1. Adhyatma Upanishad
Page 1
यत्रान्त्यांयादिभेदस्तत्वतो न हि युज्यते ।
निर्भेदं परमार्थतं स्वमात्रंवशिष्यते ॥
ॐ
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ
ॐ अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य
पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद ।
यस्यापःशरीरं यो अपोमन्तरे संचारण्यमापो न विदुः ।
यस्य तेजः शरीरं यस्तेजोमन्तरे संचारण्यं तेजो न वेद ।
यस्य वायु: शरीरं यो वायुमन्तरे संचारण्यं वायुं न वेद ।
यस्याकाशः शरीरं य आकाशमन्तरे संचारण्यमाकाशो न वेद ।
यस्य मनः शरीरं यो मनोमन्तरे संचारण्यं मनो न वेद ।
यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचारण्यं बुद्धिर्न वेद ।
यस्याहंकारः शरीरं योऽहंकारमन्तरे संचारण्यमहंकारो न वेद ।
यस्य चित्तं शरीरं यचित्तमन्तरे संचारण्यं चित्तं न वेद ।
यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचारण्यमव्यक्तं न वेद ।
यस्याक्षरं शरीरं योऽक्षरमन्तरे संचारण्यमक्षरं न वेद ।
यस्य मृत्यु: शरीरं यो मृत्युमन्तरे संचारण्यं मृत्युन् वेद ।
स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ।
अहं ममेति यो भावो देहाक्षादावनात्मनि ।
अध्यासोऽयं निरस्तव्यो
विदुषा ब्रह्मनिष्ठया ॥१॥
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितदूतीसाक्षिणं ।
सोऽहमित्येव
तद्वृत्या स्वानुत्रात्ममात्मनि ॥ २ ॥
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनं ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापयनं कुरु ॥ ३॥
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनि ॥ ४॥
निद्राया लोकवार्ता वा: शब्दादिरात्मविस्मृतेः ।
क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥५॥
मातापित्रोर्मलोद्धृतं मलमांससमयं वपुः ।
त्यक्त्वा चण्डालवद्भूतं ब्रह्मभूय कृती भव ॥ ६॥
घटाकाशं महाकाश इवात्मानं परात्मनि ।
Page 2
८
विलाप्यास्वणडभवेन तृष्णां भव सदा मुने ॥ ७॥ स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यते मलभाण्डवत् ॥ ५॥ चिदात्मनि सदानन्दे देहादौ मम हृदियम् । निवेश्य लिङ्मुर्त्युज्य केवलो भव सर्वदा ॥ ९॥ यत्रैष जगदाभासो दर्पणान्तःपुरं यथा । तद्ब्रह्माहमित ज्ञात्वा कृतकृत्यो भवानघ ॥ १०॥ अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ११॥ क्रियानाशाच्चिच्छान्तानाशोषस्माद्वासनाक्षयः । wासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ १२॥ सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । सङ्झावभावनादाढ्याद्वासनालयमश्नुते ॥ १३॥ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यञ्च कदाचन । प्रमादो मृत्युपर्यन्तविद्यायां ब्रह्मवादिनः ॥ १४॥ यथापकुष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ १५॥ जीवतो यस्मै केवल्यं विदेहोऽपि स केवलः । समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६॥ अज्ञानहृदयग्रन्थेः शेषविलयस्तदा । समाधिना विकल्पेन यदृदृश्यतात्परश्नम् ॥ १७॥ अग्रात्मत्वं दृढीकुर्वन्नहंमादिशु सन्त्यजन् । उदासीनतया तेषु तिष्ठेदष्टपटाटपादवत् ॥ १८॥ ब्रह्मादिस्तम्बपर्यन्तं मृषामात्र उपाधयः । तत्ः पूर्णं स्वात्मानं पश्येदेकात्मना स्थितम् ॥ १९॥ स्वयं ब्रह्म स्वयं विष्णुः स्वयंमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥ २०॥ स्वात्मन्यरोपिता श्रेष्ठाभासवस्तुनिरासतिः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ २१॥ असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२॥ दृष्टदृश्यानन्दृश्यादिभावशून्ये निरामये । कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥ २३॥ तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ २४॥ ekात्मके परे तत्त्वे भेदकर्तां कथं वसेत् ।
Page 3
25
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः । चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
26
अतस्स्थितं समाधेयि प्रत्यमूपे परात्मनि । असङानन्दमात्मानं विज्ञाय स्वस्वरूपताम् ।
27
बहिरन्तः सदानन्दरसानुस्वादान्मात्मनि । स्वानन्दानुभवच्छान्तिरन्तरेऽपवते फलम् ।
28
वैराग्यस्य फलं बोधो बोधस्योपरति फलम् । यद्युत्तरोततराभावे पूर्वरूपं तु निष्फलम् ।
29
निवृत्तिः परमा तृप्तिरनन्दोऽनुपमः स्वतः । मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
30
पारोक्ष्यशबलः सत्यध्यात्मकस्तत्त्वदाभिः । आलम्बनतया भाति योडस्मत्प्रत्ययशब्दयोः ।
31
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिः । मायाविद्ये विहायैव उपाधी परजीवयोः ।
32
असङ्गं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते । इत्यं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् ।
33
युक्त्या संभावितत्वानुसन्धानं मननं तु तत् । ताभ्यं निर्विचिकित्सेर्ध चेतसः स्थापयितस्य यत् ।
34
एकतानत्वमेतद्वै निदिध्यासनमुच्यते । ध्यातृध्याने परित्यज्य क्रमादूयेवैकगोचरम् ।
35
निवातदीपवच्चित्तं समाधिरभिधीयते । वृत्तयस्तु तदानीमप्यज्जाता आत्मगोचरा ।
36
स्मरणादनुमीयत्ते व्युत्थितस्य समुत्थितता । अनादाविह संसारे सञ्चिता कर्मकोटयः ।
37
अनेन विलयं यान्ति शुद्धाः धर्मा विवर्धते । धर्ममेघमिमं प्राहुः समाधिं योगवित्तमा ।
38
वर्षत्येप यथा धर्मामृतधारा सहस्रशः । अमुना वासनाजाले निःशेषं प्रविलापिते ।
39
समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये । वाक्यमप्रतिबन्धं सत्राक्षरोकावभासिते ।
40
करामलकमवद्वधारोक्षं प्रसूयते । वासनानुदयो भोग्ये वैराग्यस्य तदावधि ।
41
अहंभावोदयाभावो बोधस्य परमावधि । लीनवृत्तिरनुत्पत्तिरमृत्य्वादोपरतेस्तु सा ।
42
स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ।
Page 4
43
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ।
44
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥
45
देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥
46
न प्रत्यग्ब्रह्मणोरभेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥
47
साधुभिः पूज्यमानोऽपि स्मनपीडामनोऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥
48
विज्ञानब्रह्मतत्त्वस्य यथापुर्वं न संसृतिः । अस्ति चेत्न स विज्ञानब्रह्मभावो बहिर्मुखः ॥
49
सुखाद्यनुभवो यावत्तावत्प्रारब्धरस्यमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥
50
अहं ब्रह्मेति विज्ञानात्कल्कोटीशतार्जितम् । संचितं विलयं याति प्रारब्धात्मवपनकर्मवत् ॥
51
स्वमसृङ्मुदासीनं परिजाय नभो यथा । न शिलष्यते यतिः किंचित्कदाचिद्वाविकर्मभिः ॥
52
न नभो घटयोरगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्वद्में नैव लिप्यते ॥
53
ज्ञानोदयात्पुरारब्धं कर्म ज्ञानात्र नश्यति । अदत्वा स्वफलं लक्ष्यमुदिश्योयोग्टष्टवानवत् ॥
54
व्याप्रबुद्धया विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति भिनत्थ्येव लक्ष्यं वेगन निर्भरम् ॥
55
अजरोरडस्म्यमरोगस्मीति य आत्मानं प्रपद्यते । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥
56
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थिति: । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामत् ॥
57
प्रारब्धकल्पनाप्यस्य देहस्य भान्तिरेव हि । अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ॥
58
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः । ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥
59
तिष्ठत्यं कर्थं देह इति शङ्कावतो जडान् । समाधातुं वदति श्रुतिः ॥
60
न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रियं ॥
सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् ।
Page 5
६१
प्रत्यगेकरसं पूर्णमननन्तं सर्वतोमुखम् ।
६२
अहेयमनुपादेयमनाधेयमनाश्रयम् । निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ॥
६३
अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनौद्रशम् ॥
६४
स्वानुभूत्या मवयं ज्ञात्वा स्वमात्मानमखण्डितम् । स सिद्धः सुसुखं तिष्ठं निर्विकल्पगतात्मनि ॥
६५
क्व गतं केन वा नीतं कुतो लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥
६६
किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णब्रह्ममहाहर्णवे ॥
६७
न किंचिदत्र पश्ययामि न शृणोमि न वेद्यहम् । स्वात्मनैव सदानेन्द्रूपेणास्मि स्वलक्षणः ॥
६८
असज्ज्ञोडहमनज्ञोडहंलिङ्गोडहं हरिः । प्रशान्तोडहंमन्तोडहंलिङ्गः परिपूर्णश्चिरन्तनः ॥
६९
अकर्ताहमभोक्ताहमविकारोडहंलिङ्गव्ययः । शुद्धबोधस्वरूपोडहं केवलोडहं सदाशिवः ॥
एतां विद्यामपन्तरतामयो ददौ । आपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरो रैक्वाय ददौ । रैक्वो रामाय ददौ ।
रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निवाणा नुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति अध्यात्मोपनिषत्समाप्ता ॥