Books / Adhyatma Upanishad

1. Adhyatma Upanishad

Page 1

यत्रान्त्यांयादिभेदस्तत्वतो न हि युज्यते ।

निर्भेदं परमार्थतं स्वमात्रंवशिष्यते ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ

ॐ अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य

पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद ।

यस्यापःशरीरं यो अपोमन्तरे संचारण्यमापो न विदुः ।

यस्य तेजः शरीरं यस्तेजोमन्तरे संचारण्यं तेजो न वेद ।

यस्य वायु: शरीरं यो वायुमन्तरे संचारण्यं वायुं न वेद ।

यस्याकाशः शरीरं य आकाशमन्तरे संचारण्यमाकाशो न वेद ।

यस्य मनः शरीरं यो मनोमन्तरे संचारण्यं मनो न वेद ।

यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचारण्यं बुद्धिर्न वेद ।

यस्याहंकारः शरीरं योऽहंकारमन्तरे संचारण्यमहंकारो न वेद ।

यस्य चित्तं शरीरं यचित्तमन्तरे संचारण्यं चित्तं न वेद ।

यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचारण्यमव्यक्तं न वेद ।

यस्याक्षरं शरीरं योऽक्षरमन्तरे संचारण्यमक्षरं न वेद ।

यस्य मृत्यु: शरीरं यो मृत्युमन्तरे संचारण्यं मृत्युन् वेद ।

स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ।

अहं ममेति यो भावो देहाक्षादावनात्मनि ।

अध्यासोऽयं निरस्तव्यो

विदुषा ब्रह्मनिष्ठया ॥१॥

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितदूतीसाक्षिणं ।

सोऽहमित्येव

तद्वृत्या स्वानुत्रात्ममात्मनि ॥ २ ॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनं ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापयनं कुरु ॥ ३॥

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।

युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनि ॥ ४॥

निद्राया लोकवार्ता वा: शब्दादिरात्मविस्मृतेः ।

क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥५॥

मातापित्रोर्मलोद्धृतं मलमांससमयं वपुः ।

त्यक्त्वा चण्डालवद्भूतं ब्रह्मभूय कृती भव ॥ ६॥

घटाकाशं महाकाश इवात्मानं परात्मनि ।

Page 2

विलाप्यास्वणडभवेन तृष्णां भव सदा मुने ॥ ७॥ स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यते मलभाण्डवत् ॥ ५॥ चिदात्मनि सदानन्दे देहादौ मम हृदियम् । निवेश्य लिङ्मुर्त्युज्य केवलो भव सर्वदा ॥ ९॥ यत्रैष जगदाभासो दर्पणान्तःपुरं यथा । तद्ब्रह्माहमित ज्ञात्वा कृतकृत्यो भवानघ ॥ १०॥ अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ११॥ क्रियानाशाच्चिच्छान्तानाशोषस्माद्वासनाक्षयः । wासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ १२॥ सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । सङ्झावभावनादाढ्याद्वासनालयमश्नुते ॥ १३॥ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यञ्च कदाचन । प्रमादो मृत्युपर्यन्तविद्यायां ब्रह्मवादिनः ॥ १४॥ यथापकुष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ १५॥ जीवतो यस्मै केवल्यं विदेहोऽपि स केवलः । समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६॥ अज्ञानहृदयग्रन्थेः शेषविलयस्तदा । समाधिना विकल्पेन यदृदृश्यतात्परश्नम् ॥ १७॥ अग्रात्मत्वं दृढीकुर्वन्नहंमादिशु सन्त्यजन् । उदासीनतया तेषु तिष्ठेदष्टपटाटपादवत् ॥ १८॥ ब्रह्मादिस्तम्बपर्यन्तं मृषामात्र उपाधयः । तत्ः पूर्णं स्वात्मानं पश्येदेकात्मना स्थितम् ॥ १९॥ स्वयं ब्रह्म स्वयं विष्णुः स्वयंमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥ २०॥ स्वात्मन्यरोपिता श्रेष्ठाभासवस्तुनिरासतिः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ २१॥ असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२॥ दृष्टदृश्यानन्दृश्यादिभावशून्ये निरामये । कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥ २३॥ तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ २४॥ ekात्मके परे तत्त्वे भेदकर्तां कथं वसेत् ।

Page 3

25

सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः । चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।

26

अतस्स्थितं समाधेयि प्रत्यमूपे परात्मनि । असङानन्दमात्मानं विज्ञाय स्वस्वरूपताम् ।

27

बहिरन्तः सदानन्दरसानुस्वादान्मात्मनि । स्वानन्दानुभवच्छान्तिरन्तरेऽपवते फलम् ।

28

वैराग्यस्य फलं बोधो बोधस्योपरति फलम् । यद्युत्तरोततराभावे पूर्वरूपं तु निष्फलम् ।

29

निवृत्तिः परमा तृप्तिरनन्दोऽनुपमः स्वतः । मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।

30

पारोक्ष्यशबलः सत्यध्यात्मकस्तत्त्वदाभिः । आलम्बनतया भाति योडस्मत्प्रत्ययशब्दयोः ।

31

अन्तःकरणसंभिन्नबोधः स त्वंपदाभिः । मायाविद्ये विहायैव उपाधी परजीवयोः ।

32

असङ्गं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते । इत्यं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् ।

33

युक्त्या संभावितत्वानुसन्धानं मननं तु तत् । ताभ्यं निर्विचिकित्सेर्ध चेतसः स्थापयितस्य यत् ।

34

एकतानत्वमेतद्वै निदिध्यासनमुच्यते । ध्यातृध्याने परित्यज्य क्रमादूयेवैकगोचरम् ।

35

निवातदीपवच्चित्तं समाधिरभिधीयते । वृत्तयस्तु तदानीमप्यज्जाता आत्मगोचरा ।

36

स्मरणादनुमीयत्ते व्युत्थितस्य समुत्थितता । अनादाविह संसारे सञ्चिता कर्मकोटयः ।

37

अनेन विलयं यान्ति शुद्धाः धर्मा विवर्धते । धर्ममेघमिमं प्राहुः समाधिं योगवित्तमा ।

38

वर्षत्येप यथा धर्मामृतधारा सहस्रशः । अमुना वासनाजाले निःशेषं प्रविलापिते ।

39

समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये । वाक्यमप्रतिबन्धं सत्राक्षरोकावभासिते ।

40

करामलकमवद्वधारोक्षं प्रसूयते । वासनानुदयो भोग्ये वैराग्यस्य तदावधि ।

41

अहंभावोदयाभावो बोधस्य परमावधि । लीनवृत्तिरनुत्पत्तिरमृत्य्वादोपरतेस्तु सा ।

42

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ।

Page 4

43

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ।

44

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥

45

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥

46

न प्रत्यग्ब्रह्मणोरभेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥

47

साधुभिः पूज्यमानोऽपि स्मनपीडामनोऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥

48

विज्ञानब्रह्मतत्त्वस्य यथापुर्वं न संसृतिः । अस्ति चेत्न स विज्ञानब्रह्मभावो बहिर्मुखः ॥

49

सुखाद्यनुभवो यावत्तावत्प्रारब्धरस्यमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥

50

अहं ब्रह्मेति विज्ञानात्कल्कोटीशतार्जितम् । संचितं विलयं याति प्रारब्धात्मवपनकर्मवत् ॥

51

स्वमसृङ्मुदासीनं परिजाय नभो यथा । न शिलष्यते यतिः किंचित्कदाचिद्वाविकर्मभिः ॥

52

न नभो घटयोरगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्वद्में नैव लिप्यते ॥

53

ज्ञानोदयात्पुरारब्धं कर्म ज्ञानात्र नश्यति । अदत्वा स्वफलं लक्ष्यमुदिश्योयोग्टष्टवानवत् ॥

54

व्याप्रबुद्धया विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति भिनत्थ्येव लक्ष्यं वेगन निर्भरम् ॥

55

अजरोरडस्म्यमरोगस्मीति य आत्मानं प्रपद्यते । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥

56

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थिति: । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामत् ॥

57

प्रारब्धकल्पनाप्यस्य देहस्य भान्तिरेव हि । अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ॥

58

अजातस्य कुतो नाशः प्रारब्धमसतः कुतः । ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥

59

तिष्ठत्यं कर्थं देह इति शङ्कावतो जडान् । समाधातुं वदति श्रुतिः ॥

60

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रियं ॥

सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् ।

Page 5

६१

प्रत्यगेकरसं पूर्णमननन्तं सर्वतोमुखम् ।

६२

अहेयमनुपादेयमनाधेयमनाश्रयम् । निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ॥

६३

अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनौद्रशम् ॥

६४

स्वानुभूत्या मवयं ज्ञात्वा स्वमात्मानमखण्डितम् । स सिद्धः सुसुखं तिष्ठं निर्विकल्पगतात्मनि ॥

६५

क्व गतं केन वा नीतं कुतो लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥

६६

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णब्रह्ममहाहर्णवे ॥

६७

न किंचिदत्र पश्ययामि न शृणोमि न वेद्यहम् । स्वात्मनैव सदानेन्द्रूपेणास्मि स्वलक्षणः ॥

६८

असज्ज्ञोडहमनज्ञोडहंलिङ्गोडहं हरिः । प्रशान्तोडहंमन्तोडहंलिङ्गः परिपूर्णश्चिरन्तनः ॥

६९

अकर्ताहमभोक्ताहमविकारोडहंलिङ्गव्ययः । शुद्धबोधस्वरूपोडहं केवलोडहं सदाशिवः ॥

एतां विद्यामपन्तरतामयो ददौ । आपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरो रैक्वाय ददौ । रैक्वो रामाय ददौ ।

रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निवाणा नुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति अध्यात्मोपनिषत्समाप्ता ॥