1. Advaita Chandrika of Panchanadiya Sudarsanacharya Sudarsanacharya Panjabi
Page 1
॥ श्रीः।।
पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीता
अद्वैतचन्द्रिका
THE
ADWAITA CHANDRIKA.
A WORK ON
VEDANTA PHILOSOPHY OF SHANKAR
COMPILED BY
PANDIT SUDARSHANACHARYA PUNJABI.
(All rights reserved.)
-0-
BENARES: PRINTED AT THE C. P. PRESS CO. LD.
Price As. 6 per copy.] [मूल्यमाणकषट्कमू 16)
Digitized by Google
Page 2
जे म हाटन वुड्साख्य महाराय, समर्प्यत प्रस्त कं ग्रन्थ कर्त्रेदं म व दरय: सादरं मया अवूत चन्द्रिका नितपं लो नान द दायिनी विवे घत्ते सवि न पं हे कप यं नी यता मिति
॥ श्री:।।
पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीता
अद्वैतचन्द्रिका
THE
ADWAITA CHANDRIKA.
A WORK ON VEDANTA PHILOSOPHY OF SHANKAR
COMPILED BY
PANDIT SUDARSHANACHARYA PUNJABI.
( All rights reserved.)
BENARES: PRINTED AT THE C. P. PRESS CO. LD.
Digitized by Google
Page 3
Ind L 3241.60 HARVARD COLLEGE LIBRARY FROM THE LIBRARY OF JAMES HAUGHTON WOODS 1935
F
Digitized by Google
Page 4
।। श्री: ॥। अद्वैतचन्द्रिकाया विषयसूचनिका।
पृ० पं० विषयाः १ • अखण्डार्थबोधकत्वम् २ २३ तत्त्वमस्यादिवाक्यानां लाक्षणिकत्वम् ई तत्त्वमस्यादिवाक्यानामपरोक्षप्रत्ययजनकम् ३ १७ शब्दस्याप्यपरोक्षप्रत्ययजनकत्वं च ४ ४ ज्ानस्य स्वयंप्रकाशत्वम् ५ १५ ज्ानस्य कर्माक्ृत्वाभावः ६ ९ अज्ञानस्य भावरूपतासमर्थनम् ६२९ वृत्तिनिरूपणम् ७ १८ शुक्तिर जतस्यानिर्वचनीयत्वं विज्ञानपरिणामवादनिरासश्य ८ १८ प्रपश्चस्यानिर्वचनीयत्वं ज्ञानस्यैकत्वं नित्यत्वं च ९ १ अवस्थाद्वैविध्यम् ९ १० तमसो भावरूपत्वं तर्कमतनिरासश्च ९ २३ गुणनिरूपणम् ९ २७ कर्मनिरूपणम् १० १ अभावस्याधिकरणात्मकत्वनिर्देश: १० ५ शक्ते: पदार्थान्तरत्वं तर्कमतनिरासश्य। १० २२ सामान्यखण्डनम् १० ३० विशेषखण्ड नम् ११ ३ समवायखण्डनम् ११ ८ गुणेषु गुणसत्वकथनं तर्कमताेरासश्च ११ १४ सुवर्णस्य तेजस्त्वखण्डनम् १३ १२ मनसः साक्षिवेदरवं न्यायनीतिनिरासश्च १३ २३ श्रवणाददिनिरुपणमू १४ ४ विभागस्य विभागजत्वखण्डनमू
Digitized by Google
Page 5
२ विषयसूचनिका। पृ० पं० विषया: १४ १८ अवयवावयविनोरभेदप्रतिपादनम् १५ ७ शब्दस्य विभागजत्वखण्डनम् १५ १८ प्रागभावनवृत्तेः कार्यस्य चक्यनिरूपणम् १६ १८ भेदखण्डनम् १७ २१ यागस्य फलकारणत्वनिरूपरण मीमासकापूर्वंखण्डन च १८ ५ पदानां सिद्धार्थबोधकत्वमपीति १८ १६ विषयद्धविध्यम् १८ २७ विवेकादीनां स्वरूपकारणफलनिरूपणम् १९ ७ शमादिस्वरूपकथनम् १९ २३ प्रारब्धकर्मत्रैविध्यम् २० ४ उपासनात्रैविध्यम २० १६ प्रतिबन्धत्रविध्यम् २१ ५ आनन्दत्रैविष्यम् २१ ११ विद्यानन्दस्य चतुर्विधस्वम्ं २१ १६ विभेदेन प्रमाकरणकथनम् २१ २३ भ्रान्ते: प्रमाणाजन्यत्वम् २१ २८ प्रमालक्षणम् २२ १ स्मृतिलक्षणम् २२ ३ प्रत्यभिश्ञालक्षणम् २२ १० विषयप्रत्यक्षनिरूपणम् २३ १६ चैतन्यत्रैविध्यम् २३ २२ ज्ञानप्रत्यक्षानरूपणम् २४ ११ अनुमाननिरूपणं न्यायनीतिनिरासश्च २६ १४ उपमानप्रमाणनिरूपणम् २६ २२ साडश्यस्य पदार्थान्तरत्वव्यवस्थापन तर्कर्न तिनिरासश्व ३२ २१ शब्द प्रमाणनिरूपणम् ३५ ८ अर्थापात्तिनिरूपणम् ३६ ११ अनुपलब्धिनिरूपणम् २६ १९ अभावस्याधिकरणात्मकत्वम्
Digitized by Google
Page 6
विषयसूचनिका। ३ पृ० पं० विषया: ३७ ३ अभावस्य चतुर्विधत्वम् ३७ १९ अभावावेशेषाणां प्रत्यक्षानुगम: ३८ ९ शुक्तौरजताभावस्वरूपम् ३८२४ प्रमाणानां स्वतस्त्वम् (स्वतःप्रामाण्यकथनम्) ३९ ८ ब्रह्मस्वरूपनिरूपणम् ४० ९ जीवस्वरूपनिरूपणम् ४१ १९ मायानिरूपणम् ४१ २६ सृष्टिस्तत्कमश्च ४२ १५ ऊ्ध्वाधोलोककथनम् ४२ २३ भूलोकनिरूपणम् ४४ ५ पञचकाशननिरूंपणम् ४४ २६ आकाशा दिभूतगुणवचनम् ४४ २८ आकाशादिषु स्पर्शोदी नामनुपलब्धिनिगमनम् ४५ ८ शब्द स्पर्शादि गुणनिरूपणम् ४५ १५ कर्मेन्द्रियाणि ४५ १९ मनोवृत्तिनिरूपणम् ४६.१२ वस्तुचतुर्विधत्वम् ४७ १ मिथ्यात्वम् ४७ १७ उपसंहार: ४७ २० तत्त्वकथनम् (कर्तव्यकथनम्) ३८. ० परतत्त्वदर्शनम् इते।
Digitized by Google
Page 7
सुदर्शनसमाख्येन मया काश्यां विनिर्मिता॥ हृदुत्पलानि पुष्टानि निर्विशेषार्थपाथसि। विकसन्त्यनया मन्येऽद्वैतचन्द्रिंकया मम॥
Digitized by Google
Page 8
॥ श्रीः ।। ॥ श्रीहरये नमः ।। ॥ श्री १०८ श्रीमद्गुरुप्रवरपदारविन्दाभ्यां नमो नमः ॥ अथाद्वैतचन्द्रिका।
निराकारं शुद्धं विगलिततमः प्रान्तिकतमं यदागीतं वेदैस्तदपि तनुमद् भाति बहुशः। तमालश्रीश्यामं व्रजजनिमनोगोरसहरं गजाय र्प्रधावन्नटवरवपुर्भाषितमतः ॥१॥ अद्वैतनीतिसिद्धान्तचातुरी चपला मम। पूर्वपक्षतयाSद्वैतचन्द्रिकां तनुते मुदा॥ १। सकलेषु शास्त्रेषु मीमांसाड्वयमेव प्रधानं वेदवाक्यतात्पर्यनिरू- पणपरत्वात्तत्रापि ब्रह्ममीमांसाया: प्राधान्यं मोक्षोपकारित्वाम्मोक्षस्य च सकल पदार्थनिटिलकोटीरत्वात्। वेदान्तवाक्यानि च 'सत्यं ज्ञानमन- न्तां ब्रह्म'विज्ञानमानन्दं ब्रह्म'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ-
मितिजनकत्वमखण्डार्थत्वम्। सर्वेषु लक्षणवाक्येष्वस्य संभवित्वात्। म च-मित्य:संबन्ध: समवाय इत्यादिषु लक्षणवाक्येष्वव्यापति:, एत- स्यापि समवायस्वरूपमात्रप्रतिपादकत्वात्। तथा च संसर्गागोचर- म्रहमस्वरूपमात्रविषयकप्रमितिजनकत्वात् 'सत्यंज्ञानमनन्त ब्रह्म'इत्या- दिवाक्यानामखण्डार्थता शेया। तटुक्त्तम्-'संसर्गासंगिसम्यग्धीहेतुता या गिरामियम्। उक्ताऽखण्डार्थता यदा तत्पातिपद्दिकार्थता'इति। नतु यथा नीलमुत्पलं पीतो घट इत्यादौ सामानाधिकरण्यसत्त्वेपि विशिष्टार्थबोधकत्वमङ्गीक्रियते तथा 'सत्यं ज्ञानमनन्तं ब्रह्म'इत्यादावपि ब्रह्मणि सत्यत्वादिधर्मवैशिष्टथबोधकत्वात्संसर्गपरत्वमेवास्तु । इति चेन्न। सत्यादिपदानि कि धर्ममात्रबोधकानि कि वा तत्तद्वर्मविशिष्ट-
वेत्वाभावप्रसङ्गात्। सामानाधिकरण्ये चैकार्थत्वमेव सर्वसंमतम्।
Digitized by Google
Page 9
अद्वैतचन्द्रिका।
न चापि विशिष्टबोधकानि विकल्पासहत्वात् तथाहि-सत्यादि- पदानि कि क्रमेण विशिष्टबोधकानि कि वा युगपदेव नाद् :- अने- नैच पदेन प्रथमं विशिष्टं बोधनीयं नानेन पदेनेत्यत्र विनिगमनाविर- हात्। कि चैकपद्प्रतिपन्नस्य विशिष्टस्य द्वितीयपदं यदि स्वोप- स्थापितेन विशिष्टेनैक्यं बोधयति तदा विशेष्यांशयोरैक्यमिव विशेष- णांशयोरप्यैक्यं स्यात्। तथा व सकलपदैरेकाकारपदार्थप्रतिपादन- प्राप्त्या पदानां पर्यायत्वं निष्फलत्वं च तेन स्याद्। एकेनैव पदेन तथाकारबोघनाव्। यदयेकपद्प्रतिपन्नस्य विशिष्टस्य द्वितीयपदं विशेषणांतरान्वयं प्रतिपाद्याते तदा विशेषणान्तरस्य विशेष्येऽन्वय इव विशेषणेष्य- न्वयः स्यादिति विरोधः। न हि विशेषणानां परस्परान्वयो युक्तः 'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति न्यायात्। न चापि द्वितीय :- असंभवात्।यथा यथा हि पदानि स्मृतान्युच्चा- रितानि वा तथा तथैव तेषामर्थबोधकत्वात्। संभवोपे विशेषणाना- मैक्यप्रसक्गो दुर्वारः । इदमैदम्पर्यमत्र-यद्येकेन पदेन विशेष्यमात्रं वा विशिष्टं वा बोध्यतेऽन्यैः सकलपदैर्विशेषणान्वयमात्रं बोध्यते तदो- करीत्यैव विनिगमनाविरहः।अथैतद्दोषपरिजिहीर्षया सकलैः पदैर्वि- शिष्टमेव बोध्यते तदैकस्यैव विशिष्टस्य बोधनेSन्यपदानां पर्यायत्वं तेन च वैफल्यं विशेषणानामैक्यं च प्राप्तम्। यदि भेदेन विशिष्टं बोष्यते तदा सामानाधिकरण्यवैफल्यम्। एकार्थबोधकत्वेनैव सामा- नाधिकरण्यस्य चारितार्थ्यात्। तस्मात्सिद्धं स्वरूपमात्रबोधकत्वं सत्यादिपदानाम्। २। सत्यादि पदानां संसर्गागोचरप्रमितिजनकत्वेपि तत्त्वमस्यादिवा- क्येषु लक्षणाश्रीयते। यथा सोयं देवदत्त इति वाक्य उभयपदलक्षणा- स्ति तथाहि-तच्छब्देन पूर्वकालोपलक्षितस्येदंशब्देन चैतत्कालोपल- क्षितस्योपस्थितिर्भवति तत्रातीतवर्त्तमानकालोपलक्षितस्यैक्याSसंभ- वात् सोयमितिपदे शुद्धं देवद त्तमात्रमुपलक्षयतः। एवं तत्त्वमसीति वाक्ये तत्पदवाच्यस्य भगवतो ब्रह्मणः 'सत्यं श्ञानमनन्तं ब्रह्म, 'यः आत्मनि तिष्ठभ्नात्मनोन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आ- त्मानमन्तरो यमयति स त आत्मान्तर्यास्यमृतः' 'एष सर्वभूतान्तरात्मा
Digitized by Google 1
Page 10
अद्वैत चन्द्रिका।
Sपहतपाप्मा दिव्यो देव एको नारायण:' 'यः सर्वक्ः सर्ववित्' 'परा- स्य शाक्तिर्विविधैव श्रूयते' इत्यादिना सर्वज्ञत्वादिकं श्रूयते। एवं त्वं- पदवाच्यस्य जीवस्य 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान:' 'अस्मान्मायी सृजते विश्वमेतत् तस्मिश्चान्यो मायया संनिरुद्धः' अजो होको जुषमाणोनुशेते' 'शानौ द्वावजावीशाऽनीशौ' इत्यादिनाऽसर्वक्षत्वादिकं श्रूयते तयोश्च जीवब्रह्मणोः परस्परमत्य- न्तप्रत्यनीकविशेषणविशिष्टयोरैक्यासंभवात् तत्त्वं पदे विशेषणांशम- पहाय शुद्ध चैतन्यमेवोपलक्षयत इति संभवत्येवैक्यम्। यथा होकजातायस्य चीनांशुकस्य हरिद्राकाश्मीराभ्यामनुरजितत्व- काले न संभवत्यैक्यं हरिद्राकाश्मीररूपोपाधेर्मेदात्, क्षालिते च रागे संभवत्येवैक्यं उभयस्यापि चीनांशुकस्य समानजातीयत्वात्, ऐक्या- दित्यर्थः। एवं जीवब्रह्मणोरप्यैक्यं बोध्यते तत्त्वमस्यादिवाक्येन। तदुक्तम्-'सोयमित्यादिवाक्येषु विरोधासादेदंतयोः। त्यागेन भोगयोरेक आश्रयो लक्ष्यते यथा १। मायाSविद्ये विहायैवमुपाधी परजीवयोः। अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते' २ इति। ३। तच्च ज्ञानमपरोक्षात्मकं शब्दस्याप्यपरोक्ष प्रामेतिजनकत्वात्। यथा दशमस्त्वमसीत्युक्ते दशमोस्मीति शब्दत एवापरोक्षप्रामेतिः स्वविषयोत्पद्यते। एवं तत्त्वमस्यादिवाक्यानामप्यपरोक्षात्मकप्रत्यय- जनकत्वमवसेयम् । ननु दशमस्त्वमसीत्यत्रेन्द्रियस्यापि सत्त्वात् तस्यैव कथं नापरोक्षप्रमितिजनकत्वमति चेन्न, तत्र शब्द स्यापि सरवेन विनिगमनाविरहात्। सस्माच्छाब्दादेवापरोक्षब्रह्मज्ञानान्मोक्ष इति सिद्धम्। ब्रह्मज्ञानादेव मोक्ष इति सर्वसंमतम् । ब्रह्म च नेन्द्रियप्रत्यक्षगोचरः । शाब्दादापे यदि परोक्षज्ञानान्मोक्षःस्यात्तदा 'आवृत्तिरसकृदुपदेशात्' इस्या दिसूत्रवैयर्थ्य स्यात् शाब्दपरोक्षज्ञानस्याSऽवृत्यभावेपि संभवात्। अत एव वाक्यकारेण पूर्वपक्षतयोक्तम् 'सकृत्प्रत्ययं कुर्याच्छष्दार्थरय कृतत्वात्प्रयाजादिवत्' इति। एवं हागत्या क चिच्छाव्दज्ञानस्यापरोक्ष- त्वं मन्तव्यम्। मानसमपरोक्षज्ञानं तु शाब्दस्यैवापरोक्षश्ञानस्य पर- मावस्था श्रवणमननानन्तरं शाब्दापरोक्षप्रमितिविषयस्यैव निदिध्या-
Digitized by Google
Page 11
अश्वैतचन्द्रिका। सनविषयस्वात्। यदि शष्देनापरोक्षप्रत्ययो न स्यानदा कि विषयर्क निदिभ्यासनं स्याल्?। श्रुतिरप्याह 'ब्रह्मवेद ब्रह्मैव भवति' 'तमेव विदित्वा अति मृत्युमेति नान्य: पन्था विद्यते अयनाय'। ४। ज्ञार्न च स्वयंप्रकाशमेवं ज्ञानस्यानुव्यवसायभास्यत्वे दुर्वारा- नवस्था स्यात्। नन्वऽनुव्यवसायकक्षायां विश्रमान्नास्त्यनवस्थेति चेम्न, अनुव्यवसायमानं केन भवेदिति वक्तव्यत्वात्। यद्यनुव्यवसाय- भामापेक्षानास्तीत्युच्यते तदा व्यवसायस्यापि भानापेक्षा नास्ति स्वयंप्रकाशत्वात्। व्यवसायभानापेक्षाSस्ति नास्ति चानुव्यवसायभा- नापेक्षेत्यत्र विनिगमनाभावात् । यदि तेनैवानुव्यवसायेन तस्यानु- व्यवसायस्य भानं स्वीक्रियते तदा त्वयाप्यनुव्यवसायस्य स्वयं- प्रकाशत्वमङ्गीकृतमिति व्यवसायस्यैव स्वयंप्रकाशत्वं भवतु कृतमनु- व्यवसायपर्यन्तधावनेन। किं चानुव्यवसायेनानुव्यवसायभाने कर्मकर्तृ- विरोधः। व्यवसायेनव्यवसायभानेपि कर्मकर्तृविरोध इति चेन्न स्वयं प्रकाशत्वस्वीकारात्। किं च ज्ञानस्यापि ज्ञानान्तरभास्यत्वे दीप- स्यापि दीपान्तरभास्यत्वं स्यान्नचैवमार्ति। अपि च ज्ञानं ह्ात्म- स्वरूपं ज्ञानस्य परप्रकाश्यत्व आत्मनोपि परप्रकाश्यत्वं स्यादिति सकललोकान्धत्वप्रसङ्गः। तदुक्तम्-'चिद्रूपत्वादकर्मत्वात्स्वयं ज्योतिरितिश्रुतेः। आत्मनः स्वप्रकाशत्वं को निवारयितुं क्षम': इति। नतु 'अ छ् गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हाे। स्वांशेन श्ञानमप्येवं नात्मना शातुमहाते १' इति चेन्न, विषमोयं दष्टान्तः । समानयोरवोपमानोपमेयभावो भवाते यथा मुखचन्द्रयोः। न हि मुखमोदकयोरुपमानोपमेयभावः। शञानस्य तु प्रदीपेनोपमानोपमेयभावोस्ति यथा दीपो घटादिकं प्रका- शयन् स्वयमपपि प्रकाशते तथा ज्ञानमपीति शेयम्। तथा स मिदीपो यथात्मानं प्रकाशयति चात्मना। स्वांशेन ज्ञानमप्येवमात्मानं झातुमहाते १। मयाप्येवं सुपठत्वात्। तदुक्तम्-'तर्देवापश्यतां सर्वशून्यत्वाद्विभ्यतां सताम्। गतिः स्वयं प्रकाशत्वाड़ते नान्योपलभ्यते'।
Digitized by Google
Page 12
अद्वैतचन्द्रिका।
ज्ञानं वेद्यं वस्तुत्वाद्घटवादित्यत्र तु जडत्वमेवोपाधिः। तच्च ज्ञानं नित्यं विनाशाप्रतियोगित्वात्। ननु कालानवच्छिन्नत्वं हि नित्यत्वं, संवेदनस्य कालानवच्छिन्नत्वे च ताद्विषयस्यापि कालानवच्छेदेन नि- त्यत्वं स्यादिति चेन्न, न हि लोहदामाने निबध्यमानानामश्वमाहेषादीनां विनाशे दामविनाश: प्रसज्यते, न वा दामसन्भ्रावेन तत्र बध्यमाना- श्वमाहेषादीनां सद्भाव: प्रसज्यते। कि च श्ानस्य विनाशित्व आत्मन एव विनाशित्वमाशंसितं स्यात। आपे चान्त:करणवृतति पक्षीकृत्यालपसीति तस्या अनित्यादिकं स्वीकृतमेवेति सिद्धसाधनम्। साक्षिचैतन्यं तुन वस्तुयथार्थरूपं विषयीकरोति, अप त्वज्ञान- मेव। अन्यथा तस्य सदैव सत्त्वाच्छ्रुक्तिरजतादेरवभास एव न स्यात् स्वरूपचैतन्यमपे नाविद्यानिवर्त्तकमवद्यायास्तदाश्रयत्वात्, अन्यथा स्वरूपचैतन्यस्य सदैवसत्वादविद्याया नित्यनिवृत्तिरेवस्यादिति तत्त्वमस्यादिवाक्यजनितब्रह्माकारचित्तवृततफल कारूढचैतन्यं तच्छा- योपेता वा चित्तवृत्तिरविद्यानिवर्ततिका। ५। ज्ञानस्य कर्माङ्गत्वमपि नार्ति जातब्रह्मज्ञानस्य कर्मफलेप्सा- डभावात् प्रत्युत ज्ञानस्य कर्मविरोधित्वात्। ज्ञानस्यैव केघलस्य मोक्ष- साधनत्वं न तु कर्मणां कर्मसमुन्चतज्ञानस्य वा 'तमेव विदित्वा अति- मृत्युमोते नान्य: पन्था विद्यते अयनाय इत्यादिश्रुतेः। कर्मणां तु ज्ञानो- त्पत्तावुपयोगः 'तमेतं वेदातुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने न तपसानाशकेन' इत्यादिश्रुतेः । विविदिषाया एव प्रत्ययार्थत्वेन प्राधान्यासत्रैव कर्मणामुपयोगस्यौचित्यात्। अयन्था मोक्षस्य साति शयत्वमनित्यत्वं च स्यात् 'तद्यथह कर्मचितो लोक: क्षीयते' 'अन्त- वदवास्य तन्द्रवति' न हाध्ुवैः प्राप्यते ध्रुवं कर्मभिः' इत्यादिशुतेः। संसारनिवृत्तिर्रह्मप्राप्तिश्च मोक्षस्तत्र संसारस्य मिथ्यात्वाभ्निवृस्त- प्रायत्वमेव ब्रह्मणोप्यात्मस्वरूपत्वात् प्राप्तत्वमवत्युभयत्रत्यमावरण- मेव श्ानेनापाक्रियत इते ज्ञानस्य मोक्षसांधनत्वेपि न मोक्षानित्यत्व- शङ्काप्रसक्तिः । वस्तुतस्तु ज्ञानस्यापि मोक्षं प्रति प्रयोजकत्वमेव। प्रपश्चमिथ्यात्वं च 'नेह नानास्ति किं चन' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यादि श्रतिसिद्धम्। सदसदभ्यां निरूपयि: तुमशक्यत्वाच्।
Digitized by Google
Page 13
अद्वैतचन्द्रिका।
तदुक्तम्-'सर्वेषामापे भावानामाश्रयत्वेन संमते। प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता' इति। यदा हि घटादीनां स्वोपादानेष्वपि सत्ता नास्ति तदान्यत्र सत्ता स्यादित्यस्य का वार्ता। प्रतीतिस्तु प्रातिभासिकत्वेन व्यावहारिक- स्वेनापि च संभवतीति न प्रतीतिमात्रेण सत्यत्वापत्तिरन्यथा शुक्तिर- जतादीनामपि सत्वं स्यात्। तत्र बाधोपि भवतीति न सत्वमिति चेन्न, अत्रापि ब्रह्मैकत्वज्ञानेन बाधो भवत्येव। शुक्तिरजतादिवद्ज्ञानेनैव प्रप- श्वस्य भासर्मानत्वात्। ६। अज्ञानमपि भावस्वरूपमेव न तु ज्ञानाभावः। अज्ञानस्य जाना- भावत्वे प्रपश्चोपादानत्वंन स्यात्। न ह्यभावस्योपादानकारणता संभ- वाते, अन्यथा घटाभावस्यापि के चित्प्रत्युपादानकारणता स्यात्। किं च जानस्यात्मस्वरूपत्वाज्यानाभावेनात्माभाव एव प्रसज्येत। न त्वा- त्मन: कदाचिदृप्यभावो भवाते नित्यत्वात्तस्य 'सत्यं शानमनन्तं ब्रह्म' 'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतेः। ननु घटश्ञानेन पटज्ञानं नष्टमित्यादिव्य वहाराज्जानस्यापि नश्यत्व- प्रतीत्या को नाम दोषोSज्ञानस्य ज्ञानाभावस्वरूपत्व इति चेत्र, अन्त :- करणवृत्तौ ज्ञानत्वोपचारमूलत्वादुक्तव्यवहारस्य। कि च यदि ज्ञान- स्यापि नाश: स्यात्तदा तव मतेपि पदार्थमात्रं ज्ञानेनैव शायते न तु ज्ञानं विनान्यः कोप्युपलब्धेरुपायोस्ति तथा च ज्ञानस्यैव नष्टत्वात् तद- भाव: केन कथ शायेत ?। यदि ज्ञानान्तरेण तदा तदभाव: केन कथं शायत। एवं धावता त्वयानवस्थादोषाद्विभ्यता कचिदापे ज्ञाने नित्यत्वं गलेपतितन्याये- नावश्यं स्वीकार्यमेव। तदुकं मया शतके- अनुभवस्तु सदातन उच्यत उदयनाशविहीनविलोकनात्। यदि च नश्यत तार्किक तत्कथं ह्ावगतं विरहादपे संविदः।इति। तस्माज्जानस्य नित्यत्वान्न तदभावोSज्ञानम्। नाप्युक्तमश्ञानं वृत्ति- लक्षणज्ञानस्याभाव: प्रपश्चोपादानकारणत्वात्। वृत्िलक्षणं तु ज्ञानं नश्यत्येव। अन्तःकरणस्य यो विषयाकारेणपरिणामः स वृत्तिरित्युच्यते।
Digitized by Google
Page 14
अद्वैतचन्द्रिका।
तडुक्तम्-'भूपासिकं यथाताम्रं तन्निभं जायते तथा। रूपादीन् व्यापुवच्चित्तं तभ्निभं श्यते घुवम्'१ इति। सा च वृत्तिर्द्विविधा-चक्षुरादिसम्बन्धेन चक्षुरादिद्वारान्तःकरण- स्य घटाद्याकारेण परिणामरूपा। शुक्तिरजतादौ चक्षुरादिसम्बन्धा- भावाद्रजताकाराSविद्यावृत्तिर्द्वितीया। केषामाप मतेन्तःकरणादीना-
गतद्धर्मोदिविषयाSहमाद्याकाराप्यन्तःकरणस्य तृतीया वृत्तिरभ्युप- गम्यते। केषामपि मते तृतीयैषा वृत्तिर्नास्त्येवान्त:करणतद्धर्मादीनां केवलसाक्षिभास्यत्वात्। वृत्यम्तरोत्पत्तपर्यन्तं पूर्वाेषयाकारा वृत्तिस्तिष्ठत्येव, न तु तृती- यक्षणवृत्तिध्वंसप्रतियोगित्वं वृत्तीनाम्। अन्यथा घटोयं घटोयमि- त्यादिधारावाहिकबुद्धिसिद्धिर्न स्यात्। प्रत्युत द्वितीयाया घटोयमि- त्याकारकबुद्धेरनुभूतविषयत्वात् स्मृतित्वं स्यात् तत्प्रथममपि घटो- यमित्याकारकबुद्धेर्जातत्वादेव। न हि घटोयं घटोयमित्यत्र द्वितीयबु- द्धे: स्मृतित्वं प्रसिद्धम्। तस्मान्न तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वं वृत्तीनां किं तु विषयान्तराविषयकोत्पन्नबुद्धिजन्यध्वंसप्रतियोगित्वं किं वा स्वभिन्नान्तःकरणयोग्यधर्मजन्यध्वंसप्रतियोगित्वं शेयम्। ७। रजतमिदामेत्यविद्यावृत्तौ शुक्तावनिर्वचनीयमेव रजतमुत्पद्यते सदसदभ्यां निर्वक्तुमशक्यत्वात्। न सन्नेदं रजतमितिबाधकश्षानेन शुक्तिस्वरूपानुकूलेन बाध्यमानत्वात्। नाप्यसत् प्रतीतिविषयत्वात्। नापि रजतत्वधर्ममात्रसंसर्गपुरस्कारेण प्रतीती रजतत्ववदितिप्रतीते- रभावात्। रजतमिदमिति वस्तुसामानाधिकरण्येन प्रतीतेश्चं। आप- णस्थरजतसमवेतरजतत्वधर्मस्य शुक्ते रजतत्वेन प्रतीता पुरस्कारक त्वाभावाच्च। न च यथार्थमेवैतज्ज्ञानम्-ज्ञानयाथार्थ्यस्य विषयया- थार्थ्यव्याप्यत्वेन रजतोपलब्धिप्रसङ्गात्। न च क्षणिकमतानुसारेण शुक्तिरेव रजतज्ञानसमये रजताकारेण परिणमत इति युक्तम्। अयम- पदोष :- यदि समानरूपतयापरिणाम उच्यते तदा शुक्ते: शुक्ति- रूपणैव परिणामः स्यान्नतु रजतरूपेण। यादि प्रथमं शुक्तित्वेनानुभ- व एव न जात इति कथं शुक्तिरूपेण परिणामः स्यादित्युच्यते तदा प्रथमं रजतत्वेनाप्यतुभवो न जात इति रजतरूपेणापि परिणामः
Digitized by Google
Page 15
IN अहैतचन्द्रिका।
कथमुच्यते विनिगमनाविरहाल्लोष्ठरूपणैव कथ न परिणमते। वार्य चिद्रजतरूपेण पारेणामव्युत्पादनेपि पुनर्बाधकज्ञानानन्तरमापे रजत- रूपेणैव परिणाम: स्यात् समानरूपपरिणामस्वीकारात् । विसदश- परिणामस्वीकारे च बाधकज्ञानानन्तरं शुक्तिरूपेण पारिणामे जातेोपे तद्मन्तरक्षणेप्यन्यथा परिणामः स्यान्नचवमुपलभ्यते। किं च रजत- रूपेण पारेणामोपि न संभवति विसदृशपरिणामस्वीकारपक्षे विसट- शता च केनापि पदार्थेन सत्रा वक्तव्या रजतस्य येन शुक्तित्वादिरूपेण साकं विसदशता तस्यानुभव एव पूर्व न भवत। यस्य चेदत्वरूप- स्यानुभवो भवाते तस्य विसदशत्वं नास्ति। इदंत्वस्य सकलपदार्थ साधारणतया कथमिव रजतेन समं विसदशता स्यात् । तस्मात्तत्रा- निर्वचनीयमेव रजतमुत्पद्यते तच्च प्रतिभासकालमात्रे वर्त्तत इति प्रातिभासिकमत्युच्यते। तस्य चाधिष्ठानावेषयिकाSविदयैवोपादान- निदानम्। यावदविद्यं विलासात्। दोषादयस्तु निमित्तानि। नेदं रजवमिति बाधकज्ञानेनाधिष्ठानाज्ञानस्यैव विलयो भवतीति तत्का- र्यस्य रजतस्य स्वयमेव विलयो न तु प्रयासान्तरेण। न हि कपाले नष्टे घटनाशाय प्रयासान्तरं क्रियते। कार्यस्य स्वकारणनाशानुवि- नाशित्वनियमात्। ८। शुक्तिरजतवत्सर्वेषामात्मव्यतिरिक्तामां विषयाणां प्रातिभा- सिकत्वाविशेषेपि प्रपञ्चे कार्यकारित्वाद् व्यावहारिकत्वमण्युच्यते तत्र घटपटाद्य: सर्वे पदार्थाः परस्परं व्यावहारिकभेदभिन्ना एवा- न्योन्याभावभाविता इति यावत्। तद्विषयकान्त: करणवृत्तीनां भेदेपि तैषु सर्वेषु वर्तमानं प्रधानं ज्ञानं त्वेकमेव यथा तर्कमत एकस्याप्या- काशस्य घटमणिकमल्लिकाधयुपाधिभेदेनैव भेदो न तु वास्तव प्व वेदान्तमतेपि घटपटादिविषयभेदमात्रेण ज्ञानस्यापि भेद: स्वरूप- तस्तु ज्ञानमेकं नित्यं च । सुषुप्त्यादिष्वपि ज्ञानं वर्तत एव नित्यत्वात् सुप्तोत्थितस्य 'सुखमहमस्वाप्सम् न किं चिद्वेदिषम्' इतिपराम- रशंदर्शनाथ्। जाग्रत्स्वप्रसुषुप्तय इत्यवस्थात्रयमुच्यते। अवस्थान्नैवि- ध्येन विषयस्यापि त्रैविध्यम्। सुषुप्तौ परमानन्द एव विषयः । स्वने हश्यमानो विषयः सर्वः प्रातिभासिक एव तथापि कस्य चित् व्याव- हारिकवत्प्रतीतिर्भवते कस्य चित् प्रतिभासिकवत्प्रतीतिर्भवति । जाप्रति व्यावहारिका घटादयः, प्रतिभासिका: याक्तिरजतादयः।
Digitized by Google
Page 16
अह्ैतचन्द्रिका।
१।प्रकाराम्तरेणावस्था द्विविधा परमार्थावस्था व्यवहारावस्था
दिमिश्कावेशषात्' इते भाष्योके:। तत्र व्यवहारदशायां द्रव्यगुणकर्माभावसाठश्यशाकय इते षटू पदार्थाः। द्रव्वाणि तत्र प्रथमं माया ततो महतत्वमहंकारो दसेन्द्रि- याणि, पश्च सूक्ष्मभूतन-शब्दस्पर्शरूपरसगन्धाब्यानि, पश्न महा- भूतानि-वियद्ायुतेजोजलपृथिव्यास्यामे, कालो दिळू मनः, आत्मा ज्ञानं चैकमेव द्रव्यम्। लोकशरीरप्राणादीनामुकष्वेव द्रव्येषु यथाय. थमन्तर्भावः। तमोपि द्रव्यान्तरमेव न तु प्रकाशाभावस्तस्य प्रकाशाभावत्वे मध्यंदिनवर्तिन्यपि नभोमणौ प्रूढतरं प्रकाशमानेपि तम उपलभ्येत प्रकाशस्थले। किं च यादे तमः प्रकाशाभावः स्यात्दा यथा रूप- वतां घटादीनामभाव आलोकसहकृतावेलोचनवैद्यस्तथा तमसोपि रूपवत्प्रकाशाभावत्वादालोकसहकृतविलो चनवद्यत्वं स्थात्। तस्य च तमसो मेघमण्डलादुत्पत्ति:। तटुक्तम्- 'न रूपं रूपवत्वेन क्रियावत्त्वान्न कर्म तत्। न शेष: समवायित्वात् तमोऽन्यदू द्रव्यमिष्यते' इति। वार्तिककारैश्चोक्त्तम्- 'तमः खलु चलं नीलं परापरविभागवत्। प्रसिद्ध धर्मवैधर्म्यान्नवभ्यो भेत्तुमर्हति' इति। 'तमः ससर्ज भगवान्' 'नासीत्तमो ज्योतिरभूत्न चान्यत्' यस्य तम: शरीरम्' इत्यादिश्रुतेश्च तमसो भावत्वंद्रव्यत्वं च सिद्धम्। गुणाश्च सस्वरजस्तमांससि, शब्दस्पर्शरूपरसगन्धा:, संज्या परि- भातं संयोगो विभागश्च, परत्वापरत्वे, सुसं दुःखमिच्छा द्वेषो यत्नो मुरुत्वं लघुतवं द्रवत्वं काठ्ठेन्यं, स्नेहो रूझता, वृत्िलक्षणं शावं धर्मांधर्मौ संस्कार: ध्रृतिः हीरित्यादयो शेयाः। संदेहनिश्चयश्रद्धा- दीनां इत्तावन्तर्भावः । कर्म च पश्चधा तार्किकैरवोक्त्म्- 'उत्क्षेपणं ततोSपक्षेपणमाकुश्चनं तथा। प्रसारणं व गमनं कर्माण्येतानि पञ्च च' इत्येव युकस।
Digitized by Google
Page 17
१० अद्वतचन्द्रिका।
अभावश्याधिकरणात्मक एव। अन्यथा प्रपश्चाभावस्याधिकरणा- नात्मकत्वे द्वैतापत्ति: स्यात्। न च भूतले घटाभावो भूतलस्वरूपमृते- डम्यउपलभ्यते। विस्तरश्चानुपलब्धिप्रकारणे द्रष्टव्यः । साडश्यस्य पदार्थाम्तरत्वमुपमानप्रकरणे द्रष्टव्यस। अस्ति च शक्ति: पदर्थान्तरमन्यथा ज्वालाजटिलेपि पावके प्रति- बन्धकमणिसद्भावमात्रेण यहाही न भवाते तत्र का नाम युक्तिरतुम- वासुरोधिनी प्रसरेत?। न च प्रतिबन्धकाभावस्योत्तेजकाभावविशिष्ट- प्रतिबन्धकसामान्याभावस्य वा दाहं प्रति हेतुतेति वाध्यस, एवं युक्त- कारणस्य जलेपि सर्वात्पावकाभावेपि जलादौ दाहकार्योपलब्धि: स्यात् कारणसस्वे कार्यसस्वनियमात्। ननु दाहं प्रति दाहसामग्न्याः "कारणत्वमास्ति न तु केवलस्योक्ताभावस्य तथा च दाहसामम््यां पावकस्यापि प्रवेशोस्तीति कथं पावकाभावे दाह: स्यादिति चेत्तर्ह- दष्टादीनामिव शकेरापे साम््यां प्रवेशं मनुतां कि तेऽपकृतं शक्त्या यत्तस्या: समूलोच्छेदाय प्रवृत्तोसि । किं चापामरप्रसिद्धं पावके दाहसामर्थ्य यथा मुनिनिकरवान्दितसुरधुनौ पातकिपावनसामर्थ्य भगवति जनार्दने च संसारसागरोत्तारणसामर्थ्यमिति। श्रुतिश्च स्फुटं शक्ति प्रतिपाद्यति-'ते. ध्यानयोगानुगता अपश्यन् देवात्म- श्क्ति स्वगुणैर्निगूढाम्' इते। अभावमात्रस्य हि कारणत्वं नास्तीति का कथा प्रतिबन्धकाभावस्योत्तेजकाभावविशिष्टप्रतिबन्धकाभावस्य वा कारणत्वे। अभावस्य हि कारणत्वे तस्य सर्वत्र सुलभतया सर्वत्र सर्वकार्यप्रसक्ति: स्यात्। न तु सामान्यमपि पदार्थान्तरम्-यथा सामान्यस्य गोत्वादे: स्वरूपेणैव सत्वं तथा द्रव्यादीनामपि स्वरूपेणैव सत्त्वं भवतु कृतं तत्र सामान्यसमवायप्रयुक्तसत्त्वपरिकल्पनेन। अन्यथा विनिगमना- विरहात् सामान्येपि सामान्यसमवायस्वीकारे दुर्वारैवानवस्था स्यात्। कि च-नित्यत्वेसत्यनेकसमवेतत्वं हि सामान्यत्वं त्वयोच्यते तत्र ब्रह्मभिन्नपदार्थमात्रस्य नित्यत्वं नास्ति समवायास्वीकारात्स मवेतत्वमपिन संभवति। किं त्ववयवसंस्थानमेव सामान्यमि- त्युच्यते। न च विशेषोपि पदार्थान्तरम्-यथा विशेषाणां स्वरूपेणैव पर-
Digitized by Google
Page 18
अद्वैतचन्द्रिका। ११
स्परं भेद एवं नित्वद्रव्याणामापि स्वरूपेणैव परस्परं भेदसंभवादू विशेषपदार्थापेक्षापि नार्ति। नापि संमवाय: पदार्थान्तरम्-यथा समवायः स्वरूपणैव संबद्ध- स्तथा गुणकर्मसामान्यानामपि स्वरूपतो द्रव्येण सम्बन्धसंभवे सम- वायापेक्षापपि नास्त्येव। अन्यथा समवायेपि वििगमनाविरहात् सम्बन्धान्तरस्वीकारे स्फुटैवानवस्था। तटुकं सूत्रकृता "समवाया- भ्युपगमाच्च साम्यादनवस्थिते:'इति। यथा संभवं गुणेष्वपि गुणा उपलभ्यन्ते तथा हि दे रूपे दौ रसा- विति प्रतीतिर्भवति। न च द्रव्यगतसश्यादीनां गुणे प्रतीतिरिति वाच्यम्-अत्राप्यन्यथाख्यातिस्वीकारप्रसङ्गात्, अन्यत्र समवेतस्या- न्यत्र प्रतिभासासंभवाञ्च। न चानवस्था सङ्यादौ सज््यादीनाम- स्वीकारात्। यथा संयोगसंबन्धे समवायसंबन्धान्तरस्वीकारेपि सम- वाये समवायास्वीकारान्नानवस्थेति त्वयोच्यते तथा। यञ्च सुवर्णस्य तेजस्त्वमुच्यते तत् संकुचितप्रतिभस्य प्रलापः । तथा हि-सुवर्णस्य तेजस्त्वं हासाते प्रतिबन्धकेऽत्यन्तानलसंयोगेप्य- नुच्छिद्यमानद्रवत्वाधिकरणत्वेन साध्यते, अन्यत्र पार्थिवपदार्थे रज- तादावत्यन्तानलसंयोग उच्छिद्यमानद्रवत्वाधिकरणत्वात्। एवं हि पारदस्यानलचयेSसतिप्रबन्धके स्थितिरव न भवतीति तस्यापि पार्थिवत्वं न स्यात्। न चान्यत्रान्तर्भावो युज्यते, क चिदपि पदार्थे- Sसते प्रतिबन्धकेग्निसंयोगादुत्पतनासिद्धेः। न च नैवोत्पतति पारद इत वाच्यम्, उत्पतनाभावे रजतादिभस्मवत् पारद्भस्मोपलम्भप्र- संगात्, न चोपलभ्यते। एवं सर्वविलक्षणत्वात् पारदस्यापि पदार्था- न्तरत्वमेव स्यात् । अभ्युपगम्यते च पदार्थान्तरत्वमपि पारदस्य पारदरसेश्वरवादवादिभिः। १ "यथैव ह्यणुभ्यामत्यन्तभिन्नं सद् व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यते, एवं समवायोपि समवायिभ्योत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव संब- न्धेन समवायिभि: संबध्येतात्यन्तभेदसाम्यात् ततश्न तस्य तस्यान्योन्यः संबन्ध: कल्पयितव्य इत्यनवस्थैव प्रसज्येत"। "तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रस- ज्येतैवानवस्था" इत्येवमिद सत्रमद्वैतभाष्यकारैर्व्याख्यातम्।
Digitized by Google
Page 19
१२ अद्ैतचन्द्रिका।
वषं कर्पूरपिण्डस्य समीरणसंपर्कावुत्पतनमन्क्यव्य तिरेकसिद्धं न चैताडशमुत्पतनमन्यत्रसिद्धं यत्रान्तर्भावः स्थादिति कर्पूरस्थापि पदार्थान्तरत्वं स्यात्। न च सर्व एव पदार्था: परिणामिनः का कथा कर्पूरस्येति वाच्यम्, यथा हि प्रतिदिनं व्यक्तमेवापचीयमानत्वं कर्फू- रापेण्ड उपलभ्यते न तथा घटादाविति देतोः।
अपि चान्यत्र क चिदृपि सन्निधानमात्रेण दाहप्रतिबन्धकत्वं नोप- लभ्यते इति प्रतिबन्धकमणेराप पदार्थान्तरत्वं स्यत्। किमधिकेन सर्व- जैव घटपटादिधु कोप्यसाधारण: स्वमाव उपलभ्यत पवेति घटपटा- दीनामापे पदार्थाम्तरत्वं स्यात्।
मानद्रवत्वाधिकरणत्वेन तेजस्त्वसाधने प्रकाशवत्त्वमेवोपाधिः । तसमाइ यथा पार्थिवत्वेपि घटस्य जलाहरणाद्युपयोगित्वमेव न प्रावरणोपयोगित्व म्, पटस्य प्रावरणाद्युपयोगित्वमेव न जलाहरणोप- योगित्वमिति सर्वत्रासाधारणस्वभावसरवेपि घटपठादीनां पार्थिव- त्वमेव, एवं सुवर्णस्याप्यसतिप्रतिबन्धके Sत्यन्तानलसंयोगे्यतुषछि- धमानदवत्वा घिकरणत्वलक्षणा साधारणस्वभाववर्वेपि पार्थिवत्वमेव न तेजस्स्वम्। पार्थिवत्वस्य ा मुकत्वपीतत्वाद्याभयत्वादि बहतु- इूलस्। न चान्यत्र पार्थिवपदार्थेऽत्यन्तानलसेयोगेन रूपपरावृत्तिर्दश्यते कनकेऽत्यन्तानलसंयोगेपि रूपपरावृत्तेरभावान्न पार्थिवत्वमिति वा- कयम, एवं हात्यन्तानल संयोगे नीरस्यापि रूपपरावृत्तेरभावातेजस्त्व स्यात्। ननु रूपापरिवृत्ति: पार्थिवत्वामावे हेतुशित पार्थिवत्वाभा- वोस्त्येव मीर इति चेन्न-एवं हि विनिगमनाविरहात् सुवर्णस्य जल- त्वमेव स्यात्। न च पीतिमाश्रयत्वान्न जलत्वामेति वाच्यम्, तस्मा- देव न तेजस्त्वमित्यस्थापि वक्तुं शाक्यत्वात्। कें चात्यस्तानलसं- योगेन रढानां पार्थिवपदाथानां रूपपरिषृत्तिर्न भवति किं चिदपक्षयो भवतीत्यन्यदेतत्। तेषामप बही रूपपारेवृत्तिरवलोक्यते मात्रया श्यामतवोपलण्येति चेत्कनकेप्यनलसंयोगेन कदा चिच्छयामत्वसुप- . लभ्यत एव।
Digitized by Google
Page 20
अद्वैतचन्द्रिका। । १३
कि व सुवर्णस्य तेजस्त्वेऽन्घकारेपि प्रत्यक्षत्वप्रसंगः, किं च तैजसं सत् सुवर्णे वािवदात्मानं परं च प्रकाशयेत्, कनकहारहारिण्यो नवनायिका दहोरन् वन्हिस्पर्शेनेव, कनककोटीरादिनैव गृहप्रकाशे दीपस्यानुपादेयता च प्रसज्येतेति दोषाः। न च वन्हौ वन्हिमध्यव्या- पिनी प्रभैव स्वपरप्रकाशिकेति वाच्यम्, स्वपरप्रकाशशिकप्रभावत्त्वा भावनैव सुवर्णस्य तेजस्त्वाभावोपपत्तेः । किं च यथेक्गालादौ पार्थिवभस्मादिनाSभिभवे तेजस्त्वं नोपलभ्यते तथा पार्थिवभागा- भिभवेन सुवर्णे कथं तेजस्त्वमुपलभ्येत। अन्यथेक्गालावस्थायामपी. झ्वालस्य तेजस्त्वमुच्येतेत्यादि विभावनीयं सुधिभिः। तार्किकमहा- शयस्य वेदान्तसूत्रकारेणैव प्रमर्दितं मतामेति द्वितीयाध्यायद्वितीय- पादेवलोकनीयम्। १०। मनसोपि साक्षिवेद्यत्वमस्त्येव न चेन्द्रियत्वव्याघात पेन्द्रि- यज्ञानाविषयत्वात्। किं व मनस इन्द्रियत्वेपि विवाद एव के चिन्मनस इन्द्रियत्वं स्वीकुर्वन्ति के चिम्नापि 'मनः षष्ठानीन्द्रि- याणि' इत्यस्य तु 'यजमानपञ्चमा इडां भक्षयन्ति' इति वत्समा- धानम्। किं च स्वप्ने मन एव गजाद्याकारेण परिणमते स्वाप्निकग- जादिप्रत्यक्षे तत्कारणस्य मनसोपि प्रत्यक्षत्वं प्राप्तमेव। न हि घट- प्रत्यक्षे मृत्प्रत्यक्ष कपालप्रत्यक्ष वान जातमिति शक्यते वकुं विदुषा। तदुक्तम्- 'मनः प्रत्यक्षमात्मवत्' इति। मनः प्रत्यक्षं कोशत्वादन्नम- यकोशवत् 1. अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पञ्च
नैर्दीर्घका लादरनैरन्तर्यसेवितैर्डढीभूतेन परं ब्रह्म प्रपद्ते। यथाश्ुतस्यार्थस्यानुसंधानं श्रवणम्। यथाश्रुतस्यैवार्थस्य श्ुत्य- नुकूलयुक्तिभिर्विवेचनं मननम्। श्रवणमनना्म्यां निर्विचिकित्सेथे स्थापितस्य मनस एकतानतैव निदिध्यासनम्। तटुक्तम्- 'मूर्तिप्रत्ययसांतत्यमन्यानन्तारेतं धियः। ध्यानं तत्रातिनिर्बन्धो मनसश्चञ्चलात्मनः' । इति तनापि ध्यातुध्यानयो: परित्यागाद् ध्येयैकगोचरो निर्वातसद्म- स्थितदीपसदश यदा चिसं भवति स समाधिरित्युच्यते। स पप
Digitized by Google
Page 21
१४ अद्वैतचन्द्रिका। संप्रज्ञात: समाधिः। यदा तु ध्येयस्यापि परित्यामादात्ममान्रस्थिति- स्तदाSसंप्रज्ञात: समाधिः। तटुक्तम्-'तदा द्रष्ट: स्वरूपेऽवस्था- नस* इति। ११ । विभागजविभागोपि नास्ति प्रमाणाभावाद गौरवाच्च। न चाकाशादिविभागजनकस्य कर्मणो द्रव्यारम्भकसंयोगविरोधिवि- भागोत्पादकत्वं नास्ति, द्रव्यारम्भकसंयोगविरोधिविभागजनकस्य च कर्मण आकाशादिविभागजनकत्वं नास्ति, एकेन कर्मणोभय- विभागजननासम्भवादिति द्वितीयादिर्विभागो विभागजः स्वीका- र्य इति वाच्यम्-यदा हि कर्मणा वेणुदले द्रव्यारम्भकसंयोगविरोधि- विभाग उत्पादितस्तदा तेनैव कर्मणाSSकाशादिविभागो नोत्पादित इति तदा शायेतापि यद्याकाशेनेन्द्रियसंयोग: स्यात्, आकाशस्या- प्रत्यक्षत्वे तत्प्रतियोगिकविभागस्याप्यप्रत्यक्षत्वात्। तस्मादेकेनव क- र्मणा द्रव्याकाशविभागो द्रव्यारम्भकसंयोगविभागश् संपाद्यत इाते न विभागजविभागकल्पना भाग्यवती।
हस्तपुस्तकविभागानन्तरं कायपुस्तकविभागो भवतीति तार्किक- क्रमकल्पनापि नोपपद्यते। एकस्मिन्नेवक्षण उभयविभागस्य जात- त्वात्। हस्ताद्यवयवसंघातस्यैव कायत्वात्। यदि हस्ताद्यवयवसंघा- तात्स्यात्पृथक्कायस्तदैवं क्रमकल्पनोपपद्येतापि, न चैवमस्त्यवयवावय-
किं च यद्यवयवेम्यः पृथगवयवास्यात्तदा घटात् पृथक् पटवद्व- यव्यप्यवयवेभ्यः पृथगुपलभ्येत। नन्वऽवयवावयावेनोरैक्ये घटकल- शशब्दयोरिव कपालकलशशब्दयोरप पर्यायत्वं स्यादिति चेन्न, आकारभेदेन भेदात् कम्बुग्रीवाद्याकारविशिष्टस्यैव घटपदवाच्यत्वात्। कटाहाकारविशिष्टस्य च कपालपदवाच्यत्वात्। तदाह श्रुतिः-'वाचा- रम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति। किं च यद्यवयवे- भ्योवयवी पृथक् स्यात्तदा तस्यैकत्वाद्रक्तत्वाSरक्तत्वादिविरुद्धधर्मा- ध्यासो न भवेत, रक्त एव प्रतीयेत वा Sरक्त एव प्रतीयेत वा। अभे- दपकषे तु त्ववयवमेदेन रक्तत्वारक्तत्वप्रतीतौ न विरोधः । प्रयोगश्ञ- कार्ये कारणादपृथक् कारणस्वरूपं वा कार्यत्वाच्छुक्तिरजतवत्।
Digitized by Google
Page 22
अद्वैतचन्द्रिका। १५
ननु कार्यकारणयोरैक्ये कार्येणेव कारणेनापि कपालादिनाऽर्थ- क्रिया स्यादिति चेन्न, ताडशाकारावेशिष्टस्यैव ताहशार्थक्रियां प्रति समर्थत्वात्। तत् सिद्धमवयवावयविनोरैक्यम्। प्रथमो विभाग: कर्मजो द्वितीयादिर्विभागज इति कारणद्वय- स्वीकारेण गौरवाज्च। एवं संयोगजसंयोगमपि न बहुमन्यन्ते वेदा- न्तिनः । एवं विभागज: शब्दोपि नास्ति । स्फुटद्ेणुदलशब्दे हि वेणुदला- काशसंयोग एवासमवायिकारणम्। वायुवेणुदलसंयोगश्र निमित्त- कारणम्। यथा पत्रादौ शुकशुकेतिशब्दं प्रति प्रतिपक्षिणापि घेगव- द्वायुपत्रसंयोगस्य निमित्तकारणताभ्युपगम्यते। एवं भेर्याकाशसंयो- गोSसमवायिकारणम्, भेरीदण्डसंयोगश् निमित्तकारणमिति श्षेयम्। समवायिकारणं तु शब्दस्य सर्वत्राकाशमेव। आघात्याघातकसयोगो निमित्तकारणम्। आघात्याकाशसंयोगोSसमवायिकारणम्। एवं विभज्यमानपदार्थाकाशसंयोगोSसमवायिकारणम् । विभज्यमानप- दार्थवायुसंयोगञ्च निमिस्तकारणरम्। शब्दं प्रतीति सर्वत्र शेषः। इति निष्कर्षः । तथा च न विभागस्य शब्दं प्रति क चिदपि कारणतो- पलभ्यते येन विभागजोपि शब्द: स्यात्ं। १२। प्रागभाव निवृत्तिर्घट एव न तु घटव्यतिरेकेणान्या का चित् प्रागभावनिवृत्तिरतुपलम्भात्। नतु घटव्यतिरेकेण प्रागभावनिवृत्तेर- स्वीकारेऽभावाभाव एव भाव इत्युक्त: स्यात् तथा च प्रागभाववे- लायां प्रध्वंसाभावस्याभावात् प्रध्वंसाभाववेलायां च प्रागभावस्या- भावात् तस्य भावाभावस्य च घटरूपतास्तीति सर्वदा घटोपलब्धि: स्यान्नित्यत्वं च घटस्य प्रसज्येतेति चेन्न, प्रागभावाभावस्यैव घटस्व- रूपतास्वीकारात्। ननु तथापि प्रागभावसमये घटोपलब्धिरमा भवतु प्रध्वंससमये तु प्रागभावस्याभावोस्त्येवान्यथा प्रागभावोपलब्धिप्रसङ्ग: स्यादिति ध्वंसकाले घटोपलब्ध्या घटस्य सादित्वेष्यनन्तत्वापततिरिति चेन्न, घटप्रागभावनिवृत्तिलक्षणस्य घटस्य निवृत्तस्वीकारादन्यथा कस्य प्रध्वंस इत्यापात्त: स्यात्। तथा च न प्रध्वंसकाले घटोपलग्धि:।
Digitized by Google
Page 23
१६ अद्वैतचन्द्रिका। किं च प्रायमावावृत्तिर्घटोत्पस्तिश्च त्वया क्षणभेदेनैव वक्कम्येति निवृत्त्तिक्षणे न प्रागभाव उपलभ्येत निवृत्तत्वात्, न चापि घट उप- लभ्येतानुत्पन्नत्वात्, न चैतद् युक्तं यतः कदा चित् प्राणभाव एवो- पलभ्यते, कदा चिद् घट एवालभ्यते। किं च प्रागभावनिवृत्तेरपि घटव्यातरिक्ता निवृत्ति: स्वीकार्येति तस्या अपि तथा तस्या अपि
तदा कृतमातिधावनेन प्रागभावनिवृात्तिरेव घटस्वरूपेति मनुतां लाघ- वात्। न च प्रागभावनिवृत्तिर्नित्यति वाच्यम्, प्रापशकपदाथानां नित्यत्वे प्रमाणाभावात्। प्रागभावानेवृत्तिलक्षणस्य घटस्य नाश- स्वीकारात्। घटमाशस्य प्रध्वंसस्यापि कपालनाशेन नश्यत्वात् कपालस्थत्वात्प्रध्वंसस्य। प्रागभावो हि मृत्पिण्ड एवेति तस्योत्पत्या प्रागभसवस्योत्पात्तर- व्यस्त्येबेति नानादित्वं प्रामभावस्य।नच कलशावस्थायामपि मृदां- नुवर्तमानत्वान्मृत्पिण्डानेवृत्त्यभावे प्रागभावानिवृत्त्या घटस्व प्रागभा- वरमवृच्तिरपत्वं न सच्छत इति वाच्यम्,-मृदोतुवर्त्तनेपि पिण्डत्व- गेवृ त्तेरवश्ष्यं वक्रव्यत्वात्। प्रभ्वंसस्यापि प्रध्वंसो भवत्येवं प्रध्वंसस्य कपालाभिन्नत्वात् कपालस्थत्वाच्च कपालनाशन तन्नाशसंभवाद्। १३। भेदोपि नाम निरपयितुं न शक्यते। मेदशानस्यापि भिन्न-
त्वादनवस्था। यादे बडुकक्षाधावनं त्यज्यते तथाप्येतद्भेदश्ञावस्य स्वधर्मिप्रतियोगिनोर्भेदस्य ज्ञानापेक्षास्ति तत्रापि प्रतियोगिप्रतियो- गिकमेदश्ञानस्य धर्मिप्रतियोगिकभेदश्ञानस्य चापेक्षा, धर्मिप्रतियो- गिकभेदव्ानस्य प्रतियोगिप्रतियोगिकभेदज्ञानापेक्षेति परावृत्या चक्र कापत्तिः । अतोपि संकोचे परस्पराश्रयस्तु दुर्वार एव। तटुकस-
धर्म्यावर्भेदसिद्धि: पुनरापे च तथेत्यापतेच्चानवस्था। भेदे धर्म्याद्यभेदे वत भवाते मृषा भेदबुद्धिर्विभेदे, प्रादुःष्युः पूर्वदोषा न च गतिरपरा तेन भेदो मृषैब' १ इति।
Digitized by Google -
Page 24
अद्वैतचन्द्रिका। १७
तस्माद्भेदो मिथ्या प्रमाणाविषयत्वे सत्यपरोक्षत्वात् स्वप्नवद् गन्ध- र्वनगरवद्वा। किं च भेदस्य घटपटतादात्म्यप्रतियोगिकत्वमापे वकुं न शक्यते तस्याप्रसिद्धत्वात्। न च घटतादात्म्यं घटेस्तीति वाच्यम्, अत्यन्ता- भावादावतिव्यापेः। न च सामान्यवत् स्वपरनिर्वाहकत्वं भेवस्या- पीति वाच्यम्, सामन्यस्यैव स्वीकारे प्रमाणाभावात् कथं तस्योप- मानत्वं स्यात्?। न च विज्ञानवत् स्वपरनिर्वाहकत्वमिति वाच्यम्, दष्टान्तवैषम्यात्-विज्ञानं हि स्वयंप्रकाशपदार्थो न चैवं भेदस्य स्वयंप्रकाशत्वमिति कोयं विज्ञानभेदयोरुपमानोपमेयभावः । ननु विनिगमनाविरहाद् भेदस्यापि भवतु स्वयंप्रकाशतेति चेन्नन, विषय प्रकाशकत्वमेव स्वयं प्रकाशत्वं न हि भेदेन विषयः प्रकाश्यते। यो नाम हतभागधेयो भेद: स्वप्रकाशनेपि न शक्ति धत्ते का कथा तेन परप्रकाशतायाः । न च रूपवत् स्वपरनिर्वाहकत्वमिति वाच्यम् दृष्टान्ते साध्यवैकल्यात्। घटादिप्रत्यक्षं प्रति रूपस्य निर्वाहकत्वेपि स्वप्रत्यक्षनिर्वाहकत्वाभावात् । रूपप्रत्यक्षं प्रति द्रव्यस्यैव निर्वाहक- त्वात्। यथा रूपं विना घटादेश्चाक्षुषं प्रत्यक्षं न क्वचिद् दष्टं तथा रूपस्यापि घटादिद्रव्यनिरपेक्षस्य प्रत्यक्ष न क्वचिच्चाक्षुषं जातम्। प्रभां पश््यामीत्यादावपि पृथिवीजलाकाशद्रव्याश्रयत्वपुरस्कारस्य सत्त्वात्। किं च प्रभासमवेतरूपस्य प्रभालक्षणद्रव्याश्रयत्वपुरस्कार- णैव प्रतीतिः। न च प्रभा रूपमात्रमपि तु रूपाश्रयस्तेजोद्रव्यमेव। १४। वेदान्तमते यागादिव्यापारस्यैवापूर्वलक्षणावान्तर व्यापा- रद्वारा भगवद्नुग्रहद्वारा वा फलं प्रति साधनत्वमपूरवे प्रति च करण- त्वम्। तटुक्तम्- 'कृतितत्साध्यमध्यस्थो यागादिर्विषयो मतः। कार्येऽसङ्घटिताकारे करणत्वेन संमतः' १ इति। मीमांसकास्तु यागादिव्यापारस्य फलं प्रत्येव करणत्वमपूर्व प्रत्ये- व साधनत्वं मन्यन्ते। वेदान्तेऽपूर्व लोकवेदप्रसिद्धं धर्माधर्मस्वरूपं
१ क्षाम्यन्तु मामनुचरजनं सर्वदोषैकभाजनं गर्भदासं वैष्णवापसदं निरयसृति- दामनिगडितमत्र श्रीमन्त उदाराशयचरिताः श्रीश्रीभाष्यकाराः । ३
Digitized by Google
Page 25
१८ अद्वैतचन्द्रिका ।
स्वीक्रियते। ज्योतिष्टोमादिना धर्मापूर्वस्योत्पसेः, कलम्जभक्षणादे- ना दुरितापूर्वस्योत्पत्तेः। मीमांसकैस्तु लोकवेदाप्रसिद्धं स्वसिद्धा- न्तमात्रकाल्पतं नियोगा्यमपूर्वमुररीकरियते। तन्न क्षमन्ते वेदान्तिन- स्स्य लोकवेदासिद्धत्वादेव। न च कार्य एव श्ति: पदानाम्। सिद्धेपि पदशकेर्बडुलमुपलभ्य- मानत्वात्। लिङादीनामेव कार्यबोधकत्वं घटादिपदानां च कार्यान्वि- तबोधकत्वमेवोच्यते शते व्यापारादिपदानां बोधकत्वमेव न स्याद् व्यापारस्य व्यापारेणान्वयासंभवात्। कि च कर्मणामपि क्रियमा- णानां कार्यत्वं भवाते न तु शब्देन बोध्यमानानामन्यथा ज्योतिष्टोमेन स्वर्गकामो यजेतेति वाक्यस्य ज्योतिष्ठोमयागत्रियायाश्च तुल्यत्व- प्राप्त्या ज्योतिष्टोमेनेति वाक्योश्चारायतुरापे स्वर्गः स्यात् । अतः कर्मस्वरूपस्यापि सिद्धस्यैव शब्दवाच्यत्वामेति सिद्धं सत्यादिपदानां
'सत्यं व्वानमनन्तम्' इत्यादि सकलवेदस्यापि न तार्किकमतोकतं पौरुषयत्वम्। किंत्वपौरुषेयत्वम्। तथापि न मीमांसकोक्तमपौरुषेयत्वं वेदान्तमते सृष्टिप्रलययोः स्वीकारेण वेदोत्पच्तेरपि स्वीकारात्। १५। प्रकारान्तरेण विषयो द्विविधो बाह्य आन्तरम्। बाह्या यथा मृन्मयो घट एष एव मानमेयः। आन्तरस्तु धीमयः साक्षिभा- स्यः। सांप्रदाायकैस्तु धीमयस्यैव विशेषतो बन्धमोक्षकारित्वमु- यते। बाह्यस्यापि बुद्धिगोचरस्यैव बन्धकारित्वात्। वस्तुतस्तु न बन्धो न वा मोक्षस्तथोक्तं श्रीविद्यारण्यै :- 'न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वैसुक्त इत्येषा परमार्थता'१ इति। -- यतोऽद्वैतमेव परमार्थस्तस्माल्लोकटष्ट्या हि सदसद्वस्तुविवेकस्तत- पहहिकामुष्मिकफलभोगविरागस्ततः शमद्मादिसंपत् ततो मुमुक्षा ततो जीवन्मुक्तिरिति क्रमः । तत्र तत्वमिथ्याविवेचनमेव विवेक: स एव बोधः। एतस्य च श्रवणमनननिदिध्यासनाने हेतुः। अन्योन्याध्यासानुत्पत्तिरव फल- मू। वैराग्यस्य जिहासैव स्वरूपं जिहासितविषयविषयकदोषहा्टिश्र
Page 26
अद्वैतचन्द्रिका। १९
हेतुः। भोगानामनुपादित्सा च फलम्। तब्च वैराग्यं चतुर्विधम्-
वैराग्यम्, वर्शीकारसञ्ज्ञावैराग्यम्। स्वरूपं चै.नेषामुच्यते- प्रथमे प्राप्त्युपायः स्याद् द्वितीयेल्पनिरोधता। वृतीये चित्तशेषत्वं वैमुख्यं सर्वतः परे १ इति। तदुक्तम्-'दष्टातुश्रविकाविषयावेतृष्णस्य वशीकारसञ्ज्ञावैराग्यम्' इति। शमन्धित्तनिग्रहो दम इन्द्रियाणां निग्रहः । आदिपदात्-उप- रतिस्तितिक्षा समाहाते: श्रद्धोते ग्राह्यतू। तटुक्त्तम्- 'ताञ्चन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च ब्रह्माभ्यासं विदुबुंधाः ॥ १॥ आपातरमणायेषु भोगेष्वेवं विचारवान्। नानुरज्यतति कि त्वेतान् दोषटष्ट्या जिहासाते ॥२ ॥ अर्थानामर्जने क्केशस्तथैव परिपालने। नाशे दुःखं व्यये दुःखं धिगथान् क्लेशकारिणः ।। ३।। मांसपाश्चालिकायास्तु यन्त्रालोलेक्पअ्रे। स्नाय्वास्थग्रन्थशालिन्या: स्त्रियाः किामेषशोभनम्॥४॥ त्वङ्मांसरक्तबाष्पाम्बु पृथक् कृत्वा विलोचने। समालोकय रम्यं चेत् किं मुधा परिमुह्यसि । ५ । न जातु काम: कामानामुपभोगन शाम्यनि। हविषा कृष्णवत्मेव भूय एवाभिवर्धते ॥ ६ ।। एवमादिषु शास्त्रेषु दोषा: सम्यक् प्रंपञ्चिताः । विमृशन्ननिशं तानि कथं दुःखेषु मज्जति'।७। १६। त्रिविधं तावत्प्रारब्धकर्म-इच्छापूर्वकं भुज्यमानं यथा-विष- योपभोगः। अनिच्छापूर्वकं भुज्यमानं यथा रोगादिको दुःखकरः। परेच्छापूर्वकं भुज्यमानं यथा प्रियानुरागेण मोदकादिभोजनमू, सिंहवत्तीरगमनम्, द्विषादिच्छया कारागारादिबन्धः । विद्याप्रारब्ध- योश्च न विरोधो भिन्नविषयस्वात्। यथा भजिंतानि बीजान्यङ्कुरो- त्पादनसमर्थानि न भवन्ति तथापि भक्षितानि क्षुधामपनयन्ति। एवं विद्वदिच्छापि प्रारब्धवशेन भोगमात्रं करोति न तु भोगेषु व्यसनम्।
Digitized by Google
Page 27
२० अद्वतचन्द्रिका।
कूटस्थसहितश्चिदाभास एव व्यवहारे भोक्तेत्युच्यते। कूटस्थभासि- तोपि दहो चिदाभासेन भास्यत इत्ययमेव घटादिभ्यो देहस्य व्यति रकहेतुः। मरणं नाम लिक्देहवियोगमात्रम्। १७। त्रिविधा चोपासना-साकारोपासना प्रथमा, निराकारे ब्रह्मणि सत्यत्वादिधर्मप्रकल्पनपूर्विका द्वितीया, आत्मस्थितिमा्त्र च तृतीया। तदुक्तंभगवता पतञ्जलिना-तदा द्रष्टु: स्वरूपेऽवस्थानम्' इति। एषैव तृतीयोपासना निर्विकल्पसमाधिरित्युच्यते यौगिकैः। साकारोपासनापि मुक्तिप्रदैव तदुक्तम्- 'स्वयं भ्रमोपि संवादी यथा सम्यक् फलप्रद्ः। ब्रह्मतर्वोपासनापि तथा मुक्तिफलप्रदा। अपरोक्षशिलाबुद्धिर्न १परोक्षेशतां नुदेत्:। प्रतिमादिषु विष्णुत्वे को वा विप्रतिपद्यते २ अश्रद्धालोरविश्वासो नोदाहरणमहति। श्रद्धालोरेव सर्वत्र वैदिकेष्वधिकारतः' ३ इति कि तु ज्ञानप्रतिबन्धेन जीवानां शास्त्रप्रतिपाद्येष्वपि साकारोपासना-
स्त्रिधा। भूतप्रतिबन्धो यथा-भूतया कया चिच्चित्तवृत्त्या ज्ञानप्रति- बन्धस्तदुक्तम्- 'अतीतेनापि महिषीस्नेहेन प्रतिबन्धतः । भिक्षुस्तत्वं न वेदेति गाथा लोके प्रगीयते' वर्त्तमानप्रतिबन्धोयथा- 'प्रतिबन्धा वर्त्तमानो विषयासक्तिलक्षणः प्रव्ञामान्यं कुतर्कश्च विपर्ययदुराग्रहः' इति। भाकप्रतिषन्धश्च अन्मान्तरहेतु: प्रारब्धशेषो यथा वामदेवभरता- दीनामू। अस्य प्रतिबब्धस्य शमादैः क्षयः कार्यस्तुक्त्तमू- 'शमादैः भ्रवणादैश्च तत्र तत्रोचितैः क्षयम्। नीतेस्मिन् प्रतिबन्धेतः स्वस्य ब्रह्मत्वमश्तुते'। इति। ब्रह्मलाकेच्छापि भाविप्रतिबन्ध एव किं तु ब्रह्मलोके प्राप्ते सति १. ईषविषयिका या परोक्षा बुद्धिस्तां न नुदति न क्षिपतीत्यर्थः ।
Page 28
अद्वैतचन्द्रिका। २१
ते शानिनो ब्रह्मणा सह सुच्यन्त इत्येव विशेषस्तथैव श्रूयते- 'वेन्दातविज्वानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसर्वाः। ते ब्रह्मलोके तु परान्तकाले परामृताः पारेमुच्यन्ति सर्वे' इति। अत एवाचार्यैरहिकामुष्मिकफलभोगविरागः साधनेषु निवेशितः। .. त्रिविधश्चानन्दो-विषयानन्दो विद्यानन्दो (ज्ानानन्दः) ब्रह्मा- नन्दश्च । विद्याविषययोरपि वस्तुतो ब्रह्मानन्दस्यैव मात्रानुवर्तते। कालभेदेन चोपभोगस्तेषामानन्दानां तदुक्तम्- 'एकैव दृष्टिः काकस्य वामदक्षिणनेत्रयोः। यात्यायात्येवमानन्ददये तत्त्वविदोः मतिः' इति।
विदयानन्दोपपि चतुर्विधो दुःखाभावः कामाप्तिः कृतकृत्यता प्रा- प्तप्राप्यता च। 'मानभूवं हि भूयासम्' इत्यात्माने प्रेमदर्शनादात्मनः परमानन्दतायां सिद्धान्तः। मन्दान्धकारे परिदृश्यमानवस्त्विवात्म- नोपि परमानन्दता यथा ज्वातव्या तथा न व्वायतेSनादयऽविद्याया: प्रतिबन्धकत्वात्। सर्वस्य तावत् प्रमेयस्य प्रमाणाधीनत्वात् प्रमेयसिद्धयर्थ प्रमा- णान्याक्षिप्यन्ते। प्रमाकरणं हि प्रमाणम् । तत्र चाक्षुषप्रमायां चक्षुः, रासनप्रमायां रसना, त्वाचप्रमायां त्वक्, घ्ाणप्रमायां घ्राणम्, श्रा- घणप्रमायां श्रवणम्, मानसप्रमायां मनः, अनुमितौ लिङ्गव्ानम्, उप- मितिप्रमायां सादश्यज्ञानम् शाष्दप्रमायां पदज्वानम्, अर्थाप- त्तिप्रमायामन्यथानुपपत्तिज्ञानम्, अभावप्रमायां योग्यातुपलम्भः (अनुपलब्धिः) प्रमाणम् (करणम्)। ननु स्थाणौ पुरुषत्वभ्रमोपि प्रमाणेनैव भवति न हि जातु करिचि· रचक्षुर्व्यापारमन्तरा स्थाणुं पुरुषं जञातुं शक्नोर्तात्यप्रमां प्रत्यपि प्रमा- जानां करणत्वं प्राप्तमिति चेन्न तत्र केवलचक्षुषो व्यापाराभावात्। किं तु दोषसहकृतमेव चक्षुस्तत्र व्याप्रियते, प्रमाणत्वं च न दोषा- श्लिष्टचक्षुषः किं तुदोषविधुरस्यैव। अनधिगताबाधितविषयकज्ञानत्वं च प्रमात्वम्। कि वा अनाधि- गतविषयकाSबाधितज्ञानत्वं प्रमात्वम्।प्रमाणजन्यज्ञानत्वं वा, तद्वति
Digitized by Google --
Page 29
२२
तत्प्रकारकज्ञानत्वं वा, तस्मिस्तद्बुद्धित्वं वा प्रमात्वन्। अनुभूतवि- षयकाबाधितज्ञानत्वं स्मृतित्वम्। केवलसंस्कारजन्यज्ञानत्वं वा स्मृति- त्वम्। कालद्वयसंबन्धोपलक्षितस्वरूपैक्यप्राहिज्ञानत्वं एकस्य काल-
तो भेदो विषयपरोक्षत्वापरोक्षत्वेन। उभयत्रापि ज्वानस्यानुभूतवि षयकत्वे सत्यबाधितत्वात्। स्मृतिश्च-भावितस्मर्त्तव्याSभावितस्मर्ततव्या चाद्या स्वप्ने-भावि- तः कल्पितः स्मर्त्तव्यो विषयो यया। द्वितीया जाग्रत्समये-अभावि- तोऽकल्पितः स्मर्तव्यो विषयो यस्या इत्यर्थः । षड्वधं च प्रमाण तू-प्रत्यक्षानुमा नोपमानाSSगमार्थापत्त्यनुप- लग्धिभेदात्। षण्णामेव प्रत्यक्षादीनामनधिगताबाधितविषयाविषय- कज्ञानजनकत्वात् प्रमाणत्वम्। तत्र द्विविधं प्रत्यक्षं विषयप्रत्यक्षं ज्ञान- प्रत्यक्षं च। तत्र-योग्यवर्तमानविषयकत्वे सति प्रमातृचैतन्यस्य विष- यचैतन्याभेदप्रयोज्यं विषयप्रत्यक्षम्। योग्यवर्तमानविषयकत्वे सति प्रमाणचैतन्यस्य विषयचैतन्याभेदप्रयोज्यं ज्ञानप्रत्यक्षम्। तदापे षड्विधम्-रासनं चाक्षुषं घ्राणज्यं श्रावणं मानसं (आन्तः करणिकम्) च । तत्र रसावच्छन्नचैतन्यस्य प्रमातृचउन्याभेदजन्यं रासनं रसप्रत्यक्षमू। तत्र रसनाया द्वारत्वं रसनाद्वारान्त:करणस्य वृत्तिरूपत्वेन रसदेशे गमनात् । आलोच्यवषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदजन्यं चाक्षुषमालोच्यपदार्थप्रत्यक्षम्।अत्र चक्षुषो द्वारत्वं पूर्ववज्जेयम्। स्पृश्यविषयावा्छिन्नचैतन्यस्य प्रमातृचैत- म्याभेदजन्यं त्वाचं स्पृश्यविषयप्रत्यक्षम्। अत्र त्वचो द्वारत्वं शेयम्। सौरभाध्यवच्छिन्नचै न्यस्य प्रमातृच तन्याभेदजन्यं घ्राणजं सौरभा- दिप्रत्यक्षं। अत्र घ्राणस्य द्वारत्वम्। राष्द्ावच्छिन्नच तन्यस्य प्रमा- सृचे तन्यामेदजन्यं श्रावणं शब्दप्रत्यक्षम्। अत्र श्रवणस्य द्वारत्वम्। मानसविषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेद्जन्यं मानसं मान- विषयप्रत्यक्षम्। रासनप्रत्यक्षे हीयं रीतिः रसनासमीपं प्राप्तेसति रसनीय- विषयेऽन्तःकरणं निर्गत्य रसाकारेण परिणम्य मधुरकट्टकषायादिभेदं
Digitized by Google
Page 30
अद्वैतचा्द्रिका।' २३.
विविनक्ति। एवं त्वनिकटं प्राप्ते सति स्पृश्यविषये त्वग्द्वारान्तःकरणं निर्गत्य स्पर्शाकारेण परिणम्य कोमलाकोमलत्वकठोरत्वादिभेदं विविनक्ति, द्रव्याकारेण (स्पृश्याकरेण) च परिणम्य द्रव्य- (स्पृश्य) विवेकं संपाद्यति। एवमाघ्रेयपदार्थे सौरभादौ घ्राणदेशं प्राप्ते सति घ्राणद्वारान्तःकरणं निर्गत्य सौरभाधा- कारेण परिणम्य सौरभासौरभादिविविधविभेदं यथाशक्ति वि- विनक्ति। एवं शब्दे स्वदेशस्थित एव श्रवणद्वारान्तःकरणं निर्गत्य शब्दाकारेण परणम्य मन्द्मध्यतारादिविशिष्टशब्दभेदं विविनाक्त। चाक्षुषे रूपवति द्रव्ये स्वदेशस्थिते सत्येव चक्षुर्द्वारान्तःकरणं निर्ग- त्य रूपाकारेण परिणम्य पीतनीलादिरूपभेदं, एवं द्रव्यगतचक्षुर्योग्य- संख्यासंस्थानादिभेदं विविनक्ति, द्रव्याकारेण च पररिणम्य द्रव्यं विविनाक्त। इन्द्रियाविषयतामप्राप्तोSबाधितो विषयोऽन्तःकरणेन विविच्यते यथा चित्स्वरूपं सत्यं ब्रह्म सभगवान् मां महापापिष्ठतरं संसारहुतभुजि दह्यमानं स्वकृपया पारेपालयष्यतीत्यादि। अन्यदृपि यथारुचि विविनक्ति चेतः । त्रिविथं तावच्चैतन्यम्-प्रमातृचतन्यम्, प्रमाणचतन्यं, विषय- चैतन्यं च । अन्तःकरणावच्छिन्नमाध्यम्। वृत्त्यवच्छिन्नं द्वितीयम्। विषयावच्छिन्नं तृतायम्। वृत्तिश्च प्रागेवोक्ता । चतुर्विधा च वृत्ति :- संशयो निश्या गर्वः स्मरणामेति। वृतत्तिभेदेनकमप्यन्तः- करणं मन इते, बुद्धिरिति, अहङ्कार इति, चित्तामत्युच्यते। यथा स्थाणुर्वा पुरुषो वेति संशयवृत्तिवेलायामन्तःकरणं मन इत्युच्यते। ज्ञानप्रत्यक्षस्य च रीतिरियम् रसावच्छिन्नचैतन्येन रसाकारवृ- स्यवच्छिन्नचैतन्याभेदे साते रसव्ञानप्रत्यक्षम्। चाक्षुषविषयावच्छि- न्नचैतन्येन चाक्षुषविषयाकारवृत्त्यवच्छिन्नचैतन्याभेदे सति चाक्षुष- विषयज्ञानप्रत्यक्षम्। आघ्रेयावच्छिन्नचैतन्येनाSSघ्रेयाकारवृत्त्यव- च्छिन्नचैतन्यामेदे सत्याघ्रेय विषयकज्ञानप्रत्यक्षम्। स्पृश्यावच्छिन्न- चैतन्येन स्पृश्याकारवृत्त्यवच्छिन्नचैतन्याभेदे सति स्पृश्यज्ञानप्रत्य- क्षमू। शब्दावच्छिन्नचैतन्येन श्दकारवृत्य्व्च्छित चितन्य भे दे स तति शब्दविषय कज्ञानविषयकं प्रत्यक्षम्। मानसिकविषयावच्छिन्नचैत-
Digitized by Google
Page 31
२४ अद्वैत चन्द्रिका।
न्येन मानसिकविषयाकारवृत्त्यव्छिन्नचैतन्याभेदे सति मानसवि- षयावेषकज्ञानप्रत्यक्षम्। पुनरापे प्रत्यक्षं द्विविधम्-सविकल्पकं निर्विकल्पकं च। प्रथम तत्र विशिष्टवैशिष्ट्यावगाहि ज्वानं यथा-घटमहं जानामि, अत्र घटघटत्व इति निर्विकल्पकव्ञानानन्तरं घटत्वप्रकारकं घटव्वानं जातम्। एवं नीलो घटः पीतः पट इत्यादि। परं तु विशिष्टवैशिष्ट्यानवगाहि ज्ञानं यथा-स एवायं घटस्तत्वमसत्यादौ, स्वरूपमात्रबोधात्। तदुच्यते- भवति तत्वमसिश्रुतिवाक्यगा सकलकिञ्चनबुद्धिमिराकता। हतविशषणका च समक्षताऽथ च घटोयमसा सनिकल्पिका ॥१॥ तच्च प्रत्यक्षं पुनर्द्विविधम्-जीवसाक्षीश्वरसाक्षिभेदात्। अनुमितिकरणमनुमानम्। व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः। व्यानश्चाव्यमचरितं साहचर्यमू,निखिलहेत्वधिक- रणनिष्ठसाध्यसामानाधिकरण्यं बा। सा च व्याप्तिवर्यभिचाराद र्शने सते सहचारदर्शनेन गृहाते। तच्चानुमानं स्वार्थ परार्थच। यत्र स्वय- मेव पर्वते धूममवलोक्याग्निमनुमिनाति तत्स्वार्थ यथा-पर्वताग्निमान् धूमात्। यत्र च परं प्रति वान्हिप्रतीतये न्यायवाक्यं प्रयुङ्के तत्परा- र्थमू। न्याया नामावयवसमुदायः। अवयवाश्चात्र त्रय एवावयवत्र- येणैव परार्थानुमानससिद्धेरधिकावयवस्वीकारस्य निष्फलत्वात्। तथा हि प्रतिज्वाहेतूदाहरणरूपा वा, उदाहरणोपनयनिगमनरूपा ा। प्रतिज्वावयवो यथा-पर्वता वन्हिमान्, हेत्ववयवायथा-धूमातू, उदाहरणावयवो यथा-यो यो धूमवान् स सोग्निमान् महानसवत्, उपनयावयवो यथा-वन्हिव्याप्यधूमवाँश्चायम्,निगमनावयवो यथा- तस्मादग्निमान्-इति। तथा च परार्थानुमाने पर्वता वन्हिमान् धूमाद् यो यो धूमवान् स स वन्हिमान् महानसवत्-इति प्रयोक्तव्यम्। किं बा यो यो धूमवान् स सं वन्हिमान् महानसवत् वन्हिव्याप्यधूमवाँ- ्रायं (पक्षः) तस्माद्वन्हिमान्-इति प्रयोक्तव्यम्। न हि किलैतद्रीत्याS धयवत्रये प्रयुक्तेपि प्रत्यायनाय किं चिदवशिष्यते यदवयवद्वयेनापरेण प्रत्याय्येत। तार्किकमहाशयानां तु वाग्व्यापार प्रव जीवनकृत्यमिति ते यद्यधिकमप्यवयवद्वयमुत्पाद्यानुमानस्थले सप्तावयवान् प्रयुखते
Digitized by Google
Page 32
अप्रैत बन्छिकां।
तथापि म दोषाय।- अस्माकं तु ब्रह्मभावन भगवदुपासममेच जीवन-
परस्थ प्रयोग: सहोत।
सन्दिग्धसाध्यवान पक्षः, किं वा सिषाधायेषितधर्मातुयोगी पक्षः । 'प्रत्यक्षपरिकालेतमप्यनुमानेन बुभुत्सन्ते तर्करसिकाः, इति- वचनात्। यथा-पर्वतो वन्हिमान् धूमादित्यत्र पर्वतः पक्षः।तथा प्रपथो मिथ्या डश्यत्वाद जडत्वादित्यत्र प्रपश्चः पक्षः। यथा हि 'स्वाध्या- योध्येतव्यः' इति वाक्येन वेदत्वावच्छिन्नमात्रस्याध्ययनबोधनात्स्वा- ध्ययनमापे बोध्यते तथोक्तानुमानेनापि प्रपश्चमात्रस्य मिथ्यात्वबोधना- न्स्वमिथ्यात्वमपपि बोध्यते स्वस्यापि पक्षतावच्छेदकपरिष्कृतत्वात्। निश्चिचतसाध्यवान् सपक्षो यथा-महानसः। पक्षैकदेशस्यापपि निश्चि- तसाध्यवतः क्वचित्सपक्षत्वस्वीकारात् मिथ्यात्वानुमाने शुक्तिरज- तादिरेव सपक्षः। निश्चितसाध्याभाववान् विपक्षो यथा प्रथमातु- माने जलइदो द्वितीये च ब्रह्म। तच्चातुमानं त्रिविधमुच्यते कैश्चित्, अन्वयव्यतिरेकि, केवला- न्वयि, केवलव्यतिरोके च। अन्वयव्यतरोके यथा-पर्वतो वन्हिमान् धूमात्, यो यो धूमवान् स स वन्हिमान् महानसवदित्यन्वयव्याप्े· रलोभात्, यो यो न वन्हिमान् स स न धूमवान् जलहदवदििति ग्य- तिरेकव्याप्ेश्चोपलम्भादन्वयव्यतिरेकित्वम्। केवलान्वयि यथा- घटो वाच्यः प्रमेयत्वात्, यद्यत्प्रमयं तत्तद् वाच्यं पटववित्य- न्वयव्याप्तेरव लाभात्, यद् चन्न वाच्यं तत्तन् प्रमेयमित्यत्रोदाहरणा- भावास् केवलान्वयित्वम्। विपक्षाभावे केवलान्वयित्वमिति यावत्। केवलव्यतिरकि यथा-ब्रह्म प्रपञ्चावेवर्तोपादानमSपरिणामित्वात्, यत्र यत्र प्रपञ्चविवर्तापादानत्वं नास्ति तत्र तत्रापरिणामित्वमपि नास्ति यथा मृदादाविति व्यतिरकव्याप्तिमात्रस्योपलम्भात्, यत्रा- परिणामित्वं तत्र प्रपञचविवर्तोपादानत्वमित्यन्वयव्याप्तेरुदाहरणा- भावात् केवलव्यतिरोकेत्वम्। सपक्षाभावे केवलव्यंतिरेकित्वमिति याषत्। ४
Digitized by Google
Page 33
न्द्धिका ।
चित्वं संभवति सर्वस्य महानिष्ठात्यन्ताभावप्रतियोगगित्वादेवात्यस्ता- भावाप्रतियोगित्वलक्षणं केवलान्वयित्वं कथमुपपद्येत?, अ्झालक्षणावे- पक्षसत्वादिति यावत्। केवलव्यतिरोकेणश्चार्थापत्तावेवान्तर्भावः। अयं भाव :- केवलव्यतिरोकणि साध्यसाधनयोरन्वयव्याप्तिपर्यवसा- नस्थानालाभावाद्भावयोरेव व्याप्तिरुच्यते तथार्थापत्तावप्यभावयो- ष्याप्तिरस्त्येव यत्र भोजनाभावस्तत्र पीनत्वाभाव इति पीनत्वं भोजन- माक्षिपति तत्रापि दिवाभोजननिषेधादर्थाद्वान्िभाजनं कल्प्यते इति केवलव्यतिरेकिणोर्थापत्तावन्तर्भावः। नचार्थापत्तिः परित्याज्या केव- लव्यतिरेकिण: पीनत्वेन भोजनकल्पनसामर्थ्येपि रात्रिभोजनकल्पना- सामर्थ्यात्। तस्मात्केवलव्यतिरेक्येव परित्याज्यम्। उक्तरीत्यानु-
्यतुमानं न संभवति कि त्वन्वयिमात्रमेवानुमानं संगच्छते। उपमितिकरणमुपमानम्। गवयनिष्ठगोसाटश्यज्ञानजन्यं ज्ञान- सुपममितिः। गोनिष्ठगवयसाडश्यज्ञानं वा। गोष्ठे दृष्टगोव्यक्तिकस्य तदनन्तरमरण्यं प्राप्तस्य गवयव्यक्त्या चक्षुःसंनिकर्षे जाते भवति मतिरियं व्यक्तिगोंसदशीति, तद्नन्तरसनेन सदशी मदीया गौरिति निश्चयो जयते। तत्र गोनिरूपितगवयपिण्डनिष्ठसाटश्यज्ञानं कर- णम्-अयं पिडो गोसटश इति। गवयापिण्डनिरूपितगोनिष्ठसाड· शयज्ञानं फलम्-अनेन सदशी मदीया गौरित। इदमेव ज्ञानमुपामतिरि- त्युच्यते। वेदान्तमते व्यवहारावस्थायां साषश्यस्यापि पदार्थाम्तर- स्वाद् गवयप्रत्यक्षकाले गोनिष्ठगवयसाडश्यप्रतीतेश्चानुमानादिव्या- पाराभावे सत्युपमान प्रमाणमन्तरेणाशक्यत्वादुपमानप्रमाणाङ्गीकारः। न तु गवयो गवयंपद्वाच्य इति शक्तिग्रहणार्थ तस्यातिदेशवाक्ये- नैव सिद्धेः। अन्यथा गोसदशो गवय इत्यतिदेशवाक्यस्य वैय्थ्ये स्यात्। किं चैवं प्रत्यक्षादिप्रमाणस्यापि शाक्तिग्रह एव फलमस्त्व- विशेषाद् योयं कम्बुप्रोवादिमान् पदार्थ: स घटपदवाच्य इति, यो यै धूमव्यापकः स चन्दिपद्वाच्य इति। न चातिदेशवाक्येन गोनि-
Digitized by Google
Page 34
अद्ेतचन्द्रिका। २७
स्येति वाच्यम्, गवयप्रत्यक्षं विना गव गवयसादश्यप्रतीतेरसंभ- वात्। न चातिदेशवाक्येन शकक्तिग्रहे जातेपि गवथदर्शनकाले 'यो मयातिदेशवाक्याद् गवयपद्वाच्यत्वेन गृहीतः स एवायं गक्य:' इति प्रत्यभिश्ैवोपमानप्रमाणफलमस्त्विति वाच्यम्, प्रथमं कदाः चिदप्यनुभूतेरभावात् स पवायं गवय इते प्रत्याभज्ञानांशासिद्धेः।. नतु शक्तभ्रहणं तु प्रथमं जातमिति शच्किप्रहणप्रत्यमिक्वैवापमानफल- मस्त्विति चेन्न, शकेरतीन्द्रियत्वात्। प्रत्यक्षविषया हि प्रत्यभिक्ा भवति, अन्यथा स्मृतिप्रत्यमिन्नयोभेंद एव न स्यात्। न च शक्ति- स्मृतिरेवोपमानफलम्-एवं हुयपमाने बाह्येन्द्रियानपेक्षता स्यात् तथा च बहिरिन्द्रियहीनस्याप्युपमानेघिकर: स्यात्। न चापि गवये गो- सादश्यज्ञानमुपमानफलमिते वाच्यम्, तस्यातिदेशवाक्यादेव- सिद्धः। अन्यथा गोसाउश्यावच्छित्त्वेन गवये गवयपदशकिप्रह एव न स्यात्। ननु न युक्तमतिदेशवाक्यन गवयपद्शक्तित्रहोSतिदेशवाक्यस्य साफल्यं तु गवये गोसाहश्यज्ञानजनकत्वेन गवि गवयसादश्यज्ञानज- नकत्वेन वेति, उपमानफलं तु गवयपदशाक्तेन्रह एवेति चेन्न, उपमिनो- मीति व्यवहारविरोधात। म हि गवयविलोचनकाले 'अयं गवय- पदवाच्य इते शक्तिप्रहमेवोपमानफलत्वेनावधारयति, किं त्वनेन स- इशी मदीया गौरिति साडश्यग्रहमेव। तथा च शाक्तप्रहस्य तज्जे- तुत्वेन गवये गोसादृश्यज्ञानस्य चातिदेशवाक्येनैव जातत्वाद् गावे गवयसाहश्यज्ञानमेवोपमानप्रमाणफलमिति सिद्धम्। तटुकं भट्ट- पादैरपि- 'तस्माद् यत्स्मयते तत्स्यात् सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादएयं वा तदन्वितम्' ॥इति। शवरस्वामिनापि-'उपमानमपि साहश्यमसंनिकृष्टर्थे बुद्धिसुत्पाद- यति यथा गवयदर्शनं गोस्मरणस्य' इत्युक्तम्। साहश्यप्रमाणलक्ष- णमुपमानमसंनिकृष्टेर्थे साडश्यानुयोगिनि गवि साहक्यवुद्धिमुत्पाद- यति यथा गवबदर्शनं गोस्मरणस्य हेतु: कस्मात्? भोगवययोः सह- शत्वादित्यर्थः।
Digitized by Google
Page 35
तथ सांडच्य न चक्षुषा गृहतेSरूपित्वात्, न स्वचा स्पशहीन- त्बात्, नं व प्राणेन गन्धादिव्यातिरिकत्वात्, नापि रसनया रसादि- मिन्नत्वात्, न तु भ्वणेन शष्दाधतिरिकत्वात्, मो वा केवलेन मनसा बाहयात्यादपि, स्सृतिमात्राविषियस्वाच्। न च द्रव्यसमवेतगु- छासामान्यादिवत् प्रत्यक्षवेद्यं-एवं हि वन्हेरपि संयुक्तवशेषणतासं बन्धेन प्रत्यक्षवेद्यत्वेऽतुमाननैरास्यप्रसङ्ग:। नाप्यनुमानमात्रवेद्यं व्याप्तिज्ञानाद्यभावेप्यनेम सडशी मदीया गौरिति बुद्धेरप्रत्यूहत्वात्।
ननु सादश्यस्योभयनिष्ठत्वाद् गोसदशो गवय इत्युक्त्ेऽर्थादेव गवयसदृशी गौरितिबुद्धेजायमानत्वादर्थापत्त्यैव फले जाते किमुप- मानेनेति चेन्न, एवं व्याप्यदर्शनेन व्यापकप्रसचेरर्थादेव सिद्धे: कि- मनुमानेनोति प्रातेबन्दीभस्तत्वात् ।तस्मादुपमानप्रमाणं पृथगेवाभि- मन्तव्यमू। तदुकं भट्टै :- "प्रत्यक्षेणावबुद्धेपि सादश्ये गवि घ स्मृते। विशिष्टस्यान्यतोSसिद्धेरुपमानप्रमाणता।। प्रत्यक्षेपि यथा देशे स्मर्यमाणे च पावके। विशिष्टविषयत्वेन नानुमानाप्रमाणता।। नचैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात्। प्राकू प्रमेयस्य साहश्यं न धर्मत्वेन गृहाते । गवबे गृहमाणं च न गवामतुमापकम्। प्रतिज्ञार्थेकदेशत्वाद् गोगतस्य न लिक्ता॥ गवयश्चाप्यसम्बन्धान्न गोर्लिङत्वमृच्छति। साषश्य न व सर्वेण पूर्व दष्टं तदन्वयि। एकस्मिल्ापे रष्टेर्ये द्वितीयं पंश्यतो घने। सादश्येन सहैवास्मिंस्तद्वोत्पद्यते मतिः॥ शकित्वादेरथोच्येत संबन्धाल्लिक्ता गवि। न, तेषां गवयज्ञानव्यापारं प्रत्युपक्षयास्।। यदि तेभ्यः प्रतीतिःस्याभिस्साटश्यैव सा भवेतू। न गौ. शक्गादिसटशी सदशी गवयेन तु।
Digitized by Google
Page 36
अद्वैवचन्द्रिका।
सदशप्रत्ययं दृष्ट्वा शृङ्गादिप्रत्ययात्परम्। गवयप्रत्ययादेव गोज्ञानमुपजायते।। सशावयवत्वे तु तेषामेवोपमा भवेत्। न च शुभ्ादयो यत्र तत्र गौरनुमीयते' ॥इति। तस्माद् गोसाइश्यावच्छिन्नयावद्व्यक्तौ गवयपद्वाच्यत्वभ्रहोतिदे- शवाक्यनय भवतीति सिद्धसुपमानफलं गवि गवयसाडश््यमतिरे- वेति।
तब्च सादश्यं न मेदिन्यादिदव्यं गन्धादिगुणाश्रयत्वाभावात्। न च कालदिग्देह्यन्तर्भूतं व्यापकत्वाभावात्। नापि मनः क्रियाश्रय- स्वाभावात्। नापि गुणो गुणवृत्तित्वाद् घटशौक्ल्यवत् पटशौक्ल्य- मप्यनित्यमिति। नापि कर्म कर्मवृत्तित्वाद् देवदत्तत्रियातुल्या यज्ञद- सकियेति। नापि सामान्यं सामान्यवृत्तित्वादश्वत्वमपि गोत्ववदने- कसमवेतमिति। नापि विशेषो विशेषवृत्तित्वादयं विशेष एताद्वे- शेषवद् विशेषान्तरव्यावृत्त इत। नापि समवायः समवा- यवृत्तित्वात् सामान्यवत् समवायोपि तार्किककलल्पित इति प्रतीतेः । नाप्यभावो भावत्वेन प्रतीयमानत्वात्, उपमानप्रमाणवेद्यत्वाच्च, अभावत्वे ह्यानुपलब्धिगम्यत्वमाप स्यात्। तस्मादतिरिक्त एव पदार्थ: शादृश्यम्।
न च न चात्र मन:प्रसाद इति वाच्यम्, सामान्यादीनामपि पदार्थान्तरत्वे प्रतिपक्षिणा मनःप्रसादाभावस्य वक्तुं शक्यत्वात्। न च तदूभिन्नत्वे सति तद्गतभूयोधर्मवत्वमेव सादश्यमिति वाच्यमू, अन्यनिष्ठधर्माणामन्यनिष्ठत्वासंभवात्। तद्गतभूयोधर्मसदशधर्म वस्वनिवेशे हयात्माश्रयता स्यात्। तत्रापि मादश्यान्तरापेक्षायामन- वस्था समवस्था। तद्गतभूयोधर्मवत्त्वं तु साडश्यव्यञ्जकमेव। न च सादश्यस्य सामान्ययोगातिरिक्तत्वे प्रकर्षाप्रकर्षभेद: किनिमिस्तः स्याददिति वाच्यम्, वाय्वादीनामपिप्रकर्षाप्रकर्षभेदः किनिमिस इति त्वयापि वक्तव्यत्वापातात्। पदार्थेषु प्रकर्षाप्रकर्षभेदो न भवती त्यत्र प्रमाणाभावात्। भवति च प्रकर्षाप्रकर्षभेदो वायोस्तेजसः प्रका- शस्य रूपाविगुणानां च। प्रकर्षाप्रकर्षभेदो दि कूटस्थपदार्थेऽनुपपश्चो
Digitized by Google
Page 37
३० महास्माभिरापे ब्रह्मवत् कूटस्थत्वमुच्यते साडश्यस्य येन तत्र प्रकर्षा- प्रकर्षभेदोऽनुपपन्नः स्यात्। न च तद्गतभूयोधर्मवत्त्वव्याप्यः प्रक- र्षाप्रकर्षभेदो येन सादृश्ये तद्गतमूयोधर्मवत्वत्वनिवृश्या प्रकर्षाप्रक- र्वभेदोपि निवर्तेत। न चैवं वैसादश्यमापि पदार्थान्तरं साह- श्याभावत्वास्तस्य। न.च वैसाडश्यं न साडश्याभावो वैपरीत्य- स्यापि सम्भवादिति वाच्यम्, तस्य वैपरीत्यस्य साहश्याभावारते निरूपायतुमशक्यत्वात्। तुरगोरयोः सादश्याभावं बिना न किम- प्यन्यद्वैसाडश्यमन्यथा भवतापि तेजोभावमृते तमसो द्रव्यान्तरत्व- मज्जीकृतं स्यात्। किं व तद्मिन्नत्वेसते तद्गतभूयोधर्मवस्वमेव साटश्यमिति मते 'निरञ्जन: परमं साम्यमुपैति' इतिश्रुतिविरोघः स्यात्, उक्तरीत्या भेदस्याभावात्, ब्रह्म च न धर्मि येन जीवस्य ब्रह्मधर्मवत्वेन ब्रहध- र्भसटशधर्मबस्वेन वा साम्यमुपपद्येत । पदार्थान्तरत्वे तु ब्रह्मण निर्विशेषत्वव्यपदेशवत्, जीवे च मुक्तत्वव्यपदेशव चत्साम्यव्यप- देशोप्युपपद्यते। यदि च कि नाम तत्साइृश्यं न किमपि पदार्थान्तरत्वेन गृह्यत इत्याक्षेपस्तदा कि नाम सामान्यं यत्पदार्थान्तरत्वेन गृहाते? सामान्यं हि घटत्वपटत्वादिरूपेण प्रसिद्धमिति चेत्सादृश्यमपि सादश्यरूपेण प्रसिद्धमेव चन्द्रेण सडशं मुखमित्यादौ। मतु सादश्यं साडश्यरूपेण प्रसिद्धमित्यसडुच्रं न हि कि नाम द्रव्य- मिति जिज्ञासायां द्रव्यमित्युत्तरं सज्च्छते, एवं हि सामान्यं हि घटत्वपटत्वादिरूपेण प्रसिद्धमित्यप्यसदुत्तर यदेष सामान्यं तदेव घटत्वादिकमिति हेतोः । ननु नित्यत्वे सत्यनेकसमवेतत्वमेव सामान्यमितति चेदिदमप्यसदुत्तरम्, यदेव नित्यत्वे सत्यनेकसम- वेतं तदेव सामान्यमिति द्रव्यमेव द्रव्यमित्यनेन समानत्वात्। नित्यत्वसमवेतत्वादीनामनुपपच्तेश्च समवायानङ्गीकारात्, आत्मा- तिरिकस्य नित्यत्वानुपपत्तेश्। कि चोपमानवेद्यत्वं वा साधारण- धर्मव्यज्यमानत्वं वा उपमानोपमेयभावासाधारणकारणत्वं वा सा- श्यमित्यस्यापि निवेदनयोग्यत्वात्। तथापि तद्रतभूयोधर्मवस्वाव
Digitized by Google
Page 38
अहैतचन्द्रिका। ३१
पृथक् साहश्यं मया नानुभूयते इतिचेध, न हि तवानुभवानुनिष्पम्र- मेव प्रमाणं भवतीति नियातरास्त ? मयाप्यन्यो्याभावाटते न पृथ- कूत्वं पृथगनुभूयंत इति प्रतिबन्दीभ्रस्तत्वाक्। एवंरुपस्य च साडश्यस्य रूपप्रयुक्तस्य प्रहणे चक्षुषो द्वारत्वम्, स्पर्शविशेषप्रयुक्तस्य प्रहणे स्वचो द्वारत्वम्, रसप्रयुक्तस्य व भ्रहणे रसनाथा द्वारत्वम्, गन्धप्रयुक्तस्य प्रहणे प्राणस्य द्वारत्वम्, शब्दप्र- युक्तस्य प्रहणे श्रवणस्य द्वारत्वम्, येनेन्द्रियण यद्गृह्याते तत्प्रयुंक्त्तसा- दृश्यस्य ग्रहणे तस्येन्द्रियस्य द्वारत्वमिति यावस्। एवं स्मर्यमाण- विषयसादृश्यभ्रहणे मनसो द्वारत्वमित्यवधेयम्। करणं तूपमानप्रमा- णमेव। साश्यातुभवे च प्रतियोगिप्रत्यक्षस्य नियमः, प्रतियोगिप्रत्यक्षे सति सादृश्यानुभवो भवाते यथातिदेशवाक्यश्रवणसमये गोः प्रत्य- क्षत्वाद् गोभतियोगिकगवयातुयोगिकसादृश्यप्रत्ययो जायते। एवं गवयप्रत्यक्षवेलायां गवयप्रतियोगिकगोऽनुयोगिकसाडश्यप्रत्ययो जायते। एवमुभयप्रत्यक्षकालेपि। प्रतियोगिप्रत्यक्षाभावे शब्द- प्रयोगाभावे व्याप्यव्यपदेशभावे च सादृश्यप्रहणं स्मरणात्मक- मेव भवति। शब्दप्रयोगे च शाब्दमपि भवति व्याप्यव्यपदेशे चानुमानिकमपि भवति। यथा हि घटादिपदार्थ: प्रत्यक्षयोग्योपि शब्दादिबोध्योपि भवत्येवमुपमानप्रमाणवेद्यमपि सादश्ंयं क्वचि- च्छष्द्वेद्यं क्वाचद्नुमानवेचं क्वचिदर्थापत्तिवेद्यमपि भवतीति न कोपि दोषः । यत्र शब्दंप्रयोगोपि नास्ति न चानुमीयते नाप्य- र्थादवगम्यते नापि स्मर्यते तत्र सादृश्यस्योपमानवेद्यत्वमेव यथा अनेन सदशी मदीया गौरिति। कि चं सादश्यव्यअकसाधारण- धर्मवतोर्मध्ये यत्प्रत्यक्षविषयो भवति तर्त्प्रतियोगिकमेव सादृश्य- सुपमानगम्यं भवतीति गवयप्रत्यक्षेगवयप्रतियोगिकमेव सादृश्यं गृहाते यथाऽनेन सदृशी मदीया गौरिति। न च गोप्रतियोगिकं साद- कष्यं गृहाते तदोपमानेन। अत पवातिदेशवाक्यभ्रवणसमये गोः प्रत्यः क्षत्वादू गोप्रतियोगिकं गवये सादृश्यं गृह्यते। एकस्यैवातिदेशवाक्यस्य गवयपदशक्तिप्राहकत्वं गोप्रतियोगि- कसादश्यभ्राहकत्वं च कथं स्यादिति चेत्, यथैकस्यैव वन्हे: प्रका-
Digitized by Google
Page 39
शकत्वं तापकस्वं व संङ्कतं तथैव। यथा च गतोस्तमर्क इत्येकस्यैव वाक्यस्यानकार्थबोभकतवं संभवति तथा। कि वातिदेशवाक्येन शः किग्रह एव भवतु गवये गोप्रतियोगिकसादृश्यग्रहणमतिदेशवाक्य श्रवणसमयेप्युपमानप्रमाणेनैवेति कल्पनेपि न कोपि दोषः। उपमा- नेन साहश्यप्रहणे प्रतियोगप्रत्यक्षमान्नस्य नियमात्। यत्रातिवेश वाक्यभ्रवणसमये गोमत्यक्षमपि नास्ति तन्न गवये गोप्रतियोगिक सादृश्यभ्रहणमतिदेशवाक्यादेवावगन्तव्यम्। उपमानेन साहश्यत्र- हणे प्रतियोगिप्रत्यक्षस्य नियमात् । गवयप्रत्यक्षकाले गवि गवय-
तञ्च सादृश्यं प्रत्याश्रयं प्रतियोगिभेदेन भिन्नमन्यथा सर्वस्य सर्वेण सादृश्यं स्यात्। साडश्यं व-व्यतिरेकप्रधानममेदप्रधानं सा- म्यप्रधान बिम्प्रतिबिम्बभावगर्भमित्यादिमेदैरनेकविधम्। तटुरतमा- लक्कारिकै :- 'उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान्। रअयति काव्यरक्के नृत्यन्ती तद्विदां चेतः'॥ इति। उपमा च सादश्यमेव तदुक्तम्-'साधर्म्यमुपमा भेदे' इति। पुनरप द्विविधं सादृश्यं रमणीयमरमणीयं च, आद्यं तावदुपमादिस्वरूपतां प्राप्तं यथा चन्द्रवन्मुखम्, हंसीव कृष्ण ते कीर्तिरित्यमदे। द्वितयिं यथागौरिव गवयः, अनेन सदशी मदीया गौरित्यादि। तच्च सादृश्यं स्वरूपसंबन्धेन तिष्ठाे। अबाधितार्थविषयकबोधजनकवाक्यजन्यं ज्ञानं शाब्दबोघ:। क्रिया प्रतिपादकपद् घाटेतानि पदानि वाक्यम्। योगताकाइक्षासास- युकत: पदसमुदायो वा। वेदान्तमते शाब्दबोधे हि पदैः पदार्थस्मृतिमात्रं जायते तदन- न्तर पदार्थस्मृतिमिः स्मृतैः पदार्थैवी परस्परान्वयबोधो लक्षणया भवाते। तत्रान्वयबोधं प्राते करणत्वं पदानामेव, पदार्थस्मृते: स्मृत पदार्थानां वाऽवान्तरव्यापारत्वम् । अनुमितौ परामर्शस्येव तर्क मंते। लक्षणास्वीकारे गौरवमिति चेभ्न, 'अनम्यलभ्यो हि शब्दार्थः' इति न्यायात्। तस्मादन्वयव्यतिरेकाभ्यां प्रदार्थस्मातेद्वारा वा स्मृत-
Digitized by Google
Page 40
अहवैतचन्द्रिका।
पदार्थद्वारा वा लक्षणेव पदानामन्ययबोधे। पदार्थसमृत्युत्पादनसा- मर्ध्योपहितस्य विषयज्ञानस्यैवाभिचाव्यापाररवेन स्वीकारादित्यS- मिहितान्वयवादो वेदान्तसंमतः। न चान्विताममिधानवादो गामान- येत्यत्र गामित्यस्यैव पदस्यानयनान्वितगोपदार्थबोधकत्वे आनयप- दवैयर्थ्यप्रसङ्गात्। अन्वितत्वमापे भावनयोच्यत एवं घटोस्तीत्यादि- वाक्यस्याबाधकत्वमेव प्रसज्येत, न घेष्टापत्ति :- घटोस्तीत्यादिया- क्यानामपि सकलजनेषु बोधकत्वेन प्रसिद्धेः। शाब्दबोधे हि प्रथमं पदज्ञानं ततः पदार्थस्मृतिस्ततो वाक्यार्थ- बोघ इतिकमः । शक्तिधियम्र सहकारित्वम् । द्विविधन्ध पदार्थ: शक्यो लक्ष्यश्। शाक्तविषयः शक्य:, शाकेश पदस्थ पदार्थेन साक्षा- त्सम्बन्धो यथा-घटपदेन कम्बुग्रीवादिमान् पदार्थो बोध्य इति। लक्षणा नाम शक्यार्थस्मृतिव्यवाहेतशक्यार्थसम्बन्धिपदार्थविषया प्रतातिः। तत्रापि यत्र साक्षात्सङ्केतितार्थस्मृत्या पदार्थान्तरबोधो भ- वाते तत्र प्रयोजनवती लक्षणा यथा-गङ्गायां घोष इति, अत्र प्रवाह- लक्षणार्थस्मृत्या तटस्य बोधः शैत्यपावनत्वादिप्रतीतिश्च प्रयोजनम्। यत्र साक्षात्सक्केतितार्थस्मृतिर्न भवति किं तु पदार्थान्तरबोध एव भवाते कि वोत्पलशतपत्रभेदन्यायेन झटिति पदार्थान्तरबोधो भवति सङ्केतितार्थस्सृतिर्न लक्ष्यते तत्र निरूढा लक्षणा यथा कुशलपदस्य निपुणे। तट्टुक्तम्-'मुल्यार्थबोधे मुस्यार्थाS.Sसन्नस्वे लक्ष्यतेऽपर:। रूढे: प्रयोजनाह्वार्थो यत्सोंक्ता लक्षणा बुघैः' ॥इति। प्रयोजनवस्यपि द्विधा-केवललक्षणा लक्षितलक्षणा च । केवल- सङ्केतितार्थव्यवधाने सति प्रथमा यथा-गङ्गायां घोष इत्यत्र । शक्य- लक्ष्योभयार्थव्यवधाने सति परा यथा द्विरेफपदस्य मचुपे, अन्न हि द्विरेफपदस्य रेफद्वन्द्े शाक्तर्म्रमरपदे च लक्षणा मधुपपदार्थे लक्षित- लक्षणा लासतेन लक्षितस्य वा लक्षणा लसितलक्षणेत्यर्थः । प्रकारा- म्तरेण तिधा-जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा च। तत्र गङ्गायां घोषो विष भुक्स्वेत्यादौ प्रथमा। कुन्ताः प्रविशन्ति गुह्होघट: प्रविशतीत्यादौ हवितीया। सोयं वेववच इत्यादौ तुतीया, अन हि ५
Digitized by Google --
Page 41
पॅन्द्िंकी
मया कालडूयसम्बम्धांशपरित्यागोप्यस्ति देवर सस्य व सइप्रहोन्म सतीति। तुंतीयास्ेवां संि मन्यम्ते केमि। प्रकारचतुष्टयमन्यदप्यस्त्यस्या :- गौणसारोपा, गौणसाध्य- वसाना, शुद्धसारोपा, शुद्धसाध्यवसाना च। गौवाहीक इत्यत्र प्रथमा, गौरेवायामत्यादौ द्वितीया, आयुर्धृतमित्यादौ तृर्तीया, आयुरेवेदमित्यादौ चतुर्थी। तात्पर्यानुपपत्तिरेव लक्षणानिदानम्,अं स्वासुपफ तेर्निदावलवेन स्वीकारे तुकाकेभ्यो दाध रक्ष्यताजरित्यत्र ककप़दस्त वध्युपघातके लक्षणा न स्यादन्वयातुपप सेरभावादक्रिंत माजाजददलऱाणा। वाक्यार्थबोधे चाकाड्क्षायोग्यताSSसत्तितात्पर्यश्ञानानां का-
SSकाङक्षात्वम्-यथा घटमित्येतावदुक्त्तेभवत्यपेक्षाSSनयपदस्येति साकाङक्षत्वान्नार्थबोधजनकत्वम्। घटमानयेत्यस्यार्थबोधजनक त्वमस्ति निराकाङक्षत्वात् । उच्चारितपदार्थानां परस्परसंसर्गवत्त्व योग्यतात्वम् । यथा जलेन सिञ्चतीत्यत्र जलसेचनयोः क्रियाकरण- संसर्गवत्वेनार्थबोधजनकत्वम्। योग्यताभावो यथा-वन्हिना सिश्च तीत्यत्र। अनपेक्षितपदपदार्थकालादिभिरनन्तरितपदार्थोपस्थितिरा- सत्तिः। यथा घटामेत्यस्य पदस्यानपेक्षितान्यपदार्थस्य कालस्य वा
आहतिसख्ये तु बोधजनकत्वं यथाउव्यघानेन भाष्तिस्य घटमानये- क सक्यस्य ।. प्रकरणोचितमतीतिजवनयोग्यता तात्पर्यम्।यथा रोकतप्रकरणोक्तसन्घवपदस्य लवणार्थपतीतिजननयोग्यतया लवणे सातारय मितति तस्य तान्पर्यस्य ज्ञानाभावे सैन्धवमानयेति व्श्यरय िपाघार्थयोधजनकत्वं न संभवतीति कारणत्वम्। तच्च वार्क्य श्विवधं लौकिकं वैदिकं च। लौकिकमपि द्विविधम्- आर्वमनाष च । आर्ष श्रीरामायणभारतादि, अनार्षे रघुवंशादि घट- मानयेत्याद् च । वेदश्य विधिमन्त्रनामवैयाभेषेघार्थवादभेदासू ऋपञ्चाषधः। तम्र 'यसेत स्वर्यकाम:' इत्यादिषिि:। इदे विष्णुरषि
Digitized by Google
Page 42
अश्वैतचन्द्रिका।
चममे' इत्यादयो मन्त्राः। 'अम्निहोत्र जुहते' हत्यादीनि नामधे- यानि: 'माहिस्यात्सर्वा भूनामि' इत्यादयो निवेधाः। 'सोरोदीव"'तरः ति शोकमात्मावेत' इत्यादयार्थवादाः। वेदश्चांत्र न मीमांसकमत इंक नित्यो नापि तर्कमत इवानित्यः कि त्वीश्वरोच्चारितोऽनित्यो- 5पौरुषेयः 'महतो भूतस्य निश्वासतमेतद् यद् ऋगवेव:' इत्वादि- ध्रुतेः । सजातीयाश्चारणापेक्षो ज्ञारणावेषयत्वमपौरुषेयत्वं वेदार्न
साध्यव्ञामेन साधककल्पनमर्थापत्ति:, तत्र साध्यक्ञानस्य करणत्व फलं तु साधकज्ञानमेव। यथा-पीनो देवदत्तो दिवा न भुझ्के,अत्रं. साध्यं पीनत्वं साधकं चःरात्रिभोजनम्। साध्यस्य पीनत्वस्य मोज- नमन्तरेणानुपपत्तेदिवा भोजनस्य च निषेधादर्थापत्यां रात्रिमोंजन कलप्यते। एवं जीवी देवदत्तो गृहे नास्तीत्यत्रापे साध्यस्य जीवि त्वस्य क चित्सत्वमृतेतुपप सगृहस ततायाश्च निषेधादर्थापत्या देवदक संस्थ बहिःसत्त्वं कल्प्यते। शिवेया वार्थापति :- दष्टार्थापत्ति: शुतार्थापत्तिश्च। दष्टार्था परियथा 'पीनो देवदत्तो दिवा न भुकके' 'जीची देववत्तो गृक्के नासत' इतवादो। दष्टेन पीनत्वेनार्थस्य रात्रिभोजनस्यापति: कल्पने त्वर्थ: । एवं सपोयमिति भ्रमे जाते पुरोवर्तिनि रज्जुद्रव्ये नायं सर्प इलि निषेधेन सर्पविषयकासत्यत्वज्ञानं विना भ्रान्तिनिवृत्तेरनुपपतत्या सपस्य सद्भ्रिन्नत्वं कल्प्यते, प्रतीत्या चासद्भिन्नत्वं कल्प्यत इत्यर्था- परयाऽनिर्वचनीयत्वमेवैवं शुक्तिरजत्यादौ ज्ञेयम्। श्रुतार्थापत्तिर्यथा- तरातें शोकमारमवित' इत्यत्र शोकशब्दाभिवेचस्य बन्चरूपस्य संसारस्य मिथ्यात्वमृत आत्मश्ञानेन तरतिपदवाच्याियृर सुपपस्वा थौपस्या संसारस्यात्मव्वानेन बाभ्यत्वलक्षणं मिथ्याशवं कल्प्यते चास सारो मिन्या न स्यात्तर्हि कथमात्मप्रत्ययेन बाधितः स्यादिति।पूर्व- क साध्यस्य पीनत्वस्य प्रत्यक्षयोग्यत्वेन दष्ठत्वाद् दृष्टार्थापत्तिः।उत्त- रत्र साध्यस्य संसारबाधस्य प्रत्यक्षायग्यत्वाद्वेदे श्ृतत्वाच् श्रुता- रश्रांपसि: ।एवं सर्पोयमित्यत्रापि भ्रान्तिप्रतीतस्य सर्पस्य भ्रमात्मक- पत्यसावेषयत्वांठू हान्टारथपारिद।
Digitized by Google
Page 43
अवैतचन्द्रिका।
झ। तत्र प्रथमा थथा-दारमिति भुत्वाSर्थात् पिधेहीति पदमभ्याडिय- ते। अभधानस्य तातपर्यस्यातुपपत्तिरस्ति पिधेहीति पदं विनेत्यर्थः। अभिद्वितानुपपत्तिर्यथा-'वर्शपूर्णमासाम्यां स्वर्गकामो यजेत' अत्रा भिदितस्य यागस्य क्षणिकत्वात्स्वर्गसाधनत्वातुपपस्या यागजन्यम- पूर्व करप्यते। अन्न च यत्र यत्र पीनत्वं तत्र तन्र रात्रिभोजनकर्तृत्व मित्यन्वयव्याप्तेर्दिवाभोजनपीने यबदत्ते व्यमिचारादमावयोरेव व्याप्तिरस्ति यथा-यत्र भोजनाभावस्तत्र पीनत्वा भाव इति पीनत्वं भोजनमाक्षिपति दिवाभोजनस्य च निषेधादर्थाद्वात्रिभोजनं कल्प्य- ते। अत एव व्यतिरक्यनुमानस्यात्रान्तर्भावः। यत्रेतरभेदामावस्तन्र गन्धवस्वाभाव इति गन्धवस्वेनेतरभेद: कल्प्यते पृथिव्यामित्येवम् । अनुमानादिज्ञानकरणाजन्यत्वेसत्यभाषानुभवं प्रति यद्साधारणं कारणं तदेवातुपलाग्धप्रमाणम्। सैवातुपलन्धर्थर्मिणेन्द्रियसंसरगे. सत्यभावोपलब्धौ करणमुच्यते फलं त्वभावोपलब्धि: (अभावज्ा- नमू) केवलानुपलब्धौ दोषप्रसकथा कर्मधारयेण योग्यातुपलब्धे: करणत्वं वेयम्। अन्यथाऽतीम्द्रियाभावस्याप्यनुपलब्धे: प्रत्यय: स्या- त्। योगत्वं चातुपलब्धेर्यद्यSत्र घटः स्यात्तदोपलभ्येतेति तर्कमूल त्वम्। घटाघ्यमावप्रत्ययस्थल उक्ततर्कप्रसरसंभवाद् घटाय्यमावाना- मनुपलग्धिगम्यत्वम्। अभावश्वाधिकरणत्मक एव, नहि नास्पन्र कष्मातले घटोत्र क्ष्मातलफैवल्यादृतेऽम्यः कोपि घटाभावलक्षण: पदार्थ उपलभ्यत ।
मनु यद्यमावोधिकरणात्मक एव तर्हि भूतलस्वरूपोपलन्विस्तु
बेंभ, तस्याधिकरणभ्रहणमोत्न चारितारथ्यात्। अनुपलब्धिप्रमाजान- डीकारे भूतलस्वरूपस्य घटसत्ताविरोधित्वाभाबाड् घटसचासन्दे- है एवं स्यादिति भूतलस्वरूपस्य प्रत्यक्षेण प्रहणेपि कैवल्यलक्षणो- 5मावो डसुपलयव गृहाते इस्यनुपलब्धयैव घटसत्ासन्देहानिवृ्ति:। कि चामावस्य प्रत्यक्षायो वरवादनुपलन्घप्रमाणस्वीकार: ।नच विशेषनतासम्य यनाभावस्यापि पत्यसयोभ्यला वाज्यम-
Digitized by Google
Page 44
दैतचन्द्रिका।
एवं अमुमेयस्यापि पक्षविशेषणतासंबन्धेन प्रत्यक्षसंभवेऽतुमानवैय- ध्यप्रसमः। स चाभावश्तुर्विध :- प्रागभावप्रव्वंसाभावान्योन्याभावात्य- म्ताभावभेदैः । तत्र प्रतियोगिसत्तापूर्वकालिकोSभावः प्रागभावो यथा-घटस्य मृत्पिण्डावस्था। प्रतियोगिसत्तोत्तरकालिकोSभावः प्रध्वंसाभावो यथा-नष्टो घट इत प्रतीतिविषयः। वस्तुपरिच्छेद- कारणीभूतोऽभावोऽन्योन्याभावो यथा घटः पटो नेति प्रतीतिवि- षयः । त्रैकाललिकोSभावोऽत्यन्ताभावो यथा-घायी रूपाभावः ।
तियोंगित्वाच सर्वेऽभावा अनित्या एव । न च वायुगतरूपात्यस्ता- मावनाशे वायौ रूपोपल्धिप्रसङ् इति वाच्यम्-धर्मिनाशेनाभावना- शस्वीकाराड्ायो नष्टे क रूपोपलब्धि: प्रसज्येत ? । न च घटष्वंस- स्यापि ध्वंसे घटोपलन्घप्रसङ्ः, अनन्तरष्वंसस्यापि ध्वंसरूपत्वाद् घटरूपस्वान्गीकाराज । अन्यथा घटव्वंसोपे प्रागभावोपलव्धि: प्रस्येत। अम्योन्याभावस्तु धर्मिप्रतियोगिनो: सावित्वे सादिर्यथा घटपटयोः, अनादित्वेSनादियंर्था-ब्रह्मजीवयोः। पुनरप्यन्योन्याभा- वो द्विया-सोपाधिको निरुपाधिकअतत्राद्यो यथैकस्यापे कनकस्य कटककुण्डलाघुपाधिभेदेन। परमात्मनो वा यथाम्त:करणभेदेन । द्वितीयो यथा-घटपटादीनाम्।
येनेन्द्रियेणाभावप्रतियोगी ग्रहीतुं शक्यते तेनैवन्द्रियेण यदि धर्मिप्रत्यक्षं स्यात्तदाऽभावस्यानुपलब्धिगम्यत्वं ज्षेयं यथा-घटाभा- वरूपाभावादीनां प्रतियोगी घटादिश्वक्षुषा भ्रहीतुं शक्यत इति घटा- दऽभावधर्मिणो भूतलादेयत्र चक्षुषा प्रहणं भवति तत्र भूतलादौ घटादयभावातुपलन्या गृहाते चक्षुषस्त्वधिकरणभ्रहणमात्रेण धारे. तार्थ्यम्। एवं स्पर्शाभायोप्यतुपलण्धिप्रमाणगम्यः स्पर्शाभावाधिक रणस्य (द्रव्यस्य) स्पर्शप्राहकन्द्रियेण प्रहीतुं शाक्यत्वात्। रसाभाव गन्धाभावशाष्दराभावादीनां नोपलन्धिगम्यत्वं यतो रसाभावप्रतियो गी रसस्तुरसनया गृह्लते रसाभावाधिकरणं द्रव्यं तु रसनया न प्रही- तुं शक्यते तस्य पकषुर्भाझ्यत्वास्वम्माह्यत्वादा। एवं कुसुमे गन्धाभा-
Digitized by Google
Page 45
अद्वैतचन्द्रिका ।
वम्रातियोगी मन्यस्तु ग्राणेन गृहाते गन्याभावघर्मि द्रव्यं तुन पणेन प्रहीतुं शक्यते। एवं शब्दाभावधर्म्याकाशमापे न श्रवणग्राह्मनसोसि: . रसामावो गन्धाभाव: राब्दाभावः कारणाभावे कार्याभावो व्यापका भावे व्याप्याभाव इत्यादयोऽभावा अतुमानादिगम्या एव।न चोक नियमस्य कार्याभावव्याप्याभावादौ व्याभचार: शङ्कनीय: स्वात- नयेण कार्याभावादेरतुपलब्धिगम्यत्वेपि कारणाभावहेतुत्वेन कार्या- भावस्यातुमानगम्यत्वादेवेत्याभप्रायात् । एवं व्यापकाभावेन व्या- प्याभावप्रतीतिरतुमानादेवेति विब्ञेयम्। रजतमिद्मित्यत्र रजताभावो व्यधिकरणधर्मावा्छलन्रतिमो गिताको ज्वेयः । यथा घटसरवेपि पटत्वेनेह घटो नास्तीति प्रतीतिर्म- वत्थेव तद्वत् रजतप्रतीतौ सत्यामपि पारमार्थिकत्वेनेह रजतं नास्ती ति प्रतीतिर्मवत्येव तस्मारपारर्मार्थिकत्वेन कालनयेपि शुकी रंजतं नास्तीति सिद्धं प्रतीतेसमयेपि रजते पारमर्थिकत्वाभावस्य निद्रर यात् सकलपपच्चस्यापारमार्थिकत्वाप्तस्मात् प्रतीतिसमये तु पारमार्थि कर्चेन रजतं प्रतीयत इत्यपि नाशङ्कनीयम् । रजतमिदमित्यादौ प्राति- भासिकरजतस्वीकारण यत्रारोप्यं संनिहितं न भवति तत्रानिर्वधनीय- ख्यातिरुच्यते। यत्र त्वारोप्य संनिहित-वक्षुःसंनिकष्टं भवति सता- न्यथाख्यातिरव यथा-लोहित: स्फटिक इत्यत्र यदा जयाकुसुमला हित्येन सह पृथगपि चक्षुःसंनिकर्षसत्त्वं स्यात् तदा। सव् पेणासङ् पेण च यस्य निर्वचनं न भवेत्तदेवानिरवचनीयं यथा शुक्तिरज़तादि। तडुक्म्। प्रत्येकं सदसत्त्वाभ्यां विचारपद्वीं न यत्। माहते तदनिर्वाच्यमाडुर्वेदान्तवादिनः' ॥इति॥ एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवं शायत उत्पद्यसे स्वतस्त्वं च ज्ञानसाश्रीजन्यत्वे सति तदतिरिक्तसामन्यजन्यत्वम्। तेदुक्तम्-
आहुर्विज्ञानसामभ्री जन्यत्वे सतयजम्थता तदन्यतः प्रमायास्तत् स्वतरबाम हीत- ।
Digitized by Google
Page 46
तचन्द्रिका।
अन्यथाSनवस्था स्यात् प्रमाणलक्षपविद्ञाने प्रामाण्यसंपादकविक्ञा- नस्यापि प्रामाण्यज्ञानाय प्रामाण्यापादकान्तरापेक्षणप्रसङ्गात् । भनु दोषाभावस्यैवाविनाभावेन प्रामाण्यं प्रतिकारणत्वं भवत्विति चेन्न, यथाकाशस्यापि घटोत्पत्ति प्रत्यविनाभावेपि न कारणत्वं तथा- ्रापि झैयम्। दोषाभावस्य हेतुत्वाङ्गीकारपप परतसतवं न संभवत्य- आवस्याधिकरणात्मकत्वात्। अप्रामाण्यं प्रति तु दोषस्य हेतुत्व- संस््येव। उक्ानं प्रमाणानां प्रतिपादनादनन्तरं ब्रह्मस्वरूपं परामृश्यते प्राधान्येन ब्रह्मस्वरूपस्थेव प्रमेयत्वात्। अत एव परमसिद्धान्तिभे:
निर्विम पमेव 'सत्यं ज्ञानमनस्तं ब्रह्म' 'सत्यं विज्ञानमानन्दं प्रहम' इत्यादिश्रुतीनां स्वरूपमात्रपरामर्शकत्वात्। अत्र चोकतं सत्यत्वं कालत्रयाSबाध्यत्वम्। व्वानत्वं स्वयंप्रकाशत्वम्। अनन्तत्वं देशका- लवस्तुभिरनवच्छेद्यत्वम्। आनन्दृत्वमन्येच्छानधीनेच्छाविषयत्वम्। तस्य भगवतो ब्रह्मणोष्यवस्थाचतुष्टयमुच्यते-चिद्न्तर्यामी सूवात्मा विराट् चेति। तत्र मायास्पशरहितं स्वयं ब्रह्म चित्, तस्यैव कूदस्थ इतिसज्ञा। तटुक्तम्- 'अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवान्निर्विकारेण स्थितः कूटस्थ उच्यते'॥ इति॥ विशुद्ूसत्वप्रधानमायोपाधिक: परमेश्वरस्तस्यैवान्तर्याम्यादिसब्जा। तष्ट कमू- 'विज्वानमयमुख्येषु कोशेष्वन्यत्र चैव हि। अन्तस्तिष्ठन् यमयति तेनान्तर्यामितां ब्रजेत्॥ ईश्वर: सर्वभूतानां हद्देशेर्जन तिष्ठाति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया'॥ इत्यादि। सूक्ष्मशरीराभिमानी सूत्रात्मा स एव हिरण्यगर्भ इत्यप्युच्यते। तदुक्तम्- 'सूत्रात्मा सूक्ष्मदेहाख्यः सर्वजीवघनात्मकः सर्वाईमानधारित्वात्ं क्रियाज्ञानादिशक्तिमान्॥
Digitized by Google
Page 47
अह्ैतचन्द्रिका।
प्रत्यूषे वा प्रदोषे वा मग्नो मन्दे तमस्ययम्। लोको भवाते यथा तद्दस्पष्टं जगदीक्ष्यते।। सस्यं वा शाकजातं वा सर्वतोककुरितं यथा। कोमलं तददेवैष पेलवो जगदककुरः' ॥ इत्यादि। स्थूलशरीराभिमानी विराटू स एव वैभ्वानर इत्युष्यते। अस्थ च विश्वरूपाध्यायादौ वर्णनं स्पष्टमेव। मायावच्छिभ चैतन्यमीश्रो मयोपाधिकं त्वीश्वरसाक्षी। स च परमेश्वर एकोपि मायानिष्ठस- श्वरजस्तमोगुणभेदेन विष्णुचतुर्मुखमह्ेश्वराभिधानतां पाम्ोति॥ जीवो नामान्तःकरणावच्छिसं चैतम्यमन्तःकरणोपाधिरक तु जीवसाक्षी। अन्तःकरणावच्छिन्नचेतम्यस्यैव जीवत्वेन लिन्शरीरा दीनामपि जीवस्वरूप एव सङग्रहस्तटुक्त्तम्- चैतन्यं यदधिष्ठानं लिशवेहण यः पुनः। चिच्छाया लिक्गदेहस्था तत्सङ्को जीव उच्यते'॥ इति॥ लिङ्गशरीराभिमानी जीव: प्राज्ञ इति तैजस इति व्यष्टिररिति चोच्यते। स्थूलशरीराभिमानी जीवो विश्व इत्युच्यते। जीवनिर्मितं दैतं द्विविधं शास्त्रीयमशास्त्रीयं च शास्त्रीयम्-ब्रह्मविचाराख्यम्। अशास्त्रीयं तद्द्िन्म्। तत्र शास्त्रीयं प्राह्यमशास्त्रीयं त्याज्यम्। जीवस्य हि साधिष्ठानस्यैव (कूटस्थनैतन्येन सहितस्यैव) मोक्षादावधिकारो यदा जीव: कूटस्थसहितं चिदाभासोपेतं शरीर- इय स्वरूपत्वेन स्वीकरोति तदाहं संसारीत्यभिमन्यते। यदा पुन- रदेहद्यसहितस्य चिदाभासस्य तिरस्कारादधिष्ठानभूतकूटस्थ- स्वरूपत्वं जीवेन स्वीक्रियते तदाहं चिदात्माSसंक्गोस्मीति जानाति। असङ्के प्राधान्येनाहंकृतेरभावेपि मात्रया सत्वं भवत्येव। त्रिविघस्ता बद्हंपदार्थ :- पको मुख्यो द्वावमुख्यौ च । मुल्यस्ततान्योन्याध्या- सेन चिदाभासकूटस्थावेकी भूतौ । अमुख्यौ च केवलन्विदाभास: केवल: कूटस्थश्च। सप्तावस्थाश्च चिदाभासस्य भवन्ति तडुकम्- अज्ञानमावृतिस्तद्वद्विक्षेपश्व परोक्षधीः। अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरककुशा'॥ इति॥
Digitized by Google
Page 48
अद्वैनचन्द्रिका। ४9
यदुपनिषदर्थविचारात्पूर्व स्वरूपं न वेत्ति तदज्ञानम्। कूटस्थो न भात्यऽत एव नासतीत्यावृत्िः। कर्तृत्वभोक्तत्वादिरूपैश्चाभिघातो विक्षेपः । अस्ति भाति च कूटस् इति परोक्षधीः । कूटस्थ एवास्मी- त्यपरोक्षधी:। कर्तृत्वभोकृत्वादिभावानां निरासः शोकमोक्षः। तद. नन्तरं कृतकृत्यता प्राप्तप्राप्यता च तृप्तिरुच्यते ! अज्ञानस्य परोक्ष- घिया बाधः । आवृतेश्चापरोक्षधिया बाधः। विक्षेपस्य शोकमोक्षेण बाधः। फलं च तृप्तिरेवेति विवेकः। मुक्तश्च द्विविधो-जीवन्मुक्त: परममुक्तशच तत्र जीवनमुक्तो यथा- 'बुद्धयादीनां स्वरूपं यो विविनक्ति स तत्त्ववित्। स् एव मुक्त इत्येव वेदान्तेषु वििश्चयः' ॥I इति॥ 'अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता। बन्धः प्रोक्त:, स्वरूपेण स्थितिर्मुक्तिरितीर्यते॥ अविचारकृतो बन्धों विचारेण निवर्तते। तस्माज्जीवपरात्मानौ सर्वदैव विचारयेत' ॥ इति॥ वस्तुतस्तु- 'न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता'॥ इति॥ भगवतो या शक्ति: सैव मायेत्युच्यते सा किल न सदूरूपा परमात्मज्ञानेन बाध्यमानत्वात्; नाप्यसद्रूपा कार्यकारित्वात्। तमो- रज:सत्वगुणा च सा। साच माया द्विविधा-विशुद्धसत्त्वप्रधाना Sवि- शुद्धसत्त्वप्रधाना च। सत्त्वगुणप्राधान्यवती प्रथमा, तमोगुणप्राधान्य- वती द्वितीया। शुद्धसत्त्वप्रधाना हि माया परमेश्वरस्य हरेदासी, अविशुद्धसत्त्वप्रधाना तु माया जीवस्य स्वामिनी-अविद्यापरतन्त्र- त्वाज्जीवस्य। . ईश्वरस्तमोगुणप्रधानमायया पृथिव्यप्ेजोवाय्वाकाशानि पश्च सूक्ष्मभूतानि निर्माति। तेषु सूक्ष्मभूतेषु यः सस्वांशोस्ति तेन श्रोत्रश्व- गक्षिरसनघ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि संपादयति। तथाहि- आकाशसत्त्वाच्छ्रोत्रम, वायुसत्वात्त्वक्, तेज: सरवादाक्षि, जलसत्त्वा-
Digitized by Google
Page 49
अद्वतचन्ड्रिका।
इ्रसनम्, अवभिसत्वाद् ब्राणम्। मिलितैः किल तैरुक्तसत्वांशैरन्त: करणं । तदापि वृत्तिभेदाद्द्विधा-विमर्शवृत्त्या मेर्न इत्युच्यते, अध्यवसायवृत्या बुद्धिरित्युच्यते। सूक्ष्मपञ्चभूतरजोशैः क्रमेण कर्मे- न्दियाणि तनोति तथा हि-आकाशरजसो वाकू, वायुरजस: पाणि:, तेजोरजसः पादः, नररजस: पायुः, पृथिवीरजस उपस्थः, पुनर्मि- लितस्तै रजोशैः प्राणो जायते। स चापि प्राणापानसमानोदानव्यान- भेदैः पञ्चविधो भवति तदुक्तम्
'हृदि प्राणो गुद्ेऽपान: सामानो नाभिमण्डले। उदान: कण्ठदेशे स्यादू व्यान: सर्वशरीरगः'॥ इति॥ पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणे पञ्च प्राणा मनो बुद्धि- श्चेति सप्तदशाभे: सूक्ष्मशरीरमुच्यते। जीवकृतकर्मभोगाय भगवान् सूक्ष्मभूतानां पञ्चीकरणेन स्थूलभूतानि कल्पयते पञ्चीकरणं नाम 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः। स्वस्वेतरा्वेतीयांशैर्योजनात् पञच पञ्च ते॥ इत्युक्तम्॥ पंञचस्थूलभूतेभ्यो ब्रह्माण्डमुत्पद्यते तत्र च ब्रह्माण्डे चतुर्दशः भुवनानि तथाहे-महातल-रसातला- Sतल-सुतल-वितल-तला- तल-पातालाख्याननि सप्त भूमेरधो भुवनानि । अष्टमी क्षमा या भूर्लोक इत्युच्यते तदूर्वमन्तरिक्षलोकः स एव भुवर्लोकः, ततः स्व- लोंको यो महेन्द्रलोक इत्युच्यते, तदुपारे महलोको यः प्रजापति- लोकः, ततो जनलोक:, ततस्तपोलोक:, ततः सत्यलोकः, इति। षट् किल नरकभूमय :- महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धता- मित्त्रा इति यम माहशपापजीवानां कर्माणि पच्यन्ते। भूमेर्मध्ये चामीकरकृतः पर्वतराजः सुमेरुनामा यस्य रजतवै- दूर्यस्फटिक हेममयानि चत्वारि शृङ्गाणि। तत्र राजतश्टङ्गभाग: पूर्व- भाग:, वैदूर्यशङ्गभागो दक्षिणभाग:, स्फटकश्ङ्गभाग: पाश्चमभागः, हेमश्ङ्गभाग उत्तरभाग इते। सुमेरोरुत्तरस्यां दिशशि नीलपर्वतः श्वे- तपर्वतः शृङ्गवत्पर्वत इति त्रयः पर्वताः सुमेरुलग्नास्तत्र नीलोस्तरप्रदेशे रमणकं नाम वर्षम्। श्वेतोत्तरमागे हिरण्मयं नाम वर्षम्। शङ्गषदुस्तरे वर्षमुत्तरा: कुरवः । सुमेरोर्दक्षिणस्यां दिशि निषधहेमकूटाहमाल-
Digitized by Google
Page 50
अद्वैतचा्द्रिका। ४३
याभिधेया: पर्वताः क्रमेण पूर्वकोटितः पश्चिमकोटिसंलग्ना: खोन्त- रस्यां दिशे सुमेरुसंबद्धास्तेषां दक्षिणतः क्रमेण प्रीणि वर्षाणि-हररि- घर्षकिपुरुषभारताख्यानि। सुमेरो: पूर्वदिशि तत्संबद्धो माल्यवान पर्वतस्तदग्रे भद्राश्वनामकमेकमेव वर्षम्। सुमेरो: पाश्चमादेशि तत्सं- बद्धो गन्धमादनपर्वतस्तदग्रे केतुमालनामकमेकमेव वर्षम्। एतेषां मध्य इलावृतं नाम वर्षन्। स एष नववर्षात्मको जम्बूद्वीप इति भा- ष्यते य एष क्षारोदधिना वलयाकृतः। तदुपरि प्रक्षद्वीपो यत्र शिव-यवयस-सुभद्र-शान्त-क्षेमा-Sमृ- वा-Sभयनामानि सप्त वर्षाणि। सप्त चतत्र शैला माणेकूट-वज्रकूटे- न्द्रसेन-ज्योतिष्मत्-सुपर्ण-हिरण्यष्ठीव-मेघला इते।सच प्रक्षःस्व- समानेनेश्षुरसोदेनावृतः । तस्य च शाकद्वीप इति नामान्तरम् । ततः शाल्मलो द्वीपो यस्य कुशद्वीप इति नामान्तरम्। यत्र सुरोचन-सौम-
र्षाणि सप्त। सप्त च गिरय: स्वरस-शतगुङ्ग-वामदेव-कुन्द-मुकुन्द पु- ष्पवर्ष सहस्रश्रुतय इति। सच सरोदेन वलयीकृतः।तदुपरिक्रौञचद्वी- पो यं कुशद्वीप इत्यपि वदन्ति। यत्र सुव-सुदान-दृढरुचि-नाभिगुप्त स्तुत्यव्रत-विविक्त-वामदेवसञज्ञकानि सप्त वर्षोणि । सप्त चा-
शति। एष घृतसमुद्रेण वेष्टितः । तदुपरि शाल्मलद्वीपो यस्य क्रौ ऋचद्वाप इत्यपि नामान्तरम्। यत्र क्ौञ्चो नाम पर्वतराजः । सप्त व्र वर्षाणि. आम-मधुरुह-मेधपृष्ठ-सुधाम-भ्राजिष्ठ-लोहितार्ण-वन- स्पतिनामानि। सप्त च शिलोक्या: शुक्क- वर्धमान-भोजनो-पबार्े- ्ं-नम्द-नन्दन-सर्वतोभ्रद्रा इति। एष दधिमण्डोदधिना समावृतः। तदभे गोमेधद्वीपो ये केपि शाकद्वीप इत्यपि वदन्ति। यत्र शाकोनाम महीरुहः स्वक्षेत्रव्यपदेशकः । यस्मिँश्च पुरोजव
र्षाि सप्त। सप्त चात्र नगा ईशानो-रुशुज़चलभद्र-रतकेस- र-सहत्रस्त्रोत-देवपाल-महानसा इते। एष क्षीरसागरसमावृतः। तदुपारि पुष्करद्वीपो यत्रैक एवाचलो मानसोच्तरनामा। अर्वाचीन- पराचीननाम्नी द्वे वर्षे। यत्र चतस्षु दिश् चत्वारि पुराणि लोक,
Digitized by Google
Page 51
४४ . अद्वैत चन्द्रिका। पालानामिन्द्रादीनाम्। एष स्वादुनीराधेसमलङ्गतः। तदुर्पारे लोका- लोकनामा पर्वतराजः । तदग्रे काञ्चनमयी भूमि: ।अल्पमिदमुक्तमुद्दा- हरणमात्रमू। न खलु तर्कभूमिर्भगवतः साष्टेः। सर्वमेतन्मायाविल- सितं मायायां गगने खद्योत इवाभाति, सा मायापि भगवत तथैव । संप्रति प्रकृतमनुसरणीयम्-अन्नमयप्राणमयमनोमय विज्ञानम- यानन्दमयाः पञ्चकोशास्तत्र पञचीकृतभूतोत्थं स्थूलशरीरमन्नम- यकोशः, पञ्च कर्मोन्द्रेयैः सह पञ्च प्राणाः प्राणमयकोशः,पञचजाने- न्द्रियैः साकं मनो मनोमयकोशः, पञ्च शानेन्द्रियैः सार्ध बुद्धिर्वि- ज्ञानमयकोशः, कारणशरीरे मोदप्रमोदानन्दाख्यैःवृत्तिभि: सम यन्म- लिनसत्त्वं तदेवानन्दमयकोशः । तदुक्तम् । 'देहादभ्यन्तरं प्राणः प्राणादभ्यन्तरं मनः । ततः कर्त्ता ततो भोक्ता गुहा सेयं परंपरा॥ अन्नं प्राणो मनो बुद्धिरानन्दश्चेत पञ्च ते। काशास्तरावृतः स्वात्मा विस्मृत्या संसृति वजेत्॥ स्यात्पञचीकृतभूतोत्थो देहः स्थूलोन्नसञ्जकः । लिङ्गेतु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह। सात्विकैर्धीन्द्रियैः साकं विमर्शात्मा मनामयः। तैरव साकं विज्ञानमयो धीर्निश्चयात्मिका॥ कारणे सत्त्वमानन्दमयो मोदादिवृत्तििः ॥ इति ॥ सत्त्वपदं मलिनसत्वपरत्वेन व्याख्यातम्। इष्टदर्शनजा सुखा -: कारा वृत्तिर्मोदवृत्तिः, इष्टलाभजन्यासुखवृत्ति: प्रमादवृत्तिः, इष्टभो- गजन्यं सुखमानन्दवृत्तिरुच्यते। त्रिविधं शरीरम्-स्थूलशरार सूक्ष्म- शरीरं कारणशरीरं च । अविद्यैव कारणशरीरमिति व्यपादेश्यते। त्रिविधाश्च ज्वरा :- स्थूलशरीरे वातपत्तादिजन्याः, सूक्ष्मे कामक्रोधा- द्य:, कारणाशरीरेऽज्ञानादिसंस्कारा एव ज्वरा:। आकाशस्य शब्द एव गुण:, वायो: शब्दस्पर्शौ, तेजस: शब्दस्पर्श- रूपाणि, जलस्य शब्दस्पर्ररूपरसाः, पृथिव्या:शब्दस्पर्शरूपरसगन्धा इते विशेषगुणविवेकः। न च पञ्चीकरणप्रक्रियास्वीकारादाकाशा- दावपि स्पर्शादिगुणोपलम्भ: स्यादिति वाच्यमू. शब्दस्पर्शादितन्मा-
Digitized by Google
Page 52
अद्वैत चन्द्रिका। ४५
त्राणां पूर्वपूर्वतन्मात्रगुणानभभावकतवेप्यु त्तरोत्तरतन्मान्रगुणाभिभाव- कत्वादिति नियमेनाकाशे शब्दतन्मात्राया आधिक्यात्तयाSभिभूत- त्वात् स्पर्शादिगुणानां नोपलम्भ: । वायौ तु यद्यपि शब्दतन्मात्राभा- गोस्त्येव तथापपि तदपेक्षया स्पर्शतन्मात्राया अधिकतरत्वान्न शब्दत- न्मात्रया स्पर्शस्याभिभवः। स्पर्शतन्मात्रायाः शब्दगुणानभिर्भावकत्वा द्वायौ शब्दगुणोपलम्भोस््येव। स्पर्शतन्मात्रया च रूपादीनामाभेभवा-
तत्र शब्द: श्रोत्रग्राह्यः.। स्पर्शस्त्वग्ग्राह्यः स च त्रिविधः शीतो ष्णानुष्णाशीतभेदै स्तन्र शोतो जले, उष्णस्तेजति, अनुष्णाशीतो वायु पृथिव्योः। चक्षुग्राहं रूपं तच्च शुक्कनीलपीतरक्तहरितकपिशचि त्रभेदैःसप्तविधम्। तत्र भास्वरशुक्कं तेजसि,अभास्वरशुक्कं जले,पृथि- व्यां तु सप्तविधमेव। रसस्तु रसना ग्राह्यः स च मधुराम्ललवण कटुकपायतिक्तमेदैः षड्रावेधम। पृथिवीजलयोरेव रसः । घ्राण- प्राह्मो गन्धः स तु द्विविध: सुराभरसुरिश्च। वाकूपाणिपादपायूपस्थानां कर्मेन्द्रियाणां तु यथाक्रममुक्तया- दानगमनविसर्गानन्दा: पञ्च विषया: क्रियाप्रधानाः । तानि चेन्द्रि- याणि मुखादिगोलकेष्वासते। मनस्त्वन्तःकरणं दशानामेवेन्द्रियाणा- मध्यक्षं हत्पभ्स्थितमिन्द्रियार्पितावेषयाणां गुणदोषविचारकम् । तस्य त्रिविधा वृत्तिर्गुणविशेषप्राधान्येन तथा हि-सत्ववृत्तौ वैराग्य- क्षान्त्यौदार्यादयों भवन्ति रजोवृत्तौ कामकोधलोभादयस्तमोवृत्ता- वालस्यभ्रान्तितन्द्राद्याः।
वृत्तयस्तु स्वविषयमात्रावभासिका एव वृत्यवमासकस्तु चिदाभासस्तस्याप्यवभासकं ब्रह्मचैतन्यम्। अयमभिप्रायः-घटेन नेत्रसंयोगे जातेन्तःकरणस्य घटाकारा वृत्तिर्भवति तस्या: प्रकाश- ख्विदाभासेन तस्यापि प्रकाशो ब्रह्मचैतन्येनेति । तासां वृत्तीनां सु- षुप्तिमूर्च्छासमाधिप्रलयमोक्षेषु विलयो भवति । पुनरपि द्विविधा वृत्िरन्तर्मुखा बहिर्मुखा चं। तदुक्तम्। 'अन्तर्मुखाहमित्येषा वृत्तिः कर्त्तारमुल्लिखेत्। बहिर्मुखेद मित्येषा बाहां वस्त्विदमुल्लिखेत्।।
Digitized by Google
Page 53
इदमो ये विशेषा: स्युर्गन्धरूपरसादयः। असाङ्कर्येण तान भिन्धाद् घ्राणादीन्द्रियपञ्चकम्' ॥ इति ॥ पुनरपे द्विविधा वृत्तयो ज्ञानवृत्तयोऽज्ञानवृत्तयश्च आप्रत्का- लिका ज्ञानवृत्तय: सुषुप्तिकालिका अज्ञानवृत्तयः। तटुक्तम्- 'अज्ञानवृत्तयः सूक्ष्मा: विस्पष्टा बुद्धिवृत्तयः। इति वेदान्तासद्धान्तपारगा: प्रवदन्ति हि॥ अन्तर्मुखो य आनन्दमयो ब्रह्मसुखं तदा। (निद्रायाम्)
विज्ञानमय एव सुषुप्ता बुद्धिवृत्तिविराहेत आनन्दमय इत्युच्यते। स एव सुषुप्तौ भोक्ता भोग्यं च ब्रह्मसुखम्। तटुक्तम्- 'आनन्द्मयभोक्तृत्वं ब्रह्मानन्दे च भोग्यता'। इति। चतुर्विधं वस्तु - शेषी शेष उपक्ष्यं द्वेष्यं च तत्र शेष्यात्मा शेषो देहधनादिरुपेक्ष्यं मार्गतृणादिकमनीप्सितमिति यावत्। द्वेष्यं व्याघसर्पादिकं प्रतिकूलमिति यावत्। एतत्सर्वे वस्तु जातं जगद् ब्रह्मण्येव स्थितं तदुक्तम्- फलपत्लतापुष्पशाखावविटपमूलवान्। ननु बीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम्।। कक चित् काश्चित् कदा चिच्च तस्मादुद्य्ति शक्तयः॥ देशकालविचित्रत्वात् क्ष्मातलादिव शक्तयः' ॥ इति॥ अनिर्वचनीयं चैतद् जगत्तदुक्तम्- 'स घटो न मृदोभिन्नो वियोगे सत्यनीक्षणात्। नाप्यभिन्नः पुरा पिण्डदशायामनवेक्षणात् । अतोSनिर्वचनीयोयं शक्तिवत्तेन शक्तिजः। अव्यक्तत्वे शक्तिरुक्ता व्यक्तत्वे घटनामभृंत' । इसति॥ जगन्निर्माणानुकूला ब्रह्मस्था शक्तिर्मायैव सैव नामरूपतां प्राप्ता प्रपञ्च इत्युच्यते तटुक्तम्- 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकमू। आद्यं त्रयं ब्रह्मरूपं जगदूरूपं ततो दयम्'॥ इति।
Digitized by Google
Page 54
अद्वैतचन्द्रिका।
सर्वे चैतजजगन्मिथ्या ब्रह्मज्ञानेन बाध्यत्वात् तदुक्तम्- 'एवं मायामयत्वेन विकारस्यानृतात्मतामू। विकाराधारमृद्वस्तुसत्यत्वं चाब्रवीच्छुतिः॥ इयं संसाररचना विचारोज्झितचेतसामू।
यथा बालकं प्रत्युच्यमानाख्यायिका मिथ्याप्यबस्थिरति सत्त्वा- कारतां प्रयात्येवमियं संसाररचना मिथ्यापि विचारहीनमनसां इष्टया सत्यतामाप्नोति वस्तुतो मिथ्यैव, तथैव श्रूयते-'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति। सर्वे चैततू कालत्रयेपि दुःखद्मेव मात्रयापि परमार्थसुखतां नानुवर्तते तटुक्तम्- 'अलभ्यमानस्तनयः पितरौ क्रेशयेश्चिरम्। लब्घोि गर्भपातेन प्रसवेन च बाधते॥। जातस्य ग्रहरोगादि: कुमारस्य च मूर्खता। उपनीतेप्य Sाविध्यत्वमनुद्धाहइ्च पण्डिते॥ यूनश्च परदारादि दारिद्यूं च कुटुम्बिनः । पित्रार्दुःखस्य नास्त्यन्तोऽघनी चेन्म्रियते तदा'॥ इति। एवं सर्वेष्वेव विषयेषूह्यम्। एतदालोच्यैवोक्तं भगवता पतख्जलि-
विवेकिन:' इति। तस्मात्- दशकण्ठावेमर्दनपादमये भवतापनिवारणमुक्तिकृतम्। भज भक्तिनिबद्धहदा सततं शृणु मे कथनं निगमादिमतम्॥१॥ मतमतान्तरपक्षानेराग्रहं लघुगुरु स्वपरौ हृदि संश्रयन्। जपतु नाम हरेरनिशं ततो यत इतो नहि शुक्कतरा सृतिः॥२॥ इति निवेदते।
। इति ॥
पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीता अद्ैतचन्द्रिका समाप्ा॥
Digitized by Google
Page 55
Digitized by Google
Page 56
।।श्रीः ।। ॥ शिवाष्टपदी ॥
भज विषमविलोचनवेशम्। चन्द्रकिरणसमशुभ्रसुदर्शनशैलनितम्बनिषेशम्। ु। निटिलविलोचन लोचनतः कृतभस्मशरीर रतीशम्। हिमनिधिसानुसमाधिसमश्चितचऋरधरं धरणीशम्॥१॥ यामवतीपतिपूर्वकलापरिकलितविशालललाटम्। हैमवतीपरिरम्भपवित्रितचित्रितवत्सकपाटम् ॥२॥ व्यालवलयकमनीयकरम्बितभूषितहस्तसरोजम्। शैलसुतावदनेन्दुविलोचनचञ्चलहृदयमनोजम् ॥ ३॥ विष्णुपदीपरिभोगपरिष्कृततुङ्गकपर्दकतल्पम्। गानकलाकुतुकेन नवीकृत ताण्डवकल्पमनल्पनम्।।४।। भक्तजननमरणादिमहास्त्रवमोचनकौशलवेषम्। त्रिभुवनमण्डलमण्डनपण्डितवन्दितपादविशेषम् ५ विष्णुमतीयतृतीयविचक्षणवल्लभवादनिदानम्। चाटु कथाचातुय्यनिकृन्तित गिरिजामानसमानम्॥६॥ संहृत सागर मथनविनिस्मृतदारुणदारदशोकम्। मन्मथविशिखभुजङ्गविषाहतिसंहतिसमवितलोकम्७ गीतमिदं हरहर्षकर किल मुद्यतु पुररिपुदासम्। अष्टपदीनिपुणाय पिनाकी वितरतु निजपद्वासम्॥८।।
पञ्चनदीयपण्डितसुदर्शनाचार्य्यः।
Digitized by Google
Page 57
॥ श्री: ॥। अद्वैतचन्द्रिकायाः शुद्धिपत्रम्।
पृ० पं० अशुद्म्। शुद्धम्। पृ० पं० अशुद्म्। शुद्धम्। २ २१ करवं कत्वं ४४ १४ संसृति संसृरति ११ २९ सुत्र सूत्र ४४ २५ कारणा कारण १३ ७ पार्थिय पार्थिव ४५ ६ द्वायौ दायो २२ २६ मान मानस ४५ १२ व्या दयॉँ व्यां ३२ २२ योगता योग्यता दयो । अन्यद्रक्ष्यमाणमुद्रणाशुद्धिषु क्षमैवाभ्यर्थ्यते॥ इति।
स्वनिर्मितमुद्रितपुस्तकानां सूचनिका। मूल्य म् पुस्तकनाम श्रीआल्वार चरितामृत पुस्तकपाप्तिस्थानम् 1) ।। स्त्रीचर्या वेंकटेश्वर प्रेस मुंबई। श्रीरङ्गदेशिकशतकमू संस्कृतभाषा पंंडितसुदशनाचार्य प्रह्माघाट विशिष्टाद्वैताघिकरणमाला बनारस सिटी एषा अद्वैतचन्द्रिका हरिदासगुप्त चौखंभासंस्कृत- पुस्तकालय बनारस सिटी
Page 58
Digitized by Google
Page 59
पुस्तकप्राप्िस्थानम्- पञ्नदीयपण्डितसुदर्शनाचार्य: ब्रह्माघाट बनारस (सिटी)
Digitized by Google
Page 60
3 2044 050 495 134
Digitized by Google
Page 61
Digitized by