1. Advaita Siddhi Ananta Krishna Sastri NSP
Page 4
ADVAITASIDDHI
OF
MADHUSÛDANASARASVATI
WITH THE COMMENTARIES
Gaudabrahmânandî, Vitthales'opâdhyâyi, Siddhivyâkhyâ of Balabhadra, and a critical summary called Chaturgranthi by Ananta Krishna S'astrî.
EDITED BY
PANDIT VEDANTAVIS'ARADA
N. S. ANANTA KRISHNA S'ASTRI, PRINCIPAL SANSKRIT COLLEGE, KULLADAKURICHI, TINNEVELLY.
PUBLISHED
BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF THE "NIRNAYA-SAGAR" PRESS,
Bombay.
Price 10 Rupees.
Page 5
[ All rights reserved by the publisher. ]
PUBLISHER :- Tukaram Javaji, "Nirnaya-sagar " Press, PRINTER :- Ramchandra Yesu Shedge, No. 23, Kolbhat Lane, Bombay.
Page 6
श्रीमत्परमहंसमधुसूदनसरसतीप्रणीता
अद्वैतसिद्धिः।
बलभद्रप्रणीतसिद्धिव्याख्या-अनन्तकृष्णशास्त्रि-
लघुचन्द्रिकासंग्रहात्मकचतुर्ग्रन्थ्यो- पस्कृता च।
कल्याणपुरी (कलटैकुरुचि ) संस्कृतकलाशालाध्यक्षेण-मद्रपुरसंस्कृतकलाशालातोऽधिगत- वेदान्तविशारदबिरुदेन नूरणिग्रामाभिजन-विद्दरसुब्रह्मण्यात्मजेन
अनन्तकृष्णशास्त्रिणा
टिप्पणादिभिरुपस्कृता।
इयंच
मुम्बय्याम्
तुकाराम जावजीश्रेष्ठिभिः
सवीये निर्णयसागराख्यमुद्रणयन्र्रालये सवायसाक्षरैः संमुद्य प्राकाश्यं नीता।
शाक: १८३९, सन १९१७,
मूल्यं दश १० रूप्यकाः ।
Page 8
श्रीः।
भूमिका-
श्रीगुरुभ्यो नमः। निश्चप्रचमिदं विपश्चिदपश्चिमानां यद्धर्मार्थकाममोक्षेपु चतुर्विधेषु पुरुषार्थेषु मोक्ष एवात्यन्तिकः पुरुषार्थः। तत्संप- तिक्व श्रवणमनननिदिध्यासनाधीनात्मसाक्षात्कारायत्ता न खोत्पत्ती सहकारितयापि कर्मादीनपेक्षत इति। अत्र केचित् प्रत्यवतिष्टन्ते-सिद्धरूपब्रह्मसाक्षात्कारे शब्दश्रवणरूपो विचारो न कारणम्। विनापि श्रवणं अहं सुखमनुभवामीति हि प्रत्ययः सवानुभवपथमध्यास्ते। सत्यपि श्रवणे नात्मसाक्षात्कारोऽखिलबन्धनिवृत्तिसाधनं कस्यापि भवति। तदुक्तम्-'मननादिप्रतीत्या च कार्यार्थाट्र्ह्मनिश्रयः' इति। एतेन-'निधृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षित' इति वचनमपि-पराहतम्; नहि कर्तृत्वादिकं प्रपश्वजातं मिथ्या भवितुं स्थाने भवति। यथाच कर्तृत्वादिकं नान्तःक- रणधर्मः किंतु जीवधर्मः, तथा यथाच तक्षोभयथाधिकरणे शङ्करभगवत्पादीये भाष्ये व्यक्त्तमिति जीवब्रह्मामेदोऽपि पराहतः । अहमनुभवगोचरो हि जीवः। सच नान्तःकरणशबलितः। तच्छावल्यं हि आत्मान्तःकरणविवेकाप्रहायत्तम् न मम मन इत्यादिविवेकशालिनां संभवति। प्रत्यक्षमेवोपजीव्यत्ादागमात्प्रबलमिति अहंकरोमीत्यादिकं प्रत्ययजातं गोणमेव मन्तव्यमिति असङ्गोऽह्ययमित्यादिश्रुत्यनुसारेणापि नाकत्रात्मस्वरूपसिद्धिः। व्यावहारिकत्वपारमार्थिकत्वादिव्यव- स्थाया अद्वैतपरिभाषामान्रसाध्याया अनादरणीयत्वेनागमेन पारमार्थिकत्वांशबाधनेऽपि उपजीव्याविरोधशक्कादिकमपि नात्र प्रसरति ॥ एतेन-सावकाशनिरवकाशन्यायेनापि प्रत्यक्षप्रावत्यमिति-सूचितम्; यथाचात्रोपक्रमोपसंहारन्या- योऽप्यनुकूलस्थाऽन्यत्र विस्तरः ।
अयमाशय :- अन्तःकरणचैतन्ययोर्हि न परस्परतादात्म्याध्यासः। तत्रहि तादात्म्याध्यासो यत्र विवेकाग्रहः यथा- शुक्किरजतयोः । अत्रतु न विवेकाग्रहः, अहंशब्दोलिखितप्रत्ययविपयतवाजीवस्य, इदंशब्दोलिखित प्रत्ययविषयताच्चान्तःकर- णादेः। यदितु कालान्तरीयभेदग्रहः कालान्तरीयभ्रमज्ञाने न प्रतिबन्धकः, अहंप्रत्ययाव्यवहितपूर्वक्षणे च भेदग्रहो नास्तीति तादात्म्याध्यास उपपन्न इत्युच्यत, तदापि परस्परतादात्म्यप्रतीत्ययोग्यतान्न तादात्म्याध्यासः । यथा तिमिरालोकयो- रिति मन्तव्यम् । अथोच्यते-परस्परतादात्म्यप्रतीत्ययोग्ययोरपि शुक्तिरजतयोर्यथा तादात्म्याध्यासः, तथात्रापि स्यादिति, मैवं संभ- वति; शुक्तित्वेन रजतत्वेन च तादात्म्याध्यासायोग्यत्वेऽपि इदन्त्वेन रजतत्वेन तादात्म्यप्रतीतियोग्यत्वात्तत्र तादात्म्या- ध्यास इति युक्कम् नेवमत्र; उभयोरपि विशेषरूपेणैवाध्यासस्यात्राभिमतलात्। एवंच-अहंकर्तेत्यादिप्रत्यये अध्यासल- क्षणमपि न संभवतीति-सुचितम्; तल्लक्षणंहि स्मृतिरूपः परत्र पूर्वदृट्टावभासः। तत्रहि स्मृतिरूपपदेन स्मृत्यात्मकत्व- विवक्षायामसंभवः भ्रमस्यानुभवात्मकल्वात्। स्मृतिसदृशत्वं संस्कारजन्यत्वमिति विवक्षायां च संस्कारस्यानुभवाधीनत्वात्पू- र्वमप्यनुभवो निरूपणीयः । सच प्रमात्मको वा उत भ्रमात्मको वेति विचारणायां शुक्तिरजतस्थले प्रमात्मकानुभवजन्यसं- स्कारस्यैव कारणत्वदर्शनेनात्रापि तस्येव कारणतमन्गीकरणीयम्। तच् न संभवति; इदंरजतयोरिव पारमार्थिकयोश्वैतन्यान्तः- करणयोरनभ्युपगमात्। भ्रमानुभवजन्यसंस्कार कारणकत्ववादे तनवस्था स्यात् इति स्मृतिरूपत्वांशो न संभवति। यदितु भ्रमप्रमासावारणानुभवजन्यसंस्कारजन्यतमेव स्मृतिरूपपदेन विवक्ष्यते, पूर्वपूर्वसंस्काराधीनत्वं चोत्तरोत्तरस्य भ्रमस्याङ्गीकि यते, अनवस्थादोषोऽपि बीजाकुरन्यायेन नात्र किंचित्करः, भ्रमसंस्कारयोः कार्यकारणभावस्यान्वयव्यतिरेकसिद्धत्वादिति विभाव्यते, तर्हि परत्रांशसमन्वयो न संभवति। परत्रपदेन पूर्वदृष्टदेशान्यदेशविवक्षायां अहृङ्काराध्यासादावव्याप्तिः; तेषां पूर्वदृष्टसाक्षि देशावच्छेदेनैवाध्यासात्। सत्यसवरूपाघिष्ठानविवक्षायां च जडाधिष्ठान कात्माध्य। सेऽव्याप्तिः। एवं शङ्गपीति- मत्रमादौ खाप्नभ्रमादौ चाव्याप्तिः, तेषामपूर्वाणां पूर्वदृष्टत्वाभावात्। अन्यत्र दृष्टानामेव, खाप्निकादीनां खवप्ादाववसास इति कल्पनायां च तेषामिवान्तःकरणकर्तृतादीनामपि सत्यलमेव स्यादिति जीवब्रह्माभेदवादोऽसंभवदुक्तिकः। अिष्ठान- विषमसत्ताकारोप्यज्ञानत्वं तुन तल्वक्षणम्; सत्तामेदादिपरिभाषाया अद्वैतपरिभाषामात्रसिद्धलातू। अयमाशय :- अनिर्वचनीयमेव रजतादिकं भ्रमज्ञाने भासत इति वदता किमिदमनिर्वचनीयतमिति विवेचनीयम्। तत्र न तावत्सदसद्विलक्षणत्वं अनिर्वचनीयत्म्, सत्ासत्योरेकाभावेऽपरसत्वनियमेनोभयविलक्षणलस्यासंभवात्। असलप्रकारकप्र तीति विशेष्यतमेवासत्म्, नतु क्वचिदप्युपाधी सत्वेन प्रतीत्यनर्हतम्, ब्रह्मणोऽपि असत्प्रकारकप्रतीति-
Page 9
( ६ )
विशेष्यखापतेः। सत्तादात्म्यशून्यतमेवासत्वं, तथ ब्रह्मणि नास्ति ब्रह्म सदिति प्रतीत्या ब्रह्मणि सत्तादात्म्यस्य विद्यमान- त्वादिति नच वाच्यम्; परमते रूप्यस्यासद्रूपत्वेनाज्रीकृतस्यासत्वानापत्तेः, रूप्यं सदिति प्रतीतेः । प्रतीत्यनुसारेण हि सख्ा- सत्वयोरभ्युपगमः । नापि प्रतिपत्रोपाधी त्रैकालिकनिषेधप्रतियोगित्वं तत : द्वैतविशिष्टस्य व्रह्मणो मिथ्यात्वेनाधिष्ठानत्वासंभ- वेन प्रपश्चे तादृशस्यानिर्वचनीयत्वस्योपपादनासंभवात्। ज्ञाननिवर्त्यतमिथ्यात्वं तु न संभवदुक्तिकमपि; घटादावव्यासेः। एवंचा निर्वचनीयख्यात्य्गीकारायोगात्सामान्यलक्षणादिप्रत्यासत्यनद्गीकारेणापणस्थरूप्यस्यैव संसर्गाध्यासमात्रमित्यन्यथा- ख्यातिपक्षस्यापि तथालात्, रजतस्यान्तरत्वे अहं रजतमिति प्रतीत्यापत्त्यादिना आत्मख्यात्यसंभवाच्चासत्व्यातिपक्ष एव पर्यवसानमिति जीवव्रह्माभेदयादोऽसंभवदुक्तिकः-इति ॥ अत्रेदं तत्त्वम्-अप्रामाण्यज्ञानाद्यनास्कन्दितात्मसाक्षात्कारो हि न श्रवणादिकं विना संभवति। सत्यपि ध्रवणे प्रतिबन्धकविशेषेण तदनुत्पत्त्या हि नासाधनतवनिर्णयः संभवति; मण्यादिप्रतिवन्धकविशेषेण अग्निनापि दाहस्यानुत्पत्त्या अभेरपि दाहकारणत्वानुपपत्तेः। आत्मसाक्षात्कारस्य हि मोक्षसाधनत्वं अज्ञाननिवृत्तिद्वारकमेवेति समूलस्य वन्धजातस्य मिथ्यात्वमपि सूचितमेव। यथाच सदसद्विलक्षणत्वं, प्रतिपन्नोपाधी त्रैकालिकनिषेधप्रतियोगित्वं, ज्ञाननिवर्त्यत्वं, स्वात्यन्ताभावे एव प्रतीयमानत्वंसद्विविक्ततवादिकं च मिथ्यात्वंसुवचं उपपन्नंच तथाऽद्वतसिद्धो विस्तर इति नेह वितन्यते। एतेन-निवृत्तिरात्मेति वचनमपि-व्याख्यातम्: अह्मनुभवस्तु कदाचिच्छरीरं कदाचिदिन्द्रियं कदाचिन्मनश्व गोचरयन्नकरूपे आत्मनि प्रमाणमिति आगमेनैव आत्मतत्वविनिर्णयः। यथाचायमेवार्थः स्वासां उपनिपदां सर्वेषां ब्रह्म- सूत्राणां च गोचरः तथात्रावसरप्राप्त किंचिदिव लेखिनीं व्यापारयामः । तदत्र चतुरध्यायीविमर्शनं चतुस्सूत्रीभूमिकायां प्रतिज्ञातमपि विस्तरभयात् सर्वशास्त्रसंग्रहरूपायाः पत्तसूत्र्याः विमर्शनेनेव कृतप्रतिज्ञा वयमिति तत्रवेदानी प्रवतामहे। अथातो ब्रह्मजिज्ञासा ॥ १ ॥ आनन्दतीर्थीया हि-नाहमीश्वर इति ग्रत्यक्षेण विरुद्धधमीक्रान्तवहेतुकानुमानेन मिन्नोऽचिन्त इत्यादिश्रुल्या च जीवब्रह्मभेद एव वस्तु सन्, न तदभेदः, प्रत्यक्षप्रामाण्यस्य प्राथम्येनोपजीव्यत्वेन चागमापेक्षयापि प्राबल्यादिति निरूपयन्ति॥ अत्राद्वैतिनः प्रतिन्ुवते-नाहमीश्वर इतिहि प्रत्यक्ष न जीवेश्वरभेदविषयकम। तत्रहि न जीवसातिको भासते; स्थूलोऽहमित्यादिप्रत्ययवत्तस्य भ्रमलात्। स्थूलोऽहमिति प्रत्ययोऽपि कुणिरहं अहं गच्छामालादिरिव भ्रम एव। एतेन- अनुमानादिप्रमाणमपि भेदसाधकम्-निरस्तम्। भिन्नोऽिन्स इत्यादिका तु श्रुनिव्यावहारिकमेदपरा । परस्परापेक्षयो- रेवोपक्रमोपसंहारयोरुपक्रमस्य प्रावत्यम, नतु उपक्रमत्वंन, अपच्छेदन्यायविरोधापतेः, उपजीव्योपजीवकभावोऽपि उभ- योरप्यति देशत्वेनोपदेशत्वेन वा समबलत्वैनव प्रावत्यदवत्यप्रयोजकः, नलनुपदेशोपदेशत्वेडपीति प्रत्यक्षस्यानुपदेशस्य उपदेशरूपागमबाधकत्वं न संभवति। एवंचानुपदेशोपदेशयोः परस्परनिरपेक्षोपक्रमोपसंहारयोरिव चागमस्यैवात्र प्राव- ल्यमिति जीवत्रह्मक्यमेव शास्त्रतात्पर्यविषयः । यदप्यत्रानन्दतीर्थीयानामधिकरणशरीरं-ब्रह्म प्रत्यगर्धजीवः तदन्यद्वंति चिन्तायां उपक्रमोपसंहारादिमिः जीवव्रह्मामेदावगमात् तस्य च जीवसवरपस्यासंदिग्धतवादिना न विचारः क्तव्य इति पूर्वपक्षे, वृदन्तोऽस्मिन् गुणा इति श्रुतेः स्वरूपतो गुणतक्षापरिच्छिन्नत्वयोगेन प्रवर्तमानस्य ब्रह्मशव्दस्य जीवाविषयत्वेन "तद्विजिज्ञासम्वे"त्यस्यापि तदविष- यत्वाद्विचारः कर्तव्य एवेति राद्दान्त-इति॥ तत्रायं पूर्वपक्षो न समर्थयितुं शक्यः । तथाहि- 'आत्मा व्रह्मेत्यधीतः श्रुतिशिखरशतैर्निर्विशेषश्च सर्वैः किं तत्र स्वप्रकाश गुणलवरहिते वस्तु शास्त्रण चिन्त्यम्। इत्याक्षेपो गुरूणां नतिनुतिविषये स्वाप्रणाम्यत्ववाद: श्रुत्यन्तानां निरूप्यः स यदि जडमते केन शारुयः सन स्यात् ॥१॥ प्रामाण्यं सिद्धमेव ह्यकृतकवचसां त्वन्मते तर्कशास्त्रे शास्त्रस्याङ्गं यदस्य स्मरसि हरिकृतं ब्रह्मतर्कामिधानम्। तबेन्द्रज्येत नित्यस्फुरदगुणलव प्रत्यगात्मैदमथ्ये तंतनिर्वाहाय तेषां सगुणविषयता पूर्वपक्षेऽपि ते स्यात् ॥२॥ एवंच पूर्वपक्षिणा वेदान्तानां प्रामाण्यं न संरक्षणीयमिति शङ्कापि पराहता। परमतसिद्धोपकरमादिन्यायजालमवल- म्व्यापि पूर्वपक्षसमर्थनं न संभवति। तदुक्तम्-
Page 10
(७)
साक्षी जीव: सुखादीन्यनिशमनुभवन्सर्चमानाधिकस्ते तेषां तर्के त्वदिष्टे प्रबलविबलतासंविभागश्च सिद्धः। तस्यात्यन्तानुकूलश्रवणमपि तव प्राग्विचारातु साध्यम् श्रुत्यन्तानां क तस्यागुणविषयतया पूर्वपक्षस्य लाभः॥३॥ श्रुत्यन्तानामखण्डं विषय इति हि ते केन बोद्धव्यमेतत् न्यायैस्तादर्थ्यमेपां घटयदतिदृढ: शास्त्रमेकं न चेत्स्यात्। तञ्चेदङ्गीक्रियेत प्रतिहतविषयं प्रत्यगात्मैकनिष्ठं कस्यानारम्भसिड््यै स भवतु भवतः पूर्वपक्षप्रयासः।४॥ घाचस्पतिविवरणकारयोरपि मते आद्याधिकरणपूर्वपक्षव्याघात एवं स्यादिति तु न शंक्यम्। तदुक्तम्- सिद्धेSसिद्धे च सिद्धान्त्यभिमतविषये दृषणं चेत्क्रियेत न्यायापेक्षा न तस्योन्मिषति निजमतप्रत्रियार्थानुवादे। सिद्धान्त्यस्वीकृतेऽर्थे यदि तु विषयतापादनं पूर्वपक्षे कर्तव्यं तर्ह्युपायः कथमिव सुधिया तत्र नापेक्षणीयः॥५॥ यथा पूर्वमीमांसायां सिद्धान्तयनभिमतस्वर्गार्थतपूर्वपक्षेणाध्ययनविधिविचारः एवमत्रापीत्यपि न युक्तमित्याह- एवं वाक्यं विचार्य यदि भवति नयो वापि सर्वत्र तुल्यः
सर्वेपामेव नानाविधनयनिकरानेकतात्पर्यसीम्नां वेदान्तानां विमर्शाद्विषयविरचना त्वेकमीहेत शास्त्रम्॥६ ॥ तस्माद्विवरणवाचस्पतिसंमतवाधिकरणरचना युक्ता । अथातो ब्रह्मजिज्ञासा ॥ १॥ अत्रेऽत्थं विवरणसंमताSSधिकरणयोजना। प्रत्यगभिन्नव्रह्मविचारात्मकवेदान्तमीमांसा आरम्भणीया न वेति संशये विषयासंभवसंभवाभ्यां पूर्वपक्षसिद्धान्तों। उपजीव्यप्रत्यक्षसिद्धस्य क्तृल्ादेः सत्यत्वेन तद्विरुद्धाकर्तृतादिना समावेशयो- गेन प्रत्यग्न्र्ंक्यरूपविषयासंभवः। एतदभिप्रायेणैव तमःप्रकाशवट्विरुद्धखभावयोरित्युक्तमिति। प्रत्यक्षादेः तातिकलाप- रिहारेऽपि व्यावहारिकत्वानप हारेणोपजीव्यविरोधाभावेन आगमविरुद्धप्रत्यक्षादिसिद्धकतृत्वादिमिथ्यात्वेन विषयसंभव इति॥ तत्रेत्थं चन्द्रिकाकारा :- जीवव्रम्मैक्यरूप एव विपयः सूत्रे विवक्षित इत्यत्र मानाभावः। ब्रह्मज्ञानस्येष्यमाणत्वं हि मोक्षसाधनप्रसादहेतुतयैव वक्तव्यम्, नतु जीवगतकतृत्वाध्यासनिवर्तकतया; 'यस्य प्रसादात्परमार्तिरूपात् अस्मात्संसा- रान्मुच्यते नापरेणे'ल्यादिश्रुतिस्मृतिपुराणगतर्वचनैः प्रसादस्यव मोक्षसाधनत्वं नतु ब्रह्मज्ञानस्येत्यवगमात्। ज्ञानं तु प्रसा- दसाधनम्। एवंच कर्तृत्वाद्यध्यासनिरूपणं भाष्यकारकृतं न संगतम्। यदि तु सेवाया एव प्रसादहेतुत्वं नतु ज्ञानस्य, ज्ञानस्य प्रसादहेतुलपराणां वचनानां "यतितव्यं समत्वे च निर्वाणमपि चेच्छता" इति वचनानुसारेण समलज्ञानविषय- त्वेनाविरोधात्, एवंज्ञानमेव मोक्षसाधनम्, अन्यथा "तस्य तावदेव चिर"मिति श्रुतिविरोधापत्तेः इति विभाष्यते, एवमपि सेतुदर्शनादिव सत्यस्यापि ब्रह्मज्ञानानिवृत्तिसंभवात् न तननिरूपणं प्रयोजनवत्। अधिष्ठानाज्ञानकार्यस्य मिथ्याभूतस्थैवाधि- छ्ानसाक्षात्कारमान्रनिवर्त्यतमिति अविधेयज्ञानस्यव मिथ्याभूतबन्धनिवर्तकत्वमिति वोक्तनियमपरिष्करणेन सेतुदर्शनस्थ- लीयव्यभिचारपरिहारेऽपि प्रत्यक्षानुमानादिना मिध्याभेदविषयकरणेऽपि तात्कभेदाविषयीकरणात् तत्वमसीत्यादिभिः विशिष्टतालिकाभेदबोधने न किंचिदपि बाधकमिति कर्तृतादिबन्धमिथ्यातनिरूपणं अनवसरप्रस्तमेव । 'नेह नानास्ति किंचने'तिश्रुत्या विशिष्टमिथ्यालबोधनेन विशिष्टाभेदस्य व्यावहारिकस्य प्रातिभासिकस्य वा 'तत्वमसी'तिवाक्येन बोधनस्य समानसत्ताकयोरभेदाभेदयोविरोधेनाप्रामाण्यापत्त्या चासंभवेन चिन्मात्राभेदपरतमेव युक्कमिति तु न शङ्कनीयम्; तत्त्वं- पद्मुख्यार्थलानुपपत्तेः। चिन्मान्नख्वरूपे भेदाप्रसत्तयाऽमेदबोधनस्य वैयर्थ्या्च-इति वर्णयन्ति॥ तसु न समीचीनम्-'श्ाला देवं मुच्यते' इत्यादिश्रुतिमिर्ज्ञानस्यैव मोक्षसाधनलात्, तस्य च आविद्यकाध्यास- निवर्तकतयैव पुरुषार्थलात्, जीवत्वेश्वरत्वोपलक्षितभेद संशय विरोधिजीवत्वेश्वरत्वाद्युपस्थितिद्वारकतत्वंपदलक्षितचिन्मान्र- सवरूपैक्यबोधजनकत्वेन तत्त्वमसीत्यादिवाक्यसार्थक्याच्च। यथाच शक्यार्थत्वं न मुख्यार्थत्वं, किंतु तात्पर्यविषयार्थलम्, तथा अद्वैतसिध्धादौ व्यक्रमू-इति।
Page 11
(८)
वाचस्पतिसंमता तु सा यद्यपि प्रत्यगात्मन एव ब्रह्मत्वं; तथापि तस्याहंप्रत्ययविषयस्यासंदिग्धलात् तज्ज्ञानस्य अवि- दाऽनिवर्तकत्वान्च वेदान्तानां जपाद्यर्थतयवोपयोग इति पूर्वपक्षः, संभावितदोषस्य प्रत्यक्षस्य जीवसवरूपासमर्पकत्वेन वेदा- न्तवेद्यप्रत्यगात्मख्वरूपनिर्णयार्थो विचार आवश्यक एवेति राद्धान्त इति॥ यशु अत्र चन्द्रिकाकृतां दूषणम्-विषयप्रयोजनाधिकारिणां असंभवात् विचारशास्त्रं अनारम्भणीयमेव । तथाहि-प्रत्यक्षानवगतः शास्त्रमात्रवेद्य आत्मा कीदशः; शुद्ध इति चेतू, तस्य खप्रकाशस्य न खप्रकाशार्थ शास्त्रापेक्षा, प्रत्यक्षादिदशायामपि स भासत एव। यदि न भासते, तहि किं तत् स्रूपमेव न प्रकाशते, उत कश्विदंशः । द्वितीयेऽपि सोंश: कि शरीरभेदो वा, कर्तृत्वाद्यभावो वा, ब्रह्मात्माभेदो वा। तत्र नादः; तत्त्वतो गृह्यमाणे खप्रकाशेऽज्ञानतोऽभान- कल्पनासंभवात्, अन्यथा अज्ञानादिभानासंभवात्। न द्वितीयः; शरीरमेदादीनां सत्यत्वेऽद्वैतहान्यापत्तेः, मिथ्यात्वे च तत्त्वावेदकशास्त्रवेद्यलानुपपत्तेः । एवंच "यजमानः प्रस्तरः" इत्यादाविव प्रत्यक्षाविरोधेनार्थवर्णनमेव तत्त्वमस्यादिवा- क्यानां युक्तमिति अज्ञानतद्विषयत्वाद्यप्रसिद्धेन विषयप्रयोजनादिसिद्धि :- इति ॥ तदपि न संगतम्-अकर्तृत्वाद्युपस्थितिपूर्वकत्रह्मात्मैक्यज्ञानस्यैव जीवगताविद्यादिबन्धनिवर्तकत्वेनैव काम्यत्वेन, "ज्ञानेन लाहते तस्मिन् सर्वे ब्रह्ममयं भवेत्" इति वृहन्नारदीयवचनेनासंभावनादिदोषरहितज्ञानस्येव तन्निवर्तकल्वात्, अहंप्रत्ययस्य असंभावनादिदोषकलषितस्य वुद्धादिसाहित्यांशस्याधिकस्यापि तत्र विषयत्वेनाज्ञानानिवर्तकत्वात्, ताद- शज्ञानसिद्यर्थ विचारशास्त्रमारम्भणीयमेव। अघिष्टानज्ञानमात्रं हि नाजानविरोधीति खप्रकाशेऽप्यज्ञानं संभवति। यथाचाज्ञाने प्रमाणलक्षणादिसंभवः तथा अद्वैतसिद्धौ विस्तरेण प्रतिपादितमिति नेह वितन्यते। यथाच "यजमानः प्रस्तर" इत्यस्यान्यपरस्य प्रत्यक्षादनुसारेण अन्यथानयनेऽपि न वेदान्तानामन्यथानयनसंभवः, तथापि तत्रैव विवृतम्। तादृशं च अज्ञानं विवरणमते चतन्यविषयकं चैतन्याश्रितं च। अज्ञानाध्रयत्वेऽपि चैतन्यस्य नाइतप्रसङ्ग; उपाधेः प्रतिबिम्बपक्षपा- तितात्, सवशोपाधित्वाद्वेत्याद्यपि तत्रैव विस्तृतमुपलभ्यते। वाचस्पतिमिश्रमते तु जीवोऽज्ञानाश्रयः, चतन्यं तद्विषय इति विशेषः। सवथा च विषयप्रयोजनाधिकारिणां संभवात् विचारशास्त्रमारम्भणीयमेवेति सिद्धम्। इति ब्रह्मजिश्ञा- साधिकरणम् ॥
जन्माद्यस्य यत: ॥२।। अत्रानन्दतीर्थीया :- "जिज्ञासाकारणीभूतगुणपूर्तिप्रसिद्धये। जीवादिभेदकं विष्णोर्विश्वकर्तृतमुच्यते" इति संगति- मुक्ता "तद्विजिज्ञासखे"त्यन्न व्रह्मशब्दः किं जीवपरः उत विष्णुपरः इति संदिह ब्रह्मशब्दस्य जीवे रूढलात् जीवपर इति पूर्वपक्षय्य "यतो वेति" जगत्कारणत्वस्य जीवेऽनुपपत्त्या रूढेरपि बाधात् अदष्द्वारा कल्पकत्वेन वा जगत्कारणत्वे जातादिपदानां मुख्यार्थत्यागापत्तेश्व विष्णुपरः-इति राद्दान्तयन्ति॥ तत्र रघुनाथसूरय :- सामान्यधर्मज्ञानस्यैव जिज्ञासाकारणत्वेन गुणपू्तस्तदकारणल्,प्रसिद्वेस्तत्कारणत्वेऽपि तस्य गुरुमुखाद्यधीनाया विश्वकर्तृतानधीनलात्, गुणपूर्नेरेव जीवादिभेदकत्वोपपत्या विश्वकर्तृत्वोपपादनस्यानावश्यक- ताञ्च संगतिवर्णनमिदं न संगतम्। एतेन-पूर्वपक्षोऽपि न युक्त इति-सूचितम्; शरीरब्रह्मकत्वयोगेनैव ब्रह्मशब्दस्य जीवे प्रवृत्तिः, नतु रूढ्या; रूढ्यन्गीकारेण तस्यासंभवदुक्तिकलवात्। वस्तुतस्तु-ब्रह्मशब्दः प्रवृत्तिनिमित्तपाष्कल्यप्रयो- गबाहुल्याभ्यां ब्रह्मण्येव रूढः न जीवे। अतएव-"तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने" इत्यादिवचनसंगतिरिति पूर्वपक्षे न किमपि वीजमुपलभामहे। अन्यथा जावे रूढ्यनीकारे प्रमेयबलाबलापेक्षया प्रमाणबलाबलस्य दौर्बल्येन वृदृन्तो ह्यस्मिन् गुणा इति योगाश्रितवैदिकप्रसिद्धेरपि रूढ्याधरितलौकिकप्रसिद्धपेक्षया दुर्बलत्वेन सिद्धान्तानुत्थितेः । योगरूढत्वं तूभयत्रापि तुल्यम्; जीवेऽपि योगरूढ्याश्रयणात्। एतेन-ब्रह्मणि विद्वद्रूत्या जीवनिष्टाझ्षरूिबाधेन सिद्धा- न्तसमर्थनमपि-पराहतम्; किंचासंदिग्धस्य जीवस्य जिज्ञास्यसम्पंकब्रह्मशब्देन कथमपि न बोधः। तथाहि-अथ कुतो वा ब्राह्मणजातेः वेदस्य वा ब्रह्मशव्देन न अ्रहणम् रूडिसाम्यात्? "आत्मा वारे द्रष्टव्य" इति आत्मन एव जिज्ञा- स्मत्ावगमादिति चेतू, हन्त 'नारायणोऽसा परमो विचिन्त्य' इति विष्णोरेव जिज्ञास्यत्वावगमात् कुतो वा न जीवोऽपि परित्यज्यते ? यदि तद्वाक्यापर्यालोचनयोक्त्तपूर्वपक्षः, तर्हि "यत्प्रयन्त्यभिसंविशन्ति" इति वाक्यप्रतिपाद्यमोक्षदतप्राप्यल- योरसंभवात् पूर्वपक्षानुत्थानम्। एवं-"यतो वे"त्यादिश्रुत्युक्केन जगत्कारणत्वेन सिद्धान्ते रूढिबाधनमपि न युकम्; निरवकाशेनैकेनापि ब्रह्मशब्दनानेकजीवलिन्वभङ्नसंभवेन लन्मतेऽद्वैतवाक्यानामिव जगत्कारणलादीनामपि जीवे कथंचिद- न्यधानयनसंभवात्, इति वाचस्पत्यादिसंमतैवाधिकरणरचनात्र स्वीकरणीया। साचेत्थम्-यद्यावदनुभूयते तत्सर्वमशुद्धं विनाश्यं परिमितं च, नच तेनोपलब्धेन तद्विरुद्धं नित्यशुद्धबुद्धमुक्तखभावस ब्रह्मणः खरूपं लक्षयितुं शक्यम्। नहि कृतकत्वेन नित्यत्ानुमानसंभवः। एतेन-सत्यादिवाक्यमपि न ब्रह्मलक्षण-
Page 12
(९)
परमिति-सूचितम्; सरूपस्यालक्षणलात् इति पूर्वपक्षे-जगत्कारणत्वं ब्रह्मलक्षणम्। जगतोऽलक्षणत्वेऽपि तदुत्पत्तेः सवितृव्रज्याया देशान्तरप्राप्तेरिव हि लक्षणतसंभवः। कल्पितमपि जगत्कारणत्वं ब्रह्मण एवासाधारणो धमेः रजतमिय शुक्तिकाया इति नातिव्याप्यसंभवौ। सत्यादिवाक्यमपि स्वरूपलक्षणपरमेव; स्रूपस्यापि कल्पितत्वेन मेदेन लक्षणत- संभवात्। 'जन्माद्यस्य यत' इति यच्छब्दोपादानमुक्तलक्षणद्वयस्यापि गमकमिति सिद्धान्तः-इति ॥ अत्राहु: चन्द्रिकाकारा :- जिज्ञास्यस्ेतरव्यावृत्त्यर्थ जीवपरत्वापरत्वविचार एवात्र युक्तः। "चोदनालक्षणोऽर्थो धर्म" इति सूत्रस्येवास्य लक्षणपरत्वस्यैव युक्तत्वेऽपि अनित्यस्य जगतो नित्यव्रह्मलक्षणलासंभववर्णनं न युक्तम्; अनित्यस्यापि शब्दस्याकाशलक्षणत्वदर्शनात्, सिद्धान्ते मिथ्याभूतस्यैव जगत्कारणतादेः लक्षणतख्ीकाराच। तदुत्ते: स्वरूपलक्षणत्ाभावाभिप्रायत्वेनोपपत्तावपि जगदुत्पत्तः व्रह्माधर्मलान्न लक्षणतम्। एतेन-देशान्तरप्राप्तिरिव सवितृ- ब्रज्याया इति दृष्टान्तोऽपि-परास्तः। देशान्तरप्राप्तेः सवितृव्रज्याधमलाभावात्। अस्तुवा कारणतासंवन्धेन लक्ष्य- वृत्तित्वविवक्षयोक्त्तदोषवारणमपि, एवमपि जन्मादिशब्दार्थो जन्मस्थितिभक्गमिति भाष्यमसंगतमेव। एककारणत्वेनापीष्ट- सिद्धा समुदितकारणत्वविवक्षाया निष्प्रयोजनलात्। अखण्डेकस्वरूपलक्षकतयाSविद्यातनाशादाव तिव्याप्तिवारण र्थतया वा तत्सार्थक्येऽपि, जन्मस्थितिभज्गमोक्षदलबन्धदतज्ञानदलाज्ञानदलमोक्षप्राप्यलादिधर्माष्टकलक्षणतमेव युक्तम्। उक्तवाक्ये सर्वेषामनुपस्थानेऽपि चतुर्णा जन्मस्थितिभक्जमोक्षदलानामुपस्थानेन मोक्षदतमात्रपरित्यागे कारणाभावात्। "यत्प्रयन्ती- त्य"नेन पौनरुत्त्यपरिहारार्थ "अभिसंविशन्ति" इत्यनेन मोक्षदतविवक्षणस्यव युक्तलात्। प्रायपाठप्राप्तस्य यत्पदसम- भिव्याहारस्याभिसंविशन्तीत्यत्र परित्यागे निर्वीजत्वापत्त्या प्रयन्तिशव्दस्य प्रलयोन्मुखानि सन्तीतर्थकशत्रन्तलाहीका- रेण अभिसंविशन्तीत्यस्य पौनरुत्यशक्कानुदयेन मोक्षपरत्वेन तस्य मोक्षप्रतिपादकत्वऽपि मोक्षस्यापि लयविशपरूपतवेन च त्रितयलक्षणत्वयोगेऽपि सद्विलक्षणस्य जगतो भवन्मते उत्पत्त्यसंभवान्न जगदुत्पत्तिस्थितिकारणलानि लक्षणम्। सद्विलक्षणतस्यासद्विलक्षणत्स्य वानुत्पत्त्यप्रयोजकत्वेऽपि जगज्जन्मादिकारणत्वं तटस्थलक्षणं वा सरुपलक्षणं वेति विवंचनीयम्। यदि स्वरूपलक्षण, सिद्धान्तविरोधः, यदि तटस्थलक्षणम्, नहि किंनाम तटस्थलक्षणलम् लक्ष्यागतत्वं चत्, कारणतस्य ब्रह्मगतत्वेन तटस्थलक्षणतासंभवः । उपहितकंवलात्मना लक्ष्यामिन्रत्वं स्वरूपलक्षणत्वं, तदितरत् तटस्थलक्षणत्मिति परिष्कारेऽपि, अत्र लक्षणदयकथनं व्यर्थम्; सरपलक्षणघटकानन्तोपपादकतया तटस्थलक्षणस्य स्वरूपव्यवच्छेदकतया स्वरूपलक्षणस्य चोपयोगेऽपि सत्यादिवाक्यानां विशिष्टपराणां स्वरूपलक्षणलासंभवः। सत्यादि वाक्यानां विशिष्टपरत्वपरित्यागो हि वाधकवशेन स्यात्। वाधकं च न किमप्युपलभामहे। सद्विया हि उपक्रमपरामर्शो- पसंहार: सविशेषपरैव, न निर्विशेषपरा। तथाहि-उततमादेश इति हि शासनकर्तुः सविशेपस्यवोपकमः । एकविज्ञानेन सर्वविज्ञानवादोऽपि सविशेषपरत्वेपि प्रधानज्ञानादप्रधानानामपि ज्ञातप्रायलादुपपद्यते। 'सन्मूलाः साम्य सदायतना' इति मूलमूलिभावनिर्देशो नान्तरा सविशेषलमुपपद्यते। एतदमिप्रायेणैव "सदेव सोम्येदमग्र आसीदि"ति प्रपञ्वततवचनं, "तत्सत्यमि"ति वचनं च। तत्त्वमसीति तु विभक्तिलोपस्वाद्यादेशादिभिः वैयधिकरण्येन शरीरशरीरिभावाभिप्रायेण सामानाधिकरण्येनैव वा सविशेषवादानुगुणमपि नेतुं शक्यमेव। एतेन-"एकमेवाद्वितीयाम"ति वाक्यमपि- व्याख्यातं भवति; एकशब्देन मुख्यत्वस्यैव अद्वितीयपदेनासहायलस्य चव बोधनात् इति सर्वमनवद्यमिति अस्मदुक्त्त- पक्षोऽत्रादरणीय-इति। तदेतन्न संगतम्; सद्विद्यायाः सजातीय विजातीयखगतमेदरहित नितयशुद्धवुद्धोदासीनाखण्डचिन्मात्रपरताया एव युक्तलात्। यथचतत्तथानुपदमेव निर्णयसागराधिपतिभिः प्रकाशितायां सूत्रभाष्यभामतीकल्पतरुपारिमलात्मिकार्या पञ्- अ्रन्थ्यां समन्वयभाष्यगतसदेवेदमितिवाक्यशिरस्कायां टिप्पण्यामुपपादितमस्माभिरिति विस्तरभयादुपरमामः ॥ इति जन्माद्यधिकरणम् ॥ शास्त्रयोनित्वात्।। ३।। जगज्जन्मादिकारणतस्य ब्रह्मलक्षणस्य भानुमानिके, आगमिके वा, रुद्रादावतिव्याप्याक्षेपेण अनुमानस्यान्यत्न प्रमाण- स्यापि नावेद विदित्यादिश्रुत्या जगत्कारणतस्यानुमानिकत्वप्रतिक्षेपात् श्रुतिविरुद्धानां दुरागमानामप्रमाणलाच स्वतःप्रमाण- श्रुतिसमधिगतो नारायण एव जगत्कारणमिति सिद्धान्तेन चोक्ताधिकरणप्रवृत्तिरिति-आनन्दतीर्थीयाः। तन्न यद्यपि सांख्यपाशुपतादिदुरागमप्रामाण्यं स्मृत्यवकाशदोषाधिकरणेन व्युत्पाद्यमानं पुनरुक्तमिव प्रतिभाति; तथाप्यतिव्याप्तिनिरास कत्वेनास्यासंभवनिरासकत्वेन तस्य च प्रवृत्या न पौनरुतयम्। यद्वा-पाशुपतादिस्मृत्या पूर्वपल्े पाश्चरातर्यादिस्मृत्या सिद्धान्तः, तत्र तु स्मृत्यनुमानाभ्यां पूर्वपक्षे श्रुत्या सिद्धान्त इति। अथधा-तत्र शैवाद्यागमेन पूर्वपक्षे तदप्रामाण्येन राद्वान्तोऽत्रानुमानेन पूर्वपक्षे खतःप्रामाण्येन सिद्धान्त इति विवेक:। क्षित्यहुरादिकं सकर्तृकं, कार्यलात् अ. सि. 2
Page 13
(१०)
शिवो जगत्कर्ता, सर्वज्ञल्ादिति वा पूर्वपक्षिसंमतोऽनुमानप्रयोगः । 'च्षुरादि यथाऽशकं रसगन्धादिवस्तुषु। अनुमाऽपि तथाऽशक्ता धर्मव्रह्मादिवस्तुषु' सर्वथा तु अनुमानायोग्यतवदुरागमाप्रामाण्याभ्यां जगत्कारणतस्य श्रुतिसदागमादिविषये नारायण एव समन्वयो नान्यत्र शिवादाविति नातिव्याप्तिरिति तदीयं हृदयम्॥
तदेतन्न संगतम्। नहि कार्य सकर्तृकं कारयत्वादित्यनुमानेन विशिष्य रुद्रः कर्ततति सिद्धति, नावेदविदित्यादिश्रुत्या विष्णोः आनुमानिककारणत्वं यथा निषिध्यते, एवं "एको ह वै नारायण आसीत्र ब्रह्मा नेशान" इति "नारायणाद्रह्मा जायते" इति श्रुत्या रुद्रादेः सर्वजगत्कारणतमपि निषिध्यते इति न परिशेषानुमानस्याप्यवकाशः, श्रुतिमनादृत्य पूर्वपक्ष- करणे तुरुद्र एवेति न विशेषसिद्धिरिति घट्टकुट्यां प्रभातम्। पूर्वपक्ष्य संमतेन शास्त्रप्रामाण्येन सिद्धान्तकरणासंगतिस्तधिका। पतेन-शिवो जगत्कर्ता, सर्वज्ञल्ात् इत्यनुमानमपि-पराहतम्; आगमेन शिवस्येव कोशादिना बौद्धस्य, पातजलत- प्रादिना योगिनां च सर्वज्ञत्वेन व्यभिचारात्। वुद्धादीनामपि पक्षकुक्षिनिक्षिप्तत्वं तु आगमसाहाय्येन पूर्वपक्षयितुः तव न संभवति, नहि केनाप्यागमेन बुद्धः सर्वज्ञ इति सिद्यति। किंच विधिरुद्रादिपुरःसरसकलजगत्कारणतस्य रुद्रादावतिव्याप्तिः, उत कारणत्वमात्रस्य। नाद्य :; तस्य रुद्रादौं बाधितत्वेनातिव्याप्यनवसरात्, इमानि भूतानीति निर्देशात्प्रसिद्धसर्वंभूतका- रणत्वं विवक्षितमिति अतिव्याप्तिप्रसरसमर्थनं तुन संभवति; प्रसिद्धपदेन वर्तमानप्रत्यक्षघटादिमात्रविवक्षणे तत्कारणत- मात्रेण गुणपूर्त्यलाभात् "जिज्ञासाकारणीभूतगुणपूर्तिप्रसिद्धये। जीवादिमेदकं विष्णोर्विश्वकर्तृत्वमुच्यने" इति खप्रतिज्ञावि- रोधः । प्रसिद्धकतिपयकारणत्स्य जीवेऽपि संभवेन तदन्यथानुपपत्त्या जीवे ब्रह्मशब्दरूढिभङ्गसिद्धान्तविरोधः, एवंच विधिरुद्रादिपुरःसरसर्वजगत्कारणत्वविवक्षणस्यावश्यकलवात् न र्द्रेऽतिव्याप्तिप्रसभ्गः। अयममिप्रायः-"यतो वेति" वाक्ये यच्छब्दोपनिबन्धेनानुवादत्वेन पुरोवादापेक्षायां प्रत्यासत्या कारणवाक्यानि सर्वाण्येव पुरोवाद इत्याध्रयणीयमिति "इदं सर्वमसृजत" इत्यादिपर्यालोचनया सर्वजगत्कारणतमेव विवक्ष्यते इत्यज्नीकरणीयम्। एतदभिप्रायेणैव "इमानीति सर्वनाम्रश्च संकोचकाभावा"दित्यादि चन्द्रिकावाक्यप्रवृत्तिः। किंच व्रह्मशब्दार्थस्य गुणपूर्त्यादेश्ष निर्णायकतया जगत्का- णत्वस्य पूर्वाधिकरणे उक्तस्य कारणलस्य ब्रह्ममात्रवृत्तितायाः सिद्धलान् न तदन्यसाधारण्यशङ्टोन्मिपति। जगत्कारण- लस्यान्यगतत्वे ब्रह्मशब्दार्थ एव रुद्रो वा विष्णुर्वेति शक्का स्यादिति तदनिर्णयाक्षेप एवात्र विवक्षित इति तु न शङ्कनीयम्; 'तदेव ब्रह्म परमं कवीनाम्'। 'तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने' इत्यादिश्रुतिस्मृतिवचनः विप्ण्वेकनिप्ठरूठिज्ञानेने- वोक्ताक्षेपपरिहारसंभवेन जगत्कारणतस्ये तरसाधारण्येऽप्यविरोधात्। आकाशादिकारणादिष्वपि परोवरीयस्तादिभिरेव ब्रह्म- निर्णयः नतु जगत्कारणत्वेनेत्यदोषात्। किंच रुदस्य जीवकोठ्यन्तर्भावेन पूर्वपक्ष: १ उतेश्वरकोठ्यन्तर्भावेन आद्ये पूर्वाधिकरणेन कारणत्वपूर्णलाभ्यां जीवभेदे सिद्धे निश्चितजीवभेदकम्य कारणलस्य कर्थ जीवसाधारण्याशङ्का? अनुमाने- नेति चेत्, अस्तु साधारण्यं को विरोधः ? नच शास्त्रानारम्भः; रुद्रादिकारणत्स्यानुमानिकत्वेऽपि विष्णुकारणलस्यानानु- मानिकत्वेन शास्त्रारम्भसिद्धेः । न द्वितीयः; इश्वरानेकत्वस्याप्रसिद्धलात्, "एकमेव," "न ब्रह्मा नेशान" इत्यादिश्रुति- विरोधाच्च। यथा रुद्रेश्वरत्वे तस्य लक्ष्यत्मेव स्यात्तथा शंकरभगवत्पादभूषणे स्पषं प्रतिपादितमिति नेह वितन्यते ॥ किंच श्रुतिविरोधे अनुमानश्रुत्याद्यप्रामाण्येन स्मृत्या पूर्वपक्षकरणं असंगतमेव; श्रुतब्रह्मतर्काणां हि भवतां पूर्वमेव सकलशास्त्रश्र- वणस्य संप्राप्तल्वात् मननात्मकमेवेदं शास्त्रमित्यन्ञीकारेण न दुरागमप्रामाण्यशक्का संभवति। संभवन्त्याक्ष तस्याः अने- नाधिकरणेन निरासे स्मृत्यनवकाशदोषप्रसक्वाधिकरणवैफल्यम्। तत्र हि पाशुपतागमानां पाश्चरात्रविरुद्धानां अप्रामाण्यं व्य वस्थाप्यते। श्रुत्यात्राप्रामाण्यसमर्थनं, तत्र तु स्मृत्येति तु नापोनरुत्तयम्। अत्र स्मृतीनामपि भाष्ये उदाहरणेन तद- प्रामाण्य स्यापि अत्रैव विवक्षणात्। अन्यथा तद्वयथ्यापत्तेः। एतेन-आगमापेक्षयाऽनुमानाप्रामाण्यं एतदर्थः स्मृत्यप्रा- माण्यं तदर्थ इति वचनमपि-पराहतम्; श्रुतिविरुद्धानुमानप्रामाण्याशङ्ाया एवानुदयात्। अतिव्याप्तिवारकतया अस्य असंभवनिरसनेन तस्यत्यपि नापौनरुत्तयम्। प्रथमतोऽसंभवनिराकरणस्येवावसरप्राप्तत्वात्, तर्थव संप्रदायाच। शास्त्रयोनित्वात् इति सूत्रेण हि शास्त्रमेव योनिः यस्यंति व्युत्पतत्या प्रमाणान्तराविषयत्वसमर्थनेन शास्त्रमात्रगम्यत्वस्यैव विवक्षणेन प्रमाणान्तरविपयत्वपूर्वपक्षनिराकरणमेव अमिग्रेतम्, नतु साधारण्यनिराकरणमिति गण्डस्योपरि स्फोढसंपातः। सवथा च शंकरभगवत्पादसंमताधिकरणयोजनैवात्र समीचीना न आनन्दतीर्थसंमता इति सिद्धम्।
शंक रभगवत्पादसंमता हि सा इत्थम्-सर्वजगत्कारणत्वं ब्रह्मणो न संभवति; कर्तृत्वोपयोगिसर्वज्ञत्वाभावात्। तथाहि-ब्रह्म हि स्वरूपज्ञानम्, तस्य हि सर्वज्ञत्वं सर्वस्वभास्यतादात्म्यम्। न चसद् सृष्टेः प्राक् संभवति; अतीतानागता- दीनां तत्र तदानीं अकल्पितृत्वाप्ब। अनुमित्यादेरिव तु अतीतादिविषयकत्वं ब्रह्मणो न संभवति; परोक्षत्वापातात्। अतः प्रधानमेव जगदुपादानम्। महत्तत्वोपाधिको जीवस्तु कर्ता। तस्यैव तु योगर्द्विसंपादितसार्वश्यस्य वेदोपदेष्टत्वम्। अस्तुवा ब्रह्मैव कारणमिति; सर्वजगत्कारणं तु न संभवति; असर्वज्ञत्वात्, नच वेदकर्तृत्वेन सर्वश्ञत्वं; वेदस्य 'वाचा विरूपनित्यये'- तिश्ुत्या नित्यत्वेन तत्रेश्वरस्याकारणतवातू। अस्तुवा सोऽनित्य इति, एवमपि वेदकर्तृत्वं न इश्वरस्य सर्वशञत्वं साधयितुं पार-
Page 14
( ११ )
यति। वेदो हि निश्वसितश्रुत्या ईश्वरबुद्धिं विनैव तस्मादाविभवतीत्यवगम्यते, यो हि विनैव बुद्धिं यस्मान्निर्गतः कथ तत्कारण- त्वेन तस्य व्यवहार :? व्यवहारेवापि कथ सर्वतदर्थविज्ञानवान्भवति ? सर्वथा ब्रह्म न सर्वजगत्कारणम्, किंतु प्रधानादि- कमेवेति पूर्वपक्षः ॥ सिद्धान्तस्तु ब्रह्म सर्वजं, शास्त्रकारणलात्, यथाहि हिरण्यगभस्रष्टः महत्तत्वरूपहिरण्यगर्भोपाघिस्रषृत्वं सरूपज्ञानत्वेऽप्युपपद्यते परेषाम्, एवं सर्वजगत्कारणतमपि अस्मन्मते स्वरूपज्ञानत्वेऽप्युपपद्यते। विद्यमानसर्वविषयक- लमेव सर्वजत्वं नत्वतीतानागतादिविषयत्मपीति न परोक्षलाद्यापातः। तदिदं सर्वज्ञत्वं यद्यपि सकलजगत्कारणत्वर्णनेनैव सिद्धप्रायम्; तथापि सर्वज्ञवेदकारणत्वेन तद्दृढीकर्तु शास्त्रयोनित्वाद्यधिकरणम्। निश्वसितश्रुतिर्हि अनायाससाध्यत्वपरा न बुबोधयिषापूर्वकां तत्कृति प्रतिबभ्राति। एवं महतः अनेकविद्यास्थानोपवृंहितस्यर्ग्वेदादेः अनायासेन लीलान्यायेन यः स्षा स सर्वज्ञ इत्यत्र को वा विप्रतिपद्येत। तदयं निर्गलितः प्रयोग :- वेदः तदर्थाधिकविज्ञानवत्पुरुषप्रणीतः, वाक्यप्रमा- णल्ात्, यद्यद्वाक्य प्रमाणं तत्तत्तदर्थाधिकविज्ञानवत्पुरुषप्रणीतम्, यथा पाणिन्यादिप्रणीतं व्याकरणादिकमिति। अत्र चन्द्रिकाकारा :- लक्षणानन्तरमवश्यापेक्षितप्रमाणपरत्वसंभवेऽन्यपरलायोगः, युष्मदभिमताघिष्ठानलमात्रेण सार्वश्यालाभः, पूर्वसूत्रतोरऽर्थतो लब्धस्य सर्वशक्यादित्यागेन सावश्यस्यव स्फोरणे प्रयोजनाभावः, श्रुत्या शास्त्रयोनितस्य तेन सार्वश्यस्य च साधनेन प्रधानकारणतानिषेधापेक्षया श्रुत्यैव प्रधानकारणतानिषेध एव वरम्, जगन्निर्माणेन अस्फुटी- कृतस्य सावश्यस्य तदेकदेशशास्त्रनिर्माणेन स्फुटीकरणासंभवः, एकार्थमात्रज्ञप्रयुक्तानेकार्थकवाक्ये व्यभिचारात् वेद इत्यनु- मानायोगः, आधुनिकपुरुषपाणिगतवराटिकाज्ञानासिद्धिश्वेति नेदं परेपां अधिकरणशरीरं युक्तम्-इति वर्णयन्ति॥ तदेतदापातरमणीयम्; नहि लक्षणे असंभवदोषकलुपितत्वेन शक्यमाने प्रमाणाभिधानावसरः। वस्तुतस्तु- जन्मादिसूत्रेण प्रमाणस्यापि निरूपितलात् न प्रमाणाकाह्वोदयः। वयापि प्रमाणजिज्ञासया न सूत्रमवतारितम्, किंतु अतिव्याप्तिवारकतया। यथा जन्मादिसूत्रेण अधिष्ठानलमुक्तम्, एवं कतृत्मपीति भ्रमाधिष्ठानतमात्रेण सर्वजत्वासिद्धावपि कर्तृतवविशिष्टेन तेन तत्सिद्धिसंभवः । सर्वज्ञत्वटृढीकरणेन तदुपष्टम्भकश्रुतेः सर्वशक्तित्वेऽपि तात्पर्यादर्थात् सर्वशक्तिदृढीक- रणमपि संभवत्येव। वेदांशे 'वाचा विरूपनित्यया' इत्यादिश्रुतिविरोधपरिहारेण अनित्यत्व्यवस्थापनं यथाऽपेक्षितं नैवं लोकांशे इति 'शास्त्रयोनिलात्' इति सूत्रनिर्देशः। कारणतलक्षणेनापेक्षितं सर्वज्ञत्वं हेतुविशेषेण अत्र समर्थ्यत इत्येव विवक्षितं, नतु जगत्कारणत्वेन सिद्धस्य हेलन्तरेण पुनःसमर्थनमिति जगन्निर्माणत्याद्ययोगः। सविषयशव्देन च खप्रयोजकवुबोधयिषाविषय स्येव विवक्षणान्नैकार्थमात्राभिज्ञप्रयुक्तानेकार्थकवाक्ये व्यभिचार इति न "वेदः" इत्यनुमा- नायोगः। प्रमाणवाक्यत्वादित्यनेन शास्त्रत्वादिति विवक्षणे तु यो यच्छास्त्रकर्तति सामान्यव्याप्तेः न लौकिकवाक्ये व्यभिचारप्रसन्गोऽपि। प्रकृतेनानुमानेनेव आधुनिकपुरुषपाणिगतवराटिकाज्ञानमीश्वरस्य साध्यत इति न बाधावकाश इति सर्वमनवद्यम्। इति शास्त्रयोनित्वाधिकरणम्॥
तन्तु समन्वयात्॥ ४।। किं विष्णुरेव जगत्कारणं, उतान्योऽपि रुद्र इति संशये उपक्रमस्य प्रतिप्रहीतुरश्वप्रतिप्रहेष्टौ पाश्रात्योद्गात्रपच्छेदप्रायश्चित्ते उपसंहारस्य अभ्यासस्य प्रयाजादैक्ये व्यभिचारेणोपक्रमोपसंहाराभ्यासानां, स्मृतिसिद्धार्थप्रतिपादकश्रुतीनां नित्यविधी- नामफलानां निरुपपत्त्यर्थकार्थवादानां चाप्रामाण्यापत्त्याऽपूर्वफलोपपत्त्यर्थवादानां च तात्पर्यानिणायकत्वात् श्रुतिव्याख्या- नरूपाच्छवागमाद्गुद्रोऽपि कारणमिति पूर्वपक्षे-समुच्चितानामुपक्रमोपसंहारादीनां व्यभिचारादिपरिहारस्यान्यत्र स्पष्टत्वेन तात्पर्यनिर्णायकल्वादुपक्रमोपसंहारादिभिः विष्णुरेव जगत्कारणं नान्यो रुद्र इति सिद्धान्तः । पतेन-निर्विशेषचिन्मान्न- कारणतावादोऽपि-पराहतः इत्यानन्दतीर्थीयाः। तदेतदसंगतम्-शास्रयोनित्वाधिकरणेनैव श्रुतिविरुद्धशैवागमाद्यप्रामाण्यस्य तदनुसारेण रुद्रकारणतस्य प्रतिक्षे- पेण संशयपूर्वपक्षसिद्धान्तानां निर्दललात्। यथा निर्विशेषचिन्मात्रकारणतया तत्रैव सर्वेषामपि वेदान्तानां समन्वयस्त- थाऽनुप दमेव प्रकाशयिष्यत इत्याचार्यभगवत्पादीय संमतैवात्राधिकरणयोजना समीचीना। तथाहि-वेदान्ता अनधिगतप्रयोजनवदर्थप्रतिपादकत्वेन अनधिगताबाधितार्थबोधकत्वेन वा शुद्धब्रह्मणि प्रमाणं न वेति संशये ब्रह्मणोऽक्रियारूपत्वेन प्रवृत्तिनिवृत्त्यन्यतराविषयत्वेनाप्रयोजनत्वात् सिद्धस्य ब्रह्मणो मानान्तरविषयत्वावश्य कत्वेना- धिगतत्वेन चाप्रामाण्यमिति क्माक्षभूतकर्तृदेवतादिस्तावकत्वेनोपासनाविधिविषयसमर्पणेनैव प्रामाण्यान्न वेदान्ताः शुद्धे ब्रह्मणि प्रमाणमिति पूर्वपक्षे, शुद्धब्रह्मण: पुरुषार्थानुपयोगित्वेऽपि खतःपुरुषार्थलात्, नित्यप्राप्तस्यापि तस्याप्राप्तित्रान्तिनि- राकरणेन कण्ठगतचामीकरन्यायेन फलत्वसंभवात्, कार्यवस्तुविषयाणामपि लौकिकानां वाक्यानां सापेक्षतदर्शनेन, सिद्ध- वस्तुपराणामपि निरपेक्षतदर्शनेन च सापेक्षलनिरपेक्षतयोः सिद्धकार्यव स्तुविषय कत्व स्याप्रयोजकत्वेन सिद्धवस्तुविषय कत्वेऽप्य- विरोधाच वेदान्ताः शुद्धे ब्रह्मणि प्रमाणमेवेति राद्दान्तः। यथाच सद्विधाया अद्वितीये ब्रह्मण्येव पर्यवसानं तथा पूर्वमेवो-
Page 15
( १२ )
पपादितम्, एवं बृहदारण्यकचतुरध्याय्याः मुण्डकोपनिषदः इतरेषां चापि तत्रैव पर्यवसानं मेदपरतनिराकरणपूर्वकं अद्वैतसिध्धादाँ विस्तरेण प्रतिपादितमिति नेह वितन्यते।
अत्राहुश्चन्द्रिकाकारा :- पूर्वपक्षोयं निर्दल :; निष्प्रयोजनलशङ्का हि जिज्ञासाधिकरण एव परिहृता। पौरुषेयतमेव सापेक्षतप्रयोजकम्, नतु सिद्धविषयकत्वं, कार्यविषयकाणामपि सापेक्षतवदर्शनादिति। एवं सिद्धान्तोऽप्ययुक्त्त; निर्विशेषे चिन्मात्रे श्रुतिसमन्वयासंभवात्। असंदिग्धे च तस्मिन्संशयादिकमपि न संभवति। किंच-आद्यसूत्रेऽहमर्थे हि प्रसिद्धिरुपपादिता। जिज्ञासार्थ, द्वितीये हि जगजन्मादिहेतुता ।। अविद्यमानाहमर्थ लक्षणत्वेन कीर्तिता। ईश्वरस्य, तृतीये तु निर्विशेषप्रमाणता ॥ शास्त्रस्योक्ता, चतुर्थे च तस्मिन्नेव समन्वयः । प्रतिज्ञातोऽन्तरित्यादा सविशेपं तु कथ्यते।। ब्रह्मेति मायिनां पक्षः तत्र किं केन संगतम्। तत्ववि- द्वेपमात्रेण श्रुतिसूत्रे कदर्थिते॥
एतेन-कण्ठगतचामीकरन्यायेनात्मनः फलत्व्यपदेशोऽपि-परास्तः; दृष्टान्ते प्राप्तिज्ञानजन्यसुखस्यैव फलत्वेन वैषम्यात्, तत्तु समन्वयादिसूत्रस्वारस्यमप्यस्मन्मत एव; तच्छव्देन ब्रह्मण एव विवक्षणेनाध्यायसमाप्ति साध्यसमर्पकत- योपयोगात्-इति।
तदेतदविचाररमणीयम्। तथाहि-प्रथमसूत्रे हि एतदधिकरणसिद्ध एवार्थ उपोद्वातत्वेन प्रत्यक्षप्राबल्य निराक- रणेन विषयप्रयोजनसमर्धनार्थमनूदितः । नहि तावता एतदधिकरणवैयर्थ्यापादनसंभवः। अतएव हि युष्मन्मते शास्त्र- योनिलसमन्वयाभ्यां सिद्धं वेदप्रामाण्यं अतःशब्देन परामृष्टमपि शास्त्रयोनित्वसमन्वयाधिकरणयोः सार्थक्यम्। न्यस्मामिः कार्यपराणां असिद्धार्थपरलनियमोजजीकृतः, किंतु सिद्धवस्तुत्वावच्छेदेन प्रमाणान्तरविपयलनियम एवेति न पूर्वपक्षो निर्दलः । एतेन-सिद्धान्तोपि-व्याख्यातः; निर्विशेषेऽपि उपक्रमोपसंहारादिभिस्तात्पर्य निर्णयसंभवात्। यथाचतत्त- थान्यत्र विस्तरः। प्रथमसूत्रे जीवस्य पारमार्थिकं यद्रूप ब्रह्म तज्जिज्ञासां प्रस्तुत्य, तस्य जवरूपव्यावृत्तत्वेन जिज्ञास्य्त्वायौ- पाधिकं जगत्कारणललक्षणं द्वितीयेनाभिधाय, जगत्कारणलाद्युपलक्षितस्य शास्त्रकगम्यत्वं तृतीयसूत्रे समर्थ्य, चतुर्थेन तत्र सर्वेषां वेदान्तानां तात्पर्यमुपवर्ण्य, इक्षत्यधिकरणेनोक्तलक्षणातिव्याप्तिशङ्कानिरसनेन गतिसामान्यमुपक्षिप्योपक्षिप्तस्य त- स्य स्फुटीकरणं आनन्दमयाधिकरणमारभ्य क्रियते। अन्तराद्यधिकरणेपु च प्रसक्गात् प्रकृतव्रह्माध्रितान्युपासनानि विचार्यन्त इति अस्मन्मते सर्व संगतमेवेति असंगत्याद्युद्भावनं चन्द्रिकाकाराणां परमार्थार्द्वतात्मविदवेषमात्रेणवेत मन्तव्यम्। कण्ठचा- मीकरस्थले हि चामीकरः प्राप्त इत्यभियुक्तानामनुभवात् प्राप्तस्य प्राप्तिरेव विवक्षिता; नाप्राप्तस्य मुखस्य, कस्यापि सुखं प्राप्तमित्यननुभवात्। तन्तु समन्वयादिति सूत्रस्वारस्यं तु अस्मन्मत एव। ब्रह्मजिज्ञासेति प्रक्रमेणैव आध्यायसमापि ब्रह्मण: सर्वत्र विषयतासंभवन तदर्थ तत्पदनिवेशवैयर्थ्यात्। प्रकान्तार्थपरामशकेन तेन साध्यसमर्पणस्यव युक्क्त्वादिति सर्वमनवद्यम्। इति समन्वयाधिकरणम्॥
ईक्षतेर्नाशव्दम् ॥५॥ आद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावतकगुणपूर्ति, द्वितीये तत्सिद्धर्थ जगत्कारणतां, तृतीये तत्र शास्त्रप्रमाणतां चतुर्थे शास्त्रस्य अन्यपरतानिषेधेन विष्ण्वेकनिष्टतां वचनवृत्या सर्वशास्त्रतात्पर्यविषयतां चोपवर्ण्य समन्वयादिशव्दार्थस्य वाच्यतस्य का्त््यंस्य च निरूपणार्थमुक्ताधिकरणम्। अत्र ब्रह्मणि समन्वयोऽयुक्तो युक्क्तो वेति संशये न युक्त् इति पूर्वपक्षः। तथाहि-नहि व्रह्मणि सर्वेषां वेदान्तातां पर्यवसानम्; तस्य "यतो वाचो निवर्तन्त" इत्यादिना वाच्यत्वप्रतिक्षेपात्, "परात्परं पुरुपमीक्षते" इति श्रुतं ईक्षणीयत्वं तु निर्गुणस्यैव, नतु सगुणस्येति न तदन्यथोपपतत्या वाच्यत्वसिद्धिः। अस्तुवा शुद्धमेवेक्षणीयमिति, तथापि तल्लक्ष्यतर्यवोपपत्ता न वाच्यलसिद्धिः। यथाहि वाचकपदप्रयोगे किमस्य वाच्यमितिप्रश्ने वाचकं पदान्तरमेव प्रयुज्यते, एवं लक्षकपदप्रयोगे किमस्य लक्ष्यमिति प्रश्ने लक्षकं पदान्तरमेव प्रयोक्तुं शक्यत इति न दोषः । गङ्गापदादिप्रयोगे कि लक्ष्यमिति प्रश्ने तीर इत्यादिवाचकपदप्रयोगस्तु अप्रयोजक इति मन्तव्यम्-इति॥ सिद्धान्तस्तु- व्रह्म नावाच्यं ईक्षणविषयलात्। इंक्षणविषयत्वं हि ब्रह्मणि प्रत्यक्षादिना असंभवादुपनिषदैव वर्णनीयमिति तत्र लक्षणायां गङ्गापदलक्ष्ये गन्नाल्ाभाववत् अशब्दादिपद लक्ष्ये अशब्दलाभावेन सशब्दलमेव पर्यवस्येत्। आत्मशब्दादिभिस्तस्य ज्ेयत्वं हि अवश्यमन्गीकरणीयम् ! अन्यथा मोक्षासिद्धिप्रसद्गात्। नच लक्षणया ज्ञेयतवसंभवः। वाच्यसंबन्धितया ज्ञेयमेव हि लक्ष्यं भवति, नचापनिषदं लक्ष्यं वाच्यसंवन्धितया ज्ञातम्। यौगिकत्वान्तु न संगतिप्रहापेक्षेति न दोपः, निर्गुणाशब्दादिपदानां हि न सगुणमर्थ इति निर्गुणपरत्मेवान्गीकरणीयम्। अवाच्यत्ादिश्रुतिस्तु प्रसिध्धभावाभिप्रायेति मन्तव्यम्। तदयं सूतार्थ :- ब्रह्म अशच्दं न, ईक्षतेः-इत्यानन्दतीर्थायाः॥
Page 16
(१३)
अत्रेदं विचारणीयम्-अद्वैत्यभिमतस्य निर्गुणस्य वाच्यलमिदानीं समर्थ्यते, उत सगुणस्येति। आद्ये सगुणस्यैव गुणपूर्णस्य भवता पूर्व ब्रह्मरूपत्वं प्रतिज्ञातमिति तत्रैव लक्षणप्रमाणसर्वशास्त्रपर्यवसानानां वर्णितत्वेन निर्गुणवाच्यतसमर्थ- नमनवसरम्। द्वितीये तत्रावाच्यत्स्य केनाप्यनमिमतत्वेन तन्निराकरणमकाण्डताण्डवम्। जिज्ञास्यस्यावाच्यलात् सविशेषत्वे च तदनुपपत्त्याऽशव्दमित्याद्यनुपपत्त्या सविशेषत्वाक्षेपस्यवान्न विवक्षणे तु अशव्दतवनिषेधो न युक्कः । निर्विशेषलमेव खलु तदा निषेद्धव्यम्। सन्ति च "यतो वाचो निवर्तन्ते" इत्यादिकाः अवाच्यतप्रतिपादका इव 'साक्षी चेता' इत्यादिकाः निर्विशेषतवोधिका अपि श्रुतयः। किंच त्वत्पूर्वपक्षी शास्त्रं जगत्कारणत्वेन किंचित्प्रतिपादयतीति मन्यते वा न वा। आद्येऽपि यतो वाच इत्यादयः तत्पराः, अन्यपरा वा। यदि तत्परास्तर्हि परस्परविरोधेन श्रुत्योरन्य- तराप्रामाण्यम्। प्रवृत्तिनिमित्तसद्भावेSवाच्यलशङ्काया अनुत्थानं च। यदि न तत्पराः, तर्हि कारणादन्यस्यावाच्यत्वेऽपि कारणजिज्ञासासमन्वयाद्याक्षेपायोगः। यतोवेत्यादिश्रुतिविरोधात् अकारणपरं शास्त्रमिति पक्षोऽपि न संभवति। अस्तु वा कर्थंचिदवाच्यत्वाक्षेपोपपत्तिः, तथापि नेक्षणीयत्वेन तस्य निरासः संभवति; अवाच्यत्वेऽपीक्षणीयत्वोपपत्या तस्या- साधकलात्। छत्रिपदलक्ष्ये छत्रितवदशब्दादिपदलक्ष्येऽशब्दतमप्युपपद्यत इति न। गङ्गापदलक्ष्ये तीरेऽगञ्गात्ववत् अशब्दत्वमनुपपन्नमिति शह्कापि नावकाशं लभते। पतेन-आत्मशब्दादयोऽपि-व्याख्याताः। यथाच शक्यसंबन्धो न लक्षणा; अर्थवादवाक्येपु व्यभिचारादिति स्ववोध्यसंबन्ध एव लक्षणा तथाऽन्यत्र विस्तर इति। नाऽशब्दादिपदलक्ष्यल्ा- संभवः । नहि शुद्धे ब्रह्मणि जतिगुणक्रियादि संभवतीति न तस्य वाच्यतम्। अतएव निर्विशेषश्रुत्युपपत्तिः। सगुण- श्रुतीनां तु उपासनाप्रकरणस्थानां तदपेक्षितगुणसमर्पकत्वेन, निर्गुणप्रकरणस्थानां तदपेक्षितनिषेध्यसमर्पकत्वेन चोपयोगात् न सविशेषत्वे किंचिदपि प्रमाणमवलोकयामः । एवंच 'ईक्षतेनाशब्द'मिति सूत्रं न वाच्यसमर्थनार्थमिति युक्तम्। अन्यथा वाच्यमीक्षतेरित्येव सूत्रविन्यासः स्यादितीक्षतेर्नाशब्दमिति गुरुतरविन्यासो निरभिप्राय एव स्यात् । स्पक्षसाधनमुखेनापि परपक्षनिराकरणसंभवात्परपक्षनिराकरणार्थ तथा सूत्रकरणमित्यपि न युक्त्म्। किंचावाच्यत- निषेध एव यदि विवक्षितः, तर्हि किमर्थमवाच्यमित्यविन्यासेनाशब्दमिति विन्यासः कृतः ? अशब्दमिति श्रुत्यनुगमार्थ- मिति चेत्, तस्यास्पर्शादितिपदवत् समवायसंबन्धेन शब्दाभावपरत्वेनैवोपपत्त्या वाच्यत्वरूपविपक्षबोधकत्वाभावान्न तदनुगमनं प्रयोजनवत्। अस्ुवा कथंचिदपि अशव्दमित्येव सूत्रविन्यासः, तथापि अशब्दत्वश्रुत्युपस्पृष्टस्य पूर्वपक्षस्ये- क्षणीयत्वेन लिन्ेन निराकरणासंभवः । वस्तुतस्तु-युष्मन्मतरीत्यापि ब्रह्मणो न वाच्यत्वसंभवः। तथाहि- किमुपासनाप्रकरणपठितानां उपास्यसमपकश्रुतीनां ब्रह्म वाच्यं भवेत्, उत सृष्टिप्रकरणपटितानाम्। नाद् :; ब्रह्माव्यक्त- त्वेन नोपास्यं, किंतु तत्प्रतिबिम्बमेव चित्तगतमुपास्यमिति "तदव्यक्तमाह हि" इत्यधिकरणे युष्मामिरनिर्णीतत्वेन ब्रह्मणोऽनुपास्यत्वेन तत्र तद्वाक्यानां लक्षकताया एव युक्कत्ाू। न द्वितीय :; सृष्टिवाक्यानामुपास्यगुणसमर्पकत्वस्या- ध्यानायेत्यधिकरणे युष्मामिः प्रतिपादितत्वेन सृष्टिप्रकरणस्थनारायणादिपदानां उपास्यब्रह्मसमर्पकत्वस्यासंभवात्। किंचेक्षणीयत्वं हीदं प्रत्यक्षविषयत्वं वा, ज्ञानविषयत्वं वा। नाद्ः; प्रत्यक्षविषयत्वस्य वाच्यलाप्रयोजकतवात्। शान्दाप- रोक्षतस्य युप्माभिर्निराकरणान्। एतेन-द्वितीयपक्षोऽपि-परास्तः। एवंच ब्रह्म नाशब्दं, इक्षतेरित्येवं सूत्रयोजनापि पराहृतेति अद्वैतिसंमतैवात्र योजनादरणीयेति वदामः । सा हि-प्रधानं जगत्कारणं उत व्रह्मेति सदेवेति वाक्यं प्रधानपरं उत ब्रह्मपरमिति च विचार्यम्, तत्र प्रधानमेव जगत्कारणमिति पूर्वपक्षः, त्रिगुणं सावयवं च प्रधानमेव जगत्कारणम्, नतु अगुणम् निरवयवं च ब्रह्म। सर्वज्ञत्वं ब्रह्मणि ज्ञानरूपे न संभवति, प्रधाने तु संभवतीति। एतेन-सदेवेदमिति वाक्यमपि-व्याख्यातं भवति। सिद्धान्तस्तु- प्रधानं न जगत्कारणं, अशब्दलात्, कथमशब्दतम् ईक्षतेरिति । अयमाशयः-नहि प्रधानमचेतनं जगत्कारणं भवति; असर्वज्ञत्वात्, ज्ञानशक्तिमात्रेण सत्त्वगुणेन सर्वज्ञत्वमिव तमोगुणेन मोहशक्तिमात्रेणासर्वज्ञत्मपि हि स्यातू। ब्रह्म तु सर्वजञं सर्वशक्तिसमन्वितं चेति युक्ततं सर्वजगत्कारणमिति।
तत्राहुश्चन्द्रिकाकारा :- सदेवेदमिति वाक्यं कि विशिष्टपरिणामित्वबोधकम्; किंवा तत्कर्तृतबोधकम् ? आहो शुद्ध्रह्माघिष्टानतबोधकम्। नाद्य :; प्रतिज्ञातसमन्वयस्याखण्डस्यैवात्र वकव्यत्वेन विशिष्टे उक्तवाक्यप्रतिपादितसत्त्वाद्ययोगेन च तदसंभवात्। अतएव हि न द्वितीय :; प्रधानं परिणामीति पूर्वपक्षखण्डनार्थ ब्रह्म कर्ते इति बोघनस्य वैयधिकरण्याथ। एतेन तृतीयोऽपि परास्त :; नहि प्रधानं परिणामीति प्राप्ते ब्रह्माधिष्ठानमित्युक्तिः समानाधिकरणा भवति। कथंचिदवै- यधिकरण्येऽपि "तदैक्षत" "सेयं देवतैक्षते"त्यादिकं अधिष्ठाने ब्रह्मणि न समन्वितं भवति। लक्षणया तस्य चिन्मात्र- परत्वे सर्वमपि लक्षणया प्रधानपरं स्यातू। पतेन-ईक्षतेरिति हेतुनिर्देशोऽपि-परास्तः; नहि तात्पर्याविषयेणेक्षणेन प्रधाननिराससंभवः । अपिचेदमधिकरणं सदेवेदमिति वाक्यस्य ब्रह्मणि समन्वयार्थ वा, उत प्रधानस्य शाब्दलनिरासार्थ वा। नाद्: आनन्दमयोऽभ्यासादितिवत स ईक्षितेरिति सूत्रविन्यासापत्तेः । न द्वितीय: तन्निरासके चतुर्थपाद एव
Page 17
( १४ )
संगतत्वेनात्रासंगते:। किचास्मन्मते आनन्दमयस्द्वद्वह्मेतिवत् अनुषजनीयस्य तच्छन्दस्य तदशब्दं न ईक्षितेरित्युद्देश्य- समपकतयान्वयः हेतुसाध्ययोः सामानाधिकरण्यं च; तवतु अशब्दं प्रधानं न कारणं, कारणस्येक्षितृतात् इति वदतो
किंच निर्विशेष चैतन्यस्य ज्ञानरूपस्येक्षितृस्वं स्रूपेण न संभवति, विशिष्टरूपेण च तत् प्रधानस्यापीति न शुद्धजगत्कारण- लसिद्धान्तो विचारसह :- इति॥ तदेतदापातरमणीयम्-प्रधानस्यानेकात्मकस्य परिणामसंभवात् मृदादिवत्कारणलोपपत्तिः, नासंहतस्य ब्रह्मणः एकात्मकस्येति पूर्वपक्षभाष्ये कर्तृत्वोपयोगिज्ञानत्वस्य परिणामित्वोपयोगिसांशतायाश्च ब्रह्मण्यसंभवप्रदर्शनेन तस्य कर्तृत्मु- पादानलमुभयं न संभवति। प्रधाने तु संभवति द्वयमिति व्युत्पाद्य कारणतया वेदान्तप्रतिपादं प्रधानमिति पूर्वपक्षपर्यव- साने कृते, प्रधानं कारणतया न वेदान्तप्रतिपाद्यमशब्दतादिति भाष्यटीकाप्रदर्शिते सिद्धान्ते नोक्कविकल्पानां संभवः । कारणतया वेदान्तप्रतिपाद्यम् उपहितं शुद्धं वेति विकल्पस्तु उपहितशुद्धयोः तादात्म्यान्रीकारेण युक्कोपि उपहितशुद्धधर्म- सत्त्वादयुपपस्या लदुक्क्तदूषणानां अनवसरः । एतेन इक्षतेरिति हेतुनिर्देशोऽपि व्याख्यातः; उपहिते ईक्षणकर्तृत्वसंभवात्। अवान्तरतात्पर्यविषयलात् ईक्षणस्य हेतुत्वोपपत्तिः । इदं चाधिकरणं सद्विधायाः ब्रह्मणि समन्वयार्थम्। तत्र यद्यपि आनन्दमयोऽभ्यासात् इतिवत् सदीक्षतेरिति विन्यासादपि इष्टसिद्धिः; तथापि लक्षणदोषस्य प्रधानातिव्याप्ते: वारणम् प्रधानं न जगत्कारणमित्युपपादनमन्तरा न सिद्धतीति प्रधानम्; अकारणम्, अशब्दत्वात्, कथमशव्दतवम्? ईक्षतेः, इत्यय- मर्थः ईक्षतेर्नाशब्दमिति सूत्रविन्यासेनैव सिध्धेदिति-गुरुतरविन्यास आदृतः । एतेन-अस्मन्मते आनन्दमयः तद्र्ह्ये- तिवत् अनुषअनीयस्य तच्छव्दस्य उद्देश्यसमर्पकतयान्वयः, हेतुसाध्ययोः सामानाधिकरण्यम्, तवतु अशब्दं प्रधानं न जगत्कारणं कारणस्येक्षितृत्वादिति हेतुविभत्तयभावेन साध्यकल्पनादिना च गौरवं इति वचनमपि-पराहतम्। लन्मते उद्देश्यसम्पकतयानुषञ्जनीयस्य तत्पदस्यान्वयवत् मन्मते तत्तु समन्वयात् इत्यत्र साध्यसमपकतया अन्वितस्य शास्त्रयो- निपदस्यव अनुषज्नेन अशव्दं न शास्त्रयोनि अशव्दलात् इति योजनायाम् अस्वारस्याभावात्। अशद्दपदस्य तु आवृत्या पक्षहेतूभयपरलम्, एतदर्थमेव हेतुविभकि बिना निर्देशः । एवंच अशब्दं, न शास्त्रयोनि, अशब्दत्ात् इत्येकमनुमानं, शास्त्रं न प्रधानपरं ईक्षतेः इति द्वितीयमनुमानमिति अत्र सत् ईक्षतेरिति सूत्रविन्यासपरित्यागेन ईक्षतेर्नाशब्दं इति सूत्रविन्यास आदतः। ईक्षणात्मकस्यापि आत्मनः ईक्षणाश्रयाविद्यकभेदवदुपहिताभिन्नस्य ईक्षितृत्वं यथा संभवति, नवं प्रधानस्य उपहितमिन्न- लादिति सर्वमनवद्यमिति शिवम्। अवशिष्टान्यपि सूत्राणि सत्यवसरेऽवसरान्तरे विचारयिष्यामः ॥ अलमनेन प्रसक्त्तानुप्रसकेन विचारेणेति प्रकृतमेव विषयं सिंहावलोकनेनावलोकयामः । परीक्षितप्रत्यक्षं यद- प्यागमातू प्रबलम्; तथापि अपरीक्षितं अहं गच्छामीत्यादि प्रत्यक्षं आगमादुर्बलमेव। अतएव प्रपश्चमिथ्यात्वसिद्धिः । नेहनानास्तीत्यादीनां एकमेवेत्यादीनां च यथा द्वैतमिथ्यात्व एव तात्पर्य, तथा विवरणभामतीप्रस्थानयोः स्पष्टमिति नेह वितन्यते। तदेवं पश्चपादिकाविवरणभामतीभिः उपपादितं चित्मुस्त्रादिभिः आनन्दवोधादिभिश्वोपवृंहितं द्वैतमिथ्यात्वं दोषाभासाविष्करणेन हेलाभासादिदूषणदृषितैरनुमानादिभिश्च कलदुषयन्ति म्म न्यायामृतकारा व्यासतीर्थाः। एतदुपज्ञमेव द्वैतमतं परिष्कृतावस्थमिति मन्यामहे। अस्यच न्यायामृतस्य संग्रद्दः तथा असंभावनाविपरीतभावनादुर्वासनादिवासिता- न्तःकरणैः रामतीर्थैः अन्यथाऽन्यथाग्रह्णेन आ्रहणेन च तरलीकृता तरन्निण्याख्यया स्वकृतया व्याख्यया तत्संग्रहोपि प्रेक्षकाणां सुखावबोधस्य कृते अस्माभिरत्र संयोजितः । तदिदं न्यायामृतमन्यायामृतमेवंति स्थापयितुं कमपि अ्रन्थमगृभ्रन् सर्वतत्रखतन्राः मधुसूदनसरखत्यः । तदत्र व्यासतीर्थानां वार्धक्य एव सर्वतत्त्रस्वतत्रैः मघुसूदनसरस्वतीभिः कृतेयमद्वैतसिद्धिः तदीयन्यायामृतखण्डनरूपा मधुसूदनसरखत्यन्तेवासिभिः कैश्चनावलोकिता व्यासतीर्था आज्ञापयन् तत्खण्डनार्थ स्वान्तेवासिनं रामतीर्थमित्येतिहां किंचनात्र विलेखितुं सोत्साहा वयमिति निवेदयामः। मधुसूदनसरखत्यो हि बाल्य एव कृतसंन्यासपरिप्रहाः अद्वैतमतव्यव- स्थापनार्थमेव सवीयं सर्वमप्यायुः विन्ययुअतेत्यपि किंचिदेतित्यमत्र विलिखामः। सर्वदैव गोविन्दपरायणा अपीमे अद्वैत- मतव्यवस्थापनेन "वशीकृते मनस्येषां सगुणब्रह्मशीलना"दिति कल्पतरुवाक्यं यथार्थयन्ति। मधुसूदनसरखतीप्रणीतासु गूढार्थदीपिकादिषु कृतिषु इयमद्वैतसिद्धिरेव प्रमेयबहुलोपस्कृता अतिगम्भीरा चेति सुविशदमिदं सर्वेषाम्॥ तत्र केचित् द्वितीयाभावोऽद्वैतमिति, परेतु द्वितीयाभावोपलक्षितात्मखरूपं तदिति च वर्णयन्ति। उभय- मपीदं द्वितीयमिथ्यात्वनिरूपणाधीनमिति यत्र यत्रैतादृदशाद्वैतनिश्षयः तत्र सर्वत्रापि "एकमेवाद्वितीयम्" "यतो वा इमानि भूतानि जायन्ते" "तत्त्वमसि" इत्यादिषु द्वितीयमिथ्यातमपि सम्यड्विरूपितमित्युपपन्नमिदं द्वितीयाभावोपलक्षिता मखरूपं अद्वैतमिति। स्पष्टतरं चेदमुपपादयितुं प्रवृत्तेष्वपि बहुषु निबन्धेषु मान्यमान्यमधुसूदनसरखतीप्रणीताऽद्वैतसिद्धि-
Page 18
( १५ )
रिव परमतनिराकरण-स्वमतस्थापनाभ्यां नान्यो निबन्धो दर्शनीयतमः । तत्रच मिथ्यातवं पञ्चपादयुकं सदसद्भिन्नतम्, विवरणोदिते प्रतिपन्नोपाधी त्रैकालिकनिषेधप्रतियोगित-ज्ञाननिवर्त्यत्वे, चित्सुखीयं स्वात्यन्ताभावाधिकरण एव प्रतीयमानलम्, आनन्दबोधोंकं सद्भिन्नत्वरूपत्वं च तत्तन्मतनिराकरणार्थ प्रशृत्तं स्वरूपतो निरूप्यमाणं नान्येन अ्न्थेन स्फुटतरं विज्ञायते यथाऽ्द्वैतसिद्धा द्वैतमिथ्यातश्रुतिप्रमाणप्रदर्शनेन तत्सत्त्वसाधकप्रभाणाभावनिरूपणेन च सूत्रभाष्यादिकं श्रवणरूपं, तथा श्रुतिसिद्धेऽपि तत्र तर्काभासाभासीकरणेन सत्तर्कावष्टम्मेन विनिश्चयमादधानेयं अद्वैतसिद्धि: मननमेवेति मन्यामहे। एवंच "श्रोतव्यो मन्तव्यः" इति श्रवणमिव मननमप्यवश्यकर्तव्यमिति अद्वैतसिद्धिपठनमत्यन्तमावश्यकमेव॥
अत्र चलारः परिच्छेदा: समुलसन्ति। तत्र प्रथमपरिच्छेदे विचारिता विषया: (१) विप्रतिपत्तिवाक्यस्य विचाराऊतनिरू- पणम्, (२) पक्षतावच्छेदकविचारः,(३) प्रपञ्च मिथ्यात निरूपणम्, (४) मिथ्यातमिथ्यातनिरूपणम्, (५) दृश्यत्वनिरुक्ति:, (६) जडतनिरुक्तिः, (७) परिच्छिन्नत्वनिरुच्तिः, (८) चित्सुखीयमिथ्यातनिरुक्तिः, (९) सोपाधिकतभङ्गः, (१०) आभास- साम्यभङ्ग:, (११) प्रत्यक्षबाधोद्धारः, (१२) प्रत्यक्षप्राबत्यभङ्गः, (१३) प्रत्यक्षस्यानुमानबाध्यलम्, (१४) प्रत्यक्ष- स्यागमबाध्यत्वम्; (१५) अपच्छेदन्यायवषम्यभङ्गः, (१६) वह्िशत्यानुमितिसाम्यभङ्गः, (१७) प्रत्यक्षस्याबाध्यत्वे बाधकम्; (१८) भाविबाधोपपत्तिः, (१९) सत्यल्ानुमानभङ्गः, (२०) मिथ्यात्वे विशेषतोऽनुमानानि, (२१) आगम- बाधोद्धारः, (२२) असतः साधकलम्, (२३) असतः साधकत्वाभावे बाधकम्, (२४) दृग्दृश्यसंबन्धभग्गः, (२५) अनुकूलतकनिरूपणम्, (२६) प्रतिकर्मव्यवस्था, (२७) प्रतिकूलतर्कनिराकरणम्, (२८) मिथ्यातश्रुत्युपपत्तिः, (२९) अद्वै- तश्रुतेर्बाधोद्धारः, (३०) ज्ञाननिवर्त्यत्वस्यानुपपत्तिः, (३१) दृष्टिसष्टयुपपत्तिः, (३२) एकजीवाजानकल्पितलोपपत्तिः, (३३) अविद्यालक्षणम्, (३४) अज्ञानप्रत्यक्षोपपत्तिः, (३५) अविद्यानुमानोपपत्तिः, (३६) अविद्याप्रतिपादकश्रुत्युपपत्तिः, (३७) अविद्यायां अर्थापत्तिः, (३८) अविद्याप्रतीत्युपपत्तिः, (३९) अज्ञानस्य शुद्धचिन्निष्ठलोपपत्तिः, (४०) अज्ञानस्य जीवाश्र- यत्वोपपत्तिः, (४१) अविद्याया विषयोपपत्तिः, (४२) अहमर्थस्यानात्मत्वनिरूपणम्, (४३) कर्तृत्वाध्यासोपपत्तिः, (४४) देहात्मक्याध्यासनिरूपणम्, (४५) अनिर्वाच्यललक्षणम्, (४६) अनिर्वाच्यलानुमानम्, (४७) ख्यातिबाधान्यथानुपपत्तिः, (४८) नासदासीदित्यादिश्रुत्यर्थापत्तिः, (४९) अन्यथाख्यातिभङ्गः, (५०) आविद्यकरजतोत्पत्त्युपपत्तिः, (५१) भ्रमस्य वृत्तिद्वयत्ोपपत्तिः, (५२) सत्तान्रविध्योपपतिः। द्वितीयेपरिच्छेदे (१) अखण्डार्थलक्षणम्, (२) सत्याद्यवान्तरवा- क्याखण्डार्थतोपर्पततिः, (३) अखण्डार्थतोपपत्तिः, (४) निर्गुणतोपपत्तिः, (५) निर्गुणे सप्रमाणता, (६) निराकारतसाध- नम्, (७) ब्रह्मणः ज्ञानत्वाद्युपपत्तिः, (८) ब्रह्मण उपादानत्म्, (९) ब्रह्मणो विश्वकर्तृतम्, (१०) ब्रह्मणोऽभिन्ननिमित्त- लम्, (११) सप्रकाशत्वलक्षणोपपत्तिः, (१२) सवप्रकाशत्वोपपत्तिः, (१३) शब्दावाच्यलम्, (१४) सामान्यतो मेदख- ण्डनम्, (१५) विशेषतो भेदखण्डनम्, (१६) विशेषखण्डनम्, (१७) भेदपख्के प्रत्यक्षभङ्ग:, (१८) जीवब्रह्मामेदानुमान- भङ्गः, (१९) जीवभेदानुमानभन्ग:, (२०)जीवभेदानुकूलतर्कभङ्ग:, (२१) मेदपच्कानुमानभङ्गः, (२२) जीवमेदश्रुतेरनुवा - दकत्वम्, (२३) असत्यभेदधीश्रुतिः, (२४) शव्दान्तरादेरात्ममेदकत्वाभावः, (२५) मेदश्रुतेष्षद्विधतात्पर्य लिप्गभङ्गः, (२६) एक्यस्वरूपोपपत्तिः,(२७) जीवव्रह्माभेदे प्रमाणम्, (२८)ऐक्यश्रुतेरुपजीव्यविरोधाभावः, (२९) तत्त्वमसिवाक्यार्थनिरूपणम्, (३०) अहंब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्, (३१) जीवब्रह्मामेदानुमानम्, (३२) अंशित्वेन ऐक्योपपत्ति:, (३३) बिम्बप्रतिबिम्बन्यायेन एक्यसिद्धिः, (३४) जीवाणुतवखण्डनम्। तृतीयपरिच्छेदे (१) मनननिदिध्यासनयोः श्रवणाङ्ग- तनिरूपणम्, (२) विवरणोक्तनियमोपपत्तिः, (३) श्रवणादेर्विधेयत्वोपपत्तिः, (४) विचारस्य श्रवणविधिमूलत्ोपपत्तिः, (५) वाचस्पत्युक्त्तखवाध्यायविधि विचाराक्षेपकत्वोपपत्तिः, (६) ज्ञानस्य पुरुषतन्त्रताभङ्गः, (७) ज्ञानविधिभङ्गः, (८) शाब्दा- परोक्षलम्। चतुर्थपरिच्छेदे (१) अविद्यानिवृत्तिनिरूपणम्, (२) अविद्यानिवर्तकनिरूपणम्, (३) मुक्तेरानन्दरूप त्वेन पुरुषार्थत्निरूपणम्, (४) चिन्मात्रस्य मोक्षभागितवोपपत्तिः, (५) जीवमुत्तयुपपत्तिः, (६) मुक्ती तारतम्यभङ्गः इति।
तत्र द्वितीयपरिच्छेदे अखण्डार्थतलक्षणप्रमाणादिनिरूपण मतिरमणीयं विद्यत इत्यवचनसिद्धमिदम्। तत्रावसरप्राप्तेषु प्रकर- णेघु जीवब्रह्ममेदप्रकरण्मधिकृत्य किंचिदिवात्र विचारयाम :- यत्र हि "द्वा सुपर्णा" इत्यादिश्रुतीनां मेदप्रामाध्यमपासितम्॥ "द्वा सुपर्णे"ति श्रुतिस्तदा मेदपरा न भवेत् यद्यन्यशब्दोऽत्र भेदसाधको न स्यात्। नचैतत्संभवति; अन्यशब्दस्य मिन्न एव मुख्यत्वेन तस्य मेदसाधकत्वात्। "द्वा सुपर्णा" इति द्वित्वसंख्याम्रानमपीदानीमेवाऽनुकूलम् । द्वित्वादिसंख्यायाः खसमानाधिकरणस्वाश्रयभेदबोधकत्वं हि संख्याधिकरणे पूर्वमीमांसायां व्यवस्थापितम्। अनन्येऽप्यन्यशब्दस्तु गौण एवेति नास्मन्मतेऽभमयादिपरमात्मस्वरूपमेदापत्तिः । इन्द्रार्जुनयोस्तु अंशांशिभावाभ्युपगमात. आराध्याराधकभावादिवि- षमगुणाक्रान्तावपि न भेद इति विरुद्धधमोक्रान्तलवहेतुकानुमानेनापि जीवेशभेदोऽन्ीकरणीय एव; अन्यथा जीवब्रह्मणोर- भेदे परस्परं भोगानुसन्धानप्रसआ्गात्। नाचिन्त्यशक्तिमता परिचछन्नशक्त्तिमानमेदमर्हति। इन्द्रार्जुनयोखु परस्परं यत्किंचिद्दोगानुसन्धानं विद्यत एव। जन्मान्तरीयजीवामिन्नस्यापि इदानींतनजन्मनि स्तन्यपानेष्टसाधनताध्नुसन्भानं
Page 19
( १६ )
विद्यत एवेति सर्वसंमतमिदम्। यत्किंचिद्धोगानुसन्धानमेवामेदप्रयोजकमिति सर्वाननुसन्धानेऽपि इन्द्रार्जुनामेदवत् अचि न्त्येश्वरशत्तया जीवब्रह्मामेद इति न संभवति। "गुहां प्रविष्टावात्मनौ ही"त्यधिकरणे तु अस्मन्मते ईश्ररस्यापि "भोक्तारं यज्ञतपसाम्" इत्यादिवचनैरकर्मफलभोक्तृत्वावगमवत् परमात्मस्वरूपमेव विवक्षितमिति निर्णयात् तत्र च भेदायोगात् न संख्याया मेदाक्षेपकत्वम्। नहि निर्जातसंख्याकेषु अभिह्दोत्रादिषु "विराडमिहोत्रम्" इत्यादिवाक्येषु संख्याया मेदाक्षेपक- लमिति "तिस्र आहुती"रित्यत्रापि तदनाक्षेपकलम्। एवंच तत्र यथा विरुद्धसंख्याक्रान्तत्वेन न भेदकल्वम्, तथाSत्रापि एकत्वसंख्यायाः परमात्मनि पूर्वमेवावगतलात् न द्वित्वसंख्यया मेदाक्षेप इति सर्वमनवद्यम्। जीवब्रह्मणोस्तु नैकतमे- तावताप्यवगतमिति "द्वा सुपर्णे"ति श्रुतौ संख्या मेदमाक्षिपत्येव। अत्र हि जीवपरमात्मानावेव प्रतिपादया न परमात्मा, येन "गुहां प्रष्टावि"ति वाक्यसाम्यमापद्येत। "गुहां प्रविष्टावि" त्यत्र शुभफलभोक्तृत्वं ईश्वरस्यावगतं चेदपि तत्राशुभफलभो- कृत्वाभाव एव प्रतिपाद्यत इति न विरोधः । "तत्त्वमसी"त्यादिवाक्यानामपि न जीवव्रह्माभेदे तात्पर्यम्; अभ्यासेन भेदसिद्धेः। यथा हि "समिधो यजती"त्यादौ अभ्यासात् कर्ममेदः, एवमत्राप्यात्मभेदोऽप्रीकरणीय एव। स्पष्टमिदं न्यायामृतादाविति तत एव द्रष्टव्यम्। "पश्व पञ्चजना" इति वाक्येऽपि पञ्चजनशब्दार्थों न प्रथमप्राणशब्दार्थः, किन्तु विशेष्यप्राणशब्दार्थ इति, तस्य ब्रह्मपरत्वान्नान्रापि पञ्चत्वसंख्यया मेदाक्षेप इति न विरुद्धम्॥ वस्तुतस्तु-"गुहां प्रविष्टावि"त्यत्नापि भवन्मतरीत्या द्वित्वसंख्याया मेदाक्षेपकत्वमविरुद्धमेवेति द्वित्ादिसंख्याया भेदाक्षेपकत्वे न कोऽपि क्षुद्रोपद्रवः । परमार्थतस्तु द्विशब्दोऽत्र मेदवाचकः । "द्वित्वं संख्यायां भेदेऽपि च निगद्यते" इति नानार्थरत्नमालायाममि- धानात्। "तयोरन्यः" इत्यन्यशब्दोऽपीदानीमनुकूलो भवति। अन्यशब्दो ह्यत्र यद्यपि षध्यन्ततयोरितिपदसमानाधिक- रणः, तथापि अन्यतरत्वस्य तद्भिन्नमिन्नरूपत्वमिति न दोषः। "तस्माद्वा एतस्मात्" इत्यत्र तु अगत्या गोप्या लक्षणया वा अमिन्नेऽपि अन्यशब्दप्रयोग इति न विरोधः ॥ यथाचान्नमयादिवाक्यानां द्वतमते परमात्मपरत्वं तथा त्रह्मसूत्रभाष्य- भामत्यादिभूमिकायां अस्मामिव्यक्तीकृतमिति न पुनः पिषं पिष्यते ॥ यदितु अस्मन्मतरीलया अन्नमयादीनां न परमा- त्मल्म्, तदा सुतरामन्यशब्दस्य भेदवाचकत्वं कुत्रापि न व्यभिचरितम्। एवंच विरुद्धगुणाक्ान्ततवहेतुकानुमानन, 'नाहमीश्वरः' इति प्रत्यक्षेण, "द्वा सुपर्णे"ति श्रुत्या, "मेदव्यपदेशाचे"त्यादिसूत्रेक्ष भेदपारमार्थिकतव सिद्धनीति न जीव- ब्रह्मामेदवादः प्रामाणिकः। अणुतमहत्त्वयोस्तु श्रुला ब्रह्मणि सहावस्थानावगमान्न विरोधः। अतएव पृथित्यादी तदुभयम- विरुद्धम्। अवघातप्रोक्षणादीनां दृष्टादृष्टार्थत्वेपि स्वष्टकृदादेरुभयार्थतवत् दशपूर्णमासादीनां केंवलप्रकृतित्वऽषि अग्नि- षोमीयादीनां प्रकृतिविकृत्युभयत्ववत् अविरोधाच्च। एवंच संयोगतदभावयोरिवाणुतवमहत्त्वयोरपि विरोधाभावात् नेश्वरभेद: प्रामाणिक: समायाति। जीवेश्वरयोस्तु सर्वज्ञलव किंचिज्ज्ञलमुखित्दुःसि्रित्वादिविरोघिगुणाक्रान्तलात, भेद एव प्रामाणिकः । जीवेश्वरधर्माणां परस्परसारङ्कर्याभ्युपगमे हि "सर्वत्र प्रसिद्धोपदेशा"धिकरणे सत्यकामत्ादीनां जीवेऽपि संभवात् तेषां तत्रायोगेन जीवपरत्ष्युदासो विरुद्ेतेति मन्तव्यम्। पतेन-"अदृश्यत्ादिगुणको धर्मोक्तः" दृत्यधिकरणमि- व्याख्पातम्। "स आत्मातत्त्वमसी"त्यत्र तु अतत्त्वमसीत्येव पदच्छेदः, नतु तत्त्वमसीति सवेथा भेदापारमार्थिकतावादो न युक्क एव। अतएव प्रत्यक्षादिप्रामाण्यनिर्वाहो भवतीति द्वैतिनो वर्णयन्ति।
सदिदं न सङतम् ; नहि द्वतपारमारथिकतायां प्रमाणमुपलभ्यते। 'सन् घट' इत्यादि प्रत्यक्षं हि घटादीनां ब्रह्मनिष्ठमे- वाबाध्यत्वं कल्पितं गोचरयति नतु वास्तवम्। "नेह नानाऽसिति किंचने"त्यादिश्रुतिरषि संप्रत्येवोपपद्यत। एवं च द्विती- याभावोपलक्षितात्मख्वरूपसमर्पकत्वेन तत्त्वमस्यादिवाक्याखण्डार्थतमपि उपपन्नम्। "तत्त्वमसी"ति हि जीवब्रह्मणोरमेद- मवगमयति। तत्र को नाम जीवः ? किंच ब्रह्म ? कथंच दयोरमेदः ? इति विचारणीयम्। तत्र 'अहमि'तिप्रतीतिगोचरो जीवः । 'स' इतिप्रतीतिगोचरो ब्रह्म। तत्र यद्यपि 'अह्मि'ति स्थूलशरीराभिमानि सूक्ष्मशरीराभिमानि केवलं च चतन्यं जा्रत्खप्नसुषुप्त्यवस्थासु प्रतीयते, तथापि अव्यमिचरितप्रकाशर्थतन्यस्यैव न स्थूलशरीरदीनामिति स्रूपचैतन्यमेव जीवः, नतु तत्र मात्रयाऽपि द्वैतसंवलनमिति अहमर्थवादेऽ्द्वैतसिद्ध्ादौ सम्यगेव निरूपितम्।
ब्रह्मापि "यः सर्वजः" इत्यादिश्रुत्या सर्वज्ञत्ादिविशिष्टं अविद्याविषयचैतन्यमिति, "सत्यं ज्ञानम् इतिश्रुत्या सरूपचैत- न्यमिति चावगम्यते। एवंच जीवोऽपि स्वरूपचतन्यम्, ब्रह्मापि स्वरूपचतन्यमिति जीवव्रह्मामेदे न किंचिदपि वाधकम्। नहि वयं जीवं ब्रह्म च विशिष्टं चेतनमभ्युपगच्छामः, येन चेतनत्वेनाभेदोऽस्माकमपि संमत इति शक्येत। ननु कथं द्वयो- रैक्यमिति चेत्, नहि वयं द्वयोरैक्यमिति वदामः, किंतु एकमेव चतन्यं अन्तःकरणाद्युपाधिसंवलितं जीव इति, अविद्या- संवलितं ब्रह्मेति च व्यवहारपदम् एक एवाकाशः घटसंवलितः घटाकाश इति, मठोपाधिपरिच्छिनः मठाकाश इति चेवेति। दष्टान्ते उपाधिनिबन्धनमेदस्योपाधिविगमेन विगमवत् अत्रापि अन्तःकरणाद्युपरमेण मेदस्यापि विगमात् एकमेवावशिष्यत इति न किंचिदनुपपन्रम् 1. यदपि स्वरूपचैतन्यं नाहंपदास्पदं ब्रह्मपदास्पदं वा, किन्तु अहक्कारादिविशिष्टमेव। तयोक्ष नामेदो विवक्षित इति जीवन्रझ्मामेदवादोऽनुपपम् एव, तथापि 'काकवहेवदसतगृहम्' इत्यत्र काकापगमेऽपि काकवच्छन्द-
Page 20
(१७)
स्येव उपलक्षणतयाSहमादिपदस्य स्रूपचैतन्ये प्रवृत्तिरिति न विरोधः ॥ एवंच जीवब्रह्मणोरौपाधिक एव मेदो घटाकाश- महाकाशयोरिवेति न जीवब्रह्ममेदसाधकत्वेन पराभिमतानि सर्वाण्यपि प्रमाणानि तादृशमेव मेदं गोचरयन्तीति "द्वा सुप- जे"त्यादिश्रुतयोऽपि नास्माकं प्रतिकूला इति पश्यामः। द्विलसंख्यया अन्यशब्देन च तादृशस्येव भेदस्यावगमात्। विशदं चचैतत् अद्वैतसिध्ादौ मधुसूदनसरस्वतीप्रणीते अद्वैतरल्नरक्षणे चेति तत एव द्रष्टव्यम्। "तत्त्वमसी"त्यत्र अतत्त्वमसीति पदच्छेदादिकल्पनं सर्वमप्यप्रामाणिकमुपक्रमोपसंहारादिविरुद्धमित्यपि अन्यत्र विस्तृतमिति विस्तरभयादुपरमामः ॥ वस्तु- तस्तु-अनन्यपरविधिपुनःश्रवणरूपाभ्यासेन हि कर्मणः भेद एव सिध्धेत्, नतु सिद्धवस्तुनः, तत्र विधिविषयत्वायो- गात्। निरूपितं हि ब्रह्मणो न विधिविषयत्वमिति, अविधिपराणामपि वाक्यानां प्रामाण्यसंभव इतिच समन्वयाधिकरणे भाष्य-भामती-कल्पतरु-परिमलेषु स्पष्टमिति नात्र पराक्रमामः। संख्याधिकरणेन तु अन्नमयादिस्थल इव भवन्मते न भेद- सिद्धिरित्यवगच्छामः । यथाहि अन्नमयप्राणमयादीनां न मेदोऽवगत इति तत्रत्यान्यशब्दो न भेदसाधकस्तथा तत्त्वमस्या- दिवाक्यैः जीवब्रह्मामेदोऽप्यवगत इति न "द्वा सुपर्णे"त्यादौ अन्यशव्देनापि जीवब्रह्मामेदावगमः। अन्यतरत्वं तुन मेदघटितमिति ब्रह्मानन्दसरखतीभिरुपपादितमिति नात्र भेदपरतमिति जानीमः। किंच 'नाहमीश्वरः' इत्यादिप्रत्यक्ष विरुद्धधर्माकान्तत्वहेतुकानुमानंच विशिष्टजीवेश्वरयोरेव भेदमवगमयति, नतु विगलितो- पाधिसंबन्धयोर्जीवपरमात्मनोः, तयोस्तदविषयलात्। "द्वा सुपर्णे"तिश्रुतिस्तु वस्तुतो जीवान्तःकरणे एव गोचरयतीति पैक्ि- रहस्यब्राह्मणेनाधिगतमिति न जीवेश्वरमेदे सा प्रमाणतामरदति। यथा युप्मन्मतेऽन्मयादीनां परमात्मपरत्वमवगतमिति तत्रत्योऽन्यशब्द औपाधिकमेदपरः, तथाऽस्मन्मतेऽपि जीवेश्वरयोरमेदस्तत्वमस्यादिवाक्यैरघिगत इति जीवेश्वरविषयत्वेऽपि "अन्योऽन्तर आत्मे"त्याद्यन्यशब्दवत् न"द्वा सुपर्णे"तिश्ोकगतान्यशब्दोऽपि अम्माकं प्रतिरुणद्धीति मन्महे।"तत्त्वमसी"ति तु उपक्रमोपसंहाराभ्यासापूर्वतोपपत्त्यादिलिन्गैः स्वसामर्थ्येन च जीवब्रह्माभेदमेव गोचरयतीति बहूपपादितमन्यत्रेति विस्तरभीत्योपरमामः। अद्वैतरत्नरक्षणादी चाप्यमुमर्थ स्पष्टतरमुपापीपदन् आचार्यवर्या मधुसूदनसरखत्यः। अद्वैतरत्नरक्षणं चेदमधिकृत्य पृथगपि अनुपदं प्रकाशयिष्यामणे तत्र कामपि भूमिकां प्रकाशयिष्याम इति नात्र तद्विषयं वितनुमः । 'मधु- सूदनसरस्वत्याः पारं वेत्ति सरसती' इति तत्र तत्र वर्णयन्तो व्रह्मानन्दसरखत्यो हि तदीयं सर्वतन्त्रापरतन्त्रतादिकं सरखत्या एव तदीयविद्यासामर्थ्यावगमयोग्यतावर्णनादिना सम्यगेवोद्वोषयन्ति। मधुसूदनसरखतीप्रणीताश्र निवन्धाः गीतागूढार्थ-
विद्यन्त इति केवा वयं तदीयसामथ्यप्रकटने।। तदत्र यथार्थग्रहणेन यथार्थग्राहणेन च अन्वग्रहीपुः साधनचतुष्टयसंपन्नाः सर्वतत्रखवतत्राः व्रह्मानन्दसरखत्यः स्कृतेन लघुचन्द्रिकाख्येन सिद्धिव्याख्यानेनेति मृतजीवनकल्पोयं प्रयत्नः । तदत्र-महानुभावधौरेयशिवरामाख्यवर्णिनः। पतङ्रन्थस्य कर्तारो लेखकाः केवलं वयमिति समाप्तिश्रोकानुसारेण शिवरामवर्णिन एव लघुचन्द्रिकाकर्तार इति केषांचिदुलेखम्, ब्रह्मानन्दसरस्वतीकृतस्यव अ्रन्थस्य शिवरामवर्णिकृतःवेन व्यवहारमात्रं केनचन प्रमादस्थानेन ब्रह्मा- नन्दसरस्वतीमिरेव कृतमिति परेषामुल्लेखम्, गुरुचन्द्रिकाकर्तारः शिवरामवर्णिनः, लघुचन्द्रिकाकतारस्तु ब्रह्मानन्दसरसत्य इतीतरेषां उल्लेखं चात्र प्रेक्षकाणां सविधे विनिर्णयार्थ उपहरामः । तदत्र लघुचन्द्रिकायां न्यायामृततरत्रणीभ्यां अस्पृष्टा अपि तत्तादृशाशक्टोहेखाः खण्डदेवादिखण्डितस्य प्राचीनमीमांस- कप्रस्थानस्य व्यवस्थापनप्रकाराक्ष नियतमेवैतेषां निरर्गलप्रचारित्वं शास्त्रेषु प्रतिष्ठापयन्ति ॥ लघुचन्द्रिकाखण्डनार्थ कृतप्रयत्ना अपि न्यायभास्करकारादयः लघुचन्द्रिकार्थज्ञानविधुरा इति न्यायेन्दुशेखरादिपरिशी- लिनां स्पष्टमेव च प्रचाकशीति। सेयमप्यतिगभीरा समीचीनव्याख्यया विना नालमवगन्तुमिति सुचिरं विचारयद्भिरपि पण्डितवर्यैरियतापि कालेनानु- पलब्धां, केवलं श्रुतपूर्वा च विट्ठलेशोपाध्यायकतां निरुक्ति कियतापि कालेन अस्मदृष्टिपथं प्राप्तां प्रेक्षकाणामपि सविधे संप्रत्युपहरामः ।
संज्ञभामविराजमानगुर्जरकुलावतंसाः सर्वतन्त्रख्तन्त्रप्रतिभा आसन्निति दुरूहाया लघुचन्द्रिकाया विस्तृतव्याख्यानप्रणयने- नानुमिनुमः। येषां किल मूलपुरुष: पटवर्धनोपाधिर्गोविन्दभट्टामिधानो गौर्जरमण्डलान्तर्वर्ती अखिलसारखतसरख- त्पारदृश्वा ब्रह्मवर्चस्व्यासीत्। येन विविधविद्याप्रवीणपण्डितमण्डितसदस्खप्रतिरथेन सीयतेजोविशेषेण उपाध्याय इति परमपू- ज्या पदव्यासादिता तदन्ववायिष्वत्रुटिता प्रचलति। अस्य गौर्जरे मूलनिवासात् गुर्जरोपाधिश्व। उक्त्तगोविन्दोपाध्यायस्य लोको- तरानवद्यविद्यातपस्तेजोभ्यां वशंवदीभूतेन तदानीं कौङणवसुन्धरामनुशासता पहाळगडनृपासनासीनेन श्रीभोजरा- जेन राजापुरमहालान्तर्गतानुशासनीयेषु-"इष्टापूर्त व्रतं चैव ज्यौतिषं धर्मनिर्णयम्। पुराणं प्राद्गिवाकत्वं राष्ट्रधर्म- अ. सि.3 vanobas Pubin L.s"
Page 21
(१८)
निरीक्षणम् ।। अष्टधर्मस्य तत्त्वश्ञो नृपेणाधिकृतश्व यः । धर्माधिकारी विप्रेशो ब्रह्मदण्डप्रभुर्हि सः ॥" इत्यष्टाधिकारोद्टडन- बिलसितस्ताम्रपटोऽस्मै वितीर्णोडधुनापि गुर्जरोपाध्यायप्रधानागारे विराजतेतराम्। दानपत्रोपसंहारे संगृहीतं पद्यं यथा- 'आचन्द्रार्कमहीधरान्वयभृतामाब्रह्मणः शासनाद्युष्मन्नैधुवगोत्रगुर्जरभुवां भूदेवपूज्यात्मनाम्। आचारादिषु देशमान्यपदवी वर्वर्ति लोकोत्तरा कश्षिल्लङ्गयितुं तु तां परिदृढीभूयाद्विघिस्तं दहेत् ।।' अलमतिविस्तरेण। अस्यानल्पपुण्यपुञेन तत आरभ्य तदभिजनोद्भवाः प्रायः कीर्तिमन्तो विद्वांसश्वाभूवन्। प्रस्तुता विट्ठलेशोपाध्याया: निर्दिष्टगोविन्दोपाध्यायान्रवमा दशमा वा भवेयुरिति संभावयामः । येषां वंशवृक्षादिकं स्थलसं- कोचादनाविष्कृतमवसरान्तरे प्रकाशयामः । इमे निजजनुषाखिलं परशुरामक्षेत्रमलंचकुः। बाल्यात्प्रभृत्येव च प्रज्ञाप्रकर्षेण तत्रैव कांश्विद्विषयानधीत्य शास्त्रीयान्विषयान्वाराणस्यां गत्ाध्यैयत। तत्रैवाधुनापि तदन्ववायो विलसति। अनन्तर च छात्रगणमध्यापयन्तो भूवैकुण्ठाख्यं पाण्डरञ्जक्षेत्रं पण्ढरीसंज्ञं कतिचिद्दिनान्यवात्सुः । गादाधरीमपि तत्र परामृशतां अष्टादशशतकान्त एवैतेषामवस्थानमिति वयं संभावयामः। गादाधरीजागदीश्युपरि कृष्णंभट्टीप्रणेता कृष्णंभट्ृपण्डितः न्यायशास्त्रे, पण्ढरीस्थः कश्चन माध्वः कृष्णाचार्यशर्मा च व्याकरणे एतेषामन्तेवासिनाविति जानन्तो वयं सर्वतत्रर- स्वतन्त्रत्वमेतेषां दृढीकुर्मः । प्रतिपदविवरणेन बालावबोधमेव वाक्यार्थविवरणेन, स्तत्त्रं बहुविधविषयजातनिरूपणन चोपकृतवतां विट्ठलेशोपाध्यायानां अधमर्ण पण्डितकुलमिति विनिश्चयोयं सर्वेषाम्। अथ यल्लघुचन्द्रिकाखण्डनरूपस्य न्यायामृतसारभ्यस्य अद्वैतसिद्धिकारैरखण्डितस्य न्यायामृतांशस्य च खण्डनरूपाया: कस्याश्चन सिद्धिव्याख्याया अपि प्रकाश- नार्थ अवसरः प्राप्त इति महदिदमामोदस्थानम्। अस्याश्ष व्याख्यायाः कतारः के इति प्रत्यक्षतः शब्देन वा न विनिर्णयो जायते। सिद्धे: चतुर्थपरिच्छेदस्य कृते कृतेन दृश्यमानेन लघुचन्द्रिकातिरिक्तेन परेण व्याख्यानेन तु अन्ततो बलभद्रकृता- विति उपसंहारयुतेन बलभद्रशर्माण एव कतार इति केचिदनुमिमते। बलभद्राक्षेमे मधुसूदनसरखतीनामन्तेवासिन इति दशक्लोकीव्यास्योपसंहारादवगच्छामः। सर्वथेयमपि व्याख्याऽतिसरलात्यन्तमेवोपयोगिनीति प्राकाश्यमिदानीं प्रापितेति तत्प्रदानेनास्माकमुपकृतवतां कल्लइकुरुच्चि शंकरसुव्रह्मण्यशास्त्रिणां मयूरपुरसंस्कृतकलाशालातोऽधिगतब्रह्मवि- द्यानां सततमेव कृतज्ञतां धारयाम: । तदत्र विट्ठलेश्युपवृंहितगौडव्रह्मानन्दीयुतार्द्वतसिद्धिव्याख्याप्रचारार्थ विट्ठलेश्युपलम्भ एव मूलकारणमिति तत्संपादनार्थ बहूपकृतवतां अद्वैतसभादिप्रवर्तनेन महान्तं लोकोपकारमादधानानां, सर्वमपि स्कीयमायं निरालम्बस्य श्रीकालहस्तिक्षेत्रस्य कृते विनियुआनानां, आस्तिकशिरोमणीनां कुरुवाड-राघवार्याणां, अन्येषां च विट्ठलेशीसंपादनादिविषयं शुद्धाशुद्धसं कलनादिविषये च बहूपकृतवता वेदान्तविशारदबिरुदादितानां अस्मद्विद्ासोदराणां अस्मत्प्रियसुहृदां च मयूरपुरसंस्कृत- कलाशालवंदान्तोपाध्यायानां पद्मनाभशास्त्रिणां निर्णयसागरप्रधानपण्डितानां विद्वद्वराणां वासुदेवशास्त्रिणां च सततमेव कृतज्ञतां धारयामः । तदत्र प्रकाशयितुं आरव्धाया अस्या: चिरकालमसद्दमानानां पुनःपुनः भागशोभागशः प्रकाशनमपेक्षमाणानां च बहूनां पण्डितानामाशयमनुरुध्य मिथ्यात्वमिथ्यात्वान्तं भागं पूर्व प्राचीकशाम। इदानीं भगवदनुग्रहेण संपूर्णामिमां संप्रकाशयामः । अत्रातियत्नतो गवेषणेनापि मध्यतो द्वितीयमिथ्यात्वे त्रुटिता विट्ठलेशीया नतावताप्युपलब्धेति तत्प्रदा- नेनोपकरिष्यमाणानां पण्डितानां वशंवदा वयमिति सरवदेव तेषां कृतज्ञा इति, अधमर्णतां च निवेदयामः ॥ उपलब्धे चैकस्मिन्नेवादर्रेऽशुद्धबहुले यथाकर्थंचित् किंचित्किंचित् परिष्करणेन प्रकाशनार्थ यतमानानामस्माकं समीचीनस्य कस्याप्यादर्शान्तरस्य प्रदानेन बहूपकृतवतां पण्डितवर्यनरकण्ठीरवशास्तिसोदराणां चन्द्रशेखरार्याणामपि कृतज्ञतामाविष्कुमः । अथ यदीयया प्रेरणयास्माभि: न्यायामृताऽद्वतसिद्धितरक्विणीलघुचन्द्रिकासंग्रहोकारि तेषामतिगभीराणां मत्प्रियमातुलानां मान्यमान्यानां के. एस्. विश्वनाथार्याणामेवेयं कृतिरिति भावयामः । अथात्रतादृशानामतिगभीराणां अतियक्नसाध्यप्रकाशानां दुर्लभानां अ्न्थजातामां प्रकाशनार्थमेव कृतदीक्षाणां सवल्पेनैव मूल्येन पुस्तकविक्रयणेन प्राहकसौकर्यमेवादधानानां च निर्णयसागराधिपतीनां तुकाराम जावजीमहाशया- नामायुरारोग्यादिसर्वविधश्वर्य संददालिति सर्वेक्वरं रमारमणमुमारमणं च सततमेव प्रार्थयामः ॥ इति वेदान्तविशारद: सु-अनन्तकृष्णशास्त्री, संस्कृतकलाशालाध्यक्ष: कल्याणपुरी, (कल्लटैककुरुचि.)
Page 22
श्रीः।
द्द्ैतद्धेः विषयानुक्रमणिका-
पृष्ठाक्: पृष्ाङ्क: प्रथमपरिच्छेदे- ३५ ज्ञाननिव्त्ये त्स्यानुपपत्तिः ५२८-५३२ मझलश्लोकार्थनिरूपणम् 9-6 ३६ दृष्टिसष्युपपत्ति: ५३३-५३८ अवतरणप्रन्थ: ९-१३ ५३९-५४३ १ विप्रतिपत्तिवाक्यस्य विचारान्जलनिरूपणम् १४-१९ ३८ अविद्यालक्षणम् ५४४-५४७ · २ पक्षतावच्छेदकविचारः २०-४७ ३९ अज्ञानप्रत्यक्षोपपत्ति: ५४८-५६१ ३ प्रपश्चमिथ्यात्वनिरूपणम ४८-९३ ४० अविद्यानुमानोपपत्तिः ५६२-५६९ i ४ द्वितीयमिथ्यात्निरूपणम. ९३-१५८ ४१ अविद्याप्रतिपादकश्रुत्युपपत्तिः ५७०-५७२ ५ तृतीयमिथ्यात्वनिरूपणम् १६०-१८१ ४२ अविद्यायां अर्थापत्ति: ५७३-५७४ ६ चतुर्थमिथ्यातनिरूपणम् १८२-१९४ ४३ अविद्याप्रतीत्युपपत्तिः ५७५-५७६ ७ पञ्चममिथ्यातनिरूपणम् १९५-२०६ ४४ अज्ञानस्य शुद्धचिन्निष्ठत्वोपपत्तिः ५७७-५८२ /८ मिध्यातमिथ्यात निरूपणम् २०७-२३२ ४५ अज्ञानस्य सर्वज्ञाश्रयत्वोपपत्तिः ५९३-५८४ ९ दृश्यतनिरुक्ति: २३३-२९४ ४६ अज्ञानस्य जीवाश्रयत्वोपपत्तिः -५८५ १० जडलनिरुक्ति: २९५-३१४ ४७ अविद्याया विषयोपपत्तिः ५८६-५९४ ११ परिच्छिन्नत्वनिरुक्तिः ३१५-३१९ ४८ अह्मर्थस्यानात्मखवनिरूपणम् ५९५-६०६ ९: चित्सुखीयमिथ्यातवनिरुक्तिः ३२०-३२७ ४९ कर्तृत्वाध्यासोपपत्तिः ६०७-६१३ १३ सोपाधिकलवभद्गः ३२८-३३१ ५० देहात्मेक्याध्यासनिरूपणम् ६१४-६१९ १४ आभाससाम्यभमः ३३२- ५१ अनिर्वोच्यत्वलक्षणम् ६२०-६२५ १५ प्रत्यक्षबाधाद्धार: ३३३-३६२ ५२ अनिवांच्यतानुमानम् ६२६-६२९ ३६३-३६७ ५३ ख्यातिबांधान्यथानुपपत्तिः ६३०-६३७ /१७ प्रत्वक्षस्यानुमानबाध्यलम् ३६८-३७० ५४ निषेधप्रतियोगितानुपपत्त्याSनिर्वचनीय- /१८ प्रत्यक्षस्यागमबाध्यलम् ३७१-३८१ समर्थनम् ६३८-६४२ १९ अपच्छेदन्यायवेषम्यभन्गः ३८२-३८५ ५५ नासदासीदित्यादिश्रुत्यर्थांपत्तिः ६४३-६४४ २० वह्निशैत्यानुमितिसाम्यभङ्ग: ३८६-३८८ ५६ असत्ख्यातिभङ्गः ६४५-६४६ २१ प्रत्यक्षस्यावाध्यत्वेबाधकम् ३८९-३९२ ५७ अन्यथाख्यातिभङ्गः ६४७- २२ भाविवावोपपत्ति: ३९३-३९९ ५८ आविद्यकरजतोत्पत्त्युपपत्तिः ६४८-६५१ २३ सत्यत्वानुमानभङ्गः ४००-४१६ ५९ भ्रमस्य वृत्तिद्वयत्वोपपत्तिः ६५२-६५५ ४ मिथ्यात्वे विशेषतोऽनुमानानि ४१७-४२२ //६० सत्तात्रेविध्योपपत्तिः । ६५६-६६१ २५ आगमबाधोद्धारः ४२३-४३९ द्वितीयपरिच्छेदे- २६ असतः साधकतम् ४४० -४४२ १ अखण्डार्थलक्षणम् ६६२-६७४ २७ असतः साधकत्वाभावे बाधकम् ४४३-४५२ २ सत्याद्यवान्तरवाक्याखण्डार्थतोपपत्ति: ६७५-७०४ २८ दृग्दृश्य संबन्धभन्गः ४५३-४६० ३ अखण्डार्थतोपपत्ति: ७०५-७१६ २९ अनुकूलतर्केनिरूपणम् ४६१-४७७ ४ निर्गुणत्वोपपत्तिः ७१७-७३८ ३० प्रतिकर्मव्यवस्था ४७८-४९३ ५ निर्गुणे सप्रमाणता ७३९- ३१ प्रतिकूलतर्क निराकरणम् ४९४-५०६ ६ निराकारत्वसाधनम् ७४०-७४९ ३२ मिथ्यातश्रुत्युपपत्तिः ५०७-५१४ ७ ब्रह्मणो ज्ञानताद्युपपतति: ७५०-७५६ ३३ अद्वैतश्रुतेर्बाधोद्धारः ५१५-५२२ ७५७-७५८ /४ एकमेवेत्यादिश्रुत्यर्थविचारः / ब्रह्मण उपादानत्वम्• ५२३-५२७ 8 ब्रह्मणो विश्वकर्तृतम् -७५९
Page 23
(२)
पृष्ठार्क: पृष्ठाष्: १० ब्रह्मणोऽभिन्ननिमित्तलम् ७६०-७६७ ८४४-८४५ ११ खप्रकाशतलक्षणोपपत्तिः ७६८-७७० ३२ अंशित्वेन ऐक्योपपति: ८४६- १२ सवप्रकाशलोपपत्ति: ७७१-७७७ ३३ बिम्बप्रतिबिम्बन्यायेन ऐक्यसिद्धि: ८४७-८५० १३ शब्दावाच्यलम् ७८४-७८६ ३४ जीवाणुलखण्डनम् ८५१-८५८ १४ सामान्यतो मेदखण्डनम् ७८७७९० तृतीयपरिच्छेदे- १५ विशेषतो भेदखण्डनम् ७९१-८०५ 9 मनननिदिध्यासनयो: श्रवणाज्जत्वनिरूपणम् ८५९-८६२ १६ विशेषखण्डनम् ८०६-८०९ २ विवरणोक्त्तनियमोपपत्तिः ८६३-८६४ १७ भेदपञ्चके प्रत्यक्षभज्गः ८१०- ३ श्रवणादेर्विधेयतवोपपतिः ८६५-८६८ ८११-८१३ ४ विचारस्य श्रवणविधिमूलत्वोपपत्ति: ८६९- १९ जीव मेदानुमानभन्तः ८१४- २० जीवमेदानुकूलतर्कभङ्ग: ८१५-८१८ त्वोपपत्ति: ८७०- २१ मेदपञ्चकानुमानभङ्गः ८१९-८२१ ६ ज्ञानस्य पुरुषतत्रताभन्ः ८७१-८७३ २२ जीवभेदश्रुतेरनुवादकत्वम् ८२२- ज्ञानविधिभन्गः ८७४- २३ असत्यमेदधीश्रुति ८२३-८२४ ८ शाब्दापरोक्षलम् ८७५-८८३ २४ शव्दान्तरादेरात्मभेदकलवाभावः ८२६-८२७ चतुर्थपरिच्छेदे- २५ मेदश्रुतेः षद्चिधतात्पर्यलिन्गभङ्गः ८२७-८२८ १ अविद्यानिवृत्तिनिरूपणम् ८८४- २६ ऐक्यस्वरूपोपपत्ति: ८२९- २ अविद्यानिवर्तकनिरूपणम् ८८५-८८७ २७ जीवब्रह्मामेदे प्रमाणम् ८३० - ३ मुक्त्तेरानन्दरूपत्वेन पुरुषार्थत्वनिरूपणम् ८८८- २८ ऐक्यश्रुतेरुपजीव्यविरोधाभाव: ८३०-८३१ ४ चिन्मात्रस्य मोक्षभागितोपपत्ति: ८८९- २९ तत्त्वमसिवाक्यार्थनिरूपणम् ८३२-८३८ ३० अहंब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम् ८३९-८४३ जीवमुत्तयुपपत्ति: ८९०-८९१ ६ मुक्ता तारतम्यभभ्: ८९२-
इति।
Page 24
ॐ अद्वैतसिद्धिः
सिद्धिव्याख्यासंवलिता।
प्रथम: परिच्छेदः । मायाकल्पितमातृतामुखमृपाद्वैतप्रपञ्चाश्रयः सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः। सिद्धिव्याख्या। श्रीः । प्रारिष्मिनप्रन्थनिर्विन्नपरिसमाप्यर्थ कृतमिष्टदेवनानुमन्धानरूपं मङ्गलं शिष्यशिक्षार्थ ग्रन्थतो निब- भ्नाति-मायेति। मायया कल्पिनं यन मातृतामुखं प्रमातृनाप्रधानं तत्प्रभृति यो द्वैतप्रपश्चः तस्याश्रयः। गांडव्रह्मानन्दी (लघुचन्द्रिका)। नमो नवघनश्यामकामकामिनदेहिने। कमलाकामसीदामकणकामुकगेहिने ॥। १ ॥ लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। शीविहलं गणेशानं शिवो वाग्देवनां गुरुन। प्रणम्य चन्द्रिकाव्याख्यां विदधामि यथामति ॥ परत्रह्ममपविषयप्रयोजनं पगममङ्गलमपमाह मूले-मायेति। श्रुतिशिखोत्थाखण्डधीगोचर: श्रुतीनां कर्मोपास- नाकाण्डरूपाणां उपकार्यत्वात शिखेव मुग्यं यन् महावाक्यं नज्जन्यसंसर्गाविषयकमनोवनिगोचरः । विष्णुः व्यापकं जीव- सम्पम। मोक्षं प्राप्त इव स्वयं विजयते प्रकाशसंवन्धं विनव प्रकाशते, प्रकाशाभिन्न इत्यर्थः । कीदृशो विष्णुः-मि- ध्याबन्धविधृननेन विकल्पोज्झितः व्रह्मानमंक्याज्ञानरपबन्धनत्कार्याकार्याभावेनः विकल्पेन दृश्येन; अविद्याचित्संबन्ध- तृलाज्ञानादिननि यावन, उज्झिनो रहितः: तदभाववानित्यर्थः। ज्ञाप्यत्वं तृतीयार्थः। कीदृशं मोक्षम्-परमानन्दैकता- नात्मकं निरनिशयापरिच्छिन्नमुखमान्नस्वमपम। पुनः कीटशो विष्णुः-सत्यज्ञानसुखात्मकः। पुनः कीदशो विष्णुः- मायाकल्पितमातृतामुखसृषाद्वैनप्रपञ्चाश्रयः मायया कल्पितं प्रयुक्तमतएव मृषाभूतं यन्मातृतामुखं प्रमातृत्वादि रूपं, द्वनं आत्मभिन्नं, तद्रूपप्रपव्ाश्रय इत्वर्थः । मोक्षप्राप्तिः अखण्डधीगोचरत्वप्रयोज्या नतु तत्समानकालीनेति मिथ्याब- न्धत्यादिविशेषणं वन्धम्य ज्ञाननिवर्त्यत्वरूपमिथ्यात्वबोधनद्वारा सूचयति। विजयते इत्यस्य प्रकाशाश्रय इत्यर्थ इति भ्रम- निवारणाय स्वयमित्युक्तम। विष्णो मोक्षप्राप्तिविजययोः अन्वययोग्यतालाभाय सत्येत्यादि। मायेत्यादिना द्वैतस्य मायाप्रयुक्तत्वोक्तया तन्निवर्नकज्ञाननिवर्त्यत्वयोग्यता, मृषात्वोत्तया मुमुक्षावानधिकारी च सूचितः। अखण्डधियः श्रुतिशिखोत्थत्वविशेषणेन निष्कामकर्मोंपासनानुष्टानजनितचित्तशुद्धेकाग्रतयोः सत्योरेव तस्या मोक्षप्राप्तिप्रयोजक- तंति सूचितमिति टीकोक्तार्थसंक्षेपः ॥ वयंतु-विष्णुः(जीवः) वस्तुतः सत्यज्ञानसुखात्मकोऽपि सन्, (अज्ञाते कन्) मायाकन्पितमातृनामुखमृषा्द्वेतप्रप्ाथयो जातः, मुक्तोऽपि सन् अज्ञानेन बद्धत्वेन भ्रान्त इत्वर्थः। ततश्र वस्तुतो बद्धस्य तत्त्वेन भ्रान्नस्य मुमुक्षासंभवात् सः मुमुक्षुः मन् गुरुमनुसृतः ततः तदुपदिष्श्रुतिशिख्ोत्थाखण्डधीगोचरोऽभूत्। निष्का- मकर्मोपासनानुष्टानेन श्रद्धैकाप्रचित्तः सन आत्मानं सत्यज्ञानमुखरूपब्रह्मत्वंन साक्षात्कृतवान् । ततश्च मिथ्याबन्धविधू- ननेन विकल्पोज्झितः मिथ्याबन्धापगमात् तत्प्रयुक्तविकल्पेन दुःखेन रहितः सन् परमानन्देकतानात्मकमोक्षं प्राप्त इव। अवास्तवसंबन्धभ्रमस्यैव सत्त्वात् मोक्षरूपस्य तत्संबन्धाभावाच्चेवेत्युक्तम्। ईदृशः सन् विजयते खप्रकाशरूपोत्कर्षवान् इत्यर्थ :- इति योजयामः॥ इष्टदेवतानमस्कृतिरूपं मङ्गलं वि्नविघातायाचरन् शिष्यशिक्षायै निबभ्नाति टीकायाम्-नम इति। नवघनश्यामः, १ सुदाम्न: कणाः सुदामकणाः त एव सौदामकणाः तेपां कामुकः कमलाकामः सौदामकणकामुकः सचासौ गेही चेति विग्रहः। सुदामपलीनिष्ठायाः कमलाकामनाया बोधकत्वेन कणानामपि कमलाकामत्वमुपचर्य कमलाकामसौदामकणयोरेव स्वारसिको विशे- व्यविशेषणभाव इति-र-इति विष्णु :. अर्द्वै० १
Page 25
२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ॥ १॥
सिद्धिव्याख्या। पुनः सत्यज्ञानसुखात्मकः, 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः सश्िदानन्दस्वरूपः । पुनश्च श्रुतिशि- खोत्थाखण्डधीगोचरः, वेदान्तजन्याखण्डसाक्षात्कारविषय इत्यर्थः । पुनश्च, मिथ्याबन्धविधूननेन मिथ्याभूतबन्धतिरस्करणेन, परमानन्दैकतानात्मकं मोक्षं प्राप्त इव स्थितः, विकल्पोज्झितः, एवंभूतो गौडव्रह्मानन्दी (लघुचन्द्रिका)। श्रीनारायणनीर्थानां गुरूणां चरणस्मृनिः । भूयान्मे साधिकेष्टानामनिष्टानां च वाधिका ॥ २ ॥ अद्वैतसिद्धिव्याख्यानं ब्रह्मानन्देन भिक्षुणा। संक्षिप्तचन्द्रिकार्थेन करियते लघुचन्द्रिका ॥ ३ ॥ विष्णु: व्यापकं जीवस्वरूपम्। मोक्षं प्राप्त इव स्वयं विजयते । कीदशो विष्णुर्मोक्षं प्राप्त इव तत्राह-अख- ण्डधीगोचर इति । संसर्गाविषयकमनोवृत्तिविशेषविषयीभूत इत्यर्थः । ननु तादृशधीविषयत्वे मोक्षप्रात्तिं प्रति नोद्देश्यतावच्छेदकत्वसंभवः । उद्देश्यतावच्छेदककालावच्छिन्नत्वस्य विधेयगतत्वेन व्युत्पत्तिसिद्धस्य प्रकृते बाधान। यदा हि तादृशधीविषयीभूत आत्मा, तदा तस्य न मोक्षः। तस्याविद्यारूपबन्धशून्यात्मरूपत्वात्। तदुक्तं वार्तिक- 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।' इनि । 'निवृत्तिरात्मा मोहस्य ज्ञानत्वेनोपलक्षितः ।' इनि च। लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। अनएव कामेनापि कामितो यो देहस्तद्ून इत्यर्थः । नरचवं 'न कमधारयान्मत्वर्थीयो बहुत्रीहिश्ेनदर्थप्रनिपत्तिकरः' इति व्युन्पत्तिविरोध इति वाच्यम: प्रकृते मत्वर्थीयस्य अवयवमौन्दर्यरपप्राश्यस्तार्थकतया बहुव्रीहेस्नदर्थाप्रतिपादकत्वेन तद्विगे- धविरहान्। न केवलमिष्टलाभार्थमेव तं नमस्कु्मोऽपितु तदीयमन्दर्यादिगुणश्रवणजनितभक्त्यापीति भावः। कमलां धना- दिसंपल्लक्षणां लक्ष्मी कामयतेऽसौ, (कमण्यण) स चासो सदामैव सौदामः नदीया ये कणाः पृथुककणाः। यद्ा कमलाको मुकस्य सुदाम्र इमे कमलाकामसौदामा इत्यर्थः। सांपक्षत्वंऽपि गमकन्वात्समासः । तादशानां कणानां कामुको यो गेही
एव (अपला) पृथुकादानादिनापि तादशादषं संपाद्य याचकाभीट्रदत्वेन लोकविलक्षणो दाता अम्माकमपीष्टमवश्यं दास्यतीति भाव: ॥ १। गुरुस्मृतिमपि शिक्षयति-श्रीति ॥२॥ चिकीर्षिनं प्रतिजानीते-अद्वैतसिद्धीति॥३॥योगरूढा विष्णु- पदार्थस्य श्रीनारायणस्य ईश्वरत्वंन नित्यमुक्त्तनया मोक्षप्राप्तसादव्येऽ्यन्वयायोग्यत्वाद्याचष्टे-विष्णुरिति। यर्दाप विष्णु- पदस्य लक्षणयापि जीवपरत्वं सुवचम: तथापि जीवाणुत्ववादिनिरासाय योगमाधित्याह-व्यापकमिति। 'आछ व्याप्ता'- वित्यनुशामनादिति भावः। अन्तःकरणवनिरपाया धियो निरवयवत्व्वनित्यत्वरपम्य अखण्डत्वस्यासंभवादाह-संसर्गा- विषयकेति। अत विष्णुः मोक्षं प्राप्त इच विजयते अखवण्डधीगोचरश्रति विधेयद्वयावगाहिबोधसवीकारे वाक्यभदप्र- सङ्गः । मोक्षप्राप्तत्वाव्छिन्नद्देश्यको्ि्विोोंभव। इवपदार्ावय्रस्गान्। पदस्य उद्देश्यतावच्छेदकस्य विधेयपूर्वसिद्धताया अपेक्षणीयत्वान। तद्वोधकपदपूर्वत्वस्यापेक्षणाच। तस्यचेहाभावात्। अत-
स्वीकार्य इत्याशयेन कीदृशो विष्णु: मोक्षं प्राम इव तत्राह-अखण्डधीगोचर इतीन्युक्तम। तन्न संभवतील्याश- इया मिथ्याबन्धेति विशेषणमवतारयति-नन्विति। विधेयगतत्वेन तत््वेन भासमानतया। व्युन्पत्तिसिद्धस्येति। अन्यथा गन्धप्रागभावविशिष्टो घटो गन्धवानिति वाक्यस्य प्रामाण्यापत्तरिति भावः।ननु जीवन्मुक्त इति व्यवहारात् स्थूलाविद्यानिवृत्तिरेव मोक्षः, तस्य च तादृशवृत्तिकालावच्छिन्नत्वं संभवत्यंव। जीवन्मुक्कत उभयोरेकदा सत्त्वादित्यत आह-तस्येति। बन्धशून्येति। बन्धमामान्याभाववदित्यर्थः । अत्र संमतिमाह-तदुक्तमिति। मोक्षपदस्योक्त्तार्थे सूचनादाह-सा च बन्ध इति। प्रथमेन वार्तिकेन अविद्यारूपबन्धशन्यत्वम्य मोक्षपदार्थत्वमुक्त्तम्। द्वितीयेनतु मोक्ष- पदार्थमोहनिवृत्तिपदार्थभूनतादशशन्यत्वम्य ज्ञातात्मनारूपत्वोक्लया आत्मनो मोक्षपदार्थत्वं तादृशशून्यत्ववत्ता च बोध्यते। १ संगृहीतगुरुचन्द्रिकार्थेन। २ 'यश्च श्रीशः सुदाम्नः पृथुककणगणात्यादरास्वादयुक्त' इति प्रथमपरिच्छेदान्तग्रन्थकारवचनै- कवाक्यता कमलाकामपदस्य गेहिविशेपणत्वस्यैव सिद्धत्वात् सुदामैव सौदाम इति विग्रहे अनः प्रकृतिभावापत्या सुदाम्नः कणास्त एव सौदामकणा इ्ति विग्रहस्यैव युक्तत्वाच्चेदमापातन इति प्रतिभाति।
Page 26
विट्ठलेशोपाध्याय्युपबृंहितगौडव्रह्मानन्दीयुता। ३
गोडव्रह्मानन्दी (लघुचन्द्रिका)। अविय्याया अस्तमय: संस्कारादिकार्यरूपेणाप्यनवस्थानम्। सा स्थूलरूपा संस्कारादिरूपा च। तथाच विदेहेनाका लीनोऽस्तमय एव मुख्यो मोक्षः। ज्ञातत्वोपलक्षित आत्मापि विदेहताकालीन एव। जीवन्मुक्तिकालीनस्य ज्ञातत्वो- पहितत्वस्यापि कदाचित्संभवेन ज्ञातत्येनोपलक्षितत्वस्य सर्वदा असंभवात्तदुपलक्षितस्यैव मोहनिवृत्तित्वम्। जीव- नमुक्तौ संस्क्रारादिरूपेण मोहसत्वात्। स्थूलाज्ञाननिवृत्तेम्तत्त्वज्ञानविशेषा दिमनःपरिणामरूपतासंभवेन ज्ञातात्म- रूपत्वासंभवाच। नचोक्तविषयत्वक्षणे एव तादृशाविद्यास्तमयः संभवति । चरमधीरूपविद्यावतः क्षणस्याविद्यातत- युक्तदश्यविशिष्टकालपूर्वत्वाभावनियमेन सिद्धस्याविद्याम्तमयस्य विदेहताकालीनस्य विद्यावति क्षणे संभवाभावात्, अत आह-मिथ्याबन्धविधूननेन-विकल्पोज्झित इति । ब्रह्मात्मैक्याज्ञानरूपबम्मस्य तादृशास्तमयेन दृश्य- शून्य इत्यर्थः । अत्र बन्धस्य मिथ्यात्वोवत्या तदुच्छेदस्य ज्ञानाधीनत्वज्ञापनेन न ज्ञानोत्पत्तिकालीनत्वमिति ज्ञापितम्।
साध्यकानुमितौ निर्वच्छिस्ने कर्तरि विधेये तादृशकालावच्छिस्नत्वबाधवत्यकृतेऽपि तस्य बाधितत्वास्न तत्र तद्वोघः। अत्र बन्धविधूननमविद्याततकार्यशून्यत्वं दृश्यशन्यत्वं अनादिसाधारणदृश्यशून्यत्वमिति तयोर्भेंदः । विधूननेनेति तृतीया ज्ञापकहेतौ। नतु कारकहेतौ। नह्यविद्याया अम्नमयो नाम व्यावहारिकध्वंसरूपो विद्याजन्योSस्मत्सिद्धान्ते स्वीक्रियते। दृश्यान्तरध्वंसो वा तज्जन्यः । तथा सति तस्य निवर्तकाभावेन 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुति- बोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः। तत्त्वज्ञानोत्पत्तिद्विनीयक्षणे हि तत्वज्ञानादिसर्वदृश्यनाशोतपादात् उक्क्षणद्विनीयक्षण उक्तनाशस्य नाशोत्पत्यसंभवः । तत्वज्ञानजन्यस्य नाशस्यैव तत्त्वज्ञाननाशहेतुन्वे स्वीकृतेऽप्युक्त- लघुचन्द्रिकाया विट्टलेशोपाध्यायी। अभावम्याधिकरणरपत्वोपगमान,। एवंच वार्तिकद्येनाविद्यारपबन्धशन्यान्मनो मोक्षपदार्थन्वं सिद्धम्। ज्ञानत्वं च न मोक्षपदार्थघटकम। अविद्यामामान्यास्तमयम्य मोक्षघटकत्वायाविद्यासामान्यम्य बन्धन्वमाह-सा स्थूलेति। तथाच वन्धसामान्याभावम्य मोक्षपदार्थघटकन्वेन च। मुख्य इति। जीवन्मुक्त्त इति व्यवहारस्तु गाणः। तथाच जीवन्मुक्ते न तादृशो मोक्ष उनि नम्याखण्डवृनिकालार्वाच्छिन्न्वं दुर्घटमिति भावः-विदेहनाकालीन एवेति। कुतः-'नितृत्तिरात्मा' इनिवार्निकेन जीवन्मुक्तस्य मोहनिवृत्त्या्यमोक्षत्वाबोधनं यनः। ननु ज्ञातत्वमखण्डधीविषयत्वं तदुपलक्षितत्वं च खपूर्व-
स्त्येव। वृत्यन्तरकालेच तम्य तथात्वादित्यन आह-ज्ञानत्वेति। सर्वदेत्यादिः।-जीवन्मुक्तकालीनस्येति।आत्मेति पष्टथा विषरिणनमनुपज्यते। कदाचित् अखण्डवृत्तिकाले।ननु कदाचिन् नदुपलक्षितस्येव मोहनिवृत्तित्वमस्त्विलयन आह- तदुपलक्षितस्यँवति। सर्वदेत्यादिः । विदेहनाकालीनात्मन इल्वर्थः । सर्वदा तदुपलक्षितत्वं च खोत्तरकालीनप्रतियो- ग्य समानाधिकरणस्वपूर्व कालीन प्रतियोगिसमानाधिकरणो यः तद्वत्त्वम्। ननु मोहनिवृत्तिपदेन जीवन्मुक्तिकालीना स्थूला ज्ञाननिरवृनरेव गृव्यन इसयन आह-स्थूलाज्ञाननिवृत्तेरिति। नन्वेवं स्थूलाज्ञाननिवृत्तरिव संस्काररूपाविद्यानिवृत्ते- रपि तत्त्वज्ञानरपत्वसंभवात तत्त्वज्ञानमोक्षयोः समानकालीनत्वमक्षतमित्याशङ्कां परिहरति-नचेति। यद्वा जीव- न्मुक्ती संस्कारम्पेणाविद्यासत्वेऽपि चरमनत्त्वज्ञानविषयत्वक्षणे अविद्यासामान्यास्तमयः संभवत्येवेत्याशक्कां वारयति- नचेति। नार्स्तीत्वर्थः । तत्क्षणे तादृशवृत्तिविषयत्वरपस्यैव अविद्याकार्यस्य सत्वादिति भात्रः। तदेतदाह-उक्तविषय- त्वक्षणे इति। ननु वरनिविलयोऽपि तदैव कुतो नेत्यन आह-चरमधीरूपेति। विद्योत्तरक्षणे दृश्यस्वीकारे विद्याव- त्क्षणस्य दृश्यविशिष्टकालपूर्वत्वापत्त्या तादृशनियमभङ्गप्रमन्न इति तव तदत्यन्ताभावः खवीकरियते। विद्यापूर्वक्षणस्य तु विद्यावत्क्षणत्वाभावेन विद्याक्षण दृश्यसतत्वेन तत्पूर्वत्वेऽपि नियमाभज्ञ इति न विद्याक्षणे दृश्यसामान्याभावसिद्धिरिति भावः । अतएव वार्निके 'ज्ञानत्वेनोपलक्षितः' इत्युपलक्षिन इत्युक्तम्।-मिथ्यात्वोक्त्येति। मिथ्यात्वस्य ज्ञान- निवर्त्यत्वघटितत्वादिति भावः। बन्धविधूननदृश्यशून्यत्वयोरभेदमाशक्कय निराकुरुते-अत्रेति। कार्य वियदादि।- अनादिसाधारणेति। अविद्याचित्संबन्ध तूलाज्ञानजीवव्रह्मभेदादीत्यर्थः। झञापकहेतौ ज्ञापकत्व बोधिका। कारणहे तौ कारणत्ववोधिका। अविद्याया इति दृष्टान्तार्थम। दशयान्तरध्वंस इति प्रकृताभिप्रायम् ।-तज्जन्यः। नहि सवीक्रि- यते इत्यनुषङ्गः। येन जनकत्वे तृतीया स्यादिति शेषः। तस्य दृश्यान्तरध्वंसस्य। निवर्तकेति। नाशकाभावेन-बाध- कापत्तेरिति। दृश्यान्तरध्वंसरूपदृश्यसत्वादिति भावः। ननु तत्त्वज्ञानमेव दृश्यान्तरध्वंसनाशकमस्त्वित्यत आह- तत्वज्ञानोत्पत्तीति। तत्त्वज्ञानस्यापीति। दृश्यत्वाविशेषात् कतकरजोन्यायेनेति भावः ।-उक्क्षणेति । तत्त्व- १ विदहता कालीन एवाविद्यास्तमय इति संबन्ध:
Page 27
४ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। बाधापत्तेस्तादवस्थ्यात्। तरवज्ञानजन्यस्य दश्यान्तरनाशस्य तत्वज्ञानस्य च यौ नाशौ तयोरनाशकाभावात्तयोः खवना- शकत्वस्तीकारे ऽप्युक्तापत्तिताद्वस्थ्यात्। अप्रामाणिकानन्तनाशकल्पने गौरवाख्। तस्माश्चरमतत्वज्ञानस्य दृश्याश्रयका- लपूर्वत्वाभावनियम एव स्वीक्रियते नतु नाशहेतुत्वम्। यन्तु-बद्धपुरुषैः प्रातीनिकमम्तमयादिकं कल्प्यते-न तस्य नाशहेतुत्वम् । यद्यपि ज्ञापकहेतुत्वमपि दृश्यास्तमयं प्रत्यविद्यास्मयत्वेन नाम्नि जीवन्मुके प्रातीतिकाविद्याम्तमये तथ्यभिचारित्वात्, जीवन्मुक्ते प्रानीतिकस्य दृश्याम्तमयस्य कल्पने नियमाभावात्; तथापि दृश्याम्नमयकालीनन्वरू पेणाविद्यास्तमयस्य दृश्याम्तमयं प्रत्यस्त्येवेति ध्येयम्। अथवा मास्तु प्रानीनिकं तादृशाविद्याम्तमयादिकम्। अवि-
लघुचन्द्रिकाया विट्टलेशोपाध्यायी। ज्ञानोत्पत्तिद्वितीयक्षणे इत्यर्थः । उक्तनाशस्य दृश्यान्तरनाशम्य। ननु नत्त्वज्ञानं न स्वनाश्यम, क्षणिकन्वापनः । किंतु स्वजन्यदृश्यध्वंसनाश्यम्। एवंच द्वितीयक्षणे वर्तमानं तत्त्वज्ञानं दृश्यान्तर्वंसं धवंसयेदिलाशक््वाह-तत्त्वज्ञानजन्य- स्येति। उक्तवाधापत्तेः श्रुतिबोधिनविद्वन्निष्ठमर्वदृश्योच्छेदवाधापनेः । नत्वज्ञानध्वंग-दश्यान्नरध्वंगवंसयोः दश्ययोः सत्वादिति भावः । तयोः सत्वे हेनुमाह-तत्त्व्रेति। तयोः तत्वज्ञानवंसदश्यान्नगवंसधवंसयोः। सवनाशकत्वं म्वस्ववं- सहेतुत्वम्। उक्तापत्तीति। तत्त्वज्ञानध्वंसध्वंसम्य दश्यान्तरध वंसध्वंसधवंगम्य च द्यम्य नाशकाभावेन सन्वादितिभावः । ननु उत्तश्रुतेः भावरूपदृश्योच्छेदे नान्पर्यान् ववंससत्वे किं वाधकमन आह-अप्रामाणिकेति। सामान्यधर्मीवच्छि- न्नप्रतियोगिताकैकवंसस्यानज्गीकारान्। तनद्वस्तुप्रतियोगिताकानामनन्तानां नाशानां कल्पने हत्यर्थ:। नचाभावानामधि- करणरूपत्वनये व्वंसानां ब्रह्मम्वस्पत्वस्वीकारान् न गारवमिति वाच्यम: वंसानामनित्यनया नित्यव्रह्ममपत्वासंभवान। ब्रह्मणि तत्त्धंसत्वानां कल्पनीयनया गौरवम्य दुर्वारत्वाच्च। श्रुतिजन्यशाव्दवोधान्मकप्रथमादिनत्त्वज्ञानम्य दत्याशयकाल- पूर्वन्वान् व्यभिचार इत्यनः चरमेनि ज्ञानम्य साक्षान्कारत्वलाभाय। अव यो यद्विषयकसाक्षात्कारः स नदिपयकाज्ञाननस्का- यपूर्वत्वाभाववान् यथा शुक्तिसाक्षात्कारः इति सामान्यताव्याप्तिः। एतेनान्यवादट्वाठेनादशनियमोऽप्रामाणिकः। नच्त्र शुक्त्यादिज्ञानस्थले तथानियमोऽस्तीति वाच्यम: शुक्त्ादिविषयकपगक्षचग्मज्ञानम्यापि शुक्त्ादिविषयकाज्ञानादिपूर्व- त्वेन व्यभिचारान्। नच ज्ञाने साक्षात्कारत्वं निरवेश्यमिति वाच्यम्। नथासति प्राथमिकम्यापि शुक्त्ादिगाक्षान्कार्म्य तादशपूर्वत्वाभाववत्वंन व्यभिचाराप्रसक्त्या चरमत्वविशेषणचैयव्योपनरित्पास्तम। ब्रह्मगाक्षान्कारस्तु निदिधयासनोनरं मुक्तिकाल एव उपेयंते इनि ध्येयम। ननु अविद्यादेसरपस्यास्तमयस्यानजीकारे विद्योत्तर कथमविद्यादेर्भाव आन्मन संपद्येत, नहि नम्य तनोऽन्यत गमनं संभवनि, ब्रह्मण एव निम्विलप्रपव्वस्याधिश्ननया आधारत्वादिति चेत् म्वाप्नग- जगुक्तिरजतादिनिवृत्तिप्रकार विभाव्य मनः समाधीयनाम। अन्यथा कपाले घटम्य ध्वंसे जाने घटः क गत इत्यनुयो- गस्य भवामपि दुःसमाधेयन्वान। वस्तुतस्तु निर्विकन्पकद्वेनाभावोपलक्षितव्रह्मनिश्यम्य द्वैनध्रमप्रनिबन्धकनया तादृशनिश्रयोत्तरं द्वैनभ्रमानुन्पाढे प्रतिभासमात्रशरीर्म्य द्वैनव्याप्यनुत्पाद इति तत्त्वज्ञानोन्तरं सुलभ एव सर्वदश्याभावः ।
द्वततभ्ध्रमयोः समनयत्यान, व्यापकीभूनद्वैतत्रमाभावन व्याप्यभून्द्वैनम्याप्यत्यन्नाभावः सिध्यन। नत्रच 'व्यापकाभाव- प्रयोजकम्य सुनरां व्याप्याभावप्रयोजकत्व'मिति न्यायेन तत्त्वनिश्यम्य प्रयोजकनेति ध्येयम। ननु पागमार्थिकम्य व्याव- हारिकस्य वा अविद्यादिध्वंसस्यानज्वीकारपि जीवन्मुक्ते प्रातिभामिक: सोडसेव। मुक्तम्य नत्वज्ञानन अविद्यादिसर्वदश्य- ध्वंसो जात इति साधारणबद्धजनानां प्रततः। तर्म्येव स्वसमसनाकदश्यास्तमयजनकतासत्वात नामादाय कारकतृनीयाया अप्युपपत्तिसंभव इति शङ्कां परिहरति-यत्त्विति। न तम्य नाशहेतुन्वमिति। ना प्रातीनिकमेकं वस्तु नादृशवस्त्वन्तरे कारणम्। दोषघटिनसामय्या एव नत्र जनकन्वान। जीवन्मुक्त प्रातिभामिका विद्यास्तमयसत्वऽपि नादशदश्यास्तमयाभावेन व्यभिचागचति भावः। नन्वेवं ज्ञाप्यज्ञापकभावोऽपि प्रातीतिकयोरेव अविद्यादश्या्मययोर्वाच्यः। तयोर्श्यत्वेन सर्व- दृश्योच्छेदवनि विदुषि पक्षीभूतेऽसत्त्वान सोऽषि न संभवतीत्याशङतं-यद्यपीति। व्यभिचाग्मप्याह-जीवन्मुक्तति। तद्यभिचारात् दृश्यान्तमयव्यभिचारान।-नियमाभावादिति। लोकवक्ववहरति जीवन्मुक्ते तदकन्पनादिति भावः । यद्वा-नियमाभावादिति मानाभावादित्यर्थः । जीवन्मुक्त स्थूलाविद्यास्तमयम्यँव लौकिकी प्रनानिः। नतु संस्काररपाविद्या- स्तमयस्य। नम्मिन् संस्काररूपाविद्याया एव ज्ञायमानत्वादिति भावः।-दृश्येति। प्रानीतिकेत्यादिः। एवमविद्येत्वस्यापि।- रूपणति। ताहशरपावच्छिन्नम तम्य विदेहनाकाल एव सत्त्वात, नदाच दृश्यास्मयस्यापि सत्त्वादिति भावः। नच सवदृश्योच्छेदवति विदुषि प्रातीतिकयोम्नयोः कर्थ सत्त्वमिति वाच्यम; नत्र बद्धजनग्रतीतयो्तयोः सश्येपि कवल्यदशायां मुक्त्नोच्छंद्यत्वस्याक्षनन्वान।-अस्त्यवेति। ज्ञापकहेनुत्वमित्यनुपकः। विदुषि सर्वशय्छेद्रहेण हेनुसा्यग्रहासंभ-
Page 28
विट्ठुलेशोपाध्याय्युपब्रृंहितगौडब्रह्मानन्दीयुता। ५
गौडव्रह्मानन्दी (लघुचन्द्रिका)। चोच्छेदोपलक्षिन: पूर्णानन्दरूप आत्मा मोक्ष: । अविद्योच्छेदश्व नदीयस्थूलसूक्ष्मरूपाश्रयकालपूर्वत्वाभावः सर्वह- श्याश्रयकालपूर्वत्वाभावरूपेण दृश्योच्छेदेन व्याप्यः । मोक्षस्य दृश्योच्छेदोपलक्षितात्मरूपकैवल्य रूपन्वात्। यद्ा
त्वात्, तलाह-मिथ्याबन्धति । मिथ्याबन्धविधूननेन विकल्पोज्झित इनि योजना। तथाच अविद्योच्छेदेन दृश्योच्छेदवानित्यर्थलाभात अविद्योच्छेदस्य दृश्योच्छेदव्याप्यतालाभेनाविद्यारूपबन्धस्य मिथ्यात्वोक्त्या अविद्याप्रयु- फटश्यमात्रस्य मिथ्यान्वलाभेनानादिटश्यानामपि ज्ञानोच्छेदलाभादुक्तव्याप्यतायाः संभवः । तथाच सर्वदृश्योच्छेदो-
नत्वं विधेये मोक्षलाभे विवक्षितम् । उज्झित इनि निष्टाप्रत्ययेनोच्छेदस्यानीतकाले मोक्षप्राप्तेर्लाभात अत्यन्ताभाव- लघुचन्द्रिकाया विट्टलेशोपाध्यायी। चैऽपि स्वरूपयोग्यताघटित एव ज्ञाप्यज्ञापकभावो निर्वहनाति भावः। प्रातीतिकाविद्यासमयशयास्तमययोगनभयुपगमेऽपि ज्ञाप्यज्ञापकभावनिवाहकं व्याप्यव्यापकभावं समर्थयते-व्याप्य इति । तत्त्वज्ञानोन्पतिक्षणमन्तर्भाव्येत्यादिः । अनुकूलनर्क सृचयनि-मोक्षस्येति। तथाच निरुक्ताविद्योच्छेदवान् तत्त्वज्ञानोत्पत्तिक्षणो यदि निरुक्तृश्योच्छे- दवान्न स्यान, तर्हि 'ज्ञात्वा देवं मुच्यने सर्वपाशै' रित्यादिश्रुतिबोधितमुक्तिपूर्ववत्त्ववान् न स्यादिति तर्कण तादृशक्षणे दशयोक्छेदसिद्या व्याप्तिसिद्धिरिति भावः । अत्रच मोक्षप्रापी तत्त्वज्ञानविषयत्वरूपोद्देश्यतावच्छेदक- कालारवा्छिन्नत्वं न भागते; वाधात, कितु तत्ामानाधिकरण्यं नत्प्रयोज्यत्वं वेत्येतावन्मात्रबोधनाय मिथ्याबन्धेति ग्रन्थावनारे विकन्पोज्झितपदवैयर्थ्य विधूननपदोन्तरतृतायाया वैशिषठ्यार्थकतया आत्मनि मिथ्याबन्धराहित्यमात्रे बोधितऽि वन्धमिथ्यात्वबोधनसंभवन उत्तरीत्या उक्तर्थबोधनसंभवान सृपाद्वैतत्यननवैनलाभान, दृशयशून्यन्वे तज्ज्ञाप्यत्वादिबोधने फलाभावान मिथ्याबन्धेव्यादेगपि वैयथ्यच्चित्यालोच्य प्रकारान्तरेण तं ग्रन्थमवताग्यति-नन्विति । क्वचित्तु 'यद्वा ननु' इत्येव पाठः। दृश्योच्छेदः दृश्याश्रयकालपूर्वत्वाभावनियमः। ज्ञानानुच्छेद्यत्वादिति। ज्ञानोच्छेद्यत्वं स्वाश्रयपूर्वत्वाभाववञ्जानकत्वं, तक्हन्यत्वादित्यर्थः । अखण्डधीगोचरे विष्णुमीक्षं प्राप्त इवंति वोधेऽखण्डधीगोचरत्वस्य मोक्षप्राप्तिप्रति उद्देश्यतावच्छेदकनया तत्प्रयोजकनापि नादृशबोधविषयः, धनी सुखीतिवत् । सा च तस्य दृश्यसामान्यो-
नु न तत्वज्ञानस्य सकलदृश्यध्वंसजनकतया, उत्तयुक्तेः, अपितु तत्वज्ञानोन्पतिक्षणस्य दृश्याश्रयकालपूर्वत्वाभाववत्त्वनि- यम।दंव निर्वाहयम। तच्च न संभवि। तादशक्षणस्य अविद्यानत्कार्याथ्रयपूर्वत्वाभाववत्त्वनियमस्योपगमेनानादिदश्या- श्रयपर्वत्वाभावनियमानुपगमान । 'मायामेनां तरन्ति ते' इत्यादाँ मायाया एवोपादानात्। समानविषयकाविद्या-
मुक्त्तः' इनि श्रुतः, नत्त्वज्ञानम्य दृश्यसामान्योन्छेदकत्वम्। उक्त्स्मृत्यादों तु मायापदं दृश्यसामान्यार्थकम्। तत्त्वज्ञाननि- व्त्यंनावच्छेदकं तु दश्यत्व्रमेवेत्याशयेनोक्ताभासनिरासं प्रकाशयनि-तथाचेति । अविद्योच्छेदेनेति। ज्ञापकत्वं तृर्तायार्थः। व्याप्यत्वं त्वर्थतो लभ्यम्। व्याप्यतालभनेति ज्ञानोच्छेद्यतालाभादित्यत्रान्वेति। अविद्यो्छेदस्यानादिदृश्यो- च्छेदव्याप्यत्वं तु अनादिदश्यानामविद्याव्याप्यत्वान व्यापकाभावस्य व्याप्याभावं प्रति व्याप्यत्वनियमात्। तथाच तत्व- ज्ञानोत्पत्तिक्षण अविद्यातत्कार्योच्छेदस्वीकारे तव्यापकीभूतानादिदश्योच्छदि््प स्वीकार्य:। अन्यथा व्याप्यव्यापकभाव- भज्गापनेः । एतेन 'विकल्पोज्सिनः' इत्यस्य वैयर्थ्यशङ्का निरस्ता। उक्तरील्ा दृश्योन्छेदेऽविद्योच्छेदव्यापकताबोधस्य संभवात्। तव चैनस्योपयोगान्। वन्धमिथ्यात्वोक्तिमनादिदश्यानां ज्ञानोच्छेद्यत्वे युक्त्यन्तरसूचकतया सफलयति-अवि- द्यारूपबन्धस्येति-प्रयुक्तेति। अनादग दृश्यम्य अविद्याप्रयुक्तत्वम्। तस्या एव जगदुपादानत्वश्रवणात्। नित्येष्वपि क्षेमसाधारणप्रयोज्यत्वस्य स्वमपसंबन्धरपस्योपगमात्। अतएव दुःसग्रागभावादां प्रायक्षितप्रयोज्यत्वम्। यत्प्रयुक्तं यत् तत तन्निवर्तकेन निवर्त्यमिति व्याप्तिवशालम्यमाह-मिथ्यात्वलाभेनेति। इदमपि ज्ञानोच्छेद्यतालाभान्वयि। मिथ्या- त्वस्य ज्ञाननिवर्त्यत्वघटितत्वान्, नव्याप्यत्वाद्रेति भावः ।-उक्तव्याप्यताया इति। आभासोक्तस्य तत्त्वज्ञानोत्पनति- क्षणम्य दश्यसामान्याश्रयकालपूर्वत्वाभावनियमस्येत्यर्थः । अन्यथा लाभेन इति तृतीयार्थानन्वयप्रसज्गात्। एतत्कल्पे मिथ्याबन्धेति ग्रन्थस्य पूर्वकल्पीयार्थसूचकतामप्याह-तथान्तेति। तत्त्वज्ञानक्षणस्य सर्वदृश्याश्रयपूर्वत्वाभावरूपसर्व- दृश्योच्छेदविशिष्टत्वमिद्धां चंत्यर्थः -न तत्क्षण इति। तदा दश्योच्छेदस्योपलक्षणत्वासंभवादिति भावः। तादृशाविव- क्षाया ग्राहकमाह-उज्झित इति। लाभादिति। तत्त्वज्ञानक्षण उच्छेदस्य वर्तमानत्वादिति शेषः। तथाच मोक्षप्रा-
Page 29
६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेदः १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। शवविशिष्टरूपस्योच्छेदस्यापि दृश्यत्वात्ताटशे मोक्षकाले तस्यातीतत्वादिति भावः। मोक्षं कीटशं तव्राह-परमेत्यादि। निरतिशयापरिच्छिम् सुखमात्रस्वरूपमित्यर्थः । ननु मुक्तस्य प्रकाशकाभायेन प्रकाशत इत्यर्थकं विजयत इत्ययुक्त्तम् तसाह-स्वयमिति। प्रकाशकसंबन्धं विनवेत्यर्थः। नन्वेवं विजयन इत्यनुपपन्नम्-तस्यापि प्रकाशसंबन्धार्थक- स्वात्, स्वयमित्यस्य प्रकाशान्तरं विनेत्यर्थकत्वेन विजयत इत्यस्य स्वात्मप्रकाशसंबन्धार्थकत्वेऽपि विप्णोर्द्दश्यरवेन मिथ्यात्वापत्तिः । अथ विजयत इत्यस्योत्कर्पान्तरमेवार्थः नतु प्रकाशसंबन्धः, तदा प्रकाशमानानन्दरूपत्वालाभेन मोक्षस्य प्रयोजनत्वालाभः; तत्राह-सत्यज्ञानसुखात्मक इति। यथान्मन आनन्दत्वेनानन्दरूपं मोक्षं प्राप्त इवेत्युक्तम्, अतएवानन्दावाप्िबोधकश्रुतेरनावृतानन्दैक्यमर्थो न त्वानन्दसंबन्धः; तथा प्रकाशरूपत्वेन विष्णोः प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वम् नतु प्रकाशसंबन्धार्थकत्वम्। तथाच दृश्यत्वाभावात् न मिथ्यात्वापत्तिः ।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
प्तितत्त्वज्ञानविषयत्वयोरेककालीनत्वं बाधितमिति भावः। ननु अत्यन्ताभावरूपस्योच्छेदस्य नित्यत्वात कथमतीनत्वम, तवाह-अत्यन्ताभावत्वेति। ताटृशे तत्त्वज्ञानोत्तरे। निरतिशयापरिच्छिन्नसुखमात्रस्वरूपमिति। निरति- शयापरिच्छिन्नेति परमपदार्थः । अपकर्षानाशयत्वं निरतिययत्वम्। अपरिच्छिन्नत्वं कालादिपरिच्छेदाभाववत्त्वम । मात्रेत्येकतानशव्दार्थः। ननु सूर्यादिप्रकाशकसत्वान् क्थं नदभाव इत्यन आह-मुक्तस्येनि । तम्य सर्वदृश्यो- च्छेदेन सूर्यादि प्रकाशकस्याप्युच्छेदादिति भावः। प्रकाशते प्रकाशाश्रयः ।-अयुक्तमिति। सनि प्रकाशके तनादात्म्या- पत्ननया मुक्त्तस्य प्रकाशाश्रयत्वं युर्तूम, नान्य्थति भावः। स्वयं आत्मनव, नान्येन। अभेदः तृतायार्थः। अन्यना- दात्म्यानापन्न इत्यक्षगर्थः । अस्य विजयते इल्यवान्वयः । फल्ितार्थमाह-प्रकाशकेंति। संबन्धं नादात्म्यम। विनैवेत्यर्थ इति। प्रकाशकतादात्म्याभाववानपात्यर्थ इत्यर्थः । तथाच मुक्तस्यैव प्रकाशकत्वान स्वनिप्ठप्रकाशाश्रय- त्वार्थपर्यवसायिनया विजयत इति युक्तमेवेंति भावः। नन्वेवं नन्वेवमप। अनुपपन्नमिति। गर्वदश्योन्छेदे प्रका- शरूपस्वनिष्ठधमेस्याप्यु्छेदेन तन्मंबन्धस्य दुर्घटत्वान् स्वप्नकाशन्वस्य च व्याघातादिनि भावः । नन्मंबन्धः केनोक्तः तवाह -तस्येति। विजयतपदस्येत्यर्थः ।-प्रकाशसंबन्धेति। आस्यानार्थनदाथयत्वम्य तत्मंबन्धपर्यवसायित्वादिति भावः।-प्रकाशान्तरं विनेति। स्वभिन्नप्रकाशाभाववानप। पूर्ववत प्रकाशकसंबन्धाभाववदर्थकत्वे स्वनिष्ठस्वभि-
शसंबन्धेति। स्वम्य चैनन्यरूपनया तत्मंवन्धस्य तनादात्म्यम्पनया चिद्ृपज्ञानविषयत्वार्थकनवेऽपीत्यर्थः। दृशयत्वेन दृश्यत्वापत्या। चिद्ृपज्ञानविषयत्वस्येव दृश्यन्वमपन्वादिति भावः। उत्कर्णान्तरं पगप्रकाश्यन्वाभावम्पम्। इदार्नी ख्वयमि- त्यम्य स्वभिन्नप्रकाशाभाववत्वमेवार्थः। सच पगप्रकाश्यत्वाभावनिवाहकं विशेषणं बोध्यम। स्वयमित्यम्य प्रकाशसंबन्धाभाव इत्यर्थः । सच सामानाधिकरण्यसंबन्धेन विधेयविशोषणम। विजयन इत्यव धात्वर्थोऽनावृनप्रकाशः। आग्यानस्य लक्षणया अभेदोऽर्थः । सच निरुक्तमोक्षप्रापसदशन्वविशिष्टोऽखण्डधीगोचरत्ववििष्टविष्णो विधीयते। विशिष्टम्य
पर्यवम्यति। तत्र आत्मन आनन्दाथरयत्वमेव नतु तत्म्वरपत्वमिति भेदनिबन्धनम्यानन्दसंबन्धरपतत्प्राप्तत्वस्येव सत्त्वात्तन्सादश्यं न संभवति। एवं नम्य ज्ञानानान्मकत्वेन तन्संबन्धसंभवेन चेनरयोगप न संभव इनि वाधयङ्गावारणाय सत्यज्ञानसुखात्मक इति विशेषणवयसुपात्तम। सामान्यनो ज्ञानादिरपत्वस्य अनावृतन्वविशिष्वज्ञानादिरूपत्वव्यापकत्वात् तच्छश्गानिरासः। घटो नीलघट इतिवन विधेयको्टो अनावनत्वस्याधिक्यान नश्यनावच्छदकविचेययक्यम। विधेय- तावच्छेदकघटकानावृतत्वम्य तत्त्वज्ञानविषयन्वमपोद्दश्यतावच्छेदकप्रयोज्यन्वेन विशिष्टविधेयम्यापि तत्प्रयोज्यत्वात्तव तद्भानं न बाधपगह्नमित्यभिप्रंत्य सत्यज्ञानसुखात्म कन्वविशेषणाभिप्रायमः नरवव दृषान्तदारषन्तिकभावकम्पनया वर्णयति-यथति। यद्वा-विष्णोः प्रकाशरूपन्वबोधनं योग्यनाबोधनविधया विजयन इत्यस्य अनावृतप्रकाशभदबोधक- त्वतात्पर्यत्रहार्थमित्यभिप्रेत्य तादशविशेपणाभिप्नायं उत्तक्पनयाSह-यथति। मोक्षं प्राप्त इवेति। भोक्षसंबन्धवानि वेल्र्थः। उभयोभेंदे हि संबन्धः । प्रकृत मोक्षविष्णुपदार्थयोक्यान्प्रानीनिक एव नदुभयसंबन्ध इति सूचनाय दवंत्युक्त- म्। नन्वेवमानन्दावाप्रिश्रुतेंः का गतिः तवाह-अतएवेति। आत्मन आनन्दमपत्वादेवत्यर्थः । आभासे विजयते इत्यम्यवानुपपत्तेरुद्धावनान मोक्षं 'प्राप्त इंवत्यम्य दृशान्नता। प्रकाशत इत्यस्य तदिन्रियमाणस्य विजयनेपदस्य । अनावृतप्रकाशेनि। अनावृनचिदित्यर्थः । क्रचिन तर्थव पाठः। ज्ञानात्मकत्वकथनस्य आवृनचिदभेदवाधशङ्कावारकतां,
Page 30
१४० अहैवसिद्धि: सव्याख्या। [परिच्छेद: २ ]
शुकिरूप्ये प्रपश्चे थ बाघात् पूर्व नास्त्येवेति न तुच्छत्वापतितिः। नय वाघात् पूर्व धुकिरूप्यं अपशो वा सरवेन न प्रतीयते। एतदेव सदर्थकेनोपाधिपदेन सूचितम्। शून्यवादिभि: सदविष्ठानभ्रमानङ्गी-
सिद्धिष्याख्या। चणम्। तच्ेति। निरुक्तासत्वमित्यर्थः । बाधोत्तरकालमस्त्येवेति सामान्यमेवेत्यमिप्रायेण बाघात्पूर्व- मित्युक्तम्। एतदेव दर्शयति-नचेति। ननु-जगति रूप्यादौ च एवंविधासद्वैलक्षण्यस्य शून्यवादेऽपि सत्वात्तैःसह साम्यापति: इत्याशस्ाह-एतदेवेति। कचिदप्युपाधावित्येतदेव। प्रतिपभ्नोपाधाविति मिध्या- त्वलक्षणघटकेनैतदर्थकेनोपाधिपदेन सूचितमित्यथः । ततश् न शून्यवादिभिः साम्यमिति भावः।सत्र हेतुमाह-शून्यवादिभिरित्यादिना । इदसुपलक्षणं, वस्तुतो ब्रह्ममिनने शून्यवादिमिरस्माकं साम्य- गौडम्रझानन्दी (लघुचन्द्रिका)। तभाह-नच बाधादित्यादि। सत्वेन अवाध्यरूपसप्तादात्म्येन। माध्यमिकान्पैः स्वैरपि वादिमिरिति शेषः। वथाच माध्यमिकमिन्रानामनुभवस्तादृश इति भावः। नत्तु-तथापि विशेषानुमानेपूक्तविशेषणस्य पक्षे अनुक्तत्वाद- र्थाम्तरम्, उकमिथ्यात्वस्य मिथ्यालक्षणत्वासंभवश्चालीके5तिव्याप्ते :- तत्राह-एतदिति। प्रपज्ञस् सस्तादातम्येन प्रतीयमानत्वमेव। सदर्थकेन अवाध्यार्थकेन। प्रतिपभ्रपद्युक्तेनेति शेषः। उपाधिपदस्य स्वसमीपवर्तिनि स्वधर्मसं- क्रामकार्थकत्बात्; स्वसमीपवृत्तिदृश््यत्वावच्छेदेन स्वगतसर्पादिधर्मभ्रमजनकत्वस्य प्रकृते तात्पर्यविषयत्वात्, सर्चा- विष्टानमेव प्रकृते उपाधिपदार्थ इति भाष:। लक्षणपक्षे तु उपाधिपदस्य सदर्थकत्वं विशेषानुमानपक्ष इषेति मक्ष्यते। सूचितमिति। प्रतिपन्रपदस्य स्वतादात्म्यधीविशेष्यार्थकतयोपाधिपदार्थे सति प्रपञ्जरूपस्वतादात्म्यधीवि- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। स्वाश्रयतादात्म्यसंसर्गकत्वं वक्तव्यम्। तथाच गौरवमत आह-अवाध्यरूपसत्तादात्म्येनेति। तादात्म्यस्यापि प्रतियोगितासंबन्धेन ब्रह्मधर्मत्वेन तप्रत्ययार्थत्वम्। तृतीयार्थः प्रतीत्यन्वयि संसर्गत्म् ; तथाच प्रपश्चे तादात्म्येन ब्रह्मैव सद्रूपं प्रकार इति भाव: । माध्यमिकैस्तथानुपगमात् सर्वैरपि इत्यसङतमतः पूरयति-माध्यमिकान्यैरिति। तेषामपि सथा स्वीकारे कि प्रमाणमत आह-तथाच्चेति-नन्वेतदेवेत्यादिनोपाधिपदस्य सदर्थकत्वकथनं व्यर्थ; उक्तरीत्या उक्तपक्षविशेषणेनैष निर्वाहादतः तत्सार्थकयितुं अवतारयति-ननु तथापीति। ननु-विशेषानुमानेऽपि उक्तपक्ष- विशेषणं पूर्यते, अतो नार्थान्तरमत आह-उक्त्मिथ्यात्वस्येति। प्रतिपनन खप्रकारकधीविशेष्यो य उपाधिरधिकरणं तन्निष्टन्रैकालिकनिषेधप्रतियोगितवरूपमिथ्यासस्येत्यर्थः । अलीके इति। द्रव्यं घट इतिवत्, असन्नृशज्गमिति विकल्प- रूपघृत्युपगमेन खमेवालीकस्य रूपान्तरेण प्रतिपन्नोपाधिस्तन्निष्ठास्यन्ताभावयोगिलस्य तत्र सत्वादिति भावः। पूर्ववाक्ये प्रपश्ः सत्वेन न प्रतीयत इति न, किन्तु प्रतीयत एषेत्यर्थात् सत्त्वेन प्रतीयमानत्वविशिष्टप्रपश्चस्य प्रपश्चविषयकप्रतीतेर्वा प्राधान्येन प्रक्रान्तत्वेऽपि तात्पर्यवशादत्र सत्वेन प्रतीयमानत्वरूपविशेषणपरामर्शक एव एतच्छब्दो नपुंस कलिन्त्ादित्याह- प्रपञ्चस्येति। "सत्साधौ धीरशस्तयोः" इति कोशास् सत्पदस्य नानार्थकत्वात् सर्वाधिष्ठानत्वलाभकोपाधिपदस्य सदर्थ- कस्वसंभवाय व व्याचटे-सदर्थकत्वेनेति। वृत्त्यर्थकासधातोः सदिति शत्रन्तं, तत्र शत्रर्थवर्तमानलाविवक्षया यस्सर्वदा वर्तमानमित्यक्षरार्थः, कालत्रयेऽप्यबाध्यमिति याषत् इत्याशयेनाह-अवाध्यार्थकेनेति। सत्पदं हि, अबाध्य- त्वेनैव ब्रह्मणो बोधकम्। "असन्नेव सभवति। असत् ब्रह्मेति वेद चेतू। अस्तिब्रह्मेतिचेद्वेद। सन्तमेनं ततो विदुः" इति श्रुवेः। सावन्मात्रेणोककार्थालाभादाह-प्रतिपन्नेति। उपाधिपदस्य कथ सदर्थकत्वमत आह-उपाघिपदस्येति। उप समीपवर्तिनि स्वधर्ममादधाति संक्रामयति इति व्युत्पसेरिति भावः । संक्रमो न गममं, किन्तु श्ञामं; गध्यर्थाना ज्ञानार्थलात् ; तथ्चाभ्यस्मिन् स्वधर्मावगाहितात् भ्रमरूपमित्याशयेनोपाधिसामान्यार्थकोपाधिपदेन कभं ब्रह्मण एव लाम इति शङ्कानिरासाय फलितार्थमाह-स्वसमीपवर्तिदृश््यत्वावच्छेदेनेति। नपाद्युपाधीनां स्फटिकादिय त्किंचिद्वस्तुमि धर्मसंक्रामकाणां व्यावृप्नये भवच्छेदेनेति। ईदृशभ्रमजनकत्वं यत्र सर्वस्य दृशयरूपधर्मिणोऽध्यासस्तदेवत्याह-सर्पा- चिष्ठानमिति। तन्व सत्पदार्थकालत्रयाबाध्यरूपं ब्रह्मैय, बाध्यस्य स्वात्मकद्ृश्यानधिष्ठानत्वेन सर्वाधिष्ठानखाभावादिति भावः । एतदभिप्रायेणव सदर्थकेति मूले उकं, न तु ब्रह्मार्थकेति; टीकायां चाबाध्यार्थकेति विधृतं। तादात्म्येन प्रतीयमा- नत्स्य प्रतिपभोपाधिपदाभ्याभप्रतीतेः सूचितमित्युक्तम्। अर्थतो लम्भितमिति तदर्थः । तदुपपादयति-प्रतिपन्रपद्-
Page 31
१४
गौडम्रझानन्दी (लघुचन्द्रिका)।
शेष्यत्वस्य शब्दतो लामेन प्रपसे सत्तादास्येन प्रतीयमानत्वस्यार्थतो काम इति भाव:। नच्-अवाध्यत्वापेक्षपा
कारसंबन्धित्यमेव साध्यतामिति-वाच्यम्; एतस्येव तरवापि साध्यतमसंमवाद्। लक्षणत्वपक्षेऽरपि बथासन्रिवेशे वैयर्थ्याभावात्, प्रतिपभेत्यादिविवरणायुक्तौ उपाधिपदसार्थक्याय तस्याबाध्यार्थकत्वस्योक्ततवान। ननु-सदर्थको-
लघुचन्द्रिकाया विट्ठलेशोपाभ्यायी।
स्येति। सति अबाध्ये। सत्तादात्म्येन अबाध्यतादात्म्येन। तथाच स्वतादात्म्यधीविशेष्यीभूतसत्रिष्ठत्रैकालिकनि- वेघप्रतियोगितरूपमिथ्यात्वलक्षणस्य शब्दलभ्यस्य नालीकेऽतिव्याप्तिः। सति असत्तादात्म्यधीविशेष्यलानुपगमेन खप- देनासतो दुर्धरल्ात् ; एवं विषयलाद्यवच्छिन्ने पक्षे उक्तमिथ्यात्वसिद्धौ सत्तादात्म्येन प्रतीयमानतस्याप्यर्थतः सिद्धेर्दुर्वार- तया तथा प्रतिबन्धान्न तदभावरूपासतस्य सिध्यापत्तिरूपार्थान्तरम्। यद्ा-खतनिवेशेऽननुगमात् सत्तादात्म्येन प्रतीय- मानत्वे सति, यावत्सदधिकरणकात्यन्ताभावप्रतियोगितमेव लक्षणं साध्यं चेति तत्सिच्धैव नो कार्थान्तरातिव्याप्ती इति भावः। अत्न प्रथमकल्पे उक्कदोषयोर्वारणाय मिथ्यालशरीरे प्रतिपन्नपदार्थेऽबाध्यत्वरूपं सत्वं प्रविष्टं, तथ् निषेधप्रतियोगित्वेन प्रतीयमानत्रूपबाध्यलाभावरूपं, तत्र च गौरवमित्याशङ्कते-नचाबाध्यत्वापेक्षयेति। यथाश्रुतमेव सम्यक्। द्विती- यकल्पे तु प्रतीयमानत्वस्यानतिप्रयोजनत्वात् अनुयोगितया सत्प्रतियोगिकतादात्म्यवत्त्वमेव सत्यन्तार्थः । तदभावोऽसत्वं, सत्रापि गौरवमित्याशङ्कते-नचेति। अबाध्यत्वेति। अबाध्यतादात्म्येत्यर्थः। सत्वेन अबाध्यरूपसत्तादात्म्येनेतिवद्। ननु-कालानुयोगिकसंबन्धप्रतियोगितरूपकालसंबन्धितं; अलीकेऽपि स्वस्रूपसंबन्धरूप विशेषणताप्रतियोगितसंभवात् कालानुयोगिकत्वनिवेशः । तथ सत्प्रतियोगिकतादात्म्यानुयोगिलापेक्षया न लघु, अत आह-तस्येति। कालिकत्वं न कालानुयोगिकत्वं, किन्तु अखण्डमेव धर्मान्तरमतो न तौल्यतादवस्थ्यमित्याह-विलक्षणेति। तथाचोक्तवैलक्षण्य- निवेशादेव नालीकेऽति प्रसङ्गः। भवदुक्तसत्यन्तार्थ तु तादात्म्यानुयोगित्वस्यासत्तादात्म्यानुयोगित्वमादायालीकेऽति- व्याप्तेर्वारणाय सत्प्रतियोगिकत्वनिभेशस्यावश्यकत्वात् न तौल्यमिति हृदयम्। यदितु असत्तादात्म्यव्यावृत्तं सत्तादात्म्येऽपि वैलक्षण्यं स्वीक्रियते, तदा तु तुल्यत्वान्नेयं द्वितीयकल्पे शक्केति बोध्यम्। ननु-कालसंबन्धित्वे सति सत्तादात्म्यधी- विशेष्ययावद्धर्मिनिष्टत्रैकालिकनिषेधप्रतियोगित्वस्य यावत्सदधिकरणकोक्त्तनिषेधप्रतियोगित्वस्य वा मिथ्यात्वलक्षणत्वे असस्यतिव्याप्तिपरिहारेऽपि तस्य साध्यत्वे विशेषानुमाने उक्तरीत्याऽर्थान्तरं दुर्वारम्; उक्कविशिष्टरूपमिथ्यात्वनिश्चयस्य सादात्म्याद्यभावरूपासत्त्वनिश्चयं प्रति विरोध्यविषयकत्वेनाप्रतिबन्धकत्वात्, सत्तादात्म्याद्यभावापेक्षया कालसंबन्धि- त्वाभावस्यैवासत्वरूपत्वेऽप्युक्त्तमिथ्यात्निश्चये कालसंबन्धितस्य सामानाधिकरण्यसंबन्धेनोक्त्प्रतियोगित्वे भासमानतया मिथ्यालनिश्चयस्य "विषयत्वाद्यवच्छिन्ने पक्षे तदवगाहिलेनोक्तासत्वनिश्चयेऽप्यविरोधितवादित्याशक्क तस्य तद्विरोधिलाय साध्यीभूतमिथ्यात्वे कालसंबन्धित्वं विशेष्यविधया निवेशयति-तथाचेति । यद्यपि कालसंबन्धित्वविशिषेक- प्रतियोगितस्य साध्यत्वेऽपि तन्निश्चयादर्थात् उक्त्तप्रतियोगितवविशिष्टकालसंबन्धिलनिश्चयसंभवेन कालसंबन्धिता- भावरूपा सत्त्वनिक्यवारणसंभव :; तथापि अविलम्बेन मिथ्यातानुमित्यैवोक्कतनिश्चयापत्तिरूपार्थान्तरवारणाय विशेषण- विशेष्यभाषव्यत्यास आदत्तः। एतस्येव कालसंबन्धितघटितस्येव। तस्यापि अबाध्यत्वेनाधिकरणघटितस्य, स्वातन्तयेणावाध्यतादात्म्यवत्वघटितस्य वापि। साध्यत्वसंभवादिति । व्यापके व्यर्थविशेषणताया अदूषणतया लघुसाध्यघटितस्यापि गुरोः साध्यता संभवति। प्रकृते तु गुरौ लघोरघटकत्वेन तस्य सुतरां तत्संभवः । कालिक- विशेषणतायामिव साध्यतादात्म्ये वैलक्षण्यागमे द्वितीये तयोंः समशरीरत्ाच्चेति भावः । अत्र लाघवेन कालसंबन्धित्वस्य सत्वपदार्थत्वे तदविरोधिसत्तादात्म्यघटितस्य कथं साध्यता ? विलक्षणतादात्म्योपगमे तदभावस्यापि समत्वेन असत्व- पदार्थत्वेन तदविरोधिकालसंबन्धित्वघटितस्य कथं साध्यता ? अर्थान्तरानिराकरणादिति न शङ्कनीयम् ; कालसंबन्धित्व- सतादात्म्ययोः समनियतत्वेनैकतरस्य मिथ्यात्वघटकतया सिद्धौ अपरस्यापि सिद्धिसंभवेनोभयविधासत्वनिश्चयरूपार्थान्त- रापसिषारणसंभवादित्यवधेयम्। लक्षणत्वपक्षेऽपीति । व्यवहारस्य लक्षणप्रयोजनत्वे लघोः संभवे गुरोः मिथ्यापदार्थ- तावच्छेदकत्वासंभवेऽपि व्यावृत्तेर्लक्षणप्रयोजनत्वे लघ्वघटितगुरोः व्यावर्तकत्वसंभवादिति भावः। ननु-तथापि लघु- संभवे गुर्वेव मूले कस्मै प्रयोजनाय उक्तमत आह-प्रतिपन्नेत्यादीति। प्राचीनोक्त्तीनामेव परदूषणनिरासायात्र समर्थ- नीयत्वादिति भावः।मनु-उपाधिपदेन प्रपश्चस्य सत्वेन प्रतीयमानत्वसूचने हेतुतया शून्यवादिनां सत्वेन प्रतीत्यर्हत्वा- स्वीकारकथनं मूलकृतोऽसअतं, तेषां तत्स्वीकारस्य तदविघटकत्वादित्याशक्क् तत्फलार्थान्तरनिरासहेतुतया तत्सङ्ञममितु-
Page 32
१४२ अद्वैतसिद्धि: सव्यार्या। [ परिच्छेद: २]
सिद्धिव्याख्या। मिष्टमित्यपि ध्येयम्। यत्तु -त्वयाऽप्यसचेन्न प्रतीयेतेति वदतोक्ताप्रतीतिं प्रति प्रयोजकत्वेनान्यदेवासत्वं वक्तव्यम्, अन्यथा कचिदप्युपाधौ सत्त्वेनाप्रतीयमानं चेदप्रतीयमानं स्यादित्यापाद्यापादकयोरभेद: स्यात्-इति। तब; कचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्ह चेन्न प्रतीयेतेत्यापाद्यापादकभेदस्य स्फुटत्वात्। कचिदप्युपाधौ सत््वेनाप्रतीयमानत्वमसत्वमिति लक्षणेऽपि, सत्त्वेनाप्रतीतेरपरोक्षत्वेनाप्रतीतौ प्रयोजक- त्वेनापाद्यापादकभेदस्य स्फुटत्वेनाभेदायोगाच। यच्च-ब्रह्मण्यङ्गीकृतं यत्प्रतिपन्नोपाधौ त्रैकालिकनिषेध- प्रतियोगित्वरूपबाध्यत्वाभावात्मकं सत्वं तद्विरुद्धस्यैवासद्रूपत्वं वाच्यम्, अन्यथा ब्रह्मण्यपि सत्त्वेन प्रती- त्यर्हत्वं तथाप्रतीयमानत्वं वा सत्वं स्यात्-इति। तदपि न; ब्रह्मनिष्ठसत्ताविरुद्धसत्त्वस्य निर्वकुम- शक्यत्वात्। तथाहि-ब्रह्मनिष्ठसत्ताविरोधित्वं तद्विरह्व्याप्यत्वं वा, किंवा तद्विरहरूपत्वम्। नादः; तस्यासत्यसत्त्वात्, व्याप्यत्वस्य सामानाधिकरण्यगर्भत्वात्, असतो निरधिकरणत्वात् । न द्वितीय :; तस्य प्रपथ्वसाधारणत्वेनासत्पदप्रवृत्तिनिमित्तत्वायोगात्, असतः प्रतिपन्नोपाध्यभावेन तथोक्तलक्षणासं- भवाच। अतएव-तद्विरहरूपत्वमेव ब्रह्मनिष्ठसत्त्वाविरोधित्वेन विवक्षितं, नच तस्य प्रपथ्वसाधारणत्वे- नासत्पद्प्रवृत्तिनिमित्तत्वायोगः, प्रपश्वः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वेति, विप्रतिपत्ति- दशायां ब्रह्मनिष्ठसत्ताविरहस्य तत्रासिद्धत्वेन प्रपश्वसाधारणासिद्धेरितिनिरस्तम्; उक्ताबाध्यत्वरूप- सत्त्वविरहात्मकत्वानङ्गीकारादसत्त्वस्य। अतएव च-प्रतिपन्नोपाधौ संसृष्टत्वेन प्रतीतत्वमात्रं तन्न्रं; लाघवात्, न तु तत्प्रमाणप्रतिपन्नत्वं; गौरवात्, एवंचासन्नृशृङ्गादेरपि विशेषादर्शनदशायां मृगकर्ण गौडब्रहमानन्दी (लघुचन्द्रिका)। पाधिपदेनापि प्रपञ्जस्यालीकत्वमादायार्थान्तरं दुर्वारम्, उक्कालीकत्ववादिना माध्यमिकेन प्रपज्जे क्षणकत्वादिभा- वनानिवर्त्यस्थिरत्वादेरिवाबाध्यत्वस्यापि शून्यत्वभावनानिवर्त्यस्य व्यावहारिकस्य स्वीकारेणाबाध्यत्वोपहितप्रपञ्वे प्रपञ्ञ तादात्म्यधीविशेष्यत्वस्वीकारात्-तत्राह-शन्येत्यादि। शून्यवादिभिः माध्यमिकमतानुयायिभिः। अबाध्य- स्वोपहितास्वीकार।दिति शेषः। सद्विष्ठानकेति। अबाध्यतवोपहितविशेष्यकेत्यर्थः। अवश्यकसेनार्थक्रियाकारित्वे-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। *
मवतारयति-ननु सदर्थकेति।उक्तालीकत्ववादिनेति। सब्रह्मप्रपश्चालीकत्ववादिनेत्यर्थः ।-माध्यमिकेनेति। स्वीकारद्वयान्वयि। ननु एतन्मते प्रप्चस्यालीकतया बाध्यत्वात् कथं तस्याबाध्यत्वोपहितत्वम्, तत्राह-प्रपश्चे इति। क्षणिकत्वं खाधिकरणक्षणध्वंसाधिकरणक्षणावृत्तित्वम्। भावना निदिध्यासनाधीनो दृढतरसंस्कारः। निवृन्तिः। कारणीभूताज्ञानेन सह नाश:। स्थिरत्वं तादृशक्षणवृत्तित्वम्। अबाध्यत्वस्य बाधकज्ञानाविषयत्वस्य। शून्यत्वं बाधधी- विषयत्वम्।-स्वीकारेणेति। अन्यथा क्षणिकत्वभावनाया इव शन्यत्वभावनायाः तदीयशास्त्रविहिताया वैयर्थ्य स्यादिति भावः। स्वीकारादिति। तथाचाबाध्यतादात्म्येन प्रतीयमानत्वस्यापि तन्मतेSलीकप्रपश्चसाधारणतया तदभावो नासत्वपदार्थः, नवा तन्निश्रयः आपाद्येत; प्रतियोगिनिश्चयेन प्रतिबन्धात्, किंतु शशशङ्गाद्यनुगतोऽन्य एव कश्षित् सखण्डोऽसखण्डो वा धर्मोऽसलपदार्थः। अन्यत्रासत्वेन संग्रतिपन्रे प्रपश्चे प्रतिपन्नोपाधो तैकालिकनिषेधप्रतियोगित्वनिश्च- याहितसवत्र त्रकालिकनिषेधप्रतियोगित्वरूपतद्याप्यधर्मनिश्चयेन तन्निश्चयापततिरूपार्थान्तर च दुर्वारम्, उपाधिपदाधीनस- त्तादात्म्येन प्रतीयमानत्वनिश्रयस्य विरोध्यविषयकत्वेन तदप्रतिबन्धकत्वादिति भावः । ननु शन्यमिति शब्दं वदन्ति इति न्युत्पत्त्या सर्वडपि शून्यवादिन एवेत्यत आह-शून्यवादिमिरिति। (अत्र पातः)
१ शून्यवादिभिरपि शन्यत्वभावनानिवर्त्यानामपि वियदादीनां यावत्सत्यवासनं सत्यत्वाज्गीकारेण, व्यावहारिकव्यबस्थाया उपपादनात्। विशञानरपात्ममिध्यात्वमतमेव शूव्यमतम्। नहि शुन्यं नाम कंचित्तत्वं तनोच्यते। अतएव तत्वस्य कस्यचिदपि स्मयानन्ञीकारात्तत्वज्ञानं विना सर्वबाधासंभवेन सर्वमिथ्यात्वासिद्धिरिति तन्मतं दृषितं भाभतीन्यायरलावल्यादौ बिस्तरेण।।
Page 33
१४३
सिद्धिव्याख्या।
प्रविश्य गजो गर्जति इत्यादिशब्दाभासेन गजस्य मृगकर्णसंसृष्टत्वेनेव, 'हिमालये नृशृङ्गादिकमस्ति' इत्यादिशब्दाभासेन नृश्क्गादेर्हिमालयादिसंसृष्टत्वेन प्रतीतिसद्धावात्प्रतिपन्नोपाधिकत्वमङ्गीकर्तव्यमिति- निरस्तम् ; तथा प्रतीतस्य नृशृङ्गादेरनिर्वेचनीयत्वं नासत्त्वरूपत्वम्। नच-शब्दाभासेनाभासरूपानिर्व- चनीयनृश्ृङ्गाद्यन्यासन्नृशृङ्गादेः प्रतीत्यभावे ब्रह्मजगतोस्तद्वैलक्षण्यासिद्धिप्रसङ्गः, वैलक्षण्यसिद्धे: प्रतियोगि- ज्ञानहेतुकत्वादिति-वाच्यम् ; भवद्भिमताभासासन्नभृङ्गादेरेवास्माभिरनाभासानिर्वचनीयनृशृङ्गादिरूप- त्वेनाङ्गीकारेण तदतिरिक्तस्यानाभासनृश्ङ्गादेरभावेनानिर्वचनीयविशेषरूपस्यैव शब्देन प्रतीतौ प्रतियोगिज्ञा- नस्यापि वृत्तत्वेन ब्रह्मजगतोसतद्वैलक्षण्यसिद्धेः । नच-आभासासनृशृङ्गादेः प्रतीत्यभावे शब्दाभासेना- भासानिर्वचनीयमेव प्रतीयते, नत्वनाभासासनृशङ्गादिकमिति भवदीयव्यवहार एवानुपपन्न इति-वा- च्यम ; अनाभासासन्नश्क्वादिकमिति भवदभिलापमात्रेण तस्य प्रतीतावस्मदीयस्य तथाव्यवहारस्योपपत्तेः। न च-परोक्षस्थले भवताऽनिर्वचनीयार्थोत्पत्त्यस्वीकारात् अपसिद्धान्त इति-वाच्यम्; तस्य पुरुषदो- पत्वेन वस्तुदोषत्वाभावात्। नच-नवीनैस्तत्रान्यथाख्यातिरेव स्वीकृतेति-वाच्यम्; परोक्षस्थल एवान्यथा- ख्यातिस्वीकारेण परोक्षस्थलमात्रे तैरपि तदनङ्गीकारात्, तथाऽनङ्गीकारे जगतोऽत्यन्तासत्वापत्तिरूपबाध- कस्यैव मूलत्वात्। तथाचासत्युक्तलक्षणस्यासंभवात् न जगतोऽत्यन्तासत्वापत्तिः । यदपि-ब्रह्मण्यपि सत्वेन प्रतीत्यर्हत्वं, तथा प्रतीयमानत्वं वा, सत्वं स्यान-इति । तदपि न; तयोः परस्परविरहरूपत्वाभा- वान्। एतेन-येन पुंसा शशमृङ्गाभावो न निश्चितः तस्य गोशङ्गमस्तीति वाक्यादिव शशशृङ्गम- स्नीति वाक्यादपि ज्ञानोत्पत्तेरनुभवसिद्धत्वेन शशशृङ्गादावप्यसत्वं न स्यात्, न च-'घढधष्' इत्यादि- निरर्थकेष्विव पदार्थधीरेव वा, कुण्डमजीजनमित्याद्यपार्थकेष्विवान्वयधीर्वा नास्तीति-वाच्यम्; विप- रीतबोधकेषु योग्यताया अभावेपि अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्कादिसामग्रीसभ्री- चीनस्य सत्वात्, अन्यथा प्रवृक्याद्यभावप्रसङ्गान् इति निरस्तम्; योग्यताया अपि शब्दज्ञानसहकारि- त्वेन तदभावेSस्माद्वाक्याच्छाव्दबोधानुपपत्तेः। न च-अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्ा- दिसामग्रीसध्रीचीनस्य सत्त्वाच्छाव्दज्ञानोत्पत्तिः, अन्यथा प्रवृत्त्याद्यभावप्रसङ्ग इति-वाच्यम्; तर्हि इदं रजतमित्यादिप्रात्यक्षिकभ्रमवदस्याप्यनिर्वाच्यविषयत्वोपपत्तेः । नच-अस्याप्यनिर्वचनीयत्वे शुक्ति- रूप्याद्देदो न स्यादिति-वाच्यम्; को हि अनिर्वाच्यादनिर्वाच्यं भेत्तुमध्यवसितः । यत्सत्वमेवमाक्षि- पसि, किन्तु निःस्वरूपात् । यथा च सत्वेन न निःस्वरूपविषयत्वं, तथोक्तं प्राक्। शशशरङ्गमस्तीति वाक्याभासाच्च अनिर्वेचनीयशशशृङ्गविषयको भ्रम उत्पद्यत इत्यत्र परोक्तबाधकानां उद्धृतत्वाच्च। अत एव-"तथैक आहुः असदेवेदमत्न आसीत्" इति श्रुत्यापि असतः सत्वप्रतीतेस्तत्राव्याप्तिः। नचैत- चुतिगतासत्पदस्यापि आभासभूतानिर्वचनीयासत्परत्वं परेणाभ्युपगन्तुं शक्यम्; तच्छ्रुतेर्बाह्यमतनिराक- रणार्थ प्रवृत्ततया तत्रत्यासत्पदस्य बाह्याभिमतासत्परताया एव स्वीकार्यत्वात्, अन्यथा 'कथमसतः सज्जायेत' इत्युत्तरवाक्ये त्निराकरणानुपपत्तेः -इति परास्तम्; 'सदेवेदमत आसीत्' इत्यस्यार्थस्याभाव एव नवा प्रतिपाद्यते, नत्वसतः सत्वं विरोधादित्यत्र तत्राव्यात्यनवकाशात्। तस्मात्कचिदप्युपाधौ सत्वेनाप्रतीयमानत्वमसत्वमित्युक्तेऽपि न कोऽपि दोषः । ततश्चासच्छशशृङ्गादाविव प्रंपंथ्े नात्यन्तास- त्वमिति। यद्वा-सदनिर्वाच्याभ्यामन्यत्वं, शशभृङ्गादीनामसत्वं नच-अनिर्वाच्यत्वस्य सद्विलक्षणत्वे सत्यसद्विलक्षणस्वरूपस्यासत्पद्घटितमूर्तिस्वरूपतया असत्वनिरूप्यतयाऽन्योन्याश्रय इति-वाच्यम्;
Page 34
१४४ अद्वैतसिद्धि: सव्याख्या। [ परिचछेदः २]
सिद्धिव्याल्या।
अस्मिन्पक्षे बाष्यत्वस्यैवानिर्वाच्यत्वेन सद्सद्वैलक्षण्यमात्रस्य वा सदसत्वानघिकरणगर्भस्य वा तत्वानग्गी कारेणानिर्वाच्यत्वस्यासत्वाघटितमूर्तितयाऽन्योन्याश्रयानवकाशात्। नच-अनिर्वाच्यत्वे बाधान्यथानु- पपात्ति प्रमाणत्वेन वदताSSचार्येण ततोऽन्यस्यैवानिवाच्यत्वं वक्तव्यमिति-वाच्यम्; बाध्यत्वस्ानि्वा- कयत्वेऽपि 'यदि बांघयोग्यं न स्यात्, तर्हि बाधो न स्यादिति' बाधान्यथानुपपत्तेरनिर्वाच्यत्वे प्रमाणत्वेन बकुं शक्यत्वात्। एतेन-सार्वत्रिकत्रैकालिकनिषेधाप्रतियोगिरूपसदन्यत्वस्यैवासत्त्वरूपत्वे लाघवादनि- र्वाच्यमिभनत्वं न निवेशनीयम्; गौरवात्, ननु-व्यवहारानुरोधेन तदालम्बनतया अनतिप्रसक्तत्रवृत्ति- निमिन्तकल्पनं, न तु तत्वेन स्वाङ्गीकृतलघुशरीरकधर्मानुरोधेन व्यवहारनियमनं युज्यते; अन्यथा गौर- वेण कारणव्यवहारालम्बनत्वेनानन्यथासिद्धनियतपूर्ववृत्तित्वं न स्वीक्रियेत, किंतु पूर्ववृत्तित्वमेव तथा स्वीक्रियेत-इति चेन्न; लोकवेद्योरनन्यथासिद्धनियतपूर्ववृत्तित्वादिकमादाय कारणादिव्यवहारस्या- विगानसिद्धत्ववत्, सदनिर्वाच्याभ्यामन्यत्वमादाय नृशङ्गादावसद्व्यवहारस्याविगीतत्वासिद्धेर्वैषम्यात्। तथाच लाघवेन सार्वत्रिकत्रैकालिकनिषेधाप्रतियोगित्वरूपसद्न्यत्वमेवासव्यवहारालम्बनतया स्वीकर्तुमु- चितं, न तु उक्तरूपसद्निर्वाच्याभ्यामन्यत्वं; गौरवादिति साधूक्तं-इति निरस्तम्; सार्वत्रिकत्रैकालि- कनिषेधाप्रतियोगित्वरूपसद्न्यत्वस्य तुच्छानिर्वाच्यसाधारणत्वेनेष्टापत्तेः । नच-अनिर्वाच्यस्यापि स्वरू- पेण त्रैकालिकनिषेधेऽसतोऽनिर्वाच्यात् अन्यत्वासिद्धिरिति-वाच्यम्; सर्वत्र स्वरूपेण त्रैकालिकनि- षेधप्रतियोगित्वस्य तुच्छानिर्वाच्यसाधारण्येऽपि क्चिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपात्यन्तासत्वस्य प्रपश्वे शुक्तिरूप्ये च बाधात्पूर्वमसत्त्वेनासतोSनिर्वाच्यात् अन्यत्वसिद्धेः, अनिर्वाच्यत्वस्य सर्वत्र प्रति- पभ्नोपाधौ स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वरूपत्वेSप्यसतः प्रतिपन्नोपाध्यभावेन प्रतिपन्नोपाधिस्थताद्दश- निषेधप्रतियोगित्वस्यानिर्वाच्यशुक्तिरूप्यादौ सत्वेन नृश्क्गादावनिर्वाच्यादन्यत्वसिद्धेश्च। नच-तद्गेहे गोभृक्गमस्तीति वाक्यात् गोशृङ्गस्येव विशेषादर्शनदशायां हिमालये देवदत्तगृहे नृश्क्वादिकमस्तीति वाक्यात् नृभङ्गादेरपि प्रतिपत्नोपाधिमत्वस्य दुर्वारत्वेन तस्यापि असदनिर्वाच्योभयसाधारणत्वेनासतो व्यावृत्तत्वाभा- वेन प्रतियोगितावच्छेदकत्वानुपपत्तिरिति-वाच्यम्; दत्तोत्तरत्वादिति। यद्वा-अर्थक्रियासामर्थ्याभावादिकं वा शशभृङ्गादीनामसत्वं, न च-शुक्तिरुप्यादौ शुद्धे ब्रह्मणि चातिव्याप्तिः, शुक्तिरूप्यशुद्धत्रह्मणोरत्यन्तास- त्वस्य त्वयानङ्गीकारादिति-वाच्यम्;बाधानन्तरं प्रतियोगित्वेनान्ततः स्वनिवृत्ति प्रत्येव जनकत्वेन शुक्तिर- प्यादावर्थक्रियाभावस्यासिद्धत्वात्, कटककुण्डलाधर्थक्रियाभावस्तूत्पन्नविनष्टरूप्यादौ विनश्यदवस्थागतकर्म- करादौ चास्तीति तत्साधारणं नासत्वापादकम्। न च-बाधानन्तरं 'मम शुक्तिज्ञानं नष्टं' 'ममरूप्यभ्रमो नष्टः' इतिव 'चछुक्तिरूप्यमुत्पन्नं नष्टमिति' कदाप्यननुभवेन तदुत्पत्तिविनाशयोरेव प्रमाणाभाव इति- वाच्यं; भ्रान्तिसमये पूर्वोत्पभ्नाविनष्टशुत्यमिन्नतया प्रहस्यैव प्रतिबन्धकस्य सत्वेन विरोधिज्ञानानुदयेन
व स्वनिवृत्तिजनकत्वस्य चापलपितुमशक्यत्वात्। न च-बाघसमयेऽपि तथानुभवाभावाच्छुक्तिरूप्यो- त्पत्तिविनाशौ अप्रामाणिकाविति-वाच्यम्; तदात्यन्ताभावग्रहस्यैव प्रतियोगिभ्रह इव तदुत्पादविनाशम- हेऽपि प्रतिबन्धकत्वात् । तस्मात् अननुभवस्यान्यप्रयुक्तत्वान्न ततः शुक्तिरूप्योत्पत्तिविनाशापलाप इति एक्कार्थक्रियाजनके तत्र नातिव्याप्तिः । नापि ब्रह्मणि शुद्धेऽतिव्याप्तिः; तत्र दृढदण्डत्ववत् शुद्धदशायां जनकतावच्छेदकविरहात्, सहकारिविरहाद्वा ऽर्थक्रिया ऽजनकत्वे5पि तदशायां तदविरोधात। नच-असज्गै-
Page 35
१४५
सिद्धिव्याक्या। कस्वभावतया श्रुत्यवधारितस्य विशुद्धचैतन्यस्यावच्छेदकीभूतधर्मवत्वसहकारिसज्गे स्वमावव्याकोपापत्तिरि- ति-वाच्यम्; औपाधिकतत्सभस्वीकारेSपि तस्य स्वाभाविकासडकरूपित्वेन सहाविरोधात्। नय- असड्गैकस्वभावतया श्रुतस्याSनाद्विद्यासङ्गस्यौपाधिकत्वं न संभवति, लोकवेद्योरागन्तुकोपाधिप्रागभावप्र- युक्कप्रागभावप्रतियोगिन्यौपाधिकत्वदर्शनादन्यत्र तद्दर्शनाच्ेति-वाच्यम; उपाध्यधीनस्थितिकत्वस्यौपा- धिकत्वेन तस्य प्रकृतेऽपि संभवात्, तञ्निवृत्तिप्रयुक्तनिवृत्तिप्रतियोगित्वेनौपाधिकत्वसंभवाच। नच- द्वितीयनिर्वचनं पारिभाषिकमिति-वाच्यम्; सर्वोपाधिकसङ्गाहकत्वेनास्य सर्वसिद्धत्वात्, प्रत्युताविद्या- संबन्धासङ्गाहकत्वेन भवदुक्तस्यैव पारिभाषिकत्वात् । अत एवापेक्षाबुद्धिनिवृत्तिप्रयुक्तनिवृत्तिप्रतियोगि- त्वादावपि तदुपाधिकत्वव्यवहारोऽग्रीकर्तव्य एवेत्यलम् । अथवा निःस्वरूपत्वमसत्वं, मिथ्याभूतन्तु न निःस्वरूपमिति न तस्यासत्त्वापत्तिः, नच-मिथ्याभूतस्यापि स्वरूपेणैव त्रैकालिकनिषेध इति पक्षे निःस्वरूपत्वं दुर्वारं, तस्य सस्वरूपत्वे स्वात्यन्ताभावसामानाधिकरण्यायोगादिति-वाच्यम्; मिध्याभू- तस्वरूपस्य सस्वरूपत्वेऽपि मिथ्यात्वादेव स्वरूपेण त्रैकालिकनिषेधसामानाधिकरण्ययोगित्वं; निस्वरू- पस्य तु निःस्वरूपत्वादेव तद्योगितेति विशेषात्। ननु-प्रतिषेधस्य सदा प्रतियोगिस्वरूपप्रतिक्षेपक- स्वभावत्वमस्ति, उत न; आद्ये प्रतियोगिस्वरूपेण सह सामानाधिकरण्यविरोधः, अन्त्ये स्वदेशे स्वकाले च प्रतियोगिम्वरूपसहिष्णोस्तत्प्रतिषेधस्य पारिभाषिकत्वापत्तौ ताद्ृशाभावप्रतियोगित्वेडपि स्वरूपेणा- भावप्रतियोगित्वं न सिद्धयेदित्यतस्तत्सिद्ध्यर्थ तत्र रजतादिस्वरूपं न सिद्धयतीति वाच्यम्; एवंचा- सत्वापत्तिर्दुर्वारा-इति चेन्न; स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वस्योभयसाधारणत्वेऽपि शुक्तिरजतादे- रत्यन्तासत्त्वस्य परिहतत्वात्। नच-निषेधाधिकरणे प्रतियोगिनोऽसत्वे सामानाधिकरण्यविरोधः, सत्वे वा तन्तुष्विवातन्तुष्वपि अभावस्य पटस्वरूपसहिष्णुत्वेन पटसत्त्वापत्तिरिति-वाच्यम्; किं तत्र पटस्वरूपमात्रमापाद्यते ? किंवाऽर्थक्रियासमर्थव्यावहारिकपटसत्त्वापातः ? आधे इष्टापत्तिः; तत्र प्राति- भासिकपटसत्त्वात्। द्वितीयेऽभावस्य व्यावहारिकपटस्वरूपसहिष्णुता न तत्स्वरूपसत्तापादिका, किंतु तत्सामग्री, सा च तन्तुष्वेवास्ति, नातन्तुष्वपि; कार्यव्यवस्थादर्शनेन तत्सामप्र्यास्तत्रैव कल्पनात्। नच- तन्तुषु व्यावहारिकपटसत्त्वकाले तत्र विद्यमानोऽपि तत्पटात्यन्ताभावो यथा तत्र पटसत्वाविरोधि, तथा तत्रैव तन्तुषु पटसामग्रीशरीरप्रविष्टः तत्प्रागभावः स्वयमेव स्वनाशरूपं तमेव पटं न विरुन्ध्यात्; उत्पन्नो वा पटस्तत्रैव तन्तुषु विद्यमानं स्वकाले स्वाभावरूपं प्रागभावं न विरुन्ध्यात्, एवं स एव पटस्तत्रैव तन्तुषु स्वकालेपि स्वनाशसहिष्णुश्च नाशो वा स्वकाले तत्र प्रतियोगिभूतपटसहिष्णुञ् स्यात्, प्रविरोधत्यागस्य दोषत्वेन त्वयाऽनङ्गीकारादिति-वाच्यं; मिन्नसत्ताकयोः पटात्यन्ताभावपटयोः तन्तुषु अविरोधेन तस्य पटसहिष्णुत्वेऽपि प्रतियोगिसमसत्ताकयोः प्रागभावध्वंसयोः प्रतियोगिना सह विरोधावश्यंभावेन पटसहिष्णुत्वेन विरोधावश्यकत्वात्, ध्वंसप्रागभावयोर्निराकरिष्यमाणत्वाच। यत्तु- यथा अपरोक्षप्रतीत्यन्यथाऽनुपपत्त्या प्रातिभासिकस्य घटादिवत्सस्वरूपत्वं तथापरोक्षप्रतीत्यन्यथाऽनुपपस्या धर्माधर्मादिवद्सतोऽपि सत्स्वरूपत्वं स्यात्-इति। तन्न; शब्दादिना धर्मोदे: परोक्षतया प्रतीयमान- त्वेन तत्प्रतीत्यन्यथाऽनुपपच्या सत्स्वरूपत्वेऽपि, असन्नश्ङ्गादेः शब्दादिनाऽप्रतीयमाजलवेन तदन्यथाऽनुप- पत्त्यभावात्। नच-अस्मादेव वाक्याच्तत्प्रतीतिः, अन्यथाऽसद्वैलक्षण्यज्ञानं न स्यात्, तज्जानस्य प्रति- योगिक्ञानाधीनत्वात्, असत्प्रतीतिश्च न स्यात् ; विषयनिरूप्यप्रतीतिनिरासस्य विषयप्रतीति विनाऽयोगात्, अ.सि. १९
Page 36
१४६ अद्वैतसिद्धि: सव्याल्या। [परिच्छेद: २]
सिद्धिष्या्या
भसतः प्रतीतिमान्नाविषयत्वे, असत्पदस्याबोधकत्वापस्या तत्सममिव्याहृतवाक्यस्याप्यबोधकत्वं च स्यात्; असतोSसत्त्वेनाप्रतीतौ असत्वव्यवहारो न स्यात्; असत्त्वप्रकारकप्रतीतेरेव व्यवहारहेतुत्वात्, तदुक्तम्- 'असद्विलक्षणत्वादैर्ज्ञातव्यमसदेव हि। तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥' इति-वाच्यम्; प्रती- त्यभावेऽप्यसतोऽसन्रशङ्गमिति विकल्पमात्रेणैव सर्वोपपत्तेः। तदुक्तम्-'शब्दज्ञानानुपाती वस्तुशून्योवि- फल्प' इति। शब्दज्ञानानुपातित्वं च, शब्दश्रवणोत्पत्तिकत्वम्। ननु-विकल्प: इच्छादिवज्ज्ञानान्यवृत्ति्वा? ज्ञानविशेषोवा? आद्ये जानामीत्यनुभवविरोधः, प्रवृत्त्याद्ययोगश्च। द्वितीये त्वसतः प्रतीतिरागतैव- इति चेन्न; आद्यपक्षे बाधकाभावात्। नचानुभवविरोधः; शशविषाणं जानामीति वा अनुभवामीति वा- इनुभवाभावात्, विकल्पमात्रादेव प्रवृत्त्याद्युपपत्तेश्र। नच-शशशृङ्गस्यासत्वाज्ञानदशायां तदस्तित्वज्ञानस्य गोभृङ्गास्तित्वज्ञानवत् मात्रयाऽपि विशेषो नानुभूयत इति तस्यापि ज्ञानत्वं न स्यादिति-वाच्यम्; धाक्याभासानाभासजन्यत्वाभ्यां विशेषस्य स्फुटत्वेन तस्य ज्ञानत्वसंभवात्। नचैवं-शुक्तिरूप्यादेरपि विकल्पमात्रं न तु प्रतीतिरिति स्यादिति-वाच्यम; शब्दज्ञानानुपातीति विशेषणेन शाब्दस्थल एव तदक्गीकारेण शुक्तिरूप्यादेः शाब्दत्वाभावेन वैषम्यात्। विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानाविषयत्वमसत्वं, शुक्तिरूप्यादेरसत्वे तु प्रतीतिविषयत्वं, विकल्पान्यप्रतीतिविषयत्वं चानुपपन्नमिति ततो वैलक्षण्यात्सस्वरू- पत्वं, नृश्नङ्गादेश्चोक्तरीत्या निःस्वरूपत्वम् । एतेन-वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा ? असदेवोल्लिखतीति वा ? आद्येऽनुभवविरोधः, व्यवहाराद्यनुपपत्तिश्च। नह्ययं घटादिवत्किमपि अनुह्धि- खन्ननुभूयते, द्वितीये तु इष्टापत्ति :- इति निरस्तम् ; सोपाख्यधर्मानुल्लेखित्वस्य वस्तुशून्यरूपत्वादिति । वस्तुवस्तु-शशशङ्गशब्दो निश्चितानन्वयित्वात् अपार्थको वा, सङ्गतिग्रहणाभावात् अबोधको वा। ननु- अपार्थकशब्देनाप्रत्याय्यकोक्तौ अनन्वयानिश्रयदशायां प्रवृत्तिपर्यन्तप्रतीत्यनुभवविरोधः, असत्प्रत्याय्यको- कौचेष्टापत्ति :- इति चेन्न; शशविषाणं जानामीति अनुभवाभावात्, प्रवृत्त्युपपत्तेरुक्तत्वाथ। न च- यौगिकशव्दानामवयवसङ्गतिव्यतिरेकेण पृथकूसङ्गत्यनपेक्षतया सतो वाऽसतो वार्ऽर्थस्य बोधनं संभवतीति- शङ्यम्; तावता सतोऽसतोवा अवयवार्थस्यैव बोधनसंभवेऽपि समुदायार्थस्य बोधनासंभवात्। समुदा- यस्य शशे शृङ्गाभावार्थकत्वात्। नच-तत्र तस्याः शक्तिरिति-वाच्यम्; नास्तीति पदसहितस्य तस्य तत्र शक्त्ते:संभवादिति द्रष्टव्यम्। यत्तु-सर्वस्मिन् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमित्यस्या- त्यन्तासच्छव्देन तुल्यार्थकत्वात् अत्यन्तासत्वं दुर्वारं, तुल्यार्थकत्वंच तत्र तदानीमसदित्यनेन तदा निषेधप्रतियोगित्वस्येव अत्यन्तासदित्यनेनापि सर्वत्र निषेधप्रतियोगित्वस्यैव प्रतीतेर्द्रष्टव्यम्। नच मिथ्या- भूतस्यापि स्वरूपेणैव प्रतिषेध इति पक्षे तदभावःसप्रतियोगिकः, तुच्छाभावो निष्प्रतियोगिक इति वा, मिथ्याभूतस्य सदा सर्वत्र सद्वैलक्षण्यमात्रं, तुच्छस्य स्वरूपेणैव प्रतिषेध इति वा, वैषम्यं वक्तु शक्यम्; मिथ्याभूतस्य स्वरूपेणैव निषेध इति पक्षे स्वरूपस्यैवाभावेन तद्भावस्यापि निष्प्रतियोगितया सप्रतियो- गिकत्वाभावात्, स्वरूपेणैव प्रतिषेधे सदा सर्वत्र सद्वैलक्षण्यायोगाच-इति। तबः शब्दार्थसाम्येऽपि कचिदप्युपाधावित्यादिनाऽत्यन्तासत्वाभावस्य प्रपश्वे उक्तत्वात्, असतः असत्वादेवात्यन्तिकनिषेधायो- गेन मिथ्याभूतस्य तद्योगेन तत्कृतस्य मिध्याभूतेऽसट्वैलक्षण्यस्म सिद्धेश्। नच-असत्, नात्यन्ताभावप्रति- योगि, असत्वादित्यत्र हेतूकृतमसत्वं अत्यन्ताभावप्रतियोगित्वरूपमित्युक्तसाध्यविरोधीति-वाच्यम्; हेतूकृ- तासत्वस्य सदा निर्वाच्यमिन्नत्वादिरूपत्वे विरोधाभावात्। एतेन-असत्वं प्रमाणसंबन्धाविषयत्वं
Page 37
१४७
सिद्धिव्याख्या।
विवक्षितं, तथाच तेन तादृशनिषेधाप्रतियोगित्वाभावसाधने विरोधशङ्कैव नेति कैश्रिदुक्कतं-निरस्तम्; असत्, स्वरूपेण न सार्वत्रिकत्रैकालिकनिषेधप्रतियोगि, प्रमाणसंबन्धाविषयत्वादिवि साधने तस्यैवानुमान- प्रमाणत्वेन तत्संबन्धावश्यंभावेनासति प्रमाणसंबन्धाविषयत्वरूपहेतोः स्वरूपासिद्ध्यापत्त्या तस्य हेतूक- र्सुमशक्यत्वात्। एतेन-हेत्वन्तरानुपलब्ध्या पारिशेष्यादसत्वस्यैव हेतूकर्तव्यतया विरोधतादवस्थ्यम्- इति निरस्तम् ; असत्तुच्छादिपद्जन्यप्रतीतिविशेष्यत्वादिरूपहेत्वन्तरोपलब्धेश्च ।। नच-तस्य प्रप- श्वेऽपि सत्वेन व्यमिचारः, नह्यसत्पदादिना प्रपथ्वो लक्षणयापि न प्रतिपाद्यते इत्यस्तीति-वाच्यं; शत्या तुच्छादिपद्जन्यप्रतीतिविशेष्यत्वेन हेतुत्वे व्यभिचाराभावात्। नच-येनापराधेनासति प्रति- योगित्वं नेत्यभ्युपगम्यते, तेनैवापराधेनासतस्तुच्छादिपदाशक्यत्वमभ्युपगम्यतामिति-वाच्यम्; तुच्छा- दिपदानामसति शक्तित्राह्ककोशादिविरोधप्रसङ्गेन तदशक्यत्वस्याभ्युपगन्तुमशक्यत्वात्। नच- संज्ञारूपेण तुच्छादिपद्स्य शत्तया देवदत्तादिप्रतिपादकत्वसंभवेन तत्पद्जन्यप्रतीतिविशेष्यत्वस्य तन्र व्यभिचार इति-वाच्यम्; संज्ञारूपेण तुच्छादिपद्जन्यप्रतीतिविशेष्यभिन्नत्वस्यापि विशेषणेन तत्राव्य- भिचारात्। तस्मादसत्वस्य सदसदनिर्वाच्यभिन्नतादिरूपत्वे न विरोध इति तत्त्वम्। यदपि-असति निरुच्यमानप्रतियोगित्वाभावपरोक्षज्ञानव्यवहार प्रतीत्यविषयत्वादिवद्सद्वैलक्षण्यनिषेधप्रतियोगित्वमप्युप- पद्यत-इति। नच-धर्मिसत्तानपेक्षाणां धर्माणां धर्मिणं विना व्यवस्थानसंभवेऽपि अत्यन्ताभावप्रतियोगित्वं न तथा तिष्ठतीति-वाच्यम; प्रागभावादिदशायां असत एव घटादेर्विद्यमानप्रागभावप्रतियोगित्वस्य धर्मि- सत्वनिरपेक्षस्य दर्शनेनाभावप्रतियोगित्वाविशेषात्, विद्यमानप्रागभावप्रतियोगित्वस्य धर्मिसत्तानपेक्षस- स्ववदृत्यन्ताभावप्रतियोगित्वस्यापि धर्मिसत्तानपेक्षसत्त्वसंभवात्। विद्यमानप्रागभावप्रतियोगित्वं, न धर्मिसत्तानपेक्षम्, धर्मिणो घटादेः प्रागभावादूर्ध्व प्रध्वंसात्प्राकू सत्वादित्यपि-नच वाच्यम्; यस्मिन् काले विद्यमानप्रागभावादिप्रतियोगित्वं धर्मो वर्तते, तस्मिन् काले धर्मी नास्ति; अन्यदा तु सत्यपि धर्मिणि विद्यमानप्रागभावप्रतियोगित्वादिरूपधर्म एव नास्ति; अतस्तादृशधर्मस्य धर्मिणं विनैवावस्था- नमू-इति। तत्रासतो नाभावप्रतियोगित्वं, तत्प्रतियोगित्वेऽसद्वैलक्षण्यस्य प्रयोजकत्वात्। नच- तथासति लाघवायासत्त्वस्यैव तत्प्रयोजकत्वापत्या अनिर्वचनीयस्य सद्विलक्षणस्याभावप्रतियोगित्वं न स्यादिति-वाच्यम्; अस्मन्मतेSसतोSपि भावरूपत्वे लाघवानवतारेण तद्वैलक्षण्यस्यैव प्रयोजकत्वावश्यं- भावात्। यदुक्त्तं-घटादेरविद्यमानतादशायां विद्यमानप्रागभावप्रतियोगित्वरूपधर्म प्रत्यायतनत्वं- इति। तदपि न; प्रागभावादौ घटादिप्रतियोगिकत्वमेव, नतु घटे प्रागभावप्रतियोगित्वम्। नच- घटादे: प्रागभावप्रतियोगित्वाभावे प्रागभावादिष्वपि तत्प्रतियोगिकत्वं न स्यादिति-वाच्यम्; धर्मिणो घटस्याभावेन धर्मस्याभावेऽपि घटप्रतियोगिकस्य धर्मिणः सत्वेन तद्धर्मस्य तत्प्रतियोगिकत्वस्य संभवात्। नच-प्रागभावादेर्घटप्रतियोगिकत्वे घटादेः प्रागभावप्रतियोगित्वमवर्जनीयमेवेति-शङ्यम्; इष्ठापत्तेः। धर्मिसत्वासत्वयोरेव विरोधात्। एवं सद्वैलक्षण्यमपि नासति, किंतु सत्येवासद्वैलक्षण्यम्। प्रतियोगित्वाभा- वोऽपि नासति,किन्तु प्रतियोगित्वाभावेSसदाश्रयत्वं। एवं ज्ञानव्यवहारयोरेवासद्विषयकत्वं, नतु असतो ज्ञान- व्यवहारविषयत्वम्। एवमसद्वैलक्षण्य एवासत्प्रतियोगिकत्वं, नत्वसद्वैलक्षण्यं प्रत्यसतः प्रतियोगित्वमिति न कोडपि दोषः । केचित्तु-असत्त्वं सत्वाभावः, स एव सद्वैलक्षण्यरूपः, स च वस्तुगत्या निरधिकरणो- डप्यधिकरणवत्वेन प्रतीतिमात्रेण निरूप्यते, नतु तस्य वास्तवसत्ताधिकरणवत्ताऽस्ति; एवं अतीताभावाधि-
Page 38
१४८ अद्वैतसिद्धि: सव्याल्या। [परिच्छेद: २]
सिद्धिव्यास्या।
करणलेव मयोच्यमानप्रतियोगित्वाभवेऽप्यिकरणसत्वनिरपेक्षतेति तस्यापि असज्ज्ञानमात्रनिरूप्यत्वात्। एवं ज्ञानव्यवहारं प्रति, विषयत्वमपि। नहि अतीतानागतवस्तुनो ज्ञानव्यवहारविषयत्वं स्वकाले तद्वस्तु- स्वरूपसत्त्वनिबन्धनमिति शक्यमभ्युपगन्तुम्। एवमसद्वैलक्षण्यमप्यसन्निष्ठात्यन्ताभावप्रतियोगिधर्मवत्व- स्वरूपमसज्जञानमात्रनिरूप्यम्। एवंचोक्तोदाहरणेषु न काप्यसत्वादीनामधिकरणस्वरूपसत्वापेक्षत्वं, प्रति- योगित्वं त्वधिकरणस्वरूपसापेक्षमिति असत्वादितो वैषम्यात् न तदष्टान्तेन निषेधप्रतियोगित्वस्योपपत्ति :- इत्याहु:। तन्न; प्रतियोगित्वस्यापि अभावज्ञानजनकज्ञानविषयत्वरूपस्यासत्वादिवदेव धर्मिस्वरूपनिरपेक्ष- त्वोपगमात्। शशविषाणत्वादिप्रकारेण शशविषाणज्ञाने शशविषाणं नास्तीति असद्वैलक्षण्यादेस्तत् प्रतीत्य- धीनसिद्धिकत्वात्। असतोऽप्रसक्तत्वापराधेन यदि निषेधप्रतियोगित्व न स्यात्, तदा त्रह्मजगतोः तत्प्रति- योगिकभेदवत्वरूपासद्वैलक्षण्यं न सिद्धेत्। निषेधप्रतियोगित्वसिद्धौ प्रतियोग्यधिकरणसंसर्गज्ञानरूपप्र- सक्तेरिव भेदप्रतियोगित्वसिद्धौ प्रतियोगितावच्छेदकाधिकरणसंसर्गज्ञानरूपप्रसक्ते: कारणत्वेन तदभावे निषेधप्रतियोगित्वस्येव तद्भावेऽपि भेदप्रतियोगित्वस्य कारणाभावेन सिद््यसंभवान्। किंचासतः प्रस- किरवश्यं स्वीकार्या, अन्यथा 'नासदासीनो सदासीतदानीं तम आसीत्' इति श्रुत्या निषेधबोधनाभाव- प्रसन्गात्, प्रत्यक्षेण प्रतियोगिप्रसक्तिं विना निषेधबोधसंभवेऽपि शब्देन प्रसक्तिं विना निषेधबोधनासं- भव :; तद्भावज्ञानस्यानुभवसिद्धत्वात्। एवं शशविषाणगोविषाणे इति समूहालम्बनादिकमादाय शशवि- षाणं नास्तीति निषेधज्ञानविशेष्यत्वस्य सति गोविषाणे सत्वेन तत्र नातिव्याप्तिः; शशविषाणं नास्तीति ज्ञाने शशविषाणत्ववैशिष्टयविषयकत्वेनैवोक्तसमूहालम्बनस्य जनकत्वात्। किंच प्रपश्चे ब्रह्मणि चासद्वै- लक्षण्यमसन्निष्ठात्यन्ताभावप्रतियोगिधर्मत्वस्वरूपं न परेणापि शङ्क्यम्; असन्निष्ठत्वस्य तदधिकरणकत्वरू- पत्वेनाधिकरणस्वरूपत्वप्रसङ्गात्। तस्मादसद्वैलक्षण्यधर्मविशेष वत्प्रतियोगिकत्वादिधर्म विशेषोऽपि धर्मिस्व- रूपसत्वनिरपेक्ष एवेति परेणापि स्वीकर्तव्यमिति नायं पन्थाः । अतएव-" तदेव निषेधप्रतियोगि भवति, यत्प्रसक्तिमद्भवति, असच्च न प्रसक्तिमत्, अतो न निषेधप्रतियोगि, नच ज्ञानमात्रं प्रसक्ति :; तथासत्यप्रसक्त्तप्रतिषेधत्वस्य कापि दोषत्वाभावप्रसङ्गात्, किंतु प्रतियोग्यधिकरणसंसर्गज्ञानम्, नह्यसतः कचिदप्यधिकरणे संसर्गज्ञानं संभवति; सामग्रीविरहात्, अतोऽसति निषेधप्रतियोगित्वं नाङ्रीकाराई इति मकरन्दोक्त्तमपि-साधु। यत्तु दूषणं-असतोऽप्रसक्तौ ब्रह्मजगतोरसद्वैलक्षण्यस्य 'नासदासीत्' इति श्रौतनिषेधस्य चासिद्ध्यापातेन, तथाऽसतिच सद्वैलक्षण्यस्य चासिद्ध्यापातेन चासतो ज्ञानमवश्यं स्वीकार्यम् ; असद्वैलक्षण्यादेस्तत्प्रतीत्यधीनसिद्धिकत्वात्, असतोSप्रसत्याSपराधेन यदि निषेधप्रतियोगित्वं न स्यातदा ब्रह्मजगतोरसत्प्रतियोगिकमेदवत्वरूपमसद्वैलक्षण्यं न सिद्ध्येत्। निषेधप्रतियोगित्वे सिद्धे प्रति- योग्यधिकरणसंसर्गज्ञानरूपप्रसक्क्तेरिव भेदप्रतियोगित्वसिद्धौ प्रतियोगितावच्छेदकाधिकरणसंसर्गज्ञानरूपप्र- सक्ते: कारणत्वेन तद्भावे निषेधप्रतियोगित्वस्येव तद्भावेSपि भेदप्रतियोगित्वस्य कारणाभावेन सिद्ध्य- संभवात् । किंचासंतोऽपि प्रसक्तिरवश्यं स्वीकार्या; अन्यथा'नासदासीनो सदासीत्तदानीं तम आसीत्' इत्यादिश्रुत्या निषेधबोधनासंभवात्, प्रत्यक्षेण प्रतियोगिप्रसक्तिंविना निषेधबोधसंभवेऽपि शब्देन प्रसकिं विना निषेधबोधनासंभवात्, शब्दस्य पदार्थत्वेन प्रसक्तिं विना प्रवृत्तेरेवायोगात्। नच-असतो ज्ञान- मात्रमपि दुर्लभं, प्रसक्तिरूपज्ञानविशेषस्तु सुतरामिति-वाच्यम्; तथासत्यसति सद्वैलक्षण्यस्य त्वयो- च्यमाननिषेधप्रतियोगित्वासिद््यापत्तेः, तस्यासत्प्रतीत्यधीनसिद्धिकत्वात्, अधिकरणज्ञानं विना तन्रा-
Page 39
१४९
सिद्धिव्याख्या
भावजञानायोगात्-इति। तन; ब्र्जगतोरसति च शब्दाभासादिना बुद्धिपूर्वकारोपेण वा प्रसक्ति:, परप्रवृत्तिनिवृत्तिपरेण शब्देनाप्रसक्ता निषेधेऽपि शब्दाभासादिमूलके प्रतियोगिस्मृत्यादिके सति प्रत्यक्षे- णाप्रसक्तस्यैव वा निषेधोपपत्तिः । शब्दाभासादिना प्रसक्तिवा, अप्रसक्त्तस्यैव प्रत्यक्षेण निषेध इत्यनङ्गी- कारेकुल्यमे हस्तिशताभावो न सिद्धयेत्। नच-यथानुभवसिद्धाया अक्कुल्यग्रे हस्तिशतं नास्तीति प्रतीतेर्दुरपह्नवत्वात् तदुपपादकं शब्दाभासादिप्रसत्यादिकं कल्प्यते, तथा शशशङ्गं नास्तीति प्रतीते- र्दुरपह्मवत्वात्तदुपपादकमपि कल्पनीयम्; तथाच शब्दाभासादिना प्रसक्तो सत्यां अप्रसक्तस्यैव वा शश- शृङ्गादेर्निषेधप्रतियोगित्वं भविष्यतीति निषेधप्रतियोगित्वतद्भाववतोरपि नानिर्वचनीयसतोर्भेदसिद्धिरि- ति-वाच्यम्; तर्हि ज्ञानमात्रं न प्रसक्तिः, तन्मात्रस्य सर्वत्र सुलभत्वेनाप्रसक्त्तप्रतिषेधस्य क्ाप्यदोषत्वा- पत्तेः; किन्तु कलअ्भक्षणादेरिव रागरूपा वाऽघिकरणप्रतियोगिताSवच्छेदकारोपरूपा वा वाच्या। तत्रासतः कलअ्जभक्षणादेरिवेष्टसाधनत्वाभावेन रागरूपप्रसक्तिरसंभाविनीति द्वितीयैव वाच्या; साच शब्दाभासकृता वा बुद्धिपूर्वकारोपरूपा वा स्यात्। तथाचासत्वेनाभिमतस्य तादृशारोपविषय- त्वेनास्मदभिमतमनिर्वाच्यत्वमेव स्यात्, नतु त्वदभिमतमत्यन्तासत्वं; अङ्गुल्यग्रे हस्तिशताभावे बुद्धि- पूर्वकारोपरूपप्रसक्तिसंभवादविरोधः । नह्येवं अत्यन्तासति नृशृङ्गादौ बुद्धिपूर्वकारोप: संभवति; संभवे वाऽसंभवे वा तस्यानिर्वाच्यत्वमेव स्यात्, नत्वत्यन्तासत्वमित्युक्त्तम्। एवमाभासस्य प्रसत्ताऽनाभासस्य निषेध इति पक्षे। प्रसक्तस्यैवाभासस्य निषेध इति पक्षेऽरपि चासदन्यस्यैव नृशङ्गस्य निषेधप्रतियोगित्वं सिध्यति; तस्यैव प्रतियोगितावच्छेदकनृशृङ्गत्वावच्छिन्नत्वात्, असच्छृङ्गस्यातथात्वात्। किश्च शश- शृङ्गं नास्तीति प्रतीतेः शशाधिकरणकशृङ्गाभावविषयकत्वेनान्यथासिद्धतया नासच्छृङनिषेप्रतियोग त्वसाधकत्वमिति। यच्वत्र दूषणं-विशेषादर्शनदशायां गोविषाणशब्दाद्विशिष्टं गोविषाणं बुध्वा अश्वे गोविषाणं नास्तीति प्रतीत्या गोविषाणस्येव शशविषाणशब्दाद्विशिष्टं शशविषाणं बुध्वा गवि शशविषाणं नास्तीति प्रतीत्या शशविषाणस्य तादृशस्यैव निषेधप्रतियोगित्वमनुभूयत इत्यविवादम्, अन्यथाऽननुभव- कलहे प्रवृत्तस्योन्मत्तवदुपेक्षणीयत्वापत्ते :- इति। तन्न; तस्याप्रसक्तत्वेन निषेधानुपपत्तेः। नच- गोविषाणशब्दात् विषाणस्येव शशविषाणशब्दात् वाक्यार्थविधयोपस्थितस्य पुनः शशविषाणशब्दप्रति- पादं किंचिदिति शव्देन रूपान्तरेणोपस्थितस्यानात्मन्यात्मन इव संसृष्टतया कुसूलादौ शशविषाणस्य बुद्धि- पूर्वकमारोपरूपप्रसक्ति:संभवतीति-वाच्यम्; एवं तस्य तत्र बुद्धिपूर्वकारोपविषयत्वेSनिर्वचनीयत्वमेव
चनीयत्वं नत्वात्मन इत्यङ्गीकारे चात्रापि न शशविषाणस्येति सुवचत्वात्, अन्यथा प्रपश्वेऽनाभासास- द्वैलक्षण्यासिद्धिप्रसङ्गात्, तत्र तस्यानपेक्षितत्वे आभासासद्वैलक्षण्यस्यापि तन्रानपेक्षितत्वप्रसङ्गात्, आत्म- शशविषाणयोर्बुद्धिपूर्वकारोपविषयत्वस्याविशेषेऽप्यात्मनो नानिर्वचनीयत्वं, किंतु तत्संसर्गस्यैवेत्यब्गीकारे शशविषाणस्य नानिर्वचनीयत्वं किन्तु तत्संसर्गस्यैवेत्यपि सुवचत्वाच्च, आत्मसत्वावेदकश्रुतेरपि शशवि-
सद्वास्तवसत्त्वत्यागेऽबाधकाथ-इति चेम; श्रुतेरारोपितमिथ्यात्मसत्वविषयत्वे जगदान्ध्यापत्याऽSत्म- सत्वावेद्कश्रुतेरनारोपितात्मसत्वविषयत्वस्य वक्त्तव्यत्वेन तस्यास्तद्वास्तवसत्वत्यागे बाधकत्वसंभवात् ।
Page 40
१५० अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: २"]
कारेण कच्िदप्युपाधौ सत्वेन प्रतीत्यनर्हत्वरूपासड्वैलक्षण्यस्य (कचिदप्युपाधौ सरवेन पतीत्यर्हत्व- रूपस्य) शुक्तिरुप्ये प्रपश्चे चानड्रीकारात्।.नन्वेवं सति-याक्त्सद्धिकरणात्यन्ताभावभ्तियोगित्वं पर्यवसितम्। तथाच केवलान्वय्यत्यन्ताभावप्रतियोगिषु अवृत्तिषु गगनादिषु तार्किकाणं सिद्ध- साधनम् ; यद्धिकरणं यत्सत् तश्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति विवक्षायां, अधि- करणपदेनावृत्तिनिराकरणेऽपि संयोगसंबन्धेन समवायसंबन्धेन वा यत् घटाघिकरणं समवायसं- बन्घेन संयोगसंबन्धेन वा घटस्य तन्निष्ठात्यन्ताभावप्रतियोगितया सर्वेषु वृत्तिमत्सु दुरुद्धर सिद्ध- साधनम्.पेन संबन्धेन यद्यस्याधिकरणं तेन संबन्धेन तभ्निष्ठात्यन्ताभावप्रतियोगित्वमिति विवक्षा-
सिद्धिव्याख्या। सत्वमित्यत्र परेण बुद्धिपूर्वकारोपस्थलेऽधिष्ठानयाथात्म्यदर्शनस्यावश्यकत्वेन तेन तत्र तद्जाननिवृत्त्यवश्यं- भावेन तत्रानिर्वचनीयार्थोत्पत्तेरयोग इति दूषणंउक्तम्। तन्न; तत्राघिष्ठानतत्वसाक्षात्कारेणाज्ञान- गतावरणशक्तिमात्रानिवृत्तावप्यज्ञानस्यानिवृत्तत्वेन विक्षेपशक्तिमद्ज्ञानेन विद्यमानेनानिर्वचनीयार्थोत्पत्ति- संभवात्। नच-चरमवृत्त्येवाधिष्ठानतत्वज्ञानेनापि, सर्व्राज्ञाननिवृत्तिरवश्यं् स्ीकार्ा,अन्यथा चर- मवृत्त्याऽप्यावरणशक्तिमात्रं निवर्तते, न मूलाज्ञानमित्यापत्तिरिति-वाच्यम्; चरमवृत्त्युत्तरकाले विक्षे- पादर्शनेन विक्षेपशक्तिमद्ज्ञानकल्पनाभावेनाज्ञाननिवृत्तेसत्रावश्यकत्वादिति। अत एव-एवमङ्गी- कारेऽज्ञाननिवृत्त्यनुभवविरोध इति-निरस्तम् ; विक्षेपानुसारेण तस्य भ्रान्तित्वात्। नच-यत्र बुद्धि- पूर्वकमारोपितं तत्कालमेवानिर्वचनीयं तत्रोत्पद्यत इत्यङ्गीकारे तव व्यावहारिकघटादिप्रतियोगिकाभावः कापि न सिद्धेत्, 'इह भूतले घटो न' 'इह चत्वरे घटो न' तस्याप्यनुभवस्य प्रातिभासिकबुद्धिपूर्व- कारोपप्रसक्तघटाद्यभावविषयत्वावश्यंभावेनाव्यावहारिकघटादेरप्रसक्ततया तद्भावविषयत्वानुपपत्तेरिति- वाच्यम्; तस्यापि घटत्वादिरूपप्रतियोगितावच्छेदकाक्रान्ततया तेन रूपेण तदभावोऽवश्यं भासते इत्य- भ्युपगमात्। नच-प्रातिभासिकव्यावहारिकघटादिसाधारणतयैकघटत्वादिरङ्गीकारानरहः, अन्यथा उत्पन्नविनष्टरजतादिवदर्थक्रियाभावस्योपपादयितुं शक्यत्वेन प्रातिभासिकस्यापि व्यावहारिकत्वप्रसङ्ग इति-वाच्यम्; अथापि प्रतीतिमात्रनियतसत्ताकत्वलक्षणप्रातिभासिकत्वस्यानपायादिति दिक् ॥ नन्वे- वंसतीति । उपाधिपदस्य सदर्थकत्वे सतीत्यर्थः । सिद्धसाधनमिति । तेष्वतिव्याप्तेश्चेति ध्येयम्। अवृत्तिनिवारणेSपीत्यत्र अतिव्याप्तिनिवारणेऽपि तदादाय सिद्धसाधनवारणाय चेत्यर्थः । संयोगसंबन्धेन घटाधिकरणं भूतलादि, समवायसंबन्धेन घटाधिकरणं कपालादि, ततश्च संयोगसंबन्धेन कपालादि- निष्ठात्यन्ताभावप्रतियोगित्वात्समवायसंबन्धेन भूतलनिष्ठात्यन्ताभावप्रतियोगित्वाद्वटादेः सर्वेपु वृत्तिमत्सु दुरुद्धरं सिद्धसाधनमित्यर्थः । येन संबन्धेनेति। ततश्र समवायसंबन्धेन घटाधिकरणे कमालादौ तेनैव गौडम्रह्मानन्दी (लघुचन्द्रिका)। नालीकव्यावृत्तेन 'सन् घट' इत्यादिप्रत्ययोपपसेरुक्त्ताबाध्यत्वं माध्यमिकेन न स्वीक्रियते। नच-बाधात्पूर्वमबाध्यतवं प्रपञ्जेऽस्त्येव तन्मतेऽपीति वाच्यम्; त्रिकालाबाध्यत्वस्यैवास्माभिनिवेशात्। तथ कालानवच्छिसं बाधकज्ञानाविष- यर्वरूपम्, तज्ज ग्रह्मणि मन्मतेऽस्ति, तन्मते तु न कुत्रापीति भावः। नचैवं-तन्मते शून्यतवभावना व्यर्थेति-वाध्यमू; तस्या: परमकाष्टापअ्नवैराग्यहेतुत्वेन प्रपञ्नस्वरूपबाधकतवेन चात्महानिरूपमोक्षसम्पादकत्वेन तन्मते स्वीकारात्। अनङ्गीकारादित्ति ५ अवाध्यविशेष्यकप्रपज्जभ्रमस्य स्वीकारे अपञ्ञेऽप्यबाध्यतादात्म्यभ्रमोऽवश्यं स्वीकार्यः; परस्प- राध्यासानुरोधाव, अन्यथा तु तत्र मानाभाव इति भावः । सदधिष्ठानकभ्रमानक्गीकारमात्रं विशेषानुमानोपयुक्तम्। अनङ्गीकारादित्यन्तं सामान्यानुमानोपयुक्तम्। एवं सति मिथ्यात्वस्य सर्वप्रतिपभ्रोपाधिघटितत्वे सति। पर्यवसित- मिति। मिथ्यात्वमिति शेषः । प्रतिपञ्जेत्यस्य तु प्रयोजनाभावादनिषेश इति भाष: । यदधिकरणं यस्याधिकरणम्।
Page 41
१५१
यां अध्याप्यवृत्तिषु संयोगादिचु सिद्धसाधनं-इति वेज। येन रूपेण यद्धिकरणतया यत् प्रतिपनं तेन रूपेण तन्निष्ठात्यन्ताभावप्रतियोगित्वस्य प्रतिपन्नपदेन सूचितत्वात् । तथ रूपं संबन्धविशेषोऽव- कछेदकविशेषद्च। नहि संबन्धविशेषमन्तरेण भूतले घटाधिकरणता प्रतीयते । अवच्छेदकविशेषम- न्तरेण वा वृक्षे कपिसंयोगाधिकरणता। तथाच येन संबन्धविशेषेण येन चावच्छेदकविशेषेण यद- चिकरणताप्रतीतिर्यत्र भवितुमर्हति, तनैव संबन्धविशेषेण तेनैव चावच्छेदकविशेषेण तद्धिकरण- कात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति पर्यवसिते क सिद्धसाधनम् । यदि पुनः ध्वंसप्राग- भावप्रतियोगित्वमिवात्यन्ताभावप्रतियोगित्वमाकाशादौ न स्यात् ; साधकमानाभावस्य तुल्यत्वात्,
सिद्धिव्याख्या।
संबन्धेन तत्प्रतियोगिकात्यन्ताभावस्याभावान्न घटादिकमादाय सिद्धसाधनमित्यर्थः । अव्याप्यवृत्तिष्वि- ति। स्वात्यन्ताभावसमानाधिकरणेष्वित्यर्थः। सिद्धसाधनमिति। समवायसंबन्धेन वृक्षवृत्तिसंयोगस्य गुणस्य तेनैव संबन्धेन तन्निष्ठात्यन्ताभावप्रतियोगित्वात्तस्मिन् सिद्धसाधनमित्यर्थः । सिद्धसाधनमिति। सर्वेषु वृत्तिमत्सु अव्याप्यवृत्तिषु संयोगादिषु च सिद्धसाधनमित्यर्थः । यदि पुनरिति। अस्य व्यवद्दितेन तदेत्यनेनान्वयः । ननु-आकाशो भविष्यति, आकाशो ध्वस्तः इति प्रतीत्यभावात् मास्तु ध्वंसप्रा- गभावप्रतियोगित्वं, अत्यन्ताभावसाधकप्रतियोगित्वं तु स्यात् इत्याशङ्ग्याह-साधकेंति । तुल्यत्वमेव गौडव्रह्मानन्दी (लघुचन्द्रिका)। संयोगेत्यादि। संयोगेन घटस्य यद्धिकरणं तन्निष्ठात्यन्ताभावस्य समवायेन प्रतियोगितया समवायेन यत् घटस्या- धिकरणं तम्िष्टात्यन्ताभावस्य संयोगेन प्रतियोगितया च सिद्धसाधनमित्यर्थः। सूचितत्वादिति। तथाच प्रतिपस्रपद- मुक्तार्थलाभायैवेति भावः। अन्तरेण विनैव। संबन्धावच्छेदकी निवेश्याधिकरणता न प्रतीयत इति नेत्यर्थः। एवकारा- न्तर्भावेन तादृशार्थलाभात्। तादृशप्रत्ययाभावस्य नहीत्यनेन निषेधः। यथाशुतं त्वसङ्गतम्-संबन्धावच्छेदकौ विनापि अधिकरणताधीसत्वात्। ननु-गगनाधिकरणत्वाप्रसिद्धया तस्य मिथ्यात्वानुपपत्तिः, अतआह-तथाचेति।अर्हतीति, प्रतीतिनिवेशे यावत्वमधिकरणे देयम्। अन्यथोक्ताधिकरणतायास्तच्छून्येऽपि प्रतीतिसंभवेन सिद्धसाधनतापतेः। तथाथ लाघवाधेन संबन्धेन यद्वच्छेदेन यस्य संबन्धि यत् तव्िष्ठेत्याद्येव निवेश्यम्; प्रतिपन्नपदेन तादशसंबन्धित्वेन प्रमा- योग्यत्वस्य तादृशसंबन्धित्वरूपस्य लाभात्, संबन्धित्वं भूतलादौ गगनादेरपीति न तत्राव्याप्तिरिति भावः। तेनैव सं-
तदन्य संबन्धानवच्छिंभप्रतियो गित्वलाभाय एवकारः। तेनैवावच्छेदक विशेषेणेति। तैदन्यावच्छेदकानवच्छिसेत्यर्थः। तस्य तदधिकरणकतवेऽन्वयः। सिद्धान्ते अत्यन्ताभावमात्रस्य सर्वदेशकालवृत्तित्वेनावच्छि्षवृत्तिकान्यत्वासटवचछसे- स्यनुक्ता तदन्यानवच्छिन्नेत्युक्तम्।वस्तुतस्तु-अवच्छिन्नवृत्तिकान्यतवमेव तद्धिकरणकात्यन्ताभावे देयम्; अन्यथा व्याप्यमृत्तिसाधारणपक्षकानुमाने व्याप्यवृत्यंशे यथोक्त्तसाध्यासंभवादिति ध्येयम्। ननु-नोक्तसिद्धसाधनसावकाश: प्रकृतानुमानावताशतपूर्वमेव अवृत्तिगगनादावत्यन्ताभावप्रतियोगित्वे वृत्तिमत्सु सवसमानाधिकरणात्यन्ताभावप्रतियो- गित्वे च वक्ष्यमाणरीत्या मानाभावात्-तत्राह-यदि पुनरित्यादि। न स्यात् नास्ति। मिथ्यात्वानुमानावता- रात् पूर्वमिति शेषः। ननु-गगनादेरप्रत्यक्षत्वमते तद्भावस्य प्रत्यक्षत्वासंभवेऽपि गगनादिकं, भूतलादिनिष्ठारन्ता- भावप्रतियोगि, भूतलादिनिष्ठस्य वृत्तिनियामकसंबन्धस्याप्रतियोगित्वात्, नित्यरूपादिनिष्ठात्यन्ताभावप्रतियोगि, नित्य- १ विशेषानुमानटृष्टान्तें रजतत्वेन घटो नास्तीति प्रमितिसिद्धाभावप्रतियोगिनि घंटे व्यधिकरणधर्मावच्छिन्नाभावे संबन्धविशेषाव- चिछन्नत्वाप्रसिध्या संबन्धविशेषावच्छिन्नोक्तप्रतियोगिताभावेन साध्यवैकल्यमिति न्यायभास्करोक्तमप्येतेन पराहतम्। व्यधिकरणधर्मा- वच्छिन्नप्रतियोगिताया अपि संबन्धविशेषावच्छिन्नत्वाक्कीकाराच्चेति। २ ननु-रजतत्वेन घटाभावप्रतियोगितामादायार्थान्तरवार- णार्थ प्रकारतावचछेदकताधर्मपर्याप्तावच्छेदकताकत्वस्य प्रतियोगितायां निवेशनावश्यकत्वात् तादृशस्य दृष्टान्तस्वासिद्धिरिति-व्वेज्न; रजततवेन घटाभाषीयप्रतियोगिताशून्यत्वे सतीति पक्षविशेषणेनैवोक्तदोषवारणेन गौरवप्रस्तस्योक्तविशेषणस्यादानेन दृष्टान्तसिद्धिसंभ- वाद्। पारमार्थिकत्वेनेति पक्षे तु सद्रपसामानाधिकरण्यनिवेशसंभवाओ्नोक्तपक्षतावच्छेदकनिवेश इत्यादिकं पक्षतावच्छेदकविचारे विठ्ठलेशीये प्रतिपादितमित्युक्तदोषापादनपरा न्यायभास्करोक्तय: पराहता इति मन्तव्यम्-इति ।
Page 42
१५२ अद्ैतसिद्धि: सव्याख्या। · [ परिच्छेद: २]
इडाकाशो नास्तीति प्रस्यक्षम्रतीत्यसंभवात्, अनुमाने चानुकूलतर्काभावान्, सामान्यतो टषमात्रेण ध्वंसभागभावप्रतियोगित्वस्यापि सिद्धिप्रसङ्गात्, तथ्यतिरेक्रेण कस्यचित् कार्यस्यानुपपरोरमाचाच्,एवं संयोगसंयन्धेन घटवति भूतले समवायसंबन्धेन घटाभावसस्वे मानामावाल्ञाववेन घटात्यन्तामाद- त्वेनैव घटसामानाधिकरण्यविरोषित्वकल्पनात् संबन्धविशेषप्रवेशे व गौरवात् घटसमचायमात्रषि- षयतया प्रतीतेरुपपरेराघाराधेयमावस्य प्रत्यक्षसिद्धत्वेन घटस्यावृत्तित्वशङ्कानुदयाडुकयुक्तेम् न vvw. गौडब्रह्मानन्दी (लघुचन्द्रिका)। रूपादिनिष्ठसंबन्धाप्रतियोगित्वान्तजलादिविदित्याद्यनुमानं मानमस्तु-तत्राह-अनुमाने चेति । तर्काभावा- दिति। अप्रत्यक्षस्यापि गुरुत्वादेस्तेजआदावत्यन्ताभावोऽनुमीयते, तत्र तदसर्ये गुरुतवाद्यापर्या पतनाघुत्पस्याद्याप- सिरूपतर्कसर्वात्, प्रकृते तु न तर्क इति भावः। अन्यथेति शेषः। सामान्यतो दष्टमात्रेण तर्कहीनेन अन्वय- व्यतिरेकिणा गगनतजलान्यसरत्वादिहेतुना। नन्वेवं-आकाशादौ घटादिमेदोऽपि न स्याद्, अयोग्याधिकरणे भेद- स्याप्रत्यक्षत्वात्, अनुमानस्याप्रयोजकरवाञ्ञ-तत्राह-तद्यतिरेकेणेति। आकाशे घटामेदे घटत्वस्यातिप्रसवत्या तङ्कू- पेण कपालादिकार्यताप्रत्यक्षरूपकार्यस्य व्यतिरेक: स्यात्; नित्यसाधारणरूपस्य कार्यतानवच्छेदकरवादिति भावः। आकाशास्यन्ताभावस्य त्वस्वीकारे न तथेत्यर्थः । एवमिति। न घटादेरत्यन्ताभावसामानाविकरण्यमित्वप्रिमेणा- न्वेति। एवं शष्दारथं प्रत्यक्षानुमानाद्यभावरूपं हेतुं प्रकटयति-संयोगेत्यादि। ननु-प्रतियोग्यत्न्ताभावयोर्विरो- ित्वं संबन्धविशेषमन्तर्भाव्यैव कल्पनीयम्। तथाहि-विरोधित्वं सहानवस्थानम्। तदपि द्विविधम्। साक्षात् ज्ञान- द्वारकं च। तत्रादयं तद्देशतत्कालावच्छेदेन सेन संबन्धेन तडूपविशिष्टप्रतियोगिनोSधिकरणे तद्देशकालावच्छेदेन वर्तमा- नत्वस्याभाव: तत्संबन्धतद्रूपावच्छिभ्नप्रतियोगिताकात्यन्ताभावनिष्टः, द्वितीयं तु तादशाधिकरणनिश्चयक्षणे तदुत्तरक्षणे च ताइशाभावस्य तारशवर्तमानत्वज्ञानाभावः। तथाचोक्तविरोधितयोरन्यथानुपपत्तिरेव संयोगादिना घटाय्यधिकरणे समवायादिना तदभावसाधिका, तत्राह-लाघवेनेत्यादि। लाघवेन अभावप्रतियोगितामात्रस्य संबन्धावचछि- भत्वाकल्पनया, संबन्धविषयत्वघटितरूपेणाभावबुद्धे: प्रतिबन्धकरवाकल्पनया च लाघवसंभवेन। घटात्यन्ताभाव- त्वेन घटत्वावच्छिक्षप्रतियोगिताकात्यन्ताभावत्वेन । घटसामानाधिकरण्यविरोधित्वेति। सामानाधिकरण्यध- टितस्य साक्षाद्विरोधित्वस्य ज्ञानद्वारकविरोधित्वस्य चेत्यर्थः। देशकालावच्छेदं संबन्धं तद्वच्छित्नत्वं चानन्तर्भाव्यैवो- कविरोविते वाच्ये; उक्तलाघवसंभवादिति भावः । गौरवात् संयोगादिनानासंबन्धावच्छिअ्त प्रतियोगिसाकानन्ता- मावाना कल्पनागौरवात्, संबन्धघटितरूपेणाभावबुद्धे: प्रतिबन्धकत्वकल्पने संयोगादिसंबन्धावच्छिस्नत्वघटत्वाद्यव चिछन्नत्वयो: प्रतियोगितांशे विशेषणविधया निवेश्यतया प्रतियोगिताविषयताया मेकविषयतानिरूपितत्वविशिष्टस्यापर- विषयतानिरूपितत्वस्य विशेषणत्वे वाच्ये विनिगमकाभावेन अवच्छेदकमेदात् प्रतिबन्धकताभेदे गौरवाच। ननु- घटसंयुक्ते समवायेन घटो नास्तीति प्रतीत्यन्यथानुपपर्याभावस्य संबन्धावाच्छिसप्रतियोगिताकरवं सिदातु, किंचाभा- वबुदे: संबन्धावच्छित्नप्रतियोगित्वविषयकत्वम नन्तर्भाव्यैव प्रतिबन्धकतवे संयोगेनात्र घटो नास्तीति बुद्धेरपि समवाये- नान्र घट इति धीप्रतिबन्धकत्वापत्िः, अथ-संबन्धावच्छिसप्रतियोगित्वविषयिका घीः न प्रतिबन्धिका-इति चेव् तर्हि समवायेन नात्र घट इति बुद्धेरप्युक्तप्रतिबन्धकरवं न स्यात्, तत्राह-घटसमवायाद्यभावमात्रविषयक-
प्रतीत्युपपत्तेः 'समवायेनात्र घटो नास्ती' ति प्रतीतेर्विषयोपपसेः, 'समवायेनात्र घट' इति धीपतिबन्धकतवोपपतेश। मात्रेत्यनेन संबन्धावच्छिसप्रतियोगिता न विषयो नवा तद्धटितरूपेण प्रतिबन्धकतेत्यर्थः। 'शिखी नैत्ो नष्ट' इत्यादौ चैत्रीयशिखादेनाशप्रतियोगित्वमिव समवायेन घटो नास्तीत्यादौ समवायविशिष्टघटत्वादिरूपेण घटादेभीनेऽपि घटीय- समवायादेरत्यन्ताभावप्रतियोगितवं भातीति समवायेनाव घट इति ज्ञानं प्रति घटसमवायोSत्र नासतीति निश्रयस्य परैरपि प्रतिबन्धकतवं वाच्यम्, परंतु स्वरूपसंबन्धावच्छिता या घटसमवायत्वावच्छित्ा प्रतियोगिता तभिरूपकाभा- वविषयकरवेन। तथाच लाघवादुक्संबन्धावच्छिव्त्वमनन्तर्भाव्यैव तदुच्यताम्। नय-घटसंयुक्तादिदेशे केनचित्सं- बन्धेन घटसमवायस्य सत्वात् तद्भावोऽपि तत्र न संभवतीत्युक्तमीप्रमारवोपपतये समवायेन घटाभाव एव सद्िषय इति-वांच्यम्। स्वरूपसंबन्धेन हि परैर्वटसमवायस्याभावो यः स्वीकियते स एवासामिर्घटसमवायाभाव उच्यते; तस्पैव घटसमवायीयदैशषिकसाक्षात्संबन्धविरोधात्। अतएव-केनचित्संबन्धेन घटादे: सर्वत्र जन्मे मूर्तें क सर्वातत्र घटसामां्याभावभीप्रमातवोपपसथे संबम्धविशेषावचछिम्प्रतियोगितावश्यं वाच्येति-परास्तम् ; घटी- यदैशिकलाक्षतसंवन्वसामान्याभावसैव चटसामान्याभावत्वा्। तारशज वटस् संबन्ध: संयोग: समवाचक, नदु
Page 43
१५३
गौडब्रहानन्दी (लघुचन्द्रिका)।
कालिकी विकूनिष्ठा वा विशेषणता; न वा स्वाश्रयसंयोगादिः । अतएव तद्टत्यपि 'घटो नासी' ति घीः प्रमारवेन सर्वसिदधा। ननु-संयोगेन रूपं नास्तीत्यादौ रूपीयसंयोगादेरप्रसिय्या तदभावो न विषयः, नच-संयोगाधंशे रूपी- यत्वादेवमतवं तत्रेति-वाच्यम्; तादृशप्रतीतेः सवाशे प्रमात्वस्य सर्वजनसिद्धत्वात् इति-चेत्सत्यम्; रूपीयत्वादिना संयोगाथ्भावस्यैव तत्र विषयत्वात्, व्यधिकरणधर्मावाच्छिस्ाभावस्वीकारात्, परैरपि तत्र व्यधिकरणसंबन्धस्य प्रति योगितावच्छेदकत्वस्वीकारात्, प्रतियोग्यंशे विशेषणतानापस्नस्यैव व्यधिकरणधर्मस्य प्रतियोगितांशे अवच्छेदकतया विशेषणरवेन भ्रमत्वाभावाद्। प्रतियोग्यंशे विशेषणस्यैव उक्त्तविशेषणत्वमिति नियमेऽपि व्यधिकरणधर्मावच्छिव्नाभाव- धीमात्रस्य प्रतियोग्यंशे तादशधर्मभ्रमत्वस्वीकारेण प्रकृतेऽपि भ्रमत्वे बाधकाभावाज दोषः। नच-घटो न पट डसा- दिनिश्रयकालेऽपि पटत्वेनात्र घटो नास्तीति ज्ञानोत्पत्तेर्घटादौ पटत्वादिवैशिष्ट याभाव एवोक्तज्ाने विषयः, वैशिष्वस्य साहित्यरूपस्य तृतीयार्थत्वेन तदस्यन्ताभावबोधने घटपदोत्तरं न सप्तम्यपेक्षेति-वाच्यम्; उक्तनिश्चयकाले घटत्वादि- विशिष्टे पटत्वादिभानासंभवेऽपि एकत्र द्यमिति रीत्या शुद्धघटादौ घटत्वपटत्वाद्यभयं विशेषणीकृत्योक्तज्ञानोत्पत्तिसं- भवात्, उक्तजञाने घटादी पटत्वादिवैशिष्टयाधभावभाने अत्र घटः पटत्वेनास्तीत्याकारकस्यैकत्र द्यमिति रीत्या घटत्व- पटत्वाद्यभयविशिष्टविषयकस्य सर्वेऽप्युक्तज्ञानोत्पत्यापत्तेरित्याशयः । ननु-'समवायेन घटो नास्ती' त्यादिज्ञाने प्र- तियोगितांशे संबन्धावच्छिनत्वाभाने घटसमवायत्वाद्यवच्छिव्वत्वमपि न भातीति कुतो नोच्यते? तादृशावच्छिन- स्वेन पराभ्युपगतप्रतियोगिताव्यक्तिसंबन्धेन घटसमवायविशिष्टस्याभावस्य घटसमवायाविरोधितवं उक्ततसंबन्धेन घटस- मवायत्वमात्रेण चावच्छिलाया अभावांशे प्रकारताया एव प्रतिबन्धकतावच्छेद करवमि त्यस्य वक्तुं शक्यत्वात्। यदिचव प्रतियोगिताया धर्मावच्छिनत्वं सर्वानुभाविकामित्युध्यते, तदा संबन्धावच्छिन्नत्वमपि तथेति वक्तुं शक्यते-इति चेत्, अत्रोच्यते। जले वह्निर्नास्तीतिवजले द्रव्यं नास्तीत्यस्यापि प्रमात्वं स्यात्, यत्प्रतियोगिताव्यक्तिविशेषसम्ब- न्धेन वद्विविशिष्टो योऽभा वस्तस्य तेन संबन्धेन द्रव्यात्मकवह्निविशिष्टत्वात्। अथ-वह्वित्वावच्छिनं प्रत्येव संबन्धस्त- स्प्रतियोगिता, नतु द्रव्यत्वावच्छिसं प्रति इति-चेत्, तर्हि तप्प्रतियोगिता वह्नित्वावच्छिप्वप्रतियोगिताका, नतु द्रव्य-
लघु तस्प्रतियोगितायां कल्प्यताम्। किंच विशिष्टस्य वैशिष्ट्यमिति रीत्या ज्ञानस्य विशेष्ये विशेषणं तत्रापि विशेषणा- न्तरमिति रीत्या ज्ञा नाट्वैलक्षण्यसिद्धये विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकावच्छिन्षप्रतियोगिताकत्वरूपेण विशे- पणसंबन्धो भातीति स्वीक्रियते। तथाचाभावप्रत्यक्षस्य विशिष्टस्येत्यादिज्ञानतवनियमात् घटोऽत नास्तीत्यादिप्रत्य- क्षस्य घटत्वावच्छिन्नप्रतियोगिताकत्व रूपेणानुयोगिताविशेषरूपोभवे ाेंबन्धो ाति, घटवदित्याद संयोगादेर्घ- टत्वावच्छिनप्रतियोगिताकरवरूपेण भानवत्। नचवं-कम्बुगीवादिविशिष्टवदित्यस्येव कम्बुग्रीवादिविशिष्टमत्र नास्तीत्य- स्वापि विशिष्टस्पेत्य।दिज्ञानस्य प्रमात्वापत्तिः, गुरुधमस्याभावनिष्ठानुयोगितासंबन्धप्रतियोगितानवच्छेदकत्वे संयोगादि- संबन्धप्रतियोगितायामप्यनवच्छेदकतवेन द्योरप्युक्त्तज्ञानयोरप्रमास्वं स्यादिति-वाच्यम्;गुरुतवज्ञाने सत्यप्युक्तज्ञानयो- रपस्या प्रमात्वस्येष्टत्वात्। गौरवस्य कारणतावच्छेदकत्वादिविरोधितवेSपि संबन्धप्रतियोगितावच्छेदकत्वाविरोधिरवाद्। अथवा विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकं विशेषणान्वयिनि विशेष्ये विशेषणतया भाति, यदेव हि स्ववि- शेष्यविशेज्ये विशेषणं तत् विशेषणम्, तदन्यक्षु प्रकारीभूतमप्युपलक्षणमुपाधिया। तथाच घटः प्रमेय: दण्डिमदिदमि- त्यादौ विशेषणविशेषणतावच्छेदकयोरेकजातीयेन तादात्म्यादिसंबन्धेन प्रमेयादौ विशेषणेऽपि संयोगादिसाक्षात्सं बन्धेन दण्डादेरिवमादौ बाधकाले स्वाश्रयसंयोगादियरम्परासंबन्धेनापीदमादौ विशिष्टस्येरयादिरूपोक्तज्ञाने- दण्डादेभीनवत् घटोऽनर नास्तीत्यादौ घटाद्यभावे स्वप्रतियोगितानिरूपितानुयोगितासंबन्धेन घटादे: प्रकारत्वेऽपि घट- त्वादेसेन संबन्धेन तत्र बाघात् स्वाश्रयप्रतियोगितानिरूपितानुयोगितासंबन्धेन तस्यप्रकारत्वे जले द्रव्यं नासतीत्यस्यापि प्रमात्वापतिः। अन्यस्य चैकजातीयसंबन्धस्य घटाभावे घटत्वादेर्षक्तुमशक्यत्वात् स्वावच्छिभ्रप्रतियोगिताकानुयोगितैव तस्य तत्र संबन्ध उच्यते; दण्डिमदिदमितादावपि स्वाधच्छिस्प्रतियोगिता निरूपितानुयोगितासंबन्धेन इदमादौ दण्डादेर्मानमिष्टम्। कदाचितसंयोगादेरिव तस्याप्यबाधात्, तस्य दण्डावच्छिन्षप्रतियोगिताकाधिकरणतात्वात्, सामाना- विकरण्येन संस्याविशिष्टं परिमाणमत्र नासतीत्यादौ तु स्वम्रतियोगिकत्वसंबन्धेनैवैकस्मिक्षभावे संख्यांपरिमाणयोर्भानम्: तस्य संबन्धस्य तत्रायाधात्। मनु-'विशिष्ट केवलादन्य' दिति मते विशिष्टस्येत्यादिज्ञाने विशिष्टस्य विशेषणत्वम्, विशेष्ये विशेषण मिसाविज्ञाने तु न तस्य विशेषणत्वम्, किंतु भूतलादौ शुद्धघटादे: तत्र घटत्वादेरित्यस्य वक्तुं शक्यत्वाभोक- युक्तीनामवकाश इति-चेत्, सत्यम्: तथापि संयोगसंबन्धेनेत्याटिमूले नानुपपतिः। घटातन्ताभावत्वेनेत्यस् घटत्व- अ. सि. २०
Page 44
१५४ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: २ ]
घटा देरत्यन्ताभावसामानाधिकरण्यम्; एवं संयोगतद्भावयोरनैकाधिकरण्यम्; अमे वृक्ष: कपिसं- योगी मूले ने' ति प्रतीतेरप्रमूलयोरेव संयोगतद्भाववत्तयोपपत्तेः, तदा सन्मात्रनिष्ठात्यन्ताभावप्र- वियोगित्वमेव मिथ्यात्वं मन्तव्यम्। नचैवं सति-भावाभावयोर विरोधा सज्ज्वानयोर्बाच्यवाधकभावो न स्यादिति-वाच्यम् : मिन्नसत्ताकयोरविरोधेऽपि समसत्ताकयोर्विरोधात्। यत्र भूतले यस्य घट-
सिद्धिव्याख्या। दर्शयति-इहेति। इहाकाशं भविष्यतीति प्रत्यक्षप्रतीत्यसंभववदिहाकाशं नास्तीति प्रत्यक्षप्रतीतेरप्यसं- भवादित्यर्थः। आनुमानिकप्रतीतिमाशङ्क्वाह-अनुमानेचेति। तदा सन्मात्रेति। उक्त्तदोषाणामसं- भवादिति भाव: ॥ नचैवंसतीत्यादि स्पष्टम् ॥ इति॥ अद्वैतसिद्धिव्याख्याने द्वितीयमिथ्यात्वं समाप्तम् ।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। विशिष्टप्रतियोगिताकाभावत्वेनेत्य्थकत्वात्, घटसमवायाद्यभावेत्यस्यापि घटसमवायत्वादिविशिष्टप्रतियोगिताकाभावे त्यर्थकरवाद, घटत्वाद: प्रतियोगितानवच्छेदकत्वेऽपि तद्विशिष्टस्य स्वाधिकरणनिष्ठाभावप्रतियोगित्वेन मिथ्यात्वसंभवे- नोक्तावच्छेदकत्वोक्तौ मूलकारस्यौदासीन्यात्। जले वह्नित्वविशिष्टस्याभावसश्वेऽषि द्रव्यत्वविशिष्टस्याभावासर्वात् 'जले द्रव्यं नास्ती' ति बुद्धेर्नापत्तिः। ननु घटात्यन्ताभावरवेनैव घटविरोधित्वस्वीकारेऽपि भूतलादौ घटात्यन्ताभा- वोऽस्तु, घटस्यावृत्तित्वस्वीकारेणोक्तविरोधित्वोपपत्ते;, तव्राह-आधाराधेयभावस्येति। भूतलघटाओ्ोरित्यादि: । ननु-घटसयोगी, घटात्यन्ताभाववान्, घटसमवायाभावान्नित्यरूपवदित्यनुमेयं, तत्राह-उक्तयुक्तरिति। सर्का- भावात्। भूतलं, घटध्वंसवत्, कपालभूतलान्यतरत्वात्, कपालवदित्यनुमानापत्ते:, तव्तिरेकेऽनुपपत्यभावात्। ननु घटोत्पादानन्तरं पुनर्घटोत्पादवारणाय समवायेन घटं प्रति घटः प्रतिबन्धकः, तत्संबन्धावच्छिन्नतद्भावः कारणम्। तथाच घटसंयुक्ककपालेषु घटोत्पत्तिन स्यात्; उत्तप्रतिबन्धकाभावघटितसामभ्यभाघात्, तत आह-उक्तति। एकसंब- न्घं प्रत्यपरसबन्धस्यैव प्रतिबन्धकतासंभवेन तदभावस्यैव प्रतिबन्धकाभावविधया प्रयोजकत्वादित्यादियुक्तेरित्यर्थः । अ्रमूलयोरिति। औपाधिकभेदवतोसतदवच्छिन्नवृक्षयोरवेति शेषः। अमरवच्छिन्नवृक्षात् मूलावच्छृक्षे भेदस्ी कारेण तयोरेव संयोगतदभावी भासेते इति न कुआ्रप्यव्याप्यवृत्तित्वमिति भावः। उपपत्तेरिति। इत्यालोच्यत इति शेष: । सन्मात्रनिष्ठेति। सत्वव्यापकेत्यर्थः । अधिकरणमेवाभाव इति पक्षेऽपि केवलस्य सद्रपस्याभावत्वविशिट्टेन सदूपेण तादात्म्यसंबन्धसत्वासज्यापकत्वोपपततिः। नच-उक्तपक्षे 'नेह नाने' त्यादिश्रुत्यनुपपत्तिः, तया ब्रह्मणि प्रप- आाभावाधारत्वबोधनादिति-वाच्यम् ; उक्तपक्षे घटाद्यभावस्य भूतलादी तादात््यसबन्धस्पैव स्वीकारेण ब्रह्मणि प्रपज्ञा- भावतादात्म्यस्यैवोकश्रुत्या बोधनात्। उक्तंहि न्यायकुसुमाञ्जली अभावीयसंबन्धविचारपसके-' परस् तादात्म्यनसतीतिचे' दिति। परस्याधिकरणस्वरूपाभाववादिनो भटटादेर्मत इति तत्र टीकाकारः। अधिकरणातिरि- काभावपक्षेऽपि चैश्रे गोशून्यता नास्तीत्यादा गवादिरूपाभावस्याधारत्वेन चत्रादिप्रत्यया भावात् स्वामित्वसंन्धस वृश्यनियामकरवाच्याभावधीमात्रस्याभावाधारत्वविपय कतवानियमात्, घटाभाये न घट इत्यादो अभेदेऽप्याधाराधेयत्वस्प स्वैरपि स्वीकार्यत्वेन उक्तश्रुत्यादिजन्यज्ञानस्य ब्रह्मादावभावाधारत्वविपयकत्वस्योक्तपक्षद्वयेऽपि संभवाष। अ्रम्र यद्धर्मावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वं सत्वष्यापकतावच्छेदकं तम्ूर्मवत्वं मिध्यात्वम्। तेन मेयतवादिरूपेण व्यापकतामादाय न सिद्धसाधनम्। नथ-यस्या अभावव्यकेः सद्वृत्तिभेदप्रतियोगितावच्छेदकत्वमनवष्ठियं नास्त तथ्रक्तिप्रतियोगितवं मिथ्यात्वमित्येव वक्तुं शक्यम्; घटादिमति पूर्वक्षणवृत्तित्वविशिष्टस्य घटाद्यभावस्याश्रयात् भेदो वेदान्तिमतेऽप्यस्तीस्यतोऽनवच्छिन्नमित्युक्तम्। एवंच घटसंयुक्त्ादौ समवायादिना घटाद्यभाघनिराकरणं व्वर्थम्, तद- भावव्यकेरतथातवेन सदृत्िभेदप्रतियोगितावच्छेदकत्वेन तामादाय सिद्धसाधनाभावादिति-षाध्यम्; विशेषणतादि- व्यधिकरणसंबन्धन वटाययभावव्यक्ते: केवलान्वयित्वेन तामादाय सिद्धसाघनात्। एवं उक्तानुमानस्योक्कमिथ्पात- साधकतवे। वाध्यबाधकभाव इति। भावाभावयो: सामानाधिकरण्यज्ञाने सति तमोरेकश्ञानमपरज्ञानस न बाघकमत उच्कज्ञानाभावविशिष्ट भावाभावयोर्विरोधविषयकं वा तयोरेकस्य ज्ञानमपरस्य ज्ञाने बाधकं वाज्यम्, ताडशज्ञानं घ न मिध्यात्वज्ञानवतां सम्भवतीति भावः। वाच्यमिति। अ्रनिकसतताकाभावेन अन्यूनसच्चाका-
Page 45
१५५
स्ात्पन्तामावा व्यावहारिक: तत्र स घटो न व्यावहारिक इति नियमात्। नवैवं सति-'शुक्तिरियं न रजत' मिति ज्ञानविषयीभूताभावस्य व्यावहारिकत्वेन पुरोवर्तिप्रतीतरजतस्य व्यावहारिकत्वापहारे5पि प्रातीतिकस स्वानपहारात् बाधोत्तरकालेऽपि 'इदं रजत'मिति प्रतीतिः स्यादिति-वाध्यम। तत्र 'इयं शुक्ति' रित्यपरोक्षप्रमया प्रातीतिकरजतोपादानाज्ञाननिवृत्तौ प्रातीतिकसत्त्वस्याप्यपहारात्, शुक्त्श्ञानस्य प्रातीतिकरजतोपादानत्वेन तद्सत्वे प्रातीतिकरजतासत्त्वस्यावश््यकत्वात्। अतपव पत्र परोक्षयाघिष्ठानप्रमया न भ्रमोपादानाज्ञाननिवृत्तिः, तत्र व्यावहारिकत्वापहारेऽपि प्रातीतिक-7 स्वानपहारात् 'तिक्तो गुड' इत्यादिप्रतीतिरनुवर्तत एव। एवमखण्डव्रह्मसाक्षात्कारात्पूर्व परोक्षबोधेन प्रपश्चस्य व्यावहारिकत्वापहारेऽपि प्रतीतिरनुवर्तत एव, अधिष्ठानाशाननिवृत्तौ तु नानुवर्तिष्यते।
गोडव्रह्मानन्दी (लघुचन्द्रिका)। भावेन वा घटितं मिध्यात्वमिति पक्षयोराद्यपक्षे इति शेषः। इदं भिन्नसत्ताकेत्युत्तरग्रन्थान्वयि। न व्यावहारिक इति। किंतु प्रातीतिक इति शेषः। रजतस्य व्यावहारिकत्वेति। रजते कल्पितस्य व्यावहारिकत्वस्य। अपहारे उच्छेदे । प्रातीतिकसत्त्वेति । प्रातिभासिकस्वरूपेत्यर्थः । पुरोवृत्तिप्रतीतरजतस्येत्यनुषज्यते। बाधो- सरेति। उक्त्ज्ञानोत्तरेत्य्थः । स्यादिति । तथाच समानसत्तामनन्तर्भाव्य प्रातीतिकान्याभावसयैव भावविरोधित्वं स्त्रीकृस्य तज्ज्ञानस्य भावबाधकत्वं वाच्यम् । अतः स्वाधिकसत्ताकात्यन्ताभावस्यापि भावविरोधित्वात् तद्दटितमि- ध्यात्वमनुपपन्नमिति भावः । समानसत्ताकयोर्भावाभावयोर्विरोधेऽपि न तादृशयोरेव बाध्यबाधकधीविषयत्व- मुच्यते, येन प्रातीतिकत्वविशिष्टरजतस्य व्यावहारिकाभावधीर्बाधिका न स्यात्, किं त्वन्यादृशयोः । तथाहि- अभावज्ञानस्य भावज्ञानं प्रति बाधकत्वं भावोपादानाज्ञाननिवृत्तिप्रयोजकान्तर्गतत्वं वा, भावभ्रमे भ्रमत्वज्ञापकत्वं वा, अधिष्ठानधीविधया भावज्ञानोच्छेदकंतवं वा । आध्ये 'अधिकसत्ताकरजतात्यन्ताभावव्याप्यं ुकतित्व' मित्या- कारकेण निश्चयेनोहुद्धसंस्कारेण वा विशिष्टस्य 'इयं धुक्ति' रित्याकारकसाक्षात्कारस्य प्रातिभासिकरजतोपादा- नाशाननिवर्तकत्वेन व्यावहारिकाभावज्ञानस्य प्रातिभासिकरजतादिधीबाधकत्वं नानुपपश्रम्। द्वितीयेऽनुपपस्य- भावस्त्वयैव स्वीकृतः; व्यावहारिकाभावज्ञाने रजतव्यावहारिकत्वापहारकत्वस्योक्तत्वात्। व्यावहारिकतवं हि विश्वमिथ्यात्वनिश्चयपूर्ववर्तिनो मिध्यात्वनिश्चयस्याविशेष्यव्वम्। तद्पहारश्रोक्तनिश्रयविशेष्यतवादेव। तथा च मिथ्याविषयकतवरूपभ्रमवं रजतज्ञाने उक्ताभावज्ञानेन ज्ञापितमिति स्वीकृतमेवेत्याशयेनाह-तत्रेयमिति। प्रमे- येति। शुक्तित्वे रजतीयव्यावहारिकात्यन्ताभावव्याप्यताविपयकेन निश्चयेनोहुद्धसंस्कारेण वा सहितयेति शेषः। सरवस्यापीत्यपिना व्यावहारिकत्वस्य समुष्चयादुक्करित्या रजतज्ञाने व्यावहारिकाभावज्ञानस्य भ्रमत्वज्ञापकत्वमुक्तम्। तदसत्त्व इति। असरवमुच्छेदः। आवश्यकत्वादिति । परिणामिन उच्छेदे परिणामस्याप्युच्छेदस्तयोस्तादात्म्या- दिति भावः। अतएव अज्ञानतत्प्रयुक्तकोच्छेदयोरविप्रकर्षादेव। व्यावहारिकसत्त्वापहारे मिथ्यात्वनिक्चये। अधि- ष्ठानाश्ञानेति। व्यावहारिकेण तिक्कत्वाभावेन विशिष्टस्य गुडस्य जीवब्रह्मैक्यस्य चाज्ञानेत्यर्थः। प्रतिबन्धकदोपोत्सा- रणाधीनादविष्ठानसाक्षात्कारादित्यादिः।पतेन-तृतीयेऽपि बाधकत्वे नाभावस्य भावविरोधित्वापेक्षेति-सूचितम्। निवृस्ती उच्छेदे। जीवन्मुक्तस्य तु नाज्ञानमुच्छिन्नम्; संस्कारात्मना सत्वाद्। अथवा प्रारब्धभोगोपयोगिदेहादिकम- ज्ञानशब्देनोभ्यते। तथाच 'भूयश्चान्ते विश्वमायानिवृत्ति'रितिश्रुत्या विश्वमायानिवृस्युत्तरं भूयोऽपि देहादिनिवृस्युक्ेः 'प्रारब्धनाशात् प्रतिभासनाश' इति स्मृतेश्च देहायुच्छेद एव प्रपञ्चाप्रतीतिप्रयोजक इति भाव:।अन्रेदमवघेयम्- यक्क्षणे यस्याज्ञानस्य उच्छेदस्तरक्षणे तत्प्रयुक्तस्यावश्यमुच्छेद. इति न नियम :; जीवन्मुक्तावश्ञानसंस्कारस्वीकारपक्षे व्यभिचारात्, नापि यदश्ञानप्रयुक्तोच्छेदप्रतिबन्धकशून्ये यरक्षण इत्यादिनियम :; विदेहत्वप्रयोजकम्रह्मसाक्षात्कारोत्पत्ति- क्षणे 'बहम साक्षात्करोमी' त्यनुभवेनाज्ञानांसरबेऽपि तम्प्रयुक्तमनःपरिणामरूपग्रहमासाक्षास्कारादिसर्वेन व्यभिच्वाराठ, एतादशोत्पशितिक्षणे हि नोक्तप्रतिबन्धकमस्ति; तद्वितीयक्षणे विदेहत्वसंपस्या सर्वदश्योच्छेदातू, किंतु यदक्षणे या प्रमा तरक्षणे अवश्यं तत्समानविषयकाज्ञानोष्छेद :; उक्त्प्रतिबन्धकशून्ये यरक्षणे यस्याज्ञानस्योच्छेद: तदव्यवहितोत्तरक्षणे अवश्यं तव्प्रयुक्तलोष्छेदः। या प्रमा यद्श्ञानसमानविथयिका सा तदजानाधिकरणावृत्तिः । यो यस्तत्प्रमावानुक्तप्रति- बन्धकशून्यक्षण: सः तदज्ञानप्रयुक्तदश्याधिकरणकालपूर्ववृत्तिभिन्न इति यावत्। तथाचाज्ञानसमानविषयकमनोवृस्यु स्पच्तिक्षणे मनोवृत्यादिसरवेऽपि न क्षतिः। अज्ञानस्यावरणविक्षेपरूपशक्तिद्यस्वीकारपक्षे तु आवरणशक्तेरेव सविष यकरवात् आदयनियमे अज्ञानस्थाने अज्ञानीयावरणशक्तिर्वाच्या। यस्या आवरणशककेः समानविषया या प्रमा सा तस्या
Page 46
१५६ अद्वतसिद्धि: सम्याख्या। [परिच्छेद्: २ ]
उपि रूपस्यामिथ्यात्वात्, अधिष्ठानविवक्षायां तु अ्रमोपादानाज्ञानविषयस्याघिष्ठानत्वेनान्योन्याध्र- वत्वं, जानस्य भ्रमत्वे विषयस्य मिथ्यात्वं, विषयस्य मिथ्यात्वे च झानस्य भ्रमत्वमितीति-परास्तम्; उक्तरीत्या अधिकरणविवक्षायां दोषाभावात्। नय-'स एवाधस्ता' दिति शुत्या प्रतिपन्ने देशका- लायुपाधी परमार्थतो ब्रह्मणोSभावात्तत्रातिव्याप्तिरिति-वाध्यम्; निर्धर्मके तस्मिन्नभाषभ्तियोगि- त्वरूपधर्माभाषात्। नचवं-सत्यत्वमपि तत्र न स्यात्, तथाच 'सत्यं शानमनन्त' मित्यादिश्रुतिव्या कोप इति-वाच्यम्; अधिकरणातिरिक्ताभावानभ्युपगमेनोक्तमिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्मस्वरू पाविरोधात्। एतेन-स्वप्रकाशत्वाद्यपि-व्याख्यातम् : परप्रकाश्यत्वाभावो हविस्वप्रकाशत्वम्,काल परिच्छेदाभावो नित्यत्वम्, देशपरिच्छेदाभावो विभुत्वम्, वस्तुपरिच्छेदाभाव:पूर्णत्वमित्यादि। तथा
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अधिकरणक्षणावृत्तिः। तेन विक्षेपशक्तेस्तदज्ञानस्य ध जीवन्मुक्तिकाले सत्त्येऽपि न क्षतिः । द्वितीयनियमे तु तदश्ञान- प्रयुक्तस्थाने तदशानतदीयविक्षेपशक्तितत्प्रयुक्तेति त्रितयं वाच्यम्। एतेन प्रतिपन्जोपाधावित्यादेरुक्तव्याख्यानेन। प्रति पन्ने ब्रहसंबन्धितया ज्ञाते। परमार्थतः पारमार्थिकत्वेन । स्वरूपेण चेति शेषः। अभावादिति। भावः प्रापिः। 'भूप्राप्ता' वित्यनुशासनादिति। तदभावादित्यर्थः। तथा च प्रतिपभ्नोपाधौ कालादौ ब्रह्मसंबन्धाभावस्य सर्वसंमतत्वातू संबन्धसामान्याभावस्यैव संबन्धिसामान्याभावत्वात् तादृशाभावप्रतियोगित्वस्य ब्रह्मणि सत्वादृति व्याप्तिरिति भावः । निर्धर्मके अभावप्रतियोगित्वप्रयोजकधर्भवन्जिसे। येन रूपेण यस्याभावः प्रत्यक्षः येन वा हेतुना यत्राभावप्रतियो- गित्वमनुमीयते तद्रपमुक्तमयोजकम्, ब्रह्मणि तु तथ्रास्तेच; केनापि रूपेण ब्रह्मणोSभावप्रत्यक्षाभावात्। शुद्धब्रह्मणस्तु नाभावः प्रत्यक्ष: संभवति; प्रतियोगितानुयोगितावच्छेदकरूपाभ्यामेवाभावः प्रत्यक्ष इति नियमात्। उपहितब्रह्मतादा- स्म्यादे: ब्रह्मणि सत्वेऽपि म तस्याभावप्रतियोगितानुमापकत्वम्, अप्रयोजकत्वादिति भावः। तत्र तत्स्वरूपे। श्रुतीति स्वरूपात्मकसत्यत्वादियोधकश्रुतीत्यर्थः। उक्तंहि पञ्चपाद्याम्-'आनन्दो विपयानुभवो नित्यत्वं चेति भ्रह्मणो धर्माः अपृथक्तवेSपि चैतन्यात् पृथगिवावभासन्ते' इति। चकारात् सत्यत्वादिसंभ्रहः। पृथगिवेति। निरुपाधीष्टत्वादिविशि- पटरूपेण कल्पितेन केवलचिद्रूपात् भिन्ना इयेत्यर्थः । केवलचिदेव हि उक्क्विशिष्टरूपतादात््योपलक्षिता सती आनन्द- रूपा। शुद्धायामपि चिति निर्विकल्पकयृत्तितन्ञाश्याज्ञानयोविषयतवस्येव विशिष्टचित्तादात्म्यस्यापि सर्वात्, विशिष्टके- वलयोस्तादात्म्यस्यावश्यकत्वात्, धर्मान्तरस्य शुद्धचित्यस्वीकारेऽपि विशिष्टतादात्म्यादिस्वीकारात्। यनु-केवल- विदेव निरुपाधीष्टत्वाकारवृश्या भासमाना आनन्दरूपा। आवरणविरोविविशिष्टत्वाकारवृश्या ज्ञानरूपा। एवं मिथ्यात्वाभावविशिष्टत्वाकारवृत्तिभि: सत्यत्वादिरूपा। तादृशेष्टत्वादीनां शुद्धव्रह्मण्यसत्वे5पि तादशेष्टचिताार्म्य- सप्वात् तदाकारवृप्तिनिवेश्या। यदि चोक्ततादात्म्यं तदुपहितचित्येव स्वीक्रियते, नतु शुद्धचितीति पक्षः स्वीक्रियते, तदा उक्ततादात्म्याकारवृत्तिद्वारकशुद्ध ब्रह्माकारवृत्तिर्निवेश्या। अतएव पृथगिवेत्यस्यान्तःकरणवृत्युपाधी भिन्ना इवेति विवरणकारव्याख्यानम्-इति। तन्न; तद्रूपोपलक्षितचित एवानन्दादिरूपत्वसम्भवे तस्तदाकारवृत्युपलक्षितस्य तद्रूपरवकल्पने गौरवात्। विवरणे वृत्तिनिवेशस्तु निरुपाधीष्टत्वादा प्रमाणसूचनायेत्याशयेनाचार्य आह-मिथ्या- त्वाभावरूपसत्यत्वस्येत्यादि। वस्तुतस्तु-निरुपाधी ष्टत्वादिनोपलक्षितत्वं तत्प्रकारकमनोवृत्युत्तरं निर्विकल्प- कमनोवृर्या विषयीकृतत्वम्; अन्यथा शुद्धस्येव तद्रूपोपलक्षितत्वेन सत्यत्वानन्दत्वादिधर्मभेदानुपपतेः । तत्तबर्- प्रकारकज्ञानोत्तरमतव्यावृत्तिधीविषयत्वस्यापि तत्रैव पर्यवसानम्। आनन्दादीनां विशिष्टरूपत्वे तु स्वरूपात्मकता म स्यात्। तस्मात् मिथ्यात्वेत्यादिमूलमपि विवरणवाक्यानुसारेण व्याख्येयम्। परप्रकाश्यत्वेति । अन्याधी- नव्यवहारकत्वेत्यर्थः । घटादेरिव चितोऽपि व्यवहारो हि चिदधीनः, न चिदन्याधीनः; व्यवहारविचयतामात्रे चिसादात्म्यस्य प्रयोजकत्वात्। न व चिति तसादात्म्यासंभय :; व्यवहारपूर्वकालोपहितचिति केवरुचित्तादात्म्य- सस्वात्, कार्यपूर्वकालोपहिते कारणसंबन्धस्यव कायेंपु प्रयोजकत्वात्। कालंपरिच्छेदो नाशप्रतियोगित्वम्। देशपरिच्छेदोऽत्यन्ताभावप्रतियोगित्वम् । वस्तुपरिच्छेदो भेदप्रतियोगित्वम्। ननु-ब्रह्मणो मिथ्यात्वा- मावादिस्वरूपस्य सत्यतादिरूपत्वमनुपपश्रम् ; उककाभावत्वादिविशिष्टस्य मिथ्यात्वात्, अतएव नोक्ताभावस्वा- दिविशिष्टतादात्म्योपलक्षितस्वरूपस्य सत्यतादिरूपत्वं; तादालयस्यापि सवोपहित एव सर्वेन तदुपलक्षितत्वस्य शुद्धम्रह्मण्यसरवादू, शुद्धे तत्स्वीकारेऽपि प्रपश्चेऽतिव्यापिः; मिथ्यात्वादेरपि मिध्यात्वेन प्रपश्चेपि तद्भावस्य
Page 47
१५७
व भावभूतधर्मानाश्रयत्वेऽपि ब्रह्मणः सर्वधर्माभावरूपतया न काप्यनुपपत्तिरिति सर्वमवदातम्।। इति सदसद्विलणत्वरूपद्वितीयमिथ्यात्वविचारः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रपश्वस्वरूपस्य सर्वेन तत्तादात््योपलक्षितस्वरूपत्वानपायास; नहि यदधिष्टानरूपमधिकरणं तदेवाभावस्वरूपं मान्यदविकरणमित्यत्र मानमस्ति। अथ-मिथ्यात्वादिविशिष्टात् भेद: सत्यत्वादिकं वाच्यम्; तथापि मिथ्यात्वा- दिधर्मस्य ब्रह्मण्येव कल्पितस्वात् कथं तत्रोक्तमेद :- तत्राह-तथाचेत्यादि। तथा च सत्यत्वादेर भावरूपरवे च। भावरूपधर्मानाश्रयत्वेपि मिथ्यात्वादिधर्मान्प्रति सम्बन्धविशेषेणानाश्यत्येऽपि। सर्वधर्माभाव रूपतया स्वाधिष्ठानकसर्वधर्माभावत्वविशिष्टतादात्म्योपलक्षितस्वरूपरवेन। तथाचाध्यासिकतादारम्येन ब्रह्मणः प्रतियोगित्वादि- रूपमिध्यात्वादिधर्मवर्वेपि विशेषणताविशेषादिसम्बन्धेन तद्विशिष्टाज्ेदसम्भवेन तत्समानाधिकरणो यो मिथ्यात्वा- स्यन्ताभावस्तद्वसादातम्योपलक्षितस्वरूपमुक्तमेदवत्तादात्म्योपलक्षितस्वरूपं वा सत्यत्वादीति भावः। एतेन-मिथ्या- स्वाद्यभावतादारम्यवति ब्रह्मणि भावानाश्रयत्वोक्तिर्न युक्ता-इत्यपास्तम्॥ इति लघुचन्द्रिकायां द्वितीयमिथ्यात्वनिरुक्ति:॥
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वम् द्वितीयमिथ्यात्वम्.
तदयं संग्रह :-
न्यायामृतकारा :-
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमेव मिथ्यात्वम्। तब्व खप्रकारकधीविशेष्यताव्यापकीभूतकालानवच्छि श्राभावप्रतियोगित्वरूपम्। खपदस्य रजतत्वविशिष्टपरत्वात्खप्रकारकधीनिरूपितशुक्तिनिष्ठविशेष्यतासमानाधिकरणाभाव- प्रतियोगित्वस्य तत्र सिद्धत्वात्सिद्धसाधनम्, अतो व्यापकत्वनिवेशः। एवं पूर्वक्षणवृत्तित्वविशिष्टघटाभावस्य केवलान्व यितया सिद्धसाधनवारणार्थ कालानवच्छिन्नेत्यभावविशेणमिति न कोऽपि दोष इति यदद्वैतिनोऽभिप्रयन्ति, तन्न सञ्तम् ; त्रैकालिकनिषेधस्य तात्विकत्वेऽद्वैतहानेः, प्रातिभासिकत्वे सिद्धसाधनात्, व्यावहारिकत्वे तस्य तात्विकसत्वावि- रोधितयाऽर्थान्तरात्, बाधात्, अद्वूतश्रुतेरतालिकनिषेधबोधकत्वेनाऽतत्वावेदकत्वापातात्, तत्प्रतियोगिनोऽप्रातिभासिकस्य प्रपश्चस्य पारमार्थिकत्वापत्तेश्ष।किंच निषेधप्रतियोगित्वं किं स्वरूपेण, उत पारमार्थिकत्वेनासद्विलक्षण खरूपानुपमर्देन। आध्ये श्रुत्यादिसिद्धोत्पत्तिकस्याऽर्थक्रियासमर्थस्याSविद्योपादानकस्य ज्ञानानाश्यस्य च वियदादेः शुक्तिरूप्यादेश्ष निषेधायोगः, "त्रैकालिकनिषेधं प्रति स्वरूपेणाऽपणस्थरूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकरूप्यं वा निषेधप्रतियोगी"ति त्वन्मतहानिः,
निरुपाख्यत्वं, नित्यादीन्द्रियसाधारण्यात् नापरोक्षतोऽप्रतीयमानतम्, अबाध्यत्वाभावस्येवासत्वरूपत्वात् क्वचिदप्युपाधौ सत्वेनाप्रतीयमानत्वं वा शशशङ्गादेरन्यादृशमसत्वम्। एतेन-अर्थक्रियासामर्थ्याभाव एवासत्वमित्यादिशक्का अपि- प्रत्युक्ता :; ब्रह्मणोऽप्यसत्वापत्तेः ॥ द्वितीयेऽपि अबाध्यत्वरूपपारमार्थिकत्वस्य बाध्यत्वरूपमिथ्यात्वनिरूप्यत्वेनान्यो- न्याश्रयः, रूप्यादीनां नास्ति नासीत्र भविष्यतीति सरूपेणैव निषेधप्रत्ययानुपपत्तिः, रूप्यपारमांथिंकत्वस्य पारमार्थिक- त्वेन निषेधे अनवस्था, ब्रह्मणोऽपि "स एवाधस्ता" दिति श्रुतिप्रतिपन्नोपाधौ निर्धर्मकतवेन पारमार्थिकत्वेन निषेधप्रतियो- गित्वेनातिव्याप्तिः, अध्यस्ाविष्ठानस्योपाधिपदेन विवक्षणे आत्माश्रयः, ब्रह्मवत्पारमार्थिकत्वाभावेपि सत्यत्वापत्तिश एवंच-
Page 48
१५८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: २ ]
'स्वरूपेण त्रिकालस्य निषेधो नास्ति ते मते। रूप्यादेस्तात्विकत्वेन निषेधस्त्वात्मनोऽपि च ।।' इति द्वितीयमपि मिथ्यात्वं न संभवदुक्तिकमिति-वर्णयन्ति ॥
(२) अद्वैतसिद्धिकारास्तु-
श्रैकालिकनिषेधस्य प्रातिभासिकत्वातिरिकसर्वस्वरूपत्वं, प्रतियोगित्वस्य स्वरूपावच्छिन्नत्वपारमार्थिकत्वावच्छिन्नत्व- रूपपक्षद्वयं च सर्वमपि क्षोदक्षममेवेति द्वितीय मिथ्यात्वमपि संभवदुक्तिकमेव-इति वर्णयन्ति।
तेषामयमाशय :-
निषेधाधिकरणीभूतव्रम्माभिन्नत्वान्निषेधस्य तात्विकतवेऽपि नाद्वैतहानिः; ब्रह्मभिन्नस्य वस्तुनोऽनभ्युपगमात्। व्यावह्ा- रिकत्वेऽपि निषेध्यापेक्षया न्यूनसत्ताकत्वस्यैव तात्विकसत्वाविरोधित्वमिति खाप्ननिषेधबाधितखाप्नार्थदष्टानतेनाभ्युपगम- नीयतया निषेधबाध्यत्वस्य तात्विकसत्ता, विरोधित्वाभावेनोक्तार्थांन्तरबाधयोरनवकाशः, एवं यत्रहि निषेधस्य निषेधेन प्रतीयोगिसत्वं व्यवस्थाप्यते तत्नैव निषेधस्य निषेधे प्रतियोगिनोऽधिकसत्ताकत्वमिति प्रकृते प्रपश्चनिषेधनिषेधेनानुमानेन श्रुत्या वा प्रपश्चस्यापि निषेधान्न प्रपश्चाधिकसत्वापत्तिः, एवं अतात्विकं प्रपश्चमतात्विकत्वेन बोधयन्त्याः श्रुतेर्न प्रामाण्यानुपपति: ।।
सरूपावच्छिन्ननिषेधप्रतियोगित्वाङ्गीकारेऽपि न दोष :; शुक्की रजतभ्रमानन्तरमधिष्ठानतत्वसाक्षात्कारे रुप्यं नास्ति- नासीन भविष्यतीति स्वरूपेणैव निषेधप्रतियोगित्ववत्, प्रपथे "नेह नानासि्ति किंचन" इति श्रुत्या स्वरूपेणैव निषेध- प्रतीत्या समानससाकयोरपि भावाभावयोरविरोधात्, भ्रमबाधयोवैयधिकरण्यापत्यादिना लौकिकरजतस्यैव अ्रमे भानमि- त्य्गीकारासंभवात् "त्रैकालिक निषेधंप्रति स्रूपेणापणस्थरूप्यं प्रातिभासिकं वा पारमार्थिकत्वाकारेण निषेधप्रतियोगी" त्याचार्यवचनस्यापि स्वरूपेण पारमार्थिकत्वाकारेण वाSडपणस्थरूप्यतादात्म्यापन्नप्रातिभासिकरूप्यनिषेधबोधन एव तात्प- र्येण मतहान्यभावात्, सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वस्य तुच्छानिर्वाच्यसाधारण्येऽपि क्वचिदप्युपाधी सत्वेन प्रतीत्यन- ईत्व-तदभावरूपसत्तादात्म्यान्यां तयोवैषम्यसत्वेनात्र सत्तादात्म्यसमानाधिकरणोक्तत्रैकालिकनिषेधप्रतियोगित्वसाधने-
द्वितीयपक्षेऽपि न दोष :; बाध्यत्रूपमिथ्यात्ानिरूप्यतयैव पारमार्थिकतवनिर्वचनसंभवेनान्योन्या्रयानवकाशात्, स्वरूपेणेव पारमार्थिकतया शुक्तिरूप्यं नास्तीत्यादिरूपेणापि प्रतीतेरानुभविकत्वेन श्रुतेरपि तादृशाभिप्रायकल्पनसंभवेन चादोषात्, अनवस्थां विनैव पारमार्थिकत्वेन पारमार्थिकनिषेधस्यापि ब्रह्मानन्दसरखत्युक्करीत्योपपादनसंभवात्, उपाधिपदेनाधिकरणस्यैव विवक्षणेन अध्यस्ताधिष्ठानविवक्षणनिबन्धनान्योन्याश्रयस्याप्यनवसरात्, निर्धर्मके ब्रह्मणि
तदेतत्तरङ्गिणीकारा न क्षमन्ते-
तथाहि-नहि त्रैकालिकनिषेधस्य तालिकत्वपक्षः क्षोदक्षमः; शुक्तिरूप्ये व्यावहारिकमिथ्यातस्यैवान्गीकृतत्वेन तत्र साध्यवैकल्यात्। तस्यापि तालिकले तु प्रत्यक्षादेरपि तत्त्वावेदकत्वरूपप्रामाण्यापत्तिः। निषेधाधिकरणब्रह्ममात्रत्वं निषेध- स्येति तु न संभवति; प्रपशभ्रमार्थमधिष्ठानब्रह्मस्फुरणस्यावश्यकतया व्रम्माभिन्नप्रपश्निषेधस्यापि प्रकाशे प्रपश्भ्रमासंभ- वात्। निषेधत्वेनाप्रकाशास्तादृशभ्रमासंभव इति तुन भवति; निषेधत्वादेरपि निर्विशेषत्वोपपत्त्यर्थ भवन्मते ब्रह्ममात्रलात्। एवं तद्टयावहारिकत्वपक्षोऽपि न संभवति; खाम्ननिषेधस्य जाप्रत्यबाधेन व्यावहारिकलवात्, स्वपदष्टत्वमात्रेण बाध्यत्वे आत्मादेरपि तदापत्तेः खाप्िकतालिकलाप्रसज्नेन निषेध्यापेक्षया न्यूनसत्वस्यैव तात्विकसत्वाविरोधिलमिति कल्पनाया अयोगेन, योगेऽपि निषेधस्य निषेधे प्रतियोग्यधिकसत्ताकत्वस्य रजतादौ दर्शनेन यत्र प्रतियोगिन: सत्वं विना निषेधनिषेधो-
अत्यन्ताभावनिषेधस्यैव प्रतियोगिसतप्रयोजकत्वं विवक्षितमिति ध्वंसनिषेधेन प्रागभावनिषेधेन वा प्रतियोगिसरवेऽपि न दोषः । पतेन-'यथा ध्वंसप्रागभावयो' रिति तदृष्टान्तेन नियमविशेषपरिकल्पनं-पराहतम्। एवं त्यावद्दारिकत्वे- Sतालिकप्रतियोगितदभावयोरेकत्र बोधनस्य विरुद्धलात्खार्थसत्तानिश्चयकत्वरूपश्रुतिस्ाभाव्यमपि भमं स्यातू।
Page 49
१५९
एवं स्वरूपेण निषेधप्रतियोगितवपक्षोऽपि नोपमन्नः; युष्मदाचार्यैः खवरूपेणापणस्थरूप्यस्यैवा-निषेध इति प्रतिपादनेन दष्टान्ते साध्यवैकल्यात्। नच-अस्मदाचार्यवचसामापणस्परूप्यतादात्म्यापभ्प्रातिभासिकरूप्यस्य खरूपतो निषेधबोधन एव तात्पर्यमिति-वाच्यम्; प्रातिभासिकरूप्यस्यापणस्थरूम्मज्ञानेन निवृत्यदर्शनेन तदज्ञानाकार्यस्य तसादास्म्याभावात्,
प्रवृत्तानं भवतामपि वचनमनुपादेयमेव। असचेन्न प्रतीयेतेति वदतां भवतां प्रतीत्यनुपाधिकमेवासत्वं निर्वचनीयमिति पूर्वमेवोक्कत्वादत्यन्तासलापत्तिरपि सुद्ढैवेति द्वितीयमिध्यातमपि न संभवदुकिकं-इति॥
तदेतद्धान्तविजुम्भितं चन्द्रिकाकारा: प्रतिक्षिपन्ति-
तथाहि-निषेधतात्विकलपक्षे हि न निषेधत्वविशिष्ठस्य तदुपलक्षितस्य वा मिथ्यात्वरूपत्वं ब्रह्मरूपत्वं वाजीकरियते; येम शुक्तिरूप्ये साध्यवैकल्यं तद्विषयकबाधप्रत्यक्षस्य तात्विकप्रामाण्यं च समापतेत, किंतु निषेधत्वोपलक्षिततादात्म्यापन्न- निषेघखरूपस्य, तादशस्वरूपक्च शुक्तिरजताभावो न नेदं रजतमित्यादिप्रत्यक्षविषयः, किंतु व्यावहारिकनिवेधतवोपलक्षितत- दभाव एव तद्विषय इति तस्यातात्विकलान्न प्रत्यक्षतात्विकप्रामाण्यापत्तिः। उपलक्षितविषयकस्य प्रत्यक्षस्यैव तभिवर्तकत्वं नु शुद्धब्रह्मणो वृत्त्यविषयत्वेऽपि तत्तादात्म्यापन्नोपहितज्ञानस्येवान्गीकर्तु शक्यत इति न बाघज्ञानतव्यवहारानुपपति:। एतेन-प्रपश्चभ्रमानापत्तिरपि प्रत्याख्याता; प्रपश्चभ्रमार्थमपेक्षितब्रह्मस्फुरणे निषेधतवोपलक्षिततादात्म्यापन्रख्रूपज्ञान- स्यानपेक्षणात्। विवरणमतेऽपि उपलक्षितशुद्धयोस्तादात्म्येन शुद्धविषयकज्ञाननिष्टवाध ज्ञानतस्यैवोपलक्षितविषयकज्ञाननि- छ ्वेनाप्युपचारासस्य माधज्ञानलव्यपदेश इति निषेधतात्विकत्वपक्षे न कोडपि दोषः। शुक्तिरूप्येऽपि तात्विकाभावप्रति- योगिलेन न रृष्ठान्ते साध्यवैकल्यमित्यन्यत्र विस्तरः। एतेन-व्यावहारिकतपक्षोऽप्युपपत्र इति-सूचितम्; खप्रकाश- वैतम्य रूपस्यात्मनोऽनिर्वचनीयत्वकल्पनांविना साप्रदर्शनोपपत्िसंभवेऽपि गजाभावादीनामनिर्वचनीयानामुत्पत्तिकल्प्ना बिना तत्र सदर्शनासंभवेन स्वाप्निषेधबाधितखाप्नप्रतियोगिनि व्यभिचारान्निषेधबाध्यतस्य तात्विकसलाविरोधित्वाभावेन निषेध्यापेक्षया न्यूनसत्ताकत्वस्यैव तदविरोधित्वे तन्न्रत्वात्, ध्वंससमये इदं कपालं घटवन्र वेति संशयारोपविषययो र्टतदभावयोरुभयोरप्यसवाप्निकत्वेऽपि 'इह घटसतदत्यन्ताभावश्च ने'त्युभयनिषेधेऽपि प्रतियोगितदाभावयोस्तुल्यसत्ताकत्व- दर्शनेनात्यन्ताभावनिषेधे प्रतियोगिनोऽसत्वपरत्वेनैव 'यथा ध्वंससमये प्रागभावप्रतिषेध' इति वाक्यस्य योजनीयतया तस्याप्युपपत्तेश्र न तथ्ावहारिकत्वपक्षे प्रतियोगितात्विकसत्वाविरोधित्वप्रपश्चतदभावविषमसत्ताकत्वादिप्रसर इति न कोऽपि दोषः । स्वार्थसत्तानिश्चायकत्वस्य श्रुतेरावश्यकत्वेऽपि यजेतेत्यादाविव व्यावहारिकप्रामाण्येनैव श्रुतेरुपपत्तिसंभवात् मिभ्यापदार्थ भिथ्यात्वेन बोधयन्त्याः श्रुतेरपि प्रामाण्यसंभवः । तात्विकप्रामाण्यं तु तत्मसीति वाक्यस्यैवेति भन्तव्यम्। एवं स्वरूपेण निषेधप्रतियोगितपक्षोऽपि नानुपपत्र; आपणस्थरूप्यतादात्म्यं विनापि रजततस्य व्यावहारिकप्रातिभासिक- साधारण्याङ्जीका रेणैवोपपत्तिसंभवेन केवलरजतस्यैव निषेध इति पक्ष सत्यपि प्रातिभासिकादपि व्यावहारिककार्यापत्तिवार- णार्थ तुष्यतु दुर्जनन्यायेनादृतस्यापणस्थरूप्यतादात्म्येनैव रूप्यस्य भानमित्यस्मदाचार्यीयपक्षान्तरमप्युपपत्रमेव; दोष- सहितश्युक्त्यवच्छिमचैतन्याश्रिताज्ञानस्पैव प्रातिभासिके व्यावहारिकतादात्म्यं प्रत्यपि प्रयोजकलाज्गीकारेऽपि तन्रान्यथा- ख्यास्यादेरसंभवेनादोषात्। उपपादितं चैतद्विद्लेशीये। इत्थंचाचार्यवचनविरोधस्यापसिद्धान्तस्य वात्राप्रसज्गात् स्वरूपेण निषेधप्रतियोगित्वपक्षोऽप्युपपन्न एव । स्वरूपेण निषेधप्रतियोगित्वेपि यथा प्रपश्चस्य न निःस्रूपलम्, असञ्वेन्न प्रतीयेते- त्युक्कावपि यथा प्रतीत्यनुपाधिकस्यासत्स्य निर्वचनसंभवः, तथा पूर्वमेव निरूपितम्। वस्तुतस्तु असश्वेन्न प्रतीयेतेति वचनस्मापि खवसोऽपरोक्षसत्तादातम्यवत्वेन न प्रतीयेतेत्यश्रैव तात्पर्यान् तादृशवाक्यविरोधोऽपीति सर्वमनवद्यम्। यथाचो- पाधिपदेनाविकरणविवक्षया संबन्धनिवेशादिकं, तथा विस्तरेण प्रतिपादितं सिद्धी। भावाभावयोरेव विरोधेन संबन्धवि- शेषादिनिवेशनायोगेऽपि सन्मात्रनिष्ठेत्येव विशेषणमित्यपि तत्रैवोक्त्तम्। तत्र प्रतिबध्यप्रतिबन्धकभावोऽपि विषमस- ताकस्ादिनोपपदते। सत्ताभेदस्म मिथ्यात्वसिद्धधीनत्वेऽपि नान्योन्माश्रयदोषः। प्रतिबध्प्रतिबन्धकभावज्ञानानधीन-
। इति द्वितीयमिथ्यात्वम्॥-
Page 50
१६० अद्वैतसिद्धिः सव्याख्या। [ परिच्छेद: ३ ]
अथ तृतीयमिथ्यात्वविचारः। ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम्। ननु-उत्तरश्ञाननिव्त्ये पूर्वश्ञाने अतिव्याप्तिः, मुदरपातादिनिवर्त्ये च घटादावव्याप्ति:, ज्ानत्वेन ज्ाननिवर्त्यत्वविवक्षायामप्ययं दोष:, अधिष्ठानसाक्षात्कारत्वेन निवत्यें शुक्तिरजतादों च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता, ज्ानत्वव्याप्यधर्मेण ज्ञाननिवर्त्य- स्वविचक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ाननिवर्त्ये संस्कारे अतिव्याप्ति :- इति चेत्न श्ञानप्र- युक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि शाननिवर्त्यत्वम्। अवस्थितिश्च द्वेधा; स्वरूपेण कारणा-
सिद्धिव्याख्या। अथ तृतीयमिथ्यात्वविचारः। ज्ञानेति। किं ज्ञाननिवर्त्यत्वमात्रम्? उत ज्ञानत्वेन तन्निवर्त्यत्वम्? अथवा ज्ञानत्वव्याप्यधर्मेण तभिवर्त्यत्व- मित्यभिप्रायेण शङ्कते-नन्विति। आद्ये दोषमाह-उत्तरेति। तस्य साध्यनिर्वचनरूपत्वे तदंशे सिद्ध- साधनश्वेत्यपि बोध्यम्। दोषान्तरमाह-मुद्धरेति । तस्य साध्य निर्वचनरूपत्वे तदंशे बाधोऽपि बोष्यः। इद- मुपलक्षणम् । शुक्तिज्ञानेन रूप्यं नष्टमिति कदाप्यननुभवेन तत्राव्याप्तिः। साध्यनिर्वचनत्वरूपे तद्विकल्पो दष्टान्तविकल इत्यपि बोध्यम्। द्वितीयं पक्षमाशङ् तत्र दोषमाह-ज्ञानत्वेति। अयमिति। एतावन्तं कालं शुतज्ञानमासीत् 'भ्रम आसीत्' इत्यनुभवेन शुक्तिवत्सत्येऽज्ञानभ्रमादौ शुक्तिज्ञानेन तदज्ञानं नष्टमित्यनुभवेन ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्य सत्वेन तत्रातिव्याप्त्याख्यो दोष इत्यर्थः। यदि च साध्यनिर्वचनरूपत्वान्नायं दोष:, तदाऽर्ान्तरं; ज्ञानत्वेन ज्ञाननिवर्तत्वस्य भ्रमाज्ञानादाविव सत्यत्वेऽपि प्रपञ्चे संभवादिति ध्येयम्। दोषा- न्तरमाह-अधिष्ठानेति। इदमुपलक्षणम्। एवं सति लक्षणस्यासंभवोऽपि द्रष्टव्यःतृतीयमाशङ्क निराकरो- ति-ज्ञानत्वव्याप्येति। विवक्षायामित्यनन्तरमपरोक्षत्वेन ज्ञाननिवर्त्येऽपि उक्तमिथ्यात्वस्य सत्वेऽपीति शेष:। संस्कारे इति। नच-संस्कारादेर्न स्मृतित्वेन स्मृतिनिवर्त्यता, किंतु योग्योत्तरात्मविशेषगुणतवेन, अन्यथा इच्छादेः संस्काराद्यनिवर्तकत्वापत्तेरिति-वाच्यम्; एवमपीच्छाद्यनिवर्त्यस्मृतिमात्रनिवर्त्ये संस्कारेऽतिव्यात्यवारणात्, इच्छानिवर्त्यसंस्कारस्थले संस्कारस्येव तन्निवर्त्यसंस्कारस्थलेऽपि तस्य सत्वा- वश्यंभावेन तत्रातिव्याप्तितादवस्थ्याच्च। नच-अनुभवत्वव्याप्यघर्मेण तन्निवर्त्यत्वं विवक्षितं, स्मृतौ गौडब्रह्मानन्दी (लघुचन्द्रिका)। अथ तृतीयमिथ्यात्वविचारः। 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुत्यर्थे विवदमानं प्रति साध्यान्तरमाह-ज्ञाननिवर्त्यत्वं वेति। अतिव्यातिः सिद्धसाधनम्। ज्ञानत्वेन ज्ाननिवर्त्यत्वेति। ज्ञानतवावच्छिन्नकारणताप्र तियोगिककार्यतावभाशप्रतियोगित्वेस्यर्थः । अयं उक्ताष्याप्तिरूपः । प्रपञ्ञनाशं प्रति म्रह्मज्ञानस्य न कारणता; चरमतत्वज्ञानजन्यनाशस्यानाशापर्या 'विद्वान्ा- मरूपाद्विमुक्त' इत्यादिश्रुतिविरोधापत्तेः, तस्य ज्ञानानिवर्त्यत्वात् ततसत्यत्वापत्तेः 'अतोऽन्यदार्त' मित्यादि श्रुतिबा- घाच। तथाच शुक्तिरूप्यादावप्युक्तज्ञाननाइयतवे मानाभावात् साज्याप्रसिद्धिरित्यपि बोख्यम्। ज्ञानप्रयुक्तत्यादि। ज्ञानप्रयुक्तोऽिष्ठानतत्वज्ञानव्यापको यः अवस्थितिसामान्यस्य स्वस्वीयसंस्कारान्यतरस्याभावः तस्प्रतियोगिरव- मित्यर्थः। यो या अप्रामाण्यज्ञानादिश्यून्यसाक्षातकारप्रमा सा समानविपयकाज्ञानक्षणावृत्तिः। या या स्वजन्यपटुतम- १ अज्ञानतत्संस्कारंतत्व्ञानादिस कलदृश्यनाशरूपत्वमपि तत्वज्ञानस्ेति न्यायरत्नावल्यादृतपक्षात् पक्षान्तरमिदम्। एतदभिप्रायेण च व्याप्तिभेदः। तत्त्वज्ञाननाशयोः प्रयोज्यप्रयोजकभावस्य व्याप्यव्यापकभावं विनाऽसंभवात् सामानाधिकरण्यानिवेशेन ध्यापकत्वनिवेशः। तेन तत्वशानक्षणस्य दृश्याधिकरणपूर्वतवाभावेऽनुकूलतकोपि सचित इत्यादिन्यायरलावल्यादिपु विस्तरेण प्रतिपादिनमिति ॥
Page 51
विट्ठलेशोपाध्याय्युप बृंहितगौडब्रह्मानन्दीयुता। १६१
त्मना च; सत्कार्यवादाभ्युपगमात्। तथाच मुद्रपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारण-
सिद्धिव्याख्या।
चानुभवत्वव्याप्यधर्मस्याभावात् न तन्निवर्त्यसंस्कारातिव्याप्तिरिति-वाच्यम्; यत्र प्रमोत्तरमुत्पन्नस्य भ्रमस्य प्रमाजन्यस्मृतिपर्यन्तं बाधो न जातः प्रथमप्रमाजनितस्मृतिविषयबाधश् दृश्यते तत्राव्याप्ेः । नच-भ्रमोत्तरप्रमानिवर्त्यत्वं विवक्षितं; प्रमात्वंच यथार्थज्ञानत्वमेव, नत्वनधिगतत्वगर्भ, येन यथार्थ- स्मृतिविषयेऽव्याप्तितादवस्थ्यं स्यादिति-वाच्यम ; तत्वज्ञानसंस्कारनिवर्त्याज्ञानसंस्कारेऽव्याप्ेः । न घ-अज्ञानसंस्कारस्यापि तत्त्वज्ञाननिवर्त्यत्वमेव स्वीक्रियतेऽतो न तत्राव्याप्तिरिति-वाच्यम्; अक्षा- नस्येवाज्ञानसंस्कारस्याज्ञानत्वाभावेन ज्ञाननिवर्त्यत्वानुपपत्तेः, ज्ञानाज्ञानयोरेव निवर्त्यनिवर्तकभावात्। न च-अज्ञानसंस्कारस्याप्यज्ञानोपादानतया तत्वज्ञानेन स्वोपादानाज्ञाननिवृत्तौ स्वस्यापि तह्ारा तन्निवर्त्यत्वमविकलमिति-वाच्यम् ; अज्ञानसंस्कारनिवृत्तौ कर्तव्यायामज्ञाननिवृत्तेस्तत्वज्ञानत्वे माना- भावात्। न च-स्वोपादानाज्ञाननिवर्तकज्ञाननिवर्त्त्वं विवक्षितम, अतो न संस्कारादावव्याप्तिरिति- वाच्यम ; अज्ञानादेरनादेर्योऽध्यासस्तत्र चोपादानासंभवेनाव्याप्तेः, लाघवेनाज्ञानोपादानकत्वे तस्यैव लक्षणत्वापाताच्चेति भावः । प्रथमपक्षमादाय तत्रोक्तदोषोद्धारं प्रतिजानीते-नेति। ज्ञाननिवर्त्यत्वं निर्वक्ति-ज्ञानेति । अवस्थिति-द्वैविध्यकथनेन फलितं दर्शयति-तथाचेति । तस्य साध्यनि-
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
संस्कारसहितोफत्रमा सोक्ताज्ञानतत्संस्कारक्षणावृत्तिः। सहि तान्तोपादानादुक्तसहि ता न् ु क्त्या दि प्र्मा य्रा उक्क्कसंस्कार- क्षणवृत्तित्वेऽपि न व्यभिचारः । अतएव जीवन्मुक्तनिष्टब्रह्मप्रमापि तादृशक्षणवृत्तिः। या योकप्रमा सा खवसमान- विपयकाज्ञानप्रयुक्ततत्संस्कारवत् कालपूर्वभिन्ना। तथाच तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्व संबन्धेनो- काज्ञानतत्संस्कारान्यतरस्याभावः उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वत्वसम्बन्धेनाभावश्र व्याप- कः । तादृशाभावप्रतियोगित्वस्याज्ञानतत्प्रयुक्ततत्संस्कारेपु सर्रवाल्लक्षणसमन्वयः । तादात्म्येन तादृशप्रमां प्रति स्वसमानविषयकत्वं कालिकतवं चेति संबन्धद्वयेनाज्ञानतत्संस्कारान्यतरस्याभावः, स्वप्रयोजकाज्ञानसमान- विषयकत्वं स्वाश्रयकालपूर्वत्वं चेति संबन्धद्वयेनाज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति तु निष्कर्षः। नानाज्ञानपक्षे तत्पुरुषीयत्वमपि प्रमाऽज्ञानयोर्निवेश्यम्। अवस्थितिरिति। प्रकृतस्यावस्थितिपदस्यार्थः । स्वरूपेण कारणात्मना चेति। अज्ञानतत्प्रयुक्तस्वरूपेण स्थूलावस्थाकारणी भूतसंस्काररूपेण च। झटिति अज्ञान- संस्कारस्य स्थूलावस्थोपधायकरवं जीवन्मुक्तिदशायामस्त्येव; तदर्थमेव तत्स्वीकारात्। ननु-संस्काररूपे मानाभावः, तत्राह-सत्कार्यवादेति। कार्याणां तदधिष्ठानतत्वसाक्षात्कारपर्यन्तं किंचिद्रपमवश्यं वाच्यम्, प्रलयकाले अदृष्टादिजन्याया: कार्यावस्थायाः तत्कालसाधकश्रुत्यादिसिद्धत्वात्; 'तद्वेदं तर्ह्यव्याकृतमासी'दित्यादिश्रुत्या तत्काले कार्यस्यानभिव्यक्तरूपेण स्थितिबोधनात्, दण्डादिपातेन घटो नष्ट इत्यादिप्रत्ययेन दण्डपातादिजन्यनाशावगाहनाथ। नहि तार्किकादिमतेऽपि कार्यस्य नाशोऽपलप्यते, परंतुक्तश्रुत्या घटो नाशत्वमापन्नः पूर्वावस्थैवोत्तरावस्था जातेलाथ- नुभवेन च सिद्धं नाशस्य पूर्वावस्थातादात्म्यापभोत्तरावस्थारूपत्वम्। नच-पूर्वोत्तरावस्थयोस्तादात्म्यमनुपपभ्चमिति- वाच्यम्; भिन्नकालीनयोः प्रतियोग्यनुयोगिभावसंबन्धस्येव तादात्म्यस्यापि अनुभवबलेन संभवात्। अन्यथा घटादि- कालावृत्तिज्ञानादे: घटादो विषयतादिसंबन्धस्यापलापापत्तेः । तथाच सर्वदा व्यवहारकाले कार्यस्य तादात्म्यापनं किंचित्कार्यरूपमस्ति, तत्वदर्शनं विना तदुच्छेदासंभवादिति सत्कार्यवाद: संख्यानामिवास्माकमपि, परं त्वस्माकं
१ न्यायरलावल्यां तु स्वप्रयोजकाज्ञानकालत्वशून्यवृत्तिजञानकालत्वरूपं ज्ञानोच्छेद्यत्वं; स्वप्रयोजकपदेन स्वकाले वर्तमानत्वस्यैव विवक्षणान् जीवेशभेदादावपि साध्यसमन्वयः इति प्रतिपादितमित्युक्तनिष्कर्षस्यापि तत्रैव तात्पर्यात् न न्यायभास्करोक्तार्थान्त- राणां प्रसक्तिरिति ॥। २ तथाचोक्तं सांख्याचार्य :- असदकरणादुपादानग्रहणात्सर्वसंभवाभावात्। शक्तस्य शक्यकरणात्कार- णभावाच्च सत्कार्य इति। अ. सि. २१
Page 52
१६२ अद्वैतसिद्धिः सव्याख्या । [परिच्छेद: १ ]
त्मनावस्थितिषिरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः। अतपवोत्तरज्ञाननि-
सिद्िव्याख्या।
र्वचनरूँपत्वे बाधोऽपि नेति ध्येयम्। ननु-कारणात्मनाSवस्थितिविरहाभावेऽङ्गीक्रियमाणे स्वरूपेणावस्थि- लिविरहाभावस्याप्यभ्युपगमापत्तिः । नच-मुद्ररपातादिना घटो निवृत्त इत्यबाधितानुभवबलात्स्वरूपे- णावस्थितिविरह एवाभ्युपगम्यत इति-वाच्यम् ; तथासति तत एव कारणात्मनाऽवस्थितिविरहस्याभ्यु- पगम्यतयाऽव्याप्तितादवस्थ्यमेव इति-चेन्न; स्वरूपेणावस्थितिविरहमात्रमादायान्यथासिद्धस्य तस्यानु- भवस्य कारणात्मनाऽवस्थितिविरहाविषयकत्वान्, इतरथा मुद्ररपातानन्तरं घटः स्वरूपेण निवृत्त इत्यनुभ- ववत्कारणात्मना निवृत्त इत्यनुभवापत्तेः। ततश्र नातीतघटादावव्याप्तिरिति भावः। यदुक्तं-उत्तरज्ञानेन पूर्वज्ञानं निवृत्तमित्यबाधितानुभवसिद्धज्ञानप्रयुक्तावस्थितिसामान्यविरह्प्रतियोगिनि पूर्वज्ञानेऽतिव्याप्तिः, साध्यनिर्वचनत्वरूपत्वे सिद्धसाधनम्-इति। तदपि नेत्याह-अतएवेति।अतशशब्दार्थमाह-उत्तरेति।
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
तद्ूपं मिथ्येति विशेषः। ननु-ज्ञानजन्यनाशप्रतियोगित्वमेव ज्ञाननिवर्त्यत्वमस्तु, मुद्ररादिना तु घटादेनाशो न जम्यते; मुद्रादितः पूर्वसिद्धस्य घटाद्युपादानस्य कपालादेरेव तत्तत्कालावच्छिस्नस्य घटादिनाशतवात्। नचैवं- तश्वज्ञानेनापि कपालादिरूपस्य नाशस्याजननात् घटादावव्याप्तिरिति-वाच्यम्; श्रुतिप्रामाण्यात् ज्ञानकालीनकपाला- दिरूपाणां घटाढिनाशानां ज्ञानाजन्यरवेऽपि ज्ञानोत्तरकालोत्पन्नस्वेतरसर्वप्रतियोगिकनाशस्य ज्ञानजन्यत्वे सिद्धे कपालादिनाशस्यापि घटादिनाशतवेन घटादिनाशस्य ज्ञानजन्यत्वानपायात्, तव्राह-तथाचेति। ज्ञानप्रयुक्तेत्या- दिलक्षणे कृते चेत्यर्थः। ब्रह्मेत्यादि। एवकारः स इत्यस्योत्तरं योजनीयः । तथाच स एव उक्तसंबन्धेनाज्ञानप्रयुक्त्त तत्संस्कारान्यतराभावरूपोक्त्तावस्थितिसामान्याभाव एव, ज्ञानप्रयुक्त: ज्ञानाधीनः, नतु घटादिनाशो ज्ञानकाली नकपालादिनाशरूप :; तस्य ज्ञानजन्यत्वे पश्चान्माशकाभावेन स्वनाश्यत्वस्वीकारे ज्ञानानाश्यत्वेन व सत्यत्वा पत्तेः। नच-उक्तावस्थितिसामान्याभावस्येव कपालादिप्रपञ्जनाशस्यापि ज्ञानोत्पत्तिक्षणे द्वितीयक्षणे वा ज्ञानस्या क्षणिकतवपक्षे उत्पन्नत्वेन प्रपज्जसमानकालीनत्वं स्वीकृत्य ज्ञानप्रयुक्तत्वमुच्यतामिति-वाच्यम्; नाशस्य प्रतियो- गिक्षणावृत्तित्वनियमात्, प्रतियोगिक्षणवृत्तिनाशे मानाभावात्, चरमक्षणस्य स्वेतरसकलदृदश्यनाशत्वसंभवेऽपि स्वनाशत्वासंभवेन तस्य ज्ञानजन्यनाशप्रतियोगित्वोपपादनासंभवात्, उक्तावस्थित्यभावविषयकतया 'ज्ञानात् दृश्यं सर्व नष्ट' मिति प्रत्ययोपपत्तेः, तत्वज्ञानजन्यनाशे मानाभावाच्। तसमात् स एव ज्ञानाधीन :; जानादुक्ताभाव इति प्रत्ययेन ज्ञानकालीनेऽप्युक्त्ताभावे ज्ञानाधीनत्वसंभवात् ज्ञाननाशकालीनस्य उक्ताभावस्य स्वीकारे तस्य नाशकाभा- वेन सत्यत्वापतेः, नतु कपालादिनाशः; मानाभावादिति या अतीतघटादौ ज्ञाननाश्यत्वलक्षणस्याव्यापिः सा ज्ञानप्रयु- क्ेत्यादिकरणाक्वेत्यथः। ननु-उक्तावस्थित्यभावोऽपि न ब्रह्मज्ञानप्रयुक्तः, प्रलयादौ ब्रह्मज्ञानं विनापि तत्सत्वेन तस्य ग्रह्म ज्ञानानधीनत्वात्-इत्यत उक्तम्-मुद्गरपातेनेति। उपलक्षणमिदम्। ब्रह्मज्ञानान्येनादृष्टादिनेत्यर्थः । प्रयुक्तत्वं तृती- थार्थः । तस्य च विरहपदार्थद्वयेऽन्वयः । तथाच घटादिस्वरूपप्रतियोगिकविरहस्य ब्रह्मज्ञानान्यप्रयुक्ततवेऽपि घटादि- संस्कारप्रतियोगिकस्य उक्त्तावस्थितिसामान्याभावस्य ब्रह्मज्ञानान्याप्रयुक्ततवेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमितिभावः । यदिच चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसरवं स्वीक्रियते; एकत्रापि तत्र रूपभेंदन ध्वंसत्वं प्रति प्रतियोगित्वानु- योगित्वयोः संभवात्, सकलदश्यत्वेन हि तत्र प्रतियोगित्वम्, चरमतत्व्रज्ञानाश्रयतत्क्षणव्यक्तित्वेनानुयोगित्वम्; 'घटाभावे स नास्ती' त्यादिप्रत्ययबलेनाश्रमस्वामिनां मते घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावस्येव 'ज्ानात् सर्वदश्यं नष्टमि' त्यादिप्रत्ययबलेन सर्वदृश्यप्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसत्वस्य संभवात्, तदा ज्ञानप्रयु- कावस्थितीत्यादेर्शानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस्तत्प्रतियोगित्वमर्थः। उत्तरज्ञाननाश्यत्वमादाय पूर्वज्ञाने सिद्धसाधनात् संस्कारनिवेशः।स्मृतिनाश्यसंस्कारकत्वमादायानुभवे सिद्धसाधनात् स्वेत्यस्य निवेशः। संस्कारस्य स्मृत्यनाश्यत्वे तु.न तब्निवेश्यम्। अवस्थितिञ्चेत्यादि। अवस्थितिपदार्थः उभयरूप इत्यर्थः। ननु मुद्गरपातादिनापि घटततसंस्कारयोर्नाशसंभवेन नोक्तनाशो ज्ञानप्रयुक्त:, तत्राह-तथाचेत्यादि। विरहपदे नाशपरे। विरहाभावा- दिति। तथाचोक्कश्रुत्यादिसिद्धो दण्डाद्यनाश्यो घटादिसंस्कार:प्रलयादिनिष्ट आवश्यक इनि भावः। सः स्वरूपसंस्का-
Page 53
१६३
वत्ये पूर्वश्ञाने न सिद्धसाधनम्; नवा वियदादौ ब्रह्मज्ञाननाश्यत्वे उपि तद्वदेव मिथ्यात्वासिद्धार्थान्तरम्: उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानाद्वस्थितिसामान्यविरहानुपपत्तेः। शशवि-
सिद्धिव्याख्या।
अनुपपत्तेरिति। ततश्च न पूर्वज्ञानेतिव्याप्तिः । न वा तदादाय सिद्धसाधनभिति ज्ञेयम्। नन्वेवं- पूर्वज्ञानस्य स्वकारणात्मनाऽवस्थाने स्वरूपेणाप्यवस्थानापत्तिः; विनिगमकाभावात्, न च-उत्तरज्ञानेन पूर्वज्ञानं निवृत्तमित्यनुभवात्तत्मिद्धिरिति-वाच्यम् ; तर्हि तत एव तस्यापि सिद्धयाSतिव्याप्तिसिद्धसा- धने स्याताम्-इति चेन्न; पूर्वज्ञानप्रतियोगिकस्वरूपेणावस्थिति विरहमात्रविषयकतयाऽन्यथासिद्धस्योत्तर- ज्ञानेन पूर्वज्ञानं निवृत्तमित्यनुभवस्य कारणात्मनाऽवस्थितिविरहाविषयकत्वात्। अन्यथा उत्तरज्ञानेन पूर्व- ज्ञानं स्वरूपेण नष्टमित्यनुभववत्कारणात्मना नष्टमित्यनुभवापत्तेः । नच-उत्तरज्ञानेन पूर्वज्ञानं न स्वरू- पेण निवृत्तमित्यनुभवस्य पूर्वज्ञाने लीनमात्रविषयकत्वे विश्वमायानिवृत्तिरिति श्रुतमायानिवृत्तेरपि विलयमात्ररूपतापत्तिरिति-वाच्यम; मायाया अनादित्वेन स्वकारणाभावेन कारणात्मनावस्थित्यनुप- पत्त्या तन्निवृत्तेरवस्थितिसामान्यविरहरूपत्वोपपत्तेरिति भावः । ज्ञानपद्व्यावर्त्यमाह-शशविषाणादा- विति। यदुक्तं-शुक्तिज्ञानेन रूप्यं नष्टमित्यननुभवेन तत्राप्यव्याप्तिः। साध्यनिर्वचनरूपत्वे साध्यवि- गौडव्रह्मानन्दी (लघुचन्द्रिका)। रोभयनाशः। ज्ञानप्रयुक्त एवेति। स्वरूपनाशात्मकसंस्कारप्रतियोगिकस्य नाशस्यापि स्वरूपनाशत्वेनोभयप्रतियोगि- कनाशो ज्ञानप्रयुक्त एवेति नातीतघटाद्यव्याप्तिरिति भावः । अथवा ज्ञानप्रयुक्तावस्थितीत्यादेरयमर्थः । अज्ञानप्रयुक्त तत्संस्कारान्यतरस्य पूर्वोक्तसंबन्धद्वयेन यो Sत्यन्ताभावो ज्ञानाधीनस्तत्प्रतियोगित्वं ज्ञान निवर्त्यत्वमिति। पूर्वमते नाशस्येव एतन्मतेऽत्यन्ताभावस्य ज्ञानसमानकालीनस्यापि ज्ञानाधीनत्वम्; 'तत्वज्ञानादज्ञानप्रयुक्तमुच्छियते सर्वदृश्यमुच्छिधते' इति प्रत्ययात्। ननु-उक्तात्यन्ताभावस्याविद्यकत्वेन तस्याप्युक्तात्यन्ताभावी ज्ञानाधीनो वाच्यः, एवं तस्यापीत्यनवस्था- इति-चेन्न; पूर्वमते एकस्यैव स्वस्वेतरनाशत्ववदेतन्मतेऽप्येकस्यैव स्वस्वेतरोक्तात्यन्ताभावत्वस्य संभवात्। ननु-प्रल- यादावुक्तात्यन्ताभावस्य ब्रह्मज्ञानं विनाऽपि सत्वेन न स तत्प्रयुक्तः, तत्राह-तथाचेत्यादि। मुद्ररपातेन ब्रह्मज्ञा- नान्येन। ज्ञानप्रयुक्त: ज्ञानाधीनः।अथवा-ज्ञानप्रयुक्तो ज्ञानाधीनः योऽवस्थितिसामान्यस्य स्वात्मकसामा- न्यस्याभाव: तत्प्रतियोगित्वं ज्ञाननिक्स्यत्वम्। स्वात्मकंच, स्वसमसत्ताकं ग्ह्यम्, तच्च स्वस्तीयसंस्काररूपस्वीयपरि- णामादिरूपमेव, नतु ब्रह्म। ज्ञानेन हि अज्ञानतत्परिणामसामान्यस्यात्यन्ताभावः स्वोस्पत्तिद्वितीयक्षणावच्छिन्नः साच्ते, साध्यता च तत्र क्षेमसाधारणी। स चाभावः स्वान्यसर्वदृश्यविरोधी क्षणिक इति-व्याख्या। तदेतव्याख्यचतुष्टयं दर्शितम्। अतएव यथाश्रुतस्य ज्ञाननिवर्त्यत्वस्यासाध्यत्वादेव। तद्वदेव पूर्वज्ञानस्योत्तरज्ञाननाश्यत्व इव। ननु उक्त संबन्धद्वयेन कस्यचिद्योऽत्यन्ताभावः तत्प्रतियोगित्वमेवास्तु, किं उक्तान्यतराभावस्याज्ञानप्रयुक्तत्वस्य वा निवेशेन? द्वितीयपक्षे व किमुक्तनाशत्वस्य ज्ञानप्रयुक्तत्वस्य च निवेशेन? तत्राह-शशेत्यादि। अवस्थितिसामान्यस्य विरहः उक्तसंबन्धद्वयावच्छिस्नप्रतियोगिताकात्यन्ताभावप्रतियोगित्वम्। चतुर्थपक्षे तु तथा चेत्यादि नातिव्याप्तिरि- त्यन्तो अन्थः सङ्गच्छतेतमाम्। ननु-तत्पक्षे दृश्यसामान्यस्याध्यासिकतादात्म्यसंबन्धेनात्यन्ताभावो ज्ञानाधीनः संबन्धान्तरेण वा सः। आद्ये तादात्म्यस्य भेदप्रतियोगितायामेवावच्छेदकत्वादसङ्गतिः, द्वितीये अध्यस्तसर्वसंबन्धैरत्य- न्ताभावस्य ज्ञानप्रयुक्ततया प्रतीतिर्विरुध्येत इति-चेन्न; आध्यासिकतादात्म्यस्य विषयतायाः समवायस्य च स्थानाप- सतवेनात्यन्ताभावप्रतियोगितायामेवावच्छेदकत्वात्, भेदप्रतियोगितायाः संबन्धावच्छिस्नत्वे मानाभावात्। नच-उक्ा-
(१) ज्ञानप्रयुक्तेत्यत्र प्रयुक्तत्वं किमधीनत्वं? उत व्यापकत्वम्। आध्येपि किमवस्थित्या सामान्यं विशेष्यते? विरहो वा, तत्रापि विरहपदार्थ: किमत्यन्ताभावः? उत नाश? इति विकल्पमभिप्रेत्यावस्थित्याविरहविशेषणत्वपक्षवर्ज्य सर्वपक्षोपपपत्तिः संभवतीति सूचनार्थ व्याग्याचतुष्टयं दर्शितम्। तत्प्रयुक्तत्वस्याधीनत्वरूपत्वे विरहपदस्य नाशपरत्वेच द्वितीयव्याख्थानं, तत्रैव विरहपदस्यात्यन्ताभावपरत्वे तृतीयं व्याख्यानं, तत्रैवास्थित्याःसामान्यविशेषणत्वे चतुर्थ व्याख्यानम्। प्रयुक्तत्वम्य न्यापकत्वरूपत्वेवन्थित्या सामान्यविशयेषणत्वे विरहपदेनात्यन्ताभावविवक्षणच प्रथम व्याख्यानमिति विवेक: ।
Page 54
१६४ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
षाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः। शुक्तिर जतादेश्वापरोक्ष- प्रतीत्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यङ्गीकारान्नबाधकज्ञानं विना तद्विरह इति न साध्यवि- कलता। अतपवोक्तं विवरणाचार्ये :- अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ानेन निवृ
सिद्धिव्याख्या। कलो दष्टान्त-इति, तहूषयति-शुक्तिरजतादेश्ेति। उक्तार्थेऽभियुक्तवचनं प्रमाणयति-अतएवे- त्यादिना। ननु-ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमित्यत्र-किमवस्थित्या सामान्यं विशेष्यते, विरहो वा। आद्येऽवस्थितिसामान्यं कारणात्मनावस्थितिः कारणमिति यावत्, ज्ञान- प्रयुक्तव्यतिरेकप्र तियोगिकारणकत्वमित्यर्थः । तत्रोत्तरज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्यसंस्कारादौ सिद्धसाधनम्, अनाद्यविद्यादौ च बाधः । कारणशब्देनानाद्यविद्योक्तौ चाविद्याकारणत्वमेवास्तु शेष- वैयर्थ्यात्; अनाद्यविद्यादौ बाघश्च। न द्वितीयः; घटाद्यवस्थितिसामान्यविरहे ज्ञानयुक्तत्वं न संभवति; विनष्टघटाद्यवस्थितिविशेषद्वयविरहस्य ज्ञानप्रयुक्तत्वाभावान, स्वरूपेणावस्थितिविरहस्य ज्ञानाप्रयुक्तत्वात्, विझेषाभावातिरिक्तसामान्याभावस्य त्वयैवाविद्यावादे निरसिष्यमाणत्वात्, ज्ञानप्रयुक्तविरहप्रतियोग्यव- स्थयाऽवस्थात्वस्यातिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वाच्च। शुक्तिरजतादेरवस्थित्यस्वीकारे स्वरूपेण निपे- धोत्तययोगश्च। रूप्यादेः स्वरूपेणैव निषेध इति त्वदभ्युपगमपक्षे रूप्योदेरत्यन्तासत्वस्यापादितत्वेन गौडब्रह्मानन्दी (लघुचन्द्रिका)।
भावस्य कैवल्येऽप्यनुवृत्त्यापातात् 'विद्वानामरूपाद्विमुक्त' इत्यादिश्रुतिविरोध इति-वाच्यम्; क्षणिकत्वस्योक्तवात्। ननु शुक्तिरजतादेरपि शशविषाणवदलीकत्वेनाज्ञानप्रयुक्ततत्संस्कारान्यतराभावाप्रतियोगित्वात्साध्यवैकल्यम्, तत्राह शुक्तीत्यादि। तद्विरह इति। अतएव तस्याज्ञानप्रयुक्तत्वमिनि शेपः। अतएव उक्तात्यन्ताभावस्य ज्ञानव्यापक- त्वात, ज्ञानाधीनत्वाद्वा, उक्तनाशस्य ज्ञानाधीनत्वाद्वा। स्वकार्यण खप्रयुक्तेन। विलीनेन संस्कारेग। वर्तमानेन स्थूलेन। सह सहितस्य। ज्ञानेन ज्ञानव्यापिका, ज्ञानाधीना वा । निवृत्तिः उक्तात्यन्ताभावः, उक्तनाशो वा।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। ज्ञाननिव्त्यत्वरूपसाध्यस्य पक्षे वियदादौ दृष्टान्ते शुक्तिरजतादी च वैंकल्यमित्याशंक्य तन्निराकरणपरतामपि विवरणत्र- न्थस्य सूचयितुं उपष्टंभकं व्याचष्े टीकायां-अतएवेति। उक्तात्यन्ताभावस्य अज्ञानप्रयुक्ततत्संस्कारान्यतराभावस्य, स्वात्मकसामान्यात्यन्ताभावस्य वा ज्ञानव्यापकत्वादिति प्रथमे व्याख्याने, ज्ञानाधीनलादिति तृतीये चतुर्थच, उक्त- नाशस्य स्वसंस्कारोभयनाशस्याज्ञानाधीनत्वादिति द्वितीये। अज्ञानप्रयुक्तरजताद्यभावस्य साक्षात् ज्ञानप्रयुक्तत्व- लाभकं व्याचष्टे-स्वकार्येणेति। अज्ञानसंबन्धसाधारण्यायाह-प्रयुक्तनेति। प्रविलीनेनेत्यस्य नष्टेनेत्यर्थोपगमेभाव- दशाया न लाभ इत्यतस्तत्संत्रहाय व्याचषटे-संस्कारेणेति। प्रागभावध्वंसोभयदशासाधारणेन सूक्ष्मरूपेणेत्यर्थः। सू- क्ष्मतादशायामपि वर्तमानत्वात्तद् व्याचष्टे-स्थूलेनेति। सहार्थस्य ज्ञानेऽन्वयशङ्कां व्युदस्यति-सहसहितस्य। विशि- प्स्येत्यर्थः । तेन विशेषणनिवृत्तेरपि लाभः। विशेषणे तृतीया, वैशिष्ट्यं संबन्धः । स च व्यापकतवं, प्रयुक्त्ततवं वा। हेतौ
जन्यत्स्य तृतीयार्थलेऽत्यन्ताभावासंग्रहादाह-ज्ञानेनेति। यद्वा-समभिव्याहृतनिवृत्तिपदार्थाभावादिकालः सहश- ब्दार्थ:, तद्वटकाभावादौ प्रतियोगितया कार्यान्वयः। तादृशकालविशिष्टस्याज्ञानस्य निवृत्तावन्वये स्वकार्यनिवृत्तिकालावच्छि- सत्वस्याज्ञाननिवृत्तौ लाभेन तत्र भासमानं ज्ञानप्रयुक्ततकं तद्विशेषणकोटिप्रविष्टाज्ञानकार्यनिवृत्तो लभ्यते इति बोध्यम्। नियृ- त्तिन विषयत्वविशेषः, अज्ञानस्याचतनत्वेनान्वयात्; नापि निश्चयेन संशयनिवृत्तिरित्यत्रसंशयान्तरानुत्पादवत् अज्ञा- नकार्यान्तरानुत्पादोऽर्थः; उत्पन्नकार्यनिवृत्तेरलाभप्रसङ्गात, अतो व्याचष्टे-निवृत्तिः उक्तात्यन्ताभाव उक्तनाशोवा इति। अन्रज्ञानप्रयुक्क्तो यः अज्ञानस्वरूपप्रयुक्ततत्संस्काराभावः तत्कालीनो योऽज्ञानतत्संस्काराभावो ज्ञानप्रयुक्त्तः, स बाध
Page 55
१६५
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
अत्रेदं बोध्यम्। निवृत्तेरज्ञानाधीनत्वपक्षे ज्ञानोत्पत्तिकालीने Sप्यज्ञान तत्संबन्धयोर्निवृत्तिस्वरूपे अखण्डघर्मरूपं ज्ञाना- धीनत्वमविरुद्धम् घटादिस्वरूपे तत्प्रागभावनिवृत्तित्वविशिष्टे घटाय्यधीनत्ववत्; घटात्तत्प्रागभावो निवृत्त इति धीवत् 'तरति शोकमात्मवित् ' सोऽविद्याग्रन्थि विकिरती' त्यादिप्रतीतेः, ज्ञानोत्पत्तिकाल एवाविद्यानिवृत्यनुभवाच्। यदिच स्वोस्पत्तिक्षणावच्छिसायां निवृत्ती ज्ञानाधीनत्वं न स्वीक्रियत इत्याग्रहः,तथापि घटादिजनकसामग््या एव घटादिपा- गभावनिवृत्तिजनकत्वस्वीकारादव्यवहि तपूर्वत्वसंबन्धेन घटविशिष्टत्वेनैव तस् वाच्यत्वात्तजनकता वच्छेदकस्यपि कार्ये
लघुचन्द्रिकाया विट्टलेशोपाध्यायी।
इति पर्यवसितार्थः । तत्राभावोऽन्यतगत्यन्ताभावः उभयनाशो वा बोध्यः। प्रयुक्तत्वं च व्यापकत्वं स्वरूपसंबन्धवि- शेषरूपो वेति बोध्यम्। ननु-अनन्तरोपन्यस्तवारतिके सम्यकूधीजन्ममात्रत इत्युक्ेः समानविषयकज्ञानाज्ञानयोर्विरोधाच्च ज्ञानोत्पत्तिकाले एवाज्ञानतत्संबन्धयोर्ज्ञानात् निवृत्तिरिति प्रतीयते, तच्च न संभवति; स्वोत्पत्तिकालीने स्वस्मिन्निव स्वभिन्नेपि स्वप्रयुक्तत्वासंभवात, तम्य स्वेतरमात्रकालीनवनियतलात्-इत्याशङ्कां परिहरति-अत्रेदं बोध्यमिति। नितृत्तेरत्य- न्ताभावनाशान्यतररूपाया ज्ञानोत्पत्तिकालीनाया अपि ज्ञानव्यापकत्वे वाधकाभावात् ज्वानाधीनत्वपक्ष इत्युक्तम्।- निवृत्तिस्वरूप इति। ज्ञानाधिकरणभावभिन्नस्वरूपे निवृत्तिपदार्थे इति शेषः। अज्ञाननिवृत्तित्वविशिष्व्रह्मस्वरूपे इति चार्थः: अखण्डधर्मरूपं स्वरूपसंबन्धविशेपरूपम्। अविरुद्धमिति। स्वीय संबन्ध विषय लरूपस्प्रयुक्कतत्वस्य खवोत्तरकाली- नव्वनियतत्वं मानाभावादिति भावः । व्यभिचारमपि दर्शयति-घटादिस्वरूप इति। घटातिरिक्तस्य घटोत्तरत्वसंभवात् घटस्वरूप इति। अत्यन्ताभेदे खवप्रयोज्यप्रयोजकभावासंभवात् भेदप्रयोजकरूपभदमाह-तत्प्रागभावनिवृत्तित्व- विशिष्टे इति। स्वोत्पत्तिकालोत्पनिकेऽपीति शेषः। ननु-अत्र घटात्तत्प्रागभावो निवर्तते इति प्रतीतिबलात् तथाभ्युप- गम्यते, प्रकृते तथाभ्युपगमे किंग्रमाणं-अतस्तदधिकं श्रुतिप्रमाणमाह-तरतिशोकमात्मविदिति। अत्र शोक: तन्निदानमज्ञानतत्संबन्धा, तयोस्तरणं, सवनं गतिः, तया सहचरिताभावो लक्ष्यते, "धातुसंबन्धे प्रत्यया" इत्यनुशासनात्।
किंच 'तर्रात' इति लटो वर्तमानकालोऽर्थः, सचेह न प्रकृतशब्दप्रयोगाधिकरणकालःः यनः स यदि ईश्वरस्य शब्दप्रयो- गाधिकरणीभूतः सर्गपूर्वावधिकालः, तदा जीवानामज्ञानमात्रोपाधीनां न देहेन्द्रियाणि, नापि तत्वज्ञानम्, कुतोमोक्षः ? यद्यध्यापकानां, तदा सर्वदा एकेकजीवस्य तत्ज्ञानमोक्षी आवश्यकों; अन्यथा यद्राक्योच्चारणकाले न तो, तदा तद्वाक्यार्थ- बाध: स्यान, न चवं संभवति; "यततामपि सिद्धानां कश्चिन्मां वंति तत्वतः" "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत" इत्यादिवार्क्यस्तस्य दुर्लभत्वेनासार्वदिकलान्। किंच तद्वाक्यस्य यत्काले उच्चारणं, तत्पूर्वोत्तरकालीनतत्ज्ञानमोक्षयोः प्रयोज्य प्रयोजकभावबोधनेनोक्तथ्रुतेस्तरिंका लिकज्ञाननिवत्तिपरत्व्याघातः स्किवयाव्छेद की भू तात्म ज्ञानत्पतवर्त- मानकाल एवेह लडर्थ इति तत्कालीनत्वं शोकनिवृत्तों भासते, तन्मात्रबोधे प्रयोजनाभावादुद्देश्य विधेयभावम हिस्रा ज्ञानाज्ञा नयोर्विरोधाच्च तत्प्रयोज्यवमपि तत्र लभ्यत इति भावः। उत्तश्रुती शोकपदस्य अविद्यातत्संवन्धपरत्वेन नृधातोर्निवृत्ति- परत्वेन चोक्तार्थकत्वे श्रुत्यन्तरसंवादमाह-सोSविद्याग्रन्थि विकिरतीति। स व्रह्मात्मसाक्षा क्तारवान्। अविद्यासहितं प्रन्थि, ग्रन्थिवत् दृढं तत्संबन्धं विकिरति वराहो चलीमिवोन्मूलयतीतर्थः। तत्र लोकानुभवमप्याह। ज्ञानोत्पत्तिका- लपवेति। इदंरजतमिति श्रमोत्तरं नीलपृष्ठत्वादिविशेषदर्शनेन दूरत्वादिदोषापगमेन च शुक्तित्वप्रकारकसाक्षात्कारक्षणे एव रजतभ्रमोपाद/नाज्ञाननिवृत्तेः सवानुभवसिद्धत्वात्, ब्रह्मात्मसाक्षात्कारक्षणएव प्रपथ्चभ्रमोपादानमूलाविद्यानिवृत्तेः जीवन्मु- कानुभवसिद्धत्वाच्चेत्यर्थः । ननु-अस्तु ज्ञानोत्पत्तिकाल एवाज्ञाननिवृत्तिः, किंतु तस्यां स्वोत्तरमात्रवृत्तित्वनियतं ज्ञानप्रयु- कत्वं न संभवति। न च-उक्तव्याप्ती मानाभावः; स्वोत्पत्तिकालोत्पत्तिके सवप्रयुक्तत्वस्यान्यत्राद्टष्टस्य स्वीकारे मानस्य भवतैव वक्तव्यत्वात्, भूयःसहचारदर्शनस्य तद्त्ाप्तिग्राहकत्वाच्च। न च-घटप्रागभावनिवृत्ता घटरूपायां घटप्रयुक्क्ताया व्यभिचारज्ञानसंभवान्न व्याप्तिग्रहसंभवः, तज्ज्ञानविरहसहकृतसहचारदर्शनस्यैव व्याप्तिग्राहकत्वादिति-वाच्यम्; घटप्रा. गभावनिवृत्ती घटप्रयुक्तत्वानुपगमात्, घटजनकसाम्रीप्रयुक्तत्वस्यैव तत्रोपगमात-इत्याशङ्कते-यदिचेति। स्वं ज्ञानं, निवृत्तौ ज्ञानेनाज्ञाननिवृत्तिर्घटात् स्प्रागभावनिवृत्तिरित्यादिव्यवहाराणां विवरणकारादभिप्रयुक्तवृतीनां गौणत्वेनोपपादन स्यान्याय्यत्वात्, यदि्चेति आग्रह इत्युक्तं। अभ्युपगम्य प्रागभावनिवृत्तिप्रतिबन्धं समाधानमुपक्रमते-तथापी- ति-स्वीकारादिति। तथा प्रकृतेऽपि ज्ञानजनकसामम्या एवाज्ञाननिवृत्तिप्रयोजकत्वं स्वीकार्यमिति भावः। कथं नर्हि घटात्तत्प्रागभावनिवृत्तिरिति प्रत्ययः, तत्राह-अव्यवहितपूर्वत्वसंबन्धेनेति। घटघिशिष्टत्वेनैवेति। अन्यथा
Page 56
१६६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रयोजकरवात् घटात्तत्प्रागभावनिवृत्तिरिति प्रत्यये घटप्रयोज्यत्वं निवृत्तौ भाति। यदि चोक्तनिवृत्तिर्घट एव न तदन्या, तत्र च कपालत्वादिनैव हेतुत्वं, नतु घटवत्वेनेति न घटस्य सवस्मिन् प्रयोजकत्वमुच्यते, तदा घटाप्तत्मागभावो निवृत्त इति व्यवहारो न मुख्यः, किंतु घटजनकात् घटप्रागभावनिवृत्तिरित्येव मुख्यो व्यवहारः। 'तरति शोक' मित्यादौ शोको नाविदादिकम्, किंतु दृश्यमात्रम्। आत्मवित् आत्मज्ञानसाधनवानिति दिक् । इतरदृश्यनिवृत्तौ तु ज्ञानसाध्यतापि संभवति; ज्ञानोत्पश्युत्तरकालीनत्वात्। उक्तसाध्यतापि ज्ञानाधीनाग्रिमसमयसंबन्धरूपा तादृशदृश्यविरोधित्वविशिष्टे एवात्यन्ताभावे स्वीक्रियते; ज्ञानपूर्वकालीनत्वविशिष्टे तादृशात्यन्ताभावे ज्ञानसाध्यत्वस्याप्रतीतेः । तादृशविरोधित्वंच तस्य नानुपपन्नम्; तत्वज्ञानस्योक्तात्यन्ताभावेतरदृश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमात्। तादृशात्यन्ताभाव- स्यापि क्षणिकत्वम् ; दश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमादिति। एवमज्ञानप्रयुक्तसाहित्यस्याज्ञाने कथनात् अज्ञान- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। घटत्वावच्छिन्नजनकतावच्छेदकानि यावन्ति, तावदवच्छिन्नसमुदायत्वेन तत्प्रयोज्यत्वे अपरावच्छिन्न विशिष्टकावच्छिन्नत्वेन वा जनकत्वेऽवच्छेदकगौरवं विनिगमनाविरहेण कारणताबाहुल्येन च गौरवं स्यादिति भावः। तस्य घटप्रागभावनिवृत्ति- जनकत्वस्य।-जनकतावच्छेदकस्यापि इति। जनकविधया प्रयोजकत्वस्यैव पूर्ववृत्तित्वनियतत्वात्, घटस्य प्राग- भावनिवृत्तिसमानकालीनत्वेऽपि जनकतावच्छेदकविधया प्रयोजकत्वं संभवतीति यथा तथा प्रकृतेऽपि अव्यवहितपूर्वत्व- संबन्धेन ज्ञानविशिष्टत्वनैव लाघवेन तत्सामय्या अज्ञाननिवृत्ती जनकत्वात्, ज्ञानस्य तदवच्छेदकत्वात् समानकालीन- त्वेऽपि प्रयोजकत्वमव्याहृतमिति भावः। ननु-जनकतावच्छेदकविधया प्रयोजकत्वमपि पूर्ववृत्तित्वनियतमेव-इत्यत आह-यदिचेति। उक्तनिवृत्तिः घटप्रागभावनिवृत्तित्वविशिष्टरूपा। तत्र घटरूपायां। कपालत्वेनवेति। लाघ- वात् घटत्वं जन्यतावच्छेदकीकृत्येति शेषः । प्रकृते, अज्ञाननिवृत्तिः ज्ञानरूपा, तां प्रति ज्ञानत्वं जन्यतावच्छेदकीकृत्य आत्मत्वादिना लाघवात् हेतुत्वं न ज्ञानवत्त्वेनेति भावः ।-न मुख्य इति। किंतु घटपदस्य घटजनकार्थकतया गाणः । पश्चम्याः प्रयोजकत्वावच्छेदकत्वार्थकत्वे लाघवेऽपि गौणत्वं दुर्वारमिति भावः। प्रकृतेऽपि गौण्या श्रातव्यवहारमुपपाद- यति-तरतीति। अविद्यादिकमिति। आदिना तत्संबन्धः । दृश्यमात्रं अविद्या तत्संबन्धान्यदृश्यमात्रं, अवि- द्यादिदृश्यसामान्यं वा। अज्ञानादिमात्रनिवृत्तिस्तु ज्ञानाज्ञानयोर्विरोधात् ज्ञानोत्पत्तिकालत्वेन लोकसिद्धवति न श्रुत्या प्रतिपा- द्यत इति भावः । अत्र विधेयकोटो लक्षणाया अन्याय्यत्वात् कल्पान्तरं उद्देश्यकोटौ लक्षणयाह-आत्मविदिति। अस्मिन् पक्षे अज्ञाननिवृत्तेज्ञीनप्रयुक्त्तत्वेन लोकैरभिमन्यमाना ज्ञानसाध्यतेव तत्प्रयुक्तनिवृत्तेस्तदुत्तरकाले साऽर्थसिद्धति ध्येयम्-दिगिति। शोकोऽविद्यादिकभेव, तत्र चात्मज्ञानरूपोद्देश्यतावच्छेदकस्य प्रयोजकतावच्छेदकत्वं समानकालीन- त्वमुभयं वा संसर्गमर्यादया भासते इति न कस्यापि गौणत्वमिति दिगर्थः । अस्मिन् पक्ष विवरणवाक्ये ज्ञानेनेत्यत्र ज्ञानपदं ज्ञानतज्जनकान्यतरप्रयोजकपरं इति बोध्यम्।-इतरदृश्यनिवृत्ताविति । अविद्यादीतरदृश्यमात्रनिवृत्तावि- त्यर्थः । अविद्यादीतरसाधारणदृश्यसामान्यनिवृत्तावित्वर्थो वा। ज्ञा नसाध्यतापीति। अपिना अविद्यादिनिवृत्तिनिष्ठज्ञा- नसाध्यत्वस्योक्तस्य समुचयः। ननु-नाशरूपनिवृत्तिपदार्थ ज्ञानजन्यतारूपज्ञानसाध्यतासंभवेऽपि नित्येऽत्यन्ताभावे कथं सा संभवति ?- इत्यत आह-उक्तसाध्यतापीति। ज्ञानाधीनेति। ज्ञानाव्यवहितोत्तरक्षणसबन्धस्तद्रूपेत्यर्थः। ननु- दृश्यात्यन्ताभावे ज्ञानोत्तरक्षणसंबन्धः कथं ज्ञानाधीनः? पदार्थान्तरनिष्ठस्येव दृश्यात्यन्ताभावविशिष्टस्य ज्ञानपूर्वक्षणसंबन्ध- स्य विरोधित्वात्, एतदङ्गीकारे बाधकमाद-ज्ञानपूर्वकालीनत्वविशिष्टे इति। ज्ञानसाध्यत्वस्याप्रतीतेरिति । तथाच तत्प्रत्ययापत्तिरेव तत्र बाधिकेति भावः। दृश्यकालीनस्य कथं दृश्यविरोधित्वं ? कथं वा तद्विशिष्टनिष्ठस्य ज्ञानोत्तरक्षण- संबन्धस्य ज्ञानप्रयुक्तत्वं तत्राह-तारृशविरोधित्वं चेति। दृश्यविरोधित्वं न दृश्यानधिकरणक्षणवृत्तित्वं; द्ृश्यानधिक- रणलस्य दृश्यात्यन्ताभावत्वे दृश्यभेदरूपत्वे वा तत्राज्ञानावीनत्वकथन्ताया अक्षतत्वात्, किंतु दृश्याधिकरणक्षणावृत्तित्वं, तद्विशिष्टे दृश्यात्यन्ताभावादौं ज्ञानोत्तरक्षणसंबन्धः तद्वैशिध्यावच्छिन्ना या तादृशक्षणवृत्तिता तदाश्रयत्वं, दृश्याभावाधि-
कनियममाह-तत्वज्ञानस्येति। तथाचतन्नियमबलेन ज्ञानोत्तरक्षणस्य दृश्याश्रयत्वविघटनात् दृश्याभावे दृश्याश्रयक्षण- वृत्तित्विघटनेन तदभाववशिष्यनिर्वाहात् तदवच्छिन्नज्ञानोत्तरक्षणवृत्तितननिर्वाह इति भावः। तत्वक्ानोत्तरक्षणे उक्तात्यन्ता- भावव्यवहारनिवांहाय उक्तात्त्यन्ताभावेतरेति। नादृशात्यन्ताभावतविशिष्टरूपदृश्यस्य मोक्षदशायामनुवृत्तिवारणाया- ह-ताटशाभावस्यापि क्षणिकत्वमिति। अन्न दृश्यविरोधितवविशिष्टदृश्यात्यन्ताभावतनैव क्षणिकत्वं, अत एवं ज्ञा- नपूर्वकालीनत्वविशिष्ट तादृशात्यन्ताभावे इत्यनेन न विरोधः, उक्तात्यन्ताभावस्तु ब्रह्मरूपतया नित्य इति भावः । एतनिर्वा-
Page 57
विट्ठलेशोपाध्याय्युपबृंहित गौडब्रह्मानन्दीयुता । १६७
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
स्य निवृत्तिक्रियायां प्राधान्यलाभात् प्रथममज्ञानस्य पश्चादज्ञानप्रयुक्तस्य निवृत्तिरिति सूचितम्। तत्रापि स्वसहितस्य स्वप्रयोजकाज्ञानस्य ज्ञानप्रयुक्ता निवृत्तिरज्ञानप्रयुक्तस्य बाध इति बोध्यम्। अज्ञानप्रयुक्तस्यैव बाध्यत्वव्यवहारात् स्व- प्रयोजकाज्ञाने निवृत्तेऽपि जीवन्मुक्ते देहादिबाधाव्यवहारात् स्वसहितस्येति। प्रलयादौ घटादेर्निवृत्तिरपि जीवन्मुक्त- स्य नानाशरीरप्रापकप्रारब्धकर्मणाSग्रिमकल्पे संसरिष्यत इन्द्रादेश्वाज्ञानिवृत्तिसहितेति तस्यास्तं प्रति घटादिबाधत्वा- भावात् ज्ञानप्रयुक्तेति। उक्तविवरणवाक्ये निवृत्तिपद्मत्यन्ताभावपरमपि वक्तुं शक्यते। वक्ष्यमाणवार्तिकवाक्येन नासीदित्यादिना अविद्यातत्प्रयुक्त्तात्यन्ताभावस्य बोधनात्। अतपवोक्तं वासिष्ठादी 'दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम्। संपननं चेत्तदोत्पन्ना परा निर्वाणनिर्वृति' रिति। ननु-मनस इत्यस्य बोधेऽन्वयो मार्जने वा। आदे तत्वज्ञानसाध्यस्य दृशयसामान्याभावस्य स्वेतरसर्वदृश्यविरोधित्वस्य पूर्वोक्तस्य भङ्ग :; तादृशविरोधित्वे सति तादृशाभा-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
हकं नियममाह-दृश्याश्रयेति। तादृशाभावत्वविशिष्टस्येत्यादिः। उक्तविवरणवाक्येनाज्ञानस्य भावरूपत्ं, तन्निवृत्ति- तत्प्रयुक्तनिवृत्त्योः ज्ञानप्रयुक्ततं यथा बोध्यते, तथा अज्ञाननिवृत्तिः पूर्व, तदुत्तरं तत्प्रयक्तनितृत्तिरित्यपि वोध्यत इल्याह -एवमिति-प्राधान्यलाभादिति। 'सहयुक्कतऽप्रधान' इत्यनुशासनात् पुत्रेण सहागतः पिता, पित्रा सहागतः पुत्रः; इति प्रयोगयोरसांकर्यच्चति भावः ।-प्रथममिति। प्रकृताभिप्रायम् , क्वचित्पाण्डित्यं क्वचिदामन्त्रणादिप्राधान्य- प्रयोजकं। तेन अग्रगेण पुत्रेण सह पठित आहूतः पिता आगत इति प्रयोगनिर्वाह इति बाध्यम्। उक्तविवरणवाक्येऽज्ञा- नस्य निवृत्तिरज्ञानस्य बाध इति प्रतीयते, तच्च न युक्तम ; अज्ञाने वाध्यत्व्यवहाराभावान्, किंतु निवृत्तिपदोत्तरं खका- य्यम्यति पूरणात् निरुक्ताज्ञाननिवृत्तिरज्ञानप्रयुक्तस्य बाध इत्यर्थ इत्याह-तत्रापीति। स्वसहितस्येति। स्वं अज्ञानप्र- युक्तं शुक्तिरजतादि। तथाच ज्ञानप्रयुक्तम्वनिवृत्तिपूर्वकालीनसप्रयोजकाज्ञाननिवृत्तिकत्वं, ज्ञानप्रयुक्तखप्रयोजकाज्ञाननिवृ- न्युत्तरकालीननिवृत्तिप्रतियोगिलं वा वाध्यतमित्यर्थः । उत्तव्याख्याप्रयोजनं स्वयं दर्शयति-अज्ञानप्रयुक्तस्यवेति। एवका रेणाज्ञानव्यवच्छेदः । स्वनिवृत्तिपूर्व कालीनत्वरूपस्वसाहित्य निवेशे प्रयोजनमाह-स्व (प्र) योजकाज्ञानेति। स्वं देहादि। तन्निवेशे तु प्रारब्धकर्मादिरूपप्रतिबन्धकबन्धेन देहादेरनाशात् न तद्वाधव्यवहार इति भावः। खनिवृत्ती ज्ञानप्रयु- क्तत्व प्रयोजनमाह-प्रलयादौ घटादेर्निवृत्तिरपीति।-जीवन्मुक्तस्याज्ञाननिवृत्तिसहितेति। नानेत्यादिविशे- षणाकान्तस्येन्द्रादेरज्ञाननिवृत्तिसहितेति चान्वयः। उत्तरकालीनेति सहितपदार्थः । एकाज्ञानपक्षे तत्कल्पितघटादौ जीवन्मु- क्तेन्द्राद्यज्ञानस्य प्रयोजकत्वात्, नानाज्ञानपक्षे तत्तत्पुरुषीयप्रतीयमानप्रातिभासिकरजतादेस्तत्तदज्ञानकल्पितलवत्, व्याव- हारिकस्य वियदादिप्रपंचस्यापि तत्तदज्ञानकल्पिततात्, जीवन्मुक्तेन्द्राद्यज्ञानयोः घटादिप्रयोजकल्ात्, खप्रयोजकत्वघटि- तोक्तबाधलापत्तिसङ्गतिः। तस्याः प्रलयावच्छिन्नाया घटादिनिवृत्तेः। तं प्रति जीवन्मुक्तेन्द्रादिकं च प्रति। घटादि- बाधत्वाभावादिति। तदापत्तिः, अत इति शेषः ।-ज्ञानप्रयुक्तेतीति। उक्तनिवृत्तिश्व न ज्ञानप्रयुक्क्तति नोक्ता- पत्तिरिति भावः। विवरणवाक्ये निवृत्तिपदस्यात्यन्ताभावपरत्ग्राहकतया वार्तिकोपन्यासं सफलयितुमाह-उक्तविवरण- वाक्ये इति। अपिना नाशपरं; ज्ञानेनेति जन्यत्ार्थकतृतीयाखारस्यात्।-नासीदित्यादिनेति । अन्र आत्मावि- द्यादिरूपो नासीदिति भेदार्थकत्वं तु नः तरतीत्यादिश्रुत्येकवाक्यतयात्मनि अविद्यादिनास्तीत्यन्ताभावमात्रबाधकल्वात्, नापि ध्वंसप्रागभावार्थकत्वं; नारित इस्यस्याविद्यादिकालीनस्य प्रत्ययस्य तद्विषयकत्वासंभवात् । अत्यन्ताभावविषयकत्वं तु संभवतीति पूर्वोक्त न विस्मर्तव्यमिति भावः। प्रसङ्गात् एतत्समानार्थकं योगवासिष्टवाक्यं व्याख्यातुं एतदुपष्टम्भकतयो- पन्यस्यति-अत एवोक्तमिति-दृश्यं नास्तीति। आत्मनि इत्यादिः। मार्जनं मलापाकरणं, प्रकृते दृश्यरूपमल- बोधकदृश्यपदसन्निधानादपाकरणमात्रं, तच्चाभाववत्वसंपादनं: तदपि संपन्नपदसमभिव्याहारादभाववत्वमात्रम्। अभावे दृश्यान्वितप्रतियोगित्वरूपकर्मतस्य षष्ठयर्थस्यान्वयः। घटं नाशयति, अपाकारोति इत्यादौ अभावप्रतियोगिताया अपि कर्म- प्रत्ययार्थत्वात्। परा निरतिशया व्यापिकेति यावत्। निर्गतं वानं गतिनाशो यस्याः सा, निर्वाणा निवृत्तिः सुखं, उत्पन्ना आत्मसरूपतया नित्यापि अविद्यमानेव विद्यायाSविद्यानिवृत्तौ उत्पन्नेव खवतः प्रकाशते; उत्पन्नेति सिद्धनिर्देशः, कारणा- न्तरानपेक्षासूचनायेति बोध्यम्। अत्र मनःपदेन तत्तादात्म्यापन्नं चतन्यं जीवात्मपदार्थरूपं विवदितु; तस्यैव तत्त्वज्ञान- दृश्यमार्जनमोक्षान्वययोग्यलात्।-आद्ये इति। मनसि स्वविषयकवृत्तिरूपस्य स्वेतरदृश्यस्य स्वीकारे इति शेषः । मनस उपाध्युपलक्षणत्ाभ्यां दृश्याभावे मनोनिष्टवृत्तिरूपस्वेतरदृश्यविषयत्वस्वीकारे इत्यर्थः। तत्वज्ञानं उक्तदश्याभाव- बोधस्तदुत्तरकालीन निर्विकल्पकात्मज्ञानं व नत्साध्यस्येत्यर्थः । विरोधितस्येत्यत्रान्वयः । भङ्ग: अभावापत्तिः। ननु-
Page 58
१६८ अद्वैत्सिद्धिः सव्याख्या। [परिच्छेद: १]
र्थेण नासीदस्ति भविष्यति ॥' इति। 'सह कार्येण नासी' दिति लीनेन कार्येण सह निवृत्त्यभिप्रा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। वस्य तत्कालीनमनोनिष्टवृत्तिरूपबोधविषयत्वासम्भवात्। अतएव न द्वितीयः: उक्तात्यन्ताभावरूपस्य मार्जनस्य मनो- निष्ठत्वासम्भवात्। अथ दृश्ये तदन्वयः, तथापि तादृशबोधस्य वृत्तिरुपस्य दृश्यतवेनोक्त्दोपानपाय-इति चेन्न; उत्ता- त्यन्ताभावस्य स्वस्वविषयकवृत्तिभिन्नसर्वद्ृश्यविरोधित्वस्यैव स्वीकारात् साक्षिभास्यत्वस्वीकाराद्वा-इत्याशयेनाह- वार्तिकेत्यादि। लीनेन ज्ञानकालीनसंस्काररूपलयप्रतियोगिना। तथाचाज्ञानस्य वर्तमानतवेऽप्यतीतकार्यसहितरू लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
तादृशविरोधित्वे सति इति। मनसि उक्तवृत्तिरपस्येनरदृश्यस्यासंभवेनेति शेषः। अतएव मनसो बोधेऽन्वयानुप- गमेऽपि तदा स्वीकृतवोधस्यान्यनिष्ठत्वासंभवेन मनस्येवोक्तवोघरूपद्टश्यम्य स्वीकारादेवेत्यर्थः। उक्तात्यन्ताभावरूपस्य स्वेतरसर्वदृश्यविरोधित्व विशिष्टदश्यात्यंताभावरूपस्येत्वर्थः ।-तादृशबोधस्य मनस्तादात्म्यापन्नात्मनिष्ठस्य दृश्याभाव- बोधस्य। चैतन्यरूपस्य दृश्यत्वाभावाद्ृत्तिरूपस्येत्युक्तम ।-उक्तदोषः उक्तबोधविषयस्य जीवात्मनि दृश्यविरोधिदृश्यात्य- न्ताभावस्यासंभवः ।- तस्यानपायात् दुर्वारत्वादित्यर्थः ।-स्वस्वेति । स्वः उक्तात्यन्ताभावः। स्वभिन्नत्वे सति म्ववि- षयकवृत्तिभिन्नानि यानि सर्वदृश्यानि तद्विरोधित्वस्थव स्वीकारादित्यर्थकवकारेण पूर्वोक्तविरोधित्वव्यवच्छेद:। एवं च मनस इत्यस्य बोधेऽन्वयेऽपि दृश्याभावे तद्विरोधित्वस्यानुपगमान्, तद्विपयीभूतस्यापि दृश्याभावस्य तदितरत्वघटितोक्तविगे धित्वस्य न भङ्गः; एवं मार्जनेन्वयपक्षेऽपि। दृश्यं नास्तीति बोधे तादशवोधान्यदश्याभावस्यैव भानेन तस्य मनोनिष्ठत्वसंभवात। एवं च दृश्येऽन्वयपक्षोऽपि समीचीन एवेति भावः। उक्तविरोधित्वे स्वविषयकवृत्तिभिन्नल्वानिवेशे तुक्तदृश्याभाववोधी न वृत्तिरुपः, किंतु अन्तःकरणोपलक्षितचैतन्यात्मकसाक्षिरूपः, स चन दृश्यः; ब्रह्मरूपन्वात्, इत्याशयेनाह-साक्षिभा- स्यत्वस्वीकाराद्वेति। मूले, तत्त्वमस्यादीति। आदिना अहंब्रह्मास्मीत्याद्यखण्डार्थवाक्यानां परिग्रहः। सम्यक
धीः श्रवणमनननिदिध्यासनादिसाधनपरिपाकोन्तरजाता चरमा प्रत्यक्षा नत्वज्ञानार्थरूपा मनोृत्तिः । तज्जन्म तदुत्पत्तिः । तन्मात्रतः तृतीयान्तात्तसिः। तत्प्रयोज्यतं नदर्थः । मातपदेन स्वोत्तरभाविप्रयोजकान्तरव्यवच्छेदः। तन्त्रेण तज्जन्मेति बहुव्री हेस्तदुत्पत्तिकालार्थकात् सप्तम्यन्तात्तसी तत्कालीनत्वमपि तदर्थः। तदुभयस्यापि सत्यन्ताभावरपतन्निवृतता नवर्थऽन्व- यः । नञोऽ'स्तिभविष्यति'इत्युभाभ्यामपि संबन्धः। कार्यसाहित्यं अविद्यायां कार्यविशिष्टत्वं। तथाच कार्यविशिष्टाविद्यायाः तत्त्वज्ञानप्रयुक्त: भूता वनमाना भविष्यन्ती च या सत्ता आत्मानुयोगिक: संबन्धस्तदभावः भूतादिकालार्वच्छिन्नत्वं चात्मरू- पतया, आत्मनि तदभाववत्वं, तत्संबन्धावच्छिन्नस्वरपवच्छिन्प्रतियोगिताकतदभाववत्वपर्यवसितं वोध्यने। यद्ा-सत्ता पारमार्थिकत्वं तद्भाववत्वं पारमार्थिकत्वावच्छिन्नप्रतियोगिताकनदभाववत्वपर्यवमितं वोध्यते। ननु-सहकार्येणेति किमर्थ? उपादानकारणाविद्याया विद्योत्पत्तिकालेऽभावे वोधित तदुपादानानीतकार्याभावस्यापि तदुत्तरकाले लाभसंभवान्- इत्याशङ्कय सहकार्येणेत्यस्यानुपादाने अविद्या नासीदिति'अविद्याकरनृकानीतसत्ताप्रतियोगिकविरह्बोधनं न संभवति, अवि- द्याया वर्तमानत्वेन तत्सत्ताया अपि वर्तमानत्वेन वर्मानकालवृत्तिध्वंसप्रतियोगित्वरूपातीतत्वासंभवात्, अविद्याकर्तृ- कातीतसत्तारूपप्रतियोग्यप्रसिद्धेः। न च-अविद्यायां घटादिकर्तृकातीतसन्तारूपस्य प्रसिद्धस्य प्रतियोगिनोऽभावो वोध्यते इति-वाच्यम् ; विद्यमानायामविद्यायां अतीनसत्वस्याप्रसक्तस्तद्विर हबोधनस्यासंभवादिति शङ्कानिरासकतया सहकार्येणेत्ये- तत्सार्थकयति-सहकायणत्यादिना।अभिप्रायमित्यन्तेन। तत्र लीनपदार्थी नातीतद्रवत्वं, बाधात्, वक्ष्यमाणाभिप्रा याननुगुणत्वाच्च, किंतु अनीतनाशप्रतियोगित्वं, अतीतत्वं च अज्ञानं नासीदित्याकारकं यत् वर्तमानज्ञानं तदधिकरणकालत- त्तिध्वंसप्रतियोग्युत्पत्तिकत्वं उक्तज्ञानकालीनत्वपर्यवसितं, नाशश्र संस्काररूप इत्याशयेन व्याचष्टे-लीनेनेति। ननु- एवमपि वर्तमानाज्ञानसत्ताया: कथमतीतत्वं, तत्राह-तथाचेति। अतीतं यत्कार्य तद्विशिष्टरूपेणेत्यर्थः । कार्यपदस्यातीत- कार्यपरत्वात्,। 'पुत्रेण सहागतः पिते' त्यादौ हि पित्राद्न्वयिपुत्रादिवैशिष््यमेव सहशब्दार्थः । तस्य स्वागमनादिकालीनत्वं, पित्राद्यन्वय्यागमनादौ पुत्रादेः संसर्गतया भासते, तद्वत प्रकृतेऽपि अतीतकार्यवैशिष्ठ्यमेव सहार्थः ।अज्ञानेनेति। तस्य ससत्ताभाववत्वकालावच्छिन्नत्वं नअर्थे संसर्गतया भासते इति वाध्यम। एवं च विशिष्टशुद्धयोः शुद्धतत्सत्ताभ्यां भेदेनाती- तकार्यविशिष्टाज्ञानतत्सत्तयोरतीतत्वमिति भावः । आसीदित्यस्येत्यादिः। अनीतकार्यविशिष्टाज्ञानकर्तृकस्यासधात्वर्थसत्वस्य तादात्म्यरूपसंबन्धस्य मिथ्याभूतस्यानादिभ्रमविषयत्वेन प्राप्तस्य नासीदिति तत्र स्वरूपेण पारभार्थिकत्वेन वा तत्वज्ञान-
Page 59
१६९
यम्। 'सह कार्येण न भविष्यती' ति तु भाविकार्यनिवृत्त्यभिप्रायमित्यन्यदेतत्। रूप्योपादानमशानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते। तत्तदूप्योपादानानां अज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम्: मुदरपातानन्तरं घटो नास्तीति प्रतीतिवद्धिष्ठानक्षा-
गौडब्रहमानन्दी (लघुचन्द्रिका)। पेणाती तत्वादासीदित्यस्य प्रसक्त्या नासीदिति निषेधसम्भव इति भावः। भाविकार्येत्यादि। कार्यजन कस्यादृष्टादेर- स्थन्ताभावात्तत्कार्यस्यात्यन्ताभावरूपा या निवृत्तिस्ततसहि ताज्ञाननिवृत्यभिप्रायकमिस्यर्थः। तथाचादृष्टादिकारणस्वादग्रे भाविता यज्जातीयस्य कार्यस्य प्रसक्ता, तज्जातीयस्यादृष्टाद्यभावात् ज्ञानप्रयुक्तादभावो न भविष्यतीत्यनेन बोध्यत इति। अन्यदिति। कारणाभावप्रयुक्तस्य कार्याभावस्य ज्ञानं विनाऽपि सत्वेन न बाधरूपत्वमिति स प्रकृतानुपयुक्त इत्यर्थः। ननु एकाज्ञानपक्षे शुक्तिरूप्यादेर्व्ह्वज्ञानं विना निवृत्त्यभावेन तत्र ज्ञाननिवर्त्यतवस्योक्तानुमानपूर्वमग्रहेण व्याप्तिग्रहास- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। प्रयुक्तस्याभावस्य बोधनसंभव इत्यर्थः। एवं ज्ञानेनाज्ञानं नास्तीति बोधिते तदुपादानकभाविकार्यनिवत्तिलाभेऽपि सहका- र्येणेत्यस्याविद्या न भविष्यतीत्यन्वयेन वर्तमानकालध्वंसाधिकरणकालवृत्तित्वरूपभविष्यत्व प्रसक्तिसूचकतया सार्थक्यमाह- मूले-सह कार्येणेत्यादिनाभिप्रायमित्यन्तेन ।। ॥ श्रीपाण्डुरङ्गाय नमः ।। तद्वयाख्यातुं गृह्णाति-भाविकार्यत्यादीति-कार्येण सहाविद्या न भविष्यतीत्यत्र कार्यपदं भाविकार्यपरं, तद्वैशिष्टथं तृतीयार्थः, नस्य अविद्यायामाश्रयतासंबन्धेन, तस्याश्च स्वकर्तृकसत्ताप्रतियोगिकत्वसंबंधेन नवर्थेत्यन्ताभावेन्वयः। तथाच का- यविशिष्टाविद्याकर्तृकभविष्यत्सत्तात्यन्ताभाव इति बोधः । तव भाविकार्यजनकादृष्टादेः सत्वे कथं तदत्यन्ताभावः? इत्यत आह-कार्यजनकस्येति। तदिति। उक्तनिवृत्तिसहिता या अज्ञाननिवृत्तिः तदभिप्रायमित्यर्थः। यत्र यद्वैशिष्टयं सह- पदेन बोध्यते, तदन्वयिनि समभिव्याहृततत्पदार्थ तदन्वितसमभिव्याहृततत्पदार्थस्य साहित्यं समानकालीनत्वादिरूपं धर्मिपारतकयेण बोध्यत इति नियमादिति भावः। अताविद्याया वर्तमानत्वेऽपि भावितत्कार्यविशिष्टत्वेन तस्याः तत्सत्तायाश्च भविष्यतप्रसक्ता सत्यां तन्निषेधबोधो वाच्यः, सच न संभवति; तत्वज्ञानेन अविद्यानिवृत्तौ तत्परिणामविशेषरूप- भाविकार्यस्यादष्टमात्रेण जननासंभवेनाप्रसिद्धेरित्यत आह-तथाचेति। अदष्टादिकारणसत्वे इति।यज्जातीयेत्यादिः। प्रसक्तेति। तद्विशिष्टत्वेन चाविद्यायास्तत्सत्तायाश्च भाविता प्रसज्यते इति शेषः। ननु-अविद्यादिपरिणाम्युपादानसह- कारितया तत्तुल्यकारणान्तररूपसहकारिविरहेण चादृष्टस्याविद्यापरिणामलाभावात् तदभावस्य तत्वज्ञानप्रयुक्तत्वासंभवात् अदृष्टेनाविद्यान्योपादानसहकृतेन भावि किंचित्कार्य स्यादेव इति कथं तन्निवृत्तिः? तवाह-तज्जतीयस्येति। कार्यस्येति शेषः। अभाव इत्यत्ान्वयः-अदृप्टाद्भावादिति। तज्जातीयेत्यादिः। आदिना तस्य परिणाम्युपादानपरित्रहः। ज्ञान- प्रयुक्तादिति। ब्रह्माद्यनादिषट्कान्यस्यादृटष्टादिसकलस्याविद्यापरिणामत्ादिति भावः। नभविष्यतीत्यनेन बोध्यत इ- ति। एतद्वोष्यो यो भावित्वेन प्रसक्ततज्जातीय कार्य विशिष्टाविद्याकर्तृकभविष्यत्सत्तात्यन्ताभावः तदन्वयितया सहशब्दबलेन बोध्यते इत्यर्थः। ननु-अन्यदेतदित्यनेन उक्तार्थस्याप्रकृतत्वं बोध्यते, तत्किमत्रेत्यत आह-कारणाभावेति। कारणा- भावः। अदृष्टविशेषाभावः, तत्प्रयुक्तः कार्याभावः, भावित्वेन प्रसक्त्तविजातीयकार्याभावः। तत्त्वज्ञानं विनापि इति। अविद्यापरिणामादेरेव ज्ञाननिवर्त्यत्वात्, भावित्वेन प्रसक्तस्य नाविद्यापरिणामत्वं; तस्यालीकत्वात्, तदभावक्ष तत््वज्ञानात्पूर्वभपीदानीमस्ति, सोऽपि भावित्वेन प्रसक्तवृत्तित्वेन प्रसक्तसामान्यधर्मावच्छिन्नप्रतियोगिताक इति नाप्रसिद्ध- मात्रप्रतियोगिकत्वं, तथात्वेऽपि वा न क्षतिः; शशविषाणादेरप्यभावाङ्गीकारात् इति भावः। सत्वेनेति। तत्वज्ञानप्रयुक्तत्वा- दिसंभवादिति शेषः। ज्ञानप्रयुक्तत्वघटितवाधरूपत्वेनेत्यर्थः। सः अदृष्टविशेषाभावप्रयोज्यो भावित्वेन प्रसक्तकार्याभावः। प्रकृतानुपयुक्त इति । अविद्याप्रयुक्तबाधलक्षणपरिचरणपङ्गिसमानार्थकत्वेन वार्तिककृद्भिश्ोक्त मित्यादि नो ्यस्त ो कस्य बाधलक्षणपरत्वावश्यकत्वात् श्रोके कार्येण सहेतयेतदंशस्य कार्यबाघलक्षणनिरूपणायैवोपादानाच बाघलक्षणाघटकताट- शाभावकथनस्य प्रकृतानुपयोग इति भावः । पूर्व मूले शुफ्तिरजतस्यालीकत्वे तदभावस्य ज्ञानप्रयुक्त्तत्वासंभवात् दृष्टान्ते साध्य- वैकल्यमाशक्ञ्य, तस्य प्रातिभासिकत्वमाश्रित्य तदभावस्य ज्ञानप्रयुक्तत्वोपपादनेन परिहृतम्; इदानीं भ्रमभेदेन तदुपा- दानाज्ञानभेदमाश्रित्य परिहारदर्शनादेकाज्ञानपक्षे प्रकारान्तरेण दृष्टान्ते साध्यवैकल्यशङ्कया रूप्योपादानेति मूलप्रन्थमव- तारयति-नन्वेकाजानपक्षे इति। एकमेवाजानं सर्वभ्रमोपादानमिति पक्षे इत्यर्थः-निवृत्त्यभावेनेति। शुक्त्यादि- ज्ञानेन तम्निवत्तौ इदानीमेव मुक्तिप्रसङ्गादिति भावः ।-पूर्वमिति । असत्त्वेनेति शेषः । उत्तरंतु तत्र तत्सत्वेऽपि अ. सि. २२
Page 60
१७० अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मभव:, तत्राह-रूप्येत्यादि। वैकल्यं अग्रहः। तथाच नानाज्ञानपक्ष एवेदं बोध्यम्। वस्तुतस्तुं एकाज्ञानपक्षेऽपि दोषजन्यधीविषयत्वेन शुक्तिरूप्यादेर्ज्ञाननिवर्त्यत्वमनुमाय व्यापिग्रहसम्भवः । ननु पूर्व इवोत्तरोऽप्यवधिर्दश्याब्घेर्ना- स्येव। तदुक्तं प्रलयस्याप्यस्वीकर्तृभिर्मीमांसकै :- 'न कदाचिदनीदशं जैगदि'ति। आस्तां हि तत्वज्ञानमात्यन्ति- कदुःखनाशस्य नित्यसुखसाक्षात्कारस्य वा मोक्षस्य हेतुः; शोकं दुःखम्। आनन्दं आनन्दः । ब्रह्मण: बृहतः जीव- स्येति यावत्। रूपं नित्यधर्मः । मोक्षे मोक्षहेतुश्ञाने अनुप्रतिष्ठितं अविच्छिस्मानससाक्षात्कारविषय इत्यर्थिकायाः 'तरति शोकमात्मवित्, 'भानन्दं ब्रह्मणो रूपं' तच्च मोक्षे प्रतिष्ठित' मित्यादिश्ुतेः, उक्तनिवृत्तिप्रयोजकं तु कुतस्तग्राह- मुद्ररेत्यादि। पातानन्तरं पातोत्पत्तिरूपव्यवधायकशून्यकाले। पातोत्पत्तिक्षण इति याव्। घटो नास्तीति। स्वाश्रयकालपूर्वत्वसंबन्धेन घटो नास्तीत्यर्थः । एवं ज्ञानानन्तरमित्यादि दष्टान्तेपीत्यर्थः । रूप्यं चेति चकारास्तत्कार णाज्ञानसंबन्धग्रहणम्। ज्ञानसाध्यनिवृत्तिपक्षे तु अनन्तरपद्योरुपत्यव्यवहितोत्तरक्षणोऽर्थः। नासतीति शब्दस्याथ्यस्य लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। नानुमानापेक्षेति भाव: । शुक्तिरूप्यस्यापि ब्रह्मज्ञाननिवर्त्यत्वोपगमात् न साध्यस्यासत्त्वरूपवैकल्यमतो व्याचष्टे-वैक- ल्यमग्रह इति । अग्रहः प्रत्यक्षाभावः। नानाशानपक्षे शुक्त्यज्ञानस्य तत्कार्यरजतादेश् ज्ञानप्रयोज्याभावः मूलोक्त- प्रत्यक्षसिद्धः। इदं ज्ञाननिवर्त्यत्वं। पकाज्ञानपक्षे तु पूर्वमुक्तानि साध्यानि। तत्पक्षेऽपि प्रकृतानुमाननिर्वाहमाह-वस्तु- तस्त्विति। अनुमायेति। श्रुतिसिद्धब्रह्मज्ञाननिवर्त्यमूलाज्ञानवियदादिद्टष्टान्तेनेति भाव इति केचित्। तत्र श्रुत्यर्थ विवद- मानं प्रत्येवानुभानप्रयोगेण पक्षस्य तदृष्टान्तपक्षकानुमाने दृष्टान्तत्वेऽन्योन्याश्रयः। वस्तुतस्तु वियदादिपक्षकेऽनुमाने शुक्तिरूप्यं, तत्पक्षके रज्जुसर्पः, तत्पक्षे स्वाप्नगजादिक दृष्टान्तः; पूर्वपूर्वानुमानानां विरलानामपेक्षणेऽपि नानवस्था दोष: वीजांकुरवत्। मूले-रूप्योपादान मित्यादिनिवर्तते इत्यन्तार्थे दृष्ान्तसाध्यवैकल्यहेतुतयोक्ते ततदुप्येत्यादिपश्वम्यन्तार्थो न हेतुः; एकाज्ञानपक्षे रूप्योपादानाज्ञानरूपत्वेन शुक्तिसाक्षात्कारेणव जगदुपादानाज्ञाननिवृत्तिप्रसञ् इत्याशङ्कापरिहारायोक्त- पश्चम्यन्तेनाज्ञानानां भेदस्य कथनात्, किन्तु मुद्गरपातानन्तरनित्यादिसर्वसंमतत्वादित्यन्तार्थः; सच व्यर्थः; ज्ञानेनाज्ञाननिवृत्तो ज्ञानज्ञानयोर्विराधस्यैव हेतुत्वेन, प्रसिद्धे हेत्वाकाङ्काविरहादित्याशङ््य उक्तविरोधमेवानुपगच्छतो मीमांसकादेराशक्काविशेषेणो क्तहेतुमवतारयति-ननु पूर्व इति। पूर्वोवधिः आदि: प्रागभावः। उत्तरोऽवधिः अन्तो नाशात्यन्ताभावोभयं तद- योग्यत्वायाब्घेरित्युक्तम्।-नास्त्येवेति। सत्यस्य दृश्यस्य ज्ञानानुच्छेद्लात्, दृश्योपादानभूतस्याजञानस्यापि ज्ञानोच्छेद्य - स्यानुपगमात्, सत्यानां परमाण्वादीनामेव जगदुपादानलात्। ननु-प्रलये द्दश्याभावः सर्वसिद्धः, इत्यत आह-तदु- क्तमिति। नन्वेवं-सर्वदृश्योच्छेदघटित मोक्षस्यासंभवे कीदृशो मोक्ष: तत्वज्ञानसाध्यः, तत्राह-आस्तांहीति। आत्य- न्तिकेति। खवसमानाधिकरणदुःखप्रागभावासमानकालीनस्य दुःखनाशस्येत्यर्थः। नित्यं यत्सुखं तत्साक्षात्कारस्येत्यर्थः । आद्ये प्रमाणभूतां श्रुतिं व्याचषे-शोकं दुःखमिति। शोकजनकत्वात् दुःखमिति।शोकजनकत्वात् दुःखस्य। तरति अत्यन्तं नाशयतीत्यर्थः। द्वितीये आनन्दमिति लिङ्गव्यत्यासेनेत्याह-आनन्द इति। परमते ब्रह्मण ईश्वरस्य न सुखं, जीवे- श्वरयोश्ष भेदोऽतो व्याचष्टे-वृहतो व्यापकस्वरूपस्य परमते नित्यधर्मत्वात् गौण्या रूपं नित्यधर्म इति विवक्षित- मित्याह-रूपमिति। यद्यपि मोक्षदशायामिति व्याख्यायामपि प्रतिष्ठितपदार्थान्वयसंभवः; तथापि तत्कारणलाभाय व्या- चष्टे-मोक्षहेतुतत्वज्ञाने इति। सति इति शेषः । नित्यसुखस्य तदविषयत्वात् प्रतिष्ठितपदस्य नित्यस्थित्याश्रयार्थकत्वे वैय- थ्य; रूपपदेनैव तल्लाभात्, अतोऽविच्छिन्नसाक्षात्कारविषयार्थकतया व्याचष्टे-अविच्छिन्नस्येति। अधिचछेद: प्रवाहः, स च खसमानाधिकरणखसमानविषयकसाक्षात्कारकसाक्षात्कारसामान्यकत्वं। मानसेति सरूपकीर्तनं, सुखस्य मनोमात्र- प्राह्यत्वात्। आदिना नैयायिकादिः। तेषामुक्तार्थकत्वेन समपूर्ववृत्तिखवसमानविषयलात्। एतन्मते तत्त्वज्ञानं, आत्मनि देहेन्द्रियादिरूपेतरभिन्नत्वप्रकारकः साक्षात्कार इति बोध्यम्।-उक्तनिवृत्तीति। उक्तनिवृत्ति: दृश्यसामान्यस्य स्वाश्रयपूर्वत्वस्वप्रयोजकाज्ञानसमानविषय कत्वोभयसंवन्धावच्छिन्नाभावरूप उच्छेदः, तत्प्रयोजकं कुत इत्यर्थः । पातानन्त- रमित्यस्य पाताव्यवहितोत्तरक्षणार्थकत्वे पातोत्पत्तिक्षणस्य घटवत्कालपूर्वताभावाकथनेन न्यूनता, तां परिहर्तु व्याचषे- पातानन्तरमिति। पातोत्पत्तिरूपेति। पातोत्पत्तिः रूपं धर्मो यस्य स पातोत्पत्तिरूपो यो व्यवधायकक्षणान्तरशून्यः काल: तत्रेत्यर्थः । तदाह-रूपोत्पत्तिक्षणे इति। यावदिति। श्रीः॥ घटः तद्टः । मुद्ररपातस्योत्पत्तिक्षणे तङ्वटस्य कालिकसंबन्धेन सत्त्वात् स्वाश्रयपूर्वत्वेनेति। दृष्टान्तेऽपीति। ज्ञानोत्पत्तिक्षणे इति शेषः। दृष्टान्त इत्यस्य मिथ्यालानु- मानदष्टान्तविषयकप्रत्ययाभिलापके मुद्रपातेत्यादिवाक्यदष्टान्तकदार्ष्टान्तिकवाक्ये इत्यर्थः । संबन्धः शुत्तयवच्छित्नचि- त्निष्टः ।-पक्षे इति। तत्साध्यतस्य तदुत्तरकालमात्रवृत्तितवनियतत्वपक्षे चेत्यपि बोध्यम्। आद्यस्य दृषटान्तघटकस्य
Page 61
१७१
नानन्तरं शुक्त्यश्ञानं तद्रतरूप्यं च नास्तीति प्रतीतेः सर्वसंमतत्वात्। ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्य त्वमित्यपि साधु। उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण? किंत्विच्छादिसाधारणे-
सिद्धिव्याख्या। रूप्यादभावोपि शशविषाणाद्यभाव इव ज्ञानप्रयुक्त इति दष्टान्तस्य साध्यवैकल्यमेव, पक्षे बाधश्र- इति-चेन्मैवम्; पूर्वज्ञानस्य ज्ञानत्वेन ज्ञानप्रयुक्तव्यतिरेकिप्रतियोगित्वाभावेन ताद्शकारणकत्वस्य तत्राभावात्। नच-अनाद्यविद्यायां बाध इति-शङ्यम; कारणशव्देनाविद्यास्वरूपकारणस्यैवोक्तेः। न च-तर्हि अविद्याकारणकत्वमेवास्तु शेषवैयर्थ्यादिति-वाच्यम्; शेषस्याविद्याकारणस्वरूपकथनपरत्वेन यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावात्। न च-अनाद्यविद्यादौ बाध इति-वाच्यम्; निरुक्त- कारणकारणकत्वान्यतरस्य विवक्षितत्वात्। नापि मिथ्याजाने बाधः; तत्रापि ज्ञानत्वेन ज्ञानप्रयुक्तव्य- तिरेकप्रतियोग्यविद्याकारणकत्वस्य सत्वेनोक्तसाध्यानपायादिति। ज्ञानत्वव्याप्येति। ने च-भवन्मते मननत्वादिज्ञानत्वव्याप्यधर्मेण मनननिवर्त्येऽर्थगतसंशयविशेषेतिव्याप्तिः तादृशसंशयनिवर्तकत्वेनैव मननस्य सप्रयोजनत्वोक्तेरिति-वाच्यम् ; संशयमात्रस्य लक्ष्यत्वेन तत्रातिव्याप्तरभावात्। न च- संशयस्य कोटिद्वियावलाम्बिन एककोट्यंशे लक्ष्यत्वेऽप्यपरकोट्यंशे यथार्थतयाऽलक्ष्यत्वात्तत्राति- व्याप्तिरिति-वाच्यम; तर्हि ज्ञानत्वसाक्षाव्याप्यधर्मेण ज्ञाननिवर्त्यत्वं लक्षणेन विवक्षितं; साक्षाव्याप्य- त्वंच, ज्ञानत्वव्याप्याव्याप्यत्वे सति ज्ञानत्वव्याप्यत्वं,मननत्वं तु न तथेति बोध्यम्। ज्ञानस्येति। ज्ञान-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मुद्गरपातप्रयुक्ता द्वितीयस्य ज्ञानप्रयुक्ता निमृत्तिरस्तीत्यर्थः, नजो निवृस्यरथत्वादिति भावः। अनन्तरमिति च साव- धारणम्। तथाचास्तीत्यस्य वर्तमानत्वार्थकत्वेनेदानीमेव मुद्गरपातप्रयुक्ता निवृत्तिर्न तु क्षणान्तर इति धीवत् एतत्क्षण एव ज्ञानप्रयुक्त्ता सर्वदश्यनिवृत्तिर्न तु क्षणान्तर इनि सार्वलौकिकधीबलादुक्कनिवृत्तिप्रयोजकत्वं ज्ञानस्य युक्तम् ; तद्-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। मुद्ररपातप्रयुक्तेति। उत्तरज्ञानविषयोल्ेखः। द्वितीयस्य दार्श्ान्तिकघटकस्य। अज्ञानप्रयुक्तेति पूर्ववत्। निवृतिः तद्वट समवायारवच्छिन्नकालिकसंबन्धावच्छिन्नतद्वटाभावः। शुक्स्याद्यज्ञानादेः शुक्तवच्छिन्नकालिकसंबन्धावच्छिन्नाभावश्च यथायथं बोध्यः। ननु-कपालाद्यवच्छेदेन मुद्गरपातोत्तरक्षणनिष्ठा तदवच्छेदेन कपालनिष्टा वा, घटादभाववत्तारूपनि- वृत्तिस्तादृशवायुसंयोगाद्यधिकरणतावत् काकतालीयन्यायसिद्धा, न तु मुद्गरपातादिप्रयोज्येत्याशक्क प्रयोज्यप्रयोजकभावग्रा- हकं व्यतिरेकाव्यभिचारं दर्शयितुभेवकारमध्याहरति-अनन्तरमिति। सावधारणमिति। मुद्गरपातानन्तरमेव- तत्कपाले तद्टो नास्तीत्यत्रानन्तरपदमव्यवहितोत्तरकालार्थकं, ततः "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया; अधिकरण- तायां अन्वयसहचारप्रहापयिकतया व्यापकत्वरूपात्यन्तसंयोगस्यापि विवक्षितलात्, मुद्गरपातादिपदस्य स्वेतरसकलप्र- योजकसमवहितमुद्गरपातपरलात्। तथाच प्रयोजकान्तरसमवहितमुद्गरपातानन्तरक्षणतव्यापिका मुद्गरपातानधिकरणस- कलक्षणनिष्ठाभावप्रतियोगिनी मुद्गरपातानन्तरक्षणनिष्ठा या तत्कपालावच्छिन्ना स्वाधिकरणता, तन्निरूपिता या वर्तमान- कालावच्छिन्नाधेयता तदाश्रयः कालिकसंबन्धावच्छिन्नप्रतियोगिताक: तद्वटाभाव इति बोधः, इत्यभिप्रायेणाह-तथाचेति। निवृत्तिर्यत इदानी मुद्धरपातानन्तरक्षण एव, न तु क्षणान्तरे मुद्धरपातानधिकरणक्षणोत्तरक्षणे, अतो मुद्धरपातप्रयोज्येत्य- र्थो दृष्टान्ते एवं दार्ष्टान्तिकेऽपि बोध्यम्। वर्तमानार्थकत्वेनेति। प्रयुक्तेति। एतेन, प्रत्यक्षयोग्यता व्यज्यते; कार्य- कारणभावस्येव प्रयोज्यप्रयोजकभावस्यापि अन्वयव्यतिरेकप्रहसह्कृतप्रत्यक्षप्राह्यत्वात्। सार्वलौकिकत्वं दुरपह्नवलाय। अत एव ज्ञानाजानयोविरोधोऽपि सर्वसिद्धः। उक्तमिति। उक्तमीमांसकादिमतं लयुक्तम्; आत्यन्तिकदुःखध्वंसस्य नित्यसुखसाक्षात्कारस्य वा मुक्तित्वे तस्य जन्यत्वेन "नास्त्यकृतः कृतेन" इति श्रुतिविरोधापत्तेः, ब्रह्मभिन्नस्य तस्यातोऽ-
१ इयमाशक्का तरंगिण्यां दृश्यते तत्परिह्यारोत्रत्योऽनुसंधेयः । इति॥
Page 62
१७२ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १ ]
गौडव्रहमानन्दी (लघुचन्द्रिका)। नुसृत्य पूर्वोक्तव्याप्तीनां कल्पनमपीति भावः। ननु-उक्तव्याप्तीनां आ्हकः कस्तर्क-इति चेतू, 'दण्डपातोत्पत्तिक्षणो पो यस्स घटसमवायितत्तदेशावच्छेदेन घटवत्कालपूर्वो ने' ति व्याप्ौ 'स यदि तथा न स्यात् तदोक्तपूर्वतवेन प्रमी- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। न्यदार्तश्रुत्या विनाशित्वेन स्वर्गादिवदस्य पुरुषार्थलानुपपपत्तेश्। न च-धारानित्येति-वाच्यम्; धारिणां प्रत्येकमनित्यत्वे तदनतिरिक्तसन्ततिरूपधाराया नित्यत्वासंभवात्, आत्मभिन्नस्य सुखस्य तद्भ्िन्नतत्साक्षात्कारस्य तद्धारायाश्र सवीकारे गौरवाच्च, दुःखध्वंसस्य मोक्षत्वे मुक्त्स्य पाषाणतुल्यत्ापत्तेश्वेति भावः । अत्रैवं संग्रहः। अथ नैयायिकाद्वैतवेदान्तमतयोर्विशेषाविशेषो विविच्येते। द्वैतमते देहेन्द्रियादिप्रपश्चः सत्यः, अद्वैतमते तु मिथ्या। मतद्वयेऽपि आत्मनः तद्भिन्नत्वेन श्रवणमनननिदिध्यासनजन्यं तत्साक्षात्काररूपं यत् ज्ञानं तत् मुक्तिसाधनम्। तत्र द्वैते सत्यादपि प्रपश्चात् सत्येऽप्यात्मनि शब्दादिशून्यलात् ज्ञानादिमलाच् भेदधीः, अद्वैतमते तु मित्थ्याभूतात्प्रपश्चात्सत्यस्यात्म- नोऽमेदधीः। द्वैतमते प्रपश्चसत्यत्वं सुनिश्वेयम्, अद्वैतमते प्रपश्चमिथ्यात्वं दुर्निश्चेयम्। तन्निर्णये तु मिथ्यात्वशन्यत्ात् सत्य- लाञ्चोक्तभेदधीरिति न फलतो विशेषः। द्वैतमते जीवेश्वरयोः भेदः सत्यः, अद्वैतमते तु कल्पितो मिथ्या। आत्मनि ईश्व- राभेदज्ञानं निरतिशयानुरागरूपभक्तिद्वारा मुक्तिकारणमिति मतद्वयेऽपि तुल्यम्।तत्तु एकस्य भ्रमः, अपरस्य प्रमेत्यन्य- देतत्। मतद्वयेऽपि एकविंशतिदुःखध्वंसविशिष्टशुद्धसाक्षात्कारो मोक्षः। तच सुखमेकमते नित्यं आत्मनोभिन्नधर्मः, तत्सा- क्षात्कारश्च तत्सदृशो जन्योऽप्यविनाशी अविच्छिन्नधारावाही वा सविकल्पकः, अन्यमते तु सुखमात्मस्वरूपं नित्यं तत्साक्षा त्कारोऽप्यात्म स्वरूपो नित्यो निर्विकल्पक इति विशेषोऽस्तु। तथापि मतद्वये मुक्तिदशायां देहेन्द्रियादिप्रपश्चस्य नष्टस्य विद्य- मानस्य वेश्वराकाशादिप्रपश्चस्य भेदाभेदयोरुभयोरपि भानं नास्तीति समानम्। एवंचाद्वैतमतमेव किमर्थमादरणीयमिति पूर्वः पक्षः। अत्रेद्मवधेयम्-परमकृपया मन्दाधिकारिजीवोद्धारणार्थ सुप्रत्ययं शास्त्रं गातमादिमुनिभिः प्रणीतम्। तदिदमु- कं-जगदेतहुःखपंकिलमुद्दिधीर्षुः अष्टादशविद्यास्थानेष्वभ्य्हिततमामान्वीक्षिकीं विद्यां परमकारु- णिको मुनिः प्रणिनायेति। उत्तमाधिकार्यद्धारार्थ तु श्रीबादरायणशास्त्रमेव। तदिदमुक्तं "तत्वं तु बादरायणा" दिति। तत्रेदमाकृतम्-देहेन्द्रियादि प्रपश्व मिथ्यात्व्यवस्थापनं न केवलं आत्मनि तद्भेदसिध्यर्थ, किंतु ज्ञानसाधनश्रवणादौ प्रपश्चवै- राग्यरूपाविकारसिध्यर्थम्। नहि मिथ्यात्वेन निश्चिते शुक्तिरजतादां प्रेक्षावतां प्रृत्तिनिदानभूतो रागः। नच-अनित्यत्वनिश्चय एव वैराग्यकारणमिति-वाच्यम्:खप्रदृष्टरजतादो तन्निक्षयेऽपि रागोदयात्, मनःपरभाण्वादा नित्यत्वस्यैव परैरुपगमाच। नह्ेंवं निर्विचिकित्समित्थ्यातनिश्चये रागोदयव्यभिचारः। देहादा नु शब्दादिप्रमाणेन मिथ्यात्वनिश्चयो जायमानोऽप्यनादिदुवा- सनया विचिकित्सात्मको भवति।स च चिराभ्यस्तमिथ्यात्वभावनया ईश्वरप्रणिधानप्रसादसहकृतया निर्विचिकित्सात्मकः शुक्ति- रजतादाविव जायमानो वैराग्यं जनयति। संचितप्रपश्वस्य मिथ्यात्वं "न तत्ररथाः" "सदेव सौम्येदं" "नेह नाना" इत्या- दिप्रमाणैः सिद्धं,तत्कथं वारणीयं? एवं जीवपरमात्माभेदोऽपि तत्त्वमस्यादिश्रुतिसिद्धो न वारयितुं शक्यः। एवं सति ब्रह्मात्म- कमेव तदभेदज्ञानं निरतिशयानुरागरूपभक्तिद्वारा मुक्तिकारणं संपद्यते; अन्यथा देहेन्द्रियादाविवात्मतादात्म्यभ्रमाहितोऽपि ईश्वरानुरागो जघन्यं कथं मुक्तिसाधनं स्यात् ?सत्याभिसन्धस्यैव मोक्षश्रवणात्। किंच जीवव्रह्माभेदज्ञानं साक्षादेव मुक्ति- कारणं, ईश्वरभक्तिस्तु श्रवणादेः सहकारिणी; "यस्य देवे पराभक्ति" रिति श्रुतेः । एवं मोक्षपदार्थोऽपि अद्वैतमते एव समाचीनः,आत्मान्यसुखस्य तत्साक्षात्कारस्य च स्वीकारे गौरवात;आत्मस्वरूपस्यैव तस्य सीकर्तु युक्तला। एवंच नि- र्विकल्पकत्वनित्यतसत्यल्ान्यर्थसिद्धानीति सिद्धान्तः। तत्त्वज्ञानस्योक्तदृश्यनिवृत्तिप्रयोजकतमनुसृत्य निर्वाहाय उक्त- व्याप्तीनां ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यतं"इति मूलपंक्तिव्याख्यानावसरोक्तव्याप्तीनाम्। कल्पनभपीति। युक्त्तमित्यनुषज्यते। तत्र दृष्टान्तभूतां व्याप्तिमुक्तप्रायां स्पष्टयिता तद्राहकं तर्कमाह-दण्डपातो- त्पत्तिक्षण इति। यद्यद्देशावच्छेदेन घट इत्यादिः। तत्तद्वेशावच्छेदेनेति। घटवत्वान्वयिदेशशचात्र कपालादिरवयवः। अत्राहु :- देशैक्यनिवेशादेकघटे दण्डपातानन्तरक्षणस्य इतरवत्वेन प्रसक्तव्यभिचारस्य घटैक्यनिवेशेन वारणेऽपि, यत्कि- यदवयवनाशेऽपि 'यावत्यत्यभिश्ञं नावयविनाशः' इति न्यायविरोधेन नावयविविनाशः, यावदवयवनाशं अवयविनां तभ्नाशकल्पने गौरवादिति मते कपालावच्छेदेन तद्वट दण्डपानानन्तरक्षणस्य तदन्यकपालावच्छेदेन तद्वटवत्वेऽपि न व्यभि चारः। यदि च यर्त्किंचिदवयवनाशे तावदवयवारब्धावयविनो नाशादवयव्यन्तरमुत्पद्यते; प्रत्यभिज्ञायाः सादृश्य विषय कत्वेनो- पपत्तेरिति मन्यते, तदा घटैक्य निचेशेनाप्युक्त्तदोषवारणं संभवताति बोध्यम्। परेतु-देशैक्यनिवेशात् एकघंटे दण्डपातान-
Page 63
विट्ठलेशोपाध्याय्युपबृंहितगौडब्रह्मानन्दीयुता। १७३
गौडम्रह्मानन्दी (लघुचन्द्रिका)।
येते' ति तर्क इव 'तत्वप्रमा या या सा स्वसमानविषयकाज्ञानप्रयुक्तवत्कालपूर्वा ने' त्यादिव्याप्ती 'सा यदि तथा न स्यातू, तदोक्त्तपूर्वत्वेन प्रतीयेते' त्यादितर्को ग्राहकः। यदि चवं न स्वीक्रियते, तदा दुःखनाशस्य तत्वज्ञानसान्त्वेऽपि तदधिकरणक्षणे दुःखं कुतो नोपलभ्यते ? कुतो वा नानुवर्तते ? नाशस्य प्रतियोग्यसमानकालीनत्वनियमादिति चेन्न; उक्तनियम एव हेतो: पृष्टत्वात्। अथ-नाशजनकदण्डपातादिसमूहाश्रयक्षणस्य घटाद्याश्रयकालपूर्वत्वाभावनियमा- दिति-चेत्-तर्हि दण्डपातादेरुक्तविशेषणं विनाप्युक्तनियमस्य त्वया स्वीकारात्, प्राभाकरादिमते नाशस्य तत्तदधिक रणरूपस्य दण्डपाताद्यजन्यत्वेन तादृशनियमस्यैव स्वीकाराच्। तत्वज्ञानस्थलेऽपि तर्वज्ञानादिसमूहाश्रयक्षणस्य दुःखा- विकरणकालपूर्वत्वाभावव्याप्ति: प्राभाकरादिभिस्त्वयापि स्वीक्रियते। तथाच तद्वदेव मन्मते प्रमायामुक्तपूर्वत्वाभाव- नियमे न कोऽपि दोषः। यदि चोक्तविशेषणविशिष्टदण्डपातादेरेव तथा नियमः, प्राभाकरादिमतेऽपि घटादिचरमक्षण-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
न्तरक्षणस्य घटान्तरवत्वेऽपि न व्यभिचारः, यदपि घटैक्यनिवेशेनाप्येतद्दोषवारणसंभवः, नच-तद्टे एककपालावच्छेदेन दण्डपातानन्तरक्षणस्य कपालान्तरावच्छेदेन तद्वटवत्वेन व्यभिचारो दुर्वार इति-वाच्यम; यदा यत्कपालावच्छेदेन यद्धटे दण्डपानः तदनन्तरक्षण तत्कपालसहितकपालान्तरारब्धतद्वटस्य नाश एव, तदुत्तरक्षणे कपालान्तरारब्घटान्तरमेवोत्प- द्ते, प्रत्यभिज्ञायाः सादृश्यनिबन्धनत्वादिति मताश्रयणात्, नथाच कि देशैक्यनिवेशेन; तथापि यत्किंचिदवयवाविनाशेS- पि यावत्प्रत्यभिज्ञं नावयविनाशः, यावदवयवनाशं अवयव्यन्तराणां तत्प्रागभावतन्नाशतदत्यन्ताभावादीनां च कल्पने प्रत्य- भिज्ञायाः सादृश्य विषयकत्वकल्पने च गौरवात् इति मते घटैक्यनिवेशेऽप्युक्तव्यभिचारप्रसक्त्तेस्तद्वारणाय देशैक्यनिवेशे तस्यावश्यकत्वमिति भाव इति-प्राहुः।सः उक्तक्षणः। तथा उक्तपूर्वत्वाभाववान्, न स्यात् उक्तपूर्वत्वाभावाभावरू- पोक्तपूर्वत्ववान् स्यादित्यथः । प्रतीतत्रमरूंपाया इष्ठत्वात् प्रमीयतेत्युक्तत-तत्त्वप्रमेति। अप्रामाण्यज्ञानानास्कन्दित- स्वजन्यपटुतमसंस्कारविशिष्टाधिष्ठानतत्त्वसाक्षात्काररूपा प्रमेत्यर्थः। ननु-अस्तूक्तव्याप्ति:तथापि सा उक्तज्ञानस्याज्ञान- प्रयुक्तनाशजनकत्वेऽयुपपद्यते एवःयदि शुवत्यादिप्रमया रजतादिनाशो न जन्यते, तदा तदुत्तरं रजतं कव गतं?केनापहतं- कथं च तदत्यन्ताभावनिवृत्ती इत्यनावश्यं शुक्त्यादिप्रमाया रजतादिनाशकत्वं स्वीकरणीयम्। नित्यसुखसाक्षात्कारस्य मुक्ति- त्वपक्षेपि आत्यन्तिकदुःखनाश विशिष्टस्यैवोक्तसाक्षात्कारस्य मुक्तित्वेन तत्त्वज्ञानस्य दुःखनाशजनकत्वमावश्यकत्वम्, न तूक्त- निवृत्तिप्रयोजकत्वमत आह-यदिचैवं न स्वीक्रियत इति। तदधिकरणेति। दुःखनाशाधिकरणेत्यर्थः। नमु-दुःखं स्वात्मकविषयाभावात् नोपलभ्यते,तत्राह-कुतोवेति। नानुवर्तते इत्यनुषज्रेणान्वयः। उक्तनियमे नाशस्य प्रतियोग्यस- मानकालीनत्वनियमे। हेतोः अव्याहृततर्कस्य। पृष्टत्वादित्यादि। प्रश्नतात्त्पर्यविषयत्वात्। नाशजनकेति। घटादि- नाशजनकेत्यर्थः । आदिना दुःखनाशजनकतत्वज्ञानादिसमूहाश्रयक्षणस्य दुःखाश्रयकालपूर्वत्वाभावनियमादिति लभ्यते। दुःखं नोपलभ्यते नानुवतते इत्यनुषज्नेणान्वयः । उक्त्ततर्केगृहीतादिति शेषः। उक्तविशेषणं घटादिनाशजनकत्वविशे- षणम्। विनापीत्यपिना उक्तविशेषणघटितनियमसमुच्चयः। त्वयापि दण्डपातादेर्घटादिनाशजनकत्वमज्गीकुर्वता नैयायिकेनापि। स्वीकारादिति । उक्तकार्यवलेनेति भावः । एवं च दण्डपातादेर्घटादिनाशजनकत्वमस्वीकृत्यापि तदघटितव्याप्तिबलातू दण्डपाताद्युत्तरक्षणे घटाद्यभाववत्वं सिध्यतीति भावः । ननु-नियमे दण्डपातादेर्नाशजनकत्व- रूपविशेषणमनुपादाय नियमस्वीकारेऽपि वस्तुगत्या तस्य नाशजनकतोपगमे तदुत्तरक्षणे नाश एव प्रतियोग्यननुव्ृत्तौ प्रयोजकः; नाशस्य प्रतियोग्यसमानकालीनलवनियमात्, घटादिनाशो यदि प्रतियोगिसमानकालीनः स्यात्, तर्हि तथा प्रमीयेतेति तर्कस्य तद्राहकस्य सलात्, इत्यत आह-प्राभाकरादिमते इति। तदधिकरणेति। प्रतियोगिसमवा- यीत्यर्थः ।न च-कपालादेर्घटादिनाशत्वेन दण्डपातादिजन्यत्वसंभव इति-वाच्यम्; उक्तनियमबलादेव दण्डपातादयुत्त- रक्षणे घटाद्यत्यन्ताभावव्वनिर्वाहे कपालादेर्घटादिनाशत्स्य गौरवेणाकल्पनादिति भावः। नैयायिकं प्रत्याह-तत्त्व- ज्ञानस्थलेऽपि इति। तलज्ञानादीत्यादिना प्रारब्धकर्मरूपप्रतिबन्धकाभावपरित्रहः। व्याप्तिरिति। नह्ेतया विना दुःखनाशमात्रनिर्वाह्यतत्वज्ञानेन तदन्येन वा, पूर्वदुःखनाशोऽपि। दुःखान्तरोत्पत्तिप्रतिबन्धं विना तदनिर्वाहादिति भावः । स्वीक्रियते उत्त्क्षणस्य दुःखात्यन्ताभाववत्वनिर्वाहायेति भावः। तथाच तत्त्वज्ञानस्थले दुःखनाशनिर्वाह्यव्याप्तिस्वी- कारे। तद्वत् तत्तज्ज्ञानघटितोक्तनियमवत्। प्रमायां प्रमासामान्ये। उक्तति। खसमानविषयकाज्ञानप्रयुक्तवत्का- लेत्यर्थः । नन्वेवं-दण्डपातेन घटो नश्यतीति व्यवहारो न निर्वहृति, इत्यत आह-यदिचेति। उक्तविशेषणं घटादिनाशनिरूपितं उपधायकतारूपं जनकत्वम्। दण्डपातादेरेवेत्येवकारेण समूहव्यवच्छेदः। दण्डपातोत्पत्तिक्षणस्य
Page 64
१७४ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १]
गौडब्रहानन्दी (लघुचन्द्रिका)। रूपो नाशो दण्डपातादिजन्यः, तदुत्तरक्षणरूपस्य तक्ष्षणनाशस्यापि घटादिनाशतवादग्रेऽपि त्नाशव्यवहार इत्युच्यते, तदा तत्वज्ञानस्थलेऽपि तथा दर्शितमेव। म्रह्मज्ञानोत्पत्तिद्वितीयक्षणस्य तु उत्तरक्षणाप्रसिद्धे: न तन्ाशस्याग्रेऽनुवृत्ति- रिति स एव दश्याब्धेस्तीररूपा मर्यादा ब्रह्मज्ञानं वा। सर्वथापि ब्रह्मज्ञानं स्थिराया निवृत्ेः न जनकमिति सिद्धम्।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
तदुत्त्पत्तर्वेत्यर्थः । ननु-प्राभाकरमते कपालाद्यघिकरणरूपस्य घटादिनाशस्य कथं दण्डपातादिजन्यत्वम्, अत आह- प्राभाकरादिमते इति। घटादिचरमक्षणरूपो नाश: यथाकर्थंचिद्भावस्वरूपाभावाभ्युपगमे निर्बन्धस्तेषां, नत्वधिकरणमात्रस्वरूपलवाभ्युपगमे। तदुक्तं-"ज्ञानविशेषकालविशेषस्त्ररूपत्वमभावस्येति"। खीक्ियत इति शेषः। वस्तुतस्तु-घटचरमक्षणोऽपि घटनाशस्य कालिकसंबन्धेनाधिकरणमेवेति तद्रूपत्वेऽप्यभावस्याधिकरणस्वरूपमतस्य न हानिः। किंच आश्रयनाशजन्यगुणनाशस्य साश्रयकालस्वरूपत्वं नैयायिकेनाप्यभ्युपगम्यते। तथाच सर्वत्रैव तत्सरूपत्वं नाशस्य युक्तम्; ऐक्यरूपलाघवात्। यद्यपि क्षणो नातिरिक्त्तः, किंतु क्रियाशव्दादिरूपः, तस्य च न दण्डपातजन्यत्वं स्वरूपतः; नापि अन्यक्षणावच्छिन्नस्य क्षणत्वे तेन रूपेण, कैरप्यनभ्युपगमात्; नापि घटनाशत्वेन, तस्य सति जन्यत्वे नाशत्वं,सति नाशत्वे जन्यत्वमित्यन्योन्याश्रयान्; तथापि घटचरमक्षणोत्पन्नक्रियादेः स्वत एव दण्डपातादिजन्यत्वं, कारणान्तरजन्यघटनाशव्यभिचारवारणार्थ दण्डपातोत्तरत्ावच्छिन्नं प्रति दण्डपातस्य कारणत्वादिति भावः। ननु- घटचरमक्षणरूपस्य घटनाशस्यापि तदुत्तरक्षणे तद्रूपनाशजननात्, तदा घटनाशव्यवहारानुपपत्तिरत आह-तदुत्तर- क्षणरूपस्येति। घटवत्वक्षणस्तदर्थः । अग्रेऽपि घटनाशनाशक्षणेऽपि। घटप्रागभावनाशरूपघटनाशस्य घटप्रागभाव- नाशत्वेन घटनाशदशायां घटप्रागभावनाशव्यवहारवदिति भावः । इत्युच्यते इति। तथाच तत्त्वज्ञानस्य आत्यन्तिक- दुःखध्वंसजनकत्वमस्तु, न तु आकाशात्यन्ताभावरूपनिवृत्तिप्रयोजकत्वमिति शहितुरभिप्रायः। दुःसध्वंसवत,सकलदृश्यध्वं- सजनकत्वमज्ञीकृत्य इष्टापत्या परिहरति-तत्त्वज्ञानस्थलेऽपीति। तथा दर्शितमिति। तत्वज्ञानद्वितीयक्षणे तत्क्षणरूपतत्त्वज्ञानतद्वितीयक्षणघटितसकलदृश्यनाशो जायते; स एव सर्वदृश्यनिवृत्तिः सर्वदृश्योच्छेदपदार्थः। तदुपलक्षितः पूर्णानन्दरूप आत्मा मोक्ष इति दर्शितमित्यर्थः। ननु-तत्ज्ञानद्वितीयक्षणरूपः सकलदृश्यनाशोऽपि दृश्यमेव, व्रह्मान्यत्वात्, तथाच मुक्तौ कथ सर्वदृश्योच्छेदरूपो दृश्याब्धेः तीररूपा मर्यादा, तत्राह-ब्रह्मज्ञानोत्पत्तीति। उत्तरक्षणाप्रसि- द्वेरिति सकलक्षणोपाधीनां नाशादिति शेपः। न तन्नाशस्य तत्वज्ञानद्वितीयक्षणरूपस्य सर्वदृश्यस्य। अग्रे उत्तरकाले। अनुवृत्तिः सत्वं नेत्यर्थः । उत्तरकालस्यैवाभावादिति भावः। स एव उक्तक्षणरूपो दृश्यसामान्यध्वंस एव। ध्वंसप्रागभाव- योर्विरोधाभिप्रायेणैवकारः । अविरोधे तु तद्वयापकः तदत्यन्ताभावोऽपीति बोध्यम्। तीररूपा परपाररूपा; 'श्रुतं ह्येव मे- भगवद्दृशेभ्यः तरतिशोकमात्मविदिति'सोऽहंभगवः शोचामि तं मा भगवान् शोकस्य परंपारं तारयतु' इति श्रुतेः । तरति निवृत्यनुकूलव्यापाराश्रयः । निवृत्ता शोकमिति द्वितीयार्थप्रतियोगितान्वयः। व्यापारे च आत्मज्ञानरूपोद्देश्यतावच्छेद कस्याभेदेनान्वयः । मा शोकस्य परंपारं तारयतु भगवान्, मन्रिष्ठो ज्ञानरूपो व्यापारस्तदनुकूलो यः आत्मस्वरूपो- पदेशरूपो व्यापारः आत्मप्राथनाविषयः, तद्वान् भगवानित्यर्थः । निवृत्ता परपारस्याभेदेनान्वयः, क्रिरियाविशेषणत्वात्, निवृत्त: परपाररूपकेण शोकस्याब्धिरूपकं व्यङ्गयम्। शोकस्येति कर्मणि शेषषष। यद्ा-शोकस्य या परपारपदेन निगीर्णा आत्यन्तकीनिवृत्तिस्तां मां तारयतु प्रापयतु। प्राप्तिः संबन्धः, आश्रयाश्रयिभावः, तदनुकूलो ज्ञानरूपो व्यापारः, प्रापेरर्थः। मन्निष्ठतदनुकूलो भगवन्निष्ठो व्यापारो णिजर्थ इत्यभिप्रायेणेदम्। वस्तुतस्तु-प्रथमेर्थ ज्ञानरूपव्यापारे एव परपा- रस्यामेदान्वयः । द्वितीये च परपारपदेन आत्यन्तिकशोकनिवृत्त्यनुकूलं ज्ञानमेव निगीर्यंते, तत्प्राप््यनुकूलो यो मन्निष्ठः श्रवणादिरूपों व्यापारः, तदनुकूलोपदेशरूपव्यापारश्च णिजन्तार्थः । अत एव तस्मै मृदितकषायाय मे तमसः पारं दर्शयति आत्मेत्युपसंहृतम । तमसः आविद्यकस्यासज्नडदुःखात्मकप्रपश्चस्य पारं वस्तुतस्तु तदनाकं ब्रह्मात्मस्रूपमानन्दं दर्शयति स्म तद्विषयकसाक्षात्कारानुकूलोपदेशरूपव्यापारवानित्यर्थः । तस्मै इति साक्षात्कारान्वव्याश्रयाश्रयिभावरूपकर्म- लार्थिका। व्यव्ययेन चतुर्थी। स्मयोगे भूते लद्। तदभिप्रायेणाह-ब्रह्मज्ञानंचेति। दृश्याब्घेस्तीररूपा मर्यादेत्यनुषङ्गः। तत्काल एव दश्यस्यास्फुरणात्, किमर्थ तर्हि दृश्यनिवृत्तिरूक्तरीत्या द्विविधा स्वीक्रियते? इति चेत् शुक्तिज्ञानतदज्ञानसद्र- जतस्थलीयानुभवबलात, व्याप्तिबलात्, "विद्वान् नामरूपाद्विमुक्तः " "ज्ञात्वा देवं मुच्यते सर्वपापैः " इत्ादिश्रुति- वलाच्चेति गृहाण। उक्तद्विविधनिवृत्योर्मध्ये एकतरनिवृत्तिपक्षे नाप्रहः, किन्तु ब्रह्मज्ञानस्य स्थिरनिवृत्तिजनकत्वे इत्याह- सर्वथापीति । उक्तद्विविधपक्षपरि्रहेऽपीत्यर्थः। नतु-अत्यन्ताभावरूपनिवृत्तिपक्षे अत्यन्ताभावस्य ब्रह्मरूपतय
Page 65
विट्ठलेशोपाध्याय्युपबृंहितगौडब्रह्मानन्दीयुता। १७५
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
ज्ञानव्यापकतावच्छेदकं यदज्ञानतत्संस्कारान्यतराभावत्वाज्ञानप्रयुक्ततत्संस्कारान्यतराभावत्वयोरन्यतरत् तदाश्रयप्र- तियोगित्वमज्ञानतत्प्रयुक्ततत्संस्कारसाधारणं ज्ञाननिवर्तयतवं, ज्ञानाधीनतावच्छेदकं यदुक्कान्यतरत् तदाश्रयप्रतियो- गित्वं वा, ज्ञानसाध्यतावच्छेदकं यद्ज्ञाननाशत्वमज्ञानप्रयुक्तनाशतवं च तयोरन्यतरवर्वं वा, ताहशं यदज्ञानाभावत्व- मज्ञानप्रयुक्त्ताभावतवं च तयोरन्यतरवस्वं वा ज्ञानप्रयुक्तनिवृत्तित्वं, तदाश्रयप्रतियोगित्वं वा ज्ञाननिवर्त्यत्वमिति पूर्वोक्तरीत्या निष्कर्षो बोध्यः। पटुतरसंस्कारादिविशिष्टज्ञानस्य कालिकसंबन्धेन या व्याप्यता तबनिरूपितविशेषणता-
लघुचन्द्रिकाया विट्ठलेशपाध्यायी।
स्थिरत्वेपि ब्रह्मज्ञानद्वितीयक्षणरूपायाः त्वात्, कथमुत्तरकालवृत्त्यभावाप्रतियोगित्वरूपस्थिरत्वं नच-नाशाप्रतियोगित्वरूपं तस्यां तदस्तीति-वाच्यं; स्वात्मकनाशप्रतियोगित्वस्याङ्गीकारात्-इति चेन्न;स्वान्यनाशाप्रतियोगित्वरूपस्थिरत्वस्य द्विविधनिवृत्त्योः सत्वात्। स्मृतेः संस्कारनिवर्तकत्वपक्षे संस्कारातिव्याप्या निरस्तं ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वकल्पं तत्पक्षदोषत्वेनोक्तातिव्याप्तिमु- द्धरिष्यन् सिद्धान्तत्वेन समुच्चिनोति मूले-ज्ञानत्वव्याप्यधमणेति। मुद्गरनाश्यघटाद्यतिव्याप्तिमुद्धर्तु पूर्व निरुक्तज्ञाननि- वर्त्यत्वपदार्थघटकप्रयुक्तत्वं व्यापकत्वरूपं निवेश्य पूर्वोक्तरीत्या परिष्करोति टीकायां-ज्ञानव्यापकतावच्छेदकमिति। तत्संस्कारेत्यत्र प्रथमं तत्पदं अज्ञानपरं, द्वितीयमज्ञानप्रयुक्त्तपरं, तृतीयं तदुभयपरम्। स्वरूपसंबन्धरूपं प्रयुक्त्तत्वं निवेश्याह- ज्ञानाधीनतावच्छेदकमिति। ज्ञाननिवर्त्यपदस्य यौगिकत्वाय ज्ञाननिवृत्तिसाध्यत्वघटितं ज्ञाननिवर्त्यत्वमाह-ज्ञानसा- ध्यनावच्छेदकमिति। साध्यता चात्र जन्यता। ज्ञानादज्ञानादेर्नाशरूपनिवृत्तिर्जायते इति कल्पाभिप्रायेण यदशान- नाशन्वमिति। अत्यन्ताभावरूपा निवृत्तिर्भवतीति कल्पाभिप्रायेण तादृशमिति। ज्ञानसाध्यतावच्छेदकमित्यर्थः। साध्यत्वं चात्र प्रयोज्यता। अज्ञानतत्प्रयुक्तसंस्कार योरज्ञानप्रयुक्तत्वेन तत्संप्रहात् तदनिवेशेपि न क्षतिरिति भावः । केवलज्ञानस्या- ज्ञानाद्यभावव्याप्यत्वासंभवात् व्याप्यतावच्छेदकविशेषणं निवेश्य प्रथमकल्पं परिष्करोति-यदुत्तरसंस्कारादिति। अदिना अप्रामाण्यज्ञानाभावपरिग्रहः, वैशिष्टयं एकक्षणावच्छिन्नकधर्मिवृत्तित्वसंबन्धेन। ज्ञानस्य साक्षात्कारस्। अत्र विशिष्टसाक्षात्कारत्वमेव ज्ञानत्वव्याप्यधर्मः अज्ञानाद्यभावव्याप्यतावच्छेदकः । यद्यपि अज्ञानाभावव्याप्यतावच्छेदक- कोटौ अप्रामाण्यज्ञानशून्यत्वमात्रं व्यभिचारवारकतया निवेशमर्हति, न तु संस्कारवैशिष्टयं; ज्ञानोत्पत्तिक्षण वाज्ञानाभा- वसत्वेन व्यभिचारावारकत्वात् : तथापि तत्क्षणे दृश्यसामान्याभावाभावेनोक्तसंस्कारवेशिष्टयस्य दृश्यसामान्याभावव्याप्यता वच्छेदककोटौ निवेशनस्यावश्यकत्वात् उक्तज्ञानं प्रतीत्यनेन संस्कारवैशिष्टयलाभायात्र तदुक्तिः। खससानाधिकरणेत्यादि- नियमस्याप्रयोजकत्वे व्यभिचारावारकविशेषणघटितस्यापि स्वरूपसंबन्धरूपव्याप्यतावच्छेदकत्वसंभवात्, अनतिरि- कतृत्तित्वरूपतदवच्छेदकत्वे निर्विवादाच्चेति भावः । विषयितासंबन्धेन तत्वज्ञानस्य तत्पूर्वकालीनतत्वजिज्ञासातन्मूलेष्ट- साधनताज्ञानयो: संबन्धत्वात्, अज्ञानस्य च कालिकसंबन्धेन सत्वात्संबन्धावच्छिन्नाजानाभावंप्रति तत्वज्ञानस्य संबन्ध- सामान्येन व्याप्यत्वासंभवात्-कालिकसंबन्धेन या व्याप्यतेत्युक्तम्। न च-ज्ञानकालेऽपि अज्ञानानधिकरण देशकालावच्छेदेन कालिकसंबन्धावच्छिन्नतदभावोऽस्त्येवेति-वाच्यम्; तत्त्वज्ञानपूर्वकालावृत्तेः अज्ञानव्यधिकरणस्यै- वाज्ानाभावस्य मोक्षपदार्थघटकस्य स्वरूपसंबन्धरूपतत्त्वज्ञानप्रयोज्यत्वाश्रयस्यैव विवक्षितख्वात्। न च- तत्त्वज्ञानवति स्थले काले अज्ञानस्य कालिकसंबन्धेन सत्वात्तदधिकरणे तदभावस्तत्र दुलभे इति-वाच्यम्; तत्वज्ञा- संयोगविषयितादि संबन्धेनाभावसत्वान्न व्यापकत्वसंभव इत्यतो-विशेषणतासंबन्धावच्छिन्नव्यापकतेत्युक्तम्। संबन्धान्तरावच्छिन्नाज्ञानाभावस्य तत्त्व-
रज्जुतत्वज्ञानक्षणे शुक्त्यज्ञानस्य च कालिकसंबन्धेन सत्त्वात् कथं तत्वज्ञानसामान्यं प्रति तत्तदज्ञानाभावस्य अज्ञानसामान्या- भावस्य वा व्यापकत्वसंभवः; तथापि तत्तद्विषयकतत्त्वज्ञानानि तत्तदवयक्तित्वेनोपादाय तत्तद्विषयकाज्ञानव्यक्त्यभावेषु व्यापकत्वं विवक्षणीयम्। ज्ञानत्वव्याप्यधर्मो यो इत्यनेन तक्यक्तित्वस्याप्युपादानात्। यद्ा-कालिकसंबन्धेन तत्व- ज्ञानसाभान्यं प्रति, खवसमानविषय कज्ञानवत्त्वकालिकोभय संबन्धावच्छिन्नप्रतियोगिताकस्याज्ञानसामान्याभावस्य विशेषणता- संबन्धावचछिन्नव्यापकत्वं विवक्षणीयम्,शुक्त्यादितत्त्वज्ञानोत्पत्तिक्षणे रज्वादज्ञाने प्रथमसंबन्धाभावात्, शुक्त्यादज्ञानस्य द्वितीय संबन्धाभावात् उक्तोभयसंबन्धावच्छिन्नप्रतियोगिताकस्य अज्ञानसामान्याभावस्य व्यापकत्वं समर्थनीयम्। नच-
Page 66
१७६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
नोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि। नापीच्छाद्यनिवत्ये स्मृतित्वे
सिद्धिव्याख्या। त्वव्याप्यधर्मेण ज्ञानत्वसाक्षाव्ययाप्यधर्मेणेत्यर्थः । उदीच्यात्मविशेषगुणत्वेनेति। अत्र गुणत्वेन निवर्त- कत्वे सङ्गयादेरपि निवर्तकत्वप्रसङ्ग:, अतो विशेषगुणत्वेनेति। तावत्युक्ते शब्दादेरपि निवर्तकत्वापत्ति- रत आत्मेति। तावत्युक्त स्वस्य निवर्तकत्वाभावादसंभवः, अत उदीच्येति। नचैवं-धर्माधर्मादावतिप्र-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। संबन्धेनोक्तज्ञानं प्रति विशेषणतासंबन्धावच्छिन्नव्यापकतायामवच्छेदक यत् स्वाश्रयकालपूर्वत्वसंबन्धावच्छिस्दृदश्य त्वावच्छिन्नप्रतियोगिताकाभावत्वं च तयोरन्यतराश्रयप्रतियोगित्वमिति दिकू। उदीच्यात्मविशेषगुणत्वेन विभु- विशेषगुणत्वेन । सामानाधिकरण्यस्वपूर्वत्वोभयसंबन्धेन नाशकत्वमिति नातिप्रसङ्गः । यथाश्रुते समानाधिकरणयो- उयविभुविशेष गुणत्वेन नाश्यत्वाच्छव्दं प्रति नाशकत्वासंभवात्। अथवा सामानाधिकरण्यस्य निवेशे प्रयोजनाभा- वात् आत्मगुणत्वेनैव नाशकत्वम् लाघवादाह-उदीच्यत्वेनेति। उदीच्यत्वव्यापिका योग्यविभुविशेषगुणनाशकते-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
प्रथमसंबन्धनिवेशेनैव निर्वाहः, शुक्तितत्वज्ञानोत्पत्तिक्षणे तदज्ञानस्य प्रथमसंवन्धसत्वेऽपि तदज्ञानस्यासन्वात् तत्सं- वन्धावच्छिन्नतदभावस्य सुलभत्वादिति-वाच्यम्; एतन्स्फुटीकारायेव द्वितीयसंबन्धोपादानात। अतएव पूर्व तादात्म्येन प्रमां प्रति म्वसमानविषयकत्वकालिकोभय संबन्धावच्छिन्नप्रतियोगिताकाज्ञानाभावस्य व्यापकत्वं पूर्वाक्तं सङ्चच्छते। उक्त- ज्ञानं प्रति तत्तत्वसाक्षात्कारं प्रति।-दृश्यत्वावच्छिन्नेति। तत्तत्समानविषयकाज्ञानप्रयुक्ततत्तदृश्यत्वावच्छिन्नत्य- र्थः। तेन शुत्त्यादिसाक्षान्कारोत्पत्तिक्षणोत्तरक्षणे रज्वाद्यज्ञानप्रयुक्तदृश्यसत्वेऽपि न क्षतिः। यथाश्रुतेतु खप्रयोजकज्ञान- समानविषयकज्ञानवत्वं प्रतियोगितावच्छेदकसंबन्धकोटो विभावनीयम्। अथवा अ्र ज्ञानपदेन ब्रह्मात्मसाक्षान्कारयोरेव प्रहणेन तत्क्षणे कस्याप्यज्ञानस्य तदुत्तरक्षणे च कस्यापि दृशयस्यानुपगमेन नोक्तव्यापकत्वयोरनुपपत्तिः। ज्ञानत्वव्याप्यध- र्मेणेत्यनेन पटुतरसंस्कार विशिष्टव्रह्मात्मसाक्षात्कारत्वोपादानातू। लक्षणे तु ज्ञानपदं यथाश्रुतम्। तेन ज्ञानत्वव्याप्यधर्मेंणे- त्यस्य पूर्वज्ञाननिष्ठायां उदीच्यात्मविशेषगुणत्वेन ब्रह्मसाक्षात्कारनिवर्त्यतायामतिव्याप्तिवारकतया सिद्धसाधनवारकतयाच सार्थक्यसंभवेऽपि स्मृतेः संस्कारनाशकत्वानुपगमेन संस्कारातिव्याप्तिनिरासस्य वक्ष्यमाणस्य नासङ्गतिः; न वा शुक्तिरू- प्यादिदृष्टान्तासिद्धिः; पूर्वज्ञानं प्रत्युत्तरज्ञानस्य यद्युत्तरज्ञानत्वेन निव्तकता, तदा तदतिव्याप्तिस्तदवस्थवेत्याशङ्योत्तरज्ञानत्वे पूर्वज्ञाननिवर्तकतावच्छेदकत्वं निराकरोति मूले-उत्तरज्ञानस्येति। धर्मेणेति। उत्तरेच्छायाः पूर्वज्ञानं प्रति निवर्तक- तान्तरप्रसङ्गादिति शेषः -किंतु इति। उत्तप्रसङ्गपरिहारार्थमिति शेषः । उदीच्यत्वं, अव्यवहितोत्तरकालोत्पन्नत्वम्। तस्य संसर्गत्वे संभवति प्रकारत्वे गौरवात् तत्परित्यज्य, आत्मपदस्य जीवमात्रपरत्वे पूर्वशब्दनाशं प्रति उत्तरशब्दस्य नाश- कतान्तरप्रसन्गात् योगेन विभुपरतया तत्पदं व्याचष्टे टीकायां-विभुविशेषगुणत्वेनेति। ननु-आत्मत्वयोगेन विभुनिवेशे, पूर्वशब्दं प्रति उत्तरज्ञानादेः नाशकत्वे वाधकाभावेपि भूताकाशादिनिष्ठद्वित्वादिसंख्यापृथक्त्वसंयोगविभागादेरु- त्तरोत्पन्नज्ञानद्वितीयक्षणे नाशप्रसङ्गः, एवमुदीच्यत्वत्यागे पूर्वज्ञानादेरुत्तरज्ञाननाशकत्वापत्या उत्तरज्ञानादेरपि क्षणिकत्वापत्तिरत आह-सामानाधिकरण्यस्वाव्यवहितपूर्वत्वोभयसंबन्धेनेति। ज्ञानादिकं प्रति उत्तरोत्पन्नसंस्काराद्ययोग्यस्यापि नाशकत्वाद्योग्यत्वं तदवच्छेदके न निवेशितं। ननु-पूर्वशब्दस्य शब्दत्वेनेतरशब्दनाश्यत्वे आत्मपदस्य विभुपरत्वं व्यर्थमत आह-यथाश्रुत इति। आत्मपदे इति शेषः। अयोग्यसंस्कारादेरुत्तरज्ञानाद्यनाश्यत्वान्नाशयतावच्छेदके योग्यत्वप्रवेशः। तद्वधिकरणस्य तदनाशकत्व्रात्-समानाधिकरणेति। उक्तसंबन्धद्वयघटकसामानाधिकरण्यलाभाय। नाश्यत्वेन पूर्वज्ञानशव्दयोरुत्तरज्ञानशब्दाभ्यां नाश्यनाशकभावोत्तयनुरोधेन नाश्यत्वोपगमेन। शब्दंप्रतीति। उत्तरोत्पन्नशब्दज्ञा- नादेरिति शेषः। अत्र योग्यविभुविशेषगुणत्वेन नाश्यत्वं, मूर्ताकाशादिसामान्यगुणद्वित्व।दीनामुत्तरोत्पन्नशब्दनाश्यत्ववारणाय सामानाधिकरण्यनिवेशेऽ्यावश्यकं, तावतैव द्वित्वादीनां व्यधिकरणज्ञानादिनाश्यत्ववारणे सामानाधिकरण्यनिवेशनं व्यर्थ; शब्दज्ञानादीनां व्यधिकरणोत्तरज्ञानादिनाश्यत्वोपगमे क्षतिविरहादित्याह-अथवेति। आत्मगुणत्वेनैवेति। एवकारे- ण विशेषत्वव्यवच्छेदः। उत्तरोत्पन्नसंख्यादेरपि नाशकत्वे बाधकाभावात् उदीच्यत्वं पूर्वत्वरूपसंबन्धपर्यवसायित्वान्नोक्तम्। ननु-अपेक्षावद्वितीयक्षणे समानाधिकरणविशेषगुणोत्पादानुपगमेऽपि व्यधिकरणवायुसंयोगादेरुत्पादनैयत्यात्तेन तृतीय-
Page 67
विट्ठलेशोपाध्याय्युपबृंहितगौडव्रह्मानन्दीयुता। १७७
न ज्ञाननिवत्ये संस्कारे अतिव्याप्तिः स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात्।स्मृती हिजा- तायां संस्कारो डढो भवतीत्यनुभवसिद्धम्। तेषांदढ तरत्वं च समानविषयकसंस्कारानेकत्वादित्यदोषः।
सिद्धिव्याख्या। सङ्र इति-वाच्यम्; योग्योत्तरात्मविशेषगुणत्वेनेति विवक्षितत्वात्। यत्तु-विवक्षितलक्षणस्यापि संस्कारेSतिव्याप्यापादनं, तनिराकरोति-नापीति। मानाभावादिति । तथाच संस्कारे उक्त- लक्षणस्यैवाभावान्नातिव्याप्तिरिति भावः । ननु-स्मृतिः संस्कारनिवर्तिका, तत्कार्यत्वात्, धर्माधर्मनि- वर्तकसुखदुःखादिवत्, इत्याशङ्क्ाह-स्मृतौहीति । तथाच सुखे दुःखे च जाते धर्माधर्मो दृढौ भवतः इत्यनुभवाभावादुक्तं तयोस्ताभ्यां निवृत्तिरिति, प्रकृते तु संस्कारो दृढो भवतीत्यनुभवान्न तस्य स्मृत्या निवृत्तिः, अनुमाने चा दृढत्वमुपाधिरिति भावः। ननु-अनुभवसिद्धद्वढसंस्कार: स्मृतिजन्योऽन्य एव, इत्याशक्क्याह-दृढत्वश्चेति। ततश्च स्मृतिविषयकसंस्कारानेकत्वस्य स्मृतिजन्यसंस्कार एवेति
गौडव्रह्मानन्दी (लघुचन्द्रिका)। त्यर्थः। तथाच ज्ञानत्वेच्छात्वादिप्रत्येकरूपेण जातिविशेषेण वा सेति भावः। साधनादीत्यादिनोक्तार्थान्तरम् । अनुभवसिद्धं विलक्षणसपृतिरूपकार्यानुमेयम्। ननु-विलक्षणस्मृत्या विलक्षण एव संस्कारोऽनुमीयते, तथाच स्मृत्या पूर्वसंस्कारो नश्यत्येव-तत्राह-दृढत्वं चेति। समेत्यादि। तथाच समानविषयकत्वसामानाधिकर-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। क्षणे तन्नाशो दुर्वार इति-चेन्न; तत्र द्वितीयक्षणादेः प्रतिबन्धकत्वोपगमात्, विशिष्वुद्धौ विशेषणज्ञानहेतुत्वानुपगमे नि र्विकल्पकानुपगमेन तद्वितीयक्षणे विशिष्टप्रकारकप्रत्यक्षसंमवेन तस्याः क्षणत्रयावस्थाने प्रयोजनाभावाच्च। अत्र व्यधिकरण- स्यापि नाशकत्वे आत्मगुणत्वमपि व्यर्थ, कस्याप्युदच्यस्य योग्यविभुविशेषगुणनाशकत्वे बाधकाभावात्, इत्यभिप्रेत्याह- लाघवादिहोदीच्यत्वेनेति इति । उदीच्यत्वं च न नाशकतायां स्वरूपसंबन्धरूपावच्छेदकत्ववत्, स्वत्वस्यानिवेशे स्वसाधारण्यात, निवेशेऽननुगमात्, किन्तु स्वाव्यवहितपूर्वत्वम्य संबन्धविधया अवच्छेदकत्वस्फोरकं, इत्याशयेनाह-उदी- च्यत्वव्यापिकेति। आश्रयतावच्छेदकंतु तदेवेल्याह-योग्यविभुविशेषगुणेति। धर्मविधया नाशकतावच्छेद- कमाह-तथाचेति। ज्ञानत्वेच्छात्वादिप्रत्येकरूपेण तथात्वे कारणताबाहुल्यं व्यभिचारश्वेत्यत आह-जातिविशेषेण वेति। उक्तकारणतावच्छेदकतया सिद्धज्ञानेच्छादिसाधारणेव्यादि :; प्रमेयत्वादिना नाशकत्वे वाच्यत्वादिना विनिगमना विरहनदिति भावः इति। उत्तरज्ञाननिष्ठायाः पूर्वज्ञाननिवर्तकतायाः ज्ञानत्वव्याप्यधर्मावच्छिन्नत्वाभावात् अयं सिद्साध- नाभावे हेतुः। नोक्तार्थान्तरमिति। ज्ञानत्वव्याप्यधर्मेणत्युक्तावपि वियदादौ ब्रह्मज्ञाननाश्यत्वरूपमिथ्यात्वसिद्धावपि उत्तरज्ञाननाश्यपूर्वज्ञानवत् सत्यत्वाविरोधात् अर्थान्तरं नेतर्थःः ब्रह्मसाक्षात्कारप्रयोज्यसस्वसंस्कारान्यतराभावप्रतियो- गित्वरूपमिथ्यात्वसाध्यस्य सत्यत्वविरोधित्वात् इति भावः । मूले-स्मृतित्वस्य निवर्तकतावच्छेदकत्वाय इच्छादनिवर्ले त्युक्तम्। अतिव्याप्तिः सिद्धसाधनम्। मानाभावादिति।न च-अनुभवजन्यः स्मृतिजनकः संस्कारः, सवफलस्मृतिना- श्यः, व्यापारत्वात्, अपूर्ववत्, इत्यनुमानं मानमस्तीति-वाच्यम्; इन्द्रियार्थसन्निकर्षादौ प्रत्यक्षानाश्ये व्यभिचारात्। अतएव धारावाहिकप्रत्यक्षोपपत्तिः । अत्र कालान्तरभाविकार्यव्यापारत्वस्य हेतुत्वे उक्तव्यभिचारवारणसंभवात् याव- त्स्मृतिसंस्कारकल्पने गौरवस्योभयमते सत्वात् अन्यत् बाधकमाह-स्मृतौहीति। संस्कारस्यातीन्द्रियत्वेन प्रत्यक्षानु- भवसिद्धत्व्रं न संभवतीत्यतो व्याचटे-विलक्षणस्मृतिरूपकार्यानुमानमिति। वैलक्षण्यं चिन्ताद्नपेक्षणेन झटि- ति जायमानत्वं। दृढत्वं च यद्यपि संस्कारस्य नाविनाश्यत्वं; जन्यभावत्वेन चरमस्मृतिरोगविशेषदीर्घ कालादिनाश्यत्वाज्री- कारात्, तथापि प्रथमादिस्मृत्यविनाश्यत्वनिर्वाह्ं दृढतवं मूले निर्वक्ि-दृढत्वंचेति। समानेति। तथात्वं संस्कारस्य दृढत्वं नाम, खवसमानविषयकत्वैककालावच्छिन्नस्वसामानाधिकरण्यस्वभिन्नत्वैतत्रयसंबन्धेन संस्कारविशिष्टत्वम् संस्का- रदूयत्रयादिवैशिष्टयं चाद्यार्थः। अपेक्षात्मकज्ञानतवेनैवानुभवस्य संस्कार द्वारा समानविषयकस्मृतिकारणता, नत्वनुभव्त्वेनेत स्मृतेः संस्कारजनकत्वोपपत्तिः।नच-उत्त्तत्रितयसंबन्धेन स्मृतिविशिष्टत्वमेव संस्कारस्य दृढत्वमस्तु, किं स्मृतिजन्यसंस्का- रकल्पनगौरवेणेति-वाच्यम्; "जायते च पुनः पुनः स्मरणात्दृढतरः संस्कारः" इत्यभियुक्तोक्तिविरोधात्। अ. सि. २३
Page 68
१७८ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १]
वस्तुतस्तु, साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्; अतो न पूर्वोक्तदोषः। नापि निश्चयत्वेन ज्ञा- नत्वव्याप्यधर्मेण ज्ञाननिव्त्ये संशये अतिव्याप्तिरिति सर्वभवदातम्॥ ।। इति तृतीयमिथ्यात्वविचारः॥
नियन्तुमशक्यत्वेन जनकसंस्कारमादायाप्युपपत्तौ न जनकीभूतसंस्कारस्य स्मृत्या निवृत्तिरिति ध्येयम् । इति अद्वैतसिद्धिव्याख्याने तृतीयमिथ्यात्वनिरूपणं समाप्तम् ।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ण्योभयसंबन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजातिविशेषेण वा विलक्षणस्मृतिहेतुत्वे स्वीकृतेऽपि स्मृते: संस्कारं प्रति नाशकता न कल्प्यते; गौरवादिति भावः । नच स्मृतिधारापत्तिः; उद्धोघकविच्छेदात्। संशये विपरी- तज्ञाने। ननु-विपरीतज्ञानस्यानादिसंसर्गाभाव एव निश्चयरूपप्रतिबन्धकप्रयुक्तुः, नतु नाशः, अतः कथं विपरीत- ज्ञानेऽतिव्यापि: ? ज्ञानजन्यनाशस्यैव हि प्रकृतलक्षणे निवेशः, अन्यथा उत्तरज्ञाननाश्यत्वमादाय सिद्धसाधनस्योक्त्- संभवात्-इति चेत्सत्यम्। यदि ज्ञानप्रयुक्त्तात्यन्ताभावप्रतियोगित्वं ज्ञाननिवर्त्यत्वं स्वीकृत्य तम्माशकस्यापि तदत्य- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। अभियुक्त्ताश्च मह्ष्यनुसारिणः । महर्षयक्ष सतन्त्राः । स्मृतेः संस्कारनाशकत्वस्य तावताप्यप्रसक्तक्वेति संस्कारनाशकत्वे बाधकोद्धावकयथाश्रुतमूलार्थः । टीकाकृतस्तु स्मृतौ हीति त्रन्थस्य प्रथमादिस्मृती सत्यां तज्जनकीभूनः संस्कारः स्मृति- प्रयोज्यो विलक्षणस्मृतिप्रयोजको यो दृढत्वनाभाSडश्रयाविनाशनिर्वाह्यो धर्मः तद्वान् भवतीत्यर्थमभिप्रेत्य तत्र सधर्मो न जातिरूपः, स्मृतिप्रयोज्यत्वेनानित्यत्वात्, अतो वैजात्यविशिष्टसंस्कारान्तरमेव स्मृतिजन्यं विलक्षणस्मृतिजनकं स्वीकार्यम्, पूर्वसंस्कारस्तु स्मृत्या नश्यत्येवेत्याशंक्य दृढतरत्वनिर्वचनमवतारयति-ननु विलक्षणस्मृत्येति। तेषां दृढतरत्वं चेति मूलपाठः । दृढत्वस्य जातिरूपत्वे, दृढतरत्वादिकमपि जातिरूपं वाच्यम्; तच्च न संभवति; जातावुत्कर्षापकर्षानभ्यु- पगमात्, अतः समानविषयकानेकसंस्कारविशिष्टत्वं संस्कारस्य दृढतरत्वं वाच्यम्। तथाच समानविपयकसंस्कार- विशिष्टत्वमेव दृढत्वं युक्तम्, नतु पूर्वसंस्कारविलक्षणसंस्कारत्वम्; गौरवात्। तथाच विलक्षणस्मृतिजनकतावच्छे- दकीभूतदृढत्वादिरूपत्वं संस्काराणां प्रथमादिस्मृतिप्रयोज्यत्वं, अल्पत्वभूयस्तादिरूपोत्कर्षापकर्षरूपत्वं च युज्यत इत्याशयेन मूलाशयमाह-तथाचेति। उभयेति। विशिष्टद्विसामान्ये भेदस्य विषयताव्यवस्थापनान तद्भेदस्तृतीयः संबन्धः प्रथमसंस्कारमात्रदशायां दृढत्ववारणायावश्यनिवेश्योऽपीह पृथक् नोक्तः, अन्यविषयत्वादेरन्यासंबन्धत्वादिति स्वांशेनोक्तः। लाघवादाह-तत्समनियतजातिविशषोवेति। तथाचोक्तृढतादिकं उक्तजातिविशेपस्य परिचायकं, तस्य तदुत्कर्षापकर्षादिकमेव जातिविशेषे उपचर्यते इति भावः । यद्यपि उत्तरूपाभ्यां विलक्षणस्मृतिहेतुत्वे स्मृतेः संस्कारना- शकत्वं न प्रसज्यते, प्रथमस्याप्रसिध्यापातात्; तथापि जन्यजनकतावच्छेदकतया सिद्धजात्यन्तरवदस्यापि जातिविशेषस्य ज्ञानसंभवात्, प्रसक्तां स्मृते: संस्कारनाशकत्वशड्टां निराकरोति-स्वीकृतेपि स्मृतेरिति। नचेति। स्मृत्या पूर्वसंस्काराविनाशादिति भाव :- विच्छेदादिति। तस्य फलबलकल्प्यत्ादिति भावः । श्रीगुरुपरमात्मने पाण्डुरङ्गाय नमः। मनु-विजातीयस्मृति प्रति विजातीय संस्कारत्वरूपदृढत्वेनैव हेतुता; लाघवान्, तथाच सर्वसंस्कारसद्भाचे प्रमाणप्रयो- जनयोरभावात् विलक्षणीयस्मृतित्वेनव पूर्वसंस्कारनाशकता स्वीकार्या; अन्यथा तस्य नित्यत्ापत्तेरित्याशयेनाह मूले- वस्तुतस्त्विति। पूर्वोक्तदोषः। उत्तरज्ञाननिवर्त्यपूर्वज्ञानस्मृतिनिवर्त्यसंस्कारातिव्याप्तिसिद्धसाधनरूपो दोषः। मुद्धरघटा द्व्याप्तिस्तु पूर्ववदेव वारणीयेति भावः। कल्पान्तरानुसरणबीजं पूर्वकल्पेतिव्याप्याSस्वरसमाह-नापीति। संशयवत् विपरीतनिश्चयस्यापि निश्षयप्रतिबध्यलान्मूले न्यूनतेति संशयपदं व्याचषे-संशयेइति। विपरीतझ्ञाने प्रतिबन्धकनिश्च- य प्रकाराभाव प्रकारकलौ किकसन्निकर्षाद्यजन्ये ज्ञाने। अनादिसंसर्गाभावः प्रागभावः।-नत्विति। तस्योत्तरज्ञानप्रयो ज्यलादिति भाषः। पूर्वज्ञानस्योत्तरज्ञाननाश्यत्वमादाय सिद्धसाधनं सङ्गमयति-तन्नाशकस्याित। तदत्यन्ताभा-
Page 69
१७९
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
न्ताभावप्रयोजकत्वं स्वीकिरियते, 'उत्तरज्ञानात् पूर्वज्ञानात्यन्ताभाव' इति धीश्र स्वीकरियते, तदापि साक्षात्कारत्वेन प्रयोजकतानिवेशेन विपरीतज्ञानातिव्याप्तिर्वारयितुं शक्यत इति भावः। ज्ञानप्रयुक्ताभावप्रतियोगितवरूपं लक्षणं स्वीकृत्य वा पूर्वापरग्रन्थसङ्गतिः। नच-तथापि प्रवृत्तिप्रागभावेऽतिव्याप्तिः, उपादानप्रत्यक्षस्य साक्षास्कारतवेन प्रवृत्तिरूपतन्नाशं प्रति प्रयोजकत्वादिति-वाच्यम् ; प्रागभावस्यानङ्गीकारात्, नाशत्वेनात्यन्ताभावत्वेन वा प्रयोज्य तानिवेशाद्वा। ननु-स्पार्शनादिरूपे शुक्त्यादिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पश्या तदिन्द्रि- यप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन निवर्तकत्वमावश्यकम्, तथाच साक्षात्कारत्वेन न तन-इतिचेत्, तथासति वह्नयादेः स्पार्शनादुत्तरं तत्र तदन्यत्वचाक्षुपाद्यापत्तेः । तस्य इष्टत्वे अनुभवविरोधात्, कचिद्भिभ्रेन्द्रियजन्यज्ञानस्यानिवर्तकत्वं तु तत्राप्रामाण्यज्ञानात्, समानेन्द्रियत्वान्तर्भावेण निवर्तकतवस्वीकारेऽपि 'यद्विशेपयो' रिति न्यायेन साक्षान्कारत्वेनापि निवर्तकत्वस्वीकाराच। नच सेतुदर्शननाशयपापेऽतिव्यापिः; 'सेतुं
लघुचन्द्रिकाया विट्टलेशोपाध्यायी।
वेति। तन्नाशं विना तदधिकरणासंबन्धेत्यादिः। प्रत्ययातिप्रसङ्गमिष्टापत्त्या परिहरति-उत्तरज्ञानादिति। विपरीतक्षा- नेति। प्रागभावद्वारा निश्रयप्रयुक्तात्यन्ताभावप्रतियोगि इत्यादि :- शक्यतेइति। ज्ञानत्वव्याप्यत्वानिवेशेन लाघवं चेत्यपि वोध्यं इति भावः। इत उत्तरं ज्ञानप्रयुक्त्ताभावप्रतियोगितरूपं लक्षणं स्वीकृत्य वा पूर्वापरत्रन्थसङ्गतिरिति पाठः।स च ननुतन्नाशस्तदधिकरणे तदत्यन्ताभावसंबन्धे एव प्रयोजकः, न तु तदत्यन्ताभावेः, तस्य नित्यलात्, ज्ञानप्रयुक्तसंबन्ध- प्रतियोग्यत्यन्ताभाव प्रतियोगित्वनिवेशे तु गौरवमित्याशङ्यावतरणीयः । पूर्वापरेति। नाशमादाय पूर्वस्य, प्रागभावमादाय उत्तरस्य ग्रन्थस्य सङ्गतिरित्यर्थः-तन्नाशमिति। अभावमिति शेषः। तेन नाशलाघटितलक्षणद्वयेऽपि शङ्कासङ्गतिः। एवं च नाशत्ात्यन्ताभावत्वघटितलक्षणत्रयेऽपि नेयं शक्टेति भावः। प्रागभावस्यानङ्गीकारादिति। प्रतिबन्धकनिश्चयस्य प्रतिबध्यज्ञानात्यन्ताभावसंबन्धे साक्षादेव प्रयोजकत्वमिति भावः। तदङ्गीकारेऽप्याह-नाशत्वेनेति। अत्यन्ताभावत्वे- नेति। अभावत्वेनेत्यपि बोध्यम्। प्रवृत्तौ तु प्रवृत्तित्वेनेवोपादानप्रत्यक्षप्रयोज्यता; लाघवादिति भावः-धीत्वेनेति। ननु- साक्षात्कारत्वं जातिविशेषो वा, इन्द्रियार्थसन्निकर्षोत्पन्नज्ञानत्वं वा, उभयथापि तदिन्द्रियप्रयोज्यसाक्षात्कारत्वेनोक्ताजान- निवर्तकत्वसंभवात् नेयं शंका संगच्छत इति-चेन्न; साक्षात्कारत्वं विषयिताविशेषः, ज्ञानाकरणकज्ञानत्वं वा, तथाच तदिन्द्रियप्रयोज्यतद्रूपापेक्षायां तदिन्द्रियप्रयोज्यधीत्वेन निवर्तकत्वे लाघवमित्यभिप्रायात्। वस्तुतस्तु-रजतादिलौकिक- चाक्षुषभ्रमहेत्वज्ञानं प्रति शुक्त्यादिलाँ किकचाक्षुषत्वेनैव निवर्तकतेत्येतावतैवास्य ग्रन्थस्य तात्पर्यमिति शङ्कासङ्गतिः ।न तत् नोक्ताज्ञाननिवर्तकत्वम्। तथासति चाक्षुषादिश्रमहेत्वज्ञानं प्रति अधिष्ठानचाक्षुषत्वादिना निवर्तकत्वे सति। तदन्यत्वेति। वह्यादिभिन्नत्वगुआापद्मरागनक्षत्रादिगोचरेत्यर्थः-अनुभवविरोधादिति । अधिष्ठानसाक्षात्कार- त्वेनैवाज्ञाननिवर्तकत्वावश्यकत्वादिति शेषः। कथं तर्हि शुक्तिस्पार्शनोत्तरं रजतचाक्षुषभ्रमोत्पत्तिः ? तत्राह- क्कचिदिति। तत्न भिन्नेन्द्रियजन्ये। अप्रामाण्यज्ञानादिति । तदनास्त्रादितस्यैव निवर्तकत्वमिति भावः। ननु- सर्वत्रोक्तस्थलेऽप्रामाण्यज्ञानोत्पत्तिकल्पने मानाभावः, तदुत्पत्तिक्षणे उक्तभ्रमापत्तिश्चेत्यत आह-समानेन्द्रियजन्य त्वान्तर्भावेनेति। चाक्षुषत्वाद्यन्तर्भावेनेत्यर्थः । न्यायेनेति। सबाधकाभावविशिष्टा यत्र यद्धर्मावच्छिन्नकार्यतानिरूपि- ता यद्धर्मावच्छिन्नकारणता तत्रतद्धर्मव्यापकधर्मीवच्छिन्नकार्यतानिरूपिता तद्धर्मव्यापकधर्मावच्छिन्नकारणता;यथा घटत्वा- वच्छिन्नकार्यतानिरूपितकपालत्वावच्छिन्नकारणताके कपाले पृथिवीत्वावच्छिन्नकार्यतानिरूपितपृथिवीतावच्छिन्नकारणता। स्वं सामान्यकारणता। तत्रैव द्रव्यत्वावच्छिन्ननिरूपितकारणतायाः पृथिवीत्वावच्छेदेन जलादौ व्यतिरेकव्यभिचारेणास- त्वात्, पृथिवीत्वावच्छिन्ननिरूपितकारणतायाः द्रव्यत्वावच्छेदेन जलादावन्वयव्यभिचारेणासत्वाच्च व्यभिचार इत्यतः, स्वबाधकाभावविशिष्टेति। एवंच रजतचाक्षुषभ्रमहेतज्ञाननिवर्तके शुक्तिचाक्षुषे साक्षात्कारत्वावच्छेदेन रजतसाक्षा- त्कारभ्रमहेत्ज्ञाननिवर्तकत्वसिद्धिः। न च-शुक्तिस्पार्शने रजतचाक्षुषत्रमोपधायकाज्ञानानिवर्तके अन्वयव्यभिचार एव बाधक इति-वाच्यम्; विशेषकारणविशिष्टसामान्यकारणस्यैव फलोपधायकलेनान्वयव्यभिचाररूपबाधकाभावादिति भावः॥ थीः ॥ नचसेतुदर्शननेति। तत्रापि यद्विशेषयोरिति न्यायेन सेतुसाक्षात्कारत्वेन यावद्विशेषनाशकत्वादिति भावः ।- स्मृत्येति। अन्वयव्यतिरेकत्रहृघटितसामप्रीग्रात्याया विशेषकारणताया एव सामान्यकारणत्वव्याप्यत्वम्, न तु शब्दप्र-
Page 70
१८० अष्वैतसिद्धिः सव्याख्या। [ परिच्छेद: १ ]
गौडब्रहमानन्दी (लघुचन्द्रिका)। रष्टा समुदरस्य ब्रह्महत्यां व्यपोहती' त्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तन्न निवर्तकत्वबोधनादिति भावः ॥ इति लघुच- न्द्िकार्यां ज्ञाननिवर्त्यत्वनिरूपणम् । इति तृतीयमिथ्यात्वम्।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। माणादिग्राह्याया इति नात्र सेतुसाक्षात्कारत्वेनोक्तनाशकत्वमिति भावः । तदाह-सेतुचाक्षुषत्वेनैवेति। ननु-अ- न्धस्य सेतुसमीपे समुद्रस्नातस्यापि पापविशेषनाशो न स्यात् ; सेतुचाक्षुषाभावात्, नचेष्टापत्तिः; "चातुर्विद्योपपन्नस्य विधि- वद्रह्मघातने। समुद्रसेतुगमनं प्रायश्चितं विनिर्दिशेत्। सेतुवन्धपथे भिक्षां चातुर्वर्ण्यात्समाहरेत्। व्जयिला विकर्मस्थानू चछत्रोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः। गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोषेषु आमेषु नगरेषु च। तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ।। एतेषु व्यापन्नेन पुण्यं गत्ा तु सागरम् । ब्रह्महा मुच्यते तस्मात् सन्नाला तस्मिन् महोदधौ । ततः पूतो गृहं प्राप्य कृत्वा व्राह्मणभोजनम्। दला वसतं पवित्राणि पूतात्मा प्रविशेत् गरृहम् ।। गवां वापि शतं दत्वा चातुर्विद्याय दक्षिणाम् । एवं शुद्धिमवाप्नोति चातुर्विद्यानुमोदितः" इति मिताक्षरायां पराशरस्मृतौच सेतुचाक्षुषस्य पापविशेषनाशकत्वानुक्तेः, व्रतविशिष्टसमुद्रसेतुगमनसेतुसन्निहितसमुद्रम्नानयोरेव तन्नाश- कत्वोक्तेश्ष, सेतुसमुद्रस्त्नानंविनापि सेतुचाक्षुषमात्रेणोक्तपापनिवृत्तिसंभवेन तत एव पापिनां सवदेशगमनापत्तेश्व। नचैव- माचार इति-चेन्न; उत्तस्मृतिद्वयैकवाक्यतया समुद्रसेतुदेशगमनप्रायश्चित्तेन्दुशेखरोक्तविन्ध्योत्तरदेशत उक्तनियमक- लापविशिष्टचाक्षुषजनकचक्षुःसन्निकर्षयोग्यदेशावच्छिन्नसमुद्रस्नानयोः समुदितयोः पापविशेषनाशकत्वस्वीकारे उक्तसक- लदोषपरिहारेण सामज्स्यात्। तत्त्वदीपने तु द्वारदेशागमनादियुतस्य सेतुदेशप्राप्या कल्मषनिवृत्तिरित्युक्तम। तत्र प्राप्तिपदेन स्नानमुपलक्षणीयम्। टीकायां चाक्षुपत्वेनु पापनिवर्तकत्वोक्तिस्तु, विरोध्यभ्युपगमवाद, संतानचाक्षुषयोग्य त्वेनेत्यर्थिका वेति बोध्यम्।। इति तृतीयमिथ्यात्वम्
ज्ञाननिवर्त्यत्वरूपमिथ्यात्वविचार:
तृतीयमिथ्यात्वम्
तदयं निर्गलितार्थः
न्यायामृतकारा :-
ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायां मुद्गरपातादिनिवर्त्ये घटादावव्याप्ति :; दृष्टन्ते साध्यवैकल्यं; शुक्तिज्ञानेन रूप्यं नष्ट- मिति कदाप्यननुभवात्। 'एतावन्तं कालं शुक्त्यज्ञानमासीत' 'भ्रम आसीत्' इत्यनुभवेन शुक्तिवत्सत्ययोः अज्ञान- भ्रमयोः 'शुक्त्यज्ञानेन तदज्ञानं नष्टं भ्रमश् नष्ट' इत्यनुभवेन ज्ञाननिवर्त्यत्वसत्वेन तत्रातिव्याप्तिश्च। यथाहि 'रूप्यं नास्ति नासीन् भविष्यती' ति प्रत्ययो, नैवं शुक्त्यज्ञानं भ्रमश्च नासीदिति प्रत्ययो विद्यत इति तयोरलक्ष्यत्वात् । साक्षिसत्यत्वेऽपि तद्भास्यदुःखादिमिथ्यात्ववत् त्रमसत्यत्वेऽपि तद्भास्यरूप्यमात्रमिथ्यात्वस्यापि संभवात्। अपरोक्ष- भ्रमस्य परोक्षप्रमया निवृत्त्यसंभवेन परोक्षापरोक्षसाधारणज्ञानत्वस्य निवर्तकतावच्छेदकत्वायोगाच्च। ज्ञानत्वव्याप्य- स्मृतित्वेन ज्ञाननिवत्ये संस्कारेऽपि मिथ्यात्वव्यवहारापनेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमपि तत्। अनुभवत्व-
Page 71
१८१
व्याप्यधर्मेण तन्निवर्त्यत्वविवक्षायां यथार्थस्मृतिनिवर्त्ये अयथार्थस्मृतावव्याप्तिः। तत््वज्ञानसंस्कारनिवर्त्यजीवन्मुक्ती- याज्ञानसंस्कारेऽव्यापेर्न भ्रमोत्तरयथार्थज्ञाननिवर्त्यत्वं तत्। पतेन-स्वोपादानाजाननिवर्तकज्ञाननिवर्त्यत्वमिति पक्षोऽपि पराहृतः; अनाय्यध्यासेऽव्याप्तेः, लाघवेनाज्ञानोपादानकत्वस्यैव लक्षणलापाताच्चेति-
विज्ञाननाश्यता मिथ्या रूपादौ नानुभूयते। किं त्वधिष्ठानवत्सत्ये तदशानेऽनुभूयते॥ इति
एवं च ज्ञाननिवर्त्यत्वं मिथ्यातमिति पक्षोऽपि न संभवतीति-वर्णयन्ति।
सिद्धिकारास्तूक्तरूपमपि मिथ्यात्वं निर्दुष्टमेवेति साधयन्ति।-
तथाहि-ज्ञाननिवर्त्यत्वं हि ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगितम्; एवंच कार्यात्मना कारणात्मना च द्विविधाऽवस्थितितावचिछिन्नविरहस्य ज्ञानप्रयुक्तस्यवात्र विवक्षणात्, 'अविद्या सहकार्येण नास्ति नासीद्भविष्यती' ति बाधस्याविद्यायामपि सत्वेन तत्परिणामभूतत्रमस्यापि तथात्वेन शुक्त्यज्ञानरूप्यवित्रमयोरपि मिथ्यात्स्येष्टत्वेनाल- क्ष्यत्वाभावेनातिव्याप्यनवसरात्, शुक्तिज्ञाने रूप्यं नास्ति नासीन्न भविष्यतीति प्रतीतेरानुभाविकत्वेन रूप्यस्यापि मिथ्यातात् साध्यवैकल्याभावात्, उत्तरज्ञानेन पूर्वज्ञानस्य स्वात्मनावस्थितिविरहस्य प्रयुक्तत्वेऽपि कारणात्मनावस्थि- तिविरहृस्य तत्त्वाभावादर्थान्तरस्यापि नावकाशात्, परोक्षापरोक्षसाधारणस्यापि ज्ञानत्स्य स्वरूपसंबन्धरूपनिवर्तक- तावच्छेदकत्वाङ्गीकारेणोपपत्तिसंभवाच ज्ञानत्व्रेन ज्ञाननिवर्त्यत्वपक्षे न दोषः । एवं ज्ञानत्वव्याप्यधर्मेण निव- तकतापक्षोऽप्यदुष्ट एव; स्मृतित्वेन स्मृतेः संस्कार निवर्तकताया अनद्गीकारात्, स्मृतौ सत्यां संस्कारो दृढो भवतीत्येवानुभ- वात। स्मतिसामान्यस्यायथार्थतमेव न यथार्थस्मृतिरपि समस्ति इति बिन्दुटीकोदाहृतपक्षानुसरणेतु अनुभवत्वव्याप्य- धर्मेण ज्ञाननिवर्त्यत्वपक्षोऽपि न दोपाय । एवं भ्रमोत्तरसाक्षात्कारत्वेन तन्निवर्त्यत्वमिथ्यात्वपक्षोऽपि समाचीन एवः जीवन्मुक्तीयाज्ञानसंस्कारस्य चरमसाक्षात्कारेणैव निवृत्तिर्नतु ज्ञानसंस्कारेणेत्यङ्गीकारेण तत्रापि दोषाभा- वात्। अनाद्यध्यासानामप्यविद्योपादानकत्वस्य तत्समकालिकत्वेन न्यायरत्नावल्यामुपपादितत्वेन स्वोपादाननिवर्तकज्ञान- निवर्त्यत्पक्षस्याप्यदुष्टतादिति-तृतीयमपि मिथ्यात्वं सूपपादमेव-इति।।
तदेतत्तरङ्गिणीकारा नानुमन्यन्ते-
तथाहि-न तावज्ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यतम्; तत्रावस्थित्या सामान्यं विशे- व्यते वा, विरहो वा, आद्येऽवस्थितिसामान्यं कारणात्मनावस्थानं कारणमिति यावत्, एवंच ज्ञानप्रयुक्तविरहप्रति- योगिखवकारणकत्वं मिथ्यात्वमिति पर्यवंसितम् । एवंचोत्तरज्ञाननिवर्त्यपूर्वज्ञानजन्यसंस्कारे सिद्धसाधनम्, अनाद्यवि- दयादौ वाधथ। कारणशव्देनाविद्योक्तौ चाविद्याकारणकत्वमेवास्तु; शेषवैयर्थ्यात्। अनादविद्यादौ बाधश्। द्वितीये कार- णात्मना विरहृस्य ज्ञानप्रयुक्तत्वेऽपि स्वरूपेण विरहस्य ज्ञानाप्रयुक्तत्वाद्वटादावव्याप्तिः। रूप्यादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधायोगेन स्वरूपेण निषेधं वदतां भवतां मतेऽत्यन्तासत्वस्यापादितत्वेन शशशक्गाद्यभावस्येव रूप्याभाव- स्यापि ज्ञानाप्रयुक्तत्वादृष्टान्ते साध्यवैकल्यम्, पक्षे बाधथ। ज्ञानत्वव्याप्यधर्मेणति पक्षोऽपि न युक्त मननत्वा- दिना ज्ञाननिवर्त्ये संशयविशेषेऽतिव्याप्तेः । एतेन-साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वपक्षोऽपि-परास्तः; युष्म- न्मते प्रत्यक्षस्य शब्दबाध्यत्वेन नायं सर्प इत्याप्तोपदेशनिवर्त्यरज्जुसर्पादावव्याप्तेः -इति॥
लघुचन्द्रिकाकारास्तु-
नैतघुक्त्तम्, ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यलमित्यत्रावस्थितिपदार्थस्य सामान्यपदार्थ- द्वारा विरहपदार्थेनान्वयपक्षे बाधकाभावात्, तत्र विरहृपदस्यात्यन्ताभावपरत्वे ज्ञानप्रयुक्तखवस्वीयसंस्कारान्यतरा- भावकत्वस्य नाशपरत्वे ज्ञानजन्यखखसंस्कारोभयनांशकत्वस्य विवक्षणसंभवात्, कारणनाशस्यैव कार्यनाशरूपत्वेन घटादिनाशरूपकपालनाशस्यापि घटादिनाशरूपत्वेन ज्ञानजन्यनाशप्रतियोगित्वस्य घटादावपि सत्वेनाव्याप्यभावात्। तावन्मालविवक्षणे उत्तरज्ञाननिवर्त्यपूर्वज्ञाने सिद्धसाधनम्, अतः खसंस्कारनिवेशः तावन्मात्रविवक्षणे च स्मृतिनाश्य- संस्कारके पूर्वज्ञाने सिद्धसाधनताददस्थ्यादुभयनिवेशः। वस्तुतस्तु स्मृतेः संस्कारनाशकत्वस्यानङ्गीकारात् ज्ञानजन्य-
Page 72
१८२ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १]
नाशप्रतियोगिसंस्कारकत्वमेवात्र विवक्षितम्; अनाद्यविद्यादीनामपि ज्ञानजन्यनाशप्रतियोगिसंस्कारकलवातू मिथ्यात्वोपपत्तिः। अविद्यासंस्कारेऽपि तादात्म्यसंबन्धेन संस्कारस्य, विद्यमानत्वान्मिथ्यात्वोपपत्तिः। एवंचावस्थित्या सामान्यविशेषणेऽपि न दोष इति सूचितम्। यथाच स्वरूपेण निषेधप्रतियोगिनामपि रूप्यादीनामत्यन्तासलानापातः; तथा पूर्वमेव निरूपित- मिति शुक्तिरूप्यादीनामपि प्रातिभासिकस्वरूपावस्थित्याद्यन्नीकारेण तद्विरहस्य ज्ञानप्रयुक्तलान्न तत्र साध्यवैकल्यम्। यत्तु स्मृतिकारणस्यापि संस्कारस्य स्मृतिनाश्यत्वं सुखकारणस्यापि धर्मस्य सुखादिनाश्यत्वमिवोपपद्यते इति, तदपि न संगतम्; समानविषयकत्वसामानधिकरण्योभयसंबन्धेन संस्कारविशिष्टसंस्कारत्वेन विलक्षणस्मृतिहेतुत्वेनोपपत्तौ स्मृतेः संस्कारना- शकतादिकल्पने गौरवादित्यनुभवत्वव्याप्यधर्मेण ज्ञाननिवर्त्यतापक्षोऽपि समीचीन एव। मन्तव्य इति तव्यप्रत्ययेन मननस्य कियारूपस्यैवाज्गीकार्यत्वेन ज्ञानरूपत्वाभावेन मननजन्यज्ञानविशेषस्यैव संशयनिवर्तकत्वेन मननत्वेन मननस्य संशयविशेष- निर्वर्तकत्वानङ्गीकारात्। एतेन-साक्षात्कारत्वेन तन्निवर्त्यतापक्षोऽपि साधुरेवेति-सूचितम्, नायं सर्प इत्याप्तोपदेशस्य प्रत्यक्षेऽप्रामाण्यशङ्कासंपादकत्वेऽपयपरोक्षभ्रमस्याप रोक्षसाक्षात्कारेणव निवृत्तेरभ्युपमगमनीय तया ततो निवृत्यसंभ वेनाव्या - स्यनवसरादिति सर्वमनवद्यम्-इति निरूपयन्ति॥
इति तृतीयमिथ्यात्वम्।।
अथ चतुर्थमिथ्यात्वविचारः।
स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम्। तञ्व स्वात्यन्ताभावाधिकरण एव प्रतीयमा-
सिद्धिव्याख्या।
अथ चतुर्थमिथ्यात्वविचारः ।
साश्रयेति। नच-संयोगादौ सिद्धसाधनमिति-वाच्यम्; संयोगतदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रितत्वस्यैवानुभवत्वेन सत्वपक्षे सामानाधिकरण्यायोगात्। नापि शुक्तिरूप्यादौ साध्यवैकल्यं; तस्यापि
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
अथ चतुर्थमिथ्यात्वम्। अधिकरण एवेति। एवकारः अशेषार्थकः । अशेपत्वं च व्यापकत्वम्। तथाच वाच्य एव मेयत्वमित्यादौ लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
श्रीरस्तु
॥ श्री गुरुभ्योनमः ॥
चतुर्थेमिथ्यात्वनिरुक्तिप्रारंभः मूले-स्वाश्रयनिष्ठति। खाश्रयत्वेन प्रतीयमानयावन्निष्ठेत्यर्थः। अत एव इदं प्रतिपन्नेत्याद्युक्तावपौनरुक्त्याय विशेष्य- विशेषणभावव्यत्यासेन सयं व्याचष्टे-तत्रेति। अत्र स्ात्यन्ताभावाधिकरणान्यम्मिन्नप्रतीयमानत्वं नैवकारार्थः, स्वात्यन्ता भावस्य केवलान्वयित्वेंन तद्वदन्याप्रमिद्धेरित्यतः, तर्कमाह टीकायां-एवकारोऽशेषार्थक इति। तस्य प्रतीती अन्वयः।
Page 73
१८३
नत्वम्। अतः पूर्ववैलक्षण्यम्। दूषणपरिहार: पूर्ववत्। नच-संयोगिनि समवायिनि वा देशे तदत्य-
सिद्धिव्याख्या
पारमार्थिकत्वाकारेण स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादिति भावः। ननु आश्रयशब्देन स्वाश्रय- त्वेन प्रतीतिमात्रोक्तौ चान्यथाख्यातिपक्षे रजतत्वादेः स्वाधिकरणत्वेन प्रतीतशुत्तयादावत्यन्ताभावस्य सत्वात्सिद्धसाधनंइत्याशङ्ाह-ततश्चेति । तत्पक्षे च रजतत्वादिकं स्वात्यन्ताभावानधिकरणे- रजतेऽपि भातीति न सिद्धसाधनम्। न च-एवकारव्यावृत्त्यस्वात्यन्ताभावानधिकरणाप्रसिद्धिरिति-वा- चयम् ; स्वाश्रयत्वेन प्रतीयमानयावन्निष्ठप्रतीतिविषयसंबन्धावच्छिन्नात्यन्ताभावप्रतियोगित्वस्य विवक्षित- त्वादिति भाव: । एतेन-प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वमित्यनेन पूर्वोक्तेन। पुन- रुक्ति :- परिहृतेत्याह-अतइति। उपाध्योर्भेदादिति भावः। ननु-त्रैकालिकनिषेधपक्षे उक्तानि दूष- णान्यत्रापि प्रसरन्ति इत्याशङ््य तत्रोक्तपरिहारा अत्राप्यावर्तनीया इत्याह-दूषणेति। नचेति।अत्र नचेत्यन- गौडब्रह्मानन्दी (लघुचन्द्रिका)। वाच्यत्वे मेयत्वस्येव प्रकृते स्वात्यन्ताभावे स्वप्रकारकधी विशेष्यत्वस्य व्यापकतालाभात् उक्तव्यापकत्वाश्रयात्यन्ताभा- वप्नतियोगित्वं मिथ्यात्वम्। पूर्ववैलक्षण्यं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपात् प्रतिपभेत्यादिनोक्तरूपा- द्वैलक्षण्यम्। दृषणेति। कपालादी संयोगादिसंबन्धेन घटाद्यभावमादाय सिद्धसाधनादीत्यर्थः । पूर्ववदिति। येन संबन्धेन यद्वत्तया प्रनीतं यद्यत्, तन्निष्टाभावीयं तत्संबन्धावच्छिन्नं प्रतियोगित्वमित्यादिविवक्षयेत्यर्थः । संयो- गिनि देशे तदुत्पत्तिकाले प्रलयादौ वा प्रतियोगिसंयोगावच्छेदेनात्यन्ताभावसर्वे विरोधाभावादाह-समवायि- नीति। समवायेन नित्ययुक्त इत्यर्थः । तथाच घटादौ पाकेन रूपादेनाशकाले तदुत्पत्तिपूर्वकाले वा तदत्यन्ताभा- वस्य दर्शनेन तयोरविरोधऽपि घटत्वादेर्घटादौ समवायस्य घटाद्याधारे सर्वकाले सत्वेन तत्र घटत्वाद्यत्य्ताभावस
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
तथाचाशेषा सर्वा स्वग्नकारकप्रतीतिः स्वात्यन्ताभावाधिकरणविशेष्यिका, उत्तप्रतीतित्वं उक्तविशेष्यकत्वव्याप्यं खप्रकारकप्रती तिविशेष्यत्वं, स्वात्यन्ताभाववत्त्वव्याप्यमिति यावन्। तद्वयाप्तिश्च न तद्वदन्यावृत्तित्वं; अप्रसिद्धेः, किंतु खव्यापकत्वमित्याशय- माह-अंशंपत्वंचेति। अशेषपदार्थीन्वयलभ्यं चेत्यर्त्थः । अशेषपदार्थान्वय्यन्वयिनि अन्वययोग्यमिति शेषः । एवका- रसमभिव्याहारे तादृशव्युत्पत्तिस्वीकारे प्रयोजनं दर्शयितुमाह-तथाचेति। वाच्य एव मेयत्वमिति। अन्वयाद्रव्य एव मेयतमिति व्यवहारानुपपत्तरिति भावः । स्वाधिकरणनिष्ठेति। खनिष्ठत्वेन प्रतीयमानयावन्निष्टेत्यर्थः। यद्यपि इदानीमुभयत्र विशेष्यविशेषणभावसाम्यं; तथापि पूर्वत्र यावत्पदेन प्रातिस्विकरूपेण तत्तव्यक्तयो विवक्षिताः ।अत्र तु व्यापकत्वमिति न पौनरुक्यं, स्पष्टा चेयं रीतिः साकल्यलक्षणे गादाधर्याम् । सवप्रकारकप्रतीतिनिवेशेनावृत्तिगगनादिषु सिद्धसाधनरूपदूषणाभावात् दूषणपदं व्याचष्े-दूषणति इति। आदिना अव्याप्यवृत्तिकपिसंयोगादिषु सिद्धसाधनं। पूर्वत्र प्रतिपन्नपदस्य प्रतीतार्थकत्वात् व्याचथे-प्रतीतमिति। यावदिति शेषः । इत्यादिविवक्षयेत्यादिना, खखाभावयो- दशकालरूपावच्छेदकैक्यविवक्षा आत्या; एवं संबन्धादिविवक्षायामपि उक्तानुमाने बाधमाशक्कते मूले-नच्चेति। घटादेरिति शेष :- तदत्यन्ताभावेति। संयोगेन समवायेन वेत्यादिः। असंभवः प्रतियोग्यभावयोर्विरोधे। अविरोधे तु संभवो बोध्यः। तत्संयोगिनि संयोगेन तदत्यन्ताभावसंभवमाशक्क्य समवायिनीत्येतदवतारयति टीकायां-संयोगि- नीति देश इति। चक्रवेमादो जन्ये नित्ये वा परमाण्वादौ। तदुत्पत्तिकाले घटाद्युत्पत्तिकालावच्छेदेन। एतत्संयोगा- नुत्पत्त्येति शेष :- प्रलयकालादौ इति। खण्डेत्यादिः। आदिना घटादिप्रतियोगिनाशकालः, प्रतियोगिनि क्रियोत्पत्तितृती- यक्षणश्च। अवच्छिन्ने सप्तगी-प्रतीति । प्रतियोगितत्संयोगयोर्नाशिनेत्यस्य परमाण्वादौ नित्ये गगनादौ महाकाले संयोगनाशेनेत्यर्थः । अत्यन्ताभावसत्वे संयोगसंबन्धावच्छिन्नतदत्यन्ताभावसत्वेऽपि। विरोधांभावात् प्रतियोग्य- भावयोरेकावच्छेदेनैकधर्म्यवृत्तित्वरूपविरोध नियमभज्ञाभावात्। नित्ययुक्तति। प्रतियोगितादिः। नित्ययोगे मलर्थी- येनिस्वीकारे फलं स्पष्टयति-तथाचेति। घटादी घटत्ादेस्तत्समवायस्य च घटादधिकरणीभूतसर्वकालावच्छेदेन सत्वे- नेत्यर्थः । तत्र घटे घटलात्यन्ताभावस्य सिध्यमंभवेनेत्यर्थः । विरोधेन प्रतियोग्यभावयोर्विरोधनियमेन। ननु-
Page 74
१८४ अद्वैतसिद्धि: सव्याख्या [परिच्छेद: १]
न्ताभावासम्मव:, संभवे तूपादानत्वाद्यनुपपत्तिरिति-वॉच्यम्; काले सहसंभववद्देशेऽपि सहसं-
सिद्धिव्याख्या।
न्तरं स्वाश्रयशब्दे तात्विकाश्रयोक्तावित्यथ्याहर्तव्यम्। संभवेत्विति। अत्यन्ताभावाधिकरणस्योपादानादर्शन स्वादिति भावः । कि सहासंभवमात्रं विरुद्धमुत स्वाश्रयस्योपादानत्वम्, नाद इत्याह-कालेति। न चैवं सति-भावाभावयोर्विरोध एव उच्छिन्नकथः स्यादिति व्यावहारिकत्वेऽपि व्यवस्था न स्यात्, द्वैताद्वैत- योरविरोधापातेनाद्वैतज्ञानस्य द्वैतज्ञानतिवर्तकत्वंच नस्यादिति-वाच्यम्; भावाभावयोर्विरोधे समान सस्ताकभावाभावविषयतयाSवकाशसत्वे तया व्यावहारिक्या व्यवस्थायाः सि्ुपपत्तेः । प्रकृते चाश्रय- निष्ठाभावतत्प्रतियोगिनोर्भिन्नसत्ताकतयाऽविरोधात्। द्वैताद्वैतयोरविरोधेऽप्यद्वैतस्य पारमार्थिकसत्ताकस्य श्रुतिबोध्यतया तस्य प्राबल्येन तज्जनितज्ञानस्य द्वैतप्रत्यक्षबाधकत्वोपपत्तेश्चेति भावः । द्वितीयं दृषयति-
गौडब्रहमानन्दी (लघुचन्द्रिका)।
विरोधेनासंभवः । अत्यन्ताभावस्य स्वप्रतियोगिविरोधग्राहकमानस्य मिथ्यात्वग्राहकमानेन नाभिभव इत्यमिमानः । ननु-कालभेदेन कपालादौ घटादितदृत्यन्ताभावयोः संभववदेककालेऽपि घटत्वादितद्भावयोः संभवोऽस्तु, त- त्राह-संभवे त्विति। प्रतियोगितदत्यन्ताभावयोरेकदेशे युगपत्संभवे त्वित्यथः । उपादानत्वाद्यनुपपत्तिरिति। सदा घटशून्यस्यापि घटोपादानतवे तन्त्वादेरपि तत्स्यादिति भावः। आदिपदात् घटादिप्रत्यक्षकाले घटाभावादे: क- पालादावप्रत्यक्षतानुपपत्तिः। कपालाढिकं सदा घटाद्यभाववदित्यादिज्ञानेप्वप्रमात्वव्यवहारानुपपत्तिश्च। अत्यन्ताभा-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
मिथ्यात्ानुमानबलेन तत्र तत्सिद्धि: स्यात् अत आह-अत्यन्ताभावस्येति। मानस्य अनुमानस्य घटत्वादिसत्यल- प्रत्यक्षानुगहीतस्य। ग्राहकमानेन अनुमानेन। अभिमान इति। मित्व्यात्वानुमाने तद्वोधकश्रुत्यनुग्ृहीतत्वेन सत्यत्ानु- मानासंभवात् तवनुसन्धानेन तत्परिहार इति भावः। संभववदिति। विरोधम्य एकावच्छेदघटनया संकोचमज्गीकृत्येति शेष: । एककालेऽपीति। संकुचितम विरोधमनङ्गीकृत्येति शेषः। घटादी घटत्वादितदभावयोः स्वीकारेऽपि घटादाँ नित्यघटत्वादेः समवायिकारणत्वरूपोपादानत्वस्य परेरनज्ञीकारेण तदनुपपत्त्युद्धावनासंभवेन व्याचष्े-संभवेत्विति। अ्रंतियोगिनि सकलेत्यादिः । सर्वत्र विरोधानुपगमेनेति भावः। ननु-अस्तु उपादानत्वमपि, तत्राह-सदेति। तत्स्या- दिति। तथाच सदा घटशून्ये तन्त्वादौ घटोपादानत्वाभावदर्शनेन सदा घटशून्यत्वे घटोपा दानत्वाभावव्याप्तिनिश्चयेन कपाले सदाघटशून्यत्वापादकिका घटोपादानत्वाभावापतिः सदा घटशन्यत्वसिद्धिं प्रतिबध्नाति इति भावः।घटादौ घट- त्वाभावादिसंभवे बाधकाभावादाह-आदिपदादिति। ननु-अभावप्रत्यक्षे प्रतियोगिप्रत्यक्षं प्रतिबन्धकमतो नोक्तदोष इत्यत आह-कपालादिकमिति। घटप्रत्यक्षकाले इत्यनुषज्यते। कालान्तरे उत्तव्यवहारस्येष्टत्वात् । मूले-काले- सह संभववदिति। प्रतियोग्यभावयोरित्यादिः। अत्र घटदैशिकसंबन्धार्वच्छिन्नतद्भावयोः काले कालिकसंबन्धेन एक- देशावच्छेदेन सत्वं दृष्टान्तः, तस्यैव निर्विवादत्वात् इति न संभवति; तयोः स्वाधिकरणविभिन्नदेशावच्छेदेनैव कालेऽन्रीका- रेणैकदेशावच्छिन्नत्वरूपसहपदार्थानन्वयात्। न च-कपालमेव विभिन्नकालावच्छिन्नं तयोधिकरणं कालवृत्ता अवच्छे- दकमिति-वाच्यम्; तत्रापि विभिन्नकालावच्छिन्नावच्छेदकतयोभेदात्, घटत्वसमवायावच्छिन्नानुयोगिता घटत्वात्य- न्ताभावीयविशेषणतयोः काले सह संभवो दृष्टान्तः, समवायस्यैवयेऽपि घटतसमवायानुयोगिताया नानात्वेन सवरूपसं- बन्धरूपायास्तस्याः समवायीयकालनिष्टकालरूपकालिकविशेषणतानतिरिक्ताया: काले संभवादित्यपि न संभवति; विशेष्यता- संबन्धेन घटे इव अयं घट इति ग्रमाया: कालेऽसत्वेन तन्नियामिकाया घटतप्रतियोगिकतविशिष्टसमवायीय विलक्षणानुयो- गितायाः कालेऽभ्युफ्गमासंभवात्। नापि कालिकसंबन्धेन घटततत्संबन्धावच्छिन्नतदभावीयकालिकविशेषणतयोंः काले सहसंभवो दष्टान्तः। काले हि घटत्वं स्वाधिकरणीभूतघटावच्छेदेन कालिकसंवन्धेनासिति, तत्संबन्धावच्छिनतदभावस्तु विशेषणतासंबन्धावच्छिन्ननित्यवृन्तिर्नित्यावच्छेदेन, घटतानधिकरणपटायवच्छेदेन तुविशेषणतासंबन्धेनापि; सरवथा तयो: न कालवृत्तिरेकदेशावच्छेद्यता, परन्तु आत्मत्ादिकं स्ाधिकरणीभूतात्मावच्छेदेन काले कालिकसंबन्धेनासित, तत्संब-
Page 75
१८५
भवाविरोधात्, प्रागभावसत्वरेनोपादानत्वाविरोधाच्। नय-अत्यन्तामावाधिकरणे प्रागभावस्याप्य नुपपतिरिति-वाच्यम्; काले व्यमिचारात्। नच-काले प्रागभावास्यन्ताभावयोः सामानाधिक-
सिद्धिव्याख्या। प्रागभाव इति। नचात्यन्तेति । ततश्च न प्रागभावसत्वमादायोपादानत्वोपपत्तिरिति भाव: । कालेइति। तथाच कालरूपाधिकरण इव देशरूपाधिकरणेऽप्युभयो: सत्वमुपपन्नमिति भावः।नच कालेइति। तथाच
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वाधिकरणे सदा घटादिशून्ये कपालादी अनुपपत्तिरिति अत्यन्ताभावस्य स्वप्रतियोगिनेव तत्प्रागभावध्वंसाभ्यामपि विरोधादिति शेष: । व्यभिचारादिति। यदा यत्र यस्यात्यन्ताभावस्तदा तत्र न तस्य प्रागभाव इति व्याप्ौ व्यभि- चारात। इदानीं कालिकसंबन्धेनेतत्कालवृत्तिः । सामानाधिकरण्ये दैशिकविशेषणतयैकाविकरण्ये। प्रमाण-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
न्धावच्छिन्नतदभावोऽपि स्वाधिकरणीभूतात्मावच्छेदेनैवास्ति; इति तयोः काले सहसंभवात् दृष्टान्तः संभवेत्, एवं नित्यत्- तदभावयोः । अयमपि प्रकृतानुपयुक्तः; दार्ष्टान्तिके अभावनिष्ठदैशिकविशेषणतासंबन्धावच्छिन्नदेशवृत्तेरेव विवक्षित- त्वेन दृष्टान्तेऽपि तादृश्या एव कालवृत्तेः विवक्षितलात्, अतः कालिकसंबन्धेन घटत्वादिमति काले कालिकसंबन्धावच्छि- न्नघटत्वाभावस्य या विशेषणतासंबन्धावच्छिन्ना वृत्तिः, तस्याः प्रतियोगिना एकदेशावच्छिन्नत्वं देशविशेषानवच्छिन्नत्वं वा प्रसाध्य दृष्टान्तत्वेनोपन्यास: कृत इत्यप्रे टीकायां किंचेत्यादिना स्फुटीकरिष्यते। एवं व्याप्यवृत्तेः सर्वदेशकालाव- च्छिन्नत्वे। राहपदयोरेकदेशावच्छिन्नत्वं अर्थः । देशकालानवच्छिन्नत्वे त्वनवच्छिन्नतवं इति बोध्यम्। संभवो वृत्तिः। नन्वेवं-कपालं यदि सदा घटशून्यं स्यात, तर्हि घटोपादानं न स्यात्, तन्तुवदिति तर्को दुर्वारस्तत्राह-प्रागिति। उपादानन्वाविरोधादिति। केवलसदाघटशन्यतस्य घटोपादानलाभावाव्याप्यत्वादित्यर्थः। अयंभाव :- घटादेरुपादानमात्रवृत्तेः प्रागभावस्याभ्युपगमेन तन्त्वादौ तद्विरहस्य घटाद्युपादानत्वाभावरूपापाद्यव्यापकत्वेन कपाले सदा- घटशन्यत्वरूपापाद काव्यापकत्वेन चोक्तापाद्यापाद कव्याप्तिभअ्जकोपाधित्वेन घटप्रागभावाभाव विशिष्टस्यैव सदाघटशून्य- त्वस्य घटोपादानत्वाभावव्याप्यत्ोपगमेनोक्तविशिष्टापादकस्य कपाले विरहेण वा केवलघटशन्यत्वोपगमे घटोपादानत्वा- भावापत्तिरूपबाधकाभावादित्यर्थः-इति। बाधकान्तरोद्धारोऽपि टीकायामनुपदमेव स्फुटीकरिष्यते। कदाचिद त्यन्ताभावाधि- करणे कदाचित् प्रागभावोऽपि स्यात्, अतो व्याचष्टे-सदेति। विरोधादिति। तथाच केवलसदाघटशून्यत्वोपगमे घटप्रागभावाभावापस्या घटोपादानतापगमापत्तिरतस्तन्नोपगन्तव्यमिति भावः। हेतुं पूरयति-अत्यन्तेति। तन्वादा- विवेत्यादिः। ननु-समवायावच्छिन्नतदत्यन्ताभावत्वं, तत्प्रागभावतद्ूंसान्यतरवदवृत्तित्वव्याप्यमिति व्याप्तेः काले व्यभिचारोक्तिर्न सङ्च्छते; उक्तान्यतरवत्तायाः तदृत्तितायाश् दैशिकविशेषणतासंबन्धावच्छिन्नायाः विवक्षणात्; काले तयोरिदानीमिति प्रत्ययनियामककालिकसंबन्धेनैव सामानाधिकरण्यस्य प्रदर्शने व्याप्तिभङ्गाभावान, अतो व्याचष्टे-यदे- ति। यत्कालावच्छेदेन यद्देशे यस्य समवायावच्छिन्नात्यन्ताभावो विशेषणतासंबन्धेनास्ति, तत्कालावच्छेदेन तद्देशे विशेष- णतासंबन्धावच्छिन्नतत्प्रागभावाभावो विशेषणतासंबन्धेनास्तीति, यत्काले यद्देशावच्छेदेन समवायावच्छिन्नतदत्यन्ताभावः कालिकसंबन्धेनास्ति, तत्काले तद्देशावच्छेदेन कालिकसंबन्धावच्छिन्नतत्प्रागभावाभावी विशेषणतासंबन्धेनास्ति इति वा व्याप्तौ व्यमिचारात्, घटोत्पत्तिपूर्वकाले घटात्यन्ताभावघटप्रागभावयोः कालिकसंबन्धेन सत्वादित्यर्थः । अत्र प्रथमव्याप्तौ घटो-
च्छिन्नो घटोत्पत्तिपूर्वकालान्यकालो दृष्टान्तः, कपालावच्छिन्नः घटोत्पत्तिपूर्वकालः पक्षः। उभयत्र घटात्यन्ताभावो हेतुः, घटप्रागभावाभावः साध्यः । तत्र प्रथमे दृष्टान्ते व्याप्यवृत्तितया कालावच्छिन्नत्वेनासिद्धिः, द्वितीये घटकाले आपादका- पाद्ययोः सिद्धावपि आपाद्यस्य व्याप्वृत्तितया देशानवच्छिन्नत्वेनासिद्धिरित्यतः प्रकारान्तरेण व्याप्तिमाह-यदेति। पूर्वकालावच्छिन्नो निरवच्छिन्नो वा यद्देशे यस्यात्यन्ताभावः, तह्देशे ततप्रागभावाभावः, यथा तन्तौ घटात्यन्ताभावघटप्राग- भावाभावौ इति व्याप्तौ इत्यर्थः । सर्वकालावच्छिन्ने निरवच्छिन्ने वा कपाले पक्षे घटमिथ्यातघटकतयाऽभ्युपगतेन घटा- व्यन्ताभावेनापादकेन घटप्रागभावाभावोऽप्यापिपादयिषित इति पर्यवसितं। तत्रापि व्यमिचारः; घटोत्पसिपूर्वकाले
१ घटप्रागभावाभावविशिष्टसदाघटशून्यत्वस्यैव घटोपादानत्वाभावव्याप्यत्वात् इति। अ. सि. २४
Page 76
१८६ · अद्वैतसिद्धिः सव्याख्या। [परिच्छेदः १ ]
रण्यमिदानीं घटात्यन्ताभाव इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतम्, देशे तु तदुभय- सामानाधिकरण्ये न किंचिदपि प्रमाणमिति-वाच्यम्; मिथ्यात्वानुमिते: श्रुत्यादेश्व प्रमाणत्वात्।
सिद्धिव्याख्या। दृष्टान्तदार्ष्टान्तिकयोवैषम्यमिति ध्येयम्। मिथ्यात्वेति। ततश्च न वैपम्यमिति ध्येयम् । विरोधेनानु-
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
स्वादिति। एतेन-घटादावधिष्ठानगतस्य सत्वस्यारोपोऽनादिदृढवासनासहितो दोषविधया तत्र मिथ्यात्वग्रहे
लघुचन्द्रिकाया विट्ठलेशपाध्यायी।
घटप्रागभावप्रत्ययेन कपाले घटप्रागभावस्याव्याप्यवरत्तित्वेन सर्वकालावच्छिन्नत्व निरव्च्छिन्वयववर ा भवात्।अत्र पक्षान्त र्भीवेणापि व्यभिचारो निश्चितत्वात् दूषणं बाधस्तत्र दोषो नोक्तः; आपत्तौ तस्यानुकृलन्वात्। इदानीमित्यस्य एत- स्कालावच्छेदेन देशवृत्तितार्थकत्वे अनेनैव देशे सामानाधिकरण्यसिद्धौ देशेन्विलयनेन तत्र प्रमाणभावोक्तेरनुपपततिरित्यतो व्याचष्टे-इदानीमिति। इदानीं घटप्रागभाव इति। घटो भविप्यतीति शब्दान्तराभिलाप्येयं प्रत्यक्षप्रतीतिर्यतकाले तस्काल एवेदानीं घटात्यन्ताभाव इति प्रत्यक्षप्रनीतिरित्यनुभव इति भावः। कालिकसंबन्धारवच्छिन्नसामानाधिकरण्ये पुनरु- कानुपपत्तिरतो व्याचष्टे-दैशिकेति। मूले-नकिंचिदिति। अत्यन्ताभावस्य प्रतियोगितद्ध्वंसप्रागभावविरोधनियम- स्याद्याप्यनिराकरणात् कपाले घटोपादानत्ान्यथानुपपनिसिद्धप्रागभाव विर्षायकाया 'अस्मिन कपाले घटो नास्ति' 'घटात्य- न्ताभावोऽस्ति' इति प्रत्यक्षप्रतीतेरसिद्धेरिति भावः। एवं चैतावता घट्वंसप्रागभावान्यतरावच्छिन्न कपाले त्रैका- लिकघटात्यन्ताभावे प्रमाणशङ्कायां कृतायां तत्परिहारमाह-मिथ्यात्वानुमितेरिति । पतेन-घटात्यन्ताभावाव- च्छिन्नकपाले घटप्रागभावे प्रमाणाकांक्षायां मिथ्यात्वानुमितेरित्युक्तिरभ्रान्तिः, तया तस्याविषयीकरणात्-इत्यपास्तम्। ननु-कपाले घटादिप्रत्यक्षेण तद्विषयकघटादिलिङ्गकेन घटादिविरुद्धतदत्यन्ताभावाभावग्राह्कानुमानेन च प्रतिबन्धात्कथं
तस्या: स्वतःप्रमाणायाः सर्वतो बलवन्वात् तदनुगहीतमिथ्यात्वानुमानस्याप्युक्तप्रत्यक्षानुमानाभ्यां वलवत्त्वमिति भावः । एतावता मिथ्यालानुमानेन कपालादौ सदा घटादिशन्यतसिद्धां कपालादेर्घटाद्युपादानत्वानुपपत्तः परिहारोऽप्यादिपदसू- चितः। उक्तानुपपत्त्योरपरिहारेण न्यूनतां परिहर्तु अस्य मूलस्य तत्परिहारसूचकतामाह-एतनेति। घटादिमिथ्यानुमितेः श्रुत्यनुग्नहीतत्वेन प्रामाण्यबलवत्त्वकथनेनेत्यर्थः । अनेन-घटः सन् इत्यादिप्रत्यक्षस्यारोपत्वं, उक्तानुमित्युन्पनी अनुत्पाद- रूप उपमर्दः, तदुत्पत्तेः प्रागुत्पादश्च लभ्यते, इत्याशयेनाह-घटादाविति। आरोपान्वयिविशेष्यकत्वं सप्तम्यर्थः । -अधिष्टानगतस्येति। तादात्म्येन घटाद्यारोपविशेष्यसद्रपब्रह्मधर्मावाध्यत्वरूपसत्वस्येत्यर्थः। परस्पराध्यासाभयुप- गमात् सद्रूपब्रह्मणोऽपि घटादौ तादात्म्येनारोपान. तद्धर्मसत्वस्याबाध्यतस्यारोप इति भावः। यद्वा-उक्तसद्रपब्रह्मप्- तियोगिकतादात्म्यरूपसत्वस्येत्यर्थः । तेन ब्रह्मणो नानध्यस्तत्वसिद्धान्तासङ्गतिः। नन्मतेऽधिष्ठानसंसर्गाध्यास एव परम्परा- ध्यासघटक इति भावः। घटप्रत्यक्षम्य घटाभावप्रत्यक्षे प्रतिबन्धकता न संभवतिः घटे बाघितत्वशङ्गया तज्ज्ञाने बाधित- विषयकत्वरूपाप्रामाण्यसंशयास्कन्दितत्वात्, अतो घटादावबाध्यत्वस्य तत्तादात्म्यस्य वा भानमुक्ततं। जीवन्मुक्तीयघटाद- भावप्रत्यक्षरूपे घटादिमिथ्यात्वग्रहे तदीयघटादिप्रत्यक्षस्य प्रतिबन्धकताप्रसङ्गादाह-अनादिदृढवासनासहित इति। आनादित्वं दळत्वे हेतुः, दृढत्वं च, परोक्षप्रथमादिजातमिथ्याग्रहानुच्छेद्यत्वम्। वासना चेयं आरोपसमानविषयिणी। जीवन्मुक्तस्य तु श्रुत्यनुमानजन्ये मिथ्यात्वनिश्चये मननेनाप्रामाण्यशङ्गानिरासात् निदिध्यासनपरिपाकसहकारेणोक्त्तमिथ्यात्व- निश्चयेनोक्तवासनोच्छेदात् तदीयघटसत्वारोपस्य तदीयघटाद्यभावप्रत्यक्षे ऐन्द्रजालिकवत न प्रतिबन्धकतेति भावः। प्रति- योगिविधया निर्णयस्य मिथ्यात्वग्रहप्रतिवन्धकतायां अनादिदृदवासनाया अनन्तत्वान, दोषविधयेत्युक्तम्। तदभावा- भावत्वानवच्छिन्नतत्वावच्छिन्नतद्वनाप्रहस्य स्वातन्तयेण प्रतिबन्धकतासृचनाय वा तदुक्तम। लौकिकसन्निकर्षाजन्यतद- भावज्ञाने तद्वत्तानिश्चयत्वेन, तदिन्द्रियजन्यतदभाववत्ताज्ञाने तदिन्द्रिय जन्यतद्वत्ताज्ञानत्वेन च प्रतिबन्धकत्वात् तदभाव-
भाव:। २ स्वयंदुर्बलाया अपि ममाख्यायाः लिङ्गरूपप्रवलप्रमाणाश्रितायाः प्रकरणबाधकत्वस्य पूषानुमत्रणमश्रविनियोगम्थले दृष्टत्वादिति भाव:॥
Page 77
१८७
गौडव्रह्मामन्दी (लघुचन्द्रिका)।
प्रतिबन्धक इति घटादिप्रत्यक्षकाले चक्षुराढिना घटाभावादेर्न प्रत्यक्षम्, अतएवोक्ताप्रमात्वव्यवहारोऽपि; मिथ्यात्व- ग्राहकश्षुत्यादिनोक्तारोपस्योपमर्दे तु तस्य प्रत्यक्षमिति-सूचितम्। किंच कालदेशयोरत्यन्ताभावस्य वृत्तिस्तुल्येत्यने- नेदं सूचितम्। मन्मते कस्यापि केवलान्वयितवं न स्वीक्रियत इत्यस्य वक्ष्यमाणतवेन व्यतिरेकिवस्तुमात्रस्य परेणापि कालेऽत्यन्ताभावस्वीकारेण च सर्वदृश्यानां व्यतिरेकित्वेन कालेऽत्यन्ताभावस्तावदवश्यं वाच्यः। तस्य च किंचिद्देशाव-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
प्रत्यक्षत्वावच्छिन्नं प्रति तद्वत्ताप्रत्यक्षत्वंन प्रतिबन्धकत्वस्य पार्थक्यसूचनाय वा तदुक्तम्। तदुक्तं सिद्धान्तलक्षणे दीधि- तिक्रृता-"वृक्षत्वावच्छेदेन वक्षे संयोगसामान्यास्वीकर्तृमते परितः प्रतियोग्युपलब्धेः दोषाद्वा वक्षे न संयोग इति नाध्यक्षमिति"। तत्र घटादाँ मिथ्यात्वस्य ग्रहे प्रत्यक्षरूपे वाधेन शाब्दबोधस्योत्पत्तिर्न प्रतिबध्यते, किंतूत्पन्ने तत्र अप्रामाण्यं गृत्यते इति दीधितिकारोक्त: उक्तघटादिप्रत्यक्षसत्वेऽपि श्रुत्या घटादो मिथ्यात्वनिश्रयो जायते। श्रुतिरूपप्रबलप्रमाणजन्य- त्वाच्च ततप्रामाण्याग्रहो न जायते। चन्द्रप्रादेशिकत्वप्रत्यक्षे सत्यपि ज्योतिरागमेन षड्योजनपरिच्छित्नत्वबोधवत् श्रुत्युपो- द्वलितानुमानादपि तर्थव मिथ्यात्वनिश्चयो जायत इति॥ ग्रहपदं प्रत्यक्षपरं । मिथ्याज्ञानं त्वनाहार्य; तद्धटकप्रतियोगि- मन्वस्य वैज्ञानिकत्वान। घटादिप्रत्यक्षेति। भिन्नेन्द्रियजन्ययोरपि विरोधित्वे त्वगादिनेत्यादिः। समानेन्द्रियजन्ययोरेव तथान्वे तु अग्रिमचक्षरादिनेत्यस्यात्रापकर्षः । नन्वेवमपि कपालादौ घटादिप्रत्यक्षशून्यकाले बाधकाभावादुत्पन्ने घटा- द्यभावप्रत्यक्षऽप्रमाणत्व्यवहारः घटादिप्रत्यक्षकालीनः, 'पूर्वमुत्पन्नमुत्तरमुत्पत्स्यमानं वा कपालं सदाघटाभाववदिति ज्ञानं अप्रमे'त्याकारकोऽनुभयमानः सिद्धान्ने न स्यात: घटादेमिथ्यालोपगमेन कपालादो सदाघटाभावाभ्युपगमात्, घटादेस्तु कदाप्यनुपगमान इत्यत आह-अतपवेति। कपालादौ घटादिप्रत्यक्षकाले प्रातिभासिकघटादेरुपगमात् तन्मिथ्या- तस्य चाप्रहादेवेत्यर्थः। तथाचोक्तघटाद्यभावज्ञाने घटादिप्रत्यक्षकाले घटादिमति घटाद्यभावप्रकारकत्वरूपाप्रमाणत्ग्रहसं- भवंनोक्तव्यवहारोपपत्तिरिति भावः। नन्वेवं-कपालादी घटाद्यभावप्रत्यक्षं तत्प्रमालव्यवहारश्र कदापि न स्यात् ; घटा- दिविषय कानादिदृढवासनावशेन घटादिसमानविषयम्य साक्षिप्रत्यक्षस्य तत्प्रतिबन्वकस्य तदप्रमातग्राहकस्य सर्वदा संभ- वातु, एवं जीवन्मुक्तम्य निमप्प्रपच्चब्रह्मसाक्षात्कारो न स्यात् ; तस्य चक्षुरादिनापि प्रपञ्चसाक्षात्कारसंभवात्, इत्यत आह-मिथ्यात्वग्राहकश्रुत्यादिनेति। साधनचतुष्टयसंपन्नस्य श्रवणमनननिदिभ्यासनपरिपाकसहकृतस्य मिथ्यातग्रा- हकश्रुत्या प्रपश्चमिथ्यातवनिश्रयंनेत्यर्थः। उक्तविवश्राप्रपश्चमिथ्यात्वनिश्चयं प्रति उक्तप्रप्चप्रत्यक्षस्य सवासनस्याप्मप्रतिब- न्धकत्वस्य तदप्रामाण्याग्राहकत्वस्य चानुपदमुक्तत्वादिति भावः। उक्तारोपस्य कपालादौ घटादिसत्वप्रत्यक्षरूपारोपस्य। उपमर्दे इति। प्रथमं भ्रमत्वप्रहरूपं उपमर्दः। ततः प्रपश्चमिथ्यात्वप्रत्ययाभ्यासेन तद्वासनादार्न्यमिति तद्विपरीतप्र- पंचसत्ववासनानिवृत्तिरूपः, तावत्पर्यन्तं कदाचिदुक्तारोपोत्पत्तिः । परन्तु तत्र भ्रमत्वग्रहात् तेन प्रतिबन्धाभावात् कदाचित् घटादभावप्रत्यक्षमपि। परन्तु विपरीतवासनावशेन तत्रापि भ्रमत्वग्रहः । उक्तरीत्या प्रपश्चमिथ्यात्वदृढ- वासनाबलेन तत्सत्ववासनानिवत्युत्तरं तु,प्रपश्नप्रत्यक्षारोपस्यानुत्पादरूप एवोपमर्द इति कव तदधीनस्तदभावज्ञान- धर्मिको भ्रमत्वग्रह इति बोध्यम। तस्य घटादिरूपप्रपश्चाभावस्य। प्रत्यक्षमिति भ्रमत्वज्ञानानास्कन्दितं प्रत्यक्षमि- त्यर्थः। एवं जीवन्मुक्तानां निष्प्रपञ्नव्रह्मसाक्षात्कारोऽपि निर्विचिकित्सो निर्बाध इति भावः। ननु-एता- वता समवायादिना घटादिमति कपालादो तत्संबन्धावच्छिन्नप्रतियोगिताक: तदभावः साधितः, स च प्रतियोगि- विरोधमनुपमृद्य ध्वंसप्रागभावविरेधमात्रमुपमृद्य ध्वंसप्रागभावकालावच्छेदेन कपालादो कालिकाव्याप्यत्रत्तिरस्तु, नच-काले कालिकसंबन्धेन घटादिप्रतियोगितदभावयोः सहसंभववद्देशे देशिकसंबन्धेन तयोः सहसंभवोऽस्तु, इन्युक्त्तम् मूले एवेति-वाच्यम; काले तयोविभिन्नदेशावच्छेदेनैवाभ्युपगमसंभवेन दृष्टान्तासंप्रतिपत्त्या तदुक्ती विवा- दादिति सिद्धसाधनाशङ्कां तन्मूलाभिप्रायवर्णनेन परिहरति-किंचेति। कालदेशयोरिति। काले सहसंभववद्देशेऽपि सहसंभवाविरोधादिति मूलोक्तेनेत्यादिः। सर्वदश्यानां व्यतिरेकितं न संभवति; प्रमेयत्वादीनां केवलान्वयित्वादत उक्तं- मन्मते कस्यापीति। निर्धर्मके ब्रह्मणि प्रमेयत्वादीनां अभावाङ्गीकारादिति भावः। सर्वदृश्यानां दैशिकव्यतिरेकित वे- पि तद्दतिकाले तदत्यन्ताभावः केन स्वीक्रियते? इत्यत अह-व्यतिरेकिवस्तुमात्रस्येति। परेण नैयायिकेन। काले इति। कालिकसंबन्धेन प्रतियोगिमत्वेऽपि प्रतियोग्यनधिकरणदेशावच्छेदेनेति शेषः। सर्वदृश्यानां घटप्रमेयत्वादीनां। मिथ्यात्वसिद्धये। सर्वेति। काले तत्तदृश्यवत्यपि। वाच्यः। परेण। तदृष्टान्तेन दैशिकसंबन्धेन
Page 78
१८८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
गौडब्रहमानन्दी (लघुचन्द्रिका)। ्छेदेन काले किंचिस्कालावच्छेदेन देशे वृत्तिरिति स्वीकारे देशकालनिष्ठानामनन्तावच्छेदकतवव्यक्कीनां कल्पने महागौ- रवाद् घटादेरस्यन्ताभावः सर्वत्रैव स्वीक्रियते। अतएव-संबन्धो न तत्प्रतियोगितावच्छेदक-इत्युक्तम् । नय्य-'एतस्काले गृहे घटो नास्ती' ति धीः कालादिनिष्ठमवच्छेदकतवं गाहत इति-वाध्यम्; गृहादिनिठ्ठाया घटाययधिकरणताया अवच्छेद्कत्वस्याभावं हि सा तत्कालादाववगाहते, नतु घटाद्यभावाधिकरणतायां गृहादिनिष्ठाया- मवच्छेदकरवं तत्कालादौ। अतएव 'वृक्षे मूले न संयोग' इत्यादिधीरपि वृक्षादिनिष्ठसंयोगाध्वच्छेदकत्वाभावं मूलादौ गाहते। नन्वेवं-कार्याव्यवहितप्ाक्कालावच्छेदेन कार्यवद्देशे वर्तमानस्याभावस्याप्रतियोगित्वे सत्यनन्यथासिद्धतवं कारणत्वमित्यादिव्यवहारो नोपपधत-इति चेननोपपद्यताम्; तथापि यतक्षणावच्छेदेनोत्पद्यमानस्य कार्यस्य यद्देशे लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। घटादिप्रतियोगिमति देशे तदत्यन्ताभावस्तु इदानीं मया साध्यत इति शेषः। तस्य घटादिदृश्यात्यन्ताभावस्य । किंचिद्देशेति दृष्टान्ते। प्रतियोग्यनधिकरणदेशे इत्यर्थः । किंचित्कालेति दार्ष्टान्तिके। प्रतियोग्यनधिकरणकाले इत्यर्थः ।-अत्यन्ताभाव इति। स च काले कालिकसंबन्धावच्छिन्नप्रतियोगिताको, देशे दैशिकसंबन्धावच्छि- न्नप्रतियोगिकोवा विशेषणतासंबन्धेन वेति बोध्यः।-सर्वत्रैवेति। सर्वदेशावच्छेदेन काले, सर्वकालावच्छेदेन देशे इत्यर्थः । केषांचित् प्रतियोग्यवच्छेदकत्वं, केषांचिदभावावच्छेदकत्वं चापेक्ष्य सर्वेषामभावावच्छेदकत्वे लाघवादिति भावः। वस्तुतस्तु-व्याप्यव्ृत्तेरेवावच्छेदकत्वानुपगमात् सर्वत्रेत्यस्य निरवच्छिन्न इत्यर्थः । एवंच लाघवं सम्यगुपपद्यते नन्वेवं घटादेरत्यन्ताभावत्वनव विरोध इति वक्तव्यम्, तत्राह-अतएवेति । तत्संबन्धानां तदभावप्रतियोगिता- वच्छेदकत्वकल्पने तदभावभेदकल्पने च गौरवादित्यर्थः । एवंच घटादेरत्यन्ताभावः सर्वदेशकालेपु सर्वकालदेशाव- चिछिन्नवृत्तिको निरवच्छिन्नवृत्तिको वा मिथ्यात्वघटकतया सिध्यन् घटमुन्मूलयतीति भावः। कालिकाव्याप्यतृत्ति- त्वप्रत्ययं अन्यथोपपादयितुं शक्कते-नचैतत्काले इति। नच-इयं धीः एतद्गृहनिष्घटस्य कालिकसंबन्धार्वाच्छन्ना- भावमेतत्कालेऽवगाहत इति, एतत्कालावच्छिन्ने गृहे गृहकालावच्छिन्नगहाद्भिन्ने घटाभावावगाहिनी चेयं धीरिति पूर्वाक्त- प्रकारदवयं-शंक्यम्; प्रकारान्तरस्य वक्ष्यमाणत्वादिति भावः ।-अवच्छेदकत्वमिति । गहनिष्ठाया घटाधिकरणताया इति शेषः । अवच्छेदकत्वस्याभावः अवच्छेदकतासंबन्धावच्छिन्नप्रतियोगिताकाभावः। तेन नाप्रसिद्धिरिति केचिन्। तन्न; संबन्धम्याभावप्रतियोगितावच्छेदकताया इदानीमेव निराकृतत्वात्। नचाप्रसिद्धिः; इदानीं गृहे घट इत्यारोपविषय- तया आध्यासिकस्य प्रसिद्धेः; अन्यथा सप्तम्यन्तोल्वेग्यवच्छेदकत्वरूपसंबन्धाप्रसिद्धौ तदवच्छिन्नप्रतियोगिताकाभावम्य दुर्वचत्वात्। तथाच यथाश्रुतमेव सम्यक्। परमते एतत्काले प्रगिद्धस्य घटाधिकरणतावच्छेदकत्वस्य कालान्तरेऽभावः, सिद्धान्तिमते तु तत्कालेऽपि घटादि येन येन संबन्धन यत्र यत प्रतिभासते, घटादिप्रतियोगिकतत्तत्संबन्धमिथ्या- त्वसिध्या घटादिमिथ्यात्वसिध्या च तत्न तत्न तत्तन्संबन्धैः घटवत्ताविरोधी। परेषां तत्तत्संबन्धार्वच्छन्नघटाभावकूटसंबन्ध- सामान्यावच्छिन्नघटाभावस्थानीयः संबन्धानवच्छिन्नप्रनियोगिताको घटसामान्याभावो विषयीक्रियमाणः ततर त तत्तत्संबन्धेन घटवत्तामुपमर्दयति, यथा तुच्छाभावः, इयांस्तु विशेषः; घटादिः सत्वेन प्रतीयते, न तुच्छमिति भावः । देशिकाव्याप्यवृत्तित्वप्रत्ययं मूले पूर्वमन्यथोपपादितमपीदानीं प्रकारान्तरेणान्यथोपपादयनि-अतएवेति। अभावस्य निरवच्छिन्नवृत्तिकत्वादेवेत्यर्थः ॥ एवं कालदेशयोः देशकालनिष्ठाभाववत्ताया अवच्छेदकत्वानुपगमे। घटादिमति कालान्तरावच्छेदन दण्डादरभाव- सत्वात् घटादिकारणत्वव्यवहारानुपपत्तिरतः कार्याव्यवहितप्राक्कालावच्छेदेनेत्युक्तम्। नोपपद्यते इति। उक्ता- भावे उक्तकालावच्छिन्नत्वासंभवादिति भावः। इष्टापत्या परिहरति-नेति। तर्हि कारणत्व्यवहारस्य को विषय इत्यत आह-तथापीति । खसामानाधिकरण्येत्यादि उपपद्यते एवेत्यनेनान्वयः । तस्य अनन्यथासिद्धत्वसहितेत्यादिः । तेन रासमे तद्टकारणत्वव्यवहारो नेति बोध्यम्। स्वं दण्डत्वावच्छिन्रं। घटदण्डपदे घटत्वदण्डत्वावच्छिन्नपरे। ईदशं घटत्वार्वच्छिन्नकारणत्वं रासभत्वावच्छिन्नसाधारणं; आधेयतासामानाधिकरण्यस्यावच्छेदकताया अतिप्रसक्तसाधारण- त्वात्, यदि स्वविशिष्टान्यावृत्तित्वविशिष्टत्वं स्वसामानाधिकारण्ये विशेषणं, तदा घटेष्वपि दण्डवदन्यवृत्तित्वसत्वेन तदभावविशिष्टसामानाविकरण्यावच्छेदकत्वस्य घटत्वेऽसंभवेन दण्डत्वावच्छिन्नेऽपि निरुक्तघटत्वकत्वस्यासत्वेनोक्त्व्यव- हाराजुपपत्तिरित्यत आह-कार्यनिष्ठमिति । घटादिनिष्ठं यन् दण्डादिसामानाधिकरण्यं, तदवच्छेदकघटत्वादीत्यर्थः । अवच्छेदकत्वं चेदं अनतिप्रसक्त्तत्वनियतं स्वरूपसंबन्धविशेषमपं, दीधितिकारोक्तं पारिभाषिकं वा, तेन रासभत्वावच्छिने नोत्तव्यवहारापत्तिरिति भावः। ननु-एवमपि घटादी खसंयोगसामानाधिकरण्यनियमात् निरुक्ततदवच्छेदकताभ्रय-
Page 79
१८९
विषमसत्ताकभावाभावयोरविरोध: पूर्वमुपपादितः। नच असत्यतिव्याप्तिः; स्वात्यन्ताभावाधिकरण
सिद्धिव्याख्या। मितश्रुत्योरेव बलत्वं स्वरूपत इत्याशङ्कयाह-विषमेति। न च-लाघवेनात्यन्ताभावमात्रस्य प्रतियोगिसा- मानाधिकरण्यविरोधितेति-वाच्यम्; एकदैकत्र रजतप्रत्यक्षतद्भावप्रत्यक्षप्रमाभ्यां गौरवस्य प्रामाणि- कत्वेन समानसत्ताकात्यन्ताभावस्यैव प्रतियोगिसामानाधिकरण्यविरोधिताया वक्तव्यत्वादिति भावः । नचासतीति। असतः शशशृङ्गादेः स्वात्यन्ताभावाधिकरण एव शशादौ प्रतीयमानत्वादिति भावः । स्वात्यन्तेति । सत्वेन प्रतीयमानत्वस्य तत्राभावान्न तत्रातिव्याप्तिरिति भावः। सत्वेन प्रतीतिरप्यस्तीत्य-
गौडब्रहमानन्दी (लघुचन्द्रिका)। संबन्ध: तक्क्षणाव्यवहितपूर्वक्षणावच्छेदेन कारणस्य तद्देशे संबन्ध इति यत् कार्यनिष्ठं कारणस्य सामानाधिकरण्यं तद्वच्छेदकघटत्वादिरूपस्य दण्डादिव्याप्यत्वस्य घटादिकार्ये सत्वेन साध्यसामानाधिकरण्यावच्छेदकधर्मस्यापि व्यापि- तया सवैंः स्वीकृतत्वेन तद्धटकस्यावच्छेदकत्वस्य स्वरूपसम्बन्धविशेषशब्दितस्याखण्डस्य पक्षधरपर्यन्तप्राचीनतार्किक: स्वीकृतत्वेनाभावावच्छेदकतवाद्यघटितत्वात् स्वसामानाधिकरण्यावच्छेदकघटतवकत्वरूपस्य घटकारणत्वस्य दण्डादौ व्यवहार उपपद्यत एवेति दिक्। समानसत्ताकयोभीवाभावयोर्विरोधे स्वीकृतेऽपि न क्षतिः, मिथ्यात्वघटकाभावस्या- धिष्ठानस्वरूपत्वेन प्रतियोगिभिन्नसत्ताकत्वाढिति पूर्वोंक्तं स्ारयति। विषमेत्यादि। सत्वेनेति सत्वावच्छिन्नस्वप्र
लघुचन्द्रिकाया विठ्ठलेशोपाध्यायी।
घटत्वसत्वान् म्वसंयोगकारणत्वव्यवहारापत्तिः, इत्यत आह-यत्क्षणावच्छेदेनेति। उत्पद्यमानस्येति विशेषणात्
कार्यतावच्छेदकसंबन्धः, तत्क्षणाव्यवहितपूर्वक्षणावच्छिन्नः कारणतावच्छेदकदण्डतादिविशिष्टप्रतियोगिकश्चकादित द्देशानु- योगिक: कारणतावच्छेदकसंबन्ध इति व्यवहारविषयीभूतं यदित्यर्थः । कारणतावच्छेदकदण्डत्वादिविशिष्टप्रतियोगिकघटा- द्युत्पत्तिपूर्वक्षणावच्छिन्नसंयोगादिसंवन्धवच्चक्रादिदेशानुयोगिकः स्वोत्पत्तिक्षणावच्छिन्नः संयोगादिसंबन्धः, घटादिनिष्ठं तत्प्रतियोगितमिति यावन्। अभाव्स्येव देशकालावच्छिन्नत्वानुपगमः, भावस्य तु तदुपगन्तव्यमेव। अन्यथा अग्रे वृक्ष: कपिसंयोगी इति प्रतीतिरिव, मूले वक्षो न कपिसंयोगीति प्रतीतिरपि प्रमा स्यात् इति हृदयम्। संयोगेन दण्डादिव्याप्यं, दण्डा- दिपूर्वभूतलादिसंबन्धं च दण्डाद्यवयवं प्रति दण्डादेः कारणतापत्तिरतः-कार्याव्यवहितपूर्वक्षणावच्छिन्नत्वं कारण- संबन्धे निवेशितम्। घटोत्पत्तिद्वितीयक्षणावच्छेदेन घटादिमति संयुज्यमानं घटादिव्याप्यं च घटादिकं प्रति घटादे: कारण- तापत्तिरत :- कार्योत्पत्तिक्षणावच्छिन्नत्वं कार्यसंबन्धे निवेशितं। केचित्-सरूपेण कारणनिवेशे दण्डतविशिष्ट-
तथाच नीलविशिष्टदण्डसामानाधिकरण्यावच्छेदकत्वस्य निरुक्तस्य घटत्वेऽसलान नीलद्ण्डे घटकारणतापत्तिः। पृथिवी- वविशिष्टसामानाधिकरण्यावच्छेदकत्वस्य घटत्वे सत्वेऽपि दण्डत्व्यापकपृथिवीत्वेन दण्डस्यान्यथासिद्धत्वात् न पृथिवीत्व- विशिष्टे घटकारणत्वापततिः। केनचिद्रूपेण कार्यनिवेशे दण्डतविशिष्टसामानाधिकरण्यावच्छेदकघटतवकलात दण्डत्वविशिष्टे द्रव्यत्वावच्छिन्नकारणत्वापत्तिरतः-कार्यतावच्छेदकनिवेशः। तथाच द्रव्यत्वे दण्डसामानाधिकरण्यावच्छेदकत्वाभा- वाओ्रोफ्ापत्तिः। एवं संयोगघटितसामानाधिकरण्यावच्छेदकत्वस्य घटत्वेऽभावान्नोक्तापत्तिः; संयोगेन समवायेन च दण्ड- वति भूतलादौ दण्डावयवे च घटस्य समवायेन संयोगेन च नियमेनासत्वात्। अत्र यादृशातिप्रसङ्गः कारणताशरीरे नियमनिवेशनेन वारयितुं शक्यते, स तथैव वारणीयः। अभ्यादृदशस्तु अन्यथासिद्धत्वेन। अन्यथासिद्धेरननुगतत्वादिति संप्रदायः ॥ प्रपश्चे मिथ्यात्बोधकप्रकृतानुमानेन श्रुत्यनुग्हीतेन समानसत्ताकभावाभावयोर्विरोधमुपमृद्यैव मिथ्यात्वस्य सावयितु शक्यलान्मूले विषमसत्ताकभावाभावयोरविरोधस्मारणमात्रं व्यर्थमित्याशक्क श्रुत्यनुभ्रह्मन्तरापि समानसत्ताकभावाभाव- मोर्षिरोधमभ्युपगम्यापि मिथ्याल्सिद्धिसंभव इत्यभिप्रायेणोक्त्तस्मारणं सार्थकयति-समानसत्ताकयोरिति। सात्य- न्ताभावाधिकरणएम प्रतीयमानस्मिति लक्षणे प्रतीतिपदं यदि विकल्पाख्यवत्तिसाधारणरूपेण ज्ञानाख्यवृत्तिमात्रपरं, नतु सदवच्छिन्नचैतन्यपरं, न वा विकल्पव्यावृत्तरूपेण ज्ञानपरं; तदा शशविषाणादितुच्छेऽतिव्याप्तिं शङते मूले-नन्त्रासस्य-
Page 80
१९० अद्वैतसिद्धिः सव्याख्या। [ परिच्छेद: १ ]
एव सर्वेन प्रतीयमानत्वस्य विवक्षितत्वात्। नच-'तद्जैक आहुरसदेवेदमग्र आसी' दिति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुष्परिहरेति-वाच्यम्; 'सदेवेदमन्न आसी' दित्यस्यार्थस्याभाव
सिद्धिव्याख्या। तिव्याप्निताद्वस्थ्यं शङ्कते-नच तद्धैक इति। परिहरति-सदेवेति। नच-सदेवेदमिति श्रुत्यर्थाभाव- गौडब्रह्मानन्दी (लघुचन्द्रिका)। कारतानिरूपितधी विशेष्यताव्यापकात्यन्ताभावकत्वं वाच्यमित्यर्थ :- सदेवेत्यादि। 'सदवेत्यादि' श्रुत्या यत्र यत्म- कारकबोधो जन्यते, तत्र तदभावप्रकारकधीरसदेवेत्यादिना बोध्यते। उक्तंहि छान्दोग्यभाव्ये-'असतः पदानभिधे- यत्वे Sपि नवन्युक्तवाक्यस्य तद्युक्तवाक्यार्थविरोधिधीजनकत्वमानुभाविक' मिति। तत्रायं भावः-'सदेवे' त्यादि- वाक्यं बौद्धानां तार्किकादानां च मतनिरासार्थम्। बौद्धमते हि सुपुप्ताविव प्रलये सतोऽभावात् कारणं विनैव सुषु- .प्युत्तरजागराद्यक्षण इव सृष्ट्यारम्भकाले आद्यकार्योत्पत्तिः। यद्यत् अर्थक्रियाकारित्वरूपस्य सरवस्याश्रयः तस्य सर्वस्थ
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
तिव्याप्तिरिति। उक्तप्रकारेण तु व्यावत्तेः पूर्वमभिधानात्प्रकारान्तरेण परिहरति-स्वेति। अत्र स्ात्यन्ताभावाघि- करणे एव सत्वेन प्रतीयमानत्वे, तादृशाघिकरणमान्नवृत्तितप्रकारकप्रर्तातिविशेष्यत्वं तादृशाघिकरणमात्रविशेष्यकप्रतीतिप्र- कारत्वं वार्थमाश्रित्य परिहारो न संभवति; सदसतोरुपरागाभावेन त्रिविधसति असन्भानानंगीका रेऽपि तुच्छविशेष्यकतुच्छ- प्रकारकशशविषाणं खपुष्पमिति शब्दजन्यविकल्पमादायातिव्याप्तेर्दुर्वारलान्। एवं सप्रकार कप्रतीतिविशेष्यताव्यापकीभू- ताभावप्रतियोगित्वमिति निष्कर्षेSपीत्यतो व्याचटे-सत्वेनेतीति। सत्वं सत्तादात्म्यं, तादात्म्येन भासमानसदेव वा। व्यापकात्यन्ताभाववत्वं व्यापकात्यन्ताभाचप्रतियोगित्वम्। तेन घटवति घटाभावमादाय न सिद्धसाधनम्। "सदेव साम्येदमत्र आसीत् एकमेवाद्वितीयं तद्वके आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तम्मादसतः सजायते कुतस्तु खल सौम्यैवं तस्मादितिहोवाच कथमसतः सजायेतेति सत्त्वेव सौम्येदमग्र आसीन एकमेवाद्वितीयं तदेक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत" इति छान्दोग्ये सृष्टिश्रुतिः। तत्र मतान्तरनिरासपूर्वकं सतो जगत्कारणत्वं प्रतिपादयितुं सन्मा- त्रस्य प्रलयकालसत्वं सदेवेति प्रथमवाक्येनोक्तम। तदुत्तरं 'तद्वैक' इति द्वितीयवाक्येनासन्मात्रस्य प्रलयकालसत्वं प्रतिपाद्य, तम्मादिति तृतीयवाक्येनासतो जगत्कारणत्वं एकीयमतत्वेनोक्तं। "कुतस्तु" इति चतुर्थन तन्मतं निरस्य पश्चमेन सत्वंवे- त्यादिना सन्मात्रस्यैवाम्रसत्वमुपसंहृत्य जगत्कारणत्वं प्रतिपाद्यत इत्याशयेन मूले सत्वप्रकारकत्वनिवेशेऽप्युक्तातिव्याप्तिताद- वस्थ्यं शक्कते-नचेति। "तद्वक" इति "तस्मादिति" वाक्यद्वयेनासतो जगत्कारणत्वमेकीयमतत्वेन नोपन्यस्यते, किंतु सतः अग्रसत्त्वं निषिध्य जगत्कारणत्वाभावमाशंक्यते इत्यभिप्रायेण समाधने-सदेवेति। मूले-"सदेव सौम्येदमग्र आसीदि"त्यस्येत्यस्य एतद्वाक्यप्रतिपाद्यस्यार्थस्येत्यर्थः। स चार्थोऽग्रकालसत्वविशिष्टं अद्वितीयं, सत्तादात्म्यापन्नं जगद् तत्कतृकमग्रकालसत्त्वं वा; तदभावस्य 'तद्वैक आहु'रित्यादिवाक्येन बोधनेनोक्तातिव्याप्तिपरिहारेऽप्यभावस्य जगत्कारणता प्राप्तेति ॥ तस्मादसतो जगदभावात सदजायतेत्युत्तरवाक्यार्थान, स च बौद्धानामप्यनिष्टः; व्यावहारिकोक्त- जगदभावस्य व्यावहारिकत्वात्, जगतो निरुपाख्योपादानताया एव तदभिमतत्वान, इत्यतो व्याचष्े-सदेवेत्या- दीति। यत्र इदंपदार्थे जगति, यत्प्रकारकोऽसत्वप्रकारकः, अद्वितीयसत्प्रकारकथ्व, बोधो जन्यते, तत्र जगति, तदभाव- प्रकारिकाऽय्रसत्त्वाभावप्रकारिका, अद्वितीयसदभावप्रकारिका च, धीरसदेवेत्यादिवाक्येन जन्यते इत्यर्थः। करणंविनेव अपू- वमेव जगदुत्पद्यते इति तदभिप्रायः । एवंच असदिति वाक्येन असति सत्वप्रकारकप्रतीतेरजननात् नासत्यतिव्याप्तिरिति भावः। नन्वेवं-लक्षणातिव्याप्तिपरिहारानुरोधेन 'तद्वैक'इति श्रुतेरसज्जगत्कारणत्वमतनिरासार्थ तदनुवादित्वं स्रसतः ग्रतीयमानं परित्यज्य, कथमुक्क्तार्थपरत्वं स्वीक्रियते-इत्याशक्ष श्रीभाष्यकारादतोक्तश्रुतिस्वारस्यादेवेत्याह-उक्तंहि छान्दरोग्यभाष्ये इति। असतः पदानभिधेयत्वेऽपीति । अनेन असतोऽलीकस्य जगत्कारणत्वमतानुवादः; तन्निराकरणद्वयमप्यलीकमवंति-दर्शिनम्। नञ्रयुक्तवाक्यस्येति। तदयुक्तवाक्यसमानानुपूर्वीकस्य घटोडये नासीदि- त्यादि वाक्यस्यंत्यर्थः । तदयुक्तवाक्येति। घटोडम आसीदिति वाक्येत्यर्थः। आनुभाविकमिति। एवंच लोकसिद्ध- मेवासदेवति वाक्यस्य 'सदेवेति' वाक्यार्थाभाववोधकत्वमिति। 'आसीदिति' कालसंबन्धः, एकमिति संख्यासंबन्धः, अ- द्वितीयमिति द्वितीयाभावसंबन्धः । एतेषां असत्यसंभवेऽपीत्यपि बोध्यम्। ननु तर्हि-असज्गत्कारणवादिनो बौद्धा इति प्रवादो विलु्येत इत्यत आह-अयं भाव इति। ननु-कालत्रयाबाध्यं सन्पदार्थः, तस्य प्रलये कथमभावः ?
Page 81
१९१
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
क्षणिकत्वेन सृष्टयारम्भक्षण उत्पत्ति: कारणं विनैव वाच्या, तत्पूर्व क्षणिकस्यार्थक्रियाकारिणोडभावात्। तथाच सृष्ठ्यारम्भकाल एव जागराद्यक्षण इव विनापि कारणं कार्यमुत्पदत इति स्वीक्रियते। तदुक्तं पश्चपाद्याम- 'अकस्मादेव जागरादावहमिति धीदर्शना' दिति। विवरणेऽप्युक्तम्-'सुपुप्ते विज्ञानलेशस्याप्यभावा' दिति। तार्किकादिमते तु प्रलये सदात्मकमपि जगत्कारणं यदासीत् तन्नाद्वितीयम्; गुणादिरूपद्वितीयविशिष्टस्वभावत्वात् । तयोर्मतयोर्निरासाय 'सदेवेत्यादि' श्रुतिः । इदं जगत्। अग्रे प्रलये। अव्याकृतावस्थमद्वितीयसद्रूपकार जात्मकमासीदिति बोधयति। 'असदेवे' त्यादि वाक्यं तु इदं जगत् प्रलये नासीत, न वा सदात्मकम्, किंत्विदा- नीमेवार्थक्रियाकारित्वेन सदिति बोधयति। ननु-असदिति समासान्तर्गतं नत्पदं सव्विभस्यैव बोधकम्, नत्वग्रे सश्वादेरभावबोधकं-इति चेन्न; 'अमानोनाः प्रतिषेधवाचका' इत्यनुशासनात् अकारस्य प्रकृते नञूविकारत्वा- भावेनासदित्यस्यासमासत्वात्। अतएव मूले नञेत्यस्याकारेणेत्यर्थः । ननु-'कथ नु खलु सोग्यैवं स्यात् कथमसतः सज्ायेते' त्युत्तरवाक्येनासतः कारणात् सतः कार्यस्य बौद्धस्वीकृतोत्पत्तेर्निराकरणादसदेवेत्यादिपूर्ववाक्येनासत्का रणात्मकतया प्रलये जगतः सत्त्वमुच्यते, कार्याणां हि ध्वंसरूपा सूक्ष्मावस्था प्रलयकालव्यापकत्वादक्षणिकत्वेनास्ति। सृष्ट्यारम्भसमये स्थूलकार्यरूपेण परिणमते। तेनासदात्मकत्वं जगतो नानुपपन्नम्। मिसकालीनयोरपि तयोस्तादात्म्यम् युक्त्याप्युक्तमेव । अतएव 'तस्मादसतः सज्जायत' इत्युत्तरवाक्यं तथैव बधयति-तत्राह-
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। इत्याशङ्य तन्मतं सत्पदार्थकथनेनोक्तं वित्रृणोति-यद्यदिति। क्षणिकत्वेनेति। तत्पूर्वमित्यादिपश्चम्यन्तार्थो हेतुः, स च कारणं विनैवेत्यत्र। वाच्येति। प्रलये विद्यमानात् असतः कारणान् सर्गाद्यकार्योत्पत्तिरित्युक्तौ, कारणत्वाभिम- तस्य कालवृत्तित्वेनार्थक्रियाकारित्वेन च सत्वापत्त्या तन्मतसिद्धसत्वमेव भज्यते इति भावः ।-स्वीक्रियत इति। एतावतैवासज्जगत्कारणवादित्वप्रवादः सङ्गच्छते, आद्यजगत्कारणं असत् अलीकं नास्तीति प्रवादार्थादिति भावः । सुषुप्युत्तरक्षणे कारणं विनव कार्यात्पत्तिरूपे दृष्टान्ते संमतिमाह-तदुक्तं पश्चपाद्यामिति। सुषुप्ती सतोऽभाव इत्यत्र आह-विवरणेप्युक्तमिति। तार्किकादिमतेतु प्रलय इत्यादि। अयमेव तन्मते तद्वैकश्रुतिवाक्यार्थः। जगत्का- रणमिति। इदंपदार्थीडयं। स्वभावत्वादिति। नाद्वितीयं कार्याभिन्नं न। कार्यकारणयोरभेदाभ्युपगमादित्यपि तन्मते तदर्थ इति बोध्यम्। तस्मात् सतः अद्वितीयात् सतः, जगत् नाजायत किंतु सद्वितीयादेव सतो जगदजायत इत्यु- त्तरश्रुतेस्तन्मतेऽर्थः। इदं परिदृश्यमाननामरूपात्मकाव्याकृतावस्थं नामरूपात्मनानभिव्यक्ं ।-नासीदिति। कारणा- त्मना हि तदा जगता भवितव्यं, जगत्तु प्रलयव्रत्तिमूलकारणशून्यमतो नासीदित्यर्थः। ननु-सदेव तत्कारणं तद्रूपतया स्यात्, अतआह-नवासदात्मकमिति। प्रलये इत्यनुषङ्गः। सतस्तत्कारणतानुपगमात्, अकारणकसगाद्यकार्यो- त्पत्तेरुपगमादिति भावः। ननु-अत्रेदमग्रे नासीत्, इदं न सत्, इति वाक्यभेदे नाग्रेदंपदावृत्तिप्रसङ्गः; अद्वितीयैकस- दात्मकजगदम्रे नासीदित्येकमेव वाक्यं चेत्, विशिष्टे कालवृत्तित्वाभावबोधनेऽपि विशेष्ये जगति तदबाधेन विशेषणीभूतस- द्वेदस्यालाभापत्तिः, नचात्र अग्रकाले विशिष्टाभावस्य विशिष्टेऽअकालव्ृत्तित्वाभावनिर्वाहकत्वं; विशेष्ये तदबाधात्, न वा विशेष्याभाववति विशिष्टाभावो विशेषणाभावपर्यवसायीति-चेत्, सत्यं; अगत्या आद्यपक्षस्योपगमात्। इदानीमेवेति। जगदिति शेषः । यद्वा-अग्रे इदं सच्च नासीत, किन्तु इदानीमेव तदुभयभिन्नमस्ति, इत्यर्थः। यत एवं तस्मात् असतः कारणात् कारण विनेव, जगदजायतेति सतः कारणात् जगत् नाजायत, किंतु कारणं विनैवेति वोत्तरश्रुति- वाक्यार्थः ।-सद्भिन्नस्यैवेति। अन्यथाऽसामर्थ्येन समासानुपपत्तेरिति भावः।-प्रकृतेद्दति। समासप्रकृतिभूते इत्यर्थः । नजविकारः, 'नलोपो नज'इत्यनेन। ननु-'नत्वसतः सत्व'मिति पुनरुत्तं इत्याशंक्य उत्तरबाधपयालोचनया 'असदेवेति' वाक्यस्यासति सत्वबोधकत्वमेव संभवतीत्याशङ्गया तदवतारयति-ननु कथमिति। उत्तरवाक्यनिराक्कियमाणबौद्धम- तानुवादवत्वेनेति शेषः । सतो जगतोऽसद्रूपत्वं कथमत आह-कार्याणामिति । पूर्वसृष्टिकार्याणामित्यर्थः । भावरूप- त्वेऽसत्वं न स्यादतो-ध्वंसरूपेति। सूक्ष्मावस्थेति। परिणमते इत्यनेनान्वयः। तर्हि-अर्थक्रियाकारित्वरूपं सत्वमेव स्यात्कथं असत्वं? तत्राह-प्रलयकालेति । ब्रह्मणो रात्र्यादिरूपेत्यादिः । अक्षणिकत्वादिति। क्षणिक- त्वरूपव्यापकाभावात् अर्थक्रियाकारित्वादन्यादृशव्याप्यभावत्वादिरूपसत्वाभावात्। अस्तीति। अभावरूपासत्पदार्थ- रूप इत्यर्थः । तेन जगत उक्क्तासत्पदार्थपरिणामरूपत्वेन। तयोः सदसतोरित्यादिः । आसीदित्यादिना तादात्म्यम्। तयोः कार्यकारणयोः। उकतं उक्तप्रायमिति। श्रुत्यापीत्यपिना भिन्नकालीनयोस्तादात्म्यबोधक'तद्वैकआहुः' श्रुतिसमुच्चय इति
Page 82
१९२ अद्वैतसिद्धिः सन्याख्या। [परिच्छेद: १ ]
एव नञा प्रतिपाद्यते, न त्वसतः सत्म् ;विरोधात्। अतो नातिव्याप्तिः। सर्वे चान्यत् पूर्वोक्त- मेवानुसंन्घेयमित्युपरम्यते ।। इति चतुर्थमिध्यात्वविचारः॥
सिद्धिव्याख्या। बोधकत्वेऽप्यसद्रोधकत्वं दुर्वारं, सदेवेत्यस्य ब्रह्मसत्वार्थकत्वेन तद्भावस्यात्यन्तासत्वानतिरेकात्, नहि ब्रह्म- सत्वाभाव: कचिदेशे काले वाऽस्तीति-वाच्यम्; सदेवेत्यस्य ब्रह्मस्वरूपसत्वार्थकत्वेऽपि तद्भावस्यानि- र्वचनीयस्वरूपत्वेनात्यन्तासत्वातिरेकात्तस्य च कचिद्देशे काले वाऽस्तीतिसंभवादितिभावः॥ इति अद्वैतसिद्धिव्याख्याने चतुर्थमिथ्यात्वनिरूपणं समाप्तम्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नत्वसतः सत्वं विरोधादिति। अघटो घट इति बोधस्येवासदासीदिति बोधस्याहार्यत्वेन शाब्दधीत्वा- नुपपतेः नोक्तवाक्यादुक्क्तबोधः। द्वितीयोरऽर्थ उच्यते। सत्त्वं नासत्कारणप्रयुक्तम् । सश्वविशिष्टे कार्ये असतः कारणरवं नेति यावत्। विरोधात् असतोऽर्थक्रियारूपकार्यकारणतवे स्वीकृते असत्वव्याघातात्। तथाच 'तसादस- तः सजायत' इत्यस्य यस्मादिदमग्रे नासीअवाय्रे सदात्मकं तस्मात् प्रलये विद्यमानात् सत आध्यकार्यरूपं सभ्न जायत इत्यर्थः । अमरे इत्यस्यानुषङ्गेण प्रलये विद्यमानादिति लब्धम्। तेनेदानीं सतः सदुत्पत्तावपि न बाधः। कथमसत इत्यादेरपि सतः सब्न जायत इति कथं सद्रूपस्यकस्य सर्वकार्यात्मकतया प्रत्ययेन ततम्तजायत एवेत्यर्थः।ननु-'अभावस्य
लघुचन्द्रिकाया विट्ठलेशोपा्यायी। व्याख्येयं। अत एव 'तद्धैक' इति पूर्ववाक्यस्यासतो जगत्कारणत्वबोधकतवादेव। तस्मात् प्रलयवनेः। जायते अजायत। बोधयतीति। तथाच 'तद्दैक आहु'रिति श्रुतिजन्यं असति सत्प्रकारकबोधमादायोक्तमिथ्यातलक्षणस्यास- त्यतिव्याप्तिर्दुर्वारेति भावः। ननु-उक्तरीत्या विरोधपरिहारान् को विरोधः ?- अत आह-अघट इति। अयं भाव :- यदि पूर्वकार्यध्वंसरूपा कार्यसूक्ष्मावस्था उत्तरकार्यपरिणामिनी भावमिन्नत्वादसत्पदार्थरूपा प्रलयकाले स्वीक्रि- यते, तदा व्यावहारिकस्यैव जगत्कारणत्वं सिद्धं, नालीकस्य, न वा अकारणकसृष्टिपक्षस्य, इति न बौद्धमतानुवादः। नापि तत्र मिथ्यात्वलक्षणातिव्यापिः; 'कथमसत' इति श्रुतिरपि अभावस्य भावकारणत्वनिराकरणपरतया सक्गच्छते। किंच असत्पदस्याव्यक्त्परतया प्रधानकारणवादिसांख्यमतानुवादिन्येव 'तद्वैक' इति श्रुतिरस्तु, तैः पूर्वोत्तरकार्ययोः उत्तरपूर्वावस्थारूपस्य प्रधानस्य स्वीकारात्, कार्यात्पती चेतनापेक्षाया अनङ्गीकारादेवकारसङ्गतिः। अतएव 'कथं नु सौम्ये' त्यनेन तन्निराकरणमपि सज्च्छते। तम्मान 'तद्वैक' इति वाक्यस्य बौद्धमतानुवादित्वेऽसत्पदेन सद्भिन्नत्वेन अलीक- मनूद तत्र प्रलयकालवृत्तितजगत्कारणत्वरूपसत्वबोधस्याहार्यत्वं। यदि धर्मितावच्छेदकीभूतमसत्वं नोक्तविधेयसत्वाभव- रूपं, किंतु अवाध्यत्वरूपं सत्यत्वाभावरूपं, तदापि अलीकस्य कालवृत्तितवार्थक्रियाकारित्वस्वीकारेSलीकलव्याघातान्नालीक जगत्कारणलानुवाद:, न वा अकारणकसष्टिपक्षानुवादकतवमेवोक्तवाक्ये स्वीकार्यमिति नासति मिथ्यालक्षणाप्तिशङ्गेति। अत्र नत्वसतः सत्वमिति मूले प्रतिपाद्यते इत्यनुषङ्वेणान्वयः। तदभावेऽप्याह-द्वितीयोऽर्थ इति। नलसतः स- त्वमिति मूलस्येति शेषः। सतस्य कार्यतावच्छेदकत्वोपगमे चासत्प्रयुक्तत्व प्रसक्त्तेस्तन्निषेधपरतामाह-सत्वविशिष्टेशति। ननु-सत्वं नासत्कार्यतायामवच्छेदकं, आद्यसत एवासत्कार्यत्वोपगमेनेदानींत नासज्न्येसति व्यभिचारात, इति सत्वस्या- सतप्रयुक्तत्वं मयापि न स्वीक्रियत इति को विरोधः ?- तत्राह-असतोरऽर्थक्रियारूपे इति। कार्ये आदकार्ये। तथाच असदेवेति वाक्यस्य इदं जगत् प्रलये नासीतू न वा सदात्मकं इत्यर्थकत्वेन। जायते किंतु कारणं विनैवेति शेषः। एतन्मतनिराकरणमपि व्याचष्टे-कथमसत इत्यादेरपीति। प्रत्ययेन "सदेव सौम्येदमत्र आसीत्" "इदं सर्व यदयमात्मा" "सर्व खल्विदं ब्रह्मे"त्यादिश्रौतेन घटः समित्यादिलौकिकेन च प्रत्ययेन। उक्तरीत्योक्क्श्रुतेर्बौंद्धमतत्वेनाका- रणकसृष्टथनुवादित्वेऽसतःकारणत्वं तन्मतत्वेनानूद्य दृषणपराचार्यप्रन्थविरोधं शक्कते-नन्विति। अभावस्य भवतीति-
Page 83
गौडत्रहानन्दी (लघुचन्द्रिका)। निरुपाख्यत्वादपि न जगत्कारणत्व' मिति पञ्चपादिकावाक्यं विवरणे व्याख्यातम्-'नच निरुपाल्योपादानता जगतः, सदन्यया' दिति; तस्वदीपने च तद्वतारितम्-'निरुपाख्यकारणतावादिनं प्रति निरुपाल्यरवादिति हेत्वसङ्गतेराह-न च निरुपाख्यतेत्यादी' ति; तथाच निरुपाख्यकारणवादी बौद्ध इति तर्वदीपने स्पष्ट-इति चेन्न; उक्कतर्वदीपन- वाक्यस्य यदि निरुपाख्यकारणं बौद्धो वदेत, तदा तं प्रति निरुपाख्यत्वहेत्वसंभवादाहेत्यर्थकत्वात् ; अन्यया झ्रसतः कारणतवेऽर्थक्रिया कारितवरूपसर्वापत्या विरोधः । अतएव 'नासतोऽदष्टत्वा' दिति सूत्रे भामतीकल्पतर्वो्षौंद्धमते असन् कारणमिति स्पष्टमिति भावः । ननु-तथापि सरवेन असड्धीवादिनं प्रति किं मिथ्यातवं वाच्यम्! तत्रा- ह-अतो नातिव्याप्तिरिति। यतोऽसतः सर्वेन न धीः, अतः प्रातीतिकस्यापि सत्तादात्म्यरूपसर्वस्यासत्यभावेन व्यावहारिकस्य तस्य सुतरामभावेन च स्वनिष्ठसरवावच्छिसप्रकारतानिवेशासंभवाभ्नातिव्याप्िरित्यर्थः । यद्वा अतः स्वनिष्ठसरवात्। ल्यब्लोपे पञ्ञमीयम्। तथाच स्वनिष्ठसर्वं पुरस्कृत्यातिव्याप्त्भावोऽस्तीत्यर्थः । इति लघुचन्द्रिकायां चतुर्थमिथ्यात्वनिरूपणम्।।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। भाव: सत्, तद्भित्नस्यासतः । निरुपाख्यत्वात् पदार्थस्रूपत्वाभावात्। जगत्कारणत्वं न संभवतीति पञ्चपादिकार्थः। निरुपाख्यं अपदार्थस्रूपं तुच्छं उपादानं यस्य तन्निरुपाख्योपादानं तत्वं, जगतो न; सदन्वयात्, इति तद्वाख्यान- विवरणार्थ इति शङ्टकाभिप्रायः। ननु-असतो निरुपाख्यत्ात जगत्कारणत्वं न संभवतीत्यतः कारणं विनैव जगदुत्प- द्यत इति लया वाच्यम्, तच्च न संभवति; सर्वदा सृष्टिप्रसञ्जेन प्रलयानुपपत्तेरिति गूढहेतुकः पश्चपादिकार्थः । तक्ताख्या- नविवरणस्यापि जगति सदन्वयात् सदुपादानता न संभवति, नाप्यकारणकत्वं; सदन्वयादेवेत्यर्थ :- इत्याराङ्कय विवरण- व्याख्यानतत्वदीपनविरोधान्नायमर्थ इत्याह-तत्वदीपनेचेति। निरुपाख्यं कारणं वदतीति, निरुपाख्यकारणवादी, न तु कारणाभाववादी। तथासति अकारणवादिनं प्रतीत्येव ब्रूयात्, प्रसिद्धकार्यकारणभावस्य सोपाख्यत्वेन निरुपा- ख्यत्वरूपहेत्वसङ्गतेस्तत्रापि संभवात्, तं प्रति निरुपाख्यत्वहेतोः कारणे तेनाभ्युपगतत्वेनाकारणत्वाविरोधित्वेनासनतेः । सदन्वयात् कार्ये सत्वप्रत्ययात्, कारणे सत्वस्यावश्यकत्वेन सदुपादानस्यैव वाच्यत्वादिति हेत्वन्तरमाहेति तत्वदीपनार्थः। नच-उत्पन्नत्वमेव सत्वमिति-शञ्ञ्यम्; आद्यक्षणसंबन्धरूपस्य द्वितीयक्षणादावभावेन तस्य कारणसत्वरूपतयाऽसतः कारणत्वेऽसत्वव्याघातेन सत्कारणस्यावश्यकत्वेन तद्गतसत्वस्यैव कार्ये उपगन्तव्यत्वादिति भावः। भवतु मूलविवरणयोरर्थान्तरं, वत्वदीपनस्य त्वर्थान्तरासंभवात् तद्विरोधो दुर्वार इत्याह-तथाचेति। तत्वदीप- नेडप्यर्थान्तरमाश्रित्य तद्विरोघमपि परिहरति-उक्ततत्वदीपनवाक्यस्येति । यदीति । जगतः अकार- णकत्वरूपं सपक्षं त्यक्त्वापीति शेषः । अन्यथा तत्वदीपनस्यापि असतो जगत्कारणत्वं बौद्धमतमित्यर्थकत्वे। विरोधः असत्वव्याघातः । उक्ताचार्यप्रन्थविरोधशङ्काया अयं परिहारोऽपि 'नत्वसतः सत्वं विरोधादिति' मूलार्थ इति भावः। उक्काचार्यत्रन्थानामुक्तव्याख्याने आचार्यान्तरप्रन्थसंवादमाह-अतपवेति । असतः सत्वकारणत्वासंभवादेवेत्यर्थः । ननु-'अतो नातिव्याप्तिरिति' पूर्वेण गतार्थत्वात्, व्यर्थ इत्याशक्ञ, शङ्कान्तरनिरासक- तया तत्सार्थकयति-नन्विति। तथापि असतः कारणत्वरूपसत्वस्यासंभवेन बौद्धस्यान्यस्य वा तन्मतासंभवेऽपि असतः पदानभिधेयत्वेन सद्धिन्नत्वावच्छिन्ने सत्वबोधस्याहार्यत्वेन 'असदेव' वाक्येन जननासंभवेऽपि च सत्वेनासद्धीराहार्यमा- नसरूपा स्यादिति वादिनं प्रति इत्यर्थः। किं वाच्यं। सत्वप्रकारकत्वनिवेशेऽप्यसत्यतिव्याप्तितादवस्थ्यादिति भावः ।- न धीरिति। आहार्यमानसरूपापीति शेषः । पारमार्थिकसत्वस्य तद्विषयत्वायोग्यत्वादिति भावः। प्रातीतिकमेव तद्विष- योऽस्तु, तत्राह-प्रातीतिकस्यापीति । आहार्य हि बाधदशायां जायते, नहि तदा अज्ञानमस्ति, यत्परिणामः प्रातीतिकं तद्द्रमक्च स्यात्। किंच अज्ञानस्य सदेव विषयो नासत् इति कथमसति सत्वभ्रम आहार्योपि स्यादिति भावः ।- व्यावहारिकस्य सुतरामिति। तस्य ब्रह्ममात्रविषयकमूलाज्ञानजन्यत्वादिति भावः। ननु-अनुंभूथमानारोपो नाज्ञान- मूलकः, किंतु स्मर्यमाणारोप एव; अतएवाधिष्ठाननिष्ठपारमार्थिकत्वस्य रजतादौ भानसंभवेन तत्र प्रातिभासिकतदु त्पल्तेरनक्गीकारेण पारमार्थिकत्वेन रजताभावप्रतियोगित्वरूपमिथ्यात्वस्य प्रातिभासिकरजत उपपत्तिः। स्पर्षट चेदं वेदा- न्तपरिभाषादिग्रन्थेषु। एवंच ब्रह्मनिष्ठाबाध्यत्वरूपस्य प्रपश्चनिष्ठसत्तादात्म्यरूपस्य वा सत्वस्यानुभूयमानस्यासति अ. सि. २५
Page 84
१९४ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
लसुचन्द्रिकाया विट्ठलेशोपाध्यायी। आहार्यभ्रमो दुर्वार हत्यत आह-स्वनिष्ठसत्वेति। केचितु-न धीरिति। नतु-उक्कधीनिराकरणे खनिष्ठत्वं व्यर्ष, तन्निवेशे चोक्तधीनिराकरणानुपयोग-इतिचेष्न; शङकस्यान्यथाख्यातिसत्वेऽपि सिद्धान्तिनस्तदभावेन तन्मते अनि- र्वचनीयख्यातिरूपतादृशप्रतीति निराकृत्य खनिष्ठत्वनिवेशेऽप्यतिव्याप््युद्वारापतेः । तथाचोभयमते तदुद्वारायोभयमाव- श्यकं-इत्याहुः। सत्वेनासद्वियोऽभावस्यातः पदार्थत्वे पुनरुफ्तिर्दुर्वारेत्यतः, खनिष्ठत्वनिवेशेऽस्यातःपदार्थतामाह- यद्ा अत इति-II ।। इति चतुर्थमिथ्यात्वविचार:॥
तुर्थमिथ्यात्वम्
(१) न्यायामृतकारा:
स्वात्यन्ताभाव एव प्रतीयमानत्वमपि न मिध्यात्वम्; अत्यन्ताभावस्य तात्विकत्वप्रातिभासिकत्वव्यावहारिकत्वविकल्पैः प्रतियोगित्वं स्वरूपेण पारमार्थिकत्वेन वेति विकल्पैश्च दूषणानां पूर्वमेवोक्तत्वात्। संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासंभवात्, संभवे चोपादानत्वानुपपत्तेः। सवरूपेण निषेधप्रतियोगित्वपक्षे पूर्वमेवोक्त्तपरिहारेण तु नात्रेष्ट- सिद्धिरित्यत्यन्तासत्वापत्तिदोषोऽपरिहार्य एव। पूर्वत्रेव सदधिकरणत्वादिविवक्षणस्य प्रतिपन्नोपाधिपदाभावेनासंभवात्, पारमार्थिकत्वपक्षे ब्रह्मवत्पारमार्थिकत्वापत्तिश्चेति-वर्णयन्ति॥ (२ ) तत्राद्वैतसिद्धिकारा :- न तावन्निषेधतात्विकत्वादिविकल्पैः स्वरूपेण निषेधेन वेति विकल्पैश्च प्रतिपादितानां दूषणानामत्र प्रसर इति तु पूर्वमेव निरूपितम् । काल इव देशेऽपि प्रतियोगितदभावयोः सहभावात्, एवमपि प्रागभावसत्वेनोपादानतोपपत्तेः। एतेन मिथ्यात्वानुमिते: श्रुतेश् प्रामाण्यमपि निरपोहं सिद्ध भवति। प्रतिपन्नोपाधिपदाभावेऽपि सत्वेन प्रतीयमानत्वस्यात्र विवक्षणान्नात्यन्तासत्वापत्तिः । असतोऽपि सत्वेन प्रतीयमानत्वं 'असदेवेदमत्र आसीदि'ति श्रुत्या सिद्धमिति तु न वर्णनी- यम्, तत्र सदेवेदमिति श्रुत्यर्थाभाव एव बोध्यते, नत्वसतः सत्वम्, विरोधादित्येवाक्गीकरणीयतया दोषाभावात्। ब्रह्मवच्छ्रुतिप्रमितत्वाभावेन तु न पारमार्थिकत्वसिद्धिरिति प्रथममिथ्यात्वप्रकरण एव निरूपितमिति न कोपि दोष :- इति प्रतिपाद्यन्ति॥
(३) तरङ्गिणीकारास्तु नैतदनुमोदन्ते- तथाहि-भावाभावयोर्विरोधकथाया एवोच्छेदापत्या घटादिप्रत्यक्षताकाले घटाभावादेरप्रत्यक्षतानुपपत्या कपा- लादिकं सदा घटाभाववदिति ज्ञानस्याप्रमात्वव्यवहारानुपपत्त्या द्वैताद्वैतयोर विरोधापत्तिप्रयुक्काद्वैतज्ञाननिष्ठद्वैतज्ञाननिवर्त- कत्वानुपपत्त्या च प्रत्यक्षविरुद्धेऽर्ये श्रुत्यनुमानयोस्तात्पर्यकल्पनायोगेन काल इव देशेऽपि प्रतियोग्यभावयोः सामानाधि- करण्याज्जीकारस्यायुक्त्तत्वात्, भावाभावमात्रयोः परस्परविरोधेन विषमसत्ताकत्वादिनाSविरोधकल्पनस्यायुक्कत्वात्, सदे- वेति वाक्यावगतस्य ब्रह्मसत्ताभावस्याऽत्यन्तासद्रपस्य बोधनेऽप्यसतः सत्वेन प्रतीतिविषयत्वस्यानिवारणादत्यन्तासत्वा- पत्तेक्ष अत्यन्ताभावाधिकरण एव प्रतीयमानत्वरूपमिथ्यात्वोपपादनासंभव इति- (४) लघुचन्द्रिकाकारास्तु नैतत्सहन्ते- तथाहि-अनादिदृढवासनासहिताधिष्ठानगतसत्वारोपो दोषविधया मिथ्यात्वभ्हे प्रतिबन्धक इति घटादिप्रत्यक्षताकाले तदभावाप्रत्यक्षतोपपस्यात एव कपालं सदा घटाभाववदिति ज्ञानीयाप्रमात्वव्यवहारोपपत्या ब्रह्मस्वरूपसाक्षास्कारस्ैव द्वैतनिवर्तकरवेनाद्वैतज्ञानस्य द्वैतानिवर्तकत्वस्येष्टापत्तिपराहृततया च प्रत्यक्षविरुद्धेऽप्यर्थे श्रुतितदनुयाय्यनुमानयोः प्रामा- ण्यसंभवेन काल इव देशेऽपि प्रतियोगितद्भावयोः सामानाधिकरण्याज्गीकारस्य युक्कत्वात्, भावाभावयोर्विरोधपक्षेपि
Page 85
१९५
अभावतात्विकत्वपक्षेण विषमसत्ताकयोर्भावाभावयोरुपपादनस्यावश्यकत्वात्, सदेव सोम्येदमत्र आसीदितिश्रुतेः प्रलये- Sसदात्म कप्रपश्चवादिबौद्धतार्किकमतयोर्निराकरणार्थ प्रवृत्तायाः अग्रे प्रलये सस्कारणकत्वेन सद्रूपमेवेदं प्रपश्चजातमित्येवार्थः, नतु ब्रह्मसत्वम्, येन तदाभावस्यात्यन्तासत्वेनासदेवेति श्रुत्योक्तश्रुत्यर्थाभावबोधनेऽप्यसतः सत्वेन प्रतीतेरनिवारणं भवतीति सस्कारणकलाभावस्य बौद्धपरिकल्पितस्य प्रातिभासिकस्य विद्यमानत्वात् सदेवेतिश्रुत्या असदेवेतिश्रुत्यर्थाभावबोधिकाया असतः सत्वेन प्रतीतौ प्रमाणलाभावात् सत्वेन प्रतीयमानत्वविवक्षणेनैवात्यन्तासत्वापत्तिनिवारणाच्च सर्वमनवदमिति-
इति चतुर्थमिथ्यात्वविचार:।
अथ पञ्ञचममिथ्यात्वम्।
सद्विविक्तत्वं वा मिथ्यात्वम्। सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरण-
सिद्धिव्याख्या।
अथ पञ्चममिथ्यात्वविचारः।
सद्विविक्तत्वं वेति। ननु सतः सत्ताजातिमत्त्वादिरूपत्वे, वक्ष्यमाणदोषापत्तिः इत्यत आह-सत्वं चेति। नतु सत्ताजातिमत्त्वादिरूपत्वं, येन वक्ष्यमाणदोषापत्तिः स्यादित्यर्थः । प्रमा- गौडव्रह्मानन्दी (लघुचन्द्रिका)।
अथ पञ्चममिथ्यात्वम्।
दोषासहकृतेत्यादि। दोषविधया ज्ञाने निमित्तकारणमविद्या, सादशकारणतानिरूपकं तस्वमस्यादिवेदान्तवा- क्याजन्यज्ञानं, तस्य बोधस्य भ्रमत्वात्, नतूक्तवाक्यजन्यज्ञानम् ; प्रमात्वात्। ननु-शुद्धम्रह्मणो वृत्यविषयत्वपक्षे लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
अथ पञ्चममिथ्यात्वविचारः।
मूले-सद्विविक्कत्वं, सद्भिन्नत्वम्। अत प्रतियोगितावच्छेदकीभूतसत्स्य सत्ताजात्यादिरूपले दोषस्य वक्ष्यमाणलात् स्यं तन्निर्वक्ति-सत्वंचेति। प्रमाणतं च तत्र यदि व्यवहारकालाबाध्यविषयकत्वं कालत्रयाबाध्यविषयकतं वा, तदा सन् घट इत्यादिज्ञानानामपि घटादो सदंशे वा प्रमालात् घटादीनामपि प्रमाणसिद्धलवात् तद्भिम्नतवरूपमिथ्यात्वानुपपत्तिरतो व्याच्टे-प्रमाणत्वंचेति। तस्सहकृतं तत्सहकारेण कार्यजनकम् तज्जन्यकार्यजनकं, तदजन्यकार्यजनकं तदसहकृतम्। एवं च ज्ञानकरणे दोषासहकृततस्य दोषाजन्यकार्यजनकत्वरूपस्य विवक्षणे दोषाजन्यकार्यान्तरजनकस्य भ्रमकारणस्याव्या- वृत्तिरित्यतोऽसहकृतत्वघटककार्येऽसहकृतत्वानुयोगिकरणजन्यवृत्तिरूपज्ञानभेदो विवक्षणीयः। तथाच दोषाजन्यं यत् सक- रणकतस्तज्ज्ञानकरणत्वमर्थः स्यात्; तस्य च ज्ञानकरणत्वघटकज्ञाने प्रमात्वाघटिततया यौगिकप्रमाणपदार्थत्वानुपपत्तिगौरवं चेत्यतो लाघवात् ज्ञानकरणत्वघटकज्ञाने दोषासहकृतपदेन दोषाजन्यत्वरूपं प्रमात्वं निवेश्य व्याख्यातुं मूलप्रतीकमाददाति -दोषासह कृतेत्यादि इति। अन्र दोषजन्य ज्ञानकरणजन्यधीविषयान्यत्वं सद्विविक्तरूपं मिथ्यात्वं इत्यर्थपर्यवसाने घटा- दिविषयकतृत्तिरूपज्ञानस्य शुक्किरजतादिज्ञानस्येवाविद्यान्यदोषजन्यत्वासंभवात् अविद्यारूपपरिणामत्वेन दोषजन्यत्वं स्वीकृत्य घट्दिषु मिथ्यालोपपादने तत्त्वमस्यादिवाक्यजन्यव्रह्मात्माकाराखण्डवृत्तेरप्य विद्यातादात्म्यापन्नान्तःकरणपरिणामत्वेनावि- द्यारूपदोषजन्यत्वात् दोषाजन्यज्ञानाप्रसिद्धिरित्याशक्ष्ा दोषपदेनाविद्योपादानात् दोषविधया तस्याः कारणत्वं विवक्षणीयं, नतु परिणाम्युपादानविधया इत्याशयेन दोषाजन्यज्ञानप्रसिद्धिमाह टीकायां-दोषविधयेति। भ्रमत्वावच्छिन्नकारण- त्वादिदोषपदार्थत्वव्याप्यरूपेणेत्यर्थः । तन्व प्रकृतेऽविद्यात्वमेव। ज्ञाने घटादिज्ञाने। निमिस्तकारणमविद्येति। तत्र
Page 86
१९६ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १]
गौडब्रहानन्दी (लघुचन्द्रिका )। तस्य ज्ञानस्य स्वविषयत्वोपहितम्रह्मविषयकत्वादुक्तम्ह्मणश्च मिथ्यात्वात् कथं तस्य प्रमात्वं ?- इति चेदुच्यते। अवाधितस्य वृत्तिविषयत्वोपहितं रूपं यस्य ज्ञानस्य विषयः तर्वं प्रमात्वम् । घटादिकं वृत्तिविषयत्वानुपहितमपि पृतिविषय :; तथापि 'सर्वस्य ज्ञानस्य स्वविषयत्वोपहितमपि विषयः घटाय्याकारवृत्तिश्र मिथ्ये' ति भ्रमकाले
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। तस्या: परिणाम्युपादानविधया कारणतासत्वेऽपि सा नेह घटिका, किंतु दोषविधया; तस्य नेहनानेत्यादिवाक्यजन्यज्ञान- बाधितघटादिविषयकत्वेन भ्रमत्वात्, भ्रमे च ज्ञानसामान्योपादानकारणताद्यतिरिक्कदोषत्वव्याप्य रूपावच्छिन्नकारणतानि- रुपकत्वस्यावश्यकत्वात्, शुफ्किरजतादिभ्रमेऽप्यविद्याया दोषविधया कारणत्वसंभवात् घटादिभ्रमेऽप्यविद्याया एव दोषवि- धया कारणत्वं खवीकार्यम्, नतु महावाक्यजज्ञाने; तस्याबाघितब्रह्मात्मविषयकत्वेन प्रमात्वात्। तत्र च दोषस्याकरणत्वा- दिति भावः । तस्यापि भ्रमत्वं शङ्कते-नन्विति । तस्य तत्त्वमस्यादिवाक्यजन्यस्य। स्वं ज्ञानं उक्तव्रह्मणः उक्तवृत्ति- विषयत्नोपहितब्रह्मण:, कर्णशष्कुल्याद्युपहिताकाशस्येव परिच्छिन्नत्वेन स्बाधितवृत्युपाधिकत्वाच्च, मिथ्यात्वात् बाधित- त्वात् तस्य बाधितविषयकोक्कज्ञानस्याबाधितविषयकत्वरूपं प्रमात्वं नेत्यर्थः । अबाधितविषयः साश्रयतादात्म्यसंबन्धेन विषयतावान् यस्य, तत्वं प्रभात्वं। तञ्व तत्त्वज्ञानस्येत्याशयेन समाधातुमुपक्मते-उच्यत इति।-अबाधितस्येति। तादात्म्येन संबन्धित्वं षघ्चर्थो वृत्युपहिते रूपेऽन्वेति; शुद्धेऽप्युपहिततादात्म्याङ्गीकारस्यानुपदं वक्ष्यमाणत्वात्। अन्यथा वृत्त्युपहितमध्यस्तं प्रति शुद्धस्याधिष्ठानत्वानुपपत्तेः, अन्यस्य तदसंभवात्। वृत्तिविषयत्वोपहितं रूपं यस्य ज्ञानस्य विषय इति। अनवच्छिन्नाकाशात् कर्णशष्कुल्यवच्छिन्नाकाशमिव, वृत्त्यविषयादनुपहितादबाधितात् शुद्धात् ब्रह्मणो वृत्तिविषयत्वोपहितं ब्रह्माभिन्नमतस्तत्संबन्धिवेदान्तजवृत्तिविषयश्च भवति। यद्वा-तादात्म्यस्य खमेदा- भेदोभयरूपलात् अनुपहितादुपहितमभिन्नं; तथापि वृत्तिविषयत्वावच्छेदेन वृत्तिविषयः, 'शुद्धस्य ब्रह्मणो वृत्त्यविषयत- मित्यस्य निरवच्छिंत्न वृत्तिविषयत्वं नास्तीत्यर्थः । तद्दृत्तिविषयत्वं तद्ृप्तेरविषयोऽपि तत्तवृत्तिविषयतावच्छेदकं भवति;
कर्णशष्कुल्यादे: श्रोत्रत्वाद्यवच्छेदकत्वे स्ाश्रयतावच्छेदकत्वे वात्माश्रय इति-वाच्यम्; अगत्या तस्यादोषत्वाज्गीकारात्। यद्वा-विषयतासंबन्घेन तददृत्तिः तद्ृत्तिविषयतायामवच्छेदिका। अत एव 'वहौ घृतं जुहोति' इत्यत्र अभिसंयोगानु- कूलक्रियानुकूलव्यापारस्य जुहोत्यर्थत्वेऽपि आधेयतासंबन्धेन वह्निविशिष्टे संयोगे वह्निवृत्तित्वान्वयं स्वीकृत्योद्देश्यविधे- यभेदो व्युत्पत्तिवादे दर्शितः। अथ-अज्ञानस्य शुद्धं खोपहितं वा ब्रह्म विषयो भवतु, उभयथापि तत्वज्ञानस्य खोपहि- तविषयकस्य तत्समानविषयकत्वाभावेन तन्निवर्तकत्वानुपपत्तिः, तदज्ञानासमानविषयकस्य ज्ञानस्य तन्निवर्तकत्वे घटादिज्ञानस्य घटादवच्छिन्नचेतन्यविषयकस्य मूलाजाननिवर्तकतापत्तिः-इतिचेन्न; खान्यानुपहितविषयकत्वेन खान्योपाध्यनवच्छिन्नविषयकत्वेन वा मूलाज्ञानतत्त्वज्ञानयोरपि समानविषयत्वस्य सुवचत्वात्। स्वं अज्ञानं ज्ञानं च, यथायथं बोध्यम् । यन्तु-वृत्तिः खविषयविशेषितवृत्तिविषयतायामिव स्वविषय विषयतामप्यवच्छेदिका-इति । तन्; वृत्तेः खविषयविशेषितायाः खविषयत्वेऽपि स्विषयांशेविषयत्वेन स्वविषयनिष्ठस्वविषयतायामवच्छेदकत्वासं- भवात्। ननु-घटादावबाध्यत्वरूपसत्यत्वप्रहृदशायां घटाद्याकारवृत्तावबाधितविषयकत्वरूपं यथाश्रुतं प्रमात्वं गृह्यते व्यवहियते च, नच-घटादौ ब्रह्मवदबाधितत्वप्रहे वृत्तिविषयता न स्यादिति-वाच्यम; चिद्रूपत्वेन ब्रह्मण एव वृत्तिविषयतानुपगमात्। नच-घटादौ चिद्रूपत्वग्रहृदशायामुक्ताशङ्का दुर्वारेति-वाच्यम्; वस्तुतः चिद्रूपत्वस्य वृत्तिविषयत्विरोधित्वेऽपि तब्रहस्य तद्विरोघितवानुपगभात्। तब्रहविरहृदशायां घटादौ वृत्तिविषयताभ्रहसंभवाच्चोक्वृत्तावुक्क्त प्रमातभ्रहसंभवात्। एवंचाबाध्यत्वेन गृह्यमाणे घटादौ वृत्तिविषयत्वानुपहिते एव वृत्तिविषयत्वसंभवे वृत्तिविषयत्वोपहिते वृत्तिविषयत्वस्वीकारे प्रयोजकाभावेनाबाधितीयवृत्तिविषयत्वोपहितरूपविषय कत्वरूपनिरुक्तप्रमात्वस्य घटादौ दुर्गहत्वेन सव्यवहारो न स्यात्-इति शक्कते-घटादिकमिति। यद्पीत्यादिः । अनुपहितमपीत्यपिरेवार्थे। उपहितसमुच्चयार्थत्वे शङ्कानुत्थितेः । सवविषयकवृत्तिकालीने घटादौ वृत्तिविषयता स्वोपहिते एवाङ्गीकार्या, अयं घट इत्यादिवृत्तेः स्वोपहितं विषय इत्युक्क्तौ विद्यमानघटस्य वृत्तिविषयत्प्रतीतेः खसमानकालीनस्य सममिव्याहृतपदार्थान्वयोपाघिलात्, तदनुपहितेऽसं- भवत एव तदुपहितवृत्तिखंमिति नियमश्चाप्रयोजक इत्याशयेन समाधते-तथापीति। सर्वस्य ज्ञानस्येति। सविषयसमा- नकालीनस्येति शेषः। अपिपदेन सविषयासमानकालीनज्ञानस्यानुपहितविषयकत्वं समुच्चीयते। अबाधितस्य वृत्तिविष- यत्वोपहितं रूपमित्यादिप्रमालवनिरुक्त्ती वृत्तिपदेन तद्वद्दिर्भूतार्थकेन तदुपादानासंभवः; एवंच घटाद्याकारवृत्तावपि घटा- दिवत्सत्यतभ्रहे प्रमातवप्रहासंभव इत्याशङ्क्य आह-घटाद्याकारवृत्तिश्र्ेति। मिथ्येति। बाघितेत्यर्थः । तभाचैत-
Page 87
१९७
त्वम्। तेन स्वप्रादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्धति। प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्य-
सिद्धिव्याख्या। णत्वं कीदृशमित्याशङ्क्याह-प्रमाणत्वंचेति। ततश्र फलितमाह-तेनेति। दोषासहकृतज्ञानकरण- सिद्धभिन्नत्वेनेत्यर्थः । प्रमाणसिद्धभिन्नत्वेनेति। उक्तकरणसिद्धभिन्नत्वेनेत्यर्थः । ननु एताद्ृशप्रमा- णसिद्धभिन्नत्वस्य भवन्मते घटादावभावाद्व्याप्तिः इत्याशङ्काह-प्रमाणसिद्धत्वंचेति। ततश्र घटादेर्बाध्यत्वे तत्रावाध्यत्वाभावाव्यापकनिवृत्त्या तव्याप्यप्रमाणसिद्धत्वस्यापि निवृत्त्या प्रमाणसिद्धभि- गौडब्रह्मानन्दी (लघुचन्द्रिका)। घटादे: सत्यत्वं जानतां क्वचित्त घटाद्याकारवृत्ते: प्रमात्वव्यवहारो जायत एव। तथाचोक्ताविद्यादोषनिष्ठोक्तकारणतानि- रूपकान्यधीविषयो यस्तदन्यत्वं मिथ्यात्वम्। ज्ञानकारणादिनिवेशे प्रयोजनाभावात्। इदं तु बोध्यम्-एतस् लक्ष- णरवे वृस्युपहितब्रह्मभिननं ग्रझ्मालीकभिअं लक्ष्यम्; अन्यथा वृत्युपहितब्रह्मण्यव्याह्यापततेः। एवमनुमाने एतस्य साध्यत्वे तादृशब्रझ्मालीकाविषयकवृत्तिविषयत्वादिरूपभेव दृश्यत्वं हेतु :; अन्यथा व्यभिचारापसे: । ननु घटायाकारवृत्ताव- विद्याया दोषविधया निमित्तकारणतवे मानाभावः, तत्राह-तेनेत्यादि । स्वप्रादिवदिति। घटादेरिति शेषः।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। त्प्रतिबन्धकवशात् न तत्र सत्यत्वग्रह इति भावः। भ्रमपदं परमतेन; खमते ज्ञानमात्रार्थकम्। यदि घटादिव्ृत्तिश्च मिथ्येति भ्रमशून्यकाले इति पाठः घटादिसत्यतज्ञानोपयोगितया कल्प्यते, मिथ्येत्यस्य भ्रम इत्यर्थ इत्युच्यते, तदापि भ्रमपदस्योफ्कैव- गतिः । क्वचिन्ु प्रमात्वव्यवहारो जायत इति। एतेनाबाधितस्येत्यादिप्रमातनिरुक्ता प्रयोजनान्तरमपि सूचितमिति बोध्यम्। दोषपदेनाविद्यामात्रविवक्षणे दोषविधया कारणत्वालाभः, तन्मात्रविवक्षणे तदाश्रयालाभ इत्युभयं विवक्षित्ा नि- ष्कृष्टार्थमाह-तथाचेति। अविद्यारूपदोषनिष्ठोक्तेति। अविद्यानिष्ठदोषत्वव्याप्यरूपावच्छिन्नेत्यर्थः। दोषत्वं च भ्रमा- साधारणकारणत्वम्। प्रयोजनाभावादिति। निरुक्त्तकारणताकान्यज्ञानकरणजन्यसिद्धौ उक्तज्ञानाभेदस्याविवक्षणे घटादि- सिद्धेः प्रतियोगिकोटो पातात्तद्विषयान्यत्वाप्रसिद्धिः, विवक्षणे तु गौरवं, शिरोवेष्टनेन नासास्पर्शतुल्यत्वाद्वैयर्थ्य चेति भावः । नन्वेवं-तत्त्वज्ञानस्य स्वोपहितब्रह्मविषयकस्य निरुक्तप्रमात्वे तदुपहितव्रह्मणः घटाद्युपहितब्रह्मण इव मिथ्याभूतस्याविद्यानिष्ठ- दोषत्वावच्छिन्नजनकताकान्यधीविषयस्य तदन्यत्वरूपमिथ्यात्वाभावात् वृत्त्युपहिते ब्रह्मणि प्रकृतमिथ्यात्वलक्षणस्याव्यापिः, अनुमाने च व्यभिचार इति दोषद्वयं परिहर्तुमाह-इदंतु बोध्यमिति। वृत्त्युपहितब्रह्ममिन्नं लक्ष्यमिति । तथाच वृत्त्युपहितव्रह्मणोऽलक्ष्यत्वान्नाव्याप्तिरिति भावः । वृत्युपहितब्रह्मभिन्नयोः शुद्धब्रह्मालीकयोर्लक्ष्यत्वे मूले तद्वारकवि- शेषणोपादानविरोध इत्यतः उक्तं-ब्रह्मालीकभिन्नमिति। शुद्धब्रह्मभिन्नं अलीकभिन्नं चेत्यर्थः । तल्लाभायेव तदुकिः। अन्यथाहि वृत्त्युपहितब्रह्म न लक्ष्यमित्येव वदेत् । अन्यथा वृत्त्युपहितब्रह्मभिन्नत्वं लक्ष्यतावच्छेदकेऽनिवेश्य तस्य लक्ष्य- त्वोपगमे। अनुमाने व्यभिचारमुद्धर्तु हेतुं परिष्करोति-तादृशेति। वृत्त्युपहितेत्यर्थः । एतन्मते दृश्यत्वं वृत्तिविषयत्व- मात्रम्। तदभावादेव शुद्धब्रह्मणि व्यभिचारवारणे वृत्तिप्रतिबिम्बितचिद्विषयतापर्यन्तनिवेशे प्रयोजनाभावात्। एवंच वृत्त्युपहितस्य घृत्तिविषयतामात्रेणाज्ञाननिवृत्त्या खप्रकाशब्रह्मसाक्षात्कारसंभवे जडघटादेरिव वृत्तिप्रतिबिम्बितचिद्विषयत्वे प्रयोजनाभावाहृत्त्युपहिते व्यभिचारप्रसक्तिरतः तदविषयकत्वनिवेशसङ्गतिः। विकल्पाख्यवृत्तिसाधारणरूपेण वृत्तेर्निवेशे- डलीकेऽपि व्यभिचार प्रसक्त्यालीकाविषयकत्वस्यापि निवेशसङ्तिः। यदि विषयकान्तेन चित्प्रतिबिंबवैशिष्ट्यमेव विवक्ष्यते; तदापि व्यभिचारवारणं संभवतीति बोध्यम्। अन्यथा केवलवृत्तिविषयकत्वस्य दृश्यत्वस्य हेतुरूपत्वे। मूले-तेनेत्यस्या- बाध्यविषयकत्वं प्रमात्वं विहाय दोषाजन्यत्वरूपप्रमात्वं निवेश्य तद्धटितप्रमाकरणत्वनिवेशेनेत्यर्थः प्रतीयते, स च न सङ्गच्छते; 'सन् घट इत्यादिप्रत्यक्षादिज्ञानानां शुक्तिरजतज्ञानादीनामिवाविद्यान्यदोषजन्यत्वाभावात्। नचाविद्यैव दोषः; परि- णाम्युपादानविधयान्तःकरणद्वारा तज्जन्यत्वस्य वेदान्तजन्यतत्त्वज्ञानेऽपि सत्वादित्यतः, तेनेत्यस्य दोषविधया अविद्यारूप- दोषाजन्यस्रूपप्रमात्वाश्रयकारणतनिवेशेनेत्यर्थों वाच्यः। स चाविद्याया दोषविधया तत्त्वज्ञानान्यघटादिज्ञानं प्रति निमि- तकारणत्बे एव सङ्गच्छते इत्यतस्तत्र प्रमाणपरतया खप्नादित्यादिग्रन्थं व्याख्यातुं तत्र प्रमाणाभावशङ्गयैव तदवतारयति- ननु घटाद्याकार वृत्ताविति। मूले स्वप्रादिवदिति।स्वम्ं सवाप्निकम्। आदिना जागरिकम्। वत्यर्थस्य मिभ्यात्वेन्वये मिथ्याल्स्य प्रातिभासिकत्वं प्रतीयेत, मिथ्यात्वसिद्धिपक्षालाभक्चेत्यतो वत्यर्थान्वयिनं पूरयति-घटादेरितिशष इति।
Page 88
१९८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
गौडब्रहमानन्दी (लघुचन्द्रिका)। प्रमाणसिद्धेति । दोपनिष्ठकारणतानिरूपकान्यधीविषयेत्यथः । तथाच स्वाम्नघटादेरिव व्यावहारिकप्रप्स्य 'विद्वा- ब्ामरूपाद्विमुक्त' इत्यादिश्चुत्या ब्रह्मज्ञानबाध्यत्वबोधनेन तदाकारवृस्तेर्अ्रमत्वात् तत्राविद्याया: कामकर्मणोश्र दोष- विधया निमित्तकारणत्वमावश्यकम्; विक्षेपशक्त्यंशेन विपरीतकार्यहेतुत्वेन आवरणशक्स्ंशेन वास्तवरूपे 'अस्ति- भाती'ति धीप्रतिबन्धकत्वेन चाविद्यायाः पित्तादिदोपवसनिमित्तकारणत्वौचित्यात्। 'यद्विशेषयो' रिति न्यायेन पिच्चादिदोषरूपेण परिणताविद्याया: पित्तत्वादिविशेषरूपेणेवाविद्यात्वरूपसामान्यरूपेण भ्रमत्वावच्छिमं प्रति हेतु- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। घटादेरविद्यान्यदोषाजन्यज्ञानप्रमाविषयत्वात् कथं प्रमाणसिद्धभिन्नत्वमतो व्याचष्टे-प्रमाणसिद्धेति। दोषनिष्ठोक्तेति। अविद्यानिष्टदोषतव्याप्यरूपावच्छिन्नेत्यर्थः। ननु-खप्रजागरप्रातिभासिकस्य जागराघिष्ठानतत्वसाक्षात्कारेण बाधास्तत्त- द्विषयकज्ञानस्य भ्रमतात्तत्र दोषस्य निद्राचाकचक्यरूपस्य कारणतमस्ति, व्यावहारिकविषयादिप्रपश्चस्य बाधाभावात्त्भानस्य भ्रमले मानाभावात् तत्राविद्यायाः परिणाम्युपादानविधया कारणीभूताया अपि दोषविधया निमित्तकारणले मानाभाव इत्यत आह-तथाचेति। खाप्रघटादेरित्यस्य यथाश्रुतस्य ब्रह्माज्ञानबाध्यत्वबोधने नान्वयः; ब्रह्मज्ञानात्पूर्वमेव तस्य बाधात्, किंतु खप्नमात्रे प्रतीयमानस्य जागरे बाध्यलेनानुभूतस्य घटादेरित्यर्थः । आदिना स्वप्रपटादिः जागरिकप्रातिभा- सिकशुक्तिरजतादिश्च आ्रत्यः। तथाच खाप्घटादेयथा जागरिकाघिष्ठानसाक्षात्कारेण बाध्यत्वं अनुभवसिद्धं, यथाच तदा- कारवृत्तेर्त्रमत्वं, तत्र दोषस्य निद्राचाकचक्यादेर्निमित्तकारणत्वं तथेत्यर्थः । अस्य बाध्यत्वबोधनादिषु यथायथमन्वयः । तदाकारवृत्तेरिति। बाधितविषयकलेनेति शेषः । तत्र व्यावहारिकप्रपश्चत्रमे। अविद्यायाः कामकर्मणोश्चेति पाठः । कर्मणोर्वेत्यपपाठः। "ज्ञानेन्द्रियाणि पश्चैव पञ्च कर्मेन्द्रियाणि च। मनो बुद्धिरहंकारश्वितं चेति चतुष्टयम्॥ प्राणो डपानस्तथा व्यान उदानक्ष समानकः । ·... पञ्चता वायुवृत्तयः ॥ खवाय्वग्न्य प्क्षितयो भूतसूक्ष्माणि पश्च च। अविद्याकामकर्माणि लिङ्गं तत्त्वाष्टकं विदुः ॥' इति वार्तिकं सप्तदशावयवकं लिङ्गशरीरमु- क्लालिक्गांशघटकतयैव सप्तदशावयवलिङ्गकारणीभूतानि सूक्ष्मभूतान्युक्ता तत्कारणीभूतानामविद्याकामकमाणीति तुल्य- तया द्वन्द्वेनोपादानात् । अत्रहि अनादिजीवानां कामो रागः, कर्म अदृटष्टं, ईश्ररेच्छाप्रयत्न वा। तयोः सूक्ष्मभूतद्वारा व्याव- हारिकप्रपश्चं प्रति निमित्तकारणलात् तत्साहचर्यादविद्याया अपि निमित्तकारणत्वमपि, एवं सति रजतादिश्रमेषु सादृश्यदूर- तादिदोषाणां कारणतदर्शनात् व्यावहारिकप्रपश्चभ्रमेऽपि दोषाणां कारणत्मावश्यकमिति अविद्याकामकर्मणां कृप्तनिमित्त- कारणताकानामेव दोषतव्याप्यधर्मावच्छिन्नकारणतमास्थेयं; तत्र तदन्यदोषाणामसंभवात्। रजतादिभ्रमेषु तु अविद्याया दोषविधया कारणतसत्वेऽपि शुक्त्यविद्ययेव रजतस्यैव भ्रमो, न घटाद्यविद्यया नापि कनकस्येति नियमार्थ सादृश्यादि- दोषाणामपि कारणत्वं स्वीकार्यम्। एवं व्यावहारिकघटादिश्रमेष्वप्युक्तकामकर्मणीं दण्डचक्र्रादीनि घटादिकारणानि च वैचित्र्यप्रयोजकानीति भावः। ननु-व्यावहारिकप्रपश्चे कामकर्मणी निमित्तकारणं, अविद्या तु परिणाम्युपादानविधयैव साहचर्यस्य सर्वत्रानियामकलात्, एवंच उक्तत्रयस्यापि दोषविधया न कारणत्वं, एतज्ातीयानां दोषलादर्शनेनैतेषां दोष- लानुपगमात् इत्यतोऽनुमानेनाविद्याया दोषतव्याप्यधर्मावच्छिन्नत्वयोग्यनिमित्तकारणतं साधयति-विक्षेपशक्त्यंशे इति। अविद्या व्यावहारिकान्तःकरणादिप्रपश्चभ्रमे निमित्तकारणं, अधिष्टानांशे तदसाधारणधर्मविरुद्धधर्मधीरूपकार्यजनक- तावच्छेदकावरणशक्तिमत्वेसति तदसाधारणधर्मधीप्रतिबन्धशक्तित्वात्, पित्तदोषो यथा मधुरत्वविरुद्धतिकरसधीप्रयोजको मधुरत्वधीप्रतिबन्धप्रयोजकशक्तिमान् तिक्कत्वभ्रमे निमित्तकारणम्। नहि स पित्तदोषपरिणामः; निमित्तकारणत्वं न समया- य्यसमवायिकारणान्यकारणत्वं, अविद्याया घटादिवृत्ती अन्तःकरणद्वारोपादानत्वात्; किंतु समवाय्यसमवायिकारण- साधारणं कारणत्वमात्रम्। एककेशादिज्ञानप्रतिबन्धकदूरत्वदोषसहकृताविद्यायां व्यभिचारवारणाय सत्यन्तं; वंश 'उरग' इति धीजनकमण्डूकवसाञनसहकृताविद्यायां तद्वारणाय विशेष्यं; तत्रोक्तदोषयोरेव उक्तकार्यप्रतिबन्धकत्वोक्तकार्य- जनकत्वयोः स्वीकारे तु उक्त्तहेतुद्वयं बोध्यम्। 'अस्ति' 'भाति' इति प्रकृताभिप्रायं सत् चित् सुखमित्यर्थः। विपरीतकार्य तद्विलक्षणं मिथ्याजडसवरूपाकाशादिप्रपश्चतङ्भ्रमरूपं कार्य। एतदनुमानसिद्धे निमित्तकारणत्वे दोषत्वव्याप्याविद्यात्वरूपधर्मा- वच्छिन्नत्वसाधिकां व्याप्तिमाह-यद्विशेषयोरिति। अनेन कारणत्वपर्यन्तसिद्धावपि उपादानविधया कारणत्ववैलक्ष- ण्यसिद्धये पूर्वानुमानापेक्षा। यदि च पित्तत्वरूपविशेषधर्मावच्छिन्नकारणताया निमित्तकारणतारूपत्वादविद्यात्वरुपसा मान्यधर्मावच्छिन्नकारणतापि निमित्तकारणतैव सेत्स्यतीत्युच्यते, तदापि सोपानारोहणवत् क्रमेणार्थसिध्यर्थ पूर्वानुमाना- पेक्षा। प्रथममावश्यकमित्यन्तेन कारणत्वसिद्धिः । तत औचित्यादित्यन्तेन निमित्तकारणतासिद्धिः। ततो यद्विशेषयो- रित्यनेन तत्र दोषत्वव्याप्यधर्मावच्छिन्नत्वसिद्धिरिति भावः। पित्तादिदोषरूपणेति। गुडे तिक्रसत्रमं प्रति इत्यादि: ।
Page 89
१९९
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
हारिकभ्रमेष्विन्द्रियसननिकर्षादीनां दोषविधया हेतुरवात्। किंच वाचस्पतिमते अविद्यायाः कार्यमात्रे नोपादानत्वं, किंतु प्रमातृनिष्ठदोषविधया निमिक्षकारणत्वमित्यस्य कल्पतर्वादौ निर्णीतत्वात्तन्मते मिथ्यात्वमीदशं संभवत्येव। सन्मत एवेदं लक्षणमिति ब्रह्मणि च नातिव्याप्तिरिति मूले स्पष्टम्। विवरणादिमते शुद्धग्रह्मण एव दोपाजन्यवृ- सिविषयत्वेन तत्रानतिव्याहैः। किंचाविद्याया उपादानत्वमेव, नतु दोषविधया निमित्तत्वमित्याअ्रहेऽपि घटादिज्ञा- नेव्विन्द्रियसंनिकर्षादीनामेव दोषविधया कारणत्वात्तेषां दोषजन्यत्वात् प्रकृते नानुपपत्तिः। नच-भ्रमत्वघटित- धर्मावच्छिमनं प्रति निमित्तकारणत्वमेव दोषविधया कारणत्वम्, इन्द्रियसंनिकर्षादौ नतदिति-वाच्यम्; एकभ्रमे हि यस्य दोषस्य कारणता तस्य तव्यक्तित्वावच्छिनं प्रत्येव सा, नतु तञ्द्रमत्वावच्छिनं प्रति गौरवात्। नचैवं- दोषजन्यतवेन; भ्रमत्वस्यानुमानं न स्यादिति-वाच्यम्; भ्रमजनकत्वरूपदोषरवेन यननिश्चितं तज्जन्यत्वमेव हि भ्रम- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। भ्रमत्वावच्छिन्नंप्रतीति। भ्रमत्वघटितधर्मावच्छिन्ननिरूपितनिमित्तकारणत्वस्यैव दोषविधया कारणतारूपत्वस्यानुपदं वक्ष्यमाणत्वात्। नन्वेवं भ्रमसामान्यस्याविद्यारूपदोषजन्यत्वोपपत्तौ गुडादितिक्करसादित्रमेषु पित्तादिदोषविशेषाणां हेतुत्वासंभव इत्यत आह-अविद्येति। ननु-अविद्याया आकाशादाविव तद्भ्रमेऽपि जन्यत्वं जन्यतावच्छेदकीकृत्य परिणाम्युपादानविधया हेतुत्वेनैव यद्विशेषयोरिति व्याप्तेरप्युपपत्तौ त्रमत्वावच्छिन्नं प्रति अविद्याया दोषविधया हेतुत्वे मानाभावः, पित्तादिदोषस्यापि तिक्तरसतद्ध्रमोभयसाधारणधर्मावच्छिन्नं प्रति हेतुत्वसंभवेन भ्रमत्वघटितधर्मावच्छिन्नहेतुत्व- रूपदोषविधया हेतुत्वानुपगमसंभवात् इत्यत आह-किंच वाचस्पतिमते इति। नोपादनत्वमिति। "मायां तु प्रकृति विद्यात्" इति श्रुतौ ब्रह्मनिष्ठविवर्तोपादानत्वनिर्वाहकपरतया प्रकृतिपदसङ्गतिसङ्गावः। ईदशं अविद्यानिष्ठ्रमत्व- घटितधर्मावच्छिन्ननिरूपितकारणताकान्यज्ञानविषयान्यत्वरूपं। मतान्तरे कथमत आह-तन्मते एवेति। मतान्तरे तन्मूलसङ्तिमाह-विवरणादिमत इति। नन्वेवं-"मायां तु प्रकृ्ति विद्या"दितिश्रुती प्रकृतिपदस्वारस्यभङ्ग इत्यत आह-किंचाविद्याया इति। ननु इति। तथाच घटादिज्ञानानामविद्यानिष्ठत्रमत्वावच्छिन्नीयकारण- ताकान्यत्वात् तद्विषयान्यत्वरूपमिथ्यात्वस्य घटादावव्याप्तिर्बाधक्वेति भावः। घटादिज्ञानेष्विति। तिक्तरसादिश्रमेषु पित्तादिदोषाणामिवान्वयव्यतिरेकाभ्यामित्यादिः। दोषविधयेति । घटादिज्ञानानां "विद्वान् नामरूपाद्विमुक्त्तः" "नेह नानास्ति किंचन" इत्यादिश्रुतिबाधितघटादिविषयकत्वेन भ्रमत्वात् तत्र च दोषकारणताया आवश्यकत्वात् इन्द्रियसन्निकर्षादीनामेव घटादिभ्रमत्वावच्छिन्नजनकत्वं स्वीकार्यमिति भावः। तेषां घटादिज्ञानानाम्। दोषजन्य- ह्वात् इन्द्रियसन्निकर्षादिनिष्ठभ्रमत्वघटितधर्मावच्छिन्नीयकारणताकत्वात्। प्रकृते प्रकृतमिथ्यात्वनिर्वचने। नानु- पपत्तिरिति। न घटादावव्याप्तिर्बाधश्षेत्यर्थः । नतदिति । प्रत्यक्षत्वचाक्षुषत्वानुमितित्वादीनामेवेन्द्रियसन्निकर्षा- दिजन्यतावच्छेदकतया भ्रमत्वस्य नज्जन्यतानवच्छेदकत्वादिति भावः। एकजातीयपित्तादिदोषाणां कालपुरुषमेदेना- नेकतिकादिरसभ्रमजनकत्वात् तत्र तत्तद्यक्तित्वादीनां जन्यतावच्छेदकतवे कारणताबाहुल्यापत्त्या गौरवात् तत्र तद्भ्रमत्वस्य जन्यतावच्छेदकत्वसंभवात्-एकभ्रमे इत्युक्तम्। एकभ्रमव्यक्तौ इत्यर्थः । यस्य यद्यक्तिविशेषरूपस्य। तस्य दोषस्य। सा कारणता। नन्विति । तथाच भ्रमत्वघटितधर्मावच्छिन्नीयकारणत्वस्य दोषविधया कारणत्वरूपत्वासंभवात् भ्रममात्रवृत्तिधर्मावच्छिन्नीयजनकत्वस्य दोषविधया जनकत्वरूपताया वक्त्तव्यत्वात् घटादिप्रत्यक्षत्वादीनां भ्रममात्र- वृत्तितया तदवच्छिन्नीयजनकत्वरूपस्य दोषविधया जनकत्वस्येन्द्रियसन्निकर्षादौ संभव इति भावः। एवं भ्रमत्वस्य यत्किंचिद्दोषजन्यतानवच्छेदकत्वे। नस्यादिति। दोषजन्यत्वमस्तु, भ्रमत्वं मास्तु इत्यप्रयोजकत्वशक्कासंभवात्। इयं हि भ्रमत्वे दोषजन्यत्वन्यूनवृत्तित्वशक्का तदन्यूनानतिरिक्तवृत्तित्वनियततदवच्छेदकत्वाभावापत्तिरूपतर्केण निवर्त्या,
(१) यदपि वाचस्पतिमिश्रमतेSजानाश्रयविषय भेदाभ्युपगमादज्ञानाश्रयजीवस्यैव जगत्कारणत्वं युक्तं; "पुरत्रये क्रीडति यश्च जीवः ततस्तु जातं सकलं विचित्रं" "मायां तु प्रकृति विद्यात्" "सष्टा तदनुप्रविश्य" "मूढ इव व्यवहरन्नास्ते माययैवे"त्यादिश्रुतीनामप्येवं सत्येव स्वारस्याद, "यतो वा इमानि भूतानि जायन्ते" इति श्रुतिस्तु जीवज्रह्माभेदाभिप्रायेणेत्यादिन्यायरलावलीवचनपर्यालोचनायां वाच स्पतिमतेऽपि मायाया उपादानत्वमेवेत्येव प्रतीयते; तथापि जीवनिष्ठाज्ञानविषयब्रह्मोपादानकं जगत् न जीवोपादानकं, जगद्वाचित्वा- धिकरणीयसिद्धान्तविरोधात्। एवमविद्यापि नोपादानं; त्रह्मनिष्ठजगतो व्यधिकरणत्वात्। नहि शरावादिनिष्ठदुग्धादेर्घटादिनिष्ठदध्यादि रूप: परिणामः संभवतीति कल्पतर्वादौ वाचस्पत्याशयस्य वर्णितत्वात् तदभिप्रायेणोक्तमिति मन्तव्यम्।
Page 90
२00 अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १ ]
गौडब्रहमानन्दी (लघुचन्द्रिका)।
स्वस्थानुमापकम्, नतु वस्तुगत्या यो भ्रमजनकसतज्जन्यत्वम्। नच-इन्द्रियसश्निकर्षादिजन्यत्वानामनन्तानां प्रातिस्विक- रूपेण निवेशे दुर्शेयता स्यादिति-वाच्यम्; भ्रमाजनकजन्यधीविषयान्यत्वं मिथ्यात्वमिति सुश्ेयताप्रकारस्य सत्वाद्। अ्रमत्वस्यापि जातिविशेषरूपत्वेन भ्रमविषयघटितत्वनिबन्धनदुर्विज्ञेयत्वस्याभावाथ। ननु दोषासहकृतेत्यादिरूपं प्रमाणसिद्धत्वं कुतो निषेशितम्, अबाध्यविषयकधीविषयत्वरूपस्यापि तस्य संभवात्, तत्राह-प्रमाणसिद्ध- त्वमिति। उत्तप्रमाणसिद्धत्वमित्यर्थः। अबाध्यत्वव्याप्यं अबाध्यस्य शुद्धब्रह्मणो यद्ृत्युपहितरूपं तत्वस्य व्याप्यम्, इति हेतोः, अन्यत् बाध्यत्वघटितादन्यत्। तथाच बाध्यत्वघटितस्य निवेशे बाध्यत्वेतरांशस्यानतिप्र- योजनकतया बाध्यत्वाघटितस्यैव निवेशो युक्त इति भावः। असतीति। अलीकं न वृत्तेर्विषय :; वृत्ते:सर्वेन
लघुचन्द्रिकाया विट्टलेशोपाध्यायी।
सा चापत्तिरिष्टापत्तिशक्कया नोत्पाद्यत इति भावः । भ्रमजनकत्वरूपदोषत्वेनेति। इदमेवानुगतं दोषत्वमिति भावः । तज्जन्यत्वमेवेति । यत्र भ्रमजनकत्वनिश्चयस्तज्जन्यत्ववति भ्रमत्वानङ्गीकारे तत्र त्रमजनकत्वभन्गापत्तिरूपतर्केणा- प्रयोजकत्वशङ्कोच्छेदसंभवात् इति भावः। नत्विति । उक्ताप्रयोजकत्वशङ्कानिवर्तकतर्काभावादिति भावः। प्राति- स्विकरूपेणेति। भ्रमत्वघटितधर्मावच्छिन्नजनकतानिरूपित जन्यतात्वरूपस्यानुगमकरूपस्याभावादिति भावः। निवेशे मिथ्यात्वे निवेशे। दुर्शेयतास्यादिति। नच-भ्रमजनकत्वरूपानुगतदोषत्वेन दोषान् अनुगमय्य भ्रमजनकजन्यतासा- मान्याभावनिवेशेस्ति सुज्ञेयतेति-वाच्यम्; अन्तःकरणादेः भ्रमसाधारणकारणतया तज्जन्यतत्वज्ञानस्यापि संग्रहापातादिति भावः । भ्रमाजनकजन्येति । त्रमजनकान्यजन्येत्यर्थः । ननु-त्रमत्वं यदि वाधितविषयकत्वं, तर्हि तत्त्वज्ञानस्यापि स्वोपहितब्रह्मरूपबाधितविषयकत्वेन भ्रमत्वात् तत्संग्रहानुपपत्तिरतस्तदभाववति तत्प्रकारकत्वमेव भ्रमत्वं वाच्यं; तन्च निर्विकल्पकतत्त्वज्ञानव्यावृत्तं तदितरसकलज्ञानसाधारणं; तञ्च घटादिरूपविषयघटितत्वादननुगतं; तत्संबन्धावच्छिन्नखवा- भाववत्निष्ठविशेष्यतानिरूपितत्वतत्संबन्धार्व्छिन्नख निष्टत्वोभय संबन्धेन किंचिद्विशिष्ट प्रकारताकत्वं संबन्धमेदेन खावच्छिन्न- तन्निष्टप्रतियोगिताकाभाववन्निष्ठविशेष्यतानिरूपितत्वसवावच्छिन्नत्वोभयसंबन्धेन संबन्धविशिष्टप्रकारताकत्वं च प्रकार- भेदेनाननुगतमेव, तद्धटकपरंपराणां संबन्धत्वे मानाभावात् अप्रामाणिकं च इत्यत आह-भ्रमत्वस्येति। जाति- विशेषरूपत्वेनेति। तत्त्वज्ञानान्यसकलज्ञानवृत्तिजातिरूपत्वेनेत्यर्थः । वृत्त्युपहितब्रह्मशुद्धब्रह्मालीकभेदरूपकारणनिरूपित- विषयतासंबन्धावच्छिन्नकार्यतावच्छेदकतया तादृशजातिसिद्धिरिति भावः। ननु-मूले प्रमाणसिद्धत्वं चाबाध्यत्व व्याप्यमित्यन्यदिति अ्रन्थेनोक्तसिद्धत्वस्योक्तव्याप्यत्वकथनस्यान्यदित्यनेन तस्य प्रकृतानुपयुक्ततवकथनस्य चानुपयोग इत्याशङ्कय तस्य प्रकृतोपयोगितां घटयितुं तद्रन्थमवतारयति-नन्विति। अबाध्यविषयकेति। अवाध्यस्य वृत्त्यु- पहितं यद्रूपं तद्विषयकेत्यर्थः । तेन नाप्रसिद्धिः। नैयायिकादिमतसिद्धप्रत्यक्षादिप्रमाणसिद्धत्वमबाध्यतवशून्येऽपि घटादौ विद्यमानं कथ तद्वयाप्यमतो व्याचष्टे-उक्तप्रमाणसिद्धत्वमिति। ननु-दोषाजन्यतत्वमस्यादिमहावाक्यजन्यप्रमारू पधीविषयत्वस्य वृत्युपहिते ब्रह्मणि सत्वात्, अबाध्यत्वस्य च तत्रासत्वात् कथं व्याप्यत्वं ? तत्राह-अबाध्यस्येति। अबाध्यविषय कत्वरूपप्रमात्वनिवेशाकारणबीजकथनायोक्तव्याप्यत्वकथनात्, इत्यन्यदित्यनेन तस्य प्रकृतानुपयोगित्वकथ- नासङ्गतिः, अत आह-हेतोरिति। तद्वयाप्यत्वं तद्भेदघटितमित्यभिप्रायेणेदम्। यद्वा-अबाध्यत्वं व्याप्यं अबाध्यत्व- व्याप्यं भिन्नमेव, नत्वभिन्नमिति हेतोरित्यर्थः। अन्यदित्यस्य प्रतियोग्याकाङ्कायामबाध्यत्वादिति वाच्यम्। तायता अबाध्यवि- षयकत्वरूपप्रमात्वानिवेशबीजस्यास्फुटत्वात् तत््फुटत्वायाह-चाध्यत्वेति। बाध्यत्वघटितादबाध्यत्वादन्यदित्यर्थः । तदेव स्फुटयति-तथाचेति। बाध्यत्वघटितस्येति। अबाध्यविषयकत्वरूप प्रमात्वाश्रयधीविषयान्यत्वरूपमिथ्यात्वनिर्वचने तद्धटकबाध्यत्वस्यैव मिथ्यात्वरूपत्वसंभवादितरांशस्य यथानिवेशे वैयर्थ्यम्; वैयर्थ्येऽपि अव्याप्यादिवारणरूपप्रयोजनाभावा दित्यर्थः । बाध्यत्वाघटितस्येति। भ्रमजनकान्यजन्यधीविषयान्यत्वरूपमिथ्यात्वनिर्वचनं युक्कमित्यर्थः । अत्र बाध्यत्व- स्याघटकत्वात् न वैयर्थ्याशक्का, भ्रमत्वस्य जातिविशेषरूपस्य वृत्त्युपहितरूपव्यावृत्तस्य निवेश्यतया बाध्यविषयकत्वरूपभ्रम- त्वानिवेशात् इति बोध्यम्। ननु-अबाध्यस्य वृत्त्युपहितरूपविषयकधीविषयान्यत्वरूपमिथ्यात्वस्य वृत्त्युपहिते ब्रह्मणि अभावात् एतल्लक्षणालक्ष्ये तत्र बाध्यत्वरूपघटकांशसत्वादतिव्याप्तिरतस्तच्छक्कासार्थक्यं इति-चेन्न लक्षणान्तरलक्ष्य त्वेनालक्ष्यत्वस्योक्तलक्षणेऽगत्योपगमेऽपि उक्तातिव्याप्तः सिद्धान्तेऽसंभवादित्याहुः। विकल्पाख्यवृत्तेर्श्रमानात्मकत्वे दोषाजन्यतया तद्विषयेऽसति तदन्यधीविषयत्वरूपलक्षणातिव्याप्तिर्मूलोक्ता न सङ्च्छते, अतस्तां सक्मयति-अलीकं न
Page 91
२०१
गौजब्रहानन्दी (लघुचन्द्िका)। सवसतो: संसर्गासंभवाद्। अलीकानिषय केणापि विकल्पेन शशनिवाणादिपदोकिरूपव्यवहारोत्पत्तिसंभवाद। तसय तद्विषयत्वेपि सु न अ्रमः। प्रमाणवाध्यविषयकस्यैव भ्रमत्वात्। अतएद 'प्रमाणविपर्ययविकल्पनिद्ास्मृतय' इति वृत्िबिभाजकं पातअलसूत्रम्। तथाथ तरा: दोपाज्न्पतवेपि 'ड्रीर्चीर्भीरित्येतस्सर्व मन एुये' ति क्षुत्या मनोवृ- सेरेव धीरवोकस्या विपर्ययादिरूपाविद्यावृत्तीनां धीत्वाभावादोषाजन्यधीविषयान्यखवमलीकेऽतिष्याप्तम्, ब्रह्म तु स्वप्रकाशरवादुपहिततादात्म्यान्यभावरूपधर्मानाधारत्वाच्च न वृत्तिविषय :; अतस्तन्रापि तंदुतिध्याक्षमिति भावः। लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। वृस्तर्विषय इति। अलीकासंबद्धस्य विकल्पस्य कथं तद्यवहारनियामकत्वमत आह-अलीकाविषयकेणापीति। अतएव-"शब्दज्ञानानुपाती तु वस्तुशून्यो विकरूप"इत्युकं। वस्तुशून्यो निर्विषयक इत्यर्थः । कालिकप्रत्यासर्या आत्म- निष्टप्रत्यासत्त्या वा विकल्पासक्कवहारयोः कार्यकारणभाव इति भावः। ननु-शशविषाणखपुष्पादिविचित्रपद्व्यबहारा- नुरोधेन तन्मूलवृत्तीनां विषयकृतमेव वैचित्यं वाच्यं; वृत्त्यन्तरेषु प्रायस्तत्कृतवैजात्यस्यैव दर्शनात, 'वस्तुशून्य' इत्यस्य सदविषयक इत्यर्थसंभवात् , असमानकालीनयोरिव सदसतोरपि वृत्तितद्विषययोरवश्यं संबन्धाङ्गीकारात् इत्यत आह- तस्य तद्विषयत्वेऽपीति। स विकल्पाख्या वृत्तिः। न भ्रमइति। नच-तस्याः भ्रमत्वेऽपि दोषजन्यत्वात् तदजन्यघ- त्यन्तराविषयत्वात् असत्यतिव्याप्तिसन्गमे त्रमलाभावकथनं धीपदस्व विलक्षणवृत्तिपरत्वेन सत्सन्ञमनं च व्यर्थमिति- वाच्यम्; तस्य तद्विषयत्वे यद्यपि न भ्रम इत्यपेर्यद्यपीत्यर्थकतया भिन्नक्रमेण व्याख्येयलात्। प्रमाणबाध्यविषय- कस्यैवेति। 'शशविषाणं नास्ती'ति बाधज्ञानस्य प्रमाणनिरपेक्षत्वादिति भावः। ननु बाध्यविषयकत्वमेव भ्रमतं, बाधे प्रमाणसापेक्षतं कुतो निवेश्यम्-तत्राह अतपवेति। प्रमाणं प्रत्यक्षादिप्रमाणजन्या, विपर्ययो दोषजन्या, विकल्पो शशविषाणादिपदमूला, निद्रा खापः, स्मृतिः स्मरणं पंच वृत्तय इति सूत्रशेषः । अत्र विकल्पस्य विपर्ययात पृथक्परिगणनादेवोक्तत्रमले प्रमाणाधीनत्वस्य वाधे निवेश इति भावः। तथाच विकल्पस्य भ्रमान्यत्वेच। तस्या दोषाजन्यत्वेऽपीति। असतो दोषाजन्यविकल्पाख्यवृत्तिविषयत्वेऽपीत्यर्थः । विपर्ययादीत्यादिपदेन विकल्पनिद्रे। दोषाजन्यधीविषयान्यत्वमिति। ननु-अत्र दोषाजन्यत्वं व्यर्थ, शुक्तिरजतादिप्रातिभासिकत दाकारविकल्पाख्य-
णामत्वेन धीत्वाभावादेव धीविषयवृत्त्युपहितब्रह्मभिन्नत्वेन प्रातिभासिकव्यावहारिकेषु लक्षणसङ्गतिसंभवात्-इति चेत्, अत्रेदं वक्तव्यम्-दोषाजन्यधीविषयान्यत्वं मिथ्यात्वमित्यत्र तत्वज्ञानस्य दोषाजन्यत्वं निर्विवादम्; तस्य प्रमात्वात्, इदं रजतमिति प्रातिभासिकज्ञानस्य दोषजन्यत्वं निर्विवादम; तस्य भ्रमत्वात्, घटादिज्ञानस्य तु परमते प्रत्यक्षादिप्रमाणजन्य- त्वास अवाधितविषयकत्वाञ्च प्रमात्वाद्दोषजन्यता नास्ति, ज्ञानत्वं चास्ति, सिद्धान्तिना तु विद्वानिति" "नेहे"त्यादिश्रुत्या घटादीनां बाध्यतां तज्ज्ञानानां च भ्रमत्वं प्रसाध्य तेन दोषजन्यत्वं प्रसाध्यते। तेन चाषिद्यावृत्तित्वसिध्धा मनोवृत्ति- विशेषरूपधीत्वाभावः सिध्यति। तदैव दोषाजन्यज्ञानपदेन घटादिव्ृत्ति विहाय वेदान्तजन्यतत्त्वज्ञानमात्रस्योपादानाद्व- टादौ साध्यज्ञाननिर्वाहः । दोषाजन्यलानिवेशे तु केवलज्ञानपदेन घटादिवृत्तेरप्युपादानसंभवान् तत्र साध्यज्ञाननिर्वाहो भवतीत्येवमर्थ दोषाजन्यतोपादानं कृतम्। अतएव धीविषयत्वरूपदृश्यल्हेतोरेतत्साध्यस्य न विरोधः । अन्यथा हि धी- विषयान्यत्वधीविषयत्वयोर्विरोध: स्पष्ट एव। शुद्धे ब्रह्मणि विवरणमते दोषाजन्यतत्वज्ञानविषयत्वाततदन्यत्वरूपलक्षणाति- व्याप्यसअतेस्तां वाचस्पतिमते सङ्गमयति-ब्रह्मत्विति । शुद्धं अ्रह्मेत्यर्थः । स्वप्रकाशत्वादिति। अज्ञानविषय- ताया अपि स्वोपहिते एवाज्गीकारेण तननिवृत्तये महावाक्यजन्यवृत्तिविषयताया अपि तत्रैवावश्यकत्वेन शुद्धे प्रयोजना- भावेन, वृत्त्यपेक्षप्रकाशत्वे खप्रकाशत्वभआ्पत्या च वृत्तिविषय त्वानुपगमात्। नतु-पृत्तिरूपोपाधेरुपधेयेन ब्रह्मणा संग- न्धाभावे कथं ब्रह्म वृत्त्युपहितं स्यादिति तयोः संबन्ध आवश्यकः, स च विषयतारूप एवास्तु, एवमज्ञानस्यापीति तभिष्ृत्तिरपि प्रयोजनं। नचैवं खप्रकाशलभङ्गः; वृत्तिप्रतिबिम्बितचैतन्यानपेक्षणेन तदुपपत्तेः इत्यत आह- उपहिततादात्म्यान्येति। उपहिततादात्म्यानङ्गीकारे उपहितरूपाध्यासाधिष्ठानत्वं शुद्धस्य न स्यात्, 'वृत्युपहितं ब्रम्म' वृत्तिविषय इति ब्रह्मणि उपहितसामानधिकरण्यप्रत्ययक्ष न स्यात्, इति तदज्ीकारस्यावश्यकल्ात् तदन्येत्युकं। भावरूपधर्मानाश्रयत्वादिति। "नेह नानास्ति किंचन" इति श्रुत्या ब्रह्मणि भावमात्रं निषिध्यते, अभावस्तु तथैव बोध्यते। स च ब्रह्मस्वरूप इति नाद्वैतहानिः । अतएव निरुक्तविषयान्यत्वरूपलक्षणातिव्याप्तिसन्गतिरिति भावः। नच- उपहिते वृत्तिविषयलोपगमे उपहिततादात्म्यापन्ने शुद्धेऽपि वृत्तिविषयत्वं दुर्वारमिति-वाच्यम्; उपहितस्येव तद्धर्म- स्माप्यध्यस्तस्याज्ञीकारे बाघकाभावात्, पारमार्थिकत्वेनैव निषेधात्। अतएव सर्वज्ञत्वजगत्कारणत्वादयो धर्मास्तद- अ. सि. २६
Page 92
२०२ अद्वैतसिद्धिः सव्याख्या । [परिच्छेद: १]
मित्यन्यत्। अन्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्वेन प्रतीयमानत्वं विशेषणं देयम् तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावात्। अतएव-'सद्विविक्तत्व' मित्यत्र सत्वं सत्ताजात्यधि- करणत्वं वा, अबाध्यत्वं वा, ब्रस्मरूपत्वं वा। आद्े घंटादावाविद्यकजातेस्त्वयाभ्युपगमेनासम्भवः। द्वितीये बाध्यत्वरूपमिथ्यात्वपर्यवसानम् ; तृतीये सिद्धसाधनमिति-निरस्तम्; अनभ्युपगमादेव।
सिद्धिष्याख्या।
मत्वस्य संभवान्नाव्याप्तिरित्यर्थः । ननु प्रमाणसिद्धत्वमबाध्यत्वव्याप्यमित्ययुक्तं; प्रमाणासिद्धस्यापि ब्रह्मणोऽबाध्यत्वात्, प्रमाणसिद्धस्यापि घटादेर्बाध्यत्वाच्च, तत आह-अन्यदिति। अबाध्यत्वव्या- प्यप्रमाणसिद्धत्वमव्यभिचरितमन्यदित्यर्थः । अतएवोक्तं-दोषासहकृतेत्यादिना। ननु तर्हि निर्ध- र्मके ब्रह्मण्यसति चातिव्याप्तिः; तयोर्निर्धर्मकत्वेनाबाध्यत्वरूपधर्माभावे पूर्ववत्तव्याप्यप्रमाणसिद्धत्वस्यापि निवृत्तौ प्रमाणसिद्धभिन्नत्वस्य तयोरपि संभवात् इत्याशङ्काह-अत्रापीति । विशेषणदानेऽप्यति- व्याप्तिः कथं परिहृतेत्याशङ्कघाह-तयोरिति । असङ्रह्मणोरित्यर्थः । अभावादिति । ततश्च प्रमाणसि- द्धभिन्नत्वस्य सत्वेऽप्युक्तविशेषणाभावे तद्विशिष्टलक्षणाभावान्नातिव्याप्तिरित्यर्थः । अतएवेति। अस्य निरस्तमित्यनेन संबन्धः। असंभव इति । ब्रह्मण्यतिव्याप्रिश्चेति बोध्या। पर्यवसानमिति। तज्न
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
सत्त्वमुक्तधीविषयत्वमेव, नतु सत्ताजात्यादिमत्वमित्यत्र नियामकं दूषणान्तरमाह-अतएवेत्यादि। आविद्य- क्रेति। अविद्यारूपेत्यर्थः । 'षडस्माकमनाद्य' इत्यादिसिद्धान्तादनादिजातेरविद्यान्यत्वासम्भवात्, चिद्रूपत्वपक्षस्ये- वाविद्यारूपत्वपक्षस्यापि सिद्धान्ते स्वीकारात्। उपपादयिप्यते चेदम्। उक्ेति। गुणादिकमित्यादिग्रन्थोक्तेत्यर्थः ।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
भाववत्वं चेति द्वयं उपपद्यत इति विभावनीयम्। मूले-तयोः असतः शुद्धब्रह्मणश्चेत्यर्थः। नच-यद्यप्यसतः सत्वेन प्रतीतिर्नास्तीति पूर्वमुपपादितं, तथापि सतः 'सदेव सौम्ये'ति वाक्येन सत्त्वप्रकारकप्रतीति रुपगतवेति-वाच्यम्; तन्नेदंपदार्थसूक्ष्मावस्थाविद्यातादात्म्यापन्नसत एवाग्रसत्वेन बोधनेऽपि शुद्धस्य सतो ब्रह्मणः सत्वेन प्रतीतेरनज्गी कारात् इति भावः। ननु-'अतपवेति'प्रन्थस्य सद्विविक्तत्वे सत्वस्य प्रमाणसिद्धत्वरूपस्यैव निवेशाभ्युपगमात् सत्तादिजात्यादिरूपस्य निवेशानभ्युपगभातू तदभ्युपगमपक्षे परोक्तदोषाणां निरास इत्यर्थः प्रतीयते; स चायुक्ः सत्वस्य प्रमाणसिद्धत्वरूपत्वपक्षे सत्ताजात्यादिरूपत्वपक्षोक्तदोषाणामप्रसक्त्ते :- इत्याशक्कया तद्वन्थस्य सत्वस्य सत्ताजा- त्यादिरूपत्वपक्षदूषणपरत्वमाह-सत्वमुक्तधीविषयत्वमेवेति। अतएव अतएवेत्यस्यानभ्युपगमादेवेति व्याख्यानं कृतं मूले। जातेरविद्याजन्यत्वरूपमाविद्यकत्वं न संभवति, तस्या अविद्यावज्ज्ञाननिवर्त्यत्वेऽपि आकाशादिवदुत्पत्ते- रश्रवणेनानादित्वादित्यतो व्याचष्टे-अविद्यारूपेत्यर्थ इति। ननु जीवादिवद्विद्यान्यैव जातिरनादिरस्तु इत्यत आह-षडस्माकमिति। ननु-जातेर्नित्यत्वात् ब्रह्मचैतन्यस्रूपत्मेवाकरप्रसिद्धं, तत्राह-चिद्रपत्वपक्षस्ये वेति। ननु एकाविद्या कथं घटत्वादिनानाजातिरूपा इत्यत आह-उपपादयिष्यते चेदमिति। अविद्या- चिद्वा, घटाद्युपहिता घटत्वादिर्जातिः, द्रव्याद्युपहिता द्रव्यत्वादिः, द्रव्यादित्रयोपहिता सत्तेतिरीत्या एकस्या अपि उपाधिमेदाद्वेद इति भावः। मूले-बाध्यत्वरूपेति । तथाच तदितरांशवैयर्थ्यमिति भावः। ननु-सदस- द्विलक्षणत्वपक्षे सत्वासत्वयोः परस्परविरहरूपत्वेन व्याघाताशङ्कातत्परिहारौ उक्त, अन्रापि यदि सत्त्वे सति सद्भेदो मिथ्यात्वमुच्येत, तदा भेदप्रतियोगितावच्छेदकयोर्घटत्वघटमेदयोरिव परस्परस्याभावरूपत्वादिविरोधाब्याघात- शङ्का स्यात्, सा च विशेषणीभूतं सत्त्वं देशकालवृत्तित्वरूपं, प्रतियोगितावच्छेदकीभूतं च निरुक्तप्रभाणसिद्धत्वमिति- रीत्या परिहार्यापि स्यात् ; तथा तु नोच्यते, किंतु 'सत्वेन प्रतीयमानत्वेसति, तद्भिन्नत्वं मिथ्यात्वमुच्यते; तत्र चोकविशेषणोक्त्तमेदयोः घटत्वेन प्रतीयमानत्वघटमेदयोरिव परस्परस्याभावरूपत्वविरोधयोरभावात् व्याघातशङ्गाया एवाभावात् तच्छष्गांपरिहारानुसन्धानं नावश्यकमतो व्याचष्टे-गुणादिकमित्यादिग्रन्थोक्तेत्यर्थ इति। घटादिप्रपश्चे
Page 93
२०३
सद्सद्विलक्षणत्वपक्षोक्तयुक्तयश्चात्रानुसन्घेयाः। अवशिष्टं च दष्टान्तसिद्धौ वक्ष्यामः॥ । इत्यद्वैतसिद्धौ पंचममिथ्यात्वनिरुक्ति:॥
सिद्धिव्याख्या। पूर्वपक्षे दूषणमिति भावः । सिद्धसाधनमिति। प्रपश्चे ब्रह्मभेदस्य मयाप्यङ्गीकृतत्वादित्यर्थः । अत- शशब्दार्थमाह-अनभ्युपगमादिति।
इति अद्वैतसिद्धिव्याख्याने पश्चममिथ्यात्वनिरुक्तिव्याख्यानं समाप्रम्।।
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
अत्र भ्रमविषयत्वे अविनाश्यवृत्तिघर्मवत्वे वा तात्पर्यम्, लाघवात्। पक्षतावच्छेदकावच्छेदेन तस्य साध्यत्वास् सिद्ध- साधनमिति बोध्यम्।
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
सत्वेन प्रतीयमानत्वस्य सिद्धत्वेऽपि सद्भेदस्यासिद्धत्वात् न सिद्धसाधनम्, सद्भिन्ने तुच्छे दृश्यत्वादर्शनेन सत्वे- न प्रतीयमानत्वमिलितस्यव सद्भेदस्य दृश्यत्वप्रयोजकतया मिलितसिद्धिरुद्देश्या, शुक्तिरजतादौ मिलितप्रसिद्धिरिति युक्तयोऽनुसन्धेया इत्यर्थ इति भावः। ननु-सत्ख्यातिमतेऽसत््यातिमते वा इदंरजतमित्यादिभ्रमेषु आपणस्थाना- मलीकानां वा रजतादीनामेव भानोपगमेन घटादावेतदनुमानात् पूर्व नारोप्यरजतादौ निरुक्तमिलितप्रसिद्धि: संभवति इत्यत आह मूले-अवशिष्टं च दष्टान्तसिद्धा वक्ष्याम इति । अनिर्वचनीयख्यातिरेव 'रजतं पश्यामि' इत्यनुभवानुरोधादित्युक्त्या व्यवस्थापयिष्यत इति भावः। ननु-एतल्लक्षणे सत्वेन प्रतीयमानत्वरूपविशेषणो- पादाने सदसद्विलक्षणत्वरूपलक्षणादेतल्लक्षणस्य नात्यन्तं भेदः, क्वचिदप्युपाधो सत्वेन प्रतीयमानत्वस्य तत्रासद्विलक्षण- त्वरूपत्वात्; यदि तत्रेदं विशेष्यं अत्र च विशेषणं, एवं तत्र सत्वं त्रिकालाबाध्यत्वं अत्र तु निरुक्तं प्रभाणसिद्धत्वं इति भेद इत्युच्यते, तदापि तल्लक्षणप्रपश्चतैवास्य पर्यवस्यति, नैतावना लक्षणान्तरत्वेनोपन्यासाईता। एवमेतल्लक्षणस्य पूर्वलक्षणलक्ष्ये वृत्त्युपहितब्रह्मण्यसत्वादव्याप्तेरलक्ष्यतया परिहारोऽनुमाने व्यनिचारवारणय हेतुपरिष्कारश्चायुक्त इत्याशक्ष एतदुननेयलक्षणान्तरे तात्पर्यमाह-अन्नेति। केवलस्य निरुक्तसद्विविक्तत्वस्य तुच्छे भ्रमविषयत्वादिरूपल- क्षणान्तरव्यभिचारित्वेप्युक्तविशेषणसहितस्य तद्वयाप्यत्वात्तदुन्नायकता। भ्रमविषयत्वं च वृत्त्युपहितस्यापि बाधितत्वा- दिति न तत्राव्याप्तिः । नापि शुद्धब्रह्मणि तुच्छे चातिव्याप्तिः; तयोभ्रमविषयत्वाभावात् । भ्रमत्वं बाधितविषयकत्वं जाति- विशेषरूपं वेति भावेः। नन्वेवं उक्तविशेषणविशिष्टसद्विविक्तत्वस्य रूपान्तरेणापि लक्षणलालाभादत्र तात्पर्यमयुक्तं अत- स्तत्साधारणरूपावच्छिन्नेऽस्य तात्पर्यमाह-अविनाश्यवृत्तिघर्मवत्त्वेवेति । केवलस्य दोषाजन्यधीविषयान्यतस्या- भावरूपधर्मस्याविनाशिनि शुद्धे ब्रह्मण्यसति च वृत्तित्वेऽपि, सत्वेन प्रतीयमानत्वविशिष्टस्य तदधिकरणत्स्य वा तद- वृत्तित्वात् तद्वश्वमादाय घटादौ साध्यनिर्वाहः। ननु घटादीनां परमतेऽपि विनाशित्वात् तत्र घटत्वादिकमादाय सिद्धसाधनं अत आह-पक्षतावच्छेदकावच्छेदेनेति । तथाचाकाशपरमाण्वादीनां परमतेऽविनाशिलातू तद- बने अत अ (१) ब्रह्मक्षणिकमित्यादिज्ञाने शुद्धब्रह्मण एव विपयत्वाङ्गीकारेऽपि स्वविपयकश्ञानत्वव्यापकभ्रमत्वकत्वस्यैव भ्रमविषयत्वपदेन विवक्षितत्वान्न दोष :; प्रपश्चो मिथ्येति जीवन्मुक्तीयशानस्याप्यस्मन्मते भ्रमरूपत्वमेवाङ्गीकृतं, संस्कारात्मना जीवन्मुक्तप्यज्ञानानुवृत्ते- रक्वीकारात्। एतेन-उक्तपरिष्कारादरणेपि न निस्तारः । प्रपञ्जो मिथ्येति जीवन्मुक्तीयशानस्य भवन्मते भ्रमत्वाभावादिति न्यायभास्करोक्तं-पराहतम् ॥ २ वाचस्पतिमते शुद्धस्य वृतिविषयत्वाभावेन ब्रह्मक्षणिकमित्यादिज्ञानेऽपि तस्याविषयत्वात् भ्रमविषयत्वस्य न शुद्धब्रह्मसाधारण्यम्। विवरणमतेऽपि यदंशे भ्रमत्वं तदंशनिष्ठविषयत्वस्यैवात्र विवक्षणान्नोक्तसाधारण्यमिति भ्रमविषयत्वस्य सर्वेस्यापि क्षणिकत्वादिना भ्रमविषयत्वेनालक्षणत्वमित्यादिन्यायभास्करोक्तयः पराहताः ॥
Page 94
२०४ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। केचित्ु-स्वाश्रयावृत्तिः सन् स्वानधिकरणवृत्तिर्यसदन्यो योऽत्यन्साभावस्तव्प्रतियोगितवं साध्यम्, संयोगादिर्र-
लघुचन्द्रिकाया विट्टलेशोपाध्यायी। वृत्तिधर्मवश्वमसिद्धमिति न सिद्धसाधनं, तद्विनाशित्वस्याप्यनेन क्रोडीकारात्। शुद्धम्रम्मावृत्तिलोकौ तदन्यत्वे पर्यवसानात सिद्धसाधनं तुच्छसाधारण्यं चेत्यविनाश्यवृत्तित्वमुक्तम्। एवं भ्रमविषयत्वमादायापि साध्यनिर्वाहो बोष्यः। नच- आकाशादौ विनाशित्वमात्रस्वीकारे आकाशत्वमादायाप्युक्क्तसाध्यनिर्वाहसंभवः; सामान्यरूपेणापि वोक्तमिथ्यात्वसिद्धिरि- त्यभिप्रायात्, अविनाश्यवृत्तिस्वृत्तियावेद्धर्मवस्वं मिथ्यात्वमित्युक्तावुक्क्कमिथ्यात्वानामपि सिद्धिसंभवाच। अत्र यावस्वा- मुक्ती विशिष्टसद्विविक्कत्वभ्रमविषयत्वयोरसिद्धिः ।स्ववृत्तित्वानुक्क्का घटपटयोः पटत्वघटत्वयोरखत्वादसंभवः । अवि- नाश्यवृत्तित्वानुक्त्तावाकाशत्वादिकं सत्वेन प्रतीयमानत्वं चादायाकाशादौ सिद्धसाधनं स्यादतस्तदुपादानम्। परन्तु वृत्त्युपहिते ब्रह्मणि निरुक्तसद्विविक्कृत्वस्यासत्वाततदादाय साध्यपर्यवसानासंभवात् अन्र भ्रमविषयत्वे तात्पर्यकथनम्। पूर्वोक्तं सदसद्विलक्षणत्वमादायापि तत्र साध्यपर्यवसानं संभवतीति बोध्यम्। श्रीः-प्रतिपन्नोपाधीत्यादेः खसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यर्थः। प्रतिपन्नत्वं यद्यपि स्वाश्रयत्वेन प्रतीयमानत्वं; तथापि अनिर्वचनीयख्यातिपक्षे तत्प्रातिभासिकव्यावहारिकरूपस्वाश्रयत्वनियतमेव। किंच स्वाधिकरणत्व- स्यैव प्रवेशेषपि धर्मिणि तद्रह्दीत्वा खस्मिन् तद्वटितं मिथ्यातं प्राह्यमिति स्वाधिकरणत्वस्यैव प्रतिपन्नपदार्थत्वेऽपि न विशे- षः। तत्र च समानसत्ताकभावाभावयो्विरोधात् व्यावहारिकप्रपश्चाभावस्य प्रातिभासिकत्वे सिद्धसाधनात् उक्तमिथ्यात्व- घटकाभावः तात्विको वाच्यः; स चातिरिक्तत्वेऽद्वैतहानिप्रसन्नात् साधिकरणीभूतब्रह्मस्वरूप एवाभ्युपेयः । तथाच तस्य प्रपश्चवत् ब्रह्मवृत्तित्वाभावात् प्रपञ्चस्य तद्धटितं मिथ्यात्वं न संभवतीत्यतः केचित् प्रकारान्तरेण मिथ्यात्वं परिष्कुर्वन्ति॥ तन्मतमुपन्यस्यति-केचिस्विति-यथाश्रुते यदि ब्रह्मखरूपस्यापि प्रपश्चाभावस्य तत्वेन प्रपश्चवत् ब्रह्मवृत्तित्वमित्युच्यते, तदा संयोगादेरिवाव्याप्यवृत्तित्वोपगमेनार्थान्तरप्रसङ्गात् खसमानाधिकरणपद विवक्षितार्थमाह-स्वेत्यादिना। अन्य- इत्यन्तेन-योऽभावः खसमानाधिकरण एव, न सासमानाधिकरण इत्येवकारार्थान्तर्भावेन खाश्रयावृत्तित्वरूपस्य, यः साधिकरण एव वर्तते, न खानधिकरणे इत्येवकारार्थान्तर्भावेन खानधिकरणवृत्तित्वरूपस्य च प्रतियोगिविशेषणस्य लाभः । एतद्विशेषणद्वयवदन्यत्वं च स्ाश्रयवृत्त्यभावे संभवति अवृत्यभावे चेति। अत्र शुक्तिरूप्यं न दृष्टान्तः शुक्तौ रजततदभावयोः मतद्वयसिद्धत्वं विना रजताभावस्य रजताश्रयवृत्तित्वाभावात्, प्रसाध्यान्ञकत्वे प्रयासगारवात्, शुक्ति- तदवच्छिन्नचैतन्यनिष्ठस्य तत्स्वरूपस्याप्यभावस्यावृत्तिशुद्धब्रह्मस्वरूपत्वाभावच्चेत्यत आह-संयोगादिः दृष्टान्त इति। संयोगाभावे संयोगाश्रयवृत्तित्वस्य मतद्वयसिद्धत्वादिति भावः । अन्र संयोगे दृष्टान्ते। अवृत्यन्तमिति। संयोगा- भावस्य संयोगानधिकरणगुणादिव्ृस्तितया तद्वदन्यत्वाभावात् संयोगाश्रयवृत्तितया तच्छून्यान्यत्वाच्चेति भावः । घटादेः समवायादिनाSव्याप्यवृत्तित्वेन संयोगतुल्यत्वात् वक्ष्यमाणपक्षविशेषणासंभवाच्च पक्षत्वासंभवादाह-व्याप्यवृत्तिघ- टत्वादिकं पक्ष इति । तत्र साश्रयवृत्त्यभावप्रतियोगित्वमादाय निरुक्तसाध्यपर्यवसानेऽव्याप्यवृत्तित्वेनार्थान्तरा- दाह-स्वसमानाधिकरणेति। पक्षविशेषणत्वादिति। साश्रयवृत्त्यभावमादाय साध्यपर्यवसानसंभवादिति शेषः । अव्याप्यवृत्त्यत्यन्ताभावेति। खाधिकरणीभूतं घटत्वाधिकरणं घटसतदवच्छिनं ब्रह्म वा, तद्रूपतया तदवृत्त्यभावो घटत्वाभवः । अस्याभावस्य घटादिरूपस्वाश्रयावृत्तित्वेन तद्ित्रत्वाभावात् खानधिकरणवृत्तित्वस्य प्रतियोगिनि प्रवेशः। तथासति घटतदवच्छिभ्चैतन्यानिष्ठस्य तद्रूपस्य घटत्वाद्यभावस्यावृत्तित्वेन घटलानधिकरणपटादिवृत्तिलाभावेऽपि पटा- दिनिष्ठविषयत्वादीनां घटलादीनां वा पटत्वाश्रयावटत्तित्वे सति घटतानधिकरणवृत्तित्वेन तद्धित्घटादिनिष्ठघटस्वरूपावृत्त्यभा- वप्रतियोगित्वं घटलादो सिध्यतीति भावः। नन्वेवमपि घटलाश्रयावृत्तिघ टत्वानधिकरणपटादिनिष्ठत दरूपावृत्त्यभावमादायैव साध्यपर्यवसानसंभवात् घटादिनिष्ठतद्रूपतादृशाभावप्रतियोगिलपर्यवसानासंभवेन मिथ्यात्वासिद्धिः । अथाघिष्ठानतख- झानप्रयोज्याभाव एवाधिष्ठानस्वरूपः नत्वभावमात्रमधिकरणसरूपमिति पटादिनिष्टो घटलादभावो घटलादाश्रयावृत्ति- र्घटलानधिकरणवृत्तिश्चेति तद्भित्रत्वं घटघटाद्यवच्छिन्नचैतन्यरूपाधिष्ठानस्वरूपस्यावृत्तेर्घटत्ाद्यभावस्येति घटलस्य ततप्र- १ पतेन-विनाशित्वमात्रसाधनसंभवेन शिरोवेष्टनंन नासिकास्पर्शः, घटादीनामिव विनाशित्वेऽयमिथ्यात्वोपपत्त्यार्थान्तर चे- त्यादिन्यायभास्करोक्तदोषानवकाश इति-सूचितम्।।
Page 95
२०५
गौडब्रह्मानन्दी (लघुचन्द्रिका)। योगिरवेन विशेषिते पक्षे सवसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा साध्यम् व्याप्यवृत्तिस्वसमानाधिकरणात्यन्ता- भावप्रतियोगित्वमादाय पर्यवस्यति-इत्याडुः; तत् प्रकारान्तरमान्नम्, नतु प्रतिपभेत्यादिमूलोक्तरीत्यसंभवप्रयुक्तम्;
म्सत्वासंभव इति-वाच्यम्; माध्वं प्रति धुक्तिरूप्यादेरपरोक्षत्वादिना अलीकान्यत्वं प्रसाध्योक्त्तानुमानसंभवात्,
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
तियोगित्वरूपमिथ्यात्वसिद्धिः, अतएव संयोगाभावस्य संयोगाश्रयवृत्तितया संयोगे साध्यप्रसिद्धिरित्युच्यते, तदा ज्ञान- प्रयोज्याधिष्टानरूपाभावस्यापि तत्तदभावत्वेन घटताश्रयवृत्तितया तमादाय साध्यपर्यवसानासंभवे कथमवृत्यभावमादाय साध्यपर्यवसानं। यदि तादृशाभावसिध्धैव मिथ्यात्वसिद्धिः, तदा पक्षविशेषणसाध्ययोविंरोधोऽव्याप्यवृत्तित्वेनार्थान्तरं वा। यदि ज्ञानप्रयोज्याधिष्ठानरूपाभावस्य केनापि रूपेण नाधिष्ठानवृत्तित्वमित्युच्यते, तदाप्येतस्य खसमानाधिकरणपदा- र्तवे उदक्षरत्वं गौरवं च इत्यत आह-अव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वेनेति। देशकालावच्छिन्नवृत्ति-
जनकत्वातू व्याप्याव्याप्यघृत्यभावप्रतियोगित्वरूपद्विविधखसमानाधिकरणाभावप्रतियोगित्वयोमध्ये व्याप्यवृत्त्यभावप्रति- योगित्वरूपापरविशेषसिद्धयेऽव्याप्यवृत्त्यभावप्रतियोगित्वरूपैकविशेषाभाववत्त्वं पक्षविशेषणं कर्तव्यमिति भावः । पक्षे घट- त्वादौ। स्वेति। तत्संबन्धेन सवाधिकरणनिरूपितविशेषणतासंबन्धावच्छिन्नाधेयताश्रयीभूताभावप्रतियोगित्वमित्यर्थः। साध्यमिति। संयोगादिद्टष्टान्तेनेत्यादिः। व्याप्यवृत्तीति। देशकालावच्छिन्नवृत्तिकान्येत्यर्थः । स्ाधिकरणनिष्ठनिरव- च्छिन्नाधिकरणताकेति वा समानाधिकरणान्तार्थः। पर्यवस्यतीति। देशकालावच्छिन्नवत्तिकाभावप्रतियोगित्वमादाय तदभावविशिष्टे पर्यवसानासंभवादिति भावः। प्रकारान्तरमात्रं प्रकारान्तरमेव। एवकारव्यवच्छेगमाह-नत्विति । मूक्तोक्तरीतौ मूलोक्ते खसमानाधि- करणात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वलक्षणे ब्रह्मरूपस्य प्रपश्चाभावस्य केनापि रूपेण प्रपश्चब्रह्मवृत्तित्वाभावेनासंभव- रूपदोषप्रयुक्तत प्रकारान्तरं नेत्यर्थः। असंभवं परिहरति-स्वरूपणेति। अधिष्ठानब्रह्मस्वरूपस्य घटादंभावस्य खरू- पेण अधिष्ठानब्रह्माभेदेन भेदनियताधाराधेयभावस्यासंभवादित्यर्थः। घटाद्यभावत्वविशिष्टरूपेण घटाय्भावस्ववि- शिष्टस्य रूपं घटाद्यभाववत्वं, तेनेत्यथः। धर्मिणो ब्रह्मणः सकाशात् आधाराधेयभावनियामकस्य भेदस्य लाभाय धर्मस्य विशिष्टलोक्तिः। एकविशेषणविशिष्टस्य शुद्धात् विशेषणान्तरविशिष्टाच्च भेदादाधारतावच्छेदकरूपमाह-घटाद्य- धिकरणब्रह्मेति। घटत्वेन प्रतीयमानतवं त्वाधारतावच्छेदकं; अधिकरणखाप्रवेशात्, आधाराधेयभावेन तदुभयभेदस्य तदुभयत्वावच्छेदकस्य वा भेदो नियामक इति हृदयम्। अदोषात् लक्षणे असंभवरूपदोपविरद्दात्। अतएव भवदुक्तद्वि- तीय प्रकारे नासंभवः। नच-अव्याप्यवृत्तित्वेनार्थान्तरवारणायोक्तपक्षविशेषणोपादानावश्यकत्वात् द्वितीयप्रकार आवश्यकः स्यादिति-वाच्यम्; मूलोक्त्तमिथ्यात्वे साधिकरणवृत्त्यभावेत्यत्राधिकरणतारवेनैवाभावाधिकरणतानिवेशात्। स्वत्वस्य प्राचां मतेऽनुगतत्वात् संयोगादिद्टष्टान्तेऽव्याप्यवृत्त्यधिकरणताघटितसाध्यस्य प्रसिद्धिः। घटत्वादिपक्षे घटसंबद्धानां देशका- लानां धटत्वावच्छेदकतया तदवच्छेदकदेशकालावच्छिन्नत्वबाधप्रहवशात् घटनिष्ठघटत्वाभावीयव्याप्यवृत्त्यघिकरणता- घटितसाध्यसिद्धिरित्युक्त्तपक्षविशेषणोपादाने प्रयोजनविरहात्। नच-उक्तबाधग्रह एवोक्तपक्षविशेषणेन बोध्यत इति- वाच्यम्; कादाचिस्कोक्त्तबाधप्रहकालीनानुमित्यैवोक्तरीत्या मिथ्यात्वसिद्धिसंभवे बाध्यत्वभ्रहनैयत्यलाभकोक्त्तविशेषणवैर्थ्यात्, मूलो कमिथ्यात्वे खाधिकरणनिरवच्छिन्नाधिकरणतात्वेनाधिकरणतायाः प्रवेशे उक्तबाघत्रहस्याप्यनावश्यकत्वाच्च। ननु- संयोगस्य दृष्टान्तत्वासंभव इति-चेन्न;शुक्तिरूप्यस्यैव मूले दृष्टान्तत्वेनोपन्यासात्। केचिनु-'तत्प्रकारान्तरमात्र' मित्यनेन प्रथमप्रकार एव विवक्षितः । द्वितीयप्रकारस्तु मूलोकः। मूले-प्रतिपन्नेत्यादिप्रघट्टके स्वाश्रयेत्याद्यानुपूर्वी- कवाक्यान्तराभावात्, उत्तरपङ्गौ खसमानाधिकरणेत्यादिमूलोक्कस्यैव प्रतिपन्नेत्यादिवाक्यार्थभूतस्य इदानीमुपन्यस्तदवि- तीयप्रकारेऽनुवादात्-इतिव्याचक्षते। मूलोक्तलक्षणे असंभवदोषाभावेऽपि अनुमाने मूलोक्दृष्टान्तासिद्धिं शक्कते- नचेति। अलीकत्वस्वीकारेणेति। सपदार्थत्वाभावादिति शेषः । इत्यादीति। खनिष्टनिरवच्छिन्नाधिकरणताका- भावप्रतियोगित्वं, खनिष्ठावच्छिन्नवृत्तिकान्याभावप्रतियोगित्वं वार्थः। दष्टान्तत्वासंभवहति। अतएव संयोगद्टष्टान्तको- कप्रकारान्तरसाध्यकानुमानमस्माभिरनुसृतमिति भावः। अपरोक्षत्वादित्यादिना सत्त्वेन प्रतीयमानत्वं आ्ह्यम्।
Page 96
२०६ अद्वैतसिद्धिः सव्याख्या। [ परिच्छेद: १ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अन्यथा संयोगादेरमिध्यात्वसाधने शुक्तिरूप्यादेर्वष्टान्तत्वासंभवात्। नघ-घटस्वादिकमेव तत्र रष्टान्त इति-। वाभ्यमू; संयोगादिरष्टान्तेन यत् घटत्वादौ साधितं तस्यैव संयोगादौ साधने सिद्धसाधनात्, संयोगादावव्याप्यवृ- स्यत्यन्ताभावाप्रतियोगित्वविशिष्टे तस्य साधने तु पक्षविशेषणासिद्धिः । किंच संयोगादौ मिथ्यात्वानुमितेः पूर्व शुक्तिरूप्यस्येव घटत्वादेरपि मिथ्यात्वस्य प्रसाध्यतवेन तयोर्ष्टान्तत्वे न विशेष:, अवश्यं चास्मामि: सर्वदृश्यमिथ्यात्व- वादिमि: शुक्तिरूप्यादेर्मिथ्यात्वं साधनीयमेवेत्याशयेनाह-अधिकं चेत्यादि। 'आद्य स्यात् पश्चपायुक्तं ततो विवरणोदिते। चित्सुखीयं चतुर्थे स्यादन्त्यमानन्दबोधजम्। इति पञ्चविधं प्रोक्तं मिथ्यात्वं ध्वान्तनाशकम् ।' ।। इति लघुचन्द्रिकायां पंचममिथ्यात्वनिरुक्तिः॥
लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। व्यतिरेकेऽलीकं अन्वये ब्रह्म दृष्टान्तः । उक्तेति । मूलोक्तेत्यर्थः। अन्यथा प्रसाध्यदष्टान्तकानुमानानग्गीकारे। मिथ्यात्वसाधने। नच-संयोगादिपक्षे उत्तप्रकारद्वयसाध्यकानुमाने उक्तपक्षविशेषणोपादाने संयोगादिपक्षे तद्वशिष्ठ्य- बाधात् पक्षाप्रसिद्धिः, तदनुपादाने अव्याप्यवृत्तित्वेन सिद्धसाधनमिति-वाच्यं; उक्तघटकाभावाधिकरणताया अन- वच्छिन्नत्वेऽभावस्यावच्छिन्नवृत्तिकान्यत्वे वा लाघवमिति लाघवज्ञानसहकारेणोद्देश्यसिद्धेः पक्षविशेषणोपादाने प्रयोजना- भावात्। नच-घटत्वादिपक्षकानुमानेऽप्येवमेवास्त्विति-वाच्यम्; उपायस्योपायान्तरादूषकलात्। शुक्तिरूप्यादे- रिति। अलीकत्ववादिनं प्रति इति शेषः । घटत्वादिकमिति । अनलीकलात् खपदेनोपादानार्हत्वादिति भावः । तत्र संयोगपक्षकानुमाने। यत् यद्धर्मावच्छिन्नम्। तस्य तद्धमावच्छिन्नस्य। संयोगघटत्वयोरेकसाध्यव्यक्तरभावात्। संयोगे हि साश्रयवृत्त्यभावप्रतियोगित्वं, धटत्वे तूक्तविशेषणवलादव्याप्यवृत्त्यभावप्रतियोगित्वमिति साध्यव्यक्तिभेदात्। सिद्धसाधनादिति। घटत्वपक्षकानुमानात्पूर्वमेव संयोगादौ स्ाश्रयत्त्यभावप्रतियोगित्वरपसाध्यस्य सिद्धन्वात्। ननु- पक्षविशेषणोपादानेनान्नापि व्याप्यवृत्त्यभावप्रतियोगित्वमसिद्धमेव सेत्स्यति इत्यत आह-संयोगादाविति। तस्य व्याप्यवृत्यभावप्रतियोगित्वरूपस्य तद्धर्मावच्छिन्नस्य। ननु -- विनेव पक्षविशेषणं अभावस्यानवच्छिन्नवृत्तित्वे लाघवज्ञाना- देवोक्तसाध्यव्यक्तिसिद्धिसंभवान्न सिद्धसाधनम्, न वा पक्षविशेषणासिद्धि: इत्यत आह-किंचेति। नविशेषइति। तस्मात् प्रसाध्यदृष्टान्तकानुमानस्य प्रकारान्तरसाध्यानुसरणेऽप्यावश्यकतया मूलोक्तसाध्येऽपि शुक्तिरूप्यादेर्दष्टान्तत्व- संभवात् प्रकारान्तरानुसरणं न मूलोक्तारीतिदोषप्रयोज्यमिति भावः । इदंच मूलकारेणापि व्वनितमित्याह-अवश्यं- चेति। एकविधमिथ्यात्वनिर्वचनेनैव प्रकृतनिवाहे बहुविधमिथ्यात्वनिर्वचनं विश्वमिथ्यात्वे स्वमतस्य सर्वाचार्यसंमतिग्रद- ्शनायेत्याह-आद्यं स्यादिति। आद्यं सदसत्त्वानधिकरणत्वम्। द्वितीयं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं, तृतीयं ज्ञाननिवर्त्यत्वं इमे विवरणोक्ते। चतुर्थ साश्यनिष्ठात्यन्ताभावप्रतियोगित्वम्। पंचमं सद्विविक्तत्वम्। ध्वान्तः विप्रतिपत्रविश्वमिथ्यात्वाज्ञानतदधीनविश्वसत्यत्वज्ञानम्। तन्नाशनं तन्निवर्तकमित्यर्थः । तथाचोक्त्तरीत्या द्वैतप्रपश्चमिथ्या त्वसिद्धौं अद्वैतसिद्धिः ॥ इति पञ्चममिथ्यात्वनिरुक्तिटीका। संपूर्णेयं मिथ्यात्वनिरुक्तिटीका विट्टलोपाध्यायकृता।
अथ पश्चममिथ्यात्वविचारः।
(१) न्यायामृतकारा :- सद्विविक्तत्वमित्यत्र किं सत्पदेन सत्ताजातिमद्विवक्षितं, उत अबाध्यं, उताहो ब्रह्म। आद्ये घटादौ सत्ताजातिमति
व्रह्मभिन्नत्स्य प्रपश्च उभयभतसिद्धत्वात्सिद्धसाधनम, सद्रूपत्वाभावविवक्षणे च निरधर्मके ब्रह्मणि सत्वरूपधर्मरहिते सद्रूप- त्वस्याभावादतिव्याप्तिः, सत्वस्यापि सत्सदिति प्रतीत्या सत्वाश्रितत्वस्याभिधेयतवेऽ्भिधेयत्वस्येवान्गीकारान्न व्यभिचारः, एवं सद्रूपत्वाभावस्य शशश्ङ्गसाधारण्यास्तत्रातिव्याप्तिः, तस्येवासत्वापत्तेश्ेति नोक्तरूपभपि मिथ्यात्वम्-इति वर्णयन्ति॥
Page 97
२०5
( २ ) सिद्धि कारास्तु- सद्विविक्तत्वमित्यत्र सत्पदेन प्रमाणसिद्धत्वं विवक्षितम्। प्रमाणरवं च दोषासहकृतज्ञानकरणत्वम्। तेन खप्नादिवत्प्रमाण- सिद्धभिन्नत्वेन मिथ्यात्वं सिध्धति। प्रमाणसिद्धत्वं चावाध्यत्वव्याप्यमित्यन्यदेतत्। ब्रह्मणि शशश्गादौ चातिव्याप्तिवार- णार्थ सत्वेन प्रतीत्यर्हत्वं विशेष्यते। यथाच सत्वरूपधर्माभावेऽपि ब्रह्मणः सद्रपत्वसिद्धिस्तथा प्रथममिथ्यात्वनिरूपणावसरे स्पष्टमेव प्रतिपादितम् । विकल्पन्रयमपि नास्माभिरज्जीकृतमिति नोक्दूषणानामत्रावकाशः । अत्यन्तासत्त्वापत्तिरपि परिहृत प्रायैवेति-वर्णयन्ति ॥ (३ ) तरङ्गिणीकारा: पुन :- प्रमाणसिद्धत्वस्याबाध्यत्वव्याप्यत्वमिति यदुक्तं तन्न संगतम्; प्रमाणासिद्धस्यापि ब्रह्मणोऽबाध्यत्वात्, प्रमाणसिद्धस्यापि प्रपञ्चस्य बाध्यत्वात्। एवंच प्रमाणसिद्धत्वे अबाध्यत्वव्याप्यत्वाभावान् अबाध्यत्वव्याप्यत्वविशिष्टत्वस्य निरूपयितुमश- क्यत्वात्, केवलप्रमाणसिद्धभिन्नत्वस्य विलक्षणे ब्रह्मणि व्यभिचारात्, प्रमाणसिद्धे उपहितब्रह्मणि तद्भिन्नत्वाभावाद- व्याप्तेर्भागासिद्धापत्तेः, अविद्यारूपदोषकरणतानिरूपकान्यधीविषयान्यत्वस्य शशशङ्गेऽभावेनव तत्रातिव्याप्तिवारणसंभवे असति दोषवारणार्थ सत्वेन प्रतीत्यनर्हत्वनिवेश इति ग्रन्थस्याप्ययुक्त्तत्वान्नोक्तरूपमपि मिथ्यात्वमिति-निरूपयन्ति ॥ (४) ब्रह्मानन्दसरखत्यस्तु- प्रमाणसिद्धत्वं चावाध्यत्वव्याप्यमित्यन्यदेतदित्यस्य वाक्यस्य अवाध्यशुद्धब्रह्मीयोपहितरूपव्याप्यमिति हेतुना अबाध्य- त्वरूपस्य सत्स्य नात्र विवक्षेत्येतत्परतयैव व्याख्यानं युक्तमिति भवदुक्तदोषाणामप्रसरात्, उपहितस्य प्रमाणसिद्धत्वेऽपि तस्यालक्ष्यत्वेनाव्यान्यनवकाशादलक्ष्यस्यालीकम्य विकल्पाख्यवन्तिविषयत्वेऽपि विकल्पव्यावृत्तेरेवात्र धीशव्देन अ्हणेन तादशधीविषयान्यत्वस्य तत्र विद्यमानत्वेन प्रसक्त्तातिव्याप्तिवारणार्थत्वेनैव सत्वेन प्रतीत्यर्हत्वमितिप्रन्थस्य प्रवृत्तत्वाच्चोक्त्तरूप- भपि मिथ्यात्वं निर्दुष्टमेवेति-विवेचयन्ति। इति पश्चममिथ्यात्वनिरूपणम् ।।
अथ मिथ्यात्वसामान्योपपत्तिः। ननु-उक्तमिथ्यात्वस्य मिथ्यात्वे प्रपश्चसत्यत्वापातः, एकस्मिन् धर्मिणि प्रसक्तयोः विरुद्धधर्मयो: एकमिथ्यात्वे अपरसत्यत्वनियमात्, मिथ्यात्वसत्यत्वे च तद्वदेव प्रपश्चसत्यत्वापत्तेः, उभयथाप्यद्वैत-
सिद्धिव्याख्या। अथ मिथ्यात्वमिथ्यात्वविचारः। ननूक्तमिथ्यात्वस्य मिथ्यात्वमात्रेण न प्रपध्वस्य सत्यत्वं स्यात्, तत्र मानाभावादित्याशङ्कय, तत्रानुमानमभिप्रेत्य तन्मूलभूतां व्याप्तिं दर्शयति-एकस्मिन्निति । एकस्मिन्नात्मनि प्रसक्तयो- गौडब्रह्मानन्दी (लघुचन्द्रिका)। अथ मिथ्यात्वमिथ्यात्वनिरुक्तिः । प्रसक्तयोः ज्ञातयोः । पकमिथ्यात्वे एकतरमिथ्यात्वे। अपरसत्यत्वनियमात् अन्यतरस्याधिकसत्तानिय- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। श्रीगुरुभ्यो नमः मिथ्यात्वमिथ्यात्वम्। मूलोक्तमिथ्यात्वस्य। ननु-प्रपश्चमिथ्यात्वं यदि मिथ्या स्यात् तर्हि प्रपश्चः सत्यः स्यात् इत्यापत्तिपरत्वमेतत्प- ड्ेर्वाच्यम्; तच्व न संभवति, मिथ्यातस्य सत्यत्वाव्याप्यलात्, आपाद्यापादकयोः पक्षभेदाश्च इत्यत आह-एकस्मि- त्रिति। प्रसक्तिर्नीपत्िरनुमितिर्वा; विरुद्धयोरेकस्मिन धार्मेणि एकदा तयोरसंभवात्, अतो व्याचष्े-प्रसक्तयोरिति।
Page 98
२०८ अद्वैतसिद्धि: सव्याख्या। [ परिच्छेद: १]
सिद्धिव्याल्या।
र्मिध्यात्वसत्यत्वयोर्मिथ्यात्वमिथ्यात्वे सत्यत्वसत्यत्वस्य नियमेन दष्टत्वादित्यर्थः। तथाच जगत्सत्यं मिथ्या- भूतमिथ्यात्वकत्वादात्मवदित्यनुमानात्सत्यत्वसिद्धिः । नच-आत्मनि सत्येव साध्यव्यापकत्वात्पक्ष एव साधनाव्यापकत्वाच्चात्मत्वमुपाधिरिति-वाच्यम् ; अत्रात्मत्वस्योपाधित्वं न साधने साध्यव्यभिचारोना- यकतया, मिध्याभूतमिथ्यात्वकत्वस्य सत्यत्वाव्यभिचारित्वात्, सत्यत्वव्यापकात्मत्वाव्यभिचारित्वेन सा- ध्यव्यभिचारानुमापकस्य हेतावुपाधित्वव्यभिचारित्वरूपहेतोरसिद्धत्वाच, किंतु सत्प्रतिपक्षोन्नायकतयेति वक्तव्यं, तद्पि नोपपद्यते; प्रपश्चसत्यत्वविषयकस्थापकानुमाने मिध्याभूतमिथ्यात्वकत्वस्य हेतोः सत्यत्व- रूपसाध्येन व्याप्तित्राहकस्य व्याघातरूपतर्कस्य सद्ाववदात्मत्वस्योपाधेर्व्यतिरेकेणानात्मत्वेन क्रियमाणे स्थापनानुमानीयसाध्यस्य सत्यत्वस्य व्यतिरेकानुमानेऽनुकूलतर्काद्यभावेनोपाधेरप्रयोजकत्वात्। ननु- रूप्यगतमिथ्यात्वस्य मिथ्यात्वेन मिध्याभूतमिथ्यात्वकत्वरूपहेतुमति रूप्ये साध्यम् सत्यत्वं नास्तीति तत्र हेतोर्व्यभिचारः, नच-यदि रूप्ये मिध्यात्वं मिथ्या, तर्हि मिथ्यात्वविरुद्धं सत्यत्वं सत्यं स्यात्; तथाच रूप्यं, मिध्याभूतमिथ्यात्वाधिकरणं न भवति, सत्यभूततद्विरुद्धसत्यत्वानधिकरणत्वात्, यत्सत्यभूत- यद्विरुद्धाधिकरणं न भवति तन्मिध्याभूततद्विरुद्धाधिकरणं न भवति, यथा सत्यभूतगोत्वविरुद्धगोत्वा- भावानधिकरणं गौः गोत्वाभावविरुद्धमिध्याभूतगोत्वाधिकरणं न भवतीति, तथाच रूपयमिध्यात्वस्य सत्यत्वेन रूप्ये हेतोरेवाभावान्न व्यभिचार इति-वाच्यम् ; सत्यभूतसत्यत्वस्यानधिकरणमपि रूपयं सत्य- भूतमिथ्यात्वस्याधिकरणं न भवति, किंतु मिध्यात्वस्यापि मिथ्याभूतस्यैवाधिकरणं; धर्मिणो रूप्यस्य मिथ्यात्वान्। तथाच प्रयोग :- रूप्यगतत्वेनोच्यमाने सत्यमिथ्यात्वे, मिथ्या, मिथ्यात्वोपेतधर्मिक- त्वात् ; स्वप्नप्रतीतगजरूपवत् । तथाच जगत्सत्यं स्यादित्युक्तानुमानस्य रूप्ये व्यभिचारताद्वस्थ्यम्। नच-रूप्यमिथ्यात्वे मिथ्यात्वसाधकस्य मिध्यात्वोपेतधर्मिकत्वस्य हेतो रूप्यमिथ्यात्वे मिथ्यात्वाभावसा- धकेन सामान्यव्याप्िमूलकानुमानेन सत्प्रतिपक्षितस्य न रूप्यमिथ्यात्वमिथ्यात्वरूपसाध्यज्ञानजनकत्वम्, अतो रूप्ये मिध्याभूतमिथ्यात्वकत्वस्य हेतोरज्ञानान्नोक्तानुमानस्य रूप्ये व्यभिचार इति-वाच्यम्; पर- स्परविरहयोरेकाभावेऽन्यस्य सत्वनियमरूपायाः सामान्यव्याप्नेर्धर्मिसत्तास्थलविषयतया गवादावमिध्या- त्वरूपोपाधित्रस्तत्वेन तन्मूलकानुमानस्य हीनबलत्वेन तेनास्य सत्प्रतिपक्षितत्वाभावेन रूप्ये हेतुशानसंभ- वेन व्यभिचारतादवस्थ्यात्। यत्सत्यभूततद्विरुद्धाधिकरणं न भवति तन्मिथ्याभूततद्धिकरणं न भव- तीति सामान्यव्याप्तौ वन्ध्यासुते व्यभिचारश्च। नहि सत्यभूतस्य गौरत्वविरुद्धस्य श्यामत्वादेरनधिकरणे वन्ध्यासुते तद्विरुद्धं गौरत्वं मिध्याभूतं नास्ति, किंतु गौरत्वं तद्विरुद्धं श्यामत्वं चेत्युभयमपि वन्ध्या- सुते मिथ्यैव, धर्मिण एव मिथ्यात्वात्। तथाचोक्तव्याप्ेस्तत्र व्यभिचारः सुदृढ एव। यदि चोक्तसा- मान्यव्यामौ विरुद्धत्वं न सहानवस्थित्यादिसाधारणम्, किंतु परस्परविरहरूपत्वं; नच गौरत्वश्यामत्वे परस्परविरहरूपे, अतो नोक्तव्यभिचार इत्युच्येत, तदापि यत्र स्वप्नावस्थायां दृष्टे कचिद्धिकरणे सत्य- भूतस्य गजाभावविरहरूपस्य गजस्यानधिकरणत्वं वर्तते, गजविरहरूपस्य गजाभावस्य मिध्याभूतस्य चाधिकरणत्वं, नतु सत्यभूतस्यैव गजाभावस्याधिकरणत्वमिति चास्ति। तन्न गजो गजाभावश्चेत्युभयमपि मिथ्यैवेति परस्परविरह्रूपविरुद्धत्वगर्भाया अप्युक्तव्याप्तेर्व्यभिचारस्तदवस्थ इति-चेन्मैवम्। यदुक्त- रूपयस्य धर्मिणो मिथ्यात्वात्तत्र सत्यत्वमिध्यात्वे परस्परविरहरूपे अपि मिथ्यैव-इति, तनःप्रतिपभोपाधौ निषेधप्रतियोगित्वं वा मिथ्यात्वं, नच प्रतियोगित्वं धर्मान्तरवद्धर्मिसत्वापेक्षम्, किंत्वनपेक्षं, धर्मिसत्वा-
Page 99
३०२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
यामात्मनो निर्विषयत्वाङ्गीकारात् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति-वाच्यम्; तदा ह्यानन्द
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सत्य उच्येत, इच्छादिस्वरूपस्य तु मिथ्यात्वात्तद्रतःस कथमपि न सत्यो वक्तं शक्य इति भावः। आनन्दाप्रकाशे आनन्दसंबन्धिनः प्रकाशस्याभावे। नत्वानन्दस्येति। तथाच मोक्षे आनन्दसंबन्धिप्रकाशाभाव इष्टः। पुमर्थत्वमपि पूर्णानन्दावरणविरोधिवृत्तिविशिष्टत्व रूपेणैव। तदपि तदा नास्त्येव, किंतु तादृशवृत्तिकाल एव, तावतैव तदुद्देशेन श्रव- णादौ प्रवृत्तिसंभवः। नच-तदेत्युक्तिरसंगता, परममुक्तात्मनि कालासंबन्धादिति-वाच्यम्; इदानीं कल्पितेन कालेन तदेति व्यवहारादिति भावः। ननु तथापि परममुक्तात्मनि ज्ञानत्वाभावेनाज्ञानत्व हेतोर्व्यभिचारसग्राह-प्रकाश त्वमिति। ज्ञानत्वोपलक्षितस्वरूपत्वमित्यर्थः । तादृशात्मनो ज्ञानत्वोपलक्षितत्वमावश्यकम्, व्यवहारकाले तस्ै लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। रूपसविषयकल्वस्य। न स्वाभाविकत्वं नानारोपितत्वं। एवंचास्य हेतोरभावादेव न पारमार्थिकत्वपर्यवसितचिद्रपज्ञान- समसत्ताकतसिद्धापत्तिरिति चिद्रूपज्ञानस्य मोक्षदशायां सविषय कत्वोपलक्षितखवरूपलसंभवात तद्भेदस्य हेतुलसंभव इति भावः। अत्र केचित्-ज्ञाने साक्षात्संवन्धेनहि तस्यारोपितलात् स्ाभाविकत्वं न, इच्छायां तत्सात्क्षात्संबन्धेन तत्प्रतीतेरेवानुपगमात् नतरां स्वाभाविकत्वं। तच्च तेन संबन्धनानारोपितत्वे सति प्रतीयमानत्वं; यथा शुक्ती शुक्ररूपस्य। तत्र रजते तद्वारणाय सत्यन्तं, तत्र शशशज्े तद्वारणाय विशेष्यमिति तरवर्थ-वर्णयन्ति ॥ मूले-एवं ज्ञानवदिति। चिद्रूपज्ञानस्य मोक्षदशायां यथारोपितविषयसंबन्धं बिना सत्वं तथत्र्थः। कदाचित् विपयबाधदशायां। इच्छायां विष- य संबन्धस्यारोपितत्वे इत्यादिः। सविषयकत्वप्रयोजकोपाधि: विपयतः, तदपेक्षयाधिकसत्ताकत्वं चिद्रपज्ञानस्यवति तस्यैव विषयसंवन्धं बिना सत्त्वं, नत्वन्तःकरणवृत्तिविशेषरपेच्छाया इति न विषयसंबन्ध बिना तस्य सत्वमिति भावः। प्रकाशसामान्याभावे आनन्दान्वयासंभवादाह-आनन्दसंवन्धिन इति। ननु मोक्षदशायां आनन्दो यदि आत्मचैतन्यरूपप्रकाशः, तदा तस्य सार्वदिकलान् तत्र श्रवणादयुपायवेयर्थ्य अत आह-पुमर्थन्वमपीति । वृत्तिविशिष्टत्वेनेति। तथाचतन्संपादनारयव श्रवणादीति भावः। नन्त्रेवं मोक्षस्य पुरुषार्थत्वं न स्यान, उक्तते स्तदा विरहात् इत्याशङ्कामिष्टापत्त्या परिहरति-तदपि तदा नास्त्येवेति। नन्वेवं क्षाणकपुरुषारथोद्देशन कर्थ तत्सा- धनश्रवणादा प्रवृत्तिः? अत आह-तावतवेति। पूर्णानन्दांशावरणनिवर्तकवत्तेः आवरणनिवर्तनेनात्मनः सदा पुरुपा- र्थत्वरूपपूर्णानन्दरूपतासंपादकत्वेनेति भावः । तदुददशेन उत्तवृत्युद्देरेन । परममुक्तेति। विदेहमुक्तलर्थः । ज्ञानत्वाभावेनेति। विपयनदाकारवृत्त्योरभावेन तद्वटितज्ञानवववििष्टलाभावादित्र्थः। अनएव प्रकाशत्वं व्याचऐं- ज्ञानत्वोपलक्षितस्वरूपत्वमिति। मृले-अथप्द दृश्यज्ञेयपदगमानार्थ, तत्र अर्थोपलक्षितप्रकाशलस्य ज्ञानत्रूप- हेलप्रविष्टतया तन्कथनस्यानुपयोग इत्याशक्ञ्योक्तप्रकाशलोपपादकतया तत्सार्थकयति-तादृशात्मन इति। परममुक्ता- त्मन इत्यर्थः। ज्ञानत्वोपलक्षितत्वमिति। भामकतासंबन्धन ज्ञेयोपलक्षितलमित्यर्थः। पूर्व कदाचित् तदवूत एवोत्तरं तदभावदशायां नदुपलक्षितलमित्याशयनाह-व्यवहारकाले इति। सर्वज्ञयोपलक्षितत्वेति। भासकताप्र- योजकतादात्म्यरपवियररितासंवन्धेनत्यादिः। उतसंबन्धन ज्ञयोपलक्षितस्येव ज्ञानलरपलात। प्रकाशलपदार्थ ज्ञानलाविवक्षयाह-सर्वज्ञयोपलक्षितत्वं वेत्यर्थ इति। ज्ञानतस्यापि ज्ञाने ज्ञानत्वेन सधर्मकत्वापत्तिरत आद- ज्ञानत्वोपलक्षितस्वरूपत्वेत्यर्थ इति। उक्तसवरूपत्वेनेव तहि राव्मकलात तदद्वेदः शुद्धे व्यभिचारी स्यात्, तत्राह-तादृशात्मेति। परममुक्तात्मेत्र्थः। नतु उत्तोपलक्षितलरुपधमविच्छिन्नभेदोऽपि शुद्धस्यवेत्यत आह- तथाचेति। तन्भ्रदस्येति। ज्ञानत्वोपलक्षितो यः नददस्यत्यर्थः। अयंच त्रह्यस्वरपः, अतः स्वरूपतो भानाह्शुद्ध- व्रह्मनिष्टनिस्वच्छिन्नप्रतियोगिताको भेद: छुद्धे न संभवति; अन्योन्याभावप्रतियोगितायाः केपांचिन्मते संबन्धान- वच्छिनलान्, शुद्धभेदीयप्रतियोगिताया धमानवच्छिनलस्यायपगमसंभवात्। यद्वा ज्ञानत्वोपलक्षितत्वं, खोत्तरज्ञानला- संवन्ध्यनुयोगिकः स्वपूर्वज्ञानत्वसंवन्व्यनुयोगिको योज्ञानलाभावः, तदृत्वम्; शुद्धऽधिकरणातिरिक्तभावरूपधर्मस्यानुपग- मेऽपि स्वाधिकरणरूपोक्ताभावरूपधर्मीपगमातू तदर्वाच्छन्नप्रतियोगिताकभेदख् शुद्ध नास्तीति न व्यभिचार इति भावः। संसारदशायां ज्ञातुः सत्वात् तदति पूर्व योजयति-तदेति। सुत्तिदशायामित्वर्थः। ज्ञातुः ज्ञानकर्तुः । संसार्या- त्मन: ज्ञानलादाह-तन्मुक्तात्मरूपमिति। ज्ञानत्विशिष्टताभावस्यप्लादाह-ज्ञानत्वोपलक्षितस्वरूपमिति। अयं भाव :- ज्ञाधातोः कियावाचकत्वं बिना धातुलासंभवात्, तदर्थस्य ज्ञानस्य क्रियात्वं वाच्यम्, तच्च साध्यत्वेन प्रतीयमानत्वं, साध्यत्वं चोत्पाद्यतम् इति भूवादिसृत्रे शाब्दिकसिद्धान्तः। तथाच नित्य आत्मा कदापि न ज्ञाघात्वर्थ- क्रियारूपः, अपितु तदतिरिक एव जन्यः कक्षित, तम्य चोत्पादकरूपकत्रपेक्षाऽवश्यंवाच्या, क्रियालातू, भुजिक्रियावत्
Page 100
३०३
एव प्रकाशो नत्वानन्दस्य प्रकाशत्वम्, अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्वहानिरि- त्युक्तम्। ननु-तथापि ज्ञातुरभावात् तदा तन्न ज्ञानम; नहि भोक्तृहीना भुजिक्रिया भवति, नच- अनादित्वेन क्रियारूपत्वाभावात् अनपेक्षत्वमिति-वाच्यम्; अनादेः प्रागभावस्य प्रतियोगिनि जातेर्व्यक्तौ जीवव्रह्मविभागस्य धर्मप्रतियोगिनोः अज्ञानस्य चाश्रयविषययोर्व्रह्मसत्तायाश्च कर्तर्य- पेक्षादर्शनात्, अन्यथा 'अस्ति ब्रह्म' त्यादौ कर्नरि लकारो न स्यात्। एवंचातीतादिज्ञानस्य ईश्वर- ज्ञानस्य च उत्पत्त्यर्थमर्थानपेक्षत्वेऽपि तन्निरूप्यत्वदर्शनेन ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभावः, अन्यथा 'इद्महं जानामी' त्यनुभवो न स्यात्, 'शातुरर्थप्रकाशस्य ज्ञानत्वा'दिति विवरणविरोधश्च
गौडव्रह्मानन्दी (लघुचन्द्रिका)। सर्वदृश्यभासकत्वेन सर्वज्ञेयोपलक्षितत्वादित्याशयेनाह-अथोपलक्षितप्रकाशत्वं वेति। सर्वज्ञेयोपलक्षितत्वं वेत्यर्थः। ज्ञानन्वेति। ज्ञानत्वोपलक्षितस्वरूपत्वेत्यर्थः। तादृशात्मा ज्ञानत्वोपलक्षित इति यावत्। तथाच तन्जेदस्य हेतोम्तत्राभावास व्यभिचार इनि भावः। झञातुरभावादिति। तदा ज्ञानुरभावादित्यर्थः। तत् मुक्तात्मरूपम्। ज्ञानं ज्ानत्वोपलक्षितखवरूपम्। नहीत्यादि। कर्नृत्वस्य सकलकारकप्रयोजकत्वरूपस्वातन्य विशिष्टकारकत्वरूपत्वात् कारकत्वस्य च त्रियानिमिनत्वरूपत्वात् कर्नृनिरपेक्षक्रियास्वरूपं न संभवतीति भावः। नचेति। ज्ञानत्वविशिष्टस्य सादित्वेऽपि ज्ञानत्वोपलक्षितस्येति शेपः । क्रियारूपत्वेति। कारकनिमित्तकक्रियारूपत्वेत्यर्थः। अर्थानपेक्ष- त्वे स्वविपयानपेक्षत्वे । तम्निरुप्यत्वेति । स्वविपयविशिष्टरूपेणेव प्रकाशमानत्वेत्यर्थः । ज्ञातृज्ञेयनिरूप्यत्वं ज्ञानृज्ञेयविशिष्टरूपेणेव प्रकाशमानत्वम्। तथाच जयजातृविशेपितशुद्धचिद्नूपेणाप्यसंप्रज्ञातसमाधी मोक्षे चात्मनः प्रकाशमानत्वात् न ज्ञानत्वोपलक्षितस्वरूपत्वमित भावः। विवरणविरोध इति। वृ्त्यवच्छिन्नस्यासत्वावरणय- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। दति। तद्यतिरेकमुग्वेनाह मूले-नहि भोकृहीना भुजिक्रिया भवतीति। ननु कर्तृत्वं न क्रियोत्पादकत्वगर्भम्; सत्तास्थित्यादिकर्तरि तदभावान, किंतु कियाधयत्वं, तथ मुक्तात्मनो ज्ञानक्रियारूपत्वैऽपि तन्निरूपितं कर्तृत्वं क्थचित् कालादेः स्वस्वंध वा संभवतीति आश्रवत्वेन कत्रपेक्षलस्य तत्र सत्त्ान्न तस्य क्रियालानुपपत्तिरितत आह-कर्तृत्व- स्येति। सकलकार कप्रयोजकत्वेति। स्वंतरसवसमभिव्याहृतसकलकार कनिष्ठप्रकृतक्रियानुकूलव्यापारप्रयोजकव्यापा- सवत्वेत्यर्थः। रदंच 'चैत्रः कठारेण कार्ष चिछिनति'इत्यादो कुठारादिवारणाय। कारकत्वरूपत्वादिति। एतचब चत्रस्य पुत्रो गच्छती त्यादो चैत्रस्य वारणाय। ननु कारकत्वं संज्ञाविशेषः, "ध्रुवमपाये" इति योगं विभज्य अपाये ध्ुवं कारकसंशञं, नतः 'अपादानं' उक्तकारकमपादानसंत्ञं इत्याद्यर्याश्रयणात्। एवंच स्वतन्त्रः प्रधानीभूतधातूपात- व्यापाराकयः कारकसंज्ञः सथान्, उक्तकारकं कर्तृसंज्ञं म्यात्, इत्यर्थ करियाया आश्रयत्वेनव कर्नुरपेक्षा, नतु जनकत्वेनेति नित्यमुक्तात्मनो ज्ञानक्रियारूपातवं कुतो नेत्यत आह-कारकत्वस्येति। क्रियानिमित्तत्वेनेति। क्रियानिमित्तका रणत्वेनेत्र्थः । "कारके" इत्न्न 'क्रियां जनयति' इति कारकं, प्रथमार्थ सप्तमी। यद्वा-करोति कर्तृकर्मव्यपदेशानिति व्युत्पत्त्या क्रियव कारकं, यावन्। जूयात् क्रियायामिति यावत्। "ब्रूयात् कारक" इति भाष्यात् । विषयत्वे सप्तमी, विषयत्वंच जनकत्वेनंति 'अपाये ध्रुवं क्रियाजनक अपादानं, स्वतन्त्रः प्रधानक्रियाश्रयः करियाजनकः कर्ता' इत्यर्थाश्र- यणादिति भावः । कर्तृनिरपेक्षं क्रियास्वरूपं न संभवतीति। एवंच ज्ञानं शुद्धात्मरूपं न, किंतु तदतिरिक्तमेवे- ल्यज्ञानत्हेतोस्तत्र व्यभिचारो दुर्वार इति भावः। नित्योऽपि चिदात्मा विषयभासकताविशिष्टः सनू ज्ञानमित्युच्यते, अत उक्तवैशिष्यावच्छेदेन कर्त्रादिकारकजन्यः धालर्थक्रियारूपः; तदुपलक्षितस्तु न कियारूपः; नापि कत्रादिजन्य इत्याशयेन शङ्कते मूले-नचेति। उक्ताशयस्फुटीकाराय शेषं पूरयति टीकायाम्-ज्ञानत्वविशिष्टस्येति। संसारद- शायां विषयतदाकारवृत्तिविशिष्टस्येत्यर्थः। सादित्वेऽपि क्त्रादिकारकजन्यक्रियारपत्वेऽपि। ज्ञानत्वोपलक्षितस्यति। मुक्तात्मन इति पूरणीयम्। अनादित्वेन नित्यत्वेन। नित्यत्वेपि वातर्थत्वेन साम्यात्। क्रियात्वेन व्यवहारविषयकत्वरूपं क्रियारूपत्वं संभवतीत्यत आह-कारकनिमित्तकक्रियास्वरूपत्वेति। कारकजन्यक्रियारूपत्वेत्यर्थः । मूले-अन- पेक्षत्वं कत्रजन्यत्वं। एवंच मुक्तिदशायामन्तःकरणावच्छिन्नात्मरूपकर्तृविर हेऽपि मुक्तात्मनो ज्ञानत्वोपलक्षितरूपत्वं नानु- पपन्नमिति भावः। यद्यपि ज्ञाधातर्थो ज्ञानं, तच्च आत्मचैतन्यमेव, तस्यच ज्ञानत्वविशिष्टस्योतपत्ता कर्तृसापेक्षत्वेऽपि ज्ञान- त्वोपलक्षितस्य शुद्धस्योत्पत्तौ न कर्तृसापेक्षत्वं; तथापि ज्ञप्तौ कर्तृसापेक्षतमस्त्येव, नित्यस्यापि हि धातुतः प्रतीतिरुत्पाद्यत्वे- नैव जायते; अतएव क्रियावाचको धातुः, क्रियात्वं च साध्यत्वेन प्रतीयनानत्वं, साध्यत्वं चोत्पाद्यतमेवेति" शाब्दिकाः। अतएव 'ब्रह्मास्ती'त्यादौ ब्रह्मसत्ताया नित्याया अपि कर्तृसापेक्षत्वेन कर्तृलकारोपपत्तिरित्याशयेनाह मूले-अनादेरिति।
Page 101
३०४ अद्वैतसिद्धिः सव्यांख्या। [परिच्छेद: १]
स्यात्-इति चेन्न; जातेर्व्यक्तिनिरुप्यत्वेSपि कदाचित्तदसंबन्धवदुपपत्तेः, संबन्धप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वात्। अतएव ज्ञानस्य सक्षयत्वं सज्ञातृत्वंच न स्वाभाविकम्। तथाहि-सज्ञेयत्वं तावत् शेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा। नाद्यःः परोक्षशाने ईश्वरज्ञाने चाभावात्। नापि द्वितीयः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। किकिंचिदज्ञानाविषयत्वप्रयोजकविशिष्टस्य वा चैतन्यस्य ज्ञानपदार्थस्य शातृज्ञेयाद्यघटतत्वेपि ृज्य निरुप्यं ज्ञान- स्वरूपमिति ज्ञापनाय ज्ञातुररथेत्युक्तं विवरण इति भावः। जातेः शुद्धजातेः । व्यक्तिनिरुप्यत्वेऽपि कदाचिद्यक्ति- संसृष्टरूपेणैव प्रकाशमानत्वेऽपि। शुद्धजातिप्रकाशस्य व्यक्तिप्रकाशव्याप्यत्वेऽपीति यावत्। कदाचित्तदसंबन्धवत् गोत्वादेरश्वादौ संसर्गारोपकाले गोत्वादौ गवादिव्यक्तेर्निरूप्यत्वरूपसंबन्धाभाववत्। उपपत्तेः ज्ञानत्वोपलक्षितस्य कदाचिद्विषयादिनिरूप्यत्वेऽपि कदाचिद्विषयाद्यनिरूप्यत्वोपपत्तेः । तथाच अ्रमभिन्नजातिप्रत्यक्षत्वस्य व्यक्तिप्रत्यक्षत्व- व्याप्यत्वचत् ज्ञानत्वविशिष्टप्रकाशत्वस्य विषयादिप्रकाशत्वव्याप्यत्वम्, नतु ज्ञानत्वोपलक्षितप्रकाशत्वस्य; तादृशप्र- त्यक्षीयजातिविपताया: व्यक्तिविषयतानिरूपितत्वनियमवत् ज्ञानत्वविशिष्टविपयताया विपयवशिस्वविपयतानिरूपित- त्वनियम इति भावः । शुद्धज्ञानस्वरूपस्य विपयाद्यविशेपितरपेण भाने शुद्धजातेः व्यक्त्यविशेपितरूपेण भानं सुस- दशो दृष्टान्त इति स एवोक्तः। प्रागभावादेस्तु प्रागभावत्वादिविशिष्टरूपेणैव ज्ञानम्, ननु तदविशिष्टशुद्धरूपेण। अत- एव सुपुप्तौ 'न किंचिद्वेदिप' मिति सविपयकत्वाजानत्वरूपाभ्यामेवाज्ञानस्यभानम्, नतु शुद्धरूपणेति भावः। ननु- नाश्वादौ गोत्वादे: भ्रमप्रत्यक्षमस्ति, किंनु गवादेस्तादात्यारोप एव, तथाच नोक्तटष्टान्तसंभव-इति चेन्न; पटे घटत्व- प्रकारके 'घट इत्याकारके इत्याकारके शीतगंगास्पर्शो भवत्वित्याकराकविपयान्तरजिज्ञासादिरूप प्रतिबन्धके सति जायमाने प्रत्यक्षे घटादिभानासंभवात्। यथाश्रुतं नु तद्संबन्धवदित्यसङ्गतम्। विपयादिनिरूप्यत्वनियमपुरस्कारेण कृतस्य पूर्वपक्षस्य दृष्टान्तेनानुद्धारात्। नच-यथोक्तव्याखयानेऽपिट श्टान्तासंभवः, शुद्धजातेः कदाचिद्यक्तिनिरूप्यत्वास् ज्ञानत्वोपलक्षितस्य कदाचिदृपि विषयादिनिरूप्यत्वस्याभावात् ज्ञानत्वविशिष्टस्यैव कढाचिद्विप यादिनिरूप्यत्वादितति- वाच्यम्; ज्ञानत्वतदुपलक्षितव्यक्त्योः सविकल्पककयेद्यत्वमते ज्ञानत्वविशिष्टस्य विपयादिनिरूप्यत्वेऽपि तयोस्नदम्वी- कारमते ज्ञानत्वांशे निविकल्पकस्य विषयाद्यंशे सविकल्पकस्य ज्ञानत्वोपलक्षितविशेष्यकप्रन्यक्षस्य स्वीकारेण ज्ञानत्वो- पलक्षितस्य विपयादिनिरूप्यत्वसंभवात्। तस्मात् कदाचित्पदावृत्या यथोक्तव्याख्यानमनिरम्यम्। अतएव मोक्षे ज्ञेयसामान्यस्य ज्ञानुश्चाप्रकाशेऽपि ज्ञानत्वोपलक्षितस्य प्रकाशादेव। ज्ञानस्य ज्ञानत्वोपलक्षितस्य। स्वाभाविकं अनारोपितम्। ईश्वरज्ञाने चेति। परमते ईश्वरज्ञानस्याजन्यत्वान्मन्मतेऽपि इन्द्रियसंनिकर्पस्येव विपयस्यापि तत्रा- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी।
विना प्रत्यक्षाविषयत्यं, तज्ज्ञानावीनप्रत्यक्षविपयत्वरूपं, तत्संबन्धवत्वेनेव प्रत्यक्षविपयलरूपं वा प्रागभावादेरनुमित्यादेः प्रतियोग्यादिज्ञानं विनापि सत्त्वात् प्रत्यक्षनिवेशः । अतएव भ्रमभिन्नजातिप्रत्यक्षत्वस्येति वक्ष्यते ग्रन्थकृताऽनु- पदमेव। विभागस्य भेदस्य। 'इह कपाले घटो मविष्यति,' 'अयं घटः,''नाहमीश्वरः,' 'घटमहं जानामि,'इति प्रत्यक्षेपु प्रागभावादीनां प्रतियोग्यादिसंसृष्टतयव भानात्, कथंचित् प्रतियोग्यादिज्ञानजलात्, 'इहभविष्यति,''घटत्वं न नजाना- मी'त्यादि प्रत्यक्षानुदयात्। '्रह्मास्तीति' ब्रह्मसत्ताप्रत्यक्षं तु प्रतिवादिनामेव प्रसिद्व। प्रकृतोपयुक्तथ्ायं दृषान्त इति तत्र हेतुं स्वयमाह-अन्यथेति। निताया ब्रह्मसत्ताया ज्ञानेऽपि कर्त्रनपेक्षायामित्र्थः । अस्तिव्रह्मति। अस्धातोः सत्ताया ब्रह्मरपतया नित्याया अप्युत्पाद्यतरूपसाध्यत्वेन प्रतीतेः उत्पादकाकाह्लायां कतृपदार्थस्वतन्त्रकारकरूपोत्पादकाभिधायको लकार: प्रयोज्यः; अन्यथा 'ब्रह्मसत्यं' इत्यत्रेव क्त्रभिधायको न प्रयुज्येत। इन्थंच शाब्दे ब्रह्मसत्ताया ज्ञानेऽपि कर्मापेक्षा सिद्धति, प्रत्यक्षेतु यम्मात् शव्दात्तु योऽर्थः प्रतायते, तदुलिखितप्रत्ययस्य तदर्थनिपयकत्वमिति नियमात् ब्रह्मरूपापि सत्ता 'ब्रह्म' 'अम्नीति' भिन्नपदप्रतिपाद्यत्वात् भिन्नेति त्रह्मथ्रयिका ब्रह्मकर्तृकक्रियारुपा च भवति। नचैवं अन्योन्याश्रयः, भेदे सति भिन्नपदप्रतिपाद्यता, तस्यां सत्यां भेदकल्पनात्, इति-वाच्यम्; इदानीन्तनव्यवहारप्रयोजकमेदकल्पने तत्पूर्वव्यवहारस्य, तत्प्रयोजकभेदकल्पने तत्पूर्वव्यवहारस्येत्येवमाश्रयेण तदभावात्; व्यवहारस्यानादिलात्। एवंचाज्ञा- नल्ादिति हेनुवाक्यघेटकनिरर्थकल्युडन्तज्ञाधातुना आत्मचतन्यरूपज्ञानस्य हेतुघटकप्रतियोगितया प्रतिपादने उत्पाद्यत्वेनव प्रतिपादनसंभवादुत्पाद्यल प्रयोजकोपाधेः विषयतदाकारवत्त्यादिरूपज्ञानत्वस्योत्पादककतृकारकस्य चाकाह्लाया नियतलादुभ- य विशिष्टस्येव चिदात्मनो ज्ञानपदात् प्रतीतिवाच्या। तथाचोक्तज्ञानतोपलक्षितस्य परममुक्तात्मनो हेतुघटकप्रतियोगितया भानासंभवादुकतपदार्थभिन्नलवरूपहेनोसत्र व्यभिचारो दुरुद्वर इति भावः। ननु स्वोत्पत्यर्थमनपेक्षितस्य स्वज्ञप्तौ अपेक्षा क्व दंषेतत आह-एवंचेति। अतीतादिज्ञानस्येति। आदिनाSनागतप्रहणम्। ईश्वरज्ञानस्येति। तदुपाधिमाया-
Page 102
३0%
'यदा ज्ञानं तदा अर्थ' इति कालिकव्याप्ा पूरवेवन् व्यभिचारात्, देशिकव्याभिस्तु दरनिरस्नय।नच्र-यदा
गोडव्रह्मानन्दी (लघुचन्द्रिका)। हेनुत्वात्तदभावो बोध्यः। यदा ज्ञानमित्यादि। यदा यस्यार्थस्य ज्ञानम्, तदा सोऽर्थ इृत्यर्थः। परर्ववत् परोक्षज्ञाने लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। परिणामवत्यवच्छिन्नचैतन्यरुपस्य मायान्तःकरणरपोादानस्य तदर्व्ननच््यचर््येक्षणत। व्याच-अर्था- नपेक्षन्वे इति। तननिरूम्यन्वेव्यन्न तत्पदेन गुणभृतार्थपरामशकना, कार्यखादी करणलानेरिव ज्ञाने विपयनिर सल्ा भावात् प्रकृतानुपयोगाव्त निरुप्यत्पदम्य विशिष््त्वरपण प्रकारभानलपर्तां च विषयनिरप्यं हि ज्ञानं अनो ज्ञानववि- निवेदो विषय इति प्रत्यक्षमणितदाह-स्वविपयेति। विशिष्टर्पणेति। विशिष््धनत्यर्थः। 'अतीतं घटं जानामि इत्येव प्रततेः, 'जानामि' इत्यप्रतीतेः। ज्ञानोत्पत्तये विपयानपेक्षतासृचनाय-अतीतमिति। वनमानविपयम्य जीनज्ञानोन्पनों कारणत्वंनापंक्षणाव. श्वरज्ञाने तु वर्तमानविपयस्याि न काग्णन्वं नस्यानादित्वात, "संवद्ध वर्नमानं च वह्यने चक्षुगदि- नत्युफ:, ऐन्डयिकलोकिकप्रत्यक्ष एव विषयस्य कारणाच। एवं "नदेक्षत वहु स्यां प्रजययेति" शुव्या साव्यविषयवि शंपितमेवेक्षणस्पमीशरज्ञानमनदते, वदकतुर्गश्रस्य ताहयानुवादमलभूनं वक्षणं ज्ञानें प्रत्यक्षमेव; विषयाविशोपितरपणापि ज्ञानप्रकाशमानन्वे शुद्धम्य हेतुघटकतमनपवादमेवेन्येवकागन्तभावः। प्रकाशमानत्वं प्रत्यक्षविषयन्वं। अर्थं, ज्ञानवान, इच्ाया:, इन्यनुमानादिना विपयाविश्ेषिनरपणापि ज्ञानावगाहनात्। एतावतीक्तं अज्ञानलादित्त्र ज्ञाधातुनोत्पाद्यत्वेन पतीयमान्य ज्ञानस्योत्पदककर्तृकारकाकाक्षया कत्रपक्षन्वं कनृनिरप्यत्रूपनया विपयनिरूप्यन्वदष्टान्तस्मारणेन चोप- मंहगति-ज्ञानस्येत्यादिना स्वभाव इत्यन्नेन। उक्ताकाड्ावशात। कनृमंबन्वज्ञानभानं शाब्दे एव, 'यस्मात् शब्दादिति नियमादित्युक्त्म, प्रत्यक्षेत् तत्रानुभवं प्रमाणयति-अन्यथति। ज्ञातृज्ञयनिरूप्यत्वमित्यत्र ज्ञानुज्ञंयस्येव निम्यत्वं ताता जयमिव तननिरप्यमिति चार्यः। अनोन ज्ञयपद पुनरुक्तम।िरुप्यत्वं नृक्तरूपमेवे- व्याह-विशिष्टस्पणत्रेति। एवकारेण नियतार्थकम्वभावपदार्थ उक्ः, प्रयोजनं उक्तम। ननु असंप्रज्ञातसमारवो भोक्षे चान्मनः वृद्धस्सैव प्रकाशमानत्वान तन्कालीनात्मनी ज्ञानृचोपलक्षितस्वरूपवान न ्यचा इववन आह- नथाचेति। यज्ञातृविशेपतेति पाठः शुद्धत्िद्ृपेणापि अनावतचिद्रषेणापि। एतेन विशेपितशुद्धयोने विगेध:। ननायाथोडमेटः। अपिना व्ञानज्ञयाविशेषतव्यापि भान सचितम्। प्रकाशमानत्वात् प्रकाशाभेदानू। न जानत्वो- पलक्षितम्वरूपत्वमिति। वानज्ञयविकोपिता चत्प्रकाश काले ज्ञानत्वनव प्रकाशान ज्ञानत्वविशिष्नन्वन, तनुपलक्षितन्वा- नावादिनि भायः। असप्रज्ञानगमाविमोक्षदशारयां ज्ञानृज्षेयविशिष्व्चेनापि सत्यस्य चिदात्मनो भानमित्यभिमाननेयमाशक्का। उक्ािमानानिरामय रफुटीकर्यते॥ ननु ज्ञानपदार्थतावच्छेदकाववित्नस्य ज्ञानुजयघटित्वे तनिरुप्यत्वसुचितम, नतु स नधव्वासहार्यां गून विवग्णाविरोध उस उत विवग्णस्थज्ञातुस्थेति पदप्रयोजनव्याजेन स्फृदयति- वृत्यवच्छिन्नस्येति। असत्वावरणेति। असत्वापादकेत्यर्थः। सत्त्वावरणेति नजरहितः सुपाठः । एकेन शुक्याविज्ञाननेकस्यँव शुक्याद्यावरकाज्ञानस्य नन्कार्यगजनादेक्ष निरवृत्तः, तज्ज्ञानव्यक्तिनाशे त्वज्ञानान्तरेण पुनः शुक्या- द्ावरणमिति मनाभिमानाभिप्रायेण यत्किचिदज्ञानेत्युक्तम।ज्ञातृज्ञेयनिरूप्यमिति। अम्य ज्ञातृज्ञयाभ्यां निरुप्ं विर्वचनायमिति नार्थ :; अन्यथेलनेन ज्ञानज्ञयविशिष्ृत्वेन प्रकाशमानत्वानुपगम एव विवरणविरोधस्य वत्तव्यन्वान् कितु ज्ञातृज्ञेयसंचन्धविशिए सत यत् प्रकाशने प्रत्यक्षक्यियो भवति इत्यर्थः। जातिर्नित्या, धटत्त्वं प्रमेयं, इत्ादिज्ञानविप-
व्याचऐ-कदाचिदिति। अर्य गौरिति प्रमाकाले इत्र्थः। व्यक्ति: साश्यः। शुद्धेति। कदाचिदित्यनुपज्यते। व्याप्यत्वं तादात्म्येन। प्रकाशपदे प्रकाशतवपरे। दार्श्टान्तिकं पूरयन् प्रकृतोपपूतिपरतयोपपिपद व्याचषे-ज्ञानत्वो- पलक्षितस्येति। कदाचित् संसारदशायां ज्ञानत्वेन प्रत्वक्षकाले। कदाचित् अनंप्रज्ञातसमाधिमोक्षदशायां शुद्धात्मस्वरूपप्रकाशकाले। विषयाद्यनिरूप्यत्वोपपत्तरिति। शह्ायां तदुक्तिस्तु सिद्धान्तानवबोधमूलकामिमानेनवेति भावः। एवंच संसारदशायां आत्मनि ज्ञानत्वादिविशिष्टे ज्ञानत्वोपलक्षितयुद्धात्मभेदरूपहेतुस्त्वंपि न व्यिचार इति पर्यवसितम्। कादाचित्कत्वं अननुगतत्वात् परिलज्य टष्टान्तदार्श्ान्तिकरोनियममाह-तथाचेति। अंशादौ गोला- दिश्नमप्रत्यक्षे व्यमिचारवारणयां-भ्रमभिन्नति। जातीति। शुद्धजातीयर्थः। ज्ञानत्वविशिष्टेति। तदिपयकेलर्थः । ज्ञानत्वेन ज्ञानभानस्य विषयादिवेशिष््यभाने प्रयोजकत्वादिति भावः। प्रकाशन्वपदानि प्रत्यक्षत्वपराणि: नत्विति। मोक्षकालीनशुद्धात्मप्रत्यक्षे व्यभिचारादिति भावः। ननु जातिप्रत्यक्ष विशद्धलत्यक्तिविषयकत्वस्य ज्ञानत्वविशिरप्रमम विश हलविपया दिविपय कम्याप्युपगमे चोक्त्तनियामनिर्वाहान्, व्यत्त्यशे जातिानं अनत्वविशिष्टंशी विषयभार्व न नोर- अ. सि. ३९
Page 103
३०६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
'अपरोक्षज्ञानं तदार्थ' इति कालिकव्याप्ती नास्ति व्यभिचारः, आत्मा च 'यत् साक्षात् अपरोक्षात्
गौडव्रह्मानन्दी (लघुचन्द्रिका)। जेयजन्यत्वाभावात्। दूरेति। शातरि ज्ञानवत्यर्थाभावात्। यदा परोक्षत्यादि। पूर्ववद्यस्यार्थस्येत्यादि बोध्यम्। लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। नियमेन सिध्यति, इत्यत आह-तादृशति। भ्रमभिन्नेत्यर्थः । जातीति। शुद्धेत्यर्थः। ज्ञानत्वविशिष्टविषयताया इति। प्रत्यक्षीयेत्यादिः। एवंचाश्वे गोत्वभ्रमे गोव्यकेरभानेऽप्युक्तनियमाभझ्वत्, मोक्ष शुद्धचिदात्मखरूपे तत्प्रत्यक्षे ज्ञानत्वाभावेन कर्तृविषयवेशिष्ट्याभानेऽप्युक्तनियमाभङ्गात् चिदात्मरूपस्य ज्ञाधात्वर्थज्ञानस्य नित्यस्योत्पत्ताविव ज्ञप्तावपि कर्तृविषयापेक्षा नास्ति। नच-ज्ञाधातुना उत्पाद्यत्वेन तद्भानात्कत्राकाङ्कावशात् तद्भानमावश्यकमिति-वाच्यं; ज्ञाधात्व- थंतावच्छेदकज्ञानत्वेन धातुमात्राधीनबोधे एवोत्पाद्यत्वेन भाननियमात। तत्र भानस्योत्पाद्यत्वेन बोधे कर्तुज्ञीनत्वेन ोधेच विषयस्याकाङ्ानियमेन भाननियमान् । अज्ञानत्वादित्यत्र 'ज्ञानवान्' 'गुणवान्' वा इच्छाया इत्यत्रेव ल्युडन्तेन तु भावज्ञानपदेन लक्षणया ज्ञानत्वोपलक्षितशुद्धात्मबोधे ज्ञानस्योत्पाद्यत्वाभावेन कर्तृविषयवैशिष्ठ्याभानेन सत्ये शुद्धात्मनि ज्ञानत्वोपलक्षितत्वसत्त्वेन तद्वन्निरूपितभेदरूपहेतोरभावान्न व्यभिचार इति भावः। प्रकृते शुद्धात्मभाने शुद्धजातिभानमेव दृष्टान्ततयोक्तं, नतु शुद्धप्रागभावभानशुद्धाज्ञानभाने अपीति कुतः! इत्यतः आह-शुद्धज्ञानस्वरूपस्येति। प्रागभावा- देरित्यादिना प्रतियोगिन: संग्रहः । नत्विति। कदापीति शेषः । गवादेरिति। गोत्वेन भासमानस्येत्यादिः । प्रतिबन्धके इति। तादृशाकारज्ञानेच्छा तदन्याकारज्ञाने प्रतिबन्धिका, तस्याक्रोत्कटतम्। अतस्तत्रकज्ञानेच्छायां सत्या- मप्यपरज्ञानोत्पादानुभवः। अतएव कामिनीजिज्ञासैव जिज्ञासारूपप्रतिबंधकेपृदाहियत; कामिनीविषयकत्वस्याकप्रयोजक- त्वात्। अत उक्तेच्छायां शत्यविशिष्टगङ्गाविषयकस्पार्शनज्ञानत्वावच्छिन्नविषयकत्वमुक्तम्। निदाघतपस्य तादृशेच्छाया रत्कटत्वात्। शीतगङ्गाजलहरणसाधनस्य घटस्य ससन्निधावभवि सवसन्निहितपटे घटत्नग्रहमाणे तं जलाहरण- साधनत्वेन गृहीत्वा तदर्थ तदुपादानाय घटत्वेन पटप्रत्यक्षत्वावच्छिन्नविपयकत्वमप्युक्तेच्छायाः उत्कटत्वप्रयुक्त्तमेव। अतएवोत्कटकामिनीलाभेच्छया अल्पधने तत्साधनबहुधनत्वबुद्धिस्तदवच्छिन्नतद्विषयेच्येवानुभूयत इति व्येयम् । कदाचित्पदमावर्त्य तस्य व्यक्तिनिरूप्यत्वेऽन्वयं कृत्वा जातेरिति युक्तिर्व्याख्याता, अन्यथा त्वसङ्गतिमाह-यथाश्रुत- मिति। विषयादीति। ज्ञानस्येत्यादिः। आदिना ज्ञाता। नियमपुरस्कारेण नियमावलम्बनेन। पूर्वपक्षदशायाम- प्यात्मरूपज्ञानस्य शुद्धस्य भानासंभवरूपस्येत्यादिः। दृष्टरान्तेन दृष्टान्तमात्रेण। मात्रपदेनोक्तनियमसंकोचव्यवच्छेदः, उक्तनियमसंकोचं विनेत्यर्थः। जातेरपि व्यक्तिनिरप्यत्वनियमसंकोचं विना कदाचित् व्यत्त्यनिरूप्यत्ासंभवात् दृष्टान्तस्या- प्यसंभव इति वोध्यम्, तदाह-नचोक्तव्याख्यानेSपि दृष्टान्तासंभव इति। सविकल्पकवेद्यत्वेति। निर्विकल्प- कमात्रावेद्यत्वेत्यर्थः । तयोः ज्ञानत्वतदुपलक्षितव्यत्तयोः। तदस्वीकारमते इति। निर्विकल्पकमात्रावेद्यत्वाम्वीकार इत्यर्थ:। निर्विकल्पकसविकल्पकोभयात्मकं नरसिंहाकारं ज्ञानमुपगम्य तद्वेद्यत्वमते इति यावत्। ज्ञानत्वांशे निर्विक- ल्पकस्येति। ज्ञानत्वत्वरूपविशेषणज्ञानाभावादिति भावः। विषयांशे सविकल्पकस्येति। विषयस्य विशेषणज्ञानस्य व्यवसायरूपस्य सत्त्वादिति भावः । संभवादिति। ज्ञानत्वविशिष्टविषयत्वस्य विषयवैशिष्ट्यविषयतानिरुपितत्वनियमेऽपि विषयवैशिष््यविषयतानिरूपितत्वरूपव्यापकस्य ज्ञानत्वोपलक्षितविषयतारूपाधिकदेशवत्तित्वे बाधकाभावादिति भावः । ज्ञानत्वांशे निर्विकल्पकत्वानुसरणं तु सामत्रीवशात्। तेन ज्ञानत्वविशिष्टविषयकप्रत्यक्षीयज्ञाननिष्ठविषयताया विषयवैशिश्ठ्य- विषयतानिरूपितत्वनियंमस्योपगमेऽपि न क्षतिः। अतएव तत्त्वसाक्षात्कारीयशुद्धात्मविषयताया विपयवैशिष्ठ्यविषयता- निरूपितत्वं न; तत्र ज्ञानतस्योपनिषदामद्वितीयात्मज्ञाने तात्पर्येण अभानेन उक्तनियमाभआ्गात्। तात्पर्याभावादेव च तत्- ज्ञाने नात्मरूपज्ञानांशे विषयवशिष््यभानमपि। सर्वविषयाणां 'नेह नाना' इति थुल्या बाध्यलाचच। विशह्कलतया खात- कयेणापि वा तत्त्वज्ञाने न कस्यचित् व्रह्मान्यस्य भानम्; तत्र तात्पर्याभावादद्वितीये ब्रह्मात्मन्येव वेदान्तानां तात्पर्यादिति मनसिकृत्योपसंहरति-तस्मादिति। कदाचित्पदावृत्येति। कदाचित्पदस्यावृत्येत्यर्थः। अतिरम्यमिति। दृषन्ते भ्रमान्यप्रत्यक्षीय जातिविषयत्वे व्यक्तिविषयतानिरूपिततस्योक्तत्रमीयतद्विषयत्वे च तदभावस्य, दार्ष्टान्तिके च कदाचिदु- कतनिर्विकल्पकसविकल्पकप्रत्यक्षकाले तंदीयज्ञानत्वोपलक्षितात्मविषयत्वे विषयवैशिष््यविषयतानिरूपिततस्य कदाचिन्मु- कात्मतत्त्वसाक्षात्कारकाले तदीयोक्तात्म विषयत्वे विषयवशिष्ट्य विषय त्ानिरुपितत्वस्य च सत्त्वादिति भावः। ननु मुक्ता- त्मज्ञानीयात्म विषयत्वस्य ज्ञातृज्ञेयवैशिष्ट्यविषयतानिरूपितत्वं कुतो नेत्यत आह-मूले संबन्धेति। मुक्तात्मनो ज्ञातृज्ञे- ययोः सेबन्धप्रयोजकोपाधित्रत्यादिस्तदपेक्षया तदीयव्यावहारिकसत्त्वापेक्षयाऽघिका पारमार्थिकी या सत्ता तद्वत्त्वादित्यर्थः। नेह नानेति श्रुतिमिथ्यालानुमानाभ्यामात्मनि तदितरसकलप्रप्चस्य वाधादिति भावः। नन्वेवं कदाचिन्मुक्तात्मनि ज्ञान-
Page 104
३०७
ब्रह्म ति श्रुतेरपरोक्षज्ञानरूप इति सोऽप्यर्थव्याप् इति-वाच्यम्; ईश्वरशाने योगिशाने व व्यभिचा-
गौडव्रह्मानन्दी (लघुचन्द्रिका )। योगिज्ञान इति परमतमाश्रित्य, स्वमते तु तस्य नापरोक्षत्वमिति वक्ष्यते। यद्यपि ज्ञानस्योत्पत्तिद्वितीयक्षणे अथ्रसत्वानियमादयोगिजीवज्ञानेऽपि व्यभिचारसंभवः; तथापि स्वोत्पत्यव्यवहितपूर्वत्वसमानाधिकरणकालिकसंब- न्धेन यदा अपरोक्षज्ञानं, तदा अर्थ इत्युक्तावयोगिजीवज्ञाने व्यभिचाराभावाद्योगीत्युक्तम्। न-ज्ञानत्वोपलक्षि- तस्य चैतन्यस्य तादशसंबन्धाप्रसिद्या सिद्धान्तिनस्तादृशव्याप्तिन क्षतिकरीति-वाच्यम्; तादृशव्याह्यनिर्वाहस्यैव लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। त्वोपलक्षिते ज्ञातृज्ञेयसंवन्धप्रतीतेजायमानाया भ्रमत्वं स्यादित्याशङ्कामिष्टापत्त्या परिहरति-अतपवेति। अतएवेत्यस्य ज्ञातृज्ञेय संबन्धप्रयोजकोपाव्यपेक्षया ज्ञानस्याधिकसत्ताकत्वादित्यर्थः । तेन च ज्ञातृज्ञेयज्ञानत्वानां बाधितत्वलाभः। तहव्व- फलितार्थपरतया व्याचष्-अतएवेति। मोक्षे तत्काले। ज्ञेयसामान्यस्य ज्ञानत्वघटितस्य। ज्ञातुः अन्तःकरणा- रवच्छिन्नचैतन्यस्य।अप्रकाश उत्तरीलया बाधादिति भावः। ज्ञानत्वोपलक्षितस्य शुद्धात्मसरूपात्मकप्रत्यक्षादेरि- त्यर्थः। ज्ञानत्वविशिष्टस्य विषयसंबन्धः स्वाभाविक एवेत्यतो व्याचष्रे-ज्ञानत्वोपलक्षितस्येति। न स्वाभावि- कमिति। अत्र प्रतियोगिपदं व्याचषे-अनारोपितमिति। ज्ञयोपलक्षितत्वरूपसज्ञयत्वस्य स्वाभाविकत्वसंभवादाह- मूले तथाहीति। संबद्धं वर्तमानंच गरृह्यते चक्षुरादिनेत्युक्त: जवलाँकिकप्रत्यक्षस्येव विषयजन्यत्वमित्याश्रित्याह- परोक्षज्ञाने इति। अत्र परोक्षत्वं न लौकिकसन्निकर्पाजन्यत्वम्; ईश्वरज्ञानस्य पृथगुपादानात्, किंतु सवविशेषणान्यवि- षयकज्ञानत्ार्वाच्छनजन्यतमित्यभिप्रेत्याह-ईश्वरज्ञाने इति। तत्र परोक्षज्ञानस्य सर्वमते जन्यत्वंऽपि न विषयाजन्यत्वम्; अर्तातानागतविषयकत्वेन व्यभिचारात्। ईश्वरज्ञानस्य तत्वे हेखन्तरमप्याह-टीकायां परमते इति।ननु खमते तस्य- जन्यत्वादवूर्नमानविपयजन्यत्मस्तित्यन आह-मन्मते इति। इन्द्रियसन्निकर्षस्येवेति। 'पश्यत्यचक्षुः स णोत्य- कर्ण:' इति श्रुतेस्तम्यानिन्द्रियतादिति भावः । विपयस्यापीति। वर्तमानेत्यादिः । तत्र ईश्वरज्ञाने। अहेतुत्वादिति। लोकिकेन्द्रियसन्निकर्षजन्यज्ञान एव वर्तमानविपयस्य हेतुत्वादिति भावः। तद्भावो विषयजन्यत्ाभावः। अतीतानाग- तघटादिविषयस्य स्वज्ञानकालेऽभावेऽपि वर्तमानघटपटादिरूपार्थान्तरसत्वेन तेन तस्य सज्ञेयलव्यवहारः, नच वक्ष्यमाणो व्यभिचारोऽत आह-यदा यस्येति। पूर्ववत् व्यभिचारादित्युक्त्तं व्याचष्टे-पूर्ववदिति। परोक्षज्ञानइति। ईश्वर- ज्ञानेचति वोध्यम्। ज्ेयजन्यत्वाभावादिति। लौकिकेन्द्रियसन्निकर्पाजन्यत्ादित्यर्थः । मूले-व्यभिचारादि- त्वस्य वर्नमानेऽतीतघटादिप रोक्षादिज्ञानेSतीतघटादेव्यभिचारादित्यथेः। दूरेतीति प्रतीकोत्तरं बाह्यार्थप्रत्यक्षेऽ्रपि व्यभि- चारादिति पाठोऽपक्षितः। ज्ञातृपदस्य ज्ञानोपलक्षित्ुद्धात्मपरत्वे तत्र ज्ञानरूपव्याप्यस्यवाभावान्न व्यभिचारोत आह- ज्ञानवतीति। वाह्यार्थज्ञानवतीत्यर्थः। अर्थाभावात् बाह्यार्थाभावात्। एतेन सुखादिप्रत्यक्षे सुखादिव्यभिचारा- भवऽपि न क्षतिः, घटायपरोक्षज्ञानकाले पटादिरूपार्थान्तरसत्वेऽपि न तेन तस्य संज्ञेयत्व्यवहारोतो व्याचष्टे-पूर्व- वदिति। इत्यादिबोध्यमिति। यदा यस्यार्थस्यापरोक्षज्ञानं, तदा सोऽर्थ इति बोध्यमित्यर्थः। उक्तव्याप्तिस्वीकारे प्रकृते का क्षतिरित्याशक्क्य मोक्षकालीनस्य शुद्धात्मनः स्वाभाविकविषयसंबन्धसवीकारापत्तिमाह-मूले आत्मा चेति। मोक्षकालीन: शुद्धात्मा चंत्यर्थः । अपरोक्षज्ञानरूपः सकलविषयकापरोक्षज्ञानरूपः। सोऽप्यर्थव्याप्त इति। तस्या- प्यर्थव्याप्तिरावश्यकीत्यर्थः । तथाच चैत्रात्मनो मोक्षकालेऽतीनानागतविषयाणामभावाद्यभिचारादुक्तव्याप्तिभन्गः। वर्तमान विषयैःस्वाभाविकसंज्ञेयलापत्तेक्चेति भावः। सवात्मकविषयेण संज्ञेयत्वापत्तिस्तु न; भेदनिबन्धनस्य तादात्म्यरूपविषयख- स्यात्यन्तामेदेऽसंभवात् । ईश्वरश्ाने । इदंचापरोक्षम्, "स एतदेक्षत पश्यत्यचक्षुः स शणोत्यकर्णः" इत्यादौ अपरोक्षार्थकधानुभिरेव तस्योह्ेखात्। परे नैयायिकाः। वक््यत इति। योगजधर्मस्येन्द्रियसन्निकर्षलानङ्गीकारादिति भावः। एवं सामान्यलक्षणया अन्यज्ञानेऽपि व्यभिचारात्तदभावो वोध्यः। अर्थसत्त्वानियमादिति। ज्ञानानुव्यवसा- यद्वितीयक्षणे ज्ञानस्य नाशादिति भावः। पूर्वत्वसमानाधिकरणेति। पूर्वत्ववदनुयोगिकेत्यर्थः। तादृशश्च कालिक- संवन्धः अनुव्यवसायस्य; तदुत्पत्तिक्षणपूर्वक्षणे ज्ञानसत्त्वात्। व्यवसायस्यापि स इति नोक्तव्यभिचार इति भावः। योगीत्यु- कमिति। योगिज्ञाने लतीतानागतविषयव्यभिचारः स्फुट एव। चैतन्यस्येति। नित्यस्येति शेषः । तादृशेति। स्वोत्प- ततिघटितत्यथः । नक्षतिकरीति। व्याप्यताघटकसंबन्धेन शुद्धात्मचैतन्यरूपव्याप्यवत्यतीतानागतविषयरूपव्यापकभावे व्यभिचारेणोक्तव्याप्तिभन्वापत्तिरूपा वर्तमानविषयस्य व्याप्यत्वरूपस्वाभाविकसंबन्धापत्या शुद्धलाहानिश्वेति क्षतिर्वाच्या, सा च न; उक्तसंबन्धाप्रसिद्धा व्याप्यवत्ताया एवाप्रसिद्धेरिति भावः । तादृशव्याध्यनिर्वाहस्येति। संयोगेन व्याप्यादौ व्याप्यत्ापत्तिवारणाय व्याप्यताघटकसंबन्धेन व्याप्यवत्ताया व्याप्ये तत्संबन्धावच्छिन्नाधेयतायाश् निवेशावश्यकतयो-
Page 105
३०८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
रात्। 'यदैन्द्रियकं ज्ञानं तदार्थ' इति तु व्याप्तिः सर्घसंमता। नचात्मरूपे ज्ञाने ऐन्द्रियकत्वं अस्तीति न तया विरोधः। ननु-'यदा अपरोक्षं ज्ञानं तदार्थ' इति व्याप्यनभ्युपगमे 'इदं रजत'मित्यपरोक्ष- ज्ञानान्यथानुपपत्या अनिर्वचनीयरजतसिद्धिर्न स्यात्, अर्थ विनाप्यपरोक्षत्वोपपत्तेः-इति चेन्न;
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सिद्धान्तिनंप्रति दोषत्वात्। ऐेन्द्रियकं यस्यार्थस्येन्द्रियसंनिकर्षेण जन्यं ज्ञानमुक्तसंबन्धेन यदा, तदा सोऽर्थ इत्यर्थः। ननु यदेत्यादि। अपरोक्षज्ञानस्य वृत्तिरूपस्य द्रव्यगुणादिविषयेषु संयोगसंयुक्त्तसमवायादिसंबन्धेन व - च्छेदकतासंबन्धेन वोत्पत्तिस्वीकारात् भवन्मते यदा स्वोत्पत्तिविशिष्टकालिकसंबन्धेन यदर्थस्यापरोक्षज्ञानं, तदा सोऽर्थ इति व्याप्तिर्वाच्या; अतएव भवन्मते 'इदं रजत'मित्यादिभ्रमस्थले अनिर्वाच्यरजतादेः शुक्त्याद्यवच्छि- संचैतन्ये उत्पत्ति: स्वीक्रियते; तां विना संयोगादिसंबन्धेन अवच्छेदकतासंबन्धेन वा रजतादौ तदाकारा- विद्यावृत्तेरुत्पत्यसंभवेन शुक्त्याद्यवच्छेदेन जायमानाविद्यावृत्तिरूपापरोक्षज्ञानस्य रजतादे: संयोगेनावच्छेदकतारूपेण वा संबन्धेनासंबन्धित्वात् भ्रमस्थले रजतादिसंबन्ध्यपरोक्षज्ञानाप्रसिध्या तस्य रजतादिव्याप्यत्वासंभवात्, नहि रजतादेरपरोक्षज्ञानेनान्यः संबन्धोऽस्ति; विषयतायाः चिच्वैत्ययोरेव स्वीकारात्, आकाराख्यामुख्यविषयतायाः लघुचन्द्रिकाया विठ्ठलेशोपाध्यायी। कक्तसंबन्धेन शुद्धात्मरूपे ज्ञानेSतीतादिव्याप्यनिर्वाह इति भावः। वर्तमानविषयस्य तु तत्र तेन संवन्धेन व्याप्यनिवाहान् तेन संज्ञेयत्वस्य स्वाभाविकस्य नापत्तिः। परमते मनोरूपेन्द्रियजन्यतस्य परोक्षेऽपि सत्वात् सन्निकर्षणत्युक्तम्। लौकिकस- न्निकर्षेणेत्यर्थः । मूले-व्याध्यनभ्युपगम इति। ईश्वरज्ञानादो व्यभिचारेणेत्यादिः । ननूक्तव्याप्यभ्युपगमे 'इदंरजतम्' इत्यपरोक्षभ्रम काले ब्रह्माण्डेऽन्यत्र कुत्रापि सतो रजतस्यान्यथा्यातिस्वीकारेऽयुक्तव्याप्तेरभङ्ेनानिवचनायरजतसिद्वेरसंभवः, अनुव्यवसायद्वितीयक्षणे व्यवसायाभावेन व्यभिचारक्षेत्याशक््य स्वोत्पत्तिविशिष्टकालिकसंबन्धेन साधिकरणे उत्पत्ति विना न संभवतीत्यतस्तामाह-अपरोक्षज्ञानस्येति। शुद्धचैतन्यरूपस्यापरोक्षज्ञानचिद्रूपस्य नित्यल्ाद्ृत्त्यर्वच्छित्नचिद्रृपस्य
मिन्नानमेषां जन्यल्वात्तत्र वक्ष्यमाणकालिकसंवन्धसंभवः, विषयतासंवन्धस्य भरवऽपि परोक्षज्ञानसाधारण्वातसंयोगादिसं- वन्धोक्तिः । अनुगममाह-अवच्छेदकतासंबन्धेनेति। घटायर्वच्छिन्नचतन्ये उत्पद्यमानाया वृत्तरवच्छेदकतासंव-
गादिसंबन्धेन संद्धघटादीनां संयोगादिसंबन्धार्वच्छिन्नावच्छेदकतासंभवात्तत्संबन्धेनेत्यर्थः। स्वोत्पत्तिविशिष्टेति। उक्तसंवन्धेन स्वाश्रयानुयोगिकत्संबन्धनेत्यादिः एतदर्थमेव स्व्रीकारादित्यन्तोक्तिः। अनुव्यवसायद्वितीयक्षणोत्पन्नगु-
व्यवसायाभावेन व्यभिचार इत्युत्पत्तिविशिष्टेत्युक्तम्। यदर्थस्य घटादयर्थस्य। सोऽर्थः घटादिरूपोऽर्थः। यथा घटादिरूपोर्ऽर्थ इति शेषः। घटादाकारा चक्षरादिद्वारा वहिनिस्सनान्तःकरणवततिहि घटाद चक्षुरादिसन्निकर्षेण तदुतरक्षण उत्पद्यमाना तदुत्तरक्षणरूपावान्तरकालावच्छिन्न घटादिविषयरूपे काले संयोगसंबन्धकालिकसंबन्धाभ्यां संवद्धते; व्रते- रुपादानतया खाभि्नान्तःकरणसंयोगिन्युत्पत्तिक्षणपि संयोगसंभवान्, ननु तदविपय घटादों; इन्द्रियसन्निकर्परूपका- रणाभावात्, ततो नित्यस्यापि चिदात्मनोऽन्तःकरणारवच्छिनस्योत्तरक्षणावच्छिन्नस्य वा जन्यत्वंन कालिकसंवन्धानुयोगितसं- भवाच। अतएव यदा सुखाद्यपरोक्ष तदा सुसादीति व्याप्तिनिवाहः। एवंच व्यवसायेऽनुव्यवसायस्य स्ोत्पत्तिक्षणावच्छदेन स्वाश्रयसमवायिसमवायवदनुयोगिकलसंबन्धेन सवोत्पत्तिविशिष्टकालिकसंबन्धेन सत्त्वादनुव्यवसायस्य च कालिकसंबन्धेन
माह-अतएवेति। ताम् अनिर्वचनीयरजतसिद्धि। रजतादो देशान्तरस्थरजतादौ। तदाकारेति। रजताका- रेत्यर्थः । अविद्यावृत्तरिति। शुत्तयरवच्छिन्नचिन्निष्ठायाः पुरोवृत्तीदमाकारवृतितादात्म्यापन्नायाः शुक्तितप्रकारिकाविद्या- वृत्तरित्यर्थः । तत्संयोगस्य देशान्तरस्थरजतादावसंभवादिति भावः। एवंचोक्ताविद्यावृतेः क्वचिदपि संयोगासंभवात् तद्धटितसंबन्धनोक्तव्याप्तेरनिर्वाहः। तथापि पूर्वानुभूतप्रदेशान्तरस्थातीतरजतस्य तन्न भाने कालिकसंबन्धेन तत्र तस्या- भावेन व्यभिचारात। नचाविद्यावृत्तरपरोक्षलासंभवः; दोपविशेषजन्यत्वेनेदमाकारवृत्तितादात्म्यापन्नत्वेन रजतं पश्यामी- त्यनुभवेन च तत्सत्वादिति पर्यवसितम्। नन्विन्द्रियसननिकर्परूपकारणवलादुत्पद्यमानायास्तदाकाृत्तेस्तनन संयोगादिसं
Page 106
३०९
'इदं रजतमहं जानामी'त्यनुसन्घीयमानं यत् ज्ञानविषयत्वं तस्याश्रयान्तरानुपपत्त्या अनिर्वचचनीयर- जतसिद्धेर्वक्ष्यमाणत्वात्। अतएव परोक्षभ्रमेऽपि अनिर्वचनीयार्थसिद्धिः। जन्यापरोक्षत्वेन वा अर्थ-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नग्यैरेव स्वीकाराच। रजतादेस्तादृशोतपत्ती स्वीकृतायां तु आकाराख्यविषयतासंबन्धेनाविद्यावृत्तिं प्रति स्वपरिणामनिष्ठेन यत्किंचिज्ज्ञानीयविषयतासंबन्धेनाविद्याया हेतुत्वात् तेन संबन्धेन रजतादौ तदुत्पत्तिपूर्वमविद्याया: सर्वादाकाराख्य्रविषयतासंबन्धेनाविद्यावृत्त्युत्पत्तिसंभव इति भावः। इत्यनुसंधीयमानं हदमवच्छिम्नचित्तादात्म्य विशिष्टरजतनिष्ठतया शायमानम्। तथाच यादशं रजतं भ्रमेण विषयीक्रियते, तादृशमेव तत् सिद्धति; ज्ञानस्य स्वविषयशूरत्वात्, व्यवहारकाल एव तद्वाधाय्यावहारिकतवं परं तस्य न स्वीकियते, किंतु प्रातीतिकत्वम्। तादृशस्य तस्य भ्रमेणासिद्धौ घटादेरपि रूपादिमतः सिद्धिर्न स्यात्, तद्ज्ञानस्यापि अद्वैतश्रुत्यादिना बाधात्। यद्वा-इत्य- नुसंधीयमानं इदं चित्तादातम्यरूपविपयतावच्छितं यत् रजतचित्तादात्म्यरूपविषयतवं तदाश्रयत्वेन ज्ञायमानम्। तथाच देशान्तरस्थस्य रजतादेअ्रमे भाने तदीयचित्तादात््यस्येदंचित्तादात्म्यावच्छिन्नतवासंभवेन शुक्त्याद्यवच्छिन्नचिति रजताद्युत्पत्तिः स्वीक्रियत इति भावः। अपरोक्षज्ञानस्यार्थव्यापता नानिर्वाध्रजतादुत्पत्तिंसाधिका; परोक्षभ्रमे तदभावात्, अतोऽस्मदुक्तयुक्तिरेव भ्रममात्रे तत्साधिकेत्याशयेनाह-अतएवेत्यादि। भवदुक्तयुक्तिजन्यापरोक्ष- ज्ञानान्तर्भावेनैव व्याप्तिसाधिका, साच नास्मदनिष्टा; वृत्त्यवच्छिन्नचिद्रूपस्य जन्यत्वेनार्थव्याप्यताया उक्तरीत्या मयापि स्वीकारात्, तावताप्यपरोक्षज्ञानत्वोपलक्षितस्य नोक्तव्याप्यतासिद्धिरित्याशयेनाह-जन्येति। ईश्वरज्ञानं तु यत् अपरोक्षं विद्यमानमात्रविपयकं, तत् उक्तसंबन्धेनार्थव्याप्यमेव। यत्तु भाविविषयमनुमितिरूपमतीतविषयकं वा स्मृतिरूपं च विवरणोक्तं, तस्यार्थाव्याप्यत्वेऽपि नोक्तव्याप्तिहानिरिति भावः। ननु तथापि योगजधर्मजन्या- लघुचन्द्रिकाया विट्ठलेशोपाध्यायी। न्निकर्षस्यासत्वेनान्तःकरणवृत्तिमात्रकरणत्वेन चाकारणलात् कारणान्तरस्याप्यभावात् तस्या एवासंभवात् कथ तद्रजते
ईश्वरज्ञानसाधारणेत्वर्थः। तस्य सकलविषयकत्वेन भाविरजतविषयकलवात्। स्पष्टाचेयं रीतिः सामान्यलक्षणाग्रन्थे गादा- धर्याम्। अविद्यावृत्त्युत्पत्तिसंभय इति । तथाच तस्याः संयोगादिसंबन्धेन तद्रजतादावुत्पत्तिसंभवात् तद्धटितोक्त व्यामिनिर्वाहः । इन्द्रियसन्निकर्षस्येव वृत्तिविषयताप्रयोजकस्याविद्यारूपकारणस्यैव वृत्तिसंयोगादावपि प्रयोजकत्वादिति भावः। मूले-अपरोक्षज्ञानान्यथाऽनुपपत्या रजतापरोक्षज्ञानस्य व्तत्कालीनतद्देशीयरजतरूपव्यापकं विनाऽ- संभवेन। अर्थ विनाऽपि तत्कालीनतद्देशीयरजतरूपार्थ विनापि। अपरोक्षत्वोपपत्त्येति। तत्कालीनरजत- ज्ञानस्यापरोक्षलस्वीकारेऽपि उत्तव्याप्ेरनभ्युपगतत्वेन भज्गापत्तेरभावनेत्यर्थः । मूले-'इदं रजतं जानामीतयत्र इदंरज- तयो: पृथग्ज्ञानेऽन्वये 'इदंजानामि' 'रजतं च जानामी' त्यर्थ गुरुमतसिद्धानुभवस्मरणात्मकज्ञानद्वयरूपभ्रमानुसंधाने पयव सानात् तदरिषये स्मरणरूपज्ञानविषयत्वस्य पूर्वानुभूतापणादिस्थरजतेनोपपत्तिसंभवात्तदनुपपत्त्याSनिर्वचनीयरजतसिद्धि रित्यसन्जतम्; अतस्तादात्म्यसंबन्धनेदंपदार्थपुरोव्ृत्तिविशिष्टरजतान्वितद्वितीयार्थविषयत्वस्य ज्ञानेऽन्वयो वाच्यः। एवमनुसन्धानं न स्मरणम्; ज्ञानाव्यवहितोत्तरक्षणिकत्वेन तत्संस्काराभावात्, किंतनुव्यवसायः, ज्ञानखप्रकाशलमते व्यवसायो वेत्यभिप्रेत्य व्याचट्टे-इत्यनुसंघीयमानमिति। इदमवच्छिन्नेति। पुरोवृत्त्यवच्छिन्नेत्यर्थः । चिदिति। घटादिपदानां सिद्धान्ते घटादवच्छिन्नचित्परत्वादिति भावः। तादात्म्यविशिष्टेति। तादात्म्येनोक्तचिद्विशिष्ठेति समुदायार्थः। रजतनिष्ठतया आधेयतासंबन्धेन रजतविशिष्टतया। ज्ञायमानम् अनुव्यवसायस्य खप्रकश- व्यवसायस्य वोत्तभ्रमसमानकालीनज्ञानस्य विषयः। मूले-ज्ञानविषयत्वं इदंरजतमिति भ्रमविषयत्वम्। तस्य पुरोवृत्तितादात्म्यापन्नरजतनिष्ठतया ज्ञायमानस्योक्तभ्रमविषयत्वस्य। आश्रयान्तरानुपपत्या कल्प्यपुरोवृत्तितादात्म्या-
एवं मूलोक्ताम निर्वचनीयरजतसिद्धि स्फुटयति-तथाचेति। यादशं पुरोवृत्तिशक्तितादात्म्यापन्नम्। भ्रमेण इदंरजत- मिति भ्रमेण। विषयीक्रियते इदं रजतं जानामीत्यनुभवबलादिति शेषः। उक्तभ्रमविषयताभ्रयत्वेन भ्रमप्रत्यक्षेण गृह्यत इति समुदायार्थः । तादृशं पुरोपृत्तिशक्तितादात्म्यापन्नमेव। ननु-अबाधितप्रमानुभव एव विषयसाधकः, नतु बाधितो भ्रम इत्यत आह-ज्ञानस्येति॥
एतावत्येव मातृका॥
Page 107
३१० अद्वैतसिद्धिः सव्याख्या। [परिच्छेद। १]
व्याप्यता; आर्षज्ञानस्यापरोक्षत्वानभ्युपगमात् । तथाच नानिर्वचनीयरजतसिद्धनुपपत्तिः। एवं सज्ञातृकत्वमपि किं ज्ञातृजन्यत्वं, झातृव्याप्यत्वं, शातृसमवेतत्वं वा। आद्ये ईश्वरज्ाने व्यभिचार :; ज्ञाननित्यत्वस्य साधयिष्यमाणत्वाञ्च। द्वितीयेऽपि अप्रयोजकता। न तृतीय; ज्ञानजन्यत्ववत् ज्ञान- समवेतत्वस्यापि संभवात्, ज्ञानस्य गुणत्वत्रियात्वयोरनभ्युपगमेन द्रव्याश्रयत्वानुमानायोगात्, कदाचित् ज्वातृज्ञेयसंबन्धेनैव अनुभवस्य विवरणवाक्यस्य च उपपत्तेः । 'अस्ति ब्रह्मे'ति च लकारो न व्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह; नित्यत्वेन तदसंभवात्, किंतु साधुत्वार्थ इति द्रुष्टव्यम्। ननु
गौडव्रह्मानन्दी (लघुचन्द्रिका)। परोक्षज्ञान स्यार्थाव्याप्यत्वात् नोक्तव्याप्तिः, तत्राह-आर्पज्ञानस्येति। योगजधर्मजन्यज्ञानस्येत्यर्थः । अनभ्युपग- मादिति। अनावृतसाक्षितादात्म्यविशिष्टविपयकत्वं ज्ञानस्यापगेक्षत्वम्; आर्षज्ञानस्यानावृतत्वसंपादकत्वेऽपि तद्विषयेऽतीतानागते तत्काले साक्षितादात्म्याभावात्तदंशे तस्य नापरोक्षता, विद्यमानविषयांशे त्वपरोक्षं तत् ज्ञानं तादृशार्थव्याप्यमेवेति भावः । सिद्धनुपपत्तिः उक्तव्याप्या या सिद्धिः तदनुपपत्तिः । ज्ञातृव्याप्यत्वं यद्य- जज्ञानं तत्र समवेतत्वसंबन्धेन ज्ञातेतिव्यापिः । ईश्वरज्ञान इति। तस्य नित्यलावादिमतेनेदम्। वाचस्पतिमने सिद्धान्तेऽपि मायावृत्तिरूपेश्वरज्ञानाभावात्तन्मतेनापीदम्। नच-तन्मतेऽपि विपयावच्छिन्नचिदूपेण ज्ञातृजन्यतेति- वाच्यम्; अविद्याद्यनादिविषयस्य तदभावात्। ज्ञाननित्यत्वस्येति। ज्ञानत्वोपलक्षितस्य नित्यत्वस्येत्यर्थः । ज्ञानत्व- विशिष्टस्य तु ज्ञातृजन्यत्वमिष्टमेव, विवरणमते ईशस्य मायावृ्त्तयवच्छिन्नचिद्रपज्ञानस्य तत्संभवात्। द्वितीयेऽपीत्या- दिकं ज्ञानत्वोपलक्षिताभिप्रायकम्। ब्रह्मसत्तां ब्रह्मणः सत्ताम्। नित्यत्वेन ब्रह्मसत्ताया अनादित्वेन। साधुत्वार्थ इति। यथा मणिकारादिमते चत्रो जानातीत्यादो ज्ञानकर्तृत्वादेरननुभवात्, ज्ञानाश्रयत्वादिलक्षणायां गारवाच्च अवच्छेदकतासंबन्धेन ज्ञानप्रकारकधीस्वीकारादाख्यातं न कर्तृत्वमाह, किंतु साधुत्वमात्रार्थम्; तथा प्रकृते ब्रह्म- सत्ताया अनादित्वेन तत्कर्तृत्वबोधासंभवात्। घटोऽस्तीत्यादावपि क्रियात्वाभावेन कारकान्वयबोधासंभवादाश्रयत्व- स्यैवाख्यातेन बोवाच्च ब्रह्मास्तिपदाभ्यामखण्डब्रह्मबोधस्वीकारेणाख्यातं साधुत्वमात्रार्थम्; कल्पितभंदेन ब्रह्मणः स्वात्म- कसत्ताश्रयत्वसंभवेऽपि निर्ध्मितावच्छेदककशाब्दबुद्धसंभवेनाश्रयत्वस्याप्याख्यातेनाबोधात। ब्रह्मपदस्य उत्कृष्टार्थकत्वे मु तम्राश्रयत्वप्रकारकधीरिष्टेव। ननु-यथा अभानापाद्काज्ञानविरोधि चित् भानम्, अनानन्दापादकाज्ञानविरोधि चित् आनन्दः; तथा असत्वापादकाज्ञानविरोधि चित सत्ता। तथाच वैयाकरणमने धात्वर्थमुख्यविश्ेष्यकशादधीस्वी- कारात् सत्तामुख्यविशेष्यकब्रह्मकर्तृकत्वप्रकारकबोधः प्रकृते स्यात्, व्रह्मनिष्टोक्तसत्तायाश्र यद्यप्यनादित्वम्, चिदंशे ताडशाज्ञानस्वीकारात्; तथापि तस्याः क्षेमसाधारणसाध्यत्वस्याग्बण्डधर्मरूपप्रयुक्तत्वस्य वा संभवात्, तस्य च ब्रह्मरूप- कर्तृनिरूपितत्वसंभवात्-इति चेन्नः क्रियात्वाभावेन कारकान्वयासंभवस्योक्तत्वात्। सिद्धकर्तृकत्वं हि यत्र नियमेन संभवति, तत्रव घात्वर्थस्य क्रियारूपत्वं वैयाकरणः, धात्वर्थविशिष्टाख्यातार्थस्य मीमांसकैश्र स्वीक्रियते। तच्य गच्छतीत्यादौ, नह्यसिद्धकर्तारमादाय तत्प्रयोगः संभवति। भवनीत्यादो नु न सिद्धकर्तृकत्वनियमःः नहि भर्वात 'आकाशं भवती'ति। अस्त्यादो च न तन्नियमः; आकाशमस्तीतिवदुत्पद्यमानमस्तीत्यादिप्रयोगात्। तदुक्तं भट्टवार्तिके-'सिद्ध कर्तृक्रियायोगादाख्यातप्रत्यये सनि। सामानाधिकरण्येन करोत्यर्थोऽवगम्यते' इति। सिद्धकर्तृ- योगस्पावश्यकत्वे हेनुः-सामानाधिकरण्येनेति। सिद्धकर्तृनिष्टस्यव कर्नृत्वस्य भावनायां सामानाधिकरण्यसंभवेने- त्यर्थ: । स्वयमसिद्धस्य कर्तृत्वासंभवात् अस्तीत्यादो भावनाप्रत्ययाभावः सर्वेपामपि तुल्य इति असिद्धनिष्टस्य कर्तृत्वस्य भावनायां सामानाधिकरण्यासंभवेन क्रियाया अप्रत्यये सर्वेपां मते कर्तृकारकाप्रत्ययोऽपि तुल्य इत्यर्थः । नच -'भूतले घटोऽस्ती' त्यादौ भावनां विनाऽपि आधारकारकस्येव कर्तुः प्रत्ययोऽस्तीति-वाच्यम्; क्रियाया एव कारकान्वयित्वेन तद्भावे सप्तम्याः संबन्धमात्रवाचकत्वात्। अथ-घटो भवतीत्यादी घटं भावयतीत्वर्थे भवनेना- क्षिप्तभावनाया आख्यातेन बोधात् भूधानुनंव कपालभवनस्य करणत्वेन कपालावयवभवनस्येतिकर्तव्यतात्बेन लक्षणया बोधनादंशत्रयविशिष्टभावनाधीः, तथाच भावनाप्रत्ययेनाध्याहृतचैत्रादिपदात् कर्तृप्रत्ययसंभवः। उक्तश्वा- यमपि पक्ष: भट्टवार्तिके-'अस्त्यादावपि कत्रंशे भाव्येऽरत्येव हि भावने'ति इति-चेत्, भास्तामेवम्, सत्ता- रूपक्रियायाः कर्तृत्वानन्वये प्रकृतार्थे हानिस्तु नैवाम्नीति सिद्ध उक्तसत्ता ब्रह्मश्रितति बोधः । किंच प्राचीनसिद्धान्ते नोकरूपा सत्ता किंतु शुद्धचिदेव। यथाहि एकस्या एव चितः कल्पितभेंदनांशत्रयं, सत्ता स्फुरणं आनन्दश्न, तदुक्तं वृद्धैः-'अस्ति भाति प्रियं रूपं नाम चेत्यंशपज्ञकम्। आद्यं त्रयं ब्रह्मरूपं जगदरपं ततो द्यम् ।।' इति। तत्र सत्तांशस्य व्यवहार असरवापादकाज्ञानं प्रतिबन्धकम्, स्फुरणांशस्याभानापादकमज्ञानम्, आनन्दांशस्यानानन्दा-
Page 108
३११
-प्रमाभ्रमभिन्नं न श्ञानम्, नचात्मस्वरूपं ज्ञानं प्रमा; तद्विषयस्याविद्यादेस्तात्त्विकत्वापातात्, नच अप्रमा; दोषजन्यत्वापातात्-इति चेन्न; तार्किकसिद्धेश्वरज्ञानवत् घटादिनिर्विकल्पकवञ्च स्वभावत उभयवैलक्षण्येनाप्युपपत्तेः, तत्रापि ईश्वरज्ञानस्य प्रमात्वे गुणजन्यत्वस्य भ्रमत्वे दोषजन्यत्वस्प चा- पत्तेः, निष्प्रकारके च निर्विकल्पके तद्वति तत्प्रकारकत्वस्य तद्भाववति तत्प्रकारकत्वस्य चानुपपत्तेः, जन्यसविकल्पकत्वेन भ्रमप्नमान्यतरत्वनियमे चास्माकं क्षत्यभावात्, विलक्षणवृत्तिद्वयोपरागेण च
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पादकाज्ञानम्, सत्तांश एव जञानांशः, तस्य त्रितयस्याखण्डस्यैव अ्तिस्फुरत्यानन्दतिचाच्यत्वेन घटोऽस्तीत्यादौ शुद्ध- चित्प्रकारको बोधः। घट जानामीत्यादी व ज्ञाने घटादेर्नावान्तरबोध :; निर्धमितावच्छेदकबोधासंभवात्, किंतु विशेष्ये विशेषणं तत्रापि विशेषणान्तर मितिन्यायेन घटज्ञानप्रकारकधीः। घटस्य ज्ञानमित्यादी तु ज्ञानपदं पश्चा ज्ञानीयविपयितालक्षकत्वे तान्पर्यग्राहकम्, ननु ज्ानांशबोधकम्; निर्धर्मितावच्छेदकबोधासंभवात्। एवंच ब्रह्मा- म्तीत्यादाँ ब्रह्मणि सत्ताश्रयत्वबोधे निर्धमितावच्छेदकबोधापत्या, वैयाकरणरीत्या सत्तायां ब्रह्माश्रयकत्वबोधेऽपि तदापत्या, सत्तायां ब्रह्मकर्तृकत्वयोधे बाघस्याप्यापस्या, 'सत्यं ज्ञान'मित्यादिवाक्यवदखण्डार्थकत्वादेको द्वावित्यादौ सर्वमतेद्विव प्रत्ययः साधुत्वार्थ इति भावः । प्रमा त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः । दोषेति। सिद्धान्ते प्रमात्वस्य स्वतस्वस्वीकारेण गुणजन्यतानवच्छेद्कत्वेन प्रमाया गुणजन्यत्वं नापादितम्, भ्रमस्य तु दोपजन्यत्वं सिद्धान्ते स्वीक्रियते। ज्ञानसामान्यसामऊ्रयां प्रमात्वविशिष्टमेव स्वकार्यतावच्छेदकावच्छिन्नं जन्यत दत्युत्सर्गः, दोपसहकृतया नु तया अ्रमत्वविशिष्टमित्यपवाद इति हि सिद्धान्तः । स्वभावतः वृत्यनुपरक्तचित्स्वभावेन। उभयवलक्षण्येनेति। प्रमात्वभ्रमत्वशून्यत्वेनेत्यर्थः । वैलक्षण्येनापीत्यपिशब्देनेदं सूचितम्। घटाद्याकारवृत्ताविव घटाद्यवच्छिन्नचिनि व्यावहारिकप्रमात्वं संभवति, गुणजन्यता तु सिद्धान्ते नास्तेव, तेनाविद्यायवच्छिन्नचिदरपेण चिनोऽनादित्वऽपि न क्षनिः। वस्तुतस्त्वविद्यादेरज्ञातत्वाभावेनेव तदवच्छिन्ना चित् न प्रमा। ब्रह्मसाक्षात्कारोत्तरं तत्र भ्रमत्वसिद्धावपि न क्षतिः; अविद्याकामकर्मरूपदोपजन्यत्वस्य क्षेमसाधारणस्य संभवात्। शुक्तिरूप्याद्यवच्छि- अचिद्रपेण तु चिदागन्नुकदोपजन्येति। ननु-तार्किकमते ईशज्ञानं प्रमव, यदि हि प्रमात्वं सर्वप्रमासाधारणं गुणजन्यतावच्छेदकं तार्किकमते स्यात, तदा तस्य नित्यसाधारणतावारणाय जन्यत्वघटितत्वमुच्येत; तत्तु न संभवति; प्रमामात्रे गुणस्यानुगतस्य कारणत्वासंभवात्, उक्तंच मणौ-'प्रमामात्रे नानुगतो गुणः, किंतु तत्तत्प्रमायां भूयो- Sवयवेन्द्रिय संनिकर्पयथार्थलिङ्गसादटश्यवाक्यार्थज्ञानानां यथायथं गुणत्वमिति' तत्राह-तत्रापीति। तार्किकमते- उपीत्यर्थः। यथा मन्मते आत्मरूपज्ञानस्य प्रमात्वादिस्वीकारे दूषणमुक्तं, तथा तन्मते ईशज्ञानस्य तत्स्वीकारे गुणज- न्यत्वाद्यापत्तिरित्यर्थः । यद्पीह प्रत्यक्षानुमित्यादिसाधारणं घटम्रमात्वं नानुगतगुणजन्यतावच्छेदकम्; तथापि घटीय- प्रत्यक्षप्रमात्वं भूयोऽवयवेन्द्रियसंनिकर्षजन्यतावच्छेदकं वाच्यमेव। तस्य च नित्येश्वरधीसाधारणस्य जन्यतावच्छेदक- त्वासंभवेन जन्यत्वघटितत्वमावश्यकम्। अतएव-तद्वति तत्प्रकारकज्ञानत्वरूपं प्रमालक्षणमुक्त्वा 'तत्प्रकारकत्वं तद्वेशिष्यविषय कत्वं, तज्ज्ञानजन्यत्वं वा; ईश्वरस्य तद्वशिष्वाविषयकं ज्ञानमतत्प्रकारकं निर्विकल्पकं च प्रमाऽप्रमाबहिर्भू- तम्, व्यवहारानङ्गतवात्-इत्युक्तं मणो। व्यवहारानङ्गत्वात् गुणजन्यतावच्छेदकप्रमात्वविशिष्टतया विप्रतिपत्ति- वर्यवहारः तद्विपयत्वादीश्वरज्ञानं निर्विकल्पकं च प्रमाऽप्रमाबहिर्भूतमित्यर्थः । किंच 'प्रमामात्रे नानुगतो गुण' इत्यादिमणिवाक्यं प्रत्यक्षानुमित्यादिसाधारणघटादिप्रमात्वं न गुणजन्यतावच्छेदकमित्येतत्परम्। दीधितौ हि तत् तथैव व्याख्यातम्-प्रत्यक्षादिप्रमासु गुणविशेषाणां हेतुत्वे सिद्धे घटप्रमात्वघटितधर्मावच्छिन्नकार्यतानिरूपि- तकारणतावत्वेन घटप्रमात्वावच्छिनं प्रति कारणता संभवति, नतु भूयो घटावयवेन्द्रियसंनिकर्पत्वादिरूपेण; अननु- गमातू, इत्यभिप्रायकं प्रमामात्रे इत्यादि वाक्यम्, वस्तुतो घटप्रमासामान्ये घटप्रकारकमीश्वरज्ञानं हेतुः, घटाभा- वभ्रमसामान्ये दोपोऽपि, तदेव विशेषणसंसृष्टासंसृष्टविशेष्यज्ञाने वा, गुणदोपो। लोकिकसंनिकर्षवत् सामान्य- लक्षणापि निर्विकल्पकहेतुः, अप्रसिद्धसाध्यकानुमितिस्वीकारे तु विशेष्य संसृष्टासंसृष्टविशेषणज्ञाने गुणदोषौ इत्यादि। उत्पत्तिवादे मिश्रैरप्युक्तम्-'कार्ये प्रमासामान्ये ईश्वरीयज्ञानं गुण'-इति।यन्तु-समीचीनो ह्यानुभवःप्रमा नतु तत्रानित्यत्वं विशेषणम्; व्यर्थत्वात्; तत्करणं प्रमाणम्। नच-एवमाप्प्रामाण्यादिि गौतमसूत्रविरोधः; तेन हि आप- स्येश्वरस्य प्रामाण्यमावेदितम्, नतु प्रमातृत्वम्, प्रमातृत्वसप्वे तदेवोक्तं स्यादिति-वाच्यम्; 'प्रमासमवायात् प्रमा- तृत्वस्येव प्रमाया अयोगव्यवच्छेदेन प्रमाणत्वस्यापि संभवात्'-इति कुसुमाअलावुक्तम्, तत् गुणजन्यतावच्छे- दुकत्वरूपपरतस्त्वायोग्यं चतुर्विधत्वेन विभज्यमाने प्रमाणे घटकं यत् प्रमात्वं तदभिप्रायकम्, तत्रैवानित्यत्वप्रवेशवै-
Page 109
३१२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
स्वभावतो भ्रमप्रमाविलक्षणस्याप्यात्मज्ञानस्य तदुभयरूपेण व्यवहारोपपत्तेः । नच-ज्ञानपदवाच्यमि- न्नत्वविवक्षायां उपाधेरपि ज्ञानपदवाच्यत्वात्तत्रासिद्धिः, ज्ञानपदलक्ष्यमिन्नत्वविवक्षायां तुघटादेरपि
षाभावात्। एवमानन्दभिन्नत्वरूपमनात्मत्वमुपपाद्यम्। वैषयिकानन्दस्यापि ब्रह्मरूपत्वात्, तदुपा- घिमात्रस्यैवोत्पत्तिविनाशप्रतियोगित्वात्। नच-ज्ञानभिन्नत्वस्यानन्दभिन्नत्वस्य च काल्पनिकस्य ब्रह्मणि सत्त्वात् तत्र व्यभिचार इति-वाच्यम्; धर्मिसमानसत्ताकतन्भ्रेदस्य हेतुत्वात्। अनौपाधि- कत्वेन वा भेदो विशेषणीयः, तुच्छे पश्चमप्रकाराविद्यानिवृत्तौ च व्यभिचारपरिहार: पूर्ववत्। एवं अस्वप्रकाशत्वं वा जडत्वम्, तञ्च पूर्वमेवोपपादितमिति शिवम्।। ॥ इति अद्वैतसिद्धौ जडत्वहेतूपपसिः॥
यर्थ्यस्य सङ्गतत्वात्। यदपि-निर्विकल्पकमपि प्रमा, विशेष्यवृ्त्याप्रकारकरूपं निर्विकल्पकेऽप्यस्तीनि कथं तत् प्रमा- बहिर्भूतं ? इति, तन्न; विशेष्यावृत्तीत्यादेः स्वतोग्राह्यत्वविप्रतिपत्तिरूपव्यवहारानङ्गतवेन तद्विशिष्टस्यापि निर्विकल्पकस्य तादृशव्यवहाराङतद्वतीत्यादिप्रमात्वप्रत्यास्याने बाधकाभावात्, तदिदमुक्तम्-निष्प्रकारे चेत्यादि। विलक्षणे- त्यादि। स्वभावतः वृत्यनुपरक्तचिद्रुपेण। प्रमाभ्रमविलक्षणस्यापि वृत्तिद्वयोपरागेण प्रमाभ्रमरूपविलक्षणवृत्युपरक्त रूपेण तदुभयरूपेण प्रमात्वभ्रमत्वोभयरूपेण, व्यवहारोपपत्तेरित्यर्थः। ज्ञानपदवाच्येति। ज्ञाधातुवाच्येत्यर्थः । ज्ञानपदस्य ज्ञानावाचकत्वात्। ज्ञानपद्जन्येत्यादि। तादृशविशेष्यमात्रवृत्तिना तत्तद्वीविषयत्वेनावच्छिन्नप्रति- योगिताको भेदो विवक्षित इत्यर्थः । तेनोफ्तविशेष्यत्वस्य तत्तद्धीविपयत्वापेक्षया गुरुत्वेऽपि नाप्रसिद्धिः । नचोक्त- विशेष्यरवस्य घटादिसमूहालम्बनीयस्य घटादिसाधारण्येऽप्यसिद्धिः; लक्षणया ज्ञानपदजन्यायाः ब्रह्ममात्रधियो निवेशात्। ननु-ब्रह्मणो वृत्यवच्छिन्नचिद्रूपानन्दपदार्थभिन्नत्वात्तत्र व्यभिचारस्तव्राह-वैषयिकानन्दस्येति। विषय सेवाजन्यवृत्त्यवच्छिन्नचिद्रपानन्दत्वोपलक्षितस्येत्यथः। तथाच तद्वेद एव हेतुः, अतो न ब्रह्मणि व्यभिचार इति भावः । ज्ानमिन्नत्वस्य 'ज्ञानं ब्रह्मे' तिवाक्यजन्यतद्धीविपयान्यत्वस्य। आनन्दभिन्नत्वस्य 'आनन्दो ब्रह्मे'त्यादिवाक्यजन्यतद्धीविषयान्यत्वस्य। ब्रह्मणीति । 'आनन्दं ब्रह्मणो रूप'मित्यादिवाक्यजधीसिद्धो भेदो ब्रह्मण्यपीति भावः । धर्मीति। यत्र भेदः स्थापनीयः स धर्मी, ब्रह्मसमसत्ताकभेदाप्रसिद्धेः ब्रह्मणि भेद: स्थापयि- तुमशक्यः, स्वसमसत्ताकभेदवत्वस्य हेतुत्वादिति पर्यवसितार्थः। ननु-भदस्याद्यापि मिध्यात्वानिश्चयात् ब्रह्मसम- सत्ताकभेदो ब्रह्मण्यपि निश्चेतुं शक्य-इति चेन्न;प्रपञ्चे मिथ्यात्वसन्देहेन भेदे ब्रह्मसमसत्ताकरवानिश्चयात्। लाघवा- दाह-अनौपाधिकत्वेनेति। अभेदज्ञाने सत्यपीच्छादिरूपोपाधिना प्रतीयमानत्वादानन्दं ब्रह्मणो रूपमित्यादि- भेद:, औपाधिकः, अयं घटो न घट इत्यादिभेदवदाहायमनोवृत्तिविषयत्वात्। तथाच तादृशभेदान्यभेदो हेती निवेश्यत इति भावः। वस्तुतस्तु-उपाधिं प्रतियोगिनमर्हनीत्योपाधिकः, स्वप्नतियोगिवृत्तिः, तदन्योऽनीपाधिकः, ब्रह्मवृत्तिरिति यावत्; तेनीपाधिकत्वस्यानुगतस्य दुर्वचत्वेऽपि न क्षतिः। नवा ज्ञानानन्दसत्तांशानामनीपाधिक- कल्पितभेदसरवेऽपि क्षतिः।। ॥ इति लघुचन्द्रिकायां जडत्वहेतूपपत्तिः॥
जडत्वनिरुक्ति: ।
तदयं संग्रहः ॥
(१) न्यायामृतकारा :- जडत्मप्यज्ञातृत्वं अज्ञानत्वं अनात्मत्वं अस्वप्रकाशत्वं पराभिमतं वा। नाद्यः; कल्पितस्य धर्मिसमसत्ताकस्य वा ज्ञातृत्वस्य देहादा अन्तःकरणादी च सत्त्वेन भागासिद्धेः, विषमसत्ताकज्ञानृलवति शुद्धे व्यभिचाराच। न द्वितीयः; युष्मन्मते परोक्षत्ता चित्प्रतिफलननियमाभावेन धर्मादिकं जानामीत्यनुभवोपपत्यर्थ वृत्तेरेव ज्ञानपदार्थत्स्याभ्युप- गमनीयतया तत्र भागासिद्धेः, स्वस्यव स्वविषयकत्वे कर्तृकर्मविरोधातू मोक्षदशायां परस्य कस्याप्यभावेनान्याविषयक-
Page 110
विट्ठलेशोपाध्याय्युपंबृंहितगौडब्रह्मानन्दीयुता। ३१३
त्ात् निर्विषयकत्वे ज्ञानत्ानुपपत्तेश्र ज्ञानभिन्ने चात्मनि व्यभिचाराच्च। सप्रतियोगिकेऽभावे सप्रतियोगितवज्ज्ञानेच्छ- योरपि सविषयकत्वस्य स्वाभाव्येनाविद्यमानविषयकत्वस्य वाऽत्यन्तासद्विषयकत्वस्य वा निर्विषयकत्वस्याभावेन विषयानु- ललिखितत्वस्यैव तत्त्वात्। अतएव आनन्दपुमर्थत्मपि सिद्धं भवति। नह्प्रकाशमान आनन्दः पुमर्थ इति भवति; द्रविण- वत्वेनेव पारिवार्द्यस्यानन्दवत्वेनैव मुक्तत्वव्यवहारस्यावश्यकल्ात्। अस्तुवा कथंचिन्निर्विषयकत्वेऽपि ज्ञानत्वं, एवमप्यात्म- ज्ञानतवादो न युक्त्तः, क्रियायाः कत्रपेक्षानियमेन कर्तृकर्मविरोधेनात्मनो मोक्षे पराभावेन परस्य वा ज्ञातुरभावेन तत्वानुपपत्तेः, अनादेः प्रागभावादेः प्रतियोगिनि जातेर्व्येक्तौ जीवब्रह्मविभागस्य धर्मिप्रतियोगिनोः अज्ञानस्याश्रयविष- ययो: ब्रह्मसत्तायाश्र कर्तर्यनपेक्षापत्तेरनादितस्येतरानपेक्षत्वेऽतन्त्रतात, अन्यथा ब्रह्मास्तीत्यादौ कर्तरि लकारानुपपत्तेः। अतीतादिज्ञानस्येश्वरज्ञानस्य वोत्पत्त्यर्थ विषयाद्यनपेक्षत्वेऽपि तन्निरूप्यतवदर्शनेन ज्ञातृज्ञेयनिरूप्यत्वखाभाव्याच्। तथाच 'ज्ञातृज्ञेयविहीनं ते ब्रह्म ज्ञानात्मकं यदि। भोक्तृभोज्यविहीनापि भवेत्तरहि भुजिक्रिया ॥' इति आत्मज्ञानतवादो न युक्तः । नहि भ्रमप्रमाविहीनं ज्ञानमिति भवति; आत्मा च तद्विषयाविद्यादितात्विकत्वापत्त्या न प्रमारूपः, दोषजन्यत्ापन्या नापि भ्रमरूप इति न ज्ञानरूप इति मन्तव्यम्। नापि तृतीयः; विशिष्टात्मनां मेदेऽपि तत्रात्मभिन्नलाभावेनासिद्धा शुद्धे व्यभिचारेण च आत्मत्स्य ज्ञातृत्वज्ञानतखप्रकाशरूपत्वे दोषस्य पूर्वमेवोक्तत्वेन आनन्दरूपत्वे जन्मादितो वैषयि- कानन्दस्यात्मरूपलाभावेन पक्षकुक्षिनिक्षिप्ततया तत्रासिद्धा अहंतरूपत्वे अहमर्थेऽसिद्धा आत्मनि व्यभिचारेण च अबाध्यत्वरूपत्वे साध्यावैशिष्यप्रसद्वेन आत्मशब्दवाच्यत्वे शुद्धे व्यभिचारेण तल्लक्ष्यत्रूपत्वे घटादावसिद्धा च तस्य हेनुताभावात्। नापि पञ्चमः; मयाऽज्ञातृत्वं जडत्वमित्यज्जीकारात्-इति वर्णयन्ति॥ (२) तत्रेत्थं सिद्धिकारा :- अज्ञानत्वस्यानात्मत्वस्यास्प्रकाशलस्य वा जडत्स्य विवक्षणे न कस्यापि दोषस्य प्रसङ्गः । परोक्षवृत्तावपि चित्प्रति- फलनस्यान्तःकरणाश्रितासत्त्वापादकाज्ञानावरणाभिभवार्थत्वेनाङ्गीकार्यत्वेन जडभूताया वृत्तेः ज्ञानरूपलाभावेन आत्मन एव श्रुत्यनुसारेण ज्ञानरूपत्वस्याङ्गीकरणीयतया भागासिद्धिव्यभिचारयोरप्रसङ्गात्, शुक्ती रूप्यस्येव ज्ञाने विषयसंबन्ध- स्याध्यासिकत्वेन तदीयस्येव सविषयकत्वस्येच्छायामपि सत्त्वेन सप्रतियोगिकेऽभाव इव ज्ञाने्छयोः सविषयकतवखा- भाव्याभाव्येनार्थोपलक्षित प्रकाशस्येव ज्ञानत्वेन च मोक्षदशायामपि तदनपायात्। एतेन-आनन्दापुमर्थतावादोऽपि पराहतः; आनन्दस्येव तदा प्रकाशरूपत्वेन पुमर्थत्वोपपत्तः । जातेः कदाचिद्यक्तिनिरूप्यत्वेऽपि कदाचित्तदनिरूप्यत्- धत्, ज्ञानस्य कदाचित्कर्नृंसापेक्षत्वेऽपि कदाचित्तत्निरपेक्षतायाः संभवेन मोक्षदशायां ज्ञात्रभावेऽपि ज्ञानलोपपत्तः। एतेन-व्रह्मास्तीत्यादो कनृलकारोऽपि-व्याख्यातः; तस्य साधुतमात्रार्थलात्। नहि नित्या ब्रह्मसत्ता कर्तृसापेक्षा भवति, नहि ज्ञानम्य सज्ञेयत्वं सज्ञातृत्वं च स्वाभाविकम्; ज्ञयजन्यतवरूपस्य परोक्षश्वरज्ञानयोरभाचेन, यदा यत्र परोक्षज्ञानं तदा तत्र ज्ञेयमिति व्याप्तावरपि पूर्ववद्यभिचारेण, यदाऽपरोक्षज्ञानमिति व्याप्तिविवक्षायामपि योगीश्वरज्ञानयोर्व्यभिचारेण च ज्ञंयजन्यतरपस्य ज्ञेयव्याप्यत्रूपस्य वा सज्ञेयत्स्य ज्ञानेऽभावात्। जन्यापरोक्षतादिनार्थव्याप्तत्वविवक्षायां तु नास्माकं क्षतिः; आत्मरूपज्ञानस्याजन्यलात्। एतेन-सज्ञातृकतस्ाभाव्यमपि-पराहतम्; तस्यापि ज्ञानतविशिष्टविषयकत्वे- नात्मरूपज्ञानाविषयलात्। एवंच श्रुतिसिद्धात्मज्ञानत्ववाद एव समीचीन इति नात्मनि व्यभिचारः। गुणदोषजन्यत्वापत्या ईश्वरज्ञानस्येव तद्वति तत्प्रकारकत्वस्य तदाभाववति तत्प्रकारकत्वस्य वाऽनुपपत्तेर्निविकल्पकज्ञानस्येव च खभावतो भ्रमप्रमाविलक्षणस्वरूपत्वेऽपि ज्ञानत्वोपपत्तिसंभवात्। एवंच ज्ञानपदेन तच्छक्यस्य विवक्षणे वृत्तावसिद्धावपि तत्पद- जन्यप्रतीतिविशेष्यस्य विवक्षायां न कोऽपि दोषः। विशेष्यत्वेन तस्यापि मिथ्यात्वेऽपि तत्तादात्म्यापन्रं शुद्धसवरूपमेवात्र विवक्षितमिति न विरोधः। एतेन-अनात्मलमपि जडत्वं हेतुरिति-सूचितम्: उत्पत्तिविनाशप्रत्ययस्य तारतम्याद्य- नुभवस्य चोपाधिविषयत्वेन वैषयिकानन्दस्यापि ब्रह्मरूपतया ब्रह्मणि व्यभिचाराभावात्-इति निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु घटादिविषयकाज्ञाननिवृत्त्यर्थमिव शुद्धात्मगोचराज्ञाननिवृत्त्यर्थमपि चित्प्रतिफलनस्यावश्यकतया तत्र विषयतया भासमानस्यात्मनोऽपि प्रातिभासिकत्वापस्या ज्ञानविषयसंबन्धातात्विकत्वयादो न युक्ः । अतएव हि परोक्षवृत्तेरतीन्द्रियार्थ- विषयकत्वोपपतिः, अन्यथा अतीतानां तत्राध्यासाभावेन तादृशवृत्तेर्ज्ञानत्ानुपपत्तेः । एवंच ज्ञानेच्छयोः सविषयकत्वस्य सवाभाव्यात् पूर्वोक्तरीत्या सवखेतराविषय कस्यात्मनो ज्ञानलानुपपत्तेरात्मनि व्यभिचारतादवस्थ्यम्। अतएघ ब्रह्मानन्द- पुमर्थताप्युपपद्यते; प्रकाशमानानन्दवत्ताया एव पुरुषार्थलात्, सुखरूपताया अपुरुषार्थतात्, व्यक्ति विनापि जातेः प्रलये सत््वेऽपि व्यत्त्युपरक्तबुद्धिविषयत्वं तदाप्यक्षतमेव; ईश्वरादिज्ञानस्येव तदा तादृशलात्। सज्ञातृत्वसज्ञेयत्वे अपि न ज्ञातृज्ञे- यजन्यत्वरूपे तक्वाप्यतरूपेवा, किंतु तदुपरक्तबुद्धिविषयत्वमिति न कोऽपि दोषः। इदमहं जानामीति त्रिपुट्या एव भानात्। ब्रह्मास्तीत्यादी कत्ररथलकारसार्थक्यमपीदानीमेव सिद्धं भवति, योगक्षेमसाधारणजन्यत्वस्येव कर्तृतरूपस्य खातकयस्या- अ. सि. ४०
Page 111
३१४ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
संभवेनार्थसाधुलासंभवे शब्दसाधुत्वस्यानादरणीयलात्। एवंचात्मज्ञानतावादो न युक्तः; भ्रमप्रमोभयविलक्षणस्य ज्ञान- लानुपपत्तेः । प्रमामात्रे नानुगतो गुण इति मणिवचनेन प्रमात्वस्य गुणजन्यतानवच्छेदकत्वेन तत्तत्प्रमात्वस्यैव तत्र तन्न्रत्वेनेश्वरज्ञानमपि प्रमारूपमेव। अतएव प्रमाश्रयत्वेनेश्वरः प्रत्यक्षप्रमाणमित्युदयनाचार्यवचनम्, ईश्वरप्रमाया अनुगतत्वात्तादृशप्रमाविषयत्वरूपं प्रमेयत्वमिति मणिकारोक्तिश् संगच्छते। तद्वति तत्प्रकारज्ञानत्वादिकं तु पारिभाषिकप्रमा- तरूपमेवेति विशेष्यावृत्त्यप्रकारकत्वरूपप्रमात्वं निर्विकल्पकस्याप्यन्गीक्रियत एव। एवंच तार्किकसिद्धेश्वरज्ञानवन्निर्विकल्पक- वच्चोभयवलक्षण्येऽपि ज्ञानतवमिति शङ्का पराहता। एतेन-अनात्मत्वमपि न हेतुरिति-सूचितम्; आत्मत्वस्यानन्दरू- पत्वे काल्पनिकानन्दभेदस्य ब्रह्मण्यपि विद्यमानत्वेन ब्रह्मणि व्यमिचारात्। औपाधिकत्वस्य दुर्वचतयाऽनौपाधिकभेद- विवक्षणेऽप्यनिस्तारात्। सर्वपक्षेऽपि पश्चमप्रकाराविद्यावृत्तौ व्यभिचारः। यथाऽज्ञानकालवृत्तित्वविशेषणेनापि न दोषवारणं तथोपपादितं दृश्यत्वनिरुक्त्तावित्यलमतिप्रसङ्गेनेति न्यायामृतकारीयसिद्धान्तः सर्वोऽपि सुमनोहर एवेति मन्त- व्यमिति-परिहरन्ति॥ (४) लघुचन्द्रिकाकारास्तु- वाचस्पतिमते उपहितस्यैव ज्ञानविषयत्वेन तदतात्विकत्वेपि न विरोधः। विवरणमते तु परोक्षापरोक्षसाधारण- ज्ञानस्य वृत्त्यवच्छिन्नचैतन्यरूपत्वस्यैवाङ्गीकारेऽपि ब्रह्म जानातीत्यादिस्थलमात्रे केवलवृत्यैवाजाननाशे ब्रह्मणः स्फुरणरपस्य प्रकाशसंभवेन तत्र चित्प्रतिफलनानावश्यकताया अभ्युपगमाच्चेतन्यतादात्म्यस्य ब्रह्मण्यनन्गीकारेण तदतात्विकताना- पत्त्या ज्ञानविषययोः संबन्धस्यातात्विकत्वस्येव युक्तत्वादिच्छायामपि सविषयकत्वस्य स्वाभाविकत्वाभावादर्थोपलक्षित- प्रकाशतरूपज्ञानत्वस्य ज्ञानपदेन विवक्षणात्तस्य चात्मरूपत्वादात्मनि न व्यभिचारः। अर्थपदेन च वृत्तरिव धर्मादीनामपि विवक्षणात्तदवच्छिन्नचेतन्ये इतरेषामध्यासान्न काप्यनुपपत्तिः। पूर्णानन्दावरणविरोधिवृत्तिविशिष्टत्वेनवाननदपुरुषार्थलस्य विवक्षितत्वात्तदुद्देशेन श्रवणादौ प्रवृत्तिसंभवः। शुद्धजातेः कदाचिद्यत्तिसंसष्टत्वेनव भासमानत्वेऽपि गोलादीनामश्वादी संसर्गारोपकाले गोलादौ गवादिव्यक्तिनिरूप्यलाभाववत् ज्ञानत्वोपलक्षितस्य ज्ञानतांशे निर्विकल्पकस्य विपयादंशे सवि- कल्पकस्य च ज्ञानत्वोपलक्षितविशेष्यकप्रत्यक्षस्योत्पत्तिकाले विपयादिनिरप्यत्वेऽपि ज्ञानत्वोपलक्षितम्वरूपविषयकनिवि- कल्पकज्ञानकाले तदनिरुप्यत्वोपपत्तिः। तथाच अ्रममिन्नजातिप्रत्यक्षतस्य व्यक्तिनिरप्यत्वत् ज्ञानत्वविशिष्प्रत्यक्षत्वस्य विषयादिनिरूप्यत्वं नतु ज्ञानलोपलक्षितप्रकाशत्वस्येति जातेव्यक्तिनिरूप्यत्ववत् ज्ञानस्याप्यर्थनिमप्यत्वस्वाभाव्यवर्णनमप्य- संगतमेव। एवंच कदाचिदिदमहं जानामीति विशिष्टानुभवस्यैव विद्यमानत्वेऽपि सुषुप्यसंप्रज्ञातसमाधिदशयोः त्रिपुटीभानं विना स्वरूपमात्र प्रकाशस्यापि बिद्यमानलात् न ज्ञातृज्ञेयनिरप्यत्वं ज्ञानस्वभाव इति आत्मनि न व्यभिचारप्रसङ्गः। ब्रह्मा- स्तीत्यादाविव धात्वर्थत्वेऽपि क्त्रनपेक्षलोपपत्तेः । 'सिद्धकतंक्रियायोगादाव्यातप्रत्यये सति। सामानाधिकरण्येन करोत्यथों-
न्वयासंभवेनार्थसाधुत्व संपादनस्यासंभवेन मणिकारोक्तरीत्या लकारस्य साधुतमात्रर्थत्वनवोपपत्तः। एवंचात्मज्ञानतावाद एव युक्त :; ध्रुत्यारूटलात्। नहि त्रमप्रमाविहीनं न ज्ञानम्; तार्किकमतसिद्धेक्षरज्ञानस्य निर्विकल्पस्य च ज्ञानताभावा- पत्तेः। द्विविधं हि प्रमात्वं स्वतोग्राह्यतविप्रतिपत्तिव्यवहारागं तद्वति तत्प्रकारकज्ञानत्वं, गुणजन्यतावच्छेदकपरतस्त्रायोग्यं चतुविंधत्वेन विभज्यमाने प्रमाणेघटकं यथार्थानुभवतरूपम्। तत्राद्यं-तत्तद्वटीयप्रमालम्। तब्ञ गुणजन्यतावच्छेदकम्; तत्तदवयवसंनिकर्षादिगुणेन घटप्रकारकेश्वरज्ञानरपगुणन वा तत्प्रमाया जन्यलात्। तदुक्त-दीधितो 'घटप्रमासामान्ये ईश्वरज्ञानं गुण' इति। उत्पत्तिवादे मिश्ररप्युक्तं 'काये प्रमासामान्ये ईश्वरीयज्ञानं गुण' इति। अतएव मणो 'ईश्वरस्य तद्वै- शिष्ट्याविषयकं ज्ञानमतत्प्रकारकं निविकल्पकं च भ्रमप्रमावहिभूनं व्यवहारानत्वलादि'त्युक्तम् । द्वितीयं प्रत्यक्षानुमित्या- दिष्वनुगतं प्रमामात्रेऽनुगतगुणाभावेन तस्य गुणजन्यतानवच्छेदकल्वात्। प्रमामात्र 'नानुगतोगुण' इति मणेरप्ययमेवा- शयः। एतादृशप्रमाभिप्रायणवेश्वरः प्रत्यक्षप्रमाणमित्युदयनाचार्यवचनम्, ईश्वरप्रमायाअनुगतल्ात् तादृशप्रमाविषयल्मप्य- नुगतम् इति मणिवचनं च प्रवृत्तम। एवंच चतुर्विधत्वंन विभज्यमानप्रमाणघटकप्रमात्वातिरिक्तगुणजन्यतावच्छेदकं प्रमात्वं ईश्वरज्ञानस्य मिर्विकनपस्य वा यथा नाज्गीकृतं एवमत्रात्मरूपज्ञानस्य चतुर्विधत्वेन विभज्यमानप्रमाणघटकप्रमालात- रित्तरूपं प्रमात्वं नाङ्गीकृतं। एवं दोषजन्यतावच्छेदकभ्रमत्वमपि नाक्षीकृतमिति तार्किकमतसिर्द्धेश्वरज्ञानवननिर्विकल्पकवच्चो- भयवैलक्षण्येनापि ज्ञानत्वसंभवान्नात्मज्ञानतावादे कोऽपि दोपः प्रसरति। एतेन-अनात्मलमपि हेतुरिति-सूचितम्; अनोपानिकस्य ब्रह्मवृत्तिरूपस्य भेदस्य विवक्षणेनेव काल्पनिकमेदमादाय व्यभिचारवारणात्। पथमप्रकाराविद्यानिवृत्ती व्यभिचारपरिहारोपायस्य दृश्यत्वविवेचनावसरएवोपपादिततचेति सर्वमनवद्यमिति-निरूपयन्ति॥ इति जडत्वनिरुक्तिप्रकरणम्॥
Page 112
३१५
अथ परिच्छिन्नहेतूपपत्तिः । परिच्छिन्नत्वमपि हेतुः। तञ्च देशतः कालतो वस्तुतश्चति त्रिविधम्। तत्र देशतः परिच्छिन्नत्वं अत्यन्ताभावप्रतियोगित्वम्। कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम्। वस्तुतः परिच्छिन्नत्वं अन्यो- न्याभावप्रतियोगित्वम्। ननु-समवायसंबन्धेनात्यन्ताभावप्रतियोगित्वं आत्मनि व्यभिचारि: तस्या- प्याकाशादिवत् क्वाप्यसमवेतत्वात्, संयोगसंबन्धेनात्यन्ताभावप्रतियोगित्वमाकाशादावसिद्धम्; तस्य यावन्मूर्तयोगित्वनियमात्, अमूर्तनिष्ठात्यन्ताभावप्रतियोगित्वाभिप्राये तु आत्मनि व्यमिचार- स्तद्वस्थः, सवेसंबन्धित्वाभाव विवक्षायामपि सर्वसंबन्धशून्ये परमात्मनि व्यभिचारः, अज्ञाने सर्वसं- वन्धिन्यसिद्धिश्च, ध्वंसप्रतियोगित्वमपि आकाशादावसिद्धम्, तेषां परर्नित्यत्वाभ्युपगमात्, अन्यो- न्याभावप्रतियोगित्वं चात्मनि व्यभिचारि: तस्य जडनिष्ठान्योन्याभावप्रतियोगित्वात्, अन्यथा जड- त्वापत्ते :- इति चेन्न; अत्यन्ताभावे अन्योन्याभावे च प्रतियोगिसमसत्ताकत्वविशेषणेन आत्मनि व्यभिचारपरिहारात्, अज्ञानाकाशादी च स्वसमानसत्ताकात्यन्ताभावान्योन्याभावप्रतियोगित्वस- त्वेन असिद्धभावात्। अविद्याकाशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे 'स्वान्यूनसत्ताके'ति विशेषणं देयम: अतएव प्रातिभासिकशुक्तिरूप्यादेर्व्यावहारिकाभावप्रतियोगित्वेSपि न साधनवैक- ल्यम। निरक्तमिथ्यात्वप्रकाराणामेवंरूपत्वाभावात् न साध्याविशिष्टता। व्वंसप्रतियोगित्वं चाका-
गौडव्रह्मानन्दी (लघुचन्द्रिका )। अथ परिच्छिन्नत्वहेतूपपत्तिः। देशत इत्यादि। क्वचिद्देश एव विद्यमानत्वं देशतः परिच्छेदः । कचित्काल एव विद्यमानसवं कालपरि- च्छेदः। केनचिदेव वस्तुना तादात््यापन्नत्वं वस्तुपरिच्छेदः। यथा ह्यारुण्यादिगुणेन क्रयसाधनगवादिकं परिच्छि- नर्मति व्यवहारः, आरुण्यादेस्ताद्टशगवादेस्तदन्यस्माद्यावर्तकत्वात, तथा तत्तदेशो घटादेराधारविधया तदन्याधार- विशेपिताद्यावर्नक इति वटादि तत्परिच्छिन्नमिति व्यवहियते। एवं तत्तत्कालोऽपि कालान्तरावच्छिननादाधारविचया घटादव्यावर्नक इनि स तत्परिच्छिन्नो व्यवहियते। एवमेतद्वस्तु तादात्म्येन घटादेविशेषणं सदितरवस्त्वात्मकाव्यावर्त- कमिनि स तत्परिच्छिन उच्यने। एवमयं घट एनद्ेशपरिच्छिन्न इत्यादिवाक्यस्यंतद्टः एतद्देशेन देशान्तरावच्छिन्नेभ्यो व्यावतित इत्यर्थः । एवमेतत्कालपरिच्छिन्न इत्यादावपि। देशान्तरवृत्त्यत्यन्ताभावप्रतियोगित्वं, कालान्तरवृत्तिध्वंस- प्रतियोगित्वं, वस्वन्तरनिष्टभेदप्रतियोगित्वं चार्थालभ्यते; तादृशशब्दात्तदप्रतीतेः। वस्तुतस्तद्देशस्याधारविधया परिष्छेद्कत्वमन्ययोगव्यवच्छेदकतया विशेषणत्वं परिच्छेद्यघटादर्देशान्तरवृत्यत्यन्ताभावप्रतियोगित्वपर्यवसितम् । एतत्कालस्य ध्वंसानधिकरणतया विशेषणत्वं कालान्तरध्वंसाधिकरणत्वपर्यवसितमिति परिच्छिन्नशब्दादेव देशान्तर- वृत्यत्यन्ताभावादिप्रतियोगित्वलाभः । तम्रापि देशान्तरादिघटितस्य हेतुत्वे तस्य सर्वदृश्याननुगतत्वादत्यन्ताभाव- प्रतियोगित्वादिभिन्नांशवैयथ्याच्चोक्तप्रतियो गित्वा देरेव हेतुत्वम त्या श्येनह्ि। आकाशादावित्या दिपदेनेश्व रादिसंग्रहः। सर्वमूर्तेप्वाकाशमित्यादिप्रतीतेः, वृत्तिनियामकसंयोगेनापि सर्वमूर्तेष्वाकाशस्यात्यन्ताभावविरहात्, तत्संबन्धावच्छिन्नमत्यन्ताभावप्रतियोगित्वमप्याकाशादावसिद्धमिति भावः।अभिप्राय इति। संयोगावच्छिम्न- प्रतियोगितात्वेनैव हेतुता, तादृशप्रतियोगिता चामूर्तनिष्ठात्यन्ताभावीया आकाशादावप्यस्तीत्यभिप्राये इत्यर्थः । व्यभिचार इति । तथाच तद्वारणाय मूर्तनिष्ठात्यन्ताभावनिचेशे आकाशादावसिद्धितादवस्थ्यमिति भावः । सर्वसंबन्धशून्ये इति। उपहितात्मन एवोपादानत्वात् साक्षित्वाच्च शुद्धे सर्वासंबन्धिनि। सर्वसंबन्धिनि स्वोपहित चिन्द्ास्यत्व संबन्धेन सर्वसंबन्धिनि। धर्मीति। स्वाश्रयेत्यर्थः। स्पदं हेतुपरम्। ननु आत्मघटान्यतरत्व रूपेण यो भेद: तत्प्रतियोगित्वस्य स्वाश्रयो घटोऽपि, तत्समसत्ताकभेदप्रतियोगित्वमात्मन्यपीत्यत आह-अज्ञाने- त्यादि। स्वसमानेति। यत्र'हेतुः स्थापनीयः सः स्वपदार्थः । तथाच आत्मनि हेतोः स्थापने तस्यैव स्वपदेन धार्यत्वात्तत्समानसत्ताकाप्रसिद्धिः । अतो अनात्मैव स्वपदार्थ इति भावः। सत्ताकेतीति। सत्ताकेत्येव। वस्तु- तस्तु-लाघवादात्मावृत्तित्वविशिष्टप्रतियोगितासंबन्धेनात्यन्ताभावो भेदो वा हेतुर्बोध्यः। ननु-आंकाशादावस्य- न्ताभावप्रतियोगित्वस्ासिद्धिः; प्रत्यक्षेणानुमानादिना वा तत्र तदसिद्धेरुक्तत्वात्, अथ-दृश्यत्वादिहेतुना खसमाना- धिकरणात्यन्ताभावप्रतियोगित्वानुमानात्तत्सिद्धि :- इति चेत्, तर्हि मिथ्यात्वं सिद्धमेवेति साध्याविशेषः; हेतुसिद्धे- रेव साध्यसिद्धित्वात् ; तत्राह-निरुक्तेति। सदसद्विलक्षणत्वादीत्यर्थः। एवंरूपत्वेति। अत्यन्ताभावप्रतियोगिना- रूपत्वेत्यर्थः । तथाच प्रकृतहेतुसिद्धे: स्वसमानाधिकरणेव्यादिमिध्यात्वसिद्धिरूपत्वेऽपि सदसद्विलक्षणत्वादिरपमिध्या
Page 113
३१६ अद्वैतसिद्धिः सव्याख्या । [परिच्छेद: १ ]
शादौ नासिद्धम्: 'तस्माद्वा एतस्मादात्मन आकाश: संभूतः' इति श्रुतिसिद्धजन्यत्वेनानुमितत्वात्, 'आकाशवत्सर्वगतश्च नित्य' इत्यत्र चात्मनिदर्शनत्वं स्वसमानकालीनसर्वगतत्वेन आभूतसंप्वाव- स्थायित्वेन चेति द्रष्टव्यम्। 'अतोऽन्यदार्त'मिति श्रुत्या अनात्ममात्रस्यैव विनाशित्वप्रतिपादनात्, अतएव। 'घटादयः स्वानुगतप्रतिभासे वस्तुनि कल्पिता, विभक्तत्वात्, यथा सर्पमालादिकं, स्वानुगतप्रतिभासे रज्वा इदमंशे विभज्यते, 'एवं ब्रह्मण्यनुगच्छति घटादिकं विभज्यते, सन् घटः सन् पट' इति-आनन्दबोधोक्तमपि साधु। विभक्तशब्देन स्वसमानसत्ताकभेदप्रतियोगित्वरूपवस्तु- परिच्छेदस्य विवक्षितत्वात् न ब्रह्मतुच्छयोर्व्यभिचारः। नच-'खण्डो गौर्मुण्डो गौ'रित्येवमादि स्वानुगतप्रतिभासे गोत्वादौ व्यक्तीनामकल्पितत्वात् व्यभिचार इति-वाच्यम्: सत्सामान्यातिरि- कगोत्वादिसामान्यानभ्युपगमात्, गोत्वाद्यभ्युपगमेSपि गोत्वादिव्यञ्ञकतावच्छेदकसामान्यानभ्युप मात् व्यक्तिविशेषाणामेवाननुगतानां सास्नादिमत्त्वाद्युपाध्यनुगतानां वा तह्यअ्ञकत्ववत् व्यक्तिविशे- षविशिष्टत्वेन सत्सामान्यस्यैव तत्तद्यवहारजनकत्वोपपत्तेः । अतएव-'घटादिकं, सद्रूपे कल्पितम्,
गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वसिद्धित्वाभावात्तादृशमिथ्यात्वमेव प्रकृतहेतुनानुमेयमिति नोक्तदोष इति भावः। जन्यत्वेनेति। जन्यमात्रस्य प्रलये संस्काररूपनाशोत्पादाज्न्यत्वेन नाशप्रतियोगितवानुमानम्। ननु-'आकाशवत्सर्वगतश्च नित्य' इति श्रुता सर्वगतपदमाकाशस्य सर्वमूर्तसंयोगित्वबोधकम्, नित्यपदमविनाशित्वबोधकम्, तथाच प्रलयकालीनसंस्कारादिसंयो- गित्वादिप्राह्या विनाशित्वं कथं? तब्राह-आकाशवदित्यादि। सर्वगतत्वेन सर्वमूनसंयोगित्वेन। आभूतसं- प्रवस्थायित्वेन सृष्टिकालाविनाशित्वेन। प्रलये संयोगस्यासिद्धेः संस्कार रूपसूक्ष्मावस्थायाःसंयोगादिमर्वे माना- भावाच्चोक्तार्थकत्वं सर्वगतपदस्य युक्तमिति भावः। स्वानुगतप्रतिभासे स्वतादात्म्येन स्वरूपतो भानयोग्ये। स्वतादात््यविषयतानिरूपितनिरवच्छिन्नप्रकारतावतीति यावन्। सप्तम्या व्यापकत्वमर्थः। व्यापकतानिरूपकत्वं घ तादात्म्येन। तथाच यद्यत् उक्तप्रकारताविशिष्टं तत्रतत्र कल्पिता इत्यर्थः । कल्पितत्वं ज्ञाननिवर्त्यत्वं स्वाभावर्वात ज्ञेयत्वं वा। तथाचोक्तप्रकारताव्यापकस्वनिवर्नकधी विषयताकतवं उत्तप्रकारताव्यापकस्वात्यन्ताभावकत्वं वा पर्यवसि- तार्थः। उक्तप्रकारतासामानाधिकरण्यमात्रस्य विषयतादी निवेशे पटादे: स्वतादात्म्यभ्रमविषयघटत्वादी कल्पितत्व- मादाय परेरर्थान्तरं वाच्यम्, अतो व्यापकत्वमुक्तम्। खमते हि पटादेरुक्तभ्रमे नारोपितत्वम्, किंतु तत्तादात्म्य- स्येति तन्निवतकधीविषयत्वमेव घटत्वादे: नतु पटादिनिवतकधीविषयत्वमिति स्वानभिमतं तत्। परानभिमतमपि परस्य तार्किकादेरन्यथाख्यातिस्वीकारेण पटादिनिवर्तकधीविषयत्वस्य घटत्वादिजातावनड्गीकारात्। अत उभयवाद्य संमतिसिद्यार्थान्तरं स्यात्। व्यापकत्वनिवेश तु तादृशप्रकारतायाः सद्पेऽपि सश्वात्तस्य स्वनिवर्तकधीविषयत्वा- सिद्या मदिष्टसिद्धिः । नच-स्वमते बाघः, घटत्वादेर्व्यवहारिकपटादिनिवर्तकबुद्धविषयत्वादिति-वाच्यम्; जातिमात्रस्य सद्रूपताया: मूल एव वक्ष्यमाणत्वात्। तादृशप्रकारतावति द्रव्यगुणादो स्वनिवर्तकधीविषयत्वाभा- वादनवच्छिन्नति प्रकारतायामुक्तम्। प्रतियोगिताविषयतादेरनवच्छिन्नप्रकारतास्वीकारे तत्र स्वतादात्म्यभ्रमी- यतादात्म्यविपयतानिरूपितानवच्छिन्नप्रकारतावति स्वनिवर्तकधीविषयत्वाभावेन व्यभिचारात् निरूपितान्तस्थले स्वतादात्म्यसमानाधिकरणेति वाच्यम्। तथाच 'प्रतियोगी वट' इत्यत्र प्रतियोगितादेविशेषणतासंबन्वेनव स्वनिष्ठत्वात् स्वतादात्याभावास्न व्यभिचारः। एवंच सामानाधिकरण्यमपि व्यापकत्वस्थाने वक्तुं शक्यम्। द्वितीय- साध्ये तु न प्रकारतायामनवच्छिन्नत्वं देयम्, द्रव्यादौ जाती च सर्वत्र स्वाभावस्य सिषाधयिपितत्वात्। तथेत्या- देरुदाहरणे तात्पर्यम्। यद्यद्विभज्यते, तत्, खानुगतप्रतिभासे कल्पितम्, यथा रज्ुसर्पादिकमित्यर्थः । एवमित्यादे- रुपनयनिगमनयोस्तापर्यम्। प्रथमसाध्यामिप्रायेण शङ्ते-नचेत्यादि। गोत्वादिकमनपंक्ष्य कार्यप्रयोजकतायां दष्टान्तमाह-गोत्वाद्यभ्युपगमेSपीत्यादि। व्यक्तिविशेषाणामिति। जातिनिष्ठलौकिकविषयतासंबन्धेन प्रत्यक्षं प्रति स्वविषयसमवेतत्वसंबन्धेन प्रत्यक्षस्य कारणत्वात् जातिप्रत्यक्षप्रयोजकस्योक्तसंबन्धस्य घटकतया व्यक्तीनामुक्तप्रत्यक्षे प्रयोजकत्वाज्ातिव्यअकतवमिति भावः। अननुगतानां गोत्वाधविशेषितानाम्। ननु-गोत्वादिप्रत्यक्षे साखराध्य- वच्छिन्नेन्द्रिय संयोगवत्समवायादेर्विशिष्य हेतुताया आवश्यकत्वात् उक्तहेतुत्वे मानाभावस्तत्राह-सास्नरादीति। अनुगतानां विशेषितानाम्। सास्त्राध्यवच्छिन्नचक्षुःसंयोगवत्समवाया दिनिष्ठ कारणतावच्छेद्कघटकतया व्यक्तीनां गोत्वादिव्यअ्जकत्वमिति भावः। व्यक्तिविशेषविशिष्टत्वेन गवादितत्तवक्तिसंसृष्टरूपेण। तद्यवहारेति। गौरि- स्यादिव्यवहारेत्यर्थः । गोत्वजातिमर्वेन पराभिमताः यावत्यो व्यक्तयस्तावदन्यतमोपरक्तसद्रूपं गौरित्याकारव्यवहारे कारणम्। एवं घट इत्यादिव्यवहारेऽपि बोध्यम्। नन्वेवं-गवादिपदानां तत्तव्यक्तिविशिष्टसद्रपे सद्रूपविशिष्टतत्तव्यक्तिषु
Page 114
३१७
गौडव्रह्मानन्दी (लघुचन्द्रिका)। वा शक्तिर्याच्या, तथाच तेषां नानार्थकरवापत्तिः; एवं गवादेः कारणत्वादिकमपि तत्तव्क्तिघटितावच्छेदकभेदेनानन्तं स्यात्-इति चेन्नः सर्वगोव्यक्तिषु एकस्या एव शकेः संभवेन नानार्थकतवाभावात्। नच-अनुगतमेकमवच्छेदकं बिना तावब्यक्तिनिष्ठा कथमेका शक्यतेनि-वाच्यम्; तावद्यक्तिधीजननानुकूला शक्तिगापदे स्वीक्रियते। सा चाख- णडकारणतारूपा, उक्तधीनिष्ठा कार्यताप्यखण्डा, तयोश्चावच्छिस्तत्वे मानाभावास् कोऽपि धर्मस्तदीयाखण्डावच्छेदक- ताश्रयः । अतएव शक्तिग्रहनिष्टकारणत्वमप्येकमेव । 'सदूपविशिष्टतव्क्तिशकं गौरिति पद'मित्याकारकेषु शक्ति- ज्ञानेषु एकस्या एव कारणताया अनवच्छिसनायाः 'सद्रूपविशिष्टतद्यक्ति'रित्याकारकशाब्दबोधं प्रति स्वीकारात्, गोत्वजात्याश्रयत्वेन पराभिमतव्यक्तीनामन्यतमस्यैव तथ्यक्तिशव्देन कारणकार्यकोक्योर्निवेशात्। अतएव घटव्यक्तिं त्यक्तित्वेनावगाहमानादुक्त्ताकारशक्तिज्ञानान्न गोव्यक्तीनां शाब्दबोधः, तत्र तत्कारणत्वस्यास्वीकारात्। नच- तथाप्येकां गोव्यक्िमवगाहमानाच्छक्तिग्रहादन्यगोव्यक्तिशाब्दधीः स्यादिति-वाच्यम्; इष्टत्वात्, गोत्वादिजाति- स्वीकारेऽपि गोत्वेनैकगोव्यक्तिविषय कशक्तिज्ञानात् गोत्वेन गोव्यक्त्यन्तरशाब्दबोधस्य मीमांसकादिभि: स्वीकारात्। ननु-कारणत्वादेरखण्डत्वस्वीकारेऽप्यन्वयव्यतिरेकज्ञानस्यैव तद्राहकत्वं वाच्यम्, उक्तज्ञानं च नानुगतैकरूपं विनेति तादृशं गोत्वादिकमवश्यं वाच्यं-इति चेन्न; तृणारणिमण्यादिस्थल इवोपस्थितानां'त्रिचतुरादिव्यक्त्ीनां प्रत्येकान्वयव्यतिरेकज्ञानेन कारणता तास्वेव प्रथमतो गृद्यते, पश्चाद्यक्तयन्तरादपि कार्योत्पत्तिदर्शनात्तत्रापि तस्या: संबन्धोऽस्नीति कल्प्यते, नतु सर्वकारणव्यक्तीनामन्वयव्यतिरेकधीस्तद्गाहिका। नहि तृणारणिमणिभ्य एव वद्धिरुत्प- द्यत इति नियन्नुं शक्यम् ; तैलघृतमांसवसादिभ्योऽपि दर्शनात्। नच तावतां प्रथममुपस्थितिरस्ति, येन प्रथमत एव प्रत्येकमन्व्रयध्यतिरेकधीसंभवः । यन्तु-कारणतवादेरवच्छिप्नतवेनैवानुभव-इति, तन्न; 'धूमो वह्निव्याप्य' इत्याद्यनुभवे धूमत्वादौ व्याप्यतावच्छेदकत्वाभानस्य दीधितिकाराध्युक्तत्वेन सद्वदेव 'दण्डो घटकारण' मित्याद्यनुभवे दण्डत्वादे: कारणतावच्छेदकत्वाभानात्। अथवा-तावद्यकीनां यावन्ति सद्रूपेण सह तादालयानि तावदन्यत- मत्वविशिष्टसंबन्धेन सदरूपविशिष्टं गौरिति व्यवहारविषयः, तेन संबन्धेन सद्ूपं तत्ततकारणतादेरवच्छेदकम्। नच- गौरवाद्दुर्जेयत्वाच्चोक्तान्यतमत्वस्य तथात्वासंभवात् गोत्वादेः कल्पनमेव युक्तमिति-वाच्यम्; अखण्डस्योक्तान्य- तमत्वस्य स्वरूपत एव निवेशेनोक्तदोपाभावात्, कृप्तेनव तेन निर्वाहे गोत्वादिकल्पनस्यायुक्तत्वाव्। नचैवं-गोव्य- क्ीनामन्यतमत्वेनंव गवादे: कारणत्वादिकमास्ताम्, किं सद्रूपस्य तत्कल्पनयेति-वाच्यम्; गोतवादिजातिस्वीकारेऽपि तादृशान्यतमत्वस्य कारणताद्यवच्छेदकत्ववारणाय तस्यावाभ्यामन्यथासिद्धिनिरूपकत्वस्वीकारातू। अतएव सद्रूपास्वी- कर्तृबौद्धैरुक्तान्य तमन्वस्यान्यापोहनात्मकस्य गवादिपद्वाच्यत्वादिकं स्वीक्रियते। तदेतत्पक्षद्वयमपि भगवतो भर्तृहरेरु- क्तिमनुगध्छात। उक्तंहि तेन-'संबन्धभेदात् सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यव- स्थिताः ॥' तथा 'सा जातिः सा महासत्ता तामाहुस्वतलादयः।' इति। तामाहुरिति। गोत्वमित्यादौ सद्रूपमेव त्वादिभावप्रत्ययार्थः, तत्र तादात्म्यसंबन्धेन प्रकृत्यर्थस्यान्वय इत्यर्थः। नच-सद्रूपमात्रस्य त्वादिप्रत्ययशक्यत्वे तत्र प्रकृत्यर्थस्य भाने निर्धर्मितावच्छेदकबोधापसिरिति-वाच्यम्; सद्रूपेण सदन्याप्रकारकधीप्रकारत्वस्वरूपेण तच्छक्य- त्वात्। संबन्धमेदादिति। तत्तद्रवादिव्यत्तयुपहितत्वरूपस्य तावद्यक्तितादात्म्यानामन्यतमत्वविशिष्टरूपस्य वा संब- न्घस्य भेदादित्यर्थः । नच-प्रकृत्यर्थोपलक्षितसद्रपस्य सर्वत्र सत्वात् 'गोत्वमश्ववृत्ती'त्यादिव्यवहारः सादिति- वाच्यम्; प्रकृत्यर्थविशिष्टसत्ताया एवान्यान्वयात्। अन्रेदं बोध्यम्-गोत्वादिजातीनां सद्रूपतानङ्गीकारेऽपि प्रक- सानुमाने न व्यभिचार :; गवादिव्यक्तीनां गोत्वादिजात्यवच्छिप्रचिति कल्पितत्वेनोक्तजातावपि कल्पितत्वात्, यथाहि पूर्णानन्दरूपे अधिष्ठाने जायमानप्रपञ्चस्य सद्रूपं साधारण आधारः; तथा गवाद्यवयवो गोत्वादिजातिश्चासाधारणाार इति तत्रापि गवादयः कल्पिताः । नचवं-कल्पितपदस्य तज्ज्ञाननिवर्त्यार्थकत्वपक्षे व्यभिचार इति-वाच्यम्; ब्रह्म- सिद्धिकारोक्तानुमान एव तत्पक्षस्वीकारात; अतएव 'रज्वा इदमंशे विभज्यत इति मूलम्। नहीदमंशज्ञानेन सर्पादिनिवृत्ति :- इति। आचार्यैस्तु यत् जातीनां सद्रूपत्वं विवरणादयुकं व्यवस्थापितम्, तत्रायं भाव :- जातीनां सद्रूपत्वं अविद्याशक्तिविशेपरूपत्वं वेति पक्षद्वयमस्मदीयैः कैय्यटादिभिश्चाचायैरुक्तम्। तत्राद्यपक्षस्य दुष्टरवात् प्रकृतानु- माने व्यभिचार इति यत् परैरुक्तं तदसङ्गतम्; तस्योक्तयुक्तिभिरदुष्टतवात्। द्वितीयपक्षे व्यभिचाराभावस्तु स्फुट एव। नच-तादृशाविद्याया घटाद्यवच्छिम्नचिद्विषयकत्वे घटादिधीकाले तवनिवृत्त्यापत्तिः, ब्रह्मविषयकत्वे घटत्वपटत्वादिना- नाजात्यसंभवः, नहेकपुरुषं प्रति भासमाना ब्रह्माविद्या नानेति सिद्धान्त इति-वाच्यम्; अनन्ता हि मूलाज्ानीया: कार्यजननानुकृला: विक्षेपनामकशक्तयो निर्विषयिका :; आवरणशक्तरेव सविषयकत्वात्। तथाच घटव्यक्तिभिरव- च्छिमा जलाहरणादिकार्यानुकूला ताहशशक्ति: घटत्वम्। एवं पटत्वादिकमपीति न कोऽपि दोष-इति। अतएव
Page 115
३१८ अद्वैतसिद्धिः सव्याख्या । [परिच्छेदः १ ]
प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात्, प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवत्-इति ब्रह्मसिद्धिकारो- क्मपि साधु। ननु-सदर्थस्य ब्रह्मणः रूपादिहीनस्यासंसारमज्ञानावृतस्य शब्दैकगम्यस्य कथं घटः सन्नित्यादिबुद्धिविषयता स्यात्? तथाच 'घटोऽनित्य' इत्यनेन घटगतानित्यतेव 'घटः स'न्नित्यनेनापि घटगतमेव सत्त्वं गृह्यते। नच-स्वरूपेणाप्रत्यक्षस्य राहोश्रन्द्रावच्छेदेनेव ब्रह्मणोऽपि घटाद्यवच्छेदे- नैव प्रत्यक्षतेति-वाच्यम्; शब्दाद्यवच्छिन्नस्यापि गगनादे: श्रावणत्वाद्यापातात्, राहोस्तु दूरदो- बेणाज्ञातस्य नीलस्य योग्यस्य शुक्कभास्वरचन्द्रसंबन्धाञ्चाक्षुषता उक्ता-इति चेन्न; यतः सदात्मना न ब्रह्मणो मूलाज्ञानेनावृतत्वम्: किंतु घटाद्यवच्छिन्नशक्यज्ञानेनैव; तथाच चक्षुरादिजन्यवृत्त्या तदावरणभङ्गे सति 'सन्घट' इत्यत्र ब्रह्मणः स्फुरणे बाधकाभावात्। नच-रूपादिहीनतया चाक्षु षत्वाद्यनुपपत्तिः बाधिकेति-वाच्यम्; प्रतिनियतेन्द्रियप्राह्ेष्वेव रूपाद्यपेक्षानियमात्, सर्वन्द्रि- यग्राह्यं तु सद्रूपं ब्रह्म, नातो रूपादिहीनत्वेऽपि चाक्षुषत्वाद्यनुपपत्तिः, सत्तायाः पररि सर्वेन्द्रिय- ग्राह्यत्वाभ्युपगमाञ्च। तटुक्तं वार्तिककृन्दिः-'अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः । अक्षादीनां
गौडब्रह्मानन्दी (लघुचन्द्रिका)। उक्तपरिच्छेदानां हेनुत्वसंभवादेव। सद्रूपे कल्पितं सदूपज्ञाननिवर्त्यम्। तद्नुविद्धत्वेन सद्रपतादालयेन। प्रतीयमानत्वादित्यत्र प्रत्येकमित्यस्यान्वयः। तथाच घटादीनां सर्वेपां सत्तादात्म्येन प्रतीयमानत्वात् घटादिकं सर्व सद्रूपज्ञाननिवर्त्य मित्यर्थः । तादृशप्रतीयमानतवं च तद्योग्यतारूपं ग्राह्यम्, तञ्च सदवृत्तित्वविशिष्टं भेदप्रतियोगित्वम्। प्रत्येकं चन्द्रेत्यादि। चन्द्रतादात्म्यधीविषयतायोग्या: जलतरङ्गस्थचन्द्रा इवेत्यर्थः। तादृशयोग्यत्वं च उक्त्भेदप्रति- योगित्वमेव; 'चन्द्रोडयं तरङ्गस्थः सननि'ति सत्तादात््यमादायव चन्द्रतादात्म्यप्रतीतेः । अत्र यद्यत् उक्तप्रतियोगि- त्ववत्, तत्तत् सद्रूपधीनिवर्त्यम्, यथा तरङ्गचन्द्र इत्युदाहरणार्थे तात्पर्यम्। कथमिति। तथाच प्रथमानुमाने स्वानुगतप्रतिभासे सद्रूपे कल्पितं घटादीत्युक्तिरसङ्गता, द्वितीयानुमानेऽपि सत्तादात्म्यधीयोग्यतात्वेनोक्तप्रनियोगि- त्वस्य निवेशो न युक्त :; तस्मात् 'घटः सव्नि'त्यत्र भासमानं घटगतमेव सत्त्वं त्रिकालाबाध्यत्वम्, नतु त्रिकालावाध्य- त्वोपलक्षिताघिष्ठानसद्रूपस्य घटे कल्पितं तादात्म्यमिति भावः। अवच्छेदेनवेति। तथाचानचच्छित्वरूपेणैव सद्- पमावृतमिति भावः । आपातादिति। तथाच शुद्धस्यावृतत्वे विशिष्टस्यापि तदावश्यकम्; अतएव विशिष्टरूपेणापि गुरुत्वादिकमावृतमिति भावः । सदात्मनेति। सद्भानानन्दांशानां मध्ये आनन्दांशरूपेणेव ब्रह्म मूलाज्ञानेनावृतम्, 'पूर्णानन्दो मे न भाती'ति प्रत्ययात्, सद्धानरूपे भात इति प्रत्ययाच्च। ननु तर्हि सद्भानांशयोरनावृतत्वात् घटाकारवृ- स्यभावकालेऽपि 'घटः सन् घटो भाती'ति धी: स्यात्, तत्राह-किंत्वित्यादि। शक्त्यज्ञानेन मूलाज्ञानावस्थारूपा- ज्ञानेन। ननु-एकाज्ञानपक्षे शक्त्यज्ञानास्वीकारेण मूलाज्ञानेनेव सद्वानांशाभ्यामावृतत्वं ब्रह्मणो वाच्यम्, तत्राह- तथाचेति। तथा स्वीकारेऽपीत्यर्थः। मूलाज्ञानेनेव सन्भानात्मना ब्रह्मण आवृतत्वस्वीकारपक्षेऽपीनि याव्रत्। अपि- शब्दात् पूर्वकल्पसंग्रहः। तदावरणेति। घटाद्यवच्छिन्नावरणेत्यर्थः। भङ्गे अभिभवे। यद्ेकमेवाज्ञानं, तदा तद्विप यताया घटाद्याकारवृत्तिकाले घटाद्यवच्छेदेनाभिभवात् घटाद्यवच्छेदेन सव्वानांशयोव्यवहारः, तस्याभिभवस्तु तत्तदा- कारवृत्त्यभाववैशिष्वविघटनेन 'सन् घटो भाती त्यादिव्यवहारे प्रतिबन्धाक्षमत्वम्। तादृशव्यवहारं प्रति हि वटाद्याका- रवृश्यभावविशिष्टाया एव मूलाज्ञानविपयतायाः प्रांतिबन्धकत्वम्। यदितु मूलाज्ञानस्यावस्थारूपाणि घटाद्यवच्छिसानि अनन्तान्यज्ञानानि स्वीक्रियन्ते, तदा घटाद्याकारवृत्या तदुच्छेंदन तथा व्यवहार इति भावः। प्रतिनियतेन्द्रियग्रा- ह्योति। सर्वेन्दियाग्राह्येत्यथः। हीनत्वेऽपीति। ननु-सद्रपस्य चाक्षुपाविपयत्वमेवास्ताम्, नच-तथा सति सद्रपावर- णानाश उत्तव्यवहारानुपपत्तिरिति-वाच्यम्; घटादिविपयकवृत्यव वटाद्यवच्छेदेन सद्पावरणाभिभावकत्वसंभवात्- इति चेन्न; आवरणाभिभवाय कल्प्याया वृत्तेविपयत्वस्यावारकाज्ञानविपये सद्रप एव कल्पनीचित्यात्, अज्ञानस्येव वृत्तेरपि घटाद्यवच्छिन्नविपयताकत्वात्। ननु सद्रपस्य सर्वेन्द्रियग्राह्यत्वं विप्रतिपस्रम्, तव्राह-सत्ताया इत्यादि। परैः मीमांसकादिभिः। प्राभाकरमते हि ज्ञानविपयत्वमेव सत्ता, नान्या जात्यादिरूपा; गुणादो जात्यस्वीकारात्। सा च सर्वेन्दियजन्यधीविषयः; ज्ञानमात्रस्य घटादिविषयकत्वरूपेण स्वविपयिताशालित्वस्वीकारेण 'घटो मया ज्ञात' इत्याकारकत्वस्यांपि स्वीकारात। न्यायवशेपिकादिमतेऽपि सत्ताजातिः सर्वेन्द्रियजन्यधीविषयः; संनिकृष्टतया सत्ताया भाने सामग्रीसत्वात। तथाच तस्याः सर्वेन्द्रियग्राह्यत्वं न कस्यापि विप्रतिपन्नमिति भावः। अपिशब्दसमुच्चितं सत्ताया: स्वकीयाचार्यसंमतं सर्वेन्द्रियग्राहयत्वं प्रकटयति-तदुक्तमिति । अतः अनुभवान्यस्याज्ञातत्वाभावेन प्रमाणाव्िपयत्वात्। अनुभवः सद्रृप आत्मैव, विषयः; तत्र हेतुः-अश्ञातलक्षण इति। जडस्याज्ञातत्वाभावेन न विषयत्वम्, किंतु विषयी भृतसद्रपावरछेदकतवम्। अक्षादीनां इन्द्रियादिजन्यमनोवृत्तीनां दोपजन्याविद्यावृत्तीनां
Page 116
३१९
स्वतःसिद्धो यत्र तेषां प्रमाणता ।I' इति। कालस्य च रूपादिहीनस्य मीमांसकादिमिः सर्वन्द्रियग्रा- ह्यत्वाभ्युपगमात्। नच-शब्दावच्छिन्नस्याकाशस्यापि श्रावणत्वं स्यादिति-वाच्यम्; स्वभावनो योग्यस्य हि केनचिन्निमित्तेन प्रतिरुद्धयोग्यताकस्यावच्छेदकादिना योग्यता संपाद्ते, यथा दूरदोंषण प्रतिरुद्धयोग्यताकस्य राहोश्चन्द्रसंबन्धेन। एवंचावरणेन प्रतिरुद्धयोग्यताकं ब्रह्म घटाद्यवच्छेदेन योग्यं भवति, नभस्तु स्वभावायोग्यमेव; न प्रतिरुद्धयोग्यताकम्, येन शब्दावच्छेदेन योग्यं भवेत्। यद्वा-द्रव्यग्रहे चक्षुषो रूपापेक्षा, नन्वन्यग्रहे, ब्रह्म तु न द्रव्यम्; 'अस्थूलमनण्वहस्वमदीर्घ'मिति श्रुत्या चतुर्विधपरिमाणनिषेधेन द्रव्यत्वप्रतिषेधात्, अतो नानुपपत्तिः । अस्तु वा द्रव्यम्; तथाप्यध्यस्तद्रव्यत्ववति गुणादी रूपानपेक्षचाक्षुपत्वदर्शनेन धर्म्यन्यूनसत्ताकद्रव्यत्ववत्येव चक्षु रूपमपेक्षते। ब्रह्मणि न द्रव्यत्वं धर्म्यपेक्षया न्यूनसत्ताकमेवेति न तद्रहे रूपाद्यपेक्षा। कल्पितत्वं च स्वाभाववति प्रतीयमानत्वं वा, स्वरूपज्ञाननिवर्त्यत्वं वेत्यन्यदेतत्। तस्मात् परिच्छिन्नत्वमपि भवति हेतुरिति सिद्धम्॥ ॥ इति परिच्छिन्नत्वहेतूपपत्तिः।।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। च। स्वतःसिद्ध: अनारोपितः। तस्याविपयत्वे प्रमाणानां प्रमाणता न स्यात, अज्ञाताबाधितविषयकत्वस्यैव प्रमा- णतारूपत्वादित्याह-यत्रेति। यत्रैवंत्यर्थः। अ्रमस्यापि वाघात्पूर्व म्रंमात्वं सद्रपमादायैव। इदमंशाचच्छिस्नसद्ू- पनादृशाविपयकवरूपस्य हि दृदमंशधीनिष्टप्रमात्वरय संसर्गो अ्रमे समारोप्यते। ननु ज्ञानविपयत्वरूपा सत्ता प्राची- नप्राभाकराणां मते न सर्वेन्द्रियग्राह्या, ज्ञानस्य स्वविषयत्वाभावेऽपि तादात्म्येन स्वस्यैव सवस्मिन् स्वव्यवहारप्रयोज- कत्वम्, अतएव ज्ञातापि न ज्ञानविपयः; ज्ञानसमवायस्येव तद्यवहारप्रयोजकत्वादिनि हि तैः स्वीक्रियते, मणिका- रायुक्तनव्यप्राभाकरमतएव हि ज्ञानं स्वस्वाश्रयविषयकमुच्यते; तथाच कथं सत्तायास्नथात्वं सर्वसंमतम्, तग्राह- कालस्य चेनि। 'न सोऽम्ति प्रन्ययो लोके यत्र कालो न भासते।' इनि मीमांसकोक्तेज्ञीनं सर्व किंचित्कालावच्छि- समेव स्वविपयं गृह्लानि ? तत्र स्वाधिकरणक्षणावच्छिन्नत्वेन गृह्णातीत्युन्सर्गः। अतएव धारावाहिज्ञानस्थले ज्ञानानां स्वस्वाधिकरणक्षणविशिष्टतया स्वस्विषयग्राहित्वेनाज्ञातज्ञापकत्व'मिनि मीमांसकाः । तस्य बाधे तु संभवत्क्षणान्तरा- वच्छिन्नवेन; यथा पाकरक्ते घटे 'श्यामोऽय मिति धी: पाकपूर्वक्षणावच्छित्नत्वेन शयामत्वं गृह्लाति, स्मृतिः स्वकार- णवीगृहीतकालावच्छिन्नं स्वविषयम्। आदिभिरित्यादिपदात् तार्किकादिमते प्रत्यक्षे संनिकर्षसध्वात् सत्ताजातिर्भात्येव, अनुमित्यादिज्ञानेऽपि सत्ताविशिष्टतया नियमतो वह्मयाद्यनुभवात्तव्वाननियमो वाच्यः । अतएव 'पर्वतादौ वह्वचादिकं सन्न वे त्यादिसंशयानामनुमित्यादिस्थलेऽनुव्पादः। ननु-आस्तामनुभवसिद्धं, सत्तायाः सर्वधीविषयत्वम्, कथं तु
सद्वस्नयादिभानाभ्युपगमात, वह्निः न सन्नित्यादिधीकालेऽपि सत्तावह्नियोरेकत्र दवयमिति रीत्या प्रकारत्वसंभवात्,
त्यादो वह्मयादर्विशेषणत्वेन पर्वतादौ प्रकारत्वसंभवात्, व्याप्तिज्ञानेऽपि सत्ताव्याप्ेर्भानस्वीकरात्। आस्तां वा तत्र वह्ला सत्ताया अभानाद्वङ्वेरप्यभानम्; पर्वतादी सत्ताभासकसामग्रीसहिताया एव सामगर्या सद्वह्वयादिभासकत्वस्वी- कारात्, नव्यप्राभाकरमते विपयभासकसामधया एव ज्ञानग्राहकत्वस्येव, मीमांसकमते कालिकग्राहकसामध्याः काल- ग्राहकत्वस्येव च, सत्ताश्रयग्राहकसामग्रयाः सत्ताग्राहकत्वसंभवाच्चेति भावः। आवरणेन वदाद्यवच्छिन्नावरणेन। प्रतिरुद्धेति। घटाद्यवच्छेदेन प्रतिरुद्देत्यर्थः । ब्रह्म सद्रूपम्। घटाद्याकारवृत्त्येति शेपः। स्वभावायोग्यं इन्द्रियेण गृहीनुमशक्यम्। श्रोग्रस्य हि शब्दशव्दत्वादिप्रत्यक्षं प्रत्येव शक्तिः, नतु नभोग्रहेऽपि, चक्षुस्वग्भ्यां तु द्रव्यप्रत्यक्षजनने रूपस्पर्शापेक्षणात् नीरूपस्पर्शस्य नभसो न ताभ्यां ग्रत्यक्षमिति भाषः । नन्वेवं ताभ्यां सद्रूपं द्रव्यमपि गृहीतुमश- क्यम्; रूपस्पर्शाभावात्, तत्राह-यद्वेति। रूपापेक्षा समवायेन रूपं कारणम्। ननु परिमाणवत्यपि ब्रह्मणि परमार्थतस्तत्प्रतिपेधात् ब्रह्म द्रव्यमेव, तत्राह-अस्तु वेति। अध्यस्तद्रव्यत्ववति अध्यस्तेन संबन्धेन द्रव्यत्व- वति। धर्म्यन्यूनसत्ताकद्रव्यत्ववति धर्म्यन्यूनसत्ताकसंबन्धेन द्रव्यत्ववति। यथाश्रुते कर्मधारयान्मतुपोऽसा- १ भ्रमश्ञानेनापि प्रवृत्तिद्वर्शनात्प्रमाया एव प्रवृत्तिप्रयोजकत्वात्प्रवृत्तिप्रयोजकत्वरूपं अबाध्यत्वप्रकारकाज्ञानविषयीभूतार्थविषयक- क्षानत्वरूपं वा प्रमास्वं अ्रमस्यापि बिलते इति बिन्दुरीकायां प्रतिपादितम्।।
Page 117
३२० अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। धुत्वं, द्रव्यनिद्ठद्धव्यत्वस्य गुणादौ संसगाध्यासेऽपि सादृशगुणचाक्षुपे रूपानपेक्षणात् असङ्गतिश्च। स्वसमससाकसंबन्धेन द्रव्यत्ववतीति फलितार्थः । चक्षुः चक्षुरादि। रूपं रूपादि। वस्तुतस्तु-ब्रह्मणश्चाक्षुपादिप्रत्ययाविषयरवेऽपि नास्माकं क्षतिः, घटादिविषयकवृश्यापि घटाद्यवच्छेदेन सद्रूपस्यावरणाभिभवात्, घटादौ सद्रूपतादात्म्यभानसंभवेन प्रकृतानुमानेऽनुपपत्यभावात्, अज्ञाताविषयकत्वेऽपि घटाद्याकारवृत्तेरज्ञाततावच्छेदकविषयकत्वेन प्रमात्वसंभवाद, तास्विकप्रमात्वमेवाज्ञातविषयघटितं ब्रह्माकारवृत्ताविति वक्तुं शक्यत्वात्; परंतु ब्रह्मणश्चाक्षुपादिविषयत्वे न काप्यानु- पपत्तिरित्याशयेन नानुपपत्तिरिति पूर्वमुक्तम्। ब्रह्मण: परिमाणादिमत्वे च न मानम्। उक्तंच पदार्थखण्डने शिरोमणिना-'ईश्वरस्य परिमाणवर्वे मानाभावः; द्रव्यत्वस्य त्रुटित्वादेरिव परिमाणासाधकरवात्'। तदीयटी- कायां च सार्वभौमेरुक्तम्-'एवमीशस्य जीवस्य च द्रव्यत्वे संयोगादौ च मानाभावः आत्ममनःसंयोगादेः ज्ञानादिहेतुत्वेऽपि न मान' मित्यादि। कल्पितत्वम् उक्तसाध्ययोः प्रविष्टः कल्पितशब्दार्थः ॥ ।। इति लघुचन्द्रिकायां परिच्छिन्नत्वहेतूपपत्तिः॥
अथ परिच्छिन्नत्वनिरुक्तिः ।
(१) तत्र न्यायामृतकारा :- परिच्छित्रत्वमपि न हेतुः। तद्धि देशतः, कालतो, वस्तुतश्वेति त्रिविधम्। तत्र नाद्यद्वितीयो; देशपरिच्छिन्नत्वस्य देशान्तरेऽसत्रूपत्वे, सर्वत्रविद्यमाने देशे, सर्वगतदेशोपादानतया सर्वत्र विद्यमानेऽज्ञाने, प्रतिपन्नोपाधिनिषेधस्य कुत्रचिदभावे प्रतियोगिसत्वापत्त्या देशापरिच्छिन्ने तत्र चातिद्वेः, एकदेशमात्रसत्वरूपत्वे मन्मतेऽसद्रूपे शुक्तिरूप्ये असिद्धेः, सर्वमूर्तद्रव्यासंयोगितवस्य परममहत्परिमाणानधिकरणलस्य, महलानधिकरणपरिमाणानधिकरणत्वस्य वा तद्रूपत्वे तु आद- यो्निर्गुणे परमात्मनि व्यभिचारात्, अन्त्ये गुणादावसिद्धेः, तेन त्रैकालिकनिषेधसाधने विरोधाच्च। अतएव न कालपरि च्छिन्नतवमुक्तदोषादेव। तेन सवकालादावसतसाधने प्रमाणविरोधस्याविशिष्टतया स्वकालेऽसत्वेन कालान्तरे सत्वापाताच्च। आकाशवत्सर्वगतश्च नित्य इति श्रुतिसिद्धेऽन्याकृते नित्ये आकाशे, "सदेव सोम्येदमग्र आमीत्" "दृद््व तं विमुच्यते" इति श्रुतिभ्यां सार्वत्रिकत्वेनावगते काले चासिद्वेश्व। न तृतीयः: तस्य तालिकभेदप्रतियोगित्वे स्वरूपासिद्गेः, कल्पितमे- दप्रतियोगित्वरूपत्वे आत्मनि व्यभिचारात्, धर्मिसमसत्भेदप्रतियोगित्वे शुक्तिरूप्येऽसिद्वेश्च। एतेन-विवादाध्यामिताः, खानुगतप्रतिभासे वस्तुनि कल्पिताः, विभक्तत्वात्, इति प्रमाणमालाकृदनुमानमपि-पराहतम्; विभक्त्ततस्य देश- कालवस्तुपरिच्छिन्नत्वरूपर्वे दोषस्योक्तलात्। अतएव-विवादाध्यासितं, सद्रपे कल्पितं, प्रत्येकं तदनुविद्धतया प्रतीयमानत्वात् इति ब्रह्मसिद्धिकारोक्त्तानुमानमपि-पराहतम्; खण्डो गारित्यादिप्रतीत्या गोलानुविद्धतया प्रतीयमाने खण्डादा व्यमिचारात्, रूपादिहीनस्यासंसारमज्ञानावृतस्य शब्देकगम्यस्य ब्रह्मणः सन्घट इत्यादिप्रत्यक्षविषयलाभावेन घटोऽनित्य इत्यादावनित्यतमिव सत्मपि घटादिगतमेव भासते इत्यन्ीकरणीयत्वेन हेलसिद्धेः, स्वरूपेणाप्रत्यक्षस्य राहो: शुक्कभारवरचन्द्रसंबन्धाच्चन्द्रावच्छेदेन प्रत्यक्षत्वेऽपि घटादयवच्छेदेन ब्रह्मणश्चाक्षुषतासंभवात्। अन्यथा शब्दावच्छेदेन गगनस्यापि चाक्षुषतापत्तेरिति-वर्णयन्ति॥ (२) सिद्धिकारास्तु- परिच्छिन्नत्वमपि हेनुरेव। तद्धि देशतः, कालतो, वस्तुतथेति त्रिविधम्। तत्र देशपरिच्छिन्नत्वमत्यन्ताभावप्रति- योगित्वं, न देशान्तरेऽसत्वं, सवदेशमात्रसत्वं वा। अत्यन्ताभावथ् स्वान्यूनसत्ताको विवक्ष्यत इति नात्मनि व्यमिचारः, नवा देशकालाज्ञानप्रतिपन्नोपाधिनिषेधेष्वसिद्धिः, संबन्धसामान्येनेवात्यन्ताभावस्य द्वितीयमिथ्यात्वेन साधनात्। उक्त- हेतुना ज्ञाननिवत्यत्ादिमिथ्यात्वस्यैव साधने साध्यावैशिष्याभावात्। कालपरिच्छिन्नत्वमपि ध्वंसप्रतियोगिलमेव, न तु कालान्तरासंत्वांदिरूपम्। तदपि नाफाशादावसिद्धम्; 'तस्माद्वा एतस्मादितिश्रुतिबोधितजन्यत्वेन तस्यापि ध्वंसा- नुमानात्, उत्तश्रुतेः भूताकाशपरतया संकोचे प्रमाणाभावात्। आकाशवत्सवगतश्च नित्य इत्यात्मनिदर्शनत्वस्य खस- मानकालीनसर्वगतत्वेनाभूतसंसवस्थाभिन्नत्वेनैवोपपतेः। "अतोऽन्यदार्त"मिति श्रुत्यानात्ममात्रस्य विनाशितप्रतिपादनेन "दृष्ट्वैव तं विमुच्यत" इति वचनस्यापि दर्शनान्तरक्षणबोधकत्वेऽपि तस्य द्वितीयक्षणादिसत्वयधकत्वेऽपि तात्पर्याभावन कालादीनामप्यनित्यत्वेन तत्रासिद्धेरनवकाशात्। एतेन-वस्तुपरिच्छिन्नत्वमपि हेतुरिति-सूचितम्; खान्यूनसत्ताक
Page 118
३२१
भेदविवक्षणे कस्यापि दोषस्याप्रसरात्। अत एव-घटादयः, खानुगततत्प्रतिभासे वस्तुनि कल्पिताः, विभक्तत्वादित्यान- न्दवोधोक्तमपि-साधु; विभक्तत्वपदेन त्रिविधपरिच्छेदविवक्षणेऽपि दोषाभावस्योक्तलात्। एवंच विवादाव्यासितं, सद्रूपे कल्पितम्, प्रत्येकं तदनुविद्धतया प्रतीयमानत्वादिति त्रह्मसिद्धिकारोक्तानुमानेऽपि न दोषः; गोलादीनामपि सद्रृप- ताया अन्गीकारेण खण्डमुण्डादिपु व्यभिचाराभावात्। सदात्मना ब्रह्मणो घटादवच्छिन्नशत्त्यज्ञानेनैवावृतत्वेन चक्षुरादि- जन्यवृत्त्या तादृशावरणभज्ने सर्वेन्द्रियग्राह्यस्य रूपादिहीनस्यापि ब्रह्मणः सत्तायाः परमते कालस्य च मीमांसकमत इव चाक्षुषतोपपत्त्या स्वरूपासिद्धेरभावाच्च। तदुकं वार्तिककृन्भ्िः- "अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः। अक्षादीनां स्वतः सिद्धो यत्र तेपां प्रमाणता।।" इति। स्वभावतो योग्यस्य केनचिन्निमित्तेन प्रतिरुद्धयोग्यताकस्य अवच्छेदकादिना योग्यतासंपादनेऽपि स्वभावतोऽयोग्येऽपि तदसंपादनेन गगनचाक्षुषत्वासंभवान्नानुपर्पत्तः। वस्तुतस्तु-द्रव्यग्रहण एव चक्षुपो रूपापेक्षयाऽस्थूलमित्यादिना- उद्रव्यत्वेनावगतस्य, द्रव्यत्वेऽप्यव्यस्तद्रव्यत्वति रूपादी रूपानपेक्षणेन धर्म्यन्यूनसत्ताकद्रव्यत्ववत्येव रूपापेक्षणेन च ताहशद्रव्यत्वशन्यम्य ब्रह्मणः चाक्षुपत्वे न कोऽपि दोप इति-वर्णयन्ति।
तरङ्गिणीकारास्तु-
न हि स्वान्यूनसत्ताकाभावप्रतियोगितरपं देशपरिच्छिन्नत्वं तादृशध्वंसप्रतियोगितरूपं कालपरिच्छिन्नत्वं तादृश- भेदप्रतियोगितरपं वस्तुपरिच्छिन्नत्वं वा हेतुः । आद्ययोः 'आकाशवन्सर्वगतश्च नित्य' इति श्रुतिसिद्ध सर्वमूर्तदव्य- संयोगिनि, अविनाशिन्याकाशऽमिद्गेः । अन्त्ये शशभ्अं तुच्छं नेत्याकारप्रतीतिसिद्धतुच्छप्रतियोगिकतत्समसत्ताक- भेदप्रतियोगितवमादाय तुच्छे व्यभिचारात। एतेन-विवादाध्यासिना घटादयः, खानुगतप्रतिभासे वस्तुनि कल्पिताः, इति प्रमाणमालाकृदनुमानं विवादाध्यानिनं सद्रपे कल्पितमिति ब्रह्मसिद्धिकारानुमानंच-पराह्तम्; खण्डो गोरित्यादि व्यवहासस्येव वाधकाभावे सति गोलसामान्यप्रमाणत्वेन तदनभ्युपगमस्य निर्वाजलात्, नच-व्यक्तिविशेषविशिष्टत्वेन सत्गामान्यस्येव तादशव्यवहारजनकत्वमिति-वाच्यम्: व्यक्तिविशेषाणां गोलादिपरिचितानां तद्यअकत्वे घट्टकुटी- प्रभातवत्तान्तः, तदपरिचिनत्वे गवादिपदानां नानार्थकत्वापत्तिः, गवादिशव्दैरेव घटादिपदार्थानामपि भानापत्तिश्रेत्या- दनेकातिप्रसज्ञापनः । यत्तृक्तं सदात्मना न त्रह्मणी मूलाज्ञानेनावृतत्वमिति, तदपि न; तव मते सदात्मन आनन्दात्मनो- डखण्डरसत्वेन सदात्मन आवराणाभिभवे आनन्दान्मनोऽप्यावरणाभिभवस्यावश्यकतया सत्प्रकाशवदानन्दप्रकाशस्याप्या- वश्यकत्वात्। यन्तक्तं सर्वन्द्रियग्राह्यत्वात् ब्रह्मणश्ाक्षुपत्वे रूपानपेक्षणमिति, तदपि न; अत्यन्तमव्यक्तस्य ब्रह्मणश्रा- क्षुपत्वानुपपत्तेः, 'नावेदविन्मनुते नं बहन्त' 'विभेकण विपतयो विचक्षुः' 'तं लौपनिषदं पृच्छामि' "अथ परा यया तदक्ष- रमधिगम्यते" इत्यादिश्रुतिभिरिन्द्रियाविषयतस्योपनिषन्मात्रसमधिगम्यत्वस्य प्रतिपादनात्। एतेन-'अतोऽनुभव एवै- को विषयोऽज्ञातलक्षण' इति वार्तिकश्लोकोऽपि-पराहृतःः सत्तादृष्टान्तोऽपि नात्र प्रसरति; तस्या इन्द्रिययोग्यव्यक्तिक- तिजातिवेन ब्रह्मणश्चातादशत्वेन वैषम्यात्। एतेन-न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते इति वचनमपि- व्याख्यातम् : उपनयमर्यादयैव कालस्य सर्वत्र भानात्। वस्तुतस्तु-कालः साक्षिभास्य इति न रूपापेक्षेति न सोऽपि दष्टान्तः। एवंच घटादवच्छिन्नत्वेन त्रह्मणश्चाक्षुषता- वादो न गुक्तः, योग्यतावच्छेदकरूपादिमत्वस्योभयत्रानवधारणे ब्रह्मणश्वाक्षुषत्वं नाकाशस्येत्यन्न विनिगमकाभाचेन शब्दादवच्छेदेन गगनस्यापि चाक्षुषतापत्ेः । नहि नीरूप द्रव्यं चाक्षुपं भवति। ब्रह्म च 'महान्तं विभुमात्मानं' 'सर्वत्र प्रसिद्धोपदेशा'दित्यादि सूत्रः ब्रह्म परिमाणवत्, परिमाणवदुपादानलात् इत्याद्यनुमानेः अद्रव्यस्याम्बरादिवारकत्वानुपप- त्यादर्थापत्तिभिश्च द्रव्यमित्येव सिद्धतीति तच्चाक्षुपत्वे उक्तनियमभन्गापतिः। ज्ञानादेरपि द्रव्यत्वात्तु न ज्ञानानन्दाद्यात्म- ताविरोधः । धर्म्यन्यूनसत्ताकद्रव्यत्ववत्येव चक्षुषो रूपापेक्षायामपि नानुपपत्तिः। ब्रह्मनिष्ठस्य द्रव्यत्वस्य तन्न्यूनसत्ताकल- स्यैतावताप्य सिद्धेरिति न्यायामृतसिद्धान्तः सर्वोऽपि समीचीन एवेति-प्रतिपाद्यन्ति। 4 (४) ब्रह्मानन्दसरस्वत्यस्तु- नह्या 'काशवत्सर्वगतक्च नित्य' इति श्रुत्या सर्वगतशब्देन सर्वमूर्तसंयोगप्रतिपादनमात्रेण तत्रात्यन्ताभावप्रतियोगिता- सिद्धिः, प्रलयकालीनतत्संस्कारस्य मूर्तत्ाभावेन तत्कालीनात्यन्ताभावप्रतियोगिलस्य तत्राबाघात्, पतेन-धवंसप्रांत- योगित्वमपि-व्याख्यातम्; नित्यपदेनाSSभूतसंप्रवस्थायितस्यैव विवक्षणीयलात्। 'तस्मादाकाशः संभूतः' इति अ. सि. ४१
Page 119
३२२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेदः १ ]
अथ अंशित्वहेतूपपत्तिः। चित्सुखाचार्यैस्तु-'अयं पटः, एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत्-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अथ अंशित्वहेतूपपत्तिः। अंशित्वात् कार्यत्वात्। ननु पटे तन्त्ववच्छिन्नचिदेवोपादानम्, ननु तन्नुरिति मते सिद्धसाधनम्; तादाल्यसंघ-
जन्यत्वश्रवणात्, तस्य भूताकाशपरतया संकोचे प्रमाणाभावात् इति नादयोराकाशेऽसिद्धिः। शशशस्नस्यानघिष्टानत्वेन शशशरअ तुच्छं नेत्याकारकभ्रमाप्रसिद्धा तुच्छे व्यभिचारस्याप्रसङ्वेन तृतीयपक्षोऽपि समीचीन एव। पतेन-विवादा- ध्यासिताः खानुगतप्रातिभासिके कल्पिताः' इत्यानन्दबोधीयमनुमानं, 'सद्रूपे कल्पितमिति' ब्रह्मसिद्धिकारीयानुमानमपि
व्यक्तिपु एकस्या एवाखण्डकारणतारूपायाः शक्तरन्नीकारेण प्रकृत्वयर्थविशिष्टसत्ताया अन्यत्रानज्ञीकारेण च नानार्थकत्वस्य गोतमश्नवृत्तीत्यतिप्रसङ्गस्य च वारणसंभवेन गोलादाँ प्रमाणाभावेनोक्तव्यभिचागप्रसत्तः। उक्तं चतत्-'संबन्त- भेदात्सत्तव विद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सवें शब्दा व्यवस्थिताः' ॥ इति ॥ यद्यपि आनन्दबोधानुमाने कल्पितपदेन ज्ञाननिवत्यत्वविवक्षायामेवोक्त्तदोषप्रसरात तत्र तद्वति तदभावरूपस्य कल्पितत्वस्य विवक्षणे नोक्तव्यभिचार इति न सत्सामान्यातिरिक्त्तगोलादिजातिनिराकरणमपेक्षितम, एवं न्रह्मनिद्धिकारानुमाने कल्पितपदेन तद्वति तदभावस्य विवक्षणे ज्ञाननिवर्त्यत्स्य विवक्षणे च खण्डमुण्डादीनां गोलानुविद्धतया प्रतीयमानानां सद्पे कल्पिततस्य विद्यमानत्ात् न व्यभिचार इति तदर्थमप्युक्तजातिनिराकरणं नापेक्षितम्; तथापि यत् जातानां सद्पत्वं अविद्याशक्तिविशेपरपलमिति पक्षद्वयमस्मदीयैः कैयटादिभिश्राचार्येरुक्तम्, तत्राद्यपक्षस्य दुष्टतात् प्रकृतानुमाने व्यभिचार इति पररुक्त्तमसंगतमिति निरूपयितुं तन्निराकरणं कृतमिति मन्तव्यम्। सद्भानानन्दांशानां मध्ये आनन्दांशरपेणव ब्रह्म मूलाज्ञानेनावृतम्; पूर्णानन्दो मे न भातीति प्रत्ययात्, सद्ानरूपे भात इति प्रत्ययाच। एवंशक्तयज्ञानेन सदावरणभजषि आनन्दावरणाभिभवाभा- वान्नानन्दप्रकाशापत्तिः कल्पितभेदेनांशाशिभावकल्पनेऽपि यथा नाखण्डार्थतहानिः, तथान्यत्र विस्तरः इति सदान्मना ब्रह्म न मूलाज्ञानेनावृतमिति यदुक्तं वत्संगतमेव। सर्वन्द्रियग्राह्यलमप्यत एवोपपादितम्; आनन्दांश नाव्यक्तत्वेऽपि सदात्मना व्यक्तत्वेन चाक्षुषलोपपत्तेः । एतेन-'नावेदविन्मनुते तं बृहन्नं' 'तं त्वोपनिषदं पुरुषं पृच्छामि' इत्यादि श्रुतयोऽपि-व्याख्याताः; तेषामपि पूर्णानन्दांशविषयकलवात्। एतदभिप्रायेणवोक्तम्-'अतोऽनुभव एवपो विषयोऽज्ञा- तलक्षणः। अक्षादीनां स्वतःसिद्धो यत्र तपां प्रमाणता'॥ इति ॥ यर्हि ज्ञानविपयल्वमेव सत्ता, नान्या जाल्ादिरया; गुणादी जात्यस्वीकारातू, साच सर्वेन्द्रियजन्यधीविषयः, ज्ञानमात्रस्य स्वविषयकतस्वीकारेण स्विषयनाशालितस्ीकारेण च घटो मया ज्ञात इत्याकारकत्वस्यापि संभवात् इत्युच्यते, तेषां मीमांसकानां मतरीत्या योग्यव्यक्तिवृत्तिजातित्वेन चाक्षुपतव- मित्यादिरूपेण वैषम्यस्यासंभवेन सत्तादृष्टान्तोऽपि नानुपपत्रः। वस्तुतस्तु-वशेषिकादिमते सत्तायाः सर्वेन्द्रियजन्यधी- विषयत्सत्वंन तन्मतनापि दृष्टान्तलमुपपद्यते। यत्तु तः योग्यव्यक्तिवृत्तिजातिलमंव चाक्षुषलादिप्रयोजकमित्युच्यते तत्रास्माभि: सद्रूपलमेव तत्र प्रयोजकमित्युच्यते। प्रयोजकविषये विवादेऽप्यभिमतांशेन न विवाद इति न कोऽपि दोपः। एतेन-कालचाक्षुपतापि-व्याख्याता; अतएव हि वारावाहिकस्थले द्वितीयादिक्षणार्वचच्छिन्नज्ञानानामपि ग्रमात्वोप- पत्तिः। उपनयमर्यादया तद्भानेंतु द्वितीयादिज्ञानानां चाक्षुपप्रमालानुपपत्तिः। एवंच घटायवच्छदेन ब्रह्मणः चाक्षुपता-
तस्य सद्रूपात्मनि सत्वऽप्याकाशेऽभावान शब्दावच्छदेनाकाशस्य श्रावणलापत्तिः। एवं चन्द्रावच्छेदेन राहुप्रत्यक्षत्वस्या- प्युपप्त्तः, तत्र तदाकारवृत्तिप्रति चन्द्रसंवन्धः परं प्रयोजक इति विशेष इति न काप्यनुपपत्तिः। अस्तु वा द्रव्य- प्रत्यक्षे रपापेक्षा एवमपि ब्रह्मणोऽदव्यत्वेन न चाक्षुपल्ानुपपततिः। महान्तं विभुमात्मानमित्यादीनां तु तटस्थविधया स्वरूपोपलक्षणत्वानद्रव्यत्वसाधकत्वम्। सर्वत्र प्रसिद्धसूत्रादिकं तु सगुणविषयमिति नात्र तस्यावकाशः। एतेन- अनुमानमपि-पराहतम्,द्रव्यत्वस्य ब्रह्मविषयसत्ताकतया ज्ञाननिवर्त्यत्वेऽपि बाधकश्रुत्यादिभिरेव सिद्धत्वात् धम्यन्यू- नसत्ताकद्रव्यत्ववत्येव रूपापेक्षेति नियमसंकोचेनाभि सर्वमुपपद्यत इति परिच्छिन्नत्वमपि हेतुरेव-इति वर्णयन्ति॥ इति परिच्छिन्नत्वनिरुक्ति:।
Page 120
विट्ठलेशोपाध्याय्युपबृंहितगौडब्रह्मानन्दीयुता। ३२३
इत्युक्तम्। तत्र तन्तुपदमुपादानपरम्, एतेनोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्व- सिद्धिः। नच-कार्यस्य कारणाभेदेन तदनाथितत्वात् सिद्धसाधनम्, अनाशितत्वेनान्याश्रितत्वेन वा उपपत्या अर्थान्तरं च इति-वाच्यम्; अभेदे कार्यकारणभावव्याहत्या कथंचिद्पि मेदस्यावश्या- भ्युपेयत्वात्। नच 'तद्नन्यत्वमारम्भणशब्दादिभ्य' इत्यधिकरणविरोध; उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्येव तदर्थत्वात्। वाधात्तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरम्। नच प्रकृतेऽपि वाध :; तस्योद्धरिष्यमाणत्वात्। नचात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः, तस्य प्रागेव निरस्तत्वात्। नच-कस्यचित् पटस्य संयोगवृत्त्यतत्तन्तुषु सत्त्वेन तत्र व्यभिचार इति- वाच्यम्; तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वतः तत्संयोगिनस्तत्निष्ठात्यन्ताभाव प्रतियोगिन्वाङ्गीकारेण पक्षसमत्वात्। नचाव्याप्यवृत्तित्वेनार्थान्तरम् ; पटतद्भावयोरेकाधिकरण- वृत्तो विरोधस्य जगति दत्तजलाअ्ञलित्वप्रसङ्गात्, संयोगतदभावयोरप्येकाधिकरणवृत्तित्वानभ्युप- गमात्। अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्नवृत्तित्वमत्यन्ताभावस्य विशेषणं देयम्; एवमेतत्काली-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। न्धेन तन्तौ पटस्यात्यन्ताभावसत्वात्, किंच पटान्तरे तन्नुनिष्टात्यन्ताभावप्रतियोगित्वानुमानसाधारण्या एकोक्तेरलाभश्र, तत्राह-तत्रेति। एतत्पदं तु पक्षीभूतव्यक्तिपरमित्याशयेन तत्स्थाने स्वपदमाह-स्वेति। सिद्धसाधनमिति।यथा तत्पटे तस्यात्यन्ताभावः स्वीक्रियते, तदधिकरणत्वस्यैव तदत्यन्ताभावविरुद्वत्वेन तत्तादात्म्यस्य तदत्यन्ताभावाविरुद्धत्वात्; तथा तदभिन्नतन्नावपीति भावः । अनाशितत्वेनेति। तत्पटस्येत्यादिः। अन्येति। तत्तन्तुभिन्नेत्यर्थः। उपपतत्या स्वात्यन्ताभावसामानाधिकरण्योपपत्या। यम्नन्तुपटयोम्नादात्म्यसुच्यते, तेपां परिणामवादिनां सिद्धसाधनम्। यैस्वा- धाराधेयभावस्तेपामारम्भवादिनामर्थान्तरम्। एतदनुमानबलादनाश्रितत्वादिसिद्धि :; अन्यथा तत्पटाश्रयत्वतत्पटाभाव- योस्तत्तन्ती विरोधान्, नहि तावता मिथ्यात्वरूपोद्देश्यसिद्धिः; तदनधिकरणे तदत्यन्ताभावस्य सर्वसंमतत्वादिति भावः। अभेदे अत्यन्ताभेदे। कथंच्ित् स्वकीयधमिप्रतियोगिनोर्यस्तादात्म्यरूपः सबन्धः तत्समसत्ताकस्य। भेदस्येति। परिणामवादिभिरिि शेपः। तथा चासंबद्धयोंः कार्यकारणत्वासंभवेन तन्तुपटयोस्तादात्म्यसंबन्धोSवश्यं वाच्यः; स च भिन्नयोरवति भेदोऽ्प्यावश्यकः। एवं च ययोर्यः संबन्धस्तयोरेकत परस्य तेन संबन्धेनात्यन्ताभावस्यासंभवात्तादात्म्य- संबन्धेन तन्नुपटयोरन परम्परात्यन्ताभावव्त्त्वं परिणामवादिभिर्वक्तुं वाक्यम्। ततश्र तन्तुनिष्ठस्यात्यन्ताभावस्य तादात््य- संबन्धावच्छिन्नप्रतियोगित्वं तत्पटे न तेपां सिद्धम्। नच-अत्यन्ताभावप्रतियोगितायास्तादात्म्यसंबन्धावच्छिन्नत्व- स्यासंभवः, संभवे वा भेदप्रतियोगिताया ऐक्यसंबन्धावच्छिन्नत्वभेव वाच्यम्; तादात्म्यवतोरपि भेदसत्वेन तत्र्ति- योगितायास्तादात्म्य संबन्धावच्छिन्वत्वासंभवात्, तादात््यसंबन्धारवच्छिन्नप्तियोगिताकाभावत्वस्य भेदलक्षणत्वासंभ- वेनंक्यमंबन्धावच्छिन्नप्रतियोगिताकाभावत्वस्यैव तल्क्षणत्वात्; तच्चानिष्टम्, ऐक्यस्य संबन्धरवे 'घटः कलश' इत्या- दिप्रत्ययापत्तेरिति-वाच्यम्; भेदप्रतियोगितायाः संबन्धानवच्छिन्नत्वस्वीकारेण संबन्धानवच्छिन्नकिंचिद्धर्वरछि- अप्रतियोगिताकाभावत्वस्यैव भेदलक्षणत्वात्। ध्वंसप्रागभावयोहि प्रतियोगिता संबन्धेनेव धर्मेणाऽपि नावच्छिद्यते। नच-तथाऽपि प्रतियोग्याश्रयत्वेनवात्यन्ताभावस्य विरोधात् तन्ती पटात्यन्ताभावः परिणामवादिनां सिद्ध इति- वाच्यम्; प्रतियोगितावच्छेदको यः ग्रतियोगितावच्छेदकारवच्छिन्नप्रतियोगिताक: संबन्धः तदनुयोगित्वेनंव सममत्य- न्ताभावस्य विरोधात। अतएव धनानधिकरणे धनस्वामिनि पुरुपे अयं स्वामित्वसंबन्धेन धनाभाववानिति धीर्न प्रमा; मण्यादिवृत्तितृणादो च न दाहाद्युत्पत्ति :; तत्र संयोगेन मण्याद्यभावस्यासत्वात्। 'बदरे कुण्डं ने'त्यादिधीस्तु वृत्तिनि- यामकसंयोगेन कुण्डादेरभावं गाहते। अतएव च-'पृथिवीत्वादिकं प्रति संयोगेन गगनादेर्व्यपकत्वं गगनाद्यभा- ववतोऽपि पृथिव्याद: संयोगेन गगनादिसंबन्धित्वेन प्रतियोगिव्यधिकरणगगनाद्यभावविरहा'दित्यथके दीधितिवाक्ये उत्पत्तिकालावच्छेदेन पृथिव्यादो संयोगेन समवायेन वा गगनादेरभावो विद्यमानोि स न प्रतियोगिव्यधिकरण इत्यर्थ इति-व्याचक्षते। वाधात् अनाशरितत्ववाधात्। कारणानाश्रितत्वस्वीकारेऽपि पटादेर्भूतलाद्याश्रितत्वादिति शेपः। तन्मान्राश्ितत्वेन खवोपादानान्यस्मिन् खवोपादानजन्यतावच्छेदकसंबन्धनासंबन्धित्वेन। प्रामाणिकत्वेति। तास्विकत्वेत्यथः । प्रागेवेति। तात्विको व्यावहारिको वेत्यादिनेति शेपः । ननु 'तन्तुपु दशायां न पट' इति प्रत्ययात् पटस्य तादात्म्यादिसंबन्धेन तन्तावव्याप्यवृत्तित्वम्, तत्राह-संयोगेति । अनभ्युपगमादिति । तथाच 'अग्र वृक्षे संयोगो नतु मूले' इति धीः वृक्षनिष्ठाग्मूलवृत्तिसंयोगतदभावाववगाहते, नतु वृक्षनिष्ठी ताविति नैकस्याप्यव्याप्यवृत्तित्वमिति भावः। नन्वेवं मूलादावपि न संयोगादिस्त्वं स्यात्; 'भूतले उपरिभागे संयोगो न रवन्यभागे' 'उपरिभागे तद्विशि संयोगो न त्वन्यदिशि' इत्यादिग्रत्ययात, तस्मान्मूलादेरवच्छेदकत्वावगाहनात
Page 121
३२४ अद्वैतसिद्धिः सव्याख्या । [परिच्छेद: १ ]
नत्वमपि। तेन कालान्तरीयाभावमादाय नार्थान्तरम्। नचेह तन्तुषु पट इति प्रत्यक्षबाध; तस्य भ्रमसाधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनावाधकत्वात्। बाधोद्धारे च विस्तरेणतद्वक्ष्यामः। नच-अन्यासमवेतस्यांशित्वमेतत्तन्तुसमवेतत्वं विना न युक्तमिति विरुद्धो हेतुरिति-वाच्यम्: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतस्य सत्वेनांशित्वस्य साध्येनाविरोधात्। एतन्निष्ठात्यन्ताभावाप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति; परमते केवलान्वयिधर्ममात्रस्य एतत्समवेतत्वापत्तेः, किंत्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम्: तञ्चतत्निष्ठा- त्यन्ताभावप्रतियोगित्वेऽपि न विरुद्धमित्युपपादितमधस्तात्। एतत्समवेतत्वं चैतदुपादानकत्वम्, नतु नित्यसंबन्धशालित्वम; तस्यानभ्युमगमात्। ननु-अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वात्, व्यतिरेकेण पटान्तरवदिति प्रतिरोध :: नचाप्रसिद्धविशेषणत्वम्; एतन्निष्ठा- त्यन्ताभावप्रतियोगित्वं, किंचिन्निष्ठात्यन्ताभावप्रतियोगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात्, प्राग- भावप्रतियोगित्ववदिति सामान्यतस्तत्प्रसिद्धेः। नच-आकाशात्यन्ताभावस्य घटादो संसर्गाभाव- प्रतियोगित्वव्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किंचिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति-वाच्यम्: संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धमे सत्वेनाकाशा- त्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावात्-इति चेन्न; यत्रतत्तन्तुनिष्ठात्य- न्ताभावप्रतियोगित्वं, तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्व- स्योपाधित्वेन प्रतिरोधस्य हीनवलत्वात्, पतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तुनिष्ठप्रागभावाप्रति-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वृक्षादेरधिकरणत्वावगह नात्संयोगादेर्मू लाद्यव च्छिन्नवृक्षा दि निष्टाधकरणता नापलप्या, त्राह-अभयुपगमे वेति।
सवृत्तिकत्वास्वीकारेऽपि न क्षतिः। अनवच्छेदकेत्यत्र देशकालसाधारणमवच्छेदकत्वं निवेश्यमित्याशयेनाह-एव- मिति। प्रयोजकं समव्यापकम्, ननु व्याप्यमात्रं व्यापकमात्रं वा। आद्ये तदुक्तेव्यर्थत्वात। द्वितीये केवलान्वयिनि वक्ष्यमाणापत्त्यसंभवात्। केवलान्वयीति। उपलक्षणमेतत। केवलव्यापकमप न भवति; तत्तरग्राहकतर्काभा- वात्। ननु प्रागभावप्रतियोगित्वमपि न व्यापकम्, तत्तन्नुसमवेतद्रव्यत्वादो तदभावात्तत्राह-एतत्समवेतत्व मिति। एतत्तन्तुनिष्ठेत्यादि। उक्तसाध्याभाववान्, तत्पटोपादानोपाढानकत्वादित्यर्थः। यथाश्रुते तत्पटस्या- व्याप्यवृत्तित्वेन बाधः। तत्संयोगजन्यत्वरूपस्य तदार्धत्वस्य परिणामवादादिप्वसिद्धिश्च। प्रतियोगित्वं प्रतियो- गितात्वम्। प्रतियोगि प्रतियोगितावच्छेदकम्। उद्देश्यतावच्छेदके विधेयावच्छेदकत्वस्य व्युन्पत्तिलभ्यत्वाद्ोकार्थ- लाभः । किंचिन्निष्टेत्याद्यनुमानं न संभवदुक्तिकम्; संसर्गाभावप्रतियोगित्वस्यैव तादात््येन हेतुत्वसंभवेन व्याप्य- त्वांशवैयर्थ्यात्। किंच व्याप्यन्वं यदि केनचिद्रपणोच्यते, तदा आकाशाभावस्यापि घटादिवृत्तित्वविशिष्टरूपेण तद- स्त्येवेति व्यभिचारः। नच-व्याप्यतावच्छेदकोक्तरूपेण साध्यस्यापि तत्र सत्वान्न व्यभिचार इति-वाच्यम्; तथा
योगित्वव्याप्यत्वं येनकेनचिद्रृपेण, अत्यन्ताभावप्रतियोगित्वं तूभयावृत्तिधर्मेणेत्यभिप्नेत्याशङ्का, उत्तरं तु उभया- वृत्तिधर्मेणव व्याप्यत्वमपि निवेश्यमित्यभिप्रायणात नोकदोप इनीनि-वाच्यम्; तथासनि एतत्तन्नुनिष्ठात्यन्ता भावप्रतियोगित्वरूपपक्षे उभयावृत्तिना तत्प्रतियोगिताव्यक्तितवेनात्यन्ताभावे सिद्धउप्यस्मदीयसाध्यतावच्छेदकावच्छि- न्नग्नतियोगिताकाभावानुमानासिद्या सत्प्रतिपक्षासिद्ठः। अथोक्तमूलवाक्यमुपेक्ष्य येन रूपण व्याप्यत्वं तेनवरात्यन्ता- भावप्रनियोगित्वमप्युच्येत, तथापि तव्यक्तित्वनात्यन्ताभावमित्या न सत्पतिपक्षसिदधि:। अथ येन येन व्याप्यत्वं तेन
प्रतियोगितात्वयोरपि पतितत्वेन ताभ्यामेव तदुक्तिर्युक्ता। अत्यन्ताभावप्रनियोगितात्वेन तदुकी साधनवैक-
तात्वस्योक्तव्याता प्रविष्वन्वेन नम्यैव हेतुतावच्छेदकत्वमंभवेनेतरांशतैयर्थ्य च। नच्-अस्तु त्थवेति-वाच्यम्; अप्रयोजकत्वात, तथापि नदभ्युपेत्य दृपणान्तरमाह-यत्रतदिति। प्रागभावास्वीकारपक्ष एतदुपादानकान्यत्व- मेवोपाधि:। तादृशपनियोगिन्वन मंदिसमाने पक्षे यदुपाधिनिश्चयः स्यात्, तदा तादृशप्रतियोगिन्वरूपसाधन- व्यापकत्वसुपाधौ निश्चीयेत, स नु नाम्ीत्याशयेन पक्षावृत्तेरित्युक्तम्। पक्षावृत्तित्वेन निश्चितस्येत्यथः ।
Page 122
३२५
योगित्वस्य पक्षावृत्तेः पक्षवृत्तितया संदिह्मानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वात्,
उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने सोपाधिकत्वस्योक्तत्वात्, अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यमिचाराच्च। अतएव यत्रतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगिन्वं तत्रैतत्तन्त्वनारब्धत्वमिति न साध्यव्यापकताग्रहोऽपि तत्रैव व्यभिचारादिति सर्वमनवद्यम्॥ एवंच-'विमतं, ज्ञानव्यतिरेकेणासत्, ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, स्वप्नादिवदि'ति- विद्यासागरोक्तमपि साधु ज्ञानव्यतिरेकेणासत्त्वमुक्तमिथ्यात्वान्यतमत्वं साध्यम्। ज्ञानव्यतिरेकेणा-
गांडव्रह्मानन्दी (लघुचन्द्रिका )। संदिह्यमानेत्यादि। संदि्यमानं यत् उक्तें प्रनियोगित्वं तद्यापकत्वानिश्चयादित्यथेः । तथाचैतदारब्धत्वाभाव- व्यापकस्योपाधर्व्यभिचारित्वेन हेतुना एतदारब्धन्वाभावव्यभिचारित्वमेतन्निष्टात्यन्ताभावप्रतियोगित्वे अनुमेयम्। अन एतदनारब्धत्वे तादृशप्रतियोगित्वव्यापकतानिश्चयो न संभवतीति भावः । नच-उक्तोपाध्यभाववति तादृश- प्रतियोगित्वस्य संशयात्तादृशप्रतियोगित्वे उक्तव्यभिचारित्वरूपहेतोरनिश्चय इति-वाच्यम्; एतत्तन्तुपदस्य तत्पटो- पादानपरतया तत्पटोपादानीभूनं यत्तन्त्ववच्छिन्नर्चतन्यं तन्निष्टप्रागभावाप्रतियोगित्वरूपोपाध्यभावर्वन तादश-
त्वमंशयेनोक्तव्यापकतानिश्चयप्रतिबन्धसंभवाच्च। उक्तत्वादिति। उपाध्यभावे साध्याभावस्य व्यनिरेकव्याप्तेरेव वाच्यतया तंत्रतन्निष्टप्ागभावापयोगित्वस्योपाधरुक्तत्वादित्यर्थः । तत्र व्यभिचागढिति। दशावच्छिन्नसंयोगाढौ तत्पटावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वरूपस साध्याभावस्य तत्तनत्वार्धत्वरूपस्य हेतोश्च सत्त्वाद्यमिचार इति भावः। अत्यन्ताभावे तत्पटावच्छेदकावच्छिन्नवृत्तिकनवं विशेषणं देयमित्यभिप्नेत्येदम्। यदि नु उक्तर्रात्या तत्पटा- नवच्छेदकानवच्छिन्नत्वं विशेषणं दीयते, नदा नत्पटावच्छेदकारवच्छिन्ने संयोगध्वंसादी व्यभिचारो बोध्यः । ध्वंसस्यापि परिणामवाढे सूक्ष्मावस्थारूपपरिणामत्वेन तत्तन्वारब्धत्वात्। नच-स्वावच्छेदकारवच्छिन्नसमानाधिकरणात्यन्ता- भावाप्रतियोगित्वस्येव साध्यतया संयोगादो तादृशप्रतियोगित्वस्थापनकाले व्युत्पत्तिस्वाभाव्येन तसयैव स्वपदेन धार्यतया नोकव्यभिचार इति-वाच्यम्, प्रकृतानुमानम्य नव्यमत एव स्वीकारात्। तत्र स्वत्वस्याननुगत्वेन तन्पटावच्छदकत्वेनेव साध्ये निवेशान, साध्योपाध्योः तत्तन्तुपदस्य तत्पटोपादानपरतया तत्तन्त्ववच्छिन्नचिदुपादान- कसर्पादो स्वावच्छेदकावच्छिन्नवृत्तिकात्यन्ताभावप्रतियोगित्वस तदुपादानकत्वरूपतदारब्धत्वस्य च स्त्त्वाच्च । अतएव स्वानवच्छेदकानर्वच्छिन्नवृत्तिकत्वनिवेशेऽपि तत्र व्यभिचारः; तस् परेणापि मिथ्यात्वस्वीकारेण तदत्यन्ता- भावस्यावच्छिन्नवृत्तिकत्वाभावात्। तत्सयोगजन्यत्वरूपं तदारब्धत्वं तु पक्षेऽपि मन्मते नासत्येवेति भावः। चिदाभासेत्यादि। चिदाभासं स्वावच्छिन्नचितं विनानुपलभ्यमानत्वम्, तादृशचितमनपेक्ष्येव यत् प्रकाशते तद्न्यत्वम् ; खवप्रकाशान्यत्वमिति यावत्। ननु-विमतं, मिथ्या, धीकाल एवान्यथा प्रतीतत्वात्, चित्रनिम्नोन्नता- दिवत्, भारूपवस्तुसंलप्नत्वात्, स्वितृच्छिद्वादिवत्, नचासिह्ि धीकाल एव 'इद सर्व यदयमात्मे्यिशु सर्वानात्मन आत्मत्वेन प्रमितत्वात्, 'घटादि स्फुरनी'ति 'भारूपसंलग्नत्वा'च्चेति कोमुदीकाराः। नत्रान्यथेत्यस्य आत्मत्वेनेत्यर्थंकत्चे सद्पात्मत्वेन प्र्नीतत्वस्यामिथ्यात्वव्याप्यत्वेन विरुद्वो हेतुः, प्रतिपन्नोपाधिनिष्ठात्यन्ताभावप्रति- योगित्वेनेत्यर्थकत्वं त्वसिद्धिः, व्यर्थविशेपणता च, द्विनीयहेतुः सवित्रात्मनोर्व्यभिचारी, 'सविता प्रकाशते' 'आत्मा स्फुरनीति तयोभीसंलस्नत्वात, तत्राह-एवमिति। अन्यथाप्रमितत्वादित्यस्य प्रपज्चविलक्षणरूपेण यतू प्रमितं तत्तादात्म्यादित्यर्थः । तच्च कल्पितं ब्रह्मण्यपीति धीकाल इत्युक्तम्, स्वधीकाल इत्यथेः । ब्रह्मधीकाले च ब्रह्मणि तम्नास्ति; तस्या: स्वेतरकल्पितनाशकत्वात्। स्वधीसमुत्पत्तिद्वितीयक्षणो वा स्वधीकालपदार्थः। तथाच ब्रह्मधीसमुत्य- निद्वितीयक्षणाप्रसिद्ेर्न ब्रह्मणि तदस्ति। ब्रह्मावृत्तिचित्तादात्म्यं पर्यवसितम्। भारूपसंलग्नत्वं सवप्रकाशस्वरूपा- वृत्तिधर्मवत्वम्, सवितरि तु न व्यभिचार :; त् पषत्वा्। ु-यन्तन्तुनिष्े त्ाढिकं यदुक्तं, तदयुक्तम; तथा सति व्यतिरेकिमात्रोच्छेदापंत्तेः, 'पृथिवीतरेभ्यो भिद्यने, पृथिवीत्वा'दित्यादावपि 'यक्षू पृंथिवीतरत्, तत्र पृथिवीत्वाभाव' इत्यादिव्यापित्रहे पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस पक्षावृत्तेः पक्षवृत्तितया संदिहमान- पृथिवीतरत्वव्यापकत्वाभावात्-इति चेन्नः साध्यासमानाधिकरणधर्मवत् यत् साधनवत्तननिष्ठाभावप्रांतयोगिताव- च्छेढकः साध्यसमानाधिकरणवृत्तिर्यो धर्मस्तद्वत्वरूपस्य दीधितिकारादयुक्तस्योपाधिलक्षणस्य पाकजरूपाभावे विरहात् , पृथिवीतरतादात्म्येन निश्चिते जलादो पृथिवीत्वाभावरूपसाध्यासमानाधिकरणधर्मस्याभावात्, पाकजरूपाभाव-
Page 123
३२६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
नुपलभ्यमानत्वं चिदाभासे सत्येवोपलभ्यमानत्वं हेतुरिति न किंचिदनुपपन्नम्। एवमन्येषामपि प्रयोगा यथायोगमुपपादनीया इति शिवम्॥ इत्यंशित्वहेतूपपत्तिः ।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। रूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावेन तेन हेनुना तत्र पृथिवीत्वाभावरूपसाध्यव्यभिचारि- त्वानुमानासंभवात्, सत्पतिपक्षोन्नायकतया दूपकत्वस्य तत्रासंभवाच्च। नच-तथापि संदिग्धोपाधित्वेन दृपकत्वं तन्नापि स्यादिति-वाच्यम्; साध्योपाध्योर्व्याप्तिग्राहकतर्कसत्वात्। उक्तं हि मणा-'यत्र साध्यहेत्वोः साध्यो- पाध्योश्च व्याप्तिग्राहकसाम्यात् नैकत्रापि व्याप्तिनिश्चयस्तत्रैव संदिग्धोपाधित्व'मिति। उक्तोपाधौ तु उक्तलक्षणमर्स्तेव; उक्तप्रतियोगित्वरूपसाधनवत्वेनोभयवादिनिश्चिते तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादी तत्पटोपादा नोपादानकत्वाभाव रूपसाध्यासमानाधिकरणधर्मनिश्चयात्। नचैवं उक्तसर्पादावुभयोर्वादिनोः निरुक्तसाधननिश्चयसंभवेन साधना- व्यापकत्वसीलभ्यात् पक्षावृत्तेः पक्षवृत्तितया संदिहमानेत्याद्युक्तिर्मूले व्यर्थेति-वाच्यम्; यदुक्तसर्पादेनोपस्थितिः, तदापि तत्रैतत्तन्त्वित्यादिव्याप्तिग्राहकतर्काभावात् उक्तोपाधेः संदिग्धोपाधित्वमित्याशयेन तथोक्ते: साथक्यात् । ननु-मिथ्यात्वघटके अत्यन्ताभावे तात्विकत्वस्वीकारे अद्वैतश्रुतिविरोधः, नच-ब्रह्मस्वरूपत्वस्य तत्र स्वीकारान्न स इति-वाच्यम्; मण्डनमते भावाद्वैतस्वीकारेणैव तत्परिहारात; उक्तस्वीकारे च श्रुनिसंकोचेन विरोधस्य स्फुटत्वात्, किंच अभावस्य सत्यत्वे तत्राभावत्वस्य ब्रह्मणि चाभावसंबन्धस्यावश्यवाच्यत्वात् भावाद्वैतमपि दुर्लभं इति-चेन्नः अभावत्वस्याभावाश्रयत्वादेश्व स्वाश्रयरूपत्वात्। नच-द्वितीयाभावस्य तान्विकत्वं तत्त्व्रावदेकप्रमाण वेद्यत्वाद्वाच्यम्, तादृशप्रमाणं च श्रुतिरेवेति वाच्यम्; तथाचानुपपत्तिः। 'एकमेवाहितीय' मित्यादिवाक्यस्याखण्टा- र्थकत्वेन अभावसंबन्धाप्रमापकत्वादिति-वाच्यम्; मिथ्यात्वानुमाने स्वसमानाधिकरणस्य स्वाधिकसत्ताकात्यन्ता- भावस्य मण्डनमते साध्ये निवेशेन तस्यैव तत्वावेदकत्वात्। तात्विकद्वताभावविषयकनवादव हि तस्य द्वैतग्राहक प्रत्यक्षाढिबाधकत्वमिति मण्डनाभिप्रायः। किंच तत्वज्ञानो देंशेन मुमुक्षणां प्रवृत्तेम्तत्वज्ञानकार्योऽविद्याध्वंसस्तान्तििको वाच्यः, तस्य मिध्यात्वे तत्वधीबाध्यत्वेन तत्कार्यवानुपपत्तेः । एवंच मिध्यात्वघटकोऽत्यन्ताभावोऽविद्याध्वंसश्र मण्डनमने तात्विकः, न त्वभावान्तरम्: अभावंत्वास्यातिरिक्तवस्तीकारे तदपि मिथ्या, प्रतियोगिताया दृवानुयोगि- ताविशेपरूपस्य तस्य मिथ्यात्वसंभवात्, दृश्यत्वादिकं चोक्ताभावव्यावृत्तमंव मिथ्यात्वे हेतुरिनि न व्यभिचारः। तस्मात् मण्डनमतमप्यदोपम्॥ इति लघुचन्द्रिकायां अंशित्वहेतृपपत्तिः॥
अथ अशित्वनिरुक्ति: (१) तत्र न्यायामृतकारा :- अंशित्वमपि न हेतु:ः कार्यकारणयोरभेदेन तन्य तंत्रेव कारणे कार्यस्याप्यभावस्य सिद्धत्वेन सिद्धसाधनात्, अनाश्रित- त्वेनान्याथ्रितत्वेन वोपपत्तावर्थान्तरात, प्रत्यक्षवाधादुक्तानाितत्वादिवारणे नत एव साध्यम्यापि वाधात्, अत्यन्ता भावस्य प्रामाणिकत्वाप्रामाणिकत्वादिविकल्पनेन पूर्वाक्तदोपापत्तेश्। अभावरूपधर्मसत्वप ना्द्वितविरोधः। भावा्द्वैन एव अद्वितीयादिश्रुतितात्पयात् इति मण्डनमतं तु न युक्तम्: अखण्डार्थन वेदान्तनाभावत्रह्मोभयबोधनासंभवेनान्यस्य च प्रत्यक्षानुमानादिरूपस्य तत्वावेदकस्य अभावेन च प्रामाणिकलाभावात्। आभावलतदाश्रयतदाश्रितलादिभावपदार्था- नामप्य्वीकारात्साभिमतसिध्यसंभवान्, अद्वितीयादिपदानां 'अग्र आसीदिति पूर्वतनवाक्योपपत्यर्थ भावेतरनिषेध एव तात्पर्यमित्येव संकोचापनेः, यथाकर्थचिदभावनिषेध एवत्युपपादनेऽपि भावस्याप्यभावाभावत्वेन निषेधानापत्या अनाश्वासय्रसज्गान्। एतेन-अन्योन्याभावत्वेन भेदानिषेधाप्तिरिति-सूचितम्। वस्तुतस्तु-अभावे सप्रतियो- गिकत्स्य म्वाभाव्यादभावानिषेधे ग्रतियोगिनामनिषेबोड्थसिद्ध णचेति कर्थ वा मण्डनीयाद्वैतसिद्धिरिति त एव प्रष्टव्याः । अतएव हि व्रद्मावाच्यतावादोऽप्युपपद्यते; अन्यथा अभावरपप्रतिनिमित्तसद्भावेन अद्वितीयादिपदवाच्यत्वापातादिति- सर्वमनवद्यमा अस्त वा यथाकर्थंचित्साधुत्वमपि; एवमपि प्रतियोगित्वं स्वरूपेणोत पारमार्थिकेनेति विकल्पनिय-
विनानुपपन्नत्वमिर्त्यशित्वेन मिव्यालसाधन विरोधात्, संयोगवतत्यैतननिष्ठात्यन्ताभावप्रतियोगिताशन्ये कम्मिशन पटे व्यभिचारात्, प्रत्यक्षवाधान, एतनन्तपादानकं, एततन्नुनिप्ठलन्ताभावप्रतियोगि न, एतत्तन्त्ार्वलादित्यनुमानेन
Page 124
विट्ठलेशोपाध्याय्युपबृंहितगौडब्रह्मानन्दीयुता। ३२७
पक्षधर्मावच्छिन्नोपाधेरेवात्र विवक्षणेन तत्तन्तारब्धसंयोगादौ न साध्याव्यापकतम्, अनुकूलेन तर्केण सनाथे सति साधने साध्यव्यापकताभज्ञात्पक्षे नोपाधित्वसंभव इति वचनानुसारेण हेतोरेवात्र प्रयोजकत्वं नोपाधेरिति तु नाशङ्कनीयम; एतन्निष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यवति ब्रह्मणि अंशितहेतोरभावेनोपाधेश्व संभवेनोपाधेरेव प्रयोजकंत्ात्। वस्तु- तस्तु-न साध्यं विनांशितमनुपपन्नमिति नानुकूलतर्कोऽपीति सर्वमनवद्यम्-इति वर्णयन्ति। (२) सिद्धिकारास्तु अंशितमपि हेतुः। अभेदे कार्यकारणभावायोगेन कथंचिदपि भेदस्यावश्यमभ्युपेयत्वेन तत्र तस्येव कारणे कार्याभाव- स्यासिद्धतया सिद्धसाधनाभावात्, प्रत्यक्षवाधात्तन्मान्नाथरितत्वेन पक्षविशेषणाद्वाऽर्थान्तरानवसरात्, प्रकृतानुमाने बाधाभा- वस्योपपादयिष्यमाणत्वात्, अत्यन्ताभावस्य व्यावहारिकतवपारमार्थिकत्वरूपपक्षद्वयेऽपि दोषाभावस्योपपादितलवात्। मण्ड- नमतमपि युक्तमेव। 'नेह नानास्ती'त्यादि श्रुतेरखण्डार्थत्वेऽपि तद्वारभूतविशिष्टवाक्यार्थमूलकमिथ्यात्वानुमानस्यापि स्ाधि- कसत्ताकात्यन्ताभावपरस्य तत्ावंदकप्रमाणस्य विद्यमानत्वेनाभावस्य तत्वावेदकप्रमाणवेद्यलातू। अभावततदाश्रयत्ादीनां तु तत्तद्वर्मिरूपत्वेन भावाद्वैताविरोधान्, अग्रआमीदित्युपक्रमस्य निषेधार्थसमर्पकस्य तद्ूस्तुसत्वे प्रमाणाभावेन भावे- नरनिपेधपरनया मंकोचस्यानवसरग्रस्तत्वेन नत्वज्ञानदंश्यकप्रवृतः तत्वज्ञानसाध्याविद्याववंसेपि तात्विकतायामेवोपपत्त्या च र्नाितरनिषेवरस्येव युक्तलात। नव्यभावाभावत्वं तात्विकतप्रयोजकं, येन भावम्यापि तातत्विकलमापदेतः किं तृक्तानु-
पतेन-ब्रह्मावाच्यतासिद्धान्तोऽप्युपपद्यत-इति सूचितम्॥ नहि तद्गमलमात्रं तत्पवृत्तिनिमित्तत्वप्रयोजकत्वम्; रूपा- दीनामपि घटपदप्रवृत्तिनिमित्ततापतः, कि तु नियमेन तत्पदोच्ारण तद्विशिष्टतयैव तद्यत्युपस्थितिः। नह्यद्वितीयपदोच्चा- रणमात्रेण तादृशब्रह्मण उपस्थितिभवतीति न कोऽपि दोप इति मण्डनमतमपि समीचीनमेव। अभावप्रतियोगित्वं स्वरूपेण वा पारमार्थिकत्वेन वति विकल्पनिवन्वनदूपणानि तु नात्र प्रसरन्तीति पूर्वमेव निरूपितम्। एवंचांशित्वहेतुनापि मिथ्यात- साधनसंभवः। तत्समवेतस्य ततिष्ठात्यन्ताभावप्रतियोगितमन्जीकुवता तत्संयोगिन्यपि तदत्यन्ताभावप्रतियोगितस्वीकारेण संयोगवृ्त्येतत्तन्तुपु विद्यमाने पटविशेष व्यभिचाराभावात्, इह तन्नुपु पट इति प्रत्यक्षस्य भ्रमसाधारणतया चन्द्रप्रादेशि-
नांशिलस्य साध्येन विरोधाभावान्, यत्रेतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्वारव्धलाभाव इति व्यतिरेकव्याप्तौ
भावप्रतियोगितरूपसाधनाव्यापकस्य चोपधविद्यमानत्वंन भवदीयसत्प्तिपक्षानुमानस्य सोपाधिकत्वंन सत्प्रतिपक्षाभा- वात्। अतएव-अस्मदीयानुमानस्य भोपाधिकत्वमपि-पराहतम्: उक्तदोपात्, अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यभिचारचति रार्वमनवद्यम्-इति निरूपयन्ति। (३) अत्र तरङ्गिणीकारा :- कर्थचिद्रेदो नाम मिथ्याभेदः। तथाचाभेदस्य सत्यत्वापत्तिः। भेदातयन्ताभावरूपाभेदसत्यत्वं विना भेदमिथ्यात- निरूपणासंभवात्, अधिष्टानज्ञानावाध्यात्न्ताभावप्रतियोगित्वस्येव मिथ्यालात्। एवंच मिथ्याभूतभेदस्य तत्र तस्यापि विद्यमानत्वंनोक्तसिद्धसाधनं तदवस्थम्। क्थचित्तत्परिहारेऽपि प्रतियोगिकालेऽभावसंसर्गस्य विरुद्धत्वंन संयोगेन पटवति तत्तन्तौ तदभावाभावेन व्यिचारः। फलपर्यन्तार्थकियापर्यन्तपरीक्षापरीक्षितस्य प्रत्वक्षसव वाधकत्वेनेह तन्तुषु पट इतति प्रत्यक्षवाधः। तदत्यन्ताभावाधिकरणे तत्प्रागभावस्य विरुद्धत्वेनान्यथा वायौ रूपप्रागभावस्यापि प्रसभेन व्यावहारिक-
योजकत्वेऽज्वीकृतेऽपि यावदेतत्सत्वं एतत्संबन्धवत्वरूपेतत्समवेतत्वस्य केवलान्वयिन्यपि विद्यमानत्वेन व्यभिचाराभावादु- कविरोधः, व्यतिरेकव्याप्ती पक्षवृत्तितया सन्दिद्यमानाव्यापकत्वेनोपाधित्वे पृथिवी इतरभिन्नेत्यादावपि पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस्य पक्षावृत्तः पक्षवृत्तितया सन्दिह्यमानेतरत्वाव्यापकस्योपाधित्वापत्या व्यतिरेकिमात्रोच्छेदापतत्या अस्मदीयानुमानस्य सोपाधिकत्वाभावेन सत्प्रतिपक्षः, तत एव हेनोरेतत्तन्त्वनारब्धत्वरूपोपाधावपि दोषाभावेन युष्मदी- यानुमानस्य सोपाधिकत्वमित्यादिबहुदोषकलपितत्वेनांशित्वहेतुना न मिथ्यात्वसाधनसंभवः-इति विवेचयन्ति॥ (४) लघुचन्द्रिकाकारा: पुनः- अत्यन्ताभेदे कार्यकारणभावव्याहत्या धर्मिप्रतियोगिनोर्य: तादात्म्यरूपसंबन्धः तत्समसत्ताकस्य मेदस्याप्यन्गीकरणीयतया ययोर्यः संबन्धः तयोरेकत्र परस्य तेन संवन्धेनाभावस्यासिद्धतया न सिद्धसाधनम्। प्रतियोगितावच्छेदको यः प्रतियो- गितावच्छदेकावच्छिन्नप्रतियोगिताक: संवन्धः तदनुयोगित्वेनैव सममत्यन्ताभावस्य विरोधेन तदाश्रयत्वेनैव विरोधस्यायु-
Page 125
३२८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
अथ सोपाधिकत्वनिरासः । ननु-दृश्श्यत्वादिहेतवः सोपाधिकाः तथाहि-स्ववाधकाभिमतावाध्यदोषप्रयुक्तभानत्वं स्व्रबाध- काबाध्यबाधेकं प्रति निषेध्यत्वेन विषयन्वं वा विपक्षाद्यावृत्तं समव्याभम्, अनएव व्यतिरेकव्याप्ि- मद्गुपाधि :- इति चेन्नः ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात्, पर्वतावयव-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अथ सोपाधिकत्वनिरासः। स्वबाधकेत्यादि। यत्रोपाधिः स्थाप्यः सः सपदार्थः शुक्तिरूप्यादिः, तद्वाधकत्वेनाभिमतं 'इयं शुक्ति' रित्या- दिज्ञानम्, तदबाध्यदोपप्रयुक्तं भानं शुक्तिरप्यादर्यस्य तत्त्वं तत्रेव साध्यव्यापकम्। वियदादेस्तु स्वबाधकाबाध्यदोपा- प्रसिद्या शुक्तिरूप्यादावेव प्रसिद्धं तत् वियदादिनिष्टसाधनाव्यापकं बोध्यम्। पूर्वपक्षिणा माध्ेन शुक्तिरूप्यादेरलीक- त्वस्वीकारात्तद्वाधकं न स्वीक्रियते, अतोऽभिमतेत्युक्म्। स्ववाधकत्वेन सिद्धान्त्यभिमतेत्यर्थः । तथाच सिद्धान्तिना तद्वाधकम्वीकारातं प्रत्युक्कोपाधिर्वक्तुं शक्यने, तस्योपाधिज्ञानात् कार्यसंभवादिति भावः। स्ववाधकावाध्यवाध कमिति। स्वं शुक्तिरूप्यादि, तद्वाधकं शुक्तिज्ञानादि, तदवाध्यं बाधकं 'नात्र रूप्य मित्यादिज्ञानम्, तादृशबाधकं प्रनि निषेध्यत्वेन विषयः शुक्तिरूप्यादि:। स्ववाधकाबाध्यविषयत्वं वियदादावप्यम्नि. तादृशचिद्विपयत्वस्य तत्र सत्वात्, अनो वाधकं प्रति निपेध्यत्वेनेति। तथाच स्वबाधकावाध्यस्वाभावधीर्यस्य तत्त्वं पर्यवसितार्धः । आकाशाढ़िबाधकव्ह्मज्ञानवाध्यत्वान् आकाशादावुक्तोपाध्यभावेनोक्तोपाधे: साधनाव्यापकता। विपक्षेत्यादि । विपक्षात् ब्रह्मणः तुच्छाच्, व्यावृत्तम्, अनः समव्यासमित्यर्थः। उदयनादिमते समव्याप्तस्यैवोपाधित्वादिदमुक्त्म्। अत एव समव्याप्तत्वादेव। व्यतिरेकव्याप्तिमदिति। ययोः व्यनिरेकव्याप्तिः तयोरेव व्याप्यवृत्तिव्यतिरेकिणो- रन्वयव्याप्तिः, अतएव पक्षेतरत्वं नोपाधि :; व्यर्थविशेपणत्वेन व्यनिरेके व्याप्यभावादिनि मते, साध्यान्ययव्यतिरेको- सायकस्वान्वयव्यनिरेकवत्त्वरूपसाध्यप्रयोजकत्वघटितमुपाधित्वम्, अतएव पक्षेनरन्वे न नदिनि मने चोपाधित्वसम्पा- दनायेदमुक्तम्। साध्याभावव्याप्यस्वाभावकत्वमिति नदर्थः। साधनवदित्यादि। पर्वतावयवावृत्तित्वस्य विशेषणस्य पर्वतावयवरूपादितो विपक्षाद्यावर्नकत्वमम्नि। एवं स्ववाधकेत्यादिविशेषणस्यापि वासनादिदोषप्रयुक्तविकल्पविपयाद- लीकाव्यावनेकत्वमस्नीत्यतः साधनवदित्युक्तम्। तथाच साधनवत्पक्षव्यावर्नकं यन् साधनवद्विपक्षाव्यावतकं विशे- षणं तद्वत्वनेत्यथेः। साधननद्विपक्षनिष्टभेदप्रतियोगितावच्छेदकताया यन्निष्टाया अनवच्छेदकं यत विशेषणं तत्र तत्
क्तत्वात्। अन्यथा वनानधिकरणे धनस्वामिनि स्वामित्वसंवन्धेन धनाभावप्रतीतेरषि प्रमात्वापनेः । नापि व्यभिचारादयः, कार्यसामान्यम्य स्वतादात्म्यसंबन्धेन सवोपादाननिप्ठात्यन्नाभावस्यवात्र साध्यत्वेन संयोगनतनन्ती स्वाभावाभावर्वत पटविशेपे व्यभिचाराभावान्, सन्वप्रत्यक्षस्य विरुद्धार्थप्राहिणः सत्वविषये परीक्षितत्वाभावेन मिथ्यान्ववाधनासंभंवेन वाधाभावात्, यत्र यदत्वन्ताभावः तत्र न तत्प्रागभाव इति व्याप्ो काले व्यभिचारादिनाऽत्यन्नाभावाधिकरणेऽपि प्रागभावसत्वस्य पूर्वमुपपादितत्वेन यत्र प्रतियोगितादान्म्ययोग्यता तंत्रैव तत्प्रागभावस्यान्गीकारेण वायौ रूपप्रागभाव-
तत्प्रयोजकत्वेन विरोधाभावात्, व्यममानाविकरणवृत्तिरयों वर्मः तदूदपस्य दीधितिकारादयुक्तस्योपाविलक्षणस्य प्रथिवीताभावरूपसाध्यासमानाधिकरण- धर्मस्य कस्यचिदपि जलादो साधनवति अभावेन पृथिवीलाभावसमानाधिकरणधर्मशन्यत्वंन च पाकजरूपाभावेऽ्भावेन एतततन्तास्यलाभावरपसा ्यासमानाविकरणध मव देतत्तन्तुनिप्ठात्यन्ताभाव प्रतियोगितरुपसाधनव देतत्तन्तूपादान कसर्पादि-
ड्भावेन च भवदीयानुमानस्य सोपाधिकत्वेन सत्प्रतिपक्षाभावात, व्यतिरेकव्याप्तों पक्षवृत्तितया सन्दिह्मानाव्यपकत्वेनो- कोपाधेव्यापिग्राहकानुकूलन्कोभावेन संदिग्धोपाधितया दोपलाक्षीकारेपि व्याप्तिग्राह्कानुकूलतर्कसत्वेनताशपकजर पाभावस्याप्युपाधितशङ्काया अप्रसरेण साध्यव्यापकलसमानाधिकरणसाधनव्यापकत्वस्योपाधिलक्षणत्वंऽपि व्यतिरेकिमात्रो-
कस्यापि दोषस्याभाचनांशित्वहेतुनापि मिथ्यात्वसाधनसंभव इति सर्वमनवद्यम्-इति विशद्यन्ति॥ इति अंशिन्वनिरुक्ति: ॥
Page 126
[सोपाधिकत्वभङ्गः] ३२९
वृत्त्यन्यत्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतरत्वतुल्यत्वाच्च। नच बाघोन्नीत- त्वात् सोऽप्युपाधि :; बाघस्याग्रे निरसिष्यमाणत्वात्। अपिच यद्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्; इतरांशे अनुकूलतर्काप्रसरात् । तथाच 'क्षित्यादिकं, न कर्तृजन्यम्, शरीराजन्यत्वा' दित्यत्र यथा शरीरविशेषणवैयर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, एवं 'वियदादिकं, न मिथ्या, स्वबाधकामिमताबाध्यदोषप्रयुक्तभानत्वरहितत्वा'दिति साध्यव्यतिरेकसा- धने स्वबाधकामिमतावाध्यभागस्य वैयर्थ्यात् स्वबाधकामिमताबाध्यदोषप्रयुक्तमानत्वं न मिथ्या- त्वव्यापकम्। दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम्, तञ्च साधनव्यापकमपीति नोपाधिः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। साधनवद्विपक्षाव्यावर्तकम्। अन्यत्वादिनिष्ठाया उक्तावच्छेदकताया अनवच्छेदकं पर्वतावयववृत्यादिकम्; 'पर्षतो धूमवान् वहे' रित्यादी साधनवद्विपक्षे अयःपिण्डादी पर्वतावयववृत्यन्यत्वादिमतो भेदासर्वात् । यद्यपि स्वबाधके- त्याधुपाधी प्रकृतसाधनवान् विपक्षोऽप्रसिद्धः; तथापि यद्विशेषणघटितस्य यस्योपाधेराश्रयात् भिन्ने यावद्धर्मिणि प्रकृतसाधनवत्व्रविपक्षत्वोभयाभावोऽस्ति, तत् तत्र साधनवद्विपक्षाव्यावर्नकमिति बोध्यम्। आर्द्ेन्धनस्य तु आर्दत्ववि- शेषणं साधनवद्विपक्षव्यावर्तकमिति तदुपाधिः। पक्षेतरतुल्यत्वादिति। यथा साधनवन्पक्षमात्रव्यावर्तकविशेषणत्वात् पक्षेतरत्वादिकं नोपाधिः, न वोपाधित्वेन कथायामुन्भाव्यते, तथा पर्वतावयववृत्त्यन्यतवादिकं स्वबाधकेत्यादिकं च; तर्काभावेन पक्षे व्यभिचारसंशयेन प्रतिबन्धेन साध्यव्यापकतवानिश्चयात्। उक्त्तंहि मणी-'नहि पक्षेतरत्वे स्वम्पा- घातकत्वेनानुपाधावुपाधिलक्षणस्यातिव्याप्तिः; तत्रानुकूलतर्काभावेन व्यापकत्वानिश्चयात्। बाघोनीते च तर्कोऽस्स्येव। एवं पर्वतावयववृत्त्यन्यत्वादिकं नोपाधि :; पक्षमात्रव्यावर्तकविशेषणवर्वाद' इति। उक्तंच तत्र दीधितौ-'तर्का- दिना व्यापकत्वनिश्चये तु पक्षेतरत्वमपि बाधोन्नीतपक्षेतरत्ववत् निश्चितोपाधिः, पक्षमात्रव्यावर्तकविशेषणवश्वं सु नानुपाधितायां बीजम्; परिभाषामात्रत्वात्, किंतूक्तविशेषणस्थले अनुकूलतर्काभावेन व्यापकत्वानिश्चयः'-इति। तथा बाधानुन्नीतः पक्षेतरो नोपाधित्वेन कथायामुद्धाव्यः; कथकसंप्रदायानुरोधात् इति। वस्तुतस्तु-तादृशसंप्रदायो युक्त्यभावाद्वेयः। अतएव दीधितावेवोक्तम्-'तादृशसंप्रदायमननुरुन्धानस्य शपथनिराकरणीयतापत्ते'रिति । ईशर्वरवादे च मणावुक्तम्-'पक्षेतरत्वादौ विपक्षवाधकतर्काभावान साध्यव्यापकतानिश्चय इत्येवानुपाधित्वे बीज'- मिति। अतएत स्ववाधकेत्यादेः संदिग्धोपाधित्व्मपि नाम्ति । दृश्यत्वादिहेतोः साध्ये व्यापकताग्राहकतर्कसत्वात् उक्तो- पाधे: साध्यव्यापकताप्राहकतर्कीसर्वात्।उक्तंहि मणो-'यत्रोपाधिसाध्ययोः साध्यहेत्वोश्च व्याप्तिग्राहकसाम्यात् नेकत्र व्याप्तिनिश्चयस्नत्रंव संदिग्धोपाधित्वम; व्यभिचारसंशयाधायकत्वात्। यत्र तु एकत्र तर्कावतारः, तत्र हेतुत्वमुपाधित्वं वा निश्चित'मिनि। अत्र विपक्षव्यावर्तकतवेऽपि साधनवद्विपक्षाव्यावर्तकत्वं प्रकृतोपाध्योरस्ति; पर्वतावयववृत्त्यन्यत्वादावप्य- स्तीनि स एव दृष्टान्नीकृतः,ननु पर्वतेतरत्वादिकम्; तत्र तदभावात्। तथाच पक्षेतरतुत्यत्वेन पर्वतावयववृत्यन्यत्वादेर्यथा उक्तमणिवाक्येऽनुपाधित्वमुक्तम्, तथा तन्सदृशयो: स्वबाधकेत्याद्युपाध्योरिति भावः। बाधोन्नीतत्वादिति।पक्षे साध्या- भावनिश्चयरूपेण बाधेन निर्णीतसाध्यव्यापकताकत्वादित्यर्थः। यथा 'वह्विरनुष्णः कृतकतवा'दित्यादौ पक्षस्य साध्याभाषव- त्येन निश्चितत्वरूपाद्विपक्षत्वाद्विपक्षाव्यावर्तकविशेषणशून्यत्वेन वह्लीतरत्वमुपाधिः,तथा स्वबाधकेत्यादिकमपीति भावः। यदिति। यदवच्छिन्नप्रतियोगिताकेत्यर्थः । साधकत्वं व्याप्यत्वम्। तस्य तद्विशिष्टस्य। व्यापकत्वं व्यापकत्वधीः। तथेत्यादि। 'शरीरजन्यत्वं यदि कर्तृजन्यत्वव्यापकं न स्यात्, तदा कर्तृजन्यत्वाभावव्याप्याभावप्रतियोगि न स्या'दिति तर्को नावतरति, लाघवेन जन्यत्वसामान्याभावत्वेनैव व्याप्यतासंभवेन शरीरविशेषणवैयर्थ्यादिष्टापत्तित्वादि'ति यथा मण्यादावुक्तम् ; तथा 'स्वबाधकेत्यादिकं मिथ्यात्वव्यापकं यदि न स्यात्, तदा तदभावव्याप्यस्वाभावकं न स्या'दित्यापत्तेरिष्टत्वान् लाघवात् दोपप्रयुक्तभानत्वाभावत्वेनैव व्याप्यतासंभवेन स्वबाधकेत्यादिवैयर्ध्यादित्यर्थः। यत्र तु विशिष्टप्रतियोगिकाभावत्वेनैव व्याप्यता; व्यर्थविशेषणत्वाद्यभावात्, तत्र विशिष्टरूपेणापि व्यापकत्वम्, तर्कप्रसरात्। उक्तंहि मणावीश्वरवादे-'धूमविशेषादौ चन्दनवह्नयादेः कारणत्वाद्विपक्षबाधकेन विशिष्टस्य व्यापकत्वात् विशि- ष्टपरतियोगिकाभावत्वेनैव हेत्वभावव्याप्यता; यत्र तु विपक्षे बाधकं नास्ति, तत्र विशिष्टव्यापकता नास्ती'त्यादि। नच-शरीरजन्यत्वाभावे जन्यत्वसामान्याभावत्वस्यासत्वात् तत्र शरीरांशस्य तेन न वैयर्थ्यम् ; धूमत्वेनेव धूमप्राग- भावत्वादेः, स्वसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वस्य व्यर्थविशेषणतारूपत्वादिति-वाय्यम्; विशेष्यविशे- पणाभावयोरेव विशिष्टाभावत्वात्, येन विशेषणेन विनापि व्याप्िर्गृद्यते तदेव व्यर्थविशेषणमिति स्वीकाराच। उककंहि- मणौ-'उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वम्; लाघवेनाजन्यत्वस्यैव व्याप्यत्वात्, येन विशेषणेन बिना व्यापिर्न गृद्यते तस्यैव व्याप्यतावच्छेदकत्वनियमातू। अतएव घ्राणं पार्थिवम् रूपादिषु मध्ये गन्धस्यैव व्यअकत्वात् इत्यादौ अ. सि. ४२
Page 127
३३० अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात्। एवं द्वितीयोपाधावपि 'स्वबाधकाबाध्यबाधकं प्रती' ति विशेषणं व्यतिरेकसाधने व्यर्थम्। विशेष्यभागस्तु साध्यसाधनयोर्व्यापक इति नोपाधिः। अतपवा- घिष्ठानत्वाभिमतसमसत्ताकदोषवद्धेतुजन्यज्ञानविषयत्वमुपाधिः। अत्रच ब्रह्मणोऽपि बौद्धकल्पित- दोषवद्धेतुजन्यक्षणिकत्वादिजानविषयत्वात् समव्याप्तिसिद्धर्थमधिष्ठानसमसत्ताकेति विशेषणम्, नतु पक्षमात्रव्यावृत्त्यर्थम्, अतो न पक्षेतरतुल्यतेत्यपास्तम्। ब्रह्मणीव ब्रह्मणि कल्पिते क्षणिकत्वादा- वपि मिथ्याभूते धर्मे अधिष्ठानसमसत्ताकदोषवद्धेतुजन्यज्ञानाविषयत्वादुपाधे: साध्याव्याप्तेः, व्यतिरे- कसाधने व्यर्थविशेषणत्वस्योक्तत्वाञ्च। नापि श्रुतितात्पर्याविषयत्वमुपाधि :: श्रुतितात्पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभावस्य साधनव्यापकत्वात्। नापि प्रातिभासिकत्वमुपाधि :; तद्धि ब्रह्मज्ञानेत- रबाध्यत्वम्, तस्य च देहात्मक्ये मिथ्याभूतेऽप्यसत्वेन साध्याव्याप्तेः, व्यतिरेके व्यर्थविशेषणत्वाच्च। नापि प्रतिभासमात्रशरीरत्वमुपाधि :; दष्टिसृष्टिपक्षे साधनव्यापकत्वात्, परेषामसिद्धेश्चेति॥ ॥ इति दृश्यत्वादीनां सोपाधित्वभङ्ग:।।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। रूपादिषु मध्ये इति असिद्धिमात्रवारकमपि न व्यर्थम्; तेन विना व्याध्यग्रहा'दिति। किंच तर्काप्रसरादित्यनेन व्यापकताग्राहकतर्कमात्रमुपाधित्वे बीजमित्युक्तम्, पूर्वोक्तमणिवाक्येऽपि तथोक्तम्, तथाच व्यर्थविशेपणत्वाभावेऽपि शरीरजन्यरवं यथा नोपाधि :; तादृशतर्काभावात्, तथा स्वबाधकेत्यादिकमित्यत्र प्रकृतग्रन्थतात्पर्यम्। व्यतिरेके व्यथत्वं सु लाधशातर्काप्रसरबीजोपलक्षणत्वेनोक्तम्। ननु यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्त्रम्, तस्मिन् साध्ये श्यामत्वमुपाधिः; तथा दृश्यत्वादिना मिथ्यात्वे साध्ये दोपप्रयुक्तभानत्वम्, तस्मिन् साध्ये मिध्यात्वमुपा- धिरस्तु, युगपदुभयसाधने तु अप्राप्तकालत्वम्, मिथ्यात्वे एव केवले विप्रतिपत्तेः, तत्राह-दृश्यत्वादिनेति। युगपदुभयसाधनेऽपि नाप्राप्तकालत्वम्, मिथ्यात्वत्वावच्छिन्नविधेयताकानुमितेरेव प्राप्तकालत्वात्, समूहालम्ब- नानुमितेरपि तथात्वात्। अथ यथा पर्वतावयववृत्तीति विशेषणकृता पर्वतावयवरूपादेर्व्यावृत्तिनोंपाधिनायां उपयुज्यते, किंतु पक्षव्यावृत्तिरेव; साधनाव्यापकत्वसंपादकत्वात्। अतएव उपाधित्वापयिकी या विपक्षव्यावृत्ति: तदसंपादकत्वादुक्त्तविशेषणस्य पक्षमात्रव्यावर्तकत्वं मण्यादावुक्तम्। स्पषं चेदं दीघित्यादौ, तथा सम- व्याप्तिसंपादकस्याप्यधिष्टानेत्यादिविशेषणस्य यन् ब्रह्मव्याव्नकत्वं तस्य साध्यासमानाधिकरणस्याधिकरणं यत् सा- धनवदित्यादिपूर्वोक्तोपाधिलक्षणानौपयिकतवात् साधनाव्यापकत्व संपादकविपक्षव्यावृत्त्यसंपाद्कत्वेन प्षमात्रव्यावर्तक-
कीत्याशयेनाह-अतपवेति। समव्याप्तिसंपादकत्वेऽप्युक्तरीत्या पक्षमात्रव्यावर्नकत्वादवेत्यर्थः। ब्रह्मणीवेत्यादि। स्वजनकाज्ानविपयावच्छेदकत्वरूपाधिष्टानत्वघटितोक्तोपाधिर्यथा ब्रह्मणि नाम्नि; तज्जनकाज्ञानाप्रसिद्धेः, तथा तत्र कल्पिते क्षणिकत्वादावपि; तज्जनकाज्ञानविपयब्रह्मावच्छेदकाप्रसिद्ठेः । तत्प्रसिद्धिस्तु शुक्तिरूप्यादोँ। स्वजनका- ज्ञानविषयसमसत्ताकदोपनिवेशे तु तत्राप्यप्रसिद्या साध्याव्यापकत्वमपि। ब्रह्ममात्रेति। अवान्तरतात्पर्यविपयत्वं यागादिनिष्टे स्वर्गादिसाधनत्वे, ननु यागदौ। 'अर्थेऽनुपलढधे तत्प्रमाण'मिनि जैमिन्युक्तेरज्ञातार्थ एव श्रुनितात्पर्योंक्ते: साधनत्वादिविशिष्टतया यागादाविव मिथ्यात्वविशिष्टतया दृश्यमात्रे श्रुनितात्पर्यात् साध्याव्यापकत्वापत्तेः परमतात्पर्य- मेव निवेश्यमिति भावः। दोषजन्यधीविपयत्वं परोक्तं साधनव्यापकम्। प्रतिभासमात्रशरीरत्वं अज्ञानविप- यतानवच्छेदकत्वं प्रातीतिके सर्वत्र स्वकालावच्छेदेनाम्ति। स्वकालान्यकालावच्छेदेन तत्रोक्तविषयतावच्छेदकतवात्, तथाच तदनवच्छेदकत्वं साध्यं व्याम्ोति, ननु साधनमिनि भावः। परेषां माध्वानाम्। शुक्तिरूप्यादीनामत्यन्ता- सर्वेन तेषु तदसिद्धे:। अपरोक्षतया भासमान एव ह्यज्ञानविषयतानवच्छेदकत्वं नित्यपरोक्षे त्वलीके तत् न भातीति प्रत्ययाद्ज्ञानविपयतावच्छेदकत्वमेव। नच-शुक्तिरूप्यन्वादिकं दोपवशादपरोक्षभ्रमकाले अपरोक्षतया भातीति तदा अज्ञानविषयतानवच्छेदकत्वं संभवति, कालान्तरे तु उक्तविषयतावच्छेदकत्वम्, न भातीति प्रत्ययात् इनि-वाच्यम्; कालस्यालीकासंबन्धित्वेनावच्छेदकत्वासंभवात्; तस्पादघिष्टानतादात्म्यादेव भातीति प्रत्ययो भ्रमविषय इति साध्या- व्यापकत्वमित्यर्थः । नच-अत्यन्तासश्वादेव नाज्ञानविपयतावच्छेदकतवम्, उक्तविपयता हि चित्येव वाच्या, विपया- संबन्धस्य रवलीकस्य तदवच्छेदकत्वासंभव इति-वाच्यम्; असंबद्धस्याप्यलीकस्यातीतानागतयोरिव ज्ञानविषयिता- यामिवाज्ञानविषयितायामप्यवच्छेदकत्वसंभवात्। स्वकालत्वव्यापकस्वधीकत्वं प्रतिभासमात्रशरीरत्वमित्युक्तावपि शुक्तिरूप्यादी तदसिद्धिः, असतः स्वकालाप्रसिद्धेः। चकारः उक्तोपाधिपु दोपान्तरसमुननायकः। तथाहि-सवबा-
Page 128
[सोपाधिकत्वभज्गः] ३३१
धकेत्यादौ स्वबाधकबाध्यतवं यदि स्वजनकाज्ञाननिवर्तकनिवर्त्यत्वं, तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनक- स्वस्य शुत्तयवच्छिन्नचिद्विषयकाजानत्वादिरूपावच्छेदकभेदेन भिन्नत्वात् स्वनिवृत्तिजनकत्वस्य शुक्तित्वप्रकारकेदंविशे- व्यकत्वादिरूपावच्छेदकभेदेन भिन्नत्वादननुगमः। नहि स्वत्वस्यानुगतत्वेऽपि तदनुगमसंभवः; द्रव्यजनकतात्वेन रूपेण कपालतन्तुत्वाद्यवच्छिन्नजनकतानामनुगमापत्तेः । पलवाज्ञानास्वीकारपक्षे शुक्तिरूप्यादिबाधकब्रह्मज्ञानाबाध्यदोपा- प्रसिद्धिः। यदिच स्वबाधकबाध्यत्वं स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं, तदा निश्चयत्वस्य तत्तद्धर्मितावच्छेदका- दिभेंदन नानात्वादननुगमः । 'नेह नानाम्ती'त्यादिश्रुत्यादिना दृश्यमात्रस्य मिथ्यारवेन निश्चितत्वात् तादृशदोषाप्र- सिद्धिः। एवं दोपत्वस्यैकस्याभावात्तेन रूपेण सर्वदोपाणामनुगमासंभवः। अन्यतमत्वरूपेण दोषाणां निवेशे अनन्त- दोषघटितान्यतमत्वस्य दुर्ज्ेयतापत्तिः। तावदन्यतमत्वव्यक्त: स्वरूपतो निवेशे अविद्याद्यन्यदोषाणामेव तावदन्यतम- स्वस्वरूपेण निवेशसंभवेन अबाध्यान्तवैयर्थ्यापत्तिः। तेन रूपेण साध्यव्यापकताग्राहकतर्काभावश्च। अन्यथा प्रातिभा- सिकानामन्यतमत्वरूपेणैव तादात्यसंबन्धेनोपाधित्वस्यापत्तिः। किंच स्वाप्नादिभ्रमे प्रातीतिकदोषस्यापि संभवेन तस्य स्वबाधकजाग्रदादिबोधबाध्यत्येन साध्यव्यापकत्वहानिश्च। एवमुपाध्यन्तरेप्वपि दोषा बोध्याः ॥। इति लघु चन्द्रिकायां सोपाधिकत्वभङ्ग:।।
अथ सोपाधिकत्वभङ्गः ।
(१) तत्र न्यायामृतकारा :- सोपाधिकाश्व दृश्यत्वादयः । स्ववाधकाभिमतावाव्यदोपप्रयुक्तभानत्स्य सवबाधकाभिमतावाध्यबाधकंप्रति निषेध्य- त्वेन विषयत्वस्य च पक्षमात्रव्यावृत्तस्य समव्यापिमतो व्यतिरेकव्याप्तिमत उपाधितात्। साध्योपाध्योर्व्यांपकतव- प्राहकानुकूलतर्काणां वक्ष्यमाणतात्। पक्षेतरततुल्यल्ाभावात्, प्रत्यक्षबाघोन्नीतलात् पक्षेतरत्वतुत्यतायामपि दोषा- भावात्, मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्स्य तस्मिन्साध्ये श्यामत्वस्येव चात्रापि दृश्यत्वेन मिथ्यात्वे साध्ये दोषप्रयुक्त्तभानत्वस्य तम्गिन्साध्ये मिथ्यातस्य चोपाधित्वाच्च। मिथ्यात एव विप्रतिपत्तेरुभयसाधनस्याप्राप्तकाललवात्। एतेन-अधिष्टानत्वाभिमनसमसस्ताकदोषवद्धनुजन्यज्ञानविषयत्वं, श्रुतितात्पर्याविषयत्वं धर्मव्यावृत्तं, साक्षिवेद्यसुखदुः- खादिव्यावत्ं प्रतिभासमात्रशरीरत्वं चाप्युपाधिरिति-सूचितम्: प्रथमोपाधौ समव्याप्तिसिध्धर्थ अधिष्ठानसमसत्ताकेति विशेषणम् ननु पक्षव्यावृत्त्यर्थमिति तु विशेप :- इति वर्णयन्ति॥ (२) अत्राद्वेतसिद्धिकारा :- नायमुपाधिः ब्रह्मज्ञानमात्रयाध्ये देहात्मैक्यादौ साध्याव्यापकलात्, पर्वतावयववृत्त्यन्यत्वादिवत् पक्षमात्रव्यावर्तकवि- शेपणवत्वेन पक्षेतरतनुल्यलात्, बाधस्याग्रे निराकरिष्यमाणत्वेन बाघोन्नीतलाभावात्। अपिच यक्वतिरेकस्य साध्य- व्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वं, इतरांशेऽनुकूलतकाप्रसरात्। एवंचेश्वरसाधकानुमाने शरीरजन्यत्स्येव मिथ्यालानुमाने स्ववाधकेत्यादिविशिष्टस्य नोपाधिलम्, उपाधिव्यतिरेकेण साध्याभावसाधने व्यर्थविशेषणघटितत्वेन व्याप्यसिद्धः। पतेन-अधिष्ठानत्वाभिमतसमसत्ताकदोषवद्धेतुजन्यज्ञानविषयत्वमपि नोपाधिरिति-सूचितम्; ब्रह्मणि कल्पिते क्षणिकत्वादी साध्याव्यापकत्वाच्च। श्रुतितात्पर्याविषयत्वं तु साधनव्यापकतवान्नोपाधिः। एतेन-प्रातिभासिक- लमपि नोपाधिरिति सूचितम्॥ देहात्मैक्ये साध्याव्याप्तेः, दृषटिसष्टिपक्षे प्रतिभासमात्रशरीरतस्यापि साधनव्यापकत्वादिति सर्वमनवद्यम्-इति निरूपयन्ति॥ (३) तरङ्गिणीकारा: पुन :- दृश्यत्ानुमानमुक्तोपाधिकलुपितमेव; शुक्तिरूप्यादौ साध्यव्यापकत्वात्पक्षे साधनाव्यपकत्वात्, मम देह इति भेदभ्रहे जाग्रति देहात्मैक्याध्यासासंभवेन देहात्मैक्यस्य ब्रह्मज्ञानवाध्यत्स्यासिद्धा तत्राव्यभिचारात्। नच व्यर्थविशेषणतम्; एकस्मिन्धर्मिणि व्याप्यतावच्छेदकत्वेन प्रसक्तयो: द्वयोर्लघुनैव व्याप्तिग्रहः न गुरुणा; यथा नीलधूमे नीलतनीलधूमत्- योधूमलेन। न चेह विशिष्टाभावनिष्ठां व्याप्तिं परिच्छेत्तुं वैशेष्याभावत्वं योग्यम्; विशिष्टाभावे विशेष्याभावत्वस्यासलात्, किंतु विशिष्टाभावलम्। एवंच अस्त्येव विशिष्टाभावे साध्यव्यापकता। ईश्वरानुमाने तु श्रुतिबलेन क्षितिकर्तुरीश्वरस्य सिद्धी पक्ष एव तस्य साध्याव्यापकतादनुपाधितमिति युक्तम् । एतेन-पक्षेतरतवतुत्यतमपि-पराहतम्; मित्रात- नयत्वेन श्यामत्वे साध्ये शाकपाकजत्स्य तस्मिन्साध्ये श्यामत्वस्य चेव परस्परोपाधित्वसंभवात्, उभयसाधनस्याप्राप्त- काललादिति मन्तव्यम्। अधिष्ठानत्वाभिमतसमसत्ताकदोषवद्धेतुजन्यज्ञानविषयत्मप्युपाधिरेव; अधिष्ठानत्ाभिमतसम- सत्ताकपदेन व्यावहारिकबाधाबाध्यत्वस्यैव विवक्षणात मिथ्याभूतक्षणिकत्वादौ व्यभिचाराभावेन साध्यव्यापकत्वसिद्धेः।
Page 129
३३२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
अथाभाससाम्यभङ्ग: । ननु-विमतं, प्रातिभासिकम्, दृश्यत्वात्, ब्रह्म, मिथ्या, व्यवहारविषयत्वात् असद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याद्याभाससाम्यं-इति चेन्न; जगतोव्यावहारिकसत्त्वबाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात्, प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात्। किंच प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं, प्रतिभासमात्रशरीरत्वं वा। आद्ये साध्ये देहात्मैक्ये व्यमिचारः, अप्रयोजकत्वं च। द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम्। एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम्। निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः। वेदान्तज- न्यवृत्तिविषयत्वाभ्युपगमेऽप्यप्रयोजकः। एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अथाभाससाम्यभङ्ग:। आभाससाम्यमिति । उक्त्तानुमानाभास: यथा न साधकः, तथा प्रपञ्वमिथ्यात्वानुमानमित्यथः । प्रपञ्चमिथ्या- त्वातुमाने नानुपपत्तिः, उक्त्ानुमाने नु सास्तीत्यतो न तयोः साम्यमित्याशयेनाह-जगत इत्यादि। जगतो व्याव- हारिकमात्रस्य। व्यावहारिकसच्वेति। अज्ञातसत्वेत्यर्थः। व्यवहारेति । चक्षुरादिजन्यवृत्तिप्रत्यभिज्ञानादीत्यथेः । अज्ञातत्वावच्छेदकघटाद्यस्वीकारे चक्षुरादिजन्यवृत्तेविषयेन्द्रियसंबन्धजन्याया अनुपपत्तिः, पूर्वदृष्टस्य दृश्यमानेनेक्यप्र- त्यभिज्ञादेश्चानुपपत्तिरिति भावः। अप्रयोजक इति। मिथ्यात्वाभावेऽपि ब्रह्मणि मिथ्याभूतवृत्तिविषयत्वस्य संभ- वादिति भावः । ब्रह्मणः साक्षित्वादिना तत्र बाधकप्रमाणं नावतरतीत्यपि बोध्यम्। तञ्चेति। सत्तादात््यतत्वान्यतरव- र्वरूपमुक्तार्ईत्वम् निर्धर्मके शुद्धव्रह्मणि नाम्नि, किंतु तदुपहितब्रह्मणीत्यर्थः । शुद्धे स्वीकृतमपि तदप्रयोजकमित्याश- येनाह-शून्यवादस्येति। दृग्टश्ययोस्तादात्म्यमनुपपन्नम्। तस्य हि संबन्धान्तरसत्वे तस्यापि संबन्धान्तरमित्यन-
श्रुतितात्पर्याविषयलपदेन श्रुतिजन्यप्रमां प्रत्यविषयत्वस्यव विवक्षणात् तस्य च धमादिसाधारणतया साधनाव्यापकल्ा- च्छ्रुतितात्पर्याविषयत्वमप्युपाधिरेवेति मन्तव्यम्। प्रातिभासिकतमप्युपाधिः, ब्रह्मज्ञानेतरवाध्यतरूपस्य प्रतिभासमात्र- शरीरत्रूपस्य वा तस्य साध्यव्यापकत्वविशिष्टसाधनाव्यापकत्वात्। देहात्मक्यं तु न मिथ्येति न साध्याव्यापकलमित्यन्यत्र विस्तर इति सर्वमनवद्यम्-इति ब्रुवन्ति॥ (५) अत्र लघुचन्द्रिकाकारा :- स्वबाधकेत्यादिकं नोपाधि :; तत्र खवाधबाध्यतस्य सवजनकाज्ञाननिवर्तकनिवत्यत्वरूपत्वे जनकत्वस्य स्वावच्छेदकघ-
ननिश्वयमिथ्यातकत्वरूपत्वे निश्यत्वस्य धर्मितावच्छेदकभेदेन भिन्नतादननुगमः । 'नेहनानास्ती'तिश्रुत्या दृश्यमात्रस्य मिथ्यात्वेन निश्चितत्वात्तादृशदोषाप्रसिद्धिः, दोपानेकत्वेनानुगमः, सन्नादित्रमे प्रातीतिकदोषस्यापि संभवेन स्वानेपूपाध्यभा- वेन साध्यव्यापकलहानिश्र। सर्वपक्षेपु साध्योपाध्योव्यांपकत्वनिश्चायकानुकूलतर्काभावेन साध्यव्यापकलानिश्षयः। दोषप्र- युक्त्भानविषयत्वातिरिक्तभागवयर्थ्येन व्याप्यग्रहः। येन विशेषणेन विनापि व्याप्तिग्रहस्स्यैव व्यर्थविशेषणलात., शरीराज-
न्यर्थमुक्ताप्रयोजकत्वस्याश्रयणीयलात्। अनुकूलतकाभावस्योभयत्र समानलात्। देहात्मक्ये मिथ्याभृते साध्याव्यापक- लाच्च। यथा च देहात्मक्याध्यासः तथोत्तरत्र स्पष्टीभविष्यति। पक्षेतरत्वतुल्यलाच्चोक्कोपधिरप्रयोजकः; दृश्यत्वादिना दोप- प्रयुक्तभानत्मिश्र्यातोभयसाधनेऽप्यप्राप्तकाललाभावेन परस्परोपाधित्वस्यासंभवात्। एतेन-अधिष्ठानत्वाभिमतसम- सत्ताकदापवद्धतुजन्यज्ञानविषयत्मपि नोपाधिरिति-सूचितम्: अधिष्ठानलाभिमतसमसत्ताकपदेन व्यावहारिकबाधा- वाध्यतस्य विवक्षणे शुक्तिरूप्यादिहेतुदोषाणामपि व्यावहारिकवाधावाध्यत्वेन साधनव्यापकल्ानयर्थविशेषणघटितलाच। एतेन-श्रुतितात्पर्याविषयत्मपि नोपाविः। साधनत्वादिविशिष्टतया यागादाविव मिथ्यात्विशिष्टतया दृश्यमा- त्रेऽप्यवान्तरतांन्पर्य विषयत्वसत्वंन साध्याव्यापकलात्। प्रातिभासिकत्वं तु दोषजन्यधीविषयत्वरूपत्वे साधनव्यापक- लातू, अज्ञानविषयतानवच्छेदकत्वेऽपि तथालात्, स्वकालतव्यापकम्वधीकत्वरूपत्वेऽप्युक्तदोषात्, मिथ्याभूतदेहात्मक्ये साध्याव्यापकत्वाञ्च नोपाविरिति सर्वमनवद्यम-इति सिद्धिकारीयमतमनुसरन्ति॥ इति दृदयत्वादीनां सोपाधिकत्वभङ्ग:॥
Page 130
[प्रत्यक्ष० सत्वनि०] ३३३
सत्वेन प्रतीत्यनर्हत्वं ह्सत्वम्, तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्वेन प्रतीत्यर्हत्वरूपम् तञ्च शुद्धे ब्रह्मणि नास्त्येव। नच-बाध्यत्वमसत्वं, तद्विलक्षणत्वं चाबाध्यत्वं, तञ्च ब्रह्मण्य- स्त्येवेति-वाच्यम्, अबाध्यत्वेन बाध्यत्वलक्षणमिथ्यात्वसाधने विरोधात्, शुक्तिरूप्यद्ृष्टान्तस्य साधनविकलत्वाञ्च, शून्यवादस्याग्रे निराकरिष्यमाणत्वाच्च। तस्मान्न दृश्यत्वादीनामाभाससा- म्यमिति सिद्धम् ॥ इति आभाससाम्यभङ्ग:।। अथ प्रत्यक्षवाधोद्धारे सत्वनिरवेचनम्। ननु-'सन् घट' इत्याद्यध्यक्षबाधितविपया दृश्यत्वादय-इति चेन्न; चक्षुराद्यध्यक्षयोग्यमिथ्या-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वस्था। संबन्धान्तरासरवे नु न तस्य संबन्धत्वमुपपद्यते; असंबन्धरवात्। अतस्तस्य मिथ्यात्वं स्वीक्रियते। तथाच स्वमेन्द्रजालादाविवानुपपत्तिः न दोष इत्यसंबन्धस्याऽपि संबन्धत्वम्। एवं तस्येव तदनुयोगित्वप्रतियोगित्वविशिष्टरू- पेण दृश्यद्दशोरपि मिथ्यात्वं युक्तम्। शुद्धायास्तु दृशस्तदसंसर्गेण न मिथ्यात्वसिद्धिः। दृग्दश्यसंबन्धानुपपत्तिरूपतर्कस्य सादृशसंबन्धानुयोगिप्रतियोगिनोरेव मिथ्यात्वप्रापकत्वात्। अत एवोक्तं आचार्यवोद्धाधिकारे-'तस्यासंसृष्टत्वेन न तत्र तर्कावतारः; तर्कस्य संसृष्टमादायैव प्रवृत्तेः ।' इति ॥॥ इति लघुचन्द्रिकायां आभाससाम्यभङ्ग:। अथ प्रत्यक्षवाधोद्धारे सत्वनिर्वेचनम्। चक्षुरादीति। चक्षुरादिरूपं यदध्यक्षं प्रत्यक्षप्रमाणं, तद्योग्यस्य मिध्यात्वविरोधिनः सत्वस्य निरूपणासंभवादि- त्यथः। मिध्यात्वाभावरूपं सत्तरं मिथ्यात्वविरोधि, नतु चक्षुरादेयोग्यम्। तद्योग्यमपि सद्नपत्रह्मतादात्म्यरूपं सत्वं न
अथ दृश्यत्वानुमानस्याभाससाम्यभङ्ग: (१) तत्र न्यायामृतकारा :- विमतं, प्रातिभासिकं, दृश्यत्वात्, शुक्तिरूप्यवत्, ब्रह्म मिथ्या, व्यवहारविषयत्वात्, असद्विलक्षणत्ाद्वा, शुक्तिरूप्य- वत् इत्याभाससाम्यं च। जगतोऽप्रातिभासिकत्ग्राहिप्रत्यक्षं ब्रह्म सत्यतग्राहिश्रुतिश्चाप्रमाणमेव; सर्व व्यवहार्य व्यवहताव- ध्यस्तं, व्यवहार्यलादित्यादिवाधकमपीति न प्रपञ्चमिथ्यातसिद्धिः-इति वर्णयन्ति॥ (२) सिद्धिकारास्तु- जगतोऽव्यवहारिकत्वे व्यावहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शन्यवादापत्तिश्वेति प्रतिकूलतर्कपराघातः, प्रातिभासिकत्वस्य व्रह्मज्ञानेतरवाध्यव्वरूपत्वे देहात्मैक्ये व्यभिचाराप्रयोजकत्वे, प्रातिभासमात्रशरीरत्वे दृष्टिसष्टिपक्षे सिद्धसाधनम्, एवं ब्रह्माण सोपाधिके सिद्धसाधनम्, शुद्धे व्यवहारविषयलरूपहेतोः सत्तादात्म्यपर्यवसितासद्विलक्षणलहेतोश्वासिद्विश्च। द्विती- यानुमानमप्यप्रयोजकम्। असद्विलक्षणत्पदेन सत्विवक्षणे च विरोधः । दृष्टान्ते साधनवैकल्यं चेति प्रपश्चमिध्यात्- सिद्धि :- इति निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- सुखानुभवपर्यन्तव्यवहारस्य व्यावहारिकत्वेन न प्रतिकूलतर्कपराघातः, देहात्मक्यं तुन मिथ्याभूतमिति प्रातिभासिक- लस्य ब्रह्मज्ञानेतरवाध्यत्वरूपत्वे, न तत्र व्यभिचारः, दृष्टिसष्टिपक्षस्य चाप्रामाणिकलवात्, तस्य प्रतिभासमात्रशरीरित्वे न सिद्धसाधनम्, ब्रह्मणो वेदान्तजन्यवृत्त्यविषयत्वे तस्यासिद्धापत्त्या व्यवहारविषयत्स्य नासिद्धिः। एवमसद्वैलक्षण्यपदेन क्कचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हल्ाभावस्य विवक्षणेन ब्रह्मण्यसिद्धिः, ब्रह्मणोऽपि "स्वे महिम्नि प्रतिष्ठिते" इति श्रुत्यनुसारेण खोपाधौ प्रतीत्यर्हत्ाच्छुक्तिरूप्या देरपि तथात्वान्रासिद्धिरित्याभाससाम्यं तदवस्थमेव-इति न्यायामृतीयमनुमोदन्ते। (४) अत्र लघुचन्द्रिकाकारा :- अज्ञानविषयतावच्छेदकघटाद्यस्वीकारे विषयेन्द्रियसंवन्धजन्यचक्षुरादिवृत्त्यनुपपत्तेः पूर्वदृष्टस्य दयमानेन सहैक्यप्रत्य- भिज्ञानस्य चानुपपत्तेरन जगतः प्रातिभासिकलम्। एवं ब्रह्मणोऽमिथ्यात्वेऽपि मिथ्याभूतवृत्तिविषयत्वसंभवात् व्यवहारविष- यत्वं न मिथ्यातप्रयोजकम्। यथा च निर्धर्मकस्य ब्रह्मणो वृत्तिविषयतानन्गीकारेऽपि नानुपपत्तिः तथोपपादितमधस्तात्। यथाच व्यावहारिकत्वेपि न दृश्यत्वोच्छेदस्तथोत्तरत्र स्फुटीभविष्यति। असद्वैलक्षण्यमपि ब्रह्मणि न विद्यते इति पूर्वभेव निरूपितमिति नानुपपत्तिरिति सर्वमनवद्यमिति-निरूपयन्ति ॥
Page 131
३३४ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १ ]
त्वविरोधिसत्वानिरुक्तेः। तथाहि-न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तादक्स- त्वम्; चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षुराद्ययोग्यत्वात्, वक्ष्यमाणदूषणगणप्रासाच्च। तथाहि- नाद् :; असति प्रमाणाप्रवृत्तेः प्रमाविषयत्वात्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात्, सत्त्वनिरू- पणं विना सदर्थविषयत्वरूपप्रमात्वस्य निरूपणे चान्योन्याश्रयात्, मिथ्याभूतस्य शुक्तिरजतसंसर्गस्य व्यवसायद्वारा साक्षाञ्च निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाञ्च। नापि द्वितीय; योग्यताया अनिरूपणात्। न तृतीय :; असिद्धे, सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात् । अतएव नासत्वाप्रकारकप्रमाविषयत्वमपिः अन्योन्याश्रयाञ्च। नापि सत्वप्रकारकप्रमाविषयत्वम्; आत्मा- श्रयात्। नाप्यसत्त्वप्रकारकभ्रमाविषयत्वं सत्त्वम्, अन्योन्याश्रयात्। नापि प्रतिपन्नोपाधौ तैकालिक- सत्वनिषेधविरह :; आत्माश्रयात्। नापि सत्ता जातिरर्थक्रियाकारित्वमसद्वैलक्षण्यं वा; एतेषां मि थ्यात्वाविरोधित्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात्। नापि वेदान्त्यमिमतमिथ्यात्वाभावः सत्त्वम्; तुच्छेऽतिव्याप्तेः। नाप्यसद्विलक्षणत्वे सत्यनारोपितत्वम्; अनारोपितत्वं हि आरोपाविष- यत्वम्, तञ्चासंभवि। सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात्। नाप्यस्तित्वप्रकारकप्रमां प्रति कदाचित् साक्षाद्विपयत्वं, कालसंबन्धित्वं वा सत्त्वम्, अस्तित्वं च वर्तमानत्वम्, नतु सत्त्व- मतो नात्माश्रयः; अतीतादिरपि कदाचित् वर्तत एवेति नाव्याप्तिः, आरोपितत्वं च कालत्रयासं- बन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणेSतिव्याप्तिरिति वाच्यम्, प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन च पूर्वाक्तदोपात्, वर्तमानत्वप्रकारकप्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च। द्वितीयमपि न मिथ्यात्वविरोधि; शुक्तिरूप्यस्यापि प्रतिभासकालसंवन्धित्वात्, वाधेन तात्विकका- लत्रय संबन्धनिषेधेSप्यतात्विककालसंबन्धस्यानिषेधात्। नापि तात्विक कालसंबन्धित्वं तत्; तात्वि- कस्याद्याप्य निरूपणात्, निरूपणे वा शेषवैयर्थ्यात्। ननु-भवन्मते यत् सत्त्वं ब्रह्मणि, तदेवेह मम । उक्तहि-'यादशं ब्रह्मणः सत्वं तादृशं स्याज्जगत्यपि। तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तुनः॥ इति। नच-तत्रापरिच्छिन्नत्वं सत्त्वम्, तञ्च न जगतीति-वाच्यम्ः तुच्छस्यापरिच्छिन्नत्वेऽपि सत्त्वानभ्युपगमान्नापरिच्छिन्नत्वं सत्त्वम्, किं त्वन्यदेवः तञ्च ब्रह्मणीव भ्रमाधिष्ठानन्वाच्छुक्तिकादे- रपि भविष्यतीति-चेत्, नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टम्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वद्तो वरस्य भ्राता भवान्, यतो जामातृश्वशुरयोरेकगोत्रन्वे विवाहानुप-
गोडव्रह्मानन्दी (लघुचन्द्रिका)। मिथ्यात्वविरोधीति भावः। प्रमाणाप्रवृत्तः प्रमारूपवृत्तेविपयतासंबन्धेन उत्पादकसामध्र्यभावान। प्रमाविषय- त्वात्। विपयिनासंबन्धेन प्रमोत्पत्तेः । तस्य सत्त्वस्य। तदन्यत्वात् प्रमाविषयतान्यत्वात्। व्यवसायेति। इदं रजतं जानामीत्यस्यां भ्रमस्यप्रमायां व्यवसायांश रजतस्य विशेषणत्वात्, नेदं रजतमित्यस्यां निषेधस्यप्रमायां निपे- धांशे रजतस्य विशेषणत्वाढित्यथः। सवस्येति। क्षणिकार्थास्वीकर्नृभिरिति शेपः। अतएव सर्वत्र क्षणिकत्वादिभ्रम- विशेष्यत्वादेव। विषयत्वमपीति। तादृशसत्वमित्यनुपज्यते। आत्माश्रयादिति। य्द्पि पूर्वोक्तान्योन्याश्रयस्थले आत्माश्रयत्वमप्यम्ति, प्रकृतेऽप्यन्योन्याश्रयत्वमस्नि; सत्त्वप्रमानिरूपणे तद्विपयत्वरूपसत्वनिरूपणं तन्निरूपणे च तादृशप्रमानिरूपणमिति; तथाप्यन्योन्याश्रयत्वस्य पूर्ववत्ध्रकृते ज्ञानुं शक्यत्वादात्माश्रयत्वस्यापि प्रकृतवत् पूर्व बोद्धुं शक्यत्वादककमुक्त्तम्। प्रतिपन्नेत्यादि। त्रैकालिकस्य स्वसत्ताभावस्य स्वधीविशेष्यदेशकालावच्छिन्नत्वरूपेण सवस्मिन् या धीः 'रजतमत्र नाम्ति नासीन्न भविष्यनी त्यादिरूपा, तद्विषयन्व्रस्य शुक्तिरूप्यादिनिष्टस्याभाव इत्यर्थः । स्वपंदेः शुक्तिरूप्यादरव ग्रहणम्। एतेषां प्रमाविषयत्वादीनामसद्विलक्षणत्वपर्यन्तानामुक्तानाम्। मिथ्यात्वाविरोधित्वेन
त्वया वक्तुमशक्यत्वात्। तत्प्रत्यक्षणेति। सत्तायाः प्रत्यक्षसंभवेऽप्यन्ययोर्न स इृत्यपि बोध्यम्; प्रत्यक्षबाधस्यैवोप- फ्ान्तत्वेनाप्रत्यक्षबाधस्य प्रकृतानुपयोगात्। अस्तित्वेत्यादि। अम्नित्वप्रकारतानिरूपितं प्रमाविशेष्यत्वमित्यर्थः । वर्तमानत्वं कालसंबन्धित्वम्। नतु तत्तत्कालवृत्तित्वम्; अननुगमात्, प्रयोजनाभावाच्च। चक्षुराद्ययोग्यत्वेन चेति। अनेन मिथ्यात्वाभावादिरूपपूर्वोक्तस्याप्ययोग्यन्वं सूचितम्। वाधेन तात्विकेति। तात्विकत्वेन कालसंबन्धस्य निषेधेऽपि कालसंबन्धत्वेनानिपेधात, कालसंबन्धत्वेन निपेधपक्षपि प्रतियोग्यभावयोर्भिन्नसत्ताकत्वेनाविरोधाढ्िित्यर्थे:। अनिर्वाच्यं निर्वक्कुमशक्यम्। इह प्रपञ्जे। तथा चावयोनिर्वचनासामर्थ्ये मामेव प्रति न पर्यनुयोग इति भावः। तुच्छस्येति। स्वसमानसत्ताकाभावप्रांतयोगित्वस्यंव परिच्छेदरूपत्वेनेत्यादिः। नच प्रपश्ेपि परिच्छेद इव तदत्यन्ता-
Page 132
[प्रत्यक्ष० सत्वनि०] ३३५
पत्तिवञ्जगङ्गह्मणोरेकसत्वे जगतोऽसत्त्वमेव स्यात्। तथाहि-स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मण: सत्त्वम; तदेव चेजडस्यापि जगतः तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्ववि- रोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः। चैतन्यस्यैवावच्छिन्नानवच्छिन्नाज्ञानविषय- त्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादे: सत्त्वसिद्धिः। नन्वेवमपि सर्वदेशी- य त्रैकालिकनिषेधप्रतियोगित्वमसत्त्वं तुच्छानिर्वचनीयसाधारणम्, तदभावः सत्त्वम्, तञ्च ब्रह्मणीव जगत्यपीति ब्रूमः । नच संयोगेऽव्याप्ति; तम्याव्याप्यवृत्तित्वानभ्युपगमात्। तद्भ्युपगमे च व्याप्य- वृत्तित्वेनाभावो विशेषणीयः। नापि वियत्यव्याप्तिः तदत्यन्ताभावस्य केवलान्वयित्वानङ्गीकारेण लक्षणस्य विद्यमानत्वादेव। नहि कसमिंश्चिद्देशे काले वा तस्याभावः, नित्यविभुत्वभङ्गप्रसङ्गात्।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भावोऽप्यम्ति, परिच्छेदस्य मिथ्यात्वान्, तथाच तुच्छानुधावनं व्यर्थमिति-वाच्यम्; परिच्छिन्नभेदस्येवोक्तत्वेन तस्य प्रपञ्जे विरहान्। अन्यदेव अवाध्यन्वोपलक्षितस्वरूपत्वमेत्र। स्वप्रकाशेत्यादि। वस्तुगत्या स्वप्रकाशा अद्विनीया च अबाध्यत्वोपलक्षिता या चित्, तन्स्वरूपं ब्रह्मणो धर्मत्वेन कल्पितं स्त्वम्। तदेव यदि जगतः स्त्वं, तदा जडे- भ्योऽत्यन्तभिन्नत्वात् जडधर्मत्वं वक्तुमशक्यम्, अन्यन्नभेदे धर्मधर्मिभावस्य त्वयाप्यम्वीकारान। तथाच जडात्यन्तभि- स्त्वेन जडत्वविरोध्यपि तादृशसत्वं कल्पिताजडतादात्म्यात् धर्म इनि वाच्यम्। ततश्र ब्रह्मणः अत्यन्ताभिन्रमपि तत् कल्पितेन ब्रह्मभेंदन यथा ब्रह्मधर्मः, तथा जडादृत्यन्नभिन्नमपि कल्पितेन जडतादात््येन जडानां धर्म इति युज्यते; परंतु यत ब्रह्मण्यारोपितं तंत्रव ब्रह्मधर्मस्य तादृशस्त्वादेः संसर्गारोपः, शुक्तिधर्मस्य सत्वेदन्त्वादेः शुक्तयारोपितरज- तादावेव संसर्गारोपवन्। तथाच रजतत्व्रविरोधिन: शुक्तिसत्वादे: संसर्गारोपान्यथानुपपत्या रजतस्य शुक्तावारोपित- त्वसिद्ध्येव जडत्वविरोधितरह्मसत्वादेरारोपान्यथानुपपत्या जडानां ब्रह्मण्यारोपितत्वसिद्या मिध्यात्वसिद्धिरिनि भावः । ननु-व्रह्मणोऽवाध्यत्वोपलक्षिनस्वरूपत्वे भ्रमाधिष्टानत्वमेव प्रयोजकम्, तथाच शुक्त्यादिव्यावहारिकप्रपञ्चस्यापि तत एव तदस्तु, ततश्च यथा ब्रह्मम्वरूपं सत्ता, तथा शुक्त्यादिस्वरूपमपि भेदकल्पनया शुक्तयादिधर्मः; नतु ब्रह्मधर्मसत्तादे: शुक्यादौ संसृष्टतयारोपः, यद्लात् ब्रह्मणि शुक्तयादेरारोप आनीयते, तत्राह-चैतन्यस्यैवेति। अवच्छिन्नेत्यादि। अवच्छिनं चानवच्छिननं च तत् अवच्छिस्नानवच्छिन्नमिति समाहारद्वन्द्वः, तादृशं यदज्ञानविषयन्वं नेनेत्यर्थः । रूप्यादि- अ्रमोपादानाज्ञानविपयत्वं शुक्तयाद्यर्वच्छन्नम्, शुक्त्यादिप्रपञ्चभ्रमोपादानाज्ञानविषयत्वमनवच्छिन्नम्, तदुभयमपि चित्येव; जडे स्वतः प्रकाशत्वाप्रसत्तया तद्वैयर्थ्यादिति भावः। सर्वदेशीयत्रैकालिकनिषेधेति। कालानवच्छिन्नं यत् सर्वदेशावृत्तित्वं तद्विशिष्टात्यन्ताभावेत्यर्थः । अनिर्वचनीयेति। प्रातीतिकेत्यर्थः। प्रानीतिके औपनिषद्मते तादृशप्रनियोगित्वं सिद्धम्, माध्वमते तु तस्यैव तुच्छत्वात्तत्रेव सिद्धम्। जगति वियदादौ। करि्मिंश्चिदित्यादि। मूर्तेपु संयोगेन विभुपु संयोगेन संयुक्तमूर्नसंयोगेन वा गुणादौ संयुक्तसमवायादिना आकाशस्य सत्वनाकाशात्यन्ता- भावस्यासंभवात्, उत्पत्तिक्षणावच्छेदन ट्व्ये तत्मंभवेऽपि तस्य व्याप्यवृत्तित्वाभावेन प्रकृतानुयोगात्। यद्यापि कम्मं- श्विद्देशे काले वाकाशाभावो विद्यमानोऽपि प्रकृतानुपयुक्तः; तथापि केमुनिकन्यायेन तथोक्तम्। कसिमिंश्चिद्देशे काले तदसत्वे सर्वत्र तत्र सुतरां तदसत्वमिनि भावः। नित्यत्वेत्यादि। यदा आकाशस्य तादृशोऽत्यन्ताभावः, तदा तस्य ध्वंस: प्रागभावो वा वाच्यः, तथाचानित्यत्वं स्यात्। यत्र द्रव्ये आकाशस्यात्यन्ताभावः, तत्र तस्य संयोगो न जात इति वाच्यम्; अन्यथा हि तत्संयोगतदृत्यन्ताभावयोः विरोधः । नच-तत्संयोगस्य वृ्त्यनियामकत्वेन तदत्यन्ताभा- वाविरोधित्वमिति-वाच्यम्; चित्सुसत्ीयानुमाने तस्यापि तद्विरोधस्योक्तत्वात्, 'अत्राकाश'मिति प्रत्ययेन तत्संयोगस्य वृत्तिनियामकत्वाच्च। तथाचाकाशस्य यत्र द्रव्ये अत्यन्ताभावः तत्र तत्संयोगानुत्पत्तेरावश्यकत्वे सर्वमूतसंयोगित्वरूपं विभुत्वं न स्यात्। यद्यपि तत्संयोगिनि समवायादिना तदत्यन्ताभावो न विरुद्ध इति वक्तुं शक्यते; तथापि तदीयसं- योगस्य तदत्यन्ताभावेनैव विरोधो लाघवादिति प्रतिपन्जेत्यादिमिथ्यात्वलक्षणोक्ताभिप्रायकमिदम्। अतएव नित्ये जली- यरूपादावपि संयुक्तसमवायादिसंबन्धेनाकाशसरवात् न तदत्यन्ताभावः; अन्यथा हि तादृशरूपादिमति आकाशसंयो- गस्य वक्तुमशक्यतया आकाशस्य विभुत्वं न स्यात्। अथवा यावन्तः संबन्धाः प्रसिद्धाः तावदृत्यतमावच्छिन्नप्रति- योगिताकात्यन्ताभावस्य प्रकृते निवेशात् नित्यरूपादी तादृशस्याकाशाद्यभावस्यासत्वान्न दोषः। यन्तु-सर्वकालवृत्ति- स्वमेवाभावे विशेषणं देयम्, नतु सर्वदेशीयत्वम्; अश्वाध्यवच्छेदेन गोत्वाद्यभावो न कदापि वर्तते; मानाभावात्, 'हदानीमश्वे गोरवं नास्ती'ति धीस्तु गोत्वाश्वत्वयोरलीकसंसर्गस्यात्यन्ताभावमवगाहते; नतु गोत्वस्य। तथाच गोत्वादौ सर्वकालवृत्यत्यन्ताभावप्रतियोगित्वाभावसत्वात् तत्र नाव्याप्तिः, सर्वदेशवृत्यत्यन्ताभावप्रतियोगित्वाभावस्तु न लक्षणम ; घटादौ सादशप्रतियोगित्वसरवात् तत्राव्याप्तेः। घटादेर्हि स्वाधिकरणभूतलाढ़ितो अपसारणकाले तत्रात्यन्ता-
Page 133
३३६ अद्वैतसिद्धिः सव्यार्या। [परिच्छेद: १]
आकाशात्यन्ताभावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभाषो विशेषणीय- इति चेन्न; चक्षुराद्ययोग्यानेकपदार्थघटितत्वेनैतादशसत्त्वस्य ग्रहणे चक्षुरादेरसामर्थ्यात्। नहि सर्वदेशीयश्रैकालिकवृत्िमत्प्रतियोगिकव्याप्यवृत्िनिषेधप्रतियोगित्वं कस्यापि प्रत्यक्षम्, येन तद- भाव: प्रत्यक्षो भवेत्। वृत्तिमत्प्रतियोगिकत्वव्याप्यवृत्तित्वपरित्यागेऽपि सर्वदेशीयत्वत्रैकालिकत्व- योरयोग्यत्वात्। ननु-स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गरृह्यमाणे कालत्रयमध्ये वर्तमानका- लस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वास्तत्संचलितं कालत्रयवृत्ति सर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन गृहीतुं शक्तते-इति चेभ; स्वदेशकालवृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेन तदभावस्य सुतरां तदयोग्यत्वात्, स्वदेशकालवृत्तियत्किंचिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वात्, स्वप्रतियोगिकात्यन्ताभा- वासामानाधिकरणस्य च स्वप्रतियोगिकात्यन्ताभावाप्रसिद्धा केवलान्वयिनि, संबन्धभेदेन घटादौ चासिद्धे :; स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा, स्वात्यन्ताभावय्तिकिचिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वोक्तदोषाच्च। तस्मात्तत्प्रकारान्तरस्य निरूपयितुमशक्त्वान्मिथ्यात्वाविरोधित्वाच्च
गौडव्रह्मानन्दी (लघुचन्द्रिका)। भाव: प्रतीयते। 'अन्र भूतले इदानीं घटो नास्ती'ति धीर्हि घटस्यैवात्यन्ताभावं गृह्णानि। घटस्यैवोक्तकाले उक्तभूतले आरोप संभवादारोपितस्यैवालीकत्वेनात्यन्ताभावप्रतियोगित्वात्-इति माध्वेनोक्तम्, तद्युक्तम्; गोत्वादेरप्य- श्वादावारोपसंभवेन तत्राव्याप्तितादवस्थ्यात्, अलीकस्यैवात्यन्ताभावप्रतियोगित्वमिति नियमे मानाभावाख। यदि च तारशनियम: स्वीक्रियते, तदा अत्यन्ताभावप्रतियोगिता न केनापि धर्मेण संबन्धेन वा अवच्छिभ्ना; अलीकस्य सर्व- देशकालासंबन्धेन धर्मविशेप संबन्धविशेपावच्छेदकत्वेऽनपेक्ष्यैव तदत्यन्ताभावस्य सर्वत्र संभवात्। अतएव 'धवंसप्राग- भावप्रतियोगिता तादृशी'ति नव्याः। तथाच तव मते संबन्धधर्मविशेषाणां संसर्गाभावप्रतियोगितावच्छेदकत्वस्यानु- भूयमानस्यापलापापत्तिः । वृत्तिमत्प्रतियोगिकत्वेति। वृत्तिमत्वेन यत् माध्वभिन्नस्य संमतं तन्मात्रनिष्टप्रतियोगि- ताकत्वेनेत्यर्थः । यथाश्रुते सर्वदेशकालवृत्तेरवृत्तिमत्प्रतियोगिकाभावस्याप्रसिद्धेः, गगनघटोभयाभावादेरवारणाच्च। नहीत्यादि। तादशवृत्तिमत्प्रतियोगिकाभावस्यातीन्द्रियघटितत्वात् तद्धटितरूपावच्छिसं यद्यत्र स्यात्तदोपलभ्येतेत्या- पादनासंभवात्, अतः सतोऽपि तस्यातीन्द्वियत्वेनानुपस्थितिसंभवात्। सर्वदेशीयत्वत्रकालिकत्वादिरूपेण सु सुतरामभावोन प्रत्यक्ष :; तादृशरूपस्यायोग्यत्वात्। तथाच तादृशाभावप्रतियोगितात्वरूपेणापि प्रतियोगित्वस्य प्रत्यक्षासंभवेनायोग्यतादृशरूपावच्छिन्नप्रतियोगिताकाभावो न प्रत्यक्ष इत्यर्थः । प्रतियोगित्वाभाव इति। योग्य- स्वादिति शेपः। वर्तमानकालेति प्रकृतदेशति च सवकालदेशार्थकम्। तत्र निषेधेति। स्वकालदेशवृत्तिनिषेधे- त्यर्थः। तत्संवलितेत्यादि । स्वदेशकालवृत्तिघटितो यः कालन्रयवर्ती सर्वदेशीयनिषेधः तठ्ततियोगित्वरूपमित्य्थः । यद्यपि-नेदं दृषणं संभवदुक्तिकम्। नहि सर्वदेशकालवृत्तीत्यत्र देशकालानां सर्वेषां तत्तवक्तित्वैर्निवेशः संभवत; तादशोपस्थितेर्युगसहस्त्रेणाप्यसंभवात्, किं तु देशत्वकालत्वव्यापकत्वेनात्यन्ताभावो निवेश्यः । तथाच तादृशव्या- पकत्वस्य सर्वदेशकालव्यक्त्यघटिततवेन स्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावधीकालेऽपि तादृशमिथ्यात्वस्य धीः सम्भवस्येव; स्वदेशनिष्ठात्यन्ताभावाप्रतियोगित्वविशिष्टवुद्धिर्हि स्वदेशनिष्टात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धौ आह्या- भावनिश्चयविधया विरोधिनी, नतु देशनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धी। नहि नीलघटाभावबुद्धिर्घटवस्ताधी- विरोधिनी; देशत्वव्यापकात्यन्ताभावप्रतियोगित्वधियस्तु सुतरां न विरोधिनी; देशवृश्यत्यन्ताभावाप्रतियोगित्वस्य तद्टे तस्यामभानात्। अथैवमपि-घटाढ़ेः सत्यत्वमतेऽपि किंचित्कालावच्छेदेन सर्वदेशेषु किंचिद्देशावच्छेदेन सर्वकालेपु चात्यन्ताभावस्वीकारात् सर्वकालावच्छेदेन सर्वदेशवृत्तिको योऽत्यन्ताभावः तत्प्रतियोगित्वमेवासत्वं वाच्यम्, सर्वदे- शवृस्तित्वं घ देशत्वव्यापकत्वमेव, तथा चाप्रसिद्धिः, असत्प्रतियोगिकाभावस्य कालावरिछन्नत्बे मानाभावात्-इति
विशिष्टोऽत्यन्ताभावो निवेश्यः। देशत्वं च कालिकान्यसंबन्धावच्छिन्नाधिकरणत्वम्। कालत्वं कालिकसंबन्धा- वच्छिन्नाधिकरणत्वम्। एवंच 'तादृशात्यन्ताभावप्रतियोगी तद्वट' इति ज्ञानं प्रति 'स्वदेशकालवृत्त्यत्यन्ता- भावाप्रतियोगी तद्वट'इति ज्ञानस्य प्रतिबन्धकत्वं नास्त्येव-तथापि; संभवदुक्तिकतामङ्गीकृत्य वृषयति- न स्वदेशति। सकलेत्यादि। तादृशनिषेधानां मध्ये अतीन्द्रियप्रतियोगिकाभावस्यापि संभवेन तव्प्रतियोगि- त्वस्यायोग्यत्वात् तत्साधारणतादृशप्रतियोगितात्वावच्छिन्नाावो न प्रत्यक्षः । 'यदम्र तादृशप्रतियोगितवं स्याद्, तदोपलभ्येते' त्यापादनासंभवादिति भावः । पूर्वोक्तेति। स्वात्यन्ताभावीयसकलाधिकरणवृत्तित्वस्यायोग्यरवेन सुतरां
Page 134
[प्रत्यक्ष० सत्वनि० ] ३३७
स्वसमानाघिकरणयावदत्यन्ताभाव प्रतियोगित्वाभावरूपमेव सत्त्वमुपेयम्। त्च न चक्षुरादियोग्य- मित्युक्तम्। ननु-यस्मिन्करंमिश्चित् स्वदेशकालवृत्तिनिषेधे एतद्देशैतत्कालवृत्तिनिषेधत्वं ज्ञान्ा तेन प्रत्यासत्तिभूतेनोपस्थापितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे ग्राह्यः, ततः सार्वदिक्सर्वदेशीयनिषेधप्रतियोगित्वस्य ग्रहणं घटे दुर्घटं इति-चेन्न; एवं सामान्यलक्षणया सर्वनिषेधेषूपस्थितेष्वपि तत्प्रतियोगित्वाभावस्य चक्षुरादिना गृहीतुमशक्त्वात्। योग्यप्रतियो- गिक एवहि संसर्गाभावो योग्यः । नचाशेषनिषेधानां प्रतियोगित्वमतीन्द्रियसाधारणं चक्षुरा- दियोग्यम्। वस्तुतस्तु-सामान्यं नेन्द्रियप्रत्यासत्ति :; मानाभावात्। नन्त्र-महानसीयधमे-
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
पलब्धेरापादनासंभवात्तादृदशाभावो न प्रत्यक्ष इनि भावः । अयोग्यत्वमिन्द्रियासस्निकर्षेण प्रत्यक्षाविपयन्वमेव, तञ्ञ उक्ताभावे नास्ति; सामान्यप्रत्यासत्तिरूपस्यालौकिकस्थेन्ट्रियसनिकर्पस्य सत्वादित्याशयेन शङ्कते-नन्वित्यादि । अयोग्यन्वं यदस्माभिरुकं तलौकिक प्रत्यक्षविषयत्वा।योग्यत्वमेव; लौकिकप्रत्यक्षरूपस्यैव बाधस्योपकान्तत्वात्, तन्मूली- भूतापादनविषयस्य प्रनियोग्युपलम्भस्य लौकिकस्यैवापेक्षितत्वेन तस्यैव मया खण्डनीयन्वान, तादृशायोग्यन्वं च उक्काभावे अम्येवेत्याशयेन समाधत्ते-नेति। योग्यप्रतियोगिक इति। स्वप्रनियोग्युपलम्भापादकतायोग्य- प्रतियोगिक इत्यर्थः। यादृशप्रनियोगिनः सत्वेन इन्द्रियसन्निकर्पादिविशिष्टेन नदुपल्धिरापादयितुं शक्यने, नादश- प्रतियोगिक इनि यावन। संसर्गाभाव इति। अभावमात्रं विवक्षितम्। येन संसर्गेण प्रनियोगिनो वैशिष्टवं नदुपलम्भस्यापाढकं. नेन संसर्गेणावच्छिन्नप्रनियोगिताकोSभावः प्रत्यक्ष इनि ज्ञापयिनुं मंसर्गपदमुक्तम्। नन्संस- रगावच्छिन्न-वरं च तदन्यसंसर्गानवच्छिन्नत्वरूपं बोध्यम्: नेन प्रागभावप्रनियोगितानां संसर्गानवच्छिन्नत्वेऽपि न क्षनिः । नथा च यद्युक्तप्रनियोगितान्वविशिष्टं प्रनियोगित्वं स्थात्, तदोपलभ्येतेत्यापाढनासंभवात् नोकाभावो लौकिकप्रत्यक्षः । उक्तं हि दीधित्यादा-'यथा विद्यमानमपि वह्नित्वे रासभादिदेशनिष्टाभावप्रनियोगितावच्छेदकत्वं न गृह्यते अभा-
पलच्धेः प्रतियोगिसत्त्व्रप्रसक्षनप्रसक्नितप्रनियोगिकत्वलक्षणयोग्यनेनि तदभावो नाध्यक्ष :- इति। अन्रायं भावः- यद्यपि प्रनियोगितातद्वच्छेदकयोः सत्वे इन्दियसननिकृष्टत्वापत्या प्रत्यक्षापत्तिः; तथापि धूमवदादेरिन्द्रियासन्निकर्षा-
प्रत्यक्षापत्यसंभवान् नोकतरूपावच्छिन्नाभावः प्रत्यक्षः। न हि प्रतियोगितावच्छेदकतापर्यास्यधिकरणस्य लौकिकप्रत्यक्षा- पत्यसंभवे अभावस्य लौकिकप्रत्यक्षम्। किश्चाभावादिप्रत्यक्ष विना प्रतियोगिताया अपि न प्रत्यक्षापत्तिः; संबन्धप्रत्यक्षे संबन्धिप्रत्यक्षस्य हेतुन्वान। एतेन-योग्यप्रनियोगिक दत्यादे: योग्यप्रतियोगिकान्यः संसर्गाभावो न योग्य इनि नार्थ :; उक्तप्रनियोगित्वाभावस्य योग्यायोग्यप्रतियोगिकत्वेन योग्यतापत्तेः, नाप्ययोग्यप्रनियोगिक: मंसर्गाभावी न योग्य इत्यर्थ :; महावार्यो योग्यायोग्योन्भंतानुद्धतरूपसा मा न्या ्रा वस्या प्रत्य्षम ीि्याा ुकत्वात् , नाप्ययोग्य व- र्मार्थच्छिसर्मियोगिताकात्यन्ताभावो न योग्य इत्यर्थः; तावतापि स्तम्भे पिशाचादेरिव योग्ये घटादावुक्तप्रतियोगित्व-
प्रनियोग्यनुपलम्भे अपेक्षणेन तदभावे तादृशप्रत्यक्षाभाव इत्यस्याप्युक्तग्रन्थेन प्रतिपादनात् । अत एवोकदीधिनिवाक्ये तादृशावच्छेदकत्वव्ेदस्यापि अनध्यक्षतायां तात्पर्यम्। अत एव च 'मूर्तसामान्यतद्वतोरिवोपाधिसामान्यतद्वतोरत्य- न्ताभावान्योन्याभावी न योग्या'वित्यादिकं व्याप्तिग्रहोपायदीवित्यादावुक्तम्। अतीन्द्रियसाधारणं अर्नीन्द्रिय- तादशाभावतत्प्रतियोगित्वघटितत्वेनानीन्डियं यत् तादशाभावप्रतियोगितात्वं तद्विशिष्टं। चक्षुरादियोग्यं यस्य सतवेन तदुपलब्धिरापादयितुं शक्यते ताद्ृशम्। यदि त्वयोग्यधर्मानवच्छित्नयोग्यमात्रवृत्तिप्रतियोगिताकाभाव एव योग्य: वाय्वादौ रूपाद्यभावस्तु न प्रत्यक्षः, किंत्वनुमेय इति मतमवलम्ब्यते, तदा यथाश्रुतमेव योग्येत्यादिकं सम्यक्। यजु-तादृशाभावप्रनियोगित्वं यदि घटे स्यात्, तदोपलभ्येतेत्यापादनं संभवत्येव; घटवृत्तेः संसर्गाभावप्रनियोगि- त्वस्य योग्यन्वात्, प्रागभावप्रतियोगित्ववत्। अत एव अयं घटोऽत्रैव नान्यत्रेत्यन्यदेशनिष्ठात्यन्ता्व्भ्रनियोगित्वस्य घटे प्रत्यक्षम्, अन्यदेश निष्ठात्यन्ताभावस्तु न प्रत्यक्ष :; विशेष्यसन्निकर्षाद्यभावात्। एवं सर्वदेशकालवृत्त्यत्यन्ताभावप्र- नियोगित्वमपि साक्षिवेद्यत्वाद्योग्यम्। अन एव शुक्तिरूप्यादौ मन्मते तस्य साक्षिवेद्यता स्त्रीक्रियते इति-माध्वोक्तम्, तन्न: प्रागभावस्य हि सत्वे किं तत्प्रतियोगित्वं प्रत्यक्षं, तदसत्वे वा। नाद्यःः तदोक्तप्रतियोगित्वस्याश्रयासविकर्षणा- प्रस्यक्षत्वात्। अन्त्ये तु प्रागभावप्रतियोगितात्वेन, प्रतियोगितात्वेन, तव्यक्तित्वेन वा। नाद् :; प्रागनिक्पात अ. सि. ४३
Page 135
३३८ अद्वैतसिद्धि: सव्याख्या। [परिच्छेदः १ ]
न्द्रियसंयोगेन तत्रैव व्याप्तिग्रहे पर्वतीयधूमादनुमितिर्न स्यात्, सामान्यस्य च धूमत्वादे: प्रत्यास- त्तित्वे तस्यापि प्रत्यासन्नत्वात्तत्र व्याप्तिग्रहे ततोऽनुमितिरिति-वाच्यम्; पर्वतीयधूमेन्द्रियसन्निक- रषदशायां धूमत्वेन प्रकारेण गृहीतस्मृतव्याप्तेस्तत्र वैशिष्ठ्यग्रहसंभवात्, 'सुरमिचन्दन'मितिवत् विशेष्येन्द्रियसन्निकर्षविशेषणज्ञानासंसर्गाग्रहरूपाया विशिष्टज्ञानसामय्या: पूर्णत्वात्। व्याप्तिस्मृ- तिप्रकारेण वा पक्षधर्मताशानस्य हेतुता; महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयो भवति, धूमत्वेन पर्वतीयधूमश्ञानं चापि जातम्, तञ्च सामान्यलक्षणां विनैव: तावतैवानुमिति सिद्धेः। नच-सामान्यप्रत्यासत्ति विना धूमो वह्निव्यभिचारी न वेति अनुभूयमानसंशयो न स्यात्, प्रसिद्धधूमे वह्िसंबन्धावगमात् अप्रसिद्धस्य चाज्ानादिति-वाच्यम्: प्रसिद्धधूम एव
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रागभावप्रत्यक्षासंभवेन तद्धटितरूपेण प्रत्यक्षासंभवान् तद्टृष्टान्तेन तादृशात्यन्ताभावप्रनियोगिन्वे योग्यतां प्रसाध्य ताशप्रनियोगितान्वरूपेणोपलम्भापादनस्यासंभवान्। नच-अभावांशे अलौकिकस्य प्रनियोगित्वांशे लौकिकस्यो- पलम्भस्यापादनं संभवनीति-वाच्यम् गुरुवविशेषवन् घटत्वावच्छिन्नप्रनियोगित।कात्यन्ताभावस्य प्रत्यक्षापत्या प्रतियोगितावच्ेदकतापर्याह्यधिकरणांश प्रतियोग्यंश च लौकिकस्येवोपलम्भस्यापादनस्याभावप्रत्यक्षे प्रयोजकन्वान। अत एव न द्वितीयः: घटत्वादिरूवेण घटाढे: प्रत्यक्षं विना तत्संयोगादेः संयोगत्वादिरूपेण प्रत्यक्षाभावेन संबन्ध- प्रत्यक्षं प्रति संबन्धितावच्छेदकरूपेण संबन्धिप्रत्यक्षस्य हेनुत्वेन प्रागभावत्वरूपेणाप्रत्यक्षे तेन रूपेण प्रत्यक्षासंभवात अन्त्यकल्पे वक्ष्यमाणदोषस्यात्रापि संभवाच्च। नान्त्य :; तादृशदष्टान्तेन घटादो स्वदेशकालवृत्त्यत्यन्ताभावप्रनियोगित्व- स्यापि तथ्यक्तित्वेनैव प्रत्यक्षसिद्या तदवच्छिन्नाभावस्येव प्रत्यक्षसिद्धावपि तादृशाभावप्रनियोगित्वत्वावच्छिन्नाभावप्रत्य- क्षानुपपादनात्। अयमत्रैव नान्यत्रेति प्रत्यक्षं तु संभवग्येव; सन्निकृष्टदेशान्तरनिष्टात्यन्ताभावस्य प्रत्यक्षत्वेन तत्प्रतियोगित्वाश्रयस्यापि सव्निकृष्टव्वेन च तादृशप्रतियोगित्वप्रत्यक्षसंभवात्। देशान्तरासचनिकर्षे तु तादृशप्रत्यक्षं न संभवत्येव। किंच 'अयमत्रव नान्यत्रे' त्याकारज्ञानस्य देशान्तर निष्टात्यन्ताभावप्रतियोग्ययमित्यर्थकत्वे घटत्वमंत्रैव नान्यत्रेति ज्ञानस्यापि प्रमात्वापत्तिः। अथात्रवेत्येवकारार्थस्यैव नान्यसेत्यनेनानुवादात एवकारस्य चैतदन्यासंयुक्तत्वबोधकत्वे 'द्रव्यं द्रव्यमेवे' त्यादौ द्रव्यान्यासंयुक्तत्वस्याप्रसिद्धस्य बोधकत्वासंभवात् एनदेवेशान्य- त्वावच्छेदन वर्तमानात्यन्ताभावप्रतियोग्ययमित्यर्थकन्वं वाच्यम्, तत्र विशेष्यासस्निकर्षस्याभावाप्रत्यक्षनवे त्वद- कहेतुत्वासंभवः । न ह्ात्र देशो विशेष्यः, किंतु विशेषणम्; 'अयमेव देश एनद्वा'नित्यादावेव देशस्य विशे- व्यत्वात्। अथ देश एव विशेष्यपदेनोक्तः, तथाप्ययुक्तम्; कस्यचिद्ेशस्य मन्निकर्पात। न ह्यत्नतदन्यसर्वदेशभानम्; तस्माद्यापकत्वमेवायोग्यम्। नच-मनोभिन्नावृत्तिन्वादिघटितेन मनस्वत्वेन मनर्वोपल्ध्यापाढनासंभवेऽपि घटादो मनस्त्वाभाव इव तादृशप्रतियोगितात्वेन तादृशप्रनियोगित्वोपलम्भापादनासंभवेपि तदभावः प्रत्यक्षोऽसन्व- नि-वाच्यम्; मनस्त्वन्वरूपेण हि न मनस्वस्याभावः प्रन्यक्षः, तादृशरूपस्यायोग्यघटितत्वात। अत एव 'घटत्वन्वा- दिना न घटत्वाद्यभावस्य प्रत्यक्षते'नि शिरोमणिः, किंनु मनस्समवेनत्वेनव; घटादों हि मनस्वसत्वे मनसो योग्यन्वा- पत्या 'मनस्वं यदि घटे स्यात, तदा मनस्समवेनन्वेनोपलभ्येनेत्यादिरीत्या मनस्समवेतम्वविशिष्टस्योपलम्भापादन- संभवेन तदभावस्य प्रत्यक्षसंभवः । नच-घटादी मनस््वसत्वे गुरु्वादेरि मनस्समवेतन्वापत्या तेन रूपेणोपलम्भा- पादनासंभव इति-वाच्यम्; मनरत्वीयसमवायेनाधेयत्वस्यैव मनस्समवेतत्वरूपन्वान, सर्वदेशत्यादिकं तु स्वपित्रा- दीन् प्रत्येव वाच्यम्, याद्दशाभावोहि तार्किकादानां प्रत्यक्षः तस्येव त्वया साक्षिभास्यनायाः मां प्रति वाच्यत्वात; अन्यथा अतिप्रसङ्गात्, तार्किकादिवाक्यं नु उक्तमेव। ननु-उफप्ननियोगित्वाभावस्य लाकिकप्रत्यक्षामंभवेऽपि सामा- न्यप्रत्यासस्या वा ज्ञानप्रत्यासत्या वा अलोकिकप्रत्यक्षसस्त, तावनाऽपि मिथ्यात्वानुमानासंभवः, न ह्यनुमितौ लौकिकप्र- त्यक्षस्यैव बाधविधया विरोधित्वम्; किं तुतदभावनिश्चयमात्रस्य, नव्राह-वस्तुत इति। सामान्यं इन्द्रियलौकिकस-
प्रत्यक्षं प्रति कारणी भूतस्येन्द्रियस्य सव्षिकर्षविधया कारणम्। तस्यापि पर्वनीयधूमस्यापि। विशेष्येन्द्रिय सन्निकर्षति।
त्वनियमान्मुख्यविशेष्यांश लौकिकसंभनिकर्पस्य बहिरिन्द्रियजन्यप्रत्यक्षे अपेक्षेति भावः ॥यो यत्र पुरावगतः, स एव तत्र संस्कारवशादलांकिकप्रत्यक्षे भाति; यत्र यो न पुराचगतः, तत्र तस्य धीरनुमित्यादिरेवेनि प्राचीनतार्किकादिमते, उपनयससिकषार्स्वीकर्नृमने, हेनुनिएं साध्यसामानाधिकरण्यमेव व्याप्तिः न तु साध्यसमानाधिकरणवृत्तिहेतुतावच्छेद- कमिनि पक्षे च, महानसीय एव धमे गृहीतस्मृनव्याप्ते: पर्वर्नायधमे प्रत्यक्षासंभवादाह-व्याप्तिस्मृतीति। यथा-
Page 136
[प्रत्यक्ष० सत्वनि०] ३३९
तत्तडूमत्वादिना व्याप्तिनिश्चयेऽपि धृमत्वेन तत्संशयोपपत्तेः । तथा चोकतं मणिकृता-'घटत्वेने- तरभेदनिश्चयेऽपि पृथिवीत्वादिना तत्र संशयसिषाधयिषे भवत एवेति। निश्चितेऽप्यर्थ प्रामाण्य- संशयाहितसंशयवत् धूमत्वं वहिव्यमिचारिवृत्ति न वेति संशयादपि तादृशसंशयोपपत्तेश्च। एतेन वायू रूपवान्न वेति संशयोऽपि व्याख्यातः । ननु-सिद्धे नेच्छा, किंतु असिद्धे, सा च स्वसमान- विषयज्ञानजन्या, तञ्च ज्ञानं न सामान्यप्रत्यासति विना। नन्र-सिद्धगोचरसुखत्वप्रकारकज्ञाना- देवाशञाते सुखे भवतीच्छा, समानप्रकारकन्वमात्रस्य नियामकत्वादिति-वाच्यम्; रजतत्वेन प्रकारेण रजते अनुभूयमाने घटादो रजतत्वप्रकारकेच्छाप्रसङ्गात्। नच-प्रकाराश्रयत्वमपि निया- मकम् : रजतभ्रमाच्छरुक्ताविच्छानुदयप्रसङ्गात्। तथा च समानप्रकारकत्वे सति समानविषयकत्वं तन्त्रम्। अत एवाख्यातिपक्षे रजतस्मरणसयैव शुक्तो प्रवर्तकत्वमित्यपास्तं इति-चेन्न; यतो रजत- भ्रमाच्छुक्ताविच्छा नास््येव, किं त्वनिर्वचनीये रजत इत्यनिर्वचनीयख्याती वक्ष्यते। प्रकाराश्रयत्वं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। श्रुनार्थकमिदं प्राभाकारादिमने बोध्यम्। मन्मते तु-प्रकारेण प्रकारनायोग्येन। विषयो विषयतायोग्यः। ताट- शयोग्यत्वं चोहुद्वसंस्कारज्ञानयोर्व्यप्तिविषयकयोः यत अन्यनरत् तद्विपयत्वम्। तथा च प्राभाकरादिमने धूमत्वा- धेकरूपेण व्याप्तिपक्षधर्मनाज्ञानयोरिव मन्मते तयोवा तेन रूपेण व्याप्तिविषयकोडुद्धमंस्कारपक्षधर्मताज्ञानयोर्वां हेतु- स्वम् ; व्याप्तिविशिष्टवशिश्वज्ञानस्य तन्मते अनावश्यकत्ववत् मन्मते व्याप्िज्ञानस्याप्यनावश्यकत्वात्, तादृशज्ञानद्व- योत्तरमुक्तवैशिष्धीव्यक्तोनामिव व्याप्षिविषय को हुद्धसंस्का रपक्षधर्मताज्ञानोत्तरं ्यापतस्मनिव्य क्त्ीनामनुमिन्यु्त्पत्यर्थ कल्पने महागारवात्। उकं हि पञ्चपाद्याम्-'लिङ्गज्ञानव्याप्तिसंस्कारयोः संभूय लिङ्विज्ञानहेनुत्वम्; संस्का- रानुद्वोधे तदभावात। नस्मालिङ्गज्ञानमेव लिद्गिसंबन्धसंस्कारमुद्दोध्य तत्सहितं लिद्विज्ञानं जनयनी'नि। उद्वोध्य स्वनः, स्वजन्यवहिज्ञानादितो वा, स्वपूर्ववर्तिनो अन्यस्माद्वा उद्दोध्य। तेन धूमवत्ताज्ञानस्य कदाचिदुद्धोधकत्वाभावेSपि न क्षननिः। स्त्रपूर्ववर्निन उद्धोधकन्वेऽपि पूर्ववर्तितासंबन्धेन स्वस्य तद्यावर्नकत्वेन परंपरयोद्वोधकत्वम्। करणीभूतव्य- किव्यावर्तकन्वेन जानिगृणयोः करणत्ववन। अतो लिङ्गज्ञानमेतोदोघं जनयनीनि नासङ्गनम्; अन्यस्योद्वोधकत्वेऽपि लिङ्गज्ञानस्य तव्यावर्नकत्वेन प्राधान्यविवक्षया तदुक: । व्याप्तिस्मृनिप्रयोजकत्वेन पराभिमतानामुद्दोधकानां शक्तिवि- शंपरूपे संस्कारोद्वोधे हेतुत्वसंभवेन तादशशक्तिमन्संस्कारसहितं लिङ्गज्ञानमनुमिनिहेतुः; प्राचीनमते उद्धोधकजनित- शक्तिकस्यैव संस्कारम्य स्मृत्यादिहेतुन्वान। 'संस्कारण स्मृत्यादी जननीये तन्सहकारित्वमेवोद्वोधकत्व'मिनि नव्यमते नु तादृशोद्वोधके: सहितमेव लिङ्गज्ञानं तथा; संस्कारहेतुत्वे मानाभावात्। नच-व्याप्तिस्मरणोत्तरं यत्र धूमवत्ताज्ञानं, यत्र वा व्याप्तिविशिष्ट्ध्मवत्तास्मृनिः प्रथमन एव जाता, तत्रानुमित्युत्पत्तये व्याप्तिधीत्वेनाऽपि हेनुत्वस्यावश्यकत्वात् गारवमिनि-वाच्यम्; उहुद्धसंस्कारव्याप्तिज्ञानयोरेकशक्तिमत्तया हेनुत्वस्य प्राचीनमते स्वीकारात्, केवलसंस्का- रान् उहुद्संस्कारस्यानिरिक्तत्वेन तत्रेव शकिविशेषम्वीकारात्। अननिरिक्तत्वेऽपि नानुदुद्धमंस्कारादनुमितिः; उद्धोघ- कालावच्छिन्नशक्तिस्त्रीकारात, नव्यमते संस्कारोद्वोधकेपु व्यापिज्ञानेपु व्यापिज्ञाने च पर्यास्ाया एकशक्तेः स्वीकारात्। अत एव नानालिङ्कपराम्शेभ्योऽनुमिनिरुपपन्रा; तावन्सु तस्याः संभवात् । यदि चानुमितौ पक्षसाध्यसंसर्गेतरस्य घटाद: स्मृत्यादिसामग्रीतो भानं नानुभवविरुद्ध, तदा नादशोद्वोधकेभ्यो व्याप्तिस्मृत्यादिसामग्रीतः पक्षधर्मतायाश्र तस्यां भानमास्ताम् । अत एवोहुद्धसंस्कारोत्तरं व्यास्यादिस्मरणस्य नापलापः; अनुमितेरेव व्याह्याद्यंशे स्मृतित्वस्व्रीकारात्। अन्यथा त्वनुमिनिसामग्री तन्भाने प्रतिबन्धिकास्तु। नच-संस्कारस्याप्यनुमिनिजनकत्वे न्यायप्रयोगस्थले उपाध्युद्धावनं नियमतो न स्यान, नत्कार्यस्य व्यभिचारज्ञानस्य अनुमिनिकारणसंस्काराप्रतिबन्धकत्वादिति-वाच्यम्; विरोधिनिश्चयस्य संस्कारनाशकत्वेन व्याप्तिसंस्कारनाशार्थ व्याप्तिधीप्रतिबन्धार्थ वा व्यभिचारज्ञानस्य साधनीयत्वेन नियमन उपाध्युद्धा- वनसंभवात्, विरोधिनिश्चयस्य मंस्क्रारानाशकत्वेSपि विरोधिविषयकसंस्कारे संस्कारनाशकत्वस्यावश्यकरवेन कारणी- भूतसंस्कार विरोधिविषयकसंस्कारजननाय व्यभिचारज्ञाप कोपाध्युन्धावनसं्भ वाच। ननु, प्राचा यत्र यस्य निश्चयः, तन्र सस्य रूपान्तरेणापि न मंशयः; समानविशेष्यकताप्रत्यास्त्यैव तयोर्विरोधित्वात, तत्राह-निश्चितेऽपीति। वह्निव्य- मिचारीति। वह्निव्याप्यन्वेन निश्चिनतत्तृ मेम्यो यत् भिन्नं तदित्यर्थः । प्राचां मते यथा 'रूपत्व पार्थिवादित्रिविध- रूपभिन्नवृत्ति न वेति संशयकाले वायो पार्थिवादिरूपविशेषाभावनिश्चयेऽपि 'वायू रूपवान्न वे'ति संशयः, यथा वा 'पार्थिवादिरूपाणि वायुवृत्तित्वाभाववन्ती'नि निश्चयेऽप्युक्तकाले 'रूपं वायुवृत्ति न वे'ति संशयः, तथा 'धूमो वह्विव्याप्य' इति निश्चयेऽपि 'धूमत्वं तत्तद्धमभिन्नवृत्ति न वे'नि संशयकाले समानविषयकसंशयस्याप्रतिबन्धकतायामतिरिक्तसंभा- वनाया उत्तेजकत्वातू। न चैवं-तादृशोत्तेजकस्य सदैव संभवात् निश्चयः कदापि विरोधी न स्यादिति-वाच्यम्; रूप-
Page 137
३४० अद्वैतसिद्धिः संव्याख्या। [परिच्छेद: १ ]
नियामकं वदन्नख्यातिवादी परमेवं विभीषणीयः । तथा च प्रकाराश्रयत्वस्य नियामकत्वाद्न्यथा- ख्यातिपक्षोऽपि निरस्त एव। नन्र-तर्हि भ्रमत्वं न स्यात् इदं रजतमिति भ्रमत्वाभिमतज्ञानस्य व्यधिकरणप्रकारत्वानभ्युपगमादिति-वाच्यम्: बाधितविषयत्वेन हि भ्रमत्वं न तुव्यधिकरण- प्रकारत्वेन तस्यापि विषयबाधप्रयोज्यत्वादिति हि वक्ष्यते। ननु-अभावश्ञानस्य प्रतियोगिज्ञान- जन्यवात् प्रौढप्रकाशयावत्तेजोविरहरूपस्य तमसः प्रत्यक्षता न स्यात्, सामान्यप्रत्यासति विना प्रतियोग्यनुपस्थिते: इति-चेन्नः अस्मन्मते तमसो भावान्तरत्वात्। नच-तथापि तह्यअ्कत्वात्तद
गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वावच्छेदेन पार्थिवादित्रिविधरूपान्यत्वाभावनिश्चयकाले तादृशसंशयस्यानुदयेन तस्यासार्वत्रिकत्वादिनि भावः ।विभीष- णीय इति। वस्तुतः तन्मते संवादिप्रवृत्तावेव प्रकाराश्रयत्वं नियामकमुच्यते, विसंवादिप्रवृत्ती तु दोपः, दोपसमव- धानोत्तरविशेषणज्ञानं वा; प्रवृत्तिमात्रे तु उपस्थितयोरिष्टतावच्छेदकधर्मिणोरसंसर्गाग्रह इनि न दोप इनि भावः। नच- एकस्यां रजतव्यक्तो ज्ञातायामन्यस्यां रजतव्यक्ती प्रवृश्यापत्तिरिति-वाच्यम्; ज्ञातरजतानामेकत्रे वान्यग्रपि प्रवृत्तेर- न्यथाख्यातिमतेऽप्यापत्तेः, असाधारणकारणकल्पनात्तदभावात् व्यक्त्यन्तरे प्रतृत्यभावस्य मन्मतेऽपि संभवात। व्यधि- करणप्रकारकत्वेति। यादृशप्रकारता स्वनिरूपितविशेष्यतासमानाधिकरणान्यवृत्तिः, तादृशप्रकारताकत्वेत्यर्थः । स्वं प्रकारता रजतादिनिष्टा। तन्निरूपितविशेष्यतासमानाधिकरणात इदंत्वादभिसे रजतादी तस्याः सर्वात। बाधितेति। मिथ्येत्यथः । विषयत्वेन विपयत्वघटितम् । विषयवाधप्रयोज्यत्वात् भ्रमविशेष्ये विशेषणाभावज्ञानज्ञाप्यत्वान्। तथा च भ्रमत्वज्ञानकाले तादृशाभावज्ञानस्यावश्यकत्वेन तादृशाभवघटितमिथ्यान्त्रघटितमेव भ्रमत्वं युक्क्मनि भावः । न तु व्यधिकरणेत्यादिनेदं सचितम्-तदीयतन्मंबन्धानधिकरणे तन्मंबन्धेन तत्प्रकारकधीत्वं तस्य तत्मंब्रन्धेन भ्रमत्वमिनि लक्षणकरणे संबन्धांशे भ्रमत्वं भ्रमे न स्यान ; व्यवह्नियते च तत्र तस्य भ्रमत्वं ताब्रिकेः, अतएव-साध्ये हेनुसमानकालत्वावगाहिन्या अनुमिते: संसर्गीभूनकालांशे भ्रमत्वमुक्तम् परामर्शग्रन्थे दीधित्यादी। अथ-उक्- धीतवं विशेषणस्येव तत्संबन्धस्यापि भ्रमत्व्रमिति-चेत्, तर्हि हदो वह्निमानित्यादिधीः संयोगन्त्रविशिष्टस्य भ्रमः म्यान।
संयोगेन रूपप्रकारकधी: रूपे संयोगन्वविशिष्टस्य भ्रमो न स्यान। एवं दृग्स्थवृक्षद्वये ऐक्यविषयकस्य 'सोऽय'मिनि निविकल्पकस्य ध्यानादिसमय प्रभाविशषादिनिरविकल्पकस्य च अ्रमस्य भ्रमत्वं न स्यात; व्यवद्नियन च तत्रापि लोके- अ्रमत्वम्; तस्मात् बाधितविषयकत्वमेव भ्रमत्वम्। अत एवाबाधितविषयकन्व्रघटितप्रमात्वमपि निविंकल्पकसाधार- णम्। एतावांस्तु विशेषः 'सोऽय'मिनि वाक्यजन्यप्रमा तत्तेदन्तोपलक्षणप्रमाद्वारिका, तज्जन्यभ्रमस्तु तन्न्रमद्वा- रक इनि। तस्मादक्यभ्रमो निर्विकल्पकः संभवन्येव। ध्यानादिसमये प्रभादिनिर्विकल्पकभ्रमस्तु ध्यात्रादीनामनुभव- सिद्ध एव-इति। अस्मन्मने पूर्वोत्तरमीमांसक्यमेने। भावान्तरत्वादिति। तदुकं 'नाभावोऽभाववधर्म्यात नारोपो बाधहानितः। द्रव्यादिपट्कर्वधर्म्यात ज्ञेयं मेयान्तरं तम' इनि। तमो 'नीलं चलनी त्यादिप्रत्ययात रूपादि- मर्वंन घटाहि्विव तमस्यपि तद्वाधाभावन च गन्घाद्यभावात प्रथिव्यादिद्व्यगृणादिवेलक्षण्येन च तमो द्रव्यान्त- रमित्यर्थः। किंच द्रव्यचाक्षुपे आलोकप्रनियोगिकसंयोगो न हेनुःः मणिप्रभादों तदभाव्रेऽपि चाश्षुपो्पत्तेः। नाप्यालो- कर्पनानयोगित्वोपलक्षितः संयोगः; आलोकप्रनियोगिक्वसंयोगन्वयोः विशेषणविशेष्यभावे विनिगमकाभावेन तदवच्छि- क्रम्य कारणनाद्वयापत्तेः। नाप्यन्यदेशवच्छिन्नादालोकसंयोगाचाक्षुपोत्पत्य संभवात जानिविशेपस्येव दव्यादिचाक्षुपज नकनारयां आलोकसंयोगनिप्ठायामवच्छेदकत्वं स्वीकार्यम्, सा च जानिरालोकनिष्ट वारवादिसंयोगेपि संभवति, अत एव प्रभादि चाक्षुपमिनि वाच्यम्; तादृशजानिः संयोगत्वस्य विभागत्वस्य वा व्याप्येत्यत्र विनिगमकाभावात। अत एवालो- कप्रंनियोगिक वोपलक्षितविजातीयत्वेनापि न हनुनासंभवः; आलोकघटादी वायुविभागस्य संभवन वायुप्रतियोगिक- त्वविशिष्टविजानीयत्वेन हेतुतामादाय विनिगमकाभावापत्तेः, कि तु तमस्वंन प्रतिबन्धकत्वमेव द्रव्यचाक्षुपं प्रनि कल्प्यन; नदभावादेवोक्तप्रभादी चाक्षुपोत्पत्तिः। न च-नमोऽभावत्वेन कारणतवेऽवि तमःप्रनियोगिकत्वाभावत्व- योविशेषण विद्ोप्यत्व स्याविनिगम्यत्वेन कारणताद्वयापत्तिशिन-वाच्यम्; स्वाचच्छिनप्रनियोगिताकत्वसंबन्धेन तम- स्वविशिष्टे विशपेणतासंबन्धेन वनमानमभावत्वमेव हेतुनावच्छेदकम्, न तु विशेषणतासंबन्धेनाभावन्वविशिषे स्वावच्छिन्नप्रियोगिताकन्वसंबन्धेन वनमानं तमस्वम्; उत्तर्म्नयोगिनाकन्वसंबन्धेनैव तस्य हनुतावच्छेदकत्वस्य वाच्यतया द्विधोक्तसंबन्धप्रवेश ग।रवापत्तेः। अभावत्वं वा न निवेश्यते; उत्तप्रतियोगिताकतवसंबन्धन तमस्त्वस्यव हेनुतावच्छेदकत्वसंभवात। न च-भेदवारणायात्यन्ताभावन्वमवश्यं निवेश्यमिति-वाच्यम्; संबन्धविशेपावचछि- न्प्नातयोगिताया अवश्यं निवेश्यतया तन एव तद्वारणात। यदि तु-प्रतिबन्धकस्याभावो न हेनुः, किं तु प्रतिब-
Page 138
[प्रत्यक्ष० सत्वनि०] ३४१
पेक्षेति-वाच्यम्; स्वरूपसत एव तादक्तेजोविरहस्य तमोव्यअ्ञकत्वम्, न तु ज्ञानस्य मानाभावादि त्यभ्युपगमात्। अन्येषां मते ताट्टकेजोविरहज्ञानस्यापेक्षितत्वेSपि प्रतियोगितावच्छेदकप्रकारक- जानादेव तन्संभवेन तदर्थ सकलप्रतियोगिज्ञानजनिकाया: सामान्यप्रत्यासत्तेरनुपयोगान्। नच- गोत्वाभावश्ञानं गोत्वत्वप्रकारकक्षानजन्यम्, तञ्च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपं सामा- न्यप्रत्यासत्तिमन्तरेण न शक्यमवगन्तुमिति-साम्प्रतम् : यत्किश्चिद्ोव्यक्तेरेव गोत्वत्वरूपत्वात्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नधकं कार्यप्रागभावे क्षेमसाधारणकारणत्वाश्रयम्। न च-कारणकृटाश्रयक्षणोत्तरक्षणत्वस्य कार्योत्पत्तिव्याप्यनया प्रतिबन्धकसरवे ऽपि सकलकारणसत्व संभवात् कार्योन्पत्यापत्तिरिति-वाभ्यम्; सकलकारणाश्रयत्वस्य प्रनिबन्धकाभाव- सहितस्यैवोक्तव्याप्यतावच्छेदके प्रवेशादिति मतमाश्रीयते वा, प्रनिबन्धकाभावस्य हेतुत्वं तद्यक्तित्वेनैव, न तु मण्या- चभावत्वेन, न च- मणिगगनान्यतरत्वावच्छिन्नाभावव्यक्तरपि तव्कित्वेन हेतुतापत्तिरिनि-वाच्यम्; तेन रूपेण दाहादिहेतुत्थेऽन्यथासिद्धेः सर्वैरपि वाच्यत्वात्, तद्यकेर्मणिसामान्याभावानतिरिक्तत्वाच्चेति मतं वाश्रीयते-तद्ा न काप्यनुपपत्तिः। नच-उक्तरीत्या आलोकप्रतियोगिकत्वसंयोगत्वयोरपि विशेष्यविशेणभावव्यवस्थासंभवात् तत्र पूर्वोक्तो विनिगमकाभावः कथमिति-वाच्यम्; प्रतियोगितासंबन्धेनालोकविशिष्टस्यैव निवेश्यतया पूर्वोक्तगौरवा- भावेन विनिगमकाभावस्यावश्यकत्वात्। न हयालोकत्वावच्छिसत्वं संयोगप्राियोगितायां प्रामाणिकम्, येन तस्यैव लाघवाल्निवेशेनालोकव्यक्त्ीनामप्यनिवेशी वाच्यः। न च-आलोकवानित्याकारधीविशिष्टस्य वैशिध्यमिति विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति च रात्येति तत्र विषयभेदं विना ज्ञानयोवैलक्षण्यासंभवः; 'अर्थनैव विशेषो हि निराकारतया धिया मित्याचार्योंकः, तथा चाये आलोकत्वावच्छिन्नप्रतियोगिताकसंयोगत्वेन भानम्, द्वितीये तु केवलं संयोगत्वेनेति प्रामाणिकमेवालोकत्त्रावच्छिन्नत्वं संयोगीयप्रतियोगितायामिति-वाच्यम्; तत्र तस प्रामाणिक- त्वेऽपि तादशकारणतावच्छेदके तन्निवेशे प्रयोजनाभावात्। नच-आलोकव्यक्तीनामानन्त्येन तन्निवेश गौरवेणोक्ता- वच्छिसतवन प्रतियोगितानिवेश एव युक्त इति-वाच्यम्; आलोकत्व्रावच्छिन्नस्यकस्येवावच्छेदकत्वस्य नानाव्यक्तिपु संभवेन गोरवाभावात्। तमस्वावच्छिन्नप्रतियोगिताकत्वं स्ववश्यमभावे निवेश्यम्; तमस्सत्वेऽपि तमोघटोभयाभाव- सत्वेषानिपरसद्गान। यदि तु विशिष्ट्वशिष्ट्यबुद्धावालोकत्वविशिष्टं विषयः, विशेष्ये विशेषणमिति ज्ञाने तु तदुपलक्षि- तम्, तद्विशिष्टतदुपलक्षितयोश्च भेदस्वीकारादुक्त्तज्ञानयोवैलक्षण्यं, तदा संयोगीयप्रानयोगिताया आलोकत्वावच्छि- सत्वमप्रामाणिकमेव। तस्मात्तादान्म्यसंबन्धेन तमस्वेन चाक्षुपं प्रति प्रतिबन्धकत्वम्, कपालादो वटादेरिव घटाड़ो तदवच्छिन्तचिद्गतमूलाविद्यायाः परिणामसम इनि तत्र तत्तादात््यसत्तात् तन्काले न चाक्षुपम, प्रभादो तदभावाच्चा क्षुपम्। तमोध्वंसश्चालोकसंयोगादिरूप इति न तत्कल्पने गौरवम्। न च-तमोऽभावत्वंन कारणतापक्षो न युक्त्ः, लाघवेन चाश्षुपहेतुतया भावरूपस्येव वस्वन्तरस्य मिद्ेर्युक्तत्वादिनि-वाच्यम्: तस्य द्रव्यरूपत्वे घटादिचाक्षुपम्थले घटादावालोंक च तस्य संयोगदयं कल्पनीयम्। अर्तीन्द्रियत्वसिद्धय स्पार्शनप्रत्यक्षे तादात्म्येन तस्य प्रतिबन्धकत्वम् उन्नतस्पर्शस्त्र न जायते, तत्र तस्य प्रिबन्धकत्वादिति वा कल्पनीयम्। तस्य चाक्षुपं न जायते, द्रव्यवृत्तिविषयता- संबन्धेन चाक्षुपं प्रति तत्प्रतियोगिकसंयोगत्वेन हेतुत्वस्वीकारेण तत्प्रतियोगिकत्वविशिष्टसंयोगस्य तत्रासर्वादिनि वाच्यम्। तथा च तमोऽभावत्वेन कारणत्वे तदपेक्षया न गौरवम्। यदि च तम्य संयोगसंबन्धेन उक्तहेनुत्वं कल्प- र्नायम्, न तु तत्संयोगस्येत्युच्यते, तदापि विभागसंबन्धेन तस्य हेनुतामादाय विनिगमकाभावः, तस्य गुणक्रियान्य- तररूपत्वडपि विभागादिरूपन्वे संयोगादिरूपतामादाय विनिगमकाभावः, सामान्यरूपत्वे संयोगो विभागो वा तदा- श्रय इनि सः, तस्मात् भावरूपस्य तस्यासंभवादभावरूपत्वमेव। स चाभावो न तमोनाशः आलोकादी तदसंभ- वान्। अत एव न तम.प्रागभावः; किंतु तमोऽत्यन्ताभाव इति दिकू॥ न तु ज्ञानस्येति। आलोकस्य तमोनाशक- त्वात्तमस आलोकाभावप्रयुक्तत्वेन तमोजन्यस्य तमश्राक्षुपस्यालोकाभावप्रयुक्तत्वम्। उक्तं हि विवरणे-'आलोक- विनाशितस्य तमसः पुनर्मृलकारणादव जन्मे'ति। तथा चालोकस्याभाव एत्र तमोव्यज्ञकः, न तुतज्ज्ञानमिति भावः । अन्येषां उक्त्तेजोविरहस्तम इतिवादिनां वैशेषिकादीनाम्। प्रतियोगितावच्छेदकेति। श्रौढप्रकाशत्वेत्यर्थः । तथोद्द्तानभिभूतरूपवन्महातेजस्वं प्रभात्वरूपा जातिर्वा। गोव्यक्तेरिति । समवेतत्वसंबन्धेन गोत्वरूपेण तस्या अवच्छेदकत्वमिति भावः। न च-गोसमषेतस्य द्रव्यत्वांदर्घटादी सत्वात्तत्र 'गोत्वं नास्ती'ति घीः प्रमा न स्यादिंन- वाच्यम्; उकसंबन्धेन हि विशेषणविधयेव गौरवच्छेदिका। वस्तुतस्तु-तत्तद्वोव्यक्तिमात्रनिष्ठावच्छेदकता गोत्वनिष्ट। आधेयताविशेषावच्छिन्ना न केनापि धर्मेणावच्छिद्यते; शुद्धव्यक्तिमात्रस्यैवावच्छेदकत्वसंभवेनानन्तगोव्यक्तित्वादिवि- शिष्टस्यावच्छेदकतवे गौरवात्, जातीतरस्यानवच्छिन्नप्रकारत्वाभावेऽप्यनवच्छिस्तावच्छेदकत्वे बाधकाभावाद। तथाच
Page 139
३४२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेदः १]
एतेन प्रागभावप्रतीतिरपि व्याख्याता। किं चानागतज्ञानस्यापेक्षितत्वे अनुमानादेव तन्द्रविष्यतिः तथा च न्यायकुसुमाअली-'शंका चेदनुमास्त्येव न चेच्छङ्का ततस्तराम्। व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥' इत्यत्र शङ्कोपपादकमनागतज्ञानमनुमानादेवेत्युक्तम्, अनुमानं च वर्तमान- पाक:, पाकपूर्वकालीनः, पाकत्वादतीतपाकवदित्यादि। नच्र चरमपाके व्यभिचार; साध्यसिद्ध्यु- पजीवकस्य व्यभिचारज्ञानस्यादोषत्वात्, अन्यथा सिद्धसिद्धिव्याघातात्। किंच शब्दादपि सकल- धूमपाकादिगोचरज्ञानसंभवः। नच-शङ्कादिपूर्व शब्दस्योपस्थितिनियमाभाव इति-वाच्यम्; कदाचिदेव शब्दादनुभूतस्य तदानीं प्रमृष्टतत्ताकस्मृतिसंभवात्। ननु-अनुमितेरविशेषणज्ञानजन्य- त्वेन सामान्यप्रत्यासत्तिसिद्धिः, न चानुमानान्तराद्विशेषणज्ञानमनवस्थानात्-इति चेन्न; विशेषण- तावच्छेदकप्रकारकज्ञानादेव साध्यविशेषणकपक्षविशेप्यकानुमितिसंभवात्। एतेन-'सुरि चन्दन'
गौडब्रह्मानन्दी (लघुचन्द्रिका)। गोत्वरूपे गोपदादुपस्थितस्यापि गोत्वोपलक्षितयत्किञ्ञित्स्वरूपस्यवावच्छेदकत्वेन भानम्। एवं च तत्तवक्तिरूपलक्षण- विधयैवावच्छेदिका; उक्त्तसंबन्धेन तद्यकतिविशिष्टस्य गोत्वस्य गवान्तरे स्त्वाभावेन 'गवान्तरे गोरवं नाम्नी'नि प्रत्य- यापर्या विशेषणविधया अवच्छेदकत्वासंभवात्। अत एव मूले यत्किञ्विदोव्यक्तेरवनि व्यक्तिनिर्देशेन शुद्धव्यक्तेरवच्ेरे- दकत्वमुक्तम्। एवकारस्य त्वयमर्थः। सकलगोवृत्तित्वादेभवप्रत्ययेनोपस्थितत्वेन गोत्वस्य विशेपणतवेऽपि न प्रतियो गितावच्छेदकत्वमिति। अत एव गोत्वत्वरूपत्वादित्यस्य गोत्वाभावप्रतियोगितावच्छेदकत्वेन भानादित्यर्थः । तथा च यथा 'घटो नाम्ती त्यादिज्ञाने घटसामान्याभावस्य सर्वघटप्रतियोगिकस्यापि विशेषणतया कश्विदेव घटो भानि, तथा 'गोत्वं नाम्नी'नि ज्ञाने सकलगोव्यक्तयवच्छिन्नप्रतियोगिताकेऽपि गोत्वाभावे प्रतियोगितावच्छेदकतया भास- मानेन केनचित गवा विशिष्टं गोत्वं विशेषणम्, न तु सवैंगोभिरिति भावः। सकलगोवृत्तित्वस्यावच्छेदके प्रवेशेऽपि तस्य गोवृत्तिभेदप्रतियोगितानवच्छेदकत्वरूपस्वात न सामान्यलक्षणापेक्षेत्यपि बोध्यम्। अत्र गोत्वस्य तादात्यमंब- नधेन नावच्छेदकतवं संभवन; अत्यन्ताभेदे संबन्धासंभवन तस्य गोत्वेऽसंबरन्धान, गारित्याकारकतत्त्वीप्रकारत्वस्यापि नावच्छेदकत्वम्; अवच्छेदकाभेदे प्रकारभेदेन प्रकारत्वस्या भेदपक्षे तस्यानिप्रसक्तत्वात, अतो गोव्यकिरवेति युक्तम्। एतेनेति। अभावबुद्धा प्रनियोग्यंशे प्रकारीभूतधर्मप्रकारकज्ञानस्यैव विशेषणतावच्छेद्कप्रकारकधीविधया हेनुत्वम्; न तु प्रतियोगिभानस्येनि स्वीकारेणत्यर्थः । व्याख्यातेति। घटत्वादिना विद्यमानघटादिज्ञानात् भाविघटादिविशेपित- प्रागभावत्वेन धीः शब्दादिना जायने; विद्यमानकार्ये शकिमनया गृहीतालिडादिपदान प्राभाकरमने भाविकार्य धीवत्। शङ्गत्यादि। कालान्तरे देशान्तरे च वनमाने धमे व्यभिचारस्यानीन्द्रियपिशाचादावुपाधित्वम्य वा शङ्का चदम्नि, तदा देशकालान्तरयोर्भाविभृतयोज्ञानायानुमानमसत्येव। जल्पेन प्रनिवादिनं निरस्य तत्वबुभुन्सुं प्रत्याह- तर्क: शङ्कावधिरिति। शङ्काया अवधि: सामग्रीविघटकः। ननु तर्कस्यापि व्याप्तिधीमृलकतवादनवस्था तत्राह- व्याघातेति। आशङ्का उक्तानवस्था। 'यदि सर्वत्र शङसे, तदा धमाधर्थ वह्नचादो तवव प्रवृत्तिर्न स्यात' इनि तर्करूपेण व्याघातेन वारणीयेत्यथेः। उक्तमिति। कालान्तरे व्यभिचरिष्यतीनि कालं भाविनमाकलरयाशक्केत, तदा- कलनं च नानुमानमवधीरयेनंत्यनेनोक्तमित्यर्थः । पाकपूर्वकालीनः पाककालीनध्वंसप्रनियोगी। साध्येत्यादि। प्रकृतानुमानेन साध्यसिद्धा सत्यामेव चरमपाकं ज्ञात्वा तत्र व्यभिचारो जातव्यः, तथा च साध्यमिखुत्तरं व्यभिचार- ज्ञानं व्यथमित्यथेः। अन्यथा तस्य दोपत्वस्वीकारे। सिद्धीत्यादि। भावि यदि ज्ञानं, तदोक्तानुमानेनैवेनि तत्मं- पत्ता किं पाश्ात्येन व्यभिचारज्ञानेन; यदि च न ज्ञातम्, तदा तत्र व्यभिचारो ज्ञानुमशक्य इत्युभयथापि व्याघातो- किमंभवा दित्यर्थः । पाककालीनध्वंसप्रनियोगिपाकत्वस्य हेनुत्वम्वीकारेपि विशेषण व्यर्थम; चरमपाकस्यानुपस्थित्या तन्न व्यभिचारस्यावारणीयत्वात, सिद्धसाधनाच्च। न च-जातायामनुमिती तस्याः व्यभिचारिहेनुकन्वेन भ्रमत्वं व्यभिचारज्ञानेन साध्यत इनि न तद्यर्थमिनि-वाच्यम्; व्यभिचारिंहनुकानुमिनित्वस्य भ्रमत्वाव्याप्यत्वात्। शब्दादिति। विद्यमान शक्त्यादिज्ञानादविद्यमानव्यके: शव्दान बोधः, समानप्रकारकत्वेन शक्त्यादिज्ञानशाब्दानु- भवयोः कार्यकारणभावादिनि भावः। स्मृतेस्तरव्रावगाहिन्वनियमम्वीकारे धूमत्वादिमात्ररूपेण स्मृत्यसंभवात्तादृश-
संस्कारस्य तत्तांशेऽनुद्ोधादविषयीकृनतत्ताकेत्यर्थः। ज्ञानादेवेति। विशेषणज्ञानस्य विशिष्टवीत्वावच्छिनं प्रति न हेतुत्वम्; स्मृता व्यभिचारान। अथ-संस्कारसंबन्धेन हेतुत्वात नोकव्यभिचार इति-चेत्, तहिं प्रत्यक्षादौ व्यभिचारः। तस्मान समवायनव तस्य विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रनि हेतुत्वं संभवदुक्तिकम्। तदपि न युकिसहमि- त्यनुपदं मृल वक्ष्यते: ननु-विशेषणतावच्छेदकप्रकारकधीत्वनापि हेनुत्वे स एव पन्था, सत्यम्; विशेषणताच-
Page 140
[प्रत्यक्ष० सत्वनि०] विट्ठलेशोपाध्याय्युपबृंहितगौडब्रह्मानन्दीयुता। ३४३
मित्यादिविशिष्टज्ञानाय कल्पिता ज्ञानलक्षणा प्रत्यासत्तिरपि-निरस्ता; चन्दनत्वेन सुरभित्वानुमा- नोपपत्ते:, अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानमात्रोच्छेदप्रसङ्गात्। नच-अभावसाध्यक- केवलव्यतिरेकिणि साध्यप्रसिद्धरनङ्गत्वात्तत्र कृमाया अनुमितिसामश्याः प्रत्यक्षसामग्रीतो वलव-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। च्छेदकप्रकार कज्ञानादिति मृलस्य वह्निन्वादिरूपेण वह्निव्याह्यादिसंस्कारपरामर्शादित्यर्थः । तथा च संस्कारपरामर्शा देरेव साध्यविशेषणकस्मृत्यनुमित्यादिनियामकत्वम्। ननु-वह्नित्वरूपेण पर्वतीयवह्वेरेव पर्वतपक्षकानुमिती निय- मेन भावानुपपत्तिः, व्याह्यादिविपयकपरामर्शे महानसीयादिवह्वेरेव त्वन्मते भानात् तस्यैव भानापत्तिः, तस्यापि भानापत्तिर्वा कार्यतावच्छेदके वह्निविशेपानिवेशान्-इति चेन्न्न; मन्मते स्वतःप्रमात्वस्वीकारेणोत्पत्तौ जप्ौ च प्रमात्वस्य स्वतसत्वात्। ज्ञानसामान्यसामप्रया एव हि प्रमात्वे नियामकत्वम्, न तु गुणस्य। ननु-तर्हि ज्ञानसामा- न्यसामग्रीजन्यतावच्छेदकं प्रमात्वमित्यागतम्, तच्च न संभवति; प्रमात्वस्य ज्ञानसामान्यसाम्याश्च विषयभेदेन नानात्वात् विषयसमसंख्यानां प्रमायां ज्ञानसामान्यसामग्रीहेतुन्वानामापनेः, एकस्मिन्नपि विषयेन्द्रियससिकर्षव्या- परिनिश्चयादीनामेकरूपेणैकसंबन्धेन च हेनुन्वासंभवेन नानाहेनुन्वापत्तेः, तथा च गुणजन्यतावच्छेदकमेव प्रमान्वं वक्तुं युक्तम्; समवायाद्येकसंबन्धेन तत्तद्विशोप्यसंबद्धं यन् विशेषण तद्दुन्तिर्या स्वप्रकारता नदाश्रयवृत्तिधर्मवत्त्वसंबन्धेन ज्ञानं प्रति तादृशमंबद्धविशेषणवृत्तिधर्मन्वेन हेनुत्वस्यैकस्यैव संभवात, तादृशधर्मस्तु केवलान्वयिविषयत्वादिकम्, तदाश्रयत्वसंबन्धेन ज्ञानं घटादों जायते, तत्र तादृशधर्मो विषयन्वाढिकमस्नि, तस्य च विशेषणतासंबन्धेन हेतुत्वम्; तस्यव केंवलान्वयिधर्मं प्रनि संबन्धन्वान, तादृशप्रकारतामात्रसंबन्धेन कार्यत्वस्योक्तों व्यभिचारः; तादृशधर्मवति सर्वत्र तादृशप्रकारतासंवन्धेन ज्ञानानुन्पनेः, विशेष्यसंबद्धनत्तद्विशेपणवृत्तित्वविशिष्टधर्मत्वेन हेतुत्वोक्तो तु तादृशप्रकारतामात्रं संबन्धोऽस्तु; विशिष्टस्य कारणस्यान्यत्रासत्वेन व्यभिचाराभावात्-इति चेन्नः यद्पि वह्गयनुमिनित्वादिकमेव कार्यताव- च्छेदकम्, न नु वह्नचादिप्रमान्वम्; तथापि दोपासहिता या वह्नचादिविशिष्टज्ञानसामग्री तदधिकरणक्षणाव्यवहितोत्तर- क्षणत्वे वह्वचादिप्रमावत्वव्याप्यनास्वीकारान्तादृशसामध्या प्रमेव जायते, दोपसहितया तु भ्रम एव; वह्चादिभ्रमत्वेन दोपकार्यत्वस्य भट्टमते स्वीकारान, गुरुमने भेदाग्रहसहितयोर्विशेष्यविदेषणप्रमयोरिच प्रमाविषयत्वविशिष्टविशेष्य- विशेपणयो मेंदाग्रहम्यापि अ्रमन्वेन तम्यैव दोषप्रयुक्तत्वादिनि कर्ममीमांसकाः मनस्वेन प्रमात्वावच्छिन्नं प्रन्युपादान- कारणत्वस्वीकारान, मनोघटितया सामड्या प्रमेव जायते; भ्रमत्वावच्छिन्नं प्रति स्वपरिणामाव्यवहितपूर्ववृत्तित्व-
न्येकस्मिन पर्वने विद्यमानानां नानावह्वीनामनुमित्यादा भानं स्यान्-इति चेत्, स्ादवेनि संक्षेपः। ज्ञानायेति। सौरभत्वमामान्यलक्षणया सर्वेषां सौरभाणां नोकज्ञाने भानसंभव: सामान्याश्रययन्कित्विद्यकतयंशे फलीभूतज्ञानकर- णन्द्रियसलनिकर्पस्य लौकिकस्य तया अपेक्षणात्। यदि च तया स नापेक्ष्यते, उकज्ञाने यावत्सौरभाणां विशेषणतया भानमिष्टमेव; 'यावत्सारभवृत्तिसौरभत्वाश्रयवच्चन्दन मित्याकारकत्व्रसंभवात्, मुख्यविशेष्यतासंबन्धेन चाक्षुषं तु न सौरभे जायते; तत्मंबन्धेन तदुन्पत्ती लैकिकसन्िकर्षस्य हेतुत्वात्, विशेष्यतामंबन्धस्यैव सामान्यज्ञानकार्यतावच्छेद्- करवाच्चेत्युच्यते, तदा सुरभीन्यादेश्वन्दने सौरभन्वप्रकारक चाक्षुषभ्रमायेत्यर्थः। एवं सुरभिन्वेत्यस्य सौरभत्वे्यर्थः। तथा च चन्दने सौरभत्वभ्रमजनकदोपकाले चन्दनत्वेन सौरभत्वानुमानोपपत्तेः उक्तभ्रमोऽनुमिनिरूप एव, न चाक्षुप इति ज्ञानं न प्रत्यासत्तिरिति भावः। अन्यथा ज्ञानस्य प्रत्यासत्तित्वे। पक्षप्रत्यक्षेति। नच-बहिरिन्द्रियस्य स्वायोग्यमुख्यविशेष्यकज्ञानाजनकत्वेन 'परमाणू रूपवानि त्यादिज्ञानस्य चाक्षुपत्वाद्यसंभवादनुमितित्वमिति-वाच्यम्; मानसत्वसंभवात्। केवलव्यतिरेकिणि 'पृथिव्यां तदितरभेद' इत्याद्यनुमिती। तदनभ्युपगमात् उक्ानुमित्य- स्वीकारात्। नच-उक्तानुमिनेः स्वीकारेऽपि व्यनिरेकव्याप्तिज्ञानघटितानुमितिसामप्रया एव कृप्तत्वेन तस्या एव बलवत्वमायाति, न त्वन्वयव्याप्तिधीघटितसामग्रया इनि तदस्वीकारोक्ति: व्यर्थेति-वाच्यम्; तादृशानुमितिस्वीकारे पृथिन्यु द्देश्यकपृथिवीतरभेदविधेयकानुमिनिसामग्रीत्वेन 'पृथिवी इतरभेदवनी' इत्याकारकानुमित्युपधायकान्वय- व्याप्िसामडया: पृथिवीविशेष्यकतदितरभेदनिष्ठालींकिकप्रकारताशालिप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनसंभवेन तादृशा- नुमित्यम्वीकारस्योक्तेर्युक्तत्वात। नच-पृथिवीत्वावच्छेदेन पृथिव्याः पक्षत्वे अन्वयदष्टान्ताभावे" नौन्वयव्याप्तिग्रह इति-वाच्यम्; पक्षैकदशस्य घटादेरन्वयदष्टान्तत्वसंभवात्। पटादौ साध्यमिद्धावपि न सिद्धसाधनम्; पृथिवीत्वा- वच्छेदेन साध्यस्यासिद्धत्वात। ननु-परामर्शाघुत्तरं जायमानस्य ज्ञानस्यालोकिकप्रत्यक्षत्वस्वीकारे तत्र परामर्शादेर- पयोगो न स्यात्, इष्टापत्ती च धूमेन पर्वते वह्निर्ज्ञात इति धीः पक्षतया पर्वते वह्निर्ज्ञात इनि धीश्च न स्यान्, तस्मान् प्रत्यक्षसामग्रीविलक्षणसामग्रीकत्वेनाप्रत्यक्षमनुमिनिरुपं ज्ञानमङ्गीकार्यमिति नानुमिनिमात्रोच्छेद, इति-चेन्न;
Page 141
३४४ अद्वैतसिद्धि: सव्याख्या। [परिच्छेद: १]
न्वमिति-वाच्यम्: अर्थापत्तिवादिमिरस्मामिस्तदनभ्युपगमात्। 'पर्वतवृत्तिधूमो वह्िव्याप्य इति परामर्शात् साध्यविशेष्यकपक्षविशेषणकानुमित्यभ्युगमे तु नैव काप्यनुपपत्तिः। अनुमितेः पक्षविशे- व्यत्वनियमे मानाभावात्। किंच धूमत्वादिसामान्यं न स्वरूपतः प्रत्यासत्तिः: धूलीपटले धूमभ्रमानन्तरं धूमत्वेन सकलधूमनिष्टवह्निव्यापिग्रहानुदयप्रसङ्गात्, तत्र स्वरूपतो धूमत्वाभावात्, नचेष्टापत्तिः तड्डुत्तरकालमनुमित्यनुदयापत्तेः, तथा च धूमत्वज्ञानं प्रत्यासत्तिरिति-वाच्यम्; तञ्चधूमेन्द्रियसन्नि- कर्षदशायां धृमज्ञानात्प्राङ्गास्त्येव। निर्विकल्पके मानाभावात्, विशिष्टज्ञानत्वेन विशेषणज्ञानत्वेन च
गौडव्रह्मानन्दी (लघुचन्द्रिका)। परामर्शस्य तादृशप्रत्यक्षगतप्रमात्वप्रत्यक्षोपयुक्त चात्। वह्वचादिव्याप्यवद्विशेष्य कवह्व यादिप्रकारकज्ञानत्वरूपस्य वह्वया- दिप्रमात्वव्याप्यधर्मस्य हि निश्चयो वह्व्यादिप्रमात्वस्य विपरीतज्ञानोत्तरप्रत्यक्ष निश्चये प्रयोजकः, 'पक्षतया जानामी'नि- धीस्तु नाक्गीक्रियते; तस्या हेतुत्वे प्राभाकरादीनां बहूनां विवादात्। नच-'वह्विमनुमिनोमी नि धीसिद्धस्यानुमिति- त्वस्य कार्यमात्रनिष्टजानितया परामर्शादिकार्यतावच्छेदकत्वमावश्यकमिनि-वाच्यम्; अनुमितित्वस्य तादृशव्याप्य- धर्मवत्तानिश्चयनिश्चिनप्रमात्वकप्रत्यक्षत्वरूपत्वेनाजानित्वात्। अभ्युपगमे तु पक्षधरादिस्वीकारादरे नु। नैवेति। पर्वनीयवह्वेरज्ञानेऽपि तद्विदेष्यकानुमितिसंभवादित्यादिः। ननु पक्षविशेष्यकपरामर्शात्तरं पक्षीयसाध्यव्यकत्यज्ञाने
तादृशपरामर्शकार्यनास्वीकारात साध्यविशेव्यकानुमितेरपि तत्मंभवास्नानुपपनिः। पक्षीयसाध्यस्य ज्ञानतवे तस्यानु- मितौ विशेषणत्वम्, तदभावे विशेष्यत्वम्। पक्षधरोक्तेरादरस्नु, पक्षविशेष्यकत्वानियमज्ञापनमात्रार्थ इनि भावः। स्वरूपतः इन्द्रियस न्निकृप्निष्ठज्ञायमानधूमत्वादिव्यक्तित्वेन। प्रत्यासम्विः धृमादिप्रत्यक्षे कारणम्। धृमनिष्ठेति। धूमविशेष्यकेत्यर्थः । तत्र सकलधमेपु ज्ायमानधूमन्वव्यक्तितवेन तत्र धूमन्वस्य स्त्वेऽपि चक्षुस्सव्निकृष्टनिष्ठत्वविशि- ष्टोफव्यकतित्वरूपेणाभावः । धूमे धूमन्वप्रत्यक्षकाले तद्वूमे तादृशव्यक्तित्व्रूपेण धूमन्वसत्वं भवत। तथा च ताट- शव्यकिित्वविशिष्टस्य समवायन हेतुन्वासंभवेऽपि स्वसमवायिवृत्तित्वोपलक्षिनधूमत्वसंबन्धेन हेतुन्वमलांकिकधूमनिष्ट- मुख्यविशेष्यनासंबन्धेन धूमत्वप्रकारकं प्रत्यक्षं प्रति संभवनि, अतो धूलीपटले धूमभ्रमेन्युक्त्तम्। नत्त-इन्द्रियसभनि- कृष्ट विशेष्यकधी प्रकारी भूनधूमत्वादिव्यक्तित्वेन स्वसमवायिनिष्ठविषयतासंबन्धेन हेतुत्वं वाच्यम्, अनीतानागतघ्मेषु
कमिति-वाच्यम्; विपयता हि यद्यप्यतीनादिपु संबन्धः; तथापि सविपयकस्येव, न तु घटत्वाढः। अथ घटत्वस्य स्वसमवाय एव संबन्धः तस्याश्रय इन्युच्येन, तथाप्याश्रयस्य संबन्धः स्ववृत्तिविषयतव वाच्येनि तद्ोपतादवस्थ्यम्। अथवं-सवसमवायिसंयोगाढयोऽपि घटत्वादे: संबन्धा न स्युरिनि-चेत्, न रयुरेव; अतीतादी समवायिनं प्रनि संयोगम्य वर्तमानेप्वेव संबन्धनया कृपत्वात्। विषयताया अनीनादिपु सविपयक प्रन्येव संबन्धतया कुप्तन्वेन न घटत्वा- दिसमवायिन्वं तद्दृत्तित्वं वा प्रनि संबन्धन्वमिनि भावः। तदुत्तरं धूलीपटले धूमत्वेन व्याप्तिग्रहोत्तरम्। अनुमित्यनु- दयेति। 'पर्वतो वह्िमानि न्याद्यनुमित्यनुदयेत्यर्थः। ज्ञानमिति। अत एव 'सा चेन्द्रियसंब द्वविशेषणता अनिरिक वे'नि मणिवाक्यस्य सा सामान्यप्रत्यासत्तिः, इन्द्रियसंवद्धा इन्द्रियमंबद्धनिष्टविशेष्यनानिरूपिता, विशेषणता प्रकारता, यस्या: घटत्वादिरूपप्रत्यासत्तेः, सा नथा, अतोक्तोपादुक्कं अनिवि्कवेनि, घटन्वादि निष्टनाृशप्रकारताशालि ज्ञानरूपंच वेत्यर्थः । अत्र कल्पे धूमनिष्टालांकिकविशेप्यनासंबन्धेन धूमन्वप्रकारकचाक्षुपं प्रनि चक्षुस्संयुक्तविशेष्यकधू- मन्त्रप्रकारकचाश्षुपत्वेन धूमनिष्टेन स्वसमानकालीनज्ञानविषयन्वसंबन्धेन हेनुन्वम्। चाश्ुपादिसामान्यज्ञानात् स्पार्श- नादिरूपम्य सामान्याश्रयज्ञानस्यानुन्पत्ते: उभयत्र चाक्षुपत्वोक्तिः। धमन्वज्ञानविशेप्ये चक्षुस्संयोगे नष्टे सकलधूमचा- क्षुषानुन्पत्तर्विशेष्यकान्तमुक्तम्। एवं त्वाचादिप्रत्यक्षेऽपि बोध्यम्। मानसप्रत्यक्षे तु मनो लाकिकसननिकर्षाश्रयविशेष्य- कसुखन्व्रादि प्रकारकमिवालीकिकमनस्ससिकर्षाश्रयविशेषयकमणुन्वादिप्रकारमपि मानमं स्वविपयसामान्याश्रयविशेष्यके हेनुः, अन एवाणुनवेन य्रत्किज्िदणूपस्थिती सकलाणुविशेष्यकमानसमुत्दने इति प्राश्चः। नव्यास्तु-सामान्यस्य निर्विकल्पकमाधारणज्ञान रूपँवेत्यननिरिक्तत्यस्या ्थः। तथा च धूमन्वज्ञनत्वमात्रं कारणतावच्छेदकम्। अलौकिकमुख्यविशे व्यतामंबन्धेन धमनिष्टेन प्रत्यक्षवेन कार्यता। न च-कुत्रचिद्मे चक्षुस्संयोगासश्वकाले उत्पन्नान्ूमत्वनिर्विकल्पकादपि सर्वधूमचाक्षुपमुन्पद्येनेनि-वाच्यम्; सामान्यज्ञानजन्यबहिरिन्द्रिय जन्यप्रत्यक्षस्य सामान्यप्रकारतानिरूपितविशेष्यता-
णीयत्वात्। एवं च सरणादेरिव चाक्षुपादेरपि सामान्यज्ञानान सामान्याश्रयस्य स्पार्शनादिप्रत्यक्षं जायने-इत्याङु।
Page 142
[प्रत्यक्ष० सत्वनि०] ३४५
कार्यकारणभावानभ्युपगमात्, अधश्यक्कमकार्यकारणभावविशेषेणैव सर्वव्यवहारोपपत्तः । नच धूमत्वेन सन्निकृष्टधूमव्यक्तिज्ञानानन्तरं तत्समानाकारमसन्निकृष्टधूमगोचरं ज्ञानान्तरमुत्पद्यन इत्यत्र मानमस्ति; धूमत्वेन पुरोवर्तिनं धूमं साक्षान्करोमि न व्यवहितमित्यनुभवाच्च। अन्यथा जगतीगत- सकलधूमव्यक्तीरहं साक्षात्करोमीत्यनुव्यवसीयेत। नचैवमनुभवमात्रशरणैरभ्युपेयते। किंच सामान्यप्रत्यासत्त्यङ्गीकारे यत् प्रमेयं, तदभिधेयं, यत्प्रमेयवत्, तदभिधेयवदित्यादिव्याप्तिपरिच्छंदे सार्वश्यापत्तिः। नचेप्टैव साः परज्ञानविषयो घटो न वेत्यादिसंशयानुपपत्तेः । नच्र-घटत्वप्रकारक- घटविषय कनिश्चयो घटसंशयविरोधी, प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्वप्रकारक इति- वाच्यम्; भासमानवैशिष््यप्रतियोगिन एव प्रकारत्वात्, घटत्वस्यापि प्रमेयमिति ज्ञाने भासमान- वैशिष्ट्यप्रतियोगित्वात्, घटत्वप्रकारकनिश्चयस्य घटत्वज्ञानजन्यत्वविशेषणाददोष इति चेत्, न
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तत्र नव्यमतस्य सम्यक्वात्तंदवादौ दृपयनि-तञ्चेत्यादि। धूमज्ञानात् धूमे धूमत्वप्रकारकज्ञानान्। अवश्य- क्रमेति। परोक्षज्ञाने परामर्शादेरेव विशिष्टविषयतानियामकत्वम्, प्रत्यक्षज्ञाने तु सवनिकर्षाद: तत अवश्यक्कृप्तम्, तेनैव निर्वाहः। न च-'जानिमान् घट' इति प्रत्यक्षे अनवच्छिन्नघटत्वादिप्रकारनायामवच्छिन्नघटत्वादिविषयता- कधीरवश्यं नियामिका वाच्या, अन्यथा 'जातिमानि'त्याकारकप्रत्यक्षे घटत्वादी नियमेनानवच्छिसा प्रकारता स्यान; इन्द्रियसन्निकर्पादेनियामकस्य सत्वात्, अनवच्छिसत्वं च प्रकारत्वानिरूपितत्त्वमिनि-वाच्यम्; अनवच्छिन्नत्वविप- यतात्वयोर्विशेष्यविशेषणभावस्याविनिगम्यत्वेन हेनुताद्वयापत्या संख्यानीत निर्विकल्पकधीव्यक्तिकल्पनापत्या चोक्तवि- पयताकन्वेन हेतुत्वे गौरवेण तदपेक्षया लाघवादुक्तप्रकारताशालिप्रत्यक्षहेनुतावच्छेदकतयेन्द्रियसंयोगादिनिष्टस्य जाति- विशेषस्य कृपन्वेन तेनव निर्वाहात। ननु मास्तु निर्विकल्पकम्; चक्षुरादिसन्निकृष्टविशेष्यकधूमत्वादिप्रकारकचाक्षु- पादिकमेव सर्वधृमादिचाक्षुपादिहेनुरिनि प्राचीनमतमवलम्बनीयम्, तत्राह-नचेत्यादि। पुरोवर्तिनं अच्यवहि- तम्। व्यवहितं एनदन्यम्। अन्यथा उक्तस्य साधकाभावस्य वाधकस्य चास्वीकारे। सकलधृमेति। ननु- धूमन्वेन सर्वध्मानामनुव्यवसाये भानमिष्टमेव, तत्तक्व्यक्तित्वेन तेपां तत्र भानं तु नापादयितुं शक्यम्; नद्रपेणोपस्थि- त्यभावास-इति चेन्न; धूमन्वेन सर्वधूमानां तत्र भानापत्तेः कृतत्वात्, तेषां व्यवसाये उपस्थितत्वेनानुव्यवसाये भाने सामग्रीसत्वात, सामान्यप्रत्यासत्तिजन्यभिन्नस्यापि एतद्धृमान्यधूमत्वप्रकारकज्ञानस्य सत्वे 'तादृशविशिष्टं साक्षा- त्करोमी नि प्रत्ययस्योपलक्षणविधया तादृशध्मन्वप्रकारकस्यापत्तेश्र। तच्च नेष्टम्; अनुभवविरोधात, तदिदमुक्तम्- न चैवमनुभवमात्रेत्यादि। 'इम धूमं साक्षात्करोमि नान्य मिति सर्वलोकानुभवः। अतएव धूमप्रत्यक्षवान् पुरुपः 'एतद्न्यधूमं साक्षान्करोपि किमि'ति पृष्टो नहि नहीत्येव ूने। ननु-चक्षुराध्यसन्निकर्षे लौकिकविपयत्वाभावेन तस्य न 'साक्षात्करोमी नि प्रत्यये भानम्; लोकिक विषयतायास्तादृशप्रत्यये भानात्-इति चेन्नः सकलधूमादीनां प्रत्यक्षे भानं किमनुमित्यादिकार्यानुरोधात, अनुव्यवसायानुरोधाद्वा। तत्राद्यं पूर्वमेव निरम्तम्; अधुना तु द्विनीय- मिनि भावात्। नच-'धूमं जानामी त्यनुष्यवसाये सर्वधूमभानमिति-वाच्यम्; 'इम धूमं जानामि न त्वेतदन्य'- मिति व्यवहारस्य सर्वसिद्धत्वेन समाधानस्य तु तुल्यत्वात्। यत्प्रमेयमित्यादि। सार्वश्यं सर्वसंशयविरोधिज्ञान- वत्वम्। प्रमेयत्वसामान्यधीम्तादृशज्ञानप्रयोजिका। प्रमेयवत्वसामान्यधीस्तु स्वयमपि तादृशधीरूपेणेत्याशयेन सोका। सेति। ईशनिष्ठस्य सार्वज्ञ्यस्य सर्वांशे लोकिकप्रत्यक्षरूपत्वेन तत उक्तसार्वज्यस्य वैलक्षण्यसंभवादिनि शेषः । परेत्यादि। परस्य उक्तसामान्यज्ञानाधीनसार्वज्यवतो यो ज्ञानविषयो 'घटो न वे त्यादिसंशयस्तद्नुपप त्तेरित्यर्थः। ज्ञानविषयत्वस्य घटत्वतद्भावसहचरितघर्मत्वेन साधारणधर्मज्ञानस्य संशयहेतोः संपादनाय ज्ञानविषय इत्युक्तम्। तावता च धर्मितावच्छेदकप्रकारकधीविपयोक्धर्मवत्ताज्ञानस्य कारणत्वलाभः । घटविषयकः घटत्वविशिष्टविशेष्यकः, घटघटत्वोभयविशेष्यक इति यावत्। नेति। घटे इति शेषः । ज्ञाने भासमानेति। ज्ञानात् भासमानेत्यथः। तथाच प्रमेयमिति ज्ञानजन्ये प्रमेयवदिति ज्ञाने प्रमेयत्वरूपेण घटत्वस्य घटानुयोगिकवैशिष्टये प्रतियोगितया भाना- त्ताइशज्ञानं घटे घटत्वप्रकारकमिति भावः। एतेन-प्रमेयमिति ज्ञानं न घटे घटतवप्रकारकम्; घटे भासमानवैशि- ध्यस्य भासमानं प्रतियोगित्वं प्रकारत्वमिति मतस्यैव स्वीकारेण घटानुयोगित्वविषयतानिरूपिता या वैशिष्यविषयता- निरूपितविषयता तदाश्रयप्रतियोगित्वस्य प्रकारतात्वेनोक्तज्ञाने तदसंभवात् वशिष्वतत्प्रतियोगित्वानुयोगित्वानामु- कज्ाने विशेष्यतयैव हि भानम्, नतु संसर्गतया, न वा तद्िषयतानां निरूप्यनिरूपकभावः, तथाच तन्वावापन्नत्रे- शिष्चादिसांसर्गिक विषयताशालिज्ञानस्यैवोक्तसंशय विरोधित्वस्वी काराओोक्तकदोप-इति परास्तम्। शङते-घटत्वे- त्यादि। घटत्वश्ञानेति। घटत्वांशे अन्याप्रकारकघटत्वज्ञानेत्यर्थः । अदोष इति। उक्तज्ञानजन्यताया घटत्वांशे भ. सि. ४४
Page 143
३४६ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १ ]
विशेषणज्ञानत्वेनैव तस्य जनकता वाच्या: तस्या: प्रागेव निरासात्: स्वरूपसंबन्धविशेषाभ्युपगमे
गौडब्रहमानन्दी (लघुचन्द्रिका)। भन्याप्रकारकघटत्वप्रकारकप्रत्यक्षत्वेनावच्छेदात्तादृशजन्यतायाः प्रमेयवदिति ज्ञानेभावाओोक्तदोष इत्यर्थः । ननु- सादृशघटत्वप्रकारकप्रत्यक्षत्वावच्छिनं प्रति तादृशहेतुत्वासंभवेSपीन्द्रियसंयोगादेरेव जातिविशेषेण हेतुत्वस्यावश्यक- त्वात्तज्जन्यत्वमेव विशेषणमस्तु, किंच घटत्वांशे अन्याप्रकारकं घटत्वप्रकारकं प्रत्यक्षं परोक्षं च त्वयापि स्वीकार्यमेव, आनुभाविकत्वात्। तथाच तस्यैवोक्तसंशयविरोधित्वस्वीकाराओोक्कोप - इति चेन्न; प्राचीनतार्किकाद़िमते समानविषयकनिश्चय एव विरोधि, नतु समानाकारः; अत एव 'अयं जातिमान्' 'अयं तथ्क्तित्वविशिष्ट-
तथाच घटत्वांशे अन्याप्रकारकत्वमनिवेश्य घटत्वप्रकारकत्वनिश्चयत्वेनैव विरोधित्वस्वीकारात् 'प्रमेयव'दिति निश्चयस्य बिरोधित्वं दुर्वारम्। अतएव-निर्धमितावच्छेदकत्वालोक्तज्ञानं विरोधीत्यपि-निरस्तम्: समानविषयकस्यैव विरोधित्वात्। यद्यक्तौ यद्यक्त्यभावप्रकारकं यत् ज्ञानं तव्व्यक्यंशे तक्व्यक्तविषयकज्ञानस्यव तन्समानविषयकत्वात्ताद- शज्ञानजन्यस्य 'प्रमेयवदिद'मित्यादिज्ञानस्य विरोधित्वसंभवाघ्। ननु-बौद्धाधिकारे प्रकाशस्य सतस्तदीयतामात्ररूपः स्वभाव विशेषो विषयतेत्युक्तम्, तत्र शिरोमण्यादिभिर्व्याख्यातम्-'प्रकाशस्य ज्ञानस्य सतो विद्यमानस्य तदीय- तामात्ररूप: घटादितरिषयसंबन्धरूपो विषयता। सामान्यतो विपयता ज्ञानमेव। घटादिविषयना तु घटादिसंबन्धित- त्तीस्वरूपा। विपयस्याविथ्यमानन्वेऽपि विद्यमानज्ञानरूपस्य विषयत्वस्य 'इदानीं स विपयो ज्ञातः इड़ानी तस्य ज्ञान मित्यादिव्यवहारे कालविशेपावच्छिन्नत्वभानमुपपद्यते। विषयस्य विपयतात्वे तु तस्याविद्यमानत्वे विषयत्वस्य तन्नोपपद्यते। अतो ज्ञानमेव विपयनेनि ज्ञापनाय सत इत्यनेन ज्ञानस्य विद्यमाननोक्ता। संबन्धमंबन्धिनोश्चाभेदो न दोषाय। सर्वत्र स्वरूप संबन्धस्थले तथा कल्पनान्-इति। तथाच 'प्रमेयव दिनि ज्ञानस्य घटे घटत्वप्रकारक- स्वेऽपि नोक्तमंशयविरोधित्वम्; ज्ञानरूप विपयनाविशेषरूपस्य प्रकारत्वस्य तत्तज्ज्ञानव्यक्तित्वेनंव रूपेण प्रतिबन्धकता वच्छेदके निवेश्यत्वेन 'प्रमेयव'दिनिज्ञानव्यक्तेम्द्यकित्वेन तत्र निवेशामंभवात्, तवाह-स्वरूपसंबन्धेत्यादि। स्वं न स्वस्य संबन्धः; 'स्वं न स्व्रीय'मित्यनुभवात्। अथ तत्तव्नितवेन संबन्धत्वं, ज्ञानत्वादिना संबन्धित्वम् इनि रूपभेदेन भेदं स्त्रीकृत्य स्वस्यापि स्वप्रनियोगिकसंबन्धनं वाच्यम्, तथापि ज्ञानत्वविशिष्टस्य तव्यक्तित्वविशिष्टाभेवे तयोभदासंभव इनि भेंढ मिध्यात्वस्य वाच्यत्वेनानिर्यचर्नीयवादापतिः । अथ तयोरत्यन्तभेदः, तदा भाषान्तरेणानि- रिक्तत्रिपयंतव स्व्रीकृता। ननु-आस्तामतिरिक्तव विषयता, उक्तंच शिरोमण्यादिभिः-यदि ज्ञानमेव विपयता, सदा 'घटपटा'विति समृहालम्वनस्य घटेऽपि पटत्वप्रकारनाशालिन्वापत्या भ्रमत्वापत्तिः; तन्दीरूपाया घटत्वप्रकारताया एव पटत्वप्रकारतान्वेन घढे पटत्वस्य प्रकारत्वसखवात्। अथ यथा समवायः केवल एव सत्तायाः संबन्धः, रूपाद्यवचिछ स्रस्तु रूपाद :; तथा निर्विकल्पकज्ञानं केवलमेव विषयता, सविकल्पं तु तत्तत्प्रकारावच्छिन्नम्। नथाच समूहालम्बनं धटत्वविशिष्टं सत् घटस्य विपयता, नतु पटर्त्ववशिष्टम्; यद्विशिष्टं ज्ञानं यस्य विषयता, तन तन्र विशेषगमुच्यते। नचैवं-घटत्वविशेषणकज्ञानस्य घटत्वविषयतातं न स्यान, प्रकारत्रिशिष्टस्व्रव सविकल्पकस्य विशेषयं प्रति विषयतात्वात, प्रकारीभूतघटत्वादिविशिष्टं नु ज्ञानं न घटत्वादावम्नि; स्वत्िशिष्टस्य स्वस्मिन् सत्वासंभवात, स्वप्रकापिलक्षितस्य तस्य वा तस्य विषयतान्ये घटत्वोपलक्षितततुपहितयोः पटेऽपि सत्वादुक्तोषवारणदिनि- वाच्यम्; प्रकारावच्छिन्नं हि ज्ञानं विशेष्यं प्रि विशेष्यता, विशेष्यविशेषण प्रति विषयनात्वं तु केवलस्यैव सविक ल्पकस्य। एवंच यद्वृत्तिना येन विशिष्टं यत ज्ञानं यस्य विपयता, तत्र तस्य तत् भ्रमः। यद्वृत्तिना येन विशिष्टं यत ज्ञानं यम्य विषयता, तत्र तस्य तत् प्रमा। वस्तुतस्तु-येन संबन्धेन यद्त्तियद्विशेषणविशिष्टेन येन संब- न्धेन विशिष्टं ज्ञानं यस्य विशेष्यता तेन संबन्धेन तत्र तस्य तन प्रमेनि वाच्यम्। एवं येन संबन्धेन यद्वृत्तीत्यादि- रीत्या भ्रमो वाच्यः । तथाच यद्िशिष्टेन येन संबन्धेन विशिष्ट ज्ञानं यत्र विशेष्यता, तत्र तयोरायं विशेषणम्; अदयं संसर्ग इन लभ्यते। विशेषणसंसर्गयोवैंशिष्ट्यं नु सामानाधिकरण्यमेकस्मिन् जाने ततस्वरूपविपयतासंबन्धेन संब- न्धित्वम्, ज्ञाने संसर्गस्य वैशिष्टयं तु ज्ञानस्वरूपा विषयतव। नचव्रमपि-घटग्वेन घटो ज्ञानविशेष्य इनि न स्यात घटत्वविशिष्टज्ञानरपविशेष्यताया विशेष्यश्देनैव लाभेन घटत्ेनेत्यस्पुनरुकत्वापतेरिति-वाच्यम्; विशेष्यश- कंदन किज्ञिद्वर्मविशिष्टेन किश्वित्संबधेन विशिष्टं ज्ञानमुच्यते, ननु घटत्विधर्मविशिष्टेन समायेन विशिष्टम् तथा सनि ज्ञात इग्युक्ते केन रूपेणेनि प्रश्नानुपपत्तेः। नथाच घटत्वेन घटो ज्ञात इत्यादौ घटत्वादभिन्नधर्मविशिष्टस- बन्धविशिष्टज्ञानरूपत्रिपयनासंबन्धी घट इत्यर्थकत्व्रान्न घटत्वेनेनि पुनरुक इति चेन्न;घटरे समवायेन घटप्रकारक- ज्ञानस्यापि घटविशेष्यकतवापत्या 'अयं घट' इत्याकारकनडीव्यक्तिलाटश्समवायविशिष्टा घटविशेष्यतेति वाच्यम्।
Page 144
[प्रत्यक्ष० सत्वनि०] ३४७
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तथाच घटनिष्ठा तद्धीव्यक्तिर्विशेष्यता, घटत्वनिष्ठा विशेषणता, समवायनिष्टा संसर्गतेत्यस्यैव लाववादापत्तेः। घटे छछादौ घटादिविषयकज्ञानादीनामनुगतरूपेण कारणत्वाद्यनुपपत्तेश्र। किंच विशेषणविशिष्टेन संसर्गेण विशिष्ट ज्ञानं विशेष्यस्य विशेष्यता। अथवा विशेष्यविशिष्टेन संसर्गेण विशिष्टं ज्ञानं विशेषगं प्रति विशेषणता, तयोराद्यनिष्टतद्धी- रूपविपयता विशेष्यता, अन्त्यनिष्टतद्धीरूपविषयता संसर्गता। अथवा विशेष्यविशिष्टेन विशेषणेन विशिष्टं ज्ञानं संसर्ग प्रति सांसर्गिकविषयता, तयोराद्यनिष्टा सा विशेष्यता, अन्त्यनिष्टा सा विशेषणतेत्यस्य विधात्रयस्याविनिगम्यत्वात् प्रागुक्ता विशेष्यादिव्यवस्था दुर्लभा। तस्मादतिरिक्तेव विपयता, तद्विशेषास्तु प्रकारत्वादयः। एवं विपयतात्वप्रकारतात्वादिक- मपि। एतेन प्रतियोगित्वाधिकरणत्वाद्योऽपि व्याख्याताः । विपयताया अपि विपयता अतिरिक्तव, एवं तस्या अपीनि प्रामाणिकी अनवस्था स्वीक्रियत एव;अन्यथानुपपत्तेः। सा च ज्ञाननिष्टा; ज्ञाननिष्टानुगतकारणताद्यवच्छेदकतया कल्प्यमानरात्। नच-विषयनिष्ठापि सा प्रनियोगितासंबन्धेन तद्वच्छेदिकास्तिवति-वाच्यम्; कारणवृत्तिघर्मस्ैव कारणतावच्छेदकत्वेन कल्पनस्यौचित्यात्। तत्प्रनियोगिनया चार्थे विषयत्वव्यवहारः। परे तु-'विषयत्वविपयित्वे भिस्ने एव प्रतियोगित्वानुयोगित्वे इव भावाभावयो'रित्याहुः। इन्यंच स्वभावविशेष इत्यस्य स्वीयधर्मविशेष इत्यर्थः । प्रकाशस्येत्यनेन ज्ञानधर्मस्य विषयतात्वोक्तया इच्छादेन स्वधर्मा विषयता, किंतुघटादिविषयकज्ञानजन्यत्वं घटादिविपयकज्ञानमेव वेनि-प्राश्चः। तन्नः जन्यतावच्छेदकनयेच्छादावपि विषयतामिद्धेः, इश्वरेच्छाया जन्यत्वा- भावेन तत्रोक्तरीत्या असंभवात्, ज्ञानोपरमेऽपीच्छादौ सविषयकत्वव्यवहारस्य ज्ञानेनासंभवात्, इच्छायामेव स्वभावो विपयता ज्ञाने तु तज्जनकत्वमित्यस्यवापत्तेश्र। तस्मात् ज्ञान इवेच्छादावप्यनिरिक्तैव विषयता। तदयं शिरोमणित- दीयटीकासिद्धार्थः। तथाच 'घटो न वे'ति संशये घटत्वांशे अन्याप्रकारकत्वघटितरूपेण प्रनिबन्धकन्वे गौरवं यद्यपि; तथापि घटत्वस्य या प्रकारनान्तरनिरूपितप्रकारतान्यप्रकारना, तच्छालिनिश्चयत्वेनैव तत्मंभवात् 'प्रमेयवदि'नि निश्चय- स्योक्तसंशय विरोधित्वे मानाभावः । नच-उक्त्तप्रकारतान्यत्व निवेशे गौरवात् घटत्वप्रकारतावन्निश्चयत्वेनंव तत्म्वीकारा- दुक्तनिश्चयस्याप्युक्तविरोधित्वसिद्धिरिति-वाच्यम्; प्रमेयत्वाद्यवच्छिन्नप्रकारताभ्यः शुद्धघटत्वादिप्रकारताया भिन्नत्वेन नद्यके: निश्चयोपरि घटत्वस्य संसर्गनया नियेशेनागारवात। नच-जानिन्वनव्यक्तिवादिरूपेण घटत्वप्रकारनावसनिश्र यस्यापि विरोधित्वान्नोक्तरूपेण प्रनिबन्धकत्वकल्पनं युक्क्कमिनि-वाच्यम्; तादृशनिश्चयस्योक्त्तविरोधिन्वे विवादात्, निश्चिताव्यभिचारकं रूपं परित्यज्य गृह्यमाणव्यभिचारकेण रूपेण कारणत्वकल्पनस्यान्याय्यत्वात्। अयं घटत्वत्वविशि- प्ट्वानिनि निश्चयस्योक्तविरोधित्वे सर्वसंमतत्वेऽपि न क्षति; घटत्वत्वस्य घटेतरासमवेतत्वरूपघटत्वव्याप्यतारूपतवेन तद्विशिष्टप्रकारक निश्चयत्वेन पृथगेव प्रनिबन्धकत्वस्वीकारात्-इति चेन्नः तस्य पूर्वपक्षस्य स्वरूपसंबन्धेत्यादिमूलेन निरम्नत्वात, स्वं स्वीयज्ञानीयं यत् भासमानवशिश्चप्रनियोगित्वानुयोगित्वाभ्यामनिरिक्ततं प्रकारताविशेष्यतारूपं तस्य ज्ञान विषययोः संबन्ध विशपस्याभ्युपगमे अनिर्वचनीयस्य विचारासहस्य वादस्योक्तसंबन्धकथस्तेरि त्यस्ोक्त्मूल र्थ -र व्वसंभवात्। ननु-कथमुक्त्तवादो विचारासह इनि-चेत्-अत्रोच्यते; न प्रकारताविशेप्यते कृप्तपदार्थानिरिक्ते; भासमानवैशिष्चप्रतियोगित्वानुयोगित्वयोः कृप्तयोरव तद्रूपतासंभवात्। सांसर्गिकविषयतामात्रमनिरिक्तं स्वीक्रियते, तथाच संयोगेन घटविशिष्टबुद्धीं संयोगीयप्रनियोगितानिरूपितानुयोगित्वस्य संसर्गतया भानात् संयोगीयसांसर्गिक- विषयतानिरूपितप्रतियोगित्वीयोक्तविपयतानि रूपितानुयोगित्वीयोक्तविषयतासत्वादु क्तविपयताश्रय प्रतियोगित्वानुयोगि- ह्वयोः प्रकारताविशष्यतात्वसंभवः। नच-प्रकारतां विशेष्यतां वा अतिरिक्तां स्वीकृत्य तदाश्रयप्रतियोगिकत्वं तदाश्र- यानुयोगिकरवं वा सांसर्गिकविषयत्वम्, नववनिरिक्तमित्येव कुतो न स्वीक्रियत इति-वाच्यम्; संयोगेन रूपादिप्रका- रकज्ञानस्थले तद्संभवात्। नच-प्रनियोगित्वादावपि विशेषणादयंशे प्रकारताम्गीकृत्य संयोगाढे रूपादिनिष्ठप्रकारता- निरूपितम्रकारताश्रयप्रतियोगित्वनिरूपकत्वरूपं सांसर्गिक विषयत्तमुच्यतामिति-वाच्यम्; प्रतियोगित्वादेः प्रकारतया भानस्य सर्वानुभवविरुद्धत्वात्, निष्पकारकज्ञाने निविकल्पकीयविषयतायाः कृप्तन्वात्। तस्या एव विशेषणविशेष्ययोः स्वीकारात्तयो: विपयत्वव्यवहारः। तथाच यदीययोः प्रतियोगित्वानुयोगित्वयोः संसर्गता तश्वे सति विषयत्वं प्रकारताविशेष्यते। वस्तुतस्तु-यदीयप्रनियोगितात्वेन रूपेण सांसर्गिकविषयता तरवं प्रकारत्वम्। एवं विशेष्यता। तथाच विशेषणविशेष्ययोरपि सांसर्गिकमेव विषयत्वम्। तदन्यप्रकारत्वं न स्वीक्रियते; 'घटप्रतियोगिकभूतलानुयोगिक- संयोगेन द्रव्यकानित्यादिज्ञाने परेणापि घटत्वाद्यवच्छिन्नसांसर्गिकविषयतायाः स्वीकृतत्वान्न तत्कल्पनेऽस्माकं गौरवम्, पलेन स्वाश्रयसंयोगेन घटत्वप्रकारकज्ञानस्यापि घटत्वविशिष्टप्रकारकत्वापत्तिरित्यादिकमपास्तम्; घटत्वावच्छिन्नप्रति- योगितात्वरूपेण प्रतियोगित्वसंसर्गकज्ञानस्यैव घटत्वावच्छितप्रकारताकशब्देन व्यवहारातू। अथ-तादृशसांसर्गिक- विषयताकधीत्वादिना कारणत्वादिकल्पनमपेक्ष्य घटत्वावच्छिसप्रकारतानि रूपित संयोगत्वाद्यवच्छिन्नसांसर्गगि क वि षयताक - धीत्वादिना कारणस्वादिकल्पने लाघवान सांसर्गिकविषयतानात्मकप्रकारतव कल्प्यताम् इति-चेन्नः तादृशप्रकारता-
Page 145
३४८ अद्वैतसिद्धिः सव्याख्या। [परिच्छेदः १ ]
चानिर्वचनीयवादापत्तेः, इत्यादिदूषणानि बहुतरमूहनीयानि। तस्मात् सामान्यप्रत्यासत्त्या निषे- धमात्रप्रतियोगित्वोपस्थितौ तदभावग्रहात् बाध इत्यनुपपत्रमेव। इति सामान्यप्रत्यासन्तिभंगेन
गौडब्रह्मानन्दी (लघुचन्द्रिका)। विशेष्यतयो: कल्पनामपेक्ष्योक्तगुरुरुवेण कारणत्वादेरेव युक्तत्वात्। प्रतियोगित्वानुयोगित्वविषयता हि विशिषबुद्धौ सर्वलोकानुभवसिद्धा। अस्मिन् ज्ञाने 'भूतले घटस्य संयोगः संसर्गतया विषयः' 'तत्र तस्य संयोगो मया संसर्गतया ज्ञात' इत्यादि लोकानुभवात्। किंच 'संयोगो न रूपप्रतियोगिक' इति निश्चये सत्यपि संयोगेन रूपप्रकारकबुच्द्ा- पत्तेः 'संयोगो न रूपानुयोगिक' इति निश्चये सत्यपि रूपे संयोगेन घटादिप्रकारकबुद्यापत्तेश्र विशिष्टबुद्धिमात्रे विशेषणप्रतियोगिता विशेष्यानुयोगिता च न भातीनि मतं हेयमेव। तद्भाने तु बाघविधया तद्विरोधिनीति ध्येयम्। किंच 'भूतलं घटवदि' त्यादिज्ञानस्य कदाचिद्विशिष्टवैशिष्यबुद्धित्वं कदाचिद्विशेप्ये विशेषणं तत्रापि च विशेषणान्तर- मित्येतरं रीत्या बुद्धित्वमिनि व्यवस्थासिद्धये घटत्वाद्यवच्छिन्नप्रतियोगिताकसंयोगत्वेन यत्र सांसर्गिकविषयता, तत्र विशिष्टवशिष्वधीत्वम्; यत्र तु प्रतियोगितात्वमात्रेण, नतु घटत्वाद्यवच्छिन्नत्वं प्रतियोगितायां भाति, तत्र द्वितीय- बुद्धित्वम् ; अन्यथा विषयवैलक्षण्यं विना विषयतावैलक्षण्ये ज्ञानयोवैलक्षण्यासंभवात्, अर्थनैव विशेषो हि निरा- कारतया धियामि'त्याचार्योक्ते:, 'अयं घट' इत्यादो विशिष्टवैशिष्वस्याविषयत्वेऽपि समवायप्रतियोगित्वानुयोगित्वभानं विशिष्टबुद्धिमात्रे ऐकरूप्यानुरोधात्। अथवा-प्रतियोगित्वानुयोगित्वयोरेव संयोगादिनिष्टसांसरगिकविषयतानिरुपितत्वं प्रकारताविशेष्यतारूपत्वं च स्वीक्रियने। तथाच शिरोमण्याधुक्तवाक्ये प्रकारत्वादे: प्रनियोगित्वानुयोगित्वादिकप- पद़ार्थानिरिक्तत्वोक्तिरसङ्गता। उक्तवाक्ये हि एतेन प्रतियोगित्वाधिकरणत्वादयोऽपि व्याख्याता इत्यनेन प्रनियोगित्वा- नुयोगित्वमतिरिक्त्तमुक्त्म्, तस्मादनिरिक्तव विषयतेत्यादिना च प्रकारत्वादि व्यनिरिक्तमुक्तम्, अथ-प्रनियोगि- त्वानुयोगित्वपद्मभावनिष्टानुयोगित्वस्याभावीयप्रतियोगित्वस्य चैव बोधकम्, ननु संबन्धप्रनियोगित्वानुयोगित्व- योरपि; तयोः प्रकारत्वादिशब्देनैव उक्तत्वात्-इति चेन्नः अधिकरणशब्दस्य संबन्धानुयोगितासामान्यवचनत्वेन
हणात्। ननु-संबन्धप्रतियोगित्वानुयोगित्वयोः प्रनियोग्यनुयोगिस्वरूपत्वस्यैव संभवेन प्रनियोगित्वानुयोगिन्वपदं न तदर्थकं इति-चेन्नः 'तथक्तिम्नद्विशिष्टे' ति ज्ञानस्य प्रमात्वापत्या तयोरनिरिक्त्तत्वस्यवश्यकत्वात्। येन हि संयोगेन तद्यक्र्भूतलादौ प्रमा, तेनेव भृतलादेरपि तस्यां प्रमा। तथाच तस्य संयोगस्य तद्यक्तिप्रतियोग्यनुयोगिकत्वेनोक्कापत्तिः स्यादेव। तयोः अतिरिक्तत्वे नु तद्यक्तिनिष्टप्नियोगितानिरूपितानुयोगितायाः तत्तवक्तिनिष्ठत्वाभावाओ्ोक्तापत्तिः । नच-तद्यकिरूपा या संयोगीयप्रतियोगिताया तनिरुपितानुयोगितारूपे धर्मिणि संयोगेन तद्यक्तिप्रकारकत्वं संयोगेन
प्रमायाः सच्वेन द्रव्यत्वरूपेण तथ्यक्तेरस्वात्मकानुयोगितानिरूपकप्रनियोगितारूपन्वान् संयोगीयन्वाख्चोक्तापततितादव- स्ध्यात्। तस्मादातरित्तप्रनियोगितांदेरावश्यकत्वात् तदन्यप्रकारत्वाद्युक्ति: उक्तवाक्येन युक्ता। यदि चोक्त्तवाक्ये प्रनियोगि
विशिष्टबुद्धत्निपयत्वोक्ति: संबन्धमंबन्धाग्रहेऽपि विशिष्टज्ञानस्योपपादितत्वा'दिनि मणिदीधितिवाक्ये युक्ता; उक्तयुक्ति- भिम्नस्य विशिष्टधीविषयत्वस्यावश्यकत्वात्। तस्मान् पक्षधरान्तप्राचीननार्किकादिसंमतं भासमानवेशिष्यस्य भासमाने प्रनियोगित्वानुयोगित्वे प्रकारताविशेष्यते इनि तु मतमेव रम्यम्। तथाच 'प्रमेयव'दिनि निश्चयस्य 'अयं घटो न वे'नि धीविरोधित्वं दुर्वारम्। ननु-भासमानवशिश्चप्रतियोगिता शुद्धघटन्वादिनिष्टा तादृशधीविरोधितावच्छेद के निवेश्या, प्रमेयत्वाद्यवच्छिन्ना तु सा ततोऽन्येनि नोकनिश्चये उक्तविरोधित्वापत्तिः-इति चेन्नः प्रमेयत्वघटत्वत्वाद्यव- च्छिन्नप्रनियोगितानामन्यतमस्थ्रैव घटो न वेत्यादिज्ञाने भानेन तस्याम्तदन्यत्वे मानाभावात्॥ इति लघुचन्द्रिकायां प्रत्यक्षबाधोद्धारे सामान्यप्रत्यासत्तिभङ्रेन लौकिकालौकप्रत्यक्षवाधोद्धारः।
अथ प्रत्यक्षवाधोद्धारे सत्वनिर्वचनम् । (१) तत्र न्यायामृतकारा :- प्रत्यक्षसिद्धसलस्य सत्ताजात्यसर्द्वलक्षण्यार्थक्रियाकारित्ादिरूपस्य मिध्यात्विरोधित्वेऽपि असति प्रमाणाप्रवृ्त्त्या प्रमा- विषयत्वरूपान् पृथग्वक्तव्यस्य सत्वस्य तदन्यत्वेन असतोऽपि व्यवसायद्वारा प्रमाविषयत्वेन च तस्य केवलप्रमाविष-
Page 146
[प्रत्यक्ष० सत्वनि०] विट्ठलेशोपाध्याय्युपब्ृंहितगौडब्रह्मानन्दीयुता। ३४९
यत्वरूपत्वाभावेऽपि सत्वप्रकारकप्रमाविषयत्वस्य असत्वाप्रकारकप्रमाविषयत्वस्य तादृशप्रमाविषयत्योग्यस्य वान्योन्या- श्रयादिना तद्रूपत्वाभावेऽपि सतोऽ्यसत्त्वप्रकारकत्रमविषयत्वेन केवलभ्रमाविषयतस्यान्योन्याश्रयादिना सत्त्वप्रकारकभ्रमा- विषयत्वासत्त्वप्रकारकत्रमाविषयत्वयोरपि तथात्वेऽपि, संयोगादावव्याप्या खवसमानाधिकरणखसमानकालीननिषेधाप्रति- योगितस्यापि तथार्वेऽपि, एवमन्योन्याश्रयापत्या अवाध्यत्वस्यापि तथात्वेऽपि, "यादृशं ब्रह्मणः सत्त्वं तादृशं स्यात् जगत्यपि। तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तु नः" इति तुच्छेऽतिव्याप्तेः नापरिच्छिन्नत्वं ्रह्मणि सत्वम् इति त्रिकालसर्वदेशीयनिषेधाप्रतियोगिमेव प्रत्यक्षसिद्धं सत्त्वम्। अभावप्रत्यक्षतायां प्रतियोग्यसत्त्वं न तन्त्रम्; जलपरमाणौ पृथिवीत्वाभावस्याप्रत्यक्षतापत्तेः, किंतु तर्कितप्रतियोगिसत्त्वप्रसजजितोपलब्धिप्रतियोगिकाभावएवंति योग्यानु- पलब्ध्योक्तसत्त्वप्रत्यक्षोपपतेः । त्रैकालिक सार्वदिकनिषेध प्रतियोगिभिन्नव्वस्य विवक्षणे तु न काप्यनुपपत्तिः। अन्यथाऽभाव- प्रत्यक्षेऽधिकरणयोग्यताया एव तन्त्रलात्। पराभिमतमिथ्याल्ाभावस्यास्तितप्रकारकप्रमाविषयत स्यासद्वैलक्षण्य विशिष्टाना रोपितत्वस्य वा तद्रपत्वे तु न काप्यनुपपत्तिः। वस्तुतस्तु-सत्त्वानिरवचनऽपि त्रह्मवत्सद्रूपत्स्याङ्गीकारादुक्त्तबाधोपप- त्तिरिति सत्वप्रत्यक्षबाधितविषयकत्वादुक्त्तमिथ्यातानुमानमप्रयोजकम्-इति वर्णयन्ति॥
(२) अद्वैतसिद्धिकारास्तु- स्प्रकाशाद्वितीयचतन्यरूपत्वस्यव ब्रह्मसत्वरूपलात्तम्य च जगत्यद्गीकारे रजनतवविरोधिशुक्तिसत्तया रजनस्येव जड विरोधिस्वप्रकाशसत्तया जगतः स्वरूपनो मिथ्यातोपपत्या ब्रह्मसत्वमेव सन् घट इति प्रत्यक्षविषय इत्यद्गीकारेण मिथ्यात- विरोधासंभवः । एतेन-सर्वदेशीयत्रैकालिकनिषेधाप्रतियोगितमेव सत्वं तन्तु मिथ्यात्वविरोधीति-पराह्ृतम् चक्षुराद्ययोग्यानेकपदार्थघटितत्वेनैतादृयसत्वस्य ग्रहणे चक्षुरादेरसामर्थ्यात्, तादृशनिषेधप्रतियोगितस्य कस्याप्यप्रत्य- क्षत्वेन योग्यानुपलच्धेरप्यप्रसरात्, सवदेशकालवृत्तिसकलनिषेधप्रतियोगितस्यापि चक्षुराद्योग्यलान्, तद्योग्यत्वेऽपि तस्य
सार्वदिकसवदेशीय निपेधप्रतियोगित्वाभावस्यापि सन् घट इति चाक्षुषप्रत्यक्षविषयत्स्यासंभवात्, योग्यप्रतियोगिकाभाव एव हि संसर्गाभावो योग्य इति अतीन्द्रियसाधारणप्रतियोगितस्य चक्षुरादिना ग्रहणासंभवात्, पर्वतीयधूमेन्द्रियसंनिकर्ष दशायां धूमत्वेन प्रकारेण महानमीयधूमे गृहीतव्याम्ेस्तत्रविशेषणासंसर्गाग्रहादिसामग्रीसत््वेन वैशिष्व््रहसंभवादसंभवेऽापि व्याप्तिस्मृतिप्रकारेण पक्षधर्मनाज्ञानस्यव हेनुतसंभवाङ्मत्वन सकलधूमानुपस्थितावप्यनुमितिसंभवात्मुखत्वप्रकारकज्ञाना- देवानागते सुखादो मुखताधय प्रवृत्तिसंभवात्, तमसोभावान्तरत्वेन स्वरूपत एव तक्वयजकत्वेन च प्रौढप्रकाशकतेज- स्सामान्याभावज्ञानानपेक्षणनव तमः प्रत्यक्षतासंभवात्, तज्ज्ञानस्येव तक्वयज्कत्वेऽपि प्रतियोगितावच्छेदकप्रकारकज्ञानादे वाभावज्ञानसंभवान्, विशेषणतावच्छेदकप्रकार कज्ञानादेव साध्यविशेषणकपक्षविशेष्यकानुमितिसंभवात्, अपेक्षितानागता- दिज्ञानस्यानुमानशब्दादिभिरपि संभवाच्च सामान्यलक्षणाप्रत्यासत्यज्ञीकारे प्रयोजनाभावान् यत् प्रमेयं तदभिधेयम् 'यत् प्रमेयवत् तदभिधेयवत्' इल्यादिपरिच्छेदेनैव सार्वत्र्यापतेः न सामान्यं प्रत्यासत्तिरिति तु पारमार्थिकं तत्त्वम्। सवथा त्रैकालिकत्वादिघटितसत्त्वं न सन् घट इते प्रत्यक्षविषयः । विद्यमानसर्वभासकेन तादृशरजतमिथ्याल्ावभासनेऽप्यतादृश- गगनादिसंबन्ध्युक्तप्रतियोगित्वं न भास्यते इति न विरोधः। प्रामाण्यं हि शुक्तिरूप्यादिज्ञानव्यावृत्तं व्यवहारकालिकाबाध्य- विषयकत्वरूपमेव विवक्षितमिति न तादृशसाक्षिवाधितवादुक्तानुमानं प्रयोजकम्। सप्रकारकज्ञानाबाध्यविषयतादिरूपं प्रातिभासिकबुद्धितो वैलक्षण्यं हि देहात्मैक्ये ब्रह्मप्रमाव्यवहितपूर्वत्रमे च व्यभिचारात् न पारमार्थिकत्वसाधकमित्यपि न साक्षिणा बाधः । 'नेहनानास्ती' त्यादिश्रुतीनां स्वरूपतो द्वैतनिषेध एव तात्पर्यात्, सत्वनिषेधेऽपि 'नान्तरिक्षेऽनिश्रेतव्य' इति वदुपपतेः, प्रत्यक्षादिप्रमाणस्य वाघितविषयकत्वरूपातालिकगोचरत्वस्यैवाभिमतलाच न कोऽपि दोषः । एतेन-सर्वदे- शीय त्रैकालिकनिषेध प्रतियोगिभिन्नत्वमेव सत्वमित्यादिशक्का अपि-पराहताः, उक्ततन्निषेधादिज्ञानासंभवात्। एतेन- पराभिमतमिथ्यात्वाभावः असद्वैलक्षण्ये सतयनारोपितत्वं अस्तितवप्रकारकप्रमांप्रति साक्षाद्विषयत्वं वा सत्वमित्यादिशङ्का अपि-पराहता: आधे शशशङ्गादावतिव्याप्तेः, द्वितीये सर्वस्यापि क्षणिकत्वेनारोपितत्वेनासंभवात्, तृतीये अस्तित्वस्य सत्वरूपत्वे आत्माश्रयात्, वर्तमानत्वरूपत्वे मिथ्याताविरोधाच्चेति मन्तव्यम्। कालसंबन्धित्वं तु न सत्वं शुक्तिरूप्यादी- नामपि सत्त्वापत्तेरिति शिवम्-इति निरूपयन्ति॥
(३) तरङ्गिणीकारास्तु- यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपीति वचनस्य हि न ब्रह्मणो यादृशः स्वभावः तादृशः प्रपञ्चस्य स्वभाव इत्यर्थः, येन खप्रकाशाद्वितीय चैतन्यस्वरूपलमेव ब्रह्मणः सत्त्वं तत्तु प्रपश्मिथ्यात्वाविरोधीत्युच्यते, किंतु यादृशेन सत्त्वेन ब्रह्मणि
Page 147
३५० अद्वैतसिद्धि: सव्याख्या । [परिच्छेद: १]
मिथ्याताभावप्रतिपत्तिः तादृशमेव सत्त्वं जगतोऽपि सन् घट इत्यादिप्रत्यक्षविषय इति। नहि सप्रकाशचैतन्यत्वं मिथ्या- त्वविरोधि, सर्व प्रमेयमित्यादिज्ञानस्य मिथ्याभूतस्यापि खप्रकाशलात्। अवेद्यत्वरूपाखप्रकाशत्वस्य सद्विलक्षणत्वादिरूपमि थ्यात्ववति तुच्छेऽपि विद्यमानत्वात्, ब्रह्मविषयकश्रौतसत्यत्वव्यवहारप्रयोजकराहित्यस्यैव मां प्रति सिषाधयिषितत्वेन सवप्रकाशत्वादेरेव तत्सत्यत्वव्यवह्दारप्रयोजकत्वेन तदभावसाधने मां प्रति सिद्धसाधनात् इति सर्वदेशीयत्रैकालिकनिषेधा- प्रतियोगित्वमेव सत्त्वं तच्च मिथ्यात्वविरोधीति न्यायामृतीयराद्धान्तो युक्त एव। सर्वदेशकालवृत्तिनिषेधानां चक्षुराद्ययोग्य- त्वेऽपि तदभावस्य प्रतियोगित्वस्य च चक्षुरादियोग्यत्वसंभवात्, घटवृत्तिसंसर्गाभावप्रतियोगितस्य प्रागभावप्रतियोगित- वद्योग्यलात्, घटादिज्ञानानन्तरमयमिहैव नान्यत्रेत्यन्यनिष्ठाभावं प्रति प्रतियोगित्वस्यानुभूयमानत्वात्, अन्यनिष्ठाभावस्य तु विशेष्यासन्निकर्षेणा्रहणेऽपि प्रतियोगित्वस्य स्वरूपविशेषात्मनो योग्यत्वेन तदुपलम्भापादनसंभवात्, मम मते शुक्ति- रूप्यस्यैव तादृशनिषेधप्रतियोगितस्य साक्षिगोचरस्य दृष्टान्तत्वसंभवात्, पतेन-खसमानाधिकरणयावदत्यन्ताभावप्रति- योगित्वाभावरूपं सत्त्वं चक्षुरादियोग्यमिति-सूचितम्; यस्मिन्कस्मिंश्चित्सदेशकालवृत्तिनिषेधे निषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोपस्थापितत्रिकालनिषेधप्रतियोगित्वस्याभावस्य घटादौ ग्रहणसंभवात्। अतीन्द्रियसाधारणप्रतियोगित्वस्या- योग्यत्वेऽपि तदभावस्य चक्षुरादियोग्यत्वसंभवात्, नहि योग्यप्रतियोगिकाभाव एव योग्यः; घटे मनस्त्वाभावस्य जलप- रमाणी पृथिवीत्वाभावस्य च प्रत्यक्षत्वाप्रत्यक्षत्वव्यवस्थानुपपत्तेः, असद्गेदरूपसत्त्वप्रत्यक्षस्य प्रतियोगियोग्यत्वं विनाप्युप- पत्तेश्च। सामान्यस्येन्द्रिय प्रत्यासत्तित्वाभावेऽप्यनुमानात्सकलनिषेधानामुपस्थितिसंभवात् तत्प्रतियोगित्वाभावस्य तादृश- प्रतियोगिभिन्नत्वस्य वा चक्षुरादियोग्यत्वसंभवात्। पतेन-पराभिमतमिथ्यात्वाभावः, असद्वैलक्षण्ये सत्यनारोपितत्वं, अस्तित्वप्रकारकप्रमां प्रति कदाचित्साक्षाद्विषयत्वं वापि सत्वं सन् घट इति प्रत्यक्षगोचर इति न्यायामृतसिद्धान्तोऽयुपप- द्यत एवेति-सुचितम्; आद्ये परेषां तुच्छ व्यावृत्तस्यैव मिथ्यात्स्य विवक्षितत्वात्तुच्छे व्यभिचाराभावात्, अनारोपितत्वं चानिर्वच नीयभिन्नत्वं मतद्वयेऽपि घटादीनां विद्यत इति द्वितीयेSसंभवाभावात्, तत्काले स्वरूपतोविद्यमानस्य कालत्रयनि- षेधरूपमिथ्यालानुपपत्त्या वर्तमानतरूपास्तित्वविवक्षणे तृतीयेऽपि दोषाभावात्-इति प्रत्यवतिष्ठन्ते॥ (४) लघुचन्द्रिकाकारास्तु- यादृशं ब्रह्मणः सत्मित्यत्र ब्रह्मस्वभावो न विवक्षितः सिद्धिकाररपि, किंतु श्रौतसत्यत्वव्यवहारप्रयोजकं सत्धर्म एव। स्प्रकाशाद्वितीय चैतन्यस्वरूपमपि ब्रह्मधमंत्वेन कल्पितमिति न दोषः। तादृशं च सत्वं जडेभ्योऽत्यन्तभिन्नं न जगद्धर्मो भवितुमहति। अत्यन्तभेदे धर्मधर्मिभावात्, कल्पितेन जडतादात्म्येन जडधर्मत्वं तु शुक्तिगतसत्वेदन्त्ादे रजतादाविव ब्रह्मगततादृशसत्वादेः संसर्गारोपेण भवति। एवंच रजतत्वविरोधिनः शुक्तिसत्वादः संसर्गारोपान्यथानुपपत्त्या रजतस्य शुक्ताविव ब्रह्मणि प्रपश्चस्याप्यारोपिततवस्यव मिद्धा तस्य च मिथ्यालानुकूललानन प्रत्यक्षबाधः । एतेन-सप्रकाशाद्विती- यचैतन्यरूपल्ाभावसाधने सिद्धसाधनादिकं-पराह्तम्। एतेन-सर्वदेशीयत्रैकालिकनिषेधा प्रतियोगितमपि न सत्वं प्रत्यक्षगोचरमिति-सूचितम्: नहि प्रतियोग्ययोग्यत्वेभावयोग्यत्वं संभवति। यदि प्रतियोगित्वं स्याप्तर्युंपलभ्येतेत्या- पादनस्यातीन्द्रियसाधारणप्रतियोगित्वंSसंभवेन योग्यानुपलब्धेरभावात्। प्रागभावसत्वे आश्रयासन्निकर्षण तदसत्वे प्राग- भावासन्निकर्षेण च प्रागभावप्रतियोगितस्याप्रत्यक्षत्वेन तद्टृष्टान्तेन संसर्गाभावप्रतियोगितप्रत्यक्षसमर्थनासंभवात्, यत्किचि- त्संबन्धप्रत्यक्षे संबन्धिप्रत्यक्षस्य हेनुतयाऽभावप्रत्यक्षं बिना तत्प्रतियोगिप्रत्यक्षासंभवाच। पतेन-अयमिहैव नान्यत्रति प्रत्यक्षमपि-व्याख्यातम्; तेन सन्निकृष्टदेशनिष्ठात्यन्ताभावप्रतियोगित्स्यैव विषयीकरणेनादोषात्, शुक्तिरु्ये तु यथानिषेधप्रतियोगित्वं साक्षिणा ग्रह्यते, एवं निषेधोऽपि गरृह्यत इत्यभावाप्रत्यक्षत्वे तत्प्रतियोगिप्रत्यक्षलस्य कुत्राप्यदर्शनात्। पतेन-ससमानाविकरणयावदत्यन्ताभावाप्रतियोगिवमपि न सत्वमिति-सूचितम्; निषेधायोग्यत्वेन प्रतियोगित- स्याप्ययोग्यत्वेन तदभावग्रहणासंभवात्, योग्यप्रतियोगिकाभाव्स्यव योग्यलान्, मनस्तरूपेण घटादी मनस्लाभावो न प्रत्यक्षः। एतेन-योग्यप्रतियोगिक एवाभावो योग्य इत्यस्य योग्य प्रतियोगिकान्यस्यायोग्यतपरत्वे योग्यायोग्यप्रतियोगि- कोक्ताभावयोर्योग्यतापत्तिः, अयोग्यप्रतियोगिकः संसर्गाभावो न योग्य इत्यर्थपरत्वे महावायौ रूपसामान्याभावः प्रत्यक्ष इति दीघितिग्रन्थविरोधः, अयोग्यधर्मावच्छिन्नप्रतियोगिताकाभावोन योग्य इत्यर्थपरत्वे घटादावुक्क्तप्रतियोगितवद्गेदस्य प्रत्यक्षानिराकरणमिति बाधसामान्यानुद्धार इति शक्मापि-पराहता; योग्यप्रतियोगिकपदेन खवप्रतियोग्युपलम्भापा- दकतायोग्यप्रतियोगिक इत्यर्थविवक्षणे दोषाभावात्, भेदप्रत्यक्षेऽपि प्रतियोगियोग्यतापेक्षणावश्यकतया 'अतएव मूर्तसामान्यतद्वनोरिवोपाधिसामान्यतद्वनोरत्यन्ताभावान्योन्याभावी न योग्यो' इति दीधितिप्रन्थेन प्रतिपादनेन मेदप्रत्यक्ष- स्याप्युपपादनासंभवात्। पतेन-परमाणो पृथिवीलाभावप्रत्यक्षमपि-व्याख्यातम्। एतेन-पराभिमतमिथ्याला- भाव: असद्वैलक्षण्ये सत्यनारोपितलम्, अस्तित्प्रकारकप्रमां प्रति कदाचित्साक्षाद्विषयत्वं वापि सत्वं न भवतीति- सूचितम् ; प्रथमे चक्षुराद्ययोग्यलातू, द्विनीये प्रपश्वस्यानिर्वचनीयत्वेनारोपितत्वेनारोपितभिन्नत्ाभावात, तृतीये तत्काले
Page 148
[साक्षिबाधोद्धारः] विट्ठलेशोपाध्याय्युपबृहितगौड ब्रक्मानन्दीयुता। ३५१
अथ साक्षिबाधोद्धार:। ननु-प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादे: प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्व- रूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात्? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तदन्यथानुपपत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति तादृङ्निषेधप्रत्ययः स्वसंबन्धसर्वाभासकेन साक्षि णैवोपपन्नः, तर्हि साक्षात् स्वविषयस्य गगनादेर्भीविकालनिषेधाप्रतियोगित्वं सकलकालग्राहिणा साक्षिणा गृह्यतां इति-चेन्न; साक्षिणो विद्यमानसर्वावभासकत्वेनाविद्यमानभाविबाधाभावभास कत्वानुपपत्तेः, साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्च। ननु-जानप्रामाण्यं गृहन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव, नहि विषयाबाधमनन्तर्भाव्य प्रामाण्यग्रहणं नाम इति-चेन्न; व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावपि संवादोपपत्तेः, तद्रूपगतप्रामाण्यस्य साक्षिणा प्रहणेऽपि विरोधाभावात्। नहि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकालबाध्यविष- यकत्वम्, किंतु शुक्तिरूप्यादिजानव्यावृत्तं व्यवहारकालाबाध्यविषयकसकलज्ञानवृत्ति व्यवहार- कालाबाध्यविषयकत्वमेव। तञ्च न भाविकालवाधविरोधीत्युक्तम्। भाविकालबाधतद्भावी नच मानं विना साक्षिणा ग्रहीतुं शक्यौ, तस्य विद्यमानमात्रग्राहित्वादिति चोक्तम्। ननु-तर्हि देहा- त्मैक्यज्ञान'मुष्णं जल' मित्यादि जानं च प्रमा स्यात्, व्यवहारदशायां विषयाबाधात्-इति-चेन्न; आव्रह्मज्ञानमवाधितन्वेन तेपामपि घटादिज्ञानसमानयोगक्षेमन्वात्। ननु-कालान्तरस्थमपि यत् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधति, उतान्य- कालावच्छेदेन, आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये अनित्यत्वादिकमेव-इति चेन्न; अबाध्यत्वरूप-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अथ साक्षिवाध्यत्वनिराकरणम्। तादृगिति। प्रनिपन्नोपाधी त्रैकालिकनिषेधेत्यर्थः। साक्षात् ज्ञानाज्ञानविशेषणनैरपेक्ष्येण गगनादे: साक्षिभास्य- त्वस्वीकारात। भाविकालनिषेधेति। भाविकाले प्रनीयमाननिषेधेत्यर्थः । साक्षिणः प्रमाणवृत्त्यनुपहितसाक्षिणः । विद्यमानसर्वावभासकत्वेन विद्यमानमात्रे तादान्म्येन विद्यमानकाले संब्रद्धतया। अविद्यमानेत्यादि। अवि- दमनो यो भाविबाध: भाविकालावच्छिसं प्रनिपल्लोपाधी निषेधप्रतियोगित्वधीविषयत्त्रं, नदभावासाधकत्वादित्यर्थः । उक्तधीविषयत्वस्येदानीं साक्ष्ययोग्यत्वात्तदभावोऽपीदानीं तथा। साक्षिणेव हि तादृशविषयत्वं ज्ञेयम्; तग्र मानान्तर- स्येदानीमनवतारात, अवतारे वा तत एव तदभावग्रहसंभवादिति भावः। अज्ञाततया तादृशाभावग्रहणं तु न वस्तु- साधकम्; तस्याज्ञातांशे निश्चयत्वाभावात्। साक्षिग्राह्यत्वं स्वीकृत्याह-भ्रमप्रमेति। सुखाद्यंशे प्रमात्वस्येव शुक्ि- रूप्याधंशे अ्रमत्वस्यापि गृह्यमाणत्वेन त्रिकालनिषेधाप्रनियोगित्वांशेऽपि भ्रमत्वशङ्कासंभव इति भावः। व्यवहारे- त्यादि। व्यवहारकालाबाध्यविषयकत्वमाश्रेण ज्ञाने प्रवृत्तिसामान्यप्रयोजकत्वादिसंवादोपपत्तेरित्यर्थः । ननु दोषसम- वहितप्रमायां प्रमात्वाग्रहेऽपि प्रवृत्यापत्तेः प्रमार्वेन जायमाननिश्चय एव प्रवर्तकः; त्वन्मते च विषयाबाधस्य साक्ष्य- आ्राम्यत्वात् तस्यानुपपत्तिः, तत्राह-तद्रूपेति। ननु तवन्मते संवादिप्रवृत्तिर्न स्यात्; तस्यां त्रिकालाबाध्यविषयकत्वेन हेतुत्वकल्पनादित्याशक्क्य प्रवृत्ती याहशमविसंवादित्वं तद्धटितमेव प्रमात्वं प्रवर्तकज्ञानेऽपेक्ष्यते, औचित्यादित्याशयेनाह- न हीत्यादि। संवादीति । व्यवहारकालाबाध्यविषय केत्यर्थः। व्यावृत्तमिति। शुक्तिरुप्यादिविषयकप्रवृत्तेरुक्कसं - वादित्वाभावात् शुक्तिरूप्यादिज्ञानाय्यावृत्तं प्रामाण्यमुक्तप्रवृत्तिप्रयोजकमिति भावः। विषयकत्वमेवेति। स्मृतेरपि संवादिप्रवृतिजनकत्वात् तत्साधारण्यं न दोषायेति भावः। अनेन इदानीन्तनेन प्रपञ्चज्ञानेन अनित्यत्वादीत्यादिना निषेधस्याव्याप्यवृत्तित्वम्। एवकारातु न मिथ्यात्वधीरूपो बाधः; मिथ्यास्वस्य प्रतिपन्नदेशकालावच्छिन्नघटितत्वा- दिति भावः। अबाध्यत्वेति। प्रतिपन्नदेशकालावच्छिव्वनिषेधस्य यत् प्रतियोगित्वं तद्धीविषयत्वसामा न्याभावस्या- नवच्छिभ्नाधिकरणतवेत्यर्थः । प्रामाण्यं व्यवहारकालावच्छितस्य मिथ्यात्वनिश्चयाविपयत्वस्य य आश्रयः तद्विषयक- श्ीत्वरूपम्। अत्रेदं बोध्यम्-तद्रूपप्रामाण्यस्य साक्षिणा अहणेऽपि विरोधाभावादिति यदुक्तं, तत्रापिशब्देन सद्रूप-
प्रतीयमानतस्यैव शुक्तिरूप्यादावन्गीकारेण कालसंबन्धिताभावेन स्वरूपतो निषेधसंभवेन वर्तमानकालसंबन्धस्याप्यभावे- नादोषादिति सर्वमनवद्यम्-इति खण्डयन्ति॥ इति सत्वनिरुक्ति:॥
Page 149
३५२ अद्वैतसिद्धिः सव्याख्या। [परिच्छेद: १]
प्रामाण्यस्य प्रपञ्चज्ञाने मयानङ्गीकारात्। यत्कालावच्छेदेनैवानेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधाभ्युपगमात्। तञ्च प्रामाण्यं मथाभ्युपेयते। तत् व्यवहारदशायां विपरीतप्रमारूपबाधकस्या- नुत्पन्नत्वादस्त्येव। नच-यत् भवतां घटादिवुद्धे: प्रातिभासिकबुद्धितो वैलक्षण्यं विषयस्य व्याव- हारिकसत्त्वसाधकं, तदेवेह मम विषयस्य पारमार्थिकसत्त्वसाधकमस्त्विति-वाच्यम्; प्रातिभासि- कबुद्धिवैलक्षण्यं हि घटादिवुद्धे: सप्रकारकज्ञानाबाध्यविषयत्वादिरूपम्, तन्न पारमार्थिकसत्वं घटादेः, साधयितुं शक्तम्: देहात्मैक्यज्ञाने ब्रह्मज्ञानाव्यवहितभ्रमे च व्यभिचारात्। ननु-'घटस्सन्' 'रूप्यं मिथ्ये'ति प्रतीत्योरविशेषे कथं 'घटो मिथ्या रूप्यमिथ्यात्वं न मिथ्येति विशेषः? नच तदपि मिथ्यवः रूप्यतात्विकत्वापन्ते :- इति चेन्नः मिथ्यात्वमिथ्यात्वेऽपि यथा न रूप्यस्य तात्विकत्वं तत्रोपपत्तेरुक्तत्वात्। नच-पारमार्थिकसत्त्वस्य प्रत्यक्षागोचरत्वे तन्निषेधश्रुतीनां अप्रसक्तप्रतिषेध- कता स्यादिति-वाच्यम: तासां चक्षुरादिप्रसक्तद्वैतनिषेधपरत्वात्. पारमार्थिकत्वेन द्वैतनिषेधपर- त्वेऽपि नाप्रसक्तनिषेधकत्वम्: परोक्षप्रसक्ते: संभवात्, 'नान्तरिक्षेS्निश्चेनव्य' इत्यादिवदप्रसक्तप्रति- वेधस्याप्युपपत्तेश्च। नच-अतात्विकप्रपञ्च यदि तात्विकत्व्रमप्यध्यक्षेण न गृह्यते, कथं तर्हि तस्या- तत्वावेदकत्वम्? नहि तदेव तत्वेनावेदयत्तात्विकं नाम, दृश्यते च सार्वलौकिकप्रपश्चे पारमार्थिक- त्वानुभव इति-वाच्यम्: नह्यस्माकं तत्वावेदकत्वं तद्वति तत्प्रकारकत्वम्, तन्भ्रिन्नत्वमतत्वा- वेदकत्वम्, किंत्वबाधितविषयत्वं तत्वावेदकत्वम्, वाधितविषयत्वं चातत्वावेदकत्वम्, अबाधि-
गौडव्रह्मानन्दी (लघुचन्द्रिका )। प्रामाण्यं न साक्षिणा ग्रहीतुं शाक्यत इति सूचितम्। तथाच तार्किकादिरीत्या साक्षान्क्रियमाणस्यैव साक्षिभास्यना वकुं शक्या; अन्यथा पिशाचाद्यभावस्यापि तदुकयापत्तेः, नार्किकादिरीत्या तु व्यवहारकालावच्छिन्नस्य मिथ्यात्वनिश्च याविषयत्वस्य न साक्षात्कारः संभवनि; घटादिकं यदि व्यवहारकाले मिथ्यात्वेन निर्श्चीयेत, तदा तथा मयोपलभ्येतेत्या- पादानासंभवेन योग्यानुपलम्भाभावात्, पुरुषान्तरीयमिथ्यात्वनिश्चये सत्यपि मयि तद्भावेन मम तथोपलम्भाभाव- संभवात्। अथ निश्चीयेत्तेत्यत्रापि मयेनि विशेषणं देयं, तथापि व्यवहारकालीनस्य भृतभाविकालघटितस्यापि संभवेन तद्दटितस्य बाधस्य सत्त्वेऽपि नोपलम्भसंभवः इनि न तदापत्तिः। किंच मिध्यात्वमतीन्द्रियासन्निकृष्टाभावादिघटितमिति तद्दटित निश्चयविषयत्वस्य सत्त्वेऽपि नत्वेन रूपेणोपलम्भासंभवाओनोपलम्भापत्तिरिनि नानुपलब्धे: प्रतियोगिसस्वप्रसञ- नप्रसक्षितप्रतियोगिकत्वरूपा योग्यतेति। नचवं-प्रमात्वस्य स्वतोग्राह्यत्वाभावाद्दोपासमवहितज्ञानमात्रस्य प्रमा- त्वग्राहकमानानवतारेऽपि प्रवर्तकत्वमानुभविकं व्याहन्येतेनि-वाच्यम्; मिध्यात्चेन अज्ञातं यन तद्विपयकज्ञानत्व- रूपप्रमात्वस्य ज्ञानसामान्यग्राहकसाक्षिपराह्यत्वरूपस्वनोग्राह्यत्वसंभवान प्रवृत्तिसामान्ये तादृशप्रमात्वेन जञायमान- निश्चयस्य हेतुत्वमंभवात, 'ज्ञातन्वेनाज्ञातन्वेन च सर्व साक्षिभास्य'मिति विवरणोके: ज्ञातन्वेन मिथ्यात्वविशिष्टस्य साक्षिभास्यत्वसंभवान, भ्रमेऽपि बाधात पूर्वमुक्तप्रमात्वधीसंभवेन ततः प्रवृत्तिसंभवात्। एवं संवादिप्रवृत्ती व्यवहार- कालावाध्यविपय कत्वेन हेनुत्वे न मानम्; संवादिन्वस्य विसंवादित्वस्य वा जन्यतानवच्छेदकत्वात्, अन्यथा विपयनिष्ट यावन्तो धर्माः तद्यक्तितदन्यव्यत्तयन्यनरत्वादयः प्रत्येकं तद्वद्विशंष्यकप्रवृत्तित्वेनापि जन्यतापत्तेरिनि भावः । ननु दृश्यत्वादिहेतोः प्रत्यक्षवाध्यन्वं मास्तु। अनुमानवाध्यत्वं तु स्यात; येन हेनुना भवतां व्यावहारिक त्वस्यानुमिनि: पूर्व सिद्धा । तेनैव पारमार्थिकत्वस्यानुमिनिः मिद्धा; सा चेदानीं जायमानायां मिथ्यात्वानु मिती प्रतिबन्धिकेत्याशयेन शङ्कते-नचेति । प्रातिभासिकेति । ब्रह्माविपयकधीबाध्येत्यर्थः । विषयक-
ब्रह्मधीबाध्यविषयकत्व्रसंग्रहः। तन्निपेधेति। नेन रूपेण द्वैतनिपेधेत्यर्थः। अप्रसक्तप्रतिपेधतेति। येन रूपेण यत्र यत् न ज्ञातं, तेन रूपेण तत्र तव्निषेधकतेत्यर्थः। चक्षुरादीत्यादि। दृश्यन्वादिरूपेण वक्षुरादिना ग्रह्मणि ज्ञातस्य द्वैतस्य निषेधपरन्वादित्यर्थः। नान्तरिक्ष इत्यादि। यत्र निपेधे तात्पर्य, तत्र प्रतियोगिप्रसत्तयादिकं विना तत्कल्पन- वैयर्थ्यात् तदावश्यकता, यत्र तु नान्तरिक्ष इत्यादी न प्रनिषेधपरत्वम्, किंतु मानान्तरसिद्धतदनुवादद्वारा विधेयस्तु- तिपरत्वं तत्र न तदावश्यकता। तथाच सत्यत्वविशिष्टद्वतरूपप्रतियोगिनो ब्रह्मणि ज्ञानरूपां म्रसकतिं विनापि मिध्यान्वत्रानुमानादिसिद्धस्य ब्रह्मगनस्य सत्यन्वरूपेण द्वैताभावस्यानुवादद्वारा उक्तश्रुतीनां विधेयब्रह्मस्तुतिपरत्वमिति भाव: । अर्थवादाधिकरणे-'न पृथिव्यामननिश्चेनव्यो नान्तरिक्षे न दिवी'त्यत्न न प्रतिषेधधीः; प्रनियोगिनोऽन्तरि- क्षादिनिष्ठचयनस्याप्रसकत्वात्, चयनविधिना पृथिव्यां चयनस्य प्रमितत्वेन प्रतिषेधबुद्धसंभवात्, नच-पाक्षिकत्वाय निषेध इति-वाध्यमू; यद्यभिं चेष्यमाणा' इनि पाक्षिकत्वसिद्धवदनुवादादिना तस्य सिद्धन्वात्, तस्मादुक्तवाक्यम-
Page 150
[प्रत्यक्षे० अधिष्ठाना०] गौडब्रह्मानन्दीयुता। ३५३
तविषयत्वं च श्रौते ब्रह्मज्ञान एव, तन्भ्िन्नज्ञाने तात्पर्यवद्वेदत्वेनैव तत्वावबोधकत्वात्। तथाच प्रपथ्वप्रत्यक्षस्य तात्विकत्वागोचरत्वेऽप्यतत्वावेदकत्वं सङ्गच्छते । सार्वलौकिकी पारमार्थिकत्व प्रसिद्धिस्तु जलगतपिपासोपशमनसामर्थ्यप्रसिद्धिवत् परोक्षनयाप्युपपन्ना नापरोक्षत्वपर्यवसा यिनी ॥ तस्मादध्यक्षयोग्यस्य सत्त्वस्येहानिरुक्तितः। नाध्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते॥ न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं न च। प्रत्यक्षं बाधते लिङ्ं मिथ्यात्वस्यानुमापकम्॥ इति प्रत्यक्षयोग्यसत्वानिरुक्त्या प्रत्यक्षबाधोद्दार:। अथ सन्घट इति प्रत्यक्षेऽ्रधिष्ठानानुवेध:। 'किंचेदं रूप्य' मित्यत्र इदमितिवत् 'सन् घट' इत्यत्रापि सदित्यधिष्टानभूतं ब्रह्मैव भासते। नच-चाक्षुपादिजाने रूपादिहीनस्य ब्रह्मण: कथं स्फुरणमिति-वाच्यम्:रूपादिहीनस्यापि कालादि न्यायेन स्फुरणस्य प्रागेवोपपादितत्वान्। नन्वेवं-'नीलो घटः मिथ्या रूप्यमसननृष्ङ्ग'मित्यादा- वपि 'नील' इत्यादिरधिष्ठानानुवेध इति म्यात्, नच्र-नैल्यं घटादिप्वस्ति, सत्त्वं तुनेति-वाच्यम; अम्यारोपितत्वसिध्यु त्तरकालीनत्वेनान्योन्याश्रयात् : अन्यथा 'सत्यं ज्ञान' मित्यत्रापि सत्यमित्यधि- ष्टानानुवेध एव म्यान्-इति चेन्न: सन्नित्यम्य 'घट' इत्यनेन सामानाधिकरण्यस्य वाधित्वात्। तथाहि-सत्ताजातिस्फुग्णनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयावाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात्। नचाभावादिसाधारणसत्प्रतीतां सत्ताजा तिस्फुरणं संभवतिः अभावादिषु त्वयापि तदनङ्गीकारात्। न च कवचित्साक्षात्सम्बन्धेन क्वचित् परस्परासम्बन्धेन सदिति प्रतीत्यु- पपत्तिः: विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः, अन्यथा सम्बन्धभेद एव न सिध्येत्। नच्र गांडब्रह्मानन्दी (लघुचन्द्रिका)। प्रमाणमिनि प्राप्ते, न पृथिव्यामिति वाक्यं शुद्धपृथिव्यां चयनाभावस्य नित्यानुवादो 'हिरण्यं निधाय चेतव्य'मिति विहिनहिरण्यम्नुत्यर्थः, तदुपपादकं नान्तरिक्ष इत्यादिकम्, यथान्तरिक्षादौ न चयनं तथा शुद्धपृथिव्यामिति सिद्धान्तितम्। तान्पर्यवदिति। तात्पयं तत्परता ब्रह्मपरतेनि यावत्। पिपासोपशमनेति। दुःखविशेपानुत्पा- देत्यर्थः । सामर्थ्यति। प्रयोजकशक्तीतयर्थः। पर्यवसायिनी विशिष्टा। न लौकिकमित्यादि। लौकिकादिप्रत्यक्षं न मिथ्यात्वानुमापकस्य बाधकम्। नापि पारमार्थिकत्वसाधकं लिङ्गं तद्वाधकमित्यर्थः। इति लघुचन्द्रिकायां प्रत्यक्षयोग्यसत्त्वासंभवात् प्रत्यक्षवाधोद्धार: । अथ सन्घट इति प्रत्यक्षस्याधिष्ठानानुवेधेनोपपत्तिवर्णनम्। भासते आरोप्योत्पत्तिकालोत्पन्नतादात्म्यापन्नं सदपरोक्षतया भाति। तथाच सत्तादात््यांशे लौकिकमपि प्रत्यक्षं न बाधकम्; तम्य मिध्यात्वेन प्रपञ्चमिध्यात्वसिद्धनुकृलत्वादिति भावः। प्राकू मिथ्यात्ववादे। अधिष्ठानानुवेघ: आरोप्यघटाढितादात्म्यापस्नमधिष्टानम्। घटादिप्वस्ति आरोप्यमाणे कार्यवर्गे घटादावन्तर्भूतम्, नत्वधिष्ठानम्। सत्वं सदपम्। न तथा नारोप्यमाणकार्यवर्गान्तर्गतम्। अस्य उक्तार्थस्य। अथ सद्रपज्ञानस्य वेदान्तवाक्या- धीनस्य सदपनिष्टवटादितादात््यवावकत्वेन सद्रपं नारोप्यान्तर्गतमिनि समाधतते-न सन्नित्यस्येति। आरोप्यवर्गो न सद्रूपघटित इनि साध्ये हेनुः सन्नित्यस्येत्यादि। अनेनेति तृनीया सहार्थे। सामानाधिकरण्यस्य तादात्म्यस्य। सन्नित्यस्येति सामानाधिकरण्ये बाधे चान्वेति। तथाच सन्नित्यस्य घटादिना सहितं यत् तदीयतादात्म्यं भरमे प्रतीयते, तस्य सदूपज्ञानरूपबाधोच्छेद्यत्वादित्यर्थः। अत्रोक्तोच्छेदयोग्यतवं सदुपादानकत्वसद्धस्यत्वािकं हेतुत्या विवक्षितम्, तेन नोक्तान्योन्याश्रयः। तमेव हेतुं साधयति-तथाहीत्यादिना युक्तमित्यन्तेन। निबन्धनं घटितम्। जातेः सर्वगतत्वपक्षे अभावादी तत्स्त्वेऽपि तदस्फुरणादेव तत्सामानाधिकरण्यबुद्यभावः, अतो जातिस्फुरणे- त्युक्तम्। अन्यथा साक्षात्संबन्धस्य प्रामाणिकत्वसंभवेडपि परम्परासंबन्धकल्पने। संबन्धभेद: साक्षात्संबन्धनाना- त्वम्। घटादे: संयोग एव समवाय एव वा साक्षात्संबन्धोडस्तु; कपालादौ भूतलादी वा परम्परासंबन्वसंभवात्। अथक साक्षात् क च परम्परेत्यस्य।विनिगम्यत्वादुभयत्र परम्परासंबन्धाननुभवाच्चोभयत्रापि साक्षात्संबन्धः, तर्हिं द्रव्यादित्ये साक्षात् अन्यत्र परम्परेति वा, अन्यत्रैव स्वरूपसंबन्धेन समवायत्वाभावत्वादिवद्खण्डोपाधि: सत्ता वर्तते, द्रव्यादित्ये तु स्वरूपसंबन्धघटितपरम्परासंबन्धेनेति वेत्यस्याविनिगम्यर्वात् उभयत्र परम्परासंबन्धाननुभवाच उभयत्रापि साक्षा- रसंबन्धः । तत्र घटादेरुतपत्तिकाले कपालादी संयोगस्य भूतलादौ समवायस्य चासंभवात् संबन्धभेदसिद्धावपि प्रकृते एक एव संबन्धः सर्वत्र संभवनीति स एव कल्प्यते। नच-जन्यसस्वावच्छिसे द्रव्यतवेनोपादानत्वमवश्यं वाच्यम्; अ. सि. ४५
Page 151
३५४ अद्वैतसिद्धिः। [परिच्छेद: १]
स्वरूपसत्वेनाभावादौ तत्प्रतीतिः अननुगमात्, अननुगतेनापि अनुगतप्रतीतौ जातिमात्रोच्छेदप्रस- झात्। अतएव न सर्वत्रापि स्वरूपसत्त्वेनैव सह्यवहार :; एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युप- पत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात्। नापि कालत्रयाबाध्यत्वनिबन्धनं तत्; तस्य चक्ुराद्यग- म्यत्वस्योक्तत्वात्, 'सदिदं रजत' मित्यादिभ्रमे अभावाच्च। तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्व- प्रानुभूयत इति युक्तम, नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम्, न वा नीलादे- रधिष्ठानत्वं सम्भवतिः प्रागसत्वात्, नीलपीतादिप्रातिस्विकानन्ताघिष्ठानकल्पने गौरवात्, अधिष्ठे- यतुल्ययोगक्षेमत्वाञ्च। अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवतिः 'मिथ्या रूप्यमसन्नृशृङ्ग' मित्या- दौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्तीति शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता; वक्ष्यते च । यनु-'सत्यं झानमनन्त' मित्यत्रापि तथा स्यात्-इति । तन्न; यतो न तत्र सत्तासम्बन्धेन सत्त्वम्, किंतु स्वरूपेणवेत्युक्तदोषानवकाशात्। नंचवं घटादावपि स्वरूपेणैव तथात्वम्; पूर्वमेव निराकृतत्वात्, इति सन्घट इति प्रत्यक्षेऽधिष्टानानुवेधनिरूपणम्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अन्यथा कपालरूपादे: कारणस्य स्वसमवायिसमवेतत्वसंबन्धेन घटादावित कपालरूपादावपि सत्त्वात्तत्रापि रूपादिक- मुत्पद्येत, तथाच द्रव्यादित्रये सत्तासमवायस्यावश्यकन्वात् तद्टटितपरम्परामंबन्धेनान्यत्र सत्तासंभवादन्यत्र सत्तायाः स्वरूपसंबन्धोक्तिर्न युक्तेति-वाच्यम्; एकका एव नीलारुणादिव्यक्तय इत्यस्मिन्मते रूपादीनामाकाशादिवद् विद्यादिज- न्यत्वेऽपि कपालरूपाद्यजन्यत्वेनोक्तयुत्तयनवकाशादिनि भावः। अननुगतेनापीत्यादि। अनेकव्यक्त्यनुगतवस्तुवि- षयकत्वेन सर्वसंमतप्रतीतेरननुगतानेकार्थविपयकत्वस्वीकारे। जातिमात्रोच्छेदापत्ति: गन्धादिकारणतावच्छेदकत- यापि पृथिवीत्वादिजानिर्न सिध्धेत्; 'पृथिवी गन्धकारण'मित्यादिप्नीतेरपि तत्तदयक्तितवावच्छिन्नकारणत्वविषयकत्वस्य वनुं शक्यस्वात्। अनेकतादृशकारणतादिव्यक्तिकल्पनागौरवं तु कल्पनारूपप्रतीतेरनेक विषयकत्वगौरवे पर्यवसन्नमिति भावः । सर्वत्र अभावादिभिस्नस्थलेऽपि। अभावादी स्वरूपसत्ताशह्कायाः 'नच स्वरूपे'त्यादिना परिहृतव्वात्। स्वरूपसत्वेन घटादिस्व रूपेण काल संबन्धित्वस्व रूपेण वा सच्चेन। एकेनेति। अविद्यारूपमहाकालस्यकस्यापि न सामान्यादिसाधारण एकसंबन्धोऽम्नीति भावः। तस्मात् जात्यादेः सदाकारतुद्धिषु तादात्म्यभानासंभवात् सर्वाधिष्टानं तादात्म्येन सर्वसंबन्धि- ब्रह्म। यथाहि कार्यसामान्ये ब्रह्मणो निमित्तता, तथोपादानतापि कार्यन्वेन हेनुना आत्मनिमित्तोपादानकसुखा- दिद्ष्टान्तेन ब्रह्मरूपैकस्वनिमित्तोपाढानकत्वानुमानात्। तथाच कार्यस्य सर्वस्य ब्रह्मतादात्म्यसरवात् ब्रह्मेव सदित्यत्र भानि, ब्रह्मणो ज्ञानरूपत्वेनापि ज्ञेयेः सर्वैर्विषयतारूपं तादात््यमम्नीत्यतोऽपि ब्रह्म तथा भातीनि भावः । यत्तु ब्रह्मबुद्या घटतत्तादान्म्यादेर्वाधितत्व्मुक्तम्, तन मिथ्यात्वानुमाने सदपनादान्म्यवुद्देर्न विघानकन्वम्; प्रन्युतानुकूल्य- मेवेनि ज्ञापनायेि बोध्यम्। एतेन-प्रपञ्चे मिध्यात्वस्याद्याप्यसिद्धत्वेन प्रपज्वाधिष्टानव्रह्मणः सदाकारवुद्ी घटादिता- दाल्येन भासमानत्वोक्तिरमङ्गता; मिथ्याकार्योपादानन्वरूपाधिष्टानत्वस्यंवासिद्धत्वात्-इत्यपास्तम्: घटादितादातयेन भासमानत्वं प्रन्युपाद्दानत्वादिप्रयुक्तस्य घटाढिताद्ान्म्यस्यैव हेनुत्वेनोक्तत्वात्। ननु ब्रह्मण इूव नीलरूपादेरप्युपादान- स्वस्य वकुं शक्यतया नन्वेवमित्याद्युक्ापत्तेरनुद्धारस्तन्राह-नीलेत्यादि। नीलादिनिषं घटादिसामानाधिकरण्यं प्रति नीलादिविपयकं बाधकं ज्ञानं किमपि नास्तीत्यर्थः । तथाच नीलदिरुपादानत्वं न परिणामितया; कार्योत्पत्तिपूर्व परिणामिनःस्फुरणनियमात्, अतोऽपरिणामितया तद्वाच्यम्, नञ्च न संभवनि; बाधकज्ञानविषयस्यैव तत्स्वीकारात्। अधिष्ठानत्वमपरिणामितयोपादानत्वम्। नीलादेरेकेकनित्यत्वमते प्राक् सत्वादाह-नीलपीतेति। अविद्यासदप- यो: सामान्योपादानत्वस्य कपालादेर्विशेपोपादानत्वस्य चावश्यकत्वेन नीलांदेरन्यथासिद्ध्वेनोपादानत्वमप्रामाणिकम्, अतो गौरवं दोष इत्यर्थः । यत्प्रमया यत् बाध्यने तत् तस्य तादृशोपादानम्। तञ्च तदपेक्षया अधिकसत्ताकम्; समसत्ताकयोर्बाध्यब्राधकधीविषयत्वस्यादष्टत्वात्, स्वाप्नज्ञानयोर्बाध्यबाधकत्वं तु मिथ्यात्वेन ज्ञाप्यज्ञापकत्वरूपम्, न तूच्छेद्योच्छेदकत्वमिनि भावः। नीलाद: प्राक्कालवृत्तिसद्रपाधिष्टानतादात््यज्ञानान् सत्यत्वराभ्या अधिष्टानतवं शङ्कास्पदम्, मिथ्यात्वेन तुच्छत्वेन वा ज्ञायमानस्य तु न तत्तथेत्याह-मिथ्यारूप्यमिति। शून्येति । रूप्यादौ मिथ्याभूतस्याधिष्टानत्वे प्रपश्चेऽपि तथा स्यादिनि शून्यवाद: स्यात्, अलीकस्याधिष्टानत्वे तु अलीकत्व- व्यायातापत्तिरपि बोध्या। अपरिणाम्युपादानत्वरूपाधिष्टानत्वे सत्यर्थक्रियाकारित्वरूपसत्यत्वापत्तेः । तथास्यात् ब्रह्मणि सद्पतादात्म्यभानात् सद्ूपोपादानकत्वं स्यान। सत्तासंबन्धेन सत्तादात्येन। सत्वं सद्विपयक- त्वम्। स्वरूपेणव सढितरविपयकत्वं विना ॥। इति लघुचन्द्रिकायां सन्घट इति प्रत्ययेऽघिष्ठानानुवेध- निरूपणम् ।।
Page 152
[प्रत्यक्ष० जात्यु०] ३५५
अथ जात्युपक्रमादिन्यायैः प्रत्यक्षप्राबल्यनिरासः। किंच निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत्, नचात्र प्रामाण्यं निश्चितम्: आगम- विरोधात्, अनुमानविरोधात्, भाविवाधाभावानिर्णयाच्च।। ननु-प्रत्यक्षमेव प्रबलमनुमाना- गमबाधकम्, नानुमानागमा: प्रत्यक्षाप्रामण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम्, तयो: प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात्, नहि प्रत्यक्षस्य प्रामाण्येप्ये- वमन्योन्याश्रय: तस्यानपेक्षत्वात्-इति चेन्न; चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागम- विरोधेन तस्याप्रामाण्यदर्शनात् तेनापि स्वप्रामाण्यसिद्धर्थमितराविरोधस्यावश्यमपेक्षणीय- त्वात्। तथाचान्योन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतन्वा- दिना प्रमाजनकत्वव्याप्तर्वेदप्रामाण्यनिश्चये जाते तेन स्वतस्सम्भाविनदोषस्य प्रत्यक्षस्य वाधात् अस्मन्मते क्वान्योन्याश्रयः? अन्यथा देहात्मकप्रत्यक्षवुद्या वाधाद्देहभिन्नत्वमप्यात्मनो नागमानुमा- नाभ्यां सिद्धेत्। ननु-प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम्: कथमन्यथा औष्ण्यप्रत्यक्षेण वह्निशैत्यानुमितिप्रतिबन्धः? नच-तत्रोपजीव्यत्वनिबन्धनं प्रत्यक्षस्य वाधकत्वम्; धर्म्यादेश्चक्षुरादि नैव सिद्धेस्त्वचोऽनुपजीव्यत्वात्, किश्ब् प्रत्यक्षस्य प्रावल्यमनुमाद्यगृहीतरेखोपरेखादिग्राहकत्वाद- नुमानाद्यनिवर्तितदिओ्ल्ोहादिनिवर्तकत्वाञ्च-इति चेन्नः त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमि- तिप्रतिबन्धकत्वसम्भवात्, चक्षुगदिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात्। तथा- च न जात्या प्रावल्ये मानमस्ति। तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम्: प्रत्यक्षागृहीतधर्मादि- ग्राह्कन्वेन परोक्षप्रमाणस्यैव प्रावल्यापत्तेः। नाप्यनुमानाद्यनिवर्तितदिओोहनिनिवर्तक्वेनप्राब ल्यम् : पतावता हि वैधर्म्यमात्रं सिद्धम्। नच्र तावतेतरप्रमाणापेक्षया प्राबल्यं भवतिः अन्यथा त्वा- चप्रत्यक्षानिवर्तितवंशोरगभ्रम निवर्तकत्वाच्चक्षुपोऽपि त्वगपक्षया प्राबल्यं स्यात्। ततश्र चित्रनिम्नोन्न- तज्ञानस्य चाक्षुषस्य तद्विरोधिन्वाचज्ञानात् बाधो न स्यान्। प्रत्युतागमस्यैव सर्वतः प्राबल्यं स्मार्यते। 'प्रावल्यमागमस्यैव जात्या तेषु त्रिपु स्मृतम् ।' इति । नच-तहवैदिकार्थविषयमिति-वाच्यम्; अद्वैतस्यापि वैदिकार्थन्वात्। क्वन्त् प्रत्यक्षतः प्राप्तमनुमागमवाधितमिति तु परीक्षितप्रामाण्यप्रत्यक्ष- विषयम्। ननु-प्रत्यक्षस्यासञ्ञातविरोधित्वादुपक्रमन्यायेनैव प्रावल्यम्। उक्तंहि-'असंजातविरो-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अथ जात्युपक्रमन्यायादिभिः प्रत्यक्षप्राबल्यनिरासः । अनापाप्रणीतत्वादिना। भ्रमप्रमादादिदोपवत्पुरुपाकृतत्वादिना। जात्यव प्रत्यक्षत्वेनैव। नत्वनुमानविरुद्ध- त्वादिना। उपजीव्यत्वेति। धर्म्यादिज्ञापकविधया अपेक्षणीयत्वेत्यर्थः । त्वचः त्वाचस्य वह्वयाष्ण्यप्रत्यक्षस्य। साध्यप्रसिद्धे: अनौष्ण्यरूपशैत्यज्ञानस्य। त्वचं त्वाचं औपण्यप्रत्यक्षम्। विना अभावात् अनुपपत्तेः । धर्मादिग्रा- हकत्वेन यागादौ स्वर्गादिसाधनत्वस्य ग्राहकत्वेन। वैदिकार्थति। वेदमात्रगम्येत्य्थः। अद्वैतस्येति। वस्तुतो मानान्तराविपये मानान्तरस्यागमयाध्यत्वं न युक्तम्। यत्र हि ययोर्मानयोविषयत्वं प्रसक्त्तं, तत्र तयोर्बाध्यबाधकत्व- मिनि बोध्यम्। कच प्रत्यक्षत इत्यादि। उपलक्षणमिदं चक्षुरादिबलवत्त्त्रबोधकारथवादादिरूपश्रुतीनां स्मृत्यन्तरा- णामपि। तेन दीक्षणीयेष्वथेवादरूपाणां 'एतद्वि व मनुष्येपु सत्यं निहिनं यच्चक्षुम्तस्मादाचक्षाणमाहुरद्रागिति स यददर्शमित्याहाथास्य अरद्दधनी त्यैतरेयव्राल्मणस्थानां 'हा विवद्मानायेवायातामहमदर्शमहमश्रीपमिनि य एवं ब्रूयाद- हमदर्शमिति तस्मा एव श्रद्टधते' इति वाजसनेयशाखत्रास्थानां च श्रुतीनां परीक्षितप्रामाण्यक चक्षुरादीनां मानान्तरादप- रीक्षितप्रामाण्यकात् बलवत्वदोधकत्वं बोध्यम्। उक्ततं न्यायमाह-उक्तं हीति। असंजातविरोधित्वात्। न संजातो विरोधी यस्य तत्वात्। अर्थवादः 'अमे ऋग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदस्तस्मादि'त्ययमुपक्रमस्थो- डथेवादः। यथाश्रुतः मुख्याथंक ऋग्वेदादिपदकः । आस्थेयः स्वीकार्यः । तद्विरुद्धस्य अर्थवादविरुद्धऋगादिमत्र- वाचकस्य। विध्युद्देशस्य 'उब्बैर् ऋचा क्रियते उपांशु यजुपा उच्ैः साम्ने नि विधिवाक्येपु स्थितस्य ऋगादिपदस्य। लक्षणा ऋग्वेदादिरूपार्थलक्षकत्वम्। तथाच ऋग्वेदन यत् क्रियने विधीयते, तत्कर्म उच्चैरस्वरेण कुर्यादित्यर्थः। अत्रा- र्थवाद इत्यनेन पूर्वपक्ष: सूचितः। स चार्थव्रादस्य साधने तिकर्तव्यतारूपांशद्वयविशिष्टार्थभावनायां विधिवाक्यार्थभूतायां विशेषणीभूतम्राशस्त्यबोधकतवेन विधिवाकयं प्रति गुणीभूतत्वात् 'अङ्गगुणविरोधे च तादर्थ्यादि'निन्यायादर्थवादस्थेषु ऋंग्वेदादिपदेषु ऋगादिमब्रलक्षणां स्वीकृत्य ताद्वशमन्राणामेव प्राशस्त्यबोधनद्वारा विधिवाक्यार्थोक्तभावनायामुक्तमत्र-
Page 153
३५६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
धित्वादर्थवादो यथाश्रुतः। आस्थेयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षण-इति चेन्नः यत एकवाक्स्थ- परस्परसापेक्षपदत्वेन उभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थर्गादिपदानां मन्त्रमा त्रवाचिनां कृत्स्वेदपरत्वे निर्णीतेऽपि न प्रकृते तवन्यायः संभवति; उभयोः साम्याभावात्, गृहीतप्र- माणभावशुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात्, अन्यथा 'इदं रजत'मिति भ्रमोऽपि 'इय शुक्ति'रिति आप्ोपदेशापेक्षया प्रबलं स्यात् । पतेन-लिङ्गात् श्रुतेरिव शीघ्रगामि- त्वात् प्रत्यक्षस्य प्रावल्यम्, तदुक्तम्-'प्रत्यक्षे चानुमाने च यथा लोके बलावलम्। शीघ्रमन्धरगामि- त्वात्तथैव श्रुतिलिङ्गयो :- ' इत्यपास्तम्ः परीक्षितस्य मन्धरगामिनोऽपि प्राबल्यात्। न च-'यदा
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भाव्यकायामेव प्राशस्त्यबोधकत्वसंभवात् न ऋगादिपदानां वेदलक्षकत्वमित्येवंरूपः। असंजातविरोधित्वादित्यनेन तद्विरुद्धस्येत्यनेन च सिद्धान्तः सूचितः। स चोक्तरीत्या गुणीभूतस्याप्यर्थवादस्योपक्मस्थत्वेनासंजातविरोधित्वादुक्त- मत्रलक्षणकत्वरूपोपमर्दहेत्वभावेनार्थवादस्थपदानां वेदरूपमुख्यार्थकत्वमेव, तथा च गुणी भूत स्योपक्र्मस्थत्वे अङ्गगुणवि- रोधन्यायस्य नावतारः। तादृशपद्युक्तेऽर्थवांद विरोधिनि प्रवृत्ते सति पश्चात् प्रवर्तमानर्विधिस्थोक्तपदैस्तद्विरुद्वमभ्ररू- पार्थपु स्थानुमशक्यम्; विध्यर्थवादयोः प्रतीतैकवाक्यताभङ्गापत्तेः। 'चैत्रस्तपस्वी चैत्रः पूज्यता'मित्यादी हि चैत्रे प्राश- सत्यज्ञानात्तत्कर्मकपूजायामपि प्राशसत्यज्ञानेन प्रवृत्तिः । प्रथमचैत्रपदस्थल मेत्रपद्घटितोक्तवाक्ये तु उक्तजानाभावेना प्रवर्तकत्वेन नैकवाक्यता। अतएव नापच्छेदन्यायेन विधिस्थपदानां प्राबल्यम्, पूर्वापरमानयोरेकविशिष्टार्थप्रमापकत्वे सत्युक्तन्यायाप्रवृत्तेरित्येवंरूपः । तौ च पूर्वोत्तरपक्षी ज्योनिष्टोमप्रकरणपठितोक्तवाक्ये तृनीयतृतायम्याद्याधिकरण चि न्तितों। अत्रोचैरादिस्वराणां कर्मसु साक्षात्साधनत्वासंभवेऽपि मब्रद्वारा साधनत्वं बोध्यम्। उभयोः ऋ्वेदादिऋगा- दिपदयोः। साम्ये प्रमाणत्वेन निश्चितन्वे। तत्र हेतुः-परस्परसापेक्षपदत्वेनेति। एकप्रमाजनने अन्योन्यसापें क्षपदत्वेनेत्यर्थः । तत्रापि हेनुः-एकवाक्यस्थेति। श्रुत्यपेक्षया न्यूनबलत्वादित्यन्तयः। भ्रमविलक्षणन्वेन वाधि तविपयकान्यत्वेन। अन्यथा साम्याभावेऽयुपकमस्थतामात्रेण बलवत्वस्वीकारें। अत्र भ्रमोऽपीत्यनेन बाधकज़ा- नापेक्षणीयत्वाभावेन अ्रमस्येव प्रत्यक्षस्यापि श्रुत्यपेक्षणीयत्वाभावेनकवाक्यत्वाभावात् नोपक्रमन्यायस्य प्रकृत अवतार इनि सूचितम्। एतेनेत्यादि। 'श्ुनिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदर्वल्यमर्थविप्रकर्षा दिति तृना- यतृनीय स्याद्याधिकरणे श्रुत्यादीनां मध्ये परदर्बल्यं पूवपूर्वापेक्षया परं परं दुर्बलम्; अर्थस्याङ्गतावोघरूपस्य प्रयोजनस्य विप्रकर्षात्। श्रुतिः साध्यत्वसाधनत्वयोः अन्यतरबोधकं तृनायाद्विनीयादिपदम्। तत्कल्पिका योग्यता लिङ्गम्। तत्कल्पकः पद्योर्योगो वाक्यम्। तन्कल्पकं प्रधानस्य साकांक्षन्त्रं प्रकरणम्। तन्कल्पकं पाठादिसान्निध्यं स्थानम्। तत्कल्पकं यौगिकं होत्रादिपदं समाख्या। तथा च परस्य पूर्वकल्पनाद्वारा साधनत्वादिबोधनेनवाङ् ताप्रापकत्वात्ततः पूर्वमेत पूर्वेणाङ्गताप्रापणात् शीघ्रगामित्वेन श्रुत्यादीनां लिङ्गाद्यपेक्षया प्रावल्यम्। तथाचन्द्र- प्रकाशनसामर्थ्य रूपालिङ्गादेन्द्री ऋक नेन्द्राङ्गम्, कि तु 'सेन्व्ा गार्हपत्यमुपानष्टत' इंन श्रुत्या गार्हपत्याङ्गम्, तदनु- रोधेनेन्द्रीस्थमिन्द्रादिपदं अमुख्यवृ्त्तयाऽपि गार्हपत्यम्यैत बोधकमू। एवं च यथा शीव्रगामित्वात् श्रुनिः लिङ्गात प्रबला, तथा प्रत्यक्षं श्रुत्यनुमानादिन इृत्यप्येतेन बाधकत्वाभिमतप्रमाणस्य न्यूनबलत्वेन।पाम्नमित्यर्थेः। ननु प्रत्यक्षस्योक्तरीत्या न्यूनबलत्वमिव श्रुत्यादरपि प्रत्यक्षापेक्षया मन्धरगामित्वेन तदपेक्षया न्यूनबलत्वम्, तथाच द्वयाः साम्यात् न श्रुत्यादिना प्रत्यक्षं बाध्यताम्, नत्राह-परीक्षितस्येति। प्रमाणत्वेन निश्चितस्येत्यर्थः। मन्थरगामिनः आकाङ्काव्याह्यादिनि- शायकमानान्तरसापेक्षन्वेन विलम्बितफलकस्य। प्रावल्यात् अपरीक्षिनमानापेक्षया बलवत्वात्। तथा च परीक्षितयोः श्रुत्यादिलिङ्गाद्योराद्येन शीघं विनियोगे कृते विनियुक्तस्य मब्रादे: साध्याकाङ्कायां निवृत्तायां लिङ्गादेम्तत्साध्यसमर्प- कत्वाभावेन बाधो युक्तः, प्रत्यक्षस्य त्वपरीक्षितन्व्रेन परीक्षितश्रुत्यादिवाधकत्वमनुपपस्नमिति भावः । ननु दशमाष्टमे चिन्तितं-ज्योतिष्टोमे श्रुतं 'पद जुहोनि' 'वर्त्मनि जुहोनि' इनि, 'अनारभ्याधीतं यदाहवनीये जुहोनी'नि। तदि- हिनयों: पढ़ाद्याहवर्नाययो: होमसामान्ये विकल्पः, ननु पढ़ादिशास्त्रमन्यस्य वाधकम्; द्वयोि शास्त्रयोः प्रत्यक्षत्वात, 'शरमयं वहिं'रिनि शास्त्रं नु प्रत्यक्षं कल्प्यस्य कुशानिर्देशशास्त्रस्य वाधकमिनि युक्तमति प्राप्ते, सिद्धान्तसूत्रम्- 'अविशषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्टं स्यादिति। अस्यार्थः-यत् सामान्यशासत्रं अविशेपेण जुहोनिवाच्यस्य होमसामान्यम्य सर्वहोमसम्बन्धाल्लक्षणया होमव्यक्तिप्वाहवनीयसम्बन्धबो धकं, तत पदहोमादिविश्देषे तन्सम्बं्धपरत्वेन संदिब्धं निर्णेतुमशक्यम्; विकल्पस्याष्टदोपदुष्टस्यान्याय्यन्वात्;अथापि स स्वीक्रियते; यदि शास्त्रयो: समबलत्वं स्यात, प्रकृते तु यद्विशेपशिष्टं पदादिविशिष्टहोमविशेषविधायकं शाखत्रं तन आरात् शीघ्रपवृत्तम्; तादशविशंयम्य प्राकरणिकत्वेन शीघ्रोपस्थितत्वादन्यहोमस्य तथाऽनुपस्थिनत्वाच् तादृशहोममात्रपरत्व
Page 154
[प्रत्यक्ष० जात्यु० ] गौडब्रह्मानन्दीयुता। ३५७
हवनीये जुहोती' त्यस्मात् 'पदे जुहोती' त्यस्य विशेषविषयत्वेन प्राबल्यवत्, घटविषयसत्वग्राहिणः प्रत्यक्षस्य सामान्यतो द्वैतनिषेधकश्रुत्यपेक्षया प्राबल्यमिति-वाच्यम्; सामान्यविशेषन्यायस्य निश्चि- तप्रमाणभावोभयविषयत्वात्, अन्यथा 'अयं गौरश्व'इत्यादेरपि गौरश्वोन भवतीत्यादितः प्रावल्यं भवेत्। न च-यथा 'यत्किश्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरती'त्य्य्यत्किश्चिच्छष्दस्य यत्कि- श्चित्प्रकृतवाचित्वेन सामान्यविषयत्वेपि दीक्षणीयाव्यतिरिक्ते सावकाशत्वात् 'यावत्या वाचा का- मयेत तावत्या दीक्षणीयाया मनुन्नूया'दित्यनेन निरवकाशेन संकोचस्तथा प्रत्यक्षेण निरवकाशेन
गौडब्रह्मानन्दी (लघुचन्द्रिका)। निर्णयात्, सामान्यशास्त्रस्य तदितरपरत्वसंभवेन विषयप्राप्तेरिति। ननु-व्रीह्यादिकं विना यागानिप्पत्तेः तस्य दृष्टा- थत्वं युक्त्तम्, आहवनीयं विनापि तु प्रक्षेपरूपहोमनिष्पत्तेः तस्यादृष्टार्थत्वात् पदादिभिः सह तस्य समुच्चय एवास्तु, पदादेराहवनीयजन्यादष्टजनकत्वे मानाभावात्-इति चेन्न; निरपेक्षाधारताद्वारव दष्टार्थत्वात्। न चैवं-पछ्ठे अझेः प्रतिनिधिनिषेधो न स्यात्, आधारतारूपदृदष्टार्थत्वादिति-वाच्यम्; अवश्यापेक्षणीयदृदष्टार्थत्वाभावात्। तथा च यथा विशेषशासत्रं सामान्यशास्त्रस्य बाधकम्; विशेषविपयकत्वात्, तथा प्रत्यक्ष श्रुत्यादिबाधकमास्तामित्याशङ्क्य निषेधनि- न चेति। घटविषयसत्त्वग्राहिणः घटत्वादिविशपरूपविशिष्टे सत्त्वप्रकारकस्य। सामान्यतः आत्मान्यत्वरूप- द्वितीयत्वेन। द्वैतनिषेधकश्रुतीति। घटादिनिपेधकैंकमेवाद्वितीयमित्यादिश्ुर्तीत्यर्थः। यदप 'नेह नानस्ति किञ्वननात्र काचन भिदास्ति''इदं सर्व यद्यमात्मे'त्यादिश्रुतिपु किमादिसर्वनामार्थघटत्वादिविशेपरूपविशिष्टेऽपि मिथ्यात्वबोधकत्वम्, 'न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति। न भूमिरापो मम वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च। एवं विदित्वा परमात्मरूपम्' 'अशब्दमस्पशंमरूप मित्यादिश्रुतेरपि पुण्यत्वादिविशेषविशिष्टे तत ; तथापि पूर्वोक्तवाक्यमा- त्रालोचनेऽपि नोक्न्यायावकाश इत्याशयेनाह-सामान्येति। ननु 'रसरा वा एपा यज्ञस्य तस्माद्यत्किञ्चित् प्राचीनमभ्नी- पोमायात्तेनोपांशु चरन्नी'त्यत्र ज्योनिष्टोमप्रकरणे श्रुनवाक्ये विहितमुपांशुत्वमभ्नीपोमीयापेक्षया किं पूर्वस्य ज्योतिष्टोमीय- भागम्याङ्गम्, उत तद्रतपदाथस्येनि संशये तच्छव्दार्थमुद्दिश्यवापांशुत्वं विधेयम्; अन्यथा अभीपोमीयप्राचीनादि- पदार्थानां मिथोऽन्वयस्याव्युन्पन्ननया विशिष्टम्याद्यिश्यन्वासंभवान, तच्छव्दार्थश्र प्राचीनपदार्थ एव, सच ज्योति- ष्टो्मायोऽभ्निष्टोमीययागपूर्वभाग एव, न तु तद्गतपदार्थाः; तेषामनेकत्वेनकवचनासङ्गतेः, यत्कि्ञिच्छद्दस्तु नानापदा- थंघटिते भागे प्राचीनपदतात्पर्यग्राहकः। भागस्य च स्वरूपणोद्ेश्यत्वासंभवात्तस्यापूर्वासाधनत्वाच्च अपूर्वसाधन- ज्योनिष्टोमस्य प्रकृतत्वेन तदायभागन्वेनोद्देश्यता। तथा चोपांशुन्वस्य ज्योतिष्टोमीयापूर्वप्रयुक्तत्वेन ज्योनिष्टोमीयविकृती ताटृशभागान्तर्गतेप्व्रप्राकृतपदार्थ्वपि तत्प्रालतिरिनि प्राप्ते, यत्किश्चित्पदस्य बहुप्वेन प्रयोगात् स्वाथपरत्वे संभवत तादृशसमृहतात्पर्यग्राहकत्वेन तस्य सार्थक्यायोगात् प्राथम्यात् बलवतस्तस्यानुरोधेन च चरमोक्तप्राचीनपदाश्रितस्यैक- वचनस्य बहुत्वलक्षकत्वात्तेनेत्यनेन प्राचीनपदार्थतत्तत्पदार्थेजन्याङ्गापूर्वसाधनमुद्दिश्योपांशुत्वं विधीयते। योग्यत्वात्ता- दृशपदार्थीयमत्रो द्वारम्। न्सरेत्यादेरयमर्थ :- एपा यज्ञस्य त्सरा ज्योनिष्टोमयागीयपदार्थजन्यापूर्वलाभाय चछद्मगनिः । उचचःशब्दरहितं साधनं यदुपांशुत्वम्, यथा पक्ष्यादिधारणायोच्चःशब्दरहितं गमनादिकमिति नवमप्रथमे सिद्धान्तितम्। तत्र दीक्षणीयादिसकलग्रारची न ार्थोददेशन ं शुत्िाना सम र्रमपित्क्वि्यािवकयं ा्येत्या दिवाक्यविहितस्वर विशेषावरुद्दीक्षणीयाप्रायणीयादिभिन्नतादृशपदार्थोद्देशेन तद्विधायकतयापि साकाशत्वेन या ध्येत्यादिना यथा संकुच्यते, तथा प्रत्यक्षेण तद्विषयविपयकत्वेनापि सावकाशं श्रुत्यादि संकुच्यतामित्याशङ्क निषेधति -नचेति। चरन्तीत्यस्य संकोच इृत्य्रेऽन्तयः। निरवकाशेनेति यावत्येत्यनेन यत्किञ्चिदित्यादेः संकोच्यतायां हेतुः। दीक्षणीयातिरिक्त सावकाशत्वादिति। दीक्षाणीयाभिन्ने उपांशुत्वविधायकतयापि लब्धविषयकत्वा- दित्यर्थः। ननु यत्किश्चिदित्यादेर्दीक्षणीयातदन्यसाधारणरूपेण पदार्थबोधकयत्किञ्चित्पदयुक्तवेन सामान्शाख्तत्वादेव यावत्ये त्यादिविशेपशास्त्रेण सङ्कोचः संभवति, स च पूर्वमेवोक्तत्वाभ्रेदानीं वकतुं युक्तस्तव्राह-यत्किञ्चिच्छ्दस्येति। यत्किश्चित्प्रकृतवाचकत्वेन दीक्षणीयत्वादिसकलविशेषरूपविशिष्टबोधकत्वेन। सामान्याविषयत्वे दीक्षणीया- दिसकलपदार्थसाधारणरूपविशिष्टाबोधकत्ये। तथा च सर्वनामपदाना बुद्धिविशेष विषयधर्मरूपसाधारणधर्मविशिष्ट- शक्तत्वेऽपि घटत्वादिविशेपरूपेण स्वरूपतो भासमानेन घटादिशाब्दधीजनकत्वम्। अत एव सर्वेभ्यो दर्शपूर्णमासा- वित्यादी पुत्रत्वपशुत्वादिरूपेण सर्वादिपदेन फलबोधनात्तेन तेन रूपेणैव फलकामनया दर्शाद्यनुष्ठानं शास्त्रार्थः, 'अयं स' इनि वाक्यजन्यबोधोत्तरम् 'अयं घटो नवे'ति न संशय इति भावः। यावत्या यादृशस्वरविशिष्टया। अनन्रूया- दिति। 'मन्दं प्रायणीयायां मन्द्रतरमातिध्यायामुपांशूपसत्सूचैरमीषोमीय' इति वाक्यशेषः। निरवकाशेनेति। दीक्षणीयाभिन्ने यथाकामस्वराविधायकेनेत्यर्थः। ननु-उक्तवाक्येन दीक्षणीयादिषु ज्योतिष्टोमाझ्रेषु सर्वेण्वम्ीपोमीय-
Page 155
३५८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
वृत्त्यन्तरेणानेकार्थत्वेन वा विषयान्तरपरत्वेन सावकाशाया: श्रुतेः सङ्गोचः किं न स्यादिति- वाच्यम्; तात्पर्यलिङ्गैरुपक्रमादिमिर्द्वैतनिषेधपरत्वे अवधृते अद्वैतश्रुतेरपि निरवकाशत्वात्, प्रत्यक्ष- स्यापि व्यावहारिकद्वैतविषयतया सावकाशत्वात्, विरुद्धयोश्च द्वयो 'रहं मनुष्य' इत्यादिप्रत्यक्ष 'आकाशवत्सर्वगतश्च नित्य' इत्यादिश्रुत्योरिव तात्विकप्रामाण्यानुपत्त्या कस्यचिद्यावहारिकं कस्य चित्तात्विकं प्रामाण्यमभ्युपेयम्; अत्यन्ताप्रामाण्यस्यान्याय्यत्वात्, तत्राद्वैतश्रुतेर्व्याव हारिकप्रामा- णयसम्भवे द्वैतग्राहिप्रत्यक्षादेस्तात्विकं प्रामाण्यं भवेत्, तदसम्भवे तु बलादेवाद्वतश्रुतेस्तात्विकं प्रामाण्यमिति प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं पर्यवस्यतीति कृतबुद्धयो विदांकुर्वन्तु। ननु-पञ्ब-
गौडत्रह्मानन्दी (लघुचन्द्रिका)। पूर्वेषु स्वरविशेषविधानात् यत्किञ्चिदित्यादिकमपि दीक्षणीयाद्यविषयकत्वे निरवकाशं स्यात्-इति चेन्न; दीक्षणीया- देरद्वेषु सस्य सावकाशत्वात्। यद्यपि दीक्षणीयाद्यङ्गस्य याजुर्वेदिकत्वेनोपांशु यजुषेत्यनेनोपांशुत्वं प्रसक्तं; तथापि तद- तिदेशेन बाध्यते। दर्शपूर्णमासप्रकरणे हुक्तम्-'प्राक स्विष्टकृतः प्रथमस्थानेन मध्यमेनेडायाः शेपे तृतीयस्थाने- नेति। तस्यार्थ :- स्विष्टकृतः प्राकू, प्रथमस्थानेन नीचेःस्वरेण, इडाया प्राकू मध्यमेन स्वरेण, शपे इडोत्तरं तृतीयस्थानेन उच्चैःस्वरेणेति। तादृशस्याप्यातिदेशिकस्य यत्किश्चिदित्यादिना बाघः, तस्यापि यावत्येत्यादि- नेति बोध्यम्। वृत्त्यन्तरेण सत्वप्रत्यक्षाविषयस्यैव मिध्यात्वधीः यया वृत्या भ्वन तया। तथा च 'एकमेवाद्विनी य'मित्यादौ द्वितीयादिपदस्य सत्वप्रत्यक्षाविषयद्विनीये लक्षणाकल्पनया तस्यैव मिथ्यात्वधीरिति भावः । 'नेह नानाम्नि किञ्जने'त्यादौ तु पृथग्विनान्तरेणर्ते 'हिरुकनाना च वर्जन' इनि कोशोक्तेर्नानाशब्दस्य वर्जनरूपात्यन्ताभावार्थकत्वा- दिह कोऽपि निषेधो नाम्ति, सर्वाश्रयत्वादित्यर्थ इत्याशयेनाह-अनेकार्थत्वेनेति। द्वैतनिषेधेति। द्वतसामान्य- भावेत्य्थः। निरवकाशत्वादिति। सावकाशत्वं हि यस्माद्विपयात् सक्कोचो यस्य पदस्य वाच्यः तत्र विपये यादृशी वृत्तिः, तस्य पदस्य प्रसक्ता तादृशवृत्या विपयान्तरबोधकत्वम्। यथा दीक्षणीयातः संकुचितस्य यन्किज्वित्पदस्य दीक्ष- णीयाप्रसक्तशक्तिकस्य शक्तयैव दीक्षणीयाद्यङ्गबोधकत्वम्। न हि 'यजमान:प्रस्तर' इत्यादो यजमानादिपस्य यजमान - कार्यसाधकरूपार्थे सातकाशत्वात् प्रम्तरयजमानयोः भेदप्रत्यक्षेण बाध्यता, कि नु उक्तश्रुतेम्नयोरभेदे तात्पर्याभावेनो- कप्रत्यक्षापेक्षया दुर्बलत्वान्। प्रकृते तु विशेषण विशेष्यभावादिसामानाधिकरण्यापेक्षया अखण्डक्यसामानाधिकरण्यस्य तत्रव श्रुतेरुपक्रमादिना द्वैतसामान्याभावे अवान्तरतात्पर्यद्वारा तदुपलक्षितब्रह्मरूपे महातात्पर्यग्रहेण दोर्बल्यस्याभावेन सावकाशत्वादेव बाध्यत्वं वाच्यम्; तच्च न संभवनि; प्रत्यक्षविपयद्वने सङ्कोचावधौ द्विनीयपदस्य मुख्यवृत्तेः प्रसक्- तया तादृशवृत्या प्रत्यक्षाविपय द्वितीय विशिष्टबोधकत्वाभावादिति भावः । स्वरसनः प्रमाणविषयत्वेनानुभूयमानो योऽर्थः, तदन्यार्थमादायापि सावकाशत्वस्वीकारे प्रत्यक्षस्यापि स्वरसतो विपयन्वेन त्वदभ्युपगनो यः पारमार्थिकसत्व- रूपोऽथः, तदन्यद्यावहारिक्रसत्त्रमादाय सात्रकाशत्वमम्नीनि नोकन्यायावतार इत्याशयेनाह-प्रत्यक्षस्येति । व्यावहारिकेति। व्यावहारिकसत्वाश्रयेत्यर्थः। द्वतनिषेधेत्यादेरन्योऽर्थः। द्वैतनिषेधेति। दहत्वादिरूपेण देहादि- निषधेत्यर्थः । अद्वैतश्रुतेः 'दहेन्द्रियबुद्धिर्नाम्नि न लिप्यने लोकदुःखेन बाह्य' इत्यादिश्रुतेः। निरचकाशत्वात् देहः सव्नित्यादिप्रत्यक्षविषयस्थेव मिध्यात्वबोधकन्वेन विपयान्तराभावात्। नच-प्रत्यक्षाविपयपिशाचादिदेहादेरेव श्रुत्या मिध्यात्वधीरिति-वाच्यम; तादृशदेहादेरपि तदभिमानिपुरुपं प्रति प्रत्यक्षत्वात्। नच-अलापि देहादिकं सर्वद्ा नास्ति तस्मादुनित्यमित्यत्र तात्पर्यमिति-चाच्यम्; 'एवं विदित्वा परमात्मरूपं' इन्युत्तरवाक्येन 'न भूमिरापो मम वह्निरस्ति' इत्यादिपूर्ववाक्याथस्य सर्वविशेषणशून्यात्मनो ज्ञेयत्वेनानुवादान्, सर्वदेत्यध्याहारे मानाभावात्, प्राप्तदेशकालयोरेव निषेधस्य स्वारस्यसिद्धत्वात्। प्रत्यक्षस्यापि प्रत्यक्षस्यंव। अथ अपरोर्थः-निरवकाश- त्वात् प्रत्यक्षेण घटादीनामिच शब्दानुमानाढिना गुरुत्वपिशाचादीनामपि सत्त्वग्रहणन द्वितीयस्य सर्वस्यैव मानान्तरेः सत्यत्वमिद्या 'नेहनाने त्यादिश्रुतेर्मिथ्यात्व्बोधकत्वासंभवेन निर्विषयकत्वात् । न च-उक्तश्रुतेः प्रपञ्चविनाशित्वे तात्पर्यममिनि-वाच्यम्; उपक्रमादिना द्वैतनिषेधे तात्पर्यग्रहान, तादृशार्थत्यागे उपक्मादिप्रमाणस्यापि बाधापतेः, प्रत्यक्षादेरेव व्यावहारिकसत्त्रविपयकत्वेन सावकाशत्वस्य वनुं युक्तत्वात्, तदिदमुक्तम्-प्रत्यक्षस्यापीति। प्रत्यक्षा- दरेवेत्यथः। ननूक्तरीत्या श्रुतेः सावकाशतवखण्डने प्रत्यक्षादेरपि सावकाशत्वाभावात् परस्परविरुद्धयोरण्यप्रामाण्यं स्यात्, तथा च तत श्रुनिरपि कथं प्रमाणम् ! किंच प्रत्यक्षस्य व्यावहारिकसश्वविषयकत्त्रोक्तिर्न युक्त्का; तथा सति प्रत्य- क्षस्य व्यावहारिकप्रामाणयं स्यात्, तच्चायुक्तम्; श्रुतेवां प्रत्यक्षादेवा व्यावहारिकं प्रामाण्यमित्य स्याविनिगम्यत्वात्तगाह- विरुद्धयोरिति। द्वयोरिति।सत्त्वप्रत्यक्षाद्वैतश्रुत्योरिनि शेपः। अत्यन्ताप्रामाण्यस्य व्यावहारिकसाधारणप्रामाण्य- सामान्याभावस्य। भवेदिति। त्वदुक्कनिरवकाशन्यायेन संभाव्यत इत्यर्थः । तद्सम्भवे त्वििति। भद्वैतश्रुतेर्व्या-
Page 156
[प्रत्यक्ष० जात्यु ०] गौडब्रह्मानन्दीयुता। ३५९
दशरात्रे प्रथमेSहन्यग्निष्टुन्नामके नामातिदेशेन एकाहागनिष्टुद्धर्मभूता सुब्रह्मण्याग्रेयी प्राप्ता, तस्या अल्पविषयत्वाश्चतुर्दशाहस्सु चोदकेन प्राप्तया ऐन्न्ा सुव्रह्मण्या बहदुविषयया यथा बाधः, बहुबा- धस्यान्याय्यत्वात्; तथा द्वैतग्राहि प्रत्यक्षतदुपजीव्यनुमानकर्मकाण्डसगुणोपासनावाक्यादिरूपवहुप्र- माणाबाधायाद्वैतवाक्यस्य प्रतीतार्थबाधः किं न स्यात्? तदुक्तम्-'बहुप्रमाणविरोधे चैकस्याप्रामा- ण्यम्। हषटं शुक्तिरजतादिशाने' इति-चेन्न; दृष्टान्ते बहुविषयावाधोSत्र बहुमिरिति वैषम्यात्,
गौडव्रह्मानन्दी (लघुचन्द्रिका)। वहारिकप्रामाण्यासंभवेत्वित्यथः । व्यावहारिकप्रामाण्यं व्यावहारिकसत्वाश्रयविषयकत्वम्। उक्तसर्वं च बाध्यत्वे सनि व्यवहारकालाबाध्यत्वम्; सत्यन्तानुक्ती तान्विकप्रमाणस्यापि व्यावहारिकप्रामाण्यापत्तेः। उक्तसत्वं च नाद्वैतत्वो पलक्षितब्रह्मणः संभवनि; तस्य साक्षिरूपत्वेन चिदानन्दरूपत्वेन च बाध्यत्वासंभवात्। तथा च तद्वोधकवाक्ये व्यावहारिकप्रामाण्यासंभवः। न च-साक्षिणो ब्रह्माभिन्नत्वेनाद्याप्यसिध्या ब्रह्मणो बाध्यत्वे बाधकाभाव इति- वाच्यम्; साक्षिण ईश्वरत्वपक्षे शुद्धचिद्रपत्वपक्षे च ब्रह्माभिन्नत्वस्य सिद्धत्वात्, 'सलिल एको द्रष्टे'त्यादिवाक्यैरद्वितीय- त्वोपलक्षितजीवस्वरूपप्रमापकत्वेन जीवस्वरूपसाक्षिणो बाध्यत्वासंभवेन च तेपां तात्विकप्रामाण्यस्यावश्यकत्वेन व्यावहारिकप्रामाण्यासंभवादिनि भावः। श्रुतेस्तात्विकत्वमिति। द्वैताभावत्वविशिष्टरूपव्यावहारिकविषयक- बोधस्यावान्तरतात्पर्यस्वीकारेपि द्वताभावोपलक्षितव्रह्मणि महातान्पर्यात्तादृशतात्विकविपयकत्वेन तात्विकप्रामाण्यमिनि भावः। पर्यवस्यतीति। उक्तरात्या सावकाशन्वन्यायस्यानवतारेऽपि 'यजमान: प्रम्तर' इत्यादिश्रुनिः प्रत्यक्षेणेव प्रत्यक्षादिकमपि श्रुत्या दुर्बलत्वादेव बाध्यते; दुर्बलत्वं चोक्तश्रुतेरतत्परत्वात्, प्रत्यक्षादेस्तु तत्परत्वादियुक्तश्रुतिविरुद्ध- त्वादिनि भावः। पञ्चदशरात्र इति। पञ्चदशयागरूपे सत्रे। अग्निष्टन्नामके प्रथमेSहनि प्रथमयागे। एका- हात्मकस्याझेयस्याग्निष्टद्यागस्य। धर्मभूता अङ्गभूता। आभ्रेयी सुब्रह्मण्या, नामातिदेशन प्राप्ता प्रसक्ता। तस्या अल्पविषयत्वात् अल्पं एकमन्निष्टन्मात्ं विषयः अङ्गि यस्यास्तादृशत्वात्। बहुविषयया बहवश्चतुर्दश यागाः विषया अङ्गिनो यस्याम्नया ऐन्व्ा यथा बाधः। ऐन्द्रीप्रापकं प्रमाणमाह-चोदकेनेति। अनिदेशेनेत्यर्थः । चोदक- शबदस्य चोदनालिङ्गकानिदेश मुख्यस्यापि प्रकृते अतिदेशमात्रमर्थः । प्रथमान्येपु चतुर्दशयागेपु हि प्रथमया- गन्रये 'ज्योनिर्गीरायु'रिति नामकत्वेनकाहकाण्डोक्ततन्नामकयागन्रयान्नामातिदेशेन च ऐन्द्री प्राप्यते। अन्येषु तु एकादशसु द्वादशाहादेन्द्री चोदनालिङ्गकानिदेशेन प्राप्यते। अत्र चतुर्दशाहस्सु प्राप्तया चतुर्दशाहस्सु आग्रेय्या बाध इत्येवं चतुर्दशाहःपदस्यावृत्त्या बोधः । तथा च चतुर्दशाहस्सु बाघस्य तेषु बाध्यप्राप्तिसापे- क्षत्येनार्थात्तेव्वाग्रेयीप्रासिरुक्त्ता। तथाचैकादशाध्याये आतिथ्येष्यन्ते उपसत्काले च सुब्रह्मण्यापाठे कर्तव्ये सर्वसुत्यार्थे तघ्रतायाः स्थापितत्वात् अभिष्टय्यागस्येतरचतुर्दशापेक्षया मुख्यत्वेनोपक्रमाधिकरणन्यायेन बलव- तवात्तदीयसुब्रह्मण्याया आभ्रेय्या एव पञ्चदशयागार्थ प्रसक्ताया ऐन्द्ा सुब्रह्मण्यया बाध इति सिद्धान्तो भाष्य- कारेणोको यथेत्यर्थः वहुविषयकत्वस्य बाधकताप्रयोजकत्वं प्रकटयति-बहुबाधस्यान्याय्यत्वादिति । बहनामङ्गभृनसुब्रह्मण्याया बाधस्यायुक्तत्वादित्यर्थः । सुब्रह्मण्यानाम'इन्द्र आयाही त्यादिर्निगदविशेषः। प्रती तार्थति । यथाश्रुतार्थेत्यर्थः । दृष्टान्ते ऐन्या आभेयीबाधस्थले। बहुविषयाबाधः बहुविषयेपु यागरूपेपु अङ्गाबाधो न्यायसिद्धः। 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्व मिति सिद्धानतसूत्रेण विरुद्ध- धर्माणं मेलनप्रसक्त्ौ बहूनां धर्माबाधस्योक्तत्वात्। अत्र प्रकृते। बहुभिरिति। विपयाबाध इत्यनुषज्यते । तृती- यार्थो ज्ञाप्यता। तथा च प्रकृते बहुप्रमाणज्ञाप्यस्य विषयस्य द्वैतसत्यत्वरूपस्याबाध इत्यर्थः। वैषम्यादिति।अनेनेदं सूचितम्-भाप्योक्तस्योक्तोदाहरणस्य वार्तिके दृषणादिदं दष्टान्तमात्रं त्वयोक्त्म्, न तूक्तन्यायस्योदाहरणम्; तदपि विषममिति॥ उक्तं हि वार्तिके-'सुब्रह्मण्याया देवताप्रकाशनार्थत्वादिन्द्रप्रकाशनेनाभिप्रकाशनरूपोपकारालाभेन नात्र प्रसङ्गस्य प्रसक्ति :; अन्यत उपकारलाभे तत्साधनाननुष्ठानं हि प्रसङ्गः, तथा च सुत्याकालीनस्थेवातिथ्येष्यन्त- कालीनादेरपि सुब्रह्मण्यापाठस्य न प्रसङ्गः। अत एव न तम्रता; एकादशे तदुक्तिस्तु एकदेवताकनानायागीयसुग्ह्मण्या- विषया बोध्या। तस्मादुक्तोदाहरणस्याभावादुदाहरणान्तरमुच्यते, काम्येष्टिकाण्डे 'अमये दान्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदान्े पुरोडाशमेकादशकपालं' दधिमधुघृतमापोधानास्तत्संसृष्ट प्राजापत्यं पशुकाम' इति वाक्ये आप्नेयपुरोडाशधानायागयोराभेयविकार त्वादमावास्या पौर्णमास्युभयधर्मकत्वेन न तत्र विरोधः। इतरेषु तु पञ्चसु सह क्रियमाणेपु आज्यभागयोर्वाश्रप्नीवृधन्वतीमभ्राणां हविरभिमर्शने चतुर्होतृपञ्चहोतृमभ्योश्रानुष्ठाने विरोधः। ऐन्द्रो हि ऐन्द्राअस्य विकारः। दधियागो दधियागस्य। तत्र च वृधन्वतीपञ्चहोतृमभ्नाणाममावास्याधर्माणां प्राप्तिः। मधुघृतो- दकानां तूपांशुयागविकारत्वेन वार्त्रप्नीचतुर्होतृमब्राणां पौर्णमासीधर्माणं प्राप्तिः; 'वारत्रश्नीपौर्णमास्यामनृष्येते वृधन्वती
Page 157
३६० अद्वैतसिद्धिः । [परिच्छेद: १ ]
देहात्मक्ये प्रत्यक्षानुमानशब्दाभासादिसत्त्वेSपि देहात्मभेदबोधकस्यानन्यपरत्वेन प्राबल्यवदत्रापि अनन्यपरत्वेनाद्वैतश्रुतेः प्राबल्यात्, विद्याविद्याभेदेन विद्वदविद्वत्पुरुषमेदेन च विरोधाभावादिति इति प्रत्यक्षस्य जात्युपक्रमन्यायादिमि: प्राबल्यनिराकरणम्।।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अमावास्यायां' 'चतुर्होत्रा पौर्णमासीमभिमृशेत् पञ्जहोत्रामावास्या'मिति वचनाभ्यां तेषां तद्धर्मत्वावगमात्। तत्रन्द्र- दभोर्मुख्यत्वेम तदीयधर्माबाधायामावास्याधर्मा एवानुष्टेयाः, न ह्याज्यभागहविरभिमर्शनयोरेकेन मश्रेण उभयार्थे करणे सिद्धे अन्यमत्रानुरोधेन पुनःकरणं युक्तम्; गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वादिति प्राप्ते, बहूनां धर्मबाधस्या- युक्तत्वादल्पसङ्भयाकानां भूयो धर्मानुष्टानेन न प्रसद्गित्वमिति पौर्णमासीधर्मा एवानुष्टेयाः; 'आसन्नानि ह्वीप्यभि- मृश'नीति वचनविहिताभिमर्शने चतुर्होत्रेत्यादिना मत्रमात्रविधानात् सकृदेव सर्वहविरभिमर्शनसम्भवात्। अमा- वास्यायामुपांशुयागस्याङ्गत्वपक्षे तु नेदमप्युदाहरणं युक्तम्; द्विविधमब्राणामप्यविरोधान्, अतोऽन्यदुदाहरणं मृग्यमिति। किंच वैषम्यादित्यनेनेदमपि सूचितम्-भूयोनुग्रहायाल्पस्य मुख्यस्य बाघ इनि सिद्धान्तो न सर्वसंमत :: 'विप्रतिषिद्धे'त्याद्युक्ताधिकरणाव्यवहितोत्तरं हि 'मुख्यं वा पूर्वचोदनालोकवदि' त्यधिकरणे मुम्यामुग्य- योद्वयोर्धर्माणामनुष्टाने विरोधे मुख्यस्यैव धर्मा अनुष्ठेयाः, अमुख्यस्य हि भूयस्वं मुग्य्यस्य बलवत्वापवाढकम्, तद- भावे तु मुख्यस्यैव प्राबल्यमित्युक्तम्। प्राचां मीमांसकैकदेशीनां मते तु विप्रतिपिद्धेत्यादिना भूयोनुग्रहाय मुख्याल्पबाध इति पूर्वपक्षयित्वा मुख्यं वेत्यादिना मुख्यस्यैकत्वेऽपि भूयसाममुख्यानां तेनोपमर्द :; लोके तथा दर्शनात, इनि सिद्धाम्तितमिति वार्तिकादावुक्तम्। ननु 'विप्रनिपिद्वे' त्याय्यधिकरणे बहूनां धर्माबाधायाल्पस्य बलवतोऽपि धर्मबाध इत्युक्तम्; तथाच प्रत्यक्षादीनां बहूनां प्रामाण्यरूपस्य धर्मस्याबाधायानिश्चित प्रामाण्यकत्वेनानिश्चितप्रामाण्यके- प्रत्यक्षाद्यपेक्षया बलवत्या एकस्या: श्रुतेः प्रामाण्यरूपस्य धर्मस्य बाधो युक्त इति कथं वैषम्यं? तग्राह-देहेति।आभा- सेति। द्वन्द्वात् परतया प्रत्यक्षादेः सर्वस्य प्रत्येकं विशेष्यम्। आभासत्वं चानिश्चितप्रामाण्यकवम्। अनुमानं च 'आत्मा, दहैक्यवान्, प्रत्यक्षेण तथाप्रनीयमानन्वात्, इत्यादिरूपं बोध्यम्। तथार्थापर्यादिकमादिपदेन आ्रह्यम्। अत्रा- पि द्वैतसत्यत्व प्रत्यक्षाद्यद्वेतश्रुत्योर्विरोधेऽपि। प्रावल्यादिति । तथा च बाध्यबाधकमानयोर्द्योरपि प्रामाण्ये- Sनिश्चिने निश्चिते वा तादृशन्यायावतारः, न त्वेकस्य; तस्मिविश्चिते अन्यस्य चानिश्चिते 'शतमप्यन्धानां न पश्यती'नि न्यायेन भूयसत्वस्यानुपयोगात्, अन्यथा देहात्मैक्यप्रत्यक्षादेर्बलवत्वापत्तेरिनि भावः। ननु तथाऽपि प्रत्यक्षादीनां कर्मोपासनाश्रुतीनां च प्रमाणत्वेन व्यवहारविरोधः, अतर्वविदामेव तद्यवहारवन् नत्वविदामपि तद्यवहार: स्यात्त- त्राह-विद्येति। विद्या तत्त्वज्ञानम्। तंत्रव तान्विकं प्रामाण्यम्। प्रत्यक्षादौ व्यावहारिकप्रामाण्याश्रये आविद्यक- विषथकत्वेनाविद्यारूपे तव्यवहारस्वतत्वविदां दोपादेव, तर्वविदां तु दोपाभावान्न तत्र स इनि भावः । इति लघु चन्द्रिकायां प्रत्यक्षस्य जात्यादिना प्रावल्यभङ्ग: ।
प्रत्यक्षेण नानुमानस्य वाधः । (१) तत्र न्यायामृतकारा :- यदि हि चक्षुरादियोग्यं सत्वं न निर्वक्तुं शक्यते, तर्हि कथं सन् घट इत्याकारकप्रत्यक्षम्? नचाघिष्ठानानुवेधः; रूपादिहीनस्य ब्रह्मणः चाक्षुषत्वासंभवस्य पूर्वमेवोक्तलात्, नीलो घटः, रूप्यं मिथ्या, शशशभ्मसत् इत्यादाँ अद्यापि ब्रह्मव सद्नृपमभ्यन् मिथ्येत्यसिद्धत्वेन सत्वं घटादो नास्तीत्यस्यारोपितत्वमिद्धीनत्वेन अन्योन्याथरयान्नैल्यादिकं घटादावस्ति
नीय लात्तदनुमि त्याद्यगृहीत रेखोपरेखा दिश्रा हकत्वेन तदनिवर्तितदिडमोहादिनिवर्तकत्वंन च वहिरौत्ानुमाने स्पार्शनप्रत्यक्षस्य जात्यैव प्रावत्यस्य दर्शनेऽत्रापि जात्या प्रत्यक्षस्य प्रवलत्वेन तद्वाधितविषयकत्वेनानुमानमप्रयोजकम्। "प्रावल्यमागमस्यव जात्या तपु त्रिधु स्मृतमि"त्यस्य वैदिकार्थविषयकल्ात्। "असंजातविरोधित्वादर्थवादोयथा श्रुतः। आस्थ्रेयस्तद्विरुद्धस्य विध्युद्देशम्य लक्षणा॥" इति वचनोपवृंहितोपक्रमाविकरणन्यायः, "प्रत्यक्षेचानुमाने यथालोकबलावलम्। शीघ्रमन्थरगामि- लातथेह श्रुतिलिह्गयो"रिति घचनोपवृंहि तश्रुतिलिङ्गाधिकरणन्यायः, होमसामान्येऽधिकरणत्वेन श्रुताहृवनीयस्य होमविशेषा- धिकरणत्वेन श्रुतपदव्त्मादिना बाध इति सामान्यविशेषन्यायः, यत्किंचित्प्राचीनमभ्नीषोमीयात्तेनोपांशुचरन्तीत्यन्न यत्किचि- च्छच्दस्य प्रकृम्तसामान्यवाचिनः सामान्यविषयस्यापि दीक्षगीयाव्यतिरिक्त सावकाशलवात् "यावत्या वाचा कामयेत तावत्या
Page 158
[साक्षिबाधोद्धार:] गौडब्रह्मानन्दीयुता। ३६१
दीक्षणीयायामनुब्रूयादि"ति वचनेन निरवकाशे संकोचवत्, वृत्त्यन्तरेणानेकार्थत्वेन विषयान्तरसावकाशाद्वनश्रुत्यपेक्षया निरवकाशप्रत्यक्षस्यैव प्राबल्यमिति सावकाशनिरवकाशन्यायः, पशदशरात्रे द्वितीयादिचतुर्दशरात्रेषु ऐन्द्रीसमाह्वानेन भूयसां साम्याय प्रथमेऽमिष्टदहेऽपि ऐन्व्या एव समाहानमिति सिद्धान्तोपवृंहितः "विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्व"मिति न्यायक् प्रत्यक्षस्यैव, प्राथमिकत्वेन शीघ्रगामित्वेन घटादिसत्वरूपविशेषविषयकत्वेन निरव- काशत्वेन द्वैतग्राहिप्रत्यक्षतदुपजीव्यानुमानकर्मकाण्डसष्यादिवाक्यसगुणोपासनादिवाक्याबाधेन च प्रत्यक्षमेव प्रबरमवग- मयति, नानुमानागमो। अनुमानागमप्रामाण्ये तद्विरोधेनाध्यक्षस्याप्रामाण्यं, सति च तम्मिन्मानाविरोधेन तयोः प्रामाण्य- मित्यन्योन्याश्रयेण सवतः प्राप्तस्य तत्वावेदनरूपप्रत्यक्षप्रामाण्यस्यानुमानागमविरोधेन त्यागायोगादिति जात्युपक्रमादिन्याय- सिद्ध प्रावल्यकप्रत्यक्षबाधितलादुक्त्तानुमानमप्रयोजकम्-इति प्रत्यवतिष्ठन्ते॥ (२) तत्राद्वेतसिद्धिकारा :- रूपादिहीनत्वेऽपि कालादिन्यायेन ब्रह्मचाक्षुपलस्य पूर्वमुपपादनात् सन् घट इति सामानाधिकरण्यस्य अभावासाधा- रण्येन संवन्धभेदेन तदुपपत्ती समानाकारकत्वस्यानुपपत्त्या च सत्ताजात्यादिस्फुरणनिवन्धनत्स्य, एकनैव सर्वानुगते नोक्तसामानाधिकरण्योपपता वहनां तद्वेतुत्वकल्पने गारवेण स्वरूपसलनिवन्धनत्वस्य, चक्षुरादगम्यत्वेन सदिदं रजत- मिति सामानाधिकरण्यासाधारण्येन च कालत्रयावाध्यलनिवन्धनलस्य चासभवात्, अधिष्ेयविषमसत्ताकस्यैवाघिष्ठान- वन 'नीलो घटः' 'मिथ्या रूप्य,' 'असन्नृश्वमि'त्यादावप्यधिष्ानानुवेवाप्रसङ्गाच् सदधिष्ानानुवेेनैव सन्घट इति प्रन्गोपपत्तवर णनीयतयोत्तप्रत्यक्षेण मिध्यालानुमानवाधो न संभवति। निश्चित प्रामाण्यकस्यैव प्रत्यक्षस्येतरवाधकत्वेनाग्र-
नतु जात्ा; तदग्हीतग्राहितनदनिवर्नितनिवर्तकलवादीनां वैषम्यप्रयोजकत्वेऽपि लाचप्रत्यक्षानिवर्तितवंशोरगभ्रान्तिनिर्व- नंकचक्षपस्लगपेक्षया प्रावत्यापत्या चित्रनिश्रोन्नवज्ञानस्य चाक्षुषस्य लाचज्ञानेन वाधानापत्त्या च तस्य प्राबल्यप्रयोजक- लाभावान, 'प्रावत्यमागमस्यव जाला तेपु त्रिपु स्मृतमि'ति वचनस्याप्येवं सत्येवोपपत्तेः, अद्वैतस्यापि वैदिकार्थत्वेन
वलावलमिति न्यायेनापरीक्षितप्रत्यक्षापेक्षया परीक्षितानुमानादीनामेव प्राबल्यमिति सिद्धत्वेन परीक्षितप्रत्यक्षविष- यकस्पोक्तवचनोप वृंहितश्रुति िव्वाधिकरणन्यायस्य, अयं गौरश्व इत्यादेपि गरश्वो न भवतीत्तः ाव्यपत्या निश्चित- प्रमाणभावोभर्यविषयकस्य सामान्यविरेषन्यायस्य, उत्तसावकाशनिरवकाशन्यायस्य, बहुविपयाबाधपरस्य विप्रतिषिद्ध- धर्माणामितिन्यायस्य च गृहीतप्रमाणभावश्ुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चयेन साम्याभावान, अपरीक्षितलासू, उभय-
प्रत्यक्षम्यापि गावकाशलान, बहुभिरेवात्रवाधन बहुविषयवाधाभावाच् प्रत्यक्षप्रावल्यप्रयोजकलवाभावात्, प्रत्युत देहा- मवय प्रत्यक्षानुमानशव्दाभाससत्वेऽपि वेहात्मभेदवोधकस्यानन्यपरत्वेनेवाद्तथ्रुतरेव प्रावल्यात्। एवंच चन्द्रप्रादे
श्रयस्य तुस्यत्वेनानाप्ताप्रणीतलादिना निकितप्रामाण्यनागमेन संभावितदोषकस्याध्यक्षम्यैव बाधस्य युक्तत्वेन प्रत्यक्षप्रामा-
इति समर्थयन्ति॥ (३) तरङ्गिणीकारास्तु- इदानीं घट इति कालोहेखवद्रद्योहेखाभावेन कालादिन्यायेन रूपादिहीनव्रह्मचाक्षुषलोपपादनासंभवात्, लोहितः स्फटिक इति प्रतीते: भ्रमत्वप्रमालान्यतररूपायाः संबन्धभेदविषयिण्या अपि समानाकारकलवदर्शनेन 'नीलो घटः' 'नीलो गुण' इत्यत्रापि तथात्वेऽपि तथातसंभवेन संचन्धभेदेनाभावसामानाधिकरण्यसाधारण्यस्यापि संभवेन सत्ताजातिस्फुरण- निवन्धनत्वस्य, अननुगतेनापि प्रमेयत्वेनानुगतव्यवहारोपपत्तिवद ननुगतेनापि सत्स्वरूपेणानुगतप्रतीत्युपपत्त्या सरूपसत- निबन्धनत्वस्य, पूर्वोक्तरीत्या चक्षुरादियोग्यत्वेन शुक्तिरूप्यसामानाधिकरण्यसाधारण्येन च प्रतिपन्नोपाधौ त्रैकालिकनिषेधा- प्रतियोगितनिबन्धनत्वस्य वा, सन् घट इति सामानाधिकरण्यप्रतीतौ संभवात्, एतावतापि घटब्रह्मणोर्विषमसत्ताकत्व- स्यानिर्णयेन अिष्ठेयविषमसत्ताकत्वमेवाधिष्ठानत्वमिति वर्णनासंभवेन संभवेऽपि ब्रह्म सन्निति श्रौतप्रतीतेरिव स्वतः प्रमाणस्य सन् घट इति प्रत्यक्षस्य घटसमसत्ताकसद्रूपे प्रमाणत्वेन विशेषणतया प्रतीतिमात्रेण तदधिष्ठानानुवेधकल्पने नीलो घट इत्यादावपि तदापत्तेश्रोक्तप्रत्यक्षबाधोऽनुमानस्य संभवत्येव। श्रुतेरिव प्रत्यक्षस्यापि प्रामाण्यस्य स्वतस्त्वेनोक्त अ. सि. ४६
Page 159
३६२ अद्वैतसिद्धिः । [परिच्छेदः १]
प्रत्यक्षमात्रे तदनिश्चये हेतभावेन निश्चितप्रामाण्यकलात्। शत्यानुमित्याद्यनिवर्तितपीतत्रमनिवर्तकजातिविशेषावच्छिन्न- ज्ञानजनकत्वेन प्रत्यक्षस्यापि प्राबल्याज्जात्यापि प्रत्यक्ष प्रबलम् । तदनिवर्तितनिवर्तकत्वस्य तदगृहीतग्राहित्वस्य च वैषम्य- मात्रप्रयोजकत्ववर्णनमपि न युक्तं; वंशोरगभ्रान्त्यनिवर्तकत्वस्य चक्षषि दोषविशेषनिबन्धनलात्, 'प्राबल्यमागमम्यैवे'ति सु वैदिकार्थविषयकं नाप्रामाणिकं अद्वैतं विषयीकरोति। अतएव क्वचन प्रत्यक्षप्राप्तमनुमानादिकं बाधते इति भगव- त्पादवचनमप्युपपद्यते। परीक्षितप्रत्यक्षविषयकत्वेऽ्युक्त्तवचनस्य न दोषः; सन् घट इत्यादिंप्रत्यक्षस्यापि परी- क्षितलातू, शब्दानुमानादितः प्रत्यक्षप्राबल्यस्यैतरेयब्राह्मणसिद्धल्ात्। तत्रहि-तस्माद्दीक्षितेन सत्यमेव वदितव्यम्, अथो खल्वाहुः केहि मनुष्याः इति? सर्व सत्यं वदितुं सत्यसंहिता वे देवा अनृतसंहिता मनुष्या इति' विचक्षणवती वाचं वदेत्, चक्षुवै विचक्षणं विधानेन पश्यतीति, एतद्व मनुष्येषु सत्यं निहितं यच्चक्षुरि त्यादिना शब्दापेक्षया चक्षुषः प्राबल्यं प्रतिपादितम् । उपक्रमोपसंहारादिन्याया अपि प्रत्यक्षस्येव प्राबल्यमनुग्रह्न्ति ॥ सन् घट इति प्रत्यक्षस्य भ्रमविलक्षणत्वेनानिश्चये बीजाभावेन प्रत्युत फलपर्यन्तपरीक्षया प्रामाण्यस्यैव निश्चितत्वेन च श्रुत्यपेक्षया न्यूनबलत्ाभावेनोपक्रमोपसंहारन्यायस्य, उक्तसतप्रत्यक्षस्यापि परीक्षितत्वेन श्रुतिलिक्वाधिकरणन्यायस्य, फलपर्यन्तपरी क्षासत्वेन स्वतःप्रामाण्येन च प्रत्यक्षस्यापि प्रामाण्यस्य निश्चितत्वेन निश्चितप्रमाणभावोभयविषयकसामान्यविशेषन्या- यस्य, उपक्रमादिलिङ्गैः श्रुतेर्द्वैतनिषेधपरत्वेऽपि प्रत्यक्षगृहीतघटादीतरविषयकत्वेन सावकाशतनिरवकाशताभ्यामुभयोरपि तात्विकप्रामाण्योपपत्तेरप्रामाण्यापरनामधेयव्यावहारिकप्रामाण्यकल्पनस्य अयोगन सावकाशनिरवकाशन्यायस्य चाप्रत्यू प्रवृत्तेः। यद्यपि निर्वापमन्त्र इव संस्कारकत्वात् प्रतिसंस्कार्य भेंदन तन्र्रस्य, एनत्संस्कारेण अन्यस्यानुपकारान प्रसक्कम्य वाऽप्रवृत्त्या बहुविषयेन्द्रसुब्रह्मण्ययाSडसयासुब्रह्मण्याबाध इति भाष्यकारीयाधिकरणशरीरं कृताचिन्तया प्रवृत्तमिति नैतद्ूयोनुग्रहन्यायोदाहरणम्; तथापि दधिमधुघृतं पयो धानास्तत्संसृषटं प्राजापत्यमिति सप्तहविष्के याग सकृदभिमर्शनस्य चोदकप्राप्तस्य मधुघृतपयोरूपभूयोनुप्रहार्थ पोर्णमासिक्स्यव ग्रहणमिति सिद्धान्नपरवार्तिककारीयाधिकरणशरीरपर्या- लोचनया भूयोनुग्रह्न्यायस्य प्रामाणिकत्वात् अत्र बहुविषयवाधाभावऽपि बहुवाधप्रसकस्य वाघकताबीजस्य सत्वेन बहुभिरल्पबाधस्याप्युक्तन्यायसिद्धलवात् भेदग्राहकप्रमाणत्वं वाधकतवसमानाधिकरणं बहुविषयकलवसमानाधिकरणत्ादित्यत्रव तात्पर्यान्च भूयोनुग्रहन्यायस्य चात्र प्रावल्यप्रयोजकत्वसंभवान्। अनाप्ताप्नणीतत्वादिना वेदस्येव परीक्षितत्वेन प्रत्यक्ष- स्यापि प्रामाण्यस्य निश्चितत्वेन जालया प्रवलेन तेनानुमानागमयो्वाध इति न प्रपन्नमिथ्याल्ानुमानादिमंभव इति सर्वमन- वद्यम्-इति निरूपयन्ति॥ (४) अत्र लघुचन्द्रिकाकाग :- रूपादिहीनस्यापि ब्रह्मणो घटाद्यवच्छेदेन प्रत्यक्षत्स्य परिच्छिन्नतनिरुक्त्तावुपपादिनलात् 'लोहितः स्फटिकः' 'नीलो घटः' 'नीलो गुणः' इत्यादौ सर्वत्र तादात्म्यसंबन्धेनैव नीलादिप्रकारकन्वेन संबन्धभेदेन समानाकारकलम्य कुत्राप्य दर्शनेनाभावसामानाधिकरण्यसाधारण्येन सत्ताजातिस्फुरणाधीनत्वस्य, प्रमेयत्वस्याप्यनुगत्त्वनाननुगतेन सत्स्- रूपेणानुगतसत्प्रतीत्यनुपपत्त्या सत्स्रूपनिबन्वनलस्य, पूर्वाक्तरीत्या चक्षुराद्योग्यत्वेन त्रेकालिकनिषेधाप्रतियोगिलनिव- न्धनत्वस्य वाऽसंभवात्, अपरिणामतयोपादानत्वप्रयुक्तघटादितादात्म्यस्थेव ब्रह्मणः सदाकारवुद्धी भासमानलप्रयोजक- त्वेन मिथ्यात्सिद्धावप्यिष्टानानुवेधोपपादनसंभवेन नीलो घट इत्यादो तदापत्यसंभर्वन च प्रत्यक्षेणोक्तानुमानवाधो न संभवति; 'प्राबल्यमागमस्यव जात्या तेषु त्रिपु स्मृतमि'ति व्रह्मतकवचनान्। यथाचाद्वतस्य्रैव वैदिकार्थत्वं तथान्यत्र विस्तरः। पतेन-एतद्धि वे मनुप्येपु सत्यं निहिनं यच्चक्षुरित्यादि दीक्षणीयेष्ठवर्थवादादिकमपि-व्याख्यातम्ः तेपां सर्वे- वामप्यपरीक्षितप्रामाण्यकात्परीक्षितप्रामाण्यकचक्षुरादिप्रावल्यवोधन एव तात्पर्यात्। अमेः ऋग्वेदः वायोर्यजुर्वेद इत्युपक्रम्य श्रूयमाणेघु "उचचेः ऋचा क्रियत" इत्यादिमु ऋगादिशब्दानां कि मन्त्रपरलमुत वेदपरतमिति सन्दिह्य 'अङ्गुण- विरोधे च तादर्थ्यादि'ति न्यायेन प्रधानाविरोधेनेव गुणस्य नेयत्वान्मन्नपरा इति पूर्वपक्षम्य गुणीभूतस्याप्युपक्रमस्थतवेना- संजातविरोधित्वेन तदविरोधार्थ विधिगतर्गादिपदानां वेदपरल्मेवरेति सिद्धान्तनेन प्रवृन्नोपक्रमोपसंहारन्यायस्य एकप्रमाज- मने परस्परसापेक्षपदत्वेन समानयोरुपक्रमस्थस्य प्रावत्यबोधन एव तात्पर्येण श्रुत्येकवाक्यतारहितप्रत्यक्षप्राबल्यस्योक्त न्यायेन बोधनासंभवात्। यथाच प्रत्यक्षस्यापि न परीक्षितत्वम् तथोत्तरत्र स्फुटीकरिष्यन इति नानुपपत्तिः । पतेन- श्रुतिलिङ्गाधिकरणस्यापि नावकाश-इति सूचितम्; 'नेह नानास्नि किंचने'ति थ्रुत्या घटत्वादिविशेषरूपविशिष्टस्यापि मिथ्यालबोधनेन सामान्यविशेषभावाभावात्, भावेऽपि प्रत्यक्षप्रामाण्यस्य अनिश्चितलात्, निश्षितप्रमाणभावोभयविष- मसामान्यविशेषन्यायस्याप्यनवतारात्। सावकाशनिरवकाशन्यायस्तु नात्र प्रसरति। यस्माद्विषयात्संकोचो यस्य पदस्य वाच्यः, तत्र विषये यादशी शक्ति: तस्य पदस्य प्रमक्ता तादृशवृत्या विषयान्तरपरतस्यव सावकाशत्वेन प्रत्यक्षविषय-
Page 160
[उपजी० प्रत्य०] गौडब्रह्मानन्दीयुता। ३६३
अथोपजीव्यत्वेन प्रत्यक्षप्राबल्यनिराकरणम्। ननु-उक्तन्यायैः प्रत्यक्षस्य जात्या प्रावल्याभावेऽपि उपजीव्यत्वेन प्राबल्यम्; उपजीव्यत्वं चानु- मानागमापेक्षिताशेषार्थग्राहकतया, सा च क्वचित् साक्षात् कचित्परम्परया; हष चापेक्षितैकदेश- ग्राहिणामप्युपजीव्यत्वम्, तद्विरुद्धग्रहणे तेन बाधश्च; यथा-घटविभुत्वानुमाने पक्षग्राहिणा अक्ष्णा, नरशिरद्शुचित्वानुमाने साध्यग्राहकेणागमेन, मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतुग्राहके णानुमानेन, किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्धग्राहकस्य बाधः? चश्षुरादेश्व शब्दतजन्य-
लाशुचित्वबोधकागमस्य तच्छ्रुचित्वानुमानोपजीव्यशुचित्वागमसजातीयत्वेन तदनुमानात् प्राव- ल्यम, नचेन्द्रियमपि स्वज्ञानार्थमनुमानमुपजीवतीति सम एवोपजीव्योपजीवकभावः, अज्ञातकरण- तया ज्ञानजननार्थमनुमानानपेक्षणात्, अनुमानागमादिना तु ज्ञानजननार्थमेव तदपेक्षणादिति विशषात्-इति चेन्नः उपजीव्याविरोधात्। तथाहि-यन्स्वरूपमुपजीव्यते तन्न वाध्यते; बाध्यते च
गाडव्रह्मानन्दी (लघुचन्द्रिका)। जात्या मुख्यत्वादिनोपजीव्यत्वान्यरूपेण। प्रावल्यं मिथ्यात्वबोधकानुमानागमापेक्षया बलवत्वम्। तद्विरुद्ध- ग्रहणे तादृशोपजीव्यविरूद्वग्राहकेऽनुमानागमे। तद्वाधः तादृशोपरजाव्यत्राध्यत्वम्। पक्षग्राहिणा परिच्छिन्नतया घटग्राहिणा। नरेति। मृननरेत्यर्थः । ग्राहकेण ग्राहकागमसजातीयागमेन। असमवायीति । असमवायिकारणे- त्यर्थः। 'मनो,विभु, ज्ञानासमवायिकारणसंयोगाधारत्वात्, आत्मवदि'त्यनुमाने मनसि आत्मसंयोगग्राहकेण बाध्यत्वम्; विभुनोरात्ममनसोः संयोगासंभवेन मनामि विभुत्ववाधनिश्चयात्। किमु वक्तव्यमिति। बाधक्रियाविशेषणतवात् नपुंसकत्वम् तड्राहिश्रोत्रसाक्ष्यादीति। शब्दग्राहिश्रोत्रजन्यशब्दज्ञानप्रामाण्यग्राहिसाक्ष्यादीत्यर्थः । तदपेक्ष- णादिति। यद्यप्यतीन्द्रियपक्षसाध्यहेतुकानुमानस्य प्रत्यक्षापेक्षण मानाभाव :; पूर्वपूर्वानुमानपरम्परयैव तत्संभवात्, शाव्द्रबोधस्य क्वचिदपेक्षणि तस्य शव्दानुमानादिनैव संभवेन शव्प्रत्यक्षानपेक्षणत्,किंच साक्षिणो ्ररासा - धारणत्वेन तज्ञानीयन्वेन कथ प्रावल्यम् ? अपिच साक्षिजानीयत्वं चक्षुरादिजन्यज्ञानस्य व प्रत्यक्षत्वजानिः; अस्मन्मते तम्यालींकन्वान, नापि अनावृनचित्तादात्म्यापन्ननिष्टविपयताकत्वम्; तस्यैकस्य साक्षिचाक्षुपादिज्ञानयोरभावेन साक्षि- जानीयत्वरूपन्वाभावान साक्षिणि हि विषयता विषयतादात््यरूपा, चाश्षुपादिज्ञाने त्वाकाराख्या। किंच नोपजी- व्यजानीयन्वेन प्रावल्यस्वीकारे मानसम्ति; अशोचागमस्योक्तजातीयत्वमनादृत्यैव प्राब्ल्यसंभवात्, आगमत्वजात्यैव हि प्राबल्यस्योक्तत्वाढित्यादिदृपणानि सन्ति; तथापि स्फुटत्वात्तान्युपेक्ष्य वाचस्पत्याद्युकं समाधानमाह-उपजीव्या- विरोधादिति। यत् स्वरूपं व्यवहारकालावाध्यविपयकत्वं ज्ञानस्य, तादृशाबाध्यत्वं विषयस्य। उपजीव्यते प्रयोजकत्वेनापेक्ष्यते। तान्विकत्वाकारः त्रिकालावाध्यत्वम्। कारणत्वे प्रयोजकत्वे। अप्रवेशात् अवच्छेदक- न्वाभावान्। व्यवहारकालावाध्यविपयकवरूपेण मिथ्यात्वविशिष्टतया यदज्ञातं तदविषयकत्वपर्यवसितेन प्रमात्वेन निश्चीयमानो यः शब्दनिश्चयः तत्त्वादिरूपेण शाब्दबोधादिहेतुत्वम्; तादृशरूपे च प्रयोजके तात्विकत्वं न निविशते। नन्वेवं-प्रातीतिकविपयकज्ञानात्तादृशप्रमात्वेन निश्रीयमानात् कार्योत्पादस्वीकारेण व्यावहारिकशब्दज्ञानत्वादिना हेनुत्वाप्रसक्तावपि प्रातीनिकढण्डादितो घटाद्यनुत्पत्ते: व्यावहारिकदण्डत्वाढिना हेतुत्वे वाच्ये महागौरवात् तत्परि हाराय प्रपश्वस्य व्यावहारिकप्रातीतिकरुपद्विविधत्वस्य त्यागेनैकविधत्वमेव उचितं-इति चेन्न: दण्डादेर्दण्डत्वादिना
यजमान: प्रस्तर इत्यादाँ यजमानपदस्य यजमानकार्यकारित्वरूपार्थे सावकाशतान्निरवकाशेन प्रत्यक्षेण बाधनमनु- सयोक्तश्रुतेस्तयोर भेदे तात्पर्याभाविनैव प्रत्यक्षवाध उक्त इति सर्वमनवद्यम्। वस्तुतस्तु-प्रत्यक्षेण घटादीनामिव शव्दानुमानादिना गुरुत्वपिशाचादीनामपि सत्यत्वसिद्धा नेह नानास्तीति श्रुतेः निर्विषयकत्वमेवापाद्यत इति नोक्तन्यायावसरः। एतेन-भूयोनुग्रहन्यायोऽपि-व्याख्यातः। यद्यपि प्राचां मीमांसकैकदेशिनां मते विप्रतिषि- च्वित्यादिना भूयोनुग्रहाय मुख्याल्पबाध इति पूर्वपक्षय्य (मुख्यं वा पूर्वचोदनाल्ोकवदिति ) मुख्यस्यैकत्वेऽपि भूय- साममुख्यानां तेनोपमर्दः, लोके तथा दर्शनात् इति सिद्धान्तितमिति वार्तिकोक्ते भूयोऽनुग्रहन्याये न मानम्; तथापि मतान्तरदृष्या तन्न्यायशरीरोपपादनसंभवान्न दोपः। स चायं निश्चितप्रमाणभावोभयविषयक एव; अन्यथा देहात्मैक्य- प्रत्यक्षानुमानादिभिः तद्भेदश्रुतेरपि वाधपत्तरिति प्रकृते प्रत्यक्षस्य श्रुतिविरोधेन प्रामाण्यानिश्चयात् प्रत्युताप्रामाण्यनिश्चया- न्रोक्तप्रसक्गः । चंदस्य लनाप्ताग्रणीतलादिना प्रामाण्यनिश्रय इति सर्वमवदातम्-इति समर्थयन्ति॥
Page 161
३६४ अद्वैतसिद्धिः । [परिच्छेद: १]
तात्विकत्वाकारः, स च नोपजीव्यते; कारणत्वे तस्याप्रवेशात्। तदुक्तम्-'पूर्वसंबन्धनियमे हेतुत्वे- तुल्य एव नौ। हेतुतत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।' इति। किंचापेक्षितग्राहित्वमात्रण चेदुप- जीव्यता, तया च बाधकत्वम्, तदाऽपेक्षितप्रतियोगिग्राहकत्वेन 'इदं रजत मिति भ्रमस्य बाधोपजी- व्यत्वात् कथं 'नेदं रजत मिति बाधवुद्धिस्तद्विरुद्धोदीयात् ? अथ निषेध्यार्थसमर्पकतया प्रतियोगि- ज्ञानत्वेन तस्योपजीव्यत्वेऽपि तत्प्रामाण्यं नोपजीव्यम्, नहि प्रतियोगिप्रमात्वेनाभावज्ञानजनकता; गौरवात्, प्रतियोगिभ्रमादप्यभावज्ञानदर्शनाञ्च, किंतु तज्ज्ञानत्वेनैव; लाघवात्, अतस्तद्विरुद्धवि- षयकं ज्ानमुदीयादेवेति बषे, तुल्यमिदं प्रकृतेऽपि, पक्षज्ञानत्वादिना कारणता, नतु तत्प्रमात्वादि नापीति। अथ-यत् प्रामाण्यं स्वरूपसिद्धर्थमपवादनिरासार्थ च यत् प्रामाण्यमुपजीवति तत्तस्यो- पजीव्यम्; यथा स्मृतेरनुभवः, नच रजतभ्रमस्तथा-इति चेत्, तर्हि व्यापिधियोऽपि नानुमित्युप- जीव्यत्वं स्यात् : लिङ्गाभासादपि वह्निमति वह्निप्रमादर्शनात्। ननु-येन विना यस्योत्थानं नास्ति तत्तस्योपजीव्यमित्येव वक्तव्यम; तथाच रजतभ्रमस्योपजीव्यत्वमस्त्येव, नतु प्रावल्यम्ः नह्युप- जीव्यत्वमात्रेण प्रावल्यम, किंतु परीक्षिततया। परीक्षा च सजातीयविजातीयसंवादविसंवादाभा- वरूपा। नच्र तो रजतभ्रमे स्तःः प्रकृते चाक्षस्य परीक्षितत्वेन प्राबल्यम्। अस्ति हि 'सन्घट' इति विशेषदर्शनजन्यज्ञानान्तरं घटार्थक्रियाप्रत्यक्षे। कमदृरादिदोषाभावाच्च। एवमेव जीवेशाभेदश्रुती
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
करणक्षणोत्तरक्षणत्वस्यैव तत्तत्कार्योत्पत्तिव्याप्यत्वस्वीकारादिनि दिक॥ तदुक्तमिति। खण्डनकाररि शेयः। पूर्वसंबन्धनियमे कार्यप्राक्कालघटितो योऽनन्यथासिद्धकार्यव्यापकतावच्छेदकधर्मरूपो नियमः तद्रपे हेतुत्वे। आवयोः प्रपञ्चसत्यत्वमिथ्यात्ववादिनोः, तुल्ये स्वीकृते। तादृशहेनुन्वात वहिर्भृतयोरघटकयोः सत्त्वागत्व्रयोः कथा हृथा, न युक्तेत्यर्थः । तज्ज्ञानत्वेनैवेति। ननु-प्रनियोगिज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयविध्यव हनुता; तादृशनिश्चयस्य चाप्रमात्वेन गृह्यमाणस्याभावबुद्यनुपधायकत्वान प्रमात्वेन निश्चीयमानस्यंव सा वाच्या, तथाच कथं प्रमात्वाघटित रूपेणैव सा ? इति चेन्नः प्रतियोग्यंशे प्रमान्वस्य हेनुताया व्यवच्छेद एव प्रकृतग्रन्थस्य तात्पर्यान। तथा- घ प्रतियोगितावच्छेदकांशे प्रमात्वेन निश्चीयमानस्योपजीव्यत्वेऽपि न प्रतियोग्यंश प्रमात्वस्य उपजीव्यता; प्रनियोग्यंडी अ्रमस्यापि तथात्वसंभवात्। नचवं-लाघवादित्यसङ्गतम्; प्रमात्वापेक्षया प्रमात्वेन निश्चीयमानत्वस्येव गुरुन्वात्, इति-वाच्यम्; प्रनियोग्यंशे प्रमात्वेन हेनुतावादिनापि हि प्रतियोगितावच्छेदकांश ग्रमात्वेन निश्चीयमानत्वं कारण- तावच्छेदके निवेश्यमेव; अन्यथा नदंशे प्रमात्वसंशये सत्यपि प्रतियोगिज्ञानाद्भावनुद्यापत्तेः । तथाच तन्निवेशनैवो- पपत्तौ प्रतियोग्यंशे प्रमान्वं न निवेश्यते; लाघवादिति भावः। तद्विरुद्धविषयकम् अनुपजीव्यप्ननियोगिवेशि- स्ांशे रजतभ्रमस्य विरुद्धविपयकम्। ज्ञानम् अभावज्ञानम्। प्रकृते मिध्यात्वानुमानादों। परथिवी मिथ्या दृश्यत्वा- दित्यनुमाने पृथिवीत्वप्रकारकज्ञानत्वाढिना पृथिव्याहिप्रत्यक्षस्य हेनुता, ननु पृथिव्यादंशे प्रमात्वेनेत्यर्थः। एवं घट- विभुत्वानुमानेऽपि नोपर्जाव्यांश प्रत्यक्षस्य विरुद्धत्वम्; वटस्य परिच्छिन्नत्वांश एव प्रत्यक्षस्य विरुद्धत्वात्, किंतूपजी- व्यत्वाश्रयविरोधमात्रम्। तथाचोपजीव्यजानीयविरोधवत्तस्याप दोपवेन ताब्रिकाणामुक्तिरिति ध्येयम्। अत्र प्रतियोग्यंशे त्रिकालाबाध्यत्वं व्यवहारकालावाध्यत्वं च यथा नाभावज्ञानस्योपजीव्यं तथा पक्षादश त्रिकालाबाध्यत्वं नोक्तानुमानस्योपजीव्यम्; अतस्नस्य तेन बाधेऽपि न क्षनिः, नस्य व्यवहास्कालावाध्यत्वं तु तेन न वाध्यन, नचोप जीव्यते; मिथ्यात्वेनाज्ञातविषयक वरूपस्य पृथिवीन्चादिरूपपक्षतावच्छेदकाद्यंशे प्रमान्वस्य निश्चयः परं तादृशा- नुमानोपजीव्यः, नच तावता क्षतिः। यन्प्रामाण्यं यस्य प्रामाण्यम्। स्वरूपसिद्धर्थ स्वनिश्चयार्थम्। अपवादेति। स्वाभाववत्त्रज्ञानेत्यथेः । उपजीवति अपेक्षते। यथेति। स्मृतेः स्वजनकानुभवसमानविषयकत्वनि- यमेन स्मृता प्रामाण्यस्य प्रमानुभवजन्यस्मृतित्वेनानुमानान, प्रमात्वव्याप्यतादृशस्मृनित्ववत्तानिश्चयस्य स्मृतावप्रमात्व- धीनिरासकवाच्चानुभवः स्मृनेरुपर्जाव्य इत्यर्थः। तथा तादृशोपजीव्यतावान्। सजातीयेत्यादि। सजातीयस्य ज्ञानान्तरस्य। विजातीयस्य प्रवृ्त्यादेश्चाबाधितविषयकत्वेन निश्चितस्य। संवाद: समानविषयकत्वमू। तयोः संवादस्य विसंवादस्य विरुद्धार्थग्राहित्वस्य चाभाव इत्यर्थः । अक्षस्य प्रत्यक्षस्य। ज्ञानान्तरं, घटार्थक्रियेतिपाठ :; न्यायामृनरूपे दृप्यग्रन्थे तथव पाठसत्वात्। ज्ञानानन्तरमर्थक्रियेति पाठे परीक्षणीयज्ञानोत्तरं घटार्थकियेत्यर्थः । तत्र विशेषदर्शनजन्यन्वोत्तया संवाद उक्त :; स्वसमानविषयकत्वस्येव स्वविपयव्याप्यवत्वविषयकत्वस्यापि संत्रादत्वासतद्विपया- नुकलविषयकत्वस्यैव तत्संवादृत्वसंभवादिति बाध्यम्। घटार्थक्रिया घटानयनादी प्रवृत्यादिकम्। सजातीयविजातिय-
Page 162
उपजी० प्रत्य० ] ३६५
निषेध्यार्पकमेदश्रुतिः साक्षिप्रत्यक्षं चादोषत्वात् परीक्षितमिति तदपि न बाध्यम्। एवमेव च दोषा- भावादिज्ानरूपपरीक्षायामपि अनाश्वासे वेदे पौरुषेयत्वाभावज्ञाने त्वदुक्तानुमाने च योग्यानुपल- ब्ध्यादिना हेत्वाभासादिगहित्यज्षाने ब्रह्ममीमांसायां प्रत्यधिकरणं सिद्धान्त्यभिप्रेतार्थ उपक्रमाद्या- नुगुण्यज्ञाने चानाश्वासः स्यादिति प्रमाणतदाभासव्यवस्था न स्यात्-इति चेन्न; परीक्षा हि प्रतृ- त्तिसंवादविसंवादाभावदोपाभावादिरूपा, तया च स्वसमानदेशकालीनविषयाबाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते धूमेन स्वसमानदेशकालीनवह्विरिव। तथाच व्यवहारदशामात्राबाध्यत्वं देहान्मेक्य- साधारणं परीक्षितप्रमाणे व्यवस्थितमिति कथमत्यन्तावाध्यन्वाभावग्राहकागमानुमानयो: प्रवृत्तिर्न स्यात्? तस्माद्विश्वासप्रमाणतदाभासव्यवस्था जीवेशभेदादिकं च व्यावहारिकमित्युपपन्नमेव सर्वे जगन्मिथ्येति॥ ननु-प्रत्यक्षाप्रामाण्ये तत्सिद्धस्य व्यान्यादेर्वाधेनानुमेयादेरनुमित्यादिप्रामाण्यस्य च बाधः; अनुमेयादेर्व्यप्यादिना अनुमितिप्रामाण्यादिना च समानयोगक्षमत्वात्, अन्यथा प्रातिभा- सिकव्या्यादिमता वाप्पाध्यस्तधृमेन तात्विको व्यावहारिको वागनिव्यावहारिकव्यास्या दिमता धुमेन तात्विकोऽग्निरव्यावहारिकेणावाधेन विरुद्धधर्माधिकरणत्वेन च विश्वम्य जीवेशमेदस्य च तात्विकं सत्त्वं सिद्धंत्-इति चेन्नः एनावता हि व्याध्यादिसमानसत्ताकमनुमेयं सिद्धन्वित्यापनः फलितो- ऽर्थः, स चास्माकमिष्ट एवः नहि ब्रह्मभिन्नं कचिदत्यन्तावाध्यमस्ति। नचरायमनुमेयादेर्व्याप्यादिना समसत्ताकत्वनियमोऽयस्ति; व्यमिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात्, ध्वनिधर्महस्वत्वदीर्घत्वादिविशिष्टन्वेन मिथ्याभूतैगपि नित्यैर्विभुभिवणः सत्या शाब्दप्रमितिः क्रियन इति मीमांसकैरभ्युपगमात्, गन्धप्रागभावावच्छिन्ने घटे तात्विकव्याप्यादिमतापि पृथिवीत्वेना- तान्विकगन्धानुमितिदर्शनात्, प्रतिबिम्बेन च विम्वानुमितिदर्शनात्। नच-तत्रापि विम्वरहिता- वृत्तिरूपा व्याप्तिस्तान्विकयेवेति-वाच्यम: एवंसत्यवृत्तिगगनादेरप व्याप्यतापत्तेः। नच-तत्र विम्बपूर्वकत्वमेवानुमीयते, विम्वव्यतिरेकप्रयुक्तव्य तिरेकप्रतियोगित्वरूपेणाप्रातिभासिकेन हेतुनेति
गौडव्रह्मानन्दी (लघुचन्द्रिका )। योः मंवादमुक्चा अविसंवादमाह-प्रत्यक्ष इत्यादि। चन्द्रप्रादेंशिकत्वादिप्रत्यक्षे कप्स्य दरादिदोपस्याभावश्रेत्यर्थेः। तथाच भ्रमत्वप्रयोजकदोपाभावेन मानान्तरविरुद्वग्राहित्वाभावात्तयोरपि संवाद इनि भावः। नन्वागन्नुकदोपाभा- वेऽप्यविद्याकामकर्मरूपाणं नित्यदोपाणं सत्वात् क्थ विसंवादाभावोक्ति :? श्रत्यादिविसंवादस्यैव च सत्वात्, तव्राह -एवमेव च दोपाभावेति। आगन्तुकदोपमात्राभवेत्यर्थः। प्रवृत्तीति। सजानीयसंवादविसंवादस्थलेऽपि प्रवृ- तिरूपसजातीयज्ञानफलसंवादादिसत्ान् प्रवृत्तिप देनेव सजातीय विजानीयय्रप्रहणमविसंवादप्रयोजकम्। दोपाभावादि कमपि परीक्षायामन्तर्भाव्याह-दोपाभावादिति। स्वसमानेति। स्वसमानकालीनं यत्परामाण्यस्य प्रामाण्यघटकं विपयनिष्टमवाध्यत्वं, तद्यवस्थाप्यत इत्यर्थः । धूमेनेत्यादि। यथोदयनाचार्यादिमते साध्ये हेनुसमानकालीनत्वभा- नम्यानुमिनावीनसर्गिकत्वस्वीकाराहमेन तन्समानकालीन एव वह्निरनुर्मायते, तथा एतज्ज्ञानविषयः अवाधितो-
दादिहेनुममानकालीनं विषयस्याबाध्यत्वमनुमीयत इत्यर्थः। ननु नवीनताकिक: साध्ये हेनुसमानकालीनत्वभानस्यौ- रसर्गिकतवं न स्वीक्रियते, तग्राह-तथाचेति। परीक्षयापि विषयावाध्यत्वव्यवस्थादरे चेत्यर्थः। मात्रावाध्यत्वं मात्राबाध्यत्वमेव। प्रमाणे प्रमाविपये। व्यवस्थितमिति। तादृशसंवादादिशरीरे कालानवच्छिन्नमबाध्यत्वं न निवेशयितुं शक्यम्; तस्य दुर्भ्हन्चेनोकवात्। तत्तव्यवहारकालावच्छिन्नस्य तस्य तत्र निवेशे च तस्यैव बाध्यत्वं वाच्यम्, ननु कालानवच्छिन्नस्य; शुक्तिरूप्यादो व्यभिचाराढिनि भावः । योगक्षेमः सत्ता । मिथ्याभूतैः व्यवहार- काले बाध्यमानेः । सत्या व्यवहारकालावाध्यविपयिका। क्रियते प्रयुज्यते। वर्णज्ञानस्यैव करणत्वात्। मीमां- सकः कर्मव्रह्ममीमांसकैः । ओपनिषदानां मनेऽपि वर्णानामाकाशादिसमाननित्यत्वस्वीकारात्। अतात्विकगन्धेति। विशिष्ट्घटस्य केवलघटान्यत्वात्तत्र गन्धोऽतात्विकः। तस्य तदनतिरेकेऽपि स्वप्रागभावे गन्धस्य कालिक्संबन्धभानात्त थात्वम्। व्याप्यतापत्तेरिति। नच-सेष्टव पक्षधर्मताधीविलम्बादेवानुमितिविलम्बसंभवात् इति-वाच्यम्;
गगनं पर्वतीयमिति ज्ञानात् पर्वते वह्वचनुमितिः स्यात्; गगने अवृत्तित्वज्ञानस्य गगनप्रकारकधीप्रनिबन्धकत्वेन तत्काले तदनुर्पादेऽपि तद्विशेष्यकपरामर्शोष्पादे वाधकाभावान्। किंच गगनादेरित्यादिपदेन तत्तजलीयरूपादेरपि धूमादि- व्याप्यतापत्तिरुक्ता; केनचित् संबन्धेन तस्यापि साध्याभाववद्वत्तित्वस्याभावातू, हेतुतावच्छेदकसंबन्धेन वृत्तिनिवेशे
Page 163
३६६ अद्वैतसिद्धिः । [परिच्छेदः १ ]
-वाच्यम् : प्रयुक्तत्वं हि न तज्जनकजन्यत्वादिरूपम्; व्यतिरेकयोः परस्परं तदभावात्, किंतु व्याप्यव्यापकभावः तथाच विम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः, स चाकाशादो व्यमिचार्येव। तस्मात्तत्र प्रतिबिम्बेनैव बिम्वानुमानम्, अनुमेयस्य लिङ्गव्याप्यादिसमानसत्ताकत्व- नियमस्यापास्तत्वात्। एतेन-शब्देSपि योग्यतासमानसत्ताकेन शब्दार्थन भवितव्यम्, योग्यता- वाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यतावाधेऽप्यबाधितः स्यादि- ति-परास्तम्: वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्थावाधरूपाया योग्यताया अप्यवाधाञ्ज। नच-तथापि वेदान्ततज्ज्ञानप्रामाण्यमिथ्यात्वे कथं तात्विकार्द्वतसिद्धिरिति-वाच्यम्: शब्दत- ज्ज्ञानतात्विकत्वं हि न विषयतात्विकत्वे तन्त्रम्, इदं रजतमित्यनाप्तवाक्यस्य तजन्यभ्रमस्य च त्वन्मते तान्विकत्वेऽपि तद्विषयस्यातात्विकत्वात्। नच्र-ज्ञानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं शुक्तिरूप्यज्ञाने दृष्टमिति प्रकृतेऽपि ज्ञानप्रामाण्यमिथ्यात्वे विषयस्यापि मिध्यात्वं स्यादि- ति-वाच्यम्: प्रामाण्यमिथ्यात्वं हि न विषयमिथ्यात्वे प्रयोजकम, भ्रमप्रमावहिर्भूते निर्विकल्पके विषयवाधाभावात्, किंतु तदभाववति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथाः तञ्ञ प्रकृते नास्त्येव। नच्र-अर्थावाधरूपप्रामाण्यम्य मिथ्यात्वादर्थस्यापि मिथ्यात्वं स्यादिति-वाच्यम; अबाधितार्थविषयत्वं हि यत् प्रामाण्यं तम्य मिथ्यात्वम प्रकृते नार्थवाधान्: तद्वाधकप्रमाणासंभ- वात्, तस्य सर्वबाधावधित्वात्, किंतु तद्विपयत्वरूपसंबन्धवाधात्तथा। तथाचावाधितार्थविय-
दण्डबाधनिबन्धनदण्डिपुरुषवाधेऽपि पुरुषो न बाधित एवेति। इति अद्वेतसिद्धा प्रत्यक्षस्योप- जीव्यत्वभङ्ग:।
गाडव्रह्मानन्दी (लघुचन्द्रिका)। सत्तावान् द्रव्यत्वादित्यदावव्याप्तरिति दिक्। ननु प्रयुक्तत्वं क्षेमसाधारणी जन्यनेवः अन्यथा विम्वाभावान प्रिवि स्वाभाव इनिवत बिम्बाभावात् गगनाभाव इत्याप व्यवहियेनेत्यत आह-तस्मादिति। मवेतरम्य यम्प यम्य सन्चे स्वम्य सर्वे अग्रिमक्षणे यत्सत्वं, तस्य तस्य सत्वेप स्वस्याभावसतवे उत्तरक्षण अव्थ्यं नदसत्वम् नादृशसतं क्षम- साधारणकारणत्वमिनि रीन्या प्रनिविम्बाभावनिष्टस्य क्षमसावारणजन्यत्वस्य प्रनिविस्वघटितन्वेनातान्विक्वान प्रि विम्बेतरभागवैयर्ध्याञ्च प्रनिबिम्वमेव विस्तपर्वकत्वेपि तादात्म्येन हेनुरिनि भावः । बिम्वं, नत्पूर्वकत्वं वा साध्यमू। एतेन कार्यकारणभावापन्नधीविपययोः समानसत्ताकत्वानियमेन। तन्न्रं समव्यापकम्। प्रयोजकं व्याप्यमू। वहिर्भूतेति। तार्किकादि्रात्योक्त्म्। स्वमतेत्ववाधितविषयकत्वरूपं प्रमान्ं निर्विकल्पे प्यस््येत्र। सर्वबाधाव- धित्वात् सर्वबाधकधीविषयत्वात। तस्य वाधे तद्ियः सर्वबाधकत्व नोपपद्यत इनि भावः। सत्यत्वादिति।
भावः। ननु तथापि ज्ञानाविषयत्त्रविशिष्टरूपेण मिध्यात्ं ब्रह्मि स्यादित्याशक्का तन स्वीकरियन एव. नथापि शुद्ध- रूपेण सत्यतेनि सदष्टान्तमाह-यथति ॥ इति लघुचन्द्रिकायां प्रत्यक्षस्य उपजीव्यताप्रावल्यभङ्ग:॥
अथ प्रत्यक्षवाधोद्धारे उपजीव्यत्वेन प्रत्यक्षप्रावल्यनिराकरणम्। (१) तत्र न्यायामृतकारा :- उपजाव्यतादपि प्रत्यक्ष प्रबलं श्रुतिरिव स्मृतेः। उपजीव्य्वं चानुमानापेक्षिताशेषसमर्पकतया शब्दतजन्यज्ञानप्रामा
नोपर्जाव्यत्वमात्रेण प्रावल्यम।अज्ञान्स्यैवेन्व्रियस्य करणतान्नानुमानादीनाम ्युपजीव्य व मम लागमनुमानपेक्षया्यक्ष स्यव ग्रावल्यम,। अन्यथा तन्मिद्धव्यात्यादेर्योग्यनादेथ वाधापन्याऽनुमेयस्य शब्दार्थस्य च वाधापत्तेः, अनुमेयस्य शब्दार्थस्य न व्यापियोग्यतादिना समानयोगक्षेमत्वात्, अतएव हि व्यावहार्कण प्रातिभासिकेन वा धूमेन तातिकस्य व्यावहारिकस्य वा वहनानुमितिः। प्रतिविम्बस्य मिथ्यात्वंऽि विम्रिनावृतितरूपव्याप्तिरस्त्येव। यदि हि मिथ्या- ानुमानमव तल्वंदकम, ननु वहचनुमानादिकमिति स्यानहिं अविकसत्ताकमिथ्यात्वं मिथ्यालादे: सिद्धेत्। नतदस्ति; अस्तु वा हेतुसाथ्यया: कर्थचिद्विपमसत्ताकलादिकं, तथापि प्रामाण्यममसत्ताकत्वं विषयभ्याज्ञीकरणीयमेव। अर्थवाधे अर्थावाधरूप प्रामाण्यसत्यलासंभवानू, रुप्यादिज्ञानप्रामाण्यमिव्यात्वे रुप्यमिव्यात्वस्यापि दर्शनाच्च। यत्प्रामाण्यं स्वरूप-
Page 164
[उपजी० प्रत्यक्ष० ] गौडव्रह्मानन्दीयुता। ३६७
सिच्धर्थ अपवादनिरासार्थ वा यत्प्रामाण्यमपेक्षते, तस्यैव तदुपजीव्यत्वेन प्रतिषेध्यज्ञानप्रामाण्यानायत्तप्रामाण्यक प्रतिषेधकज्ञानस्य न प्रतिषेध्यज्ञानबाध्यलापत्तिः। येन विना न यस्यानुत्थानं तत्तस्योपजीव्यं इति प्रतिषेध्यज्ञानम्याप्युपजी- व्यत्वेऽपि परीक्षिततवविशिष्टोपजीव्यत्वस्यैव प्रावत्यप्रयोजकलवानोक्तोषः; प्रमानन्तर्रमस्य वेदबाह्यागमादेश् प्राबल्य- निराकरणार्थ परीक्षितत्वविशिष्टपरत्वस्यव भवन्मतेऽपि प्रावत्यप्रयोजकलवान्। परीक्षा च विशेषदर्शनजन्यज्ञानान्तरमप- सजातीयसंवादरूपाद्यर्थक्रियारूपविजञानीयविसंवादाभावरूपा न प्रतिषेध्यज्ञानस्यास्नीति न दोषः। सन् घट इति प्रत्यक्ष स्य तृक्तरूपसंवादस्य विजातीयविसंवादाभावस्य च विद्यमानत्वात्मोत्तरानुमानादिवाधकत्वेन -नोक्तानुमानं प्रयोजकम्। प्रतिषेध्यसमर्पकजीवेशभेदादिश्रुतेस्नु अदुष्टत्ात्स्ार्थऽपि प्रामाण्यमेवंति न दोषः। दोषाभावादिज्ञानपरीक्षायामस्यानाश्वा- सेतु सर्वत्रानाश्ासात कापि व्यवस्था न सिध्ेदिति उपजीव्यप्रत्यक्षवाधितलान्न प्रपञ्चमिथ्यात्सिद्धिः-इति वर्णयन्ति ॥ (२) अद्वतसिद्धिकारास्तु-
नात्रोपजीव्यविरोधः, उपजीव्यस्य व्यावहारिकस्वरपस्याबाधात्, वाध्यस्य च तालिकतस्यानुपजीव्यत्ात्। वस्तु- तस्तु-सन् घट इति प्रत्यक्षस्यानुमानाद्युपजीव्यलमेव नास्ति; अपेक्षितार्थसमर्पकत्वमात्रेणोपजीव्यत्वे प्रतिषेध्यज्ञानस्य प्रतिषेधकज्ञानोपजीव्यवापत्तेः। यथा हि प्रतिषेध्यज्ञानत्वेनवोपजीव्यत्वं नतु तत्प्रमातादिना, एवं प्रकृतेऽपि पक्षज्ञानत्वा- दिनेव कारणता, नतु नत्प्रमात्वादिनेति तुल्य: लिव्वाभासादपि वह्िमनि वह्निप्रमादर्शनान। एतेन-यत्प्रामाण्यं स्वरु्पनिद्धर्भमपवादनिरासार्थ वा यत्ामा्वमपेक्षने नततभ्योपजीव्यमिति वचनमपि-पगास्तम्: व्याप्तिज्ञानादेरनु- मित्वनुपजीव्यचापतेः। यदधीनोत्थानकें यत् नन् तम्योपजीव्यमित्यकीकारे तु नात्रोपजीव्यवरोध इत्यनुपदमेव निरुपि- तम। परीक्षितत्वविशिष्टोपजीव्यत्स्यव प्रावल्यप्रयोजकत्वेऽषि न विरोधः उपजीव्यनावच्छेदकव्यावहारिकत्वस्यव परीक्षयाऽपि दढीकरणनोपजीव्यत्वेनेव परीक्षयाऽपि तात्विकतवसाधनामंभवान्। एतेन-अनुमित्यादेः व्याप्यादिसमा-
पत्वेन मिथ्याभनरप वर्णस्तात्विकवस्तुपरिच्छेददर्शनान, गन्धप्रागभावावच्छिनने घटे तात्विकव्याप्तिमतापि प्रथिवीत्वेना- नान्विकगन्त्रानुमितिदर्शनान्। प्रातविम्वेन विम्वानुमितिदर्शनाच्, विम्बरहितावनितस्य गगनसाधारणस्य व्यापित्ा- भावादिति भन्नव्यम्। वस्तुतस्तु-अनुमेयस्य व्याप्तिसमानगनाकत्वेऽ्यस्माकमिटमंचेनि न दोपः । एतेन- अ्दनज्ज्ञाननात्विकत्वमप न विषयतात्विकत्वे प्रयोजकमिति-सूचितम्: इदं रजतमिति शब्दस्य तद्ज्ञानस्य च तात्विकत्वेडपि विषयनाव्विकत्वाभावेन व्यभिचारात्। अवाधितार्थविषयकत्वरूपप्रामाण्यमिध्यात्वं अर्थवाधेन तत्र विपयलवाषेन वा संभवति। तत्रार्थस्य सर्ववाधाववित्वेन वाधकप्रमाणाभावेनाऽवाधितत्वेऽर्थाद्विषयतावाध- एव पर्यवस्यनीनि उपजीव्यप्रत्वक्षवाधासंभव इति प्रपत्वमिध्यालानुमानं न कथमपि दृषम्-इति निरूपयन्ति ॥
(३) अत्र नरङ्गिणीकारा :-
वक्तव्यत्वेनोपजीव्यविरोधम्दवरण एव । परीक्षितलविशिष्ोपजीव्यत्स्यैव प्रवल्यप्रयोजकत्वविवक्षणे तु सुतरां बाध- प्रगभ:। मिथ्याल्वानुमित्या स्वदेशकालाव्छेदेनव स्वम्य निषेधेन परीक्षया म्वसमानदेशकालीनविषयाबाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यन इति वर्णनासंभवान्, पारमार्थिकत्वाकारेण निषेधस्यात्मसाधारणम्य मिथ्यात्वानुमित्यविषयलान्। अत-
विवक्षणात् हेलादिनिषठं यादृशमवाधितत्वं तादृशावाधिततवमेवानुमेयांदेः स्यादित्येवात्र विवक्षितम्; अन्यथा प्रातिभासि कावाधितत्ववता व्यावहारिकावाधितलवतोऽनुमितिप्रसन्भात्, वहिप्रमाजनके लिज्वाभासे तु व्यावहारिकमेवाबाधितत्वं विद्यते इति नानुपपत्तिः। यत्र पुनस्तादृशमवाधितत्वं बाधितं तत्र तादृशाबाधिततवघटितप्रामाण्यादिकं न सिद्यति, यथा पृथिवीत्वहेतुकगन्धप्रागभावार्वचच्छिन्नपक्षकगन्धानुमितेः। दर्ध्यादिकं तु न तलपरिच्छेदं प्रति निमित्तं, किंतु तज्ज्ञा- नमेवेति प्रातिभासिकाबाधिततवता दैध्यादिना जन्ये तत्परिच्छेदे न व्यभिचारः। एतेन-प्रतिबिम्बेन बिम्बानुमान- मपि-व्याख्यातम्; तत्रापि विम्बरहितावृत्तितरूपतात्विकाबाधितया व्याह्यैव विम्बानुमितिजननेनाद्ोषात्, गगन- साधारणस्य तदभाववदवृत्तित्वस्य व्याप्तित्वेऽपि पक्षधमंताभावादेव आकाशेन न बिम्बानुमानभिति न कोऽपि दोषः । एवंच शब्दतात्विकत्वादिकं यथा विपयतात्विकत्वे प्रयोजकं तथा तन्मिथ्यातमपि विषयमिथ्यात्वे प्रयोजकमित्यपि सिद्धमेव; प्रामाण्यमिथ्यात्वे विषयमिथ्यात्स्याप्यावश्यकत्वात्। विषयतावाधेन प्रामाण्यमिथ्यात्वोपपादने मिथ्यात्ा- नुमितेरपि विषयताया एव बाधो नत्वर्थस्येत्यापत्त्या सविषयत्वघटिततत्तत्वावेदकत्वमपि न सिध्धेदित्युपजीव्य प्रत्यक्षविरे- धान्मिथ्यालानुमानं न प्रयोजकम्-इति वर्णयन्ति।
Page 165
३६८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
अथ प्रत्यक्षस्यानुमानबाध्यत्वम्। 'किंच विपक्षवाधकसचिवमनुमानमपि प्रत्यक्षबाधकम्। ननु-एवमपि 'औदुम्बरीं स्पष्टा उद्गाये' 'दैन्ध्ा गार्हपत्यमुपतिष्ठते' 'शरमयं बर्हिर्भवती'ति श्रुतित्रयग्राहि प्रत्यक्षं यथाक्रम'मौदुम्बरी सर्वा वेष्टयितव्ये ति स्मृतिरूपेण सर्ववेष्टनश्रुत्यनुमानेन 'कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष' इति मन्त्रसामर्थ्यलक्षणेनेन्द्रशेपत्वश्रुत्यनुमानेन चोदनालिङ्गरूपेण कुशश्रुत्यनुमानेन च वाध्यते इति सर्वमीमांसोन्मृदिता स्यादिति-चेन्न; वैषम्यात्, तथाहि-किमिदमापाद्यते, श्रुतित्रयग्राहिप्रत्यक्ष- मनुमानैर्वाध्येतेति वा, प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा। नाद्यः विरोधाभावेन तद्वाध्यबाधक- गौडब्रह्मानन्दी (लघुचन्द्रिका)। औदुम्वरीं उदुम्वरवृक्षशाखाम्। ऐन्न्ना 'कदाचन स्तरीरसि नेन्द्रसश्चसि दाशुष'इत्यादिऋचा। गार्हपत्यं नक्तमाधानसंस्कृताग्निम्। स्मृतिरूपेणेति। ज्ञायमानहेतोरनुमानत्वमते इदं, हेतुज्ञानस्यानुमानत्वमते तु स्मृनिविष- यकधीरूपेणेनि तदर्थः । ओदुम्बरीसर्ववेष्टनस्मृतिः तादृशश्रुनिमूलिका, बाधकाभाचे सनि शिष्टगृहीतस्मृनित्वात्; या बाधकाभावे सनि यदर्थकशिष्टगृहीतस्मृनिः, सा तदर्थकश्रुनिमूलिका; यथा प्रत्यक्षश्रनिमूलकस्मृतिरित्यनुमानरीनिः । इन्द्रेत्यादि। 'कदाचने'त्यादिमत्रगतेन्द्रादिपदानामिन्द्ादिप्रकाशनसामर्थ्यरूपेणत्य्थेः । शेपत्वश्रुतीति। उकसाम- ्थ्यम्, उक्तमन्ने इन्द्रशेपन्वबोधिकया श्रुत्या युक्तम्, उक्तसामर्थ्यत्वात, यन यन्निष्टयदर्थप्रकाशनसामर्थ्य, तन् तच्निष्टस्य तदर्थशेपन्वस्य बोधिकया श्रुत्या युक्तम्, प्रत्यक्षध्रुनिविनियुक्तमत्रादिसामर्थ्यवदिनि बोध्यम्। चोदनालिङ्गेत्यादि।
श्रुनिबोधितयदङ्गकयदीयविधिसद्ृशविधिकं, तन् श्रुनियोधिततद्ङ्गकम्; यथा 'यद्राह्मणानि पञ्च हर्वीपि तद्राह्मणानी- तराणी नि प्रत्यक्षवचनानिदिष्टश्रुनिबोधिताङ्गकम्। सादृश्यं नु निर्वपत्यादिपद्द्विदेवतत्वादिकम्। अनुमानेन च वा- ध्यते इति। प्रथमतृतीये चिन्तितम्-जयोनिष्टोमे सदोनामकमण्टपे औदुम्बरी निग्वन्य स्थाप्यते। तस्याः 'सर्वा (४) लघुचन्द्रिककागस्तु- सद्यप्यतीन्द्रियपक्षसाध्यहेनुकानुमाने न प्रत्यक्षापेक्षायां मानं, पूर्वपूर्वानुमानपरंपरयैव तन्संभवान्। शाव्दबोधस्य कचिदपेक्षणेऽषि तस्य शब्दानुमानादिनव संभर्वन प्रत्यक्षानपेक्षणात्, यदपि च भ्रमप्रमासाधारणसाक्षिजातीयत्स्य प्रावल्यप्रयोजकत्वं न संभवति; साक्षिजातीयलस्य चक्षुरादिज्ञाननिष्ठप्रत्यक्षत्जातिरूपत्वस्यास्मन्मते जातिपरिभापाया
भावेनासंभवात्, संभवेषि अशोचागमस्यागमत्वजात्येव प्रावत्यमित्येवांगी का रेणोपजीव्यजातीयत्स्यप्रावल्यप्रयोजकत्वे मानाभावात्; तथापि स्फुटनया तदुपेक्ष्य वाचस्पत्युक्तमेव समाधानं सिद्धिकारेरुक्तम्। तत्र शब्दादेस्तजज्ञानस्य वा
वनिवेशस्यायुक्तलान् सिध्धुत्तप्रकारेणोपजीव्यविरोधपरिहार एव सुस्थः संपद्यतेः नतृपजीव्यविरोधनादवस्थ्यम्। एतेन- परीक्षितत्व विशिष्टोपरजीव्यताश्रयत्वेनानुमानादिवाधकलमपि-पराह्तम्: पराक्षाया प्रामाण्यघटकविषयनिप्ठावाध्यतस्य स्वगमानकालिकस्यैव बोधकलस्वाभाव्येन मिथ्यालानुमित्याविरोधाभावात्, पारमार्थिकत्वाकारेण निषेधपक्षे कस्यापि प्रस- जस्याभावाच। एतेन-अनुमेयस्य व्याप्यादिसमस्ताकवनियमोऽपि-परास्तः; व्याप्यादिज्ञानम्य मिथ्यात्वेनानिश्चीयमा- नार्थविषय कज्ञानत्वपर्यवसितप्रमात्वेनंव हेतुत्वेन तार्लिकलाघटितलातू। प्रातिभासिकरदध्यादिविशिष्टत्वेन मिथ्याभूतवर्णविप- यकज्ञानजन्यतलपरिच्छेदे व्यभिचारान्, नहि केवलद्ध्यज्ञानं तत्रार्थाववोधकं, किंतु दैर्ध्यादिविशिष्टवणज्ञानमिति व्यभिचारप- रिहारासंभवान, प्रतिबिम्बेन बिम्तानुमाने व्यभिचाराच्च। नहि बिम्बरहितावृत्तित्वेनाकाशस्यापि व्याप्यत्वं कस्याप्यभिमतं; वह्लयादीनामपि गगने व्याप्यत्व्यवहारापत्त्या वह्निव्याप्यं गगनं पवेतीयं इति गगनविशेष्यकपरामर्शसंभवात् गगनहेतुनापि वह्यादिसाधनापत्याच तदभाववदवृतितवस्य व्याप्तिरपत्वाभावात्। एवंच शब्दादितालिकत्वस्य विषयादितातिकत्वाप्रयो- जकतवत्तदताचिकत्वस्य तदतात्विकतवप्रयोजकत्वमपि न संभवतीति न ब्रह्मणोऽपि मिथ्यात्ापत्तिः; विषयत्वविशिष्त्वरूपेण ब्रह्मणोऽपि मिथ्यात्वस्यानीकारे तु व्रह्मज्ञानाप्रामाण्ये विषयताबाधनिबन्धनमेव प्रामाण्यमिथ्यातमित्यननुगमोऽपि न
इति प्रत्यक्षवाधोद्धारे उपजीव्यतया प्रत्यक्षप्रावल्यनिराकरणम्।। इनिशम्॥
Page 166
[प्रत्यक्षस्यानु० बाधकनि०] गौडब्रह्मानन्दीयुता। ३६९
भावस्य शास्त्रार्थत्वाभावात्, अस्माभिरनभ्युपगमाञ्च, अनुक्तोपालम्भमात्रत्वे निरनुयोज्यानुयोगा- पत्तेः। अतएव न द्वितीयः; प्रत्यक्षविषयीभृतश्रुतित्रयस्य लिङ्गवाधकत्वपरेपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात्, नहि शब्दप्रत्यक्षयोरैक्यमस्ति; शब्दस्य च सर्वप्रमाणापक्षया बलवत्वमवोचाम। तस्मान्माढ्यमात्रमेतन्मीमांसाविरोधोन्भावनम्। ननु-प्रत्यक्षस्य लिङ्गबाध्यत्वे वह्नयौष्ण्यप्रत्यक्षं शैत्यानुमानस्यात्मस्थायित्वप्रत्यभिज्ञानं न क्षणिकत्वानुमानस्य बाधकं न स्यात्, प्रत्युतानुमानमेव तयोबांधकं स्यात्-इति चेन्न; अर्थकरियासंवादेन शुत्यनुग्रहेण च तत्र प्रत्यक्षयोः प्रावल्येनानुमानवाधकत्वात्। अपरीक्षितप्रत्यक्षं हि परीक्षितानुमानापेक्षया दुर्बलं, 'नीलं नभ'
गौडब्रह्मानन्दी (लघुचन्द्रिका)। औदुम्बरी वेष्टयितव्ये'नि स्मृत्या सर्ववेष्टनं विहिनम्। 'आदुम्बरीं स्पृष्टोद्वाये'दिनि श्रुत्या च स्पर्शनं विहिनम्। तदेवं प्रत्यक्षश्रुतिम्मृत्योविरोधे स्मृनिः प्रमाणमेव; शिष्टगृहीनस्मृतित्वात्, वीहियवादिश्रुत्योरिव तत्कल्प्यश्रुनिप्रत्यक्षश्रुत्यो- रपि प्रामाण्यसंभवाच्चेनि प्राप्ते, न प्रमाणम्; स्पर्शश्रुनिप्राप्तनावेष्टितन्वेन 'वेष्टनीया न वेनि जिज्ञासानुन्पत्या वेष्टन- स्मृत्या श्रुनेरवाननुमानान, अनुमिताया अपि श्ुने: सापेक्षत्वकल्प्यत्वाढिना प्रत्यक्षश्रुत्यपेक्षया दोर्बल्याच्चेति भाष्ये सिद्धान्तितम्। सा प्रमाणमेव: वेष्टनीया न वे नि जिज्ञासाविरहेपि 'स्मृनर्मृलं श्रुनिः लोभादिकं वे'नि जिज्ञासा- संभवान, शिष्टगृहीतम्मृतेलोंभादिमलक्वे मन्व्रादिम्सृनेगपि तदापत्तः, श्रुनिमूलकत्वस्य तत्रानुमानसंभवात्, परं- नु यावत्तन्मूलशुनिर्न यम्य प्रन्यक्षा, नेन तावत्तदर्थो नानुप्ेयः । अर्थवादादिकमन्यपरवाक्यं दष्ट्रापि हि स्मृनिः प्रणेतुं शक्यते। सा च प्रत्यक्षधत्यनुमेययोविरोधे न प्रमाणम्। वस्तुनस्तु-तन्मूलश्रुनिर्येन न दृष्टा तेनापि तदर्थोऽनुष्टेय गव; तम्यामर्यवादादिमलकत्वशङ्गायां मन्त्रादिस्मृतावपि नदापत्तेः। नस्मात् शाक्यादीनां वेदोक्त्काहिंसादिधर्मवक्तत्वेन शिष्टत्वान नदीयस्मृनिर्मनमिनि प्राप्ते, वेडप्रामाण्यास्वीकारेण नेपामशिष्टत्वात् न सा प्रमाणमित्येवाधिकरणं रचनीय- मिनि वार्निकम्। 'सोमारौद्र चरु निर्वपेत कृष्णानां व्रीहीणाम्' इन विहितेष्टी 'शरमयं ब्हि'रिनि श्रुनाः शराश्षोदक- प्राप्तं बहिर्न वाधन्तेः शरमयी भूमि रित्यत्रेय बहुशरमंयोगमात्रस्य बर्हिषि प्राप्तेरुक्तमंयोगविधानस्यादृष्टार्थत्वापत्तेः। दएं म्नग्णरूपं बहिःकार्यमुहिश्य दरा विधीयन्ते मयट्धुनिस्तु अनिदेशप्राप्तलवनादिसंस्कारविशिष्टतया शरविकार- स्यानुवाद:। नच-कुशकार्यम्येव कुशानामप्यनिदेशेनेकेन प्राप्तिः पदार्थेविशिष्टस्यवोपकारस्यातिदेशात्। नथाच
शरविधिपर्यालोचनेन कुशरूपपदार्थाश अनिदेशस्य सङ्कोचान, अन्यथा शरविधिवयर्ध्यान्। कुशाभावकाले शराणा विधो तु मानाभावः 'यदि सोमं न विन्देदित्यादिवत ज्ञापकाभावात्, शरविधेः प्रत्यक्षत्वेनोपजीव्येनापि कुशानिंदेशन तादशोपम्दासंभवात् कुशाभावकालविपयकत्वे शरशास्त्रस्य नित्यवत् श्रवणविरोधापत्तेश्र। तस्मात् कुशानां शरबीध इनि दशमचतुर्थे म्थिनम्। नदेतस्मिन्नधिकरणद्वये प्रत्यक्षविषयश्रुतेरनुमानबाधकत्वमुक्तम्; त्वन्मने सत्त्वप्रत्यक्षस्य मिथ्यान्वानुमानेन बाधे उक्तश्रुनित्रयप्रत्यक्षस्योक्तस्मृनिहेनुकेनानुमानेन बाधः स्यादित्यर्थः । तद्वाध्यवाधकभावस्य उक्तकषुनिविषय कप्रत्यक्षोक्तस्मृनिहेतुकानुमानयोर्वाध्यबाधकभावस्य। शास्त्रार्थत्वेति। उक्का नुमानम्योक्तश्रत्यैव वाध्यता शास्त्रार्थः: तयोविरुद्वविपयकत्वात, न तु तन्प्रत्यक्षेण तयोस्तदभावादित्यर्थः । तथा- चोनप्रत्यक्षानुमानयोविरुद्वविपयकत्वे वाध्यवाधकवं शास्त्रार्थः स्यात, अतोऽविरुद्विषयकत्वान्नोक्तापत्तिर्युक्तिनि भावः । ननु तस्याशास्त्रार्थन्वेडपि न्वया प्रत्यक्षस्यानुमानबाध्यताया उक्तत्वेन तादृशप्रत्यक्षं तव मते तादृशानुमानबाध्यं
केनि भावः। ननु उक्तश्रुनित्रयस्य प्रत्यक्षविपयत्वेनैव बाधकत्वं शास्त्रार्थः; तच्चोक्तरूपस्य बलवत्प्रत्यक्षघटितत्वादेव, तत्राह-प्रत्यक्षविषयेति । विरोधाभावादिति । तथाच नोक्तरूपेण बलवत्त्वं श्रुतेः; वैकृतमत्रलिङ्गादिकल्प्य- श्रुतेरप्यतिदेशरूपानुमानापेक्षया बलवत्वात, किं तु निरवकाशत्वक्कप्तत्वादिना। तथाच सद्रूपस्यैव बाधकत्वे प्रयोजकत्वम्, न प्रत्यक्षविषयश्रुतित्वस्येनि न प्रत्यक्षस्य बलवत्वं तत्रोपयुज्यत इति भावः। ननु प्रमाणमेवानुमानात् बलवत; प्रमाणं च श्रुतिज्ञानं प्रत्यक्षरूपम्, न श्रुतिः, तत्रापि श्रुतिज्ञानमात्रं नानुमानात् बलवत्; श्रुत्यनुमितेः श्रुत्यनुमित्यपेक्षया बलवत्व्ामंभवान्, किंतु श्रुतिप्रत्यक्षम्, विरुद्धविपयकत्व्रमपि तस्यास्त्येव; शाब्दधीद्वारा शब्द प्रमाणस्य सविषयकत्वात्; तथा च श्रुनिप्रत्यक्षं श्रुत्यनुमित्यपेक्षया बलवदिति शब्दप्रमाणयोरेव प्रत्यक्षत्वानुमिति- त्वाभ्यां बलाबलमुक्त्तशास्त्रार्थः, तब्राह-न हि शब्दप्रत्यक्षयोरक्यमस्तीति। बाधकत्वेन शास्त्रे निर्णीतं यत् शब्दसामान्यं, तस्य प्रत्यक्षक्यं न ह्यर्म्नात्यर्थः । कुतः शब्दस्य तादृशस्य न प्रत्यक्षैक्यम्? तब्राह-शब्दम्येति। अ. सि. ४७
Page 167
३७० अद्वैतसिद्धिः । परिच्छेद: १
इति प्रत्यक्षमिव नभोनीरूपत्वानुमानापेक्षया, अतो न सामान्यतो दृष्टमात्रेण सर्वसङ्करापत्तिः। नन्वेवं-पशुत्वेन श्ङ्गानुमानमपि स्यात्: लाघवात् पशुत्वमेव शृङ्गवत्त्वे तन्त्रम्, नतु तद्विशेषगोत्वा- दिकम् ; अननुगतत्वेन गौरवादित्येतत्तर्कसध्रीचीनत्वेन प्रत्यक्षापेक्षया प्रावल्यात्, अनुकूलतके- साचिव्यमेव हि अनुमाने बलम् । एवंच येनकेनचित् सामान्यधर्मेण सर्वत्र यत्किंचिदनुमेयम्। लाघवतर्कसाचिव्यस्य सत्त्वात्, तावतैव प्रत्यक्षबाधकत्वादिति व्यावहारिक्यपि व्यवस्था न स्यात्, नह्यत्र प्रत्यक्षबाधादन्यो दोषोऽस्ति-इति चेन्नः अयोग्यशङ्गादिसाधने प्रत्यक्षवाधस्यासं भवेन तत्र व्याप्िय्राहकतर्केष्वाभासत्वस्य त्वयाऽयि वक्तव्यत्वेन व्यवस्थाया उभयसमाधेयत्वात्, न हि तर्काभासमधीचीनमनुमानं प्रमाणमिति केनाप्यभ्युपेयतेः अत उपपननं सत्तर्कसचिवमनुमानं प्रत्यक्षस्य वाधकमिति॥ इति प्रत्यक्षम्यानुमानवाध्यत्वसिद्धिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
शास्त्रानुसारिन्यायेनावोचाम पूर्वमित्यर्थः। तथाच शब्दप्रमाणस्य निरवकाशत्वकतत्वादिना सावकाशत्वकल्प्यत्वा- दिमनोऽनुमित्यात्मकश्ुनिज्ञानान् बलवत्वस्योक्ताधिकरणार्थत्वेऽपि म्रत्यक्षत्वानुमिनित्वाभ्यां बलाबलं नोकाधिकरणार्थ इनि भावः। शैत्यम् अनोष्ण्यम्। स्थायित्वं अक्षणिकत्वम्। अर्थक्रिया दाहादिकार्यम्। तन्त्रं व्याप्यम्। अयोग्यशृङ्गसाधन इति। न च-शृङ्गतवावच्छेदन योग्यवनिश्चयान नायोग्यश्ङ्गतवेन/नुमितिः संभवतीनि- वाच्यम्; अम्मदादिचक्षुराद्ययोग्यस्य देवगवि श्ृङ्गस्य सत्त्वेनोक्तनिश्चयासंभवान, अश्वादी शङ्गमंदेहकार्ल अयोग्य- शङ्गानुमिनिसंभवान्॥ इति लष्चन्द्रिकायां प्रत्यक्षस्यानुमानवाध्यत्वम्।
अथ प्रत्यक्षस्यानुमानवाध्यत्वे वाधकनिराकरणम्। (१) तत्र न्यायामृतकारा :- प्रत्यक्षस्यानुमानवाध्यन्वे 'औदुम्वरी स्पृष्टोद्वायेत' 'एन्व्ा गाहपत्यसुपतिवते 'शरमयं हिस्तृणाति इनिश्ुतित्रयग्राहि- प्रत्यक्षं यथाकमं 'औदुम्बरी सर्वाचेष्टितव्येति स्मृतिमपेण सर्ववेष्टनश्रुत्यनुमानेनेन्द्रमश्चसिदाशुषे इति मन्त्रगामर्थ्यरूपेणेन्द्र शेषतश्रुत्यनुमानेन, कुशश्रुत्यनुमाननच वाव्यतंति सवव भीमांभोन्मीलिना स्यात्, अम्योष््यप्रत्यक्षस्यात्मस्थायितप्रत्य- भिज्ज्ञानस्य च यथाक्रमं तच्छैत्यानुमानेन च तत्मादितानुमानेन च वाधापत्या कालात्यारपिष्टकथाया एवोच्छेदापत्ति:, शद्वित्वे पश्ुत्वमेव तत्रं लाघवादिति लाघवनर्कसचिचन पद्यत्वंन शरे मनुमानापत्तिशति तर्कसाचिव्यमत्रेणापि न प्रावल्यमिति न प्रत्यक्षं लिग्गवाध्यम-इति वर्णयन्ति॥ (२) सिद्धिकारास्तु- विपक्षवाधकसचिवत्वादप्यनुमानम्येव पाबल्यम्। उत्तश्रुनित्रयप्रत्यक्षस्यानुमानस्य च विरोधाभावेन वाध्यवाधकभावा- भावात्प्रत्यक्षविषयीभूतोत्तय्रुतित्रयस्य लिसवावकलवपरेण भीमांसाशास्ण प्रतयक्षम्य लिङ्गवाधकलवोधना संभ्वन मांस विरोधोद्दावस्य मौन्यविजृम्भितलात्, परीक्षित प्रत्यक्षम्य श्ुत्यनुगृहीनप्रत्यक्षस्य च प्रावत्याध्यक््प्र्यक्षेण तच्छैत्यानुमान- वाधसंभवेन कालात्ययापदिष्टकथानुच्छदात्, पछुत्वेन शशे कानुमानस्य तर्कसािव्येऽपि सत्तर्कंसाचिव्याभावात् तत्नरक्ा-
लाच्चति लिङ्गवाध्यमेव प्रत्यक्षमिति सर्वमवदातम्-इति प्रतिपाद्यन्ति॥ (३) अत्र तर्गङ्गणाकारा :- नानुमानवाध्यं प्रत्यक्षं: उक्ताधिकरणत्रयविगधेन सर्वमीमांमोन्मीलनापत्तेः; स्पर्शगाहपत्यशेषलशरबहिष्कतप्रतिपा-
प्रत्वक्षस्याप्यनुमानवाधकत्वस्यान्गीकरणीयत्वात्, अतएव हि तानयिीकवाधोऽप्राप्तबाध इति व्यवहियते। नहि श्रुतित्वेन श्रुतेर्बाधकत्वम; अनुमितश्रुतेरपि बाधकतवप्रसज्ञात्, किंतु प्रत्यक्षविषयश्रुतित्वनति प्रतयक्षविषयश्षुतिवाधकतवपरस्य शास्त्रस्य प्रत्यक्षबाधकतापरत्वऽपि तातपर्यस्याज्ीकरणीयलात। अन्यथा ैव्यानुमास्यान वाधानापत्या कालातयापदिष्कथोच्छे दापत्ते:। परीक्षितप्रत्वक्षस्यानुमानवाधकत्वे तु प्रकृतप्वत्यक्षम्यापि तथात्वंन न मिथ्यात्ानुमानसििरिति घटकु्यामेव
Page 168
[प्रत्यक्षस्याग० बांध्यत्वम ] गौडब्रह्मानन्दीयुता। ३७१
अथ प्रत्यक्षस्यागमवाध्यत्वम्। किंच परीक्षितप्रमाणभावशब्दवाध्यमपि प्रत्यक्षम। ननु-प्रत्यक्षं यदि शब्दवाध्यं स्यान्तदा जैमि- निना 'तस्माङ्मम एवासेर्दिवा दद्टशे नार्चि'रित्याद्यर्थवादस्या'दितिर्दा'रित्यादिमनस्य च दष्टविगे-
गॉडव्रह्मानन्दी (लघुचन्द्रिका)। तस्ादित्यादि। 'तस्माद्वूमण्वे'त्यादे्थवादस्य 'गुणवादस्विनि सूत्रेण 'अदिनिरि' त्यादिमध्रस्य च 'गुणादविप्र- निषेध इति सूत्रेण गौणाथता सिद्धान्तव्वेन नोच्येतेति योजना। दष्टविरोधेनेति। अर्थवादाधिकरणे-'वायुव क्षेपिष्टा देवते त्यादेर्धर्मानुन्पादकत्वं चस्वार्थानुवादकत्वं दृशयते । 'स्तेनं मनोऽनृतवादिनी वा'गित्यादस्तु स्वार्थो बाधित ्व; मनःस्तेनसदशम्, वागनृतप्रायवादिनीत्यथकत्वे त्वनुवादत्वापत्तेविधिकल्पकत्वं वाच्यम्, स च विधिर्वा
स्यात्। 'अनृतनंव स्वकार्य साधयेत्' 'स्नेयेनव द्रव्यमार्जयेत्' इि परिसंख्यारूपश्चेत व्रैदोप्यापतिः, 'सत्यमेव वदेत्' 'प्रतिग्रहादिनैव द्रव्यमार्जये'दिनि शास्त्रविरोवश्च। अत एवा'नृनं वदेदेवे नि नियमविधिरूपोऽपि न। नापि विकल्पः; कल्प्यत्वेनास्य दुर्बलन्वात्, तस्माच्छास्त्रविरोधेन विध्यकल्पकत्वात् स्तेन मित्यादिवाक्यानामप्रामाण्यम्। एवं 'तस्माडूम एवाभेर्दिवा दद्दशे नार्वि: अनिरेवार्मेनकं दृद्शं न धूमम्साहिवापनिराढिन्यं गतो रात्रावादित्यस्त'मित्यादेर्वष्विरोधा- दप्रामाण्यमिनि 'शास्त्रटृष्टविरोधादि'नि सूत्रेणाशक्क्यान्येषामप्यर्थवादानामन्येः प्रकारेरप्रामाण्यामाशञ्ञा 'गुणवाढ़- स्ति नि सूत्रेण बाधितार्थकानामुक्तार्थवादानां गोणार्थ्रक्त्वं प्रनिज्ञाय 'रूपान् प्रायादि'त्यादिसूत्रैरुपपाद्य गौणार्थधी द्वारा विध्यपेक्षितस्तुनिनिन्दाबोधकत्वमुक्वा सर्वार्थवादानां करणतिकनव्यताविशिष्टभावनागतप्राशसत्याप्राशस्तयधी- परत्वमिति सिदधान्तिनम्। तत्र 'हिरण्यं हस्तेभवत्यथ गृह्णानी नि विधेः शेषभूते 'स्तेनं मनोऽनृतवादिनी वागि' त्यन्न स्तंनशळद: प्रच्छन्नकारित्वरूपादपात गोण: अनृतशव्दस्तु अनृनवाक्यबाहुल्यरूपान प्रायात् गोणः; वाडनस- योनिन्दया हिरण्यस्य विधेयस्य स्तुनिधीः। 'नस्पादम एवे त्यादी तु 'दूरभूयस्वादि'ति सूत्रोक्तरभूयस्वादृशि- गाणः। अत्र 'रूपान प्रायान' 'दूरभूयस्वादि नि सूत्रस्थपज्जम्या व्यवन्तसमानार्थकत्वात रूपप्रायदूरभूयस्वरूपान् गुणानादाय गृणवादोऽनृनादिशव्द इत्यथो बच्यः। हृरभृयस्वं च भूयसत्वेन दृरस्थदृश्यमानत्वम्। दिवा हि दूरस्थैः भूयरन्वेन धृम एव दृश्यने, नागिः। नथाच 'सूर्यो ज्योनिरज्योंनिरमिः स्वाहेनि सायं जुहोनि' 'अभ्निज्योनिज्योतिः सूर्यः स्वाहेनि प्रातजुहोनी नि मिरश्रलङ्गकमत्रवध्योः शपभूनं तस्मादित्यादिकम्। उभयोदेवत्योर्मेलनादुभयवताको होम:
स्वाहेनि सायंजुहोनि' 'सूर्यो ज्योनिज्योनिः सूर्यः स्वाहेनि प्रातर्जुहोती नि केवलालङ्गकमच्रविधेः शेपः; 'उभाभ्यां साय हूयते उभाभ्यां प्रातर्न देवताभ्यः सम दधानी त्यस्यारथवादस्य मिश्रलिङ्गकमत्रविधिशपस्य सत्वात्। तथाच यस्मादि- चागनिरादित्यगतम्नस्माहिवादित्यस्यैत्र ज्योतिष्वात्तन्मात्रलिह्वकमन्नः प्रशस्त इन्यर्थः। एवमचिरवेत्यादावपि बोध्यम्। मन्त्रस्येति । प्रथमद्वितीये चिन्तितम-'अदिनिद्यीरदिनिरन्तरिक्ष मित्यादिमत्रा अप्रमाणम्; अर्थबाघादिना दृष्टविरोधादिसंभवात्। नच-अर्थवादस्यंव वाधितार्थकत्वेऽपि गोणाथेधीद्वारा प्राशस्त्याप्राशस्त्यधीपरत्वं तेपामाम्ता- प्रभातम्। शुअ्वस्य योग्यल्वनियमेन ऋज्ञानुमानम्य योग्यञ्विषयकत्वेन तत्र प्रत्यक्षबाधेनैवोपपत्तेवेणनीयतया प्रत्यक्षावा- धकत्वे शशे शद्वानुमानस्यापि माधुलापिर्शति प्रत्यक्षवाध्यमेवानुमानं नत्वनुमानवाध्यं प्रत्यक्षम-इति वर्णयन्ति- (४) अत्र लघुचन्द्रिकाकारा :- सत्यं श्रुतिद्वाराऽनुमानाविरुद्धविषयकस्य प्रत्यक्षस्याप्यनुमानबाधकलमुक्तशास्त्रण बोध्यते। विरुद्धविषयकत्वस्य बाध्य- बाधकभावप्रयोजकस्य तत्रापि कर्थंचिद्वियमानलातू; तथापि प्रकृते न प्रत्यक्षबाधकतप्रसन्नः, सन् घट इति प्रत्यक्षस्या- नुमानविरुद्धविषयकत्वाभावात्। वस्तुतस्तु-मत्र्रलिङ्गकप्ल्यश्रुतेरपि अतिदेशरूपानुमानापेक्षया बलवत्त्वेन प्रत्यक्ष- विषयत्वनेव श्रुतेरनुमानबाधकतवमपि न युक्तम्, किंतु कप्तत्वनिरवकाशतादिनवंति न प्रत्यक्षबलवत्वं तत्रोपयुज्यत इति मीमांसाविरोधोद्धावनस्य भौढ्यविजृम्भितलमेव सुस्थम्। यथाच सत्प्रत्यक्षस्य परीक्षितस्यापि नोक्तानुमानबाध- कत्वं तथा पूर्वमेव निरूपितम। शरजत्वेन योग्यवनिश्चयस्नु न संभवतिः देवगवि अस्मदादिचक्षुराद्ययोग्यस्यापि शङ्गस्य सत्ात्, अश्वादी शङ्गसन्देहकालेऽयोग्यानुमित्यापत्तिश्चेति शशे कसाधने प्रत्यक्षवाधासंभवेन व्याप्तित्ाहकतर्केषु आभासत्समर्थनस्यैवावश्यकलवात् प्रत्यक्षस्यानुमानबाध्यत्वे न काप्यनुपपत्तिरिति सर्वमनवद्यमिति शिवम्-इति व्यवस्थापयन्ति॥ इति प्रत्यक्षस्यानुमानवाध्यत्वोपपत्तिः ।
Page 169
३७२ अद्वैतसिद्धिः । [परिच्छेद: १]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मिति-वाच्यम्: मत्रा हि न विधिसन्निहिता एब, किं तु ब्राह्मणभागस्थविधिशेषभूताः संहिताभागस्था अपि। तथाच दूरस्थानां तेपां न पदैकवाक्यतया प्राशस्त्यादिबोधकत्वमिति प्राप्ते, ब्राह्मणवाक्यस्येव मब्रस्य विशिष्ट्वाक्यार्थधीजनक-
पकारासंभवे अदृष्टद्वारापि तदङ्गत्वसंभवात्तस्य प्रामाण्यमेव। यद्यपि हि मत्रवाक्यार्थस्य मानान्तरेणापि सिद्धा नागृहीतम्राहित्वरूपं प्रामाण्यं सर्वमत्रेषु संभवन; तथाप्यभिहितान्वयवादे विभत्तयन्तपदार्थशाब्दबोधस्यैव पढज्ञान- करणकत्वेन क्रियाकारकान्वयशाब्दबोधस्योक्तशाव्दधीकरणकत्वेन मत्ररूपा्थज्ञानस्य करणत्वान्मव्स्यापि प्रमाणत्वम्; 'अनेन मत्रेण इममर्थ प्रकाशयेदिति क्रि्याकारकान्वयबोधे मत्रेणति विभक्तन्तपदार्थरूपमत्रकरणत्वशाचदबोघस्य करणत्वात्। 'अदिति'रित्यादिबाधितार्थकादिमत्राणां तु गौणार्थकत्वादिकल्पनया दृष्टविरोधादिकं परिहर्तव्यमिति। तत्सिद्धीत्यादि। तन्सिद्धि: नदुद्देश्यभूता सिद्धिः यजमानादयुद्देश्या कार्यसिद्धिरिनि यावत्। जाति: जननम्, सारूप्यं चक्षुग्राह्यतेजस्विन्वादिरूपं सादृश्यम्, प्रशंसा प्राशस्त्यम्, भूमा बाहुल्यम्, लिङ्गसमवायः अल्पत्व- संबन्धः, गुणाश्रया इति सूतरशेषः; गुणघटका इति तदर्थः। तथा च 'यजमानः प्रस्तर' इत्यादी यजमानादिपदं थजमानापेक्षणीय सिद्धिहेतुत्वादिरूपगुणयोगात् प्रम्तरादिबोधनद्वारा 'उत्तरं बर्हिपः प्रम्नरं सादयती त्यादिविध्येकवाक्य- तया प्रस्तरादिस्तुतिपरम्-यस्मात् प्रम्तर उक्तहेतुः तस्मान प्रशम्त इति, न तु यजमानादिपदं प्रम्तरदिनाम; सोमादि- पद्वत् अर्थान्तरे अत्यन्तप्रसिद्धत्वात्। नापि प्रम्तरकार्ये सुग्धारणादी यजमानविधिः; उक्तविध्येकवाक्यताभङ्गापत्तेः। 'अभनिवैं ब्राह्मण इृत्यादावभ्निजननस्थानजातत्वगुणात् ब्राह्मणादिधीद्वारा ब्राह्मणादिस्तुनिपरमझ्यादिपदम्; सृष्टिकाले ब्रह्मणो मुखात् अग्निव्राह्मणयोर्जननस्य श्रुत्युक्तत्वात। एवमादित्यो यूप इत्यादों सारूप्यं गुणः । यद्यपि तन्सिद्धि- हेनुत्वादिकमपि सारूप्यं: तथापि सारूप्यपदेन चक्षुग्राह्यं तेजस्वित्वसादृश्यं विवक्षिनमिति साम्परदायिकाः। तत्रेदं चिन्त्यम्-ततसिद्धिसूत्रे तन्सिद्धादीनां पण्णामन्यतममेव गोणशव्देन बोध्यत इति नियमो वितक्षितः अन्यथा षण्णां कथनवैयर्थ्यात। तथा चार्थवादाधिकरण रुपादित्यनेन 'स्नेनं मन' इत्यादों प्रच्छन्नकारित्वरूपसारूप्यरूप- गुणनिर्देश एव वाच्यः; अन्यथा नस्य तन्सि्धादिरूपत्वासंभवेन पडाधिक्यापत्तेः । तथा च तम्य चक्षुग्रत्यत्वाभावेन सारूप्यत्वानुपपत्तिः। तसात सारूप्यं सादृश्यम्; तच्च मीमांसकमने अनिरिक्त्पदार्थः न न् तत्सिद्धिहेतु:वादिरूप इनि ततो भेदः। सादृश्यस्य तत्तदसाधारणरूपन्वऽप्यादित्यादिभेदविशिष्टम्य नेजस्वि-वादरेव सादृश्यसारुप्यािपदार्थन्वान न तस्योक्त हेतुत्वादिरूपर्नातत्सद्यादिरूपता, नत्मिद्धादर्यजमानादिभेदाविशेपितन्वादिनि ध्येयम् ॥ 'अपरावो वा अन्ये गोऽश्वेभ्यः पशवो गो अश्वा' इत्यादावजादीनां तत्र विहितत्वंन न प्रनिषेधः, पर्युदासो वाः नापि 'अयज्ञीया वे मापाः इत्यादाविव प्रनिनिधिनया प्राप्तस्य निषेध:ः 'पुरम्तान प्रतीचीनमशवस्योपद्धानि पश्चात् प्राचीनमृषभस्य नि सव्रिहित- विध्येकवाक्यताभङ्गापत्तेः, कितु उक्तविध्यपेक्षिनगवाश्वादिस्तुनिपरत्वम्; पशुपदस्य प्रशम्नपशुपरन्वात। 'सृष्टीरुप- दधाती'त्यत् इष्टकोद्वेशनोपधानं विधीयने इनि भाध्यम्। वार्तिक तु उपधानमात्रस्य विधयत्व चित्रिणीरुपद्धानि वज्रिणीरुपद्धानी त्यनेकवाक्यानां वैयर्थ्यपत्तिः; एकनव तद्विधिसंभवात। अन इष्टकोदेडोन मयविशिष्टोपधानभावना विधीयते। सृष्टिपदं हि सृष्ष्र्थकपद्घटिनमत्रकरणकोपधानकर्मेष्टका्बोधकमः 'नदवानासामुपधानी मन्त्र इती प्टकासु लुक्च मता रिति। सूत्रविहितमनुबन्नत्वात। यासामिष्टकानासुपधानकरणाभूनी मम्रः सृध्यादिपदार्थ- संबन्धी, तादृशेष्टकासु मनुचन्तम्, नत्र मनुपो लोपश्चति सृत्रार्थः। उकपदार्थम्य संवन्धस्तु तदर्थकपद्वत्वम्। ननु- एकपदार्थयोरुद्वेश्यविधेयभावन क्रियायामन्वयधीः 'वषदकर्तुः प्रथमभक्ष' इन्यादाविव व्युन्पत्तिनिरुद्व।-इति चेन्न;
प्रकृते व्युन्पत्तिसिद्धन्वकल्पनान्। न हि क्रियासंबन्धमप्राप्तयोः कारकयोर्वयः शव्देन बोध्यते; 'क्रियागर्भत्वान संबन्धस्ये नि वार्तिकादुके:। अत एव 'अझ्नेयोऽष्टकपाल' इन्यादो तद्वितेन केनोकयोर्य्यादिदेवनाष्टाकपालादि द्रव्यरूपकारकयो: प्रथमनः क्रियायामन्वितयोरेव मिथोऽ्वयः तस्मादेकतद्वितोपस्थितयोरप्युपधानेष्टकयोः कर्मत्वकर- णन्वरूपाभ्यामाख्यातार्थभावनान्वयो युक्त एव, धानुस्नु नद्वितोक्तोपधानस्यानुवादः। यर्दि तु तद्वन्मव्रकरणकष्टकैव तद्विनवाच्या; करणत्वस्योपधानद्वारकत्वमुपद्धातिसमभिव्याहारलभ्यमनि ज्ञापनाय उपधान इति सौतं पदमित्या लोच्यन, नदा तक्तानुपपत्तिर्नास्येव। मत्ररूपकरणविशिष्टोपधानम्य तद्वितार्थव्वाभावेन तद्वितार्थेष्टकोवेशन विधेयव- संभवात। अत्र यदपि 'दष्टकाभिरमिं चिनुन' इति वाक्यबोधितेष्टकानिष्टचयनाङत्वान्यथानुपपत्येवोधानं प्राक्ुं शक्यमू; तथापीष्टकोद्देशेन तद्विधेः फलमुपधानस्य चयनसमानकनृंकत्वसिद्ि: प्रतीष्टकमेकेकोपधानमिद्विश्च; इष्ट- कासंस्कारद्वारा उपधानस्य चयनाङ्वसिख्याङ्प्रधानयोरककर्तृकत्वस्य प्रयोगविधिलभ्यत्वान्, प्रतिप्रधानं गुणवृत्ति-
Page 170
[प्रत्यक्षस्याग० बाध्यत्वम ] गौडब्रह्मानन्दीयुता। ३७३.
धेनाप्रामाण्ये प्रामे गुणवादस्तु' 'गुणादविप्रतिषेधः स्या'दित्यादिना गौणार्थता नोच्येत, 'नत्सिद्धि जातिसारूप्यप्रशंसाभूमलिङ्गममवाया' इति तत्सिद्धिपेटिकायां 'यजमान: प्रस्तर' इत्यादेगाणार्थता च नोच्येत, त्वयापि प्रत्यक्षाविरोधाय तत्त्वंपदयोर्लक्षणा नोच्येत, श्रुतिविरोधे प्रत्यक्षस्येव प्रामाण्य- संभवात्, नच-तात्पर्यलिङ्गानामुपक्रमादीनामत्र सत्त्वान्नाद्वेतश्रुतीनाममुख्यार्थत्वमिति-वाच्यमः 'यजमान: प्रस्तर' इत्यादावपूर्वत्वाद्यकेकलिङ्गस्य तात्पर्यग्राह्कस्य विद्यमानन्वात् । एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तरमनुवादकमेव, त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव, किं बाहुल्येन इति-चेन्नः वाकशेषप्रमाणान्तरसंवादार्थक्रियादिपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहा- रदशायामेव एतद्विरुद्धार्थग्राहिणो 'धृम एवान्नर्दिवा ददटशे' 'अदितिर्दा"र्यजमानः प्रस्तर' इत्यादे- स्तद्विरोधेनामुख्यार्थत्वेऽ्यद्वतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थन्वोपपत्तेः । प्रत्यक्षा. देर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम: तञ्च नाद्वतागमेन वाध्यते, वाध्यते तु तात्विकं
गोडव्रह्मानन्दी (लघुचन्द्रिका)। न्यायाच्। यद्यपि चष्टकाप्रकाशकत्वेन मत्राणासुपधेयेष्टकाङ्तवं प्राप्तं शक्यम्; तथापि तद्विधेः फलमुपधाने तेपां नियम:, उपधानेतरग्रहणादिपरिसंख्या वा मध्यमचिनिसंबन्धश्च; 'यां वे कांचन ब्राह्मणवर्तीमिष्टकामभिजानीयात्तां मध्यमचितावुपदध्यादि नि श्रुन्या प्रत्यक्षश्रुनिविहितमब्रकाणामिष्टकानां मध्यमचितिसंबन्धविधानान्। ब्राह्मणशब्दो हि विधायकवेदवाचा, अभिजानानिश्च प्रत्यक्षवाची। तथा च ब्राह्मणविशिष्टाया यस्या इष्टकायाः प्रत्यक्षविषयन्वं तस्या उक्तमंबन्धो विहितः। इष्टकानां सर्वासां प्रत्यक्षविषयत्वेन तासु तदुक्तिव्यर्थेतति तद्विशेषणस्य विधायकवेदस्यैव तत् विवक्षिनम्। ब्राह्मणशबदार्थोि प्रकृते ब्राह्मणावयवरूपं तद्वितपदमेव; मनुप्प्रत्ययेन वाच्यत्वरूपस्य संबन्धम्य बोधनान. उक्ततद्वितस्यैवेष्टकावाचिन्वान, ब्राह्मणवाक्यवाच्यन्वस्याप्रसिद्वेश्च, प्रनिपाद्यन्वस्येव मतुबर्थन्वे तस्य सांश- भावनायामेव स्रवेनेष्टकायामसत्वान। प्रतिपाद्घटकन्वरूपाप्रसिद्धसंबन्धम्य बोधने तु प्रधानस्य प्रत्ययस्य प्रसिद्धार्थ- न्यागेन पीडा स्यान, नद्वग्मप्नधानस्य ब्राह्मणपदस्यंय विधायकीभृतनामाख्यानसमुदायरूपचाक्यावयवे पढे लक्षणा
चिनुन' इत्यत्र विधायके विद्यमानेनेष्टकापदेन वाच्यानां सर्वेष्टकानां तत्संबन्धापत्तिम्तदवम्थेति-वाच्यम्; इष्टकोहेशेन विधायकं यद्ेदवाक्यं, तदवयवस्यैव प्रकने ब्राह्मणशब्दार्थन्वान, अन्यथा यां व कांचने'त्यादिवाक्यवयर्थ्यात्। अत्र सृष्टिप्रकाशकपद्युक्तोपधानमत्रा यर्द्यप चनुर्दशैवः नेप्वेव ब्रह्मासृज्यतेन्यादिरूपेण सृनधानुयोगान, त एव च सृष्टिपद- मुख्याथंः, तथापि सृष्ष्यप्रकाशकाः ये त्रयो मत्राः तदपेक्षया बहुत्वयुक्तसृष्टिप्रकाशकमत्रघटितकसमृहान्तर्गताः सप्त- दश मत्राः बहुन्वरूपभूमघटितगुणयोगात सृष्टिपदार्थः; 'यन सप्तदशेष्टका उपदधाती त्यर्थवादात् ॥ 'प्राणभृत उपद- धाना त्यादी नु प्राणभृत्पदाघटितमत्रापेक्षया बहुन्वशून्या ये तन्द्घटितमत्रास्तनपदाघटितमब्राश्च तद्टितकसमृहानतर्ग- तन्वरूपेण बहुन्वाभावरूपलििङ्गसमवायवटितगुणेन ने मब्राः प्राणभृत्पदार्थः। यन्तु-अल्पत्वघटित एव गुणो लिङ्ग- समवाय-इति। तन्नः छत्रिद्वयाछत्रिट्वयघटितसमृहस्थलि छत्रिणो यान्नीत्यादिप्रयोगे गणच्छत्रिपदासंग्रहात, सादृश वैरदिक पढे लक्षणाम्वीकारे प्राणभृदादिपदपि तदापत्तेः। तस्मात् सृष्यादिपदं विधायकम्, नोपधाननामधेयम्। न चानुवाद:। भाष्यकारमने तु अनुवाद एव. न नामधेयम्, न वा विधिरिनि नामधेयपादोक्ततन्सिद्धिसूत्रविर्वेचनम्। तत्सिद्धिपेटिकेति। नन्सिद्विपद्घटितं सूयं पेटिकव; सर्वगोणार्थानामभिमतानां प्राप्तिम्थानन्वादित्यथः। गोणार्थ- तेति। शक्त्या सिह्नपदेन जानिविशेषोपस्थिनिर्जन्यते, तया सिह्मव्यत्त्युपस्थिनिः, सा लक्षणा; शक्योपस्थितिजन्यायाः शक्यसंबन्ध्यर्थोपस्थितेरव लक्षणान्वान, तथा जनिता शार्यादयुपस्थितिगौणीवृत्तिः; तद्वििपयो गौणार्थ उच्यते। तदुक्तं भट्टपाद :- 'अभिधेयाविनाभूतप्रतीनिर्लक्षणोच्यते। लक्ष्यमाणैगुणरयोगादत्तेरिष्टा तु गौणता ॥' इनि। अभिधेयस्य वाच्यस्य यत् संबन्धि तह्ीर्लक्षणा। लक्षणाविषयीभूतव्यक्तर्गुणैर्योगात विषयत्वरूपात् वृत्तेर्गुणोपस्थितेगोंणता, गौणीत्वमित्यर्थः । शौर्यादिगुणानां सिह्नों बाल इत्यादिवाक्ये बालादिनामार्थे नादात्म्येनान्वयः। न च-सिह्माढिना स्ववृत्तिशौर्यादेरेवोपस्थितिः; नेनेव सह पूर्व मंबन्धस्य गृहीतत्वान्, तस्य च बाले बाधान्नान्वयसंभव इति-वाच्यम्; स्ववृत्तितावच्छंद कजा तिविशेपवत्वसंबन्धेन विजातीयशार्यादेर्बालादिवृ त्तेरेव सिह्यादिवा क्यो पस्थितिसंभ वा्भटमते समवायविशेपणयोरस्वीकारेण तयोः स्थाने तादात््यस्यैव स्वीकारेण गुणकर्मसामान्यादिरूपस्य सर्वस्यापि गुणस्य तादा- स्म्येनव नामाद्यर्थेऽन्वयः । अभावादिगुणस्य स्वाधिकरणस्वरूपस्य तादात््येनैव स्वाधिकरणेऽ्वयः। द्रव्यादिरूपस्य गुणस्य संयोगादिनेति दिक्॥ अत्र प्रत्यक्षबाधकाद्वैतश्रुतौ। नाद्वैतेति। 'यजमान' इत्यादिश्रुतौ तु नोपक्रमादिकम्, अतसतत्र गौणार्थतेति भावः । अपूर्वत्वेति। प्रस्तरय जमानाभेदादेर्मनान्तराज्ञातत्वरूपमपूर्वत्वम्। वाक्यशषति।
Page 171
३७४ अद्वैतसिद्धिः । [परिच्छेद: १]
प्रामाण्यम्, तत्तु परीक्षया न सिद्धमेव, अतोन विरोधः । 'धूम एवाग्ने' रित्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत। अतो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः। यसु- प्रत्यक्षाविरोधाय तत्वंपदयोर्लक्षणा नाश्रीयेतेति-तन्नः पडविधलिङ्गर्गतिसामान्येनचाखण्ड एवाव- धार्यमाणस्य तात्पर्यस्यानुपपत्ते: जीवेशगतसर्वज्ञत्वकिश्चिद्ज्षत्वादीनामैक्यान्वयेऽनुपपन्तेश्च तात्पर्य- विषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैवोचितत्वात्, तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात्। नच-एवं सति अमुख्यार्थत्वं स्यादिति-वाच्यम्ः तद्धि प्रतीयमा- नार्थपरित्यागेनार्थान्तरपरत्वं वा, अशक्यार्थत्वं वा। नाद्ःः सामानाधिकरण्येन प्रतीयमानस्यैक्य- स्यात्यागात्। नान्त्य :: जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि 'सोऽयं देवदत्त' इत्यादि- वाक्य इव शक्यैकदेशस्यान्वयाभ्युपगमात्, विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशान्। तथा चोकं वाचस्पतिमिश्रैः-'प्रस्तरादिवाक्यमन्यशेषत्वादमुख्यार्थम, अद्वतवाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेव।- उक्तं हि शावरभाप्ये-'न विधा परः शब्दार्थ इती'ति ॥ यथाचापूर्व- त्वाद्येकैकतात्पर्यलिंङ्गन 'यजमानः प्रस्तर' इत्यादर्थवादवाक्यानां न स्वार्थपरत्वं तथा वक्ष्यामः।
गाडव्रह्मानन्दी (लघुचन्द्रिका)।
रिनि प्रत्यक्षं व्यवहारकाले बाधिनं नेत्यर्थः। गतिसामान्येन सर्ववेदान्तजन्यावगतीनां जीवव्रम्मंक्यविषयकत्वेन समान- तया। किश्चिज्ज्ञत्वेति। स्वकीय।वस्थात्रयमात्रभासक्वेत्यर्थः। पक्यान्वये इति। ऐक्यबोधे इृत्यर्थः। पदार्थता- वच्छेदकविशिष्टयोरेव मिथोऽन्वयधीमुंख्यया वृत्या सर्वत्रोत्सर्गिकी: यथा 'घटो मेयवा नित्यादो घटत्वघटयोरमेंयतद्वनो- रभेदान्वयधीः । अनएव 'सर्वादीनि सर्वनामानी नि सूत्र-'लोहितोप्णीपा ऋत्विजः प्रचरन्ती त्यादी लौहित्यस्य विशे- षणत्वेन प्रचरणकाले उद्गीपे तत्सत्वमपेक्षितमिनि सर्वपदस्यापि विशेषणन्वान सर्वनामसंज्ञेनि महाभाष्यकाराः। यत्र नु पद़ार्थनावच्छेदकेनोपहिन उपलक्षितो वा पदार्थः शाब्दबोधे विषयः. तत्र लक्षणेयः विशिष् शक्तिज्ञानेन शब्दबोधे जननीये विशेषणस्य पढ़ार्थान्तरयोग्यताज्ञानस्य सहकारत्वकल्पनन शन्िज्ञानजन्यबोधस्य पदार्थान्तर पदार्थ- तावच्छेदका्वयविपयकत्वनियमात। तथा च लक्षणां विना तत्वमसी त्यत् जायमानो बोधः पदार्थनावच्छेदकस्य पदार्थान्तर तत्त्वावच्छेदके चान्वयं विपयीकुर्यात; अविषयीकुर्षन्वा विशिष्ट शकज्ञानेन न जन्यने कितु विश्ेष्यमात्रे शकिज्ञनेनेनि भावः। अन्वयेति। बोधेत्यर्थः। सामानाधिकरण्येन अकार्यकारणदव्यमात्रतात्पर्यकसमानवभ क्िकनानानामंन। एक्यस्य शुद्धव्यक्तिमात्ररुपस्य। प्रतीयमानस्य प्रतीयमानन्वेन विवरणादी निर्णीतस्य। विशेष्यमात्रान्वयस्य विशेष्यमात्रशावदर्धीप्रयोजकविशेष्यमात्रोपस्थितः। व्यपदंशादिति। विशिष्टशसिज्ञाना-
शकिज्ञानजन्यत्वे पशुरपशुगीनित्येत्यादो प्रयोगे पशुत्वगोत्वादी शत्त्यत्रीपस्थापिने पशुभिन्नादेरभेदान्वयसंभवेनोक- प्रयोगो योग्यः स्यादिनि-वाच्यम् शक्यविदोपणीभृतस्य शक्यस्य शा्दबोधे तच्छकिज्ञानस्य हतुत्वानभयुपगमात्,
गच्छती'त्यादी व्यापारस्य बोधः शत्त्यवेनि कुमुमाख्षलावुक्म्; अनुकलत्वयवन्वाभ्या विशिष्ट शकेः स्वीकारदनुकूलं न शक्ये विशेषणम्। बलवदनिष्टाजनकत्व्रसमानाधिकरणेष्टसाधन वशकस्यापि विधिप्रत्ययस्य 'येनेनाभिचरन्यजते- न्यादाँ केवलेष्टस।धनत्वबोधकन्वं लक्षणां विनेवि मणिकारादिभिरप्युक्तम्। अनन्यशंपत्वात् तात्पर्यविषयवाक्यार्थ- प्रनिपादकत्वात्। विधो विधायक अज्ञानज्ञापक वाक्य। परः प्रतीयमानादन्यः शब्दार्थः तात्पर्यविषयः । न वक्ष्याम इति। 'उपक्रमोपसंहारयोरेकार्थनिष्ठन्वं, अभ्यासार्थवादी चेनि त्यं शब्दगतम्, अज्ञातत्वरूपमपूर्वत्त्रं फलवत्वमवाधितव्वरूपोपपतिश्चेति त्रयमथनिष्टम्, पडेनानि लिङ्गानि तात्पर्यग्राहकाणि; तेप्वन्त्यत्रयं प्रामाण्यशरीर- निर्वाहकत्वात आवश्यकम्, निष्फलार्थे प्रत्यक्षादेः प्रामाण्यसंभवदरपि न श्रुतेस्तत्मंभवः; फलवदर्थज्ञानादिकमुहिश्या- ध्ययनसंस्कृनश्वुनीनां विनियोगेन निष्फलार्थे तान्पयांभावनिश्चयान। यदपि नात्पर्याविषयेऽपि प्राशस्त्याप्राशस्त्यधी- द्वारभूने वाक्यार्थ वाचग्पनिमते अर्थवादादे: प्रामाण्यमिष्यन एव; तथापि यादशप्रमामुदिश्योक्तविनियोग: तादृश- प्रमायाः फलनदर्थविषयकत्वनियमात् अर्थवादादेश् म्राशस्त्यादिरूपार्थप्रमामुदिश्यंत्र विनियोगात् तादृशप्रमाकरणसवं फलवत्वघटितमेवेननि बोध्यम्। आद्यत्रयेत्वर्थवादस्य विधेयप्राशस्त्यनिर्षध्याप्राशस्त्यधाद्वारा विधिनिषेधवाक्ययोः प्रमाजनकतायामावश्यकत्वम्; अन्यथा तद्विपयीभूनयोः प्रवर्ननानद्भावरूपनिवर्तनयोः तादृशधीरपेनिकनव्यतान- न्वयेनोक्तप्रमाया अपर्यवसानान। इनरयोस्तु विरुद्वार्थद्वये तात्पर्यमंशये सति यत्रोपक्रमादिकं, तंत्रव तात्पर्यनिश्चयेन
Page 172
[प्रत्यक्षस्याग ० बाध्यत्वम्] गौडव्रह्मानन्दीयुता। ३७५
ननु-अन्यशेषत्वानन्यशेषत्वे नामुख्यार्थत्वमुख्यार्थत्वयोः प्रयोजके, किं तु मानान्तरविगेधाविरोधौः अन्यशेषेऽपि मानान्तगविरोधे 'इय गाः क्रय्या वहुक्षीरे त्यादाँ लोके 'सोऽरोदी' दित्यादा न वेदे प्रस्तरादिवाक्यवदमुख्यवटृ त्तेरनाथ्रयणात्, अनन्यशपेऽपि 'सोमेन यजेते' त्यादो वैयधिकरण्येनान्वये
गाँडव्रह्मानन्दी (लघ्ुचन्द्रिका ) । तदुपयोगित्वम्। तथाच नापूर्वत्वादरेकैकमात्रेण तापप्पर्यनिश्चयमंभव इनि विशेपतो मिथ्यात्वानुमाननिरूपणोत्तरं प्रथमपरिच्छेद एव वक्ष्यते । वैयधिकरण्येनेति। 'वाजपेयेन स्वाराज्यकामो यजेत' 'उद्विदा यजत पशुकाम' इन्यादी वाजपेयादिपदं न नामधेयम्, किं तु गुणस्य विधेयस्य बोधकम्। यद्यपि-यागे तादृशस्य गुणस्य नान्वयः; आग्व्यातार्थक्रियां प्रति हि धात्वर्थो यागादि: कर्मन्वेन करणत्वेन वान्वयं लभते; 'पचनी' त्यादो पाकं करोति पाकेनेषं साधयतीनि द्वेधा विवरणात, काप्टरित्यादिपदयोगे आद्यस्य तण्डुलमित्यादिपदयोगे द्विनीयस्य संभवान्, उभययोगे पाकस्य करणत्वेऽपि काष्टानामिनिकर्नव्यतात्वनान्वयान्, तथाच कारकाणां मिथोऽ्वयामंभवः क्रियां प्रति गुणी- भूनानां कारकाणां मिथस्समत्वेन गुणप्रधानभावेनानन्वयात, नापि क्रियायाभेव तदन्वयः; समानपदोपात्तयागस्य करणत्वेनान्वयस्य प्रथमं बुद्धन्चेन पश्चान गृणस्य करणत्वेनान्वये आकाङ्क्षाविरहात्, नापि क्रियायां कारकाणामन्वय- नियमेऽप्यकारकरूपेण तस्य यागेऽ्वयः; अभेदान्वयस्य बाघात, भेदान्वयस्य धात्वर्थनामार्थयोरव्युत्पन्नत्वात्। नापि-वाजपेयपदस्य वाजपेयसंबन्धिनि लक्षणया तस्य यागेडमेदान्वयः, धात्वर्थस्य कर्मत्वे तदविरेपणपदम्य द्वितीया- न्तव्वापेक्षायामपि धान्वर्थस्य करणं्वे तदविशेषणपदस्य तृतायान्तन्वस्य संभवादिति-व।च्यम्; लक्षणाकल्पनापेक्षय। वाजमननं सुरारुपं पेयमस्मिन्िनि व्युन्पत्या यौगिकन्वस्वीकारेण नामधेयत्वस्यंवाँचित्यान, नापि स्वाराज्यकर्मिकायां कियायां यागम्य करणनचऽपि यागकर्मिकार्या वाजपेयस्य करणत्वम्; एकेनाख्यातेन क्रिययोर्बोधने आवृ्त्यापातेना- वृत्तिलक्षणवाक्यभेदापत्तः, एकक्रियायां नु न कर्मद्यस्यान्वयः; गुणीभूतयैकक्रियया प्रधानीभूतयोः कर्मणोर्वशीकर्तु मशक्यतया प्रतिप्रधानं गृणावृत्तिन्यायेन क्रियापदम्याग््यातस्यावृत्यापत्या वाक्यार्थंभेदापत्या वाक्यभेदापत्तेः । 'गुणीभूतानि हि कारकाणि क्रिर्यकापि पिण्डीकरोति न प्रधानभृतानी ति न्यायात्; तथापि- करणकर्मसाधारणन संबन्धित्वमात्रेण यागम्यकस्यामेव कियायामन्वयसंभवेन यागकर्मकांशमाढाय तस्यां वाजपेय- गुणस्य करणन्वेनान्वयः यागकरणकांशमादाय तस्यां स्वाराज्यस्य कर्मत्वेनान्वयः, वाजपेयन याग कुर्यात् यागेन स्वाराज्यं कुर्यान इनि, इनि प्राप्ते, न संबन्धित्वमात्ररूपेण यागस्यान्वयमंभतःः क्रियाया हि कि केनेत्याद्याकाङ्गापत्या कर्मन्वकरणन्वादिकारकर्पणव कर्मादिक ग्रह्यते, अन्यथा आकाङ्गानिवृत्त्यसंभवात। तथा चैकस्यां क्रियायां कर्मत्व- करणत्वाभ्यां यागम्यान्वयो वाच्यः, स च न संभवत, उक्तदोपात्; यजेरावृत्यापत्तेः, विरुद्धयोस्तिकयोर्बोंधकृतस्य वरुप्यस्यापत्तंश्र। विधयन्वं गृणत्वमुपादियनवमित्येकं त्रिकम्, अनुवाद्यत्वं प्रधानत्वमुद्देश्यत्वमित्यन्यदिति त्रिकद्वयम्। नत्र फलानुवादन यागस्य यागानुवादन गुणस्य चोन्पत्तिविधो यागस्याज्ञातज्ञाप्यत्वरूपे, फलोद्देशन यागस्य यागो- देशेन गुणस्य च विनियोगविधो यागम्य शेपत्वशेपित्वरूपे गुणत्वप्रधानत्वे, तादृशप्रयोगविधा प्रकृतविधिप्रयुक्तकृनि- साध्यनाधी विशेष्यत्वनाददशकृत्यु द्वेश्यनाधी विशेष्यत्वरुपे उपय्वोेयत्े स्ाताम्, ते मिथो विरुद्े; परस्परा भावव्याप्यन्वान। तथचकदा जातुमशक्ये। तस्माद्यागे गृणस्य करणत्वेनान्वयस्य वैयधिकरण्येनान्वयस्यासंभवाद- भेदान्वयरूपस्य सामानाधिकरण्येनान्वयस्य च गुणयागभेदप्रत्ययविरुद्वत्वाद्वाजपेयादिपद मत्वर्थ वाजपेयसंबन्धिनि लक्षणा वाच्या; तस्याश्चान्याययत्वाढ्ाजमन्न सुरारुपं पेयमस्मिन्निनि व्युत्पत्या योगिकत्वमेव युक्कम्; वाजपेय सुरा- ग्रहविधानात्। तथा च वाजपयादिपदं यागनामेव; 'सोमेन यजेने त्यादो सोमादिपदस्य लताविशेषादावत्यन्तप्रसिद्ध- श्वेन यागनामत्वासंभवाद्गत्या सोमसंबन्धिलक्षणया यागे अभेदान्वयः वरं ह्यत्यन्ताप्रसिद्धार्थकत्वकल्पनातो लक्षणा- कल्पनमिनि प्रथमचतुर्थ चिन्तितम्। नदिदमुक्तम्-वैयधिकरण्येनेत्यादि। मत्वर्थेति। ननु-भावनायां यागस्य यत करणत्वं बुद्धं, तत् फलनिरूपितम्, मोमादेस्तु करणत्वं भावनायां तस्यां बुद्यमानं यागनिरूपितम्, तथा च यागेन करणेनावरुद्वापि सा सोमेन करणेनाप्यन्वयमर्हत्येव; नैराकाङ्गयाभावात्-इति चेन्नःकरणत्वरूपेणव सोमाद: करणत्वं वोध्यम्। न तु यागनिरूपितकरणत्वरूपेण; तृतीयायास्तद्बोधकत्वात्। लक्षणया च न तस्यास्तद्वो- धकत्वम्; प्रधानाभूतविभक्ता लक्षणाया अन्याय्यत्वेन प्रातिपदिक एव मन्वर्थलक्षणाया युक्तत्वात्। तथा च करण- स्वमात्ररूपेण सोमस्यान्वये वाच्ये नैराकाङ्गं दुर्वारम्; तेन रूपेण यागस्य प्रथममन्वितत्वात्। ननु-भावनापेक्ष- माणा हि साधनं किं फलस्य मे। साधनानुग्रहः को वेत्यनुस्यूनमपेक्षते ॥ इनि तर्कचरणे वार्तिके उक्त्तम्-तस्या- यमर्थः भावना स्वीयमंशत्रयमपेक्षमाणा इत्यनुस्यूनमेव फलघटिनरूपमपेक्षते। फलस्य फलवटितरूपेणापेक्षणी- यन्वं स्पष्टत्वादनुक्त्वा करणतिकर्तव्यतयोस्तदाह-साधनं किमित्यादि। मे भावनायाः फलस्य साधनं करणं
Page 173
४६८ अद्वैतसिद्धिः । [परिच्छेदः १ ]
अविद्यावृत्तिप्रतिर्विवितचैतन्येनेति विषयिणि ज्ञाने विषयस्याध्यासः कथमिति-वाच्यम्; एका- वच्छिन्न एवापरावच्छेदेन निरपेक्षोपाधेरिवात्र भेदकत्वाभावात्, अतएव अभियुक्त: फलैक्या- दैक्यं ज्ञानस्योच्यते। नच-रूप्यादेः स्वज्ञानेऽध्यस्तत्वे रूप्यज्ञानस्य ज्ञाने भ्रमोत्पत्तिस्तद्श्ानेन तन्नि- वृत्तिरिति च स्यात्, अधिष्ठानाज्ञानज्ञानाभ्यामध्यासस्य जन्मनिवृत्त्योर्नियतत्वात्, ज्ञानं रजतमिति प्रतीति प्रसङ्गाच्चति-वाच्यम्; रजताकारवृत्त्यवच्छिन्नचैतन्यस्य रजतभ्रमाधिष्ठानत्वानभ्युपगमात्, इदमंशावच्छिन्नचैतन्यमेव तु रजतभ्रमाघिष्टानम्, तच्च दैवाद्रजताकारवृत्त्यवच्छिन्नचैतन्यमपि, नैता- वता भ्रमाधिष्ठानत्वे तदपेक्षा। तस्य च भ्रमविरोधिशुक्तित्वाद्याकारेणाज्ञानं भ्रमकारणम् । तेनाका- रेण ज्ञानं भ्रमनिवर्तकम्। अतएव न ज्ञानं रजतमिति भ्रमाकारापत्तिः: वृत्त्यवच्छिन्नस्यैव ज्ञानत्वा- त्तस्यचाधिष्ठानत्वाभावात्। अधिष्ठानतादात्म्येन चारोप्यप्रतीतिरिति इदं रजतमित्येव भ्रमाकारः। ननु-घटादेः स्वसन्निकृष्टन्द्रियजन्यस्वज्ञानात् पूर्व सत्वन तत्राध्यासो न युक्तः। नच-या घटेन्द्रि- य सन्निकर्षजा वृत्तिस्तया घटो न प्रकाश्यः । येन च प्रकाश्यो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षज- मिति-वाच्यम्: वृत्त्यतिरिक्तज्ञाने मानाभावात्। अज्ञाननिवृत्तेरपि तत एव भावादिति-चेन्न; वृत्युदयात् प्रागज्ञातार्थसिद्धर्थ वृत्त्यतिरिक्तज्ञानस्यावश्यमभ्युपेयत्वात्। अन्यथा तस्य साधकाभा- वेन शशशृङ्गतुल्यतया सन्निकर्त जन्यज्ञानहेतुत्वेन प्राक् सत्वकल्पना निष्प्रामाणिकी स्यात्। तस्मा- द्यादृशस्य घटादेरिन्द्रियसन्निकर्पाश्रयत्वेन ज्ञानकारणत्वं तादृशस्य साधकं किश्चिन्मानमवश्यमभ्यु पेयम्। अन्यथाऽन्वयव्यतिरेकयोरग्रहेण कार्यकारणभावाग्रहात् सर्वमानमेयादिव्यवस्थोच्छिद्येत। तञ्च मानं न वृत्तिरूपम् : तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्रकाशमेकमेव लाघ- गौडब्रह्मानन्दी (लघुचन्द्रिका)। ष्ानस्य वृत्त्यवच्छिन्नत्वम्। जीवस्य जगदुपादानत्वेऽप्येवम्। तथाच यत् विषयाधिष्टानं तत्रावश्यं ज्ञानत्वोपहिताभेद इनि नियम:, ननु ज्ञानत्वोपहितत्वरूपेणावश्यमघिष्टानत्वमिति; प्रत्यक्षस्थलेऽपि तदमंभवादिति भावः। संबन्धे 'घटं जानामी'ति संबन्धव्यवहारे। निरपेक्षेति। तावेवोपाधी स्वोपहितयोर्मिथो भेदका, यौ अन्योन्यनैरपेक्ष्येण स्वोपहि- तस्योपधायकौ; यथा भिन्नदेशस्थी घटो स्वोपहिताकाशस्य भेदको भवतः, तद्वृत्तिघटयोस्तु स्वोपहिताकाशं प्रनि न भेदकता। नचैवं-'अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टरूपयोः। घटते न यदैकदा तदा सुतरां तद्विपरीतरूप- यो'रिति संक्षेपशारीरकवाक्यविरोध :; तस्य ह्ययमथः-अविरुद्धे मिलिते, ये विशेषणे घटत्वद्रव्यत्वादिरूपे, तदुपहितयोर्यदा नैकता घटते, तदा जगत्कारणत्वसंसारित्वरूपविरुद्धविशेपणोपहितयोः सुतरामेकता न घटत इतीति-वाच्यम्; एकनेत्यस्यात्यन्ताभेदार्थकत्वात्। तथाच मिलितयोरुपाध्योर्भेदकत्वेऽपि नात्यन्तभेदकता; अमि- लितयोस्तु सा; तस्मान्निरपेक्षोपाधिरमिलितमुपाधिद्वयम्। तयोर्यथा एकोपहितादन्योपहितस्यात्यन्तभेदः, तथा शुक्त्यु पहितचितः अविद्यावृत्त्युपहितचिता नेत्यथः। तत्र हेतु :- एकेत्यादि। एकावच्छिन्ने शुक्त्युपहिते चैतन्य एव अपरावच्छेदेन विद्यावृत्युपहितत्वेन। अभियुक्तः पञ्चपादिकाविवरणकाराढिभिः । फलैक्यात् अभिव्यक्तत्वरू- पफलत्वाश्रयस्य चतन्यस्येकतापन्नाभ्यां शुक्तिरजतादिभ्यामवच्छिन्नत्वात्। ज्ञानस्य शुक्तवच्छिन्नाविद्यावृत्त्यवच्छिन्न- चितः। उच्यते उपचर्यते। तथाच विपययोर्मेलनात् तदाकारप्रत्यक्षवृत्तिद्वयस्यापि मेलनेन तदुपहितचिद्रूपज्ञानयो- रत्यन्तभेदाभावात् अत्यन्ताभेद उपचर्यत इति भावः । पञ्चपाद्यामुक्तमेकमेव ज्ञानमेकफलमिति। व्याख्यातं च तद्विवरणे-'विपयावच्छिनं फलम्, विपयश्च सत्यमिथ्यावस्तुनोरन्योन्यात्मकतयैकतामापन्नः, तेनैकविपयाव- च्छिन्नफलैकत्वोपाधौ सत्यमिथ्याज्ञानट्वयमप्येकमित्युपचर्यत' इति। तथाचानिरपेक्षोपाध्योरत्यन्तभेदकत्वमेतद्गन्थवि- रू्म्; अत्यन्तभेदाभावस्य प्रकृते एकत्वोपचारनिमित्तत्वादिति भावः । इदमंशेति। शुक्तित्वविशिष्टेत्यर्थः। वृत्त्यव- च्छिन्नस्येति। ननु-प्रत्यक्षवृत्त्यवच्छिन्नचितः घटादिविषयेऽपि तादात्म्येन सत्वात् 'घटो जानाती'त्यादिव्यवहारा- पत्तिरिति-चेन्न; आख्यातार्थस्यानुकूलव्यापारस्य प्रकृते मनोनिष्टस्यैव प्रत्ययादनुकूलताविशेपस्यैव भाने समभिव्या हारविशेषस्य नियामकत्वात्; अन्यथा तण्डुलऋ्रयणाढ़िव्यापारस्यापि पचतीत्यादौ बोधापत्तेः । विद्यमानसुखादौ वृत्त्य- स्वीकारपक्षे.तु स्वप्रतिबिम्बाश्रयो वृत्तिपदार्थः । सवपदं विशेष्यभूतचित्परम् । 'सुखं जानामी'त्यादौ द्वितीयार्थस्तादा- रम्यम्। स्वर्प्रानबिम्बविशिष्टसुखे तदन्वयः । 'घटं जानामी'त्यादौ तु स्वप्रतिबिम्बाश्रयवृत्तौ द्वितीयार्थस्य विपयत्वस्या- न्वयः । यदि तु प्रतिबिम्बविशिष्टरूपेण सुखादेः केवलसुखादितो भेदसश्वात्तद्विपयकत्वं स्वीक्रियते, तदा जानातिसम- भिव्याहृतद्विनीयामात्रस्य विपयित्वमेवार्थः। असत्वापादकाज्ञानविषयत्वाभावप्रयोजकविशिष्टचितो जानात्यर्थत्वे तु तादृशप्रयोजकमेव वृत्तिपदार्थः । उक्ताभावे द्वितीयार्थस्याधेयत्वस्यान्वयः। विस्तरस्तु सिद्धान्तबिन्दुटीकायां मदीयायां ज्ञातव्यः। अधिष्ठानतादात्म्येन आधारतादात्म्येन। कारणाप्रवृत्तेरिति। 'अज्ञातो घट' इत्याकारा प्रमाणवृत्तिर्न
Page 174
[अनुकूलतर्कनिरूपणम् ] गौडब्रह्मानन्दीयुता। ४६९.
वात्, वृत्तिगतोत्पत्तिविनाशजडत्वादिभिस्तदसंस्पर्शात्। तदेव च नानाविधोपाधिसंबन्धान्नानावि धव्यवहारभाक भवति नभ इव घटमणिमल्लिकाद्युपाधिमेदेन; तञ्चाज्ञानसाधकत्वात्स्वरूपतो नाजा- ननिवर्तकं, वृत्त्युपरक्तं त्वज्ञाननिवर्तकमिति न वृत्तेरनुपयोगः । तथाच सर्वाज्ञानसाधके साक्षि- चैतन्ये तस्मिन् घटादेरध्यास इति काऽनुपपत्तिः ? तदुक्तं सुरेश्वराचार्यैः-'सर्वतीर्थदशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः ॥' इति। 'सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम्। अज्ञातार्थावगमनं त्वदुक्ते तन्न युज्यते ।I स्वतः सिद्धोऽथवासिद्धो देहादिस्ते भवन् भवेत्। प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते॥ प्रमाणान्यन्तरेणापि देहादिश्चेत् प्रसिध्यति। वद प्रमाण: कोऽन्वर्थो न हि सिद्धस्य साधनम्। स्वतोऽसिद्धे प्रमेये तु नासतो व्यक्चिका प्रमा। नाभिव्य- नक्ति सविता शशशृङ्रं स्फुरन्नपि।' इति। नच-'घटोयमित्यसी वृत्तिराभासस्य प्रसादतः। विज्ञा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। संभवति; प्रमाणवृत्तेरज्ञातताविरोधित्वेन स्वसमानकालीनाज्ञातताविषयत्वासंभवात्। स्वासमानकालीनाज्ञातताविषय- कम्रमाणवृत्तेः संभवेपि तस्याज्ञातत्वविशिष्टघटाढ़ो कारणतादिग्रहेऽनुपयोगः। अतः स्वसमानकालीनाज्ञातत्वविशिष्ट- घटादिविपयकं चिद्रूपं प्रत्यक्षमेव तदुपयोगि वाच्यम्। किंचोक्तघटादिज्ञानं विनोक्तघटेन्द्रिय संयोगानुकूलव्यापारे प्रवृत्तिर्न स्यात्। नच-स्मरणसंशयाद्यप्रमाणवृत्यैव सेति-वाच्यम्; उक्तघटस्याननुभूतत्वस्थले स्मरणासंभवात्। 'घटोऽज्ञातो न वे'ति संशयोत्तरंचौचित्यावर्जितः अज्ञातघटेन्द्रियसंयोगादेः संशय एव स्यात्, न तु निश्चय इति भावः । ननु अप्रमाणवृत्तिसंशयादिनोक्तघटादिग्रहणासंभवेऽप्यविद्यावृत्तिस्त्गाहिकास्तु, तत्राह-तद्विलक्षणमि त्यादि। वृत्तेर्जडत्वेन मिथ्यात्वेन च मोक्षानन्वयित्वात् अप्रकाशमानसुखरूपस्य मोक्षस्यापुरुषार्थत्वाच्च स्वप्रकाश- चिद्रृपत्वं मोक्षस्यावश्यकम्। तथाच तस्य नित्यत्वादेकत्वाच्च वृत्युपहितः स एव ज्ञानम्; अन्यथा वृत्तेर्ज्ञानत्वे 'तदा ज्ञातम्' 'दद़ानीं घटो ज्ञातः' 'पटो ज्ञात' इत्यादिप्रत्ययानामनुगतैकविषयकत्व्रमानुभाविकमपलप्येत। वृत्तेरपि स्वप्र- काशत्वे कल्प्यमाने गौरवं चापद्येत। नच-चितः स्वप्रकाशत्वं तत्तद्देहादौ संशयाद्ययोग्यत्वम्; तदपि देहादावना- वृतत्वम्, चितो हि पूर्णानन्दरूपेणावृतत्वेऽपि स्फुरणरूपेणानावृतत्वमेव; अन्यथा 'अहं स्फुरामि न वा' 'मनः स्फुरति न वे'ति 'न स्फुरती'नि वा संशयविपर्यासापत्तेः, तथाच वृत्तिज्ञानस्यापि तादृशस्वप्रकाशत्वमस्त्येवेति कथं गौरवम्? तदुक्तं तार्किकादिभिरि-'न हि जानन्नेव पुरुपो जानामि न वेति न जानामीति वा जानाती'ति, घटज़ञानवान् पुरुपो' 'घटमहं जानामि न वेनि घटं न जानामी'ति वा नानुभवतीति तदर्थ इति-वाच्यम्; स्वान्यभानानपेक्षभा- तीनिव्यवहारविषयत्वं स्वप्रकाशत्वमिति हि मूल एव जडत्वस्य मिथ्यात्वहेतोर्विवेचने उक्त्तम्। तथाचोक्तविषयत्वे वृत्ती स्वीक्रियमाणे गौरवम्। 'सुखं भाति' 'चिद्ाती'त्यादी चित्तादात््यस्यैव प्रयोजकतया कृप्तत्वेन वृत्तिर्भातीत्यादौ वृत्तितादात्म्यस्य प्रयोजकतया कल्पनीयत्वात्। किंच तार्किकादिमते संशयाद्ययोग्यत्वरूपमनावृतत्वं निश्चयविषय- त्वम्, नत्वावरणाविपयत्वम्; तर्भावरूपस्यावरणस्यास्वीकारात्। तथाच वृत्तेर्षटादिवदुक्तविषयत्वेऽपि न स्वप्रकाश- त्वम्। नच-तन्मते सर्वस्य ज्ञानस्यानुव्यवसायाभावेनोक्तविपयत्वासंभवात् संशयादिविषयत्वे ज्ञानतादात्म्य- मेव विरोधित्वेन कल्प्यम्, तथाच तादृशतादात्म्यमेव स्वप्रकाशत्वमिति-वाच्यम्; उक्तकल्पनायां गौर- वात्, तैर्धुक्तविषयत्वं प्रति निश्चितत्वमवश्यं विरोधि वाच्यम्; अविद्यमानस्यापि घटादिज्ञानस्यात्मनि निश्चये तत्संशयानुत्पत्तेः । तथाच विद्यमानेऽपि घटादिज्ञाने निश्चितत्वस्यैवोक्तविरोधित्वं संभवति; अनुव्ययसायस्य सर्वदोत्पत्यसंभवेऽपि चिद्रृपनित्यत्वानुव्यवसायेन निश्चितत्वसंभवात्। किंच सुखादेरप्युक्तविरोधित्वं त्वया वाच्यम्। तथाच सुखत्वादिसाधारणस्याहमर्थविशेष्यतानिरूपितनिश्चयप्रकारतावच्छेदकत्वस्य धीत्वभीत्वादिनिष्ठ- संशयादिप्रकारतावच्छेदकत्वविरोधित्वसंभवात् सुखादीनामनन्तविरोधित्वकल्पनं न युक्तम्। तस्मान्न जन्यज्ञानादेः स्वप्रकाशत्वम्; चित्तादात्म्येनेव तस्य भातीत्यादिव्यवहारात् स्वान्यभानेत्यादिलक्षणाभावादिति भावः। अक्षा- ननिवर्तकमिति। यद्यप्यज्ञानस्य प्रमातृचिद्नुपरागस्य वा निवर्तकत्वं वृत्तावेव; आवरणभङ्गश्व वृत्त्येति मूले पूर्वमुक्तं; तथापि तदुपरक्तचित्यपि तदस्तीति तथोक्तम्। न हि तन्निवृत्तिजनकत्वं तत् ; येनोक्तचिर्वरूपेण तदुक्तौ गौरवं स्यात्, किं तु तद्विरुद्धस्वभावत्वम्। ननु-प्रमोत्पत्तेः पूर्वमप्रतीतमप्यज्ञातघटादिकं पश्चादनुमानाढिना ज्ञेय- स्वात् नासत्; अन्यथा कदाचित् केनचिद्प्रतीतिमात्रेणासत्वे सर्वमसत् स्यात्, नच तदा केनापि तस्याप्रतीतत्वमिति वक्तुं शक्यम्। नच-अज्ञातताकाले घटादिज्ञानाभावे प्रत्यक्षे तत्कारणेन्द्रियसननिकर्षे चोक्तघटादेः कारणताग्राहकान्व- यव्यतिरेकज्ञानसंभव इति-वाच्यम्; उक्तघटादेरभानापादकाज्ञानकाले अनुमित्यादिनापि तत्संभवात्तत्ाह-नाभि- व्यनकीति। नाभिव्यत्तयुद्देश्यकप्रवृत्तिमानित्यर्थः । तथाच यथा जगत्तमोनाशमुद्दिश्य सवितुः प्रवृत्तिः, नतु शशश्-
Page 175
४७० अद्वैतसिद्धिः । [परिच्छेद: १ ]
तो घट इत्युक्तिर्ष्रह्मानुभवतो भवेत् II'इति वदता वृत्तिप्रतिबिम्बितस्य घटानघिष्ठानचैतन्यस्य घटतुा- भवत्वोक्तिविरोध इति-वाच्यम्। वृत्तिप्रतिबिम्बितचैतन्यस्य घटाधिष्ठानचैतन्येन सह मेदाभावात्, चैतन्यस्यैकत्वात्। यथाचैकस्यैव चैतन्यस्य सर्वभासकत्वं तथा विस्तरेणोपपादितं 'नाभाव उपल- ब्धेरित्यस्मिन्नधिकरणे' भाष्यकृद्भिः। ननु-दृश्यत्वान्यथानुपपत्या मिथ्यात्वमित्यर्थापत्तिर्विवक्षिता, किं वा सत्यत्वे दृश्यत्वं न स्यादित्यनुकूलतर्कमात्रम्। नाद्य :; तत्सामग्र्यभावात्। तथाहि-आक्षेप्य- स्योपपादकत्वं; प्रमाणाविरुद्धत्वं, आक्षेपकस्यानुपपद्यमानत्वं, प्रमितत्वंचेत्यर्थापत्तिसामग्री। प्रकृते चाक्षेप्यसंबन्धिनो मिथ्यात्वं नाक्षपकस्य संबन्धस्योपपादकम्, प्रत्युत प्रतिकूलमेव। नचाध्यस्तत्व- रूपसंबन्धस्य न तत्प्रतिकृलत्वम्; तस्याद्याप्यसिद्धेरनाक्षपकत्वात्। प्रत्यक्षादिविरुद्धं चेदमाक्षेप्यम्। नाप्येकस्य दृश्यत्वस्योपपत्तये प्रमितानेकस्य त्यागो युक्तः।आक्षेपकंच न दगध्यस्तत्वम्: तस्यैव फलत आक्षप्यत्वात्। नापि दृग्विषयत्वरूपो दृग्संबन्ध; तवासिद्धेः। न दृगधीनसिद्धिकत्वम्; दृग्विषयत्वा- तिरिक्तस्य तस्यासिद्धेः। नान्त्य; सत्त्वेऽप्युक्तरीत्या संबन्धान्तरेणव दृश्यत्वस्योपपन्नतया अनुपपत्ते- रेवाभावादिति-चेन्न; अनुकूलतर्कस्यैव प्रकान्तत्वेनार्थापत्तिर्वेत्यादिविकल्पानवकाशात्, उभयथा- प्यदोषाञ्च। तथाहि-सत्यत्वे दृग्दृश्यसंबन्धानुपपत्तिः । मिथ्यात्वं च तदुपपादकम्, न तत्संबन्ध- प्रतिकूलम्; मिथ्यात्वेऽपि शुक्तिरूप्यस्येदमंशेSध्यस्तत्वरूपसंबन्धदर्शनेन संबन्धसामान्ये प्रतिकू लत्वाभावात्। आक्षेपकोऽपि दृग्विषयत्वरूपो दृक्संबन्ध एव अध्यासरुपस्य दृग्विषयत्वस्य ममा- Sपि संप्रतिपत्तेः, तात्विकस्येव तस्य निषेधात्। न चाध्यस्तत्वस्याद्याप्यसिद्धिः: दृक्संबन्धसामा- न्यस्याक्षेपकस्य प्रसक्तविशेषनिषेधेSप्यध्यस्तत्वरूपविशषपर्यवसानेनासिद्धभावात्। न हि अध्यस्त- संबन्धत्वेनाक्षेपकता; किंतु संबन्धत्वेन । स चाध्यस्तत्वसंबन्धसंभावनयाप्यबाधित एवेति। गौडब्रह्मानन्दी (लघुचन्द्रिका)। ड्रीयतमोनाशमुद्दिश्य; तस्यालीकत्वेनाज्ञानासंभवात्, तथा घटाज्ञाननाशार्थ न कस्यापि प्रवृत्ति: स्यात्, घटाज्ञानस्य प्रमाणज्ञानासंभवात्, अतस्तस्य ज्ञानं साक्षिचिदेव। ननु-प्रमाणवृत्त्यभावेऽपि घटादेरज्ञाततया भानस्वीकारे तदा तत्र भातीति व्यवहार: स्यादिति-चेत्, अज्ञाततया भातीति स्यादेव; घटादेरनुमित्यादिकाले अनुमितत्वादिना घटो भातीतिवत्, घटो भातीति व्यवहारस्य तु नापत्ति :; अज्ञातत्वज्ञातत्वाभ्यामुपहितस्यैव घटादेस्तदनावृतसाक्षि- तादात्म्यस्वीकारातू। अतएवोक्तं विवरणे-'अज्ञाततया ज्ञाततया च सर्व साक्षिभास्य'मितीनि भावः। आभा- सस्य वृत्तिप्रतिबिम्बितचितः । ब्रह्मानुभवतः ब्रह्माभिन्नसाक्षिणः । वद्तेति। त्वदाचार्येणेति शेपः। चतन्यस्य शुद्धचिदुपहितचितः । एकत्वात् तादात्म्यात्। इत्यस्मिन्नधिकरणे इति। सर्वदृश्यानुस्यूतत्वात् स्वप्रकाशचि- दरूपत्वाच्चात्मा स्वेतरसर्वभासक इत्यादि तत्रोक्तम्। आक्षप्यस्य अर्थापत्तिकल्प्यस्य। उपपादकत्वं यद्विना आक्षेप- कमनुपपन्नं तत्वम्। आक्षेपकस्येति। यस्यानुपपन्नत्वधीरर्थापत्तिकरणं तस्येत्यर्थः । अर्थापत्तीति। अनुपपत्ति- धीकरणकार्थापत्तीत्यथः । अथवा यत्संशयोऽर्थापत्तिकरणं, सोडप्याक्षेपकः। तथाच संशयकरणिकाप्यर्थापत्तिः प्रकृते आ्राह्या। यथा हि जीविनो देवदत्तस्य गृहासत्वं बहिः सत्वं विना अनुपपन्नमिति धीः उपपादकस्य बहिः सत्त्वस्य देवदत्ते अर्थापत्तिरूपे ज्ञानविशेषे करणम्; तथा जीविनो देवदत्तस्य गृहासत्वज्ञानं पूर्वनिश्चितयोर्जीवनगृहसर्वनिय- मयो: संशयाहितजीवनसंशय द्वारा करणम्, उक्तनियमसंशयो वा जीवनसंशयद्वारा करणम्, करणस्य सव्यापारत्वा- नियमात्, जीवनसंशय एव वा करणम्; देवदत्तो बहिरस्तीत्यर्थापश्यन्वयव्यतिरेकानुविधानस्याविशेपात्। बहिः सत्वं विनानुपपस्नत्वं तु बहिः सत्त्वाभावव्यापकाभावप्रतियोगित्वम्। प्रकृते तु 'दम्दश्ययोरन्यतरमिथ्यात्वं विना संबन्धोऽनु- पपन्न'इति धीः, पूर्वनिश्चितयोः दग्दश्ये संबद्धे एव तयोः संबन्धः सत्य एवेति नियमयोः, संशयाहितं दृग्दश्ये संबन्दे न वेति संशयं द्वारीकृत्य विप्रकर्पहेतुकः तयोः सत्यसंबन्धाभावनिश्चयः तादृशसंशयो वा करणमुक्तान्यतरन्मिथ्येत्य- र्थापत्ताविति द्रष्टव्यम्। प्रतिकूलमिति। संबन्धिमिथ्यात्वे संबन्धमिथ्यात्वनियमात् मिथ्यात्वस्य च तुच्छत्वरूपतवात् संबन्धस्वरूपस्य कालादिसंबन्धिनः प्रतिकूलं संबन्धिमिथ्यात्वमिनि पराभिमानः । परमते शुक्तिरूप्ये मिथ्यात्वसबन्वस्थ शुक्तिरूप्याभावस्य च सत्यत्वस्वीकारात् तत्र मिथ्याप्रतियोगिकत्वमिथ्यानुयोगिकत्वयोर्मिथ्यात्वासाधकत्वान्नेयं परो- किर्युक्ता। मन्मतेऽपि प्रपञ्जाभावे ब्रह्मस्वरूपे व्यभिचारो बोध्यः । उक्तरीत्या इच्छादाविव ज्ञानेऽपि विषयस्य सत्यः संबन्ध इत्यादिरीत्या। संबन्धान्तरेण अध्यासान्यसंबन्धेन। आक्षेप्यं विनाक्षेपकस्यानुपपत्तिमाह-सत्यत्व इति। दग्दश्यसत्यत्वे इत्यर्थः। नन्वनध्यस्तसंबन्धस्य त्वयानङ्गीकारादध्यस्त एव संबन्ध आक्षेपकः; अध्यस्तता च नाक्षेपात्पूर्व संभवति, आक्षेपस्येव सर्वदृश्यमिथ्यात्वसाधकत्वादित्याशक्क्य निपेधति-नचाध्यस्तत्वस्येति। संबन्धत्वेन विप्रकृष्टयो: संबन्धत्वेन। स च तादशरूपविशिष्टसंबन्धश्च। अबाधित इति। तथाच मिथ्यात्वरूपेण संबन्धस्येव
Page 176
[अनुकूलतर्केनिरूपणम्] गौडब्रह्मानन्दीयुता। ४७१
नच-घटस्य ज्ञानमिति घीसिद्धसंबन्धसामान्यस्याध्यस्तत्वं न विशेष:, न हि रूप्यस्य शुक्तिरिति प्रतीतिरस्तीति-वाच्यम्; रूप्यस्य शुक्तिरिति प्रतीत्यभावेऽपि रूप्यस्य शुक्तिरधिष्ठानमिति प्रतीत्या अध्यस्तत्वस्य संबन्धविशेषत्वसिद्धेः, चैत्रस्य मैत्र इति प्रतीत्यभावेऽपि चैत्रस्य पिता मैत्र इति प्रतीतिवत् आक्षप्यमत्र प्रमाणाविरुद्धमेव; अध्यक्षादिविरोधस्य प्रागेव परिहृतत्वात्। आक्षपके च प्रमितत्वमनपेक्षितमेव; अप्रमितेनापि प्रतिबिम्बेन बिम्बाक्षेपदर्शनात्। तर्कपरतायामपि नाप्रयोज- कता; सत्यत्वे संबन्धानुपपत्तेर्भवदुक्तन्यायखण्डनेन प्रथमत एवोपपादितत्वात्। दृश्यत्वाभावस्या पादकमत्र सत्वमनिर्वाच्यत्वाभावो वा त्रिकालावाध्यत्वं वा।उभयथाऽपिन दोषः।नचानिर्वाच्यत्वा- भावस्य तुच्छे परोक्षधीवेद्यतया दृश्येऽपि सत्वेन व्यभिचार; कारणासामथ्येन तत्र तदाकारवृत्तिस- मुल्लासेऽपि दक्संबन्धरूपस्य दृश्यत्वस्य तुच्छविरोधिनस्तत्राभावात्, तुच्छाकारताया वृत्तिगतत्वेऽपि वृत्तिसंबन्धस्य तुच्छगतत्वाभावोपपत्तेः । नापि-यथा सतो ब्रह्मणः स्वव्यवहत्या संबन्धः, तथा घटादेरपि सत एव स्वज्ञानेन संबन्धोSस्त्विति-वाच्यम्; दृष्टान्ते ब्रह्मण्यध्यासस्यैव व्यवहतिसं- बन्धत्वात्। तथाच उभयसंबन्धिसत्वे विषयविषयिभावानुपपत्तिः नाप्रयोजकत्वादिना परिभूयते। एतेन-अध्यासिक: संबन्धो नाम अध्यस्तसंबन्धो वा, अध्यस्तत्वमेव वा, आद्ये संबन्धस्य मिथ्या- त्वेऽपि संबन्धनो दृश्यस्य दश इव मिथ्यात्वानुपपत्तिः। द्वितीये ज्ञानस्याप्यध्यस्तत्वेन तत्र अध्या- सानुपपत्ति: स्वज्ञानपरंपरायामध्यासस्वीकारे अनवस्था चेति-निरस्तम्, ज्ञानं हि वृत्त्यवच्छिसं चतन्यम्, तत्रावच्छेदिकाया वृत्तेर्जडाया अध्यस्तत्वेप्यवच्छेद्यस्य चैतन्यस्य प्रकाशरूपस्य अनध्यस्त- त्वेन तत्र दृश्यस्याध्यासाद् दृश्यमिथ्यात्वेऽप्यनवस्थाविरहस्योपपत्तेः। अत एव-शाब्दवृत्तिविषयो ब्रह्म न वृत्त कल्पितमविद्याविषयो ब्रह्माविद्यायां न कल्पितं यथा, तथा दृशयं न दशि कल्पितम्: तथाच दृक्टश्यादेस्तात्विक एव संबन्धः, सामान्यसंबन्धेनैवातिप्रसङ्गे निरस्ते विशेषजिश्ञासा विशेषोक्तिश्च विशषजिज्ञासादिवदनर्थिकवेति-निरस्तम्: वृत्त्यविद्ययो: ब्रह्मणोऽनध्यासेऽपि तयोरेव ब्रह्मण्यध्यासात् संबन्धोपपत्तेः, अतस्तत्र तात्विकसंबन्धाभावात्, कथं तदृष्टान्तेन दृग्दृश्ययोरपि तात्विकसंबन्ध इन्युच्यते ? तथाच प्रसिद्धविशषे बोधिते सामान्यस्यैव बाधकशङ्काया अतिप्रसङ्गे प्राप्ते विशेषजिज्ञासाया विशेषोक्तश्च साफल्यात् न ते निरर्थिके। पतेन-संबन्धस्य प्रामाणिकत्वे यथाकथंचन लक्षणं भविष्यति। तथाहि-संयोगसमवायान्तर्भावे तल्लक्षणमेव लक्षणं भविष्यति, तदनन्तर्भावे तु तदुभयभिन्नसंबन्धत्वमेव लक्षणमस्त्विति-निरस्तम् ; उक्तयुक्त्या प्रामाणिकसं-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तदभावस्यापि निश्चयो नाक्षेपपूर्वमस्तीति मिथ्यात्वरूपेण संबन्धसिद्धौ न बाधकमिति भावः। न विशेष इति । अधिष्टानारोप्ययोः संबन्धः अध्यस्तसंबन्धशब्दार्थः । सच न संभवति; अधिष्ठाने आरोप्यस्य संबन्धप्रत्ययासंभवात्, अधिष्टानज्ञानं हि आरोप्यसंबन्धज्ञानविरोधीति भावः । ननूक्तप्रत्ययोऽपि न संभवति; शुक्तिरूप्ययोः संबन्धविषय- कत्वात्, तत्राह-चैत्रस्येति। अभावे अभावकाले। तथाच चत्रमैत्रयोः मिथो वैशिष्यग्रहासंभवकाले यथा चैत्रस्य पिता मैत्र इत्यत्र ज्ञाने चैत्रस्य जनकतायां विशेषणत्वं, तथा शुक्तित्वविशिष्टस्य रूप्यसंबन्धग्रहासंभवेऽपि भ्रम- विशेष्यत्वरूपाविष्टानत्वघटके अ्रमे रूप्यस्य संबन्धावगाही प्रत्ययो नानुपपन्न इति भावः । वृत्तिगतत्वेऽपीति। ननु-वृत्तो तुच्छाकारतास्वीकारे तुच्छे वृत्तिसंबन्धोऽपि स्वीकृत इति-चेन्न; वृत्तो तुच्छाकारता हि न सार्वदिकी, किंतु वृत्तिकालावच्छिन्ना; तुच्छे तु वृत्तिविषयत्वं यद्युच्यते, तदा तद्पि तादृशमेव वाच्यम्, सार्वदिकत्वासंभवात् । तथाच वृत्तिकालस्य तुच्छासंबन्धित्वेन तुच्छनिष्टे वृत्तिविषयत्वे अवच्छेदकत्वासंभवाद- नुपपत्तिरिति भावः। उक्तंच माध्वादिभिरपि-'ध्वंसादावेव प्रतियोग्यादेः संबन्धो, न तु प्रतियोग्यादौ ध्वंसादे: संबम्धः' इति। नच-तुच्छे वृत्तिनिष्टसंबन्धनिरूपकत्वं विनोक्त्तसंबन्धोऽनुपपन्न इति तदवश्यं वाच्यम्; तथाच तस्याप्यसार्वदिकत्वादुक्तावच्छिस्नत्वस्यावश्यकत्वादनुपपत्तिरिति-वाच्यम्; संबन्धस्य तदन्यसंबन्धास्वीका- रात्। सामान्यसंबन्धेन संबन्धसामान्येन। इति सत्येनेत्यादिः। प्रसिद्धविशेषे सत्यसंबन्धे। सामान्यस्य संबन्धसामान्यस्य। बाधशङ्कयेत्यादि। यदि सत्यसंबन्ध एव विशेष:, तदा विप्रकृष्टयोः संबन्धिनोस्तदसंभवात् संबन्धसामान्यं न स्यात्, विप्रकृष्टयोर्विशिष्टसंबन्धाविषयिकैवेति स्वीकारे सव्रिकृष्टयोरपि सा तथा स्यादित्यतिप्रसङ्गः, तस्मात् विशेषान्तरं मिध्यासंबन्धरूपं वाच्यम्, तथ्च कथुपपद्यत इति जिज्ञासा तदुपपादनं च न व्यर्थम्; संबन्ध- सामान्यस्थापनद्वारोक्त्तातिप्रसङ्गनिरासस्य फलस्य सत्वादित्यथः । संबन्धिमिन्नत्व इति । दग्दश्ययोः संबन्धमात्रस्य
Page 177
४७२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
बन्धस्य संयोगसमवायान्तर्भावस्य च दूषितत्वात्। तदुभयबहिर्भूतसंबन्धत्वं तु वयमपि न निरा- कुर्म:, किं तु तस्य प्रामाणिकत्वम्। किंच दृक्टश्ययोः न तात्विकसंबन्धः; संबन्धिभिन्नत्वे अनवस्था- नात्। नच दृश्यत्वान्तरहीनस्य दृश्यत्वादेरिव सबन्धस्यापि स्वनिर्वाहकत्वं क्वचित् भविष्यतीति- वाच्यम् ; दृश्यत्वमपि दृक्संबन्ध एव। तस्य च स्वनिर्वाहकत्वं न मायिकत्वं विनेति नास्माकं प्रति- कूलमभ्यधायि देवानांप्रियेण; अभिन्नत्वे संबन्धत्वायोगात्। नचैवमाध्यासिक संबन्धत्वेSप्येतद्दोष- प्रसङ्ग:, तस्य मायिकत्वेन मायायाश्चाघटितघटनापटीयस्त्वेन सर्वानुपपत्तर्भूषणत्वात्। नच-अति प्रसङ्गनिराकरणार्थ दृग्दश्ययोः संबन्धनिर्वचनं प्रकृतम्, न तु विषयत्वनिर्वचनम्, अतो विषयत्वख- ण्डनमनुक्तोपालम्भनमिति-वाच्यम्: विषयत्वखण्डनेन निरुच्यमानप्रकृतसंबन्धस्यैव खण्डनात्। नच-विषयित्वानिरुक्तावपि विषयिणः सत्यत्ववत् विषयित्वानिरुक्तावपि विषयः सत्यः स्यादिति- वाच्यम्: विषयित्वानिरुक्तावपि विषयाध्यासेनैव तदुपपत्या विषयिणः सत्यत्वं युक्तम्, विषयत्वा- निरुक्ती तु विषयस्य सत्यत्वं न युक्तम्; विषयिणोऽनध्यस्तत्वे विषयाध्यासमन्तरेणान्यस्योपपादक- स्याभावात्। यत्र तु विषयण एवाध्यासः। तत्र विषयः सत्य एव; यथा ज्ञानविषयो ब्रह्म। नचोभया- ध्यास: शून्यवाद प्रसङ्गात्।अन्यतराध्यासे च विनिगमकमनुवृत्तत्वव्यावृत्तत्वप्रकाशजडत्वादिकमेव। तस्माद्विषयिणो नित्यद्दशोऽनध्यासात् विषयस्यवात्राध्यासः। नच-'प्रमाणजातं स्वविषयावरणे' त्यादियुक्त्या दृग्विषयत्वरूफ्टृश्यत्वस्य हेतूकरणेन च त्वयाऽपि विषयत्वं निर्वाच्यमेवेति-वाच्यम्ः तत्वतोऽनिर्वाच्यत्वेऽप्यध्यस्तत्वन घटादिसमकक्षनिर्वाच्यत्वस्य संभवात्। ननु-कथं प्रमाणज्ञान- विषयोऽध्यस्त इति-चेन्न; प्रपश्चविषयकज्ञाने तत्वावेदकत्वलक्षणप्रामाण्याभावादिति गृहाण । अतएव-यादृशं विषयत्वं ते वृत्ति प्रति चिदात्मनः। तादशं विषयत्वं मे दृश्यस्यापि दशं प्रतीति- निरस्तम्; चिदात्मनोSनध्यासेSपि वृत्तेस्तत्राध्यस्तत्वेन तद्दृष्टान्तेन प्रकृतेऽप्यनध्यासस्य वक्तुमश- क्यत्वात्। स्यादेतत्-मिथ्यात्वनिरवेचनात्तत्साधनं दृश्यत्वादिकं निर्वेक्तव्यमेव, नहि घटादयसङ्की- र्णाकारज्षानं विना तद्विलक्षणव्यवहार: अथ निरुक्तासङ्कीर्णकारज्ञानमात्रण तदुपपत्तिः, तर्हि तुल्यं ममाऽपि। इयांस्तु विशेष :; यत्तव स आकार: सद्विलक्षणः, मम तु त्वन्मतसिद्धप्रातिभासिकवैल- क्षण्यसाधकमानसिद्धमसत्ताकः, न हि लक्षणोक्त्यनुक्तिभ्यां सदसद्वैलक्षण्यरूपानिर्वचनीयत्वहा- निलाभौ; ब्रह्मण्यपि श्रौतस्यापि जगत्कारणत्वादिलक्षणस्य खण्डनरीत्या असंभवात्, त्वयैव- 'कीटक्तत्प्रत्यगिति चेत्ताद्दगीदृगिति द्वयम्। यत्र न प्रसरत्येतत्प्रत्यगित्यवधारये'ति ब्रह्मणोऽपि गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वसंबन्धिभिन्नत्वे इत्यर्थः । अनवस्थानादिति। घटतद्दृशोः खभिन्ने संबन्धे दृक्संबन्धान्तरं तग्रापि टृक्संबन्धा- म्तरमिति अनवस्थानादित्यर्थः । स्वनिर्वाहकत्वं सवरं प्रति संबन्धत्वम्। संबन्धत्वायोगात् 'सवं न स्वस्य न वा स्वस्मि'न्निति प्रतीतेः। स्वप्रतियोगिकत्वस्वानुयोगिकत्वयोः कुत्राप्यभावात् सवं प्रति कस्यापि न संबन्धत्वम्। न चेवं- घटादाविव दृश्यत्वेपि दृशम्तादात्म्यं मिथ्याभूतं स्वीक्रियतामेवं तव्रापीत्यनवस्था तव मतेऽपि दुवारेति-वाच्ययू। घटादाविव दृश्यत्वादी तदननुभवात्, यावदनुभवमेव मिथ्याभूतस्य स्वीकारात्। भूषणत्वादिति। उक्तं हि खण्डने 'अनवस्थादयो दोषाः सत्तां निम्नन्ति वस्तुनः । अंद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥' इनि। सत्तां निघ्नन्ति सत्ताभावं ज्ञापयन्ति। तत्प्रसञ्जकाः सत्ताभावज्ञापकाः । न चेति। भिन्नत्वे अनवस्थादिनेति शेपः। तदुपपतत्येति। अधिष्ठानान्यमिथ्यात्वमेव उपपाढकमिति भावः । अन्तरेणेति। विनिगमकाभावाद्विपयतत्संबन्धयोर्मिथ्यात्वमुपपाढ- कम्, न नु तत्संबन्धमात्रस्येत्यर्थः। अन्यतराध्यासे विपयविपयिणोरन्यतराध्यासे आवश्यके। अनुवृत्तत्वेत्यादि। ननु-यत् अ्रमान्तरानुवृत्तं, तदवश्यं तद्द्रमंतद्माधिष्ठानमिति वा तत् एतद्रमेऽनारोपितमिति वा न व्यापि: शुक्तिरूप्याद्यवच्छिसे चैतन्ये भ्रमान्तरोदयेन शुक्तिरूप्यादेः स्वभ्रमानधिष्ठानत्वादिना व्यभिचारात्, नापि सर्वभ्रमानु- वृत्तस्वमारोपितत्वव्यतिरेके हेतु :; तावतापि शुक्त्यवच्छिन्नचितोऽधिष्ठानत्वासिद्धादितादवस्थ्यादिति-चेत्, सत्यम्; तथापि यस्य अ्रमस्य बाधकाले बाधकधीविषयतया यद्नुवतते, तत् तन्जमाधिष्ठानमित्यादिव्याप्तिसंभवः। ज्ञानस्वरूपं हि चैतन्यम् तथा, शुक्तिरूप्यादिभ्रमस्थलेऽपि शुक्त्याद्यवच्छिन्नसदूपेण तत्तथा। इयं शुक्ति: सतीति हि बाधकज्ञानम्। भवति च शद्धब्रह्मज्ञानमपि सर्वभ्रमबाधने स्वरूपयोग्यम्। एवं यद्यत् स्वप्रकाशं, तत् न मिथ्या; तद्वाधकमनोवृत्तेस्तेन भास्यत्वासंभवात्, नस्यां भासकान्तरकल्पने च गौरवात्। आढिपदेन विनाशित्वाविनाशित्वसंग्रहः। यद्यद्विनाशि, तत् न सर्वभ्रमाधिष्टानम्; तन्नाशे तस्याघिष्टानत्वासंभवादित्यादि बोध्यम्। तत्त्वेति। त्रिकालाबाध्येत्यथः । सत्ता त्रिकालाबाध्यता। ताहकू परोक्षम्। ईदक् अपरोक्षम्। यत्र न प्रसरति यस्य प्रतीचो न समसत्ताकलक्षणं
Page 178
[अनुकूलतर्कनिरूपणम् ] गौडब्रह्मानन्दीयुता। ४७३ दुर्निरूपत्वोक्तेश्च, प्रपञ्चेऽपि त्वदुक्तानिर्वाच्यत्वसमकक्षलक्षणसंभवाज्ञ, 'यत्कठिनं सा पृथिवी'त्या- दिश्रुत्या पृथिव्यादीनामपि लक्षणत्वोक्तेद्। तस्माद निर्वाच्यत्वं न सत्त्वविरोधि। सत्वेऽप्यनुद्धूतत्वा देवानिर्वाक्यत्वोपपत्तेः। नच निर्वाच्यत्वमपि सत्त्वप्रयोजकम्; नहि शुक्तिरूप्यस्यापीतरमेदसाधकं रूप्यत्वं प्रातीतिकजातिरूपतया सुवचमपि सत्यम्। किंच ब्रह्मण आनन्दत्वज्ञानत्वसत्यत्वस्वप्रकाश- त्वादि खण्डनोक्तरीत्या दुर्वचमिति ब्रह्म तत्वतोऽनानन्दाद्यात्मकं स्यात्। तस्मादिक्षुक्षीरादिमाघुर्य- घदनिर्वाच्यमपि विषयत्वं सदेवेति, अत्रोच्यते-वश्यत्वादेरनिर्वचनीयत्वं किं सत्वेन, उत स्वरूपेण। नाद :: सत्वेना निर्धचनीयत्वेSपि तत्तदाभासलक्षणानालिङ्गितत्वमात्रेण हेतुत्वोपपत्तेः तन्निर्वचनान- पेक्षणात्। न द्वितीय तात्विकातात्विकसाधारणेन दक्संबन्धित्वादिना रूपेण दग्विषयत्वस्य निर्व- कुमशक्यत्वात्। लक्षणोक्त्यनुक्त्योर्न सदसद्वैलक्षण्यरूपानिर्वाच्यत्वहानिलाभकरत्वमिति यदवोचः, तदपि न; पूर्वोक्तव्यापकानुपलब्धिसहिताया लक्षणानिरुक्ते: उक्तरूपानिर्वचनीयत्वप्रयोजकत्वात्। यत्वानन्दत्वादिना धर्मेण कीदृगित्यादिना स्वरूपेण च दुर्निरूपत्वात् ब्रह्मणोऽप्यनिर्वचनीयत्वप्रसङ्ग इति, तन्न; आनन्दत्वादिधर्मवत्तया दुर्निरूपत्वेऽपि दुःखप्रत्यनीकत्वाद्युपलक्षितस्वरूपस्य सश्वेन निर्वक्तुं शक्यत्वात्। नचैवं प्रपञ्चे सत्वं शक्यनिर्वचनम्; बाधकसन्भावात् । अतएव-कठिन- स्पशवत्वादिना पृथिवीत्वादीनां निर्वचनमस्त्येव, सत्त्वेऽप्युद्भूतत्वादिना निर्वाच्यत्वोपपत्तिरिति- निरस्तम्; नहि निरुक्तिविरहमात्रेणानिर्वाच्यत्वं ब्रूमः, किंतु सत्त्वादिना निरुक्तिविरहेण। सच प्रपश्चे बाधकादस्त्येव। नच-जाने विषयस्याध्यस्तत्वे तदश्ञानजन्यं तज्ज्ञाननिवर्त्य चाध्यासं प्रति विषयत्वं तदनुविद्धतया प्रतीत्यभावश्च न संभवतीति-वाच्यम्: चैतन्यमात्राज्ञानजन्यत्वात्। तज्ज्ञाननिवर्त्यत्वाञ्च घटादिप्रपश्चस्येत्युक्तत्वात्। सदिति प्रतीयमानाघिष्ठानचैतन्यानुविद्धतया प्रतीयमानत्वमप्यस्त्येव। तस्मात्सत्यत्वे दृग्दृश्यसंबन्धत्वानुपपत्तिर्दढैव ॥। इत्यद्वैतसिद्धौ प्रपञ्चमि- थ्यात्वानुकूलतर्कनिरूपणम्॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मृलाज्ञानविषयत्वादिकमपरोक्षमपि न समसत्ताकम्। दुर्निरूपत्वोक्ते: अनिर्वाच्यत्वस्यैव लक्षणस्योक्तेः। अनिर्वा- च्यत्वं सत्यस्य लक्षणादेरनिर्वचनम्। खण्डनोक्तरीत्येति। 'अभीष्टसिद्धावपि खण्डनानामखण्डि राजामिव नैव- माज्ञा। तत्तानि कस्मान्न यथावदेव सेद्धान्तिकेऽप्यध्वनि योजयध्व'मिति रीत्येत्यर्थः। संसर्गखण्डनादियुक्तिभि: पराभ्युपगतप्रक्रियाखण्डन रूपाभीष्टसिद्धौ सत्यामपि खण्डनानां स्वाभ्युपगतप्रक्रियाखण्डने स्वतभ्रतारूपा या राज्षा- मिवाज्ञा सा नाखण्डि नास्माभि: निग्सा। तस्माद्यथावत् परप्रक्रियायामिव स्वप्रक्रियायामपि तानि खण्डनानि कस्मान्न योजयध्वम्, यूयं द्वैतवादिन इत्युक्तपद्यार्थः। तथाच ब्रह्मण्यानन्दत्वादिसंसर्गखण्डनेन ब्रह्मानानन्दाद्या- ह्मकमिति भावः । स्वरूपेण सत्वान्यरूपेण। तन्निर्वचनेति। सत्वेन निर्वचनेत्यर्थः। व्यापकानुपलब्धीति। सत्यत्वव्यापकाविप्रकर्पाद्युपलब्धिविरोधिविप्रकर्षादिग्राहकमानेत्यर्थः । मिथ्यात्वसाधकमानेति यावत्। लक्षणानुक्ते: सत्यलक्षणानुक्तेः। कीदृगित्यादिना समसत्ताकलक्षणात्मकेन। सत्त्वेन निर्वकुं शक्यत्वात् तत्सदित्यस्यानन्द- त्वसत्यत्वाद्युपलक्षितस्वरूपप्रमापकशब्दस्य वक्तुं शक्यत्वात्। प्रतीत्यभावश्चेति। त्रयं विषयस्य वाच्यं, तच्चेति शेषः। तद्ज्ञानकार्यभ्रमविशेष्यत्वं तउज्ञाननिवर्त्यभ्रमविशेष्यतवं तदनुविद्धतया प्रतीत्यभावश्चेति त्रयं न संभवतीत्यर्थः। ज्ञानस्य स्फुरणकाले विषयाध्याससतवादाद्यद्वितीययोरसंभवः । अधिष्ठानस्यावृतत्वेन तदनुविद्धतया आरोप्यप्रतीति- र्वाच्या, सापि न संभवति; 'घटं जानामी'ति ज्ञानानुविद्धतयैव विषयप्रतीतेरिति तृतीयासंभव इति भावः। अस्त्येवेति। तथाच सद्ूप इव ज्ञानरूपेऽप्यनुविद्धतया विषयप्रतीतेस्तद्रूपं नाधिष्ठानम्, अपितु शुद्धचिद्रूपं पूर्णा- नन्दरूपम्; तदनुविद्धतया चाप्रतीतिरस्येवेति भावः ॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमाने अनुकूल- वर्कनिरूपणम्।।
अथानुकूलतकेनिरूपणम्। (१) तत्र न्यायामृतकारा :- सर्वस्यापि दृश्यस्य ब्रह्मात्मैकट्टगध्यस्तत्वेऽपि कस्यचित्कदाचित्किंचित्प्रति प्रकाशाय तत्तदाकारवृत्तिद्वारक एवानावृत- टग्संबन्धोऽन्गीकृतः; वृत्तिद्वारकसंबन्धात्प्राक् अध्यस्तरूपे संबन्धे सत्यपि दृश्याप्रतीतेः। एवंच विषयसत्यत्वेऽपि वृत्तिद्वार- अ. सि. ६०
Page 179
४७४ अद्वैतसिद्धिः । [परिच्छेद: १]
कस्य तत्संबन्धस्य संभवान्न दृश्यत्वं मिथ्यातप्रयोजकम्। घटाकारवृत्तिप्रतिफलितचैतन्येन घटप्रकाशोपपत्तौ घटाघिष्ठानचैत- न्यव्यत्त्यनपेक्षणादभिव्य क्तमघिष्ठानचैतन्यमेव प्रकाशकमिति वर्णनासंभवात्। नहि घटाधिष्ठानं शुद्धचैतन्यं ब्रह्मसाक्षात्कारा- त्पूर्वमभिव्यज्यत इति युक्तम्; घटावच्छिन्नचेतन्यं तु आत्माश्रयान्न घटाधिष्ठानमित्यमिव्यज्यमानेऽपि तस्मिन्घटादीनामन- ध्यासन्न दृग्दृश्ययोराध्यासिकसंबन्धः। यदितु घटावच्छिन्नचैतन्यमेव प्रकाशकं, तदेव सत्यत्वाधिष्ठानमात्माश्रयोऽपि न दोषायेत्युच्यते, तर्हि तादृशदृशो दोषाजन्यत्वेन प्रमालात् तद्विषयघटादयोऽपि सत्या इति दृश्यत्वं न सत्यत्वविरोधि। एतेन-दृग्दश्ययोः संवन्धो नेति वचनमपि-पराहतम्; गुणगुण्यादेः संयोगाभावेऽपि समवायवत् ज्ञानज्ञेययोः उभयासंभवेऽन्यस्य संभवात्, समवाये इचानुमानस्य प्रकृतेऽपि समलात्। तथाच प्रयोग :- (१) परस्परासंयुक्तास- मवेतविशेषणविशेष्यविषयकविशिष्टधीः, विशेषणविशेष्यतत्संबन्धविषयिका, विशिष्टधीलात्, दण्डीतिधीवत्, (२) उक्ता जन्यप्रमा, विशेषणविशेष्यसंबन्धनिमित्तका, अबाधितविशिष्टजन्यधीलात्, संमतवत् (३) विमता धीः, अवाधितविशे- षणविशेष्यसंवन्धविषयिका, अबाधितविशिष्टधीलात्, दण्डीति प्रमावत्। अत्रन्त् यथा पृथक्सिद्धयोर्युतयोरेव संयोग इति स्थितेऽपि अपृथक्सिद्धत्वादिनेव समवायः सिद्धति; धर्मिग्राह्कमानेनोक्तरूपसमवायस्यैव विषयीकरणादित्युच्यते, एवमत्रापि धर्मिग्राहकमानं संबन्ध्यभावज्ञेयविप्रकर्षो यथा न स्वस्य वाधकौ स्यातां, तथव सिद्धतीति संबन्ध्यभावो ज्ञान- ज्ञेययोर्विप्रकर्षों वा न वाधकः, अन्यथा (१) ध्वंसादेरतीतादिना (२) मिथ्यातलक्षणान्तर्गतस्याभावस्य प्रतियोगिना (३) वेदान्तनिष्ठतात्पर्यस्य ब्रह्मणा (४) जीवाध्रितस्याज्ञानस्याज्ञेयेन ब्रह्मणा (५) व्यवहारस्य व्यवहर्तव्येन ब्रह्मणा (६) मुमुक्षायाक्ष मोक्षेण (७) लदुक्त्दूषणस्य च दूष्येण (८) तद्वाक्यस्यचार्थेनासंबन्धात्खन्यायविरोधस्य, ज्ञानस्य ज्ञेयेन लद्वाक्योक्तसंबन्धाभावस्याज्ञानेन चासंबन्धात् स्वक्रियावचनविरोधस्य च समापत्तेः। एतेन-न्याये दृढे न्यायसाम्या- क्किमन्यदपि बाध्यताम्। न ममत्वं मुमुक्षणामनिर्वचनवादिनाम् ॥ इति खण्डनोक्तमपि-पराक्तम्; खव्याहृतस्य न्यायाभासतया न्यायदाढ्याभावात्, अन्यथा जातिवादिसाम्यापत्तेः । यदिच भावाभावादेः संबन्धान्तरमन्तरेण तद्विशिष्ट- व्यवहारजननयोग्यस्रूपात्मकः स्भावसंबन्धो वा असंबन्धरूपं प्रतियोगित्वादिकं वा नियामकं सत्संबन्धकार्यकारि, तर्हि प्रकृतेऽपि तथास्तु; भावाभावादेरपि संवन्धस्य मिथ्यातंतन्योन्याश्रयान्न सिद्धति; घटाभावे घटाभाव इत्यादो अभाव- समसत्ताकसंबन्धवत् ज्ञानसमसत्ताकसंबन्धस्येव ज्ञानज्ञेयसंबन्धलात्, अन्यथा श्रवणमननादीनां श्रोतव्यादिरूपेण ब्रह्मणा चरमसाक्षात्कारस्य च साक्षात्कर्तव्येन ब्रह्मणा तत्रानध्यस्तत्वेनासंबन्धापत्तेः । चरमसाक्षात्कारस्य ब्रह्मण्यध्यस्तत्वात् तद्विषयकत्वे घटसाक्षात्कारस्यापि ब्रह्मण्यध्यस्तत्वात्तद्विषयकत्वापत्तिः । अतएवहि तात्पर्यानध्यस्तस्य तात्पर्यसंबन्धः, मुमुक्षायामनध्यस्तस्य मोक्षस्य मुमुक्षासंवन्धश्चोपपद्यते; ज्ञाने संनिकर्षाधीनस्येव स्मृतावनुभवाधीनस्येवेच्छायामपि ज्ञानाधीनस्य विषयसंबन्धस्यानुभवात्। अन्यथा स्वविषयकज्ञानजन्यत्वस्यंवेच्छाया विषयेषु संबन्ध इत्यज्ीकारे घटपटाविति समूहालम्बनज्ञानजन्यायाः पटच्छाया घटीयत्स्य नित्येश्वरे्छाया निर्विषयत्वस्य पुत्रादिधीजन्यमुखादेः पुत्रादिविषयत्स्य चापत्तेः। एवंचच्छाया इव ज्ञानस्याप्यन्तरत्वेन प्रतीपरवैलक्षण्याद्विप्रकृष्टेनापरोक्षवृत्तेरिव संबन्धः संभवत्येव; प्रकाशत्वेनैव प्रतीपसाम्यं ज्ञानस्य विवक्षितं, नतु सर्वात्मना; अन्यथा प्रदीपे इव ज्ञानेऽप्याध्यासिकसंबन्धो न स्यात्। एवं न ज्ञाने ज्ञेय- स्याध्यासः। अतएवहि (१) तुच्छस्य पञ्चमप्रकाराविद्यानिवृत्तः भावाद्वेतमतेऽ्भावस्य च ज्ञाने, अपरोक्षैकरसे ब्रह्मण्यध्यस्त- स्याज्ञानादेः परोक्षानुभवे, स्मर्यमाणस्व स्मृतो, प्रातिभासिकस्य प्रातिभासिके भ्रमेचानध्यास उपपद्यते। युक्तं चैतत्- नहि स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानपूर्वस्य स्वस्य स्वोत्तरज्ञानेध्यास उपपद्यते; वृत्तेरेवाज्ञाननिवर्तकत्वेन प्रकाशकत्वेन साधि- ष्ानचतन्यप्रकाशताया अयोगात्। उक्तंच भवदीयेः, "घटोऽयमित्यसावुक्तिराभासस्य प्रसादतः। विज्ञातो घट इत्युक्तिव्रह्मानुभवतो भवेत् ॥।" इति घटानथिष्ठानचतन्येनव घटप्रकाश इति। किंच दृश्यल्ान्यथानुपपत्त्या मिथ्यातमित्य- र्थापत्तिविवक्षिता, उतानुकूलतर्कमात्रम्। नाद्य: आक्षेप्योपपाद कत्वप्रमाणाविरुद्धत्वाक्षेप कानुपपद्यमानततत्प्रमितल्रू- पार्थापतिसामग्रीषु नहि संवन्धिमिथ्यात्वं संबन्धसरूपोपपादकं भवति, किंतु तत्प्रतिकूलमेवेति प्रथमसामभ्याः, नापि- वाध्यस्तत्वरूपसंबन्धोऽद्यापि सिद्ध इति चतुर्थसामम्याः, स्वतःप्रमाणप्रत्यक्षसिद्धसंबन्धस्य विनैव बाधकं मिथ्यातायोगेन सत्यत्वंन संबन्धिमिथ्यात्वं विनाप्युपपद्यमानत्वेन तृतीयसामभ्याः, आक्षेप्यस्य मिथ्यात्वस्य प्रत्यक्षादिविरुद्धत्वेन द्वितीय- सामग्र्याक्वाभावेनार्थापत्तेरप्रसरात्। तद्यमाशयः-यद्याक्षेपकं दृश्यत्वं दृगध्यस्ततरूपं, तदा चतुर्थसामभ्यभावः, यदि दृग्विषयत्वरूपं, नदा तृतीयसामभ्यभावः, दृग्विषयत्वातिरिक्ताध्यासिकसंबन्धविशेषस्याप्रसिद्धा दृगधीनसिद्धिकत्वमपि तत्रैव पर्यवस्यतीति तत्रापि तृतीयसामम्यभाव एवेति। एतेनान्त्यपक्षोऽपि पराहृतः; उत्तरीत्या सत्वेऽपि दृश्यत्ोपपत्त्या प्रयोजकत्वातू। नचात्र सत्वं यदि स्यात्तर्हि दृश्यत्वं न स्यादित्यापादनं संभवति; अनिर्वाच्यलाभावरूपसत्त्ववतोऽपि तुच्छस्य दृश्यलानू, पारमाथिकत्वरूपसत्त्वस्यैवात्र विवक्षणेऽपि ब्रह्मणः स्वव्यवहृत्येव घटादीनामपि खज्ञानेन संबन्धोपपत्तेः। एवंच- शब्दबुद्धेरहि विषयो ब्रह्म तत्र न कल्पितम्। यथा, तथा दृग्विषयो दृश्यं दृशि न कल्पितम्। अविद्याविषयो ब्रह्माविद्यायां न कल्पितम्। यथा, तथा दशा ग्राहां न विश्वं दशि कल्पितम्॥
Page 180
[अनुकूलतर्कनिरूपणम् ] गौडब्रह्मानन्दीयुता। ४७५
इति दृग्दृश्येच्छेष्यमाणादेः नाध्यासिक: संबन्धः । किंत्न्य एव। सच पूर्वमनुमानेन साधितः संबन्धतलक्षणाक्र्का- न्तश्वेति न लक्षणप्रमाणाभ्यां वस्तुसिद्धिरिति न्यायविरोधः । विशेषसंज्ञा तु यथारुचि कल्प्येति न तत्र नो निवेशः । सर्वथा तु दृश्यत्वं न मिथ्यात्वप्रयोजकमिति सिद्धम्। ज्ञानविषयकत्वनिरुक्तिखण्डनं तु प्रकृतानुपयुक्तम्। नहि विषयत्वानिरुक्तिमा- त्रेण विषयमिथ्यात्वसिद्धिसंभवः, विषयित्वानिरुक्त्तायपि विषयिण इव सत्यत्वोपपत्तेः । प्रमाणज्ञानं ख्वविषयावरणेत्यादि- स्वोक्तिव्याघातश्च। नहि प्रमाणज्ञानविषयोऽध्यस्त इत्यध्यस्तविषयत्वस्यैवात्र ग्रहणमिति परास्तम्। वस्तुतस्तु- यादृशं विषयत्वं ते वृत्ति प्रति चिदात्मनः । तादशं विषयत्वं मे दृश्यस्यापि दृशं प्रति ॥ इति विषयस्य ब्रह्मण इव प्रपञ्चस्यापि सत्यत्मेव। किंच त्वयापि व्यावहारिकसत्वस्यासंकीर्णव्यवहारस्य च सिद्धर्थ विषयत्वलक्षणं वक्तव्यम्। असंकीर्णाकारज्ञानमात्रेणासंकीर्णव्यवहारोपपत्तिवर्णनं तु ममापि समम्। इयांस्तु विशेषः। तव स आकारः सद्िलक्षणः, मम परं सन्निति निरुच्यमानोऽपि स येन मानेन तव प्रातिभासिको मम तेन तातिकः। अस्तु वा दुर्निरूपत्वं लक्षणेन, नह्येतावता तालिकलम् ; अन्यथा- कीटृक् तत्प्रत्यगिति चेत् तादृगीदृगिति द्वयम्। यत्र न प्रसरत्येतत्प्रत्यगित्यवधारयेत्।। इति दुर्निरूपत्वेन भवता प्रतिपादितस्य ब्रह्मणोऽतालिकतायाः "यत्कटिनं सा पृथिवी"ति श्रौतलक्षणलक्षितायाः पृथिव्या एव तालिकतायाः, ब्रह्मणः आनन्दत्वज्ञानतसत्यत्वानां खण्डनोक्तरीत्या दुर्वचनत्वेन ब्रह्मणोऽनानन्दाद्यात्मकतायाश्च आपत्तेरिति सर्वमनवद्यम्-इति निरूपयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- अनावृतचतन्यस्यंव प्रकाशकत्वेन वृत्तेरावरणाभिभवेनैवोपक्षयात्, साक्षात्ससंसृष्ट्स्यव प्रदीपस्य प्रकाशकत्वेन वृत्तिद्वार- कपरंपरासंबन्धेन प्रकाशोपपादनासंभवेन, परोक्षविलक्षणस्फुटतरव्यवहारोपपत्त्यर्थ चतन्यस्याभिव्यक्तिकल्पनाया अप्यावश्य- कताद्ृत्तिप्रतिफलितचतन्येनैव विषयप्रकाशनोपपादनसंभवेन, घटाद्यघिष्ठानशुद्धचैतन्यस्य मूलाज्ञाननिवृत्तिलक्षणाभिव्यक्त: चरमसाक्षात्कारात्पूर्वमभावेऽपि तदीयावस्थाविशेषनिवृत्तिलक्षणाभिव्यक्तः संभवेनाभिव्यक्तन चैतन्येन घटादीनां नाध्या- सिक एव संबन्धोऽल्वीकरणीयः । एतेन-शुद्धचतन्यस्य घटाद्यधिष्ठानत्वे तस्य दोषाजन्यत्वेन प्रमात्वात् घटादीनामपि सत्यत्वसिद्धिरिति-पराहतम्; भ्रमेऽपि चतन्यस्य दोषाजन्यत्वेन दोषजन्यवृत्त्यवच्छिन्नत्वस्येव भ्रमत्वप्रयोजकत्वन प्रकृतघटादिज्ञानानामविद्यादोषजन्यवृत्त्यवच्छिन्नत्वेन प्रमालाभावात्। एवं गुणगुण्य।देः समवाय इव दृग्दश्ययोरनाध्यासि- कर्सबन्धस्याप्रामाणिकल्ान्न दृश्यत्वं सत्यत्वविरोधीति न्यायामृतीयानुमानान्यप्यर्थान्तरसिद्धसाधनादिग्रस्तानीति-सूचितम्; प्रथमे आध्यासिकसंबन्धस्यैव विषयत्वेनार्थान्तरात्। द्वितीये उक्तसंबन्धस्यव निमित्तत्वंन उक्तदोषात्परोक्षधीषु व्यभि- चाराच्। तृतीये-सर्वथाSबाधितधीविषयत्साधने दृष्टान्ते साध्यवैकल्यात्, अबाधितविषयत्वमात्रसाधने ब्रह्मज्ञानेत- राबाधितविषयतमादाय सिद्धसाधनाच। नहि युतसिद्धयोरेव संबन्ध इति नियमे मानमनुकूलतर्कों वाऽस्तीत्ययुतसिद्धयोरपि संबन्धस्य प्रमाणान्तरबाधितत्वात्समवायानुमाने न दोषः; अयुतसिद्धयोरपि संबन्धदर्शनेन युतसिद्धत्वस्य संबन्धाप्रयोज- कत्वात्। प्रकृतेतु देशकालाविप्रकर्षतदभावयोः संबन्धतदभावयोदर्शनेन व्यापकत्वेनावधृतस्य देशकालाविप्रकर्षस्यानुप- लब्ध्या व्याप्यसंबन्धोऽपि बाधित इति तातिकसंबन्धव्यापकानुपलब्धिरूपबाधसहकृतोक्तसंबन्धग्राहकानुमानस्याध्यासि- कसंबन्ध एव पर्यवसानेन न कोपि पर्यनुयोगः। ध्वंसादीनामप्यतीतादिनाऽध्यासिकसंबन्धस्येवान्गीकारात्। तस्य च संयोगादिवदतिरिक्तत्वे स्वरूपत्वे रूपान्तरत्वे वा नास्माकमभिनिवेशः । एवंच दृग्दृश्यसंबन्धानुपपत्त्या ज्ञेयमात्रस्याध्यासि- कत्वे सिद्धे तन्मध्यपतितं प्रतियोग्यभावादिसंबन्धमिथ्यातम्, न तु प्रतियोग्यभावादिसंबन्धमिथ्यालानन्तरं दृश्यमिथ्यात्- सिद्धिरित्यन्योन्याश्रयान्न स्ववचनविरोधादयः; व्यवहारोपयुक्तसंवन्धसामान्याप्रतिक्षेपात्। तदुक्तं खण्डनकृद्भि :- बाधे दृढेऽऽन्यसाम्यादिति। स्वक्रियाविरोधरूपप्रतिकूलतर्कनिराकरेण व्यापकानुपलब्धिरूपानुकूलतर्कप्रदर्शनेन संबन्धबाध- दार्ढ्यस्योपपादनान्न जातिवादिसाम्यापत्तेरवकाशः। घटाभाव इत्यादो आध्यासिकसंबन्धबाधादभावसमसत्ताकसंबन्धो- उद्गीकृतः, प्रकृतेतु न तथाऽद्गीकर्तु युज्यते। ज्ञानविषययोराध्यासिकसंबन्धे उक्ते मानसक्रियारूपश्रवणादिमिर्ब्रह्मसंबन्धो न स्यादित्यापादनं आम्रान् पृष्टः कोविदारानाचष्टे इति न्यायसममेवेति मन्तव्यम्। चरमसाक्षात्कारस्य तु ज्ञांनरूपस्यापि विषयेण ब्रह्मणाऽध्यासिकसंबन्धोऽद्गीकृत एवेति न दोषः। नचैतावता ब्रह्मणोऽप्यध्यस्ततवापत्तिः, विषयस्य विषयिण्यध्यास- नियमस्यास्माभिरनङ्गीकारात्। यथाचाध्यस्तत्वाविशेषेऽपि चरमसाक्षात्कारमात्रमेव ब्रह्मविषयकं, घटसाक्षात्कारस्तु न, अधिष्ठानचैतन्यरूपस्य साक्षात्कारस्यानध्यासात्, अध्यस्तस्य वृत्तिरूपस्य विषयताप्रयोजकाध्यासाभावात्, तथाऽन्यत्र विस्तरः । तात्पर्य हि तत्प्रतीत्युद्देश्यकत्वम्, तत्र प्रतीतेः ज्ञेयान्तरेणेव धर्मेणाप्याध्यासिक एव संबन्ध इति प्रतीति- द्वारा धर्मतात्पर्ययोः संबन्ध इति नानुपपसिः। इच्छायास्तु नेष्यमाणेन साक्षात्संबन्धः, किंतु ज्ञानद्वारक एव; सन्निकर्षा-
Page 181
४७६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
दीनामतीन्द्रियत्वेन तेषामनुमित्यादिनोपस्थिति विना ज्ञाने संबन्धानुभवाज्ञाने विषयसंबन्धः साक्षादित्यङ्गीकारेऽपि ज्ञाना- धीनसंबन्धान्तरस्येच्छायामननुभवात् ज्ञानद्वारकसंबन्धेनैव तत्रोपपत्त्याऽतिरिक्त्तसंबन्धकल्पने मानाभावादिति मुमुक्षाया मोक्षसंबन्धोऽपि व्याख्यातः । जनकज्ञाने जनकतावच्छेदकविषयत्वस्यैवेच्छायां संबन्धतादीश्वरेच्छायाश्राजन्यायाः अनङ्गीकाराच्च न पूर्वोक्तदोषप्रसङ्गः । ज्ञानेच्छयोरिव सुखादावपि सविषयत्प्रतीतिस्तु वस्तुस्वाभाव्येनैव परिहरणीया। अन्यथा स्फटिकमणाविव लोष्टेऽपि लौहित्यप्रतिफलनापत्तेः । एतेन-इच्छाया इव ज्ञानस्यापि विप्रकृष्टेनापि संबन्धः परोक्षवृत्तेरिव विषयेणेति शङ्काऽपि-परिहता; परोक्षस्थले व्रृत्तिनिर्गमनाभावेनागत्या तथाऽ्न्गीकारात्। एवंच ज्ञाने ज्ञेयस्याऽध्यासिक एव संबन्ध इति सिद्धम्। तुच्छस्याज्ञेयत्वेन पश्चमप्रकाराविद्यानिवृत्तेः भावाद्वतस्य चानभ्युपगमपराहत- त्वेन अतीतादेरपि स्वाकारवृत्त्यवच्छिन्नाधिष्टानचैतन्येऽध्यासेनच न्यायामृतीयापत्तीनां नावकाशः; रजतादीनामपि स्वाका- खवृत्त्यवच्छिन्नचैतन्यामिन्नेदमवच्छिन्नचैतन्ेविषठ नम्िषा नाा्म्येनेवरो्यप्रतितेन ज्ञानं रजतं इत्याकारप्रस्श्ति
दतः। विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेदि"ति सुरेश्वराचार्यवचनविरोधोऽपि परिहृतप्राय एवेति घटानघिष्ठानचैत- न्येनैव घटप्रकाशवचनं निरालम्बनमेवेति दृग्दृश्यसंबन्धस्याध्यासिकलात् तादृशसंबन्धान्यथानुपपत्त्या सत्यत्वं दृश्यत्वे न स्यादित्यनुकूलतर्केण वा प्रपश्चमिथ्यात्वं सिद्धमेवेति मन्तव्यम्। यद्यपि अनुकूलतर्कनिरूपणमेवात्र प्रकृतमित्यर्थापत्तिप्र- माणं नात्र निरूपणीयम्; तथापि अर्थापत्तिर्वानुकूलतर्को वेति विकल्पेनोभयस्यापि दूषणात्तदुक्तिखण्डनार्थमुभयमप्यत्र समर्थतमिति मन्तव्यम्; तथाहि-शुक्तिरूप्यसंबन्धिमिथ्यात स्येदमंशेऽध्यस्तत्वरूपसंबन्धोपपादकत्ववत्प्रकृतेऽपि दृश्यमि- ध्यालस्य दृश्यसंबन्धोपपादकत्वेन प्रथमसामम्याः रूप्यस्य शुक्तिरिति प्रतीत्यभावेऽपि रूप्यस्य शुक्तिरघिष्ठानं इति प्रतीतिस- त्वेनाध्यस्तत्वस्यापि संबन्धविशेषत्वसिद्धा दृक्संबन्धसामान्यस्याक्षेपकस्य प्रसक्तविशेषनिषेधेऽध्यस्ततरूपविशेषे पर्यवसानेन चाध्यस्तत्वस्याद्याप्यसिद्धभावेन चतुर्थसामम्याः, अध्यक्षादिविरोधस्य प्रागेव परिहृतत्वेन श्रुतिबोधितत्वेन प्रपश्चसात्यतासंभ- वेन मिथ्यात्वं विना अनुपपाद्यमानत्वेन तृतीयसामम्याः, आक्षेप्यस्य मिथ्यात्स्य प्रत्यक्षविरोवाभावेन द्वितीयसामय्याश्च सत्वेन नार्थापत्तिप्रमाणस्यान्राप्रवृत्तिः। यदित्वाक्षपकस्याध्यस्तत्वस्य संभावनायामि न प्रमिततमुच्यते, तर्हि प्रतिबिम्बेन बिम्बाक्षेपदर्शनान्नाक्षेपकस्य प्रमितत्वं साधनमिति मन्तव्यम्। एतेन-अनुकूलतर्कंपरतयाप्युक्तग्रन्थयोजनसंभव इति- सूचितम् ; सत्यत्वे दृश्यत्वानुपपत्तेरुक्तत्वात्। दृश्यत्ाभावस्यापादकं च सत्त्वं अनिर्वाच्यलाभावो वा त्रिकालावाध्यलरूपं वोभयथापि न दोषः। तुच्छे दृग्विषयत्वरूपदृदश्यत्वस्याभावात् तुच्छाकारतस्य वृत्तिगतत्वेऽपि तुच्छे वृत्तिसंबन्धाभावोप- पत्तेश्च। एतेन-शाब्दवृत्तिविषयस्याविद्याविषयस्य च व्रह्मण उक्तवृत्त्यविद्ययोरिव विश्वस्यापि दृग्विषयस्य दृश्यकल्पितत्वो- पपत्तिरिति-परास्तम्; वृत्त्यविद्ययोर्ब्रह्मणोऽनध्यासेऽपि तयोरेव ब्रह्मण्यध्यासेन संबन्धोपपत्तिवदत्रोपपत्त्यसंभवात् । अतएव-अप्रामाणिकस्य संबन्धस्य लक्षणानपेक्षणेन लक्षणनिर्वचनाद्यन्यथाऽनुपपत्त्येव संबन्धप्रामाणिकत्वसिद्धिरिति शहाऽपि-पराहता; तत्वावेदकप्रामाण्याभावेऽपि व्यावहारिकप्रामाण्यान्जीकारेणानुपपत्त्यभावात्। तालकप्रामाण्यस्ये- वात्रास्माभिरपि निराकरणात्। यथाहि कल्पिताविद्यायाः साक्षात्कारस्य च ब्रह्मण्याध्य।सिक एव संबन्धः, एवं कल्पितस्य प्रपञ्चस्यापि दृशि आध्यासिक एव संबन्ध इति निरूपणं हि विषयानिर्वाच्यत्व एव सिद्धतीति विषयत्वनिर्वचनखण्डनमपि प्रकृतोपयुक्क्तमेव । विषयित्वानिरुक्तावपि विषयाध्यासेनैव विषयित्वोपपत्या नित्यदृश्यस्यानध्यासेन सत्यल्ोपपत्तावपि विषयस्य तत्वाप्रसन्गात्। एवंच चिदात्मनोऽनध्यासेऽपि तत्र विषयत्वस्य समर्थनात् "यादृशं विषयत्वत" इति वचनं- परास्तम्; नहि अनिर्वचनीयत्वमात्रेणातालिकत्वम्, किंतु सत्वेनानिर्वचनीयत्वेनेति सद्रूपेण निर्वचनीयस्य ब्रह्मणो नातात्विकत्वापत्तिः । एतादृशं तु निर्वचनीयत्वं प्रपश्चस्य न संभवति; बाधकसत्वादिति कठिनस्पशवस्वादिति कठिनस्पर्श- वत्त्वादिना निर्वचनीयस्यापि पृथिव्यादेन तालिकत्वसिद्धिरिति सर्वमनवद्यम्-इति वर्णयन्ति। (३) तरङ्गिणीकारास्तु- सर्वव्यापिनश्चैतन्यस्याविद्यावृतस्य वृत्याऽSवरणे निवृत्तेऽनावृतेन चैतन्येन सत्यानामेव घटादीनां भानसंभवेनाध्यासिक- संबन्धकल्पनं व्यर्थमेव; आवश्यकेन्द्रियजन्यवृत्तिप्रतिबिम्बितचतन्येनैव स्फुटतरव्यवहारस्याप्युपपत्तेः । नचाधिष्ठानचैतन्य- मेवाधिष्ठेयस्य प्रकाशकं भवति; ऐन्द्रिथिकवृत्त्या शुद्धचतन्यरूपाघिष्ठानावारणानिवृत्तेः; एकावरणनिवृत्तावप्यावरणान्तरसत्वेन घटादघिष्ठानचेतन्याभिव्यत्तयसंभवात्। शुद्धचैतन्यस्य दोषाजन्यत्वेन ज्ञानरूपतद्विषयाणां घटादीनामपि सत्यल्ापत्त्या शुद्धािष्ठानताया एव भन्गापत्तेः; दोषाजन्यवृत्त्यवच्छिन्नचैतन्यस्यैव प्रमात्वेऽपि घटाद्याकारवृत्तेः संभावितेन्द्रियदोषाजन्य- लात् अखण्डाकारवृत्त्यादीनामपि अ्रमत्वापत्त्याऽविद्याया ज्ञानसामान्यदोषत्वेन तद्रूपदोषजन्यत्ाच्चोक्त्तदोषापरिहाराध्। न हि प्रामाणिकस्य संबन्धस्यातालिकत्संभवः । साधितं च तत्वमनुमानत्रयेण न्यायामृतकारेः। तत्र प्रथमानुमाने तालिकसंबन्धवाधे एवाध्यासिकसंबन्धसंभावनासंभवेन बाधपर्यन्तं तदसंभवेनाध्यासिकसंबन्धमादायार्थान्तरस् द्वितीयानु-
Page 182
[अनुकूलतर्केनिरूपणम्] गौडब्रझानन्दीयुता। ४७७
माने तस्यैव निमित्ततसंभावनामादायार्थान्तरस्य तृतीयानुमाने आनन्दस्य स्फुरणस्य ब्रह्मणो वा या सत्ता तद्वतः संबन्धस्य सिध्या संबन्धिसमसत्ताकविशेष्य विशेषणसंबन्धविषयलरूपसाध्यस्यासिद्धत्वेन सिद्धसाधनस्य सिद्धिग्रन्थापादितस्यान्नाप्र- सक्केः। पृथक्सिद्धसंबन्धिविषयकत्वस्य संबन्धविषयकव्यापकस्य निघृत्तावप्यपृथक्सिद्धिर्यथासमवायानुमानस्य बाधिका; निरुक्कस्य व्यापकस्य निवृत्त्या पक्षे साध्याभावसिद्धेः, पक्षे साध्याभावसिद्धी च व्यमिचाराभावेन निरुक्त्व्यापकत्वसिद्धिरित्य- न्योन्याश्रयात् ; तथा प्रकृतेऽपि देशकालाविप्रकर्षव्यापकसिद्धिः पक्षे साध्याभावसिद्यधीना; तद्यापकत्वसिद्धधीना च पक्षे साध्याभावसिद्धिरित्यन्योन्याश्रयान्न किंचिदपि बाधकम्। वस्तुतस्तु-देशकाल।विप्रकर्षो न तात्विकसंबम्धव्यापकः देशकालाविप्रकषवतीषु सपत्नीपु तालिकसंबन्धदर्शनात्। देशकालाविप्रकृष्टानां गोगोमतामपि तालिकसंबन्धदर्शनाच्चेति मन्तव्यम्। अस्तुवा कथंचिदपि विषयत्वमिथ्यात्वम्; एवमपि विषयमिथ्यात्वं न सिद्यति; तार्किकाणां मते नित्यविभुद्र- व्याणां संयोगस्य मिथ्यात्वेऽपि नित्यविभुसत्यतवदर्शनेन संबन्धमिथ्यातस्य संबन्धिमिथ्यालाप्रयोजकलात्। तत्र तालिक- संबन्धान्तरस्यापि सत्वात् प्रकृते च तस्यासंभवात् न दोष इति चेत्, मिथ्याभूतसंयोगप्रतियोगिनोः दण्डचैत्रयोरपि मिथ्यात्वापत्त्या तयोरेव दृष्टान्तत्वमत्र विवक्षितम्। एवंच क्वचित् संबन्धमिथ्यात्वे रजतादिसम्बन्धिमिथ्यातसाहचर्य- मात्रेणोक्तनियम कल्पनं न शोभावहमिति मन्तव्यम्। एतेन-ज्ेयमिथ्यातसिद्धर्थ इच्छादिषु क्ृप्तविषयविषयिभावपरि- त्यागेन ज्ञानज्ञेययोराध्यासिकसंबन्धकल्पनमपि विफलमिति-सूचितम्; संबन्धमिध्यात्वस्य सम्बन्धिमिथ्यात्ाप्रयोजक- कत्ात्। अन्यथा ब्रह्मणोऽपि साक्षात्कारादिनाऽध्यासिकसंबन्धवलात् मिथ्यात्वस्याबिषयत्वस्य वाऽऽपत्तेः साक्षात्कारा- ध्यासाधिष्ठानत्वेन ब्रह्मणस्तद्विषयत्वे घटादिसाक्षात्कारस्यापि ब्रह्मविषयकत्वापत्तिः । एवंचाध्यासविशेषस्य तदीयताप्रयोज- कत्वकल्पनापेक्षयेच्छादिषु क्वप्ततालिकविषयत्वस्यैव तत्प्रयोजकत्वकल्पनमेव युक्त्तम्। अतएवहि तात्पर्यस्य धर्मादि- संबन्ध उपपद्यते। अन्यथा प्रतीतिद्वारकपरंपरासंबन्धेन तत्संबन्धकल्पने घटादीनामपि तदापत्तेः । एवं ज्ञाने ज्ञेयस्याध्यास एव संबन्ध इति वचनमसंगतमेवेति तालिक एव संबन्धो ज्ञानज्ञेययोरिति सिद्धम्। अतीतादेर्ज्ञानंहि न तदधिष्ठानचैत- न्यमात्रं; किंतु अनुमित्यादिवृत्त्यवच्छिन्नमिति तत्रानाद्यध्यासादर्शनेन भवदीयनियमस्य व्यमिचरितलवात्। अतएवहि रूप्याकारवृत्त्यवच्छिन्नचैतन्येन रूप्यस्य सम्बन्ध उपपद्ते। वस्तुतो वृत्तिद्वयावच्छिन्नचैतन्यस्यैक्येऽपि एकैकवृत्त्याद्यवच्छि- न्नत्वेनाधिष्ठानज्ञानत्वेन रूप्यज्ञानत्वेन च व्यवहारात् चैतन्ये सत्यत्वज्ञानानिवृत्तेः वृत्यां सत्यां च तन्निवृत्तेवृत्त्यतिरिक्तज्ञाने न मानमस्ति; वृत्त्युदयात्पूर्वमपि योगिवृत्त्यन्तरसत्वेन वृत्त्युदयात्पूर्व घटादिसिद्धिसंभवादिति-"घटोऽयमित्यसावुक्तिराभा- सस्य प्रसादतः। ज्ञातो घटोऽयमित्युक्ति: ब्रह्मात्मानुभवतो भवेत् ।" इति सुरेश्वरवचनमत्रेवानुकूलम्। एवंच दृश्यत्वा- न्यथानुपपत्त्या मिथ्यात्सिद्धिरित्यर्थापत्तिसभर्पणार्थत्वं सत्यत्वं यदि स्यात् तर्हि दृश्यत्वं न स्यादित्यनुकूलतर्कसमर्पणार्थत्वं नोभयमपि प्रकृतग्रन्थस्य न संभवति। संबन्धस्यह्यन्यत्र कप्तसत्यसंबन्धिकत्वेनेवाक्षेपकता, नत्वक्वप्ताध्यस्तत्ादिरूपेण तथान्वयेन रूपेण तदाक्षेपकता, तद्रूपाक्रान्तस्याक्षेप्यसंबन्धिमिथ्यात्वं प्रति प्रातिकूल्यमेव प्रथमसामध्याः, ज्ञेयज्ञानसंबन्ध- सामान्यव्यवहारे ज्ञेयज्ञानयोः षष्ठीप्रथमान्ताभ्यां निर्देशवत् अध्यस्तत्वरूपविशेषसंबन्धव्यवहारेऽव्यस्तस्य षष्न्तेनाघिष्ठा- नस्य प्रथमान्तेन च निर्देशापत्तिः, नतु तथास्ति; रूप्यस्य किंचिच्छुक्तिरिति संबन्धसामान्यं प्रति रूप्यस्याधिष्ठानं शुक्तिरित्यस्य विशेषत्वेऽपि ज्ञेयज्ञानसंबन्धं प्रति विशेषत्ाभावादित्यद्याप्यध्यस्तत्वस्यासिद्या सिद्धावपि प्रमितानेकवस्तुबाधस्यायोगेन एकदश्यबाधस्यैवाङ्गीकार्यत्ात् प्रमितलाभावेन प्रतिबिम्बस्य लन्मतेऽपि सत्यतादसत्यत्वेऽपि तज्ज्ञानस्यैव बिम्बाक्षेपकत्वेन चाक्षेपकस्य प्रमिततवमनपेक्षितमिति च चतुर्थसामभ्याः, प्रत्यक्षप्राबल्यस्य पूर्वमुपपादितत्वेन तृतीयद्वितीय सामभ्योश्वाविद्य- मानतादर्थापत्तिप्रमाणस्यात्र प्रवृत्त्यसंभवात्। वृत्तिसंबन्धातिरिक्त्दृश्यत्स्य घटादावप्यभावेन तुच्छाकारताया वृत्तिगतत्वे तुच्छेऽपि वृत्तिसंबन्धस्यावश्यकत्वेनचानिर्वाच्यताभावादिरूपसत्त्ववति तुच्छेऽपि दृश्यत्वसत्वेनोक्ततर्कस्यानुकूलत्ाभावाच्च। एवंच विषयिण्यां शाब्दवृत्तौ विषयस्य ब्रह्मण इव विषयिण्यां वृत्तौ घठस्यापि नाध्यस्तत्वसिद्धिः। ज्ञानविषययोः संबन्धः किमनिर्वाध्यमायाप्रयुक्क्तः, उत सत्यभूतेश्वरशक्तिप्रयुक्त इति विचारणायां द्वितीयपक्ष एव समादरणीय इति ज्ञेय- ज्ञानसंबन्धस्तालिक एवेति सर्वमनवद्यमिति-इति निरूपयन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- मनोवच्छिन्नचितो जीवतपक्षे तस्य जगदनुपादानत्वेन विषयतादात्म्याभावेऽपि ब्रह्मण एव जगदुपादानत्वेन विषयता- दात्म्यात् विषयप्रकाशकं तादात्म्यमस्त्येव; वृत्तिस्तु विषयभासकब्रह्माभेदामिव्यत्तयर्थेति वृत्तिप्रतिबिम्बितचैतन्येन वृत्त्या वा विषयप्रकाशस्य स्फुटतरस्यासंभवेन दृग्दश्ययोराध्यासिक एव संबन्धोऽ्ग्गीकरणीयः । वृत्तिमात्रस्य स्फुटतरव्यवहाराजन- कत्वेनापरोक्षत्वेन तज्जनकत्वस्य वक्तव्यत्वादपरोक्षलस्य चानावृतचित्तादात्म्यविषयकत्वाल्लाघवेन चित्तादात्म्यस्यैव तस्य युक्तलात्। अतएवहि सुखादिप्रकाशोपपत्तिः। यथाच घटाद्याकारवृत्तेरविद्यादोषजन्यत्वत् वेदान्तवृत्तेरपि तथात्वेऽपि ब्रह्माबाधोपपत्तिस्तथा पूर्वमेव चतुर्थमिथ्यातादिप्रकरणे स्पष्टमेव निरूपितमिति न शुद्धचैतन्याधिष्ठानतायां घटादिसत्यलाद्या
Page 183
४७८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
अथ प्रतिकर्मव्यवस्थोपपत्तिः । ननु-विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीनायाः प्रतिकर्मव्यव- स्थायाः अनुपपत्तिरिति-चेन्न; वृत्ते: पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकस्थलापेक्षया वैलक्षण्यात्। तथाहि-अन्तःकरणं चक्षुर्व त्तेजोवयवि। तञ्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति। यथा नद्यादयुदकं प्रणाड्या निःसृत्य केदाराद्याकारं भवति, सैव वृत्तिरित्युच्यते। तत्र जीवचैतन्यमविद्योपाधिकं सत् सर्वगतं अन्तःकरणोपाधिकं सत् परिच्छिन्नमिति मतद्यम्। गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रतिकर्मव्यवस्थायाः कस्य चित्पुंसः कदाचिदेव कश्चिदेव विषयो ज्ञानकर्म, न सर्वस्य सर्वदा सर्व इति प्रति- नियतकर्मव्यवस्थाया:। चक्षुर्वदिति। तथा च यथा चक्षुः तेजस्त्वात् प्रभावत् शीघ्रं दूरस्थसूर्यादिसंयुक्तरूपेण परिणमते, तथा मनोपीति भावः । यथा नदीत्यादि। यथा नदीजलं नद्या आवेभक्तमेव केदारादिना संयुज्यते, तथा देहादविभक्तं मनः विषयेणेति भावः। सर्वगतमिति। यथा गोत्वादिजातिः स्वरूपादिसंबन्धेन सर्वगतापि गवादिव्यक्तावेवाभिव्यक्तत्वात् तत्रैव समवायेन वर्तत इति प्राचीनतार्किकादय आहुः, तथा जीवः सर्वतादात्म्यविशिष्ट- पातः । नहि ज्ञानज्ञेययोः संबन्धः प्रामाणिकः, येन तातिकः स्यात्। उक्तानुमानेषु सवत्ाननुगमेन साध्याप्रसिद्धेः, संश- यरूपतत्प्रसिद्धेः पक्षे संभवेऽपि व्याप्यनिश्चयस्य ज्ञातो घट इति चाक्षुषादिप्रमायां स्वरूपासिद्धिबाधाभ्यां संबन्धांशे परोक्षे व्यमिचारात्। पक्षतावच्छेदके लौकिकमानसापरोक्षत्वनिवेशे चाक्षुषादौ साध्याप्रसिद्धेः, मन्मते आश्रयासिद्वेश्वापत्या संबन्धांशे सर्वविषयांशे चिद्विषयांशे वा लौकिकापरोक्षलनिवेशायोगेन प्रथमद्वितीयानुमानयोः परोक्षे व्यभिचारस्य, ज्ञान-
विवक्षणासंभवेन तृतीयानुमाने सिद्धसाधनस्य च प्रसद्गात्। यथा मेरुविन्ध्ययोभिन्नदेशावच्छिन्नयोरेक काला ्वच्छे देना काव - च्छेदेनापरस्य संबन्धो न भवति, एवं भिन्नकालीनयोः ज्ञेयज्ञानयोरप्येकावच्छेदेनापरम्य संबन्धो न भवतीति तदीयकालि काधिकरणतावच्छेदकरूपविप्रकरषाभावः संबन्धव्यापक इति तदभावान्न ज्ञानज्ञेययोस्तालिकसंबन्धः । उक्तरूपो हि विप्र- कर्षो गोगोमादिषु विद्यते चेदप्युक्तरूपसंवन्धोऽपि नास्तीति न व्यभिचारः। सपल्नीयु तु उत्तरूपविप्रकर्ष एवं विद्यत इति न व्यभिचारः; एवंच संबन्धिनोविप्रकर्षात् संबन्धमिथ्यात्वे निद्धे तदुपहितरूपेण संवन्धिनोरपि मिथ्यातान्मिथ्याभूतसंयो- गोपहितत्वेन शुद्धरूपेण वा ज्ञेयत्वेन दण्डचत्रयोरपि मिथ्यात्वमिष्टमेव; ज्ञानस्य तु शुद्धरूपेणाज्ञेयत्वेनामिथ्यात्ादधिप्ठानतसं- भव इति न दोषः। इच्छायां स्वविषये सोपधायकज्ञानविषयतमेव संबन्धः, नतु साक्षाद्वटादिविषयत्म्; "अविरुद्धविशेष- णद्वयप्रभवत्वेऽपि विशिष्टरूपयोः । घटते न यदेकता तदा सुतरां तद्विपरीतरूपयो"रिति संक्षेपशारीरकवचनं हि एकदेशस्थो- पाधिद्वयावच्छिन्नयोरात्यन्तिकभेदमेव निराचष्टे, नतु तादात्म्यमपीति रूप्यादीनां स्वार्वच्छिन्नचैतन्येऽध्यासस्य विद्यमानत्वेन ज्ञाने ज्ञेयाध्यास: कुत्रापि न व्यमिचरति; वृत्तेजंडत्वेन मिथ्यात्वेन च मोक्षानन्वयित्ादप्रकाशमानसुखरूपमोक्षस्यापुरुषार्थ- त्ाच्च सप्रकाशचिद्रूपत्वं मोक्षस्यावश्यकम्, सेव च नित्यत्वादेकत्वाच्च वृतत्युपहिता सती ज्ञानम्, तदा ज्ञातमिदानी ज्ञातं घटो ज्ञातः पटो ज्ञात इत्यादिप्रत्ययानामनुगतकविषयकत्वानुभवोऽप्यन एवोपपद्यतेः वृत्तेरपि सवप्रकाशत्वे सुखं भातीत्यादौ चित्तादात्म्यं वृत्तिर्भातीत्यादो वृत्तितादात्म्यं प्रयोजकमिति कल्पनागारवापत्तेरिति जगत्तमोनाशमुददिश्य न कस्यापि प्रवृत्तिः स्यात्, घटाज्ञानस्य प्रमाणज्ञानासंभवादिति साक्षिरूपं चतन्यमेव ज्ञानमित्यङ्गीकरणीयत्म्॥ घटोऽयमित्यसावुक्तिरा- भासस्य प्रसादतः । विज्ञातो घट इत्युक्तिर्त्रह्मानुभवतो भवेत्॥ इति वचनं सिध्युक्तरीत्यैव व्याख्येयम। एवंचार्थापत्तिसम- र्पणार्थत्वेनानुकूल तर्कसमर्पणार्थत्वंन वोभयथापि प्रकृतग्रन्थयोजने न किमपि बाधकमुत्पश्यामः । यथाहि जीविनो देवदत्तस्य गृहासत्वं बहिःसत्वं विनाऽनुपपत्नमिति धीः, उपपादकस्य वहिःसत्वस्य देवदत्तेऽर्थापत्तिरूपे ज्ञानविशेषे कारणम्, जीविनो देवदत्तस्य गृहासत्वज्ञानं पूर्वनिश्चितजीवनगृहसतवनियमयोः संशयाहितजीवनसंशयद्वारा कारणं; तथा प्रकृत दृग्दृश्ययोरन्य- सरमिथ्यात्वं विना संबन्धोऽनुपपन्न इति ज्ञानं पूर्वानिश्ितयोः 'दृग्दृश्ये संबद्ध एव' 'तयोः संबन्धः स एवे'ति नियमयोः संशयाहितं दृग्दृदये संबन्धेन वति संशयं दूरीकृत्य विप्रकर्षहेनुकः तयोः संवन्धाभावनिश्चयः तत्संशयो वा कारणमिति संधन्धिमिथ्यात्वं न संबन्धमिथ्यात्वप्रतिकूलमिति अ्थापत्तिप्रमाणप्रशनेरप्रत्यूहल्वात्, यथा वृत्तो तुच्छाकारता वृत्तिकालाव- चिछिन्ना नैवं तुच्छे वृत्तिसंबन्धो वृत्तिकालावच्छिन्नः; तुच्छस्य कालासंबन्धितात्। उक्तहि-माध्वादिमिरपि ध्वंसादावेव प्रतियोग्यादे: संबन्धो नतु प्रतियोग्यादों ध्वंसांदेरिति। सत्यत्वं यदि स्यान तहिं दृश्यत्वं न स्यादित्यापादनस्येष्टापत्तिप्रस्तत्ा- भावेनानुकूलत्कस्याप्यप्रतिभटलात्। यथाचंश्वरस्य सत्यभूनता मायातिरिक्ता शक्तिरन प्रामाणिकी तथोत्तरत्र स्फुटीकारेष्यामः इति सर्वमनवद्यम्-इति व्यवस्थापयन्ति॥
Page 184
[प्रतिकर्मव्यवस्था] गौडब्रह्मानन्दीयुता। ४७९
तत्राद्ये विषयप्रकाशकं जीवचैतन्यं। द्वितीये ब्रह्मचैतन्यम्। आद्े पक्षेऽपि जीवचैतन्यमविद्यानावृतं आवृतं च । तत्राद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था। द्वितीयेत्वावरणामिभवार्था। परिच्छिन्न- त्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतद्धिष्ठानचैतन्या मेदाभिव्यक्त्यर्था।अनाधृतत्वपक्षे हनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः; असङ्गत्वात्, यथा गोत्वं सर्वग- तमपि सास्नादिमद्यक्त्याSमिव्यज्यते, न तु केसरादिमद्यक्त्या; यथावा प्रदीपप्रभा आकाशगन्धर- सादिव्यापिन्यपि तान्न प्रकाशयन्ती रूपसंसर्गितया रूपमेव प्रकाशयति तद्वत्; केवलान्यदाह्यस्यापि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। चित्तादात्म्यादिसंबन्धेन सर्वगत इत्यर्थः। जीवचैतन्यमिति। जीवस्य जगदुपादानत्वे स एव भासकः । तस्य तदभा- वपक्षे तु तदुपरक्तमधिष्टानचैतन्यमेव भासकम्। वक्ष्यते हि-'अधिष्टानचिदेव भासिका, प्रकाशस्य साक्षात्स्वसंबन्ध- भासकत्वा'दित्यादि। तथाचाद्ये जीवोऽपि भासकः, द्वितीये ब्रह्मैवेत्यथः। अनावृतमावृतंचेति। जीवस्य जगदुपा- दानत्वपक्षे मनआदेरिव घटादेरपि सर्वस्य व्यवहारकाले भातीतिव्यवहारापत्या मन आद्यवच्छदेनानावृतमपि घटाद्यव- च्छेदेनावृतं जीवचतन्यम्, तस्य जगदनुपादानत्वपक्षे तु वक्ष्यमाणस्य भासकतानियामकसंबन्धस्य कादाचित्कतवादेव घटादेरुक्तव्यवहारे कादाचित्कत्वसंभवादनावृतमेव तदिति भावः। उपरागार्थति। स्वप्रतिबिम्बाश्रयवृत्तिसंश्रलेषार्थ- त्यर्थः । वृत्तेः संश्रेपस्तु संयोगादिराकाराख्यविपयता चेत्युभयरूपो बोध्यः। रूपाकारवृत्तेः संयुक्तसमवायस्य रसादावपि सत्वाद्विपयतानिवेशः । परोक्षवृत्या रूपादर्भानवारणाय संयोगादिनिवेशः । उक्त्तोभयस्थाने अवच्छेदकता निवेश्यते। सा चन परोक्षवृत्तेः; न वा रसादौ रूपाकारवृत्तेः, वृत्यवच्छेद कत्वस्येन्द्रियसन्निकर्पादिसामग्रीनियम्यत्वादिति तु वस्तु- गतिः। द्वितीये त्विति। तुशब्दादुपरागार्थत्वव्यवच्छेदः। जीवस्योपादानत्वे घटाद़ौ तादात््यरूपोपरागस्य सिद्धत्वा- दिति शेपः। आवरणाभिभवार्थेति। एवकारः शेपः। तेनोपरागार्थत्वपक्षेऽप्यावरणाभिभवार्थत्वलाभः। ब्रह्माकार- वृत्तेर्हि नोपरागार्थत्वम्; साक्षिणस्तादात्म्यरूपोपरागस्य ब्रह्मणि वृत्ति विनापि संभवात्। न हि वृत्तिघटित एवोपरागः सर्वत्रापेक्ष्यते; अविद्यातद्वत्तिपु मनस्तत्परिणामेपु च तदभावात्। अथवा साक्षिणः प्रतिबिम्बमेव सर्वत्रोपरागे- डपेक्ष्यते। मनआदाविव मनसत्वादावपि वृत्ति विनापि साक्षिणः प्रतिबिम्बं स्वीक्रियते। घटादावपि वृत्तिसंश्िष्टे साक्षिण: प्रतिबिम्बं स्वीक्रियते। अतएव स्वल्पजलादिसंयुक्तमृदादौ सूर्यादिप्रतिबिम्बमनुभूयते। नच-जलादावेव तत्प्रतिबिम्बं न नु मृदादाविति-वाच्यम्; जलादियुक्तमृदाद्यन्तर्गततया सूर्यादे: प्रत्ययात्। तथाच वृत्ति विना ब्रह्मणि साक्षिणः प्रततिबिम्बरूपोपरागाभावादुपरागाथैव सर्वत्र वृत्तिः प्रथमपक्षे इति भावः । अभेदाभिव्यक्त्यथति। मनोऽनवच्छेदप्रयुक्तं भेदं विपयावच्छिन्नब्रह्मचैतन्यनिष्टमनोवृत्तिर्नाशयति। स्वत एव मनोऽवच्छिन्नस्य सुखाधवच्छि- अ्ब्रह्म चतन्यस्य तु सुखादिभासनाय न वृत्त्यपेक्षा। मनोऽवच्छिन्नस्यापि ब्रह्मणो धर्मादेश्चावृतत्वादेव न भानम्। अव एव ब्रह्मणि वृत्तिर्न जीवाभेदाभिव्यत्तयर्था, किंत्वावरणाभिभवार्था। उक्तंच सिद्धान्तबिन्दौ-'जीवस्य जगदुपा- दानतवे आवरणाभिभवार्था, ब्रह्मणस्तत्वे तु आवरणाभिभवार्था प्रमातृचिदुपरागार्था चे'ति। ब्रह्मण्यावरणाभिभवार्था अन्यत्र प्रमानुपरागार्थेति द्वितीयकल्पार्थः । नन्वभेदार्थेत्येव वनुमुचितम्; लाघवात्, किमित्यभेदाभिव्यक्तयर्थेत्यु- क्तम् ? उच्यते: रूपाद्याकारवृत्या रसाद्यवच्छिन्नचिति प्रमान्नभेदेऽपि 'मया रसः साक्षात्क्रियत' इति व्यवहाररूपा- भेदाभिव्यक्तयभावात् यदाकारा वृत्तिस्तदवच्छिन्नचितस्तत्साक्षात्कारत्वेन व्यवहार :; पूर्वोक्ततदीयसंश्रेषविशिष्टवृष्य- वच्छिन्नचित एव तत्साक्षात्कारत्वात् इति ज्ञापनायाभिव्यक्तीत्युक्तम्। शुद्धं ब्रह्म न जगदुपादानम्, किंत्वविद्ययो- पहितं विशिष्टं वेति पक्षे तु शुद्धब्रह्मणि मनस्तादात्म्याभावेन प्रमान्ननुपरागादेवाभानोपपत्तावपि शुद्धं ब्रह्म न जाना- मीत्यावरणानुभवाजगदुपादानाच्छुद्धब्रह्मणो मनस्तादात्म्येन प्रमान्रुपरागात्तत्रावरणस्यावश्यकत्वाच्च तद्भिभवार्था वृत्तिरिति भावः । वृत्यैवोपरज्यत इति। भासकतानियामकसंबन्धोSविद्यातद्टत्तिमनस्तत्परिणामेष्वेव जीवस्ये- त्यर्थः। 'जीवेशावाभासेन करोति' माया चाविद्या च स्वयमेव भवती'त्यादिश्रुत्या जीवस्याविद्याप्रतिबिम्बत्वान्मनसो जीवस्वरूपमाधारीकृत्य 'अज्ञोऽह'मित्यारोपादविद्यातद्ृत्योरिव मनस्तत्परिणामयोरपि स्वच्छतवाच्चाविद्यातदृत्तिमनस्त- तपरिणामेष्वेव साक्षिण: प्रतिबिम्बरूपोपराग इति भावः । विषयैः अविदादिभिसैः । असङ्गत्वात् उक्त्तविषयोक्तोप- रागवश्वे मानाभावात्। तथाच घटादावुपरागार्थमेव वृत्तिरिति भावः। संबन्धान्तरेण संसृष्टस्यापि नान्यसंबन्धप्र- युक्त्तकार्यकरत्वमित्यत्र दृष्ान्तमाह-यथेत्यादि। सर्वगतमपि गोत्वादिकं सास्त्रादिमत्येव यथाभिव्यज्यते 'अय गौ'रि- त्यादिव्यवंहारं जनयति, तथा सर्वगतोऽपि जीवः अविधयातद्ृत्त्यादावेव वृत्त्यभावे 'अविद्यां साक्षात्करोमी'ति व्यवहारं जनयति, नतु घटादौ। उत्तव्यवहारजनकत्वं चोक्तोपरागवश्वमेव। ननु-घटादौ साक्षिणः प्रतिबिम्बमेवेन्द्रियसभनि- कर्षादिना जायत इति स्वीक्रियताम, किं वृत्तिघटितोपरागेण ? तत्राह-केवलाग्नीत्यादि। यथा अभिरनभिव्यक्त
Page 185
४८० अद्वैतसिद्धिः। [परिच्छेद: १ ]
अयःपिण्डादिसमारूढाग्निदाह्यत्ववच्च केवलचैतन्याप्रकाश्यस्यापि घटादेस्तत्तदाकारघृत्त्युपारूढच्ैत- न्यप्रकाश्यत्वं युक्तम्। एवञ्चानावृतत्वपक्षे तसदाकारवृत्तिद्वारा चैतन्यस्य तसदुपरागे तत्ततदर्थ- प्रकाशः। आवृतत्वपक्षे त्तदाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणभिभवेन तत्तदर्थप्रकाशः। अन्तःकरणावच्छिन्नचैतन्यरूपत्वे जीवस्यावच्छेदकान्तःकरणतत्तद्विषयाकारवृत्त्या तसतद्विषयाध- चिछन्नचैतन्याभिव्यक्ता तत्तत्प्रकाशः । यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं जीवचैतन्यंचान्त :- करणाधच्छिन्रम्; तथापि चतन्यामेदेनामिव्यक्तत्वात् व्यवस्थोपपत्तिः। ननु-इयं प्रतिकर्मव्यवस्था- नोपपद्यते, तथाहि-स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्व घटादे: सत्वे प्रतीतिमात्रशरीरत्वव्याप्तका- इपनिकत्वायोगः। नच काल्पनिकत्वविशेषः प्रातिभासिकत्वादिरेव तव्याप्तः; गौरवात्, नच प्रती- तिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिनैव कल्पितत्वं भविष्यति; प्रतीतिमात्रशरीरत्वाभावेन ज्ञाननिवर्त्यत्वाभावस्याप्यापाद्यत्वात्, प्रतीतेविश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्रादिवदिन्द्रियस- त्रिकर्षनिरपेक्षतयावोपपत्तेः, व्यावहारिकत्वस्यापि भ्रान्तिदैर्ध्यमात्रेणोपपत्तेश्चेति-चेत्, मैवम्; प्रतीतिमात्रशरीरत्वस्य कल्पितत्वं न व्याप्यम्; दृग्दश्यसंबन्धानुपपत्त्यादिसहक्कृतोक्तानुमानात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाञ्च स्थायित्वे तत्रैव व्यभिचारात्। नच-शुक्तिरूप्यादिप्रत्यभि- ज्ञासाम्यं प्रकृतप्रत्यभिज्ञाया इति-वाच्यम्; प्रतीत्यविशेषेऽपि वणिग्वीथीस्थशुक्तिरूप्ययोः परीक्षित- त्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेषसंभवात्। तथापिवा परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशत्वमस्तु, कि तदुपरक्तचैतन्येनेति चेन्न; परोक्षस्थलेपि परोक्षवृत्युपरक्तचैतन्यस्यैव प्रकाश कत्वात्। अथ तत्राप्यपरोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्ग: नः विषयचैतन्याभिव्यक्तावेव विषयस्यापरोक्ष्यम्। नच परोक्षस्थले तदस्ति; विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात्, अन्तरेष तत्र घीसमुल्लासात्। अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठानचतन्योपरागो विषयेऽस्ति; तत्र विषयस्य कर्मकारकत्वात्। नच वृत्तिगतविशेषादापरोक्ष्यम्; तत्र हि विशेषो विषयकृतश्चेदोमिति ब्रूमः। जातिकृतस्तु विशेषो न संभवति; सोऽयमिति प्रत्यभिशायां परोक्षत्वा- परोक्षत्वयोः संकरप्रसंगात्, अव्याप्यवृत्तित्वात्, प्रमात्वादिना संकरप्रसंगाच्च। किंच वृत्तेर्जडत्वा- देव न प्रकाशकत्वम्। नच-वृत्तावन्तःकरणावृत्त्यापि स्वप्रकाशत्वं ज्ञानत्ववदिति-वाच्यम्;स्वप्र- काशात्मसंबन्धेनैव तस्या: प्रकाशत्वोपपत्तौ तत्स्वप्रकाशत्वे मानाभावात्। किंच घटं जानामीत्य- नुभूयमानसकर्मकवृत्त्यन्या संवित् घटप्रकाशरूपा घटः प्रकाशत इत्याकारकानुभवसिद्धेव। नच- करोति यतते चलति गच्छतीत्यादावेकार्थत्वेऽपि सकर्मकाकर्मकस्वभावत्वदर्शनात् अत्राप्येकार्थत्वे- Sपि तथा स्यादिति-वाच्यम्; तत्राप्येकार्थत्वाभावात्। अनुकूलयतो हि कृञ्धात्वर्थः, यत्यर्थस्तु यत्नमात्रम्, एवं गम्यर्थ उत्तरसंयोगफलकः स्पन्दः, चलत्यर्वस्तु स्पन्दमात्रम्; तथाचकार्थकत्वे कुश्रापि न सकमकत्वाकर्मकत्वव्यवस्था। नच-त्वन्मते परिणतेरकर्मकत्वात् परिणतिविशेषभूताया
गौडब्रह्मानन्दी (लघुचन्द्रिका)। रूपेण सर्वगोऽपि तृणाधययःपिण्डाद्यभिव्यक्त एव दहति, न त्वतादृशः; तथा घटादितत्तद्विषयसंछ्िष्टवृश्यभिष्यक्त एव साक्षी घटादिकं भासयतीत्यर्थः । तथाच के वलविषयस्यास्वच्छत्वान्मनसः प्रतिबिम्बयोग्यत्वस्य कृप्तत्वाछ् कृप्तवृत्तिरू- पेण परिणतमनस्येव प्रतिबिम्बः स्वीक्रियत इति भावः। चतन्यामेदेनेति। विषयाधिष्ठानब्रह्मणो मनोऽनवच्छेद- प्रयुक्तस्य जीवमेदस्याभावेनेत्यर्थः। गौरवादिति। कल्पितत्वं मिथ्यात्वम्। प्रातीतिकतवं तु यदा यदा स्वयं तिष्ठति, वदा तदाऽनावृतं यत् तत्वम्। तथाच प्रातीतिकतवे मिथ्यात्वात् न गौरवम्; प्रत्युत मिथ्यात्वमेव स्ान्यूनस- साकाभावप्रतियोगित्वादिघटितत्वात् प्रातीतिकत्वाहुरु। तस्मात् गौरवोक्ति: परस्य भ्रान्त्येति बोध्यम्। नन्विन्द्रिय- सनिकर्ष बिना प्रत्यक्षवृत्त्यसंभवात् प्रपञ्चो न भायात्, तत्राह-प्रतीतेरिति। भानस्येत्यर्थः । तथाच तावता प्रपश्नः सत्योऽस्तु, इन्द्रियजमनोवृत्तिं विनापि स्वम्रवत् प्रत्यक्षो वास्त्विति भावः । परीक्षितत्वेति। मानान्तरसंवादाविसं- वादेत्र्थः । व्यावहारिकस्योक्त्कपरीक्षितत्वेन स्थायित्व सिद्धि:, प्रातीतिकस्य तु न मानान्तरेण संवादो 'नात्र रुपय'मि त्यादिमानेन विसंवादश्वेति भावः । विषयकृतं अनावृतचित्तादातम्यविशिष्टविषयकत्वम्। सकर्मकवृत्तीति। सकर्म- कज्ञानेत्य्थ:। घटप्रकाशरूपा घटकतृकस्फुरणरूपा। तथाच एकस्यां क्रियायामेकस्य कर्तृत्वकर्मत्वयोर्विरोधादेकस्या: क्रियाया: सकर्मकत्वाकर्मकत्वयोर्विरोधादनावृतचिद्पस्फुरणक्रिया घटकर्तृका, पूर्वोक्तजानात्यर्थरूपक्रिया घटकर्मिकेति भावः । अनुकूलयत इति। कालसंबन्धप्रयोजकयत इत्यर्थः। उक्तमेतत् न्यायकुसुमाअ्जल्यादौ-'तथाहि
Page 186
[प्रतिकर्मव्यवस्था] गौडब्रह्मानन्दीयुता। ४८१
वृत्ते: कथं सकर्मकत्वमिति-वाच्यम्; एकस्य हि सकर्मकत्वाकर्मकत्वे एकरूपेण विरुद्धे न तु रूपान्तरेणापि; मानाभावात्, यथा स्थितेरकर्मिकाया अपि अगमनत्वेन रूपेण सकर्मकत्वम्; तथा परिणतित्वेन रूपेणाकर्मिकाया अपि वृत्तेः ज्ञानत्वेन सकर्मकत्वं भविष्यतीत्यदोषः। ननु तर्ह- तीतः प्रकाशते इति धीर्न स्यात्, न; इषापत्तेः, तत्रापि वृत्तिप्रतिबिम्बितचैतन्यसत्वेन प्रकाशत इत्यादि प्रयोगसंभवाञ्च। ननु यथा ज्ञानविरोघिवृत्तावनुभवत्वं नास्ति, किंतु अन्यत्र; तथा द्वेषवि- रोधिवृत्तेरन्यत्रेच्छात्वमित्यपि स्यादिति-चेन्न; बाधकसत्वासत्त्वाभ्यां विशेषात्, अत्रेव तत्र सकर्म- गोडब्रह्मानन्दी (लघुचन्द्रिका)। -फलानुकूलत्वेनैव करोतिशक्यता, नतु यत्त्वेन फलानुकूलयत्नत्वेन वा; यततिकरोत्योरेकार्थकत्वापत्ते:, 'रथो मच्छती'त्यादौ करोत्यर्थकाख्यातस्य मुख्यार्थकत्वानुपपत्तेश्चेत्याशक्कय, कृताकृतविभागेन कर्तृरूपव्यवस्थया। यक एव कृतिः पूर्वापरस्मिन् सैव भावना॥ यत्रपूर्वकत्वस्य प्रतिसन्धानात् घटादो कृतत्वव्यवहारात्तदप्रतिसन्धाने सहेतुक- स्वप्रतिसन्धानेऽप्यक्कुरादी कृतत्वाभावव्यवहारादाश्रयार्थकर्तृजन्तकर्तृपदस्य कृत्याश्रय एव प्रयोगाच् न फलानुकूलमात्रं करोत्यर्थः, किंतु तादृशयत्रः सैव भावना; यतः परस्मिन् स्वकार्ये पूर्वां कारणीभूता, भावयतीति व्युत्पत्तेः । तथाच करोतिना विवरणादाख्यातमपि तादृशार्थकम्, 'रथो गच्छती'त्यादौ त्वेकदेशे फलानुकूले प्रयोगः; साजवेदाध्येतृवा- चकस्य श्रोत्रियपदस्य ब्राह्मणमात्रे प्रयोग हवे'ति-कुसुमाअ्जली मूलटीकाभ्यामुक्तम्। तण्डुलक्रयणादिकाले पचतीत्यादिप्रयोग: स्यादित्याशक्क्य याद्शोऽनुकूलताविशेपाश्रयव्यापारः परेषामर्थः, तादृशो यत्नो ममापीत्युक्तं- शब्द्मणावपि। यन्तु-यत्त्वमेवाख्यातस्य शक्यतावच्छेदकम्, अनुकूलत्वं तु धात्वर्थस्य संसर्गतया यल्ने भासत इति-पक्षधरादिटीकायामुक्तम्, तत् न युक्तम्; वर्तमानत्वादिसमानाधिकरणस्यानुकूलत्वस्य लडादिसमभि- व्याहारे संबन्धतया भानापत्या लडादेर्व्तमानत्वादौ शक्तिलोपापत्तेः । अथ पचतीत्यादौ समवायादेरेव संबन्धरबेन भानं, नतु वर्तमानत्वादेः; तस्य त्वाख्यातात्प्रकारत्वेन भानमिति व्रूषे, तर्हि तुल्यं तत् अनुकूलत्वे। किंच गम्या- देरपि क्रियामात्रमर्थाऽस्तु; 'ग्रामं गच्छती त्यादौ द्वितीयार्थ संयोगादिकं स्वीकृत्य तस्यानुकूलत्वसंबन्धेन क्रियायाम- न्वयः स्वीक्रियताम्; अथ द्वितीयाविभक्तिं विनापि 'चैत्रस्य गमन मित्यादौ संयोगाद्यनुकूलक्रियात्वरूपेण प्रतीतेस्तेन रूपेण बोधकत्वं विना तस्य सकर्मकत्वानुपपत्तेः फलानुकूलव्यापारवाचित्वस्य स्ववाच्यव्यापारव्यधिकरणफलवाचित्वस्य वा सकर्मकत्वरूपत्वात् तेन रूपेण गम्यादिशक्यताSSवश्यकी, तर्हि 'अङ्करः कृत' इति प्रयोगादक्कुरो यत्त हत्यप्रयोगात् करोतेः सकर्मकत्वा् करोतिरनुकूलयल्ार्थकः; करोतिना विवरियमाणत्वादाख्यातमपि तथा। अतएव-'भूवादयो धातव' इति सूत्रे करोतिरुपादनार्थकः अन्यथा यतिवदकर्मकतापत्तेरिति-महाभाष्ये उक्तम्। 'कर्मवत् कर्मणा तुल्यक्रिय' इति सूत्रे च वैयाकरणरुक्तम्-'कृषोऽकर्मकतापत्तेः नहि यत्ोऽथ इप्यते। किंतूत्पादनमेवातः कर्मवत् साधनाद्यपी'ति। उत्पादनमुत्पत्तिप्रयोजकव्यापारः; उत्पत्तिः कालसंबन्धत्वेनव निवेश्यते, नतूत्पत्तित्वेन; अननुगतत्वादुत्पत्तिरूपकालसंबन्धस्यैव कारणप्रयुक्त्तत्वेन तव्निवेशस्य व्यर्थत्वाच्च। यदि तूत्पत्तित्वेनैवोत्पत्ते: प्रकृते अनु- भवः, तदा कालवृत्तित्वमेवोत्पत्तिरनुगता निर्वाच्या। तथ् स्वाधिकरणकालध्वंसानधिकरणतवं कालिकत्वं चेत्युभयसंब- •्वेन बोध्यम्। आद्यक्षणे हि तत्संबन्धेन जन्यमात्रं वर्तते। एवंच 'घटं करोती'त्यादौ घटनिष्ठोत्पत्तेरिव 'पचती'त्यादावपि पाकनिष्ठोतपस्तेः प्रयोजको यल्नो बुध्यते। यदि च यत्त्रत्वेनैवाख्यातस्य करोतेश्च शक्यतेत्याग्रहः, तदापि करोतेः सकर्मकत्वा- मुरोधाल्क्षणया अनुकूलोपस्थितेः संभवात्तादृश एव बोधः। यत्तु-जानातीच्छत्यादिकमिव करोतिरपि न सकर्मक- इति। तन्न; जानातेः सकर्मकत्वस्योक्ततवात्, इच्छत्यादेरपि फलप्रयोजकेच्छाद्यर्थकतवेन सकर्मकत्वात्। फलं चेच्छायाः सुखादी प्रमातृसंबन्धादिः, गवादौ स्वत्वादिः, द्वेपस्य शत्वादौ तत्तदनिष्टम्, सुखाद्यनुरपत्तावपि इच्छादेरुक्तसंबन्धस्व- रूपयोग्यतवानपायात् 'सुखमिच्छती'त्यादिप्रयोगो आ्मप्राह्यनुपधानेऽपि 'आमं गच्छती' त्यादिप्रयोगवदिति बोध्यम्। कुत्रापीति। ननु-भावनेतिशब्दस्याख्याततुस्यार्थकत्वेऽपि न सकर्मकता, किंत्वाख्यातस्याख्यातान्तपदस्य वेति- वेज; नान्न: सिद्धत्वे आख्यातस्य साध्यत्वे च शक्तेर्निरूढलक्षणाया वा स्वीकारेण तयोरतुल्यार्थकरवात्। तटुक्तं भर्तृ- हरिणा-'सिद्धभावस्तु यस्तस्याः साधनादिनिबन्धनः । साध्यभावस्तु यस्तस्याः स आख्यातनिबन्धनः ॥'इति। एवं वृतीयादिविभक्ते: करणादिशब्दस्य च भिस्नार्थकत्वास्तस्या एव साकाङ्करवम्, नतु तस्य; तस्य तु तृतीयादिविभक्तिद्वारैव तद्। उक्त्तंहि वार्तिके-'कृदन्तेन कारकशक्तिविशिष्टं द्रव्यमुच्यते, नतु निष्कृष्टा से'ति। वृत्तेः ज्ञानस्य । स्थितेः गतिनिवृत्तेः। अगमनत्वेन गमनसंसर्गाभावतवेन । यद्यपि 'ग्रामं न गच्छति आमस्यागमन'मित्यादौ गमनस्यैव सकर्मकतया शेयस्याभावधीः; तथापि 'गच्छ गच्छसि चेह्दूर'मित्यादौ गमिना लक्षणीयस्यागमनस्य सकर्मकत्वसंभवः, अभावविशेषणे गमने दूरदेशरूपकर्मान्वयादिति भावः। इष्टापत्तेरिति । अनावृतचित्तादात््य स्योक्तधी विषमत्वा- अ. सि. ६१
Page 187
४८२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
काकर्मकविलक्षणक्रियाननुभवाच्च। यथाच वृत्त्यतिरिक्तभानसिद्धिस्तथा स्वयं ज्योतिष्टप्रस्तावे विस्तरेण वक्ष्यामः। ननु-अस्तु चैतन्यस्य विषयप्रकाशकत्वं, तथाप्यन्तःकरणस्य देहान्निर्गतिः न कल्प्या; परोक्षवैलक्षण्याय विषयस्याभिव्यक्तापरोक्षचिदुपराग एव वक्तव्यः, चिदुपरागादौ चापरोक्षवृत्ते- स्तदाकारत्वमेव तन्त्रम्; तस्य च तत्संश्लेषं विनापि परोक्षवृत्तेरिव तत्सन्निकृष्टकरणजन्यत्वेनै- वोपपत्तिः, नतु प्रभाया इव वृत्तेस्तदावरणनिवर्तकत्वादौ तत्संश्लेषस्तन्रम्: नेत्रान्निर्गच्छद्धुवा- द्याकारवृत्त्यैव स्वसंग्लिष्टनेत्रस्थकज्जलादेर्धुवनेत्रमध्यवर्तिनः परमाण्वादेश्चापरोक्षत्वापातादिति- चेतू, नः विषयेष्वभिव्यक्तचिदुपरागे न तदाकारत्वमात्रं तन्त्रम्: परोक्षस्थलेSपि प्रसङ्गात्, किंतु तत्संश्ेष :: प्रभाया विषयसन्निकृष्टतेजस्त्वेनावरणाभिभावकत्वदर्शनात् तैजसस्य मनसोऽप्य- श्ञानरूपावरणाभिभवाय तत्संग्लेष आवश्यकः, ध्रुवादिदेहमध्यवर्तिपरमाण्वादावतिप्रसङ्गस्तु तदाकारत्वप्रयोजकसामश्रीविरहादेव परिहरणीयःः अन्यथेन्द्रियसन्निकर्षादेर्विद्यमानत्वात् परमा- ण्वाद्याकारताया दुर्निवारत्वापत्तेः । तस्मात् प्रभाविशेषान्वयव्यतिरेकाभ्यां यत् क्प्तं सन्निकृष्ट- तेजस्त्वेनावरणामिभावकत्वं, तस्य तदाकारत्वरूपविशेषापेक्षायामपि न त्यागः । नहि पृथिवी- त्वगन्धत्वादिना कार्यकारणभावे आवश्यके अनित्यगुणत्वद्रव्यत्वादिना तत्त्यागः । अतएव-तदि- तरहेतुसाकल्ये सति घटचक्षु:सन्निकर्षस्यैव घटानुभवजनकत्वम्, नतु घटमनःसन्निकर्षस्य, तद्विलम्बेन तद्विलम्बाभावादिति-निरस्तम; आवरणभङ्गे सन्निकृष्टतेजःकारणत्वावधारणेन तस्याप्यावश्यकत्वात्। नच-स्पार्शनप्रत्यक्षे चक्षुरादिवन्नियतगोलकद्वाराभा वेनान्तःकरणनि- र्गत्ययोगादावरणामिभवानुपपत्तिरिति-वाच्यम्; सर्वत्र तत्तदिन्द्रियाधिष्ठानस्यैव द्वारत्वसंभ- वात्। नच-अन्तःकरणवृत्तित्वाविशेषादिच्छा द्वेषादिरूपवृत्तयोऽपि देहान्निर्गत्य विषयसंसृष्टा भव- न्तीति कथं न स्वीक्रियत इति-वाच्यम्; आवरणाभिभावकतेजस्त्वस्य तत्प्रमापकस्य ज्ञानवत्
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दिति शेष:। अभ्युपेत्याह-तत्नापीति। क्रियाननुभवादिति। 'सुखमिच्छनी'त्यादेरेव प्रयोगस्य दृष्या सकर्म- कत्वमेवेच्छादिक्रियायाः । उक्तहि वैयाकरण :- 'विषयताप्रयोजककाम एवेच्छत्यादेरर्थ' इति। यद्यपीच्छाया विप- यत्वमिच्छोत्पत्तिकालेऽप्यस्ति; तथापीच्छायाः स्वजनकसामम्युपहितरूपेण स्वविपयताप्नयोजकत्वमक्षतम्। अथवा विषयत्वमत्रासरवापादकाज्ञानाविषयत्वरूपम्; तत्प्रयोजकत्वं हि प्रमाणवृत्युपहित इव कामद्वेपादिवृश्युपहितेऽपि च्ैतन्ये स्वीक्रियत एव, नहि कामादिवृत्तिमति प्रमाणवृत्तिशून्येऽपि सुखादावुक्ताज्ञानमनुभूयते; अतएव सुखादी विद्यमाने वृत्त्यस्वीकारपक्षे सुखादेरेवोक्ताज्ञानविरोधित्वात् सुखाद्यवच्छिन्नचितोऽ्युक्ताज्ञानाविषयतवप्रयोजकवि- शिष्टचिद्रूपज्ञानत्वमित्युक्तम्। तत्संश्लेषस्तन्त्रमिति। संश्रेषः संश्लेषमात्रम् । मात्रेत्यनेन विषयत्वरहितसंश्रेप- काभ: । तेन कजलादौ वृध्यविषयेऽप्यापत्तिर्युज्यते। ननु कज्लादी संयोगादिरूपस्य संश्रेपस्य सत्वे मानाभावः, तत्राह-परमाण्वादेरिति। तत्र महत्वाभावादिप्रत्यक्षानुरोधेन संश्लेष आवश्यकः। आदिपदादरूपाकारवृत्ते रसादौ संश्लेषादापत्तिः। ननु विषयत्वसंश्रेपोभयसंबन्धेन वृत्तेर्निवर्तकत्वे गौरवात् वृत्तावपरोक्षत्वजातिं स्वीकृत्य तद्रूपेण विषयत्वमात्रसंबन्धेन तस्या अज्ञाननिवर्तकत्वं स्वीक्रियताम्; अपरोक्षार्थविषयकशाब्दादिघीसामध्या अपि तादृशवि- शिष्टवृत्तिनियामकत्वसंभवात्तत्रापि तव्निवर्तकत्वम्, तत्राह-तस्मादिति। सन्निकृष्टतेजस्त्वेन समिकर्षसंबन्धेन तेजस््वेन। न त्याग इति। 'यद्विशेषयोः कार्यकारणभावो बाधकं विना तत्सामान्ययोरपि स' इति न्यायादज्ञानतमोऽन्यतरनाशं प्रति संयोगेन संयुक्तसमवायादिना च संबन्धेन तेजस्तवेन हेतुत्वम्। न चैवं-विशेषतः कार्यकारणभावो व्यर्थ इति-वाच्यम्; आलोकसंयोगे सति मनश्चक्षुरादिभिः सह घटादेः सेयोगेचासति घटादौ शाब्दादिवृत्या आवरणनिवृत्यापत्तेश्रक्षुरादिसंयोगे सति आलोकसंयोगेचासति मनोवृत्या आवरणनिवृत्यापत्तेर्विषयरव- संक्लेषोभयसंबन्धेन मनोवृत्तेरभानापादकाज्ञाननाशे हेतुत्वं, संयोगाद्यन्यतमसंबन्धेन प्रभायास्तमोनाशे हेतुत्वमिवेत्य- स्यावश्यकत्वात्। अवच्छेदकत्वसंबन्ध एवोक्तोभयसंबन्धस्थानीयो लाघवादिति तूक्तम्। एवंचापरोक्षत्वजातेस्तद्वि- शिष्टोत्पत्तौ शाब्दादिसामभ्या नियामकत्वस्य चाकल्पनाल्लाघवम्। सन्निकृष्टतेजःकारणत्वेति। सल्निकर्षसंबन्धेन मनोवृत्तिकारण त्वेत्यर्थः । तत्रावरणभक्के कारणत्वं तत्कार्यप्रवृत्यादिकारणत्वं बोध्यम्। वृत्तेर्हि नाज्ञाननाशे हेतुत्वम्, किंत्वावरणबिरोधित्वमात्रम्। आलोकस्यापि तमोध्वंसरूपत्वाच्चाक्षुपादिमनोवृश्त्यादिरूपकार्ये हेतुत्वम्, नतु तमोनाश 'इति बोध्यम्। तस्य मनःसन्निकर्पस्य। चक्षुरादेरिव मनसोऽपि सन्निकर्षश्चाक्षुषादिकार्ये हेतुः; विनिगमकाभावाद् । यदि हि मनो न स्थूलं तार्किकादिमतवत् स्यात्, तदा तस्य जीवनकाले देहात् बहिरगमनान्न घटादिसभिकर्षसंभवः ।
Page 188
[प्रतिकर्मव्यवस्था] गौडब्रझानन्दीयुता। ४८३
तत्राभावात्। ननु-घटप्रकाशकं चैतन्यमुपदेशसाहरुयनुसारेण घटाकारघीस्था चिद्वा; परागर्थ- प्रमेयेष्वित्यादिवार्त्तिकोक्तरीत्या धी प्रतिबिम्बितचैतन्या मेदाभिव्यक्तविषयाघिष्ठानचैतन्यं वा, नाद: आध्यासिकसंबन्धस्यातन्प्रतापातात्। न द्वितीयः; आवश्यकेन विषयसंग्लिष्टवृत्तिप्रतिबिम्बितचैतन्ये- नैव तदशाननिवृत्तिवत् तत्प्रकाशस्याप्युपपत्तौ किं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनेनेति-वेन्न; प्रकाशकं तावत् अधिष्ठानचैतन्यम्। तञ्चाध्यासेन विषयैः सह साक्षात्संबद्ध, प्रकाशस्य च स्वयं भासमानस्य स्वसंबद्धसर्वभासकत्वमपि कृप्तमेव; एतदनभ्युपगमे कल्पनान्तरगौरवापत्तेः । तच्चान- भिव्यक्तं निर्विकल्पकरूपमाच्छादितदीपवन्न प्रकाशकमिति तदभिव्यक्तिरपेक्षिता। तञ्च परोक्षस्थले वृत्त्यवच्छेदेनैवाभिव्यज्यते। अपरोक्षस्थले तु वृत्तिसंपर्कादावरणाज्ञानाभिभवे विषयोऽमिव्यज्यते; वृत्तेर्विषयपर्यन्तत्वात्। नच परोक्षस्थलेऽप्येवं प्रसङ्ग; द्वाराभावेनान्तःकरणनिर्गत्यभावात्। ननु-वृत्तेस्तदाकारत्वं न तावत्तद्विषयत्वम्; त्वयैव निरासात्। नापि तस्मिन् चैतन्योपरागयोग्य- तापादकत्वं, तदशानामिभावकत्वं वा; उभयोरपि तदाकारत्वप्रयोज्यत्वेन तत्त्वायोगात्। नापि घटा- दिवत् पृथुवुधनोदराद्याकारत्वम् ; साकारवादापातात्, संस्थानहीन जातिगुणादिवृत्तेर्निराकारत्वप्र -र सङ्गाञ्च, घटपटाविति समूहालम्बने विरुद्धनानाकारत्वापत्तेश्चेति-चेन्न; अस्तीत्यादितद्विषयकव्यव- हारप्रतिबन्धकाज्ञाननिवर्तनयोग्यत्वस्य, तत्सन्निकृष्टकरणजन्यत्वस्य वा तदाकारत्वरूपत्वात्। तटु भयं च स्वकारणाधीनस्वभावविशषात्। न चात्माश्रयः निवृत्तिजननस्वरूपयोग्यतया फलोपधानस्य
गौडब्रह्मानन्दी (लघुचन्द्रिका)। यदा तु युगपद्धस्तपादाद्यवच्छेदेन मुखदुःखादिनानापरिणामभागित्वेन स्थूलं, तदा चक्षुरादितुल्यत्वेन तत्सनषिकर्षः कथ न चाक्षुपादिहेतु: ! चाक्षुपादिहेतुतावच्छेद कजातिविशेषस्य तत्रापि संभवान्, चक्षुरादेर्मनोमिश्रितरवात् घटादिसंयुक्त- चक्षुरादिभागावच्छेदेनापि तदितरचक्षुरादिभागावच्छेदेनेव विनिगमकाभावेन चक्षुरादी मनसः संयोगस्य चाक्षुषाधु- त्पत्तिकाले सत्वात् घटादौ मनःसंयोगस्यावश्यकत्वा्। नहि मनश्चक्षुरादेरेकदेश एव संयुज्यत इति नियन्तुं शक्यते, किंतु विशरारुतेजोभागबहुलत्वेन तदीयसर्वभागेपु। तथाच चक्षुरादेः क्रियेव मनसो घटादिसंयोगे हेतुः। एवंच घदादौ संयुज्यमानं चक्षुरादिमिश्रितं मन एव घटाद्याकारवृत्तिः चक्षुरादिसंयोगनान्तरीयकत्वात् तजन्यतया व्यवहि- थते, नतु सा तज्जन्येति लाघवम्। तादृशवृत्तौ चक्षुरादिक्रियाया अपि न हेतुत्वम्; प्रयोजनाभावात्। संयोगविशेष एव घटादिनिष्टे तस्या हेतुत्वम्; तदर्थमेव चक्षुरादियुक्तमनःक्रियायां प्रमातृप्रवृत्तिरिति संक्षेपः । अघिष्ठानस्येति । कर्णादिकं यथा श्रोत्रादेरधिष्ठानं, तथा त्वगेव त्वगिन्द्रियस्याधिष्ठानमिति भावः। तेजस्त्वस्येति। विषयसंयुक्त न्द्रियसंयुक्त्तमनस्त्वस्येत्यपि बोध्यम्। तत्प्रमापकस्य विषयसंसृष्टत्वप्रमापकस्य। ज्ञानवत् चाक्षुषादिमनोवृत्ता- विव। परागित्यादि। 'पराथप्रमेयेपु या फलत्वेन संमता । संवित् सैवेह मेयोऽर्थों वेदान्तोक्तिप्रमाणतः ॥' दति वार्तिकम्। प्रकाशकमिति। साक्षिचित् प्रकाशिका। तदुक्तं सिद्धान्तबिन्दा-सर्वानुसन्धातृचैतन्यं जीवेशा- नुगतं साक्षीत्युच्यते' इति। तथाच बिम्बप्रतिबिम्बचितोरीशजीवत्वपक्षे शुद्धचिदेव तदुभयानुगता साक्षिणी जगदु- पादानम्। अविद्याप्रतिबिम्बमनःप्रतिबिम्बयोरीशजीवत्वे तु अविद्याबिम्बत्वोपहिता चित् तथा। अविद्यामनोगतचि- दाभासयोरीशजीवत्वे त्वीश एव तथा। तत्र आद्यः पक्षो विवरणकृतः । द्वितीयः संक्षेपशारीरककृतः । तृतीयः वार्तिककृतः । वाचस्पतिमते तु जीव एव तथा; तस्यैवाविद्याविपयत्वोपहिते ईशे तादात््येनानुगतत्वात्। घट- स्वद्रव्यत्वोपहि तयोरिवा विद्याविष यत्वाश्रयत्वोपहितयोस्तादात्म्यसंभवासयोरिव भेदस्यापि सश्वात् नेशजीवसाङर्यम् । नहि द्रव्यत्वघटत्वोपहितयोरत्यन्तामेदः। ईशं प्रति दृश्यमात्रस्यानावृतत्वात् तं प्रति जीवस्य भासकत्वं न वृत्तिसापे- क्षमिति दिक्। कल्पनान्तरेति। भातीति व्यवहारे विषयसंश्विष्टवृत्तिप्रतिबिम्बतचितः प्रयोजकत्वे सुखादौ तदसंभ- वादनावृतचवित्तादात्म्यस्यापि ततकल्पनया तलापि वृत्तिकल्पनया च गौरवं, वृत्तावपि वृत्त्यन्तरकल्पनाप्रयुक्त्तानवस्था चेति भावः। निर्वनिकल्पकरूपं तार्किकादिसंमतनिर्विकल्पकतुल्यम्। जानामीत्यादिव्यवहाराविषय इति यावत्। आच्छादितेति । यथा सूक्ष्मवस्त्नाद्यावृतो दीपोऽनन्घतमसविरोध्यप्यन्धतमसाविरोधित्वाद्रव्यत्वादि- रूपेणैव घटादेव्यवहारे प्रयोजकः, नतु रूपविशेषादिमख्वेन, तथानभिव्यक्तं चैतन्यमज्ञातत्वेनैव त्वहारे नतु ज्ातत्वादिनेति भावः।आपदकत्वं संपादकत्वम्। अभिभावकत्वं अभिभवप्रयोजकतावच्छेदकरूपवश्वम्।
प्रयोजकतावच्छेदकतवाओ्चोक्त्ततत्तदाकारत्वस्योक्तरूपत्ये आत्माश्रय इति भावः। अस्तीत्यादीत्यादिपदात् सक्षिति व्यवहारसंग्रहः। अज्ञानेत्यनेनासध्वापादकाज्जानमुक्तम्। तत्स्निकृष्टेति । तदीयव्याप्तिज्ञानादिरूपेत्यर्थः।
Page 189
४८४ अद्वैतसिद्धि: [परिच्छेद: १] साध्यत्वेन स्वानपेक्षणात्। ननु-दशि विषयाध्यासस्वीकर्तुर्जीवचैतन्यं वा विषयटक, ब्रह्मचैतम्यं वा। नाद्: जीवे अवच्छिन्नचित्स्वरूपे कल्पिते अध्यासायोगात्। नच-विषयट्टक् जीवचैतन्यमेव, अध्यासस्तु ब्रह्मचैतन्य इति-वाच्यम् ; दृश्ययोरेवाध्यासिकसंबन्धापत्तेः, अध्यस्ताघिष्ठानयोरुभयो- रपि दग्भिन्नत्वात्। अत एव न द्वितीयोऽपि; ब्रह्मणोऽपि कल्पितत्वेन तत्राध्यासायोगाच। नय- शुद्धचैतन्यमेकमेव; तदेवाधिष्ठानम्, तत्रावच्छेदकमविद्यादिकं नाधिष्ठानकोटौ प्रविशति; तदेव य जीवशब्देन ब्रह्मशब्देन च व्यपदिश्यते। उपाधिविशेषात्, तथाच जीवचैतन्यस्य दक्त्वेऽपि दश्या- ध्यासो नानुपपन्न इति-वाच्यम्; शुद्धचैतन्यस्य आसंसारमावृतत्वेन जगदान्ध्यप्रसङ्गादिति-वेभ्न; मूलाविद्यानिवृत्त्यभावेन सर्वत आवरणाभिभवाभावेSपि घटाद्यवच्छेदेनावरणामिभवात् आन्ध्यविर- होपपत्तेः। ननु-तर्हीदानीमपि ब्रह्मस्फुरणे चरमवृत्तिवैयर्थ्यम्; अधिकभागेऽपि तस्य स्फुरणाद्, नह्यखण्डार्थवेदान्तजन्यायां वृत्तौ भावो अभावो वा विशेषणमुपलक्षणं वा प्रकार: प्रकाशत इति- चेन्न; उपाध्यविषयकब्रह्मस्फुरणस्य चरमवृत्तिप्रयुक्तत्वेन तस्या: साफल्यात्, प्रकारास्फुरणं तु तस्या: भूषणमेव: इदानीन्तनस्फुरणस्य सप्रकारकत्वेनोपाधिविषयत्वात्, 'एकधैवानुद्रष्टव्य'मित्यादिश्रु तिबलात् स्वसमानविषयज्ञानादेवचाज्ञाननिवृ त्तेरखण्डचिन्मात्रज्ञानस्यैव मोक्षहेतुत्वावधारणात्। नच-अन्तःकरणावच्छिन्नचैतन्यस्य जीवत्वे सुषुप्तिदशायां तदभावेन कृतहान्याद्यापत्तिरिति- वाच्यम्; तदाप्यस्य कारणात्मनाऽवस्थानात्, स्थूलसूक्ष्मसाधारणस्यान्तःकरणस्योपाधित्वात्। 'तदपीतेः संसारव्यपदेशा'दित्यस्मिन् सूत्रेचायमर्थः स्पष्टतरः। नच्र-वृत्त्युपरक्तत्वं चैतन्यस्य न तत्प्र- तिबिम्बितत्वम्; दर्पणे मुखस्येवानुद्भूतरूपेऽन्तःकरणे शब्दान्यप्रतिबिम्बनोपाधिताया अचाक्षुषचैत- न्यस्य प्रतिबिम्बितायाश्चायोगादिति-वाच्यम्; उद्भूतरूपवत्त्वं न प्रतिबिम्बितोपाघिताप्रयोजकम् ; अस्वच्छेऽपि लोष्टादौ प्रतिबिम्बापत्तः, किंतु स्वच्छत्वम्, तञ्च प्रकाशस्वभावत्वेन मनसस्तत्परिणाम- भूताया वृत्तेश्चास्त्येवः त्रिगुणात्मकस्याप्यज्ञानस्य स्वच्छसत्त्वात्मकताया अपि सत्त्वेन तत्रापि प्रति- बिम्बितोपाधितायाः सत्वात्। नापि चाक्षुषत्वं प्रतिबिम्बितत्वप्रयोजकम् ; अचाक्षुषस्याप्याकाशादेः प्रतिबिम्बितत्वदर्शनात्। ननु-चाक्षुषवृत्त्युपारूढचितः कथ रूपमात्रप्रकाशकत्वम्? नच प्रभावन्नि-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। जन्यत्वस्य जन्यतावच्छेदकस्य। तदीयो यः आकाराख्यः संबन्धविशेषः तद्विशिष्टत्वस्येति यावत्। यद्यप्युक्ताजान- निवृत्तियोग्यत्वमपि तदेव; तथापि तादृशसंबन्धस्योक्तनिवृत्तिजनकत्वे व्याप्तिज्ञानादिजन्यत्वे चावच्छेदकीभूयोपपाद- कत्वेन स आवश्यक इति ज्ञापनाय द्वैविध्योक्किरित्याशयेनाह-तदुभयमिति। तदुभयात्मक आकाराख्यः संबन्धः। स्वकारणेत्यादि। स्वस्य वृत्तिज्ञानस्य कारणाधीनात् स्वभावविशेषात् अनुगतरूपेणैव कारणनियम्यत्वादनुगतरूपे- णैव कार्यनियामकत्वाच्न। तथाचोक्तसंबन्धं विना तयोरसंभवात् स आवश्यकः। तस्य च युक्तिदुष्टतायाः पूर्वमुक्त र्वेऽप्यनिर्वाच्यत्वात् 'घटं जानामी'त्यादिसाक्ष्यनुभवसिद्धत्वाच्च नापलाप इति भावः। ननूक्तवृत्तिजनकतावच्छेदकरू- परवेनोक्त्तनिवृत्तिजनकत्वे आत्माश्रयः; जनकतायां तद्टितस्यावच्छेदकत्वात्, तत्राह-नचेति। स्वरूपयोग्यतया तत्तदाकारकत्वेन। तथाच तदाकारतात्वेनवावच्छेदके निवेशः, नतु निवृत्तिजनकतावच्छेदकत्वेनेति भावः । दग्भिन्न- त्वात् भासकान्यत्वात्। ब्रह्मणोऽपीति। दृश्यत्वाढिति शेपः । एकधेति। ननु-घाप्रत्ययस्य प्रकारोऽर्थः, स च विशेषणीभूतो विषय इति कथमुक्तश्रुतिबलात् निर्विकल्पकस्य मोक्षहेतुतेति-चेन्न्न; नहि धीविशेषणरूपप्रकारार्थक एव धाप्रत्यय इति नियम :; एकधा भुक्तमित्यादी तदसंभवात्, किंतु क्वचित् कश्चन प्रकार इति प्रकृते विषयमात्ररूप एव प्रकार आत्मदर्शने बुध्यते। इत्यादीत्यादिपदात् 'अव्यवहार्यमलक्षणं प्रपज्जोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते सोऽयमात्मा स विज्ञेय इत्यादिश्रुतिसंग्रहः । कारणात्मना सूक्ष्मरूपेण। साधारणस्य साधारणानुगतरूपस्य । अवस्थानां भेदेऽप्यवस्थास्वनुगतरूपं प्रत्यभिज्ञादिबलात् स्वीक्रियत इत्युक्तं अन्यतरत्वेन वोपाधित्वमिति भावः । उद्ूतरूपहीने Sपि गुहाकाशादी मुखाद्यवच्छिन्नशब्दादिप्रतिबिम्बनोपाधितादृष्टे: शब्दान्येति। स्वच्छरवं प्रतिबिम्ब- नोपाधितायोग्यत्वम्। प्रकाशस्वभावत्वेन उक्ोपाधिताविरोधिरूपहीनत्वेन। अस्त्येवेति। अनुगतरूपेणोपाधी- नामेकस्य हेतुत्वस्यासंभवात् प्रतिबिम्बरूपफलं दृष्ट्ा तदनुसारेण तत् कल्प्यत इति भावः। सत्वात्मकताया अपी त्यादिशव्देनेदं सूचितम्। सत्वात्मकत्व्रमपि नोपाधितायां प्रयोजकम्; जीवेशमेदे अविद्याचित्संबन्धादौचाविद्याना- त्मकेऽपि तत्स्वीकारात्, अन्यथा तस्य भास्यत्वानुपपत्तेरिति। दर्शनादिति। तथाच दर्शनमेव नियामकम्। यद्य- ज्याकाशादे: प्रतिबिम्बितत्वं वाचस्पत्यादिभिर्विप्रतिपतं; तथापि विवरणकारादिसंमतमेव। कथमिति। सम्रतिबि-
Page 190
[प्रतिकर्मव्यवस्था] गौडब्रझानन्दीयुत्ा। ४८५
यम:। वैषम्यात्, तथाहि-प्रभायां तमोविरोधित्वं रूपं प्रतीव गन्धादीन् प्रत्यपि समम्; नहि सा गन्ध- देशस्थं तमो न निवर्तयति, नच-अज्ञाननिरोघित्वलक्षणं प्रकाशकत्वं रूपं प्रत्येव, नतु रसादीन्प्रतीति -वाच्यम्; अज्ञाननिवर्तकत्वस्य वृत्तिमिन्नेऽनङ्गीकारात्, प्रभाया रूपग्राहकचक्षुःसहकारित्ववत्
विलम्बस्य वकुमशक्यत्वात्। तथाच चितः सर्वगतत्वेन सर्वसंबन्धाद्रूपादिवत् गुरुत्वादेरप्याश्रयद्वारा साक्षाद्वा संबन्धित्वात् प्रकाशापत्ति :; वृत्त्युपरक्तचित्संबन्धस्येव प्रकाशकत्वात्, 'असङ्गोह्ययं पुरुष' इति श्रुतिस्तु तत्कृतलेपाभावपरा, नतु संबन्धनिषेधिका; 'स यत्तत्र यत्किंचित्पश्यत्यनन्वागतस्तेन भवती'ति पूर्ववाक्यात्, 'यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महा' नित्यादिस्मृतेश्चेति-चेत्न; प्रभाया रूपरसादिदेशगततमोनाशकत्वं तत्संबन्धादयुज्यते, चैतन्यस्य तु स्वभावतोऽसंबद्धत्वात् तदाकारवृत्त्या तदेकसंबन्धस्योपादानात् कथमन्यावभासकत्वप्रसङ्ग: ? स्वभावतो ह्यसङ्गत्वे 'असक्गो हयं पुरुष' इति श्रुतिः प्रमाणम्। नचैषा लेपाभावपरा; अकर्तृत्वप्रतिपादनाय संबन्धाभावपरत्वात्। यथाचैतत्तथा व्यक्तमाकरे। एवं स्मृतिरप्येतच्छ्रुत्यनुरोघेन नेया। अतः सर्वैः सह संबन्धाभावात् न सर्वावभास:, किंतु यदाकारा वृत्तिस्तस्यैव । अत एवे दं रजत' मिति भ्रमे इदमाकारवृत्त्यवच्छि- प्चैतन्येन रजतभानानुपपत्तेः रजताकाराप्यविद्यावृत्तिरभ्युपेयते; स्वतश्चिद्विम्बाग्राहके चैतन्यस्य तदाकारत्वायोगात्, स्वतश्चिद्विम्बग्राहके त्वन्तःकरणवृत्त्यादौ न वृत्त्यपेक्षेति नानवस्था। नच-आ- भ्रयसंबन्धाविशेषेऽपि रूपाकारा वृत्तिर्न गन्धाद्याकारेति कुत इति-वाच्यम्; यथा तव चाक्षुषश्ञाने आश्रयसंबन्धाविशषेऽपि न गन्धो विषयः, तथाऽस्माकमपि चक्षुद्वारकवृत्ती न गन्धाद्याकारत्वम्, इन्द्रियविषयसंबन्धानां स्वभावस्य नियामकस्य समानत्वात्।ननु-आध्यासिकसंबन्धो वृत्ते:पूर्वमप्य- स्त्येव, अन्यस्तूपरागो न दृश्यत्वे तन्त्रमिति किं तदर्थया वृत्त्येति-वेन्न;जीवचै तन्यस्याघिष्ठानचैतन्यस्य वाऽमेदामिव्यक्त्यर्थत्वादृत्तेः। अन्यथा मयेदं विदितमिति संबन्धावभासो न स्यात्। ननु-जीव-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। म्ववद्ृत्तिसंयुक्तसमवायरूपस्योपरागस्य रूप इव रसादावपि सत्वादिति भावः। रूपं प्रत्येवेति। रूपावच्छिन्नम- ज्ञानं चाक्षुषवृत्यवच्छिन्नचिता निवत्यते, नतु रसाद्यवच्छिन्नाज्ञानमित्यर्थः । तथाच चिदुपरागसत्वेऽपि रसादावज्ञान- सर्वास प्रकाश इति भावः। ननु यथा प्रभा चक्षुःसहकरित्वात् तद्वाह्यस्येव भासिका, तथा चिदृपि स्यात्तवाह- प्रभायामिति। सहकारित्वेति। ग्राद्यभासकत्वेत्यर्थः । विलम्बेन अभावेन। विलम्बस्य गन्धाद्यभासकत्वस्य । यदि स्वप्रतिबिम्ब वद्धृत्तिसंश्रलेषसंबन्धेन चितो भासकरवं, तदा आश्रयद्धारेत्युक्तम्। यदि तु तत्संसृष्टवृत्यवच्छिन्नचितः सर्वगतत्वनियामकसंबन्धेन भासकत्वं तदाह-साक्षाद्वेति। आश्रयद्वारा वेत्यर्थः । तेन जीवस्य गुरुत्वादौ तादा- त्म्याभावेऽपि नासङ्गतिः। आकरे बृहदारण्यकभाष्यादौ। उक्त्तंहि तत्र-'यदि स्वाभाविकं कर्तृत्वं स्यात्, तदा- हमनो मोक्ष एव न स्यात; अतो दृष्ट्रैव पुण्यं च पापं चेत्यादिना कर्तृत्वाभावप्रतिपादनेन स्वभावतोऽकर्तेति ज्ञापितम्। 'डयायतीव लेलायतीवे'त्यादिना च पूर्वमकर्तृत्वमुक्तम्। तत्रचासङ्गत्वं हेतुः। कारकसज्ञिनो हि मूर्तस्यैव कर्तृत्वम्। अतएव व्यासः 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।' इति। नेयेति। जीवस्येव ब्रह्मणो वस्तुतोऽस- ऋर्येप्युपादानत्वात् ब्रह्म प्रपञ्चाश्रयः; अत एव 'न च मत्स्थानि भूतानी'ति स्मृतिरिति भावः। तस्यैवेति। तथाच स्वप्रतिबिम्बवद्कृत्तिविषयत्वघटित संक्ेष संबन्धेनावच्छेदकत्वसंबन्धेन प्रतिबिम्बसम्बन्धेनैव वा जीवस्य भासकत्वम्। अतएव न सर्वावभासकरवप्रसङ् इति भावः। अत एव निरुक्तसंबन्धेन जीवस्य भासकतवादेव। स्वतः स्वरूपेण। चिद्धिम्बाग्राहके चित्प्रतिबिम्बायोग्ये। वृत्ति वृत्तिसंश्रेषम्। तदाकारत्वायोगात् स्वतश्चिद्विम्बाग्राहके प्रतिबि- ग्वितत्वायोगात्। सूर्यादेः जलादिसंयुक्त्तमृदादाविव जीवचितो वृत्तिसंश्षिष्टे घटादौ प्रतिबिम्बस्य संभव इति भावः। ननु-सुखादेरिव शुफ्तिरूप्यादेरपि स्वच्छत्वसंभवात्तत्र वृत्तिकल्पना न युक्तेति-चेन्नन; अस्वच्छव्यावहारिकरजतादि- जातीयं कामयमानस्य पुरुषस्य प्रवृत्तिरस्वच्छरजतादावेव जायत इति तदतुरोधेन भ्रमस्थले तादृशमेव रजतादिकं करप्यते। किंच रजतत्वावण्छेदेनास्वच्छत्वास्वीकारे यस्या व्यावहारिकरजतव्यक्तरुत्पत्तिद्वितीयक्षणादौ प्रत्यक्षोत्तरं नाश: तस्या: वृस्िर्न स्वीक्रियेत; इषटापत्तौ च 'व्यावहारिकरजतप्रत्यक्षं सर्वमिन्द्रियजन्यमि'ति प्रतिसन्धाय तरदर्थमिन्द्रिय- व्यापारे प्रवृत्तेरनुपपत्तिरिति भावः । स्वभावस्य गन्धादिभेदसामानाधिकरण्यस्य। द्रव्यसमवेतस्य चाक्षुषे गन्वादि- व्यावृत्तरूपेण रूपादेर्हेतुतवं रूपादिव्यावृत्तरूपेण गन्धादे: प्रतिबन्धकतवं वेति न गन्धादौ चाक्षुषादिकमिति भावः । अन्य: ृसिसंक्लेषादिरूपः । दश्यत्वे भास्यखवे। अभेदामिव्यक्तीति। अभेदाभिव्य अकोपरागेत्यर्थः । संबन्धाव-
Page 191
४८६ अद्वैतसिद्धिः । [परिच्छेद: १]
चैतन्यस्यासङ्गत्वे ब्रह्मचैतन्यं सुतरामसङ्गम्; तथाच मायोपाधिकविषयोपरागत्वात् स्वतः सार्वश्यं नः स्यात्, नच-ब्रह्म सर्वोपादानत्वादुपाधि विनैव स्वस्वरूपवत्स्वामिन्नं जगदवभासयतितिवाच्यम् उपादानत्वं न तावद्विशिष्टनिष्ठं परिणामित्वम; आध्यासिकसंबन्धस्यातम्प्रतापत्तेः, अनाद्विद्यादिकं प्रति तद्भावाच्च, नापि शुद्धनिष्ठमधिष्ठानत्वम्; शुद्धस्य सर्वक्षत्वसर्घशक्तित्वादेरभावादिति-चेन्न, ब्रह्मणोऽसंगत्वेऽपि सर्वेषां तत्राध्यासेन मायोपाधि विनैव तस्य सर्वप्रकाशकतया सार्वश्योपपत्तेः। नच-शुद्ध निष्ठमघिष्ठानत्वं नोपादानत्वम् सार्वश्याभावादित्युक्तमिति-वाच्यम्; अविद्याकल्पितानां सर्वशत्वादीनां शुद्धे सत्त्वात्। अन्यथा तेषां तटस्थलक्षणत्वमपि न स्यात्। ननु-आवरणाभिभवा- र्थत्वपक्षो न युक्त :; विवर्ताधिष्ठानस्य चिन्मात्रस्याज्ञानादिसाक्षित्वेन सदा प्रकाशनात्, अन्यस्याज्ञा- नकल्पितस्यावरणस्याभावादिति-चेन्न; अज्ञानादिसाक्षित्वेन स्वप्रकाशेऽप्यशनायाद्यतीतत्वादिना प्रकाशाभावादावरणस्यावश्यत्वात्। ननु-अज्ञानस्य नयनपटलवत् पुंगतत्वे चैत्रस्याजाननाशेपि मैत्रस्य तद्नाशात् अप्रकाशो युक्त:, विषयगतत्वे तु चैत्रार्जितया वृत्त्या अज्ञाने दीपेन तमसीव नाशिते मैत्रस्यापि प्रकाश: स्यादिति-चेन्न; चैत्रावरणशक्तेरेवाझानगतायाश्चैन्ार्जितवृत्त्या नाशि- तत्वेन स पश्यति, न मैत्रः; तत्प्रतियोगिकावरणशक्तरनाशात्, आवरणशक्तीनां द्रष्टविषय मेदाभ्यां मिन्नत्वात्, तमस्तु, न तथेत्येकानीतप्रदीपेनाप्यन्यान्प्रति प्रकाशो युज्यते। एतेन-एकाज्ानपक्षे शुक्तिज्नेन तदज्ञाननिवृत्तौ सद्य एव मोक्षापातः, अनिवृत्ता रूप्यादेः सविलासाविद्यानिवृत्तिरूपबा- धायोग इति-निरस्तम; आवरणशक्तिनाशेऽपि मूलाज्ञाननाशाभावेन सदो मोक्षाभावस्य रुप्यादौ सविलासशक्तिमदविद्यानिवृत्तिरूपबाधस्यचोपपत्तेः। ननु-एकाजानपक्षे रूप्यादेः शुक्तिशानेन स्वकारणे प्रविलयमात्रं क्रियते, मुद्ररप्रहारेणेव घटस्य, न त्वज्षानं निवर्त्यत इति ते मतं न युक्तम्; यतो ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिबलात् ज्ञानस्याजाननिवृत्तिद्वारैवान्यविरोधित्वेनाश्ानमनि- वर्त्य रूप्यादिनिवर्तकत्वायोगात्, शुक्तिज्ानेनाश्ाननिवृत्तावमिव्यक्तचैतन्यसंबन्धाभावेन भ्रान्ताविव बाधेऽपि शुक्तेरप्रकाशापत्तेश्चेति-चेन्न; यतो ज्ञानमश्ञाननिवर्तकमिति व्याप्तेरुच्छेदविषयत्वात्, स्व- कारणे सूक्ष्मरूपेणावस्थाने तदनङ्गीकारात्, शुक्तिज्ञानस्यचानवच्छिन्नचैतन्यावरणरूपमूलाश्षाना-
रूप्यनिवृत्तिशुक्तिप्रकाशयोरप्युपपत्तेः। नच-उपादेयभूतया वृत्योपादानभूताविद्याभिभवो न घटते उपादेयेनोपादानामिभवादर्शनादिति-वाच्यम्; वृश्चिकादिना गोमयादेरुपादानस्याप्यभिभवदर्श- नात्। आरम्भवादानभ्युपगमाञ्च न गोमयावयवानामुपादानत्वशङ्का। ननु-चक्षुरादिजन्यशुक्त्या- दिवृत्तेः सप्रकारिकायाः निष्पकारकशुद्धचैतन्याविषयतया तदावरणरूपमूलाज्ानामिभवाभावेऽप्य- वच्छिन्नविषयया तया अवच्छिन्नचैतन्यावरणरूपतूलाशनाभिभवो युज्यत इति ते मतमयुक्तम्;
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भास: विषयसाक्षिणोः संबन्धेत्यथः। मायोपाधिकेति। मायावृत्तिरूपोपाधिघटितेत्यर्थः। अधिष्ठानत्वम् अकल्पिते कल्पितस्य तादात्म्यम्। असङ्गत्वेऽपीति। अविद्यादौ यादृशः स्वप्रतिबिम्बरूपसंबन्धस्तादृशस्य घटादावभावेडपीत्यर्थः। अध्यासेन अध्यासतादात््येन। नोपादानत्वं न सर्वभासकताप्नयोजकोपादानत्वपदार्थः । शुद्धस्येति शेपः। कल्पि- तानामिति। परमार्थतः शुद्धमपि अविद्ययेव दृश्यान्तरेरपि सार्वज्ञ्यादिभिः संबध्यत इति भावः। तेषामिति। शुद्धं प्रतीति शेषः। उक्तं च विवरणादौ तथेति भावः। अन्यस्य अन्यस्मिन् कल्पितस्य। कल्पिते कल्पितत्वादन्यदनावृतमि-
श्यकम्; अप्रकशादित्यर्थः। शक्तिमद्विद्येति। शक्तिनाशाच्छक्तिविशिष्टरूपेणाविद्याया नाश इति भावः। उच्छेदेति। ज्ञानमश्ञानप्रयुक्तस्यैवोच्छेदकमिरयेवंरूपत्वादित्यर्थः। अज्ञानप्रयुक्तत्वं चाज्ञानव्याप्यत्वम्। तज्चाज्ञाने तद्याप्ये अनादिदश्ये तस्कार्ये चास्त्ेव। उच्छेदश्र पूर्वोक्तो बोध्यः। यदि तु ज्ञानमेवाज्ञानस्य नाशस्तदुत्पत्तिक्षणस्यचाज्ञानप्रयुक्त्तदश्याधिकर- णकालपूर्वत्वाभावनियम इति स्वीक्रियते, तदा निवर्तकमित्यस्य निवृत्तिरित्यर्थ इति ज्ञानमज्ञानस्यैव निवृत्तिरिति नियमो बोध्यः। तद्नङ्गीकारात् ज्ञानमज्ञानस्यैवेति नियमास्वीकारात्। अज्ञानभिन्नस्य ज्ञानात् सूक्ष्मरूपता नेत्यस्यास्वीकारा- दिति यावत्। तथाचैकाज्ञानपक्षे शक्तिमेदस्य शुक्तिरूप्याद्यनुपादानत्वेपि शुक्त्यादिज्ञानेन रूप्यादिनिवृत्तिर्युज्यत एवेति भावः। शक्तिभेदस्य पल्लवाज्ञानस्य वा तदुपादानत्वपक्षतु बाध एव संभवतीत्याह-गुक्तिज्ञानस्य चेति। तूलाश्षा- नेति। मूळाज्ञानीयावस्थातच्छक्त्यन्यतरेत्यर्थः । अनभ्युपगमादिति। उपादानमविद्यादिकम् आकाशदिरूपेण परिण-
Page 192
[प्रतिकर्मव्यवस्था] गौडब्रह्मानन्दीयुता। ४८७
अवच्छिन्ने अविद्याकल्पिते अप्रसक्तप्रकाशे मूलाविद्याया इव तदावरणशक्तरयोगात्, त्वयानभ्युप- गतत्वाच्, जडविशिष्टात्मानं प्रति तदभ्युगमेच विशेषणानावारकविशिष्टावारकशक्त्यमिभवस्य विशेष्यावारकशक्त्यमिभवं विनाऽयोगेन शुक्त्याकारवृत्त्यैव शुद्धात्मप्रकाशापातादिति-चेन्न; अनवबोधात्। न ह्यविद्याकल्पिते Sवच्छिन्ने अस्मामिरविद्या वा तच्छक्तिर्वाभ्युपेयते, किंतु चैतन्यमात्र एव; तस्मिस्तु सवे जडमध्यस्तमस्तीत्येकाश्रयाश्रितत्वसंबन्धात् जडावच्छिन्नचैतन्यमावृतमिति व्यप- देशः, घटाद्याकारवृत्त्या तु तद्धिष्ठानचैतन्याभिव्यक्तौ तद्वच्छेदेनैव तन्निष्ठावरणामिभवो जायत इति न शुद्धात्मप्रकाशापत्तिः। तदुकं संक्षेपशारीरके-'आश्रयत्वविषयत्वभागिनी निर्विभागचिति- रेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥' 'बहु निगद्य किमत्र वदाम्यहं शृणुत संग्रहमद्यशासने। सकलवाऊनसातिगता चितिः सकलवाऊनसव्यवहारभाकू॥' इति च। तस्मादविद्यायां सत्यामपि शक्त्यमिभवाद्वा तूलाजाननाशाद्ा अवस्थाविशेषप्रच्यवाद्वा, एकदेशनाशाद्वा, भीरुभटवद्पसरणाद्वा, कटवत्संवेष्टनाद्वा, आवरणभङ्गानिर्मोक्षबाधानामुपपत्तिः। ननु-अवस्थाशेषाणामश्ञानामिन्नत्वे एकाज्ानपक्षक्षतिः, अशानभिन्नत्वे च साक्षात् ज्ानेन निवृत्तिः भ्रमादयुपादानत्वंच न स्यात्, तेषामिव रूप्यस्यैवोपादाननाशं विना नाशप्रसङ्गश्व, शुक्त्यज्षानं नष्टमित्यनुभवविरोधश्चेति-चेन्न; यतोऽवस्था तावदवस्थावतोSमिन्नैव, अज्ञानैक्यं तु सर्वावस्थानु स्यूतैकाकारमादाय । एवंचाज्ञानावस्थाया अजञानत्वेन न ज्ञानसाक्षान्निवर्त्यत्वाद्यनुपपत्तिः । यत्त्ववस्थाविशेषाणामिव रूप्यस्यैवोपादाननिवृत्ति विना निवृत्त्यापादानं, तद्युक्तम्; अज्ञान एव ज्ञानस्य साक्षाद्विरोधावधारणेनाज्ञानावस्थायास्तदभिन्नायाः ज्ञानसाक्षान्निवर्त्यत्वाहत्वात्, नतु रूप्यादीनाम्; अनीदृक्त्वात्। अनेकाज्ञानपक्षे तु शङ्कापि नोदेति। ननु-अस्मिन्पक्षे एकया वृत्त्या सर्वतद्ज्ानस्य निवृत्तिः, उत एकतदज्ञानस्य; आद्ये पुनः शुक्ते: कदाप्यप्रकाशो न स्यात्, अन्त्ये वृत्तिकालेऽपि प्रकाशो न स्यात्, एकस्यावरणस्य निवृत्तावप्यावरणान्तरानिवृत्तेरिति-चेन्न; एकया वृत्त्या एकाजाननाशेऽपि तयैवावरणान्तराणां प्रतिरुद्धत्वात् यावत् सा तिष्ठति तावत्प्रकाश, तस्या- मपगतायां पुनरप्रकाशश्चोपपद्यते; अज्ञानस्य ज्ञानप्रागभावस्थानीयत्वात्। यथा तव एकं ज्ानमेकमेव
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मते, मिथः संयुक्तकपालद्वयादिकं घटादिरूपेण परिणमते इत्येव स्व्रीक्रियते। तथाच घटादौ कपालादे: संबन्धो नास्ति। तस्य हि स्वीकारे घटस्येव कपालट्ठयस्यापि गुरुत्वादिकं स्वकार्यानुमानादिकं कुर्यात्, तस्मात् परिणामवाद एव युकतः । उक्तं चारम्भणाघिकरणभाष्यादौ-'द्रव्यारम्भोऽपि न सर्वत्रारम्भकसंयोगादेवे'ति। तथाचावयवसंयोगेनैव द्रष्योत्पत्तावनुभवविरोधः; शीघ्रमेव प्रभादिस्थले द्रव्यस्योत्पत्तेः । अभिव्यक्तो प्रमातृचिदुपरागे। तदवच्छेदेनै- वेति। यद्यपि शुद्धनिष्ठमेव सर्वमावरणम्; तथापि तदभिभवो घटाध्याकारवृश्या क्रियमाणो घटाद्यवच्छिन्न एव। स हि यदयज्ञाननाशः, तदा वृत्तिज्ञानस्वरूपर्वात् घटाय्यवच्छिन्न एव; प्रत्यक्षमनोवृत्तेस्तथात्वस्येन्द्रिय सन्निकर्षाधीनस्वात्। परोक्षवृत्तिप्रयुक्तस्याभिभवस्य प्रमातृमात्रनिष्ठाज्ञाननाशरूपरवान्र घटाद्यवच्छिन्नतवमिति वक्ष्यते। आवरणस्य शक्ति रूपरवेऽपि तद्भिभवो वृत्तिस्वरूपत्वात् तथैव। यदि तु वृत्यभावविशिष्टो योऽज्ञानसंबन्धः, तद्भाव एवाभिभवः, नर्वज्ञामस्य नाश :; अज्ञानस्यैकत्वेन वटादिवृश्या नाशासंभवात्, तदापि घटादिवृश्या संपाद्यमानः स एवेति भावः । शक्त्यमिभवाद्वेति। शक्ति: आवरणशक्तिः। तूलाज्ञानम् भावरणविक्षेपशक्तियुक्तं ब्रह्मज्ञानान्यज्ञाननाश्यमू- लाज्ञानतादात्म्यानापन्नमज्ञानम्। अवस्थाविशेषस्तु तादृशं मूलाज्ञानतादालयापन्नम् । वक्ष्यतिहि 'अज्ञानाव- स्थायासतदभिन्नाया' इति। एकदेशनाशस्तु वृत्तौ सत्यामज्ञानं स्वकार्याक्षमम्, तत्रापि वृत्तिकालाभावविशिष्टमज्ञानं भानविरोधीत्युपान्त्यपक्षः। वृत्युतपत्तिक्षणोत्तरवृत्तिकाला भावविशिष्टमज्ञानं भानविरोधीत्यन्त्पक्ष:। अव यथा प्रतिभटागमनक्षण एव भीरुभटापसरणं, तथा वृश्युत्पत्तिक्षण एवावरणाभिभवः। यथा च हसतसंयोगोत्पस्युत्तरं कटस्य बेष्टनं, तथा वृश्युस्पत्तिक्षणोत्तरवृत्तिकाले आवरणाभिभव इत्याशयेन दृष्टान्तो युज्यते। अत एव व नानाज्ञानपक्षे शक्ते: ज्ञाननाश्यतवपक्षे वा वृत्यावरणस्याभिभवो वृत्तिरेव वा स इति पक्षद्वयं बोध्यम्। वक्ष्यमाणरीत्या चरमपक्षार्भ्या भिन्न एववा एकदेशनाशपक्षो बोध्यः। एकाकारं एकाज्ञानस्वरूपम्। यथा घटादिरूपावस्थास्वनुगतमप्यज्ञानं घटादिनाशेऽपि न मश्यति, तथा अज्ञानरूपनानावस्थासु अनुगतमज्ञानं तासां नाशेऽपि न नश्यति। एतावांस्तु विशेष :- यत् घटाद्यवस्थाSनादिरज्ञानोच्छेदं विना नोच्छिद्यते। अज्ञानरूपावस्था सु स्वानुगताज्ञानवदनादि: तदुच्छेदं विनाप्युच्छिद्यते च-इति। नच-अज्ञानतवादेव तासां ज्ञाननाश्यत्वसंभवात्तत्र मूलाज्ञानतादातयस्वीकारो
Page 193
४८6 अद्वैतसिद्धिः । [परिच्छेद: १]
प्रागभावं नाशयति, तनाशरूपेणोदयात् प्रागभावास्तरनिबन्धनमज्ञातत्वादिव्यवहारं च प्रतिबभ्नाति; तथा ममाप्येकं जानमेकमेवाज्ञानं निवर्तयति, अज्ञानान्तरनिबन्धनं च प्रयोजनं प्रतिबभ्रातीति किम- सुपपभ्नम् ? अत्र च प्रतिबन्धपदेन कार्यानुत्पत्तिप्रयोजकत्वं कारणाभावप्रतिबन्धकसाधारणममिहि- सम्। एवमवस्थाविशेषपक्षेऽपि प्रकाशाप्रकाशावुपपादनीयौ। एवममूर्तस्याशानस्य यद्यपि दण्डादिना गवादीनामिवापसरणं करादिना कटादीनामिव संवेष्टनं च न संभवति; तथापि कार्याक्षमत्वसाम्ये- नापसरणसंवेष्टनपक्षो योजनीयौ। यथाहि उत्तेजकाभावसहकृतस्य मणेः प्रतिबन्धकतायामुत्तेजक- सश्वे प्रतिबन्धककार्याक्षमत्वम्: तथा वृत्त्यभावसहकृतस्याज्ञानस्य प्रतिबन्धकतायां वृत्तौ सत्यां तत्कार्यानुदय इति द्रष्टव्यम्। ननु चैतन्यस्य निरवयवत्वात् तस्यैकदेशेन प्रकाशो न युज्यते; अथाकाश इष तत्तदर्थावच्छिन्नत्वमेकदेशशब्दार्थः, तर्हि नागन्तुकपदार्थावच्छिन्नचैतन्यमनाद्यज्ञानस्य विषय: निर्विषयस्यावरणस्यायोगात्, प्रागनवच्छिन्नावरणमेवेदानीम्वच्छिन्नावरणं जातमित्यपि न; अवच्छि प्चैतन्यज्षानेनैवानवच्छिन्नावरणनाशापत्तेः; एतेन व्यक्तितः पूर्व जातिरिव विषयात्पूर्वमज्ञानमस्तीति निरस्तमिति-चेन्न; अनाद्यज्ञानविषये अनादिचैतन्ये तत्तदागन्तुकपदार्थावच्छेदाभ्युपगमात्,आश्र- यत्वविषयत्वभागिनी निर्विभागचितिरेव केवले' त्युक्तत्वात्। यदवच्छिन्नगोचरा च वृत्तिस्तद्वच्छे-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। व्यथ इति-वाच्यम्; 'अजामेकां' 'अज्ञानेनावृतं ज्ञान'मित्यादिश्रुति स्मृ तिष्वावारकस्यैकस्वरूपाभिसत्वप्रत्ययात्, 'अज्ञातः पटः' 'अज्ञातो घटः' इत्याद्यनुगतप्रतीतिषु तथाप्रत्ययाच्चेति भावः । अनीदृक्त्वात् अज्ञानत्वशून्यतवात्। प्रागभावान्तरनिबन्धनमिति। 'अज्ञातो मे घट' इत्यादिप्रत्यक्षधीस्तत्पुरुषीय ज्ञानाविपयवृत्तित्वविशिष्टं तरपुरुषीय- ज्ञानस्य संसर्गाभावमवगाहत इति परैः स्वीक्रियते। तत्र यथा तत्पुरुपीयकिंचिज्ज्ञानविषये घटे तादृशप्रत्यक्षाभावः, विषयविधया तादृशप्रत्यक्षे कारणीभूतस्य ताद्टशाभावस्याभावात्; तथा मन्मते वृत्तिज्ञानमेकाज्ञाननिवर्तकं अन्याज्ञान- प्रयुक्त्तस्य 'घटो न भाती'ति व्यवहारस्यानुत्पत्ती प्रयोजकम्। तत्वंच तादृशव्यवहारं प्रति घटाकारवृत्तेः प्रतिबन्धकरवात्, वृत्िविषयत्वाभावकालोपहित एव घटे आवृतत्वस्वीकारात् वृश्यविषयत्वविशिष्ट यदज्ञानं, तदभावविशिष्टचितो मानत्वस्वीकारेण वृत्तिकाले तस्याः घटादौ सर्वाद्वा। सर्वथापि ताद्ृशव्यवहार रूपकार्यानुत्पत्तिव्याप्यार्थकं प्रतिबन्धकपदं वृत्तावस्मदीयैः प्रयुज्यते इति समुदायार्थः । प्रतिवन्धकपदेन प्रतिबभ्नातीत्यनेन। प्रतिबन्धकतायां 'घटो भाती'- त्यादिव्यवहारोत्पत्तिप्रयोजकाभावप्रतियोगितायाम्। सा च भातीत्यादिव्यवहारे वृश्यभावविशिष्टसंबन्धस्य प्रतिबन्ध- करवाद्वा वक्ष्यमाणरीत्या वा बोध्या। अन्रेदं बोध्यम्-वृत्यनवच्छेदकत्वसमानाधिकरणो योऽज्ञानसंबन्धः, तस्य भातीतिव्यवहारे प्रतिबन्धकत्वात् घटादौ वृश्यवच्छेदकत्वकाले तथा व्यवहारः। अथवोक्तसंबन्धाभावाश्रयतादात्म्या- पक्चा चिदेव भानम्, तेनोक्तकाले अज्ञानसंबन्धसत्वेऽपि विषयसत्वादुक्तव्यवहारः। तदन्यकाले तु विषयासत्वादेव नोक्तव्यवहार: । एतस्मिन् पक्षे च प्रतिबन्धकत्वं न कल्प्यते। वृत्तिविषयत्वासमानाधिकरणासत्वापादकाज्ञानसंबन्धा- भावस्यास्तित्वव्यवहारे प्रयोजकत्वमपि तथैव बोध्यम्। अज्ञानस्य संबन्धस्तु सर्वत्र विषयतावच्छेदकतवम्। तथ घटा- दावेव, न सुखादाविति वृत्त्यभावेऽपि सुखादौ भातीत्यादिव्यवहारः। यद्यपि ब्रह्मणि वृत्तिविरहकालेऽप्युक्त्तावच्छेदक- त्वस्याभावात् 'ब्रह्म साक्षात्करोमी'ति व्यवहारापत्तेर्भानं न तद्धटितं; तथापि विषयत्वतद्वच्छेदकत्वयोरन्यतरदुक्काव- च्छेदकतवशब्दार्थ इति ब्रह्मणि वृत्तिविरहकाले अज्ञानविपयरबसश्वेन उक्तान्यतराभावस्यासत्वात् उक्तान्यतराभाववि- शिष्टविषयतादात्स्यापनसाक्षिणो विषयसाक्षारकारत्वे दोषाभावः। अवच्छेदाभ्युपगमादिति। अज्ञानस्यैकत्वप- क्षेऽपि शुद्धचिझ्निष्ठा विषयता काचित् केनाण्यमवच्छिसा स्वीक्रियते; सैव ब्रह्मज्ञाननिवर्त्या, अन्यास्तु विषयता: शुद्ध- विश्रिष्ठा अपि आगन्तुकेनापि कादाचित्कप्रकाशेम घटादिनावSच्छिद्यन्ते। यथा घटादत्यन्ताभावस्यानादिविशेषणतासं- बन्धे परमते कालविशेषस्थावच्छेदकरवं, तद्वदेव व तत्र न नियामकापेक्षा। अथवा कादातित्कप्रकाशस्य घटादि कार्यस्य स्वावच्छित्तविषयिताकरवसंबन्धेनाविद्यानिष्ठायासुतपत्ता तादालय संबन्धेनाविद्याया: कारणत्वात् घटादिनिष्ठो- कविषयता वच्छेदकत्वमविद्या नियम्यमेव; अनादीश्वरादिनिष्ठं तत् केवलम्, न हेतुनियम्यम्। अथवावच्छेदाभ्युपगमा- दित्यस्याज्ञानविषयता घटाय्यवच्छित्नेत्यत्र न तात्पर्यम्, किंत्वज्ञानविषये शुद्धचिति घटादिसंबन्ध इत्यत्र। नचैवं- सुष्नादी भातीति व्यवहारो न स्यात् घटादौ हि वृत्त्यभावकाले तद्वारणाय वृत्यनवच्छेदकनिष्ठस्याज्ञानतादात्म्यस्यो- कव्यवहारविरोधित्वं वाच्यं, तथ सुखादावप्यस्तीति-वाच्यम्; सुखादावेकस्या अविद्यावृत्तेरनादे: स्वीकारसंभवाद, प्रतिभासध्याप्यस्थितिकस्य कार्यस्य विषयित्वसंबन्धेन तादशवृत्िनिष्ठोत्पत्तौ साहशवृत्तेखतादालयेन कारणत्वसंभवाल्। यद्वच्छिनगोचरेति। यत्संभ्रिष्टा यदाकारा चत्यर्थः। तद्वच्छेदेनैवावरणापसरणादिति। तस्मैवोकाशन-
Page 194
[प्रतिकर्मव्यवस्था] ४८९
देनैवावरणापसरणात् नानवच्छिन्नचैतन्यावरणभङ्गप्रसङ्गः। अत एव वृत्तिविषयावच्छिन्नचेतन्यात् प्रागज्ञानमस्तीत्यमिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम्। तस्माद्धिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम्। तदयमत्र निष्कर्षः-यद्यपि विषयप्रकाशक विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्छिन्नचैतन्यं तु तस्य प्रमातृ, अन्तःकरणवृत्त्यवच्छिन्नचैतन्यं तु प्रमाणम्; तथापि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। संबन्धाभाववश्वादित्यर्थः । आवरणमभानापादकं ग्रह्यम्। तेन परोक्षवृत्ते: प्रमात्रवच्छेदेनावरणनिवर्तकत्वेऽपि न क्षतिः।प्रसंग इति। अज्ञाननाशं प्रति ब्रह्माकारवृत्तेरेव हेनुत्वात् वटाय्याकारवृश्या नाज्ञानस्य नाशः, किंतु तदी- यानां घटादवच्छिन्नानां विषयतानां पल्लवाज्ञानानां मूलाज्ञानशक्तीनां चेति न तया मूलाज्ञाननाशप्रसंग इति भावः । तदेवमेकदेशपक्षान्तर्भावेनोपान्त्यान्त्यपक्षयोर्व्याख्यानं कृतम्। अथवा तयोः पक्षयोः उपपादनं पूर्वमेव कृत्वा 'ननु, चैतन्यस्य निरवयवत्वा'दित्यादिनोक्तपक्षाभ्यां भिन्नत्वेन स्वीकृत्य एकदेशनाशपक्ष उपपाधते। तत्र यद्वच्छिन्नेत्यादेरयमर्थः । यत्कालावच्छेदेन घटादौ मनोवृत्तिः, तत्कालावच्छेदेन नाज्ञानविषयतावच्छेदकत्वम्, किंतु तदन्यकालावच्छेदेन। तथाचास्मिन् पक्षे अज्ञानविपयतानवच्छेदकत्वविशिष्टघटादेस्तादारम्यविशिष्टा चिदेव घटादेर्भानम्। अस्तित्वंत्वसत्वापादकाज्ञानघटितमिति लाघवम्। यनु-शुक्त्यादिज्ञानस्याज्ञानशक्तिनाशकतव- मयुक्तम्; शक्तेरभ्रमोपादानत्वे अज्ञानत्वापतेः, अ्रमानुपादानत्वे तव्निवृत्तावपि भ्रमानिवृश्यापत्तेः, शक्त्न्यस्याज्ञानस्य वैय्थ्यान्ज-इति, तन्न; अ्रमोपादानतवेऽपि हि शक्तर्नाज्ञानत्वम्, तादृशशक्तिमश्वस्यैघाज्ञानलक्षणत्वात्। अत एव न तस्या वैयर्थ्यम्; कार्यप्रयोजकशक्तिमस्वं विना कारणत्वासंभवात्। अथवा शक्तिर्नोपादानम्, किंतु तद्व- दज्ञानम्। शक्तिर्हि मीमांसकमते कारणतैव न तु कारणम्, तन्मात्रस्य निवृत्त्यापि रूप्यादिनिवृत्तिः संभवत्येव; शक्तिविशिष्टरूपस्योपादानस्य नाशात्। यद्पि-नानाऽज्ञानपक्षे अज्ञानीयनानाशक्तिपक्षे च शुक्त्यादिज्ञानेन किंचि- दज्ञानस्य शक्तेश्र नाशः, ज्ञानस्य शक्त्यन्तरस्य च कार्यक्षमतया अवस्थानं च न युक्तम्; सर्वत्राज्ञाने शक्तौ च कार्याक्ष- मत्वस्य वक्तुं शक्यत्वादकाज्ञानपक्षस्येव युक्तत्वात्-इति, तदपि न युक्तम्; 'ज्ञानादज्ञानं नष्ट'मिति प्रत्ययस्य बाधस्य चोपपादनाय नानाऽज्ञानशक्तिपक्षयोरपि युक्तत्वात्। अधिष्ठानचैतन्यमिति। जीवचैतन्यस्य भासकत्वप- क्षेऽपि तस्याधिष्टानीभृतचित्स्वरूपत्वादयमुपसंहारो युक्तः । अतएव प्रकाशकं तावदधिष्ठानचेतन्यमेवेत्यादिपूर्वग्रन्थः यथाश्रुतोऽपि रम्य एव। एवंच जीवस्य सर्वगतत्वजगदुपादानत्वयोः स्वीकारपक्षे जीवस्यव भासकत्वं पूर्वोक्तं न विरुध्यत इति बोध्यम्। ननु एकजीववाद जीवस्य जगदुपादानत्वादावरणभङ्गार्थैव घटादो वृत्तिः, तथाचकस्य प्रमातु: तादृशवृत्तिकालेSपरस्यापि घटादिकमपरोक्ष त्यात्, एवमेको जीवोऽसंगः सर्वगतो ब्रह्मैव जगदुपादानमिति पक्षे सा- क्षिचिदुपरागार्थव सा; तथाचोक्तापत्तिः, साक्षिण: सर्वान् प्रमातृन् प्रत्यविशिष्टत्वेन घटादिचिदुपरक्तत्वादित्यत आह- सद्यमित्यादि। प्रमेयचतन्यमिति। जीवचतन्यस्य भासकत्वपक्षेऽपि तन्वास्यं घटाद्यवच्छिनं चैतन्यम्; मनोवृत्ते- स्तदाकारत्वात्, घटादेस्तु तद्वच्छेदकत्वस्यैव स्वीकारात्। घटादिकं तु तादृशेन प्रमेयचिता भास्यते। अतएव तत् स्वयं भासमानं सत् स्वाध्यस्तं घटाद्यपि भासयतीति मूले अग्रे वक्ष्यते। अन्तःकरणेति। देहावच्छिन्नमनोभागे- त्यर्थः। अन्तःकरणवृत्तीति। दहविषययोमध्यस्थमनोभागेत्यर्थः । प्रमाणमिति । विषयस्थमनोभागावच्छिन्ना चित्तु प्रमितिरिति शेपः। विपयीभूतचिति आवरणाभिभवस्य फलस्य विषयगतमनोभागसंबन्धाव्यवहितोत्तरक्षण एव संपत्या तद्वच्छिन्नचिदेव क्रियारूपा प्रमितिः, तस्यास्तु प्रमातृव्यापाराविष्टेनोक्तमध्यभागेन संपश्योक्तमध्यभागाव- च्छिन्ना चित् प्रमाणम्। कर्तृव्यापारेण हि नमनोस्नमनादिनाSडविषं कुठारादिकं भिदादिक्रियानिप्पादकं करणं भवति। तादृशकरणं प्रति देहावच्छिन्नप्रयत्नन देहावच्छिन्नभागस्य प्रेरकत्वात् प्रमासाधनसकलकारकेपु स्वतत्रत्वाच्च तद्वच्छि- ना चित् प्रमान्नी; केवलस्योक्तभागस्याचेतनत्वात्, केवलचितोऽपि निर्व्यापारत्वात्, कर्तृत्वासंभवात् मिथस्तादारयं प्राप्तस्य तदुभयस्य प्रमातृत्वम्। तस्य च तादृशेनैव चिदात्मकेन स्वव्यापारेण प्रमारूपेण विपयं व्यापुयामहमिती- च्छया तादशव्यापाररूपेण विपयसंश्िष्टपरिणामप्राप्तेस्तस्या अपि विपयशरीरमध्यस्थतादृशपरिणामप्राप्तिद्वारकत्वात् प्रमितिप्रमाणयोरपि चिदचिद्रूपत्वम्। न हि चैत्रकुठारच्छिदानामिव प्रमात्रादीनां मिथोऽत्यन्तभिन्नत्वम्, अषि तु प्रमा- सुद्टिश्यैव प्रमातु: प्रयत्नोदयात् प्रमायाश्च प्रमातृपरिणामरूपत्वेन चिदचिद्रपत्वमेव। ननु-चक्षुरादीनामपि प्रमाणत्व- संभवात् तदनुक्त्या न्यूनतापत्तिरिति-चेन्न्न; प्रत्यक्षप्रमामात्रे प्रमाणादिकं प्रकृते विवक्षितम्; तच्चोक्तमेव, चक्षुरादिकं तु तद्विशेषे प्रमाणम्। तथाच तदनुक्तिर्न दोपः। किंचान्तःकरणवृत्तीत्यनेन चक्षुरादिद्वारेत्यनेन च चक्षुरादिकमपि प्रमा- णमित्युक्तमेव। मनो हि चक्षुरादिनैक्यं प्राप्तमेव विषयसंश्विष्टरूपेण परिणमते। तथापि त्रयाणामौपाधिकभेदसत्वेऽपि। यदीयेति। यत्प्रमातृसंबन्धीत्यर्थः। तथाच प्रमातुरुपरागार्थेव वृत्तिर्न साक्षिण इनि नैकप्रमातृवृत्या अपरप्रमातृप्र- अ. सि. ६२
Page 195
४९० अद्वैतसिद्धिः । [परिच्छेद: १]
यदीयान्तःकरणवृत्त्या विषयपर्यन्तं चक्षुरादिद्वारा निस्सृतया यत्प्रकाशकं चैतन्यं यत्प्रमातृचैतन्या- भेदेनाभिव्यज्यते तमेव स एव जानाति नान्यं नान्यो वा। अतयवैकवृत्त्युपारूढलक्षणैकलोलीभावापननं प्रमातृप्रमाणप्रमेयचैतन्यं भवति। ततस्तद्वच्छेदेनाज्षाननिवृत्त्या निवृत्त्या भासमानं प्रमेयचैतन्यमप- रोक्षं फलमित्युच्यते। तत् स्वयं भासमानं सत् स्वाध्यस्तं घटाद्यपि भासयतीति तत् फलव्याप्यमित्यु पेयते। यन्निष्ठा च यदाकारा वृत्तिर्भवति तन्निष्ठं तदाकारमज्ञानं सा नाशयतीति नियमात् प्रमातृप्रमे योभयव्यापिन्य परोक्षवृत्ति: स्वावच्छेदेनावरणमपसारयति; प्रकाशस्य स्वावच्छेदेनावरणापसारकत्व- दर्शनात्। अतः प्रमात्रवच्छिन्नस्यासत्त्वावरणस्य प्रमेयावच्छिन्नस्याभानावरणस्य चापसरणात् घटोऽयं मे स्फुरतीत्याद्यपरोक्षव्यवहारः। परोक्षस्थले तु इन्द्रियसन्निकर्षलक्षणद्वाराभावादन्तःकरणनिस्सर- णाभावेन विषयपर्यन्तं वृत्तेरगमनाद्विपयावच्छिन्नप्रमेयचैतन्येन सह प्रमातृचैतन्यस्यैकवृत्त्युपारूढ- त्वाभावेनापरोक्षतयाऽभिव्यक्त्यभावेऽपि प्रमातृप्रमाणचैतन्ययोरेकलोलीभावापत्या प्रमात्रवच्छि- न्नमसत्त्वावरणमात्रं निवर्ततेः तावन्मात्रस्य वृत्यवच्छिन्नत्वात्। इदमेव सुपुप्तिव्यावृत्तिशव्देन विव-
वृत्त्या अनुमानादौ व्यवहारोपपत्तिः । अत एव जानाम्यहं पर्वते वह्निरस्तीति, स तु कीदृश इति मे न भातीत्यादिव्यवहारः। त्रयाणामेकलोलीभावे अपरोक्षत्वम्, द्वयोरेकलोलीभावे तु परोक्षत्वमिति न सङ्करः। वृत्तेश्च विपयेण सर्व साक्षादेवापरोक्षस्थले संबन्धः, परोक्षस्थले त्वनुमितेरनुमेयेन तद्याप्यज्ञानजन्यत्वम्, शाब्दयाः संसर्गेण सह तदाश्रयवाचकपदजन्यत्वम्, स्मृतेः स्र्तव्येन सह तद्विषयानुभवजन्यत्वम्। एवमन्यत्रापि परम्परासंबन्ध एवेति परोक्षापरोक्षविभागः । विस्तरेण व्युत्पादितास्माभिरियं प्रक्रिया सिद्धान्तविन्दौ। तस्माद्विषयस्य मिथ्यात्वेऽपि प्रतिकर्मव्यवस्थोपप- न्नेति दिक॥ इत्यद्वैतसिद्धौ प्रतिकर्मव्यवस्थोपपत्तिः ॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्यक्षता घटादेरिति भावः । यत्प्रकाशकं यदवच्छिन्नम्। यत्प्रमातृचैतन्येति । यत्प्रमातृ मनोवृत्त्यवच्छिन्नचैतन्ये- त्यर्थः । जानाति साक्षात्करोति। अन्यम् अस्वच्छमन्यम्। तेन स्वच्छस्य सुखादेवृत्ति विनेव प्रत्यक्षत्वेऽपि न दोपः। अन्यः अन्यजीवः। तेनेशस्य चक्षुरादिद्वारकवृत्ति विनैव सकलदृशयप्रत्यक्षवत्वेऽपि न दोपः। तदवच्छेदेन तहिपया- वच्छेदेन। अज्ञाननिवृत्त्या अनभिव्यक्तिनिवृश्या। तेन वृत्तेः प्रमातृचिदुपरागाथेत्वपक्षस्यापि संग्रहः । अनुपरागस्या- व्यनभिव्यक्तित्वात्। निवृत्त्या भासमानं निवृत्त्यभिन्नस्य भासमानत्वस्याश्रयः। फलमिति। वृत्तरेवावरणनाशत्वात् प्रमाध्ुपरागत्वाञ्च फलत्वात्तद्विशिष्टरूपेण घटादिचैतन्यं फलम्। नच-फलत्वं क्रियारूपवृत्तेरनुपपन्नमिनि-वाच्यम्; घटादिसंयोगोपधायकक्रियोपहितरूपेण वृत्ते: क्रियात्वं तादृशसंयोगोपहितरूपेण फलत्वमिनि स्वीकारात्, तादशरू- पयो: पौर्वापर्यांत्। फलव्याप्यं फलभास्यम्। ननु परोक्षवृत्तिस्थलेऽप्यावरणं नष्टमित्यनुभवात् परोक्षभ्रमोच्छेदद- र्शनाश्चावरणभङ्गस्य वाच्यत्वात् तत्रापरोक्षभ्रमस्योच्छेदः स्यात्; 'पर्वते वह्निं जानामी'तिवत् 'परवते वहिं साक्षात्क- रोमी'ति व्यवहारः स्यात्, तत्राह-यन्निष्टेत्यादि। निष्ठा संश्षिष्टा। तन्निष्ठं तद्वच्छिन्नाश्रयताकम्। तदाकारं तदधच्छिन्नविपयताकम्। अज्ञानं अनभिव्यक्तिम्। स्फुरति भानाश्रयः। आदिपदात् 'घटं साक्षात्करोमी'त्यादिसं- ग्हः । मे इति। प्रमातृविशेषनिरूपितत्वं पध्चर्थः । तस्य च स्फुरणघटके ज्ञाने अन्वयः। इदमेव असत्वापाद- काज्ञानमेव। अभानापादकत्वमसत्वापादकत्वं च जातिविशेषी। प्रमात्रवच्छिन्नेति। विपयनिष्ठवह्नयादिजनकत्वा- द्सत्वापादकस्याप्यज्ञानस्य विपयनिष्टत्वं वक्तुमुचितम्; अन्यथा हद़ादिचित्संबन्धरूपविशेष्यताया वह्वयादिचित्संब- न्धरूपप्रकारतावच्छिन्नत्वासंभवात्। न हि दूरस्थयोरवच्छेद्यावच्छेदकत्वं संभर्वात। अभानापादकस्याप्यज्ञानस्य प्रमा- त्रवच्छिन्नत्वे प्रमाणाभावः, प्रमातृविशेषस्य तु निरूपकत्वमेवाज्ञाने संबन्धः; अन्यथा 'ब्रह्म मे न स्फुरती'त्यादा का गतिः ? न हि मूलाज्ञानं प्रमान्नवच्छिस्म्। तथाच द्विविधमप्यज्ञानं विषयेणवावच्छिन्नं न प्रमान्नेति युक्तं पश्यामः। सिद्धान्तबिन्दुटीकायामधिकं विवेचितमस्माभिः। साक्षादेवेति। अवच्छेदकतारूप इत्यर्थः । परंपरेति। अभ्युपेत्य वादोऽयम्। आकाराख्यविषयताया साक्षात्संबन्धस्याचार्यरेव स्थलान्तरे उक्तत्वात्॥ इति लघुचंद्रि कायां प्रतिकर्मव्यवस्था ॥
Page 196
[प्रतिकर्मव्यवस्था] गौडब्रह्मानन्दीयुता। ४९१
अथ प्रतिकर्मव्यवस्था।
(१) तत्र न्यायामृतकारा :- प्रतिकर्मव्यवस्थानुपपत्त्याऽपि मिथ्यालानुमानमप्रयोजकम्। तथाहि-यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य चतुष्कोणाकारं भवति, एवं तजसमन्तःकरणं चक्षुरादिद्वारा निर्गत्य विपयाकारं भवति, सैव वृत्तिरित्यु- च्यते। तस्याश्च प्रयोजनम्-अनाधृतमन्तःकरणोपाधिकं जीवचैतन्यमेव ग्रकाशकमितिमते चतन्यस्यासंगस्य विषयोपरागा- संभवेन जातेरव्यक्तिविशेषमात्रेणेव वृत्त्यैवोपरागेण तद्वारा विषयप्रकाशनम्, अनावृतमविद्योपाधिकं जीवचैतन्यमेव प्रकाशक- मिति मते आवरणाभिभवः, अन्तःकरणोपाधिकं परिच्छिन्नमेव जीवचैतन्यं तच् न प्रकाशकं किंतु ब्रह्मचैतन्यमेवेति मते तत्तद्विषयावच्छिन्नव्रह्मचैतन्यामिव्यज्जनमिति विवेकः। तत्र मतत्रयेऽपि विषयेन्द्रियसंनिकर्षस्यैव वृत्तिनिर्गमप्रयोजकत्वेन वृत्तितः पूर्वमेव घटादिसतमङ्गीकरणीयमिति प्रतिकर्मव्यवस्थोपपत्तिः-इति ह्यद्वैतिनामभिमतम्, तन्नयुक्तम्; मतन्नयेऽपि शुक्तिरूप्यादो कल्पितेप्रतिभासमात्रशरीरत्वस्य दृष्टलात्, ज्ञाननिवत्त्यंत्ाभावस्येवेदानीमापाद्यत्वेन ज्ञाननिवर्त्यतादिकल्पि- तत्वविशेषे प्रतिभासमात्रशरीरत्वव्याप्यत्वविवक्षाया असंभवात्, विश्वसत्यत्वेन खाप्नवदिन्द्रियसन्निकर्षानपेक्षतयैव प्रतीत्यु- पपत्तेः, भ्रान्तिदर्ध्यमात्रेण व्यावहारिकत्वस्योपपत्तेः, विषयापरोक्ष्यस्यावश्यकवृत्तिगतविशेषेणैवोपपत्त्या परोक्षस्थल इवाप- रोक्षस्थलेऽपि वृत्त्यैव प्रकाशोपपत्त्या चैतन्यप्रकाशतकल्पनस्यायुक्तलात्, क्रियेक्येऽपि करोति यतते गच्छति स्पन्दते इत्यादाविव जानामि प्रकाशते इत्यनयोः सकमकलाकमकत्वव्यवस्थोपपत्तिसंभवेनेच्छातज्ञानलादिव दुपादानावृत्तिकस्य स्वप्रकाशत्वस्य वृत्तावप्यन्ञीकारेऽपि बाधकाभावात्, चैतन्यस्यैव प्रकाशकत्वेऽपि नेत्रान्निर्गतध्रुवाद्याकारवृत्यैव घटादीनामपि प्रकाशापत्त्या तत्सश्ेषमात्रस्यावरणानिवर्तकत्वेन तदाकारतस्यैव तत्प्रयोजकत्वेन तस्य च बहिनिर्गमनं विनाऽपि लाचप्रत्य- क्षादाविवार्थमनःसंयोगस्य प्रत्यक्षाहेतुत्वेनोपपत्तिसंभवादन्तःकरणब हिर्निर्गमकल्पनस्यायुक्तलात्, युक्तत्वेऽपि आध्यासिक- संबन्धस्यातत्त्रलापातेन वृत्तिप्रतिबिम्वितचैतन्यस्य, तदभिव्यक्तिकल्पनस्य वैयर्थ्येन तदभिव्यक्तचैतन्यस्य वा प्रकाशक- लायोगातू, भवद्भिरेव निरासेन तत्तद्विपयत्वरूपस्य, विपयचतन्योपरागयोग्यतासंपादकत्वतदज्ञानाभिभावकत्वयोस्तदा- कारत्वप्रयुक्तत्वेन तयोः, साकारवादापत्त्या विरुद्धनानाविपयसमूहालम्बनानुपपत्त्या अप्रकारकचरमसाक्षात्कारानुपपत्त्या च पृशुवुभ्नाद्याकारत्वस्य च तदाकारत्वरूपल्ाभावात्, दृक्टृश्यसंबन्धस्याध्यासिकत्ानापत्त्या विशिष्टव्रह्मजीवयोः निर्वि- शेपस्यासंसारमावृतत्वेन जगदान्ध्यप्रसज्ञेन चिन्मात्रस्य वा विषयदृक्लाभावाच्च प्रतिकर्मव्यवस्थानुपपत्तेः। तत्र प्रथमे मते चितो वृत्तिमात्रोपरक्तत्वं कि प्रभाया इव रूपमात्रनिरवर्तकलम्, उत तदात्मना विकृतत्वम्, (२) आहो गोलादि- वत्तदाश्रितलम्, (४) आहोख्त् घटाकाशादिवत्तदन्तस्थलम्, अथवा दर्पणे मुखस्येव तत्प्रतिबिम्बितत्वम्। नान्त्य :; अनुद्धूतरूपेऽन्तःकरणे अचाक्षुपचतन्यप्रतिफलनासंभवात्। नाद्यः; निर्विकारत्वश्रुतिविरोधात्। न द्वितीयः; चितोऽना- थ्रितल्ात्, स्वर्वत्राभिव्यक्ततवाघ्। न तृतीयः; सर्वगतायाशितो घटान्तःस्थत्वं नास्ति, वृत्त्यन्तःस्थलमात्रं विद्यते इति कल्पनाया निमूललात्। चतुर्थे तु-तमोविरोधितस्य रूपं प्रतीव गन्धं प्रत्यपि सलात्, अज्ञानविरोधित्वस्य रूपं प्रत्य- भावात्, स्वरूपमात्रआाहिग्रमाणसहकारित्वस्य दार्षान्तिकाननुगुणताच्च नोपपत्तिः । एवंच चितः सर्वगतत्वेन सर्वसंबन्धा- तसर्वप्रकाशो दुर्वार एव। असज्जोह्यमिति श्रुतिस्तु तत्कृतलेपाभावपरा, "अनन्वागतस्तेन भवती"ति पूर्ववाक्यात्। किंच किमर्थमिदं वत्तिकल्पनं ? न तावदृश्यतोपपत्यर्थत् वृत्तितः पूर्वमप्याध्यासिकद्टक्संबन्धेन तदुपपत्तेरिति विफला सा। यथाहि जीवचैतन्यमसङं, तथा व्रह्मचतन्यमप्यसङ्गमेवेति तस्यापि वृत्तिद्वारकस्यव विषयोपरागस्य वाच्यत्ात्खतः सार्वश्यं ब्रह्मणो न स्यात्; अनाद्यविद्यादपरिणामेन परिणामित्वरूपोपादानत्वेन सार्वश्यादेर्विशिष्टनिष्ठत्वेन शुद्धनिष्ठाघि- ष्ानत्वेन वा सार्वश्योपपादनासंभवात्। द्वितीयमते-अज्ञानं किं पुंगतम्, उत विषयगतम्, आद्येऽपि किं तदेकम्, उतानेकम्। तत्र नाद :; शुक्तिज्ञानेनाज्ञाननिवृत्तो मोक्षापातात्, अनिवृत्तो रूप्यादेः सविलासाविद्यानिवृत्तिरूपबाधायो- गातू, ज्ञानस्य साक्षादज्ञानविरोधित्वेनाज्ञानानिवर्तनेनान्यानिवर्तनासंभवेन स्वाकारेण लयमात्रमेव रूप्यादेरिति वर्णनस्या- प्यसंभवात्, अतएवहि बाधे शुक्तः प्रकाशोपपत्तिः। खद्योतादिप्रकाशैर्महान्कार स्येवाज्ञानस्यैकदेशेन नाशाद्वा भीरुभट- वदपसरणाद्वा कटवत्संवेष्टनाद्वा चैतन्यस्याप्येकदेशेन प्रकाश इति तु न युक्तम्; अनाद्यज्ञानचतन्ययोर्निरवयवलवात्, उपा- देयभूतया वृत्या उपादानभूताविद्याऽमिभवायोगात्। वृश्चिकव्रक्षादिना गोमयमृदादेरिवोपादेयस्याप्युपादानाभिभावकत्वेऽपि चक्षुरादिजन्यशुक्तिवृत्तेः रूपादिहीनशब्दैकगम्यशुद्धात्माविषयतया तदावरणशत्त्यप्रतिबन्धकत्वात्, अन्यथाऽखण्डसाक्षा- त्कारवैयर्थ्यात्, अविद्याकल्पितं जडं प्रत्यविद्याया इव तद्गतावरणशक्तेरप्ययोगात्, मूलाज्ञानावस्थाविशेषाः रजतादयु- पादानानि शुक्तिज्ञानेन साध्यासं निवर्तन्ते इति तु न वाच्यम्; तेषामज्ञानविशेषत्वेSनेकाज्ञानवादप्रसज्गात्, नचेत्साक्षात् ज्ञानेन निवृत्तेश्रमोपादानतायाश्चायोगात्, तेषामिव रूप्यस्यैवोपादाननिवृात्त विनाSनिवृत्त्याऽSपातात्, शुक््यज्ञानं नष्टमित्य-
Page 197
४९२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
नुभवविरोधाच्च। आद्ये द्वितीयेSपि किमेकया वृत्त्या सर्वतदज्ञानानां निवृत्तिः, उत एकतदज्ञानस्य। आद्ये-शुक्ते: पुनः कदाप्यप्रकाशो न स्यात्। अन्त्ये-तदापि प्रकाशो न स्यात्; एकस्यावरणस्य विनाशेऽप्यन्यस्य सत्वात्, सादिशु स्यादेः तदवच्छिन्नचैतन्यस्य वाऽनादज्ञानाविषयत्वेनाज्ञानस्य निर्विषयावरणस्यानापाताच्। न द्वितीयः मेत्राज्ञाननाशेन चैत्रप्रकाशाद्यापत्तेः। एवंच-व्यक्तितः पूर्व जातिरिव विषयात्पूर्वमज्ञानमप्यस्तीति-निरस्तमिति प्रपश्चस्य मिथ्यात्वे प्रतिकर्मव्यवस्ानुपपत्त्या मिथ्यात्वानुमानमप्रयोजकमिति मन्तव्यम्-इति वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- ृक्टश्यसंबन्धानुपपत्त्यादिबाधसहकृतोक्तानुमानेन प्रपश्चकल्पितत्वमिद्धा प्रतीत्यविशेषेऽपि परीक्षिततापरीक्षितताभ्यां स्थायित्वविशेषसद्भावेन प्रत्यभिज्ञावलात्स्थायितसिद्धा च प्रपश्चे व्यभिचारात् कल्पितत्वस्य प्रतिभासमात्रशरीरतव्याप्यत्ा- भावात्, विषयचैतन्याभिव्यक्तावेवापरोक्षत्वेन परोक्षवृत्तेरप्यपरोक्षलाग्रसक्ेन परोक्षस्थलेऽपि वृत्यवच्छिन्नचैतन् स्ैव प्रक्का- शकत्वेन केवलवृत्तिप्रकाशतावादस्यायुक्तलात्, अर्थभेदेनव सकर्मकाकर्मकत्वव्यवस्था; तथैव करोति यतते इत्यादौ दर्शना- दिति वृत्तिस्वप्रकाशतावादे उत्तव्यवस्थाया अपि भज्गापतेः; परोक्षस्थलेऽपि तदाकारतवसत्वेन तदाकारत्वस्य चिदुपरागे- Sतन्त्रत्वेन प्रभाया इव संश्लेषेणेव विषय संनिकृष्टतेजस्त्वेनावरणाभिभावकत्वस्यैवान्गीकार्यत्वेन तत्तदिन्द्रियाधिष्ठानस्यैव सर्वत्र द्वारत्वेन तवाचप्रत्यक्षाद्युपपत्त्याचान्तःकरणबहिर्निर्गमकल्पनस्यावश्यकल्वात्, वृत्तिप्रतिबिम्बितचतन्यस्य प्रकाशकत्वेऽप्य- ध्याससिद्धेः। विषयाधिप्टानचैतन्याभिव्यअनावश्यकतायाश्च पूर्वमेवोपपादितलात्, अस्तीत्यादितद्विषयव्यवहारप्रतिबन्धका- ज्ञाननिवर्तनयोग्यत्वस्य तत्संनिकृष्टकरणजन्यत्वस्य वा तदाकारत्वस्यापि निर्वचनसंभवात् उपाधिविशेषाजीवशब्देन ब्रह्मशब्देन च व्यवहियमाणस्य शुद्धचैतन्यस्यैवाधिप्ठानत्वेऽपि तदीयमूलाविद्यानिवृत्त्यभावेन जगदान्ध्याप्रसंगात्, उपाध्यविषयकब्रह्म- स्फुरणस्य चरमवृत्तिप्रयुक्तत्वेन तत्सार्थक्यसंभवाच्च पूर्वोक्तमतत्रयमपि युक्त्तमेव। प्रथममते-लोष्टादावपि प्रतिबिम्बापत्ते- रुद्दरतरूपवत्त्वस्य प्रतिबिम्बोपाधिताप्रयोजकत्वासंभवेन स्वच्छतम्यैव तत्ात् सतगुणवत्वेन सच्छायामविद्यायां नीरूपस्या- काशस्येव तादृशस्य ब्रह्मणोऽपि प्रतिबिम्वसंभवेन तत्प्रतिविम्विततरूपस्य तदुपरक्तत्वस्य चिति संभवात्, स्वभावतोऽसंव- द्धस्य चैतन्यस्य तदाकारवृत्त्या तदेकसंवन्धेन प्रभाया रूपरसादिगततमोनाशकत्ववत् सर्वावभासकत्वाप्रसन्वात्, अकर्तृत्व- प्रतिपादनपराया असङ्गश्रुतेः संवन्धसामान्याभावपरत्स्यैव युक्तलान्, ब्रह्मणोऽप्यसंगत्वेऽपि सर्वेषां तत्राध्यासेन मायो- पाधि विनैव तत्र सर्वप्रकाशकत्वरूपसर्वज्ञत्स्याविद्याकल्पितस्याज्गीकाराच्च न कोऽपि दोषः। द्वितीयमतेऽपि-शुक्ति- ज्ञानेनावरणशक्तिविनाशेऽपि मूलाज्ञानविनाशाभावेन सद्योमोक्षाभावस्य रूप्यादौ सविलासाज्ञाननिवृत्तिरपवाधस्य चोपपत्तेः, ज्ञानमज्ञाननिवर्तकमिति व्याप्तेरुच्छेदविषयत्वात्, अवच्छिन्नचतन्यावरणरूपतूलाज्ञाननिवर्नकत्वेनाभिव्यक्तचैतन्यसंवन्धाद्वा- धदशायां रूप्यनिवृत्तिशक्तिप्रकाशयोरप्युपपत्तेः, चैतन्यमात्र एवाविद्यायास्तच्छक्तेवान्गीकारेऽपि तस्मिन्नेव सर्वस्यापि जडस्या- ध्यासेनोक्ताश्रयाशरिततव संवन्धाज्जडावच्छिन्नचैतन्यमावृनमिति व्यपदेश इति घटाद्याकारवृत्त्या तदिष्ठानचैतन्याभिव्यक्ती तद- वच्छेदेनैव तन्निष्ठावरणाभिभवो जायत इति शुद्धात्मप्रकाशानापत्तेः, अविद्यायां सत्यामपि शक्त्यभिभवाद्वा, तूलाज्ञाननाशाद्वा, अवस्थाविशेषप्रच्यावाद्वा, एकदेशनाशाद्वा, भीरूभटवदपसरणाद्वा, कटवत्संवेष्टनाद्वूाऽवरणभङ्गानिर्माक्षबाधानामुपपतेः अज्ञान इव तदवस्थायामपि तदभिन्नायां ज्ञानसाक्षान्निवर्त्यत्वे वाधकाभावात्, एकावरणनिवर्तकवृत्यैवावरणान्तराणामपि प्रतिरोधेन यावदृत्ति प्रकाशोपपतते;, अनाद्यज्ञानविपयेऽनादिचैतन्ये तत्तदागन्तुकपदार्थावच्छेदकाभ्युपगमेन निर्विषयावरणा- वस्थानाप्रसक्वाञ्त न कोऽपि दोपः। तदयं निष्कर्षः-एकवृत्त्युपागेहलक्षणकलोलीभावापन्नं सत् प्रमातृप्रमाणामिन्न- तया भासमानं प्रमेयचैनन्यं अपरोक्षं फलमित्युच्यते, तेन भास्यं नदध्यस्तं तु फलव्याप्यमित्युच्यते; एवंच प्रमात्रवच्छिन्न- स्यासत्ावरणस्य प्रमेयावच्छिन्नस्याभानावरणाज्ञानस्य चापसरणाद्वटोऽयं मे स्फुरतीत्यादपरोक्षव्यवहारः । परोक्षस्थले तु इन्द्रिय संनिकर्षलक्षणद्वाराभावादन्तःकरणनिःसरणाभावेन विषयपर्यन्नं वृत्तरनिगमाद्विषयावच्छिन्नप्रमेयचैतन्येत प्रमातृचैत-
रणमात्रनिवृत्तिरिति विवेक इति सर्वमनवद्यम्-इति खण्डयन्ति॥ (३) तरङ्गिणीकारा: पुनः- साप्नसाधारणपरीक्षायाः स्थायित्वासाधकत्वेन, टक्दृश्यसंवन्धोपपत्या दृश्यत्वेन मिथ्यातासिद्धेरुपपादितत्वेन च सामा- न्यस्यव व्याप्यत्वे संभवति विशेषस्य तथात्वं न युक्तमिति न्यायेन कल्पितत्वस्य प्रतिभासमात्रशरीरत्वव्याप्यलात्, अतीतः प्रकाशत इति व्यवहारापत्त्या परोक्षव्रत्तेरिवापरोक्षवृत्तेरपि प्रकाशत्वस्यैव युक्ततात्, कृयो यत्नार्थतात्तेनाख्यातविवरणात्तस्यापि यल्नोऽर्थ इति करोतियतत्योः समानार्थकत्वस्य कुसुमाअलादावुक्तत्वात् भावनैक्येऽपि नामपदाख्यातपदाभ्यां कारकान्वयायो- ग्यतदन्यान्वययोग्यभावनाप्रतीतेराघोषितत्वाच्, शब्दभेदमात्रेण ज्ञानप्रकाशरूपत्वाङ्गीकारेऽपि सकर्मकत्वाकर्मकत्वव्यवस्थोप-
Page 198
[प्रतिकर्मव्यवस्था] गौडब्रह्मानन्दीयुता। ४९३
पपत्तेः, इन्द्रियान्तरगोलकस्येन्द्रियान्तराधिष्ठानत्वे मानाभावेनैकस्मिन् गोलके एकेन्द्रियस्यैव श्रुतिसिद्धत्वेन च लगिन्द्रियस्य सर्वेन्द्रियगोलकानविष्ठानत्वेन लगिन्द्रियस्य गोलकान्तरद्वारा बहिरनिर्गमनासंभवेन लाचप्रत्यक्षानुपपत्त्याऽर्थमनःसंयोगस्या-
व्वाऽध्यासिकसंबन्धस्यातत्रल्वापातात् तदमिव्यक्तिकल्पनस्य व्यर्थत्ाच्च वृत्तिप्रतिबिम्बितचैतन्यादिप्रकाशकतावादस्याप्य- युक्तत्वात्, अज्ञाननिवृत्तिघटितस्योक्त्तयोग्यतरूपतदाकारत्वस्याज्ञाननिवृत्यप्रयोजकत्वेन तदाकारतनिर्वचनस्याप्यसंभयात्, घटपटाविति समूहालम्बनज्ञानात् घटाज्ञानं निवृत्तमिति व्यवहारोपपत्त्यर्थ तदज्ञाननिवर्तकतायां तद्विषयतमेव तन्रं, नतु तदितराविषयत्वमित्यन्गीकार्यत्वेन सप्रकारकब्रह्मविषय संशयस्य निष्प्रकारकब्रह्मज्ञानेन बाधासंभवेन एकधैवेति श्रुतौ प्रकारा- र्थधाप्रत्ययस्याप्यन्यथाऽनुपपत्त्या च सप्रकारकब्रह्मज्ञानस्यैवाज्ञाननिवर्तकलवमिति विशिष्टज्ञानेनैव शुद्धस्यापि प्रकाशाच्छुद्ध- चैतन्यमेवाधिष्ठानम्, तदेव घटाद्यवच्छिनं चक्षुरादिवृत्त्या प्रकाशत इत्यङ्गीकारे चरमसाक्षात्कारवैयर्थ्यापाताच्चोक्तमतत्रय- मप्ययुक्तमेव। प्रथममते-सच्छतातिरिक्तम्योदूतरूपव तम्याप्रसिध्धाSSकाशादीनां नीरूपाणां जलप्रतिबिम्बानङ्गीकारेणच वृत्तिप्रतिबिम्बिततवरूपस्य तदुपरक्तत्वस्य चित्यसंभवात्। यथाह्यन्येन संवन्धः, एवं वृत्त्यादिनापि न संगः स्यात् ; वृत्तेरपि चित्संबन्धो यदि वृत्त्यन्तराधीनस्तर्हि अनवस्थापतिरित्यसङ्गश्रुतेरसंबन्धपरत्वायोगात् सर्वसंवन्धस्यावजनीयतया सर्वप्रका- शदुर्वारलात्, शुद्धे सार्वज्योपगमेऽपसिद्धान्तापाताच्य। वहवो दोपाः सन्तीति न तन्मतमादरणीयम् । द्वितीयेऽपि मते-शुक्यज्ञानस्याज्ञानातिरिक्तत्वे आवरणायोगेन तद्रूपत्वेऽपि तन्नाशं विना रूप्यनाशासंभवेन सविलासाज्ञाननिवृत्ति- रूपवाधानुपपत्तेः शक्तिज्ञानेनैव व्रह्माज्ञानस्यापि निवृत्तौ सद्योमोक्षस्य च प्रसङ्गात्, शुत्तयज्ञानस्य रूप्यभ्रमोपादनत्वे तस्यै- वाविद्यातापत्त्या ज्ञानमज्ञानस्य निवर्तकमिति व्याप्तरुच्छंदविपयतवेऽप्यनिस्तारस्य तदनुपादनत्वे नन्निवृत्तावपि तदुपादाना-
प्रसज्ञात्, यथाहि तमसा सहैकस्मिन् विद्यमानस्य घटस्य प्रकाशसंवन्धे सति तद्ूतलस्यापि प्रकाशः, तथा घटाकारवृत्त्या तदवच्छिन्नचैतन्याभिव्यक्तां तदधिष्ठानचैतन्यप्रकाशोऽप्यवर्जनीय एवेति घटाद्याकारवृत्या तदवच्छिन्नचैतन्यमेव प्रकाशते न शुद्धात्मेत्यस्य वाडमात्रलात्, अवस्थाविशेषाणामज्ञानभिन्न्वं नानाज्ञानवाद एव पर्यवसानम्, तद्भिन्नत्वे तेषां अज्ञानोपा- दानत्वेनाज्ञाननाशं विना नाशासंभवन तननाशस्याप्यज्ञीकारे सदयोमोक्षलम्, उपादाननाशं विनापि नाशाभ्युपगमे मूला- ज्ञानमेव रजनोपादानं भवतु, किमवस्थाविशेषकल्पनयेति मूलाज्ञान इवावस्थाज्ञानेऽपि ज्ञाननिव्त्यत्वस्यासंभवात्, एकाज्ञा- नस्यैव वृत्या प्रतिबन्धेन विषयप्रकाशोपपत्त्याSऽज्ञाननानातकल्पनस्य व्यर्थलात्, अनाद्यज्ञानविपये चैतन्ये तत्तदागन्तुक- पदार्थीवच्छेदाभ्युपगभेऽपि शुद्धचैतन्यावरणस्यैव शुक्तयवच्छिन्नचैतन्यावरणत्वेन शाखावच्छेदेन संयोगाधारस्य वृक्ष- तवत् शुक्त्यवच्छेदेन भग्नावरणस्यापि शुद्धताच्छ्ुक्तिसाक्षात्कारेणैव मोक्षप्रसन्गाच्च न तन्मतमादरणीयम्-इति प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- प्रमाणान्तरसंवादविसंवादरूपपरीक्षायाः खप्नसाधरण्याभावेन परीक्षितप्रत्यमिज्ञायाः स्थायित्वसाधकत्वेन दग्दश्यसंब- न्धानुपपत्त्या दृश्यत्वेन मिथ्यालसिद्धेः पूर्वमुपपादितत्वेन च यदा यदा स्वयं तिप्ठति तदा तदानावृतत्वरूपप्रातिभासिकत्व- विशेषस्य खान्यूनसत्ताकाभावप्रतियोगितादिघटितमिथ्यालापेक्षया तस्येव व्याप्यतावच्छेदकत्वेन कल्पितत्वस्य प्रतिभासमा- त्रशरीरत्वव्याप्यलस्यासंभवात्, अतीतः प्रकाशत इति व्यवहारस्येष्टत्वेन परोक्षवृत्तेरपि चैतन्यावच्छेदकत्वेनैव प्रकाशताङ्गी- कारेण तद्टृष्टान्तेनापरोक्षवृत्तेरपि सवतो भासकलोपपादनासंभवात्, फलानुकूलत्वेनैव करोतिशक्यता, नतु यत्नत्वेन फलानुकूलयत्नत्वेन वा; यततिकरोत्योरेकार्थकल्वापत्तेरित्याशङ्य-कृताकृतविभागेन कर्तृरूपव्यवस्थया। यत्नः एव कृतिः पूर्वाऽपरस्मिन्सैव भावनेति यत्नपूर्वकत्वस्य प्रतिसंधानात् घटादो कृतत्वव्यवहारात् तदप्रतिसंधाने सहेतुकत्वप्रतिसंधानेऽपि अङ्कुरादौ कृततव्यवहारादाश्रयार्थतृजन्तकर्तृपदस्य कृत्याश्रय एव प्रयोगाच्च न फलानुकूलमात्रं करोत्यर्थः; किंतु तादृशयत्नः सैव भावनेति कुमुमाअलादावुक्तत्वेन अक्गुरः कृत इतिवत् अङ्कुरो यत्तः इति प्रयोगाभावेन करोतेः सकमकत्वस्म यततेश्चाकर्मकत्वस्य च करोतियतत्योरेकार्थकत्वाभावेनैवोपपादनीयतया शव्दभेदमात्रेण सकर्मकत्वादिव्यवस्थाया असं- भवेनोक्तव्यवस्थाभज्ञापत्तेः, यथाहि कर्णादिकं श्रोत्रादेरधिष्ठानं एवं लगिन्द्रियस्यापि लगधिष्ठानमिति ताचप्रत्यक्षेऽपि तद्दारा समवायादिसत्वेऽपि प्रकाशाननुभवात्, गुरुत्वादेराकाराख्यविषयतासत्वेऽपि तथातात् संयोगादिविषयत्वोभयसंबन्धस्य भासकतानियामकत्वेन चैतन्यस्य प्रतिबिम्बाश्रयव्ृत्तिविषयत्वं विना संयोगादीन्विना च भासकत्वासंभवेन वृत्तिप्रति- बिम्बितचैतन्येनापि घटादेः संयोगस्यावच्छेदकत्वस्य वाज्ञीकरणीयत्वेनाध्यासिकसंबन्धातन्रताभावेन प्रतिबिम्बितचैतन्या- वच्छेदकत्वं च घटादे: प्रतिबिम्बतचैतन्यविषयचैतन्ययोरमेदेनैव भवतीति तयोरमेदासंभवेन वृत्तिप्रतिबिम्बितचैतन्यामि-
Page 199
४९४ अद्वैतसिद्धिः । परिच्छेद: १ ]
अथ प्रतिकूलतर्कनिराकरणम्। ननु-मिथ्यात्वानुमानं प्रतिकूलतर्क पराहतम्। तथाहि-विश्वंयदि कल्पितं स्यात्, सत्याघिष्ठानं स्यात्, न चैवम् ; सामान्यतो ज्ातत्वे सत्यज्ातविशेषवत्त्वस्याघिष्ठानत्वप्रयोजकस्य निर्विशेषे निस्सा- मान्ये च ब्रह्मण्यसंभवादिति-चेन्न; स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याघिष्ठानत्वप्रयोजक- त्वेन ज्ञातविशेषवत्त्वस्याप्रयोजकत्वात्। 'पुरुषो न वे'ति संशयधर्मिणः स्थाणोरप्यन्यत्र ज्ञातस्थाणु- त्वरूपविशेषवत्त्वात् तत्राजातविशेषवत्त्वमपि न प्रयोजकम्; विशेषवत्वेनाश्ञातत्वस्यैव लघुत्वेन प्रयोजकत्वात्। तथाच निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वा- दिना चाजानादघिष्ठानत्वमुपपन्नम्। वस्तुतस्तु-कल्पितसामान्यविशेषव्त्वं ब्रह्मण्यपि सुलभमेव; अकल्पित सामान्यविशेषवत्त्वं चाप्रसिद्धम्। नच तत्कल्पने अन्योन्याश्रयः; कल्पित सामान्यविशेषाणां प्रवाहानादित्वात्, सत्यत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात्, परिपूर्णानन्दत्वा दीनां च विशेषत्वात्। अत एव सामान्याकारशानं विना संस्कारानुद्वोधात् कथमध्यास इति न गौडब्रह्मानन्दी (लघुचन्द्रिका)। स्वरूपेण शातत्वे सति विशेषेणाज्ञातत्वस्येति। ज्ञातत्वे सत्यज्ञातत्वमेव प्रयोजकम्। ज्ञातस्याज्ञातत्वं च न विरुध्यते; स्वरूपविशेपरूपाभ्यां ज्ञातत्वाज्ञातत्वसंभवादित्याशयेनोभयरूपोक्तिः । यद्यपि सद्ूपपूर्णानन्दरूपयोर्न- न्यूनाधिकवृत्तिकत्वरूपः सामान्यविशेषभावः; तथापि भ्रमे भासमानाभासमानत्वरूपो बोध्यः। तत्राज्ञातेति। यद्यपि स्थाणुत्वमन्यत्र ज्ञातमपि स्थाणावज्ञातमित्यज्ञातविशेषवत्वमक्षतम्; तथापि भ्रमधर्मिणि ज्ञातविशेषस्यान्यत्राज्ञा- तत्वेऽपि भ्रमानुत्पत्तेस्तत्राज्ञातेत्यवश्यं वाच्यम्, तथाच गौरवमिति भावः। स्वप्रकाशत्वेन ज्ञानात् स्वप्रकाशचिद्रप- ज्ञानात्। पूर्णानन्दत्वादिना चाजानात् पूर्णानन्दसत्यादिस्वरूपाज्ञानाच्च। उपपन्नमिति। यद्यप्युक्तरुपद्वयमेकम्; तथापि तयोराविद्यकानादिभेद: स्वीक्रियते, 'पूर्णानन्दो नास्ति न भाति चिद्रूपमस्ति भाती'ति व्यवहारात्। तथाच रजतादिभ्रमेपु शुक्त्याद्यवच्छिन्नमिव जगन्भमेऽनवच्छिन्नमेवाज़ञातत्वं प्रयोजकमिति भावः। वस्तुतस्तु विचारतस्तु। सुलभमिति। अज्ञातस्वरूपत्वमेव भ्रमे प्रयोजकम्, न त्वज्ञातविशेषवत्त्वम्; 'सोऽय'मित्यादिभ्रमे तथा दर्शनात्, शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञातत्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेपवत्वं प्रयोजकमिति न नियम :; विशेषस्य हि शुक्तित्वादेजडत्वेनाज्ञातत्वाभावात्। अथापि यदि तवाज्ञातविशेषवत्वमपेक्ष्यते, तदा तदसत्येव प्रकृते इति भावः। कल्पित सामान्यविशषाणां स्वरूपेण मिथ्याभूतानां घटकपालादिसामान्यधर्माणाम्। प्रवाहानादित्वादिति। तथाच कपालादिसामान्ये वटादेरध्यासेऽपि घटादिसामान्ये न कपालादेरध्यासः, किं तु स्वावयवे, तस्यापि स्वावयवे व्यक्तविषयार्वच्छिन्नचैतन्यमेव घटादिभासकमिति अभिव्यक्तिकल्पनस्याप्यावश्यकत्वेन मतान्तरस्याप्युपपत्त्याचादोषात्, तत्त- दाकारतात्वेनैवावच्छेदके तत्तदाकारलस्य निवेशः, नतु निवृत्तिजनकतावच्छेदकत्वेनेत्यन्योन्याथ्रयाद्यनवकाशेन तत्तदाकारता- दिनिर्वचनस्यापि संभवात्, क्वचित् कस्यचित् प्रकारस्य वोधकेन धाप्रत्ययेनाऽमदर्शने विपयमात्रे प्रकारविशेषस्यव बोधनेन निर्विकल्पस्यैवात्मदर्श नस्य मोक्षसाधनत्वेन विशिषज्ञानस्यातथात्वेन चरमसाक्षात्कारवैयर्थ्याभावाच्च मतत्रयेऽपि न कोऽपि दोषः। प्रथममते-नी रूप स्याप्याकाशस्य विवरणमते प्रतिबिम्वाज्गीका रेणान्तःकरणवृत्ता चित्प्रतिफलनरूपचिदुपरागसंभवात्, संयो- गादिना सर्व संचन्धेऽपि अवच्छेदकत्वादिना सर्वसंबन्धाभावन सर्वप्रकाशाप्रसन्नेनाऽसंगश्रुतेः कतृत्वाभावप्रतिपादनोपयोगिकार- कासंबन्धपरत्वस्यैव युक्तत्वेनादोपात्। अविद्यादिभिरिव सार्वज्यादिमिरपि शुद्धे काल्पनिकसंवन्धाङ्गीकारेऽप्यपसिद्धान्ताभावाच्च न कस्यापि दोषस्य प्रस्गः । द्वितीयमते-शत्त्यज्ञानस्याज्ञानरूपत्वेऽपि शक्तिविशिष्टत्वरूपेणाविद्याया विनाशान्गीकारेण सविलासाज्ञाननिवृत्तिरूपवाधस्य शुक्तिसाक्षात्कारेण रूप्यशक्तिमद्विनाशेऽपि प्रपश्चशक्तिमद्विनाशाभावेन तस्य ब्रह्मज्ञानमात्र- साध्यत्वेन सद्योमोक्षभावस्य चोपपत्तेः। रूप्यत्रमोपादानत्वेऽपि शत्त्यज्ञानस्य तादृशशक्तिमदविद्यालक्षणाभावेनाविद्याता- नापत्या, शक्त: कारणतारपत्वेनानुपादानत्वंऽपि शुक्यादिसाक्षात्कारेण तद्विशिष्टाज्ञाननिवृत्त्या रूपयनिवृत्तिसंभवेन शक्तया शक्तिमतोऽन्यथासिद्संभवेनचादोषात्, शुक्तयर्वच्छिन्नचैतन्यविषयसाक्षात्कारस्य शुद्धविषयकस्यापि शुद्धाज्ञाननिवर्तकत्वेन चरमसाक्षात्कारसार्थक्यात्, अविद्यातादात्म्यापन्नानामप्यवस्थानामज्ञानरूपत्वाभावेऽपि तूलाज्ञानवत्ृथगावरणविक्षेपशत्तय- ज्ीकारेण नानाज्ञानवादपर्यवासानाद्यभावात्, वृत्त्यनवच्छेदकलसमानाधिकरणाज्ञानसंबन्धस्य भातीति व्यवहारे प्रतिबन्धक- लाद् वृत्तिकालेऽज्ञानान्तरसंबन्धेऽपि घटादिप्रकाशोपपत्तेः, यथैकाज्ञानपक्षः प्रामाणिक एवं नानाज्ञानपक्षोपीत्न्यतरपक्षेण गतार्थताशड्काया अप्ययोगाच सर्वोपपत्त्या न कोऽपि दोषः इति सर्वमनवद्यम्-इति व्यवस्थापयन्ति॥ इति प्रतिकर्मव्यवस्थोपपत्तिः॥
Page 200
[प्रतिकूलतर्कनिराकरणम्] गौडब्रह्मानन्दीयुता। ४९५
वाच्यम्; सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात्। न हयध्यसनीयं सदात्मना न भाति । एतावानेव विशेष :- यदधिष्ठानं स्वत एव सदात्मना भाति, अध्यसनीयं तु तत्संबन्धात्। ननु- अधिष्ठानतिरोधानं विना भ्रमासंभवः, प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादे: प्रकाशानुपपत्ति- रिति-चेत्, न; एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसंभवात्। तदुक्तं वार्ति- ककारपादैः-'यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम्। तमप्यपहुतेऽविद्या नाजानस्यास्ति दुष्करम् ॥' इति। नच-बाधकालेऽपि सद्विशेपज्ञानमस्तीति-वाच्यम्; परिपूर्णानन्दत्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात्, धर्मत्वमात्रस्यैव कल्पितत्वात्। यद्ा-भ्रमविरोधिज्ञानाभाव एव तन्तरं, न तु विशेषाज्ञानम्; विश्वोपादानगोचराज्ञानस्य श्रवणादिजन्यमात्ममात्रविषयक वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतः सिद्धं ज्ञानम्; भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञानस्येदानीमभावो- 5स्त्येव। ननु-आत्मानात्मनो्ई्ष्टृदृश्यत्वात्मानात्मत्वादिना भेदज्ञानात् कथमध्यस्ताधिष्ठानभाव- इति चेन्न; इदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोभेदग्रहेऽपीदं रजतमित्यध्यासवत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यासविरोधि; सन्घट इत्या- दिप्रत्यये च सद्रूपस्यात्मनो वटाद्यनुविद्धतया भानान्न तस्य घटाद्यध्यासाघिष्ठानतानुपपत्तिः, सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपादिहीनस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः । ननु-विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात्, न चैवम्; तस्मात् न कल्पितमिति-चेत्न; अत्रापि प्रधानस्य सजातीयस्य सत्वात्, पूर्वप्रपञ्चसजातीय स्यैवोत्तरप्रपश्चस्याध्यसनात्। अध्यासो हि स्वकारणतया संस्कारमपेक्षते, न तु संस्कारविपयस्य सत्यताम्; अनुपयोगात्। नच-प्रमाजन्य एव संस्कारे भ्रमहेतुः, अतो विषयसत्यत्वमावश्यकमिति-वाच्यम्; मानाभावात्, विपरीते लाघवाच्च। अतएव-अध्यस्तसजातीयं पूर्वमध्यस्तापेक्षयाऽघिकसत्ताकमपेक्षणीयमित्यपि-निर- स्तम्; सत्यतावदधिकसत्ताया अप्यनुपयोगात्। पूर्व तु ज्ञानमात्रमपेक्षते, तञ्चास्त्येव। ननु-एव- मधिष्ठानस्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिरिति- चेन्न; अधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्यज्ञानद्वारा भ्रमहेतुत्वेन सत्वनियमात्। भ्रमोपादानाज्ञान- विषयो ह्यधिष्ठानमित्युच्यते, तञ्च सत्यमेव; असत्यस्य सर्वस्याप्यज्ञानकल्पितत्वेनाज्ञानाविषयत्वात् तद्सत्यत्वे तद्श्ञानस्य भ्रमावाधकत्वप्रसङ्गात्, जगति भ्रमवाधव्यवस्था च न स्यात्। बाधेन हि किंचिद्विरुद्धं तत्वमुपदर्शयता आरोपितमतत्वं बाधनीयम्, उभयाध्यासे तु किं केन वाध्यते ? अत गौडव्रह्मानन्दी (लघुचन्द्रिका )। इनि तत्तत्सामान्यानां प्रवाहानादित्वान्जान्योन्याश्रयः। नन्वाकाशादेरध्यासे सत्वानन्दत्वाढिकमेव सामान्यधर्म :; 'सदाकाश' मित्यादिभ्रमोदयात्, तथा च सत्वादीनामपि संसृष्टरूपेण ब्रह्मधर्मतया कल्पितत्वात्तदध्यासे आकाशादि कमेव सामान्यमित्यन्योन्याश्रयः, तब्राह-सच्वेति। सत्वानन्दत्वादिसामान्यधर्मस्यानादिसंसर्ग एव ब्रह्मणि स्वीक्रियते इति नान्योन्याश्रयशङ्का। तस्य सादित्वस्वीकारेऽप्यज्ञानविपयत्वमेव तदध्यासे सामान्यम्, नाकाशादिः; तच्चानाधेवेति न तदध्यासे अन्यसामान्यापेक्षेति भावः। व्यक्तिमेदेनेति। वस्तुतस्तु त्रमे भासमानत्वमेव सामान्यत्वम्, न तु नानाव्यक्तिवृत्तित्वम् ; एकमात्रवृत्तिधर्मविशिष्टेऽपि धर्मिण्यारोपात्। कथमिति। 'इदं रजत'मिति भ्रमे तादृशसंस्का- रस्य सादृश्यादिविशिष्टधमिज्ञानोहुद्वस्य यथा हेतुत्वं, तथा 'सदाकाश'मित्यादिभ्रमे तादृशसंस्कारस्यापीति भावः । ननु सद्रूपं नाधिष्ठानम्, अध्यसनीयानुविद्धत्वेनापतीयमानत्वात्तत्राह-न हीति। नन्वध्यसनीयापेक्षया अधिकस- ताको योऽज्ञातविशेषः तद्वत्व्रमधिष्ठानत्वे तघ्रम्; रूप्यादो तथा दर्शनात्तत्राह-यद्वति। न तु विशेषाज्ञानं न त्वधिष्टानवृत्तितादृशविशेपस्याज्ञानम्। 'नायं स'इत्यादिभ्रमे शुद्धव्यक्तिमात्राज्ञानस्येव हेतुत्वेन तदधिष्ठाने तादशज्ञा- नस्याहेतुत्वादिति शेपः। प्रधानपदेन यदि कालान्तरे देशान्तरे वा विद्यमानमध्यस्तजातीयमुच्यते, तत्राह-अत्रा- पीति। यदि तु तादृशं सत्वमुच्यते, तलाह-अध्यासो हीति। विपरीते भ्रमजन्यसाधारणेन संस्कारत्वेन हेतुत्वे। हेतुः प्रयोजकम्। न तु तत् न तु प्रमाघटकतया अधिष्ठानं प्रयोजकम्। शून्येति। तथाचाधिष्ठानप्रमाया हेतुत्वेन अधिष्ठानं यथा सत्यमपेक्ष्यते, तथा प्रमाजन्यसंस्कारस्य हेतुत्वेन प्रधानमपि सत्यमिति भावः । भ्रमाहेतुत्वे भ्रमा- प्रयोजकत्वे। अज्ञानद्वारा अज्ञातत्वोपहितरूपेण। हेतुत्वेन उपादानत्वेन। अज्ञानकल्पितत्वेन अज्ञानप्रयुक्तता- योग्यत्वेन अस्वप्रकाशत्वेनेति यावत्। तथाच जडस्थ प्रकाशाप्रसकत्या नाज्ञातत्वमिति भावः। भ्रमाबाचकत्वेति। व्यावहारिकभ्रमाबाधकत्वेत्यर्थः । ननु मिथ्याविपयकमप्युक्तभ्रमबाधकमस्तु, तत्राह-जगतीति। विरुद्धं व्यावृत्त- रूपम् 1 तत्वं बाध्यापेक्षयाऽधिकसत्ताकम्। उपदर्शयता विषयीकुर्वता। एवकारः शेषः। ननु-आचार्यरेव द्विती-
Page 201
४९६ अद्वैतसिद्धिः । [ परिच्छेद: १ ]
एव भगवता भाष्यकारेण-"सत्यानृते मिथुनीकृत्ये" त्युक्तम्॥ ननु-एतत्प्रपश्चसाध्यार्थक्रियाका- रिणः प्रपञ्चान्तरस्याभावेन स्वोचितार्थक्रियाकारिणोऽस्य न मिथ्यात्वमिति-चेन्न; स्वाप्नमायादौ व्यमिचारात्, स्वोचितार्थक्रियाकारित्वस्य पारमार्थिकसत्वाप्रयोजकत्वात्। नापि श्रुत्यादिसिद्धोत्प- न्यादिमत्त्वं सत्वे तन्त्रम्; स्वप्नप्रपञ्चे व्यभिचारात्, तस्यापि "न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथस्सृजत" इत्यादिश्रुत्योत्पत्त्यादिप्रतिपादनात्। नच कल्पाद्य- भ्रमायोग :: कल्पान्तरीयसंस्कारस्य तत्र हेतुत्वात्। न च जन्मान्तरीयसंस्कारस्य कार्यजनकत्वे अतिप्रसंग :; अदृष्टादिवशेन क्वचिदुद्दोधेऽप्यन्यत्रानुद्वोधोपपत्तेः, कार्योन्नयधर्माणां यथाकार्यमुन्न- यनात्, अन्यथा जातस्य स्तन्यपानादौ प्रवृत्तिर्न स्यात्। ननु-चैत्रेण मैत्रे संस्काराध्यासे- ऽपि मैत्रस्य भ्रमादर्शनात् जगन्भमहेतुसंस्कारस्य सत्त्वं दुर्वारम्, नच स्वेनाध्यस्तात्संस्का- राङ्ट्रम :: भ्रमात् पूर्व स्वस्य कार्यानुमेयसंस्काराध्यासनियमाभावादिति-चेन्न; शुक्तिरूप्यस्य कुण्डलाजनकत्ववञ्चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमाजनकत्वेऽपि वणिग्वीथीस्थरूप्यस्य कुण्डलजन- कत्ववत्स्वेनाध्यस्तस्य संस्कारस्य वियदाद्यध्यासजनकत्वोपपत्तेः तत्प्रतीत्यभावेऽपि तदध्यासस्य पूर्व सत्वात् कृत्स्नस्यापि व्यावहारिकपदार्थस्याज्ञातसत्त्वाभ्युपगमात्। ननु-प्रातिभासिकरूप्ये तरैकालिकनिषेधस्य त्वन्मते व्यावहारिकरूप्यविषयत्ववद्यावहारिकप्रपञ्चेऽपि 'नेह नाने'ति त्रैका- लिकनिषेधस्य पारमार्थिकप्रपञ्चान्तरविषयताऽवश्यं वाच्येति-चेन्न; भ्रमवाधवैयधिकरण्यापाते नास्य पक्षस्यानङ्गीकारपराहतत्वात्। अङ्गीकारेपि व्यावहारिकनिषेधे पारमार्थिकनिषेधत्वं न संभवति; अप्रतीतस्य निषेधायोगात्। प्रतीत्या सहाध्यासातिरिक्तसंबन्धाभावेन पारमार्थिके प्रती- तत्वाभावात्। ननु-प्रधानाघिष्ठानयोः सादृश्याभावात्कथमध्यासः? अथ निर्गुणयोरपि गुणयोः सादृश्यवद्त्रापि किंचित्सादृश्यं भविष्यतीति, तन्नः निर्धर्मके ब्रह्मणि तस्याप्यध्यासाधीनत्वेनान्यो- न्याश्रयात्। यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणम्, व्यभिचारात्; तथापि निरुपाधिका- ध्यासेऽन्वयव्यतिरेकाभ्यां तस्यावश्यमपेक्षणीयत्वात् सोपाधिकेऽपि 'रक्त: स्फटिक' इत्यादो द्रव्य- त्वादिना सादृश्यस्य सत्वाञ्चति-चेन्न; अविद्याध्यासस्यानादित्वेन कारणानपक्षस्य सादृश्यानपेक्ष त्वात्, अन्तःकरणाध्यासेSप्यविद्यासंवन्धित्वस्यैव सादृश्यत्य विद्यमानत्वात्। वस्तुतस्तु-न भ्रमे सादृश्यापेक्षानियम :; निरुपाधिकेऽपि 'पीतः शह' इत्यादा व्यभिचागत्। 'रक्त: स्फटिक' इत्यादा- वपि द्रव्यत्वादिना सादृश्यमस्तीत्यपि नः प्रधानमात्रवृत्तितया प्रागवगतमध्याससमये चाघिष्ठान- वृत्तितया गृहीतं यत् तदेव हि सादृश्यं विपर्ययप्रयोजकमिति त्वयापि वाच्यम्, नतु प्रागेव प्रधा- नाधिष्ठानोभयवृत्तितया गृहीतम्; तस्य संशायकत्वात् । द्रव्यत्वादि च लोहितालोहितवृत्तितया
गोडब्रह्मानन्दी (लघुचन्द्रिका)। यमिध्यात्वविषेचने स्वाम्ननिषेधस्य स्वाम्नवाधकत्वमुक्तम्। सत्यम्; तत्र बाधकत्वं भ्रमत्वज्ञापकत्वम्, न तूच्छेदकत्व- मित्यस्माभिर्व्याख्यातम्। तथाच स्वाप्नस्य गजाद्यभावस्य स्वाप्गजादिसमसत्ताकत्वेन अन्यूनसत्ताकाभाववटितं मिथ्यात्वं ज्ञापयन्निषेधो बाधक इत्युच्यत इति बोध्यम्। न चेति। तत्कल्पीयज्ञानजन्यसंस्कारस्य पूर्वमभावात् इति शेपः । स्तन्यपानादाविति। इष्टसाधनत्वस्मृत्यसंभवेनेनि शेपः। कार्यानुमेयेत्यादि। यतः कार्यलिङ्गेकगम्यः संस्कारः, अतः कार्यात् पूर्व तदप्रनीतेः तत्सत्वे मानाभावादित्यर्थः । प्रतीत्यभावेऽपीति। ननु-संस्कारकल्पनागौरवात् अध्यस्त- त्वमाकाशादस्त्यक्नुं युक्तमिति-चेन्न; तत्तज्ज्ञाननाशस्यैव संस्कारत्वेन त्वयापि संस्कारस्य पूर्वानुभूतविपयकस्यावश्यं वाच्यत्वेनागीरवात्। प्रपञ्चान्तरविषयतेति। उक्तनिषेधप्रतियोगित्वेन प्रपञ्वान्तरविपयतेत्यथः । निरुपाधिके- 5पीति। नच-'पीतःशङ्ग' इत्यादो चक्षुपा सहितस्य पित्तद्रव्यस्य शङ्गादी संसर्गात्तदीयपीतत्वमनुभूयमानमारोप्यत इति जपासंयुक्तस्फटिकादौ लौहित्यादिधीवदापाधिकाध्यास एवायमिति-वाच्यम्; पित्तद्रव्यस्य शङ्गादिसंयोगे पुरुषा- न्तरेण तस्य तद्गतपीतरूपस्य वा ग्रहणापत्तः, पुरुपान्तरं प्रति तदयोग्यत्वकल्पने गौरवापत्तेश्व। चक्षुर्गोलकस्थपित्तद्रव्य- स्यैव स्मर्यमाणपीतिमत्रमजनकरवादादिपदग्राहे रजतपात्रादी स्थिते जलादौ नैल्यभ्रमे सोपाधिकत्वस्य शङ्गितुमशक्य- रवात्। न हि तत्र स्वसमीपवर्तिनि स्वधर्मसंक्रामकस्योपाधिपदार्थस्य संभवोऽस्ति। प्रागवगतमिति। प्रधानसंबन्धितया यत् कदाचिद्वगतं, तस्यव सादृश्यस्य शुकत्वादर्जानस्य संबन्धिज्ञानविधया प्रधानसंस्कारोद्वोघद्वारा भ्रमहेतुत्वात प्रागवगनत्वमावश्यकम्। अध्याससमये अध्यासोत्पत्यव्यवहितपूर्वक्षण। प्रागेव अध्यासोत्प्त्य व्यवहितपूर्वक्षण एव। संशायकत्वादिति। प्रधानस्य लोहित्यादिमत्तया अधिष्ठानस्य च स्फटिकाद्लीहित्याद्यभाववत्तया ज्ञानात्तदु-
Page 202
[प्रतिकूलतर्कनिराकरणम् ] गौडब्रह्मानन्दीयुता। ४९७
प्राग्गृहीतमिति न विपर्ययप्रयोजकम्। किंच सादृश्यं न स्वतो भ्रमकारणम्; मानाभावात्, किंतु संस्कारोद्वोधेन सामग्रीसंपादकतया, संस्कारोद्वोधश्च न सादश्यैकनियतः; अदष्टादिनापि तत्संभ- घात्। तटुक्तम्-'सद्ृशादृष्टचिन्ताद्याः स्मृतिषीजस्य बोधकाः'। इति। चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम्। तथाचान्यतः संस्कारोद्वोधे सति सादृश्यमनुपयोगि। तदुक्तं विवरणे-'निरुपाधिकभ्र- मकार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शजपीतिमादाविव कारणान्तरं वा कल्पयती'ति। ननु-दोपं विना भ्रमस्वीकारे तदप्रामाण्यस्य स्वतस्त्वापत्तिः, दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरिति-चेन्न; अनाद्य- विद्याध्यासस्य दोषानपेक्षत्वात्। साद्यध्यासस्य चाविद्यादोपजन्यत्वात् नाप्रामाण्यस्य स्वतस्त्वम्; माप्यनवस्था। अन्यथा तार्किकाणामप्यनादिप्रमा गुणं विनापीति प्रामाण्यपरतस्त्वं भज्येत । जन्यप्रमामात्रस्य गुणजन्यत्वं तु जन्याध्यासमात्रस्य दोषजम्यत्वेन समम्। ननु-लाघवेन प्रथमोप- स्थितत्वेन च प्रवृत्तिमात्रं प्रति संसर्गधिय इव धूममात्रं प्रति दोषादीनां जनकत्वादविद्याध्यासोSपि कथं क्लप्कारणेन विना भवतु? अन्यथा संसर्गधीरपि प्रवृत्तिविशषे वह्निरपि धूमविशेषे हेतुरिति स्यात्; तथाचाख्यातिवादश्चानुमानमात्रोच्छेदश्वापद्येयाताम्। किंच अविद्यारूपविषयस्यानादि- स्वेऽपि तत्प्रतीतेर्दोषाजन्यत्वेSप्रामाण्यापातः; अप्रामाण्यप्रयोजकस्य दोषजन्यत्वस्याभावात्, अथ भेदवदविद्याख्यदोषस्य स्वपरनिर्वाहकत्वम्, एवमपि भेदो मिन्न इतिवत् 'अज्ञानमजात'मिति व्यव- हारो भवतुः प्रतीतिमात्रशरीरस्य स्वविषयधीहेतुन्वं कृतः! स्वस्य स्वस्मात् पूर्ववृत्तित्वासंभवादिति- चेन्न; अध्यासत्वस्य लघुत्वेपि प्रथमोपस्थितत्वेऽपि न दोषजन्यतायां तन्र्रत्वम्: दोपस्यापि दृश्य- त्वेनाध्यसनीयतयाऽनवस्थापत्तेः । यथा नित्यज्ञानवादिनां ज्ञानत्वस्य न शरीरजन्यतादाववच्छेदक- त्वम्, नवा गुणजम्यत्वस्य प्रामाण्यप्रयोजकत्वम्; वाधकबलात्, तद्वत् जन्याध्यासं प्रत्येव दोपा- दीनां कारणत्वम् ; गुणाजन्यत्वेऽप्यवाधितविषयतया नित्यज्ञानप्रामाण्यवत् दोषाजन्यत्वेऽपि वाधि- तविषयतयाSनाद्यध्यासस्याप्यप्रामाण्योपपत्तिः। वाघितविषयत्वेऽपि न दोषजन्यत्वमवच्छेदकम्; दोषजन्यत्वेSप्यवच्छेदकान्तरान्वेषणेऽनवस्थापातात् । वाधितविषयत्वस्य दोपाजन्यवृत्तित्वेऽपि दोषजन्यत्वस्य तद्याप्यत्वोपपत्तेः । अत एव शवरस्वामिना 'यस्य दुषं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनो नान्य' इति वदता दुष्टकरणजम्यत्वमन्तरेणापि अर्थान्यथात्वमप्रामाण्यप्रयोजक- मुक्तम्। अविद्याध्यासरूपस्य साक्षिचैतन्यस्याविद्याजन्यत्वानभ्युपगमात् न प्रतीतिमात्रशरीरत्वव्या- घातः; 'अहमत' इत्याद्यमिलापकारणीभूतवृत्तिरूपाध्यासं प्रति त्वविद्यायाः कारणत्वमस्त्येव, घटादीनामिव स्वप्रत्यक्षं प्रति। वह्निविशिष्टधियोस्तु बाधकाभावात् सामान्येनैव धूमप्रवृत्ती प्रति
गोडव्रह्मानन्दी (लघुचन्द्रिका)। भयवृत्तित्वेन द्रव्यत्वादिज्ञानस्य साधारणधर्मवद्धमिज्ञानविधया संशयहेतुत्वादित्यर्थः । तथाच संशयसामऊ्रयां सत्यां न निश्चयरूपो भ्रम इति भावः। सादृश्यं सादृश्यादिधीः। उद्धोधेन शक्त्युत्पादनेन। अथवा-न स्वतो भ्रम- कारणमिति। सादृश्यधीत्वेन भ्रममात्रे न कारणमित्यर्थः । संस्कारोद्वोधनेन संस्कारसहकारित्वेन। सामग्रीति। काचित्कभ्रमसामग्रीत्यर्थः । एवंच संस्कारसहकारिविशेषतवमेवोद्वोधकत्वमिति स्वीकारेऽपि न क्षतिः । प्रणिधानसूत्र
सूत्र इत्यर्थः । प्रणिधानं मनोधारणं यस्मिन् विपये, तद्गतविशेषस्य स्मारकम्, निबन्धः एकवाक्योक्ताः, अभ्यासः ज्ञानावृत्तिकृत: संस्कारः शीघ्रं समारकः, लिङ्गं व्याप्यव्यापके, लक्षणं व्यावर्त्यव्याव्तके, सादृश्यं सदृशः, परिग्रहः स्वस्ामिनौ, आश्रयाश्रिती पोपकपोष्यौ, संबन्धः शिप्याचार्यादयः, आनन्तर्य पूर्वापरकालानुष्ठेयाः स्नानतर्पणा- दय:, वियोग: वियुक्ताः, एककार्यम् एककार्याः, विरोधो विरुद्धाः, अतिशयः आश्रयान्यूनाधिका:, व्यवधानं असिकोशादय: आच्छाद्याच्छादकाः, प्राप्तिः प्राप्यप्रापकौ, प्रमाणप्रमेयादयः, एते मिथः स्मारकाः। सुखदुःखे अनुभूयमाने सवमूलस्य, इच्छा खेहः, अर्थित्वं अप्राप्तेच्छा, रागो लब्धविपये बुभुक्षा, एते द्वेपश्च यत्र विपये जाता- सस्य मुहुः सारकाः। भयं यतो जातं तस्य, धर्मः गतजन्मादेः, अधर्मो यस्य ज्ञानाद्दुःखं जायते तस्य, निमित्त उम्मादादिकम्। सूत्रे स्मृतिरिति शेषः । गुणावयवसामान्येति। गुणद्वारा अवयवद्वारा वा सादृश्येत्यथः । कार- णान्तरं सादश्यनिरपेक्षदोषादिकारणम्। घटादीनामिवेति। तथाच विषयविधया अविद्यायास्तत्र जनकत्वादेवावि- अ. सि. ६३
Page 203
४९८ अद्वैतसिद्धिः । [परिच्छेद: १]
हेतुतेति न पूर्वोक्तदोषापातः। ननु-अविद्याध्यासस्यानादित्वेन दोषाद्यनपेक्षावदघिष्ठानानपेक्षापि स्यादिति-चेन्न; जनकत्वेनाघिष्ठा नानपेक्षयाम्याश्रय्वेनेक्षानियमात्।परममहत्त्वादेराश्रया- पेक्षावत् अध्यासस्य साधिष्टठानकत्वनियमेनात्रापि परतन्त्रत्वस्य समत्वात्, भास्यस्याविद्याध्यासस्य भासकतयाप्यघिष्ठानापेक्षणाच्च। अविद्यावच्छिन्नचैतन्यस्याविद्यादिसकलद्वैतद्रषटृत्वात् तस्यैव चा- न्तःकरणावच्छेदेन प्रमातृत्वात्, भ्रमप्रमयोः सामानाधिकरण्योपपत्तेरभ्रमस्य समानाधिकरणप्रमानि- वर्त्यत्वमुपपद्यते। ननु देहेन्द्रियादिकं विना कथमन्तःकरणाध्यासः? काSत्रानुपपत्तिः? अधिष्ठानाप- रोक्षत्वं हि अपरोक्षभ्रमे कारणम्, तत् यत्राधिष्ठानं स्वतो नापरोक्षम्, यथा शुक्त्याद्यवच्छिन्नचैत- न्यम्, तत्र तदपरोक्षतार्थ देहेन्द्रियाद्यपेक्षा, प्रकृतेचाविद्यावच्छिन्नं चैत्िषठानम्,त चैन्यस्य स्वप्रकाशत्वेनाविद्यायाश्च तदध्यस्तत्वेन तेनैव साक्षिणा अपरोक्षत्वात् कुत्र देहेन्द्रियाद्यपेक्षा? अथैवं प्रलये देहेन्द्रियाद्यभावेऽप्यज्षानसद्भ्ावेनान्तःकरणाध्यासप्रसङ्ग:, न; तदा देहेन्द्रियादिसर्जनविल- म्वहेतुनैव तद्विलम्बसंभवात्, अन्यथा तदा देहेन्द्रियादिकमपि कुतो नोत्पद्येत? नच-दोषादीना- मध्यस्तत्वेन तद्भावस्य तात्विकत्वात् अतात्विकेन तात्विककार्यप्रतिवन्धस्यायुक्तत्वात् बौद्धेन दुष्ट- तया कल्पितस्य वेदजन्यज्ञानस्येव कल्पितदोषजन्यस्य द्वैतविज्ञानस्य प्रामाण्यापात इति-वाच्यम्; बौद्धकल्पितस्य प्रातिभासिकदोषस्य व्यावहारिकवेदापेक्षया न्यूनसत्ताकत्वेन तदप्रामण्याप्रयोजक- त्वेऽप्यविद्याख्यदोषद्वैतप्रपञ्चयोः समसत्ताकत्वेन कार्यकारणभावनियमेन च कारणीभूताविद्याख्य-
गौडब्रह्मानन्दी (लघुचन्द्रिका )। यारूपदोपजन्यत्वमप्रामण्यप्रयोजकं स्थितमेव। न हि भ्रमत्वेन दोपजन्यतवं तत्प्रयोजकम्; तप्तदननुगतदोपकार्यत्वस्य भ्रमत्वाविशेपिततत्तद्वयक्तित्वादिनैवावच्छेदात्, अपि तु भ्रमत्वव्याप्यरूपेण दोपजन्यत्वं तत्प्रयोजकम्। तथाचाविद्या- रूपविषयजन्यवृत्तिज्ञानमात्रनिष्ठधर्मस्योक्तविषयजन्यतावच्छेदकस्यापि त्रमत्व्रव्याप्यरवेन तद्रपेण जन्यत्वमपि तथा। नच-विषयजन्यप्रत्यक्षस्येन्द्रियसक्षिकर्पजन्यत्वमावश्यकम्, तदभावान्न विपयजन्यत्वमिति-वाच्यम्; इन्द्रियजन्य- प्रत्यक्षस्यैवोक्तनियमात्, तार्किकाढ़िनव्यमतेऽपि सुखादिप्रत्यक्षस्येन्द्रियाजन्यत्वस्वीकाराच्च। साधिष्ठानकत्वेति। यस्य ज्ञानादध्यासोच्छेदस्तत्तादात्म्येत्यर्थः । उपपद्यत इति। ननु-बाधिनविषयकत्वेन भ्रमत्वं नित्यज्ञानस्य दोषा- जन्यत्वेऽपीत्ययुक्तम्; गुणाप्रयुक्तत्वेन प्रमात्वस्येव दोपाप्रयुक्तत्वेन भ्रमत्वस्यापि स्वतस्वापत्तेः, अतएव शाबरवाक्ये दुष्टकरणजन्यत्वं मिथ्यात्वधीश्र समुच्चितमुभयमप्रमात्वप्रयोजकमित्यर्थ इति-चेन्न; भावानवबोधान्। यथा हि तार्किकमते जन्यम्रमात्वं गुणजन्यतावच्छेदकम्, न तु प्रमात्वमात्रम्; तस्य नित्यसाधारण्यात्, तथा जन्यभ्रमतवमेव दोष- जन्यतावच्छेदकम्; न च तावता तस्य स्वतस्त्वम्, शाबरवाक्यं तु नोभय स्याप्रमात्वप्रयोजकरवपरम्; चरमस्यैव तत्संभवात्, आय्ं तु जन्यभ्रमत्वस्य दोपजन्यतावच्छेदकत्वज्ञापनाय। तदपि भ्रमत्वे बौद्धसम्मतस्य स्वतस्त्वस्य निरासायेति बोध्यम्। यद्पि-विषयजन्यप्रत्यक्षत्वं प्रमात्वव्याप्यं-इति, तदपि नः अनुभूयमानरक्तत्वादे: स्फटिकादावारोपे व्यभिचा- रात्। कुतो नेति। ईक्षणाभावात् आकाशादिसृष्टौ विलम्बः, ततश्च देहादिसृष्टी विलम्ब इति भावः। ननु-कुत ईक्षणोत्पत्तौ विलम्ब: ? इति-चेत्, परेपां मतेऽप्याद्यकार्यस्योत्पत्ती कुतो विलम्बः? अथ-तार्किकाणां अणुकोत्पा दकसंयोग: परमाणुक्रियाविशेषादेव; साङ्गयानां सत्वादिगुणपरिणामविशेषादेव महत्तत्वोत्पत्तिः, तथाच प्रलये आद्य- कार्यविलम्बः तद्भावादिति-चेत्, तर्हि ममापि तथैव समाधानम्। यथा हि सांख्यानां मते प्रलये सत्वादिगु- णानां परस्परापेक्षयोद्रिक्तपरिणामस्य सृष्टिप्रयोजकस्यास्वीकारेऽपि परस्परापेक्षया समाना एव परिणामाः स्वीक्रियन्ते, तथा मन्मतेऽपि। एतावांस्तु विशेष :- यत्तैः क्षणिकाः परिणामाः स्वीक्रियन्ते; 'प्रतिक्षणपरिणामिनो हि भावा ऋते चिच्छके' रिति तत्सिद्धान्तात्, अस्माभिस्तु क्षणद्वयस्थायिनस्ते स्वीक्रियन्ते; उत्तरपरिणामस्य पूर्वपरिणामनाशक- त्वात्-इति। तातत्विकत्वादिति। प्रामाण्यापात इत्यग्रेऽन्वयः। प्रामाण्यं तार्विकप्रामाण्यम्। ननु दोषाणा- मेव प्रतिबन्धकत्वात् कथं ताश्विकप्रामाण्याश्रयस्योत्पत्तिः ? तन्राह-अतात्विकेनेति । तात्त्विककार्येति। तार्विकप्रामाण्याश्रयेत्यर्थः । तेन तस्यायुक्तत्वे दृष्टान्तमाह-वौद्धेनेति। दुष्टतया दोषजन्यतया। समसत्ताक- त्वेनेति। ननु स्वसमसत्ताकेऽपि ब्रह्मज्ञाने अविद्यादोषो नाम्रामाण्यप्रयोजकः; मिथ्यात्वात्, अतो द्वैतज्ञानेऽपि तथा। न च- ब्रह्मज्ञाने अविद्याया उपादानत्वेऽपि भ्रमत्वेन नाविधादिदोपनिमित्तकारणतानिरूपितकार्यतेति सा न तथेति- वाच्यम्; न हयुककार्यता भ्रमत्वेन प्रपञ्मज्ञानेऽप्यम्नि, किंतु कार्यत्वेनाविद्योपादानतानिरूपितकार्यतैवेत्यत आह- कार्यकारणभावनियमेनेति। यथाच यत्र विपयेऽविद्या उपादानं तस्येव ज्ञाने अप्रामाण्यप्रयोजिकेति न ब्रह्ज्ञाने सा तथेति भावः। सत्यतापातः ताश्विकप्रामाण्यादिरूपस्य भ्रमवैलक्षण्यस्यापातः। नतु विद्यमानस्याप्यविद्यादो
Page 204
[प्रतिकूलतर्कनिराकरणम् ] गौडब्रह्मानन्दीयुता। ४९९
दोषाभावे कार्यभूतद्वैतप्रपञ्चतद्विज्ञानयोरभावनियमेन नाविद्यामिथ्यात्वेन द्वैतज्ञानसत्यतापातः; कारणमिथ्यात्वे कार्यमिथ्यात्वस्यावश्यकत्वात्, ब्रह्मक्षानेतराबाध्यत्वरूपव्यावहारिकत्वस्य बा- ध्याबाध्यसाधारणस्य मिथ्यात्वसिद्यनपेक्षत्वात् न सत्वविभागासिद्धिः। ननु-दोषादीनां रूप्यादिभ्रमहेतूनां पारमार्थिकसत्वमौत्सर्गिकप्रामाण्येन सिद्धमिति परमार्थसतामेव तेषां हेतुत्वमिति-चेन्न; व्यावहारिकप्रामाण्यस्य साक्षिणा ग्रहणेऽपि त्रिकालाबाध्यत्वरूपतात्विक- प्रामाण्यं न केनापि गरह्यत इति प्रत्यक्षबाधोद्धारे प्रागेवामिहितत्वात्। नच-रूप्याद्यध्यासे दोषादीनामधिष्ठानसमसत्ताकत्वं दष्टमिति इहापि तथेति-वाच्यम्; साधम्यसमजात्युत्तरत्वात्। वस्तुतस्तु सर्वत्र चैतन्यस्यैवाधिष्ठानत्वेन कुत्रापि दोपादीनामघिष्ठानसमससाकत्वाभावात्। नच -बाधकज्ञानं सत्यमेव वक्तव्यम्, अन्यथा बाधपरम्पराया अनवस्थापत्तरिति-वाच्यम्; वेदान्त- वाक्यजन्यचरमचित्तवृत्ते: कतकरजोन्यायेन स्वपरबाधकतयाऽनवस्थाया अभावात् । दृश्यत्वमा- प्रेण युगपत्कृत्स्नबाधसंभवात्। नहि गुहायां न शब्द इति शब्द: स्वंन निषेधति; अन्यथा स्वस्य स्वेनानिषेधे तत्राप्यनवस्थापत्तिः, शब्दमात्रनिषेधानुभवविरोधश्च। यद्यपि बाधकज्ञानं वृत्त्युपरक्त- चैतन्यरूपं स्वतः सत्यमेव; तथापि तदवच्छेदिकाया वृत्तेर्दश्यत्वेन मिथ्यात्वात् बाधोपपत्तिः । नतु-बन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वे तदभावार्थ यत्नो न स्यात्; अत्यन्ताभावस्यासा- ध्यत्वात्, अतएव न तत्मप्रतीत्यभावार्थमपि यत्न :; तस्या अपि मिथ्यात्वात्, अन्यथा मोक्षेऽपि बन्धप्रतीत्या तद्दशायामपि प्रातिभासिकबन्धापातात् । अथ पारमार्थिकत्वाकारेण मिथ्यात्वम्, स्वरूपेण तु निवृत्तिरेव, न; तस्या: स्वरूपावाधेनाप्युपपत्तेरिति-चेन्न; सत्यस्य ब्रह्मणो निवृत्त्यदर्श- नेन स्वरूपतो मिथ्यात्वाभावे निवृत्त्ययोगात् मिथ्यात्वं निवृत्त्यनुकूलमेव। नच तदर्थ प्रवृत्त्यनुप-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पस्य मिथ्यारवेन तात्विकस्य तदभावस्य सत्वात् कुतो न ताश्विकप्रामाण्यापातः ? तस्य ब्रह्मज्ञाने तत्प्रयोजकतया कृप्तत्वात्, तत्राह-कारणीभूतेति। दोपाभावे प्ररतियोगिव्यधिकरणदोषाभावे। तथाच नोक्ताभावः ब्रह्मज्ञाने उक्तप्रयोजकरवेन क्कृप्तः; आवयोः प्रामाण्यस्य स्वतस्त्वेन ब्रह्मज्ञाने प्रामाण्यस्योक्तप्रयोजकं विनापि तास्विकत्वसंभवात्, न हि तदपवादकं बाधकज्ञानं तत्रास्ति; उक्ताभावमात्रस्य तात्विकप्रामाण्ये प्रयोजकत्वे काचादिदोपस्य मिथ्यात्वेन तत्का- लेऽपि तद्भावस्य तात्विकस्य सत्वेनोक्तदोषजन्येऽप्युक्तप्रामाण्यापत्तेश्र। अतएव-भ्रमत्वे दोषस्य प्रयोजकत्वात्तद- भावे तास्विको दोपाभावः प्रयोजक-इत्यपास्तम्। अथ प्रतियोगिव्यधिकरणः स भ्रमत्वाभावे प्रयोजक उच्यते, तद्पि नः तावता काचादिदोपाभावस्य तत्संभवेऽप्यविद्याभावस्य तादृशस्य तदसंभवात्तत्काले द्वैतज्ञानस्यैवाप्रसिद्धा तत्र तत्प्रयोजकत्वस्याप्यप्रसिद्धत्वादिति भ्रमवैलक्षण्यं न द्वैतज्ञाने आपादयितुं शक्यते इति भावः । नन्वेवं द्वैतज्ञाने भ्रमत्वं निर्मूलम्; न हि तस्य भ्रमत्वेन रूपेण कार्यता; मानाभावात्, तत्राह-कारणमिथ्यात्व इति। कारण- स्या विद्यारूपप्रयोजकस्य । मिथ्यात्वे ज्ञाननिवर्त्यत्वे। कार्यस्याविद्याप्रयुक्कद्वैतमात्रस्य। मिथ्यात्वावश्यकत्वात् अविद्यानिवृत्तिद्वारा ज्ञाननिवर्त्यत्वावश्यकरवात्। तथाच भ्रमत्वेन कार्यत्वस्यास्वीकारेऽपि द्वैतस्याविद्याप्रयुक्तत्वेन ज्ञाननिवर्त्यत्वरूपमिथ्यात्वसश्वात् तज्ज्ञानस्य मिथ्याविपयकतवरूपं भ्रमत्वमावश्यकमिति भावः । नन्वेवं बौद्धदुष्टवे- दजन्यज्ञानस्य द्वैतज्ञानस्य च कल्पितदोषप्रयुक्तत्वेऽप्यविद्यादोपस द्वैतज्ञानसमसत्ताकत्वात् भ्रमत्वप्रयोजकत्वमिति पर्यवसित्म्; तख् न युक्त्तम्; भ्रमत्वनिश्चयात् पूर्व समसत्ताकत्वस्य ब्रह्मज्ञानबाध्यत्वरूपस्य तयोरनिश्चयात्, तत्राह- ब्रह्मक्षानेति। तथाच पूर्व ब्रह्मज्ञानेतराबाध्यत्वरूपसत्ताया ब्रह्णीच प्रपञ्जेऽपि निश्चयसंभवात् द्वैतं यदि मिथ्या न स्याद्, तदा स्वसमानसत्ताकाविद्याप्रयुक्तं न स्यादिति तर्केण मिथ्यात्वनिश्चयः युक्तः, उक्तवेदज्ञाने तु न तथा; बौद्धक- सिपतदोषस्य प्रातीतिकतया स्वसमसत्ताकतत्प्रयुक्तं न स्यादित्यापत्तेरिष्टत्वादिति भावः। साधम्यत्यादि। तर्काभा - वेऽपि दोषतवादिसाधर्म्यमात्रेण यदापादनं तद्वोधकवाक्यत्वात्। तदभावार्थ तदत्यन्ताभावार्थम्। असाध्यत्वा- दिति। निवृत्तिस्तु बन्धस्य न संभवति; शशविषाणवत्तस्य मिथ्यात्वेन तुच्छत्वात्। मिथ्यात्वादिति। तथाच तस्या निवृश्यसंभषेनात्यन्साभावार्थमेव यलो वाच्यः, तत्रासाध्यतवदोष उक्त इति भावः। ननु-क्षेमसाधारणं साध्यत्वमत्यन्ताभावेऽप्यस्ति, तत्राह-अन्यथेति। अनिवर्त्यस्यापि मिथ्याभूतस्य बन्धत्वे इत्यर्थः। पारमार्थिक- त्वाकारेण मिथ्यास्वमिति। पारमार्थिकत्वावच्छिसं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमित्यर्थः । निवृत्तिरे- वेति। न तु मिथ्यात्वमिति शेषः । नेति। अथेत्यादिकं यदुक्कं तन्नेत्यर्थः। मिथ्यात्वं बन्धस्य मिथ्यात्वम्। तदर्थ मिध्याबम्धंस्य निधृश्यर्थम्। प्रवृत्त्यनुपपत्तिरिति । स्वप्रदृष्टस्यानिष्टस्य निवृत्यर्थ प्रवृत्यदर्शनादिति शेषः । तथै-
Page 205
५०० अद्वैतसिद्धिः । [परिच्छेद: १ ]
पत्ति :; अधिष्ठानसाक्षात्कारानन्तरं तथैव, ततः पूर्व तु कण्ठगतविस्मृतचामीकरप्राप्तय इव भ्रम- घाधकज्ञानोत्पत्तये प्रवृत्त्युपपत्तेः । अत्यन्ताभावाधिकरणे च प्रतियोगिवत्तन्निवृत्तिरप्युपपादितैव । नच-त्रैकालिकनिपेधप्रतियोगिनि तुच्छे निवृत्तिर्न दृष्टेति कथं तादशि प्रपश्चे सा स्यादिति- वाच्यम्; यथाकथंचित् सजातीयेSदर्शनस्याप्रयोजकत्वात्। अन्यथा अनुत्पन्ने निवृत्तिर्न दृष्टेति प्रागभावोऽपिन निवर्तेत। तस्मात् स्वभावविशेष एव तुच्छनित्यविलक्षणो निवृत्तिप्रयोजक इति वाच्यम्। सा च निवृत्तिरधिकरणस्वरूपेति पक्षे घटनाशार्थ मुद्ररपातादाविव मननादौ प्रवृत्तिरू- हनीया। अतिरिक्तेति पक्षे त्वनिर्वचनीया, पञ्चमप्रकारा चरमवृत्तिरूपा वा सा; सर्वथा जन्यैवेति न काप्यनुपपत्तिः। ननु-वन्धस्य ब्रह्मण्यध्यस्तत्वे तन्निदिध्यासनसाध्यतत्साक्षात्कारनिवर्त्यत्वं
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वेति। तदा बन्धनाशस्य सिद्धतवनिश्चयादिति शेषः। बन्धनाशस्यात्मस्वरूपत्वे हि तरवज्ञानोपलक्षितात्मस्वरूपे तत्र तदा सिद्धत्वं निश्चितम्। एवं पक्षान्तरेऽपीति भावः । चामीकरप्राप्तये चामीकरसंबन्धाय तस्य सिद्धत्वेऽप्यसि- द्धुत्वभ्रमेण तत्रेच्छेति ज्ञापनाय कण्ठगतत्वविस्मृतत्वयोरुक्तिः । भ्रमवाधकज्ञानोत्पत्तये बन्धनाशाय; तादशज्ञान- स्योरपत्तिर्यस्मे इति व्युत्पत्तिसंभवात्। चरमवृत्तिरेव बन्धनाश इति पक्षे तु यथाश्रुत एवार्थः । ननु 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः' इति वार्तिकोक्त्या तत्वज्ञानोपलक्षितस्यात्मनोऽज्ञाननिवृत्तित्वम्, अज्ञानमेव च बन्ध :; 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः' इति वार्तिकोक्तेः, तथाचोक्तात्मनोऽज्ञाननाशत्वे तस्य ज्ञानपूर्वमपि सरवेन सिद्धत्वनिश्चयात् तदुद्देशेन प्रवृत्यनुपपत्तिः, न घ-ज्ञानोपहितात्मोद्देशेनैव प्रवृत्तिः; तादृशात्मनोSसिद्धत्व- निश्चयादिति-वाच्यम्; ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिरूपवार्तिकविरोधात्तग्राह-सा चेति। घटनाशेति। घटावयवविभागादयुपहितस्य घटावयवस्य निप्पत्तिर्घटनाशः । ऊहनीयेति। बन्धनाशार्थतवेनोहनीयेत्यर्थः । तथा च ज्ञानोपहितात्म स्वरूपनिप्पत्यर्थ मननश्रवणयो: प्रवृत्तिः उक्तस्वरूपस्याज्ञाननाशत्वस्वीकारात्। वार्तिके ज्ञानोपलक्षि- तात्मनोऽज्ञाननाशत्वोक्तिस्तु ज्ञाने .नष्टेऽपि ज्ञानोत्तरमनःपरिमाणोपहितस्याप्यात्मनोऽज्ञाननाशत्वसूचनाय; आत्म-
मस्य मनःपरिणामस्य नाश: कः ? इति-चेत्, न कोऽपि। तर्हि स क्वगत? इनि चेत्, नायमस्मान् प्रत्येव; तार्कि- कादीन् प्रत्यपि तत्संभवात्। यद्यपि हि तेपां मते दुःखस्य पापस्य वा चरमो नाशो मोक्ष इत्युच्यते; तथापि तादृश- दुःखादि क्व गतमिति पर्यनुयोगस्तान् प्रत्यस्त्येव। सांख्यादिमतेऽपि दुग्धादेर्दध्यादिपरिणामकाले दुग्धादि क्व गतमिति पर्यनुयोगः। अथ-यथा घटादिकं कुत आगतमिि न पर्यनुयोगः; यक्ष्षण भगतं तदव्यवहितपूर्वक्षणे दण्डादिसा- मग्रीसंबन्धादेवागतमित्युत्तरात्, तथा क गतमित्यपि न सः; नाशजनकसामग्रीमतक्षणस्य प्रतियोग्यधिकरणकालपूर्व- स्वाभावनियमान्नाशक्षण प्रतियोगी नास्त्येवेति स्वीक्रियते, न तु कुत्रापि गत इस्युत्तरादिति तार्किकादिभिवाच्यमिति- चेत्, तर्हि प्रमायाः स्वसमानविषयकाज्ञानाधिकरणकालपूर्वत्वाभावनियमवच्चरमस्य तत्वज्ञानोत्तरमनःपरिणामस्य स्वपरिणाम्यज्ञानतत्प्रयुक्तदश्याधिकरणकालपूर्वत्वाभावनियमस्यास्माभिः स्वीकारादस्मान्प्रत्यपि न पर्यनुयोगः । तस्मा- धथा विभक्तरूपेणासिद्धत्वात् घटावयवे सिद्धेऽपीच्छा, तथा स्वरूपेण सिद्धेऽप्यात्मनि ज्ञानोपहितरूपेणासिद्धत्वा- दिच्छा। न च-एवमुक्तरूपेण साध्यत्वात् बन्धनाशस्य सिद्धचामीकरस्य तददृष्टान्ततया पूर्वमुक्तिर्विरुध्येतेति- वाच्यम्; यथा चामीकरं स्वरूपेण सिद्धमपि कल्पिनेन कण्ठावृत्तित्वेनासिद्धतया झायमानत्वात् इप्यते, तथा स्वरूपेण सिद्धोऽप्यात्मा कल्पितन बन्धनाशत्वावच्छेदकोक्तरूपेणासिद्धतया ज्ञायमानत्वादिष्यत इति भावात्। चरमवृत्यादेर्व- न्धनाशत्वपक्षेऽपि दृष्टान्तो नानुपपन्नः। यथोत्तरूपेप्प कल्पिते चामीकरे इच्छा, तथा कल्पितबन्धप्रतियोगिकनाशत्व- रूपेण कल्पिते चरमवृत्त्यादाविति भावात्। ननु ज्ञानोपहितात्मनोऽज्ञाननाशत्वे ज्ञानादज्ञाननाशोत्पत्तिर्न संभवति; युगपदव ज्ञानतदुपहितात्मनोरुत्पादात्, तथाच 'ज्ञात्वा देवं मुच्यत' इत्यादिश्ुतिविरोधः, तत्राह-अतिरिक्ते- त्यादि। अनिर्वचनीयेति। अतिरिक्ताया अपि निवृत्तेर्भुज्यमानादष्टासमानकालीनेन त्त्वज्ञानेन ततसंस्कारेण वोच्छेद्यत्वेन ज्ञाननिवर्त्यत्वादनिर्वाच्यत्वम्। ननु तत्वज्ञानान्तरस्यानुत्पादेऽपि भोगसमाप्ता कैवल्यसंभवादुक्निवृत्ते: ज्ञाननिवत्यत्वासंभवेनानिर्वाच्यत्वासंभवः; संस्कार द्वारा ज्ञाननिवर्त्यत्वं तु न मिध्यात्वम्; साक्षाज्जञानोच्छेद्यत्वस्यैव तद्रपत्वात्, तत्राह-पञ्चमप्रकारेति। जानानुच्छेद्येत्यथेः। तथाच ज्ञानानुच्छेद्यर्वेऽपि चिन्नास्यत्वादेव सस्य मि- थ्यात्वम्। संस्कारद्वारकसाधारणं ज्ञानोच्छेद्यत्वं वा मिथ्यात्वम्। ननु-ज्ञानमेवाज्ञाननाशोऽस्तु, अतिरिक्त्कतत्कल्पने गौरवात्तवेष्टापत्तिमाह-चरमवृत्तिरिति। न कापीति। यदपि प्रथमपक्ष एव बन्धनाशः सुखरूपतवेन पुरुषार्थः, न त्वन्यपक्षेपु; तथाप सुखाभिव्यक्तिरूपत्वेनाप्यनात्मरूपनिवृत्तेरपि पुरुपार्थता, अज्ञाननिवृत्तिर्हि स्वप्रकाशसुखरूपा-
Page 206
[प्रतिकूलतर्कनिराकरणम्] ५०१
श्रवणादिनिय मादृष्टसापेक्षव्रह्मज्ञाननिवर्त्यत्वं च न स्यात्; नहि देवतानिदिध्यासनसाध्यतत्साक्षा- त्कारनिवत्य दुरितं तत्राध्यस्तम्, न वा दूरागमनादिनियमादृष्टसापेक्षसेतुदर्शननिवर्त्य दुरितं तत्रा- ध्यस्तमिति-चेन्न; आत्माध्यस्तगौरत्वादेः शुक्त्याद्यध्यस्तरूप्यादेश्च तत्तत्साक्षात्कारनिवर्त्यत्वदर्श- नेन प्रपञ्चस्यापि ब्रह्मण्यध्यस्ततया तत्साक्षात्कारनिवर्त्यत्वस्यावश््यकत्वात्। नहि शुक्त्याद्यध्यस्तं रूप्यादि शुक्त्यादिज्ञानं विना निवर्तते। देवतादर्शनादिना तु प्रायश्चित्तसमयकक्ष्येण दुरितस्य कारणात्मनावस्थानमात्रं क्रियते, नतु शुक्तिजानेन रूप्यस्येव निवृत्तिः; अधिष्ठानाज्ानरूपोपादानक- स्यारोपितस्य तन्निवृत्ति विना निवृत्त्ययोगात्, अज्ञाननिवृत्तिश्चाघिष्ठानज्ञानादेवेत्युक्तं प्राकू। श्रवणा- दिनियमाटष्टं च न मुर्क्ति प्रति कारणम्, किंतु ब्रह्मापरोक्ष्यं प्रति। ननु-अवघातसाध्यवैतुष्यान्यापू· र्वस्येव श्रवणादिसाध्यापरोक्ष्यान्यमुक्तेरेव तत्साध्यत्वम्; अन्यथा श्रवणनियमादृष्टसाध्ये साक्षारकारे श्रवणनिरपेक्षस्योपायान्तरस्याप्रसक्त्या तत्प्रसक्त्यधीननियमविध्ययोगात्, नच-परोक्षज्ञानं भ्रव- णात्, अपरोक्षं तु नियमादष्टादिति-युक्तम्; श्रवणादिविधौ परोक्षश्ञानप्रवाहरूपनिदिध्यासनसा- ध्यापरोक्षस्यैव दशिनोद्देशात्, त्वन्मते परोक्षज्ञाने कामनाया अयोगेन तस्योद्देश्यत्वायोगाञ्चेति-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। श्ममोऽमिव्यक्तिः। ननु-सुखमेव पुरुषार्थः, न तु तदभिव्यक्तिः; यदवगतं सदवश्यमिष्यते, स पुरुषार्थ इति तार्कि- कोक्तेरिति-चेत्, सत्यम्; परं तु मन्मते केवलसुखस्वरूपस्यातमनः सुखतवमभिव्यक्त्युपहितत्वम्, न तु तत्स्वरूप- त्वमू ; तत्स्वरूपस्य सदा सिद्धत्वेनावृततवेन चेच्छायोग्यत्वाभावात्, उक्तोपहितत्वविशिष्ठात्मन एव सुखपदवाच्यत्वाच् लोकेऽपि चन्दनादियोगजन्यमनोवृत्युपहितात्मन एव सुखपदेन व्यवहारात् । तथाचोक्त्तसुखत्वविशिष्टं मन्मतेऽपि पुरुपार्थः । तच्चावगतमवश्यमिष्यते। एवमात्मनः स्वरूपाभिव्यक्ततरपि पुरुषार्थत्वमव्याहतम्; अभिव्यक्तात्मन इवा- स्माभिव्यक्तेरपि सुखपद्वाच्यत्वादिच्छायोग्यत्वाच्च, यदवगतमवश्यमिष्यत इति पुरुषार्थलक्षणसत्वात्। जातिरूपं वा सुखत्वमभिव्यक्तात्मनि आत्माभिव्यक्ती च स्वीक्रियते। अत एव कल्पितव्यक्तिमेदेन ज्ञानरवानन्दत्वादिकं जातिरित्यनुपदमेव मूल उत्तम्। अभिव्यक्तपूर्णानन्दपूर्णानन्दाभिव्यक्त्योरस्तु सर्वदुःखविरोधित्वेन परमपुरु- षार्थत्वमिति भावः । निवृत्तिः बाधः । निवृत्त्ययोगात् बाधायोगात्। श्रवणादिनियमादष्रमिति । श्रवणाद्याश्रितनियमजन्यादष्टमित्यर्थः । अवघातादिनियमविधिस्थले हि वैतुप्यादिविशिष्टव्रीद्याद्यर्थमवघातादिकं न विधीयते; तस्य प्राप्तत्वात्, किंतु अवघाताद्याश्रितो नियमः । अतएव कृष्णलयागादाववघातादिबाधासदा- श्रितनियमस्य नानुष्टानम्। अथवा-नियमतात्पर्यकविधिविषयश्रवणादिजन्यादष्टमित्यर्थः। अवघातादेहि वैतुष्या- दिविशिष्टे साधनतया प्रापकत्वमाक्षेपस्य यद्यप्यस्ति; तथापि तत्प्रवृत्तेः पूर्वभेव प्रत्यक्षविधिस्तत्प्रापकः स्वीक्रियते; प्रयोजनसरवात्। आक्षेपप्रवृत्तिप्रतिबन्धेन दलनादिनिवृत्या अवघातादिनियमो हि प्रयोजनम्। सोऽपि न व्यर्थ: नियमप्रत्ययान्यथानुपपश्या अवघातादेर्यागीयापूर्वसाधनापूर्वविशिष्टव्रीह्याधुद्देशेन विध्यन्तरकल्पनात् यागीयापूर्ते अवघातादिजन्यापूर्वसाध्यत्वप्रत्ययस्य फलत्वात्। अतएवावघातादी तज्ञन्यापूर्वस्य पश्चास्कल्प्यरवेन न प्रयोजकत्वमू, किंतु वैतुष्यादिद्टष्टफलस्येति तदभावात् कृष्णलयागादाववघातादिलोपः। अप्रसकत्येति। मुक्तौ तु ताइशोपायान्तरं प्रस्तककमिति पराभिमान:। दृशिनेति। साक्षारकारस्यैव निदिध्यासनप्रयोजनत्वेन तदुद्देशेनेव तद्विधानात् श्रवणम- ननयोरपि तथा वाच्यम्; अन्यथा परोक्षज्ञानबोधनाय दशेरवृत्तिप्रसङ्गात्, एकप्रतिसन्धानेनार्थद्वयबोधनासंभवात्, 'सकृदुच्चरितः शब्द: सकृदेवार्थं बोधयती ति व्युत्पत्तेः। ननु-'आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादौ मनननिदिध्यासनसहितं श्रवणमात्मनिश्चयाय विधीयते; दृशेश्चाक्षुपज्ञानवाचितवेऽपि प्रकृते निश्चये लाक्षणि- कश्वात्, निश्चयतवंचासंभाव नाविपरीतभावनाप्रयुक्त्ताप्रामाण्यधीरहितधीत्वम्। तथाचासंभावनानिवृत्तिद्वारा मननस्य विपरीतभावनानिवृत्तिद्वारा निदिध्यासनस्य प्रधानीभूतश्रवणफलनिश्चयोपकारकत्वात् श्रवणस्यापि तात्पर्यनिश्चयद्वारक- तातपर्यसंशयनिवृत्तिद्वारा निश्चयसाधनत्वात् दशिना निश्चयत्वेनैव ज्ञानमुद्दिश्यते। तथाच साक्षास्कारत्वमेव श्रवणादि नियमादृष्टप्रयुक्त्तम्, तच्च साक्षात्कारतवेन प्रतीयमानत्वं परोक्षत्वेनाप्रतीयमानत्वंच, उक्तं हि विवरणे-'आपरोक्ष्य- निश्चयानुकूलस्तर्को मननम्, आपरोक्ष्यधीविरोधितकों निदिध्यासन'मिति; मनननिदिध्यासनस्वरूपयोर्दष्टविधयोककसा- क्षास्का रत्वप्रयोजकृत्वेऽपि तदीयनियमारष्टस्य उक्तसाक्षात्कारत्वप्रतिबन्धकस्यासंभावनादिजनकस्य च पापस् निवर्तकत- थोपयोगः। एवं श्रवणनियमादृष्टस्यापि तात्पर्यसंशयादिजनकस्य उक्तसाक्षासकारत्वप्रतिबन्धकस्य च पापस्य निवर्तकत- योपयोगः । अपरोक्षत्वेनानिश्चितादप्रमात्वेन गृह्यमाणाद्वा नाविद्यानिवृत्तिः; अतोतादृशज्ञनं ेक्यते, त
Page 207
५०२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
चेनन; तत्र ऋत्वर्थस्य नियमापूर्वस्य परमापूर्वसाधकत्वेऽपि पुरुषार्थहिरण्यधारणादिनियमादृष्टस्य तद्भाववत् श्रवणादिसाध्यसाक्षात्कारान्यफलाभावेSपि तेनैव फलवत्त्वोपपत्तेः, 'सर्वापेक्षा च यश्ञादिश्रुतेरश्वव 'दिति न्यायात्, 'सर्व कर्माखिलं पार्थ ! झाने परिसमाप्यते' इति स्मृतेश्च। अत्र सर्वाखिलपदाभ्यां कर्मशब्दवाच्यापूर्वमात्रस्य झाने समाप्तिदर्शिता; मोक्षस्याविद्यानिवृत्तिरूपस्य ज्ा- नातिरिक्तासाध्यत्वनियमाच्च। ज्ञाने त्वसंभावनादिनिवृत्त्या प्रतिबन्धकदुरितनिवृत्त्या च दष्टादष्टांशो पयोगः। सामान्यपुरस्कारेण च प्रसक्तस्य साधनान्तरस्य निवृत्तिः सर्वत्र नियमविधे: फलम्, विशे- षरूपेण त्वपूर्वविधित्वमेव। यथाहि 'ब्रीहीनवहन्ती' त्यादावपूर्वसाधनीभूतव्रीहिवैतुष्ये विशिष्यावघा तातिरिक्तसाधनान्तराप्रसक्तावपि वीहिवैतुष्यमात्रे प्रसक्तस्य नखविदलनादेर्निवृत्ति :; विशिष्य का- र्यकारणभावबोधनात्, तथा निर्विशेषव्रह्मात्मा मेदसाक्षात्कारप्रतिबन्धनिवृत्ती श्रवणाद्यतिरिक्तसा धनान्तराप्रसक्तावप्यात्मज्ञानमात्रप्रतिबन्धनिवृत्तौ साङ्यादिशास्त्रस्यापि प्रसक्ते: तन्निवृत्तिर्विशिष्य वेदान्तवाक्यविचारविधानादिति परमगम्भीरोऽयं ग्रन्थार्थः। ननु-यदि विश्वं कल्पितं स्यात्, तदा 'जन्माद्यस्य यत' इति सूत्रे 'यतो वा इमानी'त्यादिश्रुतौ च जन्माद्युक्तिः, 'ईक्षतेर्नाशव्द'मिति सूत्रे
गौडब्रह्मानन्दी (लघुचन्द्रिका)। णादिकं नापेक्षते; तत्पूर्वमपि तदुत्पादात्, तथा च श्रवणं साक्षात्कारत्वे न प्रयोजकम्, किंतु तददष्टम्, तत्राह- त्वन्मत इति। अयोगेनेति। 'ब्रह्मज्ञानं भवत्वि'तीच्छायाः पूर्व 'ब्रह्मज्ञानमिष्टसाधन' मिति ज्ञानस्यावश्यमपेक्षणी- यत्वात् तत्र च ब्रह्मणो ज्ञानविशेषणतया परोक्षज्ञानस्य पूर्वमेव सिद्धत्वज्ञानसंभवेन नोक्तेच्छा संभवतीति भावः । सोपाधिब्रह्मज्ञानस्यापातब्रह्मज्ञानस्य च सिद्धत्वेन 'ब्रह्मणोऽन्याविषयको निश्चयो भवत्वि'ति इच्छाया एव वाच्यतवेना- पातम्रह्मज्ञानादपि तदुत्पत्तिसंभवेन च नेयमनुपपत्तिरिति बोध्यम्। कत्वर्थनियमापूर्वस्येति। क्रतुं तत्कारकं वा उद्दिश्य विहितं यत्, तदीयनियमादृष्टस्येत्यर्थः । परमापूर्वेति । भवघातादिभिन्नाङ्नियमादृष्टाभिप्रायेणेदम्; अवघातादेस्तृतीयाध्याये 'तेपामर्थन संबन्ध' इत्यधिकरणे आभेयाद्युतपत्यपूर्वार्थत्वस्य स्थापितत्वेन परमापूर्वाथत्वा- भावात्, अन्यथा अवघातादेराज्यादिषु वारणासंभवात्। पुरुषार्थेति। तृतीयचतुर्थ स्थितं-'सुवर्ण हिरण्यं धार्य सुवर्ण एव भवति दुर्वणोऽस्य आ्रतृव्यो भवती'ति वाक्ये अनारभ्याधीते शोभनवर्णहिरण्यवारणं ऋत्वर्थम्, उत पुरुषार्थमिति संशये, पुरुषाथतवे फलकल्पनागौरवात् अभिहोत्रादिकर्मखङ्गम्; रात्रिसत्रादावार्थवादिकफलकल्पना युक्ता, न तु प्रकृते; धारणसंस्कृतसुवर्णस्य क्रतूपयोगसंभवादिति प्राप्ते, नैवम्, कतुं प्रति हि नाहयनीयादेरिव धार- णस्य विधिरस्ति, नापि जुह्गादेरिव सुवर्णस्य ऋतावव्यभिचरितसंबन्धः, येन तस्य कतूपस्थापकतया ऋत्वपूर्वसाधनीभूनं तदुद्दिश्य हिरण्यधारणविधिसंभवात् कत्वर्थत्वं शङ्कनीयम्; लोकेऽपिहि हिरण्यस्योपयोगसंभवेन जुह्नांदरिव ऋत्वव्य- भिचरितसंबन्धाभावात्। तस्मादार्थवादिकं भ्रातृव्यदुर्वर्णतवादिफलं पुरुपापेक्षितमुद्दिश्य हिरण्यधारणं विधीयते। 'सक्तून् जुहोती'तिवद् द्वितीयाविभक्ति: करणतायां लाक्षणिकी। सोडयं नियमविधि :; उक्तफले साधनान्तरनिवृत्तिफ- लकसाधननियमस्य प्रत्यवायनिवृत्यरथत्वात्, यथा प्रतिम्रहादेर्नियमविधिना साधनान्तरेण द्रव्याजने पुरुषस्य प्रत्यवायः, तथा साधनान्तरेण आ्रातृव्यदुर्वर्णतायाः स्वकीयसुव्णतायाश्र करण इति। तथाच हिरण्यधारणादिनियमापूर्वस्य यथा परमापूर्वासाधनतवं, तथा श्रवणादिनियमापूर्वस्येति भावः। साक्षात्कारान्येति। साक्षात्कारप्रतिबन्धकनिवर्त्यस्ये- त्यर्थः । तेनेति। उक्तनिवृत्तिरूपफलेनेत्यर्थः। सर्वापक्षेति। सर्वकर्मणां तत्वसाक्षात्कारे अपेक्षा। 'विविदिपन्ति यज्ञेने'त्यादिश्रुतेः, 'कपाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तत' इति स्मृतेश्व। यथाश्वो रथचलनादावपेक्ष्यते, न तु लाङ्लाकर्षणादो; अनुपयुक्तत्वात्, तथा तत्वाज्ञाननिवृत्तिरूपे मोक्षे तत्वज्ञानैकसाध्ये कर्मणां नापेक्षेति सूत्रार्थः। ज्ञाने समाप्ति: ज्ञानसाध्याजनकृत्वे सति ज्ञानजनकत्वम्। सामान्येति। नियमविध्यभावे वैतुष्यतवरूपसामा- न्यावच्छिनं प्रति दलनादिकं पाक्षिकतया प्राप्तम्, न तु यागीयव्रीहिवतुष्यमात्रगतधर्मावच्छिनं प्रति; आक्षेपस्य तादृशविशेषरूपमपुरस्कृत्यैव प्रवृत्तेः । तथाच दलनादिनिवृत्तिफलकनियमपरत्वमवघातादिविधेर्नायुक्तमिति भावः। विशेषरूपेण प्रकृतयागापूर्वप्रयोजकवैतुप्योद्देश्यकावघातभावनाबोधकतवेन। विशिष्येत्यादि। प्रकृतापूर्वप्रयोजक- वैतुष्यविशिष्टमवघातेनैव भावयेदित्यादिबोधनादित्यर्थः । श्रवणादीति । श्रवणादिनियमापूर्वेत्यर्थः । शास्त्रस्येति। ननु-शुद्धात्मसाक्षात्कारप्रतिबन्धकनिवृत्ता कथं साङ्कयश्रवणस्य प्राप्तिः, ताद्ृशश्रवणस्य हि स्वप्रकाशत्वाकारक- कर्तृत्वादिप्रकार कज्ञानजनकत्वेन तादृशज्ञानप्रतिबन्धकनिवृत्तिरेव तेन जन्यते इति-चेत्, उच्यते; अकर्तृत्वादिप्र- कारकज्ञानद्वारकस्यैव शुद्धात्मसाक्षात्कारस्य वेदान्तश्रवणसाध्यत्वेन द्वारोत्पत्तिप्रतिबन्धकस्य द्वार्युत्पत्तिप्रतिबन्धकत्वात् साङ्कयश्रवणस्यापि शुद्धात्मधीप्रतिबन्धकनिवर्तकत्वमिति मावः । जन्माद्यस्येति। जन्मादि अस्य यत इत्यर्थः ।
Page 208
[प्रतिकूलतर्कनिराकरणम् ] ५०३
'तदैक्षते'त्यादिश्रुतौ च ईश्वरस्येक्षापूर्वककर्तृत्वोक्तिः, 'लोकवन्तु लीलाकेवल्य'मिति सूत्रे 'आपकामस्य का स्पृहे'त्यादिश्रुतौ च प्रयोजनाभावेऽपि लीलया सृष्ट्यादुक्ति: 'वैषम्यनर्धृण्ये न सापेक्षत्वादि'ति सूत्रे 'पुण्येन पुण्यं लोकं नयती'त्यादिश्रुतौ च कर्मसापेक्षत्वेनावैषम्योक्तिः, 'तेजोऽतस्तथा हाहे' तिसूत्रे 'वायोरमि'रित्यादिश्रुतौ च तेजआदेर्वाय्वादिजन्यत्वोक्तिः, 'विपर्ययेण तु क्रमोऽत उपपद्यते चे'ति सूत्रे 'पृथिव्यप्सु प्रलीयत'इत्यादिस्मृतौ च पृथिव्यादीनामबादौ लयोक्तिरित्याद्ययुक्तं स्यात्; न हि कल्पिते तत्तद्विरोधशङ्का तन्निराकरणं च युक्तमिति-चेन्न; प्रपञ्चस्य कल्पितस्यापि व्यावहारिक- सत्त्वाभ्युपगमेन तद्दशायां विरोधशङ्कातत्परिहारयोरुचितत्वात्, इन्द्रजालादावध्यस्तेऽप्यैन्द्रजालि- कादेरीक्षापूर्वकस्रष्टत्वादेर्दर्शनाच्च। यथाच कल्पितस्यापि जन्माद्युपपत्तिस्तथाSनिर्वचनीयवादे वक्ष्यते। स्वप्रेऽपि सृष््यादेः शुत्या प्रतिपादनाञ्च। अध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववत् वाय्वादीनां तेजआदिजनकत्वमप्युपपन्नम्; 'तदभिध्यानादेव तु तल्विङ्गात्स' इति सूत्रे च तत्तन्भाचा- पन्नस्य ब्रह्मण एव कारणत्वाभिधानात्। अबादौ पृथिव्यादिलयोक्तिरपि तत्तन्भावापन्नचैतन्ये व्याख्ये- येति नाधिष्ठानातिरिक्ते लयोक्तिः। वैषम्यनर्धृण्य प्रयोजनादिशङ्कापरिहारादिकं तूपासनावस्थायाम्। 'भोक्त्रापन्तेरविभागश्चेतस्याल्लोकव'दिति आपाततः परिणामवादाभ्युपगमेन, 'तदनन्यत्वमारम्भणश- व्दादिभ्य'इति तु विवर्तवादे परमसिद्धान्तदशायां न शङ्का न चोत्तरम्; मायाविन इवेश्वरस्य स्वप्र- तिविम्बभूतजीवभ्रमयितृत्वेन सर्वविरोधनिरासोपपत्तेः। ननु-ईश्वरस्यापि सपरिकरस्य जीवेना-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। जन्माद्युक्ति: जन्मादिहेसुत्वरूपग्रह्मलक्षणोक्तिः। ईक्षतेरित्यादि। यतो वा इत्यादि वाक्यं न प्रधानस्य जन्मादिहे- तृत्वबोधकम्, प्रधानवोधकशब्देन शून्यं हि तत् ; उक्तशून्यत्वे हेतुमाह-ईक्षतेरिति। तदैक्षतेति। ईक्षतिधातु- समभिव्याहारविशेपादित्यर्थः । लोकवदिति। तुशब्दः प्रयोजनाभावादीशो न स्रष्टेति पूर्वपक्षस्य व्यवच्छेदकः । यथा लोके प्रयोजनमनुद्दिश्यापि राजादिनां लीलारूपा प्राणिनां च निःश्वासादिरूपा दृश्यन्ते चेष्टाः, तथेशस्य सृष्ा- दिक्रिया। वैषम्येति। कस्यचिदुत्कर्ष कस्यचिदपकर्प सृजतीति वैषम्यं, दुःखं संहारं च सृजतीति नैधघृण्यं निर्दय- त्वरूपं चेशस्य स्यादिति चेन्न; पुण्यापुण्ये अपेक्ष्य तथा करणादित्यर्थः । तेजोऽत इति। अतो वायोरेव तेजो जायते। हि यस्मात् 'वायोरम्नि'रिति श्रुतिस्तथाहेत्यर्थः। विपर्ययेणेति। अतः सृष्टिकमाद्विपर्ययेण विपरीतो लयस्य क्रमः। दृश्यते हि लोके मृदादिकं सृष्टरा घटादिकं सृज्यते। घटादिकं मृदि लीनं कृत्वा मृदादिकं तत्कारणे लीनं क्रियत इत्यर्थः । विरोधशङ्केति। सत्यस्य ब्रह्मणः लक्षणं सत्यमेव वाच्यं, जन्मादिहेतुत्वं न सत्यमिति लक्षणानुपप- त्तिरित्यादिपूर्वपक्ष इत्यर्थः । युक्तमिति। लक्षणादेर्मिथ्यात्वेन तत्रानुपपत्युक्तेरनौचित्यादिति भाव:। तद्भिध्या- नादेवेति। स ईश एवाकाशादिभावापन्नो वारवादिकं जनयति; 'बहु स्यामि'ति सर्वकार्यभावामिध्यानात्, 'तत्तेज ऐक्षते'नि तेजआदिभावं प्राप्तस्येक्षितृत्वमुक्त्वा 'तदपोऽसृजते'ति स्षटत्वोक्तिलिद्गात्। ब्रह्मण एवेति। तथाच 'तत्तेज ऐक्षन तदपोऽसृजते'त्यादिश्रुतौ तत्पदस्य प्रकान्तब्रह्मपररवेन तेजस्तादात्म्यापनं ब्रहमैक्षताऽपोऽसृजत इत्यर्थः। एवं 'आकाशाद्वायु' रित्यादिश्रुतौ तस्माद्वा एतस्मादात्मन इत्यनुषज्यते, तेनाकाशादिभावापभ्नात् ब्रह्मणो वायुरित्याद्यर्थ इति भाव:। उपासनेत्युपलक्षणम्, कर्मानुष्ठानकाले इत्यपि बोध्यम्। अभ्युपगमेनेति। उक्तंहि तदनन्यत्वमार म्भणशष्दादिभ्य' इत्यधिकरणभाष्ये-अभ्युपगम्य चेमं भोक्तृभोग्यलक्षणं व्यावहारिकं विभागं 'स्याल्लोकव'दिति परिहार उक्तः, न त्वयं विभाग: परमार्थतोऽस्तीति। संक्षेपशारीरकेSप्युक्तम्-'आारम्भसंहतिविकारविवर्तवादाना- श्रित्य वादिजनता खलु वावदीति। आरंभसंहतिमते परिहृत्य वादौ द्वावत्र संग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्वसुप- गम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्यै। प्रावर्तत व्यवहतेः परिरक्षणाय कर्मादिगोचरविधावुपयोगहेतोः ॥ विवर्तवादस्य हि पूर्वभूमिर्वेदान्तवादे परिणामवादः ॥' इत्यादि। विधावुपयोगेति। 'विधिषु श्राद्धोऽधिकारी'ति न्यायेन विवर्तवादालम्बनेन प्रपञ्चमिथ्यात्वे निश्चिते विहिते प्रवृत्यसंभवात्, परिणामवादस्यैव विहितप्रवृत्युप्रयोग इति भाव: । भोक्ापत्ते'रिति। भोग्यानां भोक्तृतादात्म्यापत्िः, भोक्त्रभिन्नब्रह्मामिन्नत्वात्, एवं भोक्तुरपि भोग्याभेदा- पत्तिः, तथाच भोक्तृभोग्यविभागो न स्यादिति चेत्, तदा साप्यापत्ति: व्याख्यास्तेति। पूर्वसूत्रस्थस्य व्याख्याता इत्यस्य विभक्तिवचनयोर्विपरिणामेनानुषङ्रः, विरुद्धतया ख्यातेति तदर्थः। यतो लोके समुद्राभिन्नयोरपि तरङ्रफेन- योयंथा नाभेदस्तथा ब्रह्माभिन्नयोरपि भोक्तृभोग्ययोरित्यर्थः । तदनन्यत्वमिति। तस्य ब्रह्मणोऽनन्यत्वं द्वितीय- शूम्यतम्। 'वाचारम्भणं विकारो नामधेय' मित्यादिश्रुतिम्यः। मायाविन इत्यादि। यथा मायाविना सृज्यमाने नगरे दश्यमानानां पुरुषाणामुत्कर्षापकर्षादिकं नापाद्यति, तथेशसृष्टानामित्यर्थः । स्वप्रतिजिम्वेत्यनेनेशजीवयोर्बिम्ब-
Page 209
५०४ अद्वैतसिद्धिः । [परिच्छेद: १ ]
ध्यस्तत्वात् कथं भ्रमयितृत्वम्। न; अविधोपहितचित एवानावेरीश्वरत्वेनान्त:करणोपहितजीवकल्पि- तत्वायोगात्, जीवकल्पितत्वपक्षेऽपि तादग्धर्मविशिष्टतयैव कल्पनेन तस्य भ्रमयितृत्वाद्युपपसे:, 'परिकल्पितोऽपि मरणाय भवेदुरगो यथा न तु नभो मलिन'मिति न्यायात्। ननु-जीवानां वाय्ा- दिभ्योऽग्न्याद्युत्पत्तिरिति भ्रमोऽस्ति, यः स्वाप्नभ्रम इव श्रुतेरालम्बनं स्यात्, न च भ्रान्ति विना कल्पितमस्ति; न चैतद्वाकाजभ्रान्तिकल्पितमेव पतद्वाक्ालम्बनम्; वेदस्य भ्रमजनकत्वप्रसन्गात्, अनुवादे तुन दोषः, न चेश्वर एव तत्कल्पकः; तस्य भ्रान्तत्वप्रसङ्गात्, तद्भ्युपगमेऽपि न निस्तार :; भ्रान्तेर्देहेन्द्रियादिकार्यत्वात् तेषां च पृथिव्यादिकार्यत्वात् पृथिव्याद्युत्पत्तेः प्राक भ्रान्त्ययोगादिति- चेन्नः भ्रान्तिमात्रे देहेन्द्रियाद्यपेक्षायाः प्रागेव निरासात्, ईश्वराध्यस्तवाय्वादिहेतुकाइयाघुत्पत्त्या लम्बनत्वेन वेदस्य भ्रमाजनकत्वात्, अध्यस्तस्य चाध्यस्तत्वेन स्फुरणात्र मायाविन इव ईश्वरस्य भ्रान्तत्वप्रसङ्गः। न चाध्यस्तत्वे उत्पत्त्याद्यनुपपत्तिः; अनध्यस्तस्य क्वाप्युत्पत्त्याद्यदर्शनेनाव्यस्तत्वस्यैव तदुपपादकत्वात्, सत्कार्यवादासत्कार्यवाद निषेधेनानिर्वचनीयकार्यवादमात्रे कार्यकारणभावपर्यव- सानात्। तदेवं कृत्स्नस्य प्रपश्चस्याद्वये ब्रह्मणि कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिः ॥ इत्यद्वैत- सिद्धौ ब्रह्मणि प्रपञ्चकल्पनोपपादनेन प्रतिकूलतर्कनिराकरणम्॥
गौडब्रह्मानन्दी (लघुचन्द्रिका )। स्वप्रतिषिम्बस्वाभ्यां कल्पितत्वसूचनेन सुतरामविरोध इति सूचितम्। अविद्योपहितेति। अविद्यायां बिम्बीभूत इत्यर्थः । अन्तःकरणोपहितेति । अन्तःकरणतत्संस्कारान्यतरोपहिताज्ञानप्रतिबिम्बितेत्यर्थः । पक्षेऽ्रपीति । दष्टिसृष्टिपक्षे जीवस्याविद्यामात्ोपाधिकतवेनानादित्वात्तस्यैव जगदुपादानरवादीशोऽपि भ्रमयितृर्वादिविशिष्ट एव तदु- पादानक इति भाव:। मरणायेति। महाभयोरपादनद्वारेति शेपः। भ्रमाजनकत्वादिति। वस्तुतो भ्रमजनक- त्वेऽपि न दोषः । पूर्वपूर्वकल्पसिद्धस्य जीवभ्रमस्योत्तरोत्तरकल्पे श्रुत्यानुघादेनाद्वैतप्रतिपादनसंभवादिति ध्येयम्। स्फुरणात् ईशं प्रति स्फुरणात्। भ्रान्तत्वेति। भ्रान्तत्वव्यवहारेत्यर्थः। तथाच भ्रान्तत्वव्यवहारस्य मिथ्याविपय- कत्वेनागृह्यमाणभ्रमत्वविषयकत्वाच्नेशो आ्रान्तत्वेन जीवैर्ष्यवहियत इति भावः । पर्यवसानात् पर्यवसानस्य भाव्या- दावुक्त्तत्वात्। उत्पत्ते: पूर्व कार्यस्य सत्वे कारणव्यापारवैफल्यात्, असत्वे तत्र कार्यासंबन्धकालस्यावच्छेद्कत्वासंभ- वात्, सदैव कार्यस्यासत्वापत्तिः; अतः सत्वासत्वाभ्यामुत्पत्ते: पूर्वमनिवांच्यं कार्यम्, व्यावहारिकोत्पत्त्यादिमठ््र- तीयमानोतपन्यादेमानसिद्धत्वेऽपि श्रुतियुक्त्यादिबाधात्। इति लघुचन्द्रिकायां मिथ्यात्वानुमितौ प्रति- कूलतर्कनिराकरणम्।
अथ प्रतिकूलतकेनिराकरणम् (१) तत्र न्यायामृतकारा: प्रतिकूलतकेपराहतं च मिथ्यात्वानुमानम्। तथाहि-विश्वं यदि कल्पितं स्यात् तर्हि सत्याधिष्ठानकं स्यात्, (१) ससत्यप्रधानकं स्यात्, (२) ससत्यप्रधानाधिष्ठानसादृश्यकं स्यात्, (३) ससत्यदोषहेतुकं स्यान्, (४) वन्धनिवृत्त्यर्थयत्नो न स्यात्, (५) ब्रह्मनिदिष्यासनसाध्यासाक्षिनिवर्त्यम्, (६) श्रवणादिनियमादृष्टसापेक्षब्रह्मज्ञाननिवर्ल च न स्यात्, (७) "जन्मादयस्य यतः," इति सूत्रे यतो वेति श्रुतौ च जन्माद्युक्तिः "ईक्षतेरनाशब्दम्," इति सूत्रे तदैक्षतेति श्रुतौचेश्वरस्य ईक्षापूर्वककर्तृत्वोकितः, "लोकवत्तु लीलाकैवल्यम्"इति सूत्रे आत्मकामस्य का स्पृहेति श्रुतौच प्रयोननाभावेऽपि लीलया सृध्याधुक्तिः, "वैषम्यनैर्धृण्ये न सापेक्षत्ादिति" सूत्रे "पुण्येन पुण्यं लोकं नयती"ति श्रुतौ च कर्मसापेक्षत्वेन अवैषम्योक्तिः, तेजोतस्तथाह्याहेति सूत्रे "वायोरमि"रित्यादिश्रुतौ च तेजआदेर्वाय्वादिजन्यत्वोक्तिः, "विपर्ययेण तु क्रमोऽत उपपद्यते चे"ति सूत्रे पृथिव्यप्सु प्रलीयते इति श्रुतौ च पृथिव्यादीनामबादौ लयोक्तिश (८) बाघिता स्यादिति नोक्तानुमानं प्रयोजकम्। तत्र घटाद्यनुविद्धतयाSप्रमीयमानत्वेन प्रतीयमानत्वेऽप्यात्मनस्तिरोधाने तदध्यस्ताविद्यादप्रकाशापत्त्या तदतिरोघानस्याज्गीकर- णौयतया यथाकथंचित्तदुपपत्तावपि आत्मानात्मनोर्भेदप्रहसत्वेनाऽ्यासासंभवेनाविद्याविषयभन्के चिद्रूपज्ञानस्यैवाज्ञानविरो- घित्वं नतु वृत्तेरित्यस्य वर्णयिष्यमाणत्वेन भ्रमविरोधिज्ञानाभावस्य सामान्याकाराज्ञाने संस्कारानुद्धोघादसद्विशेषाज्ञानस्य च बाधकत्वेऽपि सत्वाच्च स्वरूपाज्ञानस्य विशेषाज्ञानस्य चाधिष्ठानत्वेऽतन्र्रत्वे सामान्यतोऽज्ञातत्वे सति विशेषतोऽज्ञातत्वस्यैव तथात्वस्य अङ्गोकरणीयतया निःसामान्यविशेषस्यात्मनोऽधिष्ठानत्वासंभवेनाSन्यस्य चाधिष्ठानस्य निरूपयितुमशक्यत्वेन च निरधिष्ठानत्व एव पर्यवसानातू प्रथमतर्कोपपत्तिः। प्रधानमिय धीमान्राद्घिष्ठानमपि अरमे। हेतुः सुगतरीत्या
Page 210
[प्रतिकूलतर्कनिराकरणम्] गौडब्रह्मानन्दीयुता। ५०५
स्यात् अबाधस्तु द्वयोः समः । इति खोचितार्थक्रियाकारिणः श्रुत्यादिसिद्धोत्पत्तिकस्य च प्रपश्वस्य स्वरूपेण त्रैकालिक- निषेधायोगात् नेह नानास्तीति श्रुतेरपि प्रातिभासिके त्रैकालिकनिषेधस्य व्यावहारिकरूप्यविषयत्ववत् पारमार्थिकप्रपञ्चविषय- ्वस्यैवाऽक्गीकार्यत्वात् शुक्तिरजतभ्रमस्थले इव प्रमाजन्यसंस्कारस्यैव भ्रमहेतुत्वस्याङ्गीकार्यत्वादन्यथाऽन्योन्याश्रय कल्पाद्यम्र- मानुपपत्त्यादिदोषापत्तेः, सत्यप्रधानस्य हेतुत्वानङ्गीकारेण तत्संस्कारमात्रस्यैव हेतुत्वाङ्गीकारेऽपि भ्रमात् पूर्व सस्य कार्या- नुमेयाध्यासनियमाभावात् तत्सत्यत्वस्याSSवश्यकत्वाच्च द्वितीयत्कोपपत्तिः । कल्पितसारश्यस्याप्य विद्याध्यासाधीन- स्वेनान्योन्याश्रयापत्त्या निरुपाधिकत्रमे सादृश्यनियमाच्च यथाकथंचित् सादृश्यस्य ब्रह्माविद्ययोरप्यङ्गीकर्तव्यतया निर्गुणे ब्रह्मणि तदसंभवात् तृतीयतर्कोपपत्तिः। यथाहि रूप्याद्यध्यासे व्यावहारिकसत्त्वस्यैतावताऽप्यसिद्धत्वेन दोषाणां व्याव- हारिकसत्त्वं बौद्धकल्पितानां दोषाणां वेदजन्यज्ञानाप्रामाण्यासंपादकत्वेन दोषाद्यध्यासस्यापि दोषान्तराधीनत्वादिनान- वस्थापातेन कस्यचिद्दोषाभावेऽप्यारोपेऽप्रामाण्यस्वतस्तापत्त्या अविद्याया इव प्रपञ्चस्यापि सनिर्वाहकत्वसंभवेनाधिष्ठा- नानपेक्षापातेन च तत्प्रातिभासिकसत्त्वं वा न प्रयोजकं, तथा दोषमिथ्यात्वस्यैतावताप्यसिद्धत्वेनाघिष्ठनज्ञानवाध्यसत्त्वमेव तेषां अध्यासप्रयोजकं, एवंच "लोकोधिष्ठानवत् सत्यो दोषादिर्भ्रमकारणम्। दप्टोऽतोऽदष्टवत् सत्यो दोषादि: स्यात् जगन्भमे"इति चतुर्थतर्कोपपत्तिः। पारमार्थिकत्वाकारेण अत्यन्ताभावस्य स्वरूपाबाधेनाप्युपपत्त्या मिथ्यात्वस्यात्यन्ताभावरूपस्य स्वरूपेण निवृत्तिरूपत्वाभावेनासाध्यतात् पञ्चमतर्कोपपत्तिः । यथाहि देवतानिदिध्यास- नसाध्यतत्साक्षात्कारनिवर्त्य दुरितादि न तत्राध्यस्तम, एवं प्रकृतेऽपीति षष्ठतर्कोपपत्तिः। अवघातस्य वैतुष्यान्यापूर्व- स्येव श्रवणादिसाध्यापरोक्षान्यमुक्तेरेव नियमादृष्टसाध्यत्वेन अपरोक्षज्ञानस्यैव श्रवणविध्युद्देश्यत्वेन श्रवणेन परोक्षं नियमे- नापरोक्षमिति कल्पनाया अप्यसंभवेन साक्षात्कारे श्रवणनिरपेक्षोपायान्तराप्रसक्त्या नियमविधितायोगेन च सप्तम- तर्कोपपत्तिः । रूप्यादेरिव पृथिव्यादेर्जन्येक्षापूर्व स्षटृरत्स्य तद्भ्रान्तेः प्रयोजनापेक्षाया वा सुखदुःखेश्वरादिविषयभ्रान्त्ये- श्वरवैषम्यनैर्घृण्यादिप्रसक्तेवा कल्पितान्तरातू कल्पितान्तरोत्पत्तेवां तत्र लयस्य वाडयुक्तलातू अष्टमतर्कोपपत्तिः, इति
(२) अद्वैतसिद्धिकारास्तु- घटादनुविद्धतया प्रतीयमानत्वेन परिपूर्णानन्दलाद्यात्मना तिरोहितस्यापि सदात्मनाSनावृतत्वेनाविद्यादिप्रकाशोपपत्या पुरोवर्त्यपुरोवर्तिनोः भेदग्रहे सत्यपीदंरजतमित्यध्यासदर्शनेन रूपान्तरेण भेदग्रहस्य रूपान्तरेणाध्यासाविरोधित्वेन प्रपश्चा- ध्याससंभवेन, वत्तेरेवाज्ञानविरोधित्वेन चिद्रूपज्ञानस्य सिद्धस्य तदविरोधित्वेन च विरोधिज्ञानाभावस्य सदात्मना स्वरूपज्ञा- नस्यैव सामान्यज्ञानत्वेन परिपूर्णानन्दलादेः सत एव विशेपत्वेन बाधकालेऽपि सद्विशेषाज्ञानस्यचाभावे भावेन सवरूपज्ञानस्य विशेषाज्ञानस्य चवाऽघिष्टानत्वेन तत्र्रत्वेन सत्यरूपात्माधिष्ठानकलवापादनस्येष्टाप्त्तिपराहतत्वेन प्रथमतकोऽप्रयोजकः । सोचितार्थकियाकारितत्य साप्नमायादौ व्यभिचारेण पारमार्थिकसत्वाप्रयोजकत्वेन श्रुत्यादिसिद्धोत्पत्तिकत्वस्य खवप्ने व्यभि- चारेण च तादृशस्य प्रपश्चस्य त्रैकालिकनिषेधे बाधकाभावात्, प्रातिभासिके त्रेकालिकनिषेधे व्यावहारिकरूप्यविषयतस्य
प्रमासाधारणज्ञानजन्यसंस्कारस्यैवाध्यासहेतुत्वेन गौरवेण प्रमाजन्यसंस्कारस्य तदहेतुत्वेन पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यास- हेतुताङ्गीकारेऽपि बीजाङ्कुरवदन्योन्याश्रयस्यादोषत्वेन कल्पाद्यभ्रमस्यापि कल्पान्तरीयसंस्कारेणादृष्टादिना तदोद्वुद्वेनोपपत्त्या ज्ञानद्वारा ब्रह्मणोऽहेतुत्वेऽपि अज्ञानद्वारा अध्यासहेतुत्वेन शून्यवादाप्रसक्त्या च पूर्वप्रपश्चसजातीय स्येवोत्तरप्रपश्चस्याध्यासात् द्वितीयतर्कोंऽप्रयोजकः । अविद्याध्यासस्यानादित्वेन कारणानपेक्षस्य सादृश्यानपेक्षतात् सादृ्यस्यादृष्टादीनामिव संस्कारोद्वोधेन सामप्रीसंपादनद्वारैव भ्रमकारणत्वेन तस्य सादृश्यैकनियतत्ाभावेन पीतशङ्गत्रमे व्यभिचारेण च निरुपाधि- कभ्रमेऽपि सादृश्यनियमाभावात् तृतीयतकोSप्रयोजकः । ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकत्वस्य मिथ्यालसिध्ध- नपेक्षत्वेनान्योन्याश्रयानवकाशात् व्यावहारिकसतस्य साक्षिणा ग्रहणेऽपि पारमार्थिकसत्वस्य तेनाग्रहणाच्च रूप्याध्यासे यथा व्यावहारिकसत्वमेव दोषाणां प्रयोजकम्; तथा प्रकृतेऽपि कल्पितस्यापि दोषस्य प्रपश्चसमसत्ताकत्वेन बौद्धपरिकल्पितदोष- वैषम्येण कारणमिथ्यात्वे कार्यसत्वायोगेन च व्यावहारिकसतमेवाऽध्यासप्रयोजकम्। यथाहि गुणजन्यत्वं जन्यज्ञानप्रा- माण्यं प्रत्येव प्रयोजकं नतु ज्ञानत्वेन तत्प्रामाण्यप्रयोजकं, तथा जन्याध्यासं प्रत्येव दोषकारणकत्वमज्गीक्रियते, एवमपि दोषजन्यत्वस्य बाधितविषयत्वव्याप्यताया उपपत्त्याऽविद्याध्यासप्रामाण्यानापत्तेरिति दोषाध्यासस्य दोषान्तराध्यासाधीनला- दिना नानवस्थापत्तिः। पतेन-अविद्याध्यासस्येव प्रपश्नाध्यासस्यापि सवनिर्वाहकत्वसंभवादघिष्टानानपेक्षेति शङ्काSपि- पराहता; जनकत्वेनाविद्याध्यासाधिष्ठानानपेक्षायामपि आश्रयत्वभासकत्वादिना तस्यापि अधिष्ठानापेक्षानियमेन दृष्ान्ता संप्रतिपत्तेः, रूप्यादिषु अधिष्ठानज्ञानाबाध्यसतमेव दोषाणां तन्त्रमिति प्रपञ्चाध्यासेऽपि तदावश्यकताशङ्कादिकं तु साधर्म्य- समजात्युत्तरत्वात् नात्र दोषावहमिति चतुर्थतर्कोSप्रयोजकः। सत्यस्य ब्रह्मणो निवृत्त्यदर्शनेन सरूपतो मिथ्यालाभावे अ. सि० ६४
Page 211
५०६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
निवृत्त्ययोगात् मिथ्यातवस्य निवृत्त्यनुकूलत्वेनोक्तनिवृत्तेरघिकरणस्वरूपतपक्षे अनिर्वचनीयत्वपक्षे पञ्चमप्रकारत्वपक्षे वा प्रवृत्यु- पपतत्या च पञ्चमतर्कोSप्रयोजकः। निदिध्यासनसाध्यदेवतासाक्षात्कारेण दुरितस्य कारणात्मना अवस्थानमात्रस्य करणेन शुक्तिज्ञानेनेव वाधाभावात् बाधकसाक्षात्कारविषये बाध्याध्यासेऽप्यतादृशे तदभावेनेष्टापत्त्या षष्ठतर्कोऽप्रयोजकः । "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्" "सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते" इति सूत्रस्मृतिभ्यां कर्मशब्दवाच्यापूर्वमा- त्रस्य ज्ञाने परिसमाप्तिवर्णनेनाविद्यानिवृत्तिरूपस्य मोक्षस्य ज्ञानान्यादृष्टासाध्यत्वेन च पुरुषार्थहिरण्यधारणवन्नियम्यफलेनैव नियमादृष्टफलत्वोपपत्त्याSपूर्वसाधनीभूतव्रीहौ अवघातातिरिक्तसाधनान्तराप्रसक्तावपि सामान्यपुरस्कारेण तत्प्रसक्तिमादाया- वघातनियमवज्ज्ञानत्वसामान्येन श्रवणाद्युपायान्तरप्रसक्तिमादाय नियमविधित्वसंभवेन च सप्तमतर्कोSप्रयोजकः। कल्पितस्यापि प्रपश्चस्य व्यावहारिकसत्वाभ्युपगमेन तद्दशायां विरोधपरिहारयोरुचितत्वेन अध्यस्तेऽप्यैन्द्रजालिके ईक्षापूर्वक- स्नष्ट्ृत्वदर्शनेनाध्यस्तस्यापि सर्पस्य भयकंपादिजनकत्ववत् वाय्वादीनां तेजआदिजनकत्वसंभवेन असंभवेऽपि तदभिध्या- नादिति न्यायेन तद्भावापन्नब्रह्मण एव जनकत्वविवक्षणेन तत एव तत्र लयस्याप्युपपन्नत्वेन वैषम्यनैर्धृण्यप्रयोजनादिश- क्ापरिहारादिकस्य विवर्तवादेन परमसिद्धान्ते सर्वथाऽप्रसक्त्या परिणामवादेन तत्प्रसक्तावपि तस्य व्यवहारदशाविषयत्वेना- ऽनुपपत्त्यभावेन चाष्टमतर्कोऽप्रयोजकः इति नोक्तानुमानमप्रयोजकमिति-प्रतिपाद्यन्ति॥ (३) तरङ्गिणीकारास्तु- इदं रजतमितिवत् आत्मा घट इति प्रतीत्यभावेन देवदत्तः पचतीत्यत्र पाकाश्रयतया देवदत्तस्येव सत्ताद्याश्रयता घटभानस्येव सन् घट इत्यत्र विवक्षणीयतया प्रकाशमात्रस्वभावे निर्विशेषात्मनि सत्ानन्दतयोः प्रकाशाप्रकाशासंभवेन सदात्मनानन्दात्मना च सामान्यविशेषज्ञानाज्ञानयोरप्युपपादनासंभवेन च प्रथमतर्कोपपत्तिः । श्रुत्यादिसिद्धोत्पत्तिकस्य प्रपश्चस्य स्वाप्नवत् स्वरूपेण निषेधे मिथ्यात्वासिद्धा पारमार्थिकत्वेन निषेधपक्षे ब्रह्मवत्प्रपश्चस्यापि सद्रूपत्ापत्त्या च प्रपथ्- सत्यत्वावश्यकत्वात् ज्ञानत्वेन ज्ञानजन्यसंस्कारस्यैव हेतुले तद्वदेव लाघवेनाघिष्टानधीत्वेन तद्धिय एव तद्धेतुत्वापत्या अधिष्ठा- नसत्वासिध्ध्या ज्ञानवदज्ञानस्यापि वस्तुसद्विषयं विना हेतुत्वसंभवेन अज्ञानद्वारा हेतुत्वविवक्षणेऽ्यनिस्तरेण च शून्यवादापत्तेश् द्वितीयतर्कोपपत्तिः। पीतः शह् इति भ्रमस्यापि नयनगतपित्तपीतिमविषयस्य सोपाधिकभ्रमत्वेन निरुपाधिकभ्रमनि- यतसादृश्याभावात् तृतीयत्कोपपत्तिः । प्रपञ्चमिथ्यात्वसिद्धे: ग्राक् प्रातिभासिकपारमार्थिकयोरेव सत्वे तृतीयस्य व्याव- हारिकस्यासिद्धेः बौद्धपरिकल्पितदोषाणामिव वेदज्ञानस्याद्वतिपरिकल्पितदोषाणामपि प्रपश्चज्ञानस्याप्रामाण्याप्रयोजकत्वात् तंत्र प्रकृतेऽपि तालिकदोपाभावेन प्रामाण्यमेवान्गीकरणीयम्; अन्यथा दोषाध्यासस्यापि दोषान्तराध्यासाधीनत्वादिनाSनवस्था- पातात्। गुणजन्यत्वं प्रमात्वप्रयोजकमिति स्वतःप्रामाण्यवादिनामुभयेषां मतेऽप्यनङ्गीकारेण दोषाजन्यत्वेऽपि बाधितविषयत्वे- नाप्रमात्वे तस्यापि स्वतस्तापातेन वाधितविषयत्वें दोपजन्यत्वस्यवावच्छेदकत्वेन दोपान्तराध्यासं विनाविद्याध्यासासंभवात् जन्याप्रामाण्यस्थेव स्वतस्त्ादिना सादयध्यासावच्छेदेनैव वाधितविषयत्वदोषजन्यत्वयोः व्याप्तिस्वीकारेऽपि तादृशे अविद्याज्ञाने तत्पूर्ववर्तिनोऽविद्यतरस्यैव दोपत्वं वर्णनीयम्। एवं तज्ज्ञानेऽपि तदितरदोषस्येत्यनवस्थापातात्। एवंच रूप्यादिषु दोषाणां पारमार्थिकसत्वमेवाध्यासप्रयोजकं दृष्टमिति प्रकृतेऽपि तथैवापत्त्या न मिथ्याल्सिद्धिरिति चतुर्थतर्कोपपत्तिः । मिथ्याप्रतियोगिकस्य *वंसस्याभावेन भावेऽपि पारमार्थिकत्वाकारेणात्यन्ताभावम्य सरूपेण नितृत्तेरनित्यत्पर्यवसन्नत्वेनास्म दनिष्टाभावेन च पश्चमतर्कोपपत्तिः। अवघातनखविदलनादेः खसाध्यवेतुष्याश्रयापूर्वसत्वतदभावाम्यां विशेषेऽपि उभयत्रापि वैतुष्यस्यवावच्छेदकतवाद्यन रूपेण अवघातप्राप्तिः तेनैव रूपेण नखविदलनादेरपि प्राप्या यथा नियमविधित्वं नैवं ज्ञानत्वस्यैव श्रवणादिविध्युद्दश्यतावच्छेदकत्वेन तन्नियमविधित्वसंभवः; साक्षात्कारतस्यैव तत्स्य साक्षात्कर्तव्यो द्रष्टव्य इत्यादिभिरवगमात्, नियमादृष्टस्य साक्षात्कारातिरित्तफलवत्वस्यावश्यकत्वात् सर्वकर्मत्यादीनां श्रवणादिनियमापूर्वेतरवि- षयत्वाच्च सप्तमतर्कोपपत्तिः । कल्पितत्वेन जडस्य जनकत्ववदवच्छेदकत्वस्यासंभवेन जडावच्छिन्नत्वस्य जडभावस्य वा ब्रह्मण्यसंभवात् सृष्टिलयादिश्रुत्यनुपपत्तेः भ्रान्त्या प्रसक्त्तस्य परिणामवादस्य सूत्रेण साधनायोगेन तस्यैव परम- सिद्धान्तत्वस्यावश्यकत्वेन वषम्यनर्घृण्यप्रयोजनादिशङाया अप्यनुपपत्तेश्वाष्टमतर्कोपपत्तिरिति सर्वमवदातमिति- वर्णयन्ति॥ (४) लघुचन्द्रिकाकारास्तु- इदंरजतमित्यत्र रजतात्मना भासमानस्येदमो रजतानुविद्धतयेव प्रपश्चतादात्म्येन भासमानस्य सद्रूपात्मनः प्रपशानुवि- द्धतया भानस्यान्नीकरणीयलात् न्यूनाधिकवृत्तितवरूपसामान्यविशेषभावस्य सदानन्दादावभावेऽपि भ्रभे भासमानत्ाभास- रूपतस्य स्वरूपेण मिश्र्याभूनकपालघटादिधर्मरूपस्य वा तस्य संभवेनाविद्यकानादिमेदवत् सदानन्दाद्यात्मना कपालघटादि- विशिष्टात्मना वा सामान्यतो विशेषतक्ष ज्ञाततवाज्ञातलयोः सत्वेनाऽसत्वेऽपि शुक्तितादेरजडत्वेनाजातलाभावेन शक्तिरूप्य-
Page 212
मिध्यात्वभ्ुत्युपपत्तिः ] गौडब्रह्मानन्दीयुता। ५०७
अथ मिथ्यात्वश्रुत्युपपत्तिः। एतदनुमानमें'कमेवाद्वितीय'मित्यादिश्रुतिरप्यनुगृह्वाति। ननु-श्रुत्या स्वस्वरूपस्वप्रामाण्यस्वयो- ग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्धतत्सत्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः, 'सन्नि- पातलक्षणो विधिरनिमित्तं तद्विघातस्ये'ति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिञ्च, योग्य- तादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापत्तिः; शाब्दबोधस्य शब्दतत्प्रामाण्ययोग्यतादिना समसन्ताकत्वनियमात्, न च सदर्थस्वाप्नदेवतावाक्ये व्यभिचारः; आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगात्, किं तूपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाणमिति-चेत्र; निर्दोषश- व्दत्वेन तस्य शब्दविधयैव प्रामाण्यसंभवात्, आप्तत्वापौरुषेयत्वयोर्दोषाभाव एवोपक्षयात् व्याह्या युपस्थितिकल्पने गौरवात्, वक्तु: कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाच्च। तथाच शब्दसमसत्ताकत्वस्य व्यभिचारात् योग्यंतादिसमसत्ताकत्वनियमसिद्धेरप्रयोजकत्वाश
गौडव्रह्मानन्दी (लघुचन्द्रिका) सन्निपातेत्यादि। सन्निपातः संबन्धः लक्षणं निमित्तं यस्य तादृशो विधिस्तद्विघातस्य स्वनिमित्तभूतसभि पातविघातस्य निमिन्तं कारणं नेत्य्थः । तथाच यथा शतानीत्यादौ शिसन्निपातं निमित्तीकृत्य प्रवर्तमानो नुम्विधि र्नान्तत्वद्वारकषट्संज्ञया शिलोपेन तद्विघातस्य न निमित्तं, तथा मिथ्यात्वधर्मिप्राहकप्रत्यक्षादिप्नामाण्यसन्निपातं निमि- त्तीकृत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुतिर्नोक्तसन्निपातविघातस्य निमित्तमित्यर्थः। आप्ेति। वाक्यार्थप्रमावदुक्तेत्यर्थः। अयोगादिति। तथाच यद्यत्प्रमाणशब्दादिसमसत्ताकमिति व्यापौ न बाघ इति भावः। उपश्रुतीति। एतत्कर्तव्यं नवेति सन्दिहानेन श्रूयमाणमन्यस्य कर्तव्यतापरमवश्यमेतत्कर्तव्यमिति वाक्यमन्यस्म अन्येनोच्यमानमुपश्रुतिस्तस्य कर्तव्यतया सन्दिग्धस्यार्थस्य कर्तव्यतायां शब्दतया न प्रामाण्यम्; तस्य ततपरत्वाभावादाप्ोक्तत्वाभावाच्च, तथाप्यनु- भ्रमेऽज्ञात विशेषतवस्याभावेनाज्ञातत्वस्यैव सोऽयमित्यादिभ्रमे अज्ञातसामान्यवत्वस्याप्यभावेन ज्ञातत्वस्यचव अधिष्ठानत्प्रयो- जकलादात्माधिष्ठानकत्वस्यंष्टतात् प्रथमतकोऽप्रयोजकः । स्वरूपेण पारमार्थिकत्वेन वा प्रपश्चमिथ्यात्वस्य पूर्वमुपपा- दनात् प्रधानसंस्कारस्य भ्रमप्रमासाधारणज्ञानस्याध्यासहेतुतवत् अधिष्टानधियोऽपि धीत्वेन हेतुत्वेऽपि वस्तुसदघिष्ठानविष- यकधिय एव हेतुत्वं पर्यवस्येत्; नह्यवस्तुसदधिष्टानविषयकं ज्ञानं भयहेतुभवति; अज्ञानोपहितत्वेनाधिष्ठानचैतन्योपादा- नतानिर्वाहात्, यतोवेत्यादिश्रुतिविरोधाच्च। एतेन-ज्ञानवदज्ञानमप्यवस्तुसद्विपयमिति वचनमपि-पराहतम्; आश्र- यत्वेतिवचनानुसारेण वस्तुसच्चतन्यमात्रविषयस्य तस्य तलायोगात्। भ्रमवाधव्यवस्थादिकमत एवोपपद्यते इति द्वितीय- तर्कोSप्रयोजकः। पित्तद्रव्यस्थशङ्कादिसंयोगे पुरुषान्तरेणाऽपि पीतिम्रो ग्रहणापत्त्या पुरुषान्तरं प्रति तदयोग्यतकल्पने गारवेण रजतपात्रस्थजले नैल्यविभ्रमे सोपाधिकत्वस्य शङ्कतुमप्यशक्यत्वेन चोभयत्र व्यभिचारेण निरुपाधिकत्रमस्य साद- श्यनियतत्ाभावेन च-तृतीयतर्कोऽप्रयोजकः । प्रपञ्वमिथ्यात्वसिद्वेः प्रागपि अवाध्यतव्रह्मज्ञानेतराबाध्यतब्रह्मज्ञाने तरबाध्यतादिरूपत्रिविधसत्वसिद्धेः वेदविपमसत्ताकबौद्धपरिकल्पितदोषवैपम्येणाविद्याज्ञानादीनामपि विषयविधया कारणावि- द्याजन्यत्वेनैव भ्रमत्वोपपत्त्या सादित्रमत्वावच्छेदेन दोपजन्यत्बाधितविषयतयोः व्याप्यव्यापकभाव एव "यस्य च दुषट करणं यत्र च मिथ्येति प्रत्यय" इति शावरवचनस्य प्रमाणत्वेन दोषाजन्यत्वेऽपि अनाद्यध्यासस्य स्तस्त्ानापत्या च खान्यूनसत्ता- कदोषजन्यत्वेनैव भ्रमत्वोपपत्तेर्दोषसत्यत्वस्यानपेक्षणात् यत्र विपये अविद्योपादानं तज्ज्ञानस्यैव अविद्याऽप्रामाण्यप्रयोजिकेति ब्रह्मज्ञानसमसत्ताकयापि तया तदप्रामाण्याप्रयोजनाच्च चतुर्थतर्कोSप्रयोजकः। बन्धस्य शशविषाणवत्तुच्छलाभावेन निवृत्तिसंभवात् तस्या आत्मस्रूपतपक्षे अनिर्वाच्यतपक्षे पञ्चमप्रकारत्वपक्षेवा सिद्धेऽपि कण्ठगतचामीकार इव प्राप्यर्थयक्नो- पपत्त्या पञ्चमतर्कोSप्रयोजकः। यागीयवीहिवैतुष्यसाधनत्वेन नखविदलनाद्यसक्तावपि वैतुष्यत्वंन तत्साधनतया प्रसक्ति- मात्रेण यथाऽवघातनियमः, एवं प्रकृतेऽपि ज्ञानत्वेन प्रसक्तसाधनान्तरनिवृत्तिद्वारा नियमविधित्वसंभवेन हिरण्यधारणनिय- मस्य परमापूर्वासाधनत्ववत् प्रकृतेऽपि बन्धनिवृत्त्यनुपयोगेनापि नियमविधित्वसंभवात् दृश्धालादिना साक्षात्कारविवक्षणेऽपि दोषाभावान्च सप्तमतर्कोSप्रयोजकः । बहुभ्यां प्रजायेयेत्यादिना सर्वभावस्य ब्रह्मणः प्रतिपादनेनाकाशादिभाव्रापन्नस्य शणो जनकत्वलयाधारतादिविवक्षणे बाघकाभावात् विवर्तवादस्य हि पूर्वभूमि: वेदान्तवादे परिणामवाद इति संक्षेपशारीरकवचनानुसारेण भ्रान्तिप्रसक्तस्यापि परिणामवादस्य सूत्रेण साधनम्य युक्तलात् वैषम्यनैर्धण्यादिशङ्कापरिहाराणा मपि व्यवहारोपपत्त्यर्थतया युक्तताच्चाष्टमतर्कोSप्रयोजक इति मिथ्यालानुमानं नाप्रयोजकमिति-विशद्यन्ति॥ इति प्रतिकूलतर्कनिराकरणम्॥
Page 213
५0८ अद्वतसिद्धिः । [परिच्छेदः १ ]
परोक्षत्वानित्यत्वाधुपाधिसंभवाच् श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्या- त्वम् ; मिथ्यात्वप्रयोजकरूपाभावात्। महाभाष्योक्तन्यायोदाहरणमपि न युक्तम् ; विषयवैषम्यात्। तथाहि-'शतानि सहस्राणी'त्यत्र सर्वनामस्थानसंजञकशिसन्निपातेन विहितो नुम् 'प्णान्ता षडि'ति षट्संश्ाद्वारा 'षड्भ्यो लुगि'ति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमितं न भवति; तत्सन्निपातेनैव विहितत्वात्, तत्सन्भ्ावनियमेनैव विहितत्वादित्यर्थः । अलुप्स्यैव सर्वनामस्थानस्य नुम्निमित्तत्वात्, 'न लुमताङ्गस्ये'ति लुमता लुप्तेऽङ्गकार्यनिषेधात्। तथाचालुप्तप्रस्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः, यत्र तु 'प्रत्ययलोपे प्रत्ययलक्षणमि'ति न्यायेन लुप्तेऽपि प्रत्यये कार्य भवति, तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्वात् न सन्निपातलक्ष- णन्यायावतार :; प्रत्ययसन्भ्रावस्य तत्रानुपजीव्यत्वात्। एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्नि- मित्तता स्यात्, तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः। प्रत्यक्षादेस्तु स्वरूपेणैव निमित्तता स्वप्नाद्यर्थस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोपपादिता। अतो यत् बाध्यते तात्विकत्वं तन्नोपजीव्यम्, यच्चोपजीव्यमर्थक्रियासामर्थ्यलक्षणव्यावहारिकप्रामाण्यं तञ्च न बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीकाकृन्द्रिः-'उत्पादकाप्रतिद्वन्द्वित्वा'दिति। अतएव-ज्योतिष्टोमादिवि- घेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यतादीतरविषयत्वेन सङ्कोचस्य वा गौडब्रह्मानन्दी (लघुचन्द्रिका)। मापकतया आगमेन तथाबोधनात् तथोक्तवाक्यस्य स्वार्थ इत्यर्थः। शब्देति। स्वबोधकशब्दादीत्यर्थः । व्यमिचारात् प्रमाणशब्दबोध्यत्वं प्रत्यव्यापकत्वात्। नियमसिद्धेः उत्तव्याप्तिज्ञानस्य। अप्रयोजकत्वात् निश्चायकस्य तर्कस्यान- वतारेणानिश्चयरूपत्वात्। परोक्षत्वेति। साक्षिभिन्नत्वेत्यर्थः । यथाश्रुतस्य घटादो साध्याव्यापकत्वात्। नघ-पक्षत- रत्वतुल्यतेति-वाच्यम्; उक्तोपाधिर्यदि साध्यव्यापको न स्यात्, तदा साक्षिण: स्वबोधकयोग्यतादिसमसत्ताकरवे तस्य बाध्यत्वं निःसाक्षिकं स्यादिति तर्केण व्यापकतानिश्चयात्, बाधोन्नीतपक्षेतरत्वतुल्यत्वात्, आत्मगुरुत्वान्यतरत्वावच्छि- न्नसाध्यव्यापकं यथाश्रुतं परोक्षत्वमेव वोपाधिः। अनित्यत्वेति। विनाशित्वत्यथः। गगनादेरपि विनाशित्वान्न साध्याव्यापकत्वनिश्चयः । वैषम्यादिति। दष्टान्ते शिसद्दावस्य निमित्तत्वात्तद्विघातकत्वेऽपि दार्टान्तिके तात्विकप्रा- माण्यस्यानिमित्तत्वात्त द्विघातकत्वेऽपि नोक्तन्यायबाध :; व्यावहारिकप्रामाण्यस्य निमित्तत्वेऽपि तद्विघातकत्वमुक्त्तश्रुतेर्नेष्यत पवेति भावः । सर्वनामस्थानसंज्ञकेति। शि सर्वनामस्थानमित्यनेन विहितोक्तसंज्ञकेत्यर्थः । विहित इति। सर्वनामस्थाने इति अनुवृत्तो 'नपुंसकस्य झलच' इत्यनेन विहित इत्यथेः। विहितत्वादिति। नच-उपदेशकाले यत् प्णान्तं, तस्यैव पड्संज्ञा विधीयते; अन्यथा येन विधिस्तदन्तस्येत्यन्तग्रहणसिद्धी अन्तग्रहणं व्यर्थ स्यात्, तथाचं शतानीत्यादो सान युक्तेति-वाच्यम्; संख्येत्यस्यानुवृत्तो मानाभावेन विप्रुप इत्यादावपि पट्संज्ञा स्यात्, अन्ते ग्रहीते तु स्त्रीलिङ्गनिर्देशान्यथानुपपत्या संख्यानुवृत्तिः; तथाच तत्रवार्थापत्तेरुपक्षयान् स्वभावनान्तत्वानाक्षेपात्, 'सन्निपाते- त्या'दिन्यायेनैव स्वभावनान्तत्यागासंभवेन स्वभावनान्तत्वाक्षेपवैयर्थ्याच्च। लुमतेति। लुवर्णवता लुक्शलुलुबित्येतेपा- मन्यतमेनेत्यर्थः । अङ्गस्येति। 'यस्मात् प्रत्ययविधिस्तदादीत्यनेन त्रिहिताङ्गसंज्ञकस्येत्यर्थः, प्रकृतेरिनि यावत्। लुसे विहितलोपयोग्ये। तेन लोपात् पूर्वमपि नाङ्गकार्यम्। लुपऽपीति। अननिचिदित्यादौ लुप्ेऽपि क्विपादी तुगादिकार्यामे- त्यर्थः। यद्यपि 'स्थानिवदादेशः' इत्यादिनैव लुप्तप्रत्ययस्य निमित्तता, प्रत्ययलोप इत्यादिकं तु प्रत्ययमात्ननिमित्तकमेव कार्य प्रत्ययलोप इति नियमार्थम्: तेन बोभवीतीत्यादौ लुप्तप्रत्ययनिमित्तकं यङो डिन्वेऽपि नात्मनेपदमित्यादिवैयाकरण- रुक्त्तं; तथापि नियमबोधकवाक्येन नियम्यप्रापकस्थानीत्याद्येवोक्तम्। एवं स्थिते येन रूपेण यद्यस्योपजीव्यं, तेन रूपेण तत्तेन न विहन्यते इत्यस्योक्तन्यायस्वरूपत्वे स्थिते। अमिथ्याभूतत्वेन सत्यविपयकत्वेन। अर्थक्रियासामर्थ्येति। प्रवृत्यादिकार्यसामर्थ्येत्यथः । तात्विकत्वं नात्विकप्रामाण्यम्। न वाध्यत इति। विचारकाले प्रपञ्चस्य बाधेपि तत्पूर्वकाल।बाध्य विषयकत्व्रूपं व्यावहारिकप्रामाण्यं न बाध्यत इत्यर्थः । टीका भामती। उत्पादकं उपजीव्यम्। वस्तुतस्तु-तात्विकत्वेन प्रत्यक्षादेरुपर्जाव्यतवेऽपि प्रकृते तन्न्यायस्य नावतारः; सामान्यविषयकोक्तन्यायस्य विशेष- विषय के नांद्व तश्रुतितात्पर्यान्यथानुपपत्यादिना 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति न्यायेन 'प्राबल्यमागमस्यैव जात्या तेपु त्रिपु स्मृत मिनि स्मृत्या च बाधसंभवात्, अत एव महाभाष्ये-'नदि ब्राह्मणी'त्यादी तन्न्यायानवतारास- व््यायस्य प्रत्यास्यानमाशक्ा तन्याय आवश्यकः, दोपेषु तु प्रतिविधातव्यमित्युक्त्तम्। यत्र यत्र बाधकं तदन्यस्थले तस्यावतार इत्यर्थः । तथाच 'एङ्हस्वात्सम्बुद्धे'रिति सूत्रे गुणादित्यकृत्वा एङ्हस्वादिति करणं ज्ञापर्यात, यदेतवन्य- विपय एवोक्तन्यायावतारः । यदि हि 'नदि ब्राह्मणी' त्यादौ सन्निपातन्यायेन संबुद्धिलोपबाधः, तदा गुणात् संबुद्धे- रित्येव सूत्रं क्रियेतेत्याविकमिवोक्तान्यथानुपपरयादिकमपि बाधकमिति ध्येयम्। उपजीव्याग्नीत्यादि। उप-
Page 214
[मिथ्यात्वश्रुत्युपपत्तिः ] गौडब्रह्मानन्दीयुता। ५०९
सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्विकसर्वमिथ्यात्वपरत्वकल्पनं युक्तमिति- अपास्तम्; दष्टान्ते अग्निविद्यादेरिव दार्ष्टान्तिके योग्यतादेस्तात्विकस्यानुपजीव्यत्वात्। नहि योग्यता तात्विकयोग्यतात्वेन निमित्तम्, किंतु योग्यतात्वेनैव। सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तद- घिकरणस्य च ब्रह्मणः 'सत्यं ज्ञानमनन्तं ब्रह्म' 'तत्सत्यं स आत्मे'त्यादिश्रुत्या सत्यत्वप्रतिपादनात् न सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वोपपत्तिः। तस्माद्योग्यतादेर्मिथ्यात्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम्। यथाचाविद्यातत्कार्यस्य स्वरूपतो निषेधेऽपि तुच्छवैलक्षण्यं, पारमार्थिकत्वाकारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथोपपादितमधस्तात् । ननु-तत्त्वमस्या- दिवाक्येन प्रत्यक्षाद्यविरोधाय तत्त्वंपदलक्षितयोरैक्यमिव मिथ्यात्वश्ुत्यापि तदविरोधाय प्रत्यक्षा- दिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यम्; अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिकमपि सत्त्वं न कल्प्येत, 'नेह नाने'त्यादिनिषेधेनात्यन्तासत्त्वबोधनात्-इति चेन्न; विशिष्टयोरैक्ये विशेषणयोरप्यैक्यापातेन सर्वत्र विशिष्टाभेदपरवाक्यस्य लक्षितविशेष्यैक्यपरत्वनियमेन 'तत्त्वमसी'त्यत्रापि तथाभ्युपयमात्। तदुक्तम्-'अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोई्वयोः। घटते न यदैकता तदा न तरां तद्वि- परीतरूपयोः ॥' इति। मिथ्यात्वबोधकश्चुती तु नास्ति प्रत्यक्षादिविरोधः; तात्विकत्वांशस्यानुपजीव्य- त्वात्, व्यावहारिकसत्त्वस्य चोपजीव्यत्वान्नात्यन्तासत्त्वकल्पनमित्यस्याप्युक्तप्रायत्वात्। ननु-श्रुते- स्तात्पर्य चैतन्यमात्रे वा, द्वितीयाभावविशिष्टे वा, तदुपलक्षिते वा, नाद्य :; विश्वमिथ्यात्वासिद्धेरि- ष्ापत्तेः, तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुतिवैयर्थ्याच्च। न द्वितीयः; अखण्डार्थत्वहानात्। अतएव न तृतीयः; काकवदितिवत् द्वितीयाभाववदित्यनेनापि सप्रकारकज्ञानजननेनाखण्डार्थत्वा योगात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्यज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीया- भावेनोपलक्ष्यस्यान्यस्याभावात् तस्योपलक्षणत्वायोगाच्चेति-चेत्न; काकस्य संस्थानविशेष इव द्विती- याभावस्य स्वरूपमेवोपलक्ष्यमित्युपलक्ष्याभावनिबन्धनोपलक्षणत्वानुपपत्तेरभावात् । उपलक्षणत्वे हि उपलक्ष्यसत्वमात्रं तन्त्रम्, नतु तस्य स्वरूपातिरिक्तत्वमपि; गौरवात्, उपलक्ष्यतावच्छेदकरूपा- भावेऽपि स्वतोव्यावृत्तजातिवदुपलक्ष्यत्वसंभवात्। अतएव न सप्रकारकत्वापत्तिः; काकवदित्यत्रा- गौडब्रह्मानन्दी (लघुचन्द्रिका)। जीव्ये ये अभिविद्ये तद्वापुरुपाधिकारिकत्वेनेत्यर्थः । 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिविधिषु चतुर्णामपि वर्णानामधिकारः अपशूद्राणां वेति संशये, विशेषाश्रवणाच्चतुर्णामिति प्राप्ते, 'आहवनीये जुहोती'त्यादिविधिना आहवनीयाद्यम्नीनां सामर्थ्यकल्पितविधिना अनुष्ठेयाथज्ञानस्य च ऋरत्वङ्गत्वात् शूदस्यचाहवनीयाद्यथेज्ञानोपा- याधानाध्ययनाभावात् क्रयादिनाहवनीयादे: दृष्यादिनार्थज्ञानस्य च तत्र कल्प्यत्वे गौरवात् 'वसंते ब्राह्मणो- Sग्रीनादधीते'त्यादिविहिताधानादिसिद्धाहवनीयादिमत्तया कुप्तानां त्ैवर्णिकानामेवाधिकार इति पष्ठप्रथमे स्थितम्। विषयत्वस्य निपेधबोधकत्वस्य। तात्त्विकसर्वमिथ्यात्वेति। तात्विकं यत् स्वसमानाधिकरणात्यन्ताभा- वस्वरूपं, तत्प्रतियोगित्वेत्यर्थः । ननु प्रपञ्चः स्वरूपेण निपिद्धस्तुच्छः स्यात्, पारमार्थिकत्वेन निपिद्धश्षेत् ब्रह्मापि तथास्तु, निर्धर्मकत्वात्, अथ ब्रह्म तेन रूपेण मिथ्या, शुद्धस्वरूपेणैव सत्, तहि प्रपज्चोऽपि तथास्तु, तत्राह-यथा चेति। स्वरूपतः आविद्यकत्वादिरूपेण। ब्रह्मणो ब्रह्मण एव। स्वरूपेण शुद्धरूपेण। अधस्तात् प्रथममिथ्यात्व- विचारे। सत्वेन ज्ेयत्वात् तुच्छवैलक्षण्यम्; पारमार्थिकत्वशून्यस्यापि प्रपञ्चस्य शुद्धरूपेण न स्त्वम्; तस्य शुद्धरू- पत्वाभावात्, भावेऽपि श्रुत्यनुमानाभ्यां तस्यैव मिथ्यात्वम्, न ब्रह्मण :; मानाभावात्, साक्षित्वाच्चेत्याद्युक्तम् । विशे- षणयोरक्यापातेनेति। वाच्यविशिष्ट प्रमेयविशिष्टमित्यादाविव 'सोडय' मित्यादौ तत्तेदन्तयोर विशेषणत्वे विशेष्यान्व- यनियमेनान्योन्यमभेदान्वयापातेनेत्यर्थः । सर्वत्र विशेषणयोरभेदबाधस्थले। अभेदपरेति। अभेदपरत्वयोग्येत्यर्थः। विशिष्टोपस्थापकसमानविभक्तिकपदद्वययुक्तेति यावत्। लक्षितविशेष्यक्येति। लक्षितशुद्धविशेष्यव्यक्तिमात्रेत्यर्थः। विशिष्टबोधकपदस्य विशिष्टप्रतियोगिकान्वयबोधकत्वमावश्यकम्; मुख्यवृत्तिज्ञानसहकृतस्य तस्य तादृशान्वयबोधोप- धायकत्वस्य कृप्तरवात्, अन्यथा 'लोहितोष्णीषा ऋत्विजः प्रचरन्ती'त्यादौ लौहित्यादेविशेषणता न स्यादुपलक्षणताया उपाधिताया वा वक्तुं शक्यत्वात्, अतो मुख्यां वृत्तिं त्यक्तवैव वा विशेषणतवं वाच्यम्। तत्रापि तात्पर्याविषयस्योपा- धित्वेऽपि मानाभावादुपलक्षणत्वमेवावशिष्यते। तथाच शुद्धव्यक्तिमात्रधीपरत्वमिति भावः। एकता अत्यन्ताभेदः। विपरीतेति । जीवत्वेशत्वरूपविरुद्धविशेषणघटितेत्यर्थः। तथाचात्यन्ताभेदपरत्वान्यथानुपपत्या शुद्धलक्षणेति भाव: । संस्थानविशेषस्य उचणत्वादेः। स्वतोव्यावृत्तेति। घट इति ज्ञाने अन्याविशेषितरूपेण भासमानघट-
Page 215
५१० अद्वैतसिद्धिः । [परिच्छेद: १]
प्युपलक्षणस्याप्रकारत्वात्, किंतु स्वरूपातिरिक्तधर्मस्य तत्रोपलक्षणत्वेन सप्रकारत्वम्, इहतु तन्नेति वैषम्यम्। नचोपलक्षणवैयर्थ्यम् ; अनर्थनिवृत्ति हेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात्, तस्य प्रागसिद्धत्वात्। नच मिथ्यात्वासिद्धेष्टापत्तिः; अवान्तरतात्पर्यस्य तत्रापि सत्त्वात्, तद्ारैव स्वरूपचैतन्ये महातात्पर्यात्। अतएव-श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य सत्त्वे अद्वैतहानिः, असत्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवदिति वाक्यवच्चाद्वैतवाक्य- स्यातत्वावेदकत्वापत्तिरिति-निरस्तम्; आधे द्वितीयाभावसत्वेन द्वितीयाभावासिद्धापादनस्या- नुचितत्वात्, अभावस्याधिकरणा तिरेकानभ्युपगमाच्च। द्वितीये तु सृष्यादिवाक्यवदुपलक्ष्यस्वरूप- सत्यत्वमादाय तत्त्वावेदकत्वात्, मुख्यतात्पर्यविषयस्यासत्यतायामेवातत्त्वावेद कत्वाभ्युपगमात्। अतएव महातात्पर्यामिप्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः; अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टापत्तेरप्यसंभवात्। ननु-द्वितीयाभावे महातात्पर्याभावः कि प्रमा- णान्तरप्राप्त्या, यथा वायुक्षेपिष्ठत्वादौ, उत तद्विरोधित्वेन; यथात्मवपोत्खननादौ, उतोद्देश्यविशेष-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। र्वादीत्यर्थः। उपलक्ष्यत्वेति। उपस्थाप्यत्वेत्यर्थः । अनर्थेति। सद्वितीय त्वज्ञानेत्यर्थः । द्वितीयाभावद्वारकेति। द्वितीयाभाववरवेन ब्रह्मोपस्थितिद्वारकलक्षणाज्ञानाधीनेत्यथः । अवान्तरतात्पयेति । मश्रार्थवादादेर्देवताविग्रहा- दिबोधनद्वारा स्तुत्यादिपरमतात्पर्यकस्य देवताविग्रहादाववान्तरतात्पर्यस्य विवरणकारादिमत इवाद्वितीयत्वादिरूपेण ब्रह्मज्ञानाधीनया विरोधप्रतिसन्धानाघीनया लक्षणाकल्पनया शुद्धब्रह्मपरत्वेन गृह्यमाणस्याद्वितीयादिवाक्यस्याद्वितीय- त्वादिविशिष्टम्रह्मण्यवाम्तरतात्पर्यस्य स्वीकारः। उक्तं हि संक्षेपशारीरके-'सामानाधिकरण्यमत्र भवत प्राथम्य- भागन्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोन्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिर्लक्षणया भवत्ययमिह ज्ेयः क्रमः सूरिमिः ॥ सामानाधिकरण्यमत्र पदयोर्ज्ञेयं तदीयार्थयोः संबन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः। संबन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधैरेतान्यर्थपदानि बुद्धिपद्वीमारोहणीयानि तु ॥' इति पद्योः सामानाधिकरण्यमर्थयो्विशेषणाविशेष्यभावसंपादकं तादाल्यं च जेयम्। ततो विरोधप्रतिसंधानात् शुद्धे लक्षणया धीरित्यर्थः । तथाच पदोपस्थाप्ययोर्विशिष्टयोरभेदबोधस्य द्वारत्वेनोक्तत्वात्तत्रावान्तरतात्पर्यमिति ज्ञापितम्। ननु-उक्तपधैरद्वितीयत्वादिविशिष्टे ब्रह्मणि नावान्तरतात्पर्यसिद्धिः; तेषां ह्ययमर्थः-'सत्यं ज्ञानमनन्तमेकमेवा- द्वितीय' मित्यादिवाक्यस्थानां सत्यादिपदानां प्रथमतोऽत्यन्ताभिन्नार्थकत्वं निर्णीयते। एतानि स्वबोध्यार्थानामत्यन्ता- भेदपराणि, समानविभक्तिकनानानामत्वात्, नीलो घट इत्यादिवत्; मिन्नयोस्तादात्म्यबोधने मुख्यसामानाधिकरण्य- बाधात्; अत्यन्ताभेदो ह्यखण्डैक्यरूपो मुख्यं सामानाधिकरण्यमिनि संक्षेपशारीरक एव प्रपञ्चितम्। पश्चात् ब्रह्मप- दार्थे उक्तवाक्यतात्पर्यविषयीभूतबोधविपये सत्याद्वितीयपदवाच्यार्थानां विशेषणत्वमुपलक्षणतवं वेति ज्ञायते; प्रमेयवि- शिषटं वाच्यविशिष्टमित्यादौ विशेषणत्वस्य 'सोडय' मित्यादो चोपलक्षणत्वस्य वाच्यार्थेपु दृष्ट्त्वेनात्रापि तयोः संभावित- त्वात्, पश्चाद्विशेषणतवे विरोधदर्शनेनोपलक्षणत्वस्यैव निर्णयेन लक्षणावृत्तिनिर्णय इति; तथाच विशिष्टयोरभेदे वा उपलक्षितस्वरूपे वा तात्पर्यमिति तार्पर्यसंशय एव द्वारतयोक्तः, नतु विशिष्टयोरभेद्बोध इति तत्रावान्तरतात्प्ये मानाभावस्तत्राह-तद्ारैवेति। सत्यादिवाक्येन शुद्धब्रह्मबोधे जन्यमाने ब्रह्मणि सत्यत्वादयुपहिताभेदनिर्णयो द्वारम्: अन्यथा ब्रह्म सत्यं मिथ्या वेति संशयानिवृत्योक्त्ज्ञाने मिथ्याविषयकत्वरूपाप्रामाण्यसंशयेन तत्त्वमस्यादिवाक्यार्थ- बोधेऽपि तदुत्पादान्तस्याविद्यानिवर्तकत्वं न स्यात्, एवं ब्रह्म ज्ञानत्वोपहितं न वेति संशयानिवृत्या ब्रह्मस्वरूपसुखस्या- प्रकाशमानत्वसंशयेन मोक्षस्यापुरुपार्थत्वसंशयेन मोक्षार्थप्रवृत्तिर्न स्यात्। एवमानन्दृत्वसंशयानिवृत्त्त्यापि सा न स्यात्, एवमनन्तत्वसंशयानिवृत्यापि विनाशित्वादिसंशयेन सा न स्यात्, एवमद्वितीयत्वसंशयानिवृध्या जीवव्रह्मस्वरूपयोः सं- सारित्वैश्वर्यादिद्वैतविशिष्टयो रैक्यमनुपपन्नम्। विरुद्धर्मयोगित्वप्रयुक्तभेदसंशयेन तयोरेक्यनिश्वयेSप्रामाण्यसंशयादिसं- भवात्तस्याविद्यानिवर्तकत्वं न स्यात्, तस्मात् पश्चादेव विशेषणेतरतयेत्यस्य द्वावर्थों बोध्यौ। विशेषणविशेष्यभा- वेन ब्रह्म सत्यमित्यादिरूपो द्वारीभूतो ब्ोध: पश्चादित्येकः। सत्यादिवाक्यतात्पर्यविपयबोधे सत्यादिपदवाच्यतावच्छेदकं विशेषणमुपलक्षणं वा, द्वयोरपि संभावितत्वादिति प्रतिसं्धानं पश्चादित्यपरः । एवंच सामानाधिकरण्यमित्यादेरयं फलितार्थः। सामानाधिकरण्यं प्रथमोऽन्वयः। अन्वयपदं मुख्यतात्पर्यविषयधीप्रयोजकार्थकम् । पश्चाद्विशेषणेतर- तयान्वयः, पश्चाद्विरोघज्ञानम्; सत्यत्वादिसंसर्गस्य मिध्यात्वात्, तद्वटितार्थस्याधिष्ठानत्वाभावात् शुद्धव्यक्तिरूपैक्य- बोधकत्वस्य मुख्यसामानाधिकरण्यत्वाच्च संसर्गघटितत्वेनोक्तवाक्यतात्पर्यसुपपद्यत इत्याकारम्। अन्वयः विरोधे उक्त- ज्ञान इति ध्येयंम्। द्वितीयाभावासिद्धीति। द्वितीयाभावरूपद्वितीयासिद्धाद्वैत ाि ्र्थः। कि ्त्वेति।
Page 216
५११
णत्वादिना यथा ग्रहैकत्वादौ, नाद्य :: त्वयैव द्वितीयाभावस्य प्रमाणान्तरप्राप्त्यनभ्युपगमात् । द्वितीयेSपि विरोधिमानं न तावत्प्रत्यक्षादि द्वैतग्राहि; त्वन्मते तस्यैव श्रुतिबाध्यत्वात्, माद्वैतवा- क्यान्तरम्; तस्यात्ममान्रपरत्वे द्वितीयाभावाविरोधित्वात्, न हि विशेष्यविषयं 'अग्निहोत्रं जुहोती'ति वाक्यं विशिष्टविषयेण 'दधना जुहोती'ति वाक्येन विरुध्यते, द्वैताभावपरत्वे त्वेकविषयत्वेन सुतराम विरोधात्। नापि तृतीयः; 'ग्रहं संमार्टी'त्यत्र संमार्जनस्येवाखण्डार्थपरे वाक्ये विधेयान्तरस्याभावेन विशेष्यस्य शास्त्रगम्यस्य चिन्मात्रस्याप्राप्तत्वेनोद्देश्यत्वायोगाञ्च द्वितीयाभावस्योद्देश्यविशेषणत्वानु- पपत्तेः, अविवक्षाहेतोरनुवाद्यत्वस्याप्यभावाञ्चेति-चेन्न; स्वयमेव स्ववोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्पर्यात्। मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजकत्वात् स्वविरोधेऽपिन क्षतिः। ननु-एकेनैव प्रमाणेनैकस्य प्राप्तिनिषेधावनुपपन्नौ, न; रूपभेदेनाविरोधात्। द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते। तस्य च प्राप्यतावच्छेदकरूपं द्विती याभावत्वम् : तञ्च न निषेध्यतावच्छेदकम्, किंतु द्वितीयत्वमेव निषेध्यमात्रानुगतम्। तत्र तदन- भ्युपगमे तु न तस्य निषेव्यत्वम्, न वा तेनात्मनः सद्वितीयत्वापत्तिरिति न कोऽपि दोषः । यत्र तु प्राप्यतावच्छेदकमेव निषेध्यतावच्छेदकं, तत्र प्राप्तिनिषेधशास्त्रयोरतुल्यविषयत्वेऽपि विशेषशास्त्र विषयपरित्यागेन सामान्यशास्त्रप्रवृत्तिः, तुल्यविषयत्वे त्वगत्या विकल्प इति न निषेधस्यासङ्कोचेन प्रवृत्तिः; यथा 'न हिंस्यात्सर्वा भूतानी'ति निषेधशास्त्रस्य 'अग्नीषोमीयं पशुमालभेते'त्यादिप्राप्तिशा- स्त्र विषये तरविषयत्वं, 'अतिरात्रे षोडशिनं गृह्नति''नातिरात्रे पोडशिनं गृह्लाती' त्यादिप्राप्तिनिषेधशा- स्त्रयोस्तु विकल्पेनैकविषयत्वम: एकस्यैव हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्तिनिषेधयोरवच्छेदक-
गोडय्रह्मानन्दी (लघुचन्द्रिका)। अतिक्षिप्रत्वेत्यर्थः । वपोत्खननादाविति। 'स प्रजापतिरात्मनो वपामुदक्खिददि'त्यादिवाक्यार्थे वपोत्खननादा- वित्यथेः । ग्रहकत्वादाविति। दशापवित्रेण ग्रहं सम्मार्टीत्यादौ ग्रहमुद्दिश्य दशापवित्रेण सम्मार्जनस्य विधौ ग्रहत्वा- दिमात्रमुद्देश्य विशेषणतया विवक्षितम् ; न तु ग्रहैकत्वादिकम; यावता विशेषणेन विना नोद्देश्यं पर्यवस्यति, तावत एव विवक्षितत्वान्। उद्देश्यं हि क्रियां प्रति प्रधानं तत्पर्यंवसितं सन्नेतरेण विशेषणेन नियन्तुं शक्यते, विधेयं तु गुणीभूतं श्रुतेन सर्वेण विशेषणतया नियम्यत एव। तदुक्तं वार्तिके-'प्रधानक्रिया कारकाणि पिण्डीकरो'तीति। एवं 'यस्योभयं हविरार्तिमार्छेत् ऐन्द्रं पञ्चशरावमोदनं निर्वपे'दित्यादी निमित्तीभूतह विरात्यांदौ नोभयत्वादिकं विवक्षित- मिनि भावः। स्ववोधितं स्वेन बोध्यमानम्। अतात्पर्यात् मुख्यतात्पर्याभावात्। न क्षतिः न मानविरोधक्षतिः। तथाच वपोत्खननादिवाक्यवन् न मुख्यार्थमहातात्पर्यकमद्वितीयपदमिति भावः। नन्वित्यादि। ग्रहणाग्रहणवाक्याभ्यां ग्रहणस्यैकस्यैव विधिनिषेधयोः स्वीकारात् एकेनेत्युक्तम्। एकेनैव वाक्येन निषेधस्य प्राप्तिः निषेधस्य निषेधश्चोपपद्यत एवेत्येकस्येत्युक्तम्। एकेन वाक्येनैकस्य प्राप्तिनिपेधयोः स्वीकारे तु क्रमेण तयोः स्वीकारे विरम्यव्यापारापत्तिः; युगप- हस्वीकारे निषधार्य विधेयस्यानुवादायोगः, अनुवादस्य प्राप्तिपूर्वकत्वात् सकृदुभयत्र तात्पर्यसंभवेनावृत्तिकल्पनापत्तेर्वांक्य- भेदापत्तिः, किंचकस्य वाक्यस्य प्राप्तिनिषेधयोः स्वतन्रतात्पर्यास्वीकारे तयोवैंयर्थ्यम्। नहि निषेधार्थमेव किंचिद्विधी- पत इति कुत्रापि दष्टमिति भावः। रूपभेदेनेति। स्वतब्रतात्पर्यभेदस्वीकारे सत्येव विरम्यव्यापारादिकं दोषः; 'इन्द्रो धृत्राय वज्रमुदयच्छ'दित्यादो स्वार्थ विधाय तद्वारा स्तुत्यादितात्पर्यस्वीकारात्। स्वतघ्रतात्पर्याभावेऽपि विधिर्न व्यर्थः। यत्र होकरूपेण विधिनिषेधौ, तत्र विधिर्व्यर्थः; निपेधार्थमेव तत्र विधानाद्विधेयस्यैव निषेधाञ्च, प्रकृते तु द्वितीयमात्रस्य निषेधः, न तु विधेयस्य द्वितीयाभावस्यैव तद्विधिरपि न तन्निषेधार्थः; किंत्वखण्डवाक्यार्थसिद्धर्थः। तथाच द्वितीया- भावस्य स्वस्वेतररूपसर्वद्वितीय निषेधरूपर्वेन निषेध एव तापर्त्यम्; न विधौ। तदेतद्वक्ष्यति-'प्रकृते तु निषेधस्यैव शास्त्रार्थत्वादि'ति। तदपि तात्पर्य न मुख्यम्; तद्विषयस्यान्यशेषतवात्। तथाच न द्वितीयाभावस्य तात्विकत्वम्, न- वा विधेयत्वनिषेध्यत्वयोरविरोध इति भावः। ननु द्वितीयाभावस्य ब्रह्मरूपत्वस्वीकारपक्षे अ्रह्मभिन्नत्वरूपं द्वितीयत्वं न सदनुगतम्, तग्राह-तत्रेति। द्वितीयाभाव इत्यर्थः। तदनभ्युपगमे द्वितीयत्वास्वीकारे। ननु-यथा 'न हिंस्या'- दिति निषेधो विहितान्यहिंसाविषयकः, तथा द्वितीयसामान्यनिपेधो द्वितीयाभावान्याद्वितीयविषयकोऽस्तु; यथावा षोडशिग्रहणाग्रहणवाक्याभ्यां विकल्पसिद्धिः, तथा द्वितीयाभावप्राप्तितवनिषेधाभ्यां सास्तु, तत्राह-यत्र त्वित्यादि। अतुल्यविषयकत्वे सामान्यविशेषभावाद्यापभ्नविषयकतवे। तुल्यविषयकत्वे सामान्यविशेषभावाद्यनापन्नविषय-
संभवेनेत्यर्थः । विकल्पेन पाक्षिकानुष्ठानेन । एकविषयकत्वं एकस्यातिरात्रस्य विधिनिषेधोभयसंबन्धबोधकत्वम्।
Page 217
५१२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
त्वात्, तत्र निषेधशास्त्रस्यासंकुचद्ृत्तित्वे प्राप्तिशास्त्रस्य सर्वात्मना वैयर्थ्यापत्ति :; प्रकृते च द्वितीय- त्वेन रूपेण निषेधस्यैव शास्त्रार्थत्वान्न कस्यापि वैयर्थ्यशङ्का।अतएव-द्वितीयाभावनिषेधे पुनर्द्विती- योन्मअनापत्तिरिति-निरस्तम्। उपपादितमेतत् मिथ्यात्वमिथ्यात्वसाधने। यथा प्रतियोग्यभाव- योनिषेध्यतावच्छेदकैक्ये नैकनिषेधेSपरसत्त्वापत्तिरिति। नच-स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्येव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानं न युक्तमिति-वाच्यम्; अभावबुद्धौ निषिद्ध- स्यापि प्रतियोगिन: 'सा शुक्ति' रित्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजतस्योपलक्षणतयोपादानदर्शनात्, असड्कीर्णज्ञानप्रयोजकत्वस्य प्रकृतेऽपि तुल्यत्वात्। तस्मात् 'एकमेवाद्वितीय'मित्यादिश्रुतिर्विश्वमि- थ्यात्वे प्रमाणमिति सिद्धम् ॥ इत्यद्वैतसिद्धी सामान्येन मिथ्यात्वश्रुत्युपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ग्रहणे अनुष्ठिते तत्सहितैरङ्वैरुपकारः, अननुष्टिते तद्रहितरप्युपकारः, परं तु तत्सहिताङ्गोपकृतेनातिरात्रेण जनिते फले भूमास्ति; अन्यथा तत्सहिते प्रवृत्यनुपपत्तेरिति कल्प्यत इति भावः। निषेधस्य द्वितीयाभावसाधारणद्वितीयत्वसा- मान्यावच्छिसप्रतियोगिताकाभावस्य। शास्त्रार्थत्वात् अद्वितीयपद्घटितशास्त्रस्यावान्तरतात्पर्यविषयत्वात्। न कस्यापीति। द्वितीयाभावोऽत्र न प्राप्यः; तस्यापि द्वितीयत्वेन तत्प्राप्तेरेव त्िपेधरूपत्वात्। द्वितीयसामान्याभावो हि एक: स्वेतरस्येव स्वस्यापि द्वितीयस्याभाव इति तत्प्राप्तिरपि द्वितीयत्वरूपेण तद्विशिष्टबुद्धौ विरोधिनी तव्निषेध एवेति निषेधशाखस्यैव तत्मापकशास्त्रत्वेन न तद्वैयर्थ्यशङ्केति भावः। अत एव उक्तवाक्यस्य सर्वद्वैतनिषेघमात्रतात्प- र्यकत्वादेव। उन्मज्जनेति। प्राप्तीत्यर्थः । निरस्तमिति। द्विनीयाभावो घ्रह्मणि नास्तीति निषेधपर्यवसाने द्वितीयो- न्मज्जनं स्यात्। द्वितीयाभावो द्वितीयं च किमपि ब्रह्मणि नास्तीति पर्यवसाने तु सुन्दोपसुन्दन्यायेन द्वयोरपि निषेधास तयोरेकस्याप्युन्मज्नमिति भावः । विशेषणत्वेनेति। विशेषणत्वेन द्वितीयस्योपादानं यथा न युक्त्म्; निषेघस्य पूर्वकृतस्य व्यर्थत्वापत्तेः, तथा द्वितीयाभावस्योपलक्षणतया पश्चादुपादानं व्यर्थत्वाद्युक्तमित्यर्थः। निपिद्धस्य पुनरुपल- क्षणत्वेनोपादानं व्य्थमित्यत्राशङ्कयते। निपिध्यमानस्य निषेधकेन विशेषणतयोपादानं युक्तम्; प्रापकस्य निषेधकत्ववि- रोधादित्याशक्क्य रूपभेदेनाविरोधादिति समाहितं पूर्वमिति न पौनरुक्त्यम्। अभाववुद्धी 'नात्र रजत'मिति बुद्धौ। निषिद्धस्यापि रजतस्य; प्रतियोगिनः 'सा शुक्ति'रित्यत्रोपलक्षणतयोपादानदर्शनादिति योजना। ननु 'सा शुक्ति'- रित्यत्र रजतस्य तत्पदार्थस्य विशेष्यत्वेन नोपलक्षणत्म्, तत्राह-प्रसिद्धस्येति। भ्रमसिद्धस्येत्यर्थः । तथाच 'सा शुक्ति'रिति ज्ञानं भ्रमवाधकरवेन भ्रभतद्विपयविशोधित्वान्न तद्विपयकमिति भावः। तत्पद्बोध्यत्वं प्रतीतस्वादेवेत्याशयेन पूर्वप्रतीतेत्युक्तम्। उपलक्षणतया विशेष्यीभूतेदन्भ्वविशिष्टोपस्थापकतचे सति अभासमानतया। ननु 'इय शुक्ति' रिति ज्ञानं भ्रमविशेष्येदन्श्वविशिष्टे शुक्तित्वं विपयीकुर्षदेव बाघकम्; नाम्यथा, तत्न विशेष्योपस्थापकतया रजतस्यो- पादानमुपयुज्यते, द्वितीयाभावस्य तु घ्रह्मज्ञाने विशेष्यीभूते किंचिद्धर्मविशिष्टे नोपस्थापकत्वम्; तन्राभासमानत्वमव्रिण तु नोपलक्षणत्वम्, त्राह-असङ्कीर्णज्ञानेति। व्यावृत्ताकारकज्ञानेत्यर्थः। तुल्यत्वादिति। किंचिद्धर्मविशिष्टानु- पस्थापकत्वेऽपि शुद्धब्र्ोपस्थापकत्वादुपलक्षणतया व्यावर्तकत्वस्यापि पूर्वमुक्तत्वाद्यावृत्ताकारकधीप्रयोजकत्वेन द्विनी- याभावस्याप्युपयोग इति भावः ॥ इति लघुचन्द्रिकायां सामान्यतो मिथ्यात्वश्रुत्युपपत्तिः ॥
अथ मिथ्यात्वशुत्युपपत्तिः ।
(१) तत्र न्यायामृतकारा :- श्रुत्या स्वस्रूपप्रामाण्यतद्धेतुयोग्यतादिमिथ्यात्वबोधने प्रत्यक्षादिसिद्धतत्सत्यत्वोपजीवेने च ब्रह्मेतरसर्वमिथ्याल्ासिद्धि: सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायविरोधेन घटादिमिथ्यातासिद्धेः, तन्मिथ्यात्वबोधने तु शब्दबो- ध्यस्य शब्दतत्प्रामाण्ययोग्यतादिसमसत्ताकल्वनियमेन श्रुतिबोध्यस्य तातिकत्वासिद्धिः। स्वाप्नवाक्ययोग्यताप्रामाण्यादीनां सर्वेषामपि सतात् तदर्थे सति व्यभिचाराभावान्, युष्मन्मते शब्दस्यासत्वेऽपि तादृशशब्दे आप्यपौरुषेयतवयोरभावेन यादृच्छिकसंवादित्स्य वोपश्रुतिवल्लिङ्गत्वंनैव प्रामाण्यस्य वैव युक्तत्वेन व्यभिचाराभावात्। तत्रापि यदि तालिकसर्वमिथ्या- त्वपरत्वं श्रुतेः निर्णीतं स्यात्, तर्हि योग्यतादिसमसत्ताकतवमर्थस्येति नियमोऽप्रमाणमिति स्यात्, नैतदस्ति; स्वरूपेण पारमार्थिकत्वेन वा त्रैकालिकनिषेधरूपसत्यत्विरोधिमिथ्यातबोधने श्रुतितात्पर्याभावस्य पूर्वमेवोपपादितलात्, अथोच्येत तत्वमसीत्यादाविव ग्रत्यक्षाविरोधार्थ प्रत्यक्षासिद्धमिथ्यात्व एव श्रुतितात्पर्य युक्तमिति । अन्नेदं विवेचनीयम्-
Page 218
[मिध्यात्वश्रुत्युत्पत्तिः] ५१३
किं मिथ्यातश्रुतित्वेन भवदभिमतं वाक्यं चैतन्यम्वरूपमात्रपरं उत द्वितीयाभावविशिष्टचैतन्यपरं, आहोस्वित् द्वितीयाभावो- पलक्षितचैतन्यपरम्। आद्ये-विश्वमिथ्यातासिद्धा इष्टापत्तिः, सप्रकाशत्वेन तस्य नित्यसिद्धतया श्रुतिवैयर्थ्य च। द्विती- ये-अखण्डार्थत्हानिः। तृतीये-द्वितीयाभाववदिति सप्रकारकबोधेऽखण्डार्थतबाधः, नित्यसिद्धतया चिन्मात्रस्य मुमु- क्ष्वज्ञेयतया विशिष्टचैतन्यस्योपलक्ष्यतावच्छेदकधर्माभावेन धर्मान्तरस्य वोपलक्ष्यत्वासंभवेन द्वितीयाभावस्योपलक्षणलायोगः । अस्तुवा कथंचित् द्वितीयोपलक्षणता, एवमपि तस्य सत्वेऽद्वैतहानिः, मिथ्यात्वे अतलावेदकताSडपत्तिः, द्वितीयाभावेऽतात्पर्ये- तु इष्टापत्तिश्रुतिवैयर्थ्ये पूर्वोंक्ते। वस्तुतस्तु-मानान्तराप्राप्ते श्रुत्यपेक्षया दुर्बलत्वेन प्रत्यक्षस्याविरोधकत्वात् आत्ममात्र- परत्वे द्वितीयाभावाविरोधितवात्, द्वितीयाभावपरत्वे समानविषयकत्वेन चेको द्रष्टाऽ्द्वतो भवतीति वाक्यान्तरस्याप्यविरोधिनि च द्वितीयाभावे किन्निमित्तकत्वाविशेषेऽपि क्वितिचेति सूत्रस्य कितिचेति वृद्विषयत्ववत् हिंसात्ाविशेषेऽपि न हिंस्यादित्य- स्याम्रीषोमीयालम्भाविषयत्ववच्च द्वितीय त्ाविशेषेऽपि नेहेत्यादिश्रुतिबोधितनिषेधविषयत्वासंभवात् द्वितीयाभावतात्पर्यकता- वादो न संभवदुक्तिकः । सववचनेन स्वस्य निषेधे व्याघातात् तत्परिहारस्य स्वतात्पर्यकत्वकल्पनया वर्णने अन्योन्याश्रयात् स्वेतरविषयत्वेन संकोचेनैव वर्णनीयलात् यद्विशेषणं विना उद्देश्यल्सिद्धिः, तद्विशेषणं न विवक्षितमित्त्रव ग्रहैकत्वाधिक- रणाभिप्रायेणाशनायाद्यतीतसत्यज्ञानादिविशेषणं विना अनिर्ज्ञातस्य ब्रह्मणो विशेषणस्य द्वितीयाभावस्यापि विवक्षावश्यक- लात् श्रुतितात्पर्यविषय एव द्वितीयाभाव इति न सर्वमिथ्यात्वसिद्धिः। प्रमाणगम्यस्यापि तस्य तात्पर्याविषयत्वे तु आत्म- वपोत्खननवत्प्रातिभासिकतापत्तिः। उपक्रमोपसंहारादिभिः प्राकरणिकत्वेनावगतस्य निष्प्रपश्चत्वस्यावान्तरतात्पर्यविषयत्वेन व्यावहारिकसत्वकल्पनं तुन युक्तम्। वस्तुतस्तु-अवान्तरतात्पर्यविषयस्यापि महातात्पर्यविषय समसत्ताकलनियमा- दवान्तरतात्पर्यविषयत्वेऽपि तत्पारमार्थिकलवात् अद्वूतहानिरपरिहार्येव। यथा शुक्ता रजताभावस्य तातिकत्वात् शुक्तौ रजतं कल्पितम्। एवं द्वितीयाभावो ब्रह्मणि तालिक इति द्वितीयं तत्र कल्पितमिति व्यवहारोऽप्यत एवोपपद्यते; अन्यथा द्वितीय- बत द्वितीयाभावस्यापि व्यावहारिकत्वं श्रुत्या प्रत्यक्षादिबाधायोगादिति ब्रह्मेनरसर्वमिथ्यातसिद्धिर्न श्रुतिसिद्धापीति सर्वमन- वद्यमिति-वर्णयन्ति॥ (२) सिद्धिकारास्तु- आप्तत्वापौरुपेयत्वयोः दोपाभाव एवोपक्षयेन निर्दुष्टत्वेनाप्तपोरुपेयवचनानामिव खाप्नदेवतावक्यानामपि सदर्थाना शब्दत्वंनैव प्रमाणतया तादृशार्थ व्यभिचारेणार्थस्य शब्दसमसत्ताकलनियमस्य व्यभिचरितत्वेन अपरोक्षलानित्यलाभ्यां सोपाधिकत्वेनच मिथ्यातातालिकतानापत्त्या शव्देन सवसरूपप्रामाण्यादीनामपि मिथ्यातवोधनात् प्रत्यक्षस्यामिथ्याभूत- त्वेन निमित्तत्वाभावेन पूर्वोक्तरीत्योपजीव्यविरोधाभावेन संनिपातलक्षणन्यायानवतारेण ज्योतिष्टोमादिविधेरभिविद्योपजीव्य- लात् मिथ्यातश्रुतेः तालिकयोग्यताद्यनुपजीव्यतन तस्यान्निविद्यावद्विषयत्वेनेव स्वोपजीव्ययोग्यतादीतरविषयत्वेन संकोचा- प्रसक्तश् न ब्रह्मेतरसर्वमिथ्यात्वासिद्धिः। सरूपेण पारमार्थिकत्वेन वा त्रेकालिकनिषेधरूपसत्यत्विरोधिमिथ्यातबोधन एव श्रुतितात्पर्यमिति पूर्वमेवोपपादितलात्, विशिष्टयोरेक्ये विशेषणयोरप्यक्यापातेन सर्वत्र विशिष्टाभेदपरवाक्यस्य विशेष्यमात्रपरत्वियमानुसारेणेव तत्वंपदयोः लक्षणाSथ्रिता, नतु प्रत्यक्षाविरोधायेति न तदृष्टान्तेनात्रापि संकोचादिशं- कावसरः। अस्तुवा प्रत्यक्षाविरोधार्येव तत्र लक्षणा आथ्रितेति, एवमपि प्रकृते न संकोचावसरः; मिथ्यातश्रुतेः प्रत्यक्षा- विरोधस्य पूर्वमेवोपपादनात्। चतन्यस्वरूपमात्रपराया अप्युक्तश्रुतेः द्वितीयाभाषद्वारकसवरूपज्ञानस्यैवानर्थनिवृत्तिहेतुत्वेनावा- न्तरतात्पर्येण द्वितीयाभावबोधकत्वमप्यन्गीक्रियत इति न विश्वमिथ्यात्ासिध्धेष्टापत्त्यादिप्रसंगः। अवान्तरतात्पर्यविषयस्यापि द्वितीयाभावस्य काकस्येवोपलक्षणत्स्यैव स्वीकारान्न सप्रकारकत्वमिति नाखण्डार्थतहानिः। एतावांस्तु विशेष :- यत्कालोपलक्ष्यः संस्थानविशेषः, द्वितीयाभावोपलक्ष्यं तु खतोव्यावृत्तं जातिस्वरूपमिव ब्रह्मस्वरूपमेवोपलक्ष्यमिति। एवंच द्वितीयाभावोपलक्षितव्रह्मस्वरूपपरायाः श्रुतेः प्रत्यक्षस्यचाविरोधानान्न संकोचावसर इति मन्तव्यम्। तत्र यथा गृहे ग्रसक्त्तस्य काकस्य कदाचिदसंबन्ध एवोपलक्षणत्म्। एवं ब्रह्मणि प्रसक्तस्य द्वितीयाभावस्यापि कदाचित् ब्रह्मसंबन्ध एव तत्वमिति द्वितीयाभावस्यापि द्वितीयत्वेन मिथ्यातमङ्गीकरणीयम्। काकस्य गहासंबन्धवेलयां अन्यसंबन्धस्य प्रत्यक्षसिद्धलात् तस्य ब्रह्मासंबन्धदशायां अन्यसंबन्धस्य प्रमाणसिद्धत्वाभावात् द्वितीयाभावस्य मिथ्यात्वेऽप्युपलक्ष्यस्रूपसत्यत्वान्नातत्वावेदक- ताऽडपत्तिः। अस्तुवा द्विनीयाभावोऽपि तालिक इति, नचैतावता अद्वूतहानिः; द्वितीयाभावसत्वेन द्वितीयाभावासिद्धापा- दनस्यासंभवात्। वस्तुतस्तु-द्वितीयाभावस्य खमानविरोधेन तात्पर्याविषयल्ान्न तत्सत्वशङ्कावसरः। प्राप्यनिषेध्यता- वच्छेद कैक्ये विशेषशास्त्रविषयपरित्यागेन सामान्यशास्त्रप्रवृत्तावपि तद्गेदे तदभावेन द्वितीयत्द्वितीयाभावत्वरूपप्राप्यनिषेध्य- तावच्छेदकभेदसत्ान्न प्रकृतेऽपि तादृशन्यायप्रसर इति न द्वितीयाभावेतरविषयकलवमेव निषेधश्रुतेरिति मन्तव्यम्- इति निरूपयन्ति। अ. सि. ६५
Page 219
५१४ अद्वैतसिद्धिः । [परिच्छेद: १]
(३) तरङ्गिणीकारास्तु- मिथ्यात्वबोधकत्वेनाभिमता श्रुतिः, खसरूपप्रामाण्यादिसमसत्ताकार्थबोधिका, शब्दासाधारणप्रामाण्यप्रयोजकवत्वादित्य- नुमाने मानान्तरसाधारण्येन निर्दोषतस्य विशिष्टप्रमामात्रसाधारण्येन योग्यतायाक् शब्दासाधारणप्रामाण्याप्रयोजकत्वेना- ्यपौरुषेयत्वयोरेव तत्ात् सवाप्रवाक्यानां शब्दत्वेन प्रमाणत्वासंभवात् लिद्वत्वेनैवोपश्रुतिवत्प्रामाण्याच्च खाप्नदेवतावाक्ये व्यमिचाराभावात् घटादावाकाशादौच साध्याव्याप्या परोक्षतानित्यतयोरनुपाधित्ाच्च शब्दतदर्थयोः समसत्ताकत्वनियमात् मिथ्यातश्रुत्या योग्यतादिमिथ्यातबोधने मिथ्यात्वतालिकत्वासिध्या तातिकप्रामाण्ये तातिकयोग्यतादेरेव निमित्तत्वेनोप- जीव्यविरोधेन सन्निपातलक्षणन्यायावतारेण ज्योतिष्टोमादिविधेरन्निविद्यावद्विषयत्वेनेव योग्यतादीतरविषयत्वेन संकोचोप- पत्तेश्च न ब्रह्मेतरसर्वमिथ्यालसिद्धिः। विशिष्टैक्यपराणां वाक्यानां विशेष्यैक्यपरत्वस्य प्रत्यक्षानुग्रहनिबन्धनत्वेन तदविरोधे विशिष्टैक्यपरत्वस्यैवापत्या प्रत्यक्षोपरोधे तत्वमसीत्यादावपि विशिष्टपरत्वस्यैव विवक्षितुं शक्यत्वेन तदनुरोघेनैव लक्षणाया अङ्गीकारात् प्रकृतेऽपि तदविरोधार्थ प्रत्यक्षसिद्धेतरमिथ्याल एव श्रुतितात्पर्यस्यान्गीकरणीयल्ात्। अयमाशयः-यथो- पजीव्याविरोधेऽ्रपि प्रत्यक्षादिप्रमाणान्तराविरोधेनोपपत्तिवर्णनमेव युक्तमिति तलमसीत्यादौ लक्षणा आथ्रिता, तथा प्रमाणा- न्तराविरोधेनैव मिथ्यात्वश्रुत्युपपत्तिसंभवेन तद्वाधनमपि युक्तमिति। अवान्तरतात्पर्यविषयस्य खण्डवाक्यार्थस्य महाता- त्पर्यजन्यज्ञाने महावाक्यजन्यज्ञान इव भाननियमेन द्वैतनिषेधश्रुतेरखण्डार्थतहान्यापत्त्याSवान्तरतात्पर्यमहातात्पर्ययोः सप्र- कारकनिष्प्रकारकज्ञानजनकतया विरोधेन श्रुतेस्वादृशतात्पर्यासंभवेनच द्वितीयाभावद्वारकस्वरूपचैतन्यपरस्यापि वाक्यस्य यत्परः शब्द: स शब्दार्थ इति न्यायेन चैतन्यमात्रपरतस्यैव युक्तत्वेन विश्वमिथ्यातासिद्या द्वितीयाभावतात्पर्यकत्वस्यैवा- ज्वीकरणीयत्वेन तस्यानन्यशेषत्वेन सत्यलात्। नहि द्वारविशेषाजन्यः शुक्तिसाक्षात्कारो न रूप्यभ्रमनिवर्तकः, येनापरोक्षज्ञा- नस्य विरोधिनिवर्तने द्वारविशेषापेक्षया द्वितीयाभावोपलक्षितव्रह्मस्वरूपसमर्पकल्वोपपत्तिः। यदितु तदर्थ द्वितीयाभावे एव तात्पर्यम्, तर्हि अद्वैतहानिः, नहि द्वितीयाभावो ब्रह्मस्वरूपः। तथात्वे व्रह्मणः सतःसिद्धत्वेन द्वितीयाभाववोधकवाक्यवै- यर्थ्यात्, अभावत्वेन तद्वोधनेऽखण्डार्थतहानेश्रेति व्रह्मेतरसर्वमिथ्यात्वे न श्रुतितात्पर्यम्। मानान्तराविरुद्धे तदप्राप्ते चार्थे द्वितीयाभावेऽतात्पर्यवर्णनस्यायुक्तलवात्। द्वितीयत्वेन निपेधेऽपि तत्सरूपानुपमर्देन निर्धमकत्रह्मण इव सत्यत्वापत्त्या च न द्वितीयाभावमिथ्यात्वसिद्धिः। वस्तुतस्तु-द्वितीयत्वंनापि द्वितीयाभावस्य न निपेधसंभवः; निषेधवाक्यासाधारणार्थस्य निषेध्यतावच्छेद कावच्छिन्नत्वे निषेध्यवाक्यत्वस्यैवापत्त्या निषेधवाक्यत्वस्यैवानापत्तेः। नह्कस्यैव वाक्यस्य तत्ातत्ावेद- कत्वे युक्ते इति न्रह्मेतरसर्बमिथ्यालानुमानानुग्राहकश्रुतिविरहेण प्रत्यक्षबाधितलादुक्तानुमानमप्रयोजकमिति सिद्धमिति- प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- आप्ते: यथार्थप्रमारूपायाः पुरुषधर्मत्वेन शब्दधर्मताभावेन दोषाभावसंपादकतयैव प्रामाण्यप्रयोजकतवेन निर्दुष्टत्वेन खाप्रवाक्यस्यापि ग्रामाण्यात् सदर्थ तत्र व्यभिचारात् साक्षिभिन्नत्वं यदि साध्यव्यापकं न स्यात्, तर्हि साक्षिणः खबो- धकयोग्यतादिसमसत्ताकत्वे तस्य बाध्यत्वं निःसाक्षिकं स्यादिति व्यापकतानिश्चयेन बाघोत्नीतपक्षेतरत्वतुल्यलात् साक्षिमि- अत्वस्य आत्मगुरुत्वान्यतरावच्छिन्नसाध्यव्यापकत्वेन यथाश्रुतपरोक्षत्वस्य वा गगनादीनां अपि विनाशित्वेन साध्यव्यापक- लाद्विनाशितस्य चोपाधित्ाच्च शब्दादितदर्थयोः समसत्ताकलाभावन मिथ्यातश्रुत्या योग्यतादिमिथ्यातवोधनेऽपि मिथ्या- वतालिकत्वसिच्या तालिकप्रामाण्ये तालिकयोग्यतादेरनिमित्तत्वेन निमित्तत्वेऽपि नदि ब्राह्मणि इत्यत्र सन्निपातन्यायेन संवु- द्विलोपबाधापत्त्या तत्प्रत्याख्यानमाशङ््य तत्र दोषेपु प्रतिविधातव्यमिति महाभाष्ये उक्तत्वेन बाधकसत्वेन सन्निपातपरि- भापाया अप्रवृत्तिवत् प्रकृतेऽपि अद्वैतश्रुतितात्पर्यान्यथानुपपत्त्यादेः तदनन्यतमारम्भणशब्दादिम्यः इति न्यायस्य प्राबल्य- मागमस्यैव जात्या तेषु त्रिषु स्मृतेश्व वाधकानां सत्वेन सन्निपातन्यायानवतारेण योग्यतादीतरविषयत्वेन संकोचानुपपत्या च ब्रह्मेतरसर्वमिथ्यात्वसिद्धिरप्रत्यूहैव। सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरो धोद्धवः। उत्पन्ने च विरोध एकरसिके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह क्षेय: क्र: सूरिमिः इति संक्षेपशारीकर वचनानुसारेणाद्वितीयादिवाक्येऽद्वितीय त्ादिविशिष्ट व्रह्मण्यवान्तरतात्पर्यस्यानन्तरमेव विरोधप्रतिसंधानेन शुद्धलक्षणाया अज्ञी- कारेण तात्पर्यनिर्वाहार्थमेव तलमसीत्यादौ लक्षणा आश्रिता, नतु प्रत्यक्षाविरोधसंपादनार्थमिति न प्रत्यक्षसिद्धेतरविषयत्वेनापि संकोचावकाशः । शुद्धब्रह्मस्वरूपस्यैवोपस्थापकतयोपलक्षणत्वेन व्यावर्तकत्वस्यापि पूर्वमुक्तत्वेन व्यावृत्ताकारधीप्रयोजकत्वेन द्वितीयाभावस्याप्युपयोगेन तत्रावान्तरतात्पर्याज्गीकारेऽपि मुख्यतात्पर्यानज्गीकारान्न द्वितीयाभावतालिकतम्। वस्तुतस्तु- द्वितीयाभावतात्वकत्वेऽपि यथा नाद्वैतहान्यादिकं तथा पूर्वमेव निरूपितमिति न दोषः। द्वितीयाभावस्य सवसेतरसर्वद्विती- यनिषेधरूपत्वेन निषेध एव तात्पर्येण विधिरूपत्वाभावा्द्वतवाक्यतातिवकातातिकतादिप्रसन्गाः। निषेधवाक्यासाधारणार्थस्य
Page 220
[अद्वैतभ्रुतेबाधोद्धारः] गौडब्रह्मानन्दीयुता। ५१५
मनु-आपातप्रतिपन्न एव न तावच्छुत्यर्थः; 'कश्छन्दसां योगमावेद धीर' इति श्रुत्या 'धिभेत्यल्प- श्रुताद्वेद'इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गा्च, किंतु मानान्तरेण पूर्वोत्तरेणचाविरुद्ध एवार्थ: अविरोधग्रहणार्थ व मीमांसासाफल्यम्, अत एव 'आज्यैः स्तुवते' 'आकाशादेव समुत्पद्यन्त' इत्यादावापातप्रतीतघृतगगनादिपरित्यागेनाज्याकाशादिपदानां सामपर- मात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्धिकरणेषु; अन्यथा तत्तत्पूर्वपक्षाभ्युपगमा- पत्तेः, तथाचोक्तं वार्तिककारैः शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमित्यत्र-'असन्निकृष्टवाचा व द्वयमत्र जिहासितम्। ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ॥ विषयाविषयौ शात्वा तेनोत्सर्गा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। कश्छन्दसामित्यादि। छन्दसां वेदवाक्यानां। योगं तात्पर्यम्। धीरोऽपि को वेदेखर्थः। छन्दसां गायभ्या दीनां योगं स्तुतशस्त्रात्मना विनियोगं को वेदेति माधवीयभाष्यव्याख्यानस्यापि घेदतात्पर्यदुर्शेयत्वे तात्पर्यम्। अल्प- श्रुतात् अल्पविद्याकात् पुरुपात्। आज्यैरित्यादि। 'आज्यै' रित्यादौ घृतादित्यागेन स्तोत्रपरतवं पूर्वमीमांसायां चि- स्राधिकरणे स्थापितम्। आकाशादित्यादी गगनादित्यागेन परमात्मपरत्वमुत्तरमीमांसायामाक्काशाधिकरणे स्थापितमि- स्यर्थ: । सामपदं स्तोत्रपरम्। सामगानविशिष्टमत्रकरणकं गुणाभिधानं स्तोत्रम्। 'चित्रया यजेत पशुकामः' 'पञ्चद- शान्याज्यानी' त्यादौ चित्राज्यादिपदानां गुणवाचित्वं कर्मनामत्वं वेति संशये, चित्राज्यादिशब्दानां चित्ररूपघृतादिषु रूढत्वेन यागनामत्वासंभवाच्चित्रावाक्ये चित्रत्वस्त्रीत्वोभयं करणत्वेनाझीपोमीयपशुयागीयद्रव्यपरिच्छेदकतया विधी- यते; 'दधि मधु घृतं पयो धाना' इत्यादिप्रकृतयागेपु करणत्वासंभवात्। एवमाज्यादिवाक्येषु सव्निधौ स्थापयेदित्यध्या- हारेणाज्यादे: स्तोत्रसन्निधौ स्थापनं प्रकृतस्तोतं प्रत्यदष्टद्वारा करणत्वेन विधीयत इति प्राप्ते, अग्रीपोमीये अजोऽमी- षोमीय इत्यादिप्राकरणिकवाक्यविहितपुंस्त्वावरुद्ध द्रव्यकत्वेन स्त्रीत्वस्य विधानासंभवात् पशुकामपदवैयर्थ्याज्च चित्रापदं न गुणविधायकम्, किं तु प्रकृतयागानामेव पशुफलसंबन्धविधिपरे वाक्ये तेपां नामधेयम्; इष्टयेत्यस्याध्याहारात् स्त्रीलिंगोपपत्तेः । यागस्य चित्रत्वं दध्यादिनानाद्रव्यकयागसमुदायान्तर्गतत्वम्। एवं पञ्चदशानीत्यस्य 'स्तोमे डविधि' रित्यनेन स्तुतिसंख्यायां डप्रत्ययानुशासनात् पञ्चदशाज्यपद्योरसमस्तत्वेन मिथोऽनन्वयात् विशिष्टविध्यसंभवादाज्य- नामकम्तोत्रे संख्यामात्रं विधीयते। म्तोत्रं चाज्यैः स्तुवते इत्यादिवाक्यैर्विहितमिति प्रथमचतुर्थे स्थितम्। 'अस्य लोकस्य का गति'रिति प्रश्नोत्तरे 'आकाश इति होवाचे'ति वाक्ये आकाश इति पदस्य भूताकाशे रूढत्वात् प्राथमिकत्वाञ्च तदनुरोधेन 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते'इत्यादिकं चरमोक्तं वाय्वादिभूतकारणत्वपरम्; तथा. च भूताकाशमुद्गीथे संपाद्योपास्यमिति प्राप्ते, आकाशपदं ब्रह्मपरम्; ततोऽपि प्रथमं अस्य लोकस्य का गतिरित्यनेन सर्वलोककारणस्य पृष्टत्वात्, प्रश्नानुसारेण सर्वपदस्यासंकोचादिति प्रथमप्रथमे शारीरके स्थितम्। तथाचोक्तं 'माना- न्तराविरुद्धस्य शास्त्रार्थत्वमुक्तिमि'ति। अत्रेति। शाबरभाप्यस्थवाक्ये इति शेषः। यद्यपि ज्ञातसंबन्धस्य एकदेशद- ्शनादेकदेशान्तरे असन्निकृष्टार्थे बुद्धिरनुमानमित्यनुमानलक्षणभाप्यव्याख्यानावसरे वार्तिके असन्निकृष्टवाचेत्याद्युक्तम्, न तु शास्त्रलक्षणभाष्यव्याख्यानावसरे; तथापि तुल्यन्यायत्वात्तत्रापि तत् संबध्यते; असन्निकृष्टेत्यनेन हि प्रमाकरणत्वं विवक्षितम्, प्रमायां शाब्दत्वं शब्दप्रमाणलक्षणेऽनुमितित्वमनुमानलक्षणे प्रविष्टमिति परं विशेष: इत्याशयेन शास्त्र- लक्षणेऽपि तदुक्तमित्युक्तम्। ताद्रूप्येणेत्यादि। येन रूपेण वाक्यबोध्यता तेन रूपेण पूर्वप्रमितत्वं तद्विपरीतरूपेण प्रमितत्वंच जिहासितमभावविशेषणतया शब्दप्रमाणलक्षणे प्रविष्टमित्यर्थः । तथाच मानान्तरेणाप्रमितमबाधितं यत्त- द्विषयवाक्यत्वं शास्त्रत्वमिति पर्यवसितम्। वस्तुतस्त्वभिहितान्वयवादस्य भाष्यवार्तिककारादिसंम तत्वेनासस्निकृष्टेऽ्ये ज्ञानमिति भाष्ये ज्ञानपदं ज्ञानहेतुपरम्; सप्तम्यन्तयोर्न सामानाधिकरण्यम्; किंतु वैयधिकरण्यम्; तथाचासन्निकृष्टे वाक्यार्थे ज्ञापकं यत् शब्दज्ञानजन्यमर्थज्ञानं तच्छब्दप्रमाणमित्यर्थः; प्रत्ययान्तपदार्थज्ञानं शब्दजन्यं वाक्याथज्ञाने कारणमित्यभिहितान्वयवादस्य द्वितीयपरिच्छेदे स्पष्टं मूले विवेचयिष्यमाणत्वात्। एतेन-शब्दज्ञानं प्रमाणं मोध्यम्, न स्वर्थज्ञानं शब्दज्ञानजन्यं शब्दप्रमाणमिति काशिकाकारोक्तं व्याख्यानं-परास्तम्; शब्दज्ञानं वाक्यार्थधीजनक-
नुपपत्तिरिति द्वितीयाभावतातिकत्वेऽपि श्रुतितात्पर्याभावात् भावेऽपि तस्य ब्रह्मरूपत्वेनाद्वैतहान्याद्यनापाताच्च ब्रह्मेतरसर्व- मिथ्यालानुमानं श्रुत्यनुग्टहीतमेवेति न प्रत्यक्षादिबाधावकाश इति सर्वमनवद्यम्-इति विवेचयन्ति॥ इति सामान्यतो मिथ्यात्वश्रुत्युपपत्तिः।
Page 221
५१६ अद्वैतसिद्धिः । [परिच्छेद: १]
पवाद्योः। बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात्। अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते। अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहतौ ॥' इति। अन्यत्राप्युक्तम्-'विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः। तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ॥' इति, तथाच प्रत्यक्षादिविरोधात् पूर्वोत्तर- विरोधाञ्च नाद्वतपरत्वमेकमेवेत्यादिवाक्यानामिति-चेन्न; द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत् संभाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभावात्। यथाच श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रपञ्चि- तमधस्तात्। किंच प्रत्यक्षं नियतविषयम्, श्रुतिः सर्वविषयाः तथाच यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्नवाभेदश्रुतेरवकाशः। ननु-ययोरैक्यं श्रुत्या बोध्यते तयोभेदः प्रसक्तो, न वा। नान्त्यः; अप्रस- क्तप्रतिषेधापातात्, नाद्ः; प्रसख्जकप्रमाणविरोधेनैक्स्य बोधयितुमशक्यत्वादिति-चेन्न; अन्त्यप- क्षाभ्युपगमे दोपाभावात्। अप्रसक्तप्रतिषेध इति च किमप्रसिद्धप्रतियोगित्वं, किंवा निष्प्रयोजनत्व- मिति विवेचनीयम्। नाद्ःः अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनुयो- गिभावेनान्यत्र निषेधसंभवात्। न च तत्रव प्रसिद्धिस्तन्त्रम्; निषेधप्रमामात्रोच्छेदप्रसङ्गात्। न द्वितीय :; अनर्थनिवृत्तेरेव प्रयोजनत्वात्, 'नान्तरिक्षSग्निश्चेतव्य' इत्यादो स्तुतिमात्रप्रयोजनेनाप्यप्र- योजनेनाप्यप्रसक्तनिषेधदर्शनाच्च। अथ श्रुत्या ययोरभेदो बोध्यते तयोरुपस्थितिरस्ति, न वा, नान्त्य: अनुपस्थितयोरभेदबोधनायोगात्। आद्ये सा किं श्रुतिजन्या, प्रत्यक्षादिजन्या वा। नाद्य :; श्रुतेर्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तजन्यत्वाभावेन सर्वाद्वतासिद्धे, श्रुतिस्थकिं- चनेत्यादिपदानामनुवादकत्वाभ्युपगमात्। द्वितीये तु तयोभेंदोऽपि प्रत्यक्षादिसिद्ध इति क्वाद्वैतशरु- त्यवकाशः? मैवम् ; यत् प्रत्यक्षादिना गरृह्यते, तन्द्रेदोऽपि तेन गरृह्यत एवेति नियमाभावात्। तथा हि-न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम्; अभेदभ्रमोच्छेदप्रसङ्गात्। स्वरूपभेदवादिनामपि स्वरूपज्ञानात् घटत्वादिप्रकारकात् भेदत्वप्रकारकं भेदज्ञानं विलक्षणमेव; अन्यथा भेदाग्रहनिवन्ध- नव्यवहारानुदयप्रसङ्गात् । अतएव स्वरूपज्ञानोत्तरकालमवश्यं भेदज्ञानमित्यपि न; अनवस्थाप्रस- ड्राच्च। तथाहि-'घटपटौ भिन्नौ जानामी'ति घटपटभेदधीः स्वप्रकाशा वा, अनुव्यवसायसिद्धा वा, साक्षिसिद्धा वा, न स्वप्रतियोगिकभेदविषयाः प्रतियोगिधीजन्यत्वनियमेन प्रतियोगिधीव्यक्ति- भिन्नव्यक्तित्वावश्यकत्वात् स्वस्या एव स्वजन्यत्वानुपपत्तेः । ज्ञानान्तरेण च तन्जेदग्रहे क्वचित् भेद घीधाराविश्रान्तिरवश्यं वाच्या; अन्यथा सुपुप्तिविपयान्तरसश्चागादिकं न स्यात् । अतः तत्रापि चरमभेदधीरेवोदाहरणम्। तथाच वाधकत्वाभिमता या घटपटभेदधीः स्वभेदाविषया भासते, तथा सह वाध्यत्वाभिमताया ऐक्धिय ऐक्यं बोधयित्वा निर्वाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति। न ह्यमेदेऽपि वाध्यवाधकभावःः स्वस्यापि स्ववाधकतापत्तेः। तदुक्तं खण्डनकृद्धिः-'सुदूरधावन-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मित्यन्विताभिधानवादस्य तन्दृताधिकरणीयभाप्ये दूपितत्वेन तत्परतया भाष्यव्याख्यानस्यानौचित्यान्। ननु द्वतप्रत्य- क्षादिनैरपेक्ष्येणाद्वैतवाक्यं द्वतमिथ्यात्वबोधकं कुतो न भवतीति, ताहअन्यएवेत्यादि। एकदेशमात्रपर्यालोचने नाथनिर्णये अतिप्रसङ्ग इति भावः। अङ्गेति। एकदशेत्यर्थः। अन्यत्रति। स्मृतिपादीयवार्तिक इत्यर्थः । उक्तमित्यनु- पज्यते। अन्त्यपक्षेति। आद्यपक्षे प्रसज्ञकं प्रत्यक्षादिमानं श्रुत्यादिना बलवता बाध्यत इत्यस्य पूर्वमेवोक्तत्वात् अन्त्यपक्षेत्याद्युक्तम्। तत्रव निषेधाधिकरण एव। प्रसिद्धि: प्रमा। निषेधप्रमामात्रोच्छेदेति। यत्रातिरात्रादि व्यक्तौ ग्रहणादिनिषेधः, तत्र तत्प्रमाया असंभवात् भ्रमरूपा तत्र तत्प्रसक्तिर्वाच्या; तथाच संशयरूपा सास्तीति तद्वाधेऽपि न प्रमाणबाध इति भावः। नान्तरिक्ष इत्यादि। अरथवादाधिकरणे अन्त्ययोर्यथोक्तमिति सूत्रे 'नान्तरिक्ष' इत्यादिवाक्यं 'हिरण्यं निधाय चेतव्य'मित्यनेन विहितस्य हिरण्यस्य स्तुतिपरम्, स्तुत्युपपादकस्तु निषेधबोध इत्यु- क्म्। तत्र यथाऽप्रसक्तस्य निषेधः, तथा प्रकृत इति भावः। न स्वप्रतियोगिकेति। स्वविपयेषु घटपटतन्जेदेपु ज्ञानान्तरेपु च स्वभेदमनवगाहमानेत्यर्थः । सिन्नव्यक्तित्वेति। उत्तरवृत्तित्वेत्यथः । तेनानुव्यवसायसिद्धत्वादिपक्षयोः व्यक्तिभेदस्य पराभ्युपगतत्वेऽपि न क्षतिः । स्वस्याः स्वकीयायाः प्रतियोगिधीपूर्वकालीनायाः प्रतियोगिधीसमानका- लीनायाश्च। स्वजन्यत्वानुपपत्तेः प्रतियोगिधीजन्यत्वानुपपत्तेः । तथा चेति। चरमधिया स्वभेदस्य कुत्राप्यग्रहणे चत्यथः। सर्वाभेद इति। चरमधीर्ययोभेंदं गृह्लाति, ताभ्यां तद्भेदेन च सह तस्य अभेदमद्वैतश्रुतिर्बोधयतीति सा धी: तादृशभेदविषयकत्वेन बोद्धुमशक्या नाद्वेतश्रुतिबाधकतया बुध्यते। एवंच पूर्वपूर्वधीरपीति श्रुतिः सर्वाद्वते पर्यवस्यतीति भावः। न ह्यभद इत्यादि। ययोर्भेंदश्वरमधीविषयः ताभ्यां तन्वेदेन च तस्या अभेदे ज्ञाते बाध्यबाधकधियोश्चाभेदे
Page 222
[अद्वैतश्रुतेर्बाधोद्धारः] गौडब्रहानन्दीयुता। ५१७
श्रान्ता बाधबुद्धिपरम्परा। निवृत्तावद्वयास्न्नायैः पार्ष्णिप्राहैर्विजीयते ॥।' इति। नच-सिद्धान्ते घट- तद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणान्नानवस्था, अन्यथा स्वस्य घटादिभ्योSभेदसंशयः स्यादिति-वाच्यम्; साक्षिण: स्वप्रकाशत्वेऽपि स्वनिष्ठेतरप्रतियोगिक मेदग्र- हे इतरप्रतियोग्युपस्थितिसापेक्षत्वात्। अन्यथा स्वस्यान्तःकरणाद्यभेदभ्रमो न स्यात्। स्वप्रकाशन ेदाग्रहेऽपि मानान्तरेण भेदग्रहात् न घटाद्यभेदसंशय इति न किंचिदेतत्। स्यादेतत्-'घटपटौ भिन्ना'विति प्रत्यक्षं स्वस्याद्वैतज्ञानादिना भेदं विनानुपपत्तेस्तमप्याक्षिपतीति सर्वत्र मेदस्याप्रत्यक्ष- त्वेऽपि नाद्वैतश्रुतेरवकाशः-अत्रोच्यते; आक्षेपो हि अनुमानमर्थापत्तिवा। तत्र विवादाध्यासिता वुद्धिः सर्वतो भिन्नेति नानुमानं संभवति; स्वतोऽपि भेदसाधने वाधात्, दृष्टान्तस्य च साध्यविकल- त्वात्। यतः कुतश्चित् भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति। नच स्वव्यतिरिक्तात् सर्वतो भिन्नेति साध्यम्; अद्वैतवादिनं प्रत्यप्रसिद्धविशेषणत्वात्।एतेन-सर्व सर्वस्मा- द्व्िन्नमिति वाक्यमपि-निरस्तम्; तदुक्तम्-'हेत्वाद्यभावसार्वश्ये सर्घ पक्षयताऽऽस्थिते। किंचित्तु
गौडव्रह्मानन्दी (लघुचन्द्रिका)। ज्ञाने वाध्यबाधकभावज्ञानं न संभवति; स्वस्य भेदज्ञानस्य स्वबाधकतया ज्ञानापत्तेरित्यर्थः। बाधकस्य स्वविषयेण सह भेदाज्ञाने भेदविशेपविषयकत्वेन तद्दटितप्रमात्वेन च तस्य ज्ञातुमशक्यतया बाध्यबाधकधियोरेकविषयकत्वग्रहेण च बाध्यवाधकभावज्ञानासंभव इनि भावः। ननु-कथमद्वैतज्ञानेन द्वैतं बाध्यते? द्वेतस्य स्वविषयैक्येन गृहीततया बाध्य- त्वेन गृहीनुमशक्यत्वात, अद्वैतस्यापि स्वैक्येन गृहीततया तद्विषयकत्वेन तद्धटितप्रमात्वेन च स्वस्य गृहीतुमशक्यत्वा- दिनि-चेन्नः अद्वैतज्ञानस्योन्पत्तिक्षणे भेदानुपमर्दकत्वेन तस्य द्वतस्य च तथा गृहीतुं शक्यत्वात्, तादृशज्ञानस्य पूर्वज्ञान चरमभेदज्ञानाढिबाध कत्वसंभवेनानुपपत्यभावात्। तादृशज्ञानोत्तरं तु बाधकत्वज्ञानं नास्त्येव; सर्वद्वैतोपमर्दात्। भेदज्ञानं तु पूर्व जातमपि न सर्वभेदविपयकमिति न तेनाद्वैतज्ञानस्योत्पत्तिप्रतिबन्ध इति भावः। सुदूरेत्यादि । चरमभेदधी- भिन्नेपु सर्वपु विपयरूपदेशेपु भेदावगाहनरूपं धावनं कृतवत्यपि सुपुप्तिलोपाद्यापत्तिरूपश्रान्त्या चरमभेदधीरूपदेशे भेदावगाहनरूपं धावनं कर्नुमशक्ता बाधबुद्धेर्भदज्ञानस्यच परंपरा श्रेणी, निवृत्ता तस्या अद्वूयश्रुतिबाधकत्वायोग्यत्व- प्राप्ता, पा्ष्णिग्रा ह विरुद्वविषय कत्वरूपबाधकतावच्छेदकयुक्तरद्वयाम्नायैर्बाध्यत इत्यर्थः । इतरप्रतियोगिकभेदेति। स्वविपयात् ज्ञानान्तराच भेदेत्यर्थः । इतरप्रतियोगी इतरात्मकप्रतियोगी। सप्रतियोगिकत्वेन भेदस्फुरणस्येवा- भेदज्ञानविरोधित्वात्तदव प्रकृते वाच्यम्, तच्च न संभवति; प्रतियोग्यनुपस्थितिकालीनस्य साक्षिनिष्ठभेदस्यावृतत्वेन तत्स्फुरणस्य प्रतियोगिधीसापेक्षत्वात्, अभावमात्रस्यानुपलब्धिमानगम्यत्वे तु न भेदे साक्षिवेद्यत्वशङ्कापीति भावः । अन्यथा साक्षिण: इतरनेरपेक्ष्येण स्वनिष्टभेदग्राहकत्वे। अन्तःकरणाद्यभेदभ्रमः अन्तःकरणादेर्भेदाविषयकोऽह- मिति भ्रमः, न स्यात्। इतरसापेक्षतयोक्तभेदग्राहकत्वे तु विपरीतसंस्काररूपदोपाभाव स्योक्तभेदस्फुरणापेक्षणीयत्वा- त्तद्भावास् तादशस्फुरणम्। न च-मम मन इति भेदस्फुरणं सर्वदास्त्यवेति-वाच्यम्; तस्य तादात्म्यविषयत्वेऽपि भेदाविषयकत्वात्, शरीरत्वेनेव मनसत्वेनापि तादात्म्याध्यासस्य स्वीकारात्, मम मन इत्यस्य संभवेऽपि ममाहमित्य- स्यासंभवात्तदापादनसंभवाच्च। एतेन-मनआत्मनोर्भेदज्ञानस्य स्त्वेऽपि विपरीतभावनारूपदोपात्तयोरभेदभ्रमसंभव इति तद्भावापादनमयुक्तमिति-अपास्तम्। ज्ञानादिनेत्यादिना स्वविषयग्रहः। भेदं ऐक्याज्ञानात् स्वविपयाञ्च स्वस्य भेदम्। सर्वतोभिन्नति। बुद्धित्वात् बुद्यन्तरवदिति शेपः। अनुमानाविषये अनुमेयभेदाप्रतियोगिनि। वाक्यमपीत्यपिनाऽनुमानसमुच्चयः । हेत्वादीत्यादि। सर्वस्मिन् पक्षीकृते हेतोरभावः; तस्मिन् तस्याभावेन हेतौ स्वरूपासिद्धिः, अद्वतमते साध्यहेत्वोरभेदन साध्याविशेषः, तयोः पक्षस्यचक्यात् बाधस्वरूपासिद्धिव्याप्यत्वासि- व्यादिकंच, एवं दृष्टान्तस्यापि पक्षत्वादृष्टान्तासिद्धिश्च। सर्वस्य भेदप्रतियोगित्वानुयोगित्वे विशिष्य तत्तद्रूपेण निवेश्ये; अन्यथा केनचिद्रृपेण ते आदाय सिद्धसाधनार्थान्तरयोरापत्तेः। तथाच तत्तदृपेण ज्ञाने आवश्यके सार्व- ज्ञ्यापत्तिः । एवंच हेत्वाद्यभावे सार्वश्ये च अद्वैतवादिभिरास्थिते आपादिते सति सरव पक्षयता पक्षयितुं पूर्व प्रवर्तमानेन त्वया किंचित् कानिचित् त्यक्तव्यानि पक्षात् बहिप्कार्याणि। तथाच सैव त्यक्ता तत्तत्स्वरूपैवाद्वयश्रुतेः सर्वाद्वैतबोधनरूपगमनाय चरमोपायरूपा द्वाः त्वया दसव। तुशब्दादनुमानप्रयोगव्यवच्छेदः। तथाचानुमानप्रयोगे त्वया कृतेऽपि श्रुतिप्रवृत्तिर्न निरोद्धं शक्यत इति भावः। ननु-उक्तप्रत्यक्षं यद्यद्वैतज्ञानात् स्वविषयाच्च भिन्नं न स्यात्, तदा भेदविषयकं न स्यात् ; ययोभेंदो विषयः, तयोरैक्यविषयकत्वात् भेदप्रतियोग्यनुयोगिनोः स्वविषयीभूतयोः स्वभिन्नत्वाभावे तयोभेंदानुपपत्तेः, न हि स्वात्यन्ताभिन्नमुभयं मिथो भिन्नमिति संभवति, विरोधादिति युक्तेरुत्तप्रत्य- क्षस्य स्वविषयादद्वैतज्ञानाथ् भेदं विना भेदविषयकत्वमनुपपन्नमित्यनुपपत्तिधीकरणिकार्थापत्तिर्भेदग्राहिकास्तु; तथाच
Page 223
५१८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥'इति। नाप्यर्थापत्तिः सर्वभेदविषया; स्वाविषयत्वात्। ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता, तयोस्तत्र भेदप्रहेऽप्यनुपपत्तावनुपपत्यन्तराग्रहणात्। सर्वत्र तञ्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम्। तदुक्तम्-'आद्यधीवेद्यभेदीयाप्यन्यथानुपपन्नता। स्वज्ञाना- पेक्षणादन्ते बाधते नाद्वयश्रुतिम् ।'इति। ननु-यावदुपपादकं तत्सर्वमर्थापत्तेर्विषयः, नतु यर्तिक- चिदुपपादकम्; तथाचार्थापत्तेरितरस्मात् भेदाभावे तत्रैवामेदश्ुतेर्लब्धावकाशत्वात् घटपटमेदा- सिध्धापत्तेरर्थापत्तिभेदस्यापि घटपट भेदोपपादकत्वेनार्थापत्तिविषयत्वं वाच्यम्, अन्यथा दृग्दश्यसं बन्धानुपपत्तिर्ज्ञाननिवर्त्यत्वानुपपत्तिश्च स्वमिथ्यात्वविषया न स्यात्; 'सर्वे खल्विदं ब्रह्मे'ति थ्रुतिः 'नेह नाने'ति ब्रह्मणि भेदमात्रनिषेधानुपपत्तिश्च स्वाभेदविषया न स्यात्; तथाच तत्रापि श्रुत्यन्तर- मर्थापत्त्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तिः-इति। मैवं वोच; वस्तुत उपपादकरवं नार्थापत्तिविषयत्वे तन्त्रम्, किंतूपपादकत्वेन ज्ञातत्वम्; अन्यथा अर्थापत्तिभ्रमानुपपत्तेः। तथाच येन रूपेणोपपादकत्वं गृहीतं, तद्रूपावच्छिन्नमुपपादकमर्थापत्तेविषयः। तत्र यदयर्थापत्तिगतमेदसाधा- रणमुपपादकतावच्छेदकमेकं भवेत्, तदा सोऽपि भायादेव। न चैवमस्ति; तदनिरूपणात्। तथा- हि-घटपटभिन्नत्वमुपपाद्यम्, तदुपपादकं च न सर्वभिन्नत्वम्; स्वतोऽपि भेदापत्या तदसंभवात्। नापि स्वातिरिक्तसर्वभिन्नत्वम्; अद्वैतवादिनं प्रति स्वातिरेकविशेषणासिद्धे, स्वत्वाननुगमाच्च। तथाच तेन तेन रूपेण तत्तद्भ्िन्नत्वमेव उपपादकमुपेयम्। अत उपपादकतावच्छेदकनानात्वान्न सर्वमुपपादकमर्थापत्तेरविषय इति पृथक्पृथगनुपपत्तिज्ञानापेक्षायां सर्वत्रानुपपत्तिज्ञाने अनवस्थानात् क्वचिद्धाराविश्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् ! दृष्टान्ते च सर्वत्र स्वसाधारणमुपपादकतावच्छेदकमेकमेवेति तद्वच्छिन्नतया स्वस्यापि भानमिति वैषम्यम्। तथाहि-दृश्यत्वावच्छिन्नमिथ्यात्वं विना दक्संबन्धानुपपत्तिग्रहात्तदवच्छिन्नमिथ्यात्वमर्थापत्ते- र्विषय इति स्वमिथ्यात्वमपि स्वविषयः, एवमेव ज्ाननिवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम्; तत्रापि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। कथमह्वैतश्रुत्यवकाशः? तब्राह-नाप्यर्थेति। स्वाविषयत्वं विवृणोति-ययोरित्यादि। ययोरद्वैतज्ञानाधुक्तप्रत्यक्षयोगे भेदं विना यत्रोक्तप्रत्यक्षस्य घटपटभेदविषयकत्वे अनुपपत्तिर्गृहीता, तत्रोक्तप्रत्यक्षस्य तादृदशविषयकत्वे निमित्ते तदुपपत्तय इति यावत्। तयोरद्वैतज्ञानादुक्तप्रत्यक्षयोरभेदग्रहेऽपि अनुपपत्ती अर्थापत्तिप्रमायामनुपपत्त्यन्तरस्याद्वैतज्ञानादितो भेदं विना किंचिदनुपपन्नमित्यस्याग्रहात्। तथाचोक्तार्थापत्तावद्वैतज्ञानादिभेदाग्रहाआर्थापत्तिः सर्वभेदविषयेति भाघः । सर्वत्रोक्तापत्यादी। ग्रहे त्विति। सुपुप्तिलोपाद्यापत्तेरिति शेपः। चरमधीः चरमार्थापत्तिः, अद्वैतज्ञानादिभेदं विना यस्यां किंचिदनुपपन्नमिति न गृहीतं, सार्थापत्तिरिति यावत्। आद्येत्यादि। आद्यधीः 'घटो न पट' इति धीः। तद्वेद्यमेदीया धियम्तादृशभेद्विषयकत्वमद्वैतज्ञानादितः तस्यां भेदं विनानुपपन्नमित्याकारा अनुपपन्रता अनुपपत्तिधीद्वयश्रुतिं न बाधते; स्वज्ञानापेक्षणात्, सवस्मिन् तादृशानुपपत्तिज्ञाने अद्वैतज्ञानादिभेदज्ञानमपेक्ष्यैव तस्यास्तद्वाधकत्वसंभवात्, सवस्मिन् उक्तभेदाज्ञाने तत्रव श्रुतेरवकाशेन सर्वाद्वितपर्यवसानात्। अथ तस्यामपि तादृश- भेदं विनोक्तमेदविषयकत्वमनुपपन्नमिति ज्ञानात्तादृशभेदग्रहः, तथाप्यन्ते धाराविश्रान्ती तान्न बाधत इत्यर्थः । उपपादकमिति। यद्विनानुपपस्नत्वं अन्यत्र ज्ञायते, तदित्यर्थः । इतरस्मात् अद्वैतज्ञानादितः । नेह नानेत्यादि। 'नेह नाने' तिवाक्यरूपस्य ब्रह्मणि भेदमात्रनिषेधस्यानुपपत्तिरित्यर्थः। अभेदस्याखण्डब्रह्मस्वरूपत्वेन वक्ष्यमाणत्वात् भेदाभावातिरिक्तत्वात् भेदनिपेधानुपपत्तिगम्यत्वमिति भावः । अर्थापत्तिभ्रमेति। अर्थापत्तिरूपभ्रमेत्यथः । येन येनेत्यादि। यद्यदूपावच्छिनं विनानुपपस्नत्वं गृहीतमित्यर्थः । सोऽपि अर्थापत्तिगतभेदोऽपि। भिन्न्वं ेद विषय - कत्वम्। सर्वभिन्नत्वं सर्वस्मात् भिन्नत्वम्। अद्वैतवादिनं अद्वैते सन्दिहानम्। तथाचाद्वते विप्रतिपत्तिकाले स्वातिरिक्त्तसर्वत्वनिर्णयासंभव इति भावः। स्वत्वेति। तथाच भेदग्राहकं यद्यज्ज्ञानं, तत्र तत्र तत्तदन्यसर्वभिन्नत्व- मर्थापत्तिविषयो वाच्यः । एवंचोक्तज्ञानस्य प्रत्यक्षार्थीपत्याद्यनन्तत्वेनानुगतरूपं विना पक्षतया साध्यघटकतया च न तव्निर्देशसंभवः । नच-भेदग्राहकत्वेन तेपामनुगम इति-वाच्यम्; भेदग्राहकभिन्जभेदस्य साध्यत्वे भेदग्राहकाणां मिथो भेदस्यार्थापत्यविषयतया तेप्वेवाद्वैतश्रुत्यवकाशादिति भावः। नानात्वात् तत्तद्धर्मावच्छिन्नप्रतियोगिताकभेद- त्वरूपत्वात्। विश्रान्ताविति। तत्तदनन्तधर्मीवच्छिन्नप्रतियोगिताकभेदानां दुर्शेयत्वात् क्चित् कस्यचित् भेदज्ञा- नासंभव इृत्यपि वोध्यम्। तथाहीति। प्रपञ्चस्येति शेपः। सर्वभेदे उक्तार्थापत्तिविषये सनि। स्वामेद: खामेदा- पसतिः। कथमित्यादि। चरमज्ञाने भादौ लब्धपदा पश्रात् सर्वाद्वैतविषयेति कथमित्यर्थः। द्रागेव युगपदेव।
Page 224
[अद्वैतश्रुतेर्बाधोद्धारः] गौडब्रह्मानन्दीयुता। ५१९
दृश्यत्वादेरेकस्यैवावच्छेदकत्वात्। एवंच ब्रह्मणि सर्वाभेदवोधिकायाः श्रुतेर्मेदमात्रनिषेधान्यथानु- पपत्तेश्च स्वाभेद्विषयत्वमविरुद्धम्। न हि सर्वभेदे स्वमेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय। तस्मादद्वैतश्रुतिर्बाध्यबाधकयोरैक्यबोधनेन निराबाधा सर्वाद्वैतं प्रतिपाद्यति। ननु-शब्दबुद्धि- कर्मणां विरम्य व्यापाराभावात् कथमादावल्पविषया वुद्धि: पश्चात् बद्दुविषयापि भवतीत्युच्यत इति-चेन्न; श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धे: प्रामाण्यं व्यवस्थापयन्तीनामस्मद्- बुद्धीनामेव क्रमेण जायमानत्वात्। अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम्, न वा योग्यता- ज्ञानं हेतु :; येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात्। तदुक्तम्-'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि। अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम् ।I' इति। वेदान्तकल्पलतिकायामस्यार्थस्य प्रपञ्चो द्रष्टव्यः । एतेन-चरमजानमिथ्यात्वेऽपि न तद्विषयस्य मिथ्यात्वम्; ज्ानमिथ्यात्वस्य विषयमिथ्या- स्वासाधकत्वात्, अद्वैतश्ञाने व्यभिचारादिति-निरस्तम्; श्रुत्यैव द्वैतमात्रनिषेध्यत्वबोधनात् । अद्वैतज्ञानविषये च मिथ्यात्वबोधकाभावादेव सत्यत्वम्, न तु ज्ानमिथ्यात्वादिति न किंचिदेतत्। मनु-द्वैतश्ञानाद्वैतज्ञानयोरभेदे कथं बाध्यबाधकभावः? न च व्यावहारिकमेदमात्रेण सः; द्वैतशान- स्यापि बाधकत्वापत्ते :- इति चेन्न; व्यावहारिकभेदमात्रस्य बाधकत्वाप्रयोजकत्वात्। यद्धि परीक्षित- प्रमाणभावत्वेन बलवत्, तत् बाधकम्, यत्तु सन्दिग्धप्रमाणभावत्वेन दुर्बलं तत् बाध्यमिति व्यव- स्थारयां द्वैतज्षानस्य दुर्बलत्वेनावाधकत्वस्याद्वैतज्ञानस्यच बलवत्त्वेन बाधकत्वस्य शब्दप्रत्यक्षबलाबल- विचारे दर्शितत्वात्। यन्तु-'आपो वा इदं सर्व भूत' मित्यादिश्रुतिः 'विमतं जलामिन्नं प्रतीतत्वात् जलवदि' त्यनुमानं वा स्ववाधकस्य जलाभेदं गृहीत्वा निर्वाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेवं बोधयेत्-इति, तन्नः जला भेदबोधनेSपि वाध्यबाधकयोरैक्यावोधनात् बाधकस्य बाधकत्वोपपत्तेः, ऐक्यज्ञानभेदझानयोर्बाध्यबाधकभावस्य जलाभेदज्ञानेनानपायात्। बाधकामेदो हि बाधकत्वाभावे
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मामाण्यमित्यादि। यत्र प्रत्यक्षादिना भेदो न गृहीतः, तत्र श्रुतेरवाधितविषयकत्वम्, प्रत्यक्षादिविषये तु सर्वत्र श्रुतेः प्रवृत्या प्रत्यक्षादिकं नाबाधितविपयकं संभवत; अतः श्रुतिः प्रत्यक्षादिबाधिका। एवं श्रौतमद्वयज्ञानं सर्वद्वैतो- छेदकस्वेन वाधकत्वाभिमतप्रत्यक्षादिस्वरूपोच्छेदकम्; अतः प्रत्यक्षादिकं न तद्वाघकम्। बाध्यज्ञानोत्पस्युत्तरकाले हि बाधकमनुच्छिनस्वरूपं वाच्यम्। सर्वकल्पनामूलोच्छेदकत्वादपि श्रीतज्ञानमबाध्यम्। तदुक्तं खण्डने-'प्रवृत्तेना- प्यनौचित्यमूलं येन न लूयते। तत्रानौचित्यसाम्राजयं वैपरीत्यासु नात्र तत् ।।' इति। अत्राद्वैतज्ञाने इत्यादिरीत्या श्रुतेः बाध्यत्वशक्कानिरासेन प्रामाण्यं व्यवस्थापयतामस्मदीयज्ञानानामेव क्रमेणोत्पत्तिः, श्रुत्या तु युगपदेव सर्वाद्वैतं बोध्यते, नतु प्रत्यक्षाध्यगृहीतभेदके चरमज्ञाने वा प्रथमतः पश्चादन्यत्राद्वैतं बोध्यत इनि भावः। न स्यादिति। प्रत्यक्षादिरू- पेणायोग्यताज्ञानेन प्रतिबन्धादिति शेपः। अत्यन्तासति विपरीततया निश्चिते कलहादिस्थल इति शेपः। अबाधा- दिति। कलहादिस्थले वाक्यार्थज्ञानस्यानाप्तवाक्यजन्यत्वादिना भ्रमत्वेऽपि श्रीतज्ञानस्योक्तरीत्या भ्रमत्वज्ञानरूपबा- धासंभवादित्यथः । स्वतःप्रामाण्यनिश्चलां सवतःसिद्धप्रमात्वेनाप्रामाण्यज्ञानानास्कन्दिताम्। विपरीतज्ञानरूपायो- ग्यताज्ञानप्रतिबध्यता परोक्षापरोक्षसाधारणरूपेण न संभवत; प्रत्यक्षस्येच्छाविपयस्याप्रतिबध्यतवेन तव्यावृत्तत्वरूपेणैव तस्या: वाच्यत्वात् । अत एवोक्तं मणिकारेण-'प्रत्यक्षादावुत्पन्ने ज्ञाने अप्रामाण्यमासज्यते बाधेन, अनुमितौ तु उत्पत्तिरेव प्रतिबध्यत' इति। तथाच परोक्षस्यानुमितित्वेनैव प्रतिबध्यत्वम्। विपरीतधीसत्वे उद्धोघकसश्वे माना- भावेन तद्भावादेव स्मृत्यनुत्पादात् अनुगतोद्वोघके मानाभावात्। भावेवा कलहादिस्थले शाब्दज्ञानस्य विपरीत- निश्चयाप्रतिबध्यत्वात् शान्दधीव्यावृत्तेन जातिविशेषेणैव प्रतिबध्यत्वम्। एवं योग्यताज्ञानस्य शाब्दधीहेतुत्वेऽपि नं मानम्; इतरकारणकलापे सति तद्विलम्बेन तदविलम्बादिति भावः। श्रुत्यैवेतयेवकारार्थो विवक्षितः। सच ज्ञान- मिध्यात्वस्य विपयमिथ्यार्वसाधकत्वव्यवच्छेदः। श्रुतेरबोधकतवं तु नात्र विवक्षितम्। तेन एतेनेत्यनेन न पौनरुक्तम्। मिथ्यास्वादिति। विषयमिथ्यात्वमिति शेषः । विचारे इति। प्रकृतविच्ारे चेति शेषः। दर्शितत्वादिति। मध-अद्वैतज्ञानवता द्वैतवादिनं प्रति श्रुतिप्राबल्योपन्यासे तदीयव्यवहारव्याघात इति-बाच्यम्; अद्वैतज्ञानेन प्रपश्वस्य बाधितत्वेऽपि भुज्यमानकर्मणा प्रतिबन्धेन भोगशेषानुकूलप्रतिभासानिवृत्या व्यवहारसंभवात्। तदुक्तं खण्डने-'नानात्वमवलम््यापि वदत्यद्वैतवादिनि। असिद्धभेदात् व्याघातः पतेदापादकात् कुत' इति। असिद्ध मे- दात् असिद्धो बाधितः आपाद्यादितो भेदो यत्र तस्मात्। आपादकात् यदि त्वं अद्वैतज्ञानवान्, तदा व्यवहारवान् न स्यां हृत्यस्मात्। बाध्यबाधकयोः आपः सर्वमिति ज्ञानपृथिव्यादयो नाप इति ज्ञानयोः । उपपत्तेरिति। जले
Page 225
५२० अद्वैतसिद्धिः । [परिच्छेद: १ ]
प्रयोजक :; बाधकस्य स्वबाधकत्वादर्शनात्। अतो न बाध्यबाधकैक्ाज्ञानस्य जलाभेदज्ञानसाम्यम्। एतेन-सर्व सर्वस्माद्भिन्नमिति मद्धाक्यमद्वैतवाक्यतन्भानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्यवस्यतीति-निरस्तम्; बाध्यबाधकयोरमेदे बाधकत्वाभाववत् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वोक्तदोषाञ्चेति दिक। सर्वासत्वं सर्वमिथ्यात्वान्नातिरिच्यते; अतः 'सर्वमसदि'ति प्रत्यवस्थानमनवकाशम्। ननु-श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्मा- मिन्नत्वं वा। आद्ये 'सर्व खल्विदं ब्रह्मे'ति सामानाधिकरण्यं न स्यात्; सत्यानृतयोरैक्यायोगात्। द्वितीये 'इदं रजतं' 'गौरोऽह'मित्या दिभ्रमाणां प्रमात्वं स्यात्; आत्मनि देहादिभेदस्यानृताद्यावृत्तेश्च बोधकानां वेदान्तानां 'नेदं रजत'मित्यादिबाधकस्य चाप्रामाण्यं स्यात्, घटज्ञानेनैव तदभिन्नव्रह्मतद- मेदादेः सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वश्यम, वेदान्तानां वैयर्थ्यम्, सद्योमोक्षश्च स्यात्, सुखदुःख- बन्धमोक्षभेदादभेददूषणभूषणजयपराजयभ्रान्तिप्रमादादेरपि वस्तुतो मेदाभावेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरिति-चेन्न; आद्ये 'मृद्धटः'इद रजत'मित्यादाविव उपादानो- पादेयभावेनापि सामानाधिकरण्योपपत्तेः। द्वितीये वस्तुतो ेदाभावेऽपि आविद्यकभेदमादाय सर्व- व्यवस्थोपपत्तेः । नच-मेदस्याप्यनाविद्यकव्रह्माभिन्नत्वेनाविद्यकत्वायोग इति-वाच्यम्; आविद्य- कत्वस्याप्याविद्यकस्यैवाङ्गीकारात्, अथाविद्यकत्वस्यापि ब्रह्माभिन्नत्वात् कथमाविद्यकत्वमिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण। ननु-मुक्तावाविद्यकस्यापि भेदस्याभावेनानन्दस्य दुःखा- भिन्नत्वेनापुरुषार्थत्वापातः, तत्तदसाधारणस्वभावस्य तत्र तत्राभावेSपि तत्तदभेदे पारिभाषिकोऽय- मभेदो भेदे पर्यवस्येत्, असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण भेदनिषेधेऽपि इष्टापत्तिरप्रसक्तनि षेधश्चेति-चेन्न; एकस्यामेव ब्रह्मव्यक्ती तत्तदसाधारणस्वभावानां कल्पितत्वेनासत्वात् सर्वकल्पना- निषेधकाले कल्पितधर्मावच्छिन्नभेदाभेदादिप्रसक्तेर योगात्। अतएव नाप्रसक्तप्रतिषेध इष्टापत्तिवा; 'सद् द्रव्यं' 'सन् गुण' इत्यादिप्रतीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात्। अतः सर्वधर्म-
गोडब्रह्मानन्दी (लघुचन्द्रिका)। सर्वस्येति शेषः। बाधकाभेदः बाधके वाध्याभेदः। वाध्यवाधकक्येति। सर्वाद्वतेत्यर्थः। निर्वाधं सदिति। बाधकत्वाभिमतमद्वैतज्ञानं तद्विन्नत्वेन निश्चितं अतस्तेन भेदज्ञानं बाध्यतया न निश्चेतुं शक्यन इति भावः। हेत्व- भावादिति। अद्वैतज्ञानं साक्षिणा तद्विन्नत्वेन न गरृह्यते; स्वस्मिन् स्वाभेदविषयके च शाब्दबोधे विपर्रातधीन विरो- धिनीत्युक्तमिति भावः । पूर्वोक्तति। भेदज्ञानस्य स्वस्मादपि भेदसिद्यापत्या बाधकत्वाभावापत्तिः; स्वातिरिक्तसर्वभे- दविषयकत्वे वाच्ये अद्वैतवादिनं प्रत्यसिद्धिरित्यादीत्यर्थः । 'आपो वे' त्यादिनारायणीयोपनिपद्वाक्यस्य स्नुनिपरत्वेना- भेदपरत्वाभावात् भेदप्रत्यक्षाद्ुर्बलत्वं, सर्व न सर्वमित्यादिवाक्यस्यानाप्तोक्तत्वेन घटो न घट इत्यादिवदपार्थकत्वेन च तथात्वमित्यपि बोध्यम्। ननु 'इदं वाग्रे नेव किंचन आसी'दिनि श्रुतिः 'विमतं असत् ज्ञेयत्वा'दित्यनुमानंच स्वब्ाधकस्य सत्यादिवाक्यस्यासत्त्रं गृहीत्वा सर्वासत्वं बोधयेत्तव्राह-सर्वासत्वमिति। प्रत्यक्षादिगृह्यमाणस्याली कत्वं वक्तुमशक्यम्, अतो मिथ्यात्वरूपमसत्वरं वाच्यम्। तच्चेष्टम्। वस्तुतस्तूक्तवाक्यं व्याकृतप्रपञ्चनिषेधमग्रकाले बोधयतीति भावः । श्रुत्या 'एकमेवाद्वितीय' मित्यादिश्रुत्या। मिथ्यात्वमिति। अद्विनीयपदस्य सद्वितीयत्वन ज्ञाते ब्रह्मण द्वितीयशून्याभेदबोधनाढिति शेपः। ब्रह्माभिन्नत्वमिति। अद्वितीयपदस्य द्वितीयरवरूप विशेषण निषेधपरतवे- नेति शेपः । ब्रह्मद्वितीयत्व्रस्य ब्रह्मभेदव्यापकतया द्वितीयत्वनिषेधात् भेदनिपेधस्यार्थिकतया लाभः । एकादिपदस्य तु भेदशून्यरूपकेवलवाचकत्वेन सङ्कोचकाभावात् सर्वभेदशून्यबोधकत्वमिति भावः। गौरोऽहमित्यादि। तथाच श्रुतीनां पूर्वापरविरोध इति भावः। अप्रामाण्यं स्यादिति। सर्वस्य सर्वाभिन्नव्रह्माभेदेन सर्वाभिव्नत्वादिति शेषः। द्वितीयपक्षेऽपि 'नेह नाना' 'अतीन्द्रियमविषयम्' इत्यादिश्रुतिभिः मिथ्यात्वेन बोधिते प्रपञ्न 'सर्व खल्विदं ब्रह्मे'ति श्रुत्या ब्रह्माभेद्बोधानुपपत्तिर्बोध्या। उपादानोपादिययोः सामानाधिकरण्ये पराभ्युपगतं द्ष्टान्तमाह-मृद् घट इति। सत्यानृतयोः सामानाधिकरण्ये पराभ्युगतं दृष्टाम्तः-इदमित्यादि। तत्तदसाधारणेति। दुःखादिमात्र- वृत्त्यपुरुषाथे वादीत्यर्थः । तत्र तत्र मोक्षानन्दादों। तत्तदमेदे दुःखाद्यमेद। सद्रूपेण सदभिन्नवेन। तत्तदसा- धारणेति। दुःखतवापुरुपाथत्वादीत्यथः । असत्वात् निषेधयोग्यत्वात्। काले कालोपलक्षितमुक्तात्मादौ। मेदा- भेदादीति। भदो दृष्टान्ततवेनोक्तः। अत एव द्विनीयमात्रस्य सद्ूवे ब्रह्मणि कल्पितत्वांदेव। तत्तद्धर्माणां भेदानां द्रव्यगुणादिरूपभेद्यानां च। सर्वशून्याया इति। भेदभेद्यसामान्याभावत्वव्यावृत्ताकारेणोपलक्षिताया इत्यर्थः। न पारिभाषिक इति। यादशभेदस्य ज्ञानं यद्विपयप्रमयोच्छेद्यं, तादृशभेद्विरोधी अभेद: स एव। भेदमात्रस्य
Page 226
५२१
शून्याया एकस्या एव सद्यक्ेश्िदानन्दरूपायाः प्रतिपादनान्न पारिभाषिकोऽयममेद इति सिद्धम्। तदेवं 'सर्व ब्रह्माभिन्नमि'ति मते मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभिन्नमिति मते वा न प्रत्यक्षादिविरोधः, नापि पूर्वोत्तरविरोधः ॥ इत्यद्वैतश्रुतेर्बाधोद्धारः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
सर्वभेदविरोध्यमेद इति भावः। सर्व व्रह्माभिन्नमिति मते इति। द्रव्यगुणादिकं द्रव्यत्वगुणतवाद्यवच्छिन्ना पा ब्रह्मभेदाभावानुयोगिता तद्वन्भवति, श्रुत्यापि तादृशभेदाभावो बोध्यत इति मते इत्यर्थः । मतान्तरमाह-मिथ्ये- त्यादि। एकमेवेत्यादिश्रुत्या मिथ्यात्वेन बोधितेत्यर्थः । सद्रूपेणैव द्रव्यादेर्वह्नभेदाभावानुयोगित्वम्, नतु द्रव्यतवा- दिना; तेन रूपेण ब्रह्मभेदानुयोगिश्वस्य सच्वेन विरोधात्। अतएव अ्ह्मभेदस्य पारमार्थिकत्वेनैवाभावः तत्र स्वीक्रियते, नतु ब्रह्मभेदतवेन; येन रूपेण प्रतियोगी यत्र वर्तते, तेन रूपेणाभावस्य तम्रानभ्युपगमात्। 'सर्व खल्विदं अ्रक्षे'ति श्रुत्याप्युक्तानुयोगित्वमेव बोध्यते, तदेतन्मतमभ्युपेत्यवादः। उक्त हि द्वितीयमिथ्यात्वलक्षणे आचार्यरेव- नात्र रजतमिति बाधेन 'नेह नाने'त्यादिश्ुत्या च स्वरूपेणैव निषेधः, न तु पारमार्थिकत्वेनेति। न प्रत्यक्षेत्यादि। आद्यमते 'नेदं रजत' मित्यादिप्रत्यक्षादिविरोधो न, द्वितीयमते 'सर्व खल्विद'मित्यादिश्रुतिविरोभप्रयुक्तः पूर्वापर- श्रुतिविरोधो नेत्यर्थः। इति लघुचन्द्रिकायां अद्वैतश्रुतेर्वाधोद्धारः।
अथ अद्वैतश्रुतेः बाधोद्धारः। (१) तत्र न्यायामृतकारा :- मानान्तरैः पूर्वात्तरवाक्यैक्वाविरुद्धानामेवार्थानां वेदार्थलात् प्रत्यक्षप्रमाणेन पूर्वोत्तरवाक्यैश्व विरुद्धे अद्वैते नागमानां तात्पर्यम्। ऐक्यथ्ुल्या हि अग्रसक्तमेदनिषेधानुपपत्या तस्य प्रत्यक्षादिप्रमाणसिद्धस्याङ्गीकरणीयत्वे तत्प्रतिषेधेनामेदबोधना- संभवात्, अप्रसक्तप्रतिषेधेऽपि नान्तरिक्षेऽग्निक्ेतव्यः इत्यादाविवोपपत्ती तु किंचनेत्यादिपदानामनुवादकत्वेन श्रुतेरमेदमा- त्रपरत्वेन च प्रतियोग्युपस्थितेः प्रत्यक्षादिनैव वर्णनीयतया तेनव मेदस्यापि सिद्धतया तन्निषेधासंभवात् प्रत्यक्षस्य नियत- विषयकत्वेन घटपटी मिन्नौ इति ज्ञानस्य घटपटमेदविषयकत्वेऽपि ऐक्यज्ञानभेदाभ्रहणात् वाधकामिन्नस्य मेदज्ञानस्यैक्यज्ञा- नवाधकत्वं न संभवतीति न शङ्कनीयम्। स्वेनाप्रहणेऽपि ज्ञानान्तरेण तब्रहणसंभवात्। चरमधियां भेदग्राहकप्रमाणान्तरा- संभवात् तत्र लब्धावकाशाया अद्वतश्रुतेः सवद्वित पर्यवसानमित्यपि न युक्तम्; चरमधियोऽपि प्रमाणान्तरसिद्धत्वे तद्गे- दस्यापि तथात्वे च तन्निषेधेनाभेदबोधनासंभवात्, प्रमाणान्तरसिद्धी तु येन केनचित् यस्यकस्यचिदभेदबोधनापत्या बाध्य- बाधकत्वेनाभिमतचरम्ध्यैक्यज्ञानयोर भेदबोधनासंभवेन प्रत्यक्षाबाधकत्वोक्त्यसंगतेः। वस्तुतस्तु-घटपटौ मिन्नाविति ज्ञानं स्वस्याभेदज्ञानभेदं विनाऽनुपपत्तेस्तमाक्षिपतीति नाद्वैतश्रुतेः कुत्राप्यवकाशः, उक्तार्थापत्तिस्तु इतरमेदाभावे घटपटाध- मेदापत्या तद्भेदस्यापि घटपटमेदोपपादकत्वेन दृश्यत्वज्ञाननिवर्त्यतान्यथानुपपत्त्यादीनां तत्तन्मिथ्यात्वविषयत्वत् खमे- दमपि विषयीकरोत्येवेति-"आद्यधीवेद्यभेदीयाद्यन्यथानुपपन्नता। सज्ञानोपलक्षणादन्ते बाधते नाद्वूयश्रुतिम्" इति खण्ड- नोक्कमपि पराहतम्, तत्रापि यदि सर्व सर्वस्मादभिन्नमिति किमपि वाक्यमुपलभ्येत, तदा युज्येतैच अद्वैतवादः, नैवमस्ति, तत्र यदि अर्थापत्त्यादिकं कल्प्यते, तर्हिं दुरुपह्ववोऽनवस्थादोषः । अस्मन्मते तु घटपटभेदप्राहिणा खप्रकाशेन साक्षिणा घटपटज्ञानस्यापीतरभेदग्रहणात् नानवस्थादिकम्। एवंच सामान्यविषयश्रुतेः विशेषविषयेण प्रत्यक्षेण संकोच एव न्यायः, नतु प्रत्यक्षबाधकता। अस्तुवा चरमधिय ऐक्यज्ञानेन मेदाग्रहः, एवमपि प्रथमादिज्ञानाद्यभेदः कथंवा सिध्धेदिति न सर्वाद्वैते पर्यवसानम्। श्दबुद्धिकर्मणां विरम्यव्यापारायोगेन क्रमेणाभेदग्रहासंभवात्, ब्रह्मणि सर्वामेदस्यैव श्रुतत्वेन तदमित्रा- मिन्नस्य तदमिन्नत्वमिति न्यायकल्प्यघटपटाद्यभेदस्य श्रुतिबोध्यत्ाभावेन युगपदेव श्रुत्या सर्वामेदबोधनासंभवात्। किंच-सर्वाद्वैते पर्यवसानमित्यनेन किं सर्वमिथ्यात्वे पर्यवसानमिति विवक्षितम्; उत सर्वामेदे? आहो सर्वमेदनिषेधे वेति विवेचनीयम्। तत्र नाद्य: अद्वैतज्ञानस्येव स्वरूपतो मिथ्यात्वेऽपि विषयाबाधेन व्यावहारिकसत्वेन मेदज्ञानस्यापि प्रभा- लसंभवेन भेदमिथ्यालायोगात्, अन्यथा इदं वा अग्रे नैव किंचनास्तीति श्रुतिवा विमतं सत् प्रमितत्वात् इत्यनुमानं वाऽडदौ खबोधकसत्यादिवाक्यस्यासत्वं गृहीता निर्बाधं सत् स्वासत्वं बोधयेदित्यापत्तेः, सत्यानृतयोरंक्यायोगेन सर्व ब्रह्मेति सामा- नाधिकरण्यानुपपत्तेश्च। नान्त्या-यत्र प्रत्यक्षासिद्धो भेदः, तत्र श्रुत्या अभेदग्रहासंभवात्, अन्यथा "आपो वा इदमि"ति श्रुत्या विमतं जलामिन्नं प्रतीतत्वादित्यनुमानेनादौ खबाधकेनाभेदं गृहीता निर्बाधेन सर्वाभेदबोधनापत्त्याSनाश्वासात् इदं रूप्यं गौरोऽहमित्यादिभ्रमाणां प्रभात्वस्य आत्मनि देह्दानृतादिव्यावृत्तिबोधकवेदान्तवाक्याप्रमाण्यस्य घटज्ञानेनैव तदमिभ्नस्य अ. सि. ६६
Page 227
५२२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
ब्रह्मतदमेदादेः सर्वस्य वस्तुतो ज्ञातत्वेन वेदान्तवैयर्थ्यसद्योमोक्षयोः सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयपराजयध्रा- न्तिप्रमादादीनामपि वस्तुतोऽमिन्नत्वेन सर्वसंकरापत्त्या स्वक्कियास्ववचनविरोधानां चापत्तेश्व काल्पनिकभेदेन वास्तवामेद- कार्योप्रतिबन्धात् मोक्षे आविद्यकभेदाभावेनानन्दस्य दुःखात्मकत्वेनापुमर्थत्वापातात्। अनाविद्यकब्रह्माभिन्नत्वेनाविद्यक- लायोगाच नाविद्यकमेदेन सर्वव्यवस्थोपपत्तिरिति प्रत्यक्षबाधितलान्न सर्वप्रपपश्चमिथ्यातसिद्धिरिति सर्वमनवद्यमिति- निरूपयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत्संभाविताप्रामाण्यतयाऽद्वतश्रुतिविरोधाभावात् भावेऽपि नियतविषयेण प्रत्यक्षेण यत्र भेदो न गृहीतः तत्राद्वैतश्रुतेरवकाशाच्चाद्वैत एवागमानां तात्पर्यम्। निषेधमात्रोच्छेदप्रसन्नेन तत्रव प्रसिद्धेरतन्त्रत्वेना- न्यत्र प्रसिद्धिमात्रेणोपस्थितिसंभवादसंभवेऽपि नान्तरिक्ष इत्यादाविव सप्रयोजनत्वेनाप्रसक्तप्रतिषेधस्यादोषलात् प्रतियो- ग्यादिविषयकप्रत्यक्षस्य भेदविषयकत्वे मानाभावादन्यथा पदार्थस्वरूपज्ञानमात्रस्य भेदज्ञानत्वेऽमेदभ्रमोच्छेदप्रसङ्गाच्च प्रत्य- क्षमात्रस्याद्वैतश्रुतिबाधकत्वासंभवात्। एतेन-ज्ञानान्तरेण भेदग्रहादद्वेतबाधादिशङ्का अपि-पराहताः; चरमधिय ऐक्यज्ञानमेदग्राहकप्रमाणान्तराभावेन सवनिष्ठेतरप्रतियोगिकमेदग्रहे प्रतियोग्युपस्थितिसापेक्षसाक्षिणाऽपि ग्रहणासंभवेनच चरमधिया एकीभावाद्वैक्यज्ञानस्य सवद्वत एव पर्यवसानात्। एतेन-भेदार्थापत्तेरद्वैतश्रुतिबाधकतवमपि-पराहतम्; यत्र स्वसाधारणमुपपादकतावच्छेदकमेकं तत्र तदवच्छिन्नतया स्वस्यापि भानम्। यथा दृश्यत्ावच्छिन्नमिथ्यात्वं विना दग्ट- श्यसंबन्धानुपपत्तिम्रहात्तदवच्छिन्नमिथ्यातमर्थापत्तेरपि विषयः, यथावा ज्ञाननिवर्त्यतान्यथानुपपत्तेरपि स्वविषयतम्, प्रक- तेतु स्वतोऽपि भेदापत्त्या सर्वभिन्नत्वस्योपपादकत्वाभावात् स्वव्यतिरेकविशेषणस्य द्वैतवादिनं प्रति असिद्धतया स्वव्यतिरेक- सर्वभिन्नत्वस्यापि तथातात् तत्तद्रूपेणैवोपपादकत्वस्यान्गीकरणीयत्वेन उपपादकनानालान्न खमेदोऽपि गृह्यते इति तत्र तदर्थ ज्ञानान्तरादिपरिग्रहे चरमधियोऽभेदस्य केनाप्यग्रहणात्तत्रेवाऽभेदश्रुतेरवकाशेन सवाद्वैत एव पर्यवसानान्। अयोग्यताज्ञा- नस्य योग्यताज्ञानस्य च शाब्दबोधे प्रतिबन्धकलहेतुत्वयोरभावेन श्रुतिनो युगपदेव सवीद्वैनबोधने वाधकाभावात्न शब्दवु- द्विकर्मणां विरम्यव्यापाराभाव इति न्यायविरोधः। सवाद्वैतशव्दरेन च सर्वमिथ्यात्वस्य सर्वाभेदस्य वा कस्यापि विवक्षणे न किमपि बाधकम्। अद्वैते मिथ्यातवोधकमानाभावेन सत्यत्वेऽपि द्वैते तदसंभवेन मृद्धट इदं रजनमिलादाविवोपादानोपा- देयभावेनापि सामानाधिकरण्योपपत्त्या च प्रथमपक्षे अदोपात्। जलाभेदवोधनेऽपि वाध्यबाधकयोरेक्यावोधनात् वाधकस्म बाधकत्वोपपत्त्या वाध्यबाधकैक्यज्ञानस्य जलाभेदज्ञानसाम्याभावेन आविद्यकत्वेऽषि कन्पिताविद्यकतवाजीकारेणानाविद्यक- ब्रह्मामिन्नत्वेऽपि भेदाविद्यकत्वे बाधकाभावेनाविद्यकभेदमादाय सर्वव्यवस्थोपपत्या सर्वकल्पनानिषेधकाले कल्पितवमाव- च्छिन्नमेदामेदादिप्रसक्तेरभावेन मुक्ती आनन्दस्य दुःखामिन्नलस्याप्यभावेन पुरुपार्थस्ोपपत्त्या च द्वितीयपक्षेऽदोषात् इति सर्वमनवद्यमिति-उपपाद्यन्ति॥ (३) तरद्गिणीकारास्तु- श्रीतनिषेधस्य तदधिकरणप्रसक्तिपूर्वकत्वनियमात् प्रसक्ति विना निषेधस्याप्रामाण्यहेतुलान् अन्यथाऽभागिप्रतिषेधन्य- यविरोधापत्तेक्षाप्रसत्तप्रतिषेधेSप्रामाण्यापातेन प्रत्यक्षसिद्धत्वस्य भेंदऽवश्यवर्णनीयत्वेन तथावर्णने निषेधानुपपत्त्या च नार्दू- ततात्पर्यकत्वमागमानाम्; सरूपज्ञानम्यैव भेदविषयकत्वेऽपि अभेदश्रमहेतुदोपसत्वे तन एव प्रतिवन्धेन मेदाग्रहोपपनः, दोषप्रयुक्त्तमेदाप्रहनिबन्धनाभेदज्ञानम्य श्रमतनियमेन श्रौताभेदज्ञानस्यापि भ्रमत्वापत्या दोपवशात् प्रपथ्स्वरूपज्ञाने भेदा- अहः तत्राभेदग्राहकत्वं श्रुतेरिति वर्णनस्याप्यसंभवाञ्च स्वरूपज्ञानेनापि सर्वेण मेदस्यापि गृहीतत्वेनाद्वैतश्रुतेः कुत्राप्यव- काशाभावात्, इतरत्वेन यत्किंचिदितरप्रतियोगिज्ञानऽपि नद्धदस्य साक्षिणा त्हणसंभवात चरमज्ञानेनापि स्वेतरभेदग्रह- णात् चरमधियैकीभावादद्वैतज्ञानं स्वाद्वते पर्यवस्यतीति वचनमपि पराहतम्। तद्गदसिद्धिविरोधिभेदाभावविरहरूपत्वस्यैव घटपटमेदोपपाद कतावच्छेद कत्वेन तस्यार्थापत्तिसाधारण्यादर्थापत्तिभेदोपि प्रकृतार्थापत्त्या गृहीत इति तत्सिद्धतवादपि भेद- निषेधस्यायोगात्। यथाहि घटपटमेदज्ञानस्या्द्वनज्ञानेन भेदाभावे घटादिभेदसिद्धिन भवति, तथाऽर्थीपत्तेर द्वैतज्ञानात् भेदा- भावेऽप्युक्तरीत्या घटपटभेदसिद्धिर्न भवर्ताति युक्तमुत्पादकतावच्छेदकम्याथापत्तिसाधारण्यम्। अत्यन्तासत्यपि ह्यर्थ ज्ञानं शब्द: करोति हीति वचनेनात्यन्तासत्यपि शाब्दज्ञानसंभवग्रतिपादनेनायोग्यतानिश्वयस्य शाब्दधीप्रतिवन्धकत्वाभावेऽपपि तदप्रामाण्यहेतुत्वेनायोग्यतानिश्येन ब्रह्मणि सर्वाभेदवुद्वेरप्रामाण्यशङ्गाकलद्कितायाः सकृदेव कथमप्यनुदयात् सर्वाद्वैतपर्यं- वसानस्य क्रमिकताया एवाङ्गीकरणीयत्वेन शब्दवुद्धिकमणामिति न्यायविरोधादपि न सवीद्वैने पर्यवसानम्। यथा प्रत्यक्षा- दिना गृहीतमेदे घटादौ प्रथममद्वैतश्रुतेरप्रवृत्तिः, किंतु चरमज्ञान एव, तथा सत्यादिवाक्यः मानान्तरेण च गृहीतसत्वे ब्रह्म- घटादो "इदं वा अथ्रे नैव किंचनासीदि"ति वाक्यस्य न प्रवृत्िः, किंतु मानान्तरेण गृहीतसतके घटादों, ततस्तु सर्वासत्वे पर्यवसानमित्यापत्या मृद इव ब्रह्मणः परिणामिलाभावेनोपादानत्वाभावेनोपादानोपादेयभावेन सामानाधिकरण्योपपत्त्यसंभ-
Page 228
[एकमेवे० विचार:] गौडत्रह्मानन्दीयुता। ५२३
अथ एकमेवेत्यादिश्रुत्यर्थविचारः। नतु-यद्यपि 'सलिल एको द्रष्टा अद्वैत' इत्यत्र सलिलशव्दस्य तत्सादृश्यात् स्वच्छत्वमात्रपरत्वात् तस्य च सर्वमलासंसर्गित्वस्वरूपस्याद्वतेऽप्युपपत्तः 'सदेव सोम्येदमन्र आसी'दित्यत्र चाग्रपदस्य 'तदैक्षत नामरूपे व्याकरो दित्यादेश्च कालेक्षणनामरूपात्मकप्रपश्चप्रापकस्याविद्यकद्वैतविषयकत्वेन वास्तवाद्वैतविरोधित्वाभावः तथापि 'सदेव सोम्येदमग्र आसी'दित्यनेन इदंशब्दोदितस्य विश्वस्य सदभेदेन सत्त्वमुक्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः, न हि 'सदासी' दित्यस्यासदासीदित्यर्थ
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सलिलशब्दस्य सलिलवाचकशब्दस्य। तेन तत्सादृश्यादित्यत्र तच्छबदस्य प्रक्रान्तसलिलबोधकरवम्। स्वच्छ- त्वेति। सलिलवत् स्वच्छ इनि वृहदारण्यकभाव्ये व्याख्यानात् स्वच्छबोधकं सलिलपदम्। तस्य जलवाचकरवेन मपुंसकत्वेऽपि स्वच्छबोधकत्वे वाच्यलिङ्गतवात् पुंसत्वम्। सलिलमिवाचरतीत्याचारार्थक्विप्प्रत्ययान्तात् पचाद्यय्प्रस्यय- संभवात्, 'सर्वप्रातिपदिकेभ्यः क्विप्' इत्याचाराथे क्तिप्प्रत्ययानुशासनात्। सलिलवदाचारश्र सर्वमलासंसर्गित्वम्। यत्तु 'आपो वा इदमासन् सलिलमेवे' त्यादिश्रुतेः सृष्टिपूर्वकाल अद्वितीयो द्रष्टा परमात्मा सलिले भवतीत्यर्थ :- इति। तन्न; उक्तवाक्यस्य त्वंपदार्थबोधकप्रकरणस्थत्वेनोक्तार्थस्यानन्वयात्। नच-द्वैताद्वैतयोर्भिन्नसत्ताकरवेनावि- रोधित्वेऽपि द्वितीयाभावोपलक्षितव्रह्मज्ञानस्य द्वितीयविशिष्टव्रह्मविपयकत्वासंभव इति-वाच्यम्; पारमार्थिकत्वेन यो द्वेताभावः, तदुपलक्षितब्रह्मज्ञानस्य तत्संभवात्, द्वतमूलोच्छेदकस्यैव द्वैतविशिष्टव्रह्मविषयकत्वासंभवाघ्य। सदमेदे- नेत्यादि। सदभेदविशिष्टप्नपञ्च आसीदित्यर्थ प्रतिपाद्येत्यर्थः। तन्निषेधे व्याघातः सत्वस्य प्रपञ्चे प्रतीतस्य व्याघासः। ननु सदभिन्नस्य सत्वमिवाद्विनीयत्वं न विरुद्धम्; सदात्मनोभयोः संभवात्, तलाह-नहीत्यादि। सदूपमात्रस्य न वेन सर्वाद्वैनं न सर्वेमिध्यात्मपम्। जलाभेदबोधनद्वारा वाध्यवाधकैक्यस्येव बोधनेन जलभेदज्ञानेन विमतं जलामिन्नमिति ज्ञानवाधासंभवापत्या प्रत्यक्षगृहीतभेदघटपटाद्यभेद्म्यैक्यज्ञानेन निषेधासंभवात् भेदाविद्यकत्वेऽप्याविद्यकत्वाक्गीकारे भेदता- लिकत्वे एव पर्यवसानेनाविद्यकभेदमादाय सर्वव्यवस्थोपपादनासंभवेन बन्धमोक्षव्यवहाराघुच्छेदापत्या च सर्वाभेदोऽपि न सर्वाद्वतशब्दार्थ इति नाद्वूततान्पर्यकत्वमागमानाम-इति प्रतिपादयन्ति॥ (४) लघुचन्द्रिकाकारास्तु- अतिरात्रादौ व्यक्ता भ्रमरूपाया ग्रहणप्रसक्तरिवात्रापि संशयरूपायाः भेदप्रसक्त्तेः संभवेनासंभवेऽपि नान्तरिक्ष इति वाक्ये स्नुत्युपपादकतयेवात्राप्यभेदोपपादकतया भेदनिषेधोपपत्त्या च प्रत्यक्षसिद्धस्यापि भेदस्य प्रत्यक्षप्रमात्वानिश्चयान्नि- षेध उपपन्न एवति अद्वैनतात्पर्यकलवमेवागमानाम्। चरमधीः ययोः भेदं गृक्णाति ताभ्यां तद्भेदेन च तस्या अभेदस्याप्यद्वै- तश्रुत्या वोधनेन ताहशभेदविषयकत्वेन वोद्गुमशक्यायाक्षरमधियोऽ्र्दवतश्रुतिबाधकत्वासंभवात्। एतेन-पूर्वपूर्वधीरपि- व्याख्याता: तस्या अपि सविपयस्वेतरभेदाद्यभिन्नतयाऽद्वतश्रुतिबाधकतवासंभवात् अद्वैतज्ञानोत्पत्तिक्षणभेदानुपमर्दकत्वेन तस्य द्वतस्य च तथा ग्रहीतुं शक्य लात्तादशज्ञानस्य च पूर्वेज्ञानचरमज्ञानादिबाधकतव संभवेन च नाद्वितश्रुतिबाधकत्वेनानुपपत्तिः, उक्तज्ञानानन्तरं सर्वद्वैनोपमदान्न द्वेतज्ञानसंभयः, पूर्वज्ञानानां तु सर्वभेदाविषयकलान्नाद्वैतज्ञानप्रतिबन्धकत्वमिति मन्तव्यम्। भेदग्राहकं यद्यत् ज्ञानं तत्र तत्र तत्तदन्यसर्वभिन्नत्स्याथापत्तिविपयलस्य वाच्यतया तत्र प्रत्यक्षार्थापत्त्याद्यनुगतधर्मे विना पक्षतया साध्यघटकतया वा तननिर्देशासंभवेन भेदग्राहकत्वेनानुगमेऽपि भेदग्रहकमिथोभेदस्यार्थापत्त्यविपयतया तेष्वेवाद्वैतश्रुतेः सावकाशलान्नार्थीपत्तिसिद्धोपि भेद इति मन्तव्यम्। तद्गेदसिद्धिविरोधिभेदाभावविरहरूपत्वमेवोपपादक- तावच्छेद कमित्यर्थापत्तिभेदोऽप्यर्थापत्तिविषय इति वचनमपि-एतेन-पराहतम्; कलहादिस्थले वाक्यार्थज्ञानस्यानाप्त- वाक्यजन्यत्वादिना भ्रमत्वेऽपि श्रीतज्ञानेSप्रामाण्यशङ्कानुदयादयोग्यतानिश्चयेऽपि सकृदेव सवोद्वितज्ञानसंभवान्न शब्दबु- द्धीति न्यायविरोध इति सवाद्वैत एव पर्यवसानम्। प्रत्यक्षादिगृहौंत घटादावलीकत्वरूपस्यासत्वस्य बाधान्मिथ्यात्रूपस्य तस्येष्टताच् सर्वासत्वपर्यवसानस्येष्टत्वेन, वस्तुतस्तु व्यक्तप्रपञ्चस्या्रकालावच्छदेन निषेधबोधकस्योक्तवचनस्य सर्वासत्वेऽप्र- माणत्वेन युष्मन्मते इदं रजतमिति सत्यानृतयोरिव सर्व व्रह्मति सामानाधिकरण्य स्यास्मन्मतेऽप्युपपत्त्याच सर्वमिथ्यात्वं सर्वा- द्वैतमिति युक्तमेव। आपोवेति नारायणीयोपनिषद्वाक्यस्य स्तुतिपरत्वॅनाभेदपरल्ाभावेन प्रत्यक्षदौर्बल्यात् सर्वस्य जलामे- दादप्रसक्तया भेदाविद्यकत्वाविद्यकतस्य मिथ्यालमिथ्यालस्यव सत्यत्ाप्रयोजकत्वेनाविद्यकभेदेन सर्वव्यवस्थोपपत्त्या च सरवाभेदो वाऽद्वैतशब्दार्थ इति सर्वमनवद्यमिति-विवेचयन्ति॥ इत्यद्वैतश्रुतेर्बाधोद्धारः।
Page 229
५२४ अद्वैतसिद्धिः । [परिच्छेद: १]
इति-चेन्न; सद्यतिरेकेण नासीदित्यर्थस्यैव निषेधार्थत्वात्। विवृतं चैतत् भाष्यकारादिभिरारम्भणा- धिकरणे। नच-सद्यतिरेकेणासत्त्वोक्तौ सदात्मना सत्यत्वमागच्छतीति-वाच्यम्; आगच्छतु नाम, को हि ब्रह्माभिन्नस्यासत्त्वसाधनाय प्रवृत्तो यो बिभीयात्। अद्वैतवाक्स्य च षड्विधतात्पर्यलिङ्गव- तया बलवत्त्वेनाविद्यकद्वैतप्रतिपादकत्वं सृष्ट्यादिवाक्यानामिति श्रवणस्वरूपनिरूपणे वेदान्तकल्प- ळतिकायामभिहितमस्माभिः । इहाप्यभिधास्यते षड्विधतात्पर्यलिङ्गानि प्रदर्शयन्दिः । अत एकवि- श्ञानेन सर्वविज्ञानप्रतिज्ञयोपक्रमात् 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसी'त्युपसंहाराच अद्वैतस्यैव महाप्राकरणिकतया तदनुसारेण तद्वाक्स्थपदानां व्याख्येयत्वावधारणात् नानार्थपदा- नामर्थान्तरोपस्थापकत्वसंभवेऽपि प्रकृतवाक्यार्थानन्वयितया तत्परित्यागेन प्रकृतवाक्यार्थानुकूल- पदार्थोपस्थितिपरत्वमेवास्थेयम्। तत्र न द्वितीयमद्वितीयमिति तत्पुरुषाभ्युपगमे न द्वितीयम्, किंतु प्रथमं तृतीयं चेत्यर्थः स्यात्, सचन संभवति; तयोरपि किंचिदपेक्ष्य द्वितीयत्वात्, अतो न विद्यते द्वितीयं यत्रेति बहुवीहिरेवादरणीयः। नच-एकेनैवाद्वितीयपदेन मेदत्रयनिषेधसंभवे एका- षधारणपद्योवैयर्थ्यमिति-वाच्यम्; विजातीयं किंचिदपेक्ष्य द्वितीयत्वावच्छिन्ननिषेधस्याद्वितीय-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। सर्वसुच्यते, किंतु सदभिन्नन्नपज्जस्य; तथाच तन्निपेधेनासत्वरूपमिथ्यात्वस्य तत्र लाभादासीदित्यनेन सश्वलाभा द्विरोध इति भावः। घटादिकं स्वोत्पत्तिपूर्व मृदेवासीदित्यादौ यथा घटाद्यभेदोपलक्षितमृदेवासीदित्यर्थ :र,र ता परृ सेऽपीदमभेदोपलक्षितसदेवाअ्र आसीदित्यर्थ इत्याशयेनाह-सद्यतिरेकेणेति। सदन्यरूपेणेत्यर्थः । सदन्यदिति शेष:। निषेधार्थत्वात् सदेवेत्येवकारार्थत्वात् अद्वितीयादिपदार्थत्वाञ्च। एवंच प्रपञ्चे सत्यसंबन्धो न बुद्धत इति नोक्तविरोध:, विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदार्थकत्वेन सदन्यसामान्येSप्रकालास्त्ववोधकतवमिति भावः। अस- श्वोक्तौ अग्रकालासखवोक्तौ अद्वितीयादिपदैः सदन्यसामान्यस्य निपेधोक्ती च। सदात्मना सदैक्येन। ब्रह्माभिन्नस्येति। ऋ्रहैक्यापन्नस्येत्यर्थः। ब्रह्मैक्यरूपेणेति याधत्। बिभीयादिति। ननु-अग्रकालासत्वस्याप्रकालीनाभावप्रतियोगित्वस्य वा सदन्यसामान्ये बोधनेऽपि न मिथ्यात्वसिद्धिः; व्याकृतप्रपज्जस्य स्वकाले सवसमानाधिकरणाभावप्रतियोगित्वासिद्धे :- इति चेन्न; उक्तासर्वप्रतियोगित्वयोः न प्रकृते धी:, किंत्विदमभिन्नं अग्रे यदासीत् तत् सदेव; एकमेवाद्वितीयमि- स्येवमुद्देश्यविधेयभावस्य विवक्षितत्वात् अग्रे विद्यमानमनूद्याखण्डसदृद्वितीयविधानात् अग्रकालविद्यमानरवोपलक्षिते वस्तुनि अखण्डसदृद्वितीयस्यैव धीः। तथाचावान्तरतात्पर्येण द्वितीयसामान्यस्य मिथ्यात्वधीः। एघंचाप्रादिपदानि न व्यर्थानि। शून्यवादिनो हि सृष्टिपूर्वकाले सद्वस्तु नाङ्गीकुर्षन्ति, तदङ्गीकुर्वन्तोऽपि तार्किकादयो नाद्वितीयमङ्गीकुर्षन्ति, तन्न सदित्यनेनाद्ानां निरासः। अद्वितीयादिपदस्तु द्वितीयानामिति साथक्यात्। नन्वतार्वकाद्वतमद्वैतवा- क्यस्य तारि्विकं द्वैतं द्वैतवाक्यस्यार्थोऽस्तु; द्वतवाक्यमध्यस्थस्याद्वैतवाक्यस्य उपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्य- स्येव स्तुत्यादिपरतया नेतुं शक्यत्वात्, तत्राह-अद्वैतवाक्यस्येति। आविद्यकेति। 'फलवत्सन्निधावफलं तदङ्' मिति न्यायेन द्वैतवाक्यानामद्वैतवाक्यशेषत्वात् निषेधापेक्षितप्राप्तिप्रयोजकतवादिनोपयोग इति भावः । पदानाम् अद्वितीयादिपदानाम्। प्रकृतेति। एकमेवाद्वितीयमितीत्यथः । वाक्यार्थति। अद्वितीयत्वाद्युपलक्षिता- खण्डब्रह्येत्यर्थः। प्रथमादिरूपस्याद्वितीयादिपदार्थस्य न केवलमखण्डवाक्यार्थविरोधित्वान्निरासः किंत्वसंभवादपी- स्याह-तत्रेत्यादि। द्वितीयत्वादिति। तयोः प्रथमत्वादिना नाद्वितीयपदबोध्यता, किंतु द्वितीयान्यत्वादिना; साच न संभवति; द्वितीयरवादिति भावः। भदत्रयेति। भेदभेद्यमात्रस्य द्वितीयत्वाद्द्वितीयपदेन दृश्यमात्रनिपेध- संभव इति भावः । अपेक्ष्येति । विजातीय द्वितीयत्वावच्छिन्नप्रतियोगिताकनिषेधोऽ्य इति भावः। सङ्कोचो द्विती- यपदस्य विजातीयद्वितीयपरखम्। एकावधारणद्वैतप्रतिपेधैरिति। एकपदेन एवकारेण अद्वितीयपदेन चेत्यर्थः । अत्राद्वितीयपदेन विजातीयद्वितीयनिषेधादर्थात्तादृशद्वितीयभेदो निपिध्यते। अथवा 'आात्मा वा इदमेक एवाग्र आसीत् नान्यत्किंचन मिष'दिति वाक्ये मिपदिति पदं आसीदित्यर्थकमित्यैतरेयभाप्ये व्याख्यानात् तदेकवाक्यतया प्रकृते द्वितीयपदस्यान्यार्थकत्वात् लक्षणायाश्चावश्यकत्वे द्वित्वसङ्गचापूरकत्वत्यागेनात्मान्यविजातीयत्वेन लक्षणाया एव युक्तत्वात् तादशत्वेनैकरूपेण निषेधे भेदस्य निषेधस्य च निपेधः सिद्धति; विशेपणस्य भेदस्यापि विशेष्यीभूतभेद्य- स्येव निषेधे बाधकाभावास्। एवमेकपदस्य केवलार्थकतया कैवल्यस्य च स्वान्यसर्वशून्यत्वरूपत्वेऽपि प्रकृते सक्कोचेन जीवेश्वरादिरूपं यदात्मान्यत् सजातीयं तच्छृन्यत्वरूपरवेन तद्वोधकत्वात् भेदनिषेधवोधकत्वम्। एवकारस्यान्यतादा- रमयव्यवच्छेदकत्वेऽपि प्रकृते संकोचेनात्मान्यस्यात्मविजातीयस्य पृथिव्यादेस्तादात्म्यव्यवच्छेदबोधकत्वम्। तथाच शाब्दएव मेदनिषेध:। एवंच भेदत्रयस्य पढत्रयेण निपेधोक्ति: प्रकृतश्रुतेः ब्रह्मभिन्नसर्वमिथ्यात्वे पर्यवसानोक्तिश्व न
Page 230
[एकमेवे० विचार:] गौडब्रह्मानन्दीयुता। ५२५
शब्दार्थत्वात्। अयं चात्र सक्कोचो बलीवर्दपद्सन्निधानात् गोपद इव सजातीयस्वगत मेदनिषेधकै- कावधारणपदसन्निघिप्रयुक्त एव । तटुक्तम्-'वृक्षस्य स्वगतो भेद: पत्रपुष्पफलादिभिः। वृक्षान्तरा- त्सजातीयो विजातीयः शिलादितः ॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते। एकावधारणद्वैतप्रति- पेधैस्त्रिभि: क्रमात् ॥' इति। स्वगतमेदः नानात्वरूपजीवेश्वरभेदः। सजातीयमेदोSत्र द्रव्यत्वादिना सजातीयपृथिव्यादिमेदः । विजातीयमेदो गुणादिमेदः। अथवा-जडभेदो विजातीयभेदः । चैतन्य- मेद: सजातीयमेदः। ज्ञानानन्दादिधर्ममेदः स्वगतमेदः। यदि च "अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वो न गर्दभ" इति महाभाष्यानुसारात् समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य, तदा अद्वितीयशब्दस्य सजातीय भेदनिषेधपरत्वम्; विजातीयस्वगतभेदनिषेधपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयम्। अथवा अद्वितीयपदेनैव मेदत्रयनिषेधः, एकावधारणपदे तु सङ्गोचशङ्गापरिहाराय। यन्तु केनचित् प्रलपितं-द्वितीयशब्द: सहायवाची; 'असिद्वितीयोऽनु- ससार पाण्डव'मिति प्रयोगात्, 'असिद्वितीयः असिसहायः' इति महाभाष्योक्तेश्च; तथाचाद्वितीय- मसहायमित्यर्थोऽस्तु, एवमेकशब्दस्यापि नानार्थत्वेनाविरुद्धार्थमादायोपपत्तौ न मिथ्यात्वपर्यवसा- यिताSSस्थेया। तथाच 'एके मुख्यान्यकेवला' इत्यमरः, 'एकशब्दोऽयमन्यप्रधानासहायसह्या- प्रथमसमानवाची'ति 'एको गोत्र'इति सूत्र कैयटः। 'ष्णान्ता पडि'ति सूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः, अस्ति सङ्वयार्थः, अस्त्यसहायवाची, अस्त्यन्यार्थ इत्यादि व्याख्यातवान्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। व्याहता। यदि तु भेदानामेव शाव्दो निपेधः भेद्यानां खवार्थ इत्युच्यते, तदा द्वितीयसामान्याभावे श्रुतेरवान्तरतार्प- र्यसङ्गतावपि भेदमात्रनिपेधपरतया सङ्कोचे मानाभावः; विजातीयादिभेद्यानामपि द्वितीयादिशव्दैर्बोधेन संभवादिति ध्येयम्। ननु पृथिव्यादिकं न श्रह्मसजातीयम्; ग्रह्मणो द्रव्यत्वास्वीकारपक्षे तत्त्वासंभवात्तव्राह-अथवेति। चैतन्य- भेद इति। स्वभिज्नत्वे सति चिदात्मकतवं साजात्यं जीवादौ वर्तते। तेन तन्निष्टभेदः सजानीयभेदः। स च ब्रह्मण्यपि प्रसक :; ब्रह्मणः सर्वानुगतत्वात्, अतः तस्य निषेध इति भावः। स्वगत इति। ज्ञानानन्दादिस्वरूपे ब्रह्मधर्मस्यारोपि- तत्वात्तद्ृतो भेद: स्वगतभेदः। यदि चेत्यनेनास्वारस्यं सूचितं, तदुच्यते-व्यावर्तकपदान्तरयुक्तस्य यद्धर्मविशिष्टवाच- कपदस्य सन्निहितं द्विनीयपदं तन्दर्मविशिष्टद्वितीयमभिघत्ते। तथाचास्य गोर्द्वितीय इत्यादौ व्यावर्तकेनास्येति पदेन युक्तस्य गोपदस्य सन्निहितेन द्वितीयपदेन गोरूपद्वितीयबोधनेऽपि प्रकृते व्यावर्तकपदान्तराभावान्न सजातीयद्वितीयबोध- कत्वम्। अतण्व 'द्वितीयगामी न हिशब्द एष नः' इत्यादो द्वितीयसामान्यबोधकतवम्। सजातीयव्यक्त्यन्तराभावादपि न सजातीयद्वितीयपरत्वम्। यदर्मविशिष्टविषयकयोधे तारपर्य तद्धमेणव हि साजात्यं वाच्यम्, नच प्रकृते किंचिद्धर्म- विशिष्टबोधपरत्वम्; अखण्डधीपरखात् इति। अथवेत्यादि। जीवेशादेरिव प्रपञ्चस्यापि कल्पितचिदाश्मकत्वमादाथ सजातीयत्वसंभवः, चित्स्वरूपर्वं तृ न जीवादेः; उपहितादिरूपेण मिथ्यात्वात्, एवं ज्ञानानन्दावेरपि सजातीयत्वम्; कल्पितभेदचिदात्मकतवयोः सत्वात्। तथाच सजातीय निष्टमेदोपहितरूपेण ज्ञानानन्दादेजडानां च निपेधसंभवात् रूपान्तरेण स व्यर्थः । किंच सजातीयघह्मान्यत्वादिरूपेण पदत्रयस्य लक्षणव वाच्या; 'द्वितीयगामी' त्यादौ स्वान्य- स्वेन लघुरूपेणापि प्रयोगस्यामाक्तस्य सत्चेनोक्तगुरुरूपेण शक्त्यसंभवात्। तथाच द्वितीयपदस्य स्वान्यसामान्यवो- धकत्वस्य मुख्यवृत्त्यैव संभवादृद्वितीयपदस्येव द्वितीयसामान्यनिपेधपरत्वसंभवेन पदान्तरं तस् तत्परत्व्ग्राहकमिति युक्तम्। नच-अद्वितीयपदस्यैव पदान्तरतत्परत्वग्राहकतवं किं न स्यादिति-वाच्यम्। तथासत्यक्षरत्रथात्मक- द्वितीयपदनञ्पदयोः स्वार्थपरत्वाभावकल्पनस्यान्याय्यस्यापत्तेः। नच-एकावधारणपदयोरद्वितीयपदात् प्राथम्यमेव स्वार्थपरत्वे नियामकमुपक्मन्यायादिति-वाच्यम्; द्वितीयपदनन्पदयोरेकादिपदयोरेकैकापेक्षया भूयस्तवेन तयोरेव स्वार्थपरत्वस्यौचित्यात्, 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्व' मिति न्यायस्योपकमन्यायापवा दकत्वात्, अद्वयानन्दविज्ञानघन एमाहमस्मीत्यादिश्रुत्यम्तरे अद्वयपदस्यैव मुख्यत्वाच्चेति भावः। अन्यप्रधानेत्यादि। 'प्रजामेका रक्षत्यूर्जमेका' इत्यादावम्यार्थः । 'एकपुरुपो धनुष्मा'नित्यादौ प्रधानार्थः। एकहल्मध्येऽनादेशादेरि- त्यादावसहायार्थः, एको द्वावित्यादी सङ्गथार्थः, एकेऽल्पप्राणा इत्यादौ प्रथमार्थः, अल्पप्राणा लघुप्रयत्नोच्चार- णीयवर्णाः। तेनैकदिक इत्यादौ समानार्थः, 'एतावेकधना' वित्यादौ साधारणार्थोऽपी'ति पदमञ्जरी। ष्णान्ते- त्यादि। अष्टानामित्यत्र 'अष्टन आ विभक्त्ता'वित्यनेनातवे कृते नान्तत्वाभावात् पटसंज्ञा न स्यात्; ततश्र षद्चतुर्भ्यश्रे- त्यनेन नुमपि न स्यादित्याशक्क्य पट्संज्ञायामुपदेशवचनं शताध्ष्टनाद्यर्थमिति समाधाय, अथवा पकारनकारान्ता सङ्कया पट्ूसंज्ञकेत्यर्थ इति समाधानान्तरमुक््वा, तहि एकास्ता इत्यादौ 'पड्रभ्यो लुगि'ति लुकू स्यादित्याशश्य एक-
Page 231
५२६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
तथा च जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु। एवमन्यान्यपि श्रुतिपदानि व्याख्ये- यानि-इति, तत् पूर्वाक्तयुक्तिभिरपास्तम्। विस्तरेण च वक्ष्यते तात्पर्यनिरूपणे। तदेवं सद्रूपे ब्रह्मणि पदत्रयेण भेदत्रयनिषेधात् तन्भ्रिन्नमिथ्यात्वे पर्यवसितं 'एकमेवाद्वितीय'मिति वाक्यम्। एवमन्या अपि श्रुतयः स्मृतयश्च ग्रन्थविस्तरभयान्नोदाहताः। स्वयमेव सूरिभिराकरे द्रष्टव्याः॥ इत्यद्वैतसिद्धा सर्वाद्वैतश्रुतेः अद्वैततात्पर्यकत्वनिर्णयः। गौडव्रह्मानन्दी (लघुचन्द्रिका)। शब्दोऽयं नानार्थ इत्याद्युक्त्वा योऽन्यार्थे वर्तते तस्यैवायं प्रयोग इति समाहितम् । प्राधान्यं चेति। यद्यपि प्राथम्यादिकमपि तदर्थ इति परेणाशङ्गितम्; तथापि सर्वकार्यमूलकारणत्वबोधकपदेभ्योऽपि तल्लाभादविद्यादष्टादिस- हायापेक्षत्वेनासहायत्वासंभवात् अद्वितीयत्वविरोधिनः सङ्गवादेरभावात् एकवचनेनैव प्राप्तिसंभवाच्च सर्वलीला- विग्रहाणां नानाविधतत्तत्कार्यकारित्वेन कार्यतः साम्याभावात् सर्वशरीरावच्छिन्नेशव्यक्तेरेकत्वेनैव गुणतः साम्या- भावात् तद्जित्नत्वे सति त्गुणजातीयगुणवत्वस्यैव गुणतः साम्यत्वात्। असहायत्वं केवल्यम्, नच्च एकहल्मध्ये इत्यादौ संकोचमानबलात् स्वरेतरायुक्तत्वादिरूपम्। प्रकृते संकोचकाभावात् स्वान्यसामान्यशन्यत्वमेवेनि तदर्थ- कमेकपदमस्मदिष्टम्, प्राथम्यं तु प्राधान्यमेव । यन्तु-तेनकदिगिति सूत्रे सुदाम्ना पर्वतेन सहका समानादि- गस्या इति सौदामिनीत्युक्त्या समानार्थकत्वकल्पनम्, तन्न युक्तम्; एकजातीयत्वेन समाने गौणप्रयोगसंभवात्। एकधनावित्यादावपि एकजातीययथेष्टविनियोगार्हत्वेन गोणः । तथा च सुदाम्नः सदशदिक्सौदामिनी सुदामा- ख्यपर्वतयुक्त्तदिक्सदृशदिग्युक्तेति यावत्। चैत्रमैत्रौ सदृशधनी चैत्रो मैन्रीययथेष्ट्रविनियोगार्हधने यथेष्टविनियोक्तेति यावत्। अत एवामर: प्रथमाद्यर्थ नोक्तवान्, इत्यतश्चान्यत्वं प्राधान्यं चेति द्वयमेवाचायैरुक्म्। तदुभयमप्यद्वितीय- पदविरुद्धत्वेन यद्यपि सङ्खयातुत्यम्; तथापि एकवचनात् सा प्राप्ता। तत्तु सष्टृत्वाढिना प्राप्तमपि न शव्दादित्यतः सा नोक्ता। एवमन्यानीति। नेह नानेत्यादीनि प्रपञ्चे ब्रह्मणः पृथग्भावनिपेधकानि। अथवा 'महान्तं विभु'मित्यादि- नोक्तानां धर्मादीनां ब्रह्मणि नानात्वेन निषेधकानि। विभुत्वादिधर्मादिकं ब्रह्मणि नानासन्नास्तीत्यर्थः। पूवाक्तति। अद्वैतब्रह्मणः प्राकरणिकतया तदनुसारेण नानाभूतस्य किंचनेनि पद़ोपस्थापितस्य दृश्यमात्रस्य निषेधाचित्यात, अन्यथा विभुत्वादिधर्मादीनां निपेधे किंचनेत्यस्य संकोचापत्तेः। ब्रह्मपार्थक्यस्य प्रपञ्चे निषधस्तु न युक्त :; नानापदेन पार्थ- क्योक्ा किंचन पार्थक्यं ब्रह्मणि नास्तीत्येव निषेधः स्यात; प्रपञ्चस्याधिकरणत्वबोधकपदाभावात्। नच-अस्तूक्त- निषेध एवोक्तवाक्यार्थ इति-वाच्यम्; कठवल्यां तादृशवाक्यपूर्व यढवेह तदमुत्रेत्यनेन तसय सिद्धत्वात्। अथ- यदेवेत्युक्तप्रपञ्चमात्रं नेह नानेत्यत्रेहशव्देनोच्यते। तथाच तत्र ब्रह्मणः पार्थक्यं नििध्यने, यदेवेहे त्यत्रेव नेह नाना इृत्यत्े- हशब्दन ब्रह्मण उक्तत्वादिति-चेन्न्न्; इहशब्दस्य हि पूर्वोक्तहशब्दसमानार्थकन्धे प्रपञ्जमात्रं वदेदतोऽमुत्रेत्यप्युच्येत, यदवेहेत्यत्र विद्यमानेन इहशब्देन तु ब्रह्मणो न पार्थक्ये प्रतियोगित्वेनोपस्थितिः; तथाच प्रतियोगिविशेपानुपादानात् पा्थक्यसामान्यस्यैव निपेधादस्मदिष्टसिद्धिः, किचनेति पदवैयर्थ्य च। ननु-गुणगुणिभावावयवावयविभावादिप्- युकं यद्यत् ब्रह्मणः प्रपञ्चे पार्थक्यं, तत् किमपि प्रपञ्चे नास्तीत्यर्थलाभार्थकत्वेन तत्सार्थकमिनि-चेन्नः नानाशव्दस स्वार्थिकनानाप्रत्ययान्तन्शब्दत्वेन निपातत्वात तदर्थ पार्थक्ये किंचनेति शब्दार्थस्याभेदान्वयाभावात्। विस्तरस्तु बृहच्चन्द्रिकायां द्रष्टव्यः ॥ इति लघुचन्द्रिकायां एकमेवेत्यादिश्ुत्यर्थनिर्णयः।
अथ एकमेवेत्यादिश्ुत्यर्थविचारः । (१) तत्र न्यायामृतकारा :- एकमेवेत्यादिश्रुतीनामपि नाद्वैतपरत्म्; "सलिल एको द्रष्टऽद्वितीयो भवती"त्यत्न सलिलपदेन "सदेव सोम्येदमग्र आसीदि"त्यत्नाग्रपदेन "तरदेक्षत नामरूपे व्याकरवाणी'त्युत्तरद्वतवाश्यन च विरोधात्। प्रामाण्यस्य स्वतस्त्वेना्द्वितवाक्येने- वाद्वैतस्य द्वैतवाक्येन द्वैनस्यापि सत्यत्ात् अविरोधार्थ लक्षणादिना द्वतवाक्यानामप्यद्वैतपरत्वं अतातिवकविषयकत्वं वा तु कल्पयिनुं न युक्तम: अपच्छेदन्यायनिरासेनानिरासेऽपि उत्तरद्वैतवाक्यवत्सर्वस्याप्यसंजातविरोधन्यायेनाबाधाच्च विपरी- तकल्पनापत्तेः। अनुवादकत्वंन द्वेतवाक्यदौर्बल्यं तुन संभवति; सलिलसृष्टिकालेक्षणादीनां मानान्तराप्राप्तत्वंनाननुवादक- लात्। सदभेदेन पूर्व सत्मुक्ला पुनः द्वितीयपदेन निषेधे व्याघाताच्च नाद्वतसिद्धिः। एवंच एकमेवेतिश्रुतिः नाद्वूते प्रमा-
नेश्वरस्य सृ्वादाँ सहायानपेक्षत्वं कुसमयप्राप्तनिगुंणलनिषेधं चैव ज्ञापयतीति न तेन प्रपञ्चमिथ्यालसिद्धिः। वृक्षस्य
Page 232
[एकमेवे० विचार:] गौडब्रह्मानन्दीयुता। ५२७
स्वगतो मेदः पत्रपुष्पफलादिभिः व्रक्षान्तरात् सजातीयो विजानीयः शिलादिभिः । तथा सद्वस्तुनो मेदत्रयं प्राप्तं निवार्यते। ऐक्यावधारणद्वैतप्रतिषेधैः त्रिभिः क्रमात् इति सवगतभेदपरस्यैकशब्दस्य मिथ्यात्समर्पकत्वासंभवाच। एतेन-अद्वितीय- पदमपि-व्याख्यातम्; तथाहि-किमयं कर्मधारयः, उत बहुव्रीहिः, आद्ये ब्रह्मतृतीयतवप्रथमतयोरापत्तिः, द्वितीये प्राथम्येन कर्मधारये संभवति न जघन्यबहुव्रीहिप्रयोगः, नापेयं वृणीते इत्यादाविव पर्युदासार्थत्वे संभवति वाक्यमेदापादक- प्रसज्य प्रतिषेधाश्रयायोगात अघटं भूतलमित्यादाविव बहुव्रीहिविवक्षया वाक्यभेदपरिहारेऽपि द्वितीयाभावनिषेधे व्याघाताप- त्त्याऽनिषेध्येन तेनैव सद्वितीयत्ापातश्र। किंच अद्वितीयपदेन सजातीयात्यन्ताभावविवक्षायां अग्र इत्यस्यासङ्गतिः, प्राग- भावोक्तौ मिथ्यालासिद्धिः। एवंच द्वितीयशब्दस्यासिद्वितीयोऽनुससार इत्यादाविव सहायपरत्वस्य वा, अस्यगोर्द्वितीयोऽन्वे- ष्टव्य इयुक्ते सदशो गौरेवोपादीयते नाश्वो न गर्दभः इति गुहाधिकरणभवद्भाष्यानुसारेण समे द्वितीयशब्द इत्यादिस्मृत्यनु- सारेण च प्रकृतसमानपरत्वस्यववाज्जीकरणीयत्वेनाद्विनीयपदेन न सर्वनिषेधसंभव इति तदपि न मिथ्यातवसमपकम्। तथाच ज्ञानानन्दाद्यभिन्नत्वादेक: सर्वोत्तमवनः । अद्वितीयो महाविष्णुः पूर्णतात् पुरुपः स्मृतः । मेदाभेदनिवृत्त्यर्थमेव शब्दोऽव- वारय इति स्मृत्यनुसारेण "एक एवाद्विनीयोऽसावाकाशे सवितेतिवत्। एकमेवाद्वितीयं सदग्रे इत्यपि योज्यताम्। अधिकं हि विजातीयं सजानीयं समं भवत्। गुणादिकं तु खगनं तद्गेदोऽत्र निपि्ध्ते" इति न कथमप्यद्वैततात्पयकत्वमेकमेवेति श्रुतेरिति सिद्धम्। एतेन-"नहऽनानासि किंचने"ति श्रुनिरपि-व्याख्याता;"वाक्यशेषस्थधर्माख्ये विशेषे पर्यवस्यति। किंचनेति हि शब्दोयं अक्ताशव्दो घृते यथा"। इति व्रह्मणि नानावर्मनिषेधस्य नानात्वनिषेध एव पर्यवसानात्। एवंच नानाशव्दग्य विनार्थकत्वेन पृथक्भावनिषेधस्यापृथग्भावे पर्यवसानान्नास्माकं अनिष्टमिति नादूते नेह नानेति श्रुतेरपि तात्पर्यम्। एवमन्यासामपीति मन्नव्यमिति-वर्णयन्ति। अत्र द्वैनाद्वतवाक्यानि सर्वा्यपि स्पष्टतया ब्रह्मसूत्रभाष्योपोद्वात एव तस्तन्मतप्रक्रियानुसारेण व्याख्यातानीति तत एव द्रष्व्यम्। (२) अद्वैतसिद्धिकारास्तु- सलिलशब्दार्थम्य सर्वमलासंसगितरूपस्याग्रपदस्य तदेक्षत नामरूपे इत्येतदर्थस्याविद्यकद्वैतरूपस्य चाद्वैताविरोधितान् सद्यतिरेकासत्वम्यैत विवक्षणेन रादेवेदमिति वाक्यन रदभिन्नत्वेन सत्वेन बोधितस्यापि अद्विनीयपदेन निषेधोपपतः
काद्वनपरतयवकमिति श्रुतिः व्या्ययेति अद्विनीयादिपदानां सर्वनिषेधादिपरतया व्याख्यानमेव युक्तम्। तृतीयप्रथमयोरपि किंचिदपेक्ष्य द्विनीयत्वेन अद्वितीयपदे तत्पुरुषाश्रयणायोगेन न विद्यते द्वितीयं यत्रेति बहुत्रीहेरेव युक्तत्वात् द्विनीयपदस्य समानद्विनीयपरत्वेऽप न दोपः; सजातीयद्वितीय भेदस्येव तेन विवक्षणात्। वस्तुतस्तु-अद्विनीयपदेनव सर्वनिषेधादे- कावधारणपद तात्पर्यग्राहके एवति न दोपः। एतेन-एकपदमपि-व्याख्यातम्; सहायादिपरत्वं तु नात्र युक्त्तम्;
(३) तरङ्गिणीकारास्तु- पलगतौ इति धातोरौणादिके इलचि निष्पन्नस्य सलिलशब्दस्य नपुंसकत्वेन जले एव प्रसिद्धस्यासंरागिंपरत्वे लक्षणापत्य इष्टापत्तावपि किंस्िद्ग्मे प्रथम दभ्न आपः तमिद्गभ प्रथमं दभन आप इति थ्रुतों आप एवेदमग्रे आसुरिति श्रुनौ अप्रकेतं सलिलं सर्चमा इदमित्यादिश्रुता च सलिलादिपदप्रयोगस्य संदेवेत्यादावग्रादिपदस्य कथमप्यनुपपत्त्या च सलिलादिसत्ताबोधकद्वैतवा- क्यानुसारेणत "वश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते" इत्युपक्रान्ताया वैश्वानरेष्टेः यस्मिन् जात एतामिष्टिमित्युपसं- हॉरकवाक्यतानुसारेणेव तन्मध्यपतिताष्टाकपालादिवाक्यानामं्द्वेनवाक्यानां नेयत्वेन द्वैतेऽपि अपूर्वतादितात्पर्यलिन्वसत्वेन- चाद्वितीयादिपदानां न्यायामृतोक्तरीत्त्या व्याख्यानमेव युक्तमिति नाद्वैततात्पर्यकत्वमेकमेवेति श्रुतेः नेह नानेति थ्रुतेर्वेति- प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- जलवाचकत्वेन नपुंसकस्यापि सलिलशब्दस्याचार किबन्तत्वविवक्षया पुंस्त्ासंसर्गितबोधकत्वयोरुपपत्त्या आपोवा इदमा- सन् सलिलमेवेत्यादिवाक्यानां त्वंपदार्थशेधकानां सृष्टिकाले परमात्मा सलिले आसीदित्येतदर्थपरत्ानुपपत्त्याच सलिलपद- स्य घटादिकं स्वोत्पत्तिपूर्व मृदेवासीदित्यादो यथा घटादभेदोपलक्षितमृदेवासीदित्यर्थः तथेदमभेदोपलक्षितसदेवासीदित्य- रथस्यैवात्र विवक्षणेनापकालविद्यमानत्ोपलक्षिते वस्तुनि अखण्डसद्वितीयतस्ैव विधानेन शून्यवादादिनिराकरणार्थतवेना- आदिपदानां चोपपत्त्या षड्डिधतात्पर्यलिन्ोपेताद्वतश्रुतिसन्निधो पठितं द्वैतवाक्यं फलवत्सन्निधावफलं तदङ्गमिति न्यायेनाद्वैत- वाक्यापेक्षित निषेध्यसमर्पकमित्येव वर्णनीयमिति व्यावर्तकपदान्तरविशिष्टस्य यद्धमविशिष्टवाचकपदस्य सन्निहितं द्वितीयपदं तद्धर्मविशिष्टद्वितीयाभिधानस्वभावस्य द्वितीयपदस्यास्य गोरित्यादावस्येतिपदस्येव प्रकृते व्यावर्तकपदान्तराभावात् द्वितीय-
Page 233
५२८ अप्वैतसिद्धि:। परिण्छेद: १ ]
अथ ज्ञाननिवर्त्यत्वान्यथानुपपसतिः। 'तरति शोकमात्मवित्' 'तथा विद्वानामरूपाद्विमुक्तः' 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशथाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥' इत्यादिश्रुतिस्मृतिबोधितज्ञाननिवर्त्यत्वान्यथानुपपत्ति- रमि बन्धमिथ्यात्वे प्रमाणम्; सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः। तथाहि-शुक्तिरूप्यरज्जुसर्पादौ ज्ञाननिवर्त्यत्वे न तावत्तसद्रूपवत्त्वं ज्ञाननिवर्त्यतावच्छेदकम्; अननुगमात्, किंतु सर्वानुगतं मिथ्यात्वमेवाज्ञानकल्पितत्वापर पर्यायमवच्छेदकम्; एवं ज्ञानस्यापि तन्निवर्तकत्वे न शुक्त्यादिविष- यत्वमवच्छेदकम्; अननुगमात्, किंतु सर्वानुगतमघिष्ठानप्रमात्वमेव। तथाच यत्र ज्ञानस्याधिष्ठा- नप्रमात्वेन निवर्तकता, तत्र मिथ्यात्वेनैय निवर्त्यतेति नियमः सिध्यति। पतादृशनियमानभ्युपगमे- चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः। तथाहि-यन्निष्ठा यदाकारा प्रमारूपान्तःकरणवृत्ति- रुदेति, तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात्, उपादाननाशस्य चोपादेयनिवर्तक स्वात् शुक्त्यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तराकल्पनेन लाघवमनुकूलस्तर्कों Sस्मत्पक्षे। अज्ञानोपादेयत्वं च शुक्तिरजतादीनामन्वयव्यति- रेकसिद्धमग्रे स्थास्यति। एवं स्थिते कृत्सस्यापि प्रपञ्चस्यात्मप्रमानिवर्त्यत्वे तदक्षानकल्पितत्वमेव तत्रावच्छेदकं कल्प्यते, नत्वननुगतमाकाशत्वादि; न वा ब्रह्ममिन्नत्वं सद्भिन्नत्वं वा सर्वानुगतमपि;
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तरति अत्यन्तमुच्छिनसि। शोकं भीतिहेतुं द्वैतमिति यावत्। मिद्यते नाश्यते। हृदयग्रन्थि: भहङ्कारः। छिद्यन्ते कारणोष्छेदादुच्छिद्यम्ते। श्रुतिबोधितेति। 'धातुसंबण्धे प्रत्यया' इत्यनुशासनाउज्ञाननिव्त्यत्त्रं श्रुतिधो- धितम्; जन्यजनकभावसंबन्धस्यैव निवृत्तिज्ञानयोबोधात्। अथवा यत आरमविद्तस्तरतीति श्रुत्यर्थ इति भावः । बन्धमिथ्यात्वे दृश्यमात्रमिष्याथ्ये। अघिष्ठानप्रमात्वमिति। मिथ्यानिष्टप्रतियोगितासंबन्धेन नाशं प्रति स्वसमा- नविषयकाज्ञानतत्प्रयुक्तान्यतरत्वसंबन्धेन प्रमात्वेन हेतुतेति भावः। ननु-दश्यनिष्ठप्रतियोगितासंबन्धेन नाशं प्रति प्रमात्वेन हेतुत्वमस्तु। यन्निष्टेत्यादिवक्ष्यमाणनियममूलीभूतहेतुत्वानां मयापि स्वीकारान्न घटादिप्रमया पटादज्ञानना- शः। तथाचाकाशादेरज्ञानानुपादानकतवेऽपि व्यावहारिकदृश्यनाशे मूलाज्ञाननिवृ सेहैतुख कल्पनादाका शादेरत्मज्ञान- निवर्स्यत्वस्य श्रौतस्योपपप्तिः। शुक्त्यादिप्रमापा अपि शुक्त्याद्यज्ञाननिवृत्तौ धुक्तिरूप्यादिनिवृत्ति प्रति विशिष्य हेतुत्वेम कृपायां ह्ेतुस्वम्, न तु शुक्तिरूप्याडेरज्ञानप्रयुक्त्ततवात् ज्ञाननाश्यतम् ; येन तत्र कृप्तसामान्यहेतुखनैवाकाशादिनाशा- सिद्धिः, शुक्तिरूप्यादेर्माध्वादिमते तुच्छत्वेनाज्ञानाप्रयुक्तत्वात्। एवं चाकाशादेरज्ञानप्रयुक्त्तत्वासिद्या मिथ्यात्वासिद्धि :- अत आह-एतादशनियमानभ्युपगम इति। नियमान्तराकल्पनेनेति। शुक्तिरूप्यादिनिवृत्तौ शुक्त्यज्ञाना- दिनाशस्य विशिष्य हेतुत्वकल्पनमूलकनियमाकल्पनेनेत्यर्थः । आत्मप्रमानिवर्त्यत्वे भात्मप्रमानग्येनात्माज्ञाननाशेन निवर्त्यत्वे। तदजानकल्पितत्वं तदज्ञानाप्रयुक्तत्वम्। सामान्यतो मिथ्याविशेषनिवर्तकरवाय यअ्िष्ठेत्याद्युक्तनियममूल- हेतुत्वविशेपस्येव प्रयोजकनाशस्य स्वविशिष्टे प्रयोज्यनाशे हेतुत्वस्यापि क्कृप्तत्वात् आतमाज्ञाननाशात् प्रपञ्चनाशनिर्वाहाय
कार्यस्य नाशात् स्वविशिष्टत्वप्रवेशः। निमित्तनाशोपादाननाशोभयसाधारण्येनैव हेतुत्वलाभायोपादानत्वादिकं विहाय प्रयोजकत्वनिवेशः । तच्च निमित्तोपादानसाधारणः अखण्डधर्मविशेषः। स्वप्रतियोगि्रयुक्तप्रतियोगिकत्वसंबन्धेन नाश- विशिष्टनाशं प्रति उत्तप्रयुक्तत्वसंबन्धेन नाशो हेनुः, प्रतियोगितासंबन्धेन कार्यत्वमिति भावः। तत्रावच्छेदक कल्प्यत इति। अवच्छेदकत्वेन कृप्तं तत्र कल्प्यत इत्यर्थः। आकाशत्वादीति। अनन्तकार्यकारणतवमूलकान-
गामी नहि शाब्द एव न इत्यादाविव द्वितीयसामान्यनिषेधस्यैवान्र विवक्षणीयत्वेन द्वितीयमिथ्यात्वं विनैकमेवेति श्रुत्यनु- पपत्त्या निपातार्थपार्थक्ये किंचनपदार्थान्वयासंभवात् संभवेऽपि प्रतियोगित्वेन कस्याप्यनुपस्थित्या पार्थक्यसामान्यस्यैवेह- शब्देन प्रपश्वंग्रहणे प्रपश्ने निषेधेनास्मदिष्टसिद्धा किंचनपदवैयर्थ्यात् तत्सार्थक्येऽपि यदेवेति पूर्ववाक्येनैवेहशब्देन ब्रह्म- णो ग्रहणे उक्तवाक्यार्थस्य त्रह्मणि किंचन पार्थक्यं नास्तीत्यस्य सिद्धोक्तवाक्यस्यैव वैयर्थ्यापाताच्च प्रपश्चविशिष्टे ब्रह्मणि प्रपश्च निषेधपर त्वेनवोपपत्त्या नेह नानास्ति किंचनेति श्रुतेरपि द्वितीयमिथ्यात एवोपपत्त्या च सिद्धिकारीयव्यवस्थैव समाद- रणीयेति-विवेचयन्ति॥ इति एकमेवेत्यादिश्ुत्यर्थविचार:।
Page 234
[ज्ञाननिवर्त्य० नुपपत्तिः] गौडब्रह्मानन्दीयुता। ५२९
तुच्छेऽतिपसक्ते:, तद्वारकविशेषणप्रक्षेपे तु सदसद्विलक्षणत्वरूपमिथ्यात्वमेव निवर्त्यताप्रयोजकं पर्यवसितम; अन्यथा नियमान्तरकल्पनागौरवापत्तेः । तथाच शुक्त्यादिज्ञानस्य येन रूपेण निवर्त- कत्वं, तेन रूपेणात्मज्ञानस्य निवर्तकत्वम्; रूप्यादौ येन रूपेण निवर्त्यत्वं, प्रपञ्चे तद्रूपं विनानुपपद्यमानं स्वोपपादकतया तत्र तत् कल्पयतीति सिद्धं मिथ्यात्वम्। ननु-भवेदेतदेवम्; यद्यात्मज्ञानस्य प्रपश्चे निवत्ये शुक्त्यादिज्ानसाधारणमधिष्ठानप्रमात्वमेवावच्छेदकमित्यत्र किंचिन्मानं भवेत्; रूपान्तरे- णापि निवर्तकत्वसंभवात्, श्रुतिस्तु द्वैतप्रपश्चस्याद्वितीयात्मज्ञानं निवर्तकमित्येतावन्मान्रे प्रमाणम्, नत्ववच्छेदकविशेषेऽपि । नच ज्ञाननिवर्त्यतामात्रान्मिथ्यात्वसिद्धि :; सेतुदर्शनादिनिवर्त्यदुरितादिषु व्यमिचारात्, तत्र विहितक्ियात्वादिना निवर्तकत्वान्न व्यभिचार इति चेत्, प्रकृतेपि रूपान्तरं नावच्छेदकमिति कुतो निरणायि? ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता, पूर्वशञाना- दिकं प्रति तु उत्तरविरोधिगुणत्वेन, संस्कारं प्रति फलत्वेन, रागादिकं प्रति विषयदोषदर्शनत्वेन, विषं प्रति गरुडध्यानत्वेन, सेत्वादिदर्शनस्य दुरितं प्रति विहितक्रियात्वेन, एवं च मिथ्यात्वं विनापि ज्ञाननिवर्त्यत्वदर्शनात् न तन्मिथ्यात्वम्य साधकम; उदाहृतेष्वपि सत्यत्वासंप्रतिपत्त्था मिथ्यात्व मेवास्तीति चेत्, अस्तु वा मास्तु; ज्ञाननिवर्त्यत्वमात्रं तु न तस्य साधकमिति ब्रूमः, हेत्वन्तरेण सिद्धाचैतदुपन्यासो व्यर्थः । शुक्तिरूप्यादौं कथमिति चेच्छ्रृणु; अधिष्ठानज्ञानत्वेन तत्र ज्ञानस्य निवर्तकत्वात्। अधिष्ठानज्ञानत्वं हि अज्ञाननाशकज्ञानत्वं वा, अज्ञानसमानविषयकप्रमात्वं वेति तेन रूपेण निवर्तकत्वे तन्नि्नवर्त्यस्य तज्ज्षानसमानविषयकाज्ानोपादानकत्वरूपमिथ्यात्वं सिद्धतीति युक्ततं शुक्त्यादिज्ञानसमानविषयकाज्ानोपादानकत्वेन रजतादेर्मिथ्यात्वम्, सेत्वादिदर्शनादिनिवर्त्यदुरि- तादेस्तु न निवर्तकज्ञानसमानविषयकाज्ञानोपादानकत्वमिति न मिथ्यात्वम्। एवंचात्मज्ञानस्यापि विहितक्रियात्वेन निवर्तकत्वसंभवात् अधिष्ठानज्ञानत्वेन च निवर्तकत्वे मानाभावात् नात्माश्ञानो- पादानकत्वरूपमिथ्यात्वसिद्धि: प्रपश्चस्येति-प्राप्तम्। अत्रोच्यते; आत्मज्ञानस्याप्यघिष्ठानज्ञानत्वेनैव
गौडव्रह्मानन्दी (लघुचन्द्रिका)। म्तनियमापत्तेरिति शेपः । तुच्छे इति। शुक्तिरूप्यादौ चेति शेपः । अतिप्रसक्तेरिति। तुच्छस्यानिवर्त्यत्वाच्छुक्ति- रूप्थादेमूलाज्ञाननाशानाश्यत्वादुक्तरूपं मूलाज्ञाननाशनाश्यत्वमतिप्रसक्तमिति भावः। निवर्त्यताप्रयोजकं प्रमाण- मान्ननिवर्त्यतावच्छेदकम् । अन्यथेति। सत्यत्वस्वीकारेणाज्ञानप्रयुक्तत्वमस्वीकृत्य मूलाज्ञाननाशं प्रति तरकालीनर- श्यत्वरूपेण व्यावहारिकदृटश्यत्वेन नाश्यतास्वीकार इत्यर्थः । नियमान्तरेति। उक्तनाश्यताकल्पनमूलकनियमेत्यर्थः। येन रूपेण निवर्तकत्वमिति। येन प्रमात्वेन धर्मेण थेन च स्वसमानविषयकाज्ञानतस्प्रयुक्त्तान्यतरत्वसंबन्धेन निवनकत्वं मिथ्यामान्ननिवर्तकत्वं येन प्रयोजकीभूताज्ञाननाशद्वारेण रूप्यादिनिवर्तकरवं चेत्यर्थः । येन रूपेण निव- रत्यत्वमिति। येन मिथ्यात्वेन प्रमासामान्यनिवर्त्यत्वं येनाज्ञानप्रयुक्ततचेनाज्ञाननाशनाश्यरवं चेत्यर्थः। तद्रूपं विनेति। उक्तसंबन्धं विना। तेन संबन्धेन निवर्तकत्वमनुपपन्नम्; उक्तद्वारं विना तद्दारेण निवर्तकत्वमनुपपननं मि- थ्यात्वं विना प्रमासामान्यनिवर्त्यत्वमज्ञानप्रयुक्तत्वं विना। तेन रूपेणोक्तनाश्यतवंचानुपपन्नमित्यर्थः । अधिष्ठान- प्रमात्वमेवेति। उक्तान्यतरसंबन्धेन प्रमात्वेन प्रयोजकीभूताज्ञाननाशद्वारा वा निवर्तकत्वं न प्रपञ्ञेऽस्ति; येन तत्रो- कसंबन्धो मिथ्यात्वं वा कल्प्यमिति भावः। दोपदर्शकत्वेनेति। रम्यत्वसंस्कार स्यारम्यतवरूपदोपसंस्कार एव नाशक :; विरोधिसंस्कारत्वात्, तद्वारोक्तदोपनिश्चयोऽपि तथेति भावः। एवास्तीति। असत्येवेत्यर्थः। तथाच मिथ्यात्वं विनेति यदुक्तं तदसिद्धमिति भावः । हेत्वन्तरेण दृश्यत्वादिना। अज्ञाननाशकेति। तदुपादानाज्ञानना- शकेत्यर्थः । तेन रूपेणति। तद्रूपव्याप्येत्यर्थः । यद्यपि विहितक्रियात्वेनेति परेणोक्तम्; तथापि प्रतियोगित्वादिनापि निवतकत्वशङ्कासंभवात्तामपि निरस्यति-तत्रेत्यादि। रूपत्वादिति। आकाशादेरधिकवृत्तित्वादिना नाज्ञानपाग- भावत्वमित्यपि बोध्यम्। ननु-ष्टिसृष्टिपक्षे आकाशादेः मनःपरिणामत्वात्तादालयेन पृथिव्याद्यसंबन्धित्वेनानधि- कवृत्तित्वात् ज्ञानप्रागभावत्वमस्तु; भावस्यापि तस्य स्वध्वंसरूपज्ञानप्रागभावत्वे बाधकाभावात्, तत्राह-ज्ञान- स्येति। असिद्धेरिति। ज्ञानस्य स्वनिवर्तकत्वासंभवोऽपि बोध्यः। जनकत्वाभावादिति। मनआदेर्जनकरवे- डप्यसंस्कारत्वान्। न हि जनकमान्रं फलनाश्यमिति शेषः । दोषदर्शनस्य बहुविधदुःखप्रयोजकत्वादिदर्शनस्य। आकरेषु समन्वयसूत्रभाध्यादिपु। अज्ञानमात्रहेतुकत्वेन अज्ञानात्मकमात्रपरिणामकरवेन। निवर्तकेति। निवृत्तिजनकेत्यर्थः । असंभावनादिरूपदोपाभावस्यात्मनिश्चयनिष्ठायां बन्धनिवर्तनशक्तौ व्याप्यतामात्रम्; प्रतिबन्ध- कस्य कारणनिष्ठशक्तिनाशकत्वात्, न तु जनकत्वम्। अदृष्टमपि न निवृत्तौ कारणम्; सुखदुःखतज्जनकेष्वेव तस्य अ. सि. ६७
Page 235
५३० अद्वैतसिद्धिः । [ परिच्छेद: १ ]
प्रपश्चं प्रति निवर्तकत्वम्, प्रकारान्तरासंभवात्। तथाहि-प्रतियोगित्वं तावभ्नावच्छेदकम्; प्रप- श्चस्य भावरूपत्वात्, ज्ञानस्य प्रागभावनिवृत्तिरूपत्वेन प्रतियोगित्वेन प्रागभावनिवर्तकत्वासिद्धेश्च। नाप्युत्तरगुणत्वम्; आकाशादेरात्मविशेषगुणत्वाभावात्, इच्छादेरपि प्रपश्चनिवर्तकत्वापाताच्च। नापि फलत्वम: संस्कारस्य स्मरणजनकत्ववदाकाशादेरात्मज्ञानजनकत्वाभावात्, संस्कारस्य स्मृत्यनाश्यत्वेनोदाहरणासिद्धेश्च। विषयदोषदर्शनस्य तु रागादिनिवर्तकत्वं रागादिकारणीभूत- बलवद्निष्टाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारणनिवर्तकत्वेनेति न प्रकृतोदाहरणादतिरिच्यते; शुक्तिरूप्यतुल्यत्वात्। गरुडध्यानं तु न प्रत्युदाहरणम्: ध्यानस्य रागादेरिव ज्ञानत्वानभ्युपगमात्, ज्ञानस्येच्छानधीनत्वेन तदधीनज्ञानापेक्षया वैलक्षण्यात्। स्पषं चैतदाकरे। ज्ञानत्वेऽपि तस्य सेतुदर्शनपक्षान्नातिरेक:ः शास्त्रविहितत्वाविशेषात्। केवलं सेत्वादिदर्शनवद्विहितक्रियात्वमवशि- व्यते। तञ्च न संभवति; ज्ञानस्य कर्तुमकर्तुमशक्यत्वेन विधेयत्वायोगात् । विस्तरेण च ज्ञाने विधिराकरेपु निराकृतः । निराकरिप्यते चेहापि। सेतुदर्शने कथमिति चेत्? विशिष्टाकारेण विधे- यत्वोपपत्तिः। न हि सेतुदर्शनमात्रस्य दुरितनाशकत्वम्: तत्रत्यम्लेच्छानामपि दुरितनाशप्रसङ्गात्, किंतु परराष्ट्रादुपस्थानादिपूर्वकवरतकलापविशिष्टस्यः तथाच छत्रपादुकादिवर्जनदोपोद्वोपणदूरदेश- गामित्वभिक्षाभोजित्वादिनियमानां कृतिसाध्यत्वात् तद्विशिष्टं सेतुदर्शनमपि कृतिसाध्यमिति विशिष्टरूपेण विधानोपपत्तिः। आत्मज्ञाने तु नास्ति किंचिद्विशंपणमपि कृतिसाध्यम्, येन तद्विशि- प्रत्वेनापि विधेयत्वं स्यात्: कर्मसमुञ्चयस्य निराकरिष्यमाणत्वात्, बन्धस्याज्ञानमात्रहेतुकत्वेन ज्ञानातिरिक्तनिवर्तकानपेक्षणाञ्च। बन्धस्याज्ञानहेतुकत्वं च 'मायां तु प्रकृति विद्यात्' 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्नवः' इत्यादिश्रुतिस्मृतिन्यायसिद्धम्। वक्ष्यते चाग्रे। अज्ञाननिवर्तकज्ञानस्य चोत्पत्तिमन्तरेणान्यापेक्षा नास्तीति शुक्त्यादिज्ञाने दष्टम्। तथाचोक्तं वार्तिककृन्भिः-'तत्त्वमस्या दिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविप्यति ॥' इति। 'प्रत्यग्या- थात्म्यधीरेव प्रत्यगज्ञानहानिकृत्। साचात्मोत्पत्तितो नान्यद्वान्तध्वस्तावपेक्षते ॥' इति च। अत एव 'यत्र हि द्वैतमिव भवति तदितर इतं पश्यति। यत्र त्वस्य सर्घमात्मैवाभूत्तत्केन कं पश्ये- दित्यादिश्रुतिः, 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' इत्यादिस्मृतिश्चाविद्यावस्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्श- यति। तस्मादधिष्ठानप्रमात्वेनात्मज्ञाननिवर्त्यत्वाच्छुक्तिरूप्यादिप्विव बन्धेऽपि मिथ्यात्वं सिद्धम्। यत्वीश्वरज्ञानेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम्। तन्न; ईश्वरज्ञानस्य तार्किकमतेऽपि उपादानगोचरापरेक्षज्ञानत्वेनव कारणत्वात्, अभावस्य च निरुपादानत्वात्, अभावं प्रति कारणत्वे मानाभावात्, सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः, अत्यन्ताभावादिवञ्च तदजन्य त्वेऽपि ध्वंसस्य तद्विपयत्वोपपत्तेः। न च तादृगीश्वरज्ञाने संप्रतिपत्तिरप्यन्येषामिति न काप्यनु-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। सत्वात्। उक्तंच द्रव्यवर्धमानादी-'तथा कालस्य हेतुत्वेऽपि ज्ञानमपि काल इनि तदन्यमात्रवृत्तिरूपविशिष्ट- स्यैच कारणस्य प्रकृते व्यवच्छेदान्न दोपः । साधारणकारणं हि निवृत्तो प्रतियोग्यपी'ति। तन्न व्यवच्छिद्यते। न हि प्रकृते कालाढिकं विधेयम्, नवाऽनुष्टातुं योग्यम्। येन तद्विशिष्टतया ज्ञानं कृतिसाध्यमिति भावः । इत्यादीत्यादिना 'व्यवहरन्नास्ते माययैव मायया ह्यन्यदिव' 'तम आसीत्' 'मायामयमिदं द्वैत' 'माया ह्येपा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणर्युक्तं नैवं मां द्रषटुमर्हसि ।' इत्यादिश्रुतिस्मृतयो बोध्याः। दर्शयतीति। यद्यन्यदपेक्षेत, तदा विद्यासत्वेऽपि तद्विलम्बेन कार्य विलम्वेत; विद्यासत्वे कार्याविलम्धे तु तदन्यहेतुत्वमप्रामाणिकमिति भावः। तस्मा- दिति। शुनितिरूप्यादेर्ज्ञाननिवर्त्यत्वं वदता त्वयापि शुक्त्यादिप्रमात्वेन तन्निवर्तकता न वाच्या; गौरवात्, किंतु उ्करीत्या प्रयोजकाज्ञाननाशद्वारा प्रमामात्रम्य; तथाचात्माज्ञाने प्रपञ्जप्नयोजकत्वस्य श्रुत्यादितो लाघवाच् सिद्धेरा- त्मज़ाने प्रपञ्जनिवर्तकत्वं लोकसिद्धत्वादुक्तदोपाच्च न विधेयम्। शुक्तिरूप्यादेर्ज्ञाननिवर्त्यतवं तु शुक्त्यादिप्रमया तदज्ञाननत्प्रयुक्तं नष्टमित्यनुभवात् दोपादिनिमित्तसत्वेऽपि तन्नाशस्योत्पत्या निमित्तनाशनाशयत्वेनान्यथासिद्दसंभ- वात् इनि भावः। उपपन्तेरिति। किंचिद्विपयकत्वे नियामकाभावेन वाधकाभावात्, श्रुत्यादितश्च सर्वविषयक- त्वमिनि भानः। अन्येषां औपनिपदादीनां। तादृगीश्वरज्ञाने ध्वंसकारणे ईश्वरज्ञाने। ईक्षणस्य व्याक्रियमाण- कार्यं प्रत्येव हेतुत्वेन सूक्ष्मावस्थारूपं नाशं प्रनि अहेतुत्वमिति भावः । ननु-सोपादानकार्ये तदुपादानज्ञानादि-
Page 236
[ज्ञाननिवर्त्य० नुपपत्तिः] ५३१
पपत्तिः। यथाच शुक्त्यादिशानस्य रूप्यादिनिवर्तकत्वमप्रामाण्यज्ञानविरहमपेक्ष्यैव, एवमात्मज्ञान- स्यापि श्रवणादिनिवृत्तावसंभावनादिनिवृत्तिरूपाप्रामाण्यज्ञानविरहापेक्षत्वमिति न किंचिदप्यधिकं कल्पितम्। आत्मज्ञानस्य सर्वसुकृतसाध्यत्वं शुक्त्यादिज्ञानापेक्षया विलक्षणमिति तु दृष्टान्तदार्प्टा- न्तिकयोर्वैधर्म्यमात्रोन्भ्ावनात् वैधर्म्यसमा जातिः। अज्ञानस्य च समानाधिकरणसमानाकारज्ञान निवर्त्यत्वम्। जीवन्मुक्तौ च प्रारब्धकर्मप्रतिबन्धेन बन्धनाशविलम्ब इत्यादि सर्घमुपरिष्टादुपपाद- यिष्यते। सत्यस्य ज्ञाननिवर्त्यत्वे तु आश्रयविपयोभयसंबन्धित्वादिना अतिप्रसङ्गो विवरणकाररर्व- र्णितः । तस्मादधिष्ठानज्ञानत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम्॥ इत्यद्वैतसिद्धौ ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका )। मत्वेनैव कार्यमात्रं प्रति ज्ञानत्वादिनेशज्ञानादे: हेतुत्वसंभवात्ताकिकेत्याद्ययुक्तमिति-चेन्न,-ज्ञानादिमत्वेन ज्ञाना- दिमतो हेतुतां गृह्लदेव हिप्रमाणं ज्ञानादेरपि हेतुतां गृह्णाति, विशिष्ट प्रवृत्तस्य मानस्य विशेषण प्रवृत्तेरोत्सर्गिकत्वात्। तथाच यादृशमुपादानज्ञानादिकं विशेषणं तादृशस्यैव कारणत्वं प्रामाणिकम्, न त्वतादृशस्य। ननूक्तरूपेण सेतुदर्श- नस्येवाध्ययनादिनियमादृष्टादिविशिष्टरूपेणात्मज्ञानस्यापि विधेयत्वमास्ताम्; अन्यथा अनधीतवेदान्तादिजन्यात्मज्ञान- मपि बन्धं नाशयेत्, तव्राह-यथाच शुक्त्यादीति। निवृत्तिरूपेति। निवृत्तिप्रयोज्येत्यर्थः। वाक्यार्थे असं- भावितत्वज्ञानेन प्रपञ्वसत्यत्वदहात्मत्वसंस्काररूपविपरीतभावनया च दोपेण बाधितविषयकत्वरूपाप्रमात्वं ज्ञाप्यते; तादृशत्वात्तत्राज्ञाननिवर्नकत्वं प्रमात्वेन जायमानस्येव; शुक्त्यादिज्ञानस्य तथात्वस्य दष्टत्वात्। तथाचाध्ययनश्रवणादि-
श्रवणादरहैतुत्वं प्रमात्वेन निश्चीयमानज्ञानत्वेनाज्ञाननिवर्तकत्वंच कप्म्, अतोन विधेयम्। नच-उक्तनियमविशिष्टरू- पेण ज्ञानं विधेयमिति-वाच्यम्; ज्ञानोद्देशेनोक्तनियमस्यैव विहितत्वेन तद्विशिष्टज्ञानस्य विधौ मानाभावादिति भावः। ननु लोके शुक्त्यादिज्ञानस्य पापनाशनिरपेक्षतयैवाज्ञानकार्यनिवर्तकत्वं दृष्टमतस्तादृशज्ञाननिवर्त्यत्वस्य मिथ्यात्वव्याप- कतया तदभावान् प्रपञ्चे मिथ्यात्वाभावस्तव्राह-आत्मज्ञानस्येति। साध्यत्वं पापनाशद्वारकं जन्यत्वम्। वैधर्म्य- मत्रति। अधिष्टानप्रमात्वेन निवर्नकत्वं शुक्त्यादेरात्मनश्च ज्ञाने तुल्यम्। शुक्त्यादिज्ञाने काचादिदोप आत्मज्ञाने पापविशेषः प्रतिबन्धकः। तयोवैध्म्यमात्रमप्रयोजकम्। अन्यथा काचादीनां मिथो वैधर्स्यमपि दृषणं स्यादत उत्तव्या- पिरसिद्धति भावः। ननु ज्ञानमज्ञानस्यैव निवर्तकमित्यत्र ज्ञानं वृत्तिः, तत्प्रतिबिम्बितचिद्वा। नाद्य; तस्या अज्ञप्ति- खात्। नान्त्य: मुक्त्यानन्दस्य ज्ञत्यभावापत्या तस्या अपि ज्ञप्तित्वाभावात्। सुखादो तदभावाच्चेत्यत्राह-अज्ञानस्य चेति। अनावृतचित एव ज्ञप्तित्वेऽप्यनावृतत्वप्रयोजकवृत्तावपि ज्ञानपदप्रयोगात् तमादायोक्तनियम इति भावः । ननु लोके अधिष्टानत्त्वे साक्षात्कृते कर्मादिना न भ्रमनिवृत्तिप्रतिबन्धः, तथाच जीवन्मुक्तावनुवृत्तं जगत् सत्यम्, नत्राह-जीवदिति। प्रतिबिम्बादिभ्रम इव जीवन्मुक्तीये देहादिभ्रमेऽप्यनुभवबलादनुवृत्तिः स्वीक्रियते। अन्यथा हि दशादिवर्पावच्छिन्नभोगजनककर्मणः पञ्चादिवर्पावच्छिन्नभोगजनकत्वाि क्पने अ्तहेतु त्वाद्िकल्पनतेः। किंच 'तस्य तावदव चिर मित्यादिश्रुत्यापि तथा सिद्धम्। तथाच भुज्यमानकर्मणः देहादिनिवृत्तौ न प्रतिबन्धकत्वम्, ज्ञानस्य नाज्ञानकार्यनाशकत्वम्, किंतु दृश्यविरोधित्वमात्रमिति पक्षे तु भुज्यमानकर्माभावकालीनात्मज्ञानस्यानात्नवि- रोधित्वमात्रकल्पनात् नोक्तप्रतिबन्धकतवं कल्प्यत इति भावः । आश्रयविषयेत्यादि। ज्ञानेन सत्यस्य निवृत्तिश्चेत्, कीदृशस्य ज्ञाननाश्यत्वनियमः, किंज्ञानस्याश्रयेण, अथ विपयेण, आहोस्वित्, उभयेन संबन्धस्य। नाद्यः; आत्मज्ञाने- नाहमित्याकारेण धर्माद्यनाशात्। न द्वितीयः; नीलपीतावयविनो नीलत्वेन ज्ञानात् पीतिमाद्यनिवृत्तेः । न तृतीयः देहज्ञानेन देहात्मतादाल्यानिवृत्तेः । मिथ्याभूतस्यैव ज्ञाननिवर्त्यत्वपक्षे तु ज्ञानात्तत्समानाश्रयविपकाज्ञानस्यैव निवृत्तिः। तथाचाज्ञानप्रयुक्त्तस्यैव निवृत्तिरित्यादिविवरण उक्तम्॥ इति लघुचन्द्रिकायां ज्ञाननिवर्त्यत्वान्य- थानुपपत्या विश्वमिथ्यात्वसिद्धिः॥
अथ ज्ञाननिवत्येत्वान्यथाऽनुपपत्तिः। (१) तत्र न्यायामृतकारा :- ज्ञाननिवर्त्यलानुपपत्तिरपि न मिथ्यात्वे मानम्; (१) ज्ञानमात्रेण खसमानविषयकाज्ञानानुपादानकस्वप्रागभावस्य (२) इश्वरज्ञानेन घटादे: (३) उत्तरज्ञानेन पूर्वज्ञानस्य (४) प्रत्यमिज्ञानादिना संस्कारस्य (५) विषयदोषदर्शनेन रागादेः (६) सुह-
Page 237
५३२ अद्वैतसिद्धिः । [परिच्छेद: १]
दर्शनेन दुःखादेः (७) गरुडध्यानादिना विषादेः (८) अभिचित्कपिलादिदर्शनेन दुरितादेः (९) सेत्वादिदर्शनेन ब्रह्महत्या- देश सत्यस्य निवृत्तिदर्शनेन ज्ञानमज्ञानस्यव मित्थ्याभूतस्य वा निवर्तकमिति नियमाभावात्। यथा सेतुदर्शनं विधेयं एवं ब्रम्म- ज्ञानमपि यथावा दूरगमनादिवैशिष्यं प्रथमस्यैवं श्रवणमननादिवैशिष्ट्यमुत्तरस्येति सेतुदर्शनेन ब्रह्महत्यानिवृत्तिरपि प्रत्युदाह- रणमेव । वस्तुतस्तु-लोकेऽदृष्टत्वेऽपि विपक्षवाधकविरहेण सत्यस्यापि प्रपश्चस्य श्रुत्या निवृत्तिबोधनसंभवेन न ज्ञाननिव- त्यत्ानुपपत्तिः। अन्यथा लोकदृष्टसाम्यापेक्षणे लोके कल्पितस्य कर्मसाध्यान्तःकरणशुद्धिजन्यज्ञानस्यैव निवर्तकत्वस्य दर्शनेन तादृशस्य ब्रह्मज्ञाननिवर्तकत्वस्य कल्पिते संस्कारनिरपेक्षज्ञाननिवर्त्यताया एव दर्शनेन प्रपश्चस्य श्रवणादिजनितसंस्कारसापे- क्षज्ञाननिवर्त्यतायाक्षानापत्तेः । यथाकथंचित् निवर्तकत्वादावपि प्रपश्चसत्यतासिद्धेश्व। अतएव-अज्ञानाज्ञेययोः दोषाघि- छ्ानयोक्ष समानसत्ताकत्वनियमोऽप्युपपद्यते। पतेन-चित्रावयविनि नीलविशिष्टद्रव्यज्ञानेन पीतिमाSनिवृत्तेः, आत्मज्ञाने- नात्मगतधर्माधर्माद्यनिवृत्तेः शरीरज्ञानेन देहात्मबन्धानिवृत्तेश्च न ज्ञानेन सत्यनिवृत्तिरिति विवरणोक्तमपि-पराहतम्ः इदमंशज्ञानेन तत्रारोपितरूप्यस्य चैत्रीयघटज्ञानेन तदात्मारोपितदेहतादात्म्यस्य आत्मनिष्ठदेहविषयकज्ञानेन देहात्मतादात्म्य- स्यानिवृत्त्या ज्ञानेनारोपितनिवृत्तेरप्युपपादनासंभवात्। ज्ञानेन खवसमानाश्रयविषयकाज्ञानस्यैव निवृत्तिः, निवृत्ते चाजञाने खयमेव तत्कार्यनिवृत्तिरिति तु न शक्कनीयम्; बिम्बप्रतिविम्वैक्यसाक्षात्कारेणैक्याज्ञानस्यारोपितभेदस्य च निवृत्त्योक्त्निय- मस्याप्रामाणिकल्वात्। परमार्थतस्तु-"यस्य प्रसादात्परमार्थरूपादस्मात् संसारात् मुच्यते नापरेण"। "मन्त्रप्रसादा- त्तरिष्यसि" इत्यादिश्रुतिस्मृतिभिः ईश्वरप्रसादसाध्यतमेव बन्धनिवृत्तेः, नतु ज्ञाननिवर्त्यत्वं, ज्ञानस्य तु प्रसाद एवोपयोगः- "यथा दृष्या प्रसन्नः सन् राजा बन्धापनोदकृत्। एवं दृष्टः स भगवान् कुर्यात् बन्धविभेदनम्" इत्यादिवचनात्। "द्ष्ट्ैव तं प्रमुच्यते" इत्यवधारणं तु अयोगव्यवच्छेदपरं मोक्षहेतुप्रसादेऽन्ययोगव्यवच्छेदपरं वेति न ज्ञाननिव्त्यत्वं वन्स्य । "एवं ज्ञाते तु भगवान् अनादिः पुरुषोत्तमः । प्रसीदति ततस्तम्मिन् प्रसन्ने क्ेशसंक्षयः" । इति विष्णुपुराणवचनमप्यत एव संगच्छते इति न ज्ञाननिवर्त्यत्ानुपपत्त्या प्रपश्चमिथ्यात्वसिद्धिरिति सर्वमनवद्यमिति-चर्णयन्ति॥ (२) अद्वेतसिद्धिकारास्तु- प्रपश्चस्य भावरूपत्वेन प्रतियोगित्वेन आकाशादेरात्मविशेषगुणताभावेनोत्तरगुणरवेन संस्कारस्य स्मृतिजनकत्वादात्मज्ञा- नाजनकत्वेन फलत्वेनाननुगतत्वेन तत्तद्रूपवत्वेन वा निवर्त्यताया असंभवेन मिथ्यात्वेनैकनिवर्त्यतायाः अननुगमेनैव शुक्त्यादिविषयकत्वेनानिवर्तकत्वेनाधिष्ठानप्रमात्वेनैव निवर्तकतायाश्चाज्गीकरणीयतया मिथ्यात्वं विना ज्ञाननिवर्त्यतासंभवः, रागादिकारणीभूतबलवदनिष्टाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारणनिवर्तकत्वंनैव विषयदोपदर्शनस्य रागादिनिवर्तकत्वेन प्रकृ- तोदाहरणतुल्यतया इच्छाधीनत्वेन तदनधीनज्ञानापेक्षया व्यानस्य वैलक्ष्येण छत्रपादुकादिवर्जनदोपोद्वोपणादिकृतिसाध्य घटिततया विशिष्टरूपेण सेतुदर्शनस्येवात्मज्ञानस्य तदघटिततया कृतिसाध्यत्ाभावेनाविधेयत्वेनोपादानगोचरापरोक्षज्ञान त्वेनैवेश्वरज्ञानस्य कारणत्वेन निरुपादानाभावकारणत्वासंभवेनंश्वरज्ञानस्य घटानिवर्तकत्वेनच रागादिनिवर्तकविषयदोषदर्शन-
दिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यत" इति। सत्यस्य ज्ञानान्निवृत्ती लोकदष्विरोधः, सुकृतसाध्यत्वेन नात्मज्ञानस्यातादृशशुक्तिज्ञानतो वैलक्षण्यं तु वैधम्यसमा जातिरिति नातिप्रसङ्गः। यथाचाज्ञानाज्ञेययोः दोषाघिष्ठानयोक्ष न समसत्ताकत्वं तथा पूर्वमेव निरूपितम्। एतेन-सत्यस्य ज्ञाननिव्त्यंत्वे आश्रयविषयोभयसंबन्धित्वा दिनाऽतिप्रसङ्गोऽपि-व्याख्यातः; इति विवरणीयमपि वचनं समीचीनमेव। एवंच निवर्तकज्ञानसमानविषयकाज्ञानानुपा- दानकस्य दुरितादेरमिथ्यात्वेऽपि तादृशाजानोपादानस्य प्रपश्चस्य मिथ्यालमज्गीकरणीयमेवेति दुरितादेरिव सत्यस्यैव प्रपश्वस्य निवृत्तिरिति वर्णनमसङ्गतमेव; "तरति शोकमात्मवित्" "विद्वान्नामरूपाद्विमुक्तः," "भिद्यते हृदयग्रन्थिरिछद्यन्ते सर्चसं- शयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृंटे परावरे"। इत्यादिवचनजातैरात्मज्ञानमात्रस्येव पुरुपार्थवन्धनिवृत्तिसाधनला- वगमान्। इश्वरप्रसादवन्धनिवर्तकतापरवचनानां तादृशात्मतत्वज्ञानविषयतत्परत्वस्येव युक्तलाच्च ज्ञाननिवत्यलान्यथानुप पपत्तिरमिथ्यात्वसाधिकैवेति सर्वमनवद्यमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- आत्मज्ञानं संसारनिवर्तकमिति बोधयन्त्या श्रुत्या अवच्छेदकशेषाविषयीकरणात् विषयीकरणेऽपि शुक्तिरूप्यादेः ज्ञान- निवर्त्यत्वाननुभवेन मिथ्यात्वस्य निवत्यतानवच्छेदकलवात् न ज्ञाननिवर्त्यत्वानुपपत्त्या प्रपश्चमिथ्यात्वसिद्धिसंभवः। दूरदोप- गमनादिविशिष्टरूपेण सेनुदर्शनस्येवाध्यय नादिनियमादष्टविशिष्टरूपेणात्मज्ञानस्यापि विधेयत्वेन ईश्वरेच्छया सर्व भवतीत्यापा- तानुभवेनेच्छाया इत तज्ज्ञानम्यापि कार्यमात्रनिमित्तचेन कतृतनिविष्ठज्ञानस्योपादानगोचरतया हेनुत्वेऽपि कार्यमात्र हेतोस्तस्य तन्नियमाभावेन च त्रह्महृत्यानिवर्तकसेनुदर्शनकार्यमात्रनिवर्तकेश्वरज्ञानयोक्ष प्रत्युदाहरणलसंभवेन तन्निवर्त्यब्रह्महृत्यादिवत्
Page 238
५३३
अथ दृष्टिसृष्टयुपपत्तिः। शुक्तिरूप्यस्वप्रादिवत् दृष्टिसृष्यन्यथानुपपत्त्यापि जगतो मिथ्यात्वसिद्धिः। अथ केयं दृष्टिसृष्टिः? (१) दृष्टिरेव सृष्टिरिति वा (२) दृष्टिव्यतिरिक्तसृष्यभावो वा (३) दृष्टिव्यतिरेकेण सृज्याभावो वा (४) दृष्टिसामग्रीजन्यत्वं वा (५) दृष्टिसमानकालीनसृप्टिर्वा (६) दृष्टिसमानसत्ताकसृप्टिर्वा (७) सदस- द्विलक्षणत्वं वा (८) त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा (९) अक्षातसत्त्वाभावो वा (१०) ज्ञातैकसत्त्वं वा। आद्ये वृत्तिरूपा, चैतन्यरूपा वा, दृष्टिरमिमता। प्रथमे चरमवृत्तिविषय ब्रह्मणोऽपि दृष्टिसृष्यापत्तिः। द्वितीये सर्वदापि सृष््यापत्तिः। न द्वितीयः; चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः। न तृतीयः; 'जातो घटो न ज्ञान'मिति अनुभवविरोधात्। न चतुर्थः; एकसामभ्री- प्रसूतत्वेन घटादेर्द्दष्ट्यभिन्नत्वेनानन्तरोक्तदोपात्। न पश्चमः; शाब्दादिज्ञानसमकालोत्पन्नघटादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च। न ष्ठः; उभयसत्वेऽप्युपपत्तेः सिद्धसाधनात्। न सप्तम :; अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः । नाष्टमः त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्वहिर्भावानुपपत्तेः। न नवमः तुच्छसाधारण्यात्। न दशमः; सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तराच्चेति-चेन्न; दोषप्रयुक्त- त्वनिबन्धनस्य ज्ञातकसत्त्वस्याशातसत्त्वाभावस्य वा, प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दृष्ट्यभिन्नत्व इति। दृष्टिभिन्नत्वे मानाभावात् दृध्यभिन्नत्वं वाच्यम्; तथाचानन्तरोक्तदोपः । नच- तद्वारणान्यथानुपपत्तिरेव दृष्टिभेद मानमिति-वाच्यम्; एकसामग्रीजन्यत्वस्याभेदव्याप्यतया सामग्रीभेदस्यावश्यक स्वादिति भावः । तद्वहिर्भावेति। तच्छृन्यत्वेत्यर्थः। दोषेत्यादि। दोपत्वं तावदन्यतमत्वं भ्रमत्वावच्छिन्नं प्रति जनकतावच्छेदिका या अविद्यात्वजातिः तद्व्त्वं वा। भ्रमत्वजातिमद्विपयत्वं दोपप्रयुक्तम्। तथाच दोषप्रयुक्तत्वे श्रमत्वजातिमद्विपयत्वे सति ज्ञातकसत्वं लक्षणम्। परमते असत्यस्य भ्रमाङ्गीकारेण सिद्धसाधनाद्टूमप्नागभाव- वदवैयर्थ्याच्च विशेष्यदलम्। स्वज्ञानव्याप्यत्वं तदर्थः । व्याप्यत्वव्यापकत्वे कालिके ग्रह्ये। अज्ञानशून्यचिद्रूपं ज्ञान- मपेक्ष्य लाघवादाह-अज्ञातसत्वाभावस्येति। सवीयाज्ञानाभावेन व्याप्यत्वस्येत्यर्थः। निबन्धनस्येत्यन्तमनुष- ज्यते। तस्य च पूर्वत्रेवात्रापि दोपप्रयुक्तवृत्तेरित्यर्थः । पुरुपान्तरवेदये च नाज्ञानम्; मानाभावात्। यत्र हि यं पुरुषं प्रति प्रकाशप्रसक्तिः, तत्र तस्याज्ञानं युक्तम्। तथाच तत्तत्पुरुपीयाज्ञानाभावव्याप्यत्वं तत्ततपुरुपं प्रति दृष्टिसृष्टिरिति बोध्यम्। परोक्षविपयसंग्रहायासत्वापादकमज्ञानं लक्षणद्वयेऽपि निवेश्यम्। प्रतिपन्नेत्यादि। स्वप्रतिपत्तिविशेष्य-
सत्यत्ोपपत्तः। एवंच यथाऽज्ञानसमानविषय कप्रमानिवर्त्यस्याप्यज्ञानस्याज्ञानानुपादानकत्वम्, एवं तादृशप्रमानिवर्त्यस्यापि शुक्तिरूप्या देर ज्ञानानुपादानकत्वंनोपपतत्या न ज्ञाननिवर्त्यतान्यथानुपपत्त्याऽज्ञानोपादानकत्वादिसिद्धि:। एतेन-अज्ञानाजे- ययो: समानसत्ताकतनियमोऽपि-व्याख्यातः; यावताच निवर्तकज्ञानसमानविषयकाज्ञानानुपादानकत्वं तावता तादृशस्य दुरितादेरिव प्रप्चस्यापि सत्यस्थैव निवृत्तिरिति ज्ञाननिवर्त्यतान्यथानुपपत्तेरनवसरात्। "तरति शोकमात्मविदि"त्यादीनां तु आत्मज्ञानस्येश्वरप्रसादद्वारा मोक्षपरत एव तात्पर्यमिति न्यायामृतीयव्यवस्थोपपन्नैवेति-प्रतिपादयन्ति॥
(४) लघुचन्द्रिकाकारास्तु- शुक्तिज्ञानस्येवाज्ञानसमानविषयकात्मज्ञानस्यैत्र मोक्षसाधनत्वेन प्रमात्वेन सवसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्संव- न्धेन मिथ्यानिष्ठप्रतियोगितासंबन्घेन नाशं प्रति हेतुताया एव विवक्षणीयतया मूलाज्ञाननिवृत्या व्यावहारिकदृश्यनाश इति नियमान्तरकल्पने गौरवेण प्रयोजननाशस्य विशिष्टप्रयोज्यनाशे कृप्तकार्यकारणभावेनैवाज्ञाननाशेन व्यावहारिकदृश्यनाश इति पक्षस्याप्युक्तरीत्यैवोपपादनीयतयैव अज्ञानप्रयुक्ततावश्यकत्वेन च ज्ञाननिवर्त्यलान्यथानुपपत्त्या सर्वप्रपश्चमिथ्यातसं- भवः। ज्ञानोद्देशेनोक्तनियमविधानेऽपि तद्विशिष्टज्ञानस्याविधेयत्वेन सेतुदर्शनतुल्यलाभावेनेक्षणस्य व्याक्रियमाणकार्य प्रत्येव हेतुत्वेन सूक्ष्मावस्थारूपनाशं प्रति इश्वरज्ञानस्याहेतुत्वेन च सेतुदर्शनेश्वरज्ञानयोः प्रत्युदाहरणत्वासंभवात्। यथाचाज्ञान- निवर्त्यतवस्य मिथ्यात्वव्याप्यत्वं तथा पूर्वमेव निरूपितमित्यज्ञानाज्ञेययोः समानसत्ताकतनियमोऽपि पराहत इति सव अन- वद्यमिति-विवेचयन्ति॥ इति ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः।
Page 239
५३४ अद्वैतसिद्धिः । [परिच्छेदः १ ]
द्रष्टन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात्। तथाच न सुखाद्यंश सिद्धसाधनम्, तद्वदन्यत्रार्थान्तरं वा। ननु-'जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्या तञ्चितोर्योगः पडस्माकमनादयः ॥' इति प्राचां वचनेन बौद्ध प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्व प्रतिपादकेन च सूत्रभाष्यविवरणादिग्रन्थेन विरोध इति-चेन्न;अनाद्तिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च। तावतैव बौद्धामिमतक्षणिकत्वनिराकरणोपपत्तेरनाकरविरोधः, प्रत्युताकरेपु बहुशो दृष्टिसृष्टिरुपपादितैव । नन्वेवं-प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्य्थ ज्योतिष्टोमादिविधे: ब्रह्मसाक्षात्कारार्थ श्रवणादिविधेराकाशादेर्वायादिहेतुत्वस्य चोक्तिरयुक्तति-चेन्नः स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तेः। न चैवं वेदान्तवाक्यस्य तन्मी मांसायाश्च स्वप्नवाक्यतन्मीमांसातुल्यतापत्तिः; विषयवाधाबाधाभ्यां विशेषोपपत्तेः । अत एव- तृत्त्यर्थ भोजने परप्रत्यायनार्थ शब्दादो प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति-निरस्तम्; स्वाप्न- व्यवहारवदुपपत्तेः।अथैवं-घटादेः स्वज्ञानात्पूर्वम सत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् 'इदं रजत'मिति ज्ञानात्प्रागसत्वेन संप्रयोगादि हेतुत्रयजन्यत्वरूपाध्यासत- टस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति-चेन्न; प्रतिकर्मव्यवस्थायाः संप्रयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषय- त्वात्। सत्यस्य वस्तुनो मिथ्यावस्तुसंमेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम, न हीदमंशावच्छिन्नं चैतन्यं न वस्तु; न वा मिथ्यारूप्यस्य तेन सह न संभेदावभासः। नच-'इदं रूप्य'मिति जानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रत्रियाविरोध इति-वाच्यम्; 'इदं रूप्य'मिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात्। न हि सत्ताकाल इव सत्ता- विरहकालेऽपि अज्ञानं विरुध्यते। नच-'इदं रूप्यं नेदं रूप्य मिति ज्ञानयोर्भिन्नविषयत्वेन वाध्य- वाधकभावानुपपत्तिरिति-वाच्यम्; भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नवाध्यवाधकयोरिव वाध्यबाधकभावोपपत्तेः। नच-रूप्यादिवाधस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेर्मिथ्यात्वासिद्धिरिति- वाच्यम्; वाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्, न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकवाधाविरोधात्। नच-सुपुपिप्रल- यादौ जीवब्रह्म विभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुपुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्याप- त्तिरिति-वाच्यम्; जीवब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योक्तत्वात्। न च सुपुपं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दृष्टिजन्यवृत्तिज्ञातैकसत्त्वस्येत्यर्थः। अधिष्टानसामान्यांशदष्टेरारोप्यमात्रं हेतुत्वेनोक्तृष्टिजन्यत्वं जन्यमात्रस्याक्षतम्। द्रष्टन्तरेत्यादि। दृष्टिसृष्टिपक्षे पुरुपान्तरीयसुखादिकं न ज्ञायते, किंतु पुरुषान्तरीयत्वेन स्वस्मिन्नव कल्प्यत इति भावः। सृष्टिविपये सृज्यमान एव या दृष्टिः साऽनाद्यन्यत्र, न त्वनादी स्वीक्रियते। तत्र मिथ्यात्वसिद्धिस्तु दृश्यत्वा- दिनैव; न तु दृष्टिसृष्येति भावः। विषयावाधेति। ननु-सवमाविशपे बाधाभावोऽप्यनुपपन्न इति-चेत्, न; दोपप्रयुक्ततवाज्ञानेनाबाधोपपसेः । सत्यस्य वस्तुनः इदमवच्छिन्नचितः । मन्दाधिकारीति। अधिकारिभेदक- ल्पिता हि प्रक्रियाभेदाः शास्त्राचार्येरनूदिता इति भावः । यद्यपी'दं रजत'मित्यादों इदमादिरूपाधिष्टानाकारा वृत्ति: पूर्व संभवत, पूर्वजाताया अपि तस्या रूप्यकालानुवृत्तिसंभवात्; तथापीदं रूप्यमित्याकारा विशिष्टविपयिकव वृत्तिः, लाघवात्, अधिष्ठानज्ञानहेतुत्वपक्षे तु वृत्तिद्वयस्वीकारात् न दोप इति भावः। चतन्यं न वस्त्विति। उपाधेर्मि- ध्यात्वेऽपि तद्वच्छेदेन अधिष्टानताश्रयस्य शुद्धचतन्यस्य सत्यत्वमिति भावः। स्थित्यविरोधादिति। सृष्टटष्टिप क्षेऽपि भाविनि ज्ञानविपयत्वस्येवाज्ञानविषयत्वस्य स्वीकाराढिति भावः। सत्ताकाल इति। सृष्टटष्टिपक्ष इत्यादि:। भाव्यवच्छेदनाज्ञानमनुभवबछात् कार्यान्यथानुपपत्तेश्च कल्प्यत इति भावः। मिन्नविषयत्वेऽपीत्यादि। पूर्वज्ञाने रूप्यमिद्मांत्मकम्, द्वितीयज्ञाने तु स्वप्नतियोगिकत्वसंवन्धेनाभावगतम्। यथाज्ञानं सृष्टिस्वीकारात्। अतो भिन्नवि-
समानत्वात् यथा सृष्टटृष्टिपक्षे तद्विशिष्टवुद्धी तदभावधीर्विरोधिनी, तथा दृष्टिसृष्टिपक्षे रूप्यान्तराभावधीः; विरोधि- तावच्छेदकशक्तिविशेपस्य तस्यामपि स्वीकर्तु शक्यत्वात्। तथाच रूप्यत्वादे: प्रतिदृष्टि भेदेऽपि न क्षतिः। व्यावहा- रिकेणेति। अभावेनेति शेषः । तृतीयार्थः प्रकारित्वम्। तथाच व्यावहारिकाभावधीर्व्यावहारिकद्वैतवत्वधीबाधिका यथेत्यथः। उक्तत्वादिति। वस्तुत ईशस्येव जीवेशमेदादेरपि स्थूलमनःपरिणामत्वमेव; सुषुप्त्न्यकाल एव तस्य
Page 240
गौड ब्रह्मानन्दीयुता। ५३५
प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोग :; कारणात्मना संस्कारादे: सत्वात्। न च मोक्षस्य दृगन्यत्वेन स्वाप्नमोक्षवत् दृष्टिसृष्ट्यापत्तिः; मोक्षस्य ब्रह्मस्वरूपत्वेन दग्भिन्नत्वासिद्धेः। नच-चतन्य- मात्ररूपा दष्टिर्न सृष्टिः, किंतु वृत्तिविशिष्टचैतन्यरूपा वा, वृत्तिरूपा वा, दष्टिः सृष्टिरिति वाच्यम्; तथाच तस्या अपि दृथन्तरं सृष्टिरित्यनवस्थेति-वाच्यम्, चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समान- सत्ताकतया घटादेः सदातनत्वापत्तिः; तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः। वृत्तावपि वृत्ति- रेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव-दोषाझ्ानादष्टदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वे अनवस्थेति-निरस्तम्; स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः। अन्वयव्यतिरेकानुविधानं च तद्वदेव। नच-दष्टिसप्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्ति- रिति-वाच्यम्; ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याक्षेयत्वाभाववत् दृष्टिसृप्टर्द्टष्टिसृष्टित्वेऽपि घटादेई्प्टि- सृष्टित्वोपपत्तेः । ननु-ऐकाप्रत्यमिज्ञाविरोधः पूर्वकालप्रतीतस्येदानीमभावात्, न चैपा भ्रान्तिः दीपादौ परिणामभेदस्येवेह वाधकस्याभावात्, तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति-चेन्न; 'नेह नाने त्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वे- 5वधृते रज्जुसर्पादिवत् प्रतिभासमान्रशरीरत्वमेव प्रतिभासकालातिरिक्तकालसत्वे वाधकम्, अतो भिन्नकालानामात्मभिन्नानां प्रत्यमिज्ञा भ्रान्तिः। आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ- चैक्यप्रत्यभिश्ञा न भ्रान्तिः। एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात्। पुरुपान्तर- प्रतीतेन सहककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव; प्रतिभासस्य मेदात्। यथा एकस्यामेव रज्जवां मन्दान्धकारवर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वरनुभूयत इति प्रत्यभिज्ञा भ्रमः; अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात्। ननु-अत्र कथमभेदभ्रमः तत्काग्णम्य सादृश्यादेः कस्याप्यभावादिति-चेन्न; स्वप्नाभेदभ्रमवत् दृष्टिसृष्टि सिद्धसादृश्यादिसंभवात्। न चैवं-अमेद एवोत्पद्यतामिति-वाच्यम्; इष्टापत्तेः, रज्जुसर्पादिवदु- त्पन्नस्यैव ग्रहणनियमात्। नच क्वचिदुत्पद्यते क्वचिन्नत्यत्र नियामकाभावः मायाया विचित्रशक्तिक- न्वाभ्युपगमात्। नच-'सोऽयं देवदत्त' इति दृष्टान्तेन तत्त्वमस्यादिवाक्ये जहदजहल्लक्षणयैक्यपर- त्वोक्त्ययोग इति-वाच्यम्, यद्यपि धर्मवद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणापि न
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दष्टे:। अज्ञानसत्वेन च न सुपुप्तिप्रळययोमुक्तिरिति ध्येयम्। संस्कारादेरिति। अज्ञायमानकार्यस्य दृष्टिसृष्टिपक्षे अनङ्गीकारन्तादशसंस्कारादेरभाव इति भावः। कारणात्मना कारणगतसूक्ष्मावस्थारूपेण। सस्य च रुपस्य न दृष्टिसृष्टिः; असंभवात्, न हि प्रलये सुपुप्ती वा संस्काररूपसूक्ष्मावस्था जीवेन ज्ञातुं शक्यते। न च-सर्वकार्याणां जातैकसत्वनियमाभङ्गाय सूक्ष्मावस्थैव न स्व्रीक्रियतामिति-वाच्यम्; आतत्वसाक्षात्कारं दृश्यानामुच्छेदाभावेन कस्याश्चिद्वस्थाया अवश्यवाच्यत्वात्। न च-मिथ्यात्वव्यापकस्य दृष्टिसृष्टिमत्त्वस्याभाचेन मिथ्यात्वाभावापत्तिरि- ति-वाच्यम् ; अनादिपु व्यभिचारेण दृष्टिसृष्टिमत्वस्य मिथ्यात्वाव्यापकत्वात्। अत एव धर्माधर्मयोरपि विहितनि- पिद्धूक्रिकया सूक्ष्मावस्थारूपत्वेन दृष्टिसृध्भावेप न क्षनिः। अथवा-कारणात्मना कारणीभूतसाक्ष्यात्मविपयसू- क्षमावस्थारूपेण। तथाच सुपुप्तिप्नळययोः सूक्ष्मावस्थाविपयकनिर्विकल्पकाविद्यावृत्तिस्वी कारात् तदवच्छिस्रसाक्षिविप- यत्वं सूक्ष्मावस्थायां स्वीक्रियते; अज्ञानाद्याकाराया अविद्यावृत्तेः सृष्टटृष्टिपक्षेऽपि स्वीकारात्तस्या एव सूक्ष्मावस्थावि- पयकत्वान्नाधिककल्पनागौरवम्। वस्तुतः तथाकल्पने जागरादौ तद्विपयकाविद्यावृत्त्यन्तरकल्पने गौरवात् सूक्ष्माव- स्थोत्पत्तिक्षण एव तद्विपयिका सेवोत्पद्यत इति कल्प्यते; अन्यथानुपपत्तेः । तस्या एव वृत्तेः सूक्ष्मावस्थातदाश्रयसंब- न्धादिकमपि विपयः; सांसर्गिकविपयताया: तस्यामभावेन न तया विशिष्टव्यवहारापत्तिः, सूक्ष्मावस्थातदाश्रयवैशि- स्थसिद्धिस्त्वनुमानादिनेति दिक। सदातनत्वेति। अनाद्यनन्तत्वेत्यथः। स्वस्वरूपेति। स्वच्छेषु सुखादिषु चित्प- तिविम्बसंभवात् वृत्तिर्न स्वीक्रियते। तत्स्वीकारेऽपि परस्परविषयकवृत्तिद्वयस्वीकारान्नानवस्था। यदि तु तत्तहृश्या- वच्छिन्नचिदेव तत्तद्टृश्यसत्तेति न सदातनत्वापत्तिरिति विभाव्यते, तदाष्यविद्यावृत्त्यस्वीकारे चाक्षुषादिविषयत्ववि शिष्टस्यैव घटादेरुत्पत्तिर्वाच्या; अन्यथा घटं पश्यामीत्यनुभवानुपपत्तेः । अत एव सवप्ने तथा स्वीक्रियत इति भावः । सृष्टित्वापत्तिरिति। दृष्टिसृष्टेर्मिथ्यात्वे घटादौ तदभावसिद्धिरिति भावः। ज्ानस्येत्यादि। यथा ज्ञानस्य ज्ञेय- स्वेऽपि तद्विषयस्य नाज्ञेयत्वं, तथा दृष्टिसृष्टे: स्वसमसत्त/कदृष्टिसिद्धावपि तद्विषयघटादेरपि स्वसमसत्ताकदृष्टिरव्याहतेति भावः। अन्यभ्रमसिद्धस्य अन्यदीयाज्ञानावस्थोपादानकस्य। विचित्रशक्तिकत्वेति। विचित्रकार्योपादानविचित्रा-
Page 241
५३६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
युज्यते; तथापि यदा धर्माभेदो बाान्न गृहीतः, किंतु धर्म्यमेद एव, तदा 'सोऽय' मित्यादौ जहद- जहल्लक्षणासंभवेन दृष्टान्तत्वोपपत्तिः। न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोग :; आत्मा मेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्व। नच- साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति- वाच्यम्; अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः। न च 'ध्रुवा घौर्धवा पृथिवी ध्रुवास: पर्वता इमे ध्रुवं विश्वमिदं जग'दित्यादिश्रुतिविरोधः; अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्यैव युक्तत्वात्, अन्यथा 'ध्रुवो राजे'त्यादाववगतेः। दृष्टिसृष्टी च 'एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोका: सर्वे वेदा: सर्वाणि भूतानि सर्व एत आत्मानो व्युञ्चरन्ती'ति श्रुतिः सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपाद्यन्ती प्रमाणम्। नच-सुषुप्तौ प्राणादिपश्चकस्य सत्त्वात्किमर्थ पुनः सृष्टि रिति-वाच्यम्; 'नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये'दित्यादिना सुुप्ती सकलकार्य- प्रपञ्चलयश्रवणात्। न च सुषुप्तौ हिता नाम नाड्य 'इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः; केन क्रमेण सुषुप्ती भवतीत्यपेक्षायां हिता नाम नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभि: प्रत्यवसृप्य पुरीतति शत' इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात्; प्राकू सत्त्वमात्रेण च क्रमाभिधानपर्यासेः। ननु-'यत्रैष पतत्सुप्ोऽभूदिति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात्तत्कर्तृकैव प्राणादिसप्टिर्न तु सुप्रोत्थितजीवकर्तृका; अन्यथान्यूर्णनाभ्यादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलोक- सृध्युक्तिश्चालीकार्था स्यात्, न हि दृष्टिसृष्टिपक्षे अन्यूर्णनाभ्यादेस्तन्त्वादिजनकत्वं सर्वलोकसृप्टिर्वा- स्तीति-चेत्, न; यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात्। न च यत्रेत्यस्य ब्रह्मरूपा- धिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरह :; अनन्तरवाक्ये क्वैप तदाभूदित्यत्र क्व तदेति पद्द्वयोपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन देशनिर्देशे क्केति देशप्रश्नानुपपत्तेः, कालानिर्देशे च गौडब्रह्मानन्दी (लघुचन्द्रिका)। ज्ञानावस्थावर्वेत्यर्थः । जगदिति। 'ध्रुवो राजा विशामय' मिति शेपः। अनित्यतावादिभिरिति। अनित्यतैव पृथिव्यादेः, न तु दृष्टिसृष्टिरिति वादिभिरित्यर्थः। अन्यथानयने नित्यरूपमुख्यार्थभिन्नार्थकत्ववचने। सन्तानावि च्छेदेति। सृष्टिष्टष्टिपक्षे यावत् पृथिव्यादिकं तिष्ठतति, ताव्कालं पृथव्यांदरवस्था स्विक्रियते; स्ूलावस्थादस्भा कालेडपि सूक्ष्मावस्थादृष्टिसंभवात्। ननु-ध्रुवेत्यादे राजस्थैर्यशासने विनियोगः, पृथिव्यादि यथा स्थिरं, तथा त्वं राजा स्थिर इति चार्थ इति माधवीयभाष्योक्तिविरोध इनि-चेन्न; सन्तानाविच्छेदस्यैव स्थैर्यत्वात्। अगतेरिति। राजत्वाश्रयस्य देहस्य मरणपर्यन्तं न स्थैर्यम्; बाल्ययौवनादौ वृद्धिह्वासाभ्यां परिणामित्वेनास्थैर्यात्। अतः स्थूलसू- क्ष्मभावापन्नदेहप्रवाहाविच्छेद एव स्थर्यमिति भावः । काल इति। नाडीसत्वमित्यत्रान्चेति। 'यदा सुपुप्तो भवति, न कस्यचन वेद। हिता नाम नाड्यो द्वासप्ततिः सहस्त्राणि तामिः प्रत्यवसृत्य पुरीतति शेते। यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिप्रीमानन्दस्य गत्वा शयीत । एवमेवेप एतच्छेते' इति वाक्ये यदा सुपुप्तः शेते, तदा एप एवमेतच्छेते। एतदिति। पूर्ववाक्योक्तव्रह्माधारकार्थकं शयनक्रियाविशेषणम्। कीदशं शयनम्? तग्राह-यथे- त्यादिशयीतेत्यन्तम्। गत्वा शयीतेति। शयित्वा गच्छेदित्यर्थः, मुखं व्यादाय स्वपितीत्यादिवत्; अन्यथा शय- नोत्तरमेवानन्दप्राप्तेर्यथाश्रुतासङ्गतेः। तथाच यथा कुमारादि: शयित्वानन्दातिशयं गच्छति, एवं विज्ञानमयस्य शयि- ववानन्दातिशयरूपम्रह्मप्राप्तिरूपं शयनमित्यस्मिय्नर्थे दृष्टान्तदार्ष्टान्तिकवाक्ययोः पर्यवसानम्। आनन्दातिशयप्राप्तिरूप- शयनात् पूर्व शयनं विवेचयन्ती श्रुतिराकाङ्गितं क्रममाह-हिता नामेत्यादि। एवंच पुरीतदाधारिका सुपुप्तिरिति प्रलापो वाक्यार्थाज्ञानादेव; पुरीतत्प्राप्त्युत्तरं मनआधयुपाधिलयेन मनआद्युपाधिकृतभेदाभावरूपब्रह्मप्राप्तेरेव सुपुपि- स्वस्य श्रुतिसिद्धत्वात्। अतएव 'तद्भावो नाडीपु तच्छ्रुतेरात्मनि चे'ति सूत्रे नाडीपुरीतङ्गह्मणां सुपुप्ता क्रमसमु- चयः सिद्धान्तितः । वाक्यान्तरेति। 'न तु तद्वितीयमस्ति ततोऽन्यद्विभक्त' मित्यादिवाक्येत्यर्थः । सर्वलोकसृष्टिः सर्वलोककर्मिकैका सृष्टिः। अनन्तरवाक्येति। गार्ग्यं प्रति ब्रह्म ज्ञापयन् अजातशत्रुर्गार्ग्यस्य ब्रह्मप्रश्नेऽप्यसामर्थ्यात् स्वयमेव प्रश्नपूर्वकं ब्रह्मोक्तवान्। 'यत्रैप एतत्सुप्तोऽभूद्य एप विज्ञानमयः पुरुपः क्वैप तदाभूत् कुत एतदागा'दिति प्रश्नः। यत्रैष एतत्सुप्तोऽभूत् य एप विज्ञानमयः पुरुपः तदेपां प्राणानां विज्ञानेन विज्ञानमादाय एपोऽन्तर्हृदय आकाशस्तस्मिन् शेते' इति प्रत्युत्तरम्। तत्र क्वेत्यनेन देशस्यैव प्रश्नः; अन्यथाऽSकाशरूपदेशोत्तरासङ्गतेः। तथाच यन्नेति कालस्यैव निर्देश इति भावः। ननु यन्नेति क्वेत्यस्य विशेपणं तत्राह-कालानिर्देश इति। ननु-तथा-
Page 242
गौडब्रह्मानन्दीयुता। ५३७
तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिमिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात्, ऊर्णना- भ्यादेस्तन्त्वादिजन्मोत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य। सर्वलोकादिसृप्टिश्च तत्तदृष्टिव्यक्तिममिप्रेत्य; यदा यत् पश्यति, तत्समकालं तत् सृजतीत्यत्र तात्पर्यात्। न चाविदासह- कृतजीवकारणकत्वे जगद्वचित्र्यानुपपत्तिः; जगदुपादानस्याशञानस्य विचित्रशक्तिकत्वात्। उपपस्य- न्तरंचात्र सिद्धान्तबिन्दुकल्पलतिकादावस्माभिरमिहितम्। वासिष्ठवार्तिकामृतादावाकरे च स्पष्ट- मेवोक्तम्। यथा-'अविद्यायोनयो भावाः सर्वेSमी बुद्धुदा इव। क्षणमुन्न्य गच्छन्ति ज्ञानैकजलघी लयम् ।I' इत्यादि। तस्मात् व्रह्मातिरिक्तं कृत्स्नं द्वैतजानं ज्ञानश्ञेयरूपमाविद्यकमेवेति प्रातीतिकसत्वं सर्वस्येति सिद्धम्। रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम्। प्रबुद्धदृष्टिसृष्टित्वात्सुषुप्तौ च लयश्रुतेः ॥ इत्यद्वैतसिद्धी दृष्टिसृष्ट्युपपत्तिः॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। व्याकाशशब्दितं ब्रह्मैव एतस्मादात्मन इत्यत्रोक्तमिति-चेन्न; एवमेवैप एतच्छेते इत्यत्राव्यवहितपूर्ववाक्ये जीवस्यैव प्राधान्येनोक्तत्वेनैतत्पद्बोध्यतवौचित्यात्, 'पुरत्रये करीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र'मित्यादिश्रुत्यन्तराख्। अप्त एव तस्माद्वा एतस्मादात्मन आकाश इत्यादिश्रुतावात्मपदं सार्थकम; ब्रह्मात्मकजीवकारणत्वपरत्वात्। अतएव श्रुत्यन्तरे ब्रह्मकारणत्वं जीवकारणत्वरूपं बोध्यम्। अतएव 'असतोऽधि मनोऽसृजत मनः प्रजापतिमसृजत। तच्चेदं मनस्येव प्रतिष्ठितं यदिदं किंचे' त्यादिश्रुत्या जगतो मनःपरिणामत्वमुक्तम्। 'एतत्सर्वं मन एवे'ति श्रुतिव्याख्याने धार्तिकेऽप्युक्तम्। शुक्कं कृप्णमणु स्थूलमिति धीः कर्मणो वशात्। द्वताधिकारमापन्ना वैश्वरूप्यं न गच्छति। धी- र्विपर्ययरूपेयं यतः शुद्धादिरूपिणि। मन एचेत्यतः प्राज्ञाः सर्व रूपं प्रचक्षते' इति ॥ यतो धीर्मनःपरिणामः, अतस्त- द्विपयोऽपि; सुपुप्तौ मनोऽभावे दृश्यदर्शनयोरभावात्, सुप्तोत्थितस्य मनोऽन्वये कार्यान्वयाच्चेत्र्थः। गौडपादीयभा- व्यतदानन्दगिरिवासिष्टसंक्षेपशारीरकादौ चायमथेः प्रप्चितः । स्थूलाधिकारिणमिति। उक्तं हि संक्षेपशारी- रके-तश्वावेदकमानदृष्टिरधमा तश्वक्षतिर्मध्यमा तत्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यदृष्टिर्मता। जीवैकतवमुमुक्षुमे- दगतितो व्यामिश्रद्ृष्टिर्द्विधा भिन्ना तत्र च पूर्वपूर्वतिलयादूर्ध्वोर्ध्वद्टष्टिर्भवे' दिति। प्रत्यक्षादिमानानां तत्वावेदकत्वदृष्टि- राद्या। तेषां व्यावहारिकमानत्वदष्टिः द्वितीया। तत्वप्रच्युतेः व्यावहारिकमानत्वस्य शुक्तिरूप्यादिबुद्धाविव प्रत्यक्षा- दिमानेपु विभ्रमत्वद्स्या क्षनिकरी जन्यदृदश्यमात्रे प्रातिभासिकत्वदृष्टिपर्यवसिता तृतीया। सापि जीवैकत्वे मुमुक्षुभेदे घ गमनात् द्विविधा। व्यावहारिकमानत्वाभावभ्रमत्वविपयकत्वेन व्यामिश्रा दृष्टिः। पूर्वपूर्वेति । मुमुक्षुभेददृष्टेः पश्चादुक्त्तत्वेऽप्यार्थिकं जीवैकत्वद्ृष्टितः पूर्वतवं बोध्यम्। उपपत्त्यन्तरमिति। अज्ञायमानतादशायां घटादावनन्तसं- योगादिकं इन्द्रियत्रियासंयोगादिकं सस्य प्रत्यक्षहेतुत्वादिकं प्रातीतिकव्यावहारिकयोर्मिथो व्यावृत्तरूपेणान्यत्र हेतुत्वा- दिकं न कल्प्यते। ज्ञानहेतुत्वस्थले विपयस्यैव हेतुत्वं जन्यज्ञानाकल्पनंचेति लाघवम्। घटं पश्यामीत्यादिप्रत्यये च घटादौ चाक्षुपाधभेदो विषयो घटादावेव चाक्षुपत्वादिधर्मस्वीकारादित्यादिरूपमिति शेपः। द्वैतजातं जातद्वैतम्।। इति लघुचन्द्रिकायां दृष्टिसृध्ट्युपपादनम्॥।
अथ दृष्टिसष्टयुपपत्तिः । (१) तत्र न्यायामृतकारा :- "जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा । अविद्या तच्चितोर्योगः षडस्माकमनादयः"। इति खवचनेन प्रत्यमिज्ञा- दिना विश्वस्थायित्वप्रतिपादकविवरणेन च विरोधात् तत्तत्कार्यस्य प्रतीतिमात्रशरीरत्वेन नियततत्तत्करणाजन्यतया खर्गा- दर्थज्योतिष्टोमादिविधेराकाशादे: वाय्वादिहेतुलोक्तेः तृप्याद्यर्थभोजनादिप्रवृत्तेक्ानुपपत्तः घटादेर्ञानात् पूर्वमसत्वेन प्रतिक- र्मव्यवस्थानुपपत्तेः शुक्तीदमंशस्यापि रूप्यवदिदं रूप्यमिति ज्ञानात् पूर्वमसत्वेन संप्रयोगादिहेतुत्रयजन्यत्वरूपतटस्थलक्षणस्य सत्यस्य मिथ्यावस्तुसंभेदावभासरूपस्वरूपलक्षणस्य चायोगात् इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेर्भावेनाध्यासस्य तदज्ञान- कार्यतादिप्रक्रियाविरोधात् इदं रूप्यमिति नेदं रजतमिति ज्ञानयोः मिन्नविषयकत्वेन बाध्यवाधकभावस्य रूप्यबाधस्याऽपि प्रातिभासिकत्वेन च रूप्यमिथ्यातस्य चासिद्धेः, सुप्तिप्रलयादौ जीवब्रह्मविभागाभावेन प्रतिसुषुप्तिप्रलयं पुनरावृत्त्यापातात् सुप्तं प्रति संस्कारादेरभावेन पुनरुद्वोधासंभवात् मोक्षस्यापि दृगन्यत्वेन प्रातिभासिकतापत्तेः चिन्मात्रस्य घटादिदृष्टित्वे तस्य सदा प्रतीत्यापत्त्या विशिष्टस्य तत्वे तस्यापि दृष्टिसष्टिरूपत्वेन दोषाज्ञानादीनामपि प्रतीतिमात्रशरीररूपाणामेव भ्रमजनक- त्वेन चानवस्थाप्रसङ्गात् दृष्टिसष्टेरपि दृष्टिसष्टित्वे घटादेरदृष्टिसष्टितापत्तेः दीपादौ परिणाममेदकस्येवात्र बाधकस्याभावेन अ. सि. ६८
Page 243
५३८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
प्रत्यमिज्ञाविरोधापत्या सोऽयं देवदत्त इति प्रत्यमिज्ञादृष्टान्तेन तत्वमस्यादिवाक्ये जह्दजहल्लक्षणासिद्धान्तविरोधापत्तेः प्रतिभासमात्रशरीराभेदज्ञानबाधकत्वासंभवात्, ध्रुवं विश्वमिदं जगदिति श्रुतिविरोधाच्च दृष्टिसष्टिवादोऽपि न युक्तः । तदयं संग्रह :- निर्बाधप्रत्यभिश्ञानात् ध्रुवं विश्वमिति श्रुतेः । स्वक्रियादिविरोधाञ्च दृष्टिसृष्टिर्न युज्यते इति॥ एतेन-चैत्रे सुप्त तद्देहादिकं तं प्रति नास्त्येव, जाग्रतो मैत्रस्य तु तद्भान्त्या भासते, प्रत्यमिज्ञा तु सोडयं दीपप्रत्यमिज्ञेव भ्रान्तिरिति वचनं-परास्तम्; "अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि" इति वाक्यमपि "नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततं" "यथोरणुनाभिः" "यथामेः क्षुद्रविस्फुलिङ्गा:" इत्यादिवाक्यशेषानुसारेण सुप्ता- धारब्रह्मणः तद्रष्ट्तापरं दृष्टिसष्टिपक्षाननुगुणमेवेति दृष्टिसध््यन्यथानुपपत्त्यापि न प्रपश्वमिथ्यात्वसिद्धिरिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिका रास्तु-
नाद्यतिरिक्तविषयत्वस्यैवाङ्गीकारेण कारणात्मना स्थायितस्ीकारेण च षडस्माकमिति वचनेन प्रत्यभिज्ञायाः स्थायित्प्रति- पादकविवरणेन चाविरोधात्, विषयबाधावाधाभ्यां विशेषोपपत्त्या खाप्नकार्यकारणभाववोधवाक्यवत्तद्यवहारवच्च ज्योति- ष्ोमादिविधे: भोजनादिव्यवहारस्य चोपपत्तेः, प्रतिकर्मव्यवस्थायाः संप्रयोगादिहेतुत्रयजन्यत्वरूपतटस्थलक्षणस्य च मन्दा- धिकारिविषयत्वेन तदयोगस्येष्टतात्, मिथ्यारूप्यस्येदमंशावच्छिन्नचैतन्येन सह संभेदावभासस्य विद्यमानत्वेनाध्यासख- रूपलक्षणस्य दृष्टिसृष्टिपक्षेऽप्युपपत्तेः, सत्ताकाले इव सत्ताविरहकालेऽ्यज्ञानस्थित्यविरोधेन शुक्तितवाज्ञानकार्यतादिसिद्धान्तप्र- क्रियाया अप्युपपत्तेः, भिन्नविषयत्वेऽपि विषयसारूप्येण बाध्यान्यूनसत्ताकत्वस्यैव वाधकताप्रयोजकत्वेन व्यावहारिकेण व्यावहारिकस्येव प्रातिभासिकेन प्रातिभासिकवाधस्याप्युपपत्त्या च स्वाप्रबाध्यवाधकयोरिवेदं रजतं नेदं रजतमिति ज्ञानयोरपि बाध्यबाधकभावोपपत्तेः, जीवव्रह्मविभागादे: दृष्टिसष्टितानभयुपगमेन संस्कारस्य च कारणात्मना स्थायित्वेन मुक्तपुनरना- वृत्तिसुप्तपुनःप्रबोधयोरप्युपपत्तेः ब्रह्मस्वरूपस्य मोक्षस्य दृगन्यतवाभावेन प्रातिभासिकत्वानापत्तेः, वृत्तिप्रतिफलित चैतन्यस्यापि स्वोपाधिवृत्तिफलन स्यैवाङ्गीकारेण वृत्त्यन्तरानपेक्षयाSनवस्थाSप्रसज्नेन तस्यापि दृष्टिसृष्टित्वेऽपि बाधकाभावेनाज्ञानम्यँव दोषत्वेन तस्य दृष्टिसृष्टित्वानभ्युपगमेन देहेन्द्रियाभावेऽपि खाप्नभ्रमवदुक्तभ्रमोपपत्त्या चानवस्थाऽप्रसंज्वात्, ज्ञानस्याज्ञेयत्वेऽपि विष- याणां ज्ञेयत्ववत् दृष्टिसृष्टेरदृष्टिसृष्टित्वेऽपि घटादेरपि दृष्टिसष्टितोपपत्तः "नेह नानास्तीति" श्रुत्या रजुसर्पादिवत् प्रतिभास- मात्रशरीरतस्य प्रपश्चे वोधनेन प्रतिभासकालातिरिक्तकालसत्वे उक्तश्रुतेरेव बाधकत्वेन प्रत्यभिज्ञाया भ्रान्तित्वेन तद्विरोध- स्याकिंचित्करलात्, धर्म्यभेदस्यापि वाधितत्वेऽपि यदा तत्र वाधाग्रहः, तदा सोऽयमित्यादो जहदजहल्लक्षणासंभवेन दृष्टान्त- लोपपत्त्या तद्दृष्टान्तेन तत्मस्यादिवाक्ये लक्षणासिद्धान्तस्याप्यविरुद्धलात्, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टिखाभावेन दृष्टि- सृष्टित्वेऽप्यन्यूनसत्ताकत्वेन बाधकत्वोक्त्या चाभेदज्ञानवाधकलोपपत्तेः, दृष्टिसृष्टिश्रुत्यनुरोधेन कल्पान्तरसन्तानाविच्छेदपरत्वेन ध्रुवश्रुतेरुपपत्तेः, सुषुप््यव्यवहितकाले क्रमोक्तये नाडीसत्प्रतिपादकत्वेन लौकिकप्रसिद्धिसिद्धकार्यकारणभावप्रसिद्धनुसा- रेणच वाक्यशेषद्वयोपपत्या यत्रेति शव्दस्य कालपरस्य ब्रह्मपरत्वाभावेन ब्रह्मसृष्टिप्रतिपादनतात्पर्याभावेन दृष्टिसष्टिपक्ष एवास्मादात्मन इति श्रुत्युपपत्तश्र दृष्टिसष्ट्यन्यथानुपपत्त्या प्रपश्चमिथ्यात्वसिद्धिरप्रत्यूहृवेति-निरूपयन्ति ॥ तरङ्गिणीकारास्तु- जीवब्रह्मविभागादीनां दृध््यसृष्टित्वे दृष्टिसध्या सर्वमिथ्यात्वासिद्धापत्त्या तया विश्वमिथ्यात्वसिद्धिरिति सवोक्त्या कारण- स्यापि मिथ्यात्वेन दृष्टिसष्टित्वेन प्रत्यमिज्ञाया स्थायित्साधक विवरणेनच विरोधात्, खाप्नसाम्ये विषयबाधाबाधाभ्यां विशे- षासंभवेन खाप्नादिसाम्यज्ञाने ज्योतिष्टोमादौ जागरे प्रवृत्त्यनापत्तेः, सवाचार्यप्रक्रियायाः मन्दाधिकारिविषयत्वकल्पनायोगेन प्रतिकर्मव्यवस्थाद्यनुपपत्ताविष्टापत्त्ययोगात्, इदंवृत्तेः प्रागिदमोऽभावेन तदवच्छिन्नचैतन्यस्याभावेन तस्य मिथ्यात्वेनच स्वरू- पलक्षणसमन्वयस्याप्यसंभवात्,ज्ञानस्यैव तत्तत्सत्तारूपत्वेन सत्ताकालेऽज्ञानासंभवेन सत्ताकाळे इवेति दृष्टान्तासङ्गत्या ज्ञानस्य
कार्योडध्यास इति स्वप्रक्रियाविरोधात्, सारूप्यस्यापि दृष्टिसष्टित्वेनोभयानुगतस्य तस्यासंभवेन सारूप्येण बाधव्यवस्थाया अप्यसंभवात्, जीवव्रह्मविभागादेः अदृष्टिसृष्टित्वे वाधकस्योक्तत्वेन कारणात्मना स्थायित्स्यापि खण्डितत्वेन च मुक्तपुनरा- वृत्तिसुषुप्तपुनरबोधयोरप्यपरिहरात्, अंसाध्यत्ापत्या मोक्षस्यापि दृगन्यत्वेन प्रातिभासिकत्वापत्तेः, वृत्ति्ञानं विना वृत्तिखव- रूपासिध्ा वृत्तिविशिष्टचैतन्याभावेन वृत्तिस्वरूपसि्धर्थ वृत्त्यन्तरविशिष्टचैतन्यस्य वृत्तिज्ञानत्वं एवं अन्यस्यान्यस्येत्यनवस्था- प्रसङ्नेनान्वयव्यतिरेकाभ्यां भ्रममात्रे देहादिहेनुत्वेन खाप्रेऽपि तद्वेतुत्वेन च तदभावे भ्रमाभावप्रसज्नात्, तत्सत्यमित्यादेरपि सन्तानाविच्छेदपरत्वापत्त्या माधवीयव्याख्यानुसारेण विश्रस्थरयपरतया व्याख्यानस्यैव युक्तत्वेन च ध्रुवश्रुतिविरोधापत्तेः,
Page 244
[एकजीववाद:] गौडब्रहानन्दीयुता। ५३९
अथ एकजीववादः । स च द्रष्टक एव; तन्नानात्वे मानाभावात्। ननु-कथमेक एव जीवः; प्रतिशरीरं 'अहं सुखी अहं दुःखी अहं संसारी अहमस्वाप्स'मित्याद्यनुभवविरोधादिति-चेन्न; अविद्यावशात् ब्रह्मैवैकं संसरति। स एव जीवः । तस्यैव प्रतिशरीरमहमित्यादिबुद्धिः। स्वाप्नशरीरे 'अयं सुखी अयं दुःखी' त्येव यत्र बुद्धिर्न त्वहं सुखीत्यादि, तत्तु निर्जीवम्। यत्र त्वहमित्यादि तत् सजीवम्। जाग्रच्छरीरान्तरे अहमिति प्रतीत्यवच्छेदके सजीवतोक्तिर्न द्वितीयेन जीवेन सजीवत्वमित्यमिप्रेत्य; तत्र मानाभावात्। बन्धमोक्षादिव्यवस्थानुपपत्तिस्तत्र मानमिति चेन्न; बन्धमोक्षगुरुशिप्यादिव्यवस्थाया: स्वप्नवद्यावद- विद्यमुपपत्तेः । न चैवं तस्मिन्नेकस्मिन्नेव जीवे सुप्ते समस्तजगदप्रतीत्यापातः; समष्ट्यभिमानिनो मुख्यजीवस्यासुप्तत्वात्। तस्मिन लयकाले प्रसुप्त जगदप्रतीतेः । अन्तःकरणावच्छिन्ने जीवाभासे तु, सुप्ते तमेव प्रति जगदप्रतीतिः, न त्वन्यानपि प्रति; तदुपाधीनामप्रलीनत्वात्। संस्कारस्य कारणा- त्मना स्थितेर्न सुप्स्य पुनरुत्थानानुपपत्तिरित्युक्तम्। एतेन-मम कल्पकत्वे तव मोक्षार्थ प्रवृत्त्ययोग :; तव कल्पकत्वे त्वत्कल्पितास्मदादिबोधार्थ तव शब्दप्रयोगाद्यनुपपत्तिः, न च स्वप्नवत् पर्यनुयोगा- योगः; एवमपर्यनुयोज्यत्वे निर्मर्यादतया कथानधिकारप्रसङ्गादिति-निरस्तम्; चैत्रमत्रादिसर्वाभि- मानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिविकल्पानुपपत्तेः । नापि स्वक्रियादिविरोधः; स्वक्रियायाः
गौडब्रह्मानन्दी (लघुचन्द्रिका)। निर्जीवं जीवावच्छेदकमनःसुखाद्यनवच्छेदकम्। समष््यमिमानिनः तत्तन्मनोऽवच्छिव्वानां तत्तदेहाभिमानाना- माश्रयस्य। लयकाले। तमेव तन्मनोSवच्छिन्नमेव। कल्पकत्वेन मनस्तत्परिणाममात्रद्वष्टत्वेन। कल्पितत्वादीत्यादिना एकजीवेन सर्वप्रमात्रादिकं कल्पितमित्याढिग्रहणम्। तथाच जीवभेदज्ञानात् एकबोधनार्थ अपरस्य प्रवृत्ति: एकजीवक- ल्पितं सर्वमिति निश्चयेऽपि मनोऽवच्छिन्नानां भिन्नत्वात् युज्यते। न हेकमनोSवच्छिन्नेनापरमनोऽवच्छिन्नं कल्पितम्। नच-एकस्य मोक्षार्थप्रवृत्ति जानतोऽपरस्य तदर्थ प्रवृत्तिर्न स्यादिति-वाच्यम्; परप्रवृत्या मोक्षावश्यंभावानिश्चयात्,
"यदा सुपुप्तो भवति यदा न कस्यचन वेद हिता नाड्य" इत्यत्र यदानिर्देशात्सुपुप्तिकाले एव नाडीसलावगमेन युष्मद्दा- प्येऽपि सुपुप्त्याधारात्परमात्मनः सृष्टिपरतयव तस्मादात्मन इति श्रुतेर्व्याख्यातत्वेन दृष्टिसष्टी प्रमाणाभावाच्च न दृष्टिसध्य- न्यथानुपपत्त्या प्रपश्चमिथ्यात्वसिद्धिरिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- जीवब्रह्म विभागादीनां दृष्यसष्टित्वेऽपि दृश्यलादिना मिथ्यातसिद्धा तया विश्वमिथ्यात्वस्यास्मदनभिमतत्वेन दृष्टिसष्टिम- तस्य मिथ्यात्वव्यापकत्वाभावेन स्वविवरणवचनविरोधाभावात्, खाप्नसाम्येऽपि दोषप्रयुक्ततवाज्ञानेनाबाधोपपत्त्या बाधावा- धाभ्यां विशेषोपपत्त्या ज्योतिष्टोमादिविधिप्रवृत्त्युपपत्तेः अधिकारिभेदकल्पितप्रक्रियाभेदानामाचार्यानूदितानामधिकारिविशे- षविषयकत्वे बाधकाभावेन प्रतिकर्मव्यवस्थानुपपत्तरिष्टलवात्, इदरूप्य मित्याकारविशिष्टविषय के कवृत्ते रेवाज्गीका रेणोपाधेर्मिथ्या- त्वेऽपि तदवच्छेदेनाधिष्ठानताश्रयस्य चेतन्यस्य सत्यत्वेन चाध्यासस्वरूपलक्षणसमन्वयसंभवात्, सृष्टिदृष्टिपक्षे तद्विशिष्टवुद्धौ तदभाववुद्धेरिव दृष्टिसष्टिपक्षे रूप्यान्तराभावधिय इव विरोधित्खीकारसंभवेनेदं रजतं नेदं रजतमिति ज्ञानयोः बाध्यबाध- कभावोपपत्तेः, स्थूलमनःपरिणामरूपजीवेशभेदादेः सुषुप्तिप्रलययोरभावेऽप्यज्ञानसत्वेन मुक्त्यभावोपपत्तेः, कार्यान्यथानुप- पत्त्याऽनुभवबलेनच भाव्यवच्छेदेनाप्यज्ञानाङ्गीकारेण शुक्तिरूप्याज्ञानकार्यतादिप्रक्रियाविरोभाभावात्, जीवब्रह्मविभागादेर्दवश्य- त्वादिना मिथ्यातोपपत्त्या सुषुप्तिप्रलययोः सूक्ष्मावस्थाविषयकनिर्विकल्पकाविद्यावृत्तिखीकारेण तदवच्छिन्नसाक्षिविषयत्स्य सूक्ष्मावस्थायां संभवेन कारणात्मना स्थायितोपपत्त्या च मुक्तपुनरावृत्त्याद्यप्रसरात्, सच्छेषु सुख्ादिध्विव वृत्त्यन्तरं विनैव वृत्तौ चित्प्रतिफलनोपपाटनसंभवेनासंभवेऽपि परस्परविषयकवृत्तिद्वयस्वीकारेणैवानवस्थादिपरिहारात् राजस्थैर्यशासने विनि- युक्ताया: ध्रुवश्रुतेः राजत्वाश्रयदेहस्य बाल्ययौवनादौ वृद्धिह्वासाभ्यां परिणामित्वेनास्थैर्यण स्थूलसूक्ष्मभावापन्नदेहप्रवाहावि- च्छेदपरत स्यैव युक्तत्वेनोक्तश्रुतिविरोधाभावात्, "एवमेवैष एतच्छेते" इत्यव्यवहितपूर्ववाक्ये जीवस्यैव प्राधान्येनोक्तत्वेनै- तत्पदबोध्यलौचित्यात्, "पुरत्रये क्रौडति यस्तु जीव"इति श्रुत्यन्तरात् "एतस्मादात्मन" इत्यात्मपदसार्थक्यात् वार्तिका- दावप्येवमेवोक्तताच्च जीवकारणतायामेवोत्तश्रुतितात्पर्येण दृष्टिसष्टिपक्षस्यापि प्रामाणिकत्वाच्च सादिदृश्यानां सर्वेषामपि तद- न्यथानुपपत्त्या मिथ्यातसिद्धिरप्रत्यूहैवेति-विवेचयन्ति ॥ इति दृष्टिसृष्यपपत्तिः।
Page 245
५४० अद्वैतसिद्धिः। [परिच्छेद: १ ]
कल्पितत्वादिनिश्चयविरहकालीनत्वेन पर्यनुयोगायोगात्। अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्ध- मोक्षाविति तस्य नित्यमुक्तत्वादिश्रुतिविरोध:, न; मुक्ते: स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन तद- विरोधः। न हि मृगतृष्णिकाकल्पितोदकेन स्वभावशुष्का मरुभूमिरार्द्रा भवति। एतेन-कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वायोग :; तेन कल्पकेन प्रत्यक्त्वेनाज्ानात्, अन्यस्यानुभवितुरभावात्, तथानुभवापलापे एकजीवाद्वैतश्रुत्यादेरप्यसिद्धिरिति-निरस्तम्; अनेकशरीरे एकजीववादस्याङ्गी- कारात्। नच-तर्हि तमेघ प्रति प्रत्यक्त्वपराक्त्वयोरयोगः, मैन्रं प्रति त्वमितिधीविषयस्य चत्रस्य तमेव प्रति अहमितिधीविषयत्वायोगश्चेति-वाच्यम्; मिन्नभिन्नान्तःकरणाभेदाध्यासेन तत्तदन्त :- करणमादाय प्रत्यक्त्वपराक्त्वाहमित्यादिबुद्धिविषयत्वव्यवस्थोपपत्तेः।न च चैत्रसुखदुःखादीनां मैत्रेणानुसन्धानापत्तिः; अन्तःकरणावच्छिन्नेनाविद्यावच्छिनेन वा। नादः तत्र परस्परं भेदात्। न द्वितीय :; इष्टापत्तेः । अत एव-चैत्रस्य शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तावन्येषामपि तन्निवृत्तिः स्यादिति-निरस्तम्; अन्तःकरणभेदेन व्यवस्थोपपत्तेः।ननु-एवं मुक्तावपि चत्राद्यन्यतमान्तःकरणा- वच्छेदेन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदितरान्तःकरणावच्छे- देनेति-चेन्न; तत्साक्षात्कारस्य सविलासमूलाक्षाननिवृत्तिरूपतया तत्कालेऽन्तःकरणस्याभावेन वैषम्यात्। ननु-श्रुतिषु 'अविद्यायामन्तरे वर्तमाना'इत्यादावविद्या, 'रमणीयचरणा'इत्यादो कर्मबन्धः, 'सति सम्पद्य न विदु'रित्यादौ सति सुषुप्तिः, 'वेदान्तविज्ञानसुनिश्चितार्था' इत्यादौ तत्वज्ञानं, 'परामृतात्परिमुच्यन्ति सर्व'इत्यादो मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति-चेन्न; 'अनादिमायया सुप्तो यदा जीवः प्रवुध्यते'इत्यादिश्रुतिष्वेकवचनप्राप्तैकत्वविरोधेनोदाहृतश्रुतीनाम- नेकत्वपरत्वाभावात्। सार्वजनीनभ्रमसिद्धतदनुवादेनाविरोधात्। नच-उदाहृतश्रुतिविरोधेन 'इति सृष्टी विनिश्चिता' इति पूर्वेण 'स पूज्यः सर्वभूताना'मित्युत्तरेणच विरोधेनेदमेकवचनं 'यदा नीतिपरो राजा' 'स्वर्गकामो यजेते'त्यादिवन्नैकत्वपरमित्येव किं न स्यादिति-वाच्यम्; प्रत्यक्त्व- पराक्त्वत्वमहमित्यादिव्यव हारप्रयोजकान्तःकरणाभेदाध्यासबलात् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तर- वाक्योदाहृतश्रुत्यादीनामतत्परत्वात्। नच-मुक्तबहुत्वं नान्यतः प्राप्तमिति-वाच्यम्; जीवबडु-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मुमुक्षुवत् प्रतारकाणामपि दष्टत्वात्, विवेकिनां मोक्षार्थ प्रवृत्तेरेव रोचमानत्वात, सांसारिकप्रवृत्ते: दुःखबहुत्वनिश्चया- दिति भावः। तथानुभवेति। नानाशरीरेपु जीवस्य प्रत्यक्त्वेनानुभवेत्यर्थः । असिद्धिरिति। तदनुभवस्याप्यपला- पसंभवात् इति शेपः । वैषम्यादिति। पल्लवाज्ञानस्य तत्तन्मनोवच्छिन्नत्वेन तत्तन्मनःपरिणामज्ञानेन निवृत्तिः, मूलाज्ञानस्य त्वनवच्छिन्नत्वेन किंचिन्मनःपरिणामज्ञानेन निवृत्या सर्वदृश्यनिवृत्तौ मनोऽन्तरमेव दुर्लभम्, दूरतस्तत्र संसारापत्तिः, प्रारब्धकर्मसत्चे तु मनोन्तरे संसार इष्टः, तत्वज्ञानावच्छदकमनसि चेति भावः। ननु-सर्वामिमा- निनो हिरण्यगर्भस्य जीवस्य स्वीकारे तस्य कल्पान्ते मुक्त्या सर्वमुक्त्ापत्तिरिति-चेन्न्न;, '्रमणा सह ते सर्वे संपाप्े प्रतिसख्जरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मित्यनेन सगुणव्रह्माहमित्युपासकानामपुनरावृत्त्या अह्ालोकस्थि- तानां कैवल्यप्राप्तिर्बोध्यते, न तु कल्पान्ते अवश्यं सेति बोध्यते; यदा कुत्रचिन्मनसि तश्वदर्शनं, तदा तेपामपि कल्पान्ते प्रारब्धभोगसमाप्त्या केवल्यप्राप्तिरित्यत्रेव तात्पर्यादिति भावः। एकवचनेति। इदमुपलक्षणम्-'एको देव: सर्वभुतेषु गूढ' इति श्रुतायेक इति पदस्यापि। तत्र 'साक्षी चेता' इत्यादिवाक्यशेषात् देवपदं पुरत्रयक्रीडकपरम्, अज्ञानावृतवस्तुस्वरूपकत्वेन गूढ इति भावः । इत्यादिश्रुतीत्यादिपदात् 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं प्रविश्यामूढो मूढ इव व्यवहरपास्ते, स एप इह प्रविष्ट' इत्यादिश्रुतयो 'देही कर्मानुगोऽवशः शरीराणि विहाय जीर्णान्यन्यानि गृह्णाति नर' इत्यादिस्मृतयश्च ग्रह्याः। अनेकत्वेति। जीवानेकत्वेत्यर्थः । अनेकत्वानुवा- देनेति। वस्तुतो अविद्यान्तरे वर्तमानत्वमविद्याप्रयुक्तदुःखाद्यभिमानित्वम्। अतएव पण्डितंमन्यमाना इति शेषः । तथाच अविद्यान्तरे वर्तमानत्वं रमणीयचरणत्वं सति लीनोपाधिकत्वं चेति त्रयं मनोऽवच्छिसस्यैव, 'सति संपद्य न विदुः सति संपत्स्यामह' इति वेतृत्वाभावस्तु स्र्तृत्वाभावरूपः; अन्यथा संपद्ेत्यस्य स्थाने संपधमाना इत्युच्येत। तथा च मनोऽवच्छिन्नताकाल एव साक्षिणसतदुक्तिः। एवं सुनिश्चितार्थतवं मनोऽवच्छिन्नस्यैव। परमुक्तिरपि शुद्धाभेदविवक्षया तस्यव; अन्यथा हेतुफलयोवैयधिकरण्यापत्तेः। गौडपादीये अनादिमाययेत्यादिवाक्ये 'स्वर्गकाम इति यजेतेतिचैकवचनस्योपादेयकत्नैक्यपरत्वेऽपि स्वर्गकाम इतिवत् सुबेकवचनमविवक्षितम्; उद्देश्यविशेषणस्य ग्रहै- कत्वाधिकरणाद़ो तथोकतत्वात्। अत एव पुंरुतवस्याविवक्षया स्तिरिया अपि पतिसाहित्येनाधिकारः षष्ठे उक्क इति भाषः ।
Page 246
[एकजीववाद:] गौडब्रझानन्दीथुता। ५४१
त्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वपर्यवसानात्। न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्वरकारणत्वविधायकैः श्रुत्यादिमिर्विरोधः; अविद्याचिन्मात्राश्रयत्वोपपादने निरसिष्यमाणत्वात्। नच-एवं सर्वकत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वम्; शुद्धचैतन्ये सत्वस्यैवाभावात्, ईश्वरस्य च जीवभिन्नस्याभावात्, जीवे सार्वश्यस्यानुभवबाधितत्वादिति- वाच्यम्; समध्यमिमानिनो जीवस्य सर्वश्ञत्वसर्वकर्तृत्वादिस्वीकारात्। न चानुभवविरोध :; अन्तः करणा मेदाध्यासबलात्तदननुभवतद्विपरी तानुभवयोरुपपत्तेः । सर्वाभिमानिनस्तु सार्वश्यानुभवो- उस्त्येव। अत एव 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतपे'त्यादुपपद्यते। नच-'आचार्यवान्पुरुषो वेदे'ति श्रुतेरुपदेशं विना जीवस्य तत्त्वज्ञानमनुपपत्रम्, उपदेष्टव्यादन्यस्य चैतन्यस्याभावाच्च नोपदेशो युज्यत इति-वाच्यम्; स्वप्न इवोपदेष्टः कल्पितस्य संभवात्। ननु-उपदेष्टृत्वं न कल्पितमात्रस्य, किंतु तत्ववित्त्वेन कल्पितस्य, तथाचोपदेशात्प्राक् तत्त्वज्ञाने तदैव मोक्षापत्तिः, उपदेशवैयर्थ्य च, नचवं स्वप्रेऽपि तुल्यम्; तदा हि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना, न तूपदेशसाध्यज्ञानविषयविशे- षवित्वेनेति विशेषादिति-चेन्न; अत्रापि तद्वदेव वाक्यविशेषवक्तृत्वेनैव तत्कल्पनसंभवात्। ननु- तर्हि 'यदेव भगवान्वेद तदेव मे ब्रूही'त्यादिश्रुतिः 'उपदेक्ष्यन्ति ते ज्ञानं शानिनस्तत्त्वदर्शिन' इत्यादि- स्मृतिश्चायुक्ता स्यादिति-चेन्नन; सामान्यतो मोक्षोपयोगिज्ञानविषयवित्वेनाक्षाततत्त्ववित्त्वेन तत्वम स्यादिवाक्यवक्तृत्वेन वा कल्पितस्य उपदेषटृत्वसंभवेन उदाहृतवाक्याविरोधात्। अन्यथा तवापि मते तत्त्ववित्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्त्वज्ञाने तत्कालमोक्षापत्त्युपदे- शवैयर्थ्यादिकं च स्यात्। एतेन-'स्वाध्यायप्रवचनाभ्यां न प्रमदितव्य'मित्यादिविधिरपि भावितन्व- ज्ञानिकल्पकचेतनं प्रत्येव, नच तस्य शिष्यः स्वाज्ञानकल्पित इति ज्ानतस्तन्मोक्षार्थ प्रवचने प्रवृत्ति- युक्ता; न च स्वप्रवत् कल्पितत्वाज्ानात्प्रवृत्तिः; तत्त्वविदस्तदश्ञानानुपपत्तेरिति-निरस्तम्; स्वप्नगु- रुवत् कल्पितत्वेन गुरोरपर्यनुयोज्यत्वात्। नच-तत्वज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववत् गुरोरपि पर्यनुयोज्यत्वमिति-वाच्यम्; तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहारात्। नच- कथास्वपि सदगुत्तरापरिस्फृर्तावहं त्वत्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति-वाच्यम्; कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेषनिबन्धनत्वेन च तादगुत्तरानवकाशात्। तस्माच्छि- ष्यवत् गुरोरपि कल्पितत्वात् स्वप्नवत्सर्वव्यवस्थोपपत्तिः। अथ-कल्पको न निश्चिताद्वैतः; शास्त्र- प्रणयनवैयर्थ्यात्, नाप्यनिश्चिताद्वैतः; शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति-चेन्न; प्रमामूलक- त्वाभावेऽप्यवाधितविषयत्वेन शास्त्रप्रामाण्योपपत्तेरन्त्यपक्षाभ्युपगमात्। न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थप्रवृत्त्ययोग :: प्रतिशरीरमहमहमिकया 'बद्धोऽह'मिति निश्चयस्य स्वानुभव- साक्षिकत्वेन प्रवृत्तिसंभवात्, पकेनैव जीवेन चैत्रमैत्रादिशरीराणां सजीवत्वसंभवस्य प्रागेवोक्त- त्वात्। किंच चैत्रमैत्रादिषु 'कोऽसा'विति प्रश्नस्य कि केनचित् क्रोडीकृतं चैतन्यं विषयः, किंवा निरस्तसमस्तमेदम्। नाद् :; तस्य कल्पितत्वेनाकल्पकत्वात्। न द्वितीयः; तस्यैकत्वेन तदनिश्चया- सिद्धेः। शुद्धचित एकत्वेन वस्तुतोऽसंसारित्वेSपि आवरणविक्षेपशक्तिद्यशालिस्वाश्रिताविद्याव-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अतत्परत्वादिति। एकत्वश्रुस्यादिकं तु तत्परम्। तस्याप्राप्तत्वाल्लाघवाश्चेति भावः । समष््यमिमानिनः तत्तम्म- नोऽवच्छिन्नतत्तद्भिमानवतः भविद्योपहितस्येत्यर्थः। सर्वामिमानिन इति। स्वकल्पितसर्वात्मकत्वसर्वश्ञत्वादिवि- शिष्टेश्वरामेदोपासनाधीनसर्वाभिमानयुक्त्तस्येत्यर्थः। उपपद्यत इति । ताडशाभिमानयुक्तप्रमात्रैव तथोक्कमिति भावः। ननु मेदस्यापि तादशज्ञानविषयत्वसंभावनया मेदवादिनोऽपि तत्वमस्यादिवाक्यवक्तृत्वसंभवाद्विशिष्य तश्वज्ञत्वेनैव गुरु: कल्प्यः, तत्राह-अन्यथा तवापीति। तथाच भेदिमते स्वसिद्धान्तश्रवणाद्यथा नाट्वैते तत्संभावना, तथैवाद्वैतमतेऽपि मेदे न तत्संभावना। यथाच तघ मेदानिर्णयेऽपि मेदनिर्णयवानयमिति कल्पना, तथा ममाद्वैत- निर्णयवानिति कल्पना; अन्यथा तत्वनिर्णयात् पूर्व तत्र मोक्षसाघनत्वज्ञानासंभवादिच्छापि न स्याद्। यथा तवेदानी मेदधीसरवेऽपि विचारजन्यं शास्त्रीयज्ञानमेव मोक्षहेतुः, तथा ममाऽपि ताद्शमद्वैतज्ञानमेव तथेति भावः । भावित- स्वश्ञानकल्पकचेतनमिति । सर्वमोक्षकारणतश्वज्ञानयुक्तो भावीति शिष्यशास्त्रादिकल्पकचेतनः, तमित्यर्थः। प्रवचने अध्यापने। समयबन्घेति । नियमबन्धेत्यर्थः । तादृशताद्ृशाक्षेपपर्यनुयोगघटितकथाया एव तस्वनिर्णयहे- नुस्वादिति भावः । प्रमेति। निश्रयेत्यर्थः । अन्त्येति। आध्यपक्षेऽरपि न दोषः । 'चैत्रो मझे'ति वाक्यजन्मनिर्विकल्प-
Page 247
५४२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
शात् संसारित्वकल्पकत्वमोक्षार्थयतमानत्वाद्युपपत्तिः। ननु-अनादी संसारे कस्यचित्तत्त्वज्ञानं मुक्तिश्चाभून्न वा, आद्ये इदानीं संसारोपलब्धिर्न स्यात्: जीवस्यैकत्वात्, अन्त्ये संप्रदायासंभवेन तत्त्वज्ञानासंभव इति-चेन्न; न ह्यसांप्रदायिकत्वमुत्पत्तिविरोधि; अपूर्वजातीयानुत्पत्तिप्रसङ्गात्, किंतु कारणासत्त्वं: तन्नेदानीमुपदेष्टत्वादिकारणस्य कल्पनासुदृढस्य सत्वात्। जीवैक्यस्य प्रमाण- सिद्धत्वे संसारोपलम्भ एवातः पूर्व तत्त्वज्ञानानुत्पत्ती प्रमाणम्। नच-तत्त्ववित्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिर्माभूत्, मम तु भविष्यतीति कथं श्रद्दध्यादिति-वाच्यम्; शास्त्रप्रामाण्य- दाढ्यादिति गृहाण। अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्तिप्रतिबन्धापत्तेः । ननु-तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेदः; पूर्वमपि केषांचिन्मो क्षश्चाभ्युपेयताम्। श्रूयते हि-'तद्यो यो देवानां प्रत्यवुध्यत स एव तद्भवत्तथर्षीणां तथा मनुष्याणां' 'अजो ह्योको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' 'नित्यो नित्यानां चेतनश्चेतनानाम्' इत्यादि। स्मर्यते च-'बहवो ज्ञानतपसा पूता मन्द्ावमाश्रिताः। इदं ज्ञानमुपाश्रित्य मम साधर्म्य- मागता: I' इत्यादीति-चेन्न; उक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानुवादकत्वेन तत्परत्वाभा- घात्, जीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वात्, स्वप्नन्यायेन भेदस्य कल्पितत्वो- पपत्तेश्च। ज्ञानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति; तात्पर्यवद्वाक्याविरोधेनाता- त्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः । 'अतीतानागताश्चैव यावन्तः सहिताः क्षणाः। ततोऽप्यनन्तगु- णिता जीवानां राशयः पृथक् ॥' इत्यादिस्मृतिरपि जीवोपाधिमेदानुवादकतया व्याख्येया। तस्मा- दविद्योपाधिको जीव एक एवेति सिद्धम्॥ इत्यद्वैतसिद्धौ एकजीवाजानकल्पितत्वोपपत्तिः ॥ गौडव्रह्मानन्दी (लघुचन्द्रिका)। कनिश्चयस्य मोक्षाजनकत्वेन विजातीयस्यैव मोक्षजनकत्वेन तादृशानिश्चयेन शास्त्रप्रणयनसंभवात्, मोक्षजनकज्ञानमूल- कत्वं तु न शास्त्रस्यापेक्ष्यत इति ध्येयम्। केनचित् मनआदिना। कोडीकृतं विशिष्टं प्रमातृरूपम्। एकत्वेनेति। नच-तत्तन्मनउपहिते अमुक इत्यनिश्चय इति-वाच्यम्; अविद्योपहितस्यैव मनउपहितत्वेन सर्वमनउपहितानां कल्पकत्वनिश्चयात्। संप्रदायेति। अनादितत्वज्ञानप्रवाहेत्यथः । अपूर्वजातीयेति । पूर्वानुपलब्ध चैत्रत्वाढिजाती- येत्यथः । ननु-विहितक्रियातज्जनकादृष्टतत्फलानामनादित्वेन नापूर्वजातीयमुत्पद्यत इति-चेत्, तथापि न क्षतिः; चैत्रतवादिजाते: दष्टकारणप्रयोज्यत्वात्। न हि चत्रशरीरसुद्दिश्य किंचिद्विहितम्। किंच यत् सुखस्य दुःखस्य वा जनकं विजातीयं, तदेवादृष्टजन्यम्, अतादृदशं तु दृष्टकारणकजन्यं साद्येव। किंच तत्वज्ञानमप्यनाद्येव; अधीतवाक्या- धीनतद्रवाहानादित्वसंभवात्, असंभावनादिशून्यजातीयं ज्ञानं तु साद्येव; तादृशज्ञानत्वस्य कार्यतानवच्छेदकत्वात्। नच-विजातीयत्वेन तस्वज्ञानस्य मोक्षहेतुत्वाद्विजातीयत्वस्यावश्यं कार्यतावच्छेदकत्वेन तदाश्रयस्यानादित्वापत्ति- रिति-वाच्यम्; एकजीववादे तद्यक्तित्वस्यैव जातिस्थानीयत्वात्, सर्वजातीनामाश्रयानादित्वस्यानुभवविरोधात्। न हि विजातीयघटादिकं सर्वदाऽस्तीत्यत्र मानमस्ति॥ इति लघुचन्द्रिकायां एकजीवाज्ञानकल्पितत्वोपपत्तिः॥
अथ एकजीववादः। (१) तत्र न्यायामृतकारा :- एकस्मिन् जीवे सुप्ते जगदप्रतीत्यापातात्, उद्धोधकसंस्काराभावेन पुनरुद्वोधायोगात्, मम कल्पकत्वे मोक्षार्थतत्प्रवृत्तेः तव कल्पकत्वेऽस्मदादिवोधार्थशव्दप्रयोगस्य चानुपपत्तेः निर्मर्यादतया कथानधिकारापातेन खाप्रपुरुषवत्कल्पितत्वेनापर्य- नुयोगासंभवात्, सजीवशरीरेप्विवान्यत्रापि अहं मुखी दुःखीत्याद्यनुभवविरोधान्, ब्रह्मण एव जीवत्वंन तस्यैव बन्धमोक्षा- विति नित्यमुक्तत्वश्रुतिविरोधात्, कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्तायोगात्, मैत्रं प्रति लमिति धीविषयस्य चैत्रस्य तमेव प्रति अहमिति धीविषयत्वासंभवेन तमेव प्रति प्रत्यक्लपराक्वयोरसंभवेन अन्यसुखदुःखाद्यननुसंधानप्रयोजकस्य व्यावहारिकजीवभेदस्याप्यभावेन चैत्रसुखदुःखानां मैत्रेणानुसन्धानापत्त्या छुकादिदेहस्थस्य तत्ज्ञानमोक्षी नान्यस्येति बन्ध- मोक्षव्यवहारस्य अविद्यायामन्तरे वर्तमाना" "रमणीयचरणाः" "सति संपद्य न विदुः" वेदान्तविज्ञानसुनिश्चितार्थाः" इत्यादौ चेतनधमाविद्याकर्मबन्धसुषुप्तितत्ज्ञानानामनंकधर्मत्ोक्तेर्जीवकारणतनिषेधेन तत्कल्पितेश्वरकारणतव्यवस्थापनस्य च विरोधेन चानेकशरीरकैकजीववादासंभवात्, जीवकल्पितेश्वरस्याहं सर्वज्ञः इति ज्ञातृताभावेन "तान्यहं वेद सर्वाणी"ति स्मृतिविरोधातू, "यदेव भगवान् वेद तदेव मे ब्रूहि" "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्दर्शिनः" इति श्रुतिस्मृतिविरो-
Page 248
[एकजीववाद:] गौडब्रह्मानन्दीयुता। ५४३
धापत्योपदेशसाध्यज्ञानविषयविशिष्टत्वेनेव गुरुकल्पनाया आवश्यकत्वेनोपदेशात् प्रागेव तख्ज्ञानेन मोक्षोपदेशवैयर्थ्ययोः प्रसभ्गात्, तत्वविदः कल्पितत्वाज्ञानानुपपत्त्या स्वकल्पितः शिष्य इति जानतो गुरोः प्रवचने प्रवृत्त्यसंभवेन "साध्यायप्रव- चनाभ्यामिति विधिवैफल्यात्, शास्त्रप्रणयनवयर्थ्यापातेन तस्य प्रमामूलकत्वाभावप्रसङ्गेन च निश्चितद्वैतस्यानिश्चिताद्वैतकस्य वा कल्पकत्वासंभवात् गुरुशिष्यादिशब्दैः केनचित् क्रोडीकृतचैतन्यस्य शुद्धचैतन्यस्य वा प्रथमस्याकल्पकत्वेन द्वितीयस्यैकत्वेन निश्चितत्वेन प्रवृत्त्यनुपपत्त्या च विवक्षणासंभवात्, अनादौ संसारे कस्यचित् तत्वज्ञानोपपत्ती इदानीं संसारानुपलब्ध्यऽनुत्पत्तौ संप्रदायासंभवेन च तत्वज्ञानं वामदेवादीनां तत्वज्ञानाभावेऽपि मम परं भविष्यतीति श्रद्धायाश्रासंभवापत्तेः, शास्त्रप्रामाण्यादु- पपत्तिवर्णनेच "तद्ो यो देवानामि"ति शास्त्रप्रामाण्येन पूर्वमपि केषांचित् तत्वज्ञानावश्यकत्वेनेदानींतनसंसारोपलब्धिवि- रोधापत्तेश्चैकजीववादो न युक्त इति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- अविद्यावशात् सर्वशरीरेपु संसरतः समध्यभिमानिन एव मुख्यजीवत्वेन तस्यासुप्तत्वेन सुप्तेच तस्मिन् लयकाले जगदप्र- तीतेरिष्टत्वात्,संस्कारस्य कारणात्मनाऽवस्थितेः मुप्तपुनरुत्थानोपपत्तेः, समध्यभिमानिन एव कल्पकत्वेन प्रतिशरीरमहंप्रत्य- यविषयत्वेन च तव ममेत्यादिविकल्पाद्यनुपपत्तेः, ब्रह्मण एव जीवत्वेऽपि वन्धस्याविद्यकत्वेन नित्यमुक्तत्वश्रुतिविरोधाभावात्, मिन्नमिन्नान्तःकरणाभेदाध्यासेन तत्तदन्तःकरणमादाय प्रत्यक्तपराक्तादिव्यवस्थोपपत्त्या तत एव चैत्रसुखानां मैत्रेणाननु- संधानस्य "अनादिमायया सुप्तो यदा जीवः प्रवुध्यते" इति एकत्वश्रुतिविरोधेनाविद्यायामित्यादिश्रुतेर्श्रमप्राप्तबहुत्वानुवादेन- वोपपत्तेवर्णनीय तयाSविद्याकर्मवन्धादी नामने कधर्मेलो क्तेक्वोपपत्त्येश्वरकारणत्व्यवस्थापन सिद्धान्तविरोधाभावस्या विद्याचिन्मा- ्ाश्चयत्वोपपादनावसरे निरूपगिष्यमाणत्वेनचानेकशरीरकैकजीववादसंभवात्, समश्यभिमानिनो जीवस्यैव सर्वज्ञत्वस्य "तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतपे"ति स्मृत्यनुसारेण वर्णनीयतया सर्वज्ञतादिश्रुतीनामुक्तस्मृतेश्व निर्विषयताभावेन तद्विरोधाभावात्, सामान्यतो मोक्षोपयोगिज्ञानविशेषवित्त्वेनाज्ञाततत्ववित्त्वेन तत्वमस्यादिवाक्यवक्तृत्वेन वा कल्पितस्योपदेष- त्संभवेन "यदेव भगवानित्यादिश्रुतिस्मृतिविरोधमोक्षापदेशवैयर्थ्यानामप्रसङ्गात्, शिष्यवद्गुरोरपि कल्पितत्वेन खप्रगुरोरिव प्रवचनादी प्रवृत्त्युपपत्त्या सर्वव्यवस्थोपपनेः, प्रमामूलकत्वाभावेऽप्यवाधितविषयकत्वेन शास्त्रप्रामाण्योपपत्त्याSनिश्चिता- द्वैतकल्पकत्वाविरोधात्, एकत्वेन वस्तुतोऽसंसारिणोऽपि शुद्धचनन्यस्य स्वाश्रिताविद्यावशेन कल्पकत्वाद्युपपत्तेः, अपूर्वजाती- यानुत्पत्तिप्रसज्वेनासांप्रदायिकत्वम्योत्पत्तिविरोधितवाभावेन कारणासत्वस्यैव तद्विरोधित्वेन च कारणाभावात् पूर्व तत्वज्ञानानुत्प- त्तावपि कारणसमवधाने इदानीं पश्चाद्वा तत्वज्ञानोत्पत्तिसंभवेन शास्त्र प्रामाण्यदाढ्यात्तत्वज्ञानोत्पत्तिविषयकश्रद्धादेरपि संभवात् "तदो यो देवानामि"त्यादिश्रुतीनां श्रमसिद्धजीवभेदाद्यनुवादकत्वेन तद्विरोधाभावाचचकजीववादोऽपि युक्त एवेति- निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- समध्ट्यमिमानिनो हिरण्यगर्भस्य मुक्ते: प्रमाणसिद्धत्वेनेदानींतनसंसारोपलम्भविरोधापत्या सवस्याचित्वे जगदान्ध्यापातेन चान्तःकरणावच्छिन्नचैतन्यस्यैव मुख्यजौवत्वेननानाजीववाद एव पर्येवसानात्,बन्धतत्वज्ञानमोक्षावच्छेदकानां मेदे ना- नाजीववादापत्ते: अभेदे चत्रसखाद्यननुसंधानस्य मंत्रादी एकस्यैव प्रत्यक्तपराक्वयोक्षानुपपत्तेः, अनादित्वेनोत्पन्न जातिया- पूर्वस्याप्रसिद्धाऽसांप्रदायिकत्वस्यैवोत्पत्तिविरोधित्वेन संप्रदायासंभवे तत्वज्ञानश्राद्धाद्यसंभवात् भेदस्यापि सामान्यतो मोक्षो- पयोगिज्ञानविषयत्वसंभावनया विशिष्य ज्ञातव्यत्वेन भेदवादिनोऽपि तत्वज्ञस्यादिवाक्यवक्तृत्वेन च सामान्यतो मोक्षोपयो- गिज्ञानवित्त्वादिरूपेण कल्पितस्याद्वतोपदेष्टतवायोगेनोपदेशसाध्यज्ञानविषयविशेषवित्त्वेनवोपदेष्ट्रकल्पनाया आवश्यकत्वेनोपदे शादिवैयर्थ्यप्रसन्नेन "यदेव भगवानि"त्यादिश्रुतिस्मृतिविरोधाचैकजीववादो न युक्त इति प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- "ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्वरे" इति वचनेन सगुणब्रह्मोपासकानां ब्रह्मलोकस्थानां प्रारब्धभोगसमाह्या कैव- ल्यबोधनेऽपि कल्पान्ते हिरण्यगर्भमुत्तयवोधनेनेदानींतनसंसारोपलम्भोपपत्त्या मनसो बन्धतत्वज्ञानमोक्षावच्छेद कत्वेन चैत्र सुखादीनां मैत्रेणाननुसन्धानोपपत्या अन्तःकरणभेदेन तदवच्छिन्नजीवाभासभेदसिद्धावपि मुख्यजीवमेदासिद्धा च नानाजीववादपर्यवसानाभावात् चैत्रलादिजात्तेरिवानादित्वेऽप्युत्पत्त्युपपत्त्याऽपूर्वजातीयानुत्पत्तिप्रसङ्गेनानुपपत्तावपि अधीत- वाक्याधीनतत्प्रवाहानादित संभवेन तत्वज्ञानस्याव्यनादित्वेनासंप्रदायिकत्वस्योत्पत्तिविरोधित्वेऽपि बाधकाभावेन च तत्वज्ञान- तच्छ्रद्धाद्युपपत्तेः, भेदमते खसिद्धान्तश्रवणेनाद्वैत इवामेदमते मेदेऽपि तत्संभावनाऽप्रसज्नेन सामान्यतो मोक्षोपयोगिज्ञानविष- यचित्त्वेन तादृशविषयसमर्पकतत्त्वमस्यादिवाक्यवक्तृत्वेन वोपदेष्टकल्पनाया अविरोधातू, वस्तुतस्तु तवेव ममापि विचार-
Page 249
५४४ अद्वैतसिद्धिः । [परिच्छेद: १]
अथाज्ञानवादेऽज्ञानलक्षणनिरुकि:। अथ-केयमविद्या? न तावदनादिभावरूपत्वे सति ज्ञाननिवर्त्या सेति; सादिशुक्त्याद्यवच्छिन्नचै- तन्यावारकाज्ञाने व्याप्तेः, तस्यानादित्वाभावात्। अभावोपादानाशाने च भावत्वाभावात्तत्राव्याप्तिः, अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात्, अजञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यात्-इति, अत्र त्रूमः, रूप्योपादानाजानमप्यनादिचैतन्याश्रितत्वादनाघयेव, उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः। भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम्,
नकत्वनियम :; अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति-वाच्यम्; सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यस्य वैजात्यस्य वा आपादयितुमशक्यत्वात्। न हि कार्याकारकारणाकारतोऽप्यभेदे कार्यकारणभावः; सत्यस्य त्वसत्योपादानत्वे सत्यस्य निवृ- त्यसंभवेन तदुपादेयस्यासत्यस्यापि निवृत्तिर्न स्यात्, उपादाननिवृत्तिमन्तरेणोपादेयानिवृत्तेः, अतो न सत्यमसत्यस्योपादानम्; सत्यस्यापरिणामित्वाञ्च। विवर्ताधिष्ठानत्वं त्वभ्युपेयत एव। नच-ब्रह्मा- झञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेऽव्याप्तिः, तस्य ज्ञानानिवर्त्यत्वादिति-वाच्यम्; स्वरूपसदुपाधिमत्त- द्विषयकज्ञाननिवर्त्यत्वस्य तन्मतेऽपि भावात्। उपपादितं चैतत् दृश्यत्वहेतूपपादने। अथ-औपा- घिकभ्रमोपादानाश्ञाने ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ाने च ज्ाननिवर्त्यत्वाभावाद- व्याप्तिः; तयोरश्ाननिवर्त्यत्वे उपाधिकालजीवन्मुक्तिकालयोरेव ज्ञानप्रागभाववत्तन्निवृत्त्यापत्तिरिति- चेन्न; उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निवृत्तिविलम्बेSपि तयोरशाननिवर्त्यत्वान पायात्। न हि क्वचिदविलम्बेन जनकस्य क्वचित् प्रतिबन्धेन विलम्बे जनकताऽपैति। न च तर्हि ज्ातेऽपि तत्राज्ञात इति व्यवहारापत्ति :; तादृग्व्यवहारे आवरणशक्तिमदश्ञानस्य कारणत्वेन तदाव- रणशक्त्यभावादेव ईदृग्व्यवहारानापत्तेः। यथा चैतत्तथोपपादयिष्यते। न चाविद्याचैतन्यसंबन्धेS तिव्याप्तिः; साक्षाज्जाननिवर्त्यत्वस्य विवक्षितत्वात्, नस्याप्यविद्यात्मकत्वाद्वा। न च विशेषणान्तर- वैयर्थ्यम्; अनादिपदस्योत्तरज्ञाननिवर्त्ये पूर्वश्ञाने भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वात्। ज्ञानत्वेन साक्षात्तन्निवर्त्यत्वं तु भवति लक्षणान्तरम्। ननु- असंभवः; कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याश्ञानस्य ज्ञाननिवर्त्यस्याभावविलक्षणस्य च रूप्यव दनादित्वायोगादिति-चेन्न; कल्पितत्वमात्रं हि न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्रम्, किंतु प्रतिभासकल्पकसमानकालीनकल्पकवत्वं, सादिकल्पकवत्वं, विद्याSनिवृत्त्यप्रयुक्तनिवृत्ति- गौडब्रह्मानन्दी (लघुचन्द्रिका)। स्यादिति। तथाचेति शेषः । तद्वच्छेदकमिति। तार्किकादिमते अनाद्यत्यन्ताभावस्य यथा तत्तत्कालादिरव- चछेदक इति शेषः। न सत्यमिति। निमित्तनाशादिनैवासत्यस्य नाश इति तु न युक्तम्; दृश्यमान्ने ज्ञाननाश्यतवस्य श्रुत्यनुभवादिसिद्धत्वेन उपादानाज्ञाननाशस्यावश्यकत्वात्। अपरिणामित्वादिति । परिच्छिन्नत्वस्य मिथ्यात्वव्या- प्यत्वादिति शेपः । स्वरूपसदुपाधिमत्तद्विषयकेति। उपाध्यविषयकत्वे सत्युपहितविषयकेत्यर्थः। कारणत्वेन विषयतवेन। यथाचैतदिति। शकतेरज्ञानान्यत्वेऽपि न तस्यामतिव्याप्तिः; निवर्त्यशक्तिमत्त्वस्यैव लक्षणत्वसंभवादि- त्याधुपपादनमिति भावः । अविद्यात्मकत्वादिति । स्वरूपमेव संबन्ध इति भावः। प्रतिभासकल्पकेत्यादि।
भाव:। सादिकल्पकेति । अविदयोपहितचिद्रूपोऽविद्याकल्पकोऽनादिः । शुक्तिरूप्यादेस््वधिष्ठानज्ञानवान् कल्पकः सादिः। अथवा सादिकल्पनाविषयस्वमित्यर्थः । अविदयायास्तु कल्पना स्वोपहितचिदेव, न वृत्तिरिति भावः। प्रलयादावप्यविद्याविपयिका वृत्तिरन्यदैव वेति मतेऽप्याह-विद्येति। विद्याया अनिवृत्तिः संबन्धः तद्प्रयुक्का निवृत्तिः नाज्ञानस्य; किंतु तत्कार्यस्य; जीवेशमेदादिनिवृत्तिरपि तव्युक्केति भावः। तस्या अपि तदप्रयुक्तत्वे आह-
जन्यतत्वज्ञानस्यैव मोक्षहेतुत्वेन तत्वविषयविशेषविज्ञानस्योपदेशात् प्रागेव सत्वेऽपि मोक्षोपदेशनैय्भ्यांप्रसन्नान्च सर्वव्यव- स्थोपपत्त्या एकजीववादोपपि युक एवेति-विवेचयन्ति॥ इत्येकजीववादोपपच्तिः।
Page 250
[अविथालुक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ५४५
प्रतियोगित्वं, प्रागभावप्रतियोगित्वं वा तन्ररम्। न च तत् प्रकृतेऽस्ति। ज्ञाननिवर्त्यत्वसमानाधिकर- णाभावविलक्षणत्वेनाविद्याया: सादित्वसाधने 'अजामेकाम्' 'अनादिमायये' त्यादिशास्त्रविरोधः, अनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्षश्च, भावत्वस्योपाधित्वं च। नच-अभावविलक्षणाविद्यादौ भावविलक्षणत्वमसंभवि, परस्परविरोधादिति-वाच्यम्; भावत्वा- भावत्वयोर्बाधकसत्वेन तृतीयप्रकारत्वसिद्धी परस्परविरहव्यापकत्वरूपविरोधासिद्धेः, परस्परविर- हव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति। नहि गोत्वविर्होऽश्वत्वमाक्षिपतीत्युक्तम्। नचात्मवदनादेरभावविलक्षणस्यानिवर्त्यत्वम्; आत्मत्वस्यैवोपाधित्वात्। नचात्यन्ताभावान्योन्या- भावयोः साध्याव्याप्तिः; अधिकरणातिरिक्तस्यानिवर्त्यस्यात्यन्ताभावादेरनभ्युपगमात्। नच तुच्छे साध्याव्याप्तिः; अभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्य व्यापकत्वोपपत्तेः। किंच सादित्वमनादित्वं वा न निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकम्; ध्वंसप्रागभावयोस्तदभावात्। नापि भावत्वविशेषितं तत् तथा; अभावे तदसत्वेन भिन्नभिन्नप्रयोजककल्पनापत्तेः, भावनिवृत्त्यनिवृत्त्योरेव तयोः प्रयोज- कत्वे च भावविलक्षणाविद्यादौ ताभ्यां तयोरनापादनात्। तस्मान्नाशसामग्रीसन्निपातासन्निपातावेव निवर्त्यत्वानिवर्त्यत्वयो प्रयोजकाविति मन्तव्यम्। तो च फलबलकल्प्याविति न कोऽपि दोषः। अपि- च यद्यविद्यादेरभावविलक्षणत्वसमानाधिकरणानादित्वेनात्मवदनिवर्त्यत्वं साध्यते, तर्हि भावविल- क्षणत्वेन प्रागभाववन्निवर्त्यत्वमेव कि न साध्यते? नच ध्वंसात्यन्तान्योन्याभावेषु व्यभिचारअधिकर- णातिरेके तेषामपि निवर्त्यत्वाभ्युपगमात्। नच-अज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुघृत्ति नियमेन निवृत्त्ययोग इति-वाच्यम्: दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपग- मेन साक्षिभास्यानां यावत्साक्षिसत्त्वमवस्थाननियमानभ्युपगमात्। किंच केवलचिन्मात्रं न साक्षि, किंत्व्रविद्यावृत्त्युपहितम्: तथाचास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्त्वपर्यन्त-
सादिपदार्थ एवैतादङनियमात्, धारावाहिकाविद्यावृत्तिपरम्पराया अतिसूक्ष्माया अभ्युपगमाश्चेति शिवम्॥ यदा भ्रमोपादानत्वमज्ञानलक्षणम्। इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मेति पक्षे, न तु ब्रह्ममात्रोपादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा; अतो ब्रह्मणि नातिव्याप्तिः, इतरत्र तु पक्ष परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीयमिति न दोष :; न वाऽ्भावारोप निचर्तकप्रमानिवत्यऽव्याप्तिः तस्यापि भ्रमोपादानत्वात्। ननु-भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटतेः भ्रमस्य भावविलक्षणन्वे उपादेयत्वायोगात्, भावत्वे च भावोपादानकत्वनियमादिति- चेन्न; अज्ञानस्य भ्रमस्य च भावविलक्षणत्वेऽप्युपादानोपादेयभावोपपत्तेः । नहि भावत्वमुपादानत्वे उपादेयत्वे वा प्रयोजकम्: आत्मनि तददर्शनात्, किंत्वन्वयिकारणत्वमुपादानत्वे तन्न्म्; सादि-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रागभावेति। प्रकृते अज्ञाने। बाधकेति। विनाशिभावस्य सादित्वनियमो भावत्वे उपादानत्वादिमत्वमभावत्वे बाधकम्। वस्तुतो भावत्वं सद्रूपत्वम्, अभावत्वमसद्रूपत्वम्। आद्ये बाध्यरवादि बाधकम्। द्वितीये जनक- त्वादि। अत एवाभावविलक्षणत्वं तुच्छव्यातृत्तमिति वक्ष्यते। अभावत्ववर्माश्रयविलक्षणत्वं तुच्छेऽप्यस्ति। अत एव सद्विलक्षणयोरज्ञानभ्रमयोरित्यादि वक्ष्यते। यन्तु-तृतीयप्रकारे सिद्धे विरोधासिद्विः तस्यां सस्यां स इत्यन्योन्याश्रय :- इति, तन्न; तृतीयप्रकारस्य बाधकसत्त्राधीनत्वेन विरोधासिद्धनपेक्षत्वात्, अन्यथा कर्मादौ द्रव्यगुणाद्यपेक्षया तृतीय- प्रकारो न स्यात्। अनादेरिति। अनादित्वे सत्यसद्विलक्षणत्वं हेतुः। प्रागभाववारणाय विशेष्यम्। अभावमात्रं तु तुच्छत्वान्ासद्विलक्षणम्। अभावस्यातुच्छरवेऽपि तुच्छवारणायैव तत्। साक्षिणि अविद्योपहितचिति। वृश्युपहितस्य साक्षित्वमतेऽप्याह-किंचेति। धारावाहिकेति। सर्वदोत्पध्यमानेत्यर्थः । अविद्याविषयिणि वृत्तिरेकैवेति स्वीकारे संस्कारानुपपत्तिः। संस्कारोत्पत्तिपूर्वमेकैव वृत्तिरिति स्वीकारे संस्कारोत्पत्तिकाले अनादविद्यादेरसश्वापत्तिः। यावत्कालं वृत्तिस्वीकारे दोषाभावः, तावरकालमेकैव सा, तमाशे कारणविशेषकल्पनाओोप्तरवृत्तिमात्रेण तदापत्तिः; अन्यथाऽन- न्तवृत्तिकल्पने गौरवादिति तुयुक्तम्। यन्तु-प्रतीतिसथ्ये सुखादनाशासंभवः; तमाशकस्यैव तभ्नाशकत्वात्, वृश्युपहितचितः सुखादिसाक्षित्वे तु सुखादिधी: व्यावहारिकप्रमा न स्थात्; दोषजन्यतवात्-इति; तन्न; सुखादिनि- मित्तनाशादेरपि सुखादिनाशकतवसंभवात्, आगन्तुकदोषाजन्यत्वेनाविद्यादोषजन्यस्यापि सुखादिज्ञानस्य प्रमात्वसंभ- वाक। ग्रह्माण: परिणामित्ववादिनं प्रस्यप्याह-अचेतनत्वेनेति। निवर्त्ये निव्त्याज्ञाने। तस्यापीति। अभाववि- अ. सि. ६९
Page 251
५४६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
त्वमुपादेयत्वे, तदुभयं च न भावत्वनियतम्। अत उपादानोपादेयभावोऽपि न भावत्वनियतः। न- चैवं ध्वंसस्याप्युपादेयत्वापत्तिः इष्टापतेः। न चैवं-ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किम- भावविलक्षणाज्ञानोपादानकल्पनेनेति-वाच्यम्; प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः, तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात्। अतः सद्विलक्षणयोरज्ञान- भ्रमयोर्युक्त उपादानोपादेयभावः । भ्रमस्य च सद्विलक्षणत्वमुक्तम्। वक्ष्यते च। नच-एवमशानानु विद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येवेति-वाच्यम्; यत् यदुपादानकं, तत् तदनुविद्धतयैव प्रतीयत इति व्याप्यसिद्धेः। न हि घटोपादानकं रूपं घट इति प्रतीयते; प्रकृतिद्य- णुकाद्यनुविद्धतया प्रतीतेः परैरप्यनभ्युपगमात्, केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव। नच यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे भ्रमापूर्वकप्रमानिवर्त्येऽज्ञाने अव्याप्तिः भ्रमोपादानतायो- ग्यत्वस्य विवक्षितत्वात्, सहकारिवैकल्यात् कार्यानुद्येऽपि योग्यतानपायात्। अथ योग्यतावच्छे दकरूपपरिचये कथं तड्रहणम् ! प्रथमलक्षणस्यैव योग्यतावच्छेदकत्वात्। एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमोपादानत्वमक्षतमेव। न चैवं शुक्तिज्षानेनैवाज्ञाननाशे मोक्षापत्तिः; तस्यावस्थाविशेषना- शकत्वाङ्गीकारात्। व्युत्पादितं चैतदस्मामि: सिद्धान्तबिन्दी। ज्ञानत्वेन रूपेण साक्षाज्जञाननिवर्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव; तस्मान्नाविद्यालक्षणासंभव इति सर्वमवदातम्। इत्यद्वैतसिद्धा- वविद्यालक्षणोपपत्ति:।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। लक्षणस्याप्यज्ञानस्याभावोपादानत्वसंभवस्योक्त्येनेत्यादिः। आत्मनीति। शुद्धात्मा नोपादानमिति पक्षे शुद्धात्म- नीत्यर्थः। अन्वयिकारणत्वं कार्यात्मककारणत्वम्। ज्ञानप्रागभावस्य भ्रमनिवृत्तिस्वरूपयोग्यप्रमाप्रागभावस्य। निरस्तत्वादिति। प्रागभावे मानाभावः, भावे वा मनोनिष्ठे परोक्षप्रमाप्रागभावे शुक्तिरूप्याध्युपादानत्वासंभवः; यत्र विषये कदापि प्रत्यक्षप्रमा न जाता, तत्र तत्प्रागभावस्यालीकचेन तदसंभवः; यत्र प्रत्यक्षप्रमास्ति, तत्रापि न आगभावस्य भ्रमोपादानन्वेन सिद्धिः; तस्य सप्रतियोगिकत्वकल्पने गारवात्। ननु 'शुक्को घटः' 'मृद्वट' इत्यादिशुक्ध- श्वमृश्वादिना रूपप्रकृत्यादितादात््यं प्रतीयत एव, तत्राह-केनेति। यथा शुकतवादिना रूपाद्यनुवेधः, तथा जडत्वा- दिना अज्ञानानुवेधोऽस्त्येव; अज्ञानत्वेनाननुवेधस्तु, भ्रमस्य भ्रमत्वेनाज्ञ नातू, अत एव वाधकाले 'नेदं रूप्यं, रूप्य- मिति यत् ज्ञानं तदज्ञान'मिनि प्रनीयत इनि भावः। योग्यतेति । कारणतावच्छेदकी भूताज्ञानत्वजानीत्यर्थः । अवच्छेदकरूपेति। व्याप्येत्यर्थः । अवस्थाविशेपास्वीकारपक्षेऽप्याह-व्युत्पादितमिति। प्रमाविरहविशिष्टमज्ञानं न भातीत्यादिव्यवहारनियामकमित्याद्युक्तम्। नव्यमते उक्तज्ञानादेरपि ज्ञानत्वादिनैव स्वपूर्वत्वसंबन्धेन निवर्तकत्वा- दाह-साक्षादिति। समानविषयत्वप्नत्यासत्येत्यर्थः। ज्ञानस्य स्वप्रागभावं प्रति प्रनियोगित्वेनैव नाशक्त्वमिति नातिव्याप्तिः ॥ इति लघुचन्द्रिकायां अविद्यालक्षणम्॥
अथाऽज्ञानवादेऽज्ञानलक्षणनिरुक्ति: । (१) तत्र न्यायामृतकारा :- अनादित्वे सति भावत्वे सति ज्ञाननिवर्त्यत्वं, भ्रमोपादानत्वं वाऽज्ञानलक्षणमिति, यदद्वैतिनो वदन्ति तन्न सङ्गतम्; सादि- शुक्त्यवच्छिन्नाज्ञानस्य सादित्वेनारोपिताभावोपादानकाज्ञानस्याभावत्वेन ब्रह्मविषयव्रह्माज्ञानस्य सोपाधिकत्रमोपादानाज- नस्य च ज्ञानानिवर्त्यत्वेनच तष्वव्याप्तेः। ज्ञाननिव्त्यत्पदेन शुक्तिरूप्यवारकानादित्वविशेषणवयथ्यापत्त्या साक्षाज्ज्ञाननि- वर्त्यत्वविवक्षणायोगेन साक्षात्परंपरासाधारण्येनैव तम्य विवक्षणीयनया चिदविद्यासंबन्धेऽतिव्यापेः। कल्पितत्वेन ज्ञाननि वर्त्यतसमानाधिकरणाभावविलक्षणत्वेन वा अज्ञानम्य सादित्वेनानिर्वचनीयत्वेन भावविलक्षणस्याभावलनियमेन च भाव- तस्याभावविलक्षणत्स्य वाप्यज्ञानेऽसत्वेन ध्वंसा्यन्ताभवयोरपि निवृत्याप्त्या भववैलक्ष्यस्य तदसाधकत्वेन प्रत्युता-
त्वेन प्रतिभासमान्नशरीरस्याज्ञानस्य स्वविषयधीसाक्षिसत्पर्यन्तमनुव्ृत्तिनियमेन चाजञानस्य ज्ञानानिवर्त्यत्वेनचासंभवाथ। पतेन-द्वितीयमपि लक्षणं-पराहतम्; प्रथमलक्षणस्य दृषितत्वेन योग्यतावच्छेदकरूपापरिचयेन अ्रमोपादानत्वयो- ग्यत्वविवक्षणायोगेन भ्रमपूर्वकप्रमानिवर्त्ये योगेऽपि अभावारोपनिवर्तकप्रमानिवर्त्येऽ्भावेऽज्ञानेचाव्याप्तेः। ब्रझ्मोपादानत्वपक्षे तत्सहिनाविद्योपादानत्पक्षेच ब्रह्मण्यतिव्याप्तेः। अभावविलक्षणत्ादीनां गौरवेणोपादानत्वातन्नत्वेन भावलसतयोरेव
Page 252
[अविद्यालक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ५४७
..... तत्वेन भावविलक्षणस्य प्रागभावस्येव भावविलक्षणत्वेन घटानुविद्धतयाSप्रतीयमानस्य तन्तादेरिव तादृशस्य अज्ञानस्याप्य- नुपादानत्वेन चासंभवाष्। अत एव-ज्ञाननिवर्त्यत्वं तल्लक्षणमिति वचनमपि-पराहतम् ; प्रपश्चेऽतिव्याप्तेः इति- वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु-
भावविलक्षणत्वेऽपि बाधकाभावेन ब्रह्मणो वृत्यविषयत्वेऽपि ब्रह्मविषयकाज्ञानस्य उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभाव- विलम्बेन निघृत्तिविलम्बेऽपि सोपाधिकत्रमोपादानाज्ञानस्य च स्वरूपवदुपाधिमद्विषयकज्ञाननिवर्त्यत्वेन च तेष्वव्याप््यभावात् उत्तरज्ञाननिवर्त्यपूर्वज्ञानवारणेनानादिविशेषणसार्थक्येन साक्षाज्ज्ञाननिवत्यत्विवक्षणेन चिद विद्यायोगस्याप्यविद्यात्मकल्वाङ्ी- कारेण वा तत्रातिव्यान्यभावात्। अजामेकामित्यादिशास्त्रविरोधेनानादित्ानुमानेन सत्प्रतिपक्षेण भावत्वेन सोपाधिकत्वेनच
निवृत्तिप्रति प्रयोगितवप्रागभावप्रतियोगिलानामेव सादितप्रथोजकत्वेन कल्पितत्वेन ज्ञाननिवर्त्यतसमानाधिकरणाभावविल- क्षणत्वेन वाऽज्ञानसादितासंभवेन भावतवाभावत्योः बाधकसत्वेन तृतीयप्रकारसिद्धौ भावविलक्षणस्याभावतनियमाभावेन भावलाभावेऽप्यभावविलक्षणतसत्वेनाभाव विलक्षणतरूपसाधनावच्छिन्नसाध्यव्यापकत्वस्य संभवेनात्मत्वस्योपाधित्वेनाना- द्यभाववैलक्षण्येनात्मवद निवर्त्यत् साधनासंभवेन फलबलेन विरोधिसन्निपातस्यापि कल्पनेन ध्वंसात्यन्ताभावादिनिवर्त्यलस्या- पीष्टत्वेन प्रागभाववन्निवर्त्यत्वस्यैव सिद्धा शुक्तिरूप्यादेरिवाज्ञानस्यापि साक्षिसत्वपर्यन्तमनुव्ृत्तिनियमाभावेनचाजानस्य ज्ञाननिव्त्यत्वेनासंभवाभावाच्च प्रथमलक्षणे न दोषः । पतेन-द्वितीयलक्षणमपि-व्याख्यातम्:प्रथमलक्षण स्यैव योग्य- तावच्छेदकत्वेनाभावस्यापि सोपादानकत्वेनच भ्रमोपादानयोग्यत्वस्य कुत्राप्यव्याप्त्यभावात्। परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानविवक्षणेन विश्वभ्रमोपादानमायाधिप्ठानं व्रह्मेति पक्षाद्वीकारेण वातिव्याप्तिपरिहारात्। आत्मनि व्यमिचारेण भावत्वस्योपादानोपादेयभावातत्रत्वेनान्वयिकारणसादित्योरेव तत्वेन भ्रमकारणत्ासिद्धया प्रागभावानुपादानत्वेऽपि घटरूपाधननुविद्धत्वेऽपि प्रकृतिधयणुकघटादेरिव ज्ञानादिप्रपश्चाननुविद्धस्याज्ञानस्योपादानतायां बाधकाभावेनासंभवाभावातू। अतएव-तृतीयलक्षणमपि स्माचीनमेवेति सूचितमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु-
सादित्वेन वैजान्येयुपादानोपदियभावे समवविकारणनाशाद्विरोधिसन्निपाताद्वा कार्यनाशोपपत्तेः सत्यस्य दुग्धादेरिव परि-
निवतकलात् प्रतिबन्धकाभावस्य ज्ञानस्वरूपमात्रपर्यवसानात् प्रतिवन्धकाभावविलम्बेन निवृत्तिविलम्बासंभवाच्च ब्रह्माज्ञा- नसोपाधिक भ्रभोपादानाज्ञानयोः ज्ञाननिवर्त्यलासंभवेन च तष्वव्याप्तेः ज्ञानपदसार्थक्यार्थ ज्ञानत्वेन तन्निवर्त्यतविवक्षणवश्य- कतया तत एव सर्वदोपवारणनानादिभावपदर्वय्थ्यापन्या तत्सार्थक्यार्थ साक्षात्परंपरासाधारण्येन ज्ञाननिवर्त्यतविवक्षणे चिद विद्यासंबन्धेऽतिव्याप्ते: अजामित्यादीनां प्रकृतिभगवदिच्छापरत्वेन तद्विरोधाभावेन स्वरूपासिष्याSनादित्वेन सत्प्रतिपक्षा- संभवेन ध्वंसे साध्याव्याप्या भावतानुपाधित्वंन ज्ञाननिवत्यलसमानाविकरणाभावविलक्षणत्वेन कल्पितलानुमितप्रागभाव- प्रतियोगितादिना वाऽज्ञानसादिलेन अन्योन्याश्रयापत्त्या तृतायप्रकारामिद्ध्ा भावविलक्षणस्याभावलवनियमेनचाज्ञानाभावा- विलक्षणलेन असति साध्याव्याप्या साधनावच्छिन्नसाध्यव्यापकत्वस्याप्य संभवनात्मत्ानुपाधित्वादना द्यभ व वैलक्षण्येनात्मव- दनिवर्त्यतसाधनसंभवेन शुक्तिरूप्यसुखादीनामिव साक्षिसत्वपर्यन्तमनुवृत्तिनियमेन चासंभवाच प्रथमलक्षणं न सत्नतम्। पतेन-द्वितीयलक्षणमपि-व्याख्यातम्; दूषितत्वेन प्रथमलक्षणेन योग्यतावच्छेदकापरिचयेन योग्यत्वस्यालक्षणत्वेन
तत एवाजानाननुविद्धतया ज्ञानादिप्रपश्चानुभवोपपत्याऽन्यया शुक्को घटो मृत् घट इत्यादिप्रतीतों रूपाघटादीनां घटमृदाद- नुविद्धतयेव प्रतीत्यापत्त्याचासंभवच्चति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- तत्तत्कालाद्यवच्छिन्नस्यात्यन्ताभावस्येव शुक्त्यद्र्वच्छिन्नस्याज्ञानस्याप्यनादित्वेन ृश्यमात्रे ज्ञाननाश्यत्वस्य श्रुत्यनुभव- सिद्धत्वेनोपादानाज्ञाननाशं विनोपादेयनाशानुपपत्तिबाधकेन सत्यस्यासत्योपादानकत्वासंभवेऽपि भावाभावविलक्षणाज्ञानस्य अभावोपादानत्वे बाधकाभवेनोप हितान्य विषय कत्वविशिष्टंपहितविषयकत्वेनोप हितज्ञा नेनापि शुद्धब्रह्मज्ञाननिवृ्त्या सोपा- धिकभ्रमोपादानशुद्धब्रह्माश्रिताज्ञानयोरपि ज्ञाननिवर्त्यत्वेनचाव्यास्यनवसरातू। ज्ञानत्वेन ज्ञाननिवर्त्यलस्य लक्षणान्तरत्वेन
Page 253
५४८ अद्वैतसिद्धिः । [परिच्छेद: १]
अज्ञानवादे त्र प्रत्यक्षप्रमाणोपपत्तिः । तन्रचाशाने 'अहमझो मामन्यं च न जानामी'ति प्रत्यक्षं, 'त्वदुक्तमर्थ न जानामी'ति विशेषतः प्रत्यक्षं, 'एतावन्तं कालं सुखमहमस्वाप्सं न किंचिदवेदिष'मिति परामर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमा- णम्। नच-अहमर्थस्याजानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यत इति-वाच्यम्; अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याध्यासेन एकाश्रयत्वसंबन्धेनोपपत्तेः । अत एव-जडे आवरणकृत्याभावात् 'घटं न जानामी'त्यादिप्रतीतेर्श्षनाभावविषयत्वे प्रकृतेऽपि तथास्त्विति-निर- स्तम् ; तत्तद्वच्छिन्नचतन्यस्यैवाश्ानाश्रयत्वेन तत्रापि तह्यवहारोपपत्तेः। नच-साक्षिवेधे सुख- दुःखाजानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति-वाच्यम्; स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादा च 'न जानामी'ति व्यवहारासंभवात्, परसुखादो 'न जानामी'ति व्यवहारस्य पराक्षज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवो- पपत्तेः। अत एव-परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्वेन 'न जानामी'ति व्यवहारापत्तिरिति-निरस्तम्; प्रमातृगताज्ञानकार्यस्य 'न जानामी'ति व्यवहारस्य विषयगताज्ञाने- नापादयितुमशक्यत्वात्। ननु-भावरूपाज्ञानविषयत्वेनाभिमतस्य 'अहमश' इति प्रत्ययस्य 'मयि ज्ञानं नास्ती'ति ज्ञानाभावविषयात् प्रत्ययात् 'अघटं भूतल'मिति प्रत्ययस्य 'घटो नास्ती'ति प्रत्य- यादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीतिरिति-चेत्; सत्यम्, धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञानसामान्याभावज्ञानस्य व्याहतत्वेन 'मयि ज्ञानं नास्ती' त्यस्यापि भावरूपाजानविषयत्वेन विषयभेदाप्रतीतेर्युक्तत्वात् । तथाहि-'मयि ज्ञानं नास्ती'ति प्रतीतिः 'वायौ रूपं नास्ती'ति प्रतीतिवद्यावद्विशेषाभावान्यसामान्याभावविषया, सामान्यावच्छिन्न- प्रतियोगिताकयावद्विशेषाभावविषया वा अभ्युपेया। तथाच तत्कारणीभूतधर्मिप्रतियोगिशानाक्षा नाभ्यां कथं न व्याघातः ? यत्किंचिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात्, अभावशाने प्रतियोग्यंशे प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात्। अन्यथा सामान्याभावसि- द्विर्न स्यात्। यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोपः । यत्किंचिद्विशषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले 'निर्घटं भूतल'मिति प्रतीतिः स्यात्, 'वायौ रूपं गौडव्रह्मानन्दी (लघुचन्द्रिका)। उपपत्तेरिति। 'पूर्वसिद्धतमस' इत्यादिन्यायादज्ञानाश्रयकोटौ चिदन्यनिवेशे गौरवाञ्चेति भावः। विषयात् विषयवेनास्मद्भिमतात्। तेन सत्यमित्यग्रिमस्य न विरोधः। इच्छेत्यादि। 'इच्छामि न द्वेष्मी' ति ज्ञानयोर्यथा भिसो विषयः प्रतीयते, तथा प्रकृते नेत्यर्थः। नन्ववच्छेदकत्वं नानतिरिक्तवृत्तित्वादिकम्; 'प्रमेयघटो नास्ती'त्यदेरपि प्रमात्वापत्तेः, किंत्वखण्डधर्मविशेषः, सच सामान्यधर्मस्य किंचिद्विशेषाभावप्रतियोगितां प्रत्यप्यास्ताम्, तत्राह- अभावज्ञानेति। धर्मस्यैवेति। अन्यथा घटो नाम्तीत्यादी पटत्वाद्यवच्छिन्नप्रनियोगित्वभानापत्तेरिति भावः । ननु प्रतियोगिनि प्रकारीभूनं तव्यापकं वा अवच्छेदकतया भानि; अत एव 'कम्बुग्रोवादिम/न्नास्ती' त्यादौ घटत्वादि- कमवच्छेदकतया भातीति तत्र प्रमात्वमेव, पूर्वस्यावच्छेदकरत्रासंभवे सत्येवोत्तरस्य तथा स्वीकाराआतिप्रसङ्गः, तत्राह-अन्यथेति। सामान्यावच्छिस्प्रतियोगिताकत्वेन विशेषाभावस्यापि भाने इत्यर्थः । अभावधीमात्रे तथा संभवादिति शेपः। अयं प्रतियोगिन्यप्रकारस्यावच्छेदकत्वासंभवरूपः । नच-प्रतियोगिन्यपि सामान्यधर्मः प्रकार प्रकृते ज्ञाननिवर्त्यपदस्य पूर्वज्ञानवारकत्वनवोपपत्या विशेषणान्तरवैयर्थ्येन साक्षाज्ज्ञाननिवर्त्यतस्य चाविद्यासंबन्धेऽतिव्या ह्यप्रसरात्। अज्ञानस्येव प्रकृतित्वंन तत्पराजामित्य दिश्रुतिविरोधेन पूर्वोक्तरीत्याऽज्ञानस्यापि ज्ञाननिवत्यत्वेन स्वरूपासिच्ध- भावादनादितानुमानसत्प्रतिपक्षेण ज्ञाननिवत्यलसमानाधिकरणाभावविलक्षणत्वेनाविद्याचित्संवन्धादो व्यभिचारेण कल्पि- तत्वेन प्रागभावप्रतियोगितानुमानासंभवात् कल्पितत्वेन ज्ञाननिवत्यत्रसमानाधिकरणाभावविलेक्षणत्वेन वा सादितानु- मानासंभवेन तृतीयप्रकारस्य बाधकसत्ाधीनत्वेन विरोधसिध्धनवीनत्वेनान्योन्याश्रयानवकाशात् भावविलक्षणस्याभावत्ा- नियमेन चासंभवाभावाच्च प्रथमलक्षणं निर्दुष्टमेव। एतेन-द्वितीयलक्षणमपि-व्याख्यातम्; तत्रोपादानतयोग्यत-
जडतादिनाऽज्ञानानुवेधस्यापि सत्वेनचासंभवाभावाच्चेति -विवेचयन्ति। इत्यज्ञानवादे अज्ञानलक्षणनिरुक्ति:।
Page 254
[अज्ञा० प्रत्यक्षप्रमाणोपपत्ति:] गौडब्र्ानन्दीयुता। ५४९
नास्ति' 'पुरो देशे रजतं नास्ती'त्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्तत्संशयनिवृत्तिर्न स्यात्; एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेः । अथ-अभावबोधे प्रकारीभूतधर्मस्या- वच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च भासते, न ह्यवच्छेदकत्वस्य स्वरूपसंबन्धविशेषस्य प्रहे अन्या सामत्री कृप्ता; तथाच तत्तद्विशेषाभावानां तत्तद्विशेषावच्छिन्न- प्रतियोगिताकत्वात् सामान्यावच्छिन्नप्रतियोगिताकत्वं यावद्विशेषाभावकूटे वा व्यासज्यवृत्ति तद- तिरिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति तादृगभावप्रतीतेर्यावद्विशेष प्रतीतिविरोधित्वात् कुतो विशेषसंशयादिरिति-चेत्, सत्यम्; प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रती तिर्यावज्जञानविशेषविरोधिनीति कथं तत्तत्कारणत्वाभिमतज्ञानविशेषे सति सा न व्याहन्यते। तथाच कप्ताभावप्रतीतिवैलक्षण्येSवश्यकल्प्ये लाघवाद्विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम्; विषयावैलक्षण्ये प्रतीतिवैलक्षण्यायोगात्। विषयाज्ञानमनुभूय च पुरुषस्तन्निवृत्यर्थ विचारे प्रवर्तत इति सर्वानुभवसिद्धम्। तद्यदि ज्ञानविशेषाभावो 'न जानामी'ति प्रतीतेर्विषयः, तदा शातेऽपि तथा प्रतीत्यापातः; तद्विचारार्थ च प्रवृत्तिः स्यात्। सामान्याभावे च बाधकमुक्तमेव। तस्मादभावविल- क्षणमेवाश्ञानं 'मयि ज्ञानं नास्त्यहमक्ष' इत्यादि धीविषय इति सिद्धम्। ननु-अभावविलक्षणमप्य- ज्ञानं 'न जानामी'ति ज्ञानविरोधित्वेनैव भासते, मोहादिपदेऽपि प्रलयादि पदवत्तदनुलेखमात्रम्; उक्त्तंच विवरणे-'अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनामिधाना'दिति। अन्यथा ज्ञानस्याज्ञानवि-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। इनि-वाच्यम्; तथासति सामान्यधर्माश्रयाणां सर्वेपामेव प्रतियोगितया भानापर्या विशेषाभावभानोक्तिविरोधात्। प्रतीतिः प्रमा। संशयोपपत्तेरिति। नच-रूपत्वावच्छिन्नप्रतियोगिताकत्वेन विशेषाभावस्य धीरपि सामान्यसंश- यविरोधिनीति-वाच्यम्; 'घटत्वेन पटो नास्त्यत्े'ति ज्ञानस्य घटवदिदमिति विरोधित्वापत्तेः, अभावांशे प्रतियोगिन: येन रूपेण प्रकारता, तद्वच्छिन्नप्रतियोगिताकत्वधीत्वेनैव तद्रूपविशिष्टवत्ताधीविरोधित्वस्य त्वयापि वाच्यत्वात्। संशयनिवर्तकतवमुक्तवाक्यस्य व्युत्पादयन् तद्दष्टान्तेन 'न जानामी'ति ज्ञानस्यापि ज्ञानसामान्याभावविषयकत्वावश्य- कतवेन विरोधमाह-अथाभावेत्यादिना व्याहन्यत इत्यन्तेन। अवच्छेदकत्वं प्रतियोगितावच्छेदकत्वम्। तेन प्रतियोगित्वस्याप्यनुपस्थितस्य संसर्गतया भान लभ्यते। अन्येति। अवच्छेदकस्य ग्रहे तु प्रतियोग्यशे प्रकारतया भासिका सामध्येव सामग्रीत्वेन कप्ेति भावः। ज्ञानविशेषविरोधिनीति। ज्ञानादिमति ज्ञानाद्यभाववत्वज्ञा- नानुदयात् तार्किकादिमते स्वरूपसत् ज्ञानादिकं स्वाभाववत्त्वधीविरोधि स्वीक्रियते; तस्य साक्षिभास्यत्वमते स्वविषय- त्वमते च विद्यमानं स्वाश्चये प्रकारतया ज्ञायत एवेत्युभयथापि ज्ञानादिसत्वे तत्सामान्याभावधीः विरुध्यत इति भावः। ननु रूपाद्यभाववध्वबुद्धे रूपादिमत्वधीप्रतिबध्यत्वेऽपि न जानामीति बुद्धेने ज्ञानादिमत्वधीप्रतिबध्यत्वम्, नच-तथापि 'न जान,मीनि' वुद्ेर्भ्रमत्वं स्यादिति-वाच्यम्; इध्त्वात्, तत्राह-तथाचेति। 'न जानामी'ति- बुद्धेरिति शेपः । वैलक्षण्ये 'जानामी'ति ज्ञानाप्रतिबध्यत्वे। लाघवादिति। घटादौ ज्ञानवत्वधीप्रतिबध्यत्वं घटादो ज्ञानाभावबुद्देसवयापि वाच्यम्; तथाच समानविशेष्यतावच्छेदकत्वप्रत्यासत्यैव ज्ञानतदभाववत्वबुद्चोर्मिथ: प्रतिबध्यप्रतिबन्धकत्वं कल्प्यताम्। एवंच 'न जानामी नि बुद्धावगत्या भावरूपाज्ञानं विषयः कल्प्यताम्। तथाच तस्यां भ्रमत्वदोपजन्यत्वयोः कल्पनाप्रयुक्तं गौरवं न भविष्यति। नच-'घटो न जानाति न जानामी'ति ज्ञानथो- विषयवैरुप्यं दोष इति-वाच्यम्; 'इदमसुरं बलिरसुर' इति ज्ञानयोरिव तस्यादोपत्वात्। असुरमित्यस्य हि सुरशून्यमर्थः, असुर इत्यस्य तु सुरविरोधीति भावः। ननु प्रतियोग्यंशे प्रकार एव प्रतियोगितावच्छेदकतया भातीति नियमस्त्वयापि न वाच्यः, पारमार्थिकत्वेन प्रपञ्चाभावघटितस्य प्रपञ्चे मिथ्यात्वस्य त्वयोक्तत्वात्, तथाचोक्त्तवुद्धौ ज्ञानविशेपत्वं प्रतियोगिन्यप्रकारोऽपि ज्ञानसामान्यनिष्ठ प्रतियोगित्वे अवच्छेदकतया भासतामिति-चेत्न; विशेषरूपेण सामान्याभावासिद्धेः । 'घटत्वेन पटो नास्ती'ति ज्ञानस्य हि घटत्वावच्छि्नपटनिष्ठप्रतियोगिताकाभाव एव विषयः; विषयान्तरस्यासंभवात्, तव्यक्तित्वेन घटो नाम्तीत्यस्य तु तद्यक्तिमात्रस्याभावो विपयः संभवतीति न तद्वलात् तादशाभावसिद्धिः । अतएव घटत्वेन तद्टो नास्तीति ज्ञानेऽपि तद्टवावच्छिन्नाभाव एव विषय इति भावः। विषयाज्ञानं विषयविशेषितमज्ञानम्। ज्ञानविशेषेति। विषयिशेपितज्ञानविशेपेत्यर्थः। झातेऽपीति। विषय- इति शेष: । विषयज्ञानं विना विषयविशिष्टज्ञानस्य ज्ञानासंभवादिति भावः। द्वयसापेक्षेति। अज्ञानं भावरूपं स्वाश्रयविषयकमित्युक्त्वा, अज्ञानं न स्वविषयाश्रितम्, अस्य पुरुषस्यात्र विषये अज्ञानमिति विषयाश्रयभेदानुभवादि- त्याशङ््य अस्य पुरुषस्येति नाज्ञानाश्रयभानम्, किंतु अस्यान्र यत् ज्ञानं; तद्विरोधित्वेनाज्ञानभानमित्याशयेनोक्तम्-
Page 255
५५० अद्वैतसिद्धिः । [परिच्छेद: १ ]
रोधित्वमप्रामाणिकं स्यात्: तथाच विरोधनिरूपकज्ञानस्य ज्ञानाशानाभ्यां तवापि कथ न व्याघातः? एवं निर्विषयाज्ञानाप्रतीतेर्विषयज्ञानाज्ञानयोरपि व्याघात आपादनीयः; तथाच 'यत्रोभयोः समो दोष: परिहारोऽपि वा समः। नैकः पर्यनुयोक्तव्यस्ताद्दगर्थविचारणे॥' इति न्यायेन उभयपरिह रणीयस्य व्याघातस्य ज्ञानामावपक्ष एवापादनमनुचितमिति-चेत्न; प्रमाणवृत्तिनिवर्त्यस्यापि भावरुपाज्ञानस्य साक्षिवेद्यस्य विरोधिनिरूपकज्ञानतद्यावर्तकविषयग्राहकेण साक्षिणा तत्साधकेन तदनाशाध्याहत्य- नुपपत्तेः। अज्ञानग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा चनास्ति। तदुक्तं विवरणे-'सर्व वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवे ति। न चैवं-ज्ञानाभावपक्षेऽपि विषया- दिशानं साक्षिरूपम्, 'न जानामी'ति धीस्तु प्रमाणवृत्त्यभावविषयेति न व्याहतिरिति-वाच्यम्; भावरूपाज्ञानस्य साक्षात् साक्षिवेद्यत्वेन तदवच्छेदकविषयादेस्तद्वारा साक्षिवेद्यत्वसंभवेऽपि अभावस्यानुपलब्धिगम्यत्वेन साक्षात् साक्षिवेद्यत्वाभावात् न तद्गारा तदवच्छेदकविषयादे: साक्षिवेद्यत्वमिति वैषम्यात्। यद्यपि ज्ञानं साक्षिवेद्यम्, तद्ारा तदवच्छेदको विषयश्च साक्षिवेद्य: तथापि ज्ञानाभावो न साक्षिवेद्यः, तस्यानुपलब्धत्वात्। उत्पन्नं च ज्ञानं साक्षात् साक्षिवेद्म् । तरि्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुनो ज्ञानाभावोऽपि? अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम्। नच-अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्ठाज्ञान- ज्ञानम् ? विशेषणज्ञानाधीनत्वाद्विशिप्टज्ञानस्येति-वाच्यम्: विशेषणज्ञानस्य विशिषटज्ञानजनकत्वे मानाभावात्, प्रतियोगित्वाभावत्वयो: पूर्वानुपस्थितयोरपि तार्किकरभावबोधे प्रकारीभूय भाना-
गोडब्रह्मानन्दी (लघुचन्द्रिका) अज्ञानमिति। द्यसापेक्षेत्यादि। आश्रयविपयरूपद्वयसापेक्ष यत् ज्ञानं, तत्पर्युदासेनाज्ञानमित्यभिधानादित्यथः । तवापीति। प्रमाणवृत्यभावकाले 'न जानामी'नि धीः वाच्या; अन्यथा अविद्यावृत्तिकालेऽपि सा न स्यात्। तथाच व्याघातः; उक्तधियः प्रमाणवृत्तिसामान्यविरोधित्वेनाज्ञानविपयकत्वेन तदुत्पत्तेरुक्तविरोधित्वप्रकारकप्रमाणवृत्तिसा- पेक्षत्वात्, नह्युक्तविरोधित्वमपि साक्षिमात्रभास्यम्; येनोक्तवृत्तिनरपेक्ष्येण साक्षिमात्रेण तद्वानमुच्येत, किंतु विषयविशेपिताज्ञानमात्रं साक्षिभास्यम्। नच-उक्तविरोधित्वस्मृत्यादिनंव 'न जानामी'नि धीसंभवान्न व्यःघात इति-वाच्यम्; क्वचित्तत्संभवेपि सर्वत्र तदभावेन प्रमाणवृत्तिसापेक्षतावश्यकत्वात्। यदिच ज्ञानविरोधित्वं साक्षिमात्रवेद्यमज्ञाने स्वीक्रियते, तदा तत्प्रमाणावेद्यत्वेन व्यावहारिकं न स्यान, अज्ञानस्वरूपवन्। तत् इद उक्तम्। अभ्यथा अज्ञानस्य ज्ञानविरोधित्वमप्रामाणिकं स्यादिति भावः। वस्तुतोऽआ्रास्याज्ञानमिनि प्रत्यये पुरुपविशेषनिरूपितं विषयविशेषाश्रितमज्ञानत्वरूपाखण्डधर्मविशिष्टं विषयः । तस्तत्पुरुपनिरूपितत्वं च तत्तपुरुषीयज्ञ ननिवर्त्यनानियामकं। विषयनिष्ठकार्योपादानत्वेन चाजानस्य विषयाश्रितत्वम्। तथाच अस्य यत् ज्ञानं तहिरोधित्वस्योल्ेखे मानाभावः, विधरणोक्तिम्तु अज्ञाने नष्टे ज्ञानविरोधितया तदनुभवाभिप्राया न विरुध्यते। नच-'घटं न जानामी' वाक्ये नओ विरोध्यर्थकनया ज्ञानविरोधित्वेनाज्ञानप्रत्ययादज्ञानकाले उत्तवाक्यजन्यज्ञाने व्याघात इनि-वाच्यम्; नमूपूर्वकजा- नातेरज्ञानत्वजानिमन लक्षणया तादृशज्ञानस्य तद्विपयकत्वान्, अधमीदिपदानां पापत्वादिजानिविशिष्टे लक्षणया तज्न्यज्ञानस्य तद्विपयकत्ववत्। तस्मान्नास्मन्मने व्याघात इनि ध्येयम्। तद्यावर्तकेति। अज्ञानविशेषणेत्यर्थः-।
पन्नमिति भावः। अज्ञानग्रहे अज्ञानं विषयीकर्नुय्। वेद्यत्वाभावदिति। सविपयकत्वविशिष्टस्य सर्वस्यानावृत- साक्षिसंबन्धवत्तया कप्तत्वेन ज्ञानादिविशेषणत्वेनाभावस्य साक्षिवेद्यत्वेऽपि तदविशेपणत्वरूपेण तदभावादित्यर्थः । ननु ज्ञाने विशेषणतया तद्विपय इव विशेष्यतया तदभावोऽपि साक्षिवेद्योऽस्तु, तग्राह-यद्यपीति। अनुपलब्ध- त्वादिति। घटादौ ज्ञानाभावस्यानुपलब्धिरूपप्रमाणेनैव धीः। नहि ज्ञानाभावस्याहमर्थभिन्नेपि साक्षिवेद्यता संभ- धति। याद्शस्य हि तार्किकादिमते मानसं प्रत्यक्षं, तादृशस्यैव त्वया सा वाच्या; अन्यथाऽनुभवविरोधात्। तथाच ज्ञानाभावस्यानुपलब्धत्वेन क्वृप्तत्वादात्मन्यपि तस्य तथात्वमिति भावः । ननु साक्षिणा ज्ञानं गृद्यत इति कृप्म्; तेनैव ज्ञानाधिकरणे तदभावोऽपि गृद्यताम्, तथाच नोक्तदोषः, तव्राह-उत्पन्नमिति। विद्यमानमित्यथैः। अभा- वोऽपीति। साक्षात् साक्षिवेद्य इति अनुषज्यते। तथाच ज्ञानतद्भावयोरेकसत्वे अपरासश्त्रादविद्यमानेचानावृत- साशषितादात्म्यस्याभावान्र तयोर्युगपत्साक्षिवेद्यतेनि भावः । अनुत्यन्नम् अविद्यमानम्। विषयस्येव ज्ञानस्याप्यवि- धमानस्याज्ञानविशेषणतया भानम्; प्रमिणोमीत्यादी प्रमाविशेषणतया प्रमात्वादेरिव न जानामीत्याद वज्ञानविशेषण- तया प्रमाविरोधस्यापि भानसंभवात्, अविधमानत्वं च प्रमायामिव प्रमात्वघटकाज्ञातत्वेऽपि सममति भावः । 'अहं
Page 256
[अज्ञा० प्रत्यक्षप्रमाणोपपत्तिः] गौडब्रझानन्दीयुता। ५५१
भ्युपगमात्। तथापि-विशेषणतावच्छेदकप्रकारकश्ञानं बिना कथं विशिष्टवैशिष्ट्यबुद्धिरिति-चेन्न; विशिष्टवैशिष्ट्यवुद्धित्वेन विशेषणतावच्छेदकप्रकारकक्षानत्वेन च कार्यकारणभावे मानाभावात्, प्रत्यक्षत्वादिरूपेण पृथक् पृथक कप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थसमाज- सिद्धत्वात्, इह च सामग्रीतुल्यत्वेन 'विशेष्ये विशेषणं तत्र च विशेषणान्तर'मिति न्यायेन विशि- ष्टवैशिष्ट्यज्ञानसंभवात् । अन्यथा तार्किकाणामपीश्वरस्य भ्रान्तिव्ञत्वं न स्यात्। भ्रमविषयस्य स्वात- कयेण ग्रहे भ्रान्तत्वापत्या भ्रमावच्छेदकतयैव तङ्गहणं वाच्यम्; तथाच कव प्राक्तद्वच्छेदकप्रहनि यम: ? ग्रहणसामग्रीतुल्यत्वं च प्रकृतेऽपि समम्। ननु-श्रवणादिसाध्यमोक्षहेतुव्रह्मज्ञानप्रागभावस्य सत्वेन तज्ज्ञानं त्वयापि वाच्यम्; तथाच तत्रापि व्याहतिस्तु्येति-चेन्न; श्रवणादिसाध्यमोक्ष-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रमावा'निति भ्रमकाले अहं 'प्रमाभाववा' निनि वुद्धेरनुत्पादात् तस्यां प्रमोपलब्ध्यभावस्य हेतुत्वेन कृप्ततया अनुप- लब्धिप्रमाणवेद्यस्य प्रमाभावस्य साक्षिवेद्यत्वे मानाभावः। नच-प्रतियोगिज्ञानं विना नानुपलब्ध्याऽभावज्ञानम्, तदपेक्षणे च व्याघात उक्त इत्यगत्या प्रमाभावस्य साक्षि्राह्यतेति-वाच्यम्; तावतापि व्याघातानुद्धारात्, वृत्यव- च्छिन्स्यैव साक्षित्वेन तस्यापि तज्जन्यत्वेन प्रनियोगिज्ञानापेक्षत्वात्। नहि 'न जानामी'ति प्रत्यक्षकाले प्रमारूपप्रति- योगिस्मृनिनियम :; तथासति त्वन्मतेऽनन्तस्मृतिव्यक्तिकल्पने गारवादित्यपि बोध्यम्। अज्ञानज्ञानं अज्ञानाकारावि- द्यावृत्यवच्छिन्नचिद्रपम्। अविद्योपहितचिद्रपस्यव साक्षित्वे तु नायं दोष; जन्यविशिष्टबुद्धावेव विशेषणधीहेतुत्वात्। सिद्धत्वादिति। 'दण्डो रक्त्को न वे'नि मंशयोत्तरं 'विशेष्ये विशेषणं तन्रापि च विशेषणान्तर'मिति रीत्या जायमाने 'रक्त्दण्डवानि ति ज्ञाने विशिष्टवैशिष्यविषयताया अपि वक्तुं शक्यत्वात्, विशेष्यान्वयिना यदन्वितं तस्यैव धी: तदविशिष्टवैशिष्वधीरित्यस्यापि वक्तुं शक्यत्वाच्चेति भावः। उक्तहेतुत्वं स्वीकृत्याप्याह-इहच्ेति। विशेषणताव- च्छेदकप्रकार कनिश्चयासंभवस्थले चेत्यर्थः । सामग्रीतुल्यत्वेनेति । यावन्ति कारणानि विशिष्टस्य वैशिष्यबुद्धौ कृप्तानि तावनां विशेप्ये विशेषणमित्यादिरीत्या ज्ञानोपधायकत्वसंभवेनेत्यर्थः । न्यायेनेति। सर्वेषां विशेषणताव- च्छेदकानामिनि शेपः । अथवा-इह चेति। विशेषणतावच्छेदकांशे धर्मान्तरं यत्र धमितावच्छेदकतया न भाति, तत्र स्थले चेत्यर्थः । विशिष्टस्य वैशिष्वं, विशेष्ये विशेषणं तत्रापि च विशेषणान्त मित्येतयोरिति शेषः। घटवदित्या- दिबुद्धेरुक्तंद्वैविध्ये सत्यपि तस्यां विशेषणतावच्छदकप्रकारकनिश्चयो न हेतुः, किंतु 'रक्तदण्डवदि त्यादिविशिष्टवशिष्ट्य- बुद्वाँ; 'दण्डो रक्ो न वे'त्यादिसंशये तदनुत्पसेः। तथाच ज्ञानविरोधित्वसविषय वत्वविशिष्टाज्ञानवैशिष्यबुद्धावपि न स हेनुः। नहि ज्ञानविरोधित्वसविपयकत्वयोरेकमपरत्र धर्मितावच्छेदकतया भातीनि नियमः; न वा धर्मान्तरं तथे- न्यपि नियम :; मानाभावादिनि भावः। विशेष्ये इत्यादि। अज्ञानस्वरूपे उक्तविशेषणयोरेकत्र द्वयमिति रीत्या विशेषणत्वं, तत्र ज्ञाना देविशेषणत्वमित्यर्थः । विशिष्टेति । विरोधित्वादिविशिष्टेत्यर्थः । एवंच विशिष्ट्वशिष्टयेत्यपि सार्थकम्। अन्यथा न्यायेन ज्ञानसंभवादित्येवोच्येत। ननु ससंबन्धिकस्य प्रत्यक्ष विशिष्टव्य वशिष्चमिति रीत्यव; अन्यथा रक्तदण्डो नास्तीत्यभावप्रत्यक्षेऽप्युक्तरीतिनियमो न स्यात्, उक्तंच-'प्रतियोगिविशेषिताभावभानं तु विशि- ष्ट्वशिष्यबोधमर्यादां नातिशेत' इनि, तत्राह-अन्यथेति । अज्ञानप्रत्यक्षस्योक्तरीतिनियमे इत्यर्थः । विषयस्य विशेष्य विशेषणयोः । स्वातन्त्र्येण विशिष्टस्य वैशिष्वमिति रीत्या। ग्रहे रजतेवंज्ञानवानिति ग्रहे। भ्रमावच्छेदक्- तया भ्रमांशे विशेषणतया। तद्गहणं विशेष्यविशेषणयोग्रहणम्। तथाचेति। ससंबन्धिकस्य प्रत्यक्षे उक्त्तरीत्यनि- यमे चेत्यर्थः। प्रागित्यादि। अज्ञानप्रत्यक्षोत्पत्तेः पूर्वमज्ञाने विशेषणतयावच्छेदकज्ञानादिग्रहनियम इत्यर्थः। नच- इदंरजतयोर्विशषणतया भानेपि तद्विशेषणतयोरवच्छेद्यावच्छेदकभावाभानेन तादशं भ्रमज्ञत्वं समूहालम्बनज्ञान- जत्वसाधारणमिति-वाच्यम्; विशिष्टस्य वशिष्मिति रीतावपि तदभानस्य तुल्यतात्। अथ 'रजतेदं ज्ञानवा'निति ज्ञाने रजतमिदं विशिष्टे ज्ञाने विशेषणम्, नत्विदंमात्रे; तथाच ज्ञानस्येदंविषयताविशिष्टत्वेन विशेष्यत्वाद्विशेष्य- तावच्छेदकेदंविषयतावच्छिन्नविपयतासंबन्धेन रजतस्य ज्ञाने विशेपगत्वमिति मन्यसे, तर्हि रजतस्येदमंशे विशेष- णश्वं विनापि तत् बोध्यम्। ननु ईश्वरस्य भ्रमग्रहणे तथा स्वीकारेऽपि 'न जानामी'ति प्रत्यक्षे न तथा स्वीकर्तु शक्यते, आकारविशेषविरोधात्तत्राह-ग्रहणसामग्रीतुल्यत्वमिति। ग्रहणस्य सामग्री समग्रता तस्तद्विषयावगाहि- स्वरूपा तुल्या। यथा विशिष्टस्य वैशिष्यमित्यत्र, तथा विशेष्ये विशेषणं तत्रापिच विशेषणान्तरमित्यत्र। प्रकृतेऽपि यथा रजतेदं जानामीति प्रत्यक्षे, तथा न जानामीत्यत्र समाना। तथाच विषयताभेदेऽप्याकारस्य तुस्यत्वाजाकारवि- रोध इति भावः। यथाश्रुतं तु सामग्रीपदमसङ्गतम्; ईशप्रत्यक्षे कारणकूटरूपसामम्यप्रसिद्धेः। अत्र विशेष्ये विशेष- णमित्यादिरीत्या न जानामीति प्रत्यक्षस्य ज्ञानाभावप्रकारकत्वासंभवः । अभावप्रत्यक्षे विशिष्टस्य वशिष्मिति विषय-
Page 257
५५२. अद्वैतसिद्धिः । [परिच्छेद: १ ]
हेतुम्रहमज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात्, न हि श्रवणादिसाध्यत्वमोक्षहेतु- त्वादिप्रकारकब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं, मोक्षहेतुर्वा; येन तस्मिन् सति ताडग्जानप्रागभावो व्याहन्येत। नन्वेवं-'न जानामी'ति घियो ज्ञानाभावविषयत्वेऽपि न प्रतियोगि ज्ञानादिना व्याहति :; सामान्यतो विषयप्रतियोगिज्ञानेऽपि विशेषतस्तदभावसंभवात्, अन्यथा प्रागभावधीर्न स्यात् ; तत्प्रतियोगिविशेषस्य सामान्यधर्म विना विशेषतो जञातुमशक्ात्वादिति-चेन्न; विशेषज्ञानाभावे हि विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोपि ज्ञात पवेति विशेषज्ञानाभावव्याघातात्। यत्किचिद्विशेषाभावश्च न सामान्यावच्छिन्नप्रतियोगिताक इत्युक्तम्। प्रतियोगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभाव प्रतीतिरसिद्धैव । ननु-प्रतियोगितावच्छेदकप्र- कारकज्ञानं नाभावज्ञाने कारणम्, किंत्वभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम्: सामान्यलक्षणाप्रत्यासत्त्यभ्युपगमे तु प्रतियोगिविषयत्वमपि तस्याधिकम्, इतरथा तु तदेव इष्टवृ- त्तिसामान्यधर्मप्रकारकज्ञानमिवासिद्धव्यक्तिविषयेच्छाकृत्योः। नच-प्रतियोगितानवच्छेदकधर्मेण कथं प्रतियोगिता ग्रह्यतामिति-वाच्यम्; विशेषावच्छिन्नाया व्याप्तेरिव सामान्येन भ्रहणसंभवात्। तथाहि-'इदमभिधेयवत्, प्रमेया'दित्यनुमाने 'यत्र प्रमेयं तत्रामिधेय'मिति व्याप्तिग्रहणसमये वृत्तिमत्प्रमेयत्वावच्छेदेनैव सामानाधिकरण्यरूपव्याप्तिसत्त्वेऽपि तस्या: प्रमेयत्वरूपेणैव ग्रहणम्, न तु वृत्तिमत्प्रमेयत्वेन; गौरवात्, वृत्तिमत्त्वविशेषणस्य व्यभिचारावारकत्वेन वैयर्थ्याञ्च, अवृत्तिषु साध्यसामानाधिकरण्यरूपव्याध्यभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्याप्यभावात्, व्यर्थविशेषणत्वरहितत्त्रे सति व्यभिचारिव्यावृत्तत्वमात्रेणैव व्याप्यतावच्छेदकत्वसंभवाञ्च। तथाच यथा वृत्तिमत्प्रमेयगतापि व्याप्ति: प्रमेयत्वेनैव ग्रृह्यते, तथा तत्तन्नीलादिव्यक्तिगता प्रतियोगिता नीलत्वादिरूपेण गृह्यत इति न काचिदनुपपत्तिः। एवंच 'इहेदानीं घटो नास्ती'ति प्रतीतिरिव घटोपादानगततत्प्रागभावविषया 'मयि ज्ञानं नास्ती'ति प्रतीतिरपि प्रमातृगततत्प्रागभावविषयेति
घटज्षानवत्यपि स्वस्मि न्मयि घटश्ञानं नास्ती'ति व प्रतीतेरापत्तेः पूर्वोक्तदोपात्। यत्किचिद्वटज्ञानं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम्, उदाहृतव्याप्तिग्रहणे तु वाधकाभावात् सामान्यावच्छेदेऽपि न दोषः। अथैवं प्रागभावप्रतीतिरेव न स्पात्, न स्यादेव; 'घटो भविष्यती'ति प्रतीते: धात्वर्थभविष्यत्ताविषयत्वेन प्रागभावाविपयत्वात्। अन्यथा दिनान्तरोत्पत्स्यमानघटे एत- दिनवृत्तिप्रागभावप्रतियोगित्वेन 'अद्य घटो भविष्यती'ति घीप्रसङ्गः। भविष्यत्वं च प्रतियोगित- ह्ंसानाधारकालसंबन्धित्वम्। ध्वंसत्वं च प्रागभावानङ्गीकर्तृमते कादाचित्काभावत्वमेव। तदङ्गी- कर्तृमतेऽपि प्रतियोग्यजनककादाचित्काभावत्वम्। जनकत्वं च स्वरूपसंबन्धविशेषः। न प्रागभाव- घटितः; प्रागभावस्याजनकत्वापत्तेः, अन्यथात्माश्रयात्। अतः प्रागभावमङ्गीकुर्वतोऽपि तत्पत्यक्षत्वं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। तायाः सर्वसंमतत्वादिति ध्येयम्। रजतेदं जानामीत्याकारस्य प्रत्यक्षस्येशे स्वीकारेऽपि न तत्र भ्रान्तताव्यवहारस्या- पत्ति :; उत्तव्यवहारे विशेषादर्शनकालीनस्येव बाधितविपयकज्ञानवत्वस्य विषयत्वात्। अन्यथा तार्किकादिमते दर्पणे मुखं नास्तीति विशेषदर्शनवतो दर्पणे मुखदर्शिनोऽपि भ्रान्तत्वेन व्यवहार्यता स्यात्। परंतु ईशप्रत्यक्षस्य तादृशाका- रत्वे मानाभावात्तार्किर्कस्तत् न स्वीक्रियते इांत ज्ञापनाय तार्किकाणामित्युक्तम्। न्यायशूराणामिति तदर्थः । विशेष- तस्तदभावेति। ज्ञानत्वावच्छिन्नतया ज्ञानविशेषीयतया च भासमाना प्रतियोगिता यस्य तादृशाभावेत्यर्थः । विशे- पतः तद्यक्तित्वेन। प्रतियोगितावच्छेदकेति। तत्तव्यक्तित्वरूपेत्यादिः। प्रतियोगीति। प्रागभावप्रतियोगीत्यथः। तदेवेति। अभावज्ञाने कारणमित्यनुषज्यते। तत्प्रागभावेति। प्रमाप्रागभावेत्य्थः। घटवतीति । सामान्यध- ्मस्यैव प्रतियोगितावच्छेदकतया भाने प्रतियोग्यंशेऽपि प्रकारत्वस्यावश्यकतवादित्यादिः । अवच्छेदेऽपीत्यपिकारेण इदं सूचितम्-गगनादाववर्तमानव्याप्े: प्रमेयत्वं नावच्छेदकमू; अतिप्रसक्त्ततवात्, वृत्तिमश्वावच्छेदेन व्यापिधीसंभवेन व्यर्थविशेषणत्वस्याप्यसंभवात्, वृत्तिमत्प्रमेयत्व।वच्छिततवस्य व्याप्ती सर्वे तङ्कहणस्यादोषत्वात्। असरवे तङ्हणस्य भ्रमत्वादिति। कादाचित्काभावत्वमिति। कालतवाव्यापकाभाववस्वमित्यर्थः, अखण्डोपाधिरूपं वा, नतु प्रागभा- वप्रतियोग्यभावश्वमिति शेषः। प्रागभावघटितः कार्यप्रागभाववत्कालस्वरूपेण कार्यप्राक्ञाछरवेन घटितः। आत्माश्र-
Page 258
[अज्ञानप्रत्यक्षोपपत्तिः] गौडब्रह्मानन्दीयुता। ५५३
दुर्लभम्, तमनङ्गीकुर्वतस्तु न कापि हानिः। 'इहेदानीं घटो नास्ती'ति प्रतीतिस्तु सामान्यधर्माव- च्छिन्नप्रतियोगिताकतत्कालावच्छिन्नयावद्विशेषाभावविषया; समयविशेषस्याप्यभावावच्छेदक- त्वात्। अन्यथा 'आद्यक्षणे घटो नीरूप' इत्यादिप्रतीतिर्न स्यात्। अथ-अस्मिन्पक्षे सामान्याभावो न सिद्धेदिति-चेत्,प्रागभावाभ्युपगमेऽपि तुल्यमेतत्, सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात्। तथाहि-प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताक- त्वात् न तावन्मात्रप्रमाणकसामान्याभावसिद्धिः, सामान्याभावसिद्धी च विशेषाभावस्य सामान्या- वच्छिन्नप्रतियोगिताकत्वाभावात् कादाचित्काभावस्य व सामान्याभावत्वायोगात् न सामान्यधर्मा- वच्छिन्नप्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धिः, इति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति। ननु-यावद्विशेपाभावनिश्चयेऽपि 'रूपं वायुवृत्ति न वा' 'वायू रूपवान्न वे'ति रूपाभावसन्देहात् निश्चिते व संशयायोगाद्यावद्विशेषाभावान्यसामान्याभावसिद्धिः, अत एता- वन्त्येव रूपाणीति निश्चयदशायामेतादृशसंशयस्याननुभूयमानत्वेन तदनिश्चयदशायामेवैतादशः संशयो वाच्यः, तथाच 'रूपत्वं पार्थिवाप्यतजसरूपत्रितयातिरिक्तवृत्ति भविष्यती'त्यघिकसंभावनया निश्चितेष्वेव संशयः, उक्तसंभावनाविरहसहकृतनिश्चयस्यैव प्रतिबन्धकत्वादिति-चेन्न; एवं प्रतिब- न्धककल्पने मानाभावात्, उक्तसंभावनाविरहदशायामप्येतादृशसंशयदर्शनाच्च। ननु-यथा यावद्विशेषाभावेभ्योऽतिरिक्तः सामान्याभावो रूपस्य संशयकोटिः, तथा रूपसामान्यमपि यावद्विशे- पेभ्योऽतिरिक्तं संशयकोटिर्नाभ्युपगन्तुं शक्यते। तथाच कथं रूपस्य संशयकोटित्वम्? सर्वरूपाभा- वनिश्चयात्। यदि तु नीलपीताद्यभावत्वेन निश्चयेऽपि रूपाभावत्वेनानिश्चयाद्रूपासंशय इति बूषे, तदा किं सामान्याभावेनः रूपत्वावच्छिन्नप्रतियोगिताकाभावत्वेन संशयसंभवात्, धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन यावद्विशेषाभावानामेव रूपत्वावच्छिन्नप्रतियोगिताकत्वकल्पनात्, अतो न यत्किचिदभावमादाय 'घटो नीरूप' इति प्रतीतिप्रसङ्ग इति-चेन्न; यावद्विशषाभावेषु यद्रपत्वाय- च्छिन्नप्रतियोगिताकत्वं तत् प्रत्येकं विश्रान्तं, व्यासज्यवृत्ति वा। आद्ये यत्किंचिदभाषमादाय 'घटो नीरूप' इति प्रतीतिप्रसङ्ग:, द्वितीये तत्तदरूपत्वावच्छिन्नप्रतियोगिताकत्वस्याव्यासज्यवृत्तिस्वभावत्वेन तद्यतिरिक्तं रूपत्वावच्छिन्नप्रतियोगिताकत्वं व्यासज्यवृत्ति कल्पनीयम्, तद्वरं रूपत्वावच्छिन्नप्रति- योगिताक एक एवाभाव: कल्प्यते; ममैकोऽभावः रूपत्वावच्छिन्नप्रतियोगिताकत्वं चेति वस्तुद्वयं कल्प्यम, तव तु रूपत्वावच्छिन्नप्रतियागिताकत्वं, तस्य च व्यासज्यवृत्तित्वेन बहुष्वभावेषु प्रत्येकं संबन्धा इति बहु कल्प्यम्। 'धर्मिकल्पनातो धर्मकल्पनाया लघुत्व'मिति न्यायस्तु कल्पनीयाधि क्यापेक्षः। किंच घटद्ये यावद्विशेषाभावसत्वेऽपि रूपसामान्याभाववुद्धनुदयात् ऐकाधिकरण्या-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। यादिति। प्रतियोगिजनकत्वेन प्रागभावः कल्प्यते, उक्त्तजनकत्वं च प्रागभावकल्पनात् पूर्व ज्ञातुमशक्यम्ः प्रागभावघटितत्वात्। अतः प्रागभावज्ञप्तिः स्वाधीनेति ज्ञप्तावात्माश्रयः । अन्यथा प्रतियोगिमत्यत्यन्ताभा- वास्वीकारे। न स्यादिति। प्रागभावस्यैव नीरूप इति धीविषयत्वे रूपवत्यपि भाविरूपप्रागभावमादाय सा स्यादिति शेपः । यद्यपि सामान्याभावोऽप्युक्त्तधीविषयः संभवति; तथापि विशेपाभावकूटोक्ति. अथेत्यादिग्रन्थावतारायेति बोध्यम्। तावन्मात्रेति। उक्तप्रतियोगिताकत्वधीमात्रेत्यर्थः। ननु विशेषाभावप्रतियोगितापि सामान्यरूपेण वाच्या, अन्यथा ददानीं कपाले घटो नास्तीति प्रतीतौ तद्वटाभावस्य घटत्वावच्छिस्नप्रतियोगिताकत्वेन भानं न स्यात्। नच तत्र सामान्याभाव एव भाति; तस्य कालानवच्छिन्नतयैव सर्वत्र भानात्, तत्राह-कादाचित्केति। कालावच्छिसतया भासमानेत्यथः । सामान्येति । सामान्यावच्छिन्नप्रतियोगिताकेत्यर्थः । सामान्याभावानभ्युपगमे विशेषाभावकूटे उक्तप्रतियोगिताकत्वमुक्त्कधीविषयः । सामान्याभावस्वीकारेऽपि कदाचित् संसृष्टव्यक्तित्वावच्छिन्नप्रति- योगिताको विशेषाभाव एव तथा। अथवा-कादाचित्काभावस्य विद्यमानस्वरूपकाभावस्य। वंसरवेन प्रागभावरवेन वा अभिमतस्यायोगादित्यन्तं तत्र हेतुः । तत्रापि हेतुरभावादित्यन्तम्। चकारोऽप्यर्थकः । तथाच विशेषात्यन्ताभावस्येव कादाचिस्काभावस्यापि प्रतियोगिता न सामान्यावच्छिन्नेत्यर्थः । विशेषेति । विशेषाभावे- त्यर्थः। दशायामिति। विशेषाभावकूटनिश्चयेऽपीति शेषः। प्रत्येकं संबन्धा इति। प्रश्येकावृत्तेः समुदायवृत्ति- त्वासंभवात् समवाथवत् बहुप्वेकस्य संबन्धत्वासंभवाच्य नाना पर्याप्िसंबन्धा वाच्या इत्यर्थः । समवायस्य प्रत्येकानु- योगिकत्वेन नानात्वम्, पर्याप्तेस्तु तदभावेनकत्वमित्याशयेन त्वय्े सामान्याभावं खण्डयिष्यति। अवच्छेदन विशि- अ. सि. ७०
Page 259
५५४ अद्वैतसिद्धिः । परिच्छेद: १ ]
वच्छेदेनाष्यभावा विशेषणीया; तथाचातिगौरवम्। अपि च व्यासज्यवृत्तिधर्मप्रहे यावदाश्रयप्र- हस्तन्जवेदप्रह्श्च हेतु; अगृहीतेषु भिन्ननया वाऽ्गृहीतेषु वस्त्रादिषु द्वित्वादिबुद्धनुदयान, तथाच यावदभावतन्भेदाग्रहे प्रथमत एव नीरूप इति धीर्न स्यात्; व्यासज्यवृत्तिसामान्यप्रतियोगिताकत्व- स्याप्रहणात्। अतः सामान्याभावस्य प्रामाणिकत्वात् कथं तत्पराहतिरिति-चेत्, अत्र न्रूम :- एवं तर्हि सामान्यप्रकारेण विशेषाभावाप्रतीतेज्नविशेषप्रागभावो न जानामीति घियो ज्ञानत्वावच्छिन्न प्रतियोगिताको न विषय इति सिद्धं नः समीहितम्। न हि प्रागभावोऽपि कश्चित्सामान्याभावोऽस्ति; येन तत्प्रतियोगिता सामान्यधर्मेणावच्छिद्येत, विशेषाभावप्रतियोगिता तु तत्तद्वटत्वादिना विशेषे णावच्छिद्यते। न च तेन तेन रूपेण भविष्यद्वटादि ज्ञातुं शक्यम्; तज्जन्मानन्तरं तु तत्तदरूपेण तज्ज्ञानसंभवेऽपि न प्रागभावधी: प्रत्यक्षा स्यात्: तदानीं प्रागभावासत्वात्, प्रत्यक्षस्य विषयजन्य- स्वात्। सामान्यप्रकारकज्ञानं च न विशेषाभावज्ञाने हेतुरित्युक्तम्: प्रतियोगितावच्छेदकप्रकारक- प्रतियोगिज्ञानस्याभावत्वप्रकारकाभावज्ञाने हेतुत्वात्, तस्यानुमानगम्यत्वेऽपि 'न जानामी'ति धियः अपरोक्षायास्तद्विषयत्वायोगात्। अव्यभिचारिलिङ्गाद्यभावात्तदनुमानमपि दूरनिरस्तमेव। ननु- 'इदं मा भू' दितीच्छाविषयतया तत्सिद्धि, नः प्रागभावस्य स्वरूपतोSसाध्यत्वेन प्रतियोगिजनक- विघटनेन तत्संबन्धस्येवात्यन्ताभावसंबन्धस्यापि साध्यत्वात्तनवान्यथासिद्धेः। अथ-उत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्यभावात्तत्पूर्वक्षणे सामगर्यभावो वाच्य: स च प्रागभावाभावादेव, अन्यहेतूनां सत्त्वादिति-चेन्न; सामयिकात्यन्ताभावेनैवान्यथासिद्धेः, उत्पन्नत्यैव स्वोत्पत्तिविरोधित्वाच्च। अपिच सामग्री कार्यसत्वे प्रयोजिका, न तु तस्याद्यकालसंबन्धरूपोत्पत्तावपि। आद्यकालसंबन्धो हि स्वसमानकालीनपदार्थध्वंसानाधारकालाधारत्वम्। तत्र सामग्री कार्यस्य कालाधारत्वांशमात्रे प्रयोजिका, न तु विशेषणांशेऽपि; तस्य तादक्पदार्थध्वंससामग्रीविरहादेव सिद्धेः। पाकजरूपादि भे दोऽप्यग्निसंयोगभेदात् पूर्वरूपादिध्वंसभेदाद्वा, न तु प्रागभावभेदात्, प्रतियोगिभेदं विना प्राग- भावभेदायोगाच्च। नाप्युपादानत्वव्यवस्था तत्र मानम्: तन्तुत्वादिनव तत्सिद्धेः। अन्यथा प्रागभा- वस्य संबन्धिविशेषोऽपि कुतः सिद्धेत् ? न च तदत्यन्ताभाववतः कथं तदुपादानत्वम्? संबन्धा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। ष्टत्वेन । विशेषणीया इति । अन्यथा पृथिव्यां सर्व नीलरूपमितिवत् पृथिव्यां रूपं नाम्नीत्यपि स्यादिति शेपः । इदंत्वादिनाभावस्य प्रत्यक्षं वारयितुमाह-अभावत्वप्रकारकेति। ज्ञाने प्रत्यक्षे। हेतुत्वादिति। अन्यथा नेत्याकारकप्रत्यक्षापत्तेरिनि शेषः । साध्यत्वात् क्षेमसाधारणसाध्यत्वात्। सामयिकेति। समयविशेषावच्छिन्नेत्यर्थः। ननु-पाकजानां रूपरसादीनां मिथो भेद: कारणभेद विनानुपपन्ः प्रागभावं कारणत्वेन कल्पयति पाकादिकारणाना- मभेदात; तत्राह-पाकजेति। ननु प्रागभावेति। तयोः कृप्तत्वादित्यादिः। यद्यपि रूपाद्यत्यन्ताभावस्य रूपादौ कारणत्वं संभवति; तथापि रूपव्यक्त्तीनामेकेन तेजःसंयोगाढिना जातानां मिथो भेदाय तत्तुंसहेतुत्वमुक्तम्। भेदं भेदसिद्विम्। भेदेति। भेदसिद्ीत्यथेः । वैलक्षण्येति। प्रनियोग्यधिकरणानधिकरणवृत्तित्वेत्यर्थः । त्रयमिति। तत्तद्धिकरणसंबन्धसमुदायत्वेन संबन्धानामेकत्वम्। रोचत इति। यद्यपि समवायः प्रत्यधिकरणं विशिष्टप्रमानि- यामकत्वेन प्रत्यधिकरणव्यक्तिभिन्नः; तथापि पर्याप्ति: प्रत्येकाधिकरणव्यक्ता विशिष्टबुद्धनियामकत्वेन न प्रत्यधिकरणं भिन्ना। तथाच प्रत्येकानतिरित्तसमुदायानुयोगिकपर्याप्तेः प्रत्येकानुयोगिकत्वेऽपि समुदितत्वावच्छिन्नाया एकस्या एव तस्या: स्वीकारात सामान्यावच्छिन्नप्रतियोगिताकत्वस्य सर्वविशेषाभावेष्वेकेव पर्याप्तिः, सामान्याभावस्य तु तत्तदधि- करणेपु विशेषणताः तदतिरिक्ताः कल्प्याः । स्वरूपसंबन्धस्य निरस्तत्वादित्यन्त्यः पक्ष एव रोचत इनि भावः। यत्तक्त-
तभ्न युक्तम्; बौद्धाधिकारटीकायां विपयतायाः ज्ञानस्वरूपत्वं निपिध्य एवं प्रतियोगित्वानुयोगित्वादिकमप्यति- रिक्तं न प्रतियोग्यादिस्वरूपमित्यस्य महता प्रबन्धेन स्थापितत्वात्। अनुयोगिताविशेषरूपस्योक्तनिरूपकत्वस्याभा- वस्वरूपत्वाभावात्। यदपि पृथिव्यां यावन्ति नीलरूपाणीतिवत् पृथिव्यां रूपं नास्तीति वाक्यमपि योग्यं स्यादिति, तदपिन; यावस्जीलत्वावच्छिन्ाधेयताया प्रृथिव्यनिरूपितत्वेन नीलत्वावच्छिन्नाधेयताया एव पृथिवीनिरूपितत्वेन यावन्नीलंपु बोधात्, पृथिव्यां न रूपमित्यत्रापि रूपत्वावच्छिन्नाप्रतियोगिताकाभावत्वावच्छिन्नाधेयताया एव बोधस्य व्युस्पत्तिसिद्धत्वान्। सिद्धत्वादिति। तथाच सामान्यरूपेणाभावे समवविशेषावच्छिप्नवृत्तिकेन विवादो निरस्तः। स्वसमभिव्याहृतपदार्थतावच्छेदकरूपेणा त्यन्ताभाव बोधकत्वस्य व्युत्पत्तिसिद्धत्वात्, अन्यथा निर्घटं सघटमित्याद्यापतेः।
Page 260
[अज्ञानप्रत्यक्षोपपत्तिः] ५५५
न्तरेण त्वयाप्यभ्युपगमात्समयावच्छेदतदनवच्छेदाभ्यां वैलक्षण्याभ्युपगमाच्चेत्यलमतिविस्तरेण। एवं सामान्याभावोऽपि गौरवपराहत एव। तथाहि-सामान्यावच्छिन्नप्रतियोगिताकत्वं अभावः तस्य च तत्तदधिकरणसंबन्धा इति त्रयं वा कल्प्यताम् ! कृप्नतत्तदधिकरणसंबन्धानामेकाधिकर- णवृत्तित्वावच्छेदेन सिद्धानामभावानां सामान्यावच्छिन्नप्रतियोगिताकत्वं, तस्य च व्यासज्यवृत्ति- स्वमिति द्वयं वा कल्प्यताम्। तत्रोत्तर: पक्ष एव प्रेक्षावज््यो रोचते; आद्यक्षणे 'घटो नीरूप' इति प्रतीतेः सर्वसिद्धत्वात्, यावदाश्रयतन्वेदग्रहस्य द्वित्वादिग्रहे हेतुत्वेऽपि उक्तप्रतियोगिताग्रहे हेतु- त्वानभ्युपगमात्, कार्योन्नयधर्माणां यथाकार्यमुन्नयनात्। नचैवं-अतिलाघवात् कलप्तानामघिक- रणानामेवाभावधीहेतुत्वमस्तु, किं विशेषाभावैरपीति-वाच्यम्; अस्माकमिष्टापत्तेः, घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाप्यनभ्युपगमेन भावस्याप्यभावत्वप्रकारकप्रमाहेतुत्वस्योभयवादि-
सामान्याभावसिद्धि :; अन्यथा अभावभेदासिद्धेः, प्रतियोगिभेदस्याभावभेदकर्वे एकघटप्रतियोगि- कस्य प्रागभावादिचतुष्टयस्याभेदप्रसङ्गात्, अवच्छेदकभेदान्तु तन्द्रेदे न कोऽपि दोष :; वचित्तादा- त्म्यस्य क्वचित्संसर्गस्य क्वचित् पूर्वापरकालीनतद्धटत्वादेश्च भेदात्-इति। तन्न; संसर्गप्रतियोगि- विशेषणसाधारणस्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात्, तादात्म्यादेश्च प्रतियोगितावच्छेदकत्वे माना- भावात्। भेदसिद्धिस्तु भाववदभावस्यापि विरुद्ध धर्माध्यासादेव। अवच्छेदक भेदस्याभावभेद निया- मकत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम्। तञ्च न; विपक्षबाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्ेरेवासिद्धेः।अत एव-तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तद्- वच्छिन्नप्रतियोगिताकान्यत्वव्याप्यमित्यपि-निरस्तम: एवंचावृत्तीनां गगनादीनां समनियतानां वाऽन्येषां धर्माणामेक एवात्यन्ताभावः: युगपद्विनष्टानामुत्न्नानां वा समानदेशानामसति बाधके एक एव ध्वंस: प्रागभावो वाः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चैदभावः प्रामाणिकः, तदा तस्यैकस्यैव प्रतियोगिताः सर्वैरेव व्यधिकरणैः सवश्च समानाधिकरणः संबन्धैरेवावच्छिद्य न्ताम्, आकाशाभाव एव वा तथाऽस्ताम: एकेनवोपपत्तावभावभेद कल्पने मानाभावात्। नच्र- एवमेक पव जगतीतले भवत्वभावः, स एव तत्तद्वच्छेदकदेशकालादि भेदेन तत्तद्यवहारभेदं जन- यिष्यतीति किमधिककल्पनयेति-वाच्यम्; उपपद्यते चेदस्तु। प्रकृते तुन बाधकं किचित्। अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थ स्यैव सर्वव्यवहारहेतुत्वोपपत्तौ न पदाथीनतरसिद्धिरित्यद्वै- तवादिनो वदन्ति। तदेवं 'अहमज्ञ' इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभाववि- लक्षणविषयत्वं सिद्धम्।। एवं 'त्वदुक्तमर्थ न जानामी ति प्रत्यक्षस्यापि। ननु-साक्षात्वदुक्तार्थविषयं प्रमाणज्ञानं मयि नास्तीत्येतद्विषयकमुदाहृनज्ञानम्, तञ्च न साक्षादर्थविषयम्; प्रमाणज्ञानावच्छेद-
गोडव्रह्मानन्दी (लघुचन्द्रिका)। एवंच सामान्यरूपेण विशेषस्य प्रागभावादिरिह कपाले घटो नाम्नीत्यादौ समवायावच्छिन्नतया भातीति परोक्तम- पास्तमिति भावः। ग्रहे निरूपकत्वग्रहे। अनभ्युपगमादिति। उक्तप्रतियोगिताकत्वान्यव्यासज्यवृत्तिधर्मप्रत्यक्षत्वेन शक्तिविशेषवत्वेन वा कार्यता। अन्यथा अनन्तसामान्याभावकल्पने महागौरवं स्यादिति भावः। संसर्गः संयोगादिः । तद्धटत्वेति। तद्यक्तित्वेत्यर्थः। तत्परिचायकमाह-पूर्वापर कालीनेति। साधारणस्येति। विशेषणस्य न्यूनाधि- कवृत्तेर्नावच्छेदकत्वम्, संसर्गस्य तु तादृशस्यापि तदिति वलक्षण्यात्तदवच्छेदकत्वयोर्भेद इति भावः। तादात्म्येति। तादालयं भेदस्य प्रतियोगितायां नावच्छेदकम्, तत्तद्यक्तित्वं न ध्वंसप्रागभावयोः; मानाभावादिति भावः। सामा- नाधिकरण्येतति। यत्र यत्रावच्छेदकभेदः, तत्र तत्राभावभेद इत्युक्तावभावे व्यभिचाराद्य्र यत्रैकावच्छेदकभिस्नापरा- वच्छेदकत्वं, तत्र तत्रैकाभावभिन्नापराभावत्वमिति वाच्यम्। तथाच साध्यहेत्वोरसामानाधिकरण्यम् । युगपदि- त्यादि। युगपदुत्पस्जानामेकः प्रागभावः । युगपद्विनष्टानां चैको नाशः । मूलाआवच्छिन्नयोस्तु नाशयोः प्रागभाव- योवा नैक्यम्। भिन्नावच्छेदेन प्रत्ययादित्यर्थः । अभावांशे प्रतीतेरनुगताकारत्वायेदम्। तदनपेक्षायां तु तत्तदधिक- रणेष्वेवाभावत्वं पूर्वोक्तं युक्तम्। उपपद्यते चेदिति। रूपत्वावच्छिन्नप्रतियोगिताकत्वस्यावच्छेदकत्वं वायवादाववशयं कल्प्यम्। तथाच किमपराद्धं वाय्वादिमात्रवृत्यभावेन ? संबन्धादिकल्पनमपि तुल्यमिति भावः। सिद्धि: तार्विक- त्वम्। काल एव चिद्रूपोऽस्तु। तदन्यत् सर्व तन्भास्यत्वान्मिथ्या। शुकिरूप्यादिवदिति भावः। साक्षात्वदुक्ता- र्थविषयमिति। विपयीभूतज्ञाने विशेषणं यत्र त्वदुक्तार्थस्तदन्यत् त्वदुक्ार्थविशेषणकं ज्ञानमित्यर्थः। तदभावः
Page 261
५५६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
कतयार्थस्य भानात्, अतो न व्याघात इति-चेन्न; साक्षास्वदुक्तार्थमवेत्य हि तद्भावो प्राह्यः। तज्जञानं च न साक्षिणा: स्वस्मिस्तादृटकप्रमाणज्ञानाभावात्, अन्यनिष्ठ तु शब्दादिना प्राह्यम्। शब्दा- दिश्व त्वदुक्तार्थ बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेत्। तथाच प्रथमतस्त्वदुक्तार्थविषयक साक्षादेव गतमिति तभिषेधे न कुतो व्याघातः! अत एव-विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषप्रकारक ज्ञानाभावो न व्याहत-इत्यपास्तम्, करतलामळकज्ञाने स्वविषयव्यावर्तकधर्मविषयत्वं प्रसिद्धमिह निषिध्यत इत्यपि न; त्वदुक्तत्वस्यापि मदुक्ताध्यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेद्धुमशक्यत्वात्। ननु-अवच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः। तथाहि-न हि विशेषज्ञानाभावस्त्वदुक्तार्थविषयकज्ञानाभावो वात्र प्रतीयते, किंतु त्वदुक्तार्थविशेष्यकविशेषप्रकार- कज्ञानाभाव, तत्र च त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानत्वेन प्रतियोगिज्ञानेऽपि तादक्प्रकारक- तद्विशेष्यकज्ञानाभावसंभवः; अस्य ज्ञानस्य ज्ञाने विशेष्ये विशेषप्रकारकत्वप्रकारकत्वात्, यत्रापि त्वदुक्तविशेषं न जानामीत्यभिलापः, तत्राप्येवमेव व्याहत्यभावः कथंचिदुन्नेयः। नच-यत्रोक्तप्रति- योग्यप्रसिद्धिः, तत्र कथमभावप्रतीतिरिति-वाच्यम्; समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशे- षणाभावविषयत्वेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयत्वेन वोपपत्तेरिति-चेन्न; अनुभवविरोधात्, विशेषज्ञानाभावस्य त्वदुक्तार्थक्षानाभावस्य वाऽनभ्युपगमे तद्विषयज्ञानसत्वेन तद्यवहारापत्तेश्च। न चैवं दृश्यते। स्वतःप्रामाण्यमते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्माणे तद्वत्त्वप्रहणस्यावश्यकतया तदंशे तत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगिज्ञाने संभवात् स्पष्ट एव व्याघातः, भावरूपाज्ञानपक्षे तु सर्वस्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम्। तदेवं 'त्वदुक्त मर्थ न जानामी'ति प्रत्यक्षभावरूपाज्ञानविषयमिति सिद्धम्। एवमेतावन्तं कालं न किंचिद्वेदिष मिति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयमेव। ननु-परामर्शः किमनुमानं, किंवा स्मरणम्। आद्ये ज्ञानाभाव एवानुमीयताम्, किं भावरूपाज्ञानेन? तथाहि-संप्रतिपन्नोदयास्तमय-
गोडब्रह्मानन्दी (लघुचन्द्रिका)। उत्तज्ञानाभावः। तज्ज्ञानं ज्ञानज्ञानम्। अर्थ त्वदुक्तार्थम्। बोधयन्निति। 'तदुक्तार्थज्ञानवानयमि'नि वाक्यजन्य- बोधः अर्थस्त्वदुक्त इत्यवान्तरवाक्याथयोधपुर्वको वाच्यः। अन्यथा विशिष्टवैशिष्यबोधत्वासंभवात, तन्मूलीभूतप्रत्य- क्षस्य भानप्रस्यक्षत्वेनोक्तबोधत्वनियमेन तस्यापि तन्नियमाच्च। नच-तवदुक्तार्थप्रमात्वादिना स्मरणात्तन रूपेण प्रमा- भावस्य प्रत्यक्षमस्त्विति-वाच्यम्; त्वदुक्तार्थस्याननुभवे तद्विशिष्टप्रमात्वेन पूर्वानुभवायोगात्। अतएव त्वदुक्तार्थ- स्मृत्यापि तत्प्रमानुमानादेरसंभवः। अतएव विशेषप्रकारकज्ञाने ज्ञेयविशेपप्रकारकज्ञानस्यावश्यकत्वादेव। स्वरूपतो विशेष्यतया। अशक्यत्वादिति। त्वदुक्तत्वान्यव्यावर्तकनिवेशेऽपि त्वदुक्तं नीलघटादिकं न जानामीत्यत्र नीलत्व- घटतवादिव्यावर्तकविषय कत्वेन विरोधासदन्यस्यापि निवेश नीलघटत्वाढिना निश्यस्थलेऽपि नीलघटादिकं न जानामीति स्यात्। इष्टापत्तावनुभवविरोधात् सवपदार्थाननुगमेन स्वविषयव्यावर्तकधर्माज्ञानकाले प्रतियोग्यप्रसिद्धेश्वाशक्यत्व- मिति भावः। कथंचिदिति। विशेपनिष्टानवच्छिन्नविपयताकज्ञानाभावो विषयः । प्रतियोगिज्ञानं नु विशेषरवेन विशेषप्रकारकमिति भावः । विशेष्ये विशेषणाभावेति। तवदुक्ताथेज्ञाने विशेषप्ररकत्वस्य विशेषप्रकारकज्ञानादी त्वदुक्तार्थविषयकत्वादेवा अभावेत्यर्थः । अनुभवविरोधात् त्वदुक्तार्थविशेषविशेषितज्ञानविरोधित्वेनानुभवस्यापलापा- पत्तेः । अनभ्युपगम इति। 'तदुक्तार्थ जानामी'नि धीकाले इत्यादिः। दृश्यत इति। तादृशाभावस्यानभ्युपगमे तु प्रनियोग्यज्ञानादेव तव नोक्तानुभवः, मम तु निर्विन्नः स इति शेपः । तद्वत्त्वग्रहस्येति। तदंशे इस्यग्रे अन्वयः । त्वदुकार्थाशे विशेषप्रकारकग्रहस्येत्यर्थः । तत्प्रकारकतद्विशेष्यकत्वस्य विशेषप्रकारतानिरूपितत्वदुक्कार्थ- विशेष्यताकत्वस्य। प्रतियोगिज्ञाने उक्तविशेष्यताकत्वेन ज्ञानस्य जञाने। संभवादिति। नच-विद्यमान एव ज्ञाने प्रमात्वस्य साक्षिणा अहादविद्यमानज्ञानस्योक्तविशेष्यताकत्वेन ग्रहः न तदंशे तत्प्रकारक इति-वाच्यम्; अविद्यमा- नस्याप्युक्तविशेष्यताकत्वेनेव प्रमात्वेनापि पूर्वानुभवसत्वे स्मृतिसंभवाद्विशेष्य विशेषणयोरुपस्थितिसत्वेऽपि विशिष्टधी- संभवेन प्रमात्वाग्रहेऽपि तदंशे तत्प्रकारकत्वे बाधकाभावाच्। परतः प्रामाण्यमते प्रामाण्यस्य क्वचित् संशयस्योपपतये प्रथमानुव्यवसायसामग्रयादे: प्रामाण्यग्रहे प्रतिबन्धकत्वकल्पनात् स्वतःप्रामाण्येत्युक्तम्। त्वदुक्त्तघटं जानामीत्यत्रेव त्वदुकं घटं न जानार्नीत्यत्र स्वरूपतो घटत्वं भानि। तेन रूपेणच घटो विशेषणम्। तथाच तेन रूपेण ज्ञानस्य कार- णस्यापेक्षणं त्वदुक्तचिछेपं न जानामीत्यत्रापि स्वरूपत एव विशेषस्य भानात स्वरूपतज्ज्ञानापेक्षायां व्याघातो गूढ इति सूचयति। स्पष्ट इति। तन्कालमहं तत्कालीनोऽहम्। तद्वत्तया ज्ञानवत्तया। नियमेन सर्वदा। स्मर्यमाणेऽपी-
Page 262
[अज्ञानप्रत्यक्षोपपत्तिः] ५५७
कालवद्विवादपद्योरप्युद्यास्तमययोरन्तरालकालमनुमाय तत्कालमहं झ्ानाभाववान्, अवस्था- विशेषवत्वात्, ज्ञानसामग्रीविरहवत्त्वात्, तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेSपि तद्वस्या नियमेना- स्मर्यमाणत्वाद्वेति प्रयोगसंभवात्। द्वितीये तु नास्त्युपपत्ति :; संस्कारासंभवात्, विनश्यदेव हि ज्ञानं संस्कारं जनयति; बिना व्यापारं व्यवहितकार्यजननाक्षमत्वात्, अविनश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत ? न हि संस्कारोऽपि प्रत्यक्षः, येन कार्या- न्यथानुपपत्तिमन्तरेणापि अभ्युपेयते; सौषुप्तंचानाद्यज्ञानोपरक्तं साक्षिचैतन्यरूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत् ? तदभावात् कथं स्मर्येत, अस्मर्यमाणं वा कथं प्रमाणत्वेनोद्दाहियेतेति-चेन्न; न तावदनुमानं तत्र संभवति। हेतोः पक्षविशेषणस्यचाशानात्। न हि जानाभावमन्तरेणावस्थायां विशेषो वक्तुं शक्यः । ज्ञानसामग्रीविरहश्च ज्ञानाभावानुमेयत्वे- नान्योन्याश्रयप्रस्तः। न चेदानीन्तनेनेन्द्रियप्रसादेन पूर्वकालीनं तदुपरममनुमाय सामग्रीविरहानु- मानम्; इन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः। नियमेनास्मर्यमाणत्वं च यथाश्रुतं वा सुषुप्तिकालावच्छेदेनेति वा। आद्ये असिद्धि, द्वितीये तूपेक्षणीयज्ञानाभावो न सिध्येत्, तत्रैव व्यमिचारश्च। नच-तर्हि प्रातरनुभूतचत्वरे गजज्ञानाभावज्ञानं कथमिति-वाच्यम्; जाना- नुपलब्ध्यैवेत्यवेहि। अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन। तथाहि-पूर्वकालेऽहं, गजज्ञाना- भाववान्, गजाज्ञानवत्वात्, यन्नैवं तन्नेवम्, यथा गजज्ञानवानहमिति, एवं सर्वत्राज्ञानस्य ज्ञानाभा- वव्याप्यत्वेन तदनुमापकत्वम्। नच-सुषुप्तिकाले ज्ानाभावानुमानार्थ भावरूपाज्ञानमिव रागाभा- वानुमानार्थ द्वेषोऽपि स्वीकरणीयः, तद्विरोधिपदार्थानुभवं विना तदभावानुमानायोगादिति- वाच्यम्; भावरूपाश्ञानेन ज्ञानाभावेन वा रागाभावानुमानसंभवात्, तस्यापि तद्विरोधित्वात्। अथापरोक्षतो ज्ञातेऽज्ञानाभावात् कथं परोक्षज्ञानाभावानुमानम्? सामग्रीविरहादिनेति गृहाण। न चात्राप्यन्योन्याश्रयः; शब्दादीनां योग्यानां योग्यानुपलब्ध्या अभावनिश्चयेन परोक्षज्ञानविरह्षानं विनैव सामग्रीविरहनिश्चयात्, सुपुप्तिकालेचेन्द्रियादिघटितसामग्रीविरहस्य फलाभावं विना शातुमशक्यत्वेनान्योन्याश्रयोक्तेः। न च स्मरणपक्षे संस्कारानुपपत्तिःः अज्ञानस्याजानवृत्तिप्रतिचि- म्बितसाक्षिभास्यत्वेन वृत्तिनाशादेव संस्कारोपपत्तेः, अज्ञानवृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षि पदार्थत्वात्। नच-जागरेउप्यज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति- वाच्यम्; अज्ञानविषयाज्ञानाभावेन तदयोगात्, संशयादेस्तत्कारणीभूताज्ञानसमानविषयत्वनिय- मात्। भावत्वादिना संशयेत्विष्टापत्तिरेवः भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषयत्वात्, अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात्। ननु-तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम्,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्यन्तं यदि तत्कालमहं ज्ञानवान् स्यां, तदा तद्दत्तया स्र्यमाण: स्यामिति तर्कज्ञापनाय, नतु हेतौ प्रविष्टम्। किमि- तीति। स्मृतित्वेनानुभवस्य स्वयमेव जनयितुमशक्यतया संस्कारः स्मृत्युपधायकतया सार्थकः । ज्ञानस्य नाशे सति तु स एव संस्कारो लाघवादिति नेदं परोकं युक्क्तमिति ्येयम्। स्मर्यतेति। अज्ञानमित्यादिः। वकुं शक्य इति । नच-प्राशपरिष्वज्ञरूपा सुपुप्ति: श्रुस्यैव बोध्यते इति-वाच्यम्; सौपुप्तानुभवसिद्धस्यैव श्रुत्याऽनुवादात्, श्रुत्यप्रतिस- न्धानेऽपि न किंचिदवेदिषमिति प्रत्ययाच्च। सुखानुभवेति। सुपुप्तावपि स्वरूपसुखानुभवोऽस्तीति स एव प्रसादहेतुः । स्वरूपसुखाकारकवृत्तेरेव हेतुत्वात् न सर्वदा प्रसादः। उक्त्तवृत्तिर्हि सुपुप्तौ समाध्युत्तरकाले चित्तावैयध्यकाले च भवति। इन्द्रियोपरमस्य प्रसादहेतुत्वे तु उक्तकालेषु स न स्यात्, सरणकाले च स्यादिति भावः । अवच्छेदेनेति। नियमेना स्मर्यमाणत्वमित्यनुषज्यते। तथाच सुपुप्तिकालावच्छिनज्ञानवत्वेनास्मर्यमाणत्वमित्यर्थः। असिद्धिरिति। यद्यपि सुपुप्तिकालीनोऽहं पक्षः; तथापि तस्य ज्ञानवश्वेन भ्रान्त्या स्र्यमाणत्वमस्तयेवेति भावः । द्वितीयेत्विति। तुशब्दादसिद्धि व्यवच्छेदः। सुषुप्तिमात्रस्याव्यावर्तकतया पक्षीभूताहमर्थसुपुसेरेव निवेश्यतया पक्षस्य तदीयसुषुप्तिका- लीनज्ञानवर्वेनाननुभवात्। पक्षीभूताहमर्थसुषुप्तिकालीनपुरुषान्तरस्यैव तेन सर्यमाणत्वात्। उपेक्षणीयेति। यः स्वकीयसुपुस्यादिरूपयत्काली नयद्विषयकज्ञानवर्वेन न स्मर्यते, स तत्कालीनतद्विषयकज्ञानप्रतियोगिकाभावस्याश्रयः, यथाहं प्रातर्घटज्ञानवत्वेनास्मृतः प्रातर्घटज्ञानाभाववानिति सामान्यतो व्याप्तिर्वाच्या। अन्यथा दष्टान्ताभावात्तत्र चो- पेक्षणीयज्ञानस्पैव निवेशे उपेक्षणीयज्ञानाभावो न सिध्येदित्यर्थः। ज्ञानसामान्यस्येव निवेशे आह-तत्रैवेति। उपे- क्षणीयज्ञानघटित इस्यर्थः। उक्तज्ञानवत्वेनास्र्तर्युक्तज्ञानस्त्वाव्यमिचार इति भावः। फलाभावमिति। ह्वेतुमिति
Page 263
५५८ अद्वैतसिद्धिः । [परिच्छेद: १]
सप्रतियोगिकत्वेनाभावज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वात्, अन्यथा 'प्रमेय'मिति ज्ानेऽप्य- भावो न भासेतेति-चेन्न; साक्षिणा तावन्न स्वरूपेणाभावावगाहनम्; तस्य साक्षात्साक्ष्यवेघ- त्वात्। नापि शब्दादिना; तदानीं तेषामभावात्। नाप्यनुपलब्ध्या; तस्याः प्रतियोगिज्ञाननिरपे- क्षाया अजनकत्वात्। नच-दष्टाभावान्तरविलक्षणस्वभाव एवायमभाव इति स्वरूपेण साक्षिवेद्यो- ऽस्त्विति-वाच्यम्; निर्विकल्फ्कबुद्धिवेद्यत्वे भावत्वस्यैवाचित्यात्, अन्यथा परिभाषामात्रापत्तेः। ननु ज्ानविरोधित्वादेस्तदाननुभवेन 'नावेदिष'मिति तेनाकारेण कथं परामर्शः ? न; द्रष्टर्ह्वन्तःकरण- तादात्म्येनाहमुल्लेखस्येव ज्ञानविरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे परामर्शत्वानभ्युपगमात्, सुषुप्तिकालीनस्य द्रष्टरेव परामृष्टत्वात्। नन्वज्ञानवृत्तिप्रतिबिम्बित चैतन्यरूपस्याज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात् कथमज्ञानस्मरणम्! न हि धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः; तथाच धारावाहिकोऽज्ानानुभव इति वक्तव्यम्, नतुपरामर्श इति, सत्यम्; सुषुप्त्याख्यायास्तामस्या अज्ञानवृत्तेरनाशे जाग्रति तद्विशिष्टाजानस्य साक्षिणाऽनुभूयमानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव सुषुप्तिविशिष्टाज्ञानभानात् परामर्शत्वोपपत्तेः, केवलाज्ञानांशे तु तुल्यसा मग्रीकत्वाद्धारावाहि कत्वमेव; अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्ति- रित्यभिप्रेत्य वार्तिककारपादेः सौषुप्ताज्ञानस्मरणमपाकृतम्। तथाचोक्तम्-'न सुषुप्तिगविज्ञानं नाशासिषमिति स्मृतिः। कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाकू॥ न भूतकालस्पृक्प्रत्यक् न चागामिस्पृगीक्षते। स्वार्थदेशः परार्थाऽर्थी विकल्पस्तेन स स्मृतः ॥' इत्याद्यव्याकृतप्रक्रियायाम्। विवरणकारस्तु-'अभावप्रत्ययालम्बना वृत्तर्निद्रे'ति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। शेषः। अजनकत्वादिति। अन्यथा तया नेत्याकारवज्ञानोन्पत्यापत्तिरिति भावः। तद्वेति। सविकल्पकवृत्तेरहंका- रजन्यत्वेन ज्ञानविरोधित्वसविषयकत्वप्रकारकाविद्यावृत्तिर्न सुप्तौ जायते। अतएव 'सिद्धान्तबिन्दायुक्त्तम्-भहंकारा- भावाच्च नैका विशिष्टवृत्तिरि'ति। वस्तुतस्तु-ज्ञानत्वसविषयकत्वाभ्यां रूपाभ्यामेव ज्ञानस्येव ज्ञानविरोधित्वसवि- पयकत्वाभ्यामेवाज्ञानस्यानुभवः; तस्येव तस्यापि सविकल्पकैकवेद्यत्वात्। तथाच तदन्यप्रकारकज्ञानस्येव सुपुप्ताव- भावनियमात्तादृशज्ञानं प्रत्येवाहंकारस्य हेतुता। विस्तरेणचेदं बिन्दुटीकायामुक्तम्। परामृष्टत्वात् स्मर्तृत्वात्। प्रमां प्रत्येव मनसः परिणामित्वेनाविद्यावृत्तिरुपस्मृतेरविद्यापरिणामत्वादविद्योपहितसाक्षिण एव तदाश्रयत्वमिति भावः। वृत्त्यवेति। नच-जागरे बाधाभावादागन्तुकदोपाजन्यत्वाञ्च सुपुप्तज्ञानं नाविद्यावृत्तिरिनि-वाच्यम्; दहात्मक्य- सुखा दिवि षय का विद्यावृत्तेरवह्मज्ञानकबाध्यत्वेने दानी मबाध्य त्वादविद्यावृ त्तेरिदानीं बाध्यत्वानियमात्, उक्तवृत्तिवंदवोक्त - दोपाजन्यत्वसंभवाच्च। सुषुप्तिविशिष्टाज्ञानेति। अज्ञानस्य विशिष्टस्वरूपमात्रेत्यर्थः। भानात् विपयीकरणात्। केव- लाज्ञानेति। विशिष्टान्याज्ञानस्वरूपेत्यर्थः । एकव निर्विकल्पकवृत्तिर्विशिष्टकेवलाज्ञानस्वरूपद्वयविपयिका विशिष्टांशे स्मृनिः, केवलांशे त्वनुभव इति भावः । विनाशसंस्कृतं विनाशरूपसूक्ष्मावस्थायुक्तमज्ञानमात्रम्। ननु वृत्तिः । सुधुप्तिकालमात्रगाया एकस्या वृत्तेरस्वीकार इति भावः। सुषुप्निगेति। सुपुप्तिकालमात्रगतेत्यर्थः । एकवाविद्या- वृत्तिः सुपुह्यादिकालस्थायिनी, ननु सुपुप्तिकालमात्रवृत्तिः काचन वृत्तिः । यन्नाशात स्मरणमित्यर्थः। अथवा प्रलयवदेव सुपुल्ली वृत्तिर्न स्वीक्रियत इत्याशयेन प्रलयोपममित्यस्योक्तत्वाद्विज्ञानं जन्यज्ञानं सुपुप्ती नेत्यर्थः। काला- द्यव्यवधानत्वात् सुपुप्तिजाअत्कालयोः संस्कारकालेन व्यवधानाभावात्। ननु सोपुप्तवृत्तिनाशाभावेऽपि विषयना- शाद्िषयावच्छिननचिन्नाशेन स्मृतिरास्ताम्, तग्राह-न हीति। आत्मस्थम् अज्ञानम्। अतीतभाक अतीतम्। हेतुमाह-न भूतेति। प्रत्यक अज्ञानोपहितचित्। तेन उक्तहेतुना। विकल्पः नतु स्मृतिरूपनिर्विकल्पः । सः ना- वेदिषमिति प्रत्ययः विकल्पतां घटयति। यतस्तस्य प्रत्ययस्य स्वार्थदेशः स्वार्थाधिकरणकः । परार्थोऽर्थः विषयः अज्ञाने अज्ञानभिन्नो ज्ञानविरोधित्वादिरूपो विषय इनि यावत्। अभावेत्यादि। अभावस्य सर्ववृत्त्यभावस्य। प्रत्ययः कारणम्। उद्विक्ततमोगुणः आलम्बनं विषयो यस्याः सा तथा प्रतीयते प्राप्यते कार्यमनेनेनि व्युस्पत्ते: प्रत्ययपदस्य कारणार्थकत्वात्। तमोगुणस्योद्रेके सति सश्वगुणपरिणामरूपा सुपुप्तिरूपा वृत्तिः, नतु तमोगुणस्यैव परिणामः; 'सत्वात् संजायते ज्ञान'मिति स्मृतेः। अतएव सुपुप्तिनिरुक्तोपपादने भामत्यामीक्षत्यधिकरणे वृत्त्यन्तराभावकारणतमो- गुणावलम्वना वृत्तिरित्युक्तम। कारणेति। प्रमाणादीतरवृत्यभाघकारणेत्यर्थः। मात्रपदं ज्ञानविरोधादिधर्मान्तरस्या- ज्ञाने विशेषणतवनिरासाय। एतेन गुणत्रयाज्ञानविषयकत्वस्य पूर्वमुक्तत्वाद्विरुद्धमिदं तमोगुणमात्रविषयकत्ववचनमिति परास्तम्। मात्रपद्स्य गुणान्तराव्यवच्छेदकत्वातू। इति घीः अज्ञानांशे स्मृतित्वेनानुभूयमानधीः। सुषुप्ते इति।
Page 264
[अज्ञानप्रत्यक्षोपपत्तिः] ५५९
लम्बना काचिदृत्ति: सुषुप्तिरित्यमिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशनैव नाशात्तत्कालीनाज्ञानानुभव- जनितसंस्कारवशेन 'न किंचिदवेदिष'मिति 'स्मरणमभ्युपेत'मिति वार्तिकविवरणयोरप्यविरोधः। अत एवोक्तं वार्तिककारैरुषस्तिव्राह्मणे-'न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते। नावेदिषं सुषुमोऽह- मिति घी: किंबलान्द्रवेत् ॥' इत्यादि। अभिप्रायस्तु वर्णितः। एवंच साक्ष्यज्ञानसुखाकारास्तिस्त्रो विद्यावृत्तयः, सुषुप््यारयैकैव वा वृत्तिरित्यन्यदेतत् । निर्विकल्पकस्यापि स्मरणजनकत्वम्। अहं- कारोपरागकालीनत्वाभावेन तत्तानुल्लख इत्यादि सर्वमुपपादितमस्मामि: सिद्धान्तबिन्दौ। तस्मात् सौषुपानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम्॥ इत्यद्वैतसिद्धौ अज्ञानप्रत्यक्षत्वोपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। धीरित्यन्वयः । तेन सुपुप्तौ नावेदिषमित्यस्य सविकल्पकत्वेऽपि न क्षतिः । उक्तधियः अज्ञानांशेऽनुभवतवं वक्तुं शक्यम्। नतु सुपुप्यंशे स्वरूपसुखांशे वा। नहि विक्षेपबाहुल्यकाले जागरे तदनुभवसंभवः । नच-कार्यसामान्य- संस्कारोपहित चतन्यज़ाने स्वरूप सुरुसुपुप्तितत्परकाश रूप च तन्यनाशत्व स्योक्तसंस्कार नाशरूपजाअवस्थायां स्वीकारात्तत एव तयो: स्मृतिरिति-वाच्यम्; उक्तसंस्कारस्य तदुभयाविषयकत्वेन तन्नाशात्मकजाअदवस्थायास्तदुभयविषयकसं- स्कारत्वासंभवात्। अथोक्तचैतन्यात्मकत्वस्यापि तस्य स्वीकारात्तत्संभव इति चेन्न; वृत्तिचैतन्ययोरेकजातीयविपयस्वा- भावेन तदन्तर्भावेन संस्कारस्य हेतुत्वासंभवात्, वृत्तेर्हि विषयत्वमाकाराख्यम्। चैतन्यस्य तु तादात््यम्। तथाचातु- मित्यादिवृत्तिनाशस्य हेतुतायाः कृप्तत्वेन प्रकृते वृत्तिरावश्यकी। किंच चित्स्वरूपस्यैव सुखत्वेन जागरमध्येऽपि तत्स्मृ- तिसंभवेन सुपुह्युत्तरमेव सुखमासमिति स्मृतिरित्यत्र बीजाभावः। तस्मात् सुपुप्ता सुखाकारा वृत्तिरावश्यकी। सैवा- ज्ञानाकारा सुपुप्तिस्तदविषयिकापि तत्सृक्ष्मावस्था तत्स्मृतिहेतु :; वृत्तिमात्रस्येव नाशे तद्विपयेष्विव तत्रापि स्मृति- हेतुत्वकल्पनात्। ज्ञातत्वेन हि सवैः स्मर्यत इनि भामत्यामध्यासभाव्यस्थायामुक्तम्। तथाचतादृशसुपुप्तौ स्वरूपसुखे चोक्तानुभवो न चेदभ्युपेयते, नावेदिषमिति धीस्तदुभयविषयिका किंनिबन्धनेत्यनेन तदुभयविपयकत्वानुरोधेन सौषु- प्रवृत्तिरावश्यकी। ततश्च तस्यामेवाज्ञानाकारत्वं स्वीकृत्य तदुभयस्मृतेरज्ञानेऽपि स्मृतित्वमानुभाविकं नापलपनीय- मिति ज्ञापितम्। वर्णित इति। विवरणस्य योडभिप्राय उक्त:, स एव 'न चेदि'त्यादिवार्तिकस्येत्यर्थः। जनकत्व- मिति। आकाशादिपदात् शुद्धाकाशशक्ततवेन ज्ञानात् शुद्धाकाशस्मृतिर्मणिकारादिभिरुक्तेति निर्विकल्पकानुभवस् सविकल्पकानुभवस्येव स्मृतिजनकत्वे बाधकाभाव इति भावः । अहमित्यादि। सप्रकारकज्ञानं प्रत्यहंकारस्य हेतु- न्वात्तदभावेन सोपुप्तज्ञाने तद्देशकालासंबन्धरूपतत्ताप्रकारकत्वाभावात् तज्जन्यस्मृतेरपि स इति भावः ॥ इति लघुचन्द्रिकायां अज्ञानप्रत्यक्षोपपादनम्॥
अथाज्ञानवादे अज्ञानप्रत्यक्षोपपत्तिः । (१) तत्र न्यायामृतकारा :- साक्षिवेद्ये सुखादावज्ञानाभावेन जडे आवरणकृत्याभावेन घटं न जानामीत्यादिप्रतीतेरिव ज्ञानाभावविषयकत्वात् तत एव परोक्षे धर्मादौ ज्ञाते न जानामीत्यननुभवोपपत्तेश्वाहमज्ः अहं न जानामीत्यादिप्रत्ययानामपि ज्ञानाभावविषयकत्वमेव । न हि भवन्मतेऽप्यहमर्थस्याज्ञानाश्रयत्वसंभवः। अतएव ह्यहमज्ञो मयि ज्ञानं नास्तीति प्रत्यययोः विशेषणविशेष्यभाव- व्यत्यासं विना विषयभेदाप्रतीत्युपपत्तिः । श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्वेन तज्ज्ञाने प्रतियोगिज्ञानाज्ञा- नाभ्यां व्याहतेस्तुत्यत्वेन नात्र पर्यनुयोगावकाशः । एवंच यथा सामान्यरूपेण प्रतियोगिज्ञानस्य प्रागभावस्थले विशेषरूपेण निषेधे कारणतान्न व्याहतिः, एवं प्रकृतेऽपि सामान्यतो वृत्तिज्ञानस्य साक्षिवेद्यत्वेन विशेषतोऽभावज्ञानमुपपद्यत इति व्याह- त्यभावात्। अस्तुवा कथंचिद्याहतिप्रसङ्गः, तथापि अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानादिति विवरणवचनोपपत्यर्थ अज्ञानज्ञान विरोध प्रामाणिकत्वोपपत्त्यर्थ च न जानामीत्यादौ नजल्लेखेऽपि मुग्धोऽस्मीत्यादौ ज्ञानविरोधित्वेनैवाज्ञानस्याङ्गीक- रणीयतया भावरूपाज्ञानवादेऽपि विरोधनिरूपकज्ञानाज्ञानाभ्यां व्याहतिसाम्येन यश्चोभयोरिति न्यायेन न पर्यनुयोगावसरः। तमोनीहारादिशब्दैः सामान्यतः तत्प्रतीतौ विरोधाप्रत्ययेनाज्ञानस्य विरोधिनिरूपकज्ञानाज्ञाननियतत्वं तु ज्ञानाभावेऽपि समम्; प्रमेयत्वादिनाऽभावज्ञानेऽपि प्रतियोगिज्ञानानपेक्षणात्। एवं च अहमज् इति प्रत्यक्ष न भवरूपाजाने प्रमाणम्; पतेन- ब्रह्म न जानामीति प्रत्ययोऽपि-व्याख्यातः; विशिष्टज्ञानं प्रति विशेषणज्ञानस्य विशेषणतावच्छेद कप्रकारकज्ञानस्य वा हेतुत्वेनावच्छेदकब्रह्मज्ञानाज्ञानाभ्यां ब्रह्माज्ञानज्ञानासंभवातू। पतेन-तदुक्तार्थ न जानामीत्यनुभवोऽपि-व्याख्यातः;
Page 265
५६० अद्वैतसिद्धिः । [परिच्छेद: १]
समान्यतोऽर्यज्ञानस्यैव विशेषतः तदभावज्ञानहेतुलात्। यदितु विशेषज्ञानज्ञानस्यैव तदभावज्ञानहेतुत्वमित्याप्रहः, एवमफि स्रूपेण विशेषज्ञाने सत्यपि संशयादिविरोधिभूतविशेषप्रकारकज्ञाननिषेधस्यैवात्र विवक्षितत्वेन स्रूपेण विशेषज्ञानज्ञानस- त्वेषपि न दोषः । वस्तुतस्तु-ब्रह्म न जानामीत्यस्य लदुक्कमर्थ नजानामीत्यस्य च ब्रह्मज्ञानादिकं नास्तीति नार्थः; येन प्रतियोगित्वेन विशेषज्ञानापेक्षा स्ात्, किंतु ब्रह्मज्ञाने करतलामलकज्ञाने इव खविषयव्यावर्तकधर्मविषयकत्वनिषेध एवेति न कोऽपि दोषः। परमार्थतस्तु-साक्षात् लदुक्तार्थविषयकं प्रमाणज्ञानं मयि नास्तीत्येव न जानामीति प्रत्ययार्थ इति साक्षात्प्रत्ययाविषयत्वेनार्थासत्वेन प्रमाणज्ञाननिषेधोपपत्त्या सर्वोपपत्तिः। एतेन-न किंचिदवेदिषं सुखमहमखाप्समिति परामर्शसिद्ध: सौषुप्तिकानुभवोऽपि-व्याख्यातः; तस्यापि पूर्वोक्तप्रकारेण दुःखं नावेदिषमित्यादीनामिव ज्ञानाभावविषन- कत्वात्। किंच परामर्शशब्देन किं अनुमानं, उत स्मरणं विवक्षितम्, आद्ये-अवस्थाविशेषवत्वेन ज्ञानसामभीविर- हवत्वेन तुल्ययोगक्षेमे आत्मादा स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्यमाणत्वेन वा हेतुना सुषुप्तौ ज्ञानाभावस्यैवानुमानेन भावरूपाजानाविषयीकरणम्। द्वितीये-अनादयज्ञानोपरक्तसाक्षिचैतन्यरूपसौषुप्तज्ञानस्य स्वतोवोपाधितो वाSविनाशित्वेन संस्काराजनकत्वेन संस्कारद्वाराऽनुभवजन्यज्ञानत्वरूपस्मृतित्वानुपपत्तिः। एतेन-ज्ञानविरोधिभावरूपाज्ञानेनैव सुषुप्तौ ज्ञानानुंभव इति वचनमपि-पराहतम्; विरोधिपदार्थानुभवेन विरोध्यन्तराभावानुमाने सौषुप्तिकरागाभावानुमानार्थ द्वेषानुभवस्याप्यक्गीकारापत्तेः। ज्ञानाभावेन रागाभावानुमानं तुन संभवति; आत्मनः प्रकाशमानलात्। एवंचाजञानस्येव ज्ञानाभावस्यापि स्वरूपतो भानसंभवेनाज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्याज्ञानानुभवस्य जाप्रत्यपि सत्वेन अहमंशे इव स्मरणरूपलाभावेन च सौषुप्तानुभवोऽपि न भावरूपाज्ञाने मानमिति सिद्धमिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- खस्मिन् विद्यमाने साक्षिवेद्ये सुखादो न जानामीति व्यवहारासंभवेन परसुखादौ तद्यवहारस्य परोक्षज्ञाननिवर्त्यप्रमा- त्रज्ञानेनोपपत्त्या परोक्षज्ञानेन प्रमान्नज्ञाननिवृत्त्यैव तत्कार्यज्ञातधर्माद्यज्ञानाननुभवोपपत्त्याऽज्ञानाश्रयचैतन्य एवान्तःकरणता- दात्म्याध्यासेनैकाश्रयत्वसंबन्धेनाहमज्ञ इत्यादिप्रत्ययानामपि घटावच्छिन्नचैतन्याश्रिताज्ञानविषयकस्य घटं न जानामीत्यादि प्रत्यक्षस्येव भावरूपाज्ञानविषयकत्वमेव युक्त्तम्; मयि ज्ञानं नास्तीति प्रतीतेः ज्ञानाभावविषयत्वे ज्ञानतसामान्यावच्छिन्न- प्रतियोगिताकामाँवप्रतीतेः यावज्ज्ञानविशेषविरोधित्वेन तत्कारणताभिमतज्ञानविशेषोदये व्याघातापत्याऽ्भाववुद्धिवैलक्ष- ण्यस्याङ्गीकरणीयतया विषयाभाववैलक्षण्यसिद्धा अहमज्ञः मयि ज्ञानं नास्तीति प्रत्यययोर्विषयभेदाप्रतीतेः ज्ञानद्वयस्यापि भावरूपाज्ञानगोचरत एवोपपत्तेः। श्रवणादिसाध्यतमोक्षहेतुतप्रकारकव्रह्मज्ञानज्ञानस्य श्रवणासाध्यत्वेन तत्प्रागभावविघातेन नास्मन्मतेऽपि व्याघातसाम्यम् । एवंच प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानस्यैवाभावज्ञानहेतुत्वेन सामान्यतः प्रतियोगिज्ञानेन विशेषतोऽभावज्ञानोपपादनासंभवेनेहेदानीं घटो नास्तीति प्रतीतेरपि सामान्यधर्मावच्छिन्न प्रतियोगि- ताककालविशेषावच्छिन्नयावद्विशेषाभावविषयकत्वेन प्रागभावप्रतीतावपि तादृशकार्यकारणभावाभावेन प्रतियोगिज्ञानाज्ञा- नाभ्यां व्याहत्या न ज्ञानाभावविषयं प्रत्यक्षमिति मन्तव्यम्। सर्व वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिगोचर इति विवर- णोक्त्या अज्ञानग्रहे साक्षिचतन्यापेक्षायामपि विषयगोचरप्रमानपेक्षणात् भावरूपाज्ञानपक्षे न व्याहतिः। वृत्तिज्ञानस्य साक्षिवेद्यत्वेSप तदभावस्य साक्षिवेद्यत्वाभावेन न ज्ञानाभावस्यापि साक्षिमात्रापेक्षत्वेन व्याहत्यभावः। एवंच अहमझ इति प्रत्यक्षं भावरूपाज्ञानविषयमेवेति सिद्धम् । एतेन-ब्रह्म न जानामीति प्रत्ययोऽपि-व्याख्यातः; विशिष्टवैशिष्यबुद्धी विशेषणज्ञानस्य तत्वावच्छेदकप्रकारकज्ञानस्य वाऽहेतुत्वेन हेतुत्वेऽपि विशेष्ये विशेषणं तत्रापि विशेषणमिति रीत्या विशिष्ट- बुद्धिसंभवेनावच्छेदकविषयज्ञानं विनापि तत्प्रत्ययसंभवात्। अत एव-दुक्तमर्थ न जानामीति प्रत्यक्षमपि तत्र प्रमाण- मिति-सूचितम्; विशेषज्ञानाभावस्य लदुक्तार्थज्ञान भावस्य वाऽनभ्युपगमे तद्विषयज्ञानसत्वेन व्यवहारापत्त्याऽनुभवविरो- धेन विशेषप्रकारकज्ञानाभाव एवात्र विवक्षित इति वर्णयितुमशक्यलात्। एतेन-करतलामलकज्ञाने प्रसिद्धं खविषयव्या- वर्तकधर्मविषयत्वमेवात्र निषिध्यत इति वचनमपि-पराहतम्; दुक्तस्यापि मदुक्तत्वाध्यावर्तकत्वेन सामान्यतो व्याव- तकधर्मविषयत्वस्य निषेद्धुमशक्यलात्। साक्षात् तदुक्तार्थस्यान्यनिष्ठस्य शब्दादिप्रमाणादिना बोधने तद्विषयत्वस्यापि ज्ञाने बोधनेन लदुक्क्तार्थविषयकं ज्ञानमागतमिति तन्निषेधे व्याघातापत्त्या साक्षात् लदुक्तार्थविषयकं प्रमाणज्ञानं नास्तीत्येवंपरतया व्याख्यानमपि न युक्तम्। एलेन-परामर्शसिद्धसौषुप्तानुभावोऽपि-व्याख्यातः; ज्ञानाभावमन्तरेणावस्थायां विशेषवत्- स्याशक्यवचनत्वेन ज्ञानाभावानुमापकज्ञानसामप्रीविरहस्य ज्ञानाभावानुमेयत्वेनान्योन्याश्रयेण यथाश्रुतस्य नियमेनास्मर्यमाण- वस्यासिख्ा सुषुप्तिकालावच्छिन्नस्योपेक्षणीयज्ञानाभावासाधकत्वेन तत्रैव व्यमिचारेणचाज्ञानाभावानुमित्यसंभवात् प्रात रनुभूतचत्वरे गजज्ञानाभावज्ञानं भावरूपाज्ञानलिङ्गकानुपलब्धिज्ञानेन सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन ज्ञानाभावेनैव रागाभाषानुमानमपि संभवत्येवेति मन्तव्यम्। अज्ञानवृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षिपदार्थत्वेन वृत्तिनाशात् संस्कारोप- पच्या जात्रत्यपि सुपुप्याख्यतामसाविद्यावृत्तिविशिष्टाज्ञानस्य साक्षिणाऽननुभूयमानत्वेन न किंचिदवेदिषमित्यादेः स्मरणरू-
Page 266
[अज्ञानप्रत्यक्षोपपत्तिः] गौडब्रहानन्दीयुता। ५६१
पत्वेऽपि तु बाधकाभावः । इदं तु अभावप्रत्ययालम्बना वृत्तिर्निद्रेति योगसूत्रानुसारीति "न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृति"रिति प्रस्थानान्तरपरवार्तिकेन न विरोध इति सर्वमनवद्यमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- स्वसमवेतसवभ्रान्तिसिद्धसुखादौ साक्षिवेद्ये न जानामीति व्यवहारस्य सर्वसिद्धत्वेनैकस्यैवाज्ञानस्य विषयप्रमातृगतत्वेन विषयाज्ञानाविनासे धर्मादौ ज्ञातेऽपि न जानामीति व्यवहारापत्त्या शुद्धचैतन्यस्याज्ञानाश्रयतया विशिष्य प्रतीत्यसंभवेनाह- मश इत्यस्यैव मुख्यप्रत्ययत्वेनाहमर्थस्यैवाज्ञानाश्रयत्वेनचाहमज्ञ इत्यादिप्रत्ययानां ज्ञानाभावविषयकत्वमेवाङ्गीकरणीयम्। अतएवहि मयि ज्ञानं नास्तीति प्रतीत्या अह्मज् इति प्रतीतेः विषयतोऽविशेषोऽप्युपपद्यते। सामान्यधर्मस्यापि विशेषाभाव- प्रतियोगितावच्छेदकत्वस्य स्वरूपसंबन्धरूपस्याङ्गीकारात् प्रतियोगितावच्छेद कावच्छिन्नप्रतियोगिज्ञानेऽपि ज्ञानविशेषाभावज्ञाने व्याघातानापत्या वायौ रूपाभावादिज्ञानवेजात्यकल्पनायोगात् योगेऽपि यावदभावकिंचिदभावविषयकत्वेनेव तत्कल्पनस्य युक्तताच्च मयि ज्ञानं नास्तीति प्रतीतेः ज्ञानाभावविषयकत्वस्यैव युक्ततादहमज्ञ इति प्रतीतेरपि ज्ञानाभावविषयत्वस्यैव युक्त- लात्, अन्यथा श्रवणादिसाध्यनिष्प्रपश्चात्मज्ञानप्रागभावज्ञानार्थ निष्प्रपञ्चात्मज्ञानज्ञाने सति प्रागभावासत्वे भवतामपि मते व्याघातापत्तेः । एवंच प्रतियोगितावच्छेद कावच्छिन्नप्रतियोगिज्ञानस्यैवाभावज्ञानहेतुत्वेऽपि व्याघातानापत्त्या न भावरूपाज्ञा- नविषयमहमज्ञ इत्यादिप्रत्यक्षमिति मन्तव्यम्। भावरूपाज्ञानस्यापि विरोधिज्ञानोत्पत्त्यनुत्पत्तिभ्यां व्याघातापत्या साक्षिचैत- न्य स्यैवापेक्षणेन तत्परिहारस्य ज्ञानद्वारकज्ञानविषय विषयकसाक्षिज्ञानस्य प्रकृतेपि संभवेनाविशेषात्। तम्मात् न जानामीति ज्ञानविरोधिन: कस्यचिदनुभूयमानस्याभावविषयत्वं प्रकल्प्य तद्वारा विषयानुभवकल्पनापेक्षया कप्तेऽभावे विषयानुभावकता- कल्पनमेव लाघवेन युक्त्तम्। ब्रह्म न जानामीति विशिष्टवैशिष्यज्ञाने यथा विशेषणज्ञानस्य विशेषणतावच्छेदकप्रकारकज्ञानस्य था न हेतुत्वं हेतुत्वेऽपि विशेष्ये विशेषणमिति रीत्या विशिष्टवशिष्यज्ञानमेवाङ्गीक्रियते, तथैव ज्ञानाभावज्ञानपक्षेऽयङ्गीक्रियते इति न कापि हानिरिति भावरूपाज्ञाने नाहमज्ञ इति प्रत्यक्षं प्रमाणम्। एतेन-सौपुप्तानुभवोऽपि-व्याख्यातः; श्रुति- सिद्ध प्राज्ञपरिष्वङ्ग लक्षणकालविशेषस्य सुषुप्यास्यस्य ज्ञानाभावातिरिक्तस्य सुवचत्वेन स्रूपसुखानुभवस्येन्द्रियोपरमाप्रयोज- कत्वादिन्द्रियविषयानुभवजन्यमुखानुभवस्य तदानीमभावाच्चेदानीन्तनेन्द्रियप्रसादेनेवेन्द्रियोपरमानुमानेन अन्योन्याश्रयानव- कारोन तुल्ययोगक्षेमे इत्यत्र तुत्यपदेनानुपेक्षणीयस्यैव विवक्षणेनोपेक्षणीयज्ञानवति व्यमिचाराप्रसङ्वेन च ज्ञानाभावानुमि- तिसंभवात्। एतेन-पराभर्शपदेन स्मरणमेव विवक्ष्यते इति वचनमपि-पराहतम्; दोषाजन्यत्वेन व्यवहारदशाया- मबाध्यत्वेनच मुपुप्तेरविद्यावृत्तित्वायोगेन योगेऽपि अज्ञानांशे सुषुप्तिजागरयोः तुल्यसामग्रीकत्वाद्वारावाहिकबुद्धित्स्येवा- न्रीकरणीयलात्। अतएव अव्याकृतप्रक्रियागतं वार्तिकमप्युपपद्यते इति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- असत्वापादकाज्ञानाविषयत्प्रयोजकविशिष्टचित एव जानात्यर्थत्वेन परोक्षज्ञानेनोक्ताज्ञानविनाशेन ज्ञाते धर्मादौ न जाना- मीति व्यवहारानापत्त्या "पूर्वसिद्धनमसो हि पश्चिम" इति न्यायेनाज्ञानाश्रयकोटौ चिदन्यनिवेशासंभवेनाहमर्थाज्ञानयोरेका- श्रयत्वेनैवाहमज्ञ इत्यादिप्रत्ययोपपत्त्या घटो.नास्तीत्यादी पटत्वावच्छिन्नप्रतियोगिताकत्वभानापत्या प्रतियोगिनि प्रकारस्य तद्यापकस्यवैवावच्छेदकत्वेऽपि सामान्यधर्मस्य प्रतियोगिन्यप्रकारत्वेन सामान्यधर्मस्य प्रतियोगिन्यपि प्रकारत्वेऽपि सामान्य- धर्माश्रययावद्विशेषाभावस्यैव वायौ रूपं नास्तीत्यत्रेवाङ्गीकरणीयतया घटत्वेन पटो नास्तीति घियो घटवदिदमिति ज्ञानाविरो- धार्थमभावांशे येन रूपेण प्रकारता तदवच्छिन्नप्रतियोगिताकधीत्वेनैव तद्रूपविशिष्टवत्ताधीविरोधित्वेन सामान्यधमावच्छि- न्रज्ञाने विशेषाभावविषयकत्वासंभवेन यावज्ज्ञानाभावविषयकत्वस्यावश्यकत्वाव्याघातापत्त्या मयि ज्ञानं नास्तीति प्रत्ययस्येव भावरूपाज्ञानविषयकत्वस्यैवाङ्गीकरणीयत्वेन चाहमज्ञ इति प्रत्ययो भावरूपाज्ञाने प्रमाणमेव। श्रवणादिसाध्यत्ादिप्रकारक-
इदानीं ब्रह्मज्ञानं नास्तीति व्यवहारोपपत्त्या विवरणोक्तेरज्ञाने नष्टे ज्ञानविरोधेन तदननुभवाभिप्रायत्वेन विषयविशेषाश्रिताखण्ड- धर्मविशिष्टस्यैवाज्ञानस्य ज्ञानविरोधित्वेनाज्ञान प्रत्ययस्यास्मामिरनङ्गीका रेणाङ्गीकारेऽपि साक्षिभास्यत्वेनास्मन्मते न व्याघातः। यथाचाज्ञानविरोधित्वस्याज्ञानवत्साक्षिभास्यत्वं नैवं ज्ञानाभावविशेषणज्ञानावच्छेदकानामपि साक्षिभास्यतम्; विद्यमानस्यैव साक्षिभास्यत्वेन ज्ञानतदभावयोरुभयोरपि साक्षिमास्यताभावादिति प्रतियोगिज्ञानं साक्षिरूपमपि न सिद्धतीति भवन्मते न व्याघातासंभवः । पतेन-ब्रह्म न जानामीत्यादेः अद्वैतमत इव विशेष्ये विशेषणमिति रीत्या विशिष्टवैशिष्ट्यावगाहित्मेवेति वचनमपि-पराहतम्; प्रतियोगिविशेषिताभावबुद्धिर्विशिष्टवैशिष्यमर्यादां नातिशेत इति सिद्धान्तविरोधस्य भवन्मते समापत्तेः। एवंच अहमज्ञ इत्यादिप्रतीतेर्भाव रूपाज्ञानविषय तमेवाङ्गीकरणीय मिति सिद्धम्। एतेन-परामर्शसिद्धसौषुप्तानुभ- वोऽपि-व्याख्यातः; तत्र परामर्शशब्देन हि न ज्ञानाभावानुमानविवक्षा; सौषुप्तानुभवसिद्धस्यैव प्राज्ञपरिष्वङ्गादिश्रुत्याऽनु- अ. सि. ७१
Page 267
५६२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
अथ अज्ञानवादे अनुमानोपपत्तिः । अनुमानमपि तत्र विवरणोक्तं प्रमाणम्। 'विवादपदं प्रमाणज्ञानं, स्वप्रागभावव्यतिरिक्तस्वविषया- वरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्र- दीपप्रभाव'दिति। अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामश्षा- नानिवर्तिकायां बाधवारणाय। धर्म्येशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकाया: पक्षब- हिर्भावाय विवादपदमिति विशेषणम्। विशेषाकारप्रमाणवृत्तिरिति फलितोऽर्थः । परोक्षप्रमाया अप्यसत्त्वावरणरूपप्रमातृगताज्ञाननिवर्तकत्वात् न तदंशेऽपि बाधः। नन्विदमिति प्रमाणवृत्तेर- ज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमात्वेन व्यवहारो न स्यात्, न; इदमाकारभ्रमसंशयादर्शनेन तद्ोचराजानकल्पने मानाभावेन तत्र सुखादिज्ञानवद्यथार्थत्वमात्रेण प्रमात्वव्यवहारोपपत्तेः । यदाहु :- 'धर्म्यशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः।' इति। यदि तु भ्रमसंशयाजनकमपि तदाका- रमज्ञानमनुभवबलादास्थीयेत, तर्हि सापि पक्षेऽन्तर्भवतु; प्रमाणवृत्तित्वावच्छेदेनैवाशाननिवर्तकत्वा- नपायात्, तदाच विवादपदमिति विशेषणमनादेयम्। एतस्मिन् पक्षे भ्रमोपादानत्वयोग्यत्वमविद्या- लक्षणं द्रष्टव्यम्; भ्रमोपादानत्वस्य धर्म्यशज्ञाननिवर्त्याज्ञानेऽव्याप्तेरित्यवधेयम्। धारावाहिकवुद्धीनां च तत्तत्कालावच्छिन्नार्थविषयत्वेनाज्ञातज्ञापकत्वमस्त्येव; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात् । अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वमस्त्येव; चित्वेनैव प्रकाशप्रसक्ते :; न त्वनवच्छिन्नचित्वेन, गौरवात्; 'एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात' इत्यनुभवाश्च। रूपादिहीनस्यापि तत्तदवच्छिन्नचैतन्यस्य प्रत्यक्षादिविषयत्वमुक्तं प्राक। प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानम्, न तु दृष्टिसृष्टिपक्ष इति ध्येयम्। साध्ये चादं विशेषणं' प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावेनार्थान्तरवारणाय। तदुदीच्यध्वंसादिकमा- दाय नार्थान्तरप्रसक्तिः, किंतु पूर्ववृत्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम्। अवैयर्थ्य स प्रतियोगिविशेषणत्वेनाखण्डाभावसंपादकतया। एतेन-यतो ज्ञानमज्ञानस्यैव निवर्तकमिति निय- गौडब्रह्मानन्दी (लघुचन्द्रिका)। विशेषाकारेति। इदंत्वान्यप्रकारिकेत्यर्थः । प्रमात्वं चेन्द्रियादिजन्यवृत्तिनिष्टो जातिविशेषः। असत्वावर- णेति। स्वविषयविषयकेत्यादिः। यथार्थत्वेति। व्यवहारकालाबाध्यविपयकत्वेत्यर्थः । धम्यंशे इदंत्वांशे। प्रकारे इदंत्वान्यांशे। भ्रमोपादानत्वस्य भ्रमोपधायकत्वस्य। कालावच्छिन्नेति। कालविशिष्टेत्यर्थः । नच-क्षणानाम- तीन्द्रियत्वात् स्थूलकालस्य च प्रथमज्ञानेनेव गृहीतत्वाद्दितीयादिज्ञानानां न तद्विपयकाज्ञाननाशकत्वमिति-वाच्यम्; स्वोत्पत्तिकालोत्पन्नस्थूलकालस्यैव तत्तज्ज्ञानविपयत्वात्, क्षणानामतीन्द्रियत्वे मानाभावाच। तदुक्तं शास्त्रदीपि- कायां-'अस्मिन् क्षणे घटो मया ृष्ट इति प्रत्यक्षे क्षणो भाती'ति । नच-परोक्षस्य कालाविषयकत्वादपरोक्षोऽपि तथेति-वाच्यम्; परोक्षेऽपि कालभाननियमात्। उपपादितं च परिच्छिन्नत्वस्य मिथ्यात्वहेतुत्वोपपादने तदस्माभिः। सर्वप्रमाणेति। परिच्छिन्नत्वहे तूपपादने विवेचितमेतत्। तत्तद्वच्छिन्नेति। ज्ानसामान्यसामगया एव ज्ञाने तत्तदर्थोपहितचिद्रूपसत्ताविपयकत्वे प्रयोजकत्वमित्यादि पूर्वोक्त स्मतव्यम्। न ज्ञातोऽयमिति। अयं घटादि: अज्ञात- चिद्वच्छेदक इत्यर्थः। प्रतियोग्यतिरिक्तेति। घटात्तत्प्रागभावो नष्ट इत्यनुभवात् यथा घटजन्यस्तत्प्रागभावनाशः, तथा ज्ञानादज्ञानं नष्टमित्यनुभवात् ज्ञानजन्योऽज्ञाननाशः। प्रतियोग्येव प्रागभावनाश इति मते तु ज्ञानमेवाज्ञाननि वृत्तिरिति तदनुसार्येव साध्यम्, नतु यथोक्त्तमिति। अवैयर्थ्यमिति। संभवप्राचुर्येणेदम्। साध्ये व्यर्थविशेषणस्या-
वादेन श्रुत्यप्रतिसन्धानेन नकिंचिदवेदिषमिति प्रत्ययेन च प्राजपरिष्वज्गादिज्ञानाभावातिरिक्तविशेषासंभवेन इन्द्रियोपरमस्य समाध्युत्तरकालिकचित्तवैराग्यादिकालिकेन्द्रिय प्रसादप्रयोजकत्वासंभवेन उक्तप्रसादसाधारणतत्प्रसादं प्रति स्वरूपमुखाकार- वृत्तेरेव हेतुत्वेन सामग्रीविरहस्य ज्ञानाभावैकानुमेयत्वेनान्योन्याश्रयापत्त्या तुल्यपदेनानुपेक्षणीयस्य विवक्षणे उपेक्षणीयज्ञाना- भावासिद्धा च हेतुत्रयस्याप्यप्रयोजकत्वादिति स्मरणरूपत्वमेवाङ्गीकरणीयम्। दोषाजन्यत्वेऽपि व्यवहारदशायामबाधेऽपि च देहात्मैक्यसुखाद्याकारवृत्तेरिव सुषुप्तेरप्यविद्यावृत्तितसंभवात् अज्ञानांशे धारावाहिकानुभवलाङ्गीकारेऽपि नास्माकं क्षतिः। तदनुभवेनव तत्सिद्धिसंभवात् इति सर्वमनवद्यमिति-विवेचयन्ति ॥ इत्यज्ञानवादे अज्ञानप्रत्यक्षोपपत्तिः।
Page 268
[अज्ञान० अनुमानोपपत्तिः] गौडव्रह्मानन्दीयुता। ५६३
मस्तस्मात् स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति-निरस्तम्; प्रमात्वेन ज्ञाननिवर्त्य- त्वमन्येषां नेत्यत्र तात्पर्यात्। न च स्वविषयावरणपदेनैव तद्युदास :; 'अस्ति प्रकाशत' इति व्यवहा- रविरोधित्वरूपस्यावरणत्वस्य भावाभावसाधारणत्वात्। वृत्तिजनकादृष्टेनार्थान्तरवारणाय तु विशे- षणमिदम्। न चावरणपदेनैव तद्युदासे स्वविषयेति व्यर्थम्; यददृष्टं स्वविषयज्ञानजनकं विषयान्त- रज्षानप्रतिबन्धकतया तदावारकं, तादृशादप्टपूर्वकत्वेनार्थान्तरवारकत्वात्। नच-जडे अज्ञानस्या- नङ्गीका राच्चितश्चाजानादिसाक्षितया भासमानत्वात् क्वावरणमिति-वाच्यम्; आज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि 'अस्ति प्रकाशत' इति व्यवहाराभावेन तदंशेऽज्ञानावरणस्यावश्यकत्वात्। वक्ष्यतेचैतत्। स्वनिवत्येति च विशेषणं वृत्तिप्रतिबन्धकादृष्टेनार्थान्तरवारणाय। नच-चरमसा- क्षात्कारोत्पत्तिप्रतिबन्धकादष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्धिः, तन्निवर्त्यत्वे तद्युदसनमशक्- मिति-वाच्यम्; प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य ज्ञाननिवर्त्यत्वाञ्च मिथ्यात्वम्। न चैवमपि स्वनिवर्त्यत्वमव्याहतम्; स्वनिवर्त्यस्वरूपत्वे तात्पर्यात्। अन्धकारेणार्थान्तरवारणार्थमिदमिति-केचित्। तन्न; स्वदेशगतेत्यनेनैव तद्युदासात्। यथाच वृत्तिप्रतिबिम्बितचैतन्यस्य विषयावच्छिन्नचैतन्येन सहैकलोलीभावादज्ञाननिवर्तकत्वं, तथोक्ततं प्राक्। स्वदेशगतेति च विशेषणं विषयगताज्ातत्वेनार्थान्तरवारणाय। यद्यप्यविद्या- विषयत्वरूपमज्ञातत्वमसिद्धम्, ज्ञातत्वाभावरूपं तु प्रथमविशषणेनेव परास्तं; तथापि प्रथमेन प्रागभावव्युदासादत्यन्ताभावव्युदासाय चतुर्थमिति द्रष्टव्यम्। ननु-कथं ज्ञानाश्रयगतत्वमज्ञा- नस्य ! वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाथ्रयचिदनाश्रितत्वादिति-चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन
गोडब्रह्मानन्दी (लघुचन्द्रिका)। दोपरात्, दोषत्वेऽपि प्रागभावत्वस्याखण्डोपाधित्वेनाभावत्वानिवेशात्। विरोधित्वेति। प्रतिबन्धकतवेत्यर्थः । चाक्षु- पतृत्तिप्रतिबन्धद्वारा तमस इवाज्ञानस्य ज्ञानाभावस्य चोक्तव्यवहारानुत्पादप्रयोजकत्वेन तत्प्रतिबन्धकत्वमिति भावः । इदं स्वविपयावरणेत्येवंरुपम्। अदृष्टस्य चरमफलनाशत्वेन स्वात्मकचरमफलजनकस्य स्वनिवर्त्यत्वात्तद्वारणायेदमिति भावः। वारकत्वादिति। नच-तथापि स्वजनकं स्वसमानविषयकज्ञानान्तरप्रतिबन्धकं चादष्टमादायार्थान्तरमिति -वाच्यम्; आलोकविषयाप्रसिद्धा स्वविषय विपयकोक्तव्यवहार निवेशासंभवेन स्वप्रयुक्तोक्तव्यवहार प्रतिबन्धकत्वनिवे- शात्, ज्ञानान्तरप्रतिबन्धकस्य स्वप्रयुक्तोक्तव्यवहारप्रतिबन्धकतवाभावात्। तमस्तु आलोकजन्यस्वनाशाधीनचाक्षुप- प्रतिबन्धद्वारा चाक्षुपजन्ये आलोकप्रयुक्तोक्तव्यवहारे प्रनिबन्धकमिति आलोके साध्यावकल्यम्। अज्ञानमपि सवना- शद्वारा वृत्तिप्रयुक्तोक्त्तव्यवहारे साक्षादव प्रतिबन्धकमिति वक्ष्यते। तदंशे जडांशे। जडांशे व्यवहराभावेन तदवच्छे देन चित्यावरणस्यावश्यकत्वादिति भाषः। तात्पर्यादिति। ज्ञानप्रयुक्तो यदीयावस्थासामान्याभावस्तत्वं मिथ्यात्व- मित्युक्तम्, प्रकृते तु स्वजन्यनाशप्रतिभोगित्वमाय्रं स्वनाश्यत्वं निवेश्यमिति भावः । तद्युदासादिति। स्वदेश- गतत्वं स्वाश्रयतावच्छेदकान्यदशानवच्छिनाश्रयताकत्वं वाच्यम्: अन्यथा स्वाश्रयगतत्वमात्रेण विषयगताज्ञातत्वन- रणस्य वक्ष्यमाणस्यासंभवात्। स्वाश्रयत्वगतत्वे हि तादात्म्येन संबन्धेन वाच्ये; तादालयेनैवालोकतमसोः वृष्यज्ञान- योश्रकचिति सर्वात्। तथाच विपयगतो ज्ञातत्वाभावोऽपि वृत्तितादात्म्यवत्यां विषयचिति तादात््येनैव संबद्धः । एवंच तमसो वृत्तितादात्म्यापन्नचित्तादात्म्येऽपि वृत्त्याश्रयतानवच्छेदकदेशावच्छिस्नत्वेन व्युदासः । नहि तमो वृत्त्य- वच्छेदकदेशेनैवावच्छिद्यते; मानाभावात्, अज्ञानं तु वृत्तिनाश्यत्वात् तथा; तथाभूतस्य वृत्तिनाशयत्वात्। नच- तमोऽवयवस्तथा संभवतीति-वाच्यम्; तमसः सावयवरवे मानाभावात्। स्वल्पदेशस्थालोकेन बहुदेशस्थतमसो नावयवो नाश्यते, किंतु तदैवालोकासंयुक्तदेशे तमोन्तरमुरपन्नं तत्रानुभूयते। दृष्टान्तस्तु सवन्यूनदेशवृत्तितमोनाश- कालोक इति न साध्यवैकल्यम् । विषयगतोऽज्ञातत्वाभावस्तु वृत्यनवच्छेदकदेशेनाप्यवच्छिद्यते इति तद्वारणमिति भावः । तथोक्तमिति । तथाच विषयचिद्गताज्ञानमपि प्रमाश्रयचिदाश्रितमिति भावः। असिद्धं विषयावृत्तिः । अविद्याविषयतावच्छेदकत्वं त्वविद्यासिद्धे: पूर्वमसिद्धत्वेनोद्देश्य सिद्धिकरत्वास्नार्थान्तरसंपादकामित्यपि बोध्यम्। अत्य- न्ताभावेति। सामयिकात्यन्ताभावस्य प्रतियोगिनाश्यत्वमते इत्यादिः। मतान्तरे तु तस्य स्वनिवर्त्यदलेनैव वारणम्। चिदनाश्रितत्वादिति। शुद्धस्याज्ञानोपहितस्य वा अज्ञानाश्रयत्वात्तस्य च वृत्यादिरूपज्ञानानाश्रयत्वमिति भावः । चिदाश्रितत्वेन अज्ञानोपहितचिदाश्रितत्वेन। चिदाश्रितत्वेति। उक्तचिदाश्रितत्वेत्यर्थः। अज्ञानोपहितचिदेव ज्ञानाज्ञानयोराश्रय इति भाव:। ननु शुद्धस्याज्ञानाश्रयत्वे तथापि दोपः, नच-अज्ञानपरिणाममनसोऽपि तत्पक्षे शुद्धाश्रितत्वेन तत्परिणामवृत्तेरपि तदाश्रितत्वमिति-वाच्यम्; अज्ञानोपहिताश्रितत्वेन मनसः शुद्धानाश्रितत्वात,
Page 269
५६४ अद्वैतसिद्धिः । [परिच्छेद: १ ].
तद्टत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसंभवात्, किंचिद्वच्छिन्नतदाश्रितस्यापि तदाश्रितत्वानपायात्, कर्णशष्कुत्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत्। एवं च भावा- भावसाधारणमावरणमिति मतेन साध्यमुपपादितम्। अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम्। स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम्। स्वविषयावरण (स्वनि- वर्त्यस्वदेशगतवस्त्वन्तर) पूर्वकमित्यपरमिति न किंचिदसमअ्जसम्। हेतौ च प्रकाशकत्वं प्रकाशकपद- वाच्यत्वं, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम्। यद्यपि प्रकाशकपदवाच्यत्वं नामकर- णवशात् करिमिंश्चित् पुरुषेऽप्यस्ति; तथापि; प्रकाशकशव्देन शास्त्रे सर्वदेशकालयोर्वा व्यवहियमाणत्वं तद्विवक्षितम्। अथवास्तु साधारणम्। अप्रकाशितार्थगोचरेति विशेषणात् व्यमिचारव्युदासः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अत एवाज्ञानस्य स्वोपहिताश्रितत्वपक्षेऽप्यनुपपत्तिः; ज्ञानस्यापि तत्पक्षे सवोपहिताश्रितत्वात्, तत्राह-किंचिदिति। द्वितीयपक्षे न दोपः। अज्ञानोपहितस्यैव वृत्युपहितत्वेन स्वोपहिताश्रितमपि ज्ञानमज्ञानोपहिताश्रितम्। अज्ञानस्य शुद्धाश्रितत्वपक्षे श्रुद्धस्यैवाधिष्ठानत्वेन तत्तदुपाधिसंबन्धात्तदाश्रितत्वं ज्ञानस्यास्त्येवेति भावः । आकाशेति। तार्कि- कादिमते शुद्धाकाशान्यतवेन स्वीकृतस्य कर्णावच्छिन्नाकाशस्य धर्मः शब्दो यथा शुद्धाकाशस्यापि धर्मः; अन्यथा शब्दाश्रयत्वेन तस्यानुमानं तेपां नोपपद्यते, तथा मन्मतेऽपि; उपहितचिति शुद्धस्यानुगमात्तत्प्रतीतौ प्रतीतेश्र 'तमेव भान्तमनुभाति सर्वमित्यादिश्रुतेरुपहितचिदाश्रितस्य शुद्धाश्रितत्वम्, दृश्यत्वादिकं तु उपहिताश्रितमेव, न शुद्धाश्रितम्; शुद्धचित्तादात्म्यरूपत्वात्, अत्यन्ताभेदे संबन्धाभावात्। यथाश्रुतस्वदेशगतत्वानुसारेण इदमुक्तम्, विवक्षितं तु स्वावच्छेदकदेशान्यानवच्छिन्नत्वं घटाद्यवच्छिन्नपल्लवाज्ञान इवानवच्छिन्नमृलाज्ञानेप्यस्येव। नहि स्वोपहित चिन्मान्रगताया अपि वृत्ते: घटाद्यवच्छिन्नत्वं न संभवतीति ध्येयम्। आवरणं 'अस्ति प्रकाशते' इति व्यव- हारप्रतिबन्धकत्वम्। नावारकः नोक्तव्यवहारप्रतिबन्धकः। सिद्धान्ते अस्मत्सिद्धान्ते। अवश्याभ्युपेयस्याज्ञानस्यै- वोक्तप्रतिबन्धकत्वम्, नतु ज्ञानाभावस्य; अज्ञानत्वजात्यपेक्षया ज्ञानाभावत्वस्य गुरुत्वात्। ननु-अज्ञानस्योक्तप्रतिब- न्धकत्व्े मानाभावः; असत्वापादकाज्ञानशन्य चिद्रृप स्यास्तित्वस्याज्ञानशून्यचिद्नृपस्य भानस्य च व्यवहारे तादशाज्ञान- स्याज्ञानसामान्यस्य चानुपलब्धे: हेतुत्वादुक्तव्यवहारानुत्पादकाले उक्ताज्ञानसत्चे तदनुपलब्ध्यसंभवेन तत एवोक्तव्य-
योग्यनुपलब्धिस्तत्रैव तस्या हेतुत्वम्, अज्ञानस्य तु स्त्वे सुपुप्तिसमाध्याढिकाले यद्यपि तद्वैशिष्वानुपलद्धिः; तथापि तदभावस्य व्यवहारकाले न सेति न तस्या उत्तव्यवहारहेतुत्वम्, किंतु लाघवादज्ञानस्यैव प्रतिबन्धकत्वम्। नच- अज्ञानाभावस्यानुपलब्धत्वत्यागे साक्षिभास्यत्वमेवास्तु, अज्ञानसत्वे च तदभावासत्वात् नोक्तव्यवहार इति- वाच्यम्; मन्मते अत्यन्ताभावस्य प्रनियोगिसत्वेऽपि तद्वति सत्त्वेनाज्ञानकालेऽपि तदभावस्य साक्षिभास्यतापत्तेः । अतएय शुक्तिरूप्यादरपि स्वाभावव्यवहारे प्रतिबन्धकत्वम्। तस्मादुक्तास्तित्वभानयोरविद्यावृत्तिरूपे व्यवहारे उक्तज्ञानं प्रतिबन्धकम्। शब्दप्रयोगमात्ररूपे व्यवहारे तस्य प्रनिबन्धकत्वे तु तयोः स्फुरणं दुर्वारम्। यद्यपि मन्मते प्रतिबन्ध- काभावो न कारणं; तथापि प्रतिबन्धकस्य कारणशक्तिविघटनद्वारा कार्यानुत्पादप्रयोजकत्वस्वीकारात्, प्रकृते च विप- य विधयाऽस्तित्वादे: स्वाकारवृत्तिकारणत्वात्तन्निष्टशक्तिविघटकत्वमज्ञानस्येति दिक्॥ अपरमिति। साध्यद्वयेऽपि वस्त्वन्तरपदं प्रमामात्रस्य भ्रमपूर्वकत्वसिद्धिमादायार्थान्तरस्य वारणाय स्वनिवर्त्यजन्यभ्रमान्यार्थकम्। यर्द्याप द्विती- यसाध्ये स्वदेशगतरवं न विपयगताज्ञातत्ववारणाय, प्रागभावस्येवात्यन्ताभावस्यापि ज्ञानीयस्य स्वविपयावरणपदनव वारणात्; तथापि जीवेशविभागपूर्वकत्वेन ब्रह्मप्रमायां सिद्धसाधनवारणाय तत्। पक्षतावच्छेदकावच्छेदनानुमितेरुहे- शयत्वेऽपि प्रमामान्रमेकेंकं जीवेशविभागं निवतयति; तस्यैव कप्जातीयस्य स्वविपयावरणत्वमप्यास्ताम्, नास्तां चावरणस्य तस्य सौषुप्तनिर्विकल्पकविषयत्वम्; नावेदिपमित्यस्यानुभवत्वसंभवादित्यर्थान्तरात्। नचैवं-विषयगता- ज्ञातत्वस्य सिद्धान्त आवरणत्वास्वीकारेऽपि कृप्तस्य तस्यैव स्वविषयावरणत्वमास्तामिति परेण वनुं शक्यत्वात्तदादा- यार्थान्तरसंभवादेकमेव साध्यं कुतो न कृतमति-वाच्यम्; परमते हि ज्ञानमात्रमस्तित्वं प्रत्यक्षज्ञानं च भानं वाच्यय्। तथाचोक्तव्यवहारस्यानुत्पादं प्रति कारणाभावतया प्रयोजकत्वस्य विषयगताज्ञातत्वे सत्त्वेऽपि कारणशक्ति- विघटकतयोक्तप्रयोजकतवरूपप्रतिबन्धकतवस्य निवेशे अर्थान्तरासंभवः । जीवेशभेदादेस्तु मन्मतरीत्योक्तप्रतिबन्धकत्व- मादायार्थान्तरं परेण वनुं शक्यते। एकसाध्यवादिनां प्रार्चा तूक्तप्रतिबन्धकतवनिवेशस्य प्रयोजनं विषयगताज्ञातत्ववा रणमेव। तव्च स्वदेशगतत्वप्रागभावान्यत्वाभ्यामेव सिध्यतीति स व्यर्थ इत्याशयः। प्रकाशशब्दस्य लक्षणया ज्ञाना- लोकभिन्जेऽपि व्यवहाराद्ाह-सर्वदेशति। सर्वदेशेषु व्यवहियमाणत्वं व्यवहार्यतायोग्यतवं,प्रकाशपदस्याना-
Page 270
[अज्ञान० अनुमानोपपत्ति:] गौडब्रह्मानन्दीयुता। ५६५
अप्रकाशितत्वं च 'न प्रकाशत' इति व्यवहारगोचरत्वम्, तञ्च स्वप्रकाशचतन्येऽप्यस्तीत्युपपादितम्। एवं निरुक्ताप्रकाशविरोधित्वमपि ज्ञानालोकयोः प्रत्यक्षसिद्धम् । उक्तंच विवरणे-'ज्ञानप्रकाश्य- त्वादज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामे'ति। अत उभयोरेव साक्षाद- प्रकाशविरोधित्वसंभवान्नेन्द्रिय सन्निकर्षादौ व्यमिचारः। एवंचाप्रकाशितार्थगोचरत्वे सति प्रकाश- शब्दवाच्यत्वात् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः । विपर्ययविषयस्तु नाजातः; विपर्ययान्यकालासरवेन तस्यानिर्वचनीयस्य मानगोचरत्वाभावेन प्रकाशप्राक्कालसत्त्वघटिताप्रकाशि तत्वासंभवात्, अत एव स नाप्रकाशविरोधी; स्वविषये अप्रकाशाभावात्; अधिष्ठानाप्रकाशस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभाव: स्पष्टः। अनुकूलतर्कंश्च 'त्वदुक्तमर्थ न जानामी'ति प्रतीत्यन्यथानुपपतत्यादिरूप: प्रागुक्त एव। एतेन गोशब्दवाच्यत्वेन .पृथिव्या अपि शङ्गित्वानुमाना- पातोऽपास्तः; तत्रानुकृलतर्काभावात्। अज्ञानस्य स्वरूपेणाज्ञानाविषयत्वेऽपि तन्द्रावत्वादिकमज्ञान- विषयो भवत्येव; तस्याज्ञानग्राहकसाक्ष्यग्राह्यत्वात्। अन्यथा तत्र विवादो न स्यात्। एवं प्रमाया स्वविषयावरणभावपूर्वकत्वमपि न प्रमास्वरूपग्राहकसाक्षिग्राह्यम् । तथाच तद्राहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वात् न कोऽपि दोषः। दृष्टान्तेचान्धकाराव्यवहितोत्पत्तिकत्वं विशेषणम्। तेन न प्रथमपद्वैयर्थ्य न वा द्वितीयादिप्रभायां साध्यसाधनवैकल्प्यम् । विस्तरेण
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दिसक्केतवत्वमिति यावत्। विशेषणादिति। अप्रकाशितार्थगोचरत्वमप्रकाशिताथें प्रकाशत इति यो व्यवहारः तत्म्र- योजकत्वम्। तच्च ज्ञाने अज्ञाननाशद्वारकमालोके च तमोनाशजन्यचाक्षुपद्वारकम्। चैतन्येSपीति। न प्रकाशत इनि व्यवहार: प्रकाशविरोध्याश्रयविपयकः। तादृशाश्रयत्वं च यदपि तमोऽज्ञानप्रयुक्ततयाऽSलोकज्ञानयोरेव, तथापि तद्वच्छेदकत्वात् घटादावपि न प्रकाशत इति व्यवहार इति भावः । निरुक्तेति। न प्रकाशत इति व्यवहारगोचरेत्यर्थः । तादृशो योऽप्रकाशः, तद्विरोधित्वमित्यर्थः । ज्ञानप्रकाश्यत्वात् ज्ञानप्रयुक्तनाशवत्वात् । अज्ञानविरोधित्वात् अज्ञानस्य नाश्यत्वरूपविरोधित्वटतात् ज्ञाप्रयुक्ता ज्ञा ननाशवत्वपर्यवसताढििति यावत्। नमोविरोधित्वं तमसो नाश्यत्वेन घटितमालोकप्रयुक्ततमोनाशवत्वपर्यवसितमिति यावत्। वाच्यत्वात् अनादि सङ्केतवश्वात्। उक्तगोचरत्वस्याधुनिकसक्ेतविपयत्वस्य च सन्निकर्षादी व्यभिचारित्वेनोक्तवाच्यत्वमेवोपसंहृतम्। प्रकाश- त्वादिति। यद्यपि विरोधित्व्रान्त एव हेतुः; तथापि विरोधित्वं नाशकतावच्छेदकरूपं प्रमात्वमालोकत्वं चोक्तावच्छेदक- त्घेनानुगतं हेनुः। ज्ञानत्वमालोकत्वं च प्रकाशपदवाच्यतावच्छेदकत्वेन आद्यहेता प्रविष्टमिति ज्ञापयितुं प्रकाशत्वादित्यु- क्म्। तावता च पक्षीभृतप्रमादृष्टान्तीभूतालोकयोरन्यतरत्वं च हेनुरित्यप सूचितम्। सत्यन्तव्यावर्त्यमाह-विपर्यये- त्यादिना। नाज्ातः नोक्ताप्रकाशितः । घटितेति। व्याप्येत्यर्थः । अत एवेत्यादि। तथाच सत्यन्तं द्वितीयहेती न देयमिति भावः। जनक एवेति। न नाश्य इनि शेपः। स्पष्टः द्वितीयहेतौ स्पष्टः। प्रमात्वस्य विरोधितावच्छेदकस्य स्मरणावृत्तित्वात् प्रथमहेतावपि प्रत्यक्षादिगृहीतार्थकशव्दादिवृत्तौ व्यभिचारवारणाय न प्रकाशत इति व्यवहारगोचरस्य नाशं द्वारीकृत्य प्रकाशत इति व्यवहारप्रयोजकत्वस्य सत्यन्तेन वाच्यत्वादव्यभिचारः। विशेष्यदलं तु सन्निकर्षादिवारणा- येति बोध्यम्। न चासिद्धिः; न प्रकाशत इति व्यवहारगोचरत्वेन पराभ्युपगतस्य प्रकाशप्रागभावस्य प्रकाशनिवर्त्यत्वेन प्रकाशत इति व्यवहारप्रयोजकतनाशप्रयोजकत्वस्य सत्यन्तपर्यवसितार्थस्य पक्षे सश्वात्। नच-उक्तनाशे नोक्त व्यवहार:प्रयोजकः, किंतु प्रकाश एवेति-वाच्यम्; कालादिविधयोक्तनाशे व्यधिकरणप्रकाशस्यापि प्रयोजकत्वेनासाधा- रणस्य नाशप्रयोजकत्वस्य लाभायैवाद्यप्रयोजकान्तस्योक्तहेती निवेशात्। अन्यथा वैयर्थ्यात्। अतएव तमसो द्रव्यत्वा स्वीकारमते न साध्यसाधनवैकल्यम्; आलोकप्रागभावस्यालोकनाश्यत्वादिसत्वात्। अतएव द्वितीयहेतुरपि नासिद्ध इति ध्येयम्। तद्राहिकायाः अज्ञाने अभावत्वादिकं प्रमायामुक्तपूर्वकत्वं च गृहन्त्याः । साध्येति। भावत्वादज्ञा- ननाशकत्वेनेत्यथः । दोषा असिद्धिबाधौ। अन्धकारेत्यादि। सवसमानाधिकरणतमःकालवृत्तित्वमित्यर्थः। तेनो- त्पस्यादेर्व्यरथेत्वेऽपि न क्षतिः । उक्तविशेषणव्यावर्त्यमाह-न वेति। वैकल्यमिति। साध्यवैकल्यं नेत्यपि बोध्यम्। साध्यसाधनयोरप्रकाशनाशोपधानं प्रविष्टम्। अन्यथोक्तपक्षतावच्छेदकावष्छेदेन तदसिद्या अर्थान्तरापत्तेः । तथा- चोक्तविशेषणाभावे दोप इति भावः । ननु-तमोनाशकत्वमुपाधिरिति-चेत्र; सौपुप्तसुखाकाराविद्यावृस्यादौ तत्सु- खावारकस्वाप्नबुद्धादिनिवर्तके उक्तसाध्यसत्वेन तदव्यापकत्वात्। नच-उक्वृत्यादेरस्ति भातीति व्यवहाराप्रयोज-
स्वमनुष्धादावभाव इति-वाच्यम्; सुखमस्वाप्समिति स्मृतिद्वारा सौषुप्तसुखमस्तीत्यादिव्यवहारे उक्तवृत्यादेः प्रयो-
Page 271
५६६ अद्वैतसिद्धिः । [परिच्छेद: १]
चान्यत्र व्युत्पादितमिदमस्ामिः। ननु-अनादित्वे सति भावत्वमभावविलक्षणत्वं वा, न निवर्त्य- निष्ठम्, अनादिभावमात्रवृत्तिघर्मत्वात्, अनाद्यभाव विलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत्। निव- त्यत्वं वा, नानादिभावनिष्ठं, अनादभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभाव- त्ववत्। अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत्। प्रमाणज्ञान वा अनाद्यभावान्यानाद्यनिवर्तकम्, ज्ञानत्वात्, भ्रमवदित्यादिना सत्प्रतिपक्षता; कृत्यभावमात्रे- णाकृतस्य कृतिवत् पूर्वप्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति-चेन्न; अनुकूलतर्काभावेनाप्रयोजकत्वात्, सिद्धान्तिहेतोश्चानुकूलतर्कसन्भ्ावेन साध्यव्याप्यत्वे निश्चिते सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात् । अनादिभावत्वस्य निवर्त्यावृत्तित्वेSप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च। द्वितीयेत्वनाश्रितमात्रवृत्तित्वमुपा- धिः । तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपाधिः। पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । पष्ठे प्रतियोग्यप्रसिद्धा साध्याप्रसिद्धिरितिच दूषणानि। तत्त्वप्रदीपिकोक्तं च-चैत्रप्रमा, चैत्रगतप्रमाप्नागभावातिरिक्तानादिनिवर्तिका, प्रमात्वान्मैत्रप्रमावत्; विगीतो विभ्रमः, पतज्ज- नकाबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, संमतवदिति । अत्राद्ये सुखादिज्ञानेषु न बाघ :; अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नानादेविशेषणम्; मैत्रप्रमायार्श्चैन्ननिष्ठानादिनिव- तकत्वाभावेन दष्टान्ते साध्यवैकल्यापातात्, किंतु प्रमातदभावयोरन्यतरस्य; प्रमायाश्चात्मगतत्व प्राग््याख्यातम्, साध्ये तु प्रमापदमुपरअकमेव। यदित्वभावे प्रागिति विशेषणं नास्ति, 'तदा भावरूपाज्ञानस्यापि स्वाभावाभावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय। चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधि: चैत्रसुखादौ व्यमिचारेण साध्याव्यापकत्वात् । नच चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेर्निवर्तिका न, प्रमात्वात्, मैत्रप्रमादिवदिति सत्प्रतिपक्षः; प्रतियोगि- प्रसिद्धप्रसिद्धिभ्यां व्याहतेः। चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं तु नोपाधि; चैत्रगतप्रमा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। जकस्वात्, स्वाप्सुखादिवुन्देभ्रमान्यत्वेनोक्तवस्त्वन्तरत्वात् अविद्यावृत्तित्वेन तस्या: स्वावच्छेदकान्य देशानवच्छिन्न तव रूपं स्वदेशगतत्वमप्युन्नेयम्। अनुकूलतर्केण साध्यव्याप्यतया गृहीतहेतोरव्यापकत्वेनोक्तोपाधेः साध्याव्यापकत्वग्रहाच्। अज्ञानस्याभावविलक्षणत्वस्व्रीकारेऽप्याह-अभावविलक्षणत्वं वेति। निवर्त्यत्वोपपत्तरिति। नच-अभाव- विलक्षणस्य निवर्त्यत्वे सादित्वं प्रयोजकमिति-वाच्यम्; अज्ञानतत्प्रयुक्तान्यतरस्यैव ज्ञाननाश्यताप्रयोजकत्वेनोक्त- त्वात्। अनाश्रितेति। ध्वंसत्वादौ साध्याव्यापकत्वं नाशङ्कयम्; प्रागभावध्वंसरूपघटाद्यवृत्तित्वस्याखण्डोपाधिरूप- ध्वंसत्वे अभावात्, जन्यत्वे सति भावान्यत्वस्यापि मन्मते निवत्यवृत्तित्वात। सकलेति। नच-उपाध्यभाववत्वेन निश्चिते नाशसामग्रीमत्वे साध्यसंशयेनोपाधौ साध्यव्यापकत्वं न अहीतुं शक्यम्, साध्ये उपाधिव्यभिचारादिसंशया- दिति-वाच्यम्; मां प्रति हि प्रयुक्तस्य त्वदनुमानस्य मन्मते निर्दोपत्वमपेक्ष्यते, तथ्व नास्त्येव; मयोक्तसामग्रीमत्वे अनादिभावनिष्ठताया निश्चितत्वेन ममोक्तसंशयाभावात्। अतएव सकलानाद्यवृत्तित्वोपाधावप्यावरणावृत्तित्वरूपसा- ध्यव्यापकत्वस्य मया निश्चितत्वेन प्रागभावप्रतियोगित्वादौ त्वदीयोक्तसाध्यसंशयः अप्रयोजक इनि भावः। अप्रसि- द्धेति। अप्रसिद्धप्रतियोगिकाभावस्त्वयैव स्वीक्रियते, न तु मया; तथाच मन्मते निर्दोषता नोक्तानुमानस्येति भावः । एतज्नकाबाध्यातिरिक्तेति। एत्भमजनकं यदबाध्यं, तदन्येत्यर्थः। संमतवत् पुरुपान्तरीयभ्रमवत्। पुरुपा- न्तररूपोक्ताबाध्योपादानकत्वं परेणापि दृष्टान्ते स्वीक्रियते, जनकान्तानुपादाने तु साध्यवैकल्यमिति भावः । आत्म- गतत्वमाध्यासिक चत्राद्यात्मतादात्म्यम्। तथाच मनस इव तदुपहितात्मनोऽपि वृत्त्युपादानत्वात्तत्रापि तत्प्रागभाव इति भाव:। अज्ञानस्यापीति। प्रतियोगिजनकाभावत्वरूपप्रागभावत्वे अखण्डोपाधिरूपाभावत्वस्य लाघवेन प्रवे- शात् प्राक्पदलभ्यजनकान्तत्यागे तावन्मात्रमज्ञानेऽपीति भावः। निवर्तकत्वे बाधेति। निवर्तकत्वबाधेत्यर्थः । व्याहतेरिति। उक्तनिवर्तकरवं क्वचित् गृहीत्वैव तदभावोऽनुमेयः; अन्यथा विशेषणज्ञानाभावेन साध्यव्याह्यग्रहात्, उक्तग्रहणं च चैत्रप्रमायामेवेति बाधः। न च-चैत्रप्रमायामुक्तनिवर्तकत्वज्ञाने जातेऽपि पश्चात्तत्र भ्रमतवं कल्प्यत इति-वाच्यम्; एतदनुमानेनेव तत्र भ्रमत्वस्य कल्प्यतया अन्योन्याश्रयात्। न च-असतः प्रतियोगिनो मन्मते ख्यातिः संभवति, सा च विकल्पत्वान्नानुमानवाधिकेति-वाच्यम्; मां प्रति प्रयुक्त्ते ह्नुमाने प्रतियोगिज्ञानं ममै- वापेक्ष्यते, मया तु नासत्ख्यातिः स्वीक्रियत इति भावः। चैत्रगतप्रमाभावेति। चैत्रगतग्रमाया अभावेत्यर्थः। निवर्तकतया निवृत्तिरूपव्यवहारजनकतया। यद्यपि प्रतियोग्यन्या प्रागभावस्य निवृत्तिरिति मते नेदमनुमानम्; तथा-
Page 272
[अज्ञान० अनुमानोपपत्तिः] गौडब्रह्मानन्दीयुता। ५६७
भावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वात्। विपक्षबाधकस- त्वाञ्च नाभाससाम्यम्। अत एव द्वितीयानुमानमपि सम्यक। नच-विगीतो विभ्रमः, एतज्जञानज- नकबाध्यातिरिक्तोपादानक:, विभ्रमत्वात्, संमतवदिति सत्प्रतिपक्ष इति-वाच्यम्; बाध्यस्य त्वन्मते अजनकत्वात्; साध्याप्रसिद्धेः, ब्रह्माविद्योभयोपादानकत्वेनाविरोधाच्च। नव्यास्तु विमता प्रमा, प्रमाभावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वात्, घटवत्; भ्रमानुत्तरप्रमा, स्वाभावातिरिक्त- स्वविरोधिनिवर्तिका, प्रमात्वात्, प्रमोत्तरप्रमावत्, ज्ञानत्वं, स्वविपयावरणनिवर्तकनिष्ठम्, अप्रका- शितार्थप्रकाशवृत्तित्वात्, आलोकत्ववत्; अनित्यज्ञानं, अभावत्वानधिकरणस्वविरोधिसमाना- धिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्यत्वात्, अनित्येच्छावत्; सा हि तादृग्द्वेषसमा- नाधिकरणा। न चैतेपु अप्रयोजकत्वशङ्का; विपक्षबाधकतर्कस्योक्तत्वात् । एवमन्यदप्यूहनीयम्। ज्ञानविरोधित्वं, अनादिभावत्वसमानाधिकरणम्, सकलज्ञानविरोधिवृत्तित्वात्, दृश्यत्ववत्।यद्दा- अनाद्यभावविलक्षणत्वं, ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वात्, अभिधेयत्ववदिति । एवमभावविलक्षणाज्ञाने अनुमानान्यूहनीयानि॥ इत्यद्वैतसिद्धावविद्यानुमानोपपत्तिः ॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। च व्यवहार एव तत्प्रागभावस्य निवर्तकः, न तु ज्ञानम्; तथापि ज्ञानस्यापि व्यवहारद्वारा तत्प्रागभावनिवर्तकत्वम्। प्रयोज कत्वमान्नस्यव साध्यव्यापकतासंभवेन जनकत्वनिवेशे वैयर्थ्यांत्। शरीरजन्यत्वोपाधी शरीरविशेषणवत् तात्वि- कप्रमात्वस्य हेतुत्वे तूक्तनिवृत्तिहेतुत्वमपि साधनव्यापकम्; ब्रह्मप्रमाया घटाद्यभावनिवर्तकत्वात्। ननु घटश्वैत्रेच्छा, चैश्रभ्रमो वा, स्वप्रागभावान्यानादिनिवर्तकः, घटत्वादिच्छात्वात्, भ्रमत्वाद्वा, पटवत्, मैत्रेच्छावत्, मेत्रभ्रमवद्दा, इत्यपि स्यात्तभ्राह-विपक्षति। प्रमापक्षकोक्त्तानुमान एवेत्यादिः। न जानामीत्याद्यनुभावो न ज्ञानाभावविषयक इत्युक्त्तम्; शुक्त्यादौ प्रतीयमानरूप्यादे: परिणामिकारणं शुक्त्यादिनिष्ठमेव; तच्च लाघवात्। आनादिज्ञाननाश्यतवं तु ज्ञानेना- जानं नष्टमित्यनुभवादित्यादितर्कयुक्तमस्मदनुमानम्, त्वटुक्तानुमाने तु न तर्क इति भावः। साध्याप्रसिद्धे: एतद्र- मजनकं यत्, बाध्यं तदप्रसिद्या तदन्योपादानकत्वस्य साध्यस्याप्रसिद्धेः। नच-एतन्नमजनकं यत् बाध्यान्यत् तदु- पादानकत्वं साध्यमिति-वाच्यम्; ब्रह्माविद्योभयेत्याद्युक्तदोपतादवस्थ्यात्, जनकान्तवैयर्थ्यान्न। अबाध्योपादानकत्वे भ्रमस्य बाध्यत्वानुपपत्तिः प्रतिकूलतर्कः। अप्रकाशितार्थप्रकाशेति। प्रमाऽSलोकान्यतरेत्यर्थः। नित्यज्ञाने बाधात्- अनित्येति । स्वविगेधीति। सवनाश्यत्वस्वप्रतिबध्यत्वान्यतरयुक्तेत्यर्थः । निवृत्तिः प्रवृत्यभावः, न तु यत्नविशेष इनि मने प्रवृत्तो व्यभिचारात्। प्रयत्नान्यत्वे सतीति। तादृशद्वषेति। उक्तविरोधिद्वेषेत्यर्थः । समानविषययोः समानाधिकरणयोरिच्छाद्वेपयोमिथः प्रतिबन्धकत्वम् । अन्यथा तयोरेकसत्वेऽपि इतरोत्पादापत्तेरिति भावः । ज्ञानवि रोधित्वं ज्ञानप्रयुक्तनाशप्रनियोगित्वम्। तेनाज्ञानसिद्धिपूर्व दृश्यमात्रस्य साक्षात् ज्ञाननाश्यत्वासिद्धावपि न साधन- वैकल्यम्। परमतेऽप्यदष्टादीनां ज्ञानप्रयुक्त्तनाशप्रतियोगित्वमावश्यकमिति भावः। अनादिभावत्वं अभावविलक्ष- णानादित्वम् । इति लघुचन्द्रिकायां अज्ञानानुमानोपपत्तिः॥
अथ अज्ञानवादे अनुमानोपपत्तिः । (१) तत्र न्यायामृतकारा :- (१) विवादपदं प्रमाणज्ञानं,खप्रागभावव्यतिरिक्तरविषयावरणसनिवत्यखदेशगतवस्तन्तरपूर्वकं, अप्रकाशितार्थप्रकाश- कल्वात्, अन्धकारोत्पन्नप्रदीपप्रभावत् (२) चत्रप्रमा, चैत्रगतप्रमाप्रागभावातिरिक्त्तानादिनिवर्तिका, प्रमालात्, मैत्रप्रमा- वत्, (३) विगीतो भ्रमः, एतज्जनकाबाध्यातिरिक्तोपादानकः, विभ्रमत्ात्, संमतवत्, इत्यनुमानान्यपि न भावरूपाज्ञान- साधनानि। तत्र प्रथमानुमाने प्रमाणज्ञानपदेन सुखादिप्रमाया अपि विवक्षणे तत्र बाधात्, वृत्तेः वृत्तित्वेन विवक्षणे सवि- षयाज्ञानानिवर्तकपरोक्षवृत्तौ बाधस्यापरोक्षवृत्तित्वेन विवक्षणे परोक्षव्ृत्तौ व्यभिचारस्य परोक्षव्रत्तिभिन्नत्वे सतीति हेतुविशेषणे अप्रयोजकत्वस्येदमंशवृत्ती बाधस्येदमंशवृत्त्यन्यस्यैव पक्षत्वे धारावाहिकद्वितीयादिप्रमायां तादृशप्रभायांचासिद्धिबाधयोः तदन्यस्यैव पक्षत्वे लन्मते जडावारकाज्ञानाभावेन नीरूपस्यात्मनः प्रत्यक्षविषयतासंभवेनावच्छिन्नचैतन्यस्यापि जडत्वेन च जडावच्छिन्नचैतन्यविषयकत्वस्य ज्ञानेऽज्ञाने वाऽसंभवेनच जडविषयकापरोक्षवृत्तौ बाधस्यच प्रसङ्गः। ज्ञानमज्ञानस्यैव निव- तकमिति लन्मदेऽभावनिवृत्तिरेव भाव इति मन्मतेच खनिवर्त्यपदेनैव व्यावृत्तिसिद्धा मतान्तरानुसरणेऽप्यभावव्यतिरिक्तेति विशेषणेनैवोपपत्त्याच साध्यघटकस्वप्रागभावातिरिक्ेति विशेषणस्य, जडे अज्ञानानज्ञीकारेण शुद्धचैतन्ये खप्रकाशे
Page 273
५६८ अद्वैतसिद्धिः। [ परिच्छेदः १ ]
आवरणासंभवेन खविषयावरणतबाधेनाबाधेऽपि खवोत्पादकादृष्टव्यावृत्तेरावरणपदेन खनिवर्त्यपदेन वा सिध्ा स्वविषया- वरणेति विशेषणस्य, चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्येव घटादिप्रमाप्रतिबन्धकादृष्टस्यापि तन्निवर्त्यत्वेन भक्षि- तेऽपि लशुने न रोगशान्तिरिति न्यायेन स्वनिवत्येति विशेषणस्य, चिन्मात्राश्रितस्य तद्विषयस्य वाऽज्ञानस्य वृत्तितत्प्र तिफलितचैतन्यादिरूपप्रमाथ्रयाश्रितत्वबाधेनाबाधेऽपि अविद्याऽसिद्धा तद्विषयत्मादायार्थान्तरस्याद्यविशेषणेनैव व्यावृत्त्या ज्ञानाभावमादायार्थान्तरस्य वा प्रसज्वेन स्वदेशगतेति चतुर्थविशेषणस्य, प्रमाप्रागभावतदुत्पत्तिप्रतिबन्धकादृष्टाज्ञातलाना- मावरणत्वाभावेनावरणस्यापि तमसः प्रमामात्रविषयावरणत्ासंभवेन च सवविषयावरणातिरिक्त्तसर्वविशेषणानां च वैयर्थ्यम्। हेतौ प्रकाशकपदेन दृष्टान्तासाधारणत्वेन ज्ञानत्वस्य असिद्या इन्द्रियादौ व्यभिचारेण च ज्ञानहेतुत्वस्येन्द्रियादो व्यभिचारेणैव साक्षात् परंपरया वा व्यवहारहेतुत्वस्याज्ञानान्धकारानुगततमस्ताभावात् साध्यावैशिष्ट्याच्च तमोनिव- तंकत्वस्य तत एव शलाकादौ व्यभिचाराच्चावरणनिवर्तकत्वस्य साध्यावेशिष्यादज्ञानान्धकारान्यतरनिवर्तक- त्वस्य वा विवक्षणासंभवेन प्रकाशकपद्वाच्यत्वमात्रपरत्वस्यैवाङ्गीकरणीयतयाSप्रयोजकत्वं, शब्दसाम्येन साध्यसा- धने गोत्वेन पृथिव्या अपि शङ्गसाधनापत्तिः, यथाकथंचिदप्रयोजकतापरिहारेऽपि प्रमाणस्य ब्रह्मज्ञानस्य चिदन्याप्रकाशक- त्वेन खप्रकाशचितश्चाप्रकाशितत्वाभावात् स्वरूपासिद्धिः। किंच उक्तानुमितेरप्रकाशितप्रकाशल्वाभावे प्रकाशितप्रकाश- कत्वमप्रकाशत्वंवा स्यादिति वैयथ्यम्; अप्रकाशितप्रकाशत्वे वाधो व्यभिचारो वा; अज्ञानगोचराज्ञानानङ्गीकारात्। पतेन-(१) अनादित्वे सति भावत्वं, अभावविलक्षणत्वं वा, न निवर्त्यनिष्ठं, अनादिभावमात्रवृत्तितात्, अनाद्यभाववि- लक्षणमात्रवृत्तित्वाद्वा, आत्मवत्, (२) निवर्त्यत्वं, नानादिभावनिष्टं, नानाद्यभावविलक्षणनिष्ठं वा, प्रागभावत्ववत्, (३) अनादित्वं, नावरणनिष्ठं, अनादिमात्रवृत्तितात्, (४) ग्रमाणज्ञानं, अभावान्यानाद्यनिवर्तकम्, ज्ञानलात्, भ्रमवत्, इत्या- दिना सत्प्रतिपक्षाप्रयोजकत्वादिकमपि-सूचितम्। द्वितीयानुमानेऽपि-उक्तरीत्या सुखादिप्रमामु बाधः। साध्य- घटकस्य चेत्रगतत्वस्य प्रमातत्प्रागभावयोरात्मगतत्वाभावेनानादिविशेषणत्वे अन्ञीकरणीये सति दृष्टान्ते साध्यवैकल्यम्य तत्र प्रमापदवैयर्थ्यस्य, चैत्रप्रमा, चैत्रगताभावातिरिक्तानादनिवर्तिका, प्रमाल्ात्, मैत्रप्रमावत्, इति प्रकरणसाम्यस्य, चैत्रगत प्रमाभावातिरिक्त्ताभाव निवर्तकत्वेन सोपाधिकत्वस्य (१) चत्रप्रमा, सवप्रागभावातिरिक्ताभावनिवर्तिका, प्रमालान, चैत्रप्रमावत् (२) घटः, चैत्रेच्छा, चैत्राप्रमा वा, मवप्रागभावातिरिक्तानादिनिवर्तिका, घटलान्, चत्रेच्छालात, अप्रमा- लाद्वा, घटमैत्रेच्छातदप्रमावदित्याभाससाम्यस्य च प्रसन्न इति तदप्यप्रयोजकम्। एतेन-तृतीयानुमानमपि-पराह तम्; भ्रान्तितद्विषययोरज्ञानानुपादानकत्वस्य पूर्वमेवोपपादनात्। विगीतो विश्रमः, स्वजनकवाव्यातिरिक्तापादानकः, विभ्रमलात्, संमतवत्, इत्यनुमानेन सत्प्रतिपक्षाच। एतेन-(१) विमताऽनित्यप्रमा, स्वाभावातिरिक्तस्वविगोधिनिव- र्तिका, प्रमाल्वात्, भ्रमोत्तरप्रमावत्, (२) ज्ञानत्वं, खविषयावरणनिवतकनिष्ठं, प्रकाशवृत्तित्वात्, आलोकत्ववन, (३) अनित्यज्ञानं, अभावतवानधिकरणस्वविरोधिसमानाधिकरणं, प्रयत्नत्वेसति अनित्यत्वेसति सविपयकत्वात्, अनित्यच्छावत्, इत्यादिनवीनानुमानान्यपि-परास्तानीति मन्तव्यमिति-वर्णयन्ति ॥ (२) अद्वेतसिद्धिकारास्तु- भ्रमसंशयादशनेन सुखादिगोचराज्ञानकल्पने मानाभावेन सुखादिप्रमायाः इदमंशवृत्तेश्व प्रमाणपदवाच्यलाभावेन भावेऽपि विवादपदेन तद्याव्तनेन, परोक्षवृत्तेरप्यसत्वावरणरूपाज्ञाननिवर्तकत्वेन चोक्त्तज्ञानेपु बाधाभावेन धारावाहिकद्विती- यादिप्रमाया अप्यनघिगतकालादिविषयकत्वेनाज्ञातज्ञापकत्वेन तत्रासिद्धिवाधयोर प्रसन्गेनानात्माकारवत्तीनामपि तदर्वच्छिन- चैतन्य विषय काणामज्ञाननिर्तकत्वेन तत्र वाधाप्रसजेनच प्रथमानुमानं निर्दुष्टमेव। प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावेनार्थान्तरवारणेन प्रतियोगिविशेषणत्वेनाखण्डाभावसंपादनेन च प्रागभावव्यतिरिक्तति प्रथमदलस्य विषया- न्तरज्ञानप्रतिबन्धकतया तदावारकखविषय ज्ञानजनकम्बनिवर्त्यादृष्टेनार्थान्तरवारणेन स्वविषयावरणदलस्य चरमसाक्षात्का- रप्रतिवन्धकादृष्टस्यापि स्वरूपेण नाशस्य तत्प्रयुक्तताभावेन स्वनिवर्त्यस्वरूपत्वरूपज्ञाननिवर्त्यतस्य प्रतिवन्धकादृष्टासाधारण्येन स्वनिवत्य दलस्य प्रथमेन प्रागभावव्युदासेऽप्यत्यन्ताभावाव्युदासेन ज्ञातलात्यन्ताभावाव्युदासेन ज्ञातत्ात्यन्ताभावेन अर्थान्त-
नामपि चतन्याश्रितत्वसंभवेन च स्वदेशगतेति विशेषणस्य प्रागभावादिसाधारणमावरणमिति मतेनोक्तसाध्यनिर्देशात् स्व- विषयावरणातिरिक्तसर्वदलानां च वैयर्थ्याभावान। अभावो नावारक इति मतेतु साध्यभेद एव तात्पर्यम्, अनुकूलतकाभा- वेन गोत्वेन श्गानुमानानापत्त्या प्रकाशशब्दवाच्यत्वेऽपि विपर्ययस्य अप्रकाशितार्थागोचरत्वेन च हेता प्रकाशकपदेन तद्वा- च्यत्वस्याप्रकाशविरोधितम्य विवक्षणेन प्रकाशते इति व्यवहाराभावेन चितोऽप्यप्रकाशस्याज्जीकरणीयतया प्रमाणब्रह्मज्ञानादी स्वरूपेणाज्ञानाविपयम्याप्यज्ञानस्य भावत्वादिरूपेणाज्ञानविषयत्वेन प्रमाणभूतप्रकृतानुमाने च न स्रूपासिद्धिः। अनादिभा- वत्वस्थ निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यतोपपत्त्या नानादिभावत्वमिति प्रथमानुमानेन विरोधः । द्विती-
Page 274
[अज्ञान अनुमानोपपत्ति: ] ५६९
यतृतीयतुरीयपश्चमानि तु अनाश्रितमान्नवृत्तितसकलनिवर्त्यावृतिलसकलानाद्यवृत्तित्वैः यथासंभवं सोपाधिकानि। षष्टेतु प्रतियोग्यप्रसिद्धा साध्याप्रसिद्धिः। यथाच सिद्धान्तिहेतोरनुकूलतर्कसद्भावेन साध्यव्याप्यतनिर्णयेऽपि सत्प्रतिपक्षहेतोः तद- भावेनाप्रयोजकत्वं तथान्यत्र विस्तरः। पतेन-द्वितीयानुमानमपि-व्याख्यातम्; अन्तःकरणवृत्तेरेवात्र प्रमापदेन विवक्षणेन सुखादिप्रमायां बाधाप्रसङ्भात्, प्रमातत्प्रागभावयोरात्मगतत्वस्य पूर्वमेवोपपादनेन चैत्रगतत्वस्य तद्विशेषणत्स्यै- वाङ्गीकारात्, अभावे प्रागिति विशेषणाभावे भावरूपाज्ञानस्य स्वाभावाभावत्वेन तदतिरिक्त्तानादिनिवर्तकत्वे बाधवारणेनो- परअनकत्वेन वा प्रमापदसार्थक्यात् चैत्रगतप्रमाभावातिरित्तव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वेन चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकतस्यानुपाधित्वेन व्याप्यत्ासिद्यभावात् प्रतियोगिप्रसिद्धप्रसिद्धिभ्यां व्याहत्या प्रकरण- साम्यस्य विपक्षवाधकसत्वेनाभाससाम्यस्य चाप्रसन्वाघ्। एतेन-तृतीयानुमानमपि-व्याख्यातम्; भ्रान्तितद्विषययो- रज्ञानोपादानकत्वस्य पूर्वमेवोपपादितलात् वाध्यस्य लन्मतेऽजनकत्वेन साध्याप्रसिद्धा ब्रह्माविद्योभयोपादानकत्वेनाविरोधेन च सत्प्रतिपक्षाभावाच्। एतेन-नवीनानुमानान्यपि-व्याख्यातानि; विपक्षवाधकतर्कसत्वेनाप्रयोजकशङ्कानुदयात्। एवमन्यदप्यनुमानमत्रोहनीयम्। (१) ज्ञानविरोधित्वं, अनादिभावत्वसमानाधिकरणं, सकलज्ञानविरोधिव्ृत्तिलात्, दृश्यल- वत् (२) अनाद्यभावविलक्षणत्वं, ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमान्नवत्तिलात्, अभिधेयत्वत् इति भावरूपा- ज्ञाने अनुमानमपि प्रमाणमिति सिद्धमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- परोक्षवृत्त्या विषयावरणनिवृत्तावपरोक्षत्वापत्त्या प्रमान्नवच्छिनासलावारणज्ञाननिवृत्तावपि विषय।वच्छिन्नवारणनिवर्त्य- भावेन परोक्षवृतो वाधन, स्वरूपायोग्यस्य किंचिदर्वच्छन्नस्याप्यचाक्षुपत्वेन शव्दज्ञान इव तत्समानविषयकेपरोक्षज्ञा- नेऽपि तदविपयत्वेन चानात्माकारव्ृत्तिनिवत्या्ञानासिद्या तंत्रेव वाधप्रसजेन च ग्रथमानुमानं न समीचीनम्। प्रतियोग्य- तिरिक्ता प्रागभावनिवृत्तिरिति मतस्याप्रामाणिकत्वेन ततनिणयकथायां लुना साध्यनिर्देशेन साध्यसिद्धौ संभवन्तामखण्डा- भावान्तर्भावेन साध्यस्यानिर्देदयत्वाच्च प्रागभावातिरिक्तेति विशेपणस्य सत्ताप्रकाशयोः प्रकाशमानचिन्मात्रत्वे नास्ति न प्रकाशते इति व्यवहारानुपपत्या चतन्यावरणत्वाधेनावाधेऽपि स्वजनकसवविपयज्ञानान्तरप्रतिबन्धकखव विषयावरणादृष्टविशे- पमादायार्थान्तरनादवस्थ्येन स्वविषयावरणद्लस्य विशिष्टशुद्धयोरतिरेकवादिनां भवतां मतेऽन्तःकरणावच्छिनचैतन्या- श्रयत्वोपपादनासंभवन विशिष्टशुद्धानातरेकेऽपि वृत्तो वृत्तिप्रतिफलितचैतन्ये वा घटादयनध्यासेन तयोज्ञीनलाभावात् तदभि- व्यक्तचंतन्यस्यैव ज्ञानत्वेन तस्याज्ञानाश्रयचिन्मात्राश्रितत्ासंभवन संभवेऽपि म्वप्राक्पदविरहितेनाद्यविशेषणेनैव ज्ञातलात्य- न्ताभावेनार्थान्तरवारणेनच स्वदेशगतेति विशेषणस्य च वैयथ्यांत्। उक्तरीत्या ज्ञानाज्ञानयोः समानदेशलाभावात् प्रागभावस्य स्वनिवर्त्यलाभावेन प्रथमसाध्ये स्वप्नागभावातिरिक्तेति विशेषणवैयर्थ्यात् द्वितीयसाध्ये आवरणपूर्वकत्वे- नव पूर्णत्ाच स्वप्रागभावव्यतिरिक्तवनिवर्त्यस् देशगतवस्खन्तरपूर्वकत्वस्विषया वरणनिवर्त्यदेशगत वस्तन्तपूर् कत् रूपसाध्यभेदनात्पर्यंकलस्याप्ययोगात्। पर्वतमहानसवनिधूमव्यक्त्योरेकस्य धूमत्स्येव ज्ञानालोकसाधारणस्य प्रकाशत्वस्या- भावेन पक्षटष्टान्तानुगतस्य प्रकाशशब्दवाच्यलादेरहेतुत्वेनासिद्धिसावनवेकल्ययोरपि प्रसभ्गः । अनादित्वे सत्यभावविलक्ष- णत्वेनानिवर्त्यत्स्यापि प्रसमेनाभावविलक्षणनिवृत्ता सादिलस्यैंव प्रयोजकत्वेनानादिभावत्वमिति प्रथमानुमानविरोधोऽपि दुप्परिहरः। द्वितीयानुमानेतु अनाश्रितमात्रवृत्तित्वं नोपाधिः, ध्वंसत्वे साध्याव्याप्तः। एतेन-तृतीयचतुर्थानुमाने अपि- व्याख्याते; अभावविलक्षणविनाशे सादितस्य प्रयोजकत्वेनानादिभावे विनाशसामग्रीयुक्ततवाभावेनानादिभावनिष्ठत्वाभाव- वति विनाशसामग्रीयुक्ततवं सकलनिवर्त्यावृत्तिताभावेन सकलनिवर्त्यावृत्तितस्य तत्रानुपाधितात्। निश्चितोपाधिव्यतिरेक्रवति प्रागभावप्रतियोगितादौ साध्यसन्देहेनोपाधः व्यतिरेकव्याप्यसिद्धा पञ्चमानुमानमपि न सकलानाद्यृत्तित्वेन सोपाधिकम्। अप्रसिद्धप्रतियोगिकाभावस्योभयसंमतत्वेन प्रतियोग्यप्रसिध्धा साध्याप्रसिद्धसंभवेन षष्ठानुमानमषि निराबाधमेवेति मन्त- व्यमिति सत्प्रतिपक्षादिना प्रथमानुमानं न प्रयोजकम्। एतेन-द्वितीयानुमानमपि-पराहतम्; वृत्तिरूपोपाध्यारूढ- त्वेन प्रमायाश्चैत्रगतत्वे प्रमाणप्रमातृप्रमेयसाङ्गर्यापत्त्या सर्वव्यवस्थानुपपत्त्या प्रमातत्प्रागभावयोक्षैत्रगतत्ासंभवेन बाधात्, स्वशब्देनैव ग्रतियोगितया प्रमाविवक्षणसंभवेन प्रमापदवैयथ्याच। एतेन-तृतीयानुमानमपि-परास्तम्; प्रतियो- ग्यप्रसिद्धेरभावप्रसिद्धि प्रति गुणत्वेन विगीतो विभ्रमः सजनकवाध्यातिरिक्तोपादानकः विभ्रमलादित्यनेन सत्प्रतिपक्षादिति सर्वमनवद्यमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- परोक्षवृत्त्याऽसतावरणनिवृत्तावपि अभानावरणानिवृत्त्या अपरोक्षत्ानापत्त्या प्रमान्नाशितस्याप्युक्तावरणस्य विषयावच्छि- न्नचैतन्य विषयकत्वस्यैवाङ्गीकारेण विषयास्तित्वव्यवहारप्रयोजकावरणिवृत्तेः परोक्षृत्तिकार्यत्वेन च परोक्षवृती बाधाभावेन अ. सि. ७२
Page 275
५७० अद्वैतसिद्धिः । [परिच्छेद: १]
अथाज्ञानवादे श्रुत्युपपत्तिः । एवं श्रुतयश्च। तत्र छान्दोग्ये अष्टमाध्याये-तद्यथापि हिरण्यं निधिनिहितमक्षेत्रश्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमा: सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढा' इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं त्रुवाणा तादृगज्ञाने प्रमाणम्। नच-ऋतशब्दस्य 'ऋतं पिबन्ता'वित्यत्र सत्कर्मणि प्रयोगदर्शनात् 'ऋुतं सत्यं तथा धर्म' इति स्मृतेश्च ऋतशब्दस्य सत्क- र्मपरत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति -वाच्यम्; उत्तरत्र 'य आत्मापहतपाप्मे'त्यादिना आत्म- नोऽपहतपाप्मत्व प्रतिपादनेन दुष्कर्म प्रत्यूढत्वविरोधात्, सुषुप्ती कर्ममात्रनाशे दुष्कर्मणोऽप्यभावात्, कारणात्मनावस्थाने चाज्ञानस्यावश्यकत्वात्, कर्मण आवरणत्वानुपपत्तेश्च। ब्रह्मवेदनप्रतिबन्धक- तया ह्यनादिव्रह्मावारकं ज्ञाननिवत्य वाच्यम्। तथाच कर्मेव प्रधानमपि नानृतपदाभिधेयम्; तयो-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अनृतेन हि प्रत्यूढा: अन्धीभूताः असफुरद्रह्मस्वरूपकाः । ज्ञानप्रतिबन्धकत्वेनास्फुरणव्याप्यत्वेन। अपहृत- पाप्मत्वेति। पापशून्यस्वभावत्वेत्यर्थः। कादाचित्कपापसरवे तच्छून्यस्वभावत्वमात्मनोऽनुपपन्नम्। नच-मिथ्या- भूतं पापं प्रतिबन्धकमास्तामिति-वाच्यम्, अविद्यां विना तत्परिणामरूपस्य तस्यासंभवात्। कारणात्मना कारणग तसंस्काररूपेण। अनादीति। न च-पापानां प्रवाहरूपेणानादित्वात् पापत्वेन प्रतिबन्धकत्वसंभव इति-वा- च्यम्; पापं पुण्यं मिथ्याज्ञानजन्यसंस्कारो वा 'अस्ति भाती'ति व्यवहारे प्रतिबन्धक इत्यत्र विनिगमकाभावात्तेभ्योऽति- रिक्तस्यैवाज्ञानस्य तथात्वेन कल्पनस्यौचित्यात्, कल्प्यस्यानुपस्थितत्वेन तदादाय विनिगमनाविरहाप्रसक्तेः । ननु स्वोत्पत्तिकालोत्पन्नस्थूलकालस्यैव तत्तज्ज्ञानविषयत्वेन क्षणानामतीन्द्रियत्वे मानाभावात् शब्दज्ञानेऽपि कालभाननियमाद्वा- रावाहिकद्वितीयादिप्रमायामपि दोषाभावेन च कुत्राप्यदोषेण प्रथमानुमानं समीचीनमेव। प्रतियोग्यतिरिक्ता प्रागभावनित्र- त्तिरिति मतस्यापि घटात्तत्प्रागभावो नष्ट इत्याद्यनुभवेन प्रामाणिकत्वेनाप्रामाणिकत्वेऽपि स्वरूपनिवृत्तिप्रतियोगितवस्यैव साध्यविशेषणत्वेन साध्ये व्यर्थविशेषणस्यादोषत्वेन दोपत्वेऽपि प्रागभावत्वस्याखण्डत्वेनाभावत्ानिवेशेन च प्रागभावा- तिरिक्तेति विशेषणस्य आलोकविषयाप्रसिद्धा स्वविषयविषयकोक्तव्यव हारनिवेशासंभवेन स्वप्रयुक्तोक्तव्यवहारप्रतिवन्धक- वस्यैव सवविषयावरणपदेन विवक्षणेन सवजनकरसमानविपयकज्ञानान्तरप्रतिबन्धकादष्टनार्थान्तराप्रसक्ता स्वविषयाव रणद्लस्य अज्ञानोपहितस्यैव वृत्त्युपहितत्वेन सवोपहिताश्रयस्यापि ज्ञानस्याज्ञानोपहिताथ्रयत्वेनाज्ञानस्य सोपहिताध्रयत- पक्षे शुद्धस्यवाघिष्ठानत्वेन तत्तदुपाधिसंवन्धात्तदाश्रितत्वस्याज्ञानेऽपि सत्वेनाज्ञानस्य शुद्धाश्रितत्वपक्षेच स्ाश्रयतावच्छेदका- न्यदेशानवच्छिन्नाश्रयताकत्वरूपस्य स्वदेशगततस्याज्ञाने संभवेन ज्ञातत्वात्यन्ताभावेनार्थान्तरवारणनच स्वदेशगतेति विशेषणस्यच सार्थक्यात्। उक्तरालया ज्ञानाज्ञानयोः समानदेशत्वेन प्रागभावस्य सवनिवर्त्यत्वेनच प्रथमसाध्ये स्वप्रागभा वातिरिक्तति विशेषणसार्थक्यात्। द्वितीयसाध्ये विषयावरणत्वेनास्मदभ्युपगतजीवेशभेदेनार्थान्तरवारणार्थ स्वदेशगतत्- विशेषणस्यावश्य कत्वेनावरणपूर्व कत्वमात्रेण पूर्णताभावाच् साध्यद्वयतात्पयकत्वस्यापि युक्तलाच। प्रकाशपदवाच्यतावच्छेद- कत्वेन प्रमाSडलोकान्यतरत्वेन हेलनुगमेनासिद्धिसाधनवैकल्ययोरप्रसङ्गः। अज्ञानतत्प्रयुक्तान्यतरत्वस्यैव ज्ञाननाश्यताप्रयोज- कत्वेनानादिभावलादिनाSनिवत्य तस्याप्यनुमानासंभवेनानादिभावतमिति प्रथमानुमानेन न विगेधः। एतेन-द्वितीयानु- मानमपि-व्याख्यातम्; प्रागभावव्वंसरूपघटाद्यवत्तितस्याखण्डोपाधिरूपध्वंसत्वेSभावेनजन्यत्वे सति भावान्यत्स्यापि मन्मते निवर्त्यनिष्ठत्वेनचोपाधेः साध्यव्यापकलात्। अत एव-तृतीयतुरीये अपि-व्याख्याते; अस्मन्मतेऽना- दिभावेपि विनाशसामग्रीयुक्तत्वस्य विद्यमानत्वंन विनाशसामग्रीयुक्तत्वे साध्यसंशयाप्रसक्त्या साध्यव्यापकतवग्रहसं- भवात्। सकलानाद्यवृत्तित्वरूपोपाधावपि आवरणावृत्तित्वरूपसाध्यव्यापकत्वस्य मया निश्चितत्वेन प्रागभाव प्रतियोगिता दौ त्वदीयसाध्यसंशयस्याप्रयोजकत्वेन पञ्चमानुमानमपि सोपाधिकमेव। एतेन-पष्मपि-व्याख्यातम्; अप्रसिद्ध- प्रतियोगिकाभावस्य मयानज्गीकारेण मन्मतेन निर्दोषताया असंभवात्। प्रमातत्प्रागभावयोर्मेनस इव तदुपहितात्म- नोऽपि वृत्त्युपादानत्वेन चैत्रात्मगतत्वसंभवेनावाधात् द्वितीयानुमानमपि समीचीनमेव। बाध्यरूपप्रतियोग्यप्रसिद्धौ तद- न्योपादानकत्वरूपसाध्यस्याप्यप्रसिध्धा भ्रमजनकं यद्यद्वाध्यान्यत्तदुपादानकत्वमिति विवक्षणेनाप्रसिद्धिपरिहारेऽपि ब्रह्माविद्यो- भयोपादानकत्वेनार्थान्तरप्रसज्जेन जनकान्तविशेषणवैयर्थ्येन च सत्प्रतिपक्षानुदयात् तृतीयानुमानमवि समीचीनमेवेति दिगिति-विवेचयन्ति॥ इत्यज्ञानवादे अनुमानोपपत्तिः।
Page 276
[अज्ञान० भ्रुत्युपपत्तिः] ५७१
र्ज्नानिवर्त्यत्वात्। ज्ञाननिवर्त्यत्वे च 'भूयश्चान्ते विश्वमायानिवृत्ति'रित्यादिश्रुतिर्मानम्। नच-अत्र निवृत्तिस्तरणमात्रम्, 'मायामेतां तरन्ति ते' इति स्मृतेरिति-वाच्यम्; शानहेतुकतरणस्य निवृत्त्य- तिरिक्तस्यासम्भवेन उभयोर्नाशमात्रार्थत्वात्। नच-'तम आसी'दित्यस्य सत्त्वप्रतिपादकस्य बाधकं विना पारमार्थिकसत्त्वपरत्वेन कथमावरणस्यानृतत्वमिति-वाच्यम्; 'नासदासीन्नोसदासी'दित्य नेन पारमार्थिकत्वतुच्छत्वयोनिषेधन व्यावहारिकसत्त्वपरत्वात्। नच-अनेन माया प्रतिपाद्ते; मायाशब्दार्थश्च नाझानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति- वाच्यम्; उपाधे: प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वश्याद्यापादनायोगात्, सार्वश्याध्ेश्वर्यस्य माया- निबन्धनत्वाञ्च। नच-'मयज्ञान'इतिघात्वर्थानुसारात् माया कथमज्ञानमिति-वाच्यम्; 'एवमे- वैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति माया चाविद्या च स्वयमेव भवती'ति श्रुत्या मायाविद्ययोरैक्यप्रतिपादनान्माया अज्ञानमेव; घटचेष्टाया'मिति धा- तुजस्यापि घटशब्दस्य चेष्टावाचकत्वाभाववदत्रापि ज्ञानवांचकत्वाभावात्। माया प्रश्ा वयुनमिति ज्ञानपर्याये निघण्डुकारवचनं च ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्रम्। वृत्तिज्ञानस्याज्ानामिन्न- त्वात् अज्ञानस्यैवानिर्वचनीयविचित्रशक्तियोगात् न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपत्तिः, क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूपचारात्। नच-शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् न मृषार्थोऽय- मिति-वाच्यम्, वज्रादो पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि माया- त्वानपायात्, पन्द्रजालिकादौ बहुशो मायाशब्दप्रयोगदर्शनाञ्च, मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्य- त्वविरोधाञ्च। नीहारतमःशब्दावप्यस्मिन्मते अज्ञानस्यावारकत्वायुज्यते, नान्यमते। अनृतनीहा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रधानमेव तथास्तु तस्यैकत्वेन पापाद्यपेक्षया लघुत्वात्त्ाह-तथाचेति। विश्वमायेति। असत्वापादकाभाना पादकसर्वाज्ञानेत्यर्थः । प्रतिबिम्वपक्षपातित्वेन प्रतिबिम्बमेव प्रति आवरकत्वादिना। ऐक्येति। शुद्धसत्वमलि- नसत्वोपाधिभ्यां मायाविद्ययोरभेंदेऽपि स्वयमेवेत्यनेनैकव्यक्तित्वमुक्तमिति भावः। वस्तुत उपाधिभ्यां भेदोपि न स्वीक्रियते; एकस्यैवाज्ञानस्य विक्षेपशक्तिम्त्वेन मायापदवाच्यत्वात्, आवरणशक्तिमरवेनाविद्यापदवाच्यत्वाक्। अवि- द्यायां बिम्बत्वस्येशोपाधित्वं प्रतिबिम्बत्वस्य जीवोपाधित्वमित्येतावता जीवेशभेदादिति भावः। परिणामित्वादिति। मायापरिणामित्वेन ज्ञाने मायापदप्रयोगः। सुखादेमायापरिणामित्वेऽपि वृत्तिज्ञान एव भूरिप्रयोगाभिरूढलक्षणा। वस्तुतः प्रमाणार्थकमीधातोर्मायेतिपदं 'माछाससिभ्यो य' इत्यौणादिकसूत्रसिद्धयप्रत्ययान्तम्, 'मयज्ञाने' इति तु पाणिनीयधातुपाठे नास्त्येव; 'अयपयमयचयतयणय गता' वित्यस्यैव तत्र सत्वात्। यत्तु-चिन्तिपूजी'त्यादौ चकारा- न्मयधातोरङप्रत्ययेन मायापदमिति-तन्न; चकारात्तोलयतेरङप्रत्ययेन तुलेतिपदस्य हरदत्तादिभिरुक्तत्वेन तुलाशन्द- स्याङ्प्रत्ययान्तत्वेऽपि मायाशब्दस्य तथात्वे मानाभावात्, मायापदस्य माछेत्यादिसूत्रोदाहरणतवेनोज्वलदत्तीयादिवृत्तौ उक्तत्वाच। तथाच साङ् मान इति धातुपाठान्मानशब्दस्य परिमाणज्ञानयोः प्रयोगाद्योगेन ज्ञानार्थकत्वमिव रूम्या अज्ञानार्थकत्वम्। अत एवोज्वलदत्तीयवृत्तौ माया छद्मेति व्याख्यातम्; छभ्ननोऽपि दुर्घटकार्यकारित्वरूपेण रूक्यर्थगुणेन मायापदबोध्यत्वात्। अतएव-'माया स्यात् शाम्बरीबुद्योर्मयः पीताम्बरेऽसुरे' इति मेदिनी युक्ता; शाम्बर्याम- विद्यायामप्युक्तगुणयोगेन मायापदप्रयोगात्। नच-दुर्घटकारित्वमेव रूढ्यर्थोऽस्त्वति-वाच्यम्; 'ऋतेऽर्थ यत् प्रतीयते' इत्यादिस्मृत्या मिथ्यात्वविशिष्टे मायापदशक्तिनिरूपणात् तिलरसमुख्यार्थकस्यापि तैलपदस्य भूरिप्रयोगेन सा- र्पपरसे निरूढगौणत्ववत् दुर्घटकारिणि मायापदस्य गौणत्वादिति भावः । विचित्रशक्तीति । विचित्रोपादानत्वेत्यर्थः। अनिर्वचनीयविचित्रस्य निमित्तमात्रे मायाविपुरुषादौ तदप्रयोगात्। क्वचिदिति। मश्रविशेषादिरूपमायाश्रयत्येन पुरुषे मायापद्प्रयोगादित्यादिः। उपचारात् मिथ्याभूतार्थनिमित्तत्वात्। अभावेऽपीति व्यञ्ञकाभावदशायामिति शेपः। व्यअ्जकदशायां तु वज्रादौ पृथिवीत्वादेरिव शुक्तिरूप्यादौ मायात्वं व्यवहियत एव। अतपव-'यत्तु दृष्टिपथं प्राप्तं तन्मायैव सुतुच्छकमि'ति सांख्येरुक्तम्। 'माया ह्वेषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्ततं नैवं मां द्रष्टुमर्हसि ॥' इति मोक्षधर्मवाक्ये भगवता दृश्यमात्रे मायापदं प्रयुक्तम्। किंच कष्ट कर्मेति लोकानुभवेन व्यापार- मात्रस्य दुःखहेतुत्वेऽपि प्रकृष्टदुःखस्यैव साधने यथा तद्यवहारः, तथा चमत्कार विशेषाधायकत्वेन प्रकृष्टायामेव मायायां मायात्वव्यवहारः। नीहारतमःशब्दाविति। नीहारेण प्राबृता इत्यादौ। सुपुप्तिकाले सकले विलीने तमोऽभि- भूत: सुखरूपमेती' त्यादौ चेत्यादिः। युज्यते इति। अज्ञाते इत्यादिः। नान्यमत इति। अज्ञानस्यैवावारक- वादिसंभवस्योक्तत्वादिति शेष: । व्याख्यातं च माधवीयभाष्ये-नीहारेण नीहारसदशेन अज्ञानेनेति ।
Page 277
५७२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
रादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधश्च । तस्मा'दनृतेन प्रत्यूढाः' 'नीहारेण प्रावृताः' 'तम आसीत्' 'मायां तु प्रकृति विद्यात्' 'अजामेकां लोहितशुक्क- कृष्णाम्' 'अविद्यायामन्तरे वर्तमानाः' 'भूयश्चान्ते विश्वमायानिवृत्ति'रित्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् ॥ इत्यद्वैतसिद्धावविद्याप्रतिपादकश्रुत्युपपत्तिः॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दुष्कमेति। आवारकपापेत्यर्थः । श्रुत्यन्तरेति। अनीशया शोचति मुह्यमान इत्यादिश्रुतीत्यर्थः । आवारकस्ये- त्यादिः। मोहप्रयुक्ेनानीशया ईश्वरत्वविरोधिनेशभेदेन शोचति संसरतीत्युक्तश्रुत्यर्थः। उपादानत्वादीत्याढिना त्रिगुण- त्वादिकं ग्राह्यम्। तथाच कर्मण आवारकत्वे तस्यैव मोहत्वात् भेदकत्वादिकं वाच्यम्, तच्च न संभवति; सादेस्तस्या- नादिभेदप्रयोजकत्वसर्वकार्योपादानत्वाद्यसंभवात्। 'विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। भवत्यभेदो भेदश्र तस्याज्ञानकृतो भवेत्' इति विष्णुपुराणोक्तेरपि तथा बोध्यम्। 'देवादिभेदमध्यास्ते नास्त्येवावरणो हि स' इति विष्णुपुराणोक्ती भेदमिथ्यात्वे आवरणप्रयुक्तत्व हेतुक्त्यापि मिध्याभूनाज्ञानमेवावरणम्, नतु कर्मादिकमिति भाव:। तस्मादित्यादि। नीहारेण प्रावृता जल्प्या चासुनृप उक्थशासश्चरन्तीत्यन्वयात् नीहाररूपावरणप्रयुक्तत्वं दृश्यमात्रस्य बुध्यत इति भावः ॥ इति लघुचन्द्रिकायां अविद्याप्रतिपाद्कश्रुत्युपपत्तिः ॥
अथ अज्ञानवादे श्रुत्युपपत्तिः । (१) तत्र न्यायामृतकारा: अनृतेन प्रत्यूढा इति श्रुतिरपि न सत्यप्रकृतीश्वरशक्त्याद्यतिरिक्तपराभिमतानिर्वाच्याविद्यायां प्रमाणम्। तत्र अनृतश- व्दस्य "ऋतं पिवन्तावि"त्यादौ धमपरऋतशव्दघटितानृनशब्दस्य दुष्कमपरत्वग्य अनृतं परिणमते इत्यादिस्मृतिप्विव तम आसीत् गौरनादन्तवती नित्येत्यादिश्रुतिभिः सत्यत्वनित्यत्वादिनाSवगतप्रधानपरतस्य त्रिगुणात्मिकेत्यादिस्मृतिध्विव "योग- मायां समादिशत्" "ऋते मायां विशालाक्षी" "पाजन्यवारुणी माये व्यधत्तां वारिविक्षरे"। "एकस्त्मेव भगवानिदमा- त्मशक्त्या मायाख्यया" इति भागवतरामायणहरिवंशादिवचने्विव च विचित्रशक्तपरत्म्यवानीकरणीयत्वेनोक्तश्ुनेरविद्या- प्रमाणलाभावात्। एतेन-तमोनीहाराविद्यादिशच्दा अपि-व्याख्याताः। पतेन-मिर्थ्यव मायाशब्दार्थ इत्यपि- परास्तम्; शुक्तिरूप्यादावपि मायाशब्दप्रयोगापत्तेः । विश्वमायानिवृत्तिरिति तु तरणपरं, न विनाशपरम्। एवंच मायानृ- ताविद्यादिशव्दानां सत्यप्रकृत्यादिपरत्वमेव युक्तम्; नतु भावरूपाज्ञानपरत्वम्; मयज्ञाने इति वातुप्रकृतिकस्य मायाशब्दस्या- ज्ञानपरतायोगात्। ऐन्द्रजालिकादौ मायाशव्दस्तमुख्य इति श्रुतिरपि न तत्र प्रमाणमिति रिद्धमिति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- अपहतपाप्मन आत्मनो दुप्कर्मप्रत्यूढत्वविरोधात् मुपुप्त। दुष्कमणोऽप्यभावात् कर्मण आवरणतानुपपत्तेश्रानृतशब्दस्य दुष्कर्मपरत्वस्य नासदासीन्नोसदासीदिति श्रुतिविरोधेन व्यावहारिकसत्परत्वस्थव तम आसीदित्यादिविपयतया अनृतं परिण-
यतया "अनृतेन प्रत्यूढाः" "नीहारेण प्रावृताः" "तम आमीन्" "मायां तु प्रकृति" "अजामेकां" "अविद्यायामन्तरे वर्तमाना" इत्यादिश्रुतयोऽप्यज्ञाने प्रमाणमेवेति मन्तव्यम् । 'मायाचाविद्या च म्वयमेव भवती"ति श्रुत्या मायाविद्ययो- रैक्येन घटचेष्टायामिति धातुनिष्पन्नम्य घटशव्दस्य चंष्वाचकताभाववत् मयधातुप्रकृतिकमायाशब्दस्याज्ञानवाचकत्वेऽपि वाधकाभावेन मृषार्थ एव मायाशब्द; गेन्द्रजालिकादो बहुशो मायाशव्दप्रयोगदर्शनात्। अस्त्रादौ मायाशब्दप्रयोगस्तु गौण एवेति न दोषः। शुक्तिरूप्यादावपि मायाशव्दप्रयोगापादनं तु नहि निमित्तमस्तीति नैमित्तिकारोप इति न्यायमवलम्ध्य परिहरणीयम् । अतएवहि "भूयश्ान्ते विश्वमायानिव्ृत्तिरि"ति श्रुत्युपपतिः। ज्ञानहेतुकतरणस्य निवृ- त्यतिरिक्तरूपल्वाभावेन "मायामेतां तरन्ति" इत्यस्यापि नाशपरतादिति सर्वमनवद्यमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- अपहृतपाप्मन्यज्ञान संबन्धस्याप्यभावेनाना विभूनस्वरूपविवक्षया दुष्कमप्रत्यूढत्स्यापि संभवेनानृतपदस्य दुष्कर्मपरत्वस्यै- वाङ्गीकरणीयत्वेनानजीकारेऽपि "नीवारेण प्रावृताः" "अविद्यायामन्तरे वर्तमानाः" "अज्ञानेनावृतमित्यादीना"मिव सत्यभू- तप्रकृतिपरत्वस्य जीवस्य ब्रह्मस्वरूपतिरोधायकभगवच्छत्तिपरलस्यरववान्ाकार्यलान्नाज्ञाने श्रुतिप्रमाणसिद्धिः। एतेन-"भूय-
Page 278
[अज्ञान० अर्थापत्त्युपपत्तिः ] गौडब्रहानन्दीयुता। ५७३
अथाज्ञानवादे अर्थापतत्युपपत्तिः। (१) जीवस्यानवच्छिन्नव्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम्। न च जीवस्य ब्रह्ममेदेनैव तादृगप्रकाशोपपत्तिः; जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात्। नचानवच्छिन्नानन्दस्यापि प्रकाश- मानप्रत्यख्जात्रत्वेनाप्रकाशमानत्वानुपपत्तिः; शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेSपि उक्ताकारेणावि- द्यावशादप्रकाशमानत्वोपपत्तरुक्तत्वात् । (२) भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम्। न चान्त:करणमुपादानम्; अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाण- विषये शुक्तिरूप्यादौ ज्ञानाजनकत्वात्, सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च। नच ब्रह्मैवोपा- दानम्; तस्यापरिणामित्वात्। नच्र विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम्; अविद्यामन्तरेणा- तात्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात्, शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ताधिष्ठान- त्वाभावात्। नच-उपादानापेक्षस्य विवर्तस्य तात्विकातिरिक्तोपादानकल्पनवदविद्यादेराश्रयसापे- क्षस्य ब्रह्मातिरिक्तमतातत्विकमधिकरणं कल्प्यं स्यादिति-वाच्यम्; ब्रह्मण एव विकारित्वे अनित्य- त्वादिप्रसक्तिवत् ब्रह्मण एवाधिष्टानत्वे बाधकाभावेन द्वितीयस्याधिकरणस्याकल्पनात्। नच- असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति- वाच्यम्; परिणामिसत्तासमानसत्ताकत्वनियमेनासत्यत्वस्यैवाभावात्। नच-घटादौ स्वसमान- सत्ताकोपादानकत्वदर्शनेन प्रपश्चेपि तादृशोपादानकल्पने घटादेः स्वाधिक सत्ताकोपादानानपेक्ष- त्घवत् वियदादेरापे ब्रह्मानुपादानकत्वं स्यादिति-वाच्यम्; 'तदभिध्यानादेव तु तल्लिङ्गात्स'इत्य- गोडव्रह्मानन्दी (लघुचन्द्रिका)। आत्माकारेण आत्मत्वेन। भेदाकारेण भेदत्वेन। रूपान्तरेण शुद्धचित्स्वरूपेण। उक्त्ताकारेण अनवच्छिना- नन्दरूपेण। उक्तरूपयोराविद्यकभेदः स्वीक्रियत इति भावः । वस्तुतः उक्तभेदास्वीकारेऽपि न क्षतिः; प्रमाणजन्य- ज्ञानस्येवाज्ञानविरोधितया स्वतःप्रकाशमानेऽपि शुद्धरूपे अज्ञानं युक्तमिति ध्येयम्। प्रमाणव्यापारेति। विषयगत- प्रमाणव्यापरेत्यर्थः । प्रमाणाविषये प्रमाणव्यापारशन्ये। तथाच शुक्तिरूप्यादौ तज्ज्ञानोत्पत्तिपूर्व चक्षुरादिसंयो- गामंभवाच्चाक्षुपादिमनोवृत्त्यर्संभवः। नच-भ्रमरूपे चाक्षुपे दोप एव चक्षुःसंयोगस्थानीय इति-वाच्यम्; तथापि दोपो मनः शुक्त्यादिकं वा भ्रमपरिणामीत्यत्र विनिगमकाभावात्, दोपाद्युच्छेदं विना भ्रमोच्छेदासंभवाच्। अनादीति। प्रवाह रूपेणानार्दात्यथेः । मनसोऽपि प्रवाहरूपेणानादित्वेऽपि मनसः उपादानमनाद्येव वाच्यम्; अन्यथा तत्राप्युपादानान्तरकल्पने अनवस्था, गोरवं च। तथाच तदेव सर्वकार्योपादानं युक्तम्। असंभवादिति। अतार्विकत्वस्य तत्त्वप्रमानिवर्त्यत्वव्याप्यतया रूप्यादौ अ्रहादुक्तनिवर्त्यत्वस्य च प्रपञ्चे साक्षात् कल्पने गौरवस्योक्तरवे- नाज्ञाननाशद्वारव तद्वाच्यम्। तथाच तस्यानुपादानत्वे तन्नाशस्य प्रपञ्चनाशे हेतुत्वं कल्प्यम्, तस्योपादानत्वे तु तत्कृप्तम्; अत उपादानत्वमावश्यकम्। किंच ब्रह्मणोऽन्यथाभावो विवर्तः; न च ब्रह्मान्यथा भवतीति तद्गताविद्याया अन्यथाभवनं वाच्यम्। नच-यस्य कारणस्य विपमसत्ताकं यत् कार्य, तस्य तद्विवत इति लक्षणाद्विनाप्यविद्यां ब्रह्मणि विवर्तो जायतामिति-वाच्यम्; घटादिकार्यस्य मृदादिपरिणामत्वदृस्या आकाशादिसर्वकार्याणामपि परिणामत्वस्य वाच्यतया अविद्यासापेक्षत्वात्। सत्यरूपान्तरापत्तिलक्षणेति । सत्यसंसृष्टासत्यस्वरूपेत्यर्थः। कल्पनमिति। ब्रह्मण एव परिणामित्वसंभवादिति शेषः । मृदवस्थेति। सन् घट इत्यादिधिया सदुपादानम्। मृद्धट इत्यादिधिया अन्वयव्यतिरेकाभ्यां च मृदादिकम्, मृदवच्छिन्नचित्वादिना तु नोपादानत्वम्; येन गौरवमिति भावः । पर्यनुयोगः श्वान्ते विश्वमायानिवृत्ति"रिति श्रुतिरपि-व्यख्याता; मायायां सत्याभेव तत्कृतपराभवाभावस्यैव तदर्थतादिति नानिर्व- चनीयाविद्यायां श्रुतिरपि प्रामणमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- पापशून्यखभावे कादाचित्कपापसंवन्धस्याप्यसंभवेन "तरति शोकमात्मवित्" "विद्वान्नामरूपाद्विमुक्तः" इत्यादाविव "भूयश्वान्ते" इत्यादावपि तरतिधातोः निवृत्तिपरत्स्येवाङ्गीकरणीयत्वेन माछाससिभ्यो य इति सूत्रसिद्धप्रमाणार्थमाधातु- प्रकृतिकय प्रत्ययान्तमायाशब्दस्याविद्यापरत्वे वावकाभावेन चोक्त्तश्रुतिसिद्धैव मायेति-विवेचयन्ति॥ इत्यज्षानवादे श्रुत्युपपत्तिः।
Page 279
५७४ अद्वैतसिद्धि: i [परिच्छेद: १ ]
नेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानानपेक्षत्वासिद्धेः। अत एव- रूप्येऽपि स्वसमानसत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति-निरस्तम्; निमित्तमात्रे वा इयं कल्पना, विशेषे वा। नाद्य :; अधिष्ठानरूपनिमित्तम्य सर्वत्राधिकसत्ताकत्वात्। द्वितीये तूत्तरो- सरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः । नच-त्रिगुणात्मकं प्रधानमुपादानमिति-वाच्यम्; तस्यासत्यत्वे अविद्यानतिरेकात्। सत्यत्वेऽपि सावयवं, निरवयवं वा। आद्ये अनादित्वभङ्गः। द्वितीये परिणामित्वायोगो ब्रह्मवत्। न चाविद्यापक्षेऽपि समः पर्यनुयोगः; तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात्। तस्मादर्थापत्तिरविद्यायां प्रमाणम्॥ इत्यद्वैतसिद्धावविद्यायामर्थापत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सावयवत्वादिविकल्पः । काल्पनिकत्वेन युक्तिविरुद्धत्वव्याप्यमिथ्यात्वेन। यत्तु मृदाद्यवस्थचित उपादानत्वे नोक्त- सूत्रं साधकम्; किंतु निमित्तत्वे इति; तत्र तदभिध्यानात्' 'सोऽकामयत बहुस्या'मिति सर्वकार्यात्मकतया 'स्वोत्पच्यभिध्यानात्, य आकाशमन्तरो यमयती'त्यादिलिङ्गाच्च, चेतनानधिष्टिताद्चेतनात्कार्यासंभवेन चेतनकर्तृत्व- स्यावश्यवाच्यत्वेन विनिगमकाभावात्, सत्तादात्म्यप्रत्ययस्य कार्यमात्रे दर्शनादुपादानत्वस्याप्यावश्यकत्वेन स आत्मापि वाय्वादावुपादनं नाकाशाद्येवेत्यर्थकत्वेनोक्तसूत्रस्य प्रत्ययात् विश्वस्य योनिमित्यादिश्रुतिः 'योनिश्च हि गीयत' इत्यादिसूत्रं च तत्र मानम्। किंच 'नेदं रजत'मित्यादिनिश्चयोत्तरं 'इदं रजत' मित्यादिभ्रमस्यानुत्पत्योक्तनिश्चयस्याभाव उक्तभ्रमे हेतुर्वाच्यः। तथाचागृहीताप्रामाण्यकानाहार्यतादृशनिश्चयसामान्याभावत्वेन हेतुत्वापेक्षया 'नेदं रजत' मित्याकारका- ज्ञानत्वेनोपादानत्वमेव युक्तम्; गृहीताप्रामाण्यके आहार्येचोक्तनिश्चये सत्युक्ताज्ञानसत्वादतादृशोक्कनिश्चये सति चोक्ाज्ञानासत्वात् उत्तभ्रमोत्पादानुत्पादौ। विस्तरेणचानिर्वचनीयख्यातिविवेचने विवेचितमिदमस्माभिः ॥ इति लघुचन्द्रिकायां अविद्यायामर्थापत्तिः॥
अथ अज्ञानवादे अर्थापत्त्युपपत्तिः । (१) तत्र न्यायामृतकारा :- अन्तःकरणोपादानकत्वेन श्रुतिसिद्धसत्यनिर्गुणप्रधानोपादानकत्वेन वान्यथासिद्धेरविद्याया अपि अनादित्वेन निरवयव- तया ब्रह्मवदेव विकारासंभवाच्च भ्रमोपादानलान्यथानुपपत्तिरपि नाविद्यायां प्रमाणम्। एतेन-श्रुतिसिद्धनिर्विकारव्रम्मो- पादानत्वानुपपत्तिरपि न तत्र मानम्; तातिकविकारासंभवेऽपि अनात्विकविकारसंभवेन शुक्तिवदविद्यां विनापि विवर्ताधि- ष्ानतोपपत्तेः । अन्यथाSडश्रयसापेक्षाविद्यादेः तातिकाधिकरणान्तरकल्पनापत्तरिति-सूचितम्; अन एव परिणामि- त्वेनापि नाविद्यासिद्धिः; असत्यस्य सत्यरूपान्तरापत्तिरूपपरिणाम्यनपेक्षलात्। कार्यापेक्षितसवसत्तासमसत्ताकत्वेनापि नाविद्याकल्पनं; घटादेरिव वियदादेः स्ािष्ठानसत्ताकव्रह्मानुपादानकत्वापातेन रूप्ये खसमानसत्ताकनिमित्तकारणस्यापि कल्पनापातेन च तस्याकल्पकत्वात्। एतेन-जीवस्यावच्छिन्नव्रह्मानन्दाप्रकाशानुपपत्तिरपि न तत्र मानमिति-सूचि- तम् ; भेदेनैवोपपत्तेः, अनवच्छिन्नानन्दस्यापि प्रकाशमात्ररूपत्वेनानन्दाप्रकाशानुपपत्तेक्वेति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- प्रमाणव्यापारापेक्षया ज्ञानपरिणामिनोऽन्तःकरणस्य प्रमाणाविषयशुक्तिरूप्यादिज्ञानाप रिणामित्वेन परिणामित्वेऽपि तस्य सादित्वेनानादिभ्रमपरंपरानुपादानत्वेन निरवयवस्य सत्यस्य प्रधानस्य ब्रह्मण इव परिणामितासंभवेनचान्तःकरणप्रधा-
व्यविद्यायां प्रमाणम्। श्रुतिसिद्धब्रह्मोपादानत्वमप्यत एवोपपद्यते। अतात्विकान्यथाभावलक्षणविवर्तस्याविद्यां विना- 5संभवेन विवर्तोपादानत्वेऽप्यनिस्तारात्, उपादानापेक्षस्य विवर्तस्य तातिकातिरिक्तोपादानकतवस्यैव युक्तलात्। यथाच ब्रह्मण एव परिणामित्वे निर्विकारश्रुतिविरोधः, नैवं ब्रह्मण एव अविद्याश्रयत्व इति नाथय।पेक्षस्याविद्यादेर- तातिकाश्रयान्तरसिद्धिः । अतएव परिणामपरिणामिनोरपि समसत्ताकतवनियमेन परिणामस्येव परिणामिनोऽपि व्यावहारिकसत्यत्वावश्यकत्वेन परिणामित्वेनाप्यविद्यासिद्धिः । "तदमिध्यानादेव तु तल्िद्भात् स" इति न्यायेन घटादेरपि चैतन्योपादानकतया तदृष्टान्तेन वियदादेस्तदनुपादानकत्वापादनासंभवात्। खसमानसमसत्ताकोपादानकतवसिद्धर्थमपि अविद्याकल्पनम्। एतेन-रप्ये खसमानसत्ताकनिमित्तकारणापादानमपि-पराहतम्; उत्तरोत्तरत्रमे पूर्वपूर्वत्रमस्य
Page 280
[अज्ञान० तत्प्रतीत्युपपत्तिः] ५७५
अथाज्ञानवादे तत्प्रतीत्युपपत्तिः। साचाविद्या साक्षिवेद्या, न तु शुद्धचित्प्रकाश्या। साक्षीचाविद्यावृत्तिप्रतिबिम्बितचैतन्यम्। तेन-निर्दोषचित्प्काश्यत्वेनाज्ञानस्य पारमार्थिकत्वापत्तिः, मोक्षेऽपि तत्प्रकाशापत्तिः, न च तदा- नीमविद्याया निवृत्तत्वात् प्रकाशाभाव :; प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्त्ययोगादित्यादि- दोषानवकाशः । अत एवोच्यते राडुवत् स्वावृतचैतन्यप्रकाश्याSविद्येति। नचैवं कदाचिदविद्याया अप्रतीत्यापत्ति :; इष्टापत्तेः, समाधौ तथाभ्युपगमात्। नचाविद्यावृत्तेर्दोषजन्यत्वादत्र कथमवि- द्यावृत्तिः? अविद्याया एव दोषत्वात्। न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिन्भ्ास्यत्वे अनवस्था; स्वस्या एव स्वभानोपाधित्वात्। ननु-प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम्, नच-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। एवं कादाचित्काविद्यावृत्तिप्रतिबिम्बभास्यत्वे। अविद्याया एवेति। भ्रमसामान्ये अविद्याया एव परिणामित्वाद- विद्यारूपसाधरणदोपजन्यत्वमक्षतम्। असाधारणदोपजन्यत्वं तु शुक्तिरूप्यादिभ्रमस्यैव। अथवाविद्याद्यनादिषु जाति- विशेषो भ्रमजनकतावच्छेदकतया कल्प्यते। तद्विशिष्टाविद्यादिकमेव तञ्रमजनको असाधारणदोपः। सुखादौ तु भ्रमे मन एव स्वपरिणामत्वसंबन्धेन हेतुः। तदेव तादृशदोपः । स्मरणरूपाविद्यावृत्तौ तु उद्धोधकानामेव दोषत्वम्। स्वस्या पवेति। अविद्यादेः समाध्यादिकाले भानवारणाय संस्कारोत्पत्तये च तत्राविद्यावृत्तिरावश्यकी। तस्यां निमित्तत्वेनेष्टापत्तः । पतेन-जीवस्यानवच्छिन्ानन्दाप्रकाशानुपपत्तिरपि तत्र मानमिति-सूचितम्; रूपान्तरेण प्रका- शेऽपि रूपान्तरेणाप्रकाशोपपत्तेः । जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वेन तेनानुपपत्तेश्वेति-निरूपयन्ति ॥ (३) तरङ्गीणीकारास्तु- शुक्तिविषय प्रमाणस हितेनान्तःकरणेन दोपविशिष्टेन रूप्य विशिष्टशुक्तिविषय कज्ञानजनन संभवेनाविद्यायामविद्यात्वेनेव निरवयचे प्रधानेऽपि ईश्रशक्त्या सर्वानुपपत्तिपरिहारसंभवेनान्तःकरणप्रधानोपादानकत्वेनान्यथासिद्धा भ्रमोपादानत्वा- नुपपत्तिरपि नाविद्यायां प्रमाणम्। अविद्यान्तरं विनैव अविद्याया इव अविद्यां विनैव वियदादिविवर्तसंभवेन कार्यविषमस- त्ताकत्वरूपविव तोंपादानत्वस्याप्यविद्याकल्पनं विनवोपपत्त्या श्रुतिसिद्धव्रह्मोपादानत्वमपि न तत्र मानम्। अस्तुवा अविद्ययैव विवर्तोपादानत्वमिति, एवमपि असंसारिणः संसारित्वत् अपरिणामिनोऽपि मिथ्याभूतपरिणामित्वसंभवेन ब्रह्मणः परिणा- म्युपादानत्वस्यैत श्रुतिविपयलात। "तदभिध्यानादेव तु" इति न्यायस्य घटादो चैतन्योपादानकत्वेऽप्रमाणत्वेन घटादेरिव रूपयस्यापि स्वसमानसत्ताकोपादानकलासिद्धा तदन्यथानुपपत्तिरपि न तत्र मानमिति। एतेन-अनवच्छिन्नानन्दाप्रका- शानुपपत्तिरपि न तत्र मानमिति-सुचितम्: दूषणाभासस्यात्रे निरसिष्यमाणत्वेन जीवब्रह्मभेदेनैव तदुपपत्तेरिति- प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- दोषा मनः शुक्त्ादिकं वा भ्रमपरिणामीत्यत्र विनिगमनाविरहे दोषाद्युच्छेदं विनापि भ्रमोच्छेद संभवेनाविद्यातिरिक्तेश्र- रीयशक्तौ मानाभावेनचान्तःकरणप्रधानोपादानकत्वेनान्यथासिद्धभावेन भ्रमोपादानत्ानुपपत्तिरप्यविद्यायां प्रमाणम् । अतातिवकस्य तत्वप्रमानिवर्त्यत्व्याप्यत्वेनोक्तनिवर्त्यतस्य प्रपश्चे साक्षात्कल्पने गौरवेणोपादाननाशद्वारेणैव तस्य वाच्यतया शुक्तिज्ञानेनेव व्रह्मज्ञानेनापि साक्षादविद्यानिवृत्तिसंभवेनाविद्यान्तरानपेक्षायामपि वियदादिप्रपश्चस्याविद्याविनाशं विना विना- शासंभवेन चोपादानत्वेनाविद्यासिद्धेरप्रत्यूहत्वात्। अन्यथा भावरूपो हि विवर्ता न निर्विकारस्य ब्रह्मणः संभवतीति श्रुति- सिद्धिव्रह्मोपादानववसिध्धर्थमप्यविद्या कल्पनीया; कार्यविषमसत्ताककारणतरूपविवर्तस्याविद्यां विनोपपत्त्यसंभवात्, संभ- वेऽपि घटादिकार्यस्य मृदादिपरिणाम्वदर्शनेनाकाशादिकार्याणामपि यत्किंचित्परिणामतस्य वाच्यतया अविद्यासिद्धिसंभ- वात्। "तदभिध्यानादेव तु तल्िद्गात् स" इति न्यायस्य घटादिसर्वकार्यस्य चैतन्योपादानकत एव तात्पर्यस्य युक्त्तत्वेन घटादाविव रूप्यादावपि अविद्याचेतन्योभयकारणकत्वस्यान्ञीकरणीय लादर्थापत्तिप्रमाणसिद्धमप्यज्ञानम्। युक्तं चैतत्- अगृहीताप्रामाण्यकानाहार्यनिश्वयसामान्याभावत्वेन नेदं रजतमिति ज्ञानाभावस्येदं रजतमिति ज्ञानहेतुतकल्पनापेक्षया नेदं रजतमित्याकारकाज्ञानत्वेन हेतुतकल्पने लाघवादिति-विवेचयन्ति॥ इत्यज्षानवादे अर्थापत्त्युपपत्तिः।
Page 281
५७६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
प्रमाणैरसद्यावृत्तिमात्रं बोध्यत इति-वाच्यम्; अज्ञानमगृहतां तत्रासद्यावृत्तिबोधेऽप्यसामर्थ्या दिति-चेन्न; प्रमाणोपनीतासद्यावृत्तिविशिष्टाज्ञानं हि साक्षिणा गृह्यते। तथाचासद्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वात् न काप्यनुपपत्तिः ॥ इत्यद्वैतसिद्धावविद्याप्रतीत्युपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। संस्कारस्तु तयैवेति न तस्यां वृत्यन्तरापेक्षेति भावः। प्रमाणेत्यादि। प्रमाविषयी भूतमसद्यावृत्तिविशिष्टाज्ञानमेव साक्षिणा गृह्यते, न तु तदविषयीभूतमित्यर्थः । पक्षविशेषान्तर्भावेनैवानुमितिः, अतो असद्यावृत्तिविशिष्टरूपेण प्रमाणगम्यमप्यज्ञानं सविषयकत्वादिरूपेण साक्षिमात्रवेद्यमित्याशयेनाह-तथाचेति। व्यावृत्त्युपनये व्यावृत्तिवि- शिष्टाज्ञानप्रमाणे। चरितार्थत्वात् अज्ञाननिवृत्तिरूपफलवरवात्। तथाच विशिष्टाकारजञाने विशेष्यस्य विशिष्टरूपेण भाननियमेऽपि प्रकृते विशिष्टरूपस्येवाज्ञातत्वेनाज्ञान निवृत्तिरूपप्रमाणफलवत्वात्तत्रैव प्रमेयतेति भावः। इति लघु- चन्द्रिकायां अविद्याप्रतीत्युपपत्तिः॥
अथ अज्ञानवादे अविद्याप्रतीत्युपपत्तिः। (१) तत्र न्यायामृतकारा :- नाविद्याया: प्रतीतिसंभवः। सा हि किं साक्षिणैव, शुद्धचैतन्येन, उत वृत्तिप्रतिफलितचैतन्येन। आद्ये-निर्दोषचैत- न्यविषयस्याविद्यायास्तातिविकत्वापत्तिः, मोक्षेऽपि तत्प्रतीत्यापत्तिः, प्रतीतिमात्रशरीरस्य प्रतीत्यनिवृत्तौ निवृत्त्यसंभवेन मोक्ष- दशायां तन्निवृत्त्या तदप्रतीत्यसंभवात्। एतेन-अविद्यायाः सावृतचैतन्यभास्यतमपि-पराहतम्। द्वितीये-कदा- चित्तदप्रतीत्यापातः, वृत्तिपदेनाविद्यायाः प्रमाणविषयत्वाभावेन प्रमाणजन्यान्तःकरणवत्तेः अविद्यायामविद्यान्तराभावेन खस्मिन् स्वस्यादोषत्वेन च दोषजन्याविद्यावृत्तेश्व विवक्षणासंभवः । एतेन-अविद्यायां प्रमाणोपन्यासोऽपि-पराहतः; प्रातिभासिकस्याज्ञानस्य प्रमाणाविषयलात्, प्रमाणविपयस्यचाज्ञानस्य प्रातिभासिकोपादानल्वासंभवान्। अज्ञानग्रहे तत्रास- व्यावृत्तिबोधनस्याप्यसंभवेन तदीयासद्यावृत्तिमात्रस्यैव प्रमाणविषयत्वमिति प्रकारस्याप्यसंभवादिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- अविद्यावृत्ति प्रतिफलित चैतन्यरूपसाक्षिभास्यैवाविद्या, नाऽभास्या, नापिवा निर्दुष्चतन्यभास्या। तस्याः कदाचिद्प्रतीति रपि संमतैव, समाधौ तथाऽ्भ्युपगमात्, अविद्याया एव दोषत्संभवन दोषजन्याविद्यावृत्तिसंभवान्। एतेन-तत्र प्रमाणोपन्यासोऽपि युक्त एवेति-सूचितम्; प्रमाणोपनीतासद्यावृत्तिविशिष्टाज्ञानस्यव साक्षिणा ग्रहणेनासध्यावृत्त्युपनयने प्रमाणानां चरितार्थत्ादिति-निरूपयन्ति ॥ (३) तरङ्रिणीकारास्तु- प्रतिबिम्बनोपाधि प्रति सत्स्य प्रयोजकत्वेन तत्सिद्धेः साक्षिरूपाविद्याप्रतीतिमिद्धधीनत्वेन तस्याश्रोक्तसलसिद्धधी-
प्रमाणोपन्यासोऽपि न युक्त इति-सूचितम्; यत्र यदगृहीतं तत्र तद्विशिष्टग्रहे तद्रहम्योपनयत्वेनाज्ञाने असद्यावृत्तिग्रहं विना तदुपनयासंभवेनासद्यावृत्त्युपनयं प्रमाणचारितार्थ्यासंभवान् इति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- वृत्तिगोचरवृत्त्यन्तराभावेऽप्यविद्यापृत्ते: व्यावहारिकसत्यायाः ग्रतिबिम्वनोपाधितसंभवात् अविद्यावृत्तिप्रतिबिम्वितचैत- न्यरूपसाक्षिभास्यत्वेऽप्यविद्यातातिकतानापत्तिः । एतेन-तत्र प्रमाणोपन्यासोऽि युक्त इति-सूचितम्; पक्षविशेषा- न्तर्भावेनैवानुमित्यन्गीकारेण यत्र यदगहीतं तत्र तद्विशिष्टग्रह एवोपनयः सन्निकर्ष इति वर्णनासंभवेनासव्यावृत्तिविशिष्टरूपे- णाज्ञानस्यापि प्रमाणगम्यत्वस्य संभवादिति-विवेचयन्ति॥ इत्यज्ञानवादे अविद्याप्रतीत्युपपत्तिः।
Page 282
[अज्ञान० चिन्मात्राश्रयत्वोपपत्तिः] गौडब्रहानन्दीयुता। ५७७
अथाज्ञानवादेSविद्यायाः चिन्मात्राश्रयत्वोपपत्तिः। अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव। तदुक्तम्-'आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव के- वला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः' इति। दर्पणस्य मुखमात्रसंबन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिषिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि; उपाधेः प्रतिबिम्बपक्षपातित्वात्। ननु-कथं चैतन्यमज्ञानाश्रयः ? तस्य प्रकाशस्वरूपत्वात्, तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वा- दिति-चेन्न; अज्ञानविरोधि ज्ञानं हिन चैतन्यमात्रम्, किंतु वृत्तिप्रतिबिम्बितम्; तञ्व नाविद्या- श्रयः, यञ्चाविद्याश्रयः, तञ्च नाज्ञानविरोधि। नच तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिव- दप्रकाशत्वापत्तिः; वृत्त्यवच्छेदेन तस्या एवाज्ञानविरोधित्वात्, स्वतस्तृणतूलादिभासकस्य सौरालो कस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तद्दाहकत्वात्। ननु-अहमश् इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य प्रहणात् बाधः, नच-स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इतिवदशानाश्रयचिदैक्याध्यासात् दग्धृत्वायसोरेकाग्निसंबन्धा'दयो दहती'तिवदज्ञानाहङ्कारयोरेकचिंदैक्याध्यासाद्वा 'अहमज' इति धीर्भ्रान्तेति-वाच्यम्; चितोऽज्ञानाश्रयत्वासिद्धा अन्योन्याश्रयादिति-चेन्न; अहंकारस्याविद्याधी नत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे 'अहमज्' इति प्रतीतेरैक्याध्यासनिबन्धनत्वेना- बाधकत्वात्। नच-अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु- अविद्यायामनुपपत्तेरलङ्गारत्वादिति-वाच्यम्; अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वा- योगात्, चिन्मात्राश्ितत्वं विना तद्गोचरचरमवृत्त्यनिवर्त्यत्वापातात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयत्वायोगात्। नचाविद्यायामनुपपत्तिरलङ्कार :; अनुपपत्तिमात्रं नालङ्कारः, किंतु सत्वादि प्रापकयुक्तावनुपपत्तिः अन्यथा वादिवचसोऽनवकाशापत्तेः। ननु-'निरनिष्टो निरवद्यः शोकं मोहमत्यति नित्यमुक्त' इति श्रुतिविगेधात् न शुद्धचितोऽविद्याश्रयत्वम्; नहि मौढ्यं न दोषः, नापि बन्धकाज्ञानाश्रयो मुक्तः, नच्र तात्त्विकाविद्यादेरेव निषेधः; त्वन्मते तस्याप्रसक्तेः, जीवेऽपि तदभा- वेन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोध इति चेन्न; अवद्यस्य चिति कार्यकारित्वा- भावेन कार्यकरत्वाकार्यकरत्वाभ्यामेव सावद्यत्वनिरवद्यत्वव्यवस्थोपपत्तेः, उपाधे: प्रतिबिम्बपक्षपा- गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रतिबिम्वपक्षपातित्वात्। प्रतिबिम्ब एव कार्यविशेषजनकत्वात्। यथा मलिनदर्पणः मालिन्यं स्वान्तर्गतत्वं च प्रतिबिम्ब एव जनयति, न तु बिम्बे; तथा अविद्या जीवं प्रत्येवावृणोति, आवरणप्रयुक्तं मनआदिकार्य च जीव एव जनयनीति भावः । नाज्ानेति। अज्ञानविरोधित्वं प्रमायामेव, न चिन्मात्र इति भावः । स्वतोऽविद्यातत्कार्य- भासकस्येति । यद्ृ्त्यवच्छिन्नस्य यदविद्यातत्कार्यनाशकत्वं, तां वृत्ति विनैव तद्विद्यातत्कार्यभासकस्येत्यर्थः । वृत्त्यवच्छेदेन तदधिष्टानगोचरवृत्यवच्छेदेन । स्थोल्येति। अहङ्काराचच्छिन्नचितीत्यादिः । चिदैक्ाध्यासात् चित्यहक्कारस्यैक्येनाध्यासात्। यद्यप्यहङ्कारोपादानीभूनमूलाज्ञानं नावच्छिन्नाश्रयताकम्, अत इदमंशावच्छिनाश्रय- ताकतूलाज्ञानपरिणामरूप्यादेः इदमवच्छिन्नत्ववत् नाहक्कारस्याज्ञानावच्छिन्नत्वसंभवः; तथापि घटादेर्मदादिपरिणा-
नोपादानमिति पक्षेऽप्याह-दग्घृत्वेत्यादि। यथाझावयसस्तादात्म्येनाध्यासादभिधर्मस्य दृग्भत्वादेरयसि अयोधर्मस्य पिण्डत्वादेरमौ चाध्यासः, तथा चित्यहङ्कारस्य तादात््येनाध्यासात् चिद्धर्मस्याज्ञानाश्रयत्वप्रेमास्पदत्वनित्यत्वादेरहक्वारे तन्दर्मस्य कर्तृत्वादेश्च चित्यध्यास इति भावः । भ्रान्तेति। नत्वहङ्कारस्य सत्यस्य सत्यो धर्मः अज्ञानमिति पररीत्या प्रमेति शेषः । अविद्याधीनत्वेति। 'जायते प्राणो मनः' 'मायां प्रकृतिं' 'एवमेवैषा माया स्वव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वे'त्यादिश्रुतिभिरित्यादिः । अकल्पितः अविद्यानधीनः। उक्तश्रुतेः ज्ञाननिवर्त्यत्वानुपपत्तेश्राह- कल्पित पवेति। चिन्मात्रेति। अज्ञानस्येत्यादिः। आपातादिति। अभानापादकाज्ञानस्य स्वाश्रयविषयकज्ञानेनैव निवर्त्यत्वादिति शेषः। स्वकल्पितस्य अज्ञानकल्पितस्य। नालङ्कार इति। अनुपपत्तिस्वीकारो न कुलधर्मः, किंतु परिहर्तुमशक्यानुपपत्तिरनिर्वाच्यताख्यापकत्वेन स्वीक्रियत इति भावः। युक्ती अनुमानादितत्सहकारितर्केषु । अनुपपत्तिः प्रतिकूलतर्कः । अन्यथा परिहारयोग्यानुपपत्तेरपि स्वीकारे। दोषः अवधम्। चिति जीवान्यनिति। कार्यकारित्वेति। अहङ्कारतत्कार्यरागादिकार्यकारित्वेत्यर्थः । प्रमाणत्वात् शुद्धस्याज्ञानवर्वे प्रमाणत्वात्। केवलस् मायित्वेऽपि महेश्वरत्वोपहिततादात्म्याद्युक्तश्रुतिसङ्गतिः, जीवस्य मायाश्रयत्वे तु तस्योक्त्ताभेदाभावात्तदसङ्गतिः । न अ. सि. ७३
Page 283
५७८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
तित्वात्। नच-चिन्मात्रस्याविद्याश्रयत्वे प्रमाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति-वाच्यम्; 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर मिति श्रुतेरेव प्रमाणत्वात्। नच 'शाज्ावीशानीशा'विति जीवाज्ञानप्रतिपादकश्रुतिविरोधः; तदाश्रयत्वाभावेऽपि तत्कार्ययोगितया अज्ञत्वव्यपदेशोपपत्तेः। नच-ब्रह्मणोऽपि जीवाश्रिताज्ञानविषयत्वेन मायित्वोपपत्तिरिति-वाच्यम्; जीवत्वस्याश्रयताव- चछेदकत्वे परस्पराश्रयप्रसङ्गात्। ननु-शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वका- र्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्वज्ञानादिना स्वसमानयोगक्षमेण ज्ञानप्रागभावेन च सामानाधिक- रण्याय ज्ञात्रात्मनिष्ठम, नतु चैतन्यरूपज्ञानाश्रितमिति-चेत्, नः चैतन्यस्यैव ज्ञातृत्वेन श्ञातुरर्था- प्रकाशरूपत्वस्य सम्यक्ज्ञानाश्रयत्वस्य भ्रान्त्यादिसामानाधिकरण्यस्य चोपपत्तेः । नचैवं-वातृत्वे सत्यविद्याश्रयत्वम्, अविद्यायां ज्ातृत्वमित्यन्योन्याश्रय इति-वाच्यम्; अविद्याया ज्ञातृत्वानपेक्ष- त्वेनान्योन्याश्रयाभावात्। नहि सामानाधिकरण्यमस्तीत्येतावतैव तदपेक्षया अनया भवितव्यम्। नच-शरीरेपि ज्ञातृत्वाध्याससंभवेन तत्राप्यज्ञानाश्रयत्वापत्तिरिति-वाच्यम्: नहि ज्ञातृत्वा- ध्यासो अज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किंतु प्रसक्तप्रकाशत्वं अज्ञानानाश्रितत्वं च। नचैवं-अविद्याश्रयम्य ज्ञातृत्वभोक्तृत्वादिमत्वरे जीवाश्रिताज्ञानपक्षप्रवेश इति-वाच्यम्; अविद्यावच्छिन्नस्य हि ज्ञातृत्वम्, अविद्या च नाविद्यावच्छेदेनः सामानाधिकरण्यं चावच्छेद्यांशक्यमा दाय। यथोपाधिसंबन्धो मुखमात्र एव, औपाधिकमालिन्यसंबन्धस्तु उपाध्यवच्छिन्ने, विम्बप्रतिबिम्ब- योरक्यात्, तथा सामानाधिकरण्यमपि। यथा प्रतिविम्बो न वस्त्वन्तरं, तथा वक्ष्यते। ननु-शुक्त्य- ज्ञानमपि शुक्त्यवच्छिन्नचेतन्यगतं वाच्यम्, तथाचा 'हं जानामीच्छामी'तिवत् 'अहं न जानामी'ति ज्ञातृस्थत्वानुभवविरोध इति-चेन्न; अज्ञानद्वैविध्यात्। एक हि शुक्त्यवच्छिन्नचैतन्याश्रितं तद्गता-
गोडव्रह्मानन्दी (लघुचन्द्रिका)। चैवं-केवलस्य जीवेनाप्यभेढाजीवस्यापि मायावर्वेन श्रुतिसङ्गतिः म्यादिनि-वाच्यम्; 'मायया सन्निरुद्धः मूढ इव व्यवहरव्नास्ते माययैवे' त्यादेरेव तादृशश्रुनित्वात्। न हि कुठारायुक्ते कुठारेण च्छिनत्तीति प्रयोगः, न वा निगलशून्ये निगलेन बद्ध इति भावः। योगितयेति। जपदस्य जावव्यावृत्तसर्वज्ञत्वरूपेण बोधकत्वादजपदस्यासर्वजत्वरूपेणव बोधकत्वमित्यपि बोध्यम् । यद्यप्यज्ञानाश्रयकेवलाभेदाजीवस्याज्ञत्वोक्ति: संभवति; तथापि ईशेऽपि तथा संभवात् प्रकृते सा नाटता। ब्रह्मणोऽपीति । अज्ञानानाश्रयनवेऽपीति शेपः। जीवत्वस्येत्यादि। मनोऽवच्छिन्नचित्वरूप- जीवत्वमाश्रयतावच्छेदकं परेण वाच्यम्; 'अहमज्ञ' इनि प्रनीतेः प्रमाणत्वेनोपन्यासात्, तच्च जीवत्वमज्ञानाधीनमिति परस्पराश्रयः । अज्ञानावच्छिन्नचित्वरूपं जीवत्वं नु वाचस्पनिमते अज्ञानाश्रयतावच्छेदकं वक्ष्यत एव, परं नु तस्मिन् पक्षे आश्रयताया अवच्छिन्नत्वकल्पने गोरवादनवच्छिन्नाश्रयतापक्ष एव युक्कः। यदि नु नाज्ञानाश्रयतायां जीवत्वं संयोगादी शाखादिकमिवावच्छेदकम्, किंनु आश्रयीभूतजीवस्योपाधितामान्नम्; शुद्धस्याश्रयत्वपक्षे 'जाजा'विति श्रुतावज्ञपदस्याज्ञानकार्यविदेपाश्रय इव वाचस्पनिपक्षे 'मायिन मिनि श्रुतिपदे मायाविपयिणि लक्षणा न दोष इत्यालोच्यते, तथाप्युपहितचिदपेक्षया शुद्चिनो लघुत्वात्तत्रेवाश्रयत्वम्। अहमर्थाश्रितमज्ञानमित्यपरपक्षस्तु सर्वथा न युक्त :; अहमर्थानुत्पत्तिदशायां तदाश्रितत्वासंभवात, शुद्धचिदाद्याश्रितत्वे अवश्यं वाच्ये तेनेवोक्तरीत्याहमज्ञ इनि बुद्युपपत्तेरज्ञानकार्यकारित्वाद्हमर्थोऽज्ञानाश्ितोऽहमर्थाश्रितं चाजानमिति स्थितो अन्योन्याश्रयाच्। चैतन्यस्य अज्ञानाश्रयशुद्धचिदभिन्नसाक्षिणः। ज्ञातुरथाप्रकाशोऽज्ञानमित्यत्र ज्ञातृमंबद्धमज्ञानमित्यर्थः प्रतीयते, स चाक्षतः; साक्षिणि ज्ञातरि अज्ञानवदभेदात्, एवं अ्रमादिसामानाधिकरण्यमपीति भावः। वस्तुतो जञातारं प्रत्यावारकत्वमेव पध्योल्लिख्यते, नतु ज्ञानृनिष्टत्वम्: शुक्त्याद्यज्ञानस्येदमंशादो कार्यजनकत्वानुरोधेन स्वसमानाश्रयज्ञाननिवर्त्यत्वनियमा- नुरोधेन चंदमंशावच्छिन्तचिति अहमर्थावच्छिन्नचिति चाश्रयत्वावश्यकत्वेऽपि मूलाज्ञानस्य शुद्धचित्येव स्वकार्यननक- त्वात्, स्वकार्यमनःपरिणामविशेषनिवर्त्यत्वनियमेनैवानतिप्रसङ्गाच्च शुद्धाश्रितत्वमेव युक्तमिति ध्येयम्। अनावृतचि-
प्रयोजकम्; तथापि अभानापादकाज्ञानस्य स्वविषयाश्रितत्वात्तद्विपयत्वतदाश्रयत्वयोः तत् प्रयोजकमिति भावः । सामानाधिकरण्यं अज्ञो ज्ञातेत्यभेदोक्ति: । अवच्छेद्यांशक्यम् अविद्यावच्छिन्नेन शुद्धस्य तादात््यम्। पक्यात् तादात्म्यात्। सामानाधिकरण्यमपि विम्बीभृतग्रीवास्थमुखं मलिनमित्याध्यमेदोक्तिरपि । न वस्त्वन्तरमिति । किंतु बिम्बमेवोपाधिम्थत्वादिविशिष्ट सत् प्रतिबिम्बमिति शेपः । वाच्यमिति। मूलाज्ञानवदित्यादिः। रूपादी स्फटिका दिसंयुक्तजपालौहित्यादौ। आकाशादौ जलप्रतिबिम्बिताकाशादौ। श्रुतीति। 'जीवेशावाभासेन करोति'
Page 284
[अज्ञा० चिन्मात्राश्रयत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ५७९
परोक्षभ्रमजनकं तद्विषयापरोक्षप्रमानाश्यम्, अपरं च परोक्षभ्रमजनकं तद्विषयप्रमामात्रनाश्यम् प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचतन्याश्रितमित्युक्तं प्राक्। तत्र प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैत- न्यगताज्ञानविषयकोऽयमनुभवः। तेन प्रमातृनिष्ठत्वविषयतास्य न विरुध्यते। अत एव विषयगता- Sज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशन न जानामीति व्यवहाराभावः। ननु-उपाधेः प्रति- बिम्बपक्षपातित्वान्न ब्रह्मणः संसारित्वमित्युक्तं, तद्युक्तम्; बिम्बप्रतिबिम्बभावस्यैवासंभवात्। तथाहि-अचाक्षुपस्य चैतन्यस्य गन्धरसादिवत् प्रतिबिम्बतानर्हत्वात्, प्रतिबिम्बत्वे जीवस्य सादि- त्वापाताञ्च, सूर्यस्य सरिजल इव मरीचिकाजलेप्वप्रतिफलनेन चिदसमानसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगात्, अस्वच्छस्याज्ञानस्य प्रतिबिम्बतोपाधित्वायोगाच्च, अविद्यायाश्चिन्मात्राभिमु ख्यासंभवाञ्, अज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाताश्चेति-चेन्न; रूपवत एव प्रतिबिम्ब इत्यस्या व्याप्े: रूपादा व्यभिचारात् यथा भङ्ग:, एवमाकाशादी व्यभिचाराश्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तर्भङ्गः । वस्तुतस्तु-श्रुतिबलाञ्चितः प्रतिबिम्बे सिद्ध तत्रैव व्यभिचारा- न्नेयं व्याप्िः; तथाच रसादिव्यावृत्तं फलैकोन्नेयं प्रतिबिम्बप्रयोजकम्। नापि जीवस्य सादित्वापत्तिः उपाधिबिम्वसम्बन्धानादित्वेनानादित्वोपपत्तेः। विस्तरस्तु सिद्धान्तबिन्दौ। यन्तक्तं मरीचिकाजले सूर्यप्रतिबिम्बादर्शनात् बिम्वसमानसत्ताकत्वं प्रतिबिम्बोङ्राहित्वे प्रयोजकमिति । तन्न; अध्यस्तस्य, स्फटिकलाहित्यस्य दर्पणे प्रतिबिम्बदर्शनात्। तस्मान्मरीचिकाजलव्यावृत्तं स्वच्छत्वं फलकोन्नेयं अननुगतमेव प्रतिविम्बोड्गाहित्वे प्रयोजकम्, तञ्च प्रकृतेऽप्यस्ति। अत एवाजानस्यास्वच्छत्वात्न प्रति- विम्वोपाधित्वमिति निरस्तम्। यच्चोकं-चिन्मान्राभिमुख्याभावादिति, तत्कि सर्वात्मना चिदाभिमु- ख्याभावाद्वा, आभिमुख्यमात्राभावाद़ा। नाद्य: चैतन्यवद्विभुत्वपक्ष सर्वात्मनापि संभवात्। न्यून- परिमाणत्वेऽपि न दोपः: न्यूनपरिमाणस्यापि अधिकपरिमाणाकाशादिप्रतिबिम्बोद्गाहित्वदर्शनात्। न द्वितीयःः चैतन्यम्य सर्वतोऽपि प्रसृतत्वेन व्यवधानाभावेन च आभिमुख्यस्य सन्भावात् । नचाकाशाद्यात्मना परिणामे प्रतिविम्बापायापत्तिःः प्रतिबिम्बप्रयोजकरूपाविरोधिपरिणामस्य प्रति- विम्वाविरोधित्वेन प्रतिबिम्वानपायात्। नच-मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्ररूपव्य-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। 'माया चाविद्या च स्वयमेव भर्वात' 'रूपं रूपं प्रप्रति रूप' इत्यादिश्ुतात्यर्थः। विस्तर इति। भ्रमहेतूनां विचिश्रत्वा- वचाक्षुपस्यापि प्रतिबिम्बः । 'आभास एव च' 'अतएव चोपमा सूर्यकादिव'दित्यादिसूत्राणि च तत्र मानमित्यादिविस्तर इत्यथेः। अध्यस्तस्येति। स्फटिके साक्षान् संबन्धेन लौहित्यादिप्रत्ययस्यानुभाविकत्वात् बाधाच्च तन्र तदध्यस्तमिति भावः। व्यावहारिकस्य दर्पणादेरिवाज्ञानादेरपि प्रतिबिम्योपाधित्वमित्यपि बोध्यम्। अतएव अननुगतस्य प्रतिबि- म्बोपाधितायोग्यत्वस्यैव स्वच्छत्वरूपत्वांदेव। विभुत्वपक्षे अज्ञानस्य परममहत्त्त्वपक्षे। न्यूनेति। जलादेरित्यादि:। सन्भ्रावादिति। देशविशेषस्थत्वं बिम्बोपाध्योराभिमुख्यं प्रतिबिम्बप्रयोजकमिति तु न युक्तम्; अननुगतत्वात्। रूपाविरोधीति। स्फटिका देश्वणादिरूपपरिणामस्य प्रतिबिम्बविरोधित्वेऽपि पात्रविशेषरूपपरिणामो न तथति परि- णाममात्रं न तथेनि भावः। मुखप्रतिमुखेत्यादि। बिम्बमुखप्रिबिम्बमुखयोरनुगतस्य मुखान्यस्य मुखमात्रत्वरूपस्य व्यक्त्यन्तरस्येत्यर्थः। अपरामृष्टभेदस्येति। प्रनिविम्बत्वोपहितमुखादितः परामृष्टे भेदो यत्र विम्बत्वोपहितमुखादौ तदन्यस्येत्यर्थः। मात्रार्थत्वेन बिम्बप्नतिविम्बमुखानुगतं मुखमात्रमिति पूर्वोक्तवाक्यस्थमान्नशब्दार्थत्वेन। धर्म्यति- रेकेति। उपाधिभेदेन बिम्बप्रतिबिम्बयोरिव केवलोपहितयोभेंदात्ताभ्यां केवलमुखं भिन्नमवश्यं वाच्यम्, त तयोरवश्यमनुगतमुपहित केवलयोस्तादात्म्य स्यानुभवादिति भावः। विवादविषयेति। नच-तूलाज्ञाने सहचारदर्श- नेन व्याप्तिग्रहान्मूलाज्ञानेऽपि तदापादनीयमिति-वाच्यम्; अभानापादकतूलाज्ञानस्य स्वानाश्रये प्रमातर्येव भ्रन्ति- जनकत्वादसत्त्रापाद्कस्य तस्यापि स्वानाश्रये विषय एव अ्रमविपयजनकत्वात् तूलाज्ञानेऽपि सहचारदर्शनात्, तत्र प्रतिबिम्ब एव। नाद् इति। स्वधर्मस्यैव प्रतिभासकत्वं स्वधर्मसामान्यस्य प्रतिभासकत्वं वाभिप्रेतम्। आद्यं सुपुप्तेत्यादिना निरस्य द्वितीयं निरस्यति-ज्ञानेति। ननु-कर्तृत्वादेरविद्यापरिणामत्वाद्विद्यानिष्ठत्वेनाद्पक्ष एव युक्तः, तत्राह-अविद्यास्तमय इति। बन्धो वा बन्धश्न। नतु बद्धा नतु कर्तृत्वादिबन्धाश्रयः । तथाच कर्तृत्वादिकं नाविद्यापरिणाम इत्यभिमानः। धर्मसंक्रामकत्वं धर्मस्यैव संक्रामकत्वम्। बिम्ब इति। प्रतिबिम्बभिस्ने स्वकार्याप्रतिभासकत्वं द्वितीयस्य पर्यवसितार्थः, सच न संभवतीति भावः। ननु विच्छेदो बिम्बभेद: स्वनिष्ठः न स्वकार्य इति तस्य प्रतिबिम्बे संक्रामकत्वेऽपि प्रकृते न दोषः, तत्राह-मुखस्थति । प्रतिबिम्बपक्षपातित्वमित्यत्र
Page 285
५८० अद्वैतसिद्धिः । [ परिच्छेद: १ ]
मात्रसंबन्ध्यादर्शवच्चिन्मात्रसंबन्ध्यज्ञानमिति कथमिति-वाच्यम्; अपरामृष्टमेदस्य मुखादेमात्रार्थ- त्वेनानुगतधर्म्यतिरेकसंभवात्। ननु-उपाधि: प्रतिबिम्बपक्षपातीति सामान्यव्याप्ेरज्षानं स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याह्या बाध इति-चेन्न; विशेषव्याप्तिग्राहकसहचारदर्शनस्य विवाद- विषयातिरिक्तेSसंभवेन विशेषव्यात्यसंभवात्। नच बन्धस्य चिन्मात्राश्रितमोक्षसामानाघिकरण्या नुपपत्तिः; अवच्छेद्यांशमादाय सामानाधिकरण्यस्योक्तत्वात्। ननु-उपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा, स्वकार्यप्रतिभासकत्वं वा, स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा, प्रति- बिम्बं प्रति स्वविषयाच्छादकत्वं वा। नाद्य :: सुषुप्त्याद्यनुवृत्तस्याविद्यारुपस्याविद्यावच्छिन्नत्वरूपस्य वा, तत्प्रतिबिम्बितत्वस्य वा, सुषुप्तादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञान- निष्ठत्वाभावात्, ज्ञानक्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाप्यप्रतीतेः। 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।' इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठवन्धरूपधर्मसंक्रामकत्वं स्यात्। न द्वितीयः; विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात्, मुखस्य बिम्बत्वादेर्व्रह्मस्थसार्वश्यादेश्चानौपाधिकत्वापाताञ्च। नापि • तृतीयचतुर्थौ; दर्पणघटादावदष्टेः । एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्वपक्षपातीति-चेन्र; अतिश- येन कार्यकरत्वमेव तत्पक्षपातित्वम्। तथाच विच्छेदादिरूपकार्यकरत्वसाम्येSपि स्थोल्याद्यवभा- सरूपकार्यकरत्वेन दर्पणादेः प्रतिविम्बपक्षपातित्ववत् कर्तृत्वभोक्तृत्वादिसंसाररूपकार्यकरत्वेना- विद्यायामपि प्रतिबिम्बपक्षपातित्वोपपत्तेः। यत्तुक्तं मुखादिगतं विम्बत्वं ब्रह्मगतं सार्वश्यादिकं चानौपाधिकं स्यादिति। तन्न; उपाधौ बिम्वकार्यकरत्वमेव नेतीति न ब्रूमः, किंतु प्रतिबिम्बे अति- शयेनेति। यदपि बुद्धिरूपोपाधेरपि न प्रतिबिम्बपक्षपातित्वम्, तस्य प्रतिबिम्बापक्षपातिजपाकुसु- मस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानीयत्वाभावादिति। तन्न; स्वनिष्ठस्थाल्यावभासकत्वेनादर्शस्ये- वास्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत् पक्षपातित्वसंभवात्। तस्मादविद्याकृतविच्छेदेन ब्रह्मण्येव
जीवात् अन्यस्य चेतनस्याभावेन सार्वश्यादिश्रुतिर्निर्विपया स्यात्, एकजीववाढे संसार्यसंसारिव्य- वस्थाऽयोगात् 'द्वा सुपर्णा' 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिभिः 'अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप' इत्यादिस्मृतिभिः 'शारीरश्चोभयेऽपि हि मेदेनैनमधीयते' 'मेदव्यपदेशाञ्च' इत्यादिसत्रः 'तस्माच्छारीरादन्य एवेश्वरः। आत्माना तावेती चेतनौ एक: कर्ता भोक्ता अन्यस्तद्विपरीतोऽपहतपाप्मत्वादिगुण' इत्यादिभाष्यैः 'तत्त्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवत् नेतरेतरत्रावतिष्टते' इत्यादिविवरणग्रन्थश्च विरोध इति-निरस्तम्।
गौडव्रह्मानन्दी (लघुचन्द्रिका) । प्रतिबिम्बपद्मुपाध्यन्तर्गतपरतया अवच्छिन्नाकाशाद्र्थकमपीत्याशयेन पूर्व महाकाश इृत्यग्रे घटादावितिचोक्त्तम् । अतिशयेनेति। यथा सर्वाभिमतदातापि भगवान् भक्त्तान् प्रत्यतिशयेन तथात्वात् तत्पक्षपातीत्युच्यते, तथा बिम्बप्रतिबिम्बयोः कार्यकरोऽप्युपाधिरतिशयेन प्रतिबिम्ब एव कार्यकरत्वात् तत्पक्षपानीति भावः । उपपत्तरिति। यथा अनुभवबलाद्दर्पणादेः प्रतिबिम्ब एव मालिन्यादिभ्रमजनकत्वं, तथा श्रुत्यनुभवादिबलादविद्याया जीव एव मनस्तत्परिणामहेतुत्वम्, ईशे तु सर्वज्ञत्वाकाशादिहेतुत्वमिति भावः । प्रतिबिम्बं प्रत्येव स्वविपयाच्छादकमिति चतुर्थपक्षोऽपि युक्त :; दर्पणादौ तदभावेऽप्यविद्यायां तत्संभवात्। न हि सर्वत्रोपाधावेकजातीयप्रतिविम्बपक्षपातित्व- मस्ति। एवंच मनस्तत्परिणामयोरीशनिष्ठत्वेऽपि न क्षतिः; जीवं प्रति स्वरूपावरणं नेशं प्रतीत्यस्यैव विशेषस्येशे संभवात्। ईशस्य नीरागत्वादिश्रुतिस्तु जीवन्मुक्तस्य नीरागत्वादिश्रुतिवत्तद्दृष्टिमाश्रित्य नेया। एवंच ईशस्य सर्व- कार्योपादानत्वमुपपद्यते। एतेन-प्रतिबिम्बे अनिशयेन कार्यकरत्वमीशनिष्टकार्यापेक्षया जीवेऽधिकसंख्याककार्यकरत्वं वा, विलक्षणकार्यकरत्वं वा। नाद्य :; ईशनिष्ठाकाशादिकार्यापेक्षया जीवनिष्ठकार्याणामाधिक्यानिर्णयात्, नान्त्य: ईशेऽपि जीवनिष्ठकार्यापेक्षया विलक्षणकार्यकरत्वेन बिम्बपक्षपातित्वस्यापि वक्तुं शक्यत्वादिति-परास्तम्; जीवं प्रत्यावरणस्येव विलक्षणकार्यस्य विवक्षितत्वेन द्विनीयपक्षस्यादोपत्वादित्याशयेनाह-तस्मादित्यादि। विच्छेदेन भेदेन। नित्यमुक्तत्वेति। बद्धान्यत्वेत्यर्थः। बन्धस्तु सत्यत्वेन ज्ञायमानो दृश्यसंबन्धः। आत्मनि जीवे। तिष्ठन्निति। आत्मानमन्तरो यमयतीति शेषेणान्वयः। शारीसञ्चति। ब्रह्मणोऽन्य इति शेपः। उभये काण्वा माध्यन्दिनाश्र।
Page 286
[अज्ञा० चिन्मात्राश्रयत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ५८१
ननु-चिन्मात्रस्याशानं स्वाभाविकमौपाधिकं वा। नाद्यः; आत्मवदनिवृत्तिप्रसङ्गात्। नान्त्य स्वस्यै- वोपाधित्वे आत्माश्रयात्, एतदपेक्षान्यापेक्षत्वे अन्योन्याश्रयात्, तदन्यान्यापेक्षत्वे चानवस्थाना- दिति-चेन्न; स्वस्यैवाश्रयत्वोपाधित्वात्। न चात्माश्रय :; भेदस्य स्वभेद्कत्ववदुपपत्तेः, स्वाभाविक- स्यापि घटरूपस्य तत्प्रागभावस्य च निवृत्तिदर्शनात्॥ इत्यद्वैतसिद्धौ अज्ञानस्य चिन्मात्राश्रय- त्वोपपत्ति:।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। 'यो विज्ञाने तिष्ठन् य आत्मनि तिष्ठन्निति' च । ेदेन नियम्यनियामकभावेन। हि यस्मात्। अधीयते पठन्ति। तह्वज्ञानसंसरणे अनावरणावरणे॥ इति लघुचन्द्रिकायां अज्ञानस्य चिन्मात्राश्रयत्वोपपत्तिः ॥
अथ अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः ।
(१) तत्र न्यायामृतकारा :- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः" इति वचनानुसारेण शुद्धचैतन्यमात्रस्याज्ञानाश्रयत्वं न युक्तम्; ब्रह्मणोऽसवज्ञतापत्तेः । वस्तुतस्तु-शुद्धचैतन्याज्ञानयो- राश्रयाश्रयिभाव एव न संभवति। तथाहि- "विरोधाद्वर्मिमानेन वाधाच्छ्रुतिविरोधतः । भ्रान्त्यैकाधिकरण्याच्च नाज्ञानं शुद्धचिद्गतम्।।" यथाहि तमःप्रकाशयोः परस्परविरुद्धस्वभावयोनाथयाश्रयिभावः, एवं ज्ञानाज्ञानयोरपि। नच-चैतन्यरूपं ज्ञानं नाज्ञानविरोधि, किंतु वृत्तिरूपमेवेति-शक्ञयम्; वृत्तो ज्ञानतोपचारादिति विवरणोक्त्या तस्या मुख्यज्ञानलाभावेन तद्विरो- धिनो मुख्याज्ञानत्वासंभवात्। एवंच चैतन्यमेव ज्ञानविरोधि। अतएव तस्य प्रकाशतोपपत्तिः। अहमज्ञ इति धर्मिग्रा- हकमानमप्यत एवोपपद्यते। इदंहि अहंकाराश्रितमेवाज्ञानमवगमयति। स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इतिवदज्ञाना- श्रयचिदेक्याध्यासात् अज्ञानाहंकारयोरेकचिदक्याध्यासाद्वोक्तानुभवभ्रान्तिकल्पनं तु न युक्तम्; केवलचितोऽज्ञानाश्रयत्वग्रा-
काभावात्, अविद्यायामनुपपत्तरलंकारलात्। अतएव "निर्रानेष्टो निरवद्यः शोकं मोहं अत्येति नित्यमुक्त" इति श्रुतिर- प्युपपद्यते। शुद्धचितोऽज्ञानाश्रयत्वेतु तस्यावद्यत्वमूढलादिप्रराज्वेन उक्तश्रुतिसिद्धानवद्यत्वादिबाधापत्तिः। तालिकाविद्या- देरेव निषेध इति तु न युक्तम्; लन्मते तस्याप्रसङ्नेनाप्रसक्त्तप्रतिषेधापत्तेः । जीवेऽपि तातिकाविद्याभावेन जीवव्रह्मणोः
शुद्धचतन्यं नाज्ञानाथ्रयं, किंतु अह्मज्ञ इति प्रतीतिसिद्धो जीव एवेति मन्तव्यम्। अतएव स्कार्यभ्रान्त्यादिना खनिवर्त- कतत्ज्ञानेन खवसमानयोगक्षेमज्ञानप्रागभावादिना चाज्ञानस्य सामानाधिकरण्यमप्युपपद्यते। शुद्धचैतन्यं तु न ज्ञातृत्वविशिष्टं, अध्यस्तज्ञातृत्वेन तु नाज्ञानाथ्रयत्वनिर्वाहः; शरीरादीनामप्यज्ञानाश्रयतापत्तेः। अविद्याश्रयस्यैव ज्ञातृत्वभोक्तृत्वादिमत्वे जीवाथिताज्ञानपक्षप्रवेशापत्तेः, ब्रह्मणोऽपि संसारिलापत्तेश्च। उपाधेः प्रतिबिम्बपक्षपातित्ान्न ब्रह्मणः संसारितमिति तु न युक्तम्, अचाक्षुषस्य चैतन्यस्य प्रतिबिम्बतानहत्वेन अर्हत्वेऽपि चिदसमानससाकाज्ञानस्यास्च्छस्य प्रतिबिम्बोपाधित्वायोगेन योगेऽपि तस्य चिन्मात्रामिमुख्याभावेन भावेऽपि तस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापातेन अनापातेऽपि प्रतिबि- म्बस्य जीवस्य सादित्ापत्त्याच बिम्बप्रतिविम्बभावस्यैवासंभवात् संभवेऽपि मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखरूपव्य- क्त्यन्तर वज्जीवव्रह्मानुगतचित्त्वातिरिक्तचिन्मात्ररूपव्यक्त्यन्तराभावेन चिन्मात्राश्रितमज्ञानमिति वादो न युक्त एव। उपाधि: प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेः अज्ञानं साश्रय एव भ्रमहेतुरिति विशेषव्याह्या बाधादपि न ब्रह्मसंसारितानिराकरणसं- भवः। किंच किमिदं प्रतिबिम्बपक्षपातित्वं?किं तत्र स्वधर्मप्रतिभासकत्वं, उत स्कार्यप्रतिभासकत्वं, आहोख्त् सकार्यनिष्ठ- धर्मप्रतिभासकत्वं, आहोख्ित् प्रतिबिम्बं प्रति खविषयाच्छादकत्वम्। आद्ये-सुपुप्ताद्यनुवृत्ताविद्यारूपतदवच्छिन्नत्व तत्प्रति विम्बितलानां तदननुवृत्तिकर्तृत्वप्रमातृतादेश्ष जीवनिष्ठत्वेन प्रतीयमानस्याज्ञानाधर्मस्य प्रतीत्यनुपपत्तिः, अज्ञानधर्माणां ज्ञान- क्रियासंस्कारादीनां नित्यातीन्द्रियाणामात्मनि प्रतीत्यापत्तिः, बन्धरूपाविद्याया अधर्मस्य बन्धस्यात्मन्यप्रसङ्ग्। द्वितीये- विच्छेदा देरुपाधिकार्यस्य बिम्बेऽपि दृश्यमानस्यायोगः, मुखबिम्बतादेः ब्रह्मसार्वश्यादेश्वानौपाधिकलापातथ्। सकार्यनिष्ठधर्म- प्रतिभासकत्वं प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा तु दर्पणघटादावदृष्टम्। पतेन-बुद्धेः प्रतिबिम्बपक्षपक्षपातितमपि- पराहतम्। एवंच अज्ञानस्य चिन्मात्राश्रयत्वे संसार्यतिरिक्तस्य चेतनत्याभावेन बहुजीववादे नित्यमुक्तलसार्वश्यादिश्रुतिनि-
Page 287
५८२ अद्वैतसिद्धिः । [परिच्छेद: १]
रविषयतापप्तिः, एकजीववादेऽपि जीवब्रह्मणोः संसारासंसारादिव्यवस्थाविरोधः, जीवब्रह्मणोः व्यावहारिकभेदस्याप्यभावेन "द्वा सुपर्णौ" "य आत्मनि तिष्ठन्" "अन्यश्च परमो राजन् तथान्यः पश्चविंशकः"। "तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप" "शारीरश्वोभयेऽपि हि भेदेनैनमधीयते" "भेदव्यपदेशाच्चान्य" इति श्रुतिस्मृतिसूत्रविरोधोऽपि दुष्परिहरः। किंच चिन्मात्राज्ञानस्य स्वाभाविकत्वे आत्मवदनिवृत्त्यापत्तिः, औपाधिकत्वे उपाधिः स एव चेदात्माश्रयः, अन्यश्चंदन्योन्या- श्रयः, चक्रकमनवस्थाचेति न चिन्मान्नाश्रितमज्ञानमिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- "आश्रयत्वविषयत्वभागिनी"ति वचनानुसारेण शुद्धचिदाश्रितमेवाज्ञानमन्गीकरणीयम्। नच विरोधः; वृत्तिप्रतिफलित- चैतन्यस्यैवाज्ञानविरोधितया वृत्त्यवच्छिन्नत्वेन चैतन्यविरोधित्वेऽपि चैतन्यत्वेन तद्विरोधिताभावात्। एतेन-मुख्याज्ञान- तमपि व्याख्यातमिति चतन्यप्रकाशताप्युपपद्यत इति-सूचितम्; येन हि रूपेण विरोधित्वं न तेनैव रूपेण भासकत्व- मिति नियमः, सौरालोके स्वरूपतो तृणमूलादिभासके सूर्यकान्तावच्छेदेन तद्दाहकत्वदर्शनात्। येन स्वरूपतोऽज्ञानविरोधि-
यत्वस्य बाधितत्वेनाहमज्ञ इति प्रतीतेरेक्याध्यासनिवन्धनत्वस्यान्गीकरणीयत्वेन धर्मिग्राहकमानविरोधोऽपि नावसरं लभते। एतेन-"निरनिष्टो निरवद्य" इति श्रुतिरपि-व्याख्याता; उपाधेः प्रतिबिम्वपक्षपातित्वेनावद्यस्य चिति कार्यकारिता भावामिप्रायलात् "मायां तु प्रकृति विद्यात् मायिनं तु महेश्वरम्" इत्यादिश्रुतिरप्यत एवोपपदते। "ज्ञाज्ञावि"ति श्रुतिस्तु जीवस्याज्ञानकार्ययोगित्वाभिप्राया न जीवाश्रितत्वे प्रमाणम्। एवंच जीवलस्याज्ञानाथ्रयत्ावच्छेदकत्वे इतरेतराश्रयापत्या शुद्धचैतन्याश्रितवाविद्याऽङ्गीकरणीया। चतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्थप्रकाशरूपत्वस्य सम्यग्ज्ञानाश्रयत्स्य भ्रान्त्यादिसामा- नाधिकरण्यस्य चोपपत्त्या तदनुपपत्तिरपि नात्र प्रसरति। अविद्यापेक्षत्वंपि ज्ञातृत्वस्य तदनपेक्षलात न चतन्यज्ञातृतप-
सङ्गः। तथाच यदवच्छेदेन ज्ञातृत्वं यथाविद्यावच्छेदेन न तदवच्छेदेन अविद्याश्रयत्म्, अनर्वच्छन्नचतन्यम्यवाविद्याश्र- यत्वादिति न जीवाश्रिताज्ञानपक्षप्रवेशापत्तिः । सामानाधिकरण्यप्रतीतेरवच्छद्यांशक्यमादायोपत्तेः। ब्रह्मणस्तु न संसा- रिल्ापत्तिः; उपाधेः प्रतिबिम्वपक्षपातितादित्युक्तम्। श्रुतिवलाच्चितः प्रतिबिम्बे सिंद्ध रूपवत एव प्रतिबिम्ध इति व्याप्तेर- सिद्धा चतन्यस्यापि प्रतिबिम्बतार्हत्वेन अध्यस्तस्य लौहित्यस्य दर्पणे प्रतिबिम्बदर्शनेनोपाधेः बिम्वसमसत्ताकत्नियमा- सिध्धा फलोन्नेयस्य सच्छत्वस्याविद्यायामपि संभवेनाविद्यायाः उपाधित्वयोगन सर्वतः प्रसृतचिदाभिमुरूयस्यापि सत्वंन प्रतिबिम्बप्रयोजकरूपाविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वंन प्रतिबिम्धानपायेन उपाधिविम्बसंवन्धानादित्वेन जीवाना- दित्ोपपत्या च विम्बप्रतिबिम्बभावे वाधकाभावात्। अज्ञानं स्ाश्रय एव अ्रन्तिहेतुरिति विशेषव्याप्तिग्राहकसहचारदर्श- नस्य विवादविषयातिरिक्तऽसंभवेन तयोपाधि: प्रतिबिम्बपक्षपातीति समान्यव्याप्तिवाधासंभवाच्च न दोषः । प्रतिबिम्यपक्ष- पातित्वंच प्रतिबिम्बेऽतिशयेन कार्यकरत्वमेवेति विच्छेदादिरूपकार्यकरत्साम्येऽपि स्थाल्यावभासकरत्वेन दर्पणादेरिव
धाकृतविच्छेदेन ब्रह्मण एव नित्यमुक्त्ततसंसारिल्स्वज्ञतकिंचिज्ज्ञतादिव्यवस्थोपपत्त्या वहुजीववादेन सार्वज्यादिश्रुतिरपि सावकाशेति सिद्धम्। पतेन-एकजीववादे "द्वा सुपणी" "अन्यश्र परमो राजन्" "भेदव्यपदेशाच्"त्यादिश्रुतिस्मृति- सूत्राणि-व्याख्यातानि; तच्चदमज्ञानं चिन्मातरस्यौपाविकमेव। भेदस्य म्वभेदकतवत् स्वाश्रयत्वंऽपि बाधकाभावादिति नानिवृत्तिप्रसङ्गः । वस्तुतस्तु- स्वाभा विकत्व ऽ्पपि नक्षति :; घु्य वस्य्वाा ि ्पि िृत्ति र्श न स्वाभाविकत्व स्यानिवृत्तिप्रयोजकल्वाभावादिति सर्वमनवद्यमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु अहमज्ञ इति धर्मिग्राहकमानेनाहंकार एवाज्ञानस्य साक्षान्संबन्धस्यावगतत्वादहंकारभिन्नाश्रयरवं नाज्ञानस्य युक्तम्; नाहमज इनि बाधज्ञानाभावेन तस्य भ्रान्तितायोगात्। "निरनिष्ट" इत्यादिश्रुतिरपि शुद्धचेतन्ये अज्ञानाश्रयत्वं निराक-
श्रुति्रपि अहंकारस्यैव ज्ञातुरविद्यासंबन्धं बोधयति। नच-शुद्धचैंतन्यस्यैवाज्ञानाश्रयत्वेनोक्तश्रुतेः तत्कार्ययोगितये- वोपपत्तिरिति-ाच्यम्; "ज्ञाज्ञावि"ति श्रुतिविरोधेन शुद्धचैतन्याश्रयत्स्यासिद्धेः । "मायां तु प्रकृति विद्यात् मायिनं तु महेश्वरमि"ति श्रुतिस्तु मायाविषयमीश्वरं बोधयन्ती न चिन्मात्राश्रितत्वे प्रमाणम्। अज्ञानस्य भ्रान्तिसामा- नाधिकरण्यमप्यत एवोपपद्यते। शुद्धचतन्यस्यैव ज्ञातृत्वस्याप्यध्यस्तस्याङ्गीकारे तु अविद्यापेक्षं ज्ञातृत्वं ज्ञातृत्वसिद्धधीना
Page 288
[अज्ञान० सर्वज्ञाश्रयत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ५८३
अथाज्ञानवादेSविद्यायाः सर्वज्ञाश्रयत्वोपपत्तिः । ननु-शुद्धब्रह्मणः चिन्मात्रस्याज्ञानाथ्रयत्वे सार्वश्यविरोधः । नच-विशिष्ट एव सार्वश्यम्; 'तुरीयं सर्वदक्सदा' इति शुद्धस्यैव सर्वजत्वोक्तेरिति-चेन्न; सर्वदृक्पदेन सर्वेषां दग्भूतं चैतन्य- मित्युच्यते; न तु सर्वकषं तुरीयम्; तस्माद्विशिष्ट एव सार्वश्यम्। तच्चाविद्यां विना न संभवतीत्यवि- द्यासिद्धिः। तथाहि-सर्वश्ञो हि प्रमाणतः, स्वरूपजप्त्या वा। तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूल-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सर्वेषां दकू सर्वभासिका। भूतमभिन्नम्। चैतन्यं बुद्धचित्। अविद्यामिति। शुद्ध इत्यादिः । प्रमाणतः वृत्तिज्ञानेन। प्रमाणस्य भाविगोचरानुमितिरूपाया अविद्यावृत्तेः। भ्रान्तेर्विद्यमानगोचराया नष्टगोचरस्मृतिरूपायाश्च।
प्यज्ञानं प्रमात्राधितं, नतु इदमवच्छिन्नचतन्याश्रितम्, एवं शुद्धचैतन्यविषयकमप्यज्ञानं प्रमात्रा्रितमित्येव युक्तम्। अज्ञा- नद्वैविध्यकल्पनादिनोपपत्तिवर्णनं तु न युक्तम्; प्रमाणाभावात। रक्तघटे नष्टेऽपि शुक्कघटसत्वेन घटोऽस्तीतिवत् प्रमात्रा- थिताज्ञानसत्वेन वाधज्ञानानन्तरमपि नजानामीति प्रत्ययापत्तेश्व। अस्तुवा कर्थंचिच्चिन्मात्नाश्रितत्वसिद्धिः, एवमपि जीव- स्येव व्रह्मणोऽपि संसारित्वापतिः; उपाधेः प्रतिविम्वपक्षपातित्वेनोक्ताशङ्कापरिहारस्तु न संभवति। "रूपं रूपं प्रतिरूपो बभूवे"ति श्रुतेस्त्वदभिमतप्रतिविम्वपरत्वाभावेन रूपवत एव प्रतिबिम्ब इति व्याप्ेरव्यभिचारेण चैतन्यस्य प्रतिविम्बतान- हत्वेन कुसुमयोगेन स्फटिके लौहित्यान्तरोन्पत्तेरेवाभ्युपगमेन लौहित्याध्यासामिद्याऽध्यस्तस्य कुत्रापि तदधिकसत्ताकोपाधौ प्रतिविम्बाभावेनोपाधेः विषमसमसत्ताकत्वनियमेनास्वच्छाविद्यायाः चित्प्रतिबिम्बोपाधित्वायोगेन प्राच्यतप्रनीच्यत्ादिरू- पाभिमुग्यम्याभावेनापरिच्छिन्नाकाशादिपरिणामार्थ सर्वेपामप्यविद्यांशानां परिणामस्यावश्यकत्वेन प्रतिबिम्बापायापत्त्या उपाधिसंबन्धस्यानादित्वेऽविनाशापत्त्या जीवसादितापत्त्याच बिम्वप्रतिविम्बभावस्यैवासंभवात् दर्पणादिसंबन्धात् पूर्वका- लीनम्य मुखमात्रम्येव अविद्यासंबन्धात् पूर्वकालीनस्य चिन्मात्रस्याभावाच्च न चिन्मान्रमज्ञानाश्रितम् । बिम्बे बिम्बल्ादेर- साधारणस्योपाव्यवीनत्वेनातिशयेन कार्यकारित्वरूपपक्षपातितस्यापि बिम्बेऽपि सत्वेनोपाधेः प्रतिबिम्वपक्षपातित्वेनापि नेश्वरसंसारिनापरिहारः । एतेन-औपाधिकस्याज्ञानम्यैव चतन्यसंवन्धः इति वचनमपि-पराहतम्; खस्यैव खोपा- ित्वासंभवात्। भेदस्य सवभेदकत्वं तु नाज्वीकृतमेवेति मन्तव्यमिति सर्वमनवद्यमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- अभानापादकाज्ञानस्य स्वाश्रितविषयकज्ञानेनैव निवृत्त्या अहंकाराथितत्वे प्राथमिकाहंप्रत्ययेनैव तस्य निवृत्त्यापत्त्या संसारानुपलब्धिप्रसज्ञेन शुद्धचेतन्याशरिततवमेवान्ीकरणीयम्। नाहमज् इति बाधज्ञानाभावेऽपि अहंब्रह्मास्मोति बाघज्ञानस- त्वेनाहमज्ञ इति प्रत्ययो भ्रान्तिरूप एव । निरनिष्ट इति श्रुतिरपि अहंकाराद्यविद्याकार्यकार्ययोगमेव निषेधतीति न विरोधः । पतेन-ज्ञाज्ञाविति श्रुनिरपि-व्याख्याता। अतएवहि "मायां तु प्रकृति विद्यात् मायिनं तु महेश्वरमि"ति श्रुत्यु- पपनिः। यदितु केवलम्येश्षरेणेव जीवेनाव्यभेदेन जीवस्यापि मायावितमिति विभाव्यते, तर्ह "मायया सन्निबद्धः मूढ इति व्यवहरन्नास्ते माय्यैवे"त्यादि श्रुतिस्तत्र प्रमाणमिति मन्तव्यम् । शुक्तज्ञानस्य शुक्ती कार्यजनकत्वानुरोधेन खसमा- नाथयज्ञाननिवत्त्यतानुरोधेनचेद मंशावच्छिन्नचित्यह मर्थ्वच्छन्नचि चाय्व्यकत्वेपिमूलाज्ञानस्शुद्धचित्येव स्वकार्यजनकस्य स्वकार्यमनःपरिणामविशेषनिवर्त्यस्य च शुद्धचिदाथ्रितलमेव युक्तम्। नच जीवस्येव तस्यापि संसारित्ापत्तिः; "रूपं रूपं प्रतिरूपो बभूव" "अत एव चोपमा सूर्यकादिवदि"त्यादिश्रुतिसूत्रादिभिश्रेमहेतूनां विचित्रत्वेनाचाक्षुषस्यापि चैतन्यस्य प्रतिबिम्बताहत्वेन बाधान्यथानुपपत्त्या स्फटिकलौहित्यस्याध्यन्तत्वस्यैवाङ्गीकार्यत्वेन तस्य दर्पणे प्रतिबिम्बानु-
त्प्रतिबिम्बाप्रयोजकत्वंनाविद्यायां चिदाभिमुख्यस्यापि सत्वेन अनादिभावस्यापि रूपादेः भाटटमते निवृत्यभ्गीकारेणोपाधिसं- बन्धस्यानादिन्वे वाधकाभावेन चूर्णादिरूपेण परिणतस्फटिकादेः प्रतिबिम्बविरोधित्वेऽपि पात्रान्तररूपेण परिणतस्य तद्विरो- धित्ववदाकाशादिरूपेण परिणताविद्याया अपि प्रतिबिम्बाविरोधित्वेन प्रतिविम्बानपायेनच विम्बप्रतिबिम्बभाव संभवेनोपाधे: प्रतिबिम्बमात्रपक्षपातित्वेन ब्रह्मणि संसाराप्रसक्तेः । प्रतिबिम्बपक्षपातित्वंच प्रतिबिम्बे बिम्बविलक्षणकार्योत्पाद करूपतव- मिति बिम्बे बिम्बत्ादेः विलक्षणकार्यलाभावेन मोपाधिप्रयुक्तत्वं प्रयुक्तत्वेऽपि उपाधिना प्रतिबिम्ब इव बिम्बे न संसार का- यमुत्पाद्यते इति श्रुत्यनुभवबलात् सिद्धतीति न किंचिदनुपपन्नमिति-विवेचयन्ति ॥ इत्यज्ञानवादे अज्ञानस्य चिन्मात्राश्रयत्वोपपत्तिः।
Page 289
५८४ अद्वैतसिद्धिः । [परिच्छेद: १ ]
त्वात्, असङ्गस्वरूपश्प्ेश्वविद्यां विना विषयासङ्गतेः । तदुक्तम्-'स्वरूपतः प्रमाणैर्वा सर्वशत्वं द्विधा स्थितम्। तञ्चोभयं विनाSविद्यासंबन्धं नैव सिध्यति ॥' इति। नच-स्वरूपक्षप्तेः स्वतः काला- दसंबन्धेSसत्त्वापातेन स्वतःसंबन्धाभावेSसर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येन संबन्धो वक्तव्य इति-वाच्यम्; अविद्यासंबन्धस्याप्याविद्यकत्वेनाविद्ययेवेति दृष्टान्तानुंपपत्तेः । स्वतः परतो वा कालादिसंबन्धेन सर्वसंबन्धेन चासद्वैलक्षण्यसर्वगतत्वयोरुपपत्तेर्न तयोरर्थे स्वतः कालसंबन्ध- सर्वसंबन्धापेक्षा। असङ्गत्वश्रुतिरपि स्वतः सङ्गाभावविषयत्वेनोपपद्यते। अत एव-'अश्ताऽखि- लसंवेत्तुर्घटते न कुतश्चने'ति-निरस्तम्। तस्माचिन्मात्राश्रितैवाविद्या॥ इत्यज्ानवादे सर्वशस्या- विद्याश्रयत्वोपपत्तिः॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रमाणाजन्याया अविद्यावृत्तेः । प्रमाणैः अविद्यावृत्तिभिः। वस्तुस्थितिरियमुक्ता। वस्तुतो अविद्याश्रयत्वेन न सर्वज्ञत्वस्य विरोधः, किंतु यं प्रत्यावारिका अविद्या तत्र न सार्वज्यम्। नच जीवान्यं प्रत्यावारिकेति ध्येयम्। संवेत्तुरिति तृजन्तम्। यन्तु ताच्छीलिकतृन्नन्तमिति। तन्न; कैवल्ये विषयवेत्तृत्वाभावेनाविषयावेदनस्वभावत्वात्, ज्ञानार्थकविदे: सेट्कत्वेन वेदितृपदस्यैव साधुत्वाच्च।। इति लघुचन्द्रिकायां सर्वक्षस्याज्ानाश्रयत्वोपपत्तिः॥
अथ अज्ञानवादे सवेज्ञस्याज्ञानाश्रयत्वोपपत्तिः । (१) तत्र न्यायामृतकारा :- शुद्धचैतन्यस्य सर्वज्ञत्वादपि नाज्ञानाश्रयत्वम्। सर्वे हि यो विजानाति न कुत्रापि तदश्ता। नहि यो यद्धि- जानाति स तत्राज्ञानवान् भवेत्। बिम्वचैतन्यमेव सर्वज्ञम्। तच् नाज्ञानाश्रयमिति न विरोध इति तु न शङ्कयम्; "तुरीयं सर्वदक् सदे"ति शुद्धस्यैव सर्वज्ञतश्रवणात्। एतेन-सरूपतः प्रमाणवा सर्वज्ञत्वं द्विधा स्थितम्। तथोभयं विनाSविद्यासंबन्धं नोपपद्यते, इति वचनमपि-पराहतम्। नच-सवरूपज्ञस्यंव सर्वज्ञत्वं विवक्षितम्, म्वरूपज्ञप्तेश्व विषय संबन्धोऽविद्याद्वारैवेति स्वरूपज्ञप्या सर्वज्ञत्वं अविद्यासंवन्धमपेक्षते इति-वाच्यम्; स्वरूपज्ञप्तेःखवतः सर्वकालदेशा- द्यसंबन्धेऽसत्वापातेन सतः सर्वसंबन्धाभावेSसर्वगतापातेन चाविदययेवा्येनपि खत एव संवन्धोपपत्तेः। ुकं अज्ञताऽखिलसंवेत्तु: घटते न कथंचनेति-इति वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- सविशेषमेव सर्वज्ञम्, "तुरीयं सर्वदृक्सदेति श्रुतिरपि तुरीयस्य सर्वदग्रपत्वं चैतन्यत्वमेव बोधयति, नतु सर्वज्ञलम्। तच्ब अविद्यां विना न संभवतीत्यविद्यासंबन्धसिद्धिः। तदिदमुक्तं-सरूपतः प्रमाणैवी सर्वज्ञत्वं द्विधा स्थितम्। तच्चोभयं विनाऽविद्यासंबन्धं नव सिध्यती"ति। परतः कालादिसंबन्धनाप्यसत्वारणसंभवेनाविद्यासंबन्धस्याविद्यकत्वेन च न स्त एव चैतन्यस्य सर्वसंबन्धः; असङ्गतश्रुतिविरोधात्। एतेन-"अज्ञताऽखिलसंवेत्तुः घटते न कथंचने"ति वचनमपि पराहतम् इति-निरूपयन्ति ॥ (३) तरङ्रिणीकारास्तु- "तुरीयं सर्वदृक्सदे"त्यनेन शुद्धस्य सर्वज्ञत्वमेवोच्यते, नतु चैतन्यरूपत्म्; सर्वपदवैय्थ्यापत्तेः तुरीयं प्रति सर्वस्य अभावाच्चेति सर्वज्ञत्वस्याविद्याश्रयत्वस्यच परस्परविरुद्धत्वान्न सर्वज्ञं शुद्धं चैतन्यं अविद्याश्रय इति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- सर्वेषामिति षष्यर्थोऽभेद एवेति सर्वामिन्नचैतन्यरूपमेव तुरीयं नतु, सद्वितीयमित्यत्रैव तात्पर्येण तुरीयसर्वज्ञत्वे उक्तश्रुतेः प्रमाणताभावात् विशिष्टस्यैव सर्वज्ञल्ात् तस्य चाविद्यापेक्षत्ात्सर्वज्ञस्याप्यविद्याश्रयत्म्। वस्तुतस्तु-यं प्रत्यविद्या- SSवारिका, तस्यैव सर्वज्ञत्वं विरुद्धं नत्वविद्याश्रयस्येति शुद्धम्यैव सर्वज्ञत्वेऽपि नाविद्याश्रयत्वविरोध इति-विवेचयन्ति॥ इत्यज्ञानवादे सर्वक्षस्याज्ञानाश्रयत्वोपपत्तिः।
Page 290
[अज्ञान० अविद्या०जीवाश्रयत्वोपपत्तिः] गौंडब्रह्मानन्दीयुता। ५८५
अथाज्ञानवादेSविद्याया वाचस्पतिसंमतजीवाश्रयत्वोपपत्तिः । वाचस्पतिमिश्रैस्तु जीवाश्रितैवा Sविद्या निगद्यते। ननु-जीवाश्रिताSविद्या तत्प्रतिबिम्बितचैतन्यं वा, तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं वा जीव :; तथाचान्योन्याश्रय इति-चेन्न्न; किमयमन्यो- न्याश्रय उत्पत्तौ, झप्तौ, स्थितावा। नाद् :; अनादित्वादुभयोः। न द्वितीयः; अज्ञानस्य चिन्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात्। न तृतीयः; स किं परस्पराश्रितत्वेन वा, परस्परसापेक्षस्थि- तिकत्वेन वा स्यात्। तन्न; उभयस्याप्यसिद्धेः, अज्ञानस्य चिदाश्रयत्वे चिद् धीनस्थितिकत्वेऽपि चिति
च्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः, घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च । तदुक्तं 'स्वेनैव कल्पिते देशे व्योस्नि यद्वत् घटादिकम्। तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः' इति। पतेन-यद्युत्पत्तिक्षप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वं, तदा चैत्रमैत्रादेरन्योन्यारो- हणाद्यापत्तिरिति-निरस्तम् ; परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात्। नचेश्वरजीवयोरीश्वरजीव कल्पितत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञा- नाभावादिति-वाच्यम्; जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वेनैतद्विकल्पानवकाशात्। तस्माजीवाश्रयत्वेऽप्यदोपः॥ इत्यद्वैतसिद्धी अज्ञानस्य जीवाश्रयत्वोपपत्तिः॥
गोडव्रह्मानन्दी (लघुचन्द्रिका )। तत्कल्पितभेदं तया कल्पित ईशस्य भेदो यत्र तच्वैतन्यम्। चिन्द्रास्यत्वेऽपि साक्षिरूपजीवभास्यत्वेऽपि। चितेः जीवस्य। तदभास्यत्वात् अविद्याभानरूपसाक्षिजन्यविपयभानाविषयत्वात्। चिदाश्रयत्वे जीवाश्रितत्वे। चिदधीनस्थितिकत्वे जीवनियमितस्थितिकत्वे। जीवान्यावृत्तित्वे इति यावत्। तदधीनस्थितिकत्वयोः तद न्यावृत्तित्वयोः । जीवस्य शुद्धचिद्वृत्तित्वान्नाविद्यावृत्तित्वमिति भावः । अन्योन्याधीनता अविद्यानाशस्य जीवनाशव्या- पकत्वेनाविद्याया जीवोपाधित्वेन वा। तत्राद्यमाह-समानकालीनयोरिति। व्याप्यव्यापकभावापन्नयोरित्यर्थः । यदा यदा अविद्या, तदा तदाऽवश्यं जीव इति व्याप्तावपि जीवनाशस्याविद्यानाशव्याप्यतासंभवः; सा च न क्षतिकरीति भावः । द्वितीयेऽपि न क्षतिरित्याशयेनाह-अवच्छेद्यावच्छेदकेति। उपहितोपाधीत्यर्थः। सोपहि- तेऽपि जीवेऽविद्याया आश्रयत्वं संभवति; स्वस्य स्वाश्रयत्वं म्रत्युपाधित्वेऽप्यविशेषणत्वेन स्वाश्रयत्वास्वीकारादिति भावः। देशे प्रदेशे। स्वावच्छिन्न इति याव्रत्। अविद्याया एवेत्येवकारो हेत्वन्तरव्यवच्छेदार्थः। नैतदिति। जीवेशौ प्रति कल्पकत्वं कल्पनाहेनुत्वम्, जनकत्वं, द्रष्टत्वं वा। आद्ये अविद्यावृत्तिरूपकल्पनां प्रति अविद्याया एव दोषतया उपादानतया च हेतुत्वम्। द्वितीयं तु नाभ्युपेयते; जीवेशयोरनादित्वात्। तृतीये तु उभयोरपि स्वरूपतः स्वप्रका- शत्वम्, न नु दृश्यत्वम्; अविद्याविषयत्वेन स्वस्याविद्याश्रयत्वाढिना, जीवादिद्षटत्वं त्वीशे स्वरूपचतन्येन, न त्वविद्या- वृ्या; ईशस्याविद्यानाश्रयत्वेऽपि तदुपपद्यते, जीवे त्वविद्याविषयत्वाश्रयत्वादिना ईशजीवादिद्रष्टृत्वमविद्यावृत्यादिनैवेति नानुपपत्तिरिति भावः । विपयतासंबन्धेनाविद्या प्रपञ्वं प्रति निमित्तम्, न तूपादानम्; तेन ब्रह्मणः प्रपञ्चाधारत्वो- पपत्तिः। जीव एव वा प्रपज्वाधारः, न ब्रह्म; तेन जीवाविद्ययोरेव प्रपञ्जोपादानत्वम्। जीवब्रह्मणोर्वास्तवाभेदात् ब्रह्मणो जगदुपादानत्वादिश्रुत्युपपत्तिः। यद्वा-जगत्कारणाविद्याविपयत्वादिकमेव ब्रह्मलक्षणं यतोवेत्यादिश्रुत्य्थः । अत एवाविद्यैव शुद्धब्रह्माश्रिता जगदुपादानं, न तु ब्रह्म जीवो वेति पक्षे तथैव स्वीक्रियते॥ इति लघुचन्द्रिकायां अज्ञानस्य जीवनिष्ठतोपपत्तिः॥
अथ वाचस्पतिसंमतजीवाश्रिताज्ञानपक्षोपपत्तिः। (१) तत्र न्यायामृतकारा :- वाचस्पतिसंमतजीवाश्रिताज्ञानवादोऽपि न युक्त :; तत्र जीवशब्देनाविद्याप्रतिबिम्बितस्य तदवच्छिन्नस्य तत्कल्पितभेद- वतो वा चैतन्यस्य विवक्षण अन्योन्याश्रयात्। व्यक्तिभेदाभावात्तु न बीजाक्कुरन्यायेन परिहारः। घटाकाशसिद्धिं विनापि घटसिद्धिवजजीवसिद्धिं विना अविद्यासिद्धेरभावात् स्वेनैव कल्पिते देशे व्योम्ि यद्वद्वटादिकम्। तथा जीवाश्रयाविद्यां मन्य- न्ते ज्ञानकोविदा इति वचनमपि पराहतम्। नच-अन्योन्याश्रयस्योत्पत्तौ इप्तौ वा जीवाज्ञानयोरनादित्वेनाज्ञानस्य चिद्धा- स्यत्वेऽपि चितोऽज्ञानभास्यत्ाभावेन चादोषलमिति-वाच्यम्; सवथा तदनपेक्षस्य तदधीनत्ानुपपत्त्या परस्परप्रयुक्ती परस्परापेक्षाया आवश्यकत्वेन तत्प्रतिबन्धेनैव तद्दोषलनिर्वाद्दात्। एवंच।। अ. सि. ७४
Page 291
५८६ अद्वैतसि [परिच्छेदः १ ]
अथाज्ञानवादेऽज्ञानविषय निरूपणम्। अविद्याया विषयोऽपि सुवचः। तथाहि-चिन्मान्रमेवाविद्याविषयः; तस्याकल्पितत्वेनान्योन्याश्र- यादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन् आवरणकृत्यसंभवाच्च, नान्यत्; तस्याश्ञान- कल्पितत्वात्, अप्रसक्तप्रकाशत्वेनावरणकृत्याभावाच्च।ननु-किमावरणकृत्यं (१) सिद्धप्रकाशलोपो वा, (२) असिद्धप्रकाशानुत्पत्तिर्वा, (३) सतः प्रकाशस्य विषयासंबन्धो वा, (४) प्राकट्याख्यकार्य- प्रतिबन्धो वा, (५) नास्ति न प्रकाशत इति व्यवहारो वा, (६) अस्ति प्रकाशत इति व्यवहाराभावो वा, (७) नास्तीत्यादिव्यवहारयोग्यत्वं वा, (८) अस्तीत्यादिव्यवहारायोग्यत्वं वा । नाद्यद्वितीयौ; स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लोपानुत्पत्त्योरसंभवात्, तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षित- त्वात्। न तृतीय: ज्ानस्य विषयसंबन्धैकस्वभावत्वात्, स्वयं ज्ञानरूपत्वेन त्वन्मते संबन्धानपेक्ष-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अन्योन्याश्रयादीति। अज्ञानजन्यस्याज्ञानाश्रयत्वे अन्योन्याश्रयः, मनोऽवच्छिन्नचिदादेरज्ञानविषयत्वे तत्प्रका- शानुपपत्यादिरिति भावः। अज्ञानकल्पितत्वात् अज्ञानप्रयुक्तत्वात्। अज्ञाननाशनाश्यत्वादिति यावत्। तथा- चाज्ञानस्यामिथ्याविषयकज्ञाननिवर्त्यत्वादमिथ्याविपय कत्वमावश्यकमिति भावः। तल्लोपानुत्पत्योः तल्ोपतदुरपश्य- भावयोः। असंभवात् अप्रसिद्धेः। त्वन्मते त्वद्भ्युपगते शुद्धचैतन्ये। व्यवहाराभावेन व्यवहाररूपकृत्यस्या- भावेन। प्रसङ्गादिति। कृत्यसत्वादिति शेपः। अभिज्ञादीति। वृत्तिज्ञानाभिलापादीत्यर्थः। नास्तित्वम सत्वापा- दकाज्ञानविशिष्टा चित्। अप्रकाशः अभानापादकाज्ञानविशिष्टा चित्। ते च नास्ति न प्रकाशत इत्याकारकाविद्या- वृत्तिविषयौ। अस्ति प्रकाशत इति। उक्ताज्ञानाभ्यां शून्यचितावस्तित्वप्रकाशौ अस्ति प्रकाशत इत्याकारकवृत्तेर्विपयौ। साचोक्ताज्ञानविशिष्टचिदुपलब्ध्यभावकरणिका। तत्रास्मन्मते यद्यपि प्रतियोग्युपलब्धिसत्वेऽपि तदभावसत्वादभाव- धीप्रसङ्गेन प्रतियोग्युपलब्धेः कारणगतशक्तिविघटकत्वरूपस्य प्रततिबन्धकत्वस्य स्वीकाराद्वटाद्यभावविशिष्टबोधे घटाधुप- लब्धेरुक्तप्रतिबन्धकत्वम्; तथापि प्रातीतिकस्याज्ञानादेरभावविशिष्टबोधे अज्ञानादिसंबन्धस्यैवोक्तप्रतिबन्धकत्वसंभ- वात् अज्ञानाभावोपहितचिदाकारवृत्तावज्ञानोपहितचित उक्तप्रतिबन्धकत्वादुक्तवृत्त्यभावस्याज्ञानचित्संबन्धरूपावरण- प्रयुक्तत्वात् उक्तावरणकृत्यत्वमव्याहतम्। नच-उक्तवृत्तेरनाविद्यावृत्तित्वम्; ब्रह्म भातीति व्यवहारकाले अविद्याया अभावात्, नाप्यनुपलब्धत्वम्; प्रतियोग्यनुपलव्धेरहेतुत्वस्यानुपदमुक्तत्वात्, प्रतिबन्धकस्य सिद्धान्ते कारणशक्ति- विघटकत्वेऽपि तदभावस्य कारणत्वास्वीकाराढिति-वाच्यम्; प्रतियोग्युपलब्ध्यभावाजन्यापि मनोवृत्तिरुक्ताभावकाली
यदुत्पत्तिक्षप्तिमात्रप्रतिबन्धे न दोषता। तर्हि स्याय्त्रमैत्रदेर्योन्यधिरोहणम्। किंच-को जीवकल्पकः इति विवंचनीयम्। तत्र न तावान् जीवः, आत्माश्रयात्। नापीश्वरः; तस्याज्ञानशून्यलात्। एवंच सवथा जीवाश्रिताज्ञानपक्षो न युक्त इति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- जीवाथिताज्ञानपक्षोऽपि युक्त एव; नचान्योन्याश्रयः; तम्योत्पत्ता ज्ञप्ताविव चाज्ञानस्य चिदाश्रयत्चिदधीनस्थितिकत्वयोरपि चितोऽज्ञानाश्रितत्वतदधीनस्थितिकल्वयोरभावन स्थितावप्यदोपलात्। घटतदवच्छिन्नाकाशयोरिव समानकालीनयोरवच्छे- दकभावेनापि परस्पराधीनता निर्वहृत्येव। चत्रमैन्नादेः परस्परमाश्रयाश्रयभावानन्ीकारान्न परस्परारोहणाद्यापततिः। जीवा- श्िताविद्याया एव जीवंशादिकल्पकत्वेन नोक्तविकल्पाद्यवसर इति सर्वमनवद्यमिति-निरूपयन्ति । (३) तरङ्गिणीकारास्तु- नान्नाद्वनसिद्धिराद्वान्तानखण्डयन्निति तु वयमपि तत्संग्रहार्थ न ग्रवतामहे॥। (४) लघुचन्द्रिकाकारा अपि- ययपि तरक्षीणीखण्डनार्थ न विशेषमवतारर्यान्त स्म; तथापि अद्वैतसिद्धिवाक्यान्येव कुत्रचित् ितरृण्वन्ति स्म, तत्तु नाऽम्माकमिदानीमवसरप्राप्तमिति तु विरम्यते।। इत्यज्ञानवादे जीवाशिताज्ञानवादोपपत्ति:।
Page 292
[अज्ञान० विषयनिरूपणम् ] गौडब्रह्मानन्दीयुता। ५८७
णाज्। नापि चतुर्थ :; त्वन्मते चैतन्यातिरिक्तस्य तस्याभावात्। नापि पञ्चमः; सुपुप्तौ व्यवहाराभावे- नानावरणापातात्। नापि षष्ठः; व्यवहारस्यामिजात्वे स्वरूपाभिशाया इदानीमपि सत्त्वात्, वृत्तेश्च मोक्षेऽप्यसत्वात्। अमिलपनरूपत्वे मोक्षेऽप्यावरणप्रसङ्गात्। नापि सप्माष्टमौ; तयोरप्यारोपित- त्वेनावरणं विनायोगादिति-चेन्न; नास्ति न प्रकाशत इति व्यवहार एवाभिशादिसाधारण:, अस्ति प्रकाशत इत्येतद्यवहाराभावो वा आवरणकृत्यम्। आवरणं च तद्योग्यता अज्ञानसंबन्धरूपा सुषु- स्यादिसाधारणी आव्रह्मज्ञानमवतिष्ठते। तेन सुषुप्तिकाले नानावरणं, मोक्षकाले च नावरणम्। यदु- कमस्याप्यारोपितत्वेनावरणसापेक्षत्वमिति। तन्न; अज्ञानसंबन्धरूपस्यावरणस्यानादित्वेन चित्प्रका- श्यत्वेन च उत्पत्तौ शप्तौ स्थितौ वा स्वानपेक्षणात्। ननु-अद्वितीयत्वादिविशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेSप्यसन्दिग्धा विपर्यस्तत्वेन प्रकाशमानात्मरूपे अध्यासाधिष्ठाने सुखादिजानरूपे चिन्मात्रे. तदभावेन तत्कल्प्ययोर्योग्यत्वायोग्यत्वयोरभाव इति-चेन्न; शुद्धरूपायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशमानत्वात्, तदर्थ तस्या एवावरणकल्पनात्, परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वात्। नच-निर्विभागचितः कथमेवं घटत इति-वाच्यम्: आव- रणमहिस्नैव परिपूर्ण ब्रह्म नास्ति न प्रकाशत इति व्यवहार: अस्ति प्रकाशत इति व्यवहारप्रतिबन्धश्च, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धेति॥ अत एव-अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्य- त्वरूपस्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम्? नच-अज्ञानादिमत्त्वे- नापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तद्योग्यत्वमित्यविरोध इति-वाच्यम्; स्वरूपस्याप्रकाशत्वा- दिति-निरस्तम्; परिपूर्णाद्याकारेण इदानीं व्यवहाराभावेऽपि अपरोक्षव्यवहारयोग्यत्वानपायात्। नचैवं-सुखादेरज्ञानावच्छिन्नचित्प्रकाश्यत्वे 'सुखादिकं न प्रकाशत' इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थ चितोऽज्ञानानवच्छेदेन प्रकाशोऽङ्गीकरणीय इति-वाच्यम्; इष्टापत्तेः, अनुक्तो- पालम्भनत्वात्। न ह्यज्षानावच्छेदेन चित् प्रकाशत इति ब्रूमः। अतएवच-नित्यातीन्द्रियेSप्यज्ञानाव- चछेदकतया अपरोक्षव्यव हारेण तत्रापि स्वप्रकाशापत्तिरिति-निरस्तम्; अज्ञानानवच्छेदेन तादृशस्य
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नकारणजन्येत्यनुपलब्धत्वरूपजातेस्तत्र संभवात्तादृदशजात्यवच्छिन्नं प्रत्युपलब्ध्यविघटितकारणशक्ते: प्रयोजकतवेनानुपल- डिधहेतुकत्वव्यवहारस्यापि संभवात्। उक्तवृत्तेरप्रमात्वस्वीकारे त्वविद्यावृत्तित्वमपि संभवति; आवरणशक्तिनाशेऽपि जीवन्मुक्ती विक्षेपशक्त्या अविद्यासंरकारेण वा तत्संभवात्। ननु-अस्तीति व्यवहारे चिन्मात्रमेव विषयोऽस्तु, भातीति व्यवहारे तु तस्य विषयत्वे अस्तीति व्यवहारस्यापि तत्समानविधयकतया तत्राप्यभानापादकाजानसंबन्धस्य प्रतिबन्धकत्वापत्तेरुक्ताज्ञानाभावविशिष्टा चिदेव भातीति व्यवहारविषयोऽस्तु इति-चेत्न; तथासत्यकृप्तस्यास्त्वापाद- काज़ाने प्रतिबन्धकत्वस्य कल्पनायां गौरवापत्तेः, उक्ताज्ञानाभावविशिष्टचितः, तद्विपयत्वे तु प्रातीतिकस्य सर्वस्य स्वाभावविशिष्टविषयकानुपलब्ध्यज्ञाने प्रतिबन्धकतायाः कृप्तत्वेनागौरवमिनि ध्येयम्। अतएव नास्तीत्यादिव्यघहा- रेऽप्युक्ताज्ञानमेव विपयः, न त्वन्यत्; उक्ताज्ञानविषयकापरोक्षज्ञाने उक्ताज्ञानहेतुत्वस्य कृप्तत्वात्, अन्यविषयकत्वे तत्र तद्धेतुत्वस्य कल्प्यत्वात्। एवंच व्यवहाराभावो वेत्यत्र वा शब्दः समुच्चयार्थः। तूलाज्ञानास्वीकारपक्षे तु वृत्य- विषयत्वसमानाधिकरणं यदज्ञानविषयतावच्छेदकत्वं तदभाववद्विपयतादात्म्यापन्ना चिदेवास्तित्वाढ़िरूपेनि बोध्यम्। नानावरणमिति । सुपुप्ती नास्तीत्यादिवृत्त्यभावस्तु विशिष्टधीकारणस्याहंकारस्याभावादिनि भावः। मोक्षकाले चेति। अस्तीत्यादिवृत्त्यभावः न तदावरणात्, किंत्वहंकाराभावात्। अतएव जीवन्मुक्तस्य याधिताहंकारानुवृत्या एक्तवृत्तिर्भवत्येव। अस्य आवरणस्य। चित्प्रकाश्यत्वेन च् चिन्निष्टत्वेन च। जप्ताविति। चिद्रपा जप्तिः न कारण- सापेक्षा, अविद्यावृत्तिरूपा तु तत्सापेक्षापि न क्षतिकरीति भावः। योग्यत्वायोग्यत्वयोः नाम्तीत्यादिव्यवहारयोग्य- स्वास्तीत्यादिव्यवहाराभावयोग्यत्वयोः । निर्विभागेति। पूर्णापूर्णभेदशून्येत्यर्थः। महिस्ना अनुभवबलेन। प्रतिबन्धः अभावः। अविरुद्धेति। वस्तुतो भेदाभावेऽपि पूर्णानन्दचिद्रूपयोर्भेदः अनादिः स्वीक्रियते; अन्यथा आवरणानावरण- योरेकत्रानुपपत्तेः, तथाच न विरोध इति भावः। इदं परमतमनुसृत्योक्तम्। प्रकाशमानेपि शुद्धात्मन्यज्ञानतद- भावविषयकोक्त्तव्यवहार भावाभावयोर विरोधश्चरमवृत्तेरेवाज्ञानविरोधित्वेन चित्प्रकाशस्य तद्विरोधित्वादिति त्वसकृदु- कमू, अज्ञानकाले आत्मास्तीति व्यवहारस्तु विशिष्टात्मविषयक इति बोध्यम्। अपरोक्षव्यवहारेति। भातीति व्यवहारेत्यथः । व्यवहाराभावे भातीति व्यवहाराभावे। योग्यत्वेति। अभानापादकाज्ञाननाशकवृत्ते: कदाचिद्विप- यत्वेत्यर्थः । अज्ञानानवच्छेदेनाज्ञानान्यावच्छेदेनापि। नित्येति। परमाणु अज्ञातं भातीनि व्यवहारयोग्यत्वस्य
Page 293
५८८ अद्वैतसिद्धिः । [ परिच्छेद: १ ]
व्यवहारस्योक्तेः। ननु-प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्यसंबन्धं प्रतिबभ्नातु अन्यं प्रति चतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते; तमःसंबन्धापातात्, नच-कल्पितभेदं जीवचैतन्यं प्रति शुद्धचंतन्यमाच्छादयतीति-वाच्यम्; आवरणं, विना भेदकल्पनस्यैवायोगात्। यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाच्चेति-चेन्न; कल्पि- तमेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात्। नच-भेदकल्पनस्यावरणोत्तर कालीनत्वादिदमयुक्त- मिति-वाच्यम्: भेदावरणयोरुभयोरप्यनादित्वेन परस्परमानन्तर्याभावात्। यञ्चोक्तं-यो मोक्षे भावी चैतन्यं प्रति प्रकाश: तदभाव इदानीमज्ञानसाध्य-इति। तन्नः मोक्षे जन्यस्य चैतन्यप्रकाश- .स्याभावात्, कल्पितभेदापगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि संभवात्। यच्चोक्तं-प्रका- शस्वरूपे चैतन्ये कथमज्ञानम्? न ह्यालोके तमः-इति। तन्न; अज्ञानतमसोर्विरोधितायामनुभवसि- द्धविशेषात्। तथाहि-'त्वदुक्तमर्थ न जानामी'ति प्रकाशमाने वस्तुनि अज्ञानस्यानुभवात् स्वरूप- चैतन्यं साक्षी वा नाजञानाविरोधि, तमसस्तु आलोके सत्यननुभवात् आलोकमात्रं तद्विरोधि। वस्तुतस्तु-अवतमसे विषयप्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधि। नच- 'त्वदुक्ताथा न प्रकाशत' इत्यनुभवादस्तु तत्र भासमाने अज्ञानम्, सुखादिस्फुरणे भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानमिति-वाच्यम्: सुखादिस्फुरणं न प्रकाशत इत्यनुभवा- भावेऽपि अनवच्छिन्नाकारेण न प्रकाशत इत्यनुभवात्, आवारकाज्ञानस्य तत्राप्यावश्यकत्वात्। यदपि-'त्वदुक्तमर्थ न जानामी' त्यत्र भासमाने नाज्ञानम्, किंतु गुहास्थं तमशछन्नमितिवत् त्वदुकं न जानामीत्यनावृतसामान्यावच्छेदेनैव विशेषाज्ञानमनुभूयते, न हि परचित्तस्थमज्ञानं प्रातिस्विक- रूपेणानूद्यते, एवंच तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेपावच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतु:ः तथा दर्शनात्, न हि विशेषे ज्ञाते तदज्ञानधीर्ईष्टाः अवच्छेदकज्ञानस्य ह्यर्वच्छिन्नज्ञानहेतुतापि दर्शनादेव कल्प्या, नचातिप्रसङ्ग :; सामान्यविशेषभावस्यैव नियामकत्वात्- इति। तन्न; अज्ञानं हि विशेषावच्छिन्नतया भासते, सामान्यावच्छिन्नतया वा। आद्ये विशष भास- मानत्वमागतमेव। न हि विशेषमभासयन्विशेषाज्ञानमित्यवभासयति । तथाच सामान्यनिश्चयज-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। फलव्याप्यत्त्राभावरूपावेद्यत्वस्य च सत्वात्तत्रापि स्वप्रकाशत्वापत्तिरिति भावः । अज्ञानानवच्छेदेनेति। अज्ञानादि- विषयतया भानीति व्यवहारयोग्यत्वव्यावृत्तत्वेनेत्यर्थः। तादृशेति। भातीत्याकारेत्यथः । उक्तवृत्तिविषयत्वयोग्यत्वस्येनि समुदायार्थः। यथाश्रुतंत्वसङ्गतम्; फलव्याप्यत्वाभावविशिष्टस्याज्ञानानवच्छेदेन भातीनि व्यवहारयोग्यत्वस्य सुखादावपि सत्वेन स्वप्रकाशत्वापत्तेः । ननु नित्यप्रकाशो न जीवं प्रति प्रसक्त :; भेदापगमे शुद्धं प्रत्येव तस्य दष्टत्वात्, तथाच जीवं प्रत्यावरणकल्पना व्यर्था, तत्राह-कल्पितभेदापगम इति। जीवं प्रतीति। इदानीमि- त्यादिः। तथाच शुद्धं प्रति प्रसक्त्या तदभिन्नमीशं प्रतीव जीवं प्रत्यपि सेति भावः। अनवच्छिन्नेति। सुखाद्यन- वच्छिन्नेत्यथेः । प्रातिस्विकेति। विशेषेत्यथः । मानाभावेनेति । विशेषज्ञाननिव्त्यंत्वानुपपत्तिस्तु न मानम्; सामान्यज्ञानस्य विशेषाज्ञानधीहेतुत्ववद्विशेषज्ञानस्येव सामान्याज्ञाननाशकत्वसंभवात्। सामान्यावच्छिन्नतया विशे- पाज्ञानबुद्धो सामान्यस्यावच्छेदकतया भासमानस्योक्ताज़ामे विपयतावच्छेदकत्वमेव कल्प्यते, न त्वाश्रयतावच्छेदक- त्वम् ; विशेषस्य विषयतावच्छेदकत्वेन कुत्राप्यक्कृप्तत्वात्। तथाच विशेषावच्छिस्नविषयताकाज्ञानाप्रसिद्धर्विशेपज्ञान- स्योकताज्ञान एव नाशकत्वान्नोक्तानुपपत्तिरिति भावः। अवच्छेदकतया द्वेपादिविशेषणतया। तद्विपयत्वात् विशिष्ट- विषयकत्वात। किंचित् द्वेपादिकम्। साध्यतया उद्देश्यतया। अवच्छेदकतया उद्देश्यतावच्छेदकतया। स्वातनयेण शुक्त्याद्यंश रजतादिकम्। ज्ञानावच्छेदकतया ज्ञानविशेषणविषयतवांशे विशेषणतया। एवं दष्टान्ताभावे। ननु- यथा द्वेपादाँ मदीयत्वं गृहीतमपीच्छायां न भाति, यथावा सत्यत्वेनास्माभिर्गृह्यमाणोऽपि भ्रमविषयो नेशेन सत्यतया गृद्यते, यथावा विशेपरूपरीशस्य सर्वज्ञानं विशेपरूपविपयकत्वेन नास्माभिर्गृद्यते, तथा विशेषमगृहीत्वैव सामान्या- वच्छिन्नतया विशेाज्ञानं गृह्यतामिति-चेन्न; विपयमगृह्णता ज्ञानेन विषयिणो ग्रहीतुमशक्यत्वात्। नहि यस्य ज्ञानस्य यन् प्रत्यक्षं, तन तद्विपयाविषयकं दृष्टम्। तदुक्तं मणा-'विपयनिरूप्यं हि ज्ञानम्, अतो ज्ञानवित्तिवेद्यो विषय' इति। तथाच कंचिद्विपयं गृह्णन् कंचिच्चागृह्लन् अ्रमस्य ग्रहो युक्तः, ईशस्य विशेषमात्रविपयकं त्वज्ञानं विशे- पाविपथकेण साक्षिणा अ्रहीतुमशक्यम्। वक्तव्यत्वेनेति। अज्ञानस्याशातत्वाभावेन प्रकाशसंभवेऽपि तदवच्छेदकस्या-
Page 294
[अज्ञान० विषयनिरूपणम् ] ५८९
नितोपि संशयो विशेषमवगाहते यथा, तथा सामान्यज्ञानजनितोऽप्यज्ञानप्रत्ययो विशेषं विषयीक- रिष्यतीति कुतो भासमाने नाजानमिति। न द्वितीयः; सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्या- ज्ञानस्य विशेषसंबन्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमवगतम्। वस्तुनः प्रतीतिप्रमा- णकत्वात्। तथाच परचित्तस्थं यथा अनूदयते, तथा ज्ञानं तथवाज्ञानं चेति सिद्धम्। ननु-यथा द्वेषस्येष्टत्वेऽपि द्विष्टस्य नेष्टत्वम्, ईश्वरस्य भ्रान्तिज्ञत्वेऽपि न भ्रमविषयज्ञत्वम्; अस्मदादीनामीश्वर- सार्वश्यज्ञानेपि न सर्वश्त्वम्, एवमश्ञातज्ञानाभावेऽपि अज्ञानज्ञानमिति-चेन्न; दृष्टान्तासंप्रति- पत्तेः। तथाहि-इच्छा तावज्ज्ञानसमानविषया, ज्ञानं चावच्छेदकतया द्विष्मपि विषयीकरोतीति इच्छाया अप्यवच्छेदकतया तद्विषयत्वात्। नहीच्छा इप्टतावच्छेदकाविषया भवति। पतावानेव विशेषः। किंचित् साध्यतया विषयीकरोति, किंचित् अवच्छेदकतया। ईश्वरोऽपि भ्रमविषयमगृहीत्वा. भ्रमं न गृह्णाति । भ्रमो हि भ्रमत्वेन ग्राह्यः। भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्ख्या- तित्वं वा, अनिर्वचनीयख्यातित्वं वा। तस्मिन् गरृह्यमाणे सर्वथा विषयग्रहः। इयांस्तु विशेषः। यत् भ्रान्त: स्वातक्येण गृह्णाति, ईश्वरस्तु तज्ज्ञानावच्छेदकतयेति, ईश्वरसार्वश्यज्ञानमस्माकं तु सर्वेक्ष- पदेन। तत्र सर्वपदप्रतिपादं जान्नेवास्मदादिस्तत्र ज्ञानसंबन्धं गृह्णातीति ईदशं सार्वश्यमिष्टमेव। विशेषस्त्वीश्वरस्य न कुत्राप्यज्ञानम्, अस्मादृशां तु विशेषेष्वज्ञानमिति कृत्वा। एवं च ज्ञात एव विशषे अज्ञानज्ञानमिति। नच-घटादेरज्ञानावच्छेदकतया भानेSपि घटाद्यज्ञाननिवृत्ति विना तद- चच्छिन्नसंयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषयावच्छिन्नाज्ञानज्ञानार्थ तद्वच्छेदकनिषयाज्ञाननि- वृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधिज्ञानवत् अज्ञानाविरोधिनी अज्ञाननिवृत्तिरपि स्वीकार्या स्यादिति- वाच्यम: संयोगादिसत्त्वस्यावच्छेदकघटादिसत्त्वसापेक्षत्वेऽपि यथा अभावे न स्वाधिकरणीयप्रति योगिरूपावच्छेदकसत्वापेक्षा, विरोधात्; तथा अजञानज्ञानस्यापि न स्वविषयाज्ञाननिवृत्त्यपेक्षा, विरोधात्। न चैवं-तद्विपयकज्ञानापेक्षापि मास्तु; विरोधस्य समानत्वात्, अविरोधकल्पनाबीजस्य ज्ञान इवाज्ञाननिवृत्तावपि समानत्वात्; तथाच विषये अज्ञात एवाजानं शञायते, विषयविशेषाव- च्छिन्नवुद्धिस्तु तमसीव विशेपज्ञानानन्तरं 'एतावत्कालममुमर्थ नाजासिषमित्येवंरूपा जायत इति-
उपपादितमायुष्मता। किंच यद्यश्ञानं स्वकाले विषयावच्छिन्नतयान भासयेत्, तदा तु 'त्वदुक्तमथे न जानामी ति विषयावच्छिन्नाज्ञानस्य वर्तमानार्थप्रत्ययो विरुज््येत।तस्मात् विषयाज्ञानसाधकत्वात् साक्षिरूपविषयप्रकाशोऽपि नाक्षानविरोधी, किंतु प्रमाणवृत्तिः। एकविषयत्वेऽपि प्रमाणवृत्तितद- तिरिक्तवृत्त्योरज्ञानविरोधित्वाविरोधित्वे घटविषयकयोः सौरालोकज्ानयोः सौरचाक्षुषप्रकाशयोर्वा तमोविरोधित्वाविरोधित्ववदुपपद्येते। नच-वृत्तिश्चैतन्यस्य विषयोपरागार्थेति मते अस्या अज्ञाननि- वर्तकत्वाभावात् इदमयुक्तमिति-वाच्यम्; अज्ञाननिवर्तकत्वेन निवृत्तिप्रयोजकत्वस्येव उक्तत्वात्। तञ्च संबन्धसंपादनद्वाराSस्मिन्पक्षेऽपि अस्त्येव। नच-अज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्यज्ञानापात इति-वाच्यम्: मोक्षदशायामज्ञान निवृत्तिश्रवणेन स्वविरोधिज्ञानप्रागभावमात्र- व्यापकत्वात्।नच-कथं प्रमाणवृत्तिमात्रविरोधित्वे अज्ञानस्य ज्ञानमात्रविरोधित्वेनैव न जानामीत्या-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ज्ञातत्वेनोक्तप्रकाशासंभवेन तदज्ञाननिवृत्तिर्वाच्येति भावः । अवच्छेदकघटादीति। स्वाधिकरणसंयुक्तघटादीत्यर्थः। ननु-तर्हि विशेषावच्छिन्नत्वमज्ञानस्यासिद्धम्, तत्प्रत्यये तत्र तदभानात्, तत्राह-विषयविशेषेति। तमसी- वेति। तमाे नष्टे घटादितम एतावत्कालं स्थितमिति धीरिवेत्यर्थः । 'घटं न जानामी'ति प्रत्यक्षे मन्मते घटादिज्ञानं न कारणम्, विशेषणज्ञानादेरहेतुत्वात्। परं तु जातेपि प्रत्यये दोषात् तन्न प्रमात्वाग्रहे तद्विपये त्वदुक्तार्थ न जानामीति प्रत्यक्षम्, त्वन्मतेतु तस्य ज्ञानाभावविषयकत्वेन प्रतियोगिज्ञानापेक्षा; अभावप्रत्यक्षस्य प्रतियोगिज्ञानानपेक्षणे नेत्याकार- कतानुपपत्तेः, तस्मात्तस्य तदपेक्षायां विरोधादभावविषयकत्वं न वाच्यम्, किंतु भावरूपाज्ञानविषयकत्वमिति पूर्वमुक्तम्। तथाच स्वमतहानाय यतसे इत्याशयेनाह-हन्तेति। वर्तमानार्थे वर्तमानविषयको न जानामीत्यत्र लटा स्वप्रयो- गाधिकरणतसतक्षण उल्लिख्यते, न तु स्थूलकाल :; अज्ञाननाशकालेऽप्युक्तप्रयोगापत्तेरिति भावः । इदमुपलक्षणम्- 'एतावत्कालं नाज्ञासिप' मिति घीः स्मृतिः, अनुमितिः, अर्थापत्तिवा। नाद्यः; विशेषविपयकत्वेन पूर्वमननुभावात्। नेतरौ; विशेषज्ञानत्वस्य विशेपाज्ञाननाशकत्वाव्याप्यत्वात्, विशेषप्रमात्वस्याज्ञानसिद्धे: पूर्वमसिद्धत्वेन तयोरहेतुत्वा-
Page 295
५९० अद्वैतसिद्धिः । [परिच्छेद: १]
कारेण प्रत्ययः? इति-वाच्यम्: घटादिमात्रविरोधिनो घटाभावादे: भावसामान्यविरोधित्वेनाभाव- त्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यश्ञानस्य ज्ञानसामान्यविरोधित्वेन प्रतीतिसंभवात्। महय- भावपदादिनाभावप्रतीती घटाभावो न भासते। अथ सा विरोधिता तत्र विशेषमात्रपर्यवसन्ना, समं प्रकृतेऽपि; अन्यत्रामिनिवेशात्। नच-'न जानामी'ति क्षप्तिविरोधित्वस्यैवानुभवात् कथं वृत्तिविरो- धित्वम्? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात्, चैतन्याज्ञानयोरविरोधे ज्ञानत्वाज्ञानत्वायोगादिति- वाच्यम्; मन्मते वृत्तिप्रतिबिम्बितचतन्यं जानामीति व्यवहारविषयः। तथाच न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते। एवंच न चैतन्ये अज्ञानविरोधित्वम्; नापि वृत्तौ; वृत्त्युपारूढचित एवार्थप्रकाशकत्वेन तथात्वात्। ननु-वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशे- षेणैवाजानतत्कार्यनिवर्तकत्वे इच्छादिनिवत्यद्वेषादिवत् सत्त्वापत्या शुक्त्यादिज्ञानवदर्थप्रकाशकत्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्सत्वेन तन्निवर्तकत्वावश्यम्भावेन तन्निवृत्त्यापातः; नित्याती- न्द्रिये परोक्षवृत्तौ सत्यामप्यज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेन- चान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानविरोधित्वात्-इति चेन्न; प्रमाणवृत्त्युपारूढप्रकाशत्वेन निव- र्तकत्वं ब्रूम, न तु जातिविशेषेण, प्रकाशत्वमात्रेण वा। अतो नेच्छादिनिवर्त्यद्वेषादिवदेतन्निघ- र्त्यानां सत्त्वापत्तिः, न वा चैतन्यमात्रस्य निवर्तकत्वापत्तिः । अत एव-शाब्दादिवृत्ती सत्यामपि अज्ञानानिवृत्त्या सुखादौ प्रमाणवृत्त्यभावे स्फुरणमात्रेणाज्ञानादर्शनेनान्वयव्यतिरेकाभ्यां स्फुरण- स्यैवाशानादौ विरोधित्वमिति-निरस्तम्; परोक्षवृत्तेर्विषयपर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्त- कत्वम्, सुखादौ च ज्ञातैकसत्वादज्ञाननिवृत्ति विनैवाज्ानादर्शनम्। अतोऽन्वयव्यतिरेकयोरन्यथा- सिद्धा स्फुरणमात्रं नाज्ञानविगेधि। न चात्मनोSज्ञानाश्रयविषयत्वे स्वसन्तायामप्रकाशविधुरत्वेन स्वप्रकाशत्वसाधनायोग :: परिपूर्णत्वादिना अप्रकाशविधुरत्वाभावेऽप्यध्यासाघिष्ठानत्वादिना प्रकाशमानतयाSप्रकाशविधुरत्वसंभवात्। नच-वृत्तिचितोवैषम्योक्तिगयुक्ता, वृत्तिवत्साक्षिणोऽपि समानविषयतया अज्ञानविरोधित्वानुभवात्, अन्यथा साक्षिवेद्ये चैत्रेच्छासुखादा मैत्रस्येव चैत्रस्या- प्यज्ञानं स्यात्, नो चेन्मैत्रस्याप्यज्ञानं न स्यादिति-वाच्यम्; साक्षिणि यदज्ञानविरोधित्वमनुभूयते तन्नाज्ञाननिवर्तकत्वनिबन्धनम्, किंतु स्वविषय इच्छादो यावत्सत्वं प्रकाशादज्ञानाप्रसक्तिनिबन्ध- नम्। वृत्तेश्च स्वविषये प्रसक्ताजाननिवृत्तिनिबन्धनमेवेत्युभयोवैपम्योक्तिर्युक्तव। अज्ञानाप्नसक्तेरेव चैत्रेच्छादौ चैत्रस्य नाज्ानव्यवहार, मैत्रस्य तु प्रमान्रज्ञानादेव तह्यवहारः। नच्र-तर्ह्यात्मिन्यपि तत एव तदप्रसक्तिरिति-वाच्यम्; दत्तोत्तरत्वात्। किंच साक्षिवेद्यत्वं तदप्रसक्ता तन्त्रम्, आत्मा तु न तद्वेद्य :; चिद्रूपत्वात् प्रकाश एवेति। नच-तर्हि सुतरामज्ञानानुपपत्तिः तेजसीव तमसः, अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षतेति-वाच्यम्; अज्ञानावृतत्वात् घटवदज्षा- ननिवर्तकान्तरापेक्षा चेत्तर्हीष्टापत्तिः वृत्तेरेवापेक्षणात्, प्रकाशान्तरापेक्षायां जडत्वस्योपाधित्वात्, प्रकाशत्वेऽप्यज्ञानाविरोधित्वस्योपपादितत्वात्। अत एव सर्वे वस्तु ज्वाततयाज्ञाततया च साक्षि चैतन्यस्य विषयः ज्ञानाज्ञानयो: स्वविपयावच्छिन्नयोरेव भानात्। एतेन-अन्धकारावृनवत् जाना-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दित्यपि बोध्यम् ॥ प्रकाशोऽपीत्यपिना प्रमात्वेनागृह्यमाणवृत्तेः समुच्चयः । प्रमाणवृत्तिः प्रमात्वेन भासमानवृत्तिः । चाक्षुषप्रकाशयोः चक्षुःपरिणामतेजसोः । निवर्तकत्वेन विरोधित्वपदेन। अस्त्येव उपरागस्य स्वप्रागभावादिनि वर्तकत्वमस्त्येव। पर्यवसन्नेति। अभावपदस्य घटादिविरोधित्वरूपेण लक्षणयेनि शेपः । सममिति। अज्ञानपदस्य ज्ञाननाश्यत्वरूपेण ज्ञानविशेषनाश्यपरत्वम्। असुरादिपदस्य हरिहरादिभक्तऽपि बलिवाणादौ सुरविशेषविरोधिनि प्रयुक्तस्य तत्परत्ववत् । वृत्तिप्रतिविम्बितेति । सुखादावपि तदात्मकतृत्तिप्रिबिम्बितचिदसत्येवेति भावः । उभयोः मिलितयोः । अर्थप्रकाशकत्वेन अर्थ अस्ति प्रकाशत इति व्यवहारप्रयोजकत्वेन। प्रकाशत्वेन चित्सम- नियतप्रमात्वजात्या। अर्थप्रकाशे प्रमात्वव्यवहारेण वृत्त्यवच्छिन्चित्येव तत्स्वीक्रियते, न नु केवलवृत्ताविति भावः । जातिविशेषेण वृत्तिमात्रनिष्टेन चाक्षुपत्वादिना। सत्वापत्तिरिति। प्रमात्वेन प्रमानिवर्त्यस्य सत्यत्वेनासंप्रतिपत्ते- रिति शेषः । वस्तुतो वृत्तेः प्रमात्वेन निवर्तकत्वेऽपि न सत्वापत्तिः, न हि प्रमात्वेन प्रमानिवर्त्यस्य स्त्त्वं क्वचिद्टष्टम्। वृत्तिचितोः प्रमाकेवलचितोः । वृत्तेः प्रमायाः। अज्ञाननिवर्तकान्तरेति। अज्ञाननिवर्तकप्रमाघटकान्तरेत्यर्थः । जडत्वस्येति। यद्यदज्ञातं तन स्वव्यवहारे स्वान्यप्रकाशापेक्षमिति व्याप्तेः जडत्वमुपाधिः। तच्च मिथ्यात्वादिरूपम्, न
Page 296
[अज्ञान० विषयनिरूपणम् ] ५९१
भावावच्छेदकविषयवञ्चाज्ञानावृतस्याप्यप्रकाशेन साक्षिवेद्यत्वायोग इति-निरस्तम्; विषयावच्छे- देनानुभवविरोधात्। ननु-वृत्तेरज्षानविरोधित्वेऽप्यात्मविषया वृत्तिरिदानीमप्यस्त्येवेति कथ तत्राज्ञानम्? किंच त्वन्मते घटाद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्विषयत्वेन सुतरां चित्यजाना संभवः, नच-विशिष्टचतन्यरूपजीवविषया वा घटावच्छिन्नचैतन्यविषया वा वृत्तिरज्षानविषयीभू- तकेवलचिदविषयत्वादज्ञानविरोधिनी न स्यादिति-वाच्यम्; 'दण्डी चैत्र' इति वृत्या चैत्राज्ञानान- भिभवापातात्। घटाकाशज्ञाने महाकाशाज्ञानस्य महत्वाज्ञाने पर्यवसानम्। अत एवाकाशो ज्ञात इति प्रतीतिः। नच श्रवणादिजन्यैव वृत्तिरज्ञानविरोधिनी; भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणान्तरजन्येनापि अज्षानानिवृत्तावतिप्रसङ्गात्, अनधिकविषयत्वे श्रवणादिवैयर्थ्यात्, सत्यत्वा- पाताश्चेति-चेन्न; यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते अज्ञानविशेष: एकाज्ानपक्षे अवस्थावि- शेष: शक्तिविशेषो वा अविद्यागतो विशिष्टगोचरवृत्त्या निवर्तत एव। प्रपञ्चनिदानभूतं तत्वमस्यादि- वाक्यजन्याखण्डार्थगोचरवृत्तिनिवर्त्यमज्ञानं परमवशिष्यते; भेदभ्रमस्यानुभूयमानत्वात्। यथा अय- मिति ज्ञानात्तत्राज्ञाने निवृत्तपि सोऽयमित्यमेदगोचरवृत्तिनिवर्त्याज्ञानमवशिष्यते। तथाच विषय- कृतविशेषाभावेऽपि कारणविशेषजन्यत्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्य सत्यतापत्तिश्च निरस्ता; अन्यथा सोऽयमित्यत्राप्यगतेः । किंच जीवविषया वृत्तिरविद्यावृत्तिः, न तु प्रमाणवृत्तिः तस्या पवा- ज्ञानविरोधित्वात्। तदुक्तं विवरणे-'जीवाकाराहंवृत्तिपरिणतान्तःकरणेन जीवोऽभिव्यज्यत' इति। अस्यार्थ :- जीवाकाराहंत्वप्रकारिकाविद्यावृत्तिः, तया परिणतान्तकरणेनान्तःकरणपरिणामभूतज्ञा- नरूपवृत्तिसंसर्गण जीवोऽभिव्यज्यत इति। नच-'घटोऽय' मिति ज्ञानेन चरमवृत्तिनिवर्त्याज्ञानमपि निवर्ततामिति-वाच्यम: तद्वच्छिन्नाज्ञातत्वप्रयोजकाज्ञानविशेषादेरेव तदवच्छिन्नज्ञाननिवर्त्य- त्वस्य फलवलेन स्वीकारात्। अवतमस इव विषयप्रकाशकालोकस्य सर्वतमोऽनिवर्तकत्वेऽपि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तु चिदन्यत्वम् ; पक्षेतरत्वरूपतापत्तेः । अनुभवेति। अज्ञानानुभवेत्यथः । वृत्तिरिति। अहमित्याकारेति शेषः। स्यात् भर्वात। अतिप्रसङ्गादिति। शुक्त्ौ रजतं नास्तीति बाधकालेऽपि अ्रमो अनुवर्तेत; कारणविशेषजन्येनैवोक्त बाधेन पश्चात् स निवर्ततेत्यातप्रसङ्गादित्यथः। सत्यत्वापातात् अधिष्ठानधीसामान्यानिवर्त्यत्वेन प्रपञ्चस्य सत्यत्वापा- तात्। वृत्त्या अहमिति वृत्या। ननु सोडयमिति ज्ञानं तत्तेदंतोपहितयोः तादात्म्यविषयकं तादृशाज्ञाननिवर्तकम्, अयमिति ज्ञानं तु नोक्तविपयकम्, अतो न तथेत्याशङ्कयोक्तवाक्यस्याखण्डाथकत्वमतेन तथेत्याशयेनाह-तथा चेति। नच-उक्तमतमप्नामाणिकमिति-वाच्यम्; एकस्यां शुद्धव्यक्ती भेदकल्पकाज्ञानस्य तत्तेदंत्वविषयकत्वे माना- भावेन शुद्धव्यक्तिमात्रविपयकत्वेन तलाशकज्ञानस्यापि तदावश्यकत्वात्। तदुपहितयोरहि तादात्म्यं न संभवति, ऐक्यं नु दूरतः। न हि घटाकाशं पटाकाशमिति तादात््यप्रमास्ति, किंतु द्रव्यं घट इत्यादिरेव प्रमा। तथाच तत्तेदंतोप- लक्षितयोरैक्याज्ञानं तयोर्भेदभ्रमकारणं तयोर क्यज्ञाननाश्यमित्येव वाच्यम्। एवंच सोऽयमिति सामग्रीविशेषजन्यमेव ज्ञानमज्ञाननाशकम्। नचात्र गौरवम्; न ह्युक्तज्ञानत्वेन नाशकता, किंतु शक्तिविशेषेणेत्याशयेनाह-करणेति। आपातज्ञानेन चैत्रो ब्रह्मेति वाक्यजज्ञानेन चाज्ञानानिवृत्तेः शक्तिविशेपेणैव नाशकत्वम्, प्रमात्वेन सामान्यतो नाशक- हवस्यापि स्वीकारादघिष्ठानप्रमासामान्यनाश्यत्वयोग्यताया अपि प्रपञ्चेऽनपायान् सत्यतापत्तिः । तदिदमुक्तम्- सत्यतापत्तिश्चति। शक्तिविशेपानादरे दोपमाह-अन्यथेति । अगतेरिति। तत्तेदंतोपहितयोस्तादात्म्यस्यो- करीत्या अधिष्टानत्वासंभवात् तत्प्रमात्वेन नाशकत्वे गौरवाञ्च शक्तिविशेपेणैव नाशकत्वमिति भावः। यथाश्रुते मनोवृत्तेर हमाकारत्वप्रतीतेर्व्याचक्षते-अस्यार्थ इति। तयेति। अमिव्यज्यत इति। क्रियायां कर्तृपदं व्यञ्ञय- तावच्छेदकमहमर्थत्वमाह-परिणतान्तःकरणेनेति। सौपुप्तसूक्ष्मरूपेण परिणतमनःसंसृष्टस्याव्यक्कयत्वात् ज्ञान- रूपेत्युक्तम्। घटाद्याकारवृत्तिज्ञानेति तदर्थः । तथाचोत्तवृत्तिश्च परिणतान्तःकरणं च तत्। तथाच तदभेदेनाभि- व्यज्यत इति शब्दार्थः। अहमाकारवृत्तिरविद्यावृत्तिरेव; अप्रमायामविद्याया एव परिणामित्वेन क्वृप्तत्वात्, प्रमाया प्रमाणव्यापारसहकृतस्यैव मनसः परिणामितया कृप्तत्वादहमर्थे च वृत्ते: पूर्व वक्षुरादिवत् सर्वप्रमाणव्यापाराभावात्। तस्माद्वृत्तीत्यन्तेनाविद्यावृत्तिरूपव्यञ्ञककथनम्। अन्तःकरणेनेत्यन्तेन तु व्यङ्गस्य मनोऽवच्छिव्चिदूपस्य प्रमाणसामान्यव्यापारशून्यताख्यापनद्वारा व्यअ्ञकवृत्तेरविद्यापरिणामत्वख्यापनमिति भावः । वस्तुतो वृश्यन्तम- भिव्यक्तिक्रियायां विशेषणम्। जीवाकाराहंवृत्तिः यस्यां तादृश्याः साक्षिरूपाभिव्यक्तेविषयः वृत्तिज्ञानरूपेण परिणत- मनस्संसृष्टचैतन्यमिति वाक्यार्थ इत्याशयेन तृतीया सहार्थिकोक्ता। तद्वच्छिन्नेति। घटाध्यवच्छिन्नचिदित्यर्थः।
Page 297
५९२ अद्वैतसिद्धिः । [परिच्छेद: १]
किंचित्तमोनिवर्तकत्वम्। तस्मात्सिद्धमाश्रयत्वविषयत्वभागिनी शुद्धचिदिति। एतेन-देहादिभेदो वा अभोक्तृत्वाद्यभेदो वा ब्रह्माभेदो वा अद्वितीयमात्राभेदो वा तद्विशिष्टात्मा वा न तद्विषयः; तेषा- मात्ममात्रत्वे उक्तदोषात्, मिन्नत्वे अद्वैतक्षतेः, आविद्यकत्वे अन्योन्याश्रयादिति अनुक्तोपालम्भनं- अपास्तम् । ब्रह्माभेदादेरात्ममात्रतापक्षे तस्याज्ञानविषयत्वमेव; दोषस्य परिहृतत्वात्। यनु प्रस- ड्ादुक्तम्-द्वितीयाभावोपलक्षितात्मनोSज्ञानविषयत्वे तादशस्यैव चरमवृत्तिविषवत्वं वाच्यम्; तथाच वेदान्तानामप्युपलक्षणरूपप्रकारयुक्तोक्तात्मपरत्वे अखण्डार्थताहानिः, अकाके काकवदि- त्यस्येवास्याप्यप्रामाण्यापत्तिः, उपलक्षणस्य मिथ्यात्वात्-इति । तत्राखण्डार्थवादे वक्ष्यामः। नच-न्यूनाप्यङ्कुलिरधिकमाच्छादयति; अविषयसंबन्धित्वात्, इयं हि विषयसंबन्धिनी कथमधि- कमाच्छादयेदिति-वाच्यम्; दत्तोत्तरत्वात्। तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनि- रूपा ॥ इत्यद्वैतसिद्धावविद्याया विषयोपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका) आलोकस्येति। घटाद्यवच्छिस्रचिज्ज्ञानस्येति शेपः। यथावतमसस्थघटादावालोकस्य गाढागाढतमोरूपसर्व त्मोनाश - कत्वं नास्ति, गाढतमस एवाभावात्; तथाऽचच्छिन्नचिदाकारवृत्तेः मूलाज्ञाननाशकवं नास्ति; तत्समानविषय कत्वाभा- वादुपाध्यविषयकत्वे सति चिद्विषयकत्व्रं हि तयोः समानविषयकत्वमिति भावः । अभोक्तृत्वाद्यभेद: भोक्तृत्वाद्य भावत्वविशिष्टचिद्भेद :; अभावस्याधिकरणरूपत्वात्। तद्विपयः मूलाज्ञानविषयः । उक्तदोषात् घटाद्यवच्छिनचि- ज्ज्ञानादपि तन्नाशापत्यादिदोपात्। अद्वतहानेः उक्ताज्ञाननाशिकायाः उक्तभेदादिधियः प्रमात्वायोक्तभेदादेस्तात्वि- कत्वस्य वाच्यतया अद्वैतहाने: । अन्योन्याश्रयात् भेदादिसिद्धी तद्विषयकाज्ञानसिद्धिः, तत्सिद्धौ च तज्न्यभेदादि- सिद्धिरित्यभिमानः । वस्तुतो भेदादेरनादित्वेऽपि अविद्यानाशनाश्यत्वेनाविद्यकत्वव्यवहारात् नान्योन्याश्रयः । अकाके काकशून्ये। इयंहि इयं तु। दत्तेति। अविद्याया अप्यात्मवद्विभुत्वपक्षे न्यूनत्वमेव नास्ति, अविभुत्वप- क्षेऽप्यनुभवबलादाच्छादकत्वं नानुपपन्नम्, न ह्यविद्याया आच्छादकतवं वस्त्रांदरिव, येन न्यूनत्वं तद्विरोधि स्ात्, किंतु नास्तीत्यादिव्यवहारहेतुत्वादात्युत्तरमविद्याया विभुत्वाद्युक्त्या दत्तमिति भावः ॥ इति लघुचन्द्रिकायां अविद्याविषयनिरूपणम्॥
अथाज्ञानवादे अज्ञानविपयनिरूपणम्। (१) तत्र न्यायामृतकारा :- यथाऽज्ञानं स्वरूपत आश्रयनश्च दुर्निरूपं, एवं विषयतोऽपीति मन्तव्यम्। तथाहि-न चतन्यमात्रं तद्विपयः; आवरण- कृत्यासंभवात् आवरणकृत्यं हि (१) सिद्धप्रकाशलोपो वा, (२) असिद्धप्रकाशानुत्पत्तिवा (३) सतोऽपि प्रकाशस्य विपय- संबन्धो वा, (४) प्राकव्याख्यकार्यप्रतिबन्धः (५) नास्ति न प्रकाशते इति व्यवहारो वा (६) अस्ति प्रकाशते इति व्यवहा- राभावो वा (७) नास्तीति व्यवहारयोग्यत्वं (८) अस्तीति व्यवहारयोग्यत्वं वा,। आद्यद्वितीययोः सवरूपप्रकाशस्य नित्य- सिद्धस्य लोपानुत्पत्योरसंभवः । तृतीये विपयशव्देन घटादेर्विवक्षणे ज्ञानस्य विषयसंबन्धस्वभावत्वंन विषयसंबन्धो नावरणकृतः, चतन्यविवक्षण स्वयमेव ज्ञानरूपत्वन स्वसंवन्धानपेक्षणम्। चतुर्थे चतन्यातिरिक्तज्ञाततादिरूपकार्यस्य लन्म- तऽप्रसिद्धिः। पश्चमे व्यवहारपदेनाभिज्ञाया विवक्षण ध्रान्तिरूपायास्तस्या आवरणसाध्यत्वेनाSऽवरणतायोगः। आलपन- विवक्षणेतु तस्योक्तभ्रान्तिसाध्यत्वेन मुतरां तदयोगः । पक्षद्वयऽभि मुषुप्ती व्यवहाराभावेनानावरणापातः । पष्ठे व्यवहारस्या- भिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्वेनानावरणापतिः, वृत्तेः मोक्षेऽपि सत्वेनावरणापत्िश। आलपनरूपत्वेऽप्ययमेव दोषः। न सप्तमाष्टमौ-तयोरप्यारोपितत्वेनावरणं विनाऽयोगात्। अद्वितीयत्ादिविशिषटे तथाव्यवहारेऽपि सदाऽप्रका- शमाने अध्यासाधिष्ठाने आत्मरूपे सुखादिज्ञानरूपेच चिन्मात्रे तदभावेन तत्कल्प्ययोग्यतायोग्यत्वयोः अभावात्। तयोरपि स्प्रकाशतविरुद्धत्वेनेदानीमप्यभावाच्च। अज्ञानावच्छिन्नत्वरूपेणापरोक्षव्यवहारयोग्यत्वं स्वरूपेण तु नेति तु न युक्तम्; स्वरूपास्प्रकाशलापातात्, नित्यातीन्द्रियस्याप्यज्ञानावच्छेदेनापरोक्षव्यवहारयोग्यत्वेन खप्रकाशतापत्तेः। एवंच- स्वप्नभत्वेन परोक्षव्यवहाराई आत्मनि। तद्योग्यत्वाभावरूपमविद्यावरणं कथम् ॥ किंच-चतन्या- वारकाविद्यया चतन्यस्यान्यप्रकाशप्रतिबन्धेऽ्पि चतन्यप्रकाशप्रतिबन्धो न भवतीति न चतन्ये उत्तयोग्यतारूपप्रकाश- विरोधः । कल्पितभेदं जीवचैतन्यं प्रति स्वरूपचैतन्यावरणमेवात्र विवक्षितमिति तुन युक्तम्; आवरणं विना भेदकल्प-
Page 298
[अज्ञान० अज्ञानविषयनिरूपणम् ] ५९३
नायोगात्। योगेऽपि चिन्मात्रस्य परमपुरुषार्थरूपप्रकाशाभावस्यैव संसारदशायामज्ञानसाध्यतया कल्पितमेदं जीवं प्रति तदसा- ध्यतयाSSव्रृतामिमतकालेऽपि चैतन्यस्य दीपवत् प्रकाशान्नाजानविषयतम्। अनवच्छिन्नब्रह्मानन्द प्रकाशार्थमेवाज्ञानस्य कल्पि- तत्वेन प्रकाशमाने नाज्ञानसंबन्धः । यद्रूपेण प्रकाशमानत्वं न तद्रूपेणाज्ञानविषयत्वं किंतु रूपान्तरेणेति गुहास्थं तमश्छत्रमिति- वत् लदुक्क्तमर्थ न जानामीति प्रत्ययोऽपि नानुपपत्रः। सुखादिस्फुरणं न प्रकाशते इत्यननुभवोऽप्यत एवोपपद्यते। तत्सामान्यनि- श्वयस्य तद्विशेषसंशयं प्रतीव तत्सामान्यज्ञानस्य तद्विशेषाज्ञानानुभव हेतुतस्याप्यभ्युपगमान्नातिप्रसक्गादिकम्। अज्ञातज्ञानाभावे- उप्यज्ञातज्ञानमप्युपपद्यत एव। अतएव द्वेषस्येष्टत्वऽपि द्विष्टस्य अनिष्टत्वं ईश्वरस्य भ्रान्तिज्ञस्यापि भ्रान्तिविषयाजत्वं अस्मदा- दीनामीश्वरसार्वश्यज्ञानेऽप्यसर्वज्ञत्वं चोपपद्यते। अन्यथा अज्ञानज्ञानं विनाऽज्ञानज्ञाने अज्ञातेऽज्ञाननिवृत्तेरपि कल्पनाप्रसङ्गः ।
कल्पनायां तु अविरोधकल्पनाबीजस्याज्ञानानिवृत्ताविव ज्ञानेऽपि समानत्वाद्विषयविशेषज्ञानमप्यनावश्यकमेव। एवंच प्रकाश- माने नाजानसंबन्धः, विरोधात्। नच-वृत्तिरेवाज्ञानविरोधिनीति-वाच्यम्; विषयोपरागार्थलमते तस्या अज्ञानानि वर्तकल्ात्, ज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्यज्ञानापाताच्। न जानामीति ज्ञप्तिविरोधित्वेनैवानुभवोऽप्यत एवोपपद्यते। चैतन्याज्ञानयोरविरोधे ज्ञातत्वाज्ञातत्योगस्तु पूर्वमेवोक्तः। वस्तुतस्तु-आवरणामिभवार्था वृत्तिरिति मतमपि न युक्त्तमेव; वृत्तेजीतिविशेषेण निवर्तकत्वे इच्छानिवर्त्यद्वेषादिवत् सत्यत्वापत्त्या अर्थप्रकाशकत्वेनैव तस्य वक्त्तव्य- तया तस्य च चैतन्यनिवर्तकत्वेऽप्युपपत्तेः सुखादावपरोक्षव्ृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेनचान्वयव्यतिरेकाभ्यां साक्षिचैतन्यस्यँवाज्ञानविरोधित्वस्यैव युक्तलात्। अतएव सत्यामपि परोक्षनिवृत्ता नित्यातीन्द्रियेऽज्ञानानिवृत्तिरप्युपपद्यत इति चैतन्यमेवाऽज्ञानविरोधि। ससत्तायामप्रकाशविधुरत्वेनात्मस्वप्रकाशत्वानुमानमप्यत एवोपपद्ते। एवंच- साक्षी स्वविषयेSज्ञानविरोधी न भवेदयदि। तद्वेदे सुखदुःखादावज्ञानं केन वार्यते॥ सदा प्रकाशमा- नत्वेन सुखादावज्ञानाप्रसक्तौ तु आत्मन्यपि सदा प्रकाशमाने न सेति घट्टकुट्यां प्रभातम्; प्रकाशरूपे दीपे अन्धकारस्येव स्वप्रकाशे आत्मन्यपि तदप्रसक्तः। पतेन-साक्षिवेद्यलमेव तदप्रसक्ी तत्रमिति शङ्कापि-पराहता; अन्यथा घटादे रालोक इवात्मनोऽपि सव्यवहारे ज्ञानान्तरापेक्षापत्तेः । एतेन-सर्व वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिभास्यमिति वचन- मपि-पराहतम्; अस्तुवा वृत्तिरेव वाऽज्ञानविरोधिनीति, एवमप्यात्मनि नाजानम्; इदानीमपि आत्माकारवृत्तिस- लात्। अतएव जीवाकाराहंवृत्तिपरिणतान्तःकरणेन च जीवोऽभिव्यज्यत इति विवरणवचनमुपपद्यते। मास्तुवात्माकार- वत्तिरपि, एवमपि घटादयवच्छिन्नचिद्विषयकापरोक्षवत्यैवाज्ञाननाशात् सदो मोक्षापत्तिः। विशिष्टविषयकवृत्या शुद्धाज्षा नानिवृत्यभ्युपगमे चैत्र इति ज्ञानोत्तरमपि चैत्राज्ञानानुभवापत्तिः। पतेन-श्रवणादिजन्यवृत्तेरेवाज्ञानविरोधितमिति शङ्टापि-पराहता; विषयकृतवैषम्यरहितस्व कारणान्तरजन्यतमात्रेण निवतकत्वेऽपीतसाक्षात्कारस्यापि न पीतभ्रमनि- वर्तकत्वं किंतु श्रवणादिजन्यापीतसाक्षात्कारस्यैवेत्याद्यतिप्रसन्नात्। एवंच चिन्मान्राज्ञानविषयता नोपपद्यते। एतेन- देहादिभेदः भोक्तृत्वाद्यभावः, ब्रह्मभेदो वा, द्वितीयमात्राभावो, तद्विशिष्टात्मा वा, तद्विषय इति वचनमपि-पराहतम्; तेषां आत्ममात्रत्वे उक्त्तदोपात्, मिन्नत्वे सत्यत्वेऽद्वैतहानेः, आविद्यकत्वेऽन्योन्याश्रयादेः, द्वितीयाभावोपलक्षितात्मखरू- पमपि नाविद्याविषयः; वेदान्तानामपि तादृशात्मविषयकत्वापत्त्याऽखण्डार्थतहान्यापत्तेः। किंच न्यूनयाऽविद्यया विषय- संबन्धिन्या कथं ब्रह्मावरणम् ? इति सर्वमनवद्यमिति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- स्वरूपतः आश्रयतो विषयतश्चाज्ञानं सुनिरूपमेव। तथाहि-चिन्मात्रमेवाज्ञानाश्रयः । अमिज्ञादिसाधारणस्य "नास्ति न प्रकाशते" इति व्यवहाररूपस्य "अस्ति प्रकाशते" इति व्यवहाराभावरूपस्य वाऽवरणकृत्यस्य तत्रैव संभवात्। आवर- णंच तद्योग्यता अज्ञानसंबन्धरूपा सुषुप्यादिसाधारणी आब्रह्मज्ञानमवतिष्ठते इति सुषुप्यादौ नानावरणं मोक्षकाले वाऽडव- रणमापद्यते। इदंचाSSवरणं अनादित्वेन चित्प्रकाश्यत्वेन चोत्पत्तौ ज्ञप्तौ वा न सापेक्षमिति नात्माश्रयादिकम्। सदा स्वरू- पतः प्रकाशमानस्यापि शुद्धचेंतम्यस्य परिपूर्णाद्याकारेणाप्रकाशमानत्वात् तत्रावरणकल्पने न किमपि बाधकम्। पतेन- अवेधत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपखप्रकाशतवविरुद्धे योग्यत्वायोग्यत्वे कथं ब्रह्मणि संभवतः? अज्ञानादिमत्वेनापरोक्ष- व्यवहारयोग्यत्वं स्वरूपेण तु नेति कल्पने स्वरूपाप्रकाशत्वापत्तिरिति वचनमपि-पराहतम्; कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्याघृतत्वमेव विवक्षितमिति न खप्रकाशविरोधः। मेदावरणयोरुभयोरप्यनादित्वेन परस्परानन्तर्याभावान्नान्यो- न्याश्रयः । कल्पितभेदापगमस्य जीवस्यापि शुद्धचैतन्यतया जीवं प्रत्यपि चिन्मात्रप्रकाशाभावस्यैवाज्ञानसाध्यतायामपि न विरोधः । अज्ञानतमसोः यादृशो विरोधो न तादृश एव चैतन्याज्ञानयोः। प्रकाशमाने वस्तुनि अज्ञानानुभववदालोके तमो- Sनुभवाभावादिति स्वरूपचैतन्यस्याज्ञानविरोधित्वे न किमपि बाधकम्। सुखादिस्फुरणं न प्रकाशते इत्यनुभवाभावेऽपि अवच्छिन्नाकारेण न प्रकाशते इत्यनुभवाच्छुद्धचैतन्यस्याज्ञानविषयत्वे न कोऽपि दोषः। लदुक्त्तमर्थ न जानामीति भास- अ. सि. ७५
Page 299
५९४ अद्वैतसिद्धिः । [ परिच्छेद: १ ]
मान एवाज्ञानानुभवात्। सामान्यनिश्चयजनित विशेषसन्देहेनेव सामान्यज्ञानजनितविशेषाज्ञानेनापि विशेषविषयीकरणस्या- वश्यकत्वेन भासमाने नाज्ञानमित्युक्तावुक्तप्रत्ययविरोधापत्तेः । द्वेषस्येव द्विष्टस्याप्यवच्छेदकतया इच्छाविषयलात्। ईश्र- रस्य भ्रान्तिज्ञत्वस्येव भ्रमविषयज्ञत्वस्यापि विद्यमानलात् अस्मदादीनामपि सर्वत्वेन सर्वज्ञानस्य विदमानत्वाप्च द्वेषस्येष्टत्वे- Sपीत्यादिद्टष्टान्तोऽप्यसंप्रतिपत्र इत्यज्ञानज्ञानाभावे नाज्ञानज्ञानसंभव इति प्रकाशमान एवाज्ञानम् । प्रतियोग्यभावयोरिव ज्ञानाज्ञानयोरपि विरोधादभावस्य प्रतियोगिसत्त्वानपेक्षतवदज्ञानज्ञानस्यापि स्वविषयाज्ञाननिवृत्त्यनपेक्षतात् नाजानाविरो- घिन्या अज्ञाननिवृत्तेरपि कल्पनाप्रसङ्गः । विरोधस्य समानत्वात्तद्विषयकज्ञानापेक्षापि मास्तु इति वर्णने तु अभावसभाव- विरोधिप्रतियोगिज्ञानविषय त्मज्ञानस्याभाववैलक्षण्य साधकमेवोपपादित मित्यस्मन्मत एव पर्यवसानम्। एवंच वृत्यवच्छेदेन चैतन्य स्याज्ानविरोधित्वं न स्वरूपत इति स्वरूपचैतन्यस्य अज्ञानविषयत्वे न कोऽपि दोषः । चिदुपरागार्था वृत्तिरिति मतेऽपि अज्ञान निवृत्तिप्रयोजकत्वेन वृत्तेरेवाऽज्ञानविरोधितमिति मन्तव्यम्। जानामीति व्यवहारस्यापि वृत्तिप्रतिबिम्बितं चैतन्यमेव विषय इति न कोऽपि दोषः। वृत्तेस्तु निवर्तकत्वं प्रमाणवृत्त्युपारूढप्रकाशत्वेन विवक्षितं, नतु जातिविशेषत्वेन प्रकाशत्वेन वा, परोक्षवृत्तेस्तु विषयपर्यन्तत्वाभावान्न विषयाश्रिताज्ञाननिवर्तकत्वं। एतेन-सुखादिस्फुरणमपि-व्याख्यातम्; तत्र सुखादेः ज्ञातैकसत्वेन अज्ञाननिवृत्ति विनैवाज्ञानादर्शनादिति स्फुरणमात्रस्याज्ञानविरोधित्वे प्रमाणाभावः । परिपूर्णत्ादिना- Sप्रकाशविधुरत्वाभावेऽपि अध्यासाधिष्ठानत्वादिना प्रकाशमानत्वात् खसत्तायामप्रकाशविधुरत्वेन स्वप्रकाशत्साधनमप्युप- पत्नमेव। साक्षिवेद्ये सुखदुःखादौ तु नाज्ञानप्रसक्तिः। आत्माच प्रकाशरूपो न साक्षिवेद्य इति स एवाज्ञानविषयः । घटा- दिरिव स्वतमोनिवर्तकमालोकमात्मापि स्वतमोनिवर्तकवृत्तिमपेक्षते इति न दोषः। अतएव सवं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिभास्यमिति विवरणवचनमप्युपपद्यते। अज्ञानविशेषः शक्तिविशेषोऽवस्थाविशेषो वाऽविद्यागतो विशिष्टगोचरवृत्त्या निवर्तत एव। प्रपश्चोपादानमूलाज्ञानं परं भेदभ्रमस्यानुभूयमानत्वेन श्रवणादिकारणविशेषजन्येनैव ज्ञानेन निव्तते। घटो- डयमिति ज्ञानेनापि तदवच्छिन्नाज्ञाततप्रयोजकाज्ञानविशेष एव निवर्तत इति न सदो मोक्षापत्तिरिति वृत्तेरेवाज्ञानविरोधित्वे न किमपि बाधकम्। तत्सिद्धं "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवले"ति। पतेन-आत्ममात्ररूपदेहादि- मेदोऽज्ञानविषय इति पक्षोऽपि-व्याख्यातः; द्वितीयाभावोपलक्षितात्मखरूपमेवाज्ञानविषय इत्यज्गीकारेऽपि न दोष :; तत्पराणामपि वाक्यानां अखण्डार्थताद्युपपत्तेवर्णयिष्यमाणलात् इति-निरूपयन्ति । (३) तरङ्गिणीकारास्तु- नास्तीति व्यवहारयोग्यत्वास्तित्वव्यवहारायोग्यतयोरप्यावरणानपेक्षणे आवरणाधीनताया अयोगेनान्यथा अनादित्वेन जीवव्रह्मविभागापन्नस्य जीवस्य ब्रह्मणो वैवाज्ञानविषयत्वोपप्ता चिन्मान्नाविषयताया अनादरणीयल्ापत्त्या च शुद्धचतन्ये आवरणानपेक्षस्यावरणकृत्यस्याभावान्न चिन्मात्रमज्ञानविषयः । नहि सप्रकाश आवरणसंभवः। निर्विभागचिति प्रकाशमा- नाकारासंभवे परिपूर्णाकारेणाप्रकाशतवर्णनमप्यत एव पराहतम्; खप्रकाशत्वेनावरणस्य विरोधात्। कल्पितभेदं जीवं प्रति शुद्धचेतन्यस्यावृतत्वविवक्षणमपि न युक्तम्: भेदावरणयोरनादित्वेऽपि परस्परापेक्षतयाऽन्योन्याश्रयापतः । तदुक्त्तमर्थ न जानामीति तुन प्रकाशमाने अज्ञानमवगाहते; सामान्यज्ञानस्यैव विशेषाज्ञानानुभवहेतुलात्। अज्ञानानवच्छेदकस्यापि सामान्यस्य ज्ञानं अज्ञानज्ञानं प्रति हेतुरिति दर्शनवलाद्ज्गीक्रियते। नहि यद्यद्विषयकं तत् तदवच्छेदकविषयकमपीति युक्तम्। स्वतृत्तित्वसाध्यत्वादिना द्वेषस्येव द्विष्टस्यच्छाविपयलवाभावात्। अन्यथा इच्छाद्वेपयोरेकत्र साङयें तयोः विरोधो न स्यात्। विशेषरूपेण सर्वज्ञानाभावेऽपीश्वरसावश्यानुभवोऽस्मदीयोऽत एवोपपद्यते। लदुक्तमर्थ न जानामीति विषयावच्छिन्नाज्ञा- नस्य वर्तमानत्प्रत्ययोऽपि स्थूलकालमादायोपपत्नः । एवंच चैतन्ये भासमाने नाज्ञानसंबन्धः; चतन्यस्याज्ञानविरोघिलात्। चिदुपरागार्था वृत्तिरिति मते वत्तेरेवाज्ञानविरोधितमिति वर्णनासंभवात्। निवृत्तिप्रयोजकत्वेन निवर्तकत्वं तु चैतन्यस्यापि समानमिति ज्ञानसामान्यमज्ञानविरोधीत्येवान्गीकरणीयम्। घटाभावपटाभावादीनामने कतववदिहाज्ञानानेकलाभावेन कस्यै- वाज्ञानस्य ज्ञानसामान्यविरोधित्वस्य वर्णनीयलात्। जानामीत्यादिव्यबहारविषयोऽपि दृश्याध्यासाघिष्ठानं शुद्धदृगेवेति मन्त- व्यम्। एतेन-प्रमाणवृत्त्युपारूढप्रकाशत्वेनैवाज्ञाननिवर्तकत्वं वृत्तेरिति वचनमपि-पराहतम्; प्रकाशस्यैव तन्निवरत- कत्वे शेषवैयर्थ्यात्, सुखादिस्फुरणे व्यभिचाराच्च। मुखादेः ज्ञातैकसतमपि चैतन्यविरोधितवपक्ष एवोपपद्यते। परिपूर्णत्ादि- नाSप्रकाशत्वेऽपि अध्यासाधिष्ठानत्वादिना प्रकाशविधुरत्वेन तूक्तसाधनोपपत्तिन संभवति; निर्विभागे तदसंभवस्योक्तलात्। वृत्तेरेवाज्ञाननिवर्तकत्वेतु घटादिज्ञानेनैव सदो मोक्षापतिः। अज्ञानविशेषादीनामेव निवत्तिरिति तु न युक्तम्; यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षस्य निरस्तलवात् इति न चैतन्यमात्रं अज्ञानविषय इति सिद्धमिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- नास्तीतिव्यव हारायोग्य त्ास्तीतिव्य वहारयोग्यत्योरविद्यानाशजन्यनाशप्रतियोगित्वेऽप्यविद्यानधीनत्वेन अधीनत्वेऽप्य- विद्याया अमिथ्याविषयकज्ञाननिवर्त्यत्वेना मिथ्याविषयकत्वस्यैवावश्यकत्वेनच विशिष्टजीवब्रह्मादीनामज्ञानविषयत्ासंभवाच्ि-
Page 300
गौडब्रह्मानन्दीयुता। ५९५
अथाहमर्थानात्मत्वोपपत्तिः । ततश्चाहंकारादिसृष्टिः। ननु-अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः, नच-सुषुप्तौ स्वयं- प्रकाशमानस्यात्मनः संभवेऽप्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्ावहमर्थः प्रकाशेत; तर्हि स्मर्येत ह्ास्तन इवाहंकारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति-वाच्यम्; हेतोरसिद्धेः, तके इष्टापत्तेः। नह्यदयापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति। आत्मान्यत्वेनाप्रका- शत्वसाधने तेन च तदन्यत्वसाधने अन्योन्याश्रायः। न चाहमर्थस्यापरामर्शः, सुखमहमस्वाप्सं न किंचिदवेदिषमिति तस्यैव परामर्शादिति-चेन्न; अहंकारस्ताव दिच्छादिविशिष्ट एव गृह्यत इत्यावयोः समम्। सुषुप्ता च नेच्छादय इति कथं तदाऽहमर्थानुभवः! नच-इच्छादिगुणविशिष्ट पवाहमर्थो गृहात इत्यत्र न नः संप्रतिपत्तिरिति-चाच्यम्; गुणिग्रहणस्य गुणिग्रहणव्याप्तत्वात्, अन्यथा रूपादि- हीनोऽपि घटः प्रथेत।नच-रूपादिरहितानां तेषामसत्वं तत्र बीजमिति-वाच्यम्; पूर्वरूपनाशाभ्रि- मरूपानुत्पत्तिक्षणादयक्षणादौ तद्विनापि सत्वात्।एवंच गुणाग्रहणे कथं गुणिग्रहणम्! तथाच निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम्। अनुभवाभावे च न तस्य जागरे परामर्शः। तथाचाशानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहंकारो मिन्नः। एवमेवात्मान्यत्वे सिद्धे अस्वप्रकाशत्वसाधने नान्योन्या- श्रयः। नच तर्हि 'अहमस्वाप्स'मित्यह्मर्थस्य परामर्शानुप्रंवेशानुपपत्तिः तदंशे परामर्शत्वासिद्धेः। एवं सत्यपि यथाSज्ञानांशे तस्य परामर्शत्वं, तथोपपादितमधस्तात्। यद्यप्यहमस्वाप्समित्यादिज्ञाना- न्नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्तिकालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूता- त्मन्येव परामर्शत्वपर्यवसानम्। अतएव चिदस्वपीत् स्वयमस्वपीदिति परामर्शाकारतापत्तिर्निरस्ता; तत्कालानुभूतान्तःकरणसंसर्गे अहमित्याकारोपपन्तेः । यन्तकं विवरणे-'अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिश्ञानं ब्रूम:, न निष्कलङ्कचैतन्ये, तस्य मोक्षावस्थायिन: शास्त्रैकसमधिगम्यत्वात्' इति। तदत्र न विरोधाय। मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्त्या न निष्कलङ्क इति गौडब्रह्मानन्दी (लघुचन्द्रिका)। अभाव इति। तथाचाहंकारोनात्मा आत्मप्रकाशेऽप्यप्रकाशादित्यनुमानं मानम्। अहंकारत्वंचाहमिति धीविष- यत्वम्, तच्च न शुद्धे, किंतु विशिष्टे आत्मनीति भावः। व्याप्तत्वादिति। नच-अहम्थ एकत्वविशिष्टतया सुपुप्तौ गृद्यत इति-वाच्यम्; सुपुसौ विशिष्टधीस्वीकारे सुपुप्तिभक्गापत्तेः, अहमथैकत्वग्रहस्य तार्किकादिविप्रतिपभ्रत्वात्, विशेषगुणग्र हे गुणिग्रहव्यापकत्वस्य तावताप्यभङ्गाच्च। अनुत्पत्तिक्षण इति । पाकजरूपाद्युत्पत्तेः पूर्व घटादेः नीरू- पत्वादिकमावश्यकम्; रूपादो तदत्यन्ताभावस्य हेतुत्वात्। आद्यक्षणादाविति। तथाच द्वितीयक्षणादौ घटादे रूपाद्यविपयकप्रत्यक्षापत्ति; आद्यक्षणे इन्द्रियस्य संयोगाभावेऽपि संयुक्त्तसमवायादेर्घटादी सत्वात् द्वितीयक्षणे रूपादि- सश्येऽपि आद्यक्षणे तत्र सन्निकर्ाभावेन द्वितीयक्षणोत्पन्नप्रत्यक्षे रूपाद्यविषयकत्वसंभवात्। निर्गुण इति। एवकारात् सगुणात्मनो ग्राह्यत्वव्यवच्छेदः। सगुणात्मा चाहंकार एवेति बोध्यम्। तस्य अहंकारस्य। अज्ञानाश्रयत्वेन अश्ञानेन सह। अनुभूयमानादिति। अविद्यावृत्तिरविद्यात्मोभयविपयिका; नतूभयसंसर्गविषयिका सुपुप्तौ तदसंभवात्। स्वयम्। अहमर्थाधाररूपमविद्योपहितचैतन्यम्। यद्यप्यविद्योपहितत्वेन स्मृतिर्नापादयितुं शक्यते, तथाननुभवात; तथापि वस्तुगत्या यदविद्योपहितं साक्षिरूपं तदाकारवृत्तेः सुपुप्ती सत्वात् तयैव स्मृत्यापत्तिर्बोध्या। उपपत्तेरिति। एकस्या एव वृत्तेरहमर्थाशे प्रत्यक्षत्वं साक्ष्यंशे स्मृतित्वमिति भावः। उक्तमिति। सोऽहमिति प्रत्यभिज्ञा न स्यादू, आत्मनः स्वप्रकाशचिद्रूपत्वेन ज्ञाननाशरूपसंस्कारासंभवादित्याशक्केत्यादिः। विशिष्ट एवेति। तथाच वृत्तिज्ञानस्य
न्मात्रमेवाज्ञानविषयः; खप्रकाशेऽपि चैतन्ये परिपूर्णत्ाद्याकारेणावरणसंभवात्। वस्तुतस्तु-सप्रकाशचैतन्यस्य नाज्ञा- नविरोधित्वं इत्यसकृदुक्तत्वाचिन्मात्राज्ञानविषयतायां न कोऽपि दोषः । कल्पितभेदस्यापि जीवस्य वस्तुतः शुद्धचिदमि- न्नत्वेनेशं प्रतीव जीवं प्रत्यप्यावरणकल्पना युक्ततव। लदुक्त्तमर्थ न जानामीति प्रकाशमान एवाज्ञानानुभवादपि प्रकाशमान एवाज्ञानसंबन्धः; अज्ञानावच्छेदकज्ञानं विना अज्ञानज्ञानासंभवात्। नहि यस्य ज्ञानस्य यत्प्रत्यक्षं तत्तद्विषयाविषयकं दृष्टम्। तदुक्तं मणौ-विषयनिरूप्यं हि ज्ञानमिति। एवंच चतन्यस्य प्रकाशमानस्याप्यज्ञानाविरोधित्वेन प्रकाशमाने चैतन्य एवाज्ञानसंबन्ध इति चिन्मात्रमेवाज्ञानविषय इति ततोऽहंकारादिरूपमुपपत्रमेवेति सिद्धमिति-विवेचयन्ति॥ इत्यश्ञानवादे अजञानविषयनिरूपणम् ।।
Page 301
५९६ अद्वैतसिद्धिः । [परिच्छेद्: १]
उपाधिमात्रविरहिणि प्रत्यमिज्ञाननिषेधेन चान्त:करणपदस्य उपाधिमात्रपरत्वात्। तथाच सुषुप्तावप्यज्ञानोपहित एवात्मा गरृह्यते। किंचान्त:करणविशिष्टे प्रत्यमिज्ञाननिषेधो नामिश्ञानिषे- धोऽपीति न विरोध: सुषुप्तावमिशाया एवोक्तत्वात्। नच-यद्यहमर्थो न परामृश्येत, तर्हि 'एतावन्तं कालं सुप्तोऽहमन्यो वे'ति संशयः स्यात्, न त्वहमेवेति निश्चय इति-वाच्यम्; सुषुप्तिकालानुभूतात्मैक्याध्यासादिति गृहाण। यथा पूर्वदिनानुभूतदेवदत्तादभिन्नतयानुभूते चैत्रे सोडयं न वेति न संशयः, किंतु सएवेति निश्चयः । किंच निश्चये सति संशयाभावनियम, नतु निश्चयाभावे संशयनियमः । तदुक्तम्-'आरोपे सति निमित्तानुसरणम्, नतु निमित्तमस्तीत्यारोपः' इति। नच-पतावन्तं कालमहं स्वम्ं पश््यन्नासं जाग्रदासमित्यत्रेवाहमस्वाप्समित्यत्रापि अहमंशे परामर्शत्वानुभवात् कथं तत्रापरामर्शत्वमिति-वाच्यम्; परामृश्यमानात्मैक्यारोपात्तन्व्ानांशे परामर्शत्वामिमानात्। नच-अपरामर्शे परामर्शत्वारोपो न दृष्ट इति-वाच्यम्; तन्भ्िन्ने तत्वेनानुभूयमाने परामर्शत्वारोपदर्शनात् । अतएव-अहमर्थस्यात्मान्यत्वे यः पूर्व दुःखी, सोऽधुना सुखी जात इतिवत् यः पूर्व मदन्यः सुषुप्तः सोऽधुना अहं जात इति घी: स्यादिति-निरस्तम्; यथा दुःखित्वेन प्राक ज्ञानं, तथा मदन्यत्वेन प्राकू ज्ानाभावात्। सुषुप्तावह- मर्थाप्रकाशवत् तदन्यत्वस्याप्यप्रकाश एव। एवंच प्रागसत्त्वाग्रहणात् पूर्वकालगृहीतेनाभिन्नतया गृहामाणत्वाञ्च नाहङ्कारे जन्मप्रत्ययः । विवेकिनां चैतादृग्वुद्धाविष्टापत्तेः । नच-सिद्धे अहमर्थस्या- मान्यत्वे परामृश्यमानात्मैक्यारोप:, सिद्धे च तस्मिन् सुप्तावप्रकाशेनाहमर्थस्यात्मान्यत्वसिद्धिरित्य- न्योन्याश्रय इति-वाच्यम्; आत्मान्यत्वसिद्धे: प्रागेवाहमर्थापरामर्शस्य साधनात् अहमस्वाप्समि- त्यस्यैवात्मपरामर्शत्वाङ्गीकारेण न दृष्टहानादष्टकल्पनापत्तिः। अतएवच सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टापत्त्यवकाशः। किंच 'एतावन्तं कालमहमित्यभिमन्यमान आस'मिति परामर्शः स्यात्। नच-अहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्श कटिचालनमिति-वाच्यम्; तवैव हि तत्। अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्परप्रकाशेन परस्परपरामर्शापादनस्याव्यधिकरणत्वात्। न च तवापि 'आत्मेत्यभिमन्यमान आस'मिति परापर्शा- पत्तिः; अहंकारस्य तत्र तन्त्रतया तद्भावे तत्रापाद्यितुमशक्यत्वात्।यन्तु-सुषुप्तावहमथा भासत एव। 'न किंचिदहमवेदिष'मिति अज्ञानपरामर्शस्यात्माद्यज्ञानादन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। तत्र सश्वात् तम्नाश एव संस्कार इति भावः। निषधेनेति। अविद्योपहितेऽप्यविद्यावृत्तेर्विवरणोक्ततवेन तज्न्यसंस्का- रेण प्रत्यभिज्ञासंभवात्तदनुक्त्या न्यूनत्वेनेति शेपः । उपाधिमात्रिति। नचैवं-मनसः प्रतिसुपुप्ति नाशात् तथापि प्रत्यभिज्ञानुपपत्तिरित्याशक्क्य मनसः सुषुप्तावत्यन्तानुच्छेदन प्रत्यभिज्ञोपपत्तिरिति यत् समाहितं, तत्प्रतिपादकोत्तर- अ्न्थरूपविवरणविरोध इति-वाच्यम्; अन्तःकरणपदस्य पूर्वग्रन्थे उपाधिमात्रपरत्वेऽप्यन्तःकरणमात्रांशे उक्तानुप- पत्तेस्तङन्थाविरोधात्। अभिश्ञाया इति। जागरेऽपि स्मृतेरेवोक्तत्वादित्यपि बोध्यम्। नियम इति। कादाचित्क- संशयस्तु स्यादेव; अहमर्थक्षणिकत्ववादिविप्रतिपश्यादिना तत्संभवादिति भावः। तद्भ्रिन्ने स्मर्यमाणभिन्ने। ततत्वेन स्मर्यमाणाभेदेन। अनुभूयमान इति। अनुभवे इति शेपः। तथाचानुभूयमाने स्पर्यमाणाभेदारोपस्थले अनुभवे स्मृतित्वमारोप्य तादृशाभेदारोप इति भावः। अतएव अहमर्थस्य पूर्वमज्ञातत्वादेव। प्रागसत्त्वाग्रहणात् उत्प- स्यग्रहणात्। पूर्वकालेति। पूर्वकालीनतयेत्यर्थः । तथाचोत्पद्यमा नत्वाभावावच्छेदकत्वेन गृहीतस्य पूर्वकालीनत्वस्य अरहास्ोत्पद्यमानत्वग्रह इति भावः। आपादनं परामर्शापादनम्। परस्परप्रकाशेन अहमर्थतदभिमानयोरन्यत- रप्रकाशेन। अभिमानरूपवृत्तेश्रिद्वूपप्रकाशस्य च न प्रमाणव्यापारापेक्षत्वम्, किंतु अहमर्थमात्रापेक्षत्वम्। एवंच उक्ताभिमानस्य साक्षिमात्रभास्यत्वात् सुपुप्तो तत्प्रकाशेन पश्चात् परामर्शापादनं युक्कमिति भावः। ननु-अहमर्थस्या- णुजीवरूपत्वात् सुषुप्तावपि तत्सश्वादहमाकारवृत्तौ न तन्मान्नापेक्षा, किंतु तस्य मनोवृत्तितयेन, मनआद्यपेक्षेति सुपुप्ती मनोलयेन त्वछ्चनोयोगरूपकारणाभावेन वा न सेति न तत्परामर्शापादनं युक्त्मिति-चेत्, न; अहमर्थस्य सुपुप्ती साधकाभावात्। तत्र तत्साधकं हि नाहमाकारवृष्त्यवच्छित्नसाक्षी; त्वयाप्यस्वीकारान्। नाप्युक्तवृश्यनवच्छि- म्साक्षी; उक्तवृत्ति विनाप्यहमर्थस्य साक्षिवेद्यत्वे तस्यां त्वन्मते मानाभावादनुभवविरोधाक्च। नापि परामर्शा्यथा- नुपपत्ति :; परामर्शस्य साक्षिमात्रांश एव व्यवस्थापितत्वात्। तन्प्रतयेति। आत्मेत्यभिमानोऽपि दहमाकारवृत्तिरेव; केवलारमनो वेदैकवेद्यतवेनाभिमानाभावात्। आत्माद्यक्षानादिति। यथा तव चिन्मान्नांशे नाजानम्, किंतु पूर्णान-
Page 302
[अह्मर्थानात्मत्वोपपत्ति:] गौडब्रहानन्दीयुता। ५९७
विषयः; अन्यथा विरोधात्-इति। तदशानविजृम्भितम्; न हि साक्षिवेदनमज्ञानविरोधि। सुषुप्ती च यथाहमर्थानवभास: तथोक्तम्। न विजानात्ययमहमस्मीति सुषुप्तिविषया श्रुतिरपि तदानींतना हमर्थाज्ञाने प्रमाणम्। नचेयं श्रुतिर्नात्मानं न परांश्रेति सुषुप्तावात्माजानश्रुतिवद्विशेषाज्ञानपरा, 'अहरहर्ब्रह्म गच्छन्ति सति संपद् न विदु'रित्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्त- म्। न च प्रकृते तथा; विरोधाभावात्। यन्तु-अहमर्थस्तावत् सर्ता। स चाविद्यावच्छिन्नचैतन्यं वा, अन्तःकरणावच्छिन्नचतन्यं वा। आद्ये योऽहमकार्ष सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यनुभ- वविरोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम्। स्मृतिसंस्कारानुभवानामेकाश्रयाणामेव कार्यकारणभावात्, योऽहमन्वभूवं सोऽहं स्मरामी'ति प्रत्यभिज्ञाना्च-इति। तन्न; दत्तोत्तरत्वात्। उक्तं ह्वविद्यावच्छिन्नचैतन्यमनुभवितृ। तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मर्त्रिति न तयो- रवैरूप्यम्। नच-अविद्यावच्छिन्नचितोऽपि नैक्मस्ति, अन्तःकरणरूपोपाधिभेदेन मेदादिति- वाच्यम्; अविद्यावच्छिन्न एवान्तःकरणावच्छेदात्। नच-तथाप्यविद्यान्तःकरणरूपोपाधिमेदेन मठाकाशतदन्तःस्थघटाकाशयोरिव उपहितभेदः स्यादिति-वाच्यम्; दृष्टान्तासंप्रतिपत्तेः। तयो- रेवोपाध्यो: परस्परमुपहितभेदकत्वम्। यो परस्परानुपहितमुपधत्तः। अन्यथा कम्ववच्छिन्नग्रीवा- वच्छिन्नाकाशादन्य एव घटाकाश: स्यात्। न चैवं सुषुप्तावहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्यरथे प्रवृत्त्ययोग :: 'कृशोऽहं स्थूलो भवामी'तिवत् प्रवृत्युपपत्तेः। नच-तत्र काश्यादिनिष्कृष्टस्य शरीरस्यैव स्थाल्याधिकरणतया विवेकिनामुद्देश्यत्वमिति-वाच्यम्; प्रकृतेऽप्यन्तःकरणादिनिष्कृष्ट- स्येव तदुद्देशविषयत्वात्। ननु-'योऽहं सुप्तः सोहं जागर्मि' 'योऽहं पूर्वेदयुरकार्ष सोऽहमद्य करो- मी'ति प्रत्यभिज्ञानुपपत्तिः: अहमर्थस्य भेदात्, कृतहानाकृताभ्यागमप्रसङ्गश्च; कर्तुर्भोक्तुश्चाहमर्थस्य भिन्नत्वात्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात्, तदारोपस्याप्यभावात्, देहादावतिप्रसङ्गाच्चेति- चेन्न; सुषुप्ती कारणात्मना स्थितस्यँव उत्पत्यङ्गीकारेण सर्वोपपत्तेः। नच-'अथ हैतत्पुरुषः स्वपि ती'त्यारभ्य 'गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मन' इत्यादिशुती मनआदीनामेवोपरमोक्तेरनाहंकारोपरम इति-वाच्यम्: मनस उपरमे तेनैवाहंकारोपरमस्यापि प्राप्तेः । अहंकारो हि अनुभवामीत्यात्मानुब- न्ध्यनुभवस्याहं कर्तत्यचिदनुबन्धिकर्तृत्वादेश्वाश्रयः चिद्चित्संवलनात्मकत्वादध्यस्तः । तस्य चाचि-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। न्दांशे, तथा मन्मते अहमथांशऽपि नांज्ञानमिति भावः। न हीत्यादि। तथाच चिन्मात्रस्य स्वप्रकाशस्याप्यज्ञातत्वसं- भवात् साक्षिवेद्यस्यापि त्वदभ्युपगतस्याहमर्थस्याज्ञातत्वसंभवाच्च दृष्टान्तदार्टान्तिकावयुक्ताविति भावः। न विजा- नातीति। 'नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानी'ति च्छान्दोग्यश्रुतेरर्थतो गह- णमिदम्। नाहेति हशब्दः प्रसिद्धी। नाशब्दो निषेधार्थः। नात्मानमित्यादि। 'नात्मानं न परांश्चेव न सत्यं नापि चानृतम्। प्राज्ञ: किंचन संवेत्ति तुरीयं सर्वद्दकू सदे'ति गौडपादोक्तश्रुतिर्यथात्मनः परान्यत्वेनाज्ञानं बोधयति, तथा नाह खल्वयामत्यादिश्रुतिरहमर्धस्य परान्यत्वेनाज्ञानं बोधयतीत्यर्थः । दृष्टान्तो विषम इति दूषयति-अहरिति। 'सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इति श्रुतेरर्थतो ग्रहणम्। वेदनेति। ब्रह्म- गमनसत्सम्पश्यो: कार्योपाधिशून्यतया प्रकाशमानत्वरूपतया उक्तश्रुतेरात्मवेदनबोधकत्वम्। तथाच प्रकाशमाने शुद्धा- तमन्यज्ञानस्य मानसिद्धत्वेऽपि प्रकाशमाने साक्षिणि अज्ञानासंभवात्तद्वोधकोक्त्तश्रुतिर्विरुध्यते। नच-शुद्धात्मनि ना- त्मानमित्यादिश्रुत्येव नाहेत्यादिश्रुत्या साक्षिण्यज्ञानं सिध्यतीति-वाच्यम्; परामृश्यमानत्वान्यथानुपपत्तिसिद्धमज्ञानं नात्मानमि त्यादिश्रुत्याऽनूदयते। नाहेत्यादिश्रुत्या तु न साक्ष्यज्ञानमनूद्यते; मानान्तराप्राप्तत्वात्। न च-एवमप्यात्मवेद- नश्रुतिविरोधो न विशेषाज्ञानपरत्वे हेतुः किंतु प्राज्ञाविषयकत्वेनाज्ञानस्य यः परामर्शः, तदभाव इति स एव वक्तु- सुचित्त इति-वाच्यम्; अपरामर्शात् प्राज्ञे अज्ञानाभावसिद्धौ चात्मवेदनबोधकश्रुतिरनावृतप्राज्ञप्रकाशं बोधयतीति कलप्यते। अत एवोक्तश्रुत्योर्गच्छन्त्य इत्यन्तं सति संपद्येत्यन्तं च सार्थकम्; प्राज्ञस्यानावृत्तप्रकाशत्वेऽपि शुद्धात्मनो न तदित्यर्थकत्वात्। अतएव कार्योपाधिमर्वेनाभानं सत्संपत्यादिपदार्थ इृत्यपास्तम्; तादृशाभानेऽपि शुद्धात्माभानमि- त्यर्थस्यासङ्गतरवात्। यथोक्तसत्संपत्यादरे तु शुद्धात्मन्येवाज्ञानं न तु प्राश इति ज्ञापयन्ती श्रुतिः प्राज्ञान्यात्मस्वरू- पपरेति ध्येथम्। निष्कृष्टस्येति। साक्षिगतनिर्दुःखत्वमात्रमुद्देश्यम्। अहमर्थस्य त्विच्छाविषयत्वमवर्जनीयं परस्यायं ग्रामो मे भवत्वितीच्छाविषयत्वं परसंबन्धस्येवेति भावः । अनुबन्धीति। अभिन्नेत्यर्थः । यद्यप्यहमर्थस्य चिद्धटित- त्वेऽपि घटः स्फुरतीत्यादाविवानुभवाश्रयतवं संभवति; तथाप्यहमिति प्रत्यये अवच्छिभानुभवरूपेणाहमर्थभानादव-
Page 303
५९८ अद्वैतसिद्धिः । [परिच्छेद: १ ]
तोऽन्त:करणस्योपरमे उपरतिः। 'अथातोऽहंकारादेशः अथात आत्मादेश' इति श्रुतिरपि पृथगुप- देशेन पार्थक्ये प्रमाणम्। ननु-आत्मनस्त्वन्मते 'स एवाधस्ता'दित्युपदिष्टेन भूम्नेवाहंकारेणाप्यै- क्येऽपि पृथगुपदेशो युक्तः। नच-भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात्, अहंकारस्य तु आत्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति- वाच्यम्; अहमर्थादन्यस्यात्मनो भूमाख्यव्रह्ममिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरप्युपदेशो मेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्ार्थ एव किंन स्यात्-इति चेनन; अहंकारात् मिन्नात्मनो भूमरूपव्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदमिन्नत्वस्यापि तदसिद्धतया उभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोर मेदपरत्वमुचितम्, प्रकृते चाभेदपरत्वे विरोध :; जडाजडयोरैक्यायोगात्। नच-त्वन्मते भूमाहंकारात्मनां बिम्बप्रतिबिम्बमुखस्था- नीयाविद्योपाधिकब्रह्मजीवचिन्मान्रत्वसंभवेनाहंकारस्य जीवात् पार्थक्यासिद्धिरिति-वाच्यम्; 'यत्र नान्यत् पश्यति' 'स एवाधस्ता'दित्यादिना भूमस्वरूपोक्स्यनन्तरं यत्रेत्यधिकरणाधिकर्त- व्यनिर्देशात्स इति पारोक्ष्यनिर्देशाञ्च द्रष्टर्जीवादन्यत्वप्रसक्ती तद्वारणार्थ 'अथातोऽहंकारादेश' इत्यहंकारेण भूम्नि निर्दिष्टे अहंकारस्य देहादिसंघाते अविवेकिप्रयोगदर्शनात् तदभेदप्रसक्ती निष्कृष्टाहंकारकेवलात्मस्वरूपमादाय 'अथात आत्मादेश' इति द्रष्टमेद उच्यत इत्येतादृशार्थ- परत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासंभवात्। संभवेवा अविद्योपाधिकजीवस्याहंकार- त्वोक्ति: स्थूलारुन्धतीन्यायेन। अतएव-'स एवेदं सर्वम्' 'अहमेवेदं सर्वम्' 'आत्मैवेदं
गौडब्रह्मानन्दी (लघुचन्द्रिका)। च्छि्जानुभवस्य चानवच्छिन्नात्मानुगतत्वादात्मानुबन्ध्यनुभवावच्छेदकमनसः तादृशानुभवाश्रयत्वेनोक्तिरिति ध्येयम्। अचिद्नुबन्धीति। अचित्परिणामीत्यर्थः । तथाचाहमर्थस्यावच्छिन्नचिद्रूपेण कर्तृत्वादिपरिणामवत्वेनचानुभवा- च्िदचिद्धटितत्वमिति भावः । उपरतिरिति। 'सुषुप्तिकाले सकले' इत्यादिश्रुत्या सुपुप्तौ सर्ववृत्त्युपरतिरिति भावः। सिद्धयोरिति। भेदः ज्ञातत्वेन श्रुतितात्पर्याविषय इत्यर्थः। पृथगिति। सार्वात्म्येनेत्यादिः। ऐक्यार्थः अत्यन्ताभे- दतात्पर्यकः। अयोगादिति। सार्वात्मयं हि बाधायामध्यासे वा सामानाधिकरण्यात् भूमात्मभ्यामन्यस्राम्तीत्येवंरूपं भूमात्मानो सर्वात्मकावित्येवंरूपं वा। तत्र द्वयोरधिष्ठानत्वे मानाभावादेकस्यवानादिसाधारणसर्वदृश्यानुगतसद्रपतया धीसंभवाच्ज पृथगुपदिश्यमानयोरुक्तसार्वात्म्यमनुपपन्नमिति प्रतिसन्धानद्वारा सार्वात्म्येनोपदिश्यमानयोरत्यन्ताभेदे तादृशोपदेशतात्पर्यमिति भावः। भेदार्थ इति। परिच्छिन्नस्याहंकारस्य न स्वरूपेण सार्वात्म्यम्, किंतु सर्वात्मका- हमघटितत्वेनेत्येतत् ज्ञापयितुं 'अथात आत्मादेश' इत्यादिकमुक्तम्। न चैवरं-'अथातोऽहंकारे'त्यादिकमनुक्त्वा अथात आत्मेत्याद्येवोच्यताम्, तावतैव ब्रह्मात्मनोरैक्यलाभादिति-वाच्यम्; आत्मपदस्य लोके अहमर्थ एव प्रयो- गातू शुद्धात्मन: सार्वात्म्यबोधनासंभवात्, अहंकारवाक्योत्तरमात्मादेशवाक्योक्त्ीं तु पौनरुक्त्यप्रिसन्धान द्वारात्मपदस्य शुद्धात्मपरत्वनिश्चयेन शुद्धात्मनः सार्वात्म्ये उक्ते तद्दटितत्वेनाहंकारस्य सार्वात्म्योक्तिरिति निश्चयसंभवः । तथाचोकत- रीत्याहंकारविविक्तात्मनि आत्मपदतात्पयनिणीयकत्वेन पृथक् निर्देशो भेदार्थ इति भावः। जडाजडयोः अहमर्थन्र- हणोः । अविद्योपाधिकेति । अविद्याविम्बप्रतिविम्बेत्यर्थः। पार्थक्येति। तथाचाहमर्थस्य शुद्धात्मभेदेऽपि सुपुप्ती तदभानादुक्तिरयुक्तेति भावः। यत्रत्यादि। यत्र ब्रह्मणि अन्यद् दृश्यमन्यो द्रष्टा पश्यतीत्यादिरूपो त्रिपुटी नेत्यर्थः। द्रष्टरिति। भूग्नीत्यादिः । निर्दिष्ट इति। अहंकारवाक्ये यस्य सार्वात्म्ये तात्पर्य, तत् भूमाभिन्नम्, द्वयोः सार्वा- त्म्यायोगादिति ज्ञापिते सतीत्यर्थः । अविवेकीति। अहंकारेत्यस्योच्चारयितृशक्तत्वेऽपि चिद्चित्संवलितस्योञ्चारयितुर- विवेकेनैव ग्रहः, शुद्धात्मनि प्रयोगो यद्यपि तादृशशक्यसंम्बन्धरूपलक्षणया; तथापि शुद्धात्मज्ञानस्य प्रमात्वेन नाविवेकाधीनत्वमिति भावः। द्रष्टभेद इति। आत्मादेशवाक्यं शुद्धात्मसार्वात्म्यबोधनद्वारा अहंकारादेशवाक्यस्य सर्वात्मचिद्धटिताहंकारे तात्पर्यं ग्राहयतीत्यहंकारशुद्धात्मनोः :भेढे पर्यवसन्नम्। यदिचाहक्कारवाक्यस्थाहंकाराहमादि पदानामपरोक्ष स्वभावशुद्धचिति लक्षणातातपर्यग्राहकत्वमात्मादेशवाक्यस्योच्यते, तथाप्यहंकाररूपशक्यार्थसार्वात्म्यानु- पपत्तिधीपूर्यकं शुद्धलक्षणातात्पर्यग्राहकत्वेनोक्तमेदपर्यवसानमक्षतमिति बोध्यम्। नन्वहंकारश्देनाविद्याप्रतिबिम्ब- रूपजीवोक्ताव ्युक्तरीत्या प्रसक्त्तभेद्वारणम्, पश्चादात्मादेशवाक्येन शुद्धमादाय द्रष्ट्रमेदोक्तिश्च संभवतीत्यत आह - संभवेवेति। स्थूलेति। यथाऽरुन्धतीनिकटस्था स्थूला तारा अरुन्घतीयमित्युक्त्वा प्रदर्श्यते; सूक्ष्मत्वेनारुन्धत्या: प्रथमतो दर्शनासंभवात्, पश्चाश्जेयमरुन्धती किंत्वियं निकटस्था सूक्ष्मतारा इत्युक्त्वा अरुन्धतीप्रदर्शनात् पूर्ववाक्य- स्यारन्तीज्ञाने तात्पर्यनिश्चयात् प्रदर्शिततारयोरभेदे पर्यवसानं, तथाहंकारशब्देनाविद्याप्रतिबिम्बमेवाहंकाराश्यचैत-
Page 304
गौडब्रह्मानन्दीयुता। ५९९
सर्व' मित्यादुपसंहाराणां 'स एवाधस्तादहमेवाधस्तादात्मैवाघस्ता'दित्युपक्रमैः 'सर्व समा प्रोषि ततोऽसि सर्व' इत्यादिश्रुतिमिश्च सर्वगतत्वपरत्वेन न सार्वात्म्यपरत्वम्, येनाहंपदस्य निष्कृष्टाहंकारचैतन्यपरत्वं स्यात्। सर्वगतत्वं चानेकेष्वपि संभवत्येव। भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्धा मध्ये अहंकारोपदेशवैयर्थ्ये चेति-निरस्तम् । 'स भगवः कस्मिन् प्रतिष्ठित' इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं, परमार्थतः क्वचिदधिष्ठितत्वं वा। आधे स्वे महि स्त्रीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपर-'अन्यो ह्रन्यस्मिन् प्रतिष्ठित' इति पूर्ववा- क्यानुसारेण 'स एवाधस्ता'दित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पने- नार्थान्तराकल्पनात्; कल्प्यमानस्य च प्रकृतार्थानुपपादकत्वात्, सर्वगता जातिरिति पक्षे व्यापक-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। न्यमुच्यताम्। पश्चादात्मादेशवाक्येन तस्योक्त्तरीत्या शुद्धसार्वात्म्यतात्पर्यनिश्चय इत्यहंकारपदलक्षिताविद्याप्रतिबिम्बस्य शुद्धात्मभेदे वाक्यपर्यवसानमप्युच्यतां, तथापि नास्माकं क्षतिरिति भावः। नचैवमविद्याप्रतिबिम्बमेवाहंकारपदवा- च्यम्; तथासति सुपुप्ती तद्द्ानानुपपत्तितादवस्थ्यात्। नच-श्रुतिः पार्थक्ये प्रमाणमिति प्रतिज्ञाहानिरिति-वाध्यम्; अहंकारपदवाच्यस्य श्रुत्यनुक्तत्वेऽपि अहंकारपदलक्ष्यप्रतिबिम्बात् निरुपाधिकात्मनः पार्थक्ये श्रुतिः प्रमाणमिति प्रति- ज्ञाहानाभावादिति ध्येयम्। अत एव 'स एवाधस्ता' दित्यादिवाक्यस्य भूमात्मैकत्वपरत्वादेव। सर्वगतत्वं चेति। वाच्यत्वज्ञेयत्वादिप्विवेति शेपः । स्वे महिम्नीत्युक्त्वेति। स्वकीये प्रपञ्जरूपे महिम्नि स्थित इत्यर्थकं स्वे महिम्नि प्रतिष्टित इत्युक््वेत्यथः । यदि स्वे महिम्नि स्थितः; तदा राजा गवाश्वादिमहिमस्थ इत्यादौ महिमपदस्य महिमवत्सम- सत्ताके भोगसाधने प्रयोगात् प्रपञ्चस्य ब्रह्मसमसत्ताकत्वप्राप्त्या सद्यक्तिभेदप्रतियोगित्वादिरूपस्य वस्तुपरिच्छेदादे: प्राप्तया ब्रह्मणोSपरिच्छिन्नत्वरूपभूमत्वव्याघात इत्याशङ्कायां गोऽश्वमहिमेत्याचक्षत इत्यादिना कृतायां नात्र महिम- शब्द: उक्तार्थकः; उक्तदोपात् किंतु दृश्यार्थकः, स्वध्यस्तरूपस्वीयार्थकस्वशब्दयोगान्महिमशब्दोऽप्युत्कर्षवाची। उत्कर्पश्र राजादौ स्वामित्वद्वारा गवादिकमिव ब्रह्मणि भासकत्वादिद्वारा दृश्यमात्रमपीत्याशयेन 'अहमेवं ब्रवीमीति होवाचे'त्यनेन निरस्तायामिति शेपः । द्वितीय इति। द्वितीयकोटिनिपेधे यदि वा नो महिन्नीत्यनेनोक्त इत्यर्थः। हेत्वाकाङ्कायामिति शेपः । अन्यो ह्यन्यस्मिन्निति। सत्यद्वयं चेत्, तदा भूमत्वं व्याहतम्। उक्त्तं च 'यत्र नान्यत् पश्यती'त्यादिना ब्रह्मणो भूमत्वम्। अतः सत्यस्य भूमान्यस्याभावात् भूम्नो नान्यप्रतिष्ठितत्वं परमार्थत इति श्रुत्या- शय इति भावः । पूर्वेति । पूर्ववाक्येनाद्वितीयब्रह्मणि प्रमिते तच्छेषिभूतं भूमात्मनोरैक्यं स एवेत्यादिनोच्यत इति अवश्यं वाच्यम्; अन्यथा पूर्वापरवाक्यवैयर्थ्यात्। न हि पूर्वापरवाक्ये भूमानं भूमात्मनोरैक्यं वोपास्यतया बोधयतः; उपासनायां लक्षणास्वीकारेऽपि श्रुतहानाश्रुतकल्पना, दृष्टार्थकत्वसंभवे अदृष्टार्थकोपासनापरत्वे गौरवं, द्वैतसामान्यवि- रोध्यद्वैतज्ञाने उपासनाया असंभवश्चेति भावः । निश्चित इति। 'स एवाधस्ता'दित्यादावधस्तादित्यस्याधरमिति उप- रिष्टादित्पस्योध्वमिति पश्चादित्यस्यापरमिति पुरस्तादित्यस्य पूर्वमिति दक्षिणत इत्यस्य दक्षिणमिति उत्तरत इत्यस्योत्तरमि- त्यर्थः । यद्यपि 'दिक्छव्देभ्यः सप्तमी प्रथमाभ्यो दिग्देशकालेष्वस्ताति'रिति सूत्रे सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्दे- शकालेपु वर्तमानेभ्यो अस्तातिप्रत्ययः स्वार्थे विहितः । 'पूर्वाधरावराणामासपुरधवश्चेषा'मिति सूत्रेण च पूर्वादिभ्यः असिप्रत्ययो अस्तात्यर्ये विहितः । तद्योगे तेपां पुरादय आदेशाश्च विहिताः । 'अस्ताति चे'ति सूत्रेण च तेपामस्तातियो- गेऽपि पुरादय आदेशा विहिताः । तत एव ज्ञापकाच नासिप्रत्ययस्यास्तातिप्रत्ययबाधकत्वम्। पश्चादिति सूत्रेण चाप- रशब्दस्य पश्चभावः अम्तात्यर्थ आतिप्रत्ययश्च विहितः । 'दक्षिणोत्तराभ्यामतसुजि'ति सूत्रेण चास्तात्यपवादक: अतसु- च्प्रत्ययो विहितः । 'उपर्युपरिष्टादि'ति सूत्रेण चोर्ध्वशब्दस्योपादेशो रिस्रिष्टातिलौ च प्रत्ययावस्तातेर्विषये विहितौ। तथाचाधस्तादित्यादेरधरे अधरादित्याद्यर्थकत्वमपि; तथापि पूर्ववाक्यानुसारेण सार्वात्म्यपरत्वनिश्चयादघरमित्याद्यर्थ- करवम्। तथाचाधरो देश: कालो दिक स एवेत्यायर्थकत्वं पर्यवसितम्। अत्र परमते पूर्ववाक्यानुसरणानादरेऽपि नोपकरम: उपसंहार नियामक :; निश्चितार्थोपक्रमस्यैधोपसंहार नियामकत्वेन सन्दिग्धस्योपक्रमस्यातथात्वात्, वाक्यशे वेण तु 'स एवेदं सर्व'मित्यनेन निर्णीतार्थकेनोपकमस्याथनिश्चय इत्यपि बोध्यम्। एकत्रैव 'स एवाघस्ता'दित्यादावेव। पूर्ववाक्यमननुसृत्येत्येवकारार्थः । 'तरति शोकमात्मवित्' 'एप तु वातिवद्ति यः सत्येनातिवदति सुखं भगवो विजि- ज्ञासे भूमैव सुखं यत्र नान्यत् पश्यति स भूमे'त्यादिपूर्ववाक्यपर्यालोचनेनाज्ञाते सत्यसुखाद्वितीयभूमात्मन्येव सप्तमप्र- पाठकतात्पर्यनिश्चय इति भावः । अर्थान्तराकल्पनात् सर्वगतत्वमात्ररूपस्यार्थस्य कल्पनाया असंभवात्। प्रकृ- तेति। सद्वितीयभूमात्मेत्यथः । स एवाधस्तादित्यादेः सर्वगतत्वपरत्वेऽपि परेष्टस्य भूमात्मनोर्भेदस्य न सिद्धिः । स एव अहंमेव आत्मैव इत्येवकारत्रयेणाधरादिषु भूमाध्यन्ययोगव्यवच्छेदबोधनेन भूमादिरूपैक्यस्य पर्यवसानादित्यपि
Page 305
६०० अद्वैतसिद्धिः । परिच्छेद: १ ]
जातेरिव भूम्नोऽपि अन्याधिष्ठितत्वसंभवात्, 'सर्वे समाप्नोषी'त्यादिश्रुतेः सार्वात्म्यपरत्वस्य उप- पादितत्वात्। नापि म्ये अहंकारोपदेशवैयर्थ्यम्; ब्रह्मण आपरोक्ष्याय अहंकारैक्योक्तेः। नच- त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्ष्यसिद्धा अहंकारे अविद्यमान- सार्वात्म्योक्त्ययोग इति-वाच्यम्; आत्मसंबन्धेनैवाहंकारोऽव्यपरोक्ष इत्यात्मक्यादेवापरोक्ष्यं यद्यपि सिद्धं, तथाप्यहंकारे आपरोक्ष्यस्य सुप्रसिद्धत्वादहंकारोक्तिर्नायुक्ता। यसु-'भूमा नाराय- णाख्य: स्यात् स एवाहंकृतिः स्मृतः । जीवस्थस्त्वनिरुद्धो यः सोऽहंकार इतीरितः ॥ अणुरूपोऽपि भगवान् वासुदेव: परो विभुः। आत्मेत्युक्तः स च व्यापी'त्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किं- तु सर्वगतत्वम्-इति। तन्न; श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथान- यनम्। नच-मोक्षधर्मे-'अनिरुद्धो हि लोकेषु महानात्मा परात्परः। योऽसौ व्यक्तत्वमापत्नो निर्ममे च पितामहम्॥ सोऽहंकार इति प्रोक्त: सर्वतेजोमयो हि सः।' इत्यनेन 'सैव हि सत्यादय' इति
गौडब्रह्मानन्दी (लघुचन्द्रिका)। बोध्यम्। ननु "अभ्यो हन्यस्मिन् प्रतिष्ठित" इति वाक्यं नोक्तरीत्या भूम्नि प्रतिष्ठितत्वनिषेधे हेतुभूतस्य द्वैताभावस्य बोधकम्, किंतु भूमा नान्यप्रतिष्ठितः अनादिषु साक्षादसंबन्धात्, कार्येषु तादात्म्यात्। यो हि यस्मादृत्यन्तभिन्नः स तत्र प्रतिष्ठित इति उच्यते-यथा राजा गजादावित्यर्थकं तत्राह-सर्वेति । सर्वजातीयसर्वेत्यथः । घटत्वादिजातिस्तादार्येन घटादौ स्वरूपसंबन्धेन चान्यत्र संबद्धेति यथा स्वीक्रियते; अन्यथा भिन्नभिन्नदेशस्थेषु घटादिषु घटत्वादेरेकस्य वृध्यसंभवात्, तथाच परमते भूमा कार्यमात्रे तादात्म्येन स्वज्ञानविषयत्वादिसंबन्धेनानादिपु संबद्ध इति जातेरिव भूम्न: सर्वप्रतिष्टितत्वं न विरुद्धम्। कार्यरूपान्यप्रतिष्ठितत्वं न तरां विरुद्धमिति नोक्- वाक्यमुक्तार्थपरमिति भावः ॥ अथवा-भूमान्य एवान्यत्र प्रतिष्ठितः, नतु भूमा; व्यापकत्वात्। यद्दि कचिदेव संबद्धं, तत् प्रतिष्ठितमुच्यत इत्येतत्परा यदि बा नो महिन्नीत्यादि अन्यो ह्यन्यस्मिन् प्रतिष्टित इत्य- न्तश्रुतिः । स्वे महिम्नि प्रतिष्ठित इति तु व्यापकतवपरमित्याशयेन स एवेत्यादिना व्यापकत्वमुपपादितम् । तथाच सार्वात्म्यपरत्वोक्तिर्न युक्त्का। 'यत्र नान्यत्पश्यती'त्यादिकं तु यत्र विषये नान्यत् कर्तृ पश्यतीत्याद्यर्थकतया भून्नो दुर्ज्ेयत्वपरम्, तत्राह-सर्वगतेति। तथाच जात्यादो सर्वप्रतिष्टितत्वस्य व्यवहारात् क्वचिदेव प्रतिष्टितत्वं प्रतिष्ठितशब्दार्थ इत्ययुक्तम् । किंच "स्वे महिम्नि प्रतिष्ठित" इत्यनेन सर्वव्यापकत्वोक्तौ "यदि वा नो महि- स्नी"त्यनेन सर्वाव्यापकत्वमुच्यत इति वाच्यम्; भावाभावयोरेव ताभ्यां प्रत्ययात्, अन्यथा "यदि वे"त्यादिना क्चिदेव संबद्धत्वस्याभावबोधने सर्वव्यापकत्वपर्यवसानेन पीनरुत्तयापाताक्। तथाच परमते विरुद्धभावाभावयोर्बो धनमयुक्तमप्रयोजनं चेति भावः। उपपादितत्वादिति। सम्यक् तादात्म्येन आप्रोषि संबध्यसे ततः सर्वो- Sसीत्यर्थस्योपपाढ़ितत्वादित्यर्थः । श्रुतीति। भूमात्मैक्यश्रुतीत्यर्थः । परत्वमिति। व्यापीत्यस्य सर्वतादात्म्यपर- त्वम्। तादात्म्यस्यान्तरद्गत्वेनान्यसंबन्धेन व्यापकत्वपरत्वाभावात् संकोचकाभावेन किंचिद्यापकत्वापरत्वाच्। विभुत्वं चापरिच्छिन्नत्वादिरूपम्, नतु सर्वमूर्नसंयोगित्वम्; सिद्धान्ते निरवयवे संयोगास्वीकारात्। अणुरूपो दह- राकाशादिरूपेण परिच्छिन्नः जीवस्थः अविद्याप्रतिबिम्बरूपजीवाश्रितः अनिरुद्ध इहामुत्र संचारित्वेन न निरुद्धः सोऽहंकार इति। तथाच तदुपलक्षितापरोक्षचिदभेदतात्पर्येण स एवाहंकृतिरित्युक्तम्। एवंच सर्वजीवप्रत्यक्चैतन्य- रूपशुद्धात्मैव भूमेत्याह-अणुरूप इत्यादि। वासुदेवो वसति सर्वभूतेषु दीव्यतीति चाहंकारस्यात्मत्वमिति 'अनि- रुढ्ो हीत्यादिस्मृतौ पितामहादिजगन्निर्मातृरवेना'त्मन एवेदं सर्व'मित्यादिश्रुत्युक्तात्मन्यहंकारपदप्रयोगात् 'सैव हि सत्याद्य' इति सूत्रेण एकस्याः सत्यविद्यायाः प्रतिपादकतया निर्णीते 'स यो हैतन्महद्यक्ष प्रथमजं वेद । सत्यं ब्रह्मे'त्यादि 'तत्सत्यमसौ स आदित्यो य एतस्मिन्मण्डले यश्चायं दक्षिणेऽक्षन् पुरुषस्तस्योपनिपदह'मिति बृहदारण्यके दक्षिणाक्षिगतपुरुषस्याहं नामत्वोक्त्ेश्राहंकारस्या्मत्वमत्यर्थः। व्या्युक्तिः अपरिच्छिसवो्त;।महदादिपदैरिति शेपः । वस्तुतः परमात्मेति यं प्राहुः सांख्ययोगविशारदाः। तम्मात् प्रसूतमव्यकत प्रधानं तद्विदुर्जनाः ॥I अव्यक्ाज्- कमुत्पन्नं लोकसृष्यर्थमीश्वरात्। अनिरुद्धो हि लोकेपु महानात्मा परात् परः ॥ योऽसौ व्यक्तत्वमापभो निर्ममे च पितामहम्। सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ पृथिवी वायुराकाश आपो ज्योतिश्व पञ्चमम्। अहं- कारप्रसूतानि महाभूतानि पञ्च घ ।' इनि मोक्षधर्मवाक्ये सांख्यसिद्धमहदहक्कारी महदंकारपदाथौं। तौ च मन्मते भगवद्वीक्षणचिकीर्पारूपतया गीताटिप्पण्यादौ मूलकारैरुक्त्ा निर्मातृत वात्मतवादि विशेषणाद्वीक्षणचिकीर्षोपहितभगव- रस्वरूपो वा। तादृशाहंकारस्य न सर्वव्यापकतवसंभवः; वीक्षणोपहितेशस्वरूपमहतस्तदकार्यत्वेन तदव्यापकत्वाद्। नवा तस्य प्रकृते कथनस्योपयोगोऽस्ति, न वा तस्यात्मत्वम्; कार्यौपाधिकत्वेन कार्यत्वास्। अत एव 'तस्य चिन्तयत-
Page 306
[अह्मर्थस्थानात्मत्वोपपत्तिः] ६०१
सूत्रेण चाहंकारस्यात्मत्वम्, अन्यथा व्याप्युक्तिरयुक्ता स्यादिति-वाच्यम्; 'अहंकारश्चाहं कर्तव्यं चे'ति श्रुतेः 'महाभूतान्यहंकार' इति स्मृतेः अहंकारस्य व्यापकत्वासंभवात् 'अहं मनुरभव' मित्या- दाविवाहम्पदस्य निष्कृष्टाहंकारचैतन्यपरत्वात्। ननु-अनयोः श्रुतिस्मृत्योमंहत्तत्वकार्य मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहंकारादिपदवाच्यं विषयः, नत्वहमर्थः; तथाच स्मृतिः-'महत्त- त्वाद्विकुर्वाणान्द्रगवद्वीर्यचोदितात्। क्रियाशक्तिर हंकारस्त्रिविधः समपद्यत ॥।' इत्यादेरविरुद्धार्थमा- दायोपपत्तेः । विरुद्धार्थत्वकल्पनायां 'बुद्धिरव्यक्तमेव चे'त्यत्र क्षेत्रे प्रयुक्तवुद्धिशब्देन संविद उक्ता संविदोऽपि क्षेत्रत्वापत्तिः । नच-वुद्धिशब्दस्य नानार्थत्वम्, न त्वहंकारस्यात्मातिरिक्तार्थकत्व- मिति-वाच्यम्; 'दम्भाहंकारसंयुक्ता' इत्यादौ देहे अहंबुद्धो गर्व च प्रयोगेण 'गर्वोऽभिमानोऽहंकार' इत्यमिधानेन चाहमर्थवाचित्वनियमाभावात्, तथाचात्मवाच्यहंशब्दोSसच्छब्दसिद्धः। अहंकार- शब्दोऽनात्मवाची। तत्पर्यायस्त्वहंशब्दो मान्ताव्ययमिति-चेन्न; मान्तदान्तत्वभेदेनार्थभेदकल्पनम- युक्तम्। सर्वेषामेव तेषां 'अह'मिति प्रतीयमानाहंकारविषयत्वमेव; पर्यायतयैव प्रयोगदर्शनात्। अहंकारातिरिक्तात्मनि प्रयोगस्तु लक्षणया; मान्तदान्तत्वेनानिर्धारिताहंशब्दस्याहंकारे प्रयोगदर्शनस्य नियामकत्वात्। यथा 'अनिरुद्धो हि लोकेषु महानात्मा परात्परः। योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥' इति। 'सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः।' इत्यत्र लक्षणयाऽहंकारशब्द: आत्मनीति। यनु-अहमर्थे आत्मानात्मधर्मदर्शनमसिद्धम्; कर्तृत्वादेरात्मधर्मत्वात्-इति। तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः।ननु-अनात्मधर्मत्वेऽपि कर्तृत्वादेस्तदाश्रयस्याभानेऽपि कर्तृत्वादिकमात्मनि भासताम्, 'गौरोऽह'मित्यत्र शरीरगतगौरत्वमिवेति-चेन्न; दृष्टान्तासंप्रति- पत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना तत्प्रतीतेः । अनुमानं च-अहमर्थः, अनात्मा,
गोडव्रह्मानन्दी (लघुचन्द्रिका)। सृष्टिं महानात्मगुणः स्मृतः । अहङ्कारस्तत' इत्यादिकं स्थलान्तरे मोक्षधर्म उक्तम्। अहङ्गारश्ेत्यादि। 'यथा सोम्य वयासि वासाय वृक्षं मंप्रतिष्टन्ते एवं हैतन सर्वे परे आत्मनि संप्रतिष्टते मनश्र मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्वाहंकतव्यंचे'नि प्रश्नोपनिपत्। इति स्मृतेरित्यादि। एतत्क्षेत्रमित्यन्तस्मृतेः । आत्मनिष्टत्वेन क्षेत्रत्वेन च निश्चयादिति शेपः। अहंकारस्य अहंकारपदमुख्यार्थस्य। व्यापकत्वेति। व्यापकात्मस्वरूपत्वेत्यर्थः। अहंपद स्येति। 'अनिरुद्ध्वो ही' त्यादिस्मृती 'स यो हैत' मित्यादिश्रुती चाहंकाराहम्पदयोरित्यर्थः । लक्षणयेति शेषः । तथाच शुद्धात्मा नाहंकारादिपदमुख्यार्थः । मनआदीनां मनइन्द्रियभूतानाम्। कारणं क्रमेण हेतुः। वैकारि- कादीति। सात्विकराजसतामसेत्यर्थः। प्रतीयमानेति। चिदचिद्गन्थिरूपेति शेषः। यथोक्तश्रुतिस्मृत्योरहंकारपदं चिद्चिद्धन्थिपरं। तथा 'दम्भाहंकारसंयुक्ता' इत्यादावप्यहंकारगते धनित्वाभिजातत्वाद्यभिमानेऽप्युक्तग्रन्थिरूपाभेद- विवक्षया तत्पदम्। उक्त्तग्रन्थिश्चाहमिति शब्देन प्रतीयत इति मान्तदान्तयोरर्थभेदे मानाभावः । अतएवाहन्ताहंभाव इत्यादिनोक्तग्रन्थिभावः प्रतीयते। नहि दान्तशब्दादहंभावादिपदं सिध्यति। अतएवाविद्याहंमतिरित्युक्तग्रन्थिर्वुद्धेः पर्याय इति भावः। नन्वहंकाराहंपदयोरुक्त्तग्रन्थी प्रयोगो नैकरूपेणेति भिन्नार्थकत्वमास्ताम्, तत्राह-पर्यायत- येति। एकरूपेण बोधकतयेत्यर्थः । प्रयोगः अहंब्रह्मेत्यादिप्रयोगः । प्रयोगेति। लौकिकवैदिकभूरिप्रयोगेत्यथः । नियामकत्वादिति। शुद्धात्मलक्षणायामित्यादिः। अहंकारः नात्मवाचीति वदतस्तव मतेऽप्यहंकारशब्द आत्मनि लाक्षणिकः। तथाच तद्वदहंशब्दोऽप्यहंकारवाची मान्तदान्तसाधारण आत्मनि लाक्षणिक इत्याह-यथेति। ननु- अहंकारपदाहंपद्योरुत्तग्रन्थिवाचित्वे परकीयोक्तग्रन्थावपि परस्य प्रयोगापत्तिरिति-चेन्न्न; त्वन्मतेऽप्यहंकारमा- न्ताहंपदयो: परकीये क्षत्रे प्रयोगापत्तेः । अथ जातिविशेपविशिष्टे परकीयक्षेत्रे अहंकारोऽस्तीत्यहमस्नीत्यादिप्रयो- गमिच्छसि, तर्हि वयमपीच्छामः। एतावांस्तु भेदः। तव शक्त्या मम लक्षणया। मम हि उच्चारयितृतावच्छेदकवर्वे- नाहंकारदान्तमान्ताहम्पदानां स्वोच्चारयितरि शक्तता, तव दान्ताहम्पदस्यैव। एवंच शुद्धात्मनोऽनुच्चारयितृत्वेन लक्ष्यत्वम्। 'महत्तर्वाद्विकुर्वाणा' दित्यादिस्मृतौ महत्ततवं भगवतो वीक्षणम् । तस्माद्विकुर्वाणात्तदवस्थामायापरिणामः सूक्ष्मावस्थारूपः । त्रिगुणात्मकमायापरिणामित्वात् सार्त्विकादिरूपेण त्रिविधोऽहंकारः पूर्वपूर्वपरिणामावस्थमायाया एवोत्तरोत्तरपरिणामोपादानत्वाच्चि की र्पारूपाहंकारावस्थमायाया एव सातत्विका्द्यंेन मनआदिस स्वक ि र् हे तुत्वात् त्रिविधाहंकारस्य मनआदिहेतुत्वोक्तियुक्ता। तादृशाहंकारस्य च 'तदात्मानं स्वयमकुरुते नि श्रुत्युक्तकृतिजनकत्वेनोच्चार- यितृजीवाहंकारपदवाच्यसाम्यात् गौण्या वृश्याऽहंकारपद्बोध्यतेत्याशयेन क्रियाशक्तिरित्युक्तमिति ध्येयम्। तत्रापि गौरोऽहमित्यत्रापि। तत्प्रतीतेः गौरत्वाश्रयप्रतीतेः । तथाचानुभृयमानारोपस्थले धर्माध्यासस्य प्रतिबिम्वरूपत्वं अ. सि. ७६
Page 307
६०२ अद्वैतसिद्धिः । [परिच्छेदः १ ]
अहंप्रत्ययविषयत्वात्, शरीरवत्। नचाहमर्थान्तर्गताघिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् तत्र व्यभिचार :; येन रूपेणाहम्प्रत्ययविषयता तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहम्प्रत्यय- विषयत्वाभावान्न व्यभिचारः। अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहंकारशब्दामिधेय- वत्। नचात्रासिद्धि :; पर्यायताया दर्शितत्वात्। नच-त्वयाप्यात्मनो गौरोऽहमित्यनात्मारोपाघि- ष्ठानत्वं मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वं अहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणा- त्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति-वाच्यम्; इदम इवाघिष्ठा- नावच्छेदकत्वेनाधिष्ठानत्वोक्तेः। परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात्। नचैवमन्योन्याश्रयः सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाधनात्। नचाहमर्थप्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः; परामर्शसिद्ध सुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात्। नच-अहिते हितवुद्या प्रेमोत्पत्तिदर्शनेऽपि अप्रेमास्पदे प्रेमास्पदतारोपो न दष्ट इति-वाच्यम्; अहमर्थे आत्मैक्यारोपनिवन्धनं प्रेमास्पदत्वम्, नतु स्वाभाविकमिति त्रूम:, नतु प्रेमास्पदत्वारोपम् । अहमर्थात्मनोभदेऽपि अहमर्थस्य प्रकाशा- व्यभिचार: स्वप्रकाशात्मसंबन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि। नच-'समारोप्यस्य रूपेण विषयो रूपवान् भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥' इति वाचस्पत्युक्तेरन्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरिति-वाच्यम्; किमघिष्ठानगतध- मस्यारोप्येऽभानमापाद्यते, आरोप्यगतधर्मस्याधिष्ठाने भानं वा। नाद्ः; यद्धर्मवत्तया शञायमाने अधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येSभाननियमेन प्रकृते तदभावात्। न द्वितीयः; अधिष्ठान- गतधर्मप्रतीत्यविरोधिनः आरोप्यगतस्याधिष्ठाने भानेऽपि प्रकृते अविरोधात्। आत्मेक्याध्यासकाल एव प्रेमास्पदत्वसंभवेनारोप्येऽपि अप्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः? यथा इदमिति रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः । यन्तु-कश्चित् परिहियते-सुखानुभवरूपस्यात्मनो अहमर्थात् भेदेनैव सुखमनुभवामीत्यादौ प्रतीतिः-इति, तन्न; वैषयिकसुखानुभवस्यात्मान्यत्वात्। नच-मोक्षे अहमर्थाभावेनात्मनाशो मोक्ष इति वाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। धर्म्यध्यासस्य प्रतिबिम्बरूपत्वं धर्म्यध्याससाहित्यं वेति नियमात् प्रकृते प्रतिबिम्बाभावाद्धर्म्यध्याससाहित्यमावश्य- कम्। अतएव 'सुरभि जल'मित्यादौ धम्यध्यास आवश्यकः। यत्र स्मर्यमाणसौरभादेरारोपः, तत्र तस्यानियम इति भावः। विषयत्वादिति। विशिष्टबुद्धेः शुद्धविशेष्यकत्व नियमस्वीकारेऽपि विषयत्वं केनचिद्रपेणावच्छिन्नं निवेश्यम्, तच्च न शुद्धे इनि भावः। अहंशब्दाभिधेयत्वात् मान्ताहंशव्दवाच्यत्वात्। वाच्यत्वमात्रस्य व्यभिचारित्वेन तत्र विशेषणम्। अहंकारशव्देति। परमते मान्ताहम्पदाहंकारपदवाच्ययोरनात्मत्वात् साध्यसाधनावैकल्यम्। अधिष्ठानावच्छेदकत्वेन आरोपात्पूर्वमधिष्टानगतत्वेन। यथाश्रुते अनवच्छिन्नचित एव गौरत्वाद्यध्यासाधिष्ठानत्वे- नासङ्गतिः । सुपुप्तिकालीनेति। सुपुप्तौ निर्विकल्पसुखधीरेव प्रेमोत्पाढिका। ग्रेमच नेच्छा। येन सिद्धसुखे न स्यात्, किंतु स्नेहरूपवृत्तिविशेषः । अथवा-सुपुप्तीत्यादेः सुपुप्तिकालीनस्य प्रेममृलानुभवस्येत्यर्थः। तथाच सुपुप्तौ सप्रकारकज्ञानेच्छयोरसंभवेऽपि सुपुप्तानुभवजन्यस्मृत्या सौपुप्तसुखे उत्तरकालसत्वेनेच्छा अहमर्थविपयिका नेत्यर्थः । नायुक्तिलेशः न किमप्ययुक्तम्। रूपेण धर्मेण। विषयः अधिष्टानम् ।रूपवान् धर्मवान्। अप्रेमा- स्पदत्वस्यैवेति। एवकारादात्मगतस्य प्रेमास्पदृत्वस्यान्तःकरणे धीव्यवच्छेदः। धर्मस्य धर्मसागान्यस्य। तस्यै- वेति। अधिष्टानधर्मसामान्यस्यारोप्ये भानाभावे तु रूप्यादाविदन्वादिकं न भायाढिति भावः। प्रतीत्यविरोधिनः प्रतीनिम्नतिबध्यधीविपयान्यस्य। आरोप्यगतस्य रज्वाद्यारोप्यसर्पादिगतस्य भीपणत्वादेः। अविरोधादिति यदुक्तं तद्विवेचयति-आत्मैक्येति। प्रेमास्पदत्वेन भासमानात्मक्येत्यथः । प्रेमास्पदत्वेति। आरोप्ये भासमानेत्यादिः । प्रेमास्पदत्वं हि प्रेमविषयतायोग्यत्वं सुखत्वेन भासमानत्वरूपम्। तस्यच मनआद्यध्यासपूर्वमेवात्मनि प्रतीतेः तदभा- वविशिष्टतया नात्मनि मनआद्यध्यासो न तरामुक्ताभावस्यात्मन्यध्यास इति भावः । कश्चित् परमतानुयायिभिः । मेदेनैवेति। तथाचाहंकारस्य नात्मन्यैक्यारोप इति तस्य प्रेमास्पदत्वासंभव इति भावः। वैषयिकेति। यद्यप्यात्मैव सुखस्वरूपम्; तथापि सुखमनुभवामीत्यादौ विपयसंबन्धजन्यवृत्त्यवच्छिन्नात्मन एव सुखपद्वाच्यत्वात् स एव तत्र विषय दति भावः। आत्मान्यत्वात् यादृशे अविद्योपहितात्मन्यहंकारैक्याध्यासः तद्वैलक्षण्यात्। तदवृत्तेः अह- मर्थभेदस्य प्रतीयमानस्याश्रयत्वात्। वैपयिकसुख्नानुभवे अहमर्थभेदधीरहमर्थाधिष्टाने त्वविद्योपहिते ऐक्यधीरेवेति भावः। स्वभावतः सुग्रूपेण भासमानं यत्, तम्य न मन्मते नाशः, मनस्तु शरीरमिव न तथेति तभनाशो मोक्षे न
Page 308
[अह्मर्थस्यानात्मत्वोपपत्तिः] ६०३
नाशात्, तदन्यस्य शून्यस्य तन्मतेSप्यनाशादिति-वाच्यम्; औपाधिकप्रेमास्पदनाशेन बाह्यमतप्र- वेशापत्ती शरीरनाशेऽपि तदापत्तेः। एतावताहमर्थस्य मुक्त्यनन्वयेऽपि 'माममृतं कृधि' 'ज्योतिरहं विरजा विपाप्मा भूयास'मिति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयीकरोति, 'अहं पुष्टः स्या'मिती च्छेव स्वसमयविद्यमानशरीरवृत्तिपुष्टिम्। नच-'शरीरं पुष स्या'दिति शरीरमात्रे पुष्टोच्छावत् 'आत्म मात्रं मुक्तं स्या'दितीच्छाया अदर्शनेन मुक्तेरनिष्टत्वापत्तिरिति-वाच्यम्; इच्छासमये अन्तःक- रणाध्याससंभवेन यद्यपि नात्ममात्रगतमुक्तीच्छा, तथापि विशिष्टगतमुक्तीच्छाया एव विवक्षितविवे- केन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात् तस्यामिष्टत्वोपपत्तेः। नचाहमर्थस्यान्तःकरणग्रन्थित्वे 'मम मन इति धीर्न स्यात्; चिदचिद्रन्थिरहंकारः, अचिन्मात्रमन्तःकरणम् इति मेदेन पष्ठयुपपत्तेः। नचैवं-'मनः स्फुरति मनोऽस्ती' त्यादिजानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात्, चिदचित्सं- वलनविषयत्वाविशेपादिति-वाच्यम्; संवलनं हिन संबन्धमात्रम्, किंतु तादात्म्येन प्रतिभासः। स च तत्र नास्तीति विशेषात्। ननु-सर्वापि भ्रान्तिद्यंशविषया; अन्यथा निरधिष्ठानकभ्रमापत्तेः, नच 'अह'मिति वुद्धे: द्यंशत्वमनुभूयते; कल्प्यते चेत्, आत्मेति वुद्धेरपि झ्यंशत्वं कल्प्यतामिति- चेन्न; किमिदं झ्यंशविषयत्वम्? अधिष्ठानारोप्यविषयत्वं चेत्तर्हीष्टापत्तिः; अहमर्थमिथ्यात्वस्यैव द्वितीयांशविषयत्वे प्रमाणत्वात्। आत्मेत्यत्र तु द्यंशविषयत्वे नैवं प्रमाणमस्ति, येन तथा कल्प्यते। नच हंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्नाघिष्ठानारोप्यविषयत्वम्; रजतत्वसंसर्गारोपानिबन्ध- नेदंरजतमिति प्रतीता व्यभिचारात्। नहि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते; रजतादेस्तत्र प्रका- रत्वकल्पने मानाभावात्, तत्कल्पनां विनैवोपपत्तेः, तथा कल्पनायामतिप्रसङ्गादप्रयोजकत्वाञ्च। यद्वा-अत्राप्य 'हं स्फुरामि' 'अहमस्मी'ति द्यंशता भात्येव 'रूप्यं स्फुरति' 'रूप्यमस्ती'त्यत्रेव।इयास्तु विशेष :- यत्तत्र इदंत्वावच्छिन्नस्फुरणमधिष्ठानमिति इदं रूप्यमिति धीः, इह तु स्फुरणमात्रमधि- ष्टानमिति स्फुगामीत्येव बुद्धिः। नच भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः, भ्रान्तोऽसि। स्फुरणं चतन्यं ब्रूमः, नत्वविद्यावृत्त्यादिकम्। एवंच न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम्। नाप्यनुमानम्। तथाहि-अहमर्था, मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात्, संमतवत्, इत्यत्र विशेषव्याप्तौ दष्टान्ता- भावः। न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् संप्रतिपन्नमस्ति; सामान्यव्यापेः स्वर्गसाधनकृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात्। अहमर्थः, अनर्थनिवृत्त्याश्रयः, अनर्थाश्रयत्वात्, संमतवदि- त्यत्र शरीरे व्यभिचारः। नच तत्रानर्थाश्रयत्वमसिद्धम्; 'अहमज्ञ' इति प्रतीत्या अहमीव 'स्थूलो-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दोप इत्याह-औपाधिकेति। अमृतं कृधीति। 'यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते। कामस्य यत्राप्ताः कामास्तत्न मामृतं कृधीति श्रुतिः । अनिष्टत्वेति। परमपुरुपार्थत्वाभावेत्यर्थः। अहमर्थगतत्वेन नाशित्वापत्ये- त्यादि:। विशष्यमात्रेति। इच्छाभासकसाक्षिणा अहमर्थभासनादिच्छोल्लेखकाले अहमर्थोल्लेखेऽपि विवेकिनामहम- थंविविक्तात्मगतत्वेनव मुक्ताविच्छा, अविवेकिनामपि मदनुभूयमानदुःखमूलवति तदुच्छेदोऽस्त्वितीच्छाया: शुद्धात्मग- तमुक्तिविपयकत्वेन पर्यवसानम्; तस्यैव दुःखमूलाज्ञानवत्वात्, शरीरं पुष्टं स्यादितीच्छोल्लेखस्तु युक्त एव। शरीरत्वे- नात्मनि शरीराध्यासाभावादात्मतादाल्याविशेपितेन शरीरत्वेनैवेच्छाभासकसाक्षिणा भासमानत्वादिति भावः। नास्तीति। स्फुरतीत्यादौ स्फुरणादेराश्रयत्वमाख्यातेनोल्लिख्यते, नतु तादात्म्यमिति भावः । स्फुरणत्वावच्छिन्नस्य तादात््यमवच्छेदकं वा तत्रोल्लिख्यते, स्फुरणतवाढिकं त्वनावृतचित्वादिकम्। अहमित्यादौ त्वविद्योपहितचित्वावच्छि- सस्य तादात्म्यमुल्लिख्यते इति वा विशेपो बोध्यः। इष्टापत्तिरिति। अहमिति प्रतीतेः ववंशत्वे इत्यादिः। रजत- त्वेति। यत्रानुभूयमानारोपस्थले शुक्तौ रजतस्य न तादात्म्यारोपः, तन्जेदग्रहात्तत्र रजतत्वस्य संसर्गारोपे तस्य न प्रतिबन्धकत्वम्; समानाकारज्ञानस्यैव नव्यमते प्रतिबन्धकत्वात्। तत्रेदं बोध्यम्-वस्तुतस्तु-रजतादेस्तादालयं यत्रारोप्यते, तत्र रजतत्वादे: संसर्गोऽप्यवश्यमारोप्यते। रजतत्वादौ रजतादेराधेयतासंबन्धेन रजतत्वतवादे: स्वरूपसं बन्धेन भाने तु न नियमः । शाब्दादिभ्रमे तद्वोधकशब्दानियमादुपस्थित्यनियमाच्चेति ध्येयम्। निबन्धनेति। घटिते- स्थर्थः । स्फुरणमात्रविद्योपहितचित्। अधिष्ठानं आधारः । अज्ञोऽहमिति प्रतीतेरनावृतचिद्रूपस्फुरणत्वेनेवाविद्यो- पहितचिश्वेनाप्याधारता बोध्या। विशेषव्याप्ताविति। यद्यन्मोक्षसाधनकृत्याश्रयः, तन्मोक्षाश्रय इति व्याप्तावि- त्यर्थः । सामान्यव्याप्तेः यद्यतफलसाधनकृतिमत्फलवदिति व्याप्तेः । ऋत्विजीति। उपलक्षणमिदम्। जातेष्ादि- कृत्याश्रये पित्रादौ पुत्रपूतत्वादिफळस्याभाव इत्यपि बोध्यम्। तत्सत्वात् अज्ञानसंबन्धरूपानर्थसरवाद्। नन्वज्ञा-
Page 309
६०४ अद्वैतसिद्धिः । [ परिच्छेद: १]
डहमक्ष' इति प्रतीत्या शरीरेऽपि तत्सत्वात्, अन्यथा असिद्धिप्रसङ्गात्। अनात्मत्वं, नाहमर्थवृष्ति, अनात्ममात्रवृत्तित्वात्, घटत्ववदित्यत्र कृत्याश्रयावृत्तित्वमुपाधिः । नापि 'कस्मिन्न्वहमुत्कान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' 'स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता' इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहंत्वोक्ते: 'तदात्मानमेवावेत् अहं ब्रह्मास्मी'त्यवधा- रणेन शुद्धात्मनोऽहन्त्वोक्ते: अनवद्यस्य ब्रह्मणोऽहमुलेखोक्तेः 'अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥' इत्यादौ मोक्षान्वयोक्तेश्ैताः श्रुतयः प्रमाणम् : विशिष्टवाचकस्यैवाहम्पदस्य लक्षणया निष्कृष्टाहक्कारचैतन्ये प्रयोगात्। लक्षणाबीजभूता- नुपपत्तिरुक्ता। एतेन-'मामेव ये प्रपद्यन्ते' इत्यादिस्मृतयोऽपि-व्याख्याताः। अतएव 'तद्योऽहं सोऽसा' वित्यादावपि लक्षणाSSश्रयणीया; विशिष्टवाचकत्वेन कृप्स्य विशेष्ये लक्षणाया आवश्य- कत्वात्॥ इत्यद्वैतसिद्धावहमर्थस्यानात्मत्वोपपत्तिः ॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नस्यानादिसंबन्ध एव हेतुः, शरीरे तु स नानादि:, अधिष्टानगताज्ञानस्य शरीरे संसर्गाध्यासोत्पत्तेः, तत्राह-अन्य- थेति। उक्तहेतोरादर इत्यर्थः । उपाधिरिति। मुक्तो तु न साध्याव्यापकत्वं दोपः; तस्याः साध्यवत्वेन सन्दिग्ध- तया पक्षसमत्वात्, निश्चितसाध्यवति उपाध्यसन्देहात्। नच-अहं करोमीत्यहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्र- यत्वात् तत्र मुक्तेरवर्त्तमानत्वात् साध्याव्यापकत्वमिति-वाच्यम्, उक्तचित एव मुक्तित्वेन तत्र तस्यावर्त्तमानतवात्। प्राणमसृजतेति। 'प्राणमसृजत प्राणाच्छाढ्धां सरं वायुर्ज्योतिरापः पृथिवीन्द्रियं मन' इति प्रभ्ोपनिपत्। इत्या- दाविति। 'अन्नमशितं त्रेधा विधीयते योऽणिष्टस्तन्मनः आपः पीतास्त्रेधा योऽणिष्टः स प्राण' इत्यादि छान्दोग्यम्। विशिष्टेति। उच्वारयितृतावच्छेदकत्वोपलक्षितधर्मविशिष्टेत्यर्थः। प्राणादिस्त्रष्टरि ब्रमैक्येन ज्ञेयात्मनि चोच्चारयितृत्वा भावाल्लक्षणाSSवश्यकी। नहि सृष्ारम्भकाले अहंपदस्योच्चारयितृ ब्रह्म; वीक्षणमात्रस्य श्रुत्या तदा बोधितत्वात्। एतेन वाच्यार्थान्वयासंभवाल्लक्षणावश्यकत्वेन। व्याख्याता इति। मां चिन्मात्रमेव। प्रपद्यन्ते सत्त्वमस्यादि- श्रुत्या साक्षात्कुर्वन्तीत्याद्यर्थकत्वेनेत्यादिः। इति लघुचन्द्रिकायां अहमर्थस्यानात्मत्वोपपत्तिः ॥
अथाहमर्थविचारः । (१) तत्र न्यायामृतकारा :- अहमर्थ आत्मैव, कथमविद्यातस्तत्सष्टिः १ सुपुप्तावहमर्थोऽपि प्रकाशत एव । अतएव सुखमहमखाप्समिति अहम- र्थोह्लेखि स्मरणमुपपद्यते। यदि नाहमथें परामर्शः, तर्यात्मपरामर्शाऽपि न स्यात्। नह्यहंज्ञानादन्यदात्मज्ञानमस्ति । अत- एव-विवरण-"अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं न निष्कलक़े; तस्य मोक्षावस्थायिनः शास्त्रकसमधिगम्यत्ात्" इत्युक्तम्। इदमर्थव्यावृत्ताह्मर्थाप्रकाशे एतावन्नं कालं सुपोऽहं वाऽन्यो वेति संशयादिप्रसंगः, अहमेवेति निश्चयानुपप- त्तिश्च। प्रत्यक्त्वंतु चिदखपीदिति स्यमस्वपीदितिच प्रतीत्याप्त्त्याऽहमस्वाप्समिति प्रतीत्ययोगेनच चिन्निर्भास्यप्रतिद्वन्द्वि- चित्त्वं, अन्यत्वप्रतिद्वन्द्विस्वत्वं वा न संभवतीति युप्मदर्थरूपपराग्व्यावृत्तत्वं अहमर्थत्वं वैव प्रत्यक्त्वं वक्तव्यमिति एकस्या- त्मनः प्रत्यक्तादहमेवेति निश्चयोपपत्तिवर्णनमहमर्थानात्मत्ववादिनां न संभवति। अहमंशेऽनुभव आत्मनि स्मरणमिति कल्पनायामज्ञानांशेऽप्यनुभवापत्तिः, अज्ञानं चाहमर्थाश्रयमेव प्रकाशते नानाश्रयं, अन्याध्रयं वा। अनुभवसिद्धं हि एतावन्तं कालं जागदासमित्यादाविवास्वाप्समित्यत्राप्यहमंशे परामशलम्। अन्यथा यः पूर्व मदन्यः सुप्तः सोऽहमिदानीं जाग्रदिति धीप्रसंगः । परामृश्यमानात्मैक्याध्यासनिवन्धनोSपरामर्शलारोपस्तु अपुरोवर्तिन्यनुभवे परामर्शतारोपेऽनुव्यवसायाप्रमा- तापत्या न संभवति। नह्येतावताप्यात्मान्यलमहमर्थस्य सिद्धमिति परामृश्यमानात्मैक्याध्यासवर्णनमपि न संगतम् । आत्मेत्यभिमन्यमान आसमिति धीरिव अहमित्यभिमन्यमान आसमिति धीरपि न संभवताति सुषुप्तावह्मर्थप्रकाशे न काप्यनुपपत्तिः। न किंचिदवेदिषमिति प्रकाशमानेऽप्य्रहमर्थेऽज्ञानानुभवस्तु-आत्मप्रकाशवादिनामात्मान्यविषयकाजानवि- षयक इवाह्मर्थान्यविपयकाज्ञानविषयक इति न कोऽपि दोषः। न विजानात्ययमह्मस्मीति सुषुप्तिविषया श्रुतिस्तु विशेषाजञा- नपरा, न सुपुप्तावहमर्थप्रकाशे विरोधिनी। अहमर्थस्य स्मर्तृत्वं हि तम्यैवानुभवितृत्वे उपपद्यते; ज्ञानसंस्कारस्मरणानामैकाधि-
थंस्य कर्नता तदनुभविनृत्वे एवोपपद्यते। एवंच मुपुप्तावहमर्थी विद्यत एव। अतएव-निर्दुःखः स्यामितीच्छया सुषुप्तौ
Page 310
[अहमर्थस्यानात्मत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६०५
प्रवृत्त्युपपत्तिः । "योऽहं सुषुप्तः सोहं जागमि"इति प्रत्यभिज्ञाऽबाधश्च। अन्यथा प्रतिसुषुप््यहंकारप्रलयेऽहंकारव्यक्तिमेदा- त्कृतहानाकृताभ्यागमप्रसंगात् । सुषुप्तौ प्राणकार्यश्वासाद्युपलम्भोऽपि अहंकारस्याविलये लिङ्गम्। "अथ हैतत्पुरुषः स्वपिती"त्यारभ्य "गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः" इति श्रुतौ अहंकारापरामर्शोऽप्यत एवोपपद्यते। यथा भूमामिन्नस्याप्यात्मनः भूम्रः पृथगुपदेशः, एवमात्माभिन्नस्याप्यहमर्थस्याथात आत्मादेशः अथातोऽहंकारादेश इति पृथगुप- देश उपपद्यते। प्रत्यक्षसिद्धं मेदं निरस्याभेदबोधनार्थमात्मभूम्रोः पृथगुपदेश इति कल्पनं तु अहमर्थातिरिक्त्तात्मनो भूमा- ख्यब्रह्ममिन्नत्वेन प्रत्यक्षसिद्धतान्न संभवति। तत्पक्षे ध्रुत्युक्ानां भूमाहंकारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयोविद्योपधिक- ब्रह्मजीवचिन्मात्रत्वसंभवात् अहंकारस्य जीवात् पार्थक्यसिद्धिः। स एवेदं सर्वमित्याद्युपसंहाराणां स एवाधस्तादित्याघुप- क्रमानुसारेण सर्वगततपरत्वेन सार्वात्म्योपदेशपरत्वाभावेन जीवब्रह्मामेदार्थ एवात्मभूमपृथगुपदेश इति कल्पनाऽयोगः । अन्यथा मध्येऽहंकारोपदेशो वितथ एव स्यात् । अस्तुवा अहंकारस्यात्मनः पृथगुपदेशः, एवमपि नाहमर्थानात्मलसिद्धिः। नह्यहंकारोऽहमर्थः; दम्भोऽभिमानोऽहंकार इत्यादौ तस्य बुद्धिधर्मतबोधनात्। अहंशब्दोऽहमर्थवाची दकारान्तः, बुद्धिधर्म- वाची मकारान्तो ह्ययमिति शब्दभेदोऽप्यत एवोपपद्यते। स्वरूपतः सर्वाहमर्थामेदेऽपि देहादिप्रतिसंबन्धिमेदेन भिन्नलात् नान्यस्मिन्नहमिति धीः। ज्ञानानन्दादिकं तु आत्मधर्म एव नात्मा, तेन अहं जानामीत्यनुभवोऽप्युपपद्यते। (१) अहमर्थः, अनात्मा, अहंप्रत्ययविषयल्ात्, शरीरवत्। (२) अहमर्थः, आत्मान्यः, अहंशब्दामिधेयत्वात्, अहंकारशब्दामिधेयवत् इत्यनुमाने तु न प्रमाणं भवतः; आद्येऽधिष्ठानचैतन्ये व्यभिचारात्, द्वितीयेऽसिद्वेश्च। गौरोऽहमित्यनात्मारोपाघिष्ठानखवं मा न भूवमिति परमप्रेमास्पदत्वं अहमर्थस्य खसत्तायां प्रकाशव्यतिरेकवैधुर्येण खप्रकाशत्वं चात्मनः तयोकं अहमर्भाना- त्मत्वे नोपपद्यते। परमंप्रमास्पदात्मैक्यारूपेऽपि 'समारोप्यस्य रूपेण विषयो रूपवान् भवेत्। विषयस्य तु रूपेण समारोपो न रूपवानि'ति वाचस्पत्युक्त्या अहमर्थप्रेमास्पदतासिद्धिः । किंच अहमर्थस्य परमप्रेमास्पदत्वे प्रेमास्पदनाशो मोक्ष इति धौद्धमतप्रवेशापत्तिः, अहं मुक्तः स्यामितीच्छानुदयप्रसंगश्च। किंच-मामृतं कृधीति श्रुतिः, मम मन इत्यनुभवश्चाहम- र्थानात्मत्वे विरुद्धे स्याताम्। इदं रजतमित्यादाविवाह मित्यत्रेदमंशानुभवाभावोऽप्यमुमर्थ हस्तावलम्बयति। अहं स्फुरामी- त्यत्र तु लन्मते अविद्यावृत्त्यवच्छिन्नचेतन्यमेव स्फुरणपदार्थ इति स्फुरणांशमादायेत्यंशतासमर्थनमपि न युक्तम; भ्रमज्ञा- नस्यानघिष्ठानलात्। तस्मान्नाहमर्थ अनात्मा; किंतात्मेव । तत्रच (१) अहमिति प्रत्यक्षं (२) अहमर्थः, मोक्षान्वयी, तत्साधनकृत्याश्रयलात्, संमतवत्, (३) अहमर्थः, अनर्थनिवृत्त्याश्रयः, अनर्थाश्रयलात्, संमतवत्, (४) अनात्मत्वं, नाहमथनिष्ठं, अनात्ममात्नवृत्तितात् घटतवत् इत्याद्यनुमानानि (५)कस्मिन्वहमुत्कान्ते उत्कान्तो भविष्यामीति प्राणादि- सृष्टेः प्रागहंलोक्तिविशिष्टा श्रुतिः (६) 'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथे'त्यादिस्मृतिश्च प्रमाणमिति अहमर्थसृष्टयुपप- न्यर्थमविद्यानिरूपणमिति न संगतमिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- अहमर्थोऽनात्मैवेति अविद्यातः तत्सष्टिवर्णनमुपपद्यत एव। इच्छादिविशिष्टस्याहंकारस्य सुषुप्ताविच्छादीनामप्रकाशाद- प्रकाशेन सुपुप्ती आत्मप्रकाशेनच प्रकाशाप्रकाशाभ्यां आत्माहमर्थयोर्भेदस्यावश्यकल्वात्, रूपादिज्ञानाभावेऽपि घटस्य ग्रह- णापत्त्या गुणिम्रहणस्य गुणग्रहणव्याप्तत्वेनेच्छादिगुणा्रहणेहमर्थग्रहणवणनासंभवात्। एतेन-सुखमखाप्समिति जाग- रप्रत्ययोऽपि-व्याख्यातः; तस्याहमंशेऽपरामर्शलात, अज्ञानांशे तु परामर्शत्वं पूर्वमुपपादितम्। एवंचाज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानात्मन्येव परामशेपर्यवसानम्। अहमित्याकारस्तु तत्कालानुभूताहमर्थसंसर्गेणेति न चिदखपीदित्यादिप्र- तीत्यापादनसंभवः । अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानमिति विवरणवचनमप्येतेन व्याख्यातम्; अभिज्ञाया अह- मर्थ सुषुप्तावसंभवेऽपि तत्संसर्गेणैवात्मनि परामर्श इत्येतदर्थपरत्वात्। सुषुप्तिकालानुभूतात्मैक्याध्यासात्तु नैतावन्तं कालं सुप्तोऽहं वा मदन्यो वेति संशयादिप्रसंगः । पूर्वानुभूतचैत्रामिन्नतयाऽनुभूयमाने मैत्रे सोऽयं वा नवेति संशयो हि नोदेति; निश्चये सति संशयाभावनियमः, नतु निश्चयाभावे संशयनियमः; आरोपे सति निमित्तानुसरणं नतु निमित्तमस्तीत्यारोप इति न्यायात्। सुस्महमख्ाप्समिति अहमर्थेऽपि परामर्शलानुभवस्तु परामृश्यमानात्मैक्याध्यासनिबन्धनतद्गानांशपराम- शतारोपनिबन्धनः; तद्धिन्ने तत्वेनानुभूयमाने परामर्शतारोपदर्शनात्। मदन्यत्वेन पूर्वविज्ञानाभावात्तु मदन्यः लुप्त इति प्रत्ययाप्रसंगः । अहंकारस्याभिमन्यमान आसमिति प्रत्ययप्रयोजकत्वेन मन्मते आत्मेत्यमिमन्यमान आसमिति प्रत्ययापा- दनासंभवेन सुषुप्तौ अहंकारभाने अहमित्यमिमन्यमान आसमिति प्रत्ययप्रसंगः; अहंकारामिमानप्रकाशयोः समव्याप्ततया परस्परप्रकाशेन परस्परप्रकाशापादनसंभवात्। न विजानात्ययमहमस्मीति श्रुतिरपि सुषुप्तावहमर्थाज्ञाने लिङ्गम्। सुषुप्तौ अहरहर्ब्रह्म गच्छन्ति सति संपाद्य न विदुरित्याद्यात्मभानप्रतिपादकश्रुतिविरोधेन आत्माजानानुभवस्य विशेषाज्ञानविषयत्वेऽपि अहमर्थाज्ञानविषयत्वेऽविरोधात्। अविद्यावच्छिन्नचैतन्यस्यैव अन्तःकरणावच्छेदेनैकदेशस्थोपाध्योरुपधेयामेद कत्वेन योऽहम- नुभवामि सोऽहं स्मरामीत्यादिप्रत्यमिज्ञानाद्यविरोधः । कृशोऽहं स्थूलो भवामीत्यादौ कार्श्यादिनिष्कृष्टस्यैव शरीरस्य विवेकिनां
Page 311
६०६ अद्वैतसिद्धिः । [परिच्छेद: १]
उद्देश्यत्मिति प्रकृतेऽपि अन्तःकरणादिनिष्कृष्टस्यैवोद्देश्यत्वमिति निर्दुःखः स्यामितीच्छया सुषुप्तौ प्रवृत्त्युपपत्तिः। अन्तःक- रणोपरमेणाहंकारोपरमोऽपि सिद्धप्राय इति "अथ हैतत्पुरुषः खपितीत्यारभ्य मनआदीनामेवोपरमवर्णनमपि न दोषाय। अथातोऽहंकारादेशः अथात आत्मादेश इति पृथगुपदेशोऽपि इदानीमुपपन्नः; अहंकाराद्भिन्नात्मनो भूमाख्यप्रत्यगमिन्रत्वस्य प्रत्यक्षसिद्धत्वेऽपि उभयोः सार्वात्म्योपदेशानुपपत्तिसहकृतोक्तश्रुतेरभेदपरत्वेऽपि प्रकृते चिज्डयोरभेदानुपपत्त्या अभेदबो- धनासंभवात्। "स भगवः कस्मिन् प्रतिष्ठितः" इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं उत परमार्थतः क्वचिद्धिष्ठितत्वं वा। आद्ये से महिम्रि इत्युक्ला द्वितीये भूमातिरिक्तमेव नास्तीत्येदर्धपरान्योह्यस्मिन्प्रतिष्ठित इति पूर्ववाक्यानुसारेण "स एवाधस्ता"दित्यादेरपि सार्वात्म्यापरत्वस्योपपादितत्वेन तस्य सर्वगतल्वपरत्वाभावेन सार्वात्म्योपदेशस्यात्रापि सिद्धत्वात्। मध्येऽहंकारोपदेशस्तु ब्रह्मापरोक्ष्याय; तत्रापरोक्ष्यस्य सुप्रसिद्धत्वेन तदभेदेन ब्रह्मण्यपि तत्सिद्धिसंभवात्। मान्तदान्तत्वकृत- भेदेनार्थभेदकल्पनस्यापर्यायत्वकल्पनस्य वाडयोगेनाहमहंकारशब्दयोरेकत्रैव प्रयोगदर्शनेनच पर्यायलात् पृथगुपदेशेन भेदवर्ण- नमुपपन्नमेव। कर्तृत्वादीनां अनात्मधर्माणां अहमर्थे दर्शनादप्यहमर्थोऽनात्मा। अहमर्थः अनात्मा, अहंप्रत्ययविषयत्वात्, शरीरवत्, अहमर्थः आत्मान्यः, अहंशव्दामिधेयलात्, अहंकारशव्दामिधेयवत्, इत्यनुमाने अपि प्रथमेऽहंप्रत्ययविष- यतावच्छेदकरूपेणाधिष्ठानस्यापि आत्मान्यलात् तत्र व्यभिचारेण, द्वितीयेऽहमहंकारशब्दयोः पर्यायतसमर्थनेनासिध्भावेन चाहमर्थानात्मत्वे प्रमाणम् । अधिष्ठानावच्छेदकस्याप्यघिष्ठानलात् भ्रमकालिकज्ञानविषयाधिष्ठानधर्मस्यारोप्ये भानदर्शनात्, सवप्रकाशात्मसंबन्धेनानात्मनोऽपि प्रकाशाव्यभिचारसंभवाच्चात्मनो गौरोऽहमित्यनात्मारोपाधिष्ठानत्वोक्तिः, परमप्रेमास्प- दल्वोक्तिरहमर्थस्य सवसत्तायां प्रकाशाव्यमिचारेणात्मनः खप्रकाशलोक्तिश्र नानुपपन्ना ॥ अधिष्ठानारोप्यविषयत्वरूपं द्यंशवि- षयत्वमहंप्रत्ययस्यापि विद्यत एव; अहमर्थमिथ्यात्वानुपपत्त्या तत्कल्पनात्। एवंचाह्मर्थात्मत्वे न प्रत्यक्षं, अहमर्थः, मोक्षा- न्वयी, तत्साधनकृत्याश्रयलात्, अहमर्थोऽनर्थनिवृत्त्याध्रयः, अनर्थाश्रयत्वात्, अनात्मत्वं, नाहमर्थवृत्ति, अनात्ममात्रवृत्ति- लात्, घटलवदित्याद्यनुमानानि च न प्रमाणम्: द्वितीये शरीरे व्यभिचारात्; स्थूलोऽहमज् इति प्रत्ययेन शरीरस्याप्यन- थाश्रयल्ात्। प्रथमे ऋतिवजि व्यभिचारात्। तृतीये कृत्याश्रयावृत्तितवस्योपावितात्। कस्मिन्नहमुत्कान्ते इत्यादिपूर्वोदाहृत- श्रुतिस्मृतिषु तु अहंशब्दो लक्षणया निष्कृष्टाहंकारचतन्यमात्रपर इति न दोप इति सर्वमनवद्यमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारा :- अह्मर्थ आत्मैव; आत्मनि प्रकाशमाने प्रकाशमानलात्; सुखमहमस्वाप्समिति परामर्शान्यथानुपपत्त्याऽहंकारस्यापि सुषुप्तौ परामर्श इत्यभ्युपगमनीयत्ात्, अन्तःकरणविशिष्ट एव प्रत्यभिज्ञानमिति विवरणानुसारात्। अन्तःकरणस्यान्वहं विनाशात्तद्विशिष्टस्यापि विनाशिलान्न प्रत्यभिज्ञानविषयत्वमिति शह्ोत्तरेण संसारावस्थायां अन्तःकरणविशिष्टरूपानपयादिति विवरणवाक्येन विरोधात् निरुपाधिकात्मपरामर्शनिषेध एव विवरणतात्पर्यमिति वर्णनासंभवाच। अहमर्थस्यात्मव्यतिरेके एतावन्तं कालं सुप्तोऽहमन्यो वेति संशयप्रसंगः; निश्चयाभावेऽपि कदाचित्संशयापादनसंभवात्। परामृश्यमानात्मनि प्रत्यक्षनिश्रयादपि न संशयनिरासः अहमर्थत्वस्यव प्रत्यक्लात्। एवंचाहमंशेऽनुभवः आत्मांशे परामर्श इति परास्तम् । अन्यथाऽज्ञानांशेऽप्यनुभवत्ापत्तिः; विद्यमानमप्यज्ञानमहमर्थाश्रितमेव विद्यत इति सुपुप्ती तत्प्रकाशेऽह्मर्थस्यापि प्रका- शस्यान्जीकरणीयलातू। एतेन-अहमर्थपरामर्शे अहमभिमानस्यापि परामर्शापत्तिः। अह्मभिमानतत्प्रकाशयोः समव्या- प्रत्ादिति शङ्का-पराहता; उभयोः समव्याप्तत्वेऽपि सुषुप्तावह्मभिमानप्रकाशाभावेन दोषवारणात्। अहमर्थप्रकाश- स्यैवामिमानप्रकाशत्वे विष्टापत्तिः । न विजानात्ययमिति श्रुतिस्तु विशेषाज्ञानविषया नात्मानमिति श्रुतिरिवेति मन्तव्यम् । अहरहरित्यादेरात्मवेदनबोधकत्वाभावेन प्रत्युन न विदुरिति किंचित्खरूपाज्ञानस्यैव प्रतीत्या नात्मानमित्यादिनवाहरहरिति ्रुतिबाधनेनचादोषः। अन्तःकरणावच्छिन्नस्याज्ञानादिस्मतृलान्यथानुपपत्त्यापि सुपुप्तावहमर्थसिद्धिः; अविद्यावच्छिन्नस्यैवा- न्तःकरणावच्छेदेऽपि उपाधिभेदप्रयुक्तोपधेयभेदावश्यकलात्। उपाध्योभिन्नदेशलादिकं लप्नयोजकम्। अतएव अहं निर्दुःखः स्यामितीच्छया सुषुप्ता प्रवृत्त्युपपत्तिः। अहमथविनिमुक्तस्य चैतन्यमात्रस्य निर्दुःखं स्यामितीच्छाया असंभवेन कृशोऽहं स्थूलो भवामीतिवन्नोपपत्तिः। अथ हैततपुरुषः सपितीत्यादौ गृहीतं मन इति मनोग्रहणं मनसोऽनहंकारत्वेन अहंकारस्या- प्युपलक्षणमिति वर्णनं न संभवति। अथातोऽहंकारादेश इत्यादिपृथगुपदेशोऽपीदानीमनुकूलः । 'स्वे महित्री'त्यत्र महिमश- ब्दार्थो नाल्पः, किंतु परिपूर्ण इति बोधनार्थम् स एवाधस्तादित्यादिप्रवृत्तिः, नतु सार्वात्म्यार्थम्, येनोभयोः सार्वात्म्योपदे- शान्यथानुपपत्तिसहकारेण श्रुतेरभेदबोधकतवमाशक्यत। अस्तुवा अहंकारपदं जडपरम्। एवमपि अहमर्थो जीव एव। एतेन-अहमर्थः आत्मा, अहंप्रत्ययविषयत्ात्, शरीरवत्, अहमर्थः आत्मान्यः, अहंशब्दाभिधेयलात्, अहंकारश- व्दामिधेयवत्, इति अनुमाने अपि चिदंशं विना स्वरूपेणाहंप्रत्ययविषयलस्य पक्षेऽप्यभावेन स्वरूपेणेति विशेषणासंभवेन
नाहमर्थाऽनात्मत्वे प्रमाणमिति-सूचितम्; अहमर्थमनन्तर्भाव्यात्मनि प्रेमास्पदलभानादर्शनेन आत्मेक्यारोपनिबन्धनैवा-
Page 312
६३० अद्वैतसिद्धिः। [परिच्छेद: १ ] अथाविद्याद्यनिर्वचनीयत्वेऽर्थापत्तिप्रमाणनिरूपणम्। अर्थापत्तिरपि ख्यातिबाधान्यथानुपपत्त्यादिरूपा तत्र प्रमाणम् । तथाहि-विमतं रूप्यादि सक्ेन्न वाध्येत, असञ्चेन्न प्रतीयेत, बाध्यते प्रतीयतेऽपि, तस्मात् सदसद्विलक्षणत्वादनिर्वचनीयम्, ननु सत्ताजात्यर्थक्रियाकारित्वादिकमनङ्गीकारपराहतं त्वन्मते व्यिचारि च, नच व्यवहारदशा- बाध्यत्वमापाद्यम्; तथा सति 'नेह नाने'ति श्रौतनिषेधेन व्यवहारदशायामबाध्यस्य जगतोSनिर्वच- नीयत्वासिद्धिप्रसङ्गात्, यौक्तिक, बाधस्य व्यवहारदशायामपि दर्शनाच्च। अबाध्यत्वरूपं सत्त्व- मापाद्याविशिष्टम्, प्रामाणिकत्वं तु ब्रह्मनिष्ठनिर्विशेषत्वादौ तत्त्वावेदकश्रुतिवेद्ये ब्रह्ममिन्नतया बाध्ये व्यभिचारीति सत्त्वानिरुक्ति :- इति, मैवम्; सत्त्वं ह्यन्र प्रामाणिकत्वम्, प्रमाणत्वं च तत्त्वावे- दकत्वम्, तञ्च लक्षणया शुद्धब्रह्मबोधकवेदान्तवाक्ये, नतु निर्विशेषत्वादिधर्मप्रतिपादके, अतो न तत्र व्यमिचारः। नच-स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वा- बाध्यत्वयोव्याप्तिग्रहो न स्यात्, प्रत्युत ब्रह्मभिन्न एव प्रामाणिकत्वसत्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति-वाच्यम्; ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारप्रतिबन्धकाज्ाननिवृत्त्यर्थ प्रमाणप्र- वृत्तेः सफलत्वात्। अतएव न बाध्यत्वेन सह प्रामाणिकत्वस्य व्याप्तिः; ब्रह्मणि व्यभिचाराद्विरो- धाञ्च। नहि तत्त्वमावेदयता वेद्यमतत्वं नाम। ननु-रूप्यादिबाधकस्य तत्वावेदकत्वे अद्वैतहानिः, अतत्वावेदकत्वे तन्निबन्धनं रूप्यादेरप्रामाणिकत्वं न स्यादिति-चेन्न; बाधकस्यातत्त्वावेदकत्वेऽपि रूप्याद्यप्रमाणिकत्वे प्रयोजकतैव, बाध्यान्यूनसत्ताकत्वस्यैव वाधकत्वे तन्त्रत्वात्, अतएव अतत्त्वा- वेदकव्यावहारिकप्रमाणवाधितस्यापि रूप्यादेरद्वैतवत् स्वतः प्रामाण्यप्रयुक्तपारमार्थिकत्वमस्तु। नचास्य तत्त्वावेदकाद्वैतश्रुतिवाध: तस्याः भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानुवादि- तयोपपत्तेरिति-निरस्तम्; अधिकरणानात्मकत्वपक्षे द्वैतनिषेधस्यापि व्यावहारिकत्वोपपादनाच्च।। केचितु-सदित्यसत एव विलक्षणमिह विवक्षितं, (?) नच-असत एवेत्यवधारणस्य सदसद्वि- लक्षणं न चेदित्यर्थपर्यवसानेन प्रतियोग्यप्रसिद्धा आपादकाप्रसिद्धिरिति-वाच्यम्; प्रतियोगिप्रसि- द्वेरतुमानेन प्रागेव साधितत्वात्। नच सदसद्विलक्षणं न चेदित्यत्र सत् किमिति पूर्वविकल्पप्रसरः; प्रामाणिकत्वरूपसत्वे दोपानवकाशात्। नच बाधेनवानिर्वाच्यत्वसिद्धा ख्यात्युक्त्ययोग :; तस्या गौडब्रह्मानन्दी (लघुचन्द्रिका)। अर्थापत्तेर्विषयशोधकं तर्कमाह-तथाहीत्यादि। विपर्ययानुमाने हेतोः पक्षधर्मतामाह-वाध्यते प्रतीय- तेऽपि। तस्मात् बाधात् प्रनीतेश्च। सदसद्विलक्षणत्वे हेतुरयम्। अनङ्गीकारपराहतं रूप्यादी मयाऽनङ्गीकृतत्वेन त्वया आपादकीकर्तुमशक्यम्। व्यभिचारीति। रूप्यादौ प्रपञ्चे चेत्यादिः। प्रपञ्चे व्यभिचाराभावं शङ्कते-न चेति। प्रसङ्गादिति। प्रपञ्ने श्रुत्यादिना व्यवहारकालाबाध्यत्वस्येष्टत्वेन तदापत्यसंभवेन सत्वाभावस्य विपर्यया- नुमानासंभवात् सत्त्वाभावादिघटितस्यानिर्वाच्यत्वस्यासिद्धिप्रसङ्ग इति भावः। यौक्तिकवाधस्य किंचिद्ृश्ये यौक्ति- कमिथ्यात्वनिश्चयस्य। व्यवहारेति । सर्वदृश्यमिथ्यात्वानिश्चयेत्यर्थः । ब्रह्मभिन्नतया वाध्य इति। तत्वावेदकवे- घरवं बाध्यस्यापीत्यभिमानः । प्रामाणिकत्वं प्रमाणमुख्यतात्पर्यविषयत्वम्। तत्त्वावेदकत्वं अवाध्यविपयकत्वम्। नत्विति। 'केवलो निर्गुण' इत्यादिश्रुतेनिर्विशेषत्वादौ न मुख्यं तात्पर्यम्, किंत्ववान्तरमिति भावः। अद्वैतवत् द्वैतनिषेधवत्। स्वतः प्रामाण्येत्यादो हेतुमाह-अतत्त्वावेदकेत्यादि। उपपादनादिति। न्यूनसत्ताकत्वम- बाधकत्वे तश्रमित्यादिना मिथ्यात्वानुमाने उपपादितत्वादित्यर्थः । केचित् अस्मदीयाः। एतन्मते असच्चेन्न प्रतीयेते- प्रत्यक्षं रूप्याद्यनिर्वचनीयत्वे प्रमाणम्। ख्यातिवाधान्यथोपपत्त्याऽनुकूलतकाभावेनानिर्वचनीयत्वानुमानमप्याभाससाम्यस- त्प्रतिपक्षादिदूषितं न प्रमाणमिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- शशशज्गस्य निःस्रूपत्वेन निरूढलक्षणया तुच्छपरत्वेऽपि ख्यातिबाधान्यथानुपपत्त्यादिना सत्सद्विलक्षणस्य सद्धिन्रत्वमेव रूप्यमसदिति प्रतीतौ भातमिति प्रत्यक्षमनिर्वचनीयत्वे प्रमाणमेव। एतेन-अनुमानप्रामाण्यमपि-व्याख्यातमिति- विवेचयन्ति॥ इत्यविद्याद्यनिर्वचनीयत्वे प्रत्यक्षानुमानप्रमाणनिरूपणम्।।
Page 313
[अबि० अनि० अर्थाप०] गौडब्रह्मानन्दीयुता। ६३१
अर्थापत्त्यन्तरत्वात्, आकरे एकत्वोक्तिस्तु प्रयोजनैक्यादिति कण्ठतस्तात्पर्यतश्चेति-आहुः। यद्वा-अबाध्यत्वमेव सत्त्वम; नच तर्ह्यापाद्यावैशिष्ट्यम्, अबाध्यत्वं हि जैकालिकनिषेधाप्रतियो- गित्वम्। तेन च विपरीतप्रमाविषयत्वाभाव आपाद्यत इति नापाद्यावैशिष्ट्यम्। व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्यम्। नच-बाध्यत्वेनैवासद्वयावृत्तेरपि सिद्धा अनिर्वचनीयत्वसिद्धिपर्यवसानेन शेषवैयर्थ्यम्, न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव सद्वैलक्षण्यसिद्धा न बाध्येतेत्युक्तिरप्ययुक्तेति- वाच्यम्; बाध्यत्वदृश्यत्वयोरेकैकस्य सदसद्यावृत्त्युभयसाधकत्वं यद्यपि संभवति; तथाप्येककस्य एकैकदेशव्याप्यत्वग्रहदशायामुभयोः साफल्यात्, उभयव्याप्यमप्येकेकमेकदेशसाधकत्वेनोपन्यस्यतः प्रति एकैकसाधकत्वस्य दोषावहत्वाभावात्। अर्थापत्तिद्वयं वैतत्, एकत्वोक्तिस्तु असतो बाध्यत्वं सतोऽप्यात्मनो दृश्यत्वमङ्गीकुर्वतः परस्य मते एकैकेन उभयसाधनासंभवनिबन्धना। ननु-न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः, त्रकालिकनिषेधो वा। आद्य इष्टापत्तिः। द्वितीये असद्विलक्षणत्वपक्षेण बाध्यते चेति विपर्ययापर्यवसानमिति-चेन्न; उभयथाप्यदोषात्। नचाद्य इष्टापत्ति :: ज्ञाननिवर्त्यत्वे श्रुत्यादिसंमतेरुक्तत्वात्। द्वितीयेऽपि नासद्विलक्षणत्वेन विपर्ययापर्यवसा- नम् ; प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वस्यासत्यसंभवेनासद्वैलक्षण्यस्यैव विपर्ययपर्यवसानप्रयोजक- त्वात्। असश्चेदित्यत्रापि यद्यप्यसत्त्वं न सत्ताजातिराहित्यम्; सत्ताहीने सामान्यादी व्यमिचारात्। यत्त्वात्मनि व्यमिचारादित्युक्तं परैः, तन्न; तन्मते आत्मनि सत्तायाः सत्त्वेनापादकस्यैवाभावात्, अस्मन्मते च तत्र दृशयत्वस्यैवाभावेनापाद्यस्यवाभावात्, नापि बाध्यत्वम्; शुक्तिरूप्यादौ व्यमि- चारापत्ते :; तथापि निरूपाख्यत्वं निःस्वरूपत्वं वा असत्वम्। नच-निरूपाख्यत्वं ख्यात्यभावः तथा- चापाद्यावैशिष्ट्यमिति-वाच्यम्ः निरुपाख्यत्वस्य पदवृत्त्यविषयत्वरूपत्वात्। ननु-निःस्वरूपत्वं स्वरूपेण निषेधप्रतियोगित्वम्, तञ्च प्रपश्चसाधारणमिति तत्र व्यभिचारः, नच-पारमार्थिकत्वा- कारेण निषेधो न स्वरूपतः प्रपश्चस्येति-वाच्यम्; निर्धर्मकब्रह्मण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्यात्वापत्तेरिति-चेन्न; मिथ्यात्वलक्षणे प्रतिपन्नोपाधाविति विशेषणबलात्तत्र नातिव्याप्तिरित्युक्त त्वात्। यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्र- तियोगित्वं निस्वरूपत्वम्। नचैतत् प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विपर्ययपर्यवसानं न स्यात्। ननु-न प्रतीयेतेत्यत्र प्रतीतिसामान्यविरहस्तावदापाद्यते, तदयुक्तम्; असनृशङ्गमित्यादिवाक्ाद- सतोऽपि प्रतीतेः, अन्यथा असद्वक्षण्यज्ञानायोगः, असत्प्रतीतिनिरासायोगश्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां संभूय कार्यकारित्वायोगे बोधकत्वानुपपत्तिः, असतोऽसत्वेनाप्रतीतौ असद्यवहारा-
गौडब्रह्मानन्दी (लघुचन्द्रिका) त्यस्यानिर्वाच्यत्वसाधकार्थापत्यन्तराभिप्रायकत्वस्य वक्ष्यमाणतया सच्चेन् बाध्येतेत्यस्यापि सदसदन्यत्वसाघकतवस्या वश्यकत्वात् सत्वं सदसद्विलक्षणान्यत्वपर्यवसितम्। तस्या: ख्यात्युक्तेः। अर्थापत्त्यन्तरत्वात् सदसद्विलक्षणं न चेन्न प्रतीयेतेत्यर्थापत्यन्तरसहकारितर्कान्तरपरत्वात्। प्रयोजनेति। सदसदन्यत्वसिद्धीत्यरथः । आहुरिति। केचि- दिर्यनेन पूर्वोक्ता: इत्थं स्वमतं व्याकुर्वत इत्यर्थः । त्रैकालिकेति। स्वाधिकरणवृत्तीत्यादिः । विपरीतेति। स्वाधि- करणे निषेध्यत्वेत्यर्थः । व्यवहारस्याबाध्यत्वेन प्रमितत्वस्य, श्रुतिमुख्यतात्पर्यविपयत्वस्येति यावत्। सचेदुक्तविषय- यत्ववत् स्यात्, ब्रह्मवत्, न चोक्तविषयत्ववत्। तस्मात् श्रुतिबाध्यरवास्र सदिति बोध्यम्। एवंच परकीयस्य सत्त्वव्य- वहारस्य प्रपश्चे सत्वेऽपि न क्षतिः। दृश्यत्वेन वृत्तिविषयत्वेन । शुद्धब्रह्मणो वृत्त्यविषयत्वपक्षे इत्यादिः । एकैकदे- शेति। उक्त्तव्यावृश्योरेकमात्रं प्रतीत्यर्थः । उपन्यस्यतः उपन्यासकर्तुः। असतः शुक्तिरूप्यादेः। बाध्यत्वं स्वाधि- करणे निषेध्यत्वम्। इष्टापत्तिरिति। मन्मते रूप्यादे: बाधकज्ञानानाश्यत्वादिति शेषः। पक्षेणेत्यादि। असद्विल- क्षणत्वसाधनाय यत् बाध्यते चेत्यादिविपर्ययानुमानपर्यवसानं तदभाव इत्यर्थः । प्रतिपन्नोपाधिस्थेति। स्वसमा- नाधिकरणेतर्थः । पदवृत्तीति। शशविषणादिविकल्पो न पदवृत्तिसापेक्षः, किंतु पदज्ञानमात्रसापेक्षः; 'शब्दज्ञा- नानुपाती वस्तुशून्यो विकल्प' इति पातअलोकेः । प्रतिपन्नोपाधौ स्वाधिकरणे, निषेधांश इत्यादिः। अप्रतिपत्रो- पाधिकत्वे सश्वेन प्रतीत्यनईत्वे। कालासंबन्धित्वं दलद्वयार्थः। उपपत्तेरिति। प्रपज्जोऽसद्विलक्षण इत्यादिवाक्या- दसवंशे विकल्पः, प्रपञ्चांशे तु प्रमा, तदुभयावच्छिन्चितमादाय संभूयकारित्वम्। अतएवेदं रजतमित्यादिवाक्याद् प्राभाकरादिभि: ज्ञानड्वयं स्वीक्रियत इति भावः। ननु 'प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति पातअलसूत्रे ज्ञानस्पैव विभाग उक्तः, वृत्तिमात्रस्य विभागे त्वच्छादिकमपि तत्रोच्येत। नच-एवमिच्छादिवृत्तीनामपि निरोद्धव्यतया पूर्वसू-
Page 314
६३२ अद्वैतसिद्धिः । [परिच्छेद: १]
नुपपचि:, तदुकतं-'असद्विलक्षणज्षती ज्ञातव्यमसदेव हि। तस्मादसत्प्रतीतिश्व कथं तेन निवार्यते॥' इति-चेन्न, प्रतीत्यभावेऽपि असतो असनृ्ङ्गमिति विकल्पमात्रेणैव सर्वोपपततेः। तदुकं-'शब्द- शनानुपाती वस्तुशून्यो विकल्प' इति। नच-विकल्प इच्छादिवत् ज्ञानान्यवृत्तिर्घा, ज्ञानविशेषो षा। आद्य अनुभवविरोधप्रतीत्ययोगा, द्वितीये असतः प्रतीतिरागतैव। वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा, असदेवोल्लिखतीति वा, आद्ये अनुभवविरोधः, द्वितीये इष्टापत्तिरिति-वाच्यम्; विकल्पस्य ानान्यवृत्तित्वे बाधकामावात्, शशविषाणमनुभवामीत्यप्रत्ययाच्च। वस्तुशून्यता स सोपाख्यधर्मानुल्लेखित्वम्, अतो न कोऽपि दोषः । विकल्पस्य ज्ञानत्वे तु तदन्यश्ञानविषयत्वाभाव आपादः। शुक्तिरूप्यादेरसत्त्वे च प्रतीतिविषयत्वं विकल्पान्यप्रतीतिविषयत्वं वानुपपन्नमित्यनिर्वा- च्यत्वसिद्धिः। यद्वा-सत्वेन प्रतीत्यभाव एवापाद्यः। ननु-प्रमारूपतादृकप्रत्ययाभावापादनमिष्ट मेव। नहसतः सत्वेन प्रतीतिः केनचित् प्रमोच्यते। नच ताहग्म्रान्तिविरहः तादृक्प्रतीतिसामा- न्यविरहो वाऽडपाद्य: येन पुंसा शशे शङ्गाभावो नावगतः तस्य गोशङ्गमस्तीति वाक्यादिव शशभङ्गमस्तीति वाक्यादपि भ्रान्तिदर्शनात्, नहि घढधषादिशब्दवदत्र पदार्थानुपस्थापकत्वम्, नवा कुण्डमजाजिनमित्यादिवदन्वयाबोधकत्वम्; अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आका- ह्वादिसामश्रीसध्रीचीनस्य सत्वात्, अन्यथा प्रतीत्याद्यभावप्रसङ्ग इति-चेन्न; 'इदं रजत'मिति प्रात्यक्षिकभ्रमवत् अस्याप्यनिर्वाच्यविषयत्वात्, नच-अस्याप्यनिर्वाच्यत्वे रूप्यात् मेदो न स्यादिति-वाच्यम्; को हि अनिर्वाच्यादनिर्वाच्यं मेतुमध्यवसितः ! यमेवमाक्षिपसि, किंतु निःस्वरूपास्। यथाच सत्वेन न निःस्वरूपविषयत्वं तथोकं प्राक्। नचैवं शशशङ्गादेरनिर्वाच्यत्वे निःस्वरूपत्वोच्छेद :; शशशङ्गमस्तीत्यत्र शशे शृङ्गारोपेण शशीयत्वारोपेण वा अनिर्वाच्य विषयत्वेऽपि 'असन्ृशृङ्ग' मित्यादिवाकाश्रवणसमनन्तरं विकल्प्यमानाखण्डशशशङ्गादेरनिर्वाच्यानात्मकस्य निःस्वरूपत्वात्। नचात्र निःस्वरूपत्वादिविकल्पः; उक्तोत्तरत्वात्। नच-'अत्यन्तासत्यपि ज्ञानमर्थे शब्द: करोति हि।' इति त्वन्मते तस्याध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि 'शशशङ्गमस'दिति वाक्यादिव 'शशश्ङ्गमस्ती'ति वाक्येऽपि शशशृङ्गशब्देनासत एव प्रतीतिरिति-वाच्यम्; अस्तित्वस्यानिर्वाच्यत्वेन शशशङ्गपदाभ्यां तदघिष्ठानमवश्यं वक्तव्यम्। अत्यन्तासच्चानघिष्ठानमिति न शशशङ्गपदाभ्यां तडुपस्थितिः, दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किंचिदपि प्रतीयत इति नाधि- ष्ठानज्ानापेक्षेति वैषम्यात्। अत्यन्तासत्यपि ज्ञानमित्यादि तु अस्त्यादिपदासमभिव्याहतरशङ्ग मसदिति वाक्यपरम्। नच-'तद्जैक आहुः असदेवेदमप्र आसी'दिति श्रुत्या असतः सत्वेन प्रती- तिरिति-वाच्यम्; यथा नानया असतः सत्वप्रतिपादनं तथोक्तं मिथ्यात्वलक्षणे। तार्किकास्तु- शशशृङ्गादिपदानामपार्थकतैवेति-वदन्ति। नचानन्वय निश्चयविरहदशायां प्रवृत्तिपर्यन्तानुभव- विरोधः, अनन्वयनिश्चयदशायामेवाबोधकतोक्तेस्तद्विरहदशायामपि नाखण्डशशशङ्गादिबोधक- त्वम्, किंतु सन्मात्रगोचरव्यधिकरणप्रकारकज्ञानं वा, सदुपरागेणासद्गोचरज्ञानं वा। केवलास- द्भाने सामग्रीविरहात्। तदुक्तं बौद्धाधिकारे-'सङ्गतिग्रहणाभावात् शशश्ङ्गादिपदानामबोधकते'- ति। नच यौगिकशव्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्यनपेक्षत्वम्; अवयवशक्तिप्राधान्येन बोधने अखण्डासद्वोधनस्याशक्तत्वात्, अवयवानां स्वशक्त्यपुरस्कारेणाप्रत्यायकत्वात्। नहि पाचकादि: पाकादिमबोधयन् बोधयति। नच तर्हि शशशृङ्गमसच्छशशृङ्गं नास्तीत्यादिवाक्यानाम- बोधकत्वम्; तेषां शशे शङ्गाभावबोधकत्वात्। एषा तु बोधकता न शशशङ्गपदमात्रे, किंतु नास्ती- तिपदसमभिव्याहते। अतो न नास्तीति पौनरुक्त्यरूपशङ्काभासाद्यवकाश इति। यद्ा-अपरोक्ष-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्रोकततया तदनुक्स्ा न्यूनतेति-वाच्यम्; इच्छादीनां ज्ञानमूलत्वेन ज्ञाननिरोधेनैव तभिरोध इस्याशयेन ज्ञानमात्रो- क्तिसंभवात्, तत्राह-विकल्पस्य ज्ञानत्वे इति। ज्ानत्वे 'हीर्दीर्भी'रिति श्रुत्युक्तधीत्वजातिमखवे। घढघषेति। अगृहीतार्थसक्केतेत्यादिः । नवेति। अयोग्याथकेति शेषः । शाब्दादिज्ञानस्यालीकविषयकत्वादाह-प्रात्यक्षिकेति। तथोक्तमिति। मिथ्यातवानुमान इति शेषः । अनिर्वारच्यत्वे इति। असति सर्वासंबन्धेन सश्वसंसर्गस्यानिर्वाच्य एव भानादित्यादिः। अपार्थकता वाक्यार्थाबोघकत्वम्। अखण्डेति। शशीयत्वाद्यघटितेत्यर्थः। सदुपरागेति। वाचस्पतिमिश्रमते सदुपरागेणासतः संसर्गस्य अ्रमस्थले भानं बोध्यम्। शशे रुङ्गेति। शम्पदस्य शरानिष्ठे ननूप-
Page 315
[ख्यातिबाधान्यथानुपपत्तिः] गौडब्रह्मानन्दीयुता। ६३३
प्रतीत्यभाव आपाद्यः। न्र-यदसत्तन्न प्रतीयत इति व्याप्तिज्ञानस्य प्रत्यक्षमावश्यकम्, अतश्चास- तोऽपि प्रत्यक्षत्वम्; ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात् । किंच शशशङ्गाद्यत्यन्ताभावप्रत्यक्ष- मावश्यकम् ; अन्यथा असतोऽपि असत्ववुद्धिरन स्यात्, तथाच शशशङ्गादेः प्रत्यक्षत्वमेवेति- वाच्यम्: साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविपयविशेषणात्। उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्वमिति नास्ति विशिष्टाभावस्यापाद्यस्यासंभवः। यद्वा-सत्वेनापरोक्षप्रती- तिविषयत्वाभाव आपाद्यः। नच-इदं रूप्यमित्यादिभ्रान्त्या अत्यन्तासदेव सत्वेन प्रतीयत इति- वाच्यम्; अत्यन्तासतस्तादृशप्रतीतिविषयत्वे सामप्र्यभावात्। इन्द्रियसन्निकर्षी हि प्रत्यक्षे सामा- न्यसामग्री, नचासति सोऽस्ति। नच्र-प्रातिभासिकत्वपक्षे रूप्यादेः प्रतीतिपूर्वकालेSसत्वेन कथं सन्निकर्परूपप्रत्यक्षसामग्रीसंभव इति-वाच्यम्; अस्मन्मते ज्ञातकसति रूप्यादो साक्ष्यपरोक्षे अज्ञाननाशकान्तःकरणवृत्तिप्रयोजकसन्निकर्पानुपयोगात्। नहि तवापीश्वरसाधाग्णप्रत्यक्षमात्रे सन्निकर्षों हेतुः। नच-प्रमायां निर्दुष्रन्द्रियसन्निकर्षो हेतुः, नतु भ्रमे, स हि दोषसहितेन्द्रिया- देव भविष्यतीति-वाच्यम्, सन्निकर्षो हि इन्द्रियवत्सामान्यसामग्री, तदनपेक्षस्येन्द्रियस्याजनक- त्वमित्युक्तत्वात्। नच नहि शाब्दबोधसामान्यसामत्र्या योग्यताज्ञानादेरभावात् कथं परोक्षविकल्प: स्यात् ? अयोग्यताज्ानविरहो हि सामान्यसामग्री, नतु योग्यताज्ञानम: असंसर्गाग्रहरूपायोग्यता- ज्ञानविरहस्य विशिष्टज्ञाने आवश्यकत्वात्। स चासद्वोधके वाक्येऽस्त्येव। नहि शशशङ्गे अस्त्त्वं नास्तीति जानानः शशशृङ्गमसदित्यवगच्छति। एतन्निवन्धन एवापरोक्षप्रतीता प्रद्वेपः। पतेन- सन्मात्राविषयकापरोक्षज्ञानमसद्विपयकम, सत्वानधिकरणविषयकप्रतीतित्वाद सद्विपयकपरोक्षप्र- तीतिवत्। नच-अत्र प्रातिभासिकसाधारणसद्विवक्षायामाश्रयासिद्धिः। परमार्थसद्विवक्षायां मात्रपदवैयर्थ्यमिति-वाच्यम: भ्रममात्रस्यैवाधिष्टानीभूतपरमार्थसद्विपयतया मात्रपदं विना आश्र- यासिद्धर्दुप्परिहरत्वादिति-निरस्तम: सामग्रीविग्हेण वाधात्, शाब्दत्वस्योपाधित्वात्, धर्मादि- कमपरोक्षप्रतीतिविषयः प्रतीतिविषयत्वादित्याद्याभाससाम्याच्च। किंचासतो रूप्यस्यापरोक्षप्रतीति- विषयत्वे शशशङ्गादेरव्यपरोक्षप्रतीतिविषयत्वं स्यात्, विशषाभावात्, सविशेपत्वे असत्त्वव्याको पात्। ननु-सद्सतोः सत्तानिःस्वरूपत्वादिनेव नृश्टङ्गशशशङ्गादीनामपि परस्परं नृश्टङ्गशशशृङ्गा- दिशव्दैरेव परोक्षप्रतीतिव्यव हार विषयत्वादेर्विशेपस्यासत्वाविरोधिनो बुद्धिसिद्धस्य संभवः, नच- सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेन कथं संबन्धः! विषयत्वस्य तत्र वक्तुमशक्यत्वात्, भाति प्रतीयत इत्यादिकर्तृकर्मन्वादिविरोधाच्चति-वाच्यम; अतीतादेः स्मृत्यनुमित्यादिविषयत्वादिवद- पपत्तः, नच-तत्र प्रतीत्यादेरेव विषयत्वम्, तावतव तत्र विषयताव्यवहार इति-वाच्यम्; समं ममापीति-चेत्, मवमः शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशव्देनेव शशशृङ्गशब्देनापि नृश्ङ्गस्य प्रतीयमानत्वेन नृशङ्गादिशव्दरेव प्रतीयमानत्वादेरपि परस्परविशेषस्य वक्ुमशक्यत्वात्। नच- दुपन्द्रियादे रूप्यसंस्कारसाचिव्यवच्छशशृङ्गसंस्कारसाचिव्याभावात् तस्यापरोक्षभ्रमाविषयत्वम्, अन्यथा तवाप्यनिर्वाच्यान्तरसेव तत्र कर्थं नोत्पद्यतेति-वाच्यम्; संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोग :: स्मृतित्वापत्तः, किंत्वर्थोत्पत्तिद्वारा। तथाच संस्कारनियामकतापि अनिर्वाच्यता-
गाँडव्रह्मानन्दी (लघुचन्द्रिका )। दस्य शरुङ्गाभावे लक्षणा। शशपदं तत्तात्पर्यग्राहकमिति भावः। ननु शशशङ्गपदाभ्यामपि तादृशाभावधीसंभवाक्ना- स्तीति व्यर्थम्, तब्राह-एषति। तथाच तथा स्वीकारेऽपि नाम्तीत्यस्य तात्पर्यआ्राहकत्वेन सार्थक्यमिति भावः । सत्वेनापरोक्षत्यादि। अपरोक्षधियो या सत्त्वप्रकारता तन्निरूपितविशेष्यत्वाभाव इत्यर्थः । नत्र-अनिर्वाच्यस्यैव सच्वेन धीस्वीकारात धीमात्रमेव निवेश्यतां, कि प्रत्यक्षनिवेशेनेति-वाच्यम्; असतः प्रत्यक्षविषयत्वस्य पराभ्यु- पगतस्य निरासाय प्रत्यक्षवटितस्यापाद्यतया प्रतिज्ञानात्। सामान्यसामग्री प्रत्यक्षसामान्ये हेतुः। पक्ष मतेऽपि सामा- न्यधर्मावच्छेदेनैव प्रामाणपवृत्तेरत्रंमे प्रत्यक्षत्वे चाक्षुपत्वादी वा स्वीकृते सन्निकर्षजन्यत्वावश्यकत्वात्। अन्यथा तत्र प्रत्यक्षत्वे इन्द्रियजन्यत्वे वा मानाभावात् स्वविशिष्टं प्रति दोषाणामेव हेतुत्वेनोपपत्तेः । नच-अस्तु तथा तथापि साक्षि णैव अ्रमविषयस्य प्रत्यक्षतेति-वाच्यम्; त्वन्मते तस्यासत्वेन सता साक्षिणा संबन्धानुपपत्तेः । ननु रूप्यत्वा- दिविशेप एव शुक्तिरूप्यादः प्रत्यक्षतानियामकः, तत्राह-सविशेषत्वे इति। रूप्यत्वादेः सतोऽसत्संबन्धानुपपत्तेः। असन्विशेषस्तु न तन्नियामकः; अलीकेऽपि सत्वादिति भावः । शब्दस्य शब्दशक्तेः। अशक्यत्वादिति। प्रत्यक्षहे- अ. सि. ८०
Page 316
६३४ अद्वैतसिद्धिः । [परिच्छेद: १ ]
पक्ष एव, न त्वसद्विषयतापक्षे। वस्तुतस्तु-संस्कारस्तावत् तात्त्विकरजतादिगोचर एव प्राथ- मिकरजतादिभ्रमे प्रयोजकः सर्वमते, स चासदरूप्यशशशङ्गादिसर्वसाधारण एव, तदविषयत्वा- विशेषात्। तथाच कथं स नियामको भवतु? एवं प्रवृत्तिविषयत्वान्यथानुपपत्तिरपि प्रमाणम्। इद- मंशस्यासद्रूप्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनात्। ननु-अनिदंरूपे प्रातिभासिके यदिदंत्वं व्यावहारिकसत्वं च तद्मयं न तावत् सत् ; अद्वैतव्याकोपात्, नाप्यनिर्वाच्यम्; तथा सति तस्यास- द्वैलक्षण्यार्थ प्रातिभासिकत्वाय सत्वेन प्रतीत्या भाव्यम्। एवंच तदपि सत्वमनिर्वाच्यं चेत्, तस्यापि सत्वेन प्रतीत्या भाव्यमित्यनवस्था, तथाच तयोरसत्वं वाच्यम्। तदुक्तम्-'अन्यथात्वमसत्तस्मात् भ्रान्तावेव प्रतीयते। सत्वस्यासत एवं हि स्वीकार्यैव प्रतीतता॥ तस्यानिर्चचनीयत्वे स्यादेव ह्यनव- स्थितिः।' इति।टीकायामपि इदंत्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे इदंत्वेन रूप्यावगाहि तदप्रतीतौ प्रवृत्त्ययोगात् सत्वेन भाने च तस्मिन्नपि सत्वादिविकल्पप्रसरेणानवस्थानादिदंत्वव्यावहारिकसत्व- योरसत्त्वमित्युक्तमिति-चेन्न; तयोरसत्वे अपरोक्षप्रतीतिविषयत्वे सामग्यभावादेबाधिकस्योक्तत्वात् अनिर्वाच्यत्वमेव। नच तथा सत्वेन प्रतीत्या भाव्यस्: इष्टापत्तेः । नचैवमनवस्था; सत्त्वस्य सदिति प्रतीतावतिरिक्तसत्त्वस्यानपेक्षणात्, अन्यथा त्वत्पक्षेऽप्यसतिरूप्ये यत्सत्वं प्रतीयते तस्य सत्वायो- गात् असत्त्वे च तथैव प्रतीती प्रवृत्त्यनुपपत्तिः, सत्वेन प्रतीतावनवस्था च स्यात्। नच-सत्त्वे सत्वासत्त्वयोरौदासीन्येऽपि असतः सत्वेन प्रतीत्या प्रवृत्युपपत्तेः असति प्रतीतस्य सत्वस्य सतत्वे- नाप्रतीतावपि असत्त्वसिद्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्यादिसत्त्वस्य सत्वेनाप्रतीती प्रवृ- त्युपपत्तावपि प्रातिभासिकत्वानुपपत्तिरिति-वाच्यम्; एवंहि तत्सत्वं स्वरूपतो न सत्, तुच्छ- त्वात्, विज्ञानतोऽपि न सत् ; सत्त्वेनाप्रतीतेः । तथाच असति कथं तन्निबन्धनो व्यवहारः, नच- प्रतिभासकाले सत्त्वे स्वरूपतो निषेधप्रतियोगित्वं न स्यात्, पारमार्थिकत्वेन निषेधप्रतियोगित्वे अन- वस्थैवेत्यसत्वमेव रूप्यादीनामिति-वाच्यम्; प्रतीतिकाले सत्वेऽपि स्वरूपतो निषेधस्य पारमार्थि- कत्वेन निषेधेऽप्यनवस्थापरिहारस्य चोक्तत्वात्। नापि-प्रत्येकात्मकत्वे अनुपपत्या उभयात्मक- तैवास्त्विति-वाच्यम्; दत्तोत्तरत्वात्, भ्रमत्वानुपपत्तश्च।नचानिर्वाच्यविषयत्वेन यथा तव मते
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तुविशेषाभावे तात्पर्यं बोध्यम्। तेन तत्तद्धीविषयत्वादिविशेपसत्वेऽपि न क्षनिः। स्सृतित्वेति। प्रत्यभिज्ञायां तु नव्यतार्किकमते स्मृतिरेव हेतुः, न संस्कारः, मन्मते तु प्रत्यभिज्ञा तत्तांशे स्मृतिरेवेति भावः। यस्य पुरुपस्य रजतभ्रमो जातः, तस्यासद्रजते संस्कारसत्वात्तजन्ये भ्रमान्तरे तस्येव भानम्, नतु शशश्ङ्गादे :; समानप्रकारकत्वेन कार्यकार- णत्वसंभवात् । यस्य तु प्रथमत एवासद्रजतभ्रमः, तस्य तत्र भ्रमे सत्यरजतसंस्कार एव हेनुः परेण वाच्यः । तत्र यद्यसतप्रकारकत्वरूपं भ्रमत्वं कार्यतावच्छेदकं, तर्ह्यसत्त्वाविशेपात् शशशङ्गादिकमप्युक्तत्रभे भायादित्याशयेनाह- वस्तुतस्त्विति। सर्वसाधारण: सर्वासन्भमजननयोग्यः। ननु रजतन्वावच्छिन्नं यद्सन्निष्टं प्रकारत्वं, तच्छालि- त्वेन न कार्यता, किंतु तदसद्यक्तिनिष्ठोक्तप्रकारताकत्वेन, तथाच न शशशङ्गांदे रजतभ्रमे भानापत्तिः, तत्राह-तद- विषयत्वेति। तद्यक्तिविपयकसंस्कारत्वेन कारणत्वे कार्यतापि तथ्क्तिघटितरूपेण स्यात्; समानविपयकसंस्कारभ्र- मयो: कार्यकारणत्वदर्शनात्। तद्यक्त्यन्यसत्यविषयकसंस्कारस्य हेतुत्वे तु कार्यतावच्छेदकस्येकैकासद्यक्तिघटितत्वे विनि- गमकाभावः । नहि रजतत्वेन तदसद्यक्तिरेव भ्रमे विषयः, नान्यासद्यक्तिरित्यत्र त्वया मानमानेतुं शक्यम्। तथा- चानन्तासद्यक्ीनां भाने गौरवमननुभवपराहतिश्च। अथ-असद्रजतनिष्टोक्तप्रकारताकत्वं तथेति-चेन्न्; असतो हि रजतत्वं सद्रजतसाधारणं सद्वा, तदसाधारणमसद्वा। आद्ये सदसनोः संबन्धायोगः, अन्त्ये शशविपाणादिमात्रगत- धर्मघटितस्यापि तथात्वापत्तिस्तदवस्था, सत्यरजतत्वादिप्रकारकेच्छावतां भ्रमविपयेऽप्रवृत्तिश्चेति दिक्। प्रवृत्तीति। इदन्त्वादिविशिष्टरूप्यादिप्रवृत्तीत्यर्थः । प्रतीताविति। उपादानप्रत्यक्षविधया प्रवृत्तिहेताविति शेपः । सामग्रीति। सन्निकर्पादीत्यर्थः। प्रातिभासिके प्रातिभासिकसंसृष्टतया प्रतीयमानं शुक्त्याद्यधिष्ठाननिष्ठं यत् इदन्त्वं व्यावहारिकसरवं च, तत् उक्तसंसृष्टरूपेण न सत्, अद्वैतहानेः। नानिर्वाच्यम्; असट्वैलक्षण्यप्रयोजकस्य सर्वेन प्रतीयमानत्वस्यावश्यं वाच्यत्वेनानवस्थितेः। अन्यथात्वमित्यादि। अन्यथात्वं शुक्त्यादे रूप्यादिरूपत्वम्। भ्रान्तौ असद्विषयक- शाने। एवंहि एवंच। सत्त्वस्यासत एव प्रतीतता भ्रान्तो स्वीकार्येत्यथः । तदप्रतीती इदन्त्वाप्रतीती। इदन्त्वेन रूप्यावगाहिप्रवृत्ययोगात् सत्वाप्रतीतावपि सद्विपयकत्वरूपप्रामाण्याग्रहेण प्रवृश्ययोगात्। इदन्त्वव्यावहारि- कसत्वयोः शुक्तयादिनिष्ठयोरपि रूप्यादिसंसृष्टतया प्रतीयमानयोः। असतः शुक्तिरूप्यादेः। असत्त्वसिद्धेरिति।
Page 317
[ख्यातिबाधान्यथानुपपत्तिः] गौडब्रह्मानन्दीयुता। ६३५
भ्रमत्वं, तथा सदसदात्मकत्वे यत् सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु; एवं तर्हि 'सच्चासच्च रजत'मि- त्याकारताया दुर्निवारत्वापत्तेः । नच-असदेव रूप्यमिति बाधस्य सद्वैलक्षण्यविषयत्ववत् सद्रज- तमिति भ्रमस्याप्यसद्वैलक्षण्यमेव विषयोऽस्तु, तथाच प्रातीतिकमपि सत्वं मास्त्विति-वाच्यम्; तथा सति बाधेन भ्रमविषयसत्वानपहारे बाधकत्वव्यवहारोच्छेदप्रसङ्गात्, अगृहीतासत्त्वस्यापि इद रजतं सदिति प्रतीतेश्च। नहि पुनरगृहीतसत्त्वस्या सद्रूप्यमभादिति प्रत्ययः; बाधस्य प्रसक्तिपू- षकत्वात्। ननु-असद्विलक्षणं चेन्न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेत, अतोऽनुपपत्या अनिर्वाच्य- त्वाभाव एव किं न सिध्येत्, नच-बाधाप्रतीत्योलाघवात् सत्वासत्त्वे प्रयोजके, नत्वसद्वलक्षण्य- सद्वैलक्षण्ये, गौरवादिति-वाच्यम्; बाधप्रतीत्योरेव प्रथमोपस्थितयोः प्रयोजकजिज्ञासायामसत्त्व- सत्वयोः प्रयोजकत्वं कल्प्यते, लाघवात्, प्रथमोपस्थितत्वाच्च, नतु सद्विलक्षणत्वादे गौरवात्, चरमोपस्थितत्वाच्च। तदनन्तरं च भानप्रयोजकाभावादेवाभानोपपत्तौ न प्रयोजकान्तरकल्पना। नृशृङ्गादेरसत्वेऽपि न बाधः, प्रसक्त्यभावादिति-चेत्, मैवम्; सत्त्व न तावत् प्रतीतिप्रयोजकम्; रूप्यस्य उभयमतेऽप्यप्रतीत्यापत्तः, नाप्यसत्वं वाधप्रयोजकम्; उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चासत्वस्याद्याप्यसिंद्धः, प्रत्युतासत्वेऽनुपपत्तेरवक्ष्यमाणत्वात् गौरवं प्रामाणिकम् । तस्मात् सिद्धं ख्यातिबाधान्यथानुपपत्या अनिर्वाच्यत्वमिति॥ इत्यद्वैतसिद्धा ख्यातिवाधान्यथानुपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भ्रमप्रकारत्वादिनेत्यादिः । तन्निबन्धनः तद्ेतुकः। व्यवहारः सदाकारानुगतव्यवहारप्रवृत्ती। दत्तेत्यादि। विरो- धादिनेत्यादिः। अनुपपत्तरिति। सद्विपयकधीः प्रमवेति भावः। दुर्निवारतेति। ननु-सत्वमेव भ्रमे भाति, असत्वं तु भ्रमविषयत्वादिना सेत्स्यतीति-चेन्न्नः सदसदात्मविषयकत्वस्य भ्रमत्वरूपत्वोक्तिविरोधात्, सत्वादिप्रत्ये- कोक्तिदोपाणां सत्त्वादिसमुच्चयेऽपि संभवाद्विरोधाच्च। प्रथमेति। स्वाभावधीपूर्वमित्यर्थः। संद्वैलक्षण्यादेरप्रतीत्यादिप्- योजकत्वे सत्वादः प्रतीतिप्रयोकजत्वं वाच्यम्, तच्च न संभवतीत्यह-मवमिति। प्रतीतिप्रयोजकं ज्ञेयत्वसमच्या पकम्। अप्रतीत्यापन्तरिति। नच-प्रतीनिबलात सत्त्वं साधनीयमिति-वाच्यम्; प्रतीतेः सत्वव्याप्यत्वासिद्धेः। वाधादर्शनादिति । नघ-असद्वेलक्षण्यस्य त्वन्मते बाधाप्रयोजकत्ववदुपपत्तिरिति-वाच्यम्; सदसदन्यत्व- स्यैव मन्मने बाध्यताप्रयोजकत्वात्। ननु-भ्रमविषयः सर्वमसत् बाध्यते, शशविषाणादिरपि तादृशः, बाध्यत्वा- त्तत्राह-रूप्ये चेति। तथाच वाध्यमाने रूप्यादी असत्वानिश्चयादस्त्त्वस्य बाध्यताप्रयोजक्त्वं न कल्प्यत इति भावः। प्रामाणिकमिति। ज्ञेयत्वप्रयोजकं मिथ्यात्वरूपं सत्तवं वाच्यम्। तथाच लाघवात् कालसंबन्धादिकमेव तदु- च्यताम्। एवं बाध्यताप्रयोजकं मिथ्यात्वं कालसंबन्धादिकं वा युक्त्तम्, नतु सर्वदेशकालवृत्यत्यन्ताभावप्रतियोगितवं कालासंबन्धादिकं वा; गौरवात्, कालसंबन्धादेर्वह्मण्यपि सत्वाच्च। किंच सत्वासत्वयोः ज्ञेयत्वबाध्यताप्रयोजकत्वे तर्काभावः; अनिर्वाच्यस्याप्यापरोक्ष्यबाधयोः संभवात्, कालसंबन्धस्य तत्वेत्वस्ति तर्कः; कालसंबन्धिन एवापरोक्ष- धीरूपप्रसक्तेर्बाधस्य च संभवात्। तस्मादसत्वस्याज्ञेयत्वे सत्वस्याबाध्यत्वे च प्रयोजकत्वं प्रामाणिकम्; तदवच्छेदकस्य कालसंबन्धादेर्लघुत्वादिति भावः ॥ इति लघुचन्द्रिकायां ख्यातिबाधान्यथानुपपत्तिः॥
अथ ख्यातिवाधान्यथानुपपत्तिः। (१) तत्र न्यायामृतकारा :- विमतं रूप्यादि सच्चेत् न प्रतीयेत, असचेत् न बाध्येत, वाध्यते च प्रतीयते चेति ख्यातिबाधान्यथानुपपत्तिरपि न रूप्याद्यनिर्वचनीय त्वे प्रमाणम्। आपादकं सत्वं युप्मदनज्गीकारेण प्रपच्चे ब्रह्मज्ञानबाध्ये आपाद्यस्य व्यवहारकालाबाध्यतरू- पत्वेऽपि यौक्तिकबाधवति तम्मिन् व्यभिचारेण च सत्ताजात्यर्थक्रियाकारित्वरूपम्, आपाद्याविशेषेण बाध्यत्वेनैवानिर्वचनी- यत्सिद्धे: शेषवैयर्थ्येन चावाध्यत्वरूपम्, तत्वावेदकश्रुतिवेद्ये निर्विशेषतादौ व्यमिचारेण खतः प्रकाशमाने व्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणासत्वात् ब्रह्ममिन्न एव तत्प्रवृत्त्या प्रामाणिकत्वस्य बाध्यत्वेन सह व्याप्या च ग्रामाणिकत्वरूपं वा न संभवति। किंच रूप्याप्रामाणिकत्वं किं बाधज्ञाननिबन्धनम्, उत अन्यनिबन्धनम्। आद्ये बाधज्ञानस्य तत्त्वावेदकत्वेऽद्वैतहानिः, अतत्वावेद कत्वेऽप्रामाणिकतवज्ञापकत्वासंभवः । द्वितीये तु प्रमाणाभावः । अपिच व्यावहारिकप्रमाणबोधितमप्यद्वैतं यथा परमार्थ, तथा तादृशं रूप्यमिति पारमार्थिकं भवतु। अद्वैतश्रुतिस्तु प्रत्यक्षप्राप्तरूप्यनिषेधानुवाद इति न दोषः । एतेन-
Page 318
६३६ अद्वैतसिद्धिः । [परिच्छेद: १ ]
सत्वं सदसद्विलक्षणत्रूपमेवाऽSपाद्यमिति केषांचिन्मतमपि-प्रत्युक्तम्; प्रतियोग्यप्रसिध्धाSSपादकाप्रसिद्धेः । सदसद्वि लक्षणतघटकसत्वेऽपि विकल्पतदूषणानि पुनरूहनीयानि। आपाद्यपि अबाध्यत्वे वाधः असद्विलक्षणतपक्षेण बाध्यते चेति विपर्ययापर्यवसानेन न त्रैकालिकबाधरूपः । बाधकज्ञानेन निवृत्तिमात्रेतु इष्टापत्तिः। नहि ज्ञाननिवर्त्यः प्रपञ्व इति मिथ्यातनिरुक्तौ निरूपितम्। एतेन-सत्ताहीने सामान्यादौ व्यमिचारात् सत्तादिराहित्यम्, शुक्तिरूप्यादाँ व्यमिचारेण बाध्यत्म्, आपाद्यावशेषेण ख्यात्यभावरूपनिरुपाख्यत्म्, स्वरूपेण निषेधप्रतियोगित्वस्य प्रपञ्चसाधारण्येन पारमार्थिक- त्वेन निषेधस्य निर्धर्मकब्रह्मसाधारण्येन च निःस्वरूपत्वं वा नापादकमसत्म्। एवं न प्रतीयेतेति किं प्रतीतिमात्रविरहो विवक्षितः, उत सत्वेन प्रतीतिविरहः, आहोख्वित् अपरोक्षप्रतीत्यभावः, अथवा सत्वेनापरोक्षप्रतीत्यभावो वा। आद्े- Sस्द्वूलक्षण्यज्ञानासद्यव हारतत्तत्प्रतीतिनिरासाद्यनुपपत्तिः। द्वितीयेऽसतोऽ्युक्तन्यायेन प्रतीतिसिध्धा सतोऽसत्वेन अस- तोऽपि सत्वेन भ्रमविषयत्वात् तदभावायोगः । शशशृङ्गमस्तीति वाक्यादपि प्रतारकीयात् ज्ञानोत्पततिर्हि दृश्यते। वाक्य- बोधकत्वं हि पदार्थोपस्थितिप्रयुक्तमत्रापि विद्यते एव। दास्याः पुत्र इत्यादिवाक्यादपि शाब्दवोधदर्शनात् न योग्यता- ज्ञानं शाव्दबोधे कारणम्। शव्दज्ञानानुपातीति सूत्रं तु विकल्पस्याप्यनुभवानुरोधेन ज्ञानलाद्वस्तुशून्यत्स्य अमदुह्खिलरु- पत्वान्नास्माकं प्रतिकूलम्। निःस्वरूपस्य शशशृङ्गस्याप्यनिर्वाच्यत्वेऽनिरवाच्यादनिर्वाच्यभेदनं न क्षोदक्षमम्। एतेन-शश- शज्मस्तीति वाक्यजन्यज्ञानस्यानिर्वाच्यविषयत्वं-पराहतम्। शशशत्मसदिति वाक्य इव शशशतमस्तीति वाक्येऽप्य- सतः प्रतात्यनिवारणात्। एतेन-असदेवंदमग्र आसीदिति श्रुतिरपि-व्याख्याता । 'शशशङ्गादिपदमपार्थकं' इति चिन्तामण्युक्तं तु अपार्थकशब्देन अप्रत्यायकोक्त्तों अनन्वयानिश्यदशायां प्रवृत्तिपर्यन्तप्रवृत्त्यादिविरोधात् असत्प्रत्यायकपर- त्वेन योजनीयम : योगिकशव्दानामवयवसंगत्यतिरेकण संगत्यनपेक्षणात् सतो वाऽसतो वार्डर्थस्य बोधनसंभवात्। शश- शुङ्गशब्दे संगत्यग्रहणादबोधकत्वमिति आत्मतत्वविवेकोक्तमत एव परास्तम्। एतेन-शशगअशव्दस्य शशे शुज्ञाभावोर्ऽर्य इति वार्तिकोक्तमपि-परास्तम्: शशशज्ञं नाम्तीति नास्तिपदवैयर्थ्यापत्तथ। अतः अपरोक्षप्रनीतिविषयलाभावो विवक्षित इति तृतीयकल्पोऽपि न युक्तः। यदसत्तत्र प्रतीयते इति व्यापिज्ञानप्नत्यक्षतावश्यकतवात्, अन्यथाऽसनोऽसत्ासिंद्गः । सन्मात्राविषयकमपरोक्षज्ञानमपरोक्षत्रमो वा न सद्विपयः, सतानधिकरणविपयत्वादित्याद्यनुमानरसतोऽपि अपरीक्षत्वसि- द्वेश्व। अपरोक्षधीश्रेयमसद्विशेपस्य शक्तिरूप्यादरेव; रूप्यादिसंस्कारसचिव दुष्टन्द्रियस्पव कारणलात्। गथाच नृशतशश- शृब्गादीनां तन्तच्छव्दजन्यप्रतीतिविषयतादिना भेदः, एवं सत्यादसतोऽपि अस्सद्वलक्षण्यादिना भेद इति नासतव्या- घातः। अतीतादेः स्मृत्यनुभवादिकमिवासतोऽपि भाति ज्ञायते इति कनकमादिप्रनीत्यविरोधः। अनुमित्ादावत यदि नदि- षयकत्व नातीतादौ तद्विषयत्वं तर्हिं, प्रकृतेऽपि समानम्। एतेन-प्रृतिविषयत्ानुपपत्तिरपि न रूप्याद्यानर्वंचनीयन्चे प्रमाणमिति-सूचितम्। यथा प्रनीतितः पूर्वमनिर्वचनीयत्ववादिनामपि रजताभविडपि प्रमाया एवार्थजन्यत्ादिना न रूप्य श्रमानुपपत्तिः अनिर्वचनीयरप्यतादात्म्येन प्रतीयमानत्वेनेदंकाराभिमुखी प्रवृत्तिश्, एवं प्रकृतेऽपि दुेन्द्रियस्याधि- ष्ठानसन्निकर्षादेवेदमोऽसदात्मना प्रतीत्या प्रवृत्युपपनिरिति न कोऽपि विरोधः। अपिच अनिदंरूपे प्रातिभामिकेव रुप्ये प्रतीयमानयोरिदंत्वव्यावहारिकत्वयोरद्रतविरोधन सत्वायोगात असद्वलक्षण्यार्थ प्रातिभासिकतवायच पुनः सत्प्रतातिरि- तयनवस्थापातेन अनिवाच्यलायोगाच्च सद्रूपमेवाजीकरणीयमिति तस्यापरोक्षत्वंन क्थ सत्वेनापरोक्षज्ञानाभावः, मन्मते तु असतः सत्वस्य सत्वेनाप्रतीतावपि नासतसिद्धिरिति नाम्मन्मतऽप्यनवस्थादिप्रसकः। एवंच न ख्यातिवाधयोरनुपपत्तिरिति सिद्धम्। अस्तुवा तदनुपपत्िः, एवमपि तया सदसदात्मकत्रमेव स्यात: निषेवसमुच्यवद्विविधसमुचयस्या्युपपतेः। यथा तवानिर्वाच्यविषयत्वंन भ्रमतम्, तथाऽस्माकमपि सदसद्विपयत्वेन तदिति न दोषः। वस्तुतस्तु-असद्विलक्षणं चेत् न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेतेति यातिवाधानुपपतितिरनिर्वाच्यताभावे एव प्रमाणम्। अबाधाप्रतीत्योः प्रतियो गिविधया प्रथमोपस्थितबाधप्रतीत्योरेव प्रयोजकत्वम्, नतु अवाधाप्रनीत्योरिति लाघवस्याकिंचित्करतान्न सत्वासत्यो- रेवाबाधाप्रतीत्युपयोगितया चिन्तनं युक्तम्। सर्वथा न रप्याद्यनिवेचनीयत्वेऽर्थीपत्तिः प्रमाणमिति सिद्धमिति- वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- सच्चेन्न वाध्येत असच्चेन्न प्रतीयेतेति मयातिबाधान्यथानुपपत्तिरपि रूप्याद्यनिर्वचनीयत्वे प्रमाणम्। आपादकं हि सत्वं प्रामाणिकल्म्। प्रमाणत्वं च तत्त्वावेदकत्वं न निर्विशेषतादाविति न तत्र व्यभिचारः। सप्रकाशस्यापि ब्रह्मणो व्यवहारप्र- तिबन्धकाज्ञाननिरासार्थ प्रमाणप्रवृत्तिरपेक्ष्यत एवंति न बाध्यत्वेन सह प्रामाणिकतवस्य व्याप्तिः ब्रह्मणि व्यभिचाराद्विरो- धाच्। वाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वंन वाधकस्य तत्त्ववंदकत्वे ना्द्वतहानिरिति न बाधज्ञानसिद्धप्रामाणिकत्वं शुक्तिरूप्यस्येनि रूप्यसद्विलक्षणतमवगम्यते। एतेन-अद्वँतवत् रूप्यपारमार्थिकतापादनं-परास्तम्; रूप्यज्ञानस्य भ्रमत्वेन स्वतः प्रामाण्याभावात्। अथवाऽवाध्यत्वमेव सत्म्। तच् त्रैकालिकनिषेधाप्रतियोगितमिति न व्यावहारिकबा-
Page 319
[ख्यातिबाधान्यथानुपपत्तिः] गौडब्रह्मानन्दीयुता। ६३७
धाभावरूपापाद्याविशेषः। अथवा-व्यवहारापादतया तत्परिहारो मन्तव्यः। ्यात्यनुपपत्तिबाधानुपपत्तिवकैकापि अत्र प्रमाणमेव। बाध्यतवदृदश्यत्योरेकैकस्य एकैकदेशव्याप्तिप्रहदशायामुभयोः साफल्यात्। यदि तु असतो बाध्यत्वं सतोऽप्या- त्मनो दृश्यत्वं चोररीकुर्वाणस्य परस्यैकैकेन वाध्यत्दृश्यत्वोभयसाधनासंभवः, तर्हि वव्यातिबाधोभयानुपपत्तिरेवात्र प्रमाणं भवतु। सवथा शेषवयर्थ्यापादनं निरालम्बनमेव। एतेन-सत्पदेन सदसद्विलक्षणं विवक्ष्यत इति केषांचिदुक्तिरपि- व्याख्याता; प्रतियोगिप्रसिद्धे: पूर्वमेव साधनात्। पतेन-न बाध्येतेत्यत्र बाधोऽपि निवृत्तिः, त्रेकालिकनिषेधो वेति- सूचितम्। प्रतिपन्नोपाधौ त्रेकालिकनिषेध प्रतियोगित स्यासत्यभावेनासद्विलक्षणत्वस्यैव पर्यवसानात् ।। असच्चेदित्यन्ता- सत्वमपि पारमार्थिकत्वेन निषेधरूपम् अप्रतिपन्नोपाधिकत्वविशिष्टस्वरूपावच्छिन्ननिषेधप्रतियोगित्वं वेति न प्रपञ्चसाधार- ण्यादिकम्। न प्रतीयेतेति तु प्रतीतिसामान्यविरहः, सत्वेनाप्रतीतिः, अपरोक्षप्रतीत्यभावः, सत्वेनापरोक्षप्रतीत्यभावो वा। असतस्तु ज्ञानान्यविकल्पवृत्थव व्यवहारादिकम्। नहि शशविषाणमनुभवामीति प्रत्ययः, येन विकल्पस्यापि ज्ञानरूपत्वमा- शङ्कयेत। तस्यापि ज्ञानत्वे तु तदन्यज्ञानविषताभाव एवापाद्य इति न प्रथमेऽनुपपत्तिः । शशशङ्गमस्तीति वाक्यजन्यज्ञानस्य शशे शुङ्गारोपेण शुब्धे शशीयत्ारोपेण वाऽनिर्वाच्यविपयविषयत्वेऽपि असत् शशशङ्गमित्यादो तद्विषयीकरणात् न सत्वेन प्रतीतिविषयतमसतो वक्तुं शक्यत। प्रतीतिद्वयेऽपि शशशह्गस्य भानेऽपि प्रथमप्रतीतों अस्तित्वस्यानिर्वाच्यत्वेनासतोऽनधि- ष्ठानत्वेन अनिर्वाच्यविषयलम्, द्विनीयस्यां तु असनोऽतादृशत्वेनाधिष्ठानानपेक्षणेन तद्विपयत्वमिनि 'अत्यन्तासत्यपि ह्यर्थ ज्ञानं शब्द: करोतिही'ति वचनं अस्तिपदासमभिव्याहृतवाक्यपरतया योजनीयम्। असदेवेदमिति श्रुतिस्तु नासत् सत्वेन गोचरयतीति मिथ्यालनिरुक्ती उपपादितम्। शशशआ्गादिपदानां अवोधकतेति चिन्तामण्याद्युक्तिरप्यत एव व्याख्याता । श शशअम सदित्यादिवाक्यं तु शश शृङ्गाभावबोधकम्। एषाच बोधकता नास्त्यादिपदसमभिव्याहारे एवेति न नास्त्यादि- पदवय्थ्यमिति न द्वितीयऽनुपपतिः। साक्षादनिषेध्यतयाच प्रत्यक्षविषयत्वाभावस्यव प्रत्यक्षविषयत्वाभावपदेन विवक्षणात् यद सत्तत् प्रतीयंत इति व्याप्तिज्ञाने ज्ञानविषयनया निषेध्यतया च विषयत्वऽपि नापादनविरोधः । अन्तःकरणवृत्त्त्यात्मका- परोक्षज्ञानं हि न विषयेन्द्रियसन्निकर्ष विना जायते। असतथेन्द्रियासन्निकर्षात् सामय्यभार्वन न तदपरोक्षज्ञानसंभवः । यत्रह्यन्द्रयिकं प्रत्यक्षं तत्रेन्द्रियसन्निकपाऽ्यपेक्षितः, अस्मन्मत तु रप्यस्य साक्षिभास्यतादाविद्यकवृत्तिभास्यलात् वा नार्थ- सत्वं प्रथमतोऽपेक्षिनमित्यपरोक्षप्रतीतिविषयत्वं संभवति। सन्मान्राविषयकमपरोक्षज्ञानमसद्विषयकं, सतानधिकरणविषयक- प्रतातित्वादित्यनुमानं तु सामग्रीविरहेण बाधान् शाव्दतस्योपाधिलात्, धर्मादिकं अपरोक्षधीविषयः, प्रतीतिविषयत्वादित्या- भाससाम्येन चाप्रयोजकम्। अन्यथा शशशूङ्स्यापरीक्षधीप्रसन्गः। नृशञ्शशशप्रयोः शब्दभेदेऽपि नरि शशलारोपदशाया- मंकार्थबोधकत्वेन शब्दभेंदेन तयोभेंद एवंति दृष्टान्तासंप्रतिपत्त्या संप्रतिपत्तावपि संस्कारस्य साक्षात्प्रतीतावुपयोगितायां स्मृतित्ापत्त्या अर्थापत्तिद्वरिव स दति संस्कारनियामकताया अनिरवेचनीयलसाधकतायां उपयोगात् न तन्महिम्रा असद्वि- पयप्रत्यक्षोपपत्तिः। अन्यथा सत्यरजतसंस्कारस्थेव प्राथमिकभ्रमकारणलात् शशशङ्गादीनामपि भानापत्तेः। पतेन- प्रवृत्तिविषयत्ानुपपत्तिरप्यत्र प्रमाणमिति-सृचितम्। इदमंशस्य असद्रप्यात्मना प्रतीतौ सामभ्रीविरहस्योक्तलात्, नही- दंत्वं व्यावहारिकत्वं च् रजते भासमानमसन्। सामग्रीविरहेण अपरोक्षलानुपपत्तरिति तत्सतवमेवाङ्गीकरणीयम्। सत्वं सदिति प्रतीतों मेयत्वें मेयत्ान्तरवत्सत्वान्तरानज्ीकारात् नानवस्थादिकम्। अन्यथा युष्मन्मतेऽपि रूप्यासत्वं न स्वरूपतः सत्, तुच्छलात्, विज्ञानतोऽपि न सन् सत्वेनाप्रतीतेरिति रूप्यासतसत्वासत्वयोरीदासीन्यायोगादसत्वेन प्रतीतेरेव विवक्षणीय- तयाऽनवस्थापातात्। एवंच ख्यातिवाधानुपपत्तिरनान्यथासिद्धा। साच न सदसदात्मकत्वे प्रमाणम्, प्रपञ्चोभयात्मकत्वस्य पूर्वमेव निरासात्। सच्चासच्च रजतमिति प्रतात्यापत्त्या भ्रमत्वाद्यनुपपत्तिश्च। सत्वं न तावत्प्रतीतिप्रयोजकम्, मतद्वयेऽपि रूप्याप्रतीत्यापत्तेः, नाप्यसत्वं वाधप्रयोजकम्; उभयमतसिद्धिबाधादर्शनात्, रूप्येऽसत्स्याद्याप्यसिद्धेः। प्रामाणिकं गौरवं फलमुखत्ाददोषः इति ख्यातिबाधानुपपत्तिरविद्यादनिर्वचनीयत्वे प्रमाणमिति सिद्धमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- सच्चेन्न वाध्येत, असच्वेन्न प्रतीयेतेति ख्यातिबाधौ नानिर्वचनीयत्वे प्रमाणम्। तत्र सत्स्य म्रह्मनिर्विशेषतादौ व्यभिचा- रात् नाततवावेदकप्रमाणवेद्यत्रूपम्। अन्यथा ब्रह्मसविशेषलापातात्, उभयाप्रामाणिकत्वं तु विरुद्धम्। खप्रकाशे ब्रह्मणि व्यवहारप्रतिबन्धकाज्ञान निवृत्त्यर्थ प्रमाणापेक्षायां तु तादृशाप्रामाणिकत्वस्य जगतीष्टत्वात् बाध्यत्ाप्रामाणिकत्वयोः व्याप्यग्रहा- न्रावाध्यत्वेन प्रपश्चेऽप्रामाणिकत्वं सिध्धेत् । एतेन-अबाध्यत्वं न सत्वमिति-सूचितम्; बाध्यतदृश्यतयोः एकैकस्यापि उभयसाधनत्वेन वाध्यत्वेतरभागवैयर्थ्यात्। नचेष्टापत्तिः; एकत्वोक्तिविरोधात्। प्रयोजनैक्यं तु न संभवति। बाध्यतवमपि न निवृत्तिः; शुक्तिरूप्यादौ निवृत्त्यभावेनेष्टापत्तेः। असच्चेदित्यत्रासत्मपि नाप्रतिपन्नोपाधौ स्वरूपेण निषेधप्रतियोगितरूपं निःस्वरूपत्वम्; असतोऽपि प्रतिपन्नोपाधिसमर्थनेन सत्सरूपलापातात्; न प्रतीयेतेति प्रतीत्यभावोऽपि न प्रतीतिमात्रविष- यत्वाभावः। शब्दात्खगमनुभवामीतिवत् शब्दात् शशशक्त्मनुभवामीत्यनुभवसत्वेन विकल्पस्यापि ज्ञानात्मकत्वेनासतः
Page 320
६३८ अद्वैतसिद्धिः। [परिच्छेद: १ ]
केचितु-वाध्यत्वं सत्यसतिचानुपपन्नमिति अनिर्वाच्यत्वमिति-आहुः। नच-अतीते तत्काला- सति ध्वंसप्रतियोगित्ववत् सर्वदा असत्यप्यत्यन्ताभावप्रतियोगित्वं स्यात्, तथाच बाध्यत्वं नात्य- न्तासत्वविरोधीति-वाच्यम्; कालान्तरसत्तायाः कालान्तरसत्तां प्रत्यनुपयोगेSपि विद्यमानताद- शायामेव घटादौ ध्वंसप्रतियोगित्वम्; 'अनित्यो घटोऽस्ती'ति प्रतीतेः, नतु ध्वंसादिकाले घटे ध्वंसप्रतियोगित्वम्; तदानीं घटादीनामेवाभावात्। नच तर्हि घटो न ध्वंसप्रतियोगीति प्रत्ययः
गौडब्रह्मानन्दी (लघुचन्द्रिका)। कालान्तरसत्ताया: ध्वंसप्रतियोग्यादेः स्वकालसत्तायाः। कालान्तरसत्तां ध्वंसप्रतियोगित्वादेः ध्वंसकाल- सत्ताम्। तदानीमिति । तत्कालस्याधिकरणासंबन्धाढ्कूंसप्रतियोगित्वानवच्छेदकत्वमिति भावः । सममिति। ्वंसप्रतियोगिभेदस्योक्तधीविषयत्वात् स्यात् भ्रमः । अत्यन्ताभावविषयकत्वे तु द्वयोः प्रमात्वं घटस्योत्पत्तिकाले रूप- स्येव नाशकाले तत्प्रतियोगित्वस्याप्यत्यन्ताभावसत्वादिति भावः । यत्तु 'स्वाधिकरणक्षणे घटो न नश्यति, किंतु
परोक्षवृत्तिविषयत्वसतात्। नापि सत्वेन प्रतीतिविषयत्वाभावः; शशशत्तमस्तीति वाक्येन तादृशप्रतीतेरपि जननात्। यथा- श्वादौ गोशङ्गमस्तीत्यादिप्रत्यये विशिष्टस्यैवानुभवः, एवं शशशृङ्गमस्तीत्यादावपि विशिष्टस्यैव भानं विवक्षितम्। समस्तपद- बोध्यस्यैवेतरपदार्थान्वयौचित्यादिति न शशे शुद्गारोपः रान्ने शशीयतारोपो वा तत्र विवक्षित इति अनिर्वाच्यविषय कत्वं पराहतम्। एवंचासच्छशशङ्गमिति वाक्याच्छशशङ्मस्तीति वाक्ये न कोऽपि विशेषः। एतेन-शशशृङ्गपदाबोधकलवा- दिकं-परास्तम्। अपरोक्षप्रतीतिविषयत्वाभावोऽपि नात्रासिद्धः; सन्मात्राविषयकमपरोक्षज्ञानमित्यनुमानेनासदपरोक्षज्ञा- नसाधनसंभवात्। सन्निकर्षो हि न ज्ञानसामान्यसामग्री। सन्निकर्षे सति क्वाप्यप्रमाया अदशनेन प्रत्युन प्रमाया एव दर्श- नेन इन्द्रियवदुभयानुगत्यभावेन तत्वायोगादिति न सामग्रीविरहेण तत्र बाधः, नापि वा शाब्दतमुपाधिः; अनुमितिभ्रमे साध्याव्यापकत्ात्। एतेन-सत्वेनापरोक्षप्रतीतिविषयत्ाभावोऽपि-निरस्तः; अन्यथा रूप्येदंतव्यावहारिकल्वादीना- मनवस्थापरिहारार्थमसतां प्रतीत्युपपादनासंभवात्। सत्वेनाप्रतीतस्यासतोऽपि सत्वं प्रनोतिमात्रेण व्यवहारोपयोगि भव- तीति न कोऽपि विरोधः । एवंच न ख्यातिबाधान्यथानुपपत्तिसिद्धिः। सिद्धावभि ख्यातिवाधाभ्यां सदसदात्मकतवमेव सिद्धेत्, नानिर्वचनीयतम्। युष्माकं मते रूप्यस्यासद्विलक्षणत्वेपि रूप्यमसदिति वाधो यथा न भ्रमः, एवमस्मन्मते सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषयकत्वेन भ्रम इति न भ्रमानुपपत्तिः । वस्तुतः सदसदात्मकस्य भ्रमेऽपि तदा- त्मतयैष भानं न नियतम् ; अन्यथा रूप्यं सदसद्विलक्षणमिति भवन्मतेऽपि प्रतीत्यापत्तेः। सवथा न खयातिबाधान्यथा नुपपत्त्या रूप्याद्यनिर्वचनीयत्वसिद्धिरिति सर्वमनवद्यमिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- वेदान्तानां निर्विशेषलादौ न परमतात्पर्यम्, किंतु शुद्धब्रह्मण्येवेति मुख्यतात्पर्यविषयत्रूपं प्रामाणिकत्वं यदि स्यात् तर्हिं न बाध्येतेत्यापादने न व्यभिचारः। यथाऽज्ञाननिवर्तकवृत्तिविषयः प्रामाणिकः एवं तदवच्छदकमपीनि घटायप्रमाणलम- निर्वचनीयत्वे एवोपयुनक्ति। यथाचात्राबाध्यत्वं सत्वं, यथावा न शेषवैयर्थ्य एकत्वोत्त्यविरोधक्च तथाऽ्र्द्वतसिद्धावेव व्यक्त- मिति न पिष्टपेषणार्थ प्रवर्तामहे। बाधोऽपि निवृत्तिरूपः शुक्तिरूप्यादिसाधारण एवेति मिथ्यानिरुक्ती व्यक्तम्। असतस्तु प्रतिपन्नोपाधिकत्वाभावे अप्रतिपन्नोपाधित्वस्य सत्वेन प्रतीत्यनर्हत्वरूपत्वेन वा न कालासंवन्धरूपनिःस्रूपालवासत्वे कोऽपि विरोधः। शशशङ्गमनुभवामीति तु न प्रत्यय इति विकल्पो न ज्ञानम्। ज्ञानविभाजकपातञलसूत्रानुरोधेन ज्ञानत्वेऽपि विक- ल्पान्यवृत्तिविषयत्वाभाव एवात्रापाद्य इति न दोष इत्यपि सिद्धावेव निरूपितम्। असति सत्ासंबन्धेन शशशङ्रमस्तीत्य- त्रानिर्वचनीयस्यैव भानम्। नहि नृशङ्गवत् शशशृङ्गमपि विशिष्टमपि सत्वान्वययोग्यं प्रसिद्धम्, येन तस्येव सत्ान्वयः संभाव्येत। पतेन-असत् नृशङ्गमिति वाक्याच्छशशङ्गमस्तीति ज्ञानस्य विशेषोऽपि-व्याख्यातः। सन्निकर्षाभावेन तु नासद्विषयरूपपरोक्षज्ञानमुत्पद्यते। यथाच सन्निकर्षस्य प्रत्यक्षसामान्ये हेतुत्वं तथाऽन्यत्र व्यक्त्तम्। एतेन-बाघात्सन्मा- त्राविपयकमित्यनुमानमपि-पराहृतमिति ख्यातिबाधौ नान्यथासिद्धां। नच तया सदसदात्मकत्वमिद्धिः; प्रमाणाभा- वात्। नहि रूप्यं सदसदात्मकमिति प्रतीतिविद्यत इति ख्यातिबाधान्यथानुपपत्त्या रूप्याद्यनिर्वचनीयत्वं सिद्धमिति- व्यवस्थापयन्ति ॥ इति ख्यातिबाधान्यथाऽनुपपत्तिनिरूपणम्।।
Page 321
[निषेध० अनिर्षच० समर्थनम्] ६३९
स्यात् ; न रूपवानित्यस्यापि प्रसङ्गात्। अथ यावत्सत्वं रूपसत्त्वान्नैवम्, समं प्रकृतेऽपि। वस्तुतस्तु -ध्वंसकालेऽपि घटो ध्वस्त इति ध्वंसप्रतियोगिता घटे प्रतीयत एव। तथाचानागतवर्तमानाती तावस्थाः क्रमेणाविर्भावयन् तिरोभावयंश्चानिर्वाच्यो घटः कालत्रयेऽप्यनुस्यूत इति नः सिद्धान्तः। एवंच सत्यनिर्वाच्यत्वमेव प्रतियोगित्वादौ प्रयोजकमिति स्थितम्। ननु-असद्वैलक्षण्यापेक्षया लघुत्वात् सत्त्वमेव प्रतियोगित्वादौ प्रयोजकमस्तु, तथाचानिर्वाच्यत्वेपि प्रतियोगित्वादिकमनुप- पन्नमेवेति-चेत्, सत्यम्; सत्त्वमेव यत्किचित्कालाबाध्यत्वरूपं तत्र प्रयोजकम्, नतु त्रिकालाबा- ध्यत्वरूपम्; गौरवात्। नच तर्हि कथं ! सति बाध्यत्वमनुपपन्नम्; न सन्मात्रे, किंतु परमार्थसती- त्यवेहि। तथाचानिर्वाच्यतापक्षे नानुपपत्तिः। नच तर्हि कथमसद्वैलक्षण्यप्रतियोगित्वमसति कथं वा नासदासीदिति श्रौतनिषेध; असत्त्वं तावन्निस्वःरूपत्वम्। तद्वैलक्षण्यं सत्स्वरूपत्वं तथ् निष्प्रतियोगिकमेव। श्रुत्यर्थोऽपि तदेव। तथाच नास्तिप्रतियोगित्वप्रतिपत्तिः। नच-राश- शृङ्गं नास्तीति प्रत्यक्षत पवासति निषेधप्रतियोगित्वमनुभूयत इति-वाच्यम्; योग्यानुपलब्धिस्ता- वदभावग्राहिका। योग्यता च शशशङ्गादीनां दोषघटिता वाच्या। तस्यां नानुपलम्भः । अनुपलम्मे च न सेति योग्यानुपलब्धेरसंभवात् । तदुक्तं-'दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता। तस्यां नानुपलम्भोऽस्ति नास्ति सानुपलम्भन'इति। नच-प्रतियोगिसत्त्वविरोध्यनुपलब्धिरेव तद्राहिका, साच प्रकृतेऽस्त्येवेति-वाच्यम्; स्तम्भात्मनि योग्यत्वप्रसिद्धा पिशाच उपलम्भापादनं संभ- वति। शशशृङ्गास्तित्वं न योग्यतया व्याप्तम्। यद्वलात्तेन उपलम्भ आपाद्येत। तथाच नात्र प्रति-
गाडव्रह्मानन्दी (लघुचन्द्रिका)। सानधिकरणक्षण' इनि प्रत्ययात् घटादेः स्वाश्रयक्षणे न नाशप्रतियोगित्वमिति, तन्न, स्ानधिकरणक्षणे नश्यती- त्यत्र हि नाशप्रतियोगित्वस्योक्तक्षणावच्छिन्नस्य न घीः, तथा सत्येतत्क्षणे नश्यति घटः एतक्क्षणोत्तरं न नश्यतीति धी: स्यात्, किंतु उक्तक्षणोत्पत्तिकनाशप्रतियोगी घट इति धी :; उत्पत्तेरप्याख्यातार्थत्वात्। तथाचोक्तप्रतियोगित्वस्य घटाधिकरणक्षणावच्छिन्नत्वेऽपि न क्षनिः । तार्किकादिरीत्येदमुक्तम्। स्वसिद्धान्तमाह-वस्तुत इति। अनिर्वाच्य- स्तत्तद्वस्थाभ्यो भेदाभेदादिना दुर्वचः । अनुस्यूत इति। संकुचितप्रसारितादिनानावस्थासु वस्त्रादिस्वरूपमिव मृत्पिण्डकपालघटभघटादिनानावस्थासु घटस्वरूपमेकमनुस्यूतम्। अतएव यन्मृदासीत् कपालंचासीत् पश्चात्तदेव जलाहरणादियोग्यं जातमिदानीं तदेव भझं तदयोग्यमिति प्रत्यभिज्ञा। तस्मादवस्थासु मिथो भिन्नासु व्यक्तिस्वरूपमनु- गतं तदभिन्नमिति भावः । किंचित्कालाबाध्यत्वरूपं किंचित्कलावच्छिनं बाधाविपयत्वमित्यर्थः। ब्रह्मतुच्छयोव्या- वृत्तये अवच्छिन्नान्तम्। ब्रह्मणि बाधाविपयत्वं न कालावच्छिन्नम्; सार्वत्रिकत्वात्, तुच्छे तु कालस्यासंबन्धादृपि न तदवच्छिनं तदिति भावः। समाधत्ते-न सन्मात्र इति। बाध्यत्वमनुपपन्नमित्यनुषज्यते। निःस्वरूपत्वं सख्वेन प्रतीत्यनर्हत्वम्। सत्स्वरूपत्वं सर्वेन ज्ञेयत्वम्। निष्प्रतियोगिकमिति। तथाचासद्विलक्षणादिपदमुक्तार्हत्वरूपेण निरूढलक्षणया बोधकमिति भावः। योग्यानुपलब्धिः योग्यस्य प्रतियोगिनोऽनुपलब्धिः। दोषघटिता अ्रहोपधाय- कदोपघटिता। तदुक्तमिति। न्यायकुसुमांअलाविति शेषः। ईश्वराभावग्राहकप्रमाणसन्भावादीश्वरो नास्तीति चतुर्थप्र- तिपत्ती 'योग्याऽदृष्टिः कुतोऽयोग्ये प्रतिबन्दिः कुतस्तराम् । क्वायोग्यं बाध्यते शङ्गं क्वानुमानमनाश्रयम् ॥' इति समाहितम्। अयोग्य ईश्वरे। योग्याऽदृष्टिः योग्यानुपलब्धिः। कुतः अनुपलब्धिमात्रस्याभावग्राहकत्वे त्वतीन्द्रि- यमात्रस्याभावग्रहणेन विलोपापत्तिः। नन्वेवं शशशङ्गादीनामभावोऽपि सिद्धेत्, तत्राह-प्रतिबन्दिः कुत इति। शश श्ङ्गे साधकाभावमात्रं न तद्भावसाधकमिति नोक्तप्रतिबन्दिः, ईश्वरे तु साधकं पञ्चमस्तबके वक्ष्यते। अयोग्यं शशशङ्गम् । क्व बाध्यते शशश्ङ्गं नास्तीत्यनुभवस्य शरे शृङ्गबाधकत्वम्, शङ्गत्वेन योग्यतासत्येव। ननु प्रयोजनधी- शरीरयोव्यांपकयोरभावाद्वयाप्यस्य कर्तृत्वस्य इश्वरेऽभावोऽनुमेयः, तत्राह-क्वानुमानमिति। आश्रयस्येश्वरस्य सि- द्विहेतुतत्साधकमानेनैव तस्य कतृंत्वादिकमपि सिद्धमिति कारिकार्थः। नन्वसत्ख्यात्युपनीते ईशे तदनुमेयम्, तत्राह 'व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता । अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥' इति। व्यावर्त्यः निरस- नीय: कर्तृत्वादिः। तद्भाववत्ता भाविकी प्रामाणिकी। विशेष्यता आश्रयानुमानेन वाच्या। नचालीके सा संभवति, अस्तु तर्ह्यलीकस्येशस्याभावानुमानम्, तत्राह-अभावेति। वस्तुनो न त्वलीकस्य। तथाचानुयोगित्वप्र- तियोगित्वे नालीके स्त इति भावः। ननु अयोग्यस्याप्यनुपलब्ध्या तदभावो गृद्यताम्, तम्राह-दुष्टेत्यादि। दुष्टा दोषसहिता शशश्रङ्गाधुपलम्भस्य सामग्री वासनाहितशब्दादिरूपकारणकूटं योग्यतेति योग्यस्यैव प्रतियोगिनोऽनुपल- ब्धिरभावत्राहिका वाच्या; अन्यथाऽतीन्द्रियमात्रस्य सर्वत्राभावसिद्धापत्तेः। सा चप्रकृते नास्तीति भावः । प्रतियो
Page 322
६४० अद्वैतसिद्धिः । [ परिच्छेद: १ ]
योगिसत्वविरोधिनी अनुपलब्धिः। अतपव पिशाचादीनां भेद: प्रत्यक्ष:, नात्यन्ताभावः। नच- शुङ्गादिकं योग्यतया व्याप्तमेवेति-वाच्यम्: तावता हि शृङ्गाभाव एव योग्यानुपलब्धिसंभवः, न त्वलीकाभावे। एवंच शशशृङ्गं नास्तीत्युल्लिखन्त्या अपि वुद्धे: शशे शुङ्गाभाव एव विषयः । गधि शशशृङ्गं नास्तीत्यस्या अपि गवाधिकरणकशृङ्गे शशीयत्वाभावो विषयः अनन्यगतिकत्वात्। अत- एव गोरनन्वयोऽपि नास्तिः शशशङ्गादेरुपस्थित्यभावात् न तदभावग्रह इति तार्किकरीत्या उक्त- त्वाच्च। अतएव सप्तमे पदार्थत्वनिषेधस्यासंभवात् पादार्थाः षडेवेत्यत्र कुसृष्टिव्याख्यानम्। नच- 'घटो नास्ती' ति बुद्धेर्घटसंसगांभाव एव विषयः, नतु घटाभाव पूर्व तत्र घटस्य सत्वेन तदत्य- न्ताभावस्याभावात्, प्राक्प्रध्वंसाभावयोः प्रतियोगिकाले असम्भावितत्वात्, भेदस्य घटापसरणा- नपसरणयोस्तुल्यत्वात्, संसर्गोऽपि न तात्त्विक :: प्रतियोगिनि पूर्ववद्ध्वंसाद्यनुपपत्तेः, किंतु असन् संसर्ग इति-वाच्यम्; उक्तमत्रोदयनाचार्यैः-यन्निवन्धनाहि यत्प्रतीतिः तदभावनिबन्धनैव तदभा- वप्रतीतिः। इहच घटास्तित्वप्रतीतिः संयोगनिवन्धना, तद्भावप्रतीतिः संयोगाभावनिबन्धनघ। सच संयोगस्तात्विक एव । नच ध्वंसादिविकल्पःः घटानयनात् प्राक् संयोगप्रागभावस्य घटे अपसारिते संयोगध्वंसस्य सत्त्वात्। नहि घटे अन्यत्र नीते तद्देशे घटसंयोगोऽस्ति, येन प्रागभा- वादिर्व्याहन्येत। तथाच संसर्गप्रतियोगिकाभावस्वीकारेऽपि नासत्प्रतियोगिकाभावसिद्धिः। वस्तु- तस्तु-घटप्रतियोगिकत्वेनवाभावस्यानुभवान्नायं संयोगप्रतियोगिको भवितुमर्हति । एवंच सति कालविशेषसंसर्ग्यत्यन्ताभावो वा उत्पादविनाशशीलः तुरीयः संसर्गाभावो वा भूतलादिसंयुक्तम्य घटस्य विशेषणाभावप्रयुक्तविशिष्टाभावो वा अङ्गीकरणीयः । नच-अत्राद्े ध्वंसादेरुच्छेद: कपा- लेऽपि घटान्यकालसंसर्गिणवात्यन्ताभावेन तद्यवहारोपपत्तेरिति-वाच्यम्; 'दण्डी गारश्चलती'
गौडव्रह्मानन्दी (लघुचन्द्रिका)। गिसत्वविरोधिनी प्रतियोगिसत्वेन या प्रतियोग्युपल्धिरापादयितुं शक्यते, तदभावरूपा। तङ्राहिका अभावग्रा- हिका। एवकारात् पूर्वोक्तानुपलवधिन। तथा पिशाचादिभेदस्य स्तम्भादी मनस्त्वात्यन्ताभावस्य घटादों ग्रहे तदभावा- दित्यर्थः । स्तम्भात्मनि स्तम्भाभिन्न स्तम्भो यदि पिशाचः स्यात्, तदोपलभ्येतेत्यापादनं नु संभवत; स्नम्भाभिन्नत्व- स्योपलब्धिविषयत्वरूपयोग्यत्वव्याप्यत्वात्। अत्र यदि शशशङ्गं स्यान्, तदोपलभ्येनेत्यापादनं तु न संभवति; शश- शृङ्गस्योक्तव्याप्य त्वाभवादििति मुायार्थ:। ननु शशशङ्गं नम्तीत्युल्वनुपत्या शङवाढिना योग्नुपलब्धिेव शश शङ्गाद्यभावग्राहिका, त्राह-एवंचेति। अतएव अप्रसिद्ध स्याभावबुद्धो विशेष्यतया विशेषणतया वा प्रत्यया- भावादेव। सप्तमे द्रव्यादिपड्भिन्ने। पदार्थाः पडेवेत्यत्र पडित्यस्योद्वेश्यत्वाद्विशेष्यसङ्गतवकार स्यान्ययोगव्यवच्छेदबो- धकत्वेन द्रव्यादिपडन्येप्वभावेपु पदार्थत्वव्यवच्छेदः 'पार्थ एव धनुर्धर' इत्यादो पार्थान्येपु धनुर्धरत्वव्यवच्छेद इव बोध्यः। स चाप्रसिद्धत्वात् बाधितत्वाच्च विशेषणतया बोद्धुमशक्यः। बाधवारणाय पडन्यभावे पदार्थेत्वव्यवच्छेद बोध्ये विशेष्याप्रसिद्धिरपि। तथाच तद्वदेव शशशङ्गादरप्रसिद्धस्य नाभावविशेषणतया बोध इति भावः। कुसृ- ष्टीति। पडेव पदार्था इत्यत्र पडन्येप्वभावेपु पदार्थत्वव्यवच्छेदे उक्ताभावः प्रतीतो न वा। आद्े सपव पढ़ार्थाः । द्वितीये कथं निषेधः? अथ-पदार्थपु सप्तत्वं नेत्यर्थ इति-चेन्न; घटादिपु सप्तत्वसत्वात्। अथ-द्रव्यत्वादिपट- धर्मेपु सप्तत्वं नाम्तीत्यर्थ इनि-चेन्न पडन्यभावसत्वऽपि तत्संभवात। अथ-भावानां द्रव्यत्वादिपट्परित्यागो नेत्यर्थ इनि-चेन्नः पटसु तस्येष्टत्वात्। पडन्यभावस्याप्रसिद्धेरित्याद्याशक्का भावत्वावच्छेदेन द्रव्यत्वादिधर्माणां पण्णामयोगसमुदायव्यवच्छेदो बोध्यते। स च समुदायोऽभावेपु प्रसिद्धः। तथाचायोगव्यवच्छेदबोधः। अथवा- द्रव्यादिपडन्ययोगव्यवच्छेदादन्ययोगव्यवच्छेदबोध इति लीलावत्यां व्याख्यातम्। असंभावितत्वादिति। घटो नास्तीत्यादो घटसामान्यस्य ध्वंसः प्रागभावो वा विषयो वाच्यः । तत्र आद्यो महाप्रलयान्यकालेव्वप्रसिद्धः। द्विती- यस्तु सर्वदेवाप्रसिद्ध इति भावः । यद्यपि घटसंयोगादिसामान्यध्वंसः प्रागभावो वा न महाप्रलयान्यकाले प्रसिद्धः; तथापि घटसंयोगा: यावन्तः तत्प्रतियोगिकाः संसर्गाभावा उक्तधीविपया इत्याशयेनाह-घटानयनादित्यादि। अनुभवस्यादरे अभावकूटमपि न विषयः, किंतु सामान्याभाव इत्याशयेनाह-एवंचेति। विशषसंसर्गी विशेषा- वच्छिन्नाश्रयताकः। आद्ये इति। तृतीये तत्तद्विशेषणसंसर्गाभावकूट प्रयुक्तस्य संसर्गाभावकूटस्याभानमित्युक्ती तदु- पपत्तिम्तद्यक्तिध्वंसमादायवेति न तदन्यथासिद्धिः, द्वितीये तु यद्यप्युत्पत्यादिमता सामान्याभावेन तद्यक्तिनाश- स्यान्यथासिद्धिः; तथाप्यत एवेत्यादिना तस्य समाधेयत्वात्। आद्य एव समयविशेष एव। संसर्गश्चेत्यादेः कथनी- यत्वादाद्य इत्येवोक्तम्। घटान्यकालेति। तत्कालावच्छेदेन घटवतः कालादन्यकालेत्यर्थः । विलक्षणेति। नास्ती-
Page 323
[रूप्या० निषेधप्रतियोगित्वानुपपत्तिः ] गौडव्रह्मानन्दीयुता। ६४१
ति विलक्षणव्यवहारत्रये द्रव्यगुणकर्माणि विलक्षणानि हेतुर्यथा, तथात्रापि नास्ति नष्टो भविष्यतीति विलक्षणव्यवहारत्रयस्यै केनात्यन्ताभा वेनोपपादयितुमशक्यत्वाद्विलक्षणाभावत्रयसिद्धिः। समयवि- शेषसंसर्गश्च तत्समयावच्छिन्नं स्वरूपमेव संयोगध्वंसादिवा। नच-संयोगादिध्वंसादिनैवावश्य- केन तर्हि प्रतीत्युपपत्तिरिति-वाच्यम्; घटप्रतियोगिकत्वेनानुभवानुपपत्तेरुक्तत्वात्। नच-कपा- लेऽपि घटध्वंसादि: संबन्धस्थानीयोऽस्तु, एक एवात्यन्ताभावो व्यवहारयत्विति-वाच्यम्; विल- क्षणव्यवहारत्रयानुपपत्या दत्तोत्तरत्वात्। अतएव द्वितीयतृतीयपक्षावपि क्षोदसहौ; घटप्रतियोगिक- त्वानुभवस्यान्यथा उपपादयितुमशक्यत्वात्। पतेन-दण्डसत्वेऽपि पुरुषासत्वाइण्ड्यभावदर्शना- दस्तु तत्र विशिष्टाभावः, नचात्र संयोगसत्त्वे संयोग्यभावो हष्टः, तथाच न विशिष्टस्याभावः, किंतु विशेषणस्यैवेति-निरस्तम्; संयोगिप्रतियोगिकत्वेनानुभवात्। संविदेव हि भगवती वस्तूपगमे शरणमिति। तस्मान्निषेधप्रतियोगित्वान्यथानुपपत्यापि अनिर्वाच्यत्वसिद्धिः ॥ इत्यद्वैतसिद्धौ निषेधप्रतियोगित्वानुपपत्याऽनिर्वचनीयत्वसमर्थनम्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। त्यत्रात्यन्ताभावत्वं नष्ट इत्यत्र ध्वंसत्वं भविष्यतीत्यत्र प्रागभावत्वमभावांशे प्रकारः । तानि च सखण्डा अखण्डा वोपाधय इत्यन्यदिति भावः । स्वरूपं भूतलाद्याश्रयरूपम् आश्रयत्वम्। तत्तद्धिकरणस्य स्वस्मिन् संबन्धत्वासंभवा- दाह-संयोगध्वंसादिर्वेति। आदिना संयोगप्रागभावादिसंग्रहः। तथाच घटस्य संयोगनाशोत्तरं पुनर्नयने नास्ती- ति व्यवहारस्य नापत्तिः; तत्र तत्संयोगप्रागभावकालीनस्य तत्तत्संयोगध्वंसस्यैव संबन्धखवात्। प्रतियोगिकत्वेनेति। यत्राधिकरणे प्रतियोगि न संयुक्तं तत्र नान्त्यपक्ष इति बोध्यम् । यत्त घटो नास्तीति धीर्न संयोगमात्रनिबन्धना, किंनु यत्र नास्तीति धीः, तस्थ घटसंयोगनिबन्धना। स च संयोगः असन्नेवेति, तन्न; यत्र कादाचित्को घटसंयोगः, तत्रोक्तधी: उक्त्तसंयोगनिबन्धनंव, अन्यत्र उत्तधीस्थलेपि न दोपः। यन्निबन्धनेत्याचार्योक्तिर्हयमर्थः-प्रतियो- ग्यनुयोगिनोयेन संबन्धेन रूपेण चाभावाविषयकवीविषयत्वं, तेन संबन्धेन रूपेण चाभावधीविषयत्वम्। तथाच प्रति- योगितानुयोगितावच्छेदकरूपेण प्रसिद्धिरभावबुद्याऽपेक्ष्यते, नतु तदधिकरणीयतत्तत्संबन्धविशिष्टप्रतियोगित्वाढिना। तदुक्तं-'सद्भावाभावो निरूप्यत' इति। एवंच घटसंयोगित्वभूतलत्वाभ्यां सतोः प्रसिद्धि: प्रकृतेऽस्त्येव ॥ इति लघुचन्द्रिकायां निषेधप्रतियोगित्वानुपपत्त्याSनिर्चचनीयत्वसमर्थनम्।
अथ निषेधप्रतियोगित्वानुपपत्तिः ।। (१) तत्र न्यायामृतकारा :- निषेधप्रतियोगितानुपपत्तिरपि नानिर्वचनीयत्वे प्रमाणम्; असत्त्वस्यात्यन्तिकनिषेधप्रतियोगितवरूपत्वेन तेन रूप्याद्यनि- वैचनीयत्वसाधनासंभवात्। प्रागभावादिदशायां असत एव घटादेस्तत्प्रतियोगितवमिति धर्मिसत्त्वानपेक्षमेव प्रतियोगित- मिति तस्य न रूपादिसाम्यं युक्तिसहम्। असद्वैलक्षण्याद्यपेक्षया लघुभूतस्य सत्वस्यैव प्रतियोगितवप्रयोजकत्वेन तेन सत्मेव सिध्धेन्नानिर्वचनीयतम्। अतएवासट्वैलक्षण्ये नासदासीदिति श्रुता चासतः प्रतियोगितनिर्देश उपपद्यते। शशशुङ्गं नास्तीति प्रत्यक्षमपि असत्प्रतियोगित एव प्रमाणम्, अन्यथा तदनुपपत्तेः। प्रतियोगितवविरोध्यनुपलब्धिरेव ह्यभावग्राहिका, साच प्रकृतेऽप्यविशिष्टा। नहि प्रतियोगिप्रत्यक्षत्वमभावप्रत्यक्षत्वे तन्र्रम्; स्तम्भे पिशाचान्योन्याभावाप्रत्यक्षतापत्तेः, जलप- रमाणो पृथिवीत्वाभावप्रत्यक्षप्रसंगाच। शशेच शृद्भानुपलव्धिर्महत्वे सत्युद्धूतरूपशृङ्गसत्ववरोनिति शशंा्ीि प्रत्यक्षमप्युपपन्नमेव। एतेन-शशशज्जं नास्तीत्यस्य शशे शुद्गाभावविषयकत्वमपि-परास्तम्। किंच घटो नास्ती- त्यादौ प्रतियोगिकाले तत्प्रागभावध्वंसयोरविषयत्वेन पूर्व तत्र घटसत्वेन तदत्यन्ताभावस्याप्यविषयत्वात्तत्संसर्गाभाव एव विषय इति संसर्ग एवासन्, नतु घट इति निषेधप्रतियोगित्वेन रूप्यादिष्वनिर्वचनीयतसाधनमनुपपन्नमेव। संसर्गतातिकत्वं तु तस्य भूतत्वे ध्वंसः, भावित्वे प्रागभावः, कदाप्यभावेऽत्यन्ताभाव इति नेत्यसतोऽपि प्रतियोगितमवर्जनीयमेव संभवति। पतेन-घटात्यन्ताभावस्य भूतलेन संबन्धश्च न तत्संयोगध्वंसादिः अथवान्योन्यभाव इति वर्धमानोक्तमपि-परा- स्तम् ; आवश्यकसंयोगध्वंसादिनैवाभावप्रतीत्युपपत्तेः, संयोगस्यैव निषेध्यकोटितादिष्टसिद्धेः। दण्डे सत्यपि पुरुषाभावेन दण्ड्यभाववत् भूतलसंयोगे सत्यपि घटाभावेन संयुक्ताभावादर्शनेन विशिष्टाभावान्तरकल्पनायोगाचेति निषेधप्रतियोगित्वं संसर्गादेरसत एवेति न तेनानिर्वचनीयत्वसिद्धिरिति-वर्णयन्ति ॥ अ. सि. ८१
Page 324
६४२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
(२) अद्वैतसिद्धिकारास्तु- निषेधप्रतियोगितानुपपत्तिरपि रूप्याद्यनिर्वचनीयत्वे प्रमाणम्। विद्यमानतादशायामेव घटादीनां व्वंसप्रतियोगितया भानम् ; घटोऽनित्य इत्यादिप्रतीतेः, नतु ध्वंसादिकाले घटे तत्प्रतियोगित्म्; तदानीं घटाद्यभावात्। नच तावता घटो ध्वंसाप्रतियोगीति प्रत्ययापत्तिः; अरूपवानित्यपि प्रत्ययापत्तेः। यावत्सत्वं रूपवत्वेन यथा न तदापत्तिरेवमत्रापीति मन्त- व्यम्। वस्तुतस्तु-अनागताद्यवस्थाः प्रादुर्भावयतः तिरोभावयतश्च कालत्रयेऽप्यनुस्यूतलाद्वटे ध्वंसप्रतियोगिताप्रत्य- योऽपि नानुपपन्नः। एवंच सतोऽसतो वा ध्वंसप्रतियोगित्वाभावात्तदन्यथाऽनुपपत्त्या रूप्याद्यनिर्वचनीयलम्। एतेन- असद्वैलक्षण्यापेक्षया लघुभूतल्वात् सत्त्वमेव प्रतियोगितप्रयोजकमिति-परास्तम्। तत्र सत्वं किं किंचित्कालाबाध्यतरू- पम्, उत त्रिकालाबाध्यत्वरूपम्, आद्ये इष्टापत्तिः । तद्धि त्रिकालाबाध्यत्वेऽनुपपन्नं सत् सद्भिन्नत्वे गमकम्। द्वितीये गौरवम्। असत्वं तावन्निःस्वरूपत्वं, तद्वैलक्षण्यंच निष्प्रतियोगिकं सत्स्रूपत्वमिति नासदासीदिति श्रुत्यर्थोऽपि नानुपपत्र इत्य- सति नास्ति प्रतियोगितवप्रतिपत्तिः, शशशङ्गं नास्तीति तु न प्रत्यक्षम्। योग्यनुपलब्धेरेव तत्कारणलात्, दुष्टायामुपलम्भ- सामभ्यां सत्यां शृङ्गोपलम्भस्यैव सत्वात्र तदनुपलम्भः । प्रतियोगिसत्वविरोधिन्याप्यनुपलब्ध्या शङ्गाभाव एव शशे प्रत्यक्ष: स्यात्, नत्वसत्शशशङ्गाभाव इत्यगत्या शशशद्गाभावविषयकत्वमेवोक्तप्रत्यक्षस्याज्गीकरणीयम्। एतेन-घटो नास्तीति बुद्धिरपि-व्याख्याता; यन्निबन्धना यत्प्रतीतिस्तदभावनिबन्धनैव तदभावप्रतीतिरिति घटास्तित्ववुद्धेः तत्संयोगनिबन्ध- नत्वात्तदभावस्यैव तत्र विषयत्वम्। सच संयोगस्तालिक एवेति नासत्प्रतियोगितसिद्धिः। परमार्थतस्तु-घटप्रतियो- गिको विशिष्टाभाव एवात्र विषयः; अनुभवानुसारात्। यथाचात्र न प्रागभावध्वंसादिसिद्धनुपपत्तिस्तथा सिद्धौ विस्तरः । सर्वथाचानुभवशरणानां प्रामाणिकानां न कुत्राप्यसत्प्रतियोगिलानुभव इति रूप्याद्यनिर्वचनीयत्वं सिद्धमिति- निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- प्रागभावादिप्रतियोगित्वं घटादीनां अङ्गीकरणीयमेव; अन्यथाऽनुभवविरोधात्। नच तेपां कालत्रयानुस्यूतत्वं। घटे नष्टे घटान्तरादानप्रवृत्तिहिं तदाऽनुपपन्ना स्यात्। अनिर्वाच्ये वाधानुपपत्या सत्त्वायोगात् सत्त्वस्य प्रतियोगितप्रयोजकत्वे न रूप्याद्यनिर्वचनीयत्वसिद्धिरिति निषेधप्रतियोगित्वं नानिर्वचनीयत्प्रयोजकम्। सामान्याभावग्राहकसामम्या एव विशेषाभा- वग्राहकतात् शुङ्गाभावत्राहकसाम्येव शशशङ्गाभावोऽपि प्रत्यक्ष इति शशशङ्गं नास्तीति प्रत्यक्षमप्यसत्प्रतियोगित्वे प्रमा- णम्। एतेन-भूतले घटो नास्तीति वुद्धिरपि-व्याख्याता। नजुलेखिना हि प्रत्ययेन भूतलघटसंयोगो विषयीक्रियते नतु संयोगमात्रमिति तस्य घटापहरणानन्तरमसत्मित्यसत्प्रतियोगित्वे तदपि हि प्रत्यक्षं प्रमाणम्। एतेन-विशिष्टाभा- वविषयत्वमपि-परास्तम्; संयोगाभावविषयत्वेनवोपपत्तेरित्यसत एव निषेधप्रतियोगिलान्न तदन्यथाऽनुपपस्या रूप्या- द्यनिर्वचनीयत्मिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- घटादीनामवस्थाभेदेन कालन्नयानुस्यूतत्वेऽपि न घटे नष्टे उदकाहरणार्थ घटान्तरादानप्रवृत्त्यनुपपत्तिः; अवस्थाविशे- षस्यैव कार्यविशेषप्रयोजकलात्। अतएवहि-यन्मृदासीत्कपालं चासीत् पश्चात्तदेव जलाहरणादियोग्यं जातमिदानीं भग्न- मिति प्रत्यमिज्ञोपपद्यते। बाध्यस्यापि प्रातिभासिकं सत्वं विद्यत एवेति सत्स्य प्रतियोगितप्रयोजकत्वेऽप्यनिर्वचनीयता- विघातः । अप्रसिद्धस्य शशशङ्गस्य विशेषणतया विशेष्यतया वा ग्रतीत्यभावात् शशशङ्स्यासतः शङ्गत्वव्याप्यधर्माभावेन शुङ्गविशेषत्ाभावाच न सामान्याभावग्राहकसामयामपि शशरज्गाभावप्रत्यक्षोपपत्तिरित्यसत्प्रतियोगित्वे न शशशत्रं नास्तीति प्रत्यक्षं प्रमाणम्। एतेन-घटो नास्तीति प्रत्ययोऽपि-व्याख्यातः; संयोगत्ावच्छिन्नाभावविषयत्वेनोप- पत्तेः, प्राप्ताप्राप्तविवेकन्यायेन भावाभाववुद्धो: घटोऽस्तिनास्तीत्याकारयोः संयोगमात्रविषयलात्। एतेन-विशिष्टाभावस्य घटप्रतियोगिकस्माभानमनुभवानुरोधात्साध्विति-सूचितमिति सर्वमनवद्यमिति-विवेचयन्ति॥ इति रूप्याद्यनिवेचनीयत्वे निषेधप्रतियोगित्वानुपपत्तिः॥
Page 325
[श्रुत्यर्थापान््युपपन्तिः] गौड्रह्मानन्दीयुता। ६४३
अथ श्रुत्यथापत्त्युपपत्तिः । 'नासदासीओ सदासी' दित्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाणम्। नच-अत्र सदसच्छब्दौ पश्च- भूतपरौ, 'न सत्तन्नासदुच्यत' इत्यादा भूते प्रयोगात्, 'यदन्यद्वायोरन्तरिक्षाच्चैतत्सद्वायुरन्तरिक्षं चेत्यस'दिति श्रुतेश्चेति-वाच्यम्; प्रसिद्धपरत्वे संभवति अप्रसिद्धपरताया अयुक्तत्वात्, नहि भूते सदसच्छब्दौ प्रसिद्धौ, किंतु पारमार्थिकापारमार्थिकयोरेव। नच 'नासदासी' दित्यत्राप्रसिद्धप्र- तिषेधापत्तिः; 'नो सदासी'दित्यनेन सद्भिन्नत्वे उक्ते असत्वस्यापि प्रसक्तेः। नच तदानीमित्यस्य वैयर्थ्यम्: 'नासीद्रजो नो व्योमे'ति रजोनिषेधादावेव तदन्वयात्। नहि रजःप्रभृतीनां सर्वदा
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नासदासीदिति। 'नासदासीनो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत्। किमावरीवः कुहकस्य शर्म- सम्भ: किमासीत् गहनं गभीरम्। न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्व आसीत् प्रकेतः । अनीदवातं स्वधया तद़ेकं तस्माद्ान्यन्न पर: किंचनास। तम आसीत्तमसा गृढमग्रे प्रकेतं सलिलं सर्वमा इदम्। तुच्छेनाभ्वपिहितं थदासीत्तपसस्तन्महिना जायतैकम्। कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासी'दित्यादिसूक्तम्। पारमार्थि- कयोरिति। भूतेपु शास्त्रीयप्रसिद्धिमात्रम्, सत्यालीकयोस्तु शास्त्रीया लौकिकी च प्रसिद्धिः; अतस्तयोर्बलवश्वम्। अतएव माधवीयभाप्ये व्याख्यातम्। प्रलये स्थितं कारणस्वरूपमाह-नासदित्यादि । तदानीं प्रलये असन्नि- रुपाख्यं नासीत्; तस्याकरणत्वात्। नापि सत् सत्वेन निर्वाच्यमासीत्; सद्रूपस्य तद्विलक्षणजगत्परिणामित्वासंभ- वात्। तथाचानिर्वाच्यमासीदित्यर्थः । रज इति। रजांसि लोक इति यास्कः । एकवचनं तु सामान्यापेक्षम्। व्योमा- देर्वक्ष्यमाणत्वात् तदन्यलोकास्तदानीं नासीरन्नित्यर्थः । तथा व्योम आन्तरिक्षलोक: परः परम्तादुपरि दुलोकादिस- त्यलोकान्तं च तदानीं नासीत्। एवं चतुर्दशभुवनगर्भव्रह्माण्डं निपिध्य तदावारकत्वेन पुराणप्रसिद्धानि भूतानि निषे- धनि-किमावरीव इति। आवृणोतेर्यङ्लुगन्ताच्छन्दसि लटि तिपि रूपमावरीव इति। किमावरणीयं भूतान्याबृ- णवन्तु, आवरणीयाभावात्, तदा नावारकाणि भूतान्यासन्नित्यर्थः । कुह कुत्र देशे स्थित्वा भूतमावृणुयास्तादृशदेशोऽपि तदा नेत्यर्थः । कस्य शर्मन् शर्मणे भोगाय आवृणुयात् भोक्तारोऽप्युपाधिमनोलयात्तदा नासन्नित्यर्थः । 'आपो वा इदममे सलिलमासीदि'नि श्रुत्या अम्भःसत्त्वभ्रमं निरस्यति-अम्भः किमासीदिति। प्रलये संहर्ता मृत्युः स्यात्त- त्राह-न मृत्युरिति। तर्हि अमृतं जीवनं स्यात्तत्राह-अमृतमिति। न रात्र्या इति। रात्या अह्वश् प्रक्रेतः प्रज्ञानं नासीत ; चन्द्रसूर्याभावात्। आनीदित्यादि। तत् सर्ववेदान्तप्रसिद्धं ब्रह्म आनीत् जीवितवत्। प्राणासंबन्धात् कथं जीवनम् ? तत्राह-अवातमिति। आसीदित्यर्थकमानीदित्युक्तमिति भावः। स्वधया मायया सहितम्। स्वस्मिन् धार्यते इति स्वधा। स्वधेत्यनेन सहार्थकतृतीयया च मायाया ईश्वरानाश्रितत्वमीश्वरेक्षणानपेक्षत्वं च साङ्गयोकतं वार्यते। एकमद्वितीयं सर्वदा द्वैतशून्यम्। एवंच स्वधासाहित्योक्तिर्व्यवहारतः, न परमार्थत इति बोध्यम्। ननु यदि स्वधासहितं ब्रह्म तदास्ति, तदा न रज इत्याद्यसंगतम्, नहि मायातः अन्यद्रजआदिकम्, तत्राह-तस्माद्धान्य- दिति। तस्मात् स्वधासहितब्रह्मणोऽन्यत् परः सृष्टिकाले जायमानं नास तदा न बभूव। हशब्देनानिर्वाच्यस्य कार्य- जातस्य प्रसिद्धिं द्योतयति। ननु-यदि तदा जगन्नासीत्, कथं तहि जनिक्रियाकर्तृत्वम् ! कारकविशेषस्यैव कर्तृत्वात्, क्रियानिमित्तत्वं च कारकत्वम्, पूर्ववर्तिन एव च निमित्तत्वम्, तत्राह-तम आसीत्तमसा गूढमग्रे इति। तमसा अन्धकारवत् भावरूपेणात्मस्वरूपावारकेणाज्ञानेन। गूढं संस्काररूपापत्या स्ववशीकृतम्। तमः अज्ञाना- भिन्नं जगत्तदानीमप्यासीदित्यर्थः । तथाचाविर्भावःस्थूलतापत्तिरूपः उत्पत्तिः। संस्कारावास्थैव नाशः । एतेनास- त्कार्यवाढिनो निरस्ताः । ननु तमसा गूढं तम इति विरुद्धम्, तव्राह-अप्रकेतं तमसोऽत्यन्तभिन्नत्वेनाज्ञायमानं उक्तभेदे प्रमाणशून्यमिति यावत्। अतएव तमसि सलिलं सङ्गतं तादात्म्येन संबद्धम्। 'पल गता'विति धातोरौणादिक इलप्रत्ययः। सर्व जगत्तदाप्यासीत् अस्तेर्लडि तिपि 'बहुलं छन्दसी'ति इडभावे 'हल्डयाभ्य' इति तिलोपे 'तिप्यनस्ते'- रिति दकाराभावः। यद्ा सलिलममिति लुपोपमा। यथा नीरं क्षीरयुक्तमेकतापन्नं, तथा कारणगतं जगदित्यर्थः । तुच्छेन सद्विलक्षणेन अपिहितं निगृढम् एकं संस्काररूपैकावस्थापन्नम्, आभु, आसंमतात् भवनयुक्तं यज्जगद़ासीत्; तत् तपसः ईश्वरालोचनस्य महित्ना स्थूलविचित्ररूपेणाजायत आविर्बभूव। अथवा-अपिहितम् आवृतम् एकम् अद्वितीयम् आभु विभु संस्कारतापन्नजगदनुस्यूतं यत् ब्रह्म आसीदित्यर्थः । प्रसक्तेरिति। सद्भिन्नत्वेनैवासत्वस्यानु- मानसंभवादिति भावः । नच-एवं शास्त्रमूलकप्राप्तियुक्तस्य शास्त्रेणैव निपेधे विकल्पापत्तिरिति-वाच्यम्; अननुष्टेये विकल्पासंभवात्। नहि अयं घटो न घट इत्यादौ विकल्पः; विरोधात्। वैयर्थ्यमिति। नासदासीदित्यन्रान्वये
Page 326
६४४ अद्वैतसिद्धिः । [परिच्छेद: १ ]
अनस्तित्वम् । नच 'नो संदासी' दित्यनेनैव रजःप्रभृतिनिषेधे सिद्धे पृथङ्निषेधानुपपत्तिः; 'नो सदासी' दित्यत्र सच्छब्दस्य परमार्थसत्परत्वेन व्यावहारिकसतो रजःप्रभृतेर्निषेधस्य ततः प्राप्त्यभा- वात्, 'आनीदवातंस्वधया तदेक'मिति वाक्यशेषात् ब्रह्मणोऽपि अनिर्वाच्यत्वप्रसङ्गः 'तम आसी' दिति वाक्यात् अविद्याया इवेति चेत्, श्रुत्यन्तराविरोधाय सदेकं ब्रह्म सदासीन्न सदसद्विलक्षण- मित्यर्थपर्यवसानात्॥ इति अद्वैतसिद्धौ नासदासीदित्यादिश्रुत्यर्थापत्तिः ॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। इत्यादिः। रजोनिषेधादावेव, न त्वसदादिनिषेधे। वस्तुतो नासदासीन्नो सदासीदित्यस्य सदसन्विन्नमासीदित्यर्थः । तस्य- च वाक्यस्य तम आसीदित्यनेनैकवाक्यतया सदसन्भिव्नं तम आसीदित्यथपर्यवसानसंभवात्तदेकवाक्यतार्थमेव नासदि- त्यादौ तदानीमित्यन्वय आवश्यकः । नजः पर्युदासार्थकत्वास्वीकारे तु सन्नासीदित्यत्र बाधः; सत आत्मनः सदा सश्वात्। अथ-आनीदवातमित्यनेनंकवाक्यतया आत्मान्यसन्नासीदित्यर्थ इति-चेन्न; प्रतियोग्यप्रसिद्धेः। सदस- तोनिषेधसहकृतेन तम आसीदित्यनेन सदसन्जिन्नमासीदित्यस्यार्थाल्लाभः स्यात्। पर्युदासपक्षे तु तस्य शाब्दत्वमेवेति स एव युक्त :; 'आभ्नेयं चतुर्द्धा करोति पुरोडाशं चतुर्द्धा करोति' इति वाक्ययोरिवोपसंहारेणैव विवक्षितार्थसिद्धेः। अत एव रजोनिषेधादावेव तदन्वयादिति मूले उक्त्तम्। तत्रह्मयंभावः-यदि सदसतोर्निषेधेन शाब्देन तमसि सद- सद्न्यत्वमार्थिकसुच्यते, तदा नासदासीदित्यादी तदानीमित्यस्यान्वय आवश्यकः। नहि कदाचित्सदसतोर्निषेधेन सहकृता कालान्तरे तमसःसत्वोक्तिस्तमसः सदसदन्यत्वं विना अनुपपन्ना, किंत्वेकदा तदुभयोक्तिस्तद्विना अनुपपन्ना। यदि तु सदसदन्यत्वं शाब्दं, तदा रजआदिनिपेध एव तदन्वयः, नतु सदसन्निपंधे; तस्य नजा प्रकृते बोधनाभावा- दिति। अतएव मूले सन्भिव्नत्वे उक्ते इत्युक्तम्। नजोक्तेत्यर्थः । व्यावहारिकसतः सच्वेन व्यवहार्यस्य। एतेन- प्तीतिकस्यापि पृथगुक्त्यापत्तिरिति-परास्तम्; रजआदिपदस्य प्रातीतिकादिघटितलोकपरत्वेन व्याख्यातत्वात्। शकते-आनीदित्यादि। यदा तम आसीदित्यादिवाक्यशेपादविद्यायाम्नदात्मककार्यसामान्यस्य च सदसदन्यत्वं लभ्यते। तमःपदस्याविद्यात्मकार्थकत्वादविद्यात्मके आसीदित्यस्यान्वयात्, आविद्यायामपि सदन्वयादर्थात्तस्यामपि सत्वलाभसंभवाच्च, तदा आनीदित्यस्यासीदित्यर्थकतया आनीदित्याद्युपसंहारेण ब्रह्मणोऽपि सदसदन्यत्वं स्यादिति भावः । चेदिति। नेति शेषः । तेन पर्यवसानादिति हेतोर्नासङ्गतिः । श्रुत्यन्तरेति। 'सदव सोम्ये'ति 'सत्यं ज्ञान'- मित्यादिश्रुतीत्यथः । न सदसद्विलक्षणमासीदिति। 'नासदासीदित्याढिना सदसद्विलक्षणस्य प्रलये व्यवहारतः सश्वोक्तावपि आनीदित्यत्र विद्यमनकपदेन 'एकमेवाद्वितीय मित्याद्येकवाक्यतापन्नेन सदसद्विलक्षणस्य द्वितीयसामा- न्यस्याभावस्तदानीं लभ्यत इति भावः ॥ इति लघुचन्द्रिकायां नासदासीदित्यादिश्रुत्यर्थापत्तिः॥
(१) तत्र न्यायामृतकारा :- नापि नासदासीदिति श्रुत्यर्थानुपपत्तिरनिर्वचनीयत्वे प्रमाणम। तत्रहि सदसच्छव्दौ यदन्यद्वायोरन्तरिक्षाच्चैतत्सद्वायुर- न्तरेक्षं चासदिति श्रुत्यनुसारेण पञ्चभूतपरो। प्रसिद्धपरत्वेऽ्प्रसक्तप्रतिषेधापातात्; तदानीमित्यस्य नासदासीदित्यनेनैव सिद्धत्वेन आसीद्रज इत्यस्य च वैयथ्यांच्च। अन्यथा आनीदवातमिति वाक्यशेषान् ब्रह्मानिर्वाच्यं स्यादिति-वर्णयन्ति ॥ (२) अद्वेतसिद्धिकारास्तु- नामदासीदिति श्रुतिरप्यनिर्वाध्यत्वे प्रमाणम्। तत्रहि सदसच्छच्दी प्रसिद्धपरौ। नोसदामीदित्यनेन प्रपश्चस्य सद्धिन्नत्वे उक्ते प्रसक्तस्यासत्त्वस्य निषेधार्थमावश्यकनासीद्रजो नो व्योमेति रजःप्रभतिनिषेध एवान्वयान्न कस्यापि वैयर्थ्यम्। आनीद- वातमिति वाक्यशेपात् ब्रह्मणस्तु नानिर्वाच्यत्वम; श्रुत्यन्तरविरोधादिति न कोऽपि दोष इति-प्रतिपाद्यन्ति॥ (३) तरङ्गिणीकारास्तु- नो सदिति श्रुत्या सद्भिन्नत्वे निषिद्धे तया प्रसाधितस्यासत्वस्य थ्रुत्या निषेधायोगः। अतएवहि षोडशिभ्रहणविकल्पः, न तो पशौ कगेनीति निषेधान्यथानुपपत्या पशावाज्यभागविकल्पशोपपद्यते इति सद्भिन्नत्वनिषेधस्यासश्वाप्रसअकत्वादप्र- सकप्रतिषेधापत्या सदगच्छव्दौ पश्वभृतपराचेव, अन्यथा नदानीमित्यम्य नासीद्रज इति वाक्यस्य च वैयर्थ्यापत्तेः।
Page 327
[असत्ख्यातिभङ्ग: ] गौडब्रह्मानन्दीयुता। ६४५
अथासत्ख्यातिभङ्ग: । तस्मादनिर्वाच्यख्यातिरेवाप्रमाणसंभवात्, न त्वसदन्यथाख्यातिः; प्रमाणविरहात्। नचास- द्ाने असदेव रजतमभादिति प्रत्यक्षं मानम्; अनन्तरोक्तवाधकेन सद्वैलक्षण्यविषयकत्वात्; न- चेदं प्रत्यक्षमपि, त्वयापि हि असदात्मनः सतः प्रत्यक्षत्वमङ्गीक्रियते। नचात्र पूर्वकालीनभान- विषये रजते असत्त्वमिति ज्ञानम् असदात्मना सद्विपयीकरोति। नच विमतमसत्, सत्त्वानधिक- रणत्वात्, शशशङ्गवत्, विमता अप्रमा असद्विपयिणी, सत्वानधिकरणविषयकत्वात्, सन्मा- त्राविषयकत्वे सति सविषयकत्वात्।नृशङ्गमसदित्यादिवाक्याजन्यपरोक्षव दित्यनुमानं तत्र मानम्। पूर्वोक्तयुक्त्या तत्र वाधात्, प्रथमानुमाने शब्दैकसमधिगम्यत्वस्य द्वितीयतृतीययोः परोक्षत्वस्यो पाधित्वाञ्च। किंचासत्ख्यात्यङ्गीकारेण बौद्धमतप्रवेशापत्तिः। नन्र सदुपरागोविशेष :; तथाप्यस- त्ख्यात्यापत्तः तदवस्थत्वात्। नच-तार्किकैरपि असतः संसर्गस्य भानाङ्गीकारेण तेषामप्येवमापा- द्येतेति-वाच्यम्; तथाङ्गीकारे तेषामपि तथव। वस्तुतस्तु-तेषामपि सत्संसर्गभान एव निर्भरता। शुक्तिरूप्यं तत्तादात्म्यं चेत्यतोऽन्यस्य रजतभ्रमे अविषयत्वात्, तेषां च सत्यत्वात्, नच तर्हि भ्रम- त्वानुपपत्तिः व्यधिकरणप्रकारकत्वेन तत्त्वात्। नच-रजतप्रतियोगिकसंसर्गस्य शुक्त्यनिष्ठत्वाद- सत्संसर्गभानं विना व्यधिकरणप्रकारकत्वमेव न स्यादिति-वाच्यम्; तन्विकमायुष्मन्नसत्संसर्गः शुक्तिनिष्टः, येन तद्विपयत्वं व्यधिकरणप्रकारकत्वाय अङ्गीकुरुषे । तस्मात् भासमानवैशिष्ट्य- प्रतियोगित्वं न प्रकारत्वं, किंतु ज्ञानविषययोः स्वरूपसंबन्धविशेषः। स च स्वरूपसंबन्धः सन् वा संसर्गो भासतामसन्वा। उभयथापि समान एव। नच शशशङ्गमसदित्यादिवाक्यैरसत्यपि परो- क्षप्रतीतेस््वयाङ्गीकारेण तवाप्यसत्ख्यात्यापत्तिः तत्र हि न प्रतीतिः, किंतु विकल्पमात्रमित्युक्त- त्वात्। तस्मान्नासत्ख्यातिः ॥ इत्यसत्ख्यातिभङ्गः । गांडव्रह्मानन्दी (लघुचन्द्रिका)। न त्वसदन्यथाख्यातिरिति। असत्वव्यातिरन्यथाख्यातिर्वा नन्वित्यर्थः । अङ्गीक्रियत इति। अन्यथा शशश्- ङ्मसदित्यपि प्रत्यक्षमङ्गीक्रियेतेनि शेपः। सद्विपयीकरोतीति। नच-इदंत्वविशिष्टस्य सनोऽसदात्मकतया प्रत्यक्षं मानमिति-वाच्यम्, सदसदन्यत्वस्येव नत्र भानमित्युक्तत्वात्। पूर्वोक्तति। असतः प्रत्यक्षत्वाद्यसंभवेत्यर्थः । परोक्षत्वस्य परोक्षधीत्वस्य। ननु-आद्यम्योपाधेर्नशरङ्गादो साध्याव्यापकत्वम्, नस्य स्वज्ञानानुव्यवसायविषयत्वात्, द्वितीयस्यापि स्वज्ञानानुव्यवसाये साध्याव्यापकत्वमिति-चेन्न शाव्दान्यज्ञानं प्रति साक्षादनिपेध्यत्वेनाविपयत्वस्य प्रथमोपाधित्वात्, अप्रमाया असदन्यत्वादिविपयकत्वमादाय सद्विपयकत्वपर्यवसानवारणाय साक्षादसद्विपय कतवस्येव साध्यीकार्यतया द्विनीयस्यापि साध्यव्यापकत्वान्। असन्वा मिथ्या वा। समानः तदभाववद्विशेष्यतानिरूपित- तत्प्रकारताकत्वरूपव्यधिकरणप्रकारकत्वनिर्वाहकतया तुल्यः । वस्तुतो भासमानस्य वैशिष्वस्य प्रतियोगित्वं मास्तु प्रकारत्वम्। वैशिष्वस्य भासमानं प्रतियोगित्वं तु स्यादंव। रूप्यादौ झुक्त्यादिनिष्टवैशिष्ठ्यस्य प्रतियोगित्वभानादिकं सामान्यलक्षणाखण्डने वरिवेचितम्। तन्र हीति। हिशब्दोऽवधारण। नैव प्रतीतिरित्यर्थः ॥ इति लघुचन्द्रिकायां असत्ख्यातिभङ्ग:॥
व्यावहारिकसन्निषेधार्थत्वेन तत्सार्थक्ये प्रातिभासिकसन्निषेधार्थ वाक्यान्तरावश्यकतापत्तिः । एतेन-तदानीमित्यस्य नासीद्रज इत्यत्रान्वय इति-निरस्तम्; रार्वीन्वियोपपत्तो प्रक्रमभक्गायोगाच्च। आनीदवातमिलस्य तदेकं ब्रह्म सदा- सीन्नतु सदसद्विलक्षणमित्यर्थपरत्वे तदनन्तरवाक्येन सर्द्वलक्षण्याभाव एव प्रातिपद्यतंति नाविद्यादनिर्वचनीयत्सिद्धिरिति सर्वथाऽनिर्वचनीयतावादो न संभवदुक्तिक इति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- अननुष्टेये विकल्पासंभवादसत्त्वस्य सद्भिन्नतवनिषेधप्रसंजितत्वेऽपि न दोषेण नासदासीदिति नाप्रसक्तप्रतिषेधः । नापि तदानींपदवैयर्थ्यम्: रजआदिनिषेध एवान्वयात्। रजआदिनिषेधस्तु व्यावहारिकप्रातिभासिकसाधारणसर्वलोकनिराकरणा- र्थमिति न प्रातीतिकनिषेधपृथगुत्त्यापत्तिः । वस्तुतस्तु-नासदासीदिति प्रसज्यप्रतिषेधासंभवात् सदसद्िन्नत्वं आसी- दित्यर्थ एव तात्पर्यमिति मन्तव्यम्, व्रह्मनिर्वाच्यत्वं तु न संभवत्येवेति-विवेचयन्ति। इत्यनिर्वचनीयत्वे श्रुत्यर्थापत्तिः॥
Page 328
६४६ अद्वैतसिद्धिः। [परिच्छेदः १ ]
अथासत्ख्यातिभङ्गः।।
(१) तत्र न्यायामृतकारा :- यावताच नानिवाच्यत्वं तावताऽनिर्वचनीयख्यात्यसंभवादुद्वुद्धसंस्कारसचिवदुष्टेन्द्रियं सवसन्निकृषटं शुक्तीदमंशमसद्रूप्या त्मना गृह्लातीति असत्ख्यातिरेव युक्त्ता। असद्रूप्यभाने चासदेवेदं रजतमभादिति प्रत्यक्षं, विमतं असत्, सत्त्वानधिकरण- लात्, शशशङ्गवत्, विमता अप्रमा असद्विषयिणी, सत्त्वानधिकरणविषयलात्, नृशङ्गमसदिति वाक्यजन्यपरोक्ष प्रतीति- वत्, इत्यनुमानं च मानम्। नचैतावता बाह्यमतप्रवेशापत्तिः; सदुपरागेण तदवैषम्यात्। अन्यथा तार्तिकमतेऽ्रपि असत्सं- सर्गभानेन तदापत्तेः। शुक्तिरूप्योभयं तादात्म्यं चैव भासते, तच्च सत्यमिति तु न शङ्कनीयम्; तादात्म्यस्य रूप्यत्वसंस- र्गस्य चेदमंशनिष्ठत्वेनाग्रहणे इदंच रूप्यंचेति प्रतीत्यापत्त्या इदं रूप्यत्वेन ज्ञातमित्यनुव्यवसायायोगेन पुरोवर्त्यमिमुखप्रवृत्य- नुपपत्त्या सन्मात्रविषय कत्वेSप्रामाण्यायोगेन असतोऽपि तत्र भानमवश्यमङ्गीकरणीयमेव। तदभाववति तत्प्रकारकतमपि तद्वैशिष्यविषयकत्वेनैव, नतु विशेषणज्ञानजन्यत्वेन ईश्वरज्ञाननिर्विकल्पकत्वायोगादिति न कोऽपि दोष इति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- रूप्याद्यनिर्वचनीयत्वेन अनिर्वचनीयख्यातिरेव भ्रमे युक्ता, नत्वसत्ख्यातिः; रूप्याद्यसत्त्वे प्रमाणाभावात्। असदेवेदं रजतमभादिति सद्भिन्नत्वविषयम्। असदात्मना सत एव हि तयापि प्रत्यक्षमिष्यते। नच पूर्वकालीनभानविषयरजतेऽसत्त्व ज्ञानमसदात्मना सद्विषयकम्। एतेन-विमतमसत्, सत्त्वानधिकरणलात्, शशशङ्गवत्, विमता अप्रमा, असद्विषयका, असत्वानधिकरणविषयत्वात्, शशशञ्मसदिति वाक्यजन्यपरोक्षज्ञानवदित्यनुमानद्वयमपि-परास्तम् ; पूर्वयुक्त्या बाधात्। शब्दैकसमधिगम्यतपरोक्षत्वयोः यथाक्रममुपाधिताच्च। एतेन-असतव्यातिवादे बाह्यमतप्रवेशापत्तिरपि-सूचिता। नहि सदुपरागेण विशेषेणासत्ख्यात्यापत्तिः परिहर्तु शक्यते। तार्किकाणां तु सतोरेव शुक्तिरूप्ययोः तत्तादात्म्यस्य च भ्रमे भानान्नासत्ख्यात्यापत्तिः। असतएव संसर्गस्य तत्र भानमिति तु युक्तम्। भ्रमत्वं तु व्यधिकरणप्रकारकज्ञानत्वरूपं न संसर्गासत्वं विना नोपपद्यते। नहि भासमानवैशिष््वप्रतियोगित्वं प्रकारत्वम्, किंतु स्वरूपसंबन्धविशेष इति न तद्वशिष्ठ्यवि- षयकत्वाद्यर्थमसत्संसर्गविषयतमङ्गीक्रियेत। शशशृद्गमसदिति वाक्येनतु विकल्पमान्नमेवोत्पद्यते, नतु ज्ञानमिति नास्माकं असत्ख्यात्यापत्तिरिति-वर्णयन्ति ॥ (३) तरङ्गिणीकारास्तु- एकदेशबाघेनैव विशिष्टवाधसंभवात् असदात्मकसदभादिति वाधाकाराभावेऽपि असदेवेदमित्यस्य न वाधतानुपपत्ति- रिति प्रत्यक्षेण पूर्वोक्तानुमानद््येन च भ्रमासद्विपयकत्वमुपपन्नमेव। शाव्दज्ञानानुव्यवसायविषये नृशङ्गादौ तादृशानुव्यव- सायादौ च साध्याव्याप्या शव्दैकसमधिगम्यत्वं परोक्षत्वं वा नोपाधिः; उपाधिमति ब्रह्मणि तज्ज्ञाने वा साध्याभावात् अप्रयोजकत्वात्। व्यधिकरणप्रकारकत्वं हि तदुह्लखित्वं वा तम्य ज्ञाने स्वरूपसंबन्धो वा। उभयमपि व्यधिकरणं प्रकारं व्यधिकरणत्वेनोल्लिखति ज्ञानेऽप्यस्ति। तस्मात्तथाविधप्रकारस्य पुरोवर्तिनिष्ठत्वेन अ्हणमेव तदिति भ्रमत्मप्युपपन्नमेव। अन्यथाऽसत्संसर्गाभाने तदनुपपत्तिरिति। यथा ताकिकाणां सदुपरागमात्रेण बौद्धमताप्रवेश एवमस्माकमपीति मन्तव्य- मिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- शशशृङ्गमसदिति प्रत्यक्षापत्त्याSसत्प्रत्यक्षस्य वर्णयितुमशक्यल्ादसदेवेदमभादिति प्रत्यक्षं नासद्रजतस्य त्रमे भाने प्रमा- णम्। एतेन-अनुमानस्य तन्र प्रामाण्यमपि-निरस्तम्; शाब्दान्यज्ञानं प्रति साक्षादनिषेध्यत्वेन विषयत्वेन साक्षा- द्विषयकत्वस्य साध्यीकार्यत्वेन परोक्षधीत्वंन च सोपाधिकत्वात्, रूप्यादीनां भासमानवैशिष्यप्रतियोगित्वं नास्तीति सामा- न्यलक्षणाखण्डने निरूपितमिति सवथा नासत्ख्यातिरित्यनिर्वचनीय्यातिः सिद्धेति-विवेचयन्ति॥ इत्यसत्ख्यातिभङ्ग: ॥
Page 329
[अन्यथाख्यातिभङ्ग:] गौडब्रह्मानन्दीयुता। ६४७
अथान्यथाख्यातिभङ्ग: । नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्याति :; अत्यन्तासत इवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्र- योजकसन्निकर्षानुपपत्तेस्तुल्यत्वात्। नच संस्कारस्मृतिदोषाणां प्रत्यासत्तित्वम्; रजतप्रत्यक्षमात्रे रजतसंयोगत्वेन कारणत्वावधारणात्, सन्निकर्षान्तरसत्त्वेऽपि तदभावे रजतप्रत्यक्षोत्पत्तेर्वक्तुमश- क्यत्वात्। न च लौकिकप्रमारूपप्रत्यक्ष एव तस्य कारणत्वम्; अस्य विभागस्य स्वशिष्यानेव प्रत्यु- चितत्वात्, गौरवकरत्वात्, निर्विकल्पकसाधारण्याभावाच्च। रजतेन्द्रियसन्निकर्षजस्य रजते रजत- त्वप्रकारकक्षानस्य भ्रमत्वानुपपत्तेः । 'इमे रङ्गरजते' इति भ्रमे विद्यमानोऽपि रजतसन्निकर्षो जनको न भवति, अनुमिताविव क्वचिद्विद्यमानोऽपि विषयः । अथानुमितेर्विषयजन्यत्वे प्रत्यक्षत्वापत्तिः, अतीते अनागते च विषये अनुमितिर्न स्यादिति बाधकम्, रजतप्रत्यक्षस्य रजतसन्निकर्षजन्यत्वे प्रमात्वापत्तिः, असन्निकर्षे च तत्प्रत्यक्षं न स्यादिति बाधकं प्रकृतेऽपि तुल्यम् । यदि तु दोषम- हिम्ना रजतसन्निनिकर्षस्य रङ्गज्ञानांशे जनकत्वम्, रङ्गसन्निकर्षस्य च रजतज्ञानांशे, तदा रजतज्ञा- नांशे तत्सन्निकर्षाजन्यत्वात् प्रमात्वाभाववत् प्रत्यक्षत्वाभावोऽपि स्यात्। तस्मात् इमे इत्येवेन्द्रिय- जन्यम्। 'रङ्गरजते' इति तु स्मृतिरूपमविद्यावृत्त्यात्मकमनिर्वचनीयत्वादित्यन्यत्र विस्तरः ॥ इत्य- न्यथाख्यातिभङ्ग:॥ गौडब्रह्मानन्दी (लघुचन्द्रिका)। संस्कारस्मृतीति। इदं रूप्यमित्यादिभ्रमो रूप्याद्यंशे उपनयसन्निकर्षजन्य इति प्राश्चः-(?) संस्कारस्योपन- यत्वे तज्जन्यप्रत्यक्षस्य स्मृतित्वाद्यापत्या स्मृतिरेवोपनयः, न संस्कार इति-वदन्ति। नव्यास्तु-उपनयप्रयोज्यस्य विषयत्वस्य लौकिकत्वासंभवेनेदं रूप्यं साक्षात्करोमीति प्रत्ययानुपपत्तेः दोपाणामेव भ्रमीयलौकिकविषयत्वे नियाम- कत्वमिति-आहुः। प्रत्यक्षमात्र इति। द्रव्यनिष्ठविपयतया प्रत्यक्षसामान्ये इन्द्रियसंयोगस्य हेतुत्वकल्पनया लाघवाद्रव्यनिष्ठया लौकिकविपयतया प्रत्यक्षे इन्द्रियसंयोग:, अलौकिकविपयतया प्रत्यक्षे उपनयादिर्हेतुरिति कल्पना- नवकाशात्, 'सुरभि चन्दन मित्यादिज्ञानस्थले 'सौरभं स्मरामी'त्याद्यनुव्यवसायस्यैव स्वीकारेणोपनयादेः प्रत्यक्षहे- तुत्वे मानाभावाच्च। अतएव दोपाणां रजताद्युत्पत्तावेव हेतुत्वम्, नतु तद्द्रमे; लाघवाद्रजतत्वादिनैव तत्कार्यतास्वी- कारात्। तत्र रजतादी चाक्षुपत्वादिकमघिष्टानेदमादिगतमेव प्रतीयते। साक्षिसंबन्धादपरोक्षमित्यादिकं वियेचितम- स्माभि: सिद्धान्तविद्योतने। ननु प्रत्यक्षभ्रमसामान्ये इन्द्रियसन्निकर्पानुपपत्तिरिति यदुक्तं तन्न युक्तम्; 'इमे रक्र- जते' इति रजतरङ्ग्यो रङ्गरजतभ्रमे तत्संभवात्, तत्राह-रजतेन्द्रियेति । रजते रजतत्वप्रकारकेति। यथा रजते रजतत्वं प्रकारस्तथा रजतं तादात्म्येन स्वस्मिन् प्रकारोऽस्तु, नतु रङ्ग एवेति ज्ञापनायेदमुक्तम्। भ्रमत्वानुप- पत्तेरिति। रजतसननिकर्षस्य तादात्म्येन रजतप्रमाहेतोः सत्वात् भ्रममान्नत्वानुपपत्तेः उक्तप्रमात्वापत्तेः रजतेति। रङ्े रजतप्रकारकप्रत्यक्षस्य। असन्निकर्षे इदं रजतमित्यादिभ्रमस्थलीयरजतासननिकर्षे। रङ्गज्ञानांशे तादाल्येन रक्गप्रकारकज्ञानांशे। रजतज्ञानांश तादात्म्येन रजतप्रकारकज्ञानांशे। एवकारः; शेषः। रजतादिसननिकर्षसत्वेऽपि न रजतादिप्रमा; दोपेणव प्रतिबन्धात्, किंतु धर्मीन्द्वियसन्निकर्पसहकृतदोषबलाद्रजतादिभ्रम एवेत्र्थः। ज्ञानांशे भ्रमांशे। तत्सन्निकर्षाजनकत्वात् रजतससिकर्षस्याजनकत्वात्। प्रत्यक्षत्वाभावोऽपीति। दोषस्य प्रत्यक्षहेतुता सु प्रत्युक्तेति भावः। प्रमासामान्ये मनस उपादानत्वाच्चक्षुरादिप्रमाणसहकृतस्यैव मनसश्चाक्षुपादिममोपधायकत्वात् भ्रमसामान्ये अविदयैवोपादानम्; तत्तद्दोपसंस्कारादिसह कृताविद्याया एव भ्रमविशेषोपधायकत्वम्। तथाच अ्रमात्म- कवृत्तेश्वाक्षुषादिरूपत्वे मानाभावः । अधिष्टानचाक्षुपे भ्रमस्त तादात्म्याध्यासाश्चाक्षुषादिविषयाधिष्ठाने रजतादेस्ता- दात््याध्यासाच्च रजतं पश्यामीत्यादिप्रत्यय इत्याशयेनाह-तस्मादित्यादि ॥ इति लघुचन्द्रिकायां अन्य- थाख्यातिभङ्ग: ।।
अथान्यथाख्यातिभङ्ग: । अन्रान्यथाख्यातिवादो न खण्डनीयन्यायामृतग्रन्थे तरत्विणीग्रन्थे वा विद्यते इति नायं वादो द्वैतिनाममिमतः। तर्थापि अवसरप्राप्तनैयायिकादिसंमततद्वादखण्डनमपि सिद्धिब्रह्मानन्दीययोविद्यते। तदनुवादं तु चतुर्प्रन्थीसंग्रहस्यैवास्माकमव- सरप्राप्तत्वान्न वयं कुर्म इति सूचयामः॥ इत्यन्यथाख्यातिभङ्ग:॥
Page 330
६४८ अद्वैतसिद्धिः । [परिच्छेद: १]
अथ आविद्यकरजतोत्पत्त्युपपत्तिः। तञ्चानिर्वचनीयमज्ञानोपादानकम्, तत्वज्ञानेन नाश्यं च। ननु-एवं 'रूप्यमुत्पन्नं नष्टं चे'ति घीप्रसङ्ग:, त्रकालिकनिषेधप्रतीतिश्च न स्यादिति-चेन्न, उत्पादविनाशप्रतीतिरियं भ्रान्तिसमये आपाद्यते, बाधसमये वा। नाद्यः; पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वात्, विरोधिज्ञानानुदयेन रूप्यस्याविनाशाञ्च। न द्वितीयः अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इव तदु- त्पादविनाशग्रहेऽपि प्रतिबन्धकत्वात्। न हि कुत्रापि कदापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । नच-त्रयाणां सच्े कथमत्यन्ताभावनुच्ध्ा विनाशबुद्धिप्रतिबन्धः? विनाशबुद्ध्यैवात्यन्ताभाववुद्धिः किमिति न प्रतिवध्यते ! नियामकाभावादिति-वाच्यम्; फलबले- नात्यन्ताभावधीसामग्र्या एव बलवत्वेन तस्यैव विनिगमकत्वात्। नच तर्हि उत्पादाद्यधिकरणे अत्यन्ताभाव: कथम्? प्रतीतिमुपलभस्व । यथा अपरोक्षप्रतीत्याद्यन्यथानुपपत्या सिद्धोत्पादादि- कस्य त्रैकालिकनिषेधप्रतियोगित्वं विषयीक्रियते। यद्वा-न स्वरूपेण त्रैकालिकनिषेधप्रतियोगि- त्वम्, किंतु पारमार्थिकत्वाकारेण। नच-पारमार्थिकसत्वस्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैकालिकनिषेधप्रतियोगित्वं संभवति रजतप्रतियोगित्वेनानुभवविरोधश्चति-वाच्यम्; प्रतीति- कालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तत् निषिध्यते, किंत्वन्यत्रवृत्येवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेSनुभवविरोधोऽपि। ननु-यद्यपि प्रसक्तिर्जानम्, साच स्मृतिरूपा पारमार्थिकत्वस्यास्त्येव: तथापि निषेध्यताप्रयोजकपारमार्थिकत्वाकारेण प्रातिभासि कस्य प्रसक्तिर्नास्तीति-चेन्न; व्यधिकरणधर्मावच्छिन्नप्रतियोगिको ह्ययमभावः, तत्प्रतीती च न विशिष्टप्रसक्तिरुद्देश्या; प्रत्येकप्रसक्त्यव तत्प्रतीत्युपपत्तेः । निर्विकल्पकादभावप्रतीतिरिष्टापत्येव परिहरणीया। यद्वा-लोकिकपरमार्थरजतस्यैव तत्र त्रकालिकनिषेधः। नच तर्हि 'नेह नाने ति निषेधायापि तात्विकप्रप्चान्तरोररीकारापत्ति:ः नेह नानेति निषेधस्थले किंचनेति पदसन्दं- शात् प्रतीयमानसर्वनिषेधस्यावश्यकतया निषेध्यत्वेन प्रपश्चान्तरकल्पनाया गौरवकरत्वात्, प्रकृते तु सर्वत्वेन प्रतियोग्यनुलेखात् आपणस्थरूप्यनिषेधस्य इदम्यावश्यकत्वेनाप्रतीतनिषेधकल्पनैव युक्ता। नचान्यथाख्यातिमिया तस्याप्रसक्तो कथ तन्निषेधः ? अपरोक्षत्वाभावेऽपि स्मृतिरूपत- त्प्रसक्त: संभवात्। एतेन-अधीस्थं पारमार्थिकत्वमवच्छेदकम्, अनवच्छेदकस्याभासस्य धीस्तु
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पूर्वोत्पन्नेति। ननु-आरोप्यधर्म उत्पादादिकमधिष्ठाने प्रत्येनुमुचितमिति-चेन्न; यद्रपविशिष्टस्यारोप्यता तद्र- पस्यैवाधिष्ठाने धीः, उत्पादाढिकं तु मिथ्यात्वादिकमिवाव्यक्तत्वास्न तथा; अन्यथा त्वदभ्युपगतमसत्वमपि रूप्यादिनिष्ठं तथा स्यात्। विचारदशायां नु प्रमाणवृत्योत्पादादिकं गृह्यत एव। एतेन-कपालादो घटादर्नाशकाले अत्यन्ताभावस्येव नाशस्याप्यनुभवान्नाशबुद्धी नात्यन्ताभाववुद्धेः प्रतिबन्धकत्वम्, भ्रमस्थल एवान्यथानुपपत्या तत्कल्पनं नुन युक्तम्, तथा भ्रमे सदुपरागेणासद्विपयकत्वमसति प्रत्यक्षरूपत्वमिनि कल्पनस्येव युक्तत्वादिति-परास्तम्; सदुपरागणास- ज्वानस्याप्यसंभवेन भ्रमविषय प्रत्यक्षत्वासंभवात्, उत्पादादि: संभवे तद्राहकसामधर्या अनवतारादेव तदग्रहात्। एवं- चोक्तानवतारकालीनाया अत्यन्ताभावबुद्धेरनाशा दिबुद्यनुत्पत्तिव्याप्यत्वेन नाशादिधीप्रतिबन्धकत्वमुक्तम्। अतएव नहि कुत्रापीत्याय्यपि तदभिप्रायकमिति ध्येयम्। कथमिति। अन्यन्ताभावस्य प्रतियोगिनेव ध्वंसप्रागभावाभ्यामपि नकका- लावच्छेदन सामानाधिकरण्यमित्यभिमानः। पारमार्थिकत्वेन 'रूप्यं नाम्नी'ति बाधस्य रूप्यनिषेधाविषयकतवेन रूप्ये पार- मार्थिकत्वनिषेधविषयकत्वं वाच्यम्, तथाचासङ्गतिरित्याशक् निपेधति-न चेति। अन्यत्रेत्यव्ययम्। तेनान्यत्र वृत्तिर्यस्य तद्म्यवृत्तीत्यर्थः। उक्तविषय इति शेपः। तेनाकारेणेति। तद्विपयकत्वं न निषेध्यत्वेन, किंत्ववच्छेदकत्वेनेति भावः । न विशिष्टेति। यद्रूपविशिष्टस्य प्रतियोगित्वधीसतद्रृपविशिष्टस्य प्रसक्तिरपेक्ष्यते, व्यधिकरणधर्मविशिष्टस्य तुन संति तदपेक्षेति भावः। नन्वेवं पारमार्थिकत्वस्योक्तबुद्धावप्रकारत्वेन तन्निर्विकल्पकोत्तरमपि सा स्यात्तत्राह-निर्विकल्प- कादिति। पारमार्थिकत्वेत्यादिः । अभावेति। उक्ताभावेत्यर्थः। इष्टेति। विशेषणतावच्छेदकप्रकारकज्ञानस्य विशिष्ट- वैशिष्यधीहेतुत्वेऽप्युक्ताभावबुद्धे: पारमार्थिकत्वाप्रकारकत्वान्न तत्र तत्प्रकारकज्ञानापेक्षेति भावः। प्रतीयमानेत्यादि। निपेधाधिकरण प्रतीयमानं यत्तदीयनिषेधस्येत्यर्थः। अप्रतीतनिषंधेति। निपेधाधिकरणे यदप्रतीतं तदीयनिषेधेत्यर्थः। अधीस्थं प्रतियोगिप्रसक्तावप्रकारः । अवच्छेदकं निपेध्यतावच्छेदकम्। आभासस्य प्रातीतिकपारमार्थिकत्वस्य।
Page 331
[रज तादाविद्यकत्वोपपत्तिः] ६४९
निषेधघीहेतुरिति-परास्तम्। नच-आरोपपूर्विकैव निषेधधीः, तस्यानारोपात् कथं तद्भावप्रत्यय इति-वाच्यम्; आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनेव तदुप- पत्तेः। अत एव न बुद्धिपूर्वकतदारोपोऽपि । अन्यथाख्यातेः सामन््यभावेनासत्ख्यातिवत् प्रागेव निरासादारोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्वानुपपत्तेश्च। किंचाभासप्रसक्तिरेव तत्प्र- सक्तिः। ननु-आभास इत्यप्रसक्ते रजतत्वाकारेणाभासानाभासयो: प्रसक्तिर्वाच्या, सा चानुप- पन्ना; उभयोरेकसामान्याभावात्, फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्यासत्तित्वेऽपि अन्यत्राति- प्रसङ्गेन तदभावाञ्चेति-चेन्न; शुक्तिरूप्यस्यापणरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदार्िप्रवृश्य- नुपपत्त्या तदुभयसामान्यस्यैकस्यावश्यकत्वात्। तेन सामान्येन प्रत्यासत्या आपणरुप्ये ज्ञानं न बूम:, किंतु प्रतियोगितावच्छेदकप्रकारकं ज्ञानं प्रतियोग्यविषयकमपि अभावप्रतीत्युपयुक्तं संघृस्त- मिति। अतो न सामान्यप्रत्यासत्तिनिबन्धनातिप्रसङ्गावकाशः। यशु व्याप्तिग्रहे सामान्यप्रत्यासत्ति- मङ्गीकृत्यातिप्रसङ्गेनान्यत्र तदनङ्गीकरणं, तदाशीविषमुखे अंगुलिं निवेश्य वृश्चिकान्द्रयनाटनम्। प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राचीनैरुक्तत्वात्। इदंच यथाश्रुतप्राचीनग्रन्थानुसारेणोक्तम्। अन्योन्याभावमादाय तु लौकिकपरमार्थरजतस्य निषेध्यत्वं प्राग्व्याख्यातं न विस्मर्त्तव्यम्। नच सोपादानत्वे सकर्तृकत्वापत्ति: इष्टापत्तेः। ननु-एवमपि रूप्यस्य कथमजञानमुपादानम् ? तदनुविद्धतया अप्रतीतेः, इदमंशानुविद्धतया प्रतीतेरङ्गुलिनिर्देशाञ्चेला्चल- वन्धनादितश्चेदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तत इत्यङ्गीक्रियतामिति- चेन्नः शुक्त्यज्ञानस्य तावदन्वयव्यतिरेकाभ्यां कारणत्वमावश्यकमिति उपादानमपि तदेवास्तु। तत्कल्पनाया एवाभ्यर्हितत्वात्, उपादानान्तरासिद्धेः। किंच शुक्तिज्ञानमज्ञानं नाशयद्रूप्यमपि नाश- यति। तञ्च तदुपादानत्वं विना न घटतेः निमित्तनाशस्य कार्यनाशं प्रत्यप्रयोजकत्वात्, उपादेये उपादानानुवेधनियमाभावात्, 'रूपं घटः' 'कपालं घट' इत्यप्रतीतेः, कथंचिदनुवेधस्य जडत्वादिना- त्रापि संभवात्। अज्ञानावच्छेदकतया इदमंशे इदमंशानुविद्धतया प्रतीतिरेव तदनुविद्धतया
गाँडव्रह्मानन्दी (लघुचन्द्रिका )। हेतुरिति। इत्ययुक्तमिति शेपः। आरोपेति। प्रतियोगिप्रसक्तीत्य्थः। तत्प्रसक्ति: लौकिकपरमार्थप्रसक्तिः । अति- प्रसङ्गन सार्वज्यापत्या। प्रातीतिकस्य प्रनीनिप्रकारस्य। सामान्यस्य रजतत्वाद्येकजातीयत्वस्य। तदर्थिप्रवृत्तिः व्यावहारिकनिष्टरजतत्वादिविशिष्टेच्छावतः प्रवृत्तिः। प्रतियोगितावच्छेदकप्रकारकं ज्ञानं रूप्यत्वादिरूपेणाभा- सीभूनरूप्यादिप्रसक्तिः । प्रतियोग्यविषयकं लो किकपरमार्थरूप्याविपयकम्। प्राचीनग्रन्थेति। लौकिकपरमार्थ- रूप्य निषेध्यताबोधकतत्त्वप्रदीपिकादिवाक्येत्यर्थः । व्याख्यातमिति। 'इदं रूप्यमिति' भ्रमे प्रातीतिकव्यावहारिकरू- प्ययोरभेद्ावगाहनात् नेदं रूप्यमिति बाघस्तयो भेदमेवावगाहते इत्याढिकं व्याख्यातमित्यर्थः । तथाच तयोरेकजात्य- भावेऽपि प्रातीतिके व्यावहारिकजातीयार्थिप्रवृत्तिस्तत्तादात्म्यारोपाढेवोपपद्यत इति भावः। यन्तु-उभयानुगतं सामान्यं प्रातीतिकं न वा, आद्ये व्यावहारिकस्य रूप्यत्वं व्यावहारिकं न स्यात्, द्वितीये प्रातीतिकस्य रूप्यत्वं व्याव- हारिकं स्यात्, तथाच 'इदं रूप्यमि'नि धीविपयसामान्ये रूप्यत्वं नाम्नीति बाधो न स्यात्-इति तन्न; 'इदमंशे यद्विशेपणं अ्रमे भातं तद्रूप्यमेव इदं तुन रूप्यमिति बाधकाले प्रत्ययेनोक्तबाधस्याप्रामाणिकत्वात्। नच-प्रमा- णवृत्तिं विना व्यावहारिकस्य रूप्यत्वादेरग्रहणासंभव इति-वाच्यम्; अ्रमस्थले हि रूप्यत्वादिविशिष्टप्रकारिका अवि-
तया साक्षिवेद्यत्वमेव। रूप्यनिष्ठोऽपि रूप्यत्वादिसंबन्धः स्वतो व्यावहारिकोपि प्रातीतिकरूप्यानुयोगिकत्वरूपेण प्रातीतिकत्वादुक्तवृत्तिविपयः। अतएवेदमंशस्यापि व्यावहारिकस्य प्रातीतिकेन रूप्यतादात्म्येन विशिष्टतया प्रातीतिक- त्वादुक्तवृत्तिविषयत्वम्। इष्टापत्तिरिति। अधिष्ठानप्रकाशत्वेन हेतुत्वात्तद्वत एव कर्तृत्वम्; कार्यानुकूलस्योपादानप्र- काशस्यैव हि लाघवेन कर्तृतारूपत्वात्। अनुकूलताविशेपोपादानान्नातिप्रसङ्गः । उपादानज्ञानेच्छाकृतिमत्वस्य कर्तृ- त्वेऽपि ईश्वरीयं तदस्तीति भावः। अभ्यर्ह्हितत्वात् आश्रयत्वेनान्तरद्गत्वात्। इदमंशो मनो दोषो वा उपादानमि- त्यत्न विनिगमकाभावादुपादानत्वेन तदतिरिक्तमज्ञानं कल्प्यत इत्यादि पूर्वोक्त स्मर्तव्यम्। नाशयति अत्यन्तमुच्छि- नत्ति। तदुपादानत्वम् अज्ञानमुपादानम्। नाशं अत्यन्तोच्छेदम्। तेन दोषादिनिमित्तनाशस्य भ्रमादिनाशप्रयोज- कत्वेऽपि न क्षतिः। कपालमिति। कपालं घटोपादानमित्यजानतो यथा कपालं घट इति न धीः, तथा अज्ञानं रूप्योपादानमित्यजानतो रूप्यमज्ञानमिति न धीः, रूप्याज्ञानयोः साक्षिवेद्यतवेऽपि तयोस्तादात्म्यमावृतमिति भावः। अ. सि. ८२
Page 332
६५० अद्वैतसिद्धिः । [परिच्छेद: १]
प्रतीतिः। कार्यकारणयोर मेदादंगुलिनिर्देशादिकमप्युपपद्यते। नच-परोक्षज्ञानस्याप्यज्ञाननाशक- तया श्वैत्यानुमित्या अज्ञाने नाशिते पीतभ्रमानुदय: स्यात्, उपादानाभावादिति-वाच्यम्; विषय- गताज्ञानस्य परोक्षवृत्त्याऽनाशात्। नच-अपरोक्षवृत्तेरज्ञाननाशकतायामपि 'घटोऽय'मिति साक्षा- स्कृते पटोऽयमिति वाक्याभासात् भ्रमानुत्पत्तिप्रसङ्गः। न ह्यत्र वह्निना सिश्चतीत्यत्रेवान्वयविरो- ध्युपस्थितिरस्ति, येनेष्टापत्तिरवकाशमासादयेदिति-वाच्यम्; यदा हि घटत्वं पटत्वविरुद्धतया- ड्वगतं, तदा हि तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः!यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं, तदा घटत्वश्ञानेन तद्जाननाशेऽपि पटत्वविरुद्धतया अज्ञातविशेषाज्ञानस्य सत्त्वात्तदुपा- दानक एव भ्रम इति न काप्यनुपपत्तिः। नच-साक्षिवेद्याज्ञानसुखादौ ज्ानाभावत्वंदुःखाभावत्वा- रोपौ न स्याताम्, अज्ञानरूपोपादानाभावादिति-वाच्यम्; दुःखाभावभिन्नत्वेन ज्ञानाभावमिन्नत्वेन दुःखत्वविरुद्धधर्मवत्तया Sज्ञानत्वविरुद्धधर्मवत्तया वा अधिष्ठानज्ञानं भ्रमनिवर्त्तकम्। तञ्व विरो- धभेदादि न साक्षिगम्यम्, किंत्वनुपलब्धिगम्यम् । तथाच तद्शानमेव भ्रमोपादानम्। नच- परोक्षाध्यासो न परोक्षश्ञानेन निवर्तेत, तस्याज्ञानानिवर्तकत्वादिति-वाच्यम्; परोक्षाध्यासे हि प्रमातृगताज्ानमेवोपादानम् । तञ्च परोक्षज्ञानेनापि निवर्तत इत्युक्तत्वात्। नच-रूप्यं दृष्ट्राऽघिष्ठा- नतत्वज्ञानं विना निवृत्तस्य पुंसोऽज्ाननिवृत्त्यभावेन रूप्यतज्ज्ञानयोरविद्यापरिणामयोरनिवृत्या रूप्यधीसामग्रीसन्भरावेन तद्धीर्दुर्वारैवेति-वाच्यम्; रूप्यं तद्धीश्च उत्पन्ने तावदुदीच्यज्ञानेन उपा- दाने विलीयते। उपादानस्य निवृत्तिः परं न भवति; अधिष्ठानतत्त्वज्ञानाभावात्। रूप्यबुद्धन्तरोत्प- त्तिस्तु इदमाकारान्त:करणवृत्तिसन्भ्ावेनानुत्पन्नाधिष्ठानतत्त्वसाक्षात्कारस्य भवत्येव । तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः। तथाच सर्वप्रत्ययानां स्वगोचरशूरत्वात् प्रतीति- काले रजतस्य विद्यमानता सिद्धा। नचैवं-तात्विकत्वमपि सिध्येत्, तस्यापि प्रातीतिकत्वादिति- वाच्यम्; अपरोक्षप्रतीत्या तावत् त्रिकालाबाध्यत्वरूपं तात्त्विकत्वं विषयीकर्तु न शक्यत इत्युक्त त्वात्। परोक्षप्रतीत्या विषयीकृतमपि तात्त्विकत्वं प्रातीतिकमेव; कालान्तरबाधेन पुनरताच्विक- त्वस्य संभवात्। इत्याविद्यकरजतोत्पत्त्युपपत्तिः॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अभेदादिति। इदम: कारणीभूतचिद्वच्छेदकत्वाक्षत्रेति शेषः । अनाशादिति। ननु-श्वेतत्वाज्ञाने श्वेतत्वार्थिंत्र- वृत्तिर्न स्यादिति-चेन्न; स्यादेव, तदा हि शङ्गत्वादिकमेव प्रवृत्तौ प्रकारः, न तु श्वतत्वादिकम्। पटत्वविरुद्धतया पटस्वाभावव्याप्यतया। तद्दर्शनं इदंत्वविशिष्टे तदर्शनम्। विरोधि 'अयं घट' इति भ्रमविरोधि। दुःखत्वविरुद्धे- ति। दुःखत्वघटितो यो दुःखाभावत्वविरुद्धो दुःखाभावत्वाभावव्याप्यः सुखत्वादिः स इत्यर्थः। अज्ञानत्वविरुद्धेति। जानाभावत्वाभावव्याप्यतया ग्रहीताखण्डाज्ञानत्वेत्यर्थः। न साक्षीति। सविपयकत्वादिरूपेणैव साक्षिगम्यमज्ञानम्, न वुक्तविरुद्धधर्मवश्वादिनेति भावः। विलीयते इति। संस्काररूपेणेति शेषः। स्थूलरूपेण पुनरुत्पत्तिर्वक्ष्यमाणसा- मध्या नानुपपन्जा। स्वगोचरशूरत्वात् बाधादिमानान्तराविरोधेन स्वविशेष्ये स्वविशेषणव्यवस्थापकत्वात्। काल इति। प्रतीत्यभावकाले रूप्यादिसत्वे तदाकारसंस्कारसहितेन साक्षिणा तदेवेदमिति प्रत्यभिज्ञानस्य निर्दोपपुरुषेऽप्या- पत्तिः। न हि रूप्यादिगततत्तास्मृती दोषस्यागन्तुकस्य हेतुत्वं, येन तदभावे सा न स्यात्। किञ्च मनःपरिणामयो- रिवाविद्यापरिणामयोरपि परेण पूर्वस्य नाशाद्रूप्यरङ्गयोरविद्यापरिणामयोरपि तथा स्वीकारात् कथ रूप्यस्य प्रतीत्यभा- वकाले स्थिति: ? उक्तत्वादिति। तथाचाधिष्ठानसद्रूपसंबन्ध एव गृह्यत इति भावः । तस्यां मनोवृत्षी। तादा- त्म्यस्य अविद्यावृत्तितादात्म्यस्य ॥ इति लघुचन्द्रिकायां आविद्यकरजतोत्पत्त्युपपत्तिः॥
अथ रजताविद्यकत्वोपपत्तिः । (१) तत्र न्यायामृतकारा :- अध्यस्तं नाज्ञानोपादानकं तत्वज्ञाननाश्यं च; रूप्यमुत्पन्नं नष्टं चेति धीप्रसंगात्, त्रैकालिकनिषेधग्रतीत्यनुपपत्तेश्र। रूप्यं नासीदस्ति भविष्यतीति स्वरूपेणैव निषेधानुभवेन नार्थक्रियाकारित्वेन रूप्यनिषेधः। अर्थक्रियाकारित्वादीनामपि रूप्यवत्प्नती- तित्वेन प्रतीतिकाले सत्ान्न तेनाऽपि रूपेणायं निषेधः। आपणस्थरूप्यस्य निषेधे तु नेह नानास्तीति निषेधोपपत्त्यर्थ तालि-
Page 333
[रजताद्याविद्यकत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६५१
कप्रपश्चान्तराज्जीकारापातः, तस्याप्रसत्तयाऽप्रसक्त्तनिषेधानुपपत्तिश्च। प्रतीतस्यैव निषेधानुभवेनाभासप्रसत्त्या पारमार्थिक- निषेधो नोपपन्नः। नहि यस्य निषेधस्तस्यानारोप इति युज्यते। बुद्धिपूर्वकारोपकल्पना तु अनारोपितनिषेधवादिनां नोपपद्यते। आभासानाभाससाधारणरजतत्ादिकं तु न प्रसिद्धमिति न रजतत्वादिना निषेधसंभवः । किंचाध्यस्तस्य सोपादानकत्वे सकर्तृकत्वस्याप्यापत्तिः, घटे मृद इव रूप्येऽप्यज्ञानानुवेधापत्तिरितीदमंशविवर्तत्वमेव रजतस्याङ्गीकरणीयम्। अतएवहि-शैत्यानुमित्यादिनाऽज्ञाननाशेऽपि पीतः शह्क इति भ्रमः, घटत्वेन साक्षात्कृते घटे घटलाजानाभावेऽपि पटोऽयमिति वाक्याभासाद्ग्रमोत्पत्तिः, साक्षिवेद्ये सुखादौ दुःखाभावत्वाद्यारोपश्चोपपद्यते। एवंच परोक्षज्ञानस्यापरोक्षज्ञानस्य साक्षिणो वाऽज्ञानानिवर्तकल्वात् निवर्तकत्वेऽपि अधिष्ठानतत्वज्ञानं विना निवृत्तस्य पुंसः सामग्रीसत्त्वेन रूप्यप्रतीतेर्दुर्वारलाच्च न रूप्यमज्ञानोपादानकम्। सर्वज्ञानानां खगोचरशून्यत्वेन यथाभ्रान्त्यर्थसत्त्वाङ्गीकारस्तु न संभवति; अबाधितज्ञानस्यैव तत्खभावत्ात्, अन्यथा भ्रमविषयतात्त्विकतापत्तेरिति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- रूप्याद्यनिर्वचनीयमज्ञानोपादानकं तत्त्वज्ञानविनाश्यंच । उत्पत्तिविनाशप्रत्ययस्तु भ्रान्तिसमये पूर्वात्पभ्नाविनष्टशुक्ति- तादात्म्यग्रहणस्य निषेधसमये प्रतियोगिग्रह इवात्यन्ताभावस्येव च प्रतिबन्धकत्वान्न संभवति। फलबलेन तु अत्यन्ता- भावसामम्या एव नाशादिग्रहप्रतिबन्धकत्वमिति न दोषः । उत्पन्नस्यापि तस्य नासीदस्तीति प्रत्यक्षानुपपत्त्या त्रैकालिकनिषे- धप्रतियोगितमपि प्रामाणिकमेव। मास्तुवा स्वरूपेण निषेधप्रतियोगिलम, किंतु पारमार्थिकत्वेनैव। प्रतीतिकालप्रतीतं पार- मार्थिकलवमपि प्रातीतिकमेवेति तदन्यस्यैव निषेधप्रतियोगितावच्छेदकत्वेन तेन रूपेण रजतस्यैव निषेध इति नानुपपत्ति- बाधोऽपि। व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकेऽभावे न विशिष्टप्रसक्तिरपेक्षितेति पारमार्थिकत्वाप्रसक्तिरपि रजते न दोषाय; लौकिकपरमार्थरजतस्यँव शुक्ता त्रेकालिकनिषेधाच्च, नेह नानास्तीति श्रुतौ तु किंचनपदेन सर्वप्रपश्चबाध- नान्न प्रपञ्चान्तराज्जीकारप्रसंगः । प्रसक्तिस्तु स्मृतिरूपा विद्यत एवेति नान्यथा्यात्यापत्तिः। नहि रजतं लौकिकं शुक्ताव- परोक्षं वयमुररीकुमः । पतेन-आरोपं विना निषेधानुपपत्तिः-परास्ता; प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुप- पत्तेः । अस्नुवाऽऽभासप्रसक्तिरेव परमार्थस्यापि प्रसक्तिः। शुक्तिरूप्ये रूप्यतजातेः परमार्थरजतसाधारणाया अनङ्गीकारे प्रवृत्यनुपपतत्याऽभासानाभाससाधारणसामान्यान्नीकारस्यावश्यकत्वात्। सोपादानत्वेन सकर्तृत्ापादानंतु इष्टापत्तिपराहतम्। शुक्त्यज्ञानस्य रूप्यं प्रति यत्कारणत्वं तदुपादानत्रूपमपि। नह्यन्यथा शुक्तिज्ञानेन तदज्ञानस्येव रूप्यस्यापि विनाश उपप- द्यते। नहि तदुपादानत्वे तदनुवंधः प्रयोजक :; रूपं घट इति प्रतीत्यापत्तेः। अज्ञानं च द्विविधम्-विषयगतं प्रमातृगतं चेति। तत्र परोक्षज्ञानेन प्रमातृगतस्यापरोक्षवृत्त्योभयस्यच विनाश इति हि समयः। एवंच श्वेत्यानुमित्या न द्विविधाज्ञान- निवृत्तिः। यदाहि घटत्वं पटत्वविरुद्धतयाSवगतं नहि तदा साक्षात्कृतघटस्य घटेडयं पट इति वाक्याभासात् भ्रम उपप- दते। अधिष्ठानतत्त्वज्ञानं विना निवृत्तस्य तु रूप्यतद्धियोरुदीच्यज्ञानेनोपादाने विलयात् रजतबुद्धन्तरमुत्पद्यत एव। तथाच सर्वप्रत्ययानां स्वविषयशरतात् रजतं प्रतीतिकाले सदेव। एवं तात्त्विकत्वमपि प्रातीतिकमेव। तस्मादधिष्ठानांशेऽन्तःकर- णतृत्तिः अध्यस्तांशे चाविद्यावृत्तिरिति नाग्यातिमतप्रवेश इत्यादि सर्व सुस्थमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- रूप्यं नाजानोपादानकं तत्त्वज्ञाननाश्यं च; इदमंशस्येदानीमुत्पन्नरूप्यतादात्म्येन प्रतीतस्योत्पादविनाशप्रत्ययप्रसंगात्। समारोप्यधर्माणामेवहि विषये प्रतीतिः, नतु विषयधर्मस्य समारोप्ये। उत्पादादिप्रत्ययेनैवात्यन्ताभावप्रतीतिप्रतिबन्धसंभ- वेन निषेधसमयेऽत्यन्ताभाव प्रतिबन्धकतायोगान्च। नासीदस्तिभविष्यतीति तु प्रत्ययो रूप्याद्यसत्वमेव गोचरयतीति तदा- विद्यकत्वे स्वरूपेण त्रैकालिकनिषेधायोगः। एतेन-पारमार्िकत्वेन तन्निषेधोऽपि-परास्तः; येनाकारेण निषेधस्तेना- कारेण प्रतियोगिप्रसक्ततरपेक्षणीयतया पारमार्थिकत्वस्यापि रूप्यतुल्यलापत्तेः । निषिध्यमानस्य निषेध्यतावच्छेदकवैशिष्टयं विना निषेधायोगेनानिर्वचनीयस्य पारमार्थिकवँशिष्यज्ञानं हिदुर्वारमेव । पतेन-स्मृतिरूपप्रसक्तिवर्णनमपि-परास्तम्; प्रसक्तप्रतिषेधात्मकबाधत्स्य प्रसक्ते: स्मृतिरूपत्वेऽसंभवात्। आभासानाभाससाधारणं सामान्यं तु न सिध्धति। तस्य प्रातीतिकत्वेSप्रातीतिकत्वेवोभयथाऽSभासलानाभासतयोरापत्तिः, उभयावच्छेदेनोभयरूपत्वेतु दृष्टविरोधापत्तिः। अनुगत- मेकं रूप्यमेव तत्र प्रतीयते इति कल्पनापत्त्याऽन्यथाख्यात्यापत्तिः, प्रवृत्तौ रूप्यसामान्यज्ञानं न कारणं, किंतु रूप्यज्ञानमे- वेति न दोषः। किंचाध्यासस्य सोपादानत्वे सकर्तृत्वापत्तिः, नचेष्टापत्तिःः जीवस्येश्वरस्यवा तत्कर्तृतवायोगात्, साख्का- दिमते प्रपश्चस्याकर्तृकत्वेऽपि सोपादानकत्वेऽपि न रूप्यादीनामज्ञानमुपादानम्। शुक््यज्ञानसत्वे रजतानुभवः, तन्नाशे तन्नाश इत्यन्वयव्यतिरेकज्ञानंतु तन्निमित्ततमात्रेणाप्युपपद्यते। अतएवहि परोक्षज्ञानेन प्रमातृगताज्ञानस्यैव नाश इति न युक्तम् ; पीतभ्रमकाले शज्बे शैत्यासिच्धा श्वेतार्थप्रवृत्त्यनुपपत्तेः। एवंच शङ्क्श्वैत्यानुमितावपि शङ्कपीतलभ्रमानुभवेऽध्य-
Page 334
६५२ अद्वैतसिद्धिः । [परिच्छेद: १ ]
अथ भ्रमस्य वृत्तिद्वयोपपत्तिः। तस्मादधिष्ठानांशे अन्तःकरणवृत्तिः, अध्यस्तांशे चाविद्यावृत्तिः। तस्यां च तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः ॥ ननु-एवमिदमशंस्याप्यध्यस्तत्वेन इदमिति द्यात्मकम्, इदं रूप्यमिति च तयात्मकम्, स्वप्े इदं रूप्यमिति ज्ञानं चतुरात्मकंच स्यादिति-चेन्न; इदंत्वस्याध्यस्तत्वेऽपि नेद- मिति द्यात्मकम्; इदंत्वाद्यघिष्ठानस्य स्वप्रकाशकत्वात्। न हि वयं सर्वत्राध्यासे द्यात्मकतां ब्रूमः, अपित्वन्तःकरणवृत्तिसव्यपेक्षाधिष्ठानप्रकाशे। अत एव नेदं रूप्यमिति त्र्यात्मकम्, सवमे तु चतुरा- त्मकत्वशङ्का सर्वथाऽनुपपन्नाः इदंरूप्ययोरप्यध्यसनीयत्वात्, अविद्यावच्छिन्नचैतन्यरूपाघिष्ठानस्य स्वप्रकाशत्वात्। नच रूप्यज्ञानस्याचाक्षुषत्वे 'रूप्यं पशयामी'ति चाक्षुषत्वानुभवविरोधः चाक्षुषेदं वृत्त्यवच्छिन्नचं्यस्थाविद्यारिणामत्वेन चाक्षुषत्वोपचारात्, अनुभवत्वमात्रानुभव एव 'आत्मान पश्यामी' त्युल्लेखदर्शनाञ्च। ननु-रूप्यज्ञानस्याविद्यावृत्तित्वेन प्रातिभासिकतया प्रतिभासाचश्यं- भावेनाध्यस्तविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्यावृत्तेरपि अविद्यावृत्तिप्रतिबिम्वितचैतन्यवेद्य त्वम्, एवं तस्यापि तस्यापीत्यनवस्थितिरिति-चेत्, सत्यमेतत्। न पुनरनवस्थाः अविद्यावृत्तिप्- तिभासके चैतन्ये अविद्यावृत्तेः स्वत एव उपाधित्वेन वृत्त्यन्तरानपेक्षत्वात्। ननु-अज्ञानस्य रूप्या- कारज्ञानात्मना परिणामे रूप्यमिति प्रतीतेर्ज्ानगताकारेणवोपपत्ताव तीतविषयकज्ञानन्यायेन वोप- पत्तौ रूप्यरूपाविद्यापरिणामकल्पना न युक्तति-चेन्न; ज्ञानाकारेणव सविपयकत्वे साकारवादप्रस- गौडव्रह्मानन्दी (लघुचन्द्रिका )। एवं अध्यस्तस्याधिष्ठानविपयकमनोवृत्तिसापेक्षत्वे। इदमंशस्य इदंत्वस्य। अध्यस्तत्वेन संसृष्टरूपेणाध्यस्तत्वेन। इदंत्वाद्यधिष्ठानस्य संसृष्टेदंत्वं प्रत्याधारस्य रूप्यावच्छिन्नचितः । स्वप्नकाशत्वात् मनोवृत्तिविषयानात्मकत्वात्। द्यात्म्यकतां मनोवृत्त्यविद्यावृत्तिविपयाभ्यामाधारारोप्याभ्यां घटितताम्। सव्यपेक्षाघिष्ठानप्रकाशे सव्यपे- क्षोऽधिष्ठानप्रकाशो यस्य तादृशभ्रमे। यत्रादौ रूप्यभ्रमः पश्चात्तत्र चैत्रीयत्वादिभ्रमः, तत्र रूप्यं चत्रीयमिनि व्यात्मक- त्वेऽपि यत्र युगपत्तादृशभ्रमस्तत्रकेव वृत्तिः, न ्यात्मकं ज्ञानम्; मनोवृत्तिरूपाधिष्टानधीजन्यभ्रमे नु द्यात्मकत्वमाव- श्यकमिति भावः । स्वप्ने तु चतुरिति। यत्रादाविदमिति शुक्तिधीः, पश्चात्तत्र रूप्यमिति घीः, तत्र सवमे वृत्तिद्वया- तमकम्। यत्र तु युगपदिदं रूप्यं चाध्यस्तं तत्र सवप्ने तदुभयगोचरका वृत्तिः । अविद्यावच्छिन्नचिद्ृपाधिष्ठानगोचरा- प्यविद्यावृत्तिरन्या। तथाच पूर्वस्थले तर्यात्मकं ज्ञानम्, द्विनीयस्थले तु द्यात्मकं ज्ञानम्। चनुरात्मकत्वं तु स्वामस्येदं रूप्यमित्यादेनेंनि भावः। स्वप्रकाशत्वात् पूर्वजाताविद्यावृत्तिविपयत्वात्। प्रतिभासके चैतन्य इति। चतन्य-
स्तानुपादानत्वं गमयति। पतेन-साक्षात्कृतघटानां घट्त्वं पटलविरुद्धमिति जानतामपि अयं पट इति वाक्याभामात्पु- रोवर्तिनि पटल्ानुभवोऽप्यस्माकमनुकूल:, इदंलपटत्योविरोधज्ञानाभावादिति-सूचितम् । अत एवाधिप्ठानज्ञानम- न्तरा निवृत्तस्य पुनरपि भ्रमानुवृत्त्यापादनमपि दुष्परिहरम्। नहि रूप्यस्योदीच्यज्ञानेन ध्वंसे पुनरुत्पत्त्या तदनुभवोपपनिः, नापि वा पिशाचादाविव तत्र तिरोधानशक्ती किंचित्प्रमाणमस्ति। एवंच रजताविद्यकत्व न तन्निषेध्यतानुभवः। नहि स्वकाले सत्त्वग्रहे कालन्रयेऽपि तदभावग्रह इति युक्तमिति सर्वमनवद्यमिति-निरूपयन्ति॥ (४) लघुचन्द्रिकाकारास्तु- अध्यस्तमज्ञानोपादानकं तत्वज्ञाननाश्यं च। सोत्पत्तिकस्य विनश्ररस्यापि तस्यातादृशेदंतादात्म्यग्रहान् तत्प्रत्ययः । यद्र- पविशिष्टस्यारोपस्तद्रूपस्यवाधिष्ठाने प्रतीतिः, उत्पादादिकंतु मिथ्यातमिव न व्यक्तमिति नेदम उत्पन्नत्वादिप्रत्ययापादनम- प्यवसरं लभते। अन्यथा रूप्यामत्त्ववादिनां भवतामपि इदमोऽसतप्रतीतिप्रसंगात्। त्रैकालिकनिषेधज्ञाने न पारमार्थि- कत्वं प्रकार इति न निषेधप्रतियोगिनः पारमार्थिकत्वज्ञानमपेक्षितम्। एवंचाविद्यकस्य स्वरूपेण पारमार्थिकत्वेन वा निषेध उपपद्यत एव। अथवा-लौकिकपरमार्थरजतस्यैव निषेध इत्यपि मिथ्यातनिरुक्तावुक्तरीत्योपपन्नमेव; आभासानाभास- साधारणरजतत्वाङ्गीकारादाभासप्रसत्त्थवानाभासस्यापि प्रसक्तेः । इदं रूप्यमिति धीविषयसामान्ये रूप्यत्वं नास्तीति बाधस्तु इदमंशे यद्विशेषणं तद्रूप्यमेव, इदं तु न रूप्यमिति बाधकालिकप्रत्ययेनाप्रामाणिकः । व्यावहारिकस्यापि रूप्यस्याविद्यातृ- त्िविषयत्वं संभवत्येव। शङ्कश्वैत्यानुमित्यनन्तरं तुन श्रेतार्थप्रवृत्तिः, किंतु शह्कार्थवेति न दोष इत्यादि सर्व निरवद्यमिति- विवेचयन्ति॥ इति रजताद्याविद्यकत्वोपपत्तिः।
Page 335
[भ्रमस्य वृत्तिद्वयोपपत्तिः ] गौडब्रह्मानन्दीयुता। ६५३
झात्। अतीतविषयव दुपपादने Sपि अपरोक्षत्वानुपपत्तेरुक्तत्वात्। नच-दोषाणां स्वाश्रय एवाति- शयहेतुत्वेन चक्षुरगतदोषजन्यो भ्रमः कथमचाक्षुषः स्यात् ! अन्यथा त्वचा गृहीते शहे चक्षुपा गृहीते रूप्यसादृश्ये च निमीलितचक्षुषोऽपि पीतभ्रमरूप्यभ्रमयोरापत्तेरिति-वाच्यम्; दोषाणां स्वाश्रय पवातिशयजनकत्वमित्यस्यैवासिद्धे: नियामकाभावात् । नचोक्तातिप्रसङ्गो नियामकः; स्वसंबन्धिनि कार्यजनकत्वाङ्गीकारेणानतिप्रसङ्गात्। संबन्धश्च स्वाश्रयजन्यज्ञानविषयत्वरूपः ।स च न तदेति संस्कारविषयग्राहीन्द्रियजन्याधिष्ठानज्ञानस्यापरोक्षभ्रमहेतुत्वात् त्वचा गृहीते तदभा- वात् सादृश्यं गृहीत्वा चक्षुर्निमीलनस्थले इदंवृत्तिसन्भ्ावे प्रमाणाभावेन नातिप्रसङ्गापादनं शक्य म्। तत्सत्वे इष्टापत्तिरेव। ननु-एवं वृत्तिभेदे ज्ञानैक्यानुभवविरोधः। नच-अध्यस्तेनाभेदेन विषययोरेकतापन्नत्वात् ज्ञानयोरैक्यमुपचर्यत इति-वाच्यम्; एवमेकत्वप्रतिपादकप्रयोगसमर्थ- नेऽपि अनुभवविरोधस्यापरिहारादिति-चेन्न; विषययोरभेदाध्यासे ज्ानयोरप्यभेदाध्यास इत्यस्य उपचारशब्दार्थत्वेनानुभवविरोधाभावात् । नच-तर्हि धारावाहिकज्ञानेष्वैक्याध्यासापत्तिः विषयैक्यज्ञानस्यारोपनिदानस्य सत्वादिति-वाच्यम्; आरोपस्य कारणानापाद्यत्वात्।नच-विष- यैक्यस्य ज्ञानैक्याध्यासनिमित्तत्वं न दष्टमिति-वाच्यम्; पूर्वोक्तयुक्त्या ज्ञानभेदे सिद्धे अपूर्वकल्प- नायामपि दोषाभावात्। यद्वा-यथेदमंशावच्छिन्नचैतन्यगताविद्यापरिणामत्वात् रूप्यमिदंत्वेन भाति, तथेदमाकारान्तःकरणवृत्त्यवच्छिन्नचैतन्यगताविद्यापरिणामत्वेन रूप्यज्ञानमिदंज्ञानत्वेन भाति। नच तर्हि बाधकाद्विषययोरिव ज्ञानयोरपि भेदघीप्रसङ्ग :; विषयभेदग्रहज्षानभेदग्रहयोर्भिन्न- सामग्रीकत्वेनापादनस्याशक्यत्वात् । केचित्तु-भ्रमकाले विषयैक्यग्रहनियमवत् न ज्ञानैक्यग्रहनि- यमः; तं विनापि प्रवृत्त्याद्युपपत्तेः, तथाच बाधकाले न तदनैक्यग्रहनियमोऽपीति-आहुः। नच- इदंतृ त्तेर्ज्ातैक सत्वेन तदवच्छिन्नचतन्यगताज्ञानमेव नास्तीति-वाच्यम्; वृत्ते: साक्षिवेद्यत्वेन यद्या तद्ोचराज्ञानं नास्ति; तथापि तदवच्छिन्नचतन्ये शुक्त्यवच्छिन्नगोचराज्ञानसत्वात्। तथाच इदं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मेव प्रतिभासकम्, वृत्तिस्तु विद्यमाना सती व्यावत्तिकेत्युपाधिः । तथाच वृत्तेः सवोपहितचितापि भास्यत्वसंभवान्न वृत्त्यन्तरापेक्षेनि भावः। उक्तत्वादिति। अपरोक्षत्वं न ज्ञानगतोऽखण्डविशेष :; 'अर्थेनैव विशेषो हि निराकारतया धिया' मित्यादिसिद्धान्तादनावृतचित्संबन्धस्यैव सुखादावपरोक्षत्वरूपतया कृप्तत्वेन तेनैव निर्वाहादिति भावः । स्वा- श्रये स्वाश्रयजन्ये। अतिशयहेतुत्वेन भ्रमत्वादिप्रयोजकत्वेन। त्वचेत्यादि। त्वचा गृहीते शङ्गे 'शङ्गः पीत' इनि भ्रमापत्तेश्चक्षुषा गृहीते सादृश्ये निर्मीलितचक्षुप्केऽपि पुंसि 'इदं रजतमि'ति भ्रमापत्तेश्चेत्यथः। रूप्यसादृश्यचाक्षु- पस्य जनकतासंबन्धेन संयोगसंबन्धेन वाऽऽश्रयश्चक्षुः । तदजन्येऽपि ज्ञाने अ्रमत्वमुक्तचाक्षुषप्रयोज्यं स्यादिति भावः । सचेति। पित्ताश्रय चक्षुर्जन्यधीविशेष्यत्वमंबन्धश्चेत्यर्थः। तदा त्वङ्मात्रेण शङ्गग्रहणकाले। ननु धर्मीन्द्रियसन्निकर्ष एवेन्द्रियजन्यभ्रमहेतुः, अन्यथा शङ्गादो रूपाद्यविपयकचाक्षुपाद्यसंभवात्, श्वेतरूपादेश् पीतरूपादिभ्रमजनकदोपेणैवा- अहात्, पीतरूपादिभ्रमपूर्व शङ्गादिचाक्षुपासंभवात्। नच-पीतरूपशङ्योवेंशिध्मगृह्णत्तदुभयचाक्षुपं भ्रमपूर्व जाय- तामिति-वाच्यम्; नियमेन भ्रमपूर्वमुक्तचाक्षुपोत्पत्तो मानाभावात्, युगपदेव तादृशचाक्षुषभ्रमयोरुत्पादसंभवात्। तथाच स्वाश्रयजन्यधीविषयतासंबन्धेन दोषस्य हेतुतासंभवस्तत्राह-संस्कारविषयग्राहीति। संस्कारहेत्वनुभव- जनकेत्यर्थः । भ्रमहेतुत्वात् भ्रमव्यवहारप्रयोजकत्वात्। परोक्षभ्रमे इन्द्रियजन्याघिष्ठानज्ञानानियमादपरोक्षेत्युक्तम्। कारणानापाद्यत्वादिति। यजजातीयं कारणं यज्जातीयारोपे क्वचिहृष्टं, तजातीयात् सर्वस्मात्तजातीयस्यानापाद्यत्वा- दित्यर्थः । फलबलाद्दोषाणां विशिष्यैव हेनुत्वमिति भावः। अशक्यत्वादिति। ज्ञानयोः कार्यकारणत्वादिविचार- काले कदाचित् भेदो गृह्यत एव, तयोः कार्यकारणभावास्वीकारे तु मनोऽविद्ययोः परिणामरूपा वृत्तिरेकैव स्वीक्रि- यते। अतएव 'सुरभि चन्दन'मित्याकारा वृत्तिश्चन्दनांशे चाक्षुषमनःपरिणामः, सारभांशे स्मृतिरूपाविद्यापरिणामः। अतएवच मितिमात्रांशे सर्व ज्ञानं प्रत्यक्षमिति प्राभाकराः। यथाचोक्तचाक्षुपस्य सौरभादौ विषयतासरवेऽपि चाक्षुप- त्वावच्छिस्नाधिकरणताया अन्रासत्वात् सन्निकर्षकारणत्वे व्यभिचारः, तथा रूप्यादावपोति ध्येयम्। ग्रहनियम इति। यथा निदाघकाले शीतजलह्दे मननस्य पुंसो नानावयवावच्छिन्ननानासुखानां न भेदधीः; तथा प्रकृतेऽपीति भावः । नियमोऽपीति। अर्थतत्वव्यवस्थापकोऽपि बाधः ययोरैक्यं भ्रमे आरोपितं भाति तयोरेव भेदमवगाहते। ज्ञानयोरै- क्यस्य भ्रमाविषयत्वे तु तयोभेंदं नावगाहते। वस्तुतो अर्थतत्वव्यवस्थापकत्वं भ्रममूलाज्ञानविषयविषयकत्वम्, नतु यावदुक्कविषयविषयकत्वम्; आंशिकबोधे तदभावात्। नवाभ्रमे ययोरैक्यारोपस्तयोर्भेंदविषयकत्वम्; तत एव। तथाच
Page 336
६५४ अद्वैतसिद्धिः । [परिच्छेद: १]
वृत्तिराश्रयावच्छेदिका नतु विषयावच्छेदिकेति वस्तुस्थितिः।अतएव-शुक्तितत्वं जानतः इदंवृप्ति- तत्वं चाजानतो रूप्यनिवृत्तावपि तदशानानुवृत्तिप्रसङ्ग इति-निरस्तम्; शुक्तितत्वाज्ञानस्यैव उभय- परिणामित्वात्, इदमंशस्तदाकारवृत्तिश्व एतद्टयमाश्रयमात्रावच्छेदकमित्युक्तत्वाद्।नचैवमपि अबा- घितज्ानैक्यानुभवविरोध :; अध्यस्तेन सहेन्द्रियासंप्रयोगस्यैव बाधकत्वात्।नच सन्निकर्षः प्रमासा- मग्री; करणानां प्राप्यकारित्वानियमेन सन्निकर्षस्यापि सामान्यसामग्रीत्वात्। नहि टष्टा छिदा दारु- वियुक्तकुठारेणेत्यन्यत्र विस्तरः। यसतु शुक्तिरेव विवर्ताधिष्ठानमस्तु, न चैतन्यमिति, तन्न; अधिष्ठानस्य भ्रमजनकाशानविषयत्वेन तदकल्पिततया सत्यत्वनियमात्, शुक्तेश्च मिथ्यात्वात्। यद्वा-अविद्यावृ- तेर्न ज्ानत्वम्, अतः ज्ञानैक्यधीः; ज्ञानत्वस्याज्ञाननिवर्तकमान्रवृत्तित्वात्। नच-एवं धारावाहन- स्थले द्वितीयादिज्ञाने ज्ञानत्वं न स्यादिति-वाच्यम्; तस्यापि तत्तत्कालविशिष्टग्राहकत्वेनागृहीतग्रा- हकतयाSज्ञाननिवर्तकत्वात्। वस्तुतस्तु-यावन्ति ज्ञानानि तावन्त्यज्ञानानीति व्यवहितज्ञानेनेवाव्य- वहितज्ञानेनापि अज्ञाननिवर्तनादिति न काप्यनुपपत्तिः। परोक्षस्थलेSपि प्रमातृगताज्ञाननिवृत्तिरस्त्ये- वेति तत्र जानामीति प्रत्ययः । तेन सहाभेदग्रहात् परोक्षभ्रमेऽपि जानामीति प्रत्ययः। नच विवरणे अन्तःकरणपरिणामे ज्ानत्वोपचारात् इदंवृत्तेरपि ज्ञानत्वोक्ती विवरणविरोध :: तस्य प्रकाशत्वनिबन्ध नज्ञानपदप्रयोगविषयत्वमित्येतत्परत्वात्, नत्वज्ञाननिवर्तकत्व निबन्धनज्ञानपद प्रयोगोऽपयोपचारिक इति तस्यार्थः। तथाचाविद्यावृत्ती यत्र ज्ञानपदप्रयोगः, तत्रौपचारिक एव। नच-अविद्यावृत्तेरज्ञानत्वे ज्ञानस्यौत्सर्गिकं प्रामाण्यमिति विरुध्येत, निरपवादनियमस्यैव संभवादिति-वाच्यम्; इच्छाजनक- वृत्तिमात्रस्य ज्ञानत्वममिप्रेत्य उत्सर्गत्वोक्तेः। यद्वा-वृत्तिभेदेऽपि इदरूप्ययोरिदमंशावच्छिन्नचतन्यप्र- काश्यत्वेन फलैक्यात् ज्ञानैक्यधीः। नच-परोक्षभ्रमे अपरोक्षकरसचतन्यरूपफलक्याभावात् कथं तन्निबन्धनज्ञानैक्यानुभव इति-वाच्यम्; तत्र फलक्यमप्युपचर्य ज्ञानैक्योपचार इत्येव विशेषात्। ननु-त्वन्मते यथाक्रममिदंरूप्याकारान्तःकरणवृत्त्यविद्यावृत्तिप्रतिविम्बिताभ्यां वा, तदमिव्यक्ताभ्यां
गौडव्रह्मानन्दी (लघुचन्द्रिका)। भ्रमस्य ज्ञानयोरैक्यविषयकत्वेऽपि न क्षतिः। नन्विदंवृत्ते्ज्ञातत्वेऽपि तस्यां रजताकारवृत्तिभेदस्याज्ञातत्वात्तदज्ञानमेव रजतज्ञानोपादानं कुतो नोच्यते ? तत्राह-अत एवेति। इदंवृत्तित्त्वं इदंवृत्तौ रजतवृत्तेर्भेदम्। तदशानेति। उक्तमेदाज्ञानेत्यर्थः। तथाच रूप्यज्ञानस्याप्यनुवृ्त्त्यापत्तिरिति भावः । वस्तुतः अज्ञानानुच्छेद तत्कार्यस्य रजतज्ञा- नस्यानुच्छेदेऽप्युत्तरज्ञानेन निवृत्तिसंभवात्तदनिवृत्तावपि रूप्यनाशादेव रूप्यं साक्षात्करोमीति व्यवहारासंभवान्नानुप- पत्ति:, परंत्वेकस्यैवाज्ञानस्य रूप्यतज्ज्ञानोपादानत्वं लाघवाद्युक्तम्। आश्रयमत्रति। इदं रूप्यमस्य ज्ञानं रूप्य- ज्ानमिति व्याकारानुभवादज्ञानमूलकभ्रम विशेष्यतावच्छेद करूपावच्छिन्नस्येवाज्ञानाधार तावच्छेदकत्वा देकस्यैवाज्ञानस्य द्यमाश्रयतावच्छेदकम्। नचैवं-अस्य ज्ञानं रूप्यमित्यपि भ्रमाकारः स्यादिति-वाच्यम्; 'भस्य ज्ञानं न रूप्य'- मिति बाधासत्वादिदमादिनिष्ठयैव प्रत्यासत्या दोपाणां हेतुत्वादिदमादाचेव रूप्याद्युत्पत्तेः । असंप्रयोगस्य असंयोम- प्रतिसन्धानस्य । अध्यस्तं, इन्द्रियजन्यज्ञानाविषयः, इन्द्रियासन्निकृष्टत्वादित्याद्यनुमानं बाधितमिति भावः। सामान्येति। भ्रमसाधारणेत्यथः । तदकल्पिततया अज्ञानामयुक्ततया। वस्तुतः शुक्त्यादेरज्ञानविषयत्वेपि न परोक्तदृषणावकाशः; ज्ञानस्येवाज्ञानस्यापि विपयतायाः कादाचित्कत्वसंभवात्। मिथ्यात्वादिति। शुक्त्यवच्छिन्न- चितो मिथ्यात्वेऽपि नाज्ञानविषयतवम्, किंतु शुद्धचिन्निष्टे तस्मिन् शुक्त्यादेरवच्छेदकत्वमिति प्रतिकर्मव्यवस्थादावु- कम्। किंच मिथ्यात्वेऽपि तस्या एव तत्, न शुक्त्यादे :; अप्रकाशस्वरूपत्वात्। न कापीति। वस्तुतः अज्ञाननि- वृत्तिस्वरूपयोग्यत्वं प्रमात्वपर्यवाितं ज्ञानत्वम्। अतएव इदमाकारवृत्तेरज्ञानानिवर्तकत्वेऽपि न क्षतिः। तेनेति। परोक्षेणाज्ञाननिवतकेनेत्यथः । अ्रमेऽपीत्यपिशव्दादपरोक्षे अ्रमेऽप्यधिष्टानाभेदग्रहाज्ानामीति धीरिति सूचितम्। इत्थंच अ्रमे ज्ञानत्वानङ्गीकारो विचारदशायामपि ज्ञानक्यबुद्दपपादनायेति बोध्यम्। प्रकाशकत्वेति। असरवापा- दकाज्ञानाविषयत्वप्रयोजकोपहितचित्वेत्यर्थः । विषयत्वमिति। औपचारिकमिति शेषः। उक्तचिश्वस्य जानातिशक्य- तावच्छेदकत्वेन वृत्तौ तत्प्रयोगो न मुख्य इति भावः। निवर्तकत्वनिबन्धनेति। निवर्तकनिरूढलाक्षणिकत्वप्रयुक्क्ते- . त्यर्थः। अज्ञानत्वेन ज्ञानान्यत्वेन। ज्ञानत्वं ज्ञानपदस्य निरूढलक्षणाम्। सुखादी वृश्यस्त्रीकारेत्वसर्वापादकाज्ञा- नविषयतानवच्छेदकत्वस्यैवेच्छाविषयतायां प्रयोजकत्वम्, नतु वृत्तेः । तथाच ज्ञानस्येत्यादौ ज्ञानपदमुक्तानवच्छेद- कत्वाश्रयविषय कचित्परम्। फलैक्यादिति। आवरणनाशरूपफलविशिष्टत्वेनेदमंशावच्छिन्नचिदेव फलम्, नतु रज- तावच्छिया। तथाचोक्तफलस्यैक्यात्तदवच्छिम्वृत्तिज्ञानयोरैक्यव्यवहार इति भावः। तदमिव्यक्ताभ्यां वृत्तिकृतावर-
Page 337
[भ्रमस्य वृत्तिद्वयोपपत्ति:] ६५५
मेदात् कथं फलैक्यम्! अनवच्छिन्नफलीभूतचिन्मात्रामेदस्य सर्वत्र समानत्वात्। नहीदमंशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानम्; आत्माश्रयात् । न वा रूप्ये इदमंशानवच्छिन्नमुपादानम्; 'इदं रूप्य'मिति प्रतीत्यनुपपत्तेरिति-चेन्न; अविद्यावृत्तिस्तावभ्नाज्ञाननाशिका, किंत्वन्तःकरणवृत्तिरिद- माकारा। तथाच तद्मिव्यक्तचैतन्यमेव रूप्यमभिव्यनक्तीति फलैक्यसंभवात्। नहावच्छेदकमेदेन फलभेद:, किंतु व्यञ्जकभेदेन। तथाच परमार्थसञ्चैतन्यमधिष्ठानमध्यस्तज्ञानस्य। तञ्ञ द्विविधं व्याव हारिकसत् प्रातिभासिकसश्चेति। तदुक्तं-'प्राग््यावहारिकसत्त्वविषयत्वात् प्रत्यक्षं नागमबाधक'- मिति। परमार्थसत्वमादाय त्रिविधं सत्त्वम्॥ इति भ्रमस्य वृत्तिद्वयत्वोपपत्तिः॥
गौडव्रह्मानन्दी (लघुचन्द्रिका)। णनाशविशिष्टाभ्याम्। वृत्तेश्चिदुपरागार्थत्वे प्रथमः पक्षः, आवरणनाशार्थत्वे तु द्वितीयः पक्षः । अथ मनोऽवच्छिन्नचितो र्जीवत्वपक्षे विषयचैतन्यमनावृतमेव; जीवस्य विषयचैतन्येनाभेदानभिव्यक्त्येव वृत्त्यभावकाले विषयाद्वष्टृत्वात्, अतस्तत्पक्षमाश्रित्याह-इदमंशेति। चैतन्याभ्यामिति । इदमंशरूप्यवृत्तिकृतप्रमात्रभेदापन्नाभ्यामिति शेपः। यद्यपि दृष्यग्रन्थे न्यायामृते मध्यमो वाकारो नाम्ति; तथापि पक्षत्रयसंभवात् स उक्कः । अभिव्यनक्तीति। इदमंशे अज्ञानास्वीकारपक्षेऽपि इदमाकारवृत्तेर्द्व्यत्वाद्याकारकत्वसंभवेन द्रव्यत्वादिविशिष्टांशे अज्ञाननाशकत्वं बोध्यम् । व्यञ्षकेति । अज्ञाननाशकवृत्तीत्यर्थः । अज्ञाननाशकभेदेनेति यावत् । तञ्च अध्यस्तं च॥ इति भ्रमस्य वृत्तिद्वयोपपत्तिः॥
अथ भ्रमस्य वृत्तिद्वयोपपत्तिः । (१) तत्र न्यायामृतकारा :- अध्यस्ताविद्यकत्वे तदनुभवो न संभवति। अधिष्ठानांशेऽन्तःकरणवृत्तिः, अध्यस्तांशेचाविद्यावृत्तिः तादात्म्यस्यापि भानान्नाख्यातमतप्रवेश इति तु न युक्तम्; इदमोऽप्यध्यस्तत्वेन तदंशे इदमिति हि द्यात्मकं, इदरूप्यमिति च त्र्यात्मकं, खप्ने चतुरात्मकं च स्यात्। अतएवहि रूप्यचाक्षुषतोपपत्तिः। अन्यथा रूप्यज्ञानस्याविद्यावृत्तित्वे प्रातिभासिकतया प्रतिभासस्याव-
दोषजन्यो भ्रमोऽचाक्षुष इति युज्यते। अन्यथा तचा शङ्गस्य चक्षुषा रूप्यसादृश्यस्यच ग्रहणेन निमीलितचक्षुषोऽपि पीतत्र- मरूप्यभ्रमयोरापत्तिः । एवंचैकमेवेदं रजतमिति ज्ञानं, नतु तत्र घृत्तिद्वयम्; अन्यथा तदैक्यानुभवविरोधापत्तेः, विषयक्येन तु न तदक्यापत्तिः; धारावाहिकज्ञानानामेकलापत्तेः। वस्तुतस्तु-विषयैक्यस्य ज्ञानैक्याध्यासनिमित्तत्वं न दृष्टम्। विषयभेदग्रहकाले ज्ञानभेदाग्रहोऽपि तन्निमित्तत्वं विघटयति। किंचेदंवृत्त्यवच्छेदेनाविद्यावृत्तिरन संभवति; तस्या ज्ञातकसत्वेन तदवच्छिन्नचैतन्यगताज्ञानाभावात्, शुक्तितत्त्वं विज्ञानतः इदवृत्तितत्त्वं चाजानतः रूप्यनिवृत्तावपि तदज्ञानानुवृत्तिप्रसं- गाच्च। अवाधितज्ञानैक्यानुभवोऽप्यत एवोपपद्यते। सन्निकर्षस्य प्रमामात्रसहकारित्वादसंप्रयोगेऽपि प्रत्यक्षोपपत्तिः। ज्ञान- तमन्तःकरणवृत्ताविवाविद्यावृत्तावपि विद्यत एव; अन्यथा रजतं जानामीत्यनुभवविरोधात्। अन्तःकरणवृत्तौ ज्ञानतोपचा- रादिति विवरणानुसारेणेदंवृत्तेरपि ज्ञानत्वाभारवनेदं वृत्तिरपि न ज्ञानं स्यादिति ज्ञानैक्यानुभवविरोधोऽपरिहार्य एव । अज्ञा- ननिवर्तकत्वस्य धारावाहिकद्वितीयादिज्ञानेऽभावात् प्रकाशकचैतन्यप्रतिफलनोपाधितमेव ज्ञानतप्रयोजकमिति अविद्यावृ- त्तिरपि ज्ञानमेव; परोक्षभ्रमैकलानुभवविरोधात्। अपरोक्षकरससाक्षिरूपफलैक्येनापि नैकलानुभव उपपद्यते। परमार्थ- तस्तु-उपाध्यवच्छिन्नतदनवच्छिन्नचैतन्ययोर्भेंदेन नं फलैक्यमपि। अनवच्छिन्नफलीभूतचैतन्यामेदस्तु सर्वत्र समानः। सर्वथा त्रमे वृत्तिद्वयं नोपपद्यते इति-घर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- अधिष्ठानांशेऽन्तःकरणवृत्तिः अध्यस्तांशेचाविद्यावृत्तिः । एवमपि तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः। नहि वयं सर्वत्राध्यासे द्यात्मकतां ब्रूमः, किंतु अन्तःकरणवरत्तिसापेक्षाघिष्ठानप्रकाशे इति इदंत्वादघिष्ठानस्य खप्रकाशतान्नेदमिति द्यात्मकतापत्तिः । एतेन-इदंरूप्यमित्यस्य त्र्यात्मकतापत्तिः खप्ने चतुरात्मकतापत्तिश्च-पराहता; खपे इदरूप्ययोरुभ- योरप्यविद्यावच्छिन्नचैतन्याघिष्ठानकत्वेन तस्य खप्रकाशलाच्च। चाक्षुषतानुभवस्तु अनुभवत्वमात्रेऽपि आत्मानं पश्यामीति- वदौपचारिकः। उपचारेच निमित्तं चाक्षुषेदंवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामतमिति मन्तव्यम्। अविद्यावृत्तिप्रतिफ- लिते चैतन्येऽविद्यावृत्तेः खत एवोपाधित्वेन नाविद्यावृत्तेरपि प्रातिभासिकत्वेऽनवस्थाप्रसंगः । रूप्यमिति तु न ज्ञानगता-
Page 338
६५६ अद्वैतसिद्धिः । [परिच्छेदः १ ]
अथ सत्तात्रैविध्योपपत्तिः । ननु-एवं सत्वत्रविध्यविभागो नोपपद्यते, प्रातिभासिकादप्यपकृष्टस्य स्वाम्रूप्यस्य व्यावहारिका- दप्युत्कृष्टाया अविद्यानिवृत्तेः सन्भ्रावादिति-चेन्न; स्वाने प्रातिभासिकनिकृष्टत्वे प्रमाणाभावात्। तथाहि-प्रातिभासिकत्वं हि प्रतिभासमात्रसत्त्वम्, तञ्च स्वप्नजागरयोः समानम्। ननु-जागरे अधिष्ठानतावच्छेदकेदमंशस्याधिकसत्ताकत्वं, स्वप्नकाले तस्यापि प्रातिभासिकत्वमित्येव निकृष्टत्व- मिति-चेन्नः स्वप्े हि इदमो नाधिष्ठानावच्छेदकत्वम्; तुल्यवदारोप्यत्वात्। तत्राधिष्ठानमविद्या- गौडब्रह्मानन्दी (लघुचन्द्रिका)। आरोप्यत्वादिति। यन्तु-समे इदमंश आरोपितोऽपि न बाध्यते, तेन रूप्यादुत्कृष्ट तदिति प्रकृते विवक्षि- कारः; साकारवादप्रसंगात्। अपरोक्षतानुभवस्तु नातीतविषयवदुपपद्यते। दोषाणां स्वाश्रय एवातिशयजनकत्वमित्यत्र न विनिगमकं दृश्यते। सवसंबन्धिन्येव कार्यजनकत्वाङ्गीकारात्तु नातिप्रसंगावकाशः। ज्ञानैक्यानुभवस्तु विषयाभेदेनोपचारनि- बन्धनः । उपचारशब्दार्थश्च विषययोरभेदाध्यासे ज्ञानयोरप्यभेदाध्यास इति नानुभवविरोधोऽपि। यावताच ज्ञानभेदस्ता- वता विषयैक्याध्यासस्य ज्ञानैक्याध्यासनिमित्तलमपूर्वमपि कल्प्यत एव। सामग्र्यभावात्तु विषयभेदग्रहकाले न ज्ञानभेदग्रह- इति न तदापत्तेरवकाशः । इदंवृत्त्यवच्छेदेन रजतवृत्तिस्तु शुक्त्यवच्छिन्नचतन्यगोचराविद्याया एव परिणामः, नतु तदव- च्छिन्नचैतन्यगताविद्यापरिणामः। इदंवृर्त्तिहं आश्रयावच्छेदिकेव नतु विपयावच्छेदिकेति न दोषः। शुक्तितत्वं जानतः इदवृत्तित्वंचाजानतो रूप्यनिवृत्तावपि तदज्ञानानुव्ृत्तिप्रसंगोऽप्येतेन पराहतः; युक्तिताज्ञानस्यैवोभयपरिणामिखात्। अध्य स्तेन सहेन्द्रियासंप्रयोगात्तु बाधकान्नावाधितज्ञनंक्यानुभवः। सन्निकर्षस्य प्रमामान्रसामग्रीलाभावात् प्रत्यक्षत्ोपपत्तिर- प्यविद्यावृत्त्यन्गीकार एवोपपद्यते। अथवाऽविद्यावृत्तिन ज्ञानम्; ज्ञानत्वस्याज्ञाननिवर्तकमाऋ्वृत्तितादिति न ज्ञानेक्यानुभव- विरोधः। धारावाहिकद्वितीयादिज्ञानमपि तत्तत्कालविशिष्टविषयकत्वेनानधिगतविषयमेवेति नानुपपतिः । परोक्षत्रमेऽपि फलक्योपचारेण ज्ञानक्यानुभवोपपत्या फलैक्यनिबन्धनो वाऽ्यमैक्यानुभव इति सर्व मुस्थमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- इदमंशाघिष्ठानस्य स्वयं प्रकाशः तदवच्छिन्नचतन्यम्य वत्तिकृत इति इदमंशे ध्यात्मकतायाः तन एवेदं रायमिति त्र्यात्मकतायाः समे उभयाध्यासेऽपि इदमोऽबाधेन तत्रोपत्कृष्टायाश्ाविद्यावृत्तरज्ीकरणीयतयाऽविद्याघिष्ानस्वयंप्रकाशतदव च्छिन्नचतन्यसंबन्धिवृत्तिकृतप्रकाशाभ्यां चतुरात्मकतायाश्च समापत्त्या न भ्रममात्र ज्ञानभेदः। इदंपश्यामीतिवत् पीनं पश्या- मीत्यपि अनुभवेनोपचारकल्पने मानाभावाच्चाक्षुपलानुभवोऽप्यस्माकमेवानुकूलः। अविद्यावृतेः प्रातिभासिकायाः प्रतीनों
स्थाप्रसंगोऽप्यपरिहार्य एव। ज्ञानंक्यानुभवोऽपीदानीमेव रक्षितो भवति। विषयैक्येन तुन तदुपपात्तः; एकविषयकप्रत्य- क्षानुमित्यादीनामपि तदापत्ः। अन्यथा बाधकाले विषयभेदग्रह इव ज्ञानभेदग्रहोऽपि समापदेत। कदारपि वाधकाले वृत्तिभेदग्रहम्याभावान्न सामग्रीविरहात्तदभावः। इदवृत्तः ज्ञतकसत्वेन तदवच्छदेनाविष्ठानावरणं बिना नाविद्यावृत्त्युत्पति-
इति-व्यासादिसूत्रतर्काम्तुपूरः पक्षयुगं युजि। न्यायामृततरङ्गिण्यामनिर्वाच्यस्य खण्डनम्। इति- प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- यत्रादों रूप्यभ्रमः तत्र पश्चाच्चत्रीयल्ादिश्रमः, तत्र रूप्यं चत्रीयमिति यद्यपि ध्यात्मकम्; तथापि यत्र युगपत्तादश- भ्रमः, तत्रैकमेवाज्ञानमिति मनोवृत्तिरूपाधिष्ठानधीजन्यभ्रमो वृत्तिद्वयात्मक एव। एतेन-साप्नभ्रमोऽपि-व्याख्यातः । अयमाशय :- यत्रादों इदमिति शुक्तिवीः पश्चात्तत्र रप्यमिति धीः, तत्राविद्यावच्छिन्नचेतन्यगोचराविद्यावृत्त्या साकं वृत्तित्रयं, यत्रतु युगपत्तादृशत्रमः, तत्र तया साकं वृत्तिदवय मिति नेदं ज्ञाने इदं रूप्यमितिज्ञाने स्वाप्नरूप्यभ्रमेच द्वित्रिचतु- रात्मकतापादनमत्रावसरं लभते। रूप्यं पश्यामीतितु अनुभवः औपचारिक एवंति न तदपरोक्षतानुपपत्तिः । स्वोपहि- तचितवाविद्यावत्तिप्रकाशसंभवाद्ृत्त्यन्तरस्यानावश्यकत्वाद विद्यावत्तः्वयमोधिान्ना नस्थाप्र संगोि। ज्ञानैक्यानुभ- वस्तु अभेदाध्यासनिबन्धनः । कार्यकारणलादिविचारकाले कदाचिज्ज्ञानभेदोऽपि गृह्यत एवंति विषयभेदग्रहकाले ज्ञानमे- दाग्रहस्य सामग्रीविरहनिबन्धनत्वेन कोऽपि दोषः । एकस्यैवाज्ञानस्योभयपरिणामित्वेऽपि रूप्यनाशेनैव तत्प्रतीत्यभावो- पपत्त्याऽज्ञानद्वर्याववर्तलानङ्गीकारादिति सर्वमनवद्यमिति-विवेचयन्ति ॥ इति भ्रमस्य वृत्तिद्वयोपपत्ति:।
Page 339
[सत्तात्रैविध्योपपत्ति:] गौडब्रह्मानन्दीयुता। ६५७
वच्छिन्नमेव चैतन्यमिति वक्ष्यते। अविद्यानिवृत्तेः पश्चमप्रकारतापक्षे संसारकालीनसत्वस्यैवायं विभाग इति न न्यूनता। यद्वा-अविद्यानिवृत्तः सत्त्वाभावेन सत्वविभागे न तदसंग्रहनिबन्धनो दोषः । वस्तुतस्तु-अविद्यानिवृत्तिः ब्रह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता। नच- विभागस्य तात्त्विकत्वे अपसिद्धान्तः, अतात्त्विकत्वे त्रिविधत्वं गतमेवेति-वाच्यम्; ब्रह्मातिरिक्त- मतात्त्विकमिति वदतो विभागातातत्विकत्वस्येप्टत्वात्। नच तर्हि तात्विकत्रैविध्यहानिः; को हि त्रैविध्यस्य तात्विकत्वं व्रवीति ? किंतु व्यावहारिकत्वमेव। नच-तात्विकस्य ब्रह्मणोSतात्विकाच्छु- क्तिरूप्यात् बाधाधिगम्यस्य विभागस्य कथमतात्त्विकत्वमिति-वाच्यम्;बाधबोध्यत्वं न तात्विकत्वे प्रयोजकम्, किंत्ववाध्यत्वम्। तञ्च न व्रह्मातिरिक्तवृत्ति; नेहनानेत्यादिना वाधात् । नच त्रिविध- सत्त्वाङ्गीकारे ब्रह्मव सदिति स्वमतविरोधः; तस्य परमार्थसङ्गह्मैवेत्येतत्परत्वात्। एतेन-विश्वमि- थ्यात्वव्रह्म निर्विशेषत्वादावप्येवं विकल्प्य दृषणमिति-अपास्तम्। ननु-अत्र परमार्थसदेव सदि- तरद्वयं सद्विलक्षणमेव सत्वेन भाति, वाधविलम्बाविलम्बाभ्यां तन्ज्ेद इत्यभिप्रेतम्, उत वा सत्त्व- स्यैवावान्तरभेद इति। नाद्ः; त्वन्मते रूप्याभावे रूप्यधीरिव सत्त्वाभावे सतत्ववुद्धेरयोगात्। कदा- चिदपि सत्त्वाभावे तुच्छवद्ुत्पत्याद्ययोगात्, व्यावहारिके प्रातिभासिकादर्थगतविशेषाभावेन तत्रार्थ- क्रियादे: श्रुतीनां तद्विपयत्वेन प्रामाण्यस्य चायुक्त्यापातात्। प्रत्युत नभोनल्यभ्रमहेतोरिव अर्थभ्रा- न्तिहेतुत्वेनाप्रामाण्यनिश्चय एव स्यात्। नान्त्य: आरोपितानारोपितसाधारणसामान्यधर्माभावात्, व्यावहारिकस्यानारोपितविशंपत्वे इष्टापत्तेश्चेति-चेन्न; द्वितीयपक्षस्यव क्षोदक्षमत्वात्। तथाहि- अबाध्यत्वरूपमारोपितानारोपितयोः सामान्यम्। अन्यदा वाध्येSपि स्वकालावाध्यत्वमात्रेणारोपिते- पि तस्य संभवात्, आरोपितानारोपितयोरेकसामान्याभावे प्रवृत्याद्यनुपपत्तेरुक्तत्वात्।अतपवोक्तं -'आकाशादौ सत्यता तावदेका प्रत्यख्ात्रे सत्यता काचिदन्या। तत्सम्पर्कात् सत्यता तत्र चान्या- व्युत्पन्नोऽयं सत्यशव्दस्तु तत्र ॥I' इति। यथा प्रातिभासिकरजते ज्ञातकसदेकं रजतत्वम्, लौकिक- परमार्थरजते चाजातसदपरं रजतत्वम्, तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रज- तशब्दालम्बनम्, एवमाकाशादावारोपिनका सत्यता, चिदात्मनि चानारोपिताऽपरा, तदुभय-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तम्-इति, तन्न; 'स्वप्दृष्टं सर्व दृश्यं मिथ्ये'नि जागरप्रन्ययेनंदमंशस्यापि बाधात्, बहिस्थस्येदमंशस्य व्यावहारि- कम्य प्रत्यक्षाद्यनवतारेण स्वम आरहकाभावेन रूप्यवदिदमंशस्यापि प्रातीतिकत्वाच्च, जाग्रत्यपि शुक्तिरूप्यादिदमंशस्यो- क्तोत्कर्षसंभवेन जाग्रचछुक्तिरूप्यापेक्षया स्वाप्नुक्तिरूप्यस्य तावताप्यपकर्पाप्रतिपादनेन प्रकृतानुपयोगाच्च। सत्वा- भावेनेति। नच तस्यास्तुच्छतवापत्तिः; उत्पत्यादिमत्वात्। ब्रह्मस्वरूपा केवलव्रह्मरूपा ज्ञायमानब्रह्मरूपा वा। द्वितीयपक्षे ज्ञानरूपत्वे पर्यवसानम्। अनिरवेचनीया वेति। तथाच पञ्वमप्रकारत्वपक्षे नाशस्याविद्योपादानकत्वा- भावादव चिन्धास्यत्वादनिर्वाच्यत्वं तु दुर्वारमिनि भावः। अयुक्त्यापातात् अयुक्तत्वापातात्। अप्रामाण्यनिश्चय इति। व्यावहारिकज्ञानस्य उक्तश्रुतीनां चेत्यनुपज्यते। अनारोपितविशेषत्व इति। प्रातिभासिकव्यावृत्तस्यानारो- पितविशेषस्याश्रयत्वे। अवाध्यत्वरूपं वाधवपयत्वसामान्याभावरूपं। स्त्कालाबाध्यत्वेति। स्वकालावच्छिस्नो- काभावेत्यर्थः । मात्रपदादनवच्छिन्नस्योक्ताभावस्य व्यवच्छेदः। तृतीयार्थस्याभेदस्य तस्येत्यत्रान्वयः । प्रवृत्याद्यनुप- पत्तेरिति। येन रजतत्वादिना विशिष्टं पूर्वसुपलब्धम् तत्प्रकारकप्रवृत्तेरत्रमस्थलंऽप्यनुभवात् भ्रमस्य तत्प्रकारकत्वमा- वश्यकम्। तथाच अबाध्यत्वप्रकारकग्रवृत्यर्थ तत्म्रकारकत्वमपि भ्रमस्यावश्यकमिति भ्रमविपये अबाध्यत्वसामा- न्यसिद्धिरिति भावः। ज्ञातैकसदिति। उभयानुगतजातेरगन्तुकदोपाज्ञानादिकार्यतावच्छेदकत्वासंभवात् प्रमाण- व्यापारं विना प्रातीतिकनिष्ठतया भानासंभवाच्च ज्ञातकसद्रजतत्वादिकमावश्यकमिति भावः। अज्ञातसदपरमिति। साक्षिमात्रभास्यरजतत्वाद: प्रमाणवेद्यत्वानुपपत्तेः प्रातीतिकसाधारणेन रजतत्वादिना व्यावहारिकस्य कार्यविशेषं प्रति
मिति भावः। उभयानुगतत्वे मानमाह-रजतशव्देति। रजतादिशब्दानां प्रातीतिकेऽपि प्रयोगादुभयजात्योः प्रयो- गनिमित्तत्वे नानार्थत्वापत्तेरुभयविशेष्यकस्य रजतत्वप्रकारकज्ञानस्य हर्पविशेषादिकार्य प्रति उभयातिरिक्तरजततवप्रका- रकरवेनैव हेतुत्वादुभयानुगतं रजतत्वाद्यावश्यकमिति भावः। यन्तु-प्रातीतिकव्यावहारिकयोरेकसामान्यासंभव :- इति, तन्न; ब्रह्मद्दश्ययोरबाध्यत्वसामान्यम्येव तादात्म्यस्येव च तयोस्तत्संभवात्। यदपि-प्रातीतिकमात्रवृत्तिर- जततवादौ मानाभाव :; दोषादिकार्यत्वस्य दोपादिविशिष्टत्वेनंव संभवात्, प्रातीतिकसंसृष्टरूपेण व्यावहारिकरजतत्वा- अ. सि. ८३
Page 340
६५८ अद्वैतसिद्धिः । [परिच्छेदः १ ]
साधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दालम्बनमिति भावः। सद्विशेषत्वेऽपि व्यावहारि कस्य प्रपश्चस्य नानारोपितविशेषत्वम्, येनेष्टपत्तिरवकाशमासादयेत्; सत्वस्यानारोपितत्वात्मक- त्वाभावात्। सतत्वाङ्गीकारादेव नोत्पत्यादिविरोधोऽपि। नच-स्वरूपेण बाध्यत्वं प्रपञ्चेऽपि नास्ति; तुच्छत्वप्रसङ्गात्, पारमार्थिकत्वाकारेण वाध्यत्वं निर्धर्मकतया ब्रह्मण्यप्यस्तीति कथं कदाचिद्वा- ध्यत्वमादाय व्यावहारिकत्वादिस्थितिरिति-वाच्यम्; मिथ्यात्वरूपसाध्यनिरुक्तावेवास्य दत्तोत्तर- त्वात्। यन्तु-सप्रकारकस्यैव ज्ञानस्य प्रपश्चवाधकत्वं वक्तव्यम्; निष्प्रकारकत्वे बाधकत्वायोगात, तथाच स प्रकारस्तात्विक एव स्यात्-इति, तन्नः स्वरूपोपलक्षणोपलक्षितस्वरूपविषयकव्यावृत्ता- कारज्ञानस्यैव निष्प्रकारकत्वेऽपि बाधकत्वमित्यस्यापि प्रागेवोक्तत्वात्।स्वरूपोपलक्षणनिबन्धनव्यावृ- त्ताकारत्वेऽपि यथा नाखण्डार्थत्वक्षतिः, तदप्युक्तमधस्तात्। ननु-व्यावहारिकप्रातिभासिकयोर्व- ध्यत्वाविशेषे किंत्निबन्धनो भेदः, न तावन्मायिकत्वाविद्यकत्वाभ्यां भेदः: मायाविद्ययोरभेदात्, अ- र्थगतविशेषाभावे तद्योगाच्च। नाप्यर्थक्रियाकारित्वाकारित्वाभ्यां विशेषः स्वाप्नघटादौ स्वाप्नजला- हरणाद्यर्थक्रियादर्शनात्। नचार्थक्रियायां व्यावहारिकत्वं विशेषणम्ः अन्योन्याश्रयात्, स्वाप्नाङ्गनालि ङनादौ प्रातिभासिके व्यावहारिकसुखजनके अतिव्याप्तेश्च। नापि ब्रह्मज्ञानबाध्यत्वतद्भिन्नज्ञानवाध्य त्वाभ्यां विशेष :; त्वन्मते रूप्यादेरपि शुक्त्यवच्छिन्नव्रह्मधीवाध्यत्वात्, ब्रह्मण्यध्यस्तस्य क्षणिकत्वादे रपि प्रातिभासिकस्य ब्रह्मधीवाध्यत्वेनातिप्रसडगाञ्च। नापि ब्रह्मप्रमावाध्यत्वतदन्यप्रमावाध्यत्वाभ्यां विशेषः, त्वन्मते ब्रह्मज्ञानस्यैव प्रमात्वात्। नापि प्रमावाध्यत्वभ्रान्तिवाध्यत्वाभ्यां विशेष: भ्रान्तिवा- ध्यत्वस्य ब्रह्मण्यपि सतत्वात्। नापि पारमार्थिकविषयधीवाध्यत्वव्यावहारिकविपयधीवाध्यत्वाभ्यां विशेष :; अन्योन्याथ्रयात्। नाप्यन्योन्येतरत्वाभ्याम: भेदकाभावे इतरत्वस्यवायोगात्, अन्योन्याश्रया-
भेदसंभवात्। शुद्धशब्देन निर्धर्मकाविष्ठानमात्रमेवात्र विवक्षितम्। नच्र-निर्धमंकं यद् वस्तुगत्या तज्ज्ञानं भ्रमकालेऽपि, निर्धर्मकत्वविशिष्टस्य तदुपलक्षितम्य वा ज्ञानं चेद्विवक्षितं, नदा अखण्डार्थ- ताहानिः, प्रकारीभूतनिर्धर्मकत्वद्वितीयाभावादेस्तात्विकन्वरापत्तिश्चति-वाच्यम: निर्धर्मकं यद् वस्तुगत्या तन्मात्रगोचरज्ञानस्य विवक्षितत्वात्, तस्य च भ्रमकालेSभावात्। निर्धर्मकत्वादेस्तहुद्धावु-
गोडव्रह्मानन्दी (लघुचन्द्रिका)। देरपि प्रानीतिकत्वेन साक्षिमात्रवेद्यत्वादिसंभवाच्च। किंचोक्तसामान्यमुक्तमानादास्ाम्,आकाशादिमा त्रगतसत्यता्यां तु न मानम्-इति, तदपि नः दोपादिविशिष्टत्वस्य नित्यसाधारणवेन दोपािजन्यत्वेऽनवच्छेदकत्वात, तत्तदजन- व्यक्तित्वानां तत्स्वीकारे महागोरवाढेकजातीयदोपेण चिरमनुवर्तमानेन रजतादिनानाव्यक्तीनामुत्पादान्। अथ- नित्यसाधारण्यवारणाय सामानाधिकरण्यकालिकसंबन्धाभ्यां दोपविशिष्टत्वं जन्यनावच्छेदकमिति-चेन्न:उक्तोभय- त्वविशिष्टसंबन्धेन दोपविशिष्टत्वं कालिकसंबन्धेन घटत्वाविशिष्टं सत् सामानाधिकरण्यसंबन्धेन दोपविशिष्टं यत्तत्वं वा दोषकार्यत्वावच्छेदकमित्यस्याविनिगम्यत्वात् । कल्प्यन तु रजतत्वादिना सह न विनिगमनाविरहोक्तिसंभवः; कल्प्यस्य पूर्वमनुपस्थि तत्वात्। किंच कालिकसंबन्धवृत्तित्वविशिष्टं यत् सामानाधिकरण्यसंबन्धवृत्तित्वं, तहिशिष्टोभ- यत्वं संबन्धतावच्छेदकम्। तथाचोक्तवृत्तित्वयोविशेष्य विशेषणभावे कामचारात कार्यताया अवच्छेदकभेदन भेदापच्या रजतत्वादिकमेवावच्छेदकतया कल्पयितुमुचितम्, आकाशादिमात्रगतसत्यतायां तु 'सत्यस्य सत्य प्राणा वै सत्यं तेपा- मेप सत्य मित्यादिश्ुतिरेव मानम्। अर्थगतेति। व्यावहारिकप्रातीतिकयोरविशपे द्वयोरपि मायिकत्वमाविद्यकत्वं वा स्यादिति भावः । ब्रह्मधीति । ब्रह्म न क्षणिकमिनि धीत्यर्थः। त्वन्मत इति। तथाच नदन्यप्रमात्वमप्रसिद्ध- मिति भावः । भ्रान्तिबाध्यत्वस्य ब्रह्म मिथ्येति आ्रान्त्या मिथ्यात्वेन ज्ञाप्यत्वस्य। अन्योन्याथ्रयादिति। पारमा- र्थिकत्वस्य ज्ञानात्तद्वटितव्यावहारिकत्वस्य ज्ञानमित्यन्योन्याश्रयात्। अन्योन्येतरत्वाभ्यां व्यावहारिकान्यत्व प्रातीति- कान्यस्वाभ्याम्। विशेष इत्यनुपज्यते। भेदकाभावे अनुगतानतिप्रसक्तस्य भेदप्रतियोगितावच्छेदकस्याज्ञाने। इतर- त्वस्य भेदज्ञानस्य। ननु प्रातीतिकान्यत्वरूपेण व्यावहारिकत्वेन भेद: प्रातीतिकत्वम्, तत्राह-अन्योन्येति। सोडयमित्या दिजन्यनिप्प्कारकधीबाध्यभेदस्य व्यावहारिकत्वापत्तेराह-शुद्धेति। शुद्धस्य विषयत्वास्वीकारेऽप्याह- महावाक्येति। वाक्यस्य न याधकसाक्षातकारहतुत्वम्, किंतु भावनासहकृतमनस इति भामतीमतेऽप्याह- स्वबाधकेति। तह्रुद्धौ चरमतह्ुद्दी। तस्मादित्यस्यार्थ स्पष्ट्यति-उपाधीत्यादि । प्रतिपक्षः सत्प्रतिपक्षः।
Page 341
गौडब्रह्मानन्दीयुता। ६५९
पायत्वमात्रम्, न तु तह्रुद्धी विषयत्वम्। अनो नाखण्डार्थताहानिप्रकारतात्त्विकत्वापत्ती। निष्प्र- कारकत्वेऽपि संशयादिनिवर्तकत्वमुपपादितमेव । तस्मादज्ञानोपादानकं जगन् मिथ्येति सिद्धम्। उपाधिवाधप्रतिपक्षशून्यं विपक्षबाधागमसव्यपेक्षम्। दृश्यत्वमव्याहतमम्वरादिमिथ्यात्वसिद्धौ सुदृढं हि मानम्। तदेवं दृश्यस्य प्रपश्चस्य मिथ्यात्वात्तदतिरिक्तव्रह्मरूपाखण्डार्थनिष्ठवेदान्तवाक्यं परतत्वावेदकम्। सखण्डार्थविषयकं सर्वमतत्वावेदकमेवेति । यद्यपीदं ब्रह्मज्ञानाव्यवहितभ्रमविषये प्रातिभासिके व्यावहारिकलक्षणमतिव्याप्तम्। प्रातिभासिकलक्षणं चाव्याप्तम्, तथापि करणसंसर्गिदोषप्रयुक्तत्वं तदसंसर्गिदोपप्रयुक्तत्वं च तयोर्लक्षणं निरवद्यम्।। इति सत्त्वत्रेविध्योपपत्तिः॥ अविद्यातत्कार्यात्मकनिविडबन्धव्यपगमे यमद्वतं सत्यं प्रततपरमानन्दममृतम्। भजन्ते भूमानं भवभयभिदं भव्यमतयो नमस्तसम नित्यं निखिलनिगमेशाय हरये॥ अनादिमुखरूपता निखिलदृश्यनिर्मुक्तता निग्न्तरमनन्तता स्फुरणरूपता च स्वतः। त्रिकालपरमार्थता त्रिविधभेदशन्यात्मता मम श्रुतिशतार्पिता तदहमस्मि पूर्णो हरिः॥
विरचितायामद्वैतसिद्धी सपरिकरप्रपश्चमिथ्यात्वनिरूपणं नाम प्रथम: परिच्छेदः।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। विपक्षबाधम्तर्कः । दृश्यत्वं दृश्यत्वादिहेनुः। दढंहि दृढमेव। करणसंसर्गिदोषप्रयुक्तत्वमिति। करणसभ्निक- ष्टविषयनिष्टप्रत्यासत्या या दोपनिष्ठा प्रयोजकता तन्निरूपितप्रयोज्यतावत्वमित्यर्थः । काचादिदोपाणां हि चक्षुरादि- सन्निकृष्टविषय निष्ठप्रत्यासत्या प्रातीनिकाध्यासहेतुत्वम्; परोक्षभ्रमस्थलेऽपि व्याप्तिज्ञानादिकरणसंसृष्टपक्षादिनिष्ठप्रत्या- सन्यैव प्रातीनिकाध्यामदोपयोः कार्यकारणभावः अन्यथा हद्दादो वह्नयादयुत्पत्यसंभवात्, अविद्यायास्तु व्यावहारिक- विपयकं अ्रमं प्रति तादात््येनंव हेनुत्वम्,। अतः करणसंसृष्टप्रत्यासत्यनवच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावत्त्त्वं तदमंसर्गीत्यादेर्थः। अविदयान्यदोपप्रयुक्तत्वमविद्यादोपप्रयुक्तत्वं च दयोः पर्यवसितार्थः। तेन करणसन्निकर्षादेरन- नुगतत्वेऽपि न क्षतिः। दोपत्वं च शकतिविशेषः। तदवच्छिन्ना प्रयोजकता प्रथमलक्षणे निवेश्या, तेन दोषप्रत्यक्षादौ व्यावहारिक नानिव्याप्तिः। तादृशप्रयोजकतानिरुपितप्रयोज्यनापि शक्तिविशेषेणेव। द्वितीयलक्षणे तु मूलाविद्यानिये- शात न प्रानीनिके अतिव्याप्तिः। तत्मयुक्तत्वस्य चानादिदृश्येऽपि स्त्वान्ताव्याप्तिः। अविद्यान्यदोषकार्यतावच्छेदक- संबन्धश्च स्वाश्रयाविद्याविषयतावच्छेदकत्वं शुक्तित्वादिविशिष्टनिष्ठम्। नच-रजतादेरिदमादावेव तादात््येनोत्पत्तिः, रजतादिभ्रमस्य चेदमादिज्ञान एव तादात्म्येनोत्पत्तिरित्यत्र नियामकाभावादव्यवस्थेति-वाच्यम्; तत्तदोपविशिष्टर- जतत्वाद्यवच्छिनस्य तादात्म्येनोत्पत्ती तत्तदोपाणामिदमादिनिष्टसंबन्धेन हेतुत्वानां स्वीकारात्, स्वाश्रयतावच्छेदकेद- मादिविषयकज्ञानत्वसंबन्धेन पल्वाविद्याया हेतुत्वं स्वाश्रयाविद्याश्यतावच्छेदकेदमादिज्ञाननिष्ठतादाल््येन भ्रमत्वेन कार्यत्वमित्यस्य कार्यकारणभावस्य स्वीकाराच्च। आकाराग्यविषयनासंबन्धेन भ्रमं प्रति भ्रमान्यो यः स्वपरिणामस्त- दृत्तिविपयतासंबन्धेन पल्वाज्ञानस्य हेतुत्वान्तरस्वीकारात् भ्रमस्य रजताद्याकारकत्वनिर्वाहः। विवेचितं चेदं परस्परा- ध्यासविवेचने ग्रन्थादावेव। अत्र यद्यपि व्रह्मज्ञानजन्यनाशतजन्यनाशयोरन्यतरप्रतियोगित्वं ब्रह्मज्ञानबाध्यत्वम्, तख्ब न प्रातीनिकविशेषेऽ्स्ति; तन्नाशहेतुपल्लवाविद्यानाशस्येव ब्रह्मज्ञानजन्यनाशजन्यत्वात्, तादृशपल्लवाविद्यापि मूलावि- द्येव व्यावहारिकेत्येवेति न तन्राप्यतिव्याप्तिः तथापि पल्लवाविद्यानङ्गीकारपक्षे प्रातीनिकविशेषे अतिव्याप्तिर्बोध्या। अत्र पल्लवाविद्यापक्षे मूलपल्लवाविद्याप्रयुक्तत्वे लक्षणे। अविद्याप्रयुक्तत्वंच अविद्यातत्प्रयुक्तान्यतरत्वम्। पक्षान्तरे मूलाविद्यामनस्तत्परिणामान्यत्वे सनि अविद्याविषयतानवच्छेदकत्वं प्रातीतिकत्वम्। उक्तलक्षणशून्यत्वे सति दृश्यत्वं व्यावहारिकत्वमिति बोध्यम्। इनि सत्तात्रेविध्योपपत्तिः । यः पूर्णानन्दमग्नोऽप्यनुगतमनसां वल्लवीनां विधेयो यश्चेन्द्रादेर्नियन्ता विजयहयतनूमार्जने सावधानः।
Page 342
६६० अद्वैतसिद्धिः । [परिच्छेद: १]
गौडव्रह्मानन्दी (लघुचन्द्रिका)। यश्च श्रीशः सुदाम्न: पृथुककणगणात्यादरास्वादयुकत- स्तस्य श्रीपादुकाया भवतु कृतिरियं मालिका मल्लिकायाः॥
सरस्वतीविरचितायां लघुचन्द्रिकाख्यायामद्वैतसिद्धिटीकायां । प्रथमपरिच्छेद:॥
अथ सत्तात्रैविध्योपपत्तिः। (१) तत्र न्यायामृतकारा :- ब्रह्म पारमार्थिकसत्, जगव्यावहारिकसत्, शुक्तिरूप्यादि प्रातिभासिकसदिति सत्तात्रैविद्यविभागो नोपपद्यते; साप्नशुक्तिरूप्याज्जागरिकशुक्तिरप्यवलक्षण्य निर्वाहाय प्रातिभामिकादपि निकृष्टम्य सत्त्वान्तरस्य पश्चमप्रकाराव्यावहारिका- पारमार्थिकाविद्यानिवृत्तौ व्यावहारिकादुत्कृष्टस्य सत्वान्तरस्यच कल्पनीयलान। अपिचायं विभागोऽपसिद्धान्तापत्त्या न तातिकः; त्रविध्य हान्यापत्त्याऽतालिकश्च न भवति। व्यावहारिकसत्योऽपि बाध्योऽवाध्योऽथवा भवेत्। उक्तदोषश्चोभयत्र सर्वमेतेन दूषितम्॥ पतेन-विश्वमिथ्यात्व्रह्मनिर्विशेपत्वादिकमप्युक्तविकल्पेन दृषितप्रायमिति-सुचितम् । किंच परमार्थसदेव सदि- तरद्वयं सद्विलक्षणमपि सत्त्वेन भानमात्रेण सदिति व्यपदेशभाक्। तथापि वाधविलम्बाविलम्बाभ्यां भेद इति न कल्पना संभवति। रूप्याभावे रूप्यधीरिव सत्त्वाभावे सत्त्वेन भ्रान्तेरयोगात्; अन्यथाऽसत््यात्यापनेः। आरोपितानारोपितसा- धारणसामान्यस्याभावान्न सत्येऽवान्तरभेदः, व्यावहारिकस्यानारोपितविशेषत्वेत्विष्ठापत्तिः। स्वरूपेण वाध्यत्स्य तुच्छला- पत्त्या प्रपश्चेऽप्ययोगेन पारमार्थिकत्वेन तस्य ब्रह्मसाधारण्यान् ब्रह्मप्रपञ्चयोविशेषः कदाचिद्वाध्यत्वेन संभवति। वाधश्वायं न सप्रकारक :; प्रकारतात्त्विकतापत्तेः । नापि निष्प्रकारकः; तत्त्वायोगादिति तु दोषान्तरम्। एतेन-व्यावहारिकात् प्रातिभासिकभेदोऽपि-पराहतः। सहि मायाविद्ययोरभेदादर्थगतविशेषाभावे भेदायोगान्न न मायिकल्ाविद्यकतवनि- बन्धनः, स्वाप्नालिङ्गनादीनामप्यर्थरियाकारिलात् व्यावहारिकार्थक्रियाकारिताच्च नवारऽर्थक्रियाकारित्तदभावनिबन्धनः ।
लप्रयुक्तः। ब्रह्मप्रमातदन्यप्रमाबाध्यत्वेतु युष्मन्मते ्रह्मप्रमाऽन्यप्रमाSप्रसिद्धा न विशेषक। प्रमावाध्यतभ्रान्तिवाध्यन्वेच ब्रह्मणोऽपि भ्रान्तिबाध्यलान्न प्रयोजके। एतेन-पारमार्थिकविषयधीवाध्यतव्यावहारिकविषयवीवाध्यत्वे महावाक्य जन्यतदन्यधीबाध्यत्वे वा न भेदके इति-सुचितम्; प्रथमद्वितीययोरन्योन्याश्रयात्। तृतीयें तज्ज्ञानस्य निष्प्रकारकत्वे बाधकत्वायोगात्। सप्रकारकत्वे तत्प्रकारतात्विकतापत्तेरखण्डार्थताहानेश्वेति जगतः सत्तात्सत्यजगत्कतृलाद्यनन्तगुणे ब्रह्मण्येव वेदान्ताः प्रमाणं, नतु निर्विशेषे इति सिद्धमिति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- ब्रह्म पारमार्थिकं, जगत् व्यावहारिकं, शुक्तिरूप्यादि प्रातिभासिकमिति सत्तात्रैविध्यमुपपद्यत एव। नहि खाप्ने प्रातिभा- सिकान्निकर्षे प्रमाणमस्ति। रप्ने हि अविद्यावच्छिन्नचैतन्यमेवाधिप्ठानमिति इदमंशस्य तत्राघिष्ठानानवच्छेदकलवान्नाघिष्टा- नावच्छेदकस्यापि खवान्ने प्रातिभासिकतं जागरेतु रूप्यमात्रस्येति विशेषः संभवति। संसारकालीनस्यैव सत्त्वस्यात्र विभाग इति न पश्चमप्रकाराविद्यानिवृत्तिसाधारणसत्त्वाविभागनिवन्धना न्यूनता । वस्तुतस्तु-तस्याः सत्त्वमेव नास्तीति न तदसंग्रहो दोषः। परमार्थतस्तु-तस्याः त्रह्मसरूपतपक्षस्यानिर्वचनीयतपक्षस्यैवच युक्ततान्न दोषलेशोऽपि। सचायं विभाग: अतात्विक एव। अवाध्यत्वंहि तात्त्विकतवप्रयोजकत्वम्, नतु वाधवोध्यत्वमिति व्यावहारिकत्रैविध्यविभा- गोऽप्युपपद्यत एव। ब्रह्मैव सदितितु पारमार्थिकसत्त्वाभिप्रायं। व्यावहारिकतप्रातिभासिकसत्त्वेच सत्येवावान्तरविशेषौ । स्कालाबाध्यत्स्य शुक्तिरूप्यादावपि सत्त्वात् अबाध्यत्वं आरोपितानारोपितसामान्यम्। एवंच सत्तात्रैविध्यमुपपन्नमेव । अतएव "आकाशादों सत्यता तावदेका प्रत्यख्ात्रे सत्यता तावदन्या। तत्संपर्कात्सत्यता तत्रचान्या व्युत्पन्नोऽयं सत्य- शब्दस्तु तत्र ।।" इति वचनमपि-व्याख्यातम्; सद्विशेषोऽपि व्यावहारिकप्रपश्चो नानारोपितः, ब्रह्मप्रपश्चयोस्तु मेदे- ्बाध्यतवाध्यत्वे प्रयोजके। यथाच स्वरूपेण प्रपश्चबाध्यत्वं पारमार्थिकत्वेनापि ब्रह्मणो न ततू, तथा मिथ्यालनिरुक्ती
Page 343
[सत्तात्रैविभ्योपपत्तिः] गौडब्रह्मानन्दीयुता। ६६१
उपपादितम्। एतेन-व्यावहारिक प्रातीतिकयोरपि विशेषो-व्याख्यातः; सप्रकारकनिष्प्रकारकज्ञानबाध्यताभ्यां शुद्ध-
तस्य संभवात्। यथाच स्वरूपोपलक्षणोपलक्षितव्यावृत्ताकारकज्ञानस्य निष्प्रकारकत्वेऽपि निवर्तकत्वं निर्धर्मकत्वादीनां द्वैत- निवर्तकबुद्धौ उपायत्मेव, तथा प्रागेवोपपादितं, उपपादयिष्यतेचेति न प्रकारतात्त्विकतापत्तिरखण्डार्थताहानिर्वेति अज्ञा- नोपादानकं जगत् न पारमार्थिकमिति कर्तृत्ादिशून्यनित्यशुद्धबुद्धमुक्तखभावाद्वितीयब्रह्मैव वेदान्तार्थ इति सिद्धमिति- निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- सत्तात्रैविध्यविभागो न युज्यते; प्रातिभासिकादपि निकृष्टस्य स्वाप्निकसत्त्वान्तरस्यापि कल्पनीयलात्। इदमः खप्रेऽधि- छ्ानतावच्छेदकत्वेऽपि न बाधो दृश्यत इति प्रातिभासिकात साप्नस्य विशेषः। एतेन-पश्चमप्रकाराविद्यानिवृत्तौ सत्त्वा- न्तराकल्पनेन न्यूनताऽपि-सूचिता । मुक्तिदशानुगतब्रह्मसत्त्वासंग्रहापत्त्या न संसारकालीनस्यैव सत्त्वस्य विभागः । नापि वा तस्याः सत्त्वमेव नास्तीति कल्पनोपपत्तिः; तुच्छतप्रसंगात्। तद्र्रह्मसवरूपत्वंतसाध्यत्वापत्त्या न संभवदुक्तिकमपि। सचायं विभागो नातात्विक :; ब्रह्मणोऽपि अतात्त्विकतप्रसंगात्, किंतु तात्विक एवं। अतएव तस्य स्थूलमित्यादिश्रुतिबो- ध्यत्वोपपत्तिः । पतेन-ब्रह्मैव सदिति वचनमपि-व्याख्यातम्; नह्यारोपितानारोपितसाधारणसत्वं निर्वक्तुमलम् । उभयसाधारणस्योभयात्मकतायां विरोधात्। वाध्यतावाध्यत्ाभ्यां ब्रह्मप्रपश्चवैलक्षण्यं तुन संभवतीति पूर्वमेव निरूपि- तम्। पतेन-व्यावहारिकप्रातिभासिकयोविशेषोऽपि-परास्तः; निष्प्रकारकबाधकलवाद्ययोगादिति सर्वमनवद्यमिति- प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- खप्नदष्टं सर्व दृश्यं मिथ्येति जागरप्रत्ययेनेदमंशस्यापि वाधात् बाह्यस्येदमंशस्य प्रत्यक्षाद्यसंभवेन रूप्यवत्तस्यापि प्राती तिकत्वान् जाअ्रत्यपि शुक्तिरूप्यादिदमंशस्योत्कर्षसत्त्वेन जाग्रच्छ्रुक्तिरूप्यापेक्षया खाप्नशुक्तिरूप्यस्य ततोऽप्यपकर्षाप्रतिपाद- नेन प्रकृतानुपयोगाच्च। स्ाप्नप्रातिभासिकयोरेकरूपलात् उत्पत्त्यादिमत्त्वेन तुच्छत्वानापत्त्या पश्चमप्रकाराविद्यानिवृत्तेः सत्वाभावेऽप्यदोषेण तस्या ज्ञानरूपत्वेन वोपपत्तेश्र सत्तात्रैविध्यमुपपद्यत एव। सचायं विभागोSतातत्विक इत्याद्यद्वैतसिद्धावेव सम्यङ निरूपितम्; न तरज्जीणीकारैरपि दृपितमिति विस्तरभयादुपरमाम इति सर्व मुस्थमिति-विवेचयन्ति ॥ इति सत्तात्रैविध्योपपत्तिः ॥
विद्वद्वर सुब्रह्मण्यतनूजस्यानन्तकृष्णशास्त्रिणः कृतिषु चतुर्ग्रन्थ्यां प्रथम: परिच्छेदः। ब्रह्मार्पणमस्तु ॥
Page 344
।। श्रीः ।।
॥ द्वितीयपरिच्छेदः॥
तत्राखण्डार्थलक्षणोपपत्तिः ।
हेयं निरूप्य बन्धाख्यं तन्निवृत्तर्निबन्धनम्। यज्ज्ञानं तदखण्डार्थमादेयमचुनोच्यते॥
तच्चाखण्डार्थ द्विविधम्। एकं पदार्थनिष्ठम्, अपरं वाक्यार्थनिष्ठम्। एकैकंच पुनवैदिकलाकिकमे- देन द्विविधम्। पदार्थनिष्ठं वैदिकमपि द्विविधम्। तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठं च। तत्र 'सत्यं ज्ञानम- नन्त'मित्यादि तत्पदार्थनिष्टम्। 'योऽयं विज्ञानमयः प्राणेषु हद्यन्तज्यातिः पुरुष' इत्यादि त्वंपदार्थनि- ष्टम्। 'प्रकृष्टप्रकाश' इत्यादि तु लोकिकं पदार्थनिष्ठम्। वाक्यार्थनिष्टमपि वैदिकं 'तत्वमस्या'दिवा- क्यम्, 'सोऽयं देवदत्त'इत्यादि तु लौकिकम्॥ अत्राहुः-किमखण्डार्थत्वम्? न तावन्निरभेदार्थत्वम्; यतो निर्भेदार्थत्वस्य शब्दवोध्यत्वे विशेषणतायामुपलक्षणतायां च 'निर्घटं भूतल'मितिवत् सखण्डा- र्थतैव स्यात्, शव्दाबोध्यत्वे तु वस्तुगत्या यन्निभेदं ब्रह्म तद्वोधकसगुणवाक्यानामपि अखण्डार्थ- त्वापत्तिः। अथ यन्निभेदं वस्तुगत्या, तन्मात्रपरत्वम्, न; प्रकृष्टप्रकाशादिवाक्येऽव्याप्ः, तेपां धर्मि- समसत्ताकभेदवद्वस्तुपरत्वेन वस्तुगत्या निरभेदार्थनिष्ठत्वाभावात्। अत एव निर्विशेषार्थत्वमपि न। नाप्यपर्यायशब्दानां प्रातिपदिकार्थमात्रपर्यवसायित्वम् ; शीतोष्णस्पर्शवन्ता पयःपावकावित्यादाव-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मा भैष्टेत्यमृतस्यन्दिमुखचन्द्रमनोहरम्। गोवर्धनधरं धाराधरधौरेयमाश्रये। श्रीनारायणतीर्थानां पदपङ्केरुहस्मृतिः । स्मृतिमव्याहतां कुर्यात् सदा पदपदार्थयोः॥ पदार्थनिष्ठं पदार्थयोरभेंदबुद्िविरोधित्वे सत्यखण्डविपयकम्। वाक्यार्थनिएं उक्तबुद्िविरोधित्वे सत्यखण्डविप यकम्। पदार्थों च महावाक्यीयौ ग्राह्या। तेन 'सत्यं ज्ञान मित्यादेरपि स्वघटकपदाथयोभैदधीविरोधित्वेऽपि न दोषः। महावाक्यार्थबोधोपयोग्यखण्डवाक्यार्थबोधजनकं पदार्थनिष्टम्। अनन्यशेषाखण्डवाक्यार्थबोधजनकं वाक्यार्थनिष् मिनि वा बोध्यम्। यन्महावाक्यीयपदार्थयोः भेदबुद्धिविरोधि सत तन्महावाक्यीयपदार्थरूपाखण्डार्थकं यत्, तत तन्महावाक्यीयपदार्थनिष्टम्। यन्महावाक्यार्थवोधोपयोगिपदार्थबोधपर्यवसायि यत, तत् तन्महावाक्यपदार्थनिष्टम्। यन्महावाक्यीयपदार्थयोभदबुद्धिविरोधि सत् तन्महावाक्यार्थरूपाखण्डार्थकं यत्, तत् तन्महावाक्यार्थनिष्ठम्। यन्म- हावाक्यार्थबोधे अनन्यशेपे पर्यवसायि थत्, तत् तन्महावाक्यार्थनिष्टमिति निप्कर्षः। सोऽयं देवदत्त इत्यादीत्यादि- पढ़ादयं चन्द्र इत्यादिसंग्रहः। प्रकृष्टप्रकाश इत्यादीत्यादिपदेन लम्बकर्णो देवदत्त इत्यादरपि। पदार्थनिष्टस्य ग्रहणा- त्तदुपकार्यस्य सोऽयमित्यादेरुक्तिरनासङ्गतेनि बोध्यम्। शब्दबोध्यत्वे सोऽयमित्यादिपदयोरन्यतरेणोपस्थाप्यतावच्छे- दकत्वे। विशेषणतायां उपाधित्व विशेपणत्वे च। उपलक्षणतायामिति। उपलक्ष्यतावच्छेदकधर्मान्तरेण बोध- जनकस्यैवोपलक्षणतानियमादुपलक्षणतायामपि सखण्डार्थत्वमित्यभिमानः। अपर्यायेत्यादि। अपर्याययोः प्राति- पदिकयोरर्थमात्रेण एकस्मिन् प्रातिपदिकार्थ पर्यवसायित्वम्, भिन्नरूपेण स्वार्थस्मृतिद्वारा एकमात्रप्रातिपदिकार्थानु- भावकनानामत्वमिनि यावत्। 'घटः कलश' इत्यादिवारणाय द्वारान्तम्। 'शीतोष्णस्पर्शौ पयःपावका'वित्यादेर्वार-
न्त्यद्लेनेव वारणादाद्यदलं व्यर्थमिति-वाच्यम्; उद्देश्यविधेययोरैक्येन सम्रकारकबोधं अ्रत्यनाकाङ्गचेऽपि 'एको द्वा' वित्यादाविव 'संभेदे नान्यतरवैयर्थ्य'मिति न्यायेन प्रातिपदिकार्थमात्रानुभावकत्वे बाधकाभावात्। अतएव- प्रातिपदिकार्थानतिरिक्तविपयाणि ग्राह भगवान् प्रथमाशब्दितविभक्त्या पाणिनिः। अतः सकलतर्कसमयज्ञो वष्टि वच- सोऽनतिरिक्तविषयत्वमित्यनेनोश्चैरित्यादौ नामप्रथमादिविभक्त्योरेकार्थानुभावकत्वमुक्तं संक्षेपशारीरके। नच-एवं
Page 345
[अखण्डार्थलक्षणोपपत्तिः ] गौडब्रह्मानन्दीयुता। ६६३
नेकप्रातिपदिकार्थपरेऽतिव्याप्तेः। नच-संभूयार्थपरत्वमत्र नास्त्येव, प्रत्येकं त्वेककार्थपरत्वं लक्षण- वाक्यत्वादिति नातिव्याप्तिरिति-वाच्यम्: तथापि ब्रह्मण्यभावात्, अभिधया लक्षणया वा वेदान्त- वाक्यानां निःसंबन्धे ब्रह्मणि पर्यवसानानुपपत्तेः । अत एव नकविशेष्यपरत्वमपि; तद्विशिष्टकवि- शेष्यबोधकनीलोत्पलादिवाक्ये अतिव्याप्तेरिष्टापत्तेश्च। यत्तु-अपर्यायशब्दानां संसर्गागोचरप्रमिति- जनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा अखण्डार्थत्वम्। तदुक्तं पञ्चपादिकाकृन्धिः -'पदानां परस्परानवच्छिन्नार्थानां अनन्याकाङ्काणं अव्यतिरिक्तकरसप्रातिपदिकार्थमात्रान्वयः इति। उक्तश्च तत्त्वप्रदीपिकाकृन्भिः-'संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम्। उक्ताSखण्डार्थता यद्वा तत्प्रातिपदिकार्थता॥' इति। तन्न; आद्ये 'अप्नाप्तयोः प्राप्तिः संयोग' इत्यादो संयोगलक्षणवा क्येऽव्याप्ेः। अथ पदस्मारितपदार्थसंसर्गाप्रमापकत्वं विवक्षितम्, तत्रापि 'द्विषदन्नं न भोक्तव्य'- मित्येतत्परे 'विषं भुङ्क्ष्वे'ति वाक्ये अतिव्याप्तिः । नच-'द्विषदन्नं न भोक्तव्य'मिति शास्त्रमूलत्वेन शास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकत्वादत्र नातिव्याप्तिरिति-वाच्यम्; युक्तिमूलत्वेनास्य शा- स्त्रमूलत्वासिद्धेः । अथ प्रतिपिपाद्यिषितपदार्थसंसर्गाप्रमापकत्वमत्र विवक्षितम्, तत्राप्यसंभवः; चन्द्रव्रह्मादिशब्दार्थानां स्वरूपतो ज्ञाततयाऽप्रतिपिपादयिषितत्वेन संसर्गविशेषप्रतियोगित्वेनैव
गौडव्रह्मानन्दी (लघुचन्द्रिका)। 'वटः कलश' इत्यादौ लक्ष्यत्वमेव स्वीक्रियतामिति-वाच्यम्; अखण्डार्थत्वं हि भिन्नरूपेणीपस्ितिद्वारा स्वाथयोरभें-
ततपदयोरखण्डार्थत्वम्। अखण्डविषयकस्यापि तादृशानुभवस्यापि तादृशानुभवस्य तादृशभेद्धीविरोधित्वं भिन्नरूप- विशिष्टयोम्तादात्म्यधीद्वारकत्वान्नानुपपत्नम्। तादृशधीद्वारकत्वं च संक्षेपशारीरके उक्तम्। 'सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोन्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्म- धी: सवैरेव ततः पढरयमिह ज्ञेयः क्रमः सूरिभिः' ॥ इनि। सामानाधिकरण्यं पढयोः समानतिभक्तिकत्वनिश्चयः। अन्वयम्तात्पर्यविषयशाव्दधीप्रयोजकः । विशषणेतरतया भिन्नधर्मविशिष्टयोस्तादात्म्यधीः । विरोधोन्द्वः तादृश- धियः प्रमात्वाभावेन तात्पर्याविषयत्वज्ञानमिति भावः । अर्थपरत्वं एकनामार्थमात्रपरत्वम् । प्रत्येकमिति। यद्यपि 'पयः शीतस्पर्श' 'पावक उप्णस्पर्श' इति वाक्यद्वयं प्रकृते न श्रूयते, न वा कल्पनीयम्, द्विवचनान्तपदाभ्या- मेव तात्पर्यविषयधीसंभवात; तथापि समासान्तर्गतयोरपि पयःपदशीतस्पर्शपदयोः सुबन्तत्वमतुबन्तत्वप्रतिसन्धानं विना न शाब्दधीः, स्वम्नकृत्यव्यवहितोत्तरत्वेन प्रत्ययज्ञानस्यासमासस्थले हेतुतया कप्तत्वात्। एवं सुबन्तयोरप्यव्यव- हितत्वेन ज्ञानापेक्षणात्तादृशवाक्यद्वयस्य प्रकृतेऽवश्यं प्रतिसन्धेयत्वेन तस्यैव प्रत्येकशब्देन लक्ष्यत्वेन ग्रहणम्। अथवा-समासवाक्येनालक्ष्येण वाक्यार्थ बुद्धा पश्चात् प्रतिसन्धीयमानमुक्तवाक्यद्वयमिह प्रत्येक लक्ष्यत्वेनाभिम- नम्, समासचाक्यं नु संसर्गाविषय कानुभवजनकत्वरूपलक्षणस्यैव लक्ष्यम्। अतएव संसर्गासङ्गीत्यादितत्वप्रदीपिकादौ लक्षणद्वयमुक्तम्। प्रकृतलक्षणानुरोधेनेकेकनामार्थमात्रविपयकबोधठ्वये उक्तवाक्यस्य तात्पर्यकल्पनेनोक्तवाक्यजन्यबो- धोत्तरं वाक्यद्वयानुसन्धानस्यावश्यकत्वात् वस्तुतो वाक्यद्वयानुसन्धानाभावेपि श्रूयमाणोक्तवाक्यस्यैव बोधद्वयोप- धायकत्वमुक्तलक्षणानुरोधितात्पर्यवशादिति ध्येयम्। एकेकार्थपरत्वं एकैकार्थमात्रपरत्वम्। नातिव्याप्तिरिति। वस्तुतः समुदितवाक्येऽपि लक्ष्यत्वं लक्षणवाक्यस्थमात्रपदस्य विशेषणीभूतपदार्थान्तरव्यवच्छेदपरत्वेन पदार्थान्तरा- विशेषणकनामार्थवीपर्यवसायित्वं लक्षणं च संभवतीति बोध्यम्। निःसंबन्ध इति। निःसंबन्धत्वात् कल्पितोऽष्य- भिधालक्षणसंबन्धो न भवतीत्यभिमानः । इष्टापत्तरिति। नीलादिविशेपणभानेऽपि विशेष्यमुत्पलादिरूपमेकं मन्म- तेऽपीष्टमिति भावः। परस्परानवच्छिन्नार्थानां वाच्यतासंबन्धेन परस्पराविशेषितार्थानामन्योन्यवाच्यवाचकाना मपर्यायाणामिति यावत्। अव्यतिरिक्तकरसप्रातिपदिकार्थमात्रान्वयः यतः अव्यतिरिक्तं विशेषणीभूतेन पढ़ा- र्थान्तरेणाविशेपितम्, अत एकरसं पदार्थान्तरसंसर्गनैरपेक्ष्येण भासमानं यत् तस्य प्रातिपदिकार्थमात्रस्य च अन्वयः । प्रमापकत्वमिति। पूर्वोक्तलक्षणयोः संवादो बोध्यः। वेदान्तानामनन्यशेपत्व रूपमन न्याका दत्वम्, नतु स्तुत्तिपर - तया कर्मविधिशेपत्वम्। अत उत्तग्रमापकत्वसंभव इति ज्ञापनार्थमनन्याकाङ्काणामित्युक्तम्। अथवा-'घटो गम्धा- श्रयः पृथिवी'त्यादौ गन्धाश्रयपदस्य घटपदरूपान्याकाङ्गतवे पृथिवीपदमनाकाङ्कम्। अतो न पृथिवीरूपाखण्डप्रमाप- कत्वमतस्तदुक्तम्। तत्प्रातिपदिकार्थता एकप्रातिपदिकार्थमात्रप्रमापकत्वम्। मूलत्वासिद्धेरिति। यद्यपि शास्त्र- स्यामूलत्वेऽपि तादृशमाप्तवाक्यं मूलं संभवति; तथापि न सर्वत्र, क्वचित्तदभावेऽपि शब्दान्यमानमूलकस 'विष भुङक्ष्वे'ति वाक्यतात्पर्यव्रिषयस्य शत्रुगृहभोजनानिष्टसाधनत्वस्य संभवात्। प्रतिपिपादयिषितेति। प्रकृतवा्यता-
Page 346
६६४ अद्वैतसिद्धिः । [परिच्छेद: २]
प्रतिपिपादयिषितत्वात्। अत एव न द्वितीयलक्षणमपि, तथाच लक्षणासंभवात् प्रमाणमप्यसं- भवि; अलक्षिते प्रमाणस्योपन्यसितुमशक्यत्वात्-इति। अत्रोच्यते-पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम्। तथाचापर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचर प्रमाजनकत्वमाद्यल- क्षणं पर्यवसितम्। तथाच न संयोगलक्षणे अव्याप्तिः; तस्य पदवृत्तिस्मारितत्वात्। नापि द्विषदन्नभो- जननिषेधके अतिव्याप्तिः; तत्रानिष्टसाधनत्वसंसर्गस्य पदवृत्यस्मारितस्य प्रतिपाद्यत्वात्। 'शीतो- ष्णस्पर्शवन्तौ पयःपावका'वित्यत्र त्वखण्डार्थत्वमिष्टमेव। नच-धर्मधर्मिभावासहमखण्डार्थत्वं कथं धर्मिभेदं सहतामिति-वाच्यम् ; एकत्रासहिष्णुतायाः सर्वत्रासहिष्णुतायामहेतुत्वात्, शीतस्पर्श- वत् पयः, उष्णस्पर्शवान् पावक इति वाक्यार्थभेदाच्च। असंभवस्तु तन्मात्रप्रश्नोत्तरत्वादिति हेत्व- सिद्द्धारे निरसिप्यते। अत्रच 'घटः कलश'इत्यादी संसर्गाप्रमापके एकार्थपरेऽतिव्याप्तिवारणाया- पर्यायशब्दानामिति। तत्रापि बहुवचनेन संभूयैकार्थप्रतिपादकत्वस्य लाभान्न'धवखदिरपलाशा' इत्यादावतिव्याप्तिः। पदश्ञाप्येत्युक्ते अर्थापत्या पदज्ञाप्यमनिष्टसाधनत्वमादाय 'विषं भुङ्क्ष्वे'ति वाक्ये
गौडव्रह्मानन्दी (लघुचन्द्रिका)। त्पर्यविषयेत्यर्थः । पदवृत्तीति । स्वघटकपदवृत्तीत्य्थः । स्वं लक्ष्यभूतं वाक्यम्। अपर्यायेत्यादि। स्वघटकपदतृ- त्तिस्मारितान्यागोचरप्रमाजनकत्वे सति पर्यायतापन्ननामद्वयघटितत्वमर्थः। तस्य संयोगस्य। धर्मधर्मिभावासहं विशेषण विशेष्यभावासहम्। धर्मिभेदं पदार्थद्वयविषयकत्वम्। एकत्र विशेषणविशेष्यभावे। सर्वत्र पदार्थद्वयविप यकत्वादौ। अहेतुत्वात् अव्याप्तत्वात्। वाक्यार्थभेदादिति। तथाच प्रत्येकमुक्तवाक्यद्वयं लक्ष्यम्, न तु समुदि- तवाक्यम्। नच-एवं 'पयःपावका' वित्यत्नत्वखण्डार्थत्वमिति पूर्वोत्तप्रतिज्ञाविरोध इति-वाच्यम्; इत्यत्रेत्यस्योक्त- वाक्यसमानविषयकवाक्यद्वय इत्यर्थकत्वादिति भावः। एकार्थपरे एकार्थप्रमापके। तत्प्रमितिशक्तत्वस्यैव तत्परत्वरू परवात्। यथाच प्रमापकत्वं तथोक्तमनुपदम्। एवंच प्रमाजनकतवद्लमक्षतमिति भावः। बहुवचनेनेति। द्विवचन- बहुवचनद्वन्द्वसमासानां साहित्यबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् साहित्यस्य चकत्रियान्वयित्वरूपत्वादुक्तप्रमारूपंक- क्रि्रियाजनकत्वमेव प्रकृते बहुवचनलभ्यमिति भावः। इत्यादाविति। इति आदिर्यस्य तादशे धवखदिरपलाशास्तत्त- दसाधारणधर्मयुक्ता इति वाक्ये इत्यर्थः । यथाश्रुते तु नामार्थपु सुबर्धसङ्गयादिसंसर्गप्रमापकत्वेन पदस्मारितानिरिका- गोघर प्रमाजनकत्वाभावादेव वारणसंभवेन साहित्यविवक्षाया व्यर्थत्वात्। ननु-उक्तवाक्यस्यासाधारणधर्मोपलक्षि- ताखण्डाथेत्वेन संसर्गाविषयकत्वेऽपि धवादिनानाविषयकप्रमारूपैकक्रियान्वयित्वरूपसाहित्यस्यापि सत्वात् कथं तद्वा- रणम्? न हेकमात्रा्थप्रमा प्रकृतलक्षणे प्रविष्टा; येन तादृशप्रकृतक्रियान्वयित्वरूपसाहित्यं प्रकृते लभ्यते। यदिच् तद्टितमेव लक्षणमुच्यते, तदा 'शीतोप्णस्पर्शवन्तौ पयःपावका'वित्यत्र लक्षणोक्तिविरुध्येतेति-चेत्, सत्यम; तथापि पूर्वोक्तर्रात्या 'धवोऽसाधारणध्मयुक्त: खदिरोऽसाधारणधर्मयुक्त' इत्यादिवाक्यानामनुसन्धानेनंव शाब्दबो- धात्। नच संभूयेत्यादिमूलानुपपत्तिः; यत्र क्रमिकोक्तानुसन्धानेभ्यः क्रमेणेव धवाद्यखण्डबोधा जाताः, न तु युग- पत्, तत्र प्रत्येकवाक्यस्येव एकवाक्यविशिष्टापरवाक्यस्याप्येकवाक्याथेमात्रप्रमाजनकत्वानपायात्तव्रातिव्याप्तिवारण- योक्तप्रमां प्रति जनकतावच्छेदकं यत्पद्समभिव्याहृतयत्पदत्वं तत्पदसमभिव्याहृततत्पदत्वमखण्डार्थत्वमित्यर्थलाभाय साहित्यस्योक्तत्वात्॥ यद्यप्येवमपि पदान्तरविशिष्टसोऽयमित्यादिवाक्ये अतिव्याप्तिः स्यादेव, ननु-पदान्तरविशिष्टप्रत्येकवाक्यं प्रत्येक- वाक्यादतिरिक्ं, न वा, आद्ये तस्य जनकतावच्छेदकशून्यत्वान्नातिव्याप्तिः, द्वितीये तस्य लक्ष्यत्वादेव न सेनि- चेन्न-आद्ये तस्य जनकतावच्छेदकत्वात्। न हि विशिष्टसत्ता सत्तात्वशून्या, सत्तादिविशिष्टघटो वा घटत्वशून्यः; वि- शिष्टसत्ता सत्तेत्यादिप्रत्ययात्, विशिष्टे केवलतादात््यस्येव केवलवृत्तिधर्मसंसर्गस्यारोपात्, केवले विशिष्टतादात्म्यत- द्दर्मयोरिव विशिष्टेऽपि केवलतादात्म्यतन्दर्मयोरारोपात, परस्पराध्यासानुरोधात्। किंच 'सोऽय' मित्यादिवाक्यज्ञानस्य स इति पदोत्तरायमिति पदविषयकत्वेन नाखण्डधीहेतुत्वम्; स इति पदत्वेन घटादिविषयकज्ञानादखण्डप्रत्ययात्। तथाचैकपद्विशिष्टापरपदत्वे जनकतायाः स्वरूपसंबन्धरूपावच्छेदकत्वाभावेपि यत्पदविशिष्ट्यत्पद्विषयिता तत- दखण्डधीजनकताव्याप्या ततपदविशिष्टतत्पद्वश्वमखण्डार्थत्वमिति वाच्यम्, तथाच प्रत्येकवाक्यस्येव पदान्तरवि- शिष्टस्यापि तस्य विपयिता तादशजनकताव्याप्येननि तत्रातिव्याप्तिः स्यात्; तथापि तादृशजनकताव्याप्यविषयिताकं तादृशविपयिताकेनान्येनाघटितं यत् तत्वमेवाखण्डार्थत्वम्। एतेन-प्रमेयतवादिधर्मविशिष्टस्य सोऽयमित्यादेरपि वारणम्; तस्य तादृशविषयिताकत्वे सत्यपि तादृशविपयिताकेनान्येन सोऽयमित्यनेन घटितरवात्। एवंच पदान्तर- विशिष्टस्य सोऽममित्यादे: सर्वस्याखण्डार्थकस्य वारणाय निरुकाथकसाहित्योक्तिरिति पर्यवसितम्। उक्तजनकतावच्छे-
Page 347
[अखण्डार्थलक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ६६५
अतिव्याप्तिः स्यात्तद्वारणाय-वृत्तीति। तथाप्यन्विताभिधानवादिमते शक्त्याSमिहितान्वयवादि-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दकानुपूर्वी यावत्सु पदेपु पर्याप्ता, तावदितरपदाघटितत्वं लक्षणमिति निष्कर्षः । धवेत्यादिकं तु उपलक्षणम्। तत्र बहुवचनं नामानेकत्वमात्रस्य बोधकम्, नतु नामबहुत्वबोधकम्; नाम्नोरप्यखण्डार्थकत्वादिति बोध्यम्। वस्तु- तस्तु-धवखदिरपलाशा इत्यत्र धवेति खदिरति प्रत्येकप देSतिव्याप्तेर्वहुवचने नकप्रमाजनकानेकनामघटितत्वं लक्षणे निवेश्यते। नच-धवेत्येकनाम्नः प्रमाजनकतवाभावादव तत्र नातिव्याप्तिरिति-वाच्यम्; अभिहितान्वयमते प्रत्ययादिनिरपेक्षप्रकृतेः प्रकृत्यादिनिरपेक्षप्रत्ययस्य च स्वार्थानुभावकत्वेन तादृशानुभवस्यैव प्रकृतिप्रत्ययार्थसंसर्ग- बोधे हेतुत्वात्, शाबरभाप्यादौ तथवोक्तत्वात्। यन्तु-स्वार्थप्रतियोगिकस्य स्वार्थान्तरगतस्य संसर्गस्यानुभावके यौगिके पङ्कजादिपदे अतिव्याप्तेर्वारणाय बहुवचनम्-इति, तन्न शोभतेः स्वघटकपदवृत्तिस्मारितान्याविपयक- प्रमाजनकत्वस्येव प्रकृते निवेश्यतया पङ्कादिरूपस्ववटकपदवृत्तिस्मारितपङ्कादिभिन्नसंसर्गप्रमापकत्वस्यैव पङ्कजादि पंद सत्वात्। नच-एवं 'पङ्कजं गन्धविशेषवत्' 'पावको धमनविशेषवा'नित्यादिलक्षणवाक्येप्वव्याप्तिरिति- वाच्यम्; तेपां पद्मादिस्वरूपमात्रपरत्वन पङ्कादिसंसर्गाप्रमापकत्वात। अथ-अन्विताभिधानमते अभिहितान्वयमते च प्रकृत्यर्थान्वितप्रत्ययार्थेऽपि शक्तिस्वीकारात् पङ्कजन्मादिसंसर्गोऽपि पदवृत्तिस्मारित इति-चेत्, न; अन्वितशक्त- रन्वयांशे कृप्तत्वस्यानुपदमाचार्यर्वक्ष्यमाणत्वात। ननु-पदवृत्तिपदेन कृत्तद्वितान्तसमासा अपि ग्राह्याः, स्मारि- तपदेन तज्ज्ाप्या अपि ग्राह्याः, तथाच पक्कादिसंसर्गापि पद्वृत्तिस्मारितः। अतएव ढ्विनीयलक्षणस्थवृत्तिपदस्य त्थवार्थः, अन्यथा औपगवादिनामार्थस्य तत्र वृत्तिविषयत्वोक्तिविरोधादिति-चेन्न: द्विनायलक्षणे अभ्युपेत्य तथो- क्तावपि प्रथमलक्षण तथोक्तो मानाभावात्, तावतापि बहुवचनेन तद्टारणासंभवाच्च। तथाहि-बहुवचनं नानेक- नामार्थकम्; पङ्कजादिसाधारण्यात्, नापि सुबन्तत्वेन प्रतिसन्धीयमानानेकार्थकम्; सरसिजमित्यादी तत्सत्वात्, 'तत्वमसी' त्यादावव्यातेश्व। नापि विभक्त्यन्तत्वेन जायमानानेकार्थकमू; सरसिजमित्यादिसाधारण्यात्। अर्था- पत्त्या 'द्विपदन्नभोजनमनिष्टसाधन मित्यर्थ विना आप्तोक्तस्य विपमित्यादिवाक्यस्यार्थवत्वमनुपपन्नमित्याद्यर्थापत्या। अनिष्टसाधनत्वं हिपदन्नभोजनस्यानिष्टसाधनत्वसंसर्गम्। वृत्तीति। पदवृर्तात्य्थेः । ननु स्मारितेनि त्यक्त्वा ज्ञाप्यनि कुतो नोक्तम् ? उक्तार्थापत्या ज्ञाप्ये अनिष्टसाधनत्वसंसर्गे वृत्तेरनुपयोगात् साक्षादृततिज्ञानजन्यज्ञानविपय- व्वाभावाच्च तद्विवक्षणनोक्तसंसर्गवारणसंभवान, वृत्तिज्ञानाधीनविपभोजनस्मृतिदवार कार्ार्व त््ञनाताह- तथाप्यन्वितेति। मंगगस्यान्विताभिधानमत शक्त्या ज्ञाप्यत्वादभिहितान्व्यमते लक्षणया ज्ञाप्यत्वादानव्यापि-
रकयोः मंसर्गस्येति तदर्थः । तदुकं संक्षेपशारीरके-'प्रत्ययप्रकृतिशव्दती बहिविद्यतेऽभिहितसङ्गतिश्च नः। प्रत्ययप्रकृांतशव्दयोः पुननित्यमन्वितधियोनिमित्तता इति। अभिहितसङ्गतिरिति। पदजन्यशान्दधीमात्रजन्यानु भवविषयत्वमित्यर्थः। पदजन्यानुभवाविपयत्वे सति पदजन्यानुभवजन्यानुभवविपयत्वमिति यावत्। प्रत्ययप्रकृति- शब्दतो वहिरिति। प्रकृतिप्रत्ययार्थयोयः संसर्गस्तदन्यसंसर्गस्येत्यर्थः। प्रकृत्यर्थान्वितप्रत्ययाथेप्रतियोगिकसंसर्गस्येति यावत्। अभिहितान्वयमते हि पक्षत्रयं वार्तिकादावुक्त्तम्। तथाहि-तर्कचरणे वाक्याधिकरणीयवातिक-'भावनव हि वाक्याथः सर्वत्राख्यातवत्तया। अनेकगुणजात्याटिकारकार्थानुरज्जिता ॥ अन्वयव्यतिरेकाभ्यां प्रत्ययार्थस्तु सप्यते। कैश्रिदन्यैस्तु धात्व्थः सामाप्येनोपकारतः । अपरेः समुदायार्थस्तर्थवाभ्युपगम्यते। पाकादो यत्र दष्टास्ति भवत्यादो तथैव च ।I' इनि। वाक्यार्थः वाक्यप्रयुक्तशाव्दधीमुख्यविशप्यः। आख्यातवत्तया आख्यातसामान्यप्रनिपाद्य- त्वात्। तेन व्तमानत्वादो लडादिमात्रप्रतिपाद्ये न व्यभिचारः। वाक्याथत्वं प्रकटयाति-अनेकेत्यादि। सामीप्ये- नेति। म्रत्ययस्येत्यादिः। तथाच प्रत्ययस्य पूर्ववृत्तितारूपसामीप्यसंबन्धेनावच्छिन्नं प्रकृतिनिष्टायां शाव्दबोधहेतुता- यामवच्छेदकत्वम्; प्रकृतेरेव तत्संबन्धेन प्रत्ययविशिष्टरूपेण भावनाविशिष्टे पाकादावनुभावकतास्वीकारात्। समु- दायार्थः प्रकृतिप्रत्ययोभयार्थः, प्रकृतिविशिष्टप्नत्ययार्थ इति यावत्। प्रकृत्यर्थान्वितप्रत्ययार्थशाब्दबोधे उत्तरवृत्तिता- संबन्धेन प्रकृतिविशिष्टप्रत्ययस्य हेतुतास्वीकारात् विशिष्टहेनुताग्राहकमानेन विशेपणेऽपि हेतुताग्रहादुभयोहेंतुता। कार्यतावच्छेदकं तु पच्यादिधातोः पाकान्वितभावनाशाब्दत्वं पाकान्वितशाव्दत्वं वा। तिबादिप्रत्ययस्यापि कार्यान्वि- तभावनाशाव्द्रत्वमन्वितभावनाशाब्दत्वं वेति वक्ष्यते। अत्र प्रत्ययाथत्वं प्रत्ययमात्रजन्यशाब्दधीविषयत्वम्; प्रकृति- प्रत्ययसमुदायार्थत्वपक्षस्य वक्ष्यमाणत्वात्, एवं धात्वर्थत्वादिकं बोध्यम्। तथाच भावनादिकं प्रत्ययमात्रवाच्यम्; तच्छाव्दबोधानुकूलशक्तेरेव तद्वाचकत्वरूपत्वात्। उपलक्षणमेतत्। एवं तद्रीत्या कर्मत्वादिकं सुबर्थो नामार्थ उभयार्थी वेत्यपि बोध्यम्। एवंच प्रथमपक्षे कर्मत्वादिकममाद्यर्थ हव घटत्वादिकं घटाढिनामार्थः । तथाच प्रकृत्या प्रत्ययेन च अ. सि. ८४
Page 348
६६६ अद्वैतसिद्धिः [परिच्छेद: २]
गौडब्रह्मानन्दी ( लघुचन्द्रिका)। स्वार्थघटत्वादिमात्रं प्रथमतोऽनुभाव्यते; स्वार्थसंस्कारसहितस्य पदज्ञानस्य साक्षादेव स्वार्थानुभवे हेतुरवात्, नतु तदर्थ- स्मृतिर्द्वारं तत्र स्वीक्रियते। यथा पञ्चपाद्यां स्वीकृतं-'व्याप्तिसंस्कारविशिष्टं लिङ्गज्ञानमनुमितिहेतुः, नत्वन्तरव्याप्ति- स्मृति'रिति। ताभ्यां प्रकृतिप्रत्ययजन्यानुभवाभ्यां प्रकृतिप्रत्ययार्थयोः संसर्गशाब्दधीर्जायते, नतु प्रकृतिप्रत्ययाभ्याम्। तथा प्रकृत्यर्थान्वितकर्मत्वादिसंसर्गस्य क्रियायां शाब्दधीरित्याद्यः पक्षः। प्रत्ययपूर्ववृत्तित्वविशिष्टप्रकृतेः कर्मत्वादिवि- शिष्टघटत्वादावनुभावकरवं प्रकृत्युत्तरप्रत्ययस्य घटत्वादिविशिष्टकर्मत्वादावित्यपरं पक्षद्वयम्। तयोराद्यमादाय करणत्व- विशिष्टं दधि विधीयते इति गुणकामाधिकरणे शास्त्रदीपिकादावुक्त्तम्। द्वितीयमादाय दधिविशिष्टं करणत्वं विधीयत इत्युक्तम्। तत्र कर्मत्वादिकारकस्य विशेष्यत्वमेव युक्तम्; 'प्रकृतिप्रत्यया सहार्थ व्रूतस्तयोस्तु प्रत्ययार्थः प्राधान्येने'ति नरुक्तानुशासनात्। अतएव भावार्थाधिकरणे प्रत्ययार्थस्येव प्राधान्यमुक्तम्। नच-तथापि घटत्वाद्यन्वितकर्मत्वादे: घटादिपदमेव वाचकम्; मुख्यत्वात्, नतु तदुत्तरप्रत्ययः; जघन्यत्वादिति-वाच्यम्; तथासति प्रत्ययार्थस्य निरु- ककारादुक्कप्राधान्यानुपपत्तेः, प्रत्ययस्यावाचकत्वेन तदर्थस्यैवाप्रसिद्धेः, संभवत्यर्थसाधुत्वे पदसाधुत्वस्य द्योतकत्व- मात्ररूपस्यान्याय्यत्वात्, वटपदापेक्षया अमौट्छसां भूयस्त्वेन मुख्यत्वन्यायस्य प्रकृते बाधस्याचित्यात्। 'विप्रतिपि- द्वधर्मसमवाये भूयसां स्यात् सध्मत्व'मिति न्यायेन कर्मण्यमादिविधायकानुशासनसिद्धममादीनां भूयसां कर्मत्वादि- वाचकत्वरूपं धर्म न बाधितुं युक्तम्, किंतु एकस्य घटपदस्य मुख्यत्वन्यायससिद्धं, कर्मत्वादिवाचकत्वमेव बाध्यते। अतएवैकत्वादिसंख्यापि अमाद्येकवचनादरेवार्थः, ननु नामार्थः, नामार्थस्तु जातिरेव। व्यक्तिरपि लक्षणयेव। यत्र बहुषु धर्मो न प्राप्तः, किंतु सन्दिग्धः, यथा नव्यताकिकमते शब्दसमवयित्वमेकस्यवशस्य, उत बहूनां जीवा- नामिति सन्देहे, जीवेपु तस्याप्रातत्वेन बाधाप्रसक्त्या ईशस्य प्राथम्यरूपमुख्यत्वस्याभावाच्च विरप्रातपिद्धेत्यादि- न्यायाविषयत्वादेकत्र तत्कल्पने लाघवान्न जीवेपु तत्कल्पनम्। तस्माद्विभक्तरद्योतकत्वं ्वीकृत्य प्रातिपदिकार्थपञ्चक- त्वमतमयुक्तमेव। अतएव निपातानां द्योतकत्वं भट्टवार्तिके दृषितम्। किंच घटपटाढिपदानां घटत्वपटत्वादिकर्मकर- णत्वादिप्वनन्तशक्तिकल्पने अवच्छेदकगौरवं महदित्याशयेन द्वितीयपक्षस्येवावलम्बनम्॥ ननु-प्रथमपक्षे पदार्थसंसर्गाविषयकः पदार्थविपयकशाब्दबोधः कुत्रोपयुज्यते? प्रवृत्ताविति चेन्न, उपादानताव- च्छेदकप्रकारकप्रत्यक्षमिष्टसाधनत्वादिज्ञानं च तत्र हेनुः। तत्रोक्तशव्दबोधो नाद्यः, सप्रकारकत्वप्रत्यक्षत्वयोरभावात्। न द्वितीयः; घटत्वादिकर्मकानयनमिष्टसाधनमित्याद्याकारकत्वाभावात। अथ-तत्र विशेषणधीविधया स उपयुज्यते, तदुक्तं नागधेयचरणे भट्टैः-'अनुपस्थितविशेषणविशिष्टधीर्न जायते, नत्वनभिहितविशेपणापी'नि-चेन्न; न त्वनभिहितविशेषणेत्यनेनेव विशेषणस्य शाब्दबोधानपेक्षोक्तः। तथाच पदजन्यपदार्थस्मृत्यव विशिष्टधीसंभवात् नोकतशाब्दबोध आवश्यकः। उच्यते-यथा क्रियाकारकयोरन्वयबोध घटमित्यादिपद्ज्ञानं प्रकृतिप्रत्ययाथयोरन्वय- धीद्वारा न कारणम्; तादृशधिय एव तत्र हेतुत्वसंभवेन तद्वारा तस्य हेनुत्वे गौरवात, किंनु तादृशधियं प्रत्येव तस्य पदार्थस्मृतिद्वारा हेतुत्वमिति द्विनीयतृतीयपक्षयोः स्वीक्रियने, तथा तादृशधियं प्रत्युक्तम्मृनिद्वारोक्तपदज्ञानस्य हेतुत्वे- डपि गौरवादुक्तपदज्ञानस्य पदार्थमात्रविपयकशाब्दबोधं प्रति साक्षादेव हेतुता। तन्मात्रविषयकत्वं तु सांसर्गिकविपयि- त्वानिरूपिततद्विपयताशालित्वम्। तेन घटमित्यादिपदस्य घटत्वकर्मत्वादिसमृहालम्बनजनकत्वेऽपि तत्संग्रहः। घटत्व- विशिष्टकर्मता दिशाब्द्धीत्वं नोक्तपदधीजन्यतावच्छेदकम्। तत्स्वीकारे नु तदपेक्षया गौरवम् । 'श्वेतोऽश्वो धावती' त्यस्येव वाक्याजन्यस्य घटत्वविशिष्टकर्मतादिविपयकशाब्दबोधस्य भटटमते स्वीकारेण तत्र व्यभिचारवारणाय कार्यता- वच्छेदके तादृशपद्ज्ञानविशिष्टत्वनिवेशात् सुतरां गौरवम्। पदार्थमात्रशब्द्बोधस्तु न पदं विनोत्पद्यते। येन तत्रापि व्यभिचारवारणापेक्षा। न च-प्रथमपक्षेपि पदजन्यबोधस्य घटत्वीया कर्मतेत्यादिशाव्द्रबोधं प्रति हेतुत्वस्य स्वीकारा त्तादृशकारणस्य पद्जन्यबोधाजन्ये 'श्वेतोऽश्वो धावती'ति बोधतुल्यबोधे व्यभिचारवारणाय तत्कार्यतावच्छेदके तादश- कारणवशिष्च निवेशस्यावश्यकतवात् प्रथमपक्षेऽपि गारवं तुल्यमिति-वाच्यम्; घटत्वीया कर्मतेत्यादिबोधे घटमित्या- ददपदजन्यघटत्वकर्मत्वधीरूपाया आसक्ते: कारणतायाः पक्षत्रयेऽपि स्वीकारात्। तत्र व्यभिचारवारणस्य पक्षत्रयेऽपि कतव्यत्वात्। एतावांस्तु विशेष :- यथाऽऽद्यपक्षे पढजन्यशाव्दधीरेव तादृशी आसक्तिः, इतरपक्षयोस्तु पद- जन्या स्मृतिरिति। वृत्या पदजन्यपदार्थज्ञानस्य स्वविशिष्टशाव्दृत्वं जन्यतावच्छेदकमिति तु पक्षत्रयेऽपि बोध्यम्। नच-घटमित्यादिपदज्ञानं घटपद्तदर्थयोरवृत्तिरूपसंबन्धविपयकसंस्कारसहितं घटादिनामविभक्त्र्थयोः संसर्गविप
नामविभक्त्यथयोः संसर्गविषयकपदप्रयोज्यश्दबोधवारणाय तादृशशाब्दयोधे घटमित्यादिवाक्यघटकपद्जन्यपदार्थ- ज्ञानस्य हेतुत्वकल्पनात्। तादृशपद्जन्यत्वं च वृत्या ग्राह्यम्। तच्च घटादिपद्तद्र्थवृत्तिज्ञानजन्यसंस्कारसहकृततवम्।
Page 349
[अखण्डार्थलक्षणोपपत्तिः ] गौडब्रह्मानन्दीयुता। ६६७
गौडव्रह्मानन्दी (लघुचन्द्रिका)। तथाचोक्तसंस्कारोक्त्तपदाभ्यां जनितज्ञानस्य हेतुत्वम्। अतएवाकाशमिति पदादाश्रयाश्रयिभावसंबन्धेनाकाशसंबन्धि- तया गृहीतादुपस्थितस्याकाशस्याकाशमेकमिति न शब्दघीः। अतएवार्थाध्याहारवादिभिरपि सादृश्या घटकर्मत्वाधु- पस्थित्या सहितादानयेत्यादिपदात् घटमानयेत्यादिवाक्यस्थलीयो बोधो न स्वीक्रियते। भट्टमतेऽपि वाक्याजन्यस्य शाब्दबोधस्य स्वरीकारेऽपि नोक्तोपस्थित्या शाब्दधीः स्वीक्रियते। पदाजन्याभिरेव साकाङ्पदजन्याभिरेव वा ताद- शोपस्थितिभिस्तस्या: स्वीकारात्। अतएवानयेति पदमात्रस्मरणे घटकर्मत्वस्य पढाजन्योपस्थित्या भट्टमते क्रियाकार- कयोर्नान्वयधीः; शाब्दी ह्याकाङ्डा शब्देनैव प्रपूर्यते' इति भट्टोक्तेः, शाब्दी शब्देन केनचिच्छाब्दबोधे जनयितव्ये या आकाङ्का, सा शब्देनैव निष्पाद्यते। यत्र शब्दः कोऽपि न श्रुतः, तत्र शब्दस्य नाकाङ्कासंपादकत्वम्। यथा पश्यतः श्वेतिमारूप'मित्यादौ भट्टैरुक्ते शाब्दबोधे शब्दबोधेच्छारूपेवाकाङ्गा पढादघटितैव। किंच घटमित्यादिपदे विस्मृतेऽपि तादृशार्थज्ञानात्तादृशसंसर्गशाब्द्रधीदर्शनान्नोक्तपद्धीः साक्षाद्वेतुः। नच-एवं निर्विकल्पकपदार्थमात्रशाब्दधीरपि घटमित्यादिसाकाङ्कपदधीजन्या, कथं तत्रापि घटाढिपदस्यामादिपूर्ववृत्तित्वे विस्मृतेऽपि तादृशशाब्दधीः स्यादिति- वाच्यम्; तस्याः साकाङ्गपद्धीजन्यपदार्थस्मृनिस्थानीयत्वेन घटादिपदे अमादिपदपूर्ववृत्तित्वरूपाकाङ्काविस्मरणे सति तस्या उत्पत्यसंभवात्। न हि तादृशविस्मरणे सति घटाढिपदमात्रजन्या स्मृतिः साकाङ्कपदजन्या। अतएव न घट- त्वीया कर्मतेनि शाब्दधीजनिका। तस्मात् पदजन्योपस्थितिजन्ये पदार्थसंसर्गशाब्द्बोधे तादृशासत्तेर्हतुतया पदार्थमा- त्रविषयकस्यापि शब्दबोधस्योक्तसंसर्गशाब्दबोधोपयोगित्वम्। पदार्थस्मृतिस्तु प्रथमपक्षे नासत्तिः संभवति; लाघ- वेन पदार्थमात्रानुभावकत्वस्य एतत्पक्षे पढ़े कल्पनात्, पदार्थमात्रशाब्दानुभवस्येव पदादुत्पत्तिसंभवेन स्मृतिकरूप- नाया व्यर्थत्वात्। नच-पदार्थमात्ं प्रनि स्मारकत्वमेव पदस्य कल्प्यते, नानुभावकत्वमिति-वाच्यम्; हम्तिहस्तिप- कयोर्हि संयोगादिसम्बन्धेन मिथःसंबन्धितया गृहीतत्वात्तयोरेकज्ञानस्यापरस्मारकत्वं युक्तम्, पदस्य तु स्वार्थ प्रत्य- नुभावकत्वस्याकल्पनात पदार्थसंसर्गानुभावकत्वस्य गौरवेणाभावात् संबन्धान्तरस्य च तत्र तस्याभावात् स्मारकत्वा- संभवात्। नहि स्मृनिशक्तत्वरूपं स्मारकत्वमेव स्मृतिप्रयोजकः संबन्ध :; हस्तिहस्तिपकादिस्थले तद्दर्शनात, तथा- ननुभवाच्च। एवंच घटमित्यादिपदात प्रथमतः पदार्थानुभवस्यैवोत्पादात्तस्य पदार्थसंसर्गबोधं प्रति विशेषणधीविध- यापि हेतुत्वसंभवः । कर्मता घटत्वीयेति बोधे कर्मताया अविशेषणत्वेऽपि विशेष्यतावच्छेदकप्रकारकधीविधया तद्वियो हेतुता; क्रियाकारकमंसर्गबोधे तस्या अपि विशेषणत्वेन तंत्रव तदुपयोगसंभवाच्च। ननु-एवमपि पदार्थमा- त्रानुभवस्य ज्ञातविषयकत्वेनाप्रमात्वात् तज्नकत्वेऽपि शब्दस्य ग्रमाणतवं न स्यादिनि-चेन्नः प्रमाकरणत्वाभावेऽपि प्रमाप्नयोजकत्वरूपस्येव प्रमाणन्वस्य शब्दे प्रथमपक्षे स्वीकारात, उक्तलाघवानुरोधान। तथेन्द्रियादीनामपि प्रत्यक्षादि- प्रमायां प्रयोजकत्वमेव स्यात, नतु कारणत्वविशेषरूपं करणत्वम्; निर्विकल्पकीयनुरीयविषयतासंबन्धेनैव प्रत्यक्षं प्रत्यपि लाघवेनेन्द्रियस्य संयोगादिमंबन्धेन हेतुतास्वीकारसंभवात्। नच-निर्विकल्पकस्यातीन्द्रियत्वात्तदादाय साक्षात्करो- मीनि मानसं न स्यादिनि-वाच्यम्; भट्टमते ज्ञानमात्रस्यातीन्द्वियत्वेन प्राकट्यरूपज्ञाततामादायैव साक्षात्करोमीति मानसधीनिर्वाहात्, शब्दप्रयोज्ये शब्दाजम्ये शाब्दत्वस्येव इन्द्रियप्रयोज्ये इन्द्रियाजन्येऽपि सम्रकारकबोधे साक्षा- त्कारत्वस्य संभवात्। अतएव शब्दजन्यतापि जातिरूपपदार्थनिष्टतुरीयविषयताशालिशाब्दत्वेनैव; सांसर्गिकविषयत्वा- निरूपितत्वादिनिवेशे गौरवात्, तुरीयविषयताया विपयत्वान्तरानिरूपितत्वेन पदार्थसंसर्गबोधे व्यभिचाराभावात्। तथाच निर्विकल्पकधीरेव प्रथमपक्षे शव्देन्द्रियादिजन्या। अतएवालोचननामकं निर्विकल्पमेवेन्द्रियजन्यमित्यन्येऽपि वदन्ति। संगर्गप्रमायां तदयोगव्यवच्छिन्नकारणरूपं करणम्। एवमनुमित्यादिकमपि प्रथमं निर्विकल्पकं जायते। पश्चात् सविकल्पकं, प्रथमत एव वा तन् सविकल्पकम्; तत्र व्याह्यादिघटकतया साध्यादिज्ञानसत्चेनानुमित्यादिरूप- विशिष्टधीसंभवेन निर्विकल्पकानुमितिवैयर्थ्यात्, 'तद्वेतोरेव तद्स्तु' इति न्यायात्। अतएवाभिहितान्वयवादो भट्टमते। तन्मते अभिहितेन पदार्थेन करणेन पदार्थसंसर्गशाव्दधीर्जायते। तयाच व्यवहारः, द्वितीयतृीयपक्षयोरप्यभिहितेन प्रकृतिप्रत्यया्थयोः संसर्गेण करणेन क्रियाकारकयोः संसर्गशाब्दघीः। अभिधानंच पद्जन्यानुभवः। तस्य करणत्वेन तद्विपयर्वविशिष्टस्य करणत्वव्यवहारः। तदेवं प्रथमपक्षोपपादनम्। द्वितीयतृनीपक्षवादिनां त्वयमाशयः। न निर्विक- ल्पकस्य शब्दप्रमाणजन्यतासंभवः; प्रमाणत्वावच्छेदेनागृहीतग्राहिधीजनकत्वनियमात्। नच-उक्तधीप्रयोजकत्वस्यैव नियमस्तद्वच्छेदेनेति-वाच्यम्; साक्षात्तजनकत्वसंभवे परंपरया जनकत्वाकल्पनात्। नच-निर्विकल्पकविषय- तायाः शब्दकार्यतावच्छेदकत्वे लाघवात्तथा कल्पनमिति-वाच्यम्; स्मृतावेव शब्दजन्यत्वतुरीयविषयत्वयोः संभवेन शब्दजन्यनिर्विकल्पके शाब्दत्वे मानाभावात्, सरामीति मानसस्थैव तत्र तज्जन्यज्ञातताया वोत्पत्या शाब्दयामीति मानसाभावात्। नच संबन्धाभावेन स्मारकत्वासंभवः; पदार्थसंसर्गानुभावकत्वस्यैव पदे पदार्थसंबन्धत्वसंभवात्।
Page 350
६६८ अद्वैतसिद्धिः । [परिच्छेदः २]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नच-अगृहीतग्राहित्वस्य प्रमाणजन्यज्ञाने नियमे मानाभाव इति-वाच्यम्; विषयव्यवस्थापकत्वस्यैव तत्र मान- स्वात्। तक्व स्वविशेष्ये स्वविशेषणस्य विपरीतज्ञानाभावप्रयोजकत्वम्। ज्ञानान्तरेण तत्र तस्य गृहीतत्वे तु तस्य ज्ञाना- न्तरस्य तादृशाभावप्रयोजकतया कृप्तत्वेन गृहीतग्राहिणम्नत्कल्पने मानाभावः । किंच तुरीयविषयताशालिशाव्द- स्वस्य कार्यतावच्छेदकत्वेऽपि घटत्वाद्यंशे निर्विकल्पकप्रत्यक्षात्मके 'श्वेतोऽश्वो धावती' त्याकारे वाक्याजन्यशाब्दबोधे च व्यभिचारात्तुरीयविषयतावच्छिन्नशाब्दत्वमेव तथा वाच्यम्, तथाचाप्रसिद्धम्; पदार्थयोः संसर्गविषयतायामेव शाब्द- त्वावच्छेदकत्वस्वीकारात्। कर्मतायां घटत्वस्य संबन्धं शृणोमि घटत्वीयकर्मतां शृणोमि घटत्वं कर्मताविशिष्ट ऋणोमि शाब्दयामीत्याद्यनुभवस्यैवोदयेन शुद्धघटत्वं स्मरामीत्येव प्रत्ययात्। अतएव पर्वते वह्निसंबन्धमनुमिनोमि, नतु केवलपर्वतं वह्निसंयोगं वेति प्रत्ययःपक्षसाध्यसंसर्गविषयतावच्छिन्नमनुमितित्वमवगाहते। तस्मादज्ञातस्यैव विशेष्यविशेषणसंसर्गस्य प्रमाणप्रयुक्तविषयताकत्वेन न पदार्थमात्रविषयता प्रमाणप्रयुक्ता। ननु-अनुभवमात्र- स्यागृहीतग्राहित्वेऽपि शव्दजन्यब्रोधोऽनुभवविलक्षणः, पदार्थमात्रेण सह पदस्य स्मृनिप्रयोजकसंबन्धाभावेन स्मृति- विलक्षणश्च, पदाथेसंस्गानुभावकतवे गौरवेण पदार्थमात्रे तत्म्वीकारे च स्मारकत्वकल्पनाया वैयर्थ्यादभिधायकत्वस्यैव पढ़े स्वीकारात्, स्मृतिशक्तत्वस्य स्मृतिप्रयोजकसंबन्धतायाः कुत्राप्यद्ष्टत्वेन संबन्धान्तरस्येव तस्याः सर्वत्र कल्पनादिति-चेन्नः निर्धिकल्पके शाव्दत्वस्याप्रामाणिकत्वेन पदार्थसंसगानुभावकत्वस्यैव पढानामुचितत्वस्यो- क्तत्वात्, स्मृत्यनुभवविलक्षणानन्तत्रोधकल्पनापेक्षया स्मृनिद्वारकसंसर्गानुभावकत्वस्यैव लघुत्वाच्च। त्वयापि हि निर्विभक्तिकघटादिपदात् घटत्वादिस्मृतिः स्वीक्रियत एव। तथाच घटादिपढत्वेनेव स्मारकत्वस्य त्वयापि स्वीकारात् शाब्दुनिविकल्पके स्मृनित्वस्य तुर्वारत्वेन तुरीयविषयतावच्छिन्नशाव्दत्वावच्छिन्नं प्रनि शव्दस्य हेनुतान्तरकल्पनम्य वैय्थ्येन पदार्थद्वयविषयतानिरूपितमांसगिकविषयतावच्छिन्नशाव्दत्वेनैव शब्दकार्यत्वं युक्तमिति। अपिन वृद्धयो- धर्यंवहारं दृष्टा यथा बालस्य शक्तिग्रहः, तथा प्रथमतः सुवन्ततिङन्तसमुदायरूपे महावाक्ये एकवाक्यताप्रकारकज्ञा- नस्य विशिष्टैकवाक्याथेशान्दबोधहेनुतां गृहीत्वा तदन्यथानुपपत्या सुबन्ततिड्तपदानां समुदायघटकानां कार्य प्रकृतिप्रत्ययार्थसंसर्गबोधं तादृशहेतुतायां बालो द्वारतया कल्पयनि। तत्रापि तादृशसंसर्गबोधस्य साक्षात् सुबन्तादिप- दजन्यत्वानुपपत्या द्वारतया पदार्थमात्रज्ञानं विभक्तयन्तपद्घटकनामादिपढजन्यं कल्पयति। नत्र पश्चात् पदार्थमात्र- ज्ञानजनकत्वमेव नामादिपदस्य विभक्त्यादिसहितस्य गृहीत्वा प्रकृनिप्रत्ययार्थसंसर्गशाब्दधीजनकत्वस्य त्यागे उपजीव्य- विरोधापत्तिः। नच-एकवाक्यताज्ञानस्य हेतुत्वे मानाभाव इति-वाच्यमू; अन्वयव्यतिरेकज्ञानसहकृतप्रत्यक्षम्य तन्र मानत्वात्। नच-वाक्याजन्ये 'श्वेतोऽश्वो धावती'नि शाब्दबोधे व्यभिचार इनि-वाच्यम्; वाक्यार्थबोधे पदाभज्ञा- नमाकाङ्कायोग्यतासन्निधिसहकृतं सामान्यसामग्री, विशेषसामग्री नु एकवाक्यताप्रकारकपदसमृहविश्ेष्यकज्ञानं तद्वि- शिष्टे वाक्यार्थज्ञाने। श्वेतोऽश्वो धावनीत्यादो तु श्वेतरूपदर्शनस्थले गवादिद्व्याभावनिश्चयात अश्वमंसर्ग विना दृश्यमानं श्वेतत्वमनुपपन्नमिनि धीः श्वेतरूपस्याश्वान्यद्व्यवृत्तित्ववाधधीसहकृता द्वव्यवृत्तित्वधीर्ता धावनकर्तृत्वं विनोपलभ्यमानं खुरविक्षेपशब्दादिकमनुपपन्नमिति धीधावनकर्तत्वस्य तादृशद्रव्यवृत्तित्वधीर्वा 'पश्यतः श्वेतिमारूपं हेपाशब्दंच शृण्वतः। खुरविक्षेपशब्दं च श्वेताश्वो धावतीनि घीः। दृष्टा वाक्यविनिर्मुक्ता न पढाथैविना क्चित् ॥I' इति वातिकोक्त्ेरिति। ननु-अत्र पक्षे 'अभिहितघटना यदा तदानीं स्मृनिसमबुद्धियुगं पढ़े विधत्तः। परदशि पुनरन्विता- भिधाने पदयुगलात् स्मृतियुग्ममेव पूर्वम् ।I' इनि मंक्षेपशारीरकोक्तिविरोधः; प्रकृत्यादिपदस्य स्मृतिजनक- त्वेन स्मृतिसमेत्यस्यासङ्गतेः, यदि हि पदार्थस्मृत्यनन्तरं स्मृतिसमो बोध इत्युच्यते, तदाप्यसङ्गतिः; प्रकृति- प्रत्ययाथयोः संसर्गस्याज्ञातत्वेन तद्वोघस्य स्मृतिसमत्वाभावात्, अन्विताभिधानमतेऽपि पूर्व स्मृतेहविंनीयार्थे उच्यमानत्वेन मतयोविशेपालाभाच्चेति-चेन्न; पदपदस्य सुबन्तनामपरत्वात्। तथाचान्त्यपक्षे यद्यपि नाम्ना सुपा च स्वार्थस्य स्मृतिरेव जन्यते, नतु प्रथमपक्ष इव शाव्दानुभवः; तथापि तत्व्रमस्यादिवाक्यस्थलेऽखण्डार्थकधी रेव मिलिताभ्यां सुबन्तपदाभ्यां जन्यते। अखण्डस्यार्थस्य च चिद्धक्तिमात्रस्वरूपत्वेन पूर्व ज्ञातत्वात् प्रत्येकमपि ताभ्यां तादृशाखण्डबोधस्यैव जननात् स्मृनिसमबुद्धियुगं ताभ्यां जन्यते, नतु घटमानयेति पदाभ्यामिव प्रत्येकम- ज्ञातविपयकम्। अन्विताभिधानमते तु स्मृतिसमा तादृशधीर्न स्वीक्रियते; महावाक्याथबोधस्यैव शाब्दत्वस्वीका- रात्, अवान्तरबोधस्य शाब्दत्वस्वीकारे शाब्दधीसामान्ये स्वीकृतस्य कार्यान्वितविपयकत्वस्य भङ्गापत्तेः । अतः सुब- न्तपद्युगलात् स्मृतियुग्ममेव; प्रत्येकैकस्मृतिजननात्, मिलितासु महावाक्यार्थरूपस्य क्रयाकारकान्वयस्य शब्दघीः; ज्ञानविध्येकवाक्यतया तत्वमसीत्यस्य बोधकत्वात्, कार्यत्वाविपयकशाब्दबोधास्वीकारात्। अभिहितान्वयमते तदादिपदस्य स्वघटितवाक्यतात्पर्यविषयकशाव्दबोधं प्रति प्रथमान्त्यपक्षयोर्हैतुत्वम्। स च बोधो निष्प्रकारक एव; 'अर्थेऽनुपलब्धे तत् प्रमाण'मिति जैमिनिसूत्रेणाजते सिद्धार्थेऽपि तात्पर्यस्योक्तत्वात्। अत्र पदमात्रस्य सामान्यतः
Page 351
[अखण्डार्थलक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ६६९
गौडब्रह्मानन्दी (लघुचन्द्रिका)। स्वघटितवाक्यतातपर्यविषयशाब्दधी हेतुत्वेऽपि विशेषतः कारणत्वं चिन्त्यते। प्रकृत्यर्थान्विते प्रत्ययार्थकर्मत्वादौ घटेत्या- दिप्रकृत्युत्तरप्रत्ययपदस्यामादेरनुभावकत्वरूपा शक्ति: प्रत्ययपूर्ववृत्तिघटादिपदस्य कर्मत्वाद्यन्वितघटत्वादौ सेत्युक्ते पक्ष- दये समुच्चयस्वीकारे घटत्वान्वितकर्मत्वं कर्मत्वान्वितं घटत्वमिति बोधद्वैविध्यस्य युगपदापत्या वाक्यभेदापत्तिः, यदि प्रकृत्यर्थान्वितकर्मत्वादौ प्रत्ययस्य प्रकृत्युत्तरस्यानुभावकत्वमित्येव स्वीक्रियते, तदा प्रकृतेः अवाचकत्वापत्तिः, प्रकृते- रेव कर्मत्वाद्यन्वितघटत्वाद्यनुभावकत्वस्वीकारे प्रत्ययस्यावाचकत्वापत्तिः, प्रकृतिप्रत्यययोः द्वयोर्विशिष्टार्थानुभावकत्वे केवलप्रकृतिपदे प्रत्ययपदे चोभयवाचकत्वापत्तिः, एकैकस्यैककार्थानुभावकत्वे दूर्वोक्तपक्षत्रयमध्ये पूर्वपक्ष एव स्वीक्रि- येत। किंच वेदान्तमहावाक्यस्थपदानामखण्डार्थबोधं प्रत्येव विशेषतो हेतुत्वस्य वाच्यतया कथं सर्वपदानामन्वित- बोधकत्वम् ? तस्मात् नान्विते पदानां शक्तिः, कित्वनन्विते घटत्वादौ, तदनुभवात् पदजन्यादन्वितानुभव इति प्रथमपक्ष एव युक्त इनि पार्थसारथिमिश्रादयः। तदसत्; अन्वितशक्तिवादस्याशयानवबोधात्। अभिहितान्वयमते अन्विताभिधानमते चाकृत्यधिकरणन्यायेन जातावेवानुभावकत्वरूपा पदानां शक्तिरित्युच्यते। तस्य च घटत्वादिक- मेव घाटादिपदानुभाव्यमिति पक्षे यथाश्रुत एवार्थः। अन्यान्वितघटत्वादिकं तदर्थः इत्युक्तपक्षे तु तादृशशक्ते: यदीय- तया ग्रहः शाव्दधीप्रयोजकः, सोडर्थो वाच्यतया व्यवहियते। सा च जातिरेवेति तंत्रैव वाचकत्वं घटादिपदे व्यव- हियते, नतु घटत्वाद्यन्विते अन्यान्वितघटत्वादों वा। अतएुवच न नानार्थत्वापत्तिः । यत्र हि नानाधर्माणां प्रत्येक- निरूपितत्वेन पढ़ शक्तिग्रहास्तत्तद्वर्मशाव्दधीपु कारणानि, तंत्रैव पदस्य नानार्थत्वम्। प्रकृते तु घटत्वशक्तित्वेन घटप- दशक्ेर्जानं कारणम्, न त्वन्यधर्मशक्तित्वेनापीति न घटपदस्य नानार्थत्वम्। तस्मादन्यान्वितघटत्वं घटपदस्य शक्यम्। अन्यान्वितकर्मत्वममादिपदस्येत्यादिविवरणाद्युक्तेरयमर्थः। शाब्दत्वावच्छेदकविशेष्यतानि रूपितसंसर्गतानिरूपितघटत्व- प्रकारताशालित्वं घटपद्धीकार्यतावच्छेदकम्। घटत्वीयकर्मतांशे अनुमित्यादिरूपे घटत्वीयकरणत्वाद्यंशे शाब्दज्ञाने घटपदं विनाप्युत्पत्तवर्यभिचारः स्यात् अतः-शाब्दत्वावच्छेदकेति तादृशप्रकारताविशेषणम्। कर्मतायां घटत्वं शब्दयामीति प्रत्ययात्तस्यां तत्त्रस्वीकारात्। उक्तप्रकारताशालिशब्दत्वेन कार्यत्वस्वीकारेऽपिस एव दोपः । केवलवि- शेष्यतात्वेन केवलप्रकारतात्वेन वा शाब्दत्वावच्छेदकत्वाभावात् शाब्दत्वावच्छेदकत्वं विशिष्टप्रकारताविशेषणम्। तथा- च विशिष्टप्रकारतात्वावच्छिन्नशाब्दत्वावच्छेदकतालाभः। घटत्वप्रकारतानिरूपित संसर्गतानिरूपितविशेष्यतात्वावच्छि आावच्छेदकताकशाब्दत्वेन वा तत्कार्यता; घटत्वान्वितं शाब्दयामीति प्रत्ययाटुक्तायाः शाब्दत्वावच्छेदकतायाः स्वीका- रान्। घटत्वादिविषयतामात्रावच्छिन्नशाव्दत्वेन तु न तत्कार्यता; शाव्दत्वस्य तन्मात्रानवच्छिन्नत्वात्, घटमित्यादिवा- क्यजन्यधीस्थले घटत्वं स्मरार्मात्येव प्रत्ययेन घटत्वं शाब्दयामीत्यप्रत्ययात्। अतएवानुवादवाक्यार्थ स्मरामीत्येव प्रत्य- यादनुवादवाक्यात् प्रमोत्पत्तिवारणाय प्रमामात्रे तत्तदर्थविपयकाज्ञानस्य हेतुत्वात् शाब्दादिज्ञानस्य च प्रमात्वनिय- मात्, सामान्यसामग्रीबाधेन नोक्तस्थले प्रमोत्पत्तिः। तस्मादुक्तव्यभिचारवारणाय उक्तप्रकारतावच्छिन्नेनोक्तविशेष्य- तावच्छिन्नेन वा शाब्दत्वेन घटादिपदज्ञानकार्यता। तार्किकादिमते तु घटत्वीयकर्मतांशे अनुमित्यादिरूपस्य घटत्वी- यकरणतांशे शाब्दज्ञानस्यैवास्वीकारादुक्तव्यभिचाराभावेन घटत्वाद्यवच्छिन्नविपयताशालिशाव्दत्वेनेव तत्कार्यता। तन्मते जाते: संस्थानव्य ङ्यत्वानिय मेनानुमिनित्वशाव्दत्वादिजातिस्वी कारेणानुमित्यात्मकशाब्दज्ञानम्य स्वीकारण सांक- र्यापत्या भिन्नविषयकानुमित्यादिसामग्रया शाब्दबोधादौ प्रतिबन्धकत्वस्वीकारात्। मीमांसकमते तु गुणादौ जात्यस्वी- कारेण विपयताविशेषरूपशाब्दत्वानुमितित्वादिस्वीकारात्। तेपां सार्ङ्कर्यस्यादोपत्वात्। तथाच घटं घटेन घटायेत्या- दिसाधारणघटत्वाद्यन्वितकर्मत्वादिविशेष्यतावच्छिनशब्दत्वं घटादिप्धीकार्यतावच्छेदकम्। अमादिपद्धीकार्यता त्वन्वितकर्म तादि विशेष्यता वच्छिन्नशाब्दतवेनैव घटं पटमित्यादिसाधारणेन। वस्तुतस्तु-विशेष्यतात्वं न निवेश्यते। किंतु विषयतात्वं विशेष्यताप्रकारतासाधारणं घटत्वतदन्वितयोर्निवेश्यते। तेन घट इत्यादावेकत्वद्वित्वादिप्रकार- तानिरूपितघटत्वादिविशेष्यताया अपि संग्रहः ॥ ननु-घटं घटेनेत्याद्यानुपूर्वीविशेषज्ञानत्वेन घटत्वादिकर्मताकरणतादिशाब्दं प्रति हेतुत्वमवश्यं वाच्यम्; अन्यथा अम् घटेत्याद्यानुपूर्वीज्ञानादपि तदापत्तेः। तथाच घटादिपदज्ञानत्वेन घटत्वाद्यन्वितशाब्दत्वेन च कार्यकारणत्वं वृथा। अथ-घटमित्याद्यानुपूर्वीविशेपाणामेकस्याप्यज्ञानदशायां घटान्वितशाब्दसामान्याभावस्योपलभ्यमानस्य घटमित्याद्यानुपूर्वीविशेषाभावकूटेन प्रयुक्तत्वकल्पने गौरवात् घटत्वान्वितस्य शाब्दसामान्येन घटपदज्ञानत्वेन कार्य- कारणत्वं प्रकल्प्य घटपद्ज्ञानसामान्याभावप्रयुक्तत्वमुक्तशाब्दसामान्याभावस्य कल्प्यते, तादृशकार्यकारणत्वाकल्पने तु
चेन्न; निर्विभक्तिघटादिपदज्ञानकाले घटादिपदज्ञानसामान्याभावस्याभावेन तदा तत्प्रयुक्तत्वस्य तादृशशाब्दसामा-
Page 352
६७० अद्वैतसिद्धिः। [परिच्छेद: २]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। न्याभावे वक्तुमशक्यतया तादृशानुपूर्वीज्ञानविशेषाभावकूटस्यैव तत्प्रयोजकताया वाच्यतया घटादिपदसामान्याभाव कालेऽपि उक्तविशेषाभावकूटस्यैव प्रयोजकतासंभवेनोक्तकार्यकारणत्वकल्पनस्य वैयर्थ्यादिति॥ अत्रोच्यते-निर्विभक्तिघटादिपदज्ञानदशायां उक्तसामान्याभावस्याभावेन तस्य तत्प्रयोजकतवासंभवेSपि घटादि- पदज्ञानसामान्याभावकालावच्छिन्नस्य उक्तशाब्दसामान्याभावाधिकरणत्वस्य तत्तत्पुरुषनिष्टस्य घटादिपदज्ञानसामान्या- भावप्रयुक्तत्वस्य लाघवेन स्वीकारसंभवेन तदनुरोधेनोक्तकार्यकारणत्वकल्पनात् सविभक्तिकघटादिपद्ज्ञानत्वेन वा कारणत्वमास्ताम्। यदि तु विशेषकारणेव्वनुगतं यत्सामान्यरूपं, तेन रूपेण कारणत्वस्यास्वीकारेSपि तदवच्छिन्ाभावो विशेषकार्यानुगतसामान्यरूपावच्छिन्नाभावे प्रयोजकः स्वीक्रियते, तादृशलघुधमावच्छिन्नाभावत्वस्यैव तस्वावच्छेद- कत्वसंभवादिति चिन्त्यते, तदास्तां तथैव। नच-एवं घटादिपदोत्तरामादिपदज्ञानत्वेन हेतुत्वादीनां स्वीकारेSपि घटादिपदज्ञानत्वेन तद्भावात् घटादिपदे घटत्वादिशक्त्यभावेन तादृशशक्तिज्ञानहेतुत्वासंभवः, तत्पदज्ञानत्वावच्छि- साया हेतुताया एव मीमांसकमते शक्तिरूपत्वादिति-वाच्यम्; घटपदोत्तराम्पदज्ञानत्वेनेवाम्पदपूर्ववृत्तिघटपदज्ञान- त्वेनापि हेतुताया विनिगमकाभावेन स्वीकारस्य पूर्वमुक्तत्वात्, घटत्वप्रकारतानिरूपितकर्मताविशेष्य ताकशाब्दत्वेनेव कर्मताविशेष्यतानिरूपितघटत्व प्रकारताकशाब्दत्वेनापि कार्यताया: स्वीकारात्। घटत्वीयानुभावकतारूपशक्तेस्तादृटश- शक्तित्वेन घटपदज्ञानं हेतु :; अम्पदपूर्ववृत्तित्वस्य कर्मताविशेष्यकत्वस्य वा तत्र निवेशेऽपि घटत्वशक्तत्वस्य घटपढ़े अक्षतत्वात्। तथाच घटमित्यादिपदज्ञानस्य घटादिपद विशेष्य घटत्वादिशक्तिज्ञानजन्यसंस्कारोद्ोधकस्वघटकघटादिपद ज्ञानजनितघटत्वादिस्मृतिद्वारा घटत्वीयकर्मतादिशाब्दधीहेतुत्वम्। घटः कर्मत्वमित्यादिनिराकाङ्गपदजन्यघटत्वादि- स्मृतेर्घटमित्यादिपद्घटकघटादिपदाजन्यत्वात्ताद्दशस्मृतिद्वारा घटमित्यादिपदज्ञानस्य नानुभावकतेनि घटादिपदस्य स्वघटकेति विशेषणम्। घटमित्यादिपद्घटकेति तदर्थः। एवंच वटादिपदज्ञानत्वादिरूपेण घटत्वाद्यन्वितानुभावकत्वा- भावेऽपि न क्षतिः। घटत्वीयकर्मतासंसर्गो निरूपकत्वरूपो दर्शनादिक्रियानिष्ठ उक्तकर्मनाशब्दबोधेम लक्षणया अनुभाव्यते। ननु-यथा गङ्गादिपदात् तीरादिशाब्दबोधस्थले तीरादी गङ्गादिपदशक्यसंबन्धरूपलक्षणायाः ज्ञानं कारणं, यथावा तत्पदशक्योपस्थित्यधीनतीराद्युपस्थितिरूपा लक्षणा प्राचीनमते स्वरूपसनी कारणं, तथा प्रकृते उक्तनिरूपकत्वरूपसंसर्गे घटमित्यादिपदशक्यं यत् घटत्वीयं कर्मत्वादिकं, तत्प्नियोगिकत्वादिरूपसंवन्धज्ञानं तदुप- स्थित्यधीना तदुपस्थितिर्वा कारणमपेक्ष्यते, तदभावे तु तादृशसंसर्गशाव्दज्ञानासंभव इति-चेन्न; तत्रैव हि बोध्यबो- धकसंबन्धज्ञानं पूर्वमपेक्ष्यते, यत्र बोध्यप्रमापूर्व बोध्योपस्थितिरपेक्ष्यते। यथा घटत्वाद्यन्वितशा्प्रमापूरव घटादिपदे घटत्वादेरनुभावकत्वरूपशक्तिज्ञानं विना घटत्वाद्युपस्थितिरूपकारणाभावेनोक्तप्रमाविरहात् उक्तोपस्थिनि हेतुतयोक्त- शकिज्ञानमपेक्ष्यते। यथावा गङ्गादिपदनीराद्योः संबन्धज्ञानं विना गङ्गादिपदोपस्थापितप्रवाहादितीराद्याः संबन्धज्ञानं विना वा तीराधुपस्थित्यभावेन तीराद्युपस्थिति हे तुकतीरादिशाव्दप्रमाविरहादुक्त्तोपस्थितिरपेक्ष्यते। यत्र तु बोध्यप्रमापूर्व तदुपस्थितिर्नापेक्ष्यने, तत्र तन्नापेक्ष्यते। यथा रूपादिचाक्षुपादिप्रमापूर्व रूपादयुपस्थितेरनपेक्ष्यतया रूपादिचक्षुरादिसं- बन्धज्ञानं रूपाद्युपस्थितिहेतुतया नापेक्ष्यते, किंतु रूपादो चक्षुरादिसंयुक्तघटादिसमचेतत्वं स्वरूपसत् कारणमपेक्ष्यते।
बोध्ये तद्वोधकस्य घटत्वीयकर्मत्वादिरूपार्थस्य संबन्धज्ञानं नापेक्ष्यते, किंतूक्तार्थस्य दर्शनादिक्रियानिष्टसंसर्ग संबन्धस- त्तामाग्रम्। अन्यथा तादृशक्रियाकारकसंजर्गज्ञानस्य प्रमात्वानुपपत्तिः। ननु-तादृशसंबन्धे घटादिपदस्य न लक्षणा; तच्छक्यघटत्वसंबन्धित्वाद्यभावात्, उक्तकर्मत्वादेस्तदशक्यत्वात्तद्बोध्यत्वाच्च। अतएव न घटमित्यादिपदस्य सा; लक्षणया तत्पदबोध्यनिष्टस्य तत्पद्बोध्यप्रतियोगिकसंबन्धस्यैव तत्पदलक्षणात्वात्, कर्मत्वादिनिरूपकत्वरूपस्य संसर्गस्य चोक्तपदाबोध्यत्वात्। गङ्गायां घोपोऽम्तीत्यादी हि लक्षणया गङ्गादिपद्बोध्यतीरादौ स्थितस्य गङ्गादिपदबो- ध्यप्रवाहादिप्रतियोगिकसंसर्गस्य लक्षणात्वं दृष्टम्, अतो घटत्वीयकर्मत्वादिसंसर्गस्य लक्ष्यत्वानुपपत्तिरिति-चेत्र; लाक्षणिकपदस्य लक्ष्यार्थबोधकत्वेनोक्तरीत्या लक्षणात्वस्यानिरूपणात्। स्वार्थधीद्वारा बोधकत्वं नु तीरादौ गङ्गादिपद- स्येव घटत्वीयकर्मत्वादिसंसर्गे घटमित्यादिपदस्याप्यसत्येव। गङ्गादिपदेन हि प्रवाहस्योपस्थितिः प्रथमतः, तया तीरोप- स्थितिः, तया तच्छाब्दधीः । तथा घटमित्यादिपदेनोक्तकर्मत्वादेः शाब्दघीः प्रथमतम्तयोक्तकर्मत्वादेः संसर्गस्य स्मृत्यभावेऽपि शाब्दधीः । तस्मात् शब्दार्थधीबोध्यनिष्ठस्य शब्दार्थप्रतियोगिकसंसर्गस्य लक्षणात्वं निर्दोषम्। शब्दा- रथंश्च त्रिविधः पदार्थः प्रत्ययान्तपदार्थः वाक्यार्थश्व। आद्ो गङ्गायामित्यादौ प्रवाहादिः। द्वितीयो घटमानयेत्यादौ घटकर्मनादिः। तृतीयोऽथवादवाक्यार्थः। लक्षकत्वं तादृशशब्दार्थनिष्टं लक्ष्यशाब्दधीजनकधीविषयत्वम्। तब्व पदार्थे लक्ष्यस्मृनिद्वारा, अन्ययो: साक्षादिति विवेकः। व्यक्तीभविष्यति चेदमग्रे द्वितीयपरिच्छेद एव मूले। तदिदमुक्तं
Page 353
[अखण्डार्थलक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ६७१
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मूले-"अभिहितान्वयवादरूपे द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठाया लक्षणाया वृत्तित्वाङ्गीकारात् न संसर्गस्य पदस्मारितत्व"मिति। पदार्थनिष्टाया घटत्वीयकर्मतादिरूपप्रत्ययान्तपदार्थसंबन्धरूपायाः । लक्षणायाः प्रत्य- यान्तपदार्थधीबोध्यक्रियाकारकसंबन्धानुयोगिक संबन्धरूपायाः । वृत्तित्वेति। शाब्दधीप्रयोजको यो बोध्यबोधकसं- बन्धः तत्वमित्यथः । क्रियाकारकसंबन्धांशे शाब्दघियो निर्वाहे अज्ञातैव लक्षणा वक्ष्यमाणरीत्योपयुज्यत इति भावः । अन्विताभिधानवाढ़े तु तादृशसंबन्धस्य पदशक्यत्वमेव नतु घटत्वीयकर्मतादिशाब्दधीमात्रजन्यशाब्दधीविपयत्वम् । कार्यत्वाविधेयतानिरूपिता क्रियानिष्टोद्देश्यतावच्छेदकता या घटकर्मत्वादिकारकनिष्टा, तत्संबन्धेन शाब्दबोषं प्रति घटः कर्मत्वमित्यादिनिराकाङ्गपदाजन्या या घटकर्मतादुपस्थितिः तद्वारा घटमित्यादिपदज्ञानं घटकर्मत्वाद्यर्थाध्याहार- रूपं मानान्तरं वा हेतुः; घटमित्यादिपदाज्ञानकाले आनयेत्यादिपदज्ञानकाले तादृशमानान्तरादुक्तसंबन्धेन शाब्द- बोधोत्पत्तेः। एवं कार्यत्वविधेयत्वनिरूपिता या क्रियानिष्ठोद्देश्यता, तत्संबन्धेन शाब्दबोधं प्रति आनयनं कार्यत्वमि- त्यादिनिराकाङ्कपदाजन्या या आनयनकार्यत्वाद्युपस्थितिः, तत्संबन्धेनानये त्यादिपद् ज्ञानमानयनकार्यत्वाद्यर्थाध्याहार- रूपं मानान्तरं वा हेनुः। कार्यत्वान्विते पढ़ानां शक्तिरिति प्राभाकरवाक्यस्यास्मिन्नेवार्थे पर्यवसानम्; साक्षात् पर- म्परया कार्यत्वान्वितत्वस्य दुर्वचत्वेन तदाश्रयविषयकत्वस्य पढकार्यतानवच्छेदकत्वात्। तत्रच कार्यानुकूला शक्ति- स्तृणफृत्कारसंबन्धादौ; ननु तृणाद़ौ फून्कारसंबद्धतृणादितोऽपि वह्वयादिकार्योतपत्त्यापत्तेरिति यथा स्वीक्रियते, तथोक्ता- ध्याहारपदज्ञानयो: कारकक्रियापदयोर्वा मेलने तादृशशक्ति: नतु पदज्ञानादाविति स्वीक्रियते। तेन क्रियापदज्ञान- कारकाध्याहारयोः कारकपदक्रियापदज्ञानयोर्वा मेलनं कृत्वैव शाब्दधीः, नतु कारकक्रियाध्याहारयोरेव मेलने; म्राभाकरसिद्धान्ते तथैव स्वीकारात्। तथाच क्रियाकारकसंबन्धशाब्दबोधानुकूला शक्तिः पद्घटिते स्वीक्रियते। पदं तच्छक्तमुच्यते। तादृशशकश्र घटत्वकर्मकं दर्शनं कार्यमित्याकारकशाब्दधीर्यद्यपि निरूपिका; तथापि तस्यां घटत्वशा- वदधीत्वस्यापि सत्वात् घटत्वधीनिरूपितशक्तित्वेनैव शक्तरघटाढिपदे ज्ञानं कारणम्, लाघवात्, नतु क्रियाकारसंबन्ध- शाब्दधीनिरूपितशक्तित्वेनेति संबन्धांशे कुब्जशक्तिवाद इत्युच्यते। तदिदमुक्तमाद्यपक्षे कुब्जशक्यङ्गीकारादिति। अङ्गीकारान्न संसर्गस्य पदस्मारितित्वमिनि योजना। अज्ञाताया एव शक्त: संबन्धांशे आनुभाविकत्वेन न संबन्धस्मा- रकत्वमित्यथः। संबन्धांश अनुभवं प्रति पदस्य कारणत्वेन तत्र तदनुकूला शक्तिरसत्येव, परंतु यथा घटत्वादिजा- स्यंशे जाता सनी तत्स्मृनिदारा क्रियाकारकसंबन्धशाब्दबोधं जनयति, तथोक्तसंबन्धांशे ज्ञाता सती तत्स्मृतिद्वारा तच्छाब्दबोधं न जनयति, तस्य वाक्यार्थत्वेनापूर्वत्वात्, तदनुभवस्मृती विनापि तच्छाव्द्बोधोत्पत्तेः। प्रकृतिप्रत्ययाभ्यां बुद्धमानो योऽर्थः, तस्य ह्योः संबन्धरूपत्वे तदंशेऽप्यज्ञातव शक्ति: तथा, यथा घटेनानयेत्यादो घटत्वकरणत्वयोरान- यनकार्यत्वयोरवा संबन्धांशे; तस्यापि वाक्यार्थत्वेन स्मरणानपेक्षणात्, तस्यातत्वे तु तदंशेऽपि शक्तिज्ञातैव तदीयशब्दानु- भवप्रयोजिका। यथा तत्वमस्यादिमहावाक्ये तत्वम्पदाभ्यां वुध्यमानशुद्धचेतन्यं ज्ञातयेव शक्त्या बुध्यते; विशिष्टशक्तस्य पदस्य केवलव्यक्तिरूपैकदेशऽपि शक्तिसर्वात्। अतएव तत्र प्रत्येकं पदाभ्यां स्मृतिद्वयमुत्पाद्य तद्दारा शाब्दधीर्जन्यते; पदतदर्थयोः शक्तिरूपसंबन्धस्य गृहीतत्वेन पदरूपसंबन्धिग्रहणे सत्यर्थस्मृतिसंभवात्। ननु-एवमभिहितान्वयवादे- डपि तृतीयपक्षे तथा संभवात् अभिहितान्वयवादे पदाभ्यां स्मृतिसमन्नुद्धिद्वयं, अन्विताभिधानवांद च ताभ्यां स्मृति- द्वयमिति विशेष: कुतः संक्षेपशारीरके उक्त इति-चेत्, उच्यते-अभिहितान्वयवादे प्रत्येकं विभक्त्यन्तपदाभ्यां स्मृतिद्वयद्वारा शाब्दधीद्वयं जन्यते। महावाक्यार्थधीस्तु तेनेव धीद्येन, नतु पदज्ञानेन। अतएव पढज्ञानासत्वे मानान्तरजन्याभ्यामाकाङ्भायोग्यतादिसहिताभ्यामर्थज्ञानाभ्यां जन्यते। अतएव 'पश्यतः श्वेतिमा रूपं हेषाशब्दं च शण्वतः। खुरविक्षेपशब्द च श्वेतोइश्वो धावतीति धीः॥ दृष्टा वाक्यविनिर्मुक्ता न पदाथैर्विना क्वचित् II' इति वार्तिक- वाक्ये पद्ज्ञानसामान्यभावेऽपि शाब्दधीः, तदर्थज्ञानाभावे तुन क्वापीत्युक्तम्। तथाचाभिहितान्वयवादे पदज्ञान- स्थले महावाक्यार्थधीकरणस्य शाब्दबोधस्यावश्यकतया स्मृतिसमोपि स कल्प्यते। यद्यपि स्मृतिसमत्वं ज्ञातविषय- कत्वं, प्रमाणजन्यज्ञानंचाज्ञातविषयमेव, अनुवादवाक्यादिस्थले वाक्यार्थज्ञानं स्मृतिरेव, प्रमाणादप्रमानुत्पत्तेः । अत- एव घटत्वीयकर्मेतादिप्रमायां वाक्येन जननीयायां तद्विपयकाज्ञानं सहकारि कल्प्यते; तथाप्यगत्या महावाक्यादिस्थले पद्जन्यो बोध: स्मृतिसमः कल्प्यते। तथाच स्मृतिप्रमाविलक्षणमपि ज्ञानं प्रमाणजन्यं स्वीक्रियते; अन्यथानुपपत्तेः अतएव घटोऽस्तीत्यादिवाक्यजन्ये अस्तित्वं घटत्वीयमिति शाब्दबोधे घटत्वनिर्विकल्पकशाब्दबोध: स्मृतिसम एव करणम्। निर्धर्मितावच्छेदकशाब्दबोधासंभवे नैकत्वप्रकार कघटत्वविशेष्य कशाब्दबोधस्य तत्रासंभवात्। नहि शाब्दबो- धीयविशेष्यता केनाप्यनवच्छिन्ना स्वीक्रियते। अन्विताभिधानवादिनस्तु नेदं क्षमन्ते। क्रियाकारकसंबन्धादिरूपस्य महावाक्या्थस्य ज्ञानं पदजन्यं वदन्ति। तदुक्तं-'यधदाकाङ्गितं योग्यं सन्निधानं प्रपथते। तेन तेनान्वितस्वार्थः
Page 354
६७२ अद्वैतसिद्धिः । [परिच्छेद: २]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। पदैरेवावगम्यते ।I' इति। सन्निधानं पढजन्यस्मृतिविषयत्वम्। तथाचाकाङ्कायोग्यतासन्निधिसहकृतपदरेव वाक्या- रथंस्य क्रियाकारकसंबन्धादिरूपस्य शाब्दवोधोतपत्तेः नावान्तरवाक्यार्थस्य प्रकृतिप्रत्ययार्थसंबन्धादिरूपस्य शाब्दधीवि- घयत्वे मानमस्ति। विशेष्ये विशेषणं तत्रच विशेषणान्तरमिति रीत्या महावाक्यार्थधीसंभवात् कुतः स्मृतिसम- बोधस्वीकारः ? अन्यथानुपपत्यभावात्। यदि हि घटत्वीयकर्मतादिमात्रस्य शाब्दधीः स्वीक्रियते, तदा शाब्दबोधानां कार्यत्वविषयकत्वनियमस्य प्राथमिकव्युत्पत्तिकाले कृप्तस्य भङ्गः स्यात् । अथापि क्रियाकारकसंबन्धादिबोधात् पूर्व प्रकृतिप्रत्ययार्थसंबन्धादिविषयकमवान्तरवाक्यार्थज्ञानं मन्यसे; तादृशज्ञानस्यानुभाविकत्वात्, विशिष्टवैशिष्यबोधा- त्मकस्य क्रियाकारकसंबन्धबोधस्योक्तज्ञानं विना अपलापापत्तेः, तह प्रत्येकपदार्थस्मृतिजन्यामवान्तरस्मृति मन्यख। प्रत्येकपदार्थसंबन्धितया प्रकृत्यर्थविशिष्टप्रत्ययार्थस्य गृहीतत्वेन तत्स्मृत्या तत्स्मृतिसंभवात्, नेतावता तस्य शब्दबो- धोडपि मन्तुं शक्यः। यन्तु-वाक्यार्थकर्मके कुलकादो चावान्तरवाक्यार्थधीपूर्विका महावाक्यार्थधीः, घटमानये- त्यादा त्वनियम :- इति, तम्न; वाक्याथकर्मके कुलकाद़ौ च सकारकैकक्रियाबोधे पदैजाते तत्कर्मकक्रियान्तर घस्य पदैरेव जननं 'पश्य मृगो धावती'त्यादो युक्तम्, घटमानयेत्यादावनियमस्तु न युक्त :; लाघवेन महावाक्यार्थ- स्यैकस्य पदजन्यत्वस्वीकारात्, भट्टमते महावाक्यार्थबोधस्य नियमेन विशिष्टवशिष्यावगाहित्ववत् गुरुमते 'विशेष्ये विशेषणं तत्रापि विशेपणान्तर'मिति बोधस्यैव सर्वत्र संभवात्, अशाब्दस्य विशेषणतावच्छेदकप्रकारकज्ञानस्य सरे तु विशिष्टवैशिष्यशाब्दबोधस्यापि क्वचित्संभवात्। तस्मादन्विताभिधानमते अवान्तरवाक्यार्थबोधाभावेन न स्मृति- समो बोधः तत्त्वमसीति वाक्यात्, कित्वभिहितान्वयमत इत्यभिहितघटनेत्यादयुक्तिर्युक्तैव। अन्विताभिधानमतेऽपि क्रियाकारकसंबन्धबोधं प्रति पदस्योक्तरीत्या कारणतवेन शक्तत्वात् पदशक्त्ेरुक्तसंबन्घशाव्दधीप्रयोजकत्वादुक्तसंबन्धस्य शक्तिरूपपदवृत्तिप्रयुक्तशाब्दधीविषयत्वरूपं पदवृत्तिज्ञाप्यत्वमस्त्येव; तथापि न पदवृत्तिप्रयुक्तस्मृतिविषयत्वरूपं पढ- वृत्तिस्मारितत्वम्। ननु-तादृशशक्तेस्तादृशसंबन्धीयसंबन्धरूपायाः पढ़े पूर्व ग्रहणे सतति पदरूपकसंबन्धिज्ञानादुक्त्त- संबन्धरूपापरसंबन्धिस्मृतिरपि कदाचिज्जायत एवेति तादृशस्मारितत्वमुक्त्तसंबन्धेऽप्यसत्येवेति स्मारितपढद़ानेऽप्यु- क्संबन्धप्रमापकवाक्ये अखण्डार्थलक्षणातिव्याप्तिम्तदवस्थेति-चेन्नः स्मारितान्तेन स्वजन्यस्मृतिद्वारा यद्विपयकशा- व्दबोधे पद्वृत्ति: प्रयोजिका, तत्वस्य विवक्षितत्वात्। यत्पदन योरऽर्ी ग्राह्यः, तद्विपयकस्मृनिः स्मृनिपदन ग्राह्या। तथाचोक्तसंबन्धशाब्दबोधे पदवृत्ते: प्रयोजकत्वं नोक्तद्वारा; तादृशस्मृति विनापि तस्य शाब्दवोधोत्पत्तः जानिशक्ति- ज्ञानस्य जातिस्मृतिद्वारा व्यक्तिस्मृतिप्रयोजकत्वात् तद्वाराच व्यक्तिशाव्दधीप्रयोजकत्वात् जातिशक्तरप्युक्तप्रयोजक- त्वमसत्येव। तस्मादुक्तसंबन्धस्योक्तरीत्या पदवृत्तिस्मारितत्वेऽपि न क्षततिः। ननु-वह्नचादिनिष्ठशक्तराहादिकार्य इव शाब्दबोधरूपे पदकार्ये पदनिष्ठशक्तेः प्रयोजकत्वं युक्तम्, उक्तसंबन्धे लक्षणायास्त्वज्ञाताया न तत्संभवः । नच- लक्ष्यस्योक्तसंबन्धस्य शाब्दबोधे लक्षणाया घटत्वादीयकर्मतादिरूपशव्दार्थसंबन्धरूपायाः प्रमाणीयसंबन्धविधया हेनु- त्वम्; शब्दार्थस्येव क्रियाकारकसंबन्धविपयकशावद्रधीकारणत्वात्, इन्द्रियविपयसंबन्धस्य प्रत्यक्षे हेनुत्वदर्शनेन प्रमा- णप्रमेयसंबन्धस्य सामान्यतो हेनुत्वसंभवादिनि-वाच्यम्; धूमभ्रमजन्यप्रमानुमितावयोगोलकं वह्निमदित्याकारि- कायां वह्यादो धूमादव्यापकत्वरूपसंबन्धसत्वेपि द्रव्यत्वादिलिङ्गकपरवतो वह्निमानित्याद्यनुमिता द्रव्यत्वादिव्यापक-
त्वस्य लिङ्गसंबन्धस्थ लिद्गिनि सर्वत्र संभवात्, अतातादिसाध्ये अनुमित्यव्यवहितपूर्वमुक्तविशेष्यवृत्तित्वस्य तदुपलक्षि- तनिष्ठसाध्यतावच्छेदकस्य वाऽभावेऽपि तद्वच्छिन्नविषयत्वस्य सत्वात्, प्राभाकरादिमते अनुमितिपरामर्शयोः एक- वह्नयादिविषय कत्वनियमास्वीकारादनुमितिविधये तादृशविपयत्वस्ानुमितिजनपरमर्शीयस्यसवनियमेि अनु- मातृपुरुषीयसंशयादिपुरुपान्तरीयस्मरणादिरूपज्ञानान्तरीयस्य नियमेन सत्वात्। भ्रमानुमिती तुक्तसंबन्धासरवेऽपि न क्षतिः; तस्यामनुमितित्वजातेरसरवात्; मन्मते मनोवृत्तिरूपप्रमायामेव तत्म्वीकारेणाविद्यावृत्तिरूपभ्रभे तदस्वीकारात्, तत्र दोपादेरेव कारणतवेन तत्संबन्धस्य प्रातीनिकसाध्ये सत्वात्, ज्ञेयमात्रे ज्ञानकारणसंबन्धस्य हेतुत्वेऽपि क्षांतविर- हात्। अतएव तर्कचरणे वाक्याधिकरण लक्षणाया अज्ञायमानतयेव वाक्यर्थीभूतसंसर्गशाब्दबोधे हेतुत्वमुक्तम्।
यादिसंबन्धस्य हेतुत्वं युक्तमिति-चेन्न; प्रत्यक्षस्थल इवानुमितिशाब्द्बोधादिस्थलेऽपि विशेपरूपेणैवान्वयव्यतिरे- काभ्यां तस्य हेतुत्वसंभवात्। नहि मन्मते तथ्यांतरेके अनुमित्याढिकमुत्पद्यते; तार्किकादिमते गुणविशेषाभावे प्रमा- नुत्पादवत्। वस्तुतस्तु-तातपर्यज्ञान इव लक्षणाज्ञानेऽपि वटमित्यादिपदार्थतवेनैव पदार्थभानसंभवात् घटकर्मता- प्रतियोगिकानयननिष्टसंबन्धविशेषत्वेन संबन्धस्याभानेन क्षतिविरहात् लक्षणया वाक्यार्थीभूतसंबन्धे ज्ञानमेव हेतुः।
Page 355
[अखण्डार्थलक्षणोपपत्तिः] गौडब्रह्मानन्दीयुता। ६७३
मते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात् सर्वत्र प्रमाणवाक्ये अतिव्याप्ति: स्यान्तद्वार- णाय उक्त-स्मारितेति। आद्यपक्षे कुब्जशकत्यङ्गीकारात्, द्वितीयपक्षे चाशाताया एव पदार्थनिष्ठाया लक्षणाया वृत्तित्वाङ्गीकारात् न संसर्गस्य पदस्मारितत्वम्, किंत्वनुभाव्यत्वमित्यतिव्याप्तिपरिहारः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अज्ञाताया एव लक्षणायास्तच्छाब्दधीप्रयोजकत्वमिति ग्रन्थे अज्ञातपद्मुक्तविशेपरूपेणाज्ञातार्थकम्। एवंच शाब्द- बोधीयविषयसामान्यस्य वृत्तिज्ञानविषयताप्रयोज्यत्वनियमो न व्याहतः । संभवति चोक्तनियमः; लक्ष्यशाब्दधीसा- मान्यस्य लक्षणाधीजन्यत्वस्वीकारेऽभिहितान्वयमते आद्यपक्षे जातेः शाब्दबोधस्य शक्तिज्ञानेनेव व्यक्त्यादिशाब्दबोघस्य लक्षणाज्ञानेनैव जननात्। अन्यथा जातिशाब्दबोधेऽपि शक्तिज्ञानं प्रयोजकं न स्यात्। वाक्यार्थ इव जातावपि व्युरपत्तिग्रहस्यानपेक्षासंभवात् अज्ञाताया लक्षणाया इव शक्तेरपि प्रयोजकत्वसंभवात् पदार्थे व्युत्पत्तिग्रहस्यान्वय- व्यतिरेकाभ्यां हेतुत्वं वाक्यार्थ तु न तौ स्त इति तु वासनामात्रम्। अतपवान्वितामिधानवादिन आङु :- 'वाक्येनैव हि वाक्यार्थः साक्षादेवाभिधीयते। उपलक्षणतश्चास्य संबन्धग्रहसंभवः ॥ वाक्यं गोप- द्यु यत्तत्सास्त्नादिमदन्वितम् । वाक्यार्थ वदनीत्येवं व्युत्पत्तिः सुकरैव हि ॥' इति। साक्षात् वाक्यार्थ- स्मृतिमवान्तरवाक्यार्थशाब्दबोधं चाद्वारीकृत्य। उपलक्षणतः सास्त्रादिमत्वादिरूपोप लक्षणमन्तर्भाव्य। गोक- र्मत्वान्वितानयनादिरूपस्य वाक्यार्थस्य शब्दबोधात्पूर्वमज्ञानात् सास्रादिमत्कर्मत्वान्वितानयनस्य वाचकं गामान- येति वाक्यम् गोकर्मकस्यानयेति पदार्थस्य वाचकमुक्तवाक्यमित्येवंरीत्या शक्तिरूपव्युर्पत्तिग्रहे सास्रादिमत्वमानयेति पदार्थत्वादिकं वोपलक्षणतया भासते; वाच्यकोटावप्रवेशात्, गोत्वादेरेव शाब्दबोधे भावेन तत्प्रवेशात्। तस्माद्वाक्या- रथेऽपि व्युत्पत्तिग्रहस्यान्वयव्यतिरेको ताब्रिकसंमतौ। किंच तार्किकादीनामपि तौ समतौ। तथाहि-'सत््युत्पन्नपुरुषी- यशाब्दयोधे सद्यत्पत्तिधीः कारणम्। सा च घटमिति पदधीः घटवृत्तिकर्मताशावदधीकारणमिति धीरूपा। विपरीत- व्युत्पन्नपुरुषीयशाब्दबोधे विपरीतव्युत्पत्तिधी: कारणम्। सा च घटः कर्मत्वमिति वाक्यधीः तादृशशाब्दधीकारणमिति धीरूपा। तथाचानुभावकत्वस्येव मीमांसकमते शब्दशक्तित्वात् घटमिति पदं घटवृत्तिकर्मतावाचकमिति ग्रहे घटवृ- त्तिकर्मता आनर्यनिपदार्थीयसंसर्गविशेषप्रनियोगिनीति ग्रहे च सनि तादृशोक्तकर्मतावाचकं घटमिति पदमित्याकारकं लक्षणाज्ञानं संभवतीति तद्धेनुत्वं निर्दोपम्। अभिहितान्वयमते प्रथमपक्षे घटपदाम्पदयोः प्रत्येकरूपेणैवानुभावकत्वेन घटमित्यस्यानुभावकत्वेऽपि तयोरेकवाक्यताज्ञानस्य न्यायरतादावनुभावकत्वस्वी कारेण घटमित्यस्य तत्रैकविशिष्टार्थबोध- कत्व रूपकवाक्यत्वांशे विशेष्यविधयानुभावकत्वसत्वादिति दिक। कुब्जशक्त्यङ्गीकारादिति। यद्पि संसर्गानुभवं प्रत्यपि पदस्य जनकत्वेन संसरगाशेऽपि शक्तिरसत्येव, तज्जनकरयैव तच्छक्तत्वात्; तथापि तच्छक्ततवेन प्रकृतिप्रत्ययपद- ज्ञानं न कारणं, किंतु घटत्वकर्मतादिशक्तत्वेनेत्यन्विताभिधानस्य निष्कर्षः । उक्तं हि शब्दमण्यादौ-'ननु-पदा- नामन्वयज्ञानजनकत्वात्तत्र शक्तिरसत्येव; अशक्तस्याजनकत्वादिति-चेत्, सत्यम्, किंत्वन्वयबोधे स्वरूपसती सा व्याप्रियते, न तु ज्ञाता; घटज्ञानशकत्वेन ज्ञानादेव घटान्वयबोधोपपत्तेः । यथा जातिशक्तस्य पदस्य तव व्यक्तिज्ञाने शक्ति: स्वरूपसत्युपयुज्यते न तु ज्ञाते'ति। तवेति। प्रभाकरं प्रति मणिकारस्यान्विताभिधानमतपरिच्छिन्दिन उक्तिः। कार्यान्वितशक्ती हि खण्डितायामन्विताभिधानं प्रभाकरेण पूर्वग्रन्थे अवलम्बितम्। तत्रोक्तमतनिष्कर्षाभि- धानेन प्रभाकरो निरस्तः । अन्विताभिधानंच "नन्वर्थापत्तिरस्ति, यत्पदार्थव्यतिरिक्तमर्थमवगच्छामः । न च शक्तिम- न्तरेण तदवकल्पत" इत्यनेन शाबरभाप्ये तन्द्रूताधिकरणे आशङ््य "तन्न; अर्थस्य तन्निमित्तत्वात् भवेदर्थापत्तिः । यद्यसत्यामपि शक्तौ नान्यन्निमित्तमवकल्प्येत। अवगम्यते तु निमित्तम्, किं? पदार्थाः, पदानि हि स्वस्वार्थमभिधाय निवृत्तव्यापाराणि, अथेदानीं पदार्थाः अवगताः सन्तो वाक्यार्थमवगमयन्ती' त्यादिना, तस्मात् पदार्थप्रत्ययत एव वाक्यार्थो नास्य पदसमुदायेन संबन्ध" दृत्यन्तेन दूपितम्। तथाचोक्तनिकृष्टमतेन उक्तलक्षणकरणान्न दोष इति भावः। अज्ञाताया इति। शक्यसंबन्धरूपलक्षणायाः संसर्गे सत्वेऽपि ज्ञानं नापेक्षितमिति भावः। किंत्वनुभाव्यत्व- मिति। आकाङ्कादिज्ञानस्यैव संसर्गानुभावकत्वम्; आकाङ्कादिघटकपदवृत्तिस्मारितो वस्तुगत्या योऽर्थः तात्पर्यविषयः, तत्संसर्गानुभवत्वस्यैव तरकार्यतावच्छेदकत्वात्, न घटमानयेत्यादौ घटादिलक्षणायुक्तस्यापि कपालादेरनुभवप्रसङ् इति
उ.क्तस्मारितान्यप्रमापकान्यत्वम्, उक्तस्मारितान्याविषयकप्रमाजनकतवं वार्थः । आद्ये सवं गामानयेत्यादिवाक्यं तद्ट- कपद्वृत्तिस्मारितान्यो यो गवादिसंसर्गः, तदप्रमापकत्वस्य घटमानयेत्यादौ सत्वात्। नान्त्य :; सत्यादिवाक्यस्य संसर्गाबोधकत्वे अनुवादकतवापातात्-इति, तन्न शोभते; घटमानयेत्यादेरपि स्वपदस्मारितान्यप्रमापकतया तद- न्यत्वाभावात्। स्वपदेन यावद्वक्ुं शक्यते, तावत्सामान्यभेदस्यैव नजा बोधनात। अन्यथा स्वसमानाधिकरणात्यन्ता- अ. सि. ८५
Page 356
६७४ अद्वैतसिद्धिः । [परिच्छेद: २]
एवं द्वितीयमपि लक्षणं सम्यगेव। तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वम्, नत्वेकमात्रव्यक्तित्वम्। अतो योगिकार्थौपगवादिप्रश्नोत्तरे 'श्यामो दीर्घः लोहिताक्ष औपगव' इत्यादौ अनेकार्थात्मके वनसेनादिप्रश्नोत्तरे एकदेशस्था वृक्षा वनमित्यादो च नाव्याप्तिः । 'शीतोष्णस्पर्श- वन्ता पय: पावका'विति तु प्रत्येकमेकैकार्थपरत्वात् संग्राह्यमेव। तदुक्तं कल्पतरुकृद्धिः-'अविशि- ष्टमपर्यायानेकशब्दप्रकाशितम्। एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥' इति। ननु-प्रवृत्ति- निमित्तमेदे अपर्यायत्वम्, स चानन्तादिपदेषु न संभवति; शुद्धब्रह्ममात्रनिष्ठत्वात्, अतो वेदान्तेषु लक्षणाऽव्याप्तिरिति-चेन्न; प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणयाSनन्तादिपदानां शुद्धब्रह्मपरत्वस्य वक्ष्यमाणत्वात्। नच-शुद्धे संबन्धाभावान्न लक्षणापीति-वाच्यम्; अतात्विकसंबन्धेनैव लक्ष- णोपपन्तेः, भ्रमप्रतीतरजतत्वेन संबन्धेन शुक्तौ रजतपदलक्षणावत्। शुद्धस्यैव सर्वकल्पनास्पदत्वेन शुद्धे न कल्पितसंबन्धानुपपत्तिः। यथाचानन्तादिपदानां लाक्षणिकत्वेऽपि ब्रह्मणि नान्तवत्वादि प्रसङ्ग:, तथा वक्ष्यते॥ इत्यद्वैतसिद्धा अखण्डार्थलक्षणोपपत्तिः ॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भावाप्रतियोगीत्यादौ विभागादेरपि बोध्यत्वापत्तिः; उक्तात्यन्ताभावप्रतियोगिसंयोगान्यत्वस्य तत्र सत्वात्, द्वितीयपक्ष- स्यैवाचार्योक्तलक्षणवाक्यार्थताया: स्फुटत्वेन विकल्पानवकाशाच्। अनुवादकत्वं तु निराकरिण्यत एव। तस्माद्यकमेव तव भ्रान्तत्वम्। द्वितीयमपर्यायशब्दानामेकप्रातिपदिकार्थप्रमापकत्वमित्येवंरूपम्। ननु औपगवः शयामत्वादिमान् वनमेकदेशस्थवृक्षा इत्यादावव्याप्ति: श्यामत्वादिमत्वोपलक्षितस्यौपगवादेस्तद्विपयत्वेन श्यामादिप्रातिपदिकार्थस्य तदविषयत्वेऽप्यौपगवादिप्रातिपदिकार्थानां तद्विपयत्वेनैकमात्रप्रातिपदिकार्थत्वाभावात्, मात्रार्थानिवेशेच नानानामा- रथसंसर्गविषयकत्वेऽपि लक्षणोपपत्तिः, तत्राह-तत्राप्येकत्वमिति। वृत्तिविषयत्वं शक्तिलक्षणाकृत्तद्धितान्तसमा- सानामन्यतमज्ञानाधीनज्ञानविपयत्वम्। तथाच यादृशधर्मविशिष्टस्य शक्त्यादिज्ञानाधीनधीविपयत्वं तादृशयत्किंचि- द्धर्मविशिष्टभिन्नाविपयकप्रमाजनकत्वं पर्यवसितम्। नाव्यापिरिति। आपगवादिसमुदायस्य शक्तिलक्षणयोरभावेऽपि तद्धितान्तत्वेन तज्ज्ञानाधीनधीविषयत्वस्य गोसमीपवृत्त्यपत्यत्वविशिष्टे सत्वात्तन्मात्रप्नापकत्वात् श्यामादिवाक्ये लक्ष- णान्वयः। वनसेनापदयोस्तु शक्तिज्ञानाधीनस्मृतिविपयत्वस्य वनत्वादिविशिष्टेपु नानावृक्षेप्वपि सत्वात्तदन्वयः । यद्यप्येकदेशस्थनानावृक्षत्वमेव वनत्वम्, तथाच एकदेशस्थेत्यादर्यथाश्रुतार्थत्वे पर्यायशब्दद्वयत्वान्न लक्ष्यता; तथापि तस्यासाधारणधर्मान्तरपरत्वाल्लक्ष्यता बोध्या। वस्तुतस्तु-शयाम इत्यादरीपगवादे: स्वरूपमात्रप्रभोत्तर- त्वेन तन्मात्रविषयकत्वसंभवात् तद्धितादिपदस्य तत्स्वरूपमात्रलाक्षणिकत्वान्न योगिकार्थविपयकत्वम्। एकदेशेत्यादे रपि वनादिपदलक्षितनानावृक्षस्वरूपमान्रविषयकत्वम्। नच-वनादिस्वरूपस्य संसृष्टरूपत्वान् संसृष्टमेव तद्विपय इति-वाच्यम्; चन्द्रादिस्वरूपस्यापि चन्द्रत्वादिसंसृष्टत्वान् प्रकृष्टप्रकाशेत्यादेश्न्द्रव्यक्तिमात्रविपयकत्वानुपपत्तेः । तथाच शक्तिलक्षणान्यतररूपा लक्षणारूपा वा या एका नाम्नोरवृत्तिः, तज्ज्ञानजन्यस्मृतिविषयान्याविषयकप्रमाजनक- त्वमेव लक्षणं संभवनि; एकदेशेत्यादावेकस्या वनपदलक्षणाया विपयत्वस्य नानावृक्षस्वरूपेप्वनपायात्। आचार्याणां तु श्यामेत्यादेः संसृष्टनामार्थविषयकत्व।भ्युपगमेपि लक्षणं संभवति; एकव्यक्तिविपयत्वस्य निवेशे तस्यैव वृत्तिस्मारि- तत्वपर्यवसन्नतया एकपदस्य नामपदस्य च वैयर्थ्याव, तत्यागे च पूर्वलक्षणाविशेष इत्याशयः। अखण्डाभावनिचेशात् न वैयर्थ्यम्, अखण्डार्थवाक्ये एकनामार्थमात्रं विपयः, ननु नामार्थद्वयमाख्याताद्यर्थो वेति व्युन्पादनस्य प्रयोजनत्वा- ज्ञानतिप्रयोजनकत्वम्। अतएव प्रानिपदिकार्थमात्रपरत्वेऽपि कथमखण्डार्थता? संसृष्टस्येव नामार्थत्वादित्याशकय प्राति- पदिकार्थविशेष्यांशमात्रपरत्वस्य साध्यत्वादित्याचार्यरग्रे वाच्यमिनि तु ध्येयम्। यनु-शीतोष्णस्पर्शी पयःपावकावि त्यादेर्द्वन्द्वत्वेन भेदबोधकत्वान्नाखण्डार्थत्वम्-इति, तन्न; द्वन्द्वस्य भेदाभेदोदासीनपदार्थबोधकत्वाल्लक्षणवाक्यरवेनैव साहित्यरूपभेदाबोधकत्वात्, साक्षात् प्रत्येकवाक्यद्वयद्वारा वा अखण्डविषयकबोधद्वयमात्रे तस्य तात्पर्याच्च। अवि- शिषटं पदार्थान्तरानन्वितम्। एकं एकवृत्तिविषयः । अखण्डम् अखण्डशब्दार्थम्। शक्यतावच्छेदकरूपस्य प्रवृत्ति- निमित्तस्य भेदेऽपि लक्षणया अखण्डार्थत्वमित्याह-न प्रवृत्तीति। ननु गङ्गादिपदलक्ष्यस्यागङ्गात्वादिकमिवानन्ता- दिपद्लक्ष्यस्य ब्रह्मणोऽन्तवश्वादिकं स्यात, तत्राह-यथाचेति। वक्ष्यत इति। जहल्वक्षणास्थल एव् येन पदेन यल्लक्ष्यं तत्तच्छक्यस्वरूपात् अन्यत्, नान्यलक्षणास्थले। अतएव छत्रिपदलक्षितानामेकसार्थगतानां कस्यचिच्छत्रि- स्वमित्यादि वक्ष्यते॥ इति लघुचन्द्रिकायां अखण्डार्थलक्षणोपपत्तिः॥
Page 357
[सत्या० अखण्डार्थत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ६७५
अथ सत्यादिवाक्याखण्डार्थत्वोपपत्तिः । एवं लक्षणसंभवे प्रमाणसंभवोऽपि। तथाहि-सत्यादिवाक्यमखण्डार्थनिष्ठं, ब्रह्मप्रातिपदिकार्थ- निष्ठं वा, लक्षणवाक्यत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा, 'प्रकृष्टप्रकाशश्चन्द्र' इत्यादिवाक्यवदिति पदार्थ- विषयाखण्डार्थत्वानुमानम्। तत्त्वमस्यादिवाक्यमखण्डार्थनिष्टमात्मस्वरूपमात्रनिष्ठं वा, अकार्य- कारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्ा, सोऽयमित्यादिवाक्यव- दिति वाक्यार्थविषयाखण्डार्थत्वानुमानम्। नच सत्यादिवाक्ये तन्मात्रप्रश्नोत्तरत्वमसिद्धम्; 'ब्रह्म- विदान्नोति पर'मिति ब्रह्मवेदनस्यैवेष्टसाधनतया तन्मात्र एव वुभुत्सातः तन्मात्रस्यैव प्रश्नविषय- त्वात्। नच प्रकृष्टादिवाक्ये साध्यवैकल्यम्; तद्वाक्यं पक्षीकृत्य तन्मात्रप्रश्नोत्तरत्वेन चन्द्रमात्रनिष्ठ- तायाः सामान्यव्याप्तिमवलम्व्य साधनात्। एवं 'तत्त्वमस्या'दिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासि-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अखण्डार्थनिष्ठं स्वघटकपदव्ृत्तिस्मारितान्याविपयकप्रमाजनकम्। लक्षणवाक्यत्वात् इतरव्यावृत्तिधीपर- त्वात्, यावन्ति लक्षणवाक्यानि तावन्मात्रमुख्यविशेष्यकधीमुख्यविशेष्यत्वाद्वा। आद्ये हेती यत् यन्निष्ठस्येतरभेदस्य ज्ञानपरं, तन् तत्स्वरूपान्याविषयकप्रमाहेनुरिनि सामान्यमुखव्याप्तेः पर्यवसानम्; स्मारितान्तस्य साध्ये निवेशे प्रयोजनाभावात्। मन्मते इतरव्यावृत्ती तात्पर्याभावस्य वक्ष्यमाणत्वेऽपि परमते तात्पर्यावश्यकत्वान्न हेत्वसिद्धिः। धीविशेपमुख्य विशेष्यत्वं तु स्वमतसाधारणो हेतुः । द्वितीयसाध्ये हेतुमाह-तन्मात्रेति। ब्रह्मप्रानिपदिकार्थबुभु- त्सानिवर्तकधीमात्रपरत्वादित्यर्थः । यो यन्नामार्थवुभुत्सानिवर्तकधीमात्रपरः, सः तन्नामार्थमात्रप्रमापक इति पर्यवसानं बोध्यम्। अकार्यत्यादि। कार्यकारणभावापन्नद्रव्यद्वयबोधकं यद्यत तदन्यत्वे सति द्रव्यान्यप्रतियोगिकसंसर्गविपयकं यन् तदन्यत्वे च सनि विरुद्वविभक्तिकनामद्याद्यघटितनानापदत्वादित्यर्थः । मृद्ट इत्यादेर्वारणायाद्यं सत्यन्तम्। जीलो घट इत्यादर्वारणाय द्विनीयम्। घटस्य कपालमित्याद: पश्वर्थसंबन्धेन घटप्रकारकधीजनकत्वमते द्रव्यान्यसंसर्गा- विषयकत्वात् तद्वारणाय घटितान्तम्। घटादावेकपदमात्रे च व्यभिचाराच्चरमदलम्। संसर्गविपयकपदन मुख्यविशे- प्यांशसंसर्गविषयकोक्ते: नादयदलं व्यर्थम्। मृद्धट इत्यादो च मृत्वादिविशिष्टस्यैव मुख्यविशेष्यत्वम्। तत्र च मृत्वादेर्द्- व्यान्यस्य संसर्गो न विपयः, किंनु शुद्धे मृदादो। अतएवोक्तसंसर्गाशे विशेष्यताऽनवच्छिन्ना। यन्नाम स्वार्थद्रव्या- नुपादेयस्य द्रव्यस्य बोधकन स्वसमानविभक्तिकेन नाम्ना समभिव्याहृनं, स्वविरुद्वविभक्तिकपदासमभिव्याहृतं, तन्नाम- घटितवाक्यं यद्यत् भर्वान, तत्तन्ामार्थान्याविपयकप्रमाजनकमिनि तु पर्यवसानं बोध्यम्। नीलो घट इत्यादौ नीला
वेन व्यभिचारात् स्वारथद्रव्येत्युक्तम्। तथाच सोऽयमित्यादौ तत्दार्थानुपादेयस्य इदंपदार्थस्य बोधकेन तत्पद्समान- विभक्तिकेन युक्तं नाम तत्पदं तद्धटितवाक्यं सोऽयमिति। तच्च तत्पदार्थान्याविषयकप्रमाहेतुरेव।. तत्वमस्यादिवा- क्येऽपि स्वपदन तदादिपदमादाय योजनीयम्। ननु-'नीलो घट' इत्यादो नीलघटयोस्तादात््यसंबन्धो भाति, 'सोऽय' मित्यादी त्वखण्डार्थकत्वमित्यत्र कि नियामकमिति-चेत्, अत्रोच्यते-चतुर्धा सामानाधिकरण्यम्। विशेषणविशेष्यभावे-यथा 'नीलो वट' इत्यादों। अध्यासे-यथा 'इद रजत'मित्यादो। व्यावहारिकतादात्यं विशेषणविशेष्यभावः। प्रानीतिकतादात्म्यम् अध्यासः। बाधायां-यथा 'यश्चोरः स स्थाणु'रित्यादी यश्चोरत्वेन ज्ञातः स चोरो न,किंतु स्थाणुरित्यर्थः । ऐक्ये-यथा 'सोऽय मित्यादी, तत्तेदन्तयोरेककालावृत्तित्वेन तदुपहितयो- स्तादात्म्यासंभवेन तदुपलक्षितयोरखण्डव्यक्तिमात्ररूपैक्यं भानि। तथाच यत्र तादात्यं न संभवति, तत्राखण्डार्थ- त्वात् जीवत्वेशत्वोपहितयोस्तादाल्यासंभवादखण्डार्भत्वम्, 'नीलो घट' इत्यादो तु तादात््यं संभवति; गुणक्रिया- द्रव्यरूपकार्याणां सामान्यविशेषयोश्चाकार्ययोः तादात्यस्वीकारात्, विशिष्टकेवलयोरंशांशिनोश्च तादातयं संभवति। केवले विशिष्टस्य अंशिनि चांशस्य कल्पितत्वेन कार्यत्वात् पुरुपो दण्डीत्यादावपि दण्डसंयोगस्य गुणत्वेन द्रव्ये तादा- त्म्यात्तद्विशिष्टस्यापि पुरुपे तादात्म्यसंभवः । नित्यगुणस्य ज्ञानानन्दादिरूपस्य नित्यांशस्य च जलादिपरमाणी ब्रह्मणि च तादात्म्यं संभवत्येव; गुणत्वादेव। अतएव नित्यगुणद्रव्ययोरकार्यकारणनिष्ठसामानाधिकरण्यस्य व्यभिचारित्वात् द्रव्यनिवेशः। ननु-सवं घटपदं, तदर्थानुपादेयद्रव्यबोधकमृत्पदसमभिव्याहृनं तदेव, तद्वटितवाक्ये च तदर्थान्या- विषयकप्रमाहेतुत्वाभावाद्यभिचार इति-चेत्, सत्यम्; तद्वारणाय स्वार्थद्रव्यानुपादानस्येत्यपि द्रव्यस्येत्यत्र विशे- पणं वाच्यम्। एवमपि परमते 'गगनं मह'दित्यादौ स्वपदेन महत्पदमादाय तदर्थानुपादानगगनबोधकपद्युक्ततद्व- टितवाक्यतवस्य व्यभिचारित्वात् स्वार्थद्रव्येत्याद्यावश्यकमिति ध्येयम् । द्वितीयसाध्ये हेतुमाह-तन्मात्रेति । अन्न पूर्वोक्तरीत्या पर्यवसानं बोध्यम्। तन्मात्रस्य ब्रह्ममात्रस्य। प्रश्नविषयत्वात् सत्यादिवाक्यनिवर्त्यबुभुत्सावि-
Page 358
६७६ अद्वैतसिद्धिः । [ परिच्छेद: २ ]
द्धम्; 'कोऽह'मित्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तद्धिकप्रत्युक्तेरयुक्तेः। नाप्यत्र दृष्टान्तासिद्धि :; देवदत्तस्वरूपमात्रे पृष्टे अस्य प्रवृत्तेः। नचाप्रयोजकत्वम् प्रश्ोत्तरयोवैयधिकरण्यापत्ते, विपक्ष- बाधकतकस्य विद्यमानत्वात्। नच-संसर्गागोचरप्रमितिजनकत्वं साध्यमप्रसिद्धम्, प्रत्यक्षादि- नापि इदमित्थमिति विशेषसंसर्गगोचराया एव प्रमितेर्जननादिति-वाच्यम्; निर्विकल्पकस्वीक- तृणां तस्मिन्नेव प्रसिद्धेः, इतरेषां तु प्रमात्वं संसर्गागोचरवृत्ति, सकलप्रमावृत्तित्वादमिधेयत्ववदिति सामान्यतस्तत्प्रसिद्धेः। यधप्यत्रापि अप्रयोजकत्वं संभाव्यते; तथापि सन्देहरूपा साध्यप्रसिद्धिर्न दुर्लभा। वस्तुतस्तु प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शिता। नच-लक्षणवाक्यत्वं सत्यादिवाक्येष्व- सिद्धम्; सत्यत्वादेः परापरजातितया तस्याश्चान्यत्रापि विद्यमानत्वेनासाधारण्याभावात्, नच- तात्विकं तत् ब्रह्मणि, अद्वैतश्रुतिविरोधात्, आततत्विकं त्वन्यत्रापि तुल्यमिति-वाच्यम्; परमार्थ- सत्यादिरूपताया: ब्रह्मस्वरूपलक्षणत्वात्। अस्मन्मते यद्यपि सत्याद्यन्यतमपदं स्वरूपलक्षणपरम्, ब्रह्मणोऽन्यस्य तदाभासत्वात्; तथापि परैरपि सत्यत्वस्य सत्यत्वे सति ज्ञानत्वस्य सत्यत्वे सत्यानन्द- त्वस्य शून्यवादिभिरपि सत्वरहितज्ञानानन्दात्मकत्वस्य ब्रह्मणोऽन्यत्राङ्गीकारान्मिलितं विना न निर्वि चिकित्सब्रह्मसिद्धिरिति मिलितं लक्षणम्। नचवं विशिष्टस्य लक्षणत्वे सखण्डार्थत्वप्रसङ्ग:, वाच्यस्य सखण्डार्थत्वेऽपि लक्ष्यस्याखण्डत्वात्। यद्यपि सवषां सत्यादिपदानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म; तथापि निवर्तनीयांशाधिक्येन न पदान्तरवयर्थ्यम्।अतो वाच्यार्थ व शिष््यस्याखण्डसिद्धावुपायत्वात् न तद्विरोधिता। ननु-इदं विरुद्धं असाधारणधर्मरूपलक्षणपरवाक्यस्य सखण्डार्थत्वनियमादिति-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पयर्वात्। यद्विषयकत्वेने ष्टसाधनत्वं तदन्यविपये बुभुत्सायां मानाभावादिति भावः । तत्प्रसिद्धिरिति । प्रभ्षोत्तर - योवैंयधिकरण्यापत्तितर्केण प्रमात्वपक्षकोक्त्तानुमानेन तादृशप्रमासिद्धा तज्जनकत्वरूपसाध्यस्य प्रकृष्टादिवाक्ये प्रसि- द्विरिति भावः । यथाश्रुतेतूक्तप्रमाया एवाप्रसिद्धेः तज्नकत्वसिद्धसंभवेनासङ्गतेः । वस्तुतस्तु-विशेपणतावच्छे- दकप्रकारकनिश्चयस्य विशिष्टवैशिष्यबुद्धहेतुत्वात् वादिविप्रतिपत्यादिना 'प्रमा संसर्गागोचरा न वे'ति संदहेऽपि व्याप्तिनिश्चयादिसंभव इति भावः। यन्तु प्रमात्वं, विशेष्याविपयकवृत्ति, सकलप्रमावृत्तित्वादभिधेयत्ववढित्याभास- साम्यमिति, तन्न शोभते; सप्रकारस्यैव सविशेष्यकत्वेन विशेष्याविपयकं निर्विकल्पकमेवेत्युक्तानुमानस्याप्यनाभास- त्वात्। निर्विषयकवृत्तित्वानुमानं तु तर्कशून्यमित्युक्तानुमानमुक्ततर्कवर्वान्न तत्समम्। अत्र सत्यादिवाक्यजन्यग्रमा, संसर्गागोचरा, लक्षणवाक्यजन्यप्रमात्वात्, या या संसर्गविधयिका, सा न लक्षणवाक्यजन्यप्रमा, यथा घटमानयेति- वाक्यजन्यप्रमेत्याद्यनुमानेपु न साध्याप्रसिध्यादिशङ्केनि ध्येयम्। सत्यत्वादेः सत्यत्वज्ञानत्वादेः । परापरेति। सत्यत्वं सर्वेषु जातिमत्सु वर्तमानत्वात् परा जातिः, ज्ञानत्वादिकं तु अतथात्वादपरा जातिः। तस्याः सत्यत्वादिजातेः। अन्यत्रापीति। ब्रह्मलक्षणत्वेन ब्रह्मणि तत् सत्यत्वं त्वया वाच्यमेव; अन्य्रापि सत्वेन तदतिव्याप्तमिति भावः । मन्मते सत्यत्वं न जानि :; मानाभावात्, वाधाविपयत्वेनैव सदाकारबुद्युपपत्तेश्र। बाधाविषयत्वं स्वकालविपयत्वं स्वकालावच्छेदेन प्रपञ्चेऽपि स्त्वान्न म्रह्मलक्षणम्। त्रिकालाबाध्यत्वं लक्षणं भवद्पि न स्वरूपलक्षणम्। स्वरूपलक्ष- णयुभुत्सया च सत्यादिवाक्यं प्रवृत्तम्। अतस्त्रिकालाबाध्यत्वोपलक्षितस्वरूपात्मकं सत्यत्वं स्वरूपलक्षणं सत्यपदार्थः । एवं वृत्त्यवच्छिन्नचित्वादिरूपज्ञानत्वाद्युपलक्षितस्वरूपं ज्ञानत्वादिकं ज्ञानादिपदार्थ इत्याशयेनाह-परमार्थसत्वा- दिति। नन्वेवं त्वन्मते सत्यादिपदानामेकस्येव लक्षणबोधकत्वसंभवात् पदान्तरं व्यर्थम्, तत्राह-अस्मदिति। तदाभासत्वात् परमार्थसत्यादिस्वरूपत्वाभावात्। सत्वस्येति । ब्रह्मणोऽन्यत्राङ्गीकारादित्यत्रान्वयः । ज्ञानान- न्दात्मकत्वस्येति। मिथ्याभूतज्ञानस्याकार एव तद्विषयः। सोऽपि मिथ्यैव; शून्यवादस्य विज्ञानवादविशेषरूपत्वात्। तथाचानन्दोऽपि ज्ञानाकारत्वात् ज्ञानाभिन्न इति ज्ञानात्मकानन्दतवं तन्मते ब्रह्मभिन्नेऽपीति तद्वारणाय सत्यमिति भावः। न निर्विचिकित्सेति। परमते सत्यत्वादेः ब्रह्मभिन्ने स्वीकारात् सत्यत्वाद्युपलक्षितं ब्रह्म जडादिरूपं न वेति संशयाजडादिविलक्षणब्रह्मस्वरूपनिश्चयाय ज्ञानादिपदमावश्यकमिति भावः। विशिष्टस्य सत्यज्ञानत्वादिविशिष्टस्या- नन्दत्वस्य। वाच्यस्य वाच्यसत्यत्वादिघटितस्य। लक्ष्यस्य सत्वाद्युपलक्षितस्य। सत्वाधुपलक्षितमेकमेव लक्षणम्। सत्वाधेकैकोपलक्षिते जडत्वादिसंशयेन ज्ञानादिपदान्तरवाच्यज्ञानत्वाद्युपलक्षितस्यैव बोधस्तन्निवर्तक इति न सख- ण्डार्थता। इदमेव विवेचयति-यद्यपीति। निवर्तनीयांशेति। जडत्वादिभ्रमरूपनिवर्तनीयेत्यथः । न पदान्त- रवैयर्थ्य न ज्ञानादिपद्वैयर्थ्यम्। नन्वेवं वाच्यघटितवाक्यार्थस्य सखण्डत्वं स्वीकृतं विरुध्येत, तत्राह-अतो वाच्येति। वैशिष्ट्यस्य वैशिष्यबोधस्य। उपायत्वात् द्वारत्वात्। तद्विरोघिता अखण्डार्थसिद्धिविरोधिता।
Page 359
[सत्या० अखण्डार्थत्वोपपत्तिः ] गौडब्रह्मानन्दीयुता। ६७७
चेत्, न; सर्वलक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वेन नियमासिद्धे, धर्मलक्षणस्याखण्डत्वविरो घित्वेऽपि स्वरूपलक्षणस्य तदविरोधित्वाञ्च। नचामेदे लक्ष्यलक्षणभावायोग :; अन्तःकरणवृत्तिनिब- न्धनाकारभेदेन उभयोपपत्तेः, आवृतत्वानावृतत्ववत्, अन्यथा स्वरूपलक्षणतटस्थलक्षणविभागो न स्यात्। नच यावङ्रव्यभावित्वाभावित्वभ्यां व्यवस्था; तावता हि स्थायित्वास्थायित्वव्यवस्था स्यात्, न तु स्वरूपादिरूपा; तव मते पार्थिवरूपादौ स्वरूपलक्षणे अव्याप्तेश्च, ब्रह्मणि यावद्रव्यभाविधर्मवि- रहाञ्च। वस्तुतस्तु-द्वारत्वेन लक्षणे तात्पर्य न द्वारिणोऽखण्डार्थत्वं विरुणद्धि। नच-स्वरूपज्ञा- नस्य प्रागेव सामान्यतो जातत्वात् तज्ज्ञाने नतद्वारापेक्षेति-वाच्यम्: ज्ञानमात्रेऽस्य द्वारत्वाभा- वेऽपि संशयादिनिवर्तकैतज्ज्ञाने तद्वारापेक्षणात्। नच सखण्डवनादिलक्षणवाक्ये व्यमिचार :; तत्रापि साध्यसत्वस्य व्युत्पादनात्। नच किं चन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टप्रकाशादि- वाक्ये व्यभिचारः; तत्र हि न चन्द्रस्वरूपपरत्वम्, किंतु प्रकर्षाश्रयो यः प्रकाशः, तत्स्वरूपपरत्वम्; तथाच प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेन तत्राप्यखण्डार्थत्वाविरोधात्। अत एव-धर्मे पृष्टे चन्द्रस्वरूपं वकतुं नोचितमिति-निरस्तम्; धर्मस्यैव स्वरूपत उक्तत्वात्, अन्यथा प्रश्नोत्तरयोवैयधिकरण्यापत्तेः । ननु-इदं वाधितम्, धर्मिज्ानाधीनसप्रकारकसंशयादिनिवर्तकं मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेन वेदान्तविचारविधानान्यथानुपपत्या वेदान्तवाक्ये
गोडव्रह्मानन्दी (लघुचन्द्रिका)। अभ्युपेत्याह-धर्मलक्षणस्येति। भावायोगः भावव्यवहारायोगः। इतरव्यावृत्त्यनुमितिं प्रति पक्षो लक्ष्यम्। हेनुर्लक्षणम्। तदुभयरूपत्वमत्यन्ताभेदे न संभवति; हेनी पक्षसंबन्धाभावादिति भावः। अन्तःकरणेति। विभि- समनोवृत्तिरूपोपाधिभेदादेकस्याप्युपहितरूपेण भेदसंभवात्संबन्धसंभवः। तादृशमनोवृत्तिश्व ब्रह्मपदार्थस्वरूपमात्रस्य लक्षणयोपस्थितिः, तद्विपयत्वेन लक्ष्यता, सत्यादिपदार्थस्वरूपमात्रस्य लक्षणयोपस्थितिश्च, तद्विपयत्वेन लक्षणतवम्। साचोपस्थितिरभिहितान्त्रयमते अनुभवः । मतान्तरे स्मृतिः । तादृशविषयत्वरूपेण लक्ष्यलक्षणयोः साक्षिणैव प्रथमं गृहीतयोरनुमिनि हेतुपरामर्शविषयत्वम्। यदि तु 'इतरव्यावृत्तिरर्थात् न तु शब्दा'दिति कल्पतरूक्तरीत्या इतरव्यावृत्ते- रर्थापत्तिरेव, नानुमितिः, तदापि ब्रह्मपदार्थस्य सत्यादिपदार्थानामैक्यं यदखण्डाकारशाव्दधिया प्रमितं, तदसत्यादि- व्यावृत्तिं ब्रह्मपदार्थनिष्टां विना अनुपपन्न मित्यनुपपत्तिज्ञानेनासत्यादिव्यावृत्तिर्वह्मनिष्टेत्यर्थापत्तेरुत्पादात् ब्रह्मपदार्थत्वस्य ब्रह्मपद्जन्यतादशधीविषयत्वरूपत्वाद्यत्रानुपपन्नं गरृह्यते तस्यैव लक्ष्यत्वादिना व्यावृत्त्युपपादस्यानुपपन्नस्यैव लक्षण- त्वादनुपपन्नविपयकमनोवृत्तिविषयत्वेन लक्षणत्वासिद्या लक्ष्यलक्षणभावो मनोवृत्तिभेदनैवेति भावः। आवृतत्वा- नावृतत्ववदिति। यथा एकस्मिन्नपि ब्रह्मणि आविद्यकभेदेन पूर्णानन्दरूपेणावृत्तत्वं चिद्रूपेणानावृतत्वं, तथोपाधिभे- दनाविद्यकभेदात् संबन्ध इनि भावः। यावद्रव्यभावित्वाभावित्वाभ्यामिति। यावत्कालं लक्ष्यं तिष्टति, ताव- र्कालस्थायि पृथिवीत्वादिकं पृथिव्यादे: स्वरूपलक्षणं, तदन्यत् गन्धादिकं तटस्थलक्षणमित्यर्थः । न तु स्वरूपादीति। नच-यावदाश्रयस्थायि पृथिवीत्वादिकं न प्ृथिव्यादिभिरभिन्नम्, किंतु सविशेषाभेदवत्। अत एवोक्तं 'यावद्वस्तु न भेदवदि'नि। यावद्धर्मि स्थायिनि धर्म धर्मिभेदाभेदौ न स्तः, किंतु धर्मिणः सविशेषभेद इत्यर्थः । पार्थिवरूपादिकं तु न स्वरूपलक्षणमिति-वाच्यम्; भेदस्यैव विशेषपरिभापाकरणेनात्यन्ताभेदाभावेन पृथिवीत्वादेः पृथिव्यादिस्वरूपल- क्षणत्वासंभवात्, सामानाधिकरण्यप्रत्ययस्यैवाभेदनियामकतया पार्थिवरूपादेरप्याश्रयेण सविशेपाभेदस्य दुर्वारत्वात् अन्यथा पृथिव्यां सत्यां रूपस्येव पृथिवीत्वे सति पृथिव्या अपि नाशात्तयोरप्यभेदानुपपत्तेः । तस्मात् स्वरूपलक्षणं लक्ष्यात्यन्ताभिनं, विशेषलक्षणं यावदाश्रयभावि'तटस्थलक्षणं स्वकालावच्छेदेन स्वाश्रयनिष्ठमिति विवेको युक्त इति भावः। ब्रह्मणीति। नच-आश्रयकालत्वव्यापकत्वस्यैव यावद्रव्यभावित्वरूपत्वेनाविद्याविषयत्वादिकमेव तादशधर्म इति तस्य स्वरूपलक्षणत्वं भवन्मते कुतो नोच्यत इति-वाच्यम्, जगत्क्त्रभिओ्ोपादानत्वस्येवाविद्याविषयत्वादेरपि मन्मते स्वरूपान्यत्वेन तटस्थलक्षणत्वव्यवहारात्। नच-भवन्मते जगत्कारणत्वादेः तटस्थलक्षणत्वानुपपत्तिः, क्त्रभि- सोपादानत्वरूपस्य तस्य ब्रह्मकालव्यापकत्वादिति-वाच्यम्; मन्मते स्वरूपलक्षणान्यत्वेन तत्र तटस्थलक्षणत्वोपचा- रात्, उपादानाभिन्नकर्तृत्वस्यैव मन्मते मुख्यतटस्थलक्षणत्वस्वीकारात्, कर्तृत्वस्य मायापरिणामज्ञानेच्छाकृतिरूपरवेन स्वकालावच्छेदेन स्वाश्रयनिष्ठत्वात्, मन्मते कालत्वव्यापकजातेरेव विशेषलक्षणत्वेन जगदुपादानत्वा देर्सुख्यतटस्थल क्षणत्वसंभवास, स्वरूपतटस्थलक्षणयोरेव मन्मते स्वीकारसंभवाख्तेति भावः। लक्षणे सत्यत्वादिधर्मस्य ब्रह्मणि वैशि- ्यबोधे। संशयादिनिवर्तकेति। सत्यत्वादिवैशिष्चबोधोत्तरवर्तिनि सत्यत्वाद्युपलक्षिताखण्डबोघरूप इत्यादि:। प्रकाशव्यक्तिस्वरूपेति। नच-चन्द्रसंबन्धित्वेन प्रश्ासेनैवोत्तरवाक्येन बोध इति-वाच्यम्, चन्द्रस्यासाधारण-
Page 360
६७८ अद्वैतसिद्धिः। [परिच्छेदः २ ]
साध्याभावनिश्चयादिति-चेन्न; अनृतादिप्रतिषेधकव्यावृत्ताकारक्ानेनैव अनृतादिसंशयादिनिवृ न्युपपत्तेरन्यथासिद्धत्वात्। न हि सप्रकारकत्वमात्रं तत्र तन्र्रम्। भ्रमकालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेन संशयादिनिवर्तकत्वे भ्रमकथैवोच्छिद्येत। ज्ञानस्याज्ञानसमविषयत्वेनैव तभनि- वर्तकत्वम्, नतु समानप्रकारकत्वेनाऽपि; गौरवात्। अज्ञानविषयश्च शुद्धं ब्रह्म; अज्ञानकल्पितस्य तदितरस्याज्ानविषत्वायोगात्। तथाच शुद्धब्रह्माकारा चित्तवृत्तिः निष्प्रकारिकैवाज्ञाननिवर्तिका; प्रकारमात्रस्या विद्याकल्पितत्वेन तद्विषयतायां वृत्तेरविद्यासमविषयत्वाभावात्।यथाचाविद्यातत्का- र्यविषयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्राक। द्रव्याद्याकारशानानां च घटाद्याकारत्वस्यानुभवनि- रस्तत्वान्न द्रव्याद्याकारक्षानेन घटाद्याकाराज्ञाननिवृत्तिप्रसङ्ग; द्रव्यत्वघटत्वयोर्ेदेन विषयभेदान्। यथाच समानप्रकारकत्वमादायापि न निस्तारः, तथा प्रतिपादितमस्माभिर्वेदान्तकल्पलतिकाया- मिति दिक्। ननु-अस्तु सत्प्रतिपक्षः, तथाहि-सत्यादिवाक्यतात्पर्यविषयः, संसृप्टरूपः संसर्ग- रूपो वा, प्रमाणवाक्यतात्पर्यविषयत्वात्, संमतवत्, सत्यादिवाक्यं, स्वतात्पर्यविषयज्ञानाबाध्यसं- सर्गपरं, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणकप्रमाविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्य- त्वादग्निहोत्रादिवाक्यवत्, 'विषं भुङ्क्ष्वे' त्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽपि स्वकरणकप्रमावि- षयपदार्थसंसर्गपरत्वान्न व्यभिचारः, 'खं छिद्रं कोकिल: पिक' इत्यादौ चानतिभिन्नार्थत्वे सामाना- धिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न व्यभिचार इति-चेन्न, आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये च संसृष्टरूपे पदार्थ व्यभिचारात्;
गोडव्रह्मानन्दी (लघुचन्द्रिका)। धर्मश्चनद्रलक्षणमित्यस्य ज्ञातरवेन तत्स्वरूपमात्रस्य पृष्टत्वेनोत्तरवाक्यजन्यधीविषयत्वात्। अनृतादिप्रतिषेधकव्या- वृत्ताकारेति। अनृतादिव्यावर्तकं यत् सत्यत्वादिरूपं व्यावृत्तं विशेषरूपं तदुपलक्षितविपयकेत्यर्थः । अनृतादिसं- शयेति। ब्रह्मानृनं न वेति संशयेत्यर्थः। निवर्तकत्वात् अज्ञानतत्कार्यसंशयादिनिवर्नकत्वात्। निदिध्यासनपूर्वस्या- पातज्ञानस्य तु नाज्ञाननिवर्तकत्वम्, अनावृतप्रमात्वेनैव तत्स्वीकारात्। तत्र च प्रमात्वस्य सन्दिग्धत्वेनावृतत्वात्। विवेचितमेतज्ज्ञाननिवर्त्यत्वरूपमिथ्यात्वलक्षणे। द्रव्याद्याकारज्षानानां द्रव्यत्वाद्यवच्छिन्नविषयताकज्ञानानाम् । घटाद्याकारत्वस्य घटत्वाद्यवच्छिन्नविषयताकत्वस्य। न घटेत्यादि। तथाच तूलाज्ञाननिष्ठप्रनियोगितासंबन्धेन नाशं प्रति स्वविषयतावच्छेदकावच्छिन्नविषयताकत्वसंबन्धेन प्रमात्वेन हेतुत्वमिति भावः। वाधाच्चति। तथाच स्वसमानविपयकत्वसंबन्धेनंव हेतुत्वसंभवः। द्रव्यघटत्वादिविशिष्टरूपविषयभेदेन द्रव्यघटाद्याकारज्ञानाज्ञानयोः न नाश्यनाशकभावापत्तिरिति भावः। तथा प्रतिपादितमिति। घटं न जानामीत्यज्ञानस्य जातिमानित्यादिज्ञानेन
च। तस्माद्रव्यघटजातिमदादीनां विषयाणां भेदादेकज्ञानादन्याज्ानं न निवर्तत इति समानविषयकत्वमेव संबन्धः । शक्तिविशेषाणामेव वा तत्तद्विपयकाज्ञाननाशकतावच्छेदकत्वम्। अन्यथा तत्तद्विषयकत्वप्रमात्वादीनां मिथो विशेषण- विशेष्यभावे विनिगमकाभावादनेक हेतुत्वापत्तरित्यादि प्रतिपादितमित्यर्थः । पूर्वानुमाने बाध्यसंसर्गादिपरत्वेनार्थान्त- रादाह-स्वतात्पर्यत्यादि। दृष्टान्ते तात्पर्यविषयसंसर्गस्य ब्रह्मधीबाध्यत्वात् ज्ञानान्तम्। अखण्डव्रह्मणोऽप्यभावादो स्वरूपसंबन्धरूपत्व्रात् सिद्धसाधनादाह-स्वकारणकेत्यादिनिरूप्यान्तम् । अनतिभिन्नार्थत्व इति। भिन्नम् अत्यन्तभिन्नम् अतिक्रान्तो अतिभिन्नः भेदाभेदवान् तादृशार्थत्वाभाव इत्यर्थः । संसर्ग इति। नच-द्वयोः पदार्थ- योरयं संसर्ग इति प्रत्ययात् संसर्गस्यापि संसृष्टत्वात् न व्यभिचार इति-वाच्यम्; तथा सति प्रकृष्टप्रकाशादिवाक्ये चन्द्रत्वादिसंसृष्टपरत्वमादाय सिन्दसाधनादर्थान्तराद्वा तद्वारणाय सत्यादिवाक्यघटकपदार्थानामेकसंसृष्टापररूप इति साध्यकरणे संसर्गे व्यभिचारावश्यकत्वात। संसृष्टरूप इति। नच-संसर्गरूप इत्यस्य संसर्गनिरूपक इत्यर्थकत्वात् न पदार्थे व्यभिचार इति-वाच्यम्; ब्रह्मण्यप्यविद्यादिसंबन्ध निरूपकत्वादिसत्वेन सत्यत्वादिविशिष्टतादात्म्यनिरूपक- त्वेन च सिद्धसाधनात्। संसर्गनिरूपकतवेन तात्पर्यविषय इति साध्ये च बाधः। न हि तेन रूपेण पदार्थतात्पर्यवि- पय :; निरूपकत्वस्य संबन्धसंबन्धस्य शाब्दबुद्धावभानात्, संसर्गे व्यभिचाराश। अथ-तात्पर्यविषयतापर्यास््य- धिकरणत्वेन ह्वेतुना एकपदार्थसंसृष्टापरपदार्थात्यन्ताभिव्नत्वं साध्यम्, केवलः पदार्थः संसर्गो वा नोक्तपर्याह्यधिक- रणमू, ब्रह्मणि तु सरवादिसंसृष्टज्ञानादेः तादातम्यसत्वेऽपि नात्यन्ताभेद इति-चेत्न; पूर्वसाध्येऽप्येवं वाच्यतया तदविशेषापत्तेः, अप्रयोजकत्वाच। तात्पर्यावेदकमानस्य शुद्धे सर्वे तस्यैव तात्पर्यविषयत्वे बाधकाभावाद्बाध्यपरत्व-
Page 361
[सत्या० अखण्डार्थत्वोपपत्तिः] गौडब्रहानन्दीयुता। ६७९
तयोरुभयोरपि प्रमाणवाक्यतात्पर्यविषयत्वात्। द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमिति विषय परत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकत्वात्, अलक्षणवाक्यत्व- स्योपाधित्वाञ्च। नापि वेदान्तवाक्यजन्यप्रमा, सप्रकारिका, विचारजन्यत्वात्, संशयनिवर्तकत्वाद्वा, कर्मकाण्डजन्यज्ञानवत्, वेदान्तजन्या प्रमा, ब्रह्मप्रकारविषया, ब्रह्मधर्मिकसंशयविरोघित्वात् ब्रह्म- विचारजन्यत्वाद्वा, यदेवं तदेवम्, यथा कर्मकाण्डजन्यो निश्चय इति प्रतिसाधनमस्त्विति- वाच्यम्; तव मते ज्ञानमात्रस्य सप्रकारकत्वेन विचारजन्यत्वसंशय विरोधित्वयोर्व्यर्थत्वात्, अप्रयो- जकत्वात्, निष्प्रकारकज्ञानादपि संशयादिनिवृत्तिसंभवात्, लक्षणवाक्याजन्यत्वस्योपाधित्वाञ्च। अतएव-द्वितीयानुमानमपि-अपास्तम्; ब्रह्मनिष्ठप्रकारविषयत्वसाधने दृष्टान्ताभावाच्च।सर्वेषु च प्रतिसाधनेषु प्रश्नोत्तरयोः वैयधिकरण्यापत्तिः प्रतिकृलतर्कोऽवसेयः। ननु-दष्टन्ते साध्यवैकल्यम्, तथाहि-प्रकृप्टप्रकाशादिवाक्यं न तावदभिधया अखण्डार्थनिष्टम्; प्रकृष्टादिपदस्याखण्डे अभिधाया अभावात्, त्वयानङ्गीकाराज्च, नापि लक्षणया; प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य वा चन्द्रे अन्वयोपपत्तेः अन्वयानुपपत्तिरूपलक्षणाबीजाभावादिति-चेन्न; 'य्ीप्रवेशये'त्याोके 'तरसमयाः पुरोडाशा भवन्ती त्यादी वेदे च यथाश्रुतान्वयसंभवेऽपि यथा तात्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषेषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाSSश्रिता, तथैवेह तात्पर्यविषयीभूतान्वयानुपपत्ति- निमित्तया लक्षणया अखण्डार्थपरत्वोपपत्तेः, कश्चन्द्र इति चन्द्रस्वरूपे पृष्टे तन्मात्रपरस्यैवोत्तरस्यो-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। णवाक्येऽपि सत्वादबाध्यविपयकत्वं त्यक्त्वा अबाध्यपरत्वमुक्तम्। अप्रमाणवाक्ये चाबाध्यपदार्थस्य तात्पर्याविषय- त्वात्तबुदासः। अलक्षणवाक्यत्वस्येति। लक्षणवाक्यानां सर्वेपां संदिग्धसाध्यकतया पक्षत्वेन तद्विस्नेष्वेव साध्य- व्यापकत्वनिश्चय इति भावः। नच-साध्याभावं प्रति उपाध्यभावस्य व्याप्यत्वाग्रहणान्नायमुपाधिरिति-वाच्यम्; पक्षे लक्षणवाक्यत्वस्य निश्चयसत्वेन संसर्गपरत्वरूपव्यापकसंदेहस्य व्याप्तिग्रहविरोधित्वात्, अङ्करादौ निश्चिसकार्य- त्वादिहेती सकर्तृकत्वसंदेहवत् प्रकृतेऽपि प्रश्नोत्तरवैयधिकरण्यापश्यादितर्कसत्वाच्च। व्यर्थत्वात् असाघकत्वात्। विचाराजन्यादिज्ञाने सप्रकारकत्वे यत् साधकं तत्तात्पर्यग्राहकमानादिकं, तदेव विचारजन्यादिज्ञानेऽपि तत्साधकमिति भावः। अथवा विचारजन्यत्वं विचारजन्यतावच्छेदकीभूतं विचारसमानविषयकनिश्चयत्वमेव। संशयविरोधितापि तद्वच्छेदकं तत्समानविपयकनिश्चयत्वम्। निश्चयत्वं च विरुद्धाविषयकज्ञानत्वमिति ज्ञानत्वान्यभागो व्यर्थविशेषणमिति भावः। नच-सप्रकारकनिश्चयत्वस्य साध्यत्वात् ज्ञानत्वमात्रस्य तत्र व्यभिचारित्वेन नेतरवैयर्थ्यमिति-वाच्यम्; उक्तजन्यताविरोधित्वयोरवच्छेदकं हि सम्रकारकत्वघटितं न वा । आद्ये तयोरवच्छेदकघटितत्वेन स्वरूपासिद्धिः, द्वितीये सप्रकारकत्वं विनापि तयोरुपपत्तिस्त्वयापि स्वीकृतैव। अथ जन्यताप्रतिबन्धकत्वयोः सप्रकारकत्वाव- च्छिन्नत्वेऽपि न तद्द्रटितत्वम्, जन्यताजनक्त्वयोः अखण्डत्वस्वीकारान, तथापि वस्तुगत्या तदवच्छिसयोस्तयोः पक्षे असिद्धिरेव । तयोर्वस्तुगत्या तदनवच्छिन्नत्वस्वीकारे तूक्तसाध्यं विनापि हेतूपपत्तिसंभवादिति विवेचितमनुपद- मेतत्। अतएव व्यर्थत्वाप्रयोजकत्वाभ्यामेव। दृष्टान्ताभावादिति। नच-'यो यो यद्धर्मिकसंशयविरोधी, स तब्निष्टप्रकारकविषयक' इत्यादिसामान्यव्यात्तौ निश्चयो दृष्टान्त इति-वाच्यम्; त्वन्मते संशयत्वनिश्चयत्वादेः प्रकारविशेषादिघटितत्वनियतत्वेन पक्षदृष्टान्तसाधारण्याभावेन पक्षविषयकसंशयादिनिर्देशे साधनवैकल्यात्, टष्टा- न्तविपयकतन्निवेशे स्वरूपासिद्धेः। तात्पर्यविषयीभूतान्वयानुपपत्त्येति। भोजनप्रस्तावादिना यष्टिधरकर्म- त्वान्वितप्रवेशन्यायेन सवनीययागान्विततरसे गृहीततात्पर्यविषयत्वस्यानुपपश्येत्यर्थः। न्यायस्तूच्यते, तृतीयाम्त्या- धिकरणे स्थितं-'शाक्यानामयनं नाम सत्रं पटत्रिंशदाब्दिकम्। तत्र श्रूयते-'संस्थिते अहनि ग्रहपतिर्मृगयां याति स यान्मृगान् हन्ति तेपां तरसाः सवनीयाः पुरोडाशा' इति। तत्र तरसशब्दितं मांसं विधीयमानं सर्वपुरोडाशका- र्यार्थमुत धानादिरूपस्य सवनीयहविःपञ्चकस्य कार्यार्थमिति संशये विधिप्रत्यासन्नत्वात् पुरोडाशशद्दितं पुरोडाशका र्यमुद्दिश्य मांसविधिः, सवनीया इति न विवक्षितम्; उद्देश्यविशेषणत्वात्, किंतु सृष्टिशब्द इव लिङ्समवायन्या- येन सवनीयासवनीयपुरोडाशानुवाद इति प्राप्ते त्रूम :- विधेयतरसप्रत्यासत्तर्मुख्यत्वाच्च सवनीयशब्दो विवक्षितार्थ एव। अन्यथा सवनीयपदस्य सवनीयासवनीयपुरोडाश इव पुरोडाशपदस्यापि पुरोडाशकार्ये लक्षणेति लक्षणाद्वयं स्यात्। तस्मात् सवनीयपदस्य मुख्यार्थान् यागविशेषानुद्दिश्य तदीयधानादिहविर्बाधेन तरसं विधीयते। तादृशान्व- यस्य तात्पर्यविषयत्वानुरोधेन पुरोडाशधानादिहविःसंबन्धित्वेन रूपेण सवनीया एव लक्षणया पुरोडाशपदेनानूथन्ते। तथाच पुरोडाशादिपद्मेवो द्वेश्यविशेषणतवाद्विवक्षितार्थमिति। सवनीयहविर्मात्े पुरोडाशधानादिह विष्कसवनी-
Page 362
६८० अद्वैतसिद्धिः । [परिच्छेद: २]
चितत्वात्। नतु-चन्द्रस्वरूपस्य जातत्वे तत्र प्रश्नो न युज्यते; अज्ञातत्वे धर्मिज्ञानसाध्यबुभुत्सासंवे- हयोश्न्द्र इत्यनूद् क इति प्रश्नस्थचन्द्रशब्दस्यार्थव त्त्वाश्ानेनाप्रातिपदिकतया तदुत्तरसुष्विभक्तेश्रा- युक्तत्वप्रसङ्गात्, चन्द्रस्वरूपे ज्ञातेऽपि तस्यासक्कीण स्वरूपं न श्ञातमिति न युक्तम्; तस्मिन् रूपद्व- याभावात्, असक्कीर्णत्वेन न शातमिति चेत्, असक्कीर्णत्वप्रकारकप्रतीतिपरत्वं पर्यवसितम्, तञ्ञ व्यावर्तकवैशिष्ट्यं वा व्यावृत्तिवैशिशं वा, उभयथाप्यखण्डार्थत्वभङ्ग इति-चेन्न; भावानवबो- धात्। तथाहि-चन्द्रस्वरूपस्य ज्ातत्वाभ्युपगमादेव तदज्ातत्वनिबन्धनदोषानवकाशः। झातत्वेऽपि च विपर्ययविरोधिज्ञानानुदयदशायां तदुद्यार्थ प्रश्नो युज्यत एव; अन्यथा सर्वत्र प्रश्नमात्रोच्छेदा- पत्तेः। अथानभ्यासदशापननं ज्ञानं न विपर्ययविरोधि: प्रकृतेऽपि समम्, विषयतुल्यत्वेऽपि ज्ञानविशे षस्येव विपर्ययनिवर्तकत्वस्य सर्वतन्त्रसिद्धान्तत्वात्। 'शङ्ग: श्वेतो न पीत' इत्यादिपरोक्षज्ञाने भासते यादृशं श्वैत्यस्वरूपं पीताभावस्वरूपं वा, तादृशमेवापरोक्षज्ञानविषयतादशायां विपर्ययविरोधीति विपर्ययविरोधिफ लोपहितमेवासङ्गीर्णमित्युच्यते। फलोपधानतदभावौ च दोष विशेषतदभावयोर्वैप रीत्येनेत्यन्यदेतत्। तथाच एकमेव स्वरूपं दशाविशेषभेदेन संकीर्णमसंकीणं चेति संकीर्णतादशायां युगपत् ज्ञानाज्ञानयोरुपपत्तिः। अतपव-व्यावृत्तिवैशिष्ट्यं व्यावर्तकवैशिष्ट्यं वा असंकीर्णत्वमिति -अपास्तम्; 'शङ्: श्वेतो न पीत' इत्यत्रोभयसन्भावेऽपि विपर्ययाविरोधित्वरूपसंकीर्णताया दर्शनात्। 'यद्यपि यश्चन्द्रः तत्र चन्द्रत्वं तमोनक्षत्रादिव्यावृत्तिश्चास्तीति मया ज्ञायत एव; तथापि चन्द्रस्वरूपं परं न ज्ञायत' इत्यनुभवेन व्यावर्तकव्यावृत्तिवैशिष्ट्यस्याजिज्ञासितत्वेन जिज्ञासितं चन्द्रस्वरूपमेव विपर्ययविरोधिज्ञानविशषं जनयता 'प्रकृष्टप्रकाशश्चन्द्र'इति वाक्येन बोध्यत इति किमनुपपन्नम् ? व्यावृत्ते: शाब्दबोधफलत्वेऽपि तदविषयत्वान्नाखण्डार्थत्वव्याघातः; तद्वोधकपदा- भावाच्च। अथ लक्षणया व्यावृत्ते: शाब्दबोधे भानम्, नः वैयर्थ्यात्तत्र तात्पर्याभावेन लक्षणाया अयोगात्। तथाहि-चन्द्रे व्यावृत्तिर्वाध्यते व्याक्तिविशेषे वा, नाद्ः, 'या शुक्ति: सा रजतादि भिन्ने'ति ज्ञानेSपि शुक्तिस्वरूपाज्ञानतत्कार्यविपर्ययदर्शनवत् 'यश्चन्द्रःः स तमआदिविलक्षण इति ज्ञानेऽपि चन्द्रस्वरूपाज्ञानतत्कार्यविपर्ययादिदर्शनात्। द्वितीये त्वावश्यकत्वाद्यक्तिविशेष एव बोध्यताम्, किं व्यावृत्त्या शब्दानुपस्थितया? व्यक्तिविशेषवोधादेव तत्सिद्धेः। न हि 'धूमोऽस्ती'- ति वाक्ये वहनो लक्षणा। अत एव-विनव लक्षणां व्यावृत्ति: शाब्दवोधे भासते, 'घटेन जलमाहरे'- त्यत्र छिद्रेतरत्ववदिति-निरस्तम; छिद्रेतरत्वस्यानन्यलभ्यत्वेन शब्दतात्पर्यविषयत्वेऽपि न व्यावृत्तेस्तथात्वम्; हानोपादानादिवत् फलत्वेनान्यलभ्यत्वात्। छिद्रेतरत्वमपि लक्षणां विना न शाब्दबोधविषयः; अन्यथा लक्षणोच्छेदापत्तेः, किंतु शाब्दवोधविषये जलाहरणसाधने वस्तुग- त्याऽस्तीत्यन्यत्न विस्तरः। अतएवोक्तमाकरे-'अन्यतो व्यावृत्तिरर्थात् न शब्दा'दिति। नच कश्चन्द्र
गौडब्रह्मानन्दी (लघुचन्द्रिका)। यमात्रे। विषयीभूतान्वयानुपपत्तीति। विषयीभूतस्यान्वयो यस्यां तादृशानुपपत्तीत्यर्थः । विपर्ययविरोधिज्ञा- नेति। 'चन्द्रः प्रकृष्टप्रकाशो ने' त्यादिधीविरोधि यत् प्रकृष्टप्रकाशत्ववेशिष्ठ्यधी द्वारकमुक्तप्रकाशत्वोपलक्षितस्वरूप- ज्ञानं तदित्यर्थः । ननु विपयाभेंद पूर्वोत्तरज्ञानयोरविरोधित्वरूपवचित्र्यमनुपपन्नम्, तत्राह-अन्यथेति । प्रश्नमात्रेति। उत्तरवाक्यसमानविपयकाप्रामाण्यशङ्गास्कृन्दितज्ञानपूर्वकप्रश्नमान्नेत्यर्थः। अनभ्यासदशापन्नम् अप्रामाण्यशङ्कास्पदम्। ज्ञानविशेषस्य आप्रामाण्यशङ्काशून्यस्य। वैपरीत्येन व्युक्क्रमेण पित्तादिरूपे दोपे दृष्टे सति फलानुपधानं, तदभावे सति फलोपधानमित्यर्थः। यत्तु प्रक्षोत्तरयोरसङ्कीर्णस्वरूपं विषय इति न युक्तम् ; विपर्यय- विरोधिफलोपहितरूपस्य तत्वेनोक्तफलस्य तदविपयत्वादिति, तन्न शोभते; फलस्योपाधित्वेन तत्र तद्विपयत्वस्य केना- प्यनुक्तत्वात्। फलत्वे फलिभूतधीविपयत्वे। चन्द्रे चन्द्रत्वादिविशिष्टे। शुक्तिस्वरूपाज्ञानेति। इदं रजतादिभि- अत्येन न जानामीत्यज्ञानेत्यथः । चन्द्रस्वरूपाज्ानेति । 'इदं तमआदिभिन्नत्वेन न जानामी'त्यज्ञानेत्यर्थः । वह्नौ लक्षणेति। साक्षात् परंपरया वा लक्षणां विनापि योऽर्थः सिध्यति, तद्वोघार्थ लक्षणाया अन्या- य्यत्वात्। व्यक्तं चेदं शब्दमण्यादाविति शेषः। अर्थादिति । अखण्डस्वरूपलक्षणस्य व्यावृत्तेश्र पक्षादन्य- त्राज्ञातत्वेनान्वयव्याप्त्यग्रहणेन व्यतिरेकव्याप्तिज्ञानरूपार्थापत्तित एव व्यावृत्तिधीरिति भावः। पदार्थाधीनत्वे स्वरूपे प्रकृष्टप्रकाशादितावत्पदार्थवैशिष्ठ्यधीद्वारकत्वे। इतरव्यावृत्तिफलकत्वेन प्रकृष्टप्रकाशेतरनक्षत्रादितादा- रम्यधीनिवृसिंफलकरवेन। तावत्पदाज्ञानात् नक्षत्रादितादारगज्ञानानिवृत्तिः सर्वानुभवसिद्धेत्याह-अन्यथेति।
Page 363
[सत्या० अखण्डार्थत्वोपपत्ति:] ६८१
इति धर्मप्रभ्नोऽयम्; कश्चन्द्रधर्म इति स्वाधीने शब्दप्रयोगे निष्पयोजनलक्षणाया अन्याय्यत्वात्, तद्वोधने Sप्यखण्डार्थत्व स्योपपादितत्वाच्च। ननु-सर्वलक्षणवाक्यानां वस्तुगत्या परस्परमिन्नतत्त त्प्रातिपदिकार्थमात्रविषयज्ञानजनकत्वेन सप्रकारकज्ञानजनकत्वाभावात् प्रश्नवाक्यस्थं विशेष्यमा- त्रसमर्पकं चन्द्रादिपदमेव प्रयोक्तव्यमुत्तरवादिना, किं प्रकृष्टप्रकाशादिपदेनेति-चेन्न; स्वरूपमात्रस्य ज्षेयत्वेऽपि स्वरूपश्ञानस्य तावत्पदार्थाघीनत्वे सत्येव तावत्पदार्थेतरव्यावृत्तिफलत्वेन सर्वपदानां स- फलत्वात्, अन्यथा संशयाद्यनुवृत्तेरनुभवसिद्धत्वात्। ननु-उत्तरस्य प्रकृष्टत्वादिविशिष्टबोधपरत्वा- भावे तात्पर्यतो यःकश्वचिच्चन्द्र इत्येवावबोधनाद्वस्तुतो यस्य कस्यापि चन्द्रत्वं स्यात्, तात्पर्यविषये चायं चन्द्र इति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावेन चन्द्रवुभुत्साया अनिवृत्तिः, कश्चन्द्र इति प्रश्नस्यो- त्तरं च न स्यादिति-चेन्न; यथा गङ्गासंबन्धित्वविशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासंबन्धेव तीरं गङ्गापदेन लक्ष्यते, यथा वा 'वीहीन् प्रोक्षवी'त्यादौ व्रीह्या दिस्वरूपे प्रोक्षणा दिविधानवैयर्थ्याक्गीहि- भिर्यजेतेत्यादिवाक्य सिद्धापूर्वसंबन्धित्वलक्षणायामपि वस्तुगत्या व्रीहित्वाद्याश्रयीभूता एव व्यक्तयो व्रीह्यादिपदैर्लक्ष्यन्ते, तथा प्रकृतेऽपि प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या स्वाश्रयीभूतैव व्यक्तिर्लक्ष्यते,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। लक्ष्यत इति। लक्षणया बोध्यते। गङ्गासंबन्धिन एव लक्ष्यत्वेन ज्ञातत्वात्तदेव लक्षणया बोध्यत इति भावः । वैयर्थ्यादिति। ब्ीह्यादिस्वरूपस्य प्रोक्षणाद्यसाध्यत्वेन तत्साध्यकभावनायां साधनतवेन प्रोक्षणादिविधानं व्यर्थम्। भावनाभाव्यं प्रति साधनत्वपर्यवसानार्थ हि भावनां प्रति साधनत्वेन विधिरिति भावः । वैयर्थ्यादपूर्वसंबन्धित्वल- क्षणायामिति योजना । ीहीणामपूर्वसंबन्धित्वे मानमाह-व्रीहिभिर्यजेतेत्यादिवाक्यसिद्धेति। यागस्वरूपे अनर्थकत्वादुक्तवाक्येनाप्यपूर्वसाधनयागमुद्दिश्य ब्रीहिविधानाद्यागद्वारा अपूर्वसंबन्धित्वं लभ्यते। तथाचापूर्वस्य प्रोक्ष- णादिशून्यव्रीहिप्रयोज्ययागेन सिद्धो मानाभावेनापूर्वसंबन्धित्वविशिष्टसुद्दिश्य प्रोक्षणादिसाधनकभावनाविधिर्न व्यर्थ इति भावः। वस्तुगत्या व्रीहित्वादीति। प्रदेयनिप्पादकतत्तत्क्रियाद्वारकस्यापूर्वप्रयोजकत्वस्य लक्ष्यतावच्छेदक- रात् व्रीहीणामेव तद्वत्वेन लक्ष्यतेति भावः। प्रोक्षणावघातादीनां व्रीहित्वादिविशिष्टसुद्दिश्य विधानम्, अपूर्वसाध- नत्वविशिष्टमुद्दिश्य वा। आद्ये श्यामाकचर्वादौ व्रीहित्वाद्यभावात् प्रयोजकाभावेन प्रोक्षणादिलोप:, द्वितीये तु श्यामाकादीनामप्यपूर्वसाधानत्वात् प्रोक्षणादीनामूहः । यद्यपि हि प्रकृती यस्य यत्संबन्धः श्रुतः, तस्य विकृता- वन्यथाभावेन तत्संबन्धज्ञानमूहः; तथापि प्राकृतापूर्वीययाद्दशोपकारविशिष्टोद्देशेन प्रकृतौ यद्विहितं वैकृतापूर्वीयता- रशोपकारविशिष्टोद्देशे सत्येव स सिद्धति। अन्यथा अग्न्यादिपद्युक्तस्यैव मन्रस्यादष्टादिप्रयोजनविशिष्टसूर्यादि देवतो- द्देशेनातिदेशे सौर्यादौ सूर्यादिपदस्यानयादिपदस्थाने 'अपये त्वा जुष्ट निर्वपामी'त्यादिमश्रेपूहो न स्यात्। वैकृतापूर्वीय- प्राकृतोपकार विशिष्टोद्देशेनाति देशे तु प्रकाश्यत्वरूपप्राकृतोपकारविशिष्टसूर्यादिदेव ताया अयादिपदेन साधयितुमशक्य त्वादग्न्यादिपदस्थाने सूर्यादिपदोहसिद्धिः। अतएवोपकारपृष्टभावेनैव पदार्थानामतिदेश इति दशमे वक्ष्यते। तस्मात् प्राकृतापूर्वीययादृशयादृटशोपकारः येन येन साधितः वैकृतापूर्वीयतादृशतादृशमुपकारं तेन तेन साधयेदित्येवंरूप एवा- तिदेश ऊहप्रयोजकः। तत्रारादुपकारकप्रयाजादिस्थलेऽपि यद्यप्युद्देश्यसमभिव्याहारो नास्ति; तथापि प्रकरणेन यागाङ्ग तयैव तद्विधानाद्यागत्वमेव तत्रोद्वेश्यतावच्छेदकम्। तथाच प्रयाजादीनां सर्वयागार्थत्वमेव। अथवा-अनुवादस्य सति संभवे सब्निहितगामित्वेनाभेयत्वादिनैवोद्देश्यता, नत्वपूर्वघटितरूपेण; तादृशलक्षणायां मानाभावात्। प्रधानापूर्वार्थतव- स्याविशेषेणाम्ेयादेरिव प्रयाजादेरपि प्रधानत्वापत्तेः । नचैवमुक्ताङ्गानामतिदेशोच्छेदः; अपूर्वविशेषार्थत्व इवाभेयाथर्थ- त्वेऽपि तद्दर्कुर्यादित्यतिदेशेनाझ्नेयादिस्थानापसे सौर्यादावतिदेशोपपत्तेः। एवंच 'ब्रीहीन् प्रोक्षती'त्यादौ व्रीहित्वादिनैवो- द्वेश्यसंबन्धात् सुतरां व्रीहित्वादिविशिष्टोद्देशेन प्रोक्षणादिविधिः । यद्यपि ब्रीह्यादिस्वरूपस्य प्रोक्षणाद्यसाध्यता; तथापि प्रोक्षणादिविशिष्टव्रीहीणामेव कल्पितवाक्यान्तरेणापूर्वार्थत्वं कल्प्यताम्, नतु ब्रीह्यादिपदेष्वेवापूर्वसाधनलक्षणा; निषा- दस्थपत्यधिकरणविरोधापत्तेः । अथवोपस्थितत्वाल्लाघवाच्च विजातीययागसाधनव्रीहित्वादिकमेव लक्ष्यतावच्छेदकम्, नत्वपूर्वसाधनत्वम्। नच विजातीययागे प्रोक्षणादिभिन्ना सामग्री कृपा, येन तत्रापि तदसाधनत्वमाशक्कयेतेति प्राप्ते, विजातीययागसाधनत्वेन उद्देश्यतास्वीकारेऽपि व्रीहित्वादिकं नोद्देश्यतावच्छेदके निविशते। तत्र युक्तेर्वक्ष्यमाणतवादिति इयामाकादिप्वपि प्रोक्षणादिकं सिध्यत्येव, परं तु विजातीययागसाधनत्वेन नोद्देश्यता संभवति; प्रोक्षणादिकं विनापि देवतोद्देशेन द्रव्यत्यागरूपस्य यागसामान्यस्योत्पत्या सामान्यस्य विशेषात्मकत्वमन्तरेणापर्यवसाने नाभ्नेयादिरूपविजा- तीयत्वस्य तत्रावश्यकत्वात्, विशेषान्तरत्वस्य तत्राभावात्। तथाच त्रीह्यादिस्वरूपस्येव विजातीययागसाधनत्वविशि- ष्टस्वरूपस्यापि प्रोक्षणाद्यसाध्यतवेन तदुद्देशेन विध्यानर्थक्यादपूर्वसाधनत्वेनैव प्रोक्षणादिविद्युद्देश्यता। एवं प्रयाजा- अ. सि. ८६
Page 364
६८२ अद्वैतसिद्धिः । [परिच्छेद: २]
नतु या काचिदिति विशिष्टतात्पर्याभावेऽपि न पूर्वोक्तदोषः। अयं चन्द्र इति लक्ष्यलक्षणभावाभावे- 5पि तदुभयप्रतिपादकपदाभ्यामुपस्थितस्यैकस्वरूपस्यैव उद्देश्यविधेयभावसंभवेन बुभुत्सानिवृत्तेरु- त्तरत्वस्य च संभवात् । निष्प्रकारकस्यापि ज्ञानस्य संशयादिनिवर्तकत्वं प्रागुपपादितमेव। तदेतभनि- ष्कृष्टम्-प्रश्नोत्तरे तावत् चन्द्रप्रातिपदिकार्थमात्रविषये, चन्द्रप्रातिपदिकार्थश्च प्रकृष्टप्रकाशाश्रयीभू- तासाधारणी विशेष्यभूता व्यक्तिः, न तु प्रकृष्टप्रकाशविशिष्टा; प्रकृष्टप्रकाशश्चन्द्र इति सहप्रयोगातु- पपत्तेः, विशेष्यव्यक्तिश्चाखण्डेत्यखण्डार्थतैव। ननु-गामानयेत्यत्र गामुद्दिश्यानयनविधानात् यथा गोत्वस्य उद्देश्यतावच्छेदकत्वादानयनेनानन्वयेऽपि प्रकारत्वं, तथा प्रकृतेऽपि प्रकृष्टप्रकाशस्य चन्द्र- प्रातिपदिकार्थत्वेनानन्वयेSप्युद्देश्यतावच्छेदकत्वात् प्रकारत्वं दुर्वारम्, न हि गामानयेत्यत्र गोत्वं
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दिविध्युद्देश्यताप्यपूर्वसाधनत्वेनैव। अपूर्वप्रयोजकयोग्यतायाः प्रधाने जनकत्वेन न प्रयाजादीनां प्रधानत्वाद्यापत्तिः । यत्तु व्रीहित्वादिनैव प्रोक्षणादिविधेरुद्देश्यता, तदानर्थक्यवारणाय तु पश्चात्म्रोक्षणादिमद्गीहित्वादेरपूर्वार्थतवं कल्पितवा- क्येनेत्युक्तं; तन्न; व्रीहित्वादिविशिष्टकर्मकभावनायां प्रोक्षणादिसाधनस्यायोग्यतानिश्चयेन शाब्दबोधासंभवेन निषाद- स्थपतिन्यायानवतारात्। तस्मादपूर्वसाधनत्वस्य श्यामाकादावपि सत्वात् प्रकृतिवत्कुर्यादिति शब्देन प्रकृतिसंबन्धि- यज्जातीयार्थं यज्जतीयं श्रुतं विकृतिसंबन्धितज्ातीयार्थ तज्जातीयं कुर्यादिति बोधनात् विकृत्यपूर्वसाधनश्यामाकादर्य प्रोक्षणाद्यनुष्ठानसिद्धिः । अथापूर्वप्रयोजकत्वरूपापूर्वसाधनत्वघटकानां यागत्वादीनां निवेश आवश्यक :; अपूर्वादिकं प्रत्यनन्यथासिद्धनियतपूर्ववृत्तितावच्छेदकरूपेण यागा दिनिष्ठापूर्वादिसाधनत्वेन तस्य घटितत्वात्। तथाचापूर्वसाधनया- गसाधनप्रदेयद्रव्यसाधनावघातादिसाध नोलखलमुसलोद्देशेन विहितं प्राकृतं प्रोक्षणम्। नैवारश्चरुर्नखावपूतानामिति विहितचरौ नखेपूलखलादिस्थानीयेप्ववघातत्वविशिष्टाभावान्न प्रोक्षणादिसिद्धिरिति प्राप्ते साधनत्वस्य शक्तिविशेपरू- पत्वेनाखण्डत्वादवच्छेदकाघटितत्वात् साधनतावच्छेदकस्य यागत्वव्रीहित्वावघातत्वादेरनापूर्वप्रयोजकत्वशरीरे नि- वेशः; गौरवात्, तत्तत्साधनताश्रयत्वेन निवेशेऽप्यनतिप्रसङ्गाच्च। तस्मादपूर्वसाधानताविशेषाश्रयनिरूपितसाधनता- विशेषाश्रयत्वादेरुद्देश्यतावच्छेदकस्य नखादिप्ववघाताद्यभावेऽपि वैतुष्यसाधनक्रियासाधनत्वेनान्वयात्तेपु प्रोक्षणादि- सिद्धिः। अथ व्रीहीम्प्रोक्षतीत्यादो यागत्वावघातत्वादेरश्रुतस्यानिवेशेऽपि श्रुतस्य व्रीहित्वादेस्त्यागे मानाभावः, युग- पदटत्तिद्वयस्य विरुद्धत्वेऽप्यपूर्वप्रयोजकवीहित्वादिनैव लक्षणासंभवः, तथाच श्यामाकादौ वीहित्वाद्यभावात् न प्रोक्ष- णादिसिद्धिरिति प्राप्ते व्रीहित्वादिनिवेशं विनैव तत्तत्साधनताविशेपनिवेशेऽनतिप्रसङ्गात व्ीह्यादिनिष्टसाधनताविशेपला- भार्थमेव व्रीह्यादिपदोपादानात्तन्निवेशे मानाभावः। यद्यपि व्ीहियवनिष्टयोः साधनत्वयोर्गुणान्जेदः; तथाप्यपूर्वप्रयो- जकताविशेषाश्रयप्रदेयनिरूपिता या तत्तव्यापारनिष्ठसाधनताघटिता प्रयोजकता, तत्वेनोद्देश्यतावच्छेदकत्वाद्यवेष्वपि प्रोक्षणविधिलाभ इति द्रव्यसङ्गयेत्याद्यधिकरणेपु नवमप्रथमे स्थितम्। लक्ष्यलक्षणभावाभावेऽपीति। विशेषण- विशेष्यभावरूपो यः पराभिमतो लक्षणवाक्याधीनो लक्ष्यलक्षणधर्मस्तदभावेऽपीत्यर्थः । तदुभयप्रतिपादकप- दाभ्यां चन्द्रत्वविशिष्टस्य प्रकृष्टप्रकाशत्वविशिष्टस्य च प्रतिपादकपदाभ्याम्। एकस्वरूपस्येति। कश्चन्द्र इति प्रश्रस्य प्रकृष्टप्रकाश इत्येवोत्तरम्; प्रश्नवाक्यस्थचन्द्रादिपदानुपङ्गेणैवोत्तरवाक्यार्थबोधस्य व्युत्पततिसिद्धत्वात्। अनुपक्तस्यापि चन्द्रादिपदस्य प्रश्नवाक्यस्थचन्द्रादिपदसमानविपयकत्वम्; तथव व्युत्पत्तेः । तथाच परमते चन्द्र स्वादिविशिष्टस्येव मन्मते शुद्धचन्द्रव्यक्तेः प्रश्नविपयत्वादुत्तरवाक्येपि विषयत्वम्। तस्य च पूर्वज्ञातस्वनिष्ठविषयतात्वे- नोद्देश्यतात्वमिवाज्ञान निवर्तकतावच्छेदकविषयतात्वेन विधेयतात्वमपि युक्तम्। नहि विशेष्य तात्वमुद्देश्यतात्वव्या- पकम्; पृथिव्यां गन्ध इत्यादौ पृथिव्यादिविपयतायां व्यभिचारात। नचोद्देश्यतात्वं विधेयतानिरूपितत्वव्याप्यम्; विषयतानां निरूप्यनिरूपकभावस्य सांसर्गिकविषयताशालिज्ञानस्थल एव सर्वसंमतत्वेनाखण्डबोधस्थले तद्भावेऽप्यु- कलक्षणोद्वेश्यतात्वस्या पह्नोतुमशक्यत्वादिति भावः। वुभुत्सानिवृत्तेरुत्तरत्वस्य चेति । बुभुत्सा तावत् स्वविषय- बोधेनैव निव्त्या। सा च प्रकृते शुद्ध एवेति स एव निवर्तकः । तज्नकत्वादेव च वाक्यमुक्त्तमिति भावः। आश्रयी- भूता उपलक्षिता। ननु प्रकृष्टप्रकाशश्रन्द्र इत्यादौ चन्द्र इत्यस्य प्रकृष्टप्रकाशविशिष्टाथेकतवे सहप्रयोगानुपपत्तेरखण्डार्थ- कत्वमुक्तं, तद्युक्तम ; चन्द्र इत्यस्य चन्द्रप्रातिपदिकवाच्यार्थकत्वसंभवेन सहप्नयोगोपपत्तेरखण्डार्थकतवे मानाभावादिति शङ्कते-ननु गामानयेत्यादि।आनयनविधानात् आनयनकर्मत्वविधानात् कर्मत्वस्य प्रत्ययार्थत्वेन विशेष्यतवेऽपि विधेयतवं गुणानां गुणत्वाभिसंबन्ध इत्यादावभिसंबन्धस्येव बोध्यम्। उद्देश्यतावच्छेदकत्वादिति। आनयनकर्म- स्वान्वितगोव्यक्ती प्रकारत्वात्। आनयनेन आनयनकर्मत्वेन। प्रकृष्टप्रकाशस्येति। विधेयेनेति शेषः । प्राति- पदिकार्थत्वेनेति। चन्द्रप्रातिपदिकार्थस्य तादारम्येन विधेयत्वेऽपि तदर्थत्वस्यापि तच्छरीरप्रवेशेन विधेयतवोकि:।
Page 365
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६८३
विनाऽन्वय इति-चेन्न; प्रातिपदिकार्थतावच्छेद कत्वस्य पातिपदिकार्थत्वनियतत्वेनाप्रातिपदिकार्थे- तद्वच्छेदकत्वस्य वक्कुमशक्यत्वात्। तथाच प्रकृष्टप्रकाशस्य प्रातिपदिकार्थतावच्छेदकत्वे प्रातिप- दिकार्थत्वं दुर्वारमेव। ननु-पृथिवीत्ववती पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथिवीप्रातिपदि- कार्थत्वेन नानन्वयः; पृथिवीत्वस्य पृथिवीप्रातिपदिकार्थत्वात्, सहप्रयोगस्तु पृथिवीशब्दस्य तद्यव हर्तव्यतापरतयेति तत्र व्यमिचार इति-चेत्, न; पृथिवीशब्दार्थत्वेन पृथिवीत्वजातिविशिष्टमजानतः पृथिवीत्वपदेन जातेरुपस्थित्यभावात् अनन्वय एव स्यादिति पृथिवीत्वजातिविशिष्टे पृथिवीशब्दा- र्थत्वभ्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः। तथाच वचनवैफल्यमित्यनन्यगत्या जलादिव्यावृत्तगन्धसमा- नाधिकरणजातिमती पृथिवीत्याद्यर्थे पर्यवसितमुत्तरम्। गन्धसमानाधिकरणजातिमत्वादिकं च न
गोडघ्रह्मानन्दी (लघुचन्द्रिका) दुर्वारमिति। तथाच प्रकृष्टप्रकाशविशिष्टे चन्द्रपदार्थत्वविशिष्टमुत्तरवाक्यजन्यबुद्ौ विशेषणमिति सा नाखण्डवि- षयिकेति भावः। प्रातिपदिकार्थतावच्छेदकत्वस्य चन्द्रपरातिपदिकार्थतावच्छेदकत्वस्य । प्रातिपदिकार्थ- त्वनियतत्वेन चन्द्रपदार्थत्वव्याप्यतवेन। अप्रातिपदिकार्थे चन्द्रपदार्थभिन्ने। तदवच्छेदकत्वस्य चन्द्रपदा- र्थतावच्छेदकत्वस्य। यो यत्पदार्थतावच्छेदकः, स तत्पदार्थ इति सामान्यतो नियमः । पदानां विशिष्ट एव शक्ति :; अन्यथा शक्यान्यस्य शाब्दधीप्रकारत्वानुपपत्तेरिति भावः। दुर्वारमेवेति। ननु-चन्द्रपदार्थतावच्छेदकं चन्द्रतवं जातिरूपमेव; परंतु लक्षणवाक्यं चन्द्रपद्वाच्यत्वं प्रकृष्टप्रकाशाश्रयेऽवगाहते, नतु चन्द्रपदवाच्यतावच्छेदकर्वं प्रकृष्टप्रकाश इति-चेन्न्न; तथासति लक्षणवाक्यस्यानुवादकतापत्तेः, तेजरत्वादुपहिते चन्द्रपदवाच्यत्वस्य पूर्व ज्ञात- स्वात् प्रकृष्टप्रकाशानुपलक्षितेऽपि चन्द्रपदवाच्यत्वस्य निवारणासंभवाज्। अथ-अप्रकृष्टप्रकाशो न चन्द्रपदवाच्य हत्यत्र तात्पर्यमिति-चेन्न; पदद्वयेऽपि लक्षणापत्तेरप्रकृष्टप्रकाशस्य चन्द्रत्वस्य चन्द्रपदवाच्यत्वेन बाधाच्। तस्मात् घटो ज्ञात इत्यादौ घटत्वादेर्ज्ञाततावच्छेदकत्वमिव लक्षणवाक्ये प्रकृष्टप्रकाशादेश्रन्द्वादिपदवाच्य तावच्छेदकतवं लभ्यते; विधेयतावच्छेदके उद्देश्यतावच्छेदकावच्छिन्नत्वभानस्य व्युत्पत्तिसिद्धत्वात्। तथाच वाच्यतावच्छेदकत्वेन तस् वाच्यत्वं दुर्वारमिति तदङ्गीकारेण चन्द्रः प्रकृष्टप्रकाश इस्याविलक्षणवाक्ये नाम्नोरेकस्य वाच्यत्वविशिष्टलाक्षणिकत्वेन सहप्रयोगोपपादनापेक्षया मन्मतसिद्धशक्यैकदेशपरत्वमादाय मुख्यार्थपरत्वेन लक्षणवाक्यस्याखण्डार्थत्वमुचितमिति भाव:। ननु पृथिवीत्ववती पृथिवीत्यादिनाम्नोरेकार्थत्वस्य सर्वसंमतत्वादेकपदस्य स्ववाच्यत्वविशिष्टपरत्वेनैव सहप्रयोग उपपादनीयः । तथाच पृथिवीत्वविशिष्टे पृथिवीपदवाच्यत्वविशिष्टान्वये पृथिवीत्वे वाच्यतावच्छेदकत्वस्य न्युत्पत्तिबलाल्लाभेन वाच्यतावच्छेदकस्य वाच्यत्वनियमात् विशेषणीभूतपृथिवीत्वे वाच्यत्वविशिष्टान्वयेऽपि न क्षतिरिति लक्षणवाक्यस्याखण्डार्थत्वनियमे व्यभिचार इत्याशयेन शङ्कते-ननु पृथिवीति। ननु पृथिवीपदस्य स्ववाच्यताविशिष्टपरत्वोफ्तिरन युक्त्ता; मुख्यार्थयोरेवान्वयसंभवात्। नह्यत्र मुख्यार्थयोरन्वये वाच्ये उद्देश्यतावच्छेद- करूपेण विधेयता, येन निराकाङ्कत्वभिया मुख्यार्थस्त्यज्येत। स्वरूपतो हि पृथिवीतवं विधेयतावच्छेदकम्, पृथिवी- स्वरवेन तु उद्देश्यतावच्छेदकम्, तत्राह-सहप्रयोगस्त्विति। सहप्रयोगो हीत्यर्थः । प्रकृतेत्यादिः। तद्यवहर्त- व्यतापर: पृथिवीशब्दवाच्यतापर एव। पृथिवीत्वत्वविशिष्टरूपेणाप्युद्देश्यत्वे पृथिव्यन्वयो निराकाङ्ड एव। अत एव गुणानां गुणत्वाभिसंबन्ध इत्यत्राप्यनाकाङ्कत्वमुक्तं गुणवर्धमानादौ। अतः पृथिवीपदस्य स्ववाच्यताविशिष्टपरत्व- मावश्यकं प्रकृते इति भावः। उपस्थित्यभावादिति। पृथिवीतरावृत्तित्वादिना बोधाभावात् प्रकृत्यर्थेतरावृत्तित्वेन भावप्रत्ययबोध्यतेति व्युत्पत्तिग्रहे सत्येव भावप्रत्ययादर्थबोध इति पृथिव्याः पृथिवीप्रकृत्यर्थत्वज्ञानस्य पूर्वमनुत्पत्तौ न पृथिवीत्वपदार्थज्ञानसंभव इति भावः । इत्याद्यर्थ इति। पृथिवीत्वपदे उक्तजातित्वेन लक्षणया लभ्ये इति शेषः। न पृथिवीपदवाच्यमिति। ननु-उक्तजातित्वोपहिते पृथिवीपदवाच्यत्वमस्त्येव, उक्तजातित्वविशिष्टे तदनन्वयस्तु हष्ट एव, अन्यथा पृथिवीत्वत्वविशिष्टे तदनन्वय एव दोपत्वेन कुतो नोक्त इति-चेन्न; उक्तजातित्वस्य सत्ताद्रव्यत्वादिसाधारण्येन तदुपहितस्य तद्वाच्यत्वासंभवात्। नच-गन्धवद्न्यावृत्तिगन्धव्यापकसमवायी पृथिवीपद्- वाच्य इत्यर्थसंभवात्तादशव्यापकधर्मेऽपि वाच्यत्वान्वय इति-वाच्यम्; तादृशधर्मोपस्थित्यभावेन तदसंभवात्तादश- धर्मे घटसमवेतत्वादिविशिष्टतवादिना वाच्यतावच्छेदकतवशङ्कासंभवेन पृथिवीसामान्यस्य पृथिवीपद्वाच्यतवापर्यवसा- नाच। अथ-ताहशधर्मस्य स्वरूपतो वाच्यतावच्छेदकत्वबोधेन तथा पर्यवसानमिति-चेन्न; स्वरूपत उद्देश्यताव- च्छेदकधर्मस्थल एव तथा बोधस्य व्युतपन्नत्वात्, पदद्वयजहल्लक्षणापेक्षयाऽखण्डार्थत्वस्यैव युक्तत्वाच्चेति भावः। यसु पृथिवी पथिवीपदार्थ इत्यजानतोऽप्याप्ोपदेशेन पृथिवीतवं पृथिवीत्वपदार्थ इति धीसंभव इति, तततुच्छम्; पृथिवी- स्वपदातू पृथिवीत्वरवेन बोधो हि न समुदायशक्त्या; शक्त्यानन्त्यप्रसङ्गेन तदभावात्, किंतु इतरादिशक्तिभिः,
Page 366
६८४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
पृथिवीपदवाच्यमिति कथं नानन्वयः ! व्यवहर्तव्यतालक्षणया सहप्रयोगोपपादनं चायुक्तम्; व्यवह- र्तव्यतायां हि जहल्लक्षणा, तत्र च स्वार्थहानिः, स्वरूपे तु जहदजहलल्लक्षणा, तत्र स्वार्थान्वय इति स्वरूपे जहदजहल्लक्षणाया एवोचितत्वात्। तदुक्तं 'व्याप्तेश्च समअ्ञस'मित्यधिकरणे भाष्यकृद्ि :- 'लक्षणायामपि सन्निकर्षविप्रकर्षी भवत'इति। ओमित्येतदक्षरमुद्गीथमुपासीते'त्यन् किमोक्कारसट- शमुद्रीथमित्यर्थः, किंवोद्गीथावयवमोङ्कारमिति विवक्षायां गौण्यां वृत्तौ स्वार्थहानेरवयवलक्षणैव ज्यायसी। सन्निकृष्टत्वादिति तत्र निर्धारितम्। पतेन-धर्मिणश्चन्द्रस्य सामान्यतो ज्ञातत्वात् नक्ष- त्रादिभ्यो व्यावर्तकधर्मस्य व्यावृत्तेश्च घटादौ प्रागेव ज्ञातत्वाद्विशिष्टविषये एव प्रभोत्तरे, तत्र यदि व्यावृत्तिवैशिष्ट्यमेव प्रष्टः साक्षाद् बुभुत्सितं, तदापि तत्तद्यावृत्ते: समासहस्त्रेणापि वक्तुमशक्यतया वह्निवुभुत्सायां धूममिध व्यावर्तकधर्मवैशिष्ट्यमेवाभिधत्ते, नहि वह्निबोधार्थस्य धूमोऽस्तीति वा- कस्य न धूमे तात्पर्यम्, न वा यागाक्षेपकस्य 'यदाग्रेय' इत्यादिवाक्यस्य द्रव्यदेवतासंबन्धे। यदा तु तत्तद्यावृत्तेर्वक्तुमशक्यतामवगम्य व्यावर्तकधर्मवैशिष्ट्यमेव पृच्छति, तदा सुतरां प्रश्नोत्तरयो- र्विशिष्टपरत्वमिति-निरस्तम्; प्रथमे प्रश्नोत्तरयोवैयधिकरण्यापत्तेः, द्वितीये श्रुतार्थपरित्यागापसेः। प्रथमेऽपि श्रुतार्थपरित्यागः स्थित एव। नचानन्यगत्या श्रुतार्थपरित्यागाभ्युपगमः; गत्यन्तरस्योक्त- त्वात्। ननु-प्रश्नोत्तरयोवैयधिकरण्यापत्ते: यदि स्वरूपे लक्षणा, तदा वह्निप्रश्ने धूमोऽस्तीत्युत्तरे वहौ लक्षणास्त्विति-चेन्न;धूमोSस्तीति वाक्येनाहत्य शक्त्या लिङ्गे बोधिते तत एव वह्निबोधोपपत्ती तात्प- र्यानुपपत्तिकल्प्यलक्षणाया अयोगात्, श्रुतिलिङ्गाधिकरणन्यायेन वाक्यापेक्षया लिङ्गस्य बलवत्त्वाच्च, प्रकृते चासंकीर्ण चन्द्रस्वरूपसिद्धौ वाक्या तिरिक्तप्रमाणाभावेन वैषम्याच्च।ननु-किंलक्षणश्चन्द्र इत्य- स्यासाधारणधर्मविषयकस्य कतमश्चन्द्र इत्यस्य जातिविषयकस्यानयोः कतरश्चन्द्र इत्यस्य जातिगुण- क्रियाभिः पृथक्करणरूपनिर्धारणविषयकस्य प्रश्नस्योत्तर इवात्रापि प्रतिवचने लक्षणोक्तेः प्रश्नेऽपि प्रकृष्ट प्रकाशो अप्रकृष्टप्रकाशो वेति धर्मवाचकं पदं कल्पनीयं तत्सूचक किंशब्दप्रयोगाच्चति-चेन्न;वह्निप्रश्ने धूमोऽस्तीति प्रतिवचनदर्शनेन प्रतिवचनोक्तत्वस्य प्रष्टर्वुभुत्सितत्वेऽतन्त्रत्वात्। अथ तत्र बुभुत्सित- बोधोपयुक्तत्वात्तदुक्तिः, प्रकृतेऽपि नोपयोग इति केन तुभ्यमभ्यधायि? किंलक्षण इत्यादिप्रश्नतथात्वे तद्वाचकपद्वत्त्वस्योपाधित्वात्, क्कचिद्दर्शनमात्रस्याप्रयोजकत्वाच्च, किंशब्दस्य बुभुत्सासूचकत्वेन तस्य धर्मबुभुत्सानियतत्वाभावाच्च। एवंच प्रश्ने धर्मवाचिपदाभावात्तदनुरोधिन्युत्तरे धर्मवाचकं पदं स्वरू-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। भावप्रत्ययेनेतराद्युपस्थितौ पृथिवीपदपृथिव्योः शक्तिग्रहाधीनपृथिव्युपस्थितौ च पृथिव्यन्यासमयेतत्वस्वरूपेण बोधः। सथाच तयोः शक्तिमजानतोऽपीति कथम् ? अथ समुदायशक्तिभ्रमात्तथा संभवः, तथापि विशेषदर्शिनां तदसंभव पुव; पृथिवीपदस्य स्ववाच्यत्वविशिष्टे लक्षणामङ्गीकृत्यापि दृपितम्। सव न युक्तत्याह-व्यवहर्तव्येति। पृथिवी- पदवाच्यतेत्यर्थः। सन्निकर्षविप्रकर्षो युक्तत्वायुक्तत्वे। स्वार्थहानिरिति। 'सिहो बाल' इत्यादौ सिह्ादिपदस्य क्रूरत्वशूरत्वादिनेव ओमिति पदस्य प्राशस्त्यविशेपेण गौण्या वृत्या बोधकत्वे मुख्यार्थहानिरिति भावः। अवयव- लक्षणा उद्गीथावयवरवेन लक्षणा सन्निकृष्टत्वात् उद्गीथरूपमुख्यार्थघटितार्थधीप्रयोजकर्वात्। वैयधिकर- ण्यापत्तेः व्यावृत्तिप्रश्रस्य व्यावर्तकबोधकोत्तरस्य साक्षाद्विपययोर्भेदाद्वैयधिकरण्यमिति भावः। श्रुतार्थत्यागापत्तेः कश्नन्द्र इति प्रश्रस्य जिज्ञासितश्चन्द्र इत्यर्थकत्वेन श्रुततवाज्जिज्ञासितव्यावर्तकधर्मयुक्तश्रन्द्र इत्यर्थकरवे श्रुतार्थत्या- गापतेः । एवं प्रथमेऽपि जिज्ञासितव्यावृत्तिकश्चन्द्र इति प्रभ्ार्थो न श्रुत इति बोध्यम् । लिङ्गस्य बलवत्त्वा- दिति। यद्यपि प्रकृते लिङ्गवाक्ययोः एकविषयकत्वेन न विरोधः; तथापि वाक्यस्य लक्षणया प्रवृत्ती लिज्ज्ञाना- धीनवह्निस्मृतेरपेक्षाया आवश्यकरवेन लिङ्गलिङ्गिसंबन्धज्ञानजन्यानुमित्याकाङ्गोच्छेदेन न वाक्यप्रवृत्तिरिति प्रथमप्रवृ- स्तवेन बलवस्वं न व्याहतमिति भावः। असंकीर्णचन्द्रस्वरूपसिद्धौ विपर्ययविरोधिचन्द्रस्वरूपज्ञाने। कल्पनीय- मिति। कश्चन्द्र इति प्रभोऽसाधारणचन्द्रधर्मवैशिष्ठ्बोधकः; तादृशोत्तरकत्वात्। यो यो यद्धर्मवैशिष्वबोधकोस्तर- युक्त: प्रभः, स तन्धर्मवैशिष्ठ्यबोधकः । यथा किंलक्षणश्चन्द्र इत्यादिप्रश्न इत्यनुमेयमित्यर्थः। तत्सूचकेति। उक्त- विकल्पसूचकेत्यर्थः। अतन्न्रत्वात् अव्याप्यत्वात्। लक्षकतया अखण्डबोधोपयुक्तवैशिष्ठ्यबोधविषयतया। किंलक्षण इत्यादिप्रश्नतथात्वे किंलक्षणश्रन्द्र इत्यादिप्रश्रपदसाधारणधर्मबोधकरवानुमाने । उपाधित्वादिति। मच-किंशब्दस्योक्तविकल्पसूचकरवेन धर्मवाचकपद्वरवात् साधनव्यापक उपाधिरिति-वाच्यम्; किशन्दस्य जिज्ञा- सितचम्दस्वरूपवाचकरवेन स्वरूपविकल्पसू चकत्वेSपि धर्मविकल्पसूचकरवात्। तदिदमुक्तम्-वुभुत्सासूचकत्वे
Page 367
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६८५
पपरमेव । स्वरूपबुभुत्साया उपपादितत्वेन लक्षणाबीजाभावात् न प्रश्नवाक्यस्थं चन्द्रपदं तदसाधार- गधर्मलक्षकम्। यशु-लक्षणवाक्यं चन्द्रव्यवहारकर्तव्यतावैशिष्ट्यपरम्, अतो नाखण्डार्थता, चन्द्र- व्यवहारस्तु चन्द्रपद्विशेषितो व्यवहारः, न तु चन्द्ररूपार्थविशेषित इति तज्ज्ञानाश्ानाभ्यां वैयर्थ्यबो धनाशक्यतादोषो न भवतः। नच-वृद्धव्यवहार एव शक्तिग्राहकोऽस्तु, किं लक्षणवाक्येनेति-वा- च्यम्; उपायस्य उपायान्तरादूषकत्वात्-इति, तन्न; प्रश्नोत्तरवैयधिकरण्यापत्तेरुक्तत्वात्, प्रश्नवाक्य- स्थचन्द्रशब्दे लक्षणाबीजाभावात् असाधारणं चन्द्रस्वरूपमज्ञात्वा तत्र चन्द्रशब्दविशेषितव्यवहारवै- शिष्ट्यस्य श्ातुमशक्यत्वात् तज्ज्ञानस्यावश्यकत्वेन तेनैव वाक्यप्रामाण्योपपत्तेर्व्यवहारकर्तव्यतापर- त्वेमानाभावात्।अतएवोक्तं-'मानान्तरसिद्धं प्रकृष्टप्रकाशवैशिष्यमखण्डार्थसिद्धावुपायमात्र'मिति। अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नसमये प्रत्यक्षेणेव अन्यदापि प्रकारान्तरेणैव तस्य ज्ञातत्वात्, अन्यथा तस्यानुवाद्यत्वानुपपत्तेः, चन्द्रस्वरूपे तु ज्ञातेऽप्यसङ्कीर्णज्ञानाभावात् वुभुत्सोपपादितैवेति प्रथमानुमानमनाविलम्। द्वितीयानुमानेSपि नाप्रसिद्धविशेषणत्वबाधसत्प्रतिपक्षसाध्यवैकल्यादयो दोषाः। तथाहि-साध्यं तावत् ब्रह्मप्रातिपदिकार्थविशेष्यनिष्ठत्वम्, अन्यथा ब्रह्मपदस्य यौगिकत्वेन सखण्डार्थत्वप्रसङ्गात् । प्रकृष्टप्रकाशादिवाक्यंच प्रातिपदिकार्थविशेष्यमात्रपरं भवतीति सामा- न्यव्याप्ती दृष्टान्ते न साध्यवैकल्यमपि। ब्रह्मप्रातिपदिकार्थविशेष्यमात्रनिष्ठत्वं हि अखण्डार्थत्वमेव। तत्प्रश्नोत्तरत्वहेतुव्युत्पादनमपि पूर्वोक्तप्रकृष्टादिवाक्यन्यायेनैवेति नासिद्धिबाधौ । प्रश्नोत्तरवैय- धिकरण्यापत्तिरूपविपक्षबाधकसध्रीचीनतया सत्प्रतिपक्षाप्रयोजकत्वोपाधीनामनवकाशः। नच- सत्यादिरूपप्रतिवचने प्रश्नस्य कश्चन्द्र इतिवदश्रवणात्तदुत्तरानुसारेण प्रश्नवाक्ये कल्पनीये धर्म- विषयकमेव तत् कल्प्यते, बाधकाभावात्, तथाचासिद्धिरिति-वाच्यम्; 'ब्रह्मविदाप्नोति परं'
नकत्वात् तदतिरिक्तवुभुत्साविरहेण तद्विषयकप्रश्नवाक्यस्य कल्पयितुमशक्यत्वेन कश्चन्द्र इतीव किं ब्रह्मेत्येव वाक्यं कल्प्यत इति नासिद्धिः। ननु-कतम आत्मेत्यत्र कतरः स आत्मेत्यत्र च त्वंपदार्थ- प्रश्ने 'वा बहनां जातिपरिप्रश्ने डतमच्' 'द्योरेकस्य निर्धारणे डतरच्' इति सूत्राभ्यां निर्णीतजात्या- द्यर्थकतमादिपदप्रयोगात् तत्प्रतिवचने 'योऽयं विज्ञानमय' इत्यादी पक्षे त्वदभिमतहेतोरसिद्धिः, नच-यद्यत्प्श्नोत्तरं तत्तदखण्डार्थमिति न ब्रूमः, किंतु यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति-वाच्यम्; एवं सामान्यव्याप्त्या व्यभिचारेऽपि तद्वलादेतत् पक्षीकृत्याखण्डार्थत्वसाधनेSखण्डार्थप्रश्नोत्तरत्वा- दिति पर्यवसितहेतावसिद्धेरनुद्धारादिति-चेत्, नैष दोषः, तात्पर्यविषयस्यैवार्थत्वेन विवक्षित- त्वात्, यथाहि धर्मवाचकपदसत्त्वेऽपि उत्तरस्य न धर्मे मुख्यतस्तात्पर्य, तथा प्रश्नेऽपि तद्वाचक-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नेति। स्वरूपबुभुत्सासूचकत्वस्यापि संभवेनेति तदर्थः । तद्नुरोधिनीति । प्रश्नापेक्षया चरमतवेन प्रभबोधित- बुभुत्सानिवृत्तिं प्रति शेपत्वेन चोत्तरवाक्यं प्रश्नापेक्षया दुर्बलम्। अतएवाकाशस्तलिङ्गादित्यधिकरणे प्रभवाक्यस्थ- त्वेन लोकपदस्य प्राबल्येन तदनुसारेणाकाशादिपदं ब्रह्मार्थकमिति 'अस्य लोकस्य का गतिरिति आकाश इति होवा- चे'ति वाक्ये निर्णीतमिति भावः। उपपादितत्वेनेति। स्वरपस्य ज्ञातत्वेऽपि असक्कीर्णस्वरूपज्ञानेच्छासंभवा- दिनेत्यादिः। व्यवहारकर्तव्यता व्यवहर्तव्यता। तज्ज्ञानाज्ञानाभ्यामित्यादि। तज्ज्ञाने तम्वहारस्यापि संभ- वेन व्यवहर्तव्यताज्ञापनं व्यर्थम्; तदज्ञाने विशेषणाज्ञानेन तद्विशेषितव्यवहारज्ञापनमशक्यमित्यर्थः । लक्षणाबी- आभावात् व्यवहर्तव्यत्वलक्षणाबीजाभावात्। अन्यदा प्रकृष्टप्रकाशवैशिष्यस्येन्द्रियाससनिकर्षकाले। प्रका- रान्तरेण अनुमानादिना। चन्द्र:, प्रकृष्टप्रकाशविशिष्टः, तमोनक्षत्रादिमिन्नत्वादि'त्यनुमानेन चन्द्रस्य प्रकृष्टप्रकाश इति शष्दादिना च प्रमीयत इति भावः । अनुवाद्यत्वेति। व्यवहर्तव्यं प्रति प्रकृष्टप्रकाशादेरुद्देश्यत्वस्यावश्यं वा- ज्यत्वेनानुवाद्यस्वमावश्यकम्; ज्ञातमुद्दिश्याज्ञातं विधीयत इति स्थितेरिति भावः। सामान्यव्याप्ाविति। पूर्वोक्त- सीतिः सर्तव्या। जनकत्वात् जनकत्वावधारणात्। यन्तु तमेव विदित्वेत्यादौ तत्पदं सहस्त्रशीर्षत्वादिविशिष्टरूपप- रमित्यादि, तन्न; तत्पदस्य तह्ोघकरवेऽपि तदन्याविषयकज्ञानस्य मोक्षहेतुत्वलाभेनाखण्डार्थत्वस्थैर्यात, 'प्रपज्नोपशमः स आतमा स विज्ञेय इत्यादिना तुरीयस्य ज्ञेयतवोक्तेश्र। सामान्यव्याप्तावपि विशेषतः साध्यसिच्चर्थ विशेषतो हेतुज्ञा- नावश्यकत्वात् अखण्डमात्रनिष्ठत्वसाध्यसिध्यर्थमखण्डप्रभोत्तरत्वरूपहेतुमत्ताज्ञानस्य पक्षे वाच्यतया स्वरूपासिद्धिरि- त्याह-एवमित्यादि। तात्पर्यविषयस्य मुख्यतात्पर्यविषयस्य। विवक्षितत्वादिति। तदर्थमात्रमुख्यतात्पर्य-
Page 368
६८६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
तमादिप्रत्ययसत्त्वेऽपि न मुख्यतस्तत्परत्वम्; असाधारणात्मस्वरूपस्य मुख्यतो बुभुत्सितस्योपाय- त्वेन तदुपयोगात्, आत्मस्वरूपबोधस्यैव पुरुषार्थत्वात्। नच-सर्वस्याप्युत्तरस्य प्रश्ननिर्धारितध- र्मिनिष्ठानिर्धारितैकधर्मपरत्वाद्विरुद्धो हेतुरिति-वाच्यम्; अनिर्धारितनिर्धारणत्वेनैवोत्तरतोपपत्तौ तादग्धर्मपरत्वस्योत्तरत्वाप्रयोजकत्वेन नियमासिद्धेः। ननु-कथं स्वरूपमात्रपरस्य निर्धारकत्वम्? लक्षणवाक्यत्वादिति गृहाण। नच-एवमुत्तरजन्यज्ञानस्य निष्प्रकारकतया कथं सप्रकारकसंशय- निवर्तकत्वमिति-वाच्यम्; निष्प्रकारकत्वेऽपि संशयनिवर्तकताया उपपादितत्वात्। ननु-यदि प्रश्नादुत्तरमधिकविषयं न स्यात्, उत्तरमेव न स्यात्, प्रश्न एवोत्तरं स्यादिति-वेभ्न; प्रश्नादन- घिकविषयत्वेऽपि असाधारणधर्मवाचकपद्वत्त्वेन निर्विचिकित्सधर्मिप्रतिपादकत्वेन वोत्तरत्वसंभ- वात्। अत एव प्रश्नो नोत्तरम्; तत्प्रयोजकरूपविरहात्। नच-किं करोति किमानेयमित्यादिप्रश्नो- त्तरे अध्ययनं करोति गामानयेत्यादी व्यभिचारः, न हि तत्राध्ययनत्वगोत्वादित्यागेन लक्षणया कर्मादिमात्रपरत्वमिति-वाच्यम्; अत्र हि न कृत्यानयनयोः प्रश्नः, किंतु कृतिकर्मानयनकर्मणोः, अन्यथा किं करणं किमानयनमित्येव पृच्छेत्। तथाच प्रश्नोत्तरयोरध्ययनत्वादिविशिष्टकर्माविषय- त्वात् यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति सामान्यव्याप्ती व्यमिचाराभावात्। एवंसति-सत्यादिवा· क्यार्थो ब्रह्मप्रातिपदिकार्थमात्रं तन्मात्रप्रश्नोत्तर वाक्यार्थत्वादित्यादि न्यायदीपावलीस्थमप्यनुमानं- साधु। ननु-एकप्रातिपदिकार्थमात्रप्रश्नोत्तरत्वेन एकप्रातिपदिकार्थमात्रपरत्वेऽपि कथमखण्डार्थ- त्वम् ? पश्चकस्य त्रिकस्य वा वैयाकरणमते प्रातिपदिकार्थत्वात्, तदुक्तं-'स्वार्थो द्रव्यं तथा लिङ्गं संख्या कर्मादयोऽपि च। नामार्थपश्चकं प्राहुरादं त्रिकमथापरे॥' इति। प्राभाकरमतेSस्मदेकदेशि- मते चान्वितस्यैव प्रातिपदिकार्थत्वाच्च, अभिहितान्वयवादिमतेऽपि जातिविशिष्टाया एव व्यक्त: प्रातिपदिकार्थत्वपक्षे प्रातिपदिकार्थस्यैव विशिष्टत्वाच्च। जातावेव शक्तिः व्यक्तिस्त्वाक्षेपलभ्येति मते प्रातिपदिकार्थमात्रपरत्वेन विशेष्यचन्द्रादिव्यक्तिपरत्वं न स्यात् । ब्रह्मपदस्य यौगिकत्वेन सुत- रामस्य प्रातिपदिकार्थस्य विशिष्टत्वादिति-चेन्न; व्रह्मप्रातिपदिकार्थविशेष्यांशमात्रपरत्वस्य साध्य- त्वात्। तथाच प्रातिपदिकार्थस्य विशिष्टत्वेSप्यखण्डार्थत्वसिद्धि :; 'प्रातिपदिकार्थलिङ्गपरिमाणवच- नमात्र' इत्यत्र लिङ्गादेरपि प्रातिपदिकार्थत्वेन तङ्रहणवैयर्थ्यमाशङ्य प्रातिपदिकार्थपदस्य लिङ्गाद- गोडब्रह्मानन्दी (लघुचन्द्रिका)। कत्वं साध्यतया विवक्षणीयमित्यर्थः । न मुख्यत इति। द्वारतया अवान्तरतात्पर्य तु अस्त्येव, तदिदमाह-असा- धारणेति। उपायत्वेनेति। सत्यत्वादिधर्मवैशिष्व्यधीद्वारकस्यैवाखण्डज्ञानस्य मोक्षहेतुत्वेन सत्यत्वादिधर्मप्र- भोऽपि युक्त इति भावः। कतर आत्मेत्यस्य पूर्वमैतरेयकोपनिपदि कोऽयमात्मेति प्रश्नस्य सत्वात् स्वरूपमात्रस्य तद्वि- षयत्वात् कतर आत्मेत्यस्य जघन्यत्वेन न मुख्यतात्पर्याविषय जातिविषयकत्वनिर्णयः । अत एवोत्तरवाक्ये 'येन पश्यति येन वा शृणोती'त्यादिना दर्शनादिकं चिन्माव्ररूपेण येन घटितं, तदात्मस्वरूपमिति निर्णीतम्। न हि दर्शनादिकं जातिमदात्मघटितम्। एवं कतम आत्मेति वाजसनेयवाक्यस्य 'पूर्वमात्मैवास्य ज्योतिर्भवत्यात्मनैवायं ज्योतिपाSSस्ते पल्ययते' इत्यत्र अस्तमित आदित्य इत्यादिपूर्ववाक्योक्तस्वप्रज्योतिःशब्दादिव्यवहारप्रयोजकत्वेत चिन्मात्ररूपातमस्वरू- पस्योक्तत्वेन मनआदावात्मस्वरूपत्वविप्रतिपत्तिजन्यसंशयनिरासायोक्तस्य कतम आत्मेत्यादेर्व्यवहारप्रयोजकचिन्मा- त्रविषयत्वम्, नहि जातिविशिष्टात्मचित् व्यवहारप्रयोजिका, किंत्वसर्वापादकाज्ञानाभावोपहितेत्यसकृदुक्कम्। अत एव 'स एप नेति नेत्यात्मा स यत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष आनन्दोऽजर' इस्युत्तर- वाक्येषु शुद्धात्मानमुक्त्वा अभयं वै ब्रह्म भवति य एवं वेदेत्युक्तमिति ध्येयम्। यन्तु 'पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्। नारायणं महाज्ञेयं विश्वात्मानं परायण' मित्यादितैत्तिरीयश्रुतेः 'सहस्रशीर्ष देवं विश्वाक्षं विश्वशंभुव' मित्याद्यनुवाकपूर्वोक्तत्वेन सहस्रशीर्षतवादिमदेव मुमुक्षुज्ञेयम्, एकधेत्यादिकं तु धर्मधर्मिभावादिमेदनिषेधकमिति, तन्न; सत्यत्वादेरिव सहस्रशीर्षत्वादेरपि द्वारत्वेनैवोपयोगसंभवेन धर्मधर्मिभावादिभेदनिषेधविषयकरवेन सक्कोचे मानाभावात्, नात्र काचन भिदेत्यादिना भेदसामान्यनिषेधाच। अध्ययनत्वादिविशिष्टकर्माविषयत्वात् अध्य- यनत्वकृतिकर्मत्वाध्युपलक्षितव्यक्तिस्वरूपमात्रविषयत्वात्। तत्तदर्थकं तत्तन्मान्नार्थकम्। स्वार्थो जातिः। द्रव्यं व्यक्तिः। लिङ्गं स्त्रीत्वादिः। अस्मदेकदेशिमते अस्माकं तत्ववादिनां मायावादिनां चैकदेशिमते। अन्वित- स्येति। प्राभाकरमते कार्यान्वितम्, अस्मदेकदेशिमते चेतरपदार्थान्वितमर्थ इति बोध्यम्। न स्यादिति। किंतु चन्द्ररवादिपरत्वं स्यादिति शेषः। यौगिकत्वेनेति । धातोरुत्कर्षरूपवृद्धि: प्रत्ययस्य स्वाश्रयोऽर्थः । प्रातिपदि- कार्थविशेष्यांशति । नामवृत्तिज्ञानाधीनस्मृतिमुख्यविशेष्येत्यर्थः । इत्यत्रेति। पाणिनिसूत्र इति शेषः। लिङ्गा-
Page 369
[सत्या० अखण्डार्थत्वोपपत्तिः] ६८७
विशिष्टस्वरूपमात्रामिधायकतया समाधानस्याभियुक्तरुक्तेश्च। यन्तु पश्चकत्वादिकं प्रातिपदिकार्थ- स्योक्तं, तदनङ्गीकारपराहतं युक्तिविरुद्धं च; द्रव्यादिप्रातिपदिकात् गुणकर्मणोरप्राप्तेः। अन्यथा व्रव्यमित्युक्त 'नीलं पीतं वा चलति न वे' ति सन्देहो न स्यात्। नच-जिज्ञासान्यथानुपपत्त्या सामान्यतस्तदुक्तावपि विशिष्यानभिधानात् सन्देह इति-वाच्यम्; द्रव्यत्वाद्याक्षिप्सामान्यज्ञाना- देव जिश्ञासोपपत्तेः, सक्लयाकर्मत्वादीनां च वचनविभक्त्यादिनैव प्राप्तेश्च। अन्विताभिधानरूपैकदे- शिमतमपि न युक्तिसहम्; अन्वयस्याकाक्कादिसहकारिवशात् पदार्थमात्रशक्तादेव सिद्धेः। नच प्रातिपदिकार्थमात्रपरस्य कथमेकदेशपरत्वम्! विशेषणस्यानाकाह्ितत्वेन प्रागेव तदुपपादनात्। न चाप्रयोजकत्वम्; स्वरूपमात्रवुभुत्साप्रवृत्तत्वरूपविपक्षबाधकस्योक्तत्वात्। ननु-सत्यादिवाक्ये सत्सु विशेषणेषु सस्तुतिकविधिवाक्ये प्राशस्त्य इव विशेषणार्थेऽपि रक्तपटन्यायेनाकाह्वोत्थाप- नीया, उक्तहि-'आकाह्कणीयाभाव आकांक्षाया अभाव' इतीति-चेन्न; सत्यादिवाक्ये विशेषणे सत्यपि न तद्रोचराकाङ्काकल्पनम्; प्रकृष्टप्रकाशश्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरूप-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। दविशिष्टेति। आदिपदात् संख्याद्यविशिष्टलाभः । तथाचासंसृष्ट नाम्ना लक्षणयो्थापितं प्रमयापि निरूढलक्ष णयोपस्थाप्यत इति सोयमित्यादौ संसर्गाविपयकशाब्दबोधः पाणिन्यादिसंमतः। तदुक्तंच संक्षेपशारीरके- 'भेदो भिन्नश्चातिरेकोऽतिरिक्त्तोऽभेदोऽभिन्न: संविदः स्वप्रकाशाः। इत्येतस्मिन् विद्यते नार्थभेदो वेदान्तानामप्यख- ण्डस्तथार्थः ॥ एवं तावदखण्डवस्तुविषये शब्दान्वयो दर्शतो लोके दृष्टनयेन पाणिनिवचोऽप्यस्यैव संसूचकम्। येनायं स्मरति प्रकृत्यभिहिते वृक्षादिके केवले तन्मात्रे प्रथमेति सूत्रवचसैवाद्यां विभक्ति मुनिः ॥' इनि। भेदत्वावच्छिच्े तस्य संबन्धाभावात् प्राभाकरमते स्वप्रकाशत्वस्येव संवित्वरूपत्वात्तद्वच्छिन्नादौ तत्संबन्धाभावादखण्डार्थत्वम्। अभियुक्तरिति। संसृष्टस्य प्रकृत्यभिहितत्वेन प्रथमाभिहितत्वं व्यर्थमिति विवेचकैरित्यर्थः । विशिष्टत्वेऽपीत्यपिना व्यक्तिमात्रं पदशक्यम्, जातिस्तु तत्वावच्छेदकमात्रम्। लक्ष्यत्वाभाव इव शक्यत्वाभावेऽप्यवच्छेदकस्य भानसं- भवः। उक्त्तंच 'एक द्विकं त्रिकं चे'त्यादिना। व्यक्तिमात्रस्यैव नामार्थत्वमिति नव्यमतं न सङ्गतम्; नीलं चलमित्या- दिनान्ना गुणकर्मप्रतीतेरत आह-द्रव्यादिप्रातिपदिकादिति। जिज्ञासान्यथानुपपत्त्येति। यद्यपि नीलत्वावि- विशेपरूपेण सन्देहाद्विशेपरूपेण गुणादेर्नाभिधेयता; तथापि विशेषजिज्ञासां प्रति सामान्यतो ज्ञानस्य हेतुत्वात्तदुपप- तये सामान्यतो गुणादिकमभिधेयमिति भावः। सामान्यज्ञानात् गुणादिसामान्यज्ञानात्। तथाच गुणत्वकर्म- त्वादिविशिष्टमिव सङ्कयात्वविशिष्टमपि न नामार्थ इति भावः। वचनविभक्त्यादिना एकवचनद्वितीयादिविभ- क्तिभिः। पदार्थमात्रेति। अन्वयांशे अज्ञाता शक्ति: प्रयोजिकेति कुब्जशक्तिवादसत्विष्टः । अनाकाह्कितत्वे- नेति। यन्तु तमेव विदित्वेत्यादेः शुद्धज्ञानान्मोक्ष इति बुद्धौ सत्यादिवाक्ये विशेषणस्यानाकाङ्कितत्वसिद्धिः, तस्यां च सत्यां तमेवेत्यादेस्तथाबोधकत्वसिद्धिरित्यन्योन्याश्रय इति, तत्तुच्छम्; तमेवेत्यादे: फलवाक्यत्वेन प्रथमप्रवृत्त- त्वादाकाङ्कोत्थापकत्वेनोपजीव्यत्वाच्च बलवत्वेन तदनुरोधेन सत्यादिवाक्ये विशेषणसंसर्गस्यावान्तरतात्पर्यविषयत्वक- ल्पनेऽपि मुख्यतात्पर्यविषयत्वाकल्पनात्। अत एव 'कतरः स आत्मा कतम आत्मा अयं वाव खल्वात्मा ते कतमो भगव' इत्यादिप्रभानां जातिविषयकाणां सत्वेऽपि 'केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केने- षिता वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति। अचेतनमिदं शरीरं कस्थैप खल्वीदशो महिमा येनैतद्विघ- मेतच्ेतनवत् प्रतिष्ठापितं प्रचोदयिताऽस्य को भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्ते कुत एप प्राणो जायते कस्यैतत् सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्ति क्वासौ पुरुप इसि क्वैष एतद्वालाके पुरुषोऽशयिष्ट क्वैतदभूत् कुत एतदागात् कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं कोऽयमात्मेति वयमुपास्महे' इत्याद्यनन्तवाक्यानामुक्त्त- फलवाक्यानुकूलशुद्धविषयकत्वेन बलवत्वात्तदनुसारेण कतरादिवाक्यानामपि शुद्धमुख्यतात्पर्यकल्पनात् तत्त्वम्पदा- थंशोधकोत्तरवाक्यानां शुद्धविपयकत्वमव्याहतम्। सस्तुतिकेति। स्तुत्यर्थवादसहितेत्यर्थः । अस्तुतिके विधौ बलवद्निष्टासाधनत्वरूपप्राशस्त्यस्याक्षेपलभ्यत्वेऽपि सस्तुतिके विधौ प्राशस्त्ये शाब्दी आकाङ्गेति भावः। रक्तपट- न्यायेति। यथा रक्तः पटोऽस्तीत्यादौ रक्तान्वयं विना वाक्यार्थसमाप्तिसंभवेपि रक्तपद्वैयर्थ्यविरहाय रक्तवैशिष्यां- शेऽपि आकाक्का कल्प्यते, तथा सत्यत्वाद्यन्वयं विना तत्संभवेऽपि सत्यादिपदावैयर्थ्याय तत्र सा कल्प्यतामित्यर्थः। आकाङणीयाभावे आकाङ्कणीयाभाव एव। दर्शनादिति। 'काकवन्तश्वैन्नगृहा' इत्यादौ काकाद्यन्वयाशे आका- क्वाभावदर्शनादित्यपि बोध्यम्। तत्र काकपद्लक्ष्योत्तृणतवस्य धर्मतयाSSकाङ्कासंभवेपि सत्यादिवाक्ये सर्वपद्ल- क्षणीयरूपस्यात्यन्ताभिन्नतवेनान्वयसंभवान्न तदाकाङ्कासंभव इति ध्येयम्। व्यावृत्तिबोधमात्रेण नक्षत्रादिरूपाप्र-
Page 370
६८८ अद्वैतसिद्धिः । [परिच्छेद: २]
मात्राकाक्कादर्शनात्। नच तत्रापि तत्कल्पनम्; तस्कल्पनं विनापि व्यावृत्तिबोधमात्रेणैव तत्सार्थक- त्वोपपत्तेः। व्यावृत्तिविशेषबोधश्च विशेषणपरत्वाभावेपि तद्वारकस्वरूपमात्नज्ञानमात्रेणैवोपपद्यते। ननु-सप्रकारकज्ञानस्यैव मोक्षहेतुतया 'ब्रह्मविदापोति पर'मित्यर्थेन 'य एवं विद्वानमृत इह भव- ती'ति श्रुत्या 'यो वेद निहितं गुहाया'मित्युत्तरवाक्येन च मुमुक्षो: सप्रकारक एव धर्मिश्ञाने साध्ये बु- भुत्सोचितेति-चेन्न; निष्प्रकारकज्ञानस्यैव स्वरूपोपलक्षणोपलक्षिताघिष्ठानज्ञानत्वेन भ्रमादिनिवृत्त्या मोक्षहेतुताया उपपादितत्वेन तदनुरोधात् ब्रह्मविदित्यादेः सप्रकारकब्रह्मज्ञानपरतायां मानाभा- वात्। य एवं विद्वानित्यस्यार्थे इतरप्रकारत्वं नार्थः, किंतु एवंप्रकारोपलक्षितत्वम्; एकधैवेत्याद्यनु- सारात्। नच-एवंसगुणवाक्यस्यापि ब्रह्मबुभुत्सायां कर्मकाण्डस्यापि कर्मबुभुत्सायां वैद्यकादि शास्त्रस्यापि औषधादिवुभुत्साया मखण्डब्रह्माखण्डकर्माखण्डौषधादिपरत्वं स्यादिति-षाच्यम्;नहि वयं बुभुत्साप्रवृत्तवाक्यत्वमात्रेणाखण्डार्थत्वं ब्रूमः, किंतु स्वरूपमात्रवुभुत्साप्रवृत्तवाक्यत्वेन। नच तत्रापि स्वरूपमात्रवुभुत्सा; विशिष्टपरत्वे बाधकाभावात्। तत्रापि चेल्लक्षणवाक्यादौ तथा, तदेष्ाप- सेश्च। नच तर्हि सगुणवाक्यानां सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वेन प्रामाण्यायोग :; कर्मकाण्ड- वद्यावहारिकप्रामाण्याविरोधात्। ननु-ब्रह्मणि धर्म इवालक्षणवाक्यमस्ति, तदप्यखण्डाथ स्यादिति-चेन्न; अवान्तरतात्पर्यमादाय चेत्, तदा ब्रह्मपरत्वस्यैवाभावात् महातात्पर्यमादाय चेत्तदेष्टपत्ते: । किंच 'एकधैवानुद्रष्टव्य'मित्याद्यनेकाकारनिषेधकवाक्यं 'उदरमन्तरं कुरुत' इत्यादि- भेदनिषेधकवाक्यं 'केवलो निर्गुणश्चे'ति गुणनिषेधकं 'एकमेवाद्वितीय'मिति द्वितीयमात्रनिषेधक- वाक्यं च बाधकं, तथा सर्वतोऽनवच्छिन्नवस्तुपरानन्तशब्दब्रह्मशब्द च। नच-तेषामैक्यमेदा- भावादिविशिष्टार्थपरत्वे वेदान्तमात्रस्याखण्डार्थत्वासिद्धिः, सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोग इति-वाच्यम्; ऐक्यमेदाभावादीनां स्वरूपत्वेन विशिष्टपरत्वस्यैवाभावात्, भेदा- भावादे: कल्पितप्रतियोगिकतया कल्पितत्वे तु सत्यादिपदवद्विशिष्टार्थामिधानद्वारा स्वरूपपरत्वेन प्रामाण्योपपत्तेश्च। नच-एवं तेषां लक्षणयाSखण्डार्थत्वेन तद्विरोधेन विशिष्टार्थस्य सत्यादिवाक्यस्य मुख्यार्थत्यागः, विशेष्यपरस्य विशिष्टपरेणाविरोधादिति-वाच्यम्; द्वारतयोपस्थितस्याप्यैक्यमेदा- भावादेर्विशिष्टार्थविरोधितया मुख्यार्थत्यागसंभवात्। नच-द्वारतयोपस्थितैक्यादे: मिथ्यात्वेन सत्यत्वादिधर्मपरत्वविरोधिता, सत्यत्वे चापसिद्धान्त इति-वाच्यम्; भिन्नत्वे सति सत्यतायामे- वापसिद्धान्तात्। नचाभेदे द्वारत्वानुपपत्ति :; कल्पितधर्मताकत्वेन द्वारत्वसंभवात्। नच-अत्र
गॉडब्रह्मानन्दी (लघुचन्द्रिका)। कृष्टप्रकाशव्यावृत्तिधीमात्रेण। तत्सार्थकत्वेति। प्रकृष्टादिपदसार्थकत्वेत्यर्थः । स्वरूपज्ञानमात्रेण स्वरूपात्मक- लक्षणस्य व्यावृत्ति विनानुपपत्तिज्ञानमात्रेण । अर्थाद्यावृत्तिबोध इत्यस्य अन्त:करणवृत्तिभेदेनैकस्यापि लक्ष्यलक्षण- भाव इत्यस्य च पूर्वमुक्तत्वात् प्रकृष्टप्रकाशश्रन्द्र इति वाक्यजन्यधीविपयत्वविशिष्टस्य स्वरूपत्वानुपपर्या स्वरूप- स्याप्रकृष्टप्रकाशव्यावृत्तिसिद्धिः । तथाच तादृशधियः प्रकृष्टप्रकाशत्वादिवशिष्यधीद्वारकत्वात् प्रकृष्टपदमावश्यक- मिति भावः। ब्रह्मविदित्यादि। 'ब्रह्मविदि'त्यादिवाक्यस्य योऽर्थोऽर्थापत्तिः तया 'य एव' मित्यादिश्रुत्या 'यो वे- दे'त्यादिवाक्येन च मुमुक्षोः सप्रकारकज्ञान एव बुभुत्सेत्यर्थः । परप्राप्तिर्नामोत्कृष्टाभिन्ने स्वस्मिन्नज्ञाननिवृत्तिः, तत्साधनंचोत्कृष्टब्रह्माभिसे सवस्मिन्ज्ञानम्। तथाचोत्कर्पविशिष्टविपयकाज्ञानस्य निवृत्तेस्तादृटशज्ञानं विनानुपपत्तेः सप्र- कारकज्ञानस्यैव मोक्षहेनुताप्रयुक्ता या ब्रह्मविदित्यादिश्रुत्यर्थापत्तिः, या च तादृशहेतुतारूपेण स्वार्थेन घटिता 'य एव'मित्यादिश्रुतिः, यञ्च तादृशहेतुतारूपेण स्वार्थेन घटितं यो वेदेत्यादिवाक्यं, तेन सप्रकारक एव ज्ञाने मुमु- क्षोर्जिज्ञासेति भावः। विशिष्टपरत्व इति । प्रश्नवाक्यस्येत्यादिः। वाधकाभावादिति। चन्द्रादौ प्रकृष्टप्- काशरवादेरिव धर्मादौ तत्तद्विशेपस्य मानान्तरसिद्धत्वाभावेन तद्विशिष्टपरत्वमेव तत्रेति भावः । यदि तु को धर्म इत्यादिधर्मादिस्वरूपमात्रवुभुत्साप्रवृत्तवाक्ये तदापाद्यते, तर्हि तदिष्टम्; अलौकिकश्रेयःसाधनं धर्म इत्यादिलक्षण- वाक्यस्योक्तसाधनत्वाद्युपलक्षितपरत्वसंभवादित्याह-तत्रापीति। ननु ब्रह्मणीत्यादि। अभिहोत्रादिवाक्यमिव नेह नानेत्यादिकमलक्षणवाक्यम्, तदप्यखण्डार्थकं स्यात्; वेदान्तसामान्यस्य त्वया तथा स्वीकारादिति भावः । महातात्पर्येति । तथाचाखण्डमुख्यतात्पर्यकत्वं वेदान्तसामान्य एव मयोच्यते, तत्रापि तदिष्टमिति भावः । उदर- मन्तरं कुरुत इति। उत् अपि अरम् अल्पम् अन्तरं भेदं कुरुते जानातीत्यर्थः । सर्वतोऽनवच्छिन्नेति। सट- स्यभावप्रतियोगित्वरूपपरिच्छेदस्याभावो मेदादिसत्यत्वे न संभवतीत्यर्थः । लक्षणया अखण्डार्थत्व इति छेदः । न
Page 371
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६८९
सत्यत्वादेर्द्वारत्वेनोपादानात्तेषा मेवैतद्विरोध इति-वाच्यम्; सत्यत्वादेः कल्पितजातिरूपस्य द्वार- तया स्वरूपेणोपादानेऽपि पारमार्थिकत्वाकारेण निषेधकानामविरोधात्। एतेन-व्रह्मानन्तपदयो- रपि बाधकत्वं-व्याख्यातम् । ननु-'अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणा' इत्यादि- शुत्या 'महहणत्वाद्यमनन्तमाहु'रित्यादिस्मृत्या च व्रह्मानन्तपदयोः सगुणवाचित्वेन निर्वचनात् कथं न ताभ्यां विरोधः ? इति-चेन्न; उक्तश्रुतिस्मृत्योः सगुणप्रकरणस्थितव्रह्मानन्तशब्दार्थविषय- त्वेन लक्षणवाक्यस्थितब्रह्मानन्तशब्दार्थनिर्वचनपरत्वायोगात् । ननु-इमे हेतवः प्रतिकूलतर्क- पराहताः। तथाहि-पक्षटष्टान्तलक्षणमैक्यपरवाक्यं यदि संसृष्टार्थ न स्यात्, वाक्यमेव न स्यात्; आकाह्कायोग्यतासन्निधिमत्त्वाभावात्। आकाङ्वा हि अभिधानापर्यवसानम्, तच्च येन विना यस्य न स्वार्थान्वयानुभावकत्वम्, तदेव तस्यापर्यवसानम्। सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युप- स्थितिः, योग्यता च एकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्य- त्वम्, नैतञ्रयं संसर्गाविषये संभवति इति, नैप दोप :; अखण्डार्थेऽप्येतत्रितयसंभवात्। तथाहि- निगकाङ्कयोरपि यत्किंचिदन्वयानुभावकतया तात्पर्यविषयान्वयाननुभावकत्वमेवाकाङ्का वाच्या। तथाचान्वयांशो व्यर्थः; येन विना यस्य तात्पर्यविपयाननुभावकत्वमित्येतावन्मात्रस्यैव सामञ्ञ- स्यात्। तात्पर्यविषयश्च क्वचित्संसृष्टः क्वचिदखण्ड इति न विशेषः। अतः सा तात्पर्यविषयाखण्डार्था- नुभवजननात् प्राग्वेदान्तवाक्येऽप्यस्त्येव। आसत्तिरप्यव्यवधानेन शाव्दबोधानुकूलपदार्थोपस्थि- तिमात्रम्, न त्वन्वयप्रतियोगित्वविशषितपदार्थोपस्थितिः गौरवात्। सा च संसर्गाबोधकेऽप्य- स्त्येव। योग्यतापि तात्पर्यविषयाबाध एव, नत्वेकपदार्थसंसर्ग इत्यादिस्वरूपा; यत्र वाघितावा- धितसंसर्गद्वयसंभवः, तत्र वाधिततात्पर्यविषयकेऽतिव्याप्तेः । तात्पर्यविषयाबाघश्चाखण्डार्थेऽपि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। तद्विरोधेनेत्यादि। ऐक्यादिविरोधात् सत्यादिवाक्यस्य यो मुख्यार्थत्यागस्वद्भ्युपगतः स न स्यादित्यर्थः । कल्पि- तजातिरूपस्य प्रपञ्चसाधारण्येज कल्पितस्य स्वकालाबाध्यत्वस्य। स्वरूपेण पारमार्थिकत्वाविशेपितरूपेण। लक्षण- वाक्ये स्थितमनन्तादिपदमखण्डार्थमित्याशयेन सामान्यतो लक्षणवाक्यस्थितेत्युक्तम्। यत्त सगुणपरत्वं सर्वत्रव वेदान्त इनि निर्गुणपरत्वं नाद्यापि सिद्धमिति, तन्न; 'केवलो निर्गुणः वृक्ष इव स्तब्धो दिवि तिष्टत्येकम्तनेदं पूर्ण पुरुषेण सर्व ततो यद्गुत्तरतरं तदरूपमनामयम्। य एतद्विदुरमृतास्ते भवन्त्यथंतरे दुःखमेवापियन्ती'ति। 'द्वे विद्ये वेदितव्ये परा चवापरा च तत्रापरा ऋग्वेद' इत्यादि 'अथ परा यया तदक्षरमधिगम्यते; यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपाद' मित्यादिश्रुनेः। 'एवं सततयुक्ता ये भक्तासत्वां पर्युपासते। येचाप्यक्षर'मित्यादिगीतावाक्यात् 'प्रत्यस्त- मितभेदं यत्सत्तामात्रमगोचरम्। वचसामात्मसंवेदयं तज्ज़ानं ब्रह्मसंजितम् ।'इत्यादेः-'न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः। अतः स्थूलं हरे रूपं चिन्त्य'मिति विष्णुपुराणात् 'संचिन्तयेन्भगवतश्वरणारविन्द'मित्यादेः-'मुक्ता- अ्रयं यहिं निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथाचिः । आत्मानमत्र पुरुपोऽव्यवधानमेकमन्त्रीक्षत' इत्यादि सगुणभजनोपकरमक 'भत्त्या ह्यसङ्ग: सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रति'रित्यादेश् भागवतात् 'दे विद्ये वंदितव्ये इति चाथर्व्णी श्रुतिः। परया त्वक्षरप्राप्तिः ऋग्वेदादिमयी परा ॥ यत्तद्व्यक्तमजरमचिन्त्यमजमव्ययम्। अनिर्देश्यमरूपंच पाणिपादाद्यसंयुतम्। विभुं सर्वगतं नित्यं भूतयोनिमकारणम्। व्याप्यं यतः सर्वमिदं तंद्वै पश्यन्ति सूरयः ॥ तद्रह्म तत्परं धाम तद्येयं मोक्षकाङ्गिणाम् ॥' इति विष्णुपुराणाज्च निर्गुणस्य मुमुक्षुज्ञेयत्वेन श्रुतेम्तत्परत्वाव- श्यकत्वात्। येन विना यत्पदाव्यवहितोत्तरत्वप्रकारकस्वविशेष्यकज्ञानं विना। यस्य यत्पदज्ञानस्य। स्वार्थान्वयाननु भावकत्वं तरपदार्थप्रकार कस्यार्थ विशेष्यकशाव्दबोधाभाववत्वम्। तदेव तत्पदाव्यवहितोत्तरत्वं तादृशबोधाभावववत्वं च। तस्य पदस्य तादृशबोधे आकाङ्का। तत्राद्यं ज्ञातं द्विनीयं स्वरूपसत् कारणम्। एकपदार्थेत्यादि। यस्य यः संसर्ग: यन्निष्ठस्य प्रतियोगिव्यधिकरणस्य संसर्गाभावस्याप्तियोगी तस्य तत्र शाब्दबोधे सा योग्यतेत्यथेः। शब्द आकाशीय इत्यादावाकाशस्य शब्दनिष्टाभावप्रतियोगित्वम्, नत्वाकाशसंसर्गस्य। सेकान्वितजलस्य संसर्गो न सेकनिष्ठाभावा- प्रतियोगीति तत्परे पयसा सिञ्वतीति वाक्ये च योग्यता। निराकाङ्कयोः घटः कर्मत्वमिति पदयोः। यत्किंचि- दन्वयानुभावकतया अभेदरूपान्वयानुभावकतया। तथाच तयोरेकपदव्यतिरेकप्रयुक्तमपरपदस्याभेदान्वयाननु- भावकत्वमस्तीत्यभेदान्वय इव भेदान्वयेऽपि साकाङ्कता स्यात्। नच-यदन्वयाननुभावकत्वमुक्तप्रयुक्तकं, तदन्वयं प्रति तत्साकाङ्करवमित्येवोच्यतामिति-वाच्यम्; यदन्वये तात्पर्य नास्ति, त्रापि साकाङ्कतापत्तेः, तात्पर्यविषये यदन्वये इत्यस्यावश्यकस्वात्। तात्पर्यविषयाबाध इति। स्वाश्रयनिष्ठाभावप्रतियोगि यद्यत्, तदन्यतवं तात्पर्यविषयनिष्ठं अ. सि. ८७
Page 372
६९० अद्वैतसिद्धिः । [परिच्छेद: २ ]
सुलभः । अथवा-अन्वयस्य भेदघटितत्वनियमाभावेनाभेदसंसर्गमादायाकाक्कादिनिर्वाहः कर्तव्यः एकपदार्थस्याखण्डस्य तात्पर्यविषयत्वमपि नानुपपन्नम्। यत्र ह्वसाधारणस्वरूपेणेकः पदार्था झातः, तत्र पदार्थान्तरविशिष्टः स प्रतिपादते। यत्र तुन तथा ज्ञातः, तत्र सन शक्यः पदार्थान्तरैर्विशे- ष्टमिति स एव प्रतिपाद्य:ः तत्रैव वाक्यपरिसमाप्ेः। प्रकृष्टत्वसत्यत्वादेस्तत्तद्वारकत्वरूपबोधेन व्यावृत्तिभेद उपयोगादिति न वाक्यत्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतिः। ननु-संसृष्टार्थत्वं न चेत्, तदा वेदान्तानां निर्विषयत्वापत्तिः, अखण्डवाक्यार्थस्य स्वप्नकाशचिन्मात्रस्याविद्याद् ध्यासाधिष्ठानत्वेन तत्साक्षित्वेन च नित्यसिद्धत्वादिति-चेन्न; अनाद्यविद्योपहितत्वेनादोषात्, स्वतःसिद्धस्यापि प्रमाणवृत्तिमन्तरेणाविद्यानिवर्तकत्वाभावात्। प्रमाणवृत्तेश्चाविद्यानिवृत्तिफलोप- हितत्वात् न काप्यनुपपत्तिः । नच-वाधकं विना मुख्यार्थत्यागायोग: प्रतिकृलतर्कः, एकर- सत्वादिप्रतिपादकश्रुतीनामप्यखण्डार्थपरत्वेन वाधकत्वाभावादिति-वाच्यम; द्वारतयोपस्थित- स्यापि वाधकताया उक्तत्वात्। ननु-वेदान्तवाक्यजन्यज्ञानं निप्प्रकारकं चेत्, ज्ञानमेव न
गोडव्रह्मानन्दी (लघुचन्द्रिका )। योग्यता। वाधितस्य तु न तदन्यत्वम्। यद्यपि घटादेरप्युक्तप्रनियोगित्वम्; तथापि व्यवहारकाले उक्तप्रतियोगित्वेन निश्चितं यत् तदन्यत्वम्। नच-येन संबन्धेन यत्र यत्प्रकारकशाव्दधीः, तेन संबन्धेन स्वाधिकरणतन्निष्ठाभावप्रति- योगित्वेन निश्चितं यत् तदन्यत्वमेव वाच्यम्, अन्यथा भ्रमानुव्यवसायसमारनावपयकवाक्यस्य भ्रमविपयविशिष्टज्ञानां- शेऽप्ययोग्यतापत्तेः, तथाच संबन्धघटिता योग्यता नाखण्डार्थवाक्य इनि-वाच्यम्; भ्रमविपयस्य मिथ्यात्वनिश्च- योत्तरमुक्तापत्तेरिष्टत्वात, संवन्धनिवेश प्रयोजनाभावात, नच-एवं अ्रमविपयो मिध्येति वाक्यमप्ययोग्यं स्यादि- ति-वाच्यम्; तात्पर्यविषयपदन विधेयस्योक्तत्वादुक्कतस्थले मिथ्यात्वस्यंत विधेयत्वेन तम्योक्तप्रतियोगि्वेन निश्चित- त्वेनादोपात्। वस्तुतः-पदानां यादृशसमभिव्याहारस्य धीर्यादशशाव्दधीहतुः, स एव तस्यामाकाङ्का, योग्यता नु शाब्दत्वावच्छिन्ने न हेतुः; वाधितविपयेऽपि कलहादो शादबोधोदयान, तदनज्गीकारऽपि विशिष्टधीसामान्ये बाधस्य विरोधित्वादेव बाधितस्थल शब्बुद्यभव सितिंद्ः। नित्तिवारणय यत्पदस्य येन पढ़ेन विना यादृशान्वयबोधाभाववैशिश्वं तस्य तादृशवोधं प्रत्याकाङ्कत्यावश्यकमिति-वाच्यम्; समानाकारशाब्द- बोधं प्रतति शाब्दबोधस्य प्रनिबन्धकत्वादेव तद्वारणात्। नच-योग्यताप्रमायाः शाव्दप्रमात्वावच्छिन्नं प्रि हेनुत्वात् शाब्दधीसामान्येऽपि योग्यताधीर्हैनुरिति-वाच्यम्; शाव्दप्रमात्वस्यार्थसमाजग्रम्नत्वेन कार्यनानवच्छेदकत्वात्, तदी- यशाव्दप्रमासामान्ये विशेष्यसंबन्धतत्तज्ज्ञानत्वाढिना हेतुत्वसंभवाच्च। आसत्तिस्तु आचार्योकव। स्वप्रयोज्यपदार्थी
निरित्ययुक्तम्; 'शब्दो गुणः पर्वतोऽमनिमानि'त्यादों पढज्ञानत्वेन शाव्द्बोधानुकूलां शब्दपदार्थस्य शब्दपदस्योपस्थिति-
शब्दगुणपदार्थोपस्थितिसंबन्धेन शब्दो गुण इत्यानुपूर्वीज्ञानस्य हेतुत्वेऽपि तदभावेनोक्तस्थले तत्ययोज्यशब्दगुणपदा- थीपस्थितेरप्यभावेन तादृशवोधानुकूलासत्तिलक्षणातिव्याप्त्युक्तेरसङ्गतत्वात्, उक्तस्थल शब्दो गुण इत्यानुपूर्वीज्ञान- स्वे तु तत्प्रयोज्योपस्थितरपि सरवेन तस्य लक्ष्यत्वेनादोपात। एवंचावान्तरवाक्यार्थबोधे समूहालम्वनतावदर्थस्मृति- रेव, महावाक्यारथबोधे नु अवान्तरवाक्यारथानुभवोऽप्यासत्तिरिति ध्येयम्। परमते अन्वयस्य संसर्गरूपस्य भेदानि- यतत्वेन तदनुसृत्याह-अथवेति। अभेदसंसर्गमिति। अखण्डार्थबोध स्वरूपात्मकाभेदस्य सांसर्गिकविपयत्वा- भावेऽपि परमते स्वरूपे तस्य तत्संसर्गागाहिबोधस्वीकारेण तस्य सांसर्गिकविपयत्वरूपान्वयित्वसंभवेन स्वरूपे स्वरू पस्यान्वयाननुभावकत्वादिरूपाकाङ्गादि बोध्यमिति भावः। अत्रेदमपि वोध्यम्-येन वाक्येन यत्र यद्वशिष्ाव- गाहिशाब्दानुभवो जन्यते तद्वारकबोधे तद्वाक्यतद्गताकाङ्गायोग्यतासत्तिहेतुत्वनियमे मानाभावः। तथाच धूमोऽस्ती- त्यादिवाक्यस्य वह्वचादिबोध इव सत्यादिवाक्यस्यापि सत्यत्वादिवैशिष्यत्रिपयकशाव्दानुभवद्वारकाखण्डार्थबोधेऽपि न तद्वेनुत्वम्। एतावांस्तु विशेष :- प्रथमस्यानुमिनित्वेन तदजन्यत्वम्, द्वितीयस्य तद्गतलक्षणाज्ञानजन्यत्वेन शाब्द- त्वेऽपि संसर्गाविपयकत्वम्; तत्संसर्गशाब्दवोधस्यव तत्स्वीकारात्, विशिष्टार्थे पदवृत्तिज्ञानस्यैवाकाङ्कादिसहकारिक- त्वकल्पनात्। शुद्धवाक्यार्थानुभवे तु तत्तात्पर्यज्ञानादिसहकृतस्य शुद्धलक्षणाज्ञानस्यव हेतुत्वम्। निराकाङ्कादी मृद्ट इत्यादौ च शुद्धलक्षणाज्ञानस्य क्रचित् सत्वेऽपि पदविशेषसमभिव्याहारज्ञानजन्यशाव्दबोधस्य द्वारीभूतस्य सहका- रिणो विरहेण नाखण्डार्थबोध इति दिक्। वाधकत्वाभावादिति। स्वरूपमात्रबोधस्य विशिष्टस्वरूपबोधाविरो-
Page 373
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६९१
स्यात्; ज्ञानस्येच्छादितुल्यतया सविषयकत्ववत्सप्रकारकत्वस्यापि नियमात्, किंचित्प्रकारं विना वस्तुनो वुद्धावनारोहाञ्च्ेति-चेन्न; व्याप्यसिद्धः, तार्किकादिभिरपि निर्विकल्पकज्षानाभ्युपग- मात्। शब्दवाच्यत्वं तु किंचित्प्रकारमन्तरेण संभवति न वेति वादिनो विवदन्ते । तञ्ा- स्माभिर्य्रह्मणो नाभ्युपेयते। आकाशादिपदवत् किंचित्प्रयोगोपाधिमादाय तदपि संभवत्येव । नच शाब्दत्वेन सविकल्पकत्वसाधनम्; स्वरूपोपलक्षणज्ञानाजन्यत्वस्य स्वरूपपरवाक्याजन्यज्ञान त्वस्य चोपाधित्वात्, ज्ञानत्वस्येव शाब्दत्वस्यापि सविकल्पकत्वव्याप्यत्वग्रहे मानाभावाच्च।नच- वेदान्तानामवुभुत्सितार्थत्वापत्तिः, धर्मिण: प्रागेव ज्ञानात् तत्र वुभुत्साविरहादिति-वाच्यम्; स्वरूपस्य ज्ञातत्वेऽप्यसाधारणस्वरूपवुभुत्साया उपपादितत्वात् । नापि विचारविध्यनुपपत्तिः; विचारस्य वेदान्ततात्पर्यनिश्चयादिफलकतया निष्प्रत्यू हनिप्प्रकारकब्रह्मज्ञानार्थत्वोपपत्तेः, आपातद- शनस्य प्रतिवद्धत्वेनाज्ञानानिवर्तकत्वात्। शुद्धव्रह्मविषयाणामव्यधिकरणानामप्यरम्भो नानु- पपन्न:ः विषयादिपश्चकसंभवात्। व्यावृत्ताकारेणाज्ञातो हि विषयः, ब्रह्म च तथा भवत्येव । विप- यस्वरूपनिर्धारणाधीनंच प्रयोजनं न निर्धारणे सप्रकारकत्वमपेक्षते। निप्प्रकारके वस्तुनि स्वरूपनि- रधारणत्वाव्याघातात्। अद्वैतादयुपलक्षिताखण्डार्थज्ञानंच निर्धारणम्। नदधीनं प्रयोजनं मुक्तिरेव। पूर्वपक्षसिद्धान्ती च कल्पितप्रकारावलम्विनी। संशयोऽपि कल्पितसमानधर्मधीजन्मैवेति नानुप- पत्तिः। अतएव-प्रथमाध्यायतृतीयपादीयाधिकरणानामनारम्भ एव प्राम्तः; विषयादिपश्चकाभा- वात्, विशिप्याज्ञातो हि विषयः, साधाग्णधर्मधीजन्यश्च संशयः, मिथ्यासत्यैकप्रकारावलम्बिनी च पूर्वपक्षसिद्धान्तौ, एकप्रकारेण निर्धारणाधीनं चप्रयोजनम्, तञ्ञ पश्चकं निर्विशषे कर्थ स्ादिति- पगस्तम्: उक्तरीन्योपपनेः। नच 'ब्रह्मविदाप्नोति पर मिति सामान्यतो ज्ञातत्वात् सत्यादिवाक्य- वैयर्थ्यापतिः असाधारणस्वरूपज्ञानार्थत्वेन साफल्यात्। नच-सत्यत्वादिविशिष्टे तात्पर्याभावे तान्पर्यतो यत्किचिट्वह्वत्येव बोधनात् यस्य कस्यापि ब्रह्मत्वं स्यात्, इदं ब्रह्मेति लक्ष्यलक्षणरूपोद्देश्य- विधेयविभागाभावच्चति-वाच्यम्: लक्षणस्वाभाव्याद्वस्तुगत्या तत्स्वरूपलाभस्य प्रागेवोक्तत्वात्, एकस्मिन्नपि कल्पितोद्देश्यविधेयभावसंभवात्। अप्राप्तविधेयमात्रपरत्वाद्वाक्यस्य नाखण्डार्थत्व- व्याघातः । ननु स्वरूपण ज्ञातम्य विधेयम्योद्दश्यसंसृष्टतयैव बोधनीयत्वं वाच्यम्। तथाच सख- ण्डार्थतव। उक्तहि-'किंचिद्विधीयतेऽनूद वाक्येनेति सतां स्थितिः। सत्यज्ञानादिवाक्येन कथ्यतां किं विधीयते ॥' इति, नप दोप :: असाधारणस्वरूपस्य प्रमेयतया विधेयत्वात्, सत्यत्वादिद्वारक- स्वरूपज्ञानेनासाधारणज्ञापनपर्यवसानात्, द्वारफलाभ्यामप्रातप्रापणसंभवात्। तथाचोद्देश्यता च विधेयता च स्वरूपमात्रपर्यवसन्नैव। ननु-एवं सत्यादिपदानां लक्षणा न स्यात्, अशक्यासदशा-
हि पढ़ार्थापस्थितिः, नतु सँघ वृत्तिः, अतो नोक्तरूपा लक्षणा, किंतु शक्यसंबन्धः । स च प्रकृते- उप्यस्त्येच। उपस्थितिरूपत्वेऽपि लक्षणायास्तात्पर्यविपयानुकृलोपस्थितिरेव सा नोक्तोपस्थितिरूपा; अतात्पर्यविषयताददगुपस्थिती गतत्वात्। नापि वीजानुपपत्तिः; तात्पर्यानुपपत्तेरेव बीजत्वात्। नापि सत्यादिपदानां पर्यायतापत्ति:ः वाच्यार्थभेदात्। सत्यत्वं ह्यस्मन्मते त्रिकालावाध्यत्वम्, परमते कुम्भादिसाधारणी परजातिः सत्यपदप्रवृत्तिनिमित्तम्। ज्ञानपदानन्दपदयोरप्यस्मन्मतेऽन्तःकरणवृ- गाडब्रह्मानन्दी (लघुचन्द्रिका)। धित्वमिति भावः। आकाशादिपद्वदित्यादि। शब्दाश्रयत्वं यथा नाकाशादिपदशक्यम्, तद्विनाप्यष्टद्रव्यान्य- द्रव्यत्वाढिना तत्पदाच्छाव्दवोधोपपत्तेः, नानाव्यक्ति्वनुगतधर्म विना शक्यत्वग्रहासंभवेन व्यक्तिनानात्वस्थल एव धर्मे शक्यत्वस्य सार्थक्याच्, किंतु तदुपलक्षितव्यक्ति:, तथा त्रिकालाबाध्यत्वाद्युपलक्षितमेव सत्यादिपदशक्यं संभ- वतीति लक्षणाज्ञानं विनेवाखण्डानुभवसंभवः, परंतु नासमाकं तत्राऽडग्रह इति भावः। शाव्दत्वेनेति। सत्यादिवा- क्यजन्यज्ञाने इत्यादिः। स्वरूपोपलक्षणज्ञानेति। धर्मिस्वरूपमात्रस्योपलक्षणं स्वचैशिश्वधीद्वारा बोधकं यत् सत्या- दि, तद्वैशिष्यज्ञानेत्य्थः । स्वरूपपरवाक्येति । धर्मिस्वरूपमात्रपरवाक्येत्यर्थः। तादृशोपलक्षणत्वादिकं तु पूर्व स्थापितमेव। निष्प्रत्यूहेति। अप्रामाण्यशङ्काशून्येत्यर्थः। तात्पर्यनिश्चयरूपेण विचारफलेनोक्तशङ्गाबीजस्य तात्पर्य- संशयस्योच्छेदेन नोक्तशङ्केति भावः। व्यावृत्ताकारेणाज्ञातः स्वरूप निश्चयनाश्याज्ञानविषयः। प्रमेयतया अज्ञा- ननाशकज्ञानविषयतया। असाधारणज्ञापनेति। सत्यत्वादिसंशयनाशकज्ञानजनकलक्षणादिज्ञापनेत्यर्थः। विधे- यता चेति। विवेचितमनुपदमेत्रैतत्। अशक्येत्यादि। अशक्योऽसटशो याऽत्वयप्रतियोगी, तदुपत्थितेरित्यर्थः।
Page 374
६९२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
त्युपधानलब्ध मेदचिदानन्दविशेषानुगते ज्ञानत्वानन्दत्वे, परमते तु स्वभावलन्धमेदश्ञानानन्दनिष्ठे अपरजाती प्रवृत्तिनिमित्ते। तथाच लक्ष्यार्थाभेदेऽपि न पर्यायताशक्का। ननु-कुम्भाद्यनुगतसस्ताया ब्रह्मलक्षणत्वायोगः मिथ्यासत्यानुगतसामान्याभावात्, तथाचानृताद्यावृत्त्यसिद्धिः, त्रिकालावा- ध्यत्वं ब्रह्मणि श्रौतमिति त्वन्मतहानापत्तिश्चेति-चेन्न;ब्रह्मणः सर्वाधिष्ठानतया तद्रूपसत्तायाः सर्वो- नुस्यूतत्वेन जातित्वव्यपदेशात्, कल्पितधर्मत्वमादाय ब्रह्मव्यक्तिकत्वाञ्च। तञ्च सत्वं त्रिकालाबाध्य- त्वमेवेति न तस्य श्रीतत्वहानि :; तस्यानृतं प्रत्यधिष्ठानत्वेऽपि अनृताश्रितत्वाभावेन तव्यावर्तकत्वसं- भवात्। आनन्दत्वादिकल्पितजातिसाहित्येन लक्षणोक्ति: पररीत्या। नच-धर्मिसमानसत्ताकमेदं विनवीपाधिक भेदमात्रेणाकाशत्वादेरिव ज्ञानत्वादेरपि जातित्वायोग इति-वाच्यम्; ज्ञानत्वादीनां धर्मिसमसत्ताकभेदवदुपहितवृत्तित्वात्। तर्हि शुद्धस्य कथं ज्ञानत्वादि लक्षणम् ? नहि गन्धो जलस्य लक्षणमिति चेन्न;उपहितवृत्तित्वेऽप्युपधेयवृत्तित्वानपायात्। तक्तं-'सत्यत्वादि विशिष्टशबलब्रहम वाचिनां सत्यादिपदानां शुद्धे ब्रह्मणि लक्षणे'ति। नच्र-अनृतस्वरूपे शबले सत्यत्वायोगः, योगे वा ततो नानृतव्यावृत्तिरिति-वाच्यम्; शबले हि सत्यता एषंव यत् परमार्थसंसर्गेण प्रतीयमाने तस्मिन् सत्यशब्दसङ्गतिग्रहः। तदुक्तं संक्षेपशारीरके-'आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता- काचिदन्या। तत्संपर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥I'इति। एवमानन्दा- दिपदेप्वपि द्वष्टव्यम्। तथाच कर्थं तेपां नानतादिव्यावर्तकत्वम्! एतेन-शुद्धादन्यत्र सत्यत्वाद्यसं- भवात् सत्यादिवाक्यस्य लक्षणया अखण्डार्थत्वे शुद्धे सत्यत्वादेरभानात् पर्यायत्वं दुर्वारमिति- परास्तम्। स्वरूपमात्रपरत्वेऽपि न पदान्तरवैयर्थ्यम् व्यावृत्तिभेदबोधनेन साफल्यादिति चोक्तमेव। नच-व्यावर्तकस्य सत्यत्वादेस्तात्पर्यतोऽसमर्पण व्यावृत्त्यसिद्धिरिति-वाच्यम्; 'गम्भीरायां नदां घोप: प्रतिवसती' त्यत्र यथा तीरे तात्पर्येऽपि नद्यामगम्भीरव्यावृत्तिरभिधावलाल्भ्यते; तात्पर्यविष- यागम्भीरनदीतीरव्यावृत्ततीरवुद्धावुपायत्वात्, तथात्राप्यभिधाबलात् सत्यत्वादिविशिष्ट तात्पर्या- भावेऽप्यापाततस्तत्प्रतीतिमात्रेणैव व्यावृत्तिसिद्धि: तात्पर्यविषयानृनादिव्यावृत्तस्वरूपवुद्धावुपाय- त्वस्य तुल्यत्वात्। नच नद्यादिपद्लक्ष्ये तीरादावनदीत्वादिवत् सत्यत्वादिपदलक्ष्येऽपि ब्रह्मण्यस- त्यत्वाद्यापत्तिः, जहल्लक्षणानभ्युपगमात्। यदि हि तीरादौ नदीत्वादिवत् ब्रह्मण्यपि सत्यत्वादिक- मभिधाबलात् न प्रतीयेत, तदैवं स्यात्, नत्व्रेवमस्ति; नद्यादौ नदीत्वादिवत् सत्यत्वादेर्व्ह्मण्येव प्रतीतेः। नचवं निर्धर्मकत्वव्याकोपः, व्यावहारिकस्य धर्मस्य सत्त्वेऽपि स्वसमानसत्ताकधर्मविरहेण तदुपपत्तेः, वाचकानामपि लक्षकत्वमन्यानुपरक्तस्वरूपभानायेत्यन्यत्। तदुक्तं कल्पतरुकृद्भि :-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। गाण्या वृत्तेवारणायासदृशेति। अन्तःकरणेत्यादि। इन्द्रियसन्निकर्षादिजन्यवृत्त्युपहितचित्वं ज्ञानत्वम्। चन्दना-
ब्धेति। परमते ज्ञानानन्दयोः स्वत एव भेद इत्यर्थः । सत्तायाः सत्तारूपपरजातेः । ब्रह्मलक्षणत्वायोगः कल्पतरूक्तबरह्मलक्षणत्वमयुक्तमिति भावः। जातित्वव्यपदेशात् कल्पतरो परजानित्वव्यपदेशात्। त्रिकालाबा- ध्यत्वमेवेति। त्रिकालबाधविपयत्वाभावस्याधिकरणीभूतसत्तारूपत्वेन तत्स्वरूपा सत्तेति भावः। तस्य त्रिका- लाबाध्यत्वोपलक्षितसत्वस्वरूपस्य। अनृनाश्रितत्वाभावेनेति। त्रिकालाबाध्यत्वस्येत्यादिः। त्रिकालाबाध्यत्वोपल- क्षितसत्वस्वरूपस्य स्वरूपलक्षणस्येति शेपः। तद्यावर्तकत्वसंभवात् अनृतव्यावर्तकत्वसंभवात्। स्वरूपलक्षणं यत्स्वरूपं, तत् इतरव्यावर्तकम्। अतः उन्तोपलक्षितसत्त्वस्य ब्रह्मस्वरूपतया तदितरव्यावर्तकत्वं युक्तमिति भावः । नन्वेवं सत्यपदेनैव लक्षणसमर्पणे त्वन्मते आनन्दादिपदं व्यर्थमित्याशङ्कय पूर्वोक्तं स्मारयति-आनन्दत्वादीति। धर्मिसमानसत्ताकभेदं स्वाश्रयसमसत्ताकभेदम्। सवं मेद:। लक्षणम् उपलक्षणम्; जात्युपलक्षितव्यक्तिस्वरूप- स्यैव सिद्धान्ते लक्षणत्वात्। पररीत्यवेदम्। एका स्वकालाबाध्यत्वरूपा। काचिदन्या त्रिकालाबाध्यस्वरूपत्वरूपा। तत्र आकाशादौ। अन्या त्रिकालाबाध्यस्वरूपतादात्म्यरूपा। तत्र उक्ततादात्म्यवति। व्युत्पन्नः गृहीतशक्तिकः । तत्र प्रथमद्वितीयसत्यत्वाभ्यां 'सत्यस्य सत्यं' 'सत्यं चानृतं च सत्यमभव'दित्यादिश्रीतप्रयोगोपपादनेऽपि लोके व्यवहारात् शक्तिग्रहस्ति्रिकालाबाध्यसद्रूपात्मक एव; घटः सन् इत्यादों तत्वेनेव लोके घटादे: प्रत्ययात्। 'सदेव सोम्येदं' 'सत्यं ज्ञान'मित्यादिवाक्ये तु सत्यादिप देनोक्तरूपात्मकत्वेनोप हितब्रह्मणः शक्तया बोधनेऽपि लक्षणया शुद्धब्रह्मबोधकत्वम्। तावता नोपहितस्य मिध्याभूतस्य त्रिकालायाध्यसद्रपता, नवोक्तसद्रपात्मकत्वेन शुद्देऽपि वर्तमानेनोपलक्षितस्य
Page 375
[सत्या० अखण्डार्थत्वोपपत्तिः ] गौडब्रह्मानन्दीयुता। ६९३
'सत्तादीनां तु जातीनां व्यक्तितादात्म्यकारणात्। लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति न॥' इति। गौर्नित्यो गौरनित्य इत्युभयत्रापि एकदेशान्वयार्थ लक्षणाभ्युपगमेऽपि जातिव्यक्त्योरुभयो- रपि तार्किकैरगोपदार्थत्वाभ्युपगमाच्च। ननु-औपनिषदे पुरुषे धर्मा न प्रत्यक्षेण प्राप्ताः, किंतु तत्वा- वेदकेन वेदेन, तथाच कथं व्यावहारिका इति-चेन्न वेदादापाततः प्रतीतानामपि वेदतात्पर्यविष- यत्वाभावादतातत्विकत्वोपपत्तेः । तात्पर्यविषये हि वेदस्य प्रामाण्यम्, यत्र च तस्य प्रामाण्यं, तदेव तार्विकमिति नियमात्। नच-वेदस्यातत्परत्वमात्रेण कथं व्यावहारिकत्वम्? बाध्यत्वेन चेत्, प्रस्तरेऽपि यजमानत्वं व्यावहारिकं स्यात्, यजमानत्वस्य तत्रानध्यासात् अव्यावहारिकत्वे शुक्ति- रूप्यादेर्व्यावहारिकत्वापत्तिरिति-वाच्यम्; वेदतात्पर्याविषयत्वेनातात्त्विकत्वे सिद्धे तत्त्वावेदक- बाध्यत्वव्यावहारिकावेदकबाध्यत्वाभ्यां व्यावहारिकप्रातिभासिकव्यवस्थोपपत्तेः। नच तत्त्वावेद- कस्य विशेष्यमात्रपरत्वान्न बाधकत्वम्; विशेषणवुद्धिद्वारकत्वेन तन्मात्रपरस्यापि बाधकत्वसंभ- वात् ; विशेषणेऽप्यवान्तरतात्पर्याभ्युपगमाद्वा। 'यजमान: प्रस्तर' इत्यादी तु न विशेषणे अवान्तर- तात्पर्यम्; तात्पर्यविपयसिद्धावनुपायत्वात्। महातात्पर्यविषयसिद्धुपाये हि अवान्तरतात्पर्यमिति सर्वमतसिद्धम्। ननु-व्यावृत्तयः सत्या मिथ्या वा, नाद्ः; व्यावर्तकानामपि सत्यत्वापत्तेर्व्यावहा- रिकाणां पारमार्थिकव्यावृत्त्यसाधकत्वात्, नान्त्य: शुक्त: शुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्ववदनृतव्यावृत्ते: ब्रह्मणि मिथ्यात्वे अनृतत्वस्य ब्रह्मसमसत्ताकत्वापत्तेरिति-चेत्र; उभयथाप्यदोषात्। तथाहि-व्यावृत्तेरव्रह्माभिन्नतया पारमार्थिकत्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः ? नहि यत् पारमार्थिकबोधकं, तत् पारमार्थिकमिति नियमोऽस्ति; बोध्यबोधकयोः समसत्ता- कत्वस्य पदतदर्थादौ व्यभिचारेण प्रागेव निरस्तत्वात्, दोषाप्रयुक्तभानत्वस्य सत्त्वप्रयोजकत्वात्। नापि व्यावृत्तिबोधकं व्यावृत्तिसमसत्ताकमिति नियम :; स्वाप्नाङ्गनादेरपि स्वजन्यसुखापेक्षया सुखा- न्तरव्यावृत्तिबुद्धिजनकत्वात्, कारणस्य कार्यव्यावर्तकत्वात्। सा च व्यावृत्ति: तव मते पारमा- र्थिक्येव। मम तु मते व्यावहारिकी। सर्वथापि प्रातिभासिकव्यावर्तकापेक्षयाधिकसत्ताकैव। नच व्यावृत्तेर्व्रह्माभिन्नत्वे ब्रह्मपदेनैव तल्लाभादितरपदवैयर्थ्यम्; सामान्यतस्तत्सिद्धावप्यनृतादिव्यावृ त्याकारेण तत्सिद्धौ साफल्यात्। एवमज्ञानादिव्यावृत्तीनामन्योन्याभेदे सत्यपदेनैव चारितार्थ्य- मिति अपास्तम ; तत्तदाकारेण सिद्धेस्तत्तत्पदं विनानुपपत्तेः। नच-एवं सत्यत्वज्ञानत्वादिधर्माणा- मपि व्यावृत्तिवत् ब्रह्माभिन्नतया पारमार्थिकत्वमस्त्विति-वाच्यम्; इष्ापत्तेः। तदेवं व्यावृत्तेः सत्यत्वे न कोऽपि दोषः । व्यावृत्तेर्मिथ्यात्वपक्षेऽ्पि नानृतत्वस्य ब्रह्मसमसत्ताकत्वापत्तिः; एकवाध- कबाध्यत्वस्योभयत्रापि तुल्यत्वात्, व्यावृत्तिवाधकावाध्यस्यैव प्रतियोगिनो व्यावृत्त्यधिकसत्ताक- त्वम्, नत्वेकबाधकवाध्यस्यापिः कल्पितरजतव्यावृत्तेः कल्पितरजते मिथ्यात्वेऽपि तदपेक्षया तस्याधिकसत्ताकत्वाभावात्। अधिकं मिथ्यात्वमिथ्यात्वोपपादने द्रष्टव्यम्। ननु-तत्त्वजिज्ञासुं मुमुक्षुं प्रति मिथ्याबोधनायोगः, नचानृतत्वादिभ्रान्तिनिवृत्त्यर्थ तत्; अधिष्ठानव्रह्मतत्त्वसाक्षात्कारे- गाडव्रह्मानन्दी (लघुचन्द्रिका)। शुद्धचिद्ूपलक्षण स्यानृतव्यावर्तकत्वासंभव इति भावः। यन्तु-सत्यत्वादेरुपहितगतस्य शुद्धेऽपि संबन्धस्वीकारे शुद्धस्य सत्यादिपदवाच्यतासंभवे तल्लक्ष्यत्वानुपपत्तिः, उपहिते सत्यत्वस्य श्रीतपदवाच्यत्वेन त्रिकालाबाध्यत्वरूपसत्यत्वं ब्रह्मणि श्रीतमिति सिद्धान्तभङ्गः, तार्विकसत्त्वस्य सत्यपदाबोध्यतवेन तद्वोध्यसत्वस्य लक्षणतवासंभवः-इति, तन्न; लक्षणां विना निष्पकारकबोधासंभवेन लक्षणावश्यकत्वात्। त्रिकालाबाध्यत्वं ब्रह्मणि श्रीतमिति सिद्धान्तस्यायमर्थ :- यच्छ्रुतिजन्येन सत्यत्वादयुपलक्षितशुद्धब्रह्मज्ञानेन शुद्धब्रह्मण्यनृतादिसंशयनिवृत्तिरिति। सत्यादिपदेन शक्त्या बोध्य- सत्वस्यालक्षणत्वं तु मन्मते इष्टमेव; लक्षणया तद्वोध्यस्पैव लक्षणत्वात्। लक्षणाभ्युपगमेऽपीति। तार्किकाणां मतेऽपि विशिष्टस्य शक्यत्वाद्विशिष्टान्वयस्य मुख्यत्वाच्च शक्तिज्ञानकार्यतावच्छेदकं विशिष्टान्वयबोधत्वमित्येकदेशीभूत- व्यक्तिमात्रान्वयो लक्षणयैव, जातिमात्रान्वयस्तु सुतरां लक्षणया। व्यक्तिविशेषणत्वेन शक्त्योपस्थितस्य व्यक्तिनैरपे- क्ष्येणान्वयाबोधादिति भावः । तात्पर्यविषये मुख्यतात्पर्यविषये। प्रामाण्यं तार्विकप्रामाण्यम्। विशेषणबुद्धि- द्वारकत्वेन निर्धर्मत्वादिवैशिष्चधीद्वारकत्वेन। विषयसिद्धौ प्रस्तरस्तुतिरूपविषयसिद्धी। अनुपायत्वादिति। तस्सिद्धिपेटिकान्यायेन यजमानकार्यसाधकत्वस्य यजमानपदलक्षितस्य प्रस्तरे ज्ञानमेव तदुपाय इति भावः। अनृत- त्वस्येति। ब्रह्मण्यनृतव्यावृत्तेर्मिथ्यात्वे ब्रह्मणि प्रतीतस्येत्यादिः । पदतदर्थादाविति।, नगनागादिपदेषु विभुषु ध्वंनिधर्महस्वत्वदीर्घत्वादिविशिष्टतया प्रातीतिकतवेऽपि तदर्थस्य तदभाव इति भावः । मिथ्याबोधनायोगः।
Page 376
६९४ अद्वैतसिद्धिः । [परिच्छेद: २]
णैव तननिवृत्तिसंभवे भ्रान्त्यन्तरोत्पादनायोगात्, नहि वल्मीके स्थाणुरयमिति भ्राम्यतः पुरुषोऽय- मित्युपदिश्यत इति-चेन्न; निवर्तकाधिष्टानतत्वसाक्षात्कार एव तस्योपायत्वात्, स्थूलारुन्धती- न्यायेन पूर्वपूर्वभ्रमनिवृत्तये काल्पनिकोपदेशस्य पश्चकोशस्थले दर्शनाच्च। यथाचात्मनि कल्पितेन व्राह्मण्येनाशङ्किता व्राह्मण्यभ्रान्तिर्निवर्तते, तथा व्यावहारिक्या व्यावृत्त्या प्रातिभासिक्यनृतादिभ्रा- न्तिर्निवर्तते। न चासद्यावृत्तेरव्यावहारिकत्वेSनपोदित प्रामाण्येन 'असद्वा इदमग्र आसी'दिति वाक्ये नासत्वस्य पारमार्थिकत्वप्रसङ्ग :; 'नेहनाने' त्यनेन तस्य निषेधात्, असद्वा इत्यादेरन्यपरत्वस्य प्रागेव दर्शितत्वाञ्च। तथाच मीमांसकमते अनृतस्याप्यर्थवादार्थस्य सत्ये प्राशस्त्य इव मिथ्याभू- तानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तम्। उक्तं हि-'सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारा पर्यवस्यन्ती'ति। नच व्यावृत्तिज्ञानस्य धर्मिधीसाध्यत्वेन चैपरीत्यापातः; धर्मवि- शिष्टधर्मिज्ञानसाध्याया व्यावृत्तेः शुद्धधर्मिज्ञाने द्वारत्वाङ्गीकारात्। नच-शाब्दे अर्थे आर्थिकस्य द्वारत्वमनुपपन्नम्, अन्यथा नीलमुत्पलमित्यादेरनीलव्यावृत्तिद्वारा स्वरूपमात्रपरत्वं स्यादिति- वाच्यम्; नीलमुत्पलमित्यादी स्वरूपमात्रबोधे तात्पर्याभावान्न शाब्देऽर्थे आर्थिकार्थापेक्षा, विशिष्टा- र्थंतात्पर्यात्। अत्र तु स्वरूपमात्रे तात्पर्यम्, तच्चार्थिकार्थस्य द्वारत्वं विनाऽनुपपन्नम्। नच- विशेषस्य त्वन्मतेSभानात् किं प्रागज्ञातं व्यावृत्त्या ज्ञापनीयमिति-वाच्यम्; अन्याविषयकस्य स्वरू- पज्ञानस्य भ्रमविरोधिनः साध्यत्वात्। नचैवमन्याज्ञाने द्वारत्वम; अन्यज्ञानप्रतिवन्धद्वारेण शुद्धज्ञान एव द्वारत्वसंभवात्। नच व्यावृत्तिज्ञान एव स्वरूपज्ञानं द्वारमस्तु; तस्याभिधावललब्धविशिए्ज्षा नादेवोपपत्तेः। नच-प्राचीने ब्रह्माज्ञाननिवर्तकव्रह्मापरोक्षज्ञाने तदज्ञानकार्यस्यान्यस्य भानायोगः, ब्रह्मप्रातिपदिकार्थवुभुत्सायामेव पतद्वाक्यप्रवृत्तिरिति स्वप्रक्रियाविरोधश्चेति-वाच्यम्ः ब्रह्मापरो- क्षज्ञानं हि तत्स्वरूपं वा, वृत्तिरूपं वा। आद्ये नान्यभानानुपपत्तिः तस्याविद्यानिवर्तकत्वाभावात्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
मिथ्याभूताया व्यावृत्तेर्बोधनमयुक्तम्। अनृतस्यापीति। 'सोडरोदीददरोदीत्तदुद्रस्य रुद्रत्वं यद्श्वशीर्यत तद्रजतम- भव'दित्याद्यर्थवादार्थो बाधितत्वात्प्रानीतिकरूपानृतः, तथापि न तद्वाक्यमप्रमाणम्; उक्तार्थस्य तातपर्यविपयीभूत- स्तुति द्वारत्वेपि तात्पर्याविषयत्वात्। एवं मुख्यतात्पर्यविपयी भृताखण्डब्रह्मधीद्वारत्वेऽपि व्यावृत्तेर्मुव्यतात्पर्याविषय- त्वेन व्यावहारिक्यास्तस्याः बोधनेऽपि सत्यादिवाक्यं तात्विकप्रमाणमेव, उक्तार्थवादार्थस्य तु व्यावहारिकमानबाधि- तत्वेन तदंशे अवान्तरतात्पर्यस्याप्यभावेन न व्यावहारिकप्रामाण्यमिनि भावः। अन्याविषयकस्य सत्यं न वेत्यादि- संशयानाश्मकस्य। अन्याज्ञाने मंशयोच्छेदे। अन्यज्ञानप्रतिबन्धद्वारेण लक्षणाजन्यज्ञाने उक्तसंशयरूपत्वघटनदा- रेण। यद्यपि वाक्यं शक्त्या सत्यत्वादिवैशिस्वमात्रबोधकम्; तथापि तान्पर्य संशयादिदोपात् तेन सत्यत्वादितद्भाव- कोटिकसंशयो जायते। तथाच सत्यत्वादिवैशिस्वनिश्चयरपद्वाराभावादपामाण्यशङ्काशून्यमखण्डाथज्ञानं न जायते। विचाराढिना तूक्तदोपनिवृत्तो सत्यत्वादिवैशिष्ट्य निश्चयआयावृत्तिनिश्चयेनेतरव्यावृत्ताखण्डज्ञानमुक्तशङ्काशून्यं जायत इति व्यावृत्तिधीप्रयोजिकया सत्यत्वादिवशिश्वधीसामधया संशयानात्मकज्ञानजननाद्यावृत्या संशयानात्मकज्ञानं साध्यमिति व्यवहारः। अथवा-वाक्यं लक्षणया अख्वण्डार्थबोधकमप्युक्तोप सहकृनं न तथा, किंतु सत्यत्वादिमंशयजनकम् उक्तरीत्या व्यावृत्तिनिश्चये तु अखण्डारथबोधकम्। अथवा-अन्याविषयकस्येनि क: स्वार्थ। तथाचाप्रामाण्यसंशय- रूपान्याविय स्याखण्डविपयकवृत्तिज्ञानस्य साध्यत्वादित्यर्थः । व्यावृत्यनिश्चये अखण्डज्ञानमप्रमात्वेन सन्दिह्यते इति व्यावृत्तिनिश्चयस्तादृशाखण्डज्ञाने द्वारमिनि भावः। विशिष्टज्ञानादेवेति। यद्प्यखण्डज्ञानोत्तरमपि धीविशेषविषय- त्वाभ्यामखण्डस्य पक्षत्वहेतुतासंभवेन व्यतिरेकव्यास्या व्यावृत्तिधी: संभवत्येव, सत्यत्वादिवैशिष्वज्ञानस्य व्यावृत्तिबोध- फलकत्वास्वीकारेपि सत्यत्वाद्युपलक्षिताखण्डधीद्वारा मिथ्यात्वादिसंशयनिवृत्तिफलकत्वान्न सत्यादिपदं व्यर्थम्। अतएव निवर्तनीयांशाधिक्येन न पदान्तरवैयर्थ्यमित्युक्तम्; तथापि व्यावृत्तिदवारा पर्यवस्यन्तीति प्राचीनोक्तिरपि निरवध्ेति भावः। अत एवाखण्डज्ञानं प्रकृत्य व्यावृत्तेः शाव्दबोधफलत्वेन तद्विपयत्वादिति अखण्डस्याप्यन्तःकरणवृत्तिभेदेन लक्ष्यलक्षणभाव इतिचोक्तम्। नहि व्यावर्त्यव्यावर्तकभावादन्यो लक्ष्यलक्षणभाव इति ध्येयम्। ब्रह्मज्ञानस्यान्याविषय- कत्वं व्यावृत्तिधियेत्युक्तं, तभ्न युक्तम्; यदि हि प्राचीने ब्रह्मज्ञाने अन्यविषयकत्वं संभाव्यते, तदा चरमस्य ब्रह्मज्ञानस्य तद्भावो व्यावृत्तिधिया, वाच्यः। नचप्राचीनमप्यन्यविपयकत्वेन संभाव्यते; अविद्यातत्कार्यनिवृत्तिस्वरूपयोग्य स्यैवावि- याततकार्याविपय कत्वादित्याशयेन शङ्ते-नच्र प्राचीन इति। निवर्त कत्वाभावात् निवृत्तिस्वरूप योग्यत्वस्याप्यभा
Page 377
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६९५
वृत्तिरूपमप्यापातदर्शनं नाविद्यानिवर्तकम्; तस्यासाक्षात्कारत्वाद्वा, साक्षात्कारत्वेऽपि प्रतिबद्ध- त्वाद्वा। विचारजन्यं तु फलीभूतं भवत्यविद्यानिवर्तकम् ? नतु तत्प्राचीनमिति किमनुपपन्नम्? ननु -सत्यशब्देनासद्यावृत्तिद्वारा यद्वोधितं, तदेव ज्ञानादिपदैरक्षानादिव्यावृत्तिद्वारा बोध्यमिति पदा- न्तरवैफल्यम्, नच द्वारविकल्प :; सत्यादिपदानां नित्यवच्छ्रवणात्, एकस्मिन् प्रयोगे वीहियवयोरि- वैकस्मिन् वाक्ये सत्याद्यनेकपदोपादानायोगात्, अनृतत्वादिभ्रान्तिनिवृत्तिरूपद्टप्टकार्याणां भिन्नत्वेन व्रीहियवादिवत् विकल्पप्रयोजकस्यैककार्यत्वस्याप्यभावाञ्चेति-चेत्न; समु्चितानां द्वारत्वेन सफ- लत्वात्। प्रधानस्य ब्रह्मणः प्रतिपत्त्युपयोगिनामानन्दादीनां भावरूपाणां 'आनन्दादयः प्रधानस्ये' त्यनेनास्थूलत्वादीनामभावरूपाणं 'अक्षरघियां त्ववरोधः सामान्यतन्भ्रावाभ्यामोपसदवत्तदुक्त'मि त्यनेन च सूत्रेण निर्गुणब्रह्मप्रतिपत्तावेव सर्वशाखोपसंहारस्य प्रतिपादितत्वेन द्वारसमुच्चयस्यैवेष्ट- त्वात्। ननु-सगुण ब्रह्मण्युपासनार्थ भवतु शाखान्तरीयगुणोपसंहारः, निर्गुणव्रह्मप्रतिपत्ती तु किं शाखान्तरीयगुणोपसंहारेण? सत्यादिपदानां प्रत्येकं लक्षकत्वेन लक्ष्यव्रह्मबोधने प्रत्येकमेव समर्थ- त्वात्, सत्यत्वादेश्च प्रत्येकं लक्षणत्वात्। नहि प्रकष्टत्वादिकमिव सत्यत्वादिकमतिव्याप्तमिति- चेत्, न; प्रकृष्टप्रकाशपदयोरिव सत्यादिपदानामपि कुमतप्राप्तातिव्याप्तिनिवृत्त्यर्थ समुच्चयापेक्षणात्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। वात्। नाविद्यानिवर्तकं नाविद्यानिवृत्युपधायकम्। प्राचीनमित्यादिः। तथाच निवृत्युपधायकस्यैव सत्यत्वादिवैशि- प््यनिश्चयाधीनव्यावृत्तिनिश्चयाधीनत्वेन व्यावृत्त्यविपयकत्वनियमः, प्राचीनं तु निवृत्तिस्वरूपयोग्यमप्यन्यविषयकं संभाव्यत इति चरमस्यातथात्वनियमाय व्यावृत्तिबुद्धिरवश्यापेक्षणीयेनि भावः । असाक्षात्कारत्वादिति । साक्षि- संबन्धविपयत्वमात्रान्न साक्षात्कारत्वम्, किंतु भ्रमत्वेनागृह्यमाणत्वविशेपितं तदिति भावः। नतु तत्प्राचीनं न तु नत्प्राचीननुल्यम्। तुत्यत्वमन्यविषयकत्वेन। तथाच तस्यान्याविपयकत्वाय व्यावृत्तिधीरपेक्षणीयेति भावः। यत्तु प्राची नेन्यादिशङ्काया व्याख्यानं-दारीभृतव्यावृत्तिज्ञानात् प्राचीने सत्यत्वादिवेशिष्वज्ञानत्वाभिमते ब्रह्मज्ञाने अवि- द्याकार्यभानायोगः; तस्यवाविद्यानिवर्नकत्वसंभवात। तथाचाविद्यानिवर्तकमुत्तरज्ञानमङ्गीकृत्य तत्र व्यावृत्तिधीसाध्यत्व- स्वीकारो व्यर्थ :- इति, तन्न शोभते; सत्यत्वादिवैशिष्बोधोत्तरज्ञानस्यैवानृतत्वा दिसंशयनिवर्तक त्वेनानुभवसिद्धत्वेन तदनुत्तरज्ञानस्यानुपयुक्तत्वात्। किंच सत्यत्वादिर्वशिश्वधीत्वेनाभिमनं सत्यादिवाक्यजन्यज्ञानं, तत् कथं ब्रह्माविद्या- निवर्तकम्। अथ पदाथाज्ञाननिवर्नकत्वमेव तत प्रकृते उक्तमिनि वाच्यम्। तथाप्यविद्याकार्यसामान्यस्य तद्विपयक- त्वासंभवोक्तिर्न युक्तव। कथं वा सत्यादिवाक्यजन्यज्ञानस्यापरोक्षत्त्रमुक्तमिति। तस्मात् स्पष्टमस प्रतारकः । द्वार- विकल्पः द्वारीभृतबोधसाधनसत्यादिपदानां वैकल्पिकमुपादानम्। नित्यवच्छ्रवणात् नित्यानुष्टीयमानात् शिष्टानां सत्यज्ञानादिसकलपद्विचार रूपाच्छवणात्। एकवाक्ये सत्याद्यनेकपदानामेकबोघार्थे शिष्टानां यदुपादानं प्रतिसन्धा नरूपं तदयोगात्। अथवा-नित्यवत् वाशब्दादियोगं विनेव। श्रवणात् पाठातू। ननु वाशब्दादियोगं विनाप्येकप्रयोजनकानां विकल्पस्वीकारान्ं अविकल्पनियामकत्वं न वाशव्दाद्यभावस्येत्यत आह-अनृतत्वादीति। भिन्नत्वेनेति। यथा पञ्वप्रयाजानामदष्टरूपकार्यभेदात् समुच्चयः; एककार्यस्यान्येनोत्पादे मानाभावात्। एवं हष्ट- रूपकार्यभेदेऽपि अङ्गानां समुच्चयः । अत एवाज्नाभ्यज्ञननामकसत्रे गौग्गुलवेन प्रातःसवने अभ्यक्क इत्यादिनोक्ततं गौग्गुलवाद्यभ्य ज्ञनं प्राकृतस्य नवनीताभ्यअ्ञनस्य न निवर्तकम्, किंतु नवनीताभ्यज्ञनं स्रेहनार्थम्। गौग्गुलवादिकं तु रूक्षीकरणार्थमिति दृष्टकार्यभेदात् समुच्चय इनि दशमचतुर्थे सिद्धान्तितम्। 'आनन्दादयः प्रधानस्ये'ति तृती- याध्यायस्थसूत्रस्यायमर्थः-यत्र शाखायामा्नन्दादिपदानामन्यतमं न श्रूयते, तत्रापि तदुपसंहर्तव्यम् । यतः तत्प्रधानस्य ब्रह्मणोऽनृतादिव्यावृत्तस्वरूपस्य प्रतिपत्युपाय इति। अस्थूलत्वादीनामिति। ब्रह्मणः प्रतिपत्युप- योगिनामित्यनुपज्यते। 'अक्षरधिया'मित्यादेरपि तृतीयाध्यायस्थसूत्रस्यायमर्थः-बृहदारण्यके 'एतद्वै तद- क्षर'मित्युपक्रम्योक्तत्वेन अक्षरधियः अस्थूलत्वादयः । अक्षरस्य धीः येभ्यः ते अक्षरधियः। ते यत्र 'यत्तदद्रेश्यम- ग्रह्य'मित्यादो न श्रूयन्ते, तत्रापि तेपामवरोध उपसंहारः। सामान्यात् प्रपञ्चमान्ननिपेधेन ब्रह्मप्रतिपादनस्य सर्वत्र समानत्वात्। तन्भ्ावात् 'अथ परा यया तदक्षरमधिगम्यते' 'यत्तदद्रेश्य'मित्यादिवाक्येप्वक्षरस्य प्रतिपाद्यतया भावात् सत्वात्। ओपसद्वत् यथा जामदशयहीने पुरोडाशनीपूपसत्सु चोदितासु पुरोडाशप्रदानमन्नाणामभनेर्वे होत्रं वेध्वरमित्येवमादीनामुद्गातृवेदोत्पन्नानामध्वर्युभि: संबन्धो भवति; पुरोडाशप्रदानस्याध्वर्युकर्तृकत्वादङ्गानांच प्रधानतब्रत्वात्, तदुक्तं पूर्वमीमांसायां-'गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग' इत्यत्र, तथेहाप्यक्षर- रूपप्रधानतत्राणामस्थूलत्वादीनां यत्र क्वचिदुत्पन्नानां सर्वत्र विद्यमानेनाक्षरेण प्रधानेन संबन्ध हृति। लक्षणत्वात्
Page 378
६९६ अद्वैतसिद्धिः । [परिच्छेद: २]
नह्यनृतव्यावृत्तिबोधनं विना 'विज्ञानमानन्दं ब्रह्मे' त्यत्न शून्यवादव्यावृत्तब्रह्मसिद्धिः। एवमेकैकप- दाभावे सर्वत्रातिव्याप्तिरूहनीया। तथाच सत्यत्वादिकमनृतादिव्यावृत्तिद्वारा शून्यवादादिव्यावृ त्व्रह्मसिद्धेरुपायः। नच-व्यावृत्तिः किं ब्रह्मविशेषणत्वेन बोध्या, स्वतन्त्रा वा, आद्ये सखण्डार्थ- त्वम्, द्वितीये ब्रह्म जिज्ञासुं प्रति तदुपदेशोऽसङ्गत इति-वाच्यम्; व्यावृत्तिर्यद्यपि विशेषणतयैवा- र्थिकबोधे भासते, तथापि न शाब्दबोधे सखण्डार्थत्वम्। यश्चार्थादर्थो न स चोदनार्थ इति न्या- यात्। तदुकं वार्तिककारै :- 'मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः।' इति। नचार्थिकेनापि विशेषणेन ब्रह्मणः सखण्डत्वापत्तिः; निर्धर्मकत्वादिश्रुतेर्विशेषणस्य धर्म्यसमानसत्ताकत्वेन सख- ण्डत्वाप्रयोजकत्वात्। नच-अनन्तशब्देनान्तवद्यावृत्तेस्साक्षादेव बोधनान्न तस्य आर्थिकत्वम्, तथाचानन्तपदस्य सखण्डार्थत्वं स्यादिति-वाच्यम्; यद्यपि 'तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम्। स्वार्थार्पणप्रणाड्या तु परिशिष्टी विशेषणम् ॥।'ति तैत्तिरीयवार्तिकोक्तदिशा विधिपदानां स्वार्थार्पणप्रणाडिकया अर्थादितरनिवृत्तिबोधकत्वम्; निषेधपदानां तु साक्षादिति स्थितं, तथापि द्वारभूते ज्ञाने सखण्डार्थत्वेऽपि परमतात्पर्यविषयज्ञाने नाखण्डार्थत्वव्याघात इत्यसकृदुक्तम्। एतदे- वोक्तमानन्दबोधाचार्ये :- 'लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः। विज्ञानानन्दपदयोः पर्यायव्य- र्थते नहि॥' इति। एवं पदे लक्षणेति पक्षे समाहितम्। केचित्त्वत्र वाक्ये लक्षणामाहुः, न पदे। तथाहि-यथा 'गम्भीरायां नद्ां घोष' इत्यत्र गम्भीरनद्योः परस्परमन्वयबोधानन्तरं विशिष्टार्थसं- बन्धि तीरं लक्ष्यते, तथा प्रकृते परस्परविशिष्टार्थबोधानन्तरं तत्सम्वन्ध्यखण्डं लक्ष्यते। तथाच न पद्वैयर्थ्यम्। नच तत्रापि प्रत्येकं लक्षणा; तथासति गम्भीरनदीतीरादिलाभेन विशिष्टतीरवुद्धिर्न स्यात्। नच तत्र गम्भीरनदीपदयोरिव इह सत्यादिपदानां परस्परमन्वयबोधकत्वं त्वन्मते नास्तीति -वाच्यम्; एकस्मिन् ब्रह्मणि द्वारीभूतस्य परस्परार्थान्वयबोधस्य सत्यादिपदैः मिलित्वा जननात्, उत्तरकाल एव लक्षणया अखण्डबोधस्याभ्युपगमात्। नच-'सत्यं ज्ञानं विज्ञानमानन्द'मित्यादौ
गौडव्रह्मानन्दी (लघुचन्द्रिका)। लक्षणी भूताखण्डस्वरूपस्य स्ववैशिष्ठ्यज्ञानाधीनव्यावृत्तिधीद्वारा बोधकत्वात्। सत्यन्वादिकं सत्यत्वाध्ेकैक्मा त्रेण उक्तद्वारा बोधितम्। शून्यवादव्यावृत्तेति। शून्यवादोत्थितविप्रततपत्याऽनृतत्वेन सन्दिह्यमानं यत् तदन्येत्यर्थः। उक्तव्यावृत्तिबोधोत्तराखण्डज्ञानस्यैवोक्तसंशय निवर्तकत्वमिति भावः। अपोहः अनृतादिव्यावृत्तिः । परिशिष्टी सत्यादिपदेपु। विशेषणमिति। सत्यत्वादिरिति शेपः। निषेधपदानामिति। तथाचानन्त इति अस्थूलादीनामुप- लक्षणमिति भावः । ननु-मिथ्यात्वाद्यभावरूपसत्यत्वादिवैशिष्ठ्यज्ञान स्याप्यनृतत्वादिसंशय निवर्तकत्वात् तन्म्र द्वार- काखण्डज्ञानेनापि शून्यवादिव्यावृत्तं ब्रह्म सिध्यतीत्यनृतादिव्यावृत्तिनिश्चयस्य द्वारत्वं व्यथेम्, एवं ज्ञानत्वादिवैशिष्ठ्य- ज्ञानस्यैव जडत्वादिसंशयविरोधित्वरं संभवतीति ज्ञानादिपदस्थलेऽपि तद्यावृत्तिधीद्वारत्वं व्यर्थमिति, एवमनन्तपदस्याप- रिच्छिन्नबोधकत्ववत् सत्यादिपदमप्यनृताद्यन्यबोधकमिति साक्षातस्वार्थविशेषणतायाः सत्यादिपदप्वपि संभव इति- चेन्न; अनृतत्वस्य स्वाधिकरणवृत्तिस्वान्यूनसत्ताकात्यन्ताभाव प्रतियोगित्वं, प्रमानिवर्त्यत्वं, सदसदविलक्षणत्वम्, इत्या- दिरूपतया तदभावरूपसत्यत्वस्यापि नानात्वेन एकविधसत्यत्ववैशिष्ठ्यज्ञानेऽपि अन्यविधानृतत्वसंशयानिवृत्तस्तन्निवृत्तये तत्तदनृतत्वविशिष्टव्यावृत्तिवै शिष्ट्यज्ञानमेकविधसत्यत्व हेतुकमवश्यं वाच्यम्; सर्वसत्यत्वानामेकदा सत्यपदेनाबोधनात्। नच-एकसत्यत्वस्यंव सर्वानृतव्य।वृत्तिव्याप्यतया ग्रहात्तज्ज्ञानमेव सर्वानृतत्वविरोधीति-वाच्यम्; तादृशग्रहाभाव- काले तदसंभवात्। किंच सत्यत्वादिवैशिष्ठ्यज्ञानं मिथ्यात्वव्याप्यस्यागन्तुकदोषजन्यधीविपयत्वस्य वैशिष्ठ्यज्ञाने न विरोधि, सत्यत्वादिहे तुकमुक्तविषयत्वविशिष्टान्यत्वज्ञानं तु तद्विरोधीति तदावश्यकम्। अतएव ज्ञानत्वादि हेतुकव्या- वृत्तिधीरपि न व्यर्था; ज्ञानाद्यन्यत्वव्याप्यददश्यविशेपत्वज्ञाने ज्ञानत्वादिवैशिप्ठ्यज्ञानस्याविरोधित्वात्। अथवा- परमते सत्यत्वादेरिव नुल्ययुक्त्या अनृतत्वादेरपि जातित्वादेकवैशिष्ठ्यधीर्नापरवैशिष्ठ्यधीविरोधिनी। तथाचानृतत्व- जडत्वानानन्दत्वादिजातिविशिष्टसंशये सत्यत्वादिहेतुकमुक्तविशिष्टभेदज्ञानस्यैव निवर्तकत्वात्तदावश्यकमिति दिक्। अन्वयबोधानन्तरमिति। उक्तान्वयबोधं विनोक्त्तविशिष्टार्थे वाक्यज्ञाप्यत्वाभावेन स्वज्ञाप्यसंबन्धरूपलक्षणाया- स्तीरे ज्ञातुमशक्यतवात् उक्तान्वयबोध आवश्यक इति भावः। विशिष्टार्थसंबन्धि तीरं लक्ष्यते तीरतवेन रूपेण वस्तुगत्या गम्भीरनदीसंबन्धि तीरं लक्ष्यते। एवंच शुद्धं ब्रह्म वस्तुगत्या विशिष्टवाक्यार्थसंबन्धि लक्ष्यत इति दृष्टान्तसादृश्यम्। अतएव वक्ष्यते 'गम्भीरनदीतीरत्वेन लक्षणानभ्युपगमा' दिति। तथासतीत्यादि। प्रत्येकपद्ज्ञाप्यत्वस्य प्रत्येकार्थेऽपि सत्वेन प्रत्येकार्थमातसंबन्धि यत्तीरं तीरतवेन रूपेण तद्विपयिकापि शाब्दधीः
Page 379
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ६९७
अन्योन्यानपेक्षाणां सत्यादिपदानां ब्रह्मलक्षकत्वदर्शनात् कथं गम्भीरायामित्यादितुल्यन्यायतेति- वाच्यम्; यत्र वस्तुगत्या गम्भीरनद्यमिप्रायेणैव नदां घोष इत्युक्तं, तत्र परस्परनिरपेक्षलक्षकत्वस्य गम्भीरायामित्युक्तौ च मिलितलक्षकत्वस्य दर्शनात्, गुणोपसंहारन्यायेन द्वारसमुख्चयस्य स्थापित- त्वाञ्च। नच-परस्परपदसाहित्येन तत्र गम्भीरनदीसंबन्धि तीरं लक्ष्यते, अन्यथा त्वेकैकसंबन्धि, प्रकृतेत्वधिकलाभो न पदान्तरेणापीति-वाच्यम्; तत्रापि युगपद्दत्तिद्वयविरोधापत्या गम्भीरनदी- तीरत्वेन लक्षणानभ्युपगमात्, वस्तुगत्या विशिष्टसंबन्धिनः प्रत्येकपदादपि लाभात् । अथ विशि- प्रवुद्धिद्वारत्वाद्वारत्वाभ्यां विशेषः, प्रकृतेऽपि स तुल्य एव। ननु-गम्भीरायामित्यत्रापि न मिलिते लक्षणा, किंतु नदीपद एव; परस्परसाहित्येन विशिष्टवोधानन्तरं स्वज्ञाप्यविशिष्टसंबन्धिनि लक्ष- णासंभवात्, स्वश्ञाप्यसंबन्ध एव हि लक्षणा; लाघवात्, नतु तद्विशेषः शक्यसंबन्धः; गौर- वात्, तथाच पद्दये लक्षणा, लक्षणद्वयं वा न युक्तम्। एवंच वृत्तेः पदवृत्तित्वनियमोपि सङ्ग- च्छत इति-चेत्, नैतत्सारम् : स्वज्ञाप्यसंबन्धो हि लक्षणेति त्वयोच्यते। तञ्च ज्ञाप्यं प्रकृते विशि- प्टम्, तज्ज्ञापकत्वं चोभयोः साधारणमिति कथं नदीपद एव लक्षणा? न गम्भीरपदे; विनिगमकाभा- वात्। नच-गाम्भीर्येण सह तीरस्य परम्परया संबन्धः, नद्या: साक्षात्संबन्ध एव विनिगमक इति -वाच्यम्: 'निम्नं गभीरं गम्भीर'मिति कोशात् गम्भीरपदस्य निम्नरूपनदीद्रव्यवाचित्वेन साक्षा- त्संबन्धस्यापि साधारणत्वात्। नच-विशेषणविभक्त: साधुत्वार्थकत्वात् गम्भीरपदलक्षणायां विभक्त्यर्थानन्वय इति-वाच्यम्; विशिष्टबोधसमये गम्भीरपदस्य विशेषणपदत्वेऽपि विशिष्टसंब- न्धिलक्षणासमये विशेष्यपदत्वात्। विशेषणविभक्ते: साधुत्वार्थकत्वमित्यप्यसंबद्धम्; अभेदार्थक- त्वस्य नैयायिक: प्रत्येकमन्वयस्य च मीमांसकैररुणाधिकरणसिद्धस्य चाभ्युपगमात्। एवमन्यदपि गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्यात्, ननु नियमेन विशिष्टार्थसंबन्धि तीरं तीरत्वेन गाहमानेनि भावः। नच सत्यमित्यादि। सत्यं ज्ञानमित्या- दितत्तिरीयवाक्ये आनन्दपदनरपेक्ष्येण विज्ञानमानन्दं ब्रह्मेति बृहदारण्यकवाक्ये च सत्यपदनैरपेक्ष्येण ब्रह्मलक्ष- कत्वात् कथं नुल्यतेनि भावः। वृत्तिद्वयविरोधेति। नच-विशिष्टतीरत्वरूपेण लक्षणास्वीकारेण गम्भीरत्वा- दिना शक्त्यधीनबोधानङ्गीकारान्नेदं युक्तमिति-वाच्यम्; विशिष्टतीरत्वरूपेण लक्षणायां हि गम्भीरायामित्यादौ विशिष्टरूपेणैव बोधस्यानुभूयमानत्वं साधकम्। तथाच साधकबलादेव शक्त्या बोधितस्य गम्भीरनदीसंबन्धित्वस लक्षणयोपस्थिततीरेऽन्वयोऽस्नु, किं विशिष्टगुरुरूपेण लक्षणया ? युगपद्वृत्तिद्वयविरोधोऽपि वाक्यलक्षणान्यस्थल एवे- त्यापत्तिः। तथाच व्युत्पत्तिभेदकल्पने गौरवमित्यत्र विरोधापत्येत्यस्य तात्पर्यात्। यदि तु विशिष्टतीरत्वेन बोधे नियमा- भावः, तदा केवलतीरत्वेन बोधस्थले 'गम्भीरायां नदां घोप' इत्यनयोरविशेषः स्थित एवेति भावः। प्रत्येकपदा- दपीति। तीरत्वेन नीरविशेपतात्पर्यादिना धीसंभव इति भावः। द्वारत्वाद्वारत्वाभ्यामिति। गम्भीरनदीरूप- विशिष्टस्य धीर्गम्भीरायामितिपदस्य सत्चे तीरत्वेन तीरविशेषधीद्वारम्, तद्सत्चे तु सा न तथेत्यर्थः। तुल्य इति। 'नद्ां घोप' इत्यत्रापि वस्तुगत्या गम्भीरनदीसंबन्धिनो लाभसंभवेन दष्टान्त इव दार्ष्टान्तिकेऽपि विषयतोऽधिकलाभः, प्रयोजनतस्तु दृष्टान्ते अधिकालाभेऽपि दार्ष्टान्तिके शून्यवादादिव्यावृत्तव्रह्मसिद्या अधिकलाभ उक्त एवेति ध्येयम्। स्वज्ञाप्यविशिष्टेति। विशिष्टवाक्यार्थों वाक्येनेव पढ़ेनापि ज्ञाप्यत इति भावः। ननु पदस्यैव लक्षकत्वनियमे स्वशक्यसंबन्ध एव लक्षणा संभवति, वाक्यार्थश्च न स्वशक्यः, तत्राह-स्वज्ञाप्यसंबन्ध एवेति। परंपरया स्वाश्रयनदीसंयोगाभिन्नः। निम्नरूपनदीद्रव्यवाचित्वेनेति। निम्नत्वेन नदीवाचित्वेनेत्यर्थः । गम्भीरनद्यामपि स्वज्ञाप्यतावच्छेदकगम्भीरत्ववैशिष्यसत्वेन तत्संयोगरूपः साक्षात्संबन्ध एव तीरेऽस्तीति भावः। विभक्त्यर्थानन्वय इति। नदीपदोत्तरविभकत्यर्थस्य गम्भीरपदलक्ष्येऽनन्वयः; प्रत्ययानां स्वप्रकृत्यर्थान्वितस्वार्थबोधकत्वादिति भावः । नैयायिकैरिति। विशेषणविभक्ते: साधुत्वार्थकत्वमुक्त्वा 'यद्वा विशेषणविभक्तिरभेदार्थिके'ति शब्दमणावुक्तम्। संभवत्यर्थसाधुतवे पदसाधुत्वमयुक्तमित्यत आह-यद्वेतीति मिश्रैस्तदवतारितम्। प्रत्येकमन्वयस्य भावनान्वितप्र- त्येकविभक्तयर्थकारकेषु आरुण्यादिरूपनामार्थान्वयस्य। अरुणाधिकरणेति। ज्योतिष्टोमे श्रूयते-'अरुणया पिज्ञाक्ष्या एकहायन्या सोमं क्रीणाती' ति। तत्र पिङ्गाक्ष्यादिपदद्वयस्य जातिवचनत्वासंभवेन विशिष्टद्वव्यवाचित्वम्। तब द्रव्य- दवयं सामानाधिकरण्यादेकम्। अरुणापदस्य तु आकृत्यधिकरणन्यायेन जातिवदनुगताखण्डारुण्यगुणो वाच्यः। स च न क्रयार्थः; अमूर्तत्वेन क्रये साधनत्वासंभवात्, किंतु वाक्यं भित्वा प्रकरणेन प्राकरणिकक्रिकयामात्रे। यदपि तत्रापि न साक्षात्साधनत्वम्; अमूर्तत्वात्, द्रव्यपरिच्छेदकत्वेन तत्रान्वये चैकहायन्यादिपरिच्छेदकरवेन क्रयभावनायामेव अ. सि. ८८
Page 380
६९८ अद्वैतसिद्धिः । [ परिच्छेद: २]
वाक्यलक्षणोदाहरणमनुसन्धेयम् गच्छ गच्छसि चेत् कान्तेत्यादि विषं भुङ्क्ष्वेत्यादि च । ननु-अत्र जन्मना मरणानुमानम्, तेन च तत्साधनीभूताया: गतेरकर्तव्यतानुमानमित्यनुमानपरम्परेव, न लक्षणा ; अनन्यलभ्यस्यैव शब्दार्थत्वात्, न हि धूमोऽस्तीति वाक्यं वह्निलक्षकम्, विषमित्यादावपि विषभोजनस्येष्ट्रसाधनतोक्त्या शत्रुगृहान्नभोजनस्यानिष्टसाधनत्वमाक्षिप्यते। यद्ा-आप्स्य प्रमाण- विरुद्धोपदेष्टत्वेन कोपोऽनुमीयते। तत्रच प्रसक्तशत्रुगृहान्नभोजनस्य हेतुत्वं कल्पयित्वा तत्राकर्तव्यता नुमानम्, न लक्षणेति-चेत्, नैतत्साधुः जन्मना मरणाक्षपेऽपि तन्मरणे गमनस्य हेतुत्वानाक्षेपात्, शतवर्षानन्तरं जरादिनापि तदुपपत्तेः। तथाच प्रियामरणे हेतुत्वं गमनस्य न लक्षणं विनाऽवगन्तुं शक्यम्। नापि प्रियामरणहेतुत्वेन गमनस्याकर्तव्यत्वानुमानम्; प्रियामरणहेतोरपि तत्वेनाज्ञानद- शायां गुरुनिदेशाद्वा आत्मत्राणार्थ वा कुलापकीर्तिपरिहारार्थ वा कर्तव्यत्वदर्शनेन व्यमिचारात्। तथाच गमनस्य प्रियामरणहेतुत्वं तादृशस्य चाकर्तव्यत्वमित्युभयमपि लक्षणाधीनम्; जन्मनिर्देश- स्य च प्रकृतेऽनुपयोगात् तेन प्रकृतोपयोगिन्यगमने तात्पर्य ज्ञाप्यते समुदायस्य। तथाच समुदाय एव लक्षणा। न प्रत्येकपदेः प्रत्येकं तात्पर्यक्ञापकाभावात्। तथाच नात्रानुमितिपरम्परा, नवा प्रत्येकपदे लक्षणा। एवं 'विषं भुङ्क्ष्वें त्यत्रापि विपभोजनेष्टसाधनत्वेन शत्रुगृहान्नभोजनानिष्टसाध
गौडब्रह्मानन्दी (लघुचन्द्रिका)। निवेशो युक्तः, एकवाक्यत्वानुरोधात्; तथापि एकस्मिन् उत्तवाक्ये एकहायन्या विधेयत्वेनानुवाद्यत्वासंभवात् वाक्या- न्तरविहि तप्राकरणिक द्रव्यमनद्यारुण्यादिविशिष्टद्रव्यं लक्षणया अरुणापदेन उपस्थाप्यं विधीयते। द्रव्यमात्रस्य प्राप्त- त्वेऽपि तद्दारा प्रकृतक्रियायामारुण्यं विधीयते इति प्राप्ते, क्रयान्वितभावनायामारुण्यरूपमुख्यार्थस्यैवान्वयोऽस्तु, न प्राकरणिकक्रिकियामत्र उत्तद्रव्यस्य; लक्षणावाक्यभेदयोरन्याय्यत्वात्, अमृर्नस्यापि तस्य द्रव्यपरिच्छेदद्वारा करणत्वसंभ- वात्। अन्यथा द्रव्यद्वाराप्यमूर्तस्य करणत्वासंभवात्। तथाच प्रथममेकहायनीपिङ्गाक्षीपदार्थयोरिवारुण्यस्यापि करण- कारकान्वयद्वारा भावनायामेवान्वयेऽपि एकहायनीपरिच्छेदद्वारा क्रयोद्देशेनारुण्यस्य पश्चाद्विधिकल्पनात् सोमादेयागा- दाव्रिव आरुण्यस्य क्रयेऽङ्गतेति तृतीयप्रथमे 'अधैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्ा'दित्यधिकरणे स्थितम्। वाक्या- थैंकत्वसंभवे एकहायनीद्रव्यारुण्ययोरेकक्रयाङ्गत्वादेकहायन्यामेवारुयं शास्त्रार्थः, नतु प्राकरणिकद्रव्यमात्रे इति नियम इति सूत्रार्थः । यन्तु वाक्यलक्षणा न युक्ता, सा हि नदीत्यन्ते वा नद्यामित्यन्ते वा। नाद्यःः तस्याप्रकृतित्वेन तदर्थे सुबर्थस्यानन्वयात्। अत एव नान्त्य :; सुबर्थे सुबर्थस्यानन्वयाच्चेति मण्यादावुक्तं, तत्तच्छम्; आद्ये समुदायस्य लक्ष्यार्थवत्वेन नामवात्, द्वितीये Sपि सुम्मात्रार्थयोरनन्वयेऽपि समुदितवाक्यार्थस्यातत्वेनादोपान्।नच-द्वितीयपक्षे वाक्यस्य सुबन्तत्वाभावेन वृत्याऽथबोधकत्वानुपपत्तिः; अर्थवत्वेन नाम्नोऽपि तस्य नीररूपार्थी नाभेदेन क्रियान्वयी; अयोग्यत्वात्। नापि भेदेन; अव्युत्पत्तेरिनि-वाच्यम्; नीरवृत्ताचेव लक्षणास्वीकारेण वाक्यस्य द्विनीयान्तत्वसंभवेना- भेदान्वयस्य क्र्ियायां संभवात्। यत्र तु न द्वितीयान्तत्वसंभवः यथा 'गम्भीरया नद्या वृक्षा जनिता' इत्यादो, तत्र नर्दीत्याद्यन्त एव लक्षणास्वीकारात् नासाधुत्वं नवाऽनन्वयः। एपैव रीतिरर्थवादवाक्येऽपि लक्षके बोध्या । तन्नापि हि भावनारूपत्रियायामेवान्येपामिव बलवदनिष्टाननुबन्धित्वरूपप्राशस्त्यस्याप्यन्वयः प्रथमम्। पश्चादेव धात्वर्थे। प्रथममेव वा करणेतिकर्नव्यताविशिष्टायां भावनायां तदन्वयादिशेपणीभृतयोः करणेनिकर्नव्यतयोस्नदन्वय इनि ध्येयम्। मरणानुमानमिति। मद्मनारम्भोत्तरं प्रतीयमानमेतस्या जन्म, पूर्वशरीरप्राणवियोगरूपमरणपूर्व- कम्, पूर्वशरीरप्राणवियोगे सन शरीरग्रहणासमर्थेस्य शरीरग्रहणत्वान्, संमतवदिनि अनुमानम्। अनिष्टसाधनत्व- माक्षिप्यत इति। विपभोजनं न तृप्तिरूपस्ेष्टस्य साधनम्, नवेष्टान्तरस्य; मरणहेतुन्वात्, किंतु शत्रुगृहभोजनस्य प्रसक्तस्य दुःखसाधनत्वं संभावितमिनि शत्रुगृहभोजनद्वारा मृतत्वप्रतिसन्धानजन्यदुःस्यानुत्पादरूपेष्टस्य। तस्मात्ता- दशदुःखोत्पादरूपवलवदनिष्टसाधनं शत्रुगृहभोजनं विना विपं भुङ्क्ष्वेति वाक्यमाप्ोक्तमनुपपन्नमित्याक्षिप्यते । अथवा-विपमित्यादिवाक्यं शत्रुगृहभोजनप्रसक्तावुच्यमानं सावधारणम् । विपभोजनमेव बलवदनिष्टासाधनत्वे सतीष्टसाधनं नतु शत्रुगृहभोजनमित्यथकमिनि तदर्थकत्वं तस्य शत्रुगृहभोजने बलवदनिष्टसाधनत्वं विनानुपपन्नमि- त्याक्षिप्यत इत्यर्थः । प्रकृते प्रियावाक्ये। अनुपयोगात् गमनं मास्त्वितीच्छन्त्याः प्रियायास्तात्पर्यविषयत्वायोग्य- यथाश्रुतार्थकत्वात्। प्रकृतोपयोगिनि प्रियातात्पर्यविषयत्वयोग्ये। ननु-'विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमा- दति। शरीरे पाप्मनो हित्वा सर्वान् कामान् समक्षुते।' इत्यादौ वेद विज्ञानव्रह्मवेदनादेः पापनाशादौ 'वृष्टिश्रे- न्ववेत्तदा सुभिक्षं भवेत्' इत्यादो लोके च वृष्ट्यादे: सुभिक्षादी चेच्छव्देन हेतुताबोधनात् प्रकृतेऽपि गमनस्य जन्मनि हेतुत्वं बोध्यते जन्मना च मरणमनुमीयते। नच मरणप्रयोजकत्वेन गमनस्याकर्तव्यतवानुमाने उक्तव्यभिचार :; गमनं
Page 381
[सत्या० अखण्डार्थत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ६९९
नत्वं नाक्षेप्तुं शक्यते; व्यधिकरणत्वात्, तेन विनाप्युभयोरपीष्टसाधनतयोपपत्तिसंभवाच्च। नहि येन केनचिद्यत्किंचिदाक्षिप्यते, किंत्वनुपपद्यमानेनोपपादकम्। नाप्याप्त्वे सति प्रमाण- विरुद्धोपदेष्टृत्वेन कोपानुमानं कोपेन च तद्धेतो शत्रुगृहान्नभोजने अकर्तव्यतानुमानम्, आप्त- स्यापि पित्रादेभ्रमादिना विनापि कोपं प्रमाणविरुद्धोपदेपृत्वदर्शनेन व्यभिचारादाप्तकोपहेतोरपि भ्रमादिना प्रियामरणहेतोरिव कर्तव्यत्वदर्शनेन तत्रापि व्यभिचाराञ्च। तथाचाप्रसक्तप्रतिपादनेन प्रसक्तवारणे तात्पर्य ज्ञात्वा तेनाकल्पितपद्विभागे समुदाय एव लक्षणां कल्पयति, नतु प्रत्येकपदे; तत्र तत्र विशिष्य तात्पर्यज्ञापकाभावात्। तथाच पदार्थतात्पर्यान्वयानुपपत्तिभ्यां लक्षणा पदे। वाक्यार्थे तद्द्यानुपपत्या लक्षणा वाक्ये। वाक्यार्थान्वयानुपपत्यनिबन्धनत्वं च लक्षणायाः पदवृत्तित्वसाधने उपाधिरित्यवधेथम्। एवमेवार्धमन्तरर्ध बहिरित्यादा लोके अर्धमन्तर्वैद्यर्ध वहिवेदीति वेदेपि वाक् एव लक्षणा। नच-तत्राप्यर्धस्यान्तस्त्वे सत्यर्धस्य
गोडव्रह्मानन्दी (लघुचन्द्रिका)। न कार्य, स्वनाश्यमानेष्टाधिकेष्टाहेतुत्वेसतीष्टनाशप्रयोजकत्वादित्यनुमाने गुरुनिदेशाकरणजन्यपापानुत्पादस्य इष्टस्य प्रयोजकत्वेन गमने हेत्वभावादिति-चेन्न; विज्ञानमित्यादौ हि चेच्छव्देन विज्ञानब्रह्मवेदनाद्यन्वयव्यतिरेकव्यापका- न्वयव्यतिरेकित्व रूपस्य विज्ञानव्रह्मवेदनादिनिमित्तकत्वस्य पापनाशादी लाभादास्तां विज्ञानादौ तद्ेतुतालाभः, गच्छे- त्यादौ नु यदि गच्छसि, तदा गच्छेत्यर्थकतवेन चेच्छब्दस्यानावश्यकत्वमात्रद्योतकत्वेनोक्तार्थकत्वाभावः। किंच 'आस्तां ते गमनं कान्त पन्थानः सन्तु ते शिवा' इत्यादौ चेच्छब्दाभावेऽपि गमनस्याकर्तव्यत्वप्रतीतेः तदर्थ तव मते गमनस्य जन्महेतुत्वबोध: कथं ? कथंचोक्तहेतुत्ववत्यपि तत्त्वेनाज्ञायमाने गमने न व्यभिचारः ? तत्त्वेन प्रमितत्वस्य हेतुत्वेऽपि प्रारब्धकर्मवशात् ज्योतिःशास्त्रादिना मरणस्यावश्यकत्वनिश्चयाद्वा क्रियमाणे तथा प्रमिते गमने व्यभिचार एवेति दिक। ननूक्तरीत्या व्यधिकरणमप्यनिष्टसाधनत्वं विपभक्षणनिष्ठस्येष्टसाधनत्वस्योपपादकत्वात् तेनाक्षेपुं शक्यमेव, अन्यथा तस्यानुपपन्नत्वात्, तत्राह-तेन विनापीति । इष्टसाधनतया बलवदनिष्टाननुबन्धीष्टसाधनतया। विपभक्षणस्येष्टसाधनत्वं तत्समानाधिकरणबलवत्तरानिष्टसाधनीभूताभावप्रयोगित्वेनाप्युपपद्यते। दृष्ट हि व्यायामादे: श्रमरूपानिष्टसाधनस्यापि बलवत्तरानिष्टसाधनीभूताभावप्रतियोगित्वेनेष्टसाधनत्वम्। तथाच विषभक्षणाभावे जीवने सनि राजदेवाद्युपहृतिप्रयुक्तबलवदनिष्टं मम निश्चित्याप्तन विपं भुङ्क्ष्वेत्युक्तमनि निश्चयात् विषभक्षणं मरणाभावद्वार- कानिष्टसाधनी भूताभावप्रतयोगित्वेन उक्तानिष्टानुत्पादरूपेष्टप्रयोजकम्। शत्रुगृहे भोजनमपि शत्रुसन्तोषद्वारा शात्रवो- च्छेद रूपेष्टसाधनम्। अतएव बलवदनिष्टाजनकमिति निश्चेतुं शक्यत्वाद्यधिकरणमनिष्टसाधनत्वं नोपपादकत्वेन कल्प्यम्। समानाधिकरणस्य तत्संभवेऽपि व्यधिकरणस्य तत्कल्पनाया अन्याय्यत्वादिति भावः। यन्तु-विपं भुङ्क्ष्वेति वाक्यं शृण्वन् कल्पयति विपभक्षणनिष्ठमिष्टसाधनत्वं, शत्रुगृहभोजननिष्ठादिष्टसाधनत्वादुत्कृष्टम्; तद्वधिकत्वेनाप्ेनोच्य- मानरवात्, यद्यदवधिकत्वेनाप्तोक्तं, तत्तत उत्कृष्टं यथा संमतम्। तस्य च तत उत्कर्पो बलवदनिष्टासाधनत्वसामाना- धिकरण्यमेव नान्यादृशम्; असंभवात्। तेनच शत्रुगृहभोजननिष्टेष्टसाधनत्वे अपकर्पो बलवदनिष्टसाधनत्वरूप आक्षिप्यते-इति, तन्तुच्छम्; हेत्वासेद्धेः। नहि विपं भुङ्क्ष्वेति वाक्यमिष्टसाधनतायामुत्कर्ष बोधयति; मानाभावेन लक्षणाया अकल्पनात्, उक्तरीत्योभयोरपि बलवदनिष्टासाधनत्वसंभवेनोत्कर्षे तत्तात्पर्याग्रहात् । भ्रमादिनेति । नच-भ्रमप्रमादादिशून्यत्वरूपाप्तत्वस्य भ्रमादिमति विरहान्न व्यभिचार इति-वाच्यम्; भ्रमादिमत्यपि कदाचित्त- च्छून्यत्वानपायात्। अथ-यदा भ्रमादिशून्यत्वे सति बाधितारथवक्ता यः, स तदा कोऽपीति वाच्यमिति-चेत्र; सदा अमादिशून्यत्वस्य निश्चेतुमशक्यत्वात्, धातुवैपम्यादिना वृद्वेपु भ्रमादिशङ्कासंभवात्, प्रत्युत प्रमाणविरुद्धवक्त- त्वेन भ्रमाद्यनुमानसंभवात्, भ्रमादिना कोपाहेतुत्वभ्रमादिना। हेतोरिवेति। हेतुत्वेनाज्ञायमानत्वरूपेण सादश्यं बोध्यम्। अप्रसक्तेत्यादि। शत्रुगृहे भोक्तव्यं मयेति ज्ञापित आप्तो वदति तहि विपं भुङ्क्ष्वेति। तत्र शत्रुगृहभो- जने विषभोजनसादृश्यपरत्वं ज्ञायते। यथा 'मारितास्तटयं कृष्ण मधुरां यदि गच्छसि ।' इत्यादी कृष्णस्य मधुरागमने गोपीमारणसादृश्यपरत्वम्। सादृश्यंचाकर्तव्यत्वेन तत्परायोजकेन बलवदनिष्टसाधनत्वेन वेत्यन्यदिति भावः । नन्वेवं पदे क्वापि लक्षणा न स्यात्, तत्राह-तथाच पदार्थति। यद्विनाऽनुपपन्नत्वेन यत्संसृष्टतया च यत् गृह्यते, तस्य सत्संसृष्टतयैव तेन कल्प्यत्वात् पदसंसृष्टतया लक्षणां विनानुपपन्नत्वेन च गृहीतं लक्ष्यार्थतात्पर्यं पदसंसृष्टत्वेनैव लक्षणां कल्पयतत; वाक्यसंसृष्टतया तथा गृहीतं तत् वाक्यसंसृष्टत्वेन तां कल्पयतीति भावः। अर्धमन्तरर्ध बहि- रिति। गृहे चैत्रस्येति शेपः। वेद इति। यूपमानं प्रकृत्योक्त इति शेषः। लक्षणेति। आद्ये यस्मिन् गृहस्य प्रदेशे स्थितस्य चैत्रस्यार्ध गृहान्तः अर्ध गृहबहिस्तिष्टति तादृशप्रदेशे लक्षणा। द्वितीयेSपि यस्मिन् देशे मीयमानयूपस्यार्ध
Page 382
७०० अठ्वैतसिद्धिः । [ परिच्छेद: २ ]
बहिष्ट्ेनान्तरालानुमानम्, न लक्षणेति-वाच्यम्; छिन्ने गृहे अन्तरालराहित्येऽपि तद्यदर्शनेन व्यमिचारात्, यथाकथंचिदनुमानसंभवे वा सर्वत्र शब्दप्रमाणोच्छेदापाताञ्च। एवंच ब्रह्मजिश्ञासा- पदेन विचारो लक्ष्यत इति विवरणकारोक्तं यज्ञायुधपदेन यजमानो लक्ष्यत इति संक्षेपशारीरको- कं च वाक्यलक्षणयोपपत्नम्; ब्रह्मजिज्ञासायश्ञायुधशब्दयोः सुबन्तत्वलक्षणपद्त्वेऽपि शक्तत्वलक्ष- णपदत्वाभावेन शक्यसंबन्धरूपाया लक्षणाया अयोगात्, स्वज्ञाप्यसंबन्धरूपा तु लक्षणा यौगिक- पदसमुदायेऽपि वाक्यस्थानीये नानुपपन्ना। एवं 'वायुर्चै क्षेपिष्ठा देवते' त्यादौ अर्थवादेSपि प्राश- स्त्यप्रतिपत्तये वक्य एव लक्षणाऽङ्गीकार्या; प्रत्येकपदात्तदनुपपत्तेः। नच-तत्र कर्मणि क्षिप्रदेवता- प्रसाद हेतुत्वरूपतत्पदार्थसंबन्धबोधकत्वमेव, न तु तदन्यप्राशस्त्यलक्षकत्वमिति-वाच्यम्; पदार्थ- मात्रसंसर्गबोधे वायुः शोघ्रतम इत्येव घीः स्यात्, न कर्मप्राशस्त्यविषया सा स्यात्। नच-लिडा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। वेदेरन्तरधं तद्वहिश्र भवति तस्मिन् देशे लक्षणेत्यर्थः। अर्धस्यार्धावच्छेदेन। अन्तस्त्वे गृहान्तरवर्तित्वे। अर्ध- स्यार्धान्तरावच्छेदेन। बहि्वेन गृहबहिष्टत्वेन। अन्तरालानुमानं गृहस्यान्तर्बहिर्देशयोरन्तरालस्य देशस्याधेयता- संबन्धेन चैत्रे पक्षे अनुमानम्। एवं वेदेरन्तःस्थत्वबहिष्ठत्वाभ्यां स्वार्थद्वयावच्छिन्नाभ्यां पक्षे वेद्यन्तर्बहिर्देशयोरन्त- रालदेशानुमानमित्यर्थः। तथाचाेयोऽष्टाकपाल इत्यादौ द्रव्यदेवतासंबन्धेनानुमितयागविधानवत् यूपमानाघयुद्देशे- नानुमितान्तरालदेशविधानमिति भावः । आद्यवाक्याभिप्रायेण दोपमाह-छिन्न इति। यत्र भित्तिश्छदिश्व भग्ना भभ्नावच्छेदेन च चैत्रोऽस्ति, तत्रापि तादृशप्रयोगात्तत्रान्तरालदेशस्यैवाभावात् तदनुमानासंभवः। वाक्यद्वयमभिप्रेत्य दोषमाह-यथाकथंचिदिति। 'होतुरन्तर्वेद्येकपादो भवति बहिर्वेदयेकपाद' इति दर्शपूर्णमासयोः श्रुतम्। यूपमानं प्रकृत्य ज्योतिष्टोमे श्रुतम्। अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदीति। तन्रान्तर्वेदिदेश एव एकपादयूपार्धाङ्गतया विधी- यते, अथवा अन्तर्वेदिबहिर्वेदिशब्दलक्षितदेशविशेषो होत्रवस्थानं यूपमानं चोहिश्य विधीयत इनि संशये लक्षणायां मानाभावात् प्रथम: पक्षः । तथाच पादान्तरार्धान्तरयोबहिर्वेदिदशस्यार्थात्प्रान्या वहिर्वेदीत्याद्यनुवाद इति प्राप्ते आययोदाहरणे दार्शिकवेदेर्हविरासादनार्थाय एकपादोद्वेशेन विधौ एकत्वस्योद्वेश्यविशेषणत्वेनाविवक्षापत्या वहिर्वेधेक इत्यनुवादायोगात् तत्रापि विधित्वे वाक्यभेदापत्तेरगत्या द्वितीयपक्षाश्रयणम्। नच-यद्यप्यन्तर्वेदिबहिवदिरुपार्धद्व- यविघौ वाक्यभेद: एवमेकविशिष्टापरं च न शक्तया विधातुं शक्यम्; कारकयोभीवनायामेवान्वयेन मिथोऽनन्वयात्; तथापि लक्षणयैकविशिष्टापरं विधीयताम्, देशविशेपलक्षणापेक्षया तल्वक्षणायाः पदद्वयाथेघटितत्वेन न्यायत्वादिति -वाच्यम्; अन्तर्वेदि बहिर्वेदि वा विशेषणमित्यस्याविनिगम्यत्वेन लक्षणाद्येन लक्ष्यद्वयविध्यापत्या वाक्यभेदस्याप- रिहारात्। द्वितीयोदाहरणेSपि सौमिक्या वेदेदेशत्वेन प्रधानतद्ङ्गार्थत्वस्य स्थापितत्वेन तुल्यन्यायतया तदङ्गादिसाधा- रण्यस्य वाच्यत्वात्, अन्यथा अझ्नीपोमीयाङ्गप्रयाजपशुपुरोडाशहविरासादनादौ वेदिप्राप्तिमंभवात् यूपार्धद्वयेऽपि वेदे: प्राप्तत्वेन एकार्धोद्दिशेन विधाने परिसङ्गयापत्तेः। नच-वाक्येन प्रकरणगम्यसर्वार्थेत्वं वेदर्बाध्यत इति वेदेर्यू- पार्धद्वयाङ्गवानवगमात् न परिसङ्गयेति-वाध्यम्; पद्त्रिंशत्परिमाणार्थवादस्य इयति शक्ष्यामहे कर्नुमित्यस्य सर्वा- र्थंत्वज्ञापकत्वेन तद्वाधानुपपत्तेः। तथाच यूपार्धान्तराथत्वनिषेधस्य पूर्वार्धार्थत्वस्य च विधेयत्वेन शाब्दपरिसङ्ख्यायां त्रैदोप्यम्। तद्वरं देशविशेपे एका लक्षणैव। नच-यूपार्धद्दिशेन वहिर्वेदि विधीयते, अर्धान्तरे च वेदे: प्राप्तत्वेना- धमन्तर्वेदीत्यनुवाद इति लक्षणा न युक्त्ेति-वाच्यम्; अनुवादवैयर्थापत्या लक्षणावश्यकत्वात्। अतएव समुदित- वाक्ये लक्षणा; पढ़े लक्षणायां पदान्तरवयर्थ्यात्, विनिगमकाभावाच्चेनि तृनीयसप्षमे स्थितम्। तदनुपपनेरिति। प्राशस्त्यरूपलक्ष्यार्थतात्पर्यस्य लक्षणां विनाऽनुपपन्नस्य वाक्यनिष्टत्वेन ज्ञानात् वाक्यनिष्टत्वेनेव लक्षणाकल्पकत्वं नतु प्रत्येकपदनिष्टत्वेनेति भावः । तत्पदार्थसंसर्गति। वायुवा इत्याद्यर्थवाद्गतपदार्थ्यानामेकसंसृष्टापरेत्यर्थः।नतु तदन्येति। क्षिप्रदेवताप्रसादहेतुत्वमेव प्राशस्त्यं प्रत्येकपदशत्तयैव लभ्यत इति भावः । इत्येव धीरिति। 'वायव्यं श्वेतमालभेत भूतिकाम' इति विधे: 'वायुवे क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयती'त्यर्थवादः। तत्र वायुः शीघ्रतमस्तं स्वेन स्वकीयेन श्वेतपशुरूपेण भागेन यजमान: उपधावति यजते स इट्टो वायुरेनं यजमानं प्रति भूति गमयति कर्मफलं प्रापयतीत्यथः । स चाध्वरमीमांसकमते चेतनदवतातत्फलदातृ- त्वादेरलीकत्वात् बाधितोऽपि बलवदनिष्टाजनकत्वरूपप्नाशस्त्यधीद्वारं भर्वात सोऽरोदीदित्यादिवाक्यार्थवत्। यदितू- कारथद्वारोक्तप्राशस्त्यलक्षकत्वं नोच्यते, तदा प्रत्येकपदशक्यवायुः शीघ्रतमः दत्याद्युक्तार्थस्येव धी: स्यात्, नतु क्षेपि- छदेवताप्रसादहेततुत्वरूपस्य त्वदुक्तकर्मप्राशस्त्यस्यापि; प्रसाद हेनुत्वस्याशव्दार्थत्वात्। अथ-भागधेयेन श्वेतपशुद्धव्य- कयागेन उपधांवति प्रसादयतीति व्यास्यानसंभवात्तस्य शब्दार्थत्वमिति-चेन्न; भागशब्दस्य स्वत्वास्पद्द्रव्याध्यंशे
Page 383
[सत्या० अखण्डार्थत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७०३
धमिधेयकार्यस्यान्वयानुपपत्तिस्तत्र लक्षणाबीजमस्ति, प्रकृते च सर्वपदानां लक्षकत्वादमिधेयान्व- यानुपपत्तिर्नास्तीति-वाच्यम्; केन तुभ्यमभाण्यमिधेयानुपपत्या लक्षणेति ? किंतु तात्पर्यानुपप- त्या। तञ्च तात्पर्यमभिधेयान्वयविषयमन्वयसामान्यविषयं स्वरूपमात्रविषयं वेति न कश्चिद्विशेषः। अन्यथा यष्टीः प्रवेशयेत्यत्र लक्षणा न स्यात्। नच-भोजनप्रयोजनकप्रवेशनस्य यष्टिष्वन्वयानुपप- त्तिरेवास्तीति-वाच्यम्; एवमपि प्रवेशनविशेषे तात्पर्यग्रह एवोपजीव्य इति तदनुपपत्तिरेव लक्ष- णाबीजमस्तु । विनिगमनाविरहेण द्वयोरपि व्यवस्थितविकल्पेऽप्यस्माकं न क्षतिरित्यवधेयम्। ननु-सर्वपदानां लाक्षणिकत्वे वाक्यार्थानुभवो न स्यात्, लाक्षणिकस्याननुभावकत्वादिति-चेन्न; लाक्षणिकत्वेऽप्यनुभावकत्वोपपत्तेः। शक्तत्वेन ह्यनुभावकत्वम्, नतु तच्छक्तत्वेन; गौरवात्।लाक्ष- णिकमपि क्वचिच्छक्तमेव; भट्टाचार्यर्वाक्यार्थस्य सर्वपद्लक्ष्यत्वाभ्युपगमान्च। तथाहि-अमिहितान्व- यवादे पदैः स्वशक्तिवंशात् पदार्था अभिधीयन्ते, नतु स्मार्यन्ते; स्मार्यस्मारकसंवन्धातिरिक्तमूलसंब- न्धकल्पनापत्तेः। एकसंवन्धिज्ञानं ह्परसंबन्धिस्मारकम्; नतु स्मारकत्वमेव संबन्ध हस्तिपका- दिषु तथा दर्शनात्। अतएवोक्तं-'पदमभ्यधिकाभावात् स्मारकान्र विशिप्यते ॥'इति। अज्ञातज्ञा पकत्वाभावान्नानुभावकम्, संबन्धान्तराभावाच्च न स्मारकम्, किंतु शक्त्याSज्ञातज्ञापकमिति स्मारकसदृशमित्यर्थः। स्मृत्यनुभवातिरिक्तं च ज्ञानं प्रमाणवलादायातमङ्गीकार्यमेव; पदार्थज्ञाने तत्तानुल्लेखाच्च, तत्तोल्लेखनियमभङ्गेनात्र तत्प्रमोपकल्पने चातिगौरवात्। तथाच पदजन्यस्मृत्यनुभ- वविलक्षणज्ञानविषयीभूताः पदार्थाः अभिहिता इत्युच्यन्ते। तादृशाश्चाकाङ्काद्यनुसारेण स्वान्वय-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। उपधावतेश्चाश्रयणरूपत्यागो द्देश्यत्वादी मुख्यत्वेनोक्ताथयोराधुनिकलक्षणापेक्षया वाक्यतात्पर्यानुपपत्या समुदितवाक्य एव आशस्त्यलक्षणया युक्तत्वात्, देवताप्नसादस्याध्वरमीमांसकानामलीकत्वेन तन्मते तत्र तात्पर्यासंभवात्, प्रसादहे- तुत्वस्य विध्यनपेक्षितत्वेन विधिना त्वेकवाक्यत्वादित्यादिना उक्कवाक्यत्वभङ्गापत्तेश्व।अथ-उक्तहेतुत्वेन विध्यपेक्षि- तबलवदनिष्टाननुबन्धित्वस्याक्षेपान्नोक्तदोप इति-चेन्न:बलवनिष्टननुबन्धित्वं विनाप्युक्तहेतुत्वोपपत्ेः, तापर्यविपये बोधेऽलीकाथभानासंभवस्य तावताप्यनुद्धाराज्च, सोडरोदीदित्यादो शक्तिलभ्यवाक्याथेस्य सर्वसंमतालीकरवेन तात्पर्या- विपयत्वात् तदन्यवाक्यार्थस्य वाक्यलक्षणयेव वाच्यत्वाच्च। कार्यस्यान्वयानुपपत्तिरिति। प्राशस्त्यं विना कर्मणः कार्यत्वानुपपत्या कर्मद्वाराऽपूर्वस्यापि कार्यत्वानुपपत्या कार्यान्वयानुपपत्तिरित्यर्थः। प्राभाकरमतेन कार्यस्याभिधेयत्वम्। भटटमते प्रवर्तनारूपाभिधेयान्वयानुपपत्तिर्वोध्या। अथवा-यथाश्रुतस्यार्थवादार्थस्य क्वचित्प्राप्तत्वेन क्वचिद्वाधितत्वेन क्कचिद्विध्यनपेक्षितत्वेन क्रियारूपाभिधेयस्य तत्रान्वयानुपपत्तिरिति सर्वमतसाधारणोऽ्थः। प्रकृते सत्यादिवाक्ये। अभिधेयान्वयविषयं शक्यार्थमात्रबोधस्थले। अन्वयसामान्यविषयं शक्यलक्ष्यबोधस्थले। स्वरूपमात्रविषयं प्रकृष्टप्रकाशादिवाक्ये। प्रवेशनविशषेति। प्रवेशनत्वरूपेण प्रवेशनविशेषे तात्पर्य गृहीत्वेव तदन्वयानुपपत्तिर्राद्या; अन्यथा प्रवेशनान्तरे तात्पर्यग्रहे उत्तप्रवेशनान्वयानुपपत्तेरकिंचित्करत्वात्। तथाचोपजीव्यत्वात्तात्पर्यमेवानुपपन्नं ल- क्षणाकल्पकमस्तु। नच-तत्प्रतीतीच्छयोच्चरितत्व रूपतात्पर्यापेक्षया अभिधेयान्वयस्य लघुत्वात्त नुपपत्तिरेव तत्कल्पि- केति-वाच्यम्; तत्प्रमाशक्तत्वरूपतात्पर्यस्याभिधेयान्वयापेक्षया गुरुत्वाभावात्, प्रमात्वस्य जातित्वात् प्रत्युत वेदवि- श्वादिपदाभिधेयस्यातिगुरुत्वेनाभिधेयान्वयस्यैव तात्पर्यापेक्षया गुरुत्वात्। तत्तद्वाक्यपदव्यक्तिपु तत्तदर्थतात्पर्यानुपपत्ते र्निवेशेऽपि न गौरवम्। आक्षेप्यसमानाधिकरणस्येवाक्षेपकस्य वाच्यतया गङ्गापदादौ पदान्तरामिधेयान्वितार्थकत्वस्या- नुपपत्तेरेव त्वया वाच्यतात्। नन्वर्थवांदपु प्राशस्तये सत्यादिवाक्यस्य चाखण्डे तात्पर्यानुपपत्तिधीर्हेतुरस्तु; लाघवाद्, नतु शक्तिलभ्यार्थानामन्वयानुपपत्तिधीः, गौरवात्, गङ्गायां वोष इत्यादावषि गङ्गादिपदे तीरतात्पर्यानुपपत्तिधीर्है- तुरस्तु, नतु घोपान्वितार्थकत्वस्य; गौरवात्, राजा यातीत्यादी तु राजपदस्य राजकार्यकारिश्यामलोहिताक्षीपगवत्वा- दिगुरुतर रूपेण लक्षणा, तत्र गमनान्वितार्थकत्वस्यानुपपत्तिवीरेव हेनुः, नतूक्तरूपविशिष्टपरत्वस्य; गौरवात्, तत्राह- विनिगमनाविर हेणेति। उक्तविशिष्टपरत्वानुपपत्तिज्ञानस्य उक्तस्थले हेतुत्वज्ञापकयुक्त्यभावेनेत्यर्थः । व्यवस्थित- विकल्प इति। उक्तस्थले उक्तार्थकत्वस्य स्थलान्तरे तत्तदर्थपरत्वस्यानुपपत्तिधीः हेतुरिति व्यवस्थितविकल्प इत्यर्थः। स्मारकसंवन्धेति। स्मारकत्वरूपसंबन्धेत्यर्थः । एकसंवन्धिज्ञानं स्मारकत्वान्यो यः स्मार्यस्य संयोगादि: संबन्ध- स्तद्विशिषज्ञानम्। तथा दर्शनात् समार्यहस्त्यादिसंयोगादिना ज्ञाततया स्मारकत्वदर्शनात्। अङ्गीकार्यमिति। प्रातीतिकविपयज्ञानस्य तथात्वमङ्गीकृतमित्यपि बोध्यत्। स्मृतेस्तत्तावगाहित्वनियमेन तत्तानुल्लेखादपि न स्मृतित्वमि- त्याशयेनाह-पदार्थज्ञानेति । तादृशाः उक्तज्ञानविपयाः। अनुभावयन्तीति। उक्तज्ञानस्यानुभव हेतुत्वात्त
Page 384
७०२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
मनुभावयन्तीति वाक्यार्था लक्ष्य इत्युच्यते; पदेन यत् बोध्यते तच्छक्यम् पदार्थेन यत् बोध्यते, तल्लक्ष्यमिति नियमात्। अतपवोक्तं-'वाक्यार्था लक्ष्यमाणो हि सर्वत्रवेति नः स्थितम्।' इति। यद्यपि पदािहितपदार्थस्मार्यत्वं तीरादौ लक्ष्यत्वम्, वाक्यार्थ तु तदनुभाव्यत्वमिति विशेष :; तथा- पि पदार्थबोध्यत्वमादाय लक्ष्यत्वव्यपदेशः। अतएव पदार्थेन पदार्थलक्षणायां पूर्वसंबन्धज्ञानापेक्षा; तस्य स्मार्यत्वात्, वाक्यार्थलक्षणायां तु न तदपेक्षा; तस्यानुभाव्यत्वेन पूर्वसंबन्धज्ञानानपेक्षत्वात्। पदार्थलक्षणायां पूर्वसंबन्धज्ञानमेव वाक्यार्थलक्षणायामाकाङ्कादिकमेवेति परस्परनिरपेक्षमुभयं नियामकम्। अतोऽपूर्वे वाक्यार्थ शक्यसंबन्धितया ज्ञातुमशक्ये कथं लक्षणेत्यपास्तम्; पदार्थलक्ष- णाया एव तथात्वात्। एवंच पदशक्ते: पदार्थोपस्थितावेवोपक्षयादुपस्थितानां च पदार्थानामन्वया- नुभावकत्वात् सर्वपदलाक्षणिकत्वेऽपि न वेदान्तवाक्यानामन्वयानुभावकत्वानुपपत्तिः। स्यादेतत् -अमिहितान्वयवादे माभूदनुपपत्तिः अन्विताभिधाने तु भवति। तथाहि-पदानामन्वयानुभव- जननसामर्थ्यमेव शक्तिरित्युच्यते, एकैकपदार्थोपस्थितिस्तु स्मृतिरूपा, न शक्तिसाध्या; एकसंव- न्धिज्ञानादपरसंबन्धिस्मरणस्य हस्तिपकादिसाधारणत्वात्, अन्वयानुभवजननसामर्थ्यरूपस्य च मूलसंबन्धस्य विद्यमानत्वात्। अतएव पदशक्त्यसाध्यत्वात् पदार्थोपस्थितेः स्मृत्यन्तरसाधारण- यास्तद्वैजात्यकल्पने च मानाभावादर्थाध्याहार एवासति बाधके, न पदाध्याहारः; पुप्पेभ्य इत्यत्र साधुत्वार्थ स्पृहयतिपदस्य 'विश्वजिता यजेतेत्यत्र नियोज्यलाभार्थ स्वर्गकामपदस्य सौये चराव- तिदेशप्राप्ते 'अग्नये जुषट निर्वपामी'ति मन्त्रे प्रकृती वाचकपद्वत्तया कप्ोपकारे अग्निपदबाधेन वाचकपदलाभाय सूर्यपदस्य चाध्याहारेऽपि पदार्थस्मरणाय वाक्यार्थानुभवाय वा तदनपेक्षणात्। शाब्दत्वं च पदजन्यान्वयानुभवत्वेनैव, न पदजन्योपस्थितिजन्यान्वयानुभवत्वेनःगौरवात्। अतएव योग्यतावच्छेदकस्य छिद्रेतरत्वादेः पदादनुपस्थितस्यापि पदजन्यान्वयानुभवविपयत्वाच्छाब्दत्वम्; अन्यैरप्यनुकूलत्वप्रतियोगित्वादीनां तथात्वाभ्युपगमात्। एवं च चैत्रोऽयमित्यादाँ लोके 'उद्धिदा
गौडव्रह्मानन्दी (लघुचन्द्रिका)। द्विपयेपु तदुपचारो बोध्यः। अतीतानागतार्थानां हेतुत्वासंभवात् जातिरुपस्य पदार्थस्य नित्यत्वेन तदभिप्रायेण- वेदं, लिङ्गस्येव ज्ञानसंबन्धेनार्थस्य हेतुत्वं वा बोध्यम्। अविद्यमानस्यापि तेन संबन्धेन हेनुत्वं विवेचितमेव। वेदान्तवाक्यानामिति। प्रत्येकरूपेण पदानामननुभावकत्वेऽपि एकपद्समभिव्याहृतपदान्तरत्वरूपाकाङ्काज्ञानवि- धया वाक्यज्ञानमनुभावकम्, येन रूपेण लक्षणा तेन रूपेणानुभावकत्वास्वीकारेण लाक्षणिकानुभावकत्वप्रयुक्तवक्ष्य- माणदोपाभावादिति भावः । लाक्षणिकस्यानुभावकत्वे दोपं वक्तुमन्विताभिधानवादं प्राभाकरसंमनं व्युत्पादयति- तथाहि पदानामित्यादि। पदार्थापस्थितेः शाब्दबोधोपधायकार्थस्मृतेः । स्मृत्यन्तरसाधारणायाः पढ़ा- जन्यस्मृतिसाधारणरूपेण शाब्दबोधहेतोः । तद्वजात्यकल्पने पदाजन्यस्मृतिव्यावृत्तरूपेण तस्याः शाब्दधीहेतुत्वक- लपने। अर्थाध्याहारः द्वारमित्यादो पिधानादिरूपार्थकल्पनम्। न पदाध्याहारः न पिधेहीत्यादिपदकल्पना। साधुत्वार्थ स्पृहयतीत्यादियोगे सत्येव साधुत्वाय। नियोज्यलाभार्थमिति। यागे स्वर्गकामनियोज्यक- त्वज्ञानस यागविशेष्यकस्वर्गकामकार्यत्वान्वयबोधं प्रति योग्यतारूपस्वर्गसाधनत्वान्वयबोधे योग्यताज्ञानत्वात् नियोज्यान्वयबोधाय स्वर्गकामपदाध्याहारः। यजेतेति लिङ् यदि कार्यवाची न स्यात्, तदा स्वर्गकामपदसम- भिव्याहृतो न स्यात् इति तर्केणव लिड: कार्यवाचकतासिद्वे: तत्कामनियोज्यकत्वशा्दबोधस्य तत्कामवाचकपद योगं विनाननुभूयमानत्वेनार्थाध्याहरेण तदनिर्वाहान्। नियोज्यत्वंच कामनाविशिष्टस्य ममेदं कार्यमिति बोध- जनकत्वम्। तथाच विश्वजिद्यागविशेध्यकोक्त्तवीजनकः स्वर्गकामनाविशिष्ट इति शाब्दबोधो नियोज्यान्वयबोधः। ननु-स्वर्गकामकर्तृकत्वमेव योग्यतास्चिनि-चेन्न्न; कामना विशेषणमुपलक्षणं वा। नान्त्यः; अनुगतानतिप्रसक्त- स्योपलक्ष्यतावच्छेदकस्यासंभवात्। नाद्यःः कृतिसमवायित्वस्य कामनायां बाधात्। कृतिजनकत्वस्व प्रकृते कर्तृत्वरू पत्वे तु कामनायाः गुरुमते साक्षान् कृत्यजनकत्वात् तस्यां बाघः, कृनिकारणीभूतं यत् ममेदं कार्यमिति ज्ञानं तत्र लिङ्गतावच्छेदकविधया कामना प्रयोजिका; काम्यसाधनतालिङ्गककृतिसाध्यताज्ञानस्य गुरुमते कृनिहेतुत्वात्। तथाच कृतिप्रयोजकत्व निवेश कृतिसाध्यताधीद्वारा तज्ज्ञानस्य वाच्यत्वात् प्रथमं तादृशधीजनकत्वं कामनायामवश्यं ज्ञात- व्यमिति तंदेव योग्यतेति। ध्येयम्। वाचकपदवत्तया कृपोपकारे स्वीयपदशक्त्यधीनबोधरूपोपकारजनक- तया वल्से। उपकारप्टष्टभावेन पदार्थानामनिदेशात् प्रकृत्यपूर्वसाधनदेवतां प्रति पदशक्तिज्ञानजन्यबोधरूपोपकारस्य प्रकृतौ कृपस्य सार्यापूर्वसाधनसूर्यदवतो ददेशेना तिदिष्वस्याभ्निपदनासंभवात् सूर्यपदोह इति भावः। तदनपेक्षणा-
Page 385
[सत्या० अखण्डार्थत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ७०३
यजेत पशुकाम' इत्यादो च वेदे प्रत्यक्षोपस्थितानामेव चैत्रोद्भ्िदादिपदानां नामत्वेनान्वयः अन्यथा चैत्रपदवाच्योऽयं उद्धित्पदवाच्येन यागेनेत्यादिकल्पने लक्षणाप्रसङ्गात्, अगृहीतसङ्गतिके पदे तद- योगात्। 'घटः पटो ने' त्यत्र नञन्वय इव चत्रोऽयमित्यादिनामधेयान्वयेऽपि विभकत्यर्थद्वारत्वान- पेक्षणेन व्युत्पत्यन्तरकल्पनात् नञ्न्वये विभक्त्यर्थीपेक्षायां जितमद्वैतवादिभि नीलं सुगन्धि महदुत्पलमितिवत् घटपटनअर्थानामभेदान्वयोपपत्तेः। नामधेये विभक्त्यर्थापेक्षायां वेदे नामधेयत्वं न सिध्येदिति जितं पूर्वपक्षिणा, 'सोमेन यजेते'त्यत्रेव मत्वर्थलक्षणयोन्भ्िदा यजेतेत्यादावपि विशि- ष्टविधित्वोपपत्तेः, उभयत्र लक्षणायास्तुल्यत्वेऽपि प्रवृत्तिविशेषकरत्वेन विधित्वस्यैवोचितत्वात्। वार्तिककाराणां तु पदार्थोपस्थितेः पदशक्तिसाध्यत्वात्तदर्थ सर्वत्र पदाध्याहाराङ्गीकारेऽपि नामधे यान्वये व्युत्पत्त्यन्तराश्रयणमस्त्येव। तथाच स्वयमेव व्युत्पादिनं नामधेयाधिकरण इत्यलं प्रसक्तानु- प्रसक्तया। प्रकृतमनुसराम :- एवं स्थिते लाक्षणिकमप्यन्वयानुभावकंचेदन्वयानुभवजननसामर्थ्य मेव शक्तिरिति लाक्षणिकस्यापि तद्वत्वान्मुख्यजघन्यविभागो न स्यात्। तथाच लिङ्गाधिकरणवि- रोधः। तत्र हि 'वर्हिर्देवसदनं दामी'त्यादिमन्र्राणां मुख्ये जघन्येचार्थ लिङ्गाद्विनियोग: उत मुख्य- एवेति संशय्य उभयोरपि शाब्दत्वादुभयत्रापि विनियोग इति प्राप्ते, मुख्य एवेति सिद्धान्तितम्। 'अर्थाभिधानसंयोगान्म त्रेपु शेषभावः स्या्तस्मादुत्पत्तिसंबन्धोर्ऽर्थन नित्यसंयोगादि'ति। अर्थाभिधा- नसामर्थ्यरूपालिङ्गाच्छृत्य विनियुक्तेषु वर्हिदेवसदनं दामीत्यादिमन्रषु शेपभावो विनियोग: स्यात्। तञ्च सामर्थ्य मुख्ये, न जघन्ये शब्दसामर्थ्यादुपस्थितो ह्यर्थो मुखमिवाव्यवहितो भवतीति मुख्य उच्य- ते। मुख्यार्थसंबन्धादुपस्थितस्तु जघनमिव व्यवहितो भवतीति जघन्य उच्यते। तथाच जघन्येऽर्थे विनियोगं त्रुवनापि तदुपस्थितये मुख्योपस्थितिर्वक्तव्या। तथाचोत्पत्तिसंबन्धः स्वभावसंबन्धोऽर्था भिधानसंवन्ध एव विनियोजकः स्यात्; तस्यार्थनियतत्वात्, तावतव स्वाध्यायविधेश्चरितार्थत्वात्। गौडब्रह्मानन्दी (लघुचन्द्रिका)। दिति। तथाच शाब्दबोधजनकना पढ़ाजन्यस्मृतिसाधारणरूपेणेव क्लृप्ता न व्याहतेति भावः। शाब्दत्वं शाब्द- त्वाश्रयधीविषयत्वम् । अन्येः प्राचीनतारकिकादिभिः । प्रत्यक्षोपस्थितानां प्रत्यक्षाद्युपस्थितानाम्। तेन स्मृत्यादि- विषयनाम्नामप्यन्वयः। अग्रृहीतसङ्गतिके अग्ृहीतशक्तिके। शक्तिग्रहं विना शक्यसंबन्धज्ञानं नेति भावः । ननु विभक्तिवयर्थ्यपरिहाराय चंत्रादिपदे नद्वाच्यलक्षणावश्यकी; अन्यथा, चैत्रादिनामोत्तरप्रथमादिविभक्ततर्विशेपणविभक्ति- त्वेनाभेदस्य तदर्थत्वेन तस्य नामार्थान्तरे अन्वयासंभवात, एवमुद्भिदेत्यादिवेदे तृतीयार्थकरणत्वस्य भावनां प्रति उद्धिदादिनाकयसंभवात् यागपरिच्छेदद्वारा तत्मंभवेऽपि यागनिष्टकरणताबोधकत्वेनोन्विदेत्यस्य यजिसामानाधिकर- ण्यभङ्गापत्तिरित्याशक्का विभक्ते: प्रकृते पद्साधुत्वनिर्वाहकत्वमात्रम्, न तु विवक्षितार्थकत्वमिति सदष्टान्तं सयुक्तिकं चाह-घटः पट इत्यादि। व्युत्पत्यन्तरकल्पनादिति। यन्नामार्थे चत्रादिनाम्नो वाच्यतासंबन्धेनान्वयः, तन्ना- मसमानविभक्तिकत्वं तस्यापेक्ष्यते। अत एव 'हिमालयो नाम नगाधिराजः, 'हिरण्यपूर्व कशिपुं प्रचक्षते' इत्यादि- यथाश्रुतमेव सङ्गच्छते। यद्धात्वर्थ उद्विदादीनामान्वयः, तद्धानुसमभिव्याहृततृनीयाद्यन्तत्वं तस्यापेक्ष्यते। अत एव 'अग्निहोत्रं जुहोती'त्यादौ द्वितीयादयन्तमपि साधु। यथाचाव्ययनिपातान्यनामार्थयोरेवाभेदान्वयनियमात् नजर्थे अभे- दान्यसंबन्धेन नामार्थान्वयः, तथा नामोपस्थाप्योरेवाभेदान्वयनियमात् नामानुपस्थाप्यस्य नान्नो नामार्थान्वय इति भावः। अभेदान्वय इति। नञुत्तरं प्रथमाविभक्ते: पदसाधुत्वायावश्यं वाच्यतया विशेष्यविभक्तिजातीयविशेषण- विभक्तेरभेदार्थकत्वव्युत्प्या च घटो भेदाभिन्न इकि बोधापत्तिः, प्रनियोगित्वानुयोगित्वे तु न प्रथमार्थः; तत्कल्पना- पेक्षया विभक्त्यर्थनरपेक्ष्येण शाब्दबोधं प्रत्युक्तनन्घटितसमभिव्याहारज्ञानस्यैव हेतुत्वौचित्यात्, अन्यथा विभक्त्यर्थ- घटितार्थबोधे तद्धेतुत्वस्य प्रतियोगित्वादौ प्रथमाशक्तेश्र कल्पने गौरवादिति भावः । विशिष्टविधित्वोपपंततेरिति। सोमविशिष्टस्येवोद्िद्रव्यविशिष्टयागस्य विधित्वोपपत्तेरिस्यर्थः। उभयत्र उद्विदादिपदवाच्ये उन्धिदादिद्रव्यविशिष्टे च। प्रवृत्तिविशेषकरत्वेन नामधेयपक्षे नाम्नः सङ्कल्पादयुपयोगेऽपि द्रव्यविशिष्टविधिपक्षे यागस्वरूपनिर्वाहकत्वेनाभ्य- र्हित द्रव्यविशेषानुष्ठानप्रयोजकत्वेन। विधित्वस्य द्रव्यविशिष्टविधित्वस्य। वार्तिककाराणां त्विति। अभिहिता- न्वयवादित्वेनेति शेपः । श्रुतेर्बलवत्वेन तया विनियुक्तमत्रो न लिद्गेन विनियुज्यत इनि तदन्यमन्रपरतया सौत्रम- त्रपदं व्याचष्टे-श्रुत्यविनियुक्तेष्विति । विनियोगः अभिधानसामर्थ्यरूप लिङ्गाभिहितार्थरूपबर्हिश्छेदनादिकर्म- कभावनां प्रति कारकत्वेन बोधः। तञ्च अनुभावकत्वरूपंच। न जघन्य इति छेदः। शब्दसामर्थ्यात् शब्द- स्यांनुभावकत्वरूपात्। ननु मुख्यार्थानुभावकत्वेन लिङ्गेन विनियुक्तोऽपि मत्रोऽमुख्यार्थबोधकत्वेन लि्गेन पश्चाद्वि-
Page 386
७०४ अद्वैतसिद्धिः । [परिच्छ्रेद: २ ]
मुख्यसंबन्धस्तु न लिङ्गम् ; अनेकेषां मुख्यसंबन्धित्वेनार्थानियमाच्चरमत्वाथ्ेति सूत्रार्थः। अत एव मुव्यसंभवे लक्षणा नोपादेयेति सर्वतन्त्रसिद्धान्तः। पदवृत्तिर्हि शक्ति: पदार्थवृत्तिश् लक्षणा। सा व बहुप्रकारेत्यन्यत्। लाक्षणिकपदेनान्वयप्रतियोग्युपस्थितौ कृतायां यद्वशिष्ट शक्त, तदेवान्वया- नुभावकम्। अर्थवादपदानां सर्वेषां लाक्षणिकत्वेऽपि तदेकवाक्यतापन्नं विधिपद्मेवानुभावकम्; 'विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्यु'रिति न्यायात्। तथाच सत्यादिपदानां सर्वेषामपि लाक्षणिकत्वे कथमन्वयानुभवोपपत्तिरिति-चेत्, नैष दोष :: शक्यस्यैवान्वयानुभवाभ्युपगमात्, लक्षणा त्वेकदेशत्यागमात्राय, नत्वशक्याथोपस्थितये गौर्नित्य इत्यादिवत्। अत एव वाचकाना- मेव स्वार्थ लक्षणेयमित्युक्तं प्राक्। ननु जहल्लक्षणाभ्युपगमे कथमन्वयानुभवः ! शक्यैकदेशस्यापि तत्राभावात्। तथाचोक्तं संक्षेपशारीरके-'साभासाजानवाची यदि भवति पुनर्व्रह्मशब्दस्तथाहं शब्दोऽहङ्कारवाची भवति तुजहती लक्षणा तत्र पक्ष' इति। अस्मिन् पक्षे अन्वितामिधान- वादानभ्युपगमान्न दोषः। पक्षद्वयाश्रयणं तु जहदजहल्लक्षणापक्ष एव । तथाच दर्शितं तत्रैव- 'अभिहितघटना यदा तदानीं स्मृतिसमवुद्धियुगं पदे विधत्तः। परदशि पुनरन्वितामिधाने पद्युगलात् स्मृतियुग्ममेव पूर्वम् ॥I' इति । तत्त्वप्रदीपिकाकृदादयस्तु अभिहितान्वयपक्षमेवोररी-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नियुज्यताम्, तत्राह-तावतेति। तथाचाकाङ्काशान्तेः न पश्चाद्विनियोग इति भावः । मुख्यसंबन्धः मुख्यार्थज्ञा- नद्वारकममुख्यार्थबोधकत्वम्। न लिङ्गं न लिङ्गतया विनियोजकम्। अनेकेपामिति। मुख्यार्थनानात्वे तु मुख्या- थविशेषविनियोगे तात्पर्यग्राहकमेव तद्विनियोगे नियामकस्, तदभावे तु नानामुख्याथ्रविनियोग इष्ट एवेति भावः। चरमत्वात् मुख्यार्थोपस्थित्युत्तरमुपस्थितत्वात्। ननु अनेकेपां मुख्यसंबन्धत्वे तदाश्रयविशेषे तात्पर्यग्राहकमेव तद्विनियोगे नियामकम्, तदसत्वे तु नानामुख्यार्थेत्वपि विनियोग इप्यताम्, नच-चरमत्वं लक्ष्याविनियोगनि- यामकमिति-वाच्यम्; शक्तिसंबन्धेन मुख्यार्थस्येव शक्यसंयोगादिरूपलक्षणासंबन्धेन लक्ष्यार्थस्यापि पदसंबन्धितया तयोरद्वयोरपि पदेन प्रथममुपस्थितिसंभवात्, अत आह-अत एव मुख्येति। ननूक्तरीत्या तादृशसिद्धान्त एवानु- पपस्ः, तत्राह-पदवृत्तिर्हीति। पदार्थवृत्तिरिति। शाब्दबोधानुकृलस्मारकत्वप्रयोजकमूलसंबन्धो वृत्तिः। सा च पदे अनुभावकत्वम्, अर्थे तु शक्यरूपे लक्ष्यार्थसंयोगादिरित्यर्थः । तथाच गङ्गापदे तीरादेः संयुक्तशक्तिकत्वादिरूपेण संबन्धनिश्चयो यदा न ज्ञातः, तदापि शक्त्या प्रवाहोप्थित्युत्तरं प्रवाहस्य नीरसंबन्धित्वेन ज्ञानात्तीरोपस्थित्या शा- व्द्बोधात् पदज्ञानस्य न लक्ष्यस्मारकत्वम्, किंतु शक्त्यार्थज्ञानस्य। अत एव शक्यादशक्योपस्थितिर्लक्षणेति वृद्ध- तार्किकाः। अशक्योपस्थितिर्येनेति बहुव्रीहिणा शक्यमाश्रित्येत्यर्थकपञ्चम्या येनेति प्रयोजकत्वार्थकतृतीयाया वा। अशक्योपस्थितिप्रयोजकस्य शक्यनिष्टस्याशक्यसंबन्धस्य लक्षणात्वमुक्तम्। यथाश्रुते पदसंबन्धिवृत्तिज्ञानप्रयो- ज्यस्य पदार्थज्ञानस्य शाब्दधीहेतुत्वम्; न तु शाब्दधीहेतुपदार्थज्ञानमेव वृत्तिरिति; असङ्गतेः । पदसंबन्धित्वं तु पढ- तच्छक्यान्यतरनिष्टत्वमिति भावः । वस्तुतो लक्षणायाः पदवृत्तित्वेऽपि लाघवाच्छक्यबोधकत्वरूपं सामर्थ्य विनियो- जकम्, नतु शक्यसंबन्धेन बोधकरवरूपमिति बोध्यम्। लाक्षणिकपदेनेति। तस्मालिङ्गाधिकरणविरोधपरिहारा- येत्यादिः। न्यायादिति। इति वाच्यमिति शेपः। शक्यस्यवेति। सत्यादिपदानामित्यादिः। सत्यत्वादिविशिष्ट- विषयकानुभवे विशेष्यतया शुद्धात्मनोऽपि भानात् शुद्धात्मानुभावकत्वं सत्यादिपदानामस्त्येवेति जहदजहल्लक्षणा- न्यलक्षणास्थल एव लाक्षणिकमननुभावकमिनि भावः । अभिहितघटना अभिहितान्वयमताश्रयणम्। परदशि शुद्धात्मनोऽपि भानात् शुद्धात्मनि स्मृतिसमबुद्धियुगम्। अन्विताभिधानमताश्रये पुनः परदशि स्मृतियुग्मम्। पूर्व शान्दबोधात्पूर्वम्। पदे इति द्विवचनम्। युगादिपदंचाविवक्षितार्थकम्। तेन सत्यादिवाक्येपु नानापदज्ञान- जन्यज्ञानलाभः। अत्र परदशि। स्मृतिप्रयोजकोऽनुभावकत्वरूपः मूलसंबन्धः स्मृतिसमबुद्धिप्रयोजकः। शक्तिश्र परदशि जहल्लक्षणायां न संभवतीति जहदजहल्लक्षणापक्ष एव तदुभयोक्तिरिति भावः। ननु विशिष्टबोधे शुद्धविशे- व्यभानानभ्युपगमपक्षे कथमन्विताभिधानपक्षाश्रयणं, विशिष्टानुभावके सत्यादिपदे शुद्धात्मानुभावकत्वानियमेन जहदजहल्लक्षणावत् तदन्यसाधारण्येनानुभावकत्वनियमादित्यत आह-तत्वप्रदीपिकेति। सर्वथा विशिष्टबोधे विशेष्याभानपक्षेऽपि। ननूक्तरीत्याऽभिहितान्वयान्व्रिताभिधानपक्षयोर्व्युत्पादनं न युक्तम्; तार्किकादिमतस्य तद- प्रवेशापत्तेः, तथाहि-नाद्पक्षे तत्प्रवेशः, तार्किकादिमते पढानामनुभवप्रयोजकशक्तिस्वीकारेण तस्या एव मूलसं- बन्धत्वसंभवेनार्थस्मारकत्वसंभवात्; नाप्यन्त्ये; तार्किकादिभिरन्विताभिधानपक्षस्य दूपणात्, उक्त हिमणिका- रादिभि :- यद्यपि पदजन्योऽनुभवः अन्वितार्थविषयकः; तथाप्यन्वितस्वार्थशान्दधीत्वेन न पदजन्यता, किंतु
Page 387
[तत्व० अखण्डार्थत्वोपपत्ति:] गौडमसानन्दीयुता। ७०५
चक्रु:, सर्वथापि सिद्धान्तानुकूलत्वादिति न किचिदवधयम्। तार्किकमतस्योभयपक्षव हिर्भावा- दिकं व वेदान्तकल्पलतायां व्युत्पादितमित्युपरम्यते॥ इत्यद्वैतसिद्धौ सत्याधवान्तरवाक्याखण्डा- र्थतोपपत्ति:॥
अथ तत्त्वमस्यादिवाक्यार्थत्वोपपत्तिः। एवं तरवमस्यादिमहावाक्यपक्षकानुमानमपि निर्दोषम्।नच सोडयं देवदत्त इत्ययं दष्टान्तः साध्य- विकल :; विशिष्टाभेदस्य वोधयितुमशक्यत्वात्। तथाहि-किमत्र तद्देशकालविशिष्ट पतद्देशकालवै- शिष्ट्यं प्रतिपाद्यते, एतद्वेशकालविशिष्टे वा तद्देशकालवैशिष्ट्यं, तद्विशेषणयोरैक्यं वा, तद्विशिष्टयो- रैक्यं वा। नाद् :; तद्देशकालवैशिष्ट्यस्याप्रत्यक्षत्वेनानुद्देश्यत्वात्, तत्कालादेरिदानीं सत्वापत्तेश्च। न द्वितीय :; एतत्कालादेरन्यदा सत्त्वापत्ते; न तृतीय: बाधात्। अतएव न चतुर्थोऽपि; विशेषणस्य मिन्नत्वेन विशेषणविशेष्यतत्संबन्धात्मकस्य विशिष्टस्य भिन्नत्वात्, अतिरिक्तत्वेSपि विशेषणमेदेन विशेष्यमेदेन च तन्भ्ेदनियमात्। तथाचोभयविशेषणपरित्यागेन विशेष्यमात्रमभिन्नं बोध्यत इति सिद्धमखण्डार्थत्वम्। तदुक्तम्-'अविरुद्ध विशेषणद्वयप्रभवत्वेऽपि विशिष्टयोद्वयोः। घटते न यदैक- ता तदा नतरां तद्विपरीतरूपयोः॥' इति। यदा हि 'दण्डी कुण्डली'त्यादो दण्डकुण्डलादेरेकदेशका- लावस्थितत्वेनाविरोधेऽपिन तद्विशिष्टयोरैक्यम्; विशेषणयोरप्यैक्यापत्तेः, तदा कैच कथा सोऽयमि- त्यत्र तत्तेदन्तयोरेककालानवस्थाननियमेन परस्परविरुद्धत्वात्तद्विशिष्टयोरैकास्य। लक्षणयैक्ाबोधनं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वार्थशाब्दतवेनेति नान्विताभिधानं युक्तमिति, तत्राह-तार्किकेति। तथाचोक्तापत्तिरिष्टेति भावः। भावादिक- मित्यादिपदस्यायमर्थः। सत्यादिपदानामखवण्डानुभावकत्वेऽप्यन्विताभिधानमभिहितान्वयश्च न विरुध्यते; आकाङ्का- दिभिर्यादृशानुभवो जायते तज्जननानुकूलायाः शक्तेः पदनिष्ठाया अन्विताभिधानरूपत्वात्, पदाभिहितार्थनिष्ठायाः अभिहितान्वयरूपत्वादित्यादि ॥ तर्कैरित्यादि-सत्यादिवागखण्डार्थानुमा ध्वान्तविनाशिनी ।। इति लघुचन्द्रिकायां सत्याद्यवान्तरवाक्याखण्डार्थतोपपत्तिः।
विशिष्टाभेदस्य विशिष्टे भेदविरोधिसंसर्गस्य। तेन देशकालवैशिष्वस्यापि वक्ष्यमाणस्य संग्रहः तस्यापि स्वाश्रयभेदविरोधित्वात्। सोऽयमित्यादौ वाक्ये तत्तादेरुपलक्षणत्वं विशेषणत्वं वा। आद्येऽप्युप- लक्षणत्वं विशेषणान्यत्वमात्रमुपाधिसाधारणं स्वोपस्थाप्यधर्मान्तरस्येव उक्तवाक्यजधीविषयत्वम्, नतु स्वस्येत्येवं- रूपं वा। उभयथापि लक्षणावश्यकत्वेनाखण्डलक्षणतवोपहितोपलक्षितलक्षणाभ्यां युक्ता। विशेषणत्वमभ्य- र्हितम्। अन्यथा 'लोहितोप्णीपा' इत्यादी लौहित्यादेरविशेषणत्वापत्तिः। अभ्यर्हितत्व्रंच विशेषणत्वेनान्वयस्यैव शक्तिज्ञानसाध्यत्वात् इत्यादिकं ज्ञानकार्ये विषयहेतुत्वव्यवस्थापनप्रसङ्गादौ प्रपञ्ञितम् । द्वितीये विशिष्टयोर्ना- मार्थयोरभेद एव वाक्यार्थो मुख्यः; तथापि प्रकृते तदसंभवाल्लक्षणया स इत्यस्य तद्देशकालयोरित्यर्थकत्वाद- य मित्यस्थैत द्देशकालयोरित्यर्थकत्वाद्देशकालसंबन्धप्रकारकधीः । एवं विशिष्टयोरभेद्बोधकस्य विशेषणमात्रयोरभेद- बोधकत्वमपि संभवति; 'विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्यबाध' इति न्यायात्, अतस्तादृशबो- धकत्वमपि वितर्कयति-तथाहि किमत्रेति। तद्विशेषणयोः तद्देशकालरूपविशेषणयोः। अप्रस्यक्षत्वेनेति। प्रत्यक्षेण यत् ज्ञातं तदुद्देशेनाज्ञातं ज्ञापयितुं सोऽयमित्युच्यते। तद्देशकालविशिष्टत्वं तु न प्रत्यक्षमिति न तेन रूपेणो- देश्यतेति भावः । अनुद्देश्यत्वात् उद्देश्यतानवच्छेदकत्वात्। सत्कालादेरिति। उद्देश्यतावच्छेदकीभूतस्य विशे- पणस्य समानकालीनत्वसंबन्धेन विधेयान्वयित्वेनेत्यादिः । समानकालीनत्वसंबन्धेन स्वविशेष्यान्वितान्वयिन एव विशेषणत्वम्, अन्यथा प्रचरणकाले लौहित्याभावेऽपि विशेषणत्वं लौहित्यस्य स्यादिति 'लोहितोष्णीषा ऋत्विजः प्रच- रन्ती' तिशास्रार्थानुष्ठानं स्यात्। अतएव व्यावृत्तिबुद्धिकाले विशेष्योपरकतं विशेषणमित्यादिनाचायैर्विशेषणादिलक्षण- मुक्तं युक्तम्। एवंच विशेषणादीनामन्यथा लक्षणं भ्रान्त्यैव परेणोक्तमिति भावः। अतएवेत्युक्कहेतुं विवृणोति- विशेषणस्येति। भिन्नत्वात् अभेदान्वयायोग्यत्वात् । तथाच विशिष्टयोरभेदान्वये विशेषणयोरपि तदावश्य- कत्वेन बाध इति भावः । एककालानवस्थानेति। यत्तु तत्ता न देशकालसंबन्धरूपा, किंतु पूर्वानुभवध्वंसः, तस्य चैतद्देशकालाविरोध :- इति, तन्न; पूर्वानुभवाकालीना तत्तेत्यनुभवविरोधात, तावतापि तद्देशकालविशिष्टो- अ. सि. ८९
Page 388
७० ६ अद्वैतसिद्धिः। [परिच्छेद: २ ]
तूभयत्रापि समानम्। लाक्षणिकत्वेऽपि दण्डी कुण्डलीत्यादा विशिष्टतात्पर्याभ्नाखण्डार्थत्वव्यवहार:, सोऽयमित्यत्र तु 'अयं स न वा अयं नैच स' इत्यादि संशयविपर्ययज्ञानविषयीभूताभेदमात्रस्य बुभुत्सि- तत्वेन तत्रैव तात्पर्यादखण्डार्थत्वम्; नह्यन्यस्मिन् बुभुत्सिते अन्यत् प्रतिपादयितुमुचितमित्युक्तम्। तत्तेदन्तोपस्थितिद्वारकाभेदबोधस्यैव मेदभ्रमविरोधितया नान्यतरपद्वैयर्थ्यम्। प्रस्यमिश्ञाप्रत्यक्ष- स्याप्यभिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽपि उभयोपस्थितिद्वारकामेदबोधनेन भ्रमनिघर्तक- त्वम्, तत्समानार्थकं च वाक्यमेतदिति न विशिष्टपरम्। यथाचाभिज्ञाद्वयात् प्रत्यभिश्ञाया विषय वैलक्षण्याभावेऽपि द्वारविशेषनिबन्धनज्ञानगतवैलक्षण्यादेव फलभेदः, तथा स्मृतिरूपायास्तदिद- म्पदार्थापस्थितेरनुभवरूपस्य वाक्यार्थबोधस्य। एवंच 'भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधपरत्वं सामा- नाधिकरण्य'मिति प्राचां वचोऽपि निष्प्रकारके सुतरामुपपद्यते। ननु-सोऽयमिति प्रत्यभिज्ञा तावन्नाखण्डार्थविषयाः तत्र प्रत्यक्षे शब्दवृत्तेर्लक्षणाया अभावात्, तत्तेदन्तोलेखित्वेन तत्र निष्प्रकार- कत्वस्यानुभवपरास्तत्वात्, तदनुल्लेखे त्वभिज्ञातो विषयवैलक्षण्यानुपपत्तेः। तथाच शाब्दप्रत्यभिज्ञा- 5पि तथा, स्वप्रत्यभिज्ञावगतस्य परं प्रति बोधनादिति-चेन्न; वृत्त्यनपेक्षत्वेऽपि प्रत्यक्षस्य विशिष्टा- भेदविषयत्वे बाधस्य प्रतिबन्धकतया स्वरूपाभेदमात्रविषयत्वात्। अभेद्श्च न प्रकार :: स्वरूपतया प्राधान्यात्। तत्तेदन्तयोरपि न प्रकारता; भासमानाभेदरूपवैशिष्ट्यप्रतियोगित्वाभावात्। अतएव
गौडव्रह्मानन्दी (लघुचन्द्रिका)। Sयमित्यत्र विरोधानुद्धाराच्च। कैव कथेति। दण्डकुण्डलाभ्यामुपहिती नात्यन्तभिन्नौ; अमिलितयोरेवोपाध्योरत्यन्त- भेदकत्वात्, तत्तेदन्ताभ्यामुपहितावप्यत्यन्तभिन्नो; परस्परकालासत्वादिति भावः। समानमिति। दण्डीत्यादाघु- पहित इव प्रकृतेऽप्युपलक्षिते लक्षणया तयोरभेदबोधनमित्यर्थः । विशिष्टतात्पर्यात् उपहितयोरभेदतात्पर्यात्। इत्यादिसंशयविपर्ययेति। तत्तेदन्तोपलक्षितयोभेंदावगाहिसंशयविपर्ययेत्यर्थः। अतएव तत्तोपलक्षितप्रतियोगि कभेदरहितेत्यादि वक्ष्यते। तथाच भेदवुद्धो तत्तेदन्तयोरुपलक्षणत्वात्तन्निवर्तकाभेदबुद्धावपि तयोस्तधुज्यने। तत्र भेदबुन्दौ तयोरप्रकारीभूतयोरपि प्रतियोगितावच्छेदकत्वेन संबन्धतया यदि भानं, यदिवाऽवच्छिन्नत्वविशेपितप्रति- योगिता वस्तुगत्या तत्तेदन्त्वोपलक्षितव्यक्तिमा्रनिष्टा संसर्गतया भाति, उभयथापि प्रतियोग्यनुयोगिनोः शुद्धयोः भेद्बुद्धौ भानात्तन्निवर्नकता, शुद्धयोस्तयोरभेद्ज्ञानत्वेन, शुद्योश्च न विशेषणविशेष्यता; अत्यन्ताभेदे विशिष्टप्रमा- विरहादित्यखण्डविपयकत्वेन निवर्नकतापर्यवसानम्। विवेचितं चेदम्। तत्रवेति। उपहितभेदधीनिवर्ननायोपहित- योरभेदपरत्वे प्रकृतवाक्यस्य व्यावहारिकप्रामाण्यहानिः; तादृशाभेदस्य प्रातीनिकत्वात्। अनएव तज्ज्ञानस्याज्ञानानिव- तकतवेन न भेदधीनिवर्नकत्वम्; उपहितयोरभेदस्य व्यावहारिकत्वे ब्रह्मज्ञानमात्रनिवर्त्यत्वाच्च। नच-संशयस्य सध- र्मितावच्छेदकत्वानुरोधेनेदन्त्वभानमावश्यकमिति-वाच्यम्; आपातब्रह्मज्ञानादौ व्यभिचारेण तस्य तदनियमान्, अखण्डव्य केस्तत्प्रतयोगिकभेदस्य चाखण्डव्यक्तो विशेष्यत्वसंभवेनोक्तमेदत्वस्यैव धर्मितावच्छेदकत्वाच्च। नच-भेदांशे किंचिद्रूपेणैव प्रतियोगिनो भानम्, न स्वरूपत इति-वाच्यम्; तथानियमे मानाभावात्, परैरपि भेदलौकिकप्र- त्यक्ष एव तथा स्वीकारात, शुद्धव्यक्ते: सवस्मिन् भेदकल्पने तदसंभवात्। अथ-अस्य भेदज्ञानस्याहार्यत्वास्नाभेद- ज्ञाननिवर्त्यत्वमिति-चेत्, भ्रान्तोऽसि; अविद्यानिवृत्या तत्कार्यनिवृत्तौ त्वदीयाहार्यादिपरिभापाया अप्रयोजकरवात्। नच-किंचिद्रृपेण जातीतरस्य विशेषणत्वनियमादिदन्तवादिनैव व्यक्तिभानगिति-वाच्यम्; इदन्त्वस्यापि इदव्यक्ति स्वरूपतया किंचिद्रपेण विशेषणत्वापत्तेः, शाब्दनिर्विकल्पकस्य मन्मते विषयविशिष्टतया साक्षिभास्यत्वेन तथा निय- माभावाच्च। न केवलं शाब्दबोधस्येयं रीतिः, किंतु प्रत्यक्षस्यापीति दृष्टान्तेनाखण्डाथत्वं संभावयति-प्रत्यभिज्ञा- प्रत्यक्षस्यापीति। सुतरामिति। 'नीलो घट' इत्यादौ सम्रकारके तु नीलत्वघटत्वाधुपहितयोरभेदस्येव भेदस्यापि सत्वेनात्यन्ताभिन्नार्थकृत्वं पदयोर्नेति भावः । शब्दवृत्तेरिति। अखण्डतात्पर्याधीनलक्षणयैव अखण्डविपयकत्वमि- त्यभिमानः । तात्पर्यानुपपश्या शब्दस्येव बाधान्यथानुपपत्या प्रत्यक्षस्यापि अखण्डं विषय इत्याशयेनाह-न वृत्त्य- नपेक्षत्वेऽपीति। बाधस्य विशेषणयोरभेद्बाधस्य। प्रतिबन्धकतया इदन्त्वादयुपहिताभेदविपयकत्वे तदुपर- क्षितभेदधीनिवर्तकत्वासंभवेनचेति शेषः । प्राधान्यात् विशेष्यत्वात्। अत्यन्ताभिस्रयोः विशेष्यविशेषणत्वासंभवः। नच-शुद्धरूपेण विशेष्यत्वेऽपि भेदाभावत्वरूपेण विशेपणत्वमास्तामिति-वाच्यम्; भेदाभावत्वविशिष्टस्यात्यन्ताभे- दुरूपत्वाभावात्, व्यक्तिस्वरूप एव तन्जेदाभावत्वस्य कल्पिततया तद्विशिष्टस्य यावद्यक्तिसत्वं सर्वत्राभावात्, ब्रह्मणि तन्जेदाभावत्वविशिष्टस्य मोक्षे विरहात्। किंत व्यक्तिस्वरूपमात्रज्ञानस्यैवोक्तरीत्या भेदधीनिवर्तकत्वात् व्यक्तिस्वरूप- मेवाभेदः प्रकारो वाच्यः। स च विशेष्य एव। अतएव वक्ष्यते अनुपदं भेदविरहश्र न कश्चिन्दर्मः, किंतु स्वरूप-
Page 389
[तत्व० अखण्डार्थत्वोपपत्ति:] गौडब्रह्ानन्दीयुता। ७०७
नतस्यास्तसेदन्तोलेखिता, तदभिलापे तु निरन्तरोत्पन्नाभिज्ञान्यादेव तथोल्लेखव्यवहारात् तत्रच लक्षणा लब्धपदैव । सर्वत्र निर्षिकल्पकाभिलाप इयं गतिः। नचाभिक्ञाया अविशेष: सप्रकारकत्व- निष्प्रकारकत्वाभ्यामेव विशेषात्। फलवैलक्षण्यं तूक्तमेव। अतपव तस्तोपलक्षितप्रतियोगिकमेदर- हित इदन्तोपलक्षितदेवदत्तस्वरूपे तात्पर्यात् यथाज्ञानमुपदेशोऽप्युपपद्यते। भेदविरहश्च न कश्ि- द्धर्म:, किंतु स्वरूपमेव। तदेव चैक्यमित्युच्यते।,नचायमस्ति नियमः स्वेन यथावगतं परं प्रति तथैव वाच्यमिति; समूहक्षानेनापि श्रोतृवुभुत्सितैकदेशोपदेशदर्शनात्, ज्ानमात्रसाध्यत्वात् वुभु त्सानुसारित्वाच्चोपदेशस्य। एवंच विशिष्टविषयादपि ज्ञानादखण्डोपदेशोपपत्तिः। विशेषणोपलक्षणा- दिविवेकश्चान्यत्र स्पष्ट इति नेह प्रतन्यते। तथाच न दष्टान्तः साध्यविकलः। एवं तत्त्वमस्यादिमहा- वाक्येऽपि बोद्धव्यम्। ननु-चिन्मात्रस्य चिन्मात्रेण सहाभेदबोधने इष्टापत्तिः, अप्रसक्तनिषेधश्च, अभेदश्चेत्स्वरूपमेव तस्य स्वप्रकाशतया नित्यसिद्धत्वेनोपदेशवैयर्थ्यम्, तदस्फुरणे च तद्वुभूत्साद्यनु- पपत्तिः, तत्त्वम्पदार्थशोधकेनावान्तरवाक्येनेवोपपत्या महावाक्यवैफल्यं च, एकपदेनवोपपत्तेः पदान्तरवैयथ्ये च, भ्रमकालज्ञाताधिकाप्रतिपत्तेरम हावाक्यात् भेदभ्रमनिवृत्ति्च न स्यादिति-चेन्न चतन्यस्य नित्यसिद्धत्वेऽपि सार्वश्याद्युपलक्षितस्वरूपज्ञानस्याज्ञानादिनिवर्तकस्य साध्यत्वात्। नचेवं सप्रकारताः तत्तादिवत् सार्वश्यादीनामन्वयबोधाप्रकारत्वात् उपायान्तरेणतादृशज्ञानासंभवाश् नोपदेशवंयर्थ्यादयो दोषाः। भ्रमप्रतीतभेदाश्रयतावच्छेदकप्रतियोगितावच्छेदकद्वयोपलक्षितस्वरूप- मात्रज्ञानस्य भेदभ्रमनिवर्तकत्वेन विषयावैलक्षण्येऽपि फलवैलक्षण्यात्, शङ्वश्वैत्यविषयत्वे तुल्येऽपि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मिति। भासमानाभेदरूपवैशिष्ट्येति। तन्तेदन्तवयोः संसर्गस्य भासमानतया अननुभवात् अखण्डाभेदरूपं वैशिष्वं भासमानतया वाच्यम्। तत्प्रनियोगित्वं च न तत्तेदन्त्वयोरित्यर्थः । यन्तु परिणम्यमानस्य देवदत्तादेरत्तर- कालोपलक्षितस्य न पूर्वकालोपलक्षितस्वरूपेणात्यन्ताभेद इति, तन्तुच्छम्, यावत्कालमध्ये एक एव परिणामस्ता- वत्कालमध्ये तत्तेदन्त्वयोः संभवात्। अतएव उत्तक्रमेण तत्तेदन्त्वयोः प्रकारत वासंभवात् विशेष्यत्वस्य चाननुभ- घात। तस्या: प्रत्यभिज्ञायाः। न तन्तेदन्तोलेखिता तत्तेदन्त्वविषयकत्वसामान्याभावः। तदभिलापे प्रत्यभि- ज्ञाभिलापे। तथोल्लखव्यवहारात् तत्तेदन्ताबोधकशठदप्रयोगात्। तथाच यदुपलक्षित यत्र ज्ञाने विषयः, तद्वो- धकशव्देनापि तदभिलप्यत इनि भावः। तत्र तदिदंशब्दरूपाभिलापे तत्तेदन्त्वोपलक्षिते व्यक्तिमात्रे लक्षणाSडव- श्यकी, अन्यथा अभिलप्यज्ञानेन तदभिलापसमानविपयत्वव्याघातादित्याशयेनाह-तत्रेति। एवंच तत्तेदन्ताभ्यां जानामीत्यनुव्यवसायोऽपि व्याख्यातः; तत्रापि तयोरुपलक्षणयोरभिलापात्। सवेत्र 'य एवं वेदाहं ब्रह्मास्मीति आत्मानमेवावेदहं ब्रह्मास्मीति आत्मानं चेद्विजानीयादयमस्मी त्यादिवेदे सोऽयमिति लोके च। सप्रकारक- त्व्रेति। अभिज्ञाप्रत्यभिज्ञयोरित्यादिः। ज्ञानमात्रेति। श्रोतृबुभुत्सितज्ञानतवेनवोपदेशहेतुता, नतु उपदेशान्यू- नानतिरिक्तविपयकज्ञानत्वेन। ननु तत्तेदन्त्वयोर्विशेषणत्वमादाय विशिष्टयोरभेद एव वाक्यार्थः, विशेषणत्वं तुन स्वविशेष्यान्वितान्वयित्वम्; शब्दोऽनित्य इत्यादी शब्दत्वादावव्यापेः, नापि विधेयान्वयकाले विद्यमानत्वम्; दण्डी भविष्यतीत्यादी दण्डादावव्याप्तेः, गृहनिष्टकाकादावतिव्याप्ेश्र। नापि विधेयान्वयप्रतियोगितावच्छेदकत्वम्; व्यावृश्त्यधिकरणतावच्छेदकरवमन्यूनानतिरिक्तदेशकालकत्वं वा, यद्वत्तया ज्ञात एव तात्पर्यविषयेतरान्वयः, तर्वं वा। आद्ये 'सास्त्नादिमान् गौरि'त्यादौ सास्रादौ तत्सम्भवेऽपि 'गौरशुक्क' इत्यादौ तदसंभवः। द्वितीये तु तस्तादेरप्यक्षतम्; तद्वत्तया ज्ञात एवेदमर्थान्वयात्, उपलक्षणत्वं तु न तत्तादेरस्ति; यदुपस्थापितधर्मान्तरवत्तया ज्ञात एव विधेयस्य विधेयवदन्यव्यावृत्तेरवा बोधः, तस्यैवोपलक्षणत्वात्। नहि काकोपस्थापितसंस्थानविशेषवत्तया ज्ञात एव देवदत्तगृहस्य तदितरव्यावृत्तेर्वा धीरिव तत्रोपस्थापितदेहसंस्थानविशेषवदिदमर्थस्य तदन्यव्यावृत्तेर्वा वी :; देहसंस्थानविशेषवदिदमर्थतदन्यव्यावृत्योः प्रत्यक्षसिद्धत्वेन वाक्येन तद्वोघनवैयर्थ्यापातादित्यत आह- विशेषणोपलक्षणादिति। अन्यत्र प्रथमपरिच्छेदे। स्पष्टः मया विवेचितः। स्वविशेष्यान्विते यत्र यदन्वेति तदंशे तद्विशेषणम्। शब्दत्वादिकं त्वनित्यत्वाद्यंशे न विशेषणम्, न वा भविष्यर्वाद्यंशे दण्डादि, किंत्वनित्येतर- व्यावृत्तिबुद्धंशे शब्द इतरस्माद्यावृत्तः इत्यादिबोधे स्वविशेष्यान्वयिनि व्यावृत्तिबुद्धिविषयत्वे शब्दत्वस्यैककालीनत्व- संबन्धेनान्वयात्। तथाच तत्तादिकमुपलक्षणमेव; नानाव्यक्तिगतस्योपलक्षणस्य धर्मान्तरोपस्थापकत्वनियमेऽप्येक- व्यक्तिगतस्य तदभावात्। धर्मस्य धर्मिणो वोपस्थितिद्वारा स्ाविषयकं स्वाश्रयस्य यत् ज्ञानं येन जन्यते, तस्मिन् स्वाश्रयस्य ज्ञाने तस्योपलक्षणत्वमित्यादि विवेचितमिति भावः। भ्रमप्रतीतेति। भ्रमाम प्रतीतेत्यरथः । भ्रमोपळक्षण-
Page 390
७०८ अद्वैतसिद्धिः । [परिच्छेद: २ ]
तदनुमानानिवर्त्यपीतभ्रमस्य तत्प्रत्यक्षनिवर्त्यत्वदर्शनात्। अतएवोकतं विधरणे-'अभिशातः प्रत्यभि- शायास्तावन्न प्रमेयतो विशेष :; अभिज्ञया ज्ञातस्यैव देवदत्तैक्यस्य प्रत्यभिज्ञयापि ग्रहणात्। नहि देवदत्तस्य स्वेनैक्यमभिज्ञायां न भाति। नच तस्यैक्यान्तरमस्ति यदनभिज्ञातं प्रत्यभिश्ञायते। एकस्य कालद्वयसंबन्धः प्रत्यभिज्ञागोचर इति चेन्न; पक्ये कालद्वयसंबन्धस्याभिश्ञाद्यादेव सिद्धेः। तस्मात् कालद्वयसंबन्धिपदार्थैक्यविषयत्वे द्वयोरप्यविशिष्टे प्रत्यभिज्ञाया एव कालद्यपरामर्शित्वेन पदार्थ- भेदभ्रमनिवर्तकत्वम्, नाभिज्ञायाः। एवं तत्त्वमसीति वाक्यस्य सत्यादिवाक्यात्तत्पदाच्च प्रमेयावैल- क्षण्येऽपि धर्मद्यपरामर्शित्वेन भेदभ्रमनिवर्तकत्वात् प्रामाण्यम्। उक्तंच कात्यायनेन 'सिद्धं तु निव- रसकत्वा'दिति। स्यादेतत्-अभिज्ञया वस्तुत एकस्मिन् कालद्वयसंबन्धस्य देवदत्ताभेदस्य च ग्रहणे 5पि प्रत्यभिज्ञया एकस्मिन् कालद्वयसंबन्ध इति वा, कालद्वयसंबन्ध्येक इति वा ग्रहणेन प्रमेयत एव भेदः। नहीदमिति ज्ञानं वस्तुतः शुक्तौ शुक्त्यभेदभ्राह्यपि इयं शुक्तिरिति ज्ञानवदिदंत्वशुक्तित्वाधार एक इत्याकारम्, अन्यथा तु फलतोऽपि विशेषो न स्यात्; कालद्वयपरामर्शस्य मेदभ्रमेऽपि सत्त्वा- त्। एवं तत्वमसीत्यत्रापीति। उच्यते-नहि प्रत्यभिज्ञायामैक्यं प्रकार इति कस्यचिन्मतम्; तस्य स्वरूपत्वेन विशेष्यत्वात्। अभेदस्वरूपविषयत्वे तुल्ये तत्तदन्तोभयप्रकारिका सेति तव मतम्, निष्प्र- कारिकैवेति मम। एकत्वं च नैकत्वसक्व्या; गुणादावभावात्, तज्ज्ञानस्य मेदभ्रमाविरोधित्वाञ्च, किंतु भेदविरहरूपं स्वरूपमित्युक्तम्। अन्यथा तदभिलापकवाक्यमपि सोऽयमेक इति स्यात्, नतु सोऽय- मिति। सोऽयमिति वाक्ये त्वैक्यस्य प्रकारत्वं तत्प्रतिपादकपदाभावादेव दूरनिरस्तम्। भेदभ्रमे काल द्वय परामर्शेऽपि भ्रमप्रतीतभेदाश्रयतावच्छेदकेत्यादिनिरुक्तफलवैलक्षण्यमुपपन्नमेव। अतएव 'उपा- धिभेदभिन्नाथों येनैकः प्रतिपाद्ते। तदपि स्यादखण्डार्थ महत् खं कुम्भकं यथा ।' इत्यादि कल्पत- रूक्तं 'घटाकाशो महाकाश इत्युक्तेश्ैक्यधीर्यथे'ति वार्तिकं च निरवद्यम्। तथाच तत्वमसिवाक्यम- खण्डार्थम्, उपाधिभेदभिन्नेऽथ ऐक्यप्रतिपादकत्वात्, घटखं महाखमिति वाक्यवदित्युक्तं भवति। एवंच-'सत्यज्ञानादिरेतत्संसर्गव्यरेकिणि अर्थे प्रमाणम्, मानत्वात्, 'नयनादिप्रमाणव'दिति चित्सु- खाचार्योक्तमपि-साधु। सत्यादिवाक्यमेतत्पदार्थसंसर्गव्यतिरिक्त एवार्थ प्रमाणमिति सावधारणं साध्यं विवक्षितम्, तेन संसर्गातिरिक्तसंसर्गिण्यपि प्रामाण्याङ्गीकारात् न सिद्धसाधनम्। कण्टको- द्वारस्तु पूर्ववत्। एवमन्येपामपि प्रयोगा: यथायथमुपपादनीयाः॥ गौडव्रह्मानन्दी (लघुचन्द्रिका)। तया भ्रमपूर्वप्रतीतेति यावत्। स्वरूपमात्रज्ञानस्येति। महावाक्ये हि जीवत्वसर्वज्ञत्वोपहितयोरभेदो न विषयः तस्य भेदसहिष्णोरपि बाधितत्वेन तदसहिप्णोः सुतरां बाधितत्वात्। नहि उपहितयोरभेदस्तात्विकः; 'नेह नाने'- त्यादिश्रुत्यादिना उपहितयोरेव मिथ्यात्वेन तत्वासंभवात। तथाच भेदस्य व्यावहारिकत्वेनाभेदस्य प्रातीतिकतवात् वाक्यस्य व्यावहारिकप्रामाण्यमपि न स्यात्। नापि जीवत्वोपलक्षितेनेशत्वोपहितस्याभेदः; ईश्वरादिविषयकत्वेना- प्रामाण्यापत्तेः, तयोरभेदस्यात्यन्तिकत्वाभावेन मुख्यसामानाधिकरण्यहानेश्च, किंतु जीवत्वेशत्वोपलक्षितयोरभेदः। स च स्वरूपमात्रमिति पूर्वोक्तरीत्या तन्मात्रज्ञानमेव महावाक्यजन्यमिति भावः। शङ्गति। नच-अनुमानप्रत्यक्षयो- विषयाभेंदऽपि कारणवैजात्यात् कार्यवलक्षण्यमिति-वाच्यम्; निर्दोपेन्द्रियसन्निकर्षे शङ्गश्वैत्यादावनुमित्यादेरपि पीतत्वादिभ्रमनिवर्तकत्वात् सामग्रीवैजात्यस्यैव कार्यवैलक्षण्ये नियामकत्वेनादोपात्। शङ्कते-एकस्येति। द्वयादेवेति। एककालेन विशिष्टे उपहिते वा कालान्तरवशिष्ठ्यं तु न प्रत्यभिज्ञायामपि विषयो वकुं शक्य :; बाधादिति हृदयम्। धर्मद्येति। जीवत्वव्रह्मत्वेत्यर्थः। उक्तचैति। शब्दानां नित्यत्वे सिद्धान्तिते व्याकरणस्य ज्ातज्ञापकत्वेनाप्रामाण्यमाशङ्य मृजादिधातुना मृजन्तीत्यादेःसाधुत्वनिश्चयसंभवेऽपि मार्ष्टीत्यादीनामसाधुत्वभ्रमनिव- तकत्वरूपप्रयोजनकत्वेन प्रामाण्यं सिद्धमेवेत्यर्थकं सिद्धं त्वित्यादिकमुक्तं वृद्धिसूत्रवार्तिके। तद्वत् ज्ञातज्ञापकत्वेऽपि भ्रमविशेषनिवृत्तिरूपप्रयोजनसश्वात् तर्वमस्यादिप्रामाण्यमिति भावः । अन्यथा भेदविरहत्वरूपेणैकत्वभाने। नतु सोऽयमितीति । सोऽयमितिधीप्रतिबन्धकयुक्तायां तत्सामग्र्यां सत्यां कालदवयसंबन्धिस्वरूपज्ञानं जायता- मितीच्छया जायमानस्य सोऽयमितिज्ञानस्य नैकत्वं विषयः। वस्तुतः एककालविशिष्टे तदुपहिते वा कालान्तर- विशिष्टस्य तदुपहितस्य वा भेदाभावसंबन्धेनेव भेदाभावप्रकारकं ज्ञानमपि न संभवति; बाधादित्यादि बोध्यम्। पदाभावादिति। एकवचनस्य तु संख्यैवार्थः; तावेतावित्यादावेकवचनस्याप्यभाव इति भावः। उपाधिमेदमिन्ने- 5र्थे पक्यप्रतिपादकत्वात् भिन्नोपाध्युपहितवाचकस्वघटकनामार्थयोरत्यन्ताभेदबोधकत्वात्। घटः कलश इत्यादौ व्यभिचारात् वाचकान्तम्। 'नीलो घट' इत्यादौ व्यभिचारादृत्यन्तेति। व्यतिरेकिणि भिन्ने। सावधारणमिति।
Page 391
अखण्डा० तत्प्रमाणयोर्नि०] ७०९
तस्मात् वृथा रोदिषि मन्द्बुद्धे तव भ्रमादेव हि दुःखमेतत्। तस्यापनोदो विहितः प्रमाणैस्तुभ्यं तु रोचेत स नेति चित्रम्।। मानं वेदान्तवाक्यानि निर्गुणाखण्डबोधनात्। निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया॥ इह कुमतिरतत्वे तत्त्ववादी वराक: प्रलपति यदकाण्डे खण्डनाभासमुश्वैः। प्रतिवचनममुष्मै तस्य को वक्कु विद्वान् न हि रुतमनुरौति ग्मसिंहस्य सिंहदः॥ इत्यद्वैतसिद्धौ तत्वमस्यादिमहावाक्याखण्डार्थत्वोपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका) पदार्थसंसर्गनिष्ठसांसर्गिकविषयताशून्यप्रमाजनकत्वं साध्यम्। निर्विकलपकमादाय दष्टान्ते साध्यं बोध्यम्। निर्गु- णाखण्डबोधनात् निर्गुणाखण्डबोधमादाय। मानं प्रमाणम् ॥ तर्कैरित्यादि। तत्त्वमस्याद्यखण्डार्थानुमा- विनाशिनी॥ इति लघुचन्द्रिकायां अखण्डार्थत्वोपपत्िः॥
तत्राखण्डार्थेत्वलक्षणतत्प्रमाणयोर्निरूपणम्। (१) तत्र न्यायामृतकारा :- सत्यादिवाक्यं तत्त्वमस्यादिवाक्यंच नाखण्डार्थनिष्ठम्; तत्त्वस्य निर्घटं भूतलमितिवाक्यस्येव सखण्डार्थतापत्त्या सगुण- वाक्यानामप्यखण्डार्थलापत्त्याच भेदाभावविशिष्टत्वतदुपलक्षिततरूपनिर्भेदार्थपरत्वरूपत्वं न संभवति। एतेन-अख- डार्थतमपि शीतोष्णस्पर्शवन्ती पयःपावकावित्यादावतिव्याप्या प्रातिपदिकार्थमात्रपर्यवसाय्यनेकापर्यायशब्दरूपं नीलं घटमित्यादावतिव्याप्येष्टापत्त्या चैकविशेष्यपरत्वं वा न भवतीति-सूचितम्। संसर्गागोचर प्रमाजनकानेकापर्यायशब्दत्वं कप्रातिपदिकार्थपर्यवसाय्यनेकापर्यायशब्दत्वं वा तु नाखण्डार्थलम्। आद्यलक्षणे-संसर्गपदेन पदस्मारितपदार्थप्रति- योिकस्य विवक्षणे विषं भुद्धेति वाक्येऽतिव्याप्तेः । इदंच वाक्यं युक्तिमूलकं, न शास्त्रमूलकमिति द्विषदन्नं न भोक्तव्यमिति शास्त्रीय पद स्मारितपदार्थसंसर्गप्रमापकत्वेन न तन्निराससंभवः। प्रतिपिपादयिषितसंसर्गविवक्षणेच ब्रह्मणः स्रूपेण प्रश्नहे- तुसंशयधर्मित्वेन प्रागेव ज्ञातत्वेन संसर्गप्रतियोगित्वेन प्रतिपिपादयिषितत्वेनासंभवः, शीतोष्णस्पर्शवन्तौ पयःपावकावित्य- नेकप्रातिपदिकार्थमात्रपरवाक्येऽतिव्याप्तिः, नहि धर्मधभिभावासहं वाक्यं धर्मिभेदसहमिति न तस्य लक्ष्यत्म्। यौगि- कार्थोपगवादिप्रश्नोत्तरे श्यामो दीर्घो लोहिताक्ष औपगव इत्यादौ अनेकार्थात्मकसेनादिप्रश्नोत्तरे एकदेशस्था वृक्षा वनमि- त्यादी चाव्यापिः, प्रकृष्टप्रकाशादिवाक्यानामपि सखण्डार्थत्ादसंभवश्च । एतेन-द्वितीयलक्षणमपि-परास्तम्; असंभवात्, सखण्डार्थवाक्येष्वतिव्याप्तेश्र। किंच किमिदमपर्यायतम् ? प्रधृत्तिनिमित्तमेदश्चेत्, सत्यादिवाक्येष्वसंभवः । नहि तत्र प्रवृत्तिनिमित्तभेदः। अनन्तत्वज्ञानत्वादीनां शुद्धादन्यत्रासंभवात्। लक्षणया चिन्मात्रपरत्वे तु अनन्ततादिकं न ब्रह्मलक्षणम्। यावताच नाखण्डार्थलक्षणसिद्धिः, तावता तत्र सत्यादिवाक्यं, अखण्डार्थनिष्ठं, ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा, लक्षणवाक्यलात्, तन्मात्रप्रश्नोत्तरलाद्वा, प्रकृष्टप्रकाशश्न्द्र इति वाक्यवदिति अनुमानं प्रत्यक्षादीनामपीदमित्थमिति विशेष संसगगोचरत्वेन संसर्गागोचरप्रमि तिजन कत्वरूपसाध्याप्रसिद्धा लक्षणवाक्यतस्य सत्यादिवाक्येष्वसिद्धा च न सत्या- दिवाक्याखण्डार्थत्वे प्रमाणम्। परापरजातिरूपसत्यत्वानन्दत्ादिकं ब्रह्मणोऽन्यत्रातिव्याप्या तात्त्विकसत्त्वं ब्रह्मण्यप्यसंभवे- नातात्त्विकसत्वं चान्यत्रातिव्यास्या न ब्रह्मलक्षणतामद्दति। असाधारणधर्मपरलक्षणवाक्यं हि सखण्डार्थमेव दृष्टमिति लक्षणवाक्यत्वेनाखण्डार्थतसाधने विरोधाच। सवरूपंतु लक्ष्यानतिरेके लक्ष्यलक्षणभावायोगात् न लक्षणमिति तदतिरेकस्या- श्रीकारे स्वरूपलक्षणपरत्वेनापि सखण्डार्थलमेव। लक्षणात्प्रागेव सामान्यतो ज्ञाते सरूपे लक्षणस्य द्वारत्वं तु न युक्तम्। लक्षणापरत्वे सति तत्प्रत्यायकत्वं अलक्षणवाक्ये व्यमिचारान्न हेतुरिति वस्तुतो लक्षणस्यैव हेतुत्वे पूर्वोक्तदोषाः सख- ण्डवनादिलक्षणवाक्ये किं चन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टप्रकाशादिवाक्येच व्यमिचारश्र स्युः । अखण्डलक्षण- वाक्यत्वं लसिद्धा न हेतुः। नहि धर्मे पृष्टे स्वरूपं वक्तुमुचितम्। एतेन-धर्मिज्ञानाधीनसप्रकारकसंशयादिनिवर्तकमो-
१ अत्र संसर्ग: पदस्मारितपदार्थप्रतियोगिको विवक्षित इति अप्राप्तयोः प्राप्तिः संयोग इत्यत्र नाव्याप्तिः, प्रमापदंत गौरश्वो इस्तीत्यादौ तत्तत्स्मृतिजनकानेकपदसमुदायेऽतिव्याप्तिवारणार्थम्। निर्विकल्पप्रत्यक्षजनकेन्द्रियव्यावृत्त्यर्थ तु शब्दपदम्। शब्दे Sनेकत्वंतु संभूयार्थप्रतिपादकत्वमिति न धवखदिरपलाशा इत्यत्रातिव्याप्तिः। संप्रदायस्तु संसर्गाननुभावकयौगिकशब्दनिरासार्थ- मनेकत्वमिति न्यायामृतटीका प्रकाशः ।
Page 392
७१० अद्वैतसिद्धिः । [परिच्छेद: २ ]
क्षहेतुसप्रकार कज्ञान साध नत्वेन वेान्तविचारा ्य्थानुपपत्योक्कानुमने बघोऽपि-सूचितः। अतएव-(१) सत्यादि- वाक्यतात्पर्यविषयः, संसष्टरूपः, संसर्गरूपो वा, प्रमाणवाक्यतात्पर्यविषयलात्, (२) सत्यादिवाक्यं, सतात्पर्यविषयज्ञाना- बाध्यसंसर्गपरम्, सतात्पर्यविषयज्ञानाबाध्यसकरणकप्रमितिविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्यात्, ज्योतिष्टो- मादिवाक्यवत्, (३) वेदान्तजन्यप्रमा सप्रकारिका, ब्रह्मनिष्ठप्रकारविषया, विचारजन्यज्ञानतात्, ब्रह्मधर्मिकसंशयविरोधि- ज्ञानतात्, ब्रह्मविचारजन्यज्ञानलात्, कर्मकाण्डजन्यज्ञानव दित्यनुमानैः प्रतिरोधोऽपि मन्तव्यः । खं छिद्रमित्यादिप्रमाणवा- क्येऽपि खशब्दवाच्ये छिद्रशब्दवाच्यतसंसर्गस्यैव बोधनान्न द्वितीयानुमाने तत्र व्यमिचारः। पतेन-दष्टान्ते साध्यवैक- स्यमपि-सूचितम्; नहि प्रकृष्टादिवाक्यममिधयाऽखण्डार्थनिष्ठम्, प्रकृष्टप्रकाशरूपस्य द्रव्यस्य गुणस्य वा चन्द्रेऽन्वयोप- पत्तेरन्वयानुपपत्तिबीजाभावेन न लक्षणेति नापि लक्षणया तत्। यष्टीः प्रवेशयेत्यत्रेव तात्पर्यानुपपत्तिश्च स्वरूपमात्रेऽज्ञाते प्रश्नानुवादयोरयोगात्, संकीर्णचन्द्रखरूपद्वयाभावेन रूपान्तरेणाज्ञानायोगाच्च न स्वरूपमात्रं तात्पर्यमिति नात्र संभवति। असंकीर्णत्वेन चन्द्रस्वरूपज्ञानंच व्यावर्तकव्यावृत्त्यन्यतरवैशिष्ेन ज्ञानमेवेति विशिष्टपरलापातः। एवंच- सामान्यतोऽपि न ज्ञातो धर्मी चन्द्रो यदा तदा। न बुभुत्सा न संदेहो नानुवादश्च युज्यते।। तस्माच्चन्द्रस्येतरस्माद्भेदको धर्म एव हि। पृष्टस्तस्मात्प्रकृष्टादिवाक्यं नाखण्डगोचरम् ॥ नहि प्रकृष्टप्रकाशवाक्ये प्रकृष्टत्वादिविशिष्टे न तात्पर्यम्; अन्यथा तात्पर्यतो यस्य कस्यापि चन्द्रत्वप्रसन्गात्, चन्द्रवुभु- तसानिवृत्त्यभावेन कक्षन्द्र इति प्रश्नोत्तरतानुपपत्तेः, सर्वेषामपि लक्षणवाक्यानां संदेहानिवर्तकत्वापत्तेः, प्रकृष्टादिपदवैय- थ्यापत्तेश्च। व्यावर्त्यमेदेनतु न सार्थक्यमित्युत्तरत्रोपपादयिष्यामः। एतेन-प्रश्नोत्तरे प्रकृष्टादिविशेषणाश्रयभूतासाधारण- विशेष्यमात्रव्यक्तिरेव विषयः, नतु विशिष्टव्यक्तिः; सहप्रयोगानुपपत्तरिति-परास्तम्; अस्या एवासाधारणव्यक्ते: प्रागेव ज्ञातत्वेन प्रश्नोत्तरत्ानुपपत्तेः । एवंच-गामानयेत्यत्र गोलस्यानयनेनेव प्रकृष्टतादेः चन्द्र प्रातिपदिकार्थत्वेनानन्वयेऽपि उद्देश्यतावच्छेदकतया भानेन सखण्डार्थत्वं दुर्वारमेव। संभवति हि पृथिवीतवती पृथिवीति वाक्यवत् विशिष्टपरत्वेऽपि प्रफृष्टप्रकाश इति वाक्यस्योपपत्तिः। तथाच सामान्यतः चन्द्रस्य व्यावर्तकधर्मव्यावृत्त्योर्घटादो प्रागेव ज्ञातत्ात् विशिष्ववि- षये एव प्रश्नोत्तरे। नहि जन्मशतेनापि तत्तद्यावृत्तिरवगन्तुं शक्यते। व्यावर्तकधर्मवैशिष्ट्यमेवात्र प्रतिपादते। यथा- चाभिबोधनार्थे धूमोऽस्तीतिवाक्ये धूमे यागाक्षेपके द्रव्यदेवतासंबन्धेऽपि यदाभेयवाक्येच तात्पर्यम्, तथा प्रकृते धर्मऽपि तात्पर्यमन्नीकरणीयमेव। किंलक्षणकश्षन्द्र इति प्रश्नोत्तरस्येव लक्षणवाक्यस्यास्य धर्मपदाभावेऽपि वस्ुतस्तस्यंव वुभुत्सितत्वेन तत्रैव तात्पर्यमिति सखण्डार्थलमेव। अथवा-व्यावहारिकमिदं लक्षणं न व्यावर्तकमिति चन्द्रशब्दविशेषितव्यवहार एव प्रफृष्टप्रकाशलक्षणप्रयोजनमिति न स्रूपज्ञानार्थमिदं लक्षणम्; स्वरूपस्य प्रत्यक्षणैव ज्ञातत्वेन लक्षणवाक्यवैयर्थ्यात् । व्युत्पत्तीचेदमप्युपायान्तरम्। पतेन-द्वितीयमानमपि साध्याप्रसिद्धिबाधसत्प्रतिपक्षटष्टान्तसाध्यवकल्यादिदोषात् प्रकृष्ठादिवाक्योक्तरीत्या स्वरूपमा- त्रप्रश्नोत्तरलासिद्वेश्व न युक्तमिति-सूचितम्; नहीह किंत्रह्मतिश्रुतावंव प्रश्नो विद्यते इति तत्कल्पनायां सत्यादिवाक्यस्य धर्मविषयत्वेन तदनुगुणमेव तदापत्त्या स्रूपमात्रप्रश्नोत्तरत्वमसिद्धमेव। अतएव कनम आत्मेति कतर आत्मति च जात्याद्यर्थकतमादिप्रयोगोपपत्तिः। एतेन-"योऽयं विज्ञानमय" इति वाक्ये स्वरूपासिद्धिरपि-सूचिता। अतएवोत्त- रस्य धर्मिनिष्टप्रश्ननिर्धारितकप्रकारपरलनियमः, प्रश्नादुत्तरस्याधिकविषयलनियमश्रोपपद्यत। अन्यथा नहि संवेहनितृत्ति: प्रश्नस्येवोत्तरत्वप्रसन्गात्। सत्यादिवाक्यार्थः, ब्रह्मप्रातिपदिकार्थमात्रम्, तन्मात्रप्रश्नोत्तरवाक्यार्थलात्, इति न्यायदीपाव- ल्यनुमानमप्येतेन पराहतम्। अपिच द्विकस्य त्रिकस्य चतुष्कस्य पञ्चकस्य वा प्रातिपदिकार्थतवादिनां वैयाकरणानां मतेऽन्बिताभिधानवादेऽमिहितान्वयवादेऽपि जातिविशिष्टव्यक्तिपदार्थतामतेच प्रातिपदिकार्थस्य विशिष्टरूपत्वात्कथमखण्डा- र्थतम्? जातिशक्तिमतेपि ब्रह्मपदस्य योगिकलात् विशिष्टपरत्मेव। नहि प्रातिपदिकार्थप्रश्नोत्तरस्य तदेकदेशविषयता युज्यते। ब्रह्मस्वरूपमात्रावुभुत्सितत्वात्, सत्यादिवाक्ये विशेषणानां सत्वेन रक्तपटन्यायेन धर्मेऽप्याकाह्ाया उत्थापनीयत्वेन ब्रह्मविदाप्ोतीति निर्दिष्टमोक्षहेतुज्ञानस्य सप्रकारकलावश्यकत्वेन च धर्मबुभुत्साया अप्यावश्यकलात्,.सगुणवाक्यादीना- मिवालक्षणपराणामपि चाखण्डार्थलापत्तेश् न सरूपमात्रं विपक्षबाधकं, एतेन "एकधैवानुद्रष्टव्यं" "उदरमन्तरं कुरुते" "केवलो निर्गुणक्ष" "एकमेवाद्वितीयं" इत्यादिवाक्यं नाखण्डार्थताभावे बाधकम्; तेषां अभेदादिविशिष्टपरत्वे सखण्डार्थ- लाप्रामाण्ययोरापत्तेः। वस्तुतस्तु-एकधवेत्यादीनामेवाखण्डार्थत्वं सत्यादिवाक्यस्य तु सखण्डार्थतमिति वपरीत्यमेव स्यात्; उभयोरपि मुमुक्षुज्ञेयपरत्वाविशेषात्। ऐक्यं तु मिथ्याभूतं न परमार्थसत्यत्वादिवैशिष्यविरोधि, तत्सत्यत्वंतपसि- द्वान्तापत्त्या न संभवति। ब्रह्मानन्तशब्दौ तु "बृहन्तोऽस्मिन्गुणाः" "महद्गुणताद्यमनन्तमाहु"रिति श्रुतिस्मृतिभ्यां सगुणप- रावेवति न तावपि बाधकाविति नाप्रयोजका हेनवः। अतएव-वेदान्तवाक्यं प्रकृषादिवाक्यंचाखण्डार्थत्वे संसर्गगर्भा- काह्ायोग्यतासन्निधिमत्पदसमूदरूपं वाक्यमेव न स्यात्। तात्पर्यविषयाबाधो योग्यतेत्यादिकं तु न संभवति; पदार्थमात्रे
Page 393
[अखण्डार्थ० तत्प्रमाणयोर्नि०] गौडम्रह्मानन्दीयुता। ७११
वाक्यतात्पर्यायोगात्, अन्वयगर्भत्स्यावश्यकत्वात्। पतेन-अखण्डचिन्मात्रस्याध्यासाविष्ठानत्ादि नित्यसिद्धल्ात् वेदान्तनिर्विषयत्वापत्तिः; वेदान्तजन्यज्ञानज्ञानतानुपपत्तिः, विचारविध्यनुपपत्तिः, आद्याध्यायतृतीयपादाधिकरणानां विष- यादिपश्चकाभावादनारम्भापत्तिः, "ब्रह्मविदाप्नोति" इति पूर्ववाक्य एव ब्रह्मणो ज्ञाततया सत्यादिवाक्यवैयर्थ्यापत्तिः, तात्प- र्य विषयाखण्डार्थत्वे लक्ष्यलक्षणभावानुपपत्तिः, ब्रह्मवुभुत्सानिवृत्त्यभावेन किं ब्रह्मेति प्रश्नोत्तरत्वोद्देश्य विधेयभावयोरनुपप- सतिरित्यादिप्रतिकूलतर्कपराहृतमप्युक्त्तानुमानमिति-सूचितम्। किंच सत्यादिपदानां नामिधया चिन्मान्रपरत्वं, लक्षणातु अशक्यासदृशान्वयप्रतिोग्युपस्थितिरूपा न चिन्मात्रे संभवति। शक्यसंबन्धरूपापि सा न संभवति; बीजाभावादिति पूर्वमेव निरूपितम्। अन्यथा सत्यादिपदानां पर्यायत्ापत्त्या सहप्रयोगानुपपत्तिः । कुम्भाद्यनुगतसत्ता परजातिः, अन्तः- करणोपधानलब्धचिदानन्द विशेषानुगतज्ञानलानन्दत्वेचापरजाती इति सत्यज्ञानादिशब्दानां लक्ष्यार्थाभेदोऽपि वाच्यार्थमेदान्न पर्यायतेति कल्पतरूक्तम्, विशिष्टशवलब्रह्मवाचिनां शुद्धब्रह्मणि लक्षणेति संक्षेपशारीरकोक्त्तंचानेन पराहतम्। नहि कुंभाधनुगता सत्ता ब्रह्मलक्षणमिति भवति, नवा मिथ्यासत्यानुगतसत्तासामान्ये समस्ति प्रमाणम्। नहि तदा तया- 5नृताद्यावृत्षिसिद्धिः। कालत्रयावाध्यतवरपमेव सत्वं तथ्च ब्रह्मणि श्रीतमिति हि भवतां मतम्। नहि औपाधिकभेदमात्रेण सत्यत्वादिकं आकाशतादिकमिव जातिरिति युक्त्तम्। योगे वा धर्मिसमसत्ताकभेदवदुपहितव्ृत्तित्वेन शुद्धलक्षणलायोगः । शवलस्यासत्यस्य हि सत्यशब्दवाच्यत्वं न संभवत्येव। एतेन-अखण्डचिन्मात्रपरत्वं पदान्तरवैयथ्यमपि-सूचितम्; नहि व्यावर्तकस्य सत्यत्वादेस्तात्पर्यतोऽनर्पणडसत्यव्यावृत्यादीनां सिद्धिः, नद्यां घोष इत्यत्र तीरस्यानदीतः यजमान: प्रस्तर इत्यत्र प्रस्तरस्यायजमानाच्च व्यावृत्त्यापत्त्या न प्रतीतिमात्रेण व्यावर्तकत्वम्। सत्यत्वयाजमानत्योः व्यावहारिकप्रातिभा- सिकत्वकृतविशेषस्तु न सिद्यतीति लक्षणाबीजे मुख्यार्थबाधके तुल्ये सत्यादिपदस्य वाच्यार्थऽवान्तरतात्पर्य यजमानपदस्य नेत्यत्र न विनिगमकं किंचिदस्ति । किंच व्यावृत्तिसत्यत्वे व्यावतकस्यापि सत्म् । नहि व्यावहारिकव्यावर्नकेण पारमा- र्थिकव्यावृत्तिसिद्धिः, अस्तुवा क्थंचिदपि पारमार्थिकव्यावृत्तिसिद्धिः, तथापि तासां ब्रह्मरूपत्वे ब्रह्मपदेनैव लाभात्पदान्तर- वैयर्थ्यम्, व्यावृत्तीनामन्योन्याभेदेतु सत्यपदेनैवाज्ञानादिव्यावृत्तिसिद्धा ज्ञानादिवैयर्थ्यम्, तासां ब्रह्मभेदेतद्वैतहानिः । व्यावृत्तिमिथ्यात्वेतु शुक्ते: शुक्तितो व्यावृत्तर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्वत् ब्रह्मणोऽनृतादिव्यावृत्तेर्मिथ्यात्वेऽनृत- तस्य व्रह्मसमसत्ताकत्वापत्तिरिति ततवजिज्ञामुं प्रति मिथ्योपदेशायोगः। अनृतत्वभ्रान्तिनिवृत्तिर्हि अिष्ठानतत्वज्ञानाधीना, न ध्रान्त्यन्तरोत्पादाधीना। वल्मीके स्थाणुत्वभ्रान्तिहिं वल्मीकत्वोपदेशेनैव निवर्ल्या, नतु तत्र पुंस्त्वोपदेशेन । अध्यासाधिष्टानत्वादिना सत्वादिविशिष्टतया च सामान्यतो ज्ञातस्य ब्रह्मणो ज्ञानं हि न व्यावृत्तिज्ञानसाध्यं, येन प्राशस्त्य इवानृतस्याप्यर्थस्य विनियोगः संभाव्येत। परमार्थस्तु-व्यावृत्तिज्ञानमेव धर्मिज्ञानसाध्यमिति वैपरीत्यमेव युक्त्तम्। नहि शाव्देऽर्थे आर्थिकोरऽर्थों द्वारमिति युक्तम्। अन्यथा हि नीलमुत्पलमित्यादावपि अनीलव्या- वृत्तिद्वारा स्वरूपपरत्ापातः। व्यावृत्तिज्ञानात्प्रागप्यन्याज्ञानसत्वेनान्याज्ञाने तस्य द्वारत्वाभावात् नान्याविषयके ब्रह्मज्ञाने व्यावृत्तिज्ञानस्योपयोगः । एतेन-सत्यज्ञानादिपरदर्व्यवृत्तिद्वारा बोध्यमानस्यैकत्वे ज्ञानादिपदवैयर्थ्य; स अनृतत्वादिभ्रान्ति- निवृत्तिरूपदृष्टकार्याणां भिन्नत्वैनैककार्यलाभावात् न द्वारविकल्पः, विज्ञानमानन्दं ब्रह्मेति सत्यपदं विनाऽपि ब्रह्मावगमात् समुच्चितद्वारत्वं वा न संभवति। एतेन-सत्यत्ादिकं प्रत्येकमेव लक्षणमित्यपि-सूचितम्; नहि प्रकृष्टत्ादिकमिव सत्यत्वादिकं प्रत्येकमतिव्याप्तं येन मिलितं लक्षणं स्यात्। भेदेतु सविशेषतापत्तिः। एतेन-व्यावृत्तीनामुपलक्षणतया द्वारतमपि-परास्तम्; काकवद्देवदत्तगृहमित्यत्रेव सखण्डार्थतप्रसङ्गात्। तदुकं- सत्यज्ञानादिकेऽप्येवं न व्यावृत्त्या प्रयोजनम्। व्यावर्त्यस्याविशेषत्वे तदखण्डं च खण्डितम् ॥ इति॥ आर्थिकेनापि व्यावृत्तिवैशिष्टयेन ब्रह्मणोSखण्डार्थत्हान्या न तदार्थिकत्वेनोपपत्तिः। गम्भीरायां नद्ां घोष इत्यत्र गम्भीर- नद्योः परस्परान्वयबोधोत्तरं गम्भीरनदीपदयोरिव समुदितानां सत्यादिपदानां लक्षकत्वमिति नवीनप्रवादस्तु तत्र गम्भीर- नदीपदयोरिवात्र सत्यज्ञानपदयोरन्योन्यान्वयाभवात् विज्ञानमानन्दमित्यादावनपेक्षणेनेव ब्रह्मलक्षकत्दर्शनात् इह पदान्त- रेणाधिकार्थालाभात् तत्र नदीपदएव लक्षणया सर्वपदलाक्षणिकत्ानुपपत्तेक्ष न सङ्गतः। "गच्छ गच्छसि चेत् कान्त" "विषं भुङ्धे"त्यादावपि जन्मविषभक्षणेष्टसाधनतोक्तिभ्यां मरणशत्रुगहभोजनानिष्टसाधनतयोरनुमानमेव, नतु वाक्ये लक्षणा। पतेन-अर्धमन्तर्वेदीत्यादि लौकिकवैदिकवाक्यजातमपि-व्याख्यातम्; अर्धमन्तस्त्वेनार्ध बहिष्टेनचान्तराल- देशस्याक्षेपेणैव सिद्धेः। वायुर्वै इत्यादयर्थवादेऽपि कर्मणि क्षिप्रदेवताप्रसाद हेतुतमेव बोध्यते, नतु लक्षणया प्राशस्त्यमिति न वाक्ये कुत्रापि लक्षणाङ्गीकारः। अस्तुवा पदसमुदाये लक्षणा एवमपि सर्वपदलाक्षणिकत्वं न युक्तम्। अभिधेयान्वयानुपप- त्तिरूपलक्षणाबीजाभावात्। लिडाद्यभिधेयकार्याद्यन्वयानुपपत्तिर्ष्यर्थवादादौ लक्षणाबीजम्। ब्रह्मपदं तु यौगिकं सखण्डार्थ- लापत्त्या न वाचकम्। अन्वयानुपपत्तिरेव हि लक्षणाबीजं; यष्टीः प्रवेशयेत्यत्रापि प्रकृतानां पुरुषाणामन्वयानुपपत्त्यैव तल्लक्षणादिति तदुपपत्त्यर्थमङ्गीकृताया लक्षणाया अन्वयानुभावकत्व एवोपपत्त्या नाखण्डार्थतसिद्धि:। लक्षकाननुभावकलमते
Page 394
७१२ अद्वैतसिद्धि: [परिच्छेद: २ ]
सर्वपदलाक्षणिकत्वेऽनुभावकत्वमेव न स्यात्। वाक्यान्वयलक्षकता तु न संमता; अन्वितामिधानाङ्गीकारात्। अमिहिता- न्वयवादेऽपि एकस्यैव पदस्यान्वयलक्षकत्वमिति न पदसंघे लक्षणा। अस्तु वाऽन्यत्र पदसंघे लक्षणा, इहतु पूर्वोक्रीत्या पदान्तरवैयर्थ्यादिदोषप्रसन्गात्त सर्वपदलक्षकत्वम्। अन्यथा नदीपदलक्ष्यस्यानदीतवत् सत्यादिपदलक्ष्यस्यासत्यल्ादिकं प्रस- ज्येतेति मुत्त्यपुरुषार्थताप्रसङ्गः। "सत्त्वादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात्। लक्ष्यव्यक्तिरपि ब्रह्म सत्वादि न जहाति नः" इति तु व्यक्तिशब्दार्थतामते शक्यसंबन्धरूपलक्षणाया असंभवादसङ्गतम्। जातिशक्तिवादेपि सन् घट इत्यस्मात् सत्यं ब्रह्मेत्यस्य विशेषसिद्धर्थ जात्याश्रयव्यक्तिसंबन्धेनैव ब्रह्मणो लक्षणीयत्वात्तदसत्यत्वापत्तिरपरिहार्थवेति सत्यादिवाक्या खण्डार्थत्वं न युक्तिसहम्। एतेन-तत्त्वमस्यादिवाक्याखण्डार्थतमपि-परास्तम्; दृष्टान्ते साध्यवैकल्यात्। तत्र हि तह्देशकालविशिष्टस्यैतद्देशकालविशिष्टरस्यचाभेद एव वोध्यते, नतु देवदत्तस्वरूपमात्रम्। तस्य प्रागेव ज्ञाततया वाक्यवैय- र्थ्यात्, पदान्तरवैयर्थ्याच्च। यथाहि दण्डी कुण्डलीत्यादौ नीलो घट इत्यादो च विशेषणभेदेऽपि सामानाधिकरण्यानुपपत्या विशिष्टाभेदः तात्पर्यविषयः, एवमत्रापीति मन्तव्यमिति न दृष्टान्ते सोयं देवदत्त इति वाक्येऽखण्डार्थतम्। अन्यथाऽभि- ज्ञाद्येनैवेष्टसिद्धा प्रत्यमिज्ञावैयर्थ्यात्। मिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यमिति प्राचां वचोऽपि मिन्न- प्रवृत्तिनिमित्तत्वे सतीति विशेषणसार्थक्यार्थ समानविभक्तिकनामदवयजन्यप्रतीतेः सप्रकारकत एवोपपद्यते। अयमाशय :- सोऽयमिति प्रत्यभिज्ञा तावत् नाखण्डार्थविषया, तत्र प्रत्यक्षे शब्दवृत्तेर्लक्षणाया अयोगेन तत्तेदन्तोल्लेखितस्यावश्यकत्वेन निष्प्रकारकत्वासंभवात्, अन्यथाऽभिज्ञातो विशेषासिद्धिप्रसद्गात्। एतेन-शाब्दप्रत्यभिज्ञापि-व्याख्याता; खप्रत्यमि- ज्ञावगतस्यैव परं प्रति बोधनात्। एवंच तत्तोपलक्षिताभेदविशिष्टे इदंत्वोपलक्षितस्रूप एवोक्तवाक्यादितात्पर्यम्। इत्थंचामे- दप्रकारकत्वेनैवाखण्डार्थतभङ्गः। किंच चिन्मान्नस्य चिन्मात्रेणाभेदबोधने इष्टापतिः, अप्रसक्तप्रतिषेधश्ष स्यात्, अभेदस्य चैतन्यस्वरूपत्वे तस्य खप्रकाशतया नित्यसिद्धत्वेनोपदेशवैयथ्यम्, तदस्फुरणेच तद्ुभुत्साद्यनुपपत्तिः, अवान्तरवाक्येनेक पदेन वोपपत्त्या महावाक्यपदान्तरवैफल्यम्, भ्रमकाल इव स्वरूपमात्रज्ञानेन भेदभ्रमानिवृत्तिश्च स्यात्। सार्वज्याद्युपलक्षि तस्वरूपज्ञानं तु सप्रकारकमेवेति न तज्जननेन वाक्यसाफल्यादिकम्। नहि प्रमेयवैलक्षण्यं विना फलवैलक्षण्यसंभवः । पतेन-अभिज्ञातः प्रत्यभिज्ञायास्तावन्न प्रमेयतो विशेष इत्यादिविवरणोक्तमपि-परास्तम्; अभिज्ञाभ्यां वस्तुत एक- स्मिन कालदूयसंबन्धग्रहणेऽपि कालद्वूयसंबन्ध्येक इति प्रत्यभिज्ञा गोचरयतीति प्रमेयतस्तद्वैलक्षण्यसलात्। एवंच दृष्टान्तस्य साध्यविकललात् तत्त्वमसीतिवाक्यमपि नाखण्डार्थम्। एतेन-अनुमानान्तराण्यपि निरस्तानीति-वर्णयन्ति॥ (२) अद्वैतसिद्धिकारास्तु- सत्यादिवाक्यं तत्त्वमस्यादिवाक्यंचाखण्डार्थपरमेव। अखण्डार्थत्वंच पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वं एकप्रा- तिपदिकार्थमात्रपर्यवसाय्यनेकापर्यायशब्दत्वं वा। संयोगलक्षणे तस्य पदवृत्तिन्मारितवात् तदतिरिक्ताविषयतया द्विषदन्न- भोजननिषेधवाक्ये पदवृत्तिस्मारितातिरिक्तानिष्टसाधनलगोचरतया शीतोष्णस्पर्शवन्तावित्यादावखण्डार्थत्स्येष्टत्ाच नाव्या- ह्यतिव्याप्ती। द्वितीयलक्षणे एकत्वं प्रातिपदिकार्थस्यकधर्मावच्छेदेन वृत्तिविषयत्मिति न यौगिकार्थोपगवादिप्रश्नोत्तरे- Sव्याप्तिः। प्रवृत्तिनिमित्तमेदे सत्येव सत्यादिपदानां चिन्मान्रपरत्वम्; अतात्त्विकसंबन्धेन शुद्धेऽपि लक्षणोपपत्तेरिति सर्व- मनवद्यम्। एवं निर्दुष्टस्याखण्डार्थत्लक्षणस्य सिद्धा तत्र सत्वादिवाक्यं अखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा, लक्षणवाक्यात्, तन्मात्रप्रश्नोत्तरत्वाद्वेत्यनुमानप्रामाण्यमपि निर्दुष्टं सिद्धति। निर्विकल्पकखवीकर्तृणां तस्मिन्नेव प्रसिद्धेतरेषां प्रमात्वं, संसर्गागोचरवृत्ति, सकलप्रमावृत्तितात्, अभिधेयत्ववदिति सामान्यानुमानेन सिद्धा च नाप्रसिद्धविशेषणतम्। परमार्थसत्यतादेः ब्रह्मस्वरूपलक्षणलान्न लक्षणवाक्यत्मसिद्धम्। अस्मन्मतरीत्या प्रत्येकं सत्याद्यन्यतमलक्षणत्वेऽपि परैर- रन्यत्र सत्यत्वादयङ्गीकारान्मिलितमेव लक्षणमिति मन्तव्यम्। मिलितलक्षणत्वेऽपि लक्ष्याखण्डत्ादखण्डार्थतमुपपन्नमेव। एकब्रह्मलक्ष्यत्वेऽपि तत्र निवर्तनीयांशाधिक्यसत्वान्न पदान्तरवैयर्थ्यम्। सर्वलक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वेना- साधारणधर्मरूपलक्षणपरत्वेन न सखण्डार्थत्साधनमिति नात्र विरोधः । वस्तुतस्तु-द्वारत्वेन लक्षणे तात्पर्यान्र द्वारि- णोऽखण्डार्थत्वे कोऽपि विरोधः । संशयादिनिवर्तकज्ञाने एव द्वारापेक्षणान्न सामान्यतो ब्रह्मज्ञानेऽपि दोषः । सखण्डवनादि लक्षणवाक्येऽपि साध्यसत्वान्न व्यमिचारः। एतेन-प्रकृष्टप्रकाशश्चन्द्र इति वाक्यमपि प्रकर्षोपलक्षितप्रकाशव्यक्तिरूपमात्र- प्रतिपादकत्वेनाखण्डार्थमिति-व्याख्यातम्। धर्मस्यैव स्वरूपतोऽत्रोक्ततान्न चन्द्रस्वरूपोत्तययोगशङ्कावकाशः। अनृ० तादिप्रतिषेधकव्यावृत्ताकारज्ञानेनेव संशयादिनिवृत्त्युपपत्त्याऽन्यथासिद्धल्ात् न सप्रकारकत्वमान्रं अज्ञाननिवर्तने तन्तरम्, किंतु अज्ञानसमानविषयकत्वमित्यज्ञान विषये तराविशेषितशुद्धब्रह्मविषयकज्ञानजनकत्मेव सत्यादिवाक्यानामिति नात्र बाधो- डवसर लभते। (१) सत्यादिवाक्यतात्पर्यविषयः संसृष्टरूपः, संसर्गरूपो वा, प्रमाणवाक्यतात्पर्यविषयलात्, संमतवत्, (२) सत्यादिवाक्यं, स्वतात्पर्यविषयज्ञानावाध्यसंसर्गपरं, स्वतात्पर्य विषय ज्ञानाबाध्यखकरणकप्रमिति विषयपदार्थनिरूप्यसंस- गपर वा, प्रमाणवाक्यत्ातू, अमिहोत्रादिवाक्यवत्, (३) वेदान्तजन्यप्रमा सप्रकारिका, विचारजन्यत्वात्, संशयनिव-
Page 395
[अखण्डा० तत्प्रमाणयोर्नि०] गौडब्रह्मानन्दीयुता। ७१३
र्तकत्वाद्वा, कर्मकाण्डजन्यज्ञानवत्, (४) वेदान्तजन्या प्रमा, ब्रह्मप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधिखात्, ब्रह्मविचारज- न्यब्राद्वा, यदेवं तदेवं, कर्मकाण्डजन्यनिश्चयवदिति प्रतिरोधानुमानान्यपि नात्रावकाशमान्रुवन्ति; आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये संसृष्टरूपे पदार्थे चोभयोरपि प्रमाणवाक्यतात्पर्यविषयत्वयोगेन व्यभिचारात्। द्वितीया नुमाने प्रमाणवाक्यस्याबाध्यपरत्वमात्रेण प्रमितिविषयपर तमान्रेणैवोपपत्तौ विशिष्टसाध्यस्य तत्रातत्रत्वेनाप्रयोज- कलात्, अलक्षणवाक्यत्वेन सोपाधिकत्वाच्च। तृतीयानुमाने तु तव मते ज्ञानमात्रस्य सप्रकारकत्वनियमेन विचारज- न्यतसंशयविरोधित्व योर्व्यर्थलम्, अप्रयोजकत्वं, लक्षणवाक्याजन्यत्वेन सोपाधिकलं च। चतुर्थानुमाने तु दृष्टान्ता- भावः, सर्वेषुचानुमानेपु प्रश्नोत्तरयोर्वेयधिकरण्यापत्तिः प्रतिकूलतर्क इति सर्व मुस्थम्। प्रकृष्टप्रकाशादिवाक्येऽपि यष्टीः प्रवेशयेत्यादाविव तात्पर्यविषयानुपपत्त्या कश्षन्द्र इति सवरूपमात्रप्रक्षे तन्मात्रपर म्यैवोत्तरस्योचितत्ालक्षणयाSखण्डार्थमेवेति न दष्टान्ते साध्यवैकल्यम्। सामान्यतो ज्ञातेऽपि चन्द्रे विपर्ययविरोधिज्ञानानुदयदशायां तदुदयार्थ प्रश्नो युज्यत एवेति विपर्यय विरोधिफ लोपहितासंकीर्णसवरूपमेव प्रश्नोत्तरवाक्यार्थः। नहि व्यावत्तिवशिष्ठ्वं व्यावर्तकवशिष्ठ्यं वाऽसंकीर्णलम्, येन सखण्डार्थत्वापत्तिः। अस्तु वा व्यावृत्तिवैशिष््यमेवोत्तरवाक्यार्थः, एवमपि तस्यार्थिकत्वान्न शाब्दबोधे भानम्। नहि व्यातृ- त्िबोधनेन किंचित्प्रयोजनमुपलभ्यते, येन लक्षणया तद्वैशिष््यमपि वाक्यार्थः स्यात्। एतेन-विनैव लक्षणां व्यावृत्तिः शाब्दबोधे भासते, घटेन जलमाहरेत्यत्र छिद्रेतरत्ववदिति-परास्तम्; छिद्रेतरत्वस्यानन्यलभ्यत्वेन शब्दतात्पर्यविषय- त्वेऽपि व्यावृत्तेरतथालात्। वस्तुतस्तु-छिद्रेतरत्वस्यापि लक्षणां विना न शाब्दवोधे भानम; अन्यथा लक्षणोच्छेदा- पत्तेः। कश्षन्द्र इति नायं धर्मप्रश्नः; खाधीने शब्दप्रयोगे निष्प्रयोजनलक्षणाया अन्याय्यलात्, तद्वोधनेऽप्यखण्डार्थत्स्यो- पपादितलाच। यथा गङ्गासंबन्धितविशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासंबन्ध्येव तीरं गङ्गापदेन लक्ष्यते, यथावा घ्रीहीन्प्रोक्षतीत्यत्र त्रीत्यादिखरूपे प्रोक्षणादिविधिवयर्थ्येनापूर्वसंबन्धिलक्षणाश्रयणेऽपि व्रीहित्वाश्रया एव व्यक्तयो व्रीहिपदेन लक्ष्यन्ते, तथा प्रकृतेऽपि प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या साश्रयव्यक्तिरेव लक्ष्यते, नतु या काचिदिति प्रकृष्टत्वादिविशि- ष्ट्योधपरत्वाभावेऽपि न विरोधः । तदयं निष्कर्षः-प्रश्नोत्तरे नावत् चन्द्रप्रातिपदिकार्थमात्रविषये, चन्द्रप्रातिपदिकार्थश्च विशेष्यभूता व्यक्तिरेव। सा चाखण्डेत्यखण्डार्थता सिद्धैव। प्रातिपदिकार्थतावच्छेदकस्यापि प्रातिपदिकार्थलात् प्रकृष्टप्रका- शस्य प्रातिपदिकार्थतावच्छेदकत्वेऽपि न दोषः । एतेन-वहविबोधनार्थस्य धूमोऽस्तीति वाक्यस्य धूम इव आमे- यवाक्यस्य द्रव्यदेवतासंबन्ध इव च व्यावृत्तिबोधकवाक्यस्य व्यावर्तकधर्मवेशिष्टयेऽपि तात्पर्यमिति सखण्डार्थतमेवेति शङ्कापि-पराहता; श्रुतार्थपरित्यागापत्तेरिति लक्षणयाऽसंकीर्णचन्द्रस्वरूपवोधन एव तात्पर्यम्। अन्यथा प्रश्नोत्तरयोवैय- धिकरण्यापस्ेः । अग्निप्रश्नोत्तरे धूमोऽस्तीति वाक्ये तु धूमे वोधिते तत एव लिद्गाद्वह्निबोधोपपत्त्या न वह्निलक्षणा। पतेन-प्रतिवचनोक्तत्वस्य प्रश्नविषयत्वाप्रयोजकत्वात् किंलक्षणक इति प्रश्नसाम्येनान्रापि धर्मप्रश्नकल्पनं-परास्तम्। किंशव्दस्य वुभुत्सासूचकत्वेन धर्मवुभुत्सानियतत्वाभावाच्। प्रकृष्टप्रकाशश्षन्द्र इति लक्षणवाक्ये चन्द्रपदव्यवहर्तव्यतापरत्वे प्रश्नोत्तरयोवैयधिकरण्यापत्तिः, चन्द्रस्वरूपज्ञानात् प्राक् तत्र चन्द्रशब्दविशेषितव्यवहारवेशिष््यग्रहासंभवश्वेति नास्य व्यव- हारकर्तव्यतापरलम्। पतेन-द्वितीयानुमानमपि-व्याख्यातम्; तत्र पूर्वोक्तरीत्याSप्रसिद्धविशेषणतबाधसत्प्रतिपक्षसाध्यवैकल्य हेत सिद्धी-
किं ब्रह्मेति श्रुतौ प्रश्नो नोपलभ्यते; तथापि एकधैवानुद्रष्टव्यमिति श्रुत्या सत्यत्वादिवैशिध््याविषयकस्यैव ब्रह्मविषयकवेदनस्य मोक्षजनकत्वात्तदतिरिक्त्बुभुत्साविरहेण तद्विषयकप्रश्नवाक्यस्य कल्पयितुमशक्यत्वेन किं ब्रह्मेत्येव प्रश्नः कल्प्यते इति नासिद्धिः। पतेन-योऽयं विज्ञानमय इति श्रुतिरपि-व्याख्याता। अनिर्धारितनिर्धारणलमेवोत्तरत्वप्रयोजकम्, नतु अनिर्धारितधर्मप्रकारकत्वमिति नात्र विरुद्धत्वम्। स्वरूपमात्रपरस्यापि लक्षणवाक्यत्वान्निर्धारकत्वं विदत एव। निष्प्रकार- कमपि ज्ञानं संशयनिवर्तकमेवेति पूर्वमेवोपपादितम्। असाधारणधर्मवाचकपदवत्वादिना प्रश्नादधिकविषयत्वाभावेऽपि उत्त- रत्वं संभवत्येवेति न प्रश्न एवोत्तरं भवति। सत्यादिप्रातिपदिकार्थः, ब्रह्मप्रातिपदिकार्थमात्रम्, तन्मात्रप्रश्नोत्तरवाक्यार्थला- दिति न्यायदीपावल्यनुमानमप्येतेन व्याख्यातम् । अत्रच ब्रह्मप्रातिपदिकार्थविशेष्यत्मेव साध्यमिति न सखण्डार्थ- खप्रसङ्ग :; प्रातिपदिकार्थसूत्रे लिङ्गाद्यवैयर्थ्यार्थ लिद्गाद्यविशिष्टस्वरूपमात्रपरत्वस्याभियुक्तरुक्तत्वाच। सत्यादिवाक्येषु विशेषणेषु सत्खपि न तद्गोचराकाह्कोत्थापनम्; व्यावृत्तिबोधनमात्रेणापि सार्थक्यात्। व्यावृत्तिविशेषणबोधश्च विशेषणपर- लाभावेऽपि तद्वारकसवरूपज्ञानमात्रेणैवोपपद्यते। निष्प्रकारकज्ञानस्यैव मोक्षसाधनतमित्यस्योपपादितत्वेन सप्रकारकब्रह्म- ज्ञानमोक्षसाधनतायां ब्रह्मविदित्यादेस्तात्पर्यभावादिति न तदनुसारेणापि सखण्डार्थतम्। महातात्पर्येमादाय लक्षणवाक्य- स्याप्यखण्डार्थलमिष्टमेव। भेदाभावादीनां ब्रह्मसरूपत्वेनैकधैवानुद्रष्टव्यमित्यादिवाक्यं ब्रह्मानन्तशब्दौ च विपक्षबोधकतर्का इति न सत्यादिवाक्यसखण्डार्थतसिद्धिः। द्वारतयोपस्थितैक्यमेदाभावादिविरोधेन मुख्यार्थत्यागोऽप्युपपद्यत एव। तबै- अ. सि. ९०
Page 396
७१४ अद्वैतसिद्धिः। [परिच्छेद: २ ]
क्यमेदाभावादि ब्रह्मामिन्नं सत्यमित्यज्गीकारे न कोऽपि दोषः। आकाह्लायोग्यतासत्तीनामन्वयगर्भत्ाभावान्न वेदान्ताख- ण्डार्थत्वे वाक्यतानुपपत्तिः। अस्तुवा संसर्गविषयकत्वेनैव वाक्यत्वं, एवमपि संसर्गस्य भेदघटितलवनियमाभावेनाभेदसुंस- गमादायाखण्डार्थतोपपत्तिः। एतेन-अनाद्यविद्योपहितचिद्विषयत्वेन वेदान्तसार्थक्यमपि-सूचितम्; निष्प्रकारकत्वे- ऽपि ज्ञानमुपपद्यते इति न निष्प्रकारकत्वे ज्ञानत्वानुपपत्तिः। एवंच असाधारणस्रूपबुभुत्साया उपपादितलात् न वेदान्ता- नामवुभुन्सितार्थतापत्तिः । एतेन-विचार विधिप्रथमाध्यायतृतीयपादाधिकरणारम्भाद्युपपत्तिरषि-व्याख्याता; कल्पि- तप्रकारावलम्बनेन पूर्वपक्षादिसंभवादिति मन्तव्यम्। सत्यादिपदानामखण्डार्थतं लक्षणया। लक्षणाच शक्यसंबन्धरूपा प्रकृतेऽस्त्येव। तत्रच तात्पर्यानुपपत्तिरेव वीजम्। लक्ष्यार्थाभेदेऽपि वाच्यार्थभेदान्न पर्यायतशङ्टोपपद्यते। उपहितवृत्तेरु- पधेयवृत्तित्वात्सत्यत्वादीनां शुद्धलक्षणत्मुपपद्यत एव। तदुक्तं-आकाशादो सत्यता तावदेकेत्यादि। व्यावृत्तिमेदमात्रेण पदान्तरसार्थक्यम्। सत्यत्वादितात्पर्याभावेऽपि आपाततः प्रतीतिमात्रेणासत्यव्यावनकत्वमुपपद्यत एव। एतेन-नद्यादि- पदलक्ष्येऽनदीतवत् सत्यादिपदलक्ष्येऽसत्यत्वापत्तिरपि-परास्ता; सत्यादिपदे जहल्वक्षणानभ्युपगमात्। नहि तीरे नदी- त्मिव ब्रह्मणि सत्वं न प्रतीतम् । अनृतादिव्यावृत्तयक्ष ब्रह्मणि ब्रह्मरूपाः। पारमार्थिका अपि व्यावर्तकपारमार्थिकत्वं न सिद्ध्यति। नहि बोध्यबोधकयोः समानसत्ताकत्वम्, येन पारमार्थिकव्यावृत्तिवोधकस्य व्यावर्तकस्य पारमार्थिकत्वमाशककेत; पदतदर्थादौ व्यभिचारात्। ब्रह्मरूपाया अपि व्यावृत्तेः सामान्यतः सिद्धाया अपि अनृतादिव्यावृत्त्याकारेण वोधः सत्यादि- पदेनवेति न तत्पदवैयर्थ्यम्। यथाचाज्ञानादिव्यावृत्तीनामन्योन्याभेदेऽपि सत्यादिपदसार्थक्यम् तदप्येतेन सूचितम्। अनृतव्यावृत्तिरिवानृतत्वमप्येकबाधकवाध्यत्वेन मिथ्यवेति तन्मिथ्यातपक्षोऽप्युपपन्रः। व्यावृत्तेश्वास्या बोध्यमानाया अधि- ष्टानतत्त्वसाक्षात्कार एवोपायत्वान्न तद्वोधनवैयर्थ्यम्। यथाह्यनृतोऽप्यर्थवादार्थः सत्ये प्राशस्त्ये उपायः, एवं प्रकृतेऽपीति "सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारा पर्यवस्यन्ती"त्युक्तिरपि व्याख्याता। आर्थिकस्याप्यर्थस्य तात्पर्यविषयस्वरूपनिर्ण- य द्वारत्वमप्युपपन्नमेव। सत्यज्ञानादिपदैरनृतादिव्याव्ृत्तिद्वारैकर्म्यैव बोध्यमानत्वेऽपि समुच्चितद्वारतमेवाङ्गीकृतमिति नानुप- पतिः, पदान्तरवैयर्थ्य वा। "आनन्दादयः प्रधानस्ये"त्यादो निर्गुणप्रतिपत्ती सर्वशासत्रोपसंहारवर्णनमप्यत एवोपपद्यते। शून्यवादव्यावृत्तव्रह्मस्वरूपप्रतिपत्तिरहि न सर्वगुणोपसंहारमन्तरा सिध्ति। अनृतादिव्यावृत्तिर्यद्यपि आर्थिकबोधे विशेषणम्; तथापि शाब्दबोधे तदभानान्न सखण्डार्थताप्रसङ्गः । तटुक्तम्-"मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः" इति। अनन्तादिपदानामप्येतेन द्वारभूतज्ञान एव सखण्डार्थतमिति सूचितम्। केचिन्तु-वाक्यलक्षणापक्षेण सत्यादिपदवैयर्थ्य- परिहरन्ति। वाक्यलक्षणाच गम्भीरायां नद्यां घोषः प्रतिवसतीत्यत्र प्रसिद्धा। गम्भीरनदीतीरादिलाभेन विशिष्टवुद्धिर्हि न प्रत्येकलक्षणायामुपपद्यते। तंत्रेव सत्यादिवाक्येऽपि द्वारतया परस्परान्वयो ह्यङ्गीक्रियत एव। गच्छ गच्छसि चदित्या- दिकमपि वाक्यलक्षणोदाहरणमत्रानुकूलमेव। वायुर्वे इत्यादावपि कर्मप्राशस्त्यवोधो लक्षणापेक्ष एवंति वाक्यलक्षणा निर- पोहैव। तात्पर्यानुपपत्तिर्हि लक्षणावीजं, नाभिधेयान्वयानुपपत्तिरिति सर्वपदलक्षकत्वे न कोऽपि दोपः । पदाभिहितपदा- थबोध्यत्वरूपं लक्ष्यत्वं सर्वत्राषि वाक्यार्थस्याविशिष्टमिति "सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति नः स्थित"मिति वार्तिकमपि व्याख्यातं भवति। अन्विताभिधानवादाज्गीकारेतु एकदेशत्यागेन शक्यार्थ्म्येवात्र भानान्न सर्वपदलाक्षणिकतनिबन्धनान- नुभावकत्वमिति सर्वमनवद्यम्। एवं तत्वमस्यादिमहावाक्याखण्डार्थतानुमानमपि-तत्त्वमग्यादिवाक्यं, अकार्यकारणद्रव्य- मात्रनिष्ठत्वात्, अखण्डार्थम्, सोडयं देवदत्त इति वाक्यवदित्याकारकमुपपन्नमेव। सोडयं देवदत्त इत्यत्र हि न तद्देशकाल- विशिष्टे एतद्देशकालवैशिष्ट्यं एनद्देशकालविशिष्टे तद्देशकालवैशिष्ट्वं तद्विशेषणयोरक्यं तद्विशिष्टयोरँक्यं वा बोध्यते; यथायोगं तद्देशकालादेरिदानीं एनद्देशकालादेरन्यदाच सत्त्वापत्या बाधेन च तदयोगात्। दण्डी कुण्डलीत्यादावपि विशेष्यमात्रस्यैवा- भेदो वोध्यते, नतु विशेषणयोविशिष्टयोवां। मोऽपि तत्र लक्षणयैव। एवमपि तत्र विशिष्टतात्पर्यान्नाखण्डार्थतव्यवहारः। "अयं स वा न वा" इति संशयविपर्ययाभेदमान्नम्यैवात्र वुभुत्मिततात् सोऽयमिति वाक्यमखण्डार्थम्। तत्तेदन्तोपस्थितिद्वा- रकाभेदवोधस्यव भेदभ्रमविरोवित्वात् न पदान्तरवैयर्थ्यादिकम। एतेग-अभिज्ञाद्वयस्य प्रत्यभिज्ञायाश्च प्रमेयवैलक्षण्याभा- वेऽपि उभयोपस्थितिद्वारकाभेदज्ञानस्येव भेदभ्रमविरोधिलात् फलवैलक्षण्यमपि-सूचितम्। भिन्नप्रवृत्तिनिमित्तत्वे सतये- कार्थबोधकत्वं सामानाधिकरण्यमिति प्राचीनानां वचो ज्ञाननिष्प्रकारकत्वेऽप्युपपन्नमेव। तदयं निष्कर्षः-सोऽयमिति प्रत्यभिज्ञा प्रत्यक्षरपादिविशिष्टाभेदविषयकत्वस्य बाधिततात् स्वरूपाभेद्मा त्रगोचरा। अभेद्ात्र न प्रकार: सरूपरूपत्वे- न प्राधन्यात्। एतेन-शाब्दप्रत्यभिज्ञापि-व्याख्याता। सप्रकारकनिष्प्रकारकत्वाभ्यां फलतश्वाभिज्ञातो वैलक्षण्यमपि निरूपितप्रायमेव। सार्वज्याद्युपलक्षिताभिन्नस्वरपमात्रज्ञानं ह्यज्ञाननिवर्तकं नावान्तरवाक्येनैकेन वा पदेन जायते इति महावाक्यवैयर्थ्यादिकमत्र प्रसरति। अत्रच ज्ञाने न सार्वश्यादिकं तदुपलक्षितत्वादिकं वा प्रकार इति नाखण्डार्थतहानिः। प्रमेयाविशेषेऽपि शद्धश्वैत्यानुमानतत्प्रत्यक्षयोस्तत्प्रत्यक्षस्यैव शङ्गपीतिमत्रमनिवर्तकत्वेन प्रमेयावैलक्षण्यं न फलावैलक्षण्यप्रयो- जकम्। एतेन-अभिज्ञातः प्रत्यभिज्ञायास्तावन्न प्रमेयतो विशेष इत्यादिविवरणाद्युक्तिरपि-व्याख्याता।अयमाशय :- नहि प्रत्यभिज्ञायां ऐक्यं प्रकार इति कस्यचिन्मतम्; तस्य भेदविरहरूपस्य स्वरूपल्वात्। अतएव हि सोऽयमेक इति न
Page 397
[अखण्डा० तत्प्रमाणयोर्नि०] गौडब्रह्मानन्दीयुता। ७१५
तदभिलापः, येन सखण्डार्थत्ापत्तिः। एतदभिप्रायमेव-उपाधिभेदमिन्नार्थो येनैकः प्रतिपाद्ते। तदपि स्यादखण्डार्थ महत्खं कुम्भखं यथेत्यादिकल्पतर्वाद्युक्त्तमपीति सिद्धमिदं यत्तत्त्वमस्यादिवाक्यं अखण्डार्थनिष्ठमिति-निरूपयन्ति॥ (३) तरङ्रिणीकारास्तु- पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वं नाखण्डार्थनिष्ठत्वम्; सर्वस्यापि पदवृत्तिस्मारितत्वेन तदतिरिक्तस्याप्रसिद्धेः । स्वघटकपदवृत्तिस्मारितत्वविवक्षणेतु स्मारितातिरिक्तागोचरप्रमाजनकत्वं किं तदतिरिक्तगोचरप्रमाजनकभिन्नलम् : उत स्मारितमात्रगोचरप्रमाजनकलवम्। आद्ये घटः कर्मतमित्यादौ स्वशब्दोपात्तगामानयेति वाक्यघटकगोपदव्ृत्तिस्मारितातरिक्त- संसर्गप्रमापकेऽतिव्याप्तिः, एवंपदशब्दस्य प्रमाणशब्दपरत्वेऽपर्यायेति वितथम्; लन्मते पर्यायाणामप्रमाणलात्। द्वितीये सत्यादिवाक्यानुवादत्वापत्तिः, सत्यादिपदानां विशिष्टशक्तत्वेन तस्यैव पदस्मारिततयाऽखण्डस्य स्मारितभिन्नलात्। शीतोष्णस्पर्शवन्तौ पयःपावकावितितु धर्मिभेदविषयतात् सखण्डार्थमेव । "चन्द्रे कलंकः सुजने दरिद्रता विकास- लक्ष्मीः कुमुदेषु चश्चला। मुखप्रसादः सधनेपु नित्यं यशो विधातुः कथयन्ति खण्डितम् ।" इत्यत्रेवकस्मृत्युपारूढा- नामेकत्रान्वयेनात्र वाक्यभेद एव विवक्षित इति न युक्त्तम्। प्रकृतपदार्थसंसर्गयोग्यतादिमत एव वाक्यत्ाद्वाक्य- लाखण्डाथलयोर्विरोधक्च। पतेन-एकप्रातिपदिकार्थपर्यवसाय्यनेकापर्यायशब्दत्मपि न तल्लक्षणमिति-सूचितम्; तत्रकतव स्यैकधर्मावच्छेदेन वृत्तिविपयतरूपत्वेन विशिष्टार्थस्याप्यखण्डार्थलोपपादनेऽविशिष्टमख्डमिति न्मतहानेः, एता- दृशाखण्डार्थलस्य सगुणवाक्यसाधारणस्य मदनिष्टत्वाभावाच। अत्र च सत्यादिपदानां पर्यायत्वादसंभवोऽप्यपरिहार्य एव। यावताच नाखण्डार्थलक्षणाभावः, तावता सत्यादिवाक्याखण्डार्थत्ानुमानमपि न संभवदुक्तिकम्। साध्याप्रसिद्धेः, नचानुमानेन तत्सिद्धिः; अप्रयोजकलात्। निर्विकल्पकं प्रत्यक्षादिकमपि न प्रामाणिकम्। शुद्धब्रह्मणि सत्यताद्यभावात् न सत्यादिवाक्यं ब्रह्मलक्षणपरमिति लक्षणवाक्यतमसिद्धम्। एतेन-स्रूपलक्षणतापि-परास्ता; सरूपस्य सामान्यतो ज्ञाने लक्षणस्यानपेक्षितलान्। अपेक्षायामपि तेन सखण्डार्थतमेव स्यात्। एतेन-टषान्तासिद्धिरपि-व्याख्याता; विषयविशेषानवगाहने पूर्वोत्तरज्ञानयोरसंशयानिवर्तकत्वेन संशयनिरासः स्वरूपमात्रविषयत्वे लक्षणवाक्यादपि न स्यादेव। प्रकृष्टप्रकाशवाक्येच धर्मप्रश्न एव विवक्षित इति चन्द्रसंबन्धिप्रकाश एव विवक्षणीय इति सखण्डार्थतमेव। नहि निष्प्रका- रकं ज्ञानं संशयनिवर्तकम्। व्यावत्ताकारज्ञानस्यापि स्रूपमात्रविषयकत्वेन निवर्तकत्वेऽनुवृत्ताकारज्ञानादपि संशयादिनिवृत्ति- प्रसङ्गः। सत्यादिवाक्यतात्पर्यविषयः, संसृष्टरूपः, संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयलात्, संमतवन्, सत्यादिवा- क्यम्, स्वतात्पर्यविषयज्ञानावाध्यसंसर्गपरम्, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणकप्रमितिविषयपदार्थनिरूप्यसंसर्गपरं वा। प्रमाणवाक्यलात्, अगिहोत्रादिवाक्यवत्, इत्यादिसत्प्रतिक्षानुमानैरपि तदखण्डार्थतानुमानं नावसरं लभते। संसर्गस्यापि संसृष्टत्वेन पदार्थरूपे तत्र तात्पर्याभावाच्च प्रथमानुमाने न तत्र व्यभिचारः । संसर्गनिरूपकत्वस्यैव साध्यत्वात् द्वितीयानु- माने न संसृष्ररूपे व्यभिचारः। अप्रमाणवाक्येऽपि पदार्थावाधस्य तत्प्रमितेश्ष सत्त्वात् संसर्गाबाधप्रमित्योरेव प्रमाणवाक्य-
स्तम् ; लक्षणवाक्य संस्गपरत्वनियमेन व्यतिरेकव्यभिचारेणानुपाधित्वात्। एतेनानुमनान्तरा्यपि समर्थितानि सूचितानि। नचात्र प्रश्नोत्तरवैयधिकरण्यापत्तिः प्रतिकूलतर्कः। नहि स्वरूपमात्रे ज्ञाते प्रश्नो युज्यते। नहि असंकीर्णत्वं विपर्ययविरोधिफलो- पहितत्वं सरूपमात्रे युज्यते। नापि वा ताहशस्रूपविषयतवेनाखण्डार्थतम्। अन्यथा प्रक्षोत्तरयोरुभयोरपि समानविषयत्वे चन्द्रबुभुत्सानिर्वर्तकचन्द्रप्रश्नोत्तरत्वं न स्यात्। अत एवात्रोद्देश्यविधेयभावोऽप्युपपद्यते। नह्येकमेवोद्देश्यं विधेयं च संभवति। एवंच विशिष्टतात्पर्याभावे या काचित् व्यक्तिरेवात्र बोध्या स्यादिति प्रकृष्टादिवाक्यमिव सत्यादिवाक्यमपि सखण्डार्थमेव।
एतेन-द्वितीयानुमानमपि-पराहतम्; पूर्वोक्तरीत्या सत्प्रतिपक्षादिप्रसरात्। प्रश्नोत्तरवैयधिकरण्यमपि परिहृत- मेब। सत्यं ज्ञानमिति उत्तरानुसारेण कल्प्यस्य प्रश्नस्य धर्मविषयकत्वमेव युक्तम्। "अथ कस्मादुच्यते ब्रह्मे"ति "तमेवं विदितातिमृत्युमेती"त्यादिवाक्यानुसारेण सगुणनारायणात्मकब्रह्मज्ञानस्यैव पुरुषार्थत्वेन सगुणस्यैव बुभुत्सितल्ातू। अत- एव कतर आत्मेति तरप्प्रत्ययोपपत्तिः। नह्यनिर्धारितनिर्धारणतमपि धर्मविशेषप्रकारतां विना सिद्तीति प्रश्नोत्तरत्वं सखण्डार्थत्वस्यैव साधकम्। पतेन-महातात्पर्यमादायालक्षणवाक्यानामपि ब्रह्मपरतमिष्टमेवेति-परास्तम्; नहि भेदाभावादिकं कल्पितप्रतियोगिताकादिकं ब्रह्मरूपम्। तत्त्वेऽपि सत्त्वादीनामपि तद्रूपत्वेन ममेष्टापत्तिः। ऐक्यादिवाक्ये कल्पितैक्यस्य द्वारत्वेनोपादाने सत्यादिवाक्यसखण्डार्थत्वं न विरुद्धमेव। ब्रह्मानन्तशब्दी तु सगुणपरावेवेति तत्र तत्र निरूपितमिति न तदन्यथानुपपत्तिरपि सखण्डार्थत्वाधिका। एतेन-सत्यादिपदानां लक्षणया स्रूपमात्रपरत्वे ज्ञानादिपदवैयर्थ्यमपि-सूचितम्। नहि व्यावर्तकवैंशिष्ट्यबोधनं विना व्यावृप्तिबोधनं संभवति, येन कुमतप्राप्तातिव्याप्ति- निरासेन साफल्यम्। वस्तुतस्तु-सरूपमात्रतात्पर्य कुत्रापि न दष्टमिति तदन्यथानुपपत्त्या न लक्षणेति सत्यादि-
Page 398
७१६ अद्वैतसिद्धिः । [परिच्छेद: २]
पदलक्षकत्मपि बाधितमेव। किंच सत्यपद लक्षकत्वे गज्ञापदलक्ष्यस्यानदीलवत् ब्रह्मणोऽपि प्रमाणान्तरेणानधिगतसत्त्वस्य शब्देनापि सत्त्वाबोधनेनासत्त्वप्रसङ्गः। अतः सवथा सत्यादिपदलक्षणायां नाखण्डसद्रूपब्रह्मसिद्धिरिति तत्सखण्डार्थलमेव युक्त्तम्, अतएव-तत्त्वमस्यादिमहावाक्याखण्डार्थत्मपि-परास्तम्; तत्र प्रमाणाभावात्। नचानुमानं प्रमाणम्; दृष्टान्ते साध्यवैकल्यात्। सोऽयं देवदत्त इत्यत्र हि दण्डी कुण्डलीत्यादाविवोपहितयोरेवाभेदो विषयीक्रियते, नतु स्वरूपमा- न्म्। तस्य प्रागेव ज्ञाततया प्रत्यभिज्ञादिवैयर्थ्यात्। अयं स न वेति भेदसंशये हि प्रतियोगितावच्छेद कादिभानं नियतमिति तत्समानयोगक्षेमलाय सोऽयमित्यत्र किंचिद्रूपेणैवेदंपदार्थादिभानमपेक्षितमिति सखण्डार्थमेव। एवंच स्वरूपमात्रायुभुत्सि- तत्वेन तत्कालसंबन्धस्यैव बुभुत्सितत्ात्सखण्डार्थतमेव। अस्तुवा तत्तोपलक्षितेदंतोपलक्षितयोरभेद एवात्र बोध्यते इति, एवमपि देवदत्तत्वेनामेदत्वेनच भेदात् स्वरूपस्यापि तस्य प्रकारत्वमेवेति सखण्डार्थमेव। अन्यथाऽभिज्ञातः प्रत्यमिज्ञाया विशेषो न सिध्धेत्। फलवैलक्षण्यंतु कारणवैजात्येन प्रमेयवैलक्षण्येन वा स्यात्। नचेह कारणवैजात्यमपीति प्रत्यमिज्ञादिवै- फल्यं तदवस्थमेव। एतेन-अवान्तरवाक्येनैकपदेनवेष्टसिद्धा महावाक्यादिवैफल्यमप्मखण्डार्थतवादिनां प्रसरतीति- सूचितम् ; एवंचैकाधिकरण्यरूपकालदवयसंबन्धगोचरा प्रत्यभिज्ञा, अभिज्ञातु नेति प्रमेयवैलक्षण्यमपि सिद्धमेवेति विवर- णाद्युक्तिरपि पराहतेति सर्व सुस्थमिति ब्रह्मानन्तगुणमेव वेदान्तार्थ इति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- सवघटकपदवृत्तिस्मारितेत्यत्र सत्वस्याननुगतस्य निवेशेन वृत्तिपदेन शक्तिलक्षणाकृत्तद्धितसमासान्यतमपरताज्गीकारेण च सर्वदोषनिरासात् खघटकपदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वं स्मारितमात्रगोचरप्रमाजनकत्वरूपमेव विवक्षितमिति न कोऽपि दोषः, एवंच सत्यादिवाक्यमखण्डार्थमेव। तत्र च सत्यादिवाक्यमखण्डार्थनिष्ं लक्षणवाक्यत्वादित्यनुमानं प्रमा- णम्; निर्विकल्पकमपि प्रामाणिकमेव। प्रमात्वम; संसर्गांगोचरवृत्ति, सकलप्रमावृत्तितादित्यनुमानेन तु साध्यसिद्धिः, प्रश्नो- त्तरवैयधि करण्यापत्या तु नाप्रयोजकता। सामान्यतो ज्ञातेऽपि स्वरूपे व्यावृत्तसवरूपेण ज्ञानार्थ स्वरूपमात्रपरलक्षणवाक्यमप्य पेक्षितम्। एतेन-लक्षणवाक्यत्वेन सखण्डार्थताद्विरोधोऽपि परास्तः; नहि धर्मस्यव व्यावर्तकत्वं, किंतु स्वरूपस्यापीत्य- प्रयोजकलात्। एतेन-सरूपमात्रविषयकज्ञानसंशयादिनिवर्तकत्वमपि-व्याख्यातम्। एतेन-सत्प्रतिपक्षानुमाना- न्यपि-प्रत्यस्तानि। प्रथमे चन्द्रतादिसंसष्टपरत्वमादाय सिद्धसाधनवारणार्थ सत्यादिवाक्यघटकपदार्थानामेको विशिष्टा- पररूप इति साध्यस्य द्वितीयानुमाने ब्रह्मण्यपि अविद्यादिसंबन्धसत्यादिविशिष्टतादात्म्यनिरूपकत्वेन सिद्धसाधनवारणार्थ संसर्गनिरूपकत्वेन तात्पर्यविषय इति साध्यम्यैवच विवक्षणेन संसृष्टसंसर्गयोर्व्यमिचारान्। एतेन-अलक्षणवाक्यत्वोपाधि- खमपि-व्याख्यातम्; संदिग्धोपाधित्वस्य तत्र संभवात्। विपर्ययविरोधिफलोपहिततमित्यत्र फलस्य न विशेषणलम्, किंतूपाधितमिति नासंकीर्णस्वरूपविषयत्वेऽपि सखण्डार्थत्मिति स्वरूपमात्रप्रश्नोत्तरत्वादीनां सर्वेषामपि सत्यादिवाक्याख- ण्डार्थत्वेऽप्युपपत्त्या सत्यादिवाक्यमखण्डाथमेव। एतेन-तन्मान्रप्रश्नोत्तर हेतुकतदनुमानमपि-व्याख्यातम्; सर्वेषामपि वेदान्तानां नित्यशुद्धमुक्त्ताद्वितीयपरमात्म- स्वरूपसमर्पणेनैव पर्यवसानान् प्रश्नाश्रवणेऽपि एकधैवेत्यादिवाक्योपपत्त्यर्थ स्वरूपमात्रप्रश्नोत्तरत्वादीनामेव कल्पनीयलात्, सहस्त्रशीर्षत्वादेरपि द्वारतयैवोपयोगेन विशिष्ठे तमेवं विद्वानमृत इह भवतीत्यादीनामप्यतात्पर्यात् तन्मान्रप्रश्नोत्तरत्वं नासि- द्धम्। यथाचैक्यादीनां ब्रह्मस्वरूपत्वं तथोपपादितमन्यत्र विस्तरेण। एतेन पदान्तरवैयर्थ्यमपि परिहृतं भवति। ब्रह्मणोऽपि व्यावहारिकं सत्यत्वं द्वारतया श्रुत्या बोधितमिति न तच्छून्यत्वापत्तिरिति सत्यादिपदानां लक्षणयाऽखण्डार्थतमात्रपरत्वे न काप्यनुपपत्तिः। इत्थंच महावाक्याखण्डार्थलानुमानमपि दृष्टान्तसाध्यवैकल्याप्रसत्तया समीचीनमेवेति मन्तव्यम्। दण्डी कुण्डली इत्यत्रोपहिताभेदतात्पर्येपि प्रकृते भेदर्धाविरोध्यभेदज्ञानं ताम्मर्यानुसारेण स्वरूपमात्रविषयम्। तत्तेदंतोपलक्षिता- मेदश्व स्वरूपमेव। सच तुरीयविषयताशाल्येवेति न सप्रकारकलम्। नहि स्रूपे रूपभेदः येनामेदत्वेन प्रकारताद्युपप- द्येतेत्यमिज्ञातः प्रत्यमिज्ञाविशेषोऽपि फलवैलक्षण्यनिबन्धन एव, नतु प्रमेयविशेषाधीनः। नहि मेदांशे प्रतियोगिन इदमो वा किंचिद्रूपेणैव भानमिति नियमः, येन संशयवत् प्रत्यमिज्ञानस्यापि सखण्डार्थतप्रसन्ग; उभयोरप्यखण्डविषयल्ात्। एवंच सोडयं देवदत्त इति वाक्यवत् तत्त्वमसीति महावाक्यमप्यखण्डार्थमेव। अन्यतमपदवैयर्थ्यादिदोषस्तु सिद्धावेव परि- हृतः, न्यायरल्ावल्यां विस्तरेण परिह्ृतश्च । अत्र शुद्धब्रह्मणः सत्यादिवाक्ये महावाक्येचोपस्थितिरसौषुप्तानुभवनिबन्धना- 5संप्रज्ञातसमाधिनिबन्धना वेत्यादि न्यायरआावल्यां बहु व्यतायतेति तत एव द्रष्टव्यमिति-विवेचयन्ति॥ इति अखण्डार्थत्वलक्षणतत्प्रमाणयोर्निरूपणम्।
Page 399
७१७
अथ ब्रह्मनिगुणत्वोपपत्तिः। कैवल्यश्रुत्या तावदात्मा निर्गुणः। ननु-'बृहन्तोऽस्य धर्मा' इति श्रुत्या 'ब्रह्मेशानादिभिर्देवैः समे- तैर्यहुणांशकः। नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा॥' इति स्मृत्या च ब्रह्म, धर्मवत्, पदार्थ- त्वादित्याद्यनुमानेन च स्वसमानसत्ताकधर्मवत् ब्रह्मेति-चेत्, मवम्; न तावच्छुत्या सगुणत्वसि द्विः। सगुणप्रकरणस्थाया उपास्तिविधिविषय विशेषणसमर्पकत्वेन तत्परत्वाभावात्। नचापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्यम्; अपूर्वत्वेSप्यन्यशेषस्यातत्परत्वदर्शनात्, यथाहि 'जर्ततिलयवाग्वा वा जुडुयात् गवीघुकयवाग्वा वा जुहुया'दित्यादौ जर्ततिलयवाग्वादेहोमसाधनत्वस्य 'अनाहुतिरवे जतर्त्तिलाश् गवीधुकाश्चे'ति निन्दायाश्च 'अजक्षीरेण जुहोती'ति विध्येकवाक्यतया अतत्परत्वं, तथै- धात्राप्युपपत्तेः, निर्गुणप्रकरणस्थायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकृलनिषेधापेक्षितविषयसमर्पकतया अन्यथासिद्धेः। नच-'किश्चने' त्यादिसामान्यवाचकपदेनैव ब्रह्मातिरिक्तसर्वनिषेध्योपस्थितौ विशे- षग्रहणमनर्थकमिति-वाच्यम्; अलौकिकतया वाक्यप्रमेयत्वभ्रमव्युदासार्थत्वात्। अतएव-श्रु- तिप्राप्तस्य श्रुत्या निषेधे अहिंसावाक्यम् अग्नीषोमीयहिंसायाः, अग्रहणवाक्यं च षोडशिग्रहणस्य, असद्वेत्यादिवाक्यं ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादिति-निरस्तम्; प्रकृते श्रुतिप्राप्त- स्यैवाभावात्। श्रुतिप्राप्तत्वं हि न तत्प्रसक्तत्वम्; अतिप्रसङ्गात्, तत्प्रमितत्वस्य च प्रकृते अभावात्। अहिंसावाक्यस्यावैधहिंसाविषयत्वेन समानविषयत्वाभावात्, समानविषयत्वे ग्रहणाग्रहणवद्विक- ल्पापत्तेः। ग्रहणाग्रहणवाक्ययोस्तु सत्यपि समानविषयत्वे एकस्याधिकबलत्वाभावेन वाध्यबाधक- भावस्यासंभावितत्वात्, अन्यथा विकल्पानाश्रयणप्रसङ्गात्। असद्वाक्यभेदवाक्ययोस्तु न ब्रह्मस- स्वैक्यनिषेधकता; सत्वैक्यबोधकयोरेव तत्परत्वेन प्रावल्यात्। नाप्यनुमानं ब्रह्मणि तात्विकधर्मसा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। कैवल्यश्रुत्या 'केवलो निर्गुण' इति श्रुत्या। स्वसमानसत्ताकधर्मवद्गह्मेति। बाघकाभावेनोक्तश्रुत्यादेरुक्त- धर्मबोधकत्वमित्यभिमानः । विषयविशेषणेति । विपयीभूतब्रह्मांशे प्रकारीभूतधर्मेत्यर्थः। ब्रह्मणि धर्मविशेषप्र- कारकोपासनाविधायकत्वेनोक्तश्रुतेर्न ब्रह्मणो धर्मवैशिष्वे तात्पर्यमिति भावः । अपूर्वत्वात् मानान्तरेणाबाधितत्वा- दप्राप्तत्वाच्च। विशेषणे तात्पर्यमिति। सत्यकामाढिरूपं ब्रह्मोपासीतेनि वाक्ये सत्यकामत्वादर्द्वितीयार्थप्रकारत्वे- Sन्वयात् प्रकारतायाश्र ब्रह्मविशेष्यकत्वावच्छेदेनोपासनायामन्वयात् ब्रह्मणि सत्यकामत्वादिप्रकारकोपासनायां तातप- र्येऽपि ब्रह्मणि सत्यकामत्वादिवैशिष्चस्य मानान्तारेणाप्राप्ततवाद्बाधितत्वाच्च तत्परत्वमप्युक्तश्रुतेरास्तामिति भावः। एकवाक्यताभङ्गापत्तेरुक्तोपासनापरश्रुतेर्नोक्तवैशिष्वे तात्पर्यमिति सदष्टान्तमाह-अपूर्वत्वेSपीत्यादि। मानान्त- रेणाबाधिताप्राप्ता्थकत्वेऽपि। अन्यशेषस्य अन्यार्थपरवाक्यघटकस्य। अतत्परत्वदर्शनात् सवीयोक्तार्थपरत्वाभा- षदर्शनात्। होमसाधनत्वस्य होमसाधनत्वबोधकभागस्य। तथैवेति। 'जर्तिलयवाग्वा वा जुहुयात् गवीधुकय- वाग्वा वा न आम्यान् पशून् हिनम्ति नारण्यानथो खल्वाहुरनाहुतिवें जर्तिलाश्च गवीधुकाश्च पयसाऽभिहोत्रं जुहुया'दित्यमिहोत्रे श्रुतम्। तग्र जर्तिलयवाग्वेत्यादिना विहितयोर्जर्तिलगवीधुकयवाग्वोरनाहुतिरित्यादिनिन्दया प्रति- पेधकल्पनात् तयोर्विधिप्रतिषेधाभ्यां विकल्पः, पयसेत्यादिकं तु पयोविधिः, वाक्यभेदस्तु न दोष :; पृथगाख्यातश्र- बणादिति प्राप्ते, जर्तिलयवाग्वेत्यादेर्विधित्वेऽपि अनाहुतिरित्यादिकं न विकल्पतात्पर्यकम्; तद्विधिनापि पयोविधि- बलेनैव ब्रीहियवन्यायेन विकल्पसिद्धेः, किंतु 'नहि निन्दान्यायेन' पयःस्तुतिपरम् । वस्तुतस्तु-जर्तिलयवाग्वे- स्याद्यपि न विधिः, किंतु पशुनिन्दाद्वारेण पयःस्तुतिपरम्; वाशब्दं विनापि ब्रीहियवन्यायेन विकल्पबोधसंभवेन वाशब्दस्यान्यथा वैयर्थ्यात्। तस्मात् 'विपं वा भुङ्क्ष्व विष्णुमपूजयित्वा न भुंक्ष्व विषभोजनं मरणहेतुः विष्णुं पूज- यितवा भुङक्षवे त्यादाविवान्यनिन्दापादनद्वारान्यस्तुतिपरं प्रथमवाक्यमिति पयोविष्येकवाक्यत्वापन्नमेव जर्तिलादिवा- क्यमिति दशमाष्टमे स्थितम्। तथाच तद्वदुपासनाविध्येकवाक्यत्वाय विशिष्टोपासनापरमेव सगुणवाक्यम्, नतु ब्रह्मणि गुणवैशिष्यपरमिति भावः । अजक्षीरेण जुहोतीति वाक्यं तु शाखान्तरीयम्, अनाहुतिवैं जर्तिलाश्च गवीधु- काश्चेत्यजक्षीरेण जुहोतीत्यापस्तम्बशाखायां पाठात्। उक्तंच संक्षेपशारीरके-'यथाह्यजक्षीरविधे: समीप' इति। निर्गुणप्रकरणस्थायाः 'य आत्मापहृतपाप्मे' त्यादिसत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य' इत्यस्याः । विषयसमर्प- कतया प्रतियोगिसमर्पकतया। वाक्यप्रमेयत्वेति। सगुणोपासनावाक्यप्रमेयत्वेत्यर्थः । अतिप्रसङ्गादिति। श्रुतिप्रसक्तस्य अ्ुत्या निषेधे विकल्पस्वीकारे 'न कलअं भक्षये' दित्यादि वाक्यगतकलअं भैक्षयेदित्यादेरपि मानान्त-
Page 400
७१८ अद्वैतसिद्धिः । [परिच्छेद: २ ]
धनायालम्। तथाहि-ब्रह्म, धर्मिसत्तासमानसंत्ताकधर्मवत्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्व- रूपमनुवर्तमानधर्मवद्वा, तादृशभावरूपधर्मवद्वा, स्वजञानाबाध्यधर्मवद्दा, ताहशभावरूपधर्मवद्वा, धर्मैर्भावरूपधर्मैवा हीनं नावतिष्ठते वा, पदार्थत्वात्, अथवा भावत्वात्, घटवत्। ब्रह्म, स्वज्ञानाबा- ध्यप्रकारवत्, स्वारोपित व्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा, अधिष्ठानत्वात्, शुक्तिवत्, ब्रह्म, स्वजञा- नाबाध्यदुःखव्यावर्तकधर्मवत्, दुःखानात्मकत्वात्, घटवत्, ब्रह्म, स्वज्ञानाबाध्यप्रकारविशेष्यम्; सन्दिग्धत्वात्, विचार्यत्वात्, निर्णतव्यत्वाद्वा स्थाणुवत्, ब्रह्म, वेदान्ततात्पर्यगोचरप्रकारवत्, वेदान्तविचारविषयत्वात्, यदेवं तदेवम्, यथा कर्मकाण्डविचारविषयो धर्मः। ईश्वरः, सदावाप्तस- मस्तकल्याणगुणः, सदा प्रेप्सुत्वे सति तत्र शक्तत्वात्, यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्वान्, यथा चैत्र:। ईश्वरः, सदा त्यक्तसमस्तदोषः, सदा तज्जिहासुत्वे सति तत्त्यागे शक्तत्वात्, यश्चैवं स तथा, यथा चत्र इत्याद्यनुमानेपु धर्मिपदस्वपदयोर्यत्किश्चिद्धर्मियत्किंचित्संबन्धिपरत्वे घटादिसमसत्ताक- कल्पितधर्मवत्वेन सिद्धसाधनम्, ब्रह्मपरत्वे साध्याप्रसिद्धिः; घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेर- प्रसिद्धेः। नच-दष्टान्ते साध्यनिरूपणे तदेव धर्मी, पक्षे तन्निरूपणे व्रह्मैव धर्मी, धर्मिपदस्वपदादीनां समभिव्याहृतपरत्वादिति-वाच्यम्: शब्दस्वभावोपन्यासस्यानुमानं प्रत्यप्रयोजकत्वात्। स्वरूपप- दस्याप्येवमेव ब्रह्मपरत्वे साध्याप्रसिद्धिः, घटादिपरत्वे सिद्धसाधनम्। समभिव्याहृतपरत्वस्य शब्द- स्वभावस्यानुमानं प्रत्यप्रयोजकत्वमिति दृषणं पूर्ववत्। धर्मैचिना नावतिष्ठत इत्यस्य ब्रह्म धर्मव्याप्त- मित्यर्थः। तथाच सिद्धसाधनम्, यस्मिन् काले देशे वा ब्रह्म, तत्र धर्माः सन्त्येव। नहि कालो देशो वा धर्मरहितः; मायाचित्संबन्धस्य कालस्य मुक्त्यसहवृत्तित्वात्। स्वज्ञानावाध्येत्यत्रापि पूर्ववत् स्वपदार्थविकल्पः। अतएव-स्वारोपितव्यावर्तकस्वज्ञानावाध्यधर्मवदिति-निरस्तम्; स्वज्ञानाबा ध्यदुःखव्यावर्तकधर्मव दित्यत्रापि स्वपदार्थविकल्पः पूर्ववत्। दुःखव्यावर्नकधर्मवत्वेन सिद्धसाधन- म्। वेदान्ततात्पर्यगोचरेत्यत्रावान्तरतान्पर्यमादाय सिद्धसाधनम्। मुख्यतस्तात्पर्योक्तीं च वेदान्त- वाक्यमुख्यतात्पर्यविषयप्रकाराप्रसिद्धा साध्याप्रसिद्धिः। नच यत्तद््यामनुगमय्य साध्यप्रसिद्धिः,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। रप्रातभक्षणानुवादित्वेन प्रसञ्जकतया विकल्पापत्तिरिनि भावः। ब्रह्म धर्मीत्यादि। ब्रह्मनिष्टं द्वैताभावं मण्डनमते सत्यमादायार्थान्तरवारणाय सर्वत्र-भावरूपति। पदार्थत्वस्य पदवाच्यत्वरूपस्य शुद्धब्रह्मण्यसिद्धत्वादाह-भाव- त्वात् सत्तादात्म्यप्रतियोगित्वात्। घटादाविव ब्रह्मणि सद्रपेऽपि उक्तप्रतियोगित्वं नासिद्धमिति भावः। प्रकारवत् स्वविशेष्यकधीविशेषणवत्। स्वज्ञानाबाध्यमज्ञाननाशं पञ्चमप्रकारमादाय सिद्धसाधनादाह-स्वारोपितव्याघर्तके त्यादि। स्वस्मिन्नारोपितात् स्वस्य यद्यावर्तकं स्वज्ञानाबाध्यं च तादृशसत्यत्वादिप्रकारवदिव्यर्थ:। ब्रह्म यदि तादृशप्र- कारवत् न स्यात्, तदा किज्ञित्मकारकस्य भ्रमनिवर्नकज्ञानस्य विशेष्यं न स्यादित्यनुकूलतर्कलाभाय प्रकारानुसरणम्। प्रेप्सुत्वे प्राप्तीच्छावतवे। तत्र शक्तत्वात् तज्ननानुकूलशक्तिमत्वात्। सत्ताकत्वादेरित्यादिना यावद्रह्स्वरूपमनुव- तमानत्वसंग्रहः । दृष्टान्ते साध्यनिरूपणे उदाहरणवाक्ये। तंदेव दृष्टान्त एव। धर्मी धर्मिपदार्थः । पक्षे तन्नि- रूपणे प्रतिज्ञानिगमनवाक्ययोः। शब्दस्वभावेति। उक्तशब्दस्वभावेत्यर्थः। अप्रयोजकन्वादिति। पर्त्रतोऽरुण- वह्निमान् धूमात्, 'यो यो धूमवान् स शुक्कवह्निमा' नित्यादिवाक्यस्यानुमानानुपयोगात् येन रूपेण साध्यं प्रतिज्ञातं, तेनैव हेतुव्यापकत्वस्योदाहरणादी प्रदर्शनीयतया प्रतिज्ञावाक्ये पक्षरूपधर्म्यादिपदार्थघटितरूपेण उदाहर- णादौ दष्टान्तरूपतद्धटितरूपेण साध्यबोधकतेति स्वभावो नानुमानपर्यवसायीति भावः । यन्तु प्रभादृष्टान्तेन प्रमायां पक्षे स्वनिवर्त्यत्वादिविशिष्टपूर्वकत्वस्यानुमानं विवरणोक्तमसङ्गतमिति, तन्न्न; तत्र स्वपदस्य प्रमाप्रभा- न्यतरपरत्वात्। प्रकृते धर्म्यादिपदस्य पक्षटष्टान्तान्यतरपरत्वे तु घटादिसमानसत्ताकधर्मवत्वाढिना सिद्धसाध- नम्, एवमन्यतरज्ञानरूपब्रह्मज्ञानाबाध्याप्रसिद्धादिकम्। अत एव स्वोपादानगोचरज्ञानादिमज्न्यत्वस्य व्यणुकादौ घटादिदष्टान्तेन तार्किकाद्यनुमानप्रयोजकन्यायवाक्येऽपि स्वपद्मुक्तपक्षटष्टान्तान्यतरपरमेव। नहि काल इति । ननु-ब्रह्म धर्मशून्यं नेत्येव साध्यम्, तथाच तव न सिद्धसाधनम्, मुक्तौ ब्रह्मणो धर्मशून्यतवादिति- चेत्, भ्रान्तोऽसि; धर्मशून्यभेदस्य धर्मशून्यत्वात्यन्ताभावस्य वा साध्यत्वे तस्य धर्मरूपस्य ब्रह्मण्यविद्याकाले सश्वेन सिद्धसाधनतादवस्थ्यात्। दुःखव्यावर्तकधर्मवत्वेनेति । स्वज्ञानायाध्यं यद्ुःखव्यावर्तकं दुःखप्रति- हन्द्ितावच्छेदकमानन्दृत्वं ब्रह्मस्वरूपम्, तद्वत्वेनेत्यर्थः । स्वज्ञानाबाध्यत्वे धर्मतवविशिष्टस्य विवक्षिते तु साध्या- प्रसिद्धिर्वोध्या। नच यत्तद्वामित्यादि। यत्वतत्वयोः प्राचां मतेऽनुगतत्वात् यो यद्विचारविषयः स
Page 401
[अ्रह्मनिर्गुणत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७१९
तथा शब्दानुगमस्यानुमानं प्रत्यनुपयोगात्। ईश्वर: सदावापतसमस्तकल्याणगुण इत्यत्र कालं व्याप्य आप्गुणत्वस्यास्मामिरप्यङ्गीकारात्। नहि निर्धर्मकतायां सत्यां कालसंबन्धोऽस्ति। किंच शुद्धस्य पक्षीकरणे हेत्वसिद्धिः, उपहितस्य पक्षीकरणे अर्थान्तरम्; स्वाभिन्नाप्समस्तकल्याणगु- णत्वेन सधर्मकत्वायोगाञ्च, सिद्धसाधनाञ्च, कल्याणगुणानामानन्दादीनां नित्यत्वेन तत्प्रेप्साया- स्तत्र सामर्थ्यस्य च त्वयापि वक्तुमशक्यत्वाच्च। अतएव-प्रेप्सादिकं प्रज्ञानघनत्वादिति-निर- स्तम्। सदा त्यक्तसमस्तदोषत्वे साध्ये चरमवृत्तिपर्यन्तत्यागे सामर्थ्याभावेन हेत्वसिद्धेः।यदा तु तत्सामथ्य, तदा, त्यक्तदोपत्वमिष्टमेव। प्रकारवत्वादी साध्ये अप्रयोजकत्वमपि। नच अधिष्ठानत्व सन्दिग्धत्वाद्यनुपपत्तिरेवानुकृलस्तर्क :; अधिष्ठानत्वे हि स्वारोपितव्यावर्तकवत्वं तन्न्रं कल्पिताक- ल्पितसाधारणमित्युक्तत्वात्, स्वज्ञानावाध्यत्वविशिष्टधर्मे विना तस्यानुपपत्त्यभावात्। संदिग्धत्व- मपि व्यावर्तकेन कल्पितेनाकल्पितेन वा रूपेणानिश्चिततयैवोपपद्यत इति तस्यापि नानिश्चितसाध्य धर्मे विनानुपपत्तिः। एवं दुःखानात्मकत्वं दुःखव्यावर्तकस्वरूपतयवोपपन्नं कदाचिद्वक्तव्यम् ; अन्यथा अनवस्थानापत्तेः । नहि व्यावर्तकधर्मीऽपि केवलान्वयी, येन स्ववृत्ति: स्यात् । तथाच तदपि व्यावर्तकधमे विनाप्युपपन्नं न तत्साधनायालम्। अनवस्थाभिया क्वचिद्धमें विश्रान्ती पदार्थत्वमपि व्यभिचार्येव। न च स्वस्पैव स्ववृत्तित्वान्न व्यभिचारः आत्माश्रयात्। न चैवं दृश्यत्वस्यापि स्वस्मि- न्नवृत्त्या भागासिद्धिः; स्ववृत्तित्वाभावेऽपि स्वनिष्ठात्यन्ताभावप्रतियोगित्वस्य तत्रासिद्धताप्रयोजक- स्याभावात्। तस्मान्नानुमानं ब्रह्मसमसत्ताकधमे प्रमाणम्। किंच श्रुतिः अपरव्रह्मविषया; निर्धर्मक- गोडब्रह्मानन्दी (लघुचन्द्रिका)। तत्तात्पर्यविषयप्रकारवानिति सामान्यमुखी व्याप्तिर्ग्रहीनुं शक्यते इति विशेषतो वेदान्तमुख्यतात्पर्यविषयप्रकारत्वेन साध्याप्रसिद्धिः प्रकृते न व्याप्तिग्रहविरोधिनीति भावः। शब्दानुगममात्रमेतत्। अनुमाने यत्वतत्वयोरनुगतत्वे मानाभावादित्याशयेनाह-तथाशव्देति। तयोरनुगतत्येन व्याप्तिग्रहसंभवेऽप्यनुमिती विशेषतः साध्यभानस्या- वश्यकत्वात् तद्विरोधित्वं साध्याप्रसिद्धेरक्षतम् । सामान्यव्याप्तिस्थले हि सामान्यरूपेण गृहीतव्याप्तिकस्य हेतो- विशेषरूपेण पक्षे ज्ञानाद्विशेपरूपेण साध्यानुमिनिरिति तु ध्येयम्। नहि निर्धर्मकतायामिति। मया मुक्तौ कालसंबन्धानङ्गीकारात् मां प्रति त्वदनुमानं मन्मते सिद्धसाधनग्रम्नमिति भावः । हेत्वसिद्धिरिति। सत्तादात्म्य- प्रंतियोगित्वादिकमपि तदुपहिते ब्रह्मणि, नतु शुद्ध इति भावः। नच-वेदान्ततात्पर्यविषयत्वेन पक्षत्वान्नासिद्धि- रिति-वाच्यम्; उपहितस्य वृत्तिविपयत्वमते तस्येव तात्पर्यविपयत्वात्। स्वाभिन्नत्यादि। अवासिस्तादात््यरूपा वाच्या। तथाच अत्यन्ताभेढडपि त्वन्मते तादात्याङ्गीकारात् न गुणानां धर्मत्वसिद्धिरिति भावः। त्वयापीत्यपिना मयापि वक्तुमशक्यत्वं वोध्यम्। नच-उत्तरकालानुवृत्ततया नित्येप्वपि प्रेप्सा शक्तिश्र संभवति मतद्वयेपीति- वाच्यम्; तावता कालमात्रे गुणसंबन्धसिद्धावपि मोक्षे तद्सिद्धेः । यत्कालानुवृत्ततया यो यत्प्रेप्साशक्तिमान्, स तदा तद्वानित्येव हि व्याप्तिः । चरमवृत्तिपर्यन्तं जीवस्य चरमवृत्तिपर्यन्तम्। ईश्वरस्येति शेपः । सामर्थ्याभावेनेति। अविद्यासंबन्धादिकं स्वनिष्ठमीशेन न त्यक्तं शक्यते; जीवनिष्टेन तत्वज्ञानेनेव समुच्छेद्यत्वात्। यं प्रति यदज्ञानमा वृणोति, तदीयज्ञानेनव तदज्ञानं तत्युक्तं चोच्छिद्यते। यदा जीवस्य तत्वधीकाले। इष्टमेवेति। जीवेशत्वा- विद्यादे: जीवनिष्टत्त्वज्ञानेनोच्छेदादिनि शेपः। प्रकारवतत्वादौ स्वज्ञानाबाध्यप्रकारवत्वादी। आरोपितव्यावर्तक- वत्वं आरोपिताद्वयावर्तकस्तदन्यूनसत्ताको यो धर्मस्तद्वत्वम्। अनवस्थानापत्तेः व्यावर्तकधर्मेव्वपि व्यावर्तक धर्मान्तरं, तन्नापि तदन्तरमित्यनवस्थानापत्तेः। ननु कस्यचिद्वयावर्तकस्य स्ववृत्तिस्वीकारात् नानवस्था, तम्राह- नहीति। केवलान्वयीति। केवलान्वयित्वान्यथानुपपत्या त्वया मेयत्वादेः स्ववृत्तित्वं स्वीकृतम्। मया तु केवलान्वययेव न स्वीक्रियते। मेयत्वे मेयत्वान्तरं स्वीकृत्य मेयत्वत्वेन रूपेण मेयत्वसामान्यस्य केवलान्वयित्वं बोध्यते। व्यावर्तकं शुक्तित्वादिकं तु न तवापि केवलान्वयीति न स्ववृत्तिघटाभावादेः स्ववृत्तित्वमपि व्याहतम्; आलोके आलोक इत्यादिवत् घटाभावे घटाभाव इत्यादेरपि प्रातीतिकाधेयत्वविषयकत्वात्, अन्यथा राहोः शिर इत्या- देरपि प्रयोगस्य प्रतियोगिसमानसत्ताकत्वसंबन्धभानत्वापत्तिः । ऐक्ये संबन्धस्येवाधेयत्वस्याप्यसंभवस्तु स्पष्टः । दृश्यत्वस्येति। मिथ्यात्वे साध्य इत्यादिः। स्वनिष्टत्यादि। घटाभावादेः स्ववृत्तित्वमिव खवनिष्ठात्यन्ताभावप्रति- योगित्वमपि नास्ति; घटादिमत्तापत्तेः, खस्मिन् स्वप्रतियोगिकत्वविशिष्टसत्वे घटे घटस्य संयोग इति बुद्धापत्तेश्। अतो दृश्यत्वादेरपि तदुभयास्वीकारात् हेत्वत्यन्ताभावविशिष्टपक्षरूपभागासिद्धिर्नेति भावः। उक्तरीत्या वाक्यभेदा- पत्तेः सगुणत्वे तात्पर्याभावेऽपि देवताधिकरणन्यायेन सगुणश्रुत्या सगुणब्रह्म प्रमाप्यते, तावतापि शुद्धब्रह्मणो निर्गुणतवे बाधकाभावः, अविद्याबिम्बत्वाद्युपहितस्यैव सगुणत्वप्रमापणादित्याशयेनाह-किंच श्रुपिरिति । अपरब्रह्म-
Page 402
७२० अद्वैतसिद्धिः । [परिच्छेद: २ ]
श्रुतिविरोधेन विषयभेदस्यावश्यकत्वात्। नच-सगुणातिरिक्तस्य परम्रह्मणोऽद्याप्यसिद्धि; त्वत्पक्षे तात्त्विकगुणवद्यक्त्यन्तरस्याभावात्, किंविषयत्वं च सगुणश्रुतेरिति-वाच्यम्; तात्त्विकत्वपर्यन्त- स्य सगुणशुत्या अविषयीकरणात्, निर्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेश्च। तदुक्तमन्तरधिकरणे कल्प- तरुकृद्भि :- 'निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत् साक्षात् अपेतोपाधिकल्पनम्॥'इति। अत एव स्मृतिसूत्राभ्यां न विरोधः। नच-सगुणे 'परः पराणा' मित्यादिस्मृत्या परादपि परत्वं स्म- र्यते, तथाच कथं सगुणवाक्यानामपरव्रह्मविषयत्वमिति-वाच्यम्; जडापेक्षया परः किंचिज्जः तदपेक्षया सर्वजस्य शुद्धापेक्षयाऽपरस्यापि परत्वात्। नच-'सदेव सोम्येदमग्र आसीदसद्वा इदमग्र आसी' दिति श्रुती अपि परापरव्रह्मविषये स्यातामिति-वाच्यम्; अत्रेदमिति प्रपश्चस्य प्रकृ- तत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रपश्चस्यैव पूर्व कारणात्मना सत्त्वं कार्यात्मना असत्वं विष- यीकुरुतः। नापि ग्रहणाग्रहणवाक्ये अपि परापरयागविषये; 'ऐन्द्रवायवं अ्रहं गृह्णाती' त्यादिघत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽपि अग्रहणवाक्यस्य तदभावबोधकतया यागविषयत्वाभावात्। ननु-एव 'मसन्नेव स भवति असत् ब्रह्मेति वेद चे'दिति श्रुतिरपि नासत्वसिद्धार्था, किंतु शून्य- तापत्तिरूपपरममोक्षपरेति स्यादिति-चेन्न; शून्यताया अपुरुषार्थत्वात्,आनन्दावाप्तिुमुक्तिप्रति - पादकविरोधाच्च। यद्वा-इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः। नच-एतावता अनित्यत्वमात्रं गुणानां न त्वदभिमतमिथ्यात्वसिद्धिरिति-वाच्यम्; त्वदभिमततात्विकत्वस्याप्य- सिद्धेः। उपायान्तरानुसरणं च समानम्। यत्तु ब्रह्मेदानीं सत् दशान्तरे त्वसदित्यप्यापद्येत इति, तन्न; दशान्तरे निर्गुणत्ववत् असत्त्वस्याबोधनेनाप्रसङ्गात्। नच-'ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः।' 'एष नित्यो महिमा ब्राह्मणस्ये' त्यादिश्रुत्या ब्रह्मज्ञानादीनां नित्यत्वप्रतिपादनात् सगुणत्वमिति-वाच्यम्; ज्ञानादीनां स्वरूपनया गुणत्वासिद्धेः। स्वरूपातिरिक्तानां तु चरमसाक्षा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। विषया शुद्धब्रह्मान्यस्य सगुणत्वप्रमापिका। तात्विकत्वेति। नच-तारिवकत्वस्य श्रुत्यविषयत्वेऽपि बाधकाभावात् श्रुत्यर्थस्य तात्विकत्वमिति-वाच्यम्; द्वैतमिथ्यात्वश्रुतेरेव बाधकत्वेन सगुणत्वांशे श्रुतेर्ग्यावहारिकप्रामाण्यात्। सिद्धे: सिद्धिसंभवात्। तथाच निर्धर्मकश्रुतेर्विषयान्तरासंभवेन शुद्धे निर्धर्मकत्वप्रमापकतेति भावः। अन्तर- धिकरणे अन्तसदर्मोपदेशादित्यधिकरणे। आविर्भवेत् अपरोक्षीभवेत्। तथाच चित्तका्यद्वारा उपासना- वाक्यस्य शुद्धाविर्भावतात्पर्यकत्वाच्छेषभूतसगुणवाक्यं न निर्गुणवाक्यबाधकमिति शुद्धान्यत्र सगुणत्वप्नमापकं तदिति भाव:। कार्यात्मना अभिव्यक्तनामरूपात्मना। असत्त्वमनभिव्यक्ततवम् । अत एव 'ततो वै सद्जा- यते'ति शेषेण पश्चादभिव्यक्तत्वोक्तिः। विषयत्वाभावादिति। नच-ग्रहणवाक्यस्य यागविपयकत्वेऽपि अग्रहण- वाक्यं ग्रहणशून्यपरयागविपयकमस्त्वति-वाच्यम्; ग्रहणवाक्यप्रमितयागप्रतिपेधपरत्वसंभवे अ्हणशून्यपरयाग- विषयकत्वे मानाभावात्, अपूर्वपरयागे ग्रहणस्याप्राप्तत्वेन तन्निपधवयर्थ्यात्। नच-ग्रहणाभावनित्यानुवादेनापूर्व- यागपरत्वमिति-युक्तम्; यदेव हि ग्रहणवाक्ये विधीयते, तत्प्रतिपेधः अग्रहणवाक्ये मुख्यार्थः । निर्गुणवाक्ये त्वद्वै- सश्रुतिविरोधान्न प्रतिषेधपरत्वम्, किंतु प्रतिषेधोपलक्षितस्वरूपपरत्वमिति बोध्यम् । प्रतिपादकेति। 'आनन्दं ब्रह्मणो रूपं तञ्च मोक्षे प्रतिष्ठित'मित्यादिश्रुतीत्यर्थः । वाक्याविरोधः सगुणनिर्गुणवाक्ययोरविरुद्धविपयकत्वम्। अनित्यत्वमात्रमिति। निर्गुणश्रुत्येत्यादिः । असिद्धेरिति। श्रुत्येत्यादिः। गुणसत्यताबोधकश्रुतेरन्यथानयनस्य वक्ष्यमाणतवेन श्रुत्या गुणसत्यत्वासिद्धिरिति भावः । ननु-ममानुमानादिना गुणसत्यत्वसिद्धिः, तत्राह-उपाया- न्तरेति। समानमिति। ममापि निर्गुणवाक्यस्य कैवल्यदशायां निर्गुणत्वबोधकत्वेन स्वावच्छेदककालावच्छेदेन स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपमिध्यात्वस्य सगुणत्वे बोधकत्वाभावेऽपि 'विद्वाननामरूपाद्विमुक्त' इत्यनेन ज्ञान निवत्यत्व रूपस्यानुमानेनोक्तप्रतियोगित्वादिरूपस्य मिथ्यात्वस्य बोधनात् सगुणे मिथ्यात्वसिद्धिरित्यर्थः । नय- तहि दशाविशेषे निर्गुणतवाश्रयणं व्यर्थम्, मिथ्यासगुणत्वदशायामपि ताश्विकनिर्गुणत्वसंभवादिति-वाच्यम्; त्वत्परितोपाय सगुणवाक्यस्य निर्गुणवाक्याबाध्यत्वमात्रस्वीकारात्। विद्वानित्यादिवाक्यानुमानाद्यविरोधाय सगुण- वाक्यस्य व्यावहारिकं प्रामाण्यम्, नतु तार्विकमिति तु स्थिरमेवेति भावः। अबोधनेन तात्पर्यतोऽप्रतिपादनेन। 'तच्टैक आहुरसदेवेदमत्र आसीदि'त्यादिकं तु कथमसतः सज्ायेतेत्यनेन दूषणार्थमनुवाद इति भावः। झानादीनां ज्ञानमहिमादीनां स्वरूपातिरिक्तानां क्रियाबलादीनाम्। क्रिया कृतिः जगदारणानुकूलप्रयत्ः; तस्पैव वंक्ष्यमाणनि-
Page 403
७२१
त्कारपर्यन्तस्थायितया नित्यत्वोपचारात्, 'अपाम सोमममृता अभूमे' स्यादौ अमृतशब्दस्याभूत- संप्वस्थानममृतत्वं हि भाष्यत इति पौराणिकोक्तामृतत्ववत्। अतएव-'एष नित्यो महिमे'त्यादि- वाक्यस्य तैत्तिरीयशाखागतस्य नित्यगुणपरत्वमिति-निरस्तम्; बृहदारण्यकगतस्य तु 'स एष नेति नेती'ति वाक्यप्रतिषिद्धसर्वौपाधिकरूपस्य महिस्तः त्यक्तसर्वेषणपुरुषगतस्य प्रतिपादनेन ब्रह्मगतगुण- परत्वाभावात्।नच-'सर्वस्य वशी'त्यादौ ब्रह्मणः प्रकृतत्वेन तद्गतगुणपरत्वमिति-शङ्कयम्; 'योऽयं विज्ञानमयः प्राणेष्वि'त्यादिवाक्योक्तजीवस्वरूपानुवादेन ब्रह्मस्वरूपताबोधनपरत्वेन ब्रह्मगतगुणपर- त्वाभावात्, ब्राह्मणपदस्य 'तदधीते तद्वेदे'ति सूत्र विहिताणन्तस्य ब्रह्मवित्प्रतिपादकतया ब्रह्मपरत्वे लक्षणापत्तेश्च। किंच सगुणवाक्यानामापाधिकगुणविषयत्वेन स्वाभाविकनिर्धर्मकत्वश्रुतेर्न विरोधः। नचौपाधिकत्वस्य सोपाधिकाध्यस्तरूपत्वे शुत्यप्रामाण्यापत्तिः, वक्ष्यमाणसत्यत्वश्रुतिविरोधः, उपा धिकल्पितरूपत्वे तूक्तनित्यत्वश्रुतिविगेधः, अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुतेरु- पाध्यसंभवश्चेति-वाच्यम्; मायाविदर्शितमायानुवादिवाक्यवत् स्वतो भ्रमजनकत्वाभावेनाप्रामा· प्यानापत्तेः, सत्यत्वश्रुतेरन्यथा नेष्यमाणत्वात्, नित्यत्वश्रुतेरन्यथार्थस्योक्त:, सृष्टेः पूर्वमन्तःकर णाभावेऽपि अविद्याया उपाधेः सत्त्वाच्च। नचीपाधिकत्वे 'स्वाभाविकी ज्ञानबलक्रिया चे'त्यनेन वि- रोध :; अस्मदादाविव भौतिकोपाधिकत्वाभावेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोक्ते:। नच सहोचकाभाव :; निर्गुणवाक्यस्यैव सङ्कोचकत्वात्। नच्र-स्वाभाविक्ञानसमभिव्याहारवि रोध: सार्वश्यादिरूपाविद्यापरिण तस्यैव ज्ञानपदेन विवक्षितत्वाद्वाधकसत्त्वासत्त्वाभ्यां समभिव्याह्ा- रेऽपि वैरूप्याङ्गीकरणात् पावको ब्राह्मण इतिवत्। किंच सगुणवाक्यानां न गुणसत्यत्वबोधकत्वम्; सत्यत्वस्यापदार्थत्वात्। नच-नित्यत्वोक्तिसामर्थ्याद्विषयाबाधलक्षणस्य प्रामाण्यस्यौत्सर्गिकत्वात् सत्यः सोऽस्य महिमे'त्यादिश्रुतेः स्वरूपतश्च तत्सिद्धिरिति-वाच्यम्; प्रथमस्यान्यथासिद्धेरु- कत्वादुत्सर्गाख्यतर्कस्य व्यवहाराबाधमादायेवोपपादितत्वात्सत्यः सोऽस्य महिमे'त्यादौ महिम्ः स्वरूपरूपत्वादविरोधात्, धर्मत्वे तु ब्रह्मसाक्षात्कारेतरानिवर्त्यत्वगुणयोगेन सत्यपदप्रवृत्त्युप- गौडव्रह्मानन्दी (लघुचन्द्रिका )। त्यत्वसंभवात् । बलं विचित्रकार्यानुकूलशक्तिः । वाक्यप्रतिपिद्धेति । पूर्ववाक्यप्रतिषिद्धेत्यथः। पुरुषगतस्य पुरुपे अभिव्यक्तस्य। 'एतद्धम्म वै तन पूर्वे विद्वांसः प्रजां न कामयन्ते 'इत्यादि' ते ह स्म पुत्रेषणायाश्च वित्तेपणा- याश्च लोकेपणायाश्च व्यु:्थायाथ भिक्षाचर्य चरन्ति' इति श्रुत्या आत्माभिव्यक्तिमनि पुरुपे त्यक्तषणत्वोक्त: आत्म- स्वरूपमहिम्रस्त्यकेपणपुरुपाभिव्यक्तत्वमिनि भावः। एतेन-ईपणात्यागात् पूर्वमसतो महिम्रो नित्यत्वायोग इनि-परास्तम्। लक्षणापत्तिरिति। नच-ब्रह्मकर्मकमुख्यमध्ययनं वेदनं च ब्रह्मकर्तृकमेवेति न लक्षणेति- वाच्यम्; मुख्यत्वमध्ययनादिपदशक्यत्वं, उत्कृष्टं वा। नान्त्यः: तस्य पदवाच्यत्वाप्रयोजकत्वात्, आद्ये तुव्यासादि- कर्तृकाध्ययनवेदनयोरपि मुख्यत्वेन ब्रह्ममात्रलाभाय व्यासादिव्यावृत्तरूपेण लक्षणावश्यकत्वात्। अन्यथा पाचकादि- पद्मुख्याथत्वमपि ब्रह्मभिन्न न स्यात्, 'अमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्यात् येन स्यान्तेनेद्दश एचे'ति श्रुती ब्रह्मविन्मात्रस्यैव मुख्यब्राह्मणत्वोक्तेश्व। नच-'ब्राह्मणा विविदिषन्ती'त्यनेन बहुवचनान्तेनोक्तस्य ब्रह्मविद इति एकवचनान्तेनोत्तयसंभव' इति-वाच्यम्; ब्रह्मविदो बहुत्ववैशिष्याविवक्षायामेकवचनान्तप्रतिपाद्यतासंभवात्। अन्यथा क्वाप्येकवचनं न प्रयुज्येत। तस्मात्तमेतं वेदानुवचनेन एतमेव विदित्वा मुनिः एतमेव प्रव्ाजिनः 'अयमात्मायं लोकः स एप नेति नेत्यात्मे'त्यादिपूर्ववाक्योक्तः शुद्धातमैव एप नित्यो महिमा ब्राह्मणस्येत्यस्यार्थ इति भावः। सोपाधिकाध्यस्तरूपत्वे सोपाधिकेऽध्यस्तरूपत्वे। उपाधिकल्पितरूपत्वे उपाधिना जनितरूपत्वे। स्वतो भ्रमेति। प्रामाण्यस्येवाप्रामाण्यस्यापि मानान्तरागृहीतविषयकत्वघटितत्वमिति भावः। अन्यथा नेष्यमाणत्वात् व्यावहारिकसश्वपरत्वेन वक्ष्यमाणत्वात्। भौतिकोपाधिकत्वेति। भूतपरिणामोपाधिकृतत्वेत्यर्थः। अस्मदादेर्शाने- च्छादिकं भौतिकमन:परिणामो नेशस्येति भावः। सामर्थ्यादिति। अविनाशित्वरूपनित्यत्वं मिथ्याभूतस्यानुपपन्नम्; ज्ञाननिवर्त्यत्वादिति भावः । स्वरूपतः गुणानां ब्रह्मस्वरूपाभिन्नत्वात् अ्रमजनकदोषासरवे सर्व ज्ञानं साक्षिग्राहं प्रमात्मकम्। अन्यथा सर्वत्र ज्ञाने प्रमात्वसंशयापत्तेः । ज्ञानोत्पत्तिज्ञप्िनियामकस्यैव लाघवेन प्रमोतपत्तिज्ञप्तिनियाम- करवादिति तर्कस्तवयोत्सर्गशब्देनोक्त:,स च व्यवहारकालाबाध्यविषयकत्वरूपप्रमात्वस्य तथात्वव्यवस्थापकः, तस्यैव व्यवहारकालीनप्रवृश्यादिप्रयोजकत्वात्, तथाच न त्रिकालाबाध्यविषयकत्वसिद्धिरित्याह-उत्सर्गाख्यतर्कस्येति। अविरोधादिति। अनेनैव स्वरूपाभिन्नतवहेतुरप्यपास्तः । स्वरूपाभिन्नगुणस्य तार्विकरवेनेष्टत्वादिति बोध्यम्। अत्र अ. सि. ९१
Page 404
७२२ भद्वैतसिद्धिः। [परिच्छेद: २ ]
पत्तेः। मय-एवं 'सत्यं ज्ञानं' 'तत्वमसी'त्यादिभुत्युक्तमहासत्यत्वैक्यादिकमपि तातत्विकं न स्यादिति-वाच्यम्; निर्गुणश्रुतिविरोधस्य तत्रेवात्राभावात्। ननु-ध्ुत्योर्विरोधे नैकस्या अता- स्विकविषयत्वम्: शास्त्राविरोधे सङ्कोचविकल्पादिना उभयप्रामाण्यस्य पूर्वतम्े व्याकरणे च निर्णी- तत्वात्। तथाहि-दशमाध्यायस्थे 'प्राप्तबाधे प्रकृतिषत् कुर्या'दित्यादिरूपकलप्तस्य चोदकस्य कृष्णलादाववघातवर्जमित्यादिरूप: सङ्कोच एव। एवं तार्तीयीकेऽपि अप्राप्तबाधे गा्ईपत्यमिति द्वितीयाश्रुत्यनुसारेण इन्द्रशब्दयुक्तमन्नलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव। व्याकरणेऽपि यत्र परेण
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सत्यं ज्ञानमित्यादी। तत्रेव सगुणवाक्य इव। अतात्विकविषयकत्वम् अन्यभ्रुतिविषयसत्तान्यूनसत्ताकविषय- कत्वम्। यथाश्रुते आरमाविषयकश्रुतिमात्रस्य मया अतार्विकविषयकरवस्वीकारात् मां प्रति कर्मकाण्डभ्ुतेरतारिविक- विषयकत्वनिदर्शनस्यानुपपत्तेः। शास्त्रविरोधे शास्त्रस्य मानान्तरेण विरोधे। उभयप्रामाण्यस्य शासत्रतद्विरद्धा- र्थकमानयो: प्रामाण्यस्य। प्राप्तबाध इति । प्राप्तस्य प्रवृत्तस्य प्रामाण्यस्य। यद्विषयांशे प्रामाण्यनिश्चयो यस्य विशे- षदर्शनस्याभावात्तेन विशेषदर्शनेन तद्विषयांशे तद्प्रामाण्यनिश्चयः प्राप्तबाधः । लिङ्रादेस्वप्रवृत्तस्यैव श्रुत्यादिना तद्विषयांशे अप्रामाण्यनिश्चयः । चोदकस्य अतिदेशशास्त्रस्य। कृष्णलादाविति। उपकारपृष्ठभावेन साधनातिदे- शादवघातादौ प्रकृतौ कलपस्यैव वैतुष्यादिरूपदृष्टोपकारस्य कृष्णलादावसंभवेनावघातवर्ज प्रकृतिवर्कुर्यादिति सक्कोचच इस्वथ: । 'प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्काम' इति विहितेषु स्वर्णमापरूपकृष्णलद्रव्यकचरुव्ववघातो- डस्ति न वेति संशये वैतुष्यरूपप्राकृतोपकारासंभवेऽपि प्रकृतिवत् कुर्यादित्यति देशप्रामाण्यायादृष्टोपकारकल्पनसंभवेना- तिदेशादवघातोऽस््येवेति प्राप्ते परशुना छिन्धादित्यादाविव शतकृष्णलेनायुः कुर्यादित्यादावपि करणगतोपकार एव प्रथममाकाक्कोदयात् उद्यमननिपातनादेः परशाविवोपकारविशेषस्य शतकृष्णले प्राप्तिं विना तदाकाल्लाशान्त्यसंभवात् उपकारविशेषस्यैव विकृतिषु प्रथममतिदेशः । पश्चादेव तत्साधकाकाङ्कायामुद्यमननिपातनादौ हस्तादेरुपदेश इवावघा- सादेरतिदेशः। एवं विकृतिभावनया प्रथमं प्रकृतिभावनोपस्थितौ तदव्यवहितान्वयित्वेनोपकारस्यैव प्रथमोपस्थि- तिरूपः सवनिधिः । एवं प्रधाननिष्ठायाः फलाधयनुकूलयोग्यतायाः साधनाकाङ्कायामेवातिदेशः। तत्साधनतवं च साक्षात् पदार्थानां नास्त्येव; लाक्षणिकात्, किंतु दष्टादष्टोपकारद्वारेत्युपकारस्यैव साक्षास्प्रधानगतयोग्यताजनने थोग्यत्वमित्याकाङ्कासन्निधियोग्यत्वैरुपकारस्यैव प्रथममतिदेशः। पश्रात्तत्साधनाकाङ्मया पदार्थातिदेशः। अथवा- पदार्थविशिष्टोपकाराणामेक एवातिदेशः; परशुना छिन्दादित्यादावपि साधनविशिष्टोद्यमननिपातनादाविव प्रकृतेऽपि विशिष्टे आकाङ्कासंभवात् सर्वथाप्युपकारनैरपेक्ष्येण साधनानामनतिदेशादुपकारस्य वैनुष्यस्य कृष्णलेष्वसंभवात् तत्सा- धनावघातस्याप्यनतिदेश इति दशमप्रथमे स्थितम्। ननु-न कृष्णलोदाहरणं युक्त्तम्। यदि हि कृष्णलस्य प्रदेयं प्रति प्रकृतित्वं स्यात्, तदाSSप्रेययागप्रदेयपुरोडाशप्रकृतिव्रीहिधर्माणामवघातादीनामतिदेशः संभाव्येत। घृते श्रपयतीत्यत्र हि घृताधिकरणकाअिसंयोगमात्रं विधीयते; विक्कृत्यभावेन मुख्यश्रपणासंभवात्। अतएव चरुशन्द: कृष्णलद्रव्यकयागे अभिसंयोगिद्रव्यकत्वसादृश्यात् गौणः सम्नाझेयप्रकृतिकत्वसाधकाविशदत्वसादशयोपोद्वलक इत्यष्टमे उक्तम्। तादशं च श्रपणं कृष्णले चरुरूपद्रव्यान्तरं नोत्पाद्यति; मानाभावात्, नच-व्रीहिधर्माणामनतिदेशे निर्वपेदित्यनुवादानुपप- त्तिरिति-वाच्यम्; प्राकृतविहितनिर्वापाभावेऽपि लौकिकार्थिकततसत्वेनानुवादसंभवात्। तथाच कृष्णलस्य प्रदेय- श्वेन प्रदेयधर्माणां पर्यभिकरणादीनां प्राप्तावप्यवघातादीनामप्रसक्ततया वैतुष्यादिफलाभावप्रयुक्तो न तह्वाघ इति- चेत्, सत्यम; तथापि कृष्णलस्य प्रदेयप्रकृतित्वं कृतवा चिन्तेयम्। तथाच स्थलान्तरे तरफलं बोध्यम्। तथथा सवनीयहविरन्तर्गतलाजाख्यपरिवापे लाजप्रकृतित्वेन प्राप्तव्रीहीण. वेतुष्यासंभवादवघातस्य बाघः । वैतुष्यं हि प्रकृतौ प्रदेयपाकसाधनप्रयोजकम्। प्रकृते च तस्य प्रदेयपाकविरोधित्वेनासंभवः; सतुषद्रव्यस्यैव भर्जने लाजनिष्पसेः। भर्जनोत्तरमपि नखादिना वितुषीकरणम्; नावघातेन; लाजत्वविघातापत्तेः । तस्मात् पाकसाधनवैतुष्यासंभवेन तत्रावघातबाध इति बोध्यम्। तार्तीयीके तृतीयाध्यायोक्ते। अप्राप्तबाधे श्रुत्यादिना शीघ्रप्वृत्तेन मश्रादेर्विनि- योगेनाकाङ्ाशान्त्या लिङ्गादेरप्रवृत्तिरप्राप्तबाधः। तदुक्तं न्यायरतमालायाम्-कम्प्यस्य शास्त्रस्य तु कल्पनं यन्निरुध्यते मूलनिकृन्तनेन। कृप्तेन शीघ्रेण फलापहारात् अप्राप्तबाधं तमुदाहरन्ति ॥ इति। गार्हपत्यमितीति। ऐन्व्ा गार्हपत्यसुपतिष्ठत इति वाक्यगतेत्यर्थः । इन्द्रशवद्युक्त्तमन्रलिङ्गस्य 'कदाचनस्तरीरसि नेन्द्रसश्चसिदाशुप' इत्यस्या ऋचोऽथबोधकत्वस्य गार्हपत्ये गौणत्वादिकमिन्द्रपदस्येन्द्रसदशत्वरूपेण गार्हपत्ये गौण्या वृश्या सम्पादनीयत्वम्। आदिपदादिदिपरमैश्वर्य इति धातुपाठाद्योगवृत्या सम्पादनीयत्वम्। संभवति हि गाईपत्यस्याप्यन्यापेक्षयेश्वस्वम्, श्रुतिलिङ्ाधिकरणं तु प्रथमपरिच्छेद एव रचितम्। परेणेति। यथप्य-
Page 405
७२३
पूर्वस्य नित्येनानित्यस्येत्यादिबाध उक्ता, तत्रापि संकोच एव । दशमे विकृतिभूतमहापितृयक्ष- प्रकरणस्थे 'नार्षेयं वृणीते' इत्यादिवाक्ये प्रकृतिवत्कुर्यादार्षेयवरणवर्जमिति महापितृयज्ञीयप्रकृति वच्छव्दैकवाक्यतया पर्युदासार्थत्वमेवेत्युक्तम। यत्र तु प्रकृतिभूतदर्शपूर्णमासप्रकरणस्थाज्यभाग- विधायकवाक्यसन्निहिते 'न तौ पशौ करोती'त्यादौ पाशुकप्रकृतिवच्छन्दैकवाक्यताऽयोगेन पर्यु- दासार्थत्वासंभवात् 'प्रकृतिवत्कुर्यादाज्यभागौ तुन कुर्या'दिति वाक्यमेदेन प्रसज्यप्रतिषेधार्थक- स्वमेवेत्युक्तम्, तत्र पशावाज्यभागयोरन्येनाप्रसक्त: शास्त्रप्रसकस्य सर्वथा बाधायोगाद्विकल्प
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सुल्यबलयोर्विरोधे पूर्वेणापि परबाधः । यथा सुग्ल इत्यादौ श्याद्यधेत्याकारान्तलक्षणं णप्रत्ययमनुपसर्गे सावकाश- स्वात् दुर्बलं परमपि बाधित्वा आतश्रोपसर्गे इति पूर्वः कप्रत्यय एव भवति, तथापि तुल्यबलयोः विरोधे परेण पूर्वस्य बाधः । यथा वृक्षाभ्यामित्यत्र सुपि श्रेति दीर्घतवं सावकाशम्, वृक्षे्वित्यत्र 'बहुवचने झल्येदि'त्येत्वं साव- फाशम्, वृक्षेभ्य हृत्यत्रोभयोर्विरोधे परेणैत्वेन दीर्घत्वस्य पूर्वस्य बाधः। यद्यपि तुल्यबलयोः सत्प्रतिपक्षवद्न्योन्य- कार्यविघातकत्वमेव युक्त्तम्। न त्वेकस्यापरकार्यविघातकतवम्; तथापि 'विप्रतिषेधे परं कार्य'मिति वचनबलात् परं कार्यमिति बोध्यम्, अत एवोक्तवचनस्य महाभाष्ये अप्राप्तप्रापकत्वरूपा विधायकतोक्ता। नित्येनेति। रन्धय- तीत्यन्र रधिजभोरचीति नुम् कृताकृतप्रसङ्गित्वान्नित्यः । 'अत उपधाया' इति वृद्धिरनित्या। नुमि तु कृते अकारस्या- नुपधात्वादप्रासेः । अत्र पूर्वोऽपि नुमेव भवतीति नित्येनानित्यस्य बाघः । इत्यादीत्यादिनान्तरङ्रेण बहिरङ्गस्य बाधः। यथा अशिश्रियत् अदुद्रुवदित्यादावन्तर्भूतचळपेक्षत्वादियङुषङ्वन्तरङ्गो बहिर्भूतणिजपेक्षत्वात् बहिरङ्कलघूपधलक्षणं गुणं बाधेते। तत्रापि सङ्गोच इति। अत्रेदं बोध्यम्-व्यक्तिमात्रस्य पदार्थत्वपक्षे प्रतिव्यक्ति सौत्रविधेर्भेदात्त- सव्यकस्युद्देशेन प्रवृत्तयो: शास्त्रयोग्यक्त्यन्तरे प्रवृश्यभावात् परेण पूर्वस्य सर्वथा बाध एव, न सङ्कोचः । यथा जुहुतात् श्वमित्यत्र परत्वात्तातडि कृते स्थानिवद्धावेन प्राप्तं पिश्वं न भवति। अत एवाहुवैयाकरणा :- 'सकृद्वतौ विप्रतिषेधे यद्वाधितं तद्वाधितमे'वेति। अथ-अस्मिन् पक्षे पूर्वसूत्रानारम्भ एवानुमीयते। विवृतं चैतन्महाभाष्या- दाविति-चेन्न; तथाप्यप्राप्तबाधः सर्वात्मना स्थित एव। एवं कदाचनेत्यादिमन्ने इम्द्रशब्दस्य मुख्यार्थत्यागः सर्वथा बाध एव। यथाच तत्र गौणाध्यर्थपरत्वं स्वीक्रियते। अध्ययनविधिगृहीतवेदे मात्रामात्रस्याप्यवैयर्थ्यात्, तथा निर्गुणश्रुत्या ब्रह्मगुणवैशिष्चांशे तार्विकप्रामाण्यात् प्रच्यावितस्यापि सगुणवाक्यस्य सगुणत्वेन म्रह्मोपासनपरत्वं ब्रह्मणि व्यावहारिकगुणवैशिष्परत्वं वा स्वीक्रियत एवेति साम्यम्। प्रकृतिवत्कुर्यादारषेयवरणवर्जमिति आर्षेयवरण- भिन्नप्राकृताङ्गजातेन महापितृयज्ञरूपाया विकृतेरुपकुर्यादित्यर्थः। एकवाक्यतया पदैकवाक्यतया। आर्षेयवरण- भिन्नस्य नार्षेयं वृणीत इति वाक्यलक्षितस्य प्रकृतिवत्कुर्यादिति वाक्यार्थ प्रवेशः। तेन नजर्थे धात्वर्थस्य प्रकारतया- उन्वयस्याग्युत्पभ्नत्वेऽपि न क्षतिः। नार्पेयं वृणीत इत्यत्र उक्त्तलक्षणायां मानाभावात् प्रतिषेध एव। तथाचाषयवरण- तदभावयोर्विकल्प इति प्राप्ते अष्टदोषदुष्टविकल्पापेक्षयोक्तलक्षणाया एव युक्तत्वात् पर्युदास एव। नजूसमासाभा- वस्तु पाणिनेर्विभाषाग्रहणात् उपपन्न एव; व्याससमासयोरैकार्थ्याक्च। अत एव वचनानर्थक्यमिति कात्यायनोक्तमना देयम्। वाक्यविशेषस्य समासस्यैव नामसंज्ञेति नियमादार्षेयं वृणीत इत्यस्यानामत्वेम तेन सह नजूसमासाप्रासेश्रेति दशमाष्टमे स्थितम्। प्रकरणस्थाज्यभागविधायकेति। प्रकरणस्थं यदाज्यभागविधायकं, तदित्यर्थः । एक- वाक्यताSयोगेन एकवाक्यताया अयोगेन। स्वसमभिव्याहृतपदार्थ एव पदार्थस्यान्वयात् भिन्नप्रकरणस्थ- वाक्यार्ये आज्यभागान्यरूपस्य नञर्थस्य नान्वयसंभव इति भावः । वस्तुतस्तु-तस्य तत्रान्वयासंभवेऽपि चतुर्धाक- रणमाक्ययोरिव दूरस्थयोरप्युक्तवाक्ययोः सामान्यविशेषरूपाभ्यामेकस्य वाक्यार्थस्य योधकत्वेनैकवाक्यता संभवति। अत एवातिदेशवाक्यस्य सक्कोचोऽपि सिध्यति; दर्शपूर्णमासप्रकरणस्थवाक्येनाज्यभागान्यप्राकृतानां कर्तव्यता- बोधकेम तत्रैवानिदेशस्य विशेषरूपेण तत्तदङकर्तव्यताबोधकस्य तात्पर्यग्रहात्। अत एव तादृशपर्युदासवाक्ये आल्यातपदसर्वेनोक्तरूपमेकवाक्यतवं स्वीक्रियते; अन्यथा आख्यातवैयर्थ्यापत्तेः, 'न होतारं वृणीते'त्यादौ तु समु- दायलक्षणाया आवश्यकत्वेन न तद्वैयर्थ्यम्। तथाच यद्यपि नार्षेयं वृणीत इत्यादाविव विकल्पस्यान्याय्यत्वात् पर्यु- दास एव 'न तौ पशौ करोती'त्यत्रार्थः संभवति। अथैवं-पशुप्रकरणस्थ 'न तौ पशा'विति वाक्यानुधावनमाचा- र्याणां पर्युदाससिष्ार्थमग्रे व्य्थमिति-चेन्न; उक्तयुक्तेरिव पशुप्रकरणस्थोक्तवाक्यस्यापि पर्युदाससाधकत्वमित्याश- यातू; तथापि अप्रये आाज्यस्यावदीयमानस्यानुश्रूहि सोमायाज्यस्यावदीयमानस्यानुब्रूहि अप्रये आज्यं प्रस्थितं प्रैष्य सोमायाज्यं प्रस्थितं प्रैष्य होता यक्षद्भिराज्यस्य जुषतां हविर्होतर्यजेत्मादिप्रेषाणां पशुप्रकरणे आम्नानात्तेषां च लिग्गादाज्यभागमात्राङ्रवात् काण्वानां शतपथब्राह्मणे सोमे अभनीषोमीयपशुपकरणे उत्तम्। जुह्वा प्रयाजमिष्टा
Page 406
७२४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
इत्युक्तम्। तथाचोक्तं'को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः। एकं प्रमाणमितरत्त्वप्रमाणं भवेदिति॥' इति-चेन्न; तत्र शास्त्रयोः प्रामाण्ये समानकक्ष्यतय्रा एकतरस्यात्यन्तिकबाधायोगात्स- क्कोचेन विकल्पेन वा पाक्षिकप्रामाण्यमाश्रितम्, इहत्वेकतरस्य तत्परतया प्रबलत्वादितरस्य चात- त्परत्वेन दुर्बलतया वैषम्यात्। यन्तु 'न तौ पशौ करोती'त्यादौ विकल्प उक्तः, तन्न; पशुप्रकरणस्थस्य पाशुकप्रकृतिवच्छष्दैकवाक्यतया पर्युदासार्थत्वात्, दर्शपूर्णमासप्रकरणस्थस्य तु 'पशावाज्यभागौ न स्तः, अत्र तौ स्त' इति स्तुत्यर्थत्वात्, वार्तिककारैर्विकल्पे स्वीकृतेऽपि न दोषः; उभयत्र तात्पर्य- सत्वेन विशेषात्। यन्तु-अत्रापि 'विकारशब्दान्नेति चेन्न प्राचुर्यात्' 'उपदेशभेदान्नेति चेन्नोभयस्मि- न्रप्यविरोधात्' 'गौण्यसंभवा'दित्यादौ शास्त्रयोर्विरोधे तात्त्विकार्थान्तरपरतोक्ता, नत्वारोपितार्थता; अन्यथेक्षत्याद्यधिकरणेषु सिद्धान्तसाधकानामीक्षणादीनां साक्वदभिमतप्रधाना दावारोपसं्भ्वे न प्रधाननिराकरणादि न सिच्धेदिति, तन्नः विकारशब्दादित्यादौ न विरोधेन तातत्विकार्थान्तरपरत्वमर्थः, किंतु स्वप्रधाने ब्रह्मणि अवयवत्वासंभवेन पुच्छपदमुपचरितमित्यर्थः। तदुक्तं टीकायां-पुच्छे-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ध्रुवामेवाग्रे अभिघारयति तस्यां प्रथमावाज्यभागौ यक्ष्यन् भवतीत्युक्तत्वात् पशुप्रकरणे कृताकृतावाज्यभागावि- त्यापस्तम्बोक्तेश्राज्यभागयोरपि पशौ करणप्रतीतेस्तदंशे अतिदेशप्रवृत्तेरावश्यकतवेन विकल्पस्यापरिहार्यत्वात् पर्युदास- लक्षणार्यां मानाभावेन प्रतिषेध एव न तौ पशाविति वाक्यार्थ इति बोध्यम्। इत्युक्तमिति। तत्रापि सङ्कोच एवेति शेषः । उक्तपर्युदासप्रतिषेधशास्त्राभ्यामपि अतिदेशशास्त्रस्य विधिशास्त्रस्य च सङ्कोच इत्यर्थः। सर्वथा बाधायोगे वृद्धोक्तिं प्रमाणयति-तथाचोक्तमिति। अप्रमाणं सर्वथाऽप्रमाणम्। समानकक्ष्यतयेति । अतिदेशशास्त्रस्य कल्पनीयतवेऽपि 'नार्पेयं वृणीत' इत्यादिप्रत्यक्षश्रुतिसमकक्ष्यत्वमुक्तश्रुतेराषेयवरणप्रसअकातिदेश- सापेक्षप्रसक्तिकतवेनाति देशोपजीवकत्वादिति भावः। सङ्कोचेन विषयसंकोचेन। पाक्षिकं संकुचितविषयघटितम्। तत्परतयेति। पश्चात्म्रवृत्तत्वादेरप्युपलक्षणमिदम्। अपच्छेदाधिकरणादौ पश्चात्प्रवृत्तत्वादेर्वलवत्ताबीजस्योक्तत्वादिति भावः। विकल्पः प्रतिषेधमूलकविकल्पः । प्रकरणस्थस्येति। न तो पशावित्यस्येति शेषः । विकल्पे प्रतिपेध- मूलकविकल्पे। वार्तिककाररित्यनेन भाव्यकाराणां पर्युदास एव स्वारस्यं सूचितम्। दर्शपूर्णमासयोरेतच्छ्रयते-'तत्र कः प्रसङ्गः यत्सोमे स्यादि'त्यादिग्रन्थेन हि भाष्यकारन सोम इति वाक्यस्यैव पर्युदासाथत्वं निराकृतम्। अन्यथा तत्र क: प्रसङ्गः यत् पशौ सोमे च स्यादित्युच्यते। तस्मात् पशावपि न तो पशावित्यस्य श्रवणं मन्यन्ते भाप्यकाराः। एवं सूत्रकारस्यापि न तो पशावित्यत्र पर्युदासनिरासे न तात्पर्यम्, किंतु न सोम इत्यत्र। अत एव 'अपूर्वे चार्थवाद: स्या'दित्येव सूत्रितम्। अपूर्वे विकृतिभिन्न सोमे न सोम इति वाक्यमर्थवाद एव स्यात्। न प्रतिपेधस्य पर्युदासस्य वा बोधकमित्यर्थः। ननु-न तो पशाविति वाक्यस्य पशुप्रकरणस्थत्वेऽप्युक्तप्रपमध्रबलादेव विकल्पावश्यकत्वेन पर्युदासलक्षणायां मानाभावेन प्रतिषेधार्थकत्वावश्यकत्वात् पर्युदासार्थकत्वोक्तिरयुक्तेति-चेन्न्न;एकवाक्यतानुरोधेन पर्युदासार्थकरवस्यैव युक्तत्वात्, आज्यभागभेदस्य प्राकृताङ्गेपु प्रकृतिवच्छव्द्रोपस्थापितेपु शत्तयव नजा बोधसंभवेन भिव्नलक्षणाया अनावश्यकत्वाच्च। तथाच प्रतिषेधेन न विकल्पः, किंतु पर्युदासेनेत्याचार्याणामाशयः। अथवा- पर्युदासवाक्यस्यैकवाक्यतासमर्थत्वेन बलवत्वात्तदनुसारेणोक्तमभ्राणामुत्कर्षः स्तुतिपरत्वं चेति भावः। यसु- भाष्यटुप्टीकातभ्ररलशास्त्रदीपिकाधिकरणमालासूक्तवाक्यस्य पशुप्रकरणस्थत्वं नोक्तमिति तदपरामाणिकमिति, तन्न; शुकशारिकादिवदूहापोहाक्षमस्य यथाकर्णितं वदतस्तथैव वकुं युक्तत्वात्। सर्वतब्रस्वतब्रैर्हि भामतीकारकल्पतरुकार- परिमलकारैः 'तत्साभाव्यापत्तिरुपपत्ते'रित्यधिकरणे पशुप्रकरणस्थं न तौ पशौ करोतीति वाक्यं प्रतिषेधार्थकमुक्तम्। प्राभाकरास्तु तद्वाक्यं पर्युदासार्थमाहुरिति तदधिकरणे कल्पतरावुक्तम्। 'हानौ तूपायने'त्याय्धिकरणेडपि पशुप्रकरण- स्थोक्तवाक्यप्रमितप्रतिषेधानुवादकत्वं दर्शपूर्णमासप्रकरणस्थोक्तवाक्यस्येति मूले उक्तम्। उपपत्तिस्तूक्तैव तंत्रास्माभिः । न चैतत् सर्व त्वादशेन वराकेणापलपितुं शक्यम्। अथ-एवं वार्तिककारादिभिर्नानाशाखादर्शिभिः किमिति तओो- कमिति-चेत्; शणु-रे मूढ न्यायव्युत्पादनार्थ वार्त्तिककारादयः प्रवृत्ताः। तत्र यद्यपि पशुप्रकरणे तद्वाक्यमस्ति, तथापि तत्र तन्नास्तीति कृत्वाचिन्तया अत्र प्रतिषेधार्थकत्वलाभ इति निखिलतर्काटवीसज्वारपञ्ञाननानामाचार्यप्रभृती- नामेव शास्त्राथनिर्णये अधिकारः, न त्वादशां परोपदेशमात्रगर्तशरणानां भीरुफेरुणाम्। पठन्ति हि वृद्धाः । 'मधुसू- दनसरस्वत्याः पारं वेत्ति सरस्वती। पारं वेत्ति सरस्वत्या मधुसूधनसरस्वती ।' इति। उभयत्र विधिप्रतिषेधशास्त्रयोः। तात्पर्यसत्वेन सवार्थे तात्पर्यसरवेन। विशेषात् स्वाथपरापरनिर्गुणसगुणवाक्यापेक्षया सर्वथा बाध्यबाधकभाव विरहरूपाद्विशेपात् । पंर्युदासपक्षेऽपीदं बोध्यम्। अत्रापि ब्रक्रमीमांसायामपि। न तात्त्विकार्थान्तरपरत्वमर्थः
Page 407
गौडब्रह्मानन्दीयुता। ७२५
Sधिकरण इति। गौण्यसंभवादिति पूर्वपक्षसूत्रेऽपि 'आत्मन आकाशः संभूत' इति श्रुतिस्तु गौणी। आकाशोत्पत्तिकारणासंभवादित्यर्थः, नतु तात्विकार्थान्तरविषयत्वम् । 'उपदेशमेदादि'त्यादौ दिवि दिव इंति सप्तमीपञ्चमीभ्यामाधारत्वावघित्वयोः प्रतीतेरुपदेश मेदेन पूर्वनिर्दिष्टव्रह्मणः प्रत्यभि- ज्ञानमस्तीति प्राप्ते एकस्मिन्नपि श्येने 'वृक्षाग्रे शयेनः वृक्षाग्राच्छयेन' इति निर्देशदर्शनात् एकस्मिश्नेव ब्रह्मणि उभयरूपाविरोध इत्यर्थः, नतु तात्विकार्थान्तरपरत्वम्। नचारोपितमीक्षणं प्रधाने संभवति; योग्यतामादायेवारोपदर्शनात्। नहि राजामात्ये राजत्वारोप इति स्तम्भादावपि तदारोप:। तथाच चेतन एव ईक्षितृत्वदर्शनाश्चेतने ब्रह्मणि तदारोपो युज्यते नाचेतन इति न सिद्धान्तक्षतिः । किंच निषेध्यसमर्पकत्यकवाक्यतयैव प्रामाण्यसंभवे न वाक्यभेदेन गुणप्रापकता युक्ता। अतएव न 'को हि मीमांसक' इत्यादिना विरोधः। ननु-मृडमृदेत्यादेयथा 'न क्त्वासेडि'ति निषेधनिषेध- कत्वं, तद्वत् सगुणवाक्यानामपि निर्गुणवाक्यवाधकत्वं किं न स्यादिति-चेन्न्न; दृष्टान्ते पर्युदासा धिकरणन्यायेन मृडमृदेत्यायुत्तरविहितान्यसेट्रककत्वाप्रत्ययकित्व निषेधपरत्वेनकवाक्यतायां वाक्य- भेदेन निषेधनिषेधकत्वाकल्पनात्। नच प्रकृतेऽपि पर्युदासार्थकत्वम्; नेति नेतीति वीप्सायाः प्रसक्तसर्व निषेधकतया विशेषपरिशेषायोगेन पर्युदासस्याश्रयितुमशख्यत्वात्। यत्तु जगत्कर्तृत्वेना- क्षिपसा्वश्या देर्निषेधायानुवादे श्रुतेन ज्ञाननिवर्त्यत्वेन जगदारोपाधिष्ठानत्वेन 'स एवेदं सर्वमा- त्मैवेदं सर्वमि' ति शुतेन जीवव्रह्मणोः सार्वात्म्येन चाक्षितं विश्वमिथ्यात्वं ब्रह्मसत्त्वं जीवब्रह्मैक्यं च विश्वं सत्यमित्यनेन असद्वा इत्यनेन 'द्वा सुपर्णे' त्यनेन च निषेदुं 'नेह नानेत्यनेन' सत्यं ज्ानमि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तास्विकार्थान्तरपरं पुच्छपदमिति नोक्तसूत्रार्थः। उपचरितमिति। आधारत्वरूपगुणयोगेन गौणमित्यर्थः। तच्चाधारसं कल्पितमिति न तात्विकार्थकता। एवमग्रेऽपि बोध्यम्। तथाच विज्ञानमयात् अन्योऽन्तर आत्मानन्दमय इत्यादिब्ह्- पुच्छं प्रतिष्टेत्यन्तवाक्ये विकारशव्दात् पुच्छरूपावयववाचिशब्दयोगात् ब्रह्मशब्दो न प्रधानीभूतब्रह्माथक इति चेन्न; प्राचुर्यात् पुच्छपदस्य अन्रमयादिपर्यायेपु प्रचुरत्वात् पुच्छपदमुक्तम्, नतु ब्रह्मणि पुच्छरूपावयवत्वविवक्षया प्रतिष्ठाशब्दयोगेन पुच्छपदस्याधारार्थकत्वादित्युक्तसूत्रार्थ इति भावः। नतु तात्विकार्थान्तरविषयत्वं तारिव- कार्थान्तरविपयकोक्त्तश्रुतिरिति नारथः । उपदेशेत्यादि। 'अथ यदतः परो दिवो ज्योतिर्दीप्यत' इत्यत्र ज्योतिश्शब्द- बोध्यं ब्रह्मेव, नतु तेजः; 'त्रिपादस्यामृतं दिवी'ति पूर्ववाक्ये ब्रह्मण एवोक्तत्वादिति सिद्धान्तिते दिवीति पूर्वनिर्देशात् परो दिव इत्यत्र पूर्वोंक्त ब्रह्म न प्रत्यभिज्ञायत इत्याशङ्क्य समाहितमुपदेशेत्यादिसूत्रे। वृक्षाग्रादिति। पर इति शेपः। नाचेतन इतीति। अचेतने तदारोपेऽपि प्रातीतिकं तद्वाच्यम्। तथाच व्यावहारिकेक्षणपरत्वे संभवति प्रातीतिकपरत्वं न युक्तमित्यपि बोध्यम्। एतेन-प्रातीनिकपुच्छत्वादिकं पुच्छादिपदार्थ इति त्वद्भाष्यादी कुतो नोक्तम् ? नहि तादृशपुच्छत्वं प्राधान्यविरोधीत्यपि-अपास्तम्; आश्रयादिरूपव्यावहारिकार्थपरत्वे संभवति तात्पर्यायोग्यप्रातीतिकार्थकत्वसंभवात्। सगुणश्रुतेस्तु व्यावहारिकसगुगत्वपरता संभवति; निर्गुणश्रुतेः प्रबलाया विरोधादिति ध्येयम्। सगुणवाक्यस्य गुणप्रकारकोपासनापरत्वेऽपि न गुणवैशिष्चपरत्वम्; वाक्यभेदापत्तेरित्युक्त्तम्। इदानीं सगुणवाक्यं गुणनिषेधवाक्यापेक्षितगुणरूपप्रतियोग्यनुवादरूपत्वेन न सगुणत्वपरमित्याह-किंचेति । अत एव गुणनिषेधपरत्वेन सगुणवाक्यस्य प्रामाण्यस्वीकारादेव। पर्युदासाधिकरणेति। अपि तु 'वाक्यशेषस्या- न्याय्यस्वाद्विकल्पविधीनामेकदेशः स्या'दित्यनेन पर्युदासाधिकरणीयसिद्धान्तसूत्रेण वाक्यभेदापादकविक ल्पस्यान्यायय त्वात् अतिदेशवाक्यादिरूपविधीनां 'नार्षेयं वृणीत' इत्यादि वाक्यशेषः; तदेकवाक्यत्वादित्युक्तम्। प्रकृतेऽपि मृडेत्यादेरनिपेध्यनिषेधपरत्वे मृडाधुत्तरक्वाप्रत्यये कित्वनिषेधरूपस्य निषेध्यस्य प्रसक्तेः 'न क्त्वेत्या'दिना वाच्यतया शास्त्रेणैव निषेध्यनिषेधयोरुभयोः प्राप्ती विकल्पापत्या वाक्यभेदात् 'न होतारं वृणीत'इत्यस्य होतृवरणभिस्न इव मृडादेर्मडाद्युत्तरवृत्तिभिन्ने लक्षणयैकवाक्यता। अत एव 'ब्राह्मणेभ्यो दुधि न देयम् । कौण्डिन्याय देय'मिति वाक्ययो: कौण्डिन्यवाक्यस्य कौण्डिन्यभिन्नलक्षणया एकवाक्यत्वमिति भावः । प्रकृते सगुणवाक्ये। पर्युदासार्थकत्वं सार्वजञ्यादिगुणान्यस्य निर्गुणश्रुतिनिषेध्यगुणान्वयिनो लक्षणया बोधकत्वम्। नेति नेतीति वीप्सायाः इतिशब्देन वीप्सितेन सर्वनाम्ना सर्वस्य प्रसक्तस्य निपेध :; अन्यथा वीप्सावैयर्थ्यम्। नच-उपदेशरूपत्वेनाप्युपपन्ना वीप्सा न सगुणश्रुतिबाधिकेति-वाच्यम्; न ह्युपदेशो वीप्सां विना न घटते, येन सा न व्यर्था। किंच सगुणवाक्ये सगुणत्वनिर्णये वीप्सायाः संकोचः स्यात्। तस्य तूपासनायां निषेधे वा तात्पर्येणकवाक्यत्वासोक्तनिर्णय इत्युक्तम्। एतेन-ब्राह्मणाय दधि न देयम् कौण्डिन्याय देयमित्यत्रेव वीप्सापि संकुच्यतामिति-अपास्तम्; दष्ान्ते
Page 408
७२६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
त्यनेन' तत्वमसीत्यनेन चानूधत इति स्यादिति, तन्न; 'विश्वं सत्यं' 'द्ा सुपर्णे' त्यन्न च निषेधद्योत- कपदाभावेन निषेधकत्वासंभवास, असद्वा इत्यत्र तु नञूसत्वेऽपि नामपद्सममिव्याहतत्वेन निषे- धकत्वासंभवात्, 'दासुपर्णे' त्यस्य पैद्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवब्रह्ममेदाबोध- कत्वात्, फलतो निषेधत्वोपपादने दष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्। तथाहि-सार्वश्यस्य निषेधप्रति- योगितया मिथ्याभूतत्वेऽपि नाक्षेपानुपपत्तिः; आरोपितेनाप्याक्षेपकजगत्कर्तृत्वनिर्वाहाव्, आक्षि- प्रविश्वमिथ्यात्वव्रह्मसत्वजीवव्रह्मैक्यानां निषेधे तु जातनिवर्त्यत्वादीनां त्रयाणामाक्षेपकाणामसंभवः स्यात् सत्यस्य श्ञानादनिवृत्तेः, असत्यस्य अधिष्ठानत्वायोगात् मेदे सार्वात्म्यायोगाच्च।पतेन-अद्वैत- श्रुतेनिर्गुणश्रुत्यन्तरस्य वा तात्पर्यपरिज्ञानप्राप्तनिर्गुणत्वमेव सगुणवाक्येन निषेद्धुं निर्गुणवाक्येनानूदत इति-निरस्तम्; तात्पर्यपरिशानप्राप्तत्वे निषेधार्थमनुवादायोगात्।ननु 'साक्षी चेता केवलो निर्गुण क्े'त्यादिना द्रष्टत्वादिगुणविधानात् न तेन तन्निषेधः, तदर्थ च सगुणवाक्यं नानुवादकम्, अन्यथा सार्वश्या देर्व्यावहारिकत्वमपि न स्यात्, न हि निषिद्धे ब्रह्महननादाववान्तरतात्पर्यम्। नच औप- निषदस्य ब्रह्मण: सार्वश्यादिकमनुमानादिसिद्धमिति-चेन्न; अविद्यासिद्धसाक्षित्वाद्यनुवादेन तट- स्थलक्षणद्वारा ब्रह्मपरतया गुणपरत्वाभावात् गुणनिषेधकतोपपत्तेः। नच निषिद्धे ब्रह्महननादा- घवान्तरतात्पर्याभाववद्त्रापि तदभावे सार्वश्यं व्यावहारिकमपि न स्यादिति-वाच्यम्; देवतावि- भ्रहादौ विधिस्तुतिद्वारतयोपात्ते प्रमाणान्तरप्राप्तिविरोधयोरभावात्; तदत्यागमात्रेण तत्सिद्धिव- दन्ापि निषेधौपयिकतयोपात्तस्य सार्वश्यादेर्मानान्तरादप्राप्तस्य व्यावहारिकप्रमाणानिषिद्धतया व्यवहारदशायामत्यागमात्रेण व्यावहारिकत्वोपपत्तेः। ब्रह्महननादिकं तु मानान्तरप्राप्तमिति विशे- षः। न च तद्वोधकत्वं तत्तात्पर्यनियतम्: विशिष्टविघेर्विशेषणबोधकत्वेऽपि विशेषणे अतात्पर्यात्, विशिष्टस्यातिरेकात्, अन्यशेषतयोपात्तेऽपि सार्वश्यादौ तात्पर्ये वाक्यमेदापत्तेः। नच-तर्हि 'उपा- सनायाः कार्यत्वे विष्णोरात्मत्व एव च। उभयत्रापि तात्पर्यमात्मोपासादिके विधौ॥' इति स्मृति- विरोध इति-वाच्यम्; देषताधिकरणन्यायेनोभयसिद्धिपरत्वात् उभयत्र तात्पर्य स्मृतेरप्रमाण- त्वात्, यः सर्वक्ष इत्यादावुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्मप्रतिपादने तात्प-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। कौण्डिन्यादिवाक्यस्य पर्युदासपरत्वं विनैकवाक्यत्वासंभवेऽपि दार्ष्टान्तिके तत्संभवेन वैपम्यात्। निषेधद्योतकेति। 'विश्व सत्य'मित्यत्र सत्यपदशक्यस्य त्रिकालाबाध्यतादारम्यवतो विश्वस्मिन् तादात्म्यं बुध्यते, नतु विश्वस्िन् मिथ्या- स्वस्यात्यन्त्प्भावः, मिथ्याभूतात् भेदो वा। उक्ततादात्म्यं तु मिथ्यात्वस्यैव व्याप्यम्, नतु सद्रपतायाः, येन साऽनुमीयेत। 'द्वासुपणे'त्यादौ तु द्वित्वं बुध्यते, नतु भेदः, येनाभेदनिषेधः स्यादिति भावः। निषेधकत्वा- भावात्। सरवनिषेधकत्वाभावात्। सत्वसंसर्गाभाव: शुद्धब्रह्मणि स्वीक्रियत एवेत्यपि बोध्यम्। नच-सन्नेद्बोध एव ममेष्ट इति-वाच्यम्; त्रिकालाबाध्यतादात्म्यवन्ेदस्य मयापि शुद्धब्रह्मणि स्वीकारात्। ननु 'द्वासुपर्णेत्यादौ 'अन्यः पिप्पलं स्वाद्वृत्यनश्रन्नन्य' इत्यनेन जीवस्वरूपस्य भोक्तृत्वकथनादेवार्थाजीवाभेदनिषेधो लभ्यते। एवं सत्वविशि- षटमेद्बोघकात् असद्वेत्यस्मादर्थात्सत्वनिषेधः। एवं विश्वंसत्यमिति वाक्यादृपि मिध्यात्वनिषेधः, तत्राह-फलत इति। अर्थादित्यर्थः । आरोपितेन व्यावहारिकेण। निषेधे धर्मिसमानसत्ताकनिषेधे। अयोगाश्चेति। जीवत्वविशिष्टात् भेदस्यार्थिकतवेऽपि जीवत्वोपलक्षित स्वरूपात् भेदो नार्थिकः। एवं सर्वसंसर्गनिषेधो ब्रह्मणीष्ट एव, मिथ्यात्वनिषेधस्तु प्रपञ्ञे नार्थात्संभवति, नहि तादात्म्यमैक्यम्, येन त्रिकालाबाध्यतादालयानुपपश्या मिथ्यात्वनिषेधसिद्धिः, किंतु भेदव्याप्यः संबन्धविशेष इत्यादपि बोध्यम्। पतेन-निषेधवाक्यापेक्षितप्रतियोगिसमर्पकत्वेन एकवाक्यता संभवे वाक्यभेदस्यान्याय्यत्वेन। हेत्वन्तरमाह-तात्पर्यपरिश्ानप्राप्तत्व इत्यादि। अनिर्णीततात्पर्यकाद्वैतवाक्या- दिनैव निर्गुणप्राह्या वाक्यान्तरेणानुवादो व्यर्थ इति भावः। नचेति। नहीत्यथः। तटस्थलक्षणद्वारा सर्व- साक्षित्वादिवैशिश्वद्वारा। उपान्ते श्रुतिबोधिते। तदत्यागमात्रेण श्रुतिजन्यज्ञानस्य तदंशे प्रमात्वस्वीकारमात्रेण। व्यवहारदशायामत्यागः व्यावहारिकप्रमात्यम्। व्यावहारिकत्वोपपत्तरिति। निर्गुणश्रुतिस्तु व्यावहारिक- गुणबोधकश्रुत्या न विरुध्यते। यन्तु-अपूर्वत्वाध्येकैकस्यापि तात्पर्यलिङ्गत्वात् मानाग्तराप्रासत्वरूपापूर्वत्वसरवात् सगुणत्वे श्रुतितात्पर्य दुर्वारमिति, तदेकैकस्य लिक्रवनिरासेन पूर्वमेव निरस्तम्। अतात्पर्यादिति। विशिष्टविधाय- कवाक्यस्य विशेषणे तातपर्याभावेऽपि कल्पितेन विशेषणविधिना विशेष्ये विशेषणवैशिष्वसिद्धिः। अत एवानेकविष्य- न्वरप्रसवसमथैंकविशिष्टविधिप्रसादेनानेकगुणविधानमित्यनेन विशिष्टविध्यन्ययानुपपस्या कल्पनीय विधिभिर्विशेषणानां
Page 409
[श्रह्मनिर्गुणत्वोपपत्तिः] गौडब्रझानन्दीयुता। ७२७
र्येण विशेषणे अतात्पर्यात्, अन्यथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोघापसेः। नच-'आत्मेत्ये- वोपासीते' त्यत्राद्वैतस्याप्युपास्यत्वेन उपासनाशेषतया अद्वैतासिद्धि: स्यादिति-वाच्यम्; अनेन 'होतत्सर्वे वेदे' त्युत्तरवाक्यस्थविदिसमानार्थतया उपास्तिशब्दस्य क्रियावाचकत्वाभावात्। नच ज्ञाने विधि :; तस्य निराकरिष्यमाणत्वात्। नच-विधिश्रुत्यानर्थक्यम्; बाह्यविषयात् परावृत्य चित्तस्य प्रत्यगात्मप्रवणतासम्पादकत्वात्। 'अथ योऽन्यां देवतामुपास्त' इत्यादेर्न स वेदे'त्युत्तरवा- क्यपर्यालोचनया मेददर्शननिन्दापरतया उपास्तिपरताशक्कैव नास्ति। नचोपक्रमानुसारेण उपसं- हारनयनम्; अनेन ह्ोतत्सर्व वेदेत्येकविज्ञानेन सर्वविज्ञानप्रतिश्ञाविरोधेनोपसंहारस्यैव प्राबल्यात्। यश्ु गुणोपसंहारपादे 'आनन्दादयः प्रधानस्ये'ति सूत्रे 'आनन्दं ब्रल्मे'त्यादिश्रुतानामानन्दादीनां 'व्यतिहार' इति सूत्रे 'तद्योऽह'मिति श्रुत्युक्तस्य जीवे ईश्वरत्वस्य ईश्वरे वा जीवत्वस्य उपास्यतयो- कत्वादुत्तरतापनीयादी निर्गुणोपास्तेरुक्तत्वेऽपि यथानन्दादेरैक्यस्य निर्गुणस्य च सिद्धि, तथा सत्यकामत्वादेरपि तात्त्विकतास्त्विति,तन्न; आनन्दादय' इति सूत्रेण लक्ष्याखण्डवाक्यार्थसिव्धर्थ
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सिद्धिरित्युक्तं पौर्णमास्यधिकरणे वार्तिके। प्रतिजेति। 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञात'मिति श्रुतीत्यर्थः। अद्वैतस्यापीति । एवकारेणातमस्वरूपमात्रस्योपास्यत्वमिति भावः । 'अनेन होतत् सर्व वेदे'ति बृहदारण्कके 'स एष इह प्रविष्ट' इत्यनेन ब्रह्मण: कार्योपाधिषु प्रतिबिम्बरूपेण प्रवेशमुक्त्वा तन् पश्यन्त्यकृत्सो हि स इत्यनेन संसार- दशायां दृश्यमानस्य प्राणनवदनादिक्रियाविशिष्टात्मनः परिच्छिन्नत्वेन तददर्शनस्यात्मस्वरूपदर्शनत्वाभावमुक्त्वा आतमे- स्येवोपासीते त्यनेन शुद्धात्मनोऽपरिच्छिन्नस्य उपासनमुक्त्वा अ्र होते सर्वमेकी भवन्ति इत्यनेन तस्य सर्वाधिष्ठानस्वेन तत्र सर्वभेकतां प्रतिपद्यत इत्युक्त्वा कृत्सत्वरूपमपरिच्छिम्नत्वमुपपाद्य तदेतपदनियमस्य सर्वस्यानेन होतत् सर्व वेदेत्यनेनोक्त्तात्मज्ञानेन सर्वज्ञानादुक्त्ात्मैव ज्ञेयः, नान्य इत्युक्तम्। तत्र पूर्व न पश्यन्तीत्यनेन पश्चात्तदेतत्पदनियम- नेन सर्व वेदेत्यनेन च ज्ञानसन्दंशादुपासीतेति मध्यममपि ज्ञानपरमेवेति भावः। यत्तु-प्राणादिनामानि परमेश्व- रस्य सर्वगुणपूर्णतां न वदन्तीति तैःस नोपास्यः, आत्मशब्दस्तु तस्य तां वद्तीति तेन स उपास्य इति प्रकृत- वाक्यार्थः। अत एव तद़ेतत्पदनियमस्य सर्वस्येत्यनेन प्राणनादिगुणस्य सर्वस्यात्मा वदनीय आश्रय इत्युक्तम्। 'अनेन सोतत्सर्व वेद यथा हवैपदेनानुविन्देदेवं कीर्ति श्लोकं विन्दते य एवं वेदे'त्यनेन च सर्वोपासनाफलहेतुरात्मोपासना, सर्वोपासनाफलप्रास्या चातमोपासनया सर्वमुपासितं भवतीत्युक्त्तमिति, तन्न; आत्मशब्दस्य सर्वगुणपूर्णतावाचकत्वे मानाभावात्। 'यश्वाम्ोति यदादत्ते यञ्चात्ति विषयानयम्। यश्चास्य सन्ततो भावः तेनात्मा परिकीर्तितः ॥' इस्यै- तरेयभाष्यादयुक्त्या सर्वास्यादिगुणवाचकतवेऽप्येवकारेण के वलात्मस्वरूपोक्त्या गुणपूर्णत्वोत्तयसंभवात् ज्ञानस्यैव पूर्व पश्चाधोक्ते: पूर्व प्रदर्शितत्वेन 'तदाहुः यब्रह्म विद्यये'त्याद्युत्तरसन्दर्भस्य ब्रह्मविद्याविवेचनेन चोपासनापरत्वाभावात्। अत एव संपूर्णवाक्यस्य शुद्धात्मतात्पर्यकतवेन 'यथा ह वै पदेनानुविन्दे'दित्यादिकं न फलपरम्; शुद्धात्मज्ञानस्य सर्व- फलविरोधित्वाच्, किंतु विधेयशुद्धात्मस्तुतिपरम्। पर्यालोचनयेति। 'य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवति तस्य ह देवाश्च नाभूत्या ईशते आत्मा द्योषां संभवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां पछचरित्यादि तस्मादेषा तन्न प्रियं यदेतन्मनुष्या विधु'रित्यन्तवाक्ये आत्मज्ञानस्यासर्वभाव- रूपपरिच्छेदनिवृत्तिफलमुक्त्वा ताद्ृशफलप्राततिं विहन्तुं देवा अपि न समर्थाः, अत उक्त्तफलवान् देवानामात्मभूतः । यदा तु भेदेन कंचिद्देवमुपास्ते तदा तस्यात्मज्ञानप्राप्तौ देवा विश्रमाचरन्ति; आत्मज्ञानस्य देवपरिचारकमूढावस्था- तीतत्वात्। अतएव 'मुक्तेश्र बिभ्यतो देवा मोहेनापि दधुर्नरान्। तेन ते कर्मसूदुक्ताः प्रवर्तन्ते दिवानिशम् ।' इति
'अन्यां देवतामुपास्ते' इत्यनेन भेदघटितोपासनानिन्दाद्वारेणोपक्रमस्थेनारमेत्येवोपासीतेत्यनेनोकमात्माभिन्नस्वेनेश्व- रोपासनं स्तूयते, न स्वैकात्म्यज्ञानम्; उपक्रमस्थोपास्तौ तस्याप्रतीतेः। तथाचोपक्रमस्य प्राबल्यादुपसंहारस्थं 'य एवं वेदे'त्यादौ वेदेत्यादिपदमुपासनापरतया नेयम्। उपासनाया एवासर्वभावनिवृत्ति: फलम्, तत्राह-नचोपक्रमेति। प्राबल्यादिति। तभ्न पश्यन्तीस्यस्यैवोपक्रमत्वेनोपक्रममात्रप्रावल्याश्रयणेऽपि न क्षतिरित्यपि बोध्यम्। नच-अनेन घेतदितयादिवाक्यमात्मोपासनया सर्वोपासनाफलाह्या तया सर्वमुपासितमित्युपचर्यते इति-वाच्यम्; उपचरितार्थ- स्वस्यायुक्तत्वात्, आत्मनः सर्वस्वरूपरवेन तज्ज्ञानात् सर्वज्ञानरूपस्यार्थस्य मुख्यत्वात्, 'कीति श्लोकं विन्दते' इत्यनेन
बोधकरवेन सर्वविज्ञानप्रतिज्ञानुसारित्वेन व 'आात्मानमेवावेवहं ब्रह्मास्मी'ति 'यो यो देवानां प्रत्यबुध्यत' 'तद्वैतत्
Page 410
७२८ अद्वैतसिद्धिः । [परिच्छेद: २] वाच्यवाक्यार्थोपसंहारस्य क्रियमाणत्वेन उपास्यत्वानुक्तेः। व्यतिहारसूत्रे च 'तद्योऽहं सोऽसौ यो- इसी सोऽह' मित्युक्तस्य जीवे ईश्वरामेदध्यानस्येश्वरे वा जीवाभेद ध्यानस्योपासनाप्रकरणपठितश्रु- त्युक्तस्य जीवेश्वराभेद: सगुणोपासनरूपेणापि दृढीकर्तव्य इत्येवंपरतया ऐक्यस्य उपासनाविषय- त्वेऽपि न सत्यकामत्वादिवदतात्त्विकत्वम्। नचैक्यवत् सत्यकामत्वादीनां तात्विकता; अनुपास- नाप्रकरणस्थतत्परवाक्यबोधितत्वाबोधितत्वाभ्यां विशेषात्, उत्तरतापनीयादी श्रुतोपास्तेर्ज्ञानपर- त्वात्, उपास्नेर्विशिष्टविषयत्वेन निर्विशेषविषयत्वाभावात्। यत्तु यथा ध्यानार्थऽपि सत्यकामादि- गुणोपदेशे तहुण ईश्वरः प्रसिध्यति, तद्वदैक्यमिति भाष्यपर्यालोचनया ऐक्यवत्सत्यकामत्वादि- सिद्धिरिति, तन्न; तत्र सगुणो यः स ईश्वरः प्रसिध्यतीत्यर्थः, नतु गुणस्यापि प्रसिद्धिः; निर्गुणशु- त्यनुसारेणातहुणसंविज्ञानबहुव्रीहावेव तात्पर्यात्। तथाचैक्यसिद्धावीश्वरम्य निदर्शनत्वम, नतु गुणस्य। एवमेवार्थसिद्धं भवन्रोपेक्षामहे। सत्यकामादिगुणोपदेशात् तहुणेश्वरादिसिद्धिरिति टीका नेया। ननु-आनन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तराविरोधे तदप्राप्तौ उपासनाविध्यश्र- वणे निर्गुणश्रुतिविरोधे च तुल्येऽपि आनन्दादयस्तात्विकाः, सत्यकामत्वादयस््वतातत्विका इति कथं व्यवस्थेति-चेन्नः आनन्दादीनां ब्रह्मरूपत्वेन निर्गुणश्रुतिविरोधाभावस्य व्यवस्थापकत्वात्। नच-एवं बलशततत्यादीनामपि 'ज्ञानात्मको भगवान्वलात्मको भगवा निति श्रुतेः समस्तकल्याण- गुणात्मक' इति श्रुतेश्च व्रह्माभेद इति-वाच्यम्: अस्माकमपि ब्रह्मातिरिक्तगुणसन्भ्ावप्रद्वपात्, अभेदे गुणगुणिभावाङ्गीकारस्य पारिभाषिकत्वात्। यत्तु सगुणोपास्तर्श्रमत्वे निर्गुणोपास्तेरपि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पश्यन् ऋषिर्वामदेवः प्रतिपेदेहं मनुरभवं' 'य एवं वेदाहं ब्रह्मास्मी'नि 'यदेतन्मनुप्या विद्यु'रिति ज्ञानवाचकशब्दाना- मुपसंहारस्थानामेव प्राबल्यम्। उपासनायास्तु अदृष्टार्थकत्वेन तद्वोधकत्वादुक्तप्ननिज्ञाननुसारित्वाच्चोपक्रमस्थसुपासीतेनि दुर्बलमुचितमिति भावः। व्यतिहार इति सृत्र 'व्यनिहारो विशिंषन्ति हीतरव दिनि सूत्र। वाच्यवाक्यार्थति। द्वारीभृतेत्यादिः। तथाच नोपासनाविषय आनन्दादिरिति भावः। जीवेश्वराभेदः जीवन्वेश्वरत्वाभ्यामुपलक्षितयोर भेद:। रूपेण द्वारेण। दृढीकर्तव्यः विपरीतभावनानिवृत्तिद्वारकनिश्चयविपयीकार्यः। इन्येवंपरतया इत्येवंप्रयोज- कत्वेन भाष्यादयुक्त्तया। विषयन्वेऽपीत्यादि। तथाचादष्टार्थकोपासनायां तात्पर्येडप्युक्तढीकार स्यानुपज्ञिकटष्टफलस्य
तात्विकम्, सत्यकामत्वादिकं तु तदबोधितत्वादतात्विकमित्यथः । श्रुनोपास्ते:देवा ह वे प्रजापनिमचुवन 'अणोर- णीयांसमित्यादेः। भाप्येति। व्यनिहारमूत्रस्थभाव्येत्यर्थः। ईश्वरस्य ईश्वरत्योपलक्षिनचिन्मात्रस्य। निर्धर्मकन्व- श्रुत्यनुसारेण इशत्वोपहिनऽप्यनात्पर्यात्तढ्वाचकपदाभावाच्च अन्वाचयशिषं तादात्यदाठर्य भवनोपेक्षामहे। सत्य- कामादिगुणोपदेश इव तह्गुणेश्वरसिद्धिरिति टीकायामन्वाचयशिष्टं पढं प्रकृतोपयुक्तार्थकथनेन गृह्नानि। अर्थसिद्ध- मिति। ईशत्वोपहिते जीवत्वोपहितस्य जीवत्वोपहिने ईशत्वोपहितस्य तादात्म्यचिन्तनं प्रकृते विधीयते। अत एव तादात्म्यस्यानेन प्रकारेणानुचिन्त्यमानत्वादिति भाष्यम्। जीवतादात्म्यस्येश्वरे शास्त्रादारोप्योपास्यत्वात् नेश्वरस्यो- सकर्षनिवृत्तिरिति कल्पतरा व्याख्यातम्। तथाचोक्तचिन्तनप्रवाहवशात्तयोम्तादालयं दृढीभवत् जीव चेशत्वोपलक्षित-
नेवोक्तरीत्यार्थादप्युक्तव्यक्त्योरेक्यं सिध्यनीति भावः। कल्पतरावप्यन्वाचयशिष्टमित्यस्य पश्चात् प्रतीतमित्यर्थकथन- मुक्ताभिप्रायकं बोध्यम्। अनद्गुणसंविज्ञानबहुवीहिः समाधिसौकर्यादुक्क:। वस्तुतस्तु-तद्गुणसंविज्ञानेऽपि न क्षतिः; प्रमात्वमात्रे दृष्टान्तसंभवात्। एतावांस्तु भेदः। यहष्टान्ते निर्गुणश्ुत्यनुसारण व्यावहारिकमेव देवताधिकर- णसिद्धं सगुणत्वांशे श्रुतेः प्रमात्वम्, दार्ष्टान्तिके तु बाधकाभावादक्यांशे तार्विकमेवार्थीपत्तम्नद्वारा थ्रुनेरवा प्रमा- त्वम्। अत एवेश्वरे जीवतादात्म्यचिन्तने निकृष्टत्वप्रसङ्गमाशक्क तत किमिदानीं सगुण ब्रह्मण्युपास्यमाने अस्य वस्तुतो निर्गुणस्य निकृष्टता भवा। कस्मचित फलाय तथा ध्यानं विधीयमानं निकृष्टतामंपादकमिति नु व्यतिहारचिन्त- नेऽपि तुल्यमित्युक्तटीकावाक्यस्य पूर्ववात्य उक्तार्थ एव प्रतीयते। वस्तुतो निर्गुणस्य निकृष्टना वस्नुतः सगुणत्वम्। त्च सगुणवाक्यान्न प्रतायते, तत्परे निर्गुणश्रुतिवरिरोधात, किंतु व्यावहारिकं सगुणत्वम्। तद्वदारोपितं जीवतादात्यं नेश्वरम्य निकृष्टता, किंतु इशसमसत्ताकमित्यर्थ इनि ध्येयम्। विध्यश्रवण इति। सगुणवाक्ये कवचिद्विधिश्रवणेSपि क्कचिद्विध्यश्रवण इत्यर्थः । पारिभाषिकत्वादिति। उक्तथ्रुनिस्तु भगवज्ज्ञानादे: स्वाभाविकत्वपरेनि भावः। सम्यक्फलासिद्धि: क्रममुक्तिरूपफलासिद्धिः। भ्रमत्वेऽप्यहंग्रहोपासनेव निर्गुणोपासनाप्युक्तफलदा संभवतीनि
Page 411
गौडब्रह्मानन्दीयुता। ७२९
भ्रमतया सम्यक्फलासिद्धिर्व्रह्मासिद्धिश्च स्यात्। न च - निर्गुणोपासनं यद्यपि भ्रमस्तथापि मणिप्र- भायां मणिभ्रम इव सम्यक्फलप्रदम्। तदुक्तं-'स्वयंभ्रमोऽपि संवादी यथा सम्यक्फलप्रदः। ब्रह्म- तत्त्वोपासनापि तथा मुक्तिफलप्रदा॥' इति, नापि ब्रह्मासिद्धिः; उपासनस्य भ्रमत्वेऽपि शब्दाजाय- मानस्य ज्ञानस्य प्रमात्वादिति-वाच्यम्; प्रकृतेऽपि तथात्वापत्तेः, मणिप्रभायां मणित्वस्येव ब्रह्मणो मिथ्यात्वाभावेन ध्यानस्यापि सत्यव्रह्मविषयत्वाञ्चति, तन्न; सगुणोपास्तेर्विशिष्टविषयत्वेन भ्रमत्वेऽपि निर्गुणाद्युपास्तनिर्विशेषविषयतया भ्रमत्वाभावात्। एवमेव शाब्दसगुणनिर्गुणज्ञानयोरपि; सगुण- वाक्यस्य विशेष्यांशसत्यविषयत्वेऽपि विशेषणांशासत्यविषयत्वात्। अतएव-ब्रह्मविषयशाब्दधीज- न्यस्य तदपरोक्षधीजनकस्य ब्रह्मध्यानस्याव्रह्मविषयत्वे श्रवणादीनामपि तथात्वापत्तिरिति-निरस्त- म् ; तेषां विशिष्टाविषयत्वात्, उपास्तेश्च विशिष्टविषयत्वात्। नच्-ईक्षतिकर्मे'तिसूत्रे 'ईक्षति- ध्यानयोरेकः कार्यकारणभूतयोः। अर्थ आत्मर्गिकं तत्त्वविषयत्वं तथेक्षतेः॥' इति भामत्यां 'परात् परं पुरि शयं पुरुषमीक्षतः इतीक्षतिकर्मणः परब्रह्मण एव परं पुरुषमभिध्यायीतेति अभिध्यातव्यत्वे नोक्त्या तद्विरोध इति-वाच्यम्; त्रिमात्रोङ्कारावलम्वनोपाधिविशिष्टम्यव ध्येयत्वोक्त्या शुद्धविषय- त्वाभावेन विरोधाभावात्, विशष्यांशमादाय ईक्षतिसमानविषयत्वोपपत्तेश्च। यत्तु ऐक्याद्युपासनस्य अप्रमाप्रवाहरूपत्वमाशङ्क् सगुणोपासनसमत्वमुक्तं, तदयुक्तम; सगुणप्रकरणस्थकावाकजन्यैक्य ज्ञानस्य सगुणोपास्त्यन्तर्गततया विशिष्टविषयत्वात्, स्वतन्त्क्यजन्यैक्यज्ञानस्य निर्विशेषविषयत्वेन
त्ववत्सार्वश्यादेरुपास्तिविधिविषयस्यापि अविधिरूपवस्तुतत्त्वविपययःसर्वज्ञ इत्यादिवाक्यबोधित- त्वेन ज्ञेयत्वमप्यस्तीति-वाच्यम्: तस्य तटस्थलक्षणद्वारा परव्रह्मप्रतिपत्त्युपायत्वेन तत्त्वमसीत्या- देरिव तत्परत्वाभावात्। अतएव-ब्रह्मणि कर्तृत्वादीनामारोप्योपास्यत्वे नाम्ि ब्रह्मवाक्यानामिव ब्रह्मण्यपि कारणवाक्यानां समन्वयस्यावक्तव्यत्वेन समन्वयाद्यध्यायानारम्भापात इति-अपास्तम्;
गोडब्रह्मानन्दी (लघुचन्द्रिका)। नु ध्येयम्। संवादी मणिप्रभायां प्रवृत्तिद्वारा मणिसन्निकर्पादिना मणिचाक्षुपप्रयोजकः। सम्यक् फलप्रदं मणिप्राप्तिप्रयोजकः । ब्रह्मतत्त्वोपासना अहं व्रह्मेत्युपासना। मुक्तिफलप्रदेति। चित्तैका्यविपरीतभावनानिवृत्ति- द्वारकाहंब्रह्मेनि वाक्याथनिश्चयद्वारा मुक्तिप्रयोजिकेत्यर्थः। उपासनस्य ज्ञानान्यवृत्तिविशेपस्य। भ्रमत्वेऽपि ज्ञान- त्वव्याप्यप्रमात्वाभावेरऽप। प्रकृतेऽपि सगुणोपासनावाक्येऽपि। तथात्वोपपत्तेः सगुणोपासनायाः प्रमात्वाभावे- प्युक्तवाक्यजन्यज्ञानस्य प्रमात्वेन सगुणसिद्धुपपत्तेः । ब्रह्मणः सगुणब्रह्मणः । मणित्वस्येवेति। मणिप्रभायां मणित्वं यथा मिथ्या, तथा सगुणब्रह्म मिथ्येत्यस्याभावेनेत्यर्थः । निर्विशषविषयतयेति। अभ्युपेत्येदमुक्तम्। उत्तरतापिनी-
यदुक्तं, तहपर्यात। सगुणेति। ईक्षतिकमेति सूत्र 'ईक्षतिकर्मव्यपदेशान् स' इति सूत्रे। अर्थः विपयः। परं
दिति भवदुक्तविरोध इत्यर्थः । विशिष्टस्यवेति। त्रिमात्रेणेत्येतस्योक्तप्रक्षोपनिषद्गतोपासनावाक्य एवोक्तत्वात् 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनेवायतनेने कतरमन्वेती'त्युपक्रमात् 'ओङ्कारेणवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चे'त्युपसंहाराज्च ओङ्कारविशिष्टमेव परं ब्रह्मोक्तवाक्ये उपास्यत्वेनोक्तममिति भावः। विशेष्यांशमिति। परपुरुपपदेनेक्षतिध्यानकर्मणोनिर्देशार्द्क्यं निर्णीतम्। ध्यानकर्मणश्रोङ्कारांशे विशेष्यांशस्येव परपुरुपपदेन निर्देश इति विशेष्यांशस्येव ईक्षतिकर्मैक्यम्। ननु-विशेष्यांशमादाय तदै- क्यमेकद्विमात्रोपासनाकर्मणोरपि संभवतीति तद्पि भाष्यादावुच्येत, तस्माद्विशेप्यांशमात्रमादाय तदैक्योक्तिर- युक्तेति-चेत्, भ्रान्तोऽसि; नहि एकद्विमात्रोपासनयोः परपुरुपेक्षणं फलमुक्तम्। एकमात्रोपासनस्य मनु- प्यलोके तपोब्रह्मचर्याद्याप्तिपूर्वकमहिमप्राप्तेः द्विमात्रोपासनस्य सोमलोके पुनरावृत्तिसहितविभूत्यनुभवस्य च फल- त्वेनोक्तरवात्। नच-एवं ध्येयस्येक्षणीयैक्यकथनासंभवेऽपि ध्येयविशेष्यांशस्य परब्रह्मता कुतो नोक्तेति-वाच्यम्; नहि ध्येयविशेष्यांशमात्रत्वं प्रकृते विचार्यतावच्छेदकम्, किंतु त्रिमात्रप्रणवांशे विशेष्यत्वम्। एकद्विमात्रप्रणवांशे त्वपरंब्रह्म ध्येयं विशेष्यमिति कथं तस्य परब्रह्मता वाच्येति ध्येयम्। सगुणप्रकरणस्थेति। योऽहं सोऽसा- वित्यादी त्यादिः । विशिष्टविषयत्वात् जीवत्वेश्वरत्वविशिष्टयोस्तादात्म्यविषयकत्वात्। समन्वयस्य तात्पर्यस्य। अ. सि. ९२
Page 412
७३० अद्वैतसिद्धिः । [परिच्छेद: २]
नाम्नो ब्रह्मविकारतया असमन्वयेSपि ब्रह्मणो Sविकारतया मुमुक्षुक्षेयत्वेन कारणवाक्यानां तटस्थल- क्षणकर्तृत्वादिबोधनद्वारा तत्रैव तात्पर्यसंभवेन समन्वयादेरावश्यकतया तदध्यायारम्भसंभवात्। नच-'य आत्माऽपहतपाप्मे'त्यारभ्य 'सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्य' इति सत्यकामत्वादीनामपहतपाप्मत्वादिभिः सह जिज्ञास्यत्वश्रवणात् ज्षेयत्वमिति-वाच्यम्; अपहृतपाप्मत्वादीनां स्वरूपतया जिज्ञास्यकोटिप्रवेशऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वायोगात् तच्छन्देन तेषामपरामर्शात्, यश्चित्रगुर्लम्बकर्णश्च तमानयेत्यादी योग्यविशेषण- स्यैव तच्छव्देन परामर्शदर्शनात्, अस्वरूपत्वे तेपामप्यपरामर्शे विशेष्यांशमात्रपरामर्शः यश्चित्रगुर्ब- हुधनस्तमानयेत्यादिवत्। अतएव-'एष सर्वेश्वर एष भूताधिपति'रित्यादिधर्मानुक्त्वा तेषां 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती' त्यादौ मुमुक्षुक्षेयत्वेनोक्तेः 'यः सर्वज्ञः सर्ववित् यस्यैष महिमा भुवी'त्युक्त्वा 'तद्विज्ञानेन परिपश्यन्ति धीरा' इत्यपरोक्षप्रमाविषयत्वस्योक्तः 'तुरीयं सर्वटक्सदे'ति तुरीय सार्वश्यश्रुतेश्च सर्वज्ञत्वादीनां सत्यत्वादिसिद्धिरिति-निरस्तम्। यत्वपहतपाप्मत्वादीनामु- पास्यत्वे तेषां भूताकाशेऽपि संभवेन दहराकाशस्य ब्रह्मत्वप्रतिपादकदहराधिकरणविरोध इति, तन्न; चेतनधर्मात्यन्ताभावस्य पाप्मादिविरहस्याचेतने संभवेऽपि कामसङ्कल्पादेरचेतने संभावयि- तुमशक्यत्वेन विरोधाभावात्। यत्तु 'सत्यः सोऽस्य महिमे त्यत्र होममात्रानुवादेनाहवनीयस्येव स इति श्रुत्युक्तमहिममात्रानुवादेन सत्यत्वविधानात् सार्वश्यादिकमपि सत्यम् । 'सत्यः सोऽस्य महिमे त्यादेरन्द्रसुक्तस्थत्वेSपि 'तत्त्वायामि सुवीर्य तद्रह्म पूर्वचित्तय' इति ब्रह्मश्रुत्या 'इन्द्रः सूर्यम- रोचयत्। इन्द्रेह विश्वा भुवनानि येमिर' इत्यादिसूर्यप्रकाशकत्वलिङ्गेन च ज्योतिरधिकरणन्यायेन
गौडव्रह्मानन्दी (लघुचन्द्रिका)। तटस्थलक्षणकर्तृत्वादिति। आरोपितं न तटस्थलक्षणमिति तु माठ्यम् ; मन्मते गन्धादेरपि तटस्थलक्षणस्यारोपि- तत्वात्। अपहृतपाप्मत्वादीनां पापशून्यत्वादीनाम्। बर्हिर्भावेनेति। यदज्ञानात् संसारः, तस्यैव जिज्ञास्यतया प्रत्यग्ब्रह्मणोरैक्यमखण्डानन्दरूपमेव। तथा पापाभावादिकं चाधिकरणस्वरूपता तदेव। कामादिकं चाप्कामत्वनि- त्यतृस्यादिश्रुतेः स्वप्नकाशनिरतिशयानन्दस्य ईशस्वरूपत्वाच्चाविद्यकमेव। अतएव सोडकामयतेत्यादिश्रुत्या कामना- देरतीतत्वं प्रतीयत इति भावः । अस्वरूपत्वे अभावस्याधिकरणस्वरूपत्वाभावपक्षे। विशष्याशति। आत्मत्वो- पहितेत्यर्थः। पूर्वकल्पे नु यद्यापि विशेषणीभृतस्याभावस्य न विशिष्टरूपेण जिज्ञास्यत्वम्; तथापि 'गुरुशर्गरश्रत्रो दृष्ट' इत्यादौ गुरुत्वोपहितचंत्रस्येवाभावत्वोपहितस्य जिज्ञास्यत्वान्वयः । कल्पद्वयेऽपि शुद्धात्मपरिचायकत्वादपहतपाप्म- त्वादिपदानि न व्यर्थानीति बोध्यम्। अत एव स्वरूपान्यस्य सत्यकामत्वादिवत् सर्वेश्वरत्वादेमुसुक्ष्वजिज्ञास्यत्वेन वक्ष्यमाणवाक्यस्थतत्पदस्य विशेष्यांशमात्रपरामर्शकत्वादेव। निरस्तमिति। 'तुर्गयं सर्वदगि'नि गौडपादीयवाक्यं नु सर्वविषयकतादात्म्यवत्तुगयमित्यर्थकमपि न सार्वज्यसत्यत्वबोधकमिति शेपः। उपास्यत्वे दहरवाक्योक्तोपास्यत्वे। अशक्यत्वेनेति। नच-बुद्धिपूर्वकारोपेण सत्यकामत्वादयुपासना भूताकाशऽपि संभवनीति-वाच्यम्; अनारोपे- णोपासनासंभव आरोपकल्पने गौरवात्। सत्यः सोऽस्य महिमेति। 'येनासमुद्रमसृजो महीरपम्तदिन्द्र वृष्णि ते शवः । सत्यः सोऽस्य महिमा न सन्नशे यं क्षोणीरनुचक्रदे' इत्यस्या ऋचः हे इन्द्र तत् प्रसिद्वं ते तव शवो बलं वृष्णि वर्षकं अभीष्टफलदं येन बलन महीर्महनीरपः आसमुद्ं समुद्रपूरणयोग्यं असृजः सृष्टवानसि, स बल- रूपोऽस्य समुद्राद्जनको महिमा सत्यः। एवंचास्येति पष्टी नोपचरितार्था; बलस्येन्द्ररूपब्रह्मस्वरूपत्वेऽपीन्द्र शब्दस्य तदर्थकत्वाभावान। न सन्नश न नश्यति। यं महिमानं क्षोणी पृथिव्यादि अनुचक्रदे अनुगच्छति। क्रदगताविति धानुः। होममात्रति। 'यदाहवनाये जुहोती'ति वाक्यस्यानारभ्याधीनत्वेनाविशेपात् पदे जुहोतीत्या- दिविशेषविध्यविषय होमसा मान्योद्देशेना हवनीय विधानमिवाभीष्टदायकभगवद्लरूपप्रक्रान्तमहिमसा मान्योद्वेशेन सत्य- त्वविधानमिनि भावः। पूर्वचित्तय इति। 'येनासनिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथेति ऋक्छेपः । ब्रह्मश्रुत्येति। सुवीर्य तत्प्रसिद्धं ब्रह्म रूपं त्वा पूर्वचित्तये पूर्वषां ब्रह्मविदां चित्तये ब्रह्मज्ञानाय यामि आश्रयामि। येन सुवीर्येण यतिभ्य उपरनेभ्यो यष्ट्भ्यः सकाशान् आहृत्य भृगवे भृगुनान्ने ऋपये धने हिते दत्ते सति येन वीर्येण प्रस्कण्वनामानं ऋषिमाविथ रक्षितवानसि। भृगवे धनं दत्तं, प्रस्कण्वश्च इति रक्षित यावत्। तदेतदर्थपर्यालोच- नान ब्रह्मपदं परमेश्वरवाचकमिनि भावः। इन्द्रः सूर्यमिति। 'इन्द्रो मह्ारोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्। इन्द्रे ह विश्वा भुवनानि येमिरे इन्द्रे सुवाना स इन्दव' इति ऋकू। इन्द्रः शवः शवसः स्वीयबलस्य मह्ना महिम्ना रोदसी द्यावाप्टथिव्या पप्रथत् विस्तारितवान्। सूर्यमरोचयत् स्वर्भान्वावृतं सूर्य स्वर्भानुवधेनारोचयत्। इन्द्रो
Page 413
[बझमनिर्गुणत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७३१
सूक्तस्य परमेश्वरपरत्वव्यवस्थितेरिति, तन्न; निर्गुणत्वश्रुतिविरोधेन स्वरूपमहत्त्वस्यव सत्यत्वोक्तेः, षष््या उपचरितत्वात्, धर्माणामपि व्यावहारिकसत्यत्वोक्तेः। नच ब्रह्मसत्त्वमपि तथा; सत्यस्य सत्यमिति निरतिशयसत्वप्रतिपादनविरोधात्, अधिष्ठानत्वानुपपत्तेश्च।नच तत एव सविशेषत्वम्; निर्विशेषत्वेऽपि तत्त्वस्योपपादितत्वात्। नच-'पृथगात्मान' मित्यादिश्रुतिषु 'यो मामशेषदोपोत्थ- गुणसर्वस्ववर्जितम्। जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा। भोक्तारं यज्ञतपसां सर्वलोकम- हेश्वरम्। सुहृदं सर्वभूतानां जात्वा मां शान्तिमृच्छती'त्यादिस्मृतिषु च सविशेषज्ञानादेव मोक्षोक्ते: सप्रकारकक्षानस्यैव मोचकत्वमिति-वाच्यम्; परममुक्तिहेतुनिर्गुणसाक्षात्कारोपयोगिसत्वशुद्धुपा- यसगुणोपासनाविध्यर्थवादतया साक्षान्मुक्तिहेतुत्वाप्रतिपादकत्वात्। नच निर्गुणज्ञानान्मुक्तिश्रुति- रपि तथा; तत्परत्वातत्परत्वाभ्यां वैषम्यात्, सगुणज्ञानस्य फलान्तरश्रवणाच्च। यद्यपि 'नास्या ब्रह्मवित्कुले भवती त्यादिफलान्तरथ्रवण निर्गुणज्ञानेऽपि, स्तुन्यर्थनयोपपादनमपि समानम्, संयो- गपृथक्त्वन्यायेन उभयफलत्वोक्तिरपि समाना: तथापि अधिष्ठानतत्वावगाहित्वानवगाहित्वाभ्यां
गौडव्रह्मानन्दी (लघुचन्द्रिका)। ह इन्द्र एव सर्वाणि भुवनानि सुवानासः सूयमाना इन्दवः सोमाश्च येमिरे इन्द्रेण नियम्या इत्यर्थः। यद्यपि नात्र 'ज्योतिश्चरणाभिधानादि' नि ज्योतिरधिकरणन्यायावकाशः, 'अथ यदतः परो दिवो ज्योतिर्दीप्यत' इत्यादिवाक्ये 'पादो- ऽस्य विश्वा भूतानि' इत्यादिचूर्ववाक्योक्तचनुप्पाद्गह्मपरामर्शियच्छव्दानुसारेण भौनिकज्योनिपो दिवि वर्नमानदीस्ष्यनुप- लब्ध्या च ज्योनिःशब्दस्य रूढित्यागेऽपि प्रकृते इन्द्रपदानां रूढित्यागे मानाभावात्, उक्तसूर्यप्रकाशकत्वस्य वज्रि- ण्यपि संभवात विश्वभुवननियन्तृत्वादेरप्यारोपेण स्तुनिसंभवात्, अन्यथा संपूर्णसूक्तस्थानामनेकेन्द्रपदानां रूढि- त्यागः । 'इमा उ त्वा पुरुवसो गिरो वर्धन्तु या मम। पावकवर्णाः शुचयो विपश्चितोऽभि म्तोमैरनृपते'नि ऋगर्था- सङ्गनिश्र। हे पुरुवसो बहुधन इन्द्र इमा: मदायाः शस्त्ररूपाः गिरः त्वां वर्धन्तु। पावकवर्णाः अभ्नितुल्याः विपश्चितः उद्गातारः स्तोमैः म्नोत्रैः बहिप्पवमानादिभिः अभ्यनूषत अभिष्ट्वन्ति नु स्तुतौ कुटादिः। एवं च म्नोत्रशस्त्रस्तूयमानत्वमिन्द्म्यैव; देवतात्वात, न परमेश्वरस्येत्यसङ्गनिः। एवं 'अभित्वा पूर्वपीतय इन्द्रम्तोमेभिरा- यवः। समीचीना स ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व'मित्यस्यामृचि आयवः मनुष्याः ऋत्विजः पूर्वपीतये प्रथमं सोमपानाय त्वामेव अभि अभिपुवन्ति। समीचीनासः शोभनाः ऋभवसत्वामेव समस्वरन् सम्यगस्तुवन्। तथा रुद्रा: रुपुताश्च पूर्व पुरातनं त्वामेव गृणन्त अभ्यस्तुवन् वृत्रवधे। 'प्रहर भगवो जहि वीरयस्वे'त्येवं स्वरूपया ऋचा त्वामेव स्तुवन्त इत्यर्थोऽप्यसङ्गतः । न हि परमेश्वरः उक्तस्तुनिविपयः । 'इन्द्रमिदेवतातय इन्द्रं प्रयत्यध्वरे। इन्द्रं सर्माके वनिनो हवामहे इन्द्रं धनस्य सातये' इत्याद्यृक्षु वनिनः संभजमानाः वयं इन्द्रमित् इन्द्मेव हवा महे आह्नयामः। देवैस्तृयत इनि देवतातिः यजञः तस्मै तद्भोगाय अध्वरे यज्ञे प्रयति उपकान्ने सति समीके सम्यक् गते संपूर्णेच यज्ञे सनि धनस्य सातये लाभाय चेत्यर्थानां तु परमेश्वरदेवताककर्मणि परमेश्वराह्वानसंभवेऽपि इन्द्रादिपदानां बहूनां रूढित्यागो नोचित इनि विश्वाभुवनानीत्यादौ विश्वादिपदसंकोचेनापरमेश्वरेन्द्रपरत्वमेव प्रकृत- सूक्तस्य युक्त्तम्। अत एव 'तत्वा यामि सुवीरय तन ब्रह्म पूर्वचित्तय' इत्यत्र सुवीर्य त्वां प्रति तत् ब्रह्म अन्नरूपं यामि याचामि प्राथयामि। चाकारलोपश्छान्दसः । 'पूर्वचित्तये सर्वेषामन्नप्राप्तेः पूर्वमन्नलाभाये'नि माधवीयभाप्ये व्याख्यातम्। तथापि परोक्तमनुसृत्याह-तन्न निर्गुणेति। स्वरूपमहत्त्वेति। स्वरूपस्यापि कारणत्वेनाभीष्टफलद त्वादिसंभव इनि भावः। स्वरूपस्याकारणत्वमते मायादिविशिष्टस्य कारणत्वात् तस्य च तात्तििकत्वासंभवाद्यावहारिक- सत्त्वमेव सत्यपदार्थः । तथाच ज्ञानेच्छादिधर्माणामपि महिमपदार्थत्वसंभव इत्याशयेनाह-धर्माणामिति। तत् पवेति। विशेषरूपेणाज्ञातस्य सामान्यतो ज्ञातस्याधिष्ठानत्वात् सविशेषत्वमिति भावः। निर्विशेषत्वेऽपीति। ज्ञातेऽपि शुद्धेऽज्ञातत्वस्योक्तत्वात् कल्पितभेदवत्वाउज्ञातत्वाज्ञातत्वसंभवाच्च निर्विशेषमप्यधिष्ठानमिति भावः । हेतुत्वाप्रतिपादकत्वादिति। प्रेरितारमीश्वरमात्मानं जीवं च पृथक् तदुभयविलक्षणाखण्डानन्दरूपेण तत्व- मस्यादिवाक्येन ज्ञात्वेनि श्रुत्यर्थः । दोपोत्थगुणशून्यत्वेन यज्ञभोककृत्वादिना च उपलक्षितं ज्ञात्वेति स्मृत्यर्थः। 'अद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः तमेव विदित्वे'त्यादिश्रुतेः विज्ञानं परमार्थोऽसौ द्वेतिनोऽतथ्यदर्शिनः। ज्ञानं यथा सत्यमसत्यमन्य'दित्यादिस्मृतेश्चेत्यादिपूर्वोक्तमपि बोध्यम्। संयोगपृथकत्वन्यायेनेति । 'एकस्य तूभयत्वे संयोगपृथकत्व'मिति जैमिनिसूत्रमेकस्योभयाथत्वे संयोगस्य विनियोजकप्रमाणस्य पृथक्त्वमुभयत्वं नियामकमिति शेषः। तथाहि-यथैकस्य खादिरस्य ऋत्वर्थत्वं पुरुपार्थत्व्रं च; 'खादिरो यूपो भवनि' 'खादिरं वीर्यकामस्य यूप कुर्वीते'ति वाक्याभ्यां तथा बोधितत्वान, तथा मुकेः फलान्तरस्य च बोधकवाक्याभ्यां उभयार्थतेत्यर्थृः । अधिष्ठानतत्वाव-
Page 414
७३२ अद्वैतसिद्धिः । [ परिच्छेद: २ ]
निर्गुणसगुणज्ञानयोर्विशेषात्, सगुणज्ञानजन्यमुक्तेरवान्तरमुक्तित्वाच्च। नच-'पुण्यपापे विधूये'ति सर्वकर्मनिवृत्त्युक्ते: परममुक्तित्वमेवेति-वाच्यम्:अस्य ब्रह्मतत्त्वसाक्षात्कार हेत्वतिरिक्तकर्मपरत्वात्, अविद्यानाशाभावाञ्च परममुक्तित्वासिद्धेः। नच-निर्गुणज्ञानजन्याया अपि मुक्केरवान्तरत्वम्, 'अस- श्रेवे'ति श्रुत्युक्तशून्यतायाः परममुक्तित्वमिति-वाच्यम्; शून्यताया असुखरूपत्वेनापुरुषार्थत्वात्, असन्नेवेत्यादिवाक्यस्य शून्यत्वाप्रतिपादकत्वाच्च। यन्तु गुणविशेषविधिसन्निहितस्य सामान्यनिषेधक- स्य निष्प्रपश्चवाक्यस्य विहितगुणनिषेधकत्वं नास्तीति, तन्न; बाधकस्य निषेधकप्रामाण्यसमकक्ष्यत्व एव सङ्कोचादत्र तदभावात्। यत्तृपासनाप्रकरणस्थत्वमात्रेण उपास्यत्वे उद्गीथोपासनास्थस्य 'सपषो- Sनन्त' इति श्रुतानन्तत्वादेर्भूताकाश उपासनामात्रमिति सुवचत्वेनाकाशाद्धिकरणे अनन्तत्वादि लिङ्गैर्व्रह्मत्वोक्त्ययोग इति, तन्नः उपासनाप्रकरणस्थत्वेऽपि निर्गुणश्रुतिविरोधाभावेन तातत्विकत्वा- ड्रीकारात्, तस्यचाकाशादावसंभवेन तत्तदधिकरणारम्भसंभवात् । यत्तु सत्यकामत्वादेरनुपास्ति- प्रकरणे श्रवणमिति, तन्न; पूषाद्यनुमन्ररणमन्न्रवत् प्रकरणादुत्कृष्टत्वस्य द्वादशोपसस्तावाक्यवत् स्तावकत्वस्य वा संभवात्। यत्तु वेधाद्यर्थभेदादित्यत्र 'सर्व प्रविध्ये'त्यादिम न्र्ाणामुपासनाप्रकरणा दुत्कर्षस्योक्तत्वेन तन्न्यायेनानन्तादिवाक्यस्योत्कर्षः स्यात्, तस्य वाक्यस्योपास्तिपरत्वे वस्तुतत्त्वप- रत्वे च सगुणवाक्यस्यापि तथा स्यादिति, तन्न; स्वरूपपरसत्यंज्ञानमनन्तमित्यादिवाक्ये अनन्त त्वादे: स्वत एव सत्वेन उत्कर्ष प्रयोजनाभावात्, तस्य वस्तुतत्त्वमात्रपरत्वेन उभयपरत्वाभावाञ्च, उपास्तिप्रकरणस्थानन्तवाक्यस्य उभयपरत्वेऽपि निर्गुणश्रुतिविरोधेन सगुणवाक्यस्योभयपरत्वाभा- घात्। नचैवं सार्वश्यादीनां वाग्धेनुत्वादिवत् प्रातीतिकत्वापत्तिः: वाग्धेनुत्वादेर्वुद्धिपूर्वकारोपविप-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। गाहित्वेति। 'स एप नेनि नेनीनि नेह नाना्ति किज्चन, शिवमंद्वैनं एकमेवाद्वितीय'मित्यादिश्ुत्या 'परमार्थस्तु भूपाल संक्षेपात् श्रूयतां मम। एको व्यापी समः शुद्धः निर्गुणः प्रकृतेः परः । जन्मवृद्यादिरहित आत्मा सर्वगतो- डव्ययः । परज्ञानमयो सन्भिर्नामजात्यादिभिरविभुः। न योगवान्नयुक्तोऽभृत् नव पार्थिव योक्ष्यनि।' इत्यादिस्मृत्या च केवलात्मन एव तात्विकत्वेनाधिष्टानत्वमिनि भावः। अवान्तरमुक्तित्वादिति। सगुणस्य मिथ्यात्वेन तत्प्राप्ति- रूपमुक्तर्विनाशित्वम्। तथाच म्मृनिः 'ब्रह्मणा सह ते सर्वे मंप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्। सूत्रं च-'कार्यात्यये तदध्यक्षेण सहातः परमभिधानान'। पुण्यपाप विधूयेति। 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुपं ब्रह्मयोनि। तदा विद्वान् पुण्यपापे विधय निरज्ञनः परमं साम्यमुपनी ति मुण्डकश्रुतिः। साक्षात्कारहेन्विति। साक्षात्कारपूर्वमवश्याभ्युपेयस्थितिकेत्यथः। सगुणब्रह्मोपासनया साक्षात्कृतवतोऽपि ब्रह्म- लोकावच्छिन्नभोगस्य निर्गुणसाक्षात्कारस्य चावश्यकत्वात्त्ेनुकर्मावश्यकमिनि भावः। अविद्यानाशाभावादिति। उक्तर्रीत्या सगुणस्यापरमार्थत्वेन तज्ज्ञानं परमार्थाज्ञानरूपबन्धनिवर्तकमिति भावः । निषेधकत्वं नास्तीति। न हिंस्यादित्यस्य विहितान्यहिंसाया इव निर्गुणादिश्रुतेर्विहितसार्वज्ञ्यादिगुणान्यगुणस्य निषेधकत्वमिति भावः । बाधकस्य विशेषविधायकशास्त्रस्य। समकक्ष्यत्वे तात्पर्य विशेपघटितत्वादिरूपेण सादृश्ये। निर्गुणवाक्यं स्वार्थपरम्, सगुणवाक्यं तु न सगुणत्वपरम्; उपासनापरत्वस्यावश्यकत्वेनोभयपरत्वेन वाक्यभेदादिति तयोः प्रामाण्यं न सम- मिति भावः । उपास्यत्वे अतात्विकोपास्यत्वे। उपासनामात्रं नतु तात्विकत्वम्। विरोधाभावेनेति। अनन्तत्वादेरधिकरणात्मकाभावरूपत्वेन न विरोधः। अधिकरणानात्मकत्वपक्षेऽपि व्यावहारिकस्य संभवे प्रातीतिकस्य न ग्रहणमिनि न भूनाकाशे उपास्यतेति भावः । श्रवणमितीति। तस्य ज्ञेयत्वमावश्यकमिति शेषः । पूषाद्यनु- मन्त्रणेति। पूषादिमत्रस्य दर्शपूर्णमासादिप्रकरणे पठितस्य दर्शादौ पूपादिदेवताविरहेण यथा पूपादिदेवताककर्मणि लिङ्गेन विनियोग:, तथा सत्यकामत्वादेज्ेयव्रह्मप्रकरणपठितस्य ज्ञानान्वयासंभवेन सगुणोपासनायामन्वय इत्यर्थः। स्वप्रकरण एव स्तावकत्वेनान्वयसंभवे उत्कर्पो न युक्त :; प्रतीतैकवाक्यताया भङ्गापत्तेरित्याशयेनाह-द्वादशति। 'तिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्ये'ति वाक्ये अहर्गणरूपाहीनगतोपसदां द्वादशत्वेनानुष्ठानगौरवद्वारा निन्दया साह्वगतोपसश्रयस्य विधेयस्य तदभावेन यथा स्तुतिः, सगुणब्रह्मणः सत्यकामत्वादिना विधेयस्य निर्गुणात्मनः स्तुतिरिति भावः। इत्यत्र सूत्रे। उभयपरत्वेऽपि तात्विकानन्तत्वादी उपासनाकतव्यतायां च प्रमापकत्वेऽपि अनन्तत्वादेरधिक- रणी भूतब्रह्मरूपत्वेन निर्गुणश्रुत्यविरोधात् उपासनावाक्यादपि देवताधिकरणन्यायेन तारिवकानन्तरवादिप्रमेति भावः । उभयपरत्वाभावात् तार्विकसत्यकामत्वादावुपासनाकतव्यत्वे च प्रमापकतवाभावात्। यथाश्रुते उपास्तिवाक्यस्या- नन्तत्व।दिपरत्वे वाक्यभेदापत्तेरसङ्गतिः। वुद्धिपूर्वकेति। व्यावहारिकविषयकबुद्धिपूर्वकेत्यर्थः। वागादौ धेनुत्वादे-
Page 415
[श्रह्मनिर्गुणत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७३३
यतया प्रातीतिकत्वेऽपि सत्यकामत्वादेरीश्वरादन्यत्रासंभवेन बुद्धिपूर्वकारोपविषयत्वाभावात्। ननु-असदुपासना न घटते; 'नाविद्यमानं बुवते वेदा ध्यातुं न वैदिकाः। नच रमन्त्यहो असदुपा- सनयात्महन' इत्यादिस्मृत्या 'अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्या' मिति सङ्कर्पण- सूत्रेणापि निषेधादिति-चेन्न; स्मृतिसूत्रयोरत्यन्तासदुपास्तिनिषेधपरतया तद्विरोधाभावात्,'वाचं धेनुमुपासीते' त्यादौ प्रातीतिकस्याप्युपास्यत्वदर्शनाञ्च। नच-तत्र 'रात्रिं धेनुमिवायती'मिति श्रुत्य- न्तराद्वेनुशब्दो गौणः, 'योषितमन्निं ध्यायीते' त्यन्रापि 'रेतो जुह्वती'ति श्रुतेः रेतोरूपाह्ुत्याधारत्वे- नाग्निशब्दो गौण:, भाष्योक्तरीत्या यौगिको वा, न त्वारोप इति-वाच्यम्; आरोपेण मुख्यत्वसंभवे गौणताया अन्याय्यत्वात्। नच गौण्युच्छेद :; यत्रोपसनाया अश्रवणं तत्रारोपस्य निष्प्रयोजनत्वेन गौण्युपपत्ते, रूढार्थस्य कथमपि संभवे यौगिकार्थत्वस्यान्याय्यत्वाच्च। एतेन-'नाम ब्रह्मे'त्यन्न 'नामाभिमानिनी चैषा तस्यां ब्रह्म हरिं स्मरे'दिति स्मृत्यैव ब्रह्माघिष्ठाने नामादौ गौणो ब्रह्मशब्दः,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वर्याचहारिकप्रमाणविपयत्वात प्रातीतिकत्वं युक्तम्; सत्यकामत्वादौ तु देवताधिकरणन्यायसिद्धव्यावहारिकप्रमाणता- कश्रुनिविषयत्वात् तत् न युक्त्तमिति भावः। नाविद्यमानमित्यादि। अविद्यमानं ध्यातुं वेदा वढिकाश्च न बुवत इत्यर्थः । न ब्रुवत इत्यादि। 'त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च। न वत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥' इति भागवतदशमे वेदस्तुतिः। 'आराममस्य पश्यन्ति न तं पश्यनि कश्चने'त्यादिश्रुतयो देहादो स्वाभाविकीं रति त्यक्त्वा आत्मनि रति कर्तव्यां वदन्नीत्याह-त्वदनुपर्थ त्वदधीनं कुलायम्। कौ पृथिव्यां लीयमानमिदं शरीरं आत्मवन् सुहृद्दत् प्रियवच्च चरति भाति तवात्मस्वरूपस्य तादात्म्याध्यासात् त्वमिव भानि, तथापि उन्मुखे पूर्णानन्दरूपेण भासमाने त्वयि हिते पूर्णानन्दे प्रिये निरुपाधीच्छाविपये आत्मनि न रमन्ति। अहो बत कष्टम्। असतो मिथ्याभूतस्य देहादेरुपासनया 'अहं गौरः कुलीनो गुणीत्यादिप्रत्ययावृत्त्या आत्महनः आत्मस्फुरणविरोधिविपरीतभावनोपचययुक्ताः यदनुशयाः य उक्तोपचय- रूपः अनुशयः एपां ने उरुपथे संसारे भ्रमन्नीत्यर्थः। अत्यन्तासदिति। ननु-अत्यन्तासत्वं प्रानीतिकत्वम्, अलीकन्वं वा, नाद्ः: वाग्धेनुत्वादेरुपास्यत्वात, नच-उपास्यत्वेन विहितं यन् तदन्यप्रातीतिकत्वं तदिति-वाच्यम्; तदुपासनस्याप्रसक्तत्वेनानिषेध्यत्वात्। अत एव नान्त्य :: नह्यलीकमुपास्यत्वेन विहितम्, येन तदुपास्यत्वेन प्रसज्येत। अथोपास्यत्वेनाविहितस्यापि दहादेः रागप्राप्तोपास्यत्वेन निषेधार्हत्वमित्युच्यते, तर्हि स्मृतेः प्रतिषेधपरत्वेन सार्थकत्वेऽपि सूत्रानर्थक्यम्; न्यायाप्रनिपादनान्। न हि सूत्रं विधिप्रनिपेधरूपम्, किंतु न्यायविशेपसूचनद्वारा प्रनिषेधतात्पर्यनिर्णायकमिति-चेत्, अत्रबूमः, अत्यन्तासदित्यस्य उपास्यत्वेन विधेयत्वायोग्येत्यर्थः। त्त्वं च द्वेधा उपास्यत्वेन विध्यभावान, तद्वावेऽपि न्यायविरोधाद्वा। तथाच देहादेरुपास्यत्वेनाविधेयत्वेऽपि उपास्यत्वेन राग- प्राप्तत्वान्। स्मृत्योपास्यत्वेन निपेध्यता सूत्रेण यत्र व्यावहारिकं प्रानीनिकं च विहितोपास्यत्वेन प्रसक्तं तत्र व्यावहा- रिकमेवोपास्यं शास्त्रार्थः, नतु प्रातीतिकम्; व्यावहारिकसंभवे प्रानीतिकस्यानादेयत्वात्। यथा-उद्गीथोपासनायाम् अनन्तत्वादि प्रातीतिकमाकाशादी नोपास्यम्, किंनु ब्रह्मणि सत्यम्। यथावा सत्यकामत्वादिकं ब्रह्मण्युपास्यं व्यावहा- रिकं, न प्रानीतिकम्, देवताधिकरणन्यायेनोपासनावाक्यस्य व्यावहारिकप्रामाण्यात्। एवं यत्र चेतनमचेतनं चोपास्यं विधिना प्रसक्तं, तत्र चेतनमेवोपास्यं शास्त्रार्थः; श्रद्धातिशयलाभात्। एवं यत्रोपास्यत्वेन यं पुरुषं प्रति यदयोग्यम्, यथा तामसं प्रति परमसात्विकी विष्णुमूर्तिः । सात्तिकं प्रति वा तामसी भैरवविशेषादिमूर्तिः, तत्तेन नोपास्यम्; अश्रद्धादिसंभवादिति बोध्यत इति भावः। मिथ्याभूते उपास्यत्वनिषेधपरत्वं त्वयापि वक्तुमशक्यमित्या- शयेनाह-वाचमिति। श्रुत्यन्तरादिति। रात्री धेनुसादृश्यस्य श्रुत्यन्तरेण कथनादित्यर्थः । तद्वदिति शेषः । गोण: धेनुसादृश्यपरः। भाष्योक्तरीत्या 'नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः 'अदनादङ्गनेत्रत्वात्सुतराम- चलत्वत' इति माध्वभाव्यरीत्या 'असौ वाव लोको गौतमाभि'रित्यादिछान्दोग्यवाक्ये स्वर्लोकादयः प्रतीयमाना न पञ्चाभनयः, किंतु नारायणादय इत्यर्थः । यत्रेति। कौण्डपायिनामयने 'मासमप्निहोत्रं जुहोति' इत्यादौ वेदे 'सिह्यो माणवक इत्यादौ लोके चे'ति शेपः। निष्प्रयोजनत्वेनेति। अभिहोत्रसादृश्यार्थकाझिहोत्रपदेन नैयमिकाभिहोत्र- धर्माणां मासाभिहोत्रे जुहोतिप्राह्यर्थ सिह्यगुणकौर्यादिप्रतीतितात्पर्यनिर्वाहार्थं चेति शेपः । कथमपि संभवे सादृश्यादिप्रतियोगितया शाब्दधीविपयत्वसंभवे। अन्याय्यत्वादिति। रूव्यर्थस्मारितगाणार्थविवक्षायां रूळ्यर्थ- स्यात्यागात्। यौगिकार्थस्य च नानावयववृत्तिसापेक्षत्वेन रु्यर्थापेक्षया दुर्बलत्वात् गौणार्थत्यागेन यौगिकार्थग्रहणं रथकाराधिकरणविरुद्धमिति भावः । ब्रह्माधिष्ठाने ब्रह्माधिकरणे। नामादौ नामादिपद्रार्थोपादौ। गौण इति।
Page 416
७३४ अद्वैतसिद्धिः। [ परिच्छेदः २]
नामेति प्रथमावचनं वसन्तो मारुत इतिवत् सप्तम्यर्थे, ब्रह्मेति प्रथमा वा पश्चम्यर्थे, 'ब्राह्मणोऽस्य मुखमासी'दितिवत्, सुपां सुलुगि' ति सूत्रात्, अन्यथा 'श्रुत ह्वेव मे भगवद्दृशेभ्यस्तरति शोकमा- त्मवि'दिति पृष्टवन्तं नारदं प्रति नामोपास्त्युक्तिरयुक्ता म्यात्, प्रतिमायामपि देवतातत्त्ववुद्धित एव फलम्, नतु देवताउतत्त्वबुद्धितः, 'शिला देवते'ति ज्ञानस्य भौम इज्यधीरित्यादिना निषेधा- दिति-निरस्तम्; आरोपेण मुख्यत्वसंभवे गौणत्वस्यान्याय्यत्वात्, समानविभक्तिकत्वाभावे इतिशब्दानन्वयप्रसङ्गात्। एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौणत्वमन्याय्यमेव।नच भौम इज्यधीरिति निषेधान्न तथाः तस्य भौमातिरिक्तश्चेतनो देवो नास्तीति भ्रमव्युदासपरत्वेनारोपा- निषेधकत्वात्, अनात्मोपास्नेस्तु मुख्यं ब्रह्मोपदेष्टमेव शाखाचन्द्रन्यायेनावतारितत्वात्, 'तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति गुणविशिष्टस्य उपास्यस्य ब्रह्मत्वनिषेधाञ्च। नच-'अन्यदेव तद्विदितादथो अविदितादी ति श्रुतौ अश्रौतज्ञानस्याकात्स््येन ज्ञानस्य वा निषेध इति 'तदेव ब्रह्मे'त्यादावपि अश्रौतव्यानम्याकात्स््येन ध्यानस्य वा निषेधेन नोपास्यस्य ब्रह्मत्वनिषेधः, अन्यथा 'तम्याभिध्यानादि'ति श्रुतिविरोध इति-वाच्यम: अन्यदेवेत्यादी विदितात् प्रमेयात् घटादेरप्रमेया- चछशविषाणादेर्वैलक्षण्येन स्वप्नकाशत्वप्रतिपादनपरतया त्वदुक्तार्थाद्ृष्टान्तत्वात्। उपास्ये ब्रह्मत्वनि वेधेऽपि न 'तस्याभिध्याना दिति श्रुतिविरोधःः अभिध्यानशब्दस्य निदिध्यासनवाचकत्वात्, ध्यान- परत्वेऽपि क्रममुक्त्यर्थत्वेन विरोधाभावात्। तस्मात् साधकाभावान्निर्गुणं ब्रह्म; सगुणत्वे वाधकस- न्वावाञ्च। नचासिद्धि :: मिथ्यात्वश्रुतेनिर्गुणश्रुतेश्च वाधकत्वात्, मिथ्यात्वश्रुतेरबाधकत्वप्रकारस्य मिथ्यात्ववादे अखण्डार्थवादे च निरासात्। ननु-निर्गुणवाक्यं सगुणवाक्यं वाधते नतु सगुण- वाक्यं तदिति किमत्र नियामकम्? नच निषेधकतया निर्गुणवाक्यं प्रवलम्, 'अमदा' इत्यादिवाक्यम्य सदेवेत्यादिवाक्यात् प्रावल्यापत्तरिति-चेन्नः अपच्छेदन्यायेन प्रावत्यस्य प्रागेवोक्तेः। निषेधत्वाञ्च 관 행 최 점 प्राबल्यम्; 'असद्वा' इत्यत्रासच्छद्दस्यानभिव्यक्तपरत्वेनानिषेधत्वाच्च नतन्न्यायेन प्राबल्यम्। निर्गु- णवाक्यस्य पुरुषार्थपर्यवसायितया तन्परत्वेन प्रावल्यात् सगुणवाक्यम्य तत्सन्निधिपठितम्य 'फल-
गाडव्रह्मानन्दी (लघुचन्द्रिका )। उपाकालादिकं ध्येयस्य हरेरधार इति उपासीत उपादिकं यथाधारो भवनि, तथोपासीत उपःकालादो विद्यमानः सन् हरिमुपासीतेनि यावत्। इत्थमेवोक्तस्मृनिसमानार्थकतेति ध्येयम्। सप्म्यर्थ इति। वेत्यग्रे अन्वयः। तेनोपायां हरिमुपासीतेत्य्थः । इनिशब्दानन्वयस्तु अस्मिन्नेव पक्षे वक्ष्यते। इनि प्रष्टवन्तं इत्यादिना शुद्धात्मानं प्रृष्टवन्तम्। तत्त्ववुद्धितः आधारत्वबुद्धितः । अतत्ववुद्धिनः तादात्म्यबुद्धितः। चेतनो देवो नाम्तीनि साधुजनोपास्यो- नेत्यर्थः । 'यस्यात्मबुद्धिः कुणपे त्रिधानुके स्वधीः कलत्रादिपु भौम इज्यधीः । यम्नीथवुद्धिः सलिले न क्हिचिन् जनेप्वभिज्ञेपु स एव गोचरः ।' इनि स्मृने: देहादिभिन्न आन्मा साधुजना: स्वीयाः पूज्याम्नीर्थभृनाश्चेत्यत्र तात्पर्यान् देहादिभिस्नोऽनात्मा साधवः स्वीयत्वपृज्यत्वनीर्थत्वशन्या इनि भ्रमव्युदासपरत्वमिनि भावः। यथाश्रुते अध्वरमी- मांसकानां चेतनदेवतानङ्गीकारिकाणां मते विरोधः। न कर्हिचित् जने्वभिज्नेष्विनि सर्वान्ते निर्देशान्। साधूनामेव स्वीयत्वादिपरत्वधीविरोधश्च। स्वात्मत्वं तु तेपां न संभवनीनि न तत्परत्वधीरिनि ध्येयम्। शुद्धात्मनि नारदेन पृष्टे अनात्मनिर्देशो न युक्त इनि यदुक्कम्, नत्राह-अनात्मेति। शाखाचन्द्रेति। प्रथमतः शुद्धात्मनो दुर्बोधत्वात् पश्चात्तं बोधयितुं नामाद्यवच्छिन्नात्मरूपानान्मोपाम्निः प्रथममुक्का। यथा प्रथमतश्चन्द्रं द्रष्टमसमर्थ बालं प्रति शाखां प्रदुर्श्य पश्चात् चन्द्रः प्रदर्श्यत इत्यर्थः। ब्रह्मत्वनिषेधाच्चेति। सत्यज्ञयब्रह्मस्वरूपत्वनिपेधाच्चेत्यर्थः । सगुणवाक्यं नोपाम्तिसगुणत्वोभयपरमिनि पूर्वेणानुपकेनान्वयः। अश्रीतज्ञानस्येत्यादि। विदितादित्यस्य श्रुत्यन्यमानेन विदितादि- त्यर्थः। अविदितादित्यस्य च सकलगुणवत्त्राविषयकाप्राशस्त्यज्ञानविपयादित्यथः। तथाच ज्ञेयव्रह्मणः तदुभयान्यत्वोक्तया श्रुत्यैव सकलगुणवत्वमेव ज्ञेयं व्रह्मोनि लभ्यते। एवं 'नेदं यदिदमुपासते' इत्यत्रापि श्ुनिभिस्नेन नोपास्यं, सकलगुणवत्वरं विना नोपास्यं ब्रह्मेत्यर्थात् श्रुत्यैव सकलगुणकमेव ब्रह्मोपास्यमिनि लभ्यत इति भावः। विदिताविदिनपद्योरुक्तार्थपरत्वे लक्षणादोपान् ज्ञानकर्मैव विदितपदार्थ :; शकिलम्यत्वात, अविदिनपदं तुन तदन्यार्थकम्; ब्रह्मणोऽपि ज्ञानकर्मा- न्यत्वान्। किंतु प्रमायां विदेर्लक्षणया प्रमाविषयान्यपरम्। त्वन्मने नओोSम्राशस्त्यलक्षकत्वे तदर्थस्य घात्व्थज्ञानेऽन्वयो न व्युत्पन्न इनि तल्वक्षणा न युक्तेत्याशयेनाह-अन्यदेवेत्यादाविति। कममुक्त्यर्थत्वेन क्रममुक्तिहेतुसगुणोपा- सनार्थकन्वेन। ज्ञेयव्रह्मणो ध्येयत्वायोधकत्वादिनि शेपः। साधकाभावात् सगुणसत्यत्वसाधकाभावात्। सगु- णत्वे सगृणसत्यत्वे। निष्ेधत्वात् परीक्षितनिषेधत्वान। तेन निषेधाभामस्याप्राबल्येऽपि न क्षतिः। पुरुषार्थेति।
Page 417
[ब्रह्मनिर्गुणत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७३५
वत्सन्निधा'विति न्यायेन तदनुगुणतया नेयत्वात्। नच सगुणज्ञानस्य मोचकत्वम्; तस्य प्रागेव नि- रासात्। अतएव-सगुणत्वनिर्गुणत्वयोर्विरोधेन समुच्चयायोगात् अनुष्ठान इव च वस्तुनि विकल्पा- योगात् एकस्य प्रतीतार्थत्यागरूपे वाधे वक्तव्ये निर्गुणवाक्ास्यैव स युक्तः, नतु प्रबलस्य सगुणवाक- स्येति-निरस्तम्; प्राबल्यासिद्धेः। नच-उपक्रमाधिकरणन्यायेनानुपजातविरोधत्वात् निर्गुणश्रुतेः प्रतियोगिज्ञानापेक्षतया विलम्बितत्वेन लिङ्गाच्छ्रुतेरिव शीघ्रगामित्वात् पदे जहोतीतिवद्विशषविष- यत्वाञ्च सगुणवाक्यस्य प्राबल्यमिति-वाच्यम्; उपक्रमाधिकरणन्यायस्यान्यथासिद्धोपसंहारविप- यत्वात्, प्रकृते च तदभावात्। सगुणवाक्यस्य प्रतियोग्युपस्थापकतया शीघ्रगामित्वेन प्रावल्ये ग्रहणवाक्यस्यापि प्राबल्यापत्त्या विकल्पाभावप्रसङ्गात्, सामान्यविषयप्रमाणसमकक्ष्यस्यैव विशेष- विषयस्य प्राबल्यात्, प्रकृते च तदभावात्। एतेन-'दीक्षणीयायामनुब्रूया दितिवत् निरयकाशत्वेन प्राबल्यम्, निर्गुणश्रुतिर्हि 'देवात्मशक्तिं स्वगुण्निगूढा' 'देवी ह्येषा गुणमयी' त्यादिश्रुतिस्मृतिप्विव सत्त्वादिगुणे सावकाशति-निरस्तम्; सावकाशनिरवकाशन्यायस्य समकक्ष्यविषयत्वाच्च। अतएव बहुत्वादपि न प्रावल्यम्; 'शतमप्यन्धानां न पश्यतीति न्यायाच्च। नच-प्रवृत्तिनिमित्तापेक्षैः ब्रह्मादिशब्दैर्धर्मिणं निर्दिश्य क्रियमाणं धर्मनिषेधं प्रत्युपजीव्यतया गुणसमर्पकाणां प्राबल्यम्; ग्रहकत्ववदुद्देश्यविशषणतया प्रवृत्तिनिमित्तानामविवक्षितत्वात्। नच ग्रहेकत्वन्याये उद्देश्यस्वरूपे लब्धे यदधिकं तस्यवाविवक्षति स्थितिः, अन्यथा ग्रहत्वस्याप्यविवक्षा स्यात्। अतपवोक्तं हविरा- र्तिनये 'मृप्यामहे हविषा विशेषणम्, उभयत्वं तुन मृप्यामह' इतीति-वाच्यम्; यच्छब्दो यत्र प्रवृत्तिनिमित्तमर्पयन् धर्मिणमुपस्थापयति तत्रायं न्यायः, यस्तु लक्षणयोपस्थापयति, तत्र नायं प्रव- तते। नच-लक्षकेणापि शब्देन इतरव्यावृत्तमसङ्कीर्णमेव वस्तुस्वरूपमुंद्दप्व्यम्, अन्यथा यत्र क्वचन धर्मनिषेधः स्यादिति-वाच्यम्: गङ्गायामित्यादावितरनदीतीरव्यावृत्ततीरलाभवदत्रापि स्वतो
गांडब्रह्मानन्दी (लघुचन्द्रिका )।
परमपुरुषार्थेत्यर्थः। तदनुगुणतया निर्गुणवाक्यजन्यज्ञानानुकलचित्तकायादिफलकोपासनपरतया। उपास्त्यसम- भिव्याहृतगुणवाक्यं तु निषेधापेक्षितप्रानियोगिसमर्पकतया अन्यथासिद्धमिति अन्यथा नेतुं शक्यमित्यर्थः । सगुणवाक्य- स्यानपेक्षणीयत्वेन तद्वाधित्वैंव निर्गुणवाक्यप्रवृत्तरपच्छेदन्यायेन परमपुरुपार्थपर्यवसायित्वेन चप्रबलं निर्गुणवाक्यं नान्यथा नेतुं शक्यमिति भावः। प्रसङ्गादिति। तथाच निषेधवाक्येन प्रनियोगिज्ञापकतया वाक्यान्तरं नापेक्ष्यते; स्वस्यव प्रतियोग्युपस्थापकत्वात्। निषधाधिकरणे प्रतियोगिप्रपञ्जकतयाऽपेक्ष्यमाणमपि ग्रहणादिवाक्यं नाग्रहणादि- वाक्यस्य सर्वथा प्रामाण्याभावे हेतुः, किंतु पाक्षिकस्यति निर्गुणवाक्यस्योक्तप्राबल्यात् वस्तुनि विकल्पासंभवाच्च न पाक्षिकोऽपि सः, किंनु तदनुगुणतया सगुणवाक्यमेव नीयत इति भावः। प्रावल्यादिति। अन्यपरत्वात् सगुण- वाक्यं न समकक्षम्, विशेषविपयत्वमात्रेण प्राबल्ये त्वर्थवादस्यापि तत् स्यादिति भावः । दीक्षणीयेत्यादि। यत्किञ्चित् प्राचीनमभ्नीपोमीयात्तेनोपांशु चरन्तीत्यस्य दीक्षणीयादन्यत्र सावकाशत्वात् 'यावत्या वाचा कामयते, तावत्या दीक्षणीयायामनुन्नया'दिति वाक्यं दीक्षणीयाभिन्ने निरवकाशं यथा कामस्वरविधायकं, तथा सगुणवाक्य- बोधितसार्वज्यादिगुणान्यसत्वादिगुणपु निर्गुणश्रुतेः सावकाशत्वात् सगुणश्रुतिः सार्वज्यादिगुणपरेति भावः । विषय- त्वाञ्चति । गुणशब्दस्य रूपादिरूदस्य सत्वादिपु निरूढलक्षणापत्तिः । अप्रधानत्वरूपगुणीभूतत्वरूपेण हि सत्त्वादी गुणपदं लाक्षणिकम्। न हि सत्वादिगुणयुक्ता माया, किंतु सत्वादित्रयरूपेत्यपि बोध्यम्। हृविरार्तिनये 'यस्यो- भयं हविरार्तिमार्छेत स ऐन्द्रं पञ्चशरावमोदनं निर्वपे दिति वाक्यविचारे। हविर्विशषणं हविरभिन्नं विशेषणम्। नाशरूपार्तिमात्रस्य हविर्मात्रस्य वा सार्वदिकत्वात् निमित्तत्वासंभवेन हविर्नाशस्य निमित्तत्वसंभवात् हविपो निमि- त्तीभूतोद्वेश्यविशेषणत्वं युक्तम्, उभयत्वं तुन विशेषणम्; तद्विनापि निमित्तपर्यवसानसंभवात्। आर्च्छेदित्याख्या- तेनवोभयपदं संबध्यते, न तु हविःपदन; विभक्यन्तनाम्नां परस्परानन्वयात्। तथाच हविःकर्तृकार्तिकर्मकप्राप्तिभाव- नैव निमित्तत्वेनान्वेति, न तूभयहविःकरणिका भावना इत्युभयत्वाविवक्षायामेव पर्यवसानाच्च, उभयपद्ं तु दधिपय- सोरेकस्यैव नाशो न निमित्तम्, किंत्वन्यतरस्येति ज्ञापनायेति न व्यर्थमिति भावः । यच्छब्द इत्यादि। किञ्ञि- द्धर्मप्रकारेणोद्देश्यबोधकं यत्पदं, तत्रायं न्याय इत्यर्थः । लक्षणया शुद्धलक्षणया। नायं प्रवर्तत इति। यथा प्रकृष्टप्रकाशश्चन्द्र इत्यादौ चन्द्रपदे न शुद्धव्यक्तिरेवोपदिश्यते। यथाच शुद्धस्योद्देश्यत्वविधेयत्वे, तथा व्युत्पादितम- खणडार्थवादे इति शेषः । स्वतोव्यावृत्तति। शुद्धबोधकाले विशेषणबोधं विनापि तत्पूर्व द्वारीभूतबोधे विशेषण-
Page 418
७३६ अद्वैतसिद्धिः। [परिच्छेद: २ ]
व्यावृत्तवस्तुन एवोद्देश्यत्वसंभवात् किं धर्मसमर्पणेन ? नच-निर्गुणवाक्यस्य छागपशुन्यायेन 'त्रैगुण्यवर्जितं' 'विना हेयैर्गुणादिभि'रित्यादिविशषोपसंहार इति-वाच्यम्; 'नेति नेती'त्यादिवी- प्साबलेन प्रसकसर्वनिषेधे प्रतीते कतिपयविशेषपरिशेषस्य कर्तुमशक्यत्वात्। अतएव 'काकेभ्यो दधि रक्ष्यता' मितिवत् त्रैगुण्यादिनिषेधस्यैव सामान्यविषयत्वम्, सार्वश्यादा श्रुतेरमानत्वेनाविरो- धादत्रापि काकपद इव मानान्तरानुग्रहस्य तुल्यत्वात्, तथापि विशेषोपसंहारे 'न हिंस्यात्सर्वा भूतानी' त्यस्य 'ब्राह्मणो न हन्तव्य' इत्यत्रोपसंहारापातात्, व्यर्थहिंसायां विध्यभाववत् सार्वश्यादि- गुणेष्वपि विध्यभावस्य समानत्वात् निषेधसाम्योपपत्तेः । अतएव-'धर्मान् पृथङ्न पश्यती' त्यादिश्रुतेः 'सविशेषणे ही'ति न्यायेन गुणानां पार्थक्यस्यैव निषेधात् तत्सामान्यादन्यत्रापि तथैव निषेधो युक्त इति-निरस्तम्; सविशेषणे हीति न्यायस्य विशेष्यवाधकावतार एव प्रवृत्तेः, प्रकृते च वाधकाभावात्, सार्वश्यश्रुतेः वाधकत्वनिरासात्, पार्थक्यनिषेधे व्रह्ममात्रपरिशेषात् नामान्त- रेणाद्वैतवादस्यैवोक्तेश्च। यन्तु ज्ञानानन्दयोरभेदे एकतरपरिशेषाभावादत्रापि धर्मधर्मिणोनैकतरपरि- शेषः, अन्यथा आनन्दस्फुरणयोरन्यतराभावान् मुक्तिरपुमर्थः स्यादिति, तन्न; ज्ञानानन्दव्यक्त्यो- रस्ति भेदगभैंकतरशब्दस्याप्रवृत्तिः। एवमेव त्वन्नये गुणगुणिव्यक्त्थोरभेदसंभवात् अस्य परिभाषा- मात्रत्वात्। यत्तु साक्ष्यादिचैतन्यस्य पूर्व पश्चादपि गुणोक्तेस्तन्मध्यस्थं निर्गुणवाक्यमपि उपांशुया- जन्यायेन तदनुगुणतया नेयमिति, तन्नः गुणान् तटस्थीकृत्य तेषां ब्रह्मपरत्वेन गुणे तात्पर्याभावात्। अतएव-निर्गुणशब्देन गुणमात्रनिषेधो न युक्त:, साक्ष्यादिपदेन द्रष्टत्वादिविधानव्याघातात्सङ्कोच एवेति-निरस्तम्; द्रष्टत्वादावत्रापि अतात्पर्यात्। तथाच द्रषटृत्वादिद्वारकब्रह्मरूपयुक्तार्थतैषा; गौडब्रह्मानन्दी (लघुचन्द्रिका)। भानेनार्थिकव्यावृत्तिधीविपयेत्यर्थः । छागपशुन्यायेनेति। 'छागस्य वपाया मेदसोऽनुवूही'ि मध्रस्य बलादग्रीपो- मीयं पशुमालभेतेति वाक्यस्थपशुपदं यथा छागार्थकमुक्तं, तथेत्यर्थः। अमानत्वेन अतात्पर्येण। अत्रापि त्रैगुण्या- दिवाक्येऽपि। तुल्यत्वादिति। श्वादिभ्यो दध्यादिरक्षणस्येष्टसाधनत्व्रं मानान्तरेण प्रमाय काकपदं दध्युपघातकसा- मान्ये लाक्षणिकं यथा निर्णीयते, तथा निर्गुणश्रुत्यादर्गुणमात्रनिषेधकत्वं प्रमाय त्रगुण्यादिपदं गुणसामान्यलक्षकं निर्णीयत इत्यर्थः । तथापि मानान्तरानुग्रहेऽपि। विशेषोपसंहारे निर्गुणवाक्यस्य गुणविशेपनिषेधकत्वस्वीकारे। उपसंहारापातादिति। सर्वभूतपदं ब्राह्मणपरं स्यादिति भावः। ननु अग्नीपोमीयपश्चादिरववहिंसान्यहिंसारूप- व्यथहिंसायां विध्यभावात् 'न हिंस्यादि'ति निपेधस्तत्साधारणः युज्यते, सार्वज्यादिगुणेपु तु विधिसत्व्रात्तत्साधारणतवं निर्गुणवाक्यस्य न युक्तम्, तत्राह-व्यर्थेति। विध्यभावात् श्रुनितात्पयीभावान। विध्यभावस्य श्रुतितात्पर्या- भावस्य। निषेधसाम्येति। 'न हिंस्यादि'ति वाक्यनिर्गुणवाक्यरूपनिषेधयोव्यर्थहिंसा सार्वज्यादिगुणसामान्यविषय- कतया साम्येत्यथः। धर्मान् पृथगिति। 'यथोदकं दुग वृष्टं पर्वतेपु विधारवत। एवं धर्मान् पृथक् पश्यंस्तानेवानु- विधावति। यथोदकं शुद्धे शुद्धमासिकं ताद्गेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम' इति कठश्रुनिः। पार्थक्यस्यैवेति। पृथक्त्वेन गुणा न द्रष्टव्याः, किंतु ब्रह्माभिन्नत्वेनेति श्रुत्यथः इति पार्थक्यस्य मोक्षहेतुप्रमाविपयस्व्- निपेधेन मिथ्यात्वमिति भावः। तत्सामान्यात् तत्समानार्थकत्वसंभवात्। अन्यत्रापि शाखान्तरीयनिर्गुणवाक्ये- डपि। बाधकाभावात् पृथग्भूतधर्मा न द्रष्टव्या इनि निषेधे बांधकाभावात्। ब्रह्ममात्रेति। भेदनिषेधे भेद्यप्रपञ्च- स्यापि निषेध आर्थिकः, भेद्यप्रपश्चस्य भेदव्याप्यत्वेन व्यापकाभावे व्याप्याभावस्यावश्यकत्वादिति ब्रह्ममात्रं परिशिष्ट- मिति भावः। वस्तुतो 'नेह नाने'ति पूर्ववाक्येन तत्पदार्थशोधनात् 'अङ्ुष्टमात्रः पुरुपो ज्योतिरिवाधूमक' इत्युत्तर- वाक्येन त्वम्पदाथशोधनात् 'अङ्गुष्टमात्रः पुरुपः ईशान' इति मध्यमवाक्येनोक्तत्त्वम्पदाथयोरेक्यं दृढीकृत्य धर्मा- नित्यादिना जीवेशधर्मज्ञाननिन्दया शुद्धयोरेक्यज्ञानं स्तुतम्। अत एव 'यथोदकं शुद्धे शुद्ध'मित्यादिना ताटग्ज्ञानमुप- संहृतमिति धर्मसामान्यनिषेध एव तात्पर्यम्। एकतरपरिशपेति। एकमात्रपरिशेपेत्यर्थः । अत्रापि धर्मानित्या- दिश्रुतिबोध्याभेदे प्रतियोग्यनुयोगिनोरपि। ज्ञानानन्दव्यक्त्योः ज्ञानानन्दस्वरूपयोः । भेदगर्भैकतरशब्दस्येति।
शब्दवृश्या एकतरपरिशेष इति वक्तुमशक्यमिति भावः । पूर्वमिति। 'तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च देवत'मित्यादिवाक्ये इति शेपः। पश्चादिति। 'एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोती'- त्यादिवाक्य इति शेपः । तटस्थीकृत्य द्वारीकृत्य। ब्रह्मंपरत्वेन शुन्धच्रह्मपरत्वेन। तात्पर्याभावादिति। यद्यप्यु- कवाक्योत्तरं 'तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषामि'त्युक्तम्; तथापि तत्र तत्पदेनेश्वरमुक्त्वा 'ततो यदुत्तरतर तदरूपमनामयं य एतद्विदुरमृतास्ते भत्रन्त्यथेतरे दुःखमेवापियन्ती'न्यनेन तत्र ततपदं त्वयापि
Page 419
[ब्रह्मनिर्गुणत्वोपपत्तिः] ७३७
आगमस्य तत्रैव प्रामाण्यसंभवात्। एवंच 'युक्तोऽयुक्तश्र यत्रार्थः आगमस्य प्रतीयते। स्यात्तत्र युक्त एवार्थ' इत्याद्यस्मन्मत एवोपपन्नतरम्। तस्मादुपक्रमादिन्यायानामन्यविषयत्वात् न तद्वलेन सगुण- त्वसिद्धिः। यन्तु 'अन्तस्तद्धर्मोपदेशात्' 'अन्तर्याम्यधिंदवादिषु तद्धर्मव्यपदेशा'दित्यादिसूत्रषु धर्माणां तत्तदधिकरणसिद्धान्तसाधकतया आदृतत्वात् सगुणत्वसिद्धिरिति, तन्नः आरोपितब्रह्ममात्रसंव- न्धिगुणोपादानेन सिद्धान्तसिद्धपपत्तेर्गुणतात्त्विकत्व औदासीन्यान्। यञ्च अहिंसाग्रीषोमीयवा- क्ययोरिव सगुणनिर्गुणवाक्ययोगपि भिन्नविषयतयाSविरोधे संभवत्यपि सगुणवाक्यस्यामानत्वा- भिधानं मांगतसाहदादिति, तन्नः निर्गुणवाक्यस्य तत्परत्वेन प्रवलतया बाधस्यावश्यकत्वेऽपि मानत्वाभिधानस्य ब्रह्मवादिविद्वेपमात्रत्वात्। तस्मान्निर्गुणवाक्यवाधात् सगुणवाक्यमतत्परम्। अनुभूतिः, निर्विशेषा, अनुभूतित्वादिति व्यतिरेक्यनुमानमपि वाधकम्। नचात्राप्रसिद्धविशेषण- त्वम् ; यद्यतिरेके समीहितप्रसक्ति: तन् मानयोग्यमिति सामान्यतः प्रसिद्धेः। विशेषत्वमभावप्रात- योगितावच्छेदकम्, अभावप्रतियोगिमात्रवृत्तित्वात्, घटत्ववदिति विशिष्यापि सत्त्वात्। नापि स्वव्याघानः: निर्विशपत्वम्य स्वरूपत्वेन विशेषत्वानङ्गीकारात्। नच स्वरूपम्य प्रागेव सिद्धेः स्यादनु- मितेवैयर्थ्यम; तेन रूपण ज्ञानस्योद्देशयत्वात्। नापि श्रुतिवाध: प्रागेव निगसात्, प्रत्युत बहुतरश्रु- त्यनुग्रहः। अनएव नाभाससाम्यम। नाप्यप्रयोजकत्वम्: भिन्नत्वे अभिन्नत्वे संबन्धत्वे चातिप्रसङ्गा- नवस्थाभ्यां धर्मधर्मिभावानुपपत्तरेव विपक्षवाधकत्वात्। नच संबन्धस्य मिथ्यात्ववत् स्वनिर्वाह- कत्वान्नानवस्था: अभेदवाढ़े अतिरिक्तस्य वक्तुमशकात्वात्। नच-धर्माभावरूपधर्मभावाभावाभ्यां
गोडव्रह्मानन्दी (लघुचन्द्रिका)। विशेष्यमात्रपर वाच्यम्। अन्यथा श्वेताश्वतर एव तृनीयाध्याये 'वृक्ष इव स्त्ो दिवि तिष्टत्येकस्तेनेदं पूर्ण'मिति द्वितीयाध्यायेऽपि 'त्वं स्त्री व्वं पुमानमि त्वं कुमार उत वा कुमारी त्यादिना शुद्धज्ञानम्यैव मोक्षहेतुत्वमित्यम्योक्ति- विरोधान्। 'तमेव विदित्वातिमृत्युमेति। नान्यः पन्था विद्यनेऽयनायेत्य'स्य 'मुमुक्षुैं शरणमहं प्रपदये निष्कलं निष्क्रियं शान्तं निर्वद्यं निरञ्ञनम्। अमृतम्य परं संनुमि'त्यम्य च नमात्मस्थमित्याद्युक्तवाक्योत्तरवाक्यस्य विरोधापत्ते- रिति भावः। संभवादिति। ब्रह्मान्यम्य तु बाधितन्वेन तत्र न प्रामाण्यसंभव इति भावः । अन्यविषयकत्वात् सगुणविषयकत्वान। सिद्धान्तसिद्धीति। तनह्वाक्यम्य तत्तद्गुणविशिष्टोपासनापरत्वसिद्धीत्यर्थः । बाधस्य सगुण- वाक्यवाधस्य। वाधात् वाधितत्वान्। अप्रसिद्धविशेषणत्वं विशेपसामान्याभावस्वरूपविशेषणाप्रसिद्धिः। विशेषत्वं मेयत्वम्। मात्रवृत्तित्वात् सामान्यवृत्तित्वात्। ब्रह्मणि विशेषस्य सन्दिग्धत्वात् दृश्यमात्रे तद्यापकत्व- स्यानुभूतित्वाभावे निश्चयमंभवाद्विशेषव्यापकाभावप्रतियोग्यनुभूतित्ववत्यनुभृतिरिति परामर्शात् निर्विशेषत्वानुमिति- संभवेन तत्पूर्वं विशेषसामान्याभावाप्रसिद्धावपि न क्षतिरिति बोध्यम्। स्वव्याघात इति। निर्विशेषत्वानुमिते- चिशेषसामान्याभावविपयकत्वे विशेषसामान्याभावरूपविशेषाभावोऽपि तद्विपय इति तत्यामाण्यव्याघात इत्यर्थः । अबाधितविपयकत्वरूपं प्रामाण्यं विशेषसामान्याभावस्वरूपमात्रांशे अस्त्येव, विशेषसामान्याभावत्वविशिष्टांशे तुन मयापि तदङ्गीक्रियत इत्याशयेनाह-निर्विशेषत्वस्येति। तेन रूपेण निर्विशेपत्वेन। भिन्नत्व इत्यादि। भिन्नयोर्धर्मधर्मिभावे वटपटयोरपि स स्यादित्यतिप्रसङ्गः । नच-प्रतीत्यभावादेव तयोः स नेति-चाच्यम्; कदाचि- त्तयोरपि तस्य प्रतीतेः । नच-भिन्नयोरपि समवायादिसंबन्धो धर्मवर्मिभावनियामक इति-वाच्यम्; भिन्नत्वेन निश्चितघटपटादियुग्मसामान्ये धर्मधर्मित्वादर्शनात् भिन्नत्वेन सन्दिग्धगुणगुण्यादावभेदसंबन्धस्यव कल्पनात्। अथ-भेदं विना संबन्ध एवानुपपन्नः, नहि स्वस्मिन् स्वयं संबध्यत इति-चेत्, एवमप्यभेदस्य संबन्धत्वानुप- पत्या कल्प्यमानो भेदो न स्वापेक्षया तमाभासीकरोति, किंतु स्वयमेव तदपेक्षया आभासीभवतीति धर्मधर्मिणोर भेदो व्यावहारिकः, भेदस्तु प्रानीतिकः । नच-एवमभेदस्तात्विक एवास्तु, भेदस्तु व्यावहारिक इति-वाच्यम्; कल्पितभेदस्य तात्विकसंबन्धोपपादकत्वे हि तद्यक्तिम्नव्यक्तिमनीत्यपि प्रमा स्यात्। तस्मात् भेदाभेदाभ्यां धर्मधर्मि- भावो न निर्वाच्यः । एवं धर्मस्य धर्म्यसंबद्धत्वे सर्व सर्वस्य धर्मः स्यादित्यतिप्रसङ्गः। संबद्धत्वे संबन्धादेः संबन्धो वाच्यः; अन्यथा सर्वस्य संबद्धतापत्तेः । तथाच संबन्धपरम्पराकल्पने अनवस्था। स्वरूपस्यैव संबन्धसंबन्धत्वे धर्मान्यसंबन्ध एव न कल्प्यः स्यात् ; धर्मस्वरूपस्यैव तत्संबन्घतासंभवादिति भावः। नच संबन्धेत्यादि। यथानवस्थाभयात् मिथ्यात्वान्तरं त्वया न मिथ्यात्वेऽग्गीक्रियते, तथा मयापि संबन्धस्य संबन्धान्तरं नाङ्गीक्रियते; तव तेनैव तत्र मिथ्यात्वस्येव ममापि तेनव तस्य संबन्धस्य व्यवहार इति भावः । परिहरति-अभेदवाद इति। ब्ह्मतन्दर्मयोर भेदास्वीकारवतस्तव मते इत्यर्थः। अतिरिक्तस्येति। संबन्धस्येति शेषः संबन्धस्य भेदनिष्ठत्वादि अ. सि. ९३
Page 420
७३८ अद्वैतसिद्धिः । [परिणळेदः २ ]
व्याघातेन कुतर्कतास्येति-वाच्यम्; धर्माभावस्य स्वरूपतयैव सत्वाङ्गीकारेण व्याघाताभावात्, अभेदेऽपि भेदकल्पनया धर्मधर्मिभावव्यवहारस्य त्वयापीष्टत्वात् । नच-एवमानन्दस्य श्ञानमा- त्त्वे दुःखशानमप्यानन्दः स्यात् भिन्नत्वे अखण्डत्वहानि: एवमेव ब्रह्मणो जगदभिन्नत्वे मिथ्यात्वा- पत्तिः भिन्नत्वे भेदसत्यत्वमित्यादितर्कबाधात् त्वदभिमतं ब्रह्मापि न सिध्येदिति श्रुतिबाधात्तर्का- णामाभासत्वं मन्मते समानमिति-वाच्यम्; दुःखज्ञानस्य वृत्तिरूपतया आनन्दस्य नित्यचिन्मा- त्रानतिरेके अतिप्रसङ्गाभावात्, आरम्भणाधिकरणन्यायेन ब्रह्मव्यतिरेकेण जगतः अभावात् भेदाभेदविकल्पस्यानवकाशात् सगुणश्रुतेरतत्परतया श्रुतिबाधसाम्योक्तेरयुक्तेः, निर्गुणश्रुतेस्तु तत्परतया तदनुगृहीततर्के शुप्कत्वाभावाच्च। यत्तु निर्विशेषत्वस्य भावाभावाभ्यां मूकोऽहमितिवत् स्वव्याघातः, यदि निर्विशषत्वरूपविशेषोऽप्यनेनैव निषिध्यते, तहींयमपि वचनक्रिया मूकोऽहमित्य- नेनैव निषिध्यत इति सममिति, तन्न; निर्विशेषत्वस्य विशेषरूपत्वे विशेषत्वेनैव रूपेण तन्निषेधस्या- द्वितीयवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेः, अन्यथा विशेषत्वावच्छिन्ननिषेधप्रतीतेर- नुपपत्तेः, अभावानतिरेके तु स्वरूपानतिरेकितया मूकोऽहमितिवत्स्ववचनव्याघाताभावस्यैवोक्त- त्वाञ्च, मूकोऽहमित्यत्र वक्तृत्वतदभावयोरेकरूपेण निषेधाभावात् व्याघातोपपत्तेः । ननु-ब्रह्मणः शून्यानिर्वाच्यव्यावर्तकविशेपाभावे तुच्छत्वमिथ्यात्वाद्यापत्तेः तत्सत्वे सविशेपत्वमिति-चेत्, व्यावर्त्यसमानसत्ताकविशेषाभावेऽपि व्यावृत्तिबोधसमानसत्ताकधर्मेण भिन्नत्वनिर्विशेषत्वयोरु- पपत्तः। अत एव-ब्रह्मणो निर्विशेषत्वे विचारविषयत्वानुपपत्तिः। 'इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्। इत्थंभावो हि धर्मोऽस्य न चेन्न प्रतियोगिता॥' इति-निरस्तम् ; विचारकाले आगेपित- धर्मसंभवात्। विचारोत्तरकाले च इत्थमिति व्यवहारस्य स्वरूपव्यावृत्त्यादेश्व कल्पितपार्थक्यमा- दायोपपत्तेः। ननु-धर्मारोपार्थमपि केचन धर्माः सत्याः स्वीकर्तव्याः, इदंत्वादिना ज्ञात एव रूप्याद्यारोपदर्शनात्। तदुक्तम्-'धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने। सर्वधर्मविहीनस्य धर्मारोप: क दृश्यते ।।' इति-चेन्न; इदंत्वादेरपि सत्यत्वासंप्रतिपत्तः, शुद्धेऽप्यध्यासस्योपपादित- त्वाच्च, आरोप्यविलक्षणधर्मवत्त्वस्यानाद्यविद्यासंबन्धेनवोपपत्तः। अतएव-अभावरूपधर्माङ्गीकारे भावोऽप्यस्तु, प्रामाणिकत्वाविशेषादिति-निरस्तम्; स्वरूपातिरेकिणोSभावस्याप्यनङ्गीकारात्,
गुणत्वोपपत्तिः॥ धर्ममात्रे प्रामाणिकत्वस्य निराकृतत्वाच्च।तस्माननिर्विशेषं परं ब्रह्म ।I इति ब्रह्मणो निर्विशपत्वनि-
गौडब्रह्मानन्दी (लघुचन्द्रिका )। त्यादि:। भेदकल्पनया धर्मधर्मिभावव्यवहारप्रयोजककल्पनया। तथाचानन्दादीनां ब्रह्माभेदेपि धर्मधर्मिभाव- व्यवहाराय त्वयाप्यतिरेकनामा कक्षनार्थः स्वीक्रियते। एवंच कल्पितत्वेनास्मत्स्वीकृतभेदम्यैव नामान्तरं कृतम्। नहि भेदनिर्वाह्यो धर्मधर्मिभावो भेदान्येन निर्वहति । नचाभिन्नयोस्तात्विको भेदो निर्वेहनीतति धर्मधर्मिणोः कल्पितभेदः उभयसंमत इनि भावः। विशेषरूपत्वे ब्रह्मातिरिक्तत्वे। अभावानतिरेके अभावस्याधिकरणत्व- स्वरूपाननिरेके। स्वरूपति। ब्रह्मस्वरूपेत्य्थः। एकरूपणेति। निर्विशेपादिवाक्ये विशेषत्वरूपेण विशेपाभाव- साधारणविशेपसामान्यनिषेधबोधकत्वात् विशेषाभावरूपविशेषतात्पर्यासंभवात् तदुपलक्षिताखण्डब्रह्मण्येव तात्पर्यम्, मूकोऽहमित्यत्र तु यद्यपि मूकशबदेन वक्तत्वश्चून्यं बोध्यते, तादृशशब्दोच्चारणन चार्थादवक्तृत्वाभावो बोध्यते, तथापि वक्तृत्वतद्भावसाधारणरूपेण तदुभयनिपेधो न ताभ्यां बोध्यते। अतो वक्तत्वाभावोपलक्षितस्वरूपे तात्पर्यकल्पकाभावात् व्याघात एवेति भावः। तत्सत्वेन विशेषसत्वेन । व्यावृत्तेः ब्रह्मस्वरूपत्वे तत्समानसत्ताक- रवाभावादाह-व्यावृत्तिबोधेति। इदम् इत्थं इदमानन्दादिविशेषवत्। ननु आनन्दादिविशेषवखवेन ज्ञानं न जिज्ञासायाः प्रयोजनम्, किंतु आनन्दादिविशेषद्वारा अनानन्दादिव्यावृत्तज्ञानम्, तत्राह-न च्ेन्न प्रतियोगि- तेति। आनन्दादिधर्मों न चेतू तर्हि प्रतियोगिता प्रतिदवन्दिता अनानन्दादिव्यावृत्ततापि ब्रह्मणि न संभवतीत्यथेः । आरोपितेति। तथाचारोपितव्यावृत्त्यादिधर्मद्वाराऽखण्डव्रह्मधीरेव जिज्ञासायाः फलम्, न तूक्तधर्मप्रकारिका, येन तादृशधीविषयत्वेन धर्मः सत्य उच्येतेनि भावः । उत्तरकाल इति । जीवन्मुक्तस्याविद्यालेशसत्वादिति शेषः। आगेपति। भ्रमोत्पत्तीत्यर्थः । अध्यासम्य अविद्याद्यनाद्यध्यासस्य। तथाच रूप्यादेरिवाहक्कारादेरप्यध्यासस्योत्पत्ती अध्यस्तसामान्यधर्मदर्शनमेव हेतुरिति न सत्यधर्मापेक्षेति भावः। आरोप्यविलक्षणेति। आरोप्यपूर्ववृत्तित्वादि- मदित्यर्थ: तथाचारो ्यभिन्नससाकत्वं धर्मस्यानपेक्षितं, किं आरोप्यहेतुप्रत्यभ्ादिधीविषयत्वेनारोपपूर्ववृत्ित्वा-
Page 421
[ब्रह्मनि० प्रमाणोपपत्तिः] गौडब्रह्मानन्दीयुता। ७३९
अथ ब्रह्मनिर्गुणत्वे प्रमाणोपपत्तिः । ननु-निर्विशेषे किं प्रमाणमिति-चेत्, स्फृरत्यर्थ वा अज्ञाननिवृत्त्यर्थ वा प्रमाणप्रश्नः। आंद्य स्वप्रकाशतया प्रमाणवैयर्थ्यम्। नच विप्रतिपन्न स्वतःसिद्धेर्वक्तुं शक्यतया अतिप्रसङ्ग:, अभाव- व्यावृत्तिबोधकप्रमाणसत्त्वासत्वाभ्यां विशेषात्, द्वितीये उपनिषद् एव प्रमाणत्वात्। अतएव प्रत्य- क्षमनुमानं वेत्यादिविकल्पस्य नावकाशः। ननु-कथं तत्रोपनिषत् मानम् ? जातिगुणक्रियादिरूप- निमित्ताभावेन मुख्यवृत्तेरयोगात्, अस्वीकाराच्च, आरोपितनिमित्तविषयप्रतीतेरनिर्विशेषे प्रामाण्या- योगात्, गौण्याश्च मुख्यार्थगुणयुक्ततयेव लक्षणायाश्च शक्यार्थसंचन्धितावच्छेदकरूपवत्तयैव स्वा- र्थोपस्थापकत्वात्, पदस्यान्वयितावच्छेदकरूपण स्वार्थोपस्थापकतया निर्विशेषे वृत्तिमात्रायोगात्, पदविधया वाक्यविधया चोपनिषन् मानं न निर्विशषे;संसर्गागोचरत्वाञ्चेति-चेन्न; मुख्यगौण्यसंभ वेऽपि लक्षणायाः संभवात्। नच लक्षकपदे शक्यार्थसंबन्धित्वावच्छेकरूपवत्तया पदमात्रऽन्वयिता- वच्छेदकरूपवत्तया च उपस्थितिनियमः संसर्गबोधकवाक्यस्थपदानामेव तथात्वात्। नच संसर्गा- गोचरत्वे प्रमाणवाक्यत्वानुपपत्तिः: असन्दिग्धाविपर्यस्तबोधकतया निर्विकल्पकत्वेSपि प्रामाण्य- स्याकाङ्कादिमत्तया वाक्यत्वस्य चोपपत्तरवृत्तिमन्तरेणापि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशषे प्रामाण्यस्य वार्तिककृद्भिरुपपादितत्वाञ्च। तथाहि-'अगहीत्वैव संबन्धमभिधानाभिधेय- योः। हित्वा निद्रां प्रवुध्यन्ते सुपुभे बोधिता: परः ॥ जाग्रद्वन्न हि संवन्धं सुषुम वेत्ति कश्चन॥' इत्यादिना ग्रन्थेन विनापि संबन्धं वाक्यस्य प्रामाण्यमुपपादितम्। लक्षणापक्षऽपि तात्पर्यविशेषाग्र- हेणवातिप्रसङ्गभङ्गो वाच्यः। शक्यसंबन्धस्यानेकत्र संभवात्, तात्पर्यविशेपग्रहश्च पुरुषविशेषस्य भवति, न सर्वस्य; पुरुषगतो विशेषः अन्तःकरणशुद्धिरूपः प्रतिबन्धाभावः । अन्तःकरणाशुद्धिरु- पस्य पापस्य च प्रतिबन्धकन्वं 'ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः' इत्यादिशास्त्रसिद्धम्। तथाच प्रतिबन्धक्षये विनापि संबन्धं शब्दादात्मसाक्षात्कार इति निरवद्यम्। विस्तृतमिदमस्माभिः
गोडव्रह्मानन्दी (लघुचन्द्रिका )। दिकमिति भाघः। निर्धर्मिनावच्छेदकस्यारोपस्य संभवादधिष्टानगतधर्मज्ञानमपि नापेक्ष्यत इत्यपि बोध्यम्॥ तकें रित्यादि-ब्रह्मनगुण्यसाधनम्॥ इति लघुचन्द्रिकायां ब्रह्मनर्गुण्योपपततिः॥
विप्रतिपन्ने शब्दनित्यत्वादौ। अतिप्रसङ्ग: स्फृत्यर्थ मानानभिधानप्रसङ्गः। अभावव्यावृत्तीति। परप्रकाशय- त्वात्यन्ताभावपरप्रकाश्यभेदेत्यर्थः । तथाच शब्दनित्यत्वादी तादृशात्यन्ताभावभेद्बोधकप्रमाणाभावेन स्फृर्त्य्थ माना- भिधानेऽपि ब्रह्मण्युक्त्तमानसत्वेन स्फृत्मंथ मानानपेक्षेन भावः। असन्दिग्धेति। मानान्तरेणनिश्चितेत्यर्थः । न हि संबन्धमित्यादि। सै।पुप्तीयस्य वाक्यार्थबोधस्य पूर्व पदतद्र्थसंबन्धज्ञानं न प्रामाणिकम्। नच-कारणत्वेन कृसं तद्विना वाक्याथबोधासंभवात्तदन्यथानुपपत्तिरेव तत्र मानमिति-वाच्यम्; सोडयं चैत्र इत्यादिवाक्यं लक्षणया शक्तिभ्रमेण वा ऐक्यस्य वाक्यार्थस्य बोधे कालभेदेन जनकम्। तत्र च स्वघटकपदवृत्तिज्ञानजन्यपदार्थोपस्थितिसंबन्धेन नोक्तवाक्यरवरूपाकाङ्भाज्ञानं हेतु :; तादृशवृत्तित्वस्य शक्तिलक्षणासाधारणस्यान्यतरत्वादिरूपस्य 'वाच्यतया विनिग- मकाभावेन गुरुतरनानासंबन्धरूपावच्छेदकभेदभिन्नहेतुतापत्तेः, किंतु स्वघटकपदशक्तिज्ञानजन्यार्थोपस्थिति विशिष्टे ताडशवाक्यार्थबोधे तादृशोपस्थितिसंबन्धन स्वघटकपदलक्षणाज्ञानजन्योपस्थितिविशिष्टतादृशवाक्यार्थबोधे तादृशो पस्थितिसंबन्धेनोक्ताकाल्लाज्ञानत्वेन हेनुता। तथाच सुपुप्तपुरुषीयता दृशवाक्यार्थबोधस्योक्त्तोपस्थिति विशिष्टत्वसंदेहात्त- द्वेतुतया नोक्तोपस्थिति: कल्पयितुं शक्या, किंतु तादृशबोधनियतपूर्ववृत्तितया कृप्ततत्तत्कालीनज्ञानविशेषादावेव वैजात्यविशेषं कल्पयित्वा विजातीयज्ञानादिविशिष्टबोधे तादृशज्ञानादिसंबन्धेनोक्ताकाङ्भाज्ञानहेतुत्वान्तरं कल्प्यते; अनन्तवृत्तिज्ञानाकल्पनेन लाघवानुग्रहादिति भावः। तत्वमस्यादिवाक्यस्य तु स्वघटकपदजन्यवृत्तिज्ञानस्य शुद्धब्रह्म- ण्यनङ्गीकारपक्षे पापविशेषरूपप्रतिबन्धकसर्वे ज्ञानविशेषादिविशिष्टे अनवधारणरूपे स्वार्थबोधे ज्ञानविशेषादिसंबन्धेन हेतुत्वेऽप्युक्तप्रतिबन्धकनाशकाले तद्विशिष्टे स्वाथबोधे तत्संबन्धेन हेतुत्वान्तरं कल्प्यते, तादृशज्ञानविशेषादेरप्य- कल्प्यतया लाघवानुग्रहादित्याशयेनाह-लक्षणापक्षेSपीत्यादि। ग्रहेण निश्चयेन। तथाचेति। पापविशेष- माशस्यावश्यापेक्षणीयत्वे चेत्यर्थः । संबन्धः वृत्तिज्ञानं तात्पर्यज्ञानं च। आत्मसाक्षात्कार: साक्षात्कारस्वभावः।
Page 422
७४० अत्ेत अद्वैतसिद्धिः । [परिच्छेद: २]
गीतानिबन्धने।नच-अनिर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिजानाधीनविचारस्य जनकत्वात् कथं विचारसध्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वमिति-वाच्यम्; संशयनिवृत्तिक्षमज्ञा- नस्यैव विचार्फलत्वात्। तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षितधर्मिज्ञानादप्युपपत्तेरन तदर्थ सप्र- कारकत्वनियमः। नच गौरवम्ः प्रमाणवतो गौरवस्य न्याय्यत्वात् । नच-निर्विशेषविषयकस्य क्षा- नस्य निष्प्रकारकत्वे निर्विशेषत्वासिद्धा तत्सिद्धर्थ विशेषाभावरूपविशेषविषयत्वस्यावश्यकत्वमिति -वाच्यम्: विशेषाभावस्य स्वरूपतया तत्स्फृती प्रमाणानपेक्षत्वात्,अखण्डार्थसिद्धनुकृलपृथग्जा- तपदार्थापस्थितिविषयत्वमात्रेण विशिष्टव्यवहारोपपत्तेः। तस्मात्सगुणत्वे साधकाभावात् बाधकस- द्ावाञ्च निर्गुणत्वे तदभावात् निर्गुणमेव ब्रह्मति सिद्धम्॥ इति अद्वैतसिद्धाँ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्ति:।
अथ ब्रह्मणो निराकारत्वोपपत्तिः । एवं निराकारमपि।ननु-'आदित्यवर्ण तमसः परस्तात्''यदा पश्यः पश्यते रुक्मवर्ण''ऋुतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्' 'विश्वतश्चक्षुः' 'सहस्रशीर्षा' इत्यादिश्रुतिभिः 'पश्य मे पार्थ रूपाणि' 'सर्वतः पाणिपादं तत्' इत्यादिम्मृतिभि: ब्रह्म, सविग्रहम्, स्रपृत्वात्, पालयितृत्वादुपदे- Alv प्रतिपादनपरतया उपास्यपरतया चोपपत्तेः। नच तमसः परत्वोक्त्योपासनापरत्वानुपपत्तिः; उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्त:, नतु रूपविशिष्टस्य। नच-'एपोऽन्तगदित्ये हिरण्मयः पुरुषो दृश्यत' इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्तरनारोप्यत्वं, नहि योषितोऽग्नित्वं दृश्यत इत्युच्यत इति-वाच्यम्; प्रतीकोपासने उपास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने उपास्य-
गौडव्रह्मानन्दी (लघुचन्द्रिका )। आत्मशाब्दधीसामान्यनात्पर्य निश्चयो वाक्यार्थसंशय हे तुतात्पर्यसंशयरूपदोपोत्सारकतया निश्चयात्मके वाक्यार्थबोध प्रयोजकः, नत्वनवधारणरूपवाक्याथबोध इति भावः। नच-प्रततिबन्धकाभावादेराकाड्गाज्ञानाजन्यत्वात्त्वापारा नुपपत्तिरिति-वाच्यम्; व्यापारत्वाभवडपि तन्समानाधिकरणत्वेन संबन्धा्वसंभवान्। नच-एवं प्रतिबन्धका- भावम्यव स्वविशिष्टे वाक्यार्थबोधे हेतुत्वसंभवाद्वाक्यमप हेनुर्न स्यादिति-वाच्यम्; वाक्यज्ञानं विनोत्तबोधानुप- पत्तेः, औपनिषदत्वसमाख्यानुरोधात श्रुतिजन्यत्वं विना ज्ञानस्य प्रत्यक्षत्वादिवाधकत्वानुपपत्तश्र। गाग्वमिति। सप्रकार कनिष्पकारकयोः संशयनिवर्तकत्वे गरवमित्यर्थः। प्रमाणवत इति । उक्तरीत्या श्रुतेनिर्गुणबोधकत्वस्य अविद्यानिवर्तकत्वस्य च सिद्धतया आविद्यकसंशयादिनिवर्तकत्वं प्रमाणिकमिनि भावः। शक्तिविशषण सप्रकारक- साधारणेन। निप्पकारकस्यापि संशयनिवर्तकत्वस्य पररीत्यापि संभवान न गौरवमित्यादिकं तु पूर्वोक्तम्। तकैरि- त्यादि-निर्गुण सप्रमाणता॥ इति लघुचन्द्रिकायां निर्गुणत्वे प्रमाणोपपतिः ॥
कृष्णपिङ्गलमिति। 'अर्ध्वरेतं विरूपाक्ष विश्वरूपाय वे नम' इन। तत्तिरीयारण्यकस्थोक्तश्ुनिशेषः। अविद्या- विलक्षणेति। जडावविलक्षणत्यर्थः । उपास्यपरतयति। 'यदकलव्यक्तमनन्तरूपम् आदित्यवर्ण तमसः परस्तात्। तदेव तत्वं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीना मित्यादिज्ञेयब्रह्मप्रानपादकेपु स्वप्रकाशपरत्वेऽपि सगुणोपासनावाक्येषु आदित्यवर्णत्वेनोपासनापरतयेत्यथः। वर्तमानत्वेनापरोक्षज्ञानेति। वर्तमानापरोक्षज्ञानेत्य्थः। अनारोप्यत्व मिति। हिरण्मयश्रीरविशिष्टस्य दृश्यत्वोत्तय हिरण्मयशर्रारस्यापि दृश्यत्वलाभादविद्यमानस्येन्द्रियसननिकर्षसाक्षि- - इत्यादित्यवर्णशरीरस्याप्यनारोप्यत्वमिनि भावः। यन्तु-दर्शने इव तत्कर्मण्यपि तद्वारा वर्तमानत्वान्वय इति हिर- ण्मयशरीरस्यानारोप्यत्वलाभः, तथाचादित्यवर्णवाक्योक्तमादित्यवर्णत्वं वर्तमानं हिरण्मयत्वादितुत्यत्वात्-इति, तन्न शोभते; दर्दनद्वारा वनमानत्वान्वयो हि वर्तमानत्वान्वितदर्शनकर्मत्यान्वयः। तथाच कथमनारोप्यत्वसिद्धिः? कथं वा हिरण्मयत्वादितुल्यत्वेनादित्यवर्णत्वांदेवनमानत्वसिद्धिः? यथाकर्थचित्तुल्यत्वस्य व्यभिचारित्वात्, वर्नमानत्वेन श्रुतिजन्यबोधविपयत्वरूपस्य तुत्यत्वस्यासिद्धरवात्। प्रतीकोपासने नामादौ ब्रह्माद्युपासने। सगुणोपासने अहं
Page 423
[ब्रह्मनिराकारत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ७४१
साक्षात्कारस्य तस्य स्यादद्वेति श्रुतिसिद्धस्य नियतत्वेन तस्यव दर्शनशब्देनाभिधानात्, विश्वतश्च- क्षुरित्यादिश्रुतिस्मृतीनां सर्वात्मकतया सर्वान्तर्यामितया च नियम्यजीवशरीरचक्षु:पाणिशिर:प्रभृ- त्यनुवादित्वोपपत्तेः, सर्वतः पाणिपादत्वादेस्तु असंभवात्, त्वयाप्येवमेव वक्तव्यत्वात् । अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादनं गम्यत्वप्रवेषटृत्वाद्युपपादनं च त्वदीयमसङ्गतं स्यान्। अनुमानेSप्येवमेव सिद्धसाधनम्। 'विकरणत्वान्नति चेनतदुक्त' मिति सूत्रे अविद्यापरिणामस्य कर- णस्थानीयस्याङ्गीकागदविरोधात्। यन्तु-'तदेवानुप्राविशत् ब्रह्मविदाप्नोति पर' मित्यादिश्रुतिसिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टत्वं गम्यत्वं च विग्रहं विना न युज्यते-इति, तन्न; स्वसृप्टकार्याभिव्यक्तत्व- स्यैवानुप्रवेशशव्दार्थतया व्यापकम्य मुख्यप्रवेशासंभवात्, स्वतः प्राप्तस्यापि अविद्यातिरोधाननि वृत्त्यपेक्षया प्राप्यत्वोपचारेण विग्रहानाक्षेपकत्वात्। यनु 'तमेवं विद्वानमृत इह भवति' 'यदा पश्य' इत्यादिश्रुतौ सर्वनाम्ना सविग्रहस्यैव पगामर्शात् तज्ज्ञानस्यव मोचकत्वे सविग्रहत्वमिति, तन्न; सगुणविद्याया: क्रममुक्त्यर्थत्वेनान्यथासिद्धेः, साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षितात्मज्ञान- स्यैव मोचकत्वात्। अतएव-'देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्किणः।' इत्यादिस्मृतिरपि
गोडब्रह्मानन्दी (लघुचन्द्रिका)। ग्रहेण सगुणोपासने। स्यादद्धेति। 'यस्य स्यादद्वा न विचिकित्सास्ती ति श्रुत्या यस्योपासमद्दा साक्षान्कृत भवति 'उपासनफलं मया प्राप्तव्यं न वेनि विचिकित्सा नाम्ति च, तयोपास्यप्राप्तिद्वारकमुक्तिरुपफलप्राप्तिरिति बोधनेनाहंग्रहोपासनायामुपास्यब्रह्मसाक्षात्कारनियमः । अत एव 'विकल्पोऽविशिष्टफलत्वा'दित्यधिकरणे उपास्य- साक्षात्कार द्वारकक्रममुक्तिरूपफलाविशेयात सर्वासामहंग्रहोपासनानां विकल्प उक्तः । तस्यवेति। तथाच तत्तद्वुण-
साक्षात्कारसंभव इति भावः। वस्तुतस्तु-उपासनाया ज्ञानत्वाभावेपि इच्छादिविषयत्वेनेव तद्विषयत्वेनारोप्यस्या- विद्यमानस्यापि साक्षिभास्यत्वादादित्य वर्णत्वहिरण्मयत्वादेरारोप्यस्य वर्नमानदर्शनविषयत्वबोधकश्रुतिरुपपन्ना नानारो- व्यसाधिका। नच-उपासनाविपयत्वेन दृश्यत्वोपपाढ़नेऽपि स्वरूपेणाविद्यमानस्य दृश्यत्वं नोपपाढितमिनि-वाच्यम्; स्वरूपेण दृशयत्वस्य दृश्यत इत्यनेन बोधनादिति बोध्यम्। एतेन-हिरण्मयवाक्ये 'य एवं वेद'ति क्रियापदश्रवणात् एकवाक्योपात्तवतंमानाथेकाख्यातानामेककालीननानाक्रियाबोधकत्वाद्यदा यदोपासना, तदा तदा दर्शनस्य लाभा- दुपासनासाध्यदर्शनमादाय दृश्यत इि श्रुनिः नोपपादयिनं शक्यत इनि कुचोद्यम्-अपास्तम्; एककालीन- नानाक्रियाबोधकत्वेऽपि क्रियाणां मिथो व्याप्यव्यापकभावाबोधकत्वम्। न हि पर्चान पठतीत्युक्ते यदा पाठस्तदा पाक इनि बोध्यते। तथाचोपास्ये साक्षात्कृतेऽपि 'आप्रायणात्त्नापि हि दृष्ट'मिति न्यायेनोपासनासत्त्रादुपासनाकाले
श्रुत्योपास्यरूपप्राप्तेरुपासनाफलत्वेनोक्तत्वादुपास्यशरीरमावश्यकम्-इति, तन्न; तावताप्यनारोपितशरीरस्य ब्रह्मण्य- मिद्ेः। आरोपितशरीरं तु ब्रह्मणि वक्ष्यन एव; 'ब्रह्मणा सह ने सर्व' इत्यादिस्मृत्याद्यनुसारेणोक्तश्रुतेरारोपितसगुण- प्राप्तिपरत्वावश्यत्वान्। असंभवाढिति। सर्वदेशवृत्तिपाणिपादादिवेशिश्वमसंभावितम् ; पाणेः सर्वेशवृत्तित्वे पाददिस्तदनुपपत्तेः, मृतयोः समानदशताविरोधात्। अन्यथेत्यादि। यढि ईशशरीरं सर्वदेशवृत्तिपाण्यादियुक्तम्, तर्हि व कुण्ठादिदशविशेषावच्छेदेन ईशशरीरप्राप्तिमुक्ति: शरीरिण ईशस्यान्तर्यामिरूपेण सर्वकार्येपु प्रवेश इत्यादित्वदु- क्तिरयुक्त्तेत्यर्थः। नच-सर्वदेशव्यापकशरीरं 'पश्य मे पार्थ रूपाणीत्या'दिशाखसिद्म्, वैकुण्ठस्थशरीराप्राप्तिरपि 'एतमितः प्रेत्ये'त्यादिशास्त्रसिद्धेति-वाच्यम्, सर्वतः पाणिपादादियुक्त्तोपासकस्यापि त्वन्मते वेकुण्ठप्राह्या 'पश्य म' इत्यादेरारोपितशरीरबोधकत्वेऽपि तत्सत्यत्वाबोधकत्वात्, मुक्तप्राप्यशरीरस्यैव त्वन्मते सत्यत्वौचित्यात्। एवमेव आरोपितशरीरमादाय। सिद्धसाधनमिति। नच-सृष्टिपूर्वकालावच्छिनेशत्वेन पक्षत्वात् तत्कालावच्छेदेन सवि- अहत्वसिद्धेरुद्देश्यत्वात् न सिद्धसाधनमिति-वाच्यम्; तथाप्यनादिमिथ्याशरीरमादायार्धान्तरसंभवात् सिद्धसाधन- पदस्योद्देश्यासिद्धिपरत्वात् विग्रहं विनापि स्रषटृत्वादिसंभवेनाप्रयोजकत्वमपि बोध्यम्। करणस्थानीयस्येति। ईश्वरस्य चक्षुरादिकरणाभावेऽपि तत्कार्यकारित्वेन तस्स्थानीयमविद्यापरिणामरूपमीक्षणादि स्वीक्रियते। 'पशयत्यचक्षुः स शृणोत्यकर्ण' दत्यादिश्रुत्या हि तथोक्तमित्यस्यार्थस्योक्तसूत्रे स्वीकारादित्यर्थः। कार्याभिव्यक्तत्वस्य मनआदि- कार्येषु जीवादिविशिष्टरूपेण स्फुरणस्य। अतः व्यापकत्वात्। सविभ्रहत्वं मोक्षहेतुप्रमाविपयतवेन विग्रहस्य तार्व- कत्वात्तादृटशविग्रहवत्वम्। अन्यथासिद्धेः आरोपितशरीरबोधकत्वेनोपपत्तेः । जनकत्वपक्षे उक्तश्रुतेर्जनकत्व- बोधकत्वस्वीकारपक्षे। मोचकत्वात् उक्तश्रुत्या मोचकत्वबोधनात्। आद्ये स्वकर्मार्जितत्वे। द्वितीये परकर्मार्जितत्वे।
Page 424
७४२ अद्वैतसिद्धिः । [ परिच्छेद: २]
-व्याल्याता। किंच विग्रहः किं भौतिकः, अभौतिको वा। अभौतिकोऽपि मायिकः, अमायिको वा। अमायिकोऽपि ब्रह्ममिन्नः, अमिन्नो वा। भौतिकमायिकावपि कर्मार्जिता, परकर्मार्जितौ वा। आद्ये संसारित्वापत्तिः, द्वितीये इष्टापत्तिः। ब्रह्मभिन्नत्वे तवापसिद्धान्तः, नेति नेतीतिश्रुतिविरोधः, 'अपाणिपाद' इत्यादि श्रुतिविरोधश्च। अभौतिकामायिकव्रह्मामिन्नदेहाङ्गीकारे उक्तश्रुतिविरोधः, चार्वाकमतप्रवेशश्च, प्रमाणाभावश्च। नच 'नाभ्या आसीदन्तरिक्ष'मिति भूतकारणत्वोक्त्या अभौति- कत्वासिद्धि :; 'अग्निर्मूर्द्धे' त्यादिश्रुतिपर्यालोचनयान्तरिक्षादीनां नाभित्वादिपरिकल्पनया विराद्देह- प्रतिपादकतया शरीरस्य भूतकारणत्वाप्रतिपादकत्वात्, तमसः परस्तादित्यादेश्च विराद्देहोपल क्षितब्रह्मपरतया विग्रहस्य तमसः परत्वाप्रतिपादकत्वात्। नच 'एको नारायण आसीत् न ब्रह्मा नच शङ्कर' इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्यविग्रहसिद्धिः; नारायणशब्दस्य 'सदेव सोम्येदमग्र आसी' दिति श्रुत्यनुसारेण मायोपहितब्रह्मपरत्वेन विग्रहपरत्वाभावात्। नचैतावता चेतनान्तरसाधारण्यम्: अखण्डमायोपहितत्वस्यव व्यावर्तकत्वात्। नच 'नित्यो नित्यानां चेतनश्रे- तनाना' मिति विग्रहनित्यत्वाभावे विशषोक्तिविरोधः; विग्रहानङ्गीकारेपि स्वरूपचैतन्यमादायोप- पत्तेः। नापि 'पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृत' मित्यादो महाप्रलये देहस्य साक्षात्स्थित्यु- कत्या नित्यविग्रहसिद्धि; सर्वविकारमूलकारणाविद्यायाः संस्कारात्मनावस्थानस्य उदरीकरणश- बदार्थत्वात्। नच मुख्यार्थत्याग :: त्वयाप्यस्यार्थस्यैव वक्तव्यत्वात्, अन्यथा सकलस्य ब्रह्माण्डस्य तदनुप्रवेशमात्रेण प्रलयासिद्धः। यन्तु-'सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः । परमानन्द- सन्दोहा ज्ञानमात्राश्च सर्वदा ॥' इत्यादौ साक्षान्नित्यत्वोक्तिविरोधः-इति, तन्न; प्रलयपर्यन्तस्था-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। अपसिद्धान्त इति। त्वया विग्रहस्य ब्रह्मभेदास्वीकारादिति शेपः। नेति नेतीति। ब्रह्मभिन्नस्य सत्यत्वरूपा- मायिकतवे इत्यादिः। ब्रह्माभिन्नममायिकं शरीरमिति पक्षं दूपयति-चार्वाकेति। जीवतद्वेहयोरप्यभेदापत्या देहा- त्मत्ववादे पर्यवसानादित्यादिः। देहे ब्रह्माभेदे इदं दूपणम्। ब्रह्मणो देहामेदस्तु ममेष्ट इति बोध्यम्। प्रमाणा- भावः अभौतिकत्वादौ प्रमाणाभावः। नाभित्वादिपरिकल्पनयेति। नाभ्यादितादात्म्यारोपेणेत्य्थः । तथाच नाभिरित्याध्यर्थे नाभ्या इत्यादिकमिति भावः। ब्रह्मपरतया ब्रह्मणि तमःपरत्वपरतया। इति श्रुत्यनुमारेणेति। 'एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नापो नाग्नीपोमौ न इमे द्यावापृथिवी'त्यादिमहोपनिपद्पि भूनभों- तिकसकलकार्यस्रष्टत्वादिकं नारायणशव्दितस्य मायावच्छिव्नचतन्यस्येव प्रतिपादयत। 'सेदेवे न्यादिश्ुत्युक्तसद्पस्येव नारायणशब्देनोक्तिसंभवात्, नारं जीवसमृहः अयनं नियम्यं यस्येति व्युत्पत्तः। नच-शर्गरविशिष्टे नारायण- शब्दरूव्या सदेवेत्यादिश्रुतिरेव शरीरविशिष्टपरेति-वाच्यम्; 'एकमेवाद्वितीय मित्यादिविरोधान, मायादेस्नु मिथ्यात्वेन तदविरोधात्, 'मार्या तु प्रकृति' 'ज्ञाजो द्वावजावीशानीशा'विति श्रुत्यादिमानेन मायादेरनादेः सिद्धत्वे- उप्यनादिशरीरे मानाभावाच्च। अखण्डेति। जीवास्तु मायाप्रदेशरूपाविद्योपहिताः । मायाविद्ययोरभेदपक्षे नु मायावित्वमेव व्यावतकं बोध्यम्। इदं सदेवाग्रे आसीदित्यनेन प्रपञ्चस्य संस्कारभावापन्नस्य सदात्मकतया स्थित्यु- वत्या संस्कारस्य च परिणामिकारणमायानियतत्वात् मायावच्छिन्नत्वं चैतन्यस्यार्थाल्लभ्यत इति बोध्यम्। यन्तु- प्रलये शरीरं विना चेतनसामान्यसरवान्नारायणस्यैव सत्वकथनमयुक्तम्-इति, तत् माढ्यात्; नारायणस्येक्षणादि पूर्वकजगत्सष्टृत्वादवांच्यत्वेन तदर्थ तस्यैव प्रलये सत्वोक्तः । ननु-'स एकाकी न रेमे तस्य ध्यानात्ततस्थस्य तस्मिन् पुरुषाश्चतुर्दशाजायन्त एका कन्ये'त्यादिना.भूतेन्द्रियसृष्टिमुकत्वा 'तस्य ललाटात् त्र्यक्षः शूलपाणिरजायते'त्युक्त: शरीरी नारायणो जगरकारणमिति-चेन्न्; एकमेवाद्वितीयमित्याद्यनुरोधेन ललाटपदस्य मायापरखात्तदानीमुरन्ननारायण-
संस्कारात्मना सर्वविकारसंस्कारविशिष्टात्मना। स्वकृतं सरवं संस्काररूपेण विकृतं मायारूपोदरस्थीकृत्येति प्रकृतार्थ इति भावः। मुख्यार्थेति। उदरपदमुख्यार्थेत्यर्थः। तदनुप्रवेशति। उदरप्रवेशेत्यथेः । प्रलयासिद्धेरिति। संस्कारात्मना कार्यस्य कारणेऽवस्थानस्यैव प्रलयत्वात् संस्कारत्वापस्नस्य जगत उदरेऽवस्थानं न प्रलयः; उदरस्या- कारणत्वाद् । अत उदरपं विनाश्यमानाधारत्वगुणयोगेन मायायां गौणमिति त्वयापि वाच्यम्; मायायास्तु कारणत्वं श्रुत्यादिसिद्धमिति भावः। प्रलयपर्यन्तस्थायीति। प्रलयस्थायीत्यथः । तेन श्रीकृष्णादिदेहस्य योग- धारणया दग्ब्वेत्यादिना प्रलयपर्यन्तत्वाभावलामेऽपि न क्षनिः। शाश्वता इृत्यनेन तु उपासनातिशयेन तत्तजातीय- देहा: सर्वदा दषुं शक्याः पूर्वोत्पन्नश्रीकृष्मादिदेहस्य नष्टत्वेऽपि भक्त्तवात्सल्येन भगवता तज्जातीयदेहान्तरं जनयित्वा
Page 425
[ब्रह्म निराकारत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७४३
यिदुःखभोगानायतनज्ञानमात्रप्रधानदेहपरतया त्वद्विवक्षितपरत्वाभावात्। अतएव जडस्ततो मिन्नश्च। नच-"आनन्दरूपममृतं यद्विभाति" "आप्रणखात् सर्व एवानन्दः" "मोदोदक्षिणः पक्षः" "यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक" इत्यादिश्चुतेमेदा- भावेऽपि अहिकुण्डलन्यायेन विशेषबलाद्विग्रहत्वोपपत्तिरिति-वाच्यम्; आत्मनो ज्ञानानन्दरूपत्व- प्रतिपादनपरत्वेन विग्रहाप्रतिपादकत्वात्। 'विचित्रशक्ति: पुरुषः पुराण' इत्यादिवाक्यस्य 'आत्मनि चैवं विचित्राश्च ही' ति सूत्रस्य च मायाशक्तिवैचित्रयप्रतिपादकत्वेनात्मशक्त्यप्रतिपादकत्वात्, आ- प्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन दुःखाद्यभोक्तृतयोपपत्तेः। मोदो दक्षिण इत्यादेरानन्दमय- कोशप्रतिपादकतया ब्रह्मपरत्वाभावात्। न हि शुत्युक्तत्वमात्रेण ब्रह्मणो विग्रहरूपता। 'ब्रह्मैवेदं सर्व पुरुष एवेदं सर्व मित्यादिश्रुत्या प्रपश्चरूपतापि ब्रह्मण्यापद्येत । स्वरूपानन्द एव नित्यत्ववद- पराधीनत्ववञ्च विग्रहत्वकल्पनस्य परिभाषामात्रत्वात्। मन्मतेऽपि ब्रह्मातिरिक्तस्य ब्रह्मसत्तास- मानसत्ताकत्वाभिमतस्य ब्रह्मणि निषेधाङ्गीकारात्। नच-'नेषा तर्केण मतिरापनेये'ति तर्कागम्य- त्वोक्त्या आत्मन एव विग्रहवत्त्वमिति-वाच्यम्; निर्विशेषात्मन एव तर्कागम्यत्वोक्त्या आत्मनो विग्रहवत्वस्य तर्कागम्यत्वानुक्तररूपत्वेन चाक्षुपत्वाप्रसक्त्या पिशाचादिवदन्तर्धानशक्त्यानुपलम्भ- समर्थनस्याप्रसक्तसमर्थनत्वात्, विग्रहपक्ष 'अपाणिपाद' इत्यादिश्रुतिविगेधस्योक्तत्वाञ्च। नच-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रदर्श्यंत इति ज्ञापितम्। परमानन्दसन्दोहा इत्यस्य विवेचनं-दुःखभोगानायतनेति। ज्ञानमात्रा इत्यस्य विवे- चनं-ज्ञानमात्रप्रधानेति। आवरणशून्येत्यर्थः । रघुनाथादिदेहेऽपि आवरणकार्य रोदनादि ब्राह्मणशापावैयर्थ्य- सूचनायेति भावः। अहिकुण्डलेत्यादि। वलयाकाराहिकुण्डलाभेदेऽपि यथाहिकुण्डलयोर्विशेषस्य भेदस्थानीयस्य सश्वेनाहि: कुण्डलीनि व्यवहारः, तथा ब्रह्मतच्छरीरयोरपि विशेषस्वीकारेण ब्रह्म शरीरीनि व्यवहार इति भावः। मंयोगविशेपस्य तद्विशिष्टस्य वा केवलाहिन्वविशिष्टान् भेद एव संभर्वात। अत एव भट्टादिमते गुणगुण्याद्योरभेदा- भेदस्वीकारः, घटत्वनीलत्वादिरुपभेदेन तदुपहितयोरभेदसंभवान, प्रतीयमानत्वेनाभेदस्यापि संभवात्। तथाच मेद- स्यैच विशेष इनि नामभेदमात्रत। अस्तु वा भेदान्यो विशेषः, तथापि ब्रह्मतच्छर्रीरयोन तत्संभवः । स हि भिन्न- धर्मोपहितयोरेव वाच्यः, अन्यथा तद्यक्तिमद्यक्तिमतीत्यादिप्रत्ययस्यापि विशेपविषयकत्वेन प्रमात्वापातात्। नच ब्रह्मत्वाद्यन्यत शरीर्वादिकं ब्रह्माभिन्नवृत्तिः; मानाभावात्। चेष्टावदन्त्यावयवित्वं शरीरत्वमिनि हि वृद्धाः । ब्रह्मणि तत्म्वीकारेण च 'निप्फलं निष्क्रिय मित्यादिश्रुतिविरोधश्च।नच-प्राकृतांशक्रिययोः उत्तश्रुत्या निषेध इति-वाच्यम्; संकोचे मानाभावात्, शरीरित्ववोधकमानगतेरुक्तत्वात्, सावयवत्वेन विनाशित्वाद्यापत्तर्वक्ष्यमाणत्वाच्चेत्याशयेन विशेषे स्फुटं दूषणं मत्वा श्रुतिमुपपाद्यति-आत्मन इत्यादि। तथाच यदात्मकः यत्स्वरूपेणात्यन्ताभिननसव- रूपः। भगवान् ईश्वरः। तदात्मिका तत्स्वरूपेणात्यन्ताभिन्ना। व्यक्तिः अभिव्यक्तिरपरोक्षचिद्रूप आत्मा। ज्ञानात्मक: ज्ञानस्वरूपात्यन्ताभिन्नः । ऐश्वर्यात्मकः नित्यनिररातशयानन्दस्वरूपात्यन्ताभिन्नः। तथाच चिदात्मा- प्युक्तस्वरूपाभिन्न इति जीवग्रह्मस्वरूपयोरभेद श्रुतितात्पर्यमिति भावः । शक्यप्रतिपादकत्वात् तात्विकशक्त्य- प्रतिपादकत्वात्। तथाच तह्टष्टान्तेन तात्विकशरीरसाधनप्रत्याशा नेति भावः। लीलाविग्रहेति। तथाच प्रणख- पर्यन्तं सर्वो देहो दुःखानवच्छेदक इत्येव श्रुत्यर्थः; अन्यथा प्रणखादिहिरण्मयदेहस्यानन्दरूपत्वानुपपत्तेः। विचित्र- शक्तित्वं तु कार्यस्य संभावितत्वे नियामकम्, नत्वीशस्वरूपाभिन्नदहस्य । तस्य नित्यत्वेन शक्त्यविषयत्वादिति भावः। ननु-नित्यत्वादिकं ब्रह्मस्वरूपं त्वयापि वाच्यम्; अन्यथा ब्रह्मणो नित्यान्यस्वभावत्वापतेः, तथाच विग्रहस्यापि ब्रह्मस्वरूपत्वसंभवेन नित्यत्वसत्यत्वादिसंभव इति कथं तत्खण्डितमित्यत आह-नित्यत्वेति। परि- भापेति। सोपादानकद्रव्यस्य चेष्टावदन्त्यावयवित्वेन शरीरपदशक्यत्वात्तस्य च ब्रह्मण्यसंभवात्तत्र शरीरनाममान्रं त्वया कृतं नास्मदनिष्टमिति भावः । निर्विशषेति। निर्विशेषप्रकरणस्थोक्तश्रुत्येत्यादिः। अरूपत्वेनेत्यादि। अनुपलम्भसमर्थनस्य इन्द्रादेरिवेशस्यान्तर्धानशक्त्या श्रीकृष्णादिदेहस्य सदा विद्यमानत्वेऽपि सर्वपुरुषान् प्रति कादाचित्कमनुपलम्भनमिति समर्थनस्य। अप्रसक्तसमर्थनत्वात् चाश्ुषाप्रसक्तावपि चाक्षुषाभावसमर्थनत्वात्। अयमन्ये च हेतवो विशेषबलाद्विग्रहवत्वोपपत्तिररिति नच-वाच्यमिति पूर्वोंक्ते बोध्याः। अप्रसक्तसमर्थने-अरूप- त्वेन चाक्षुषत्वाप्रसक्त्येति। नीलत्वपीतत्वरक्तत्वतव्याप्यजात्यवच्छिन्नं प्रति पृथिवीत्वेनोपादानत्वान्नीलादिरूप- सामान्यस्य पृथिवीजन्यत्वेन ब्रह्मविप्रहे नित्यरूपं न संभवति। जन्यं तत् विग्रहकारणगतरूपात्, पाकाद्वा, नाद्य :; त्वन्मते वित्रहस्य नित्यत्वात्। नान्त्य :; पाकपूर्व रूपान्तरस्य वाच्यत्वंन श्रीकृष्णादिविप्रहस्य नानारूपतापचे:।
Page 426
७४४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
'अदुःखमसुख' मित्यादौ प्राकृतसुखनिषेधवदत्रापि प्राकृतावयवनिषेधपरता, अन्यथा 'शणोति पश्यती'ति वाक्यशेषविरोधः स्यादिति-वाच्यम्; आनन्दादिरूपताप्रतिपादकश्रुतिविरोधेन तत्र सङ्कोचवदत्र सङ्कोचकारणाभावात्, श्रवणदर्शनयोः शब्दरूपसाक्षित्वमात्रेण उपपत्तेरन तद्विरोधः। अन्यथा त्वन्मतेऽपि ब्रह्मणि चक्षुरादिसाध्यज्ञानानङ्गीकारेण तद्विरोधो दुष्परिहार: स्यात्। अत- एव-'अरूपोSप्राकृतश्चे'ति स्मृत्यैवारूपश्रुतिगत्युक्तेः नारूपमित्यनेन रूपमात्रनिषेध इति-निरस्तम्; स्मृतेरुपास्यपरत्वेन ज्ञेयव्रह्मप्रतिपादिकाया: श्रुतेः सङ्गोचे कारणाभावात्, श्रुतिस्मृत्योरतुल्यबलत्वा- ञ्ञ, प्रत्युत 'यत्तदद्रेश्य' मित्यादिना परविद्याविषयम्य विग्रहवत्त्वप्रतिपादनविरोधाञ्च। किंच भगव- द्विग्रहो न नित्यः: महत्त्वे सति रूपवत्वात्, विग्रहत्वाद्वा, नित्यताबोधकत्वाभिमतश्रुतेरन्यथासिद्धेरु-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नहि स कदाचित नवनीरदश्यामः कदाचिदिन्द्वनीलादिश्यामः; तथासति ध्यानस्याव्यवस्थितत्वापत्तेः । नच- नवनीरदश्यामत्वादिकत्वमेवोपास्यम्, नवीननीरदश्याममित्यादिगौतमीयतत्रादौ तथोक्तत्वात्। तथाच श्रीकृष्णा- दिविग्रहे एकैकजातीयरूपमेवोपास्यमिति प्रतिविग्रहं पाकजनानारूपस्वीकारेऽपि नोपासनस्याव्यवस्थेति-वाच्यम्; एवमपि पूर्वरूपनाशकरूपान्तरोत्पादकस्तेजःसंयोगविशेषरूपः पाको ब्रह्मणि जायत इत्यत्र नियामकाभावात् सर्गादौ जायत इनि वाच्यम्। तथाच रूपरसगन्धस्पर्शानां चनुर्णामुत्पत्तिनाशकल्पनागोरवात् अनादिरूपा- दिविशिष्टं पूर्वदेहं विनाश्य तादृशमुत्तरं देहं पाको जनयनीत्येवोच्यताम्। अतएव 'रूपादिमर्वाच्च विपर्ययो दर्शनादि'ति सूत्रस्य पृथिव्यादिभूतसामान्यानित्यताप्रनिपादकस्य त्रसरेणुगतानां रूपादीनां पाकजत्वादिकल्पना- पेक्षयाऽनादिरूपादिविशिष्टस्य त्रसरेणोरव पाकजत्वादिकल्पनं युक्तमित्यादितर्कपरता सूत्रमुक्तावल्यामस्माभिर्य्या- ख्याता। अतएव चैकैका एव नीलारुणादिव्यक्तय इनि मीमांसकाः। एवं च कृष्णाय देवकीपुत्रायोक्वोवाच 'ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । चिन्मयेऽस्मिन्महाविष्णी जाते दशरथे हरो। रघोः कुलेऽग्विलं राति राजते यो महीक्षित' इत्यादिशुतयः। 'प्रकृतिं स्वामधिष्टाय मंभवामि। धर्मसंस्थापनार्थाय संभवामि युगे युगे। तदात्मानं सृजाम्यहम्। जन्मकर्माभिधानानि सन्ति मेऽद्य सहस्रशः । बहूनि मे व्यनीतानि जन्मानि तब चार्जुन' इत्यादिस्मृतयश्च न बाध्यन्ते। नच-नित्यसुखादिसत्वेन जन्यसुखत्वादिना धर्मादिजन्यत्वमिव नित्यनीलादिरूप- विशिष्टविग्रहानुरोधेन जन्यनीलत्वादिनैव पृथिव्यादिजन्यत्वमिनि-वाच्यम्; गौरवात्, सुखन्वादिजानिस्तु न नित्य- वृत्तिरिति तयव धर्मादिजन्यत्वादिनि भावः।अन्यथा पाणिपादचक्षःश्रोत्ादिसामान्यस्योक्तश्रुत्या निषधे। शृणोति पश्यतीति। पश्यत्यचक्षुरित्यादिश्रुनीत्यर्थः । सङ्कोचवदिति। वस्तुतः मंकोचो नासत्येव; सुग्त्वविशिष्टस्यंव निषे- धात, सुगम्वरूपस्य ब्रह्मणः सुखशन्यत्वाविरोधाच्च। श्रवणदर्शनयोः शणोनिदृशिघात्व्थयोः । साक्षित्वेति। तथाच शृणोत्यादिकं श्रावणत्वादिजातिविशिष्टे शक्तमपि शव्दादिविषयकत्वरूपशक्यगुणयोगेनेशसाक्षिणि गौणमिनि भावः। वस्तुतश्चक्षुरादेरिव मायोपाधेरप्युक्तश्रुतिबलाच्चाक्षुपादिहेतुत्वं कल्प्यते, ननु चक्षुरादीन्द्रियम्; अचक्षुरित्या-
गौरवान्। जीवचक्षुःसन्निकर्पेणव वा भगवच्चाक्षुपम्। तत्पुरुषीय चाक्षुपगतवैजात्यविशेप विशिष्टेपु सन्निकर्पाणां वजा- त्यविशेपर्हेतुत्वानामावश्यकत्वात् ईशचाक्षुपजनकतावच्छेदकवजात्यस्यापि जीवचक्षुरादिसन्निकर्पे स्वीकारसंभवात्, जीवचाक्षुय जनकतावच्छेदकवैजात्यस्येश्वरनिष्टचाक्षुपहेतुत्वेन कल्प्यमाने पिशाचादिनिष्ट जीवचक्षुस्सननिकर्षे सत्वे मानाभावेन ततो जीवचाक्षुपापत्यसंभवादिति ध्येयम्। गत्युक्तरिति। अप्राकृतपद्समभिव्याहारात् अरूपपदं प्राकृतरूपनिपंधकमिनि भावः। अरूपमित्यनेन 'अशव्दमस्पर्शमरूप' मित्यादिश्ुत्या। उपास्यपरत्वेनेति। प्राकृतपदस्य भौतिकपरतया भूतरूपशृन्यात्मकोपास्यपरत्वेनेत्यर्थः। वस्नुतो भातिकत्वनिषेधादेव भौतिकरूपशून्यस्यो- पास्यत्वलाभे अरूपपदं रूपसामान्यनिषेधकम्। तथाचाप्राकृतपदेन प्राकृतविलक्षणमायोपाधिकत्वेनारूपपदेन च रूपसामान्यशन्यत्वेनोपास्यत्वमुक्तस्मृत्या लभ्यत इति बोध्यम्। प्रत्युतेत्यादि। 'दे विद्ये परा चापरा च। अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपाद'मित्यादि अशब्दमस्पर्शमित्य- न्तवाक्यं परविद्यापरत्वेन विग्रहशून्यशुद्धप्रातपादकमवश्यं वाच्यमिति भावः। न नित्य इति। विनाशीत्यर्थः। रूपमात्रं परमते परमाण्वादौ व्यभिचारीत्यतो-महत्वे सतीति। तावन्मान्रमात्मादावपीति-रूपवत्वादिति। नचाप्नयोजकत्वम्; रूपस्योक्तरीत्या नित्यत्वासंभवान्, जन्यरूपस्याप्युक्तरीत्या विग्रहकार्यत्वविनाशित्वसंपादकत्वात्, महत्वस्वापि रूपसमानाधिकरणस्य जन्यत्वनियमान्। जन्यमहत्वे च स्वाश्रयावयवस्य महत्त्वं बहुत्वं प्रचयो वा हेतु :; घटाद़ौ कपालादिमहत्वात, त्रसरेणौ अ्यणुकबहुत्वान, तूलपिण्डादाववयवप्रचयान्महत्त्वोत्पततेः। तथाच विग्रहे
Page 427
[ब्रह्मनिराकारत्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ७४५
कत्वाञ्च। नच प्राकृतत्वमुपाधि :; साधनव्यापकत्वात्। सावयवत्वादपि न नित्यत्वम्। नच श्रुतिब- लात् क्वचित् सावयवोऽपि नित्य :; श्रुत्यन्यथासिद्धेरुक्तत्वात्। ननु-अवयव उपादानं चेत् ब्रह्मवि- प्रहे नास्त्येव, एकदेशमात्रं चेत्, गगनात्मादी व्यभिचार :; तयोरप्येकदेशसत्त्वात्, नचोपादाना· तिरिक्तस्यैकदेशस्यैवाभावः; उपादानतन्त्वन्यहस्तवितस्त्यादिपरिमाणदेशस्य पटादावनुभवादिति- चेन्न; उपादानतन्तूनामेव हस्तवितस्त्यादिपरिमाणवतामनुभवात्। गगनादी संयोगित्वा दिना यदेक- देशसाधनं तदिष्टमेव; अस्माभिस्तत्र सावयवत्वानित्यत्वयोरङ्गीकारात्। यत्तु आत्मनि सुखद्गुःख- योर्देशभेदेन प्रतीतेरेकदेशसाधनं, तन्न; सुखदुःखयोरन्तःकरणगततया तद्गतत्वाभावात्। नच- "गौरनाद्यन्तवतीत्यादि"श्रुत्या अनादिनित्याया अपि प्रकृतेः सत्वरजस्तमोरूपैकदेशदर्शनाद्यमिचार दति-वाच्यम्; प्रकृतौ नित्यत्वाभावादविद्यातिरिक्तप्रकृतेरभावाच्च। नचाविद्यायामेव व्यभिचार :; तस्या अप्यनित्यत्वेन व्यभिचाराभावात्। नच-जीवानामपि 'द्रोणं बृहस्पतेर्भागं द्रोणिं रद्रांशसंभ- वम् । दुर्वासा: शङ्करस्यांश' इत्यादिनांशोक्तेः 'यस्यायुतायुतांशांशे विश्वशक्तिरवस्थिता। परव्रह्मस्व- रूपस्य प्रणमामि तमव्ययम् ॥ विष्टभ्याहमिदं कृत्स्मेकांशेन स्थितो जगत्।' इत्यादिना ईश्वरस्या- प्यंशोक्तर्जीवेशयोर्व्यभिचार इति-वाच्यम्: आत्मनोंऽशस्योपाधिकतया स्वाभाविकत्वाभावात्, त्वन्मते जीवानामणुरूपतया स्वाभाविकांशाभावेन काल्पनिकांशस्यैव वक्तव्यत्वात्। एतेन भगवल्लो- कादेरपि नित्यत्वमपास्तम्। नच 'अतो हि वैष्णवा लोका निन्यास्ते चेतनात्मकाः। मत्पसादात्परां शान्ति स्थानं प्राप्म्यसि शाश्वतम् ।I' इत्याद्यागमविरोधः; तस्यावान्तरप्रलयस्थत्वपरत्वात्। तस्मा- न्निगुणं निराकारं ब्रह्मति सिद्धम्॥ इत्यद्वैतसिद्धौ ब्रह्मणो निराकारत्वसिद्धिः॥
गोडव्रह्मानन्दी (लघुचन्द्रिका) महश्वोत्पत्ति प्रति तावदन्यतमहेतुत्वावश्यकतया सावयवत्वेन विग्रहे जन्यत्वं तेन च विनाशित्वमावश्यकमिति भावः। साधनव्यापकत्वादिति। विग्रहे प्राकृतत्वस्य सन्दिग्घत्वेऽपि परं प्रनि नायं सन्दिग्घोपाधिः। अनुकूलतर्काणा- मुक्तत्वेन पक्षीयव्यभिचारमंभवस्य सन्दिग्धोपाधिकार्यस्याप्रयोजकत्वादिनि भावः। सावयवत्वात् अवयवोपादा- नकत्वात्। उक्तत्वादिति। 'ब्रह्मण्यो देवकीपुत्र इत्यायुक्तश्ुतिस्मृनिरूपोत्पत्तिनाशबोधकविरोध इत्यपि बोध्यम्। तन्तृनामेव तन्तूनामपि। नथाच पटादाविव तिग्रहस्यापि मध्यमपरिमाणवत्वेन परिणामिकारणरूपावयवत्वमनु- मीयते; अन्यथा विग्रह इनि परिभाषामात्रापातात, अन्त्यावयविविशेष एव विग्रहपदवाच्य इत्युक्तत्वादिति भावः। अङ्गीकारादिति। नाकिकादिमने न तत्र संयोगित्वादो मानाभावः। गवाक्षजालादी तत्त्ुटय एव चाक्षुपाः, नतु नेपां गगनसंयोग इनि वोध्यम्। औपाधिकनयेति। तथाच द्रोणादिशरीरावच्छिन्नं यत् बृहस्पत्यादिशरीरा- वच्छिनमनोजन्यमनश्चक्षरादिकं तद्पाधिक आत्मेव बहस्पत्याद्ंशः। 'प्रदीपवदाचेशम्तथाहि दर्शयती'नि सूत्रे कायव्यूहस्थल उपासनामाहातम्येन मनश्चक्षुराद्यन्तरसृष्टेरुक्रतत्वात्। एवं मायापरिणाममनआद्युपाधिकहिरण्यगर्भा- दिरूपेण ईश्वरस्य बहुभवनस्य श्ुत्युक्तत्वाद्विरण्यगर्भादयस्तदंशा इनि व्यवहार इति भावः । चेतनात्मकाः आवरण- बाहुल्यशून्याः। तस्य उक्तागमस्थनित्यादिपदस्य। अवान्तरेति। 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिपत्। एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नापो नाग्नीपोमौ न इमे द्यावापृथिवी न नक्षत्राणि न सूर्यः' इत्यादिश्रुतिभि: प्रलये सकलकार्यसंस्कारोपहितमायावच्छिन्नचिन्मात्रसत्तामुक्त्वा 'स ईक्षत लोकान्नु सृजा इति स इमाँलोकानसृजत। सोऽकामयत' इत्यादिना तस्य ध्यानान्तस्थस्येत्यादि पुरुपाश्रतुर्दशाजायन्तेत्यादिपञ्चतन्मान्राणि महाभूतानीत्यादिना च सर्वलोकघटितप्रपञ्चसृष्टेरुकत्वात् 'यतो वा इमानि भूतानि जायन्ते यत्प्रयन्त्यभिसंविशन्ति सुपुप्तिकाले सकले विलीने एतस्मादात्मनः सर्चे वेदाः सर्वे देवाः सर्वाणि च भूतानि व्युच्चरन्नी'त्यादिश्रुतेः भूतत्वाव- च्छेदेन ब्रह्मजन्यत्वनाश्यत्वकल्पने लाघवादभौतिकवैकुण्ठलोके मानाभावात् अनादित्वेन श्रुतियुक्तिसिद्धमायादि- भिन्नजडत्वावच्छेदेन लाघवात् ब्रह्मोपादानकत्वात् सोपादानकमात्रस्याविद्यकत्वेनाविद्यानाश्यत्वात् मडसामान्यस्य विनाशित्व मित्युक्तवाक्यस्थं नित्यादिपदमवान्तरप्रलयस्थपरमिति भावः। तर्करित्यादि-ब्रह्मण्याकारखण्डनम्॥ इति लघुचन्द्रिकायां ब्रह्मणो निराकारत्वसिद्धिः॥
अ. सि. ९४
Page 428
७४६ अद्वैतसिद्धिः । [परिच्छेद: २]
अथ ब्रह्मणो निर्गुणत्वनिराकारत्वयोरुपपत्तिः ॥ (१) तत्र न्यायामृतकारा :-
तच्चेदं ब्रह्म न निर्गुणम्, किंतु सगुणमेव । तत्रच साधकानि प्रमाणानि "वृहन्तोऽस्य धर्माः" इति श्रुतिः, "ब्रह्मेशा- नादिभिदवैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश् सर्वदा" इत्यादिस्मृतयश्च। यथाचापूर्वलात् ब्रह्म सत्यं एवं तत्सत्यकामत्वादिकमपि सत्यमेव। नह्यतावतापि निर्गुणप्रकरणादिकं सिद्धमिति न तदपेक्षितनिषेध्यसमर्पकतया सगुण- वाक्यानामुपयोगः। नहि श्रुतिप्राप्तस्य श्रुत्या निषेध उपपद्यते। अन्यथा अग्रीषोमीयहिंसाया अहिंसावाक्येन ग्रहणत्रह्मस- त्वयोरग्रहणवाक्येनासद्वेति वाक्येन च निषेधप्रसंगात्। एतेन-ब्रह्म, धर्मिसमानसत्ताकधर्मवत्, उक्तसमसत्ताकभाव- रूपधर्मवद्वा, यावत्सरूपमनुवर्त्तमानधर्मवद्वा, स्वज्ञानाबाध्यधर्मवद्वा, धर्मेविना नावतिष्ठते वा, पदार्थल्ात्, भावताद्वा, घटवत्, (२) ब्रह्म वेदान्ततात्पर्यगोचरप्रकारवत्, वेदान्तविचारविषयलात्, यथा धर्मः, (३) ईश्रवरः, सदा त्यक्तसम- स्तदोषः, सदा तज्जिहासुत्वे सति तत्त्यागे शक्तत्वादित्याद्यनुमानान्यपि तत्र साधकानि-सूचितानि; अधिष्ठानतवसंदिग्ध- त्वाद्यनुपपत्तिः सर्वत्रानुकूलतर्कः । पतेन-सत्यकामादिवाक्यस्यापरव्रह्मविषयत्वं-परास्तम्; सगुणातिरिक्तव्रह्मणोडयया- प्यसिद्धेः। अतएवान्तस्तद्धर्मोपदेशात्, अदृश्यत्ादिगुणको धर्मोक्तेः । इत्यादिसूत्राण्यप्यनूकूलानि । परः पराणामित्यादि- श्रुतिरपि सगुणस्यैव परात् परत्वं बोधयन्तीदानीमुपपद्यते। अन्यथा "सदेव सोम्येदमग्र आसीत्" "असद्वा इदमग्र आसीदित्यनयोरपि परापरव्रह्मविषयत्वापत्तिः। इदानीं सगुणं कालान्तरे निर्गुणमित्यर्थविवक्षायां तु गुणाद्यनित्यत्वमेव प्राप्रोति, नतु तन्मिथ्यातम्। "ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः । एप निल्ो महिमा ब्राह्मणस्येत्यादिश्रुत्या ब्रह्मज्ञानादिनित्यत्वप्रतिपादनादपि सगुणपारमार्थिकतमवगम्यते। एतेन-औपाधिकगुणपरत्वेन सगुणश्रुत्युपपत्तिरपि- परास्ता; औपाधिकत्वस्य सोपाधिकाध्यस्तत्वरूपत्वे श्रुत्यप्रामाण्यापत्तेः, वक्ष्यमाणसत्यत्वश्रुतिविरोधाच, उपाधिकल्पितरू- पत्वेतूक्तनित्यत्वश्रुतिविरोधात्, अन्तःकरणादिरपोपाधिसृष्रः प्रागेवेक्षितृत्वादिश्रुतेरुपाध्यसंभावाच्च। अतएव हि स्वाभा- विकी ज्ञानवलक्रियाचेति सवाभाविकत्वश्रवणमुपपद्यते। वस्तुतस्तु-थ्रुत्योविरोधे एकस्या नातात्विकविपयल्वम्, शास्त्र- विरोधे संकोच विकल्पादिनोभयप्रामाण्यस्य पूर्वतन्त्र व्याकरणच निर्णातलात्। तदुक्तं-कोहि मीमांसको त्रूयाद्विरोधे शास्त्रयोर्मिथः । एक प्रमाणमितरदप्रमाणं भवेदिति। विकारशद्दान्नेति चन्न प्राचुर्यात् ईक्षतेनाशवदमित्यादिपु शास्त्र- विरोधेऽपि तात्त्विकार्थान्तरपरतवोक्ता, नत्वारोपितार्थान्तरपरता। अन्यथेक्षत्याय्धिकरणसिद्धान्तसाधकानाभीक्षणानां प्रधानादावपि संभवेन प्रधाननिराकरणानुपपत्तेः। एवंच मृडमृदेत्यादेनंत्तवासेडिति निषेधवाधकलवमिव सगुणवा- क्यानां निर्गुणवाक्यनिषेधकत्वमेव युक्तम्। "नेह नानास्ति किंचन" तत्त्वमसीत्यादिकंतु "विश्वं सत्यं" द्वा सुप- णैत्याद्यपेक्षित प्रतियोगिसमर्पणार्थ सन्न दुष्यति। एतेन-यः सवज्ञ इत्यादेरपि सार्वज्यादिविशिट्टपरमार्थतायामेव प्रामाण्यमिति-सचितम्; नहि व्रह्मणः सार्वश्यादिकमनुमानादिसिद्धम्। साक्षी चेतेत्यादिकं तु द्रषटतादिगुणप्रा- पकं न गुणसामान्यनिषेधायालम्। आत्मेत्येवोपासीतेत्युपासनाशेपतया ह्यद्वनं प्रतिपादते इति न तत्सिद्धति । अतएवहि-"आनन्दादयः प्रधानस्य" "व्यतिहार" इति सूत्रयोरानन्दं व्रह्मेत्यादिश्रुतानामानन्दादीनां तद्योऽद्मिति श्रुत्युक्तस्य जीवेशत्वस्येशजीवत्स्य चोपास्यता वर्णिता। अस्तुवोत्तरतापनीयानुसारेण निर्गुणोपास्तिरपि, एवमपि निर्गुणस्येव सत्यकामतादितात्त्विकतापि सिध्धेदेव। परमात्मनोऽपि ध्येयत्वमीक्षतिकर्मादिसूत्रभामत्यादी वर्णितमेवेति तस्य सगुणतमेव। अतएव, सत्यकामः सत्यसंकल्पः सोऽन्वेष्व्यः स विजिज्ञासितव्य इति सत्यकामलादीनामप्यपह- तपाप्मत्वादिभिर्जिज्ञास्यलनिर्देशोपपत्तिः। अतएव सत्यः सोऽस्य महिमेति सार्वज्यादिसत्यलविधानमपि संगच्छते। अन्यथा ब्रह्मसत्वमपि तात्त्विकं न सिद्धेत्। "पृथगात्मानं प्रेरितारं च मत्वे"त्कदिश्रुतिपु "यो मामशेषदोषोत्थगुणसर्वस्वर्जितम्। जानात्यस्मे प्रसन्नोऽह दद्यां मुक्ति नचान्यथा। भोक्तारं यज्ञतपसां सर्वलोकमहेश्ररम्। सुहृदं सर्वभूतानां ज्ञाला मां शा- न्तिमृच्छति"इत्यादिघुच सविशेपज्ञानमेव मोक्षसाधनमुद्धप्यते। पुण्यपापे विधूयेति श्रवणात् सविशेषज्ञानजन्या मुक्तिः परममुक्तिरेव। एवंच सगुणत्साधकानां वहनां ग्रमाणानां विद्यमानत्वात् सगुणमेव। नच निगुणश्रुत्या बाधः; नहि निषे- धकत्वं प्रावल्यप्रयोजकम्; असद्वेत्यस्यापि सदेवेति वाक्यबाधकतापत्तेः । नह्यपच्छेदन्यायोऽत्र प्रसरतीति पूर्वमेव निरूपि- तम्। सगुणज्ञानमपि फलवदेवोक्त्तमिति फलवत्सन्निधाविति न्यायेन निर्गुणवाक्यानुगुणतया नयनमपि न संभवति। एवंच प्रबलसगुणवाक्येन निगुणवाक्यस्यैव वाधो युक्तः। सगुणवाक्यप्रावल्यं चासंजातविरोधिलात, लिद्गाच्छ्रुतेरिव शीघ्रगामि- लात, पढे जुहोनीतिवत् विशेषविषयत्वात् दीक्षणीयायामनुन्रयादित्यत्रेव निरवकाशलात्, बहुलात् प्रवृत्तिनिमित्तापेक्ष- ब्रह्मादिशव्दरधमिणं निर्दिश्य क्रियमाणे धर्मनिषेधे तेषामुपजीव्यतया सन्निपातन्यायाच् सिद्धति। संभवति हि निर्गुणवा- क्यानां न्रगुण्यवजित विना हेयगुणैर्युक्तमित्यादिविशेषोपसंहारेण छागपशुन्यायस्याप्यत्र प्रृत्तिः। धर्मानू पृथक् न पश्य-
Page 429
[ब्रह्मणो निर्गुणत्वनिराकारत्वयोरु०] गौडब्रह्मानन्दीयुता। ७४७
सीतितु सविशेषणेहीति न्यायेन गुणानां पार्थक्यस्यैव निषेधकमिति निर्गुणश्रुतीनामपि तत्रैव तात्पर्यम्। साक्ष्यादिचैतन्यस्य पूर्व पश्चाच्च गुणोत्तयोपांशुयाजन्यायोऽपि सगुणवाक्यानुगुणतया निर्गुणवाक्ययोजने प्रमाणम्। एवंच सगुणनिर्गुणवा- क्ययोरविरोधेन प्रामाण्ये संभवति निर्गुणवाक्यमात्रपक्षपातेन सगुणवाक्यामानत्वादिकल्पनं सौगतसौहृदमेवाविष्करोति। एतेन-अनुभूतिर्निरविशेषा, अनुभूतिलात्, इति व्यतिरेक्यनुमानमपि अप्रसिद्धविशेषणतव्याघातश्रुतिबोधाभाससाम्याप्र- योजकतादिमिर्नात्र बाधकमिति-सूचितम् । नचानन्दो ज्ञानमात्रम्, दुःखज्ञानस्यापि आनन्दतापत्तेः, नापि वा ब्रह्म प्रपश्चाभिन्नम्; मिथ्यातापात्तात्। नहि ब्रह्म शून्यानिर्वाच्यव्यावर्तकविशेषरहितम्। अन्यथा तुच्छतमिथ्याताद्यापत्तेरिति सविशेषमेव तदन्गीकरणीयम्। नह्यन्यथा तद्विचारोपपत्तिः ॥ इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्। इत्थंभावो हि धर्मोऽस्य नचेन्न प्रतियोगिता। नच धर्मारोपेणोपपत्तिः; धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने। सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते। इति वचनात्। यथा ब्रह्मणोऽभावरूपधर्माद्गीकारः, एवं भावरूपवर्मोऽप्यन्गीक्रियतां, प्रामाणिकत्वाविशेषादिति सविशे- पमेव ब्रह्मोररीकरणीयम, न निर्विशेषम; तत्र प्रमाणाभावात्। नहि प्रमाणं बिना तत्स्फुरणसंभवः, खतःसिद्धिस्तु विप्रतिपन्नमात्रे वक्तुं शक्येत्यतिप्रसंगापातः। नहि तत्रोपनिषदः प्रमाणम्; तासां सगुणपरत्स्योपपादितलात्। उपनिषदो हि ब्रह्मणो जातिगुणक्रियादिरूपनिमित्ताभावेन मुख्यवत्त्या मुख्यार्थगुणसमानजातीयगुणराहित्येन गौण्या शक्यार्थसंबधिता- वच्छेदकरूपाभावेन लक्षणया वा न निर्विशेषं ब्रह्म वोधयन्ति । एतेन-ब्रह्मनिराकारतमपि-प्रत्युक्तम्; "आदित्यवर्णे तमसः परस्तात्" "यदा पश्यः पश्यते रुक्मवर्ण" "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्" "विश्वतश्वक्षुः" "सहस्त्रशीरषी" इत्यादिश्रुतिभिः "पश्य मे पार्थ रूपाणि" "सर्वनः पाणिपादं तं" इत्यादिस्मृतिभिः, ब्रह्म, सविग्रहं, स्ष्ट्रत्ात्, पाल्यितृ- लातू, उपदेष्टतात् इत्याद्यनुमानश्ष तद्विग्रहस्य सिद्धलात् । अतएवहि य एपोऽन्तरादित्ये हिरण्मयः पुरुपो दृश्यते इति सविग्रहस्य दृश्यमानलोक्तिरुपपद्यते। नह्यविद्यमानस्योपासनार्थ कल्प्यमानस्यानितादेर्योषिदादौ दृश्यमानलमुच्यते। तदेवा- नुप्राविशत, ब्रह्मविदापोति परमिति प्रवेष्टवप्राप्यलादिश्रवणमपि त्रह्मसविग्रहत्वं गमयति। "तमेवं विद्वानमृत" इत्यादौ तच्छ्देन सर्वनाम्रा सविग्रहस्यैव परामशेन तज्ज्ञानमेव मोक्षसाधनं प्रतिपाद्यते। 'देवा अप्यस्य रपस्य नित्यं दर्शनकाह्किण' इति स्मृतिरपीदानीं व्याख्याता भवति। अपाणिपादमित्यादिकंतु भौतिकविग्रहनिषेधपरं नास्माकं प्रतिकूलम्। नाभ्या आसी- दन्तरिक्षमिति भूतकारणतश्रवणात् सविग्रहपराणि वचनान्यभातिकतत्पराणीत्येवान्नीकरणीयम्। अतएव "एको नारायण आसीत न ब्रह्मा नच शङर" इति प्रलयकाले सविग्रहनारायणमात्नोक्तिरपि संगच्छते। नित्यो नित्यानां चेतनश्चेतनानामिति विशेषोक्तिरपि चेतनान्तराणामिवाम्यापि सविग्रहत्व एवोपपद्यते। पुरा कल्पापाये स्वकृतमुररीकृत्य विकृतमिति तु वचनं साक्षादेव विग्रहं प्रतिपादयति। अपाणिपादं इल्ादीनां प्राकृतशरीरनिषेधकलवमेव; जवनो ग्रहीतेत्यादिवाक्यशेषात । अन्यथाऽदुःखममुखमित्यत्रापि अप्राकृतमुखनिषेधप्रसन्नात्। अत्रच संकोचे "अरूपोऽप्राकृतथे"ति स्मृतिरेव मानम्। भगवद्विग्रहः, न नित्यः, महत्वे सति रूपवलान्, विग्रहताद्वेत्यनुमानेतु प्राकृततमुनाधिः। सावयवस्यापि श्रुतिप्रामाण्य- नित्यलमन्जीक्रियते इति न सावयवत्वेनाप्यनित्यलानुमानं संभवति। किंच ब्रह्मविग्रहस्य कीदशं सावयवत्वं विवक्ष्यते? येनानित्यतमापाद्यते, सोपादानकत्वं चेन्न, अनज्ञीकारान्, रौकदेशकत्वं चेत्, न तेनानित्यलसिद्धिः; गगनात्मादिसाधार- ण्यात्। अतोहि-वैष्णवा लोका नित्यास्ते चेतनात्मकाः। मत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्वतमिति वचनानुसारेण वैष्णवलोकनित्यलमपि सिद्धमेवेति न ब्रह्मनिराकारत्वोपपत्तिरिति सविशेषं साकारमेवच तदिति सिद्धमिति-वर्णयन्ति॥
(२) अद्वैतसिद्धिकारास्तु- तच्चेदं ब्रह्म निर्गुणम्। केवलो निगुणक्चेति श्रुतेः, नतु सगुणम्; साधकाभावात्। सगुणश्रुतयोहि उपासनाप्रकरणस्था उपास्तिविधिविषयविशेषणसमर्पकतया निर्गुणप्रकरणस्था अद्वितीयब्रह्मप्रतिपत्त्यनुकूलनिषेधापेक्षित निषेध्यसमर्पकतयाऽन्य- शेषताज्जर्तिलयवाग्वा वा जुहुयादित्यत्रेव न सार्थसत्यत्वे प्रमाणं भवितुमर्हन्ति। नहि श्रुतिप्राप्तं सत्यकामत्वादिकं थुत्या निषिध्यते, येनाप्रीषोमीयहिंसादीनामपि निषेधोपपत्तिः। एतेन-ब्रह्म, धर्भिसमानसत्ताकधर्मवत्, पदार्थत्ादित्यनुमाना न्यपि साधकानि-परास्तानि; धर्भिपदखपदयोर्यत्किंचिद्धर्मियत्किंचित्संवधिपरत्वे घटादिसमानसत्ताकधर्मवत्वेन सिद्धसा- धनात्, व्रह्मपरत्वे साध्याप्रसिद्धेः, सवत्ानुगमेनोपपत्तिस्तु शब्दस्वभावोपन्यासम्यानुमानं प्रत्यनुपयोगान्न संभवति। धर्मैर्विना नावतिष्ठते इत्यस्य धर्मव्याप्यमित्यथकव्वात्सिद्धसाधनम्। किंच शुद्धस्य पक्षत्वे हेतसिद्धिः, उपहितस्य तत्त्वेऽर्थान्तरम्, अप्रयोजकत्वं च स्वज्ञानावाध्यतविशिष्टधर्मवत्त्वं विनापि अधिष्ठानतोपपत्या न तदनुपपत्तिस्तकेंः। एतेन-सगुणवाक्या- नामपरब्रह्मविषयत्वेनोपपत्तिरपि-व्याख्याता। नहि सगुणश्रुत्या तात्विकत्वविशिष्टगुणसिद्धिः, येन सगुणातिरिक्तस्या-
Page 430
७४८ अद्वैतसिद्धिः । [परिच्छेद: २]
द्याप्यसिद्धिरिति निर्धर्मकत्वश्रुत्यविरोधस्यैवमेव संपादलात्। तदुक्तं-निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दा- स्तेऽनुकंप्यन्ते सविशेषनिरूपणैः । वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेद्रझ्मापेतोपाधिकल्पनम्-इति। परः पराणामितितु किंचिज्ज्ञापेक्षया सगुणपरत्वं बोधयति, न ततोऽपि परस्याभावम्, खस्येतरनिरूपितापरत्व्यावृत्तिं वा। शब्दस्य विरम्यव्यापारायोगात्। सदेवासदेवेति वाक्ययोरिदमिति प्रकृतप्रपश्नस्यैव कारणात्मना सत्त्वं कार्यात्मानाऽसत्त्वंच बोध्यते इति न तयोरपि परापरव्रह्मविषयत्वोपपत्तिः । इदानीं सगुणस्यापि दशान्तरे निर्गुणतप्रतिपादनेनाप्यस्मदिष्टसिद्धिः, नहि तावताऽपि युष्मदमिमततात्त्विकत्वसिद्धिः, उपायान्तरेण तन्निर्णयेऽस्माकं मिथ्यात्निर्णयोऽपि भविष्यतीति नकिंचि- दनुपपन्नम्। एष नित्यो महिमेत्यादिकंतु ब्रह्मस्वरूपतया ज्ञानादिनित्यतमेव बोधयति, नतु तद्रुणंनित्यत्वमिति मन्तव्यम् । किंच सगुणवाक्यानां स्वाभाविकनिर्गुणतश्रुत्यनुसारेणौपाधिकगुणविषयत्वेन बाघितस्य वाधितत्वेन विषयीकरणेऽपि श्रुति- प्रामाण्योपपत्तेन कोऽपि विरोधः। स्वाभाविकी ज्ञानवलक्रियाचेति लस्मदादाविव योगिपु इव च भौतिकोपाधिकत्वाभावेन योगार्जितत्वाभावेनचोपपन्ना। यत्रहि शास्त्रयोः प्रामाण्ये समकक्ष्यत्वं तत्रकतरवाधायोगेन संकोचेन विकल्पेन वोपपत्तिः प्रहणाग्रहणादिशास्त्रेषु; प्रकृतेतु एकतरस्य प्रतीयमानार्थतात्पर्य इतरस्य नेति तत्परवाक्यप्राबल्येन तदविरोधेन सगुणवा- क्यस्य गुणतात्त्विकतायां न प्रामाण्यमिति वोद्धव्यम्। ईक्षत्यधिकरणसिद्धान्तसाधकानामीक्षणादीनां न तातत्विकत्वमपे- क्षितम्, नहि राजामात्ये राजत्वारोप इव स्तम्भादावपि स विद्यते; अतात्त्विकेक्षणादेः प्रधानादावयोग्ये आरोपायोगात् न तत्सिद्धान्तानुपपत्तिरिति सगुणापारमार्थिकतायां इक्षितेनाशव्दमित्यादिसूत्रविरोधोऽपि न प्रसरति। निषेध्यसमर्पकतयैक- वाक्यतयैव प्रामाण्यसंभवे न वाक्यमेदेन गुणप्रापकता युक्ता। नेति नेतीति प्रसक्त्तसर्वनिषेधेन विशेषपरिशेषायोगेन न मृडमृदेत्यादाविव पर्युदासाश्रयणसंभवः । विश्वं सत्यं द्वासुपर्णेत्यनयोवीक्ययोनिषेधद्योतकपदाभावान्न प्रपश्चमिथ्यातादिनिषे धपरतया तद्योजनसंभवः। "साक्षी चेता" इत्यत्राविद्यासिद्धसाक्षितानुवादेन द्रष्ट्तादिविधानासंभवान्न गुणसमर्पकतवमिति न निर्गुणमित्यनेन निषेधानुपपत्तिः। निषेधेकवाक्यतायामपि देवताविभ्रहादाविवावान्तरतात्पर्य स्याप्यन्रीकारात्सावश्यादि- व्यावहारिकत्वसंभवः । नहि कुत्राप्यद्वैतमुपास्यतया बोधितम्, येन तदसिद्धिः स्यात्। आत्मेत्येवोपासीतेत्यन्नाप्युपास्तेरनेन ह्ेतत्सव वेदेत्युपसंहाराज्ज्ञेयसमर्पणमेव। एवं सत्येव ह्वेकविज्ञानेन सर्वविज्ञानोपपतिः। आनन्दादयः प्रधानस्येतिसूतं हि लक्ष्याखण्डवाक्यार्थसिद्धर्थ वाच्यवाक्यार्थोपसंहारं गोचरयति नतूपासनार्थ गुणोपसंहारम्। नहि निर्विशेषस्योपासनं संभ- वतीत्युत्तरतापनीयादिश्रुतोपास्तेरपि ज्ञानपरत्मेव। ईक्षतिकमति सूत्रे त्रिमात्रोद्कारावलम्वनोपाविविशिष्स्यैव ध्येयलमु- च्यते इति न विरोधः। अपहृतपाप्मतादिकं यथा जिज्ञास्यकोटो प्रविष्टं नैवं सत्यकामतादिकमिति नापहृतपाप्मतादिकमिव सत्यकामतादिकमपि तात्त्विकं भवितुमहंति। नहि सगुणज्ञानं मोक्षसाधनम्; तस्य मुक्तिसाधनत्वपराणां वचनानामवान्त- रमुक्तिसाधनतापरलात्। एतेन-पृथगात्मानं प्रेरितारं च मत्वेत्यादिश्रुतयोऽपि-व्याख्याताः। निर्गुणज्ञानमेव मोक्षसा- धनं; सर्वेषामपि वेदान्तानां तत्रव तात्पर्यात्। अनुपास्तिप्रकरणस्थानामपि सत्यकामलादीनां पूपानुमन्रणमत्रवत् उपा- सनाप्रकरणे उत्कर्पकल्पनात् तज्ज्ञेयत्ादिना न तत्सत्यलनिर्णयः, एवंच निर्गुणवाक्यस्यवापच्छेदन्यायेन निषेधल्ात् फल- वत्सन्निधावफलं तदङ्गमिति न्यायाच्च सगुणवाक्यापेक्षया प्रावल्यात्तद्वाघिततया न सगुणपारमार्थिकता युज्यते। यथाचात्रा- न्यथासिद्धोप संहारविपयोपक्रमाधिकरणन्यायः, श्रुतिलिन्ाधिकरणन्यायः, समकक्ष्यविषयसावकाशनिरवकाशन्यायः सन्निपा- तन्यायश्च न प्रवर्तते तथा पूर्वमेव निरूपितम्। छागपशुन्यायेनोपसंहारस्तु निषेवयोरुपसंहारस्य न त्राह्मणं हन्यात् नात्रेयं हन्यादित्यत्रेव बाधितलान्नान्रावकाशमाप्नोति। एतेन-त्रैगुण्यवर्जितमिति त्रैगुण्यनिषेधस्य काकेभ्यो दधि रक्ष्यतामितिवत् सामान्यनिषेध एव तात्पर्यमपि-सूचितम्। विशेष्यबाधकावतारस्थले एव प्रवर्तमानस्य सविशेषणे हीति न्यायस्य धर्मा- न्पृथड् न पश्यसीत्यादो धर्मनिषेधे वाधकाभावान्नान्नाप्रवृत्तिरिति मन्तव्यम्। गुणवाक्यानां पूर्वतनानां पाश्चात्यानां च गुणान् तटस्थीकृत्य ब्रह्मबोधनार्थत्ात, गुणतात्पर्यांभावान्नोपांशुयाजन्यायोऽप्यत्र प्रसरति ॥ एतेन-अनुभूतिः, निर्वि- शेषा, अनुभूतिलात्, इति व्यतिरेक्यनुमानमपि साध्याप्रसिद्धिव्याघाताभाससाम्याप्रयोजकतावाधानामभावादत्र बाधक- मिति-सूचितम्। नहि ज्ञानानन्दाभेदवादिनां वृत्तिरूपज्ञानस्याप्यानन्दाभेदोऽभिमतः, येन दुःखज्ञानानन्दता समा- पद्येत। व्यावृत्तिबोधसमानसत्ताकधर्मेण भिन्नलनिर्विशेषत्योरुपपत्त्या न ब्रह्मतुच्छतादिप्रसंगः। एतेन-ब्रह्मविचार- विषयत्वोपपत्तिरपि-व्याख्याता; आरोपितधर्मेण सर्वोपपत्तेः। पूर्वपूर्वाध्याससिद्धधर्मवत्वे धर्मान्तरारोपादीनामुपपत्त्या धर्मारोपार्थमपि न धर्मान्तरसत्त्वापत्तिः। शुद्धेऽप्यविद्यासंबन्धेनारोपसंभवादिति न ब्रह्मसगुणत्वे साधकानि बाधकाभावो वा। किंतु तन्निर्गुणमेव। तत्रच सतः सिद्धे यद्यपि न स्कृत्यर्थ प्रमाणमपेक्षितम्; तथापि तदज्ञाननिवृत्त्यर्थ तदपेक्षित- मेवेति तत्रोपनिषदः प्रमाणयामः। नहि संसगवोधकत्वनव वाक्यत्वं, किंतु स्वरूपबोधकत्वेनापीति पूर्वमेव निरूपि- तमिति संसर्गबोधं विनापि अन्वयितावच्छेदकरूपवत्तयाऽनुपस्थितस्यापि ब्रह्मणो लक्षणया सुषुप्तवाक्यवत् वृत्तिमन्तरेण वो- पनिषदधिगम्यत्वं संभवत्येव। एतेन-तन्निराकारतमपि-व्याख्यातम्; अशरीरं शरीरेप्व्रनवस्थेप्ववस्थि तमित्या-
Page 431
[ब्रह्मणो निर्गुणत्वनिराकारत्वयोरु०] गौडम्रह्मानन्दीयुता। ७४९
हिरण्मयः पुरुषो दृश्यते इति दृश्यमानतोक्तिरपि प्रतीकोपासने उपास्यसाक्षात्कारानियमेऽपि संपदुपासने तस्य नियतत्वेन सगुणपरत्वेऽप्युपपद्यते। पतेन-तदनुप्रविश्येत्यादिकमपि-व्याख्यातम्; खसष्टकार्याभिव्यक्ततवस्यैव तत्रानुप्रवेशरूप- लात। एतेन-"देवा अप्यस्य रूपस्य नित्यं दर्शनकाह्िणः" इति स्मृतिरपि-व्याख्याता; आविद्यकरूपवतोऽपि तस्य ज्ञानद्वाराऽवान्तरमुक्तिसाधनलात्। वस्तुतस्तु-न परमात्मकर्माजितं परकर्मार्जितं वा भौतिकं मायिकं वा शरीरमङ्गी- कर्तु शक्यते; संसारितापत्तेः, इष्टापत्तेश्च। तस्य ब्रह्मरूपत्वेऽस्मदिष्टम्। तद्भिन्नत्वेन तस्य सत्यत्वे नेतिनेतीत्यादिश्रुतिविरो- धक्च । नहि प्राकृतपाणिपादादिनिषेधपरतयोक्तश्रुतीनामुपपत्तिः; संकोचकप्रमाणाभावात्। एतेन-भगवद्विग्रहो न नित्यः विग्रहत्ात इत्यनुमानमपि साधु इति-सूचितम्; साधनव्यापकलान्न प्राकृतत्वमुपाधिः, सर्वथाच सगुणवाक्यवत् सवि- ग्रहवाक्यानामपि दुबललात् न ब्रह्म साकारमिति तन्निर्विशेषमिव तदनाकारतमप्युपपन्नमेवेति सर्वमनवद्यमिति- निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु ब्रह्मच सगुणमेव। तत्रच ब्रह्म, खसमानसत्ताकधर्मवदित्याद्यनुमानानि साधकानि। खपदेनच दृष्टान्तसमन्वयावसरे घटस्य पक्षे साध्यसमन्वयावसरे ब्रह्मणः परामशात् परार्थानुमाने शब्दखभावोपन्यासस्यापि योगेन नार्थान्तरादिकम्। ध्मे- हीनं नावतिष्ठते इत्यस्य न धर्मव्याप्यमित्यर्थः, किंतु धर्मरहितत्वशन्यमिति न सिद्धसाधनादिकमपि। शुद्धस्यापि वेदान्तता- त्पर्यविषयत्वादिसत्त्वात् न हेत्सिद्धादिकम्। एतेनाप्रयोजकत्वमपि निरस्तम्। नहि सगुणवाक्यान्यपरत्रह्मविषयाणीति युक्तम्; सगुणातिरिक्तनिगुणस्याद्याप्यसिद्धेः, नहि निगुणवाक्यानि तात्त्विकत्वेन गुणान् गोचरयन्ति, किंतु वस्तुगत्या तात्त्विकानू तानू विषयीकुर्वन्तीति न कोऽपि दोषः । परः पराणामित्यपि सगुणपरमेव; तेजोबलैश्वर्येत्यत्र तस्यैव प्रक्रमात्। अन्यथा सदेव सौम्येदमसदेवेतिवाक्ययोरपि प्रपश्चः सृष्टेः प्राक् सदसच्छव्दोक्तपरापरब्रह्मविषय इति वाक्यार्थ: स्यात्। एतेन-कालभेदेन सगुणनिर्गुणश्रुत्योरुपपत्तिरपि-परास्ता; गुणमिथ्यात्वासिद्धेः। वस्तु- तस्तु-ज्ञानं नित्यमित्यादिश्रुतिविरोधात्तदनित्यतमपि न संभवति। एतेन-एष नित्यो महिमा ब्राह्मणस्येति वाक्यमपि-व्याख्यातम्; नह्यत्र ब्राह्मणशब्दो ब्रह्मवित्परः, येनात्मस्वरूपनित्यताबोधन एवास्यापि तात्पर्यम्। ब्रह्मविदो वदन्ति व्राह्मणा विविदिषन्तीत्यादी बहुवचननिर्दिष्टानां एकवचनेनोपादानासंभवेन ब्राह्मणशब्दस्य ब्रह्मपरत्वस्यैव युक्तलात्। नहि अनन्तादिवाक्यानामुपासनाप्रकरणस्थानां निर्गुणप्रकरणे उत्कर्षः संभवदुक्तिकम्। सगुणवाक्यसामा- न्यस्यैवं तत्रोत्कर्पापत्त्या ज्ञेयसगुणत्स्थव प्राप्तेः। यथाचात्रापच्छेदन्यायादयोऽप्यनुकूलास्तथान्यत्र विस्तरः। सर्वथा सगु- णमेव परमार्थः । नहि निर्गुण चेदान्तानां वाक्यरूपाणं प्रवृत्तिः संभवति। शक्तिलक्षणीगौणीनां कस्या अपि वृत्तेस्तत्रासं- भवात्। नहि वृत्ति विना शव्दप्रामाण्यमुपपद्यते। सुप्तोत्थितस्यापि संबन्धग्रहो विद्यत एव। यदाच स नास्ति बोधश्च विद्य- ते, तदाऽनुमानाधीन एव स इति न वृत्ति विनापि प्रामाण्योपपत्तिः। एवंच साधकसलात् बाधकाभावाच्च सगुणमेव त्रह्मेति सिद्धम्। एतेन-ब्रह्मसाकारतमपि-व्याख्यातम्; सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते। धाता पुरस्तादित्यादिसर्वजगत्कर्तृतव्रह्माद्युपदेष्ट्रव्वादिलिन: ऋतं सत्यमित्यादिसत्यतादिलिङ्गैः परं ब्रह्मेति श्रुत्याच सहस्रशीर्पादिवाक्यस्थसगुणपरमात्मपरत्वस्यवावगमेन तस्य सविग्रहत्वस्यापि सिद्धलात्। अशरीरमित्यादिनिषेधासतु प्राकृतशरीरगोचराः इति न कोऽपि दोष इति सर्वमनवद्यमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- सवप्रागभावव्यतिरिक्तेति विवरणानुमाने खोपादानगोचरेति नैयायिकानुमानेच स्वशब्दस्य पक्षदृष्टान्तान्तरपरत्वेऽपि प्रकृते सिद्धसाधनप्रसंगेन तथाज्जीकर्तुमशक्यलात् ब्रह्म खसमानसत्ताकधर्मवदित्यनुमानं न साधु। धर्मैर्विना नावतिष्ठते इत्यस्य- धर्मरहितं नेत्यर्थकत्वेऽपि अविद्याकाले ब्रह्मणो धर्मशून्यभेदतात्यन्ताभावरूपधर्माधिकरणतवात् सिद्धसाधनमेव। शुद्धस्य वेदान्ततात्पर्यविषयतवपक्षे कल्पिततद्वत्वेऽपि पदार्थताद्यभावात् हेत्सिद्धिरप्यपरिहायेव। द्वैतमिथ्यात्श्रुतिबाधितत्वेन गुणतातत्विकताया अयोगेन सगुणश्रुतीनां वस्तुगत्या तात्विकगुणवद्विषयकत्वस्याप्ययोगेन तासामपरब्रह्मविषयत्वं निर्गुण- श्रुतीनां परब्रह्मविषयत्वमिति विषयविवेक उपपद्यते एव। एतेन-अन्तस्तद्धर्मोपदेशादित्याद्यधिकरणानि-व्याख्या- तानि; नहि व्यावहारिकविषयबुद्धिपूर्वकारोपः प्रधानादौ ईक्षणादीनां संभवतीति व्यावहारिकेक्षणादिमिः सगुणात्मसिद्धा- न्तो न नोपपद्यते। एतेन-गुणनित्यतप्रतिपादकानां सर्वेषामपि व्यावहारिकनित्यतपरत्वेनैवोपपत्तिरित्यपि-सूचि- तम्। यत्रहि प्रकरणे यदाम्नातं तत्रान्वेतुमयोग्यस्य योग्यस्थलेऽन्यत्रोत्कर्षः यथा पूषानुमष्त्रणमन्न्नादेः । प्रकृतेतु अन- न्तत्ादिकमिव सत्यकामत्ादिकं उपासनाप्रकरणयोग्यं ज्ञानप्रकरणायोग्यं न तत्रोत्कष्टुं योग्यमिति न विरोधः । एवंच निर्गु- णमेव परमार्थः, नतु सगुणम्। निर्गुणेपि तस्मिन् वेदान्ताः लक्षणया प्रमाणमेवेति पूर्वमेव निरूपितम्। वस्तुतस्तु- वाक्यज्ञानं विना बोधकत्वादर्शनेन, प्रतिबन्धकविरहे विनापि संबन्धप्रहं सुषुप्तस्थल दव तत्त्वमसीत्यादिवाक्याच्छान्दबोध
Page 432
७५० अद्वैतसिद्धिः । [परिच्छेद: २ ]
अथ ब्रह्मणो ज्ञानत्वाद्युपपत्तिः । वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाघरोष्ठात्। पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने॥ ननु-निर्विशेषं चेत् ब्रह्म, तर्हि ब्रह्मैवैकं ज्ञानात्मकमानन्दात्मकमद्वितीयं नित्यं साक्षि चेति नोप- पद्यते। तथाहि-तत्र तावत् ज्ञानत्वं किं जातिविशेषो वा, साक्षाद्यवहारजनकत्वं वा, जडविरोधि- त्वं वा, जडान्यत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं वा, पराङ्गीकृतं वा। नाद्य :; वृत्ति- प्रतिबिम्बितज्ञानाभासेषु तत्सम्भवेऽप्यखण्डरूपब्रह्मज्ञाने तदयोगात्। न द्वितीयः; फलोपधानस्य सुषुप्त्यादावभावात्, शक्त्यादिरूपस्वरूपयोग्यताया अपि मुक्तावभावात्, न तृतीयः; स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्यनिवृत्त्यापातात्। न चतुर्थः; 'सत्यं ज्ञान'मित्यादौ अनृतव्यावृ- त्तेरार्थिकत्वोक्तिविरोधात्। नच पञ्चमः; अज्ञानस्य नित्यनिवृत्त्यापातात्। न पष्ठः; मोक्षे अन्यार्थो- लेखाभावात्, स्वरूपोल्लेखे च स्वविषयत्वापातात्। न सप्तमः; पराङ्गीकृतजातेर्व्यवहारहेतुत्ा- देर्वा त्वन्मते असंभवादिति-चेत्नः अर्थप्रकाशत्वमेव ज्ञानत्वम् । मुक्तावर्थाभावेऽपि तत्संसृष्टप्र- काशत्वस्य कदाचिदर्थसंबन्धेनाप्यनपायात्। अतएव-'अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम्। अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात्॥' इति-निरस्तम्॥ यन्तु-आनन्दत्वं जातिविशेषो वा, अनुकूलतया वेदनीयत्वं वा, अनुकूलवेदनत्वं वा, अनुकूल त्वमात्रं वा, ज्ञानात्मकत्वमेव वा, दुःखविरोधित्वं वा, दुःखाभावोपलक्षितस्वरूपत्वं वा, पराङ्गीक- तं वा। नाद्य :; अखण्डस्वरूपानन्दे तदभावात्, न द्वितीयः मोक्षे वेदितुरभावात्, आत्मनोऽवेद्य- गौडब्रह्मानन्दी (लघुचन्द्रिका)। भगवद्विग्हस्यानित्यत्वमिथ्यात्वाढियोगेऽपि व्यवहारकाले तदुपासनासंभवेन तत्फलचित्तशुद्धादिकं 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता हर्थाः प्रकाशन्ते महात्मनः ॥ धर्मः सत्यद्योपेतो विद्या वा तपसा- डन्विता। मद्भक्तयापेतमात्मानं न सम्यक्प्रपुनाति हि ॥' दत्यादिश्रुनिस्मृत्युक्तमव्याहतम्। गुरुसेवाफलवत्। न हि गुरुदेहो नित्यादिरूपः परसंमत इत्याशयेन जीवन्मुक्तोऽप्याचार्यः पूर्वसञ्चितभजनवासनया श्रीकृष्णं स्मरति- वंशीत्यादि। अर्थप्रकाशात्मकत्वमिति। प्रकाशत्वमप्रकाशविरोधित्वम्। अप्रकाशत्वं चाज्ञानतमोऽन्यतरत्वम्। तथाचालोकेऽतिव्याप्तेरर्थेति अर्थविपयकेत्यर्थकम्। अखण्डरूपब्रह्मेति। निर्धर्मकैकव्यक्तिरूपब्रह्मेत्यर्थः। सुपुप्या- दाविति। तथाच वृत्तिप्रतिबिम्बितस्यैवोपधायकत्वात् जाग्रत्स्वप्योरपि शुद्धे तदभावादसंभवः । एवं स्वरूपयोग्य- तापक्षोऽपि व्याख्येयः। तद्विरुद्धस्य अज्ञानतत्कार्यस्य। तथाच जडविरोधित्वं जडनाशकत्वं प्रतिबिम्बित एव, न शुद्ध इत्यसंभवः । अनृतव्यावृत्तः जडव्यावृत्तेः। अज्ञानस्येति। तथाच वृत्तिप्रतिबिम्बितस्येवात्माज्ञाननाशकत्व- मिति भाव:। उल्लेखः विपयित्वम्। यद्पपि जडान्यत्वोपलक्षितस्वरूपत्वमपि लक्षणं संभवत्येव, अतद्वयावृत्तेरिव जडव्यावृत्ते: शाब्दत्वेऽपि क्षतिविरहात्; तथापि ज्ञानान्यत्वरूपजडत्वस्य ज्ञानत्वघटकत्वे अन्योन्याश्रयादविद्यातत्प्रयु- कान्यतरत्वादिरूपं जडत्वं तट्टकं वाच्यम्; तथाच तदपेक्षया लाघवादर्थप्रकाशत्वमेव लक्षणं युक्तमित्याशयेनाह- अर्थप्रकाशत्वमिति। अर्थव्यवहारजनकतावच्छेदकवत्वं अर्थेच्छाजनकतावच्छेदकवत्वमिति यावत्। उक्तावच्छेदकं च ज्ञानत्वजातिः। सा च तत्तदुर्थस्यासत्वापादकाज्ञानविरोधिचैतन्यवृत्तिः। चतन्यस्य तद्विरोधित्वं च घटादावविद्य- मानसुखादौ च तदाकारवृत्तिविशिष्टत्वेन विद्यमानसुखादौ च तद्विशिष्टत्वेन । विद्यमानसुखादावपि वृत्यङ्गीकारे तु वृत्तिविशिष्टत्वेनव तद्वोध्यम् । यद्यप्युक्त्तजातिर्विशिष्टचिन्निष्ठा ज्ञाधातुवाच्यतावच्छेदिका; तथापि तद्विशिष्टभिस्ना- या ज्ञानपद्लक्ष्यव्यक्े: मुक्तौ सत्वेन ज्ञानस्वरूपमविनाशीत्याशयेनाह-मुक्ताविति। तत्संसृष्टप्रकाशत्वस्य अर्थप्रकाशत्वरूपस्य ।। नन्वात्मनो वेद्यत्वाभावे मोक्षे वेदितुरभावेऽपि च न क्षतिः; अनुकूलतया प्रकाशमानत्वस्य वाच्यतवात्,
उपपद्यत एव। नच तत्रानुमानमेव प्रमाणम्; शाब्दयामीत्याद्यनुव्यवसायादिविरोधादिति निर्गुणमेव शास्त्रार्थः। एतेन- ब्रह्मनिराकरत्वमपि-व्याख्यातम्; सहस्रशीषादिवाक्यानां गुणद्वारा परमात्मस्वरूपसमर्पणपराणां प्रमाणान्तरबाधितत- तसत्यत्घोधनेऽतात्पर्यादिति सर्वमनवद्यमिति-विवेचयन्ति ॥ इति ब्रह्मणो निर्गुणत्वनिराकारत्वयोरुपपत्तिः॥
Page 433
[ब्रह्मणो ज्ञानत्वाद्युपपत्तिः] गौडब्रझ्मानन्दीयुता। ७५१
त्वाच्। किंच आनुकूल्यं किंचित्सापेक्षम्, नचान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सविशेष- त्वापातात्। अतएव न तृतीयः। किंच वेदनस्वभावादघिकस्यानुकूलस्य स्वाभाविकत्वे सखण्डत्वापा- तः, औपाधिकत्वे कदाचिदानन्दनिवृत्त्यापातः, न चतुर्थः; उक्तरीत्या आनुकूल्यासंभवात्। अतए- व-निरुपाधी ष्टत्वमानन्दत्वमिति-निरस्तम्। न पश्चमः; दुःखादिज्ञानस्यापि आनन्दत्वापातात्। विषयानुललेखिज्ञानं तथेति चेन्न; ज्ञानस्य सविषयत्वनियमात्, 'विज्ञानमानन्दं ब्रह्मे'त्यादौ विज्ञानप- देनैव दुःखव्यावृत्तिसिद्धावानन्दपदवैयर्थ्यापाताच्च, न पष्टः; विरोधस्य निवर्तकत्वादिरूपत्वे दुःखस्य नित्यनिवृत्त्यापत्तेः, तादात्म्यायोग्यत्वरूपत्वे घटादावप्यानन्दत्वापातात्, 'विजानमानन्दं ब्रह्मे'त्यादो दुःखव्यावृत्तेराथिकत्वोक्त्ययोगाञ्च। न सप्तम :! वैशेषिकमोक्षे त्वदुक्तस्य दुःखाभावे सत्यपि आनन्दा- भावेनापुमर्थत्वस्य त्वन्मोक्षेऽप्यापातात्। नाप्टमः; पराङ्गीकृतस्य निरुपाध्यनुकूलवेदनीयत्वादेस्त्व- न्मते असंभवात्। यदि चानन्दत्वादेर्दुर्निरूपत्वेSपि तदधिकरणं ब्रह्माबाध्यमानन्दाद्यात्मकं च, तर्हि सत्यत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं जगदबाध्यं सदात्मकं च स्यादिति-चेन्न; आनन्दत्वस्य निरुपाधिकेष्टत्वरूपत्वात्। नच दुःखाभावे अतिव्याप्तिः; दुःखाभावस्यापि सुखशेपत्वात्, अभा- वस्य विरोधिभावान्तरत्वाभ्युपगमात्। नच मुक्ताविच्छापाये आनन्दापायापत्ति :; इष्टत्वोपलक्षितस्य स्वरूपस्यानपायात्, उपलक्ष्ये च तद्वच्छेदकसत्त्वस्यातन्ररत्वात्। नच-निरुपाधिकेष्टत्वं स्वाभावि कमौपाधिकं वा; नान्त्य: ब्रह्मणः आनन्दरूपत्वाभावापत्तेः, आद्ये ज्ञानातिरेकि, तदनतिरेकि वा, आद्ये सखण्डत्वापत्तिः; द्वितीये आनन्दपदवैयर्थ्यमिति-वाच्यम्; ज्ञानानन्दयोरमेदेऽपि कल्पित- जातिभेदनिबन्धनप्रवृत्तिकतया पद्द्वयप्रयोगम्य व्यावृत्तिभेदेन साफल्यात्। एतेन विषयानुल्लेखि- ज्ञानमेवानन्द इत्यपि युक्तम्; ज्ञाने विषयोल्लेखनियमस्य प्रागेव निरासात् । एवंचानन्दत्वस्य सुनिरू- पतया न त्यायेन जगतश्च सदात्मकत्वापादनमिति। किंच जगति सदाद्यात्मकत्वे वाधकं दृश्य-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तत्राहं-किंचानुकूल्यमिति। सविशेपत्वापातादिति। मोक्षेऽपि स्वप्रतियोगिकानुयोगित्वस्य सवस्मि- न्वाच्यत्या प्रतियोगित्वानुयोगित्वरूपसत्यविशेपापातादित्यर्थः । आनुकृल्यासंभवादिति । सुखस्वरूपत्वमनु-
दोप इति बोध्यम्। दुःखव्यावृत्तिसिद्धाविति। ज्ञानपदानन्दपदाभ्यां ज्ञानात्मकबोधनेऽपि ज्ञानपदस्य जडव्या- वृत्तो आनन्दपदस्य दुःखव्यावृत्तौ तात्पर्य कल्प्यते। पदद्वयसार्थक्यानुरोधादिति न दोष इति तु ध्येयम्। ननु- दुःखतत्साधनान्यस्वरूपतवं दुःखविरोधित्वम्, वैपयिकसुखतत्साधनयोरपि रागादिद्वारा दुःखसाधनत्वात् शुद्धात्मन एवोक्तस्वरूपत्वम्, तसाह-विज्ञानमिति। निरुपाधिकेष्टत्वरूपत्वात् अन्येच्छानधीनेच्छाविषयत्वयोग्यत्वरूप- त्वात्। उत्तयोग्यत्वं च सुखत्वम्। तद्विशिष्टं वृत्तिविशेपावच्छिन्नचिद्ूपं बोध्यम्। ननु-ज्ञानत्वानन्दत्वयोः कादा- चित्कत्वे जगत्कारणत्वादिवदस्वाभाविकत्वमिति-चेत्न्न्; इष्टत्वात्। एवमपि 'जगत्कारणत्वं तटस्थलक्षणं, आनन्द- त्वाद्युपलक्षितव्यक्तिर्लक्षणया बोध्या स्वरूपलक्षण मिति सिद्धान्ताव्याघातात्, जगत्कारणत्वादेः शुद्धे अनङ्गीकारपक्षे ज्ञानत्वादे: शुद्धनिष्ठस्य ततो वैलक्षण्यसंभवाच्च। सुखशेषत्वात् सुखष्यअ्जकत्वात्। तथाचान्येच्छानधीनेच्छा- विषयत्वं तत्रासिद्धम् ; सुखाभिव्यक्तीच्छया तस्येष्टत्वात्। सुखविशेषत्वादिति पाटे यदा दुःखाभावोपलब्धिः, तदा सुखविशेषोपलब्धे: सुखविशेष एव दुःखाभावत्वरूपेणेच्छाविषय इत्यर्थः। अभावस्याधिकरणात्मकत्वमतेऽप्याह- विरोधिभावान्तरेति। प्रतियोगिश्ून्यभावेत्यर्थः । तथाच तादृशभावस्यात्मस्वरूपत्वे लक्ष्यत्वम्। अनात्मस्वरूपत्वे च् निरुपाधीच्छाविषयत्वाभावादेव नातिव्याप्तिरिति भावः । इच्छापाये उक्तयोग्यत्वापाये। इष्टत्वोपलक्षितेति। उक्तयोग्यत्वविशिष्टरूपवाच्यार्थद्वारा आनन्दपदलक्ष्येत्यर्थः । अनपायादिति। तथाच आनन्दपद्वाच्यस्य मुक्ताव- पाय इष्ट एव; तत्पदलक्ष्यस्यैवाविनाशित्वादिति भावः । उपलक्ष्य इति। उक्तलक्ष्येत्यर्थः । तद्वच्छेदकेति। उक्तलक्ष्यतावच्छेदकेत्यर्थः । ज्ञानातिरेकि ज्ञानत्वमिन्नम्। सखण्डत्वापत्तिरिति। मोक्षेऽप्यानन्दत्वस्य वाच्यतया सत्यत्वेन सत्यधर्मवर्वापत्तिरित्यर्थः । वैयर्थ्यमिति। अपि शेषः। तेन ज्ञानत्वरूपानन्दत्वस्य मोक्षेऽपि वाच्यरचेन सत्यधर्मापत्तिरपि लभ्यत इति तदनुत्तया न न्यूनत्वम्। जातिभेदेति। ज्ञानत्वानन्दत्वरूपजातिद्वयेत्यर्थः । तथाच ज्ञानत्वानन्दत्वयो: नाभेदः, किंतु तदुपलक्षितव्यक्त्योरिति भावः। विषयानुललेखिज्ञानं सवसमसत्ताको विषयसंबन्धो यत्र तदन्यो ज्ञानपदप्रयोगविषयः । दुःखज्ञानमपि चिदात्मकत्वादानन्द एव। अतएव तत्कालेऽपि चिद्रूपात्मनि 'मा न भूवं किंतु भूयास'मिति परमप्नेम। अथवा-दृश्याघटितस्त्ररूपत्वमर्थः । तथाच दुःखविषयकत्वघटितस्य नानन्द-
Page 434
७५२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
त्वादिकम्, न त्वानन्दे, तस्य दगनतिरेकात्। पतेन-'निरुपाध्यनुकूलत्ववेदनीयं सुखं मतम्। निर्विशेषमवेद्यं च कथं ब्रह्म सुखात्मक' मिति-निरस्तम्; परमप्रेमास्पदत्वेन वेद्यत्वात्, सुखवेद- नमेदाभावात्, वेदनाभावेनासुखत्वापादनानुपपत्तेः। ननु-अद्वितीयत्वं द्वितीयाभावविशिष्टत्वं, तदुपलक्षितत्वं वा, उभयथापि विशेषणमुपलक्षणं वा द्वितीयाभाव: प्रामाणिकश्चेत्, तदा तेन सद्वि- तीयत्वापत्तिः अप्रामाणिकश्चेत्, तदा द्वितीयेन सद्वितीयत्वापत्तिः। नचाभावे द्वितीयेSपि न भावा- द्वैतहानि: अभाववद् दृश्यस्य धर्मादेरप्येवं प्रामाणिकत्वे वाधकाभावादिति-चेन्न; प्राभाकररीत्या द्वितीयाभावस्याधिकरणानतिरिक्तत्वेन प्रामाणिकत्वेऽपि तेन सद्वितीयत्वाभावात्। नच-एवमनु- पलब्घेः पार्थक्येन प्रमाणत्वोक्तिरयुक्ता, प्रमेयानतिरेकादिति-वाच्यम्: अतिरिक्ताभाववादिमत एव तदुक्तेः, अतिरिक्ताभावानभ्युपगमेऽपि अभावत्वप्रकारकज्षाने तत्प्रामाण्योपपत्तेश्च। नचानृत- व्यावृत्तेरपि ब्रह्ममात्रतया मेदसत्वापत्तिः; इष्टापत्तेः, अनृतनिरूपितत्वं परमनृतमिथ्यात्वान्मिथ्या। मेदो ब्रह्मामिन्नतया सत्य एवेति। नच-प्राभाकरमते प्रतियोगिमद्धिकरणव्यावृत्त्यर्थ केवल्यादि- विशेषोSवश्यमधिकरणे वक्तव्यः, तथाच स एवाभावः, अन्यथा तेषामप्यनुपपत्तिरेवेति-वाच्यम्; यस्मिन् कदापि न प्रतियोगिसंबन्धः, तस्मिन् स्वरूपरूपोSमेद एव कैवल्यम् । यरि्मिंश्च कदाचित् सोऽपि, तदा तस्मिन् प्रतियोगिमदधिकरणकालभिन्नकालावच्छिन्नमधिकरणमिति न कैवल्यस्याधि- करणातिरेकः, नवानुपपत्तिरिति। नच-एवं गुणगुण्यभेदवादिमते शौक्ल्यादेरिव शक्त्यादेरपि भावरूपधर्मस्य ब्रह्माभेदोऽस्त्विति-वाच्यम्; शक्त्यादिना सहाभेदग्राहकमानाभावात्। अस्तुवा द्वितीयाभावोपलक्षितस्वरूपत्वं अद्वितीयत्वम्, तस्यच प्रामाणिकत्वेऽपि तत्प्रतियोगिनो द्वितीयस्य स्वनोपभुक्तनिगरणादाविव प्रामाणिकत्वानापत्तेः । एतेन-द्वितीयाभावस्य प्रागभावादित्वे द्वितीय- स्यानित्यत्वमात्रं स्यात्, नतु मिथ्यात्वम्, अत्यन्ताभावत्वे तूपलक्षणत्वानुपपत्तिः: सदातनत्वात्, श्रुतितात्पर्य विषयत्वादिकार्यानन्वयित्वेन उपलक्षणत्वे अत्यन्ताभावासिद्धिः। एवंच 'द्वैताभावस्ता- त्त्विकश्चेत् तेन स्यात् सद्वितीयता। अतात्त्विकश्चे्वैतेन सद्वितीयत्वमापतेत्॥' इति-परास्तम्; स्वरूपातिरेकतया तत्प्रमाया अनुद्देश्यत्वात्, तद्वोधस्यावान्तरतात्पर्येण यथाकथश्चित्संभवात्,
गौडव्रह्मानन्दी (लघुचन्द्रिका)। त्वम्, किंतु चिदंशस्येति भावः। ज्ञाने चतन्ये। विपयोललेखनियमस्य विपयसंबन्धसमसत्ताकत्वस्य दृश्यघटितत्वस्य वा। आनन्दे आनन्दस्वरूपे। आनन्दृत्वविशिष्टरूपं तु दृश्यत्वान्मिथ्यैवेनि भावः। निरुपाध्यनकूलत्ववेदनीयं अन्येच्छानधीनेच्छाविषयत्वेन वेद्यम्। परमप्रेमास्पदत्वेन अन्येच्छानधीनेच्छाविषयत्वेन। उपहिनस्येति शेपः। वेदनाभावेन वेद्यत्वाभावेन। अनुपपत्तेरिति। तथाच उक्तविपयन्वमेव लक्षणं संभवनीनि वेद्यत्वाभावेऽपि न क्षतिरिति भावः। विशेषणमित्यादि। विशेषणं उपलक्षणं वा यो द्विनीयाभावः, स प्रामाणिकः त्त्वावेदकमान- वेद्यश्षेत्तदा ब्रह्मणः सद्वितीयत्त्रं तेनेव स्यान्। यदि द्वितीयाभाव उक्मानावेद्यः, तदा प्रपञ्चरूपस्तत्प्रतियोगी सत्यो वाच्यः; भावाभावयोरेकमिथ्यात्वे अपरसत्यत्वनियमात्। तथाच ब्रह्मणस्तात्विकप्नपञ्चवत्वापत्तिरित्यथः। धर्मादेरिति। ब्रह्मणो धर्मः सार्वजञ्यादिः। आदिपदात् ब्रह्मकार्य वियदादि तस्येत्यथः । सद्वितीयत्वाभावात् तात्विकद्वितीयवत्वा- भावात्। तथाच विशेषणत्वपक्षे न दोपः; ब्रह्मणि तत्स्वरूपाभावस्यापि द्वितीयाभावत्वरूपेण कल्पितेन विशेषणत्व संभवात्। 'अद्वैतं ज्ञात्वा मुच्यत' इति वाक्यार्थे विशेष्यभूतब्रह्मान्वितज्ञाने द्वैताभावस्याप्यन्वयसंभवेन विशेपणत्वं संभवत्येव; शुद्धब्रह्मज्ञाने ब्रह्माभिन्नत्वेन द्वेताभावस्वरूपस्य विपयत्वरूपान्वयसंभवात्। नच-एवमपि द्वेताभावत्व- विशिष्टस्य विशेषणत्वासिद्धिर्दोष इति-वाच्यम्: द्वैताभावत्वोपहितस्यव विशेषणत्वसंभवात्, अवान्तरबोधमादाय विशिष्टस्यापि विशेपणत्वसंभवाच्चेति भावः। तेपां प्राभाकराणाम्। कैवल्यं कैवल्यविशेपणकार्यकारि। तथाच तत्र कैवल्यं नोपादेयमिति भावः। अधिकरणमिति। अवच्छिन्नान्तमात्रस्य प्रतियोगिमद्धिकरणेपि सत्वादाह- अधिकरणमिति। प्रनियोगिशून्यत्वेन प्रतीयमानमधिकरणमित्यथेः । अभेदग्राहकेति। अत्यन्ताभेदग्राहकेत्यर्थः । तथाच भेदाभेदस्वीकारेऽपि शक्त्यादीनां सत्यत्वे अद्वैतश्रुत्यनुपपत्तेर्मिथ्यात्वमेव। अत्यन्ताभेदे तु न मानमस्तीति न त्वदिष्टसिद्धिरिति भावः। तस्य द्वितीयाभावस्य। अप्रामाणिकत्वे तात्विकमानाबेद्यत्वे। स्वप्रेत्यादि। यथा सवसे प्रतीयमानं निगरणमिव तत्कर्मापि प्रातीतिकम्; व्यावहारिकस्यान्नादेम्तदानीं प्रत्यायकसन्निकर्पाद्यभावात्, तथा द्वितीयं तदभाववन्मिथ्या, दृश्यत्वादिति भावः । श्रुतितात्पयेति। 'अह्वैतं जात्वा मुच्यते' इत्यादि श्रुतिजन्य- धीविघयत्वाढिरूपे विशेष्यभृतव्रह्मान्विते अनत्वितत्वे सत्येव द्वताभावस्योपलक्षणत्वं-वाच्यम्; अन्यथा विशेषणत्वा-
Page 435
[ब्रह्मणो ज्ञानत्वाशुपपत्तिः] गौडब्रह्मानन्दीयुता। ७५३
तार््विकत्वे ब्रह्मानतिरेकात्, अतात्विकत्वे स्वन्ननिगरणन्यायस्योक्तत्वात्।उपपादितंचैतद्विस्तरेण प्रागिति शिवम्। ननु-ब्रह्मण एव यन्नित्यत्वममिमतं, तत् किं सर्वकालसंबन्धित्वं वा, कालाव- च्छेदराहित्यं वा, ध्वंसाप्रतियोगित्वं वा, उभयावधिराहित्यं वा। नाद्ी; अविद्यायां काले चातिव्या- मेः, अविद्यायाः सर्वकालोपादानत्वेन तत्संबन्धनियमादिदानीमेव नान्यदेत्येवंरुपतदवच्छेदरहित- त्वाच्च। न तृतीयः; ध्वंसेऽतिव्यामेः। नच ध्वंसोऽपि ध्वंसप्रतियोगी, प्रतियोग्यनुन्मज्नं तु प्रागभा- वनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मजनवद्युक्तमिति-वाच्यम्; एवं सति मोक्षेऽप्या- त्मान्यस्य कस्यचिद् ध्वंसस्य वक्तव्यतया लाघवार्थमाद्यध्वंसनित्यताया एव युक्तत्वात्। नच-ध्वंस- स्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमिति-वाच्यम्; निष्प्रतियोगिकत्वेन भावस्य ध्वंसत्वादेरपि नि- त्यत्वावश्यंभावात्। न चतुर्थः; एवं परिभाषायामपि ब्रह्मण एव नित्यत्वमित्येनत्फलस्य मुक्तावन्या- भावस्यासिद्धिरिति-चेन्न; चतुर्थपक्षस्य क्षोदसहत्वात्। नच-अन्त्यावधिरहितस्य ब्रह्मान्यस्य मुक्तावसत्त्वं न सिद्धमिति-वाच्यम्; विशेषणान्तरस्यैव सिद्धेः । अतएव-'काले कालापरिच्छिन्ने ध्वंसे चाध्वंसयोगिनि। नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव ॥' इति-निरस्तम्; कालस्याप्या- विद्यकत्वेनान्त्यावधिमत्वात्, ध्वंसस्याध्वंसप्रतियोगित्वेऽपि आद्यावधिमत्त्वाच्च। नच तावता सद्वितीयत्वम्; तात्विकस्य द्वितीयस्यवमप्यभावात्। नचवमतातत्विकत्वे ध्वंसनिवृत्तिः; इष्टत्वात्। नन्त्र प्रतियोग्युन्मज्नम्; तादृग्ध्वंसोपलक्षितस्वरूपम्यैव विरोधित्वात् प्रागभावस्य प्रतियोगिध्वंसा- दाविव। ननु-कर्थं दग्रपम्य ब्रह्मणः साक्षाद्वप्टत्वरूपं साक्षित्वम्? 'साक्षाट्टप्टरि संज्ञाया' मित्यनुशा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। पन्तेः, तथाच मानान्तरागम्यस्य श्रुत्यविपयत्वे सिद्धिर्न स्यादिनि भावः। अनुद्देश्यत्वात् श्रुतिमुख्यतात्पर्यावि- पयत्वात्। ननु-एवं द्विनीयाभावप्रकारकप्रमां विना तद्वारकस्याखण्डाथबोधस्यानुपपत्तिः, नच-सार्वज्यादाविव द्वैताभावेऽपि देवताधिकरणन्यायेन प्रमासंभव इनि-वाच्यम्: सावज्यादेरुपासनावाक्यार्थानपेक्षितत्वेन तातपर्या- विपयत्वेऽपि द्वितीयाभावस्याखण्डवाक्यार्थापेक्षितत्वेन तत्र तान्पर्यावश्यकत्वात। द्वितीयाभावप्रकारकबोधाभावे हि शुद्धबोधादपि न सद्वितीयत्वधीनिवृत्तिरिति तादृशबोध आवश्यकः। तथाच 'आभ्ेयोऽषटाकपाल' इत्यादिवाक्यस्य यागानुमिनितात्पर्यकत्वेऽपि द्रव्यदेवतासंबन्ध इव धमोऽम्नीत्यादेर्वह्वयनुमिनितात्पर्यकत्वेऽपि धूमसंबन्ध इवाद्वैत- वाक्यस्याखण्डतात्पर्यकत्वेऽप्युक्तबोध अवान्तरतात्पर्यमावश्यकमित्यत आह-तद्वोधस्येति। यथाकरथंचिदिति। व्यावहारिकप्रमात्ववतः द्वेतसामान्याभावधीद्वारकाखण्डबोधस्य द्वैताभावादिरूपसर्वद्वतबाधकत्वेऽपि तदुत्पत्तिपूर्व व्यावहारिकप्रमात्वं संभवतीति भावः । काले चेति। यद्यपि कालस्य स्वात्मककालासंबन्धित्वात् नेदं युक्तम्; तथापि परमते अत्यन्ताभेदेऽपि तादाल्यसंबन्धस्वीकारात् मन्मते तु रूपान्तरेण स्वस्मिन्नपि काले कालसंबन्धाद्योज- नीयम्। सर्वकालोपादानत्वेन सर्वजन्योपादानत्वेनाविद्याचित्संबन्धरूपमहाकालाद्याधारत्वेन चेति शेपः। एवं परिभाषायामपि ब्रह्मण एव ध्वंसप्रागभावरूपावधिद्वय राहित्यमित्युक्तावपि। असिद्धिरिति । मुक्तौ जन्यस्य कस्य- चित् सर्वेऽपि ब्रह्मण एवोक्तनित्यत्वसंभव इनि भावः। अन्तावधिरहितस्य अविनाशिनः । विशेषणान्तर- स्येति। येन विशेषणेन मुक्तावविनशिनो ब्रह्मान्यस्याप्यासत्वसिद्धिस्तदन्यस्येत्यर्थः । सिद्धेः नित्यपदेन ब्रह्मणि सिद्धिस्वीकारात्। उक्तासत्वं तु अद्वैतादिपदेनैव सिध्यतीति भावः। अथवा-विशेषणान्तरस्य उभयावधिराहित्या- न्यविशेषणस्य। सिद्धे: मुक्ती ब्रह्मान्यस्मिन् सिद्धेः । मुक्तौ कस्यचिद्विनाशिनः सिद्धावप्युभयावधिरहितस्य न सिद्धिरिति ब्रह्मण्येवोक्तनित्यत्वसिद्धिरिति भावः ।असिद्धेरिति पाठे विशेषणान्तरस्य पूर्वावधिराहित्यस्येवाविनाशिषु ब्रह्मभिन्नेष्वसिद्धेरिनि व्याख्येयम्। अतएव यत ब्रह्मण्येव नित्यत्वं तस्योक्तरूपत्वादेव। इष्टत्वादिति। एवंच वरंसाप्रतियोगित्वमात्रमपि नित्यत्वं ब्रह्मणि संभवति; ध्वंसस्य ध्वंसाप्रतियोगित्वपक्ष एव उभयावधिराहित्यरूपं तदिति भावः । स्वरूपस्य ब्रह्मणः । तथाचाधिष्ठानीभूतम्रह्लैव ध्वंसस्य ध्वंसः । तर्वज्ञानाजन्यध्वंस एव हि सूक्ष्मावस्थारूपो जायते। तश्वज्ञानप्रयुक्तस्तु ध्वंसोऽधिष्ठानस्वरूपः । नच-अधिष्ठाने ध्वंसत्वाङ्गीकारे ध्वंसत्वविशिष्टस्याधिष्ठानस्य ध्वंसत्वान्तरविशिष्टमधिष्ठानं ध्वंसः, एवं तस्यापि ध्वंसत्वान्तरविशिष्टं तत् सः इत्यनवस्था, चरमतरवज्ञानोत्तरं तब्राश- कामावश्रेति-वाध्यम्; तर्वज्ञानोत्तरं ध्वंसत्वविशिष्टस्यास्वीकारात, तत्वज्ञानात् पूर्वमेव ततप्रयुक्ततावच्छेदकत्वेन अधिष्ठाने ध्वंसत्वस्य कल्पनात्। विवेचितमेतत् तत्वधीफलनिरूपणप्रस्तावे। ननु दग्रूपत्वमेव साक्षित्वं वाच्यम्, न दषटत्वम्, तत्राह-साक्षाइ्ष्टरीति । अविद्याप्रतिबिम्बितचित् साक्षी। यद्वा-अविध्योपहितस्य न साक्षित्वम् , तस्य व्यवहारकाले नाशाभावेन तम्नाशरूपस्य संस्कारस्यासंभवात्। किंत्वविद्यावृत्तिनाशात् तदुपहितस्य नाशसंभ- अ. सि. ९५
Page 436
७५४ अद्वैतसिद्धिः । [परिच्छेद: २]
सनादिति-चेत्, अविद्यातत्कार्यान्यतरप्रतिफलितचैतन्यस्यव साक्षित्वात्। तथाच दथ्रूपस्यापि उपाधिना द्रष्टत्वम्। नचोपाधेरपि साक्ष्यधीनसिद्धिकप्रातीतिकाविद्याकार्यत्वेन चक्रकाद्यापत्ति ::
कोटिर्वा, ब्रह्मकोटिर्वा, उभयानुगतं चिन्मान्रं वा। नादः; जीवो बुध्युपाधिकोऽणुरिति पक्षे इदमंशा- वच्छिन्नचिद्वेदस्य शुक्तिरूप्यस्य साक्षिवेद्यत्वायोगाच्चऋकाद्यापातात्, अजञानोपाधिक: सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनसिद्धि कत्वेनान्योन्याश्रयात्। न द्वितीयः ब्रह्मण एव साक्षिवेददुःखा- दिधीः न जीवस्येति वैपरीत्यापातात्, अन्यथा अनवच्छिन्नानन्दधीरपि जीवस्येति स्यात्, ब्रह्मचै- तन्यं घटादिप्रकाशकमिति मते अज्ञानाभिभवद्वारा तस्य जीवचैतन्या मेदामिव्यअ्जकान्तःकरणवृत्ति- वत्तादृशवृत्त्यभावाच्च।न तृतीय :: ईश्वरेणेव चिन्मात्रेणापि संसारिदुःखस्य तद्रततवेन अ्हणेऽपि यन्दागो मुक्तस्तस्य चिन्मात्रस्य दुःखायुल्लखरूपोपप्रवापातात्। सुप्तमैत्रं प्रति मैत्रीयाझानादेमैत्रीय- तयेव जाग्रश्वैत्रीयदुःखादेरपि चैत्रीयतया सुप्मैत्रं प्रति प्रतीतिप्रसङ्गेण मैत्रेणैतावन्तं कालं दुःखं नावेदिषमिति परामर्शायोगादिति-चेन्न; शुद्धब्रह्मातिरिक्तस्य वुध्युपाधिकजीवातिरिक्तस्य साक्षिणो- ड्ङ्गीकृतत्वेन तत्पक्षोक्तदोषाभावात्। तथाचाविद्यावृत्तिप्रतिफलितं चैतन्यं साक्षी: सुप्तावप्यविद्यावृ- त्तिस्वीकारस्य प्रागुक्तेः। न चान्योन्याश्रय :; प्रागेव निरासात्, शुद्धस्य साक्षित्वाभावेन मुक्तोपपवा- पाताभावात्। यस्तु सुप्मेत्रे चत्रदुःखग्रहणापत्या एनावन्तं कालं दुःखं नावेदिषमिति परामर्श- विरोध उक्त:, तन्न: साक्षिण: सर्वजीवसाधारण्येऽपि तत्तज्ीवचतन्याभेदेनाभिव्यक्तम्य तत्तदुःखादि-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वात् अविद्यावृत्तिप्रनिबिम्बितचिदेव साक्षीत्याशयेनाह-अविद्यातत्कार्यान्यतरेति। उपाधिनेति। वृत्तिप्रति- बिम्बितरूपेण द्रष्टत्वपक्षे वृत्तिविपयावच्छिन्नचिद्रपेण दर्शनत्वम्; परोक्षस्थलेऽपि वृत्तिद्वारा विपयसंबद्धचचित एव प्रकाशकत्वात्। यद्यप्य विद्याप्रनिबिम्बितचितः अविद्याकार्याश्रयत्वेनाविद्याकार्यावच्छिन्नचिद्रदर्शनाश्रयत्वेऽपि अनादि- विपयावच्छिन्नचिद्रपदर्शनाश्रयत्वे मानाभावः, एवं वृत्तिप्रतिबिग्बितचितोऽपि अविद्याप्रतिबिम्बितचिद्भेदात्; तथापि सर्वत्र वृत्तिप्रतिबिम्बितनिष्ठदर्शनसंबन्धित्वमेव द्रष्टत्वमव्याहनम्। साक्ष्यधीनेति । साक्षिमात्राधीनेत्य्थः । तत्र हेतु :- प्रातीतिकेति। चक्रकेति। साक्षिणाSविद्यासिद्धी तत्कार्यत्वेनाविद्यावृत्तेः सिद्धिः, तस्यां च सत्यामविद्यावृर्यु- पहितत्वेन साक्षिनिर्वचनमिनि वृत्तेरुपाधित्वे चक्रकं, अविद्याया उपाधित्वे त्वन्योन्याश्रय इनि भावः। साक्षिणो विद्यया तद्ृत्या वा उपहितरूपत्वात्तज्ज्ञाने तज्ज्ञानस्यापेक्षणेपि तयोर्ज्ञानं न साक्षिविषयकज्ञानापेक्षम्; साक्षिस्वरूप- स्वात्, नापि साक्षिण उत्पत्तावविद्या अविद्योत्पत्ती वा साक्षी अपेक्ष्यते; तयोरनादित्वात्। नापि अविद्यावृत्तिसाक्षि- णोरेकोत्पत्तावन्यापेक्षा; समसमयत्वात्। नाप्युपहितरूपः साक्षी उपाध्याश्रितः, येन स्थिताचपेक्षा स्यात। उपाधे: स्वोपहितचिदाश्रितत्वेऽपि उपहिनचितः शुद्धचित्येवाश्रितत्वादित्याशयेनाह-उत्पत्तीति । स्थितीति शेपः। अणुः असर्वगतः। ननु वृत्तिद्वारा बुद्युपाधिकस्येदमंशावच्छिन्नचिदभेदात् साक्षिवेद्यत्वम्, तग्राह-चक्रकेति। अन्यथा ब्रह्मवेद्यत्वेनैव जीववेद्यत्वे। ननु ब्रह्मणः साक्षित्वेऽपि विपयावच्छिन्नव्रह्मचिता सह जीवस्य वृत्तिद्वारकाभेदसंपच्या जीवस्यापि साक्षितापत्तिः, अनवच्छिन्नानन्दस्तु जीवं प्रत्यावृतत्वात् न भातीत्यत आह-ब्रह्मति। तादृशवृ्त्त्य- भावात् अज्ञानाभिभवद्वाराऽभेदव्यअ्ञकमनोवृत्तः सुखादावभावात्। तथाच यथा चरमवृत्ति विनानवच्छिन्ञानन्दांशे आवरणानिवृत्या जीवं प्रनि न तन्मानं, तथाऽन्तःकरणवृत्ति विना सुखादेरविद्यावृत्तिविषयस्याप्यावरणानिवृत्या जीवं प्रति न सुखादिभानम्। अथ सुखादावावरणाभावान् तद्ाने भनोवृत्यपेक्षा, तर्हि जीवस्यैव घटादौ वृत्तिद्वारा सुखादा स्वतः संबन्धात् साक्षित्वसंभवेन ब्रह्मणः साक्षित्वोक्तिरयुक्ता। अथ-चक्रकादिदोपवारणार्थ ग्रह्मण एव साक्षित्वमिति-चेन्न; जीवस्याप्युक्तरीत्या ब्रह्माभेदेन साक्षित्वावश्यकत्वेन चक्रकादितादवस्थ्यादिति भावः। वस्तुतो जीवरूपेण साक्षित्वास्वीकारेण न पराभिमतचक्रकादीति नेदं युक्कम्। उपप्नवापातादिति। नेदं युक्कम्; उपप्वो हि न दुःखविषयकत्वमात्रम्; ईश्वरस्यापि तत्सध्वात्, किंतु यं प्रति दुःखादौ मिथ्यात्वमावृतं, तथ्वे सति दुःखादि- संबन्धित्वम्। तथ न मुक्तभागस्येति ध्येयम्। मैत्रीयतयेवेति दृष्टान्तो न युक्कः; सुपं प्रत्यज्ञानमात्रभानेऽपि मैत्रीय- त्वाद्यभानात्। तत्पक्षोक्तदोषेति। शुद्धब्रह्मणो बुन्धुपाधिकस्य वा साक्षित्वपक्षे त्वदभिमतदोष इत्यर्थः। तथाच तत्पक्षयोरपि दोषो नासत्येवेति भावः । चत्रदुःखग्रहणेति। चैश्रीयतया दुःखग्रहणेत्यर्थः । तत्तज्जीवचैतन्या मेदेनाभिव्यक्स्य त्तदुःखादिभासकतयेति। सवतः वृत्तिद्वारा वा तत्तजीवाभेदस्य तत्तद्ुःखादिरूपविषया- वच्छेदेन संपश्या तदवच्छेदेनानावृतत्वं प्राप्तस्य शुद्धचैतन्यस्य तन्भासकतयेत्यर्थः। नथाच चैत्रीयदुःखादेश्वैत्रीयतया
Page 437
[ब्रह्मणो ज्ञानत्वादुपपत्तिः] गौडब्रहानन्दीयुता। ७५५
भासकतया अतिप्रसङ्गाभावात्। यञ्च सुखादेः स्वानन्तरभाव्यविद्यावृत्तिप्रतिफलितचिद्वेद्यत्वे ज्ञानै- कसत्त्वायोग इति, तन्न; मानसत्ववादिमतेप्यस्य समानत्वात्। नहि तन्मते श्ातैकस्थितिकत्वाति- रिक्तं श्ातैकसत्त्वमस्ति; दुःखादिसमसमयोत्पन्नवृत्त्यापि ज्ञातैकसत्वोपपत्तेश्च। तस्मात् ज्ञानानन्दैक रूपमद्वितीयं नित्यं साक्षि च ब्रह्मेति सिद्धम्॥ इत्यद्वैतसिद्धौ ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्य- त्वसाक्षित्वोपपत्ति:।।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भासकत्वमिष्टमेव; चैत्रं प्रति तत्सश्वात्, सुप्तमैत्रं प्रति चैत्रीयतया भासकत्वं तु न संभवा; पुरुषान्तरीयदुःखाढ़े: पुरुषान्तरं प्रत्यावृतत्वेन प्रमाणवृत्ति विना तं प्रनि साक्षिमात्रस्याभासकत्वात्। तं प्रति चैत्रदुःखादिभासकत्वमित्यस्य हि तं प्रत्यनावृतचैत्रदुःखादिसंसृष्टत्वमित्यर्थः । समसमयेति। चाक्षुपादिवृत्तावेव विषयहेतुत्वम्, न त्वविद्यावृत्तौ; प्रत्यक्षवृत्तिमात्रे विषयहेतुत्वेन तस्या अपि दुःखादिविषयजन्यत्वे तु स्वाविषयकाविद्यावृत्या स्वोत्पत्तिकाले दुःखाढे- ज्ञांतिकसखम्। नहि स्वविषयकवृत्त्युपहितचैतन्यमेव साक्षि; वृत्तो तदसंभवात्, घटाद्यविषयकाविद्यावृत्युपहित- चितो घटादिकं प्रति साक्षित्वात। यन्तु-सुखादिसमकालोतपन्नायामपि वृत्तौ तदुत्पत्तिद्विनीयक्षण एव प्रतिबिम्बो- त्पत्या तदुस्पत्तिक्षणे न साक्षिसिद्धिरिति, तन्नः वृत्युत्पत्तिक्षण एव प्रतिबिम्बोत्पत्तेः। वृत्यवच्छिन्वचित एव साक्षित्वं कुत उक्त्मिति चेत्, अविद्यावृश्यभावकाले साक्षित्वाभावात्। तथाप्यविद्यात्वनिवेशे गौरवमिति-चेन्न; नहि साक्षात्कारतवेन हेतुत्वादिकल्पनायामवच्छेदककोटावविद्यावृत्तेनिवेशः, येन गौरवम्, अपि तु चैतन्ये अनावृतविषय- संबन्धोऽविद्यावृत्तिदशायामेवेति तत्र सोपाधिरुच्यते। मनस्तु न सुपुप्ताविति नोपाधिः। अथ-सूक्ष्मरूपेण तत्रापि तदिति-चेन्न; सूक्ष्मरूपे मनस्त्वसत्वे मानाभावात। नहि तदा 'मम मन' इत्यनुभूयते। अथ-मनम्तत्सूक्ष्माव-
साक्षिनाशस्य संस्कारत्वानुपपत्तेः । अतोऽपि मनस्नत्संस्कारान्यतरत् नोपाधिः; जागनि घटादिज्ञानोत्तरं तदुपहित- नाशानुत्पादात् वस्तुतोऽविद्योपहितचिंदव साक्षी युक्त :; लाघवात, वृत्तिनाशस्येव संस्कारत्वसंभवात्। नच-वृत्ते: स्वविषयकन्वाभावेन तन्नाशस्य तद्विपयकत्व्ानुपपत्तिरिति-वाच्यम्; तन्नाशस्य तदविपयकत्चेऽपि संस्कारसामान्य- स्येव वृत्तिस्मारकत्वसंभवात्। तर्करित्यादि-ब्रह्मणो ज्ञानतादिकम्। इति लघुचन्द्रिकायां ब्रह्मणो ज्ञान- स्वाधयुपपरतिः।
अथ ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वोपपत्तिः । (१) तत्र न्यायामृतकारा :- ब्रह्म निर्विशेषमेकमेव चेन ज्ञानानन्दाद्वितीयनित्यसाक्ष्यात्मक न स्यान्। तत्र ज्ञानत्वं वृत्तिप्रतिबिम्वितज्ञानाभासेपु संभ- वेऽपि अखण्डैकब्रह्मरूपज्ञानेSसंभवाज्जातिविशेषरूपम् फलोपधानस्य सुपुप्यादावभावेन साक्षाव्यवहारजनकत्वरूपम् खर- पज्ञानेन नित्यसिद्धेन जडस्य नित्यनिवृत्त्यापातेन जडविरोधितरूपम् सत्यं ज्ञानमित्यत्रानृतव्यावृत्तेरार्थिकलोक्तिविरोधेन जडान्यत्रूपम् अज्ञाननित्यवृत्त्यापत्त्याऽज्ञानविरोधित्वरूपम् मोक्षे सवस्य स्वविषयत्वायोगेनान्यविषयतबाधेन चार्थप्रका- शात्मकत्वरूपं अम्यद्वा न संभवति। पतेन-अखण्डस्वरूपानन्देऽभावात् आनन्दत्वं न जातिविशेषः। मोक्षे वेदितुरभावादात्मनोऽवेद्यलाच्चानुकूलतया वेदनीयल्मपि न तत्। आनुकूल्यं हि किंचिदपेक्षम्। नचान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यतया सविशेषतापा- ताथ्च। एतेन-अनुकूलवेदनत्मपि न तदिति-सूचितम्; वेदनखभावादधिकस्यानुकूलतस्य स्वाभाविकत्वे सविशेष- त्वस्य औपाधिकत्वे कदाचिदानन्दनिवृत्तेश्वापत्तेश्र। यावताच नानुकूलतसंभवस्तावताऽनुकूलतमात्रमपि न तत्। नहि विषयानुललेखिज्ञानं प्रसिद्धमिति दुःखादिज्ञानानामाप्यानन्दतापत्त्या विज्ञानपदेनैव दुःखव्यावृत्तिसिद्धौ आनन्दपदवैयर्थ्याप- स्याच न ज्ञानात्मकलवमानन्दतम्। दुःखस्य नित्यनिवृत्त्यापत्त्या घटादीनामप्यानन्दत्वापत्या आनन्दं ब्रह्मेत्यत्र दुःखव्या- वृत्तेरार्थिकत्वोक्तिविरोधेन च दुःखनिर्वतकतवरूपं तत्तादात्म्यायोग्यत्वरूपं वा दुःखविरोधितवमपि नानन्दतम्। दुःखाभावे सत्यपि आनन्दाभावेनापुमर्थत्वापत्त्या दुःखाभावोपलक्षितसवरूपमपि न तदिति निरुपाध्यनुकूलवेदनीयलादीनामेव तत्त्व- रूपत्वेन सविशेषतमपरिहार्यमेव। अद्वितीयत्वं च विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य प्रामाणिकत्वे तेन अप्रामाणिकत्वे द्वितीयेन सद्वितीयता- पत्या न द्वितीयाभावविशिष्टत्वं तदुपलक्षितत्वं वा। भावाद्वैतमतं तु अभाववङ्गावस्यापि सत्यत्वप्पत्या न प्रामाणिकम्।
Page 438
७५६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
अभावाधिकरणात्मत्वमतेनतु अनुपलब्धिप्रमाणान्तरत्ानापत्त्याऽनृतव्यावृत्त्यादीनामपि सत्यत्वापत्त्या प्रतियोगिमदधिकर- णव्यावृत्त्यर्थमङ्गीक्रियमाणेन केवल्येनैव सविशेषतापत्त्या नात्र परिहारः। किंच द्वितीयभावः द्वितीयानित्यतवमात्रापत्या न प्रागभावरूप इत्यत्यन्ताभावरूपोऽ्ड्गीकरणीयः, एवंच तस्य सदातनतान्न तदुपलक्षणमुपपद्यते। एवंच- द्वैताभावस्तात्विकक्वत् तन स्यात् सद्वितीयता। अतातिकश्चेत् द्वैतेन सद्वितीयत्मापतेत्। अतएव-निर्विशेषव्रह्मनित्यतमपि-पराहतम्; तद्धि सर्वकालसंबन्धित्वं वा, कालानवच्छिन्नत्वं वा, उत व्वंसाप्रतियोगितम्, आहो उभयावधिराहित्यम्। आद्ययोरविद्यायां कालेचातिव्याप्तिः; अविद्यायाः सर्वकालोपादानत्वेने. दानीमेवाविद्या न कालान्तरे इत्यवच्छेदराहित्यात्। ध्वंसेऽतिव्याह्या न तृतीयोऽपि। ध्वंसस्यापि ध्वंसे मोक्षे आत्मान्यस्य कस्यचित् ध्वंसस्य वक्तव्यतया लाघवार्थमाद्यध्वंसम्येव नित्यस्याओ्ञीकरणीयलात्। उभयावधिराहित्येन तु मुक्तावन्याभावा- सिद्धिरिति ब्रह्मसविशेषतमवर्जनायमेव। एवमद्वितीयनिविशेषचैतन्यस्य साक्षितानुपरपात्तरपि सविशेषत्वं गमयति। तत्रच साक्षी न जीवः; तस्य बुद्धुपाधिक- त्वेनाणुलपक्षे इदमंशावच्छिन्नचिद्वेद्यस्य रूप्यादेः साक्षिवेद्यलानुपपत्तेः। अज्ञानोपाधिकतवपक्षस्तु न संभवति; अज्ञानस्यापि साक्ष्यधीनसिद्धिकत्वेनान्योन्याथ्रयात्। नापि ब्रह्म; तस्यैव साक्षिवेद्यदुःखादिधीन जीवस्येत्यापतेः। अन्यथाSनवच्छिन्ान- न्दधीरपि जीवस्येत्यापनः । ईश्वर इव संसारिदुःखं तद्गतत्वेन गृहत चिन्मात्रं सवस्य मुक्तिभागावच्छेदेनापि दुःखादिकं भा- सयेदिति सुप्तमैत्रं प्रति मत्रीयाज्ञानादेमत्रीयतयेव जाग्रच्चन्नीयदुःखादेरपि चत्रीयतया सुप्तमत्रं ग्रति प्रतीतिप्रसन्वेन मैत्रणैता- पन्तं कालं दुःखं नावेदिषमिति परामर्शायोगाच्चिन्मात्रमपि न साक्षीति मन्तव्यमिति-वर्णयन्ति ॥ (२) अद्वेतसिद्धिकारास्तु तदिदं ब्रह्म ज्ञानानन्दाद्वितीयात्मकं नित्यं साक्षिरूप च। तत्रच ज्ञानत्वं अर्थप्रकाशात्मकतवम्; तम्यार्थसंसृप्प्रकाशत्- रूपस्य कदाचिदर्थसंवन्धमात्रणनपायात मुक्त्ताव्थाभावो न किचित्करः। पतेन-आनन्दतमपि निरुपाधिकेष्टवरूपम्, अभावस्य विरोधिभावान्तररूपलाददुःखाभावोऽपि सुखवशेष एेति न तत्रातिव्याप्तिः। इष्टतोपलक्षितखरूपं मुक्तावपि नानपेतमिति मुक्ताविच्छाभावेऽपि नानन्दापायापत्तिः । निरुपाधिकेष्टत्व- रूपस्यानन्दस्य ज्ञानानतिरेकेऽपि पददयं व्यावृत्तिभेदेन सार्थकम। ज्ञानविषयोिसित्रिततवनियमस्य पूर्वमेव निरासात् विषया- नुल्लेखिज्ञानमप्यानन्द एव। एवं निरूप्यत्ाच्चानन्दस्य न तस्येव जगतो दृश्यस्य सदात्मकलम्। अद्वितीयत्वं तु द्वितीयाभादोपलक्षितस्वरूपलम। उपलक्षणंचाभावः प्रामाणिकोSप्रामाणिको वोभयथापि न दुष्यत । अतिरिक्ताभावानभयुपगमेऽनुपलव्धिप्रामाण्यानम्युपगमात् अभावतप्रकारकज्ञाने तदपेक्षणादनृतादिव्यावृत्तरपि ब्रह्मरूपल- स्येष्टताच्च ब्रह्मरूपाधिकरणात्मकेनाभावेन न सद्वितीयलापतिः, न वा मिथ्यातमिथ्यालोपपत्तावुक्तरीत्या प्रपश्नतात्विक- त्मिति न तेनापि संति निरविशेषमेव व्रह्माभ्युपगमनीयं न सविशेषम्। अत्यन्ताभावस्य सदातनत्वं हि तत्त्वोपलक्षित- ब्रह्मरूपत्वेन, नतु तत्त्वविशिष्टस्रूपत्वनेति अत्यन्ताभावोपलक्षणतमप्युपपत्नमव। नित्यत्वमपि उभयावधिराहित्यरपम। कालस्याविद्यकत्वंनान्त्यावधिमत्त्वात् ध्वंसस्याद्यावधिमताच्च न तयोनित्यलम् । आद्यावधिमतो ध्वंसस्याप्यतातत्विकत्वेन न तेन सद्वितीयतापत्तिः। ध्वंसध्वंसोपलक्षितसवरूपस्यव प्रतियोग्युन्मन्नप्रतिब- न्धकलात न तदपि। सर्वथा मुक्तावन्यसत्वे प्रमाणाभावात् निर्विशेषत्वं ब्रह्मण उपपन्नमेव। पतेन-निर्विशेषतसाक्षितयोर विरोधोपि-सूचितः। अविद्यावृत्तिफलितचैतन्यस्यव साक्षित्वेन पूर्वोक्तदोषाभा- वात्। तत्तज्ीवाभेदेनाभिव्यक्तस्यैव साक्षिणो दुःखादिभासकत्वेन नािप्रसङ्गः। सर्वथाच ज्ञानानन्दाद्वितीयं नित्यं साक्षि च निर्विशेषं ब्रह्मेति सिद्धमिति न किचिदवर्द्यामति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- अर्थप्रकाशत्वं ज्ञानत्वं न भवति; मुक्ता ज्ञानाभावप्रसज्जात्। यथाहि कदाचिदावृतत्वमात्रण मुक्ता नावृतत्वम्। एवं कदाचिदर्थंप्रकाशतमात्रे मुक्त्तावपि न नदुपपततिः । एतेन-आनन्दतमपि न निरुपाधिकेष्टवमिति-सुचितम्; दुःखाभावेनानन्दाभावापाताच्च। इष्टलोपलक्षितखरूप- मिच तदुपलक्षिततम्पि विद्यते एवेति सविशेपलमेव। अतएव-अद्विनीयतमपि प्रामाणिकद्वितीयाभावोपलक्षिनस्वरूपत्वं अभावाधिकरणात्मकत्वमतेनापि ननिर्विशेषत्वे
Page 439
गौडब्रह्मानन्दीयुता। ७५७
अथ ब्रह्मणोऽभिन्ननिमित्तोपादानत्वोपपत्तिः । ननु-निर्विशेषं चेत् ब्रह्म, कथं तदेव निमित्तमुपादानमिति अभिन्ननिमित्तोपादानकत्वं जगतः? विकारवत्कारणस्यैवोपादानत्वात्, ब्रह्मणोऽविकारत्वात्, अन्यथा 'निर्विकारो हरः शुद्ध' इत्यादिशु तिविरोधापत्तेरिति-चेन्न; परिणामितयोपादानत्वाभावेऽपि विवर्ताघिष्ठानतयोपादानत्वसंभवात्। विवर्ताधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेव। तदुक्तं वार्तिककृद्भिः-'अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम्। अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥' इति। नचोपादानलक्षणाभाव: आ- त्मनि कार्यजनिहेतुत्वस्यैव उपादानलक्षणत्वात्, तस्यच परिणाम्यपरिणाम्युभयसाधारणत्वात्। ननु-ब्रह्मैवोपादानमुताज्ञानमपि, आद्ये सत्योपादानत्वे सत्यत्वापत्या अज्ञानोपादानकत्वकल्पन विरोधः, द्वितीये सूत्रद्वयस्य रजुं प्रतीव ब्रह्माज्ञानयोः समप्राधान्येन वा उपादानत्वम् निर्विकारशु- तिस्तु केवलब्रह्मपरेति विवक्षितं, उत मायाशक्तिमद्गह्म उपादानम् निर्विकारश्रुतिस्तु तदनुपरक्तब्र- ह्मविषयेति विवक्षितम्, उत मायाद्वारा ब्रह्म कारणम् अंशुरिव तन्तुद्वारा पटं प्रति निर्विकारश्रुति- स्तु अद्वारकविकारनिषेधिकेति विवक्षितम्। नाद्:ः उभयोः समतयैव विकारित्वेन ब्रह्मणो विशिष्य निर्विकारत्वोक्त्ययोगात्, सितासितसूत्रारब्धपटे सितासितत्ववज्जगति पारमार्थिकत्वानिर्वचनीय- त्वयोरापातात्, ब्रह्मस्वभावस्य पारमार्थिकत्वस्य उपादेयधीमात्रस्थत्वे अविद्यास्वभावस्यानिर्वाच्य- त्वस्यापि धीमात्रस्थत्वापातात्, तन्मात्रोपादानकत्वस्य तत्तत्सत्त्वप्रयोजकन्वे अनिर्वाच्यत्वस्याप्य- भावप्रसङ्गात्, तन्मात्रोपादानकत्वाभावात्। द्वितीये ब्रह्मणो मायाख्यहेतूपरागमपेक्ष्य विकारित्वे मृदादिवत् परिणामित्वापत्तिः, विशिष्टस्य ब्रह्मत्वे निर्विकारश्रुतिविरोधः, अब्रह्मत्वे ब्रह्मणः कारण त्वासिद्धिः, विशिष्टस्य मृदादिवद्धर्मिसमसत्ताकरूपान्तरापत्ति रूपपरिणामाद्विवर्तमतहानिश्र।नच- विशिष्टापेक्षया परिणामत्वं शुद्धापेक्षया विवर्तत्वमिति-वाच्यम्; शुद्धेऽपि विवर्तार्थमारोपित- विकारस्यावश्यकत्वेन निर्विकारश्रुतेः तत्परत्वाभावप्रसङ्गात्। तस्या विशेष्ये तात्विकविकाराभाव- परत्वे विशिष्टे विकारोक्त्ययोगः; तत्वतो निर्विकारे आरोपितविकाराविरोधात्। न तृतीयः; अंशो- स्तन्तुं प्रतीव ब्रह्मणो मायां प्रत्युपादानत्वाभावादिति-चेन्न; उभयापरिणामित्वेन तयोः कारणत्वा-
गाडब्रह्मानन्दी (लघुचन्द्रिका)। आत्मनि कार्यजनीति। ननु-आद्यक्षणसंबन्धरूपजनिर्न ब्रह्मनिष्ठा। अथ स्वावच्छिन्ना या कार्यजनिः तद्े- तुरं वाच्यं, तथापि कार्यसंयोगादिमात निमित्तकारणSतिव्याप्तिरिति-चेन्नः स्वतादात्म्यवनि कार्यहेतुश्वस्य विवक्ष णात्। सत्यत्वापतत्येति। ब्रह्ममात्रोपादानकत्वानुपपत्या चेति शेपः। केवलव्रह्मपरेति। उभयोः समोपादानत्वे ब्रह्मणोऽपि परिणामित्वेन निर्विकारश्रनिः केवलं ब्रह्म न परिणमते अन्यपरिणामिना सह एककार्यरूपेण परिणमत एवेत्येवं परेति भावः । विशिष्येति। केवलं ब्रह्मेव केवलमायापि न परिणमत इति केवलपरिणामित्वनिषेधो ब्रह्मण्येवेत्ययुक्तमिनि भावः। ननु पारमार्थिकत्वसंबन्धः प्रातीतिको जगन प्रतीयते, पारमार्थिकोपादानसंबन्धेन तत्र भ्रमसंभवात्, तत्राह-ब्रह्मस्वभावस्येति। धीमात्रस्थत्वे प्रातीतिकसंबन्धप्रतियोगित्वे। ननु शुद्ध- ब्रह्मणोऽकारणत्वमिष्टमेव, तत्राह-विशिष्टस्य मृदादीति। विवर्तार्थमिति। शुद्धापेक्षया विवतत्वमित्यस्य शुद्ध विवर्तोपादानाविद्याविषय इत्यथेः । तथाचाविद्याविपयत्वस्य शुद्धे स्वीकारे तन्नाशरूपो विकारस्तत्रैव वाच्यः । तथाच निर्विकारश्रुतिः शुद्धस्य विकारनिपेधिकेति न युक्कमिति भावः। आरोपितविकारस्येति। आरोपितो विकारो एतेन-नित्यलमप्युभयावधिराहित्यं मुक्तिकाले नित्यस्य ब्रह्मान्यस्य निवारणे न समर्थमिति न निर्विशेषे उपपद्यते, साक्षितमप्यत एव व्याख्यातमिति-प्रतिपादयन्ति ॥। (४) लघुचान्द्रिकाकारास्तु- अर्थप्रकाशत्वं चार्थोपलक्षितप्रकाशतरूपं कदाचिदर्थसंबन्धमात्रेण मुक्ती अर्थासंबन्धेऽप्युपपद्यत एवं। नह्यस्माभिः कदा- चिदर्थविशिष्टत्वेन सर्वदापि तत्त्वमभ्युपगम्यते। येन मुक्त्तार्वाप ब्रह्मष आवृतत्वमापाद्यतेति निर्विशेषमपि ज्ञानरूपमेव । आनन्दलाद्वितीय त्ादिकं यथा निर्विशेषताविरोधि; तथा पूर्वमेव सूचितम्। (अन्रच लघुचन्द्रिकायां बहु विततं तत्रापि विस्तरभयादुपरमामि)-इति-विवेचयन्ति॥ इति ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वसाक्षित्वोपपत्तिः।
Page 440
७५८ अद्वैतसिद्धिः । [परिच्छेद: २ ]
ड्गीकारात्। नच तत्पक्षोक्तदोषावकाशः उभयो: परिणामितया कारणत्वानङ्गीकारात्। किंत्वज्ञान- स्येव। अतपवासाधारण्येन निर्विकारत्वमपि।न ह्यविद्यासाहित्येऽपि ब्रह्म परिणमते, किंतु विवर्त- त इति। नचाविद्यापरिणामत्वेऽपि सत्यत्वापत्तिः; परिणाम्युपादानसमसत्ताकत्वरूपस्य सत्यत्वस्य परिणामत्वनिर्वाहकत्वात्, ब्रह्मसमसत्ताकत्वाभावेन तदपेक्षया परिणामत्वाभावात्, स्वसमानस- साकविकाराहेतुतया निर्विकारत्वोपपत्तेश्। नच सत्योपादानत्वे सत्यत्वापत्ति :: परिणाम्युपादान- धर्माणामेव मृत्वसुवर्णत्वादीनां कार्येऽन्वयदर्शनात् सत्योपादानत्वेऽप्यसत्यत्वोपपत्तेः। नच- सत्यासत्यधूमानुगतधूमत्वस्येव सत्यासत्यानुगतोपादानत्वस्यैकस्याभाव इति-वाच्यम्; स्वनिष्ठ- कार्यजनिहेतुत्वस्योक्तत्वात्। नहि सत्यासत्यत्ववैधर्म्य साधर्म्यविरोधि; अन्यथा किंचिद्वैधर्म्यस्यैव साधर्म्यविरोधित्वे साधर्म्यकथोच्छेदापत्तेः, अनाभासविषयसंस्कारजन्यज्ञानविषयत्वादेराभासा- नाभाससाधारणस्य उष्टान्तेऽपि सत्वाच्च। ननु-अविद्योपादानत्वकल्पना न युक्ता; ब्रह्मण एव रूप्या- काशाधुपादानत्वसंभवात्, अविद्यान्वयव्यतिरेकस्य निमित्ततामात्रेणान्यथासिद्धेरिति-चेन्न; घटकु- ण्डलादे: परिणाम्यपेक्षादर्शनेन गगनादावप्यविद्याया: परिणाम्युपादानत्वस्यावश्यकत्वात्। नच असत्यस्य रूप्यादेः सत्यरूपापत्तिमत्परिणाम्यपेक्षा नास्तीति न सर्वत्रोपादेये तदपेक्षानियम इति- वाच्यम्; स्वविषयकाज्ञानानपेक्षस्य तन्भ्ाव इत्येव सत्यरूपापत्तिपदेन विवक्षितत्वात्। नहि ब्रह्माजा- नस्य रूप्यादिभावापत्तौ स्वविषयकाज्ञानं व्यवधायकमस्ति। किंच विकारित्वेनाप्यविद्याया उपादान- त्वकल्पनम्। नच-ब्रह्मण एवातातत्विकविकारसंभवात् न तत्कल्पनमिति-वाच्यम्; तद्विषयका- ज्ञानपरिणामत्वव्यतिरेकेण विकारे अतातत्विकत्वानिर्वाहात्। किंच कार्यापेक्षितस्वसमानसत्ताकोपा- दानत्वेनाप्यविद्योपादानत्वम्। समानसत्ताकत्वं च रूप्यस्थले सत्वद्वविध्येन वा ब्रह्मश्ञानेतरवाध्य- त्वरूपप्रातिभासिकत्वमादाय वोपपद्यते। तस्माद्रूप्यतत्तादात्म्ययोरविद्याविकारत्वेऽपि इदमो रूप्य- रूपापत्तिरूपो विकार: कथम्? इदं रूप्यरूपमापन्नमिति अप्रतीतेः, आरोपितस्यारोपं विना अयोगा दिति-निरस्तम्; रूप्याकारपरिणताजानाघिष्ठानचैतन्यावच्छेदकमात्रतयेदमो रूप्यापत्तेरनङ्गीका- रात्। यन्तु किमिदमुपादानत्वं रूपान्तरापत्तिप्रतीति प्रति विषयत्वं वा रूपान्तगामेदधीविषयत्वं वा, कार्याभेदघीविषयत्वं वा। नाद् :; असिद्धेः, 'शुक्ती रूप्यभावमापन्ना ब्रह्माकाशभावमापन्न' मि- त्यप्रतीतेः। न द्वितीयः; तत्त्वंपदार्थयोः क्षीरनीरयोमुण्डगोत्वयोश्वोपादानोपादेयतापत्तेः। न तृतीयःः
गौडब्रह्मानन्दी (लघुचन्द्रिका)। माशो यस्य तादृशस्याविद्याविषयत्वादिनाशस्येत्यर्थः । यथाश्रुते मायोपहितस्यैवोपादानत्वेन विवर्तकार्यवर्वेन शुद्धे विवतकथनासङ्तेः । परमते आभासस्यालीकरवेनानाभासधूमगतधूमत्वायोगात साधर्म्यान्तरमाह-अनाभासेति। रष्टान्ते धूमे सत्यधूमविषयकसंस्कारेण सत्यधूमस्य स्मृतेरसत्यधूमस्यारोप इति सत्यधूमसंस्कारजन्यधीविषयतवं तयोर- स्तीति भावः। सत्यरूपापत्तिमन्परिणामीन्यादि। परिणामिशब्दार्थो यतः सत्यरूपापत्तिमान्, अतोऽसत्यकार्ये उपादानतया तदपेक्षा नाम्नि। असत्यकार्यं हि स्वस्वरूपमापधमानमुपादानमेवापेक्षते इति भावः। तन्द्रावः रूप्यादिकार्यभावापत्तिः। इत्येवेति। मन्मते न सत्यरूपापत्तिमान् परिणामिशन्दार्थः; परिणामिन इव परिणाम- स्याप्यसत्यत्वात। तथाच सत्यरूपापत्िमदपेक्षा नास्तीतिवृद्धोक्तर्यथाश्रुतो नार्थः, किंतु स्वविषयकाज्ञाननिरपेक्षो- पादानापेक्षा रूप्यादौ नासत्येवेत्यथे इति भावः। ननु-स्वविषयकाज्ञाननिरपेक्षस्योपादानस्यापेक्षा मिथ्याकार्ये नास्तीत्यपि त्वया वक्तुमशक्यम्, त्वन्मते मिथ्याभूताकाशादौतादृशोपादानरूपाज्ञानापेक्षणात्तत्राह-नहीति। ब्रह्माज्ञानस्य शुद्धचिदज्ञानस्य। रूप्यादिभावापत्तौ प्रातीतिककार्यरूपापत्तौ। व्यवधायकं अपेक्षणीयम्। तूलाज्ञानस्य रूप्याधुपादानत्वपक्षे तु ब्रह्माज्ञानपदं ब्रह्माभिन्नतद्वच्छितचिद्ज्ञानपरम्। तथाच् रूप्यादावपि स्वविषयकाज्ञाननिरपेक्षाज्ञानोपादानकत्वेन मिथ्याकार्ये स्वविषयकाज्ञानानपेक्षमुपादानं नापेक्षणीयमिति न वाच्यम्, किंतु तब्र तादशं विवर्तोपादानं नापेक्षणीयमिरयेव वाध्यमिति भावः। अनिर्वाहादिति। अज्ञानपरिणामस्य त्वज्ञाननाशकज्ञाननिवर्त्यत्वेन मिथ्यात्वनिर्वाह इति भावः । ननु-रूप्यादेरुपादानमज्ञानं न तत्समसत्ताकम्, प्रतीतिव्याप्यस्वकालघटितप्रातीतिकत्वाभावात्तत्राह-स्वसमानसत्ताकत्वं चेति। सत्त्वद्वैविध्येन पारमार्थिक- सश्वं, सत्वेन व्यवहारविषयत्वं चेति द्वैविध्येन। ननु-घटादौ मृदादेरुपादानत्वदष्टावपि रूप्यादौ परिणामकल्पने मानाभावः, नच कार्यत्वादिहेतुर्मानम्; अनुकूलतर्काभावात्, तत्राह-तस्मादिति। अविद्यायाः उपादानत्वस्वा- SSवश्यकत्वादित्यर्थ:। कार्यत्वावच्छिनं प्रति कर्तृत्वेन हेतुत्वादाद्यकार्ये ईश्वरस्येव कार्यत्वावच्छिमं प्रति परिणामिरवेन
Page 441
गौडब्रह्मानन्दीयुता। ७५९
सदशे सन्निहिते निमिसेऽपि कार्यामेदभ्रमसंभवेनातिव्याप्तेरिति, तदनुक्तोपालम्भनतया अपास्तम्। यदपि भ्रमाघिष्ठानत्वेन ब्रह्मणो नोपादानत्वम्,अतीतासतोरनुपादानयोरपि भ्रमाघिष्ठानत्वदर्शनात्, भ्रमाधिष्ठानेऽपि शुक्त्यादावुपादानत्वाव्यवहाराश्चेति, तन्न; चैतन्यस्यैवाधिष्ठानत्वेनातीतादेरनधि- ष्ठानत्वात्। किंच नहि व्यवहाराभावमात्रेण वस्तुव्यतिरेक :; वृक्षादिषु पृथिवीति व्यवहाराभावेऽपि पृथिवीत्वसत्वात्। यक्ु मायोपादानमीश्वरो निमित्तं शुद्धं ब्रह्माधिष्ठानमिति पक्षे अमिन्ननिमित्तो- पादानत्वाभावेन त्वन्मते तदर्थस्य प्रकृत्यधिकरणादेरनुपपत्तिरिति, तन्न; एकस्यैवाविद्योपहितत्वे नोपादानत्वस्याविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन निमित्तस्वस्यापि संभवात्। इति अद्वैतसिद्धौ ब्रह्मणो जगदुपादानत्वोपपत्तिः॥
अथ ब्रह्मणो विश्वकर्तृत्वोपपत्तिः। ननु-एवं कुलालादिषदुपादानगोचरप्रयल्नादिमत्त्वं कर्तृत्वमुक्तं स्यात्, तञ्च कार्यस्य कल्पितत्वे न घटते; कुलालादेरकल्पितं प्रत्येव कर्तृत्वदर्शनात्, कल्पितं च रूप्यादिकं प्रति भ्रान्तस्या- न्यस्य वा कर्तृत्वादर्शनाञ्चति-चेन्नः कुलालकार्यघटादाव्यकल्पितत्वस्यासम्प्रतिपत्तेः, रुप्यादेर ्यकर्तृकत्वासिद्धेश्च, तन्रापि साक्षिण एव कर्तृत्वात्, नह्यदर्शनमात्रेण कर्न्नपलापः; त्वन्मते- 5पि सर्वक्षकर्तुरसिद्धापत्तः । पतेनाधिष्टानत्वं न कर्तृत्वम्, एवं सत्यतिरिक्तोपादानत्वाभावेन कर्तृत्वोपादानत्वयोः सामानाधिकरण्योक्त्ययोगात्, नापि भ्रान्तवदध्यासद्रषटृत्वम्; भ्रान्तस्य प्रेक्षापूर्वकमारोपितकर्तृत्वस्याभावात्। नापि मायाविवद्यामोहकत्वमेव कर्तृत्वम्। व्यामोहनी यजीवादर्शने व्यामोहकत्वाभावात्, तद्दर्शने भ्रान्त्यापत्तेः, व्यामोहकत्वस्याप्यारोपितत्वेनान्यो- न्याश्रयाच्च, 'नामरूप व्याकरवाणी'तिश्रुत्यनुपपत्तश्च । नहि मायावी जगदादिकं करवाणीति संङ्कल्प्य करोति, किंतु दर्शयानीति संङ्कल्प्य दर्शयति। पक्षत्रयेऽपि जन्मादिसूत्रेऽर्थलब्धसार्वश्या- दिस्फुरणार्थ 'शास्त्रयोनित्वा'दिति सूत्रमिति यत् परमतं, तन्द्रङ्गः स्यात्, भ्रमाधिष्ठानत्वादिना सार्वश्यालाभात्। नाप्युपादानगोचरप्रयतादिमत्त्वम्, कल्पितं प्रति तदयोगात् । तस्मात् 'अधि. ष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता। लौकिकी कृतिमत्ता तु न दृष्टा कल्पितं प्रती'ति निरस्तम्; अभिमतचतुर्थपक्षम्य समर्थितत्वात्। यत्तक्तं तृतीयपक्ष व्यामुग्धजीवद्रपृत्वे भ्रान्तत्वापत्तिरिति, तन्जूषणमेव; भ्रान्तिज्ञस्याभ्रान्तत्वात्। यदपि मायाविनः सङ्कल्पपूर्षककर्तृत्वादर्शनेन व्याकरवाणीति श्रुत्यनुपपत्तिरिति, तन्न; तादृशसङ्कल्पादर्शनस्य मायाविन्यसंप्रतिपत्तेः। यदप्युक्तं जन्मादिसूत्रार्थ- सिद्धसार्वश्यस्फोरकं 'शास्त्रयोनित्वा दिति सूत्रमिति परमतभङ्गः स्यादिति, तन्न; मायावित्वेऽपि सृक्ष्यमाणमायिकविश्वाकारमायासत्वांशपरिणामाधारतया साधेश्यलाभात्। तस्मात् ब्रह्मणो निमि- त्तत्वमुपादानत्वं च ॥ इत्यद्वैतसिद्धौ ब्रह्मणो विश्वकर्तृतोपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। व्यावहारिककार्ये व्यावहारिकपरिणामित्वेन प्रातीतिककार्ये प्रातीतिकपरिणामित्वेन हेतुत्वाद्रूप्यादावविद्योपादानत्व- मावश्यकमिति भावः । तत्तादात्म्ययोः तत्तदवच्छिस्नतादात््ययोः। इदमाद्यवच्छेदेन रूप्यादिकं रूप्याद्यवच्छेदे नेदमादितादालयं च भ्रमस्थले अविद्यापरिणाम इति भावः। तर्करित्यादि-ब्रह्मोपादानतास्थितिः ॥ इति लघुचन्द्रिकायां ब्रह्मणो जगदुपादानत्वोपपत्तिः॥ अदर्शनात् सर्वसाधारणदर्शनाभावात्। साक्षिण पवेति। तथाचोपादानगोचरकार्यानुकूलज्ञानवस्वमेव कर्तृत्वमिति साक्षिणो रूप्यादिप्रयोजकेच्छाकृतिविरहेऽपि तस्कर्तृत्वमक्षतमिति भावः। अदर्शनमात्रेण सर्वपुरुष- साधारणदर्शनविरहमात्रेण। चतुर्थपक्षस्य चतुर्थपक्षान्तर्गतस्य कार्यानुकूलज्ञानवश्वस्य। अतएव सर्वांशपरिणामे- त्यादिना ज्ञानमात्रं कर्तृत्वं वक्ष्यते। सत्त्वांशेपरिणामेति। अधिष्ठानत्वसामर्थ्यात् न सार्वश्यालाभः, पेन स्वदुक्कतं दूषणं स्यात, किंतु मायावृत्तिरूपं यत् कार्यानुकूलज्ञानं तद्वश्वरूपकर्तृत्वसामर्ध्यादिति भावः। तर्कैरित्यादि- ब्रह्मणो विश्वकर्तृता॥ इति लघुचन्द्रिकायां ब्रह्मणो विश्वकर्तृत्वोपपत्तिः॥
Page 442
७६० अद्वैतसिद्धिः । [परिच्छेद: २]
अथ ब्रह्मणोऽभिन्ननिमित्तोपादानत्वे प्रमाणोपपत्तिः। 'यतो वा इमानि भूतानि जायन्त' इति 'जनिकर्तुः प्रकृति'रिति सूत्रप्रकृत्यर्थविहितपञ्चमीश्रुत्य- 'यत् प्रयन्त्यभिसंविशन्ती ति स्थितिलयाधारत्वलिङ्गाश्चोपादानत्वसिद्धिः, 'तदैक्षत व्याकरवाणी'ति ईक्षणाद्याधारतया कर्तृत्वसिद्धिश्च। अथ-वृत्तौ 'पुत्रात् प्रमोदो जायत' इत्यादावनुपादानेऽपि पश्च- मीदर्शनात् प्रकृतिपदं हेतुमात्रपरमित्युक्तम्, न्यासेऽपि इदमेवाश्रित्य 'असति प्रकृतिग्रहणे उपादा- नस्यैवापादानसंज्ञा स्यात्, प्रत्यासत्तेः, नेतरस्य। प्रकृतिग्रहणात् कारणमात्रस्य भवतीति प्रकृतिपदम नुपादाने ऽपि अपादानसंज्ञासिद्धर्थ'मित्युक्तम्, महाभाष्येऽपि 'अयमपि योगः शक्योऽवकुम्। गोलो- माजलोमाविलोमभ्यो दुर्वा जायन्ते अपक्रामन्ति तास्तेभ्य' इत्यादिना लोमादीनां दूर्वादीन् प्रत्यव- धित्वात् 'धुवमपायेSपादान'मित्यनेनैवापादानसंज्ञासिद्धे: इदं सूत्रमनारम्भणीयमिति सूत्रं प्रत्याख्या-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। सूत्र प्रकृत्यर्थविहितेति। सूत्रेणोपादाने विहितेत्यर्थः । स्थितिलयेति। ब्रह्मणि स्थितिर्हि ब्रह्मसत्तास्फृर्तिग्राहि- त्वम्। तच्च ब्रह्मण उपादानत्वं विनानुपपन्नम्; निमित्तगतधर्मग्राहित्वस्य कार्येष्वदृष्टत्वात्। अथवा-स्थितिस्ता दात्म्यं, लयोऽप्युपादाने संस्काररूपेण स्थितिरिति स्थितिलयो ब्रह्मण उपादानत्वे लिङ्ने इनि भावः । वृत्तौ काशिका- दिवृत्ती। इदमेवाश्रित्येति। जनिकर्तुर्हेनुरित्येव शव्दलाघवादुच्यतामिति शङ्गामुक्तवृत्तिग्रन्थे कृत्वेत्यर्थः । प्रकृति- ग्रहण इति। सति हेतुग्रहण इति शेपः। प्रत्यासत्तेः तादात्यरूपान्तरङ्गात् पश्वर्थसंबन्धात् जनिकर्तुरिति पच्ठ्ा कार्यस्य तादात्म्यरूपान्तरङ्गसंबन्धबोधनाद्वेनुपदादुपादानमेव लभ्येतेति भावः । कारणमात्रस्येति। प्रक्रियते कार्यमनेनेति व्युत्पत्या कारणमात्रं प्रकृतिपदन बोध्यते; लघु हेतुपदं त्यक्वा प्रकृनिपदग्रहणस्येव ज्ञापकत्वात। प्रकृते प्रकृतिपदं नोपादाने रूढम्, न वा पष्टी तादात्म्यार्थेति भावः। यन्तु-प्रत्यासत्ते्मुख्य हेतुत्वात् तथाच हेतुपद- स्य मुख्यहेतौ सङ्कोचः कारणमात्रस्येति, तथाच प्रकृतिपदं कारणसामान्ये लाक्षणिकम्-इति, तन्तुच्छम्: सङ्को- चलक्षणयोरन्याय्यत्वात्। अयं जनिकर्तुः प्रकृतिरित्ययम्। योगः सूत्रम्। अवक्तुम् अकर्नुम्। यथा 'भीत्रार्थानां भयहेतु'रित्यादिसूत्राण्यकर्तु शक्यानि, तथा 'जनिकर्नुः प्रकृति'रिति सूग्रमप्यकतुं शक्यमित्यपिना सूच्यते। 'ध्रुवम- पायेSपादान मिति। अपाये विश्लेपे यत ध्रुवमवधिभूनं यतो विश्रेपस्तदिति यावन। तदपादानसंज्ञमित्यर्थः । प्रत्याख्यातमिति। अपायपदेन विभागस्योत्तया वृक्षात्पर्ण पतनीत्यत्र यथा पञ्चमी, तथा अव्यवहिनोत्तरक्षण- संबन्धस्य तत्पदेनोक्तया तद़ेकदेशाव्यवहितोत्तरत्वनिरूपकरूपावर्धेध्रुवपदेन वक्तुं शक्यत्वात् कारणसमूहस्य तदवधि- त्वेऽपि समूहसमूहिनोरभेदोपचारात् कारणमात्रेऽपि तत्संभवान गोलोमभ्यो दृर्वा जायन्ते इत्यन्रापि पञ्चमीसंभवः। यद्यप्यन्यथासिद्धस्याप्युक्तावधित्वमस्ति; तथाप्यनन्यथासिद्धत्वस्यापि निवेश्यत्वाइण्डरूपात् घट इत्यादर्नापत्ति:। तथाच दण्डाद्ट इत्यादो घटं प्रत्यनन्यथासिद्धदण्डघटितो यः समूहस्नदव्यवहितोत्तरसंबन्धाभिन्ना या उत्पत्ति: नद्वान् घट इति 'दण्डाद्ट' इत्यादो जायत इत्यादिक्रियाध्याहारावश्यकत्वे तु तादृशाव्यवहितोत्तरत्व्रमेव पञ्ञम्यर्थः; तस्येव धात्वर्थोत्पत्तिघटकक्षणे अन्वयेनेष्टारथलाभात। वस्तुतस्तु-प्रयुक्तवमेव पञ्चम्यर्थः; तस्यैवापायपदेन तन्निरूपकस्य ध्रुवपदेन चोक्तिसंभवात्। अस्ति च घटादाविव तदुत्पत्तावपि दण्डादिप्रयुक्तत्वमिति 'दण्डाद्वट उत्पद्यत इत्यस्य दण्डाद्ट' इत्यस्य च प्रामाण्यमिति बोध्यम्। ननु-अपायशब्देन विभागस्य ध्रुवशब्देन तदवधित्वस्य चोक्तया जनीत्यादिसूत्रसार्थक्ये उक्तप्रयुक्तत्वादिसाधारणापक्रमणोक्तया तत्खण्डनमयुक्तमिति-चेन्न; 'वृक्षात्पतती'- न्यादौ वृक्षाय्यवधिकविभागप्रतीत्या विभागस्येव कपालाद् घट इत्यादो कपालाद्यवधिकप्रयुक्तताप्रतीत्या प्रयुक्तत्वस्या- व्यपायशव्देन वक्तुं शक्यत्वात् जनीत्यादिसूत्राभावेऽपि निर्वाह इत्यत्र भाष्यकारतात्पर्यात्। अतएव शक्यतेऽवक्तु- मित्युक्तम्; अन्यथा नोच्यते इत्येवोकं स्यात्। नच-'यतो वाचो निवर्तन्ते अप्राप्ये'त्यादौ शक्तिरूपप्राध्यभावेन यत्र विपये शक्तिप्रयुक्तबोधकत्वाभाववत्यो वाच इत्याद्यर्थः, तथाचोक्ताभावादेरप्यपायशब्देन वाच्यत्वादुक्त्तप्रयुक्त- त्वमपि तेनोच्यतामिति-वाच्यम्; जनीत्यादिसूत्रसार्थक्यायोक्तप्रयुक्तत्वान्यस्यैवापायशन्देनोक्तेर्युक्तत्वात्। तथाच विभागमात्रं नापायशब्दार्थः, किंतु उक्त्ाभावादिरपीति 'जनी त्यादिसूत्राकरणं शक्यत्वेन भाष्ये ज्ापितम्, नतु तद- करणमेवामिप्रेतम्। अतएव लोमादिभ्यो दूर्वादीनामपकणं लौकिकप्रतीतिमात्रानुसारेण भाष्य उत्तम्; वैशेषिक- सांख्यादिदर्शनेषु तदस्वीकारादिति कैयटे उक्तम्। उत्पत्ती लोकानामपक्मणपद्प्रयोगो लक्षणयेति भावः । एवंच प्रकृनिरिन्युपादानरूढ सौ त्र पदादुपादान तानि रूपितप्रयुक्तत्व रूपार्थे जनीत्यादिना पञ्चमीविधानात् निमित्तनिरूपितप्रयु- कत्वे सूत्ान्तरेण पञ्जर्माविधानेऽपि विनिगमकाभावान 'यतो वा हमानि भूतानि जायन्ते' इत्यादौ निमित्तोपादान-
Page 443
[महणोSमिन्न० प्रमाणोपपत्ति:] ७६१
तम्। कैयटेऽपि अपक्रमणावधित्वे लोमादिषु कार्यस्य प्रतीतिर्न संभवतीति आशङ्क्य बिला- भिष्कामतो दीर्घभोगस्य भोगिन: अवच्छिन्नतया तत्रोपलब्धिवत् कार्यस्यापि दूर्वादेस्तत्रोपलब्धि- रित्यवधित्वमेव तत्रोपपादितम्। ततश्च मतद्येऽपि 'जनिकर्तुः प्रकृति'रित्यनेन 'उपादान एव पञ्न- मीति नियमो न सिध्यतीति-चेत्, मैवम् पशुना यजेते' त्यादौ पशुशब्दस्य पशुमात्रवाचकत्वेऽपि 'छागस्य वपाया' इति वाक्यशेषानुसारेण पशुविशेषपरत्ववदत्रापि कारणमात्रार्थत्वेऽपि उपादान- परत्वोपपत्तेः, अवधिपञ्चमीपक्षे 'शङ्गाच्छर' इत्यादौ शङ्गादिपदस्य नियामकाभावात् निमित्तपर- त्वेऽपि प्रकृते नियामकसत्वेन निमित्तपरत्वाभावात्। अतएव 'आत्मन आकाशः संभूत' इत्यादावपि प्रकृतिपञ्चमी, 'सञ्च त्यश्वाभव'दिति वाक्यशेषण 'सोऽकामयतेत्येतच्छाखान्तरस्थितवाक्येन च प्रतीतिसामानाधिकरण्यस्य नियामकत्वात्। नच-'स तपोऽतप्यत। स तपस्तत्वा। इदं सर्वम- सृजत । तत्सृष्ठा। तदेवानुप्राविशत्। तदनुप्रविश्य। सब्च त्यश्चाभव'दित्यादिश्रुत्या सदादिभवनस्य जगत्सृष्टितद्नुप्रवेशानन्तरभावित्वेन जगत्सृष्टित्वानुपपत्तौ परमेश्वरस्य सत्त्वादिगुणामिव्यक्तिपर- त्वेन ब्रह्मोपादानत्वे नास्य प्रामाण्यम्, अन्यथा कथमभवदित्युक्तं स्यात् ! न हि शुक्ति: रूप्यमभव- दित्युच्यत इति-वाच्यम्; सदादिभवनस्यैव जगत्सृष्टिरूपतया तदानन्तर्याभावात्, तदनुप्रविश्ये- गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्वाभ्यां निरूपितप्रयुक्त्तत्वयोः पञ्चम्यर्थतवं दुर्वारमित्यस्दिष्टसिद्धिः। लोमादिष्विति। उपादानेव्वित्यादिः। कार्यस्य दूर्वादयुपादेयस्य। यद्यपि विभागरूपापक्रमणावधावेवापक्रमतो न प्रतीतिः । प्रयुक्ततवरूपापक्रमणस्य निरूपकरूपावधी तस्प्रयुक्त्तस्य प्रतीतिरक्गीक्रियत एव, तथानुभवादिति सिद्धान्त: स्फुट एव; तथापि समाधानान्तरमेवाह-बिलादिति। निष्फामतः विभागानुकूलव्यापारोत्पत्तिकालावच्छिश्नस्य विभागात् पूर्वस्थूलकालव्यापिव्यापारोतपत्तिकालस्य प्रदर्श- नायाह-दीर्घभोगस्येति। तत्र बिले। अवच्छिन्नतया संयुक्ततया। उपलब्धिः प्रत्यक्षम्। उत्पस्युत्तरक्षणे- व्वित्यादिः। तथाच विभागोतपत्ते: पूर्व बिले भोगिन इवोत्पत्तेः प्रयुक्तत्वस्य वापक्रमणस्योत्तरकालमेव लोमादौ दूर्वादे: प्रत्यक्षम्; उत्पत्यादिकाले तु दूर्वादेः प्रत्यक्ष चक्षुराद्यसंयोगादिति भावः । उत्पत्तिक्षणे लोमादौ दूर्वाद्यस्तीति परोक्षधीस्तु पूर्वोक्तरीत्यैव समाधेयेति ध्येयम्। यन्तु-भोगिनः अग्रावच्छेदेन बिलासंयोगरूपस्यापक्रमणस्य सत्वेऽपि मूलावच्छेदेन बिलसंयोगादथा बिले उपलब्धिः, तथा दूर्वादेः स्परिणामिलोमादिभागसंबन्धितया प्रतीय- मानस्यापि लोमादिभागान्तरावच्छेदेन लोमादिसंबन्धाभावरूपापक्रमणमिति कैयटसमाधानवाक्यार्थ :- इति, तन्न; वृक्षावस्थितिकाले चलत्यपि पत्रादौ वृक्षाच्चलतीत्यप्रयोगेण वृक्षादिसंयोगाद्यसमानकालीनस्य वृक्षाय्यसंयोगादेरेवापाय- पदार्थतया वाच्यतवेन बिलादिसंयोगादिकालीनस्य बिलाद्संयोगादेरपायपदार्थत्वाभावात्। मतद्वयेऽपीति। वृत्ति कारमते प्रकृतिपदस्य कारणसामान्यपरत्वात् भाव्यकारमते 'जनीत्यादि' सूत्राकरणेन कारणसामान्येऽपि पश्चमी- संभवात् नोपादानस्यैवापादानसंज्ञेति भावः। यद्प्युक्तरीत्योपादानतानिरूपितप्रयुक्तत्वस्य पञ्चम्यर्थता जनीत्या- दिसूय्रसिद्धेति भाष्यसंमतम्; तथापि परभ्रममनुसृत्यापि समाधानं सुकरमित्याशयेनाह-मैवं पशुनेति । कारणमात्रार्थत्वेऽपि प्रयुक्ततात्वरूपेण प्रयुक्तत्वबोधकत्वेऽपि। मात्रपदादुपादानतानिरुपितप्रयुक्त्ततात्वरूपेण बोधकत्वव्यवच्छेदः। अपिना उक्तरीत्योपदानतानिरूपितप्रयुक्त्ततात्वेन बोधकत्वस्य प्रामाणिकत्वात् कारणमात्रार्थक- स्वमसिद्धमिति सूचितम्। उपादानपरत्वेति । प्रयुक्ततात्वरूपेणोपादानतानिरूपितप्रयुक्ततापरत्वेत्यर्थः । वक्ष्य- माणवाक्यशेषेणेत्यादिः। अथवा-कारणमात्रार्थतवेऽपि 'यतोवे'त्यादौ पञ्चम्या 'विभाषा गुणे स्तिरिया'मितन्न गुण इत्यस्योपलक्षणतवेनागुणेऽपि पञ्चमीविधानात् प्रयुक्त्ततामात्रबोधकत्वेऽपि उपादानपरत्वोपपत्तिः ? 'जनी'- त्यादिनोपादानतानिरूपितप्रयुक्ततातवरूपेण बोधकत्वोपपत्तेः । इत्थं च न परभ्रमानुसरणमिति बोष्यम्। ननु-'यतो वे'त्यादौ न हेतुपञ्चमी, येन जनीत्यादिना उपादानीयप्रयुक्तत्वार्थता स्यात्, किंतु 'ध्रुव'मित्यादि- नावधौ पञ्चमी, तथाच 'वृक्षाद्विभजत' इत्यादौ विभागे वृक्षनिष्ठावधितानिरूपकतवस्येवोक्त्तवाक्ये भूतोत्पततौ म्रहनिष्ठावधितानिरूपकरवस्य लाभः, तत्राह-अवधिपञ्चमीति। अवधिपञ्ञमीस्वीकार इत्यर्थः। म्रह्मनिष्ठावधिता- निरूपकतवं म्रहनिष्ठप्रयोजकतानिरूपकत्वरूपं वाच्यम्; अन्यस्य दुर्वचत्वात्, तथाच प्रयोजकतानिरूपकत्वस्य प्रयुक्तत्वपर्यवसितस्य पञ्मम्यर्थस्य मङ्गादित्यादौ निमित्तीयस्य लामेऽपि यतो वेतयादौ वाक्यशेषेणोपादानीयस्य लाभ इति भाव:। सोऽकामयतेत्येतच्छाखान्तरस्थितेति । 'सोऽकरामयत बहुस्या'मित्येतच्छाखान्तरस्थितं 'तदैक्षत बहुस्यामि'ति वाक्यं चेति समाहारद्वन्द्वः । यथाश्रुते तु 'आत्मन आकाश' इस्यस्येव 'सोऽकामयते' त्यस्यापि तैसिरीयस्थत्वादसङ्तेः । सामानाधिकरण्यस्य म्रहतत्सृज्यामेदव्। नास्येति। अस्य. उकसामानाभिकरण्यस। अ. सि. ९६
Page 444
७६२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
त्यस्य मुखं व्यादायेतिवदुपपत्तेः। न चेदं सर्वमसृजतेत्यनेन पौनरुक्त्यम्, निमित्तत्वमात्रभ्रान्तिव्यु- दासपरत्वात्। यञ्च शुक्ति: रूप्यमभवदित्यनुभवादर्शनमुक्तं, तच्छ्रुक्तेरनुपादानत्वप्रयुक्तमिति तदद- शनस्यानुदाहरणत्वात्। नच-मूर्तामूर्तप्रपश्चस्य सत्त्यत्पदाभ्यामेवोक्तत्वेन निरुक्तादिपद्वैयर्थ्य- मिति-शङ्काम्: संग्रहविवरणरूपतयोपपत्तेः। ननु-'सोऽकामयत बहु स्या'मिति वाक्यं न सृज्य- साहचर्यमाह येन तत्सामानाधिकरण्यमीश्वरस्य प्रतीयते किंतु परमेश्वरस्य 'अजायमानो ब-
नच स्वस्यानन्तरूपैबहुभावं सङ्कल्प्य 'इदं सर्वमसृजते'ति जगत्सर्जनानुपपत्तिः; नियामकरूपैरबंहु- भावस्य नियम्यसापेक्षत्वात्, नियम्यं सर्व सृष्का नियामकरूपैः प्रवेशोकत्युपपत्तेः । अन्यथा स्यामिति सत्वोक्तिन स्यात्, सृष्रेः प्रागन्तःकरणाभावेन तद्विशिष्टाहमर्थाभावेन उत्तमपुरुषानुपपत्तिश्च स्या- दिति-चेन्न, स्यामित्यनेन सुखी स्यामित्यादिवत् भाविसत्वोक्तौ तदनुपपत्त्यसंभवात्। अन्यथा सङ्कल्पविषयत्वानुपपत्तेः, सिद्धे इच्छाविरहात्। इदमेव च बहुपदस्य सृज्यपरत्वे विनिगमकम्: नियामकरूपाणां च तवापि मते ईश्वराभिन्नतया सिद्धत्वात् । तथाचेच्छाया नियम्य एव त्वन्मते- 5पि पर्यवसानात्। तथाचेच्छायास्तेज:प्रभृतिविषयत्वेन बहु स्यामिति संङ्कल्प्य तेजःप्रभृतिसर्जनं गुरुः स्यामिति संङ्कल्प्य शिप्यसंपादनादिवदिति निरस्तम्। यञ्चोक्तमुत्तमपुरुषानुपपत्तिरिति, तन्नः तादृशाविद्यापरिणामविशिष्टे अहमिति प्रयोगसंभवेन उत्तमपुरुषोपपत्तेः । एवमेव 'तदैक्षत बहु स्या'मित्याद्यत्र मानं बोध्यम्। ननुच-यत्तेजःप्रभृति सृज्यं, तदात्मना हि त्वया बहुभावो वाच्यः, तेपां तु तेजआदीनामीक्षितृत्वस्रृ्त्वदेवतात्मत्वश्रवणात्तानि चेतनानि, न च चेतनं प्रत्युपादानं
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मुखं व्यादायेति। अपञ्चीकृतसमष्टेरेव सृष्टिः पूर्वमुक्ता, सच्चेत्यादिना तु पञ्चीकृतसमष्टेः। नच-पञ्चीकृतेपु प्रवेशा- लाभ इनि-वाच्यम्; अपश्चीकृतेपु प्रवेशोत्तयेव तल्लाभात्, अपञ्चीकृतानामेव पञ्चीभावात्। अतण्व 'इदं सर्वम- सृजते त्यपि नानुपपन्नम्, अपञ्वीकृतानामेव सर्वात्मकत्वादिति ध्येयम्। भ्रान्तिव्युदासेति। सामानाधिकरण्येन ब्रह्मण: कार्यतादात्म्यलाभात् आ्रन्तिव्युदास इति भावः । अनुदाहरणत्वादिति व्युदासपरत्वादित्यत्र हेनुः। प्रयुक्- मित्यन्तमनुदाहरणत्वादित्यत्र हेनुः। मूर्तामूर्तेति। मूर्त पृथिव्यप्तेजांसि। अमूर्त वाखवाकाशौ। संग्रहविवर- णेति। सत्यच्छव्दराभ्यां संक्षपेणोक्तं निरुक्तादिपदेर्विवरणं विस्तरेण कथनं क्रि्ियते। तथाहि भाष्यं-'निरुकं देशकालादिविशिष्टतयेदं तदित्युक्तं, तद्विपरीतमनिरुक्तं, निलयनं नीडमाश्रयः, तद्विपरीतमनिलयनं, विज्ञानं चेतनं, तद्विपरीतमविज्ञानं, सत्यं व्यावहारिकं, अनृतं मृगतृप्णादिक मिति। तथाच मूर्तामूर्नयोर्निरुक्तवानिरुक्तत्वादिविवेच- नम्। स्वान्यसर्वव्याकृताश्रयत्वमाकाशस्येव सर्वभुवनाश्रयत्वं वा ब्रह्माण्डस्येवेति ध्येयम्। सृज्यसाहचये सृज्यात्मना भवनम्। सङ्कल्पमाहेति। 'सोडकामयतेत्याद:' परमतेऽयमर्थः-स आनन्दमयः नियामकस्वीयनानारूपर्नियम्ये- व्ववस्थानं अकामयत। ततश्च नियम्यानि विना उक्तावस्थानासंभवेन नियम्यानि भवन्त्वित्यालोचनरूपं तपः कृतचान्, तत इदं सर्वमसृजत, नतम्तदनुप्रविश्य नियामकरूपरधिष्टाय सदादिरूपोऽभवत् सत्वादिगुणैरभिव्यक्तो- भवत, सत्वगुणः श्रीमहत्प्रणभ्योऽन्यत्रावसादनकर्नृतानियामकतारूपः सत्वगुणः, निरुक्तत्वं सुवाच्यत्वं, अनिरुकत्वं दुर्वाच्यत्वं, निलयनत्वं सर्वाधारत्वं, तदभावोऽनिलयनत्वं, विज्ञानत्वं सर्वज्ञत्वं, सत्यत्वं साधुत्वं, तयोरभावी अविज्ञान- त्वानृतत्वे, 'सत्यमभवत्' इत्यनेन सत्वाद्य ईश्वरगुणाः साधुरूपा इत्युक्तम्। तथाच श्रीमहत्प्राणेभ्योऽन्येप्ववसादन- कर्तृत्वान नियामकत्वात् सुवाच्यकर्तृत्वान् सत्त्वत्यत्वनिरुक्तत्वगुणवानीशः। स्वयं दुर्वचनत्वादनिरुक्तः। स्वयं सर्वाधारत्वात् सर्वज्ञत्वात् साधुत्वात निलयनत्वविज्ञानत्वसत्यत्वगुणवानीशः । अन्यत्र तद्विपरीतकर्तृत्वादनिलयनः अविज्ञानोऽनृत इति भावः। तदुकं परकीयतैत्तिरीयभाष्ये-अवसादसुवाच्यत्वदौरवाच्याधारसाधुताः । प्रकृतिप्राणतोऽन्यत्र कुर्स्नस्रामको हरिः । अतो नियामकश्चेनि सदा न स्यादवाच्यता। अनिरुक्तं निलयनं सार्वाधारत्वतो हरिः ॥ इति ॥ ननु तत्तन्नियम्य नियामकत्वविशिष्टबहुरूपेपु इच्छा, तत्र विशेष्यांशसिद्धत्वेऽपि विशेषणस्यासिद्धत्वात् न दोपस्तत्राह- तथाच इच्छाया नियम्य इति। नियामकत्वस्य शक्तिविशेपरूपस्यापि सिद्धत्वेन नियम्येपु कार्येप्वेवेच्छाविषयतवं त्वयापि वाच्यमिति भावः । विषयत्वेनेति। इति निरस्तमित्यनेनान्वयः । एवं 'सघ त्यच्ेत्यादिना सत्वादिगुणाभि- व्यक्तिकथनमप्ययुक्तम्; अवसादनकर्तृत्वनियामकत्वादेः शक्तिविशेपस्य शक्यीभूतकार्यकालीनत्वस्यैवाभिव्यक्तित्वेन कार्योत्पत्तिकथनेनैव तल्ाभात, त्वदीयतैत्तिरीयभाव्ये 'त्यच्नानिरुक्तं विज्ञानं तथा निलयनं महत्। सत्यं प्राणस्तथा श्रीम सश्निरकं तथानृतम् ।I' अविज्ञानं निलयनमित्यनेन त्यदादिशबदैर्महत्तत्वस्य सत्यशब्देन प्राणस्य सदादिशन्दैः
Page 445
[ब्रह्मणोऽभिन्न० प्रमाणोपपत्ति:] गौडव्रह्मानन्दीयुता। ७६३
नामेति-चेत् सत्यम्: सृज्यानामीक्षितृत्वाद्यसंभवेन ईक्षणादिकर्तृप्रतिपादकतेजआदिपदस्तेज- आद्यवच्छिन्न आत्मा बोध्यते। पूर्वपूर्वकार्यावच्छिन्नस्य तस्यवोत्तरोत्तर कार्यनिमित्तन्वात्। तथाचाव- चछेदके तेजआदौ न चैतन्यनिबन्धनदोषावकाशः। 'असद्वा इदमग्र आसीत्। ततो वे सदजायन। तदात्मानं स्वयमकुरुते'त्याद्यप्युक्तार्थ प्रमाणम्। नचात्मनः करणे अकुरुतेति सत्त्वोक्त्यनुपपत्तिः आकाशाद्ात्मना क्रियमाणत्वेऽपि स्वरूपेण सत्वोपपत्तेः। एतदर्थमेवात्मानमाकाशाद्यात्मना अकु रुतेत्यश्रूयमाणोऽप्यर्थः कल्प्यते। एवं तदात्मानं सृजाम्यह'मित्यादिस्मृतिपु धर्मस्थापकशरीराद्या- त्मनेति व्याख्येयम्। नच्र-'ततो वै सदजायते'ति तच्छब्दोपात्तब्रह्मणः प्रपश्चोत्पत्ते: प्राक सिद्ध- त्वात्तदात्मानमिति व्यर्थमिति-वाच्यम्; निमित्तत्वे पूर्ववाक्येन लब्धेऽपि उपादानत्ववोधनेना- स्यापि सफलत्वात्। ननु-यटुक्तं ब्रह्मण्येव सृष्टिलयश्रवणात् ब्रह्मोपादानमिति, तन्न; ऊर्णनाभी तन्तुनिमित्ते तन्तुलयस्य दर्शनात्, तत्र हि यथा पुत्रं प्रति पितृदेहधातोरुपादानत्वेऽपि न पिता तदुपादानम्, किंतु निमित्तमात्रं, तथा ऊर्णनाभिधातोस्तदुपादानत्वेऽपि तस्य निमित्तत्वमेव, ब्रह्मणोऽपि ऊर्णनाभिवदेव संहर्तृत्वस्य यथोर्णनाभिरित्यादिना श्रवणाच्चति-चेन्न; यद्यप्यूर्णनाभेर्न तन्तूपादानत्वम् ; तस्मिन्नष्टऽपि तन्तूपलम्भात्, किंतु भुक्ताहारस्यव; तथापि तत्र न तन्तोर्लयः, किंतु वहिष्ठस्यान्तःप्रवेशमात्रम्। अत एव 'यथोर्णनाभिः सृजते गृह्नते चे'त्युक्तम्। नच-ब्रह्मणस्त व्न्यायेन संहर्तृत्वोक्त्या तद्वदेव तदस्त्विति-वाच्यम्: 'तजला'नित्यादिना तत्र लयश्रवणात्, तिरोभावमात्रे च तस्य निदर्शनत्वात्, सर्वसाम्यस्य दष्टान्तत्वाप्रयोजकत्वात्। 'तन्नृतयोनि'मिति योनिश्रुत्या चोपादानत्वम्। नच 'योनिष्ट इन्द्रसदने त्यादौ निमित्तेऽपि योनिशब्दप्रयोगात् न तेनो- पादानतासिद्धिःः 'मुख्यस्तु शब्दस्वरसा'दिति न्यायेन कदाचिदन्यत् कथश्चिन्निमित्त प्रयोगेऽपि औत्सर्गिकमुख्यार्थत्यागस्य प्रकृतेऽयोगात्। एकविज्ञानेन सर्वविज्ञानश्रुतिरष्युपादानत्वे मानम्।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। श्रियश्चोक्तचेन तद्विरोधाच्च। अथ-ईश्वरस्यैव सत्वादिगुणाः, ईश्वरमंबन्धान् महदादावपि तद्यवहार इति-चेन्न; तथापि महदादिपरन्वे ईश्वरगुणाभिव्यक्तिपरत्वायोगात, योगे वा महदादिपरत्वोक्तरुन्मत्तप्रलापत्वात् । संभवेनेति। अनुच्चारयिनर्यपि चत्रेऽहं सुखीनि जञातायमिति प्रयोगादनुच्चारयितर्यपि ईश्वरे अहंपदप्रयोगः । अन्यथा तवापि सृष्टेः पूर्व नियामकनानारूपैवहुभावरुपसङ्गल्पस्याहंपदेन उल्लेखायोगात्। अथ त नित्यशरीरेणोच्चारणं, तहि ममाप्या- काशादिसृष्टेः पूर्वमशरीरवाचा तदुपपत्तिः; संङ्कल्पस्येव वाचोऽप्यविद्यापरिणामत्वसंभवात्, अन्तःकरणं नु नाहंपद- प्रयोगनिमित्तम्; परकीयेऽपि तत्र तदापन्तेरिति भावः। आदीनामिति। 'तत्तेज ऐेक्षत तदपोऽसृजत तिस्त्रो दवताः' इत्यादिवाक्येरिति शेपः। प्रतिपादकतेजआदिपदः ऐेक्षतेत्यादिपद्युक्ततेजआदिपदैः । तस्यैवेति। 'स तपस्त्वा। इदं सर्वमसृजत' इत्यादिश्ुतेरिति शेपः। अकुरुतेति। सत्वेति। अकुरुतेति। कर्तृत्ववशाल्भ्य- पूर्वसत्वेत्यथः। ब्रह्मण इनि हेतोस्पत्तावन्वयः। तथाचासदेचेत्यादिना अनभिव्यक्तनामरूपात्मकब्रह्मण उक्तचेन तत दत्यादो तत्पदेन तत्परामर्शान् तादृशब्रह्म हेतुकप्रपञ्चोत्पत्तेरुक्तत्वात् 'तदात्मान'मित्यादि व्यर्थमिति भावः । ऊर्णना- भिधातोः लालारूपस्य। नष्े अदष्टे। तन्तुतादात्म्येनोर्णनाभेरप्रत्यक्षेऽपि तन्तुप्रत्यक्षादित्यथेः। उपादानस्य कार्य- तादात््यावश्यकत्वात् तदप्रतीत्या नात्रोपादानत्वमिति भावः। यथाश्रुते-गोलोमादीनां नाशेऽपि दूर्वादिदर्शनाद- नुपादानतापत्तेरसङ्गतिः । लयः संस्काररूपेण स्थितिः । तजलानिति। 'सर्व खल्विदं ब्रह्म तज्ला'निति श्रुना तस्मात् ब्रह्मणो जायते इति तजजं, तस्मिन् लीयत इनि तलं, तेनानिति जीवनीति तदन् इत्यर्थः । योनिष्ट इति। 'योनिष्ट इन्द्र सदने अकारि तमानृभिः पुरुहृत प्रयाहि असो यथानोऽविता वृधे च ददो वसूनि ममदश्च सोमै'रित्यस्य हे पुरुहृत इन्द्र ते सदने उपवेशनाय योनिः स्थानम् अकारि। तं योनि प्रनि आप्रयाहि। नृभिर्मरुद्भिः सह। यथा नोऽस्माकम् अविता रक्षकः असः भवास। वृधे वर्धनाय भवति। वसूनि ददः ददासि तथा सोमै- रस्मदीयैर्ममदः मादयेत्यर्थः । निमित्ते उपवेशनक्रियानिमित्ते स्थान द्दति यावत्। तथा तत्र स्थान इव प्रकृते निमित्ते प्रयोगः। महत्त्वपरिमाणं महत्त्व्रसङ्गयाप्रचययोनीत्यत्र वैशेषिकोक्त्तौ महर्व्रादिनिमित्तकारणकार्थकतया प्रयोगादिति भावः। मुख्यस्तु शब्दस्वरसादिति। शब्दस्य स्वरसादर्थान्तरे अनुपपत्तिप्रतिसन्धानं विनैव योऽथः प्रतीयते स मुख्यः। तत्संभवेऽर्थान्तरं न गृह्यते; मुख्यार्थे अन्वयानुपपत्यादिमूलकलक्षणाकल्पने गौरवादित्यर्थः । मुख्यार्थेति। अर्थान्तरे अनुपपत्यादिज्ञानं विनैवोपादाने प्रयोगात् तदेव मुख्यार्थः, निमित्तकारणस्थलादौ तु कारणत्वाधारत्वादि- गुणयोगात् प्रयोगः । अतएव 'योनिश्र हि गीयते' इति सूत्रेण भगवता व्यासेन तथा सूचितमिति भावः। ननु
Page 446
७६४ अद्वैतसिद्धि: । [परिच्छेद: २ ]
यथाच न सादश्यप्राधान्याभ्यासुपपत्तिस्तथोक्तं प्राक। 'सर्वे खल्विदं म्रह्मे'ति सामानाघिकरण्यश्रु- तिरपि तत्र मानम्। नच-'सर्व समापनोषि ततोऽसि सर्व' इति स्मृत्याऽन्यथाव्याख्यातत्वान्न तत्र मान- तेति-वाच्यम्; अधिष्ठानतया सर्वव्यापित्वस्य सर्वशब्दप्रयोगनिमित्तत्वात्, अन्यथा आकाशेऽपि सर्वपद्प्रयोगापत्तेः । अनुपादानत्वे प्रकृत्यधिकरणविरोधापत्तेश्च उपादानत्वम्। श्रुत्यनुगृहीतानुमा- नमप्यत्र विवरणोक्तमध्यवसेयम्। तथाहि-'महाभूतानि, सद्वस्तुप्रकृतिकानि, सत्स्वभावानुरक्तत्व्रे सति विविधविकारत्वात्, मृदनुस्यूतघटादिवदि'ति। नच विवर्तमते उपादानत्वानुपपत्तिः, सत्प्र- धानप्रकृतिकत्वेनार्थान्तरता वा; आदावेव तदुपादानत्वस्य स्थापितत्वाव्, प्रकृतेः सत्त्वाभावस्य प्रसाधितत्वेनार्थान्तरानवकाशाञ्च। नच 'खण्डो गौर्मुण्डो गौ'रिति गोत्वानुरक्तखण्डादौ व्यमि- चार :; तदनुरक्तत्वे सति तद्विकारत्वादित्यत्र तात्पर्यात्, सदतिरिक्तगोत्वाद्यनभ्युपगमाच्च। अत- एव-'सन् घट' इतिवदतेदानीमसन घटः असनृशङ्गमित्यादिप्रतीत्यनुसारेण घटनृश्ङ्गादेरसटु- पादानत्वापत्तिरिति-निरस्तम्। नापि ब्रह्म, न द्रव्योपादानम्, चेतनत्वाञ्चैत्रवत्, जगन्नानन्दप्रकृ- तिकम्, तत्स्वभावाननुरक्तत्वात्, यत् यत्स्वभावाननुरक्तं तत् न तत्प्रकृतिकं, यथा घटस्वभावान- चुरक्तं पटादि न घटोपादानकमित्यादिना सत्प्रतिपक्षत्वम्, व्याप्तिपक्षधर्मतयोरापातप्रतीत्या साम्ये- ऽपि श्रुत्यनुग्रहेण स्थापनाया बलवत्वात्। द्वितीयानुमाने कपालस्वभावाननुरक्ते घटे व्यमिचार :; 'कपालं घट' इत्यप्रतीतेः, नच-मृत्त्वेन तदनुरक्तत्वमस्तीति-वाच्यम्; सत्त्वेनात्राप्यनुरक्तत्वस्य समानत्वात्। एवंच जगदमिन्ननिमित्तोपादानकम्, प्रेक्षापूर्वकजनितकार्यत्वात्सुखदुःखादिवदित्य- मिन्ननिमित्तोपादानं ब्रह्म सिध्यति। नच व्यर्थविशेषणत्वम्; प्रेक्षापूर्वकत्वात् कार्यत्वादिति हेतु- द्वये तात्पर्यात्। नच-त्वन्मते दुःखादीनामन्तःकरणोपादानकत्वेन साध्यवैकल्यमिति-वाच्यम्; अस्मन्मते अन्तःकरणस्य परिणाम्युपादानत्वेऽपि अन्तःकरणरूपेण परिणताज्ञानाधारतया विव- रतोपादानत्वस्यानपायात्, कार्यत्वादिति हेती सर्वकार्यनिमित्तकालघटसंयोगस्य उभयवादिसंप्र- तिपन्नस्य दष्टान्तस्य लाभाच्च। नच जगदुपादानं, न कर्तृ, द्रव्योपादानत्वात्, मृद्वत्, जग- त्कर्ता वा न द्रव्योपादानम्, कर्तृत्वात्, कुलालादिवदित्यादिना सत्प्रतिपक्षत्वम्; श्रुतिविरो- धेन हीनषलत्वात्, आद्येऽनुमाने जडत्वस्य द्वितीयानुमाने सर्वानन्तर्यामित्वस्य चोपाधित्वात्,
गौडब्रह्मानन्दी (लघुचन्द्रिका)। एकविज्ञानश्रुतेः म्रह्ण: सर्वदश्यरूपरवात् तज्ज्ञानात्तज्ज्ञानमिति नार्थः, किंतु सर्वदश्यस्य सद्ूपादिना ब्रह्मसारश्यात् म्झ्ाधीनत्वाद्वा तज्ज्ञानान्तज्ज्ञानमित्यर्थः, तथाच कथमुपादानत्वसिद्धिः ? तत्राह-यथाचेति। विवेचितमेतत् श्रुतिवूषणोद्धारे। अधिष्ठानतया सर्वव्यापित्वस्य अधिष्ठानत्वहेतुकस्य सर्वतादात्म्यस्य। निमिसत्वात् निमित्त- स्वेनोक्तस्मृत्या व्याख्यातत्वात्। आम्ोपीत्यनेनैव संबन्धमात्रलाभसंभवेन तादात््यलाभार्थमेव संपदोक्तेरिति भावः । अन्यथा तादात्म्यान्यसंबन्धस्योक्तनिमित्ततवे। प्रकृत्यधिकरणेति। 'प्रकृतिश्च प्रतिज्ञारष्टान्तानुपरोधादि'त्यधिकर- णेत्यर्थः। महाभूतानि कार्याणि। सद्वस्तुप्रकृतिकानि सत्स्वरूपोपादानकानि। व्यमिचार: यत् यदनुरक्तं कार्य तत् तदुपादानक'मिति सामान्यव्याप्ौ। तदनुरक्तत्वे सति सत्स्वरूपतादारम्यवत्वे सति। तद्विकारत्वात् सत्स्व रूपकार्यत्वात्। अनभ्युपगमादिति। तथापि गुणाद्यात्मके द्रव्ये तदनुपादानकत्वात् विशेष्यदलम्। गुणादे- रपि सत्स्वरूपत्वे तु दश्यात्मकस्य ब्रह्मण: दृश्यानुपादानकत्वात् दण्डादिकार्ये व्यभिचारात् विशेषणमिति बोष्यम्। सर्वत्र सद्रूपसंबन्धस्य प्रतीते: संबन्धान्तरबाधात् तादालयरूपरवात्' पराभ्युपगतसमवायस्थले तादारम्यस्यैव प्रामा- णिकतवात् ब्रह्मणि निमित्तकारणत्वस्य त्वयापि वाच्यत्वात् कार्यतादात््यवत् कारणत्वरूपमुपादानत्वं ब्रह्मणि दुर्वार- मित्यनुकूलतर्को बोध्यः। अतएव 'यत् यत्तादात्म्यवर्वे सति यस्कायं तत् तदुपादानकमिति व्याप्ौ यत्कार्यत्वनिवेशा- देव 'अत्रेदानी'मिति प्रतीत्या एतद्देशकालावच्छिम्ासत्योपादानकरवसिद्धि: शह्गितुं शक्या, नतु सामान्यतोऽसस्यो- पादानकरवसिद्धि; उक्त्ासर्वस्य सर्वदेशकालवृत्यस्थन्ताभावप्रतियोगित्वरूपत्वादृत आह-असनृश्ङ्गमिति । प्रतीतेरापातत्वं विवृणोति-द्वितीयेति। यत्स्वभावाननुरक्तवं यत्तादात्म्यशून्यतवं यसतादात्म्येनाप्रतीयमानत्वं वा, नाद :; स्वरूपासिद्धेः, अन्त्यमभिप्रेत्याह-कपालस्वभावेति। अप्रतीतेः 'कपालात् घट' इृत्यजानानस्यानन्दो जगदित्यपि धीरस्त्येवेति हेरवसिद्धेरिति भावः। प्रेक्षापूर्वकत्वात् जन्यतासंबन्धेन प्रेक्षाविशिष्टत्वात्। एतेन- प्रेक्षाकालीनप्रागभावप्रतियोगित्वस्य प्रेक्षाकार्यत्वस्य वा हेतुत्वे कालीनेति प्रेक्षेति च व्यर्थमिति-परास्तम्। उपाधित्वादिति। पक्षमात्रनिष्ठाभावप्रतियोगित्वात् नानयोरुपाधित्वम; यत्र यत्रोपाध्यभावः तन्र तत्र न साध्य
Page 447
७६५
बाधोन्नीततया पक्षेतरत्वेऽपि दोषत्वात्। तस्माज्जगदुपादानं ब्रह्म कर्तृ चेति सिद्धम्॥ इत्यद्वैतसिद्धौ ब्रह्मणो जगदमिन्ननिमित्तोपादानत्वे प्रमाणोपपत्तिः।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। मिति व्यतिरेकव्याश्यभावाच। नहि पक्षे साध्याभावो मम निश्चितः । जडत्वस्यासति साध्याव्यापतिश्रेति चेत्, भ्रान्तोऽसि; सत्प्रतिपक्षे सत्प्रतिपक्षान्तरस्य व्यर्थत्वात्, व्यभिचारोसायकतया दूषकतवे तु पक्षमात्ननिष्ठाभावप्रति- योगित्वं न प्रतिकूलम् ; साध्यव्यापकत्वेन गृह्यमाणोपाधेर्व्यभिचारेण हेतौ साध्यव्यभिचारोभयनसंभवात्। जडत्वं तु चिदन्यत्वरूपं तुच्छेऽप्यसतयेव। बाधोन्नीततया पक्षेतरत्वेऽपीति । वह्विरनुष्णः, कृतकत्वात्, इत्यादौ वह्लीतरत्वादि: तत्तुस्यतयेत्यर्थः । यथाच तत्र साध्यव्यापकताग्ाहकस्तर्कोडस्ति, हेती च साध्यव्याप्यताग्राहकस्तर्कों नास्ति, तथा प्रकृतोपाधौ। अस्ति हि 'अकर्ता यदि जड़ो न स्यादकर्ता न स्यात्, चेतनस्य कर्तृत्वनियमात्, जगदनु- पादानं यधनन्तर्यामी न स्यात्, तदा जगदुपादानं स्यात्; अन्तर्यामिण एव सर्वानुस्यूतत्वेन विवर्तोपादान- त्वादित्युपाधौ साध्यव्यापकताग्राहकस्तर्कः। नास्ति च द्रव्योपादानरवादिहेतावकर्तृतादिव्याप्तिग्राहकस्तर्कः; मृदादे- रचेतनत्वादिना कर्तृत्वाद्यभावेऽपि ब्रह्मणः कर्तृत्वादौ बाघकाभावात्। तथाच पक्षेतरत्वस्यानुपाधित्वं न कुलधर्म इति भावः। तर्कैरित्यादि-ब्रह्मोपादानताप्रमा ॥ इति लघुचन्द्रिकायां अभिन्ननिमित्तोपादानत्वे प्रमाणोपपत्ति:।
अथ ब्रह्मणोऽभिन्ननिमित्तोपादानत्वोपपत्तिः । (१) तत्र न्यायामृतकारा :- निर्विशेषं ब्रह्म निमित्तमुपादानं च न भवति। विकारवत्कारणत्रूपमुपादानत्वं हि न निर्विकारश्रुतिसिद्धविकारराहित्य- कस्य ब्रह्मणः संभवति। तथाहि-सत्यत्वापत्त्याऽज्ञानोपादानकत्वकल्पनाविरोधेन न ब्रह्ममात्रोपादानकतवम्। सितासित- सूत्रारब्धपटस्य सितासिततवन् सत्यत्ानिर्वाच्यतयोरप्यापत्या न ब्रह्माज्ञानोभयोपादानकत्वम्। ब्रह्मखभावपारमार्थिकत्वस्य उपादेयधीमात्रस्थत्वेऽनिर्वाच्यतस्यापि तदापत्तिः। एतेन-तन्मात्रोपादानकत्वस्य तत्तत्सत्त्वप्रयोजकत्वमपि-निर- स्तम् ; अनिर्वाच्यतस्याप्यसिद्धिप्रसङ्गात्। मायाविशिष्टोपादानत्वं तु मृदादिवत्परिणामित्वापत्त्या निर्विकारश्रुतिविरोधेन विवर्तमतहान्यापत्या च न युक्त्तम्। विशिष्टापेक्षया परिणामित्वं, शुद्धापेक्षया विवर्ततमिति तु शुद्धेऽपि विवर्तार्थ विकारा- रोपस्यावश्यकत्वेन निर्विकारश्रुतेस्तत्परत्वाभावप्रसज्वान्न साम्प्रतम्। नहि तत्त्वतो निर्विकार आरोपितविकार इति विरुद्धम्। अंशोस्तन्तुद्वारेव मायाद्वारा ब्रह्मणः कारणत्मपि अंशोस्तन्तुं प्रतीव मायां प्रति ब्रह्मणोऽनुपादानत्वेन नाश्वितुं योग्यम् । किंच कीदृशमिदमुपादानलम् ? न तावद्र्रमाधिष्ठानतम्; मृदादिष्वव्याप्तेः, शुक्तौ उपादानताव्यवहारेणातिव्याप्तेश्व। पतेन-असत्यरूपान्तरापत्तिर्विवर्तः, सत्यरूपान्तरापत्तिः परिणामः, रूपान्तरापत्तिमात्रं तु विवर्तपरिणाम्युभयसाधार- णम्, निर्विकारश्रुतिस्तु तात्त्विकाविकाराभिप्राया। ब्रह्म चाज्ञातं प्रपञ्चरूपेण विवर्तते इत्यज्ञानमपि परिणामितयोपादानान्त· र्गतम्। रूप्यमपि शुक्तिविवर्ततवादज्ञानोपादानकत्वाच्चोभयोपादनकमिति-निरस्तम्; नहि मिथ्याभूतस्य सत्यमुपादानं भवति; अज्ञानासिद्धिप्रसन्गात्। नहि विवर्तपरिणाम्युभयानुगतमुपादानत्वं निर्वक्तुमलम्। वस्तुतस्तु शुक्तिब्रह्मणोरेव रूप्याकाशाद्युपादानत्वं, अविद्यान्वयव्यतिरेकस्तु निमित्ततवमात्रेणोपपद्यते इति कल्पनाप्रसङ्वेन प्रपञ्चमिथ्यात्ासिद्धिः। अस- त्यस्य रूप्यादेर्नहि सत्यरूपान्तरापत्तिमत्परिणाम्यपेक्षा। एतेन-विकारित्वेनाविद्याकल्पनमपि-निरस्तम्; अतातिक- विकारेण ब्रह्मण एवोपादनत्वसंभवात्। पतेन-रूपान्तरापत्तिप्रतीतिविषयत्वं रूपान्तरामेदधीविषयतं कार्यामेदधीवि- षयत्वं वोभयानुगतमुपादानत्वमिति-परास्तम्; आद्येऽसिद्धेः, नहि शुक्ती रूप्यभावमापन्नेत्यादिधीरस्ति। द्वितीयमुपादा- नोपादेयभावशून्ययोः क्षीरनीरयोः खण्डगोतयोश्च व्यमिचारान्न समीचीनम्। कार्यामेदभ्रमविषये निमित्ते व्यमिचारेण तृतीयोऽपि न युक्तः। माया उपादानम्, इश्वरो निमित्तकारणम्, शुद्धं ब्रह्माधिष्ठानमिति पक्षे तु नामिन्निमित्तोपादानक- तसिद्धिरिति न ब्रह्मोपादनत्वसंभवः ।। पतेन-तन्निमित्तलमपि-प्रराहतम्। तथाहि-निमित्ततोपपादकं कर्तृत्वं नाघिष्ठानतम्; नहि कर्तृलोपादान तयोः सामानाधिकरण्यम्। नापि भ्रान्तवदध्यासद्रष्टृत्वं मायाविवद्यामोहकत्वं वा, नहि भ्रान्तस्य प्रेक्षापूर्वकमारोपितक- रतृत्वं कुत्रापि दृष्टम्, न वा व्यामोहनीयजीवाद्यभावे व्यामोहकत्वमुपपद्यते । व्यामोहनीयजीवदर्शने तु ्रान्त्यापत्तिः, व्यामोहकत्वस्याप्यारोपितत्वेनान्योन्याश्रयथ। नामरूपे व्याकरवाणीति श्रुतिरपि मायाविवद्यामोहकत्वे नोपपद्यते। नहि
Page 448
७६६ अद्वैतसिद्धिः । [परिच्छेद: २]
मायावी करवाणीति संकल्प्य करोति, किंतु दर्शयानीति संकल्प्य दर्शयति। नहि भ्रमाघिष्ठानत्वादिना सार्वज्यमिति ज- न्मादिसूत्रे ऽर्थलब्धसा्वेश्यस्फुटीकरणार्थ शास्त्रयोनितादिति सूत्रमिति परकीयभाष्यविरोधः पक्षत्रयेऽप्यपरिहार्यः। एतेन -उपादानगोचर प्रयत्नादिमत्त्वं कर्तृतमिति-परास्तम्, कल्पितं प्रति तदयोगात्। तस्मात्- अधिष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता। लौकिकी कृतिमत्ता तु न दृष्टा कल्पितं प्रति॥ यावताचोपादनत्वे कर्तृत्वे च न संभावनापि, तावता तत्र प्रमाणमपि नास्तीति सूचितम्। तथाहि-यतो वा इमानि भूतानि जायन्ते इति श्रुतिर्न ब्रह्मोपादानत्वं गोचरयति । यत इति हि पश्चम्या हेतुमात्रममिधीयते, नतूपादानलम्, पुत्रात्प्रमोदो जायते इत्यादावनुपादानेऽपि पश्चमीदर्शनेन वृत्तौ "जनिकर्तुः प्रकृति"रिति सूत्रे प्रकृतिपदं हेतुमात्रपरमित्यु- कलात्। "असति प्रकृतित्रहणे प्रकृतिमात्रस्य स्यात्, प्रत्यासत्तेः, नेतरस्य, प्रकृतिग्रहणात्कारणमात्रस्य स्यादि"ति न्या- सोक्तिरप्यत एव सङ्गच्छते। अत एवैतत्सूत्रप्रत्याख्यानमप्युपपद्यते। एतेन-आत्मन आकाशः संभूत इति वाक्यमपि -व्याख्यातम्; संभूतशब्दसाहचर्येण तस्य निमित्तमात्रपरलात्। नहि शुक्ते: रूप्यं संभूतमिति प्रतीतिरस्ति। "स तपो- Sतप्यत। स तपस्तप्वा। इदं सर्वमसृजत। यदिदं किंच। तत्सप्टा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवादिति वाक्यशेषोऽपि हि सदादिभवनस्य जगत्सष्टितदनुप्रवेशानन्तरभावित्वेन जगत्सृप्टितानुपपत्त्या परमेश्वरस्य सत्त्वादिगुणा- भिव्यक्तिपर एव। कथमन्यथा अभवदिति निर्देश उपपद्यते। सदादिभवनमेव तु न जगत्सृष्टिः। तदनुप्रविश्येति क्वाप्रत्य- यानुपपत्तेः, इदं सर्वमसृजतेत्यस्य वैयर्थ्याच्च। "सोऽकामयत। बहु स्यां प्रजायेये"ति वाक्यमपि न सृज्यतादात्म्यं विपयी- करोति, किंतु "अजायमानो बहुधा विजायत" "यदेकमव्यक्तमनन्तरूपमिति" श्रुतिसिद्धत त्तदनन्तपदार्थनियामकानन्तरूप- र्नियम्यसापेक्षबहुभावसंकल्पमाह। तदुक्तम्-वहु स्यामिति संकल्प्य तेजःप्रभृतिसर्जनम् । गुरुः स्यामितिसंकल्प्य शिप्य- संपादनं यथेति। एवंच तदक्षत बहु स्यामित्यपि नात्र मानमिति सृचितम्। नहीक्षितृत्वस्प्टरत्वादिना चेतनत्वंनावगतानां तेजःप्रभृतीनां सृज्यत्वमुपपद्यते, येन तदाद्यात्मना भवनमेवात्र गोचरीक्ियेत। "असद्वा इदमग्र आगीत्। ततो वै सद- जायत। तदात्मानं स्वयमकुरुतेति वाक्यमपि आत्मनः करणानुपपत्या तदात्मानं सृजाम्यहमितिवत् सवनियामकरूपैभव- नमेव वोधयति। तनो वे सदजायतेत्यनेनव सिद्धत्वेन तदात्मानमिति वाक्यवैयर्थ्याच्च। एतेन-व्रह्मण्येव सृष्टिलयथ्र- वणमपि तन्तुनिमित्ते ऊर्णनाभीं तन्तुलयस्य दर्शनेन यथोर्णनाभिरिति श्रुती तद्ृष्टरान्त्स्येवादरणेन च निमित्तत्मेव गमयति नतूपादानतमिति-सूचितम्। यद्धूतयोनिमिति योनिशब्दस्तु निमित्तलसाधारणो योनिष्ट इन्द्र इत्यादाविवेति न सोऽप्यु- पादनत्वे प्रमाणम्। एवंचैकविज्ञानेन सवविज्ञानप्रतिज्ञानादिकं सर्वमपि सादृश्यसामान्याभ्यामेवोपपादनीयम्। सर्व समा- म्रोषि ततोऽसि सर्वः इति स्मृत्याऽन्यथाव्याख्यातलात् सर्व खल्विदं ब्र्मेति श्रुतिरपि व्याख्याता। प्रकृत्यधिकरणं तु भाप्ये प्रकृतिशब्दोऽपि परमात्मपर इति व्याख्यातमिति न कोऽपि विरोधो ब्रह्मानुपादनत्वे। महाभूतानि, सद्वस्तुप्रकृतिकानि, सत्खभावानुरक्तत्वं सति विविधविकारत्वात्, मृदनुस्यूतघटवत्। जगत्, अभिन्ननिमितोपादानकम्, प्रक्षापूर्वकजनिन- कार्यत्ात्, सुखदुःखादिवदित्यनुमाने अपि प्रथमानुमाने विवर्तमते उपादानत्ानुपपत्त्या बाधात् सत्प्रधानप्रकृतिकत्वेना- र्थान्तरान् गोलानुरक्तखण्डादाँ व्यमिचारात् ब्रह्म, न द्रव्योपादानम् चंतनत्ात्, चत्रवत्, जगन्ानन्दप्रकृतिकम्, तत्खभा- वाननुरक्तलात्, इति सत्प्रतिपक्षान् द्वितायानुमाने कार्यत्ादित्यंतावतवेष्टसिध्धा व्यर्थविशेषणलात् लन्मते दुःखादीना- मन्तःकरणोपादनकत्वेन साध्यवेकल्यात्, जगदुपादानं न कनृ, द्रव्योपादानलातू, गृदून, जगकता न द्रव्योपादा- नम्, कर्तृलान्, कुलालवत् इति सत्प्रतिपक्षाच्च नात्र प्रमाणतामर्हत इति न जगत् अभिन्ननिमित्तोपादनकमिति कारणल- मुखेन सर्वषामपि वेदान्तानां निरविशेषत्रह्मतात्पर्यमयुक्त्तमेवेति-वर्णयन्ति ॥ (२) अद्वेतसिद्धिकारास्तु- तच्च निर्विशेषम् निमित्तमुपादानं च। अस्य द्वेतेन्द्रजालस्य यदुपादानकारणम्। अज्ञानं तदुपाश्रित्य ब्रह्मकारणमुच्यते।
धोपादानसाधारणलक्षणमपि न दुष्टम्। एवंचाज्ञानं परिणामितया ब्रह्म विवर्तमानतया जगत्कारणम्। परिणामित्वंच परि- णाम्युपादानसमसत्ताकत्वं न सत्यरूपान्तरापत्तिरूपमिति न जगत्सत्यतामापादयति। घटकुण्डलादे: परिणाम्यपेक्षादर्शनेन तद्ूदेवाकाशादावपि तस्यापेक्षयां नाविद्याकल्पनानुपपत्तिः । येन ब्रह्मण एव कल्पितविकारेण परिणामितमपि कल्प्येत। तद्विषयकाज्ञानपरिणानित्वव्यतिरेकेण नहि विकारेSतातिकत्वं निर्वक्तुमलमिति अविद्योपादनत्वमन्तरा न प्रपञ्चविकारितोप- पत्तिः। उपादानत्स्रूपविकल्पतदूषणादिकं सर्वमप्यनुक्तोपालम्भनमेव। एवं भ्रमाधिष्ठानत्वेनापि ब्रह्मोपादानतम्। नहि शुक्तिरतीतादिकं वाघिष्ठानं, किंतु तदवच्छिन्नचतन्यमेवेति नातीतेऽतिव्याप्तिः शुक्तीवाऽव्याप्तिः। एवंचैकमेव चैतन्यमवि- द्योपहितत्वेनोपादानमविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन कर्तृचेति सिद्धमिदं निर्विशेषं ब्रह्म निमित्तमुपादानं चेति।।
Page 449
[ब्रह्मणो डभिन्न०प्रमाणोपपत्तिः] ७६७
कुलालकार्यघटादीनामपि कल्पिततात् रूप्यादीनामपि सकर्तृताच्च न कोऽपि दोपः । एवंच कर्तृत्वं खोपादानगोचर- प्रयल्नादिमत्वं मायाविवत् व्यामोहकत्वं वेति सूचितम्। व्यामुग्धजीवद्रष्टरत्वेपि भ्रान्तिज्ञलवमेव स्यात्, नतु भ्रान्ततवम् । मायाव्यपि करवाणीति संकल्पपूर्वकं करोत्येवेति व्याकरवाणीति श्रुतिरपि नानुपपन्ना। मायावित्वेऽपि सक्ष्यमाणमायिक- विश्वाकारमायासत्वांशपरिणामाधारतया सार्वश्यलाभात् शास्त्रयोनित्वाधिकरणभाष्यमपि न विरुद्धम्। तत्र च (१)"यतोवा इमानि भूतानि जायन्ते" (२) "सच्च त्यच्चाभवत्" (३) "सोऽकामयत बहुस्यां प्रजायेय" "तदै- क्षत (४) बहु स्याम्" (५) "असद्वा इदमग्र आसीत्। ततो वै सदजायते"ति श्रुतयः, (६) ब्रह्मणि सृष्टिलयरवणलि- न्म, (७)भूतयोनिमिति योनिशब्दः, (८) सर्व खल्विति सामानाधिकरण्यम्, (९) प्रकृत्यधिकरणम्, (१०) 'महाभूतानि, सद्वस्तुप्रकृतिकानि'इत्यनुमानद्वयंच प्रमाणानि। तथाहि-यतोवेति श्रुताहि लयाधारतादिलिज्वेन प्रकृतिपरतवमेव पश्चम्या अङ्गीकरणीयम्। नह्यन्यथा वाक्यशेष उपपद्यते। सच्च ल्यच्चाभवदिति सामानाधिकरण्यमपि ब्रह्मोपादानत एवोपपद्यते। सदादिभाव इवात्र जगत्सृष्टिः, नतु मृध्यनन्तरकालिकप्रवेशोत्तरकालिकसत्वादिगुणाभिव्यक्ति: सच्च त्यच्चेति वाक्ये बोध्यते। तदनुप्रविश्येत्यस्य मुखं व्यादाय सवपितीतिवदुपपत्तेः । इदं सर्वमम्जतेतितु निमित्तत्वमात्रभ्रान्तिव्युदासार्थमिति न तेन पौनरुत्त्यम्। स्यामित्यनेन सुखी स्यामितिवत् भाविसत्त्वोत्त्या नियामकरूपाणां ईश्वराभिन्नानां पूर्वमेव सिद्धा तत्र संक- ल्पासंभवेन च गुरुः स्यामितिवदनुपपत्त्या कार्यभावापत्तेरेव विवक्षणीयतया वहु स्यामिति श्रुतिरपि व्याख्याना। तत्तेज ऐेक्षतेत्यत्र तेज आद्यवच्छिन्नचैतन्यस्य विवक्षणेऽपि अवच्छेदकतेजआदिसर्जने वाधकाभावेन तदैक्षत वहु स्यामिति श्रुतिर- पीदानीमनुकूला। पतेन-तदात्मानं स्वयमकुरुतेति श्रुतिरपि-व्याख्याता; आकाशाद्यात्मना तम्यापि कारणोपपत्तेः । ऊर्णनाभां बहिष्टस्य तन्तोरन्तःप्रवेशमात्रमेव, नतु लयः। तिगेभावमात्र एव यथोर्णनाभिः गृहते इति दृष्टान्त इति न निमित्ते कुत्रापि लय इति लयाधारतलित्वमप्युपादानत्वं गोचरयति। अन्यत्र मुख्यासंभवात् गौणोऽपि योनिशब्दोऽत्र बाधकाभावात् मुख्योपादानार्थबोधक एवेति योनिशव्दोऽपि वितृतो मन्तव्यः। नहि सर्वगततवमात्रेण सर्वत्म्। आका- शस्यापि सर्वतप्रसक्गादिति सर्व खल्विति सामानाधिकरण्यमप्यम्माकमेवानुकूलम्। यथाच प्रकृत्यधिकरणमस्माकमेवानु-
विवर्तमतेऽप्युपादानलोपपत्तिस्तथा पूर्वमेव निरूपितम्। नहि प्रधानं तदिति नार्थान्तरमपि। हेतुश्वात्र तदनुरक्तलवविशि- पटतद्विकारत्वमेवेति न गोलानुरक्तखण्डे व्यभिचारः। ब्रह्म न द्रव्योपादानमिति सत्प्रतिपक्षानुमानं तु श्रुतिबाधितं श्रुत्यनु- गृहीतास्मदनुमानवाधने न समर्थमिति प्रथमानुमानं निर्दुष्टमेव । द्वितीयानुमाने तु हेतुद्वयतात्पर्यान्न व्यर्थविशेषणलम्, अन्तःकरणस्यव परिणाम्युपादानत्वेऽपि तद्रूपेण परिणताविद्याधारतया विवर्तोपादानत्वमपि विद्यते एवेति न साध्यवैक- त्यम, नापि श्रुतिविरोधेन हीनवलत्वेन सोपाधिकत्वेन च सत्प्रतिपक्षोऽपीति सर्वमनवद्यमिति-निरूपयन्ति॥ (३) तरङ्गिणीकारास्तु- न व्रह्मोपादानं भवितुमहति; निर्विकारलात्। नह्यात्मनि कायजनिहेतुतमुभयोपादानलक्षणम्: ब्रह्मणि आद्यक्षणसंब- नधरूपजनेरसिद्धलात्। यथा केवलं ब्रह्म नोपादानं एवं केवलमायापीति परिणामित्वेन माया विवर्तत्वेन ब्रह्मचोपादान- मिति शङ्कापि पराहता। एतेन-निर्विशेषकर्तृतमपि-परास्तम्; नहि कल्पिते उपादानगोचरप्रयत्नादिकं कुत्रापि दृष्टम्। अध्यासद्रष्टरपि न प्रेक्षापूर्वकरजतादिकर्तृतम् । मायाविनस्तु सिद्धैरौषधादिभि: व्यामोहनीयेश्व व्यामोहकत्वं युक्तम्, नतु ब्रह्मणो निर्विशेषस्य ॥ अतएव-तत्र यतोवेत्यादिश्रुतिप्रामाण्यमपि-निरस्तमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- स्वतादात्म्यवत्कार्य हेतुत्वमुपादानसाधारणलक्षणमिति ब्रह्मोपादानतमपि युज्यत एव। ब्रह्मविवर्तत्वे मायाया मायापरि- णामित्वे तद्विषयत्वेन ब्रह्मणश्चोपयोगान्न मायापरिणामित्वाद्यापत्तिः। नह्यदर्शनमात्रेण व्यतिरेक: कस्यापि संभवतीति उपा- दानगोचर प्रयत्नादिमत्वं कर्तृत्वमप्युपपन्नमेव। पूर्वपूर्वाध्यासेन व्यामोहनीयादीनामपि सिध्धा मायाविवद्यामोहकलमप्युप- पत्नमेव। श्रुत्यनुमानादीनां तत्र प्रामाण्यमपि तत्र तत्र विस्तरेण प्रतिपादितम् । विस्तरभयान्तु विरम्यत इति-विवे- चयन्ति॥
Page 450
७६८ अद्वैतसिद्धिः । [परिच्छेद: २]
अथ ब्रह्मण: स्वप्रकाशत्वलक्षणोपपत्तिः । ननु-परिणममानाविद्याघिष्ठानत्वेनोपादानत्वं वाच्यम्, अधिष्ठानत्वं तु नावेद्यस्य; तद्ेदनार्थ प्रमाणापेक्षायामन्योन्याश्रयात्। नच-स्वप्रकाशतदपेक्षमेवाधिष्ठानत्वमिति-वाच्यम्; स्वप्रकाश- ताया वक्तुमशक्यत्वात्। तथाहि-किमिदं स्वप्रकाशत्वं! वृत्त्यव्याप्यत्वं वा, फलाव्याप्यत्वं वा, अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा, तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वा। नाध :; ब्रह्मणोऽप्यावरणभङ्गाय चरमवृत्तिव्याप्यत्वात्, न द्वितीय :; अतीतादौ नित्यातीन्द्रये चाति- व्याप्तेः॥न तृतीय :; सुषुप्यादौ व्यवहाराभावेनाव्याप्तेः। न चतुर्थ: योग्यत्वरूपधर्मस्य मोक्षकाले ड्भावेन तदा ब्रह्मण्यव्याप्तेः। नापि पञ्चमः; अनधिकरणत्वस्यापि धर्मत्वेन मोक्षदशायां तस्याप्यभा वेनाव्याप्ते: । अतएव न तादृगनधिकरणत्वोपलक्षितमपि तत्; तस्यापि धर्मत्वे मुक्तावभावा- दिति-चेन्न; पञ्चमपक्षस्यैव क्षोदसहत्वात्। नच मोक्षेऽव्याप्तिः, अनधिकरणत्वस्य स्वरूपतया तदापि सत्त्वात्। न च स्वरूपत्वे लक्षणत्वानुपपत्तिः; त्वन्नये ब्रह्माभिन्नानन्दादौ गुणत्वव्यवहार- वत् स्वरूपभूतेऽप्यनधिकरणत्वे लक्षणत्वव्यवहारात्। नच-त्वन्मते योग्यत्वमपि ब्रह्मणि मिथ्येति तदत्यन्ताभावोऽपि वाच्यः, तथाच कथं तदत्यन्ताभावानधिकरणत्वमिति-वाच्यम्; योग्यत्व- विरोध्यत्यन्ताभावस्य विवक्षितत्वात्, स्वाश्रयनिष्ठात्यन्ताभावस्य मिथ्यात्वप्रयोजकस्य स्वाश्रयनिष्ठ त्वेनैवाविरोधित्वात्। यद्वा-व्यावहारिकात्यन्ताभावो विवक्षितः, ब्रह्मणि च योग्यतात्यन्ताभावस्य ब्रह्मस्वरूपत्वेन तात्त्विकत्वात् । नाप्यवेद्यत्वानिरुक्ति :; फलाव्याप्यत्वस्यैव तत्त्वात्, आवरणभङ्गे चित एव फलत्वात्। नच-एवं घटादेरपि वृत्तिवेद्यतया फलविषयत्वाभावात् रूप्यसुखादेरपि अप-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नावेद्यस्य नामेयस्य। तद्वेदनार्थ मनोऽध्यासानुकूलतद्वेदनार्थम्। अन्योन्याथ्रयात् मनोऽध्यासे सति प्रमाणरूपा वृत्तिः, तस्यां चाघिष्टानज्ञानतया कारणीभूतायां सत्यां मनोऽध्यास इत्यन्योन्याश्रयात्। स्वप्रकाश- तदपेक्षमित्यादि। यस्याध्यासस्यापेक्षा यत्र ताद्ृशमधिष्ठानमेव, नतु तद्ोचरप्रमाणवृत्तिः, यतोिष्ठानं स्वप्रकाश- मित्यर्थः । यद्यपि मनआद्यध्यासे अधिष्ठानगोचराविद्यावृत्तेरहेतुत्वसंभवेन नान्योन्याश्रयः; तथापि अनवस्थास्येव, ताहृशवृश्यध्यासे वृत्त्यन्तराध्यासहेतुत्वस्य वाच्यत्वात्। स्वप्रकाशत्वोक्तो तु नानवस्था; वृत्तेरध्यासहेमुत्वाभावात, अधिष्ठानानावरणस्यैवाध्यासहेतुत्वात्, पूर्णानन्दस्यावृतत्वेऽपि चिदंशेऽनावरणसत्वेनाध्यासोपपसेः। आधारतावच्छेद- करूपेण हि अधिष्ठानानावरणमध्यासहेतुः, न त्वविद्याविषय रूपेणेत्यविद्योप हित तवादिरूपेणानावरणात् मनआद्यध्या- सोपपत्तिः। अथ-संस्कारहे तुत्वेनाविद्यावृत्तेरध्यासापेक्षणीयतवेनानवस्थातादवस्थ्यमिति-चेन्नन; एवं हि मास्तु वृत्तिरविद्यायाः। अविद्योपहितचित एव साक्षित्वस्यावरणविशेषाभावे संस्कारहेतुत्वस्य च संभवात्। वस्तुतोऽज्ञाना- ध्यासेऽज्ञानगोचरसंस्कारहेतुत्वे मानाभावेन वृत्यध्यासे नोक्तानवस्था। किंचोक्तानवस्थायाः प्रामाणिकतवेनादोष- त्वेऽपि स्वप्रकाशत्वमावश्यकम्, अन्यथा प्रमाणवृत्तिनैरपेक्ष्येणाविद्यावृत्तिमात्रेणाधिष्ठानस्य स्वप्रकाशत्वानुपपत्तेरित्या शयेन प्रमाणवृत्तिनिरपेक्षव्यवहारविपयत्वव्याप्यं स्वप्रकाशत्वं व्यवस्थापयितुं वितर्कयति-किमिदमिति। यद्यपि चतुर्थपक्षेऽपि नाव्याप्ित: लक्ष्ये लक्षणासत्त्वस्यैवाव्याप्तित्वात्, ब्रह्मणि तूक्तयोग्यत्वस्य कदाचित्सरवेन तदसंभवात्; तथापि स्वप्रकाशत्वस्य ब्रह्मस्वरूपतवलाभाय पक्चमपक्षमेवाङ्गीकरोति-पञ्चमपक्षस्येति। वस्तुतः-प्रमाणवृति विनापि व्यवहार्यत्वाय स्वप्रकाशत्वमुच्यते। तस्यच ब्रह्मरूपरवाभवेऽपि व्यवहारदशायां सरवेनवोपपत्तिरिति चतुर्थ- पक्षोऽपि युक्त पवेति ध्येयम् । अव्याप्तिः स्वप्रकाशत्वस्वरूपत्वानुपपत्तिः। व्यवहारवदिति। तव भेदाभावेऽपि विशेषस्य मेदस्थानीयस्य गुणत्वादिव्यवहार इव मम कल्पिततादात्म्यस्य लक्षणतवव्यवहारे प्रयोजकत्वात्। वस्तुतो लक्षणवाक्यस्य मन्मते अखण्डार्थत्वेनार्थोपस्थिति द्वारकाभेदधीजनकधीविषयरवेन लक्षणश्वस्य व्यवहार: स्वप्रकाशतवरूपे म्हणि नानुपपन्न इति ध्येयम्। कथमिति। तदृत्यन्ताभावस्वरूपस्याधिकरणत्वाप्रसिष्धा तदनधिकरणतवं न निवेश्यम्, किंतु तदृत्यन्ताभावत्वविशिष्टस्यानधिकरणतवम्। तब ब्रह्मणि बाधितम्; तादृशविशिष्टाधिकरणत्वात्। नच-तस्यापि मिथ्यात्वात्तद्भावस्वरूपं लक्षणमव्याहतमिति-वाध्यम्; योग्यस्वात्यन्ताभावस्वरूपस्यैव लक्षणत्व- संभवादिति भावः । योग्यत्वविरोधीति। योग्यान्यवृत्तित्वविशिष्टेस्यर्थः। व्यावहारिकेति। व्यावहारिकस्वरूपे- त्वर्थः । ब्रह्मरूपत्वेनेति। उक्त्काभावत्वविशिष्टरूपेण व्यावहारिकत्वेऽपीत्यादिः। तात्त्विकत्वात् तार्विकस्वरूपक- ह्वातू। नच-उक्तात्यन्ताभावस्वरूपमेव लक्षणमसिवति-वाच्यम्; उक्तकात्यन्ताभावस्वरूपस्य यदनधिकरणत्वं तस्ैव
Page 451
[ब्रह्मण: स्वप्रकाशत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७६९
रोक्षव्यवहारयोग्यतया विशिष्टलक्षणस्यातिव्याप्तिरिति-वाच्यम्; घटादो फलव्याप्यत्वस्य समर्थित- त्वाद्रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षवृत्तिविषयत्वाभावात्। तथाच फलाव्याप्यत्वसमानाधिकरणतद्वत्त्वस्य पर्यवसिततया सकलदोषनिरासात्। नच ब्रह्मणो 5पि वृत्तिप्रतिबिम्बितचिद्ूपफलभास्यत्वेनासंभवः; तस्य फलरूपत्वेन तद्विषयत्वाभावात्। नच चित्सुखाचार्यैः तत्स्वभावस्यापि स्फुरणस्य तद्विषयत्वमित्युक्तेरसंभवः; तस्याचार्यवचसस्तत्प्रयुक्त- व्यवहारविषयतया तद्विषयत्वोपचारनिबन्धनत्वात्। अयमत्र निष्कर्षः-वृत्तिप्रतिबिम्बितचिजन्या- तिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा अभिव्यक्ताधिष्ठानचिद्विपयत्वं वा फलव्याप्यत्वम्। चिज्जन्यातिशयश्च नावरणभङ्ग: नापि व्यवहारो विवक्षितः, किंतु भग्नावरणचित्संबन्धः । सच घटादावस्ति, नात्मनि; संबन्धस्य भेदगर्भत्वात्। एवमुक्तचिद्विषयत्वमपि भेदघटितं घटादावस्ति, नात्मनीति स्थितं प्रतिकर्मव्यवस्थायाम्। नाप्यपरोक्षव्यवहारो दुर्वचः अपरोक्ष इति शब्दप्रयोगस्यैव विवक्षितत्वात्। नचालौकिकप्रत्यक्षविषयधर्माधर्मादी तादृशव्यवहारयोगितया अतिव्याप्तिः, योग- जधर्मातिरिक्तालौकिक प्रत्यासत्तेरनङ्गीकारात्, तस्यापि स्वयोग्यव्यवहित एव सामर्थ्यापादकत्वात्, नतु धर्मादो। तदुक्तं 'यत्राप्यतिशयो दृष्ट' इत्यादि। एतेन-कश्चायमपरोक्षव्यवहारो नाम? अपरोक्ष- ज्ञानजन्यो वा, अपरोक्षवस्तुविषयो वा, अपरोक्ष इत्याकारो वा, नाद्ः: धर्मादावप्यपरोक्षयोगिज्ञा- नानुव्यवसायव्यापिज्ञानजन्यव्यवहारसत्वेनातिव्याप्ः, न द्वितीय :: वस्तुन आपरोक्ष्यं अपरोक्षशा- नविषयत्वं चेत्, आत्मनोऽपि घटादिवत् वेद्यत्वापातात्, अपरोक्षव्यवहारविषयत्वं चेत्, वस्तुव्य-
गाडब्रह्मानन्दी (लघुचन्द्रिका)। लक्षणत्वात्, ब्रह्मस्वरूपस्यात्यन्ताभावस्वरूपस्याधिकरणत्वाप्रसिद्धेव तस्य लक्षणाघटकत्वान्। अतएव तदादाय लक्षणासंभवोक्तयादिकं तव भ्रान्त्यैव। नच-एवं व्यावहारिकस्वरूपेनि विशेषणमपि व्यथमिति-वाच्यम्; अधिकरणत्वनिरूपकतया वस्तुगत्या व्यावहारिकस्वरूपस्य निवेशः, नतु व्यावहारिकतवेनेति भावादिनि भावः । भङ्गे चितः नाशोपहितचितः। समर्थितत्वादिति। जानातिभात्योः सकर्मकाकर्मकत्वाभ्यां भिन्नार्थकत्वेन घटो भाती- त्यादौ फलविषयो घट इत्यर्थात् सुखादो वृ्त्तयभावेऽपि साक्षात्क्रियमाणत्वप्रतीत्या चिनो जगदुपादानतवेन जगत्तादा- त््यात्तस्येव विपयताशब्देर्न व्यवहारात् फलविषयत्वस्य घटादी समर्थितत्वादित्यर्थः। तथाच सुखादावुक्ताभावसत्वे च। समानाधिकरणतद्वत्वस्य समानाधिकरणोक्तविषयत्ववत्वस्य। समानाधिकरणत्वस्येति पाठे विशेषणस्येति शेपः तथाचेत्यस्योक्तविषयत्वे इत्यर्थः । अनुमित्यादिविषयत्वस्य सुखादावपि स्त्वादपरोक्षत्युक्तम्। यद्यपि विद्यमानसुखा- धयनुमितिरप्यपरोक्षा; तथापि यत्प्रमाणजन्यत्वमपरोक्षताव्याप्यं, तत्प्रमाणजन्यत्वविवक्षयेन्द्रियजन्यवृत्तिविषयत्वं पर्यव- सितं बोध्यम्। शुद्धेऽपि घटादिचाक्षुपादिविषयत्वात् नाव्यापिः। अथवा-प्रमाणवृत्तियोग्यत्वं स्वाज्ञातत्वनाशकवृ- त्तिविषयत्वं विवक्षितम्। स्वाज्ञातत्वं स्वस्याभानापादकमज्ञानम्। विद्यमानसुखादो तु तदप्रसिद्धम्; नित्यातीन्द्रिये तन्नाशकवृत्तिरप्रसिद्धेति बोध्यम्। तस्येत्यादि। मृलाज्ञानस्य शुद्धचिव्निष्टत्वात्तमाशस्यापि तव्निष्ठत्वेन शुद्धस्य फली- भूतशुद्धाविपयत्वमिति भावः। गर्भत्वादिति। ननु-शुद्धेऽपि फलत्वेन भेदोऽस्त्येव; उपहितकेवलयोर्भेदस्य सिद्धा- न्ते स्वीकारात्, तथाच शुद्धस्य फलत्वोपहिततादात्म्यमव्याहतमिति-चेत्, सत्यम्; तथापि विषयतात्वरूपाखण्ड- धर्मस्योक्ततादात्म्ये मानाभावः। भास्यानुयोगिकस्य भासकचित्प्रतियोगिकतादात्म्यस्येव भासकतानियामकत्वेन विषय- तात्वादुपादानचित्प्रतियोगिकतादात्म्यस्य टश्यमात्रे घटादावध्यस्ततवेऽपि शुद्धचिति फलस्य तादाल््यानध्यासात् शुद्ध- चित एव फलत्वोपहिते तदध्यासात् शुद्धस्य स्वप्रकाशतवेन फलविषयतां विनापि व्यवहारसंभवात्। अतएव विषय- व्वाभावादित्युक्तं मूले। 'अतएव च वेद्यनिष्ठस्त्वसावस्मिन् दर्शने' इति बौद्धाधिकारे उक्तम्। अस्मिन्वेदान्तनये पूर्वोक्ते दर्शने। असौ विषयतारूपसंबन्धः। वेद्यनिष्ठस्तु दृश्यनिष्ठएव, नतु चिन्निष्टः; चितः स्वप्रकाशत्वेनैव व्यवहार्यत्वात्। तत्प्रतियोगिकस्याध्यस्तनिष्ठस्याध्यासिकतादात्म्यस्येव विषयतात्वादिति भावः । तथाच संबन्धस्य भेदगर्भत्वादित्यत्र योगित्वमित्यनेन उक्तसंबन्धस्य केवलचिद्वेदव्याप्यविषयतारूपत्वादित्यर्थः । आवरणाभिभवोपहित- चिद्विषयत्वं योगित्वान्तेन विवक्षितमिति भावः । अथवा योगित्वान्तेनोक्तसंबन्धस्य भेदगर्भत्वात् केवलचिद्वेदव्याप्य- रात्। तथाच स्वावच्छिन्नावरणनाशोपहितचित्तादात्म्यं विवक्षितम् । अन्यथा रूप्यादेरपि शुक्तयाधवच्छिस्नावरण- भिभवोपहितचित्तादात्म्येन फलव्याप्यतापत्तेः । एवंच घटादेरावरणाभिभवावच्छेदकत्वेनोक्ततादात्म्येऽपि शुद्धब्रह्मणि तद्भावेनातन्वेदव्याप्यमुक्त्ततादात्म्यमिति तस्य फलाव्याप्यत्वमिति भावः । एवमित्यादिग्रन्थेडप्युक्त एव भावः । नन्वपरोक्षव्यवहारस्य योग्यत्वमुक्तविपयतारूपं तदा वक्तुं शक्यम्, यद्युक्तव्यवहारः सुवचः, स एव दुर्वच द्दत्यत अ. सि. ९७
Page 452
७७० अद्वैतसिद्धिः। [ परिच्छेदः २ ]
वहारयोरापरोक्ष्ये अन्योन्यसापेक्षतयाऽन्योन्याश्रयात्, न तृतीयः; निराकारशुद्धब्रह्मविषयस्याख- ण्डार्थनिष्ठवेदान्तजन्यव्यवहारस्यापरोक्ष इत्याकारायोगादिति-निरस्तम्; व्यवहारपदेनामिवदनस्य विवक्षितत्वेन चरमवृत्तेस्तदनाकारत्वेऽपि क्षत्यभावात्। नचानुपलब्धिगम्यतया अवेद्ये अपरोक्ष इति लोकव्यवहारसत्वेनाभावेऽतिव्याप्ति :; प्रामाणिकव्यवहारस्य विवक्षितत्वात्। ननु-अपरो- क्षव्यवहारयोग्यत्वं न तावत्सर्वान् प्रति; चैत्राश्ाने मैत्रस्य तदभावात्, नापि ज्ञानं प्रति; तस्याव्यव- हर्तृत्वात्। नापि ज्ञानाश्रयं प्रति; ज्ञानस्य चितोSनाश्रितत्वादिति-चेन्न; प्रमातारं यं कंचित् प्रत्येवापरोक्षव्यवहारयोग्यत्वं विवक्षितम् । प्रमाता चाहमर्थ एव सर्वसंमतः। यत्तूक्तं चैत्रस्य ज्ञाने मैत्रस्याव्यवहार इति, तस्य चैत्रज्ञाननिमित्तको मैत्रस्याव्यवहार इति वार्थः, चत्रज्ञानविषयको मेत्रस्याव्यवहार इति वार्थः। आद्ये चैत्रज्ञानेन मैत्रस्याव्यवहारेपि स्वज्ञानेनैव घटे ब्रहमणि चापरो क्षव्यवहारसंभवेन व्यर्थविशेषणत्वासंभवयोरभावात् । द्वितीये चैत्रज्ञाने तादृग्व्यवहाराभावेऽपि क्षत्यभावात्। अस्माकमपि हि चितिरेव स्वप्रकाशा. नतु चैत्रज्ञानन्वेन व्यपदिश्यमानवृत्त्युपहितचिदपि; वृत्तेरस्वप्रकाशत्वात् । एवंच सर्वप्रमातृन् प्रति तादृग्व्यवहारविषयतायोग्यत्वमपि सङ्गच्छत एव। ननु-अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतम्, तदपरोक्षव्यवहारे तद्विष- यकस्फुरणस्य हेतुत्वादिति-चेन्न; अन्यत्र तद्विषयस्य तद्यवहारजनकत्वेऽपि स्फुरणस्य स्वाविष- यस्य स्वस्मिन् व्यवहारजनकत्वम्, स्वभावभेदात्। नच घटादावपि तथैवास्तु; तेषामस्फुरणरूपत्वेन तद्विषयत्वं विना नियामकान्तराभावात्, तार्किककल्पितस्यानुव्यवसायस्यापि घटज्ञानज्ञानत्वा- पेक्षया लघुना घटज्ञानत्वेनैव घटज्ञानव्यवहारहेतुत्वकल्पनाच्च। ननु-अनवस्थाभिया स्फुरण- न्तरानङ्गीकारात् स्वस्यैव स्वविषयत्वमस्तुः अन्यत्र कृमस्य तद्विषयत्वस्य नियामकस्य त्यक्कुम- युक्तत्वात्, अन्यथा प्रमेयत्वस्य स्ववृत्तित्वं विनैव स्वत एव प्रमेयमिति व्यवहारजनकत्वोपपत्त्या केवलान्वयित्वभङ्गप्रसङ्ग इति-चेन्न; अनवस्थया स्फुरणान्तरत्यागवदभेदे भेदनियतस्य विषयि- विषयभावस्याप्ययुक्ततया त्यागोपपत्ते:, प्रमेयत्वादो केवलान्वयित्वभङ्गस्येष्टत्वात्। नच-एवं गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्य करोत्विति-वाच्यम्; भेदाविशेषात्तन्तुरिव मृदपि पटं
गौडब्रह्मानन्दी (लघुचन्द्िका)। आह-नाप्यपरोक्षेत्यादि। प्रामाणिकेति। भ्रमाजन्येत्यर्थः। व्यर्थविशपणत्व्रेति। घटादिवारकस्यावेद्यन्व- विशेषणस्य व्यर्थत्वेत्यर्थः। असंभवेति। उक्तस्वप्रकाशत्वलक्षणस्यासंभवेत्यर्थः। सङ्गच्छतपवेति। तथाच व्यवहर्नृनिवेशस्य निष्फलत्वादुक्तयोग्यतामात्रं निवेश्यमिति भावः । व्याहतमिति। ब्रह्मणीत्यादिः। तदपरोक्ष- व्यवहारे ब्रह्मविपयके अपरोक्ष इति शब्दप्रयोगे। हेतुत्वात् व्यवहारविपयतवेनापेक्षितत्वात्। घटः अपरोक्ष इत्यादौ घटादाविव ब्रह्मापरोक्षमित्यादावपि ब्रह्मणि स्फुरणतादात्म्यं विपयत्वेनापेक्षितमिति भावः । जनकत्वे विषयत्वे। स्वस्मिन् व्यवहारजनकत्वं स्फुरणमपरोक्षमिति व्यवहारविषयत्वम्। स्वभावभेदात् घटः अपरोक्ष इत्यादौ स्फुरणतादाल्यं चिदपरोक्षेत्यत्रापरोक्षचिद्यक्तिमात्रं विषय इति विषयभेदस्य व्यवहारे स्वीकारात्, 'साक्षाद- परोक्षात् ब्रह्मेति' श्रुत्या स्फुरणतादात्म्याघटितस्यापरोक्षत्वस्य ब्रह्मण्युक्तत्वादिति भावः। नियामकान्तराभावात् तद्यवहारस्य विषयान्तराभावात् । 'चतन्यमपरोक्षमिति' व्यवहारस्याखण्डचिन्मान्रविषयकत्वमेव पढयोः सामाना- िकरण्यविशेषात् तत्र द्वारीभूतोऽपि बोधः चैतन्ये स्फुरणत्वप्रकारकः, नतु स्फुरणविषयत्वप्रकारकः, घटः अपरोक्ष इत्यादेर्व्यवहारस्याप्युक्तहेतोरखण्डार्थतवेऽपि तत्र द्वारीभूतधीः घंटादौ स्फुरणत्वप्रकारकत्वासंभवेन स्फुरणविपयत्व- प्रकारिकैवेति भावः। ननु तथापि चितः स्वविषयत्वमावश्यकम्, अन्यथा तदाकारवृत्त्यभावकाले तथ्वहारासंभ- वात्। तार्किकादिभिर्ज्ञानव्यवहारं प्रति ज्ञानज्ञानत्वेन हेतुत्वस्वीकारात्, अतएव तैरनुव्यवसायः स्वीक्रियते, तत्राह- तार्किकेति। कल्पनात् कल्पनौचित्यात्। तथाचानुव्यवसायस्वीकारो व्यर्थः; व्यवसायस्य स्वप्राकाशत्वसंभवात्। अतएव प्राभाकरैस्तथैवोच्यते। नहि व्यवहारकारणान्तरे सति ज्ञानासर्वे ज्ञानव्यवहारो विलम्बित इति भावः। विषयभेदेन ज्ञानव्यवहारयोर्न कार्यकारणभावः, येनोक्तगौरवम्, किंतु विपयतया व्यवहारे विषयतया ज्ञानत्वेन हेतुतेत्याशयेन शक्कते-नन्वनवस्थति। त्यागोपपत्तेरिति। मन्मतेऽपि विषयतया व्यवहारे असत्वापादकाज्ञाना- निरूपकत्वस्य तव्यक्तित्वेन विशेषणतासंबन्धेन हेतुत्वसंभवात् पूर्णानन्दरूपस्योक्त्ताज्ञाननिरूपकतवेऽपि चिद्रूपस्य तदनिरूपकत्वेन तत्रेदानीं व्यवहारसंभवात् चितश्चिद्विषयत्वाभावे क्षतिविरहादिति भावः । निःस्वरूपत्वेन सर्वेन प्रतीत्यर्हतारूपश्ून्यतवेन। तथाच स्वरूपपदं सश्वेन प्रतीत्यर्हृार्थकमिति भावः। यथाश्रुते तुच्छस्य तुच्छमेव
Page 453
[अनुभूतिस्वप्रकाशत्वोपपत्तिः] ७७१
करोत्वित्यस्याप्यापत्तेः। स्वभावमेदेन परिहारश्च सर्वत्र समानः। यद्वा-चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम्; चिदन्यस्य सर्वस्य चिद्विषयत्वासुच्छस्य निःस्वरूपत्वेन नातिव्याप्तिशङ्का। नाप्य- संभव :; स्वात्मनि वृत्तिविरोधेन छिदाया अच्छेद्यत्ववत् स्वस्य स्ववेद्यत्वायोगात्। नच-एवं मिथ्यात्वानुमितेरपि अस्वविषयत्वापत्तिरिति-वाच्यम्; स्वपरसाधारणस्यैकस्य विषयतानिया- मकस्य तत्र सत्त्वेन विशेषात् । अतएव यथा छिदादी परशुसंयोगो न स्वपरसाधारण इति स्वस्मि- नवृत्तिविरोधः, तथा प्रकृतेऽपि। नच-तर्हि छिदाकार्यस्य छिदायामिव चिज्जन्यव्यवहारस्य चित्य- नापत्तिरिति-वाच्यम्; फलदर्शनस्यैव छिदापेक्षया स्वभावमेदनियामकत्वात्। यद्वा-स्वव्य- वहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वावच्छिन्नसंविद्नपेक्षत्वं वा स्वप्रकाशत्वम्। नच स्ववेद्यत्वे उप्युपपत्या स्वाभिमतप्रकाशत्वानुपपत्तिः; स्ववेद्यत्वस्य बाधितत्वेन तदादायोपपत्त्यसंभवात्। ननु-स्वप्रकाशत्वधर्मस्य तात्त्विकत्वे अद्वैतव्याघातः, अतातत्विकत्वे अस्वप्रकाशत्वस्यैव तात्त्वि- कत्वापत्त्या तत्साधकानुमानादेर्बाध इति-चेन्न; स्वरूपत्वस्योक्तत्वात्। नच-परेषामिदमिष्टम्; वेद्यत्वविरोधिस्वरूपस्य परैरनङ्गीकारात्। इत्यद्वैतसिद्धा ब्रह्मस्वप्रकाशत्वलक्षणोपपत्तिः॥
अथानुभूतिस्वप्रकाशत्वोपपत्तिः। नच प्रमाणाभाव :; अनुभूतित्वहेतोर्व्यतिरेकिण एव प्रमाणत्वान्। ननु-अत्र साध्याप्रसिद्धिः, नच-वैद्यत्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति- वाच्यम; अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेः तदवस्थत्वात् । नचानुभूतित्वेनापि ताव- देव साध्यम्; वेद्यत्वस्य वृत्तिव्याप्यत्वरूपत्व्रे तदभावस्य चरमवृत्तिव्याप्यानुभूती बाधात्, फल-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। स्वरूपमित्यसङ्गनिः। स्वान्मनि स्वस्वरूपे। वृत्तिविरोधेन रवप्रनियोगिकसंबन्धविरहेण। एकस्येति। ब्रह्म- ज्ञानान्याबाध्यत्वे मति तुच्छब्रह्मान्यत्वस्येति शेपः। तथाचकरूपेण संबन्धप्रतियोगित्वानुयोगित्वयोरभावेऽप्युक्त्- रूपेण विपयतासंबन्धे अनुयोगित्वं, मिथ्यात्वानुमिनित्वेन च प्रतियोगित्वमव्याहतमिनि भावः। छिदादो छिदां छिनत्तीत्यादौ। परशुसंयोग: छिदाकर्मत्वम्। स्वपरसाधारण: छिदात्वान्यरूपेण। स्वस्मिन् छिदायाम्। वृत्तिविरोध: छिदां प्रत्यकर्मत्वम्। फलदर्शनस्येति। छिदायां तत्कार्य प्रत्यक्षादिकं स्यादेव, द्वेधीभावादिकार्य तुन तत्र भवति, नहि सर्व चित्कार्य चिनि भवति; चिज्जन्यस्य घटादिव्यवहारस्य चित्यभावात्। तस्मात् फलदर्शनमेव नियामकमिनि भावः। स्वव्यवहारेत्यादि। स्वव्यवहारे स्वान्यसंविदपेक्षं यत् तदन्यत्वमित्यर्थः। ननु स्वातिरिक्त संविदपेक्षत्वं चित्यपि वर्तते, व्यवहारमात्रे असत्वापादकाज्ञानाभावव्यक्तित्वेन हेतुत्वात्, तदुपहितस्य चिद्रूपत्वेऽपि शुद्धचिदन्यत्वादत आह-स्वावच्छिन्नति। स्वविषयकेत्यर्थः। तथाच उक्तोपहितचितः शुद्धचिद्विषयकत्वात् लक्षणं शुद्धचित्यक्षतमिति भावः । उपपत्या उत्तप्रथमलक्षणोपपत्या। स्वाभिमतेति। अवेद्यनिष्ठेत्यर्थः । स्वरूपत्वस्य उक्त्तानधिकरणत्वोपलक्षितस्वरूपस्य। इत्थंचोक्तयोग्यत्वोपलक्षितस्वरूपस्यापि लक्षणत्वं संभवतीति ध्येयम्। तर्कैरि- त्यादि-स्वप्रकाशत्वलक्षणम्।। इति लघुचन्द्रिकायां ब्रह्मस्वप्रकाशत्वलक्षणम्॥।
प्रमाणाभावः स्वप्रकाशत्वे मानाभावः। सांध्याप्रसिद्धिरिति। वेद्यत्वस्य ब्रह्मणि सन्देहात् घटादौ च निश्र- यात् शुक्तिरूप्यादौ तु विशेष्यदलस्यानिश्चयात् उक्तात्यन्ताभावानधिकरणत्वरूपे विशेष्यदले वेद्यत्वाभावसामाना- धिकरण्यं निश्चेतुमशक्यमिति भावः। विशेष्यदलवश्वेन निश्चिते घटादौ वेद्यत्वनिश्चयेपि तस्य 'घटो वेद्यत्वाभाव-
वित्वादुक्त्तनिश्चयसंभवेन स्वप्रकाशत्वव्यतिरेकव्याप्तिनिश्रये बाधकाभावात्। नहि उक्तात्यन्ताभावानधिकरणत्वम- वेदरवासमानाधिकरणमिति निश्चयोऽस्ति; घटाय्यवच्छेदेन तत्सत्वेऽपि ब्रह्मावच्छेदेन तद्सस्वात् ब्रह्मावच्छेदेन सामानाधिकरण्यनिश्यसंभवात्। नच-ब्रह्मण्यवेद्यत्वसंशये ब्रह्मावच्छेदेनोक्तसामानाधिकरण्यस्यापि सन्दिग्घरवेन निश्चयासंभव इति-वाच्यम्; तावतापि अवच्छेदकविशेषानन्तर्भावेन निश्चये बाधकाभावात, शन्दादिनोक्त्तसामाना- धिकरण्यस्य ब्रह्मावच्छेदेनापि निश्चयसंभवात्, प्रत्यक्ष एव ग्राह्यसंशयप्रतिबन्धकत्वस्य प्राचीनसंमतत्वादिति तु विभाव- नीयम्। विशिष्टसाभ्येति। किञ्विन्रिष्ठाभावप्रतियोगित्वनिश्चयेऽपि विशेष्यदलाधिकरणे ब्रह्मणि घटाद़ौ वा वेदयत्व-
Page 454
७७२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
ध्याप्यत्वरूपत्वे तु तदभावस्य मम घटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षमिन्ने प्रसिद्धत्वेना- साधारणानेकान्तिकतापत्तेः, अस्वप्रकाशत्वरूपत्वे प्रतियोग्यप्रसिच्ाSप्रसिद्धिरेव। किंचात्यन्ता- भावप्रतियोगित्वं कुतश्चिद्यावर्तते चेत्, तत्रैव व्यमिचारः, न चेदत्र व्यमिचार इति-चेभ; चिद्- विषयस्वरूपत्वरूपं स्वप्रकाशत्वमनुभूतित्वेन यदा साध्यते, तदा वेद्यत्वं चिद्विषयत्वमेव चिदन्य मात्रवृत्ति पक्षः, अत्यन्ताभावप्रतियोगिस्वरूपत्वं साध्यम्। यथा च वृत्तिप्रतिफलितचिद्विषयता घटादो न ब्रह्मणि, तथोपपादितमिति नासाधारण्यवाधौ। नाप्यत्यन्ताभावप्रतियोगित्वस्यात्य- न्ताभावप्रतियोगित्व्रे व्यमिचार :: अत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेनात्यन्ताभावप्रतियोगि- न्येव अत्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केवलान्वयित्वाभावात्। नच-एवं ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभावोपपत्याऽर्थीन्तरं घटादावप्येवं साध्यसत्वेना साधारण्यं चेति-वाच्यम; चिद्विषयत्वविरोध्यत्यन्ताभावप्रतियोगित्वरूपस्य साध्यत्वान्नार्थान्तरा- साधारण्ये, घटादौ तयो: सहावस्थित्या अविरोधात्, ब्रह्मणि विरोधात्। नच तर्हि विरोधित्वां- शमादाय पुनरप्रसिद्धिः। वेद्यत्वं, विरोध्यत्यन्ताभावप्रतियोगि, अन्यन्ताभावप्रतियोगित्वात्, घट- वदिति प्रसिद्धिसंभवात् । यदा तु अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वरूपं स्वप्रकाशत्वं पूर्वानु- माने साध्यं, तदा फलव्याप्यन्वरूपं वैद्यत्वं पक्षः, अपरोक्षव्यवहारयोग्यकिंचिन्निष्ठात्यन्ताभावप्रति योगित्वं साध्यम्। तथाचापरोक्षव्यवहारयोग्यत्वसमानाधिकरणावेद्यत्वस्य सामान्यतः प्रसिद्धा- नाप्रसिद्धविशेषणत्वासाधारण्ये। अत्यन्ताभावप्रतियोगित्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगीन्या- दिविकल्पनिबन्धनदोष: परिहत एव। एतेन-अयं घटः, एतद्वटान्यत्वे सति वेद्यत्वानधिकर- णान्यः, पदार्थत्वादित्यादिमहाविद्ययापि साध्यप्रसिद्धिः । नच वेद्यत्वानिरुक्ति :; चिदविषयत्वमा- त्रस्य स्वप्रकाशरूपत्वे चिद्विषयत्वस्यैव वेद्यत्वरूपता, प्रथमपक्षे तु फलव्याप्यन्वमेव वेद्यत्वम्। नच र्ह्यतीन्द्रियान्यत्वेनार्थान्तरं सिद्धसाधनं वा; अपरोक्षव्यवहार विषयत्वसमानाधिकरणस्यैव विव क्षितत्वात्। नचायं घटः एतद्धटान्यत्वे सति वेद्यत्वानधिकरणान्यत्वानधिकरणम्, पदार्थत्वादिति प्रकरणसमता; ्ुन्यादिरूपानुकूलतर्कसन्भ्रावेन स्थापनाया अधिकबलत्वात्, प्रतिपक्षनिबन्धनसा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। स्याभावानिश्चयात् विशेष्ये विशेषणसामानाधिकरण्यं न निश्चितमिति भावः। प्रसिद्धत्वेन निश्चितत्वेन। असा- धारणानेकान्तिक तेति। निश्चितसाध्यवद््यावृत्तत्वरूपासाधारण्यात्मकानेकान्तिकतेत्यर्थः। तत्र यतो व्यावनंते तदवच्छदन। व्यभिचारः धर्मत्वहेतावत्यन्ताभावप्रनियोगित्वव्यभिचारः। अत्र अत्यन्ताभावप्रतियोगित्वावच्छेदेन। व्यभिचारः धर्मत्वहेतावुक्तव्यभिचारः । अनुभूनित्वहेतोश्चिद्विपयत्वाभावरूपसाध्यवत्वेन निश्चिताद्यावृत्तिरूपमसा- धारण्यं नास्तीति सूचयति-चिदन्यमात्रवृत्तीति। व्यभिचार इति। यन्निष्ठात्यन्ताभावप्रतियोगितवं तत्रेत्यादि:। प्रतियोगिन्येवात्यन्ताभाव इति। प्रतियोगिनिष्ठात्यन्ताभावेत्यर्थः । प्रतियोगितयेति। अत्यन्ताभावप्रतियोगित्वे इनि शेप:। केवलान्वयित्वाभावात् अत्यन्ताभावप्रतियोगित्ववत्वात्। तथाच प्रतियोगिविरोधिन एव साध्याभावस्य व्यभिचारघटकत्वादृत्यन्ताभावप्रतियोगित्वेन समानाधिकरणस्तदभावो न व्यभिचारसम्पादक इति भावः। यत्वबाधितो यः स्वाश्रयनिष्टात्यन्ताभावः तत्प्रतियोगित्वस्य मिथ्यात्वरूपत्वात् यत्राबाधितः स्वात्यन्ताभावः तत्रात्यन्ताभावप्रतियोगि- त्वस्य बाधितत्वात् धर्मत्वहेतोस्तत्र व्यभिचारस्तद्वस्थ इति रोदनं, तन्मन्दभाग्यत्वात्; अत्यन्ताभावप्रतियोगित्वस्य व्यावहारिकस्यैत धर्मत्वेनानुमेयतया तदाश्रये तद्विरोधिनस्तदृत्यन्ताभावस्यास्वीकारेणाव्यभिचारात्। साध्यत्वात् चिद्विपयत्वे साध्यत्वात। पुनरिति। चिद्विषयत्वानधिकरणवृत्तित्वरूपोक्तविरोधित्वस्य निश्चयासंभव इति भावः । विरोध्यत्यन्ताभावप्रतियोगीति। प्रतियोगित्वं स्वाश्रयनिष्ठमेदप्रतियोगितावच्छेदकत्वं चेत्युभयसंबन्धेनात्यन्ता- भाववदित्यथः । एतेन-कस्यचिद्विरोधित्वनिवेशे उद्देश्यासिद्धिः, स्वविरोधित्वनिवेशे स्वरवाननुगमः, चिद्विषयत्व- विरोधित्वनिवेशे अप्रसिद्धिरित्यादि-परास्तम्। प्रतियोगीत्यादीति। प्रतियोगी न वा। आद्ये यन्निष्ठात्यन्ता- भावप्रतियोगी तत्र, द्विनीये उक्तप्रतियोगित्वे व्यभिचार इत्यर्थः । एतेन वेद्यतवे अत्यन्ताभावप्रतियोगित्वानुमानेन वेद्यत्वानधिकरणादिप्रसिद्धिमंभवेन। एतद्धटान्यत्वे सतीत्यादि। एतद्टान्यतवसमानाधिकरणं यद्वेद्यत्वं, तदन- धिकरणादन्य इत्यर्थः । घटादौ दृष्टान्ते पक्षस्वरूपादुक्तानधिकरणात् भेदमादाय साध्यप्रसिद्धिः, पक्षे तु साध्यस्य पर्यवसानं न पक्षात् भेदमादाय; बाधात्, नापि पटात् भेदमादाय, तस्योक्तानधिकरणरूपत्वाभावात्। नाप्यती- न्द्रियान भेदमादाथ; अपरोक्षप्रमाणवृत्तिविषयत्वसमानाधिकरणस्योक्तानधिकरणत्वस्य साध्ये निवेश्यतवेन वक्ष्यमाण-
Page 455
गौडब्रह्मानन्दीयुता। ७७३
ध्यसन्देहे ऽपि संशयरूपसाध्यप्रसिद्धेरनिवारणाच्च। नाप्यसिद्धिः; अनुभूतित्वजातेः कल्पितव्यक्तिमे- दमादाय शुद्धेऽपि सत्वात्। नच जातेर्धर्मिसमसत्ताकमेदवद्यक्तिसापेक्षत्वनियमः; जात्यन्यूनसत्ता- कमेदवद्यक्तिसापेक्षतयैवा तिप्रसङ्गनिरासे धर्मिसमसत्ताकमेद्वद्यक्तिसापेक्षत्वस्य गौरवकरत्वात्, समत्वस्यान्यूनानतिरिक्तार्थकत्वात्। नचानुभाव्याभावे अनुभूतित्वायोग: कदाचिदनुभाव्यसत्वे नैव तदुपपत्तेः, अन्यथा आसीदित्यादिवाक्यजन्यज्ञानस्याननुभूतित्वापत्तेः। नच-अनुभूतित्वं विपक्षादव्यावृत्तम्, अनुभूतिशब्दवाच्यानात्मनि सत्त्वादिति-वाच्यम्, अनात्मनि अनुभूतिशब्द- वाच्यत्वस्यैवाभावात्, वृत्तौ ज्ञानपदस्येवानुभूतिपदस्य गौणत्वात्। अतएव-परोक्षानुभवस्य पक्षत्वे बाधः, अपरोक्षस्य पक्षत्वे तत्र व्यभिचार इति-निरस्तम्; चित्वरूपानुभूतित्वस्य विवक्षि तत्वात्। नचाप्रयोजकत्वम्; श्रुत्यनुग्रहसत्त्वात्। नच-अपरोक्षानुभवमप्यपरोक्षतो जानामी- त्यात्मनो वैद्यत्वग्राहिणा प्रत्यक्षेण तदात्मानमेवावेदिति श्रुत्या च बाध इति-वाच्यम्; आद्यस्य साक्ष्यनुभवस्य वृत्तिरूपगुणानुभवविषयत्वात्। नचर-'जानामी'ति ज्प्तिविषयत्वमेधानुभूयत इति-वाच्यम्; अहमर्थस्य ज्ञम्याश्रयत्वायोगेन ज्ञानपदस्य वृत्ता गाणत्वात्, 'दुःखं जानामी'त्या-
गाडब्रह्मानन्दी (लघुचन्द्रिका)। त्वात, किंनु ब्रह्मस्वरूपादुक्त्तानधिकरणान भेदमादाय। तद्टान्यस्य ब्रह्मणश्चोकानधिकरणत्वं वेद्यावानधिकरणत्वादे वेनि तत्रानुमानपर्यवसानम्। नच-उक्तानधिकरणतवेन भेदो न साध्यः; पक्षस्याप्युक्तानधिकरणत्वेन बाधात्, उक्त्ानधिकरणप्रतियोगिकभेदस्तु उक्तानधिकरणकुड्योभयत्वादिना भेदरूपोऽपीति न ब्रह्मावेद्यत्वपर्यवसानमिति- वाच्यम्; तन्पर्यवसानायेव स्वमनियोग्यवृत्तिभेदस्य साध्यन्वादिनि भावः । पदार्थत्वात् पदजन्यधीविप- यत्वात्, विषयत्वादिति यावत्। तस्य उक्तानधिकरणत्वस्य। अत्र सत्यन्तानुक्ती परेण वेद्यत्वानिकरणाप्रसिद्धि- र्द्राव्येत्यतस्तदुक्तम्। उक्तसाध्यानधिकरणत्वसाध्यकानुमानमाशकय निपेधनि-नचेत्यादि। पदार्थ- त्वात् एतद्टत्वात्। नथाचाव्यभिचारी हेतुः; यथाश्रुते पटाद़ो व्यभिचारात्। एतद्वटत्वसमानाधिकरणत्वेन वान्य- त्वान्तं विशेषणीयम्। तेन यथाश्रुतेऽपि न व्यभिचारः। अप्रसिद्धप्रनियोगिकस्याप्यभावस्य परैः स्वीकारादेतद्वटत्ववि- शिष्टस्यान्यत्वान्तस्याप्रसिद्धावपि न क्षनिः। नच-पूर्वानुमानं प्रति विशिष्टाभावसाध्यकानुमानं न सस्प्रतिपक्ष इनि-वाच्यम्; एतद्टत्वरूपविशेषणवति विशिष्टाभावज्ञानस्य विशेष्याभावविषयकत्वादेकविशेपबाधे सामान्यधीज- नकसामग्र्या विशेपान्तरधर्मप्रकारकधीजनकत्वात् । यनु एतद्टत्वे सतीत्येवात्र पाठः, नतु एतद्टान्यत्वे सतीति, तथाच सत्यन्तं वेद्यत्वविशेषणमिनि न घटादां व्यभिचार इति, तत् न शोभते; एतद्दटान्यत्वविशिष्टवेद्यत्वानधिक- रणत्वघटितसाध्यकपूर्वानुमाने एतद्वटत्वविशिष्टवेद्यत्वानधिकरणत्वघटितसाध्यकानुमानेन सत्प्रनिपक्षासंभवान्, पूर्वानु- मानसाध्यविरोधिसाध्यकानुमानस्यैव सत्प्रनिपक्षत्वात्। अथ-नायं सत्प्रतिपक्षः, किंतु पूर्वानुमानसमाभास- इनि-चेन्न; त्वदीयमूले उक्तानुमानमुक्वा इति प्रकरणसमत्वादित्युक्ते:, तस्मान्मौठ्यं स्वीयं साधु प्रकटितं त्वया। संशयरूपेति। नच-संशयरूपप्रसिद्धा विशेषणतावच्छेदकानिश्चयेन साध्यतावच्छेदकविशिष्ट्वशिष्घबोधात्मकव्या- प्तिज्ञानासंभव इति-वाच्यम्; विशेषणतावच्छेदकनिश्चयस्य विशिष्टवैशिष्वधीहेतुत्वाभावस्योक्तत्वात्। असिद्धि: स्वप्रकाशत्वसाधकानुभृतित्वासिद्धिः। अनुभूतेरेकव्यक्तित्वेन जातिमत्त्वासंभवात् कल्पितभेदेन व्यक्तिभेदेऽपि वृत्युप- हितचैतन्य एवानुभवत्वसत्वेन शुद्धे तदभावादसिद्धिः । शुद्धेऽपीति । उपहितवृत्तेः शुद्धेऽपि वृत्तिरविरुन्द्वेति भावः। अनतिरिक्तार्थत्वात् अनतिरिक्तकालार्थकत्वात्। अभावादिति। उपहितचितोऽप्यात्मस्वरूपस्वप्रकाशाभिन- त्वेन तत्र न व्यभिचार इति भावः। तत्र परोक्षानुभवे। चित्त्वरूपेति। उपहितानुपहितचिन्मान्रवृत्तीत्यथः । यथा- हि उपलक्षितस्वरूपात्मकं लक्षणं ज्ञानविशेषविषयत्वादिरूपेण शुद्धान्यत्वात् शुद्धस्य लक्षणं, तथोपहितेऽपि तत्तादा- रम्यसत्वात्तस्यापि लक्षणम्। शुद्धोपहितभावेन तादात्म्यस्यैव प्रकृते लक्षणतावच्छेदकसंबन्धत्वात्। वस्तुतस्तु- अनुभूतिपद्जन्यधीविशेपविशेष्यत्वस्यानुभवान्यविशेष्यकधीविशेष्यत्वपर्यवसितस्य हेतुत्वं संभवतीति न कापि शङ्का। व्यभिचारवारणाय विशेष्यकान्तम्। अनुभवत्वं चात्मस्वरूपत्वम्। विषयत्वमात्रं परमते आत्मत्वादावपीति विशेष्यतवं हेतुः। चिम्मान्रविषयकधीस्तु परस्य न प्रसिद्वेति तद्विषयत्वं न हेतुरिति बोध्यम्। श्रुत्यनुग्रहेति। 'न दष्टेर्द्रष्टारं पश्येः'। 'येनेदं सर्वं विजानाति तं केन विजानीयादि'त्यादिश्रुत्यनुग्रहेत्यर्थः । व्यवहारं प्रति न वृत्तिविषयत्वं प्रयो- जकम्; विद्यमानसुखादौ तत्कल्पने गौरवात्, नापि चिद्धिषयत्वम्; वृत्तिं विनापि घटादौ तदापत्तेः, नाप्यसत्वा- पादकाज्ानानिरूपकत्वे सति चिद्विपयत्वम्; विशेष्यवैयर्थ्यादिति चितः चिद्विषयत्वे वृत्तिसापेक्षव्यवहारकत्वे च मानाभावः । तत्वज्ञाननाश्यतावच्छेदकं चिद्विषयत्वम्। चिदन्यत्वं तु चिद्विपयत्वात् नानिरिक्त्तम्। लाघवादित्या-
Page 456
७७४ अद्वैतसिद्धिः । [परिच्छेद: २]
दावपि दुःखाद्याकाराविद्यावृप्तेरेव विधक्षितत्वान्, द्वितीयस्य चाहमर्थविषयत्वात्तदनात्मत्वस्योक्त स्वात्, श्रुतेश्चोपनिषज्जन्यवृत्तिरूपवित्तिविषयत्वावगाहितया चिद्विषयत्वस्य फलव्याप्यत्वस्याविष- यीकरणात्। नाप्यनुभूतिः, स्फुरणविषयः, अपरोक्षव्यवहारविषयत्वात्, घटवत्, चैत्रीयानुभूतिः,
त्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्यविषयो नाघतिष्ठते, चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात्, चैत्रे- रछावदिति सत्प्रतिपक्षत्वम्; स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाप्यङ्गीकारेण सिद्धसाधनात्, तदन्यस्य स्वस्मिन्वृत्तिविरोधेन बाधात्, जडत्वस्योपाधित्वाच्च, परवेद्यत्वे अनव- स्थानात् स्ववेद्यत्वस्य विरुद्धत्वात्। ननु-स्वस्मिन् स्ववेद्यत्वं कथं विरुद्धम्? न तावत्स्वजनकेन्द्रि- यासन्निकृष्टत्वात्, स्वाजनकत्वाद्वा; नित्यचिद्विषयत्वस्य तद्दयं विनैव घटादौ सत्वात्, नापि विष- यविषयिभावसंबन्धस्य द्विष्ठत्वात्; अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्य उभयानिष्ठत्वात्, नापि क्रियात्वकर्मत्वयोरविरोधात्; कृत्यादिविशेषस्य कार्यत्वादिदर्शनात्, नापि विषयिणो विषयत्वे कर्तु: कर्मतापातात्; मिथ्यात्वानुमित्यादेर्विषयिण्या एव विषयत्वदर्शनात्, मामहं जानामीत्यनुभ- वदर्शनेन च 'तदान्मानमेवावे दिति श्रुत्या च कर्तुः कर्मत्वाविरोधात्। एवंच परसमवेतक्रियाफल- शालित्वं न कर्मत्वम्, किंतु क्रियाविषयत्वादिकम्, त्वाभेदेऽप्युपपाद्यमिति-चेत्, मैवम्: विषय- विषयिभावस्य संबन्धत्वेन भेदनियततया स्वस्मिन् स्ववेद्यत्वस्य विरुद्धत्वात्। नह्युक्तातीतादिस्थले भेदो नास्ति। अतएव कृतिः कृत्यन्तरं प्रति इच्छा इच्छान्तरं प्रति व्यवहृतिः व्यवहृत्यन्तरं प्रति अभिधा अभिधान्तरं प्रत्येव विषयः, नतु स्वान्मानं प्रतीति न स्वविषयत्वे किंचिदुदाहरणमस्ति। ननु-गत्यादौ गत्यन्तराविषयत्वेऽपि वस्तूनां विचित्रस्वभावत्वात् कृत्यादौ कृत्यन्तरादिविषयत्ववत्
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दितर्को अपि बोध्याः। जानामीतीति तृनीयान्तम्। आत्मनो वेद्यत्वग्राहिणा 'मामहं जानामी' त्याकारकेण। च- कार: शेषः । तथाचापरोक्षानुभवं जानामीत्यनेन मां जानारमीत्यनेन च प्रत्यक्षेण श्रुत्या च बाधो न चेति वाक्यार्थः । वृत्तेरेवेति। सुखादौ वृत्यनङ्गीकारपक्षेऽपि न दोष :; असस्वापादकाज्ञानानिरूपकत्वाधिकरणत्वप्रयोजकचित एव जानात्यर्थत्वेन प्रतिकर्मव्यवस्थायामुक्तत्वेन सुखाद्यवच्छिन्नचिद्रपेणोत्तप्रयोजकचितस्तेन रूपेणाह्मर्थाश्रितत्वान, साक्षिविषयत्वान्च। अहमर्थविषयत्वात् अहमर्थगोचरवृत्तिविषयकसाक्षिरूपत्वान। चत्रापरोक्षव्यवहारयोग्यज्ञप्ते रविषयत्वं साध्यम्। उक्तयोग्यतावच्छेदकं तु चेत्रं प्रत्यपरोक्षविषयत्वमिनि ज्ञापनायापरोक्षेत्युक्तम्। चैत्रं प्रत्यपरो- क्षत्वं च चत्रनिरूपिताज्ञानश्ून्यत्वम्। तथाच चत्रीयाज्ञानशून्यज्ञप्तिविषयत्वमेव साध्यम्, पूर्वानुमाने तु अज्ञानना- शोपहितज्ञप्तिविषयत्वमिनि भेदः। यद्यपि ज्ञप्तिविषयत्व्रमात्रसाधनेनापि ज्ञप्तिरूपचिद्विषयत्वानुमाने सत्प्रनिपक्षता भवत्येव; तथापि परमते अनुभूतेर्नानात्वेन चत्रीयाद्यनुभूतौ चैत्रीयाद्यपरोक्षज्ञप्तिविपयत्वेनेव साध्यपर्यवसानम्। किंच यद्यपरोक्षज्ञप्तिविषयो न स्यात, तदाऽपरोक्षव्यवहारविषयो न स्यादिति तर्कस्यापरोक्षत्वान्तर्भावेनैवावतारः। परमते अपरोक्षव्यवहारे अपरोक्षज्ञप्तिविषयत्वस्य प्रयोजकत्वादिति तदन्तर्भावेनैव साध्यमुक्तम्; चैत्रीयानुभूतौ नोक्त- ज्ञप्तिविषयत्वम्; तदीयेन्द्रियसननिकर्पानाश्रयत्वात्, मनसोऽनिन्द्रियत्वादित्याशक्क नित्यस्य साक्षिण एव स्वस्वेतरवि- पयकत्वसंभवात् नैवमित्याशयेनाह-चत्रेत्यादि। नावतिष्ठत इति। तथाचानुभूनिसत्ताकाले सर्वदा तलापरोक्षज्ञ- सिविषयत्वात् सा नेन्द्रियसन्निकर्षजन्येति भावः। जडत्वस्येति। बाधोभ्नीतत्वस्योक्तत्वेन पक्षेतरत्वरूपत्वेऽपि न क्षतिः । स्वाजनकत्वात् सवं प्रनि विषयविधया जनकत्वासंभवात्। संबन्धस्य संबन्धसामान्यस्य । आरोपितात्यन्तासतामिति । यद्यपि मन्मते आरोपिनं विद्यमानमेव; तथापि परमते तस्यात्यन्तासश्वात् परस्थ प्रकृते तदुक्तिर्नासङ्गता। नच-अत्यन्तासतः पृथगुक्तिः तथाप्यसङ्गतेति-वाच्यम्; भ्रमविकल्परूपद्विविध- ज्ञानविषय त्वप्रदर्शनार्थ तथोक्त्तत्वात्। तथाच ज्ञानकालावच्छेदेन तद्विपयत्वस्य तत्रासंभवः। नहि तदसंबन्धकालः स्तद्वच्छेदकः । नापि तत्कालानवच्छिनं तद्विषयत्वं तत्र संभवतिः सार्वदिकत्वापत्तेरिति भावः। भेदनियततयेति। अन्यथा तथ्यक्ति: संयोगादिसंबन्धेन स्वविशिष्टेत्यपि प्रमा स्यात्। तव्यक्तिनिष्ठया संयोगादिप्रतियोगितया निरूपित- मनुयोगित्वं न तव्यक्ताविति तु विषयत्वेऽपि तुस्यमिति भावः । स्वात्मानं स्वमात्रम्। स्वविषयत्वे स्वमाग्रविषय- कत्वे। सुखप्रयोजकककतित्वादिना कृत्युद्देश्यतादिस्थले तु स्वभिन्नसाधारणधर्मावच्छिन्नकृत्यादेविषयतवं स्वस्मिसविरु- चम्। नहि तत्र विषयतायाः प्रतियोगित्वमुक्तकृतित्वादिना, किंतु तत्तत्कृतित्वादिना। तथाच भिन्नधर्मावच्लिस्नयो- भैदेन संबन्धप्रतियोगितवानुयोगित्वयोर्नासंभवः । पतेन-सुखप्रयोजककृत्युद्देशेन देवताराधनादौ या कृति-
Page 457
[अनुभूतिस्वप्रकाशत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७७५
अनुभूतेरपि स्वविषयत्वमस्तु, अन्यथा स्वस्मिन् व्यवहारजनकत्वमपि न स्यात्, व्याप्तिज्ञा- नानुमित्यादे: स्वाविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न स्यादिति-चेन्न; व्यवहारोपपादनार्थ स्वविषयत्वस्वभावकल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहारजनकत्व- स्वभावत्वमेव कल्प्यताम्, लाघवात्, तावतैव तदुपपत्तेः, व्याप्यनुमित्यादेस्तु अवच्छेदके- क्यलाभाप्तथात्वमित्युक्तत्वाञ्च। एवंच क्रियाकर्मत्वविरोधादपि न स्वस्मिन् स्ववेद्यत्वम् । मिथ्यात्वानुमितेश्च न स्वकर्मता; परोक्षस्याकर्मत्वात्। यदुक्तं कर्तुरेव कर्मत्वं, तद्युक्तम्; उदाहृतमिथ्यात्वानुमित्यादेरकर्मत्वात्, मामहं जानामीत्यादौ साक्षिणः कर्तृत्वादहमर्थस्य गौडब्रह्मानन्दी (लघुचन्द्रिका)। तस्या: सुखहेतुत्वे मानाभावेऽपि सुखप्रयोजकत्वात् स्वयमपि विषयः, एवं सदिच्छा भवत्वितीच्छायां यज्ञादीच्छेव स्वयमपि विषय इत्यादि-परास्तम्; ननु-चितोऽप्यावरणाभावाद्युपहितचितो भेदात्तद्विपयत्वमास्ताम्, तथाच चिद्विषयत्वानुमानं प्रत्युपहितचिद्विषयत्वानुमानेन सत्पतिपक्षतेति-चेन्ननः अधिष्ठानीभूतशुद्ध चित्प्रतियोगिकस्या- ध्यस्तानुथोगिकस्य तादात्म्यस्यैवाध्यासिकसंबन्धशव्दितस्याध्यस्तसामान्यभासकतानियामकत्वम्, घटादौ त्वघिष्ठानस्य तादात्म्यमध्यस्तम्, नत्वधिष्ठाने घटादेः, अतएव साक्षिणोऽपि घटाद्यधिष्टानचिद्क्यापत्या तद्दारा भासकत्वम्। अतएव तस्यैव विषयतात्वम्। तथाचोपहितचितोऽध्यस्तत्वेन तत्राध्यस्तं शुद्धचित्तादात्म्यमुपहितचितो भासकता- नियामकम्, नतु शुद्धचितः। नच-एतादृशनियमे मानाभावादुपहितनिष्ठं तादात्म्यमपि शुद्धभासकमास्तामिति- वाच्यम्; दृक्प्रतियोगिक: संबन्धो यदनुयोगिक: तन्भासक इत्यस्य सर्वसंमतत्वात, अतीतादावप्यध्यस्तसंबन्धस्वी- कारात्। दृक्च मन्मते शुद्धचिदेव; नचोपहितनिष्ठं शुद्धस्य तादात्म्यं शुद्धनिष्ठमिति तत्सत्वेऽपि चिदविषयत्वानुमानं निष्प्रतिपक्षमित्याचार्यभावात। अतएवातीतादिज्ञानस्थलेऽप्यतीतादिविपयस्य सूक्ष्म रूपेण सत्वात्तत्तन्निष्टमेव चिद्विपयतवं तद्दासकतानियामकम्।अत्यन्तासति नु न चितः न वा विकल्पस्य विपयत्वम्, किंतु विकल्पस्येव तदाकारत्वमित्युक्तम्। अत एव वौद्धाधिकारे मन्मते स्थित्वोदयनाचार्यरुक्तम्-परमार्थतो नानुभवस्य विषयेण संबन्धः, संवृत्या मु गगनस्येव गन्धर्वनगरेणास्त्येव। स च यथा नैयायिकर्व्यवस्थापयिष्यते, तादृशः । वेद्यनिष्ठसत्वसौ अस्मिन्दर्शने इति विशेषः । अविद्यैव हि तथा तथा विवर्तते यथायथानुभवीयतया व्यवहियत इति तथा तथा विवतते। अनु- भवप्रतियोगिक संबन्धानुयोगितया घटो ज्ञायते, साक्षात्क्ियते इत्यादि व्यवहियते। तत्रानुभवरूपशुद्धचित्प्रतियोगिकं तादात््यं यन्निष्ठं तद्ासकतानियामकमिति स्पष्टमेवेति ध्येयम्। व्याप्तिज्ञानानुमित्यादेः 'यद्यदभिधेयं, तत्तन्मेय- मि'त्यादिज्ञानस्य दृशयं मिध्येस्याद्यनुमितेः। सर्वापसंहारवतीति। सर्वाभिधेयादिघटितेत्यर्थः। अवच्छेदक- क्येति। वस्तुत उक्त्ज्ानादेः स्वाविषयत्वेऽपि न क्षतिः । नहि व्याप्तिज्ञानस्य यावान् हेनुः तद्वान् पक्षो विषय इति नियमोऽस्ति। तथाच स्वस्मिन्नसंबन्ध इति सामान्यतो नियमेऽपि न दोषः। ननु-एवं स्वाविषयकज्ञानस्य कथं सर्वाभिधेये व्याप्तिग्राहकत्वं सर्वदृश्ये मिथ्यात्वग्राहकत्वं चेति-चेन्न स्वाविपयकत्वेऽपि अभिधेयत्वावच्छेदेन यत्किंचिदभिधेये व्याप्तिविषयकतया दश्यत्वावच्छेदेन यत्किंचिदृश्ये मिथ्यात्वविषयकतया च उक्तव्याप्तिज्ञानरूपमभि- धेयं न मेयव्याप्यं मिथ्यात्वानुमितिरूपं दृश्यं सत्यमिति धीविरोधित्वेनोक्तग्राहकत्वव्यवहारादिति ध्येयम्। क्रिया- कर्मत्वविरोधात् क्रियास्वरूपकर्मत्वयोरविरोधात्। स्ववेद्यत्वं चिद्रूपसाक्षात्कारव्याप्यत्वम्। आवरणाभिभवोपहि- तचिद भिस्रचित्संबन्धप्रयोजकचिद्रपसाक्षात्कार क्रियाफलत्वेन साक्षात्करोतिघात्वर्थतावच्छेदकत्वेन वोक्तसंबन्धस्यैव ताडशक्रियाकर्मतारूपत्वात् तदाश्रयत्वेनैव घट साक्षात्करोमीत्यादौ घटादेः कर्मताव्यवहाराच् तस्य च शुद्धचित्य- भावात्, भावे वा घटादिप्रत्यक्षस्थलेऽपि शुद्धचितं साक्षात्करोमीत्यापत्तेः शुद्धचिति न तादृशफलव्याप्यत्वम्। ननु यथा मिध्यानुमित्यादिक्रियायां स्वकर्मकत्वम्,दश्यत्वाद्युपहितरूपेण कर्मत्वेऽपि रूपान्तरेण क्रियात्वात्, तथोक्त- संबन्धप्रयोजकतावच्छेदकविशेषोपहितरूपेण क्रियात्वेऽपि शुद्धचिद्रपेण कर्मत्वमास्ताम्, तत्राह-मिथ्यात्वेति। तथाचोपहितक्रियाया अनुपहितरूपेऽपि कर्मत्वं क्वापि न दृष्टम्। नहि संयोगजनकत्वोपहितस्य क्रियात्वेऽपि तदीया- नुपहितरूपस्य तत्कर्मत्वमस्तीति शुद्धचिद्रूपेणापि नोक्तकर्मत्वमिति भावः। अकर्मत्वादिति। विवेचितमिदं प्रतिकर्मव्यवस्थायाम् । क्रियायाः कर्मताविरोधित्वं कर्मत्वानाश्रयत्वं कर्मत्वासामानाधिकरण्यं च; परसमवेत- क्रियाजन्यफलशालित्वं कर्मत्वमित्यनेन स्वभिन्नसमवेतक्रियाजन्यफलशालित्वस्यैव कर्मतात्वेनाभियुक्तरुक्तत्वात्। तथाच ज्ञप्तिकर्तृत्वादपि चितो न कर्मत्वम्। नच-साक्षिरूपेण कर्तृत्वेऽपि शुद्धरूपेण कर्मत्वमिति-वाच्यम्; शुद्धेऽपि कर्तृत्वाध्यासात् उपहितकर्तुरनुपहितस्वरूपेपि कर्मत्वादर्शनादित्याशयेन परोक्तशसौ कर्तुः कर्मत्वं दूष- यितुमाह-यदुक्तमिति । अकर्मत्वादिति। कर्तुरित्यादिः। यथाश्रुते अनुमित्यादेरकर्तृत्वादप्रसक्त्तप्रतिषेधः। चित्कर्म वृत्युपहितचित्कर्म। यथाश्रुते शुद्धस्योक्तसंबन्धरूपकर्मत्वासंभवः । अथवा-चित्कर्म शुद्धचित वेदान्तवाक्यजन्यवृत्तिविषयरूपं गौणं कर्म, नतु ज्ञतिं प्रत्युक्तकर्मेति भावः। भेद्घरटितेति। खवभिन्नस-
Page 458
७७६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
कर्मत्वात् तदात्मानमित्यादी चाहमर्थस्य कर्तृत्वाञ्चित् कर्म अभेदे तङ्मयादर्शनात्। अतएव न भेदघटितकर्मलक्षणपरित्यागः, क्रियाविषयत्वं तु न कर्मत्वम; असनादिक्रियाया अपि आधारादिविषयत्वेन सकर्मकत्वापत्तेः। अथ-अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातः, वेदान्तानां ब्रह्मणि प्रामाण्यायोगः, ब्रह्मविचारविधिवैयर्थ्य, ब्रह्माज्ञाननिवृत्त्ययोगः इत्या- दिप्रतिकूलतर्कपराहतिरिति-चेन्न; चिद्विषयत्वं फलाव्याप्यत्वं वा अवेद्यत्वम्, तस्य तत्साध- कप्रमाणजन्यवृत्तिवेद्यत्वेन व्याहत्यभावात्, वृत्तिविषयत्वमात्रेणैव वेदान्तप्रामाण्यविचारविध्यज्ञान निवृत्तीनां संभवाच्च। एतेन-अज्ञाननिवर्तकत्वमात्रेण वेदान्तप्रामाण्ये आत्मनोSसिद्धिप्रसङ्ग इति-निरस्तम्; आत्मनः स्वतः सिद्धत्वात् । ननु-स्वत इत्यस्य स्त्रेनवेत्यर्थे स्वविषयकत्वापत्तिः, प्रमाणं विनेत्यर्थ उपायान्तरस्यानुपन्यासेनासिद्धापत्तिः, अन्यथा नृश्ङ्गादेरपि सिद्धापात इति- चेन्न; मानानपेक्षसिद्धरेव स्वतःसिद्धिशब्दार्थत्वात्। नच नृश्ङ्गादावेवं प्रसङ्ग :; तसत्वव्यवृत्ति फलकप्रमाणाभावात्, प्रकृते च वृत्तिविषयतामात्रेण तत्सत्वात्, सिद्धिरूपात्मनि सिद्ध इति व्यव- हारस्य सिद्धिप्रयुक्तव्यवहारविषयतया गौणत्वात् । नचैवं मुक्तौ वैद्याभावे वित्तित्वानुपपत्तिः: अनुभूतिन्यायस्यात्रापि सुलभत्वात्। नच स्वाविषयत्वे स्वविषयकसंशयनिवर्तकत्वायोगः; स्वमहि- स्नैव स्वधर्मिणि व्यवहारवत् संशयादिविरोधित्वोपपत्तेः । नचाननुगमःः तव विषयतायामिवाननुग- तस्यैव नियामकत्वात्स्वकर्मत्वाभावेऽपि स्वनिर्वाहकतया स्वस्मिन् व्यवहाराद्युपपत्तेश्च। नच स्वनि- र्वाहकपदेन निर्वहणत्रियाकर्तृत्वकर्मत्वोक्त्या विरोधः, स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रेण स्वनि- र्वाहकत्वोपचारात्। 'स्वयं दासास्तपस्विरिन' इत्यादौ स्वातिरिक्तदासाभावमात्रेण स्वदासत्वव्यपदे- शवत्। नच-स्वनिर्वाहकाध्ययन विधिदीपप्रभादौ स्वस्मिन् कार्यकरत्वं स्वविषयत्वेन व्याप्तमित्य- त्रापि तथेति-वाच्यम्; अध्ययनविधावेकावच्छेदकमात्रेणात्माश्रयानवकाशात्, दीपप्रभादी स्व- विषयत्वासिद्धेः । तदुक्तं खण्डने-'गाङ्डटादिभ्य' इत्यत्र बहुव्रीहिः स्वाविषये कुटेऽपि स्वकार्य करोति। तथेहापी'ति। नच-'उद्धूतावयवभेदः समुदायः समासार्थ' इति कैयटोक्तरीत्या कुटघटि- तसमुदाय एव बहुव्रीहिविषयः सच वैयाकरणानां मीमांसकानांच शक्त्या अन्येषां लक्षणयेत्य-
गाडव्रह्मानन्दी (लघुचन्द्रिका)। मवेतक्रियानिष्टं यद्धानुवाच्यत्वं तद्वच्छेदकं यत तज्जन्यफलं तच्छालित्वरूपेत्यर्थः । स्वपदं फलशालिपरम्। मध्यस्थं तत्पदं क्रियापरम्। ननु क्रिरियाजन्यफलशालित्वमेव कर्मत्वमस्नु, तथाच कर्तुरपि ज्ञप्तिक्रियाजन्यसंस्कारा- दिमश्वेन कर्मत्वसंभवः, तत्राह-क्रियाविषयत्वमिति। क्रियाजन्यफलवत्वमित्यर्थः। आधारादिविषयत्वेन आधारादिनिष्टफलजनकत्वेन। संयोगविशेपादिरूपासनादिक्रियाया आधारादिनिष्टध्वंसादिजनकत्वमस्येवेनि भावः । मानानपेक्षसिद्धः मानाप्रयुक्तव्यवहारकत्वस्य। एवंप्रसङ्ग: व्यवहारप्सङ्गः। नृश्ङ्गादावस्तीति व्यवहार अपादते, नृश्ङ्गादिशब्दप्रयोगमात्रम्, इच्छादिकं वा, न द्वितीयः, तत्रेष्टसाधनताज्ञानादिसामग्रीसत्वे तस्येष्टत्वात्, न तृतीय :; इष्टसाधनत्वादिज्ञानस्य नृशङ्गादावभावादिति मनसि कृत्वाऽडय्यं निरस्यति-तदसत्वव्यावृत्तिफल-
नास्तीति भावः । ननु एवं 'पूर्णानन्दरूपमस्ती'त्यपि व्यवहारो न स्यात, उक्तचित्संबन्धस्य घटादावभावेनोक्त संबन्धोपहिताघिष्टानचित्संबन्धस्यैवास्तित्वरूपत्वेन त्वया वाच्यत्वात्, पूर्णानन्दरूपे व तदभावः, तत्राह-प्रकृते- चेति। पूर्णानन्दरूपे चेत्यर्थः, नतु चिद्रूप इत्यर्थः। वृत्ति विनापि चिदस्तीति व्यवहारेण वृत्तिविषयतेत्याद्यसञ्जतेः। वृत्तिविषयतामात्रेण वेदान्तवाक्यजन्यवृत्तिविषयतामात्रेण। उक्तचिदेवोत्तव्यवहारविषयः, नतु तत्संबन्धः । अतएव म्रह्मास्तीत्यादौ लकारः साधुत्वार्थ इत्युक्तमिति भावः। अथवा-ननु चिद्रूपेऽपि कस्यचिन्नास्तित्वशङ्का- संभवादस्तित्वग्राहकप्रमाणवेद्यत्वं चिद्गपे वाच्यम्; तथाच प्रमाणफलव्याप्यं तदित्यत आह-प्रकृते चेति । चिदूपे चेत्यथः । मात्रेणेत्यनेन फलविषयत्वव्यवच्छेदः। न्यायस्य कादाचित्कफलविषयकतवेनोपपत्तेः । स्वमहिस्ा अज्ञानाभावोपहितस्वमहिम्ना। व्यवहारवत् अस्तित्वादिव्यवहारवत्। संशयादीति। 'अस्ति न वेत्या'दिसंशये नास्त्येवेत्यादिनिश्रये चेत्यर्थः । अस्तित्वादिव्यवहारे विषयतया प्रयोजकत्वमिव नास्तित्वादिविषयकसंशयानुत्पादे विष- याभावसम्पादकतया तादृशचित् प्रयोजका; उ्तसंशयादावज्ञानोपहितचित एव विपयत्वादिति भावः। अननुगमः चित्युक्ाज्ञानशून्यचित्, तदन्यत्र तु तादृशचित्तादात््यम्, अस्तीति व्यवहारे नास्तित्वादिसंशयाद्यनुत्पादे च उक्त्त- रीत्या प्रयोजकमित्यननुगमः । तव सर्वत्रोक्ततादात्म्यस्य तथा प्रयोजकरवं वदतः ॥ विषयतायाम् उक्ततादालये।
Page 459
[अनुभूतिस्वप्रकाशत्वोपपत्तिः] गौडव्रह्मानन्दीयुता। ७७७
न्यदेतत्, यथा 'चैत्रशालीया आनीयन्ता'मित्यत्र उपलक्षणस्यापि चैत्रस्य स्वशालास्थस्य तच्छब्द विषयत्वं, तथा कुटस्यापि पुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य वहुव्रीहिविषयत्वोपपत्तेः।तथाच दृष्टान्तासिद्धिरिति-वाच्यम्; स्वाविषय इत्यस्य औत्सर्गिकविषयान्यपदार्थभिन्न इत्यर्थकत्वम् । तथाच स्वपदार्थसंबन्धादन्यत्रेव स्वपदार्थऽपि यथा तत्र फलं, तथा स्वसंबन्धादन्यत्रेव स्वस्मिन्नपि चित्फलमित्यत्र दृष्टान्तपर्यवसानात्। स्वविषयव्यतिरेकेण समुदायप्रयोजकरूपेण विषयत्वेऽपि समु दायिताप्रयोजकरूपेणाविषयत्वात् स्वाविषयत्वोक्तेवा। ननु-एतावता स्वस्मादन्यत्र व्यवहारजनने तद्विषयत्वं स्वस्मिन् स्वाभेद एवेति पर्यवसितोऽर्थः, सचायुक्त पक्षादन्यत्रैवायं नियम इत्यस्य सर्वत्र सुवचत्वात्, स्वाभेदे सत्यपि स्वविषय इव स्वस्मिन्विषयत्वव्यतिरेकेण द्वेप इच्छाविरोधित्वस्या- ज्ञाने स्वावारकत्वस्य स्मृत्यादिरूपे परोक्षज्ञाने स्वव्यवहारजनकत्वस्य मैत्रचैतन्ये सुपुभी चैन्चैत न्येन पारमार्थिककाल्पनिकभेदयो राहित्येऽपि तह्यवहारजनकत्वस्यादर्शनाञ्च, आत्मानं जानामी-
गौडब्रह्मानन्दी (लघुचन्द्रिका ) । यथा तदभावात्तत्स्वरूपमेव प्रयोजकमित्यननुगमः, तथा ममाप्युक्ताननुगमः । तथाच चिति चित्तादात््यमुक्त्वाप्यन- नुगमो न हानुं शक्य इनि भावः। वस्तुतश्चिदस्तीत्यत्र घटोऽस्तीत्यादो चासस्वापादकाज़ानानिरूपकत्वमेवानुगतो विषयः। चिद्धानीत्यत्राज्ञानशन्यचित, घटो भानीत्यादो च तदवच्छेदकत्वं विपयः। यन्तु-चिदादिशव्दप्रयोगे चिदिच्छादौ च चित्स रूपं कारणं, घटादिशव्दप्रयोगे घटादीच्छादो च चित्तादात्यमिति कारणाननुगमः,चितश्चिद्विप- यत्वे तु विषयतासंबन्धेन शव्दप्रयोगादा चित्तादात््यं हेनुरिति-तन्न; चितश्चिद्विषयत्वेऽपि असत्वापादकाज्ञाना- निरूपकत्व्रमनुगतं तद्देतुरित्युक्तत्वात्, इष्टसाधनताज्ञानाढिना शव्दप्रयोगोपपत्तो तत्रोक्तहेतुत्वाभावाच्च। यनु- 'भूतलं घटवन्न वेत्या'दो मनआदिकं स्कुरति न वेत्यादो संशयादावुक्तयोः प्रतिबन्धकत्वाननुगमो दोप इति, तन्न; उक्तसंशयादेरप्यननुगनत्वात्। अथ संशयत्वाख्यविपयिताविशेपसंबन्धेन ज्ञानरवेन प्रनिबध्यता, तहि तत्राप्यु क्तानिरूपकत्वत्वेन प्रतिबन्धकतासंभवात्। उद्धृतावयवभेद: समुदायिभिन्नत्वेनाज्ञातः समुदाय्यभेदेनोपचरितः समुदायो ज्ञानविशेषविपयः । उपलक्षणस्य चत्रत्वरूपेणोपलक्षणस्य। तच्छव्दविपयत्वे हेतुमाह-स्वशालास्थ- स्येति। औत्सर्गिकेत्यादि। औत्सर्गिको यो बहुव्रीहिविपयोऽथेः, तदन्यस्मात् पदार्थात् भिन्न इत्यर्थकत्वमित्यर्थः। विशिष्टान्वयस्यात्सर्गिकत्वेन कुटघटितः समुदाय औत्सर्गिकः, तदन्यः पदार्थः कुटाद्यघटितः समुदायः। अतद्गुण संविज्ञानबहुवीहिपदलभ्यत्वज्ञापनाय तस्य पदार्थत्वोकति:। तदन्यत्वं कुटस्यास्त्येवेति भावः। ननु तह्गुणसंविज्ञान- त्वस्यव मुख्यत्वात् बहुवीहिविपयत्वं कुटस्याम्नीत्यतद्गुणसंविज्ञानलभ्यार्थभिन्नत्वकथनं व्यर्थमित्यत्राह-स्वपदार्थति। बहुवरीहिघटककुटपदार्थत्यर्थः। संबन्धात् कुटज्ञानोत्तरं पाठविशेषजन्यज्ञानविपयत्वात्। अन्यत्र कुटादिपदपर- प्रत्यये। स्वपदार्थ कुटपरप्रत्यये। तत्र 'गाङ्कुटादिभ्य' इनि सूत्रे। फलं डित्वविधानम्। कुटज़ानोत्तरोक्ज़ान- विषयत्वेन रूपेण कुटावृत्तिना कुटस्याबोधेऽपि कुटत्वरूपेण कुटस्य विशेषणतया बोधेन तदुत्तरप्रत्ययेऽपि डित्वविधानम्। नच-कुटसाधारणेंनेकज्ञानविपयत्वेन कुटस्यापि गहणसंभवेन कुटव्यावृत्तोक्तरूपेण बोधोक्तिरयुककेति-वाच्यम्; अतद्गुणसंविज्ञानस्थले कृटव्यावृत्तरूपेणय बोधस्य वाच्यत्वात्तहुणसंविज्ञानम्थलेडि तदीचित्यात्। नदयुक्तस्थलयोर्भिन्न- रूपाभ्यामन्यपदार्शंधीकृतो विशेषः, किंतु कुटस्योपलक्षणत्वविशेषणत्वकृत इनि भावः। यतत्वादिपदघटितो बहुची- हिस्तद्गुणसंविज्ञान एवेति, तन्तुच्छम्: 'जक्षित्यादयः पडि'त्यादो व्यभिचारात। एकज्ानविपयतवेन कुटसाधारणे- नैव कुटस्य बोधेऽपि न दृष्टान्तासङ्गतिरित्याशयेनाह-स्वविपयेति। समुदायप्रयोजकरूपेण समुदायान्तर्गतत्व- स्वरूपेण। ननु कुटविशेपितसमुदायनिवेशे उत्तरीत्या कुटव्यावृत्तरूपेण कुटादीनां कुटत्वरूपेण विशेपणतवेन कुटस्य च बोधोडस्तु, किं कुटसाधारणरूपेण? तत्राह-स्वविपयव्यतिरेकेणेति। बहुव्रीहिघटककुटपदार्थाद्यघटितेनेत्यर्थः। समुदायिताप्रयोजकरूपेण कुटत्वेन । तथाच ज्ञानविशेषविपयरूपसमुदायस्य तद्यक्तित्वेन लाघवेन निवेशात् कुटस्याविशेषणत्वेन तत्सधारणरूपेण बोध आवश्यक इति भावः । अतद्गुणसंविज्ञानस्थले रूपान्तरेण बोधे अनुभव- विरोधेऽपि परोक्त्तमनुसृत्येदमुक्तम्। एवंच यथा समुदायिताप्रयोगकुटत्व रूपेणाज्ञानेऽपि उक्तधीविषयत्वेन ज्ञानात् कुटे- कार्य, तथा शुद्धचिद्रूपेणाज्ञानेऽपि प्रमातृत्वादिरूपेण ज्ञानात् प्रमान्नादाविव शुद्धचिति व्यवहारादिः। न हि शुद्ध- मात्रं व्यवहियते, किंतु विशिष्टचिद्यवहारे शुद्धं विपयः। यदा तु अहं ब्रह्मेत्यादिशुद्धमात्रव्यवहारः, तदा तद्विपयिणी वृत्तिरप्यस्तीति दृष्टान्ताभावः । स्वाभेदः। प्रयोजक इति शेपः। स्वाभेदे सत्यपीत्यादिविरोधित्वस्याविपयत्वस्या- दर्शनादित्यग्रेऽन्वयः। एवमग्रेऽपि। तथाच हेपादेः स्वविपये यथेच्छाविरोधित्वादिकं न तथा स्वाभेदे सत्यपि स्वस्मि- सित्यर्थः । तत्र हेतु :- विषयत्वव्यतिरेकेणेति। स्वविषयत्वव्यनिरेकेणेत्यर्थः । तद्यवहारेति । सुपुसचैत्रचैतन्य- अ. सि. ९८
Page 460
७७८ अद्वैतसिद्धिः । [परिच्छेदः २]
स्यात्मामिन्रज्ञाने स्वविषयत्वानुभवाश्चेति-चेन्न; तर्हि द्वेषादौ स्वामेदेऽपि स्वविषयत्वादर्शनात् प्रकृतेऽपि तथा स्यात्। अथ-व्यवहाररूपफलदर्शनात् प्रकृत एव स्वामेदस्यान्यत्रादृष्टमपि स्ववि- षयतानियामकत्वं कल्प्यत इति-चेत्, तर्हि स्वव्यवहाररूपफलदर्शनादत्रैव स्वाभेदस्य स्वकार्य- जनकतानियामकत्वम्, न द्वेषादौ; तथा फलादर्शनादिति समः समाधिः। नच-अत्र गृहीततद्वि- षयत्वस्य तूष्णीं त्यागे सर्वत्रैवं प्रसङ्ग इति-वाच्यम्; तद्विषयत्वत्यागबीजस्य बाधकस्य प्रागेवो- क्तत्वात्, सर्वत्र तस्याभावात्। यन्नूक्तं मैत्रचैतन्य इत्यादि, तन्न; तदैकविरहकाले मैत्रचैतन्य इत्य- स्यैवाभावात्, साक्षिचैतन्येन व्यवहारापादनस्येष्टत्वात्। यदि च संस्कारात्मनाऽवस्थितान्तःक- रणं तदापि भेदकम्, तदा भेदस्यैव सत्त्वाञ्च। यन्तूक्तमात्मानमित्यादि, तदपि न; अहमर्थाश्रित- वृत्तिरूपज्ञानविषयत्वस्यैव तत्रानुभवात्। नच घटः स्वप्रकाशः, घटत्वादित्याभाससाम्यम्; प्रयो- जकत्वपरिहारेण परिहृतत्वात्, घटे स्फुरणामेदतद्विषयत्वयोरभावे व्यवहाराभावप्रसङ्गेन साम्या- भावाञ्च। ननु-अनुभूतिपदेन वृत्तेः पक्षत्वे बाधः, तदन्यस्याश्रयासिद्धिरिति-चेन्न; वृत्तेर्जडतया अप्रकाशत्वे प्रकाशत्वं यत्र विश्राम्यति तस्यैव पक्षत्वात्, प्रतिकर्मव्यवस्थायामेव वृत्त्यतिरिक्तानु- भवस्व साधनाञ्। एवंच-त्वदीयापरोक्षव्यवहारयोग्यत्वज्ञानं, त्वदीयापरोक्षव्यवहारयोग्यत्वे सति वेद्यत्वानधिकरणं, ज्ञानत्वात्, मदीयज्ञानवत्; विवादपदानि ज्ञानानि, घटशानान्यत्वे सति वेद्यत्वानधिकरणानि, ज्ञानत्वात्, घटज्ञानवदित्यपि-साधु । नच-त्वज्ज्ञानं, त्वदपरोक्षव्यवहा- रयोग्यत्वे सति अवेद्यत्वानधिकरणं, ज्ञानत्वात्, मदीयज्ञानवत्, घटश्ञानं, पटज्ञानान्यत्वे सति चिदविषयत्वानधिकरणं, ज्ञानत्वात्, पटज्ञानवदिति च यथायोग्यं प्रकरणसमतेति-वाच्यम्; विपक्षे बाधकस्योक्तत्वेन स्थापनाया अधिकबलत्वात् ।I इत्यद्वैतसिद्धावनुभूतेः स्वप्रकाश- त्वोपपत्तिः।
अथात्मस्वप्रकाशत्वोपपत्तिः । एवं च चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्वं चिद्रूपत्वात् साधनीयम्। यथाच नात्मनि चिद्रूप- त्वासिद्धि:, तथोपपादितम् । उपपादयिष्यते च श्रुत्या। नच 'विज्ञाता प्रज्ञाते'ति श्रुतिविरोधः; वक्ष्यमाणानेकश्रुतिविरोधेन तस्याः वृत्तिरूपज्ञानाश्रयत्वपरत्वात्। यन्तु विद्यासागरोक्तं 'विमतं ज्ञानं भिन्नाश्रयविषयकं, ज्ञानत्वात्, ज्ञानान्तरवत्, विमतं, न स्वाश्रयविपयकं, गुणत्वात्, अ्यौ ष्ण्यादिवदि'ति स्वप्रकाशत्वसाधनं, तत् पररीत्या; अस्मन्मते स्वप्नकाशे ज्ञानत्वस्यात्मन्यभावात्
गौडव्रह्मानन्दी (लघुचन्द्रिका)। व्यवहारेत्यथः । मैत्रचैतन्य इत्यनुपज्यते। ज्ञाने साक्षिणि। जनकतानियामकत्वं जनकताव्याप्यत्वम्। अज्ञान- विशेषानि रूपकत्वादेरेव तत्तत्कार्यहेतुत्वेनोक्तत्वात् चैत्रचैतन्य इत्यस्य मैत्रचैतन्ये चैत्रचैतन्यव्यवहारजनकत्वापत्तेरभा- वात्। असंभवात् त्वज्ज्ञानमित्यादि बोध्यत्वानधिकरणत्वस्य दृष्टान्ते अभावात्। सत्यन्तं वेद्यत्वविशेपणम्। अवेद्यत्वानधिकरणतवस्य दृष्टान्ते परैरस्वीकारान सत्यन्तमवेद्यत्वविशेषणमाह-त्वदपरोक्षेत्यादि । एवमग्रेपि।
भूतेरवेद्यता। सत्यन्तं चिद्विषयत्वे विशेषणम्। तर्कैरित्यादि-अनुभूतेरवेद्यता ।I इति लघुचन्द्रिकायां अनु-
विमतं ज्ञानं 'मामहं जानामी'त्याकारकं ज्ञानम्। ज्ञानान्तरवत् घटादिजानवत्। न स्वाश्रयविषयक- मिति। अत्र विषयत्वं समवायान्यसंबन्धेनाश्रयत्वम्। औष्ण्यादेरपि स्वदाहो कालिकादिसंबन्धेनाश्रयत्वसरवास साध्यवैकल्यम्। स्वाश्रयविपकान्यत्वसाध्यस्य जन्यसमवेतोष्णस्पर्शावृत्तित्वान् पराभ्युपगतपरमाणुसमवेतोष्णस्पर्शो दष्टान्तो बोध्यः। आत्मसमवेतसङ्गयादिदष्टान्तलाभायादिपदम्। इस्थं च नित्यवृत्तिगुणतवं हेतु :; अन्यथा जन्यसमवे- तगुणे व्यभिचारात्। परमाणुस्तु न दिगुपाधि :; सर्वदेशगतत्वात्, किंतु जन्यमेव। तेन दिक्कृतविशेषणतया उप्णस्पर्शाश्रयत्वरूपविषयत्वस्य परमाणोरसर्वेन न साध्यवैकल्यम्। यद्वा-स्वविषयस्वस्वदाहयत्वान्यतरवस्वं विप- यत्वं प्रकृते ग्राह्यम्। उष्णस्पर्शज्ञानान्यतरत्वं हेतुः । तेन गुणान्तरस्य दाद्याप्रसिद्धावपि न क्षतिः। स्वप्रकाशे आत्म- नीति योजना। ननु-ज्ञानाभिन्नस्वरूपत्वमेव हेतुः, तथाच वृत्यवच्छिस्चिद्रपज्ञानाभिन्नतवेन शुद्धात्मनि
Page 461
[आत्मस्वप्रकाशत्वोपपत्तिः] गौडम्रहानन्दीयुता। ७७९
ताटरजाने गुणत्वाभावाच्, 'मामहं जानामी'ति प्रत्यक्षस्य वृत्तिविषयतयोपपादितत्वेन विरोधाभा- वात्। नच-अज्ञान इव स्वाश्रयविषयत्वोपपत्त्या अप्रयोजकमिति-वाच्यम्; वेद्यत्वे आत्मनो वेदनाभावादश्ञानदशायामात्मनि संशयविपर्ययव्यतिरेकनिर्णयप्रसङ्गात्। नचात्मन्यहमनहं वेति कश्वित्सन्दिग्धे, अन्य एवेति वा विपर्यस्यति। नाहमिति वा व्यतिरेकं निर्णयतीत्यस्वप्रकाशत्वे बाध. कसत्त्वात्। नच-त्वन्मते सन्देहाद्यविषयस्या हमर्थस्यानात्मत्वात्तदन्यस्मिञ्छब्दैकगम्यात्मनि सन्दे- हादिसत्वादप्रयोजकत्वं तदवस्थमेवेति-वाच्यम्; अहमर्थस्य चिदचिद्धन्थिरूपतया अहंत्वावच्छे- देनाचिदंशे सन्देहाद्यभाववत् चिदंशेऽपि सन्देहाद्यभावात्। नच शब्दजान्त:करणविषयतद्वृत्ती व्यभिचारि ज्ञानत्वमिति-वाच्यम्; तस्य स्फुरणार्थकत्वात्। नच द्वितीय हेतोस्तेजोरुपस्य घट इव स्वाश्रयेऽपि तमोनिवर्तकतया तद्विपये व्यभिचार; रूपस्य ज्ञानादिवत् सविषयत्वाभावात्। 'अत्रायं पुरुष: स्वयंज्योति'रित्यादिश्रुतिरप्यत्र प्रमाणम्। तथाहि-'अस्तमित आदित्ये याशवल्क्ये'त्यादिना "किं ज्योतिरेवायं पुरुष'इत्यन्तेन ज्ञानसाधनालोकाद्यभावे जीवस्य कथं स्फुरणमित्युक्ते 'आत्मवास्य ज्योतिः स्वयंज्योति'रित्यादिना स्वातिरिक्तानपेक्षतया स्वप्रकाशत्वमुक्तम्। नचात्मशब्दस्य परमा- त्मपरत्वम्; पूर्ववाक्ये आत्मनि नाडीसंबन्धप्रतिपादनात, उत्तरवाक्ये च 'कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति'रित्युत्तरवाक्यपर्यालोचनया संदंशन्यायेन जीवपरत्वात्। नच धुभ्वाद्यघिकरणन्यायेनात्मशब्दस्य तत्रैव मुख्यत्वम्; प्रधानाद्यनात्मनिराकरणार्थतया स्वशब्दादि त्यात्मशब्द्रो हेतुत्वेनोक्त, नतु मुख्यत्वामिप्रायेण; जीवस्याप्रसक्ते:, मुख्यत्वस्योभयसाधारण्या्च।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। नासिद्धिः, तत्राह-तादग्ज्ञान इति। शुद्धात्मनीत्यर्थः । गुणत्वाभावात् पराभ्युगतगुणत्वस्याभावात्। तथाच पररीत्यापि हेतुर्न संभवतीति भावः। औष्ण्यचिदन्यतरत्वहेतुतवेऽपि सिद्धसाधनम्। शुद्धात्मनः आश्रयाप्रसिद्या स्वपदाग्राह्यत्वात् स्वाश्रयविपयकादन्यस्मात् भेदस्य तत्र सरवात्। परं प्रति पक्षाप्रसिद्विश्च। 'अहमनहं वे'ति धर्भि- तावच्छेदकविपयकत्वं विपयिताविशेषरूपसंशयत्वव्यापकं नेति धर्मितावच्छेदकं नोक्तम्। इदंत्वादिकं वा तद्वोध्यम्। विपर्ययव्यतिरेकनिर्णयौ विभजते-अन्य एवेति। सथाचाहमर्थभेदनिर्णयो विपर्ययः, अहंत्वात्यन्ताभावनिर्णयो ष्यतिरेकनिर्णय इति भावः। चिद्चिङ्गन्थिरूपतया मिथस्तादात््यापन्नचिदचिदपतया। स्फुरणार्थकत्वात् प्रत्यक्षारथकत्वान्। तमोनिवर्तकतयेति। उद्धतानभिभूतरूपवन्महालोकत्वेन तमोनिवर्तकत्वात् रूपस्यापि तमोनि वृत्तिप्रयोजकत्वादित्यर्थः । तद्विपये तत्प्रयोज्यतमोनाशवर्वरूपविषयताश्रये तदवच्छेदेन तमोमध्ये जातस्य वह्नयादे: स्वोत्पत्तिद्वितीयक्षणे स्वसंसृष्टतमोनाशकत्वात् तद्रूपस्यापि तत् बोध्यम्। रूपस्य जन्यवृत्तिरुपस्य। ज्ञानादि- बदित्यादि। ज्ञानोष्णस्पशादौ साध्यस्थितये यादशविपयरवं निवेशितं तदभावात्तदनिरूपकत्वादित्यर्थः । अभावे अभाववत्स्वमकाले। स्फुरणं स्वाप्नविपयभानम्। इत्युक्ते जनकेनैवं पृष्टे। इत्यादिनेति। याज्ञवल्क्योक्तेन। 'अत्रायं पुरुपः स्वयंज्योति'रित्यन्तेनेति शेपः । परमात्मपरत्वमिति। 'खमेन शारीरमभिग्रहत्यासुप्तः सुप्तानभिचाक- शीति। शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुप एकहंस' इत्यादिश्रुत्या शारीरशब्दितजीवस्य कार्याक्षमत्वं रनमे सम्पाद्य पुनस्तेन सह परमात्मनः प्रबोधे आगन्तृत्वबोधनादिनि शेषः। पूर्ववाक्ये अथैतयोरेषा सृतिः संचरणी यैषा हृदयादृर्ध्वं नाडयुच्चरतीत्यादिवाक्ये। एतयोः इन्द्रत्वेनोक्ततेजसस्य तत्पत्नीत्वेनोक्तान्यस्य च। स्चरणी सृतिः जाग्रत्स्वप्रयोः सज्वारसाधनमार्गरूया। प्रतिपादनादिति। 'कि ज्योतिरयं पुरुप' इत्यादिवाक्येऽपि आत्मपदपर्यायेण पुरुषपदेन जीवस्यैवोक्त्तेरित्यपि बीध्यम्। पर्यालोचनयेति। आत्मशब्देन पूर्वोक्तस्य 'स समानः सन्नुभौ लोकावनुसज्जरती'त्यादिनाऽवस्थात्रयसंबन्धमौपाधिकमनूद् 'स यत्किञ्चित् तत्र पश्यति अनन्वागतस्तेन भवति असङ्गोऽ्य्ययमि'त्यादिना तच्छून्योक्तेर्जीव एवात्मशब्दार्थः । यन्तु-सज्चरतीत्यस्य सज्जारयतीति, पश्यतीत्यस्य दर्शय- सीत्यथः । तथाच परमात्मा सज्जारयितृत्वादिना न पापभागित्युक्तवाक्यार्थः-इति, तन्तुच्छम्; णिजध्याहारे माना- भावास, ईशस्य पापाप्रसक्ते: तव्निषेधायोगाच। एवंच 'खमेन शारीरमि'त्यादौ शारीरं शरीरं अभिप्रहत्य निश्रेष्टीकृत्य अलुप्चिद्रूपत्वेनासुपः सुप्तान वासनापरिणामसूक्ष्मविषयान् । अभिचाकशीति प्रकाशयति । शुक्रमिन्द्रियगणमादाय स्थानं तसतद्गोलकं एतीत्यर्थः जीवपरत्वेऽप्युपपन्नः। ईशपरत्वे एतीत्यस्य आगमयतीति णिजध्याहारापत्तिश्रेति बोध्यम्। अप्रसक्तेः घुभ्वाद्यधिकरणत्वाप्रसक्तेः। साधारण्यादिति । 'क्षेत्रज्ञ आत्मा पुरुष' इत्यनेन जीव इव 'भात्मा यत्नो षतिर्बुद्धि: स्वभावो ब्रह्म वर्ष्म'चेत्यनेन ब्रह्मण्यपि रूढेः समत्वात्। 'यन्नामोति यदावुसे यच्चासि विषयानिह। यच्ास्य सन्ततो भावस्तेनात्मा परिकीर्तितः ।' इति नैरुक्तवयुत्पत्तेरपि जीवेशानुगता-
Page 462
७८० अद्वैतसिद्धिः । [परिच्छेद: २ ]
अत एघ-'अत्रायं पुरुषः स्वय'मित्युपसंहारस्य अस्येति पदानुषङ्गेण अयमीश्वरो जीवस्य स्वयमेव ज्योतिर्ज्जानहेतुरित्येवंपरत्वं-निरस्तम्; उक्तन्यायेन उपक्रमविरोधात्। नच-वाचवायं ज्योतिषास्त इति ज्योतिःशब्दस्य वाचि ज्ञानसाधने प्रयोगादत्रत्यज्योतिःशब्दस्यापि ज्ञानसाधनपरत्वम्, नतु ज्ञानपरत्वमिति-वाच्यम्; लौकिकज्योतिषि रूढस्य ज्योतिःशब्दस्य वाचि ज्ञानसाधनत्वेन प्रवृत्ति- वदत्रापि तमोविरोधित्वेन रूपेणाज्ञानविरोधिन्यपि प्रयोगसंभवात्। नच स्वप्रकाशपरत्वे सदा स्वप्रकाशत्वेन श्रुतावत्रेत्यस्य वैयर्थ्यम्; जाग्रदवस्थायामादित्यादिज्योतिःसंभवेन दुर्विवेकतया- स्यामवस्थायां सुविवेकतया अत्रति विशेषणसाफल्यात्। नचास्येति पध्या विषयत्वाभिधानम्; स्वयं दासा इत्यादाविवानन्यवेद्यत्वपरत्वात्। नचामुख्यार्थत्वापत्तिः; मुख्यविषयासंभवेनेष्टत्वात्। नच प्रदीपादो स्वविषयत्वेन स्वप्रकाशत्वव्यवहारः; सजातीयप्रकाशाप्रकाश्यप्रकाशत्वस्येव तत्रापि
गोडव्रह्मानन्दी (लघुचन्द्रिका)। स्मस्वरूपनिष्ठत्वेन समत्वादित्यर्थः । विरोधादिति। विनवाध्याहारमुपपत्तेरध्याहारो न युक्त्ः । आदित्यादेरिवेश- स्यासाधारणहतुत्वाभावात् तदुक्तिर्न युक्ता; निद्वाधानुवैपम्याद्यसाधारण हे तुसत्त्वेनात्मान्य हेनुव्यवच्छेदासंभवात्, एवकारासङ्गतेश्च। नच-आत्मा ज्योतिरेवेत्ययोगव्यवच्छेदस्तदर्थ इति-वाच्यम्; विशेष्यसङ्गतवकारस्यान्ययोग- व्यवच्छेद एव मुख्यत्वात्। अथ-ज्योतिषि विशेषे सूर्याद्यभेदस्य कि ज्योतिरित्यन्तेन पृष्टत्वादात्मैव विशेपणम्, तथाच ज्योतिपि परमात्मतादात्म्यायोगव्यवच्छेदोरऽर्थ इति-चेन्न; विशेष्यतावच्छेदकावच्छेदनैवायोगव्यवच्छेदस्य 'शङ्: पाण्डुर एवे'त्यादौ विशेषणसङ्गतवकाराथेत्वात् प्रकृते ज्ञानसाधनत्वरूपज्योतिष्वावच्छेदेन परमात्मतादात्म्यायो- गव्यवच्छेदबाधात्, निद्राधातुवैपम्यादेरपि उक्ज्योतिष्वात्। विशेष्यतावच्छेदकसामानाधिकरण्येनायोगव्यवच्छेदस्तु अत्यन्तायोगव्यवच्छेदशव्दंन व्यवहियमाणः क्रियासङ्गतवकारस्थले 'नीलं सरोजं भवत्येवे'त्यादावेव व्युत्पत्तिसिद्धः।
द्यालोकसापेक्षत्वाच्च तत्साधनं प्रमाणमादित्याढिकं च संभवनीति व्यवहारविरोध्यप्रकाशविरोधित्वरूपं ज्योनिष्व मादित्यवागादेरुक्त्म्; आदित्यादेम्तमसीव वागादेरज़ाने उक्तविरोधिनि विरोधित्वान, सवमे नु साक्षिरूपज्ञानमुक्त- सापेक्षत्वाभाववदिति नोक्तसाधनमुक्तज्योनिः, किंतु साक्षिरूप आत्मेवेत्याशयेन उक्तज्योतिष्टर्वन आत्मान्यतादातय- मेवकारो व्यवच्छिनत्ति। तथाच स्वाप्नवस्तुपु व्यवहारविरोध्यप्रकाशविरोधी साक्ष्यंच, न तदन्य आदित्यादिरिति वाक्यार्थः । ज्योतिपि हि विशषस्य पृष्टत्वेऽपि उत्तरवाक्ये ज्योतिपो विश्ेष्यत्वं नावश्यकम्; आत्मनि ज्योतिर्विशेषण-
तादात््यायोगं व्यवच्छिनत्तीति ध्येयम्। प्रवृत्तिवत् त्वन्मते बोधकत्व्रवत्। अत्र मन्मते। तमोविरोधित्वेन व्यवहारविरोध्यप्रकाशविरोधित्वेन। विरोधिन्यपीत्पिनान्धकारविरोध्यादिसमुच्चयः । 'आदित्यज्योति'रित्याद्युक्त्या 'आदित्येनैव ज्योतिपास्ते पल्ययते कर्म कुरुते इत्यादिना आदित्यादेरसनादिरूपव्यवहारप्रयोजकत्वोक्त्या प्रयोजक- त्वस्य च प्रकृते प्रयोजकी भूताप्रकाशाभाववत्वरूपत्वेनोक्तविरोधित्वविशिष्टस्य ज्योनिःशब्दार्थत्वं श्रुत्यैव दर्शितमिति भावः। दुर्विवेकतया स्वयंज्योतिःशब्दार्थस्य बाधिततया। सुविवेकतया अबाधिततया। आत्मैवास्य ज्योति- भवतीत्युपक्रमानुरोधात् स्वयमेव ज्योतिर्यस्येति विग्रहादात्मान्यतादात्म्यज्योतिःसामान्यकत्वं स्वयंज्योतिःशब्दारथः। सच जाग्रदशायां आत्मनि बाधितः; आदित्यादेरपि तदा जयोतिष्टेन तत्रोक्तशून्यत्वाभावादिति भावः। पश्या स्वयमेव ज्योनिरस्येति विग्रहघटकप्या। विषयत्वोक्त: उक्तज्योनिः सामान्यविपयत्वेन रूपेण बहुवीहिणा बोध्यत इति भावः। स्वयं दासो यस्येति विग्रहेऽपि यथा स्वाभिन्नपरिचारकेपरिचार्यत्वरूपेण स्वयंदासपदं न बोधयति; स्वस्य स्वकर्तृकपरिचरणक्रियाकर्मत्वाभावात्, परसमवंतक्रियाफलस्य कर्मतात्वात, किंतु स्वान्यपरिचारकापरिचार्यतवेन तथोक्त- विपयत्वेन बहुवीहिणा न बोध्यते; बाधात, किचनन्यवेद्यत्वेन। तञ्व स्वान्यतादात्म्यशून्यज्योतिःसामान्यप्रयुक्तव्यवहार- सामान्यकत्वं स्वपरविपयकवृत्तिज्ञानादिरूपसव निष्टव्यव हारसामान्यप्रयोजकसामान्यमुक्तशून्यं यस्य तत्वमिति यावदित्या- शयेनाह-स्वयं दासा इति। अमुख्यार्थत्वेति। 'आत्मज्योनिर्घट' इत्यादावात्माभिन्नज्योतिर्विपयत्वरेन बोधात् विपयत्वघटित एव मुख्यार्थ इनि भावः।इष्टन्वादिति। आदित्यज्योतिर्घट इत्यादावादित्यज्योतिःप्रयुक्तव्यवहारविषयतवेन बोधादुक्तव्यवह्वारविपयत्वरूपेणापि निरूढलक्षणास्येवेति सोऽपि मुख्यार्थ एव, त्वया तु मन्दप्रज्ञेन यदि तस्यामुख्या- थंत्वमुच्यते, तथापि मुख्यत्वासंभवात्तड्गहणं युक्कमिति भावः। स्वप्रकाशत्वस्येत्यादि। अस्वप्रकाशत्वेनार्थान्तर- मुक्तम्। अस्वप्रकाशत्वं च वेद्यत्वम्। तत्रात्मान्यस्य जडत्वेन तद्वेद्यत्वस्य वक्तुमशक्यतया स्ववेद्यत्वमेवात्मनि वाच्यम्, तथ् बाधितम्; तद्वाधस्य पृथगवेक्षणे गौरवानुसन्धाने तु स्ववेद्यत्वाभाववत्वेन पक्षो विशेष्य इति भावः। सजातीय-
Page 463
[आत्मस्वप्रकाशत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७८१
व्यवहारनिदानत्वात्। अतएव न घटादावप्रकाशे अतिप्रसङ्ग: । विवरणानुमानानि च-आत्मा स्वप्रकाश:, स्वसत्तायां प्रकाशव्यतिरेकविधुरत्वात्, प्रकाशाश्रयत्वात्, प्रकाशकर्तृत्वात्, प्रदीप- वत्। ननु च-अवेद्यत्वं चेत् साध्यं, साध्यवैकल्यम्, सजातीयप्रकाशाप्रकाश्यत्वं चेदर्थान्तरम्; घटादाविवास्वप्रकाशत्वेऽप्युपपत्तेः, ज्ञानप्रभानुगतप्रकाशत्वासिद्धिश्च, ज्ञातैकसति दुःखादावाद्यहे- तोर्व्यभिचारः, द्वितीयतृतीययोस्त्वन्मत आत्मनः प्रकाशत्वेनासिद्धिरिति-चेन्न; स्वप्रकाश्यत्वस्य वाधिततया तद्प्रकाश्यत्वेन पक्षस्य विशेषिततया वार्थान्तराभावात्। सजातीयप्रकाशाप्रकाश्य प्रकाशत्वमेव साध्यम्। एवंच न घटादिवदस्वप्रकाशत्वेनोपपत्तिः; स्वाप्रकाश्यसजातीयाप्रकाश्य- त्वेनावेद्यत्वस्य लाभात्, विजातीयस्याप्रकाशत्वात्। ज्ञानप्रभानुगतं च प्रकाशत्वमावरणाभि भावकत्वम्। तञ्च ज्ञानस्य चित्वेनान्यत्र तेजोविशेपत्वादिनेत्यन्यदेतत्। आवरणत्वं चाज्ञानत- मसोः अर्थव्यवहारप्रतिबन्धकत्वमनुगतमेव । तञ्चाज्ञानस्य साक्षात् तमसो ज्ञानप्रतिबन्धद्वारेत्य न्यदेतत्। नच दुःखे व्यभिचार: तस्याद्यक्षणे प्रकाशव्यतिरेकसत्वात्, प्रकाशत्वेन विशेषणाच्च। नापि द्वितीयतृतीययोरसिद्धि :; पररीत्या तयोरुक्तेः, प्रतिबिम्बस्य विम्बाधीनतया तदाश्रितत्वेन विम्वज्ञानहेतुत्वोपपत्तेश्च। अतएवात्मा स्वानन्तरोत्पत्तिकप्रकाशाश्रयो न; प्रकाशाश्रयत्वादादि- त्यवदित्यपि साधु। नच सिद्धसाधनम्: घटादिविषयकज्ञानस्य त्वयापि जन्यत्वस्वीकारात्। आन-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। प्रकाशाप्रकाश्यप्रकाशत्वमिति। चिद्रूपत्वालोकत्वान्यतररूपेण स्वसजातीयो यः, तदप्रकाश्यत्वे सति प्रकाशत्व- मित्यर्थः । प्रकाश्यत्वं च तमोनाशविषयत्वयोरन्यतरवत्वं ? साजात्यम् भेदगर्भम्। तथाच स्वभिन्नालोकजन्य- तमोनाशवतो भिन्नत्वं स्वभिन्नचिद्विपयात् भिन्नत्वं चेत्यन्यतरवत्वे सति प्रकाशत्वं निर्गलिताथः । आलोकचितोः स्वभिन्नेनि विशेषणम्। तेन स्वात्मकालोकजन्यतमोनाशवत्वेऽपि नालोके साध्यवैकल्यम्। ज्ञानस्य परैज्ञानान्तर- विपयत्वस्वीकारान तद्वद्भेदत्वेनैव निवेशः । तथाच स्वपदं द्विनीयभेदप्रतियोगिपरम्। एवंच परमते चिद्विषयत्वसा- मान्याभावस्याप्रसिद्धत्वेऽपप 'यो यदीययावद्विशेषाभाववान् स तत्सामान्याभाववानि'ति सामान्यतो व्या्या चिति
याप्रकाश्यत्वनेति। स्वविषयान्यत्वस्य स्वान्यचिद्विपयान्यत्वस्य च सिद्धेत्यर्थः । अवेद्यत्वस्य चिद्विषयत्वस्य। ननु तथापि चिद्न्यविपयत्वं न निषिद्धम्, तब्राह-विजातीयस्येति । वृत्तिज्ञानादेरित्यर्थः। अप्रका- शन्वादिति। तथाच तद्विपयत्वेऽपि न स्वप्रकाशत्वहानिरिति भावः । अथवा-पटादाविवाप्रकाशरूपत्वेन साध्यपर्यवसानं माभूदिति प्रकाशत्वं साध्ये दत्तमित्याशयेनाह-विजातीयस्येति। अभिभावकत्वं अभिभाव कस्य स्वरूपत्वम् । ज्ञानस्य केवलचितः । चित्वेनावरणाभिभावकप्रमारूपायाः अविच्छिन्नचितः स्वरूपत्वेन। ज्ञानप्रतिषेधद्वारा चाक्षुपप्रतिबन्धद्वारा। आद्यक्षण इति। यस्य स्वव्यवहारप्रतिबन्धकाभावः स्वकालत्वव्या- पकः त्त्वरूपो हेतुः दुःखादी नाम्तीति भावः। आद्यक्षणोत्पन्नवृत्त्यावरणनाशात् द्वितीयादिक्षण एव दुःखादि- व्यवहारप्रनिबन्धकाभाव इनि मतेनेदम्। यन्तु भास्वररूपादी व्यभिचार इति, तन्न्नः दुःखादाविव तत्राप्याद्यक्ष- णावच्छेदेनाप्रकाशात्, सन्निकर्पाद्यधीनवृत्यभावकाले अज्ञाततासत्वाच्च। ननु-अवमालोके साधनवैकल्यम्; तत्रापि वृत्त्यभावकाले अज्ञाततासत्वात्। अतः स्वव्यवहारप्रतिबन्धकाभावः स्वनिष्ठतमोऽभावाज्ञातताभावयोरन्यत- ररूपो ग्रह्यः। नच-तथापि अन्धकारोत्पन्नालोके प्रथमक्षणे तमःसत्तात् साधनवैकल्यमिति-वाच्यम्; सौरा- लोकमध्योत्पन्नालोके दृष्टान्तत्वसंभवादिति-चेन्न तदीयभास्वररूपादी व्यभिचारात्, अत आह-प्रकाशत्वे नेति। प्रकाशत्व्रमात्रमन्धकारे युगपद्ुत्पन्नालोकद्वये व्यभिचारि; एकजन्यतमोनाशस्यापरत्र सतवात्, अतो दलान्त- रमिति भावः। प्रतिविम्बस्य साक्षिरूपप्रकाशस्य। विम्बाधीनतया बिम्बस्वरूपशुद्धचित्साध्यतया। तथाच प्रकाशं प्रति कर्तृत्वं क्षेमसाधारणसाधनत्वमिति भावः । तदा्रितत्वेन बिम्बस्वरूपशुद्धचिदाश्रितत्वेन। चकार: शेपः । विम्बज्ञानहेतुत्वेति। बिम्बस्वरूपशुद्धचिन्निष्टहेतुत्वेत्यर्थः । उक्ताश्रयत्वकर्तृत्वयोरित्यादिः। स्वानन्तरे- त्यादि। स्वकालोत्तरोत्पन्नस्वप्रकाशको नेत्यर्थः । नचादित्ये स्वकालोत्तरोत्पन्न स्वज्ञा न रूपप्र काश कत्े सा् ै्ं शङ्कम्; स्वकालोत्तरोत्पन्नस्वीयतमोनाशहेतुकान्यत्वं स्वकालोत्तरोत्पन्नस्वव्यवहारहेतुप्रकाशस्वरूपकान्यत्वं चेत्यन्य- तरवत्वस्य साध्यत्वात्। स्वपदानि भेदप्रतियोगिपराणि । उत्पन्नान्तं हेतुविशेषणम्। सिद्धसाधनमिति। मन्मते नित्यसाक्षिण एवात्मव्यवहारहेतुप्रकाशत्वेन घटादरेव स्वकालोत्तरोत्पन्नोक्तस्वरूपकत्वादिति भावः। घटादिवि- वयकश्ञानस्य घटात्मादिविषयकानुमित्यादेः। तथाच घटादाविवात्मन्यनुमित्यादिस्वरूपप्रकाशस्योत्पत्तेस्त्वया स्वीका-
Page 464
७८२ अद्वैतसिद्धिः। [परिच्छेद: २]
न्दबोधोक्ततं च-विवादाध्यासिता संवित्, स्वसमानाश्रयस्वसमानकालस्वगोचरज्ञानविरहप्रयुक्तव्य- वहारविरहवती न भवति, संवित्वादनन्तरव्यवहियमाणसंविद्वत्। नच स्ववेद्यत्वेनोपपतत्या सिद्ध साधनम् ; अस्य परवेद्यताङ्गीकर्तृविषयत्वात्, स्वाविषयत्वरूपपक्षविशेषणमहित्ता तवानमिमतप- र्यवसानात्। अवेद्यत्वं तु ब्रह्मण: श्रुतिसिद्धमेव। नच साकल्येनावेद्यत्वपरा; सङ्गोचे कारणाभावा- त्। पतेन-शाततालिङ्गानुमेयत्वे 'अहं सुखी'तिवत् अहं जनामीति परोक्षानुभवविरोधः, गुरुमते अयं घट इत्यस्यैव स्वविषयत्वे स्वजनकेन्द्रियसन्निकर्षाश्रयत्वप्रसङ्ग, व्यवसायानुव्यवसाययोः पा र्थक्यानुभवविरोधश्च, न्यायमते अनुव्यवसायस्यापि परवेदयत्वे ज्ञानस्य प्रत्यक्षात्मविशेषगुणत्वेन इच्छादिवद्वश्यवेद्यत्वात् ज्ञानधारानुभवापत्तिः, विच्छेदे चरमस्य निष्प्रामाणिकत्वापत्तिः, सामा-
गौडम्रहमानन्दी (लघुचन्द्रिका)। रात् न सिद्धसाधनम्। मन्मते त्वनुमित्यादेर्वृत्तिरूपत्वेन न प्रकाशस्वरूपत्वम्। प्रकाशस्वरूपत्वं च प्रकाशत्वोपहि- ताभिन्नस्वरूपकत्वम्। तच्च न वृत्यवच्छिन्नचिति, किंतु शुद्धचिति । वस्तुतस्तु-स्वव्यवहारो न निवेश्यते, किंतु व्यवहारमात्रम्। तथाच घटादिज्ञानस्यैवात्मकालोत्तरोत्पत्या सिद्धसाधनोद्वार इति भावः। स्वानधिकरण वेदनादौ स्वज्ञानाभावे सति स्वव्यवहारविरहात् बाध इत्यतः स्वगोचरज्ञानं विशेषयति-स्वसमानाश्रयस्वस- मानकालेति। स्वगोचरत्वादियुकतं ज्ञानस्वरूपं, तदभावप्रयुक्तो यस्य व्यवहाराभावः, तदन्यत्वं साध्यम्। यद्यपि कालान्तानुपादानेऽप्यसमद्भिमतं सिध्यतयेव; तथापि गुरुमते ज्ञाने सति तस्मिन् तदाश्रये च न तत्समानाधिकरणं ज्ञामान्तरं स्वीक्रियते, तदभावे तदव्यवहारादर्शनात्, तदीयत्वेनैव स्वस्वांश्रययोर्व्यवहारसंभवात्, अतीतादिज्ञाने तु ज्ञानान्तरं स्वीक्रियत एव; तदभावे तदव्यवहारदर्शनात्। तथाच तन्मतमाश्रित्यैतदनुमानमिति कालान्तमुपात्तम्। एवंच दीपस्य वस्त्वन्तर इच स्वस्वाश्रययोरपि तमोविरोधित्वात् यथा व्यवहारप्रयोजकत्वं, तथा ज्ञानस्य स्वस्वाश्र-
प्रति ज्ञानविषयत्वस्येव ज्ञानतादात्म्यादेरपि प्रयोजकत्वकल्पने तवापि गौरवमिति-वाच्यम्; ज्ञानतादात्यसमवा- ययोज्ञान ज्ञानिव्यवहारहेतुताद्वयकल्पनापेक्षया ज्ञानज्ञानिविपयकानामनन्तकोटिज्ञानान्तराणां कल्पने महागारवात्, ज्ञानसद्विपयतदाश्रयेषु व्यतहारविषयत्वप्रयोजिकाया एकस्याः शक्ते: संभवन व्यवहारमात्रे तद्वत्वेनेकहेतुत्वाच्चेत्या- दितर्का बोध्याः। एतेन-ज्ञानस्वरूपस्यैव प्रकृते पक्षरवात् तस्य च ज्ञानान्तरगोचरत्वेऽपि चिन्मान्नरूपतदाश्रयाप्र- सिद्या तदन्यस्यैवोक्तविरहवत्वेन तत्र साध्यपर्यवसानमिति न तस्य ज्ञानाविषयत्वसिद्धिरिति-अपास्तम्; गुरुमतेन वैतदनुमानात् ज्ञानस्व रूपस्याश्रयस्वीकारेण ज्ञानान्तराविषयत्वपर्यवसानात्। परवेद्यतेत्यादि। ज्ञानं ज्ञा- नान्तरेणैव विषयीक्रियते, नतु स्वेनेति स्वीकुर्वन्ति तार्किकादयः। तान् प्रत्युक्तानुमानप्नवृत्तेरित्यर्थः। साक्षिज्ञानं स्वस्वान्यविषयकमिति स्वीकुर्वाणं माध्वं प्रत्याह-स्वाविषयत्वेति। साकल्येनेत्यादि। साकल्येन वेद्यरवं घटादौ, न ब्रह्मणि; तट्गुणकर्मणामानन्त्यादिति ब्रह्मणि तदभावपरा श्रुतिरित्यर्थः। कारणाभावादिति। साकल्येनापि ब्रह्म स्ववेद्यमेव; अन्यथा तस्य सर्वज्ञताहानेः, 'जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः। न शक्यन्ते च सङ्गया- तुमनन्तत्वान्मयापि हि ।' इति भागवतादिकं तु जन्मादीनामानन्त्यात् कथनायोग्यतवपरम्; अन्यथा अनन्तेष्व- पीश्वरीयसमूहालम्बनधीसंभवेनानन्तत्वहेत्वसङ्गतेः । नच-ईश्वरेण तदीयजन्मादीनां साकल्येन ज्ञेयत्वसंभवेऽपि जीघाज्ञेयत्वपरा श्रुतिरिति-वाच्यम्; 'विज्ञातारमरे केन विजानीयात् येनेदं सर्व विजानाति तं केन विजानीया'- दित्यादिनिर्गुणप्रकरणस्थवाक्यानामीश्वरजन्माद्यज्ञेयतापरत्वासंभवात्, केनेत्यादिना जीवेश्वरसाधारणवेद्यतामात्रस्या- क्षेपाच्च। तस्मात् सगुणं न वेदयमिति वा जीवेन न वेदयमिति वा सङ्कोचे कारणाभावात् शुद्धचिद्वेद्यत्वपरा श्रुतिरिति भावः। ज्ाततालिङ्गानुमेयत्व इति। घटो, घटे घटत्वप्रकारकज्ञानविषयः घटवृत्तिघटत्वप्रकारकज्ञाततावत्वात्, ज्ञसता, उक्तज्ञानजन्या, उक्तज्ञाततायाः, इत्याद्यनुमितिमात्रविषयत्वे इत्यर्थः । प्रत्यक्षाविषयत्वे सति उक्तानु- मितिविषयत्वे इति यावत्। प्रत्यक्षात्मविशेषगुणत्वेन प्रत्यक्षयोग्यात्मगुणतवेन। विशेपत्वस्य व्यर्थत्वात्। रूपा- दीनां प्रत्यक्षयोग्यत्वेऽप्यवश्यावेद्यत्वादात्मेति । अवश्यवेद्यत्वात् अवश्यं प्रत्यक्षत्वात्। चाक्षुषादिसामप्र्या मानसादिप्रतिबन्धकत्वकल्पनं तु न युक्त्तम्; चाक्षुषादिकालेऽप्यहं सुखीत्याद्यनुभवात्, चाक्षुपादेरेव मानसत्वादि- संभवेन गौरवस्याप्रामाणिकत्वात्, जातिसाङ्कर्यस्यादोपरवात्, चाक्षुपत्वादेरविपयिताविशेषत्वसंभवाच्च। निष्प्रमाण- कत्वेति। स्वकाले स्वाधिकरणे निश्चयाभावात् सन्देहेत्यर्थः । तेन कालानतरे कार्यादिलिग्गकानुमानादिसंभवेऽपि न क्षतिः। ननु आत्मवृत्तित्वादिसामान्यलक्षणायाः पूर्व सव्वेन तया चरमज्ञानमुख्य विशेष्यकमातमवृत्तिप्रत्यक्षं जायत इति नोकसन्देहः तत्राह-सामान्येति। शातैकसस्वात् स्वज्ञानव्याप्यस्वकालकत्वास्। तेनामिन्नत्वात्
Page 465
[आत्मस्वप्रकाशत्वोपपत्ति:] ७८३
न्यप्रत्यासत्ेरभावात्। एवंच व्यवसायसुखादिगोचरं स्वविषयं नित्यमेव ज्ञानं सिध्यति। स्वविषय- तायां च न स्वजनकसन्निकर्षाद्यपेक्षा सन्निकर्षादयनपेक्षेश्वरसर्वविषयनित्यज्ञानवत्। तथाचैवं प्रयो- गः-चैत्रसुखदुःखादिकं, चैत्रीयनित्यापरोक्षज्ानविषयः, तं प्रति श्ञातैकसत्वात्, यदं प्रति ज्ञातैक- सत् तत्तं प्रति तादग्भानविषयः, यथेश्वरप्रयत्न इति नित्यज्ञानसिद्धा तत्, स्वविषयं, नित्यज्ञानत्वा- त्, स्वव्यवहारे अन्यानपेक्षत्वात्, स्वसंशयादिविरोधित्वाञ्च, ईश्वरज्ञानवदिति। तस्मादात्मनो नि- त्यगुणभूतशानं स्वविषयत्वरूपस्वप्रकाशत्ववत्, आत्मापि, तद्विषयः, यावङ्रव्यभाविना तेनामिन्न- त्वात्, मामहं जानामीत्यनुभवात्, आत्मस्वरूपा संवित्, स्वविषया, स्वजन्यव्यवहारविषयत्वा- त्, उक्ता संवित्, स्वविषयिणी, स्वसमानाधिकरणस्वत्वप्रकारकस्वविशेष्यकसंशयविरोधित्वात् उक्तविशेषणवद्विपर्ययविरोधित्वाद्वेति-निरस्तम्; आद्यानुमाने साक्षिरूपापरोक्षनित्यज्ञानविषयत्वे- न सिद्ध साधनम्, सहोत्पन्नज्ञानेनापि ्ञातकसत्त्वोपपत्या ज्ञानगतनित्यतापर्यन्तसाधने तस्यासा- मर्थ्य च। नच चैत्रस्य तादग्जानाभावे सुप्तोत्थितस्य परामर्शानुपपत्तिः; संस्कारेण तदुपपत्तेः, नि- त्यज्षानस्य परामर्शविरोधित्वाच्च। स्वविषयत्वानुमाने च दष्टान्तासिद्धि: ईश्वरेऽपि स्वविषयकनि- त्यज्ञानासिद्धे: अप्रयोजकत्वंच। स्वाविषयत्वेऽपि व्यवहारादेरुपपादितत्वात्। किंच चैत्रनित्यज्ञानस्य स्वविषयत्वे नैक नियामकम्; ईश्वरज्ञानस्य न्यायमते वस्तुत्ववत् सर्वविषयत्वोपपत्तेः, नाप्यमेद :; दुःखादावभावात्,नापि समानाधिकरणत्वम्, आत्मन्यभावात्, धर्मादौ तत्सन्भ्ावाच्चेत्यननुगतमेव वाच्यम्। तथाच किमपराद्धं व्यवसायस्वप्रकाशत्ववादिना गुरुणा? अन्यत्र सन्निकर्षस्य नियाम- कत्वेऽपि स्वस्मिन्नमेदस्य संभवात्, पार्थक्यानुभवाननुभवरूपस्यानुभवकलहस्य त्वन्मतसमानत्वा- त्। तस्माद्यवहार एवाननुगतं कारणमस्तु। तत्प्रयोजकानुगमार्थ किमिति निर्बन्धः? पश्चादप्यननु- गम एव पर्यवसानात्। एवंच न स्वविषयत्वरूपं स्वप्रकाशत्वं, किंत्ववेद्यत्वे सत्यपरोक्षव्यवहार- योग्यत्वमिति सिद्धम्॥ इत्यद्वैतसिद्धौ आत्मनः स्वप्रकाशत्वोपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तज्जेदशून्यत्वात्। यो नित्यज्ञानभेदशून्यः, स नित्यज्ञानविषयः, यथेश्वरज्ञानमिति व्यापिः। भेदाभावे हेतुमाह- यावड्रव्यभाविनेति। पाकजरूपादे: संयोगादेश्व पूर्वसिद्धे विद्यमानेऽपि द्रव्ये उत्पत्तिविनाशदर्शनेन द्रव्याज्वेदेऽपि जलपरमाण्वादी रूपादेरिवात्मनि साक्षिज्ञानस्योत्पत्तिनाशाभावेन न भेद :; मानाभावात्, धर्मधर्मिभावादिकं तु भेद- स्थानीयेन विशेषेणोपपद्त इति पराभिमानः । स्वत्वप्रकारकेति। तत्तदात्मवृत्तित्वप्रकारकेत्यर्थः । सहोत्पन्नेति। नच-सलनिकर्पस्य पूर्वमभावात् तस्योत्पत्तिकाले प्रत्यक्षोत्पत्यसंभव इति-वाच्यम्; मनःसव्निकर्षविलम्बेन मानसप्रत्य- क्षविलम्बादर्शनात् मानसप्रत्यक्षस्य सन्निकर्पजन्यत्वे मानाभावः । तथाच तत्पुरुषसमवेतस्य पुरुषान्तरे आपत्तिवारणाय तत्पुरुषसमवेतसामान्ये तत्पुरुषत्वेन हेतुताया इव मानसविषयसामान्ये पुरुषत्वेन हेसुताया: कल्पनात्, उक्तसामग्रयाश्च सुखादिजनकसामग्रीसहकारेणैव फलोपधायकतवकल्पनात् सुखाद्युत्पत्तिकाले तु तव्तत्यक्षमुत्पधते। नच-जन्यमात्रवृ- त्तिजातिव्वेन मानसत्वस्यावश्यं जन्यतावच्छेद कत्वेन तेन रूपेणापि पुरुषादिकार्यत्वस्यावश्यकत्वात् तादृशसामग्र्याः सुखा- दिसामग्रीसहकारित्वमेव कल्प्यताम्, किं मानसविषयत्वेन कार्यतवकल्पनयेति-वाच्यम्; व्यधिकरणधर्मद्वयावच्छिनं प्रति क्कप्तहेत्वोर्मिथः सहकारित्वाभावात्, अतीतादिसुखे मानसवारणासंभवाच। अथ-अनन्तज्ञानकल्पने गौरवात् सुखादिज्ञानं नित्यमिति-चेन्न; तथासति गुरुमतरीत्या व्यवसायस्यैव स्वविषयकत्वौचित्यात्, दोषोद्धारस्य उक्तत्वात, तावतापि नित्यतायाः ज्ञातैकसत्वस्य व्यवस्थापकत्वाभावादिति भावः। तादग्ज्ानाभावे नित्यज्ञानाभावे । पराम- र्शानुपपत्तिरिति। सवमे प्रत्यक्षजनकसन्निकर्षाभावेन 'समे गजादिकं मया साक्षात्कृत'मितिस्मरणानुपपत्तिरित्यर्थः । संस्कारेण जन्यज्ञानजन्येन। विरोधित्वादिति। ज्ञाननाशस्यैव लाघवेन संस्कारत्वस्वीकारात् नित्यज्ञानस्य संस्कारद्वारकस्मरणविरोधित्वमिति भावः । ईश्वरेऽपीति। ईश्वरज्ञानं हि मन्मते ईश्वरस्वरूपमेव। मायावृत्त्यवच्छि- सचिदरूपं वा। आद्े तद्विषयस्तदन्यदेव, द्वितीये तु नैका वृत्तिः सर्वविषयिका, किंतु भविष्येष्वनुमितिः, भूतेषु स्मृतिः विद्यमानेषु प्रत्यक्षरूपा। तथाच तासां स्वाविषयकत्वेऽपि वृश्यन्तरेणैव तद्रहणमिति भावः। नैक नियामकं नैकं व्यापकम्। अननुगतमेवेति। स्वनिष्ठे तद्विषयत्वे स्वामेदः, दुःखादिनिष्ठे तत्सामानाधिकरण्यादिकं नानैव व्यापकमित्यर्थः। अननुगतमिति । :अनुगमप्रकारोऽप्युक्त्तः। तर्कैरित्यादि-आत्मावेद्यत्वरक्षणम् ॥ इति लघुचन्द्रिकायां आत्मस्वप्रकाशत्वोपपत्तिः।
Page 466
७८४ अद्वतसिद्धिः । [परिच्छेदः २]
अथ ब्रह्मणः शब्दावाच्यत्वोपपत्ति: । निर्धर्मकतया अवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यम्, न वाच्यम्; प्रवृत्तिनिमित्ताभावादिति। ननु-अवाच्यशव्देनोच्यते चेत्, वाच्यत्वसिद्धिः, लक्ष्यते चेत्, अवाच्यरूपमुख्यार्थस्याभावात् कथं लक्षणा! भावे वा ब्रह्म नावाच्यं, किंतु तीरवदवाच्यरूपमुख्यार्थसंचन्धिमात्रमिति स्यात्। मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि पटलक्षकं स्यादिति-चेष्न; अवाच्यरूपमुख्यार्थाभावेपि नजूसममिव्याहृतवाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानात्। एवं निर्विशेषपदमपि; अखण्डपदलक्षकतायामेव मुख्यार्थावश्यम्भावनियमात्। ननु-एवं लक्ष्यप- देनापि लक्ष्यत्वे तीरस्यागङ्गात्ववत् ब्रह्मणोऽलक्ष्यत्वापत्तिरिति-चेन्न; इष्टत्वात्, सर्वथा निर्धर्मक- त्वात्, लक्ष्यव्यवहारस्य च वाच्यत्वाभावनिबन्धनत्वात्, तथा प्रतिपादितं प्राक्। नचैवं लक्ष्यत्वा- भावेन वाच्यत्वव्यवहारप्रसङ्ग; गौणस्य तस्यापीप्टत्वात्, सत्यज्ञानादिपदानां च कल्पितधर्मवाचि- नां ब्रह्मरूपव्यक्तिलक्षकतयाSखण्डार्थत्वानपायात्। नच-सत्वादिधर्माश्रयतया लक्ष्यत्वाभावे मश्च- संबन्धित्वमात्रेण लक्ष्यस्य पुंसः अमश्चत्ववत् सत्त्वादिसंबन्धित्वमात्रेण लक्ष्यस्य ब्रह्मणः असत्त्वा- द्यापत्तिरिति-वाच्यम्: कल्पितचन्द्रत्वादिजातेः परमार्थचन्द्रादिव्यक्ितादात्म्येनाचन्द्रत्वाभाव वदतरापि सत्त्वाद्यभावानापत्तेः। तदुकं 'लक्ष्यव्यक्तिरपि व्रह्मे'ति। अतएव-स्वप्रकाशादेरब्रह्मत्वे यद्यत् ब्रह्मतयेषं, तत्तदव्रह्मेति साधु समर्थितो ब्रह्मवाद इति-निरस्तम्; यनु निर्विशेषादिप- दानां च समासपादतया लक्ष्यादिपदानां यौगिकतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमश- क्यम्; अन्विताभिधानपक्षे तेषामपि वाचकत्वात्, अभिहितान्वयपक्षऽपि वाक्य एवाभिहि- तान्वयस्वीकारेण प्रकृतिप्रत्यययोरन्विताभिधायकत्वात् वाक्यतुल्यस्यापि वाचकत्वात् ब्रह्मणः पदार्थसंसर्गरूपत्वे सखण्डत्वापत्या पदार्थत्वे वाच्यत्वापरिहारादिति, तन्न; पदलक्ष्यत्वेऽप्य-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। निर्धर्मकतया धर्माघटिततया। अवैद्यतया शक्तिज्ञानसहकृतप्रमाणावेद्यतथा। ब्रह्म सत्यादिशुनितात्पर्य- विषयः। उक्त्ावेद्यतां साधयनि-न वाच्यमिति। प्रवृत्तिनिमित्ताभावात् प्रवृत्तिनिमित्ताघटितन्वान। मुख्यार्थ स्येति। अन्यस्येनि शेपः। ननु वाच्यभेदोपहितमवाच्यपदमुख्यार्थः, तत्मंबन्धरूपा लक्षणा शुद्धेऽपि संभवत्येव तत्राह-भावे वेति। वाशव्द्रोऽनास्थ्रायाम्। साचोक्तोपहितमपि तदादिपदवाच्यत्वान नावाच्यमित्येवंरूपा। मुख्यार्थहीनस्य ब्रह्मण्यमुख्यार्थवाचकस्य। मुख्यार्थाभावेऽपीति। शक्यार्थीभावेऽपीत्यर्थः । वाच्यत्वात्यन्ता- भावेति। वाच्यत्वस्यात्यन्ताभावो यत इनि व्युत्पत्या वाच्यभेदत्य्थः। तथाचावाच्यपदस्य समासत्वेन नद्वाच्य- रूपमुख्यार्थाभावेऽपि नतनिपाद्यविशिष्टार्थसंबन्धरूपा लक्षणा शुद्धे संभवत्येव। नहि स्वशक्यसंबन्ध एव लक्षणा; अ्थवादेपु गम्भीरायामित्यादी च तदसंभवान, किनु स्ववोध्यसंबन्धः । नच-वाच्यभेदोपहिनं नावाच्यपदप्रनिपा- धयम्, तदादिपदेनान्विताभिधानादिपक्षे वक्ष्यमाणरीत्या अवाच्यादिपदन च वाच्यत्वादिनि-वाच्यम्; तदादिपद्म्य लाघवेन घटत्वादिविशिष्टशक्तवात्, अन्विताभिधानादिपक्षेपि अन्वितभेदत्वाढिना नजादिपदशक्यता, नतु वाच्या- न्वितभेदत्वेन; अघटमित्यादी घटान्विनभेदृत्वेनापि शक्यत्वापातान्। तथाच वाच्यभेदस्वरूपस्यापि ब्रह्मणो वाच्य- भेदत्वविशिष्टरूपेणावाच्यत्वमस्त्येवेति भावः। अखण्डपदेति । वाचकगङ्गापदेत्यथेः । मुख्यार्थावश्यंभावेति। गङ्गादिपदवाच्यावश्यंभावेत्यथः। तादृशस्थले मुख्यार्थस्मृतेरेव लक्ष्यस्मारकत्वात् तदवश्यंभाव इनि भावः। इष्टत्वात् तात्पर्यविपयस्य शुद्धत्वेन लक्ष्यत्वविशिष्टाघटितत्वेनेष्टत्वात्, यथाश्रुते लक्षणासंबन्धस्य तज्ज्ञानाधीनधीविषयत्वस्य च शुद्धेऽपि सत्वादसङ्गतेः । गाणस्य लक्ष्यत्वविशिष्टाघटितविपयकस्य। ननु किञ्ञिद्धर्मप्रकारिकैव लक्षणया धीर्देषटा तब्राह-सत्यक्षानादीति। व्यक्तीति। अखण्डार्थवादोक्तरीत्या व्यक्तिमात्रलक्षणेति भावः। सत्त्वादिसंवन्धि- त्वमात्रेण सत्वाद्याश्रयरूपकल्पितधर्मिसंबन्धित्वमात्रेण। कल्पितचन्द्रत्वादिजातेः। कल्पिता चन्द्रत्वादिजातिः यत्र तारशस्य प्रानीतिकचन्द्रादेः। चन्द्रादी कल्पितद्वितीय चन्द्रादेरिति यावत्। अत्रापीति। सत्ताद्याश्रयरूपकल्पि- तधर्मिण: परमार्थसति ब्रह्मणि कल्पितत्वेन तत्रापि सत्ताद्याश्रयत्वव्यवहारः, परमार्थतस्तु न तस्य सत्ताश्रयत्वम्, किंतु त्रिकालावाध्यसत्तास्वरूपत्वमिनि भावः। व्यक्तिरपि ब्रह्मेति। सत्तादि न जहाति न इति शेपः। अत एव स्वप्रकाशत्वाश्रयत्वेन कल्पितव्यक्तितादात्म्यस्य शुन्देऽपि सत्तवादेव। वाक्यतुल्यत्वात् वाचकसमुदायत्वात्। वाक्य एव घटमान येत्यादिवाकयस्थल एव। अभिहितान्वयस्वीकारेण प्रकृतिप्रत्ययाभ्याममिहिता: घटकर्मत्वादिरूपा
Page 467
[अ्रक्मण: शग्दावाच्यत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ७८५
पदार्थत्वोपपत्तेः, अखण्डत्वेऽपि वाक्यार्थत्वस्योपपाढितत्वादन्विताभिधाने अन्वितथाचकस्याप स्वरूपे लक्षणाङ्गीकारात् । नच तर्ह्यवाच्यत्वासिद्धि :; अखण्डव्रह्मसिध्युपायत्वेन प्राप्तस्यावाच्य- त्वादे: निवारकाभावेनानुषङ्गिकतया सिद्धेः । 'यतो वाचो निवर्तन्ते अशब्दमस्पर्श'मित्यादिश्रुत- यश्चात्रानुसन्धेया: अवाच्यशब्दवदशब्दशब्देडपि व्याघाताभावात्। नचेयं श्रुतिरद्भुतत्वाभिप्राया शरूयमाणार्थत्वे बाधकाभावात्। नच 'यतो वाच' इत्यत्रापि मनसा सहेति श्रुतमनोवृत्तेरिवान्त :- करणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सवथा निषेधायोगः लक्षणायाः स्वीकारेण शक्तिमात्रस्यव निराकरणात्। नच-आनन्दाद्यनेकपदामुख्यार्थत्वापेक्षया निवर्तन्त इत्येकपदार्थामुख्यत्वमेव युक्त मिति-वाच्यम्; ब्रह्मणो निर्धर्मकनया तत्र शक्त्यभावेन बहुत्वस्याप्रयोजकत्वाद्वाच्यत्वविरोध्यर्थ
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अर्थाः स्वान्वयं बोधयन्तीति स्वीकारेण। अन्विताभिधायकत्वात् कर्मत्वादिशक्तत्वात्। अपदार्थत्वोपपत्ते: पदावाच्यतवोपपत्तेः। वाचकस्यापीत्यपिशब्देन समासस्य प्रकृतिप्रत्ययरूपसमुदायस्य न वाचकत्वम्, मानाभावात्। घटमित्यादेर्घटकर्म त्वादिशाब्दबोधानुकूलशक्तिमत्वं हि नान्विताभिधायकत्वम्; तार्किकादिभिरपि समभिव्याहारविधया तस्योक्तधीहेतुत्वस्वीकारेण तत्स्थले गुरुणोक्तशक्तिम्वीकारे तार्किकाणां तत्र विभ्रनिपत्यसंभवात्, किंतु द्वितीयाविभ-
दिशाब्दधीत्वावच्छिन्नशक्तिमत्वमन्विताभिधायकत्वम्। अत एव घटाढिपदस्य कार्यान्विते अन्विते वा घटादौ शक्ति दृषयित्वा घटादिमान्रशक्तिमत्वं स्वमते मणिकाराढिभिः स्थापितं शक्तिवादाद़ी। अत एव चान्वितघटत्वादिरूपेण शक्योपस्थिता सत्यामन्वयविशेषे जिज्ञासेत्यादिकं पदमाव्रस्यान्वितार्थशक्तिस्वीकारे युक्तित्वेनोपन्यस्तम्। घटान्वित- कर्मतात्वादिना शक्यत्वे तु अन्वयविशेपान्तर्भावेनोपस्थितेः शत्त्यव सिद्धत्वात् नान्वयविशेषे जिज्ञासोक्ति: सङ्च्छते। तथाच क समासादे: शक्तत्वं ? क्व वा विशेषान्विताभावाढे: शक्यत्वमिति परेपां मौढ्यं सूचिनम्। तर्हि शुद्धस्यैव वेदान्तजन्यबोधविपयत्वे। अवाच्यत्वादेर्व्यावहारिकस्य। तात्विकस्य तु ब्रह्मान्यस्याद्वतश्रुतिरेव निवारिकेति भावः। आनुषङ्गिकतया तात्पर्याविषयत्वेऽपि देवताधिकरणन्यायतया। अशब्दमिति। समवायेनेव वाच्यत्वादिनापि संबन्धेन शब्दशून्यमशब्दपदार्थ :; विनिगमकाभावात्। अस्पर्शमित्यादो वाच्यत्वादिना स्पर्शवत्वाद्यप्रसत्तया न तत्संबन्धेन निषेधः। नच-तत्समभिव्याहारादशव्दमित्यादावपि तर्थेनि-वाच्यम्; येन येन संबन्धेन धर्मेण च यद्यत् प्रसकं तेन तेन तन्निपेधस्याकाद्गितत्वेन समभिव्याहारस्याप्रयोजकत्वात्। ननु-जगत्कारणत्वादेरिव शब्दवाच्यत्वस्य निषेधेऽपि तस्य व्यावहारिकः संबन्धो ब्रह्मण्यास्नामिति-चेन्न; जगत्कारणत्वादी श्रुत्यनुमानादेरिव वाच्यत्वे मानस्याभा- वात्, जगत्कारणत्वाढिकं बिना जगदुत्पत्तरिव वाच्यत्वं विना कस्यचित् अनुपपत्यभावेन तत्र व्यावहारिकसंबन्धे मा- नाभावात्। ननु अशव्दमित्यादिशब्दबोध्ये ब्रह्मणि शब्दनिषेधे व्याघात इत्याशक्क्य शब्दवाच्यत्वनिपेधेऽपि लक्षणयाऽश ब्दशब्दबोध्यत्वात् नैवमित्याह-अवाच्येति। नचेत्यादि। मनसा सहेत्यादिनिषेधो न मनोवृत्तिमात्रस्य, किंत्वशुद्धमनोवृत्तेः, तथा 'यतो वाच' इत्यादिनिषेधो न वाग्वृत्तिमात्रस्य, किंतु प्राकृतवाग्वृत्तेरित्यर्थः । प्राकृ- तत्वं न वेदान्तभिन्नत्वम्; लौकिकवाग्वृत्तेरपि त्वया ब्रह्मणि स्वीकारात्। तथाच शक्त्या वाग्जन्यवृत्तेरेव निषेध इत्याशयेनाह-लक्षणाया इति। लक्षणाया अप्यनङ्गीकारे सुप्तोत्थापकवाक्यवत् पद्वृत्तिज्ञानमनपेक्ष्यैव वाक्यं ब्रह्मानुभावकमिति पूर्वोक्तपक्षे। ब्रह्मणो निर्धर्मकतया तात्पर्यविपयस्य धर्माघटिततया। तत्र तात्पर्यवि- पयशुद्धबोधाय। शक्त्यभावेन शक्तेरसामर्थ्येन। तथाच शुद्धे अविद्याविषयत्वादिस्वीकारेण विपयादिपदशक्यत्वेऽपि श्रुतितात्पर्यविषये निर्विकल्पकबोधः न शक्तिज्ञानसाध्यः; किञ्ञिद्धर्मप्रकारकबोधस्यैव तत्वात्। ननु-तार्कि- कादिमते निर्विकल्पकस्य व्यवहाराप्रयोजकत्वेन व्यवहारमूलकशक्तिग्रहस्य शुद्धेऽनवतारेऽपि सिद्धान्ते निर्विकल्पक- स्यापि 'सोडय' मित्यादिवाक्यजन्यबोधस्य संशयादिनिवृत्तिद्वारा व्यवहारप्रयोजकत्वेन तन्मूलकः शक्तिग्रहः शुद्धेऽव- तरत्येद, तथाच 'तत्सत्य'मित्यादि वाक्यजन्यनिर्विकल्पकबोधप्रयोज्यव्यवहारेण सत्यादिपदानां सत्यत्वाद्युपलक्षिते शुद्धेऽपि घटादिस्वरूप इव शक्तिधीसंभवात् शुद्धमपि शक्त्यानुभूयतामिति-चेन्न्न; तावतापि शुद्धब्रह्मणः शक्त्या- नुभाव्यत्वासंभवात् । न हि तत् सत्यत्वाद्युपलक्षितम्, किंतु तदन्यत् तत्र कल्पितम्। तथाच कार्यत्वेन घटादौ शक्िं गृहीत्वा कार्यमलौकिकमपूर्व गुरुमतेऽनुभूयताम्, सत्यत्वोपलक्षिते घटादौ तु शक्तिं गृहीत्वा सत्यत्वाद्यनुपलक्षितं ब्रह्म कथमनुभूयताम् ! अनुभवे वा शुक्तिरूप्यादेरपि सत्यादिपदादनुभवापत्तिः। नच सत्यत्वादिधर्मसामान्यशून्यं शुद्धं मझ सत्यत्वादिनोपलक्ष्यते; कादाचित्कतद्धर्मस्यैव तदुपलक्षणत्वात्। नच शुद्धब्रह्मण्यपि शक्तिग्रहः; तस्य व्यवहारा- अ. सि. ९९
Page 468
७८६ अद्वैतसिद्धिः । [ परिच्छेदः २ ]
द्वारैवाखण्डार्थपरतया तद्विरोधतादवस्थ्यात्। अत एव कस्मादुच्यते परं ब्रह्मेत्यादिश्रुतेः परमारमे- ति चाप्युक्त इत्यादिस्मृतेश्च तत्तच्छब्दबोध्यत्वमात्रेण वाच्यत्वाभिलापः, नतु शक्यत्वाभिप्रायेणेति ताभ्यां न विरोधः । तात्पर्यविषयो ब्रह्म वाच्यं वस्तुत्वाल्लक्ष्यत्वाञ्च तीरवदिति-चेत्, निर्धर्मकत- या वाच्यत्वबाधात्, तदुन्नीतसधर्मकत्वाद्युपाधिसंभवाच्च। परमार्थसत्यपदादिकं कस्यचिद्वाचकम्; पदत्वादित्यपि नः किमत्र पदत्वम्, न तावत्सुप्तिङन्तत्वम्: समासपदस्याशक्तत्वेन राजपुरुषादो व्यभिचारात्, नापि शक्तत्वम्: साध्याविशषात्, अवयवद्वारा समासपदस्य वाचकत्वं चेत्, इष्ट- मेव। नापि सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवच्छब्दयुक्तं वाक्यत्वादित्यपि; विषं भुङक््वेत्यादौ व्यभिचारात्। ननु-अवाच्यत्वे लक्ष्यत्वानुपपत्तिः; वाच्यार्थसंबन्धित्वेन ज्ञातस्यैव लक्ष्यत्वात्, तज्ज्ञानं च न शब्दभिन्नेन; उपनिषन्मात्रगम्यत्वात्, नापि स्वप्नकाशतया; नित्यसिद्धे शब्दवैयर्थ्या- त्। अवाच्यशब्दस्य च लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसंबन्धित्वेन ज्ञेयत्वे अनवस्थेति-चेन्न; तथा ज्ञानमुपस्थितावुपयोगि। ब्रह्म स्वप्रकाशतया स्वत एवोपस्थितमिति कि तेन ? नचैवं शब्दवैय- थर्यम्; आवरणाभिभावकवृत्तावुपयोगात्। अत एव नानवस्था। तस्मात् प्रवृत्तिनिमित्तस्य दुर्निरूप- त्वादवाच्यत्वम्। तदुक्तं-'दृष्टा गुणक्रियाजातिसंबन्धाः शब्दहेतवः। नात्मन्यन्यतमो ह्वेषां तेनात्मा नाभिधीयते॥' इति। नचारोपितगुणाश्रयतया वाच्यता; तस्य तात्पर्याविषयतया तात्पर्यविषये अवाच्यत्वस्य स्थितत्वात्। नच सत्यादिपदानां लक्षकत्वे सिद्धे निमित्ताभावः तस्मिश्च लक्षकत्व- मिति परस्पराश्रयः; निर्विशेषवाक्येन नेति नेतीत्यनेनैव निमित्ताभावस्य सिद्धत्वात्। नच-निर्वि- शेषवाक्यस्य स्वरूपमात्रपरत्वे प्रवृत्तिनिमित्ताविरोधः, निर्विशेषत्वविशिष्टपरत्वे च तस्यैव सत्वेन निर्विशेषपदवाच्यत्वस्यैव प्रसङ्ग इति-वाच्यम्; द्वारतया उपस्थितस्य स्वपरविरोधित्वान्निर्विशेष- गाडव्रह्मानन्दी (लघुचन्द्रिका)। विषयत्वात्, सत्यत्वाद्युपलक्षिते शक्त्यभावाच्च, अनेकार्थकत्वस्यान्याय्यत्वात्। किश्चोक्तरीत्या निर्विकल्पकस्यापि मन्मते सविकल्पकद्वारकत्वात् सविकल्पकोपयोगिन्याः सखण्डशन्ते: कल्पनयव सविकल्पकद्वारस्य लक्षणाधीननिर्विकल्पकस्य निर्वाहात् नाखण्डे व्यवहार: शक्तिकल्पकः; अनन्यलभ्यार्थस्य च तस्य तत्वादिनि भावः । विरोध्यर्थद्वारैवेति। वाच्यत्वाभावद्वारैवेत्यर्थः । उक्तश्रुतेरिति शंपः । अत एव उक्तश्रुतेर्वाच्यत्वविरोधित्वादेव । श्रुतेः स्मृतेश्च वाच्यत्वाभिलापः उच्यत इत्यादिशब्देः बोधकता । बोध्यत्वेति । नच-निवर्नन्त इत्यादौ चित्तशुद्ध्यभावे प्रवृत्यभावोऽर्थः, अथवा उच्यन इृत्यत्राबोधकत्वमात्रमर्थ इत्यन्र विनिगमकाभाव इति-वाच्यम्; शुद्े शक्य- स्वासंभवस्योक्तत्वात्, शक्त्या बोधकत्वरूपप्रवृत्त्यभावस्येव निवर्तन्त इत्येतदर्थत्वान्। वाधादिति। प्रमेयघटत्वा- दिविशिष्टे व्यभिचारोऽपि बोध्यः । सधर्मकत्वस्य पक्षमात्रव्यावृत्तवेन पर्वतेतरत्वादिनुत्यत्वमाशङ्काह-तदुन्नी- तेति। बाधोन्नीतेत्यर्थः । तथाच वह्निरनुप्णः कृतकन्वादित्यादा वह्नीतरत्वांदरिव साध्यव्यापकताआहकतर्कस- ववात् नोक्ततुल्यत्वमिति भावः । नतु-साध्योपाध्योः केवलान्वयित्वेन नोपाध्यभावस्य साध्याभावसाधकतव- मिति-चेन्न; प्रमेयघटत्वादौ साध्याभावनिश्चयात् धर्मघटितत्वरूपसधर्मकत्वस्य शुद्धब्रह्मण्यभावनिश्चयेन वाच्य- त्वाभावप्रसिद्धेः, त्वद्रीत्या सत्त्वेऽपि साध्यव्यापकत्वेन पक्षातिरिके गृहीतोपाधेरभावस्य ब्रह्मणि परामर्शस्य सत्पति- पक्षस्याप्रत्यूहत्वात्। चेदिति। साध्यमिति शेपः। नच-अवयवद्वारा वाचकत्वं हेतुः, वाचकत्वं साध्यमिति- वाच्यम्; समासादी व्यभिचारतादवस्थ्यात्। वाच्यार्थतात्पर्यति। स्ववाच्यघटितार्थतात्पर्येत्यर्थः । विषमिति। नच-विषभक्षणतुल्यं शत्रुगृहभोजनमित्यर्थतात्पर्यकत्वान न व्यभिचार इति-वाच्यम्; उक्तवाक्यस्य शत्रुगृहभोज- नमनिष्टसाधनमित्येतत्तात्पर्यकत्वेनोक्तत्वात्, तादृशतात्पर्यस्यापि कढाचित् संभवेन व्यभिचारानपायाश्च। अवा- च्यशब्दस्य वाच्यसंबन्धिबोधकशब्दस्य। यद्यपि सत्यादिपदवाच्यसंबन्धि ब्रह्मेति वा, ब्रह्मसंबन्धि वाचकं सत्यादिपद्मिति वा लक्षणां विनापि लक्षणाज्ञानं संभवत्येव। आद्ये ब्रह्मत्वरूपेण ब्रह्मविपयकज्ञानं शुद्धब्रह्म- शाब्दहेतु:, गुरुमते शुद्धगोत्वशक्तत्वज्ञानं गोत्वविशिष्टशाव्दधीहेतुरिव। द्वितीये गोत्वादेरिव ब्रह्मणोपि शुद्ध- रूपेण भानम्, तदादिपदेन शुद्धब्रह्मसंबन्धिवाचकत्वेनोपस्थितिसंभवात्। तेन रूपेण तदादिपदशक्यत्वानङ्गीकारेऽपि तह्वाचकं सत्यादिपदमित्यादिवाक्ये तत्पदेन शुद्धब्रह्मत्वेनोपस्थितिसंभवात्, ब्रह्मणोऽपि शुद्धरूपेण उपस्थितिसंभवात् शुद्धविशिष्टत्वेन प्रमाव्नदेः सदा भानाच; तथापि लक्षणाज्ञानं न शाब्दबोधे कारणम्, किंतु शक्यज्ञानजन्यल- क्ष्योपस्थितिरेवेति पूर्वमुपपादितत्वात्तदनुसत्याह-न तथा झानमित्यादि। उपस्थिती शक्यज्ञानाधीन- लक्ष्योपस्थितौ । स्वत एव । तथा ज्ञानं विनैव। उपस्थितं निर्विकल्पकस्मृतिविषयः । तग्र हेतु :- स्वप्रकाशतयेति। सत्यादिपदशक्यप्रमान्नाद्यंशे शुद्धस्य स्वप्रकाशस्य वैशिष्भानेनेत्यर्थः । तख वशिष्वभानं विशि-
Page 469
[सामान्यतो भेदखण्डनम् ] गौडब्रह्मानन्दीयुता। ७८७
स्य वाच्यत्वासंभवाच्च। तस्मान्निविशेषत्वादेव जीवव्रह्माभेद: सिद्धः; भेदकासंभवात्। तथाच ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति। स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम्। इत्यद्वैतसिद्धौ ब्रह्मण: शब्दावाच्यत्वोपपत्तिः।
अथ सामान्यतो भेदखण्डनम्। स्यादेतत्-इदमयुक्तम्, भेदस्य प्रमाणसिद्धत्वात्। नच-भेदस्य स्वरूपत्वे अनपेक्षत्वापत्त्या- धर्मत्वम्, तथाचानवस्था; स्तभ्भकुम्भयोः परस्परभेदग्रहोऽन्योन्यभेदग्रहसापेक्ष इति अन्योन्याश्र- यश्च, एवंच भेदासिद्धिरिति-वाच्यम्; तत् किं भेदे प्रतीतिरेव नास्ति, कारणाजन्या वा, बाध्यवि- षया वा। नाद्ः, विकल्पाधिकरणरूपव्यवहारविप्लवापत्तः। नहि भिन्नतया अज्ञातेन विकल्पः। न द्वितीयः; अकारणकोत्पत्तर्व्याहतत्वेन नित्यत्वापत्या तन्निरासकमोक्षोपायाननुसरणापत्तेः। न तृती यः; उक्तशुष्कतर्कस्यावाधकत्वात्। अन्यथा ऐक्यस्य स्वरूपत्वे अनपेक्षत्वापत्तिः, धर्मत्वे अद्वैतहा- निरित्यादिना ऐक्यवुद्धिरपि बाधितविषया स्यात्। नच-मम चैतण्डिकस्य परपक्षमात्रं खण्डनीय- मिति-वाच्यम्, स्वपक्षसत्त्वेऽपि तव तथात्वे ममापि तथात्वाविरोधात्। नच मम परपक्षखण्ड- नमात्रेण स्वमतभूतैक्यसिद्धिः, ममापि तावन्मात्रेण स्वमतभृतभेदसिद्धिसंभवात्। नच-मां प्रति- भेदखण्डनमात्रनियोगे ममैव वतण्डिकत्वमिति-वाच्यम्, मां प्रत्यप्यक्यखण्डनमात्रनियोगसंभ- वात् मध्यस्थस्य त्वदनधीनत्वात्। अस्वव्याघातकरेव त्वयैक्यं दृप्यमिति यदा, तदा अस्वव्याघा- तकैरेव त्वया भेदो दृष्य इत्यपि स्यादिति-चेत्, मवम्, नहि वयं भेदप्रतीतेः स्वरूपं कारणं वापल पामः। किंतु वाधितविषयत्वं ब्रुमः, व्याप्तिसभ्रीचीनतया अशुप्कैस्तकेरेवानन्यपरया श्रुत्या स्सृ- त्या च मेदस्य वाधितत्वात्, विषयमेदादिना प्रत्यक्षविरोधस्य परिहृतत्वेन श्रुत्यादावुपचरितार्थ- त्वाभावात्। यत्त्वभेद स्याप्येवं निरासः। नचाभेदखण्डनयुक्तीनां स्वस्य स्वाभेदोऽपि न सिध्येदिति स्वव्याघातादाभासता, भेदखण्डनयुक्तीनामपि भृपणयुक्त्यभेदेन स्वव्याघातकतायाः समानत्वा- दिति, तन्न; भेदखण्डनयुक्तीनां तत्वनो भेदनिवारकत्व्रेऽपि व्यावहारिकभेदस्यानिराकरणेन स्वाव्या-
गॉडब्रह्मानन्दी (लघुचन्द्रिका)। एप्रमात्रादिगोचराहमाकारवृत्तिः, अविद्यावृत्त्यन्तरं वेत्यन्यत्। सर्वथा शुद्धविशिष्टत्वेन पूर्वानुभृतप्रमात्रादिज्ञानस्य संबन्धिज्ञानविधया शुद्धम्मृतिहेतुत्वमुपपन्नमिति भावः। एवं शब्दादिप्रमाणं विनैव शुद्धधीसंभवे । विषये अवाच्यत्वस्य विपयीभूतनिर्विकल्पके शकिज्ञानाजन्यत्वस्य। तकरित्यादि-ब्रह्मणोऽशव्दवाच्यता ॥ इति लघुचन्द्रिकायां ब्रह्मणः शब्दावाच्यत्वोपपत्तिः।
भेदस्य घटादिनिष्ठभेदस्य। स्वरूपत्वे घटादिस्वरूपत्वे। अनपेक्षत्वापत्या प्रतीतो प्रतियोग्यनुयोगिज्ञानान- पेक्षत्वस्याश्रयविधया घटाद्यनपेक्षत्वस्य चापत्या। अनवस्था भेदस्य वटादिधर्मस्य भेदान्तरं धर्म इत्यनवस्था। सापेक्ष इति। घटपटयोरभेदग्रहे भेदं प्रति प्रतियोग्यनुयोगिभावाभ्रहात्। एकस्मिन्नपि दीर्घवंशादौ भेदभ्रमे तं प्रति तड्रहादन्वयव्यतिरेकाभ्यां भेदधीर्भेदग्रतियोग्यनुयोगिभावधीहेमुरिति भावः। तन्निरासकेति। तदुच्छेदकेत्यर्थः। शुष्कतर्कस्य श्रुत्याद्यनपेक्षतर्कस्य। व्याप्तिसध्रीचीनतया निर्दोपतया। इष्टपत्तिमूलशैथिल्यादिदोषशून्यत्वमेव तर्कस्याशुष्कत्वम्। तादृशोऽपि श्रुत्यादिविरद्ो हेयः । अतस्तद्विरोधमाह-अनन्येति । विषयभेदादिना प्रत्यक्षा- देर्व्यावहारिकभेदो विषयः 'नात्र काचन भिदे'त्यादिश्रुत्यादिकं तु ताश्विकत्वेन भेदं निपेधतीत्याढिना। युक्कीनामा- भाससेति योनना। स्वस्य युक्त्तः । स्वाभेदो युत्त्यभेदः । भूषणयुक्तीति। भेदसाधकयुक्तीत्यथः । तत्त्वतः सास्चिकत्वरूपेण। निवारकत्वे निषेधकत्वे। अथवा-तत्त्वतः पर्यवसानतः। भेदनिवारकत्वे स्वावतारद्वि- तीमादिक्षणेपु भेदोच्छेदकत्वे। व्यावहारिकमेदानिराकरणेन स्वावतारक्षणरूपव्यवहारकाले भेदानुच्छेदकत्वेन। घट इत्यादि। कल्पितं यत् घटान्तरं तस्य घटे भेदभ्रमस्थल इत्यर्थः। उक्तभेद्बाधेऽपीति शेपः। ननु घटादौ सदैक्यस्य तर्वतो निपेधेऽप्यधिष्ठानानिपेधात न शून्यवाद इत्याशङ्क ब्रह्मान्यस्यैक्यस्य निषेध इष्ट इत्याशयेनाह- किंचेति। तस्य ब्रह्मणः। तदन्य इत्यादि। अभेद इत्यत्र नजथों भेद्विरोधिभेदाभावव्याप्यादिरूपो वा, भेदान्य एव वाच्य इत्यर्थः । भेद इति। भेदृस्य विरोधिनि अत्यन्ताभावे वा तन्वेद इृत्यथः । तदनन्यत्व इत्यादि। तथा
Page 470
७८८ अद्वैतसिद्धिः । [परिच्छेद: २]
वातकतोपपत्तेः। नचैवं ब्रह्मण्यनृतभेदस्य तत्त्वतो निषेधे तत्र तत्तादात्म्यापत्ति, घटे कल्पितघटा- न्तरमेदभ्रमस्थले तत्तादात्म्यादर्शनात्।नचैवमभेदोऽपि तत्त्वतो निषेध्यः, तर्हि स्वरूपापर्यवसानेन शून्यवादापत्तेः। किंच ब्रह्मातिरिक्तमैक्यमस्माकं नास्त्येव। तस्य च तथा निषेधे श्रुतिविरोधः। नच-मम घटातिरिक्तो भेदो नास्ति तस्य निषेधे प्रत्यक्षविरोध इति-वाच्यम्; प्रत्यक्षस्य पारमा- र्थिकसत्त्वाविषयत्वेनाविरोधित्वस्य प्रागेवोक्तत्वात्। ननु-भेदबाधकं न भेदविषयमेव, तत्साध- कतापत्तेः, नाप्यभेदविषयम्, एवं हि तदन्यः तद्विरोधि तदभावो वा नञर्थो विषयो वाच्यः। सर्व- था च भेदो दुष्परिहरः, तदनन्यत्वे तद्विरोधतदभावत्वयोरयोगात्, भेदाभावप्राहिणापि प्रतियोगि- विलक्षणतयैवाभावस्य ग्रहणाञ्च, औदासीन्येन प्रवृत्तस्य इदमिति ज्ञानवदबाधकत्वाश्चेति-चेत्र; पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वात्। नच भेदे दुष्परिहरताः व्यावहारिकमेदेनैव व्यावहारिकतद्विरोधित्वतदभावत्वयोरुपपत्तिसंभवात्, 'यक्षानुरूपो बलि'रिति न्यायात्। भेदभ्रमा- धिष्ठानतत्वगोचरं ज्ञानं भ्रमबाधकमित्युपपन्नम्, उक्तरीत्या भेदवैलक्षण्येन तद्रहणोपपत्तेः। यनतु 'ना यं भेदो नास्त्यत्र भेदोऽन्यदेव भेदात्मना प्रत्यभा'दित्येवमाकारकं बाधकज्ञानं वाच्यम् 'नेदं रजत' मितिवत्, इदंच सर्वथा भेदावगाहीति कथं तत्र वाधकमिति, तन्न; प्रतियोगितया तङ्रहणस्य तद्वा- धकत्वाविरोधित्वात्। नच-अत्र भेदो नास्तीति धीः सर्वथा न भदाभावमवगाहत इति-वाच्य- म्ः अन्यत्र भेदसत्त्वे तन्जेदस्यात्रावश्यकत्वेनात्र भेदो नास्तीत्यस्यैव कुत्रापि नास्तीत्यत्र पर्यवसानात् एकमेव नानात्मना अभादित्यादि वाधकमनुसन्धेयम् । कोट्योर्व्यावहारिकभेदेन तद्वत्तया ग्रह-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। बाधकधीविषयतावच्छेदकस्य भेदात्यन्ताभावत्वादेभेदभेदं विनानुपपत्तेस्तत्सिद्धिरिति भावः। भेदाभावग्राहिणा प्रतियोगिविलक्षणतया भेदव्याप्येन भेदाभावत्वादिना। अभावस्य स्वविपयस्य। ओदासीन्येन भेदाभावत्वादि- कमविषयीकृत्य। तथाच भेदाभावत्वादर्बाधकधीविपयावच्छेदकत्वमावश्यकमिति भावः। यत्तु तदन्यस्तद्विरोधी तदभावो वा नजर्थः पक्षत्रथेऽपि दुप्परिहर इति व्यासनोक्तं, तद्सङ्गतम्; भेदाभावादिमत्ताज्ञानस्येव भेदान्य- वत्ताज्ञानस्याबाधकत्वात्। 'भेदः सन्नि'नि ज्ञाने सद्ूप न भेद इति धीबाधकत्वेन वा तदपि सङ्गतं बोध्यम्। 'नान्र काचन भिदे'त्यादिश्चुतौ भेदाभावस्यंव प्रमितेर्भेदाभावव्याप्यवत्ताज्ञानेऽपि भेदाभावज्ञानस्यापेक्षणात्तस्यैव बाधकत्व- माह-पारमार्थिकेति। व्यावहारिकेत्यादि। भेदाभावादिज्ञानस्य यथा भेदबाधकता, तथा भेदभावत्वादिरूपं व्याप्यं प्रत्यपि बाधकत्वम्; व्यापकाभावे व्याप्याभावस्यावश्यकत्वेन परम्परया बाधकत्वसंभवात। तथाच भेदोच्छेद- पूर्व भेदाभावत्वं तदुपपादकं भेदाभावादभदभिन्वत्वं चासत्येव, तदुत्तरकालं तु उपपाधस्य भेदाभावत्वादेरेवानपेक्षित- त्वात् न तदुपपादकापेक्षत्यपि बोध्यम्। ननु-भेदाभावादिज्ञानमधिष्टानीभूतशुद्धब्रह्ममान्नाविषयकत्वात् कथमुच्छे- दकमिति-चेन्नन; भेदमिथ्यात्वनिश्चायकत्वनोच्छेदकत्वस्योक्तत्वात्। नन्वधिष्टानीभूतशुद्धब्रह्मघीः त्वन्मते बाधिका, तथाचाघिष्टानस्य स्वसमसत्ताको बाध्यभेदात् भेदो वाच्यः, तव्राह-भेदभ्रमेति। उक्तरीत्या व्यावहारिकेण वलक्ष- ण्येन भेदन शुक्तिरूप्यादिभ्रमेऽपि चित एवाधिष्टानत्वेनाधिष्ठानसमसत्ताको भेद: कापि न दृष्ट इति व्यावहारिक एव स वाच्य इति भावः। नायं भद इत्यादि। अयं सद्रपः आत्मा न भेद इति घीः 'भेद: सन्नि'ति ज्ञाने बाधिका, 'नात्र भेद' इति घी: 'अत्र भेद' इत्यत्न बाधिका। 'नायं भेद' इति ज्ञानमेव भेदभ्रमानुवादेनाप्याह-अन्यदेवे- त्यादि। अन्यत् भेदान्यत् भेदात्मना यत् प्रत्यभात्, तत् ब्रह्म भेदभिन्नमेवेत्यर्थः। इतिवत् इत्यादिवत्। आदिना नात्र रजतमित्यस्य ग्रहणम्। प्रतियोगितयेति। नेदं रजतमित्यत्र भेदस्याधिष्ठानतावच्छेदकत्वेन तद्धीर्बाधिका, नायं भेद इति धीस्तु न तथा; शुद्धस्यंवाधिष्ठानत्वात, भेदस्य तदनवच्छेदकतवात्। अतस्तस्याः भेदबुद्धौ मिथ्यातवनिश्राय- करवं-वाच्यम्; तच्च नानुपपत्नम्; भेदभेदत्वन केवलभेदत्वेन च बाधकबाध्यधीविषयत्वसंभवात्। अतएव द्वितीया- भावत्वद्वितीयत्वाभ्यामेकस्यापि तत् स्वीक्रियते, घटो न तन्जेद इत्यस्य तज्जेदतादात्म्यभ्रमे बाधकरवं त्वयाप्युच्यते; नात्र भेद इत्यस्य सु नात्र रजनमित्यस्येव मिथ्यात्वनिश्चायकत्वं निःशङ्कमेवेति भावः। न चात्रेत्यादि। भत्र घटे पटमेदो नेनि धी: घंट पटभेदत्वेनाभावं गाहमानापि घटभेदत्वेनाभावं पटे नावगाहते। तथाच पटे घढान्ेदभ्रमं न निवतयेदिति भावः। कुत्रापीति। घटे भेदसामान्याभावधीर्घटे भेदभ्रमं साक्षान्निवर्तयन्ती अर्थादन्यत्र भेदभ्रमं निवर्त- यति। अन्यत्र विद्यमानस्य भेदस्य घटनिष्टभेदप्रनियोगिताव्याप्यतया व्यापकाभावेन व्याप्याभावभानस्यावश्यकरवादिति भावः। एकं ब्रह्म अनेकात्मना मिथो भिन्नात्मना । एकस्वरूपकोटेर्मिथो भिन्नप्रपञ्जरूपाया भ्रमभासमान- कोटेर्भिन्नत्वेन ज्ञानमावझ्यकम्। भ्रमविषयव्यावृत्तत्वेनाज्ञातस्याधिष्टानस्य ज्ञानाद्जमानिवृत्तेः, तत्राह-कोट्योरि-
Page 471
७९२ अद्वैतसिद्धिः । [परिच्छेद: २]
पत्ति :; काल्पनिकस्येष्टत्वात्। अतएव-अज्ञानहानिवद्गह्मरूपघीवद मेदवत्स्वरूपत्वेऽपि मेदस्य सा- पेक्षत्वं हि युज्यत इति-निरस्तम; तव सापेक्षत्वनिरपेक्षत्वयोस्तात्विकतया दष्टान्तवैषम्यात्। नच मेदेऽप्येवमेवास्तु; मेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वाभावात्।नच तत्राभेदश्रुतिरस्ति। एतेन-स्वरूपेण निरपेक्षस्याप्यमेदस्याभेदत्वेन सापेक्षत्ववत् स्वरूपेण निरपेक्षस्यापि घटस्य भेदत्वेन सापेक्षत्वमस्तु, अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि यथा तद्वदिति-निरस्तम्; भेद- स्य स्वरूपतो निरपेक्षत्वे निप्प्रतियोगिकत्वे च परान् प्रतीव स्वमपि प्रति अविशिष्टतया स्वव्याघातः। नचैवमभेदस्यापि स्वान् प्रतीव परान् प्रति तथासति तथात्वापत्ति :; इष्टापत्तेः।घटत्वादिना भेद:परं कल्पितः, स्वरूपतस्त्वभेद एव। तथासति परंत्वं परं व्याहतम्, न स्वरूंपत्वमपि। यत्तु सप्रतियोगिक- त्वनिष्प्रतियोगिकत्वव्यवस्था तु यदसाधारण्येन स्ववाचकप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगि प्रतीतिसापेक्षं, तत्सप्रतियोगिकम्, अन्यत्तु निष्प्रतियोगिकमिति, तन्न; भेदस्य स्वरूपत्वे तदन्यत्वा- सिद्धेः। पतेन-एकस्यार्थस्य लघुत्वकठिनत्वादिना उल्लेखेन निरपेक्षत्वेऽपि अगुरुत्वाव्रवत्वादिना उल्लेखेन सापेक्षत्वमपि यथा, तथा घट इत्युल्लेखेन निरपेक्षस्यापि भेद इत्युल्लेखे सापेक्षत्वोपपत्ति-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। न चेति। एतावता सापेक्षभेदप्रतियोगिकत्वेन। इष्टत्वादिति। उत्तप्रतियोगिकत्वोपहितं रूपं सापेक्षम्; तस्य काल्पनिकतवेन निरपेक्षैक्यस्वरूपान्यत्वात् न दोष इति भावः। ब्रह्मरूपधीवत् ब्रह्मस्वरूपज्ञानवत्। तवेत्यादि। मन्मते अज्ञाननिवृत्तिस्वरूपस्य निरपेक्षत्वेऽपि तदन्यत् कल्पितमज्ञाननिवृत्तित्वविशिष्टं रूपं सापेक्षमिति युक्त्तम्, तव तु घटप्रतियोगिकभेदस्वरूपं सापेक्षमकल्पितरूपं निरपेक्षघटाढिस्व रूपमित्ययुक्तकमिति भावः। एवमेवेति। ऐक्यस्वरूप ब्रह्मंणो भेदाभावत्वोपहितं सापेक्षरूपं यथा कल्पितं, तथा भेदस्वरूपब्रह्मणः सापेक्ष सप्रतियोगिकतवोपहितं रूपं कल्पितमेवेत्यर्थः। श्रुतत्वेन 'नात्र काचन भिदास्ति नेह नानास्ति किञ्वनेत्या'दिश्रुत्या बोधितत्वेन। ननु-भेदत्वा- दिकल्पितरूपेण निषेध्यत्वेऽपि भेदस्वरूपस्य तदभाव इति-चेन्न; काचन भिदा किज्वनेत्याढिना केनापि रूपेण भेदस्वरूपं नास्तीत्यर्थलाभेन भेदस्वरूपविपयकतत्तद्विपयत्वादिनापि निषेधलाभात भेदस्य ब्रह्मस्वरूपत्वासंभवात्। नहि ब्रह्मणम्तत्तद्धीविषयत्वेन निषेध्यत्वम्; भिदागततत्तद्वर्मोपलक्षितस्याप्युक्तवाक्येन निषेधाच्च। वस्तुतःसापेक्षता- वच्छेदकसप्रतियोगिकत्वभेदत्वादिरूपेण मिथ्यात्वस्वीकारे सिद्ध नः समीहितम्। अतएव प्रपञ्चभेदस्यात्यन्ताभावत्वा- ढिकं ब्रह्मणणि मन्मते स्वीक्रियत एव। सप्रतियोगिकत्वाद्युपहितरूपस्यैव हि मिथ्यात्वसिद्धर्थमस्माकं प्रयासः। अतएव घटादिरूपे सप्रतियोगिकं भेदत्वं कल्पितमित्यादि प्रलापोऽस्मदिष्ट एव। तथापि घटादिस्वरूपादकल्पिसतयेन स्वद्भिमतादतिरिकं सम्रतियोगिकं घटादिभेदस्वरूपं त्वया स्वीकृतमेव। तथाच तत्रापि तनोऽतिरिक्ततं सप्रतियोगिकभेदत्वान्तरोपहितं रूपं कल्पितं त्वया वाच्यमिति कथमनवस्थादिपरिहारः ? तत्र भेदे। अभेदश्रुतिः व्रह्मैक्यबोधकश्रुतिः । ऐक्ये तु ब्रह्माभेदबोधिका 'सर्व खल्विदं व्रह्मे' त्यादिश्रुतिः । तया ब्रह्मस्वरूपस्य सर्वाभेदस्य बोधनादिति भावः। भेदत्वं घटादिस्वरूपं तदन्यद्वा, अन्त्ये भेदस्यैवातिरिक्तत्वीचित्यात्, भेदत्वस्य तत्स्वरूपत्व- संभवादतिरिक्त्तभेदत्वविशिष्टरूपेण घटादे: स्वातिरिक्तत्वेन स्वधर्मत्वात्, तादृशरूपनिष्ठभेदत्वान्तरविशिष्टस्यापि ततो- न्यत्वात्, अनवस्थातादवस्थ्याच्च, आद्ये त्वाह-मेदस्येति । घटादिभेदस्वरूपभेदस्येत्यर्थः । स्वरूपतः थेन भेदत्वेन रूपेण सापेक्षत्वादिकं घटादिस्वरूपानतिरिक्त्ेन तेन रूपेण। परान् प्रतीत्यादि। घटादिविशेषि- तेनेव स्वविशेषितेनापि भेदत्वेन व्यवहारविषयतासंभवेन भेदस्वरूपताव्याघात इत्यर्थः। घटादिस्वरूपेण भेदत्वेन निरपेक्षत्वादेरावश्यकत्वेन तेन रूपेण सापेक्षत्वसप्रतियोगिकत्वाद्यसंभवात् घटो न पट इत्यादी घटादे: प्रतियो- गित्वादिभानासंभवात् संबन्धान्तरस्यैव भानम्। तथाच वटस्यापि तादृशसंबन्धभानसंभवात् घटो न घट इत्यपि स्यात्। अतो घटादेर्भेदस्वरूपताव्याघात इति भावः । अमेदस्य ब्रह्मस्वरूपैक्यस्य। स्वान् प्रति जीवा- नीश्वरंच प्रति । परान् प्रति अविद्यादीन् प्रति। तथात्वापत्तिः एकत्वापत्तिः। ब्रह्मण एकस्य घटत्वपटत्वादिना मेदस्य कल्पिततवात् घटादे: स्वरूपं अह्षैवेति ब्रह्मणो घटादैक्यरूपत्वमव्याहतम्, घटादिभिन्नत्वं तु ब्रह्मणो व्याहतम्, कल्पितत्वादित्याह-घटत्वादिनेत्यादि। यदित्यादि। यत् स्ववाचकशब्दवाच्यतावच्छेदकरूपेण प्रतीतौ प्रतियोगिधीसापेक्षं तत् सप्रतियोगिकम्; स्ववाचकविषयादिपद्वाच्यतावच्छेदकविषयत्वादिरूपेण प्रतीतौ निरपेक्षत्वस्य घटादौ भेदादौ चाविशिष्टत्वात्। असाधारण्येनेति। वाचकविशेषणम्। खवघटकरूपावच्छिसं प्रतीत्यर्थः । तथाच भेदत्वादिविशिष्टघटकरूपावच्छन्नवाच्यतावच्छेदकभेदत्वरूपेण धी: प्रतियोगिज्ञानसापेक्षैवेति भेदसवरूपेण सप्रतियोगिकत्वमेवेति भावः। भेदस्य स्वरूपत्वे घटादिस्वरूपतवे। तदन्यत्वासिद्धेः घटादि-
Page 472
[विशेषतो भेदखण्डनम] ७९३
रिति-निरस्तम्; शब्दानुलेखेSपि सापेक्षनिरपेक्षयोरनुभवाञ्च, लयादिवत् नञनुल्लेखमात्रेण दष्टान्ता- संप्रतिपत्तेश्च। नच-एकस्यैव गमनस्य गच्छतिचलतिशब्दोलेखाभ्यामेकस्यैव च प्रयतनस्य करोति प्रवर्तत इति शब्दोलेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्तिदर्शनादन्रापि घटभेदश- ब्दोलेखेन सापेक्षत्वनिरपेक्षत्वे स्यातामिति-वाच्यम; अर्थगतसकर्मकत्वादीनां शब्दस्वभावान- धीनत्वात्। प्रत्युत एकस्मिन्नेव तपधातावर्थभेदेन तयोर्दर्शनात् तपति ऋषिस्तपति पृथिवीं सवि- ते' त्यादा। एवंच दष्टान्तेप्वर्थभेद एव; फलं धात्वर्थ इति मते संयोगरूपार्थभेदात्। मतान्तरे तूत्तर- संयोगावच्छिन्नस्पन्दस्य गम्यर्थत्वं, पूर्वविभागाफलकस्पन्दस्य चलत्यर्थत्वं, अनुकृलयल्स्य करोत्य- र्थत्वं, यत्नमात्रस्य यत्यर्थत्वमिति। नच-भेदत्वमेव सापेक्षम्, नतु भेद इति-वाच्यम्; सापेक्षत- या विशेष्यस्यँवानुभवात्, अन्यथा घटप्रतियोगिकं भेदत्वमित्युल्लेखः स्यात्। एतेन-'भावाभावस्वरू पत्वान्नान्योन्याभावता पृथक॥' इत्युक्त: न स्वरूपमात्रं भेदः, किंत्वन्योन्याभावः सच वस्तुनः सवि- शेषाभिन्न इत्युक्तेश्र घटादिरेव भावाभावरूपतया भेद इति-निरस्तम्; घटतदभावस्थले भाव-
गांडव्रह्मानन्दी (लघुचन्द्रिका)। स्वरूपस्य सप्रतियोगिकत्वान्यत्वासिद्धिप्रसङ्गात्। अत्र भेदत्वाढिना धीसामान्यस्य प्रतियोगिज्ञानजन्यत्वात् प्रत्यक्ष- प्रतीतौ तत्सापेक्षत्वं लक्षण निवेश्यम्, तथाचाणुत्वादिरूपेण सम्रनियोगिकत्वनिरुक्त्यमंभवः । तेन रूपेण प्रत्यक्षा- संभवादित्याद्यपि बोध्यम्। घटभेदरूपार्थीभेदे शव्दभेदमात्रेण सापेक्षत्वासंभवः, अर्थभेदसत्वे तु शब्दोल्लेखः प्रयोजकः तं विनापि तदुभयप्रनीतेरित्याशयेनाह-शब्दानुल्लेख इति। लयेत्यादि। लयादिपदेन नजोऽ- भावेऽपि कारणगतकार्यध्वंसत्वरूपस्येव लघुक ठिनादिपदेडपि गुरुत्वद्रवत्वादिशुन्यत्वरूपस्य सप्रतियोगिकस्य प्रतीत्या सापेक्षत्वं तन्राप्यम्तीनि दृष्टान्तासिद्धिरित्यर्थः । नचकस्येत्यादि । यथा गमिचल्यादीनामर्थाभेदेपि गम्यादे: कर्मवाचकपदयोगरूपाकाडगा सकर्मकत्वरूपा तदर्यबोधकत्वोपयुक्ता, ननु चल्यांद:, तथा घटभेदादिपदानामर्थाभे- दऽपि भेदादिपदस्यार्थबोधकत्वोपयुक्ता घटादित्यादिपदयोगरूपाकाड्का, ननु घटादिपदस्येत्यर्थः । सकर्मकत्वादि- रूपं कर्मसापेक्षत्वादिकम्, न कर्मवाचकपद्युक्तत्वादिरूपं शव्दनिष्टम्; तथा सति ग्रमं चलतीत्यादिपद- स्यापि प्रयोगमंभवेन चल्यादेरपि सकर्मकतापत्तः, किंतु तार्किकादिमते स्वविशेषणत्वेन धातुवाच्यं यस्य फलं ताटशव्यापारन्वम्, वयाकरणादिमने तु स्वानाश्रयवृत्ति सत स्ववाचकधातुवाच्यं फलं यस्य व्यापारस्य तत्वम्। एवं सप्रनियोगिकत्वािकमपि प्रतियोगिताविशेयनिरूपितानुयोगिताविशेषवत्त्वम्। तथाच वक्ष्यमाणरी- त्यार्थभेदादेव सकर्मकत्वादिव्यवस्थेत्याशयेनाह-अर्थगतेति । स्वभावेति । स्वभावमात्रेत्यर्थः । एकशब्दप्रति- पाद्यत्वेऽपि सकर्मकत्वाकर्मकत्वदर्शनादृपि न तेपां शब्दस्वभावाधीनत्वमित्याशयेनाह-प्रत्युतेति। फलं धात्वर्थ इति मत इति। फलमेव धातुवाच्यम्, व्यापारस्वाख्यातार्थ इति मण्डनादिमते फलं व्यापारश्र धातु- वाच्याविनि वैयाकरणादिमने च। संयोगरूपार्थभेदात् संयोगस्य गम्यर्थस्य चल्याद्यर्थात् भेदात्। मतान्तरे तार्किकादिमते। उत्तरेत्यादि । संयोगानुकूलक्रियात्वेन गमिवाच्यतेत्यर्थः । पूर्वति। पूर्वदेशविभाग/फलकक्रि- यात्वेन चलिवाच्यता; चलः सन्दिसमानार्थकत्वान्, स्वन्देरीपच्चलनार्थकत्वात्, विभागाफलकक्रियात्वस्यैवेपच्- लनत्वरूपत्वात । पूर्वदेशविभागश्च पूर्वदेशीयात्यन्तिकविभागः। तेन क्रियामात्रस्य पूर्वदेशविभागजनकत्वेऽपि न दोपः । अतण्व वैयाकरणर्दधि स्पन्दत इत्युदाहृतम् । पूर्वदेशाद्विभक्तमपि पुनस्तत्रव संयुक्तं दधि तथोच्यते । पूर्वविभागफलकेति पाठे तु क्रियात्वेनैव चलिवाच्यतेत्यथः। संयोगस्य वाच्यतानवच्छेदकत्वेऽपि वस्तुगत्या क्रिया- फलसंयोगमादाय यदि सकर्मकत्वं, तदा विभागमादायापि तत् स्यादिति ज्ञापनाय फलकान्तमुक्तम्। यथाश्रुते विभागस्य चलिवाच्यतानवच्छेदकत्वेन तदाश्रयस्य चलिकर्मतापत्तेरसङ्गनिः। अनुकूलयत्स्येति। कालसंब- न्धप्रयोजकयत्नस्येत्यर्थः । उक्त्तसंबन्धरूपफलवत्वान् घटादेः करोतिकर्मता। आख्यातस्यापि करोतिना विवरणात्तद- थंकत्वम्। व्यक्तं चेदं न्यायकुसुमाअ्जल्यादी। विेचितं च प्रतिकर्मव्यवस्थायाम्। विशेष्यस्य भेदस्वरू- पस्य। भेदस्यानिरिक्तत्वानतिरिक्तत्वविकल्पाढिकमपि पूर्वोक्तं बोध्यम्। पृथगिति सप्तम्यन्तम्। घटान्योन्याभा वत्वं घटादिभ्यः पृथग्भूते वस्तुनि नेत्यर्थः । यत्तु 'ज्वलितिकसन्तेभ्यो ण' इति णप्रत्ययप्रकरणे 'भवतश्चे'ति सूत्रस्य काशिकायामुक्तत्वात् क्तरि विहितणप्रत्ययान्तो भावशब्दः । तथाचान्योन्यं न भवतीत्यन्योन्याभावः तस्य भावः अन्योन्याभावता अन्योन्याभवनमिति यावत्। तथाचान्योन्याभावस्तलन्तार्थ इति, तन्न; अष्टा- ध्याय्यां भवतेश्चेत्युक्तसूत्राभावात। अतएव भवतेर्णिजन्तात् पचादयचि सिद्धं भावपदं भावयतीति भाव- इति महाभाव्यम्। तथाच भूप्राप्तावित्यस्य चुरादेस्तत्पदं वस्तुमान्नाथकम्। सविशेषाभिन्न इति । घटाद्य- अ. सि. १००
Page 473
७९४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
त्वाभावत्वयोर्विरुद्धत्वेन कल्पनात् कथं तदाश्रयैक्यम् ! नच-अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मक्यमिति-वाच्यम्: अस्मन्मते तत्राभावत्वस्य कल्पितत्वेन मायिकतया विरोधाभावात्, तध तु द्वयोरपि ताश्विकत्वेन विरोधस्य दुष्परिहरत्वात्। अतएव-तत्तादात्म्यायोग्यत्वं वा, तदैक्यप्रमित्यविषयत्वं वा, यत्र यद्दर्शनं तत्र तत्तादात्म्याध्यासविरोधितत्वं वा, स्वावृत्ति- यत्किचिद्धर्मानाधार निष्ठयत्किंचिद्धर्मानाधारत्वस्वरूपं वा स्वावृत्तियत्किंचिद्धर्माधारानिष्ठ धर्माधा रत्वरूपं वा स्वरूपत्वं तदभेदत्वम्; अनाधारत्वं चाधारराहित्यम्, नत्वाधारादन्यत्वमिति नान्योन्याथ्रय इति-निरस्तम्; स्वरूपत्वे सापेक्षत्वानुपपत्तेः, अतिरेके अनवस्थानात्, अत्यन्ताभा- वान्योन्याभावयोरैक्यापसेः प्रमितिदर्शनादिघटितत्वेन चक्षुराद्यगम्यतापत्तेश्च। किंच भेदस्य घटस्व- रूपत्वे तन्निरूपकप्रतियोगिनोऽपि तत्स्वरूपतापत्तिः, नहि भेदरूपमात्रं घटः, किंतु पटप्रतियोगिकभेद- रूप इति। ननु-नायं दोष :; भेदप्रतियोगिन उपलक्षणत्वेत स्वरूपतायामनन्वयात्, अन्यथा दुःख- निवृत्तेः पुमर्थतया दुःखस्यापि पुमर्थत्वं, दोषाभावस्य साधकताप्रयोजकत्वे दोषस्यापि साधकताप्र- योजकत्वं, अनृतव्यावृत्त्यज्ञाननिवृत्त्योरज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्मरूपत्वे अनृतादीनामपि तद्रू- पत्वं, अज्ञाननिवृत्तेमोक्षत्वे अज्ञानस्य च मोक्षत्वं च स्यात्। नच लम्बकर्णादी कर्णादेर्विशेषणतया- न्वयदर्शनादत्रापि तथाः चित्रग्वादिषु अनन्वयात्तथव किं न स्यात्? अन्यथोदाहृतस्थले अगतेः। नच प्रतियोगिन उपलक्षणत्वे तदज्ञानेऽपि काकाज्ञाने गृहज्ञानवत्तज्ज्ञानापत्ति :; इष्टापत्तेः, अन्यथोदाह- तागतेश्च। केचित्तु प्रतियोगिनोऽनन्वयेऽपि 'शब्दः अनित्य' इत्यादो शब्दत्वादेर्विशेषणत्वमिवात्रापि विशेषणत्वमित्याहुरिति-चेन्न नहि वयं पटभेदो घटस्वरूपमित्यन्वयप्रविप्टत्वेन प्रतियोगितया
गौडव्रह्मानन्दी (लघुचन्द्रिका)। भिन्नेऽपि तत्र घटादिभेदकार्यकारिणो घटादेर्विशेपाख्यस्यातिरिक्तपदार्थस्य स्वीकारात् तस्य सप्रतियोगिकत्वादिति भावः। विरोधस्येति। अतिरिक्तस्याखण्डोपाधिरूपाभावत्वस्य स्वीकारे अभावस्यैवानिरिक्तत्वमुचितम् । नच- अभावत्वमेवैकमतिरिक्तं युक्तम्, अभावानामतिरिक्तानामपि नानात्वस्य वाच्यत्वादिति-वाच्यम्; एकस्येवाभावस्य घटादिप्रतियोगिकत्वादिविशिष्टरूपेण तत्तद्धिकरणसंबन्धनियमसंभवात्। अथ-एवं तत्ततप्रतियोगिकत्वविशिष्टा- भावस्वरूपाणं नानात्वमागतमेवेति-चेत्, त्हिं तत्ताप्रतियोगिकत्वविशिष्टाभावत्वस्वरूपाणामपि नानात्वमाया- स्यति। नह्यभावत्वमेकं वद्तोऽपि तत्प्रतियोगिकत्वविशिष्टाभावानमक्यम्। अभावत्वस्य भावभिन्नत्वरूपत्वे सु भावेषु घटादिषु तद्विरोध इति भावः । एतेन-घटाभावाभावादर्घटाद्यन्यस्य कल्पने गौरवात् घटादेरेव तश्वाद- भावत्वं भावेषु कथं विरुद्धम्!किंच 'घटो न पट' इत्यादौ भेदत्वमेवानुभूयते, नाभावत्वम्। तथाच भेदत्वस्य घटादौ स्वीकारात् न दोप इति-परास्तम्; भेदत्वस्यापि संसर्गाभावान्यभावभिन्नत्वरूपत्वे विरोधात्। अतिरिक्त्ता- खण्डरूपत्वे च भेदस्यवोक्तरीत्या तदोचित्यात्। अन्यथा घटादिरूपभेदस्य घटादावाधारत्वबुद्धसंभवात्। तदैक्य- प्रमितीति। तन्विन्नेऽपि तदेक्यभ्रमविषयत्वसत्वात् प्रमितीत्युक्तम्। यत्रेत्यादि। यत्र घटादी यस्य घटादेस्तादात्म्या- ध्यासविरोधि यत् ज्ञानं तत् तस्य तत्र घटादेभेद इत्य्थः। स्वावृत्तीत्यादि। स्वं भेदप्रतियोगि यन्निष्ठस्य यत्किञ्चि- द्धर्मस्य आधारत्वाभावो यत्र तस्य तत्र स एव भेद इत्यर्थः। स्वावृत्तीत्यादि। यन्निष्टत्वशून्यस्य धर्मः स्वाधारे वतते, यदाधारत्वं, तत् तन्निष्टो भेद इत्यर्थः । स्वरूपत्वे उक्तयोग्यत्वादेर्घटादिस्वरूपत्वे। अत्यन्तेत्यादि। उक्त- योग्यत्वाद्यत्यन्ताभावस्य भेदत्वे अत्यन्ताभावभेद्योरैक्यापत्तिः, उक्तात्यन्ताभावविलक्षणरूपेण प्रत्ययानुपपत्तिरिति यावत्। विलक्षणरूपाभ्यां हि अत्यन्ताभावभेदयोर्बुद्धिः; अन्यथा तादृशयोग्यादिभेदस्येव तादृशयोग्यत्वात्यन्ताभाव- स्वापच्या अत्यन्ताभावस्यव विलोपापत्तेः । नच-अत्यन्ताभावस्य सुनिरूपत्वेन तस्यैव भेदत्वमिति-वाच्यम्; अत्यन्ताभावस्याप्यधिकरणरूपत्ववर्मरूपत्वाभ्यामुक्तदोषसा्यात्, पिशाचत्वात्यन्ताभावस्य पिशाचमेदरूपत्ये प्रत्यक्षा- संभवादिति भावः। चक्षुरादीति। प्रमित्याद्यनुपस्थितिकालीनचक्षुरादीत्यर्थः । नचेष्टापत्तिः; प्रतियोग्यनुयोगिताव- च्छेदकज्ञानादिसर्वे प्रमित्याद्यनुपस्थितावपि भेदप्रत्ययस्य सर्वसंमतत्वात्। स्वरूपतायामिति। पटभेदो घटस्वरूप इत्यादिस्थल इत्यादिः। प्रतियोगिनोऽनन्वयेऽपीत्यादि। यथा शब्दत्वस्यानित्यतवे अनन्वयेऽपि विशेषणतवं, तथा प्रतियोगिनो घटस्वरूपेऽनन्व्रयेऽपीत्यर्थः । अत्र विशेषणत्वमनुपलक्षणत्वमात्रेण; उपाधित्वे पर्यवसानात्। न- हीत्यादि। पटस्य भेदान्वितघटस्वरूपे अन्वयात् घटस्वरूपान्वितभेदे प्रतियोगित्वरूपनिरूपकत्वाद्वा घटस्वरूपता ना- पाद्ते, किंतु घटस्वरूपाभेदेन प्रतीयमानो यो भेदः, तननिरूपकतवादित्यर्थः । प्रतियोगिवदिति। घटो द्रव्यमित्यादौ विशेषण विभक्तयर्थाभेदस्य घटस्वरूपस्याभेदेन घटान्वयात् घटेऽभेदेनामेदस्य धीरिव घटो न पट इत्यादावपि ताइशा-
Page 474
[विशेषतो भेदखण्डनम् ] गौडब्रह्मानन्दीयुता। ७९५
निरूपकत्वमात्रेण वा पटस्य घटरूपतामापादयामः, किंतु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन, अभेदनिरूपकप्रतियोगिवत्। नचाज्ञाननिवृत्त्यादयः समानाधिकरणप्र- तीतिविषयाः, भेदस्तु घटः पटो नेति समानाधिकरणप्रतीतिविषयः, अन्यथा समानाधिकरणनिषेध- बुद्धिविषयत्वं मेदलक्षणं न स्यात्। एतेन-'पुरुषार्थ दुःखमिव ब्रह्मण्यज्ञानवत्तथा। मोक्षे च मोहव- न्रान्तर्गतं कुम्भादिकं पटे॥ तटस्थत्वेऽपि कुम्भादेरप्रतीती न भेदधीः। अज्ञानादेरप्रतीतौ तच्न्या- दयप्रतीतिवत् ॥' इति-निरस्तम्। किंच विदारणात्मनो मेदस्य घटस्वरूपत्वे घटस्यापि विदारणं स्यात् एवं तदवयवानामपीति परमाणुरपि नैक इति शून्यतापत्तेः; एकाभावे तत्समाहाररूपानेक- स्याप्यभावात्। ननु-अविदारणात्मकस्याभेदस्य ब्रह्मरूपत्वे पारमार्थिकव्रह्मणो व्यावहारिकप्राति- भासिकशून्यैरपि अविदारणे तदैक्यमपि स्यात्। नच जीवाभेद एव स्वरूपम्, नतु घटाद्यभेद, तर्ह्यत्रापि घटादिभ्यो भेद एव पटस्वरूपम्, नतु स्वस्मादिति सममिति-चेन्न; स्वरूपत्वे भेदस्य स्वज्ञानाप्रतिबध्यज्ञानप्रतियोगिकत्वे स्वस्वरूपत्वेनाभेदवत्स्वप्रतियोगित्वनियमेन स्वविदारकत्वस्या-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। न्वथात् भेदस्यापि घटेऽभेदेन धीः। तथाच यो यदभेदेन प्रनीयमाननिरूपकः, स तदभिन्न इति सामान्यतो व्याप्िः। नचानुकूलतर्काभावः; 'घटः पटो ने'त्यादी विभक्तीनामभेदार्थकत्वात्, 'नीलो घट' इत्यादौ तस्य कुप्तत्वात, प्रति- योगित्वानुयोगित्वयोः प्रथमार्थकल्पनायां गौरवादभेदस्य संबन्धत्वेन कृप्तस्य प्रनियोग्यनुयोगिभ्यामभाचे संबन्धत्व- संभवे प्रतियोगित्वानुयोगित्वयोरनिरिक्तयोः संबन्धत्वे गौरवात्। अतएव भट्टमते तादात्म्यमभावस्य संबन्ध इत्युक्ततं कुसुमाजलौ। भूतलादरेव घटाद्यभावत्वस्य भट्टमते स्वीकारात् तस्य घटाद्यभावाभेदो निर्विवादः। घटाद्यभावे घटाद्यभेदोऽपि वार्तिकादो तर्कपादे स्पष्टमुक्तः । 'र््विविधं वस्तु नित्यं सदसदात्मक'मित्यादिग्रन्थे तर्कचरणे शास्त्रदीपिकायामप्युक्तं-'सर्व हि वस्तु सदसदात्मना द्विविधं तद्यथा यत्र सद्रूपेण वर्नते घटादि, तत् तदा तत्र प्रत्यक्षादिभिरम्तीति प्रनीयते। यत्र त्वसदरपेण वर्नते सद्रूवेण बोधकानां प्रत्यक्षादीनामभावेन तत् प्रमीयते 'भूतले घटो नास्ती'ति। शारीरकवाचस्पत्ये प्रथमसूत्रेऽप्ययमर्थः स्ष्टः-'भावान्तरमभावो हि कयाचित्तु व्यपेक्षये'ति। तथाच घटाभिन्नभेदाभिन्नत्वेन घटस्य घटाभेदवत् पटाभिन्नभदाभिन्नत्वात् घटस्य पटाभेदो युज्यतेतमाम्। एवंच घटो न पट इत्याद्यनुभवे घटादी पटाद्यभेदभानकाल एव पटादिभेदो भासमान: सुतरां मिथ्या, अभेदस्तु श्रुत्यादि- सिद्धत्वात् तात्विक एवेति भावः । नचेत्यादि। 'अज्ञाननिवृत्ति : ब्रह्म कपालं घटनाश' इत्यादिसमानाधिकरण- प्रतीत्यभावात् प्रत्युत 'कपाले घटो नष्टः, ब्ल्मण्यज्ञानं नष्ट'मित्यादिव्यधिकरणवुद्धेरेव सत्वात् नाज्ञानादेः ब्रह्माभिन्न- स्वापत्तिरिति भावः । यत्तु 'ब्रह्म नानृत मिनि प्रतीतेरनृतस्वरूपता ब्रह्मणः स्यादित्यापादनं, तदिष्टम्; मन्मते ब्रह्मणो जगदभेदस्वरपत्वस्येष्टत्वान्। भेदस्त्वित्यादि। नामार्थयोरभेदान्वयस्यौत्सर्गिकत्वात् अभिलापाभिलप्यप्रतीत्योरे- कार्थकत्वादुक्तयुक्तेश्राभेद एव विभक्तवर्थः, नानुयोगित्वादिरिति भावः। लक्षणमिति। भट्टमते त्वभावमात्रस्यैवा- धिकरणेनाभेदात् नेदं भेदलक्षणम्। परं त्वभेदएवाभावस्य संबन्धः; कृप्तत्वात्, न विशेषणता। एवंच अत्यन्ताभावप्र- तियोग्यनुयोगिनोरभेदापादनमस्मदिष्टमेव। अत एवाभावमात्रमधिकरणस्वरूपं प्राभाकराणामिति ध्येयम्। भेदस्य घटान्यस्मात् भेदस्य। विदारणं स्वस्मात् भेदः। ननु सर्वस्तूनां स्वभिन्नत्वेऽपि न तच्छून्यत्वापत्तिः, अनेकवस्तूना- मेव संभवात्, तग्राह-एकाभाव इति। एर्कवस्तु किंचिद्रूपेण स्थिरीकृत्य तद्दटितमनेकं वाच्यम्। सवैं रूपैः सर्वत्र भेदसत्वे तु इदमेवेति निश्चेतुमशक्यत्वान्नानावस्तुनिरवत्यसंभव इति भावः । तदक्यमपीति। शून्यातिरिक्त- कत्वं ब्रह्मण इष्टम्। शून्यं तु मां प्रत्यसिद्धमिति न तदैक्यापादनं युक्तमिति तु ध्येयम्। स्वरूपत्वे घटादिस्वरूपत्वे। भेदस्य घटादिभेदस्य। स्वज्ञानेत्यादि। सवं भेदस्तज्ज्ञानाप्रतिबध्यं ज्ञानं यस्य तादृशस्वप्रतियोगिकत्वे इत्यर्थः । स्वस्वरूपत्वेनेति। स्वप्रतियोगिन इत्यादिः । भेदप्रतियोगिन: पटादे: पूर्वोक्तयुक्तिभिर्घटादिस्वरूपभेदस्वरूपत्वे बाधका- भाव इत्यर्थः । पटादिभेदस्य हि पटाद्यभेदप टादितादात्म्यधीप्रतिबन्धकधीविपयत्वमेव बाधकम्, नतु पटादिप्रतियोगि- करवम्; घटाद्यभेदे तत्सर्वेऽपि पटाद्यभेदस्वीकारात्। उक्तधीविषयत्वं च भेदभेदत्वयोर्घटादिरूपत्वेन संभवत्येव। नहि 'पटादिप्रतियोगिकवान् घट' इति निश्चयः 'पटाद्यात्मको घट' इति धीविरोधी। तथाच अभेदस्येव भेदस्यापि स्वप्नतियोगिकत्वात् घटादिरूपस्य तस्य स्वभेदवत्वरूपं स्वविदारकत्वं सिद्धमिति भावः। स्वस्वरूपत्व इत्यत्र सत्स्वरू- पत्व इति पाठे तु अप्रतिबध्येत्यस्याबाध्येत्यर्थः । तथाच भेदप्रतियोगिपटादिना तादात्म्यज्ञानस्य घटादिरूपस्वज्ञाना- बाध्यत्वेनोक्तज्ञानतादात्म्यस्य घटादावबाध्यत्वात् स्वप्रतियोगित्वेन घटादिरूपभेदस्योक्तं स्वविदारकत्वमिति भावः । ननु भेदस्योक्तरीत्या स्वप्रतियोगिकत्वे सिद्धेऽपि 'घटो न घट' इति प्रतीतेर्नापत्तिः; घटस्वरूपभेदस्य घटभेदत्वेन
Page 475
७९६ अद्वैतसिद्धिः [ परिच्छेदः २ ]
वश्यकत्वात्, घटधर्मेषु पटप्रतियोगिकभेदत्ववत् घटप्रतियोगिकभेदत्वस्यापि अभ्युपगमात्, पटात मिन्नो घट इतिवत् घटाद्भित्नो घट इति प्रतीतेर्वज्रलेपत्वाच्च। यत्तु स्वस्माद्विदारकत्वे अवयवानां विभागेन सूक्ष्मत्वमेव स्यात्, नतु शून्यत्वम, नहि शून्यसंयोगात् किंचिदुत्पन्नमिति, तन्न; विभाज- कत्वं न विदारकत्वम्, किंत्वेकत्वविरोधित्वम्। तथाचैकस्याभावे अनेकस्य सुतरामभावाच्क्ून्य- तायामेव पर्यवसानाञ्च। एतेन विदारकलवित्रादेः स्वसंबन्धिन्येव विदारकत्वम्, नतु स्वस्मिन्निति भेदश्चेत्स्वरूपं, तदा स्वंन विदारयेत्, किंच भेदस्य न विदारकत्वम्; भावव्युत्पत्या विदारणत्वात्। तथाच स्वरूपभेदेन घटस्य न विदारणं स्यात्: स्ववृत्तिविरोधादिति-निरस्तम्; भेदस्य विदारण- रूपविभागात्मकत्वेन विभागस्य विभज्यमानवृत्तित्वनियमेनावयवानवस्थया शून्यतापत्तेस्तादव- स्थ्यात्। अतएव विभागरूपविदारणात्मा न भेदः, किंत्वन्योन्याभावः धातूनामनेकार्थत्वात्। तदुक्तं-'क्रियावाचित्वमाख्यातुमेकोऽप्यर्थः प्रदर्श्यते। प्रयोगतोऽनुसर्तव्या अनेकार्था हि धात- वः ॥।' इति अन्यथा संयुक्तयोर्भिन्नाविति व्यवहारो न स्यादिति-निरस्तम्; अन्योन्याभावस्वरूपत्वे कपालादिरूपाश्रयप्रतियोगिकभेदस्य घटादिरूपाश्रितरूपतया स्वप्रतियोगिकभेदाश्रयत्वादेकत्वं कपा- लादिषु भज्येतेत्यवयवानवस्थया शून्यतायामेव पर्यवसानात्। अतएव-नानेकत्वैकार्थसमवायिना भेदेन एकत्वं निराकृत्य तेन पुनरनेकत्वनिराकरणं युज्यते, उपजीव्यविरोधादिति-निरस्तम्; अने- कत्वमस्पृष्टैव स्वप्रतियोगिकभेदमात्रेण ऐक्यविरहस्यापाद्यत्वात् । अतपवोक्तमाचार्य :- 'अपदैका- र्थसमवायिन्या एकताया भेदेन विरोधा दिति। यदुक्तं स्वस्मिन्वृत्तिविरोधादिति, तन्न; विभागादि- रूपव्यापारस्यानङ्गीकारात्, इतरविरोधितादिरूपव्यापारस्य सर्वत्र सत्वात्। किंच स्वरूपत्वे भदस्य
गोडब्रह्मानन्दी (लघुचन्द्रिका)। घटधर्मतानियामकत्वस्य विशपेऽ्ग्गीकारत, तब्राह-घटधर्मेप्विति। पटादिभेदेपु विद्ेपनियमितघटधर्मेताकेपु घटस्वरूपेपु घटभेदत्वस्योक्तरीत्या सिद्धा विशेष उक्तनियामकत्वस्याप्यापाद्यत्वादुक्तप्रनीनिर्दुर्वारा। अन्यथा जलतेज :- परमाणूनां तद्धर्मरूपादीनां चैक्यं स्वीकृत्य विशेषस्य जलपरमाणुत्वस्रेहत्वाभ्यामेवाधाराधेयत्वनियामकत्वम्, ननु तेज: परमाणुतोष्णस्पर्शत्वादिभ्या मित्याद्यपि किं न रोचयेदिनि भावः। विभागात्मकत्व्रेन भिदान्मकत्वेन। विभागस्य भिदायाः । विभज्यमानेति। भिद्यमानेत्यर्थः। अन्योन्याभावस्वरूपत्व इत्यादि। कपालघटादोःकार्यकारण- भावाद्यनुरोधेन भेदावश्यकत्वात् कपालादिभेदस्य घटादो जायमानस्य घटादिरूपत्वात्तदाश्रयत्वस्य कपालादो सत्ात् कपालाढिकं न कपालादिकमिति प्रमा स्यादित्यर्थः । वटादेरुक्तमेदाश्रयन्वे उक्तभेदतादात््यमेव नियामकम्, तञ्च कपालादावप्यविशिष्टम्। नच-विशिष्टकेवलयोस्तादात््यमेव तथा, तथाच कपालादिप्रतियोगिकत्वविशिष्टरूपेण केवलघटस्योक्तनादात्म्यात् तत्रोक्तभेदः, नतु कपालादाविति-वाच्यम्; भदबुद्वा हि तादात््यत्वनेव संसर्गता, नतु विशिष्टकेवलभावप्रयुक्ततादात्म्यत्वेन। तथाच घटाद़ो कपालादों च उक्तभेदबुद्धेस्सुत्यत्वात् प्रमात्वं दुर्वारम्। यत्तु ययोस्तादात्म्यं, तयोरन्योन्याभावास्वीकारात् कपालघटाद्योस्तादात्म्यात् नान्योन्याभाव इनि, तत्तुच्छम्; तथासति कार्यकारणत्वानुपपत्तेः, घटो न कपालमिनि बुद्धेरप्यनापत्तेश्र। यन्तु भदस्य पर्यात्याश्रय एव तथा धीरिति न दोष इति, तन्न; प्रत्येककपालेऽपि घटरूपभदस्य पर्याप्तिसत्वात्, प्रत्येककपालं घट इनि धीसत्वात, कपालद्वय एव घट- पर्याप्तिस्वीकारेऽपि कपालद्वयं न कपालद्वयमित्यापत्तेरवारणात्। एकार्थसमवायिना समानाधिकरणेन । अनेकत्वनिराकरणं एकाभावे अनेकस्याप्यभावात् इत्यादिरूपम्। युज्यते विरोधिलक्षणया युज्यते। अनेकत्व- मस्पृष्टा अनेकत्वोपजीवकतानवच्छेदकरूपविशिष्टेन। कपालघटयोः भेदत्वं तयोरनेकत्वोपर्जीवकतावच्छेदकमू । तन्मात्रेण नानेकत्वभञ्जकता, किंतु तदन्येन कपालाद: स्वप्रनियोगिकभेदाश्रयतात्वेनेति नैकरूपेणोपजीवकत्वभञ्ञकत्वे, भिन्नरूपाभ्यां ते तु सर्वसंमते। 'इदं रूप्य' मिनि ज्ञानं प्रति रूप्यविशिष्टज्ञानत्वादिनोपजीवकस्यापि ज्ञानस्य रूप्यमेदप्रमात्वादिना तद्भ्रअ्ञकत्वादिनि भावः । अभेदकार्थत्यादि। यद्र्मविशिष्टाभेदसमानाधिकरणा या एकता सा तन्दर्मा्वच्छिन्नप्रतियोगिताकभेदविरोधिनी। उक्तरात्या तत्कपाले तत्कपालत्वावच्छिन्ञात् भेढे सति तत्कपालमेकं न स्यात्। अनन्तानि तत्कपालानि स्युः। नचदं संभवतीति तत्कपालघटयोमिथ्यारूपशून्यतायां पर्यवसानमिति भावः । विभागादीति। क्रियाजन्यविभागादीत्यर्थः । इतरविरोधितेति। तत्तत्प्रनयोगिभेदत्वेत्यर्थः । सर्वत्रति। 'घटभेदो न घटभेद' इत्यादिप्रतीत्या घटादिभेद घटादिभेदप्रतियोगिकभिदायास्त्वयापि स्वीकाराद्विभागतुल्यत्वस्य भेद त्वयाप्यङ्गीकारात् कपालादी घटादी च स्वप्रतियोगिकभेदापत्तिर्नायुक्तेति भावः। स्वरूपत्वे घटादि- स्वरूपत्वे। उच्छेदात् प्रकृतविचारोत्तरं मिथ्यात्वनिश्चयात्। तथाच प्रकृतविचारोत्तरं परेपां भेदसंशयानुपप-
Page 476
[विशेषतो भेदखण्डनम्] गौडब्रंह्मानन्दीयुता। ७९७
संशयादिर्न स्यात्; धर्मिज्ञाने भेदाज्ञानाभावात्, तदश्ञाने हेतोरेवाभावात्। ननु-अभेदस्यापि स्वरूपत्वे संशयाद्यनुपपत्तिस्तवापि समा, यदि चाभेदत्वेनाज्ानात्तथा, ममापि भेदत्वेनाज्ञानात्तदि- ति-चेन्न; भेदस्य स्वरूपत्वे शून्यतापादकयुक्त्या कोटीनामेवोच्छेदात्। नच-अभेदस्यापि स्वरूप- त्वे भेदको्युच्छेदस्तवापीति-वाच्यम्; कल्पितकोटिमादाय संशयोपपत्तेः। नच तवापि भेदकस- त्वादिकोटिः कल्पिता; शून्यतापत्तरित्युक्तत्वात्। यत्तु प्राक चैतन्ये स्वयंभातेऽपि तदभिन्नस्यैक्य- स्यानवच्छिन्नस्यानन्दस्य चाप्रकाशवद्धर्मिणः प्रकाशऽपि तदभिन्नस्य भदस्याप्रकाशो भविष्यति, किञ्चैक्यप्रकाशे तत्र विप्रतिपत्तिर्न स्यात्, तदुपदेशानर्थक्यं च स्यादिति, तन्न; ऐक्यादीनां स्वप्रका- शस्वरूपत्वेऽपि तस्याज्ञानतत्कार्यविप्रतिपत्त्यादीन् प्रति अविरोधितया तद्गोचर विरोधिवृत्तिपर्यन्तमु कानुपपत्त्यभावात्। नच तर्हि प्रत्यगथेऽपि विप्रतिपत्तिः स्यात् ; चार्वाकादीनां तस्या अपि दर्शना- त्। तस्मादश्ानाश्रयत्वादिना प्रत्यगर्थप्रकाशमुपजीव्यं नाविद्यावृणोति, ऐक्यादंशं त्वावृणोत्येवेति तत्र विप्रतिपत्त्यादयः। नच-एवं सादृश्यादिदोषादत्रापि भेदांश आवृत इति-वाच्यम्; कोस्यनुप- स्थितेः प्रधानपूर्वकारोपवादिनः तव तदसंभवात्। यत्तु स्वरूपभदो भदत्वेन भासत एव; प्रायः स- र्वभिन्नत्वेनैव प्रतीतेः, अन्यथा सर्वकोटिक: संशयः स्यात्। तत्र च घटप्रतियोगिकत्वादिरूपा अनेक- धर्मा: सादृश्यादिवशादगृहीता: संशयविषया भविष्यन्ति, नचानेकनिरुप्यस्य भेदस्य निरूपकानेक- त्वादनेकत्वापत्ति :: तादृशस्यापीश्वरज्ञानादेरनेकद्वैतनिरुप्याद्वैतम्य चक्यदर्शनात्, एकनिरुप्यप्राग- भावध्वंसयोरनैक्यदर्शनाञ्चेति, तन्न; न वयं निरूपकभेदेन भेदं त्रूमः, किंतु प्रतियोगितावच्छेदकभे- देनाभावभदस्यावश््यकतया, अन्यथा एकघटप्रतियोगिनां चतुरणा ध्वंसादीनामक्यापत्तेः। नचाधि- करणरूपाभाववादिनामधिकरणभेदेनैवाभावभेदः ध्वंसप्रागभावयोरेक्यापत्ता विलक्षणव्यवहाराना- पत्तेः। नचैवमद्वैतेऽप्यक्यानुपपत्तिः व्रह्मतरत्वरूपप्रतियोगितावच्छेदकस्यंक्यात्, प्रतियोगिभेदामे- दयोरतन्त्वात्। यदपि भेदज्ञानं न भ्रमविरोधि, किंत्वधिष्ठान आरोप्यविरुद्धधर्मादिज्ञानमिति, तन्न; शाब्दाभेदभ्रमस्य शाब्दभेदज्ञानादनिवृत्त्यापत्तेः। यदपि कैश्चिदुक्तं-अदोषमूला ताद्रप्येणाप्र- तीता प्रतीतिः स्वरूपभेदलक्षणम्। शुक्तश्च शुक्त्यात्मना अप्रतीतिः दोषमूलेति न तत्रातिव्याप्तिः। अदोषमूलेत्यस्य यद्यपि सप्रम्यन्तविशेषणत्वं न संभवति; तथापि विशिष्टविशेषणत्वेन तद्विशेषण- त्वपर्यवसानादिति, तन्न। ताद्रृप्येणाप्रतीता प्रतीतेर भेदसाधारण्येनादोपमूलत्वपर्यन्तज्ञानं भेदव्यव-
गौण्डब्रह्मानन्दी (लघुचन्द्रिका )। त्तिरिनि भावः। वक्ष्यमाणरीत्या भेदत्वादीनामपि दुर्वचत्वात् भेदत्वादिरूपेण ज्ातत्वमिनि अयुक्त्तमित्याप बोध्यम्। भदकसत्वादीति। भेदतत्सत्वादीत्यर्थः । शृन्यतेति । भेदभेद्यप्रपञ्चमिथ्यात्वेत्य्थः । अत्रापि संशयस्थलेऽपि। आवृतः न निश्चीयते। सर्वकोटिकः इदं सर्व न वेत्याकारकः। सादृश्यादीति। घट- सादृश्यादीत्यथः । ऐक्यापत्तेरिति । प्रतियोगितावच्छेदकं तु तेपां भिद्यत एव, अत्यन्ताभावे संयोगादिसं- बन्धः, भेदे तादाल्यं, ध्वंस पूर्वकालीनतद्यक्तितवं, प्रागभावे चोत्तरकालीनतव्यक्तित्वं तथेति भेदादिति भावः । विलक्षणव्यवहारानापत्तेरिति । तथाच प्रतियोगितावच्छेदकभेदेऽपि यत् विलक्षणव्यवहारः तत्रैवाभावभेदः। यथा ध्वंसस्य प्रतियोग्युत्तरकाले प्रागभावस्य प्रतियोगिपूर्वकाले भेदस्य प्रतियोग्यधिकरणेऽपि अत्यन्ताभावस्य प्रतियोगिसंसर्गशून्य एव व्यवहारो विलक्षणः । एवंच घटभेदस्य पटेऽपि व्यवहारात् पटभेदस्यापि घटेऽपि व्यव- हारात् तयोरपि भेदस्यावश्यकत्वात् न कुड्यादिस्वरूपत्वम्। नच-घटभेदत्वं कुड्य इव घटादावप्यस्तीति कुड्यस्य घटपटभेदत्वमव्याहतमिति-वाच्यम्; घटभेदादिव्यक्तर्नानात्वे तदंशे कुड्यादावनुगतबुद्धित्वानापत्तेः, सम- नियतानां तु संख्यापरिमाणाद्यभावानामैक्ये बाधकाभावात् आस्तां प्रतियोगितावच्छेदकभेदेऽप्यभेद इति भावः । अधिष्ठान इत्यादि। अधिष्टानगतो य आरोप्यविरुद्धः शुक्तित्वादिधर्मादिः, तज्ज्ञानमित्यर्थः 1. आदिना प्रपञ्नभ्रमं प्रत्यधिष्टानस्वरूपधीविरोधित्वलाभः। अधिकरणस्वरूपाभाववादिमते तत्तत्कालीनमधिकरणम् अधिकरणस्य ज्ञानविशेषो वाभाव इति लक्षणमुच्यते। तदुक्ं मणौ-'तत्तत्काले संबन्धः स्वप्रकाशतज्ज्ञानं वे'ति। तत्र तन्मते सर्वज्ञानानां स्वाधिकरणकालग्राहकत्वात् तत्तत्कालस्योपाधित्वस्वीकाराद्वा आद्यः पक्षः संभवदुक्तिकः । द्वितीयपक्ष- माह-अदोषमूलेत्यादि। अदोपमूला शुक्तित्वादिरूपेण प्रतीतेरभावकालीना धीः शुक्तित्वावच्छिन्नप्रतियोगिता- भेद दत्यथः। विशेषणत्वं स्वातन्येणान्वयः । प्रतीतेः तादृशप्रतीतत्वमात्रेण ज्ञानस्य। अभेदसाधारण्येन भेदाव्यवहारकालसाधारण्येन। पर्यन्तज्ञानं विशेपितज्ञानम्। भेदव्यवहारकारणं भेदव्यवहारविपयः। अदोप-
Page 477
७९८ अद्वैतसिद्धिः । [परिच्छेद: २]
हारकारणं वाच्यम्। तत्रादोषमूलत्वं फलैकोन्नेयमिति चाक्षुषत्वं न स्यात् ; प्रतीतिघटितत्वात्, अप्रत्ययकाले च भेदो न स्यात्। किंच रजतात्मना शुक्त: प्रतीतिसमये तत्र तन्भ्ेदस्ते न स्यात्; अदो- षमूलेत्यस्याभावविशेषणत्वेनाव्याप्तिवारणे असामर्थ्यात्, विशेष्यानधिकरणस्य सुतरां विशिष्टानधि- करणत्वात्। नहि पुरुषहीने दण्डिपुरुषसंभवः। नचादोषमूलेति अशरीरजन्यत्वमित्यत्र शरीरमिव प्रतियोगिविशेषणं बाघितसंग्रहाय; नञा समस्तप्रतीतेरसमस्तेनानन्वयात्। नह्यब्राह्मणः समीचीन इत्यनेन समीचीनविप्राभावः प्रतीयते। अदोषमूलतादात्म्यप्रकारप्रतीत्यभावोक्तीं च शुक्ते रूप्यात्म- ना अप्रतीतिकाले सामग्रीविरहात् शुक्त्यात्मना चाप्रतीती स्वमेदापत्तेः तादवस्थ्यात्। नच-त- दापि प्रतीयमानशुक्त्यात्मना प्रतीयमानत्वमीश्वरक्षानमादायास्त्येवेति-वाच्यम्; एवं सत्यप्रती तिदशाविरहेण प्रतीयमानपदवैयर्थ्यात्। नचान्योन्याभावत्वं तत्; तस्यानिरूपणात्। तदुक्तमाचा- यैः-'सापेक्षत्वात्सावधेश्च तत्वेऽद्वैतप्रसङ्गतः। एकाभावादसन्देहान्न रूपं वस्तुनो भिदा॥'इति। किंच घटस्य भेदत्वे एकतरपरिशेषापत्तिः। ननु-ऐक्यस्य ज्ञानस्यानन्दस्य च ब्रह्मस्वरूपत्वे एकतरप-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मूलत्वविशिष्टोक्त्तधीत्वमेव भेदत्वं वाच्यमिति भावः। फलैकोन्नेयमिति। सत्यपि विचारे दोपानुपलब्धिरुपेण फलेनानुमेथम्, नतु चक्षुरादिगाह्यमित्यर्थः। नच-अदोषमूलकत्वोपहितमुक्तज्ञानं भेद इनि भेदग्रहो नादोपमूलक- त्वविपयक इति-वाच्यम्; अभेदसाधारण्यतादवस्थ्यात्। अत्र ज्ञानस्य स्वप्रकाशत्वेनाचाक्षुपत्वसंभवेऽपि ताद्रप्ये- णाप्रतीतेर्न चाक्षुपत्वमित्यपि बोध्यम्। घटितत्वादिति। न स्यादित्यत्र हेतुः। तथाचेदं सर्वदा रजतभिन्नमिति प्रमाणं न स्यादिति भावः । अत्र शुक्ौ। त्जेदः रजतभेदः। विशेषणत्वेनेत्यादि। विशेषणत्वेन यद्वारणं, तत्रासाम- थ्र्यादित्यथः । विशेष्यानधिकरणस्य ताद्रूप्येण प्रतीतेरनधिकरणस्य। विशिष्टानधिकरणत्वात् अदोपमृलि कायास्तस्या अनधिकरणत्वात्। असमस्तेन मूलान्तेन। ननु मास्तूक्तवाक्यार्थो लक्षणम्, तथापि अदोपमूलाया- स्तन्दर्मप्रकारकप्रतीतेरभावकालीना प्रतीतिस्तद्धर्मा्वच्छिन्नभेद इत्यस्तु लक्षणम्, त्राह-अदोषमूलतादात्म्य प्रकारकेति। स्वभेदापत्तेः शुक्ता शुक्तित्वावच्छिन्नभेदापत्तेः । रूप्यात्मना धीकाले इष्टापत्तिः, शुक्तिभेदस्य तदा प्रातीतिकत्वादत आह-शुक्ते रूप्यात्मना प्रतीतिकाल इति। सामग्रीति। शुक्तित्वव्यञ्ञकनीलपृष्टाद्यवच्छिन्न- स्निकर्षेत्यर्थः । प्रतीयमानपदेति । प्रतीतिपदेत्यर्थः । पूर्वोक्तलक्षणवाक्यस्येव मूलान्तप्रतियोगिविशेषणमङ्गी- कृत्यार्थान्तरोक्ते: अभावविशेष्यतया प्रतीते: पूर्वमुपादानादत्रापि तथा। तथाच व्यर्थमिति भावः। प्रतीतिपदत्यागे च शुक्त्यादितादात््यप्रमितिविषयत्वाभावः शुक्त्यादिभेद इति पर्यवसानम्। स च फलैकोन्नेयः; नहि शुक्तयादिभेदग्र- होत्पत्तिसमये अत्र शुक्तितादात्म्यप्रमाविपयत्वं नेति ग्रहीनुं शक्यते; प्रमादिघटितत्वात्, चक्षुराद्ययोग्यत्वाच्च। ननु- तत्तज्ज्ञानव्यक्तित्वमेव घटादिभेदत्वम्, तथाच घटो न वट इत्यादियद्यज्ज्ञानव्यक्ति: घटादिभेदज्ञानत्वेन सर्वसंमता, तत्तद्व्यक्ति: स्वप्रकाशा घटादिभेद इति-चेन्न; अनुगतो हि तत्त्ीविपयो वाच्यः, अन्यथा घटादितादात््यबुद्धाव- नुगतरूपेण विरोधित्वासंभवान, अनुगतभेदाकारवुद्यनुपपत्तेश्च। अतएघ तत्तत्कालीनाधिकरणमेव भेद इति पक्षोऽपि हेयः। यत्तु अदोपमूलत्यादिवाक्यं न लक्षणपरम्, किंतु स्वरूपभेदस्य यादृशं ज्ञानं तादात्म्यबुद्धिविरोधि तत्परमिति, तन्तुच्छम्; सामग्रीविरहाधीनशुक्तित्वप्रकारकप्रतीत्यभावकालीनप्रतीतेः सामग्रीसंपत्यधीनशुक्तितादात्म्य- बुद्धविरोधित्वात्, मण्यादिग्रन्थेपु लक्षणत्वेनोक्तप्रतीतित्वस्योक्तत्वान, तद्गन्थेपि केचित्तिित्यादिना तदनुवादेन तहृपणसंभवात्। उक्तंच बौद्धाधिकारे-'लक्षणं तु स्वरूपभेदस्य ताद्रूप्येणाप्रतीतौ प्रतीतिः। अन्योन्याभावस्या- बाधितः समानाधिकरणः निषेधप्रत्ययः वैधर्म्यस्य विरोधः । स च एकधर्मिसमावेश' इति । अनिरूपणादिति। उक्तबौद्धाधिकारवाक्यं हि समानाधिकरणः समानविभक्तिकपदजन्यः अनुयोगिपदतत्समानविभक्तिकप्रतियोगिपद- युक्तनञूजन्यः तादृशनञूप्रतिपाद्य इति यावत्। लक्षणादिना तत्प्रतिपाद्यत्वस्यातिप्रसक्तत्वात्-अवाधित इति लक्षणा दिकं विनेत्यर्थकम्। तथाचोक्तप्रतिपाद्यत्वाभावकाले अव्याप्ति :; सर्वपां अरतियोग्यनुयोगिनां बोधकोक्तमेदस्य प्रयोगे प्रतिसन्धाने वा मानाभावात्। यस्य भेदस्यानुयोगिप्रतियोगितावच्छेदकविशिष्टबोधकसमानविभक्तिकपदाभ्यां युक्तेन नजा न प्रतिपादयता तसासंभवश्च। तादृशप्रतिपाद्यत्वयोग्यत्वं तु दुर्निरूपम्। अथ-समानाधिकरणः प्रतियोगि- समानाधिकरणः। निषेधप्रत्ययः प्रतीयमाननिषेधः। तथाच स्वप्रतियोगिसमानाधिकरणाभावत्वं लक्षणम्। नच- ध्वंसप्रागभावयोरव्याप्यवृ्त्यंत्यन्ताभाचे चातिव्याप्तिः; एककालदेशावच्छेदेन सामानाधिकरण्योक्तेरिति-चेन्न; स्वप्राियोगित्वघटितत्वेनाननुगतत्वात्। संबन्धान्तरेण प्रतियोगिमत वर्तमाने संबन्धान्तरेणात्यन्ताभावेऽतिव्यासेः, अवृत्तिगगनादिभेद चाव्यास्ेः । अथ प्रतियोग्यवृत्तिसार्वदिकाभावत्वं तत्, नच-कालभेदस्य कालवृत्तित्वात् तत्रा-
Page 478
[विशेषतो भेदखण्डनम् ] गौडब्रह्मानन्दीयुता। ७९९
रिशेषापत्तिस्तवापि समाना, नच वस्तुन एकत्वेनेष्टापत्ति :; प्रकृतेऽपि साम्यादिति-चेन्न; एकत- रपरिशेषापत्या घट इति भेद इति विलक्षणव्यवहाराभावस्यापादनात्। नच प्रवृत्तिनिमित्तघटत्वभे- दत्वयोभेदात्तदुपपत्तिः; भेदत्वस्य निर्वक्तुमशक्यत्वात्। तथाहि-न तावज्जातिः; जात्यादिसाधार- णत्वात्, नोपाधिः तादात्म्यावच्छिन्नप्रतियोगिकाभावत्वादिरूपः तादात्म्यस्य भेदविरहरूपत्वे अन्योन्याश्रयात्, तन्निष्ठासाधारणधर्मरूपत्वे तदवच्छिन्नप्रतियोगिकात्यन्ताभावेSतिव्याप्ेः, तस्यापि स्वरूपत्वे अनुगतव्यवहारानापत्ते, नच-ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति- वाच्यम्; कल्पितधर्मभेदमादायोपपत्तेः । नच-भेदत्वमपि तथास्त्विति-वाच्यम्; तर्ह्वनिरा- कार्योऽसि। किंच भेदस्य स्वरूपत्वे इद भिन्नमस्य भेद इति संबन्धित्वेन धीर्न स्यात्। नचानन्दो ग्रह्मण इतिवदुपपत्तिः; प्रमाणसिद्धे ह्वैक्ये भेदव्यवहारस्योपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत्। नच प्रकृते तथा; ऐक्ये मानाभावात्, वाधकाच्च। नच पक्षान्तरानुपपत्तेरेव पक्षान्तरपरिग्रहः; शश- शृङ्गादो भावत्वाभावत्वयोरन्यतरानुपपतत्याऽन्यतरग्रहणापत्तेः। नच तत्रोभयत्र बाधकादलीकत्वेनो- पपत्तिः: प्रकृतेऽप्युभयत्र बाधकादाविद्यकत्वेनोपपत्ते: संभवात्। ननु-अस्ति भेदस्य स्वरूपत्वे मानं मृद्ट इतिवत् घटः पटात्मको नेति पटतादात्म्यनिषेधरूपस्य भेदस्य घटसामानाधिकरण्येनामेदप्र- त्यक्षं, तथा घटभेदयोरेकेकस्य प्रतीतावितरस्य नियमेन प्रतीयमानत्वादिकं लिङ्गम्। 'सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः।' इत्याद्यागमश्चेति-चेन्न; घटः पटात्मको नेत्यादेरन्योन्याभावभेदवि-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। व्याप्ति :; दैशिकविशेषणतया वृत्तेर्निवेश्यत्वादिति-चेन्न; श्येनसंयोगवन्जेदादेः प्रतियोगिवृत्तित्वेनाव्याप्तेः । नच- प्रतियोगितावच्छेदकनाघटकसंबन्धेन प्रतियोगितावच्छेदकस्य यदेकदेशकालावच्छेदेन सामानाधिकरण्यं, तद्वच्छून्या- भावत्वं तदिति-वाच्यम्; व्याप्यवृत्तिरूपेण भेदस्थले स्वप्रतियोगितावच्छेदकावच्छेदकदेशाप्रसिद्ध्याऽसंभवात्। नच-व्याप्यवृत्तिघटत्वाद्यवच्छिन्नभेदस्थले एकदेशकालावच्छेदेनेति न देयमिति-वाच्यम्; एकरूपेण सर्वत्र भेदस्य प्रत्ययात्। अथ-आरोप्य एव निपिध्यत इति नियमात् संयोगादिना प्रतियोगिन आरोपे संसर्गाभावः, तादाल्येन च तस्मिन् अन्योन्याभावः प्रतीयते, तथाच तादात्म्येन प्रतियोग्यारोपजन्यधीविपयाभावत्वमन्योन्याभावतवमिति- चेन्न; प्रनियोग्यारोपस्याभावधीहेतुत्वे मानाभावात्, अनाहार्यारोपस्याभावधीविरोधित्वात्, आहार्यस्य चाभावधी- पूर्वमसंभवात्। ननु-एवं संसर्गाभावधीकालेऽप्यन्योन्याभावधीः स्यादिति-चेत्, कारणान्तरसत्वे स्यादेव। अस्तुवा तत्तदारोपनियामक्स्यवाभावधीनियामकत्वम्। आस्तां वा अभावप्रत्यक्षविशेषे प्रतियोग्यारोपो हेतुः, न त्वभावधीमात्रे; अनुमित्यादी व्यभिचारात्। तथाच अतीन्द्रियान्योन्याभावे अव्याप्तिः। अथ-तादात््यसंबन्धा- वच्छिन्नप्रतियोगिताकाभावत्वं तदिति-चेन्न्न; संयोगसंबन्धेनात्यन्ताभावेऽतिव्याप्तेः, संयोगविशिष्टतादात्म्यस्य संयोगत्वात्, ध्वंसप्रागभावयोरिवान्योन्याभावस्यापि प्रतियोगितायाः संबन्धावच्छिन्नत्वे मानाभावाच्। अथ- संबन्धावच्छिस्प्रतियोगिताकत्वशून्यत्वे सति नित्याभावत्वं तदिति-चेन्न्न्र; संबन्धत्वस्य दुर्वचत्वात्, घटत्वादेरेव तादात््यसंबन्धरूपत्वेनासंभवात्। नच-सांसर्गिकावच्छेदकताविशेषो निवेश्यत इति-वाच्यम्; तत्र मानाभावात्। अतएव-तादात््यमतिरिक्तं स्वीकृत्य तद्वच्छिन्नप्रतियोगितकाभावत्वं तदिति वाच्यमिति-अपास्तम्; तत्र मानाभावात्। अधिकं बौद्धाधिकारशिरोमणी द्रष्टव्यम् । यत्तु अभावत्वान्योन्याभावत्वसंसर्गाभावत्वध्वंसत्वप्राग- भावत्वादयः प्रतीतिविशेषसाक्षिका अखण्डोपाधयः अतिरिक्ता एव पदार्था इति तग्रोक्तं, तलापि अन्योन्याभावत्व- प्रकारकज्ञानस्य तदपेक्षत्वेनात्माश्रयादिकं धर्मरूंपान्योन्याभावे अन्योन्याभावान्तरस्यावश्यकत्वेनानवस्थादिकं धर्मि- स्वरूपत्ये सप्रतियोगिकत्वानुपपत्यादिकमुक्तं वक्ष्यमाणं च दृपगं दुस्तरं बोध्यम्। सापेक्षत्वात् धर्मिप्रतियोगिधी सापेक्षप्रत्यक्षकत्वात्। सावधेः सप्रतियोगिकत्वात्। तत्त्रे भेदस्य घटादिरूपत्वे। अद्वैतप्रसङ्गतः पूर्वोक्तरीत्या पटादेर्घटाद्यभेदप्रसङ्गात्। एकाभावात् कपालादेघटादिरूपस्वप्रतियोगिकभेदाश्रयत्वेनैकत्वाभावप्रसङ्गात्। अस- न्देहात् घटादिस्वरूपस्य निश्चये घटादिभेदासन्देहप्रसङ्गात्। घटादिभिदा घटादिवस्तुनो रूपं नेत्यर्थः । तस्यापि भेदरवस्यापि। स्वरूपत्वे घटादिस्वरूपत्वे। तत्तव्यक्तिरूपभेदत्वतादात््यस्यैव भेदपदप्रवृत्तिनिमित्तत्वेन व्यवहार- वैलक्षण्योपपादनेऽपीति शेषः । अनुगतेति। घटादिभेदत्वरूपैकविषयकेत्यर्थः । अत्यन्ताभेदेऽपि विशेषबलात् सामा- नाधिकरण्यं जलीयपरमाण्वादे रूपादिनेवेति वा तयोभेंदसहिष्णुरभेद एव विषयः, घटादेरिव रूपादिनेति वा। तत्र नान्त्य :; घटादौ भेदस्याधारत्वानुभवेन विशेषणता्यातिरिक्तसंबन्धस्याधारतावच्छेदकतवेनावश्यं वाच्यतया तस्यैव संबन्धतवसंभवेनाभेदस्य संबन्धतवे मानाभाव इत्याशयवान् नाद्य इत्याह-घट इवि। भेदविषयतयेति।
Page 479
८०० अद्वैतसिद्धिः । [परिच्छेद: २ ]
षयतया भेदामेदाविषयत्वात्, अन्यथा नीलो घट इत्यादेरपि रूपाभेदविषयत्वापत्तेः । लिङ्गस्य चाभेदसिद्धे: पूर्वमसिद्धत्वात् सामान्यव्याप्तेर्जातिव्यक्त्यादौ समानसंवित्संवेद्य व्यभिचाराद्विशेष- व्याप्तावपि प्रतियोगिनि व्यभिचाराञ्च, आगमस्य चाघिष्ठानातिरेकेणासत्त्वपरत्वात् । किंच पटात् भेद: घटमात्ररूपं वा, घटकुड्यादिसर्वरूपं वा? आद्ये कुड्यादि: पटभेदो न स्यात्। द्विंतीये स्वरूपा- णामननुगतत्वात् पटभेदानुगतप्रतीतिर्न स्यात्। नच-पटज्ञानेच्छादौ यथा पटविषयत्वेनानुगते- नानुगतव्यवहारः, तथा पटप्रतियोगिकत्वेनात्राप्यनुगतव्यवहार इति-वाच्यम; पतावता हि ज्ञा- नादिषु पटविषयं ज्ञानं पटविषयेच्छेति पटविषयत्वांशे अनुगमवत् पटप्रतियोगिकत्वांश एवानुगमः स्यात्, न भेदांशेऽपि। नच भेदत्वमप्येकमित्युक्तम्। किंचेदमस्मात् भिन्नमिति वाऽस्यामुष्मात् भेद इति वा धर्मिप्रतियोगिघटितत्वेन भेदग्रहणे परस्पराश्रयः, धर्मिप्रतियोगिज्ञाने भेदशानं तस्मिंश्व सत्यस्यामुष्मादिति विलक्षणधर्मिप्रतियोगिज्ञानमिति घटपटौ भिन्नाविति। घटपटविशेषणतया तयो- ्भेंद इति तद्विशेष्यतया वा ग्रहणेऽपि अन्योन्याश्रय एव। घटपटप्रतीती तद्विशेष्यत्वादिना भेदग्रहः,
गाडव्रह्मानन्दी (लघुचन्द्रिका)। आधारतानियामकसंबन्धविपयकतयेत्यर्थः। भेदाभेदेति। भेदस्याभेदेत्यर्थः । अत्यन्ताभेदे आधारत्वानुभवानु- पपच्या विशेषणताख्यः संबन्धः अतिरिक्त एव युक्तः । घटभेदो न घट इत्यादावपि घटभेदादेः स्वस्मिन्नाधारत्वभेदयोः कल्पनाद्विशेपणतव संबन्ध इति भावः। ननु यावदाश्रयस्थिनिकस्यात्यन्ताभेदस्वीकारे बाधकाभ/वः, आश्रयाश्रयि- भावस्तु विशेपबलात्, तत्राह-अन्यथेति। रूपाभदेति। रूपात्यन्ताभेदेत्यर्थः । तव मते नित्यरूपादेरिच जन्य- रूपादेरपि स्वाश्रयात्यन्ताभेदः स्यान्। नच-रूपादिनाशकाले घटाद़ो तदभेदाप्रनीत्या न तथेनि-वाच्यम्; घट- संयोगादेनाशकाले घटादिमद्भेदस्य भृतलादावभेदस्वीकारसंभवात घटसंयोगादिकालेऽपि तत्प्रतीत्यापत्तेः। एवं विशेषस्थले भेदस्वीकारेणोपपत्तावभेदे मानाभावः, गुणगुण्यादिस्थले तु भेदाभेदयोर्युक्तिर्क्तेेनि भावः । असिद्ध- त्वादिति। घटस्य शब्दादिना प्रतीतावपि नाभेदप्रतीनिः । प्रतीतावित्यस्य प्रत्यक्षे इत्यर्थकन्वेऽपि दोषाढिना भेदग्र- हैऽपि घटादेः प्रत्यक्षप्रतीनेरसिद्विरिति भावः । जातीति। सत्यामपि व्यक्ों नश्यतो रूपादम्नस्यामिव सत्यामपि जाता नश्यन्त्या व्यक्ततरपि तस्यामत्यन्ताभेदः तव मतेऽपि न युक्त इनि तत्र व्यभिचार इनि भावः। विशषति। यत्वतत्वयोरननुगमात् सामान्यतो न व्याप्तिः, किंतु घटः, पटभेदाभिन्नः, तत्समानाधिकृतत्वात्, पटभेदवदिति विशे- पतः सा वाच्या, तथाच घटादो व्यभिचारः। तस्यापि भेदवाचकनञपदसमानविभक्तिकपदप्रनिपाद्यत्वादिनि भावः। अधिष्टानेति। वस्तूनां सत्यमबाध्यमधिष्टानीभूनं यद्रपं, तदेव भेदम््ेदश्न्यमिनि बाधायां सामानाधिकरण्य- मिनि भावः। द्वितीय इति। आद्येऽपीति शेपः। ननु भेदत्वांशे अनुगताकारधीरस्तु, तत्राह-नच्त्र भदत्व- मिति। धर्मिप्रतियोगिघटितत्वेन भेढज्ञाने आधारत्वप्रतियोगित्वनिरूपकत्वेन। भेदं प्रति आधारत्वप्रतियोगित्व- प्रकारके प्रत्यक्ष इत्यर्थः। प्रतियोगिज्ञाने प्रनियोगित्वप्रकारकज्ञाने सनि। भदज्ञानं भेद प्रत्याधारत्व्रप्रतियोगित्वप्र- कारकप्रत्यक्षम्। प्रतियोगिज्ञानं प्रनियोगित्वप्रकारकज्ञानम्। घटाढिप्तियोगितायाः पटादिनिष्टाधारतायाक्ष निरुप- कत्वेन भदस्य प्रत्यक्षं प्रनि तादृशप्रतियोगित्वादिप्रकारकप्रत्यक्षं प्रत्याधारत्वप्रकारकधीरुपनयविधया परमते कारणमाव- श्यकम्। तादृशबुद्धो च प्रतियोग्यनुयोगिनोरभेदज्ञानं कारणम्। पटो घटाभिन्न एव घटाभिन्नो न वेति भेदव्यनिरेक- संशयनिश्चयसत्वे उक्तवुद्धेरनुत्पत्तेः । यदभावसंशयनिश्चया यत्र प्र्रतिबन्धकों, तन्निश्चयः तद्वेनुरिति न्यायात्। तथा- चोक्तवुद्धे: कारणं भेदज्ञानम् । तस्याः कार्य प्रत्यक्षमेव वाच्यम्; भेदज्ञानान्तरस्याननुभवादित्यन्योन्याश्रयः । अथवा-धर्मिप्रतियोगिघटितत्वेन भेदग्रहणे आधारत्वप्रनियोगित्वविपयतानिरूपितभेदविपयताशालिज्ञाने धर्मिप्रतियोगिज्ञाने आधारत्वप्रतियोगित्वप्रकारकज्ञाने सनि। भदज्ञानम् उक्तभेदज्ञानम् । धर्मिप्रतियोगि- ज्ञानम् आधारत्वप्रतियोगित्वप्रकारकज्ञानम्। यदि यदीयसंयोगादिप्रकारकं वा ज्ञानं, तत्तत्र संयोगादिप्रकारक- निश्चयजन्यम्। नह्यसंयुक्ततचेन निश्चितं यत् तन संयोगादे: संयोगाद़िसंबन्धेन तस्य वा विशिष्टधीः। तथाच घटादिप्रकारकज्ञाने घटादाववृत्तित्वज्ञानस्येव संयोगादिसंबन्धेन घटादिप्रकारकज्ञानेप घटाद संयोगादिरूपवृत्ति- शून्यत्वानिश्चयस्य प्रतिबन्धकत्वं यत् कृप्तं, तत्र घटत्वाद्यवच्छिन्नविषयतानि रूपितमंयोगत्वावच्छिन्नविषयताशालिज्ञान- त्वेन प्रतिबध्यता वाच्या। एवंचोक्तशरन्यत्वनिश्चयाभावन्वेन हेतुत्वे गौरवात् घटादाँ संयोगादिप्रकारकज्ञानत्वेनैव हेनुत्वम्। उत्तशून्यत्वनिश्चयकाले चोक्तज्ञानाभावाननोक्तकार्यापत्तिः । तथाच घटत्वाद्यवच्छिस्मा वि यर ता नि रु पि त प्रन योगिताविषयताके पटत्वाद्यवच्छिस्नविपयतानिरूपिताधारताविपयताके व भेदज्ञाने घटः प्रतियोगी पट आधार इति ज्ञानयोर्हैतुन्वमावश्यकमिनि भावः। ययद्ा-नेत्याकारकप्रत्यक्षवारणाय भेदत्वाभावत्वादिप्रकारकप्रत्यक्षे किंचिद्धर्मा-
Page 480
[विशेषतो भेद्खण्डनम् ] गौडब्रहानन्दीयुता। ८०१
मेदभ्रहे च द्वित्वावच्छिन्नघटपटप्रतीतिरिति। नच-भेदस्य स्वरूपत्वात् स्वरूपप्रतीतेरेव भेदधीत्वेन घीद्वयाभावान्नोक्तदोष इति-राङ््रयम् ; स्वरूपज्ञानस्य द्वितीयत्वाभावेSपि प्रतियोगिज्ञानस्य स्वरूप- ज्ञानातिरिक्तस्य द्वितीयस्यापेक्षणात्। नच-सर्वात्मकमिदमिति विपर्ययादर्शनेनेदं न सर्वात्मकमिति सामान्यतः सर्वतो व्यावृत्तं वस्त्वनुभूयत इति प्रतियोगिविशेषज्ञानानपेक्षणान्नान्योन्याश्रय इति-वा- चयम्; सर्वात्मकं नेत्यत्र सर्वत्वं वा प्रतियोगितावच्छेदकं स्वेतरसर्वत्वं वा। आद्ये स्वस्माद्वैलक्षण्ये स्वासिद्धिप्रसङ्गात्, द्वितीये अन्योन्याथ्रयस्य स्पष्टत्वात्। नच-'सवे खल्विदं ब्रह्मे'त्यत्र यथा ब्रह्मा- त्मत्वेनाप्रतीतं सर्वमुच्यते तद्वदत्रापि सर्वस्मादित्यनेन तदात्मकत्वेनाशातं सर्व विवक््यत इति-वा- च्यम् ; स्वग्रहात् पूर्व स्वस्यापि स्वात्मनाSज्ञातत्वात् स्वस्य प्रतियोगितापत्ते, दृष्टान्ते सर्वशब्दस्या- संकुचितत्वे तवासंप्रतिपत्तेश्च। नन्त्र-वस्तुतो भेदाश्रयस्याभेदेनाश्ञातस्य ज्ञानं प्रतियोगिक्षानत्वेन कारणम्, नतु भिन्नत्वप्रकारकश्ानत्वेनेति-वाच्यम्; एवं हि चन्द्रे द्वित्वभ्रमो न स्यात्, वस्तुतो भेदाभावात्। ननु-'अस्तीदं न जानामि' 'सर्वे खल्विदं ब्रह्मे'त्यादिषु साक्षिसिद्धकालविषयसर्वैः
गौडब्रह्मानन्दी (लघुचन्द्रिका)। वच्छिन्नविषयतानिरूपितप्रनियोगित्वविषयताकधीत्वेन तादृशाधारताविपयताकधीत्वेन च हेतुत्वम् । नच-तथापि भेढ़े प्रतियोगितानिरूपकत्वाभावाढिनिश्चये नेत्याकारकप्रत्यक्षं स्यादिति-वाच्यम्; उक्तधीभ्यामुक्तप्रत्यक्षे जननीये उक्त्ाभावादिनिश्चयाभावस्यापि सहकारित्वकल्पनात्। नच-एवमभावप्रत्यक्षं नियमेन प्रतियोगित्वाधारत्वप्रकारकं श्यात्, तत्पूर्व प्रतियोगित्वाद्युपनयनियमात्, नतु कदाचित् प्रतियोगित्वादिसंसर्गण घटादिप्रकारकमिति- वाच्यम्; प्रतियोगित्वादेः प्रकारत्वेऽपि संसर्गत्वे बाधकाभावात्, उक्तहेनुत्वास्वीकारेऽपि प्रतियोगित्वादेरनुप- स्थितस्यापि प्रकारत्वमते तदङ्गीकारात्। एतेन-भेदो न दुर्निरूपः, नहि भेदप्रत्यक्ष प्रतियोगित्वादिन्न- कारकधीः, न वा तस्यां प्रनियोग्यनुयोगिनोर्भेदधीर्हेतुः, अपि नु घटो न पट इत्यादिज्ञाने घटत्वपटत्वादिप्रकार- कज्ञानयोर्हेनुत्वम्। नच-घटः पटाभिन्न इति निश्चयेऽपि भेदज्ञानापत्तिरिति-वाच्यम; उक्तनिश्चयस्य बाधविधया प्रतिबन्धकत्वात्, तदुक्तं वाद्धाधिकारे-'अधिकरणत्वेनाप्रतीतौ प्रतियोगिस्मृतिः, प्रतियोगित्वेनाप्रतीतावधि- करणस्मृतिश्च हेनुरि'ति-अपास्तम् ; घटपटप्रतीती घटपटोभयत्वेन प्रतीतौ। तद्विशेष्यत्वादिना तदुभयविशेषण- कस्तदुभयविशेष्यकश्च भेदग्रह इति व्यासज्यवृत्तिघर्मप्रत्यक्षे आश्रयाणां भेदग्रहस्य हेतुत्वात् स्वकार्यभूतं प्रत्यक्षमेव द्वित्वप्रत्यक्षे कारणं वाच्यम्; भेदज्ञानान्तराननुभवात्। यद्यपि द्वित्वस्य परोक्षज्ञानं भेदज्ञानानपेक्षम्; तथापि परोक्षसामभयसत्वे प्रत्यक्षं तदपेक्षमित्यवश्यमन्योन्याश्रयः । अत्र द्वित्वप्रत्यक्षस्य विशेषणताविशेष्यतावच्छेदकप्रकारक- धीविधयोक्तरीत्योभयाधारत्वावगाहिभेदज्ञाने उभयाधारत्वज्ञानस्य हेतुत्वात्तद्विघया वा हेतुत्वं बोध्यम्। न चेत्यादि। घटपटयोः प्रतीयमानो भेदो घटपटावेव। तथाच तयोर्ज्ञानं स्वस्मिन्नेव न हेतुरिति भावः। तयोर्भेद- स्वरूपत्वेSप्युभयत्वविशिष्टविशेषणविशेष्यकयो भेदत्वविशिष्टप्रत्यक्षयोरुभयत्वप्रकारकधीर्हेतुः । सा च द्वावित्याकारत स्ताभ्यां भिन्नवेत्याशयेनाह-स्वरूपज्ञानस्येति। अभेदत्वप्रकारकज्ञानस्येत्यर्थः । द्वितीयत्वाभावेऽपि उभय- विषयकत्वेऽपि। प्रतियोगिज्ञानस्य अभेदत्वप्रकारकधीकारणस्य द्वावित्याकारकस्य। वैलक्षण्ये स्वस्य भेदे। स्वासिद्धीति । पटाद्यभेदासिद्धीत्यर्थः । स्पष्टत्वादिति । तथाच पटत्वाद्यनन्तविशेषरूपैः ज्ञानासंभवेऽपि स्वेतर- सर्वत्वरूपसामान्यरूपेण प्रतियोगिधीरस्त्येवेति भेदज्ञानसापेक्षप्रतियोगित्वादिधीसापेक्षत्वमस्त्येव। प्रतियोगित्वज्ञान एव स्वेतरभानं पुनरधिकदोप इति भावः । उक्ताधिकदोपाभावमाशक्क्य निरस्यति-नचेति । सर्वैरिति। सर्वमित्यादिवाक्यजन्यबोधः सर्वपद्जन्यत्वेनैव सर्वविषयकः, नतु साक्षिमात्रेण सर्वग्रहणमिति नेदं युक्तम्। सहैवेति। नतु व्यावृत्तिबुद्धौ प्रतियोगित्वादिधी: कारणम्, न वा तस्यां भेदग्रह इत्यर्थः। जनकत्वादिति। यत्तु भेदत्वा- प्रकारकज्ञानं न प्रतियोगिधीजन्यमिति, तदिष्टम्; भेदत्वप्रकारकज्ञानस्थल एवान्योन्याश्रयस्योच्यमानत्वात्। ननु तथापि भेदग्रहकारणीभूतं प्रतियोगिज्ञानं साक्षिरूपमस्तु, तथाच तस्य भेदग्रहाजन्यत्वात् कथमन्योन्याश्रयस्तसाह- साक्षी चेति। भिन्नतया न गृद्भातीति। घटः पटनिष्ठभेदप्रतियोगीति भेदग्रहे पटनिष्ठभेदप्रतियोगित्वप्रकारक- धीरुपनयविधया हेतुर्वाच्या, एवं 'पटः प्रतियोगी'ति अ्हेऽपि पटः पटनिष्ठभेदप्रतियोगी नेति धीकाले पटनिष्ठभेदो घटीय इति ज्ञानानुत्पत्ते: तादृशज्ञाने घटः पटनिष्टभेदप्रतियोगीति धीर्हेतुः। अत एव संयोगेन घटवत् भूतलमिति ज्ञाने भूतलसंयोगवान् घट इति धी: कारणम्। अत एव च वक्ष्यति-'भेदप्रतियोगित्वेन ज्ञानं भेदधीकारण'- मिति। तथाच तादृशं ज्ञानं न साक्षिरूपेण। साक्षिणा भेदग्रहणे अभेदभ्रमोच्छेदापत्तिरिति भावः। साक्षिसिद्धेन प्रतियोगिना साक्षिरूपेण प्रतियोगिज्ञानेन। अथवा भेदप्रत्यक्षमात्रस्य साक्षिमात्रत्वास्न तत्र प्रतियोगिज्ञानजन्यता- अ. सि. १०१
Page 481
८०२ अद्वैतसिद्धिः । [परिच्छेद: २]
सह वस्त्वज्ञानाभेदानामिवेहापि साक्षिसिद्धेन प्रतियोगिना सहैव व्यावृत्तेः प्रतीतेर्नान्योन्याश्रय इति-चेन्न; विशिष्टज्ञानस्य विशेषणज्ञानाजन्यत्वेऽपि प्रतियोगिसविकल्पकस्याभावश्ञानं प्रत्यन्वयव्य- तिरेकाभ्यां जनकत्वात्। साक्षी च प्रमाणमनपेक्ष्य प्रतियोगिपटादिकं धर्मिभिन्नतया न गृङ्कातीति कथं साक्षिसिद्धप्रतियोगिना भेदप्रहोपपत्ति: स्यात्? तदुक्तं चिन्तामणौ अन्यथा-निर्विकल्पकादपि घटो नास्तीति वृत्त्यापत्ते'रिति। नच-एतावता प्रतियोगितावच्छेदकपटत्वादिप्रकारकज्ञानमात्रम- र्थनीयम्, नतु धर्मिमिन्नत्वश्ञानपर्यन्तमिति-वाच्यम्; धर्मितावच्छेदकभेदाज्ञाने प्रतियोगिताव- च्छेदकतया अभावनिरूपकत्वस्यैवाभावात्, अन्योन्यधर्मभेदशाने च विशिष्य स्तम्भात् कुम्भस्य भेदप्रतीतौ कुम्भात् स्तम्भस्य भेदधीरित्यन्योन्याश्रयतादवस्थ्यात्। ननु-त्वन्मतेऽपि बिम्बब्रह्मजी- वानां प्रतिबिम्बव्रह्माभेदे 'इदमनेनामिन्नमस्यामुष्मादभेद: एतयोरभेद' इत्येवं प्रतीतिः स्यात्। तथाच
काल्पनिक मेदश्ञानस्य धर्मिप्रतियोगिभावद्वित्वावच्छिन्नज्ञाननिर्वाहकस्य तात्विका मेदशानप्रतिबन्ध- कत्वायोगात्। किंचाभेदज्ञाने न धर्मिरूपप्रतियोगिज्ञानापेक्षा; तस्य निष्प्रतियोगिकवस्तुस्वरूपत्वात्, सप्रतियोगिकत्वव्यवहारस्तु निरूपकभेदसप्रतियोगिकत्वेन। अत एव-जीवस्य प्रतियोगितया ब्रह्माभेदनिरूपकत्वं तदभिन्नतया ज्ञातस्यैवेत्यन्योन्याश्रयः, धर्मिणा सहाभेदेन प्रतीतस्यैवामेदप्रति- योगित्वात्, अन्यथा दहनस्यापि तुहिनामेदसप्रतियोगित्वापत्तेरिति-निरस्तम्; भेदग्रहस्य तत्र प्रतिबन्धकत्वाच्च। अत एव-'तत्त्वमसी'त्यत्र त्वंपदवाच्यस्य विशिष्टस्य ब्रह्माभेदप्रतियोगित्वप्रसङ्ग- विनिवारणाय विद्यमानाभेदस्यासति प्रतिबन्धके अभेदयोग्यचित्त्वादिरूपेण प्रतीतिरभेदधीहेतुः। मेदभ्रमे तु दोषः प्रतिबन्धक इति नाभेदधीरिति परसिद्धान्तं परिकल्प्य स्वरूपभेदपक्षे वस्तुतोऽ
गोडव्रह्मानन्दी (लघुचन्द्रिका)। तत्राह-साक्षी चेति। अन्यथा अभाववुद्धेः प्रतियोगितावच्छेदकविशिष्टज्ञानजन्यत्वे। न त्विति। प्रतियोगि- ज्ञाने भेदधी: न कारणमित्यथः । भेदझ्ञाने भेदज्ञानविरोधिन्यभेदज्ञान इति यावत्। अभावनिरूपकत्वस्य भेदधी- विषयत्वस्य घटत्वपटत्वयोरभेदज्ञाने घटत्वे पटनिष्टभेदप्रतियोगितावच्छेदकत्वबुद्धनुतपत्तेः तयोर्भेंदधीः उत्तबुद्धौ हेतुः। तन्न घटत्वत्वपटत्वत्वाभ्यां भेदज्ञाने हेतुत्वे घटत्वत्वाद्यनुपस्थिता सा न स्यात्। स्वरूपतो घटत्वपटत्वयोरनुयोगिता- प्रतियोगितावच्छेदकत्वबुद्धौ स्वरूपतस्तयोर्भेदधीरेव हेतुर्युक्ता च; घटत्वत्वाद्यनिवेशेन लाघवात्। अतो घटो न पट इत्यादिरूपोक्तावच्छेदकतवबुद्धौ पटो न घट इत्याकारा घटत्वविशिष्टस्य पटत्वविशिष्टे भेदावगाहित्वेन घटपटयोरिव घटत्वपटत्वयोर्भेदावगाहिनी धीहेतुः । सा च घटत्वत्वाद्यनवगाहिन्येव; स्वातक्रयेण प्रतियोगितया भासमानस्यैव प्रतियोगितावच्छेदकविशिष्टतया भाननियमात्। एवंच धर्मिप्रतियोगिनोर्भेंदज्ञानस्याहेतुत्वे तयोरभेदज्ञानकाले तयोर्भेदधीर्यद्यप्यापादयितुं न शक्यते, तस्यैव प्रतिबन्धकत्वात्; तथापि धर्मिताप्रतियोगितावच्छेदकयोर्भेंदधीहेतुत्वे- नैव धर्मिप्रतियोगिभेदज्ञानस्य हेतुत्वमागतमिति भावः । ननु तावतापि नान्योन्याश्रयः, 'सम्भो न कुम्भ' इत्यादि- भेदधी हेतुप्रतियोगित्वादिज्ञाने कुम्भो न स्तम्भ इत्यादिज्ञानस्यैव हेतुत्वसंभवात्, तत्राह-अन्योन्यधर्मभेदश्ञान इति। अनुयोगिताप्रतियोगितावच्छेदकयोर्भेदज्ञानापेक्षणे कुम्भादितुल्यवित्तिवेद्यतया स्तम्भकुम्भयोरेकप्रतियोगिक- भेदग्रहे अपरप्रतियोगिकभेदभानमिति भावः। अथवा-अन्योन्येति। विनिगमनाविरहात् कुम्भस्तम्भयोरुभय- त्रोभयप्रतियोगिकभेदज्ञाने प्रतियोगितावच्छेदकत्वादिधीर्हेतुः । नच-अन्योन्याश्रयपरिहारो विनिगमक इति- वाध्यम्; तथापि कुम्भो न स्तम्भ इति ज्ञाने सवहेतुप्रतियोगिज्ञानहेतुतया स्तम्भो न कुम्भ इति ज्ञानापेक्षणात् परस्परसापेक्षत्वस्य दुर्वारत्वादिति भावः । इत्येवमिति। एते अभिन्ने इत्यादिः। तेन द्वित्वावच्छिन्बुद्धयुपयोगस्य वक्ष्यमाणस्य नासङ्गतिः। निर्वाहकस्येति। कल्पितधर्मिप्रतियोगिभावे कल्पितभेद एव निर्वाहकः। अयोगादिति। अभेदज्ञानकालेऽपि आहार्य विकल्परूपं वा भेदज्ञानमुत्पधते; अनाहार्ये विकल्पभिन्ने च बाधस्य प्रतिबन्धकत्वात्। अतएव आहार्यज्ञानसामान्यं पुरुपस्य चैतन्यमित्यादि। विकल्पश्च न बाघप्रतिबध्यः । अथवा-अभेदन्यूनसत्ताकतवेन भेदधीर्न प्रतिबध्या इति सैव प्रकृते जायते; अन्यूनसस्ताकविपयकत्वेन जायमानयोरेव ज्ञानयो: प्रतिबध्यप्रतिबन्धकभावात्। दोषविशेषजन्यत्वाद्वा भेदधीर्न प्रतिबध्येति भावः। यन्तु भेदस्य मिथ्यात्वानिश्चयकाले अभेदन्यूनसत्ताकरवेन ज्ञाना- संभव इति, तन्तुच्छम्; भेदान्तरस्य मिथ्यात्वानिश्चयेऽपि ययोरभेदप्रमा, तयोर्भेंदमिथ्यात्वनिश्चयस्यानुभाविकत्वात्। यदप्यभेदस्य भेदन्यूनसत्ताकत्वं किं न स्यादिति, तदपि तुच्छम्; त्वया अभेदान्तरस्य सत्यत्वस्वीकारेणोक्तस्थले अभेदस्य सुतरां सत्यत्वस्वीकारात्। तत्र दहनतुहिनस्थलीयाभेदग्रहे। असति प्रतिबन्धके दृत्यस्य कृत्यमाह-भेदभ्रमे
Page 482
[विशेषतो भेदखण्डनम् ] गौडव्रह्मानन्दीयुता। ८०३
ऽन्योन्यप्रतियोगिकयोघंटपटस्वरूपभेदयोरन्योन्य प्रतियोगित्वयोग्यघटपटत्वादिरूपेण प्रतीतयोरसति प्रतिबन्धेSन्योन्यप्रतियोगितया विशिष्टधीः धर्मभेदपक्षेऽपि विद्यमानभेदस्यासति प्रतिबन्धके भेदयो- ग्यनीलपीतत्वादिरूपेण प्रतीतिर्भेंदहेतुः, दूरस्थवनस्पत्यादौ तु दूरादिदोषः प्रतिबन्धक इति न भेद धीरिति साम्येन समाधानं-निरस्तम् ; वैषम्यस्योक्तत्वात्। ननु-यथा गौर्गवयसदृशीत्यादौ गव- यादीनां गवादिभ्यो भेद: सन्नेव प्रतियोगित्वहेतु, नतु ज्ञातः; नहि गौर्गवयसदृशीति प्रत्यक्षधीरपि नियमेन गवयो गोभिन्न इति घीपूर्विकाऽनुभूयते, सुतरां शाब्दधी; तत्र भेदवाचिशब्दाभावात्, तथा प्रकृतेऽपि। अन्यथा चैत्रस्य मैत्रपितृत्वादौ ज्ञात एव मैत्रस्य चैत्रपुत्रत्वादिज्ञानं, गवयस्य गोसादृश्ये ज्ञात एव गौर्गवयसदृशीति ज्ञानमिति सप्रतियोगिकपदार्थमात्रे अन्योन्याश्रयः स्यादि- ति-चेन्न; इषापत्तेः, अत एव सप्रतियोगित्वेन निष्प्रतियोगित्वेन च भेदसादृश्यादि दुर्वचं; सर्वत्र बाधकसत्त्वादिति अस्माकं सिद्धान्तः। यचूक्तं प्रतियोगिधर्मिभेदग्रहपूर्वकत्वनियमो नानुभूय- त इति, तदिष्टमेव; तस्यैव सप्रतियोगित्वे बाधकत्वात्, प्रत्यक्ष एव सप्रतियोगिकपदार्थग्रहे एवम- न्योन्याश्रय स्यापाद्यत्वे शाब्दे भेदवाचकपदासत्त्वस्यास्मान् प्रत्यदूषणत्वात्। एवंच प्रतियोगिधीमात्रं न भेदधीहेतु :; तन्निर्विकल्पकादपि तदापत्तेः, किंतु प्रतियोगित्वेन। तत्रापि नान्यं प्रति प्रतियोगित्वे- न, किंतु भेदं प्रति। तथाचान्योन्याश्रयः। नच सप्रतियोगिकसादृश्यादावेवं स्यात्; इष्टापत्तेः, अभे- दश्च न सप्रतियोगिक इत्युक्तत्वाच्च। यत्तु यत्र धर्मिप्रतियोगिनौ सन्निहितौ, तत्र धर्मिप्रतियोगिस- द्द्ावयोस्तन्द्वेदस्य च युगपद्धीः, इदमनेन सदृशमितिवत्। तथा विशेषणविशेष्यभावस्य च युगप- द्वीः, इमा सदृशावितिवत्; सर्वस्य योग्यस्य इन्द्रियसन्निकर्षेण युगपत्सर्वविषयैकज्ञानसंभवात्। नहि मन्मते दण्डीति धीरपि दण्डज्ञानसाध्या। उक्तंचैतत् यत्र धर्मिप्रतियोगिनोरन्यतरस्यासन्निधा- नं, तत्रापि संस्कारसचिवेन्द्रियसन्निकर्षेण एकमेव ज्ञानमुत्पद्यते, तदनेन सदृशमित्यादिवत्। अन्य- था अभेदज्ञानमपि न स्यात्। तथाचान्योन्याश्रयः। तदुक्तम्-'धर्मित्वप्रतियोगित्वतन्द्रावा युगपद्य- दि। विशेषणं विशेष्यं च तन्भावश्चैव ग्रृह्यत॥' इति, तन्न; प्रमेयत्वादिना घटे ज्ञातेऽपि घटाभाव इत्यप्रतीतेः घटत्वादिना घटस्य पूरवमवश्यं ज्ञेयत्वेन युगपदेव धर्मिप्रतियोग्यादिबुद्यसिद्धेः। न च-तत्र घटत्वादिज्ञानसामग्रीविलम्बादेव विलम्वः, तत्सत्वे इष्टापत्तिरिति-वाच्यम्; प्रतियोग्य- विषयकाभाव प्रत्ययापादनस्यैवमप्यपरिहारात्। नच तादक्प्रतियोगिग्रहसामग्री कारणम्; तदपेक्ष- या प्रतियोगिग्रहस्यैव लघुत्वात्। ननु-'अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः।अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः॥' इत्युभयतःपाशा रज्जुरिति-चेन्न; न ह्यन्यत्वबुद्धि व्यवहारक्षमा- मपि निराकुर्मः, किंत्वनाविद्यकत्वे नोपपद्यत इति ब्ूमः। किंच भेदस्य विशेषणविशेष्यभावेनैव ज्ञेय- त्वात् तत्तन्भ्ावप्रतीतेश्र भेदप्रतीत्यनधीनतया दण्डचैत्रादौ दष्टत्वेन भेदप्रतीतिपरम्परानवस्था स्या- त्। नच-ब्रह्म जीवाभिन्नं, जगन्मिथ्येत्यादावप्यभेदादेर्विशेषणतया भेदज्ञानस्यापेक्षणीयतयाऽनव- स्थापत्तेः न प्राथमिकाभेदादिधीरिति तवापि समानमिति-वाच्यम्; अविद्याकल्पितभेदेनाशातेना-
गाडव्रह्मानन्दी (लघुचन्द्रिका)। त्विति। उक्तत्वादिति । भेदप्रतियोगिकत्वेनाभेदज्ञाने भेदज्ञानापेक्षणेऽपि न दोपः; तेन रूपेण तस्य मिथ्यात्वस्य इष्टत्वादिति बोध्यम्। सन्भ्रावयोः स्वरूपयोः। विशेषणविशेष्यभावस्य आधाराधेयभावस्य। प्रतिथोग्यविषयकेति। नेत्याकारकेत्यर्थः। विशेषणविशेष्यभावेन धर्मिप्रतियोगिसंसृष्टतया। तन्रावप्रतीतेः धर्मिप्रतियोगिनोः संसर्गप्रतीतेः। दण्डचैत्रादाविति। दण्डादिप्रकारतानिरूपितसांसर्गिकविषयतानिरूपितचैत्रादि विशेष्यताकज्ञाने चैत्रादी दण्डादिभेदज्ञानं हेनु :; दण्डादेः सवस्मिन् संयोगादिना विशिष्टबुद्धभावात्, एकस्मिन्नपि वस्तुनि भेदभ्रमदशायां विशिष्टबुन्धुत्पत्तेश्र। तथाच भेदे धर्मिप्रतियोगिनोर्विशिष्टबुद्धावपि भेदे च धर्मिप्रतियोगिनो- भेदज्ञानं हेतुः, एवं तत्रापि तजज्ञानमित्यनवस्थेति भावः। न प्राथमिकाभेदादिधीरिति। भेदविशिष्टशानं तत्प्रयोजकम्। भेदविशिष्टज्ञानं च भेदविशिष्टज्ञानान्तरं विना न संभवतीत्यर्थः । समानमिति। तथाच स्वरूपसन्तं भेदं विना विशिष्टप्रमा न संभवति, संबन्धासंभवादित्येतावन्मात्रमावाभ्यां वाच्यम्, नतु भेदज्ञानस्य विशिष्टधीहेतुत्व- मिति भावः । अशातेनापीति। अभेदज्ञाने तदभावात्, भेदभ्रमे च तन्भावात्। अन्वयव्यति रेकसिद्धमुक्तहेतुत्वं नापलापार्हम्; अन्यथा व्यासज्यवृत्तिद्वित्वादिप्रत्यक्षेऽपि आश्रयभेद्धीर्हैतुर्न स्यात्। तदपलापेऽपि न ते निस्तारः। भेदभेद्ययोर्विशिष्टप्रमायां स्वरूपतोऽपि भेदस्याभावात्, अभेदविशिष्टप्रमायां तु कल्पितभेद एवास्तीति भावः।
Page 483
८०४ अद्वैतसिद्धिः । [परिच्छेद: २]
पि विशेषणत्वादयुपपत्तेः। नचैवं तवापि; मेदभेद्ययोः स्वरूपतो मेदाभावात्, भेदस्याधिकरणानतिरे- कातू, धर्मो भेद इति पक्षे तु प्रतीत्यनवस्थोद्धारेऽपि विषयानवस्थाया दुष्परिहरत्वापत्तेः । नचावि- धकभेदपक्षेऽप्यनवस्थादिदोष :; अनुपपत्तेरलंङ्गारत्वात्। अतएव-अभिन्नं ब्रह्मेत्यत्राभेदस्य भिन्नत- या झातस्य विशेषणत्वेन तेन सह ब्रह्माभेदबोधनानुपपत्तिः, प्राचीनभेदधिया प्रतिवन्धादिति-निर- स्तम् ; अनिर्वचनीयभेदज्ञानस्य तात्त्विकाभेदज्ञानाप्रतिबन्धकत्वात्। किंच धर्ममेदपक्षे प्रत्यक्षं किं भेदमेव गोचरयति, उत वस्त्वपि। नाद्य :; भेद इत्येवाप्रतीतेः। द्वितीयेऽपि कि भेदपूर्वकं वस्तु गोचरयेत्, उत वस्तुपूर्वकं भेदं, युगपद्वा उभयम्। नाद्यः; भेद इत्येवाप्रतीतेः, विरम्यव्यापारायो- गाच्च। अतएव न द्वितीयः न तृतीयः; वस्तुग्रहस्य भेदग्रहजनकतायाः स्थापितत्वात्। नच वस्तुमा- त्रज्ञानानन्तरभाविना विशिष्टज्ञानेन युगपदुभयग्रहः; प्रतियोगित्वादिना ज्ञानस्यैव भेदधीहेतुत्वात्, अन्यथा पञ्चमीप्रयोगाद्यनुपपत्तेः। तत्र च प्रागुक्तो दोषः। अतएव-विशिष्टधियो विशेषणज्ञान- जन्यत्वमते अनयोर्भेद इति ज्ञानानन्तरमिमौ मिन्नाविति धियः संभवः, विशेषणज्ञानाजन्यत्वेऽपि युगपदेव उभयगोचरधिय: संभव इति-निरस्तम्; अनयोर्भेद इत्यादौ पश्योल्लिख्यमानसंबन्धग्रहार्थ भेदग्रहस्य पूर्वमवश्यापेक्षणीयतया अनवस्थाया दुष्परिहरत्वात्। नच विम्वप्रतिबिम्वयोर्जीवब्रह्म- णोश्चाभेदग्राहिप्रत्यक्षं शब्दश्च किमभेदमेव गोचरयेदित्यादिविकल्पसाम्यम्; अभेदस्य वस्तुस्वरूप- त्वेनेदृग्विकल्पानवकाशात्। किंच भेदस्यान्योन्याभावत्वे तत्प्रतियोगिनोः स्तम्भकुम्भयोस्तादात्म्य- स्याप्रामाणिकत्वेनान्योन्याभावस्याप्रामाणिकत्वं स्यात्, नच द्वैतादेरप्रामाणिकत्वे तद्विरहस्याप्रामा- णिकत्वापत्तिः; अतिरेकपक्षे इष्टापत्तेः, अनतिरेकपक्षे त्वधिकरणप्रामाणिकत्वस्यैव प्रामाणिकत्वे तन्त्रतया प्रतियोग्यप्रामाणिकत्वेऽपि प्रामाणिकत्वोपपत्तेः। नन्र-अन्योन्याभावेऽपि तत्पक्षे तथाङ्गी- क्रियतामिति-वाच्यम्; तस्याधिकरणरूपतायां शून्यवादाद्यापत्तेरुक्तत्वात् । यत्त्वप्रामाणिकस्य निषेधप्रतियोगित्वमित्युक्तं परैः, तन्न वारयामः, किंत्वधिकरणातिरेके निषेधस्याप्रामाणिकत्वमात्रं बूमः। ननु-अत्र न कुम्भस्तम्भोभयतादात्म्यं निषेधप्रतियोगि, किंतु स्तम्भतादात्म्यं स्तम्भे प्रमितं कुम्भगतं निषिध्यत इति न प्रतियोग्यप्रामाणिकत्वमिति-चेन्न; तादात्म्यमात्रस्य निषेधप्रतियोगित्वे दूरस्थवनस्पत्योरिव बाधोत्तरकालमिमी वनस्पती इतिवदिमे शुक्तिरजते इति प्रतीत्यापत्तेः।न चासन्निधानकृतो विशेष :; एतावतापि शुक्तितद्रजते इति प्रतीत्यापत्तेः। यत्त्वन्योन्याभावसंसर्गाभा- वयोर्लक्षणं यत्राधिकरणे प्रतियोगितावच्छेदकमारोप्य निषेधावगमः, सोऽन्योन्याभावः, यत्राधि- करणे प्रतियोगिनमारोप्य निषेधावभासः स संसर्गाभाव इति, तन्न्नः अतीन्द्रिये भेदे संसर्गाभावे
गोडव्रह्मानन्दी (लघुचन्द्रिका)। प्रतीत्यनवस्थोद्धारेऽपीति। भेदधीहेतुत्वस्योक्तस्यापलापेनेत्यादिः। भेदपूर्वकं भेदमात्रधीपूर्वकम्। वस्तुपूर्वकं प्रतियोग्यनुयोगिघटादिमात्रधीपूर्वकम्। विरम्येति। विलम्बेनेत्यर्थः । भेदग्रहणकाले वस्तुग्रहणाभावे बीजाभावा- दिति भावः। अत एव विरम्यव्यापारादेव। प्रतियोगित्वादिनेति। घटत्वादिमात्ररूपेण ज्ञानस्याहेतुत्वेन तत्पूर्वकत्वे मानाभावादिति भावः। पञ्चमीत्यादि । कारणीभूतज्ञानस्य पञ्चम्यादिनोल्लेखानुपपत्तेः। प्रागुक्त: अन्योन्याश्रयः । अप्रामाणिकस्य अप्रामाणिकस्येव। इमा वनस्पती। वतस्पतिरूपे तादालयं नास्ति। तथाच रजत- तादात्म्यमिह नास्तीति निषेधस्यावश्यकत्वे एतदनुयोगिकरजतप्रतियोगिकतादात््यमिह नास्तीत्यपि निषेधो वाच्यः; उक्ततादात्म्यत्वेन तादात्म्यस्य भ्रमे भानात्। इमे शुक्तिरजते। एतदुभयत्र तादात््यं नास्तीति। प्रतीत्यापत्तेरिति। स्तम्भस्यानारोपे प्रत्यक्षत्वानुपपत्तिः । साक्ष्यसंबन्धादित्यपि बोध्यम्। तादात्म्यमात्रं नारोप्यते, किंतु स्तम्भोऽपीत्युक्त्तौ सम्भादौ कुम्भाढितादात्म्यमप्रामाणिक रूपेणारोपणीयं वाच्यम्; आरोप्ये अधिष्ठानतादात्म्यारोपस्य तादालयारोपसा- मान्ये अनुभवसिद्धत्वात्। तथाच तदेव तादात्म्यं निपेध्यम्; भ्रमनिपेधयोरेकविपयकत्वानुरोधात्। एवंच अप्रामा- णिकरूपेण तादात्म्यनिषेधः स्थित एवेति भावः । वस्तुतस्तादात्म्यारोपस्थले बाधकधीविषयभेदस्य प्रामाणिकत्वम्; तादाल्यत्वादिप्रामाणिकरूपेणापि प्रसक्त्तस्याप्रामाणिकस्थैव तादात्म्यस्य निषेधात्, प्रतियोगिनोऽप्रामाणिकत्वेनैव प्रकृते भेदाप्रामाणिकत्वोक्तेः। तथाच स्तम्भतादात्म्यप्रमोक्तिर्व्यर्थेति ध्येयम्। असन्निधानेति। रजतस्यासब्निहि तत्वानेदंत्वेन प्रतीनिः, वनस्पत्योस्तु सव्निहितत्वान्नेति भावः। तद्रजत इति।नच-इदं न रजनम्, किंतु मयानुभूतं तदित्यनुभूयत एये- ति-वाच्यम्; अत्र यद्रजतमभात्तन्मिथ्येति धीर्न स्यान्, किंतु तद्देशान्तरस्थमिति धीः स्यादिति भावात्। अतीन्द्रिय इत्यादि। अभावप्रत्यक्षे आरोप्यहेतुत्वे अतीन्द्रियाभावे अव्याप्तिः । अभावधीमात्रे तद्धीहेतुत्व तु व्यभिचार इत्यथेः ।
Page 484
[विशेषतो भेदखण्डनम् ] गौडब्रह्मानन्दीयुता। ८०५
च तन्मते अव्याप्तेः। शब्दजन्याभावबुद्धौ व्यमिचारेणारोपस्याभावबुद्धावहेतुत्वान्च। किंच मेदे स्वेतरमेदस्य वक्तव्यतया स्ववृत्तिविरोधोऽनवस्था वा। नच-व्रह्मामेदेऽपि स्वामेदस्य वक्तव्यतया स्ववृत्तित्वं समानमिति-वाच्यम्; अभेदस्य स्वनिर्वाहकत्वादित्यवेहि। नच भेदे तथा; मेदाधिकरण- कभेदव्यवहारस्य स्वरूपेण निर्वाहे घटेऽपि तथात्वे धर्मपक्षकभेदानुपपत्तेः। किंच भेदे भेदत्वमुपाधि- रूपं जातिरूपं वा वाच्यम्; तत्र पुनर्भेदो वाच्यः, अन्यथा भेदत्वस्यान्यस्मात् भेदो न स्यात्। तथा- चान्योन्यवृत्त्या स्ववृत्त्यापत्तेः स्ववृत्तित्ववत्तस्यापि विरुद्धत्वात्। नच-अभेदेऽप्यभेदत्वं वाच्यम्, तत्र पुनरमेदो वाच्यः, अन्यथा तस्य स्वाभेदो न स्यादिति तत्रापि तथात्वापत्तिः, प्रमेयत्वामिधेयत्वा- दिवदन्योन्यवृत्तित्वस्याभेदे अदोषत्वे भेदेऽपि साम्यमिति-वाच्यम्; अस्माकममेदमात्रस्याभेदत्वस्य च ब्रह्माभेदाभिन्नतया अन्योन्यमित्य स्यैवाभावेनान्योन्यवृत्तित्वस्यैवापादयितुमशक्यत्वात्। नच तर्हि घटे घटा मेदस्य जीवे जीवा भेदस्य वा जीवब्रह्माभेदत्वे वेदान्तवैयर्थ्यम्; भेदभ्रमनिवर्तकवृत्तर्महावाक्यं विनानुपपत्तेरुक्तत्वात्। यत्तु प्रमेयत्वादौ प्रमितत्वादन्योन्यवृत्तिरदोप इति, तन्न; आत्माश्रयादित- स्वदोषेण तत्रापि प्रमितत्वासिद्धेः। अतपव न कश्चित् केवलान्वयी। किंच भेद: किं मिन्ने निविशते अभिन्ने वा। आद्ये आत्माश्रयोऽन्योन्याश्रयो वा। द्वितीये विरोधः। नच-अभेदानिर्वाच्यत्वादिकं किं तद्ति तदभाववति चेत्यादिविकल्पस्यात्रापि साम्यमिति-वाच्यम्; अभेदस्य स्वरूपत्वेन तत्र तद्वि-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। ननु-प्रतियोगिनमारोप्येत्यत्र प्रतियोग्यारोपजन्यत्वं नार्थः, किंतु प्रतियोग्यनुयोगिनोः संसर्गविपयकत्वव्याप्या या घीः, तद्विपयाभावत्वं संसर्गाभावत्वम्। एवं प्रतियोग्यनुयोगिनोस्तादात्म्यविषयकत्वव्याप्यधीविपयाभावत्वं भेदत्वम्; अप्रा- माणिकस्यैव निपेधाभ्युपगमात्, वायुरूपादिसंसर्गाद्यप्रसिद्धिर्न दोप इति-चेन्न; स्म्भनिष्ठं स्तम्भतादात्म्यं कुम्भे नास्तीति धीविपयाभावस्याभावदयबहिर्भावापत्तेः, उक्ततादात्म्यस्यानुयोगिनिष्ठत्वाभावात्। गुणो न संयोगीति धीवि- पयाभावस्य संसर्गाभावत्वापत्तेः, संयोगितादात्म्यस्य प्रतियोगिसंसर्गरूपत्वात्। किंच व्याप्यता तत्तवक्तित्वेन अभावधीत्वेन भेदधीत्वादिना वा। आद्ये नानुगमः, द्वितीये असंभवः, तृतीये अन्योन्याश्रयः। यदपि स्वाभा- वाभावरूपाभावत्वं संसर्गाभावत्वं स्वाभावाभावत्वशून्याभावत्वं, भेदत्वम् घटस्यात्यन्ताभावः प्रागभावादिवां स्वाभावरूपघटस्याभावरूपः, घटभेदस्तु स्वाभावरूपघटत्वस्य नाभावरूप इति, तद्पि न; घटभेदभेदस्य घटे प्रनीयमानस्य घटरूपत्वेन स्वाभावाभावरूपत्वस्य घटभेदेऽपि सत्वात्, स्वसंसर्गाभावाभावरूपत्वोक्तौ च आत्मा- श्रयात्। नच-स्वाभावानां यावतामभावरूपत्वं वाच्यम्, तथाच न घटभेदे अतिव्याप्तः, तस्य घटत्वरूपं स्वात्य- न्ताभावं प्रत्यभावत्वाभावादिति-वाच्यम्; घटात्यन्ताभावभेदस्य घटस्वरूपत्ववत् पटस्वरूपत्वस्यापि वाच्यतवेन घटात्य- न्ताभावे पटरूपस्वाभावं प्रत्यभावत्वाभावेनासंभवात्, घटभेदघटत्वात्यन्ताभावयोर्भेदे मानाभावेनातिव्याप्तितादव- स्थ्याच्च। स्ववृत्तीत्यादि। घटभेदे घटभेदान्तरस्वीकारे अनवस्था, तदस्वीकारे स्वेनैव स्वस्मिन् भेदव्यवहारो वाच्यः, स चानुपपन्नः; स्वस्मिन् संबन्धासंभवादित्यर्थः । पक्षानुपपत्तेरिति। नच-स्वरूपभेदपक्षे घटादेर्मेदरूपरवम्, धर्मभेदपक्षे तु घटादिनिष्टभेदस्य घटादिप्रतियोगिकमेदरूपत्वमिति विशेष इति-वाच्यम्; भेदस्यानुयोगिस्वरूपत्वा संभवादेव धर्मभेदपक्षस्वीकारात्। स्ववृत्त्यापत्तेः स्ववृत्तित्वापत्तेः । भेदत्वे तदाश्रयान्यस्य भेदस्य कल्पने तत्रापि भेदान्तरमित्यनवस्था स्यात्। तस्यान्योन्यवृत्तित्वस्याभेदत्वस्याभेदत्वाकारानुगतबुद्धेरभेदरूपब्रह्मण्येव संभवेनाभे दत्वं न तदन्यत् स्वीक्रियते, भेदत्वं तु भेदादन्यद्वाच्यम; अन्यथा सर्वानुगतभेदाभावेनानुगतबुद्यसंभवात्, ब्रह्मस्वरूपत्वं तु भेदस्य निपेध्यत्वादिना निरस्तमिति भावः। उक्तत्वात् अखण्डार्थवादे विवेचितत्वात्। प्रमेयत्वादौ प्रमेयतवा- भिधेयत्वयोः। तत्त्वदोषेण स्वविषयसामान्ये तात्विकताप्रच्यावकदोषेण। दूषकताप्रयोजकत्वरूपसर्वेऽपि न दोष इत्ययुक्तमिति भाव: । कश्चित् कापि व्यक्तिः। केवलान्वयी सर्ववृत्तिः। तत्र मेयत्वादिव्यक्तौ न सा व्यक्तिर्वर्तते स्ववृत्तित्वासंभवात्, मेयत्वव्यक्तयन्तरं नु वर्तते। अत एव मेयत्वत्वरूपेण मेयत्वं केवलान्वयि; अत्यन्ताभावप्रति- योगितानवच्छेदकमेयत्वत्ववत्वात्। अत एव यत्र मेयत्वे यदभिधेयत्वम्, तदभिधेयत्वेन तन्मेयत्वमिति भावः। यन्तु भेदभेदत्वयोरन्योन्यत्वज्ञाने भेदत्वे भेदवृत्तिः प्रमिता, तदज्ञाने चान्योन्यवृत्तित्वं नापादनार्हमिति, तत्तुच्छम्; तस्य ज्ञानेऽपि प्रमितत्वानियमात्। भेदो घटादिभेदः। मिन्ने घटादिभेदविशिष्टे घटादिभेदोपहिते वा। आदे आत्माश्रयः, द्वितीये भेदविशिष्टबुद्धौ भेदज्ञानान्तरं हेतुः, तत्रापि सैव हेतुः। भेदज्ञानान्तराभावादित्यन्योन्याश्रयः। आद्येऽपि भेदान्तरविशिष्टस्याश्रयत्वे तादृशभेदान्तरस्ापि स्वाश्नितभेदविशिष्टाश्रितत्वे विषयान्योन्याश्रयः। घटभेदस्य घटमेद्शून्मे स्वीकारे घटेऽपि तदापर्या विरोधः। स्वरूपत्वेन अवृत्तिश्रह्मस्वरूपतवेन। तद्विकल्पेति। वृत्तिविक-
Page 485
८०६ अद्वैतसिद्धिः । [परिच्छेदः २]
कल्पानवकाशात्; अनिर्वाच्यादावस्य विकल्पस्यानिर्वाच्यत्वप्रयोजकस्यास्माकमनुकूलत्वात्। नच भेदोऽपि स्वरूपम्: प्रागेव निरासात्। नच-भेदः स्वाश्रयत्वयोग्ये वर्तते, योग्यता च प्रमारूप- फलैकोनेया इति-वाच्यम्; योग्यताया भेदं विना वक्कुमशक्यत्वात्। नह्मिन्ने कदापि तद्योग्यता; धर्मान्तरस्यापि भेदमपुरस्कृत्य योग्यत्वाप्रयोजकत्वात्, भेदाभेदावश्ञात्वा भ्रमप्रमारूपफलभेदस्यैवा- ज्ञानेन भेदयोग्यतायाः प्रमारूपफलभेदानुन्नेयत्वाच्च। 'अस्वव्याघातकैरेव जातिमिनैः सदुत्तरैः। निरस्तं भेदमादाय स्वात्माभेदो निषीदति॥' इत्यद्वैतसिद्धौ विशेषतो भेदखण्डनम्॥
अथ विशेषखण्डनम्। ननु-अस्माकं भेदो न स्वरूपमात्रम्, किं त्वन्योन्याभावः, सच वस्तुनः सविशेषामिन्नः, ततश्चा- मिन्नत्वान्नानवस्थादिः। भेदप्रतिनिधेर्विशेषस्य विद्यमानत्वान्न पर्यायत्वादिकम्, विशेषश्च भेदहीनेऽ- पि एकतरपरिशेषाभावादिनिर्वाहक इति-चेन्न; पर्यायत्वादिप्रमाजनकस्य स्वरूपातिरिक्तस्य विशेष- स्याङ्गीकारे तस्यैव भेदत्वेन मेदस्य धर्मभेदोक्त्ययोगात्, विशेषस्यापि भेद: सविशेषाभिन्न एव वा- च्यः । तथाचानवस्थातादवस्थ्यम्। नच वैशेषिकाभिमतविशेषवत्तस्य स्वपरनिर्वाहकत्वम्; पताद- शविशेषे मानाभावात्। ननु-'विज्ञानमानन्दं ब्रह्मे'त्यादिवाक्यबोध्यविज्ञानानन्दादीनां त्वन्म- तेऽपि भेदस्य भेदाभेदयोर्वाऽखण्डार्थकत्वेन 'एकधैवानुद्रष्टव्य' मित्यादिश्रुतिविरोधेन चाङ्गीकर्तुमश- क्यतया भेदप्रतिनिधेर्िशेषस्यापर्यायत्वाद्यर्थमवश्यं स्वीकार इति अर्थापत्तिरेव मानमिति-चेन्न; भेदे ऐकरस्यश्रुतिविरोधवत् अत्रापि तत्तादवस्थ्यात्। लक्ष्यार्थाभेदेऽपि वाच्यार्थभेदेनापर्यायत्वस्य व्यावर्त्यभेदादवैयर्थ्यस्य चान्यथैवोपपत्तेः। किंच तवापि ज्ञानानन्दत्वादिनिमित्तभेदादेवापर्यायत्वम- स्तु, किं विशेषेण? नच-'एवं धर्मा'निति श्रुत्या तयोरपि भेदनिषेधात् नैवमिति-वाच्यम्; तर्हि विशेषस्याप्याश्रितत्वेन धर्मतयाऽस्यापि भेदनिषेधात्तेनाप्यनुपपत्तिः। नच-ज्ञानत्वानन्दत्वयोरर्थप्र-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। ल्पेत्यथः । अनुकूलत्वादिति। प्रपञ्चे अनिर्वाच्यत्वादेर्मिथ्यात्वेऽपि धर्मिसमसत्ताकत्वात् स्वविरुद्धतात्विकताप्रति- क्षेपकत्वमिति भावः। योग्यताया इत्यादि । योग्यता तत्प्रयोजकधमों वा भिन्नो वा अभिन्नो वेत्यादिदोप इति भावः । ननु सवोपहिते भेदो वर्तते, स्वज्ञाने तु न स्वज्ञानान्तरं हेतुः, येनान्योन्याश्रयः, किंतु स्वयोग्यताज्ञानम्, तत्रापि प्रमारूपफलज्ञानं हेतुः, तत्राह-भेदाभेदावित्यादि। भेदप्रमात्वं भेदवति भेदप्रकारकधीत्वम्, अबा- घितभेदधीत्वं वा। तथाघ भेदभ्रमत्वं भेदाभावघटितमिव भेदप्रमात्वमपि भेदज्ञानज्ञेयमिति परस्परसापेक्षता दुर्वा- रेति भावः ॥ तकरित्यादि-विशेषान्भ्ेदखण्डनम्॥ इति लघुचन्द्रिकायां विशेषतो भेदखण्डनम्॥
अनवस्थादि: धर्मभेदपक्षोक्तः। पर्यायत्वादिकं घटभेदादिशब्दानामेकार्थकत्वादिकम्। एकतरपरिशेषाभावेति। एकस्यैव यत् कार्य तदभावेत्यर्थः। घट इत्यादिव्यवहाराज्जेदादिव्यवहारे वैलक्षण्येति यावत्। स्वरूपातिरिक्तस्येति। घटादिस्वरूपातिरिक्त्तस्येत्यर्थः। तत्र हेतु :- अपर्यायत्वेत्यादि। विशेषस्य घटादयनतिरिक्तत्वे भेदपदस्य घटपदापर्या- यत्वप्रमापकत्वं न स्थात्, तद्तिरेके तु घटादिप्रतियोगिकविशेषवर्वमेव भेदपदशक्यतावच्छेदकमिति नोक्तदोषः। तथाच विशेषस्यैव भेदत्वं युक्त्म्। नहि घटो न पट इत्यत्र पटप्रतियोगिकत्वेन किंचिदानुभाविकमिति भावः । विशेषस्य घटादि निष्ठविशेपस्य। भेद: घटादिभेदः। सविशेषाभिन्नः घटादिप्रतियोगिकविशेषान्तरवान्। अनवस्था अनन्तविशे- पप्रयुक्कानवस्था। मानाभावादिति। विशेपे विशेपान्तरस्वीकारे विशेषपदभेदपदयोः पर्यायतवादिकं स्वरूपभेदपक्षोक्त एकरवाभावप्रयुक्तशून्यत्वापत्त्यादिदोषश्च। किंच पटादिप्रतियोगिकभेदवत्वं पटादिप्रतियोगिकतवावच्छेदेन वाच्यम्, अन्यथा घटो न पट इत्यादिवत् घटो घठवानित्यपि स्यात् । तथाच विशेषाधिकरणत्वावच्छेदकता अतिरिक्ताः घटादि- प्रतियोगित्वेपु कल्पनीयाः । तथाच भेद एवातिरिक्तो घटातिरिक्तो घटादिपु युक्त इति विशेषे मानाभाव इति भावः। मेदस्य सत्यात्यन्तिकभेदस्य। अङ्गीकर्तु शक्यतया इत्यन्नान्वयः। अत्यन्तभेदसश्वे ज्ञानानन्दयोरैक्यासंभवेन नाखण्डार्थ- त्वम्। भेदाभेदयोः सत्ययोः स्वीकारेण ज्ञानानन्दयोरभेदसंसर्गकबोधस्वीकारे तु 'एकधे'त्यादिश्रुतिविरोधोऽपीस्यर्थः । मेदे सत्यभेदे। अन्नापि सत्यविशेपेऽपि। तत्तादवस्थ्यात् एकरसश्रुतिविरोधतादवस्थ्यात्। ज्ञानानन्दस्वरूपयो- र्भेदाभाव एव, अपर्यायर्वादिकं तु ज्ञानत्वानन्दविशिष्टयोर्भेदादित्याशयेनाह-लक्ष्येति । धर्मानिति। धर्मा- नधुथक्पश्यंसतानेवानुविधावती'ति श्रुतिः । आश्रयविशेषः आश्रयप्रतियोगिको विशेषः । आवश्यक इति।
Page 486
[विशेषखण्डनम् ] ८०७
आवश्यक इति-वाच्यम्; ज्ञानत्वानन्दत्वयोजातिरूपत्वेन उक्तरूपत्वाभावात्। नच-आकाशशब्दाश्रयशब्दयोः प्रवृत्तिनिमि- सामेदेन पर्यायस्वापत्तिः, तत्परिहाराय विशेषो वाच्य इति-वाच्यम्; पर्यायत्वेऽपि सहप्रयोगस्य व्याख्यानव्याख्येयभावादिनाप्युपपसेः। नच-एवं ज्ञानानन्दयोरेकतरपरिशेषेण मोक्षे आनन्दप्रका- शो न स्यादिति-वाच्यम्; तयोर्भेदाभावेन एकतरत्वस्यैधाभावात्, द्वयोर्वचने तरब्विधानात्। पतेन-शोधिततत्पदार्थादैक्यस्य न भेदः, नापि मेदाभेदौ, किंत्वत्यन्ताभेदः, एवं च विशेषानङ्गी कारे स्वप्रकाशचैतन्यभाने ऐक्याभानापत्ति: तत्प्रकाशस्य भेदभ्रमाविरोधित्वेऽप्यैक्यप्रकाशस्य तद्विरोधः, तस्य निरपेक्षत्वेऽपि ऐक्यस्य सापेक्षत्वं च नोपपद्यंत इति-निरस्तम्; आवारकाश्ञानक- ल्पितांशमादाय सर्वस्योपपत्तेः। नच-एकस्या एव शुक्तेरावृतानावृतत्वे शुक्त्यंशभेद एवं स्यादि- ति-वाच्यम्; तदंशकल्पकस्य फलस्याभावात्। ननु-'एवं धर्मा'निति श्रुतिरस्तु मानम्, अत्र हि ब्रह्मधर्मानुक्त्वा भेदो निषिध्यते। नच भेदप्रतिनिधेरभावे धर्मधर्मिभावो धर्माणामनेकत्वं च युक्त- मिति-चेन्न; धर्मानित्यस्य निषेधानुवादत्वेन धर्मत्वानेकत्वादौ तात्पर्याभावात्। नच श्रुतितो- जन्यतो ब्रह्मधर्माः प्राप्ताः; आविद्यकमात्रस्य साक्षिसिद्धतया प्राप्तेः। ननु-गुणगुणिनोरमेदपक्षे घटो- पलम्भे शुक्काद्यनुपलम्भार्थ भेदाभेदपक्षे तयोरविरोधार्थ अत्यन्तभेदपक्षेऽरपि समवायः संबन्धः सत्ता सती, अन्त्यविशेषो व्यावृप्तः, काल: सदास्ति, देशः सर्वत्रास्तीत्यवाधितव्यवहारार्थ विशेषो- 5ग्गीकार्यः, अभावादावप्यस्तित्वादिर्नाभावादितो भिन्नः; गुणादिप्वनन्तर्भावेन पडेव पदार्था इति नियमभङ्गापत्तेः, अनियमपक्षेऽप्यस्तित्वेऽप्यस्तित्वान्तरमित्यनवस्थापत्तेः, तत्रापि सोऽक्गीकार्य इति-चेन्न; स्वभावविशेषादेव सर्वस्योपपत्तेः। नच-तर्हि विशेषस्याङ्गीकारेण मन्मतप्रवेश इति- वाच्यम; तत्तदसाधारणस्वरूपस्यैव स्वभावविशेषशब्दार्थत्वेन त्वदुक्तविशेषानुक्तेः, तत्तदसाधार- णरूपेण समवायादेः स्वनिर्वाहकत्वात्। अतएव-स्वनिर्वाहकत्वं हि स्वकर्मकनिर्वहणकर्तृत्वम्, तञ्चैकस्मिन्विरुद्धमिति तदुपपादनायापि विशेषाङ्गीकार इति-निरस्तम्; स्वनिर्वाहकशब्दस्य स्वेतरानपेक्षव्यवहारविषयत्वमात्रार्थकत्वात्, अन्यथा विशेषोऽप्यनवस्थामिया वस्त्वमिन्न इति तवाङ्गीकारेण तद्दूपणापातात्, स्वरूपभेदपक्षोक्तकतरपरिशेषादिदूषणतादवस्थ्यापत्तेश्च। नच- अन्त्यविशेषवदस्य धर्मिग्राहकमानेन तादकूस्वभावतया सिद्धे: पर्यनुयोगायोग इति-वाच्यम्; द्ष्टान्त इव दर्श्टान्तिके स्वरूपातिरेकस्य त्वयैवानङ्गीकारेण वैषम्यात्। यत्तु यत्रव भेदाभावोऽभेद-
गौडब्रह्मानन्दी (लघुचन्द्रिका)।
अर्थप्रकाशनिरुपाधिकेष्टव्यक्तेरेकत्वेन तद्गतजातिरूपत्वस्य ज्ञानत्वादौ वकुमशक्यत्वेनोक्तव्यक्तिरूपत्वमेव वाच्यम्। तथाच विशेषं विना न धर्मधर्मितेति भावः । वृत्तिविशेषरूपोपाधिभेदेन कल्पितभेदव्यक्तिषु जानत्वादिजातिसंभव इत्याशयेनाह-ज्ञानत्वेति। व्याख्यानेति। आकाशं शब्दाश्रय इति वाक्ये शब्दाश्रय इति व्याखयानम्, आकाशमिति व्याख्येयम्। स्वसमानार्थकत्वबोधकं पदं व्याख्यानम्। तथाच आकाशपदं शब्दाश्रयपदार्थबोधकमिति वाक्यार्थबोषः। तथाच आकाशपदार्थमजानन्तं शब्दाश्रयपदार्थ जानन्तं प्रति व्याख्यानमुपयुज्यते। एकतरत्वस्येति। नच- एकस्य परिशेषेणेत्येवार्थ इति-वाच्यम्; एकस्येव ज्ञानानन्दस्वरूपत्वेनाप्रकाशापत्तेरयुक्तत्वात्। कल्पितांशमिति। चिन्रूपादानन्दरूपस्यानादिकल्पितभेदेन चिदंशज्ञानेऽप्यानन्दरूपैक्यस्य न ज्ञानम्; तज्ज्ञानस्यैवाधिष्ठानज्ञानतवेन सकलभ्रमविरोधित्वम्। चिद्रूपस्य निरपेक्षत्वेऽपि भेदाभावस्वरूपैकत्वरूपेण कल्पितभेदात् सापेक्षा चिदित्यर्थः । फलस्येति। चिदंशज्ञानेऽपि 'पूर्णानन्दं न जानामी'त्यादिव्यवहारवत् प्रकृते फलं नेत्यर्थः । साक्षिसिद्धतयेति। आनन्दादौ ब्रह्मघर्मत्वस्य परोक्षत्वेऽपि प्रातीतिकत्वात् साक्षिसिद्धत्वम्। अथवा-मम ज्ञानमानन्द इत्याद्यपरोक्ष- तया आत्मधर्मत्वे प्रतीयमानमेव ब्रह्मधर्मः । आत्मन एव वस्तुतो म्रह्मतवादिति भावः। व्यावृत्तः व्यावर्तकवान्। सदास्ति सर्वकालविशिष्ट।। सर्वत्रास्ति सर्वदेशविशिष्टः। असाधारणस्वरूपस्य समवायत्वसंबन्धत्वादिविशि- ष्टस्य। एकरूपेण विशिष्टप्रमां प्रति विशेष्यत्वविशेषणत्वयोरभावेऽपि समवायत्वसंबन्धत्वाभ्यां सत्वासज्विभ्रत्वाभ्यां अम्स्यविशेषत्वव्यावृत्तरवाभ्यां कालत्वसर्वकालत्वाभ्यां देशत्वसर्वदेशत्वाभ्यां तयोः संभवः; अमेदेऽपि ताभ्यां कल्पित- भेदस्वीकारादिति भावः। स्वनिर्वाहकत्वात् विशेषं विनैव स्वविशेष्यकप्रमाविशेषणत्वात्। अतएव विशेषानङ्गी- कारादेव। स्वेतरेति। विशेपेत्यर्थः। वस्त्वमिन्नः विशेषान्तरं विनैव वस्त्वभिन्नः। नद्ूषणेति। घटादिवि-
Page 487
606 अद्वैतसिद्धिः । [परिच्छेद: २]
कार्य च प्रमितं, तत्रैव विशेष: कल्प्यते, नतु प्रमितमेदे घटपटादौ विशेषमादाय मेदत्यागः, नहि सोमाभावे पूतीक इति तल्लामेऽपि सइति, तन्न; मुख्यत्वनियामकस्य तत्रेवात्राभावात् विशेषभेदयो- रुभयोरपि स्वरूपपर्यवसन्नत्वेन त्वद्वाग्भङ्गेरनवकाशात्। किंच मेद: स्वयमेव स्वकार्य करोतु। अमे- दकार्यार्थ तत्प्रतिनिधिरस्त्वित्याद्यापत्तेश्च। नचानन्दादावभेदवत् मेदस्य बोधाभाव: अलौकिक- स्थले द्वयो: साम्यात्। ननु-अनुमानमत्र मानम्, तथाहि-ब्रह्मस्वरूपभूतयोर्विज्ञानानन्दयोर्ध्रह्ा- मेदयोश्च एकतरपरिशेषाभावः, प्रमेयत्वादेः स्वाश्रितत्वादिकं घा भेदान्यनियम्यम्, भेदानियम्यत्वे सति नियम्यत्वात्, यत् यदनियम्यत्वे सति नियम्यं, तत् तदन्यनियम्यम्। यथा संमतम्। ब्रह्मस्व- रूपभूतं विज्ञानानन्दादिकं वा, भेदान्येंकतरापरिशेषनिर्वाहकवत्, भेदहीनत्वे सति एकतरापरिशेष- रूपनिर्वाह्यवत्त्वात्, यद्येन हीनत्वे सति यन्निर्वाह्यवत्, तत्तदन्यनिर्वाहकवत्, यथा संमतम्। स्वाश्रितं प्रमेयत्वादिकं वा, भेदान्याश्रयाश्रयिभावनिर्वाहकवत्, भेदहीनत्वे सत्याश्रयाश्रयिभावरू- पनिर्वाह्यवत्त्वात्, यथा संमतमित्यादिकमिति-चेन्न; त्वदभिमतविशेषादन्यस्यैवाविद्यादे: सर्वत्र नियामकत्वसंभवेनार्थान्तरात्, आविद्यकभेदनियम्यत्वेन बाधादसिद्धेश्च॥ ननु-तथापि प्रत्यक्षमत्र मानम्, तथाहि-तन्तुपटादिबुद्धीनां मिन्नघटादिबुद्धितो वैलक्षण्यं तावदनुभूयते, तञ्च न तावत्संबन्धविषयत्वेन; कुण्डबदरादिवुद्धितो वैलक्षण्यानुभवात्, नापि संयोगान्यसंबन्धविषयत्वेन; घटतज्ज्ञानतदभाववुद्धितोऽपि वैलक्षण्यानुभवात्, नापि स्वरूपप्रत्या- सत्तिसंयोगान्य संबन्धविषयत्वेन; घटतद्धर्मिकान्योन्याभाववुद्धेर्घटपटादिबुद्धितो वैलक्षण्याभावापा- तात्, नाप्ययुतसिद्धिविषयत्वेन; आश्रयाश्रयिभावनियमो ह्ययुतसिद्धिः। तत्रच तदानींतन आश्र- याश्रयिभावः कुण्डबदरादावपि भाति, नियमस्तु न तन्तुपटादिवुद्धावपि। नहि तन्तुपटादिधीः
गौडव्रह्मानन्दी (लघुचन्द्रिका)। शेषादिपदपर्यायरवादीत्यर्थः। वैषम्यादिति। अन्त्यविशेषस्य धर्मिभिन्नत्वेन तव्यावर्तकत्वं तादात्स्येन स्वव्यावर्तकरवं च संभवति, प्रकृते तूक्तदोषेभ्यो न निस्तार इति प्रतिकूलतकैर्धर्मिग्राहकमानं नावतरतीति भावः। वस्तुतस्तु- रूपादेरेव धर्मिव्यावर्तकत्वेनात्यन्तविशेपेऽपि न मानमिति न दष्टान्तः। तत्र सोमे। अत्र विशेषे। तथाच विशेषस्यैव मुख्यत्वापातेन तदसंभवे भेद इति विपरीतं स्यात्। नेनि व्यवहारे विशेषो विषय इत्यस्यापि सुवचत्वादिति भावः । भेदे मुख्यत्वबाधकं विशेपैक्यमाह-विशेषेति। किंचेत्यादि। यन्तु विशेपस्य भेदकार्ये अभेदकार्ये वा प्रतिनिधित्वे विवादेऽपि तत्सिद्धिरागतैवेति, तन्मौढ्यात्; नहि प्रकृते विशेषस्याभेदकार्ये प्रतिनिधित्वमुक्तम्। किंतु मेदस्य बोधाभाव इति। भेदस्य प्रतिनिधित्वे बाधक इति शेपः । अभेदो यथा ज्ञायते, तथा न भेद इति न स प्रतिनि- धिरिति भावः। अलौकिकस्थले ज्ञानपूर्णानन्दाद्यंशस्थले। द्योः भेदविशेपयोः। साम्यात् अप्रत्यक्षत्वेन कल्प- नार्हत्वेन च तुल्यत्वात्। लौकिकस्थलेऽपि समवायः संबन्ध इत्यादौ कल्पनार्हत्वेन तुल्यत्वात्। एकतरपरिविशे- षाभावः एकस्यैव यत् कार्य तदभावः । अविद्यादेरिति। अविद्यातत्कस्पितधर्मधर्मिभावांदरित्यर्थः । अविद्या च जगदुपादानत्वादिना श्रुत्या च सिद्धैव। तदसिद्धावपि प्रकृतानुमानेनंव तत्सिद्यापातः भेदज्ञानादिकमादायार्थान्तरा- नपायश्च। ननु भेदान्यमान्ननियम्यत्वादिकं वाच्यम्, तथाच अविद्यादेर्नियामकत्वं न भेदं विनेति नार्थान्तरम्, तत्राह-आविद्यकेति। तन्तुपटादिबुद्धीनां तन्तुः पट इत्यादिबुद्धीनाम्। भिन्नघटादीति। घटः पटभिन्न इत्यादीत्यर्थः । बुद्धितो वैलक्षण्यं बुद्धि्ववर्नमानधर्मवत्वम्। विषयत्वेन विषयत्वामिन्नम्। घटः पटभिन्न इत्यादौ भेदादः संसर्गो न भाति; तस्य तत्स्वरूपत्वात्, किंतु भेदाभिन्नं धटादिस्वरूपमात्रम्, तन्तुः पट इत्यादो तु संसर्गो भातीत्यर्थः। वैलक्षण्यानुभवात् संबन्धांशवैलक्षण्यानुभवात्। एवमग्रेऽपि बोध्यम्। उक्तस्थले भेदसंसर्गानुभवादि- त्यपि बोध्यम्। घटतज्ज्ञानतदभाववुद्धितः घटो ज्ञातः प्रतियोगितासंबन्धेनाभावात् इत्यादिबुद्धेः। प्रत्यासन्तीति। संबन्धेत्यर्थः । घटतद्धर्मिकान्योन्याभावबुद्धेरिति। तद्धर्मिकोऽन्योन्याभावो यस्य कपालादेः स तद्धर्मिकान्यो- न्याभाव: कपालादिस्तस्य घटे या बुद्धि: घटः कपालद्यमित्याकारा तस्या इत्यर्थः । घटपटादिबुद्धितः घटपटादौ घटत्वपटत्वबुद्धितः। वैलक्षण्याभावेति। घटादौ घटत्वादिसमवायसंबन्धावगाहिबुद्धितो घटः कपालद्वयमिति बुद्धे: संबन्धांशे वैलक्षण्यमनुभूयमानं न स्यात्; उभयोरपि समवायविषयकतवाविशेपात्। नच-तयोरवैलक्षण्यमिष्ट- मेवेति-वाच्यम्; कपालं घट इतिवत् घटो घटत्वमित्यस्यापत्तेरिति भावः । यथाश्रुतं त्वसङ्गतम्; तन्तुपटादिबुद्धे: स्वरूप संयोगान्यसंबन्धविषयकत्वरूपवैलक्षण्यस्योक्तत्वेन घटः पटो नेत्यादिबुद्धौ स्वरूपसंबन्धविषयकत्वस्य घटपटादि- धीवलक्षण्यस्य संभवात्। आश्रयाश्रयिभावनियम: संबन्धानाशादिः। ननु युतासेद्धविपयकत्ववैलक्षण्यमस्तु,
Page 488
[विशेषखण्डनम् ] गौडब्रह्मानन्दीयुता। ८०९
प्रत्यक्षा। अनयोः संबन्धनाशो वा, विभागो वा, न भविष्यतीत्याकारा, न वा कुण्डबदरादिघीस्तयोः संबन्धनाशो वा, विभागो वा, भविष्यतीत्याकारिका। नापि समवायविषयत्वेन; उक्तन्यायेन संबन्ध- नित्यत्वस्य संबन्ध्ययुतसिद्धत्वस्य वा तत्रास्फुरणात्। तस्मादभेदविषयत्वेनैव वैलक्षण्यं वाच्यम्; अयं घटः, गजादिकं सेना, पत्रमेव ताटङक इत्यादी पुरोवर्तिना घटादेरिवातानवितानात्मकास्तन्तव एव पट: शुक्क: पट इत्यादावपि तन्त्वादिना पटस्याभेदप्रतीतेः । नन्र-अत्र पटत्वशुककत्वयोरेक- स्थत्वमेव भातीति-वाच्यम्; पटशुक्कयोरक्यस्यापि तत्रान्तर्गतेः, अन्यथा क्वाप्यभेदो न स्यात्। 'घटः पटो' नेति घीश्र भेदविषया न स्यात्। 'दण्डी चत्र' इत्यादावपि दण्डिना चैत्रस्याभेदो भात्येव। नच-शुक पट इत्यत्र शुक्कवानेव इति प्रतीयत इति-वाच्यम्; शुकक रूपमित्यत्र यत् शुझ्ं तस्यैवेह प्रतीतेः। अन्यथेहापि दण्डीतिवत् शुक्कीति स्यात् । मतुब्लोपादिकल्पनं शब्दविष- यकव्यवहारे, नतु प्रतीता। पटस्य शौक्ल्यमित्यादिधीर्न भेदविषया, किंतु संबन्धविषया सती सत्ते- स्यादिघत् भेदाभावेऽपि उपपन्ना च। पटस्य तन्त्वन्यत्वे च गुरुत्वद्वयापत्तिः। तन्तुमति पटवृत्तिश्च न स्यात्; मूर्तानां समानदेशताविरोधात्। व्यवहारार्थक्रियाभेदादिकं तु पत्रताटङ्कादिवद्युक्तम्। तस्मात्तन्तुपटादिबुद्धिरभंदविपयैव। यदि चैवं केवलाभेदविषया, तर्हि सामानाधिकरण्यव्यवहारं न जनयेत् ; घटः कलश इत्याद्यव्यवहारात्। तेन ज्ञायते अधिकोऽप्यस्य विषयोऽस्ति। नचायं भेद :; घटः न शुक इत्युल्लेखापातात्, भेदाभेदाविरोधाय विशेषस्यावश्यकत्वाच्च। तस्माद्योऽघिको विषयः स विशेष इति-चेन्न; सत्यप्यभेदे काल्पनिकमेदमादाय तथाव्यवहारोपपत्या विशेषस्या- सिद्धेः। नच घटो न शुकः इति प्रतीत्यापत्तिः: फलबलेन काल्पनिकभेदस्य सामानाधिकरण्यादि- व्यवहारमात्रनिर्वाहकन्वकल्पनेन विपरीतोललेखनं प्रत्यहेतुत्वात्। तस्मादेवं विशेषोऽयं न मानविषयः सखे। विपादं जहि मत्सिद्धाविद्यया सर्वसङ्गतिः॥ इत्यद्वैतसिद्धा विशेषखण्डनम्॥
गांडब्रह्मानन्दी (लघुचन्द्रिका)। तत्राह-न वा कुण्डेति। विभागो वेति। वाकारोऽनास्थायाम्। संयुक्तनाशात् संयोगनाशस्थले विभागानुत्पत्ते: संबन्धनाशस्यैव युतसिद्धिन्वात्। अस्फुरणादिति। समवायत्वस्याखण्डस्येव भानस्वीकारेऽपि घट इति बुद्धितः कपारूद्वयं घट इति सुद्धां संबन्धवैलक्षण्यं न स्यादिति बोध्यम्। एकस्थत्वं एकधर्मिणि वैशिष्यम्। अन्तर्गतेः भानात्। न स्यादिति। नञं बिना यत्राभेदो भाति, तंत्रव वाक्ये नन्सच्चे भेदो भानि। अतएव भूतले घटो नेत्यादो न भेदभानमिति भावः। ननूक्तनियमे व्यभिचारः, दण्डी चत्र इत्यादौ अभेदाभानेडपि न दण्डी चैत्र इत्यादौ भेदभाना्तव्राह-दण्डीत्यादि। यच्छ्रुकं यच्छुक्कपदार्थः । तस्यैवेति। शुक्कं रूपं शुकक: घट इत्येतयोरेक- प्रकारकत्वमानुभाविकमित्यर्थः । शुक्कीति स्यात् शुककविशिष्टप्रकारकत्वमनुभूयेत। मतुब्लोपेति। नच-मतुब्लो- पविधि्व्यंर्थः, शुकक: घट इत्यादिप्रयोगस्याभेदेनव उपपत्तरिति-वाच्यम्; स्वरविशेपार्थकत्वात्। उपपन्नेति। भेदः प्रतिनिधिना विशेषेणेत्यादिः। विशेपस्य शुक्कतवादिकमेव प्रतियोगितावच्छेदकम्, नतु शुकरूपत्वादिकम्। तेन पट- शुककरूपमित्यादि प्रयोगप्रत्ययो न। यन्तु रूपं पट इत्यादिप्रत्ययः स्यादेव, तादृशप्रयोगस्तु प्रथमपुरुपबहुवचनलङ्- लोडन्तवचिप्रयोगवन्न साधुरिति, तन्न; तादृशप्रत्ययस्यानुभाविकत्वाभावात्। वस्तुतस्तु-रूपत्वादिना रूपादेर्न घटाद्यभेद :; मानाभावात्, किंतु शुक्कृत्वादिना। अतएव मन्मतेऽपि न तथाप्रयोगप्रत्ययौ। अविरोधायेति। सविशेपाभेदो न भेदविरोधीति भावः। अभेदे व्यावहारिकाभेदे। काल्पनिकभेदं प्रातीतिकभेदम्। भिन्नसत्ताक स्वेनैव भेदाभेदौन विरुद्ौ। व्यवहारदशायां युक्तिबाध्यत्वादिना भेद एव प्रातीतिकः । अतएव तन्तुपटयोः कार्यकारणभावोऽपि प्रानीतिकः। अहेतुत्वादिति। अभेदविरोधिविशेषणतया भेदप्रकारकधीनेज्समभिव्याहृत- वाक्येनोलिख्यते। तादृशविशेषणता च गुणगुण्यादिभेदस्य कल्पितेति नोक्तव्यवहारः। यदा सा कल्पिता दोषान्तरात्।
विशेषखण्डनम्॥ तदा घटो न शुक्क इति भ्रमो भवत्येवेति भावः । तर्करित्यादि-विशेषपरिखण्डनम्॥ इति लघुचन्द्रिकायां
अ. सि, १८
Page 489
८१० अद्वैतसिद्धिः । [ परिच्छेद: २ ]
अथ भेदपञ्चके प्रत्यक्षप्रमाणभङ्ग:। एवं प्रत्यक्षतः प्राप्तभेदसयैव निवारणात्॥ असाक्षात्कृतजीवेशभेदादी का कथा तव।। तथाहि-ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य गृहीतुमशक्यत्वात्। ननु-ईशधर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदः तथापि तत्प्रत्यक्षः; 'नाहं सर्वशो नाहं निर्दुःख' इत्याद्यनुभवात्।नच-योग्यप्रतियोगिकत्वमभावयोग्यत्वे प्रयोजकमिति-वाच्यम्; स्तम्भः पिशाचो नेत्यादिप्रत्यक्षरूपफलबलेन संसर्गाभावे तथात्वेऽपि अन्योन्याभावे अधिकरणयोग्यताया एव तन्त्रत्वात्। वस्तुतस्तु-संसर्गाभावेऽपि न तन्मात्रं योग्यता; जलपरमाणी योग्यपृथिवीत्वाभा- वग्रहप्रसङ्गात्, किंतु यत्र यत्सत्त्वमनुपलब्धिविरोधि, तत्र तस्याभावो योग्य इति अधिकरणनिय- तैव सर्वाभावसाधारणी योग्यता। साच प्रकृतेऽप्यस्त्येव: अन्यथा अभेदश्रुतेरप्रसक्तप्रतिषेधक- तापत्तेः। भेदश्रुतेश्च त्वदुक्तप्रत्यक्षसिद्धभेदानुवादित्वं न स्यात्। ईशधर्मिकजीवभेदेऽपि 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप। उत्तमः पुरुपस्त्वन्य' इत्यादिनद्चनानुमितप्रत्यक्षसिद्धत्वमेवेति-
शुद्ध चैतन्यधर्मिकनिर्दुःखादिप्रतियोगिक मेदानवगाहित्वात्। श्रुतिरप्यवच्छिन्नभेदानुवादिनी। भेद- निषेधश्रुतिस्तु अनुमानादिप्रसक्तभेदनिषेधपरा । नच 'योऽहमस्वाप्सं यस्य ममाज्ञानसंसारादि, सोऽहं निर्दुःखो ने ति सुपुप्तिकालीनान्तःकरणावच्छिन्नाभेदेनाज्ञानाद्याश्रयभेदेन च प्रत्यभिज्ञाय- माने शुद्धे भदप्रतीतिः, संसाराधारस्य तदनाधारात् भेद एव ह्यावयोर्विवादः, नतु चैतन्यस्य चैतन्यादिति-वाच्यम्: पतावता अज्ञानावच्छिन्न एव भेदग्रहो नतु शुद्धे। नहि सुपुप्तिकाले अन्तः- करणानवच्छिन्नत्ववद्ज्ञानानवच्छिन्नत्वमप्यस्ति। यनु चैतन्यस्य चैतन्यात् भेदो नास्तीति, तदस्माक- मनुकूलम्; चैतन्ये स्वाभाविकस्याभेदस्यैवास्मद्रहस्यत्वात् भवत्प्रतिकृलं च। नहि भवतां चैत्रमैत्रादि चैतन्यानामैक्यमिति मतम्। अहमर्थस्य यथा न शुद्धात्मत्वं तथोक्तं प्राकु। साक्षिप्रत्यक्षस्याध्यस्ता- दिसाधारणतया तत्सिद्धत्वमात्रेण भेदे अबाधितत्वमसंभावितमेव। एतेन-जीवानां परस्परं भेदे प्रत्यक्षं प्रमाणमिति-निरस्तम्: नाहं चत्र इत्यादेरवच्छिन्नभेदविषयत्वात्। 'घटोन ब्रह्म, घटो न पटः, नाहं घट'इत्यादिप्रत्यक्षस्य कल्पितमेदविषयत्वेन तात्विकमेदासिद्धः। तस्मात् भेदपश्चके न प्रत्यक्षं प्रमाणम्।। इत्यद्वैतसिद्धा भेदपश्चके प्रत्यक्षभङ्ग:॥ गौडब्रह्मानन्दी (लघुचन्द्रिका )। अनुपलब्धिविरोधि उपलब्ध्यापादकं, जलपरमाणो यदि पृथिवीत्वं स्यान् तदोपलभ्येतेनि नापादयितुं शक्यम्; तत्सत्वेऽप्यनुपलब्धिसंभवात्, योग्यव्यक्तिघटितसन्निकर्पस्येव जात्या दिचाक्षुपोपधायकत्वादिति भावः। अस्त्येवेति स्तम्भो यदि पिशाचः स्यात, तदा तथोपलभ्येतेत्यस्येव अहं यदि निर्दुःखः स्यां, तदा तथोपलभ्येयेत्यस्यापि संभवात्। तान्यहमित्यादि। न त्वं सर्वाणि वेत्थेत्यत्र जीचे सर्वज्ञात् भेदोऽथ :; आख्यातस्य कर्तृवाचित्वान्। तथाच सर्वज्ञेऽपि जीवभेदधीरीशस्यास्तीत्यभिमानः। वस्तुत आख्यातम्य कर्नृत्वचाचकत्वान्न कर्तृवाचकत्वम्। तथाचोक्तवाक्योपन्या- सोऽसङ्गतः। परंतु सर्वेज्ञत्वादेव स्वस्मिन् जीवभदप्रत्यक्षवत्वमीशस्य। एवमप्यप्रमाणत्वान् प्रमाणतवेनोपन्यासो न युक्त इनि ध्येयम्। उक्तानुभवस्य नाहं निर्दुःख इत्यादेः। संसाराधारस्य संसारोपलक्षितचिं्व्यक्तेः । तदना- धारात् तदनुपलक्षितचिद्यक्तितः । एनावनापीत्यपिनोक्तप्निपत्ती अज्ञानाश्रयभिव्नाहमर्थ भेदो भानि, न त्वज्ञाना- श्रय इनि सूचितम्। नतु शुद्ध इति। अज्ञानांपहिने निर्दुःभेदस्त्वयाप्युच्यते। तथाच तस्यैवोक्तधीविषयत्वसंभवे शुद्धस्य निर्दुःखात् भदे मानाभावः, नद्युक्धीरज्ञानोपहितं नावलम्बते, किंतु शुद्धमिति वक्तुं शक्यमिति भावः ।
वा, आद्ये आह-तदस्माकमनुकलमिति। चतन्ये शु्चिनि। अभेदस्य शुद्धचित्वावच्छिन्नप्रतियोगिताक- भेदाभावस्य। शुद्धचित्वरं च शुद्धचिदन्याविषयकधीविपयत्वम्। द्वितीये त्वाह-भवत्प्रतिकलं चेति। चकाराद- स्माकमनुकूलमित्यस्य समुच्यः। ननु 'नाहं निर्दुःख' इत्याद्यनुभवात शुद्धे जीवस्वरूपे संसारानाधारेशस्वरूपात् भेदसिद्धिरत आह-अहमर्थस्येति। साक्षिप्रत्यक्षस्यान्तरङ्गत्वान्मानान्तराबाध्यत्वमिनि परोक्तं निरस्यति- साक्षीति। जीवानां जीवस्वरूपाणाम्। अवच्छिन्नभेदेति। मनःशरीरावच्छिन्नयोभेंदेत्यर्थः। तर्करित्यादि- नाध्यक्षं भदपश्चके। इति लघुचन्द्रिकायां भेदपश्चके प्रक्षत्यभङ्ग:।
Page 490
[जीवब्रह्मभेदानुमानभङ्ग:] गौडब्रह्मानन्दीयुना। ८११
अथ जीवब्रह्मभेदानुमानभङ्ग:। नाप्यनुमानम्। (१) जीवेश्वरी, भिन्नौ, विरुद्ध धर्माधिकरणत्वात्, दहनतुहिनवदित्यत्र दुःखादेर- न्तःकरणादिधर्मत्वेन स्वरूपासिद्धः, एकत्रव निर्दुःखत्वदुःखवत्वयोरवच्छेदकभेदेन दष्टतया धर्मिभे- दासाधकत्वात्, भेदमात्रे सिद्धसाधनात्, तात्विकमेदे साध्यवकल्यात्। (२) ब्रह्म, तत्त्वतो जीवात् भिन्नम्, सर्वेज्त्वात्, व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् (३) ब्रह्म, धर्मिसत्तासमानस- त्ताकभेदवदिति साध्यकरणे असाधारण्यात्, (४) आत्मत्वं, नानाव्यक्तिनिष्ठम, जातित्वात्, पृथिवीत्ववदित्यत्रात्मैक्यवादिनं प्रत्यसिद्धेः, कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाच्च।(५ दुःखं, गुणत्वावान्तरजात्या सजातीयाश्रयात् भिन्नाश्रितम्, गुणत्वाद्रूपवदित्यत्र शब्दे व्यभिचारात्, दुःखादीनामन्तःकरणधर्मत्वेन सिद्धसाधनाच्च, (६) विमतानि शरीराणि, स्वसंख्यासंख्येयात्मवन्ति, शरीरत्वात्, संमतवदित्यत्र योगिशरीरे व्यभिचारात्। आत्मा, धर्मिसत्तासमानसत्ताकात्मप्रतियो- गिकभेदवान, द्रव्यन्वात्, घटवत्, (८) आत्मा, द्रव्यत्वव्याप्यजात्या नाना, अश्रावणविशेषगुणा- धिकरणत्वात्, घटवदित्यत्र चात्मनो निर्गुणत्वेनासिद्धेः। चैत्रश्चै्रप्रतियोगिकोक्तभेदवान्, उक्तहेतोरु क्टप्टान्तवदित्याभाससाम्याच्च। एतेन-नवीनानुमानान्यपि-निरस्तानि; (१) ईश्वरः जीवप्रतियो- गिकतात्विकभेदवान, सर्वशक्तित्वात्, सर्वजत्वान्, सर्वकार्यकर्तृत्वात्, स्वनन्न्रत्वाद्वा, व्यतिरेकेण जीववत्। (२) जीवो वा, ब्रह्मप्रतियोगिकतात्विक भेदवान्, अल्पशक्तित्वात्, अल्पक्षत्वात्, अल्प- कर्तृत्वात्, संसारित्वाद्वा, व्यतिरेकेण ब्रह्मवत्, इत्यादिपु भेदस्य स्वरूपत्वेन तद्वत्त्वसाधने वाधात्। नच् विशेषमादाय तदुपपादनम्: तस्य स्वरूपानतिरेकेण तद्वत्त्वसम्पादकत्वात्, अप्रसिद्धविशेषण- तापत्तेश्च। नच-जीवव्रह्माभेदेSनिष्टप्रसक्त्या अषटट्रव्यातिरिक्तद्रव्यत्वादेरिव त्वत्सिद्धस्वप्रकाशत्वादे- रिव च साध्यस्य मानयोग्यत्वसंभव इति-वाच्यम्; तातत्विकमेदव्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसंभवात्। नच-जीवो ब्रह्म वा, किंचिद्धर्मिकप्रतियोगिज्ञानावाध्यभेदप्रतियोगी, अधिष्ठानत्वात्, शुक्तिवदिति सामान्यतः साध्यप्रसिद्धिरिति-वाच्यम्; यत्किंचिदभावप्रतियो- गिघटादिज्ञानावाध्यभेदप्रतियोगित्वेनात्मज्ञानावाध्यभेदासिद्धेः, स्वप्नतियोगिज्ञानावाध्यभेदप्रतियो- गित्वे साध्ये दृष्टान्ते स्वपदेन शुक्तेदाग्ान्तिके स्वपदेनात्मन उक्तेर्व्याप्तग्रहानुपपत्तेः। यत्तु जीवात् भिन्न इत्येव साध्यम्, मिथ्याभेदेन सिद्धसाधनं पश्चान्निरसनीयमिति, तन्नः निरसनोपायस्य निरसि- प्यमाणन्वात्। नच ब्रह्म जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवदित्येव साध्यम् ; धर्मिपदेन
गाडब्रह्मानन्दी (लघुचन्द्रिका)। जीवेश्वरावित्यादि। ईशस्वरूपं, जीवस्वरूपाद्भिन्म्, तह्वृत्तिदुःखादिशन्यत्वात्। यो यद्धत्तिधर्मशून्यः, स तदन्यः, यथा दहनधर्मशून्यस्तुहिनम्नदन्य इत्यर्थः। तदीयस्वाभाविकधर्मेशून्यन्वं हेतुः, तदीयधर्मशून्यत्वं वा। आद्ये आह-दुःखादेरिति। द्वितीये आह-एकत्रवेति। धर्मिभेदासाधकत्वात् अनोपाधिकभेदासाधकतवात्। औपाधिकविरुद्धधर्मः औपाधिकमेव भेदं साधयनीत्यर्थः। भदमात्रे औपाधिकसाधारणभेदे। असाधारण्यात् साध्यवत्वेन निश्चितघटाढितो हेनोर्व्यावृत्तत्वान् । यक्किंचिद्वमिसत्तासमसत्ताकभेदेन सिद्धसाधनाद्यपि बोध्यम्। गुणत्वावान्तरजात्या सजातीयाश्रयेति। स्ववृत्तिर्या गुणत्वव्याप्यजातिः, तद्विशिष्टस्याश्रयेत्यर्थः । स्वसङ्वया- संख्येयेति। स्वसमसङ्गवेत्यर्थः । व्यभिचागदिति । कल्पितसमसंख्यात्वमादाय सिद्धसाधनाद्यपि बोध्यम्। द्रव्यत्वव्याप्यजात्या नाना स्वधृत्तिर्या द्रव्यत्वव्याप्यजातिः, तद्विशिष्टान्यासमचेतबहुत्वसंख्याचान्। आकाशे व्यभि- चारादश्रावणेति। असिद्धे: द्रव्यत्वगुगाधिकरणत्वयोरभावात्। कल्पितस्य धूमादर्हदादावपि सत्वात् पक्षे तत्समा- नसत्ताकहेत्वभाव एव स्वरूपासिद्धिरिति भावः । कल्पितोक्तसंख्यया सिद्धसाधनाद्यपि बोध्यम्। सा्य्तर्शू - न्यतवेन तुल्यत्वात। एतेन अप्रसिद्धविशेषणत्वाभाससाम्यादिना। अप्रसिद्धविशेषणत्वं समर्थयिनुं पुनराह-अप्र- सिद्धेति। द्रव्यत्वादेरिवेति। इच्छादिकं, द्रव्याश्रितम्, गुणत्वाित्यादो अष्टद्रव्याश्रितत्व बाधादष्टान्यद्रव्याश्रितत्व- स्येव मिथ्याभेदबाधादमिथ्याभेदस्यानुमितिरित्यरथः। स्वप्रकाशत्वादेरिवेति। वेद्यत्वं, किञ्चित्निष्ठात्यन्ताभावप्रतियो- गीत्यनुमानेनावेद्यत्वे सत्यपरोक्षव्यवहारविपयत्वस्य प्रसिद्धिरिव जीवो ब्रह्म वा किञ्ञिद्र्मिकेत्यादिवक्ष्यमाणानुमानेन जीवादिप्रतियोगिकतात्विक भेदप्रसिद्धिरिति भावः। संभव इति। तथाच मिथ्याभेदवादोऽप्रसिद्धः । किंचिद्धर्मि- कप्रतियोगिज्ञानबाध्यमदेति। किञ्ञिद्विशेष्यकं यत प्रतियोगिज्ञानं तदवाध्यभेदेत्यथः। दष्टन्ते उदाहरणवाक्ये। दार्श्टान्तिके प्रतिज्ञावाक्ये। व्याप्तिग्रहेति। प्रतिज्ञावाक्यबोधितसाध्यतावच्छेदकरूपेणोदाहरणवाक्यात् व्याप्ति-
Page 491
८१२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
ब्रह्मण उक्तावप्रसिद्धविशेषणत्वतादवस्थ्यात्, यत्किंचिद्धर्म्युक्ती घटादिधर्मिसमानसत्वेन सिद्धसा- धनात्, विपक्षबाधक रूपविशेषाभावे पूर्वाक्तासाधारण्यापत्तेश्च। यत्तु ब्रह्म जीवप्रतियोगिकतात्विका- भेदवन्नेति, तन्न; एवमपि तात्विकाभेदस्यातात्विकाभावेन सिद्धसाधनात्, अभावेऽपि तात्विकत्व- विशेषणे अप्रसिद्धितादवस्थ्यात्। ननु-अत्र जीवप्रतियोगिकतात्विकभेदस्यान्योन्याभावरूपत्वा- न्नाप्रसिद्धिर्दोषः, यत्र ह्वभावव्यापकतया हेत्वभावो ग्रह्यते, तत्रैव साध्यप्रसिद्धिरङ्गम्, इह तु जीवतादात्म्यव्यापकता हेत्वभावस्य ग्राह्या। तदभावो हेतुना साध्यत इति किं साध्यप्रसिद्धा? तां विनापि व्याप्तग्रहोपपत्तेः, सन्देहरूपपक्षतासम्पत्तयेऽपि न तदपेक्षा; तस्यास्सिषाधयिषाविरहसकृ तसाधकमानाभावरूपत्वेन सन्देहाघटितत्वात्, 'ब्रह्म तत्त्वतो जीवभिन्नं न वेति सन्देहाभावेऽपि 'जीवब्रह्मणोभेदे तातत्विकत्वमस्ति नवे'ति सन्देहसंभवाच्च, प्रमेयत्वमेतन्निष्ठात्यन्ताभावप्रतियोगि न वेति सन्देहवदिति-चेत्, नः एवं हि प्रसिद्धेतरभेदः पृथिव्यामिव प्रसिद्धजीवभेदो ब्रह्मणि सिद्धतु, न तद्गततात्त्विकत्वमपि; व्यापकव्यतिरेकस्य व्याप्यव्यतिरेकमात्रसाधनसमर्थत्वात्, अन्यथातिप्रसङ्गात्। यदपि भेदतात्विकत्वं धर्मनिष्ठत्वेन उदशङ्कि, तदपि साध्याप्रसिद्धा दुष्टम्। नापि ब्रह्म, जीवात् भिन्नम्, दुःखाननुभवितृत्वात्, घटवदित्यन्वयि; सर्वानुभवितरि हेतोरसिद्धेः। स्वनिष्ठेति विशेषणे जीवे व्यभिचार :: दुःखस्यान्तःकरणनिष्ठत्वात्, मिथ्याभेदेन सिद्धसाधनाञ्च। नच-भेदे साध्ये अर्थशून्यभ्रान्त्या सिद्धसाधनोक्त्ययोग इति-वाच्यम्: भ्रान्तेर्वस्तुशून्यत्वस्यैवा- भावात्। उक्तमिदमनिर्वाच्यवादे। नचैतदनुमितिविषयतया प्रामाणिकत्वेन सिद्धतः कथं मिथ्या- त्वम् ; अनुमितिविषयतायाः प्रामाणिकत्वे अतन्त्रत्वात्। नचैवं मिथ्यात्वाद्यनुमानेऽपि कल्पितमि- थ्यात्वादिना सिद्धसाधनापत्तिः; कल्पितत्वं व्यावहारिकत्वमभिप्रेनं प्रातिभासिकत्वं वा, आद्य इष्टापत्तेः, अन्त्ये हेतोस्स्वसमानसत्ताकसाध्यसाधकतया प्रातिभासिकत्वाप्रसक्तः । एतेन-ब्रह्म, जीव प्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवत्, दुःखाननुभवितृत्वात्, अभ्रान्तत्वात्, असंसारि- त्वात्, घटवत्। जीवो वा, ब्रह्मप्रतियोगिकताद्टग्भेदवान्, असर्वशक्त्यादिभ्य इति-निरस्तम्; उपहितस्य पक्षत्वे धर्मिसमसत्ताकत्वे सिद्धेऽपि तातत्विकत्वासिद्धे: सिद्धसाधनात्, शोधिततत्वंप- दार्थयोः पक्षत्वे तयोर्धर्मित्वाभावेन वाधापत्तेः। नच-धर्मित्वाभावं प्रति धर्मित्वाधर्मित्वाभ्यां व्याघातः; ब्रह्मणः सर्वनिषेधस्वरूपत्वेन व्याघाताभावात्, नच धर्मिशब्देनाथ्रयमात्रविवक्षा; धर्मि- त्ववदाश्रयत्वस्यापि तत्रासत्त्वात्। यन्तु धर्मिशब्दस्य पित्रादिशब्दवत् संबन्धिशव्दत्वेन यत्किंचिद्ध-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ्रहेत्यर्थः। यन्तु प्रनियोगिसामान्यज्ञानाबाध्यत्वं निवेश्यमिति, तत्तुच्छम्; आत्मनोऽपि प्रतियोगिसामान्यान्तर्गत- स्वेन तद्बाध्यभेद्ाप्रसिद्धेः। नच-बाध्यत्वं किञ्ञिन्निष्टात्यन्ताभावप्रनियोगीत्यनुमानेनाबाध्यत्वप्रसिद्धिरिति- वाच्यम् ; तावतात्मन्यबाध्यत्वसिद्धावप्यबाध्यभेदाप्रसिद्धेः। अगृह्यमाणविशेषीवस्थायामेवासाधारण्यं दोपः, प्रकृते तु तर्केण विशेषावस्थाग्रहान्नासाधारण्यमिति परोक्तस्य दृपणायाह-विपक्षवाधकरूपविशषेति। तर्कगृहीतविशेषे- त्यर्थः । यत्र हीत्यादि। वह्वयभावव्यापकत्वेन धुमाभावस्य गृहणस्थले वह्नित्वेन प्रसिद्धिरपेक्ष्यते; तां विना वहनच- भावत्वेन ग्रहणासंभवात्, वह्वयभावाभावत्वरूपानुमेयतावच्छेदकरूर्पेण प्रसिद्धिस्तु तत्रापि नापेक्ष्यत इति भावः। साध्यते अनुमायते। साध्यप्रसिद्धा तादान्म्याभावप्रसिद्धा। व्याप्तिग्रहेति। तादात्म्यव्यापकाभावप्रतियोगित्व- ग्रहेत्यर्थः । भेदस्य तादात््याभावत्वे मानाभावात्तादात््येन जीवं प्रति व्यापकताज्ञानान्न जीवभेदानुमितिसंभव इनि सु युकं वक्तुम्। व्याप्यव्यतिरेकमात्रेति। नतु-मिथ्याभेदो नक्यव्यनिरिक्त्त, शुक्तौ तदैक्ये सत्यपि मिथ्यात- देदसर्वादिति-चेत्, भ्रान्तोऽसि; एंक्यव्यतिरेकत्वेनेंव भेदकल्पनान, प्रानीतिकभेदस्य व्यावहारिकक्यविरोधित्वा- भावेऽपि तथाकल्पनायां वाधकाभावान, प्रकृने तु तात्विकजावस्वरूपक्याविरोधित्यतिरेकत्वेन व्यावहारिकभेद- कल्पनसंभवात्। जीवात् जीवस्वरूपात। जीवे जावस्वरूपे। दुःखस्य स्वनिष्ठदुःखानुभवितृत्वस्य। अन्तःकर- णनिष्ठत्वात् अन्तःकरणोपहितनिष्टन्वादविद्योपहितनिष्टत्वाद्वा। ब्रह्मणस्तु नोक्तानुभवितृत्वम्; स्त्रनिष्ठपदेन स्वसमा- नसत्ताकम्वनिष्ट्त्वस्य वाच्यत्वात्, अन्यथा ब्रह्मणो दुःगादिजगदुपादानत्वेन स्वरूपासिद्ठेः। एतेन-दुःखाननुभवि-
विक्रियायां मिथ्यात्वज्ञानेनैव ब्रह्मणो जीवान विशेषात। धमिसमानसत्ताकेत्यस्य विक्रियाविशेषणत्वे जीवस्वरूपे व्यनिचारः। हेनोः व्याप्तिपक्षधर्मतावतः। एतेन सिद्धसाधनाढिना। तदेव विवृणोति-उपहितस्येति।
Page 492
[जीवब्रह्मभेदानुमानभङ्ग:] गौडब्रह्मानन्दीयुता। ८१३
र्मिसमसत्ताकतया न सिद्धसाधनमिति, तन्न; शब्दस्वभावोपन्यासस्यानुमानं प्रत्यनुपयोगात्। एतेन-धर्मिपदस्थाने स्वपदमिति-अपास्तम्; धर्मिपदतुल्ययोगक्षेमत्वात्। अतएव-धर्मिसत्ता- समानसत्ताकपदस्थाने पारमार्थिकेति वा, यावत्स्वरूपमनुवर्तमानेति वा, स्वाज्ञानाकार्यति वा, स्वश्ञानावाध्येति वा विशेषणं देयम्, स्वपदस्य समभिव्याहृततत्तत्परत्वस्य व्युत्पत्तिसिद्धत्वादिति- निरस्तम् ; आद्ये साध्यवैकल्याच्च। नच-घटो जीवप्रतियोगिकप्रतियोगिज्ञानावाध्यभेदवान्, जीव- धर्मिकधर्मिज्ञानाबाध्याभेदाप्रतियोगित्वात्, यत् यज्जानावाध्ययद्धर्मिकाभेदाप्रतियोगि तत् तज्ज्ञा- नाबाध्यतत्प्रतियोगिकभेदवत्, यथा दृरस्थवनस्पत्योरेक इत्याद्यनुमानेन साध्यसिद्धेर्नाप्रसिद्धि- रिति-वाच्यम्; यच्छव्दाननुगमेन पक्षध्महेता व्याप्त्यग्रहात्, धर्मित्वप्रतियोगित्वादिसामान्या- कारेण व्याप्तिग्रहे विशिष्य साधनायोगात्। नच्र-एवं स्वप्रागभावव्यतिरिक्तेत्यादौ का गतिरिति- वाच्यम् ; तत्राप्येतदृषणसश्चारेण व्यतिरेकिणि वानुमानान्तरे वा तात्पर्यात्। नापि-ब्रह्म तत्त्वतो जीवाभिन्नं नेति साध्यम, एवंच न साध्यवैकल्यशङ्कापि, त्वन्मतेऽपि कल्पितघटे कल्पितजीवात् तास्विकभेदवत्तात्विका भेदस्याप्यभावादिति-वाच्यम्; तात्विकाभेदस्यातात्विकेनाभावेन सिद्ध- साधनस्योक्तत्वात्। नापि-जीवेश्वरी, धर्मिज्ञानावाध्यपरस्परप्रतियोगिकभंदवन्ता, विरुद्धधर्माधि- करणत्वात्, दहनतुहिनवत्, विरोधश्च परस्परात्यन्ताभावरूपत्वं, तद्याप्यत्वं वा, कालभेदेनापि सामानाधिकरण्यायोग्यत्वं वा, संयोगतदत्यन्ताभावयोश्च सामानाधिकरण्यं मतद्वयेऽपि नेति न तदाश्रये व्यभिचार इति-वाच्यम्; धर्मिपदमादाय दोषस्य प्रागेवोक्तत्वात्, अव्याप्यवृत्तिदुःखश- ब्दाद्धिकरणे व्यभिचाराञ्च, जीवव्रह्माभेदसिद्धा स्वतन्त्रत्वास्वतन्त्रत्वादीनां सामानाधिकरण्यायो- ग्यत्वरूपविरोधस्यैवासिद्या स्वरूपासिद्धः, कल्पितसावश्यासार्वश्यादिव्यवस्थाया वर्णे हस्वत्वदी धत्वादिव्यवस्थावत् कल्पित भेदेनैवोपपत्या स्वाभाविकभेदं प्रत्यप्रयोजकत्वाच्च। नच 'अल्पशक्तिरसा- र्वश्यं पारतव्यमपूर्णता। उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः। स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चन ॥I' इत्यादिश्रुत्या सार्वश्यादेः स्वाभाविकत्वोक्त्या कल्पितत्वासिद्धिः; अनाद्यविद्यासिद्धत्वे- नेदानीन्तनत्वाभावेन च स्वाभाविकत्वोक्तेः, तच्छब्देनोपहितयोरेव परामर्शात्। न तत्र स्वाभा- विकत्वोक्तिविरोध :: न ह्युपहितेऽपि सर्वज्ञत्वादिकमागन्तुकम्। नापि-ब्रह्म, स्वज्ञानाबाध्यजीव- प्रतियोगिकभेदवत्, पदार्थत्वात्, घटवत्, चेतनत्वं, जीवत्वावच्छिन्नप्रतियोगिताकधर्मिजाना-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ईशत्वजीवत्वोपहितयोः सिद्धसाधनान ईशत्वादयुपहितसमसत्ताकं घटादिरुपधर्मिसमसत्ताकं च भेदमादाय सिद्धसाध- नात्। धर्मित्ववत् ज्ञानविशष्यत्ववत्, संसर्गानुयोगित्ववद्वा। पारमार्थिकभेदाप्रसिद्धेराह-यावत्स्वरूपमनुवर्त मानेति। ब्रह्मस्वरूपकालत्वव्यापकस्वकालत्वस्य तदर्थस्य मिथ्याभेदेऽपि संभवेन सिद्धसाधनादाह-स्वाज्ञानेति। अनादिमिथ्याभेदमादाय सिद्धसाधनादार-स्वज्ञानेति। साध्यवैकल्यात् घटादिवृत्तिभेद पारमार्थिकत्वाभावात्। नाप्रसिद्धिः। नोक्तभेंद उक्ताभावः । ननु यत्वतत्वे न निवेश्ये, किंतु धर्मित्वप्रतियोगित्वे एव, तत्राह- धर्मित्वेति। यन्किञ्चिदित्यादिः । धर्मिप्रतियोगिसामान्यनिवेशे तु मां प्रत्यासद्धिः; भेदादिप्रपञ्चस्यात्मरूपधर्मिप्रति- योगिधीबाध्यत्वात्। विशिष्य जीवज्ञानाबाध्यत्वेन रूपेण। तथाच घटादिरूपप्रतियोगिज्ञानाबाध्यमिथ्याभेदस्य घटादौ सिद्धि: स्यात्, ननु जीवज्ञानाबाध्यभेदस्येति भावः । ननु-जीवस्वरूपस्य त्वन्मते धर्मिप्रतियोगित्वाभावात् धर्मिप्रतियोगिसामान्यज्ञानाबाध्यभेदो नाप्रसिद्ध'इनि-चेत्, तहि जीवस्वरूपज्ञानाबाध्यभेदासिद्धोद्देश्यासिद्धिः। अम्र जीवस्वरूपस्य सद्रूपत्वेन दृश्यमात्रस्य तदभेदात्स्वरूपासिद्धिरपि बोध्या। एतेन-जीवस्वरूपं दृरस्थवनस्पत्यो-
हेतुत्वे तु स्वरूपासिद्धिवारणेडपि अप्रयोजकत्वम्। तादृशभेदस्य व्यावहारिकत्वेन तदप्रतियोगित्वस्य व्यावहारिकभेदे- नैवोपपत्तेरिति ध्येयम्। अनुमानान्तरे सपदस्थाने पक्षटष्टान्तान्यतरपदप्रवेशेनानुमाने। अनुकूलतर्काणां तत्रोक्त- र्वान्नाप्रयोजकता। विरोधश्चेत्यादि। तथाच जीवेशस्वरूपयोरेकमपरस्मात् धर्मिज्ञानबाध्यभेदवत् स्वधर्मात्यन्ता- भावात् तव्याप्यात् सर्वदा स्वधर्मसामानाधिकरण्यायोग्याद्वेति प्रयोगः । स्वाभाविकत्वस्य धर्मिसमानसत्ताकत्वरूप- त्वेऽप्याह-तच्छव्देनेति। आगन्तुकं धर्मिसमानसत्ताकान्यत्। जीवत्वावच्छिन्नति। जीवस्वरूपत्वावच्छिन्ने- त्यर्थः। जीवत्वे जीवस्वरूपनिष्टे अविद्याश्रयत्वादी। ननु ब्रह्मजीवस्वरूपयोर ेदा ्भा ्वे ्रमाणोपि संसारित्वं स्या दित्या शक्कय संसारित्वमविद्याश्रयत्वं वा यं प्रत्यावरणं त्त्वं वा। आद्येऽपि शुद्धब्रह्मणस्तदापाद्यते, उपहितस्य वा। आद्ये
Page 493
८१४ अद्वैतसिद्धिः । [ परिच्छेद: २] बाध्यभेदवदृत्ति, सर्वचेतनवृत्तित्वात्, चेतनावृत्तित्वरहितत्वाद्वा, शब्दार्थत्ववदिति-वाच्यम्; स्वपद्धर्मिपदाननुगमतादवस्थ्यात्, अन्त्यहेतोर्जीवत्वे व्यभिचाराच्च, जडवृत्तित्वादयुपाधिसत्वेन विपक्षबाधकाभावेन चाप्रयोजकत्वात् । व्रह्मणो जीववत्संसारित्वापत्ताविष्टापत्तिः । कल्पितभे- देन वा परिहारो विधेयः। तदुक्तम्-अप्रमेयेऽनुमानस्य प्रवृत्तिर्न कथंचन । प्रमेयस्य त्वना- त्मत्वात् तत्र भेदानुमेप्यते ॥I' शुद्धचतन्ये धर्मानधिकरणतयानुमानाप्रसरः । यत्र प्रसरः, तत्रेष्टापत्तिरित्यर्थः । नच एवमैक्यानुमानमपि कथम् ? भवत्पद्यस्य तदैक्यानुमितिः कथमिति पठितुं शक्यत्वादिति-वाच्यम्; शुद्धचैतन्यैक्यस्य शब्दैकगम्यत्वेन तत्राननुमेयत्वस्येष्टत्वात्। नच तह्यैक्यानुमानोपन्यासानर्थक्यम्: तस्य भेदे तात्विकत्वभ्रममात्रनिरासफलकत्वात् । तस्मात् 'अप्रसिद्धविशेषत्वादन्यथैवोपपत्तितः । सर्वशतयल्पशत्तयादेरन भेदे तन्त्रता ततः ॥ इत्यद्वैतसिद्धा जीवव्रह्मभेदानुमानभङ्ग:।।
अथ जीवपरस्परभेदानुमानभङ्ग:। एवं जीवानामपि न परस्परभेदानुमानम्। चैत्रो मैत्रप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, मैत्रप्रतियोगिकतात्त्विकाभेदवान्नति वा, मैत्रानुसंहितदुः खाननुसन्धातृत्वात्, मैस्मृतसर्वास्म र्तृत्वात्, मैत्रानुभूतसर्वाननुभवितृत्वाच्च, घटवदित्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीय- साध्ये तातत्विकाभेदस्यातात्विकभेदेन सिद्धसाधनात्, उपहितस्य पक्षत्वे अर्थान्तरात्, चैत- न्यमात्रपक्षत्वे हेत्वसिद्धेः, साधनैकदेशस्याननुसन्धानादेरूपाधित्वसंभवाञ्च। विमतो बन्ध-
ध्वंसत्वात्, संमतवत्, जीवः, संसारी, संसारध्वंसाधारो वा, स्वज्ञानाबाध्यजीवप्रतियोगिक- भेदवान्, संसारिप्रतियोगिकस्वज्ञानावाध्यभेदवान् वा, स्वज्ञानावाध्यसंसारध्वंसाधिकरणप्रति गौडव्रह्मानन्दी (लघुचन्द्रिका)। आह-ब्रह्मण इति। जीववत् जीवस्वरूपव्रत्। आद्यद्वितीये त्वाह-कल्पितभेदेति। उपहितस्याविद्याश्रयस्य जीवस्य शुद्धात् कल्पितभेंदत्यर्थः । प्रतिबिम्बत्वोपहितं प्रत्येवावरणम्; उपधः प्रतिबिम्बपक्षपातित्वात्। शुद्धस्य बिम्बत्वोपहितस्य च ब्रह्मणः प्रतिबिम्बात् कल्पितभेदेन न तत्पत्यावरणमिति वार्थः। धर्मानधिकरणतया भेदानु- मापकधर्मानधिकरणतया। अविद्याश्रयत्वरूपसंसारित्वस्येष्ट्त्वेन तदापत्तिरूपतर्काप्रवृत्त्या चेनि शेपः। अथवा- ब्रह्मण: अविद्योपहितब्रह्मणः। संसारित्वापत्ता अविद्याश्रयत्वापत्ती। वाशव्दसत्वर्थकः। परिहारः यं प्रत्यावरणं तत्त्वपरिहारः। धर्मानधिकरणतया भेदानुमापकादिसर्वधमीनधिकरणतयेनि बोध्यम्। इषपत्तिः सिद्धसाधनम्। तस्येत्यादि। ब्रह्म न जीवभिन्नमित्यादिवाक्यस्य भेदाभावादिप्रकारकधीद्वारकाखण्डार्थधीहेतुतया सर्वप्रपज्ञोच्छेदक- त्वेन भेदतात्विकताधीनिवर्तकत्वमित्यर्थः ॥ तकैरित्यादि-चितो भदाचुमाभिदा॥ इति लघुचन्द्रिकायां जीवब्रह्ममेदानुमानभङ्ग:।।
ताच्विकाभेदस्य तात्विकोऽभेदो यत्र तस्य। उपाधित्वेति। ननु-यत्रयत्रानुसन्धातृत्वं, तत्र तत्रोक्तमेदाभाव इति व्यतरेकव्याह्यभावात् नायमुपाधिरिति-चेत्, भ्रान्तोऽसि। पटादो यत्र यत्रोक्तमंत्रभेदस्तत्र तत्राननुसन्धा- तृत्वम्; मत्रादी यत्र यत्रानुसन्धातृत्वं, तत्रतत्रोक्तमंत्रभेदाभाव इति व्याप्िद्वयस्य मन्मते सत्वात्। नच-द्विती- यसाध्याभावस्य घटादावपि सत््वेन तत्रानुसन्धातृत्वाभावेन न द्वितीयव्याप्तिरिति-वाच्यम्; उक्तभेदरूपद्वितीयसा- ध्यस्य मन्मते मिथ्यात्वेन तदभावस्य घटादौ सत्वेऽपि त्वन्मते तदसत्वात्, द्वितीयव्याप्तेरुपाधितायामतत्रत्वाच। अत्र शर्रीरजन्यत्वे शरीरस्येव मैत्रानुसंहितेत्यस्य वैयर्थ्यम्। अननुसन्धातृत्वं तु स्वरूपासिद्धम्। यथाचोक्त्तवयर्थ्य प्रामाणिकं, तथा प्रथमपरिच्छेदे प्रपञ्चसत्वानुमानभक्गे विवेचितम्। जीव इत्यादि। जीवः, जीवभेदवान्, संसारी संसारिभे- दवान्, संसारध्वंसवान्, संसारध्वंसवद्वेदवानिनि कमो बोध्यः। जीवत्वोपहितयोर्भेदस्य सिद्धत्वात् संसारीत्यादि। अविद्या रूपसंसाराश्रयत्वमविद्योपहितस्यंव। तथाच तयोभेंदस्यापि नानाविद्यापक्षे सिद्धत्वात्-संसारध्वंसेत्यादि। उक्त्ध्वंसवत्वेन व्यवह्ियमाणं तदुपलक्षितजीवस्वरूपं ध्वंसवदन्तार्थः। अर्थान्तरवारणाय-स्वज्ञानाबाध्येति वाच्यम्। सवं पक्षः। कालादावित्यादिना शरीरादिग्रहणम्; घटादिध्वंसस्य भूतलादाविचाविद्यादिबन्धध्वंसस्य शरीरा- दावपि प्रमितिसंभवान्। एतेन-भेदवति देशे दैशिकसंबन्धेन वृत्तेस्साध्यत्वान्नार्थान्तरमिति-अपास्तम्।
Page 494
[जीवभेदानुकूलतर्कभङ्ग: ] गौडब्रह्मानन्दीयुता। ८१५
योगिकभेदवान्वा, पदार्थत्वात्, घटवत्, विमत आनन्दः, स्वनिष्ठदुःखविरोधित्वव्याप्यधर्मेण सजातीय प्रतियोगिकस्वज्ञानावाध्यभेदवान्, दुःखविरोधित्वात्, दुःखाभाववत्, इत्यादिषु बन्ध- प्रतियोगिकभेदवति कालादौ ध्वंसस्य विद्यमानत्वेनार्थान्तरात्, दुःखनिगलसाधारणबन्धत्वा- संभवाञ्च, स्वपदाननुगमाच्च। चत्रबन्धध्वंसः, चैत्रबन्धाधारप्रतियोगिकभेदवन्निष्टः, बन्धध्वंस- त्वात्, संमतवदित्याभाससाम्याञ्च, विपक्षवाधकाभावाञ्च। ध्वंसप्रतियोगितावच्छेदकं न ना- नाबन्धानुगतबन्धत्वम्, तस्य सामान्याभावत्वाभावात् । पतेन-आत्ममात्रभेदे आत्मा, आत्म- प्रतियोगिकस्वज्ञानाबाध्यभेदवान, पदार्थत्वात्, घटवत्, आत्मवैभवपक्षे आकाशः, आत्मप्रति- योगिकधर्मिज्ञानावाध्यमेदाधारविशेषगुणवद्विभुव्यतिरिक्त:, द्रव्यत्वात्, पृथिवीवत्, पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्याप्यजातिभिन्नम, प्रमेयत्वाज्लत्ववत्, गगनत्वजा- तिपक्षे तदितरत्वमपि विशेषणम् । सत्ता, द्रव्यत्वान्यात्मनिष्ठजात्यन्या, द्रव्यत्वं वा सत्तान्या- त्मनिष्टजात्वन्यत्, मेयत्वात्, घटवत्, आत्माणुत्वमते आत्मा, द्रव्यत्वव्याप्यजातिमान्, अवि- भुद्रव्यत्वात्, घटवदित्यादिभिरात्मत्वजातिसिद्धा तात्विकात्मभेदसिद्धिरिति-निरस्तम् ; आद्ये जडत्वमुपाधिः, आत्मपदयोः स्थाने चैत्रपदं प्रक्षिप्याभाससाम्यं च। द्वितीये शब्दानाश्रयत्व- मुपाधिः, विभावात्मान्यत्वं विशेषणं दत्वा आत्माकाशभिन्नस्य विभोर्विशेषगुणवतः साधनप्रस- ङाच। जातिपक्षकानुमानेषु कल्पितव्यक्तिभेदेनापि तस्याः जातेरुपपत्या तातत्विकव्यक्तिभेद- पर्यवसायित्वेनार्थान्तरात्। नच्-जातेः धर्मिज्ञानावाध्यभेदं विनाऽयोग: अन्यथा व्यक्त्यभेद: क्वापि जातिवाधको न स्यादिति-वाच्यम्; जातेर्व्यक्तिभेदसमानसत्ताकत्वनियमेन प्रातिभासि- कभेदस्य व्यावहारिकजाति प्रतिन साधकत्वमिति व्यक्त्यभेदस्य जातिबाधकत्वसंभवात्॥ इत्य- द्वतसिद्धा जीवभेदानुमानभङ्ग:।।
अथ जीवभेदानुकूलतकभङ्ग:। ननु-यद्यात्मैक्यं स्यात्, चैत्रेण सर्वदुःखाद्यनुसन्धानं स्यात् इति-चेन्न आपाधिकमेदेनाननु सन्धानोपपत्तः। ननु-हस्तपादाद्युपाधिभेदेऽप्यनुसन्धानदर्शनात् उपाधिभेदोऽप्रयोजकः, नच् वि- स्िलिष्टोपाधिभेदस्तत्र तन्त्रम्; मातृसुखादेर्गर्भस्थेनानुसन्धानापातात्। भारते-'उद्तायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः। पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि ॥' इत्यादिना विश्लेषेऽप्यनुस- न्धानोक्तेश्चति-चेन्नः नहि वयं यत्किंचिदुपाधिमात्रमननुसन्धानप्रयोजकं ब्रूमः, कित्वन्तःकरण-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। साधारणेति। बन्धत्वप्रकारकव्यवहारविषयत्वं निगलसाधारणमिति तु न शोभते; बन्धत्वस्य निगलसाधारण्याभावे तस्यापि तत्साधारण्यासंभवात्। दुःखनिगलान्यतरध्वंसत्वादिकं तुन प्रयोजकम्। अन्यथा चैत्रघटान्यतरत्वादिनापि चैत्रादिभेद: चैत्रादौ कुतो न साध्यते? सामान्याभावत्वाभावादिति। तद्वन्धव्यक्तित्वरूपस्वप्रतियोगितावच्छेद- कावच्छिन्नाधारभेदवन्निष्टत्वसाधने नु वाधः । यन्तु आधारान्तं बन्धार्थकमिति, तन्न शोभते; उन्मत्तस्य बन्धेति- व्यक्षरं प्रस्मृतवत एव तावदक्षराणामाधुनिकलक्षणवतां वक्तुं युक्तत्वात्। आकाश इत्यादि। कालभेदं परमाणुभेदं चादाय सिद्धसाधनाद्विशेषगुणवद्विभुपदे। द्रव्यन्वादिति। आकाशभेदद्वव्यत्वयोर्घटादी व्याप्तिग्रहः । गगनत्व- जातीति। औपाधिकव्यक्तिभेदस्य जातिव्यवस्थापकत्वे गगनत्वात्मत्वादिकं जातिः। जडत्वमिति। व्यतिरेकव्यापि- र्मन्मतेऽस्त्येव। तस्या उपाधित्वे अनुपयोगश्च। शब्दानाश्रयत्वमिति । नच-पक्षेतरत्वतुल्यता; व्याप्िग्राहक- तर्कस्याभावात्, उपाधो साध्यव्यापकताग्राहकतर्कसत्वात्। वह्विरनुष्ण इत्यादावतेजसत्वादिवत्। प्रसङ्गादिति। साध्याप्रसिद्धिस्तु यथाश्रुतेऽपि । नहि धर्मिसामान्यज्ञानाबाध्यभेदः प्रसिद्धः। न स्यादिति । व्यक्त्यभेदेऽपि प्रातीतिकस्य व्यक्तिभेदस्य संभवादिति शेषः। तर्करित्यादि-जीवभेदानुमाभिदा॥ इति लघुचन्द्रिकायां जीवभेदानुमानभङ्ग:।।
अननुसन्धानप्रयोजकं तन्मनोवच्छिन्नगतसुखादिवेत्तृत्वस्य तदविद्यावच्छिन्नगतसुखादिवेत्तृत्वस्य वा तदधीन- समरणादेश्वाभावव्याप्यं अतःकरणरूपोपाधिभेदं तन्मनोऽन्यमनः । योगिनानाशरीरेषु नानामनःस्वीकारमते आह-
Page 495
८१६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
रूपोपाधिभेदमविद्याभेदं वा। स च भेद: कबन्धे योगिनि च नास्त्येव। तेन तत्रानुसन्धानं चैत्रमैत्र- योश्वास्तीति अननुसन्धानम्। एतेन-शरीररूपोपाधि भेदस्याननुसन्धानप्रयोजकत्वे बाल्यानुभूतस्य यौवने जातिस्मरेण पूर्वजन्मानुभूतस्य योगिना नानाशरीरानुभूतस्य च स्मरणं न स्यादिति-निरस्तम्। शरीरभेदस्य तत्रातन्त्रत्वात्, योगिजातिस्मर्तृणामन्तःकरणक्यात्। नच-चैतन्यैक्ये अन्तःकरणभे- दस्य नाननुसन्धानप्रयोजकत्वम्, चक्षुरादिकरणभेदेऽप्यनुसन्धानदर्शनादिति-वाच्यम्; अन्यक- रणभेदेन तथा दर्शनेऽप्यन्तःकरणभेदस्य तदैक्याध्यासापन्ने अननुसन्धानप्रयोजकत्वं कल्प्यते, अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वानुसन्धानापत्तेः । नच-अन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेन पूर्वदिनानुभूतस्याननुसन्धानापत्तिरिति-वाच्यम्; संस्कारात्मनावस्थितस्यैव पुनरुद्वो- धेन तत्रान्त:करणभेदाभावात्। नच-एवं सुषुपप्रलीनमुक्तानामननुसन्धानप्रयोजकान्तःकरणभे- दाभावात् संसारिदुःखानुसन्धानापत्तिरिति-वाच्यम्; तेषामनुसन्धानप्रयोजकान्तःकरणैक्या- ध्यासरुपसामग्रीविरहात्। नहि प्रतिबन्धकमात्रेण कार्यविरहःः किंतु सामग्रीविरहेणापि। नच- एवं मुक्तस्य स्वरूपसुखानुभावोऽपि न स्यादिति-वाच्यम्; तस्याजन्यत्वेनान्तःकरणानपेक्षत्वात्, जीवविभाजकोपाध्यज्षानभे दाभेदाभ्यामनुसन्धानाननुसन्धानोपपत्तेश्च। नच-ज्ञानप्रागभाववदज्ञा नस्यापि भेदाभेदयोस्तत्राप्रयोजकत्वम्, यावन्ति ज्ञानानि तावन्त्यज्षानानीति मते एकस्मिन्नपि जीवे घ्रह्म विषयकाजानानां भिन्नत्वेनानुसन्धानविरहप्रसङ्ग इति-वाच्यम्; ज्ञानप्रागभावानां ज्ञानसम-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अविद्याभेदमिति। तदविद्यान्याविद्यामित्यर्थः । ऐक्यादिति। नच-एवं 'प्रदीपवदावेशः तथाहि दर्शयनी'ति सूत्रभाष्ये योगिनां नानाशरीरेपु नानामनःसृष्टेरुक्तेरसङ्गनिरिति-वाच्यम्; यथा एको दीप अनेकदीपभावमापद्यते, एवमेको विद्वानैश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशतीति तत्रत्यभाव्ये मनोनानात्वस्यास्फुटत्वात्, चक्षुरादिनानात्वेनानेकभावापत्ते: संभवात्, एकस्येव मनसो विपुलीकृतस्य नानादेशस्थनानाशरीरेव्ववस्थानसंभवात्। नचैवं चक्षुरादेरपि तदापत्तिः; एकशरीरे चाक्षुपादिकाले शरीरान्तरेऽपि तदापत्तेः। यदप्यात्ममनसोरभेदानुपपत्तेर- नेकशरीरासंभव इत्याशंक्य एकमनोनुवर्तीन्यपराणि समनस्कानि शरीराणीति भाष्ये समाहितं, तदपि नानामनस्क- त्वस्य न स्फुटबोधकम्। वस्तुतस्तूक्तभाव्यशङ्काया मतभदेनाभिप्रायभेदः। मनस एव जीवोपाधित्वे मनोभेदेन जीव- भेदापत्तिरित्येकः। अविद्याया उपाधित्वे तु मनोभेदन विरुद्धनानाकार्याणं नानाशरीरेप्वापत्तिरित्यपरः । तत्राद्यस्य समाधानम्-एकमेव मनो नानाशरीरेप्विति। द्वितीयस्य तु मनोभेदपूर्वावस्थितमनोऽनुवर्तित्वमन्यमनसां म्वीक्रियते; तादृशत्वेनैव योगिनां तत्सृष्टेरिति। एवं चादयमते मनोभेद एवाननुसन्धाने प्रयोजकः, द्वितीयमते त्वविद्याभेद इति विभावनीयम्। संस्कारात्मनेति। तथाचात्यन्तिकस्तन्मनोभेदः प्रयोजकः । स च तन्मनोभेद: सूक्ष्मावस्थायां नास्त्यव; तन्मनोऽभदस्यापि तत्र सत्वात्। प्रतिबन्धकेति। तन्मनोऽवच्छिन्नानुभवजन्यस्मरणं प्रति तन्मनोभेदस्य प्रतिबन्धकत्वमित्याशयेनेदम्। वस्तुनोऽविद्यावृत्तिसामान्यस्य 'स्वपरिणाम्यविद्यानुपादानकमनोSवच्छेदे- नोत्पत्तिवारणायावच्छेदकतासंबन्धेन तत्तदविद्यावृत्ति प्रति तत्तदविद्योपादानकमनोभेदस्य प्रतिबन्धकत्वम्। मच- तस्तद्विद्योपादानकमनसां तां प्रति हेनुत्वमेव लाघवादास्तामिति-वाच्यम्; उक्तमनस्त्वेन हेतुत्वं, तत्तद्यक्तित्वेन वा। आद्ये गौरवम्, अन्त्ये स्थूलसूक्ष्मावस्थासाधारणतद्यकित्वाभावादेकस्थूलावस्थायास्तव्यक्तित्वेन हेतुत्वे अन्य- स्थूलावस्थायास्तदसंभवः, सूक्ष्मावस्थाया अहेनुत्वे तदवच्छेदेन सौंपुप्तवृत्त्यसंभवः। सर्वावस्थानां तसदयक्तित्वेन हेतुत्वे स्वतिगौरवम्। परमार्थतस्तु प्रतिबन्धकत्वपक्षेऽपि तत्तदेविद्योपादानकमनोऽवस्थाव्यक्तिप्रतियोगिकात्यन्त- भेदत्वेन प्रतिबन्धकत्वं वाच्यम्; तथाच विनिगमकाभावात् प्रत्येकव्यत्तयन्तर्भीवेनानन्तप्रतिबन्धकतवापर्या तस्तद- विद्योपादानकमनस आत्यन्तिकभेदत्वेन प्रतिबन्धकत्वं वाच्यमिति तदपेक्षया लाघवादुक्तमनस्त्वेन हेतुत्वमेव युक्तम्।
तत्संसृष्टसाक्षिरूपं तत्तन्मनोऽवच्छिन्नमेवेति न तन्मनोन्तरावच्छेदेनापादनार्हम्। सुखादावविद्यावृत्तिस्वीकारे तु नतराम्। ननु-अन्तःकरणैक्याध्यासस्यानुसन्धानसामग्रीत्वेन सुपुप्यादौ कथं तद्वारणम्? मनःसूक्ष्मावस्थैक्याध्या- सस्य तत्रापि सत्वात्, किं वा तस्य तत्वे मानमिति-चेत्, स्मतिरूपानुसन्धानस्य सुषुह्यादावभावात् अवच्छेदक- तासंबन्धेन स्मृति प्रति अहङ्कारत्वेन हेतुत्वादेव तत्र तद्वारणमित्यत्र तात्पर्यात्, सुपुह्यादावहङ्काराभावात्। न- स्यादिति। सुपुप्तौ विशिष्टानुभववारणायानुभवं प्रत्यपि अहक्कारत्वेन हेतुत्वादिति भावः । अजन्यत्वेनेति। विशि- षटविषयकतवेन चति शेपः । जन्यविशिष्टवुद्धावेवोक्तहेनुत्त्रमिति भावः। अन्तःकरणानपेक्षत्वात् अहक्कारानपेक्ष
Page 496
[जीवभेदानुकूलतर्कभङ्ग:] ८१७
सहयाज्ञानानां च जीवविभाजकत्वाभावेनातुसन्धानादावप्रयोजकत्वात्। यत्तु-मुक्तस्यैवं संसारदु :- खानुसन्धानापत्तिः, अविद्यारूपोपाधिमेदाननुसन्धाने स्वरूपसुखस्याप्यननुभवापातः-इति, तन; वैषयिकसुखाद्यनुसन्धाने तस्य तन्र्रत्वेन स्वप्रकाशस्वरूपस्फुरणे तदनपेक्षत्वात्। ननु-एवमनेका विद्यासंबन्धस्य दुःखानुसन्धानस्वरूपस्यानर्थस्य च विशिष्टगतत्वे बन्धमोक्षयोरवैयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्रीयदुःखानुसन्धातृ तदेव मैत्रीयदुःखानुसन्धात्रिति कथमनुसन्धा नाननुसन्धानव्यवस्थेति-चेन्न; अविद्यात्मकबन्धनिवृत्यात्मकमोक्षस्य शुद्धगतत्वेऽपि दुःखाद्यनुस- न्धातृत्वस्य उपहितवृत्तितया शुद्धभेदापादनायोगात्। नच संसारस्य शुद्धगतत्वे ब्रह्मणोऽपि संसारित्वापत्तिः; बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्ववत् घटाकाशमहाकाशयो: परिच्छिन्नत्वापरि च्छिन्नत्ववत् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्र तत्र श्रोत्रतावञ्च औपाधिकमेदेन संसारि- त्वासंसारित्वव्यवस्थोपपत्तेः। अतएव-दुःखानुसन्धानरूपस्यानर्थस्य उपहितनिष्ठत्वेन तस्य कल्पि- तत्वेन बद्धस्य निवृत्तिरेव, नतु मोक्ष इत्यापात इति-निरस्तम्; उपाधे: कल्पितत्वेन निवृत्तावप्युप- धेयस्याकल्पिततया तन्निवृ्त्त्ययोगान्मोक्षान्वयोपपत्तेः । नच-प्रतिबिम्बस्य छायावद्वस्त्वन्तरत्वेना- काशस्यापि त्वन्मतेऽपि कार्यद्रव्यतया सावयवत्वेन तैजसाहङ्कारकार्याणं श्रोत्राणां स्वत एव मिन्नत्वेन दृष्टान्तासंमतिरिति-वाच्यम्; प्रतिबिम्बे वस्त्वन्तरत्वस्य निरसिष्यमाणत्वात्, आकाश- श्रोत्रभावस्य पररीत्या दृष्टान्तत्वात्, 'आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिण' इति श्रुतेर्विशिष्ट- स्यैव भोक्तृत्वात्तस्य भिन्नत्वात् व्यवस्थेति कामुद्युक्तप्रकारेणापि अनुसन्धानाननुसन्धानोपपत्तेश्च। अतएव-शुद्धचिन्मात्रगतत्वे तत्र भेदाप्रतीत्या भेदस्य कल्पितस्याप्यभावः, भावे वा भेदस्यैव व्यवस्थारूपस्वकार्यकारिणो वह्नावुष्णत्ववद्धर्मिज्ञानाबाध्यत्वम्, अभेदस्य त्वव्यवस्थारूपस्वकार्या- कारिणोऽनुष्णत्ववन्मिथ्यात्वमित्यापातः, आविद्यकभेदहीनस्य मुक्तस्य संसारिदुःखानुभवापातश्च इति-निरस्तम्; व्यवस्थायाः स्वसमानसत्ताकभेदकार्यत्वेन स्वाधिक सत्ताकभेदेऽनाक्षेपकत्वात्, अव्यवस्थाया: शुद्धचैतन्याभेदाकार्यत्वेन तदकारित्वप्रयुक्तमिथ्यात्वस्यापादयितुमशक्यत्वात्, उपा- ध्यभेदस्यैव तत्र तन्नत्वात्। किंचोपाधिकल्पितांशजीवानां वानुसन्धानमापाद्यते, अंशिनो ब्रह्मणो वा। नाद् :; हस्तावच्छिन्नेन पादावच्छिन्नदुःखाद्यननुसन्धानात्। नच-न वयं भोगायतनानां साङ्कर्यमापादयाम:, येन पादे मे वेदना शिरसि मे सुखमिति न स्यात्, किंत्वनुसन्धानमात्रम्, तञ्चांशानामस्त्येव; अन्यथा चैत्रदेहलग्नकण्टकोद्धरणाय मैत्रस्येव पादलग्नकण्टकोद्धरणाय हस्तस्य व्यापारो न स्यादिति-वाच्यम्; पादावच्छिन्नदुःखस्य हस्तावच्छिन्ने अनुत्पादनवत् चैत्रीयदुःखा-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्वात्। विभाजकत्वाभावेनेति। चरमनष्टाज्ञानस्यैव कैवल्याव्यवहितपूर्वतवेन विभाजकत्वम्, नतु नानाज्ञाना- नाम्। अथवा-यदज्ञानं यदज्ञानोपहितात् सवोपहितविभाजकं, तदज्ञानं तदज्ञानोपहितनिष्ठसुखाद्यननुसन्धाने प्रयोजकमिति भावः। मनोभेदेऽप्येकैवाविद्या। सापि न जीवविभाजिकेत्येकजीववादे तु मनोभेद एव प्रयोजकः । मरणरोगविशेपादीनां मनआदयैक्येऽप्यननुसन्धानप्रयोजकत्वमित्यादि बोध्यम्। भेदात् भङ्गात्। तदज्ञानात्यन्ताभाव- एव तदज्ञानोपादानकसुखाद्यननुसन्धानप्रयोजक इति भावः। तन्न्रत्वेनेति। तद्विद्यावृत्तिरूपसुखाद्यनुसन्धाने तद्विद्योपादानम्। सुखादावविद्यावृत्त्यभावपक्षेपि स्मृतिरूपाविद्यावृत्ती तद्विद्याजन्यसुखाद्यवच्छिन्नचिति च सोपा- दानम्। एवम् अविद्याभेदाभेदयोरननुसन्धानानुसन्धानप्रयोजकत्वे। शुद्धभेदेति। मोक्षभागिशुद्धभेदेत्यर्थः; उपाधेराश्रयकोव्यप्रवेशात्। औपाधिकभेदेनेति। शुद्धस्यैव तत्तदुपाध्यवच्छेदेन सवभेदेनेत्यथः । निरस्तमिति। अन्यथा शरीरोपहितस्य बद्धस्य शरीरनाशान्नाशः, नतु मुक्तिरिति तवापि दोपः । अथ शरीरोपहितस्येव शरीरावच्छे देन शुद्धस्यापि बद्धत्वात्तस्यापि मुक्ति:, तर्ह्यविद्योपहितस्येवाविद्यावच्छेदेन शुद्धस्यापि बद्धत्वात् तत्र मुक्तिरिति समभ्। प्रतिबिम्ब इत्यादि। तथाच प्रतिबिम्बत्वावच्छेदेन शुद्धमुखस्य श्यामत्वादिवत् श्रोत्रत्वावच्छेदेन तार्किकमते नभ- सस्तत्तच्छन्दग्राहकत्ववच्च व्यवस्था। आत्मेन्द्रियमन इति समाहारः। युक्तं मिलितम्। यो भोक्ता, तत् युक्त्मात्मा- दीत्यन्वयः । तेन भोकुरविशेषणत्वात् न पुंस्त्वानुपपत्तिः । विशिष्टस्य इन्द्रियमनोविशिष्टात्मनः। मिन्नत्वादिति। कायव्यूहस्थले त्वपवादः। अनाक्षपकत्वादिति। नच-यस्मिन् धर्मिणि कार्यकरो यो भेदः स तत्समानसत्ताक इति नियमाच्छुद्धे अननुसन्धानरूपकार्यकरस्य शुद्धसमानसत्तेति-वाच्यम्; प्रातीतिकस्यापि शुक्तयादिभेदस्य शुक्तयादौ हानादिकरत्वात्। तत्नाननुसन्धानव्यवस्थाया अभावे। हस्त इत्यादि। हस्तावच्छेदेन पादावच्छिन्न- अ. सि. १०३
Page 497
८१८ अद्वैतसिद्धिः । [परिच्छेद: २]
दनुसन्धानस्य मत्रे अनुत्पादः। हस्ते दुःखप्रयोजकसामग्रीविरहवत् मैत्रे अनुसन्धानप्रयोजकोपाध्यै; क्याभावात्। तथाच हैस्तावच्छेदेनानुसन्धानमस्त्येवेति न तत्र व्यापाराभावापत्तिः। नान्त्य :- तस्याभोक्तृत्वेन भोगाप्रसङ्गात्, दुःखादिज्ञानमात्रस्य च सर्वक्ष तस्मिन्निष्ठत्वात्। नच भोकतृजीवा- भिन्नत्वेन ब्रह्मणोऽपि भोक्तृत्वापत्ति :; बिम्बप्रतिबिम्बवद्यवस्थोपपत्तेः, अनुसन्धानस्यावच्छिन्नग- ततया शुद्धब्रह्मण्यापादनायोगाञ्च। नचतावता वन्धमोक्षयोवैयधिकरण्यम्; अविद्यात्मकबन्धस्य शुद्धगतत्वेन सामानाधिकरण्योपपत्तेः, अवच्छिन्नस्यानुसन्धातृत्वेऽप्यवस्थात्रयानुस्यूताविद्याव च्छिन्नद्वारा शुद्धे अनुसन्धातृत्वस्येष्टत्वात्, 'अनेन जीवेने' त्यादिश्रुतेः। किंच यथा स्वकर्णपुटप- रिच्छिन्ननादोपलम्भे भागान्तरवर्त्तिनादानुपलम्भः, तथा सुखदुःखाद्युपलम्भानुपलम्भौ । नच- आत्मभेदे कर्णपुटानां तत्तदीयत्वनियामकवदेकात्मवादे सर्वदेहानां स्वीयत्वेन तत्तदीयत्वनियमा- भावेन व्यवस्थानुपपत्तिरिति-वाच्यम्: तवात्मभेदेनेवावच्छेदकाज्ञानादिभेदेन मम व्यवस्थो- पपत्तेः। किंच व्यवस्थया भेदं वदन् प्रष्टव्यः केयं व्यवस्था? न तावद्धर्मभेद; एकस्मिश्नेव सुखदुःखदर्शनेन व्यभिचारात्, भिन्नाश्रयधर्मोक्तौ अन्योन्याश्रयात्, विरुद्धधर्मोंक्तौ तु विरुद्ध- त्वस्य सहानवस्थानरूपत्वे असिद्धे, बाध्यवाधकभावरूपत्वे तस्यैकाश्रयत्वेनोपपत्या भेदा साधकत्वात्। नाप्यनुसन्धानाननुसन्धाने, तयोरुक्तेन प्रकारेण उपाधिमेदेनोपपत्तेरात्मभेदा- साधकत्वस्योक्तत्वात् । अतएव बन्धमुक्त्यादिव्यवस्थापि न स्वाभाविकभेदसाधनाय; तत्तदुपा- ध्युपगमापगमाभ्यामेव व्यवस्थोपपत्तेः । नचोपाधेरप्युपहितनिष्टत्वेनात्माश्रयादिर्दोपः उपाधेर- विशेषणत्वेन व्यक्त्यन्तरानपेक्षत्वेन चात्माश्रयादिचतुर्णामनवकाशात्। एतेन-शुद्धनिष्ठत्वे किमे कैकोपाध्यपगमो मुक्तिः, उत सर्वोपाध्यपगमः, नाद्यः सदा मुक्तिरेव नतु वन्ध इत्यापा- तात्, नान्त्य :: अधुना बन्ध एव न कस्यापि मुक्तिरित्यापातादिति-निरस्तम्: येनोपाधिना यस्य चैतन्यस्य परिच्छिन्नत्वं तस्मिन् चैतन्ये तदुपाध्यपगमस्यैव मुक्तित्वे नानाजीववादे पूर्वोक्तदो- धानवकाशात्, एकजीववादे सर्वोपाध्यपगमस्यैव मुक्तितया इदानीं मुक्त्यभावस्येष्टत्वात्। ननु-उपाधे: कथं मेदकत्वम्, तथाहि-उपाधिः किमेकदेशेन संबध्यते, कृत्सेन वा, आद्ये त्वन्मते स्वाभाविकांशाभावेनौपाधिकत्वं वाच्यम्, तथाचानवस्था, अन्त्ये न भेदकता; कृत्स्स्यैकोपाधि- प्रस्तत्वात्, गगनादावपि स्वाभाविकांशाभावे घटादयुपाधिसंबन्धो न स्यादेव। तदुकतं 'न चेदुपा- घिसंबन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥' इति-चेन्न; सर्व विकल्पासहत्वेन मिथ्याभूतस्यैवोपाधेर्मिथ्याभेदप्रयोजकत्वस्य प्रागेवोपपादनात्। यथाचात्मनां
गौडव्रह्मानन्दी (लघुचन्द्रिका)। दुःखाद्युपलम्भाभावादित्यर्थः। साङ्कयं हस्तावच्छेदेन पादावच्छिन्नसुखाद्युपलम्भादिमत्वम्। पादे पाद एव। शिरसि शिरस्येव। दुःखस्येति। दुःखं यदवच्छेदन उत्पद्यते, तदवच्छेदेतँवोपलभ्यते। अतो दुःखोत्पादनियमे- नैव तदुपलम्भोत्पादनियमात् दुःखस्येत्याद्युक्तम्। तथाच दुःखाद्युपलम्भनियमस्य पूर्वोक्तत्वेऽपि न सन्दर्भविरोधः। तथाच अन्तःकरणाद्यैक्यस्यानुसन्धानप्रयोजकत्वे च। हस्तावच्छेदेन हस्तघटितशरीरावच्छेदेन। अनुसन्धानं योहं पादावच्छेदेन दुःखी, सोऽहं हस्तावच्छेदेनादुःखीत्यनुसन्धानम्। अभोक्तृत्वेन सुखादिसाक्षात्कारशून्यत्वेन मिथ्यात्वेनाज्ञानं यत्, तच्छून्यत्वेन वा। अनुसन्धानाद्यविद्याकार्यमविद्योपहितब्रह्मोपादानकम्, नतु शुद्धग्रह्मोपादा- नकमिति पक्षेऽपि समाधत्ते-अनुसन्धानस्येति। अवच्छिन्नद्वारेति। शुद्धस्यावच्छिन्नतादात्म्यात् परम्परया अनुसन्धानवत्वम्। अनेनेत्यादिश्रुतावात्मना स्वरूपेण अभिल्नो योडयं जीवः, तेनानुप्रविश्य व्याकरवाणीति ब्रह्मण आलोचनम्। आत्माश्रयादिति। उपाधेः स्वोपहितनिष्टत्वे आत्माश्रयः, उपाध्यन्तरोपहितनिष्टत्वे तस्यैतदुपहित- निष्ठत्वेऽन्योन्याश्रयः, उपाध्यन्तरोपहितनिष्टत्वे तस्याप्युपाध्यन्तरोपहितनिष्टत्वमित्येवमनवस्था । एवं चक्रकमपि। अविशेषणत्वेन स्वाश्रयकोव्यप्रवेशेन। अनपेक्षत्वेन सवोपहितनिष्टत्वेन। मिथ्याभेदप्रयोजकेति। मिथ्यामे- दसमनियतेत्यर्थः। सत्यप्यैक्ये भासमानात्वात् तद्धीनिवर्स्यत्वाच्च मिथ्या भेदः तस्योपाधिबाधकज्ञानं विना बाधाभा- वादुपाधिप्रयोज्यत्वम्। तथाचानादुपाधिस्थलेऽनादिभेदः। सदा उपाधिसंबन्धे तु तेन तज्जनकसामयैव वा भेदो- त्पत्तिरिति उभयस्थले कल्पितभेदेन शुद्धस्यैव भागद्वयापन्नत्वादेकस्मिन्नेव शुद्धभागे उपाधिसंबन्धात् न कृत्स्े शुद्धे तदापत्तिः। अथ-भेदखण्डनोक्तयुक्तिभिर्भेदासंभवेन भागासंभव इति-चेन्न; मिथ्यात्वेन तस्येष्टत्वात्। अत एव त्वदीयटीकाया भापेदित्यादिदूपणमिति सत्योपाधिकृतसत्यभेदस्यैवेत्युक्तम्। यन्तु सत्यभेदेन व्यवस्थाया असंभवे
Page 498
[भेदृपञ्केऽनुमानभङ्ग :: ] गौडब्रह्मानन्दीयुता। ८१९
सर्वगतानां भेदे व्यवस्थानुपपत्तिः, तथा प्रपश्चितं भाष्यकृद्भिः॥ इत्यद्वैतसिद्धौ जीवभेदानुंकूल- सर्कभङ्ग: ॥
अथ भेदपञ्चकेऽनुमानभङ्ग: । एवं जडेशभदे जडजीवभेदे च तातत्विके प्रमाणं नास्ति। (१) ब्रह्म, जीवो वा, अनात्मप्रतियोगि- कधर्मिशानाबाध्यभेदवान्, पदार्थत्वात्, घटवत्, (२) ब्रह्म जीवो वा, घटप्रतियोगिकधर्मिज्ञाना- बाध्यभेदवान्, घटासंबन्धिकालसंबन्धित्वात्, तदसंबन्धिदेशसंबन्धित्वात्, तज्जनकाजन्यत्वाद्वा पटवत्, (३) ब्रह्म जीवो वा, जडप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, जडानात्मकत्वात्, यदेवं तदेवम्, यथा दूरस्थवनस्पत्योरेक इत्यादिपु पूर्वाक्तदोपानतिवृत्ते: परिच्छिन्नत्वस्य जडत्वस्य जन्य- त्वस्य चोपाधित्वात्, अप्रयोजकत्वाच्च, जीवो ब्रह्म वा, आत्मप्रतियोगिकताद्ग्भेदाघिकरणम्, पदा- र्थत्वादित्याद्याभाससाम्याञ्च। नच-घटाभेदे घटसिद्धैव तत्सिद्ा वेदान्तवैयर्थ्यम्, ब्रह्मणो जड- त्वानित्यत्वाद्यापत्तिः, मुक्तिसमानाधिकरणवन्धाधारस्य जीवस्य जडवन्निवृत्त्यापत्तिः, गौरोऽहमि- त्यादिप्रतीतिश्च प्रमा स्यादित्यादिविपक्षबाधकान्नाभाससाम्यादिकमिति-वाच्यम्; स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मसिद्धावपि सविलासाज्ञाननिवर्तकज्ञानाय वेदान्तसाफल्यस्य बहुधाभि- धानात्, घटादौ कल्पितव्यक्त्यन्तरेणाकल्पितभेदस्याभावेऽपि न यथा कल्पितव्यक्त्यात्मकत्वं तद्वत् प्रातिभासिकत्वं तद्वद्विशेपदर्शनेन निवृत्तिर्वा कल्पितव्यक्त्यन्तरेणैक्यज्ञानप्रमात्वं वा, तथा प्रकृ- तेऽपि कल्पितजडेन तदभावेऽपि न तदात्मकत्वादिति न विपक्षवाधकस्याप्यप्रसरः, एवं जडाना- मन्योन्यभेदेऽपि नानुमानम्। घटः, तत्त्वतः शुक्त्यभिन्नो न शुक्तिसंवद्ध कालासंबन्धित्वात्, तजन- काजन्यत्वात्तत्रारोपितरूप्यवत्, व्यावहारिकभेदस्य त्वयाप्यङ्गीकारेण न पक्षटष्टान्ताद्यनुपपत्तिः, अन्यथा भेदसिद्धसिद्धोदोपतदभावयोश्चाभेदेन स्वक्रियाविरोधः स्यादिति। अत्र तात्त्विकशुक्त्यभि- न्नत्वरूपप्रतियोग्य प्रसिद्धा साध्याप्रसिद्धेः, तत्वत इत्यस्य नेत्यत्र विशेषणत्वे सुतरामप्रसिद्धेः, घटा- दिसमसत्ताकभेदमत्रिण हेतोरुपपत्या अप्रयोजकत्वाच्च, भेदस्य तात्विकत्वे वाधस्योक्तत्वेन बा- धाञ्च। (२) अनात्मा, स्ववृत्तिधर्मीनाधारज्ञानवाध्यान्तर्गणिकभेदवान्, पदार्थत्वादात्मवत्, विपक्षे
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मिथ्याभेदेन सुतरो स इति, तन्माळ्यम्: मिथ्याभेदस्य तर्कासहत्वेऽपि व्यवस्थाकाले अनुच्छेदात् ॥ तर्करित्यादि- जीवमेदो न तर्कभाक्॥ इति लघुचन्द्रिकायां जीवभेदानुकूलतर्कभङ्ग:॥
ब्रह्म जीवो वा ब्रह्मणो जीवस्य वा 'स्वरूपम्। जीवत्वादुपहितस्य पक्षत्वे तत्र तज्ज्ञानाबाध्यभेदस्य सिद्धत्वात् तस्य शुद्धात्मज्ञानेनैव बाध्यत्वात् प्रतियोग्यप्रसिद्ध्येति। नच-ब्रह्मणि प्रतियोगिप्रसिद्धिः, ब्रह्मनिष्ठशुत्तयभेदस्य ब्रह्मरूपत्वादिति-वाच्यम्; शुक्तित्वेन शुत्तयभेदस्य शुक्तिरूपस्य प्रकृते निवेश्यत्वात्, अन्यथा ब्रह्मस्वरूपस्य सद्रपेण शुक्तयभेदस्य घटेऽपि सत्वेन बाधापत्तेः । इत्यस्यं इतिपदार्थस्य। इत्यत्र इतिपदार्थ। तात्विकाभाववानिति कृते इति यावत्। यथाश्रुते नजर्थे तत्वत इति नामार्थस्य अभेदान्वया व्युत्पत्तिः। सुतरामिति। अभेदे तात्त्विकत्वविशेषणे ब्रह्मस्वरूपस्य तस्य प्रसिद्धि: संभाव्यते, अभावे तद्विशेपणे तु न तत्प्रसिद्धिरित्यर्थः । ब्रह्मरूपाभावस्य तथा प्रसिद्धावपि सिद्धसाधनवारणाय निवेश्यस्य तदन्यस्योक्ताभावस्याप्रसिद्धिः अत्मभेदमादायार्थान्तरात्। अन्तर्गणिकेति। अना- रमप्रतियोगिकेत्यथः। धर्मानधिकरणघटेति। नच-अधिष्ठानघटधर्मस्य कल्पितघटवृत्तित्वेन कल्पितत्वात् नेदं युक्तमिति-वाच्यम्; सर्वधर्माणां स्ववृत्तित्वेन कल्पनासंभवात धर्मसमानसत्ताकस्ववृत्तित्वस्य निवेश्यत्वेन कल्पित-
घटत्वेति। अनात्मत्वसामानाधिकरण्यविशिष्टघटत्वेत्यर्थः। पतेन-आत्मनोऽपि घटत्वानधिकरणत्वात् घटत्वानाधार- ज्ञानबाध्यत्वसामान्याभावव्वेदमादाय नार्थान्तरमिति-अपास्तम्। साध्याप्रसिद्धिरिति। स्वावृत्तिघर्माधारोक्तौ मु स्पदस्य पक्षीभूतानात्मपरत्वे तदप्रसिद्धिः; धर्ममात्रस्यैव मन्मते अनात्मवृत्तित्वात्। यत्किंचिदनात्मपरत्वेऽपि आ- मनो निर्धर्मकतवेनानात्मन एव तथात्वात् तज्ज्ञानाबाध्यभेदमादायार्थान्तरम्। स्वावृत्तिधर्मेत्यादि। 'सवं अनात्मा तद्वृत्तिधर्माधिकरणमात्मेति पराभिमानः। यत् स्वावृत्तीति। खमनात्मा व्यतिरेकिणा यत्र यत्र उक्तसाध्याभाव-
Page 499
८२० अद्वैतसिद्धिः [परिच्छेद: २]
च दूरस्थवनस्पत्योः शुक्तिरूप्ययोश्चाभेदग्राहिप्रत्यक्षं न तत्त्वावेदक स्यात् मुक्तिसंसारादिसांकर्यच स्यादित्यादिबाधकमिति यत्, तन्न; एकत्र घटे कल्पिता ये अनेके घटाः, तेषु स्ववृत्तिधर्मानधिकर- णघटज्ञानवाध्यभेदवत्सु व्यभिचारात्। यतिंकिचित्स्ववृत्तिधर्मानाधारोक्तौ घटत्वानधिकरणपटश्ञा- नाबाध्यभेदेनात्मज्ञानबाध्येनार्थान्तरम्। स्ववृत्त्यशेषधर्मानाधारोक्तौ तव मते ब्रह्मणोऽपि वाच्य- त्वादिकेवलान्वयिधर्माधारत्वेन साध्याप्रसिद्धेः, कल्पितेन सह तात्त्विकभेदाभाववत् तात्विकाभे- दस्याप्यभावेन ऊहाहृतस्थले तत्त्वावेदकत्वसाङ्कर्यादीनामप्रसङ्गात्। यनु आत्मनामात्मानात्मनोश्च परस्परं तात्विकमेदे अनात्मा, स्वावृत्तिधर्माधिकरणप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणं, यत्स्वावृत्तिधर्माधिकरणं तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणम्, पदार्थत्वादात्मवत्, पक्षे स्वावृत्तिधर्माधिकरणमात्मा, ततो मिन्नादात्मान्तराद्भ्रिन्नत्वेन साध्यसिद्धिः। दृष्टान्ते च स्वावृ त्तिधर्माधिकरणं जडं, ततो भिन्नात् जडान्तरात् मिन्नत्वेन साध्यसत्त्वमिति, तन्न; पक्षटष्टान्तयोः स्वपदार्थप्रतियोगिपदार्थयोरननुगमेन व्याप्यत्वासिद्धेः, अजडत्वस्योपाधित्वाच्च, जडत्वेन व्यतिरे- किणा सत्प्रतिपक्षाञ्च। यदपि जीवस्य ब्रह्मतो जीवाञ्च जडस्य सत्यभेदे पृथिवी ब्रह्मप्रतियोगिकधर्मि- ज्ञानाबाध्यभेदाधिकरणं यदस्वाद्यनधिकरणं, तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यमेदवती, वस्तुत्वा- त्तोयवत्, अध्वादीत्यादिशब्देन तत्तद्वादिन: प्रति तत्तद्वादिसिद्धाः पृथिवीत्वभिन्नाः जडनिष्ठधर्मा विवक्षिताः। पक्षे व्रह्मभिन्नाजीवात् भिन्नत्वेन साध्यसिद्धिः, दष्टन्तेतु ब्रह्मभिन्नपार्थिवभिन्नत्वेनेति, तन्न; अप्वाद्यनधिकरणत्ववजजीवत्वानधिकरणेत्यपि विशेषणं दत्वा जीवव्रह्मभिन्नात्मनोSपि साध- नप्रसङ्गात्, गन्धाधारत्वादिव्य तिरेकिणा सत्प्रतिपक्षसंभवाच्च, धर्मिपद्विकल्पनिबन्धनदोपतादव- स्थ्याच्च। पतेन-जीवस्य ब्रह्मजीवान्तराभ्यां जीवाच्च जडस्य भेदे पूर्वप्रयोग एव जीवस्य जीवान्त- राज्जेदसिध्यर्थमन्तर्गणिकभेदवदित्यप्वानधिकरणेत्यत्र विशेषणं दत्वानुमानम्। अत्र च पक्षे ब्रह्मणः परस्परं च भिन्नाजीवात् भिन्नत्वेन साध्यसिद्धिः, दृष्टन्ते तु ब्रह्मणः परस्परञ्च मिन्नात् पार्थिवात् भिन्नत्वेनेति-निरस्तम; जीवस्य ब्रह्मजीवान्तराभ्यां जडस्य च जीवात् व्रह्मणो जडाञ्च भेदे प्रथिवी
प्रतियोगिज्ञानावाध्यभेदवत्वे सति अप्वाद्यनधिकरणासंसारिधर्मिकधर्मिज्ञानावाध्यभेदप्रतियोगिनी, वस्तुत्वादम्वुवदित्यत्र ब्रह्मणो जडादपि भेदार्थ पूर्वस्मादधिकमस्वानधिकरणासंसारीत्यादिविशेष- णम्। अत्र पक्षे अप्वाद्यनधिकरणमसंसारि ब्रह्म, तद्धर्मिकभेदप्रतियोगिन्वेन साध्यसिद्धिः, दृष्टान्ते- त्वस्वाद्यनधिकरणासंसारि पार्थिवम्, तद्धर्मिकभेदप्रतियोगित्वेन ज्ञेयम्। अत्र जीवत्वानधिकर- णत्वस्य अप्वानधिकरणेत्यत्र विशेषणत्वेन पूर्ववदाभाससाम्यात्, पाकजरूपाधिकरणत्वादिना
गौडब्रह्मानन्दी (लघुचन्द्रिका)। रूपसाध्याभावः, तत्राजडत्वमिति व्यतिरेकव्याप्तिमता। ब्रह्मप्रतियोगिकेत्यादि। अस्वादयनधिकरणमित्यत्र विशेषणेन जीवे ब्रह्मभेदसिद्धिः। पार्थिवभिन्नत्वेनेति। जीवभेदस्य दष्टान्ते सिद्धभावेऽपि परृथिवीभेदस्य मानान्त- रेण सिद्धा व्याप्तिग्रह इति भावः। जीवव्रह्मभिन्नात्मन इति। साध्याप्रसिद्धिस्तु यथाश्रुतेऽपि। नहि अह्वाद्यन- धिकरणान्तेन विवक्षितं ब्रह्मप्रतियोगिकतात्तिरिकभेद्वच्चेतनस्वरूपं प्रसिद्धमम्ति। अथ मन्मते अप्रसिद्धप्रतियोगिका- भावस्वीकारात् न दोप इति वृषे, तर्हि उक्तविशेपणदानेपि तत्तुत्यम्। अथ त्वां प्रत्यनुमाने साध्याप्रसिद्धिर्दूषण- मेवेति ब्रूपे, तदपि तुल्यम्। पूर्वप्रयोग एवान्तर्गणिकेति। अन्तर्गणिकत्वमशवाद्यनधिकरणब्रह्माप्रतियोगिकत्वम्। अन्तर्गणिकेत्यस्य पूर्व जीवस्य जीवान्तरादृपि भेदसिद्धर्थमिति क्वचित्पाठः। स चान्तर्गणिकभेदेत्यस्य प्रयोजनोक्तिः। विशेषणं सत्यन्तस्य विशेष्यदलम्। अन्रेति। निरस्तमित्यनुपज्यते। निरास इति तदर्थः। तेन आभाससाम्यादि- हेतूनां नान्वयः। अनधिकरणेत्यत्र अनधिकरणमित्यत्र। आभाससाम्यात् ब्रह्मजीवान्यात्मानुमानाभासेन तर्कशून्यतया तुत्यत्वात्। पाकजरूपाधिकरणत्वादिनेति। व्यनिरेकिणेति शेपः । पाकजरूपानधिकरणत्वादिनेति पाठे तु ग्ह्म पक्षीकृत्य सत्यतिपक्षप्रयोगो बोध्यः। नच-पूर्वानुमानस्य पृथिवीपक्षकस्य ब्रह्मपक्षकं पाकजरूपान धिकरणत्व हेतुकानुमानं न सत्प्रतिपक्ष:, किंतु पृथिवीपक्षकमेवेति-वाच्यम्; पूर्वानुमाने हि पृथिव्यां ब्रह्मनिष्ठमेदा प्रतियोगित्वं भासते, ब्रह्मण्युक्तसाध्याभावानुमानेऽप्यह्वाद्यनधिकरणासंसारित्वेन रूपेण भासमानपृथिवीनिष्ठाभेद- अतियोगिन्वस्य ब्रह्मणि भानम्। तथाच तुत्यवित्तिवेद्यत्वात्तत्र तादृशपृथिव्यां ब्रह्मनिष्टामेदप्रतियोगित्वस्यापि भान- संभवात् पृथिवीपक्षकानुमान एव सत्प्रतिपक्षानुमानस्य पर्यवसानातू। नच-तथापि पृथिव्या: पृथिवीत्वेन ब्रह्मणश-
Page 500
[भेदपच्केऽनुमानभङ्ग:] गौडम्हानन्दीयुता। ८२१
सत्प्रतिपक्षाञ्च, धर्मादिपद्विकल्पग्रासाच्च। एवं मेदमात्रेऽपि नानुमानम्।ब्रह्म, मेदहीनं नावतिष्ठते स्वज्ञानाबाध्यभेदवद्वा, पदार्थत्वात्, घटवत् इति; मुक्त्यसहवृत्तित्वस्य जडत्वस्य चोपाधित्वात्,स्वप- दविकल्पग्रासाच्च।पतेन-अनात्मा, स्वान्यज्ञानाबाध्यमेदाधिकरणम्,पदार्थत्वात्, आत्मवदिति- निरस्तम्। ब्रह्ममेदो न सर्वनिष्ठात्यन्ताभावप्रतियोगी, ब्रह्मनिरूप्यत्वात्, ब्रह्मामेदवदित्यत्र ब्रह्मामि भावृत्तित्वमुपाधि:, ब्रह्मामेदस्याब्रह्मनिरूप्यत्वेन तदनिरुप्यतया साधनवैकल्यं च। ब्रह्मज्ञानं, स्वाबा ध्यभेदवद्विषयकम्, ज्ञानत्वाच्छरुक्तिज्ञानव दित्यत्रानात्मविषयत्वमुपाधिः। स्वपदेन ब्रह्मश्ञानोक्तौ तद- बाध्यभेदाप्रसिद्या साध्याप्रसिद्धिः, शुक्तिजानोक्तौ सिद्धसाधनम्, घटो घटसंसर्गानवच्छिन्नप्रतियो- गिताकपटादिधर्मिकत्रैकालिका भावप्रतियोगि, द्रव्यत्वात्, पटवदित्यत्र काल्पनिकाभावस्यापि काल- त्रयवृत्तित्वसंभवेन सिद्धसाधनम्, घटसंसर्गानवच्छिन्नेतिवत्तादात्म्यानवच्छिन्नेत्यपि विशेषणं दत्वा पश्चमाभावसाधनस्यापि प्रसङ्गश्च, विपक्षवाधकाभावस्य उभयत्र सत्त्वात्। समानाधिकरणकर्मप्रा- गभावसमानकालीनज्ञानबाधायोग्यो भेद:, परमार्थसन्, प्रातिभासिकत्वानधिकरणत्वे सत्यसत्त्वा- नधिकरणत्वात्, स्वासत्वागोचरप्रमां प्रति साक्षाद्विषयत्वात्, आरोपितमिथ्यात्वकत्वात्, कल्प- करहितत्वात्, स्वविषयकसाक्षास्कारात् पूर्वभावित्वात्, आत्मवत्। ब्रह्मजीवप्रतियोगिको भेदः, परमार्थसन्, अनादित्वादात्मवत् साक्षिवेद्यसुखदुःखादिभेदः, परमार्थसन्, अनिषेध्यत्वेन दोषा- जन्यज्ञानं प्रति साक्षाद्विषयत्वात्। धर्माधर्मयागदानादिभेदः, परमार्थसन्, श्रुतितात्पर्यविषयत्वा- दित्यादिष्वात्मासाधारणधर्माणां चेतनत्वादीनामुपाधित्वं जडत्वादिना सत्प्रतिपक्षश्च मिथ्यात्वसा- धकानां प्रावल्यस्योक्तत्वेन तैर्बाधश्च। आद्ये च प्रातिभासिकत्वस्य दोषप्रयुक्तभानत्वात्मकत्वे असिद्धिः, ब्रह्मज्ञानेतरबाध्यत्वोक्तौ चरमवृत्त्यव्यवहितप्रातिभासिके व्यमिचारश्च। द्वितीयहेतौ ताद- कप्रमाविषयत्वस्य भेदपारमार्थिकत्वसिद्धधीनत्वेन साध्याविशेषपर्यवसानम्। तृतीये चरमवृत्त्यन्य- वाध्यमिथ्यात्वकत्वस्योपाधित्वम्। चतुर्थे अविद्यारूपकल्पकसत्व्रेनासिद्धिः । पञ्चमे दष्टिसृष्टिपक्षे असिद्धिः, इतरत्राप्रयोजकता। अनादित्वं च अज्ञानादौ व्यभिचारि। दोषाजन्यज्ञानं प्रतीत्यत्र श्रुति- तात्पर्यविषयत्वादित्यत्र चासिद्धिः; साक्ष्यवच्छेदकवृत्तेर्दोषजन्यत्वात्, मुख्यतस्तात्पर्यस्य तत्राभा- वात्। तस्मात् भेदपश्चकं नानुमानविषयः ॥ इत्यद्वैतसिद्धौ भेदपञ्चके अनुमानभङ्ग:।
गोडब्रह्मानन्दी (लघुचन्द्रिका)। संसारित्वेन पूर्वानुमाने भानात् सत्प्रतिपक्षानुमाने तु पृथिव्या उक्तासंसारित्वेन ब्रह्मणो ब्रह्मत्वेन भानात् न सत्प्रति- पक्षेतेति-वाच्यम्; प्राचीनमते समानविषयकयोर्भिन्नप्रकारेणापि ज्ञानयोर्विरोधित्वाभ्युपगमात्। मुक्त्यसहवृत्ति- स्वस्य मुक्त्याधारान्यत्वस्य। उपाधित्वादिति। भेदशून्यत्वाभावरूपप्रथमस्य द्वितीयस्य च साध्यव्यापकत्वं घटादौ। ब्रह्मणि तु साध्यं सन्दिग्धमिति तत्रोपाध्यभावेऽपि न क्षतिः। यत्तृक्तानुमानेपूक्तोपाधयो न युक्क्ाः, यत्र यत्रोक्त्तोपा- ध्यभावस्तत्रोक्तसाध्याभाव इति व्यतिरेकव्याह्यभावादिति, तन्न; उत्तव्याप्तेरुपाधित्वानुपयोगात्। नहि स्वानधि- करणसाधनाधिकरणे वर्वमानो यः, तत्समानाधिकरणसाध्यव्यापकत्वादिरूपोपाधित्वे सा निवेश्यते। ब्रह्माभेदस्या- ब्रह्मनिरूप्यत्वेनेति पाठः। ब्रह्मनिरूप्येण भेदनैव ब्रह्मभेदो निरूप्यते, नतु ब्रह्मणा; तस्य भेदं प्रत्येव निरूपकत्वात्। नच-ब्रह्मभेदाभावे प्रतियोगितावच्छेदकत्वात् ,ब्रह्मणि निरूपकत्वमिति-वाच्यम्; भेदप्रतियोगित्वरूपनिरूपकत्व- स्यैध वाच्यतया तदवच्छेदकत्वरूपनिरूपकत्वनिवेशासंभवात्, उभयसाधारणनिरूपकत्वाभावात्। समानाधिकर णेति। स्वसमानाधिकरणेत्यर्थः । स्वं ज्ञानं पक्षतावच्छेदावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् सामानाधिकरण्येन प्रातीतिकभेदे बाधासिद्ोर्वारणाय योग्यान्तम्। ब्रह्मणि शुक्तिरूप्यं नास्तीत्यादिप्रमाविषयब्रह्मरूपाभावांशे विशेषणे रूप्यादौ व्यभिचारात्-साक्षादिति। तर्कैरित्यादि पञ्चभेदानुमामिदा॥ इति लघुचन्द्रिकायां भेद- पश्चकानुमानभङ्ग:॥
Page 501
८२२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
अथ भेदश्रुतेरनुवादत्वोपपत्तिः। ननु-भेदतात्विकत्वे 'द्वासुपर्णा य आत्मनि तिष्ठन् नित्यो नित्यानां चेतनश्चेतनानाम् अजो होको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य' इति श्रुतयो मानमिति-चेन्न; द्वासुपर्णेत्यत्र पूर्वार्धे न भेद: प्रमेय :; अपदार्थत्वादवाक्यार्थत्वाच्च। द्वित्वस्य स्वाश्रयप्रतियोगिकभेदसमानाधिकरण- त्वनियमात् श्रुतद्वित्वार्थापत्तिसमधिगम्यस्यापि भेदस्य श्रौतत्वमिति चेत्, न; द्वौ चन्द्रमसावित्यत्रेव कल्पितभेदेनाप्युपपत्तेः तात्त्विकभेदानाक्षेपकत्वात्। अतएव नोत्तरार्स्यापि तातत्विकभेदपरत्वम्; वस्तुतस्त्वस्या: श्रुतेः पेङ्गिरहस्यव्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुमश क्यत्वात्। 'य आत्मनि तिष्ठन्' इत्यादावाधाराधेयभावस्य 'चेतनश्चेतनाना'मिति निर्धारणस्य 'अ- जोऽन्य' इत्यत्र भेदव्यपदेशस्य काल्पनिकभेदमादायाप्युपपत्तेः भेदतातत्विकत्वापर्यवसायित्वात्, श्रुत्यन्तरविरोधाच्च। नचैतच्छ्रुतिविरोधात् सैव श्रुतिरन्यपरा; भेदश्रुतेः प्रत्यक्षसिद्धभेदानुवादत्वेन हीनबलत्वात्। नच जीवत्वावच्छिन्नजीवभेदस्याप्राध्या 'न हिंस्या'दित्यादिवदननुवादत्वम्; जीवे ईश्वरभेदस्य प्रत्यक्षसिद्धतया तदन्यथानुपपत्तिसिद्धेशधर्मिकजीवत्वावच्छिन्नभेदस्यापि प्रत्यक्षसिद्ध- तुल्यकक्ष्यतया तद्वोधकश्रुतेरनुवादत्वोपपत्तेः । न हिंस्यादित्यत्र नानुवादत्वशङ्कापि, ब्राह्मणो न ह- न्तव्य इत्यादे:पुरोवादकत्वनिर्णायकाभावात्। नच-पुंविशेषं प्रत्यस्यार्थवत्वं शाखान्तरस्थविधिवा- क्यवदिति-वाच्यम्; एकस्यानेकशाखाध्ययनासंभवात्, प्रत्यक्षस्य सर्वपुरुषसाधारण्येन प्राथमि- कप्रसरत्वेन च पुरुषविशेषं प्रत्यपि सार्थकत्वस्य वक्तुमशक्यत्वाम् ।नच्र-दयोः प्रणयन्ती'त्यादि
त्रिकालाबाध्यत्वबोधकपदाभावात्। नच-अभेदे पड्विधतात्पर्य लिङ्गवद्दाढ्यर्थत्वं भेदश्रुतेरिति- वाच्यम्; तत्र प्रयोजनवत्त्व्रेऽप्यनुवादत्वापरिहारात् अग्निर्हिमस्य भेपजमितिवत्। नच् 'पडविंशति- रित्येव ब्रूयादि'तिवत् प्रतिप्रसवार्थत्वम्: तदपेक्षया हीनवलत्वेन प्रतिप्रसवायोगात्, भेदनिषेध- कश्रुतेः भेदतात्त्विकत्वनिषेधपरत्वेन भेदस्वरूपप्रतिपादकवाक्यस्य तत्प्रतिप्रसवायोगात्।नच प्रत्य- क्षस्याप्रामाण्ये श्रुतेस्तत्सिद्धानुवादकत्वायोगः; तस्या ज्ञातज्ञापकत्वमात्रेणानुवादकत्वोपपत्तेः । नच-एवमपि निरपेक्षानुवादत्वेन धारावाहिकद्वितीयादिज्ञानवत् प्रमात्वोपपत्तिरिति-वाच्यम्;
यत्वेनानधिगतार्थविषयतया विपमत्वात्। नच विद्वद्वाक्यवत् सप्रयोजनानुवादत्वेन स्वार्थपरता; तस्य स्वार्थवोधकत्वेऽपि द्वित्वसंपादकतया स्वार्थपरत्वाभावात्। नच यत्तन्नत्यादिनिषेधार्थानु- वादलिङ्गाभावेन विधेयान्तरश्रवणेन च निषेधार्थानुवादत्वायोग :; यत्तदित्यादेरनुवादलिङ्गत्वेऽपि अनुवादव्यापकत्वाभावात् अन्येनापि ह्युन्नयनसंभवात्, 'ब्राह्मणो न हन्तव्य' इत्यादौ यत्तत्पदाभा- वेऽपि निषेधानुवाददर्शनात्, विधेयान्तरसत्वे तु निषेधार्थानुवादकत्वाभावेऽपि तदर्थानुवादत्वा- परिहारात्। नचैवं विधानार्थानुवादे तात्त्विकत्वनियमः यद्रजतं तदानयेत्यादी अन्यविधानाथे भ्रान्तिसिद्धांनुवादे तात्विकत्वादर्शनात्। नच-अनुवादत्वेऽपि यथार्थत्वरूपप्रामाण्याहानिरिति- वाच्यम्: तस्य बाधकाभावनिवन्धनत्वेन प्रकृते असंभवात्। ननु-औपनिपदस्य ब्रह्मणः शास्त्रा- तिरिक्तेनाप्राप्तेः तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य कथं शास्त्रनिरपेक्षप्रत्यक्षादिना प्राप्ति- रिति-चेन्नः प्रतियोगिग्रहार्थ तदपेक्षत्वेऽपि स्वसमानविषयप्रमाणपूर्वकत्वानियमेन प्रत्यक्षस्य भेद- प्रापकत्वोपपत्तेः। यद्यपीशधर्मिकस्य भेदस्य प्रत्यक्षेणाप्राप्तिःः तथापि प्रत्यक्षसिद्धजीवधर्मिकेशभेदा- न्यथानुपपत्तिसिद्धस्यापि तस्य श्रुतार्थापत्तिसिद्धस्य श्रांतत्ववत् प्रत्यक्षसिद्धत्वोपपत्तेः॥ इत्यद्वैत- सिद्धौ भेदश्रुतेरनुवाद्कत्वम्॥। गौडब्रह्मानन्दी (लघुचन्द्रिका)। अध्ययनासंभवादिति। शाखान्तरवाक्यसार्थक्येऽपीति शेषः। इत्यादिवत् इत्यादिविहितं यत् प्राकृतप्रणय- नान्यप्रणयनं तद्वत्। भेषजवदिति। अन्यथा तत्राप्यनुवादो न स्यात्। पड्विंशतिरित्यादि। 'पड्डिंशतिरस्य वंक्रय' इत्यादिमत्रस्याश्वमेधे चोदकप्राप्तस्य 'चतुस्तिंशद्वाजिन' इत्यादिवैशेपिकमश्रेणापोदितस्य 'न चतुसित्रिंशदिति ब्रूयात् पड्डिंर्शातरित्येव ब्रृया'दित्यनेन प्रतिप्रसववदित्यर्थः । तदपेक्षया, भेदनिपेधकश्रुत्यपेक्षया। तत्प्रतिप्रसवा- योगात् भे दुस त्यत्व् प्रतिप्रसवायोगात्। विधेयान्तरेति। उपासनादीत्ययः । प्रतियोगिग्रहार्थ प्रतियोग्यनुयोगि-
Page 502
गौडब्रह्मानन्दीयुता। ८२३
अथ भेदश्रुतेर्व्यावहारिकभेदपरत्वोपपत्तिः। अथवानुवादकत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिः। न चाप्रामाण्यापातः; अर्थ- वादवाक्यवदुपपत्तेः, प्रतीयमानार्थेचाभेदश्रुतिविरोधेनाप्रामाण्यस्येप्टत्वाञ्च। नचाभेदश्रुतेरखण्ड- चिन्मान्नपरत्वेन भेदाविरोधित्वम्, तद्वारीभूतार्थमादाय तद्विरोधात्। नापि वैपरीत्यम्;प्राप्ताप्राप्ता- र्थत्वाभ्यां विशेषात्। नच्-ऐक्यश्रुतेरपि प्रत्यक्षविरुद्धत्वादप्रामाण्यम्, मानान्तरप्राप्तिवत् तद्विरो धस्यापि दौर्बल्यहेतुत्वादिति-वाच्यम्; विरोधे विरोधिनो मानत्ववत् अनुवादकत्वोपपादकस्य मानताया अनपेक्षितत्वात्। किंच पद्दिधतात्पर्यलिङ्गवत्त्वात् पक्यशुतेः प्रावल्यम्। नच्र-तात्प- र्यमात्रज्ञापकत्वेन तेपामर्थतथात्वाज्ञापकत्वमिति-वाच्यम्; श्रुतेस्तत्परत्वज्ञापनेन परम्परयोपयो- गात्, पंतद्विरुद्धश्रुतेः श्रूयमाणेऽर्थे तात्पर्याभावसंपादनेनाधिकवलसंपादकत्वाच्च। नच-अत्रापि स्वाद्वत्ति अनश्नन् पूर्ण: पर: जीवसंघो ह्यपूर्ण' इत्यादयुपपत्तिरूपं 'सत्यं मिदा सत्यं मिदा सत्यं मिदे' त्यभ्यासादिरूपं तात्पर्यलिङ्गमस्तीति भेदश्रुतिरपि तत्परेति-वाच्यम्; अत्तीति अपूर्ण इति च जीवानुवादेन तस्य पूर्णव्रह्मरूपताविधानार्थत्वेन भेदोपपत्तित्वाभावात्। सत्यं भिदेति न भेदा- भ्यास :; पतद्वाक्यस्याप्रामाणिकत्वात्, प्रामाणिकत्वे वा बाधायां सामानाधिकरण्येनाभेदे पर्यंव- सानात्। ननु-भेदश्रुतिरेव प्रवला, 'असआ्ञातविरोधित्वात् प्रत्यक्षादिसंवादान्निरवकाशत्वाञ्चेति- चेन्नः अभेदश्रुतिरूपविरोधिनो जातत्वात्, प्रत्यक्षादेग्प्रमाणत्वेन तत्संवादस्य प्राबत्याप्रयोजक- त्वात्, शतमप्यन्धानामिति न्यायात्, व्यावहारिकभेदविषयत्वेन सावकाशत्वाच्च। ननु-नायं भेदो व्यावहारिक:, मुक्तावपि भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरिति-चेन्न; तस्या मुक्तेरवान्तरत्वात्। ननु- 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥।' इत्यादि- स्मृतो सर्गाद्यभावोक्ते: 'न यत्र माया किमुतापरे हरेरनुवरता यत्र सुरासुरार्चिताः।श्यामावदाताः शतपत्रलोचना: पिशङ्गवस्त्राः सुरुचः सुपेशस'इति स्मृती मायानिषेधाच्च 'यो वेद निहितं गुहायां सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'त्यत्र शुद्धब्रह्मज्ञानफलत्वोक्तेश्च त्वयापि शुद्ध- ब्रह्मविषयत्व्रेन स्वीकृताया: भूमविद्यायाः फलोक्त्यवसरे 'तस्य सर्वेषु लोकेषु कामचारो भवति पश्चधा सप्तधे' त्यादिभेदोक्तेः 'परं ज्योतिरुपसंपद् स्वेन रूपेणाभिनिप्पध्ते' 'स तत्र पर्येति जक्षन् फ्रीडत्रममाण' इत्यादी स्वरूपाभिव्यक्त्युक्तेश्च तथा 'विद्वान् पुण्यपापे विधूय निरञ्ञनः परमं साम्य- मुपैती'त्यत्र कर्मक्षयोक्तेश्च 'जुएं यदा पश्पत्यन्यमीशमस्य महिमानमिति वीतशोकः पृथगात्मानं प्रेरि- तारंच मत्वा जुप्टस्ततस्तेनामृतत्वमेती'ति भेदज्ञानान्मोक्षोक्तेञ्च त्वन्मतेऽपि भेदभोगादिफलेषु फलाध्यायान्त्यपादस्थेपु 'जगद्यापारवर्जम्' 'सङ्कल्पादेव तु तच्छ्रुतेः' 'भोगमात्रसाम्यलिङ्गाञ्चे'ति सूत्रेषु प्रक्रान्तशुद्धविद्याफलस्यैव वक्तव्यत्वाच्च परममुक्तित्वमेवेति-चेन्न; सगुणोपासनया ब्रह्मलोकं
गौडब्रह्मानन्दी (लघुचन्द्रिका )। ग्रहार्थम्। मिथ्यात्वानुमानस्यागमबाधोद्धारे एतत्प्रकरणस्य विस्तरेण विवेचनं द्रष्टव्यम्। तर्कैरित्यादि-भेदश्रुत्य- नुवादिता। इति लघुचन्द्रिकायां भेदश्रुतेरनुवादकत्वम्।।
अनुवादकत्वाभावेऽपि निप्प्रयोजनानुवादकत्वाभावेऽपि। व्यावहारिकभेदपरत्वेनेति। व्यवहारदशायां प्रवृत्तिनिवृध्या दिप्रयोजनवदनुवादतवेन विद्वद्वाक्यवत् भेदवाक्यं स्वार्थपरम्। द्वित्वसम्पादने विद्व द्वाक्य स्येवोक्तप्रयोजने तस्य तात्पर्येऽपि धूमोऽस्तीति वह्नितारपर्यकस्य धूम इव स्वारथे तयोरवान्तरतात्पर्यसंभवात्। अत एव 'अर्थेऽनुपलब्धे तत्प्रमाण'मिति सूत्रगतानुपलब्धपदं निष्प्रयोजनं यदुपलब्धं तदन्यपरमिति तयोरमिहोत्रादिवाक्यस्येव व्यावहारिकप्रा माण्यमिति भावः। अप्रामाण्यापातः तारि्विकप्रामाण्याभावापातः। अर्थवादवदिति। कर्ममीमांसकार्ना तव च मते वायुर्वा इत्यादयर्थवादानां यथा स्वार्थे तात्विकप्रामाण्याभावेऽपि स्तुतौ तात्विकप्रामाण्यं, तथा भेदश्रुतेः प्रवृश्यादौ त्वन्मते तार्विकप्रामाण्यमस्तु, मन्मते तु सर्वश्रुतीनां साक्षात् परम्परया वा शुद्धब्रह्मपरत्वमिति भावः। अप्रामाण्यस्य तात्विकप्रामाण्याभावस्य। अप्रामाण्यं तात्विकप्रामाण्यस्याभावः। मानत्ववत् निर्णीतमानत्वस्येव। मानतायाः निर्णीतमानतायाः। तथाच विरोधिप्रत्यक्षे मानत्वानिर्णयात् न श्रुतेरताश्वि- कमानत्वमिति भावः। उपयोगात् अर्थतथात्वोपयोगात्। जातत्वादिति। श्रवणादिसहकृतश्रुतिजन्यैक्य-
Page 503
८२४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
गतस्यापि 'न स पुनरावर्तत' इत्यादिश्रुत्या दैनन्दिनसर्गाद्यसंबन्धस्य प्रतिपादनेनावान्तरमुक्ताव- प्युपपत्तेः, 'न तत्र माये'त्यादिस्मृतौ च मायाशब्दस्य मात्सर्यादिपरत्वेन मूलमायाविरहाप्रतीतेः, अन्यथा श्यामावदातत्वादिति विरोधापत्तेः, 'यो वेद निहित'मित्यत्र शुद्धब्रह्मज्ञानफलभूता या सर्व- कामावाप्तिः, सा न वैषयिकभोगरूपा, किंतु सर्ववैषयिकसुखानां पतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'तिश्रुत्या ब्रह्मानन्दे अन्तर्भावोक्तस्तदभिप्रायेति न तद्वलान्नानाकामावापे: शुद्धक्ञा- नफलत्वम्, भूमविद्याफलोक्त्यवसरे सर्वलोककामचारैकधाभावादे: फलस्य भूमविद्यावाक्योपक्रमे प्राणविद्याफलत्वेनोक्तस्य ज्योतिष्टोमप्रकरणे श्रूयमाणाहीनद्वादशोपसत्तावत् निर्गुणविद्यास्तावकत्वे- नाप्युपपत्तेः, स्वयंज्योतिरित्यादौ जक्षणप्रभृतीनां भेदगर्भत्वेन जक्षन्निव क्रीडन्निवेत्यादिबाघितत्ववि- वक्षया परममुक्तेस्तत्रोक्त्या त्वद्भिमतमेदगर्भक्रीडादीनां परममुक्तित्वाभावात्, पुण्यपापे विध्रूयेत्यत्र
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ज्ञानं स्वोत्तरप्रत्यक्षं बाधते। बाध्यजातीयत्वात् स्वपूर्वप्रत्यक्षमपि बाधते। किंच निर्णीतमानताकं यत्र मान- द्वयं, तत्रैवोपक्रमादिन्याय इत्यादि मिध्यात्वानुमाने बाधोद्धारोकं बोध्यम्। दैनन्दिनेति । यदा जन्ममरण- योग्यता, तदातनसर्गाद्यभावः प्रतिपाद्यते। प्राकृतसृष्टिप्रलयकालयोश्च ब्रह्मलोकगतानां न जन्मादियोग्यता; तत्कैव- ल्योत्तरमेव महासृष्घादिप्रवृत्तेः । सर्गेऽपीत्यस्य सर्गसामान्यपरत्वे तु तद्वैयर्थ्य नोपजायते इत्यस्यैव पूर्णत्वात्। तस्माहैनन्दिनसर्गपरं तत्। वस्तुतः सर्गादीत्यादिपदेन न दैनन्दिनप्रलयस्यैव ग्रहणम्, किंतु प्राकृतसृष्टिप्रलययोरपि। तथाच सर्गादिकालजननादिसामान्याभाव एव बोध्यते। तत्रच विशेषाप्रसक्तिर्न दोष इति भावः। मायाशब्द- स्येति। 'तेपामेवैष ब्रह्मलोको न येपु जिह्ममनृतं न माया चे'ति श्रुत्येकवाक्यत्वादिनि शेपः। अन्तर्भावोक्तेरिति। यन्तु सर्वकामवाक्ये अन्तर्भावश्रवणान्नैवमिति, तन्माढ्यम्; सर्वकामपदस्य सर्वसुखार्थकस्यापि ब्रह्मानन्दपरतवं सर्वसुखानां ब्रह्मानन्दाभेदादित्यस्य प्रकृतग्रन्थार्थतवात्। उपक्रमे प्राणविद्या उपक्रमस्थप्राणविद्या। उक्तस्य भूमविद्यान्ते उत्तस्य। प्राणविद्याया: पूर्वमुक्तरवेऽपि तर्फलस्यानुक्त्तत्वात् भूमविद्यान्ते तदुक्तम्। वस्तुत उपक्रमे उक्तस्येति योजना। 'अतिवादी 'त्यनेन 'प्राणो वा आशाया भूया'नित्यनेन चोक्तस्येति तदर्थः। आशाधुपासनाफला- पेक्षया अधिकफलवदुपासनाविपयत्वस्यैव भूयस्त्वरूपत्वात् ताद्ृशप्राणवादित्वस्य च अतिवादित्वरूपत्वात्। अत- एवोक्तवाक्यस्यैव फलसंबन्धविधायकत्वेन सर्वकामादिवाक्यस्य स्तावकत्वं सङ्गच्छते। अथवा-स्तुतिनिर्देशादेव प्राणविद्याप्रकरणे फलसंबन्धबोधकवाक्यं कल्पनीयम्। 'न पश्यो मृत्युं पश्यती'त्यादिकं नु भूमविद्याफलपरस्वसंभ- वात् न स्तावकमिति भावः। ज्योतिष्टोमेत्यादि। उपसदां विधानोत्तरं 'तिस्र एव साह्नस्योपसदो द्वादशाहीन- स्ये'ति वाक्यम् एकाहसमाप्यमानरूपासन्नात्मकज्योतिष्टोमप्रकरणे श्रयते। तत्र तिस्र इत्यनेन त्रित्वस्येव द्वादशेत्यनेन द्वादशत्वस्योपसदुद्देशेन विधिः । साह्वस्याहीनस्येति तु अनुवाद :; उपसदां साह्वाङ्गतया विहिततवेन तदपूर्वसाधन- तयो द्देश्यत्वसंभवात्। एवंच न प्रकरणबाधः । अहीनस्येत्यस्य साह्वसंबन्धानुवादत्वं न हीयते असौ द्विरात्रादिप्रकृति- त्वेनेति व्युत्पत्तेः, मध्योदात्तस्य तस्यादयुदात्तनज्समासत्वासंभवेऽपि 'अह्वः रूः क्रता'विति सूत्रेण तस्य समूह इत्यनु- वृत्तिसहितेन विहितप्रत्ययान्तत्वेऽपि वा आवृत्तिकृतभेदेन क्रतुसमूहरूपसाह्वबोधकत्वात् इति प्राप्ते, अहीनपदस्य साह्ववाचकत्वे साहृस्याहीनस्येत्यनयोवैयर्थ्यापत्ते: एवकारेण चनुरादुपसदां साह्वसाधनत्वाभावानुवादानुपपत्तेरहीन- पदस्य यजतिचोदनाचोदितसत्राद्यन्यसुत्यासमूह एव प्रयोगाचाहीनपदेनद्वादशाहात्मकोक्त्तसमूहमुद्दिश्य द्वादशोपसत्ता विधीयते। उपसदामतिदेशेन प्राप्तिसंभवेऽपि अतिदेशप्रवृत्तितः । पूर्व द्वादशत्वप्राह्यर्थ विधिः। पश्चन्तस्य नामार्था- न्वयस्वीकारे तु अहीनोपसदेवोद्देश्या, द्वादशाहप्रकरणस्थवाक्यं तु 'सत्रात्मकद्वादशाहे द्वादशोपसत्ताकविधायकमिति भाष्याभिप्रायः। वस्तुतः सत्रात्मक इवाहीनात्मकेऽपि द्वादशाहे तठ्रकरणस्थवाक्यस्य तद्विधायकतवसंभवादेक- वाक्यतानुरोधात् ज्योतिष्टोमप्रकरणस्थं द्वादृशाहीनस्येति वाक्यं सावकम्। द्वादशाहस्य द्वादशभिरुपसम्मिरुपकारः, साहस्य ततोऽ्पाभिरिति स्सुतिरिति वार्तिककारादय इति तृतीयतृतीये स्थितं तद्वत् भूमविद्याशेषस्थवाक्यं स्तावक- मित्यर्थः । इव गर्भत्वेनेति। अथ 'यत्र देव हव राजेवाहमेवेदं सर्वमस्मीति मन्यते। सोऽस्य परमो लोक' इति विद्वत्समबोधकश्रुताविवशन्दोक्ते: स्वमस्य पूर्वानुभवमूलकत्वाद्विद्वदनुभवबोधक 'स तत्र पर्येती'त्यादिश्ुतौ जक्षम्नित्या- दिपदोत्तरमिवशन्दाध्याहारः। तथाघ स विद्वान् तत्रोत्तमपुरुपरूपे स्वात्मनि परि सर्वतो भावेन इति। आविध्यका- सर्वभावनिवृत्या सर्वसाक्षिरूपास्या 'अहमेवेदं सर्व'मिति मन्यते; 'भात्मानमेवावेदहं ब्रह्मास्मी'ति तस्मात्ततसर्वम- भवदिति श्रुत्यन्तरात्। ननु आत्मान्यसर्वबाधात् कथं सर्वमहमेवेति मन्यते तत्राह-जक्षन्निव क्रीडन्निवेत्यादि। हवशन्दस्याल्पार्थकरवात् बाधितजक्षतादिरूपसर्वात्मतां मन्यते; बाधितानुवृस्यैव जीवन्मुक्तभोगातू। अत एव 'अहं
Page 504
[शब्दान्तरादेरात्मभेदसाधकत्वासंभवः] गौडब्रह्मानन्दीयुता। ८२५
परमसाम्यस्यैक्यरूपतया कर्मक्षयस्य पक्यरूपमुक्तिफलतया मेदगर्भमुक्तिफलत्वाभावात्; जुष्टमित्य- त्रान्यपदस्य देहेन्द्रियादिविलक्षणात्मपरत्वेन जीवेशपरत्वाभावात्। तथाच भेदशानस्य मोक्षहेतुत्वम् अतोऽवगम्यते मन्मते भेदभोगादिपरेषु 'संङ्कल्पादेव तच्छ्रुतेरित्यारभ्याध्यायपरिसमाप्तिपर्यन्ताधिक रणेषु सगुणविद्याफलस्य उक्ततया शुद्धब्रह्मविद्याफलाप्रतिपादकत्वात्। तस्मात् परममुक्तौ मेदस्या- प्रसक्ते: व्यावहारिकत्वोपपत्या भेदश्रुतेर्व्याव हारिकपरत्वं स्थितम्॥ इत्यद्वैतसिद्धौ भेदश्रुतेर्व्यावहा- रिकभेदपरत्वोपपत्तिः॥
अथ शब्दान्तरादेरात्मभेदसाधकत्वासंभवः । ननु-पूर्वतन्त्रे द्वतीयाध्याये यैरेव शब्दान्तरादिभि: कर्मभेद उक्तः, तैरेव जीवेशमेदोऽपि सिध्यति। तथाहि-एष एव जीवं प्रबोधयति 'एतस्माज्जीव उत्तिष्ठती'ति विरुद्धार्थधातुनिप्पन्नाख्यातरूपश- व्दान्तरस्य 'नित्यः परो नित्यः जीव' इति प्रत्यभिज्ञायमानपुनःश्रुतिरूपाभ्यासस्य 'द्वासुपणे'त्यादि- संख्याया अशव्दमनअ्नन्नित्यादेभेदकस्य गुणान्तरस्य 'यतो वाचो निवर्त्तन्त' इत्यादिप्रकरणान्तरस्य जीवेशाविति नामधेयद्वयस्यापि सत्त्वाञ्चेति-चेन्न; प्रत्यक्षादिसमकक्ष्यतया शब्दान्तरादीनां भेदक- त्वेऽपि तात्त्विकाभेदाबिरोधित्वात्। किंचादष्टचरस्त्वं मीमांसकः यः कर्मभेदे शास्त्रभेदे वा प्रमाण- त्वेन कमानां शब्दान्तरादीनां चेतनभेदे प्रमाणत्वं कल्पयसि। न ह्यन्यभेदप्रयोजकस्यान्यभेदप्रयोज- कता; विशिष्टभेदे प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापत्तेः, 'देवदत्त उत्तिष्ठति शिप्यं
गौडब्रह्मानन्दी (लघुचन्द्रिका)। मनु'रित्यादावपीवशब्दाध्याहार इति भावः। ऐकरूपतयेति। अन्यथा परमपद्वैयर्थ्यम्, 'ब्रह्म वेद ब्रह्मैव भवति ब्रह्मैव सन् ब्रह्माप्येनि ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदित्यादिश्रुतिविरोधश्र। विलक्षणेति। 'अन्यदेव तद्विदितादित्यादाविव अन्यव शोभा विधोरित्यादाविव चान्यपदं विलक्षणार्थकम्। नहि विदितादीश्वरादिरुपाद्विशि- ष्टात्मनोऽत्यन्तभिन्नं ब्रह्म, न वा शोभायामन्यत्वमात्रेण चमत्कारः। नच लक्षणा दोष :; भेदवतीव अन्यपदस्य तत्तंद्वैलक्षण्यवनि शक्तिसंभवात्। तर्करित्यादि-असत्यभेदधीश्रुतिः ॥ इति भेदश्रुतेर्व्यावहारिकभेद- परत्वोपपत्तिः ।।
शब्दान्तराद्ीनाम् उक्तशव्दान्तरादीनाम्। भेदकत्वेऽपीति। ज्योतिष्टोमप्रकरणस्थेपु 'सोमेन यजेत हिरण्य- मात्रेयाय ददानि दाक्षिणानि जुहोती त्यादिपु यागादयुपरक्तभावनानामेकजातीयत्वं भिन्नजातीयत्वं वेति संशये 'ज्योतिष्टोमेन स्वर्गकामो यजेते त्यत्र स्वर्गकर्मकभावनामान्नविधानात्तदनुवादेनोक्तवाक्यैः सोमादिविशिष्टयागादि- विधिः, फलवाक्येच यजे: प्रकृतयागदानाद्युपलक्षणत्वेन ज्योतिष्टोमपदं यागदानादिनामेति प्राप्ते-कारणीभूतभाव- नावजात्यं विना कार्यीभूनयागादिगतविधेयतावच्छेदकयागविशेपत्वादिवैजात्यासंभवात् प्राप्तभावनानुवादेन सोम- यागाधनेकगुणविध्यसंभवेन सोमयागादिविशिष्टभावनाया एव विधेर्वाच्यत्वाञ्च यागादिघात्वर्थवैजात्ये सति भावना- वैजात्यमावश्यकमिति विजातीयार्थकधातुनानात्वरूपं शब्दान्तरं भावनाभेदकमित्युक्तम्। तथाच प्रकृते प्रबोधनोत्था- नरूपधात्वथवैजात्यं भावनावैजात्यसाधकमास्ताम्, नतु जीवेशस्वरूपयोवैंजात्यसाधकम्॥ दर्शपूर्णमासप्रकरणस्थे समिधो यजति, तनूनपातं यजति, इडो यजति, बहिर्यजति, स्वाहाकारं यजतीत्यत्र न भावनावैजात्यम्; घात्वथवैजात्ये मानाभावात्, नच-विहितजातीयविधानायोगाढ्धात्वर्थवैजात्यम्; प्रथमवाक्ये समित्पदस्य तत्प्रख्यन्यायेन नामत्वात्तद्विहितयागानुवादेन अन्यवाक्यानां देवतारूपगुणविधायकत्वात्, अथ याज्या- मश्रात् समिदिव तनूनपातादिरपि देवता प्राप्तुं शक्या, तथाप्युपांशुयाजानुवादेन वाक्यपञ्चकेऽपि देवताविधिः, याज्यामश्नेण समिदादिप्राप्तिसंभवेऽप्यनुमन्रणमत्रैर्वसन्तादिदेवतानामपि विकल्पेन प्राह््या नियमविधित्वसंभवादिति प्राप्ते-उभयाकाङ्कालभ्यत्वेन याज्याया एव देवताकल्पकत्वसंभवे अन्यतराकाङ्कालभ्यानुमत्रणमन्नस्य तद्भावादुक्त वाक्यानां प्राप्तदेवतानियम विधित्वासंभवेन यागविधित्वाद्विहितजातीयविधानासंभवात्तत्र तत्तद्वाक्यविधेयतावच्छेदक- तया पञ्चवैजात्यसिद्धिः। नच-समिदादिपदानां नामरवात्त्वेदेनैव सेति-वाच्यम्; यागवैजात्यासिद्धौ देवतानु- चाद्कत्येनैवोपपत्ती नामत्वानिर्णयात्। अभ्यासेन यागवैजात्ये सिद्धे तु व्यवहारार्थ नामभेदनिर्णय इत्युक्तम्। अ. सि. १०४
Page 505
८२६ अद्वैतसिद्धिः । [परिच्छेद: २ ]
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तथाच विभिन्नविधिविधेयतावच्छेदकतया वैजात्यभेदस्वीकारावश्यकतवेऽपि 'नित्यः परो नित्यो जीव' इत्यादौ नित्य- त्वस्येशरूपे विहितस्य जीवरूपे कथं तयोरभेदज्ञापनायापि संभवतीति दभा जुहोतीत्यादाविवान्यपरत्वादनन्यपरपुनः- श्रुत्यभावः । अन्यथा विधेये नित्यत्व एव वैजात्यं स्यात्, नतु तदुद्देश्ययोः ॥ 'तिस्र आहुतीर्जुहोति आज्यभागौ यजती'त्यादौ त्रित्वादिसङ्क्यया न भावनाभेदः, त्रित्वादिसख्यायाः स्वाश्रय- प्रतियोगिकस्वाश्रयानुयोगिकभेदव्याप्यत्वेऽपि प्रकृते भावनायास्त्रित्वसंख्याश्रयत्वेनाप्रतीतेः । नापि घात्वर्थभेद :; प्राथमिके धात्वर्थान्वितभावनाबोधे धात्वर्थावच्छेदकत्वेन संख्यापेक्षायां प्रथमोपस्थितत्वेनैकत्वस्यैव तथात्वकल्पनेन पाश्चात्यबोधे आवृत्तिभेदमादायैव श्रुतसंख्यान्वयात्। तथाच प्रथमप्रतीतमेकत्वं विधेयतावच्छेदकैकजात्यैवेति पाश्चा- त्यन्नित्वादेर्न विरोधः । अत एव प्रयाजानां प्राथमिकपञ्जत्वस्य विधेयतावच्छेदकवैजात्यरेवोपस्थितत्वेन लघुभूतैः स्वीकारा देकादशप्रयाजान्यजतीति वै कृतवाक्योपात्तसंख्याया आवृत्तिभेदेन तत्तद्यक्तित्वेन भेदमा दा्योपत्तिरिति प्राप्ते सहो्चरितपदानां सम्भूयैकविशिष्टार्थप्रमापकत्वस्योक्तप्राथमिकबोधपूर्वमेव गृहीतत्वात् नदबाधाय संख्यापेक्षायां द्वितीयबोधे श्रुतसंख्याया एवान्वयः, नतु तत्पूर्वमेव संख्यान्तरकल्पनम्, अन्यथा प्राथमिकबोधे द्रव्यान्तरादेरपि कल्पनेन श्रुतद्रव्यादे: अनन्वयापत्तेः । कर्मोत्पत्तिवाक्यान्यवाक्ये श्रुतं प्रयाजैकादशत्वं तु न वैजात्येन भेदकम्; कर्मो- त्पत्तिवाक्यजन्यधीकाले तादृशभेदकसंख्याया अकस्त्वात्। 'त्रिर्वेदीं प्रोक्षती'त्यादौ तु विधेयक्रियाभ्यासार्थकसुच्प्र- त्ययान्तत्वेन त्रिरित्यस्य न विधेयतावच्छेदकनानावजात्यैभेदकत्वम्। 'समिधो यजती'त्यादी 'समिधः अम आज्यस्य व्यन्तिव ति मच्रेण प्राप्तं यत् बहुत्वं, तद्वत्समिद्देवताकत्व्रानुवादकत्वेन समिध इत्यस्य नोक्तभेदकत्वम्; उक्तरीतैव बोधोपपत्ती बहुत्वविशिष्टकर्मविधाने गौरवात्, कर्मगतत्वेन संख्याया अग्रतीतेः । तथाच धात्वर्थोत्पत्तिवाक्यश्रुत- धात्वर्थगतसंख्या धात्वर्थभेदिकेति धात्वर्थभेदात् भावनाभेद इत्युक्तम्। जीवपरद्वित्ववाक्ये तु नोक्तसंख्यास्ीति नोक्तमेदिका। विधीयमाने श्रुतसंख्याया उक्तभेदकत्वस्वीकारेऽपि विधीयमानपर्याप्तत्वेन श्रुतेत्यवश्यं वाच्यम्; अनृद्यमानविधीयमानपर्याप्तसंख्यायास्तदभावात्। तथाच जीवस्य भोककृत्वेनोच्यमानस्याविधेयत्वात् नोक्तसंख्या तथा। तथात्वेऽपि स्वाद्वत्तीन्युच्यमानस्योपहितस्यैव त्ह्मभेदो वाच्यः । स चेष्टो ममापि॥ एवं वैश्वदेव्या मिक्षेस्यनेन द्रव्यदेवताविशिष्टयागवुद्धत्तरं वाजिभ्यो वाजिनमिनि श्रूयते। तत्र वाजमन्नमामिक्षारूपमे- पामम्तीति व्युत्पत्या वाजिपदन विश्वदवोक्तेसतत्र वाजिनसंबन्धः। तथाच आमिक्षया सह वाजिनस्यैकत्र यागे विकल्पः समुच्यो वा, अथवा आमिक्षानुनिष्पन्नवाजिनसंबन्धाद्वाजिनपदस्यामिक्षायागे गौणत्वात्तदुद्देशेन वाजिदेवताया विकल्पेन समुच्चयेन वा विधिरिति प्राप्ते-वाजिपदस्य रूढ्या बलीयस्या अश्वस्योक्तर्योगेन विश्वदेवतानुक्तरुत्पत्ति- शिष्टत्वेन प्रबलया आमिक्षया विश्वदेवदेवतया वा सहोत्पन्नशिष्टस्य वाजिनस्य वाजिनां वा विकल्पाद्यसंभवात् द्रव्य- देवताविशिष्टं आमिक्षायागाद्विजातीयं यागान्तरं विधीयते इति यस्मिन् कर्मणि यो गुणो न निवेशार्हस्ततो वैजात्येन स्वान्वयितया विधेयकर्मणः स भेदक इत्युक्तम्। अनश्नन्नित्याद्युक्ताभोक्तृत्वादिगुणस्तु न जीवस्वरूपे निवेशानर्हः; 'अन्वागतस्तेन भवति, असङ्गो ह्ययं पुरुप' इत्यादिध्रुत्या युक्तया च तत्रापि तत्सिद्धेः, अतो नायं ततो ब्रह्मभेदकः ॥ 'एवं कौण्डपायिनामयने उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति मासं दर्शपूर्णमासाभ्या'मित्यादौ जुहोतिनाभि-
वैजात्येन भेद इति प्राप्ते-कृतिविपयत्वेन ज्ञाप्यत्वमज्ञातनिष्टज्ञाप्यत्वं च विधिवाक्यमात्रस्यावश्यं वाच्यम्; तस्या- नुष्टापकत्वात् प्रमापकत्वाच्च। तत्राद्यमुपादेयत्वाख्यमनुपादेयकालादिभिस्नेप्वेव। द्वितीयं विधेयत्वास्थं कालादा- वपि। तदुभयं च प्रधानत्वाद्धान्वर्थभावनायामेव स्वीक्रियते। तद्वाधके सन तु नामाद्यर्थऽपि। यथा आहवनीये जुहोनीत्यादा विशिष्टविधिगारवादाहवनीयादी दृरस्थप्राप्तहोमानुवादेन विधीयमाने, प्रकृते तु मासादिगुणस्य विधेय- त्वसंभवेऽप्युपादेयतवासंभवात्तदुभयाश्रयो नित्याम्निहोत्रादितो विजानीयं कर्म। 'सायं जुहोती'लयादी तु सान्निध्यादि- सहितजुहोतिना ज्ञातहोमस्योपस्थापनात्तत्रेवोपादयत्वम्, कालस्य तु विधेयत्वमिति तयोवैयधिकरण्यं स्वीक्रियते, प्रकृते तु सान्निध्याद्यभावादभिहोत्रादिपदस्य अभिदेवताकहोममात्रबोधनान तथा। तथाचानुपादेयगुणयुक्तानुपस्थिति- रूपं प्रकरणान्तरं तथा भेदकमित्युक्तम्। यतो वेत्यादौ तु निर्गुणस्यैवोत्तया तदसिद्धम्॥ एवं ज्योतिष्टोमं प्रकृत्य 'अथैष ज्योतिरथैष विश्वज्योतिरथैप सर्वज्योतिरेतेन सहस्त्रदक्षिणेन यजेत एतेन ऋद्धि कामो यजेते नि श्रूयते। तत्र गुणविशेषेपु ज्योतिरादिपदानामप्रसिद्वेः द्योतनात्मकार्थकतवेन कर्मण्यपि तथा संभवात् कर्मैव व्रिधीयते। एतेनेत्यनेन तत्र सहस्रदक्षिणतवम्, एतेन ऋद्विकामो यजेतेत्यनेन फलसंबन्धश्च विधीयते। यत्र त्वयशब्दादिनियामकाभावः, तंत्रैकस्यैव नानासंज्ञानां सङ्गल्पादिव्यवहारे विकल्प दृन्युक्तम्। जीवेशादिनान्नां तु
Page 506
[भद्श्रुतेः षद्विधता० भङ्ग:] गौड त्रहानन्दीयुता। ८२७
बोधयति यजति ददाति जुहोती'त्यादावपि भेदापत्तेः न शब्दान्तरस्य कर्तृमेदकता॥ इत्यद्वैतसिद्धौ शब्दान्तरादेरात्मभेदकत्वाभावः॥
अथ भेदश्रुतेः षड्गिधतात्पर्यलिङ्गभङ्ग: । मनु-पद्विघतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्विकत्वम्? तथाहि-आथर्वणे द्वासुपरण- त्युपक्रमः, परमं साम्यमुपैतीत्युपसंहारः, 'तयोरन्यः अनश्नन्नन्यः अन्यमीश'मित्यभ्यासः, शास्त्रकग- म्येश्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विना अप्राप्तेरपूर्वता, 'पुण्यपापे विधूये'ति फलं, 'अस्य महिमान'मिति स्तुतिरूपोर्ऽर्थवादः, अत्ति अनश्नन्नित्युपपत्तिः। अत्र च 'मायामात्रमिदं द्वैत'मि- त्यादाविव द्विशब्द एव भेदवाचक:, तदाक्षेपको वा द्वित्वसंख्यवैक्यविरोधिनीति वा भवत्युपक्रमो भेदविषयः। तद्भिप्नत्वविशेषितमेव च तद्गतबहुधर्मयोगित्वं तत्सादृश्यम्, नतु विशेष्यमात्रम; नायं सः किंतु तत्सदृशः, नायं तत्सदृशः, किंतु स एवेति सादृश्यैक्ययोरेकतरविधानायान्यतरनिषेधात्, 'गगनं गगनाकार' मित्यादि तु तत्सदृशवस्त्वन्तरनिषेधपरम्, गगनाद्येकदेशस्य तदेकदेशसादृश्य- परं वा इत्युपसंहारोऽपि भेदविषय एव। अभ्यासत्वेऽपि अर्थत एवैकप्रकारत्वं तन्त्रम्, नतु शब्दतः; अतिप्रसङ्गात्। अन्यमीशमित्यत्र ईशगतान्यत्वं प्रति पश्यतीति प्रकृतो जीव एव पदन्यायेन प्रतियो गितया संबध्यत इत्यभ्यासोऽपि संभवतीति-चेत्, मवम्; आथर्वणे प्रथममुण्डके 'कस्मिन्ु भगवो विज्ञाते सर्वमिदं विज्ञातं भवती'ति शौनकप्रश्नानन्तरं 'द्वे विद्ये वेदितव्ये' इति विद्याद्व- यमवतार्य ऋग्वेदादिलक्षणामपरामुक्त्वा 'अथ परा यया तद्क्षरमधिगम्यते यत्तदद्रेश्यमग्रा- ह्यमगोत्रमवर्ण मित्यादिना परविद्याविपयमक्षरं प्रश्नानुसारेण प्रतिपाद्यता अभेदस्यैवोपक्रान्त- त्वात्, अन्यथा तदुत्तरत्वानुपपत्तेः, द्वितीयमुण्डके 'पुरुप एवेदं विश्वं ब्रह्मवेदं विश्वमिदं घरिष्ट'मिति मध्ये परामर्शात्, तृतीयमुण्डकान्ते च 'परेऽव्यये सर्व एकीभवन्ति। स यो
गौडब्रह्मानन्दी (लघुचन्द्रिका)। उक्तनियामकाभावात् न भेदकत्वम् इश्वरसहस्त्रनामवत्। भेदकत्वेऽपि स्वबोध्यतावच्छेदकजीवत्वेशत्वादिना तद्वाथ्यं, तच्चेषटं ममापीत्याशयेन भेदकत्वेऽपीत्यपिशब्द उक्तः। किंच शब्दान्तरादीनामुक्तरीत्या विधेयभावनादिपु विभिन्न- वैजात्यसाधकत्वेऽगि न तदाश्रयाणां स्वाभाविकमेदसाधकत्वम्। तत्त्वंजात्यरूपोपाधिकृततत्तदाश्रयभेदं विना तत्त- द्वैजात्यभेदस्यानुपपत्तेः, तदाश्रयाणामापाधिकभेदमात्रसिद्धेः । अत एव तश्रेणानुष्टीयमानसप्तदशप्राजापत्यादिस्थले एकस्यामेव यागव्यक्तो सप्तदशे वैजात्यानीति सिद्धान्तः। तथाच जीवेशयोवैंजात्योपहितरूपेण भेदसिद्धावपि तत्स्वरूप- स्योक्तयागस्वरूपस्येव स्वाभाविकमैक्यमप्रत्यूहमित्याशयेनाह-तात्विका भेदाविरोधित्वादिति। औपाधिकभेदस्य मिथ्यात्वेन तात्विकाभेदाविरोधित्वादित्यांरथः । त्वं त्वादशः। ननु भावनादिरूपविशेषणभेदात्तदुपहितचेतनभेदो Sस्तिवत्याशङ्क्य तावताप्यौपाधिकभेदः स्यात्, न स्वाभाविकः, तत्र तस्यासाधकत्वादित्याशयेनाह-न हीति । विशिष्टभेदेति। उपहितभेदेत्यथः । विशेषणभेदस्य उपाधिभेदमात्रस्य। विशेष्यभेदकत्वापत्तेः अनौपाधिके उपाध्याश्रयभेदे प्रयोजकतवापत्तेः । इष्टापत्तावाह-देवेति। भेदापत्तेः उत्थानादिभावनाभेदादेवदत्तस्य तस्माद- नौपाधिकभेदापत्तेः । तर्करित्यादि-नाभ्यासादेश्चितो भिदा॥ इति लघुचन्द्रिकायां शब्दान्तरादे- रात्मभेद्कत्वाभावः॥
मायामात्रमित्यादि। 'मायामात्रमिदं द्वैतं अद्वैतं परमार्थत' इति गौडपादीयोक्तश्रुतौ द्वैतपदं भेदसमानार्थकम्। मायामात्रपदं ईश्वरेच्छाधीनतया सत्यमित्यर्थकम्। तथाच सर्वोडपि भेद: सत्यः अद्वतं तु परमार्थतः स्वतब्रतः स्वतश्रमीशमादायाद्वैतमित्यर्थः । एक एव स्वतम्र इति यावत्। 'परमार्थः स्वतन्नः स्यादि'ति स्मृतेरिति श्रुत्यादेर- द्वैतार्थकत्वखण्डनं परेणोक्तं, तत्र द्वैतशब्द इव प्रकृते द्विशब्दो भेदार्थक इत्यभिमानः । अतिप्रसङ्गात् ज्योतिरादि- पदेन तत्समानार्थकपदान्तरेण वा ज्योतिष्टोमाद्यभ्यासस्याभावप्रसङ्गात्। पदन्यायेनेति। 'सप्तमं पदमध्वर्युरञ्ज- लिना गृद्भाती'त्यादौ श्रुतपदस्य संबन्ध्याकाड्डायामेकहायन्या सोमं क्रीणातीत्यनेनोपस्थिताया एकहायन्यास्तरवेन यथा संबन्धः, तथा पश्यतीत्यनेन उपस्थितम्य जीवस्य भेदप्रतियोग्याकाङ्कायामित्यर्थः। 'असंयुक्ततं प्रकरणादिति- कर्तव्यतार्थित्वा'दिति सूत्रम्। दर्शपूर्णमासादिकं प्रकृत्य 'समिधो यजती त्यादि श्रूयते। तम्य्र दर्शादौ समिदाय्यङ्गता-
Page 507
८२८ अद्वैतसिद्धिः । [परिच्छेद्: २]
ह वै तत् परमं ब्रह्म वेद व्रह्मैव भवती' त्यैक्यलक्षणफलेनोपसंहाराच्च मुण्डकत्रयात्मिकाया उपनिषद ऐक्यपरत्वे स्थिते 'असंयुक्तं प्रकरणा'दिति न्यायेनाभिक्रमणादिवन्मध्यस्थितवा- क्यस्यापि द्वासुपर्णेत्यादेस्तदनुकूलत्वे संभवति महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्मत्वाभावात्, 'परमं साम्यमुपती त्यस्य पूर्वोक्तन्यायेन ऐक्यपरतया भेदोपसंहारत्वाभा- वात्। अतः अनश्नन्नित्यादिना न तातत्विकभेदाभ्यासः, नापीशस्य शास्त्रगम्यतया तत्प्रतियो- गिकस्तद्धर्मिको वा भेदोऽपूर्व; ईशज्ानमात्रे तदपेक्षायामपि प्रत्यक्षेण तत्समकक्ष्यमानेन च तयोः प्राप्तत्वात् । त्वदुक्तफलार्थवाद्योरैक्यपक्षेऽपि संभवेन न भेदासाधारणलिङ्गता; अनश्न- न्नित्यादेः काल्पनिकभेदेनोपपत्त्या तात्त्विकभेदोपपत्तित्वाभावात्। ननु-अन्तर्यामिव्राह्मणं षद्टि धतात्पर्यलिङ्गोपेतं वाक्यं ेदे प्रमाणम्। तथाहि-'वेत्थ नु त्वं काप्य तमन्तर्यामिण'मित्युपक्रमः, 'एष त आत्मान्तर्यामी'त्युपसंहारः, 'एष त आत्मेत्यादेकविशतिकृत्वोऽभ्यासः, अन्तर्यामि- त्वस्याप्राप्ततयाऽपूर्वता, 'स वै ब्रह्मवि'दित्यादि फलम्, 'तञ्चेत्वं याज्ञवल्क्य सूत्रमविद्वांस्तंचान्तर्या-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। बोधकत्वमस्ति न वेति संशये साध्यसाधनाकाङ्मयोः स्वर्गयागाद्यन्वयेन विच्छेदाओोक्तबोधकत्वमिति प्राप्ते-तयो- र्विच्छेदेऽपीतिकर्तव्यताकाङ्या 'समिधो यजती'त्यादयुत्तरं 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादितः पूर्व इत्थमिति पद्कल्पनया समिदाद्यन्वयेनोक्तबोधकत्वमावश्यकम्। इतिकर्तव्यतात्वं च सामान्यतो व्यापारत्वेन आख्यातपदात् ज्ञातभावनाया: विशेषरूपत्वम्। तथाच यागसाधनव्यापारस्य विशेषजिज्ञासायाः अदष्टद्वारा समिदादीनां द्रव्यदेवता- दिसंस्कारद्वाराSवघातादीनामुक्तवाक्येन साधनत्वबोधात निवृत्तिरिनि पार्थसारथ्यादयः। यागादिकरणनिष्टापूर्व प्रयोजकशक्तिसाधनत्वं तत्। यो यत्र शक्तः, स तजनक इति हि मीमांसकाः । तथाच कारणत्वं तदवच्छेदिका वा शक्तिः। उभयथापि तज्जनकाकाङ्गया समिदादिजन्यशक्तिमन्द्यां दर्शपूर्णमासाभ्यां यजेतेत्यादिवाक्यजन्यधीः । नच- कारणत्वरूपा सा अनन्यथासिद्धनियतपूर्णवृत्तितावच्छेदकरूपैव, एवं कारणतावच्छेदकरूपापि तद्रपैव; तथाच जाति- रूपत्वे नित्यायां तत्र कथ जनकापेक्षेति-वाच्यम्; मीमांसकमते प्रतिबन्धकेन शक्तेर्नाशादुत्तेजकंन चोत्पत्तेरनित्यत्व- संभवः। अखण्डकारणतारूपत्वेऽपि तद्विशिष्टस्यव फलोपधायकत्वेन तज्नकापेक्षाया आवश्यकत्वात्। एवंच द्रव्य- गुणादीनां स्थिरत्वेन क्रियाविशिष्टरूपेणैव शक्तिसाधनत्वमित्यन्ये। तथाच विनियोजकश्रुत्याद्यसंयुक्तमपि समिदादि- प्रकरणादुभयाकाङ्कारूपात् दर्शाधङ्गम्। इतिकर्तव्यतार्थित्वात् उक्तेनिकर्तव्यतात्वेन तदपेक्षत्वादिनि सूत्रार्थ इति तृतीयतृताये स्थितम्। इत्यादे: इत्यादिवाक्यार्थस्य। तथाचोक्तन्यायेन समिदादिवाक्यार्थस्य यथा दर्शादयुपकारकत्वं निर्णीयते, तथा द्वा सुपर्णेत्यस्यैक्यबुद्युपकारकत्वमित्यर्थः । ननु द्वा सुपर्णेत्यादावैक्यस्यास्पष्टत्वात् नोक्तन्यायः तत्राह-अभिक्रमणेति। दर्शपूर्णमासौ प्रकृत्य प्रयाजादिसमीपे श्रूयते-अभिक्रामं जुहोतीनि। तत्राभिक्राममित्यस्य णमुलन्तत्वेनाभिक्रम्येत्यर्थवत्वाजुहोतिना प्राकरणिकसर्वहोमानुवादात्तदुद्देशेनाभिक्रमणं विधीयते; प्रयाजानां सनि- धिसर्वेऽपि तदपेक्षया प्रकरणस्य वलवत्वान्। अन्यथा अतिसन्निहितोत्तमप्रयाजाङ्गं स्यान्। नच-अवान्तरप्रकरणेन प्रयाजाङ्गतेनि-वाच्यम्; अवान्तरप्रकरणस्य विनियोजकत्वे सर्वेपामङ्गानां तत्संभवेन मिथोऽङ्गाङ्गितापत्तेरिनि प्राप्ते- प्रयाजान्विधाय 'त्रीन्प्रयाजानिष्टा समानयत उपभृत' इत्यनेनोपभृत्स्थाज्यस्यार्ध जुह्वां स्थाप्यमेवेत्येवंरुपं समानयनं विधायाभिक्रामं जुहोतीत्युकत्वा यो व प्रयाजानां मिथुनं वेद समिधों बह्मीरिव तनूनपातमेक इवेत्यादिना प्रयाजा- निष्टा हर्वींष्यभिघारयतीत्यन्तेन प्रयाजपरामर्शात् तावत्सन्दर्भस्य प्रयाजप्रकरणत्वनिश्चयात तेन तन्मध्ये यद्यद्विहितं, तत् प्रयाजाङ्गमिनि निश्चयात्। यदीयाङ्गानां तु न सन्दंशः न तस्यावान्तरप्रकरणम्। तदुक्तं-'न विद्यते तु सन्दंशो यत्र वाचनिकर्गुणः। तत्राङ्गानां कर्थंभावः सन्नप्यविनियोजकः। निष्फलत्वेन सर्वेपां न विशेषोऽवगम्यते ॥ कः शेषः कस्य शेषित्वमतः सर्वे प्रधानगा: ॥' इति तृतीयप्रथमे स्थितम्। तथाच तन्न्यायेन पूर्वपरवाक्याथयोरक्यनुद्युपकारक- त्वान्मध्यस्थद्वासुपर्णेत्याद्यर्थस्यापि तदित्यर्थः । ननु 'यन्नृतयोनि'मिति प्रथमे मुण्डके प्राणादिकारणत्वस्य द्वितीये द्वासुपर्णेत्यादेस्तृनीये सखण्डस्य प्रतिपादनादभिक्रमणादिवदेव तन्मध्यस्थ 'पुरुप एवेद'मित्यादेरपि तदनुकूलत्वम्, तत्राह-महाप्रकरणेति। प्रथममुण्डकादो 'यत्तदद्रेश्य'मित्युपकमस्य तृतीयमुण्डकान्ते परेऽव्यये सर्व एकीभवन्ती- त्युपसंहारस्य 'पुरुष एवेद'मित्यादिपरामर्शस्याद्वैतनिष्ठत्वादस्यैव महाप्रकरणित्वात्तद्विरुद्धतातपर्यस्य सखण्डे वक्तम- शक्यत्वान् अखण्डाद्वैतबुद्धुपकारकत्वमेव भूतयोन्यादिवाक्यानाम्, अभिक्रमणाढ़े: प्रयाजाद्युपकारकत्वं तु न महा- प्रकरणविरु्द्मिनि भावः। प्राप्तत्वादिति। अतात्विकस्यापि भेदस्योक्तमानप्राप्तत्वमिति भावः । स वै सूत्रात्मा- न्तर्यामिणो वेत्ता। ब्रह्ममवीः ब्रह्मिष्टार्थ स्थापिता गाः। उदजसे गृह्णासि। पृथिवी पृथिव्यभिमानिदेवता।
Page 508
[ऐक्यस्वरूपो पपत्ति:] गौडब्रह्मानन्दीयुता। ८२९
मिणं ब्रह्मगवीरुदजसे मूर्द्ा ते विपतिष्यती'ति निन्दारूपोरऽर्थवाद, 'यस्य पृथिवी शरीरं यं पृथिवी न वेद'इत्याधुपपत्तिरिति-चेत्, मैवम्; 'आत्मेत्येवोपासीते'ति सूत्रितब्रह्मविद्याविवरणरूपायां च तुरध्याय्यां अनेन ह्वेतत्सर्व वेदेति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापूर्वकं 'ब्रह्म वा इदमग्र आसीत्तदा- त्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभव'दित्यभेदेनोपक्रम्य षष्टाध्यायान्ते मैत्रेयीब्राह्मणे निग- मनरूपे 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिनाSभेदेनवोपसंहारात् अध्यायचतुष्टय- स्याप्यभेदपरत्वे स्थिते तदन्तर्गतस्य ब्रह्मलोकान्तरसूत्रात्मप्रतिपादनपरस्य उत्तरव्राह्मणप्रतिपाद्यनि रुपाधिकसर्वान्तरब्रह्मप्रतिपत्त्यनुकूलस्य महाप्रकरणानुरोधेन तद्विरोधिभेदपरत्वाभावात्, त्वदुप- न्यस्तलिङ्गानां भेदपरतानिर्णायकत्वेऽपि कल्पितभेदपरतया तात्त्विकाभेदाविरोधित्वात्। अत एव 'न शारीरश्षोभयेऽपिहि भेदेनैनमधीयत' इति सूत्रविरोधः, नवा तन्भाप्यव्याहतिः॥ इत्यद्वैतसिद्धौ मेदश्रुतेः षद्विघतात्पर्यलिङ्गभङ्ग:॥
अथैक्यस्वरूपोपपत्तिः । ननु-ऐक्यं आत्मस्वरूपम्, उतान्यत्, नाद्यःः एकतरपरिशेषाद्यापत्तेः, सापेक्षस्यैक्यस्य निरपे क्षात्मत्वायोगाञ्च, नान्त्य :; सत्यत्त्रे अद्वैतहानेः, मिथ्यात्वे तत्त्वमसीत्यादेरतत्वावेदकतापत्तेरिति- चेन्न; आद्यमेवानवद्यम्। ज्ञानानन्दयोरात्मैक्येऽपि यथा नकतरपरिशेषाप त्यादिकं कल्पितानन्दत्वा- दिधर्मात् तथा प्रकृतेऽपि संभवात्, ऐक्ये अभिज्षेयत्वस्य प्रागुक्त: तस्यापि निरपेक्षतया निरपेक्षा- त्मस्वरूपत्वाविरोधात्, अज्ञानाद्यघिष्ठानतया भासमानात्मस्वरूपत्वेऽपि ऐक्यस्य तद्गोचरवृत्तिवि- शेषस्याज्ञाननिवर्तकस्य इदानीमसत्वात्संसारोपपत्तेः। अन्त्ये पक्षे दोपास्त्वनुक्तोपालम्भा एव।अत एव अतिरिक्तमैक्यं नैकत्वसंख्या, नवा तन्निष्ठाशेषधर्मवत्त्वम्, नवा तन्निष्ठासाधारणधर्मवत्वम्; निर्धर्मके ब्रह्मणि तेषामभावात्। नापि भेदविरहः; भेदस्यैक्यविरहरूपत्वेनान्योन्याश्रयात्। नापि तदवृ- त्तिधर्मानधिकरणत्वम्: शून्यस्यापि व्रह्मैक्यापातादिति-निरस्तम्; तदवृत्तिधर्मानाधारत्वोपलक्षि- तस्वरूपस्याभेदत्वात्। शून्यस्य निःस्वरूपत्वात् न शून्यस्यैक्यरूपता। नच-तदवृत्तिधर्मनिषेधेन तद्ट- त्तिधर्मविधानप्रसङ्ग:, विशेषनिषेधस्य शपाभ्यनुज्ञाफलकत्वादिति-वाच्यम्ः शेषविधायकत्वस्य सर्वत्रासंप्रतिपत्तेः । अन्यथा वायो न नीलरूपमित्यस्यापि गौरं प्रति विधायकत्वापातात्। ननु- अभेदे अभदत्वपारमार्थिकत्वासद्वैलक्षण्यादीनि तत्वतः सन्ति वा नवा, आद्ये सद्वितीयत्वापत्तिः, द्वितीये अमेदत्वांदिहानिरिति-चेन्न; तत्त्वतः स्वरूपभूतैरेव तैरभेदरूपताया अद्वैतस्य चाहान्युप- पत्तेः। नच-एवमभेदस्याबाधितात्मस्वरूपपर्यवसाने तस्य चात्मस्वरूपस्य परैरपि संमतत्वेन त्वच्छास्त्राविषयत्वमिति-वाच्यम्: जीवावृत्तिधर्मानधिकरणत्वोपलक्षितात्मस्वरूपस्य परैरनङ्गीका- रात्। तदेवमुक्ते जीवव्रह्माभदे 'तत्वमसि स वा अयमात्मा ब्रह्म' इत्यादिश्रुतिर्मानम्॥ इत्यद्वतसिद्धौ ऐक्यस्वरूपोपपत्ति:। गोडब्रह्मानन्दी ( लघुचन्द्रिका)। चतुरध्याय्यां अनेनात्मवेदनेन। सर्वमभवत् अपरिच्छिन्नमभवत् । सूत्रात्मेति। तदन्तर्यामीति शेषः। 'कस्मिन् खलु ब्रह्मलोका ओताश्च प्रोताश्चे'त्यत्र ब्रह्माण्डारम्भकभूतरूपब्रह्मलोकानामन्तरस्य पृष्टत्वेन तादृशः सूत्रात्मा तस्याप्यान्तरोऽन्तर्यामी च प्रतिपादित इति भांवः । सर्वान्तरेति। अन्तर्यामिपर्यन्तं सर्वान्तरेत्यर्थः । तर्कै- रित्यादि-भेदवाक्यं न तत्परम्॥ इति लघुचन्द्रिकायां भेदश्रुतेः षद्विधतात्पर्यलिङ्गभङ्गः॥
संभवादिति। नच-कल्पितेन भेदेन वास्तवैकतरपरिशेषस्यानिवृत्तिरिति-वाच्यम्; उक्तपरिशेषस्येष्टत्वात्, सर्वव्यवहाराणां कल्पितभेदेनैवोपपत्तेः। निःस्वरूपत्वात् उक्तस्वरूपहीनत्वात्। शेषेति । विशेषान्तरेत्यर्थः। अन्यथेति। तथाच नीरूपत्वरूपेण तन्रेव निर्धर्मकत्वरूपेण प्रकृते पर्यवसानम्। नच-निर्धर्मकत्वमद्याप्यसिद्ध- मिति-वाच्यम्; तस्य सन्दिग्धत्वे सधर्मकत्वस्यापि सन्देहात् सधर्मकत्वापरिशेषेण त्वदिष्टासिद्धेः। आत्मस्वरूपस्य यथाचोपलक्षिताखण्डरूपता, तथा विवेचितम्। तकरित्यादि-ब्रह्मजीवैष्यसङ्गतिः॥ इति लघुचन्द्रि- कायां ऐक्यस्वरूपोपपत्तिः।
Page 509
८३० अद्वैतसिद्धिः । [परिच्छेद: २] अथ जीवब्रह्माभेदे प्रमाणम्। ननु-सार्वश्यासार्वश्यादिविशिष्टयोरैक्यमयोग्यत्वपराहतम्। कथमुदाहृतश्रुत्या बोध्यमिति- चेन्न; सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनात्। ननु-विरुद्धाकारत्यागः किम- विवक्षामात्रेण, उतानित्यत्वेन, उत मिथ्यात्वेन, नाद: विरुद्धाकारस्याविवक्षायामप्यनपायात्।न हि 'असद्वा इदमग्र आसीत्सर्व खल्विदं ब्रह्मे'त्यादिश्रुत्या सतत्वशून्यत्वयोश्वित्वजडत्वयोर्वेहाविवक्षा- मात्रेण ब्रह्मण: शून्येन जडेन च ऐक्यं सुवचम्। न द्वितीयः; तत्त्वं भविष्यसीति निर्देशापत्या असीति वर्तमाननिर्देशायोगात्, दशाभेदेन भेदाभेदयोः सत्त्वापत्या त्वयाप्यनङ्गीकाराच्, जीवेशयोः स्वात- कयपारतक्रयादेर्नित्यत्वाच्च।न तृतीय :; निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्ध धर्मयोर्मिथ्यात्वायोगादिति- चेन्न; विरुद्धाकारस्याविवक्षयैव त्यागात्। त्यागश्च ब्रह्मानुभवाविषयत्वम्, न त्वपाय, तस्य चरम- साक्षात्कारसाध्यत्वात्। तथाच तत्तेदन्ते इवानपेते अपि सार्वश्यासार्वश्ये नाश्रयाभेदविरोधाय। अविवक्षा च प्रधानप्रमेयनिर्वाहाय। नच-सोऽयमित्यत्र तत्तेदन्तयोर्न त्यागः । क्रमेणैकत्र तयोर- विरोधादिति-वाच्यम्; अभेदपरे अस्मिन्विशेषणयोरैक्यापत्या क्रमेणैकत्र सत््वेऽपि तत्यागस्याव- श्यकत्वात्, 'असद्वे'त्यादौ 'सर्वे खल्विदं ब्रह्मे' त्यादौ च न शून्यजडैक्यापत्तिः, शून्यसतो: चिजड- योर्वा विरुद्धाकारपरित्यागेन जीवव्रह्मणोरिवानुस्यूतस्याकारस्याभावात्, असतो निःस्वरूपत्वाज्ज- डस्य बाध्यस्वरूपत्वात्॥ इत्यद्वैतसिद्धौ जीवव्रह्माभेदे प्रमाणम्॥
अथ ऐक्यश्रुतेरुपजीव्यविरोधाभावः । ननु-एक्यश्रुत्या प्रत्यक्षसिद्धं जीवमनूद्य ब्रह्मत्वं वा बोधनीयं, श्रुतिसिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा, उभयानुवादेनाभेदो वा विधेयः, सर्वथाप्युपजीव्यविरोधात् नैक्ये प्रामाण्यम्, प्रत्यक्षेण जीवस्य ब्रह्मभिन्नत्वेन श्रुत्याच सर्चज्ञत्वादिमद्गह्मग्राहिण्या तद्धीनत्वेनानुभूयमानाजीवात् भिन्नत्वेन ब्रह्मणो झायमानत्वात्, नचानुमानेन ब्रह्मोपस्थितिः; तेनापि सर्वज्त्वादिना ब्रह्मणो विषयीकरणेन उपजीव्य- विरोधतादवस्थ्यादिति-चेन्न; शक्तिग्रहादौ तयोरुपजीव्यत्वेऽपि स्वप्रमेयेSनुपजीव्यत्वात्। तदुक्तम् वाचस्पत्ये-'यत् उपजीव्यं, तन्न वाध्यते, यद्वाध्यते तन्नोपजीव्य'मिति। यथा कथंचिदपेक्षामात्रे- णोपजीव्यत्वे नेदं रजतमित्यत्रापि इदं रजतमित्यस्योपजीव्यतापत्तेः। ननु-यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापत्तिश्च तत्तस्योपजीव्यम्, प्रकृतेच धर्म्यादिग्राहकस्यैव स्वप्रामाण्यग्राहकतया तद्वाधे स्वबाधापत्तिः, निषेध्यार्पणस्थले तु न तथा। नहि ब्रह्मस्वरूपधर्मिज्ञानाप्रमाण्ये ऐक्यज्ञानाप्रामा- ण्यवत् प्रतिषेध्यज्ञानाप्रामाण्ये प्रतिषेध्यज्ञानाप्रामाण्यम्, प्रतिषेध्यशास्त्रविलोपप्रसङ्गादिति-चेत्, सत्यम् ; सार्वश्यादिविशिष्टं न तावद्धर्मि, किंतु ब्रह्मस्वरूपमात्रम्। विशिष्टधर्मिज्ञानप्रामाण्यं ऐक्य- ज्ञानप्रामाण्ये नापेक्ष्यते, किंतु स्वरूपज्ञानप्रामाण्यमात्रम्। अन्यथा 'इदं रजत मित्यस्यापि धर्मिक्षा- नत्वेन उपजीव्यतया निषेधज्ञानप्रामाण्ये रजतत्वविशिष्टेदंज्ञानप्रामाण्यं स्यात्। रजतत्ववैशिष्ट्यस्य धर्मित्वाप्रयोजकत्ववत् सार्वश्यादिवशिष्ट्यस्यापि तदप्रयोजकत्वस्य प्रकृतेऽपि समानत्वात्। ननु- एवमसाधारणसार्वश्यादिधर्मावच्छेदेन ब्रह्मणोऽनुद्देश्यत्वे साधारणधर्मेण स्वरूपेण वा उद्देश्यता वाच्या, तत्राद्ये इष्टापत्ति :; चित्वादिसाधरणध्मैक्यस्यास्मामिरप्यङ्गीकारात्, द्वितीये ब्रह्मक्यासिद्धिः, साधारणस्वरूपमात्रोद्देशादिति-चेन्न; व्रह्मैक्यासिद्धिरित्यत्र ब्रह्मशब्देन सा्वश्यादिविशिष्टं चेदमि- मतं, तदेष्टापत्तिः, तदा त्वमा च लक्षितयोरेव पदार्थयोरैक्यबोधस्य प्राकू प्रतिपादितत्वात्। अत गौडव्रह्मानन्दी (लघुचन्द्रिका)। मधानप्रमेयेति। महातात्पर्यविषयाखण्डैक्येत्यर्थः। अभेदपरे अखण्डैक्यपरे। अनुस्यूतस्य एकवृत्तिघर्मान- धिकरणत्वोपलक्षितस्यापरस्वरूपस्य। यनु विरुद्धाकारस्य मुख्यार्थत्वात्तदनुरोधेनैक्यमेव न विवक्ष्यतामिति, तभ; तात्पर्यविषयतवेनैक्यस्यैव मुख्यार्थत्वात्। तर्करित्यादि-ऐकमाननिरूपणम्॥ इति लघुचन्द्रिकायां जीव- ब्रह्माभेदे प्रमाणम्॥
समानत्वात् मानसिद्धत्वात्। तदाश्रयैक्यस्य तत्त्वम्पदवाच्यतावच्छेदकोपलक्षितयोश्चित्वेनाप्यैक्यस्य। अधि- ष्ानलक्षणायां पुरोडाशसाधनत्वोपलक्षितकपाललक्षणायाम्। उक्तसाधनत्वेनानुपस्थितस्य साध्यानाकाङ्गतवेन
Page 510
[ऐक्यश्रुतेरुपजीव्यविरोधाभाव:] गौडब्रझ्मानन्दीयुता। ८३१
एव-शब्देन असाधारणब्रह्मस्वरूपोद्देशस्यासाधारणधर्मेण विनाSसिद्धेरुपजीव्यविरोधतादवस्थ्य- मिति-निरस्तम्; असाधारणधर्मस्य उद्देश्यसमर्पणे उपलक्षकत्वात्। नच-उपलक्ष्यतावच्छेद- काभावे उपलक्ष्यत्वासिद्धिः, चित्त्वस्य तच्वे सिद्धसाधनादिति-वाच्यम्; स्वरूपोपलक्षणे उपल- क्ष्यतावच्छेदकस्यानपेक्षणात्। यत्तु चित्वेनैक्ये सिद्धसाधनं, तन्न; चित्त्वैक्यस्येष्टत्वेऽपि तदाश्रयै- क्यस्य तवानिष्टत्वात्, इष्टैचाबिवादात्। अतएव-'पुरोडाशकपालेन तुषानुपवपतीत्यत्राघिष्ठान- लक्षणायां अन्यतो प्राप्ततुषोपवापविधानरूपेष्टसिद्धिवदत्र न लक्षणयाभीप्रसिद्धिः, येन लक्षणा स्यादिति-निरस्तम्; चित्वैक्यस्य प्राप्तत्वेऽपि आश्रयैक्यस्याप्राप्तस्य लक्षणाप्रापणीयस्य सत्त्वात्, सोऽयमित्यत्रापि उक्तप्रकारस्यावश्यवाच्यत्वात्। नच-तत्ताविशिष्टस्य तत्रोद्देश्यता यद्वत्तया ज्ञात एव यदन्वयधीः तत्त्वस्य विशेषणत्वस्य तत्तादौ संभवादिति-वाच्यम्; दत्तोत्तरत्त्वात्। ननु- एवं परमाणु: सावयवः, ईश्वरो न सर्वशः, 'आदित्यो यूप' इत्यादावुपजीव्यविरोधो न स्यात्, उत्पन्नशिष्टगुणविधा सगुणोत्पत्तिवाक्यविरोधश्च न स्यात्, तत्रापि परमाणुत्वादिविशिष्टं न धर्मी, किंतु स्वरूपमात्रमिति सुवचत्वादिति-चेन्न; परमाण्वादेः स्वरूपेणापि सावयवत्वादिकं प्रति धर्मित्वे परमाणुत्वादिकं धर्मिसमानसत्ताकं परमाण्वादौ न स्यात्, तदीयासमसत्ताकत्वस्य तत्सावयवत्व- बोधकप्रावल्याधीनत्वात्, तत्प्राबल्येऽनुमानाभावात्, प्रत्युत भ्रान्तवाक्यत्वेन दुर्बलत्वात्। आदित्यो यूप इत्यत्राभेदो न प्रमेय: स्तुतिद्वारान्यशेषत्वात्, स्तुतेश्च प्रत्यक्षाविरुद्धैर्गुणैरपि संभवे प्रत्यक्षविरुद्धार्थकल्पनायोगात्, उत्पन्नशिष्टगुणविधौ तूत्पत्तिवाक्यस्थितामिक्षादिपदस्य द्रव्य- सामान्यपरत्वे तत्पदवैयर्थ्यापत्तिः, 'तद्धितार्थास्येति सर्वनाम्ना यजतिचोदनाद्रव्यदेवताक्रियमिति, न्यायेन यागचोदनमात्रेण च द्रव्यसामान्यलाभात् प्रकृते अनन्यशेषतया प्रबलत्वात् प्रमाणवाक्य- त्वाञ्च तद्विरोध्यैक्यप्रतिपादकतया स्वरूपलक्षणाया युक्ततमत्वाच्च। ननु-रूप्यरूपनिषेध्यार्पकस्या- पेक्षितस्यापि परीक्षितत्वाभावात् यद्यपि दुर्बलत्वम्, उपजीव्यत्वमात्रस्य प्राबल्याप्रयोजकत्वात्; तथापीह निषेध्यार्पकभेदश्रुतिः साक्षिप्रत्यक्षं च निर्दोषत्वात् परीक्षितमपि प्रबलं तद्विरोधात् कथमै- क्यपरत्वमिति-चेन्न; निर्दोषाया अपि श्रुतेः भेदपरत्वस्यैवाभावेन तद्विरोधस्यैक्यश्रुतावसंभावित- त्वात्। नहि श्रुतेरुपक्रमादिपद्विघतात्पर्यलिङ्गशून्यार्थपरत्वम्; तन्नियामकाभावात्, अन्यथातिप्र- सङ्गात्, साक्षिणोऽपि निर्दोषत्वमात्रेण परीक्षितत्वाभावात्, दुःखाभावादावारोपितसुखादेरपि प्रामाणिकत्वापत्तेः, मन्मते प्रातिभासिकमात्रस्य साक्षिसिद्धस्य मिथ्यात्वात्, साक्षिणोSपि निर्दोषज- वृत्त्युपरक्तत्व्रेनाबाध्यत्वासिद्धेरुक्तत्वाञ्च।प्रमाणतदभावव्यवस्थापि प्रातिभासिकव्यावहारिकयोः कर- णसंसर्गिदोषप्रयुक्तत्वाप्रयुक्तत्वाभ्यां। व्यावहारिकस्य चैतन्यमात्रस्थाज्ञानदोषप्रयुक्तत्वात्। तस्मादुप- जीव्यविरोधाभावात् प्रत्युताभेदश्रुतेरेव सर्वशेषितया भेदश्रुरति प्रत्युपजीव्यत्वात् भेदश्रुतेरेव तद्वि- रोधेन तदनुकृलतया नेयत्वात् सर्वविरोधशून्यं तत्त्वमस्यादिवाक्यम्। तथाचैक्यपरमिति सिद्धम्॥ इत्यैक्यश्रुतेरुपजीव्यविरोधाभावः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तुषोपवापरूपसाध्यानन्वयेनोक्तलक्षणायाम्। दत्तोत्तरत्वादिति। उक्तस्वरूपस्य विशेषणस्वरूपत्वे स्वरूपल- क्षणे उपलक्ष्यतावच्छेदकानपेक्षणेपि तदापतेरि्र्थ:। सुणोत्पत्तीत। सगुणकर्मोत्पत्तीर्थः। तत्पाब्ये समवायत्वबोधकस्य मानस्य प्रामाण्यनिश्चये परमाणुसावयवत्वस्याबाधितत्वनिश्चय इति यावत् । अनुमानाभा- वात् पक्षे साध्यनिश्चयेनानुमानानवतारात्। सावयवत्वज्ञानानुमानमूलन्यायवाक्यस्येति शेषः। दुर्बलत्वात् अनुमानापर्यवसायित्वात्। गुणैः आदित्यपदलक्ष्यमाणादित्यगुणैः । उत्पन्नशिष्टगुणविधौ वाजिनादिगुणस्य वाजिभ्यो वाजिनमित्यादिना आमिक्षायागे विधौ। यजतिचोदना यजिधात्वर्थघटकं। द्रव्यदेवताक्रियं दरव्यं देवतात्यागः क्रिया च तत्तथा देवतोद्वेशेन द्रव्यत्यागे यजेः शक्तिरित्यर्थः । समुदाथे कृतार्थत्वादिति सूत्रशेषः। समुदायघटिते आयैर्यजतेः कृतप्रयोगादित्यर्थः। सामान्येति। वैश्वदेव्यामिक्षेत्यादावामिक्षादिपदे विशेषलाभेन लाघवाद्रव्यत्वं देवतात्वं च तद्धितशाक्यतावच्छेदकम्। मिथोऽन्वयस्तु वाक्यार्थ इति भावः। करणसंसर्गीति। आगन्तुकेत्यर्थः । तर्कैरित्यादि-नोपजीव्यविरुद्धता ॥ इति लघुचन्द्रिकायामैक्यश्रुतेरुपजीव्य- विरोधाभावः ॥
Page 511
८३२ अद्वैतसिद्धिः । [परिच्छेद: २]
अथ तत्त्वमस्यादिवाक्यार्थनिरूपणम्। ननु-एवं पदद्वयेऽपि लक्षणा स्यात्, तथाच मन्मतमाश्रित्य एकपदलक्षणैवाश्रयणीया। तथाहि-'द्वा सुपर्णा सयुजे'त्यादौ जीवस्य ब्रह्मसाहचर्योंक्तेस्तत्साहचर्यात्तदिति व्यपदेशः; 'वसन्ता- दिभ्यष्ठगि'त्यत्र वसन्तसहचरिते अध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उक्तत्वात्, 'सन्मूलाः प्रजा: सदायतना'इत्यादिवाक्यशेषात् प्रसिद्धतदाश्रितत्वाद्वा तदिति व्यपदेशः; 'समर्थः पदविधि'- रिति सूत्रे समर्थपदाश्रितत्वेन पदविधी समर्थपद्प्रयोगस्य महाभाष्योक्तः, 'सन्मूलाः सोम्येमाः प्रजाः सर्वा' इति वाक्यशेषात् प्रसिद्धतजत्वाद्वा तत्पदप्रयोगः, 'ब्राह्मणोऽस्य मुखमासी' दित्यादिवत्; 'डग्य णः संप्रसारण'मित्यत्र संप्रसारणाजातो वर्णः संप्रसारणमिति भाष्योक्तः, 'प्राणबन्धनं हि सोस्य मन' इति वाक्यशेषेण जीवस्येशाधीनत्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोग: 'धान्यमसि धिनुहि' इत्यत्न मन्त्रे तण्डुले धान्यपदप्रयोगवत्, तत्सादृश्याद्वा तत्पदप्रयोग: सारूप्यादि'ति जमिनिसूत्रे 'आदित्यो यूप' इत्यादिकं सादृश्यादित्युक्तत्वात्, 'तहुणसारत्वान्तु तद्यपदेशः प्राज्व'दित्यत्र ब्रह्मसूत्रे ब्रह्म- गुणयोगाजीवे तद्यपदेश इत्युक्त:, महाभाष्ये च बहुगणेत्यादिसृत्रे वति विनैव सक्व्यावदिति वत्यर्थों गम्यते। अव्रह्मदत्तं ब्रह्मदत्तेत्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवतीत्युक्तश्चेति-चेन्न; अमेदे तात्पर्येऽवधृते तन्निर्वाहकलक्षणावाहुल्यस्यादोपत्वात्। नहि लक्षणेक्यानुरोधेन तात्पर्यपरित्यागः। तदुक्तं न्यायचिन्तामणा-'तात्पर्यात्तु वृत्तिः, नतु वृत्तेस्तात्पर्य'मिति। जहदजहल्लक्षणया मुख्यपरत्वे संभवति तत्सहचरिताद्यर्थपरत्वकल्पनस्यानुचितत्वाच्च। यथा अभेदपरत्वे न वोधकत्वानुपपत्तिः, तथोक्तं प्राक्। 'द्वा सुपर्णा सयुजा' इत्यादिना न जीवस्य व्रह्मणा सहचरितत्वोक्तिः, किंत्वन्तःकरणे नेति न तेन सहचरितत्वप्रसिद्धिरपि। न वा सन्मूलाः प्रजा इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धिः; प्रजाशब्दस्य प्रजायमानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात्। अतएव न तज्जन्यत्वेनापि
गौडब्रह्मानन्दी ( लघुचन्द्रिका)। वसन्तसहचरिते अध्ययने अध्यापनविपये वसन्तसहचरिते 'वसन्तादिभ्यष्ट'गित्यनेन 'तदधीने तद्वेदेत्य'ये ठग्विधानात् वसन्तस्य कालत्वेनाध्ययनाविषयत्वाद्वसन्तप्रतिपादको ग्रन्थो वसन्तशब्दार्थः, तस्य वसन्तसंबन्धिपद- संबन्धित्वेन वसन्तसाहचर्यादित्युक्तम्। पद्विधी पदेन विधीयमाने समासादी। प्रयोगस्येति। ऋदस्य राजपुरुप इत्यादावसमर्थपदाश्रितत्ववारणायेनि शेपः। सम्प्रसारणमिति। 'दग्यणः सम्प्रसारणमि'ति सूत्रे यणःस्थाने य इग्वर्णः, स सम्प्रसारणसंज्ञश्रेत, तर्हिं 'ध्यङः सम्प्रसारणमि'त्यादौ दोषः। न हि प्यङो यणःस्थाने इक् सिद्धोऽस्ति यः प्यङः सम्प्रसारणमित्यनेन विधीयेतेत्यनेन वर्णसंज्ञापक्षं दृपयित्वा यणःस्थाने दग्भवनरूपो यो वाक्यार्थः, स संप्रसारणसंज्ञ इति पक्षान्तरमाशक्क वाक्यार्थस्यासत्वरूपत्वेन स्थानित्वाद्यभावात् सम्प्रसारणस्येत्यादौ दोष इति तदपि दृपयित्वा काकाजाते काकादिपदस्येव सम्प्रसारणाज्ाते सम्प्रसारणपदस्योक्तिः । तथाचोक्तवाक्यस्य सम्पर- सारणसंज्ञकस्य स्थानित्वाद्यभावेऽपि तस्माजातस्येकारादिवर्णस्यापि सम्प्रसारणसंज्ञकरवेन स्थानित्वाद्युपपत्तिरित्युक्तम्। धान्यमिति। दर्शपूर्णमासयोः पेपणार्थ दपदि निक्षिप्ततण्टुलानुमन्नणार्थ धान्यमित्यादिमत्रः पठितः। तस्य शाक्या- नामयननामकसत्रस्याङ्गभूतेपु तरसमयशव्दितमांसमयपुरोडाशद्रव्यकेपु सवनीयपुरोडाशेव्वतिदेशात् प्राप्तस्य धान्य- पदस्थाने तरसपदमूह्यं न वेति संशये नोह्यम्; प्रकृतावपि तण्डुलेपु समवेतार्थत्वाभावात्, 'देवस्य त्वा सवितु'रित्या- दिमन्ने सवित्रादिपद्वदिनि प्राप्ते-धान्यशव्दस्य द्रव्यप्रकाशनरूपदृष्टार्थकत्वाय धान्यप्रकृतिकार्थकत्वात् प्रकृते सम- वेतार्थत्वादूद्यमिति नवमे स्थितम्। तत्र यथा धान्याधीनमर्थः, तथा प्रकृते ईशाधीनस्तत्पदार्थ इत्यर्थः । बहुगणे- त्यादीति। 'बहुगणवतुडतिसंख्ये'नि सूत्रे बहुगणादीनां संख्यासंज्ञाविधाने 'संख्यापूर्वो द्विगु'रित्यादौ एकद्वित्यादि- संख्याग्रहणं न स्यात् ; कृत्रिमाकृत्रिमयो: कृत्रिमे कार्यसम्प्रत्यय' दति न्यायेन कृत्रिमसंख्यानां बहुगणादीनामेव ग्रहणसंभवादित्याशक्च्य उक्तसूत्रेण संज्ञा न विधीयते, किंतु बहुगणादयः संख्यावदित्यतिदिश्यन्ते, वतिं विनापि संख्याशब्दस्य गौण्या वृत्या संख्यासदृशार्थकत्वसंभवादित्युक्तम्। ते वयं तात्पर्यविदो वयम्। तात्पर्यात् उपक्रमो- पसंहाराथवादोपपस्यादिनिर्णीततात्पर्यात्। वृत्ते: वृत्तिलाघवात्। उपक्रमादिबहूनामबाधाय वृत्तिलाघवं त्यज्यते। अन्यथारऽर्थवादादावपि लक्षणा न स्यात्। उपक्रमोपसंहारादिप्रतीतैकवाक्यतां त्यक्त्वार्थवादस्थनानापदमुख्यत्वायो- पासीतेत्यादिपदाध्याहारापत्ते: । अत एवोपकममाव्नानुरोधेन ऋगादिपदे 'उच्चैर्ऋचा क्रियते' इत्यादौ विधिस्थेऽपि लक्षणाश्रिता। यत्र तु उपक्रमादिकमनिर्णायकं, तत्र तात्पर्यनिर्णायकत्वेन वृत्तिलाघवमप्याद्रियते, यथा स्थपत्य- धिकरणे इनि भावः। नित्यस्पेति। नच-औपाधिकजन्यत्वं जीवस्यापीति-वाच्यम्, प्रजापदेन सोपाधिकजीव-
Page 512
[वस्वमस्यादिवाक्यार्थनिरूपणम ] ८३३
तच्छब्दप्रयोग: 'ब्राह्मणो मुखमित्येव मुखाज्ातत्वहेतुतः। यथावदुच्यते तद्वजीवो ब्रह्मेति धाग्भवेत् I' इति स्मृतिरप्यस्मृतिरेव; श्रुतिविरोधात्। यत्तु तहुणसारत्वादित्यादिना जीवे घ्रह्मगु- णयोग उक्त इत्युक्तं, तन्न; बुद्धिगुणसूक्ष्मत्वयोगात् जीवे ब्रह्मणीव सूक्ष्मत्वमित्येवंपरत्वात्सूत्रस्य। एतेन-शाखासदेशे चन्द्रे शाखेतिवत् जीवान्तर्यामितया जीवसदेश ब्रह्मणि त्वमिति प्रयोगः, आत्मनि तिष्ठन्निति श्रुतेः, ब्राह्मणो वे सर्वा देवता इत्यादिवत्। जीवाश्रयत्वाद्वा ब्रह्मण: सर्वकर्तृत्वेन यजमान: प्रस्तर इत्यादिवत् तत्सिद्या वा ब्रह्मणि त्वमिति व्यपदेश इति-निरस्तम्। ननु-जहद- जहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्घीस्थस्य बाधकात् त्यक्तस्य पुनः स्वीकारः, जहल्लक्षणायां अधीस्थस्यात्यक्तस्यैव स्वीकारः त्यक्तस्वीकाराद्वरमधीस्थस्य स्वीकार इति-चेन्न; अनुपपत्या विशे- षणत्यागेऽपि विशेष्यांशात्यागात्। एतेन-तच्छव्दात् परतृतीयादिविभक्ते: सुपां सुलुगित्यादिना प्रथमैकवचनादेशो वा लुग्वा, तथाच तेन त्वं तिष्ठसीति वा ततः सआ्ञात इति वा तस्य त्वमिति वा तस्मिन् त्वमिति वार्थः; 'अनेन जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति सन्मूलाःसो- म्येमा: सर्वाः प्रजा ऐतदात्म्यमिदं सर्व' मित्यादिवाक्यशेषात्। तथाच मीमांसका 'उत यत्सुन्वन्ति सामिधेनीस्तदन्वाडु'रित्यत्र यत्तच्छब्दयोः सप्तम्यर्थे प्रथमां स्वीकृत्य यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुन्रूयादिति व्याख्याञ्चकुः। न्याय्यं च निरवकाशप्रधानभूतानेकप्रातिपदिकस्वा- रस्याय सक्क्यार्थत्वेन सावकाशाप्रधानकविभक्त्यस्वारस्यमिति-निरस्तम्; प्रोद्गातृणामित्यत्र विभ- क्तिस्वारस्याय प्रातिपदिकस्यान्यथानयनवदत्रापि प्रातिपदिकस्यैवान्यथानयनाथ्च। नच-षष्ठीबहु- वचनस्य प्रथमेकवचनवदन्यत्राविधानेन तस्यान्यथानयनमसंभवीति बहुवचनानुसारणे प्रातिप- दिकस्य प्रस्तोत्रादिछन्दोगेषु लक्षणाSSश्रितेति-वाच्यम्; 'सक्तून् जुहोती'त्यत्रेवान्यत्र नयनस्य संभावितत्वात्। किंच न तावत् प्रातिपदिकस्य निरवकाशत्वम्; विभक्त: सक्क्यायामिव विशेष्यांश सावकाशत्वात्। नापि प्राधान्यम् ; प्रधानार्थवाचकप्रत्ययस्यैव प्राधान्यात्। तदुक्तं-'प्रकृतिप्रत्ययौ
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ग्रहणे तस्यैव तदाश्रितत्वलाभापत्या तत्स्वरूपानिणयापत्तेः। तत्सिद्या मुख्यार्थसाध्यसाधकरवेन। विशेष्याशिति। तथाच विशेष्यांशो न त्यक्तः, त्वन्मते तु विशेष्यमपि त्यक्तमिति तवैव दोप इति भावः । तिष्ठसीत्यस्य सत्ताधानित्यर्थः; 'असभुवी'ति स्मृतेः । तथाच तत्परयुक्तसत्ताकत्वलाभान्मिथ्यात्वं जीवस्य स्यात्; अध्यस्तस्यवाधिष्टानरूपसत्ताधीन- सत्ताकत्वात्, अतआह-ततः सञ्जात इति। औपाधिकजन्यत्वस्यव वाच्यत्वात् जीवस्वरूपानिर्णयः। तथाच तज्ज्ञानात मोक्षानापत्तिरत आह-तस्येति। संबन्धविशेषानिर्णयात् स दोषसतद्वस्थः, अत आह-तस्मिन्निति। यत्र सुन्वन्ति तत्र हविर्धान इति । हविर्धानाख्यगृहमध्ये दक्षिणोत्तरदेशयोः सोमाख्यहविर्धानार्थ हविर्धार- णाख्ये शकटे स्थाप्येते। तयोर्मध्ये यत्र दक्षिणहविर्धाने सोमाभिपवः क्रियते, तत्समीप इत्यर्थः । उक्तं हि तृतीय- सप्तमे-'उत यत् सुन्वन्ती'त्यादिवाक्ये सामिधेन्यनुवचनोद्देशेन न हविर्धानं विधीयते; हविर्धारणार्थतवेन प्रयोजना- न्तरानाकाङ्गत्वात्, किंतु हविर्धानयोः समीपदेशस्य सामिधेन्यङ्गतया प्रकृतिपात्ताहवनीयप्रत्यग्देशत्वेन दक्षिणहविर्धान- सामीप्यं नियम्यते तत्रैव स्थित्वा 'सामिधेनीरनुन्रूया'दिति। प्रोद्गातृणामिति। 'प्रैतु होतुश्रमसः प्रब्रह्मणः प्रयजमा- नस्य प्रोद्गातृणा'मिति चमसाध्वर्यून्प्रत्यध्वर्योः प्रपः। सदोमण्डपे होत्रादयः सोमभक्षयितारः सन्ति। तेषां मध्ये होतारं प्रति होतृचमसः प्रैतु गच्छतु। एवं ब्रह्माणं प्रति तचमसः प्रैतु इत्याद्यर्थः। तत्रोद्गायतेः उद्गीथारयाया द्वितीयसाम- भक्त्तेः वाचकतवादुद्वातृपदस्य तत्कर्तृवाचकत्वात् उद्गातृशव्दितस्यैकत्वात् पाशाधिकरणन्यायेन बहुवचनं नेयस्। अथवा-प्रकरणे अत्यन्तासंभवात् पाशबहुत्वं बाध्यताम्, इह तूद्वातृशब्दस्य अजहत्सार्थलक्षणयौद्गान्रप्रवचनसंबन्ध- रूपावान्तरसामान्येनोद्गातृप्रस्तोतृमतिहर्तृसुब्रह्मण्यबोधकत्वान् तेषामुद्गातृचमसभक्षकत्वमिति प्राप्ते-एकस्तोन्रसंबन्धः सदोमण्डपे सन्निधानमित्यादेरुक्तसामान्यापेक्षयाप्यवान्तरसामान्यत्वात् तेनैव रूपेण लक्षणौचित्यात तस्य च सुग्रह्म- णयव्यावृक्तत्वादपसुब्रह्मण्यानां त्रयाणामेव भक्षकतेति तृतीयपञ्चमे स्थितम्। यत्तु योगेनाप्युक्तत्रितयपरत्वसंभव इति, तसुच्छम्; भूरिप्रयोगेण द्वितीयसामभागकर्तरि रूढे: योगापहारकत्वात्, रथकाराधिकरणन्यायात, वार्तिकादौ लक्षणाया एवोक्तत्वाक्च। प्रातिपदिकस्यैवेति। यथा श्रोद्गातृणामित्यत्रैकत्वे विभक्केर्जहल्लक्षणाया अत्यन्ताबाधात् 'आानर्थक्यप्रतिहतानां विपरीतं बलाबलमि'ति न्यायेन तामकृत्वा प्रातिपदिक एव लक्षणाश्रिता। अन्यथा हि होतु- रित्यादावेकवचनप्रास्ते एकत्वे लाक्षणिकं बहुवचनमत्यन्तासमअ्सं स्यात्। तथोपक्रमादिगृहीताखण्डब्रह्मतात्पर्यानुरो- धेन प्रथमायास्तृतीयाथकत्वमकृत्वा तर्वंपद्योरेव भागत्यागलक्षणाश्रयितुं युक्ता। तावता, हि न विभत्तयस्वारस्यम्; अ. सि. १०५
Page 513
८३४ अद्वैतसिद्धिः । [परिच्छेदः २ ]
सहार्थ ब्रूतः तयोः प्रत्ययः प्राधान्येने'ति। नापि प्रातिपादिकानेकत्वं स्वारस्ये तन्त्रम्; 'गभीरायां नद्या'मित्यादौ अनेकत्वेऽप्यस्वारस्यदर्शनात्। तात्पर्यबलात्तत्र तथेति चेत्, समं प्रकृतेऽपि। यतु 'प्रयाजशेषेण हवीष्यभिघारय'तीत्यत्र प्रयाजशेषं हविष्युपक्षिपतीति तृतीया विभक्त्यस्वारस्यं, 'सक्तून् जुहोती'त्यादावपि द्वितीयाविभक्त्यस्वारस्यं, तदगत्या; 'प्रयाजशेषेणे'त्यादी उपयुक्तसंस्कारव्यति- रेकेण प्रकारान्तरस्यासंभवात्, सक्तूनित्यादौ भूतभाव्युपयोगाभावेन संस्कार्यत्वाभावात्। पतेन- तस्य त्वं तत्त्वमिति समस्तं पदमिति-निरस्तम्; असमासेनैव षध्यर्थलक्षणादिरहितेन उपपत्तौ पष्टीसमासस्यान्याय्यत्वात्, अन्यथा स्थपत्यधिकरणविरोधापत्तेः । ननु-'ऐतदात्म्यमिदं सर्वे तत्सत्यं स आत्मा तत्त्वमसी'त्यत्र तत्पदेन नात्मा परामृश्यते, किंतु ऐतदात्म्यम्; नपुंसकत्वात्, एंतदात्म्यमित्यस्य एष चासावात्मा च एतदात्मा तस्येदमैतदात्म्यम्। एवंच एतदीयं वस्तु त्वम- सीत्यर्थः, नत्वभेदः पतदात्मा यस्य तदैतदात्म्यमित्यर्थ भावप्रत्ययवैयर्थ्यापत्तेः। ततो वरमर्थान्त-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रथमाविभ तयोरनामान्तस्थयोस्तदर्थाभेदबोधानुकूलत्वस्यैव तत्स्वारस्यरूपत्वात्। नापि नाम्नो :; सोऽयमित्यादावत्यन्ता- भेदरूपाखण्डा्थकत्वस्यैव तत्स्वारस्यत्वात्। षष्टीबहुवचनस्येत्यादि। प्रथमाया एकवचनं यथा 'सुपां सुलिगि'- त्यादिना तृतीयाद्यर्थे विहितं, तथा पष्टीबहुवचनमेकत्वादौ विभक्तयन्तराध्र्थे वा न विहितम्। अतो न तस्यान्यथा- नयनसंभव इत्यर्थः। सक्तनित्यादि। दर्शपूर्णमासयो: श्रुतसक्तूनां भूतभाव्युपयोगाभावेनासंस्कार्यत्वात् द्वितीया- बहुवचनस्य तृतीयार्थकत्वमिवोक्तस्थले पष्टीबहुवचनस्यापि विभत्तयन्तरार्थकत्वमेकत्वार्थकत्वं च संभवति 'व्यत्ययो बहुलं सुप्तिङ्ुपग्रहे'इत्याद्यनुशासनादित्यर्थः । प्रधनार्थेति। कर्तृकारकादिरूपप्रधानवाचकत्वेन प्रथमादिविभक्तेरेव प्राधान्यम्। ननु-प्रथमाया: कर्तृवाचित्वे मानाभावः; 'प्रातिपढिके'त्यादिसूत्रेण प्रातिपदिकान्नियतोपस्थितिकार्थ एव प्रथमाविधानात्, चैत्रः पचतीत्यादौ तिडादिना कर्त्रादेरुक्ततवेनान्यलभ्यत्वाच्च, तथाच प्रत्ययः प्राधान्येनेत्यलोकत विशेष्यतया प्रधानीभूतकारकवाचित्वरूपप्राधान्यस्य प्रथमायामसंभवान्नामार्थविशेपणसङ्गयावाचित्वेन नामापेक्षया गुणत्वाच्च तस्यामेव लक्षणा युक्ता। नच-एवमनभिहितसूत्रमपि व्यर्थम्; अभिहितस्य कर्मादेरन्यलभ्यत्वादेव तत्र द्वितीयाद्यसंभवात्, अतएव बहुपटुरित्यादौ बहुचोक्तार्थत्वात् कल्पबादयो न स्युरित्युक्तमिति-वाच्यम्; सङ््या विभक्तयर्थ इति मते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यादेर्वाच्यत्वात्, कटः कृत इत्यादौ द्विनीयैकवचनादि- प्रसक्ेस्तद्वारणायोक्तसूत्रसार्थक्यात्, कृदादिना कर्मादेरुक्ततवेऽपि तदेकत्वस्यानुक्तत्वात्। नच-परत्वात् प्रथमेति- वाच्यम्; कर्तव्यः कट इत्यादो कृद्योगलक्षणपष्टीप्रसङ्गात्तस्याः प्रथमातोऽपि परत्वात्। कारकमात्रं विभत्तयर्थ दृति मते तूक्तसूत्रं व्यर्थमेवेति-चेन्न; 'तिङ्समानाधिकरणे प्रथमे'ति वार्तिकवचनात् प्रथमायाः कर्त्रादिशत्तयावश्यक- स्वात् आख्यातादिना प्रातिपदिकसमानाधिकरणेनोक्तार्थे प्रथमेति तदर्थात्। नच-कर्नव्योऽयं घट इत्यादौ परत्वात् पष्टी स्यादिति-वाच्यम्; प्रकरणान्ते 'अन्योक्ते प्रथमे'ति सूत्रणीयमिति वार्तिकाशयात्। अतएव प्रथमायाः कारकविभक्तित्वेन तदन्तात् शस्प्रत्ययसंभवेन 'एकश' इत्यादिसूत्रस्थताद्ृशप्रयोगः संगच्छते। नच-वस्तुगत्या कारकाच्छसादिविधानमिति-वाच्यम्; तथासति नटस्य श्रवण मातु: स्मरणमित्यादाचतिप्रसङ्गात्। 'गतिकारको- पपदाना'मिति नित्यसमासस्य 'गतिकारकोपपदा'दिति प्रकृतिस्वरस्य चापत्तेः। अत एवोक्तवार्तिकतात्पर्यविदा बोप- देवेन 'लिङ्गार्थसंबुच्यकतार्ये प्रथमे'ति सूत्रितम्। लिङ्गार्थे संबोधने उक्ककारकार्थे च प्रथमेति तद्ृत्तौ व्याख्यातम्। तथाच लिङ्गसंबोधनवदाख्याताधुक्तकारकमपि प्रथमावाध्यमिति तदभिमतं स्पष्टम्; एकविभक्तयन्तेन तभ्रयाणां निर्देशात्। क्रमादीश्वरस्यापि संबुद्धुक्तात् सु ओ जस् इति सूत्रयतस्तदेवाभिमतम्। एवमन्येप्वपि सारस्वतादिव्याकर- णेपु 'अन्योक्ते प्रथमे'त्यादिसूत्रणाद्यमथों निप्प्रत्यूहः। कदाचिदभिधीयमानकर्मशक्तया प्रयोज्यव्यापार आक्षिप्यते। कदाचिष्वाभिधीयमानकर्तृशक्तया प्रयोजकव्यापार इत्यर्थके भावार्थचरणीयवार्तिकग्रन्थे घटो भवतीत्यादौ प्रथमाभिहि- तकर्तृशक्त्या प्रयोजकव्यापाराक्षेप इति न्यायसुधाकारेरुक्तम्। उक्त निरुक्तकारैरुक्त्तम्। असंभवादिति। शेपशब्दश्र- वणात् प्रतिपत्तेराकाङ्कितत्वेन प्रयाजशेषस्य प्रतिपत्तिरूपोपयुक्त्तसंस्कारो विवक्षितः, हविषामुपयोक्ष्यमाणसंस्कारे तु अटष्टार्थकल्पना स्यात्। तस्माच्छ्रुतशेपपदस्य प्रतिपत्तिरूपद्ृष्टार्थस्य चानुरोधेन विभक्तावपि लक्षणेति चतुर्थप्रथमे स्थितम्। स्थपतीति। 'निषादस्थपतिं याजये'दित्यादौ निषादस्य सक्करजातिविशेषस्य स्थपतिरीश्वरस्तरैवर्णिक इति नार्थ :; पूर्वपदे संबन्धिलक्षणापत्तेः, किंतु निषादाभिन्नस्थपतिः। एवंच तस्य यागानुष्ठानोपयुकं तद्ोधकवेद्वाक्यार्थ- ज्ञानमध्ययनाभावेन पूर्वमसिद्धमपि कल्प्यते, नतु तद्दोपान्मुख्यार्थत्यागः, फलमुखगीरवस्य अदोषत्वादिति पष्ठ- प्रथमे स्थितम्। नपुंसकत्वादिति। तत् सत्यमित्यत्र नपुंसकशन्दनिर्दिष्टव्रह्मण एव नपुंसकततपदेन निर्देशसंभवा-
Page 514
[तत्त्वमस्यादिवाक्यार्थनिरूपणम् ] गौडब्रह्मानन्दीयुता। ८३५
राश्रयणम् ; विचित्रा हि तद्धितगतिरिति वचनात्। 'स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः। तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः॥' इति स्मृतेश्चेति-चेन्न; तस्येदमित्यर्थे प्यञोऽविधानात् प्रयोगादर्शनाञ्च। स्वार्थे च सौख्यमित्यादिप्रयोगदर्शनात्। तथाच एतत् सत् आत्मा यस्य सर्वस्य तदेतदात्मा तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं च स्वार्थिकत्वाद्वा, भावभवित्रोरभेदोपचा- राद्वा, 'यो वै भूमा तत्सुख'मितिवत्। यत्तु स्मृतावेतध्ापकत्वेन ऐतदात्म्योक्ति:, सा न युक्ता; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधात्। ननु-शरीरवाचिनां देवमनुष्यशब्दानां शरीरिपर्यन्तत्व- दर्शनात् ब्रह्मशरीरभूतजीववाचित्वंपदस्य ब्रह्मपर्यन्तत्वेन तत्त्वमिति व्यपदेशः शरीरशरीरिभावनि- बन्धनः, 'यस्यात्मा शरीर'मित्यादिश्रुतेरिति मुख्यमेवास्मन्मते पदद्वयमिति-चेन्न; शरीरिपर्यन्त- त्वमिति तल्लक्षकत्वं वा, तत्रापि शक्तत्वं वा, शरीरविषयवृत्त्यैव तत्प्रतिपादकत्वं वा। नाद्ः; मुख्य- त्वानुपपादनात्। न द्वितीय :; शरीरवाचिनामित्यसाधारण्येन निर्देशानुपपत्तेः प्रवृत्तिनिमित्तमनु- व्यत्वादिजातेः शरीरिण्यवृत्तेरुक्तत्वाच्च। न तृतीयः; अन्यविषयवृत्तेरन्यानुपयोगेन शरीरशरीरिणोर- नादिभ्रमसिद्धाभेदनिबन्धनोऽयं प्रयोगो वाच्यः। तथाचात्राप्यभेदनिबन्धन एवायं प्रयोगः, अभे- दस्तु बाधकाभावादत्र तात्विक इत्येव विशेषः । यत्तु 'आदित्यो ब्रह्मेति'वत् जीवे ब्रह्मत्वोपासना- र्थस्तत्वमसीति निर्देश इति, तन्न; अनुपासनाप्रकरणस्थत्वेन दष्टान्तवैषम्यात्, उक्तरीत्या वस्तुनि- ष्ठत्वे संभवति तत्त्यागायोगाञ्च। ननु-'स आत्मा तत्त्वमसीत्यत्रातत्त्वमसीति पदच्छेदः, 'शब्दो- Sनित्य' इत्यत्रानित्य इति पदच्छेदो यथा घटदृष्टान्तानुसारेण, तथाऽत्रापि शकुनिसूत्रादिद्ृष्टान्तानु- सारात्। नहि प्रथमखण्डे शकुनिसूत्रयोः स यथा शकुनिः सूत्रेण प्रबद्ध इत्युक्तयोः शकुनिसूत्रयोः पष्ठे लवणमेतदुदकमित्यादिनोक्तयोर्लवणोदकयोः सप्तमे 'पुरुषं सोम्य गन्धारेभ्य' इत्यादिनोक्तयोः पुरुष- गन्धारदेशयोः नवमे च 'अपहार्षीत् स्तेयमकार्षी' दित्यादिनोक्तयोः स्तेनापहार्ययोः ऐक्यम्। स्तेना- पहार्यदृष्टान्ते हि स्पष्टमेक्यज्ञानिनोऽनर्थः, परकीयव्रह्मत्वाभिमानी हि स्तेनः, नतु विद्यमानब्रह्मत्वा- ज्ञानीति-चेन्न; शकुनिसूत्रादौ दृष्टान्ते विद्यमानोऽपि भेदो नातदिति पदच्छेदप्रयोजक, तं विनैव तदुपपत्ते :; घटदृष्टान्तस्तु न नित्यत्व उपपद्यत इति वैषम्यात्। तथाहि-ज्वरादिरोगग्रस्तस्य तन्नि- मौके स्वास्थ्ये विश्रान्तिवजाप्रत्स्वप्नयोः करणव्यापारजनितश्रमापनुत्तये जीवस्य देवतात्मस्वरूपाव- स्थानमित्यस्मिन्नर्थे शकुनिसूत्रदष्टान्त इत्यन्यथैवोपपत्तेः, 'स्वमपीतो भवती'ति श्रुंतेः । ननु-ब्रह्मणि स्वशब्दो न जीवाभेदामिप्रायः, किंतु आत्मीयत्वाद्यर्थः स्वातन्र्याभिप्रायो वा; 'स्वातच्यात्स्व' इति प्रोक्त इत्यागमात्, 'अपीतो भवती'त्यस्यापि तिरोहितः सन् प्राप्तो भवतीत्येवार्थः; नत्वभिन्न इति अपेः पिधाने इणो धातोश्च गती निष्ठायाः कर्तरि शक्तेः कृप्त्वात् ऐक्ये योगरूढ्योरभावाञ्चेति-चेत्, न; स्वशब्दस्य स्वरूपे मुख्यस्यार्थान्तरपरत्वे गौणीलक्षणयोरन्यतरापत्तेः, अभेदे योगरूढ्योरभावेऽपि उपसर्गप्रकृतिप्रत्ययपर्यालोचनया लब्धस्वरूपप्राप्तिरूपार्थस्याभेदे पर्यवसानात्। अतएव-ऐक्यार्थत्वे अपीत इत्यस्य भवतेश्च्ाकर्मकतया श्रुतद्वितीयायोगः अश्रुततृतीयाकल्पनमिति-निरस्तम्; अतएव- गौडव्रह्मानन्दी (लघुचन्द्रिका)। नेदं युक्तम्। नहि 'तत्सत्य'मित्यत्र सर्व सत्यमित्यर्थः; असत्कारणनिरासाय सदेव सोम्येत्यादिनोक्तस्य कारणसत्वस्य तत्र परामर्शात्, 'स आत्मे'ति कारणवाचितत्पदसमभिव्याहारात्। किंच एतदात्मीयार्थकतवे तत्पदस्य विशेषणतया पुंस्त्वापत्तिः, नहि वसत्रं शुक्कः, घटस्तदिति साधुरिति व्यत्पयो बहुलमित्यस्य शरणीकरणात् वरं सदेवेत्यादौ निर्दि- ष्स्य तत्पदेन परामर्शः । ननु शरीरिण्येव शक्तिरस्तु, असाधारण्येनोक्तनिर्देशस्तु पराभ्युपगमादित्यत आह-प्रवृ- त्तीति। अचाक्षुपत्वापत्या न मनुष्यत्वादेरात्मवृत्तित्वमुक्तम्। तथाच मनुष्यत्वादिरूपेण मनुष्यादिपदजन्यो बोधो न शरीरिणः संभवति। नच-मनुष्यत्वादिमच्छरीरावच्छिन्नात्मत्वेन मनुष्यादिपदशक्यतास्तु, तत्रापि तस्य भूरिप्रयो- गादिति-वाच्यम्; शाक्यशरीराभेदेन लक्षणया वा प्रयोगोपपत्तावनेकशक्तत्वस्यान्याय्यत्वात्। अत्र मन्मते। अत्रेदं बोध्यं-नाभेदनिबन्धनः प्रयोग: शरीरिणि संभवति; ब्रह्मणि परमते पृथिवीजीवादिभेदनिर्णयसत्वात्, 'अहं मनुष्य' इत्यादिप्रयोगस्तु युक्त :; जीवानामात्मनि शरीरामेदभ्रमसत्वादिति। अन्यथैवेति। यथा शकुनिरन्यत्र विश्रा- ममलब्ध्वा सूत्रमाश्रयति, तथा जीवः स्वरूपमित्यत्र अन्यत्र विश्रामालब्धिपूर्वकाश्रयणस्य साधर्म्यत्वेन विवक्षितत्वात् न भेदान्तर्भावेन साधर्म्यम्; तथासति स्वरूपत्वाभावादिति भावः । ननु 'जीवः प्राणमाश्रयत' इति श्रुतायुक्तं स्वरूपावस्थानं कथमुच्यते ? तत्राह-स्वमपीत इति। प्राणपदेन ब्रह्मोक्तम्। 'सता सोम्य तदा सम्पन्नः सवमपीत' इति श्रुतेः 'स्वाप्यया' दिति न्यायान तस्य जीवस्वरूपत्वम्। मुख्यस्य लाघवाच्छक्तसय। अर्थान्तरपरत्वे खीया-
Page 515
८३६ अद्वैतसिद्धिः । [ परिच्छेद: २] 'यथा अस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रीयते। एवमे- वायं पुरुष' इति सुषुप्तिसमये श्रुत्यन्तरे मिन्नश्येननीडदृष्टान्तोक्तिरिति च-निरस्तम् ; सघसाम्यस्य दृष्टान्ततायामतन्त्रत्वात्। नच-प्राश्ेनात्मना संपरिष्वक्तः स इति सुषुप्तिविषये भेवश्रुत्या त्वन्मतेऽपि भेदपरेण सुषुप्युत्क्रान्त्योभेंदेनेति सूत्रेण त्वत्पक्षेऽपि जागरण इव सुषुप्तावपि आविद्यकजीवब्रह्म मे- दस्वीकारेण न विरोध इति-वाच्यम्; यतो जाग्रत्स्वप्रयोरिव स्फुटतरविक्षेपो नास्तीत्यमिप्रायेण स्वस्वरूपप्रात्युक्तिः, न त्वात्यन्तिकाभेदाभिप्रायेण; अन्यथा सुषुप्तिमुक्त्योरविशेषापत्तेः। यदि सज्ज- गतो मूलं, तदा कथं नोपलभ्यत इत्याशङ्कायां विद्यमानमपि वस्तु नोपलभ्यते अन्यथा तूपलभ्यत इत्यमुमर्थ स्पष्टीकर्तु लवणोदकद्ृष्टान्त इति; तत्राप्यन्यथोपपत्तेः । यद्येवं लवणमिवेन्द्रियैरनुपल- भ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यत इति तस्यैवोपलम्भे क उपाय इत्याश- ड्ायां 'आचार्यवान् पुरुषो वेदे'त्युपायं वकुं गान्धारपुरुषद्ृष्टान्त इति तत्राप्यन्यथेवोपपत्तेः। तथा- चाचार्यवान् विद्वान् येन क्रमेण सता संवध्यते स क इत्याशङ्कायां सत्याभिसन्धस्यार्थप्राप्तिरनृता- भिसन्धस्यानर्थप्राप्तिरिति वक्तुं स्तेनास्तेनदष्टान्त इति तत्राप्यन्यथैवोपपत्तेः। नच सत्यानृतदृष्टान्तेन पुरेऽपहार्षीत् 'स्तेयमकार्षी'दिति उदाहरणायोग :: तदुपपादकत्वेन पृथक् दृष्टान्तत्वाभावात्। ननु-द्वितीयखण्डे 'नानात्ययानां वृक्षाणां रसानि त्यादिनोक्तानां नानावृक्षरसानां तृतीये 'इमा सोम्य नद्य' इत्यादिनोक्तयोर्नदीसमुद्रयोश्चैक्यं वकुं नहि शक्यम्, नहि नानावृक्षरसा अन्योन्यभेद- त्यागेन प्राक् सिद्धेन मधुना ऐक्यमापद्यन्ते, नवा प्राक भेदभ्रान्तिविषयाः पश्चात्तदविषयाः, किंतु तन्तव इव पटमन्योन्यभिन्ना एव प्रागसिद्धं मधूत्पादयन्ति। नचेदं दार्प्टान्तिकानुगुणम्: नदीसमु- द्रदृटष्टान्तेऽपि किं नदीसमुद्रावयविनोरैक्यं, किंवा तद्वयवजलाणूनां, उत द्रव्यान्तरारम्भः। नाद्य- द्वितीयौ; माषराशी प्रक्षिप्तमाषतदवयवानामिव क्षीरे प्रक्षिप्तनीरतद्वयवानामिव चान्योन्यमिश्री भावेऽपि प्राग्भिन्नानां पश्चादप्यैक्यायोगात्, तृतीये तु भेद एव, एवं दार्प्टान्तिकाननुगुण्यं चेति- चेन्न; स्फुटावच्छेदकविरहेण स्पष्टभेदाभावाभिप्रायेण दृष्टान्तानामुपात्तत्वेन दष्टान्ते वास्तवभेदाभे- दयोरौदासीन्येन त्वदुक्तदृषणगणानामगणनीयत्वात्। अतएव-सतोऽभेदस्याज्ञानमात्रे द्ृष्टान्त इति-निरस्तम्; भेदसत्तायामादासीन्यात्। नचवमस्फुटभेदविषयत्वस्यात्यन्तिकाभेदेऽनुपयोगः; सूक्ष्मोपाध्यवच्छिन्नस्य महोपाध्यवच्छिन्नक्यवत्तदवच्छिन्नस्यापि तद्विलये अनवच्छिन्न्यमिति संभावनावुद्धिजननद्वारोपयोगित्वसंभवात्। अतएव 'ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र
गौण्डब्रह्मानन्दी (लघुचन्द्रिका )। दिपरत्वे। पर्यवसानादिति। संस्कारावस्थाप्राह्यनुकूलव्यापारः अपिपूर्वस्यैतेरर्थः; 'जगतः प्रभवाप्ययावि'ति प्रयोगात् उक्तावस्थाफलभागितवे स्वमित्यस्य कर्मता। तिरोहितगतेस्तदर्थत्वे उक्तप्राप्ेरिव गतेरप्यौपाधिकत्वेन संभ- वादुक्तप्राप्तावेव तिरोधानपर्यवसानाच्च न क्षतिः। भेदपरेण जीवमनूद तात्विकलक्षणम्रह्मात्मकततस्वरूपपरेण। विरोधः स्वरूपार्थकत्वशब्दविरोधः। अन्यथा साधनविशेपेण। अन्यथोपपत्तरिति। जललीनलवणं साधनवि- शेषोपलभ्यत्वसाधर्म्येण दृष्टान्तः। पुरुषद्ृष्टान्त इति। उपदेशोत्तरमेंवोहापोहेन यथा गन्धारदेशो जञायते, तथा ब्रह्मेत्यंशे दृष्टान्तः । अनृतदृष्टान्तेन 'अनृताभिसन्धी अनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यत इत्यादिना। इत्युदाहरणायोगः 'पुरुपं सोम्योत हम्तगृहीत'मित्यादिपूर्ववाक्यमयुक्तम्। तदुपपादकत्वेन 'स यदि तस्य कर्ता भवति स तत एवानृतमात्मानं कुरुते' इत्यन्तवाक्यं विना स्तेयं न कृतमित्यस्यानृतस्यास्पष्टरवेन। पृथग्दृष्टान्तत्वाभावादिति । अनृताभिसन्धत्वप्रयुक्तबन्धेन साधर्म्यण स्तेनः संसारिणां, सत्याभिसन्घत्वप्रयुक्त मुक्त्या साधर्म्येणास्ेन ऐक्यज्ञानिनां रष्टान्त इति भावः। स्फुटावच्छेदकेति। अहङ्कारोपाधीत्यथः । स्पष्टभेदा- भावामिप्रायेण प्रत्ययविशेषविषयभेदाभावेन साधर्म्येण। सूक्ष्मोपाध्यवच्छिनस्य भहद्कारोपलक्षितस्य। तद्वि- लय इत्यत्रापि संबध्यते। सूक्ष्मोपाध्यभाव इति तदर्थः । महोपाध्यवच्छिन्नस्य अविद्योपहितस्य। तद्विलये अविद्याविरहे। संभावनेति। जीवब्रह्मस्वरूपयोरैक्यसंभावनेत्यर्थः । सम्पद्येत्यस्य संपद्यामह इत्यस्य। सत्सं- पत्तेः जीवस्वरूपाभिन्नब्रह्मस्वरूपस्पष्टभेदाभावस्य। ज्ञानपूर्वकत्वाभावात् अहंब्रह्मेतिज्ञानपूर्वकत्वाभावात्। ननु-'न विदुः सति संपत्स्यामह' इत्यनेन सत्संपत्तेरज्ञातत्वमुक्तम्, तावताच नोक्तज्ञानाभावलाभ इति-ेन्न्व; सति संपस्स्यामहे' इत्यस्य.'स्वमपीतो भवती'त्येकवाक्यतया स्वाभिन्ने सति संपत्स्यामह इत्यर्थात् उक्तस्वरूपमेदा-
Page 516
[तत्त्वमस्यादिवाक्यार्थनिरूपणम् ] गौडब्रह्मानन्दीयुता। ८३७
एव भवती'त्यन्न प्रकृतनदीरुद्दिश्य समुद्रभवनविधाने सुवर्ण कुण्डलं भवतीतिवत्, ताः समुद्र एव भवन्तीति व्यपदेश: स्यात्। अतो नद्यो नियतजलराशिरूपात् समुद्रात् गच्छन्ति तं प्रविशन्ति च। समुद्रस्तु स एव। नैतासां समुद्रत्वमिति वा, समुद्र एव नतु नदीत्वं प्राप्तोतीति वार्थः। सतो- उप्यन्योन्यं भेदस्याज्ञान एवेमौ दष्टान्ती। अतएव-नानारसवाक्ये दार्ष्टान्तिके 'एवमेव खलु सोम्ये- मा: सर्वाः प्रजाः सति संपद्य न विदुः सति संपत्स्यामह इति त इह व्याघ्रो वे'ति नदीसमुद्रवाक्ये च दार्ष्टान्तिके 'सत आगम्य न विदुःसत आगच्छामह'इति 'त इह व्याघ्रो वे'ति सतो भेदस्याज्ा- नेनैवानर्थ उक्त इति-निरस्म्: स्पष्टभेदविषयताभावाभिप्रायेण दृष्टान्तत्वात्। यञ्च भेदाक्षाननि- बन्धनव्याघ्रादिरूपानर्थपरा श्रुतिरिति, तन्न; सति संपद्येत्यस्यासन्नत्वात्। 'न विदु'रित्यनेन सत्संप- न्यज्ञानमुच्यते नतु भेदाशानम्। तथाच सत्संपत्तेशानपूर्वकत्वाभावात् तत्तद्वासनया तत्तद्याघ्रा- दिभाव एव भवतीत्येतत्परत्वात्॥ तस्मादृष्टान्तवर्याणां भेदे तात्पर्यहानितः। एतेषामनुसारेण छेदो नातदिति स्फुटम्॥ ननु-आद्यखण्डे स्वप्नान्तं मे सोम्य विजानीहीति स्वातन्यशङ्कानास्पदसुषुप्तिनिदर्शनेन चतुर्थ- चास्य यदेकां शाखां जीवो जहातीत्यादिना अन्वयव्यतिरेकोक्त्या अष्टमे च पुरुषं सोम्योतोपतापिन- मित्यादिना स्वातव्यशङ्कानास्पद्मरणनिदर्शनेन ईश्वरधीनत्वस्योक्तत्वादतदित्येव छेदो युक्त इति- चेन्न; स्वप्नान्तमित्यादेः सुपुप्यवस्थायामेव जीवत्वविनिर्मुक्त स्वं देवतारूपं दर्शयिष्यामीत्यनेनाभि- प्रायेण उद्दालकेनावतारितत्वेनेश्वराधीनत्वपरत्वाभावात्। जलादुत्थितानां वीचीतरङ्गफेनवुद्धदानां पुनस्तन्द्वावं गतानां विनाशो हष्टः। जीवानां प्रत्यहं स्वरूपतां गच्छतां मरणप्रलययोश्च नाशाभावः कथमित्याशङ्कायां तत्परिहारत्वेनोक्तस्य वृक्षशाखानिदर्शनस्य जीवाधिष्ठितं शरीरं जीवति तदपेतं च म्रियते नतु जीवो म्रियत इत्येतत्परत्वात्। 'जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत' इति वाक्यशषात् यथा सोम्योपतापिनमित्यस्यापि 'आचार्यवान् विद्वान् केन क्रमेण सत् संपद्यत इत्याशङ्कायां तत्क्रमप्रदर्शनपरत्वेन ईश्वराधीनत्वे तात्पर्याभावात्। यनु चतुर्थ 'जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठती' त्यत्र जीवशब्द ईश्वरपरः मोदमान इति संसारिण: पृथगुक्तिरिति, तन्न; मोद्मान इत्यस्य दृष्टान्तत्वेन प्रक्रान्तवृक्षविशेषणत्वेन संसारिपरत्वाभावेन जीव इत्यत्र श्रुतार्थत्या- गायोगात् । यञ्च पञ्चमे एतस्यैव सोम्यैपोऽणिम्न एवं महान्यग्रोधस्तिष्ठतीति, अत्र अणिमशब्द: सूक्ष्मे- शवरपरः; स एपोऽणिमा ऐतदात्म्यमिदं सर्वमिति इहैव श्रुतावीश्वरे तस्य प्रयोगात्, नतु धानापर :; तासां किमत्र पशयसीति अण्व्य इवेमा धाना इति भावप्रत्ययरहितेन स्त्रीलिङ्गेन बहुवचनान्तेन इव. शब्दशिरस्केनाणुशव्देन निर्दिष्टतया तद्विपरीताणिमशब्दानर्हत्वाञ्चेति-चेन्न; एषोऽणुरात्मेत्यत्र भाव- प्रत्ययरहितप्रयोगविषयेSपीश्वरे एषोऽणिमेति प्रयोगदर्शनेन धानासु तथा वकतुं शक्यत्वात्। नच
गौडब्रह्मानन्दी (लघुचन्द्रिका)। भावाज्ञानोक्त्योक्तस्वरूपात्मकविशेषणाज्ञानस्यैव विवक्षितत्वात्। अथवा-अहङ्कारानुपहितरूपेण सत्प्राध्यापि ताद- शरूपं न विदुः सुतरामनुपहितसद्रूपोऽहमिति न विदुरित्यर्थस्य विवक्षितत्वात्। वस्तुतः सति संपद्य न विदुः सति सम्पत्स्यामह इत्यस्य सुषुप्तिकालीनोक्तभेदाभावरूपसम्पत्ति प्राप्यापि सति ब्रह्मणि सम्पत्स्यामह अभिन्ना वयमिति न बिदुरहंब्रह्मेति न विदुरित्यर्थः। 'परं ज्योतिरुपसम्पदे'त्यत्रैक्येऽपि सम्पदेः प्रयोगात्। अतएव 'हिरण्यनिधिं निहित' मित्यादिसर्वाः प्रजाः अहरहर्गच्छन्त्योऽपि ब्रह्मंलोकं न विन्दन्ति अनृतेन हि प्रत्यूढा' इत्यत्र स्फुटोऽयमर्थः । रूपमिति। स्वीयस्फुटभेदाभाववरवेनेति शेषः । प्रक्रान्तेति। 'अस्य सौम्य महतो वृक्षस्े'त्यादिना प्रक्रान्ते- त्य्थः। परत्वाभावेनेति। शाखासमभिव्याहारात् मोदमानस्तिष्ठतीत्यत्र 'अस्य यदेकां शाखां जहात्यथ सा शुष्यति सर्व जहाति सर्वः शुष्यती'त्यनेन मोदमानस्य शोषणोक्तेश्रासंसारित्वम्। नहि छेदनादयुत्तरशोषणकाले सृक्षस्य जीवसंबन्धः, येन शुष्यद्ृक्षसंबन्धेन जीवस्यैव शोषणमुच्येत, मोदमानत्वं तु जीवसंबन्धादचेतनेSपि प्रयोगार्हम्। तथाचानेकजीवपदानां प्रसिद्धसंसार्यर्थकत्वत्यागो न युक्त इति भावः। एषोऽणुरिति। ननु- मुण्डके एषोऽणुरात्मेत्यास्ताम्, छान्दोग्ये अणिमशब्दस्य प्रयोगादीश एव छान्दोग्यस्थाणिमशब्दो युक्त इति चेन; अणुशब्दप्रतिपाधे अणिमशब्दो न प्रयुक्तः श्रुतावित्युच्यते, प्रकृते अणिम इत्यस्य धानायां प्रयोगे बीजाभाष इति वा। आद्ये एपोऽणुरित्यादि, अन्त्ये तु वटबीजे दृश्यमानधानानां बहुत्वेनाण्व्य इत्युक्तावपि न्यग्रोधोपादानत्वे जगन्मूलीभूतग्र्नणः एकस्य दष्टान्तत्वे च बहुत्वानुपयोगादेकवचतम्, एकस्याप्यणुभावोप-
Page 517
८३८ अद्वैतसिद्धिः । [परिच्छेद: २ ]
तर्हि न निभालयस इत्युक्तादृश्यत्वायोग :; अनुभूतायां धानायामेव महान् न्यग्रोधस्तिष्ठति स त्वया- Sनभिव्यक्तत्वात् न ज्ञायत इत्येवंपरत्वात्। ननु-यद्यष्टमे विदुषो ब्रह्मप्राप्तिमात्रं विवक्षितम्, तदा तस्य वाखनसि संपद्यत इत्यादि तेज: परस्यां देवतायामित्यन्तमेव वाक्यं स्यात्, यावद्ा वाऊानसि संपद्यत इत्यादि व्यर्थ स्यादिति-चेन्न; लौकिकमरणे यः सत्संपत्तिकरमः स एव विदुषोऽपि, विशेषस्तु जञाना- ज्ञानकृत इति अमुमर्थ प्रतिपादयितुं दृष्टान्तेऽन्वयव्यतिरेकाभ्यां सत्संपत्तिक्रम इति वैयर्थ्याभावात्। नच 'तत् सत्यं स आत्मा' इत्यत्रात्मशब्देनाणिमशब्दोक्तेश्वर एव गरृह्यते नतु जीवः, 'यदाप्रोति यदादत्ते यञ्चात्ति विषयानिह । यञ्चास्य सन्ततो भावस्तसमादात्मेति गीयते ॥' इति वचनादिति-वाच्यम्; कतम आत्मेत्यादौ आत्मशब्दस्य जीवे प्रसिद्धत्वात्, वखरनोक्तविषयाचृत्वस्य जीव एव च संभवात् तत्परिग्रहस्यैवोचितत्वात्। यञ्च 'तमेवैकं जानथ आत्मान'मिति वाक्योक्तो न जीवः तद्वाचिशब्दा- भावादिति सिद्धान्तितम्, तदात्मशब्दस्य न जीवे अमुख्यत्वाभिप्रायेण किंतु प्रधानादौ। जीवस्य तु आत्मत्वेऽपि परिच्छिन्नतया जगत्कार्तृत्वसंभवात् व्युदास इत्येवंपरम्। जीवेनात्मनेति सामानाधि- करण्यानुपपत्तेश्च। नच जीवशब्देन ईश्वर एवोक्त :; रूढिपरित्यागे कारणाभावात्, रूढेश्च कृप्तत्वात्, अहं हि जीवसंज्ञ इत्यादेश्च अभेदपक्षेऽपि संभवात्। नच प्राणधारकत्वमीशमात्रवृत्ति: जीवसाधा- रणत्वात्। नच त्रिवृत्करणपूर्वकनामरूपव्याकरणस्य जीवेऽसंभवः अस्मदादावसंभवेऽप्यत्रिवृत्कृत- भूतारब्धलिङ्गशरीराभिमानिनो हिरण्यगर्भस्य नामरूपात्मकप्रपश्चव्याकरणसंभवात्। नच-तर्हि पुनर्जीवप्रवेशोक्त्ययोगः 'तत्तेज ऐक्षत ता अप ऐक्षन्त इमास्तिस्त्रो देवता' इति पूर्वमेव चेतनत्वसि- द्वेरिति-वाच्यम्; अव्याकृतभूतसृष्टी साक्षात्कारणत्ववत् ब्रह्माण्डादिसृष्टी न साक्षात्कारणता किंतु स्वाभिन्नजीवद्वारेणेत्येवंपरत्वात्। किंच 'एकमेवाद्वितीयमित्युपक्रमात् न श्येनादिद्ृष्टान्तानु- सारादतदिति पदच्छेदो युक्त :; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानविरोधात्, ब्रह्मजीवैक्यस्याप्रस- कत्वेन निषेधानुपपत्तेश्च। नच-'इष्टापूर्त मन्यमाना वरिष्ट'मित्यादाविव श्रुतितात्पर्यापरिज्ञानेन
गौडब्रह्मानन्दी (लघुचन्द्रिका)। हितस्यैवोपादानता, नतु स्थूलरूपेण विकृतस्येति ज्ञापनायाणुभावाभिन्नत्वेन धानानिदेशः। उक्तज्ञापनमप्यवि- कृत्रह्मण उपादानत्वज्ञापनाय, पुल्िङ्गं नु उक्तभावप्रत्ययानुरोधादिति भावः। परमते वटबीजधानास्थतवेन निय- न्तृत्वादियुक्त्तस्येशस्य सूक्ष्मतायां प्रकृतवाक्यतात्पर्यम्। 'यं वे सोम्ये'त्यादी यमणिमानं न पश्यसि एतस्य वटधाना- स्थस्य कार्य न्यग्रोध इत्याद्यर्थकत्वसंभवात् तत्र न्यग्रोधमात्रस्येशजन्यत्वोक्तिव्यर्था। श्रद्धत्स्वेत्यप्यसङ्गतम्; तत्रा- संभावनाविरहाढिति बोध्यम्। नच-एवं न्यग्रोध इत्यनेन सकलजीवरूपो नियम्योऽर्थी बोध्यते, न्यग्भावेन रुध्यते असौ ईशेनेति व्युत्पत्तेरिति-वाच्यम्; रूढित्यागस्यायुक्तत्वात्। अदृश्यत्वायोग इति । अणिम्ना तां न निभालयस इत्यत्राणिमशब्दनापि धानाया वाच्यत्वात् तस्याश्च किं पश्यसीत्याढिना दृशयत्वस्योक्तत्वात् पुनरदृश्यत्वोक्तिरयुक्त्तेत्यथः। न श्ञायत इति। तथाच 'यं वे सोम्ये' त्यादेर्यमणिमानं न निभालयसे एपोऽणिमव न्यग्रोध: दृश्यमानन्यग्रोधा- भिन्नः । एकस्य धानारूपस्य अणिम्नः । तिष्ठति तादृशाणिमनि तिष्टति। ननु सूक्ष्मधानानां मध्ये महान् न्यग्रोघ: कथं तिष्ठति ? तत्राह-श्रद्धत्स्वेति। संस्काररूपाणिमावस्थायां सूक्ष्मायामपि धानायां स्थितिः संभवतीत्यथः । विशेषः सत्संपत्युत्तरं संसारमोक्षरूपः। अन्वयव्यतिरेकाभ्यां वागाद्यसंपत्ती विशेपज्ञानात् सद्संपत्तिः, वागादि- संपत्तौ विशेषज्ञानाभावेन सत्संपत्तिरिति वागादिसंपत्तिरेव संपत्तो क्रम इत्यस्य यावदित्याढिना ज्ञापनेन न तद्यर्थ- मित्य्थः । जीव एवेति। अनश्नन्नन्य इति श्रुतेः । असंभवादिति। तथाच तमेवेत्यादिवाक्यबोध्यो न जीवः। उक्तवाक्यैकवाक्यतापन्ने जगत्कर्तृत्वबोधकभागे तद्वाचिशब्दाभावादिति सिद्धान्तवाक्यार्थः । नच प्राणेत्यादि। तथाच योगोऽपि न संभवति। जीवयतीति णिजर्थस्तु न श्रुत इति भावः । प्रवेशोक्तीति। 'जीवेनात्मनानु्वि- श्ये'ति प्रवेशोक्तीत्यर्थः। परत्वादिति। तथाच जीवस्य नामरूपयोः प्रवेशं विना तत्परिणामब्रह्माण्डादिपूपादानत्वा- संभवात् प्रवेशोक्तिर्न व्यर्था। पूर्वपूर्वभूतानुप्रविष्टस्यैवोत्तरोत्तरभूतोपादानत्वं हि आकाशवाय्वादिपु दृष्टम्; 'तदभि- ध्यानादेव तु तल्िङ्गात्स' इति न्यायात्, तसतत्परिणामिकारणावच्छेदेनैव परिणामानामुपादानचित्संबन्धस्य संभवाख कुलालादेरपि कपालाधवच्छिप्चितादात्म्यापन्रसाक्षिरूपेणैव घटादौ निमित्तोपादानत्वादिति भावः। संज्ञामूर्तीत्याय- धिकरणे जीवेनात्मनानुप्रविश्येत्यादी जीवस्यैव प्रवेशान्वयः, नामरूपव्याकर्तृत्वान्वयस्तु त्रिवृत्कुर्वत ईशस्यव; तयोर- भेदाज्च समानकर्तृकत्वार्थकक्त्वाप्रत्यय इत्युक्कतवेऽपि संभवप्राचुर्येण जीवस्यवोभयत्रान्वय उककः । अथवा-साक्षात् जीवनैरपेक्ष्येण। जीवद्वारा जीवसापेक्षतया । तथाथ जीवेनेत्यादिश्रुती हिरणयगर्भजीवस्य व्याकर्तृत्वाप्रतीतावपि
Page 518
[अहं ब्रह्मास्मीत्या० कथनम् ] गौडब्रह्मानन्दीयुता। ८३९
'तद्दैक आहुरसदेवेदमग्र आसी'दित्यादाविवानादिकुसमयेन वा देहेन्द्रियादीन् प्रति स्वातक्यरू- पस्य ऐश्वर्यस्य सर्वैरपि स्वात्मन्यभिमन्यमानत्वेन प्रत्यक्षेण वा प्रसक्तिरैक्यस्येति-वाच्यम्; ऐक्य- तात्पर्यस्य प्रमितत्वेन सुसमयत्वस्य व्यवस्थापितत्वेन च तात्पर्यापरिज्ञानकुसमयप्राप्तत्वस्य वक्कुम- शक्यत्वात्। ऐक्यलिङ्गस्यापि आभिमानिकत्वाभावेन तेन चेत् प्रसक्ति:, तदा निषेद्धुमशक्यतव; देहेन्द्रियादीनां जीवस्यैक्येनाध्यस्तत्वात् तान् प्रति स्वातन्त्र्याभिमानस्य सार्वलौकिकस्य वक्कुमश- क्यत्वात् यत्किंचित्प्रति स्वातन्यस्य ईश्वरलक्षणत्वाभावाच्च। पतेन-एकमेवाद्वितीयमिति समा- भ्यधिकराहित्यस्योपक्रमात् ऐतदात्म्यमिति तस्यैवोपसंहारात् अतत्त्वमसीति नवकृत्वोऽ्भ्यासात् शास्त्रं विना शास्त्रकगम्यस्य ईश्वरमेदस्याप्रसक्ततयाऽपूर्वत्वात् अथ सम्पत्स्यत इति फलश्रवणात् येनाशुतं भवतीत्यर्थवादात् शकुनिसूत्रादिद्ृष्टान्तैरुपपादनात् पद्विधतात्पर्यलिङ्गानि भेदपराण्ये- वेति-निरस्तम्; एकमेवेत्यत्र समाभ्यधिकराहित्यमात्रेण मेदोपक्रमत्वाभावात्, अमेदेऽपि तत्संभ- वात्, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानविरोधात्, द्वितीयाभावमात्रस्यैवोपक्रमात्। अतएवाभ्यासो- पसंहारावपि भेदविषयो न भवतः अभेदे तु यथाऽपूर्वता तथोक्तम्। फलार्थवादोपपत्तीनामभेद एव संभवाञ्च। तथा शाखान्तरस्थिता भेदवाक्यानामुपासनाप्रकरणस्थितानां तूपासनापरतया नाभेद्रप- रवाक्यविरोधः॥ इति तत्त्वमसिवाक्यार्थनिरूपणम्॥
अथ अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्। वृदृदारण्यकस्थितस्य तु 'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मी'ति वाक्यस्यानु- पासनाप्रकरणस्थतया अभेदप्रमापकत्वमेव। नच तद्यो यो देवानां प्रत्यवुद्यत स एव तद्भवत्तथ- र्पीणां तथा मनुष्याणामिति भेदपरवाक्यशपविरोध: तत्रापि देवादिषु प्रवुद्धं पुरुषं निर्धार्य 'स एव तद्भव'दिति ब्रह्माभेदपरत्वेन भेदपरत्वाभावात्। नच-अत्र वाक्ये ब्रह्मण एव प्रकृतत्वान्नानेन जीवव्रह्मक्ासिद्धिरिति-शङ्कम्; यो देवानामिति जीवपरामर्शिवाक्यशेषानुसारेण ब्रह्मपदस्य कार्य- ब्रह्मपरत्वात्, शुद्धब्रह्मपरत्वे च बोधनिमित्तस्य तस्मात्तत्सर्वमभवदिति सार्वात्म्यलक्षणफलकीर्तन- स्यायुक्तत्वापत्तेः। नच-'नाम व्रह्मेत्युपासीतादित्यो ब्रह्मेत्यादेश' इत्यादावितिशब्दशिरस्कतया नामाद्यभेदाभावादत्रापीतिशब्द्रशिरस्कतया ब्रह्मभेदाभाव इति-शाङ्कयम्; अनुपासनाप्रकरणस्थत्वे- .. ... गौडब्रह्मानन्दी (लघुचन्द्रिका)। श्रुत्यन्तरे तथाप्रनीत्या तस्यापि ब्रह्माण्डादिव्याकर्तृत्वमिति भावः। एवंच 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पध्न्ते' 'आकाशो ह वै नामरूपयोर्निर्वहिते'त्यादिश्रुतिनामविरोध इति ध्येयम्। पक्येनाध्यस्तत्वादित्यादि। ननु-तवन्मतेऽपि 'मम देह' इत्यादिप्रत्ययेन देहत्वादिरूपेण नैक्याध्यासः, किंतु मनुष्यत्वादिरूपेणैव। एवं 'मम चक्षु'रित्यादिप्रत्ययात् काणत्वादिनैवाध्यासः, यन्किंचित्स्वातन््यमपि न जीवस्येति तदीशलक्षणमेव। स्वातक्रयं हि स्वभिन्नानधीनतया देहादिविनियोक्तृत्वम्, जीवस्तु स्वभिन्नशस्याधीन एव। तथाच स्वामित्वस्य स्वातक्रयरूपत्वा- भावादैक्याध्यस्ते देहादो स्वामित्वाभावेऽपि न क्षतिरिति-चेन्न्न; स्वत्वाननुगमात्। ईशे हि तदन्यानधीनत्वघटितं स्वातक्यम्। तच् न जीवे; तत्तजीवान्यानधीनत्वघटितत्वाद्यभावात्। नच-अनधीनत्वघटितस्य तस्येशनिष्ठस्य जीव- निष्ठत्वाभिमान इति-वाच्यम्; अनधीनत्वस्य.जीवेऽप्यनभिमन्यमानत्वात्, ईशाधीनोऽहमिति स्वैरपि स्वीकारात्। किंच यत्किंचिदित्यादेरयमर्थः-जीवे यत्किंचित्प्रति स्वातळ््यमेव वाच्यम्। तदपि नेशस्वरूपस्य शुद्धस्य लक्षणम्; किंतूपहितस्य। तथाच तर्वमस्यादौ तन्जेदबोधकत्वे स्थापितेऽपि न त्वदिष्टसिद्धि; अस्मत्संमतस्य शुद्धयोरैक्यस्यानुप- मर्दात्। भेदोपक्मत्वाभावात् तार्विकभेदोपक्रमत्वाभावात्। अभेदेऽपि वास्तवाभेदेऽपि। तथाच समाभ्य- धिकराहित्यादपकृष्टानां सत्वलाभेनातात्विकभेदप्रत्ययेऽपि न क्षतिः । मात्रस्यैवेति। मुख्यार्थत्यागानौचित्यादिति भावः । तदुपपादनं तु कृतमसकृत्। तर्करित्यादि-तत्त्वमर्थनिरूपणम्॥ इति लघुचन्द्रिकायां तत्त्वम- सिवाक्यार्थनिरूपणम्॥
आत्मेत्येवोपासीतेत्यादि। उक्तवाक्ये आत्मन उपासिधातुरूपशब्दमुपासनात्मकज्ञानं च प्रति कर्मतावारण- येतिशब्द इति भाष्यादावुक्तं, तद्वत प्रकृतेऽपीत्यर्थः । दृष्टान्तदार्ष्टान्तिकयोरात्मस्वरूपमाश्रस्य प्रतिपाद्यतालाभायेति
Page 519
८४० अद्वैतसिद्धिः। [परिच्छेद: २]
नामेदाविवक्षाया नाम ब्रह्मेत्यादाविव वकुमशक्यत्वात्। नचेतिशब्दवैयर्थ्यम्; आत्मेत्येवोपासीत इत्यादाविव शब्दज्ञानयो: स्वाभाविकसकर्मकत्वप्राप्तौ तन्निराकरणपरत्वेनोपयोगात्। यञ्च-अहं- शब्दो जीवान्तर्यामिणि मुख्यः अहंमनुरभवं सूर्यश्चेति अन्तर्यामिण्यहंशब्दप्रयोगात्, सर्वान्तर्या- मिको विष्णुः सर्वनाम्ता विधीयते। एषोऽहं त्वमसौ चेति नतु सर्वस्वरूपतः ॥ इति वचनाश्चेति; तन्न; शास्त्रदृष्ट्यातूपदेशो वामदेघवदिति न्यायेन वामदेवजीवचैतन्यस्य वस्तुतो ब्रह्मामेदेन सूर्या- दिभावस्योक्ततया अन्तर्यामिपरत्वाभावात् 'तद्ो यो देवानां प्रत्यबुद्यत स एव तदभव'दिति पूर्व- वाक्ये तत्त्वबोधनिमित्तकव्रह्मभावस्य प्रकृततया पश्यन् प्रतिपेदे इत्यादेरपि बोधनिमित्तब्रह्मभाव- परतया अन्तर्यामिपरत्वाभावात्। स्मृतेरपि असाधारवतततदात्मनि शक्तेरावश्यकतया तत्सहचा- रेणान्तर्यामिणि एपोऽहमित्यादिप्रयोगः, नतु सर्वस्वरूपत इति। निषेधस्य तूपहितयोरैक्याभावनिब- न्धनत्वान्न विरोधः। अतएव-विशिष्टचैतन्यरूपे वामदेवे विशिष्टचैतन्यरूपमनुसूर्यादिभावो न संभ- वतीति-निरस्तम् ; शास्त्रदृष्ट्या तूक्तत्वात्। नच तर्हि शुद्धचित्यभवमित्युत्तमपुरुषायोग :; भूतपूर्व- गस्या संभवात्। नच-अहं भूमिमदामार्यायेत्याद्ययोगः, नहि चिन्मात्रं भूमिदात्रिति-वाच्यम्; उपहितचितमादाय तेषामुपपत्तेः । अहं नामाभवत्तस्योपनिषद्हमित्यादेश्च तादृशोपासनापरत्वेन शक्तिनिर्णायकत्वाभावात्। तस्मान्नान्तर्याम्यभेदपरेयं श्रुतिः; अन्तर्यामिणि भेदाप्रसक्तेश्च। नच निय- म्यानन्त्यादिना प्रसक्ति :; एकस्मिन्नपि जीवे अनेकावयवनियामकत्वस्यैकस्मिन्नपि राजन्ये अनेकदेश- नियामकत्वस्य च दर्शनात्। "स यश्चायं पुरुषे यश्चासावादित्य स एक:" इत्यस्यापि नान्तर्याम्यै- कयपरता; घ्रह्मविदाप्नोति परमित्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधिकृतमेदस्य तात्त्वि- कत्वप्रसक्तौ तव्निराकरणार्थत्वेन ऐक्योपदेशोपपत्तेः। नचैवं छान्दोग्ये य ए आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्यत्र स एवैनान् ब्रह्म गमयतीत्यत्र भेदपरोत्तरवाक्यविरोध; तस्य उपासनाप्रकरणस्थ- त्वेनाहंग्रहोपासनापरतया विरोधाभावात्। नचोपासनाप्रकरणस्थितवाक्यवलादैक्यासिद्धावपि अनुपासनाप्रकरणस्थितादपि तदसिद्धि: शङ््या; अन्यशेपत्वस्य तस्य नत्प्रयोजकस्याभावात्, अथ योऽन्यां देवतामुपास्त इत्युत्तरवाक्यस्य भेदज्ञाननिन्दापरतया तदनुसारेण पूर्ववाक्यस्योपासनापर त्वायोगात्। यत्तु ब्रह्मशब्दोऽत्र ब्राह्मणार्थ इति न परव्रह्मैक्यसिद्धिः, अन्यथा पूर्ववाक्ये आत्मान- मेवावेदहमित्यनेनव ब्रह्मेति ज्ञानस्य सिद्धत्वात् ब्रह्मास्मीति व्यर्थमिति, तन्न; आत्मशब्देन जीवचैत- न्यमनूद्य बृंहितत्वाद्युपलक्षितव्रह्मचतन्याभेदविधिपरत्वेन सार्थकत्वात्। तथाच स्मृतिः 'अहं हरिः सर्वमिदं जनार्दन' इत्यादिकापि सङ्गच्छते। यत्तु अथ योऽन्यां देवतामुमास्तेऽन्योSसावन्योऽहम- स्मीति न स वेद यथा पशु'रित्यत्रान्तर्यामिभेदशाननिन्दनमिति, तन्न; अन्तर्यामिणोSप्रकृतत्वात् पद- द्वयलक्षणादेस्तात्पर्यानुरोधेन लब्धत्वात्। यन्तु अत्र योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते अन्योऽसी परमात्मा अहमस्मीति न स वेद यथा पशुरित्यर्थ इति, तन्तुच्छम्; व्यवहितान्वयदो- पात्। अहं शब्दसन्निहितान्य इत्यस्य य इत्यत्र नयनात्। नच-'यस्य येनार्थसंबन्ध' इति न्यायेन सन्निधानाद्योग्यतायाः प्रबलत्वमिति-राङ्यम् ; यथास्थितार्थ संबन्धेऽप्युक्तक्रमेण योग्यतासत्त्वात्। नचेयं श्रुतिः स्वातव्येणान्यसन्भावनिषेधिका; अन्यत्वप्रतियोगिनि स्वातच्योपस्थापकपदाभावात्। यन्तु कैश्चिदुपास्त इति श्रवणात् प्रयत्नसाध्यज्ञानविजातीयवृत्त्यन्तररूपोपासनाया एव निषेधः नतु ज्ञानस्येत्युक्तम्, तन्न; "तद्यो यो देवानां प्रत्यवुध्यते"ति पूर्ववाक्ये न स वेदेति निन्दावाक्ये च वेदनस्यैव निर्देशात् मध्यस्थितोपास्तेरपि ज्ञानपरत्वात्॥ गौडब्रह्मानन्दी (लघुचन्द्रिका)। शब्द इत्यपि बोध्यम्। पश्यन्नित्यादि। लक्षणहेत्वोरित्याढिना हेती शतृप्रत्ययादित्यादिः। स्मृतेरपीति न विरोध इत्यत्रान्वेति। उपहितयोरिति। अन्तर्यामित्वाहंत्वादयुपहितयोरक्याभावादन्तर्यामिणोऽहंत्वाद्युपहितसर्वास्वरूपरवात् सर्वनान्नाभिधानं नेति स्मृत्यथः। भूतपूर्वगत्या बाधितानुवृश्या द्वारीभूतबोधस्याहंत्व प्रकारकस्याखण्डाकारबोधस्य पूर्व भूतत्वेनेति वार्थः । उपहितचितमादायेति। उपहितचितो दातृत्वेन तदुपस्थितिद्वाराखण्डार्थत्वमादायेत्यर्थः। ब्रह्म गमयतीति। 'एप देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्त' इति शेषः । अन्यशेष- त्वस्य वंक्यान्यपरत्वस्य। तत्प्रयोजकस्य ऐक्यासिद्धिप्रयोजकस्य। अन्तर्यामिभेदज्ञाननिन्दनमिति। नियम्य- भेदेनान्तर्यामी नानेति भेदप्रसक्तौ तवनिषेधपरपूर्ववाक्यस्य भेदनिन्दयोपकार इति भावः । तथाच 'असौ मदन्य- स्यान्तर्यामी अन्यः, अहं मदन्तर्यामी तु तदन्य' दृत्युक्तवाक्यार्थः। ज्ञानपरत्वादिति। ज्ञानबोधकपूर्वापरैकवाक्य-
Page 520
[अहं ब्रझ्मास्मी० कथनम्] गौडब्रह्मानन्दीयुता। ८४१
एवं मुण्डके 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्येतदपि वाक्यममेदपरमेव। नच- द्वितीयब्रह्मशब्दो जीवपर एव, तस्य जातिजीवकमलासनाद्यनेकार्थत्वात्, द्वे ब्रह्मणी इत्यादौ जीवे घ्रह्मशाब्दप्रयोगसंभवाञ्च, यः परमं ब्रह्म वेद स जीव एव भवति नतु परमं ब्रह्मेत्यर्थः। अतएव आद्यो ब्रह्मशब्द: परमत्वेन विशेषित इति-वाच्यम्; जीवे ब्रह्मपदप्रयोगसंभवेऽपि प्रकृते परव्रह्मो- पादानमेवोचितम्, जीवभावस्याव्रह्मभावस्य च प्रागेव सिद्धतया ब्रह्मज्ञानसाध्यत्वाभवात्। एवंच अर्थाद्वितीयब्रह्मभवनमपि परमत्वविशेषितमेव।यञ्च ब्रह्म भवतीत्यस्य ब्रह्मितत्वरूपब्रह्मत्वाक्रान्तो भवतीत्यर्थः। संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् इतिवत्। नहि शूद्रोऽपि पूजितब्राह्म- णव्यक्तिर्भवति, किंतु ब्राह्मणत्वजात्याक्रान्त इति, तन्न; पूर्वाक्तयुक्त्या प्रकृते व्यक्त्यभेदस्यैव संभ- वेन दष्टान्तवैषम्यात्। नच-'अस्य महिमान'मिति वाक्यशेषात्तदीयमहत्वप्राप्तिरेव, न तु तन्भाव इति-युक्तम्; देहेन्द्रियादिप्रपश्चविलक्षणं यो वेद, प्रपश्चं तद्विभू्ति च यो वेद, स वीतशोको भव- तीत्येवंपरत्वात्। नच-'यथा नद्यः स्यन्दमामा' इति भिन्ननदीदृष्टान्तोक्तिरयुक्तेति-वाच्यम्; स्पष्ट- भेदविलयनमात्रपरत्वेन दृष्टान्तोपपत्तेरुक्तत्वात्। परात् परं पुरुषमुपैति दिव्यमिति न देशान्तरस्थ- ब्रह्मप्राप्युक्तिपराः तस्याः सगुणोपासनाफलत्वेन ब्रह्मविद्याफलत्वासंभवेन स्वरूपभूतब्रह्मप्राप्तिपर- त्वात्। नच-अद्वैतमते नित्यं ब्रह्मभूतस्यापूर्वब्रह्मभावोक्तिरयुक्तेति-वाच्यम्; कण्ठगतचामीक- रादा भ्रान्तिनिवृत्तिमात्रेण प्राप्तप्राप्तिरूपतया फलत्वदर्शनात्। नचारोपनिवृत्तेरशाब्दत्वम्; श्रुता- र्थापत्तिगम्यतया शाब्दत्वोपपत्तेः । 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुतिरप्यैक्यपरा। नचात्र प्रथमब्रह्म- पदस्य जीवपरत्वाभावे कर्तृकर्मभावविरोध :; साक्षात्कारप्राक्कालीनोपाधिक मेदमादाय तादङनिर्दे- शोपपत्तेः । परेऽव्यये सर्व एकीभवन्तीत्येतदप्यभेदे मानम्। नच गावः सायं गोष्ठ एकीभवन्ति। एकीभूता नृपा: सर्वे ववर्षुः पाण्डवं शरैः । कीटो भ्रमरेणैकीभूत इति स्थानैक्यमतक्यसादृश्यनिब- न्धनकीभावस्य गोनृपकीटभ्रमरादाँ दर्शनात् अन्रापि तैरेव निमित्तैः गौण एकीभाव इति-वाच्यम्: मुख्यत्वे संभवति गाणत्वस्यायोगात्। वह्मक्यमात्रपरत्वेन सकृदुश्चरितस्य नानेकार्थपरत्वशङ्कापि। नचक्यस्य प्रागेव सिद्धतया अभूततन्भ्ावार्थच्विप्रत्ययायोग: स्वगृहनिक्षिप्ताज्ञातनिधिवत् सतो- ऽप्यावृतत्वेनाभूतसमतया च्विप्रत्ययोपपत्तेः । नच परेऽ्व्यय इति श्रुतसप्तमीहानिरश्रुततृतीयाक-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। त्वानुरोधेनोपासनाफलज्ञानलक्षकत्वमुपासे: स्वीक्रियते, अन्यथा पूर्वपरवाक्यस्थबहुतरेपु ज्ञानार्थकपदेपु उपासना- लक्षणापत्तरिति भावः । यत्त "ब्रह्म वा इदमग्र आसी'दित्यत्न ब्रह्मपदस्य कार्यब्रह्मपरत्वे 'तदाहुर्यत् ब्रह्मविद्यया सर्व भविष्यन्तो मन्यन्ते किमु तद्रह्मे'त्यादि पूर्ववाक्यासङ्गतिः, न हि कार्यब्रह्मविद्यया सार्वात्म्यम्, तथाच तस्य कारणब्रह्मपरत्वमेव। एवंच 'तत्सर्वमभवदि'ति न फलोक्तिः किंतु ब्रह्मणश्च पूर्वस्वरूपानुभवप्रयुक्तानन्दोद्रेकात् सार्वात्म्योक्ति'रिति, तन्तुच्छम् ; नहि कारणब्रह्मणः स्वरूपानुभवः आनन्दोद्रेको वा कादाचित्कः । तथाच ज्ञानेनाज्ञाननिवृत्या तत्प्रयुक्तपरिच्छेदनिवृत्तिरूपं सार्वात्म्यं हिरण्यगर्भरूपकार्यब्रह्मण एवेति भाष्योक्तमेव युक्तम्। किमु तद्रह्वेत्यादस्तु न विरोध :; 'आत्मानमेवावे'दित्यादिनात्म स्वरूप मात्ररूपब्रह्मज्ञानान् सार्वात्म्योक्तेरेव तदुत्तरत्वेन ब्रह्मपदस्य कार्यब्रह्मपरत्वेऽपि क्षत्यभावात्। वैषम्यादिति । 'ब्रह्म तत्वं तपो वेद' इति कोशादिना ब्रह्मशब्दस्य शुद्धात्मनि रूढे: सत्त्वाद्यागिकबृंहितार्थकत्वमयुक्तमित्यपि बोध्यम्। अस्य महिमानमिति। 'जुष्ट यदा पश्य- त्यन्यमीश'मित्यादिः। देहेन्द्रियेत्यादि। जुटटं संसारिभिः सेव्यमानं अस्य ईशस्य महिमानं एतद्घिष्ठानक- त्वेनैतत्सत्तया लब्घसत्ताकत्वादियुक्तं पश्यति मिथ्यात्वादियुक्तं पश्यतीति यावत्। ईशस्वरूपं च ततोऽन्यद्विलक्षणं सत्यत्वाधयुपलक्षितं पश्यति यः स वीतशोक इत्यर्थः । औपाधिकभेद्मिति। 'ब्रह्मैव सन्नि'त्यादिना ब्रह्मतादा- रम्यापस्नस्यैव कर्तृत्वं प्रतीयते। तस्यच कर्मीभूतशुद्धे ब्रह्मभिन्नत्वमौपाधिकमसत्येवेति भावः। स्थानैक्येत्यादि। 'गावो नृपाश्च एकीभूता :; भ्रमरेण कीट एकीभूत' इति व्यवहारदर्शनादित्यर्थः । ननु 'गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रति देवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ती"त्यत्र एकीभावस्य भेदाभाव- रूपत्वे कलादावनन्वयः; तथाच कलादयः सत्सम्पत्युक्तक्रमेण प्रतिष्ठादिकं गता: सन्तः परेऽव्यये स्थानैक्य रूपैकीभावं प्राप्ताः, कर्माणि ज्ञानप्रयुक्तनिवृत्तिरूपैक्यं प्राप्तानि, अथवा-कला देवकर्माणि तादृशनिवृत्तिरूपैक्यं प्राप्तानि, विज्ञा- नमयस्तु भेदाभावरूपैक्यं प्राप्त इत्यर्थः । तथाच सकृदुच्चरितैकपदस्य नानार्थबोधकत्वमावृत्यैवेति वाक्यभेदः, त- ब्राह-व्रह्मैक्यमात्रेति। कलादिविज्ञानमयान्ताः परब्रह्मणि अभेदं प्राम्वन्तीत्येवार्थः। प्रतिष्ठादिगतकलादेः कला- अ. सि. १०६
Page 521
८४२ अद्वैतसिद्धिः । [परिच्छेद: २]
ल्पनापत्तिश्चति-वाच्यम्; श्रुत्यन्तरानुसारेण सप्तम्या अननुसरणीयत्वात्। न च 'परमं साम्य मुपैति परात्परं पुरुषमुपैती'ति पूर्वोत्तरवाक्यविरोध; तस्य प्रागेव निरासात्। तथान्तर्यामिप्रकर- णस्थं 'नान्योऽतोऽस्ति द्रष्टे'तिवाक्यं अक्षरप्रकरणस्थं 'नान्यदतोऽस्ति द्रष्टिति वाक्यं च ऐक्ये प्रमा- णम्। नचात इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्यान्यो द्रष्टा नास्तीत्युक्ते: स्वनियामकद्रष्टन्तरनि- षेध आयाति, न तु द्रष्टसामान्यनिषेधः, अस्मिन् प्रामे अयमेव सर्वनियामको नान्यः पुरुषोऽस्ती- त्यादावन्यशब्दस्य प्रस्तुतसदृशान्यपरतया व्युत्पन्नत्वात् समानमितरच्छ्यनेनेत्यत्र इतरशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वोक्तश्चेति-वाच्यम्; अनेन ह्वेतत्सवे वेदेति प्रतिज्ञातस्य एकविज्ञानेन सर्व- विज्ञानस्योपपादनार्थ अन्यत्वेन प्रतीतेन जीवेनाभेदबोधनात् अचेतनवर्गस्य अतोऽन्यदार्त नेति नेतीति निषेधाञ्च जीवव्रह्मामेद एव वाक्यप्रमेयः। दृष्टान्ते तु अभेदस्याविवक्षितत्वात् त्वदुक्तप्र- काराश्रयणे वाधकाभावात्। न चात्राप्यन्तर्यामिवाक्ये य आत्मनोऽन्तर: यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयतीति पूर्ववाक्येन एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तमि- त्युत्तरवाक्ये च विरोधः, तत्र परमात्मनोऽन्यं चेतनमङ्गीकृत्य तस्यार्तियुक्तत्वेनास्वातन्यस्यैवोक्ति- रिति-वाच्यम्; पूर्ववाक्यस्यौपाधिकभेदमात्रेणोपपत्तेः। उत्तरवाक्येन न चेतनान्तरस्यार्तियोगो विधीयते, किंतु 'एपोऽन्तर्यामी ते आत्मे'ति जीवस्वरूपभूतादन्तर्यामिणो व्यतिरिक्तं सर्व आर्त विनश्वरमिति वा मिथ्येति वा बोधनान्न विरोधशङ्का। अतएव-अक्षरवाक्येऽपि 'एतस्य वा अक्ष- रस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादिपूर्ववाक्येन विरोध-इत्यपास्तम्। किंच द्वितीयाद्वै भयं भवतीति भेदस्य भयहेतुत्वेन निन्दितत्वादप्यभेद एवोपनिपद्गम्यः । नच- अस्य विरोधिनः समानात् भयं भवतीत्येवार्थः, लोके तादृशादेव भयं भवतीति लोकसिद्धानुवा- दित्वात् 'पूर्वत्र तस्मादेकाकी विभेति' उत्तरत्र 'तस्मादेकाकी न रमत' इति श्रवणाच्चेति-वाच्यम्; यन्मदन्यन्नास्ति कस्मान्न विभेमीति तत एवास्य भयं वीयायेति श्रुतेः। सामान्यतो द्वितीयमात्रदर्शन- स्यैव भयहेतुत्वात् विशेषकल्पनायोगात् एकाकी विभेतीति पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्नि- मित्तभयसंभवात् एकाकी विभेतीत्युक्तम्। उत्तरवाक्ये तस्मादेकाकी न रमत इत्यत्र इष्टसंयोगज- न्यरतेरेकाकिन्यभावात् एकाकिनो रतिर्नास्तीत्युक्तम्। ततश्चातत्त्वज्ञविपयोक्तवाक्यानुसारेण तत्त्व- ज्विषयमध्यवाक्यस्य स्वार्थसमर्पणेनाप्युपयुक्तत्वात् तद्विरोध्यर्थपरत्वायोगात् एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवतीति भेदनिन्दयाप्यभेदसिद्धिः । नन्र-एतस्मिन्निति श्रवणात् स्वगतभेदनिषेधोऽयम्, न भदमात्रनिषेध इति-शङ्क्म: अल्पार्थकारशब्दस्वारस्ादप्यर्थकोत्पद-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। धर्वच्छिन्नसद्रूपेण पूर्व स्थितस्य ज्ञानोत्तरं शुद्धसद्रपैक्येनावस्थानादिति भावः। निपेधाच्चेति। आरतशब्दस्य मिथ्या- थंकत्वेन निषेधकत्वम्। आर्तियुक्तत्वेन दुःखप्रयुक्तत्वेन। आर्तियोग: दुःखयोगः। विनश्वरमिति। 'यस्यो- भयं हविरार्तिमार्च्छे'दित्यादो नाशारथकत्वदष्टेरित्यादिः। मिथ्येति वेति। अत इत्यस्य अनुपङ्गेण अतो ब्रह्मणो विना- शीत्यर्थलाभेन ब्रह्मणोSखण्डाकारवृत्त्यभिव्यक्तस्यैव ब्रह्मान्यसर्वनाशकत्वात् ज्ञाननिवर्त्यत्वरूपमिथ्यात्वलाभः। सामा- न्यत इति। ननु द्वितीयाभावस्य भयाभावप्रयोजकत्वं नव युक्तम्, द्वितीयाभावस्यैव द्वितीयत्वादिति-चेत्; भ्रान्तोऽसि; नहि यन् मदन्यत् नाम्तीत्यादो द्वितीयाभावस्य भयाभावप्रयोजकत्वमुच्यते, किंतु भयहेतुत्वेन यद्यत् प्रमाणसिद्धं, तस्य, कस्मादित्यनेनाक्षेपे कृते तत्र हेतुरनात्ममिध्यात्वं यन्मदन्यत् नाम्तीत्यनेनोक्तम्। अधिकरणं विना निषेधापर्यवसानेन यत्र यत्र मदन्यत् प्रसक्तं, तत्र तन्नाम्तीत्यर्थात्। तथाच द्वितीयमात्रदर्शनस्यैव भयहेतुत्वादित्यत्र द्वितीयस्य विरोधिसमानतदितररूपस्य सत्यत्वेन ज्ञायमानस्यव प्रमाणसिद्धं भयहेतुत्वमित्यर्थः। एतेन-द्वितीयसा- मान्यस्य भयहेनुत्वे तत्वज्ञानादेरपि भयहेनुता स्यादिनि-अपास्तम्। नच-एवं 'द्वितीयाद्वै भय'मित्यस्य भय- हेतुत्वेन मानसिद्धस्यैवानुवादात् द्वितीयसामान्यनिन्दापरत्वं न स्यादिति प्रकृतानुपयोग इति-वाच्यम्; द्विती- यपदस्यात्मभिन्नार्थकतयात्मभिन्नादेव भयं, नत्वात्मन इति भयहेतोरात्मभेदोक्त्या भेदनिन्दाद्वारा अभेदस्तुत्या प्रकृतोपयोगात् । विशेषकल्पनायोगात् विरोधिनः समानात् भयमित्यर्थकल्पनाया अयोगात्। बिभेतीत्यु कमिति । एकाकी विरोधिसमानहीनोऽपि ब्रिभेत्येव । सत्यत्वेन ज्ञायमानाविद्यातन्मूलकचिन्तादिसंभवात् । यदा तु मदन्यत् नाम्तीति निश्चितं तदा न बिभेतीत्यन्वयव्यतिरेकयोज्ञीपनायोक्तमिति भावः। नास्तीत्यु- कमिति । मदन्यत नास्तीनि निश्चयस्याभाचे एकाक्यपि न रमते दति ज्ञापनायेति शेपः। अतएव स
Page 522
[अहं ब्रह्मास्मी० कथनम्] गौडब्रह्मानन्दीयुता। ८४३
स्वारस्यात् पतस्य प्रतियोगित्वेनानुल्लेखाच्च भेदमात्रनिषेधपरतया तद्विशेषनिषेधपरत्वकल्पना- योगात्। एवं "एको देवः सर्वभूतेषु गूढ" इत्यादिश्रुतिरप्यत्रैक्ये प्रमाणम्। नच-अन्तर्याम्यैक्य- परेयं श्रुतिः, "यतो वा इमानि भूतानि जायन्ते" इत्यादाविव भूतशब्दस्य चेतनपरत्वादिति- वाच्यम्; दृष्टान्तासंप्रतिपत्तेः, चेतनस्य जायमानत्वाद्ययोगात्, भूतहिंसानिषेधवाक्य इव चेत- नाधिष्ठितप्राणशरीरादेरेव भूतशब्दवाच्यत्वात् । अत एव 'एक एव हि भूतात्मा भूते भूते व्यव- स्थितः ।' इत्यादिस्मृतिरपि। एवं 'यावन्मोहं तु भेद: स्यात् जीवस्य च परस्य च। ततः परं न भेदो- डस्ति भेदहेतोरभावतः ॥ विभेदजनकेSज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥' इत्यादिस्मृत्या भेदस्याविद्यकत्वप्रतीतेरभेद एव तात्विक इति गम्यते। नचात्र भेद- शब्दो मित्रभेद इत्यादाविव वैमत्यार्थ; तथा सति लक्षणापत्तेः, अन्योन्याभावादेरेव मुख्यत्वात्, श्रुतार्थत्यागस्यान्याय्यत्वात्। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षत्रेपु भारत । इत्यादिस्मृतिरप्यत्र मानम्। नच-क्षेत्रज्ञं सर्वजं मां सर्वक्षेत्रेषु विद्धीत्यर्थः। 'महाभूतान्यहङ्गार' इत्यादयुक्त्वा एतत्क्षेत्र समासेन सविकारमुदाहृतम् इत्यनेन 'यस्य पृथिवी शरीर'मित्यादिश्रुत्येश्वरशरीरतयोक्तं चेतनाचेतनात्मकं सर्वे क्षेत्रमित्युक्तत्वादिति-वाच्यम्; सर्वनियामकतया सकलक्षेत्रसंबन्धस्य प्रागेव सिद्धे: पौनरु- कत्यापत्तेः, तत्तत्क्षेत्राधिष्ठातृत्वेन क्षंत्रक्षपदवाच्यजीवाभेदपरत्वस्यैवोचितत्वात्। अत एव 'क्षेत्राणि- च शरीराणि बीजानि च शुभाशुभे। श्रुतानि वेत्ति योगात्मा ततः क्षेत्रज्ञ उच्यते। प्रकृतेश्च विका- राणां द्रष्टारमगुणात्मकम्। क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंतृतम् I' इत्यादिस्मृती क्षेत्रज्ञशब्दस्य सर्वान्तर्यामिसर्वज्षपरत्वेऽपि प्रकृते तदसंभवः जीवे सुप्रसिद्धत्वाच्च। नच शास्त्रस्था वेति न्याय: तस्य एकतराशास्त्रीयविषयत्वात्। एवमन्यान्यपि वाक्यानि यथासंभवमैक्ये योज्यानि। तस्मादा- गम ऐक्ये मानम्। इत्यद्वैतसिद्धी अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्।।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। द्वितीयमैच्छदित्यादिना सृष्टिमुकत्वा 'आत्मेत्येवोपासीते त्याढिनात्मनो द्विनीयशन्यस्य जञेयत्वमुक्त्वा 'तदेतत् प्रेय' इत्यादिनात्मभिन्नमिथ्यात्वनिश्चयपूर्वकात्मज्ञानान् सुतरां रमत इति सूचितमिति भावः। अल्पार्थकेत्यादि। अल्पमपि अन्तरं भेदं कुरुते जानानि चंत्, तदा तस्य भयमित्यनेन भेदसामान्यनिन्देति भावः । एतस्य एतत्पदार्थस्य। अनुलेखादिति। नच-पदन्यायेनोपस्थित एतत्पदार्थ एव प्रतियोगीति-वाच्यम्; 'समा- नमितरच्छेनेने'त्यादावपि श्येनेतरस्य सर्वस्य ग्रहणापत्तेः। अथ निराकाङ्काणां ग्रहणायोगादितरस्यव साकाङ्कस्य ग्रहणम्, तदा प्रकृतेऽपि 'ब्रह्मविदान्नोति पर मित्यादिना अद्वितीयात्मनो विहितत्वेन तत्स्तुतये द्वितीयमालनिन्दाया आकाद्वितत्वेन द्वितीयमालस्यव प्रतियोगित्वम्। किंचारादिपदस्वारस्यविरुद्धमेतत्पदार्थप्रनियोगित्वं त्यक्त्व्रा पदन्याये- नैवोपस्थितपञ्चकोशानामेव अ्रहण युक्तम्, अन्यथातिसन्निहितस्यारपदार्थस्यैव प्रतियोगित्वापत्तेः। नहि पदन्यायेन स्ववाक्योपस्थितस्यैव ग्रहणं युक्त्तम्; 'पढ़े जुहोती'त्यत्र एकहायन्यश्रवणात् 'एकहायन्या सोमं कीणाती'नि पूर्ववाक्य एव तच्छरवणात्। अन्तर्याम्यक्यपरा अन्तर्यामी न नानेत्येवंपरा, नतु चेतनो नाना नेत्येवंपरा। चेतनाधिष्ठि- तेति। चित्तादात्म्यापन्नेत्यथः । तथाच तादृशभृतस्याधारतया निर्देशादेकदेवशव्दितशुद्धात्मभेदेपि शुद्धात्मा न नानेत्येवंपरत्वमव्याहतम्; 'केवलो निर्गुण' इति वाक्यशेषात्। लक्षणापत्तरिति। वमत्यत्वं विरुद्धमतित्वं, तद- पेक्षया लघुत्वेनान्योन्याभावत्वरूपाखण्डधर्मस्यैव भिदिधातुशक्यतावच्छेदकत्वमिति भावः। अन्योन्याभावादे रिति। 'घटवान् पटवतो भिन्न' इत्यादौ विलक्षणाथकभिदेः घटवत्वादिकं शक्यतावच्छेदकम्। पञ्चम्या व्यावृत्तत्व- मर्थः । तथाच 'पटवद्यावृत्तघटवानित्यर्थ'इत्याशयेनादिपदमुक्तम्। अन्यथा वैमत्य इव द्वैधीभावादावपि रूढ्यापत्ते रिति भावः । प्रागेव पूर्वाध्यायादौ 'सर्वत्रगमचिन्त्यं चे' त्यादिवाक्यैरेव। तत्तत्क्षेत्रेति। शरीररूपक्षेत्रेत्यर्थः । 'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।' इति पूर्ववाक्येन शरीर- वेदितृरूपक्षेत्रज्ञस्योक्तत्वात्। तमपहाय सर्वक्षेत्रज्ञे लक्षणा न युक्तेति भावः। परत्वेऽपीत्यपिनोक्तवाक्यस्यापि जीवस्य गुणसंवृतरूपेणैव कर्तृत्वादिसंसारः। गुणातीतरूपेण तु ब्रह्मैक्यमित्यत्रैव तात्पर्यमिति सूचितम्। उक्तवाक्ये सर्वक्षे- ऋ्रज्ञत्वेनेश एव क्षेत्रज्ञ उक्तः; बहुधनदत्वेन महाराज एव धनद इत्युक्तवात्। तथाच कुबेरे धनदपदरूढिवत् 'क्षेत्रज्ञ आत्मा पुरुष' इत्यादिकोशात् भरिप्रयोगाच्च शव्दानां जीवे क्षेत्रज्ञपदस्य रूढिरव्याहतेत्याशयेनाह-जीवे सुप्रसिद्धत्वाश्चेति। शास्त्रस्थावेति । यववराहादिशब्दानां शास्त्रस्थेपु आर्यपु प्रसिद्धो दीर्घशूकसूकारादिरेवार्थों आ्रह्य:, नतु म्लेच्छप्रसिद्ध: प्रियङ्गुकाकादिः; शब्दार्थविपववपालनस्यार्यनिमित्तकत्वात्। आर्या हि वैदिका वेदार्था-
Page 523
८४४ अद्वैतसिद्धिः । [ परिच्छेद: २]
अथ जीवब्रह्माभेदानुमानम्। एवमनुमानमपि तत्र मानम्। जीवाः, परमात्मनस्तत्वतो न भिद्यन्ते, आत्मत्वात्, परमात्मवत्। ननु-आत्मत्वं जातिरत्र हेतुः, तथाचाभेदे हेतूच्छित्तिरेव प्रतिकूलतर्क इति-चेन्न; तत्वतोSभेदेऽपि व्यावहारिकभेदेनैव व्यावहारिकजातेरनुच्छेदोपपत्तेः । शातृत्वादित्यप्यत्र हेतु; जीवे उपधेये अन्तःकरणोपहितवृत्तेस्तस्यासिद्धेरभावात् । व्यवहारे स्वमिन्नज्ञानानपेक्षत्वं हेतुः। तवापि जीवस्य स्वाभिन्ननित्यज्ञानस्यावाध्यव्यवहारविषयत्वात्। अबाध्यत्वमप्यत्र हेतुः। नच जडे व्यभिचारः; तत्र बाध्यत्वेन हेतोरभावात्, तात्त्विकभेदस्य सर्वत्रासत्वेन व्यभिचारानवकाशात्। नच-एवं व्यावहा- रिकभेदव्यतिरेकोऽप्येवमेव साध्यतां जीवपरमात्मनोरिति-वाच्यम्; तत्र प्रत्यक्षविरोधस्यैव बाध- कत्वात्, श्रुत्यनुग्रहाच्चाभाससाम्यापादनाप्रयोजकत्वानवकाशात्। अतएव-विमता जीवाश्चैत्रात् तत्त्वतो न भिद्यन्ते, जीवत्वाञ्चैत्रवदिति जीवैक्ये, विमता जीवा वस्तुतो ब्रह्मणो न भिद्यन्ते, वस्तु- त्वात्, ब्रह्मवदिति ब्रह्मजीवैक्ये च यदनुमानं, तत्र व्यवहारतोऽपि न भिद्यन्त इत्यप्येवं साध्यता- मित्याभाससाम्यम्-अपास्तम् । एवं विमतानि शरीराणि, चैत्राघिष्टितानि, शरीरत्वात्, संम- तवत्। नच-पतावता न जीवैक्यसिद्धिः, चैत्राधिष्ठितत्वेऽपि अन्याधिष्ठितत्वसंभवात्, चैत्रमात्रा- धिष्टितत्वे तु अन्तर्याम्यधिष्टितत्वेन दृष्टान्ते साध्यवैकल्यापत्तिरिति-वाच्यम्; चैत्रमात्रसंसार्यधि- ष्टितत्वस्य साध्यत्वात्। चैत्रमात्रभोगायतनानीति वा साध्यम्। नच-भोक्तृत्वमन्तःकरणवि- शिष्टस्य, तञ्च प्रतिशरीरं भिन्नम्, यञ्चैकं शुद्धचैतन्यं तन्न भोकिति वाध इति-वाच्यम; भोक्तृत्वस्य विशिष्टवृत्तित्वेपि विशेष्यवृत्तित्वानपायात्।नचैवं विमतानि शरीराणि चैत्रमनसैव युक्तानीत्याभास- साम्यम्; मनसोऽप्यैक्ये व्यवस्थाया: सर्वथानुपपत्तः, श्रुत्यनुप्रहाननुग्रहाभ्यां विशषाच्च, दृष्टिसृप्टि- पक्षे तद्भ्युपगमाञ्च। आत्मा, द्रव्यत्वापरजात्या नाना न, विभुत्वात् आकाशवत्। नच-प्रतिक- ल्पमाकाशस्य भेदेन साध्यवैकल्यं परिच्छिन्नत्वेन साधनवैकल्यंचात्मत्वस्य परमाणुत्वादिवदजाति- त्वेऽपि आत्मभेदसिद्या चार्थान्तरमिति-वाच्यम्; आत्मत्वाधिकरणं, द्रव्यत्वापरजात्येककाले नाना न, समानकालीनमूरतमात्रसंयुक्तत्वात्, गगनवदित्यत्र तात्पर्यात् । पक्षविशेषणमहिस्ना च नार्थान्तरम्। विमतो भेदः, मिथ्या, एकस्यां दृशि कल्पितो वा, भेदत्वात्, दृश्यत्वाद्वा, चन्द्रभे- दवत्, एकस्यां दृशि क्षणिकवादिकल्पितभेदवद्वा। मिथ्यात्वं प्रागुक्तमेव। नच कल्पितसाधारणभे- दत्वासिद्धि :; भेदे अकल्पितत्वस्यैवासिद्धः। अतएव-चन्द्रस्य कल्पितद्वितीयचन्द्रात् भेदस्य सत्य
गोडव्रह्मानन्दी (लघुचन्द्रिका)। विष्ठवमिच्छन्ति, म्लेच्छास्तु लोकिकव्यवहारमात्रमिति 'शास्त्रस्था वा तञ्निमित्तत्वादि'ति सूत्रार्थः। तर्करित्यादि- अहं ब्रह्मेति निर्णयः॥ इति लघुचन्द्रिकायां अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्॥
शङकते-आत्मत्वमिति। स्वाभिन्ननित्यक्ञानस्य स्वाभिन्ं साक्षिरूप नित्यज्ञानं यस्य तादृशस्य। परमते सति धर्मिण्युत्पत्तिनाशवान् यो धर्मस्तदन्यधर्मस्य धर्म्यभेदो भेदप्रतिनिधिना विशेषेण धर्मधर्मिभावादिरिति स्वीकारात् साक्षिजीवयोरभेदः । बाध्यत्वेन बाध्यत्वसंशयेन। अभावात् अनिश्चयात्। ननु व्यभिचारसन्दहः प्रतिबन्ध- कोऽस्तु, तत्राह-तातत्विकभदस्येति। असंभवेन अनिश्चयेन। तथाच जडेपु साध्यसन्देहेन पक्षसमत्वम्। अनुग्रहादिति। एकेनात्मना सर्वव्यवहारोपपत्या तन्नानात्चे गौरवाच्चति शेपः। अपास्तमिति। भेदस्य प्रातीति- कत्वे व्यावहारिकभेदस्य तात्विकाभावे व्यावहारिकाभावे वा इष्टापत्तिरित्यपि बोध्यम्। चैत्राधिष्ठितानि चैत्रात्म- स्वरूपाधिष्टितानि । चैत्रात्मस्वरूपान्यत् यत् संसारिस्वरूपं तदनधिष्टितत्वमेवोक्तसाध्यं वाच्यम्। तथाच स्वमते प्रतियोग्यप्रसिद्धेराह-चैत्रमात्रभोगेत्यादि। चैत्रीयाज्ञानकार्यदुःखाद्यवच्छेदकानि, चैत्रस्वरूपगतदुःखाद्यवच्छेदका- नीति वार्थः। सर्वथानुपपत्तरिति। एकस्य सुषुध्यादिकाले सर्वेषां तदापत्तेः । दृष्टिसृष्टीति। तत्पक्षे स्वप्वदेक- मनोविलासत्वेन सर्वव्यवहारस्य वकुं शक्यत्वात्। द्रव्यत्वापरजात्या नाना न सवसमानाधिकरणा या द्रव्यत्व- न्यृनवृत्तिजातिः, तदाश्रयप्रनियोगिकभेदवत् यत तदन्यः । सवंभेदः। आत्मत्वाधिकरणं आत्मत्वजातिमान्। एककाल इति। एकाश्रयस्य समानकालीनं तद्भिन्नं यद्यत् तदन्यदिति साध्यम्। समानकालीनमूर्तमात्रेति। स्वसमानकाली नयावन्मूर्नेत्यर्थः । कल्पान्तरीयमूतमंयोगस्याकाशे विरहान कालीनान्तम्। भेदे सर्वभेंदपु। असिद्धे- रिति। प्रातीनिकव्यावहारिकयोरेकजातिमत्वमित्युक्तम्। अभेद: अभेदस्वरूपम्। तात्विकत्वे तार्विकतवस्वीकारे।
Page 524
गौडब्रह्मानन्दीयुता। ८४५
त्वेन दष्टान्ते साध्यवैकल्यम्, मुक्ते: संसारात् ब्रह्मणो अनृतात् भेदे च व्यमिचार इति-निरस्तम्; न चैवममेदो मिथ्या अभेदत्वात् देहात्माभेदवदित्यादि सुसाधम्; शून्यवादापत्तेरुक्तत्वात्। एवं विमता भेदधीः, मिथ्या, भेदधीत्वाच्चन्द्रभेदधीवत्। नच ब्रह्मानृतभेदप्रतीत्यादौ व्यभिचार; तासा- मपि पक्षसमत्वात्। आभाससाम्यस्य तात्विकत्वे प्रत्येतव्यत्वानुपपत्यैव निरासः। अत एव 'विमतं तात्विकस्वान्तर्भेदशून्यं महत्त्वतः। यदेवं तत्तथा यद्ा खं तथेदं यतस्तथा ॥' इत्यत्र गगनस्य सा- यवत्वेन न साध्यवैकल्यम्; स्वान्तःपदेन स्वावयवातिरिक्तस्योक्त। एवं संवित्, स्वान्तर्गणिकस्वा- भाविकभेदहीना, उपाधिमन्तरेणाविभाव्यमानभेदत्वात्, गगनवत्, नच साध्यवैकल्यम्; नैयायि कदिशा दृष्टान्तत्वोक्तेः। नच-इच्छादेरपि घटपटादयुपाधिभेदेन विभाव्यमानभेदतया व्यभिचारस्ते, प्विति-वाच्यम्; इच्छादीनामेकान्तःकरणपरिणामत्वेन तत्रापि साध्यसत्वात्। विमतो अव्या- प्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताको भेदः, स्वसमानाधिकरणात्यन्ताभावप्रतियोगी, भेदत्वात्- संयुक्तभेदवत्, विमतो भेदः, केवलान्वय्यत्यन्ताभावप्रतियोगी, पदार्थत्वात्, नित्यद्रव्यवत्, स्वरू- पेणात्यन्ताभावप्रतियोगित्वे यथा न तुच्छत्वं पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वे ब्रह्मवत् सद्रूपतोपपत्या न यथार्थान्तरं, तत् प्रागुक्तम्। अन्योन्याभावत्वं, स्वसमानाधिकरणात्यन्ताभावप्र तियोगिवृत्ति, त्रैकालिकाभाववृत्तित्वे सति अभावत्वसाक्षाद्याप्यत्वात्, अत्यन्ताभावत्ववदित्यनु- मानं पूर्वोक्तसंयुक्तप्रतियोगिकभेदरूपद्टप्टान्तसिद्धर्थम्। नच शुक्ती शुक्तिभेदस्यारोपितस्य सत्वेन सिद्धसाधनम्; असदन्यथाख्यातिवादिनस्तवानङ्गीकृतत्वेन तस्य साध्यत्वात्। नच त्रैकालिकत्वे मिथ्यात्वायोगः; मायाचित्संबन्धस्य कालत्वेन सर्वकालस्थितेरतद्विरोधित्वात्। नचाव्याप्यवृत्ति- तया संयोगादिवत् समानाधिकरणात्यन्ताभावप्रतियोगित्वेनार्थान्तरम्; पक्षविशेषणमहिस्ता अव्या- व्यवृत्तित्वस्यासंभवेन तदयोगात्। अनुसन्धानाद्यव्यवस्थादिकं प्रागेव निराकृतम्। अप्रयोजकत्वा-
गोडब्रह्मानन्दी (लघुचन्द्रिका)। प्रत्येतव्यत्वानुपपत्त्या दृश्यत्वानुपपत्या आभाससाम्यस्य निरासः। महत्त्वतः उक्तविभुत्वात्। यद्वत् खं यथा खम्। तथेदं तथा विमतम्। सावयवत्वेनेत्यादि। सातयवत्वेन यत् साध्यवैकल्यं, तन्नेत्यर्थः। स्वान्तःपदेन स्वावयवस्येव वाच्यत्वेन साध्यवैकल्यमिति भावः । स्वान्तःपदं न स्वावयवार्थकम्, किंतु तदन्यार्थकमित्याशये- नाह-स्वान्तरिति। स्वावयवातिरिक्तस्य द्रव्यत्वव्याप्यजात्येत्यस्य पूर्वाक्तानुमान एवैतस्य तात्पर्यमिति भावः। एकयेव आकाशात्मादिव्यत्तया स्वकालीनयावद्यवहारोपपत्ती तत्काले तन्नानात्वकल्पने गौरवमिति तर्कः । संवित् चित्। स्वान्तर्गणिकस्वाभाविकभेदहीनेति। संविदनुयोगिप्रतियोगिकभेद आकाशानुयोगिप्रतियोगिकभेद- श्रेत्यन्यतरस्य तात्विकत्वेनाभाववतीत्यर्थः । उपाधिमित्यादि । प्रतियोग्यनुयोगिभिन्नधर्मप्रत्यक्षमन्तरेणाजायमान-
चारात् भिन्नान्तम्। यद्यदनुयोगिप्रतियोगिभिन्नधर्मप्रत्यक्षमन्तरेणाजायमानप्रत्यक्षविषययन्वेदवत, तत् तदनुयोगि- प्रंतियोगिकतादृशभेदस्य तास्विकत्वेनाभाववढिति सामान्यतो व्याप्तिर्बोध्या। अथवा-अजायमानान्तं न हेतौ प्रविष्टम, किंतु तर्कज्ञापनार्थम्। व्याप्यवृत्तित्वेन उक्तान्यतरस्याभाववतीति वा साध्यम्। साध्यवैकल्यं प्रतिकल्पं आकाशव्यक्तिभेदादाकाशस्य तात्विकत्वेनोक्तान्यतरवत्वम्। विभाव्यमानमेदतया विभाव्यमान इच्छाधन्तरात् भेदो यत्र तादृशतया। तथाच 'घटेच्छा न पटेच्छे'त्यादिव्यवहारस्यौपाधिकभेदविषय कत्वादिच्छाव्य क्िर्जगत्यामेकैंव स्यात्। एवं सुखादिव्यक्तिरपीति भावः । एकान्त:करणपरिणामत्वेन नानेच्छादिरूपेण परिणतकान्तःकरणव्यक्ति- रूपत्वेन। एकैकमनोव्यक्तिर्घटेच्छापटेच्छादिरूपनानावस्थाः प्राप्नोतीति संकुचितप्रसारितावस्थाभेदेनेव तत्तदवस्थारू पोपाधिमेदेनैव नाना। न स्वभावत इति भावः। नानामनःपरिणामानां तु विनाप्युपाधिं विभाव्यमानभेदखवात् न तेपु व्यभिचारः। अव्याप्यवृत्तीत्यादि । जीवत्वेशत्वादेर्मन्मते व्याप्यवृत्तित्वाभावेऽपि परमते व्याप्यवृत्तित्वात् जीवेशभेदोऽव्याप्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेन पक्षः। ननु-प्रतियोगितावच्छेदकरूपात्यन्ताभावेन सह भेदस्य सामानाधिकरण्यं बाधितमिति-चेत्, सत्यम्; तत एव स्वप्रतियोगितावच्छेदकभिन्नस्य स्वात्यन्ताभावस्य सामानाधिकरण्यं भेदे सिध्यति। ननु मूलाआवच्छिन्रवृक्षयोर्भेदात् मूलावच्छिन्नसंयोगवन्जेदो नोक्तसंयोगरूपेण स्वात्यन्ताभावेन समानाधिकरणः, तथाच साध्यवैकल्यमत आह-अन्योन्याभावत्वमित्यादि। दष्टान्तसिद्धर्थ दष्टान्ते साध्यसिष्चर्थम्। सत्वेन विध्यमानत्वेन। असदन्यथाख्यातिवादिन: असद्विपयकभ्रमवादिनः। तव माध्वस्य। अथवा-असत्ख्यातिवादिनस्तव माध्वस्य व्यधिकरणप्रकारकख्याति रूपान्यथाख्यातिवादिनस्तव तार्किकस्य।
Page 525
८४६ अद्वैतसिद्धिः । [परिच्छेद: २ ] भाससाम्यसत्प्रतिपक्षोपाध्यादि पूर्वोक्तप्रपश्चमिथ्यात्वानुमानवन्निराकरणीयम्। एवमात्मत्वमेक त्वव्याप्यम् आत्ममात्रवृत्तित्वात् चैत्रत्ववदित्याद्यपि द्रष्टव्यम्॥ इत्यद्वैतसिद्धौ जीवब्रह्माभे- दानुमानम्॥
अथांशत्वेनाप्यैक्यसिद्धिः । 'पादोऽस्य विश्वा भूतानी'ति 'ममैवांशो जीवलोके जीवभूतः सनातनः।' इति स्मृतौ चांशत्वव्य- पदेशादपि जीवव्रह्माभेदसिद्धिः।यद्यपिं ब्रह्म प्रति जीवस्यांशत्वं न तावदारम्भकत्वम्; ब्रह्मणोऽना- दित्वात्, नापि खण्डत्वम् ; अच्छेद्यत्वात्; नापि समुदायित्वम्; समुदायस्य समुदाय्यनन्यत्वेन व्य- वहारदशायामपि संसार्यन्यशुद्धब्रह्मभावापातात्, नापि भिन्नाभिन्नद्रव्यत्वम्; अनङ्गीकारात्, नापि घटं प्रति खण्डघटस्येव प्रदेशत्वम्; निप्प्रदेशव्रह्म प्रति कल्पनां विना तदयोगात्, तथापि घटा- काशस्य महाकाशं प्रतीव कल्पितप्रदेशत्वरूपमंशत्वं जीवस्यावच्छेदपक्षे संभवति। स्वतो निरंशेऽपि औपाधिकांशो यथा युज्यते, तथोक्तं पुरस्तात्। नतु सदृशत्वे ततो न्यूनत्वम् ; स्थूलपटं प्रति सूक्ष्म- पटस्याप्यंशत्वापत्तेः, वस्त्वेकदेशे मुख्यस्यांशशब्दस्य स्वतो निरंशेऽपि कल्पितैकदेशे प्रयोगस्यार्था- न्तरे प्रयोगकल्पनापेक्षया ऽभयर्हितत्वात्। 'अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधी- यत एक'इति सूत्रे 'सोऽन्वेष्टव्यः स विजिज्ञासितव्य एतमेवं विदित्वा मुनिर्भवति य आत्मनि तिष्ठ'- न्नित्या दिभेदव्यपदेशस्य 'ब्रह्म दासा ब्रह्म दाशा ब्रह्मेमे कितवा उते'त्याथर्वणमन्त्रे अभेदव्यपदेशस्य चोदाहतत्वाच्चोक्तार्थपरिग्रहस्योचितत्वात्। आत्यन्तिक भेदगर्भार्थान्तरस्वीकारे चैतत्सूत्रविरोधा- पत्तेः, कुत्रचिदन्यत्र प्रयोगमात्रेण सर्वत्रतत्कल्पने वहुविप्लवापत्तेश्च। अतपच ननु-जीवस्य शुद्ध- चैतन्यांशत्वं वा ईश्वरांशत्वं वा पादोऽस्येत्यनया श्रुत्या बोध्यम्, नाद्यःः पादोऽस्य विश्वा भूतानीति श्रुताविदंशव्देन सहस्रशीर्षत्वादिविशिष्टप्रकृतेश्वरस्य ममवांश इति स्मृतौ चेश्वरे प्रयुक्तास्मच्छब्दे- नेश्वरस्यैवोक्तेः। नान्त्य: त्वन्मते ईश्वरस्याप्युपहितत्वेन घटाकाशं प्रति करकाकाशस्येवेश्वरं प्रति जीवस्यांशत्वायोगात्। नच-गृहाकाश एव पुनर्घटेनेवेश्वरोपाधिनाS्वच्छिन्नमेव चैतन्यं पुनर्जी वोपाधिनावच्छिद्यत इति-वाच्यम्; तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात्, तस्मात्वन्मतेऽपि न मुख्यमंशत्वम्, नाप्योपाधिकं वक्तुं शक्यम्, अतो मदुक्तप्रकार एवादरणीय इति-निरस्तम्; अर्थान्तरपरिग्रहे विरोधस्योक्तत्वात्, श्रुतिस्मृतिगतसर्वनाम्ना सहस्रशीर्पत्वाद्युपलक्षित चैतन्यप- रामशादुक्तदृषणानवकाशाञ्च। तस्मात् "त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वश्चसि त्वं जातो भवसि विश्वतोमुखः सर्वाणि रूपाणि विचित्य धीर: नामानि गौडव्रह्मानन्दी (लघुचन्द्रिका)। अनङ्गीकृतत्वेन शुक्तो शुक्तिभेदस्यानङ्गीकृतत्वेन। तस्योकसाध्यस्य। साध्धत्वात् त्वां प्रत्यसिद्वत्वात्। त्वन्मते आरोपितस्यालीकत्वेन शुक्त्यादिदेश तदधिकरणत्वं न संभवतीति भावः । एकत्वव्याप्यमिति। स्वप्रतियोगिक- भेदवत्वं स्वसमानकालीनत्वं चेत्युभयसंबन्धेन यत् स्वाश्रयवत्वं, तच्च समवायश्चेत्युभयसंबन्धेन वनते यत् तदन्यदि- त्यर्थः । आद्योभयसंबन्धेन घटत्वाद्याश्रयवर्वं समवायश्चेत्युभयसंबन्धेन धटान्तरे वर्तते घटत्वम्। चैत्रत्वं तु न तथा; तत्समवायिशरीरद्वयस्यकदाभावात्। नच-घटत्वमिवात्मत्वमपि तथा, कल्पितस्यात्मभेदस्यात्मनि त्वयापि स्वीकारा- दिति-वाच्यम्; तास्विकभेदस्य निवेशात्। त्वया घटयोम्नात्विकभेदस्याप्रसिद्धप्रनियोगिकभेदस्य च स्वीकारात् त्वां प्रत्युक्तानुमानस्य निर्दोपतवात्। तर्करित्यादि-जीवव्रह्माभिदानुमा। इति लघुचन्द्रिकायां जीवब्रह्मा- मेदानुमानम्॥
भिन्नाभिन्नद्रव्यत्वं यद्रव्यीयतास्तिकभेदाभेदवत यद्रव्यं, तस्य तदंशः । प्रदेशत्वरूपमिति। यद्रव्यभिन्नाभिन्ं यङ्र्रव्यं, तस्य तत् प्रदेशः। घटाकाशं महाकाशं जीवाश्चिदिनि सामानाधिकरण्येन प्रत्ययाद्वच्छिन्ञानवच्छिस्नयोरा काशयोरिव चितोंऽशांशितेति भावः। ननु ममवांश इत्यादावंशशब्दस्य गौण्या वृत्या बोध्यतावच्छेदकमुक्तं, न त्वंशपदशक्यतावच्छेदकम्, अतो नोक्तार्पात्तः, तव्राह-वस्विति। एकदेशे उक्तप्रदेशे। कल्पितैकदेश इति। कल्पितरूप्यादौ रूप्यादिशब्दस्येव जीवे चिद्रपव्रह्मणः कल्पितांशेऽप्यंशशबदस्य प्रयोगो युक्तः। सुतरां मन्मते अंश- मात्रस्य कल्पितत्वादिति भावः । अर्थान्तरे गौण्या वृत्या लभ्ये उक्तार्थे। सूत्रविरोधेति। 'सोऽन्वेष्टव्य' इत्यादि-
Page 526
गौडब्रह्मानन्दीयुता। ८४७
कृत्वाभिवदन्यदास्ते' इत्यादिश्रुत्या जीवव्रह्माभेदे प्रमितेऽपि मन्तृमन्तव्यत्वादिभेदव्यपदेशनिर्वाहार्थ काल्पनिकांशत्वस्य श्रुतिस्मृतिव्याहतत्वेन तद्वलादप्यभेदोऽवगम्यत इति सिद्धम् ।। इत्यद्वैतसिद्धौ अंशत्वेनाप्यैक्यसिद्धि: ।
अथ जीवब्रह्माभेदनिरूपणम्। तथा जीवव्रह्मणोर्मुखप्रतिमुखवत् विम्वप्रतिबिम्वरूपत्वादप्यभेदोऽवगन्तव्यः। ननु-दष्टान्ते नाभेद: संप्रतिपन्नः; चैत्रतच्छाये भिन्ने इतिवत् चैत्रतत्प्रतिविम्बे भिन्ने इत्येव पार्श्वस्थितेन ग्रहणात्, स्वेनापि स्वकरतत्प्रतिबिम्बे भिन्ने इति ग्रहणाच्चति-चेन्न; आपाततो भेदप्रतीतावपि सयुक्तिक- प्रत्यक्षेण बिम्बप्रतिविम्बयोरेक्यसिद्धा दृष्टान्तत्वोपपत्तेः । यथा लक्षणापरिज्ञाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रो यत्स्वलक्षणकत्वेन प्रतिपन्नः ततो गृहस्थ तथा भाति तस्मिन् चैत्र एवायमिति घीः, तथा ग्रीवास्थं मुखं यत्स्वलक्षणकं प्रतिपन्नं दर्पणस्थमपि तथेत्यवधार्य तथैवेदं मुखमिति स पवायं कर इति च स्वपरसाधारणप्रतीतिरप्यनुभवसिद्धा। नच-किंचित्स्वच्छताम्रादौ मुखे छायामात्रे प्रतीतेऽपि संस्थानविशेपाप्रतीत्या प्रत्यभिज्ञाया असिद्धिरिति-वाच्यम; सर्वत्राप्रतीतावपि निर्म- लदर्पणादावेव तत्सिद्या दृष्टान्तसिद्धेः। ननु-स्वनेत्रगोलकादो स्वस्याभिज्ञाविरहात् प्रत्यभिज्ञापि कथमिति-चेन्न; दर्पणाहृतचक्षूरश्मीनामग्रावच्छेदेन संबन्धात् स्वनेत्रगोलकादीनामभिश्ञायाः सन्निहितपूर्वसमय एव संभवात्। यन्तु-सूर्यपार्श्वस्थिते प्रतिसूर्ये प्रत्यभिज्ञाविरहादत्रापि प्रत्यभि- श्ञाविरहः-इति, तन्न; तत्रोपाधेरत्रेवानाकलनेनोपाधिकत्वानिर्णयात्। तथाच उपाधिनिबन्धन- त्वज्ञानं तल्लक्षकत्वज्ञानं चाभदसाक्षात्कारे सामग्री। तस्यां सत्यां दर्पणे मम मुखं लग्नमिति अनु- भवाभाव एवानुभवविरुद्धः । यन्तु-चत्रप्रतिबिम्बो दष्टो न चैत्रः, किंतु तेनानुमित इति विपरी- तानुभवविरोध :- इति, तन्न; वस्तुतोऽभेदे ज्ञातेऽपि उपाध्यवच्छिन्नो दष्टोऽनवच्छिन्नोऽनुमित इति प्रतीत्यविरोधात् शरद्रङ्गया वर्षतुगङ्गानुमानवत्। नच-एवं प्रतिमुखे प्रत्यअुखत्वादिना दृश्यमाने स्वमुखे तद्रुद्धिः स्यात्, वालानां च स्वप्नतिविम्बे वालान्तरभ्रमो न स्यादिति-वाच्यम्; तयोः स्व- लक्षणकत्वाज्ञाननिवन्धनत्वात्।अत एव कदाचित् प्रतिमुखेऽपि मम मुखमिति बुद्धिव्यपदेशौ। नचायं व्यवहारो भेदज्ञानपूर्वेकत्वेन मार्ग स्वपदव्यां स्वपदव्यवहारवत् गौण :; स्वलक्षणकत्वज्ञानदशायां भेद- ज्ञानस्यासत्कल्पत्वात्। ननु-अविवाद: स्यात् भेदसाक्षात्कारे, अन्यथा त्वयापि कस्य भ्रमत्वमुच्यते? नच भेदं भेदकं च साक्षात्कुर्वन् अभेदं साक्षात्कुर्वाणो दृष्ट इति-चेत्, श्वैत्यव्याप्यशङ्गत्वसाक्षा- त्कारे पीतसाक्षात्कारवत् उपाधिमाहात्म्यादभेदं साक्षात्कुर्वाणो भेदं साक्षात्करोतीत्यङ्गीक्रियते; अनुभवस्य दुरपह्नवत्वात्। नचवमुपादानस्य ऐक्याज्ञानस्य ऐक्यज्ञानेन निवृत्तेः भ्रमानुपपत्तिः, तन्निवर्तने उपाधिविरहस्यापि सहकारित्वात्। नच-एवं तज्ज्ञाने सति तन्न जानामीत्यननुभवेन तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्यानपेक्षस्यैव निवर्तकत्वमिति-वाच्यम्; न जानामीति व्यवहारप्रयोजकाज्ानांशनिवर्तनेऽपि भ्रमस्यानुभूयमानत्वेन तदुपादानांशस्य निवृत्ती जीवन्मुक्तौ प्रारब्धकर्मण इवोपाधेरेव प्रतिबन्धकतया तद्विरहापेक्षाया आवश्यकत्वात्। एतेन-भेदभ्रम-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नानाव्यपदेशादपि जीवो ब्रह्मणोंऽशः, न त्वत्यन्तभिन्नः। 'यतोऽन्यथापि तयोरेकत्वमादायापि ब्रह्मणो दाशकितवा- दिस्वरूपत्वमधीयत इत्युक्तसूत्रार्थविरोध इत्यर्थः । कुत्रचित् चैत्रो न मैत्रतुल्यबलः, किंतु तद्वलकिंचिदंशबल इत्यादौ। अन्यत्र गौणाथे। तर्कैरित्यादि-अंशित्वेनैक्यसाधनम्॥ इति लघुचन्द्रिकायां अंशित्वे- नैक्योपपत्ति:।
सन्निहितेति। संभवप्राचुर्येणोक्तम्। असन्निहितपूर्वसंभवेऽप्यभिज्ञायाः संस्कारद्वारा हेतुत्वसंभवाद्। उपाध्य- वच्छिन्न इति। दर्पणाद्युपाधिसंबन्धेन कल्पितेन विशिष्टस्य बिम्बस्यैव प्रतिबिम्बत्वात् तद्रूपेणैव दष्टत्वादिधीः । असत्क ल्पत्वात्। अभेदव्याप्यत्वलक्षणकत्वप्रमाया बाधितत्वात्। शर्वैत्यव्याप्यशङ्गत्वसाक्षात्कारे पीतमेदस्य तथ्ाप्यशङ्क- रवस्य च साक्षाकारे। पीतसाक्षात्कारवत् पीताभेदसाक्षात्कारवत्। अज्ञानांशेति।आवरणशकीत्यर्थः। उपादानां-
Page 527
८४८ अद्वैतसिद्धिः । [परिच्छेद: २]
स्यास्य मूलाविद्योपादानकत्वे व्यावहारिकत्वापत्तिः, अज्ञानानुपादानकत्वे अपसिद्धान्तः, बिम्ब- प्रतिबिम्बमेदस्य सत्यत्वापत्तिश्चेति-निरस्तम्: उक्तन्यायेनोपपत्तेव्यावहारिकत्वेSप्यनुपपत्त्यभा- वाञ्च । तयोरैक्ये अनुमानमपि प्रमाणम्। अत्र यद्यप्यत्यन्तसादृश्यं सव्येतरकरादौ व्यभिचारि; तथापि प्रतिबिम्बो बिम्बाभिन्नः तद्गतासाधारणधर्मवत्त्वात्, तद्विरुद्धधर्मानधिकरणत्वात्,बिभ्बाज- नकाजन्यत्वाच्च। नच द्वितीयहेतोरसिद्धि :; प्रत्यउुखत्वादिविरुद्धधर्मस्य उपाधिकृतत्वेन स्वाभावि- कविरुद्धधर्मानधिकरणत्वस्य सत्त्वात्। नच बिम्बानन्तरजाते प्रतिबिम्बे तृतीयहेतोरसिद्धि :; ऐक्य वादिनं प्रति बिम्बानन्तरत्वस्यैवासिद्धेः। ननु-पृथक्वार्यानुरोधेन परिवेषेन्द्रचापच्छायाप्रतिसूर्यादा- विवात्रापि पृथक्कारणं कल्पनीयम्, प्रतिबिम्बमपि हि छायाविशेषः, न हि भेरीघातादिकप्तहेत्वभावात् ध्वनावुपरतेऽपि श्रूयमाणः प्रतिध्वनिर्न शब्दान्तरमिति-चेन्न; प्रतिबिम्बस्य छायाविरोधिन्यालो- केऽपि संभवेन छायाविशेषत्वासिद्धेः, प्रतिध्वनेस्तु भिन्नकालत्वेन तन्भ्रेदस्य प्रकृतेऽनुपयोगात्, कार्यपार्थक्यसिद्धुत्तरकालकल्प्यकारणभेदस्य प्रथमं वक्तुमशक्त्वात्, कप्तहेतुभावेन कार्यस्यैव भावाञ्च, प्रत्यक्षस्य भेदाभेदयोः समत्वात्, युक्त्या अभेद एव प्रावल्या्च। अत एवोक्तं विवरणे- 'दर्पणादौ न मुखव्यक्त्यन्तरमस्ति; तज्जनकशून्यत्वात्, शशशिरसि विषाणवदिति। एवम- भेदधिय उपपादितत्वात् अस्या: प्राबल्यम् । व्यक्त्यन्तरहेत्वभावात् सेव नास्तीत्यपास्तं प्राक्। नच-छायादाविव कारणभेदस्य कल्प्यत्वेन भेदवुद्धि: सोपपत्तिका तथा कृप्तद्रव्यानन्तर्भावे तमोव द्रव्यान्तरतैवेति-वाच्यम; अन्योन्याश्रयापत्तेः। भेदसोपपत्तिकत्वरे द्रव्यान्तरत्वकारणान्तरत्वयोः कल्पनं, तस्मिंश्च सोपपत्तिकत्वमिति । अतएव 'नोपरक्तं न वारिस्थ'मिति स्मार्तव्यवहारो मुख्यः, नतु यथाचित्रितः सिह्न: यथा दारुमयी योषा यथा चर्ममयो मृग इत्यादिवद्रीणः। नच- त्वत्पक्षेऽपि वारिस्थशब्दो न मुख्य: वारिणि सूर्यान्तराभावात् गगनस्थस्य वारिस्थत्वायोगादिति- वाच्यम्; वारिस्थत्वेनोपस्थिताशेषवारिस्थसूर्यनिषेधात् । ननु-वारिस्थत्वेन सूर्य एवोपस्थितः तयोरभेदो न प्रत्यक्षसिद्धः, नापि युक्त :; न्यूनाधिकपरिमाणवत्त्वचलत्वोपाधिसंयुक्तत्वासंयुक्तत्वत्व- गादिग्राह्यत्वाग्राह्यत्वप्रत्य अुखत्वाप्रत्य अुखत्वादिना कस्तूरीविम्बप्रतिबिम्वयोः सारभासौरभादिना च भेदसिद्धेरिति-चेन्न; न्यूनपरिमाणादिना सौरभादिना च उपाधिगतस्य भेद: साधनीयः। तथाच उपाधिगतत्वस्य बिम्बे कल्पितत्वेन पक्षहेत्वोरसिद्धेः, कल्पितहेत्वादिना तत्समानसत्ताकसाध्यसि- द्वावविवादरञ्च। नापि-'यथेषा पुरुषे छाया एतस्मिन्नेतदाततम्। छाया यथा पुंसदशी पुमधीना च दृश्यते॥ एवमेवात्मकाः सर्व ब्रह्माद्याः परमात्मनः ।' इति श्रुत्या भेद इति-वाच्यम्; कल्पि- तभेदमात्रेण सादृश्योपपत्तेः तात्विकत्वे श्रुतितात्पर्याभावात्, ऐक्यप्रतिपादकानेकश्रुतिविरोधाञ्च। ननु-तत्स्वलक्षणकस्यैव दर्पणस्थत्वेनारोपिततया तद्रूपादियुक्तस्येव तद्गन्धादियुक्तस्यापि दर्पणस्थ- त्वेन प्रतीतिः स्यादिति-चेत्न; तत्स्वलक्षणकत्वेनारोपितत्वेऽपि यावत्स्वलक्षणकत्वेनारोपितत्वान-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। शस्य विक्षेपशक्ते:। प्रतिबिम्बः प्रतिबिम्बस्वरूपम्। बिम्वाभिन्नं बिम्बस्वरूपात् भेदहीनम्। तेन जीवेश्वररूपबिम्बप्रति बिम्बयो: व्यावहारिकयोः व्यावहारिकभेदस्य कल्पितत्वेन तदभावमादाय नार्थान्तरम्। बिम्वाजनकाजन्यत्वा- दिति। जन्यब्रिम्बस्थले हेतुः । बिम्बानन्तरत्वस्यवेति। उपाध्यन्वयव्यतिरेकयोरुपाधिसंबन्धाद्युत्पत्तावुपक्षीण- त्वेन न प्रतिबिम्बोत्पत्तिसाधकतेति भावः। अनुपयोगादिति। तथाच प्रतिध्वनिर्न प्रतिबिम्बम्, किंतु कण्ठादि- समवेतशब्दजन्य आकाशादिसमवेतः शब्दः। कार्यस्य बिम्बाभिन्नप्रतिबिम्बस्य। अन्योन्याश्रयापत्तेरिति । कारणान्तरकल्पने गौरवादित्यपि बोध्यम्। तस्मिश्चेति। प्रत्यक्षागमयोर्भेदतात्विकत्वे औदासीन्यात् बिम्यकारण- जन्यत्वादिहेतुना तस्य साधनीयत्वेन कारणान्तरकल्पनाधीनं सोपपत्तिकत्वज्ञानमिति भावः । नोपरक्तमिति । नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचनेत्यादिः। व्यवहारः सूर्यस्य वारिप्रतिबिम्बे सूर्यपदप्रयोगः। वारिस्थत्वेन व्यावहारिकप्रातीतिकसाधारणं यत् वारिस्थतवं तद्वच्छिन्नेन। उपस्थिताशेषवारिस्थेति। व्यावहारिकरूपशेष- रहितप्रातीतिकवारिस्थेत्यर्थः। तथाच व्यावहारिकवारिस्थसूर्यासंभवात् प्रातीतिकतद्गहणं वारिस्थपदमुख्यवृत्येव सवमे भुकवा रुदित्वा ध्रुवमर्थलाभ इत्यादी सवप्रभोजनादी भुज्यादेरिवारोपितवारिस्थताकेऽपि वारिस्थशब्दस्य मुख्यत्व- मेव। व्यावहारिकभोजनत्वादेः प्रवृत्तिनिमित्तस्य तत्रापि सत्वादिति भावः। भेद: बिम्बभेदः। एतस्मिन् परमा- ह्मनि। पतत् जगत् आततम्। यथेत्यस्योत्तरवाक्यम्थत्वात् न तथेत्यपेक्षा। एवमित्यस्यान्नापि संबन्धो वा। तत्स्व-
Page 528
[बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धि: ] गौडब्रह्मानन्दीयुता। ८४९
क्गीकारेण गन्धादिप्रतीत्यापादनस्याशक्यत्वात्। ननु-एवं दर्पणे मुखस्याभावे उपाधे: प्रतिबिम्बपक्ष- पातित्वेन मुखप्रतिमुखयोरवदातत्वश्यामत्ववत् जीवव्रह्मणोः संसारित्वासंसारित्वादिव्यवस्था कथ- मिति-चेत्, नः आरोपितेनादर्शस्थत्वेन विशिष्टे प्रतिबिम्बे तद्धर्मस्य मालिन्यादेःसंभवात्। नच्र- उपाधिस्थत्वस्यापि आरोप्यत्वेन कथं मालिन्याश्रयतावच्छेदकत्वम्? एकविशिष्टे इतरारोपाभावा दिति-वाच्यम्; आरोपपूर्व प्रतीतधर्मविशिष्टस्यैवारोप्याश्रयत्वात् नतु तस्य सत्यत्वमपीति परप्र- क्रियानिबन्धनदोषानवकाशात्। नच-प्रतिमुखमेव दर्पणस्थं न तु मुखमिति प्रतिबिम्बदर्पणस्थ- त्वानुभवेन कथं प्रतिबिम्बत्वस्य तत्स्थत्वगभतेति-वाच्यम्; अविद्योपहितस्याविद्याश्रयत्ववत् दर्प- णोपहितस्य दर्पणाश्रितत्वसंभवात्। एतेन-मालिन्यस्थानीयस्य संसारस्य विशिष्टवृत्तित्वात् शुद्धा- श्रितमोक्षसामानाधिकरण्यायोग इति-निरस्तम्; संसारस्तावदुपहितवृत्तिः, तथाचोपधेयांश- मादाय खामानाधिकरण्यसंभवात्। तथाच वृक्षस्थकपिसंयोगाधारता अग्रेणेव मुखे मालिन्यं दर्पणसंबन्धेनावच्छिद्यते। एतावानेव विशेष :- वृक्षे संयोगस्तु साहजिकः, मुखे औपाधिकं मालि- न्यम्। तेनोपहिते उपाध्यवच्छिन्न एव मुखे मालिन्यधीः। पतेन-दर्पणमालिन्यस्य मुखनिष्ठत्वे संसा- रस्यापि शुद्धनिष्ठतापत्तिः, वृक्ष: संयुक्त इतिवत् मुखं मलिनमिति प्रतीत्यापत्तिः, मुखं न मलिनम् किंतु प्रतिमुखमित्यनुभवविरोधापत्तिश्चति-निरस्तम्। ननु-कस्तूर्यादिप्रतिबिम्बस्य स्वलक्षणान- नुगमेन कथं बिम्बैक्म्? नच तदाकारतामात्रेण तत्त्वं, तर्हि छायाप्रतिमुद्राप्रतिमादीनामपि, तत्वं स्यात्, प्रत्यमुखत्वादेभेदकस्यात्रापि सत्त्वाच्च। नच प्रत्यअुखत्वधीर्भ्रान्ता; प्रतिबिम्बं बिम्बामि मुखं नेति कदाप्यननुभवादिति-चेन्न; दर्पणादिप्रतिविम्बे स्वलक्षणानुगमेन बिम्बैक्ये व्यवस्थिते प्रतिबिम्वत्वावच्छेदेनैव तत्कल्पनात्, छायादौ स्वलक्षणकत्वस्य कुत्राप्यदर्शनेन साम्याभावात्। नापि प्रत्यञ्जमुखत्वादि भेदकम्; मलिनत्ववदुपाधिकृतत्वात्। अतएव जपादतुमे रक्तताप्रतीतिवत् तद्धीरभ्रान्ता। दर्पणाहतं चक्षुः प्रत्यङमुखं भवति, तस्य च स्वाभिमुखतया ग्रहणसामर्थ्याञ्चान्याभि- मुखस्यापि मुखादेस्तथाग्रहणोपपत्तेश्च। तदुक्तं-'दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम्। व्याघ्ुव- न्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम्।।' नच परावृत्य स्वमुखस्यव ग्रहणे पार्श्वस्थस्य मुखद्वयप्रतीत्य- योग :; स्वमुखस्पवेति नियमासिद्धे:उपाधिसन्निहितमात्रस्यव तथा ग्रहणात्। नच-एवं दर्पणादेरमि- घातकतामात्रेण उपक्षीणतया दर्पण इव दर्पणभेदेऽप्यनेकमुखप्रतीतिर्न स्यादिति-वाच्यम्; अभि- घातकानेकत्वेन चक्षुपोऽनेकाग्रसम्पत्या प्रत्यग्रं स्वाभिघातकावच्छेदकमुखग्राहकतया द्ृष्टान्तवैप- म्यात्। नच-मणिदर्पणकृपाणादिषु विरुद्धरूपानेकमुखप्रतीतिः कथमेवं युज्यत इति-वाच्यम्; अन्वयव्यतिरेकसिद्धोपाधिप्राबल्य निवन्धनत्वादिति गृहाण। नच चक्षुःपरिवृत्तिप्रक्रिया ब्रह्मप्रतिविम्बे जीवे न संभवतीति-वाच्यम्: चाक्षुपप्रतिबिम्वमात्रविषयतयैवास्या उपपादितत्वात्। नच विर- लावयवस्य जलस्य नेत्राभिघातकत्वे जलान्तर्गतशिलाद्यग्रहणप्रसङ्ग :: सर्वावच्छेदेनामिघाताभावे नान्तरेऽपि चक्षुपः प्रवेशसंभवाद। नच-एवं बहुदूरव्यव हितोर्ध्वभागसूर्यादिग्रहणे पृष्ठभागस्थस्य व्यवहितस्यापि प्रहणापत्तिरिति-वाच्यम्; चक्षुपो गमनागमनाभ्यां विशेषात्। नहि दूरस्थसूर्यः गौडब्रह्मानन्दी (लघुचन्द्रिका)। लक्षणकत्वेनारोपितत्वेSपीत्यादि। तत्स्वलक्षणकत्वविशिष्टे दर्पणस्थत्वस्यारोपेऽपि यावत्स्वलक्षणकत्वविशिष्टे तद- नारोपात् 'दर्पणे मुखं गन्धादिविशिष्ट'मिति प्रत्ययाभावादित्यथः । नतु तस्येति। आरोपिताधिकसत्ताकत्वमारोपि- ताश्रयतावच्छेदकत्वे तत्रमिति भ्रमः; स्वप्रादावेककल्पितविशिष्टे परस्य कल्पनाद्धिष्टानस्यैव तात्विकत्वापेक्षणात्। अविद्योपहितस्येति। उपाधेराश्रयकोट्यन्यत्वेन स्वोपहितस्यैवाविद्याश्रयत्वम्। तथाच प्रतिबिम्बमेव दर्पणस्थमि त्यादेर्दर्पणादयुपहितमेव दर्पणस्थं, नतु शुद्धमित्याद्यर्थः । एतेन शुद्धस्यैव मुखस्य दर्पणाद्युपाध्यवच्छेदेन। मालि- न्यादुपपादनेन। एतेन मुखं मलिनमिति प्रमास्वीकारेण। स्वलक्षणाननुगमेन यावद्विम्बधर्माननुगमेन। यन्तु- उपहितवृत्तेरखण्डाकारवृत्तिविषयत्वस्य वाचस्पतिमते शुद्धवृत्तितापत्तिः इति, तन्न; तन्मते अविद्याविपयताद्यवच्छेदे- नोक्तविषयत्वं न त्वनवच्छिन्नमिति विशेषसंभवात्, उपहिताभेदेन शुद्धस्याप्युपहितनिष्ठसंसारीयपरम्परासंबन्धेन शुद्धनिष्ठमोक्षस्योपहितनिष्ठसंसारेणैकधर्मिसंबन्धोपपत्तेश्र। अनेकाग्रसंपत्या नानाकिरणपुजरूपनानावयवावच्छेदे- नाभिहन्यमानत्वसंपत्या। प्रत्यग्नं प्रतिताद्टशावयवावच्छेदेन। स्वाभिघातकावच्छेदकमुखग्राहकतया साभि- घातकेषु दर्पणादिरूपावच्छेदकेपु मुखसाक्षात्कारोपघातकमुखसंयोगवत्तया, उक्त्दर्पणादिसंसृष्टत्वेन मुखसाक्षात्कारो- अ. सि. १०७
Page 529
८५० अद्वैतसिद्धिः । [परिच्छेद: २ ]
ग्रहणं वदता पृष्ठकुड्यादिकं भित्त्वा चक्षुर्गच्छतीत्युक्तं भवति। नच-एवं शिलामिहतमपि चक्षुः परावृत्य मुखं ग्रृह्णात्विति-वाच्यम्; तवापि प्रतिबिम्बं तत्रोत्पद्यतामित्यापत्तेः अस्वच्छतया परि- हारस्यास्माकमपि समत्वात्। तव स्वच्छ एव उत्पद्यते; मम तत एव चक्षुः परावर्तते इत्यङ्गीका- रात्। नचवं प्रतिबिम्बदर्शनेनापि बिम्बदर्शनजन्यसुखपुण्यादिप्रसङ्ग :: यत्र तद्दर्शनमात्रज- न्यता नान्यतः, तत्रेष्टापत्तेः यत्र चोपाधिविनिर्मुक्तज्ानत्वेन विशिष्य जन्यता, तत्रापादकाभा- वात्। नचैवं सूर्यकस्यापि सूर्यवदुर्दर्शत्वापत्तिः; गोलके सूर्यतेजःसाम्मुख्यस्य दुर्दर्शताप्रयो- जकस्य सूर्यकग्रहणकालेऽभावात्। नच स्वच्छदर्पण इव किंचित्स्वच्छताम्रादौ मुखसंस्थान- विशेषप्रतीत्यापातः; उपाधिगतात्यन्तस्वच्छताव्यतिरेकप्रयोजकमालिन्यादेरेव तत्र प्रतिबन्धक त्वात्, अन्यथा तवापि तादृक्संस्थानविशेषवत् प्रतिबिम्बं तत्र कथं नोत्पद्यत इत्यस्य दुष्परिहर- त्वापत्तेः। ननु-अवच्छेदपक्षे द्विगुणीकृत्य वृत्त्यसंभवेऽपि प्रतिबिम्बपक्षे तत्संभवेनान्तर्यामित्वमि- ति स्ववचनविरोधः, उपाधे: प्रतिबिम्बपक्षपातित्वमित्युत्त्ययोगश्चेति-चेन्न; सर्वोपाध्यवच्छिन्नत्वैक- देशोपाध्यवच्छिन्नत्वाभ्यामुपाधिकल्पितभेदेन च स्वोक्त्यविरोधोपपत्तेः । अतएव दर्पणे न मुखमि- त्येव उपाधिसंसृष्टतया निषिध्यते, नतु 'नेदं रूप्य'मितिवत् नतन्मुखमिति स्वरूपेण। ननु-नात्र मुखच्छायास्तीत्यननुभवेन प्रत्युतैतावन्तं कालम् अत्र प्रतिसूर्य आसीदितिवत् प्रतिमुखमासीदि- त्येवानुभवेन प्रतिबिम्बमिवादर्श इत्यादिस्मृत्या च प्रतिमुखे दर्पणस्थत्वस्याप्यबाध एव, नहि भूमो मेघो नेत्येतावता मेधच्छायापि तत्र वाधितेति-चेन्नः मुखप्रतिमुखयोरेकस्वलक्षणकत्वेन- क्यव्यवस्थित्या मुखस्यव तत्स्थत्वनिषेधेन प्रतिमुखस्य तत्सत्वनिषेधसंभवात्। मेघच्छायाप्रति सूर्यादीनां न तथेति न मेवादिनिपेधेन छायादिनिपेधः। स्मृतिस्तु प्रातीतिकार्थमादाय दृष्टान्तपरा। नच-एवं प्रतिविम्वात् विम्वानुमानोच्छेद: साध्याविशपादिति-वाच्यम्; उपाधिकल्पितमेदेन विशेषोपपत्तेः । एतेन-'नेक्षेतोद्यन्तमादित्य'मित्यनेन उद्यत्प्रतिविम्बदर्शनस्यापि निषेधः स्यात्, वारिस्थसूर्यदर्शननिषेधेनाकाशस्थसूर्यदर्शनस्यापि निषेधश्च स्यात्, प्रतिबिम्वदर्शनेनैव दृष्टा स्नाया- दित्ि शास्त्रार्थीऽप्यनुष्टितः स्यादिति-निरस्तम; कल्पितभेदादेव शास्त्रीयव्यवस्थोपपत्तेः। नच- आदुम्वरतया ज्ञातेनानादुम्बरेण आदुम्बरो यूपो भवतीति शास्त्रार्थसिद्धिप्रसङ्ग, आत्मतया ज्ञात- देहश्रवणादिनात्मा श्रोतव्य इति शास्त्रार्थसिद्धिप्रसङ्गश्चति-वाच्यम्; प्रमया उपपत्तो संभवन्त्यां भ्रमेण तटुपपादानस्यायुक्तत्वात्। ननु-अनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्वत्वम्, किंतु तद- धीनत्वे सति तत्सदृशत्वम, तञ्ञ भेदव्याप्तमिति विरुद्धो हेतुः। उक्तंहि सूत्रकृता-'अत एवोपमा सूर्यकादिव'दिति-चेत्, नः उपाध्यधीनत्वं हि उपाधी सत्येव सत्त्वम्। तञ्च नानादित्वविगेधि: अनादिजीवस्यापि तत्संभवात् । अतएव प्रतिबिम्वपदस्य भेदसादृश्यार्थकत्वमादाय विरुद्धन्वोक्ति-
गौडब्रह्मानन्दी (लघुचन्द्रिका): पधायकसंयोगवत्तयेति यावत्। उपाधिप्रावल्येति। मण्याद्युपाधीनामुक्तधीहेनुत्वेत्यर्थः । अङ्गीकारादिति । स्वच्छोपाधेः प्रतिबिम्बप्रत्यक्षप्रयोजकत्वं सर्वसंमतमिति भावः। इष्टापत्तेरिति । अतएव दर्पणे पुत्रादिमुखद्ृष्या सुखविशेषः, श्रीजगन्नाथमुखद्ृस्या पुण्यविशेषः, जले राहुग्रस्तसूर्यादिद्स्या पापविशेषः । उपाधिविनिमुक्तति । प्रतिविम्बत्वानुपहितमुखदर्शनविशेषजन्यसुखं न प्रतिबिम्बमुखदर्शनात्, मञ्चस्थत्वादिविशिष्टमधुसूदनादिदर्शनजन्य- पुण्यं न मज्जस्थत्वाद्यनुपहितमधुसूदनादिदर्शनात, उद्यगिरिसन्निधानविशेषविशिष्टादित्यदर्शनवर्जनस्य तादशादित्य- प्रतिबिम्बदर्शनान्न बाधः । अन्तर्यामित्वं प्रतिबिम्बजीवं प्रत्यन्तर्यामित्वसंभवः । स्ववचनविरोधः विवरणोक्तिवि- रोधः। बिम्बप्रतिबिम्बयोरेक्येन द्विगुणत्वासंभवादिति शेपः। इत्युक्त्ययोग इति। बिम्बप्रतिबिम्बयोरभिन्नतयोपा- धिसंबन्धाविशेषादिति शेपः । सर्वेत्यादि । बिम्बीभूतोऽन्तर्यामी सर्वजीवोपाध्यवच्छिन्नः, प्रतिबिम्बीभूतजीवास्तु एकोपाध्यवच्छिन्ना इत्यर्थः । एकजीववादे त्वाह-उपाधिकल्पितेति। संभवादिति। प्रतिमुखमासीदिति तु न निपेधविघातकम्, निपेधपूर्व प्रतिमुखसंबन्धस्य स्थितत्वाद्दर्पणे प्रतिमुखसंबन्धोऽनुपपस्नत्वात् मिथ्येत्यनुभवाक्। कल्पितभेदादिति। आकाशस्थस्य वारिस्थान्यत्वात् दृष्टेत्यनेनोक्तचाक्षुषवृ्त्यवच्छिन्नस्याविद्यावृत्त्यवच्छिन्न प्रतिबिम्बा- न्यत्वाच्चेत्यर्थः । प्रमयेत्यादि। सत्यत्वाद्युपलक्षितात्मन एव तत्त्वमस्यादिवाक्येन प्रमितत्वात्तच्छ्रवणमेव विधीयते। व्यावहारिकरूप्यादेरेव व्यावहारिकप्रामाण्यश्रुत्या विहितत्वात् स एवानुष्टीयते। आदित्यादेर्वारिस्थत्वादिविशिष्टस्य व्यावहारिकस्यासंभव्रात् प्रातीतिकस्यैव अहणमिति भावः। अतएव चोपमा सूर्यकादिवदिति। अतएव
Page 530
[आत्मनोऽणुत्वभङ्ग:] गौडब्रह्मानन्दीयुता। ८५१
हैतावयुक्ता। तदेवं प्रतिबिम्बस्य विम्बेनैक्ये व्यवस्थिते । ब्रह्मैक्यं जीवजातस्य सिद्धं तत्प्रतिबि- म्बनात् ।I इत्यद्वैतसिद्धौ विम्बप्रतिबिम्बन्यायेनैक्यसिद्धि:॥
अथात्मनोऽणुत्वभङ्ग: । ननु-अणुत्वाजीवस्य कथं व्यापकादीश्वरादभेद इति-चेन्न; 'नित्यःसर्वगतः"सवा एप महानज आत्मा' इत्यादिश्रुत्या जीवो नाणुः, प्रत्यक्षगुणाश्रयत्वात्, प्रत्यक्षत्वाच्च, घटवत्, आत्मत्वादभूत- त्वाच्चेश्वरवदित्याद्यनुमानश्च जीवानणुत्वसिद्धेः, विपक्ष च देहव्यापिसुखज्ञानाद्यनुपलम्भापत्तिर्वा घिका। नच-"अणुद्येष आत्मा यं वा एते सिनीतः पुण्यंच पापंच" "वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पत" इति श्रुत्या जीवोऽणुरिति-वाच्यम्; व्यापकत्वप्रतिपादकबहुश्रुतिविरोधेन दुर्विज्ञयत्वपरत्वात्, देहव्यापिगुणोपलम्भस्यान्यथयितुमशक्य- त्वात्। एतेन-जीवो न व्यापकः, उत्क्रान्तिमत्त्वात्, गतिमत्त्वात्, क्रियावत्त्वाच्च, खगशरीरवत्, विपक्षे हेतृच्छित्त्यापत्तिर्बाधिकेति-निरस्तम्; हेत्वसिद्धेः । नच-'सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमधिगच्छति अमुष्मादिमं लोकमागच्छती त्यादिभि: श्रुतिभिः 'तत्र चान्द्रमसं ज्योति्योगी प्राप्य निवर्तते।' इत्यादिस्मृतिभिश्च हेतुसिद्धिरिति-वाच्यम्: उत्क्रमणादीनां वुद्धिगतानां तड्ु- पहिते श्रुत्या प्रतिपादनात्। नच-'नाकस्य पृष्ठे सुकृतेऽनुभृत्वेमं लोकं हीनतरं वा विशन्ति। ते अशुभमनुभूयन्त' इत्यादा श्रुता सुखदुःखाद्यनुभवसामानाधिकरण्यस्य गतावुक्त: कथं तस्या बुद्धि- गतत्वमिति-वाच्यम्: आत्मनि सुखदुःखाद्यनुभवस्यापि वुद्धुपाधिकत्वेन तत्सामानाधिकर- ण्यस्य गती स्वाभाविकत्वासाधकत्वात्। ननु-'स एनान् ब्रह्म गमयती'त्यादिश्रुता 'तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्यादिस्मृती च गतेर्मुक्तिसामानाधिकरण्योक्त: कथमसिद्धि- रिति-चेन्न; अव्यापकस्यैवाव्यापकं प्रत्येव गमनम्। ब्रह्म च व्यापकं तत्प्रति गमनासंभवेन गमन- पदस्य उपाधिकृतभेदराहित्यपरतया गतिमुक्तिसामानाधिकरण्याप्रतिपादकत्वात्। ननु-'प्रद्योते- नैष आत्मा निप्क्ामती त्यात्मनिष्ठत्वश्रुतेर्नासिद्धिः, अन्यथा मोक्षादिकमपि वुद्धेरेव स्यात्, नापि श्रुतेर्वुद्धुपाधिकगत्यादिविषयत्वं संभवति, 'तद्यथा अनःसु समाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञनात्मनाऽन्वारूढ उत्सर्जन् याती ति स्वाभाविकगत्याश्रयशकटद्ृप्टान्तोक्तेरिति-चेन्न; एष इति वुद्धुपहितस्यव परामर्शन शुद्धात्मनिष्ठत्वस्य गतावनुक्ते:, मोक्षे तु बुद्धुपरमेण तन्निष्ठत्व- स्यासंभाविततया वैषम्यात्, सवेसाम्यस्य दृष्टान्ततायामप्रयोजकत्वात्, तद्वलेन स्वाभाविक- त्वपर्यन्तत्वस्यासिद्धेः । नच-'तमुत्क्रामन्तं प्राणोऽनूत्क्ामती त्यादिश्रुती प्राणाख्यबुद्धिगतितः
गौडव्रह्मानन्दी (लघुचन्द्रिका)। जीवेश्वरयोर्भेदादेव। उपमा 'बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले। एवमेवात्मका लोके परात्मसदृशा मताः ॥' इत्यादिवाक्यं सूर्यतत्प्रतिबिम्बयोरिवेशजीवयोर्भेद इति बोधयतीति पराभिमतोऽथः। मन्मते तु 'अरूपवदेव हि तत्प्रधानत्वादित्यादिसूत्रेणाद्वितीयात्मबोधनादेव उपमा 'यथा ह्येको ज्योतिरात्मे त्यादिश्रुतिः सूर्यतत्प्रतिबिम्बयोरिव ब्रह्मजीवयोमिथ्याभेदं बोधयतीत्यर्थः । भेदसादृश््यं भेदघटितसादृश्यम्। तर्करित्यादि-बिम्वक्यं प्रतिबिम्ब- गम्। इति लघुचन्द्रिकायां विम्बप्रतिविम्बन्यायेनैक्यसिद्धि:॥
देहव्यापीत्यादि। देहनानावयवावच्छिस्ननानासुखादीनामुपलब्धिरन स्यात्। उपलब्धेरात्मगतायास्तेपु युगपत् संबन्धाभावादिति भावः । सिनीतः बभ्रीतः । अशक्यत्वादिति। आनन्त्याय कल्प्यत इत्यनेन मुक्तिकाले परिच्छेदाभावोक्तेरसङ्गतेश्चेत्यपि बोध्यम्। न व्यापक: नापरिच्छिन्नः। हेत्वसिद्धेरिति। धर्मिसमानसत्ताकत्वेन हेत्वाद्यभावस्यैव हेत्वाद्यसिद्धिरूपत्वात्। आत्मनीत्यादि। अनुभूतिरूपस्याध्यात्मनः सुखाद्युपहितानुभूतात्मकत्वं सुखादिरूपेण परिणतमनोनिबन्धनमित्यर्थः । ब्रह्म च व्यापकमिति। ब्रह्मलोकस्थकार्यब्रह्मप्राप्तिरुक्तश्रुत्या बोध्यते। साच बुध्धपाधिका; 'एप देवयानः पन्था' इति शेषात्। उक्तस्मृतौ तु ब्रह्मलोकप्राप्तस्य शुद्धब्रह्मप्राप्तिरुच्यते। साचौपाधिकभेदबाधपरा; कल्पपर्यन्तं ब्रह्मलोकभोगसमाप्तौ देशान्तरावच्छेदेन ब्रह्मणि मुख्यगती मानाभावात्, भोगदेशे पुनर्मुख्यगतेर्व्यर्थरवात्। एतेन-व्यापके आकाशादौ संयोगानुकूलमूर्तक्रिया दृष्टेति-अपास्तम् ।
Page 531
८५२ अद्वैतसिद्धिः । [परिच्छेद: २ ]
प्रागेव जीवे गत्युक्तः कथं बुद्धिगत्याऽन्यथासिद्धिरिति-वाच्यम्; प्राणाख्यांशन क्रियाशक्ति- शालिना पश्चाद्वतावप्यंशान्तरेण प्रथममुत्त्मणसंभवात्। एतेन-'मन उदक्रामन्मीलित इवाश्रन् पिबन्नास्ते वे त्यादिश्रुता मनउत्क्रमणेऽपि आत्मनस्तद्भावश्रवणाञ्च कथं तद्गत्यैव गतिमत्त्व- मिति-निरस्तम्; उपहितस्योपाधिनिबन्धनगतिमत्त्वे वुद्ध्यनुपहितस्य तद्भावाविरोधात्। नच-तथा 'विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपति दिव्य'मित्यादिश्रुता नामरूपविमो- क्षानन्तरमपि गतिश्रवणात् कथं सा औपाधिकीति-वाच्यम्; परमपुरुषस्य सर्वत्र सन्निहि तत्वेन तं प्रति गमनासंभवेन उपैतीत्यस्यापि पूर्ववदर्थान्तरपरत्वात् । अतएव "परं ज्योतिरु- पसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः स तत्र पर्येती'त्यादिश्रुतिरपि न गत्यर्था। ननु-बुद्धिग- तेन गत्यादिना किं तदवच्छिन्नात्मनि गत्यादि जायते ? उत बुद्धिगतमेवारोप्यते? उतोपचर्यते। नाद् :; घटगत्या तदवच्छिन्ने नभसि गत्यन्तरादर्शनात्। अन्यथा यतो घटस्य बुद्धेर्वा गतिः तत्राका- शस्यात्मनो वा सच्छिद्रत्वं स्यात्। अन्यत्र द्विगुणीकृत्य वृत्तिश्च स्यात्। नच-प्रतिबिम्बपक्षे नोक्त- दोष इति-वाच्यम् ; तस्य वस्त्वन्तरत्वमते उक्तदोषाभावेऽपि दर्पणाहता दृष्टिः परावृत्य स्वमुखं गृह्णातीति त्वन्मते उपाधिगत्या बिम्बे न गतिरिति प्रतिविम्बेऽप्यस्यायोगात्। नान्त्यौ; कर्तुरवच्छि- अ्रस्यैतदात्मप्रदेशस्य न भोगायतनलोकप्राप्तिः किंतु गतया बुद्धाऽ्वच्छिन्नस्य प्रदेशान्तरस्यवेति स्वीकारे कृतहान्यादिप्रसङ्गात् कर्तुर्भोक्तुश्चावच्छिन्नस्य भिन्नत्वात् अभिन्ने वाऽनवच्छिन्न कर्तृत्वाद्य- भावादिति-चेन्न; उपाधिगत्या उपहिते गतिप्रयोग औपचारिक एव। नचैवं कृतहान्याद्यापत्तिः यद्गुच्धवच्छिन्नन येनैवात्मना यत् कृतं तदवच्छिन्नेन तेनैव भोगजननात्। नह्यात्मनो निरवयवस्य प्रदेशोऽस्ति। य्तु अवच्छिन्नस्य कर्तुर्भोकुभेद इत्युक्तं, तन्नः अवच्छेद्यात्मनोऽचच्छेदकबुद्धेश्चैकयेऽघ. च्छिन्ने भेदस्य वक्तुमशक्यत्वात्। नचात्मत्वमणुनिष्ठं द्रव्यत्वसाक्षाद्याप्यजातित्वात् पृथिवीत्वव- दित्यनुमानम्; व्यापकावृत्तित्वस्योपाधित्वात्, स्पर्शादिसामानाधिकरण्यस्याप्येवं साधनप्रसङ्गाच्च। जीवो न व्यापकः, भूतेतरत्वे सति परत्वासमवायिकारणानाधारत्वे सत्यसर्वज्ञत्वात् शब्देतरानित्य- विशेषगुणाश्रयत्वात् संस्काराश्रयत्वाञ्च घटवदित्यत्रानात्मत्वमुपाधि:, अनित्यविशपगुणसंस्कारा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। अंशान्तरेण ज्ञानशक्तिशालिना। नच-शक्तिद्वयविशिष्टभागट्वयाभावादिदमयुक्तमिति-वाच्यम्; शरीरे विशेषज्ञा- नलापात्तर प्राणत्रियालोप इत्यस्य विवक्षितत्वात्। उपहितस्य सङ्कल्पादिवृत्तिविशिष्टमनसः। उपाधिनिबन्धनग- तिमत्वेSपि सङ्कल्पाद्यभावनिबन्धनगतिमत्वे बोधितेऽपि। बुद्धनुपहितस्य उक्तमनोरहितस्य। तद्भावा- विरोधात् उक्तगत्यभावबोधनाविरोधात्। अयोगादिति । बिम्बप्रतिबिम्वयोर्वास्तवैक्येपि कल्पितभेदेनोपाधे: प्रतिबिम्बपक्षपातात् प्रतिबिम्ब एव गत्यादिसंभवात् परभ्रान्त्यनुवादोऽयम्। कर्तुरवच्छिन्नस्येत्यादि। एतलोकात् ब्रुद्धेरेव गतिः, ननु तदुपहितस्य। तथाचास्मिन् लोके तेन यत् कृतं कर्म, तस्य स्वाश्रये भोगानुपधायकत्वरूपहानिः। परलोकस्थेन वुद्युपहितेन च यत् न कृतं, तदीयभोगस्य तत्राभ्यागमः स्वादित्यर्थः । यद्वुद्यवच्छिन्नेनेत्यादि। यया बुद्धिव्यक्त्या अवच्छिन्नेन कृतं यद् बुद्यवच्छेदेनात्मनो यत्कमकर्तृत्वं, तद्यत्तयवच्छेदेनैव तत्फलभोक्तृत्वम्। बुद्धिगतकर्तृत्वादिकं तुध्धवच्छेदेन शुद्धात्मन्येव कल्पितम्; अवस्थाभेदेऽपि बुद्धिव्यक्त्यनुगमस्योक्तत्वात्। प्रदेशोऽस्ति तारिवकप्रदेशोऽस्ति । कल्पितस्तु स विद्यमानोऽपि कृतहान्यादिपरिहारे नोपयुज्यते; उक्तरीत्येव तत्संभवादिति भावः । कल्पितप्रदेशरूपस्यावच्छिन्नस्यंक्यमादायाप्युक्तिपरिहारः संभवतीत्याशयेन परोक्तं तन्जेदं दूपयति-यत्त्विति । अवच्छेद्येत्यादि। अवच्छेद्यावच्छेदकस्वरूपयोर्नानात्वाभावे अवच्छिननस्वरूपमेकमेव; तन्नानात्वे मानाभावात्, अन्यथा प्रतिबिम्बशुक्त्यादिकं चोपाधेर्गतागताभ्यां भिद्येत। नहि तत्र भेदो नानुभूयते, अत्र त्वनुभूयत इति वततुं शक्यम्। एवंच बुद्धिगतगत्यादिना तद्वच्छिन्नात्मनि गत्यादिकं जायत इति ग्रथमपक्षेऽपि न दोपः । कृतहान्याद्य- भावात् अवच्छिन्ननभआद: घटाद्यवच्छेदेन शुद्धनभआदो कल्पितत्वेन शुक्त्यवच्छेदेनात्मनि कल्पितस्य शुक्तिरूप्यस्य शुक्तिगती गतिरिव घटादिगती गत्यन्तरोत्पादसंभवात्। नचोक्तसच्छिद्रत्वापत्ति :; शुद्धाकाशात्मनोर्घटादिपूर्वदेशे सत्वात्। द्विगुणीकृत्याकाशादेरुत्तरदेशे वृत्तिस्तु इष्टव; शुद्धावच्छिन्नरूपाभ्यां पूर्वदेश इव सश्वादिति भावः । व्यापकावृत्तित्वस्येति। व्यापकावृत्तित्वमेव साध्यमिति तु भ्रमः; व्यापकान्यवृत्तित्वस्यैव साध्यत्वात्, तथात्वे च व्यापकान्यवृत्तित्वस्येवोपाधित्वसंभवात्। भूतेतरत्व इत्यादि। आकाशे कालदिशोरीश्वरे च व्यभिचारवारणाय क्मेण विशेपणानि। परण्वासमवायिकारणं घटादो दिक्कालसंयोगो। द्वितीयहेलौ आकाशे व्यभिचारवारणाय-
Page 532
[आत्मनोऽणुत्वभङ्ग: ] गौडब्रह्मानन्दीयुता। ८५३
दीनामुपाधिवृत्तित्वेनासिद्धिश्च। एवं महत्त्वस्यापि सुसाधत्वं च। जीवः, अणु:, ज्ञानासमवायिकार- णसंयोगाश्रयत्वात्, मनोवत् इत्यत्र मध्यमपरिमाणवत्वेन मनसो दृष्टान्तासंप्रतिपत्तेः, जडत्वस्योपा- धित्वाञ्च। सर्वत्र चात्र व्यापिसुखज्ञानाधुपलम्भ: प्रतिकूलस्तर्कः, एकस्याणोरेकदा व्यवहितदेशद्वयाव- च्छेदासंभवेन 'पादे मे सुखं शिरसि वेदना' इत्यादियुगपदनुभवविरोधश्च। नच गुणिनः अणुत्वेऽपि गुणव्याप्त्या व्यापिसुखज्ञानानुमानविरोध :; गुणिव्यतिरेकेणास्यासंभावितत्वात्। अन्यथा घटव्यति- रेकेणापि घटरूपं स्यात्। प्रदीपादन्यत्र दृश्यमानापि प्रभा न दीपगुणः, किंतु अनुद्भूतस्पश द्रव्यान्त- रम्। नच-जातिसमवायादेर्घर्मितोऽन्यत्र वर्तमानत्ववदत्रापि गुणस्य बुद्धेरन्यत्रोपलम्भ: स्यात् इति-वाच्यम्; जातिसमवायादिवदत्रापि तर्हि व्यापकत्वप्रसङ्गात्, धर्मिणो विहायापि स्थितौ तस्या नियामकाभाघात्। नच कारणनियमान्नियम :; तर्ह्यव्यवहितसमवायिकारणनियमादेव नियमे अणुमात्रदेशता दुर्वारैव। नच-वह्ेरौष्ण्यं बहिर्नोपलभ्येत, समीपवृत्त्यनुद्भूतरूपतेजसस्तदित्युच्य माने वह्वेरौष्ण्यं न सिध्येदिति-वाच्यम्; बाधके सति सविधे तेजोन्तरकल्पनेऽपि दृश्यमानवह्ना- वनुभूयमानोष्णस्पर्श बाधकाभावेन तस्मिस्तेजोन्तरत्वकल्पनस्याशक्यत्वात्। एतेन-केतक्यादौ परितो गन्धानुभवात् गुणानां गुणिनैरपेक्ष्यम्। नच तत्र केतक्यवयवानां परितः प्रसरतां ते गन्धाः, तर्हि द्रव्यक्षयप्रसङ्गात्। नचावयवान्तरप्रवेशात्तदक्षयः; स्फटिककरण्डिकास्थकस्तूर्यादो अवयवा- न्तरप्रवेशकल्पने मानाभावात् इति-निरस्तम्; समवायिनैरपेक्ष्ये कार्यस्य निराश्रयत्वापत्ती तत्प- त्यासत्तिनिबन्धनकारणान्तरस्याप्युच्छेदे कार्यत्वहानेरेव तत्र कल्पनायां मानत्वात्। यत्तु-नित्यः सर्वगतस्थाणुरित्यत्र 'नित्ये सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।' इति स्मृत्यन्तरानुसारात् सर्वगतस्थः अणुश्चेति विग्रहः इति-तन्न; 'आकाशवत्सर्वगतश्च नित्यः' 'स वा एप महानज आत्मे'ति श्रुत्यनुसार्यर्थस्यैवोचितत्वात् अणुरिति पदच्छेदे तद्विरोधापत्तेः। यनु-क्रमेण नानादेह- संबन्धादणोरेव सर्वगतत्वोक्ति :- इति, तन्न; अशेषवाचिसर्वशब्दसङ्कोचे मानाभावात्। यदपि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। शब्देतरेति। दिक्कालयोस्तस्मै-विशेषेति। ईश्वरे तस्मै-अनित्येति। अनात्मत्वमिति। धर्मिग्राहकमान- सिद्धव्याप्तत्वादीश्वराकाशादौ साध्यव्याप्तमनात्मत्वमिति चेत्, किं ततः ? नहि साध्यव्याप्यत्वमुपाधेरपेक्ष्यते, किंतु साध्यव्यापकत्वम्। उपाधिवृत्तित्वेन मनोवृत्तित्वेन। मध्यमेति। मन्मते अणुपरिमाणमेव मन इति चेत्, तर्हिं स्वं प्रत्येव तदृष्टान्तंनीयम्, नतु मां प्रति। जडत्वस्य ज्ञानस्वरूपान्यत्वस्य। उपलम्भविरोध इति। उपलम्भो जन्यो, नित्यो वा। आद्ये हस्तपादाद्यवच्छिन्नसुखादिपु मनःसंयुक्तात्मसमवायस्य युगपदसंभवादसंभवः, अन्त्ये नित्यस्य त्वन्मते गुण्यभेदात् गुणिसंबन्ध एव सुखादावुपलम्भरूपगुणसंबन्धो वाच्यः। नच-युगपद्धस्ताद्यवच्छिन्न- सुखादावात्मसमवायसंभवः। अनुभवविरोध इति। नच-आत्मनिष्ठसुखादौ शरीरद्वारा आत्मसंबन्धित्वेन हस्तादेरवच्छेदकत्वमिति-वाच्यम्; अवच्छेदस्य अधिकरणे साक्षात्संबन्धस्यैवावच्छेदकत्वात्, शाखादौ तथा दृष्ट- त्यात्। नच-सुखादिकं नात्मनो गुणः, किंतु देहस्येति-वाच्यम्; लाघवेन जनकादष्टसामानाधिकरण्यस्य तत्र स्वीकारात्। गुणव्याप्या गुणसंबन्धेन। गुणिव्यतिरेकेण गुणसंबन्धेन। अन्रापि आत्मन्यपि। गुणस्य विद्य- मानस्य गुणस्य। बुद्धे: चैतन्यस्य। जातिसमवायादिवदिति। जात्यादेः सर्वगतत्वं प्राचीनमतरीत्या वाच्यम्। तथाच तद्वदात्मगुणस्यापि तत् स्यादिति भावः। कारणनियमान्नियमः सुखादावेव तत्तदात्मसंबन्धशरीरसंब- न्वरूपकारणसत्वात्तंत्रैव तत्तदात्मनिष्ठज्ञानसंबन्धः। समवायीति। समवायिकारण एव कार्यसमवायादन्यत्र ज्ञानसंबन्धासंभवः। ननु-समवायिकारण एव ज्ञानं समवेतु विषयतासंबन्धेन सुखसंबन्धमपि भवत्विति- चेन; सुखादेर्द्यात्मनिष्ठत्वमेव त्वया वाच्यम्; अहं सुखीत्यनुभवात्। तथाचात्मनिष्ठज्ञानेन सामानाधिकरण्यस्यैव सुखादौ संभवात् विषयताख्यसंबन्धस्य तत्र स्वीकारे मानाभावात्। वस्तुतस्तावतापि युगपद्धस्तपादाद्यवच्छिन्न- सुखादिमत्वस्यात्मन्यसंभवात् 'अहं हस्ते सुखी पादे दुःखी'त्यनुभवासंभवः। परमार्थतस्तु-परमते सुखादिज्ञान- स्यात्माभि्जनित्यसाक्षिरूपत्वात् कारणनियम्यतवं न संभवत्येव, तथाप्यभ्युपेत्येदमुक्तम्। तथाचाणुपरिमाणात्मगुण- ज्ानस्य सुखादौ विषयतवकल्पनादात्मन एव हस्तपादाद्यवच्छिन्नसुखादौ युगपत् समवायकल्पना युक्तेत्यात्मसाक्षिणो- र्विशेषारयं भेदप्रतिनिधिं स्वीकृत्य गुणगुणित्वयोरणुत्वव्याप्तत्वयो: कल्पनं महागौरवपराहतमिति भावः। मानत्वा- दिति। स्फटिककरण्डिकायां तु कस्तूरिकाभागनिःसरणकाले अवयवान्तरं प्रविशति, तद्प्रवेशेऽपि क्षत्यभावश्र, तोळनसमये स्वल्पन्यूनत्वस्यानुपलन्धिसंभवात्। मानाभावादिति। क्रमेण मनुष्यादिजातीयसर्वदेहपरिग्रहेऽपि
Page 533
८५४ अद्वैतसिद्धिः । [परिच्छेद: २ ]
प्रत्यक्षत्वादिनैवाव्यापकत्वं साधनीयमित्युक्तं, तन्न; प्रतिकृलतर्कस्योक्तत्वात् व्यापकत्वसाधने तस्यैवानुकूलत्वेनाप्रयोजकत्वाभावाच्च। ननु-आत्मनो व्यापकत्वे 'सर्वाणि शरीराणि सर्वस्यैव भोगायतनानि स्युः सर्वशरीरेन्द्रियादीनां सर्वदा सर्वात्मसंयुक्तत्वात् कर्मणामपि साधारणदेहा- दिकृतत्वेनासाधारण्यायोगात् अहन्त्वारोपादेरपि नियामकमूलसंबन्धादेरभावेन नैयत्यायोगा- दिति-चेन्न; तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तन्भ्ोगजनकत्वापत्तेः समानत्वात्। नच तद्दृष्टाजन्यत्वात्तत्संयुक्तत्वेऽपि न तत्र भोगजननं, तर्हीहापि समम्। नच कर्मणामेव कथमसाधा- रण्यम्? पूर्वतत्कर्मजन्यत्वात्। एवमनादितैव। अन्यथा ईशात्मनि तवाप्यगतेः। चैत्रभोगजनकाक्क- रादे: तद्दृष्टजन्यत्वात् आत्मसमवेतस्याद्ष्टस्य साक्षादङ्कुरासंबन्धात् आत्मद्वारकसंबन्धस्य वाच्य- तायामात्मनो विभुत्वम्। नच-चैत्रभोगा हेतोरप्यङ्गुरादेरात्मद्वाराSदृष्टासंबन्धेऽपि तदजन्यत्वेन तस्यातन्त्रत्वमिति-वाच्यम्; जनकादृष्टनिरूपितात्मद्वारकसन्निकर्षस्यातिप्रसङ्गाभावेन तन्त्रत्वात्, जनकता तु अदष्टस्य फलैकोन्नेया। एवमेवोपपत्तौ प्रतियोग्यभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्ट कार्ययोरपि संबन्धान्तरस्वीकारे मानाभावः । यत्तु कारीर्यद्ष्टस्य वृष्या सह तदुद्देशेन विहितक्रिया- जन्यत्वादिरूप: संबन्धोSस्तीत्युक्तं, तन्न; तत्रापि यजमानात्मद्वारकसंयुक्तसमवायस्यैव जलक्षरणा- दिप्रयोजकत्वात्। एतञ्च सर्व पररीत्योक्तम्। स्वमते च व्यवस्था प्रागुक्तव। तथाच 'बुद्धेर्गुणेनात्म- गुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्ट' इति श्रुती बुद्धिगुणेनाराग्रमात्रत्वोक्ते: स्वाभाविकमेव विभु- त्वम्। नचात्रात्मगुणेनाराग्रमान्रत्वं वुद्धेर्गुणेन चावरत्वमिति व्युत्क्रमयोजना: तद्यथाणुनश्चक्षुपः प्रकाशो व्याप्तः। एवमेवास्य पुरुषस्य प्रकाशो व्यातः अणुह्यवप पुरुष इति श्रुत्यनुसारादिति- वाच्यम्; व्यापकत्वबोधकानेकश्रुतिविरोधेन बुद्धेर्गुणेनेत्येतदनुसारेण चास्या एव ओपाधिकाणुत्व परत्वात्, पुरुषस्येति पष्या राहोः शिर इत्यादिवदुपचरितार्थत्वाच्च। तथाच न व्युत्क्रमेणान्वयः। तस्मादणुत्वं नात्मभेदकम्॥ इति अद्वैतसिद्धौ आत्मनोऽणुत्वभङ्ग:।
स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिर्गुणो वा दोषो वा न मम परवाक्यानि वदतः। परंत्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः॥
सरस्वतीविरचितायामद्वैतसिद्धी आत्मनिरूपणनाम द्वितीय: परिच्छेद:॥
गौडब्रह्मानन्दी (लघुचन्द्रिका): नान्यात्माधिष्टितदेहगतत्वं, समुद्दान्तःपातिवालुकादिगतत्वं वा। जनकादृप्टेति। जनकतावच्छेदकवैजात्यविशिष्टा- दृष्टेत्यर्थः। समवायस्यैवेति। कार्यकारणयोस्तस्वावच्छेदकसंबन्धलाभाय संबन्धो मृग्यते। उक्तलाभश्चात्मद्वारको- कसंबन्धेनैव; समवायेन जलगतक्षरणं प्रंति जलगतेन स्वाश्रयात्मसंयोगेनोक्तादष्टस्य हेतुत्वात्। उक्तक्र्रियाजन्यत्व- संबन्धेन तु नोक्तलाभ इति भावः। प्रागुक्तवेति। देहात्मनोर्न संयोग: संबन्धः, किंत्वध्यस्तं तादाल्यं, तदपि कर्ममूलकं, तदपि पूर्वकर्ममूलकमित्यनवस्था तु अनादित्वादनिर्वाच्यवादनुकूलत्वाच्च न दोप इत्यादयुक्तम्। ननु- ईश्वरस्याचिन्त्शक्तित्वात् जीवादृष्टभोगादेर्नेश्वरे आपत्तिरिति-चेत्, तहि तत एव सर्वत्र समाधानसंभवेन त्वदीय- युक्तकिशास्त्रवैयर्थ्यम्। ननु-अङ्कुरादावद्ृष्टस्य नात्मद्वारकसंबन्धेन हेतुत्वम्, किंतु स्वाश्रयकालवृत्तित्वेन स्ववृत्तिमेय- स्वाश्रयत्वेन स्ववृत्तिसत्ताश्रयतवादिना वा संबन्धेनाङ्गुराद्यवयवनिष्ठेनेति-चेत्न्; विनिगमकाभावेन स्ववृत्तिद्व्यत्वा- अयरवादिना कारीर्यदष्टादिहेतुत्वानन्त्यापत्तेः संबन्धघटकतया व्यापकात्मव्यक्तिकल्पनस्यैवोचितरवात्। नच- तथातवेनादृष्टतसकार्ययोरेकजातिकल्पनापि स्यादिति-वाच्यम्; साङ्कर्यादिदोषा "देकात्मव्यक्तेः सकलादृष्टसंबन्धघटक- तथा कल्पनयैवोपपत्तौ नानात्मव्यक्तीनां तदीयाणुपरिमाणानां च कल्पने गौरवा"दिति दिक। औपाधिकाणुत्वेति। चक्षुषोऽपि सावयवरवेन मध्यमपरिमाणत्वादात्मनोऽपि तद्वाच्यम्, नतु मुख्यमणुत्वम्। तथाच त्वन्मतेऽप्यात्मनि तस्यासंभवात् जन्यत्वाद्यापत्तेश्रौपाधिकमेव तत्। अतएव श्वेताश्वतरे 'अङुष्ठमात्रो रवितुत्यरूपः सङ्कल्पाहक्वारसम- न्वितोऽयम्' इंत्याघुक्तवा श्रुद्धेर्गुणेनेत्यादुक्तमिति भावः। उपचरितार्थत्वात् कल्पिततादात्म्यार्थत्वात्। राहुत्व-
Page 534
गौडब्रह्मानन्दीयुता। ८५५
गौडब्रह्मानन्दी (लघुचन्द्रिका)। शिरस्तवाभ्यामिव प्राप्तम्रकाशरूपशुद्धात्मनुद्धुपहितात्मत्वाभ्यां कल्पितभेदेन कल्पिततादात्म्यसर्वात् घटस्य नैल्य- मित्यादाविव मुख्याथैंव पष्टी; चक्षुपः प्रकाशेऽपि विस्तृतावस्थारूपे तथैव संबन्धस्य वाच्यत्वात्। व्युत्क्रमेणेति। बुद्धेगुणेनाराग्रमान्नः, आत्मगुणेन त्ववरोऽपि श्रवणमननादियुक्तर्दष्टः साक्षान्कृतः नास्ति वरो महान् यतः, स तथा अपरिच्छिन्न इति यावत्। बुद्धे: गुणो मध्यमपरिमाणं मुख्यः। आत्मगुणस्वपरिच्छिस्नत्वं न मुख्यगुणः । किंत्वात्म- स्वरूप इत्याशयेन गुणपदान्तरमुक्त्तम्। अन्यथा बुद्धेरात्मनश्च गुणेनेति ब्रूयात्। तथाच क्रमान्वयसंभवे व्युत्क्मो न युक्त इति भाव: ।। तर्कः सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणः । दुरन्तध्वान्तभङ्गाय ह्वात्माणुत्वस्य भञ्जनम् ॥ द्रौपदीशाकमास्वाद्य त्रिलोकी येन तर्पिता। तजीवब्रह्मणोरैक्ये साक्षि ब्रह्मैव नो हरिः॥ इति श्रीव्रह्मानन्दसरस्वतीविरचितायां लघुचन्द्रिकायां आत्मनिरूपणं नाम द्वितीयपरिच्छेदः॥
ब्रह्म सप्रकाशत्वलक्षणोपपत्त्यादयः ।
(१) तत्र न्यायामृतकारा :- ब्रह्मणोऽवेद्यस्याधिष्ठानत्वासंभवेन प्रमाणापेक्षायामन्योन्याश्रयेण च नोपादनत्वम्। नच खप्रकाशत्म्; तर्हि ब्रह्मणोऽपि वृत्तिव्याप्यतान्न वृत्यव्याप्यलम्। अतीतादौ नित्यातीन्द्रिये चातिव्याप्या न फलाव्याप्यतम्। सुषुप्यादौ व्यवहाराभावे- नाव्यान्या नावेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम्। योग्यत्वरूपधर्मस्य ब्रह्मणि मोक्षकालेऽभावेनाव्याप्या न तद्योग्यतम्। अनएव न तद्योग्यत्ात्यन्ताभावानधिकरणलम्: तस्यापि धर्मत्वेन मुक्तावभावात्। स्वरूपस्यालक्षणत्ान्नानधिकरणत्वं ब्रह्मस्रूपम्। वस्तुतस्तु-योग्यलस्य मिथ्यातात् तदत्यन्ताभावाधिकरणतमेव ब्रह्मणि विद्यते इत्यसंभवः। किंचात्रा- वेद्यत्वं फलाव्याप्यत्वं चेत्, घटशुक्तिरूप्यादौ विशिष्टलक्षणस्यातिव्याप्तिः। घटादीनामपि वृत्तिविषयतयैव भानोपपत्तौ फल- व्याप्यत्वे मानाभावात्। अन्यथा चित्संबन्धेनेव भाने ब्रह्मणोऽपि फलव्याप्यत्वेनासंभवः; तत्सवभावस्यापि तद्विषयत्वं चित्सुखाचार्यैगप्युक्तमेव। एतेन-अपरोक्षव्यवहारोऽपि दुर्वच इति-सूचितम्; धर्मादावपि अपरोक्षयोगिज्ञानजन्य- व्यवहारस्य सत्वात् नापरोक्षज्ञानजन्यव्यवहारः नाप्यपरोक्षवस्तुविपयव्यवहारः, वस्तुन आपरोक्ष्यं अपरोक्षज्ञानविषयत्वं चेत्, आत्मनोऽपि घटादिवत् वेद्यत्वापत्तिः, अपरोक्षव्यवहारविषयत्वं चेदन्योन्याश्रयः । निराकारशुद्धव्रह्मविषयव्यवहारस्य अपरोक्ष इत्याकारायोगात् नापरोक्ष इत्याकारः स इति संभवति। किंचावेद्यत्वं अपरोक्षव्यवहारविषयत्वं च व्याहतम् । स्वस्यव स्वविषयत्वं, बाधकाभावात् व्रह्मापि स्फुरणविषय एव। किंच खप्रकाशत्वस्य तात्त्विकत्वेऽद्वैतहानिः, अतात्त्वि- कत्वे अस्वप्रकाशत्वस्थेव तात्विकतापत्त्या तत्साधकानुमानादेबाध इति सर्वमनवद्यम्।। एतेन-अनुभूतिः खप्रकाशा, अनुभूतित्वादिति व्यतिरेक्यनुमानप्रामाण्यमपि तत्र-निरस्तम्; साध्याप्रसिद्धेः, वत्त्यव्याप्यत्वस्य चरमवृत्तिव्याप्यानुभूतां बाधात् घटादीनामपि फलाव्याप्यत्वेन ब्रह्मणोऽपि फलव्याप्यत्वेन चासाधारण- वावाद्यापत्तेक् वेद्यत्वं न वत्तिव्याप्यत्वफलव्याप्यत्रूपमिति। वेद्यत्वं, किंचिन्निष्टात्यन्ताभावप्रतियोगि, धर्मतादिति साध्य- प्रसिध्धर्थानुमानमपि नात्र प्रसरति। अत्यन्ताभावप्रतियोगितस्य केवलान्वयित्वे तत्रातथात्वे यत्र तदभावस्तत्र च व्यमि- चाराच। एतेन-चिद्विषयत्ाखप्रकाशत्वे अपि न तदिति-सूचितम् । आद्ये ब्रह्मणि बाधात्, द्वितीये प्रतियोग्य- प्रसिध्ध्याऽडश्रयासिद्गेः । पतेन-अनुभूतितानुमाने घटादिवत्खप्राकाशतविरोधिनो व्यावहारिकस्य वेद्यत्स्य सत्त्वेऽपि तद- भावोपपत्याऽर्थान्तरमपि-सूचितम्। अतएव-अयं घटः, एतद्वटान्यत्वविशिष्टवेद्यत्वानधिकरणान्यः, पदार्थत्ादि- त्यनुमानेनापि वेद्यल्ानिरुत्तया न साध्यसिद्धिरिति-सूचितम्। अयं घटः, एतद्वटान्यत्वे सति वेद्यलानधिकरणान्यलान- धिकरणम्, पदार्थतादिति प्रकरणसाम्याच्च। एवंच साध्याप्रसिद्धिरपरिहार्यैव। धर्निसमसत्ताकभेदवद्यक्तिसापेक्षलनियताहि जातिरिति अनुभूतितजातेः शुद्धेऽभावेनानुभाव्याभावेऽनुभूतितायोगेन चासिद्धिः, अनुभूतिशब्दवाच्यानात्मन्यपि विद्यमान- त्वेन न विपक्षव्यावृत्तलम्। किंच परोक्षानुभवपक्षत्वे बाधः अपरोक्षस्य तत्वे परोक्षानुभवे व्यमिचारः, अप्रयोजकलम्, अपरोक्षानुभवमप्यपरोक्षतो जानामीत्यनुभवेन तदात्मानमेवावेदिति श्रुत्याच बाधक्। जानामीतिहि इप्तिविषयत्वमेवानुभू- यते। अन्यथा दुःखं जानामीत्यादावपि तथालापातात्। अनुभूति:, स्फुरणविषयः, अपरोक्षव्यवहारविषयत्वातू, घटवत्,
Page 535
८५६ अद्वैतसिद्धिः । [परिच्छेद: २]
चैत्रीयानुभूतिः, चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्तिविषयः, चैत्रो्ष्ाविषय्त्,घ्,इत्यानुमानेन सत्प्र तिपक्षिततादपि खप्रकाशतानुमानं न समीचीनम्। नहि सवस्य सवेद्यत्वं निरुक्तम्; मिथ्यात्वानुमितेः खविषयत्वदर्शनात्, तदात्मानमित्यादाविव कर्तुरेव कर्मतोपपत्तेश्र। नहि परसमवेतक्रियाजन्यफलशालित्वं कर्मत्म्। किंतु क्रियाविषयत्वादि- कमिति न दोषः । यथा गत्यादावदृष्टऽपि सवसमानजातीयान्तराविषयत्वे कृत्यादौ खसमानजातीयान्तरविषयत्वं कल्प्यते, एवमन्यत्रादृष्टमपि वस्तुस्वाभाव्यात् सवविषयत्वं कल्प्यते। एवंच ब्रह्मावेद्यत्वं न युक्तम्; अवेद्यतबोधकप्रमाणवेद्यतावेद्य लाभ्यां व्याघातात्। अन्यथा ब्रह्मविचारविविवयथ्यांत्, ब्रह्माज्ञाननिवृत्त्ययोगाच्च। नह्यज्ञाननिवर्तकत्वमात्रेण वेदान्तप्रा- माण्यम्; आत्मनोऽसिद्धिप्रसन्गात्। नच स्तःसिद्धिः; सत इत्यस्य स्वेनैवेत्यर्थकत्वे स्वविषयकत्वापत्तिः, प्रमाणं विनेत्य- र्थकत्वे उपायान्तरानुपन्यासेनासिद्धितादवस्थ्यम् । अन्यथा नृशृङ्गादेरपि सिध्धापातात्। नहि मुक्तावपि वेदं विना वित्ति- लोपपत्तिः। एवंच स्वस्यापि स्वविषयकत्वमव्याहतम्। स्वाविषयेऽपि खस्मिन् सकायजनकत्वस्यान्यत्रादर्शनात् खस्या- स्वविषयत्वं विना न स्वविषयसंशयादिनिवृत्तिप्रसङ्गः। गाङ्कुटादिभ्य इत्यत्र कुटिरपि बहुव्रीहिविषय एव। अन्यथा खवस्मा- दन्यत्र व्यवहारजनने खविषयत्वं स्वस्मिन् स्वाभेदः प्रयोजक इत्यननुगमापत्तिः। एतेन-घटः खप्रकाशो घटत्ादित्या- भाससाम्यमपि-सूचितम्। एतेनानुमानान्तराण्यपि व्याख्यातानीति सर्वमनवद्यम्। एवंचात्मखप्रकाशतमपि निरस्तं भवति। नह्यात्मा चिद्रूपः । विज्ञाता प्रज्ञातेत्यादिना तस्य तदाश्रयत्वावगमेन तद्वि- रोधात्। विमतं ज्ञानं, भिन्नाध्रयविषयकं, ज्ञानत्वात्, ज्ञानान्तरवत्, विमतं, न साश्रयविषयकं, गुणतात्। अम्योष्ण्यवत् इति विद्यासागरोक्तानुमानमपि मामहं जानामीति प्रत्यक्षवाधात्, अज्ञान इव ज्ञानेऽपि स्वाधयविषयोपपत्त्याSप्रयोजक- लात्, अन्तःकरणविषयायां तदाशरितायां शब्दजन्यवृत्तो आद्यस्य साश्रयदीपगतान्धकारविरोधिनि तद्विषयेच दीपगतशु- कभाखररूपे द्वितीयस्य च व्यभिचाराच्चाप्रयोजकमिति मन्यामहे। एतेन-आत्मैवास्य ज्योतिरिति श्रुतेरपि तत्र न मानतमिति-सूचितम्: तस्य परमात्मपरतवात्, द्युम्वाद्यधिकरणन्यायेन तत्रवात्मशव्दस्य मुख्यलात्। अत्रायं पुरुषः स्वयं ज्योतिरिति वाक्यमपि अस्येति पदानुषक्वेणायमीश्वरो जीवस्य ज्ञानहेनुरित्येवंपरतया व्याख्येयम्। वाचवायं ज्योतिषाऽडस्ते इत्यादौ ज्योतिःशब्दस्य ज्ञानसाधनपरलात्। एवंच आत्मखप्रकाशत्वं न युक्तमेव। अतएवहि अत्र- पदसार्थक्यम्। आत्मखप्रकाशत्व्यवहारस्तु सवविपयत्वेनोपपद्यते यथा दीपादो। सजातीयप्रकाशाप्रकाश्यत्वं न खवप्रका- शत्म् ; घटादीनामपि खप्रकाशत्वापत्तेः । आत्मा, खप्रकाशः, खसत्तायां प्रकाशव्यतिरेकविधुरत्ात, प्रकाशाश्रयत्ादिति विवरणानुमानं तु अवेद्यलस्य सजातीयप्रकाशाप्नकाश्यत्स्य स्वविषयप्रकाशत्स्य वा साध्यत्वे दुःखादिव्यभिचारार्थान्तरा- पसिद्धान्ताद्यापत्त्या न प्रयोजकम्। अनुमानान्तराण्यपि सिद्धसाधनानैकान्तिकतादिप्रसङ्गादसअ्गतानीति विस्तरभयादुपर- मामः। एवंच योगिकापुनरुक्तानन्तादिशव्दवाच्यतया वेद्यत्वादनन्तगुणं ब्रह्मति सिद्धम्। पतेन-ब्रह्मावाच्यतसिद्धान्तोऽपि-पराहतः; अवाच्यशव्देनैव वाच्यलात्। नह्यवाच्यरूपमुख्यार्थाभावात् लक्षणाप्युपपद्यते। लक्ष्यत्वेऽपि वा लक्ष्यपदेनवावाच्यतवसिद्धिः। अन्यथा गङ्गापदलक्ष्यस्यागङ्गालवत् ब्रह्मणोऽलक्ष्यतापत्तः। एतेन-निर्विशेषपदमपि-व्याख्यातम्। एतेन-सत्यज्ञानादिपदवाच्यलमपि-सूचितम्। नह्यन्यथा तत्सत्त्वाद्यु- पपद्यते। समासपदानामपि निर्विशेषादिपदानां अन्विताभिधानमतानुसारेण वाकास्थानीयानां वाचकत्वमेव "यतो वाचो निवर्तन्ते" "अशव्दमस्पश"मित्यादिका तु श्रुतिरद्भुतलाभिप्राया, मनोवृत्तेरिव वाग्वृत्तेरपि सर्वथा निषेधायोगात् । आनन्दाद्यनेकपदामुख्यार्थत्ापेक्षया निवरतन्ते इत्येकपदामुख्यार्थतमेव युक्तम्। एवंच तात्पर्यविषयो ब्रह्म वाच्यम् वस्तुतात् लक्ष्यत्वाच् तीरवदिति सिद्धिम्। परमार्थसत्यादिपदं, कस्यचित् याचकम्, पदत्वादित्यनुमानमप्यत्र प्रमाणम् । नहि ब्रह्मणोऽवाच्यत्वे उपनिषदितरानधिगम्यस्य तस्य लक्ष्यत्मुपपद्यते; वाच्यार्थसंबन्धितया ज्ञातस्यैव लक्ष्यलात्। अन्यथा वेदान्तवैयर्थ्यात्। इति सर्वमनवद्यमिति-वर्णयन्ति॥
(२) अद्वैतसिद्धिकारास्तु- परिणममानाविद्याधिष्ठानत्वमपि ब्रह्मणः खप्रकाशतादुपपद्यते। ब्रह्मणः खप्रकाशत्वात्तु तज्ज्ञानार्थ प्रमाणान्तरानपेक्षा। स्वप्रकाशत्वं च अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यल्ात्यन्ताभावानधिकरणलम् । अनधिकरणत्वस्य स्रूपलात् मोक्षेऽपि सत्त्वेन नाव्याप्तिः। स्वरूपस्यापि लक्षणत्वं लन्मते ब्रह्मामिन्नानन्दादी गुणत्व्यवहारवदुपपद्यते। अभाव्ात्र योग्यत्वि रोधी व्यावहारिको वा विवक्षित इति न ब्रह्मण्यसंभवः। अवेद्यत्वंचात्र फलाव्याप्यत्वरूपमेव विवक्षितम्। घटादीनामपि फलव्याप्यलस्य पूर्वमेवोपपादनात् अपरोक्षव्यवह्ारपदेन प्रमाणजन्यापरोक्षवृत्तिविषयत्वस्यैव विवक्षणाच्च न घट्शुकिरू- प्यादावतिव्याप्तिः। ब्रह्मणस्तु न फलव्याप्यतम् ; खस्य सासंबन्धादिति नासंभवोऽपि। अपरोक्षव्यवहारश्वापरोक्ष इति शन्दप्रयोग एव विवक्षित इति न तद्दुर्वचम्। तब्न योग्यत्वं प्रमातारं कंचन प्रतीति न दोषः । स्वाविषयमपि स्फुरणं
Page 536
[जीवाणुत्वनिरास:] गौडब्रह्मानन्दीयुता। ८५७
स्वभावभेदात्खव्यवहारजनकमिति न व्याहत्याद्यवकाशः। एतेन-चिदविषयस्वरूपतमपि खप्रकाशत्वं निर्दुष्टमिति- सूचितम् ; नहि सवमेव स्वस्य विषयः । चिदन्यस्य सर्वस्य चिद्विषयत्वात्तुच्छस्य निःस्वरूपलवान्नातिव्याप्तिः । मिथ्यातानु- मितिस्तु खपरविषयतानियामकेनकेन रूपेण खवविषयापीति युक्कतं नवमत्र। स्ववेद्यतस्य बावितत्वेन तदादायार्थान्तराप्र- सङ्वेन स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षतमपि तत् संभवति। खप्रकाशत्वं चेह ब्रह्मस्वरूपमेवेति न तत्तात्विकत्वेऽद्वैनहा- न्यापत्तिरिति सर्वमनवद्यम्। पतेन-अनुभूतिः, खप्रकाशा, अनुभूतितादिति व्यतिरेक्यनुमानमपि तत्र प्रमाणमिति-सूचितम्। नच साध्या- प्रसिद्धिः; वेद्यत्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगि इत्यनुमानेन साध्यप्रसिद्धिसंभवात्। अत्रच चिदविषयत्रूपखप्राकाशत्स्य साधने वेद्यत्वं चिद्विषयत्वरूपमेव चिदन्यमात्रवृत्ति पक्षः। अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वरूपत्वे फलव्याप्यत्रूपं तत्। साध्यं तु पूर्वत्रात्यन्ताभावप्रतियोगित्वमुत्तरत्रापरोक्षव्यवहारयोग्य किंचिन्निष्ठात्यन्ताभावप्रतियोगित मित्याद्दवतसिद्धौ विस्तरः। श्रुतिविशेधात्तु नात्र सत्प्रतिपक्षादिकम्। कल्पितव्यक्तिभेदमादायानुभूतितजातेः शुद्धेऽपि संभवान्नासिद्धिः। जात्यन्यू- नसत्ताकव्यक्तिभेदसापेक्षव सेति नातिप्रसङ्गः। अनुभाव्याभावेऽ्यनुभूतित्वं अनात्मनि अनुभूतिशब्दप्रयोगश्व पूर्वमेव निर- स्तमिति न दोषः। पतेन-अनुमानान्तराण्यपि-व्यख्यातानि; नहि सवस्यव स्ववेद्यत्वम; विषयविषयिभावस्य भेद व्याप्तलात्। म्वेनैव स्वव्यवह्यारोपपत्ती न स्वविपयतोपपादकं किंचिदस्ति। वेदान्तप्रामाण्यादिकं वृत्तिविषयत्मात्रेणोपक्षी- णमिति न विरोधः । एतेन-आत्मखप्रकाशतमपि-व्याख्यातम्। यथाचात्मनो न ज्ञानाश्रयत्वं किंतु ज्ञानरूपलमेव, तथाऽन्यत्र विस्तृतम्। एवंच निर्धर्मकतयाऽवंद्यतया च ब्रह्मानन्दादिपदलक्ष्यम्, न वाच्यम्, प्रवृत्तिनिमित्ताभावादिति मन्तव्यम् । अवाच्यशब्दस्तु वाच्यतात्यन्ताववोधनद्वारा लक्षणया स्वरूपे एव पर्यवसन्नम्। वस्तुतस्तु ब्रह्म न लक्ष्यमपि; वाच्यलाभावनिबन्धनत्वात्तव्यवहारस्य। लक्ष्यत्वाभावेन वाच्यतव्यवहारोऽपि गाण इष्ट एव। यथाचान्विताभिधानेऽपि सरू- पलक्षणाSविरोधस्तथा पूर्वमेव निरूपितम्। एवंच-व्रह्मणि न शब्दस्याभिधया प्रवृत्तिः । एतदमिप्रायव "यतो वाचो निवर्तन्तं" इति श्रुतिरिति मन्यामहे; निर्धर्मकतया बाधात्, सधर्मकत्वेन सोपाधिकत्वाच् तात्पर्यविषयो ब्रह्म वाच्यमिति अनुमानमपि परास्तमिति सर्वमनवद्यमिति-निरूपयन्ति ॥
(३) तरङ्गिणीकारास्तु- नापरोक्षव्यवहारविषयतयोग्य लात्यन्ताभावानधिकरणत्वं खप्रकाशतम्। स्वरूपस्यालक्षणत्वेनानधिकरणतस्य स्वरूप- तायोगेन मुक्तावव्यप्ः, घटादीनामपि प्रमाणजन्यापरोक्षवृत्तिविषयचैतन्यैक्याध्यासेनापरोक्षतोपपत्तौ तद्ृत्तिविषयलाभा- वेनोक्तवत्तिविषयत्स्येव लक्षणतसंभवेवंद्यत्वे सतीत्यस्यैयर््याच्च,्रह्मणोि फलव्याप्यत्वेनासंभवाच। ्वस्यापि स्वविपयत्वं संभवत्येव मिथ्यात्वानुमितेरिव, तंत्रेवात्र व्यवहारजनकत्वस्यैकस्य प्रयोजकस्य विद्यमानलात्। एवंच ब्रह्मणो स्वप्राकाशतान्नाविष्ठानलमिति मन्तव्यम् । एतनानुभूति खप्रकाशल्ानुमानान्यपि निरस्तानि। यथाच ब्रह्मणो वाच्यत्वं यतो वाच इत्यादीनामन्यत्र तात्पर्यात् तथा- ्न्यत्र विस्तर इति सर्वमनवद्यमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- स्वरूपस्यापि लक्षणलस्य तत्र तत्रोपपादितत्वात् स्वस्य स्वविषयत्वस्यापि तथैव पूर्वमेव तत्र तत्र साधनादवेद्यत्वे सत्य- परोक्षव्यव हारविषयत्वरूपस्प्रकाशत्वं ब्रह्मणि संभवत्येव। एतेन-श्रुत्यनुगृहीतानि तदनुमानान्यपि-व्याख्यातानि । अवाच्यस्यापि ब्रह्मणो लक्ष्यत्मपि तत्रतत्रोपपादितमिति सर्वमनवद्यमिति-विवेचयन्ति॥
इति ब्रह्मस्वप्रकाशत्वलक्षणोपपतत्याद्यः।
जीवाणुत्वनिरासः । (१) तत्र न्यायामृतकारा :- अणोर्जीवस्य न व्यापकेन ब्रह्मणाऽमेदः संभवदुक्तिकः। तदणुत्वे च "अणुर्ेष आत्माडयं वा स एते सिनीतः पुण्यं च पापं च" बालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्ताय कल्प्यते" इत्यादिश्रुतिः अणु- अ. सि. १०८
Page 537
८५८ अद्वैतसिद्धिः । [परिच्छेद: २ ]
मात्रोऽप्ययं जीव इति स्मृतिः, उत्क्रान्तिगत्यागतिक्रियावत्वादिहेतुकं ख्वशरीरदृष्टान्तकानुमानानि च प्रमाणम्। नाकस्य पृष्टे सुकृते तेऽनुभूला इमं लोकं हीनतरं वा विशन्ति ते अशुभमनुभूयावर्तन्ते इति श्रुतौ तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मवि- दो जना: इति श्रुतौच सुखदुःखाद्यनुभवस्य मुक्तिसामानाधिकरण्यश्रवणात् बुद्धिसंबधिन्येवेयं गतिरिति युक्तम्। नहि युद्धि- गतेन गत्यादिना घटगतेनाकाशस्येवात्मनो गत्यादिकं संभवति। उपचरितार्थत्वेतु बहूनां वाक्यानामप्रामाण्यकल्पनाप्रसङ्गः। अणुत्वेऽपि जीवस्य देहव्यापि सुखाद्यनुभवः, प्रभया दीपस्येव स्वधर्मभूतज्ञानेनोपपन्न एव। नित्यः सर्वगतस्थाणुरित्यत्र हि सर्वगतेश्वरस्थोऽणुश्वेत्येवार्थो बोधनीयः इति न तस्य जीवसर्वगतत्वे प्रामाण्यम्। एतेन-वुद्धेर्गुणेनेति श्रुतिरपि-व्याख्या- ता; तस्या बुद्धेर्गुणेनावरः, आत्मगुणेनारात्रमात्र इति योजनया जीवाणुत्वे एव तात्पर्यात्। जीवोऽनणुः प्रत्यक्षतादित्य- नुमानं तप्रयोजकमिति मन्तव्यमिति-वर्णयन्ति ॥ (२) अद्वैतसिद्धिकारास्तु- जीवो नाणः; नित्यः सर्वगतः स एष महानज इत्यादिना तद्यापकत्वावगमात्। अणुहेष आत्मेत्यादिकं दुर्जेयत्वाभि प्रायम्। उत्क्रान्तिगत्यादिकं वुध्धुपाधिकमेव जीवस्य न ख्वत इति न तेनाणुतसाधनसंभवः । मुखदुःखाद्यनुभवस्यापि बुध्धुपाधिकत्वात् नाकस्य पृष्ट इति सुखदुःखाभावसामानाधिकरण्यमपि न विरुद्धम्। अव्यापकस्यवाव्यापकं प्रति गमनसं- भवेन व्यापके ब्रह्मणि गमनप्रतिपादकवचनानां स एतान् ब्रह्म गमयतीत्यादीनामुपाधिकृतभेदराहित्यपरत्वेन गतिसामाना- धिकरण्येऽतात्पर्येण तदपि न विरुद्धम्। यद्रुद्यवच्छिन्नेन येनात्मना यत्कृतं तस्यैव तद्भोगान्न कृतहान्यादिप्रसङ्गः। उपाधि- गत्योपहिते गतिप्रयोग औपचारिक एवेति मन्तव्यम। जीवाणुत्वसाधकान्यनुमानानि च श्रुतिविरोधादप्रमाणम्। नहि गुणि- व्यतिरेकेण गुणस्य कुत्राप्युपलम्भः, येन गुणव्याह्या सर्वशरीरव्यापिमुखानुभवादिकमुपपद्यतेति जीवाणुत्वे तदनुपपत्तिर- प्यपरिहायेव। दीपादन्यत्र दृश्यमाना तु प्रभा न दीपगुण इत्याद्यद्वैतसिद्धी विस्तृतम। आकाशवत्सर्वगतश्च नित्यः स एष महानज इत्यादिश्रुत्यनुसारेण "नित्यः सर्वगतः स्थाणु"रित्यस्यापि जीवसर्वगततस्थाणुलादिवोधन एव तात्पर्यमिति सर्वम- नवदम्। एतेन-जीवव्यापकत्ानुमानमपि-व्याख्यातमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- सुखादिभोक्तृत्वस्यात्मधर्मलमेव युक्त्तमिति कर्तृत्वाध्यासभने निरूपितम्। नाकस्य पृषे इति मुखसामानाधिकरण्येन गति- रात्मधर्म एवेति ततस्तदणुलमवगच्छामः। विभोरप्याकाशस्य सर्वमृर्तक्रियाजन्यसंयोगाश्रयत्रूपतद्याप्यलात् "ब्रह्म ब्रह्म- विदो जना" इति श्रुतिरस्माकमेवानुकूलेति बुद्धुपाधिकमेव जीवगत्यादिकमिति न युक्तम। आकाशवत्सर्वगतक्ष नित्य इत्यादीनां ईश्वरपरत्वेन न जीवविपयत्वमिति तदविरोधात् नित्यः सर्वगत इति स्मृतो सर्वगतस्थत्वं अणुत्वं चव वोध्यते इति जीवाणुलसाधकानुमानान्यपि समीचीनान्येवेति सर्वमनवद्यमिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- सुखादिभोक्तृत्वस्यानात्मधर्मत्वं कर्तृत्वाध्यासोपपत्ता निरूपितमिति सुखानुभवितृत्सामानाधिकरण्यादेव न गतिरात्म- धर्म इत्यध्यवस्यामः। नहि व्यापके गमनं मुग्यं संभवतीति उपाधिनिमित्तभेदविरह एव ब्रह्मगमनवाक्यानामर्थः । एवंच वुद्यपाधिकमेव गत्यादिकमिति मन्तव्यम्। वुद्धेरगुणनेत्यस्य क्रमान्वयसंभवे व्युत्क्रमेान्वयो हि न संगतः। एवंच जीवप- रमात्मनोर भेदस्योपपन्नलात् अभिन्नात्मसाक्षात्कारणार्थमेव श्रवणादिकमनुष्टेयमिति सर्वमनवद्यमिति-विवेचयन्ति ॥ इति जीवाणुत्वनिरासः। इति चतुर्ग्रन्थ्यां द्वितीय: परिच्छेद;।
Page 538
श्रीः ।
। तृतीयपरिच्छेदः॥
अथ मनननिदिध्यासनयोः श्रवणाङ्गत्वोपपत्तिः। तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुमि- रनुष्ठेये। तदुक्तं विवरणे-'श्रवणमङ्गि; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते' इति फलोपकार्यङ्गे। ननु-श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम्, वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्जञानरूपे वा करणे इतिकर्तव्यतामात्रत्वा- दिति-चेन्न; शब्दशक्तितात्पर्यावधारणं तावत् विचारः। अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावात् अद्गित्वनिर्णयात्। तदुकं विद्यासागरे- अनुमिता लिङ्गज्ञानवत्तात्पर्यविशिष्टशब्दज्ञानं करणम्, अतस्तात्पर्यावधारणरूपविचारस्याद्गि त्वम्। नच-आकाह्कादिसहितशब्दज्ञानस्यैव करणत्वसंभवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्प- र्यक्षानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति-युक्तम्; एवं साकाक्कादिधियोऽपि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। श्रीनारायणतीर्थानां गुरूणां चरणस्मृतिः । अहं तयैव व्याकुर्वे सारस्वतसरस्वतीः। तद्ङ्गतया मुमुश्षुभिरनुप्रेये तदिच्छाप्रयुक्तेच्छाधीनमुमुक्षुप्रवृत्तिविपये। अङ्गस्याङ्गिरूपफलेच्छाधीनचिककीर्षा- जन्यकृतिसाध्यत्वात्। अपूर्वविशिष्टयागेच्छया प्रयाजादरिव साक्षात्कारविशिष्टश्रवणेच्छया मनननिदिध्यासनयोश्ि- कीपा। श्रवणस्य मननाद्यङ्गकत्वाभावे तु साक्षात्कारेच्छयैव तयोः सेति अङ्गाङ्गिताविचारस्य कर्तव्यस्य फलमिति भावः। प्रमेयावगमं प्रत्यव्यवधानात् प्रमास्वरूपं प्रनि कारणत्वात्। प्रत्यगात्मप्रवणेति। ब्रह्मात्मैक्यमात्रविषयकेत्यर्थः। तदेकाग्रवृत्तीति । विपरीतभावनाशून्यव्रह्मात्मैक्याकारवृत्तीत्यर्थः। मननेनासंभावितत्वज्ञानरूपस्योपेक्षाज्ञानचित्त- विक्षेपयोरहैतोर्निवृत्योपेक्षानात्मकब्रह्मात्मैक्यमात्रज्ञानेनोक्तसंरकारः, निदिध्यासनेन च तस्य बाहुल्यरूपं तत्प्रयुक्त- जातिविशेपरूपं वा दार्व्यं सम्पद्यते। ततो विपरीतसंस्कारनिवृ्त्त्योक्तिकाअ्वृत्तिरिति भावः। ब्रह्मानुभवहेतुता अविद्यानिवृत्त्युपधायकानुभवप्रयोजकताम्, अङ्गस्य प्रधानजन्यफलाहेतुत्वात्। नच-उक्तटठसंस्कारद्वारोक्तकाप्रवृत्ति- रूपोक्तानुभवप्रयोजकतां प्रतिपद्येते इत्येव कुतो नोक्तमिति-वाच्यम्; विपरीतसंस्कारनिवृत्युत्पत्तिकाले जायमान- वृत्तावप्रामाण्यशङ्कासंभवेन तच्छृन्यवृ्त्त्यन्तरस्येव अविद्यानिवृ्त्युपधायकत्वात्। फलोपकार्यड्े उक्तकाअ्रवृत्तिरूपो यः फलस्याप्रामाण्यशङ्काशून्यसाक्षारकारस्य प्रयोजक उपकारस्तज्नकाङ्े। शक्तितात्पर्येति। प्रमाजननानुकूलशक्ति- रूपतात्पर्येत्यथः । अपौरुपेये वेद पुरुपेच्छारूपशक्त्यभावात्। कारणकोटिप्रवेशेन कारणतावच्छेदकघटकत्वेन। ननु-शब्दत्वेनैव करणत्वम्, न त्ववष्टततात्पंर्यकशब्दत्वेन; गौरवात्, तत्राह-तदुक्तं विद्येति। लिङ्रश्ञानवत् लिङ्गविशिष्टज्ञानवत्। तात्पर्यविशिष्टशब्दज्ञानं तात्पर्यावधारणविशिष्टं शब्दज्ञानम्। लिङ्गज्ञानत्वेन कारणता- आ्राहकं जायमानलिङ्गत्वेनेव शब्दज्ञानतात्पर्यावधारणत्वेन कारणताग्राहकं मानमवष्टततात्पर्यकशब्दज्ञानत्वेनापि कारणतां गृह्णाति; विशिष्टधर्मिकमानस्य बाधकं बिना विशेषणे विधेयग्राहकत्वनियमात्। ज्ञायमानलिङ्गस्यातीतादेरपि ज्ञानसंबन्धेन कारणत्वमित्यादिकमुदयनमते प्रथमपरिच्छेदे अम्माभिरुक्तम्। विशेषणस्य कारणताआ्राहकत्वे अन्यथा
त्वेन। आदिपदात् 'पदान्तरेण सह संभूय विशिष्टार्थबोधकमिदं पद'मित्याकारकज्ञानत्वेनैव च करणतवसंभव इत्यर्थः। एघकारादवरततात्पर्यकशब्दज्ञानत्वेन करणत्वव्यवच्छेदः । तत्र हेतुः-उपक्षीणतया तातपर्यज्ञानस्येत्यन्तम्। उप- क्षीणतया अन्यथासिय्या। तथाचावषततात्पर्यकशव्दत्वेन नतरां कारणतेति भावः । करणकोटिप्रवेश इति। अपीत्यादिः। तात्पर्यज्ञानस्येत्यनुषज्यते। उक्त्तज्ञानत्वेनैव च करणत्वसंभवेऽपि तात्पर्यज्ञानस्य करणकोटिप्रवेश इत्यर्थः।
Page 539
८६० अद्वैतसिद्धिः । [परिच्छेद: ३ ]
निराकाककत्वादिभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाक्कादिकमपि करणकोटिप्रविष्टं न स्यात्। न चान्योन्याश्रय :; सामान्यतोऽर्थावगमनेन तात्पर्यग्रहसंभवात्। अन्यथा नानार्थादौ विनिगमना- दिकं च न स्यात्। तथाच सर्वत्र तात्पर्यश्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शा- ब्दघीः, तत्र तात्पर्यज्ञानस्य हेतुता त्रह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्यैव। अत एव न विवरणविरोधोऽपि। ननु-तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसंभवात् बाह्याग- मेऽपि तात्पर्यप्रमासंभवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यात् इति-चेन्न; वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्यभ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषे- यतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्वव्यवस्थासंभवात् तात्पर्या- शस्यावघातादेरिव यागे शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम्। नच दृष्टान्ते करणद्रव्यशेषत्वात् तथाः सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वात्। ननु-सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादि: शेषी
गौडब्रह्मानन्दी (लघुचन्द्रिका)। आकाक्कादिकमिति। तथाच आकाङ्कादिज्ञानाभावे विपरीतव्युत्पन्नस्येव तात्पर्यज्ञानाभावे शुकादिवाक्यश्रोतुः शाब्दबोधोत्पत्तावपि स्वविशिष्टशाब्दबोधे साकाङ्कशब्दज्ञानस्येव तात्पर्यज्ञानस्यापि हेनुत्वमन्वयव्यतिरेकबलात् यद- भावविषयकौ यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धकौ तन्निश्चयस्तद्वेतुरिति व्याप्तेश्चेति भावः । अन्योन्याश्रयः वाक्याथस्य शाब्दबोधपूर्व मानान्तरेणानिश्रयात् शाब्दनिश्चये सत्येव वाक्यार्थघटिततात्पर्यनिश्चयः, तस्मिन् सत्येव शाब्दनिश्चय इत्यन्योन्याश्रयः । सामान्यतः तात्पर्यनिश्चयकालीनापातरूपेण पदार्थत्वरूपेण पदार्थविषयकेण। नानार्थेति। अन्वययोग्यनानार्थोपस्थापकपदेत्यर्थः । गां देहीत्यादौ धेनुभूजलादिनानार्थानां दानकर्मत्वान्वययोग्य- त्वेन योग्यता न विनिगमिका, किंतु तात्पर्यमिनि भावः। विपर्ययोत्तरेति तात्पर्यनिश्चयोत्तरोपलक्षणम्। विशेष- दर्शनस्येवेति। तदनुत्तरप्रत्यक्षे विशेषादर्शनस्येव स्वविशिष्टान्यशाब्दबोधे तात्पर्यंज्ञानाभावस्य हेनुता। तेन तात्पर्यानिश्चयेऽपि सामान्यसामप्रया शाब्दबुद्धेर्नापत्तिः । एवंच लिङ्गन्यायेनावष्टततात्पर्यकशब्दत्वेन हेतुत्वम्, मननादी तु न लिङ्गन्यायः; शब्दाघटितरूपेणव तत्र हेतुत्वात्। विनिगमकाभावेनाप्युक्तशब्दत्वेन तद्रोध्यम्। विवरणविरोधः विवरणोक्तश्रवणाङ्गित्वविरोधः। तात्पर्यप्रमासंभवात् 'स्वर्गकामः सिकतां भक्षये'दित्यादौ सिकताभक्षणादौ स्वर्गसाधनत्वबाधेऽपि तन्मते बाधाभावमंभवेनाबाधितवाक्यार्थतात्पर्यधीसंभवात्। न स्यादिति। सथाचाप्तशब्दत्वेनेव शाब्दप्रमायामनाप्तशब्दत्वेन शब्दभ्रमे हेतुत्वावश्यकत्वे तात्पर्यज्ञानमन्यथासिद्धमित्यभिमानः । कुत्रचित् विपये। दुष्टत्वेन यथार्थतात्पर्यशून्यत्वेन। तथाचाबाधितवाक्यार्थधीरेव शाब्दप्रमाहेतुः, बाह्यागमे तु वाक्यार्थो बाधितः। बाद्यानामबाधितत्वधीस्तु नोपयुक्ता। वस्तुतो निर्दोपत्वरूपाप्तत्ववच्छ्दत्वेन शाब्दप्रमाहेनुत्वेऽ- प्युक्तयुक्त्या तात्पर्येणावधारितशब्दत्वेनापि हेनुत्वमव्याहतम्। करणतावच्छेदकघटकत्वेन शेपित्वमुक्त्वा करणं प्रति सन्निपात्याङ्गत्वेनापि तदाह-तात्पर्याशस्येति। तात्पर्यावधारणस्येत्यर्थः । अ्रयोजकत्वादिति। ननु-करणो- पकारकगतदृष्टादृष्टान्यतरोपकारजनकाङ्गत्वमेव सन्निपात्याङ्गतवमिति-चेत्, केन त्वमित्थं प्रतारितः ? करणस्वरूपे सद्गतयोग्यतायां वा प्रयोजकाङ्गतवमेव हि तत्। अन्यथा द्रव्यदेवतादीनां सव्निपात्यारादुपकाराङ्गयोरन्तर्भावासंभवेन तृतीयाङ्गरवकल्पनापत्तेः । नहि द्रव्यादिकं करणीयद्रव्ये अवघातादिवत दृष्टं प्रोक्षणादिवद्दष्टं वातिशयं जनयति। किंचाभिक्रमणाढेः प्रयाजादिकं प्रति त्वन्मते सन्निपातित्वमारादुपकारकत्वं वा। नाद्यः; उक्तलक्षणाभावात्। करणोपकारकोद्देशेन विहितत्वं हि लक्षणं त्वया वाच्यम्। अन्यथा कर्तृगतादृष्टजनकस्यापि तदापत्तेः। नान्त्यः सन्निपातित्वसंभवे सस्यान्याय्यत्वात् । मन्मते तु कर्तृसाननिध्यद्वारा प्रयाजहोमनिष्पादकत्वात् सन्निपात्यङ्गतोपपत्तिः। तथाच प्रोक्षणादवीह्यादिनिष्ठातिशयाधीनकरणनिष्टयोग्यतायामिव तात्पर्यावधारणस्यापि करणीभूतशब्दनिष्ठायामव- छृततान्पर्यकत्वरूपयोग्यतायां प्रयोजकत्व्रात् सव्निपात्याङ्ग्त्वमव्याहतम्। तस्मात्- गुणकर्मत्वरूपेऽयं सन्निपातित्वविभ्रमः । तवव युज्यते शास्त्रविचाराक्षमभूपतेः॥ तथा हि पारमपं सूत्रं-यस्तु 'द्रव्यं चिकीर्षते गुणस्तत्र प्रतीयते।' इति। ननु-सन्निपत्याङ्गस्यापि कथमद्गित्वम्? यदुद्वेशेन यत् विहितं तस्येव तद्द्गित्वेनावघातादेः प्रयाजाद्यङ्गित्वासंभवादिति-चेन्न; परमापूर्वप्रयोजकयोग्यता- विशिष्टयागमुद्दिश्यैव प्रयाजादिकं विधेयम्, यागस्वरूपे तत्साधनत्वासंभवात्। तथाचोक्तयोग्यताया यागस्वरूपस्य चोद्देश्यत्वंनाङ्गित्वात् योग्यतोपधायकत्वोपहितेन रूपेण प्रोक्षणादेः यागस्वरूपोपहितवतुप्याद्युपहितरूपेणावघाता- देश्राद्वित्वसंभवात् तद्वदवष्टततात्पर्यकत्वरूपा या ब्रह्मानुभवयोग्यता तद्विशिष्टशब्दोद्देशेन मननादेविधानादुक्त्-
Page 540
[मनननिदि० श्रवणाङ्गत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ८६१
स्यादिति-चेन्न; विशिष्टयागप्रविष्टतया शषित्वे इष्टापत्तेः, असाधारण्येन शेषिता तु असाधारण- फलोपकारकत्वे स्यात्, असंभावनाविशेषनिवृत्तिरूपासाधारणोपकारजनकत्वात् सापि श्रवणस्य संभावितैव । अत एवोक्तं चित्सुखाचार्यै :- 'करणीभूतशब्दगतातिशयहेतुत्वात् श्रवणस्य करणत्वे- नाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशयहेतुत्वात् फलोपकार्यङ्गते'ति । नन्र-एवं सोमयागसहकारिभू तदीक्षणीयाद्यङ्गस्य तद्गतातिशय हेत्वभिषवत्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति-वाच्यम्; पूर्ववदुक्तोत्तरत्वात्। तदुक्तं तत्त्वशुद्धौ-'करणीभूतशब्दधर्मशक्तितात्पर्यविषय- त्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्व' मिति। नच-शब्देनापरोक्षश्प्तौ अप्रतिरुद्धापरोक्षशतौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्ावप्रतिरुद्धपरोक्षश्प्तौ चोत्पाद्यायां श्रवणस्याप्यपे- क्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति-वाच्यम्; मनननिदि- ध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः श्रवणं तु तस्य जनकतामेवेति विशे- पात्। यत्र च नैवं, तत्र तुल्यवदङ्गतैव। एतेन-"यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नादकामाय ऊइति स्वर्गकामाये'ति श्रुतानां वृष््यादिफलाय सौभरेतिकर्तव्यतानिधनगतहीपादीनां श्रवणमननादिवत् परस्परमङ्गा- ङ्विभावप्रसङ्ग इति-निरस्तम्; करणस्वरूपसंपादकत्वसहकारिसंपादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात्। नच-एवं करणापूर्वात्पत्तौ यागार्थस्यावघातादेः परमापूर्वात्पत्ती तदर्थः प्रयाजादि:
गोडव्रह्मानन्दी (लघुचन्द्रिका)। योग्यताथा अपि उद्देश्यत्वेनाङ्गित्वादुक्तयोग्यतोपहितरूपेण तात्पर्यावधारणस्य मननाद्यङ्गिता, तदिदमुक्तं-विशिष्ट- यागप्रविष्टतयेति। यागतन्निष्टयोग्यतान्यतरोपहितरूपेणेत्यर्थः। शषित्वे प्रयाजादिकं प्रति ब्रीह्यवघातप्रोक्षणादेः शेषित्वे। असाधारण्येन उक्त्तान्यतररूपेणावघातत्वादिना। असाधारणफलोपकारकत्वे असाधारणस्य मुख्यफलोपकारस्य जनकत्वे। असंभावनाविशषति। तात्पर्यासंभावनाविशेपेत्यर्थः । जनकत्वात् असाधारण्येन जनकत्वात्। सा तात्पर्यावधारणत्वरूपासाधारण्येन शेषिता। उक्तान्यतररूपफलोपकारजनकत्वस्यावघातत्वादिरपेण सत्वेऽपि तेन रूपेण स्वर्गादिरूपमुख्यफलाजनकत्वान्न शेपिता। तात्पर्यावधारणत्वरूपेण शाब्दसाक्षात्काररूपमुख्य- फलजनकतातूक्तवेत्याशयेन श्रवणस्येत्यवोक्तम्। तथाचोपकारस्यासाधारण्यं मुख्यफलजनकतानिर्वाहकत्वरूपं विव- क्षितमिति भावः। करणीभूतशब्दगतेति। उक्तसाधारण्येत्यर्थः । अथवा सन्निपत्योपकारकत्वेनाङ्गित्वे संवादोऽ- यमिति यथा श्रुतएवार्थः। मनननिदिध्यासनयोस्त्विति। तुशब्दात् सन्निपत्योपकारकत्वेन मुख्यफलजनकत्वेन वा नाङ्ित्वमित्यर्थः । दीक्षणीयाद्यङ्गस्य दीक्षणीयादिरूपस्याङ्गस्य। तद्गतातिशयेति। सोमगतातिशयेत्यथः। अभिषवग्रहणादीति। 'सोममभिपुणोति आश्विनं गृह्लाती'त्याधुक्ताभिपवादीत्यर्थः। उक्तोत्तरत्वात् विशिष्टयाग- प्रविष्टतया शेपित्वस्येष्टत्वादित्युक्तोत्तरत्वात्। जनकतां जननयोग्यताम्। यो वृष्टीत्यादि। ब्रह्मसामाख्यस्तोत्रं प्रकृत्य 'यो वृष्टी'त्यादि वाक्यं श्रुतम्। तेन वृध्याद्युद्देशेनोक्तस्तोत्राश्रितं सौभराख्यं साम विधीयते। सौभराश्रितं हीषादिकं शाखाभेदेन पाठात् निधनावच्छेदनैव आश्रयत्वमिति प्राप्ते-फलोद्वेशेन हीपादेरपूर्वविधिकल्पने गौरवात् उक्तपाठाद- नियमेन सौभराङ्गतया प्राप्तं हीपादिकं नियम्यते। वृष्टिसाधनसौभर एव हीपिति, अन्नाद्यसाधनसौभर एव ऊर्गिति, स्वर्गसाधनसौभर एव ऊ इति हीपादिशून्यनिधनयुक्तसौभरस्य शाखान्तरे क्वचित् पाठेऽपि तत्र हीपादीनां पक्षे- उप्यप्राप्तत्वान् प्रकृत उद्देश्यता। नच-वृष्टिकामादिपदेपु वृष्वादिसाधनसौभरेपु लक्षणा दोपः। वृष्यादिकामपुरुप- शेपत्वमेव हि हीपादीनां वाक्यार्थः। नियमविधिलाघवानुरोधेन वृष्यादिसाधनसौभरद्वारकं परं तत् स्वीक्रियते; साक्षाच्छेपत्वे बाधके सति परम्परया तत्स्वीकारस्य युक्तत्वात्, वृष्टिकामादिपदैः स्वसाधनसीभरद्वारा वृष्यादेर्भाव्य- त्वेन बोधनसंभवाच्च। तस्मात् हीपादिकं सौभरेतिकर्तव्यतारूपम्, नतु वृष्यादिफलसाधनमिति द्वितीयद्वितीये स्थितम्। फलाय साभरेतिकर्तव्यतानिधनगतहीपादीनां फलानुकूला या सौभरगतयोग्यता तज्जनकानां निधनगतहीपादीनाम्। करणस्वरूपसम्पादकत्वेति। करणस्वरूपतद्गतयोग्यतान्यतरप्रयोजकत्वेत्यर्थः । तत्प्रयो- जकस्य अन्ञयङ्गभावप्रयोजकस्य। अत्र श्रवणमननयोः । तत्र हीपूर्गाद्योः। ननु-मननादिरूपं करणसहकारिणं प्रति श्रवणस्य श्रवणत्वरूपासाधारण्येनैव प्रयाजादिरूपकरणसहकारिणं प्रत्यवघातादेरवघातत्वादिरूपासाधारण्ये- नाद्गित्वं स्यात्, नच-मुख्यफलजनकतात्पर्यावसितस्यासाधारणफलोपकारकत्वस्याभावान्न तदिति-वाच्यम्; कर- णस्वरूपतद्योग्यतान्यतरस्यापि किंचिदपेक्ष्य मुख्यत्वेन तज्जनकतासत्वादित्याशङ्क्य निरस्यति-नचैवमित्यादि। करणापूर्वोत्पत्तौ यागार्थस्य ,उत्पत्यपूर्वजनकतया यागतदयोग्यतान्यतरजनकस्य। प्ररमापूर्वोत्पत्तौ तदर्थः
Page 541
८६२ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
शेष: स्यादिति-वाच्यम्, एकफल उभयोर्योगार्थत्वाभावेन विशेषात्। ननु-कप्तं परोक्षज्ञानं लोके शब्दस्य फलम्। तथाच शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वं कथ- मिति-चेत्, साक्षात्वं न जातिः नवा इन्द्रियजन्यत्वादिकं नियामकं किंतु विषयगताज्ञाननिवर्त- कत्वमेवापरोक्षत्वे प्रयोजकम्। तथाचाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन। तञ्चात्मपर्यन्तत्वादत्रा- स्त्येवेति नाटष्टकल्पना। इत्थंच प्रकरणबलादपि सिद्धमस्याङ्गित्वम्; श्रवणस्य फलसंबन्धेन प्राधा- न्यसिद्धावितिकर्तव्यताकाङ्काया: संभवात् । ननु-यद्यपि न चित्तैका्यस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति; तथापि मननं न चित्तैकाश््यहेतुः युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टत्वेन चित्तैकाय्यहेतुत्वकल्पने सति दष्टहान्यापत्तेः मननविधेरपूर्वविधित्वापाता्च 'मतिर्या- वद्युक्तते' ति स्मृतिविरोधाञ्चति-चेन्न; तादृक्छङ्कायां सत्यां नानाकोटो चित्तविक्षेपस्य तस्याश्च निवृत्ती युक्तत्वेनावधारणविषयकोटी चित्तप्रवणतायास्तावत्पर्यन्तत्वस्य दष्टत्वेन दष्टहान्यपूर्वविधि- स्मृतिविरोधाभावात् निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा। ननु-तन्निवृत्तेः न ज्ञानहेतुता दृष्टा रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति-चेत्; 'इय शुक्ति' रिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात्। ननु-शब्दसामर्थ्यरूपेण लिङ्गेन 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इत्यादिवाक्येन निदिध्यासनस्य फलसंबन्धात् प्रकरणेन च श्रवणादिकं निदि- ध्यासने सन्निपत्याङ्गमिति-चेन्न; निदिध्यासनपदस्य बर्हिरदेवसदनमित्यादाविव साक्षात्काररूपफ- लसंबन्धे न शक्तिरिति शब्दसामर्थ्याभावात्। वाक्येपि योग्यतावलाच्छ्रवणमेवाध्याहियते। तथाच तच्छ्रवणाज््यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकृलार्थस्यव पर्यवसानात्। तस्माद् "द्रष्टव्यः श्रोतव्य' इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयादङ्गित्वम्। किंच
गौडब्रह्मानन्दी (लघुचन्द्रिका )। परमापूर्वे जननीये यागसहकारी। एकफलेत्यादि। यस्मिन् परमापूर्वे जननीये प्रथाजादिर्यागसहकारी, तज्जनक- त्वस्यावघातत्वादिरूपेणावघाताढावभावेन विशेषादित्यर्थः । तथाच यस्मिन् फले सहकारिणं प्रत्यङ्गिता वाच्या, तत्वमेव मुख्यत्वमुक्तमिनि भावः। शब्दातिशयाधारकस्य शब्दफलशाब्दबोधजनकस्य। साक्षात्कारफले- त्यादि। यस्मिन् साक्षात्कारे जननीये मननादिकं सहकारि, तज्जनकत्वेनाद्गित्वं यदुक्कतं तत् कथमित्यर्थः । पर्यन्त- त्वेन तत्संसृष्टत्वेन। अत्र श्रवणजन्यशाबदज्ञाने। प्रकरणवलात् इतिकर्नव्यताकाङ्काबलात्। फलसंबन्धेन वक्ष्यमाणरीत्या 'द्रष्टव्यः श्रोतव्य' इति श्रुत्युक्त्ेन फलसंबन्धेन। इतिकर्तव्यताकाङ्कायाः स्वनिष्टायां फलजननयोग्य- तायां जनकाकाङ्कायाः। भावनानिवर्तकता संस्कारनिवर्तकता। रजततया ज्ञातं रजतत्वावच्छिन्नप्रकारतानिरु- पितज्ञानीयविशेष्यनावत्। सत्वादिति। तथाच रूप्यसंस्कारानुवृत्ता शुक्तिप्रत्यक्षमसिद्धमिनि भावः। इत्यादाविव इत्यादिमश्रस्य बहिर्लवनादो स्वीयसाधनताबोधकत्वरूपसामर्थ्यमिव। फलसंबन्धे फलस्य निदिध्यासननिष्ठे साधनत्वे। न शक्ति: न बोधकत्वरूपसामर्थ्यम्। मत्रादिसाधननिष्टमर्थप्रकाशनसामर्थ्यमेव शब्दसामर्थ्यविधया श्रुतिकल्पनद्वारा साधनताबोधकम्, नु साधनबोधकशब्दनिष्टमिति भावः । अध्याहनियते तत इत्यनेन परामृश्यते। 'न चक्षुपा गृह्यते नापि वाचा नान्यैर्देवैम्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसश्वस्ततस्तु तं पश्यत' इत्यादि वाक्ये कर्मणः पूर्वमुक्तत्वात्तस्यैव श्रत्रणरूपविचारात्मकस्य परामर्शः । कर्मत्वरूपेण परामर्शेऽपि योग्यतावलात् श्रवणात्मककर्मभानम्। 'न कर्मणनि' निषेधस्तु तदन्यकर्मण; ज्ञानप्रसादपदेन मननाधीनबुद्धेकायस्थ विशुद्ध- सत्वपदन निष्कामकर्मानुष्टानाधीनसत्वशुद्धेः ध्यायमानपदेन निदिध्यासनस्योक्तत्वात् अवशिष्टश्रवणस्यैव तत्पदेन वक्कुमौचित्यात्। अव्यवहितपाठेति। 'सुवर्ण भार्य दुर्वणोऽस्य आ्रतृव्य' इत्यादाविव अव्यवहितपठितेष्टविशेप- साधनत्वं श्रवणे विधिना बोष्यते। मनननिदिध्यासनयोस्तु श्रोतव्य इत्यनेन व्यवधानाद्दर्शनरूपेष्टसाघनतवबोवनासं भवात् प्रकरणेन श्रवणाङ्गतानिश्चयेन श्रवणरूपेष्टसाधनत्वमेव बोध्यते। यन्तु दर्शपूर्णमासयो: श्रूयते-हस्तावव- नेनिक्ते उलपराजी: मृणाती'त्यत्राव्यवहितपठितेऽप्युलपराजिस्तरणमात्रे हस्तावनेजनं नाङ्गम्, अपितु योग्यत्वात्तदुत्तर- करिष्यमाणेप्वपीत्यस्य तृतीयप्रथमे 'आनन्तर्यमचोदने'त्यधिकरणे उक्तत्वात् सन्निधानं नान्वयनियामकम्-इति, तन्न; तम्र हि हस्तावनेजनस्य कर्तृसंस्कारत्वात् कर्तुश्च प्रयोगान्वयित्वेन तद्वारा करिण्यमाणसर्वाथत्वं लिङ्गप्रकरणाभ्यां युक्तम्, प्रकृते तु प्रकरणस्य फलान्तयात्पूर्वमसिद्धत्वात् लिङ्गस्य च मननादौ सर्वेऽपि सव्निधानसहकृतलिङ्गस्य बलवश्वेन श्रवणे दर्शनान्वयनियामकत्वसंभवात्। अत एव 'एप हवै हविषा हविर्यजते योऽदाभ्यं गृहीत्वा सोमाय
Page 542
[विवरणोक्तनियमोपपत्तिः] ८६३
निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्कारस्य कामिनीसाक्षात्कारवत् अप्रमात्वापातः नच मूलप्रमाणदाढ्यात् प्रमात्वं, तर्हि तदेव साक्षात्करणमस्तु ? किं तदुपजीविनान्येन पतेन- निदिध्यासनसहकृतमनःकरणत्वमपि-निरस्तम् ॥ इत्यद्वैतसिद्धौ मनननिदिध्यासनयोः श्रव- णाङ्गत्वम् ॥।
अथ विवरणोक्त्तनियमोपपत्तिः तञ्च श्रवणादिकं विषयावगमं प्रत्यन्वयव्यतिरेकसिद्धोपाय इति तद्विधेर्नापूर्वविधित्वम्, किंतु नियमविधित्वमेव। ननु-अत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वम् तञ्चान्यतो नावगतमित्यपूर्व- विधित्वमिति-चेन्न; गान्धर्वशास्त्रविचारे पडजादिसाक्षात्कारे हेतुताया दष्टत्वात्। नच-एतावता शास्त्रविचार: सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धम्, धर्मशास्त्रविचारे व्यभिचारादिति-वाच्यम्; अपरोक्षार्थकशास्त्रविचारत्वेन साक्षात्कारजनकतायास्तद्दर्शनवलेन सिद्धेः। आत्माच पड्जादिवद- परोक्षः न धर्मादिः। नच-अपरोक्षे विचारवैयर्थ्यम्, नहि यद्यदपरोक्षं तत्तद्विचार्यत इति नियम इति-वाच्यम्; अपरोक्षे विचार्यत्वनियमाभाववदविचार्यत्वनियमोऽपि नास्ति। पड्जादावपरो- क्षेऽपि विचार्यत्वदर्शनात् तद्वदेव साफल्यसंभवाच्च। सन्दिग्धत्वसप्रयोजनत्वयोरेव सर्वत्र विचा- र्यत्वे प्रयोजकत्वात्। एतेन -- विचार्यशास्त्रार्थस्य साक्षात्कारयोग्यस्य साक्षात्कारे स हेतुरिति न युज्यते, कालान्तरे साक्षात्करिप्यमाणत्वेन तद्योग्ये विचार्यशास्त्रार्थ स्वर्गनिध्यादौ विचारेण तदभा-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। यजते परा वा एतस्यायुः प्राण एति योंऽशुं गृह्णाती'त्यनारभ्य श्रुतम् अंशुवदाभ्यमिति यागनामनी, अंशौ यजत्य- अ्रवणेऽपि गृह्णानिचोदनासामान्येन ज्योतिष्टोमप्रकृतिकत्वात् तदीयद्रव्य देवतासंबन्धेन यागत्वसिद्धिसंभवात्। तथाच नाम्ना भेदाज्योनिष्टोमात् भिन्ना यागावेतावित्याशक्क्यादाभ्यस्याव्यवहितपाठात् ग्रहणेनैवान्वयादंशौ च यजतेर- श्रवणात् ग्रहणस्य संभ्कारत्वेऽपि नामसंभवात् ग्रहणे एव नामभेदात् मिन्ने विधीयते। ते च ज्योतिष्टोमाङ्गे इति द्विनीयतृनीये सिद्धान्तितम्। 'त्सरा वा एपा यज्ञस्य तस्माद्यत्किंचित् प्राचीनमझ्नीषोमीयात्तेनोपांशुचरन्ती'ति जयतिष्टोमे श्रुतमुपांशुत्वमझ्ीपोमीयप्राचीनस्य पदार्थस्याङ्गं, नतु यज्ञभागस्य। यत्किंचिदित्यनेनोक्तपदार्थस्य यजस्येत्यनेनोक्तयज्ञापेक्षया सन्निधानादित्युक्तंं नवम प्र्थमे।् किं 'ेि्ञसुनि्चिर्थाः आचार्यवान् पुरुषो वेदे'त्यादिवाक्येषु श्रवणदर्शनयोः साधनसाध्यबोधकत्वं निःशङ्कम्, विज्ञानशव्देन विचारस्येवोक्तत्वात् सुनिश्चयस्य वेदान्तज्ञानमान्रेणासंभवात्, विशव्दसाथक्यानुरोधाज्च; आचार्यवत्वस्य विचारसंबन्धेनैवोक्तत्वाच्च। अन्यथा त्रैवर्णि- कमात्रस्यास्याचार्य संबन्धेन वाक्यवैयर्थ्यादिति ध्येयम्। निदिध्यासनस्य दर्शनजननयोग्यतामभ्युपेत्यापि सन्निधानस- हितयोग्यतया श्रवणस्यैव दर्शनान्वय इत्युक्तम्। वस्तुतो निदिध्यासनस्य न सेत्याशयेनाह-किंचेति। मूलप्रमा- णदारढ्यात् निदिध्यासनप्रयोजकवेदान्तवाक्यस्य निर्दोपत्वात्। एतेन उपजीव्यवेदान्तवाक्यस्यैव करणत्वसंभवेन। निदिध्यासनरूपसहकारिमूलं वेदान्तवाक्यमेव वाच्यम्, तथाच तदेव करणमस्त्विति भावः । मनसः करणत्वस्य कुत्राप्यक्कृप्तत्वात् सुखादीनां साक्षिभास्यत्वात् न तत्करणम्; करणत्वेन कृप्तवाक्यादेव साक्षात्कारसंभवाच। नच- साक्षात्काराव्यवहितपूर्व वाक्यानुसन्धानकल्पने गौरवमिति-वाच्यम्; निदिध्यासनस्य शब्दत्वे तदनुसन्धानस्य आवश्यकत्वात्, स्मृतित्वे तत्रैव वाक्यविषयकत्वसंभवात् वाक्यसंस्कारादे: पूर्व सत्वादिति भावः। यन्तु-श्रुतमत- स्यैव निदिध्यासनम्, अतस्तन्न श्रवणमनने उपकारकत्वादङ्गे-इति, तत्तुच्छम्; एतावताप्यङ्गत्वासिद्धेः, तदुद्देशेन विहितस्यैव तदङ्गरूपत्वात्, उत्तरवर्तिनोरपि मनननिदिध्यासनयो: श्रवणे फलोपकार्यङ्गतासंभवात्। अत एव 'श्रुत्वा मत्वा तथा ध्यात्वा तद्ज्ञानविपर्ययौ। संशयं च निराकृत्य लभते ब्रह्मदर्शनम् ॥' इति स्मृतिर्न विरुध्यते। तस्मात् जअ्भ्यमानानुवचनवत् 'ततस्तु तं पश्यते निष्कलं ध्यायमान' दत्यत्र कर्तृकारकगतत्वेन श्रुतं ध्यानं कर्तृसंस्कारकतया श्रवणाङ्गम्। निःसन्दिग्धवाक्यान्तरे तत इति पञ्चम्या च निःसन्दिग्घहेतुताबोधिकया श्रवणस्य दर्शनार्थतवात्। तर्कैरित्यादि-श्रवणस्यैव शेषिता। इति लघुचन्द्रिकायां मनननिदिध्यासनयोः श्रवणाङ्गत्व निरूपणम्॥।
Page 543
८६४ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
वादिति-निरस्तम्; निध्यादिसाक्षात्कारे तदसन्निकर्षादजातेऽपि विचारस्य तद्धेतुता न गच्छतति। तत्र विचार इन्द्रियसहकारित्वेन तद्विलम्बेन विलम्बात्, प्रकृते तु शाब्दत्वात् साक्षात्कारस्य न तद- पेक्षा; अपरोक्षयोग्यार्थसाक्षात्कारत्वेन कार्यत्वस्य तादृशार्थकशास्त्रविचारत्वेन साधनत्वस्य सत्त्वात्। पतेन-प्रकृतकार्यविजातीयकार्ये प्रकृतविचारविजातीयविचारस्य हेतुताककप्तिमात्रेण तस्यापूर्वविधि- त्वत्यागे अपूर्व विधिमात्रोच्छेदापात इति-निरस्तम्। ननु-पाक्षिकप्राप्ती नियमः, सा च साधनान्तर- प्राप्ती, नच रूपादिरहितात्मज्ञाने तत्प्राप्तिरस्तीति-चेन्न; निर्विशेषात्मनि मानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियमसंभवात्। यथाऽपूर्वीयेषु व्ीहिविशेषेषु नखविदलनादेरप्राप्तावपि व्रीहिसामान्ये तत्प्राप्त्या व्रीहीनवहन्तीति नियमविधिः।ननु-व्रीहीनवहन्तीत्यत्र व्रीहिपदमपूर्वीयद्र- व्यपरं नतु व्ीहिमात्रपरम्, अन्यथा यवेष्ववघात औपदेशिको न स्यात्, नीवारेषु च व्रीहित्वाभावे नातिदिष्टोऽपि बाध्येतेति नवमे स्थापितत्वेनापूर्वीयद्रव्य एव नखविदलनादिप्राप्तिर्वक्तव्या। अन्यथा वैतुष्यमात्रे अवघातनियमे द्रव्यार्जने याजनाद्युपायनियमवत् तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवेयादिति-चेन्न; नियम्यमानावघातस्यापूर्वीयद्रव्यमा्विषयत्वेSपि सामान्यवष यकप्राप्त्यैव नियमोपपत्ता विशेषविषयप्राप्ेरनपेक्षितत्वात्। नच-निर्विशेषसविशेषरूपविशिष्टद्व- यानुगते विशेषाभावादिद्वारा वेदान्तवेद्ये चिन्मात्रे न मानान्तरप्राप्तिरिति-वाच्यम्; उभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तेः सत्त्वात्। सजातीये प्राध्यापि यत्र सजातीयान्तरे नियम- संभवः, तदा किमु वाच्यमेकस्मिन्नेवात्मनि अवस्थाविशेषेण मानान्तरप्राप्या विशेषान्तरे नियम इति। नच-एवं विशेषान्तरे प्राप्या विशेषान्तरनियमे वैयधिकरण्यमिति-वाच्यम्; व्यक्तिसामा नाधिकरण्याभावेऽपि अनन्यगत्या सामान्यधर्ममादाय सामानाधिकरण्याङ्गीकारात्। ननु-अत्रा- न्यैव गतिरस्ति अपूर्वीयव्रीहिषु नियमाद्ष्टाजनकस्यापि दलनस्य प्राप्तिरस्ति। नहि यत्र तेन वैतुप्यस- म्पादनं तत्र तत्प्राप्तिः किंतु शक्तत्वेन प्रसक्तिमात्रमिति-चेन्न; एवं तद्योग्यत्वमिति पर्यवसितोऽर्थः। तञ्च तज्जातीयेऽन्वयी नतु तत्र, तथाच वैयधिकरण्यतादवस्थ्यम्। प्रकृतेच सविशेषनिर्विशेपरूपद- शाद्वयानुगतैकात्मविषयतया वैयधिकरण्यशङ्कानवकाशश्च। तत्त्वकामुदीकृतस्तु-'यथा मन्रार्थ- ज्ञानस्य कल्पसूत्रात्मीयग्राहकवाक्यादिनापि प्राप्तत्वेन पक्षे अप्राप्तमन्त्रसाध्यत्वं नियम्यते मन्त्ररेव स्मृतिः साध्येति तथा वेदान्तमूल स्त्रीश द्रसाधारणस्मृतिपुराणादिप्राप्या पक्षे अप्राप्तवेदान्तश्रवण- दिपरिपूरणार्थो नियमः। 'तस्मात् न व्राह्मणोऽवैदिकमधीयीत' इति श्रुतेः 'श्रोतव्यः श्रुतिवाक्येभ्य' इत्यादिस्मृतेश्चेति-आहुः। नच-'इतिहासपुराणाभ्यां वेदं समुपबृंह्मये' दित्यादिस्मृतिविरोधः अविचारितेन उपबृह्मणायोगादिति-वाच्यम्; वेदान्ततात्पर्यनिर्णयाय तद्विचारापेक्षायामपि ब्रह्म- ज्ञाने तद्विचारापेक्षाविरहात्। नच-कर्मविषयकस्सृतिभिः कर्मज्ञानस्येव ब्रह्मविषयात् भारतादेरि- तिहासादपि साक्षाद्गह्मज्षानस्योदयात् ब्रह्मज्ञानेऽपि तदपेक्षेति-वाच्यम्; उभयत्रापि स्मृत्यादेः स्वातशन्यणाभ्रमाणतया श्रुतितात्पर्यनिर्णायकत्वात्। अतएवोकं-'वेदं समुपबृह्मये'दिति, नतु
गौडव्रह्मानन्दी (लघुचन्द्रिका)।
अपरोक्षयोग्यार्थसाक्षात्कारत्वेनेति। विचार्यमाणेत्यादिः। तेन विचारं विनापि दाशुरादेशत्मसाक्षातकारेऽपि यागाञ्जनाढिना स्वर्गनिध्यादिसाक्षात्कारेऽपि च न व्यभिचारः। उच्छेदापात इति। स्वर्गादिविजातीयफले यागा- दिविजातीयक्रियाया हेतुत्वादिति भावः। वाध्येतेति। येन येन दर्शाद्यपूर्वसाधनद्रव्यमुपकृतं, तेन तेन विकृत्यपूर्व- साधनद्रव्यमुपकुर्यादित्यतिदेशेन नीवारेप्ववघातादिसिद्िः । वीहित्वेन द्रव्ये विशेपिते तु सा न स्यादिति भावः । प्राप्तिर्वक्तव्येति पाठः। प्राप्तेर्क्तव्यत्वादिति पाठे तु पूर्वोक्त न युक्तमिति शेपः। प्रत्यवेयादिति। याजनादिनैव द्रव्यमार्जनीयमिति नियमजन्यादृष्टस्य सार्थक्याय याजनाद्यन्योपायेन द्व्यार्जने यथा प्रत्यवायः कल्प्यते, तथावघाते- नैव वैतुष्यं साध्यमित्यत्र तत्सार्थक्याय दलनादिना वैतुप्यसम्पादने तत्कल्पना स्यादिति भावः। सविशेषनिर्विशेष- द्वयानुस्यूतेति। सविशेपतादात्म्ययुक्तं निर्विशेपादृत्यन्ताभिन्नं चेत्यर्थः। सविशेषे प्रवृत्तस्य प्रमाणस्य शुद्धमपि विपय इति तत्रापि तत्प्राप्तिरिति भावः। संभवप्राचुर्येणेदम् । सविशेषनिर्विशेषयोस्तादात्म्या दिरूपस्यैकजातीयतव- स्यापि संभवात् । ग्रहणकेति । संग्राहकेत्यर्थः । निर्णयाय तद्विचारेति। निर्णयमुद्दिश्य तद्विचारानुष्ठानेत्यर्थः । ब्रह्मक्षाने ब्रह्मसाक्षात्कारसुद्दिश्य। तद्विचारेति। तहिचारानुष्टानेत्यर्थः । स्वातर्येण श्रुतिनैरपेक्ष्येण। अप्रमा-
Page 544
[श्रवणादेर्विधेयत्वोपपत्तिः] गौडब्रह्मानन्दीयुता। ८६५
वेदार्थ जानीयादिति। यनतु-'शोतव्यः श्रुतिवाक्येभ्य' इत्यादिकं श्रुतिमूलप्रमाणाभिप्रायकम्-इति, तभ; पश्चमीप्रतीतहेतुत्वस्य साक्षात् संभवे पारम्पर्यकल्पनायोगात्। नच-विप्रकीर्णनानाशाखार्थ- संप्रहादिरूपेणेतिहासादिना तत्त्वनिश्चयदर्शनात् सति च तस्मिन् विविदिषाद्वारा तदर्थाय अन्तः- करणशुद्धेरनपेक्षितत्वात् आपरोक्ष्यस्य विषयभावादेव सिद्धा वेदजन्यब्रह्मज्ञाने इतिहासजन्याद- धिकस्यापरोक्ष्यस्याननुभवेन तस्य नियमादृष्टासाध्यत्वात् ज्ञानस्य च स्वप्रागभावनिवर्तन इव अज्ञान- निवर्तने अदृष्टनिरपेक्षत्वात् अन्यस्य च नियमादृष्टसाध्यस्याभावात् न नियमविधिरिति-वाच्यम्; 'तमेतं वेदानुवचनेने'त्यादिश्रुतिबलात् यश्ादिजन्याटष्टस्य नियमादृष्टस्य च विविदिषाद्वारकान्तःक- रणशुद्धेरेव सर्वादृष्टसाध्याया: संभवेन ज्ञानस्वरूपोपकारितया तत्साध्याज्ञाननिवृत्तौ तदपेक्षत्वाञ्च विद्यायुक्ततदयुक्तकर्मजन्यफलगतचिराचिरस्वरूपातिशयवत् नियमादृष्टजन्यसाक्षात्कारे तदजन्य- तत्त्वनिश्चयापेक्षयातिशयकल्पनस्यावश्यकत्वाश्च नियमविधित्वसंभवात्। तस्मात्- नियमादृष्टसाध्यस्य व्यावर्त्यस्यापि संभवात्। श्रवणादेर्नियमनं सर्वधैवोपपद्यते॥ इति। अतएव शूद्रप्रणीतात्मप्रबन्धादिप्राप्तिनिमित्तकाप्राप्तांशपूरणार्थो नियमविधिरित्याचार्यान्तरोक्ति रपि व्याख्याता। इति विवरणोक्तनियमोपपत्तिः॥
अथ श्रवणादेर्विधेयत्वोपपत्तिः । ननु-किमिदं श्रवणं नाम? शक्तितात्पर्यावधारणं वा, तद्विशिष्टशब्दावधारणं वा, तात्पर्यप्रमाप- कलिङ्गावधारणं वा, आगमाचार्योपदेशजज्ञानं वा। नाद्य :; अवाच्ये ब्रह्मणि शक्त्यसंभवात्। तात्पर्यमपि न तावदापातधीजन्यस्य विचारनिवर्त्यस्य संशयस्य धर्मिणि; तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थ तात्पर्यनिश्चयसाधनस्य विचारस्य वैयर्थ्यात्, अन्यथा विचारानन्तरमपि संशयादिप्र- सङ्गात्। नापि संशयधमिंगतप्रकारविशेषे तद्विशिष्टे तदुपलक्षिते वा; अखण्डार्थताहानेः, अवधा- रणस्य ज्ानत्वे विधेयत्वस्य त्वयानङ्गीकारात्। अतएव न द्वितीयादि। नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणम् ; तस्याद्यंपक्षानतिरेकात्। नापि वाक्यविशेषप्रयोगरूपवादकथाश्रवणम्;
गौडब्रह्मानन्दी (लघुचन्द्रिका)। णतयेति। अप्रामाण्यशङ्काशून्यज्ञानानुपधायकतया। श्रुतितात्पर्यनिर्णायकत्वात् श्रुतिसापेक्षतया प्रामाण्यस्यैव वाच्यत्येन श्रुतिजन्यज्ञानस्यावश्यकरवात् न स्मृतेः प्रमाणत्वेनोपयोगः। अध्ययनसिद्धवेदार्थज्ञानस्याध्ययनविधिना नियमितत्वादिति भावः । अन्यस्य विविदिपाद्वारकान्तःकरणशुद्धाद्यन्यस्य। यज्ञादिजन्याद्ष्टस्यति। नियमादष्टा- न्यस्य यज्ञादिजन्यादृष्टस्येत्यर्थः । नियमाटष्टस्य ज्ञानस्वरूपोपकारतयेत्यत्रान्वयः। उभयोर्ानोपकारित्वे हेतुमाह- विविदिषेत्यादि। चित्तशुद्धिद्वारा नित्यनैमित्तिकादिप्रधानकर्ममात्रस्यैव यज्ञादिश्रुत्या विविदिषार्थत्वबोधनात्तदव्याह- तमिति भावः । तत्साध्येति। ज्ञानसाध्येत्य्थः। तद्पेक्षत्वात् प्रतिबन्धकपापनिवृत्तिद्वारा नियमादृष्टापेक्षत्वात्। प्रारब्धभोगहेतुकर्मादिवत् पापान्तरस्य ज्ञानप्रतिबन्धकत्वस्य 'ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनादि'ति न्यायसिद्ध- तया तदपेक्षत्वमिति भावः । विद्यायुक्तति। अङ्गावबद्धोपासनायुक्तेत्यर्थः। चिराचिरेत्यादि। 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यंवत्तरमि'ति 'श्रुतेरुक्तोपासनासहितासहितकर्मणां चिराचिरफलजनकत्वमिव श्रवणे नियमविधिबलादेव तदीयनियमविधिसहितासहितवाक्यस्य चिराचिरसाक्षात्कारजनकतवं कल्प्यते; अन्यथोक्तविधि- वैयर्थ्यापत्तेः। तथाचोक्तनियमादृष्टनाश्यत्वेनाविद्यानिवृत्तिप्रतिबन्धकपापस्य कल्पनाया अभावेऽपि न क्षतिरिति भावः। तर्कैरित्यादि-श्रवणादेर्नियम्यता । इति लघुचन्द्रिकायां विवरणोक्तनियमोपपत्तिः॥
शक्तितात्पर्येति। शब्दशक्तितात्पर्येतयथः। संशयस्य धर्मिणि संशयकोव्योः सत्यत्वा दितद भावयोरन्यतराश्रये। अन्यथा निश्िते संशयमङ्गीकृतय तत्साथक्योकौ। तद्वोधोपयोगिन्या अवधारणीयायाः शुद्धबोधोपयोगितवेना- वधारणीयायाः । विशिष्टशक्तिज्ञानाधीनविशिष्टोपस्थितौ सत्यामेव तद्धीनशुद्धोपस्थित्या शुद्धप्रमोदयात् शुद्धप्रमा- प्रयोजकोपस्थितिविषयविशिष्टशक्तत्वेनावधारणं शुद्धबोधहेतुरिति भावः। तर्कत्वेन 'यदि शुद्धप्रमाप्रयोजकोपस्थिति- विषयशकं न स्यात्, तदा शुद्धोपक्कमादियुक्तं न स्यादिति' तर्कत्वेन। नच-सर्वत्र,लौकिकादिवाकयेशु तर्कस्य अ. सि. १०९
Page 545
८६६ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
तत्र श्रवणपदाप्रयोगात्।अतएव मनननिदिध्यासनयोरपि न विधिः, तयोरपि ज्ञानानतिरेकादिति- चेन्न; आद्यपक्षस्यैव क्षोदक्षमत्वात्। नच तत्र शब्दशक्त्यसंभवो दोष: शुद्धे शक्त्यसंभवेSपि विशि- ष्टशक्तेस्तद्वोधोपयोगिन्या अवधारणीयायाः संभवात्, तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रासंभवेऽपि संशयकोद्घपलक्षिते निर्विशेषे संभवेन विचारवैयर्थ्यात्। नचाखण्डार्थताहानि: स्वरूपमात्रोपलक्षकतया अखण्डार्थताया उपपादितत्वात्। नचावधारणस्य ज्ञानरूपतया अविधे- यता; तस्य तर्कत्वेन ज्ञानविजातीयचेतोवृत्त्यन्तरत्वात्, सुरेश्वराचार्यः 'श्रवणादिक्रिया तवत् कर्त- व्येह प्रयत्ननत' इति श्रवणादौ क्रियापदप्रयोगात्। एवमेव मनननिदिध्यासनयोरपि विधेयत्वमुन्ने- यम्। नच-तात्पर्यरूपे विषये उपक्रमादिरूपे च प्रमाणे सति जायमानस्य तस्य ज्ञानबहिर्भावानु- पपत्ति: तद्वहिर्भूतवाग्धेनूपासनादौ प्रमाणवस्तुपरतन्त्रत्वादर्शनादिति-वाच्यम्; मन्मते लिङ्गस्य प्रामाण्यानभ्युपगमेन सति प्रमाण इत्यस्यैवाभावात्, उपक्रमादेः प्रमाणत्वपक्षे तत्पूर्वकालीनत्वे- मास्य प्रमाणे सतीत्येतदंशासिद्धेः। तस्मात् श्रवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोप- पत्तिः। सिद्धान्तबिन्दुकल्पलतिकयोर्विस्तरः। यञ्चानुवादित्वादिवर्णनं वाचस्पत्ये, तत् प्रस्थानान्त- रत्वान्न विधित्वोक्तिविरोधि॥ इत्यद्वतसिद्धौ श्रवणादेर्विधेयत्वोपपत्तिः।
अथ जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम्। एवं विचारविधायकश्रवणविधिरेव जिज्ञासासूत्रमूलम्। नच-विचारविधौ श्रवणसाध्यापरोक्ष- ज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गीकारेण अन्योन्याश्रयापात इति- वाच्यम्; अधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापततो जायमानपरोक्षज्ञानाधीनापरोक्षज्ञान- कामनाया अधिकारिविशेषणत्वेनोक्तान्योन्याश्रयानवतारात्। नच-जिज्ञासासूत्रोक्तो विचारस्तत्व- निर्णायकन्यायानुसन्धानरूपः, अन्यथा न्यायग्रथनात्मकशास्त्रारम्भसिद्धये तत्कर्तव्यतोक्त्ययुक्त:, इतरस्य वेदेतिकर्तव्यतात्वानुपपत्तेश्च, श्रवणं च नोक्तन्यायानुसन्धानरूपं मननाभेदप्रसङ्गात् अतो न श्रवणविधिजिज्ञासासूत्रयोर्मूलमूलिभाव इति-वाच्यम्; जिज्ञासासूत्रस्य श्रवणविधिसमानविषय- कतया मूलमूलिभावाभावेऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकथ्रवणाक्षिमोपक्रमोप- संहारादितात्पर्यलिङ्गविचारमादाय समानविषयत्वसंभवेन तदुपपत्तेः । मननं तु श्रुतस्यार्थस्य युक्तिभिश्चिन्तनमिति न तदभेदोऽपि; अर्थाक्षिप्तविचारस्यतिकर्तव्यतात्वेSपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याद्गित्वस्यानपायात्। यन्तु-युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य
गोडब्रह्मानन्दी (लघुचन्द्रिका)। नापेक्षा; शक्तितात्पर्यज्ञानेनापि शाब्दधीदर्शनात्, तथाच तात्पर्यज्ञानत्वेनैव करणत्वात्तर्कविधिर्न युक्त इति- वाच्यम्; तावतापि तात्पर्यरयेव तर्कस्य स्वोत्तरशाब्दबोधे कारणत्वाविघातात् लौकिकादिवाक्येप्वपि तात्पर्यानुमापक- लिङ्गाभावस्य तात्पर्याभावेनापादकेनोक्तरीत्यापत्तिसंभवाच्। प्रामाण्यानभ्युपगमेनेति। व्याप्यत्वेन ज्ञायमानं ज्ञानं वा नानुमितिकरणम्, किंतु तजन्यसंस्कारः पक्षधमंताज्ञानं च तविष्टशक्तिरूपोद्कोधहेतुरित्येव मन्मते स्वीक्रियत इति भावः। अस्य तातपर्यावधारणस्य। तत्पूर्वकालीनत्वेन विपर्ययानुमानात्मिकाया उपक्रमादिहेतुकतात्पर्या- नुमिते: पूर्वकालीनतवेन। उक्त्तानुमित्यधीनतात्पर्यसंशयाभावस्योक्तावधारणे शाब्दबोधे जननीये द्वारत्वादुक्तावधार- णातू पूर्वं नोक्तानुमितिः । नच-आपत्तेरपि मानसज्ञानत्वमिति-युक्त्तम्; तस्याः भ्रमत्वेनाविद्यावृत्तित्वेऽपि बाधका- लीनेच्छाजन्यत्वेन ज्ञानत्वाभावात्, पुरुपेच्छाधीनत्वेनाहार्यवृत्तिमात्रस्य पुंपरतत्रत्वेन ज्ञानत्वाभावात्। अनुवाढ़- त्वेति। श्रोतव्य इत्यादेर्विधित्वाभावेत्यर्थः । आदिपदात् 'सहकार्यन्तरविधि'रित्यादिसूत्रस्य कृत्वाचिन्तात्वादिसंग्रहः। तर्कैरित्यादि-श्रवणादेर्विधेयता॥ इति लघुचन्द्रिकायां श्रवणादेर्विधेयत्वोपपत्तिः॥
विचारविधायकेति। उक्ततर्कविधाथकेत्यथः। आपाततो जायमानेति। श्रवणादिकं बिनैव जायमानेत्यर्थः, विषयतया मूलमूलिभावाभावे विपयतया यो मूलमूलिभावः तदभावे। लिङ्गविचारं लिङ्निर्णायकतर्कसू।
Page 546
[जिज्ञासासू० श्रवण० मूलकत्वम् ] गौडब्रह्मानन्दीयुता। ८६७
तद्विषयशब्दस्य वा समरणं, प्रत्यमिशञानं वा, संस्कारदा्व्यफलकं श्रवणसमानाकारमभिश्ञान्तरं घा तर्हि तस्यावश्यकश्रवणावृत्त्यैव सिद्धे: मननविधिवैयर्थ्य, त्रिविधस्यापि तस्य श्रवणानन्तर्गत- युक्त्यनपेक्षत्वेन श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिमिरिति स्मृतिविरोधश्च, 'श्रवणं यावद- ज्ञानं मतिर्यावदयुक्तता' इति मननस्य श्रवणानिवातितायुक्तत्वशङ्कानिवर्तकत्वप्रतिपादकस्सृतिविरो- धश्च इति, तन्न; अनुचिन्तनस्य श्रुतार्थविषयकयुक्तायुक्तत्वादिसंशयनिवतकयुक्त्यनुसन्धानरूपत्वेन विवक्षिततया त्वदुक्तदोषानवकाशात्। नच-एवं युक्तायुक्तत्वसंशयादे: संशयपूर्वपक्षसिद्धान्तात् मीमांसशास्त्रग्रथितात् संशयादिनिवर्तकात् न्यायजातादन्येनानिवृत्तेः तादृशन्यायग्रथनात्मकमी मांसाशास्त्रारम्भोपयुक्तविचारकर्तव्यतां प्रतिपादयदाद्यसूत्रं मननविधिमूलमेव स्यात् नतु श्रवणवि- धिमूलमिति-वाच्यम्; तात्पर्यविषययुक्तायुक्तत्वादिसंशयादिनिवर्तकविचारापेक्षया तात्पर्यनिर्णा- यकश्रवणाक्षिप्तलिङ्गविचारस्याभ्यर्हिततया तदाक्षेपकश्रवणविधिमूलत्वस्यैव वक्तुं शक्तयत्वात्,
सन्धानं श्रवणं द्वितीयाध्यायोक्तार्थासत्त्वशङ्कानिवर्तकयुक्त्यनुसन्धानं मननम्। ननु-एवं विवर- णोक्तिविरोधः यौक्तिकासंभावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञानान्तर्भूतत्वात् इत्यादिना अर्थापत्तीनामपि श्रवणान्तर्गतिमुक्त्वा "व्रह्मात्मत्वविपरीतभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्य- त्वमसंभावना विपरीतभावना तु शरीराध्याससंस्कारप्रचयः इत्यादिना असंभावनानिवर्तकस्य मननस्यार्थनिश्चयानन्तरभाविभावनाप्रचय हेतुचित्तैकार्यहेतुताया एवोक्तत्वादिति-चेन्न; मिन्नप्र- स्थानतया विवरणविरोधस्याकिंचित्करत्वात्। नच जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापातः;
गौडव्रह्मानन्दी (लघुचन्द्रिका)। शास्त्रारम्भोपयुक्तविचारकर्तव्यतां शास्त्राधीनविचारे प्रवृत्तिहेतुधीविषयीभूतां विचारकर्तव्यताम्। अभ्यर्हित- तया श्रवणस्याङ्गित्वेनाङ्गात्तद्विपयायुक्तत्वशङ्गानिवर्तकविचार रूपमननादभ्यर्हितत्वात् श्रवणनिर्वाहकविचारस्याभ्यर्हि- तत्वमिनि भावः । आनुषङ्गिकत्वात् नान्तरीयकत्वात्। तात्पर्यविपये अयुक्तत्वशङ्कानिवर्तकविचाररूपमननाद- संशये असति तात्पर्येऽप्यौचित्यावर्जितसंशयोदयात् तात्पर्यावधारणार्थप्रवृत्यैवोक्तसंशय निवृत्तिहे तुविचारस्याप्यनुष्ठान- लाभात् तत्कतव्यतायाः पृथगुक्तिर्व्यर्थेति भावः। अथवाऽभ्यर्हितत्वादित्यनेन करणीभूतशब्दगतातिशयाधायित्वेना- भ्यर्हितं यत् श्रवणं, तत्स्वरूपनिप्पाढकत्वेनोपक्रमादिविचारस्य मननाद्यपेक्षयाभ्यर्हितत्वमुक्तम्। आनुषङ्गिकत्वादित्य- नेन नु श्रवणस्याङ्गित्वेन तदिच्छाप्रयुक्तानुष्टानकत्वरूपमानुषङ्गिकत्वं मननस्योच्यत इति ध्येयम्। यद्वेति। 'वेदान्त- ध्रवणं यत्तदुपायस्तर्क एव वा। श्रुतिलिङ्गादिको न्यायः शब्दशक्तिविवेककृत्। आगमार्थविनिश्चित्य मन्तव्य इति भण्यते। वेदशब्दानुरोधेन तर्कोऽपि विनियुज्यते। इति सुरेश्वराचार्योक्तेः 'वेदान्तानामशेषाणामादिमध्यावसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धी: श्रवणं भवेत् । समन्वयाध्याय एतत् सूक्तं तीर्थकरादिभिः। तर्काः संभावनार्थाश्च द्वितीयाध्याय ईरिताः ॥' इति विद्यारण्याचार्योक्तेश्चेति शेषः। यौक्तिकेत्यादि। आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त' इति भाव्ये प्रतिपत्तिशब्दवैयर्थ्यमाशक्क्यासंभावनाविपरीतभावनानिवर्तकतर्काधीनं प्रतिष्ठितत्वं प्रतिपत्तिशब्देनोच्यत इति न तद्वैयर्थ्यमिति पञ्चपादिकायामुक्तम्। आत्मैकत्वविद्या शब्दप्रमाणाजायमाना अपरोक्ष- विपयकरवेन अपरोक्षरूपापि चित्तस्यानेकाअतादोपाद्विपरीतसंस्कारदोषाच्च परोक्षरूपेव नाविद्यानिवर्तिका। मनन- जनितप्रमेयादिसंभावनायुक्तं ब्रह्मात्मभावनाप्रचयरूपनिदिध्यासनाधीनैकाम्रवृत्तियुक्तं चित्तं सहकृत्य शब्दप्रमाणेन जनिता त्वविद्यानिवर्तिका। तस्मादुक्ततर्कशब्देनोक्तचित्तमुच्यते। यौक्तिकासंभावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञानेऽन्तर्भूतत्वादिति तत्रत्यविवरणवाक्यसंक्षेपः 1 अर्थोपपत्तीनां अर्थायुक्तत्वशङ्कानिवर्तकमननाख्यतर्का- णाम्। प्रचयनिमित्तेति तदेकाप्रवृत्तिचित्तविशेषणं, प्रचयजनितेत्यर्थः। प्रचयहेतुचित्तैकाग्र्येति। प्रचय- जनितैका्यवृत्तीत्यर्थः । यधपि ब्रह्मात्मत्वविपरीतभावनेत्यादिवाक्यमन्तर्भूतत्वादित्येतद्वाक्यस्य पूर्व स्वतःप्रामाण्य- व्यवस्थाया: पूर्वमुक्तं, तथापि मुखं व्यादाय स्वपितीत्यादाविवान्तर्गतिमुक्त्वेत्यत्र विपरीतपौर्वापर्य बोध्यम्। विरोधस्याकिंचित्करत्वात् विरोधो यदि स्यात् तथापि तस्य पूर्वोक्तयद्वेत्यादिमते बाधकत्वाभावात्। वस्तुतस्तु तद्विरोधो नास्त्येयेति भावः। नच-प्रथमज्ञान इत्यस्य श्रवण इत्यर्थकत्वान्मननस्य श्रवणान्तर्गत्युत्तया बाधकत्व- मिति-वाध्यम्; प्रथमज्ञाने प्रथमज्ञानसाधने इति तत्वदीपने व्याख्यानात्। ननु शक्तितात्पर्यावधारणानुकूलतर्क एव तर्कशब्देनोच्यताम्, तत्राह-योक्तिकेत्यादिना। इत्यादितङ्गन्थस्य तत्वदीपने अवतारितत्वाच। तथाचोक्ततर्क- स्पेवासंभावनादिनिवर्तकमननादिनपतर्काणामपि श्रवणसहकृतशब्दजन्यापरोक्षरूपस्य आाथमिकज्ञानस्य साधनेऽम्त-
Page 547
८६८ अद्वैतसिद्धिः । [ परिच्छेद: ३]
समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोपपसेः। ननु-'मन्तव्यश्चोप- पत्िमि'रिति स्मृतिगतोपपत्तिशब्दस्य मतिर्यावद्युक्ततेति स्मृतिस्थायुक्तशब्दस्य श्रोतव्यः श्रुतिवा- क्येभ्य इति श्रुतिशब्दस्येव सामान्यपरत्वाहानेन 'आदौ यच्छ्रद्धया सिद्धं पश्चाष्यायेन साधितम्।' इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यमयमस्य वाक्यस्यार्थ इति गुरुमुखाद्वेदार्थग्रहणं भ्रवणं पश्चात् न्यायानुसन्धानं मननमिति मेदसंभवे युक्तिष्वेव श्रवणमननमेदकथनायोग इति- चेन्न; वाक्यार्थग्रहणस्य प्रमारूपतया अविधेयत्वस्योक्तत्वात्। ननु-उक्तस्य वाक्यार्थग्रहणस्य ्रवणा दित्रयानन्तर्भावे चतुर्थस्यापि मुमुक्ष्वनुष्ठेयत्वापात इति-चेन्न; तस्य ज्ञानरूपतया अनुष्ठाना नर्हत्वात्, श्रद्धामात्रात् स्वत एव जातत्वेनापुंतन्त्रत्वाच्च। नचैवं केवलं गुरुमुखात्तदर्थ श्रुतवति श्रुत- मनेनेति प्रयोगानुपपत्ति :; विधेयत्वान्यथानुपपत्या अर्थान्तरत्वे स्थिते अस्य प्रयोगस्य गौणतादिना कथंचिदुपपादनीयत्वात्। अतएव स्मृतिगतोपपत्त्ययुक्ततापदयोन सामान्यपरता। नच-प्रमाणभू- तश्रुतितात्पर्ये निश्चिते अर्थसत्वार्थमुपपत्त्यपेक्षायोगेन मननस्यार्थासत्त्वरूपाप्रामाण्यशङ्कानिवर्तकत्वे वक्तव्ये निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्ग इति-वाच्यम्: तादृशं प्रति तद्भावस्येष्टत्वात्, कृष्णले अतिदेशप्राप्तस्यावघातस्य द्वारबाधेन बाधदर्शनात्। तस्मात्तात्पर्योवधारणं श्रवणम्। तञ्च लिङ्गविचाराधीनमिति विचारकर्तव्यतापरमाद्यसूत्रं श्रवणविधिमूलकं नतु मननविधिमूलकमिति सिद्धं जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम्।।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। र्भावात् मननादिकमपि तर्कपदार्थ इति भावः। श्रवणसहकृतशब्दात् प्रथमं परोक्षज्ञानं पश्चाम्मनननिदिध्यासमसह- कृतशब्दादपरोक्षज्ञानमित्यस्मिन्विवरणे वक्ष्यमाणमतान्तरे मननादेर्न प्रथमज्ञानजातीयज्ञानसाधनेष्वन्तर्भावः । शब्दजन्यात्मज्ञानं सर्वमपरोक्षमिति मुख्यमते तु तस्य तदन्तर्भाव एवेत्याशयेन प्रथमपदमुक्तम्। श्रवणसहकृतशब्द- जन्यप्रथमज्ञानजातीयेति तदर्थः । तेन मननादिरहितश्रवणजन्ये प्रथमज्ञाने मननाद्यनपेक्षायामपि न प्रथमपदा- सङ्गतिः । निश्चयानन्तरभाविभावनाप्रचयजनितैकाअ्रवृत्तौ मननहेतुतेति तु प्रकृतानुपयुक्तम्; संभावनाबुद्धिद्वारा एकाप्रवृत्तौ मननस्य हेतुत्वेऽपि श्रवणान्तर्गत्यलाभात्। उक्तवृत्ययोग्यत्वं ह्युक्कवृत्तियोग्यताविरोधिनी असंभावना। ननु-प्रमेयादिसंभावनाया मननमूलत्वोक्तेरादिपदेन प्रमाणगततात्पर्यतलिङ्गादिसंभावना ग्राह्या। तथाच तात्पर्य- निर्णायकतर्कोऽपि मननमिति तस्य श्रवणान्तर्भाव इति-चेन्न; आदिपदेन प्रमेयसंभ।वनाबुद्धनुकूलायाः विश्वमिथ्या- स्वादिसंभावनाया एव अहणात्, तात्पर्यलिङ्गादिसाधारणसंभावनामात्रस्य प्रकृते ग्रहणेऽपि मननस्य श्रवणाङ्गता- प्रतिपादकविवरणोक्तयनुरोधेनाङ्गाङ्गिकोटिभेदेन मननस्य द्वैविध्यावश्यकत्वात् अङ्गस्य मननस्य श्रवणानन्तर्भावेणा- नुपपत्यभावात्। ननु द्वितीयाध्यायस्य मननरूपत्वे तत्कर्तव्यतांशे मननविधिमूलकत्वमाद्यसूत्रस्य स्यात् तस्याध्याय चतुष्टयात्मकविचारक्तव्यताबोधकत्वादित्याशक्क्य निषेधति-नच जिज्ञासेत्यादि। समन्वयेत्यादिसूत्रस्य विधिमूलकत्वं विधिवाक्यार्थस्योक्तिद्वारा विधिवाक्यार्थनिश्चयापेक्षितन्यायसूचंकत्वम्। तत्राद्यसूत्रं मोक्षजनकज्ञा- नाय वेदान्तश्रवणं कार्यमिति बोधयदुक्त्तबोधाद्यनुकूलन्यायस्यैव सूचकत्वेन श्रवणविधिमूलकमेव; श्रवणस्य प्रथमा- ध्यायरूपत्वेनाङ्गित्वेन करणनिष्ठातिशयहेतुत्वेनचाभ्यर्हितत्वात्। मननादिरूपद्वितीयाध्यायप्रवृत्तिस्तु श्रवणफलोपकारा- दीच्छयेति श्रवणकर्तव्यतोक्तिद्वारैव मननादिविधिवाक्यानुकूलन्यायाः सूत्रेण सूच्यन्ते नतु मननादिकर्तव्यतोक्तिद्वारा। यन्तु विविदिपाद्वारा चित्तैकाडयद्वारा च ज्ञानसाधनकर्मोपासनाविधिमूलकस्वमपि सूत्रस्य स्यात्। तृतीयाध्यायादौ तादृशकर्मादेरुक्ततवादिति, तसुच्छम्; सर्वापेक्षाचेत्यादिसूत्रेपु कर्मादिविध्यर्थनिश्चयापेक्षितन्यायासूचनात्, विचार- कर्तव्यताबोधकाद्यसूत्रे कर्मादिविधिमूलत्वापादनस्यायुक्तत्वाक्। अथ-एवं तृतीयाद्यध्यायविचारप्रवर्तकत्वमाध्य- सूत्रस्य कथमिति-चेत्, श्रवणकर्तव्यतोफिद्वारैव। तथाहि ज्ञानार्थं श्रवणं कार्यमित्युक्त्या श्रवणोपकारकशमा- धनुष्ठानस्य सूचनाच्छमादिकमन्तरङ्रसाधनं विविदिषुणानुष्टेयम्, न त्वमिहोत्रादिकं विविदिषासाधनत्वेन। बहिरङत्वा- दित्यपि सूचितम्। तथाचान्तरङ्गबहिरङ्साधनविचारकर्तव्यताया अपि सूचनात्ततपूर्वकतवम्। एवं ज्ञानादि फलार्थ कार्यमित्युक्त्या तादशफलविचारोऽपि सूचित इति बोध्यम्। प्रमारूपतयेति। नच-गुरोर्मुखाधीनत्वविशिष्ट- रूपेण प्रमापि विधीयतामिति-वाच्यम्; तेन रूपेण तस्य श्रवणपदार्थत्वानिर्णयात्, मननत्वस्य तात्पर्यलिङ्गविचार. साधारणस्यार्थासश्वशङ्कानिवर्तकविचारे वक्ुमशक्यत्वेनोक्तविचारत्वाभ्यां ओोतव्यो मन्तव्य इति विधिद्वयावश्यकत्वेन गुरुमुखाधीनार्थग्रहणस्य श्रोतव्यपदार्थत्वकल्पनानवकाशात्। गौणतादिनेति। तात्पर्यावधारणादावनादिवैदिक- प्रयोगेण रूख्या तत्सादश्याद शाब्दबोधे गौणी वृत्तिः। आदिपदात् श्रवणप्रत्यक्षेऽ्रमि श्रुधातोः शक्ता शब्दभावण-
Page 548
गौडब्रझ्ानन्दीयुता। ८६९
अथ विचारस्य श्रवणविधिमूलत्वोपपत्तिः। ननु-त्धन्मते कर्मकाण्डविचारो यथोत्तरऋतुविधिप्रयुक्तः, तथा ब्रह्मकाण्डविचारोऽपि ज्ञानवि- धिप्रयुक्त इत्येव किं न स्याल्? उत्तरक्रतुविधिमि: स्वानुष्ठाप्यार्थनिर्णयान्तविचारस्येव 'तरति शोक- मात्मवि'दित्यादिना शोकनिवृत्तिहेतुत्वेनावगतेनात्मज्ञानेन स्वसिद्धये वेदान्तविचारस्याक्षेपात्। युक्तंचानेकेषां ऋतुविधीनामाक्षेपकत्वादप्येकस्यैवाक्षेपकत्वमिति-चेन्न; यद्पि कार्येण कारणाक्षेपः संभवति, तथापि तस्य वैधत्वसिद्धर्थ विधिमूलत्वस्यावश्यं वक्तव्यत्वात्। अन्यथा कर्मकाण्डविचा- रस्यापि कर्मशानादेवाक्षेपे अध्ययनविधेर्वोत्तरक्रतुविधीनां वा आक्षपकत्वोक्तिरयुक्ता स्यात् ; मनन- विधिमूलत्वं वदता त्वयापि अस्याक्षपस्यावश्यं परिहरणीयत्वात्। पतेन-अर्थावगमपर्यन्ताध्ययन- विधिप्रयुक्तत्वस्य कर्मविचारवत् ब्रह्मविचारेऽपि संभवे न श्रवणविधिप्रयुक्तत्वम्। नच-साक्षात्का- रफलकमावृत्तिगुणकमननाद्ङ्गकमिदं श्रवणमध्ययनविधिप्रयुक्त्रवणमात्रात्िन्नमितविध्यन्तरं युक्तमिति-वाच्यम् ; ब्रह्मविचारस्याप्यध्ययनविधिप्रयुक्तत्वेऽपि साक्षात्कारस्यापरोक्षैकरसात्मविष- यत्वेनव सिद्धेः, आवृत्तेश्च विध्यन्तराङ्गीकारेपि अवघातवद्दष्टफलत्वेन वक्तव्यत्वात् कर्मकाण्डेऽपि तात्पर्यावधारणपर्यन्तविचारावृत्तेरपेक्षितत्वात् ततः परं ब्रह्मकाण्डेऽपि तदावृत्तेरनपेक्षितत्वात्। मननस्य च कर्मकाण्डेऽपि तदर्थनिश्चयायापेक्षितत्वादध्ययनविधिविहितैक देशारण्यकाव्ययनानु वादेन वाक्यान्तरेणारण्याद्यङ्गान्तरविधानवत् मुण्डककारीर्याद्यध्ययनानुवादेन शिरोव्रतभूमिो -
गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रत्यक्षजन्यत्वात् शाब्दबोधे लक्षणेत्यर्थः । त्कैरित्यादि-श्रवणं त्वाद्यसूत्रगम्॥ इति लघुचन्द्रिकायां जिज्ञासासूत्रस्य श्रवणविधिमूलत्वोपपत्तिः॥
उत्तरक्रतुविधीति। विचारोत्तरमनुष्ठेयाः ये ऋतवः, तद्विधीत्यर्थः । विधेः प्रयोजकतायां प्रकारमाह-उत्तर- क्रतुविधिभिरिति। विधिबोधितं ऋत्वनुष्टानं ऋतुज्ञानमपेक्षते, तच्च विचारमित्यर्थः। अनेकक्रतुविधीनामाक्षेपकत्वं यश्वया स्वीकृतं, तदपेक्षया तरतीत्याद्येकविधेराक्षेपकत्वं लघु, तथाच ऋतुविधेराक्षेपकत्वसादृश्यमभ्युपेत्योक्तमित्याशये- नाह-युक्तमिति। तरतीत्यादिकं न विधिः, किंतु लोकसिद्धस्य ज्ञानाज्ञानयोर्नाश्यनाशकत्वस्यानुवादः, तथाच ज्ञानेन कार्येण कारणस्य विचारस्याक्षेपेऽपि न तस्य वैधत्वसिद्धिरित्याशयेनाह-यद्यपीति। अन्यथा विधेराक्षेपक- त्वसंभवेऽपि विधिमूलकज्ञान स्यैवाक्षेपकत्वस्वीकारे। कर्मज्ञानादेवेति। श्रवणविधिवाक्यार्थश्रवणानुष्ठानाधीनब्रह्म- ज्ञानस्येव ऋतुविध्यधीनऋनुज्ञानस्याक्षेपकत्वं संभवति। नच-कर्मज्ञानस्याक्षेपकत्वं न तत्त्वेन, किंतु विधिबोधिता- नुष्टानापेक्षितज्ञानत्वेनेति विधावेव तात्पर्यपर्यवसानमिति-वाच्यम्; ब्रह्मज्ञानस्यापि हि विधिबोधितश्रवणापेक्षित- फलत्वेनैव तत्। अथ-काम्यमानज्ञोनत्वेनैव तस्य तत्, काम्यता च मोक्षसाधनतयेति-चेत्, तर्हि क्रतुज्ञान- स्यापि तेनैव रूपेण तञ्च रूपं वैधानुष्टानहेतुत्वेनाध्यापनादिहेतुत्वेन वेत्यन्यत्। ननु-वैधत्वसिद्धे: किं फलमिति- चेत्, शीघ्रक तव्यतादिज्ञाने प्रामाण्यस्य निश्चयादिना शीघ्रं विचारे प्रवृत्त्यादिकमेव। त्वयापीति। ननु-मन्मते विचारस्य मननविधिना साक्षाद्विधानमेवेति-चेत्, ममापि वार्तिककारमते तस्य श्रवणविधिना साक्षाद्विधानम् अथ-विवरणमते विचारस्य श्रवणविध्याक्षेपे दोप इति-चेत्, तहि तवापि मनने विधिर्त्यर्थः; ब्रह्मज्ञानेनैवा- क्षेपसंभवात्। निदिध्यासनविपयगुणांशे निदिध्यासनाङ्गतया विधिरपि व्यर्थः; निदिध्यासनविधिनैवाक्षेपसंभवात्। अथ-गुरुमुखाधीनत्वादेर्नियम्यमानत्वेन न व्यर्थमिति-चेत्, तर्हि विवरणमतेऽपि श्रवणविधिना वेदान्तादे- र्नियम्यमानत्वेन वेदान्तविचारेणैव ब्रह्म ज्ञातव्यमिति नियमविधिसिद्धर्थ विचारः श्रवणविधिनैवाक्षिप्यते। तस्या- क्षेपकत्वस्वीकारे हि तस्य स्वविपयवेदान्तेष्वेवोपस्थितप्रत्यासन्नेपु विचाराक्षेपकत्वे लाघवात्तेषु तदाक्षेपकत्वसिद्धिः। तथाच प्रथमाध्यायसार्थक्यं, वेदान्तवाक्यविचारबोधकस्मृत्याद्युपपत्तिश्च। ब्रह्मज्ञानस्य तदाक्षेपकतवे तु तस्य स्वहेतु- वेदान्तवाक्यतात्पर्यावधारणस्यानुपपस्या स्मृत्यादिविचार एवाक्षिप्येत। तेनापि तत्संभवाद्वेदान्तविचारापेक्षया सुकरत्वाश्चेति ध्येयम्। आवृत्तेश्च्ेति। वक्तव्यत्वादित्यत्रान्वयः । अवघातवत् अवघात इव। विचार इति शेषः । दष्टफलकत्वेन दृष्टफलोपधानोपपत्या। मुण्डकेत्यादि। मुण्डकोपनिषद्ध्ययनानुवादेन शिरोव्रतस्य कारीरीप्रति- पाद्कानुवाकाध्ययनानुवादेन भूमौ स्थितान्नभक्षणस्य विधायकं 'तेपामेवैतां ब्रह्मविद्यां वदेत शिरोग्रतं विधिवधैस्तु चीर्ण'मित्यादिवाक्यं तद्वदित्यर्थः । नतां वैणवीं कुद्दालसदृशीमभ्रिम्। चतुर्भिः 'देवस्य त्ा सवितु'रित्यादिमिश्चतु-
Page 549
८७० अद्वैतसिद्धिः । [परिच्छेद: ३ ]
जनादङ्गविधानवत् 'तां चतुर्मिरादत्त' इत्यर्थप्रापताभ्यादानानुवादेन संख्याविधानवञ्चा्ययनविध्या क्षिप्तविचारैकदेशानुवादेन त्वद्रीत्या मननादङ्गविधानस्य संभवादिति-निरस्तम्; मननविधिमूल- त्ववादिनोऽपि समानत्वादध्ययनविधेः स्वाध्यायावाप्तिफलकतया अर्थश्ञानफलकत्वाभावात्, अध्येतव्य इति कर्मप्रधानतव्यप्रत्ययेन स्वाध्यायस्यैव फलत्वावगमात्। नच तस्यापुरुषार्थतया फल- वदर्थावबोधपर्यन्तं व्यापारः; 'चित्रया यजेत पशुकाम' इत्यादावपि काम्यमानपश्वादेरप्यफलत्वा- पत्तेः, परंपरया पुरुषार्थसाधनतया फलत्वे प्रकृतेऽपि तस्य संभवात्। तस्माच्छ्रवणविधिर्मूलं विचा- रविधायकजिज्ञासासूत्रस्य, न तु मननविधिरिति सिद्धम् ॥ इत्यद्वैतसिद्धौ विचारस्य श्रवणविधि- मूलत्वोपपत्ति: ।।
अथ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वस्योपपत्तिः। प्रस्थानान्तरे तु अध्ययनविधेरेवार्थावगमपर्यन्तत्वात् काण्डद्वयविचाराक्षेपकत्वम्, श्रवणादिषु च न विधिः। तेषामन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादित्युक्तम्। नच-अध्ययनाभावे प्रत्यवायश्रवणादध्ययनस्य नित्यताया अप्यवगमात् कथं तस्यार्थावगमपर्यन्तत्वमिति-वाच्यम्; अर्थश्ञानार्थत्वेऽपि अध्ययनविधेरवैयर्थ्याय अधीतेनैव वेदेन कर्तव्यतां श्ञात्वा अनुष्ठितं कर्म फला- यालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्धा प्रत्यवायश्रवणोपपतिः। तथाचार्थज्ञानार्थस्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित्। अपरेतु-अनध्ययने संध्यानु- पासन इव साक्षात् प्रत्यवायश्रवणेनाध्ययनस्यादृष्टत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च ताद- थर्यमपीत्युभयार्थता पशुपुरोडाशादिवदिति-आहुः। अत्रचाध्ययनविधेर्नित्यत्वे सत्युभयविचारा- क्षेपकत्वं परेणाप्यङ्गीकृतं, तद्युक्तम्; जिज्ञासासूत्रस्य मननविधिमूलत्ववादिनस्तस्य तदङ्गीकारान- र्हत्वात्, अयुक्तत्वशङ्कानिवर्तकमननरूपविचारस्यापि अध्ययनविध्याक्षिप्त्वेन तत्र विधिवैयर्थ्यात् सूत्रस्य तन्मूलत्वासिद्धः ॥ इत्यद्वैतसिद्धा वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षपकत्वस्योपपत्तिः॥
गौडब्रह्मानन्दी (लघुचन्द्रिका )। भिर्मत्रैः। अर्थप्राप्तेति। हम्नेनाभ्रिग्रहणं विना मृत्खननरूपतत्कार्यानुपपत्या प्राप्यमाणेत्यर्थः। उक्तानुपपत्यपेक्षया शीघ्रपवृत्तयोक्तश्रुत्या चतुर्मत्रादानाभ्यां विशिष्टभावनाविधानेऽप्युक्तानुपपत्त्यैवादानस्य प्राप्यमाणत्वेन तदंशेऽनुवाद- तुल्यत्वादनुवादत्वोक्ति: । नच-प्राप्यमाणत्वे श्रुत्या विशिष्टविधानं व्य्थमिति-वाच्यम्; लिङ्गेन मत्राणामनुपपत्या- चादानस्य प्राप्यमाणत्वेऽपि मत्राणां समुच्चयलाभाय तत्साथक्यात्। समानत्वादिति। मनने गुरुमुखाधीनत्वादे- र्नियम्यत्वेन तव मननविधिरावश्यकश्चेत्, ममापि विचारे वेदान्तादेर्नियम्यत्वेन विचार विधेरवश्यकत्वमित्यादि समानमित्यर्थः । तवव मते उक्तदोपः। मन्मते अथेज्ञानोद्देशेनाध्ययनाविधानादर्थज्ञानपर्यन्ताध्ययनविधेविचारा- क्षेपकत्वशङ्काया असंभवादित्याशयेनाह-अध्ययनविधेरिति । तर्करित्यादि-विधाने मूलतास्थितिः॥ इति लघुचन्द्रिकायां विचारस्य श्रवणविधिमूलत्वोपपत्तिः।
अवैयर्थ्यायेति। विधिं विनाप्यध्ययनस्यार्थज्ञानहेतुताया लोकसिद्धत्वेन विधिवैयर्थ्यं स्यात् तदभावायेत्यर्थः। केचित् त्ररत्नकारादयः; पष्ठद्वितीयान्त्याधिकरणे तस्तथोक्तत्वात्। स्मरणेनेति। 'योऽनधीत्य द्विजो वेदमन्यत्र कुरुंते श्रमम्। स जीवस्रेव शूद्रत्वमाशु गच्छति सान्वयः ॥I' इति स्मरणादिनेत्यर्थः। पशुपुरोडाशादिवदिति। अभ्नी- बोमीयस्य वपया प्रचर्याभ्ीषोमीयं पशुपुरोडाशं निर्वपतीत्यनेनाभीषोमीयपशुसुद्दिश्य विहितः पुरोडाशयागोऽभीषो- मीथपशुयागस्य देवतास्मरणरूपसंस्कारात्मकं सन्निपत्योपकारं करोति इति दशमे स्थितम्। उक्तोपकारं देवतोद्देशेन कुर्वश्नपि पुरोडाशद्रव्यत्यागांशेनादष्टार्थकः स इति चतुर्थप्रथमे स्थितम्। आदिना दर्शपूर्णमासादेरिव नित्यकाम्यत्वं बोध्यम् ॥ तकैरित्यादि-श्रवणाद्यविधेयता ॥ इति लघुचन्द्रिकायां वाचस्पत्युक्तस्वाध्यायविधि- विचाराक्षेपकत्वोपपत्तिः।
Page 550
गौडब्रह्मानन्दीयुता। ८७१
अथ ज्ञानस्य पुरुषतत्रताभङ्ग: । यन्तु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति, तन्न; आपातदर्शनस्य तद्विना जायमानत्वात्। नच तद्भ्रिन्न प्रतिवाक्यमस्य वाक्यस्यायमर्थ इति सिद्धार्थोंक्तरूपगुरूपदेशेनानेकशाखास्थवाक्यार्थ- ज्ञानम्; वेदान्तरूपवाक्यार्थविचारस्य सामान्यतः साधनत्वेन प्राप्तत्वात्। नच यथा घटादावि- तरभेदे सिद्धेऽपि पृथिवीतरेभ्यो मिद्यत इत्यत्र न सिद्धसाधनम्, यथाच स्थानप्रकरणाधिकरणो- करीत्या राजसूयान्तर्गतेष्टिपशुसोमेषु प्रातिस्विकरूपेण चोदकत इतिकर्तव्यताप्राप्तावपि राजसूय- रूपे तदप्राप्तिः, तथा वेदान्तविचारत्वोपहिते ब्रह्मज्ञानहेतुताया अप्राप्तेरपूर्वविधितेति-वाच्यम्; सामान्यतः प्राप्तसाधनसाध्यभावमनादृत्य विशेषोपाधिना अप्राप्तसाधनत्वप्राप्तये अपूर्वविध्यङ्गी- कारे ज्योतिष्टोमादिवाक्यविचारेपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्व- विध्यन्तरकल्पनापत्तेः। एतेन-निदिध्यासनस्याव्यक्तस्वभावव्रह्मसाक्षात्कारहेतुता नान्यतः प्राप्तेति स तावदपूर्वविधि:, तथा अज्ञातादौ निदिध्यासनासंभवेन श्रवणमननयोर्निदिध्यासने लिङ्गादेव
गौडब्रह्मानन्दी (लघुचन्द्रिका)। श्रवणं शब्दजं ज्ञानमुपपत्यानुचिन्तनम्। मनिर्निरन्तरा चिन्ता निदिध्यासनमुच्यते। ब्रह्मज्ञानमुद्दिश्योक्त्तश्रवण- स्योक्तविधिना विधानादपूर्वविधिः। तत्राज्ञानविरोधिज्ञानत्वेन श्रवणं प्रति संशयादिविरोधिज्ञानत्वेन मननं प्रति अपरोक्षज्ञानत्वेन निदिध्यासनं प्रनि उद्देश्यमिति परोक्तेरुक्तश्रवणस्योक्तविधिमाशक्क्य निरस्यति-यच्विति। तन्भिन्ने आपातदर्शनभिन्ने ब्रह्मज्ञाने तदुद्देशेनेनि यावत्। वाक्यार्थज्ञान इति। विधिरिति शेपः । विधेयमिति पूर्वोक्तानुषङ्गो वा। तथाचापातदर्शनान्यव्रह्मज्ञानायानेकशाखवास्थवेदान्तवाक्यानां गुरूपदेशेनार्थग्रहणरूपं श्रवणं विधीयत इति भाव:। उक्तश्रवणस्य तात्पर्यावधारणात्मकविचाररूपद्ृष्टद्वारोक्तवह्मज्ञानहेतुता प्राप्ता गुरूपदेशाधीनवाक्यार्थज्ञानतवेन वा- क्यार्थनिश्चयं प्रत्युक्तद्वारा हेतुत्वस्य दुर्बोधशास्त्राथज्ञाने अन्वयव्यतिरेकाभ्यां गृहीतत्वादित्याशयेन दृपयति-वेदान्त- रूपति। विचारस्य तात्पर्यावधारणरूपतर्कसाधनस्योक्तश्रत्रणस्य। पृथिवीत्वोपहिते पृथिवीत्वावच्छेदेन। स्थान- प्रकरणाधिकरणोक्तरीत्येति। स्थानप्रकरणयोविरोधे प्रकरणं बलवत्। तेनेष्टिपशुसोमयागसमूहात्मकराजसूय- प्रकरणे अभिषेचनीयनामकसोमयागसन्निधो अक्षर्दीव्यतीत्यादिनोक्तविदवनादीनां राजसूयाङ्गता, नत्वभिषेचनीया- ङ्ता; अभिपेचनीयत्वादिप्रत्येकरूपेणाकाङ्भाविरहान्, चोदकप्राप्तप्राकृताङ्गैराकाह्वाशान्तेः, राजसूयत्वेन रूपेण त्वाका- द्वान्ति; तेन रूपेणोदविश्य श्रुत्यादिना विहिताङ्गसंदंशात्, 'राजसूयाय हेना उत्पुनाति राजसूयेनेजानः सर्वमायुरेती त्याढिना परामर्शात्। पवित्रादारभ्य क्षत्रस्य धतिं यावद्राजसूयत्वरूपेणाकाङ्कासत्वादिति तृतीयतृतीयोक्तरीत्येत्यर्थः । विचारत्वोपहित इति । गुरुमुखाधीनवाक्यारथज्ञानत्वेन तात्पर्यावधारणरूपविचारद्वारा वाक्यार्थनिश्चयहेतुतायाः प्राप्तत्वेऽपि वेदान्तवाक्यीयगुरुमुखाधीभार्थज्ञानत्वेनोक्तद्वारा ब्रह्मनिश्चयत्वावच्छिन्नं प्रति हेतुता न प्राप्तेत्यर्थः । कल्पनापत्तरिति। सामान्यरूपेण साध्यसाधनभावस्य प्राप्तत्वेऽपि विशेषरूपेण तमादायापूर्वविधिस्वीकारे दृष्टोपका-
मादाय प्रोक्षणादेरिवावघातादेरप्यदष्टोपकारहेतुत्वमादाय वा नियमविधिमात्रोच्छेद इत्यपि बोध्यम्। ननु-सर्ववे- दवाक्यानामसाधारणतत्तदर्था इव ब्रह्माप्यर्थः; तत्तच्छब्द्वानां यौगिकगौण्यादिवृत्या तत्तहुणविशिष्टब्रह्मप्रतिपादकत्वात्, तथाच तादशब्रह्मज्ञानहेतुतायाः सर्ववेदवाक्येSप्राप्तत्वात् अपूर्वविधिरिति-चेन्न; उक्तोत्तरत्वात्, सर्ववेदाधीनोक्त ज्ञानस्यापि दुर्बोधवाक्याथज्ञानत्वेनोक्तज्ञाने हेतुतायाः प्राप्तत्वात्। "वेदान्तान् विधिवच्छुत्वा संन्यसेदनृणो द्विजः" "वेदान्तेपु प्रतिष्ठितः," "दिने दिने च वेदान्तश्रवणात् भक्तिसंयुतात्" इत्यादिस्मृत्या "दृढतवमेतद्विषयस्तु बोधः प्रयाति वेदान्तनिषेवणेने"त्यादिभट्टाचार्याद्युक्तेः 'तंत्वौपनिपद'मिति समाख्यया वेदान्तश्रवणस्यैव तजन्यज्ञानस्येव वा मोक्षप्रयोजकत्वात् अभिहोत्रादिवाक्यानां ब्रह्मण्यपि तात्पर्ये वाक्यभेदापत्तेः, मुख्यार्थसंभवे गौणाद्यर्थस्याग्राह्यत्वाच्च। एतेन सर्ववेद्वाक्येषु ब्रह्मण्युपक्रमादिविचाररूपमननेऽप्यपूर्वविधिरपास्तो बोध्यः । तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेदि'ति श्रुतिस्सु सर्वधेदविचारस्य न साक्षाद्वक्मधीहेतुत्वपरा, किंतु कर्मानुष्ठानाधीनचित्तशुद्धिद्वारा कर्मकाण्डस्य तद्टारा च ब्रह्मकाण्डस्य विचारे तद्धेतुत्वपरा; अन्यथोक्तदोषगणग्रासात्। अथ श्रवणमननयोर्निदि- ध्यासनोद्देशेनापूर्वविधिं परोक्तमुक्तवृपणातिदेशेन दूषणान्तरेण च निरसति-एतेनेति। प्राप्तविधानासंभवेनेत्यर्थः। अज्ञातादावित्यादि। अज्ञाननिवृत्तिरूपस्वकार्यद्वारा श्रवणस्य प्रमाणगततात्पर्यप्रमेययो: संशयादिनिवृत्तिरूप
Page 551
८७२ अद्वैतसिद्धिः । [ परिच्छेद: ३ ]
प्राप्तावपि नियतविषयकनिदिध्यासनविषयगुणान्यगुणेषु लिङ्गेन तयोरप्राप्तेः तद्विधिरप्यपूर्वविधि- रेव, एवंच श्रवणमननयोर्निदिध्यासितव्यगुणांशे दृष्टद्वारेण, अन्यत्र त्वदष्टद्वारेण निदिध्यासना- ङतेति-निरस्तम्; श्रवणादीनां निर्गुणविषयतया सगुणविषयत्वाभावात्, विपरीताङ्गाद्गिभावस्य स्थापितत्वाञ्च, सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृशार्थविषयकसाक्षात्कारहेतुताया दष्टत्वेनापूर्व- त्वाभावाच्च। ननु-अत्र श्ूयमाणलिङ्गादेः का गतिरिति-चेत्, शिलातलप्रयुक्तक्षुरतक्ष्ण्यवत् कुण्टीभावात् 'जर्तिलयवाग्वा वा जुहुया' दित्यादाविवार्थवादत्वमेव। नच-'पतयवेक्षितमाज्यं भवति' विदुषा कर्म कर्तव्यं तस्मात् पश्येत नित्यशः ।' इत्यादिना ज्ञानस्यापि विधानं दष्टमिति- वाच्यम्; तत्र तद्धेत्विन्द्रियसंयोगा देविधेयत्वात् अनन्यगत्या लक्षणाया इष्टत्वात्। न च 'न विधौ पर: शब्दार्थ' इत्यनेन विरोध :; 'गोभिः श्रीणीत मत्सर'मित्यादौ विधिवाक्येऽपि लक्षणादर्शनेन तस्यात्सर्गिकत्वात्; अर्थवादानुरोधेन विधौ न परः शब्दार्थ इत्यर्थकत्वाच्च।नच-साक्षात्कृतिसाध्य- त्वस्य इन्द्रिय संप्रयोगेऽप्यभावात् इन्द्रियनिष्ठक्रिया द्वारा परंपरया कृतिसाध्यत्वस्य ज्ञानेऽपि संभवात् अनिच्छतो दुर्गन्धादिज्ञानवत् अनिष्टसंप्रयोगस्यापि दर्शनाञ्च ज्ञानसाम्यं संयोगस्येति-वाच्यम्; स्वर्गादाविव स्वेच्छाधीनकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञाने अभावात्, संप्रयोगस्य तु तद्वै- परीत्येन विशेषात्। नच-'भक्षेही'ति भक्षमन्र्रेषु तृप्तेरनुनिष्पा दितयाSननुष्ठेयत्वेन तृप्तिप्रकाशकभा गस्य तत्र विभज्य विनियोगाभावेऽपि अवेक्षणस्यानुष्ठेयत्वात् तत्प्रकाशकभागस्य अवेक्षणे विनियोग गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वकार्यद्वारोक्त्तमननस्य च निदिध्यासने हेतुत्वम्; तादृशद्वारं विना तदनुत्पत्तेरित्यर्थः। नियतविषयकेति। सर्व- वेदोक्तगुणानां निदिध्यासनस्याशक्यत्वात् यावन्तो निदिध्यासितुं येन शक्यन्ते, तावद्विपयकनिदिध्यासनं तं प्रति विधीयते, इति नियतगुणविपयकं तदिति भावः। अपूर्वविधिरेवेति। उक्तान्यगुणश्रवणमननयोनिदिध्यासनं प्रत्यदष्टद्वारा आरादुपकारकाङ्गत्वं दर्शादौ प्रयाजादेरिवेति भावः। निरस्तमिति। श्रोतव्य इत्यादिवाक्ये निदि- ध्यासनाङ्गता श्रवणादेस्त्वयोच्यते। तत्र त्वद्रीत्या गुरुमुखश्रवणादेनियमविधिर्युक्त :; अपूर्वविध्यपेक्षाया लाघवान्निदि- ध्यासमाविषयगुणेपु श्रवणाद्यनुष्टाने मानाभावात्, मद्रीत्या तु श्रवणस्यव फलवत्वस्य स्थापितत्वात्तदङ्गे मनननि- दिध्यासने इत्याशयेनाह-विपरीतेति। विपरीताङ्गाङ्गिभावस्य श्रवण प्रतति मनननिदिध्यासनयोः दृष्टद्वारा फलोपकार्यङ्गत्वस्य। अत्र 'तद्विजिज्ञासस्व श्रोतव्य' इत्यादिवाक्ये। शिलातलेत्यादि। वाचस्पतिमते निरन्तरज्ञानधारारूपनिदिध्यासनसमभिव्याहारात् श्रवणमनने ज्ञानस्वरूपे। परमतेऽप्युक्तरीत्या तथाङ्गीकारे ज्ञानस्याविधेयरूपत्वात् वाचस्पतिमत इव उक्तवाक्यं न विधायकमिति भावः। अर्थवादानुरोधेन दुर्ब- लार्थवादानुरोधेन। असञ्जातविरोधित्वाढिना प्रबलथवादानुरोधेन तु विधावप्युपक्रमाधिकरणादिसिद्धा लक्ष- णासतयेव। नच-उक्तार्थवादानुरोधेन विधौ सा न प्रसक्तेति वचनं व्यर्थमिति-वाच्यम्; उक्तवचनस्य विधेरथवादापेक्षया औत्सर्गिकप्राबल्यम्, विधायकत्वादिति न्यायमूलकत्वात्। स्वेच्छाधीनकृतिसाध्यत्वस्य स्वेच्छाजन्यकृतिसाध्यत्वस्य। स्वर्गेच्छा स्वर्गसाधनीभूतायां यागादिकृतौ न कारणम्, किंतु यागादिचिकीर्पा। तथाच स्वचिकीर्षाधीनकृतिसाध्यत्वं कृतेः साध्यत्वाख्यविषयतापर्यवसन्नं विधेयताप्रयोजकम् । नच-ज्ञाने साध्यत्वाख्य- विपयतया कश्चित् प्रवर्तते। किंचोक्तसाध्यत्वयुक्ताया आहार्यवृत्तेर्ज्ञानत्वाभावेनोक्तसाध्यत्वावच्छेदेनैव ज्ञानत्वाभावः कल्प्यते। नहि आहार्यवृत्ती उक्तसाध्ये कुत्रचिद्वा जानामीत्याद्यनुभवो लोकानाम्; इच्छाजन्यज्ञानत्वेन पराभिमते तत्तदिच्छानामेव विशिष्यावश्यके हेतुत्वे प्रमाणहेतुत्वे मानाभावात, तस्य प्रमात्वासिद्धेः, अन्यथा तत्पूर्वमिन्द्रिय- सयागाद्यनन्तव्यक्तीनां ज्ञानहेतूनां कलपने महागारवात्। अनुमित्यादाविच्छाजन्यत्वकल्पनं तु प्रक्रियामात्रम्, सिद्धे: प्रतिबन्धकत्व एव गौरवेणाननुभवेन च प्राभाकराणां विवादात्। अनिष्टसम्प्रयोगस्य तूक्तबाधकाभावेडपि नान्तरीयक- त्वादेव नोक्तसाध्यत्वम्। अत एव न विधेयत्वमिति भावः । नच भक्षेहीत्यादि। 'भक्षेहिमाविशे'त्यादि भक्षमन्रः । तत्र उपहृतस्योपहूतो भक्षयामीत्याद्यंशो भक्षणस्य प्रकाशकः । अश्विनोस्त्वा बाहुभ्यां सध्यासमित्याधंशो अहणस्य अवस्येषमित्याद्यंशोऽवेक्षणस्य। सध्यासं धारयामीति। तत्र सर्वोऽपि मत्रो भक्षणे विनियोक्तव्य :; भक्षानुवाकस- माख्यातः, ग्रहणादिप्रकाशकांशानां भक्षणप्रकाशकांशेन गृहीत्वावेक्ष्य सम्यग्जरणाय भक्षयामीत्येकवाक्यतासंभवाख। अत एव ग्रहणाद्युत्तरवर्तिनि सम्यग्जरणपूर्ववर्तिनि भक्षणे लक्षणा। यदपि ग्रहणादिकं तत्तदंशस्य मुख्यार्थः । तत्रैव च तस्य लिङ्गं विनियोजकं संभवति। लिङ्गं च समाख्यावाक्यापेक्षया प्रबलं, तथापि ग्रहणादेरार्थिकत्वेनाविहितत्वाद- ऋत्वर्थत्वेन तादुर्थ्येऽसति तस्य ऋत्वपूर्वानुपयोगितवाललिङ्गमपुरस्कृत्योक्तलक्षणैव युक्का। लाक्षणिकार्थेऽपि सवित्रादिपदानां विनियोगस्येष्टत्वादिति प्राप्ते, अविहितस्यापि ग्रहणादेः विहितभक्षणान्यथानुपपत्तिलब्धानुष्ठानकतवेनोक्तानुष्ठानस्य च
Page 552
[ज्ञानस्य पुरुषतब्रताभङ्ग:] गौडब्रह्ानन्दीयुता। ८७३
इति तृतीयाध्ययोक्तिविरोध इति-वाच्यम्; इन्द्रियसंप्रयोगरूपावेक्षणस्य तृप्त्यादिवदनुनिष्पादित्वा- भावेनानुष्ठेयतया तत्प्रकाशकभागस्य तस्मिन्विभज्य विनियोग इत्येवंपरत्वात्। यञ्च-एकश्रोत्रगता- नेकगकारेषु वुभुत्साप्रयलाभ्यामभीष्टगकारज्ञानदर्शनेन ज्ञानस्यापि विधेयत्वमिति, तन्न; अनभिमत- विषयवैमुख्यस्यैव वुभुत्साप्रयत्साध्यतया ज्ञानं प्रति तयोरजनकत्वात्। नच-"यदेव विद्यया करो- ती'ति विद्याया अङ्गत्वश्रवणात् अविहितस्य चाङृगत्वानुपपत्या विद्याया विधेयत्वमिति-वाच्यम्; तस्य वाक्यस्योद्गीथोपासनाप्रकरणस्थतया तत्रत्यविद्यापदस्य उपासनापरतया विहितत्वेनाङ्गत्वा विरोधात्, 'तन्निर्धारणानियमस्तदृषटे'रित्यत्र विद्याया अङ्गावबद्धाया अङ्गत्वनिरासेऽपि न विधेयत्व- हानि:। ननु-यथा दुर्गन्धादिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वं यथाच ज्ञानान्त- रस्य नियमादृष्टासाध्यत्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्वं, यथा पर्वतादिज्ञानस्य नयनोन्मीलने सति प्रय- लान्तरनिरपेक्षत्वेऽपि धुवारुन्धत्यादिज्ञाने तत्सापेक्षत्वं, तथाऽतिसूक्ष्मव्रह्मज्ञानस्य इच्छाप्रयतसा- ध्यत्वसंभव इति-चेन्न; प्रामाणिकदष्टविजातीय किंचिद्धर्मदर्शनेनाप्रामाणिकवैजात्यस्य कल्पयिनुम- शक्यत्वात्, प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्धत्यादिनिदर्शनान्यथा- सिद्धतया तथ्यायेन ब्रह्मज्ञाने कृतिसाध्यत्वस्य वक्तुमशक्यत्वाच्च। नच-शास्त्रार्थज्ञानस्य नियमेन पुंतन्नत्वदर्शनात् ब्रह्मणश्च शास्त्रार्थत्वात् तज्ज्ञानस्य पुंतन्त्रत्वमिति-वाच्यम्; तत्रापि ज्ञानसाध- नस्येव पुंतन्त्रत्वात्। यञ्च प्रशस्ताप्रशस्तज्ञानयोर्विधिनिषेधदर्शनं, तदपि ज्ञानकारणविषयकमेव। यञ्च इच्छादिना उत्पत्तिनिरोधगोरनुभवः, सोऽपि करणव्यापारविषयक एव। नच-एवं नामादिषु ब्रह्मोपासनायां त्वया विधेयत्वेनाङ्गीकृतायां पुंतन्नत्वं न सिध्येत् तत्रापि मनोधारणादेरेव पुंतन्त्र- त्वस्य वक्तुं शक्त्वादिति-वाच्यम्; ज्ञानविध्युक्तानुपपत्तेस्तत्राभावेन निरोधादीनामन्यपरत्वस्य वकुमशक्यत्वात्। नच-उक्तज्ञानरूपश्रवणादिष्वतिप्रयत्नसाध्यत्वस्यानुभवसिद्धत्वात् विधेयत्व- मिति-वाच्यम्; अनुभवान्यथासिद्धेरुक्तत्वात्। नच-त्वयापि निदिध्यासनस्य परोक्षज्ञानसन्ता- नरूपस्य विधेयत्वं वदता सन्तानिनां ज्ञानानामपि विधेयत्वमङ्गीकर्तव्यमेव तदविधाने सन्ततिवि- धानानुपपत्तेरिति-वाच्यम्: आवृत्तिगुणयोगस्यैव विधेयत्वात् उपनिषद्मावर्तयेदित्यत्रेव। नच- श्रवणादेः ज्ञानानात्मकत्वे श्रवणं यावदज्ञानमित्यज्ञानविरोधित्वस्मृतेः श्रवणेनाजञानं निवृत्तमित्यनु- भवस्य चानुपपत्तिरिति-वाच्यम्; आवृत्तिगुणयोगवाक्यार्थप्रमित्युपयुक्ततात्पर्य निर्णयद्वारा उपक्र- मादिलिङ्गविचारात्मकश्रवणादेरज्ञानादिविरोधितया स्मृत्यनुभवयोरुपपत्तेः। 'विज्ञाय प्रज्ञां कुर्वीते' त्यादाँ ज्ञानविधावुक्तानुपपत्या प्रज्ञाशब्दस्य विचारलाक्षणिकत्वोपपत्तेः। नच-त्वया विधेयत्वेना-
गौण्डब्रह्मानन्दी (लघुचन्द्रिका)। मच्राधीनस्मृतिसाध्यत्वेनापूर्वप्रयोजकग्रहणाद्युद्देशेन तत्तदंशविनियोगो युक्त इति तृतीयद्वितीये स्थितम्। मन्द्राभि- भूनिरित्यादि तृप्यत्वित्यन्तं तृप्तिप्रकाशकमपि न तृप्ती विनियुज्यते। तृप्तेर्भक्षणानुनिप्पादित्वेनाननुष्टेयत्वेनानुष्टानापे- क्षितस्मृत्यनपेक्षत्वात् स्मारकमन्रानपेक्षत्वात्। तथाच तृप्यत्विति भक्षयामीत्येकवाक्यतया तृप्तिविशिष्टभक्षणार्थत्वेनो त्साहविशेषजननपर्यवसानात् वाक्येन तस्य भक्षणाथत्वमित्यपि तदुत्तराधिकरणे स्थितम्। इन्द्रियसंयोगरूपावेक्षण- स्यति। ज्ञानरूपावेक्षणस्य तु इन्द्रियसंयोगानुनिप्पादिरवेन तृप्षिवद ननुष्ठेयतेति सूच्यते। अजनकत्वादिति। श्रोत्र- सन्निकृष्टगकाराणां मध्ये यत्र द्वेपस्तत्प्रत्यक्षसामग्रीविघटनरूपवैमुख्ये इच्छाप्रयतौ हेतू। यत्र न द्वेपः, तत्परत्यक्षे न तद- पेक्षेति भावः। अविहितस्यति। तदुक्तं शाबरभाष्ये-'नचाविहितमङ्ग'मिति। प्रामाणिकेत्यादि। प्रामाणिकं यत् दष्टात् ज्ञानस्यानिष्टत्वादिधर्माद्विलक्षणं ज्ञानस्येच्छाविषयत्वादिकं, तद्दर्शनमात्रेणाप्रामाणिकं दष्टात् ज्ञानस्याविधेय- स्वाद्विलक्षणं ज्ञानस्य विधेयत्वं न कल्पनार्हमित्यर्थः । निरोधादीनां इच्छाधीनत्वेनानुभूयमाननिरोधोत्पस्यादीनाम् । अन्यपरत्वस्य उपासनान्यनिष्ठत्वस्य। लाक्षणिकत्वोपपत्तेरिति। यत्तु सर्वत्र लक्षणा नोचितेति, तनन; ज्ञान- मात्रस्य प्रज्ञाशब्दार्थत्वे प्रशब्दवैयर्थ्यापत्तेः, प्रकृष्टज्ञानरूपयोगार्थादरे तु ज्ञानविध्यनुपपत्तेः, करणरूपप्रत्ययार्थमादाय प्रकृष्टज्ञानसाधनरूपविचारार्थकत्वीचित्यात्। आचायैसवनुपपत्तिसत्वे लक्षणापि न दोप इत्याशयेन विचारत्वरूपेण लक्षणोक्ता। एवं पत्यवेक्षितमित्यादावपि अवादिशब्दवैयर्थ्यापत्तेश्राक्षुषमात्रादिकं नार्थः, किंतु तदुत्तरशुद्यशुद्धि- विचार :; आलोचनात्मकविचारे अवपूर्वकेक्षतेर्निरूढलाक्षणिकत्वात्, चाक्षुषबलेनाज्ञातेऽपि पुरुषे नयनोन्मीलन- वत्वज्ञानादेवायमबेक्षत इत्यादिप्रयोगानादित्वादीक्षणहेतुचक्षुःसंयोगो वा। विदुषा कर्म कार्यमित्यादी तु विदर्विचा- रेऽपि शक्त्या कर्मविचार एवार्थः । तस्मात् पश्येतेत्यादौ कर्तव्याकर्तव्यं सर्व विचारयेत् इत्येवार्थस््वयापि वाच्यः। अ. सि. ११०
Page 553
८७४ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
्रीकृतस्य ध्यानस्य श्ञानमिन्नत्वे तस्य स्वविषये व्यवहारजनकत्वं न स्यादिति-वाच्यम्; तदन्यक्षा- नेनैव तत्कारणतयाSSवश्यकेन तद्विषये व्यवहारोपपत्तेः प्रमाणवतोऽस्य गौरवस्यादोषत्वात्। अतएव ध्यानविषये जानामीत्यनुभवस्मरणे तद्भिप्नज्ञानप्रयुक्ततया व्याख्याते। तस्यामिध्यानादिति श्रुता ध्यानस्य मायाख्याविद्यानिवर्तकत्वेऽपि तदुक्ति: ध्यानानन्तरभाविसाक्षात्कारद्वाराभिप्रायेति न तया विरोधः। यन्तूपासीतेत्युपक्रम्य 'य एवं वेदे'त्युपसंहारेण त्वयापि विधेयत्वेनाङ्गीकृतायामु- पासनायां विदिधातुप्रयोगेण उपासनायाः ज्ञानत्वावगमात् अन्यत्रापि ज्ञानत्वं न विधेयत्वविरो- धीति, तन्न; उक्तानुपपत्या विदेस्तत्रामुख्यत्वेनैव ज्ञानत्वागमकत्वात् धात्वनेकार्थत्वेन वा। नच- मानतन्त्रतामात्रेण कथमपुंतन्त्रता प्रतिग्रहीत्रादितन्त्रस्यापि दानादेस्तददर्शनादिति-वाच्यम्; न ह्यन्यतन्त्रतामात्रेणाविधेयत्वं ब्रूमः किंतु पुमिच्छाभिर्यत्कारणे सति अन्यथा कर्तुमशक्यत्वम्॥ इत्यद्वैतसिद्धा ज्ञानस्य पुरुषतन्त्रताभङ्ग:॥
अथ ज्ञानविधिभङ्ग: । किंच विधीयमानं ज्ञानं किं शाब्दं, किंवा तदभ्यासः, यद्ा तत्त्वमनपेक्ष्यारोपितविषयतया ध्यानं; किंवापरोक्ष्यफलकं ज्ञानान्तरम्। नाद्य :; कर्मकाण्ड इव गृहीतसङ्गतेः स्वतःसिद्धत्वेन कृत्य- साध्यतया विध्यविषयत्वात्। नच-कर्मकाण्डेऽप्यापातजन्यस्य स्वतःसिद्धत्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वम् अन्यथा अध्ययनविधेरुत्तरक्रतुविधेर्वा तदाक्षेपकता न स्यादिति-वाच्यम्: तज नकविचार एव विधेयताप्रयोजककृतिसाध्यत्वपर्यवसानेन तादृशज्ञानेऽप्यसंभवात्। न द्वितीय: स किं मोक्षाय विधीयते ? साक्षात्काराय वा। नाद्यःः तस्य नैयोगिकत्वेन स्वर्गादिवदनित्यत्वा- पातात्। नच-बन्धध्वंसस्य नयोगिकत्व्रेऽपि ध्वंसत्वात् श्रुत्यादिवलाज्च नित्यत्वोपपत्तिरिति- वाच्यम् ; न हि मन्नय इव त्वन्नयेऽपि बन्धध्वंसमात्रं मुक्ति: किंतु लोकान्तरप्राप्तिः तस्यामुक्तदोष- तादवस्थ्यापत्तिः। न चानावृत्तिश्रुत्या नित्यत्वम्: 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोक: क्षीयते' इति श्रुत्या नयोगिकस्यानित्यत्वावगमात्। नचतच्छ्रतिविरोधेन तस्यानि- त्यत्वाबोधकत्वम्; 'यत्कृतकं तदनित्य मिति युक्त्युपोद्वलिततया प्रावल्यात्। न द्वितीयःः तत् किं दष्टफलकमद्प्टफलकं वा। नाद्यःः परोक्षज्ञानाभ्यासेन तत्त्वसाक्षात्कारादर्शनात्। न द्वितीयःः प्रमाणायत्तत्वात्तस्य। अतपव न तृतीयः ध्यानस्य ज्ञानरूपत्वाभावाच्च। न चतुर्थ: शब्दस्यापि
गौडव्रह्मानन्दी (लघुचन्द्रिका)। प्रमाणवत इति। वस्तुतो ज्ञानान्यस्यापि शशविपाणादिविकल्पस्य व्यवहारहेनुत्वेन तत्साधारणजानिविशेषस्य ध्यानादिनिष्टस्य तद्वच्छेदकत्वात् नानुपपत्तिः, परंतु ध्यानोत्तरं स्मृत्यादर्ध्यानपूर्व तद्वेत्वनुभवादेरानुभाविकत्वात्तेनापि व्यवहारसंभव इति भावः। द्वाराभिप्रायेति । 'तस्याभिध्यानाद्योजनात्तत्वभावा'दित्यादौ योजनपदेन श्रवण- मननोक्तेः तत्व्रभावपदेन साक्षात्कारोक्ते: श्रवणाद्यधीनसाक्षात्कारेण विश्वमायानिवृत्तिः। अन्ते प्रारब्धभोगसमाप्ता तु भूयोऽवशिष्टदहेन्द्रियादिरूपमायानिवृत्तिरित्यथः । तत्वस्य सर्वाधिष्टानस्य भावः अविद्यानिवृत्तिरूपा प्राप्तिः यस्मा- दिनि व्युत्पत्तेर्भूप्राप्तावित्यम्मात् भावपदनिष्पत्तेरित्यपि बोध्यम्। यत्कारणे सतीत्यादि। कारणे सति अन्यथा- कर्तुमशक्यं यदित्यर्थः । तेनेति शेपः। अविधेयत्वं घ्रुम इृत्यनुपज्यते। यस्य कारणे सत्यपि पुमिच्छाभिरन्यथाकरणं निरोधरूपं, तस्य ज्ञानत्वे मानाभावाद्विधेयत्वम्। तदन्यस्य ज्ञानस्य पुंत्रत्वाभावेन न तदिति भावः ॥ तर्कैरि- त्यादि-ज्ञानापुरुपतन्रता॥ इति लघुचन्द्रिकायां ज्ञानस्य पुरुपतन्रताभङ्ग:।।
गृहीतसङ्गतेः गृहीतपदतदर्थसंबन्धस्य पुंसः। ताक्षेपकता विमर्शाक्षेपकता। प्रावल्यादिति । अन्यथा 'अक्षययं ह वे चानुर्मास्ययाजिनः सुकृतं भवती'ति श्रुतेरविनाशिकर्मफलबोधकत्वं स्यात्। दष्टफलकं साक्षात्काररुपे फले लोकसिद्धहेनुताकम्। तथाच नियमविधिः । अदए्फलकम् अदृष्टद्वारोक्तफले हेतुः। तथाचापूर्वविधिः। परो क्षज्ञानाभ्यासेन शाब्दादिरूपेण वक्यादिज्ञानेन। प्रमाणायत्तत्वात् प्रमाणमात्रजन्यत्वात्। तस्य उक्तफलस्य। मात्रपदादुक्ताृष्टापेक्षाव्यवच्छेदः। अत एव साक्षास्कारं प्रत्युक्तहेतुत्वयोरसंभवादेव। शब्दस्यापीति। ब्रह्मणीति
Page 554
[शब्दादपरोक्षोपपत्तिः ] गौडब्रह्मानन्दीयुता। ८७५
प्रामाण्याभावापातात् ब्रह्मणि प्रमाणीभूतज्ञानकर्तव्यतायामेव प्रामाण्यात्। नच महातात्पर्यमादाय ब्रह्मण्यपि प्रामाण्यम्; तादृशज्ञानस्यापि प्रमाणायत्ततया विधिफलत्वात्। तस्मात् पतन्यवेक्षितमा- ज्यमित्यादावपि ज्ञानस्याविधानात् ध्यानस्यापि विजञानव्यतिरेकसाधनात् सूक्ष्मशास्त्रार्थबुद्धौ कृत्य- न्वयव्यतिरेकयोस्तत्साधनविषयतयान्यथासिद्धत्वाञ्च नात्मज्ञानं विधातुं शक्यते। तदेवं श्रवणस्य ज्ञानरूपत्वे विधेयत्वानुपपत्तिः। तस्मात् ज्ञानविजातीयं श्रवणम् अपरोक्षज्ञानजनकशब्देतिकर्तव्य- तारूपविचारात्मकं मनननिदिध्यासनाङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधानभूतमपरोक्षज्ञानफलक- तया विधीयत इति सिद्धम्॥ इत्यद्वैतसिद्धी ज्ञानविधिभङ्ग: ॥
अथ शब्दादपरोक्षोपपत्तिः । ननु-कथमपरोक्षज्ञानजनकत्वं शब्दस्य? मानाभावादिति-चेन्न; 'तद्धास्य विजज्ौ तमसः पारं दर्शयती'त्यादेः 'वेदान्तविज्ञानसुनिश्चितार्था' इत्यादेश्च मानत्वात्, पूर्ववाक्ये तज्नकापरोक्षज्ञान- स्योपदेशमात्रसाध्यत्वोक्त:, द्वितीयश्रुती शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात् सुपदेना- परोक्षत्वोक्तेः। न च विजज्ञावितीत्यादेः परोक्षज्ञानेनापि चरितार्थता; 'तमसः पारं दर्शयती'त्युत्तर- वाक्यस्वरसेन अपरोक्षज्ञानपरत्वसिद्धेः। न च ग्राममा्गोपदेप्टरि ग्रामं दर्शयतीतिवत् परम्परया प्रयोजकतयोपचारः साक्षात्साधनत्व्रे वाधकाभावेन तस्यात्रान्याय्यत्वात्, उपदेशातिरिक्तकार- णस्य नारदसनत्कुमाराख्यायिकायामप्रतीतेश्च। न च मनसैवानुद्रप्टव्यमित्यादिश्रुतिविरोधः; तस्या- श्ित्तकाय्यपरत्वात्। नच-सुपदस्याप्नामाण्यशङ्काविरहपरत्वेन द्वितीयवाक्येन तेनापरोक्षरूपता- प्राप्तिः, अन्यथा वेदान्तवोध्यस्य विचारकर्तव्यतादेश्चापरोक्षत्वापातादिति-वाच्यम्; निश्चितपदे- नैवाप्रामाण्यशङ्काविरहादेर्लब्धतया सुपदस्यातत्परत्वात्। नापि वेदान्तबोध्यस्य ब्रह्मातिरिक्तस्या- व्येवमापरोक्ष्यापत्तिः; अर्थपदस्य मुख्यतस्तात्पर्यविषयपरत्वात्, वेदान्तबोध्यताया ब्रह्ममात्रपर्यव सन्नत्वाञ्च। एवमनुमानमप्यत्र मानम्। अपरोक्षत्वं, तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञा- ननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् । नच-कर्मकाण्डजन्यज्ञानवृत्तीत्येवमपि साध्ये- तेति-वाच्यम्: विपक्षवाधकसत्वासत्त्वाभ्यां विशेषात्। तथाहि-तत्त्वमस्यादिवाक्यस्यापरोक्ष
गौडव्रह्मानन्दी (लघुचन्द्रिका)। शेष:। ताटृशज्ञानस्य विधेयत्वाभिमतज्ञानस्य। विधिफलत्वाभावात् विधिनानुष्टापनीयत्वाभावात्। तज्ज्ञानं यदि शाब्दं, तदा ज्ञानान्तरमित्युक्तमसङ्गतम्। अथ तद्धीनस्मरणं, तथापि स्वतःसिद्धशब्दज्ञानाधीनत्वेन प्रमाणा- यत्तत्वान् आद्यपक्षीयदूपणमिति भावः। प्रधानभूतापरोक्षफलकतया प्रधानं सत् यदपरोक्षफलकं तत्तया। प्राधान्ये हेतुमाह-प्रमेयावगममिति। अङ्गतया साक्षात्करणतया। मनननिदिध्यासनयोस्तु सहकारि चित्तगतानिशयहेतुत्वेनोक्तकारणत्वाभावात् न प्राधान्यमिति भावः। तर्कैरित्यादि-ज्ञानस्य विधिभञ्जनम्॥ इति लघुचन्द्रिकायां ज्ञानविधिभङ्ग:।
तद्दास्य विजज्ञो अस्य उद्दालकस्य। तत् तस्मात् तत्वमसीत्याद्युपदेशात् आत्मानं विज्ञातवान् श्वेतकेतुरिति शेपः । तमसः पारम् अज्ञानप्रयुक्ताद्विलक्षण सर्वाधिष्ठानमनवच्छिन्नानदम्। दर्शयत साक्षा्कायति। 'तसै मृदितकपायाय तमसः पारं दर्शयति भगवान् सनात्कुमार' इति श्रुतेः । अपरोक्षत्वोक्तेः अपरोक्षस्यैवोक्तेः। तथाच वेद्ान्तवाक्याद्यद्विशेषविषयकमद्वितीयत्वाद्युपलक्षणेन व्यावृत्ताघिष्ठानमात्रविषयकं ज्ञानं, तेन सुनिश्चितः तद्- भिन्नस्यापरोक्षस्याप्रमात्वेनागृह्यमाणस्य विपयीकृतो वेदान्तवाक्यार्थोऽखण्डब्रह्मात्मैक्यरूपो यैस्े तथेत्यर्थ इति भावः। उत्तरवाक्यस्वरसेनेति। छान्दोग्ये तस्मा इत्यादिवाक्येन सप्तमप्रपाठकान्तस्थेनाविद्यानिवर्तकज्ञानस्यापरोक्षत्वोक्तया षछ्ठप्रपाठकस्थे 'तन्धास्य विजज्ञा'विति वाक्येऽपि विशब्दस्यापरोक्षोक्तज्ञानपरत्वं निश्चीयते; चरमवाक्यस्य चरमज्ञान- परत्वौचित्यादिति भावः । 'आचार्यवान् पुरुषो वेदे'त्यनेनाचार्योपदेशजज्ञानवन्तमुक्त्वा तस्य तावदित्यादिना तज्ज्ञा- नादेव कैवल्योक्तेरित्यपि बोध्यम्। ज्ञानस्य ज्ञानकारणस्य। उपासनादिकं तु चित्तैकाध्यादिद्वारा ज्ञाने प्रयोजकमेव न कारणम्। अन्यथेत्यादि। अर्थपदस्य सव्निहितवेदान्तमात्रार्थपरत्वेन विचारकर्तव्यत्वादेरपि तादृशार्थत्वेनापरोक्ष- स्वापत्तिरित्यर्थः । ब्रह्ममात्रेति । वेदान्तशब्दस्य वेदशेषे पठ्यमानं नार्थ :; चरमस्य वाक्यस्य पदस्य वा तत्वेन
Page 555
८७६ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
ज्ञानाजनकत्वे अपरोक्षभ्रमनिवृत्तिर्न स्यात्। नच मनसैवापरोक्षज्ञानम्; मनसः कुत्राप्यसाधारण्येन प्रमाकरणत्वाभावात्, आत्मन: स्वप्रकाशत्वात् सुखादीनां साक्षिवेद्यत्वात्। नच शब्दे अपरोक्षज्ञा- नजनकत्ववत् अन्यत्राक्लप्तमेव मनसि तत्कल्पनीयम्। एवं हि सर्वाशस्यैव मनसि कल्प्यत्वेन विशे- षात्। नचैवं ज्योतिष्टोमादिविषयककर्मकाण्डजन्यश्ञाने कल्पकमस्ति। तत्र हि कल्पनीयमनुष्ठा- नाय वा फलाय वा। नाद् :; परोक्षज्ञानादेव तत्संभवात्। तत एवानुष्टानात् फलसिद्धेर्न द्विती- योऽपि। नच विमतः शब्दो नापरोक्षधीहेतु: शब्दत्वादिति प्रतिसाधनम्; 'दशमस्त्वमसी'त्यादावेव व्यभिचारात्। नच-तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीति-वाच्यम्: क्वचित् बहुलतमे तमसि लोचनहीनस्यापि तद्वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोSस्मीत्यपरोक्षज्ञानस्य दर्शनात्। यत्रा पीन्द्रियसन्भावः, तत्रापि तदप्रयोजकमेव। नच-धर्मवांस्त्वमसि पर्वतोऽग्निमानित्यादौ विशेष्या- परोक्षत्वेऽपि विशेषणपारोक्ष्यवत् अत्रापि दशमत्वे पारोक्ष्यमस्त्विति-वाच्यम्; अत्र परोक्षत्वे अपरोक्षभ्रमानिवृत्तिप्रसङ्गात्। ननु-एवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकं, उताप- रोक्षविषयनिमित्तकम्। नाद् :; अतिप्रसङ्गात्। न द्वितीयः; जीवाः परमात्मनो न भिद्यन्ते आत्म- त्वादित्यादिना जायमानानुमिते: श्रवणात् प्रागापततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अन- धीतवेदान्तजन्याया ऐक्यप्रतीतेश्चापरोक्ष्यापातात् श्रवणनियमादेरनियमात्। किंचार्थस्यापरोक्ष्यं न तावदपरोक्षवुद्धिविषयत्वरूपम्; ब्रह्मण्यस्य सत्त्वेऽपि दशमत्वादावभावात्, चैत्रापरोक्षश्ाने मैत्रस्य शब्दादिना आपरोक्ष्यादर्शनाच्च। नाप्यपरोक्षव्यवहारविषयत्वम्; व्यवहारापरोक्ष्यस्य ताट- गर्थभेदविषयकत्वरूपत्वे अन्योन्याश्रयात्, अपरोक्षोऽयमित्येवंरूपत्वे अज्ञानावृतेऽपि तदभावात्, त्वयापि न प्रकाशत इत्यादिव्यवहारार्थमेवावरणकल्पनात्, उक्तव्यवहारयोग्यत्वरूपत्वे व्यवहितघटे शब्दादपरोक्षज्ञानप्रसङ्गात्, अपरोक्षज्ञानजन्यत्वरूपत्वे च वक्ष्यमाणपक्षान्तर्भावात्। तस्मादर्थस्या- परोक्षधीविषयत्वमेवापरोक्षत्वं वाच्यम्। तत्र चैतज्जञानविषयत्वेन तदुक्तावन्योन्याश्रयः, ज्ञानान्त- रामिप्राये तु केषांचिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीप्रसङ्गात् । एकपुममिप्राये तु पूर्वा- परोक्षे शब्दादिना इदानीमपरोक्षधीप्रसङ्गात्। एककालाभिप्राये प्रत्यक्षाओ लिङ्गाच्छव्दाद्वा आप-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। तत्वमस्यादेरतर्वापत्तेः । नाप्युपनिषद्यवहारविपयभागान्तर्गतत्वविशिष्टम्; तस्यायौगिकत्वात, अन्यथा कर्मका- वडान्त्यवाक्यस्यापि तत्वापत्तेः, किंतु सर्वस्य वेदस्यान्तःपरमतात्पर्यविषयो बोधकतासंबन्धेन यत्रेनि व्युत्पत्या- तस्वमस्यादिवाक्यमेव, तद्वोध्यता ब्रह्मण एवेति भावः । एवं हीति। एवमपीत्यर्थः। तेन शब्दस्य परोक्षज्ञानहेतुत्वं कृस्तमिनि सूच्यते। सर्वाशस्येति। मनसः करणत्वं तज्जन्यज्ञाने चापरोक्षत्वं कल्प्यम्, शब्दे तु करणत्वं कृप्म्। तज्जन्यज्ञानस्यापरोक्षत्वमात्रं कल्प्यमिति भावः। मां प्रति दुष्टो यो हेतुम्तेन मां प्रति सत्पतिपक्षासंभव इत्याशये- नाह-दशम इति। तत्रापीत्यादि। आत्मांशे इन्द्रियसन्निकर्पान् दशमत्वांरे शब्दादेकं ज्ञानमित्यर्थः । लोचन- हीनस्य बहिरिन्द्रियसञनिकर्षशून्यस्य। मनसस्तु करणत्वं न कृप्तमिनि भावः। नच-अत्रव शब्दस्य मनसो वा करणत्वं कल्प्यमित्यत्र विनिगमकाभाव इति-वाच्यम्; शब्दस्य ज्ञानकरणत्वेन कृप्तत्वेन दत्तोत्तरत्वात्। किंच शब्दजन्यज्ञानस्यापरोक्षत्वमस्माकं दशमस्वमित्यादो न कल्प्यम्, किंतु कृप्तम्; तदायलाघवमूलकं साक्षात्कारसवा- ख्यातिरिक्तधर्मकल्पनमपेक्ष्य प्रमान्नभिन्नविपयकज्ञानत्वस्य कृप्तस्यैव साक्षात्करोमी त्यादिव्यवहारविषयत्वौचित्यात्। एवंच विद्यमानमपीन्द्रियसन्निकर्षादिकं प्रमात्रभेदप्रयोजकपूर्वोत्पस्नवृत्तिजनकत्वेन उपक्षीणं दशमस्वमित्याकारवृत्ती न कारणमित्याशयेनाह-यत्रापीति। अपरोक्षभ्रमानिवृत्तिप्रसङ्गात् दशमान्यत्वांशे अपरोक्षस्य भ्रमस्यानिवृत्तिप्र सङ्गात्। दशमत्वं दशत्वसख्खयापूरकत्वम्। तथ्व दशत्वाश्रयाणामन्यतमत्वम्। दशमात्रविषयकधीविषयकत्वरूपम्। तक्चावच्छिभातमवृत्ति चेत्, तदा साक्षिबोध्यम्। शरीरवृत्ति चेत्तदापि साक्षिणा त्वाचादिवृश्या वा अपरोक्षमित्युभय- थापि प्रमान्नभेदस्य तत्र संभवेन तद्गोचरं शाब्दज्ञानमुक्तापरोक्षत्ववदिति भावः । अनियमात् अनियमापत्तेः। इत्येवंरूपत्वे इत्याकारकत्वे। अज्ञानावृत इति। तथाच शाब्दवृत्तेरपरोक्षव्य वहारविषय विषयकरवेनाज्ञाननिवर्तक- त्वम्, अज्ञाननिवृत्ती च सत्याम् 'अपरोक्षोऽय'मित्याकारकस्वरूपं व्यवहारस्यापरोक्षत्वमित्यन्योन्याश्रयः। न प्रकाशत इत्यादीत्यादिप दाद्परोक्षभिन्नमित्यादिसंग्रहः। एतज्जानेति। यज्जञानस्यापरोक्षत्वनिर्वचनाय विषयापरोक्षतवं निरु- न्यते तज्ज्ञानेत्यर्थः। तज्ज्ञानस्यापरोक्षत्वविपयकज्ञानत्वं, विपयस्यापरोक्षतवं अपरोक्षतज्ज्ञानविषयत्वमित्यन्योन्याश्रयः। आपरोक्ष्यं स्यादिति । अत्र यद्यपीष्टापत्तिरेव; तथापि सुखादेः साक्षिरूपस्य ज्ञानस्यापरोक्षतवे ज्ञानान्तरापेक्षाया
Page 556
[शब्दादपरोक्षोपपत्तिः] ८७७
रोक्ष्यं स्यादिति-चेन्न, यं शाब्दबोधमादाय यस्य बोध्यत्वं, तत्साक्षात्कारार्थ तदमिन्नार्थावगाहि त्वनिमित्तकमित्युक्तदोषानवकाशात्। नच-एवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति-वाध्यम्; बोध्यमिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्रमाकरणत्वस्य प्रत्यक्षस्यान्त्भावे तन्प्रत्वात्। ननु-'मन- सैवानुद्रष्टव्य' मित्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृते अभावात् अनोपदेशिकं शब्दस्य साक्षात्कारकरणत्वमिति-चेन्न; 'तंत्वौपनिषदं पुरुषं पृच्छामी'त्यादौ तत्र साधुरिति तदन्या- साधुत्वे सति तत्साधुत्वरूपसाध्वर्थविहिततद्धितश्रुत्या एव मानत्वात्। ननु मनसः कर- णत्वेऽपि औपनिषद्त्वस्य निदिध्यासनापेक्षिततया अन्यथासिद्धिः, न; 'यन्मनसा न मनुत' इति मनसः करणत्वनिषेधात्। नच 'यतो वाचो निवर्तन्त' इति शब्दस्यापि करणत्वानुपपत्तिः; औपनि- षदत्वश्रुत्यनुसारेण तस्याः शक्त्या अबोधकत्वपरत्वात्। तदुक्तं-'चकितममिधत्ते श्रुतिरपी'ति। नच-मनसैवानुद्रष्टव्यमिति तृतीयाश्रुत्यनुसारेण न मनुत इत्यस्यैवापक्कमनोविषयतयाऽन्यथानय- नसाम्यमिति-वाच्यम्; एवं साम्येऽपि मनसः करणत्वे ह्वधिककल्पना। शब्दस्य करणत्वे त्वल्प- कल्पनेति विशेषात्। तस्मात्ततत्वमस्यादिवाक्यस्यापरोक्षज्ञानजनकत्वाद विद्यानिवृत्त्यात्मकमोक्षसा- धनब्रह्मसाक्षात्काराय मननादङ्गकं श्रवणमद्गि नियमविधिविषय इति सिद्धम्॥ इत्यद्वैतसिद्धो शब्दादपरोक्षोपपत्तिः।। विश्वेश्वराख्यस्य गुरोः प्रसादादद्वैतसिद्धिर्मघुसूदनस्य। अभूदभूमि: खलु दूषणानां गुणरमेयैरवगुम्भितश्रीः॥ ससंभ्रममपेक्षया परगुणोन्नतिर्दुःसहा नितान्तमनपेक्षया निजपुमर्थहानि: परा। अतः सुमतयो यथानयमुपेक्ष्य दुर्मत्सरं प्रयोजनवशानुगाः कुरुत मत्कृतौ सत्कृतिम्॥
विरचितायामद्वैतसिद्धी श्रवणादिनिरूपणं नाम तृतीय: परिच्छेद्ः॥
गोडब्रह्मानन्दी (लघुचन्द्रिका)। न नियम :; सुखादौ वृत्ति विनापि साक्ष्यभिन्नसुखादिविषय कत्वस्यापरोक्षत्वरूपत्वसंभवात्, किंतु ज्ञानस्य ज्ञानान्तर- घटितापरोक्षत्वे वाच्ये ज्ञानान्तरस्यापि ज्ञानान्तरघटितमेव तद्वाच्यम्; अन्यथान्योन्याश्रयात्, तथाचानवस्थेत्याशयेन समाधानान्तरमाह-यं शाब्दमिति। शाव्दत्वमविवक्षितम्; अनुमित्यादेरप्येतादृटशापरोक्षज्ञानत्वात्। यस्य प्रमातुः यं बोधमादाय बोद्धृत्वं, तदभिन्नार्थविपयकज्ञानत्वमेव तस्यापरोक्षत्वमित्यथः । तद्भिन्नत्वं च मनोऽनवच्छेदप्रयुक्तो यो भेदस्तच्छून्यतावच्छेदकत्वम्। तेन घटादिप्रत्यक्षकाले पटादी प्रमातृभेदेऽपि न क्षनिः। यद्विपयावच्छेदेन हि चिति वृत्तिरूपेण परिणतमनःसंबन्धः, तद्विपयावच्छेदेन पूर्व सत उक्तमेदस्य नाशादुक्तशून्यता। सुखादौ तु सा सहजैव। इच्छादिवारणाय ज्ञानत्वमिति। तन्मनोऽवच्छिन्नचिद्वेदशून्यता वच्छेदकविषयकज्ञानत्वं तन्मनोSवच्छिन्नज्ञान स्यापरो क्षत्वमिति पर्यवसितम्। तेन पुरुपान्वराभिन्नविषयकज्ञानं नापरोक्षम्। विपयस्यापरोक्षरवं तु नोक्तज्ञानविपयत्वम्; धर्माधर्मादो तदापत्तेः, कित्वनावृतत्वम्। ननु-उक्तापरोक्षत्वेन ज्ञानस्य हेतुत्वाद गोरवाजातिविशेषरूपमपरोक्षत्वं ज्ञाने युक्तमिनि-चेत्र; अनावृतत्वस्येवाखण्डाभावस्य तद्यक्तित्वेनापरोक्षज्ञानकार्यत्वाभिमतहेतुत्वात्, घटादीतर- व्यावृत्तिरेव घटत्वादीति मते घटत्वादेरिव उक्ताभावस्य प्रतियोगिविशेषितरूपानवच्छिन्नस्यापि हेतुत्व्रादिसंभवात्। वस्तुतस्तु-धर्मादिज्ञान स्यापरोक्षत्ववारणाय मनोऽनवच्छेदप्रयुक्तस्यवावरणप्रयुक्तस्यापि भेदस्याभाव उक्तलक्षणेSवश्यं निवेश्यः। तथाचानावृतविषयज्ञानत्वमेवापरोक्षतवं युक्तम्। आवरणविरोधितावच्छेदकं तु चाक्षुपादिवृत्तावनुगतं न वेत्यत्र नाग्रहः। नहि तस्यामावरणस्य विरोधिता तन्नाशकता। येनाननुगमो दोषः, किंतु तद्भावव्याप्यता। शब्दातिरिक्तत्वे शब्दानुमानाद्यतिरिक्तत्वे। तेन प्रमातृभिन्नविषयकानुमानादेर्न प्रत्यक्षान्तर्भावः। प्रत्यक्षान्त- भावे तन्त्रत्वात् प्रत्यक्षप्रमाणलक्षणत्वात्। अनौपदेशिकमिति। तथाचौपदेशिकेन मनसः करणत्वेनोक्ता- नुमानबाधः। तद्धास्येत्यादिकं तु न स्पष्ट उपदेश इति पराभिमानः । तदन्यासाध्यत्वे तदन्याकरणकत्वेऽपि निदिध्यासनाधीनकरणकत्वेऽपि। अपेक्षिततया अपेक्षितघीघटिततया । चकितं शक्तिं विना। अभिधत्ते बोधयति॥ इति लघुचन्द्रिकायां शब्दादपरोक्षोपपत्तिः॥ तर्कः सारस्वतै रतैश्चन्द्रिकाचन्द्रभूषणैः। दुरन्तध्वान्तभङ्गाय श्रवणादिनिरूपणम्।। सारस्वतसमुद्रैकप्रसङ्गादू ध्वान्तधिक्क्रिया। यया चन्द्रिकया तस्याः परिच्छेदास्त्रयः स्थिताः ॥ इति ब्रह्मानन्दसरस्वतीविरचितायां लघुचन्द्रिकायां श्रवणादिनिरूपणं नाम तृतीयः परिच्छेद:॥
Page 557
८७८ अद्वैतसिद्धिः । [परिच्छेद: ३ ]
(१) तत्र न्यायामृतकारा :- श्रवणमङ्गि; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासनेतु चित्तैकाम्यसंपादनद्वारा ब्रह्मानुभवहेतूतां प्रतिपद्येते इति विवरणसिद्धान्तो न युज्यते। विचाररूपस्य श्रवणस्य शब्दे तज्ज्ञानरूपे वा करणे इतिकर्तव्यतामात्रलात्। नहि तात्पर्यभ्रमनिरासेनोपक्षीणं तात्पर्यावधारणं करणकोटिं प्रवेष्टमर्हति। आकाह्लादिसहितं शब्दज्ञानमेव हि करणम्। अन्यथा मननादेरपि करणकोटौ प्रवेशप्रसङ्गात्। एवंच तात्पर्यज्ञानं न करणकोटिप्रविष्टम्। इतरथा वेदेऽपि तात्पर्यभ्रमसं- भवात् वाह्यागमेऽपि तात्पर्यप्रमासंभवाद्दुष्टादुष्टविभागो न सिध्धेत्। यागेऽवघातादेरिव शब्दे सन्निपत्योपकारकत्वमप्यत एव पराहतम्। दृष्टान्त इवात्र करणद्रव्यशेषताभावात्। कथंचित्सन्निपत्योपकारकत्वेऽपि अवघातादेः प्रयाजादिकं प्रतीव- श्रवणस्य मननादिकं प्रति शेषित्वं न स्यात्। एतेन-"करणीभूतशब्दगतातिशयहेतुलात् श्रवणस्य करणत्वेनाद्गितम्, मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशय हेतुतात् फलोपकार्यङ्गता" इति चित्मुखोक्तिरपि-परास्ता। अपरथा सोमयागसहकारिभूतदीक्षणीयाङ्गं सोमयागगतातिशय हेत्वभिषवादिकं प्रत्यक्ञं स्यात्। वस्तुतस्तु-शव्देनापरोक्षज्ञप्तौ परोक्षज्ञप्तौ चोत्पाद्यायां श्रवणमनननिदिध्यासनानां त्रयाणामेव फलोपकार्यङ्गतैव, नतु परस्पराज्गान्विभावः। परथा "यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत हीषिति वृष्टिकामाय निधनं कुर्यात् उर्क इत्यन्नाद्यकामाय निधनं कुर्यात् इति खवर्गकामाय निधनं कुर्या"दिति श्रुतानां वृध््यादिफलाय सौभरेतिकर्तव्यताभूतहीपादिनिधनानामपि परस्पराज्ष- तापत्तेः। परमार्थतस्तु-शब्दस्य परोक्षज्ञानजनकत्वस्येव कप्तलात् तद्गतातिशयहेतोः श्रवणस्य साक्षात्कारफलजनक- मनननिदिध्यासनाङ्गित्वं कथमपि न सिद्धति। मननस्य हि "मतिर्यावदयुक्तता" इति स्मृत्याऽयुक्ततशङ्कानिरास एवोप- योग इति सूक्ष्मवस्तुज्ञानहेतुचित्तकाध्यजनकत्वं न संगच्छते। रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनेन विपरीत- भावनानिवृत्तेज्ञानानुपयोगेन तत्संपादनेन निदिध्यासनसार्थक्यमपि न युक्तमेव। इत्थंच-लिक्वेन "ततस्तु नं पश्यते निष्कलं ध्यायमान:" इति वाक्येन प्रकरणेन च निदिध्यासनाङ्गत्वमेव श्रवणादेर्युक्तम्। मूलप्रमाणदाढ्यात्तु न निदिध्यासन- जन्यज्ञानाप्रमालापातः। एतेन-श्रवणादीनां विषयावगमोपायत्वस्यान्वयत्यतिरेकसिद्धल्ात् श्रोतव्य इत्यत्र नियमविधि- तमेवेति विवरणराद्धान्तोऽपि-परास्तः। नहि श्रवणमपरोक्षसाधनमित्यन्यनोऽवगतम्। गान्ध्वशास्त्रविचारत्वेन साक्षा- त्कारसाधनत्वेऽपि धर्मशास्त्रविचारे व्यभिचारात् न शास्त्रार्थविचारत्वेन तद्रहसंभवः। नह्परोक्षे विचारोपयोग इति अप- रोक्षार्थविचारत्वेनापि तब्रहसंभवः परास्तः। साक्षात्कारयोग्यस्यापि स्वर्गनिध्यादेरविचारेण तदनुदयाच्। किंच- पाक्षिकप्राप्ती हि नियमविधिः, नच रूपादिरहितात्मज्ञाने साधनान्तराप्राप्या सा संभवति। नह्यात्मनि सामान्यतः तत्प्रा- ह्या स युक्त्तः। व्रीहीनवहन्तीत्यत्रापि व्रीहिपदमपूर्वीयद्रव्यविशेषपरमिति तत्रव नखविदलनादिप्रसत्त्या नियमविधित्वम्। प्रकृतेतु चिन्मात्रे मानान्तराप्राप्या तन्न युज्यते। नहि सजातीये प्राप्या सजातीयान्नरे नियम उपपद्मते; वैयधिकरण्यात्। यथा मत्त्ररेव मन्तरार्थाः स्मर्तव्याः नतु कल्पसृत्रादिनेति नियमः, एवं श्रोतव्यः श्रुतिवाक्येभ्यः नतु पुराणादिभिरिति साध- नान्तरव्यावृत्तिफलकोऽत्र नियमविधिरिति तत्त्वकोमुदिकृन्सिद्धान्तोऽप्यत एव निरसृः। "इतिहासपुराणाभ्यां वेदं समुप- बृंह्येत्" इति स्मृतिविरोधेन पुराणादिव्यावर्तनासंभवात कर्मज्ञाने स्मृतीनामिव ब्रह्मज्ञाने भागवतादीनामप्युपयोगसंभवाच। श्रोतव्यः श्रुतिवाक्येभ्य इत्यादिकं तु श्रुतिमूलप्रमाणाभिप्रायमिति न विरोधः । अन्यथा पडङ्गाध्ययननिषेधादिप्रसद्वात् । वेदान्तजन्ये इतिहासादिजन्ये चात्मज्ञाने न कोऽपि विशेषः, येन नियमादृष्टम्योपयोगः। विषयस्भावनिबन्धने चापरोक्ष्ये- उन्तःकरणशुद्धेरनपेक्षितलात न तत्संपादकतयापि नियमादृष्टोपयोगः। तदिदं सिद्धम्- विचारः करणं नैव बोधे शब्दप्रमाणजे। नचायं सन्निपत्याअं शब्दस्य करणात्मनः ॥१॥ करणान्तर्गतो येन विचारो हन्तिवद्भवेत्। सन्निपत्यापि नवासा शेषी मत्यादिकं प्रति ॥२॥ अन्यथाहि भवेद्धन्तेः प्रयाजान्प्रति शेषिता। हीपादेश्ष यथा भिन्नफले सौभरशेषिता ॥ ३॥ श्रवणादेस्तथामिन्रफले स्याच्छव्दशेषिता। तम्मादयुक्ता मत्यादेः श्रवणं प्रति शेषिता ॥४ ॥ श्रवणं ह्यापरोक्ष्याय लन्मते श्रवणेन च। नापरोक्ष्यं क्वचिदृष्टं तेनापूर्वविधिर्भवेत् ॥। ५॥ नियमादृष्टसाध्यस्य व्यावर्त्यस्याप्यभावतः । श्रवणादेर्नियमनं परपक्षे न युज्यते ॥ ६ ॥ इति। वस्तुतस्तु-श्रवणादेर्ज्ानरूपस्य विधेयत्वमेव न संभवतीति श्रोतव्य इत्यादिकमनुवाद एव। तथाहि-श्रवणं नाम न शक्तितात्पर्यावधारणम्; अवाच्ये ब्रह्मणि शत्त्यसंभवात्, तात्पर्यमपि प्रागेव धर्मिणः स्रूपतो निश्चितत्वेन न तद्विष- यम्। अन्यथा विचारानन्तरमपि संशयादिप्रसज्गात। अवधारणस्य ज्ञानत्वे तद्विधानायोगाच। अतएव-गुरुमुखाद्वेदा-
Page 558
गौडब्रह्मानन्दीयुता। ८७९
न्तानां ब्रह्मणि संयोजनम्। एतेन-मनननिदिध्यासने अपि-व्याख्याते; तयोरपि ज्ञानरूपलात्। तदयं संग्रहः -श्रुत्यादेर्धीसरूपत्ात् विध्यनर्हत्वतो धियाम्। अपरोक्षे नैव युक्त्तः श्रवणादिविधिः क्वचिदिति सर्वमनवद्यम्। अथातो ब्रह्मजिज्ञासेति जिज्ञासासूत्रमपि न श्रवणविधिमूलकं किंतु मननविधिमूलकमेव। विचारविधौ श्रवणसाध्यापरो- क्षज्ञानाधीनापरोक्षज्ञानकामताया अधिकारिविशेषणत्वेनान्यथान्योन्याथरयपातात्। जिज्ञासासूत्रोकोहि विचारस्तत्त्वनिर्णाय- कन्यायानुसन्धानरूपः श्रवणं च नोक्तरूपमिति स्वरूपतोऽपि भेदो विद्यते। नह्यद्विभूतं श्रवणं इतिकर्तव्यतारूपं विचारत्व- मर्हति। युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयशव्दस्य च स्मरणं प्रत्यभिज्ञानं वा। तर्हि तस्या- वश्यकश्रवणावृत्त्यैव सिद्धा मननविधिवयर्थ्यम्, त्रिविधस्यापि श्रवणानन्तर्गतयुत्त्यनपेक्षत्वेन मन्तव्यक्षोपपत्तिभिरिति स्मृति- विरोधः, मतिर्यावदयुक्ततेति अयुक्तलशङ्कानिरासोत्त्ययोगश्। शव्दज्ञानस्रूपमेव श्रवणमिति श्रवणविधिमूलकत्वं विचा- रस्य न युक्तमेव। किंतु युक्तायुक्तत्वसंशयादेः संशयपूर्वपक्षसिद्धान्तात् मीमांसाशास्त्रग्रथितात्संशयादिनिवर्तकान्यायजाता- दन्येनानिवृत्तेस्तादृशन्यायग्रथनात्मकमीमांसारम्भकर्तव्यतापरमाद्यसूत्रं मननविधिमूलकमेव मन्तव्यम्। समन्वयाध्यायोक्त- तात्पर्यनिश्चायकोपक्रमादियुक्त्यनुसन्धानं श्रवणम्, द्वितीयाध्यायार्थासत्त्वाशङ्कानिवर्तकयुत्त्यनुसन्धानं मननमिति भेदोऽपि न युक्त्तः। अर्थनिश्चयानन्तरभाविभावनाप्रचयहेतुचित्तैकाम्यहेतुनैवेति विवरणसिद्धान्तविरोधात् अंशतो मननविधिमूलत- स्याप्यापाताच्च, "आदो यच्छरद्वया सिद्धं पश्चान्यायेन साधितम्।" इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यमयमर्थ इति ग्रहणं श्रवणं, पश्चात् न्यायानुसन्धानं मननमिति भेदसंभवे युक्तिप्वेव श्रवणमननभेदकल्पनायोगाच्च। वाक्यार्थग्रहण- स्याप्युक्तूपम्य श्रवणादित्रिनयेऽन्तरभीवः कथमप्यज्वीकरणीयः, अन्यथा चतुर्थस्यापि मुमुक्ष्वनुष्ठेयताप्रसज्गान्। अन्यथा प्रमाणभूनश्रुतितात्पयें निर्णाते सति अर्थसत्त्वार्थमुपपत्त्यनपेक्षणात् निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्गादिति मनन- विधिमूलकमेव जिज्ञासासृत्रम्। अस्तुवा श्रवणं विचाररूपमेव, एवमपि यथा कर्मकाण्डविचार उत्तरक्रतुविधिप्रयुक्त: एवं त्रह्मकाण्डविचारोऽपि ज्ञानविधिप्रयुक्त एव लन्मते स्यात्। उत्तरततुभिरनुष्टानार्थ कर्मविचारस्येवात्मज्ञानेनापि आत्मविचा- राक्षेपसंभवात्। कार्येण हि कारणमाक्षिप्यते। अथवा-कमविचारवदर्थीवगमपर्यन्ताध्ययनविधिप्रयुक्त एव ब्रह्मवि- चारो भवतु। दृष्टफलकत्वेनवावृत्तिसिद्धविध्यनपेक्षणेन आवृत्तिगुणकमननादिविधिवैयर्थ्यात्। अध्ययनविधिविहितकदे- शाध्ययनानुवादेन वाक्यान्तरेणारण्याद्यज्गान्तरविधानवन्मननाद्यक्गविधानस्य संभवाच न दोपः। नचाक्षरग्रहणान्तमध्यय- नम् : तस्यापुरुपार्थनया भाव्यत्वानुपपत्तः। सर्वथा श्रवणविधिमूलं जिज्ञासासूत्रमिति नोपपद्यत एव। अर्थज्ञानार्थस्याप्य- व्ययनस्य प्रत्यवायपरिहारार्थत्वेन नित्यतमप्युपपद्यते इति वाचस्पतिसंमताध्ययनविधिमूलत्मस्माकमपि संमतमेव । एवंच शव्दज्ञानंरूप थ्रवणमेव श्रोतव्य इत्यत्र विधेयं एवं विचारो मन्तव्य दत्यत्रेति सिद्धम्। आपातदर्शनभिन्नं कृतिसा- व्यत्वेन विधानाईं प्रतिवाक्यमयमस्यार्थ इति गुरूपदेशेन ग्रहणं श्रवणम्, अयमेव वाक्यार्थों युक्तो नान्य इति निर्णयहे- नुयुक्त्यनुसन्धानं मननम्। निरन्तरध्यानं निदिध्यासनमपरोक्षसाधनमिति परस्परमिन्नस्वभावानि श्रवणादीनि विधेयान्येव। तत्रचापूर्व एव विधिः। वाक्यविचारत्वेन वाक्यार्थज्ञानहेतुतप्नाप्तावपि वेदान्तविचारत्वेनात्मज्ञानहेतुताया अलन्तमप्राप्त- लात्। निदिध्यासनस्य कथमपि साक्षात्कारसाधनलाप्राप्या तत्रापूर्व विधित्वे न विवादलेशोऽपि। निदिध्यासनापेक्षितज्ञान- संपादकतया श्रवणमननयोरुपयोगः। ज्ञानस्यापि श्रवणादेः श्रोतव्य इत्यादितव्यप्रत्ययानुसारेण विधिरज्गीक्रियते। अङ्गी- कृतं हि "पत्यवेक्षितं" "तस्मात् पश्येत नित्यशः" इत्यादौ ज्ञानस्यापि विधानम्। न विधौ परः शब्दार्थ इति न्यायवि- रोधात्तद्वेतुसंयोगादिकमेव तत्र विधेयमित्यपि न सङ्गतमेव। साक्षात्कृतिसाध्यत्वस्य चक्षुःसंयोगेऽप्यभावेन परंपरया कृतिसाध्यत्स्य ज्ञानेऽपि संभवन अनिच्छतोऽपि अनिष्टसंप्रयोगस्य दर्शनाच् सयोगस्यापि ज्ञानसाम्याच्च। अवेक्षणेऽनुष्ठेये विभज्य नृचक्षसंत्वेति मन्त्रविनियोगपरा तृतीयाध्यायोक्तिरप्यत एव संगच्छते। यदेव विद्यया करोतीति विद्यायां कर्माङ्ग- लाम्नानमप्यत एवोपपद्यते। नह्यविहितमन्नं भवितुमर्हति। अयमाशयः-यथा दुर्गन्धादिज्ञानस्येच्छाविषयत्ाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वम्। तथाऽतिसूक्ष्मब्रह्मज्ञानस्येतरज्ञानाविधेयत्वेऽपि विधेयत्वमप्युपपद्यते एव। दृष्टंहि शास्त्रार्थज्ञानस्य नियमेन पुंतन्त्रलम्। ब्रह्मच शास्त्रार्थ इत्यविवादम्। अन्यथा नामादिषु ब्रह्मोपासनायां का गतिरिति भवन्त एव पर्यालोच- यन्तु। अज्जीकृतं हि भवता ज्ञानसंतानरूपनिदिध्यासनस्य विधेयलम्। श्रवणं यावदज्ञानमित्यज्ञानविरोधित्वोपपत्तिरिति श्रवणा- दिकं ज्ञानरूपमेव। विज्ञाय प्रज्ञां कुर्वीतेत्यादिकमप्यत एवोपपद्यते। एवंचोपासनायामपि विदिधातुप्रयोगेण ज्ञानविधेयतमेव मानतत्त्रस्यापि पुंतन्त्रत्वमपि दानादौ दृष्टमिति न किंचिदनुपपन्नमित्यस्मन्मते पुरुषतत्र्रमेव ज्ञानमभिमतमिति तद्विधेयमेव। विधीयमानं च ज्ञानं विमर्शजन्यस्य कृतिसाध्यत्वात् शाब्दज्ञानरूपं। कर्मकाण्डेऽपि तत् कृतिसाध्यमेव विवक्षितम् । अन्यथा ऋतुविधिभिविचाराक्षेपानुपपत्तेः, तदभ्यासरूपं वा; नैयोगिकस्यापि बन्धध्वंसस्य ध्वंसत्ात् श्रुतिबलाच्च नित्यत्वो- पपत्त्या मोक्षाय तद्विधानोपपत्तेः । अतएव अनावृत्तिश्रवणं मुक्तानामुपपद्यते। तद्यथेहेति श्रुतेर्नित्यतश्रुतिविरुद्धाया नैयो- गिकानित्यत्वे प्रामाण्यायोगात्। ज्ञानुविधिवाक्यस्य ज्ञानकर्तव्यतायामिव त्रह्मण्यपि महातात्पर्यसत्त्वात् ध्यानात्मकज्ञानरूपं
Page 559
८८० अद्वैतसिद्धिः । [परिच्छेदः ३]
वा तदिति न दोषः । एवंच निदिध्यासनाधीनः साक्षात्कार एव मुक्तिसाधनं तदके च श्रवणमनने नतु श्रवणसाध्यसा- क्षात्कार इति सिद्धम्। नहि शब्दोऽपरोक्षज्ञानजनक इत्यत्र किमपि मानमस्ति। तद्धास्य विजज्ञाविति परोक्षज्ञानेप्युपपन्नम्। परं पारं दर्शयतीति तु ग्राममार्गोपदेष्टरि आमं दर्शयतीति व्यवहारवद्गौणः । अन्यथा मनसवानुद्रष्टव्यमिति श्रुतिविरोधात्। 'वेदान्तविज्ञानसुनिश्चितार्था' इति सुशव्दस्तु अप्रामाण्यशङ्काविरहाभिप्रायः अन्यथा वेदान्तबोध्यतस्य विचारकर्तव्यताया- श्वापरोक्षताप्रसङ्गात्। ब्रह्मातिरिक्तस्यापि वेदान्तार्थस्यापरोक्षताप्रसङ्गाच्च नेषा श्रुतिरपि तदापरोक्ष्ये प्रमाणम्। अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगितात्, ज्ञानत्वतत्, इत्यनुमानं तु अपरोक्षत्वं कर्म- काण्डजन्यज्ञानवृत्तीत्याभाससाम्यात् शाब्दतहेतुना सत्प्रतिपक्षाच्च न प्रयोजकम्। तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञामाजनक- त्वेऽपि मनसैव तदुपपत्त्याSपरोक्षभ्रमाननुवृत्तिः संभवेत्। दशमस्तमसीत्यत्रापि अपरोक्षज्ञानजनकत्वं शब्दस्य न क्रप्तम्; तत्रन्द्रियस्यैव शब्दसहकृतस्य करणलात्। धर्मवानहमित्यादाविव विशेष्यापारोक्ष्येऽपि विशेषणपारोक्ष्यवत् दशमत्वे पारो- क्ष्यसंभवाच्च। किंच शब्दस्यापरोक्षज्ञानजनकत्वं न स्वाभाविकमतिप्रसज्गात्। जीवाः, परमात्मनो न भिद्न्ते, आत्मलवात्, इत्यनुमानात् श्रवणात्प्रागापाततो वेदान्तजन्याया भाषाप्रवन्धजन्यायाः अनधीतवेदान्तजन्याया ऐक्यप्रतीतेश्वापरोक्षता- पातात्। अपिचार्थस्यापरोक्ष्यं दशमल्ादावभावात् नापरोक्षवुद्धिविषयत्वरूपम्। चत्रापरोक्षज्ञाने मैत्रस्य शब्दादिना परोक्षा- दर्शनात्, आत्माश्रयाच्च। अन्यथा शब्दस्याप्यपरोक्षज्ञानजनकत्वे तस्य प्रत्यक्ष एवान्तर्भावप्रसङ्गः । मनसवेति मनस इव शब्दकरणतायां कस्यापि प्रमाणस्याभावान्न शब्दस्य साक्षात्कारकारणतम्। तंलौपनिषदमित्याँपनिषदलाम्नानं तु निदिध्या- सनापेक्षिततयाऽन्यथासिद्धम्। अतएवहि यतो वाचो निवर्तन्ते इत्युपपद्यते इति शरवणाद्ङ्गकनिदिध्यासनसाध्यसाक्षात्कार- साध्यव मुक्तिः, श्रवणादौ चापूर्वविधिः, तच् ज्ञानरूपम्, ज्ञानमपि विधेयम् शब्दो नापरोक्षज्ञानजनक इति सर्वमनवद्य- मिति-वर्णयन्ति॥
(२) अद्वैतसिद्धिकारास्तु- ऐकात्म्यसाक्षात्कारार्थ श्रवणमद्ि; मनननिदिध्यासनेतु तदक्रतया मुमुक्षुभिरनुष्टये। तदुक्तं विवरणे-शवणमत्नि; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासनेतु प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण व्रह्मा- नुभवहेतुतां प्रतिपद्येते" इति। श्दशक्तितात्पर्यावधारणरूपो विचारोहि अवघृततात्पर्यकशव्दस्यैव करणत्वेन करणकोटि- मेव प्रविशति। साकाङ्कादिधियोऽपि निराकाहलादित्रमनिरासेनोपक्षयापत्त्या न तात्पर्यभ्रमनिरासे तात्पर्यावधारणस्य पर्यव- सानमिति तात्पर्यज्ञानं करणकोटिमर्हति। वेदे कदाचित् तात्पर्यभ्रमसत्त्वेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, नतु वाह्या- गमे पौरुषेय्रतया दुष्टे तदिति दुष्टादुष्टव्यवस्थाऽपि नानुपपन्नति सन्निपत्योपकारकतया यागेऽवघातादेरिव करणकोटिप्रविष्ठ- लम्। अवघातस्य विशिष्यागप्रविष्टतया प्रयाजादिशेषित्वेऽपि स्वमपेण तन्न संभवति, प्रकृते तु असंभावनाविशेषनिवृत्ति- रूपासाधारणोपकारजनकत्वेन स्वरूपेणापि शेषितेति विशेषः । एतेन-"करणीभूनशब्दगतातिशयहेतुलात् श्रवणस्य करणत्वेनात्वितम्, मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशयहेनुलात् फलोपकार्यंजता" इति चित्मुखोफिरपि- व्याख्याता। सोमयागसहकारिभृतदीक्षणीयाद्यङ्गस्याप्यभिपवादीनां यागकोटिप्रविष्व्व तदमिष्मेवेतिनानुपपत्तिः । फले जनयितव्ये मनननिदिध्यासनयोः शब्दसहकारिसंपादकत्वं श्रवणस्य तु जनकतासंपादकलमिति मुखभेदान्न परस्परा आाज्विभावप्रसङ्गः। एतेन-सभरेतिकनव्यतानिधनगतहीपादीनां परस्पराज्ानिभावोऽपि-परास्तः; करणस्वरूपसंपाद- कत्वतत्सहकारिसंपादकत्वरूपस्य विशेषस्यात्रेव तत्राभावान्। साक्षात्त्वंहि अज्ञाननिव्तकत्वप्रयुक्त श्रवणजन्यस्यापि ज्ञानस्य संभवत्येव। एवंच-प्रकरणादपि श्रवणस्याद्गित्वं सिद्धम्। अयुक्तलशङ्कायां सत्यां चित्तविक्षेपस्य तन्निवृत्तो युक्ततवावधारण- कोटा चित्तकाम्यस्य दष्टत्वेन मतिर्यावदयुक्त्ततेति स्मृत्यविरोधेन मननस्य चित्तकाम्यहेतुत्वेन इयं शुक्तिरिति साक्षात्कारानन्तरं तद्रजततया ज्ञातमिति स्मृतिसत्वेन ज्ञानगोचरसंस्कारसत्त्वेन रूप्यसंस्कारानुव्ृत्त्यभावात् निदिध्यासनस्य विपरीतभावनानि वर्नकत्वेन चोपयोगो नानुपपन्नः। नहि निदिध्यासने बहिंदेवसदनं दामीत्यादावित्र साक्षात्काररूपफलसंबन्धसामर्थ्यमस्ति। तनस्नु तं पश्यते इत्यत्र तु योग्यताबलाच्छ्रवणत एवत्यध्याहियते। एवंच तच्छवणेन ध्यायमानं पुरुषं निष्कलं साक्षात्क- रोतीत्यनुकूलार्थ एवावगम्यते। अतएव द्रष्टव्यः श्रोतव्य इति दर्शनथ्रवणयोरव्यवधानमुपपद्यते। निदिध्यासनसाध्यो हि साक्षात्कारः कामिनीसाक्षात्कारवदप्रमैव स्यात्। मूलप्रमाणदार्व्येन तत्प्रमात्वं तु मूलप्रमाणस्येव साक्षात्कारजनकतवमप्या-
तस्य च श्रवणस्य विषयावगमोपायत्वस्यान्वयव्यतिरेकसिद्धलात् गान्धर्वशास्त्रविचारे षह्जादिसाक्षात्कारानुभवेनापरोक्ष- शास्त्रार्थविचारत्वेन तदर्थसाक्षात्कारत्वेन च कार्यकारणभावकल्पनात् सन्दिग्धलसप्रयोजनत्वयोरेव विचारप्रयोजकत्वेनापरो- क्षेऽ्रपि विचारसार्थक्याच्च शरोतव्य इति नियमविधिः, नापूर्वविधिः। निध्यादसाक्षात्कारस्तु तदसन्निकर्षनिबं्धनः नु वि
Page 560
गौडब्रह्मानन्दीयुता। ८८१
चाराहेतुताधीनः। निर्विशेषात्मनि मानान्तराप्राप्तावपि यथाऽपूर्वीयेपु व्रीहिषु नखविदलनाद्यप्राप्तावपि सामान्यतो व्रीहिषु तत्प्राप्या नियमः, एवं आत्मनि मानान्तरप्राप्त्या साधनान्तरव्यावृत्तिफलो नियमः। सजातीये प्राप्यापि सजातीयान्तरे नियमवत् एकस्मिन्नेवात्मनि अवस्थाविशेषेण मानान्तरप्राप््यापि नियमविधितमुपपद्यते एव। सामान्यधर्ममादायतु सामा- नाधिकरण्यसंभवात् न विशेषान्तरप्राप्या विशेषान्तरनियमेऽपि वैयधिकरण्यम्। पतेन-इतिहासपुराणादिव्यावर्तनेन नियमविधित्मिति तत्त्वकौमुदीसिद्धान्तोऽपि-व्याख्यातः; इतिहासपुराणा- दीनां वेदान्ततात्पर्यनिर्णय एवोपयोगः, नतु ब्रह्मज्ञाने इति नेतिहासपुराणाभ्यामिति स्मृतिविरोधः । तमेतं वेदानुवचनेनेति श्रुतिबलात् यज्ञादिजन्यादृष्टस्य नियमादृष्टस्य च विविदिषाद्वारकान्तःकरणशुद्धेरेव साध्यायाः संभ- वेन ज्ञानस्वरूपोपकारितया तत्साध्याज्ञाननिवृत्ता तदपेक्षणाच वेदान्तजन्यसाक्षात्कारे तदजन्यसाक्षात्कारापेक्षयाऽतिशयस्या- वश्यकलात्- नियमादृष्टसाध्यस्य व्यावर्त्यस्यापि संभवात्। श्रवणादेर्नियमनं सर्वथेवोपपद्यते ॥१॥ तथ् श्रवणं शक्तितात्पर्यावधारणम्। शुद्धे शक्त्यसंभवेऽपि तद्वोधोपयोगिनी अवधारणीया विशिष्टशक्तिः संभवति। संशयकोस्युपलक्षिते निर्विशेषे तात्पर्यस्यापि संभवेन विचारः सार्थक एव। अवधारणंच न ज्ञानं, किंतु ज्ञानविजातीयचेतो- वृत्तिविशेषः । तदुक्तं-"श्रवणादिक्रिया तावत् कर्तव्येह ग्रयत्नतः"-इति। एवंच श्रवणादेरधीरूपाया मनोव्यापार- त्वेन विधेयतमुपपद्यते। श्रोतव्य इत्येतदनुवादलवादस्तु प्रस्थानान्तरलान्न विधित्वप्रस्थानविरोधी। एतेन-शरवणविधिमूलकमेव जिज्ञासासूत्रं न मन्तव्य इति मननविधिमूलकमिति-सूचितम् । अधीतवेदस्यापा- ततो जायमानपरोक्षज्ञानाधीनापरोक्षज्ञानकामनाया एवाधिकारिविशेषणत्वेन नान्योन्याथ्रयापातः। तत्त्वनिर्णायकन्यायानुं- सन्धानरूपविचारस्य श्रवणाद्भेदेन यद्यपि न श्रवणविधिसमानविपयतया मूलमूलिभावः; तथापि शक्तितात्पर्यावधारणाक्षि पोपकमोपसंहारादितात्पर्यलिद्गमादाय स उपपद्यते एव। वस्तुतस्तु-शब्दशक्तितात्पर्यावधारणं श्रवणं मननं तु युक्ति- भिरनुचिन्तनम्। अनुचिन्तनं चात्र श्रुतार्थविपयकयुक्तायुक्त्तत्वादिसंशयनिवतकयुत्त्यनुसन्धानरूपमिति न दोषः इति न श्रवणमननयोरभेदशङ्कावकाशः। युक्तायुक्ततवसंशय निरासकन्यायजातस्यात्र विचारशास्त्रे घटनायामपि तदपेक्षयाऽ्भ्यर्हित- तात्पर्यावधारणाक्षिप्तलिस् विचारस्याप्यत्र करणाच्छवणविधिमूलकत्वमेव, न मननविधिमूलकत्वमिति मन्तव्यम्। यद्वा सम-
नम्। अत्र विवरणविरोधस्तु प्रस्थानान्तरत्वादकिंचित्करः । अंशनो मननविधिमूलत्वेऽपि समन्वयोक्त्तविचारस्याभ्यर्हितत्वेन श्रवणविधिमूलकत्वेन व्यवहारः। नहि वाक्यार्थग्रहणं प्रमारूपं विधेयतामहति। श्रवणमात्रेण निश्चितप्रामाण्यस्य पुंसो मन- नाभाव इष्ट एव। टष्टंहि द्वारवाधेन कृष्णलेऽवघातवाधनमिति सर्वमनवद्यम्। एतेन-उत्तरक्रतुविधिभिः कर्मविचार इवा- त्मज्ञानेन वेदान्तविचार आक्षिप्यत इति शङ्कापि-परास्ता; कार्येण कारणाक्षेपसंभवेऽपि वैधत्वसिद्धर्थ विधिमूलत्स्या-
कल निरासस्यावश्यकत्वेनार्थज्ञानपर्यन्ताध्ययनविधिमूलकत्वमेव वेदान्तविचारस्य न युक्तम्। सर्वथा श्रवणविधिमूलमेवाद्य- सूत्रमिति सिद्धम्। श्रवणादीनां न विधिरिति भामतीसिद्धान्तसु प्रस्थानान्तरतवादविरोधीति पूर्वमेवोक्तम्। तच् श्रवणं न शब्दज्ञानसरूपं, किंतु अवधारणरूपम्। ज्ञानस्यापुरुषतन्नत्वंनाविधेयलात्। तथाहि-आपातदर्शनं तावच्छ्रवणं विनापि जायते इति न तत्र श्रवणस्य करणलम्। तद्भिन्नेच वाक्यार्थग्रहणे गुरूपदेशाधीने वेदान्तरूपवाक्यार्थविचारत्वेन सामा- न्यतः साधनतप्राप्या न विधेयत्म्। नहि वेदान्तविचारत्वेन ब्रह्मज्ञानत्वेन च साध्यसाधनभावबोधनार्थ विध्यन्तरमपे- क्ष्यते; अन्यथा ज्योतिषोमवाक्यविचारत्वेन तदर्थज्ञानत्वेनच साध्यसाधनभावोधनार्थ विध्यन्तरकल्पनाप्रसङ्गातू। सूक्ष्मा- थंगोचरं हि निदिध्यासनं तादृशार्थसाक्षात्कारसाधनं दृष्टमिति तदंशेऽपि नापूर्वलमिति श्रोतव्यो मन्तव्य इति विधिसरूपा न विधय इति सिद्धम्। ज्ञानस्य कृत्यसाध्यत्वेन विध्यनर्हत्वात्। पत्र्यपेक्षितमाज्यमित्यादौ तु अवेक्षणहेतिन्द्रिय संयोग एवानन्यगत्या लक्षणया विधीयते। विधावप्यसति वाधे गोभि: श्रीणीत मत्सरमित्यादाविव लक्षणा न दोषाय। अर्थवादा- नुसारेण विधौ न परः शब्दार्थ इति हि न विधौ परः शब्दार्थ इति भाष्यम्। स्वेच्छावीनकृतिसाध्यत्वं विधेयताप्रयोजकं यथा ज्ञाने नास्ति न तथा संप्रयोग इति तस्य विधेयत्वमुपपद्यते। तार्तीयीकाधिकरणमपि तृप्तिवदनुनिष्पादितताभावेनेन्द्रि- य संप्रयोग रूपावेक्षणस्यानुष्ठेयतया विभज्य विनियोगनिरुपणपर नाम्माकं प्रतिकूलम्। यदेव विदये्याद विदयाशब्द उपास- नापरः । उपासनाच न ज्ञानमिति न ज्ञानस्याविधेयत्वे लच्छरुत्यनुपपत्तिः। ब्रह्मज्ञानस्येच्छाविषयत्वमिव विधिविषयत्वमपि कल्पयितुं न शक्यम्; प्रमाणाभावात्। नहि शास्त्रार्थज्ञानं पुंतन्न्रम्, किंतु तत्साधनमिति मन्तव्यम्। निदिध्यासने ज्ञान- संतानरूपे विधेयत्वं हि संतानज्ञानगतावृत्तिविधेयत्वेनौपचारिकम्। एतेन-विज्ञाय प्रज्ञां कुर्वीतेति श्रुतिरपि-व्या- ख्याता; तत्रान्यथानुपपत्त्या विचारस्यैव विधेयस्य लक्षणात्। अ. पस. १११
Page 561
८८२ अद्वैतसिद्धिः । [ परिच्छेद: ३ ]
तच्च विधीयमानं ज्ञानं न शाव्दम्; तज्जनकविचारस्यैव कृतिसाध्यत्वेन तस्यातथात्ात्। नापि मोक्षाय तदभ्यास- रूपम्; मोक्षानित्यलापातात्। नहि मोक्षो भवन्मते ध्वंसरूपः, किंतु लोकान्तरप्राप्तिः, तस्याश् तद्यथेहेति श्रुत्यनुसारेणा- नित्यत्मेव स्यान्नयोगिकत्वे। तस्मात्पत्यवेक्षितमाज्यमित्यादावपि ज्ञानस्याविधानात् ध्यानस्यापि ज्ञानाव्यतिरेकातू नात्मज्ञानं विधेयम्। तस्मात् ज्ञानविजातीयं श्रवणं शव्देतिकर्तव्यतारूपविचारात्मकं इति सिद्धम् ॥ शब्दस्याप्यपरोक्षज्ञानजनकत्वं "तद्धास्य विजज्ञौ तमसः परं पारं दर्शयति" "वेदान्तविज्ञानसुनिश्चितार्थाः" इत्यादिश्रुति- सिद्धम्। तमसः परं पारं दर्शयतीति न गौणः मुख्यार्थे बाधकाभावात्। सुनिश्चितेत्यत्र सुपदेन निक्चये आपरोक्ष्यमेव बोध्यते। अप्रामाण्यशङ्काविरहस्य निश्चितपदेनवावगमात्। अर्थशब्देन च मुख्यतात्पर्यविषयब्रह्मस्वरूपमात्रं विवक्ष्यते इति नान्यस्यापि जगत्कारणतादेरापरोक्ष्यप्रसन्गः। अपरोक्षत्वं तत्वमस्यादिवाक्यजन्यज्ञानवृत्ति, इत्यनुमानमपीदानीं व्याख्या- तम्। नहि तत्वमस्यादिवाक्यजन्यज्ञानापरोक्षत्वाभावेऽपरोक्षभ्रमनिवृत्तिः, नच मानसापरोक्षज्ञानोपपत्तिः, आत्मनः खप्र- काशत्वेन सुखादीनामपि साक्षिवेद्यत्वेन मनसः कुत्राप्यसाधारण्येन प्रमाकरणताभावात्। ज्योतिष्टोभवाक्येतु नैवं किंचित् कल्पकमस्ति येन तज्जन्यज्ञानस्याप्यपरोक्षतवापादनेन प्रकरणसाम्यमापाद्येत। पतेन-विमतः शव्दः, नापरोक्षधीहेतुः, शब्दलात्, इति सत्प्रतिपक्षोऽपि-पराहतः; दशमस्तमसीत्यादौ व्यभिचारात्। बहुलतमे तमसि लोचनहीनस्यापि वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोऽहमिति अपरोक्षज्ञानस्य दर्शनेन तत्रेन्द्रियस्याकरणलात्। उक्तज्ञानं हि दशमत्वेऽप्य- परोक्षमेव। अन्यथाSपरोक्षभ्रमानिवृत्तिप्रसङ्गात्। वोध्यभिन्नार्थकशव्दातिरिक्ते सति प्रत्यक्षप्रमाकरणतवस्यव प्रत्यक्षान्तर्भावे तन्त्रत्वेन शब्दस्यापरोक्षज्ञानजनकस्यापि प्रत्यक्षेऽन्तभीवः। तंतापनिषदमिति हि साक्ष।देव शब्दस्य साक्षात्कारकरणलमव- गमयति। यतो वाचो निवर्नन्त इति ब्रह्मणः शक्यलनिषेधाभिप्रायम्, नतु तदवोध्यत्ाभिप्रायम्। तदुकं-चकितमभि-
जकं श्रवणमत्नि नियमविधिविषय इति सिद्धमिति-निरूपयन्ति ॥ (३) तरङ्गिणीकारास्तु- श्रवणं नाजि: तात्पर्यज्ञानस्य शाव्दबोधेSकारणत्वेन झुकादिवाक्यस्थले कृपतया तात्पर्यभ्रमनिरासेनव तदुपक्षयेन कर- णकोटिप्रचेशायोगान्। साकाङ्कादिधीरेव हि शाब्दवोधोपयोगिनी। नव्याकाह्वादिज्ञानं विनाऽन्तरेणेव तात्पर्यज्ञानं कुत्रापि शब्दबोधः सिद्धति। येन तदकारणलमप्याशङ्क्यत। अन्यथा नात्पर्यज्ञानस्य करणत्वे वेदेऽपि कदाचित्तात्पर्यभ्रमसंभवेन वाद्यागमेऽपि क्वचित्ता पर्यप्रमासंभवेन दुष्टादुट्टविभागो न सिद्धेत्। यत्रेव नङ्ग्मप्रमे तत्नैव तदापादनमिति चेदे कुत्रचिदेव भ्रमः, वाव्यागमेनु कुत्रचिदेव तत्प्रमेति वैपम्यमप्यकिंचित्करम्। एतेन-नात्पर्यज्ञानस्य सन्निपत्योपकारकतयाज्ञलमपि- प्रत्युक्तम्: करणोपकारकगतदृप्टाटृषान्यतरोपकारजनकत्वं हि सन्निपत्योपकारकलम्। तब्न तान्पर्यज्ञानेन शब्दे तज्ज्ञाने वा करण कम्याप्युपकारस्यानाधानान् न संभवति। अन्यथा अवघातप्रोक्षणादानां प्रयाजाद्यतिलप्रसन्गात। विशिष्यागप्र- विष्वतयेवावघातत्वादिनापि तदापत्तिरेवात्र विक्षितेति विशिष्टशब्दप्रविष्टतयेव श्रवणत्वेनापि तदिष्यते इति नेष्टापत्त्यवकाशः । नहि प्रधानं प्रति सन्निपत्त्योपकारं प्रधानोपकारकान्तरशेपीति युज्यते। प्रयाजादीनां यागसहकारित्वं मननादिकंतु शब्दस- हकारिचित्तगतातिशयाधायकमिति वैपम्यमात्रेणापि न तदुज्यते। सोमयागसहकारिभूताभिषवग्रहणादीनां तत्महकारिदी- क्षणीयाज्गशपितापत्तः। तनस्ु नं पश्यते निष्कलं व्यायमान इति ध्यानस्यैव फलसंवन्धेन प्रकरणात् श्रुला मला तथा व्यात्वेति वाक्याच् ध्यानमेवाि। तदजमेव श्रवणादि। द्रष्टव्यः श्रोतव्य इति सन्निधानं तु हस्तावनेजनस्योपस्तरणसन्निधान- मिवाकिंचित्करम्। श्रुतमतस्यव निदिध्यासनमिति न श्रवणस्य मननाद्यनितशङ्गापीति मन्तव्यम्। निदिध्यासनजन्यस्यापि = एतेन-श्रवणे नियमविधिरिति तन्सिद्धान्तोऽपि-परास्तः; विचारम्य विचार्यसाक्षात्कारहेनुत्वं हि धर्मादाविव वाधितम्। अपरोक्षयोग्यार्थविचारत्वेन तत्साक्षात्कारत्वेन च कार्यकारणभावोऽपि न संभवति; स्वर्गनिध्यादौ व्यभिचा- रात्। तत्रेन्द्रियसहकारित्वकल्पनं हि यागाज्ञनादिनापि तत्साक्षात्कारसंभवान्न युक्तम्। वैतुष्यविशिष्टानां व्रीहीणामपूर्वसंब- न्धिनामपि वतुष्यसंपादनार्थ अवघातो नखविदलनं च पक्षप्राप्तमिति तत्र नियमविधिरिति युज्यते, प्रकृतेतु केवलात्मसा- क्षात्कारस्यैव मोक्षसाधनलात्तत्र च प्रमाणान्तराप्राप्या न नियमविधित्वमुपपद्यते। इतिहासपुरणानां तु वेदमूलकानां धर्म इव ब्रह्मण्यपि प्रामाण्यं विद्यते एवेति न तह्युदासः संभवति। सवथा नात्र नियमविधिरिति युज्यते॥ तच्च श्रवणं न शव्दशत्त्यवधारणरूपम्; शुद्धेऽसंभवात्। तद्वोधोपयोगिनी विशिष्टशक्तिरेवावधारणीया इति तु न युक्तम्। शक्तितात्पर्ययोर्भिन्न विपयलवापातात्। अन्यशत्तयाऽन्यस्योपस्थापने लक्षणाया. अनवस्थापातेन विशिष्टशक्ते: शुद्ध- बोधेऽनुपयोगेन तत्र शत्त्यवधारणासंभवाच्च ।।
Page 562
गौडब्रह्मानन्दीयुता। ८८३
पतेन-श्रवणविधिमूलकत्वमपि जिज्ञासासूत्रस्य-परास्तम्; अध्ययनोत्तरविचारप्राक्भाविवेदार्थज्ञानस्य श्रवणफल- त्वेन श्रवणविचारयोरत्यन्तवैलक्षण्यात्। अतः तात्पर्यविषययुक्त्तायुक्ततवसंशयनिरासिविचाररूपमननविधिमूलकल्मेव यु- कम्। विशिष्टतात्पर्यनिर्णयस्यैव मन्मते श्रवणत्वेन तात्पर्यनिर्णायकविचारस्यातथात्वेन श्रवणं न लिङ्गविचारमा्षिपति । आक्षेपेऽपि लिङ्गविचारस्य लिङ्गयर्थत्वेन लिक्विन एव प्रावल्यमिति श्रवणाक्षिप्तलिङ्गविचारस्यैवाभ्यर्हितत्वेन श्रवणविधि- मूलकत्ववादो निरालम्बन एव। नहि शब्दतात्पर्यनिणायकन्यायानुसन्धानं श्रवणं अर्थनिर्णायकयुत्त्यनुसन्धानं मननमिति तु विवरणविरोधान्न युक्तम्। विवरणमतस्यैवेदानी निरूप्यमाणलान् तद्विरोधाकिंचित्करतमप्रयोजकमिति वर्णनं असक्गतमेव । पतेन-समन्वयस्याभ्यर्हितत्वेन तद्विचारस्य श्रवणविधिमूलकत्वेन श्रवणविधिमूलमेव जिज्ञासासूत्रमिति-परास्तम्; समन्वयादप्य विरोधस्यैव परपक्षदूषणपर्यवसायिनो वैतण्डिकान्प्रत्यभ्यर्हितलात्। निश्चितप्रामाण्यस्यापि पुंसो मननस्य नित्य- वच्छवणान्न कृप्णलावघातस्येव बाधः। किंच ज्ञानविधिप्रयुक्त एव विचारः सिद्धतीति तस्य श्रवणविविमूलकत्वं न युक्तम्। ज्ञानविधिव्यापारविषयत्वेनापि वैधत्वं सिद्ति। तदाक्षिप्तस्यापि तद्विधिविषयल्ात्। अन्यथा विवरणमते श्रवणविधिमू- लकत्वस्यापि विचारेSसिद्धिप्रसज्गात्। मम मते विचारस्य साक्षादेव मननविधिमूललात् न विरोधः। अर्थज्ञानार्थाध्ययन- विधिपक्षेऽपि ब्रह्मत्वेन वेदार्थविचाराय मननविधिरम्माकमपेक्षितः। एतेन-श्रवणादीनां ज्ञानरूपत्वन तत्र विध्युपपत्ति- रिति शङ्काऽपि-पराहता; विचारस्यापि संशयादिनिवर्तकत्वेन ज्ञानत्वंन तस्यापि विध्यनुपपतत्या प्यवंक्षितमित्यादाविव ज्ञानस्यापि विध्युपपत्तेः । अतएव यदेव विद्यया करोनीति विद्यानलाम्नानमुपपद्यते। विद्याचात्र मुख्यवृत्त्या ज्ञानमेव। नैयोगिकत्वेऽपि ज्ञानस्य ज्ञानजन्यलोकान्तरप्राप्तः नित्यत्वं श्रुतिबलात् संभवत्येव। तद्यथेहेतिनु केवलकमीजितविपयमिति न दोषः इति निदिध्यासनाऊ्वमेव श्रवणम् नतु तदत्नि, तस्य साक्षात्कारजनकत्वे प्रमाणाभावात्। नहि शब्दोऽपरोक्षसाक्षा- त्कारजनकत्वेन कुत्रापि कृप्त इति सर्वमनवद्यमिति-प्रतिपाद्यन्ति ॥ (४) लघुचन्द्रिकाकारास्तु- ्रवणमत्नि, मनननिदिध्यासनेनु तदने; तथव विवरणे प्रतिपादनात्। आकाह्कादिज्ञानाभावे विपरीनव्युन्पनस्येव तात्प- यंज्ञानाभावे शुकादिवाक्यश्रोतुः शाब्दवोधोत्पत्तावपि सवविशिट्शाव्दवोधे साकाह्ज्ञानं यथा करणं तथा तात्पर्यज्ञानोत्तरशा- व्दबोधे तात्पर्यज्ञानं हेनुरिति तात्पर्यज्ञानस्यापि करणलात्। निर्दोपलरूपाप्तत्वेनेवावभृतशब्दत्वेनापि हेतुतस्यावश्यकल्वा- त्तात्पर्यज्ञानकरणत्वेऽपि बाह्यागमवदयोर्दुष्टादुषटत्वविभाग उपपद्यत एव। वाहयागमस्य दुषलान। एनेन-शवणस्य सन्नि- पत्योपकार कतवमपि-व्याख्यातम्; संन्निपत्त्योपकारकत्वंहि करणसरूपे तद्योग्यतायां प्रयोजकाअ्वलमेव नतु करणोपका- रगतदष्टादृष्टान्यतरोपकारजनकाज्गलम्; द्रव्यदेवतादीनां तृतीयाङ्गलकल्पनाप्रसक्रादिति करणखवरूपसंपादकतया ता्पर्य्ञान स्योपयोगात्। अभिक्रमणप्रयाजाङ्गतवनिर्वाहोऽपि सन्निपत्योपकारकतवस्यैवंरूपल एवोपपद्ते। श्रवणत्वेनापि साक्षात्कारज- नकत्वेन तस्याजित्वं अवघातत्वेन तु सव्गफलाजनकत्वेन न प्रयाजाद्यतितमिति न प्रयाजानामवघाताज्ञतप्रसभः स्वरूपेणति मन्तव्यम्। एवंच श्रवणभेव साक्षात्कारजनकत्वेनाति तदह एव मननादि । द्रष्व्यः श्रोनव्यः इति समभिव्याहारोऽपि तत्र लिग्म्। हस्तावनेजनस्य प्रयोगान्वयिकनृसंस्कारकस्य करिष्यमाणसवार्त्वं लिकप्रकरणाभ्यां सिद्धमिति नाव्यवधानं तत्रादतम्। तदुद्देशेन विहितत्वस्थवाङ्ञतप्रयोजकत्वंनोत्तरवर्तिनोरपि बृहस्पतिसवस्येवाज्वलपपत्या श्रुतमतस्यैव निदिध्यास- नसत्त्वऽपि न विरोधः इति श्रवणमेवाज्वीति सिद्धम् ॥
कार्यकारणभावस्यान्यत्र कृप्ततया लोकादेव श्रवणसाक्षात्कारार्थतस्य सिद्धेः। यागाअ्जनादिना न विचार्यमाणसाक्षात्कार इति न दोषः । एवंच पक्षप्राप्तवेदान्तामूलकविचारव्यावर्तनेन नियमविधित्वमुपपद्यते एव ।।
क्तित्ावधारणं शुद्धबोधोपयोग्येवेति शब्दशक्तितात्पर्यावधारणमेव तर्कात्मकं श्रवणमिति तद्विधयत्मप्यस्मन्मत एवोपपद्यते नतु ज्ञानात्मकं श्रवणमिति भवन्मते; ज्ञानस्याविधयलात्॥ एतेन-जिज्ञासासूत्रमपि श्रवणविधिमूलकमेव न मननविधिमूलकमिति-सूचितम्; शब्दतात्पर्यनिर्णायकलिअ्ववि- चारस्य समन्वयोपयोगिनः अज्ञिभूतश्रवणाक्षिप्तस्य मननापेक्षयाऽम्यर्हितत्वेन तन्मूलकत्वस्येव युक्ततात्। नचात्र विवरण- विरोधः । नहि विचारात्पूर्व श्रवणफलं जायते किंतु तदनन्तरमेवेति न दोषः। तव मते यथा मननविधिमूलकत्वं एवम- स्मन्मतेऽरपि श्रवणविधिमूलकल्वम्। श्रवणविधिना विचारस्येव निदिध्यासनेन मननस्याप्याक्षेपसंभवात् आक्षेपतः पूर्वप्रतृत्त्या विधितनिर्वाहो मतद्वयेऽपि समान इति मन्तव्यम्। साध्यायविधिमूलको विचार इति वाचस्पतिसिद्धान्तोऽि समीचीन एव। श्रवणज्ञानरूपत्वे हि तद्विध्यनुपपत्तिः, अन्यथा मोक्षानित्यलापत्तेः। शब्दस्याप्यपरोक्षज्ञानजनकत्वं दशमस्लमसीत्ादौ ऋप्तमिति साक्षात्कारार्थ श्रवणमङ्गीति सिद्धमिति-विवेचयन्ति ॥
Page 563
श्रीः। ॥ चतुर्थः परिच्छेदः॥
अथ अविद्यानिवृत्तिनिरूपणम्। ननु मुक्तिस्तावदविद्यानिवृत्तिर्न संभवति। तथाहि-सा किमात्मरूपा तद्भिन्रा वाः नाद्ः, असा- ध्यत्वापत्तेः। द्वितीयेऽपि किं सती मिथ्या वाः आद्ये अद्वैतहानिः, द्वितीये अविद्यातत्कार्यान्यतरत्वा- पत्तिरिति-चेत्र; चरमवृत्त्युपलक्षितस्यात्मनोSज्ञानहानिरूपत्वात्। तथाचोपलक्षणसाध्यतयेव मुक्ते रपि साध्यता। नचोपलक्षणनिवृत्त्या मुक्तेरपि निवृत्तिः पाके निवृत्तेऽपि पाचकानिवृत्तिदर्शनात्। तदुक्तं-"निवृत्तिरात्मा मोहस्य जञातत्वेनोपलक्षितः। उपलक्षणनाशेऽपि स्यान्मुक्ति: पाचकादिवत्॥' इति। नच वृत्त्युपलक्षितस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धान्यापत्तिः; पूर्वमसिद्धस्यो- पलक्षणत्वायोगात्; नहि पाकसंबन्धात् पूर्व पाचको भवति तथा व्यवहनियते वा। यन्तु-पाककर्तृ- त्वमेव पाचकत्वं, तदा अपचति तत्प्रयोगो भूतपूर्वन्यायेनीपचारिकः । यदि तु पाककर्तृतावच्छेद- कावच्छिन्नत्वं तत्कर्तृत्वात्यन्ताभावानधिकरणत्वं वा, तद्यमपि पश्चादस्ति। नचैवं मुक्तावात्मा- तिरिक्तं योग्यत्वादिकमस्ति चिन्मान्रं तु प्रागप्यस्ति इत्यसाध्यतापत्तिः, पाकोपलक्षितत्ववत् वृत्युप लक्षितत्वस्याधिकत्वे सविशेपतापत्तिः इति तन्न; उपलक्ष्यस्वरूपस्यासाध्यत्वेऽपि उपलक्षणगतसा- ध्यत्वोपपत्तेः घटाकाशे उत्पत्तिवत्। यद्वा अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेव यावत्कार्यात्पत्तिविरो- धिकार्यमेव ध्वंस इत्यङ्गीकारात्। नच-वृत्तौ नष्टायां विरोधिनः कार्यान्तरस्यानुदयात् तदापि ध्वंससत्वेन स न ध्वंस इति-वाच्यम्; यावद्विरोधिकार्योदयमेव तथात्वात् यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभागध्वंसस्याधिकरणरूपतावच्चरमवृत्तिपर्यन्तं विरोधिकार्यरूपत्वेऽपि ध्वंसस्य
गौडब्रह्मानन्दी (लघुचन्द्रिका)। श्रीनारायणतीर्थानां पादाम्तुजरजो भजे। यदनुध्यानमाहात्म्यादनुयामि सरस्वतीम्॥ तत्कार्येति। तन्नाशनाश्येत्य्थः । पाके निवृत्तेऽपीति। 'उपलक्षितस्य नाश' इति व्यवहारे उपलक्षणस्य प्रतियोगित्वेनाभानात् तन्नाशमादाय न स इति भावः। ननु पाकोपलक्षितत्वं पाकेन स्वेतरस्मान व्यावतितत्त्त्वम्, तथाच पाकसंबन्धात् पूर्वमपि चैत्रादावनुमानादिना तस्य ज्ञातत्वे तदस्त्यवेत्यत आह-व्यवहियते वेति। पाक- संबन्धात् पूर्वमित्यनुपज्यते। पूर्वकालमादाय इदानीमयं पाचक इति व्यवहियने नेत्यर्थः। तथाचेदानीं पाचक इत्यादावेतत्कालीनेन पाकसंबन्धेन उपलक्षितस्येवेदानीं मुक्त इत्यत्रेतत्कालीनचरमवृत्तिसंबन्धेनोपलक्षितस्य विपय- त्वादुक्तवृत्तिपूर्व नोक्तव्यवहारः । एतत्कालश्र मासाद्यात्मकः । तेन प्रयोगाधिकरणक्षणादी पाकसंबन्धाभाचेऽपयुक्त- व्यवहारः। अतएव चरमवृत्युत्पत्तिकालपर्यन्तं शतवर्पादिकालमादायैतत्कालेऽयं मुक्तिमानिनि व्यवहियते पाक- संबन्धोत्पत्तिपर्यन्तोक्तकालमादायैतस्कालेडयं पाचक इति व्यवहारवत्। कालाविपयकः चरमवृत्तिपूर्वकालीनो मुक्तिव्यवहारस्त्विष्ट एव तादृशपाकसंबन्धोत्पत्तिपूर्वकालीनव्यवहार द्वेति भावः। घटाकाश इति। इदानीं पाचकोऽन्र जातः इदानीमत्र पाचकः साधित इत्यादिव्यवहारे पूर्वविद्यमानचेत्रादो पाकसंबन्धोत्पत्तिसाध्यते आदाय पाचके तद्यवहारवत् चरमवृत्तरुपत्तिसाध्यने आदाय तदुपलक्षिते तद्यवहार हृत्यपि बोध्यम्। यत्तु- साध्यत्वोपचारे मुक्त: पुरुपाथत्वमौपचारिकं स्यान-इति, तद्हो माढ्यम्: अन्येच्छानधीनेच्छाविषयत्वस्य पुरुपार्थत्वस्य साध्यत्वाघटितत्वात्। यावत्कार्यात्पत्तीति । कार्योत्पत्तिर्यावद्धवति तावत्कालमित्यर्थः । द्वेतं यावत्तिष्ठतीति यावत्। विरोधिकार्यमिति । यस्मिन् कार्ये सनि तत्पूर्ववृत्ति यब्न तिष्टति, तत् तस्य ध्वंस इत्यर्थः । स न ध्वंसः विरोधिकार्य न ध्वंसः। 'शैत्यं हि यत् सा प्रकृतिर्जलस्येत्या'दाविव विशेषणलिङ्गम्राहित्वं तत्पदस्येति बोध्यम्। यावद्विरोधिकार्योदयं विरोधिकार्यस्थितिर्यावत्। तथात्वात् विरोधिकार्यस्य धवरंसत्व- स्वीकारात्। तस्य विभागस्य। ध्वंसरूपत्वे संयोगध्वंसरूपत्वे। विभागध्वंसस्य विभागादिध्वंसस्य। अधिकर- णारूपतावत् परमाण्वाद्यधिकरणस्वरूपतावत्। नव्यमते संयोगनाशो न विभागान्य: गौरवात्, नाप्यधिकरण-
Page 564
[अविद्यानिवर्तकनिरूपणम् ] गौडब्रह्मानन्दीयुता। ८८५
चरमवृत्तिध्वंसस्याधिकरणरूपतैव। ननु-इयं प्रक्रिया किमन्यत्र, इहैव वा। नाद्ः बिम्बप्रतिबिम्बै- क्याजाननिवृत्तिरपि ज्ञाततदैक्यरूपेति तदैक्यधीकाले सोपाधिकतन्द्रेदभ्रमोपादानाज्ञानानुवृत्त्य- योगात्। नान्त्य :; नियामकाभावात्। नचेह निवृत्तेर्शाताधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालो- चनया निवृत्तेरपि निवृत्त्यापत्तिर्नियामिका; तस्या ज्ञानाद्विश्वनिवृत्तिपरत्वेन स्वतात्पर्यविपयनि- वृत्तीतरमिथ्यात्वपरत्वादिति-चेन्न, न तावदाद्ये दोपः, सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव तस्य तथात्वात्। नापि द्वितीयः; नेति नेतीतिश्रुतेः स्वारस्येनात्मातिरिक्तसर्वनिवृत्तावेव तात्पर्यात्। नच वृत्त्युपलक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षापत्तिः; मुक्तिमात्रापादनस्येष्टत्वात् परममुक्तश्चरमसाक्षात्कारोपलक्षितात्मस्वरूपत्वेन तदापादकाभावात्। नच चरमसाक्षात्कारनि- वृत्तेरात्मत्वे साध्यत्वापत्तिः; अविद्यानिवृत्तेरसाध्यत्वेSप्रवृत्त्यापत्तिवत् अत्र तदभावात्। नच- जीवन्मुक्तिप्रयोजकवृत्त्यपेक्षया परममुक्तिप्रयोजकवृत्तौ आनन्दाभिव्यक्तिगतविशेषाभावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किंन स्यादिति-वाच्यम्; प्रारब्धकर्मप्रयुक्तविक्षे- पाविक्षेपाभ्यामभिव्यक्तिविशेषस्याङ्गीकारात्। एतेन-वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्यः, नच स त्वन्मते वकुं शक्य :: मुक्त्यनुस्यूतसुखज्ञप्तिरूपस्यात्मनः पुरुषार्थत्वेनाऽप्यसाध्यत्वात्, वृत्तः साध्यत्वेऽपि स्वतोऽपुमर्थत्वात्। तस्मादात्मव्यतिरिक्त एव वृत्तिसाध्य आवरणनिवृत्तिरूपः आन- न्दप्रकाशः पुमर्थो वाच्यः। तथाच कथमात्मेव निवृत्तिरिति-अपास्तम्; प्राप्तप्नाप्तिरूपतया फल- स्यानन्दप्रकाशस्य स्वरूपतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवर्तकवृत्तेः साध्यत्वमात्रेण साध्य- त्वोपपत्तेः, कण्ठगतचामीकरादो तथा दर्शनात्। तस्मादज्ञानहानिरात्मस्वरूपं तदाकारा वृत्तिवति सिद्धम्। ये तु पश्चमप्रकारादिपक्षाः, ते तु मन्दवुद्धिव्युत्पादनार्था इति न तत्समर्थनमर्थयामः ॥ इत्यद्वतसिद्धा अविद्यानिवृत्तिनिरूपणम्।।
अथ अविद्यानिवर्तकनिरूपणम्। अविद्यानिवर्तकं च यद्यपि न स्वप्रकाशब्रह्मरूपज्ञानमात्रम: तस्य तत्साधकत्वात्: तथापि श्रव- णादिसाध्यापरोक्षवृत्तिसमारूढं तदेव । अत एवंतदपास्तम्-किं स्वप्नकाशनिदविद्यानिवर्तिका, तदाकारा अपरोक्षतृत्तिर्वा, नाद्य :: तस्या इदानीमपि सत्वात्, न द्वितीयः, असत्यात्सत्यसिद्धेरयोगात् अज्ञाने न जानामीति ज्ञप्तिरूपचिद्विरोधस्यानुभवेनाजप्तिरूपवृत्तिविरोधस्यासंभवात्, चिता प्रका-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। स्वरूप :; तदुद्देशेन क्रियायाः प्रवृत्या तस्य क्रियासाध्यत्वावश्यकत्वात्, विभक्ताकारप्रनीतेरधिकरणातिरिक्तविभाग- विषयकत्वाच्च, किंतु विभागस्वरूपः, स च यद्युत्तरसंयोगनाशयः, तदाप्यतिरिक्तस्य विभागनाशस्य स्वीकारे गौरवम्। अथोत्तरसंयोग एव तन्नाशः, तथापि यादृशविभागावच्छेदकावच्छेदेन पुनर्नोत्तरसंयोगः, तादृशविभाग एव स्वावच्छे- दकावच्छिन्नसंयोगनाशः । तस्य च जन्यभावत्वेन महाप्रलयावृत्तित्वात् तन्नाशः स्वाश्रयपरमाण्वादिस्वरूपः। तथाच तद्वत् यादृशवृत्त्युत्तरं न कार्यान्तरोत्पत्तिः, तन्नाशोऽधिकरणस्वरूपः । ध्वंसस्य पूर्ववृत्तिदृश्यध्वंसस्य। विरोधिकार्य- रूपत्बेऽपीति पूर्वेणान्वयः । विश्वमिथ्यात्वेति। आत्मान्यमात्रस्य ज्ञाननिवर्त्यत्वेत्यर्थः। कालीनस्यवेति। अनु- भवाविरोधेनेति शेपः । नेति नेतीति वीप्सया द्वैतमात्रमिथ्यात्वं बोधितमिति भावः। प्राप्तप्रापीति। आनन्द- प्रकाशस्य फलत्वं न जन्यत्वम्, किंतु व्यङ्गयत्वम्। तञ्च जन्यस्यावरणनाशस्याश्रयत्वम्। तत्र नाशो यधुक्कात्मस्वरूपः, तदोपलक्षणस्य जन्यत्वाज्जन्यत्वम्। अथ वृत्तिरेव, तदा सा जन्यैवेति भावः। मन्दवुद्धिव्युत्पादनार्था इति। आत्मान्यत्वे दृश्यत्वस्यावश्यकत्वेन दृग्टशयसंबन्धानुपपत्यादियुक्तिभिर्मिथ्यात्वावश्यकत्वेन न पञ्चमप्रकारत्वम्। सत्य- ध्वंसरूपत्वे अद्वैतश्रुतिविरोधः। नहि तस्याः भावाद्वैतं मुख्यार्थः । मिथ्याभूतात्मान्याविनाशिध्वंसरूपत्वेऽप्यतोऽन्य- दार्तमित्यादिश्रुतिविरोधः । विनाशिध्वंसानां धारात्वे तु गौरवं, व्यर्थता च; अन्त्यमनोवृत्तेः मुक्तित्वसंभवात्। त्कैरित्यादि-अविद्यानाशरूपणम्॥ इति लघुचन्द्रिकायां अविद्यानिवृत्तिनिरूपणम्।।
एतरपदार्थमाह-सत्त्वापत्तिरित्यन्तेन किमित्यादिना। सत्यसिद्धे: सत्याभिव्यक्तेः। वृत्तेवेति। प्रमात्वेन
Page 565
८८६ अद्वैतसिद्धिः । [परिच्छेद: ४ ]
शेषेण सत्त्वापत्तिः इतिः वृत्त्युपारूढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा निवर्तकत्वात्। नचासत्याया: सत्योत्पादकत्वविरोध :; अभावस्य भावजनकत्ववदस्य संभवात्, प्रातिभासिकस्य व्यावहारिकसुखजनकत्वदर्शनाच्च। नापि न जानामीति ज्ञप्तिरूपचिद्विरोधित्वानुभवविरोध: चिदसंसृष्टवृत्तेर्विरोधित्वस्यानङ्गीकारात्। यन्तकं द्वेषवत् सत्यत्वमिति तन्न; अधिष्ठानतत्त्वसाक्षा- त्कारत्वनिबन्धननिवर्तकत्वस्य शुक्त्यादिज्ञानवदत्रापि संभवेन तन्निवर्त्यरूप्यवत् सत्यत्वानापत्तेः। यन्तृक्तं-चरमवृत्तेर्घटादिवृत्त्या चिद्विपयत्वे अविशेष :- इति, तन्न; अवच्छिन्नानवच्छिन्नविषयतया विशेषात्। यत्तु-स्वनिवर्तकत्वे स्थितिविरोधः स्वोपादाननिवर्तकत्वं त्वदष्टचरम्-इति, तन्न; अन्यत्राद्ृप्टस्यापि प्रमाणवलादत्रैव कल्पनात्। तथाहि-'मायां तु प्रकृति विद्या'दित्यवगतमायोपा- दानकत्वस्याप्यात्मतत्त्वसाक्षात्कारस्य 'तरति शोकमात्मवित् सोऽविद्याग्रन्थि विकिरतीह सोम्ये'- त्यादिना तन्निवर्तकत्वस्य च प्रमितत्वात्। वृत्तिप्रतिबिम्बितचितो निवर्तकत्वे तु नोक्तवचसः शङ्कापि। तदुक्तं-'तृणादेर्भासिकाप्येषा सूर्यदीप्िस्तृणं दहेत्। सूर्यकान्तमुपारुह्य तनन्यायं विनियो- जयेत् ॥' नच-अपरोक्षवृत्तौ सत्यां चिदप्रतिविम्बनिबिन्धननिवृत्तिविलम्वादर्शनात् न विशिष्ट निवर्तकतेति-वाच्यम्; शुद्धजडस्य शुद्धचितश्च जडतया तन्भ्रासकतया चाजानानिवर्तकतया विशिष्टे निवर्तकताया आवश्यकत्वात्। यन्तु-निवर्तकं ज्ञानमपि न शुद्धविषयकम् : तस्यादृश्यत्वात् नापि विशिष्टविषयकम्; तस्याध्यस्तत्वेन भ्रमत्वापत्ते: इति, तन्नः उपहितस्य विषयत्वेऽपि उपाधेर- विषयत्वेनाभ्रमत्वात्। यन्तु-अन्त्यस्य ज्ञानस्य किं निवर्तकम्? स्वयमन्यद्वाः नाद्यः, अन्यनिरपेक्षप्र- तियोगिनो ध्वंसजनकत्वे क्षणिकत्वापत्तेः, दग्धदारुदहनस्यापि ईश्वरेच्छादिनंव नाशात्। कतकर- जस्तु न पङ्कं नाशयति। नापि स्वम् ; विश्रेषमात्रदर्शनात्; नान्त्यः शुद्धात्मनः किंचिदपि प्रत्यहेतु- त्वात्, तद्न्यस्य च निवर्त्यत्वात्-इति, तन्नः तन्तुनाशस्य पटनाशप्रयोजकत्वदर्शनेन स्वोपादाना- विद्यानाशस्यव तन्नाशकत्वात्। नच-अविद्यानाश तदुपलक्षितात्मा वा वृत्तिर्वा, पूर्वत्र शुद्धस्या- हेतुत्वम्, द्वितीये प्रतियोगिमात्रस्यैव नाशकतापर्यवसानमिति-वाच्यम्: उभयथाप्यदोपात्,
गौडव्रह्मानन्दी (लघुचन्द्रिका)। निवतकता। तख्चोक्तचिति उक्तवृत्तौ वा। अभावस्येत्यादि। विजातीयस्य विषमसत्ताकस्य वा जनकत्वमिव व्यञ्ञक- त्वमव्याहतमिति भावः । यन्तु-सत्यं प्रत्यसत्यस्य न जनकता-इति, तन्मोढ्यात्। नहि सत्यं श्रति जनकं त्रूमः। किंतु व्यअ्ञकम्। नच तदप्यदृष्टम्; अज्ञाननाशरूपाभिव्यक्तिमात्रस्य शुक्त्यादयुपहितचिद्रपे सत्य एव जायमानस्य शुक्त्यादिसाक्षात्काररूपासत्येनैवोत्पत्तेः। चिदसंसृष्टेति। तथाच चिद्धटितस्य विरोधित्वात् ज्ञानविरोधित्वानुभवो नायुक्तः। यनुक्तमित्यादि। घटादिवृत्तिचरमवृत्त्योश्चिद्विपयकत्वाविशेपात् चरमवृत्तेरेवाविद्यानिवर्तकत्वमयुक्तमति भावः। अवच्छिन्नेत्यादि। अज्ञानतत्प्रयुक्ताकाराद्यावृत्ताकाराधिष्ठानप्रमात्वेन निवर्तकता, अन्यर्थदन्तवादिना रज- तात्मकत्वादिना वा शुक्तिज्ञानाद्रजतोपादानाज्ञाननिवृत्यापातात्। घटाद्यवच्छिन्नचिदाकारकज्ञानं तुन तथेति न ततोऽज्ञाननिवृत्तिरिति। यथाचाज्ञोऽस्मीत्यादिज्ञानस्य नाज़ाननिवर्तकता, तथा विवेचितं मिथ्यात्वानुमाने। अवगत- मायोपादानकत्वस्य अवगतं मायोपादानकत्वं यत्र तादृशस्य। निरुपपदप्रकृतिपदात् कार्यमात्रोपादानत्वं बुद्धमिति भावः। अदृष्टस्यापीत्यनेन दृष्टत्वं सूचितम्। तथाचाज्ञानस्य स्वनिवर्तकशुक्तयादिप्रमाप्रागभावत्वस्वीकारात् प्रमामात्रस्य स्वप्रागभावनिवर्तकत्वं द्ष्टमेव। आत्मप्रमाप्नागभावस्य च कार्यमात्रोपादानत्वादात्मप्रमायामप्युपादानत्वम्; अन्यथा तदन्यस्य जगदुपादानस्य कल्पने गरवात्। दष्ट च दध्यादेः दुग्धादिरूपपरिणामिनाशकत्वम्। लाघवतर्कसहकृतश्रु- त्यादिमूलककल्पनानामदृष्टचरविषयकत्वेऽपि न क्षािरिति भावः । अ्रमत्वमात्रमापाद्यते, अज्ञाननिवर्तकताविरोधि- भ्रमत्वं वा। तत्र स्वोपहितविपयकाज्ञानं प्रति स्वोपहितविज्ञानस्यैव निवतकत्वेनोपहितविषयकत्वरूपभ्रमत्व मिष्टमित्या- शयेनाथमङ्गीकुर्वन्नन्त्यं निरस्यति-तन्नोपहितेति। अभ्रमत्वात् उक्तविरोधिभ्रमत्वाभावात्। उपाध्यविपयकत्वे सति उपहितविषयकत्वेन निवर्नकत्वादुपाधिविषयकत्वमुक्तविरोधि, तञ्च नास्त्येवेति भावः। एतेन-उपहितस्य शुद्धान्यत्वेन तद्विपयकत्वे भ्रमत्वमिति-अपास्तम्; अथवा वृत्युपहितचिदन्यत् यत् बाधितं, तद्विषयकत्वमेव भ्रमत्वम्। वृत्युपहितचिद्विपयकत्वमेव तार्विकप्रमात्वम्; अन्यथा शुद्धस्याविषयत्वमते तात्विकप्रमादौर्लभ्यापतेः। यद्वा-उपहितस्य विषयत्वं नाम उपाधिकालीनमेव शुद्धस्य विपयत्वं, नतु शुद्धं न विषय इति विवक्षितम्। दश्यत्वं सु शुद्धव्यावृत्तमेव मिथ्यात्वे हेतुः। व्रिवेचितमिदं मिथ्यात्वानुमाने। दग्धदारुद्द्दनस्य दुग्धं दारु येन तस्य दह-
Page 566
[अविद्यानिवर्तकनिरूपणम् ] गौडब्रह्मानन्दीयुता। ८८७
वृत्तिमादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभावात्। प्रतियोगिनः प्रतियोगित्वेन नाशकतायामित- रानपेक्षत्वे हि क्षणिकत्वं, रूपान्तरावच्छेदेन यत् कारणं तस्यापेक्षणे न तदिति उपादाननाशत्वाव- च्छिन्नस्य स्वस्यैव क्षणिकत्वानापादकं नाशकत्वं स्यात्। द्वितीयकारणनिरपेक्षप्रतियोगिन: प्रतियोगि- त्वोपादाननाशत्वरूपद्वयावच्छिन्नस्य नाशकत्वोपपत्तेः। वस्तुतस्तु-अविद्यानिवृत्तर्वृत्तिरूपतया न
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नस्य। इच्छादिनेत्यादिनावयवसंयोगनाशादिसंग्रहः । निवर्त्यत्वात् अन्त्यज्ञाननिवर्त्यत्वात्। वृत्तिमादायेति। वृत्युपहितात्मत्वेनात्मनो नाशकत्वम् । वृत्युपलक्षितात्मनोऽविद्यानाशस्वरूपत्वेऽपि कारणतावच्छेदकीभूतवृत्ते: कार्याव्यवहितप्राक्कालवृत्तित्वावश्यकत्वेन वृत्युपहितस्यैव नाशकत्वं पर्यवस्यति। तथाचात्मज्ञानस्य क्षणिकत्वमिष्टम्। अथवा-वृत्तिद्वितीयक्षणावच्छेदेनैवात्मन्यविद्यानाशत्वस्वीकारान्न तदिति भावः। द्विनीये दोपाभावं प्रकटयति- प्रतियोगिन इति। रूपान्तरावच्छेदेन यत्कारणं प्रतियोगित्वान्यरूपावच्छिन्नकारणतावत्। निरपेक्षप्रतियो- गिनः निरपेक्षस्यापि प्रनियोगिनः। उपपत्तेरिति। अन्त्यज्ञानस्य वक्ष्यमाणाविद्यालेश रूपस्वोपादाननाशहेनुत्वादन्त्य- क्षणावच्छिन्न्स्यैव तादृशस्वोपादाननाशकताया वाच्यत्वात् तादृशावच्छिन्नरूपेण स्वस्यापि स्वजन्यत्वसंभवात् तादृशो- पादाननाशत्वावच्छिन्नस्यान्त्यज्ञानोत्पत्तिद्वितीयक्षण एव संभवादन्त्याज्ञानस्य न क्षणिकतेति भावः। अथवा-अन्त्य- ज्ञानस्य स्वोत्पत्तिक्षणावच्छेदेनाप्यविद्यालेशरूपस्वोपादाननाशत्वमास्ताम्। तथापि प्रकृते उक्तलेशस्येव मनसोऽप्यु- पादानत्वादन्त्यज्ञाननाशे मनोनाशस्यापि हेतुत्वान्मनोनाशे चान्त्यज्ञानरूपस्योक्तलेशनाशस्य हेतुत्वादन्त्यज्ञानोत्पत्ति- तृतीयक्षण एव तन्नाश इति भावः। अथोक्तोपादाननाशत्वविशिष्टेन जायमानोऽन्त्यज्ाननाशः किंस्वरूप इति चेत्, मिथ्याभूतात्मानिरिक्ताविनाशिस्वरूप एव; सत्यत्वे दृश्यत्वानुपपत्तेर्विनाशित्वे विनाशधाराकल्पने गौरवात्, माना- भावाच। लाघवमनुसृत्याह-वस्तुत इत्यादि। स्वेतरसर्वद्वैतविरोधिनी वृत्तिरन्त्या। तदुत्तरं न किंचिज्ायते। तस्याश्चाग्रकालस्येवाभावेन सुतरां न तत्र तदनुृत्यापादनम्। नच-तस्याः नाशानुत्पादे सा क्व गतेत्यादिप्रश्नावकाशः; नाशोत्पादेऽपि तत्संभवात्। विवेचितं चेदं पूर्वम्। तथाच तस्याः नाशोऽग्रे न जायते; अग्रकालस्येवालीकत्वान्। नच-एवमात्मैव तन्नाश इत्यह्गीकारो व्यर्थ इति-वाच्यम्; अन्त्यवृत्तिः क्षणमात्रं स्थित्वा नश्यतीनि संसारदशाया- मात्मनि नाशत्वकल्पनया तथाङ्गीकारान्। प्रारब्धभोगकालीनवृत्तेस्त्वविद्यादिमात्रविरोधित्वं, नतु सर्वद्वैतविरोधित्व- मित्यप्यनुभवबलान कल्प्यते। इदमेव च प्रारब्धभोगस्य देहादिपातप्रतिबन्धकत्वमित्यादिशब्दवर्व्यवहियते। नतु देहादिनाशे कर्म प्रनिबन्धकं कल्प्यते। नच-एवं चरमवृत्तिरूपो देहादिनाशः पूर्वमपि जायतामित्यापत्तिरिति- वाच्यम्: चरमवृत्यव्यवहितपूर्वक्षणस्य चरमवृत्तिहेतुत्वात्। अत्रेदं बोध्यम्-चरमवृत्तेः सर्वद्वैतविरोधित्वं न सर्व- द्वैतनाशजनकत्वम्; तज्जन्यनाशानभ्युपगमात्, अन्यथोक्तनाशस्यापि नाशयत्वे नाशान्तराणामपि स्वीकार्यत्वेनानवस्था- पत्तेः, अनाश्यत्वे सत्यत्वापत्तेः, अद्वैतश्रुनिविरोधापत्तेः। नापि द्वैताधिकरणकालपूर्वत्वानधिकरणक्षणवृत्तित्वम्; तस्या- स्तद्वत्वे नियामकाभावेन मानाभावात्। एवंच तत्त्वज्ञानस्य वैयर्थ्यापत्तिः। एतावत्कालमनुवृत्तद्वैतं तत्वविज्ञानोत्तरं क गतमिनि पर्यनुयोगश्च स्यात्, अत्रो्यते-एवंसति कपालादिदेशावच्छेदन दण्डादिकारणकूटवान् यः क्षणः तद- व्यवहितोत्तरक्षणस्य घटादिकार्यवत्त्वेडपि नियामकाभावात् दण्डादेर्घटादिहेतुत्वस्वीकारो व्यर्थः स्यात्। एतावत्कालम- सतो घटादे: कथमुत्तरक्षणे सत्वमिति पर्यनुयोगश्च। अथ स न व्यर्थः, उत्तरक्षणे घटादिसत्त्वव्याप्यत्वस्य प्रामाणिक- त्वात्तस्यैव तद्याप्यतारूपतन्नियामकतावत्वात्. पूर्वमसतोऽपि घटादेरुक्तक्षणे स्त्वसंभव इति नोक्तपर्यनुयोग इति त्रूपे तर्हि या यद्विपयकप्रमा सा स्वसमानविपयकाज्ञानतत्युक्ताधिकरणकालपूर्वत्वानधिकरणक्षणवृत्तिरिति व्याप्ते: शुक्तया- दिप्रमास्थले दृष्टत्वादात्मप्रमापि तथेति प्रमात्वस्यैवोक्तव्याप्यतारूपनियामकतावत्वात् तत्वज्ञानस्योक्तविरोधित्वसिद्ा नोक्तपर्यनुयोगः । अथ-एवमपि मुमुक्षुप्रवृत्त्यनुपपत्तिः; फलाभावात्। तथाहि-न तावन्मुक्ति: फलम्; तस्या नित्यात्मरूपत्वात्, नापि वेदान्तवाक्यजवृत्तिज्ञानम्; तस्यासुखरूपत्वेन स्वतःपुरुपार्थत्वाभावात्, नापि वृत्तिविपय- त्वोपहित आत्मा; तस्य लोके पुरुपार्थत्वेनाककप्तत्वात्, वृत्तेरस्थिरत्वेन तद्विपयत्वोपहितात्मनोऽप्यस्थिरतवादिति- चेन्न; स्वाज्ञानविरोध्युपहितस्यात्मरूपस्य सुखस्यैव फलत्वात्। लोकेऽपि हि सुखमात्मैव; चन्दनादियोगजमनोवृत्तेस्तन्र व्यअकमात्रत्वात्, 'मा न भूवं भूयास'मित्याकारिकाया अन्येच्छानधीनेच्छाया 'एप परमानन्द' इत्यादिश्रुतेश्चान्यथा- नुपपत्तेश्च। स्वाज्ञानविरोधित्वं च स्वाज्ञानाधिकरणकालपूर्वत्वशून्यक्षणवृत्तित्वम्। एतावांस्तु विशेष :- यचचन्दना- दियोग जमनोवृत्तेर्य त्किंचिद ज्ञानविरोधित्वम्; तम्राशोत्तरमज्ञानान्तरेणात्मसुखस्या वरणात्।वेदान्तजन्यवृत्तेस्त्वज्ञान- सामान्यविरोधित्वम्; तन्नाशोत्तरमज्ञानान्तरेणानावरणात्, स्वाव्यवहितपूर्वक्षणे सुखावारकयत्किंचिदज्ञानविरोधित्वं तु द्वयोरपि तुत्यम्। नच-एकदैकमेवाज्ञानमावृणोतीति सिद्धान्तात् स्वाव्यवहितपुर्वक्षणे सुखावारकाज्ञानसामा-
Page 567
अद्वैतसिद्धिः । [परिच्छेद्: ४]
निवर्तकखण्डनावकाशः, वृत्तिनिवृत्तेरात्मरूपतया न तज्जनकखण्डनावकाशोऽपीति सर्वमवदातम्।। इत्यद्वैतसिद्धौ अविद्यानिवर्तकनिरूपणम्॥
अथ मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम्। ननु त्वन्मते मुक्तौ न दुःखोच्छेदमात्रम् किंतु निरतिशयानन्दस्फुरणमपि। तदुकं 'तस्मादविद्या- स्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोच्छेदाञ्च पुरुषार्थः परो मतः ॥'इति। तत्र न सुखात्मता- तावत्पुरुषार्थःः सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनात्, पुमर्थताया इच्छानियम्य- त्वात्। अन्यथा बौद्धमतसिद्धात्मनाशादिरपि पुमर्थः स्यात् । अतएव नापरकीयं सुखं पुमर्थः; तथेच्छाविरहात्, गौरवाञ्च सुखसाधने परकीयेऽपि स्वकीये पुमर्थत्वस्यापरकीयेऽप्यस्वकीये अपु- मर्थत्वस्य च दर्शनेन इष्टत्वाविशेषात्, सुखेऽपि तत्कल्पनाच्च दुःखतत्साधनयोः स्वकीयतयैवापुम- र्थत्वस्य दर्शनेन सुखादेरपि तथव पुरुषार्थत्वाश्चेति-चेन्नःसुखादौ हि पुमर्थता नापरकीयत्वप्र- युक्ता। नापि स्वकीयत्वप्रयुक्ता; गौरवात् किंतु साक्षात्किरियमाणतयाः संबन्धस्य चानित्यत्वसाध- नपारतन्यादेरिवावर्जनीयसन्निधिकत्वात्। नच-ईश्वरस्याप्यस्मदादिसुखं पुमर्थः स्यादिति- वाच्यम्; हेयतया अज्ञातत्वे सतीत्यस्यापि तत्र प्रयोजकत्वादीश्वरादिना चात्मादिसुखस्य हेयत्वे-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। न्यविरोधित्वमपि द्वयोस्तुल्यमिनि यत्किंचित्पदं व्यर्थमिति-वाच्यम्; चन्दनादियोगजवृत्तेः पूर्णानन्दावारकमूला- ज्ञानाविरोधित्वा, पद्धवाज्ञानं साक्ष्यानन्दावारकं प्रत्येव तस्या: विरोधित्वात्। नच-वृत्तेरेव सुखत्वसंभवेन नात्मा सुखरूप इति-वाच्यम्; सुपुप्ती निष्कामत्वकाले जागरे च भासमानसुखस्य वृत्तित्वासंभवात् तदानन्तवृत्तिकल्पने गौरवात्। एकरूपेऽपि साक्ष्यानन्देऽनुभूयमाने तारतम्यस्य व्यञ्जकवृत्तितारतम्यगतत्वात् नानुपपत्तिः। तथाच यत्कं- चिदज्ञान विरोध्युपहितात्मनः स्वतः पुरुपार्थत्वमात्रसत्त्चेऽप्यज्ञानसामान्यविरोध्युपहितात्मनः परमपुरुपार्थत्वादस्थिर- त्वमकिंचित्करम्। तदुत्तरं सुखानावरणादिति सूक्ष्मधीवेद्यमेतत्। तकरित्यादि-अविद्यानाशकस्थितिः॥ इति लघुचन्द्रिकायां अविद्यानिवर्तकनिरूपणम्॥
सुखात्मता स्वाभिन्नसुखत्वम्। पुरुपार्थः पुमर्थलक्षणघटकम्। पुमर्थतायाः येन रूपेण यख धीविपयत्वं, तेन रूपेण तस्य पुंस इच्छाविपयत्वव्याप्यं, तद्रूपवत्वं, तेन रूपेण तस्य पुंसः पुमथतेति पुमर्थलक्षणस्येच्छानियम्यत्वात् इच्छाविपयतावच्छेदकरूपघटितत्वात् स्वकीय सुखत्वमिष्टसाधनत्वादिकं च तादशरूपमिति भावः। नापरकीयं सुखं पुमर्थः। अपरकीयत्वं पुमर्थतामात्रे न घटकम्; तथेच्छाविरहात्, अपरकीयसुग्वत्वेन नियमनेच्छाविरहात्। तथा नियतेच्छावादिनं प्रत्याह-गारवादिति। साधने साधनत्वेन जाते। परकीये परकीयतवेन ज्ञाते। स्वकीये स्वकीयत्वेन ज्ञाते। पुमर्थत्वस्य पुमर्थत्वव्यवहारस्य। अस्वकीये स्वकीयान्यत्वेन ज्ञाते। अपुमर्थत्वस्य पुमर्था- न्यत्वव्यवहारस्य। एवमग्रेडपि बोध्यम्। तथव स्वकीयताघटितस्येव। पुमर्थत्वात् पुमर्थतामात्ररूपत्वात्। पुमर्थता पुमर्थतामात्रम्। प्रयुक्ता घटिता। साक्षात्क्रियमाणतया अनावृततया। घटितेति शेपः। संबन्धस्य स्वकीयत्वादेः। अवर्जनीयसन्निधिकत्वात् दैवाधीनसामध्यधी नेच्छाविप यत्ववत्वात् अनित्यसुखत्वादिरूपेणाज्ञानस्य कदाचित्संपत्या तेन रूपेणेव स्वकीयसुखरवेनापि कदाचित् ज्ञानात्तेन रूपेणेच्छा। नचैतावता सैव पुमर्थतामात्रघटिका; अनित्य- सुखत्वादेरपि त्त्वापत्तेः। अथ-केवलसुखत्वेन ज्ञातेऽपि मदीयसुखत्वेनवेच्छा, इच्छासामान्यसामडया एव मदीय त्वविपयतानियामकत्वादिति-चेन्न्न; उक्तनियामकत्वे मानाभावात्, अनावृतं भवतु इत्येवाकारस्येच्छामात्रव्यापक- त्वेन मदीथत्वविपयतायास्तदनङ्गीकारात, अङ्गीकारे वा मां प्रत्यनावृतत्वमेव मदीयत्वमित्यविरोधात्। नहि तदन्यत् सुखतत्साधनादिसाधारणं मदीयत्वमेकजातीयमस्ति, यदिच्छाव्यापकविपयताकं स्यात्। मत्संबन्धमात्रं तु परकीयमे- वेद्मिति ज्ञातेऽपि मत्समवेतत्वं मतस्वत्वंचेत्यन्यतरवत्वं तु पापिष्टकाम्ये परदारादौ नास्त्येव। मन्जोगयोग्यतवं तु मां प्रत्यनावृतत्वमेव। नच-तदपि दूरस्थशत्रुमरणाद़ौ नेति-वाच्यम्; तन्निश्वयस्येव सुखविशेपसाधनत्वेन पुरुपार्थस्य सवं प्रत्यनावृतत्वात्, शत्रुमरणादिमात्रस्यापुरुपार्थत्वेऽपि क्षत्यभावात्। नहि यद्यदिषं यस्य तस्य तत् पुरुषार्थ :; हेयस्य कीडादेरिष्टत्वेऽपि पुरुपार्थतवेनाव्यवहारादिति भावः । ईश्वरस्येत्यादि। ईश्वरेच्छायाः कार्यमात्रविषय कत्वेना- समदादिसुख विपयकरवमिति भावः। हेयतयेति। बालानां पुमथेत्वेन व्यवहियमाणे प्रातर्भोजनादौ प्रौढ़ानामिच्छा-
Page 568
[चिन्मात्रस्य मोक्षभागित्वोपपत्ति:] गौडब्रह्मानन्दीयुता। ८८९
नैव श्ञानात् स्वरूपसुखे चेष्टापत्तेः। नच गौरवम्; स्वसंबन्धित्वेन पुमर्थतावादिनोऽपि निलीनसुखे पुरुषार्थतानिवृत्त्यर्थ तथावश्यं वर्णनीयत्वात्। यन्तु-साक्षात्कारेपि स्वकीयतया पुरुषार्थतापक्षे मुक्तस्य सुखसाक्षात्काररूपतया तं प्रत्यपि तस्यापुरुषार्थतापत्तिः, स्वेतरासंबन्धित्वेन स्वस्य पुरुषा- र्थत्वे मुक्तस्वरूपेण सुखेन संसारीतरासंबन्धेन संसारिण: पुरुपार्थप्रसङ्ग :- इति, तन्न; साक्षात्क्रि- यमाणत्वेनैव हि पुमर्थता मुक्तसुखसाक्षात्कारस्य तं प्रति पुमर्थत्वेऽपि न संसारिणस्तथा; तं प्रत्य- भासमानत्वात् भाने वाऽ संसारित्वेनेष्टापत्तिः। यन्तु-प्रत्यक्षप्रकाशमानत्वेन सुखं पुमर्थः-इति, तदप्येतेन व्याख्यातम्; प्रत्यक्षप्रकाशमानत्वेन साक्षात्क्रियमाणताया एवोक्तः। यन्तु-सुखत्वेन प्रकाशमानं सुखं पुमर्थः । नच तत्परमते मोक्षस्ति-इति, तन्न; साक्षात्कियमाणत्वेनैवातिप्रसङ्गनि- रासे अधिकोक्तगोरवकरत्वात् ॥ इत्यद्वैतसिद्धी मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम्।।
अथ चिन्मात्रस्य मोक्षभागित्वोपपत्तिः । ननु-कस्यायं मोक्ष: पुमर्थः? किमहमर्थस्य; आहोस्विच्चिन्मात्रस्य। नाद्ः; त्वन्मतेSहमर्थस्य मुक्त्य- नन्वयात्, नान्त्य :; 'अहं मुक्तः स्या'मितिवच्चिन्मात्रं मुक्तं स्यादितीच्छाया अननुभवादिति-चेन्न; अहमर्थगतं चिदंशं मुक्तिकालान्वयिनं प्रति पुमर्थस्य मोक्षे संभव इत्युक्तप्रायत्वात्। नचर-सुखस्य दुःखाभावमात्रत्वे वशेषिकमोक्षवदपुमर्थता अतिरेके सद्वितीयत्वमिति-वाच्यम् : दुःखाभावाति- रेकेऽप्यात्मानतिरेकात्। नच-आत्मनः सुखमात्रत्वे सुखप्रकाशाभावेनापुमर्थत्वम् उभयात्मकत्वे चाखण्डार्थत्वहानिरिति-वाच्यम्; सुखप्नकाशयोरेकात्मरूपतया उभयत्वस्यैवाभावात्। नचार्थ- .... गौडव्रह्मानन्दी (लघुचन्द्रिका)। सत्चेऽपि तदव्यवहारात् यं प्रति यद्द्ेयं तदन्यत्वेनापि पुमर्थलक्षणं विशेषणीयम्। तथाच लोकविगीतत्वात्तत्र पौठाना- मिव स्वं प्रत्यनावृतस्वरूपसुखापेक्षया क्षुद्रत्वादस्मदादिसुखे ईश्वरस्य हेयत्वात्तं प्रति तत् न पुमर्थः । वस्तुतः कार्य- त्वेनाकाशत्वादिरूपतत्तदसाधारणरूपैर्वेश्वरेच्छा स्वीक्रियते, नतु साक्षात्क्रियमाणसुखतवेन। नच-सर्वे रूपैः सर्वज्ञत्वमिव सर्वकामयितृत्वमपीति-वाच्यम्; अनादिपदार्थपु सिद्धत्वेन कामनाविरहात्, सर्वकामादिश्ुत्या यावतकार्येप्वीशेच्छा- प्रनिपादनेऽपि तद्वृत्तिसर्वरूपम्तदप्रनिपादनात्। तथाचास्मदादिसुखे कथमीशं प्रति पुमर्थत्वापत्तिः ? अनावृतसुखत्वे- नेश्वरधीविषयत्वस्य नेन रूपेण तदिच्छाविषयत्वाव्याप्यत्वात्। नच-केवलसुखत्वेन रूपेणास्मदादिसुख़मीशं प्रति पुमर्थः स्यादिति-वाच्यम्; केवलसुखन्वादिना ज्ञानस्यच्छां प्रत्यहेतुत्वात्, ईश्वरेच्छां प्रति कालादृष्टविशेषादेर्हेतुत्वात् सर्वदा तदभावेनोक्तकालिकव्याह्यसंभवाच्च। गौरवमिति। सुख्ादीच्छां प्रति सुखत्वादिप्नकारकज्ञानत्वेनैव हेतुत्व- संभवेनानावृतसुखत्वादिप्रकारकज्ञानत्वेन हेनुत्वे गौरवम्। तथा येन रूपेण तदीयज्ञानविपयत्वं तदीयेच्छाव्याप्यं तत्वस्य सुग्वत्वमात्रे सत्चेनानावृतत्वं नं सकलपुरुपार्थताघटकमिति भावः। निलीनसुखे सुखं ते भविष्यति तत् त्वां प्रत्यावृतमिति कस्यचित् प्रतारणयावृतत्वेन ज्ञाते। पुरुपार्थप्रसङ्ग: पुरुपार्थत्वव्यवहारप्रसङ्गः इच्छाप्रसङ्गो वा। साक्षात्क्रियमाणत्वेन सवं प्रत्यनावृतत्वेन। स्वयं ज्ञायमानेति शेपः। पुमर्थता पुमर्थताव्यवहारः, इच्छा वा। अभासमानत्वात् उक्तरुपेणाज्ञायमानत्वात्ं। भाने उक्तरूपेण ज्ञायमानत्वे। असंसारित्वेन त्वया यं प्रत्या- पादने तदन्यत्वेन। गौग्वकरत्वादिति । वस्तुस्थितिरियमुक्ता। वस्तुतो यदा जीवन्मुक्तिकाले पुमर्थता, तदा सुग्वत्वेन स्वरूपसुखं प्रकाशत एव। नहि कैवल्यकाले पुमर्थतासंसर्गः स्वरूपसुखस्येति ब्रूमः; तदानीं तस्याव्यवहारे- णानुपयोगात्, कैवल्यकालन्यैवालीकत्वाच्च। अथ-इष्टतावच्छेदकसंसर्गस्य भोग्यविपयाव्यभिचारित्वमिति-चेन्न; येनेष्टतावच्छेदकेन विशिष्टे कामना, तस्यैव तथा। यथा सुमुखनासिकादिपुत्रकामनादिस्थले। येन तूपलक्षिते कामना, तस्य न तथा। यथा श्रीकृष्णविहारदेशवृन्दावनस्थितौ शत्रुस्वामिकगृहादौ वा। नहि वृन्दावनस्थितेः शत्रु- गृहादेवा भोगकाले श्रीकृष्णविहारः शत्रुस्वत्वं वास्ति। तथाच कैवल्ये सुखत्वाद्यसंसर्गेडपि न क्षतिः। अतएव यं प्रतीत्यादिलक्षणेऽपि न दोषः। जीवन्मुक्तिकाल एव स्वं प्रत्यनावृतत्वसंसर्गस्य स्वरूपसुखे सत्वात् ॥ तर्केरित्यादि- मुक्ते: सुखपुमर्थता। इति लघुचन्द्रिकायां मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वनिरूपणम्।।
उक्तप्रायत्वादिति। याद्दशविशेषणव्रता कामितं तादृशविशेषणवनि जीवन्मुक्ते मुक्तयन्वयोऽसत्येव, परमते तु अ. सि. ११२
Page 569
८९० अद्वैतसिद्धिः । [परिच्छेद: ४]
भेदाभावे सुखप्रकाश इति सहप्रयोगायोग :; अविद्याकल्पितदुःखजडात्मकत्वरूपव्यावर्त्यमेदेन तदुपपत्तेः । यन्तु-दुःखाभावस्य सुखस्य च तत्त्वतो दुःखान्द्रेदे अपसिद्धान्तः अभेदे त्वपुमर्थता- इति, तन्न; दुःखस्य कल्पितत्वेन तन्भेदस्य तत्समानयोगक्षेमतया तात्त्विकत्वाभावेनापसिद्धान्ता- भावात्। यत्तु-स्वप्रकाशस्य सुखस्य स्वतः स्फुरणेऽपि दुःखाभावस्यास्फुरणादपुमर्थता-इति, तन्न; दुःखाभावस्यात्मानतिरेकेणात्माभिन्ने सुखे स्फुरति तस्यापि स्फुरणात् तत्वेनास्फुरणस्याप्र- योजकताया उक्तत्वात्। तस्मात्स्वप्रकाशचिदभिन्नं सुखं पुमर्थः ॥ इति चिन्मात्रस्य मोक्षभागित्वो- पपत्तिः।
अथ जीवन्मुक्त्युपपत्ति:। तञ्च जीवन्मुक्तानां स्वानुभवसिद्धम्। जीवन्मुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽयनुवृत्तदेहादि- प्रतिभासः। नच तत्त्वज्ञानादविद्यानाशे सद्यशरीरपातापत्तिः; निवृत्तसर्पभ्रमस्यापि संस्कारात् भयकम्पानुवृत्तिवत् दण्डसंयोगनाशेऽपि चक्रभ्रमणवञ्च संस्कारानुवृत्तेरविद्यानिवृत्तावपि तत्का- र्यानुवृत्तिसंभवात्। नच-क्रियाज्ञानयोरेव संस्कारः, नान्यस्येति-वाच्यम्; निःसारितपुप्पायां सम्पुटिकायां पुप्पवासनादर्शनात्, विमतो नाशः संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाश- त्वात्, ज्ञाननाशवत् इत्यनुमानाच्च, संस्कार: कार्योऽपि ध्वंस इव निरुपादानक: अविद्येव च शुद्धा- त्माश्रित इति नाविद्यासापेक्षः। नच-भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धेतुप्रारब्धकर्मादेः स्थित्यर्थः तदुपादानाज्ञानानुवृत्त्यापात इति-वाच्यम्; विनश्यदवस्थस्य समवायिकारणं विना स्थितिदर्शनात्। नच-क्षणमात्रस्थितावपि कथ वहुक्षणस्थितिरिति-वाच्यम्: सत्युपपादके क्षणगणकल्पनाया अप्रयोजकत्वात्। तत्र क्षणमात्रं स्थितिः; समवायस्याजनकत्वात्, अत्र तु प्रति- बन्धकाभावसहकृतहेतोस्तावत्कालमभावात्। अतएव-पूर्वज्ञानानिवृत्तस्याध्यस्तस्य तदनधिकवि- पयेण कथं निवृत्तिरिति-निरस्तम्; प्रतिबन्धकाभावसहकारासहकाराभ्यां विशेषात्। जीवन्मु-
तत्रेवात्र ज्ञानानिवत्यदोपाभावेन वैपम्यम्: यावत्प्रतिबन्धकसत्वं ज्ञानानिवर्त्यस्य दोषस्यात्रापि संभवात्, सर्वजानानिवर्त्यस्य तस्य कुत्राप्यसंप्रतिपत्तेः । तदुकं-'नहि जात्यैव कश्चिद्दोपोऽस्ती'ति। यद्वा-अविद्यालेशानुवृत्त्या देहाद्यनुवृत्तिः। ननु-लेशो नावयवः; अज्ञानस्य निरवयवत्वात्, अत- एवाविद्या दग्धपटन्यायेन तावत्तिष्टतीत्यपि निरस्तम्; निरवयवे एतनन्यायासंभवादिति-चेन्न; आकारस्यैव लेशशब्दार्थत्वात्, 'इन्द्रो मायाभिः पुरुरूप ईयत'इत्यादिश्रुत्या अविद्याया अनेकाकार- त्वावगमात्। आकारिनिवृत्तावप्याकारस्यानुवृत्तिर्व्यक्तिनिवृत्तावपि जातेरिव। ननु-कोऽयमा- कारो नाम जातिर्वा, शक्त्यादिरूपो धर्मो वा, सुवर्णकुण्डलादिवदवस्थाविशेषो वा। नाद्या; तयो- दें हादिभ्रमोपादानत्वे अविद्यात्वापातात्, अनुपादानत्वे च उपादानान्तराभावेन देहादिभ्रमोत्पत्त्य-
गौडव्रह्मानन्दी (लघुचन्द्रिका)। लोकान्तरप्राप्तेरेव मुक्तित्वेन कामयितृशरीराद्यविशेपित एव तदन्वय इति भावः। अप्रयोजकतायाः पुमर्थलक्षणा- घटकत्वस्य। जीवन्मुक्तो सुग्वत्वादिना, साक्षान्क्रियमाणत्वसत्वात् प्रयोजकत्वेऽपि न क्षतिरित्यपि बोध्यम्। तर्करि- त्यादि-चिन्मात्रे मोक्षभागिता॥ इति लघुचन्द्रिकायां चिन्मात्रस्य मोक्षभागितोपपत्तिः॥
अविद्यानाशकालेऽप्यविद्याप्रयुक्त्तकार्यसत्वे दृष्टान्तमाह-निवृत्तसर्पेति । कारणनाशेऽपि तत्प्रयुक्तकार्थसर्ये दष्टान्तमाह-दण्डेति। ध्वंस इव पराभ्युपगतध्वंस इव। मन्मते तु संस्कारोऽपि ध्वंस एव; प्रलये वर्तमानस्य कार्यसूक्ष्मावस्थारूपसंस्कारस्य ध्वंसत्वात्। तत्र समवायिनं विना स्थितिकाले। समसमयस्य कार्यनाशात् पूर्व- वर्तिनः समवायिनाशस्य। वस्तुतः कार्यनाशात् पूर्ववर्तिनः समवायिनाशस्य कार्यनाशसमसमयत्वे सव्येतरविषाण- वदजनकत्वं स्यादिनि बोध्यम्। अजनकत्वात् कार्यनाशाजनकत्वात्। अन्र अविद्यानाशस्थले। प्रतिबन्धका- भावेति। भुज्यमानकर्माभावेत्यर्थः । हेतोः अविद्यादयुपादाननाशस्य। अभावादित्यस्यान्ते तावत्कालमिति स्थिति-
Page 570
[जीवन्मुत्तयुपपत्तिः] गौडब्रह्मानन्दीयुता। ८९१
योगात् आत्मान्यत्वेन ज्ाननिवर्त्यत्वेन चाविद्यातत्कार्यान्यतरत्वावश्यंभावेनाझाने निवृत्ते स्थित्ययो- गाञ्च। अतएव न तृतीयः अवस्थावन्तं विना अवस्थायाःस्थित्ययोगादिति-चेन्न; अनेकशक्तिम- दविद्याया: प्रपश्चे पारमार्थिकत्वादिभ्रमहेतुशक्त: प्रपञ्च अर्थक्रियासमर्थत्वसम्पादकशक्तेश्च प्रार- ब्धकर्मसमकालीनतत्व साक्षात्कारेण निवृत्तावपि अपरोक्षप्रतिभासयोग्यार्थाभासजनिकायाः शक्ते- रनुवृत्ते: तद्वती अविद्यापि तिष्ठत्येवेति नोक्तदोषावकाशः। नचाविद्यायां कथं मुक्त इति व्यपदेशः? शक्तिनाशमात्रात्। अतएव समये सर्वशक्तिमदज्ञाननाशः तज्जातीयेनाप्रतिरुद्धेन प्रत्ययेन। तथान श्रुतिः-'तस्याभिध्यानाद्योजनात्तत्वभावात् भूयश्चान्ते विश्वमायानिवृत्ति'रिति। नच-भूय इत्यस्य योजनादित्यनेनान्वयात् न लेशानुवृत्तावस्याः श्रुतेर्मानतेति-वाच्यम्; विशेषणान्वयापेक्षया विशेष्यान्वयस्याभ्य्हितत्वात् तत्त्वभावादित्यनेन व्यवधानात् अन्त इति पदवैयर्थ्याच्च विपरीत- योजनस्यासङ्गतेः। नच-लेशस्थिता कर्मानुवृत्तिः तदनुवृत्तौ च ज्ञानप्रतिबन्धेन लेशस्थितिरित्य- न्योन्याश्रय इति-वाच्यम्; न तावत् ज्तौ 'भूयश्चान्ते विश्वमायानिवृत्ति रित्यादिश्ुतेरेव लेशानु- वृत्तेरवगतत्वात्, नापि स्थिता एककालीनत्वेन दोषाभावात्। यद्ा-अज्ञानस्य सूक्ष्मावस्थालेशः।
गौडब्रह्मानन्दी (लघुचन्द्रिका)। रिति चानुपज्यते। तत्कार्येति। तत्प्रयुक्तेत्यरथः। तेनानादिदृश्यसाधारण्यम्। समर्थत्वेति। प्रपञ्चे मिथ्यात्वेन निश्चिते बह्वायाससाध्यकार्यविशेषमुद्दिश्य प्रवृत्यभावेन तादृशाथक्रियोपधायकताप्रयोजकशत्तयभाव इति भावः। तज्ातीयेन प्रारब्धकर्मकालीनसाक्षातकारजातीयेन। योजनादित्यनेनेति। तथाच योजनस्य श्रवणादिरूपस्यव भूयस्त्वम्थः । विशेष्यान्वयस्य निवृत्तिरूपविशेष्यान्वयस्य। योजनात् अभिध्यानात् तत्वभावशब्दितसाक्षात्का- रात् उक्तशक्तिरूपविश्वमायानिवृत्तिः । अन्ते प्रारब्धभोगान्ते। अवशिष्टशक्तिमदज्ञानतत्प्रयुक्तदेहादिरूपविश्वमाया- निवृत्तिर्भूयश्चेत्यथेः । प्रथमान्वये विश्वपद्सङ्कोचो न दोपः; भूयश्चेत्यादिवाक्यान्तरसत्वात्। ब्राह्मणेभ्यः सर्व धनं दत्तं यज्ञे भूयः सर्व धनं दत्तमित्यादाविवेति बोध्यम्। अभ्यर्हितत्वादिति। 'गुणानां च परार्थत्वादसंबन्धः समत्वा- तस्यादि'नि जमिन्युक्त: विशेषणान्वयस्वीकारेऽपि 'योऽदाभ्यं गृहीत्वा सोमाय यजत' इत्यादावदाभ्यमित्यस्य गृहीत्वेत्य- त्रेव भूय इत्यस्य तत्त्वभावादित्यत्रवान्वयः नतु योजनादित्यत्र। तथाच साक्षात्काराद्विश्वमायानिवृत्तिः भूयः साक्षा- तकारादवशिष्टसर्वमायानिवृत्तिरित्यर्थः । अन्त इतीति। चकारवयर्थ्यमपि बोध्यम्। भूयोयोजनाद्यधीनसाक्षात्कारात् सर्वविश्वनिवृत्तिरित्यस्यव श्रुत्यथेत्वेऽन्तादिपदं व्यर्थमिति भावः । यत्तु-ध्यानादिन्द्रियवृत्तीनां परमात्मनि योजनात्
ध्याने परिपाकलाभात् अन्तशब्दस्य तद्वोधकत्ववैयर्थ्यात्। उक्तप्रसादस्तु न शब्दार्थः; तत्त्वस्य भावः प्राप्तिरिति व्युत्पत्या तत्त्व्रभावशब्दस्य साक्षात्कारार्थकत्वात्, अभानापादकाज्ञानेनाप्राप्तस्य प्राप्तेः साक्षात्काररूपत्वात्। अथ- तत्वे भावो भक्तिः । भावशब्दस्य भक्ती प्रसिद्धत्वाढिति-चेत्ः तथापि न भत्तयधीनप्रसादलाभः । अथ तत्वे भावो यस्मा इति बहुव्रीहिणा प्रसादलाभ इति-चेन्नः बहुवीहेस्तत्पुरुपापेक्षया जघन्यत्वात्। किंच 'यस्य देवे परा भक्ति'रित्यादिना 'भक्तया मामभिजानाति' इत्यादिना चोत्तमभक्तेर्ज्ञान हेतुत्वस्येवोक्ते: बृहन्नारदीयादौ अधममध्यम- भक्तावुक्त्वा 'विधिसिध्धै भजेद्यस्तु दासवच्चकरपाणिनम्। भक्तानां प्रवरो ह्येप सर्वशास्त्रार्थकोविदः ॥' इत्यनेनोत्तम- भक्तमुक्त्वा 'अहमेव परो विष्णुर्मत्तः सर्वमिदं जगत्। इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ॥' इत्यनेनोत्तमो- त्तमभक्तेस्तर्वसाक्षात्काररूपतवोक्त:, गीतायां च 'आर्तो जिज्ञासु रित्यिन ज्ञिश्वुर्भक्त्वोत्या् त्थो क्तेर्ज्ा न स्ैव भक्तित्वेनाविरोधः। साक्षात्कारस्य प्रसादहेतुत्बकल्पनं तु मौढ्यादेव । नहि लोके तथा कृप्तम् । अविद्यानिवृत्तेः प्रसादजन्यतापि न लोके कृप्ता। निगलमोचनादेस्तत्वेन कृप्तत्वेऽपि न तदटृष्टान्तेन तस्यां सानुमातुं शक्या; पक्षदृष्टान्त- योरेकरूपेण साध्यदर्शनात्, तस्मात् 'तस्य तावदवे'त्यादिश्रुत्यैकवाक्यतयान्तपदं भोगान्तपरम्। चशब्दोऽवधारणाथकः। अन्ते तत्वभावादेव विश्वमायानिवृत्तिः । न त्वन्यापेक्षा। अन्ते निवृत्तिर्भवत्येव। नतु मायावस्थितिरिति। अतएव 'इतरस्याप्येवमसं्लेपः पाते त्वि'ति सूत्रे ज्ञानाधीनात् सर्वकर्मासंबन्धात् ज्ञानिनो देहपाते मुक्ति: तुशब्देनावधा- रिता। तस्मात् सात्रेण तुशब्देन समानार्थकः श्रतश्रशब्दः। पातशब्देन समानार्थकः अन्तशब्दः । नतु प्रसादार्थक इति प्रसादो नैव निश्चेतुं शक्यः । ज्ञानप्रतिबन्धेन साक्षास्कारकार्ये देहादिनाशे प्रतिबन्धेन। एककालीनत्वेति। अन्योन्यस्थितेरन्योन्यनिष्ठत्वे अन्योन्याधीनत्वे वा दोषः । सच न प्रकृत इति भावः । 'फले प्रवृत्तस्य यागादे'रि- त्यनेन यागादे: फलसाधनतानिर्वाहकत्वमपूर्व उक्तम्। ननु फलसाधनतानिर्वाहकत्वं व्यापारविधया, सूक्ष्मावस्था- रूपशक्ेश्र न व्यापारत्वम्। यागजन्यत्वस्य पश्चादिफलजनकत्वस्य च तग्र सत्वे मानाभावादित्यत आह-
Page 571
८९२ अद्वैतसिद्धिः । [परिच्छेद: ४ ]
यथा 'तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम्। उत्पत्तावपि पश्वादेरपूर्व न ततः पृथक्॥'इति वार्तिकेन यागे गतेऽपि यागसूक्ष्मावस्थारूपमपूर्व यागे साधनतानिर्वाहकमङ्गीक्रियते, तथा अज्ञाने गतेऽपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूल: स्वीक्रियते; स्वर्गजनकताग्रा हकश्रुतेरिवात्रापि
जीवन्मुक्त्युपपत्तिः।
अथ मुक्तौ तारतम्यभङ्ग: । यन्तु-परमतेऽपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरमकाष्टापन्नभक्त्यभावे तत्साध्यस्य मोचकस्य ईश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्ता जीवन्मुक्ति: तन्भावे तु प्रसादस्यापि भावेन निश्शेषदुःखनिवृत्तिविशिप्टस्वतोनीचोञ्चभावापन्नस्वरूपानन्दाविर्भावरूपा मुक्ति: इति, तन्न; 'तावदेवास्य चिर'मित्यादिश्रुत्या अस्योत्पन्नतत्त्वसाक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपक्षणीयं कैवल्यसंपत्त्यर्थमिति प्रतिपादनेन ईश्वरप्रसादापेक्षाया वक्तुमशक्यत्वात् स्मृतिपुराणादीनां श्रुति- विरोधेन स्तुतिपरत्वात् 'यमेवैष वृणुते तेन लभ्यः तस्यैप आत्मा विवृणुते तनूं स्वा' मिति भक्तिज- न्येश्वरप्रसादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारि-
गोडब्रह्मानन्दी (लघुचन्द्रिका)। उत्पत्तावपीति। पश्चादेरुत्पत्यर्थ यागाधीनोत्पत्याश्रयत्वाय च शक्तिमान्नमेव कल्प्यत इति शेपः। अन्यथानुपपत्या तत्रैव तदुभयं कल्प्यत इति भावः। तादृगर्थेति। 'आचार्यवान् पुरुषो वेदे'त्यनेन विद्याया उक्तत्वात्तस्याश्चाविद्यां प्रति शीघ्रमत्यन्तोच्छेदकत्वे 'मायां तु प्रकति'मित्यादिश्रुतिसिद्धाविद्याकार्यताकस्य देहादेरत्यन्तोच्छेदकन्वस्याप्यापत्या अविद्याया अत्यन्तोच्छेदे भुज्यमानकर्मव प्रतिबन्धकं कल्पयते। तथाच ज्ञानप्रयुक्तात्यन्तोच्छेदं विनाप्युपादानसूक्ष्माव- स्थाया एव मुद्गरपाताधीनकपालादिनाशस्थले कार्यनाशे हेनुतया कृप्तत्वेन आद्यतत्वसाक्षात्काराधीनाज्ञानसूक्ष्मावस्थाया एव पूर्वदेहादिनाशोपधायकत्वेऽपि देहाद्यन्तरोत्पत्तिस्वीकारेण तत्र भोगोपपत्तिः। तदिदमुक्तम्-'लेशो देहादिप्रती- त्यनुकूल' इति। नच-एवमज्ञानमेवानुवततामिति-वाच्यम्; अज्ञाननिवृत्तज्ञानस्यैवानुभवान्। अतएवाघिष्टाने साक्षात्कृतेऽपि सोपाधिकभ्रमस्थले उपाधिसान्निध्यादिना लेशोपादानकभ्रमनिवृत्ताचेव प्रतिबन्धः कल्प्यते, न त्वज्ञा- ननिवृत्तौ; तदनुभवात्। तथाच 'यावन्न विमोक्ष्य' इत्यस्य यावद्विद्यालेशोपादानकदेहभ्रमाढिना भोगस्य समाप्ति- रनेत्यथ इति भावः । अम्र च जीवन्मुक्तिश्रुतिरिव शतवर्षाद्यवच्छिन्नभोगजनककर्मबोधकश्रुतिरप्युक्तारथें मानमू। नहि शतवर्षाद्यवच्छिन्नभोगे क्रियमाणे पञ्ञाशद्वर्पकाले ज्ञानोदये दहादेरत्यन्तोच्छेदे सा न विरुध्यते, न वा तथाश्रुति- बोधितकर्मणां तर्वज्ञाने सति नोक्तफलोपधायकत्वम्, किंतु पञ्चाशद्र्पाद्यवच्छिन्न एव भोगे जनकत्वमिति कल्पयितुं शक्यम्; अपूर्वनानाविध हे नुत्वकल्पनापत्तेः शतवर्पाद्यवच्छिन्नभोगानुभवाच्चेत्यपि बोध्यम्। तर्करित्यादि-जीव- म्मुत्तयुपपादनम्॥ इति लघुचन्द्रिकायां जीवन्मुत्तयुपपत्तिः॥
स्वयोग्येत्यादि। ब्रह्मादीनां मध्ये यस्य यादृशी भक्ति: साधयितुं योग्या, तस्याः परमानन्दहेतोः परमकाष्ठाप- आाया अभाव इत्यर्थः । कर्मक्षयमात्रमिति। 'यावन्न विमोक्ष्य' इत्यनेन भुज्यमानकर्मरूपबन्धकालमात्रं विलम्ब इत्युक्तत्वात्। यावता कालेन भुज्यमानकर्मसमाप्तिः, तदन्यकालविलस्तनिपेधः श्रुत्यर्थः । प्रसादापेक्षायां भुज्यमान- कर्मकाले तदनुत्पत्ता तदन्यकालविलम्बात् श्रुत्यर्थबाध इनि भावः। यमेवेत्यादि। यं पुरुपमेप परमात्मा वृणुते प्रसादेनानुगृह्वाति, तेन लभ्यः साक्षात्त्रियते। ततस्तस्य संबन्धेन एप परमात्मा स्वां तनं स्वं स्वरूपं विवृणुते प्रकट- थति आवरणं विनाश्य तेनैकीभवति। ननु-'मच्चित्तः सर्वदुर्गाणि मतासादात्तरिप्यससि। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः ॥' इत्यादिगीताद्युक्तेः 'तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा। तदप्राप्तिमहादुःखविलीना- शेपपातका। निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥' इत्यादिविष्णुपुराणाद्युक्तेश्र प्रारब्धकर्मक्षये प्रसादो हेतुः। आध्े सर्वपदेन प्रारब्धकर्मसाधारणकर्ममात्रस्य प्रसादनाश्यत्वप्रतीतेः । द्वितीये तु तत्त्वसाक्षातकारे तस्य तत् स्पष्टम्। नच-तत्वासाक्षात्कारे तत्वाविद्याया नाशासंभवात् द्वितीयं स्तुतिपरम्, आद्यं तु प्रसादनाश्यत्वं तश्वसाक्षारकार- द्वाँख; लोके ज्ञानाज्ञानयोर्नाश्यनाशकत्वस्य कृप्तरवात्। 'दृष्ट्रव तं मुच्यते' 'नान्यः पन्था विद्यतेयनाय', 'यदा धर्मषदाकाश'मिस्यादिश्ुतेश्रेति-वाच्यम्; प्रसस्नभगवदुपदेशेन देहान्ते गोप्यास्तत्वसाक्षात्कारसंभवात्। श्रवणाद़ि-
Page 572
[मुक्तौ तारतम्यभङ्ग: ] गौडब्रह्मानन्दीयुता। ८९३
त्वात् वैपरीत्येन साध्यसाधनभावे मानाभावात्। नच प्रारब्धकर्मक्षये प्रसादविनियोग :; प्रसाद- निरपेक्षभोगादेव तत्सिद्धेः। नापि मुक्तावुच्चनीचभावः; तस्य द्वितीयसापेक्षत्वेन तदा असंभवात् 'परमं साम्यमुपती'ति साम्यश्रुतेश्च। सातिशयत्वे मुक्त: स्वर्गादिवदनित्यत्वं स्यात्। अधिकदर्शने दुःखद्वेपादिकं च स्यात्। ननु-मुक्तौ अतारतम्यं किं भेदाभावात्, उत सत्यपि भेदे तत्साम्यात्। नाद्य: श्रुत्या भेदसिद्धेः। नान्त्यः; साम्यं किं जीवेश्वरयोः, उत जीवानामेव। नाद्यः तयोर्वि- भुत्वाणुत्वशपशेषिभावस्वातन्यपारतव्यादिना तारतम्यात् अनेकेश्वरापत्या जगत्प्रवृत्त्ययोगात् तद्यतारतम्यप्रतिपादकस्मृतिभिः 'जगद्यापारवर्ज मित्या दिसूत्ररुत्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्वि- रोधाच्च। नान्त्य: जीवान् प्रति शेषिणो लक्ष्मीतत्वात् तान् प्रति नियामकाद्विप्वकसेनादितश्च जीवानां निकृष्टत्वात् 'सपानन्दस्ये'त्यादितत्तिरीयादिश्रुतिभिः 'मुक्तानामपि सिद्धानां नारायणपरा- यण:। सुदुर्लभः प्रशान्तात्मा कोटिप्वपि महामुने ॥' इत्यादिस्मृतिभिः 'वृद्धिह्वासभाक्त्वमन्तर्भा-
तारतम्यासिद्धेः। यथाच श्रुत्यादेन भेदपरत्वं तथा प्रागेव गतम्। यत्तु द्वितीयपक्षमाशंक्य दूषणं, तद्काण्डताण्डवम; भेदसत्वे अभेदात्मकपरमसाम्याभावात् तत्सत्वे भेदस्यवाभावात्। किंच तारतम्याभिधानं परममुक्ता, उत ब्रह्मलोकादिवासरूपापरममुक्ती वा, नाद: 'एवं मुक्तिफलानिय- मस्तदवस्थावधृतेस्तदवस्थावधृते'रिति तृतीयान्त्याधिकरणे 'ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शना'दि- त्येतत्सूत्रोक्तज्ञानगतहिकत्वामुष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ््य निषेधात्। द्वितीये त्विष्टापत्तिः। यन्तु-मुक्तजीवभोग: ईश्वरभोगान्निकृष्टः जीवभोगत्वात् संसारिभोगवत्। एवं जीव- ज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः । ईश्वरानन्दः, जीवानन्दादुत्कृष्टः तन्नियामकानन्दत्वात् यदेवं नदेवं यथा सेवकानन्दात् सेव्यानन्दः। ईश्वरः, जीवस्वभावानन्दादित उत्कृष्टस्वभावानन्दा- दिमान तत्प्रप्सुत्वे सति तत्र शक्तत्वात् यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा संमतः इत्यादीनि तारतम्यसाधकानि-इति, तन्न; आद्य मुक्तस्य ब्रह्मरूपतया उपाधिकृतजीवत्वाभावेनाश्र- यासिड्:, ईश्वरत्वाभावेन साध्याप्रसिद्ध:, स्वरूपासिद्धेश्च। द्वितीयाद्यनुमाने जीवेश्वरविभागकाले
गाडव्रह्मानन्दी (लघुचन्द्रिका )। नैरपेक्ष्यं नु हिरण्यगभीदेम्तत्वसाक्षाकारे त्वयापि स्वीकृतम्, त्राह-नचेति। भोगादेवेति। उक्तवाक्ये आह्लाद- दुःग्वभोगयोरेव कर्मनाशकत्वप्रतीतेन प्रसादस्य सा। उपदेशद्वारा क्वचित्ततत्वसाक्षात्कारप्रयोजकत्वं तु तस्येष्टम्। 'दहान्ते दवस्तारकं व्याचष्टे' इनि श्रुतेरिति भावः । साम्यश्रुतेः 'निरज्ञनः परमं साम्यमुपती'त्यत्र निरञ्ञनशब्देन निरुपाधिकत्व रूपसाधारणरूपोक्ते विद्वा नित्यन्तेन पूर्ववाक्येन ज्ञयत्वेनोपस्थित शुद्धब्हमणो निरुपाधिका न्दरूपेण साभ्य- बोधनात्। परमपदन च भेदाद्यघटितमुक्तिरूपाभेदरूपमेव साभ्यमिति ज्ञापितम्। तथाच 'गगनं गगनाकारं सागरः सागरोपम:। रामरावणयोर्युद्ध रामरावणयोरिव ॥' इत्यादिरामायणादाविव मुक्तस्य सदशान्तराभावद्योतनाय साम्यादिपदप्रयोग इनि बोध्यम्। अतएव निरज्ञन इत्यस्यैव पूर्णत्चे अधिकं व्यर्थमित्यपास्तम्। सातिशयत्वेनेति। यद्यत् सातिशयं तद्विनाशि। दृशयत्वेनाविद्याप्रयुक्तत्वेन विद्योच्छेदत्वादिति भावः। दुःखद्वेषेति। नच-मनोऽ- भावात्तन्वावेऽपि भगवत्प्रसादात् पापाभावाद्वा न दुःखादीति-वाच्यम्; अपकृष्टसुखत्वावच्छिन्नं प्रति मनस्त्वेन हेतुताया: कृप्तत्वेन त्वन्मते मुक्ती मनस आवश्यकत्वात्, श्वेतद्वीपवासिनां मुक्तत्वेन त्वदभ्युपगतानां चक्षुराद्यभावेऽपि मनःसत्वस्य मोक्षधर्मादावुक्तत्वात् मनःसत्वे,च पापादेः द्वेपादेश्वावश्यकत्वात्, मनसस्तिरगुणत्वेन सार्विक्या इव राजस्यादेरपि वृत्तेरावश्यकत्वात् अधिकदर्शनस्य तद्धेतुत्वेन कृप्तत्वाद्वेपार्द्यभावे मनःस्वीकारस्य व्यर्थत्वाञ्च। वृद्धिह्रासेत्यादि। ब्रह्मादीनां मुक्तिपु वृद्धिहासभाक्त्वं न्यूनाधिकत्वम्। अन्तर्भावात् न्यूनाधिकसाधनफलान्त- र्भावात्। एवंसत्येव साध्यसाधनयोरुभयोस्तुल्यत्वेन सामअ्जस्यादिति पराभिमतः सूत्रार्थः। अन्त्याधिकरण इति। निषेधादित्यग्रेऽन्वयः। एवमित्यादि। यथा ज्ञाने ऐहिकामुष्मिकत्वे विशेपी, तथा ज्ञाने जाते मुक्तावज्ञाननिवृत्तिरू- पायां कस्यचिद्हिकत्वमेव, कस्यचिदामुष्मिकत्वमेव विशेपान्तरमिवेति नियमो न । 'तावदेव चिरं, निरञ्ञनः परमं साम्य'मित्यादिना मुक्त्यवस्थाया ऐहिकत्वनिरञनरूपत्वावधारणादित्यर्थः । इष्टापत्तिरिति। उपासनाता- रतम्येन ब्रह्मलोकाद्याप्ती तारतम्यमिष्टमिति भावः। तन्नियामकानन्दत्वात् तन्नियामकस्यानन्दत्वात्। यदेवं तदेवम्। यननियामकस्य य आनन्दः स तदानन्दादुत्कृष्टः। ईश्वरत्वाभावेन मुक्तं प्रतीश्वरत्वाप्रसिद्धा । साध्याप्रसिद्धि: मुक्तं प्रति यदीश्चरत्वं तद्धटितसाध्याप्रसिद्धिः। सर्वज्ञीयभोगत्वेन साध्ये निवेशे त्वप्रयोज-
Page 573
८९४ अद्वैतसिद्धिः । [परिच्छेद: ४]
तारतम्यसाधनं चेत्सिद्धसाधनं, तन्िन्ने काले चेत्, पूर्वदोषानतिवृत्तिः। 'सैषानन्दस्ये'त्यादिश्रु- तिमिः मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तेषु उत्तरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरुपाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वात्। एतेन-प्रकृता बन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्ठा बन्धनिवृत्तित्वात् निगलबन्धनिवृत्तिव- दिति-निरस्तम् ; तारतम्यस्य गुणगतजातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्कुमशक्यत्वात्। अत- एव-निवृत्तिगततारतम्यसाधनमपि-अपास्तम्; निधृत्तेर्निरतिशयत्वादानन्दस्य स्वरूपतया उभ- यवादिसिद्धत्वेन गुणत्वाभावेन तत्रापि तस्य वक्तुमशक्यत्वात्। पतेन-स्वरूपसुखानां प्रत्येक- मेकत्वेनाणुत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधापानजन्यसुखयोरिव मधुरमधुरतर- त्वादिवञ्च स्वरूपकृतवैषम्यं मुक्ताविति-निरस्तम्; वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्ये- Sपि स्वरूपानन्दे तदभावाञ्च। नच सालोक्यादिमुक्ति: सायुज्यादिमुक्तितोऽपकृप्टेति प्रसिद्धिवि- रोध :: परापरमुक्तिरूपतया तदुपपत्तेः। सायुज्यादिमुक्तावुत्कृष्टत्वव्यपदेशोSपकष्टत्वाभावमात्रेण । ननु-सायुज्यं नैक्यम्। 'चन्द्रमसः सायुज्य ५सलोकतामाप्नोती त्यादिश्रुत्या सत्यपि भेदे सायु- ज्योक्तेः, 'सयुजः परमात्मानं प्रविश्य च वहिर्गताः।' इत्यादो सयुजां प्रवेशमात्रोक्तेश्च, सयुजो भावः सायुज्यमिति युजशब्देन संबन्धस्यैवोक्तः 'सालोक्यमपि सामीप्यं सारूप्यं योग एव च॥' इति स्मृतौ सायुज्ये संबन्धवाचकयोगशब्दप्रयोगाञ्च, तस्मात्सायुज्यं नाम क्षीरनीरवत् अन्यदेहाविष्टग्र- हदेवतादिवच्च संश्ेषमात्रं, न त्वैक्यमिति-चेत्, नः व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्व्रेनापु. मर्थत्वात्। नचतललोकस्थितस्य जीवस्य लोकान्तरस्थितालाकिकशरीरावच्छिन्नेनेश्वरेण संश्लेपः साध्यः 'अत्र ब्रह्म समश्नुत' इति श्रुतेः। उत्क्रमणगमनादिसाध्यब्रह्मलोकावाप्तिचदुपाध्यवच्छिन्न-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। कत्वम्; साध्यं विनापि हेतूपपत्तेः । अनतिवृत्तिरिति। प्रच्छन्नज्ञानिजडभरतादिनियामकरहगणाद्यानन्दे व्यभिचारोऽपि बोध्यः । तत्प्रेप्सुत्वं तत्र शक्तत्वं चासिद्धम्; तादृशानम्दस्य सिद्धन्वेनेश्वरे तत्याप्तीच्छाविरहात्, नित्य- मीशानन्दं प्रति इशस्य शक्तत्वाप्रसिद्वेश्व। निरुपाधिक इति। 'निरज्ञनः परमं साम्यमित्यादिश्रुतिन्यायसिद्ध- निरुपाधिताक इत्यर्थः । एतेन आश्रयासिद्धादिना। स्वसजातीयेति। निगलबन्धनिवृत्तित्वाविद्या निवृत्तित्वान्यतर- रूपेण स्वसजातीयेत्यर्थः । गुणगतजातित्वेनेति। मधुरत्वादिव्याप्यजातिविशेषाणामेव तारतम्यव्यवहारास्पदत्वम्।
मादायार्थान्तरम्। निरतिशयत्वात् निरनिशयात्मस्वरूपत्वात्। उभयवादिसिद्धनेति। स्वरूपानन्दस्य मुक्त्तावा- विर्भाव इत्युभयवादिसिद्धम्। नच-जीवस्वरूपानन्दानामनादितारतम्यस्वभावत्वमिति-वाच्यम्; जीवस्वरूपाणं तारतम्यरूपत्वे भेदमात्रे विवादपर्यवसानेन परिभाषामात्रापत्तेः, द्रव्यगतधर्मविशेषाणामपि तद्रपत्वमङ्गीकृत्य मुक्तेषु तदाविर्भाव इत्युक्त्तो उक्तश्रुतिविरोधः । नच-तदन्यधर्मनिषेध उक्तश्रुताविदि-वाच्यम्; सङ्गोचे मानाभावान्। तदिदं वक्ष्यते-स्वरूपानन्दे तदभावादिति। एतेन मुक्तानन्दस्य श्रुत्यादिसिद्धनिर्विशेषात्मरूपत्वेन। सङ्व्या- परिमाणकृतेति। यथा सप्तर्व्यपेक्षया अष्टवसूनामाधिक्यं, यथा वा बदरापेक्षया बिल्वस्य, तथा मुक्तानां मध्ये एकापेक्षयान्यस्य नेत्यथः। मधुरतरत्वादिवत् मधुरमधुरतररसाद्योरिव। स्वरूपकृतं अनादिस्वनिष्टधर्मकृतम्। तदभावादिति। नच-निर्विशपानन्दस्यापि भेदस्थानीयेन विशेपेण धर्मधर्मिभावसंभव इति-वाच्यम्; उक्त- विशपस्य धर्मत्वादेश्चातिरेके निर्विशेषत्वस्य विरोधात्, अनतिरेके परिभाषामात्रत्वात्। ननु सायुज्यस्योत्कर्षवर्ये निर्विशेपत्वहानिस्नव्राह-सायुज्यादिगतमुक्ताविति । सायुज्यादिमध्ये सर्वोत्कृष्टत्वेनावगतमुक्तावित्यर्थः । मात्रणेति। सायुज्यावधिकापकर्पस्य सालोक्यादो तत्समसत्ताकस्य कल्पितत्वेपि सालोक्याद्यवधिकोत्कर्षः सायुज्ये तत्समसत्ताको न कल्पितः । किंनु व्यावहारिक इति भावः । प्रवेशमात्रोक्तरिति। 'गृहस्थः सदशी भार्या विन्दंते'- तिवत् भाविनीं वृत्तिमाश्रित्य प्रवेशोत्तरसायुज्यस्य प्रकृते उक्तिसंभव इति ध्येयम्। यद्यप्युपाध्योः शरीरयोः संक्लेपा- त्तदुपहितचिद्रूपयोश्चन्द्वादिजीवान्तरयोर्भेदनाशनैक्यस्य मन्मते संभवः, ज्ञेयव्रह्मणस्तु निरुपाधिकत्वेन तेन सहैक्यस्यो पाधिनिवृत्तिमन्तरेणासंभव इनि सायुज्यशब्दस्यैक्यार्थकत्वमव्याहतम्; तथापि परोक्ततत्वदर्शनाधीनसायुज्यस्य संश्लेपत्वं दूषयिनुमाह-व्यापकेनेति। संग्लेषस्य अणुरवेन त्वन्मतसिद्धजीवसंयोगस्य। नित्यसिद्धत्वेन तत्वज्ञानं विनापि सिद्धत्वेन। अपुमर्थत्वादिति । नच-प्रसादितपरसंक्रेपस्य पूर्वमसिद्धत्वात् पुरुषार्थत्वमिति-वाच्यम्; ईश्वरप्रसादस्येव हि तावता पुरुषार्थतवं पर्यवसन्नम्। नच-तद्युक्तम्; तस्य सुखान्यतवेन मुक्त: स्वतः पुरुषाथत्वाभा-
Page 574
[मुक्तौ तारतम्यभङ्ग: ] ८९५
जीवस्यानवच्छिन्नब्रह्मामेदरूपपरममुक्ते: पारलौकिकफलत्वाभावात् 'ब्रह्मविदानोति पर'मित्यादौ अवाप्तेब्रेह्मरूपत्ववत् सायुज्यस्यापि तद्रूपताया अङ्गीकरणीयत्वाञ्च 'चन्द्रमसःसायुज्यमि'त्यादा पको- पाध्यवच्छिन्नस्योपाध्यन्तरावच्छिन्नेन ऐक्यानुपपत्तिवदत्रानुपपत्तेरभावात् प्रसिद्धार्थस्वीकारे बाध- कस्योक्तत्वाञ्च सायुज्यशब्दस्तावद्विभक्तत्वाभावाभिप्रायकः। यञ्च-उत्तरोत्तरं शतगुणानन्दप्रकाश-
गौण्डब्रह्मानन्दी (लघुचन्द्रिका)। वापत्तेः। अत्र ब्रह्मति। 'न तस्य प्राणा उत्क्रामन्ती'त्यादिः । श्रुतेरिति फलत्वाभावादित्यत्र हेतुः।अत्रेति। यत्र लोके ज्ञानोत्पत्तिम्तन्रेत्यर्थः। लोकावाप्तिवदिति। पारलौकिकफले अन्वयः। लोकावाप्तिवद्यत् पारलौकिकं फलं तत्वा- भावादित्यर्थः । उत्क्रमणादिसाध्यत्वेन ब्रह्मलोकावाप्तितुल्यं फलं उपाध्यवच्छिन्नस्यैव वाच्यम्; उपाधिं विना जीवस्य गमनाद्यदष्टेस्त्वयापि लिङ्गशरीराविद्यानाशोत्तरं स्थूलशरीरावच्छिन्नस्येव मुक्तस्य गमनादिस्वीकाराच्चेत्याशयेन।ह- उपाध्यवच्छिन्नजीवस्येति। तथाचोक्तश्रुत्या शुद्धेन ज्ञेयेन ब्रह्मणैक्यं ज्ञानोत्पत्तिकाल एचेति यत बोधितं तद्वाधः। सोपाधिकस्य लोकान्तरगतस्य जीवस्य तदभावादिति भावः। ननु-'अत्र ग्रह्म समभुत' इत्यत्र प्रसादितेश्वरसंयो- गोऽत्रैवेत्यथः सायुज्यपढस्वारस्यात, तथाच प्रसादो ज्ञानफलम्; प्रसादफलं तु लोकान्तरप्राप्तिः, तत्राह- ब्रह्मविदिति। ब्रह्मरूपत्ववदिति। 'ब्रह्म वेद ब्रह्मैव भवति' 'तन्भावभावनापन्नस्ततोऽसी परमात्मना। भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेन् ।I' इत्यादिश्रुतिस्मृतिभिः ज्ञानफलमुक्तश्रुत्युक्तं ब्रह्मैक्यमेवेति सायुज्यमपि तदेव। अतएव 'सालोक्यसार्र्टिसामीप्यसारूप्यकत्वमप्युत। दीयमानं न गृह्न्ति विना मत्सेवनं जनाः ॥' इनि भागवतादी सायुज्य- मेकत्वपदनोक्तमिति भावः। ननु-सायुज्यशब्दस्यैक्यार्थकत्वेऽपि चन्द्रमस इत्यादावुपाधौ सत्यप्यौपाधिकभेदाभावे- नैक्यम्। तथाचोपाध्य वच्छिन्नर्जावस्य लोकान्तरगतस्य लोकान्तरीयेश्वरेण सहौपाधिकभेदाभावरूपमैक्यम्। नत्वात्य- न्तिकनिर्धर्मकव्यक्तिमात्रमित्येव तत्र वक्तुमुचितम्। नच-'निरज्ञन'इत्यादिश्रुनिविरोधः; तस्य दुःखहेतूपाधिनिषेध- परत्वात्। अतएव 'अशरीर वाव सन्तं न प्रियाप्रिये' इत्यादिकमपि व्याख्यातम्; त्वयापि प्रियाप्रिये न स्पृशत इत्यत्र प्रियशव्देन वैपयिकसुखस्य वाच्यत्वेन सङ्कोचावश्यकत्वात्। नच-मुक्तस्य कर्माभावात् शरीरग्रहणासंभवः; प्रसादम्येव तत्र हेतुत्वान, जीवन्मुत्तयनुमितकर्मसत्वात्। 'सुकृतदुष्कृते विधनुते' इत्यादेर्वद्धलोकप्राप्तिनिषेधपरत्वान्। अतएवेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्व वा दैव्यं वा प्राजापत्यं वा' इत्यादिश्रुता लिङ्गशरीराविद्यानाशोत्तरं मुक्त्स्य पित्र्यादिदेहाप्तिरक्ता। 'ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु। आनन्दो ह्रसतेऽकार्यात् शुभं कृत्वा च वर्धते ॥' इति ब्रह्माण्डे शुभाशुभकर्मभ्यां ज्ञानिन आनन्दवृद्धिह्ासावुक्तौ, 'ब्रह्म वेद ब्रह्मव भवनी'त्यादिकं त्वोपाधिकभेदाभावबोधकम्; सगुणस्यैव ज्ञेयत्वेन ज्ञेयप्राप्ययोरेक्यात्, तत्राह- चन्द्रमस इत्यादि। ऐक्यानुपपत्तिवत् निर्धर्मकव्यक्तिमात्ररूपाखण्डैक्यानुपपत्तिवत्। अत्र 'ब्रह्म वेद ब्रह्मैच भव- ती'त्यादिश्रुनों। प्रसिद्धार्थस्वीकार इति। चन्द्रमस इत्यादी प्रसिद्धस्योपहितयोभेदाभावरूपस्य सायुज्यस्य स्वीकार इत्यथे:। उक्तत्वादिति। अशरीरमित्यादिश्रुतेः सद्वोचे मानाभावात् शरीराभावप्रयुक्तस्यैव प्रियाद्यस्पर्शस्योच्यमान- त्वेन प्रियशब्दस्य वैपयिकसुखपरत्वेऽप्यशरीरपद सङ्कोचस्यायुक्तत्वात् प्रसादे ज्ञानजन्यत्वस्य निरस्तत्वात् 'स एप नेति नेती त्यादि 'एप नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयानि'त्यादिश्रुत्या ब्राह्मणशब्दितस्य ब्रह्मविदो धर्म- मात्रनिषेधपूर्वककर्माधीनवृद्धिहासनिपेधेन कर्मजशरीरादेर्मुक्तावसंभवात् 'सुहृदः साधुकृत्यां द्विपन्तः पापकृत्यां' 'अपुण्यपुण्योपरमे यं पुनर्भववर्जिताः ।' 'ज्ञानाभिः सर्वकर्माणि भस्मसात्कुरुतेर्ऽर्जुन।' 'ज्ञानाग्निदग्धकर्माणं' इत्यादि- श्रुनिस्मृतिभिर्ज्ञानिनां सर्वकर्मफलाभोक्तृत्वलाभात स्वेच्छाजन्यशरीरे मानाभावात् तद्वोधकस्मृत्यादेरपरममुक्तिवि- पयकत्वात् 'स यत्रायमात्माऽबल्यन्नेत्यादीति कु कामयमान' इत्यन्तसंसारविवेचनश्रुतिमध्यपठितस्येदं शरीरं निहत्ये- त्यादरेरभिक्रमणवाक्यवत् संसारबोधकत्वेन मुक्तस्य शरीराबोधकत्वात् इदंपदस्य प्रत्यक्षवाचकत्वेनौत्सर्गिकस्य लिङ्ग- शरीराबोधकत्वात् गमयित्वेत्यस्य नाशयित्वेत्यर्थकत्वे लक्षणापत्ते: इमं शरीर निहत्याविद्यामित्युक्तयैवाविद्यानाशलाभ- संभवेन व्यर्थत्वात् स्थूलशरीरमभिमानाभावेन निहत्याविद्यां संस्काररूपेण प्राप्येत्यर्थकत्वावश्यकत्वात् उत्तब्रह्मा- ण्डोफे: शुभाशुभकर्मप्रयुक्तलौकिकसतकारासत्कारप्रयुक्ताविक्षेप विक्षेपाभासपरत्वेन मुक्तिसुखगतवृद्धि ह्वासाबोधकत्वात् 'प्रपञ्जोपशममि'त्यादि 'स आत्मा स विज्ञेयः' 'तमेव विदित्वे'त्यादिश्रुतिभिः शुद्धस्यैव ज्ञेयत्वेन प्राप्यत्वात् कैवल्यं न सोपाधिकमित्यादिबाधकस्योक्त्तप्रायत्वादित्यर्थः । ननु तथापि सायुज्यशब्दस्य क्वचिदौपाधिकभेदाभावः, कचिदखण्ड- व्यक्तिमात्रमर्थ इति न युक्तम्, नानार्थत्वापत्ते :; अखण्डस्य बोधने लक्षणापत्तेश्र, तत्राह-सायुज्यशब्द इति। विभक्तत्वाभावाभिप्रायक: चन्द्रमस इत्यादौ ब्रह्मसायुज्यमित्यादो च भेदाभाववाचकः। चन्द्रपदार्थस्य चन्द्रशरी रावच्छिस्रूपरवेन तेन सह सोपाधिकजीवस्य समभिव्याहृतशरीर रूपोपाध्यवच्छिन्नप्रतियोगिताकभेदस्याभावो बुध्यते।
Page 575
८९६ अद्वैतसिद्िः । [परिच्छेद: ४ ]
कवाक्येषु प्रतिवाक्यं मुक्तावकामहतशब्दप्रयोगात् मानुषानन्दवत् अकामहतमुक्तानन्देऽपि तारत- न्यम्-इति, तन्न; 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति सर्वेषां लौकिकानन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेः। नतु तस्य तस्याकामहतस्य तावानेवानन्द इति। येन तत्रापि तारतम्यं कल्प्येत। तथाच 'सोऽश्रुते सर्वान् कामान्' 'कामस्य यत्राप्ताः कामास्तत्र माममृतं कुधी' त्यादिश्रुतेः 'स हि मुक्तोऽकामहत' इत्यादिव्रह्माण्डोक्तेश्च न विरोधः। ननु-एकस्यैव श्रोत्रियस्य सर्वत्र परामशे मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्यगन्धर्वाद्यनेकानन्दरा एकस्मिन विरुद्धाः,
एतत्पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽथुतकल्पनाबाघश्च। नहीन्द्रादिपदे वा राजपदे वा निष्कामस्य मिक्षुकस्य इन्द्राद्यानन्दानुभवोऽस्ति, तस्माच्छुत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा; 'श्रोत्रियस्य चे त्यादिना 'यश्च श्रोत्रिय इत्यादिना चोत्तरवाक्येन मुक्तस्य तदुच्यत इति-चेन्नः सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्ना- नन्दे वक्तव्ये परामृश्यते; तत्तदिन्द्रादिसाम्येन तस्य सर्वत्रामिधानोपपत्तेः 'अधिकं प्रविष्टं नतु तद्धा- नि'रिति न्यायात्। साम्ये हि तत्सजातीयधर्मवत्त्त्वं तन्त्रम्, नतु तदितरधर्मानधिकरणत्वमपि; गौर- वात्। यञ्च-मुक्तसुखं परस्परतारतम्यवत् परस्परतारतम्यवत्साधनकत्वात् संमतवदिति, तन्न; असिद्धेः। ननु-मुक्ति: प्रयागमरणभगवद्रेपादिसाध्येति मते ज्ञानकर्मसमुच्चयसाध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् नासिद्धिः, ज्ञानेकसाध्येति मतेऽपि 'कस्तं मदामदं देवं मदन्यो शातुमर्हृति' 'सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैदेवः किमु सर्वर्मनुप्यरित्यादिश्रुत्या 'ब्रह्मादि तद्वेद न चेदसम्यगन्ये कुतो देवमुनीन्द्रवर्याः। इत्यादिस्मृतिभिः देवादिमनुप्यादिस्थमुक्ति
गौडव्रह्मानन्दी (लघुचन्द्रिका)। उपाध्योर्मेलने सत्येकोपाधिमत्वेनापरोपाधिमन भेदाप्रतीनेर्न तदसंभवः । ब्रह्मसायुज्यमित्यादौ नु ब्रह्मपदार्थस्य शुद्ध- त्वेन तत्प्रतियोगिकभेदसामान्याभाव एव बोध्यते। सोपाधिके च तदसंभवान निरुपाधिकजीवम्येव नत्पर्यवसानम्। एवंच सायुज्यपदस्य संबन्धार्थकत्वं दूरापेतम्। 'सारूप्यं योग एव चे'त्यव्नापि स एवाथः। 'सारूप्यकत्वमप्युते'नि स्मृतेरिति भावः। मुक्ता मुक्तात्मनि। मानुपानन्दवन् मानुपाद्यानन्द इव। अन्तर्भावाभिधानोपपन्तेः अन्तर्भावेन मुक्तानन्दस्य शतगुणिततत्तदानन्दसादृश्याभिधानोपपत्तः । तावानेय तत्तच्छतरणितानन्द एव। तत्रापि मुक्तानन्देऽपि। कामानू सुखानि। कामस्य कामुकस्य। कामाः सुखानि। यत्र ब्रह्मसुखे। तत्र तदभिन्ने। सर्वत्र शतगुणितानन्देपु। परामशी सदशानन्दसंबन्धितवेनोक्तों। मानुपादिभ्यः मानुपानन्दादिभ्यः। शनगुणितेत्यत्रान्वयः। सावधारणेति। दवगन्धवानन्दादीनामधिकत्वेन वक्ष्यमाणतवान मनुष्यगन्धर्वानन्द एव मनुष्यानन्दशतगुणित इत्याद्यवधारणमार्थिकम् । 'स एक' इत्यंकपदः शब्दं वा बोध्यम्। अनेकानन्दाः अनेकानन्दजानीयानन्दाः। एकरूपतया कामसामान्याभावरूपतया। व्यवस्थाऽयोग इति। अकामहतपदेनैक- जानीयानन्दृव्याप्यनिष्कामत्वोक्त्या तादृशानन्दस्य सादृश्यप्रनिपादनेन नानाजानीयानां मनुष्यगन्धर्वाद्यानन्दानां निर्णयासंभव इत्यर्थः । अश्रुतकल्पनाप्यन्यथानुपपत्या कार्या, तत्राह-बाधश्रेति । बाधं विवृणोति-नहीति। तथाच तत्तच्छतगुणितानन्दम्तत्र वाधित इनि भावः। एकत्वेऽपि एकजानीयाननदवत्वेऽपि। वक्तव्ये उपमेये। परामृश्यते उपमानतयोच्यते। साम्येनेति। 'कला च सा कान्तिमनी कलावतस्त्वमस्य लोकस्य च नेत्रकोमुदी।' इत्यादाविव सहनिर्देशविशेषात् साम्यलाभ इनि भावः। तत्सजातीयधर्मवत्त्वमिति। तथाच प्रकृने मनुष्य- गन्धर्वादे: यत्सजातीयं तदीयधर्मवत्वं तदपेक्षया अपकृष्टत्वशून्यत्वरूपं तद्दृत्तिधर्मवत्व्मिति भावः। तदितरेति। उक्तशून्यत्वेतरेत्यथः। तथाचाकामहतस्यानन्दे मनुष्यगन्धर्वाद्यपेक्षया उत्कर्पस्य कल्पितस्य सत्त्ेऽपि न सादृश्यहानि- रिति भावः। नच-चरमोक्तसर्वोत्कृष्टानन्दं प्रत्यकामहतानन्दस्य सादृश्यासंभवः, भेदाभावादिति-वाच्यम्; तत्र 'गगनं गगनाकार'मितिवदुपपत्तेः, अकामहतजीवन्मुक्तानन्दत्वेन कल्पितभेदस्य संभवाच्च। नच-जीवन्मुक्तस्य अवृजिन इति विशेषणासंभवः, भुज्यमानवृजिनसत्वादिति-वाच्यम्; अनभिमानेन वृजिनादेः बाधितानुवृत्तितवेन च सचक्षुरचक्षुरित्यादिवदुपपत्तेः । जीवन्मुक्तग्रहणादेवाकामहत इत्यत्र हतपदं सार्थकम्। अन्यथा केवलीभूतस्य ग्रहणे अकाम इत्येवोच्येत। तथाचाकामहतत्वं बाधितानुवृत्तिकामत्वम्। सत्यत्वेन प्रतीयमानो हि कामो मूढं विक- लीकुर्वन् हर्न्तात्युच्यत इनि बोध्यम्। प्रयागेत्यादि। 'सितासिते सरिते यत्र सङ्गते तत्राप्लुतासो दिवसुत्पतन्ति।
Page 576
[मुक्तौ तारतम्यभज्:] ८९७
व तत्सिद्धिरिति-चेन्न; केवलकर्मपक्षे समुञ्चयपक्षे वा कर्मसाध्यत्वेन मुक्तेरनित्यत्वापत्तेः, 'नान्यः पन्था:'इत्यादिश्रुतिविरोधाच्च, तृतीयपक्षे तृदाहृतश्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेन तदु- कसाधनसाध्यत्वाप्रतिपादकत्वात्। नचार्थापत्या तत्सिद्धि: ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वायोगात्। यन्तु-'यस्त आशिप आशास्ते न स भृत्यः स वै वणिक। स वै भृत्यः सच स्वामी गुणलुब्धो न कामुकौ॥ मुमुक्षोरमुमुक्षस्तु परश्चेकान्तभक्तिमान्॥' इत्यादिस्मृत्या मुमुश्ुभ- क्त्यपेक्षया अमुमुक्षोर्भक्तस्याधिक्योक्ते: तदाधिक्यस्य लोकरीतिसिद्धत्वाञ्च 'भक्ति: सिद्धेर्गरीयसी'ति स्मृत्या अल्पभक्तिसाध्यमुक्त्यपेक्षया अधिकमुक्तिहेतुभक्तेरपि आधिक्यस्योक्तंश्च-इति, तन्न; 'यस्त आशिप:' इत्यादिना फलमनिच्छतो गुणलोभेन या भक्तिस्तस्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तन्त- त्वसाक्षात्कारे त्वरासम्पादकं नतु मुक्तितारतम्याक्षेपकम्। 'भक्ति: सिद्धे'रित्यादिना प्रतिपादितं गरीयस्त्वमपि तज्जनकत्वमात्रेण पुत्रात्पितुरिव। यन्तु-'अन्ये त्वेवमजानन्तः श्ुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥I' इत्यत्रापिशब्देन, 'स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्। किं पुनर्व्राह्मणा: पुण्या भक्ता राजर्पयस्तथा॥' इत्यत्र कैमुत्येन च साधनतार- तम्येन साध्ये तत्प्रतीतिः इति, तन्न; नहि तरणेऽपीत्यस्यान्वयः, किंतु अधिकारिणि। तथाच विल- म्बिततरणरूपफलसम्बन्धमात्रपर्यवसानात् केमुत्यस्यापि त्वराफललाभमात्रेणोपपत्तेः साधनमात्र-
गौडब्रह्मानन्दी (लघुचन्द्रिका)। ये वै तन्वं१ विसृजन्ति धीराम्ते जनासो अमृतत्वं भजन्ते' इति श्रुतिः प्रयागमरणस्यामृतत्वे प्रयोजकत्वं बोधयनि। 'गुणप्रवाहोपरमस्तासां गुणधिया कथ'मित्यादिना गोपीनां मुक्त्यसंभवमाशङ्क्य 'द्विपन्नपि हृपीकेशं किमुताधोक्ष- जप्रियाः' दृत्यन्तेन भागवतेन मुक्ति: समाहिता। दपि भगवट्टेपादेस्ततप्रयोजकत्वपरम्; प्रयागमरणजन्यादृष्टेन द्वेपादिनान्तरीयकभगवत्स्मृतिपरम्पराधीनादट्टेन दृष्टाटृष्टप्रतिबन्धकनिवृत्तिद्वारा तदधीनभगवदुपदेशद्वारा वा ज्ञानसं भवात्, अन्यथा लोककप्तज्ञानकारणनाबाधापन्तेः, 'हिरण्यदा अमृतत्वं भजन्त' इत्यादिश्रुतेरपि साक्षाद्वेतुत्वबोध- कत्वापत्तेः, 'हष्ट्रव तं मुच्यने' 'यदा चर्मवदाकाश'मित्यादिश्रुनिबाधापत्तेः, मुक्तेः कर्मसाध्यत्वे विनाशित्वादे- वक्ष्यमाणत्वाच्च। अतो मत इन्युक्म्। तत्सिद्धिः तारतम्यवत्साधनकत्वसिद्धिः। दुर्लभत्वेति। 'यो यो देवानां प्रत्यबुध्यत इत्यादिश्रुत्या शुद्धग्रह्मणः बुद्धत्वोक्तः 'कस्तं मदामद'मित्यादिकं स्तुतिपरम्। सर्वे गुणा इत्यादिकमपि सगुणस्तुनिपरम्। तत्तच्छुत्या तस्यापि बुद्धत्वोक्तेः सगुणप्राप्तेस्तारतम्यस्येष्टत्वेन यथाश्रुतार्थकं वा। ते तुभ्यम्। आशिपः काम्यानि। आशास्त प्रार्थयते। न भृत्यः लाभार्थसेवकत्वेनाप्रशस्तसेवकः। वणिक लाभार्थव्यापार- वत्वेन वणिकुत्यः । मुमुक्षोः मोक्षमुह्टिश्य भजमानात्। अमुमुश्षुः मोक्षपर्यन्तफलमनुद्दिश्य भजमानः । परः श्रेष्टः । हेतुगर्भविशेषणभाह-एकान्तभक्तिमानिति । निर्गुणभक्तिमानित्यर्थः । 'लक्षणं भक्तियोगस्य निर्गुणस्य हयुदाहृतम्। अहतुक्यव्यवहिता या भक्ति: पुरुपोत्तमे।' इति भागवतात्। अहैतुकी काम्यफलशून्या। नच- काभ्यफलाभावे स्वतोऽपुरुपार्थे भजने प्रवृत्त्यनुपपत्तिरिति-वाच्यम्; भक्तेर्नान्तरीयसुखवारारूपेण परिणतमनोवृत्ति- रूपत्वेन स्वत एव पुरुपार्थत्वात। संसारदुःखमिश्रितत्वेन मुक्त्यपेक्षया अपकृष्टत्वं परं ग्रामाणिकं तस्याः । अव्यवहिता विच्छेदशून्या अव्यभिचारिणीति यावन्। अल्पभक्तीत्यादि। मुक्तिसामान्यापेक्षया गरीयस्त्वासंभवा- दल्पभक्तिसाध्यत्वेनाल्पा या मुक्ति:, तद्रूपां सिद्धिमपेक्ष्य तदधिकमुक्तिहेतुः भक्तिर्गरीयसीत्यर्थ इति भावः। उक्ते- श्रेति। तारतम्यवत्साधनकत्वं मुक्त्तीनामिति शेपः । गुणलोभेन गुणधारास्राविस्मृतिविपयचरितलोभेन। तदुक्ततं भागवते-'दुरधिगमात्मतत्वनिगमाय तवात्ततनोश्चरितमहामृताब्धिपरिवर्नपरिभ्रमणाः । न परिलपन्ति केचिद- पवर्गमपी'त्यादि। तस्यास्तु गरीयस्त्वं तस्या एवाधिक्यम् । त्वरासम्पादकं त्वरया निप्पादकम्। तदुक्तं भागवते-'अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी। जरयत्याशु या कोशं निगीर्णमनलो यथा ।' इनि। कोशं लिङ्गंशरीरं कोशपञ्चकं वा। तत्त्वसाक्षातकारद्वारा जरयति नाशयति। नतु मुक्तितारतम्याक्षपकम्; मुक्तिजात्यप्रयोज- कवैजात्यस्य तत्वसाक्षात्कार आक्षेपकं नेत्यर्थः। मात्रेणेति। सिद्धेरिति पष्टी। मुक्ते: संबन्धिनी गरीयसी। मुक्तिसंब- न्धिगरीयस्त्वं विवृणोति-जरयतीत्यादि। तथाच मुक्त्यपेक्षया गरीयसत्वं प्रकृते नार्थ इति तु युक्तम्; उत्तरार्ध- स्यापेक्षितसमर्पकत्वलाभात्। नहि तरण इत्यादि। अपिशब्दार्थस्य संभावितत्वस्य तरणरूपमुक्त्तावन्वये तद्वलान्नि- श्वितमुक्तयपेक्षयापकर्ष आक्षिप्येत। यथा श्यामाकादयोऽप्यन्नमित्युक्त तेषामपकर्षो लभ्यते। अधिकारिणि तदन्वये तु तस्यैवापकर्षो विलम्बेन विधेयसंबन्धरूपो लभ्यते। यथा सुग्रीवं प्रति अभिषेकमाज्ञाप्य 'अयमप्यङ्गदो राजन् यौव- राज्येऽभिषिच्यता'मित्यनेन विलम्बाभिषेकाभिप्रायेण भगवताज्ञापितम्। त्वराफललाभेति। ब्राह्मणाद्यन्यस्ये- अ. सि. ११३
Page 577
८९८ अद्वैतसिद्धिः । [परिच्छेद: ४ ]
तारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च। नहि दण्डतारतम्येन घटतारतम्यं कचिदपि दश्यते। यशु-'साधनस्योत्तमत्वेन साध्यमुत्तममामुयुः। ब्रह्मादयः क्रमेणैव यथानन्दश्रुती श्रुताः ॥' इति ब्रह्मानन्दे 'अधिकं तव विज्ञानमधिका च गतिस्तवे'ति साक्षान्मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्ति: इति, तन्न; साधनोत्तमत्वेन साध्योत्तमत्वस्यापरममुक्तिविषयत्वात्, विज्ञानगताधिक्योक्तेरपि
गौडब्रह्मानन्दी (लघुचन्द्रिका)। त्यादिः। ननु विलम्बिताविलम्यितत्वरूपस्य तारतम्यस्य तत्वसाक्षातकारे स्वीकारे तत एव तत्फलेऽपि तदास्ताम्, तत्राह-साधनमात्रेति। लौकिकालौकिकयावत्साधनेत्यर्थः। नहि दण्डेति। तथाच 'कर्मणामल्पमहतां फलानां च सवगोचरे। विभागस्थानसामान्यादविशेषेऽपि चोदिते ।।' इति वार्तिकेनाविशेषेण स्वर्गसाधनतया चोदितानां ज्योतिष्टोमाभिहोत्रादीनां तारतम्यात् तत्फलानां तारतम्योक्तावपि लोकसिद्धसर्वकारणस्य तारतम्यं न कार्यतारतम्य- प्रयोजकम्; नानाजातीयदण्डादितोऽप्येकजातीयघटाद्युत्पत्ते: दृष्टत्वात्। घटादावविलम्बोत्पत्तिकत्वरूपोत्कर्ष प्रति दण्डादिनिष्टस्य दार्ढ्यादे: प्रयोजकत्वस्य दष्टत्वेऽप्यविलम्बोत्पत्तिकत्वस्य तददृष्टे: विलम्बेनोत्पन्नस्यापि दण्डदहनादेरविल- म्बेनैव घटतमोनाशादिजनकत्वदर्शनात्। तथाच साक्षात्कारस्य विलम्बितत्वाविलम्बितत्वाभ्यां मुक्तौ तयोः कल्पनं दण्डादेः घटादाविव प्रत्यक्षादिबाधितम्। यत्र तु न मानान्तरबाधः तत्र बहुवित्तव्ययायाससाध्यकर्मणि प्रवृष्य- न्यथानुपपस्या स्वल्पवित्तव्ययायाससाध्यकर्मफलापेक्षयोत्कृष्टफलकत्वं कल्प्यत एव। एतेन-भक्तिप्रपश्योर्ज्ञान- साधनयोरस्ति तारतम्यम्। भक्ता हि कायिकादिव्यापारावृत्तिश्चास्ति। प्रपत्तौ तु भगवान् मां संसारसागरात्तारयि- व्यत्येव। 'सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद्रतं मम ॥' इति श्रीरामोक्तेरिति विश्वासमात्ररूपायां न तदपेक्षति। तत एव ज्ञाने तारतम्यं, ततश्र मुक्ताविति-परास्तम्; नहि यादृशस्य निमि- रस्य नाशे यो वह्निः स्वरूपयोग्यः, तादृशस्य ततो वह्नेरुत्कृष्टवह्निना जनिते नाशेऽतिशयः कश्चन प्रामाणिकः । एनेन प्रतियोगिन उत्कर्ष इृत्यप्यपास्तम्; प्रतियोगिन्यज्ञाने उत्कर्षे क्षतिविरहाच्च। ब्रह्मानन्दे पञ्चदशप्रकरणान्तर्गतग्रन्थे(?)। सगुणविषयज्ञानेति। सगुणोपासनेत्यथः । तथाच 'गुरोस्तव प्रसादेन तव चवोपशिक्षया। तम्यैव च प्रसादेन प्रादुर्भूतं महामुने। ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम। अधिकं तव विज्ञानं अधिका च गनिस्तव। अधिकं च तवैश्वर्य तथ्व त्वं नावबुध्यसे। बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात्। उत्पन्नेऽपि च विज्ञाने नाधि- गच्छति तां गतिम्। व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः । विमुच्य हृदयग्रन्थीनासादयनि तां गतिम्। भवां- श्रोत्पन्नविज्ञान: स्थिरबुद्धिरलोलुपः । व्यवसायादते ब्रह्म नासादयति यत्परम् ।।' इति मोक्षधर्मोक्तौ ज्ञानं दिव्यमुपास- नारूपं तथ्वसाक्षात्काररूपं च मम जनकस्य तेन विदितोऽमि। उपासनाविशेषस्य परकीयज्ञानवैराग्यादिज्ञापकत्वात् तथ्वं साक्षात्कृतवतस्ते तैर्लिङ्गः परकीयतत्वसाक्षात्कारस्यानुमातुं शक्यत्वाच्च। तव शुकस्य अधिकं विज्ञानं मदीया- दुपासनादधिकमुपासनम्। अतएव फलमाकाशगमनादिरूपा गतिः, अणिमादिरूपमैश्वर्यमपि मदीयात् गमनादैश्व- र्यादधिकम्। तञ्च त्तु। 'सर्वभूतेपु चात्मान'मित्यादिना मया पूर्वमुक्तपरमतत्वं तु त्वं नाववुध्यसे मदुपदेशात् पूर्व न निश्चितवान्। ननु निष्कामनिरन्तरभक्तिरूपं विज्ञानं चरमसाधनत्वेन शीघ्रं तत्वनिश्चयजनकम्। तब्व मम स्थित- मेव त्वदुपदेशातपूर्वम्। तत् कुतो न निश्चितम् ? तत्राह-वाल्यादिति। विज्ञाने उक्तभक्तीं उत्पन्नेऽपि बाल्यादिना तस्वरूपां गति नाधिगच्छतीत्यन्वयः। बाल्यात् पितृलाल्यमानबाल्यावस्थायाः । पित्रोच्यमाने तत्वे भवत्यसंभावना -इदानीमुरश्रेन मया पितुर्निकटे यच्छ्रुतमनायासेन, तत्कथं तत्वमिति संशयादिनि। एकेनैव मत्पित्नेदमुक्तं नान्येन। अत इदं तर्वं न वेभि सन्देहादित्यर्थः। 'किं कार्य ब्राह्मणेनेह मोक्षार्थश्व किमात्मकः। कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाथवा॥' इनि शुकेन पित्रुपदेशे सत्यपि सन्दिहानेन पृष्टो जनकः आश्रमचतुष्टयानुष्टानमुक्तवान्। तदुत्तरं प्रभ्रट्ठयस्यावशिष्टस्यातिरहस्योत्तरकत्वेन जनकेनानुत्तरितत्वेन भूय: शुक उवाच। 'उत्पन्ने ज्ञानविज्ञाने निर्द्न्द्े हृदि शाश्वते। किमवश्यं निवस्तव्यमाश्रमेपु भवेभ्रिपु॥' इति। तत्र यदि मोक्षरूपः पुरुषार्थ आत्मस्वरूपानन्दः, तदा तदावरणापगमाय ज्ञानमात्रमपेक्षते। अथ लोकान्तरप्राश्यादिरूपः, तदा तस्य स्वरूपार्थ तद्रतातिशयार्थ च श्वणाद्यतिरिक्ततपोऽप्यपेक्षते। संन्यासिनस्तु न तत्संभव इति कथं मुमुक्षोः संन्यासाश्रम उक्तः । किंच गृहस्थादि- कर्मणां यदि मोक्षे उपयोगः, तदा मयापि गार्हस्थ्यवानप्रस्थे कार्ये। अथ विविदिपायां, तदा तस्याः सिद्धत्वास्न कार्ये इत्याशयः। तत्र जनकेन 'न चिना तत्वविज्ञानं मोक्षस्याधिगमो भवेत्। न विना गुरुसंबन्धं ज्ञानस्याधिगमो भवेत्॥' इतयनेन गुरुमुखाधीनश्रवणादिमात्रं ज्ञानस्य, ज्ञानमात्रं च मोक्षस्य हेतुरिति व्यतिरेकमुखेनोक्त्वा कर्मणो मोक्षाहेतुखं सूचयित्वा 'भावितैः कारणैश्चायं बहुसंसारयोनिपु। आसाद्यति शुद्धात्मा मोक्षं वै प्रथमाश्रमे।। तामासाद्य तु मुक्तस्य दष्टार्थस्य विपश्चितः । त्रिप्वाश्रमेपु कोऽन्योर्थो भवेतपरमभीप्सितः ॥' इत्यत्र बहुसंसारयोनिपु
Page 578
[मुक्तौ तारतम्यभङ्ग:] ८९९
साक्षात्कारप्रयोजकसगुणविषयकज्ञानपरत्वाच्च, अतपव दहरादि विद्यानामधिकाल्पगुणविषयकत्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः। तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरूपिणः। प्राप्तिर्मुक्तिर्न तत्रास्ति तारतम्यं कथंचन॥ इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्ग:।।
गौडव्रह्मानन्दी (लघुचन्द्रिका)। नानाविधकर्मयुक्तशरीरेपु शुद्धात्मा सन् प्रथमाश्रमे मोक्षरूपमात्मानं ज्ञानेनासाद्य मुक्तिं प्राप्तस्य कर्मणा नार्थ इत्युक्तवा शुद्धिद्वारकविविदिपाहेतुत्वं मोक्षाहेतुत्वं च कर्मणां स्पष्टीकृत्य समाहितम्। तदनुस्मरन् जनक भाह- भयादिति। अविमोक्षजात् कर्माविमोक्षशङ्काजन्यात्। उक्तशङ्गाप्रयुक्ता या 'कर्म त्याज्यं न वे'ति शङ्का तज- न्यात्। यत्वधिका गतिरित्यस्य मोक्षस्थानश्वेतद्वीपादिगतिरधिकेत्यर्थ इति, तन्न; तादृशगतौ शुकस्य विद्यमानायां तद्धेतुतर्वदर्शनमपि शुकस्याधिकं तव विज्ञानमित्यनेन विद्यमानमुक्तं त्वया वाच्यम्। तथाच बाल्यादित्याद्यसङ्गतम्। अथ-तादृशगतिसामर्थ्य विद्यमानमपि स्वस्य बाल्यादिना न जानासीत्यथ इति-चेन्न; व्यवसायेनेत्यादेरसङ्गतेः। तत्र हि व्यवसायाहते यत् परब्रह्म नासादर्यात पूर्व नासादितवान्, तां ब्रह्मरूपां गति शुद्धेन व्यवसायेन मद्विघैः छिन्नसंशयो भवानासाद्यति आसादितवान्। वर्नमानसामीप्ये लट्; विमुच्य हृदयग्रन्थीनित्यस्यासंगतेश्व। नहि विद्यमानसामर्थ्याज्ञानेऽपि हृदयग्रन्थ्यनुवृत्तिः। किंचोक्तसामर्थ्य जनकेन नोपदिष्टम्। येन तत्रैव संशयोच्छेदं स्वयं कृतं ब्रयात्, किंतु तत्वम्। तस्मात्तत्वबोधस्य सामग्री उपासनादिकं तत्फलेश्ववर्यादिना प्रत्यक्षेणानुमेयं तव स्थितं, तथापि बाल्यादिप्रयुक्तासंभावनादितसत्वया तत्वं न निश्चितम्। इदानीं तु मया तस्या निरस्तत्वात् निश्चितमित्येव वाक्याथ इति युक्तमुक्तम्। सगुणविषयज्ञानपरत्वादिति। विज्ञानं तत्त्वदर्शनम्। गतिः श्रवणादिपाटवम्। ऐश्वर्ये ईश्वरभावः रागादिराहित्यं स्वाभाविकम्। एतत्रयं तव विद्यमानमधिकं मोक्षायालमेव। त्वं तद्धिकं नाव- नुध्यसे। मोक्षाय नालमिति निश्चितवान्। तत्र हेतुर्बाल्यादित्यादि। यतः उत्पन्नेऽपि विज्ञाने तत्वदर्शने बाल्यादि दोपात् तां गति तत्वदर्शनरूपां नाधिगच्छसि प्रतिष्टितत्वरूपां तत्याप्तिं न लब्धवान्। असंभावनादिदोषाद्दि जातापि विद्या अप्रनिष्टिता। अतएव 'आत्मैकत्वविद्याप्रतिपत्तय' इत्यत्र भाष्ये प्रतिपत्तिशब्देन प्रतिष्ठितत्वमुच्यत इति पञ्चपादिकाकृतः । बाल्यादिशब्दैः 'प्रज्ञामान्द्यं कुतर्कश्च विपर्ययदुराग्रहः' इति ज्ञानप्रतिबन्धकत्वेन पञ्चदशप्रकरणा- दाबुक्तं त्रयमत्रोक्तम्। यद्यपि 'प्रतिबन्धो वर्तमानो विपयासक्तिलक्षण' इति पूर्ववाक्येन तत्र विपयासक्तिरपि वर्तमान- प्रतिबन्धकत्वेनोक्ता । 'असावपि च भावी वा भूतो वा वर्ततेऽथ वे'ति वार्तिकेन भाविभूतावपि ज्ञानप्रतिबन्धका- वुक्त्ता; तथापि शुकस्य विषयसान्निध्येऽपि निर्विकारत्वेन जनकेन परीक्षाढिना निश्चितत्वाद्विषयासत्तयभावस्य वर्तमान त्वेन तत्र निश्चयात् भाविभूतप्रतिबन्धकयोश्चानुमानादिना तत्राभावनिश्रयादुक्त्तत्रयमेव वर्तमानप्रतिबन्धकं शङ्गितम्। तत्रापि बाल्यशब्दितस्य प्रज्ञामान्य्यस्य, नासंभवनाहेतुत्वं प्रकृते संभवति; शुकस्य स्वाभाविकसूक्ष्मबुद्धित्वात्। अत :- संशयादिति । सूक्ष्मबुद्धित्वादेव नानाविधकुतर्कावताराधीनतत्वासंभावनारुपात्त् संशयादित्यर्थ:। ि शिष्टकाष्ठां प्राप्तस्यात्मक्षणिकत्वमिथ्यात्वादिपर्यवसायिकुतर्कासंभवात् न तस्य संभवनीत्याशयेनाह-भयाद्वाप्यविमो- क्षजादिति । आधिकारिकत्वेन प्रवृत्तिपरस्य पितुरनुष्टानमालोच्य कर्मवासनादार्ढ्यात् कर्मणा लोकान्तरप्राप्ति: सत्यास्तीति विपर्ययग्रहेण कर्मात्यागनिश्रयरूपेण अविमोक्षेण जनितात् भयशब्दितद्वैताभिनिवेशादित्यर्थः। व्यवसा- येनेत्यादि। यतोऽन्योऽपि व्यवसायादिनैव तां गति प्रतिष्ठितां लभते, अतो भवानपि तेनैवोत्पन्विज्ञान इदानी प्रतिष्टिततर्वदर्शनः । व्यतिरेकमुखेनैतदेव द्रयति-स्थिरेत्यादि। स्थिरबुद्धिरलोलुपोऽपि व्यवसायात् गुरूपदेशा- धीनात् बाल्यादिप्रयुक्तासंभावनानिवर्तकनिश्चयाटटते यत् यस्मात् परं नासादयति न प्रतिष्ठितविज्ञानविषयीकरोति इत्यपि व्याख्यानं संभवतीति ध्येयम्। एवं ? निष्कामभक्तयादितारतम्यं विलम्बाविलम्बोत्पस्नत्वरूपस्य तत्वदर्शन- तारतम्यस्य प्रयोजकम्। नतु मोक्षे तत्प्रयोजकम्। न वा तत्वदर्शनमोक्षयोस्तारतम्यान्तरप्रयोजकमित्यर्थः। भूयो- गुणविशेष कतवेनोपासनोत्कर्षेण चित्तैकाम्य रूपे साक्षात्तत्फल एवोत्कर्षः। तेन चाविलम्बोत्पत्तिकत्वरूपस्तर्वदर्शने उत्कर्षः; नान्य: नानागुणविषयत्वादिः, श्रुतेनिर्गुणे तात्पर्यात्, जातिविशेषरूपोत्कर्पस्योपासनान्तरप्रयुक्ततरवदर्शनावृत्तेस्तत्त्व- दर्शने स्वीकारे मानाभावात्। ततश्र सर्वद्वैतनिवृत्या मोक्षेऽपि न विशेष इति भावः ॥ तकैः सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय तारतम्यं न मुक्तिगम्॥ इति लघुचन्द्रिकायां मुक्ती तारतम्यभङ्ग: ॥
Page 579
९०० अद्वेतसिद्धिः। [ परिच्छेद: ४ ]
यो लक्ष्म्या निखिलानुपेक्ष्य विवुधानेको वृतः स्वेच्छया यः सर्वान्स्मृतमात्र एव सततं सर्वात्मना रक्षति। यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे॥ श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः। वयं येषां प्रसादेन शास्त्रार्थ परिनिष्ठिताः॥ सहजसरलां प्रेम्णा दीर्घा समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः। कथमपि सती पूता सद्यस्तया विषयीकता मम कृतिरियं हित्वा दोषान्भवत्वतिसहणा॥ गुरूणां माहात्म्यान्निजविविधविद्यापरिचयात् श्रुतेर्यन्मे सम्यननपरिनिष्पन्नमभवत्। परब्रह्मानन्दस्फुरणमखिलानर्थशमनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम्॥ इह कुमतिरतत्त्वे तत्त्ववादी वराक: प्रलपति यदकाण्डे खण्डनाभासमुख्चैः। प्रतिवचनममुष्मै तस्य को वक्तु विद्वान् नहि रुतमनुरौति ग्रामसिंहस्य सिंहः॥ कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमन्रो महान्। अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपती। ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्धताम्। मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि॥ श्रीव्यासशङ्करसुरेश्वरपद्मपादान् वेदान्तशास्त्रसुनिबन्धकृतस्तथान्यान्। विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान् गुरून सततमेव नमामि भक्त्ा॥ सिद्धीना मिष्टनैष्कर्म्यव्रह्मगानामियं चिरात्। अद्वैतसिद्धिरधुना चतुर्थी समजायत॥
विरचितायामद्वतसिद्धा मुक्तिनिरूपणं नाम चतुर्थः परिच्छेद:॥
गौडब्रह्मानन्दी (लघुचन्द्रिका)। निखिलान् शिवादीन्। सर्वान् द्रौपद्यादीन्। ददाति शिशुपालादिभ्यः । निजपदं सायुज्यमुक्िम्। विद्यागुरू- ननुस्मरति-श्रीमाधवेति। गुरुणां श्रीविश्वेश्वरसरस्वतीनाम्। गुरुमाहाल््येन सकलशास्त्रपरिशीलनेन श्रुनवंदान्त- श्रवणपाटवेन मननेन च यावदवधारितं ब्रह्मानन्दस्य स्फुरणं, तस्मात्तादृशम्। अवधारणस्य रफुरणप्रयोजकत्वान् अवधारितस्य तदुक्तिः। निहितं लिखितम्। अतत्वे असत्ये। तत्त्ववादी सत्यवादी मिथ्याप्रपञ्चे तादात्म्येन सत्वप्रकारकवचनशील: माध्वः । शीलोक्तया निर्युक्तिकवचनं दशिंतम्। अकाण्डे अनवसरे दृपणशून्ये मन्मते। ग्रामसिंहस्य शुनकस्य। इएटनष्कर्मर्यव्रह्मगानां इष्टादिपदाव्यवहितोत्तराणाम्। सिद्धीनां सिद्धीतिपदानाम्। नामनामिनोरभेदोपचारादिष्टसिद्यादिग्रन्थलाभः । 'हिरण्यपूर्व कशिपुं प्रचक्षत' इत्यादिवत् ब्रह्मगानामित्यन्ते लक्ष- णया वा तल्लाभ: ॥ महानुभावधारेयशिवरामाख्यवर्णिनः । एतङ्रन्थस्य कर्तारे लेखका: केवलं वयम्॥ श्रीनारायणतीर्थानां पट्रूछास्त्रीपारमीयुपाम्। चरणी शरणीकृत्य तीर्णः सारस्वताणवः॥ भजे श्रीपरमानन्दसरस्वत्यंत्रिपङ्गजम्। यत्कृपादृप्टिलेशेन तीर्णः संसारसागर:॥ यद्यत्संभवदुक्तिकं परवचः संभप्य तद्दपितं व्याख्यातश्च निनूढभावगहनो वाणीसुधासागरः। सर्व तच्छरादेन्दुसुन्दरमुखश्रीकृप्णलीलातनो मालाभावमवाप्य सजजनमनोमालां समाकर्षतु॥ एपा यद्यपि चन्द्रिका खलमनोराजीवराजेररिध्वान्तच्छेदकरी सरीसृपमुखव्याघातमुद्राकरी। साधूनां सकलस्वभावकरुणाकृपारसारात्मनां चेतश्चन्द्रमणीमणीपु रमणी जात्या तथापि स्फुटेम्।।
यामद्वंत सिद्धिटीकायामद्वतलघुचन्द्रिकायां चतुर्थ: परिच्छेदः॥ समाप्तेयं लघुचन्द्रिका।
श्रीरस्नु
Page 580
गौड्रह्मानन्दीयुता। ९०१
(१) तत्र न्यायामृतकारा :-
नाविद्यानिशृत्तिर्मुक्तिः । तथाहि-साहि असाध्यत्वापत्या नात्मरूपा। नापि तद्भिन्ना सती;अद्वैतहान्यापत्तेः। अतएव आत्मभिन्ना मिथ्यारूपा न सा भवति; अविद्यातत्कार्यत्वान्यतरापत्तेः। एतेन-चरमवृत्त्युपलक्षितात्मखरूपलमपि- परास्तम्; उपलक्षणसाध्यतयैव मुक्तेरपि साध्यताया इव तन्निवृत्त्या मुक्तरपि निवृत्त्यापत्तः, वृत्त्युपलक्षितस्य पश्चादिव मोहकालेऽपि पूर्व सत्त्वाच्च, उपलक्षितत्वस्याप्यधिकस्य भाने सविशेषतापत्तेश्र। यत्तु अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेवेति मतम्, तदप्यनेन-परास्तम्; वृत्तिनाशानन्तरकालेऽप्यनुवर्तमानस्याविद्याध्वंसस्य वृत्तिरूपत्वासंभवात्। किंचेयं प्रक्रिया किमन्यत्र दृष्टा, उतेहेव। आद्ये बिम्बप्रतिबिम्बाज्ञाननिवृत्तरपि ज्ञातबिम्बप्रतिविम्बैक्यरूपतापत्तिः, द्वितीये नियामका- भावः। विश्वमिथ्यात्श्रुतिस्तु स्वतात्पर्यविषयनिवृत्तीतरमिथ्यालपरा न निवृत्तेरपि निवृत्ति बोधयतीति न निवृत्तेर्ज्ञानाधिष्ठा- नातिरेके तद्विरोधापत्तिः । अपिच वृत्त्युपलक्षितात्मनी मोक्षत्वें जीवन्मुक्तावपि सोऽस्तीति तदाऽपि मोक्षापत्तिः। चरम- साक्षात्कारवृत्तिविवक्षायामपि तदुपलक्षितात्मनः साध्यत्वापत्तिः। वेदान्तश्रवणसाध्यो हि पुमर्थो नात्मा; असाध्यलात, नापि वृत्तिः; अपुमर्थत्वादिति मन्तव्यम् ॥
एतेन-नाविद्यानिवर्तकमपि खप्रकाशचैतन्यमात्रं तदाकारापरोक्षवृत्तिवा, आद्यस्येदानीमपि सलात्, द्वितीयेऽसत्या- तसत्यसिद्धयोगात्, अज्ञाने ज्ञप्तिरूपज्ञानविरोधित्वस्यवानुभवेन वृत्तिविरोवितायोगात्। नहि चिता प्रकाशमाने सुखादाव- ज्ञानं दृश्यते। इच्छानिवर्त्यद्वेषवत् वृत्तिनिवरत्याज्ञानस्यापि सत्त्वापत्तेश्व। किंच वृत्तेर्निवृत्तिः कि वृत्त्यन्तरेण उतात्मनैव । आद्येऽनवस्थाप्रसङ्गः द्वितीये स्वस्थितिविरोधः। यत्र तूपान्त्यश्दजशब्दः सस्यापि निवर्तक: तन्रापि उपादाननिवर्तकत्वं न दृष्टमेव। एतेन-वृत्तिप्रतिबिम्वितचिन्निवर्तकलमपि-पराहतम्; अपरोक्षवृत्तो सत्यां चिदप्रतिफलनेनानिवर्तकला- दर्शनान्। अपिच निव्तकं ज्ञानं शुद्धस्यादृश्यलान् न शुद्धगोचरम्, विशिष्टस्याध्यस्तत्वेन भ्रमत्वापत्त्या न तद्विषयम्। एतेन-अन्त्यज्ञाननिवर्तकासंभवादपि तदनुपपत्तिः-सूचिता; अन्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापत्त्या नहि स्वयमेव निवर्तकम्। नापि शुद्धात्मा; तस्य किंचिदपि प्रत्यहेतुलात्। सर्वथा निवर्तकासंभवान्नाविद्यानिवृत्तिर्मोक्षः, किंतु वृत्तिसाध्यावरणनिवृत्तिरूपानन्दप्रकाश एव मोक्ष इति सिद्धम् ॥।
किंच लन्मते न दुःखोच्छेदमात्रं पुमर्थः, किंतु निरतिशयानन्दप्रकाशं चेतन्यम्, तच्च न युक्तम्। सुखी स्यामिति हि काम- यन्ते न सुखरं स्यामिति। नह्यपरकीयमुखं पुरुषार्थः, तथेच्छाविरहात् भावरूपसकी यत्वेनेवेच्छाविषयत्वे्भावरूपापरकीय- त्वेन तस्य गौरवग्रस्तलात्। देवदत्तयज्ञदत्ताभ्यां मिलिताम्यां निर्मितप्रासादस्य परकीयस्यापि सुखसाधनस्येष्टलात्। अपर- कीयेऽसकीयेऽपि चन्द्रमण्डलादो इच्छानुदयाच। साक्षात्क्रियमाणत्वं तुन पुरुषार्थतप्रयोजकम्; ईश्वरस्याप्यस्मदादिसुखे- च्छाप्रसज्गात्। एतेन-उपलब्धवमेव पुरुषार्थतप्रयोजकमिति विवरणसिद्धान्तोऽपि-परास्तः; परकीयसुखसाधनस्या- प्युपलभ्यमानस्य पुरुपार्थतप्रसङ्गात्। किंचापरकीयसुखसाक्षात्कारो न तावत् खसंबद्धः खस्य पुरुषार्थः; सुखसाक्षात्का- ररुपस्य मुक्तस्य सुखेच्छानुदयापत्तेः। खेतरासंबन्धितया तु संसारीतरमुक्तासंबन्धितया साक्षात्कियमाणमुक्तरूपपुरुषार्थेन संसारिणोऽपि पुरुषार्थप्रसङ्ग: इति ससंबद्धतया साक्षात्कियमाणसुखादिकमेव पुरुषार्थ इति अद्वैतसिद्धान्तो न समीचीनः । अपिच नायं मोक्षोऽहमर्थस्य लन्मते मुत्त्यनन्वयिनः संभवति। चिन्मात्रं मुक्तं स्यादितीच्छाप्रसञ्ञेन चिन्मात्रमपि न तदन्वयि। किंच अपुरुषार्थतापत्या न सुखं दुःखाभावरूप, सद्वितीयलापत्या तु न तदतिरिक्तरूपम् सुखप्रकाशाभावेना- पुमर्थतापत्त्याच नात्ममात्रत्वं प्रकाशमात्रत्वं वा तस्य संभवति। एवंच निर्विशेषसुखस्य पुरुषार्थत्ायोगात् सविशेषानन्द- एव पुरुषार्थी मुक्तिरिति च सिद्धम् ।
पतेन-निर्विशेषसुखस्य जीवन्मुक्तानुभवसिद्धत्वमपि-निरस्तम्; तत्त्वज्ञानादविद्यानाशे सदःशरीरपातापत्या न निधृत्ताविद्योऽनुव्ृत्तदेहादिप्रतिभासो जीवन्मुक्त् इति युक्तम्। क्रियाज्ञानयोः संस्कारसत्त्वेऽ्यविद्यायाः संस्कारसत्त्वे प्रमा- णाभावात्तन्निबन्धनोडयं देहादिप्रतिभास इति न युक्त्तम्। अन्यथा भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धेतुप्रारब्धकर्मादे: स्थित्यर्थ तदुपादानाज्ञानानुवृत्त्यापातात्। नहि समवायिकारणं विना कस्यापि बहुक्षणावस्थानं कुत्रापि दृष्टचरम् । नहि पूर्वज्ञानानिवृत्तस्याध्यस्तस्य तदनधिकविषयेण पाश्चात्येनापि निवृत्तिः संभवति। एतेन-अविद्यालेशानुवृत्त्या देहानुप्ृति- रपि-परास्ता; तत्रहि अज्ञानस्य निरवयवत्वात् लेशो नावयवः । दग्धपटन्यायेनाविद्यानिवृत्तिवादोऽप्यत एव पराहतः ।
Page 581
९०२ अद्वै [परिच्छेद: ४ ]
नाप्याकारो लेशपदार्थः। सहि देहादिभ्रमोपादानत्वेऽविद्यातापत्त्याऽनुपादानत्वे उपादानान्तराभावेन देहादिभ्रमोत्पत्त्ययो- गेनच न जातिः शक्त्यादिरूपो धर्मो वा। अवस्धावन्तं विनाऽवस्थास्थित्ययोगान्नावस्थापि आकारः। नह्यविद्यायां शक्ति- रूपायां विधमानायां मुक्त इति व्यवहारो युज्यते। पतेन-लेशस्थितौ कर्मानुवृत्तिः। कर्मानुष्टत्तौच लेशस्थितिरित्यन्यो- न्याश्रयोऽपि-सूचितः॥
एवंचापरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्द हेतुपरमकाष्ठापन्नभत्यभावे तत्साध्येश्वरप्रसादाभावेन प्रारब्धकर्मणा संसारा- नुवृत्तौ जीवन्मुक्तिः, भक्तिसत्त्वे प्रसादस्यापि भावान्निःशेषदुःखनिवृत्तिसहितख तोनीचोच्चभावापन्न स्वरूपानन्दाविर्भावरूपा मुक्तिरिति सिद्धम्। ईश्वरप्रसादोहि प्रारब्धकर्मक्षये उपयुज्यते। मुक्तावपि मेदः प्रमाणसिद्ध एवेति पूर्वमेव निरूपितमिति तत्रभेदाभावान्नोच्चनीचभावायोगः। जीवेश्वरयोर्विभुताणुत्वादिना तारतम्यं विद्यत एव। अन्यथाऽनेकेश्वरापत्त्या जगद्या- पारवर्जमित्यादिसूत्रविरोधापत्तेः। मुक्ानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने। इति स्मृत्या जीवानामपि तारतम्यमवगम्यते। एतेन-मुक्त्जीवभोगः, इश्वरभोगान्निकृष्टः, जीवभोगलात्, संसारि- भोगवत्, इश्वरानन्दः जीवानन्दादुत्कृष्टः, तन्नियामकानन्दलवात्, यदेवं तदेवं यथा सेवकानन्दात्सेव्यानन्दः इत्याद्यनु- मानमपि-व्याख्यातम्। एवंच स्रूपसुखानां प्रत्येकमणुत्वेनेकत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधा- पानजन्यसुखयोरिव मधुरमधुरतरत्वादिवत्स्वरूपकृतं वैषम्यं मुक्ता विद्यत एवेत्यज्जीकरणीयम्। अतएवहि सालोक्यादिमुक्ति: सायुज्यादिमुक्तितोऽपकृष्टेति प्रसिद्धिरुपपद्यते। सायुज्यंच नैक्यं किंतु संश्लेषमात्रम्। अतएव चन्द्रमसः सायुज्यं सलोक- तामाप्रोतीत्याद्युपपत्तिरिति सायुज्यादो उत्कृष्टत्वव्यपदेशस्यापकृष्टत्वाभावनिबन्धनत्ववर्णनमपि न संभवति। श्रोत्रियस्य चाकामहतस्येति प्रतिपर्यायमकामहतप्रयोगोऽपि मुक्तानन्दतारतम्ये प्रमाणम्। तत्रहि नैकस्यैव श्रोत्रियस्य सर्वत्र परामर्शः; मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्यगन्धर्वाद्यानन्दानामनेकेषामेकस्मिन् विरोधात्। अकामहृतत्वस्यंकरूपतया- Sनन्दव्यवस्थायोगाच। एतेन-मुक्तसुखं, परस्परतारतम्यवत् परस्परतारतम्यवत्साधनकल्वात्, संमतवदित्यनुमानमपि -विवृतम्। मुक्तिः प्रयागमरणभगवद्वषादिसाध्येतिमते ज्ञानकर्मसमुचयसाध्येतिमतेच साधनतारतम्यान्मुक्तितारतम्य- मप्यावश्यकमेव। ज्ञानैकसाध्यत्वमतेऽरपि ब्रह्मापि तद्वेद नचेत्सम्यगन्यदेव मुनीन्द्रवर्या इत्यादिस्मतिभिः बहुतरशाखाश्रवण- साध्यलान्यथानुपपस्या बहुतरगुणविषयत्वं ज्ञानेऽपि सिद्धमेवेति नानुपपत्तिः। भक्तिः सिद्धेगरीयसीति अल्पमुक्तिहेतुभ- सयपेक्षयाऽधिकमुक्ति हेतुभक्तिगरीयस्तोक्तिरपीदानीमेव सङ्गच्छते। अतएवहि-"साधनस्योत्तमत्वेन साध्यमुत्तममामुयुः। ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः" "अधिकं तव विज्ञानं अधिका च गतिस्तव" इति ब्रह्मानन्दमोक्षधर्मवचने अप्यत एव व्याख्याते इति सर्वमनवद्यमिति-वर्णयन्ति ॥
(२) अद्वैतसिद्धिकारास्तु- चरमवृत्त्युपलक्षितात्मैवाज्ञाननिवृत्तिः। उपलक्षणसाध्यतयव मुक्तरपि साध्यता। पाके निवृत्तपि पाचकानितृत्तिवद् मुक्तेरपि न निवृत्तिः। एतदभिप्रायमेव-निवृत्तिरात्मा मोहस्य ज्ञानत्वेनोपलक्षित इति वचनम्। एतेन-अविद्याविरो- धिवृत्तिरविद्यानिवृत्तिरिति मतमपि-व्याख्यातम्। वृत्तिध्वंसोत्पत्तिपर्यन्तं तद्रूपत्वं, चरमव्रत्तिध्वंसस्तु अधिकरणखवरूप- मेवेति नानुपपत्तिः। सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव ज्ञाताधिष्ठानस्याज्ञाननिवृत्तिरपलान्नेयं प्रक्रियाऽन्यत्रायुक्ता । नेति नेति वीप्सास्वारस्येनात्मातिरिक्तसर्वमिथ्यालावगमात् नितृत्तरपि निवृत्यनुपपत्तिरेव तस्याधिष्ठानानतिरेके प्रमाणम्। वृत्युपलक्षितस्यात्मनो जीवन्मुक्तावपि सत्त्वेपि मुक्तिमात्रापाद न मि्ट मे व । च्ष्कारोलक्षि्वूपपर ममुत्त्या- पादनं तु नावसरमाप्नोति। प्राप्तप्राप्तिरूपतया फलस्यानन्दप्रकाशस्य खर्मतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवृत्तेः सा- ध्यतमात्रेण कण्ठगतचामीकरादाविव साध्यतोपपत्त्या वेदान्तश्रवणसाध्यतपुमर्थतयोरपि नानुपपतिः। अविद्यानिवर्त- कंच नखप्रकाशव्रह्मचैतन्यमात्रम्; तस्य तत्साधकलात्, किंतु वृत्त्युपारूढं चैतन्यं चैतन्यप्रतिफलनधारिणी वृत्तिरेव तन्निवर्तिका। अभावस्य भावजनकत्ववत् प्रातिभासिकस्य व्यावहारिकसुखजनकत्ववच्चासत्याया अभि वृत्तेः सत्योत्पाद- कत्वं न विरुद्धम्। पतेन-इच्छानिवर्त्यद्वेषवत् अज्ञानसत्यतापादनमपि-निरस्तम्; अधिष्ठानतत्त्वसाक्षात्कारतनिब- न्धनस्यैव निवर्तकत्वस्यात्राङ्गीकारेण रूप्यवत्सत्यलानापत्तेः । अन्यत्रादृष्टमपि स्वस्यैव स्वनिवर्तकत्वं प्रमाणबलादङ्गीकि- यते। नहि केवलं वृत्तिः केवलं वा चैतन्यं निवर्तकमिति वृत्तिफलितचैतन्यस्यैव निवर्तकत्वेन कापि शङ्का। उपहितविषय- मपि निवर्तकज्ञानमुपाध्यविषयतान्न भ्रमरूपमिति मन्तव्यम्। तन्तुनाशस्य पटनाशप्रयोजकलदर्शनेन खवोपादानाविद्याना- शस्यव वृत्तिनाशप्रयोजकत्वेन न तया सद्वितीयतापत्तिः। तत्रच सुखात्मतैव पुरुषार्थः। तत्र पुमर्थता नापरकीयतप्र- युक्क्ता स्वकीयत्वप्रयुक्ता वा, किंतु साक्षात्किरियमाणताप्रयुक्ता। तत्रच हेयतयाऽज्ञातत्वं विशेषणं दीयत इति नास्मदादिसुखं
Page 582
गौडब्रहानन्दीयुता। ९०३
ईश्वरस्यापि पुमर्थो भवति। मुक्तसुखसाक्षात्कारो न संसारिण इति न संसारिणोऽपि मुक्त्तसुखपुमर्थताप्रसङ्गः। पतेन- प्रत्यक्षप्रकाशत्वेन सुखं पुमर्थ इति वचनमपि-व्याख्यातम्। तब सुखं अहमर्थगतमुक्तिकालान्वयि चिदंशस्यैव। त्व दुःखाभावातिरेक्यप्यात्मानतिरेकीति नानुपपत्तिः। सुखप्रकाशयोस्तत्त्वतोऽमेदेऽपि काल्पनिकमेदसत्वात् न सुखप्रकाश इति व्यपदेशानुपपत्तिः। तच् सुखं जीवन्मुक्तस्यानुभवसिद्धम्। जीवन्मुक्तो नाम निवृत्ताविद्योऽप्यनुवृत्ताविद्यासंस्कारा- धीनदेहादिप्रतिभासः। निःसारितपुष्पायां संपुटिकायां पुष्पवासनावदविद्याया अपि वासनासंस्कारापरपर्याया संभवत्येव। विमतो नाशः, संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाशलात् इत्यनुमानमप्यत्र प्रमाणम्। विनश्यदवस्थस्य समवायि- कारणं विनापि स्थितिदर्शनादुपपादकसत्वे बहुक्षणसंबन्धकल्पनाया अप्युपपत्तेः न संस्कारादिस्थित्यनुपपत्त्याऽज्ञाना- नुवृत्त्यापातः संभवति। पूर्वज्ञानं प्रतिबन्धकाभावासहकृतं न संस्कारादिनिवर्तकं उत्तरं तु तत्सहकृतं तन्निवर्तकमिति न विरोधः । एतेन-अविद्यालेशानुवृत्त्या देहाद्यनुवृनिपक्षोऽपि-व्याख्यातः; तत्रच लेशो नाम आकारः, आकारश्व अपरोक्षप्रतिभासयोग्यार्थाभासजनकाविद्यकशक्तिविशेषः। तदनुवृत्या च तद्वदविद्यापि अनुवर्ततएव। शक्तिनाशमात्रात्तु मुक्त इति व्यवहारोऽविद्यादशायामप्युपपद्यत एव। विलीनाहि पूर्वतनेन ज्ञानेनार्थक्रियासमर्थतसंपादकाशक्तिरिति सर्व- मनवद्यम्। लेशस्थितौ कर्मानुवृत्तिः कर्मानुृत्तौच लेशस्थितिरित्यन्योन्याध्रयस्तु ज्ञप्तौ स्थितौ वा न विरोधी। एवंच यागे नष्टेऽरपि तत्सूक्ष्मावस्थारूपमपूर्व यथाऽड्रीक्रियते एवं अज्ञाने गतेऽपि तल्ेशो देहादिप्रतिभासहेतुरङ्गीक्रियत इति जीवन्मु- क्तिरुपपन्नैव ।।
तस्य च जीवन्मुक्तस्य कैवल्यसंपत्यर्थ प्रारब्धकर्मक्षयमात्रमपेक्षितं तस्य तावदेव चिरमिति श्रुतेः, न तु ईश्वरप्रसादो- डपेक्ष्यते। स्मृतिपुराणादीनां स्तुतिपरल्वात्। भोगादेव प्रारब्धकर्मक्षयोपपत्या नेश्वरप्रसादस्य तत्रापेक्षा। एतेन- मुक्तावुच्चनीचभावोऽपि-परास्तः; मुक्तो भेदाभावेन तारतम्यासिद्धेः। यथाच भेदे न प्रमाणं तथा पूर्वमेव निरूपितम्। किंच तारतम्यामिधानं "ऐहिकमप्यप्रस्तुतप्रतिबन्धे" इति सूत्रेण परमुक्ती तारतम्यशङ्कया तन्निषेधात् न परममुक्तौ घटते। अपरमुक्तो तु इष्टमेव। एतेन-मुक्तजीवेभोग ईश्वरभोगान्निकृष्ट इत्याद्यनुमानमपि-पराहतम्; आद्ये मुक्त्तस्य ब्रह्म- रूपतया जीवत्वाभावेनाश्रयासिद्धं: ईश्वरत्वाभावेन साध्याप्रसिद्धेः, स्रूपासिद्वेश्व। द्वितीये जीवेश्वरविभागकाले चेत् सिद्धसाधनम्, कालान्तरे चेत् पूर्वदोषानतिवृत्तिः। सैपानन्दस्येति ब्रह्मानन्दपर्यन्तमेव तारतम्यमभिदधाति। अनन्तरं तु यतो वाचो निवर्तन्ते इति मुक्ता आनन्दापरिच्छेदमात्रं बोध्यते इति उक्तश्रुतिविरोधादनुमानत्रयमपि बाधितमेव। सा- धनतारतम्यप्रयुक्त हि तारतम्यं वैषयिके सुखे संभवति न स्वरूपानन्दे। सालोक्यसायुज्ययोस्तु परापरमुक्तिरूपत्वादपकर्षो विद्यते एव। सायुज्यं चक्यमेव न संश्रेषमात्रम्; व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धलात्। यथा ब्रह्मलोकान्तावाप्तिरुत्क्र- मणगमनादिसाध्या, नवं मुक्तिः; "अत्र ब्रह्म समश्नते" इति तस्य अपारलांकिकत्वावगमात्। येन पारलोकिकसंश्लेषः सायु- ज्यं स्यात्। एतस्यैवानन्द स्यान्यानि भूतानि मात्र। मुपजीवन्तीति श्रुतिसिद्धः सर्वानन्दस्य सरूपानन्देऽन्तभाव एव श्रोत्रियस्यचा- कामहृतस्येत्यसकृत्प्रयोगतात्पर्य विषय इति न तदनुपपत्तिरपि मुक्ती सुखतारतम्ये प्रमाणम्। केवलकर्मसाध्यत्वे कर्मसमु- चितज्ञानसाध्यत्वपक्षे च मोक्षानित्यतापत्या ज्ञानसाध्यत्पक्षस्यैव युक्तत्वात्तस्यैकरूपत्वेन साधनतारतम्यनिबन्धनतारतम्य- स्यापि नावकाशः । पतेन-साधनस्थीत्तमत्वेन साध्यमुत्तममापुयुरिति वचनमपि-व्याख्यातम्; तस्यापरमुक्तिवि षयल्ात्॥
तस्मात्सरूपानन्दस्य खवप्रकाशात्मरूपिणः। प्राप्तिर्मुफ्तिर्न तत्रास्ति तारतम्यं कथंचनेति सिद्धमिति-निरूपयन्ति ॥
(३) तरङ्गिणीकारास्तु- ध्रवणा दिजन्यवृत्युपलक्षितात्मा नाज्ञानहानिः; असाध्यत्वापत्तेः, उपलक्षणसाध्यतयौपचारिकसाध्यत्वे चौपचारिकपुरुष- र्थत्वं मोक्षस्य समापद्येत। नह्येवं अन्यत्र कुत्रापि ज्ञाताधिष्ठानमेवाज्ञाननिवृत्तिरिति संभवति। बिम्बैक्याज्ञाननिवृत्तेरपि ज्ञात- बिम्बैक्यरूपतापतेः। उपाधिविरह कालीनाविद्यानिवृत्तेरेवैवंरूपतेति तु नियामकाभावान्न युज्यते। एतेन-तदृत्तिरूपत्प- क्षोऽपि-निरस्त :; वृत्तेरपुरुषार्थाया मोक्षरूपत्वायोगात्। वेदान्तभ्रवणसाध्यः पुमर्थो हि मोक्षः। आनन्दप्रकाशतिरोधाय- काज्ञाननिवर्तकत्वेन तु वृत्तिपुरुषार्थत्मज्ञाननिवृत्तेरात्ममात्रत्वनिरासेन निरस्तप्रायम् ॥ तादृशाजाननिवृत्तिश्च न वृत्त्यधीना, कार्यकारणयोः समसत्ताकतनियमात्। तथ्च सुखं न निर्विशेषम्; अपुरुषार्थतापत्तेः, सकीयत्वानुसंधानं हि पुरुषार्थतप्र- योजकं नतु हेयत्वेनाज्ञातत्वे सति साक्षात्क्रियमाणतम्; गौरवात्। तत्र जीवन्मुक्तानुभवोऽप्यतएव परास्तः। युष्मदभि- मतजीवन्मुक्तेरेवासिद्धेः। नहि निवृत्ताविद्यस्य संस्काराधीनदेहादिप्रतिभासो युक्तिसहः तेषामज्ञानकार्यत्वेनाज्ञानं विना
Page 583
९०४ अद्वैतसिद्धिः । [परिकछेद: ४]
बहुकालस्थितौ प्रमाणाभावेनाज्ञानानुवृत्त्यापातात्। पूर्वोत्तरयोर्ज्ञानयोरन हि विशेष उपपद्यते। ज्ञानस्य खप्रागभावनिवर्तन इवा- ज्ञाननिवर्तनेऽपि इतरानपेक्षणात्। देहादेरनाविद्यकत्वेनैव जीवन्मुक्तिश्रुत्युपपत्त्या नाज्ञानलेशे भूयश्चान्ते इति श्रुतिर्मान- मिति सर्वमनवद्यम्।I पतेन-मुक्ौ तारतम्यमपि-सुचितमिति मन्तव्यम्; साधनतारतम्ये साध्यतारतम्यस्यार्थसि- द्धल्ादिति-प्रतिपाद्यन्ति॥ (४) लघुचन्द्रिकाकारास्तु- अन्येच्छानधीनेच्छाविषयत्वरूपं पुरुषार्थत्वं न साध्यतघटितमिति नौपचारिकसाध्यत्वेन पुरुषार्थलौपचारिकत्वापत्तिः अन्यानि च दूषणानि पूर्वमेव तत्र तत्र निरस्तानीति सर्वमनवद्यमिति-विवेचयन्ति ॥
नोऽनन्तकृष्णशास्त्रिण: कृतिपु चतुर्ग्रेन्थी समाप्ता।
संपूर्णोयं ग्रन्थः ।
Page 584
श्रीमधुसूदनसरख्वतीप्रणीतम्। अद्वैतरत्वरक्षणम्।
शास्त्रारम्भोपपत्तिः ॥ १।। श्रीगणेशाय नमः ॥। बृहदारण्यनिविष्ं विल्दुठितमाभीरवारनारीभिः। सत्यचिदानन्दघनं ब्रह्म नराकारमालम्बे ॥ १॥ निर्जित्य प्रतिपक्षान्द्वैतधियो दुष्टतार्किकंमन्यान्। अद्वैततत्वरत्नं रक्षितुमयमुद्म: क्षमः स्यान्नः॥२॥ ननु-प्रत्यक्षागोचरत्वात्सत्यज्ञानानन्तानन्दान्मस्वरूपम्द्वैनं वस्तु वेदैकसमधिगम्यमिति भवतोऽभिमतम्। तन्र सङ्गतम्; तस्य च स्वाध्यायध्ययनविधिप्रयुक्तविचारस्य धर्ममीमांसाशास्त्रेणैव विचारितत्वात्, अर्थवादस्य च विधिशेष- तया प्रामाण्याद्वेदान्तानां च सिद्धवस्तुबोधकत्वेनथवादरूपत्वात्। नच-कर्मविधिशेषभूतानां 'वायुव क्षेपिष्ठे'त्यादीनां तत्र विचारितत्वेन 'सदेवे'त्यादिवाक्यानामत्र विचार इति युक्तम्। कर्तृस्तावकत्वेन तेषामपि विधिशेपत्वात्, 'संभ- वत्येकवाक्यत्वे वाक्यभेदो हि नेष्यत' इनि न्यायात्। नच प्रकरणान्तरत्वम्; पूर्वोत्तरकाण्डयोनियतपीर्वापर्य- स्यान्यथा वक्तुमशक्यत्वादित्यनारम्भणीयमिदं बादरायणीयं तत्रमिति तदनुग्राहकयुक्तिव्युत्पादनमध्यनर्थकमिति प्राप्ते- ब्रुमः । 'स्वाध्यायोऽध्येतव्य' इति विधिर्न कृत्स्स्य वेदस्य विचारं प्रयुक्के। तथाह्यध्येतव्य इति विधिर्नियोगो वा स्यान्वावना वा स्यादिष्टसाधनत्वं वा स्यात्। तत्र नियोगपक्षे घात्वर्थविपयको नियोगस्तस्य च निर्नियोज्यत्वात्स्वविप- याननुष्टापकत्वादात्मनियोज्ये नेवाध्यापनविधिना स्वविपयानुष्टानसिद्धेनियोज्याकल्पनाच्च विचारविधायकत्वं दूरतएषा- नाशङ्कनीयम्। भावनावादेऽप्यध्ययनकरणिका भावनाशब्दात्प्रतीयते तस्या भाव्याकाङ्कायां समानपदोपात्तः स्वाध्यायो भाव्यत्वेनान्वेति न त्वन्यत्; दृष्टे सत्यदृष्टकल्पनाऽयोगात्। नच स्वाध्यायस्य सिद्धत्वेन भाव्यत्वानु- पपत्ति :: तद्वाप्तेरसिद्धत्वेन भाव्यत्वोपपत्तेः। अथ-तस्याः स्वतोऽपुरुषार्थत्वादर्थावबोधस्य चानुष्टानांपायिकत्वे- नोपयोगात्स एव भाव्यतां प्रतिपद्यते, तस्य च विचारमन्तरेणानुपपत्तेस्तस्मिन्नपि स्वाध्यायविधेस्तात्पर्यमिति-चेत्, न; राजसूयादिप्रतिपादकानां वाक्यानां ब्राह्मणेनाध्ययनानापत्ेः। ब्रह्मयज्ञजपाद्र्थ तदध्ययनमिति यदि, त्हि सर्वस्यव तथाध्ययनमस्तु ? किमर्थावबोधकल्पन्येति। किंच हुंफडादिशब्दाध्ययनस्यार्थावबोधपर्यन्तत्वाभावादवश्यमक्षरग्रहण स्वाधीनोच्चारणक्षमत्वलक्षणं फलं वाच्यम्। तथाच वैरूप्यपरिहारार्थ सर्वत्र तदेवास्तु, अर्थावबोधस्तु तस्य फलं, नतु विधे:, कथं तद्ुभयभिन्नोच्चारोऽध्ययनविधिविधेयः स्यात् । अवघाते आवृत्तिवद्भविष्यतीति चेन्न; त्न विहिस्ै धात्वर्थस्य दृष्टवतुप्यफलानुपपश्या आवृत्तिकल्पनात्, इहत्वक्षरग्रहणेनैव दृष्टफलेनोपपत्तौ कल्प्यविचारविध्यनुपपत्तेः । ननु-अर्थावबोधस्य विध्यफलत्वे तत्र शब्दानां तात्पर्य न स्यात्, तथाच न वेदस्य प्रामाण्यलाभ इति-चेन्न; लोके नद्यास्तीरे पक्कफलानि सन्तीति वाक्यरम विध्यभावेऽप्यवबोधे तात्पर्यदर्शनात्। तस्मान्न स्वाध्यायविधिप्रयुक्तो विचारः, किंतूत्तरक्रतुविधिप्रयुक्त इति यथा, तथा श्रवणादिविधिप्रयुक्त एव ब्रह्मविचारोऽपि भविष्यतीति को विरोधः ? इष्टसाधनताविधिपक्षेऽपि कस्ेष्टस्य साधनमध्ययनमित्यपेक्षायामक्षरग्रहणस्यैवाकाङ्कापूर कत्वे नान्यफलकल्पनावकाश इति उत्तरऋतुविधिप्रयुक्तत्वादर्थावबोधस्य तत्प्रयुक्त एव विचार इति। भवतु वा स्वाध्यायविधिप्रयुक्त एव विचारः, तथापि प्राच्यमीमांसया न गतार्थत्वम्। तत्र कर्मोपयोगिन एव वेदभागस्य विचारितत्वात्। नचैकवाक्यत्वम्, विरुद्धार्थप्रतिपादकत्वेन तदसंभवात्। अर्थाविरोधे सत्येवैकवाक्यत्वम्। नचैवं परस्परविरुद्धारथत्वेनाप्रामाण्यं काण्डद्वयस्यापि शङकयम्; पूर्वकाण्डस्य व्यावहारिकप्रामाण्यात्, उत्तरकाण्डस्य पारमार्थिकवस्तुप्रतिपादकतवेन तत्वावेदकत्वलक्षणप्रामाण्याभ्युपगमात्। किंच ब्रह्मज्ञानप्रतिबन्धकदुरितध्वंसजनक- कर्मकलापप्रतिपादकपूर्वकाण्डेन सह ब्रह्मज्ञानजनकोत्तरकाण्डस्य मोक्षप्रयोजनकस्यैकवाक्यत्वे संभवति विरोधेना-
अ. सि. ११४
Page 585
२ अद्वैतरत्नरक्षणम्।
स्यादिति-सांप्रतम्; मुख्यत्वे बाधकाभावात्, स्तुतां लक्षणापत्तः, देहव्यतिरिक्तस्य स्तुति विनापि कर्मण प्रवृत्ति- संभवात्, देहव्यतिरिक्तमात्रापेक्षणाच्च, अपेतब्रह्मक्षत्रादिभावस्य नित्यशुद्धबुद्धमुक्तात्मभावस्य नित्यनिरतिशयानन्द- रूपस्य विज्ञानघनस्य बुद्धे: प्रवृत्ति प्रत्यनुपयोगाच्च। नचैतादृशे वस्तुनि प्रत्यक्षादिबाधः; तस्याे निराकरिष्यमाणत्वात्। तस्मादगतार्थमिदं बादरायणीयं तब्रमिति त्त्वविचारः पृथक्रणीय इति तत्वरक्षार्थ यतनीयम्॥ इत्यद्वैतरत्न- रक्षणे शास्त्रारम्भोपपत्तिः॥१॥ अथ श्रुतिप्रामाण्योपपत्तिः ॥२।। ननु-भाव्यकारादिभिस्तत्वरक्षार्थ बहुग्रन्थस्य कृतत्वात्किमनेनेति-चेत्, सत्यम्; कुतार्किकोत्थापितकुयुक्ति- निराकरणेन भाष्यकाराद्युक्ततात्पर्यवर्णनेन चास्य सार्थकत्वात्। तथाहि- मोक्षाय स्पृहयालवः श्रुतिगिरां श्रद्धालवोरऽर्थेऽनृजौ वेदान्तार्थविभावनासु सुतरां व्याजेन निद्रालवः। भेदे खण्डनखण्डितेऽपि शतधा तन्द्रालवस्तार्किका: केवल्यात्पतयालवः शणुत सद्युक्ति दयालोर्मम ॥ १ ॥ अद्वैतरत्रक्षायां तात्विका एव यामिकाः ॥ अतो न्यायविदः स्तेनान्निरस्यामः स्वयुक्तिभिः ॥२॥ तदिदं तत्वरक्षणं क्रियमाणं विवेकिभिविचारणीयम्। तत्रोक्तं तावत्स्वप्रकाशचिदानन्दरूपं सत्यं नित्यं सजातीयविजाती- यस्वगतभेदशून्यं त्त्वमिति। प्रमाणं चात्र 'अस्थूलमनण्वह्स्व'मित्यादि वेदान्तवाक्यमेव। अस्यचायमर्थः-न विद्यते स्थूलं यत्र तदस्थूलम्, न विद्यतेणु यत्र तदनणु, न विद्यते हृस्वं यत्र तद्हस्वम्, एवमन्यत्रापि ज्ञेयम्। तथाच सकलद्वैतात्यन्ताभाववद्वस्तुप्रतिपादनेन सजानीयविजातीयस्वगतभेदशून्यं वस्तुतत्त्वं प्रतिपादितं भवनि। नच-
रर्थात्प्रपञ्चसंबन्धस्य प्रापितत्वात्। विमतं जगत्, अभिन्ननिमित्तोपादानकं, भावकार्यत्वात्, सुखादिवढित्यनुमानाच्च प्रसक्ति:। नच-एतद्विरोधादेव न प्रपञ्चात्यन्ताभावबोधनं शक्यमिनि-शङ्कम्। सृष्टिवाक्यस्य मायामयसृष्टिप्रति- पादकत्वात्, 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर'मित्यनया श्रुत्यकवाक्यत्वेन तथैव प्रतिपत्तेः, 'अतोऽन्यदान'- मित्यन्यस्य सर्वस्यार्तत्वाभिधानाच्च, 'नान्तरिक्षेऽनिश्चेतव्य' इतिवदप्राप्तेऽपि निषेधोपपत्तेः । नच-ब्रह्मणि प्रपञ्च- निषेधेऽप्यन्यत्र सत्व किं न स्यात् ? भूतले निपिध्यमानस्य घटस्य देशान्तरे सत्ववदिनि-सांप्रतम्; सवोपादाने निषिद्धस्य वस्तुनोऽन्यत्र सत्वानुपपत्तेः, घटस्य च भूतलं नोपादानम्। नचोपादानत्वं ब्रह्मणोऽसिद्धम्; 'जन्माद्यस्य यतः' इत्यादिन्यायसिद्धत्वात्, तत्र श्रुत्यनुमानयोरुपन्यस्तत्वाच्च। नच-एकस्यानारम्भकत्वं सततकार्यारम्भग्रसङ्गादिनि- वाच्यम् ; विवर्तवादाभ्युपगमात। अत्र चैकस्या एव रज्वाः सर्पदण्डभूच्छिद्वाद्यनेकोपादानव्वदर्शनात्, मायाद्विरनाय- त्वाङ्गीकाराच्च उपादानस्यंकत्वेपि कारणान्तरसापेक्षत्वेन सततकार्यारम्भानापत्ते: आरम्भवादस्य च श्रुतिस्मृतिपुराणा- दिविरुद्धत्वेन प्रतिभामात्रोत्प्रेक्षितत्वेन चोपेक्षणीयत्वात्। किंच आरम्भवादे कार्य सत् उतासत्। नाद् :: कारक ष्यापारवैयर्थ्यापत्तेः । न द्वितीयः; असतः कारकव्यापारेणोत्पत्यसंवात्, शशविषाणस्यापि तथासति कारक- व्यापारादुत्प्त्यापत्तेः । अथ-शशे कार्यस्यात्यन्ताभावो मृद़ादो च घटादेः प्रागभाव इत्यम्ति विशेष इनि-चेन्न; उत्पत्ते: पूर्वमसत्वाविशेपे एत्स्यव विशेपस्यासिद्धेः। तथापि-इतरकारणसमवधाने समवायिकारणे उत्पत्स्यते कार्यमिति प्रतीतिरस्ति घटाद़ौ नेतरत्र, तथाचोत्पत्स्यमान एव घटोऽभावस्य विशेषक इात-चेन्न; असता संबन्धस्या- निरूपणात्। तज्ज्ञानमभावस्य निरूपकमिनि-चन्न; ज्ञानस्यापि संबन्धाभावे तदीयत्वासिद्धेः। अथ-उत्पत्यनन्तरं घटस्य प्रागभावो नासीदिति ज्ञायते, कथमन्यथा न सर्वत्र घटस्योत्पत्तिरिति-चेत्, न; तदानीं प्रागभावस्यासत्वेन घटस्य तदीयत्वासिद्े:, स्वरूपसंबन्धस्य व्यात्मकत्वात्, प्रतातिमात्रस्य च वस्त्वसाधकत्वात्। अनिर्वचनीयत्वेनाप्यु- पपत्तेः, प्रागभावस्य सत्वे प्रमाणाभावाच्च। अथ-उत्पन्नोऽपि घटः पुनरुत्पद्येत यदि प्रागभावस्य न कारकत्वम्; सामग्रीक्षणोत्तरक्षणस्य कार्यसर्वेन च्याप्तत्वात्। तत्रच वटस्य प्रतिबन्धकत्वे प्रनिबन्धकाभावस्य कारणत्वपर्यवसाने- जन्यस्याभावस्य वक्तुमशक्यत्वेन गलेपाढिकान्यायेन प्रागभावे पर्यवसानमिति-चेत्, न; एका सामग्री एकमेव कार्य जनयतीति स्वभावस्य कतपनात्। धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात् तत्क्षणादृष्टादिरूपकारणाभावेन सामध्यभावाच्च। किंच यदि प्रागभावः कारणं न स्यात् उत्पन्नोऽप्युतपद्येतेत्यत्र उत्पन्नस्योत्पत्तिरापाद्यमानाSप्रसिद्धा। अथ-माभृतयागभावस्य नियामकत्वं, तथापि का नो हानिः ? शशस्य विपाणं प्रति कारणत्वाभावादेव न ततस्त- दुत्पत्तिः, तत्वरं चान्वयव्यतिरेकगम्यमिति-चेत्, नः असतः कार्यस्य कारणत्वनियामकत्वायोगात् संबन्धाभावात्। तथा कारणस्यापि न तन्नियामकत्वमसता संबन्धानिरूपणात्। किंच कार्य विद्यमानमेकदेशेन वा वर्तते सर्वात्मना वा। नादः; आरम्भकातिरिक्कदेशानभ्युपगमात्। तेनेव वृत्तावात्माश्रयात्। न द्वितीयः; प्रत्यवयवं गोत्ववत्समाप्यवृत्तौ पुच्छेनापि स्तनकार्यापत्तेः ! अथ-अवयत्री वर्तत एतावन्मान्रं तस्यैकत्वात्कात्यैंकदेशविकल्पनानुपपत्तिरिति-चेत्,
Page 586
श्रीमधुसूदनसरस्वतीप्रणीतम्। ३
न; एकस्यापि गोत्ववद्टत्तिप्रश्नोपपत्तेः सर्वावयवासंनिकर्षे चावयविनोऽप्रत्यक्षत्वापसेः। गोत्ववद्भविष्यतीति-चेन्न; असंप्रतिपत्तेः अत्यन्तभेदे चोपादानोपादेयभावे हिमवद्विन्ध्ययोरपि तदापत्तेः। तस्मादारम्भवादानुपपत्तेविकारवादस्य च काररूयैंकदेशविकल्पअ्रस्तत्वेन दुःस्थत्वात्संघातवादस्य चातिरिक्त्तकार्यानुभवेन बाधितत्वाच्छून्यवादस्य च सकलप्रमाण- निरस्तत्वाद्विवर्तवाद एव परिशिष्यते। अथ-एवमेकस्यात्मनो नित्यस्याविनाशिनो जगदुपादानरव उत्पन्नमपि कार्यजातं नित्यं स्यात्; समवायिकारणासमवायिकारणनाशयोः कार्यनाशप्रयोजकयोरभावात, अन्यस्य कार्यनाशकस्यादर्शना- दिति-चेन्न; तदभावेऽपि मरुमरीचिकायामुत्पन्नस्य नदीपूरस्य रज्वामुत्पन्नस्य च सर्पादे: शुक्तिकायासुत्पन्नस्य च रजतादेर्द्वित्वादेश्व नाशदर्शनात्। न तत्र नाशः किं तर्हि ? बाध इति चेत्, प्रकृतेऽपि समानमेतत्। यथाच प्रपञ्चस्यापि शुक्तिरजतादितुत्यता तथोपपादयिप्यामः। तस्मादुपादानकारणे ब्रह्मणि निषिद्धस्य प्रपञ्चस्य नान्यत्र सत्वमस्तीति सिद्धम् ॥ इत्यद्वैतरतरक्षणे श्रुतिप्रामाण्योपपत्तिः॥२॥ अथ श्रुतीनां भेदपरत्वभङ्ग: ॥ ३ ॥ अत्र कश्चिदाह-नाद्वैतज्ञानं मुक्तिहेतुः किंतु देहादिप्रतियोगिकभेदवदात्मज्ञानम्। वदनि चात्र भेदनिरूपणप्रति- जापूर्वकभेदस्थापने प्रमाणम्। तथाहि 'दहादेम्तात्विकान्जेदं सत्यं चात्मन्यजानताम्। मुमुक्षूणां न मोक्षोऽम्तीत्यतो भेदो निरूप्यते ॥१॥ न सा धीः क्वचिदप्यस्ति यत्र भेदो न भासते। अतएव न तन्मात्रं यब्न भेदप्रमापकम्।२॥' 'स हो- वाचैतद्वतदक्षरं गारगि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह् स्वमदीर्घमलोहितमस्नेह मच्छाय मतमोSवायवनाकाशमसङ्गमर-
मपूर्वमनपरमनन्तरमबाह्यं न तदभाति किंचन न तदश्नोनि कश्चनेनि श्रुतावन्योन्याभावात्मकभेदस्यैव नज- थत्वात्। तथाच स्थूलं यच्छरीरादि तद्मिन्नं ब्रह्मेत्य्थः। एवमणु यन्मनःप्रभृति तद्विन्नं ब्रह्मेत्यर्थ इत्यादि। तथाच भेदज्ञानादेव कैवल्यमिति। अत्रेदमालोचनीयम्-भेदज्ञानस्य मुक्तिहेतुत्वे यदि प्रमाणं स्यात्तदास्या: श्रुतेभेंदे तात्पर्यवर्णनं युक्त्तम्, तदेव तु नाम्ति; प्रमाणाभावात्। तथाहि-'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' 'आत्मनो वा अरे दर्शनेन श्रुत्या मत्या विज्ञानेनेदं सर्वं विज्ञातं भवति' तथा'तमेव विदित्वातिमृत्युमेति' 'आत्मा ज्ञातव्यः' 'न स पुनरावनंत' इन्यादिश्रुतावात्मज्ञानस्य मुक्तिहेनुत्वं श्रुगम्, ननु भेदज्ञानस्य, तथाच तत्र श्रुतेम्तात्पर्यवर्णनं व्यथमेव। पद्यद्वयं चात्र पटनीयम्-'अतात्विकाच्छरीरादमिथ्याभेदमजानताम्। सत्यात्मनि मुमुक्षूणां कृतेऽभेदो निरूप्यते॥ न साधीः क्रचिदप्यम्ति यत्राभेदो न भासते। अतएव न तन्मानं यन्नाभेदप्रमापकम्।'इति। अथ-अस्थूलादिवाक्यमेव भेदज्ञानस्य मुक्तिहेतुत्वे प्रमाणमित्युच्यने, तदपि नः तस्य वाक्यस्य वस्तुतत्वपरत्वात्, अर्थान्तरकल्पने वाक्यभेदाच्छ- निस्वरसाद्वेतुहेनुमन्भावाप्रतीतेश्च। नच-देहाद़ो तादात््यज्ञानस्य संसारहेतुत्वात्तव्वेदज्ञानं विमुक्ती कारणमिति- वाच्यम्; ब्रह्मात्माज्ञानस्यव संसारहेतुत्वेन श्रुती स्मृतो च श्रवणात्। तथाहि-'न तं विदाथ य इमा जजानान्यदयु- प्माकमन्तरं बभूव। नीहारेण प्रावृता जल्प्या चासुनृप उक्थशासश्चरन्ति''अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव' इनि च श्रुतिस्मृनी तत्र प्रमाणम्; मम देह इति दहभेदस्य भासमानत्वेऽपि संसारस्यानुभवसिद्धत्वाच्च। स्तम्भः पिशाचो न भव- नीतिवत्सर्वमहं न भवामीति भेदस्य ज्ञानसंभवेऽपि सर्वेपां संसारस्यानुभवसिद्धत्वाच्च। तस्मान्न भेदज्ञानस्य मुक्तिहेनुत्वे प्रमाणमस्ति। नच-'द्े ब्रह्मणी वेदितव्ये परं चापरमेव चे'ति श्रुतिर्मानम्; न तावदस्याः श्रुतेर्भेदः पदार्थो भेदवाचक- पदाभावात्, द्विवचनस्य भेदावाचकत्वात्। नापि वाक्यार्थः, पदार्थसंबन्धस्येव वाक्येन प्रतिपाद्यत्वात्। अथ- द्विन्वस्य भेदव्याप्तत्वात्तेन भेदानुमानमिति-चेन्न्ः 'तत्त्वमसि' 'अहं ब्रह्मास्मी'त्यभेदबोधकश्रुत्यानुमानस्य बाधितत्वात् प्रत्यक्षश्रुतिविरोधेन स्मृतिबाधवत्। बिम्बप्रततिबिम्बभेदेन द्वौ चन्द्राविनि तदवित्वस्योपपत्तेश्र न पारमार्थिकभेदानुमा- नम्। किंच 'दे ब्रह्मणी' इति श्रुतिर्न जीवपरयोरभेदे प्रमाणं, अथापर मित्यादिनाऽपरशब्देन ब्रह्मण एव श्रुत्या प्रतिपा- दनात्। ज्ञाते च ब्रह्मणि तेन परव्रह्मज्ञानस्य संभवात्तदुपयोगः । नतु तद्जेदज्ञानस्योपयोगः, आनुषङ्गिकमेदज्ञानस्य चाविद्यकतन्मानत्वेनाप्युपपत्तेः। तस्माच्छ्रुतेः पौर्वापर्याज्ञानविजम्भितमेतद्वाचालवचनमित्युपेक्षणीयमेव। नच-'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योऽअभिचाकशीती'ति श्रुति- भेदे प्रमाणम्। एतस्या अपि श्रुतेरापाततो भेदप्रतिपत्तावपि तज्ज्ञानस्य मुक्तिहेतुत्वाप्रतिपत्तेः । किंचात्रापि न पदार्थो भेदो न वा वाक्यार्थः । अनुपपत्या प्रतिपाद्यमानस्य च भेदस्याभेदश्रुतिविरोधेनाभासत्वात्। अवच्छिन्नानवच्छिन्न- भेदेन च व्यवस्थोपपत्तेरुक्तत्वात्। किंच 'अप्राप्ते शास्त्रमर्थव'दितिन्यायेन लोकसिद्धभेदानुवादेनाभेदे श्रुतेस्तात्पर्यम्; तंथैवोपक्रमोपसंहारयोः पर्यवसानात्। नह्येकस्य वाक्यस्यार्थो भवति, किं तहिं प्रघट्टकस्य। नापि 'सहस्रशीर्षे'त्यादि- वाक्यानां भेदप्रतिपादकत्वम् ; तन्नापि भेदस्याशन्दार्थत्वात्। आत्मभेदाप्रतिपादकत्वात्.देहभेदस्यैवापांततो भेदप्रति-
Page 587
४ अद्वैतरत्नरक्षणम्।
पत्तेः। तत्रापि न तदूपे तात्पर्यम्, किं तहि? उपासनायां। तस्याश्राभ्युदयसश्वशुद्धिद्वारकज्ञानोत्पत्तिफलत्वात्। नय- 'तद्विष्णोः परमं पद'मित्यादौ भेदप्रतीतिः; पष्ा भेदाप्रतिपादकत्वात् राहोः शिर इतिवदुपपत्तेश्व न भेदाविना- भावसिद्धिः। नच-'स्वर्गकामो यजेते'त्यादौ विधिवाक्यातकार्यकारणभावः प्रतीयते, सच भेदमन्तरेणानुपपभ्जस्तं कल्पयतीति-साम्प्रतम्; भेदमात्रकल्पनेऽपि तस्य पारमार्थिकत्वांशस्याकल्पनात्, तावतैव प्रवृश्युपपत्तेः, अभेदश्रुति- विरोधेन तथा कल्पयितुमशक्यत्वात्। 'अतोऽन्यदार्तमि'ति च ब्रह्मातिरिक्तस्य सर्वस्य पारमार्थिकत्वनिषेधात्। पतेन-मैश्रेयीयाज्ञवल्क्यप्रशनोत्तररूपोपनिषत्वृत्तिरपि भेढे प्रमाणम्। नह्यभेंदे प्रक्षो न वा प्रष्टप्रष्टव्यभाव उपपद्यते, तयोभेदव्याप्तत्वादिति। तथा श्रोतव्यादिप्रतिपत्तीनां विधानादपि भेदोऽ्भ्युपेतव्यः। अन्यथकामेव प्रनिपत्ति विदध्यात् इति-परास्तम्; अविद्यादशायां कल्पितभेदमाश्रित्य प्रश्नाधयुपपत्तेः, जाते तु तत्वे प्रश्नाध्यभावस्येष्टत्वात्। एवं प्रतिपत्तिभेदोऽपि। किंच प्रश्नादिवाक्यानामात्मतत्वे तात्पर्यं, त्थवोपक्रमान्न प्रभादिरूपे; तत्प्रतिपादनेन प्रयोजमाभा- घात्। यत्पर: शब्दः स एव शब्दार्थ इति हि न्यायविदः, एवं श्रवणादीनामिष्टसाधनत्वं शब्दं नतु तेषां परस्पर- भेदोऽपि; तत्प्रतिपाढने प्रयोजनाभावात्। आत्मज्ञानसंबद्ध हि प्रयोजनं श्रूयते, नतु तन्भेदज्ञानसंबद्धमित्यावेदितं पुरस्तात्। तस्मादशाब्दे निप्प्रयोजने श्रुतेस्तात्पर्यवर्णनमर्थापत्तिवर्णनं च देवानांप्रियस्य परं शोभते न शाबदन्याय- मर्यादाभिज्ञस्येति। तस्मादस्थूलादिवाक्यस्यान्योन्याभवभेदार्थकत्ववर्णनमयुक्तमेव। भेदज्ञानस्य मुक्तिहेतुत्वे प्रमा- णाभावात्। ननु-अत्यन्ताभावबोधनेऽपि वधर्म्यरूपो भेदः प्रतिपादितो भवति। यथा घटात्यन्ताभावः पट इनि। तथाचान्योन्याभावोऽप्यार्थिकः प्रतिपादितो भवति। वैधर्म्यप्रतिपादनस्य तदेकफलत्वात्। तथाच घट्टकुव्यां प्रभाता- यितमिनि-चेन्नः सर्वेषां पदार्थानां ब्रह्मण्युपादानकारणे प्रतिपन्ञानामत्यन्ताभावबोधने द्विनीयस्यासरवे वधम्यप्रति पत्तेर्वक्तुमशक्यत्वात्। अतएव च न प्रतीतिरपि; द्वितीयस्य भेदप्रतियोगिनोऽभावात। ननु-अस्थूलमिनि स्थूलत्वा- दीनामेव प्रतिपेध: स्थूलादिशब्दानां स्थूलत्वादिपरत्वात्, तथाच धर्मिणां सत्वाद्वधर्म्यान्योन्याभावयोः सत्त्वाविरोध इति-चेन्न्न; अघटं भूतलं नीरूपो वायुरित्यादौ तथा व्युत्पत्यभावात्, धर्मपरत्वे लक्षणापत्तेः, धर्मिनिपेधे बाधका- भावाञ्च। नच-मनआदीनां नित्यत्वेन विद्यमानत्वात् कथमेवं स्यादिति-वाच्यम्; 'यावद्विकारं तु विभाग' इनि न्यायेन ब्रह्मातिरिक्तस्य कार्यत्वाभ्युपगमात्, 'एतस्माज्ायते प्राणो मनः सर्वेन्द्रियाणि च''तस्माद्वा एतस्मा- दात्मन आकाशः संभूत' इत्यादिश्रुत्या मनःप्रभृतीनां सृष्टिप्रतिपादनाच्च। नच-नित्यानां ज्ञप्तिरितरेपामुत्पत्ति- रिति-व्याख्येयम्; श्रुतिविरोधेनेतरेपां नित्यस्यवाप्तिसिद्धेः, वैरूप्यप्रसङ्गाच्च। ननु-अभेदज्ञानस्यापि मुक्तिहेतुत्वे न प्रमाणं पश्यामः । तदिदमान्ध्यं भवतो यतः 'तत्वरमसि' 'अयमात्मा ब्रह्म' 'क्षेत्रज्ञं चापि मां विद्धि' इत्यादिश्रुति- स्मृतिवादा जीवपरयोर्भेंदं प्रतिपाद्यन्ति। नचात्र संबोध्यत्वान्वेदावगमः। आपाततः प्रतिपादकादात्मनो भेदावग- मेऽपि तत्पदार्थनेश्वरेण सह संबोध्यस्य जीवस्य भेदानवगमात्, प्रत्युताभेद एव प्रतीयते; सामानाधिकरण्यस्वारस्यान् स एवायं देवदत्त इतिवत्। अन्यथा भेदमात्रोच्छेदः स्यात्। प्रतिपादकादात्मनोऽपि भेदो न शाब्दः, किंत्वार्थः । सचाकाशस्येव घटकरकादयुपाधिनान्त:करणाद्युपाधिनाप्युपपत्तेः। द्वितीयवाक्ये गीतावाक्ये च भेदगन्धोपि न प्रतीयते। तथा सर्वाभेदप्रतिपादिका श्रुतिः 'सलिल एको द्रष्टाऽद्वूँतो भवती'ति। सलिल इव सलिलः स्वच्छ इत्यर्थः । आर्पो लिङ्गव्यत्ययः । एक: सजातीयभेदशून्यः अद्वतो विजातीयभेदशून्यः द्रष्टा स्टप्रकाशचिद्रपो भवतीति सिद्धवन्नि- देशात्। सर्वदैवंरूपता तस्य विद्यत इति ज्ञापयति, तेन रूपान्तरं मायिकमिति ध्वन्यते॥
कश्चित्वत्र उपक्रमोपसंहारश्रुतिपाठाद्यनभिज्ञो ब्रह्मद्वेषसमुद्भृतमहापातको वेदान्तसंप्रदायानभिज्ञो भगवद्वेदव्यास- मतद्वेपी 'स किल एको द्रष्टे'ति पाठं कल्पयित्वाऽन्येऽपि द्रष्टारः क्षेत्रज्ञा भेदवन्तः सन्तीत्यर्थस्य किलेत्यनेन ध्वननादिति श्रुत्यर्थ कल्पयित्वपापि श्रुतिर्भेदपरवेति व्याख्यातवान्, सच श्रुत्यन्यथाकरणाद्विलवर्तिगोधाविभजनन्यायमनुहरन् बौद्धवदुपेक्षणीयः सद्विरिति। किंच किमिदं ध्वननं न तावद्यअ्ञनम्; आलंकारिकाणामिव वृत्त्यन्तरस्यानभ्युपगमात्। नाप्यनुमानम्; किलशव्दस्य नित्यभैदेन व्याध्यभावात्। निश्चयादावेव किलशब्दस्य कोशादी प्रयोगात्। तथा 'नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये'दिति श्रुनिव्रह्मभिन्नत्वेन द्वितीयाभावं दर्शयति। नच-तब्रह्म द्वितीयं नाम्नीति धर्म्युपरागण निषेधः तथापि द्वितीयमात्रस्याभावप्रतीतेब्रेहा्द्वतसिद्धिः, किंच कथं तस्यामवस्थायां न पश्यतीति मैत्रेय्या पृष्टे ज्ञानाभावान्न पश्यतीति न, किं त्हि? द्वितीयस्यैव विभक्तस्याभावास् पश्यतीति हेतुं वदन्तीति श्रुतिर्द्वितीयमात्राभावमेव तात्पर्यतः प्रतिपाठ्यति, यतो वदति, 'पश्यन्वैतम्न पश्यती'ति, तस्मात्सकलद्वैताभावे ज्ञप्ति- मात्रे चात्मनि श्रुतेस्तत्र तात्पर्यमवगम्यते, तद्विरुद्धकल्पने बौद्धवदुपेक्षणीयत्वमेव तार्किकंमन्यस्य।।
तथा 'एकमेवाद्वितीयमि'नि श्रुतिरप्यत्र प्रमाणम्। अत्रच एकमिति सजातीयाभावः प्रतीयते, घट एकोस्तीत्युक्कते यथा घटान्तराभावप्रनीतिस्तद्वत्।.अद्वितीयमिति न विद्यते द्वितीयं यस्येति विजातीयाभावः प्रतीयते, अन्यथा तदुपादान-
Page 588
श्रीमधुसूदनसरस्वतीप्रणी तम्।
वैयर्थ्यापरेः। यथ्प्येतावतैव सर्वप्रपञ्चरहितं वस्तु प्रतिपादितं भवति; तथाप्येकत्वादिसंख्याया धर्मधर्मिभावः प्रकृतिवस् (!) स्वगतभेदो वा भवेत् इति कस्यचिन्मन्दमतेराशङ्का स्यात्तसविरासार्थमेवेति। अद्वतदार्व्यार्थ केनापि प्रका- रेण भेदगन्धो नास्तीति सर्वथैकरसं वस्तु, नात्र शङ्कातुपोऽप्यस्तीति। किंच 'नेह नानास्ति किंचने'ति श्रुत्यन्तरेण सर्वस्य जगतोऽविशेषेण निषेधः प्रतीथते। ननु-इह मण्डले एकएव नरपतिरद्वितीयः यथा वा इह कानने किंशुकतरुरेक एवेत्यभिधाने राजगतनानात्वव्यतिरेकः प्रतीयते नतु हस्त्यश्वादीनामप्यभावः न वा वृक्षान्तरस्याभावः । तथेहापि किं न स्यादिनि-चेत्, न; तत्र हि राजकिंशुकयोः स्तुतौ तात्पर्य नतु वस्त्वन्तराभावे; तत्प्रतिपादने प्रयोजना- भावात्, समकक्षप्रमाणान्तरबाधकसत्वाच्च। सकलद्वताभावप्रनिपादने पुनः परमपुरुपार्थः श्रूयते। 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं शणोति' इत्यविद्यावस्थायां द्वैतदर्शनमनृद 'यत्र त्वस्य सर्वमात्मैवाभूत्त- स्केन कं विजानीयात्' 'तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुपमुपति दिव्य'मित्यादिश्ुनिवादेभ्यः। नच-तात्प- यज्ञानं हेसुरिति, किं तहि ? स्वसामर्थ्यवशात् पदेः पदार्थप्रतिपादनद्वारा आकाङ्गादिकमासाद्य वाक्यार्थे प्रतिपादिते वस्तुगत्या एकस्मिन्नेव तस्मिन् पुरुपदोपान्नानात्वेन प्रतिपन्ने विचारेण तात्पर्ये निर्णीते एकोर्थः सत्य इत्यवधार्यते पुरुषदोषकृतासवपरे इति निश्चीयते। अन्यथा मीमांसावयर्थ्यापत्तेः । तस्मादुपक्रमादिनाऽद्वितीये ब्रह्मणि तात्पयें- Sवगतेऽ्थान्तरप्रप्ीनिर्भ्रान्तिरिति कल्प्यते। नच-प्रपज्जग्राहकमानेन बाधात्कथं तत्र तात्पर्यकल्पनं युक्तिमदिति- वाच्यम्; भिन्नविपयत्वात। तथाहि-प्रत्यक्षादिकं हि प्रपञ्चस्य सत्तामात्रं गृह्णाति, न तत्र तस्याः कालत्रयाबाध्यत्व- मपि, तत्र तस्यासामर्थ्यात्, श्रुतिस्तु कालत्रयेऽस्याबाधो नास्तीति बोधयति। तावता मिथ्यात्वे पर्यवसानं भवतीत्या- देर्वक्ष्यमाणत्वात्। तथा 'न तदभाति किंचन न तद्श्नोति कश्चनेति श्रुतिरप्यभेंद प्रमाणम्। तथाहि तद्रह्म न किंचन व्याप्नोति, एतावता ब्रह्मसंबन्धो जगति निपिध्यते, तद्रह्म न कश्चन व्यामनोनि, एतावता जगत्संबन्धो ब्रह्मणि निपिध्यते; ब्रह्मणोऽसङ्गाद्वितीयचिन्मात्रस्य परमार्थसत्यत्वात्प्रपञ्चस्य च मायाकल्पितत्वेन स्वप्रवदनृतत्वात् सत्यानृतयोर्वास्तवसं- बन्धायोगात्। तदुकं वार्तिककृद्भ्िः-'निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा। आत्मनोऽनात्मना योगो वास्तवो नोपपद्यत' इनि। तथाच सर्वानृतसंवन्धशून्यं सर्वभ्रमाधिष्टानं सर्वबाधावधिभूतं परमार्थसत्यमेकरसं ब्रह्मेति प्रतिपा- दितं भ्वत। आरोप्याधिष्ठानयोश्च संबन्धाभावो भाप्यकारः प्रतिपादितः-"तत्रैवं सति यत्र यदध्यस्तं तत्कृतेन दोपेण गुणेन वाणुमात्रेणापि न संबध्यत" इति। विवृतं चैतत्संक्षेपशारीरककारैः-'नहि भूमिरूपरवती मृग- तृद् जलवाहिनीं सरितमुद्वहनि। मृगवारिपूरपरिवारवती न नदी तथोपरभुवं स्पृशनी'ति। यन्तु तार्किकंमन्येन ज- ल्पितं-तङ्गह्म किंचनात्मानं नाक्षोति न व्यामोनि नवा कश्चिदात्मा तद्रह्म व्याप्तोति, केनाप्यात्मना क्षत्रज्ञेन नेतत्संबध्यते; विभुनो: संयोगिनोरन्यतरकर्मोभयकर्मावयवसंयोगानुपपत्ती संयोगाभावान-इति, तन्नः सवाध्यायाध्ययनविध्यापा- दितप्रयोजनवदर्थपरत्वेन वेदेन निष्पयोजनार्थानुवाढायोगात्। नहि विभुनो: संयोगाभावानुवाद किंचित्पयोजनमस्ति, अद्वितीयब्रह्मप्रतिपादने च निःश्रेयसं प्रयोजनम् । किंच विभुनोरप्यजसंयोगाभ्युपगमात्कथं तदभावानुवादः ? नथाहि-मह्लयोरुभयकर्मजसंयोगदर्शनेऽपि यथा स्थाणुश्येनयोरेकतरकर्मजोऽपि संयोगोऽभ्युपेयते एवं श्येनचरण- स्थाणुमंयोगाच्छयेनस्थाणुसंयोगः कर्मजन्य इव संयोगजोऽभ्युपगम्यते, तथतत्सर्वाजन्योऽपि विभुनोः संयोगो नित्य एव किं नाभ्युपेयते ? तथाच प्रयोग :- आत्मा आकाशसंयोगी, ईश्वरसंयोगी वा, घटसंयोगित्वात्, पटवदिति। नच-दिक्कालयोर्व्यभिचारः पक्षसमत्वात्, विपक्षे च सर्वसंयोगित्वलक्षणविभुत्वभङ्गलक्षण एव बाधकस्तर्कः । नच- यावन्मूर्नसंयोगित्वमेव विभुत्वं, न यावद्रव्यसंयोगित्वमिति-वाच्यम्; मूर्तत्वं हि क्रियावद्रव्यत्वं परिच्छिन्नपरिमाण- वद्रव्यत्वं वा, उभयथापि तदपेक्षया द्रव्यत्वस्य लघुत्वात्। क्रियासमवायिकारणतावच्छेदकतया मूतत्वजानिकल्पनं स्पर्शादिसमवायिकारणतावच्छेदकजात्यप्रसङ्गादिना निरसनीयम्। तथाच विभुनोः संयोगाभावे विभुत्वभङ्गो भवति बाधकः। एवंच लाघवमपि सर्वप्रमाणानुग्राहकम्। नच-एवं विभुनोरजविभागोपि सिध्येत्, आत्मा आकाशाद्विभक्त: घटाद्विभक्तत्वात् पटवढ़िति प्रयोगसंभवादिति-वाच्यम्; संयोगानभ्युपगमे विभुत्वभङ्गवद्विभागाभावे बाधकाभवे- नाम्रयोजकत्वात्। यदिच लाघवादाकाशविभक्तत्वं द्रव्यमात्रवृत्तीत्यजविभाग: सिध्येत्, सिध्यतु न नो हानिः । नच-यन्निरूपितो यदा यत्र संयोगस्तन्निरूपित एव तदा तत्र विभाग इति विरुद्धद्वयं कथमेकत्र भवेदिति-वाच्यम्; प्रमाणसिन्धे विरोधस्यैवासिद्धेः। अनित्ययोरेव तयोर्विरोधस्तन्न प्रमाणभावात्, तन्नित्यत्वस्य ज्ञाननित्यत्ववदुपपत्तेः; विरोधेऽपि वा विभागस्यैव परित्यागोऽस्तु तावतापि विरोधशान्तेः। तस्माद्विभुनोः संयोगनिषेधोऽशुद्ध एवेति यथा- वस्थित एव श्रुत्यर्थः ॥
एवं 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति श्रुतिरपि भेदनिन्दयाSभेदमेव द्रढयति। तथाहि- वस्तुगत्या नाना नास्त्येव, तथापि, नाना पश्यति यः स तस्मात् पुनःपुनः संसारमापदत इति जानादर्शनस्य संसार-
Page 589
६ अद्वैतरत्नरक्षणम् ।
हेतुत्वेऽर्थादेकत्वदर्शनस्य मोक्षहेतुत्वमायाति इवशब्दस्तु वस्तुगत्या दर्शनस्यापि नानात्वं निवारयति, तदप्यविद्या- दशायां विद्यमानमित्यर्थः ॥ तथा 'एकएव हि भूनात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति श्रुतिरप्यात्माभेदे प्रमाणम्। तथाहि-देवतिर्यआानुप्यादिदेहेषु किमेक आत्मा उतानेक इति संदेहे एकएवेति श्रुतिनिर्णयति। 'एकधा विद्यमानेपु नानादेहेषु भूतः पारमार्थिक एक एवात्मा, आत्मनो भूतत्वप्रतिपादनेनार्थादन्येपां मिथ्यात्वमुक्तं भवति। तथाचकधा नानादेहभेदेन अ्रमप्राप्तात्मनानात्वनिषेधेनाज्ञातज्ञापकं श्रुतेनिर्वहति। ननु-यद्येक एवात्मा, कथं तहिं सुग्वित्वदुःग्वित्वबन्धमोक्षादिव्यवस्था सेत्स्यति ? तस्या आत्मभेदसाध्यत्वादिति-चेन्न्न; अज्ञानभेदात्तजन्यान्तः- करणोपाधिभेदाद्वोपपत्तेरित्याह श्रुतिः 'एकधा बहुधा चैव दृश्यते' इति। तत्रैव योग्यं दृष्टान्तमाह-जलचन्द्रवदिति। यथा दिविष्टे चन्द्रे विद्यमाने एकस्मिस्तत्तजलशरावोपाधिभेदेन बहवो जलचन्द्रा उपलभ्यन्ते उपाधिदोपवशाद्धान्त्या, तथा एकस्मिन्नद्वितीये ब्रह्मणि विद्यमाने तत्तदन्तःकरणोपाधिपु बहवः प्रतिबिम्बकल्पा जीवाः प्रतीयन्ते आ्रान्त्या। तत्र च बिम्तभूत ईश्वरः प्रतिबिम्बभूता जीवाः। यथाचकस्मिन् जलचन्द्रे कम्पमाने न सर्वे कम्पन्ते तथैकस्मिजीवे सुग्नि दुःखिनि वा न सर्वे तथा भवन्ति। यथाचैकोपाधिनिवृत्तो न सर्वेषां जलचन्द्राणां बिम्बेकता भवति, किंतु यस्योपाधिर्निवृत्तम्तस्यैव, तथा ज्ञानध्यानादिना यस्योत्पन्नस्तत्त्वसाक्षातकारः स एव ब्रह्मैकतां याति नान्य इनि बन्ध- मुक्तिव्यवस्था सुकरव। एवं जीवेश्वरव्यवस्थापि। उपाधिस्तु बह्हज्ञानवादिमते बहून्येवाज्ञानानि, तत्रकैकाज्ञानहानिरे- कैकज्ञानोत्पत्या, एकाज्ञानपक्षे नु तस्यैवावस्थाभेदो वा शक्तिभेदो वा तत्तदन्त:करणोपादानभूतस्तत्तज्ज्ञानेन निवर्त्यने, अपरत्र बन्धानुवृत्तिरिनि व्यावहारिकीं दृष्टिमवष्टभ्य कथ्यते, वस्तुगत्या बन्धमोक्षाभवस्त्विष्ट एव ।। ननु-एकात्मपक्षे सर्वशरीरेपु सुखदुःखाद्यनुसंधानप्रसङ्गः। नच-यथातीतानेकदेहेपु भोगानुसंधानाभावस्तथा विद्यमानेष्वपि देहान्तरेपु न स्यादिति-वाच्यम्; जन्मान्तरव्यवधानस्य दोषत्वात्। नच-अविद्यावशान्न सर्वदेहे्व- नुमंधानमिति-युक्तिमत; स्वदेहेऽप्यनुसंधानाभावापत्तः। नचानुसंधानमिष्टमेव; तथासति देवदत्तचरणलझ्नकण्टको- द्वारं प्रति यज्ञदत्तस्य प्रवृत्यापत्तेः । किंच यथा बाल्यादिभेदेन देहभेदेऽप्यनुसंधानमम्ति, तस्यैव भोक्तुर्याऽहं बाल्य- स्थितः सोहमिदानीं युवेति, यथावा-जीवन्मुक्तस्य भोगार्थ कायव्यूहं कृतवतो बहुदेहेपु विद्यमानेष्वप्यनुसंधानमम्ति, तथेहापि स्यादेवेति-चेत्, न; एकात्मवादासिद्ौ सर्वस्यास्य विचारस्याध्रयासिद्धेः। सिद्धो च धर्मिग्राहकप्रमाण- बाधादेव। तथापि सुहृद्धावेन पृच्छतः किमुत्तरमिनि-चत्, शृणु वत्स, अदृष्टविशेपसहकृतस्याज्ञानस्यव तत्सामर्थ्य यत्क्चिद्देहे कस्यचिन्वोगानुमंधानं क्वचिन्न; फलबलेन तथव कल्पनात्। तदुक्ं भगवता-'अज्ञानेनावृतं ज्ञानं नेन मुह्यन्ति जन्तवः 'ज्ञानेन नु तदज्ञानं येपां नाशितमात्मनः । तेपामाढित्यवज्ज्ञानं प्रकाशयति तत्परमि'नि। जीवन्मुक्तस्य च तत्वज्ञानादेवानुमंधानं नेतरस्य तदभावादिनि सर्व सुस्थम्। एतेनेदं कस्यचिद्याख्यानं पराम्नं वेदि- तव्यम्। तथाहि-जन्ममरणप्रबन्धेन वाल्यकौमारादिभेदेन वा भिन्नेपु शरीरेपु एकएव भूतः सत्य आत्मा क्षत्रज्ञो व्यवस्थितो नतु दंवदन्तशर्गरभेदवज्न्ममरणप्रबन्धेन शर्रारभेदेडप्यात्मभेद इति, यथा एकधा एकप्रकारो जलचन्द्रो बहुधा बहुप्रकारो दृश्यते तरङप्रसङ्गेन तथा तरङ्गवदतिचपलजन्ममरणप्रबन्धलिन्नशरीरावच्छिन्न एक एवात्मा बहुप्र- कारो दृश्यते। तथाहि-क्वापि जन्मनि राजाहं क्वापि स्थूलोऽहमित्येकमेवात्मानं अविद्यया शरीरे समारोप्य प्रकारवं- चित्र्येणावेदयनानि; भृने भूते व्यवस्थित इति वीप्सया देहमात्रस्य प्रतीतेः, देहविशेपपरत्वे संकोचापत्तेः। किंच यथा विद्यमानेप्वेकदा बहुपृपाधिप्वेक एव चन्द्रः प्रनीयते तथा विद्यमानेष्वेकदा सर्वद्हप्वेक एवात्मा प्रतीयत इत्यस्यैवा- थैस्य दृष्टान्तबलेन प्रतीतेः । किंच बाल्ययोवनभेदेनात्मभेदो न लोकसिद्धोन वा तब्रसिद्धः, प्रत्युत 'योऽहं बाल्ये पितरावन्वभूवं स एव स्थाविरे प्रणमृननुभवामी'त्यभेद एवानुभवसिद्धः। तथाच तत्र भेदप्रसत्तयभावान्निपेोऽनुपपन्र एव। विद्यमानदेहान्तरे पुनर्लोकसिद्धात्मभेदप्रािषेधार्थ वचनमर्थवद्भवति; शास्त्रस्याज्ञातज्ञापकत्वनियमात्। नच जन्मान्तरे आत्मभेदाशङ्का संभवन; वीतरागजन्मादर्शनन्यायेनेव तस्या असंभवात्। किंच 'अव्युच्छिन्नश्चिदात्मेकः पुमानस्नीह नेतरत्। स संकल्पवशाद्वद्वो निःसंकल्पः स मुच्यत' इति वाक्येनास्मदुक्तव्याख्यानस्यैव स्वहस्तितत्वात्। 'यदा सर्वेपु देहेपु पुमानेको व्यवस्थित' इति विष्णुपुराणे पराशरोऽप्युक्तमेवार्थ द्रढयतिस्म। तस्माच्छुतिस्मृतिपुरा- णानभिन्ञव्याख्यानमुपेक्ष्यमेव सद्भिः ॥ किंच जीवब्रह्मणोरभेढ़े सर्वत्र श्रुतेस्तात्पर्यआ्रहकाणि लिङ्गानि दृश्यन्ते। तथाचोक्त्तम्-'उपक्रमोपसंहारावभ्यासो 5पूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिणय' इति। तथाहि-'सदेव सौम्येदमग्र आसीदेकमेवाद्विनीय'- मित्युपक्रमः । 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा त्त्वमसी' त्युपसंहारः। तथैतदात्म्यमित्यादिनवकृत्वोऽभ्यस्यते, प्रमाणान्तरानधिगतमद्वितीयब्रह्मात्मतत्वं प्रतिपादयते। 'आचार्यवान्पुरुपो वेद' 'तस्य तावदव चिरं यावन विमोक्ष्य'
Page 590
श्रीमधुसूदनसरस्वतीप्रणीतम् । ७
इति च निरतिशयपुरुषार्थावातिर्बह्मज्ञानफलमवगम्यते। 'अनेन जीधेनात्मनानुप्रविश्य' 'येनाशुतं श्रुत'मित्यादि ब्रह्मण्यर्थवादश्चोपादीयते। मृल्लोहतप्रपरशुग्रहणद्ष्टान्तैः स्वपितिनामनिर्वचनेन सृष्टिस्थितिसंहारेश्र ब्रह्मात्मैकत्वमुपपा- दयत इति छान्दोग्ये। तथा तैत्तिरीयके 'सत्यं ज्ञानमनन्तं ब्रह्म' 'स यश्चायं पुरुप यश्चासावादित्ये स एक' इत्युपक्र- मोपसंहारयोः प्रत्यगद्वितीयं ब्रह्मावगम्यते। तथा 'सच्च त्यच्चाभवद्यदिदं किंच' 'तदात्मानं स्वयमकुरुत' 'यतो वाचो निवतन्त' इति च प्रत्यगद्वितीयं ब्रह्माभ्यस्यते। प्रमाणान्तरेणानधिगतं च तत्प्रतिपादते। 'सर्वान् कामान् समक्षुत' इत्यादि च फलं ब्रह्मज्ञानेऽवकल्पते। सृष्टिश्रुतयश्चाद्वितीयव्रह्मप्रतिपत्त्यर्थवादभूता दृश्यन्ते। तथा कोशोपन्यासमुख्न प्राणादिव्यापारलिङ्गैश्र ब्रह्मात्मकत्वमुपपाद्यत इति। एवं सर्वेपु वेदान्तेपु ब्रह्मात्मैकत्वप्रमिना तात्पर्यलिङ्गानि द्ृष्ट- व्यानि। एवं तात्पर्येण समन्वयाद्गह्लैव वेदान्तप्रमेयमित्येवं वैयासिके मते गङ्गाजलवत्प्राख्जले निर्दुष्टे श्रुतिस्मृति- पुराणन्यायादिसंमते येपां चित्तं न सतृष्ण दोपदर् च ते सततं शोचनीयाः ॥ इति अद्वैतरत्नरक्षणे श्रुतीनां भेदपरत्वभङ्ग: ॥ ३॥ अथ सवबुद्धिभेदविपयत्वभङ्ग: ॥।४।। ननु-तथापि नाद्वैतश्रुतेः प्रामाण्यं निर्वहति भेदप्रमापकप्रत्यक्षादिविरोधादिति-चेत्, अत्र ब्रूमः-'न सा धीः क्वचिदप्यम्ति यत्र भेदोऽवभासते । अतएव प्रमाणत्वमट्नेऽव्याहतं श्रुनेः'॥ तथाहि-न तावत् सविकल्पबुद्धेभेदग्राहकत्वम्। सा हि घटोयं पटोयमित्याकारा जायने, तदाकारा च बुद्धिस्तदेव साधर्यान नाधिकम्। अस्यांच घटघटत्वयोवैंशिष्यं भासते, तत्र च न वटो भेदः, नापि घटत्वं, नापि वैशिष्टयं तच्छ-
रूपतव वाच्या। तथाच वशिष्वविपयकज्ञानानां सिद्धा भेदविपयता। तथाचाहुराचार्या गुणकिरणावल्यां 'अत- व्यावृत्तिवशिस्व' मिति। निर्विकल्पान्तरभाविनो घटोऽयमिति सविकल्पस्यातद्यावृत्तिरज्ञाता कथं विपय इति-चेत्, वैशिश्यविषयत्वान्यथानुपपत्या संज्ञास्मरणस्येव निर्विकल्पकसमनन्तरकालीनस्य प्रत्ययस्यातद्यावृत्तिविपयत्वकल्पनात्। सर्वतोह्मन्यथानुपपत्तिर्बलीयसी। एवं सत्यन्यापोहः पदार्थः स्यात्तथाच जितमवैदिकरिति-चेन, न; गोत्वादिनां पदादनुपस्थितो वशिष्वमप कस्व भासते? येनान्यापोहभाननैयत्यं स्यात्। तथाच बंद्धपक्षादयमेव भेदायत्तरन्यापोह एव पदार्थावच्छेदको धर्मोऽङ्गीक्रियतेऽस्मदादिभिस्तु गोत्वादिरिति ॥ तदिदमतिस्थवीयः-तथाहि वैशिष्वाग्यं तावत्पदार्थान्तरं मतान्तरानुसारिभिरङ्गीकृतं तदवाग्र भासते, नच-तस्यामंभवः; प्रनीतिबलन विशेषणविशेष्यतत्संबन्धातिरिक्तस्य तत्संभवान, अन्यथा दण्डपुरुपसंबन्धा इत्य- तरापि विशिष्टव्यवहारापत्तेः । नच पदार्थान्तरस्वीकारे गौरवम्; प्रमाणवतो गौरवस्यापि न्याय्यत्वात्। अन्यथा समवायाद्युष्छेदापत्तेः । नच-दण्डिनमानयेत्युक्त पदार्थान्तरस्यैवानयनं स्यान्न दण्ड्यादेरिनि-युक्तिमत; पटानयने तन्त्वाद्यनियमबदुपपत्तेः । किंच तार्किकमतेऽपि नातद्यावृत्तिवैंशिष्चम्। नीलमुत्पलमित्यादावनीलानुल्ेखे तव्ावृत्त्य- नुलेखात्। नच-वशिष्वप्रतीत्यनुपपर्या मध्येऽनीलस्मृतिः कल्प्यत इनि-वाच्यम्; प्राथमिकनीलादिविशिष्टवुद्धेस्त- थाप्यनुपपत्तेः, अनीलानुभवस्य तस्मिन् जन्मन्यसंभवात्, जन्मान्तरीयकल्पने च कल्पनागोरवम्। किंचानीलं नाम नीलाव्यावृत्तं वा रूपान्तरं वा। नाद्यः; अन्योन्याश्रयापत्तेः, अनीलव्यावृ्त्या नीलप्रतीतो नीलप्रतीत्याऽनीलव्यावृत्तः । न द्वितीयः; नीलप्रतीतेरपि तर्थवोपपत्तिः; अत्रापि व्यावृत्तिभाने मानाभावात्। किंच गौरित्येव प्रतीयते नत्वसाव- गोव्यावृत्त इति; अगोरप्रतीतौ गोः प्रतीत्यनुपपत्तेः, अनुभवविरोधश्च, गोत्ववैशिष्ट्यं हि भावरूपमनुभूयते नत्वभाव- रूपम्। अगोव्यावृत्तिरेव तथा प्रतीयत इति चेत्, अहो व्याख्याकौशलमायुष्मतो यदनुभवोपि व्याख्याय प्रदर्श्यते- यदिचागोव्यावृत्तिरेव भासते विशिष्टवुद्धी, तदा तयैवोपपत्ती अतिरिक्त्तसामान्यकल्पने मानाभावे बाह्यपक्षः स्वहस्तितः, स्यात्। नच-गोत्वाद्यस्वीकारे वैधर्म्याभावे व्यावृत्तिबुद्धिः कथं स्यादिति-वाच्यम्; तद्भावेऽपि व्यक्तिस्वरूपस्यैव विलक्षणत्वेन तदुपपत्तेः । अन्यथा तदपि वैध्म्य कस्य स्यादिति प्रश्ने धर्मान्तरस्वीकारेऽनवस्थापत्तेः । तस्मातथमतो व्यावृत्तिभानस्वीकारेऽन्य।पोहः पतत्येवेति निश्चितम् । नच-वैशिष्टयस्यान्यस्य वक्तमशक्यत्वात् सर्वतो बलवती हयन्यथानुपपत्तिरिति न्यायात् अन्यस्मरणमिति-युक्तिमत्; यत्र यस्य यः संबन्धः स एव तत्र तस्य वैशिष्मिति वक्तं शक्यत्वेनार्थापत्तेः शान्तेः। तथाचोक्तं मणिकृता-दण्डी पुरुष इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरनु- भूयत इति, अन्यथा विशिष्टबुद्धेरेव व्यावृत्तिविषयत्वे तदनन्तरमिति नावक्ष्यत्। आचार्यवचनं त्वस्मान्प्रति नाप्तवाक्य- विधया प्रमाणं किंतु युक्त्युत्थापकत्वेन, युक्तिश्च सर्वा निराकृता, विशिष्टबुद्धत्तरकालाभिप्रायेण वा जञिया। सर्वथाि सर्वा विशिष्टबुद्धिर्भेदविपयेति बालभाषितमेव। यदपि गोत्वादीनां पदादनुपस्थितावित्यादि, तदप न; प्रत्यक्षानुभवस्य
Page 591
८ अद्वैतरत्नरक्षणम् ।
विचार्यमाणत्वात्तदनन्तरं शब्दस्य प्रवृत्तेः। अन्यापोहस्यैव च पदार्थत्वावच्छेदकत्वोपपत्तौ गोत्वादुच्छेदापतेः। तथाच नायमपि विशेषो नैयायिकबौद्धयोः । इति अद्वैतरत्नरक्षणे सर्वबुद्धि भेदविषयत्वभङ्ग:॥
अन्योन्याभावत्वनिर्वचनभङ्ग: ॥५॥ अथ-अस्तु विशेषणविशिष्टविशेष्यबुद्धनन्तरं भेदबुद्धिः वैधम्यंज्ञानस्य भेदबुद्धिहेतुत्वादिति-चेन्न; प्रतिज्ञाहा- न्यापत्तेः। सर्वा बुद्धिः भेदं गृह्णातीत्येव हि प्रतिज्ञानमायुप्मतः । किंच यतो यत्र भेदो गृह्यते तयोभिन्नत्वेन प्रतीति- रस्ति नवा, अस्ति चेत्तेनैव भेदेन भेदान्तरेण वा, तेनैव चेत्तत्प्रतीतौ तत्प्रतीतिरित्यात्माश्रयापत्तेः। अन्येन चेतत्रापि पूर्वन्यायेन भेदान्तरापत्तावनवस्थापत्तेः। तदङ्गीकारेऽपि च प्रतीतिपराहतिः । नह्यनन्ता भेदमाला कस्याप्यनुभवपद्धति- मध्यास्ते किभेदविशिष्टे किंभेदवृत्तिरित्यव्यवस्थापत्तेश्च। न द्वितीयः; स्वस्मादपि स्वभेदग्रहापत्तेः । अथ-स्वस्मात् स्वभेदाभावात्तङ्गहः कथं स्यात् ? तत्प्रतीती तस्य हेतुत्वादित्यसिद्धेः, प्रत्यक्षस्यैव विचार्यमाणत्वात्। यथा स्वस्मात् स्वभेदो नास्ति तथान्यस्मादपि नास्तीत्यस्मन्मतम्। तथापि वस्तुगतिस्तादृशीति-चेन्न; क्वापि प्रमित्यसंभवे वस्तुगति- रित्येवासिद्धे, प्रत्यक्षज्ञाने विषयस्याजनकत्वाच्च, स्वप्ादिविषयवद्यत्र यदस्ति तत्रेव तद्रह इत्यस्य नियम्यासंभवाच्च अभिन्नेऽपि भेदप्रत्ययदर्शनात्। तयोरभिन्नत्वेन प्रतिपत्ती भेदबुद्धिस्तु दूरापास्तैव। भेदाभेदोदासीनतृतीय प्रकाराभावाञ्च न तृतीयप्रकारेणोपस्थिता भेदग्रह इति सुवचम्। अथ-प्रतियोगितावच्छेदकप्रकारेण तज्ज्ञानं नाधिकमपेक्षत इति-चेन्नन; अभावाअ्रहे प्रतियोगित्वस्य ज्ञानुमशक्यत्वात्, अभावविरह्ात्मत्वस्य स्वभावविशेषस्य च तङ्गहणाधीन- ग्रहणत्वात्, तदग्रहे च तदवच्छेदकरूपस्य ग्रहीनुमशक्यत्वात्, वस्तुगतेति च मां प्रति वक्तुमशक्यत्वात्। घटत्वेन प्रकारेण घटज्ञाने जाते भेदज्ञानं जायत इति-चेन्न; स्वस्मादपि तज्ज्ञानापत्तेरुक्तत्वात् अभावान्तरज्ञानमपि कथ- मिति चेत्तत्र भेदाज्ञानस्यापेक्ष्यत्वेऽपि दोषाभावात्। किंच घटः पटो न भवतीत्यत्रादो घटपटयोस्तादा्यज्ञानं वाच्यम्; तयोस्तादात्म्यप्रतीती तदभावरूपस्य भेदस्य प्रत्येतुमशक्यत्वात्। भेदो हि तादात्म्याभाव इत्यत्र नावयो- रविवादः। तथाचोपजीव्यविरोधात, पश्चाज्ायमानं भेदज्ञानं न प्रामाण्यमश्नुवीत। तदुक्तं भगवता खण्डनकता- "अभेदं नोललिखन्ती धीन भेदोलेखने क्षमा। तथाचादे प्रमा सा स्यान्नान्त्ये स्वापेक्षवैशसात्" इति॥नच-अभेदज्ञानस्य प्रामाण्यं नोपजीव्यमिति-सांप्रतम्, भ्रान्तोसि। नहि वयं पूर्वशानप्रामाण्यस्योपजीव्यत्वेन बलत्वं वदामः । कि तहि? किं ज्ञानं प्रमा इति विचिकित्सायासुपजीव्यत्वेन पूर्वमिति वदामः। त्विरोधेन चोत्तरं ज्ञानं जायमानमपि द्विचन्द्रा- दिज्ञानवदवतिष्ठते । विनिगमनायां तु प्रमाणमुपर्जाव्यत्वमेव। नच पूर्वात्परबलीयसत्वन्यायः; तस्य निरपेक्षविपयत्वान। तदुकं-'पूर्वात्परबलीयस्वं तत्र नाम प्रतीयताम्। अन्योन्यनिरपेक्षाणं यत्र जन्म घियां भवेत् ।' इति। रजतादिस्थल चाधिष्टानज्ञानस्येव बाधकत्वं नतु रजताभावज्ञानस, येन तस्य रजतज्ञानापेक्षा स्ात्। किंचानिप्रसक्ताधिकरण स्वरूपेणव प्रतीत्युपपत्ती अन्योन्याभावस्वीकारे मानाभावः। नचाधाराधेयभावेन प्रतीत्यनुपपत्तिः; घटान्योन्या भावो घटो नेतिवदुपपत्तेः। स्वरूपभेदस्यावश्याभ्युपगन्तव्यत्वे तेनैवोपपत्तेरतिरिक्तस्वीकारे मानाभावात् संसर्गाद्यभावातिरिक्तान्योन्याभावस्य वक्तमशक्यरवाञ्च। नच-संसर्गप्रतियोगिकोऽभावः संसर्गाभावः तादात््य- प्रतियोगिकोऽभावोऽन्योन्याभाव इनि लक्षणं सुवचम्; उभयत्राप्यभावे घटस्यैव प्रतियोगित्वानुभवात्तस्यंवारोपयितुं युक्तत्वात्, अनुभवस्य व्याख्याय द्शयिनुमयुक्तत्वात्, संसर्गान्योन्याभावतादात््यात्यन्ताभावयोरनिव्यासेः । नच- तन्नापि तयोस्तादात््यसंसर्गावेव प्रतियोगिनाविति-वाच्यम्; तयोरेवाभावन्वयेऽनिव्याप्तेः, अग्रे धावने चातिव्याप्तेर- नवस्थापत्तेश्र। अथ-यत्र प्रतियोगिनमारोप्य निषेधबुद्धिः स संसर्गाभावः। यत्र पुनः प्रतियोगितावच्छेदकरूप- मारोप्य निपेधबुद्धिः सोऽन्योन्याभावः। आरोपे च प्रमाणमिदमिह नास्ति इदमिदं न भवतीति प्रतीतिः, तद्दृत्तिघर्म एवच तादात्म्यम्, न त्वभेद :; तस्याम्यामाणिकत्वादिति-चेन्न्न; प्रतियोगितावच्छेदकधर्मस्यारोपितस्यैव निषेधापत्तेः, नतु घटादेः, नह्यन्यदारोप्यतेऽन्यन्निषिध्यत इनि युक्तिमत्; अतिप्रसङ्गात्। प्रतीतिबलात्तथा कल्प्यत इति चेन्न, कार- णवाधे प्रतीतेरभ्रान्तत्वात्। प्रतीतिमात्रशरणत्वे च यौक्तिकत्वविरोधः। किंच यत्र प्रतियोगिनमारोप्य निषेधबुद्धिः स संसर्गाभाव इत्यत्र यत्तदोः संबन्धेऽधिकरणस्यैव संसर्गाभावत्वं विधेयं स्यात्, तच्चायुक्तम्। एवं द्वितीयलक्षणेपि बोध्यम्। अथाधिकरणविपयकप्रतियोग्यारोपपूर्वकनिपेधधीविषयः संसर्गाभावः, तथाधिकरणविपयकप्रतियोगितावच्छेदकधर्मा- रोपपूर्वकनिपेधधीविपयोऽन्योन्याभाव इति व्याख्यायते, तदपि न; प्रंतियोगिन्यधिकरणे चातिव्याप्तेः, तयोरपि तद्दी- विषयतवात्। अभावत्वे सतीति चेन्न, पूर्वनिषेधपदस्य वैयर्थ्यापत्तेः, अन्योन्याभावसंसर्गाभावाभावे भावरूपे तद- सिद्धेश्च। किंन् तादृशधीविषयत्वमुपलक्षणं विशेषणं वा। न प्रथमः; उपलक्ष्यतावच्छेदकैकधर्मासद्भावे तावतीनाम- भावव्यक्तीनाममंग्रहापत्तेः। तत्सन्भावे च तदेव लक्षणमस्तु किमनेन? न द्वितीयः; संसर्गाभावस्यातीन्द्रियत्वापत्तेः। उपनीतभानेऽपि ज्ञानाभावसमये संसर्गाभावनाशप्रसङ्गात्। तथाच निर्जले बन्धविच्छेदे जलनिःसरणं स्यात्।
Page 592
श्रीमधुसूदनसरस्वतीप्रणीतम। ९
अथ-तादृशधीयोग्यत्वं तदिति-चेन्न; तस्यैव स्वरूपातिरिक्तस्य वक्ुमशक्यत्वात्। तत्र चाननुगम एव, अतीन्द्रि- याभावेऽव्याप्तिश्च; तत्रचारोपहेतुकज्ञानाभावात्। किंच विपयत्वं स्वरूपसंबन्धः, सच संबन्धान्तरेण विशिष्टप्रत्यय- जननयोग्यत्वरूपः । तच्च नियतपूर्ववर्तित्वज्ञानाधीनम्। नियमस्तु व्याप्तिः। साचान्योन्याभावगर्भा वा स्यादत्यस्ताभा- वगर्भा वा। उभयथापि यथासंभवं दूषणं स्वयमूहनीयम्। एवमधिकरणपदार्थनिर्वचनेऽपि। आरोपस्य संसर्गाभावज्ञा- नकारणत्वेच पूर्ववर्तित्वं प्रागभावघटितम् । प्रागभावत्वं च संसर्गाभावज्ञानाधीनज्ञानं, तथाचात्माश्रयः । गन्धानाधा- रसमयानाधारत्वादिकमेव तदिति चेत्, न; अनाधारत्वं चाधारत्वाभाव इत्यात्माश्रयात्, इत्यादिकमूद्यम्।अथ-संस- रगाभावत्वान्योन्याभावत्वे अखण्डोपाधी आभ्यां लक्षणाभ्यामुपलक्ष्येते तथाच नोक्तदोप इनि-चेत्, न; तदुभय- स्वरूपानिर्वचनात्। स्वरूपे निरुक्ते हि लक्षणाभिधानं युक्तिमत्, तयोः पदार्थान्तरतापत्तिश्च; द्रव्यादिप्वनन्तर्भावात्। अथ-सामान्येऽन्तर्भावः, तथाहि-सामान्यं द्विविधम्। उपाधिरूपं जानिरुपं च। तत्रोपाधिर्द्विविधः। सखण्डो- Sखण्डश्चेत्युपाधावन्तर्भाव एतयोस्तत्तेदन्तयोरिवेनि-चेन्न; उपाधेः सामान्यात्मकत्वे प्रमाणाभावात्, नित्यमेकमनेक- समवेतं हि सामान्यं, तच्च परमपरं चेति भाव्यकृता विभक्तं, नतूपाधिजातिरूपेण। तदिदं व्याख्यानं भाष्यविरुद्म्। किंचाखण्डोपाधिनाऽनुगतप्रत्ययव्यवहारयोरुपपत्ता गोत्वादिस्वीकारोऽनर्थक एवायुष्मतः। जातिबाध एवोपाधिकल्प- नेति-चेत्, न; फलतोऽविशेपात्। उपाधिरप्यखण्डः जातिरप्यखण्डेति लाघवस्योभयत्र तुल्यत्वात्, जातेः समवा- योऽस्तीति चेत्, किं तेन ? नहि समवायेनानुगतबुद्धिर्जन्यते, अपितु जात्या, तत्रच नास्ति कश्चिद्विशेपः। जातौ व्यञ्ञ- कनियमोऽस्तीनि-चेत्, न; साक्षात्करत्वादी तदभावादिन्द्रियजन्यत्वस्य तत्वे ईश्वरज्ञानस्य तदभावापत्तेः। तस्मा- दखण्डोपाधिस्वीकारे जातिपदार्थापलाप एव। तत्तेदन्तयोः का वार्तेति चेत्, अनभ्युपगमएव। तत्र हि यदि तत्ता पदार्थान्तरं, सा किं पूर्वानुभवे भासते नवा ?। नाद्यः; स्मृतिवदनुभवेऽपि 'स' इत्याकारस्योल्लेखापत्तेः। न द्वितीयः; स्मरणे तद्भानानापत्तेः । किंच तत्कालसंबन्धो वा तद्देशसंबन्धो वा तद्टृत्तिगुणादिकं वा यदेवेदन्तया भासते तस्यैव कालान्तरेपि तत्वेन भाने तत्ताप्रनीत्युपपत्तावखण्डोपाधिकल्पनं व्यर्थमेव, एतत्सर्वमभिसंधायैवाऽभ्युपग- मवादेनामुं पक्षमुपक्षिप्य त्यक्तवान्मणिकारस्तत्तेदन्तयोरभेदं ब्रुवन्। तस्मादन्योन्याभावानिरुक्ती तद्रूपं भेदं प्रत्यक्षादि गृह्णानीति बालभापितमेव । इत्यन्योन्याभावत्वनिर्वेचनभङ्ग: ॥५॥ अथ निर्विकल्पकस्य भेदविषयकत्वभङ्गः ॥ ६।। अथ-निविकल्पकं ज्ञानं भेदं गृह्णानीत्यस्तु द्विनीयः, न; तस्य वस्तुमात्रविपयत्वात्। नच-घटस्वरूपं घटत्वरूपं च विशकलितं गृह्नन्निविकल्पकं स्वरूपभेदं वधर्म्यरूपं च भेदं गृह्ातीनि-साम्प्रतम्; भेदत्वेनानुल्लेखात्। वस्तुगति- स्नथेन चन्, भ्रत्तोऽसि। क्वापि भेदासिद्धी वस्तुगतेरसिद्धेः। किंच भेदाभेदोहि सः, न वस्तुमात्रं निर्विकल्पके भासते इति सर्वसंमतं, तस्य यदि भेदे प्रामाण्यं त्वयोच्यते, तदाSभेदोऽपि मया वक्तुं शक्यत एवेति न त्वया निवारयितुं शक्यते। वस्तुतस्तु निर्धर्मकं वस्तुमात्रं गृह्णत् निर्विकल्पकमभेद एव प्रमाणं भवितुमर्हनि; तस्य तथारूपत्वात्। ननु-भेद- प्रतीनिस्तावद्नुभवसिद्धा, ततस्तस्या विपयेणापि भवितव्यमन्यथा ज्ञानासंभवात्। तदुक्तं-'अर्थेनैव विशेपो हि निरा- कारतया घिया मिनि-चेन्न; किमियुं प्रतीतिस्तव, किंवाऽद्वेतवादिनः, किंवा सर्वस्य ?। नाद्यः; तव प्रतीतेरस्मान्प्र- त्यसंप्रतिपन्नत्वात्, तव वचने विश्वसाभावाच्च, प्रतारकत्वोपपत्तेश्र। न द्वितीयः; सर्वाद्वैतं मन्यमानस्य मम भेदवु- द्यभावात्तव तज्ज्ञानासंभवाच्, परबुद्धेः परस्याप्रत्यक्षत्वात्, अनुमानादिना ज्ञानेऽपि तवैव भेदज्ञानं नतु मम। नापि तृतीय :: सर्ववुद्धेरसर्वज्ञेन ज्ञातुमशक्यत्वात्, तेपामभेदज्ञानस्यापि संभवाच्च। तथापि प्रतीत्यपलापे वादित्वान्निवृ- त्तिरिति चेत्, न; अद्वैतप्रतिपत्तेरपि श्रुत्यादिनाSSपाद्यमानाया अपलापे तथा वक्तुमशक्यत्वात्। तस्मात्साधूक्तं 'न सा ी: कवचिदप्यस्ति यत्र भेदोऽवभासते। अतएव श्रुतेर्मात्वमद्वैते सर्वदाऽक्षत'मिति। तदेवं सर्वज्ञानानां भेदाविषयत्वे सिद्धे बाधकप्रमाणाभावाच्छुत्या सर्वाद्वेते प्रतिपादिते आपाततः अनु पश्चाच्छ्रवणानन्तरं ईक्षा मननमन्वीक्षेति व्युत्प- त्या मन्तव्य इति त्रिधेर्बादरायणीयं चतुर्लक्षणीशास्त्रमध्येतव्यं 'अथातो व्रह्मजिज्ञासे'त्यादि। तेनेवाद्वैततर्कव्युत्पाद- नात्। तदैव श्रवणमननयोः समानप्रकारकत्वं लभ्यते नान्यथा। एतच्चाभ्युपेत्यवादेनोक्तम्। वस्तुतस्तु तस्य श्रवणा- ङत्वान्न मननविधेर्विचारप्रयोजकत्वम्। किंतु साङ्गश्रवणविधेरेवेति व्युत्पादितमद्वैतसिद्धौ। न्यायशास्त्रं तु विरोध्यर्थो पस्थापकत्वात् मुमुक्षूणामनादेयमेव। तदुक्तं भगवता वेदव्यासेन 'एतेन शिष्टापरिग्रहा अपि व्याख्याता' इति। यदि च ऋषिप्रणीतमित्यादेयं, तथापि व्यावहारिकपदार्थनिरूपणार्थ तस्य प्रवृत्तिर्नतु मन्तव्य इति विधिविषयतया, युक्तिवैधुर्येण मननाविषयत्वात्। 'मन्तव्यश्चोपपत्तिभि'रित्युक्तेर्मननस्योपपत्तिसाध्यत्वात्। वेदान्तशास्त्रेण च श्रुत्यनु- कूलयुक्तिप्रतिपादनात्। येतु न्यायशास्त्र एव युक्तिं संभावयन्ति ते शास्त्रान्तरवार्तानभिज्ञा: कृपमण्डूकवदुपेक्षणीयाः॥ इति निर्विकल्पकस्य भेदविषयकत्वभङ्ग: ॥६॥ अ. सि. ११५
Page 593
१० अद्वैतरलरक्षणम्।
अथ भिन्नादिवृत्तिविकल्पेन भेदयाथार्थ्यभङ्ग: ।।७।।
किंच युक्त्यन्तरासहत्वाच्च भेदो नाङ्रीकारमर्ति। तथाहि-किं भेदो भिन्ने निविशते, किंवाऽभिने किंवोदासीने?। न प्रथम :; भेदान्तरेण भिन्ने तदृत्ती भेदान्तरवृत्तावपि तथात्वापत्तौ द्वितीयस्य प्रथमापेक्षायामन्योन्याश्रयः। अग्रे धावनेऽनवस्थाSविनिगमनाप्राग्लोपानुभवविरोधादयो दोषा यथायथमूहनीयाः। तेनैव भिन्ने तदृत्तावात्माश्रयतांऽश- तः । नहि स्वविशिष्टे स्ववृत्तिर्दष्टा संभवति वा। न द्वितीयः; व्याघातात् स्वतोप्यापत्तेश्व। न तृतीयः; कोटिद्य- व्यतिरेककोटेरसंभवादिति। ननु-एतावता भेदानुभवो नास्तीत्युच्यते, किंवा सन्नपि न यथार्थः ? न तावदाद: 'घटाद्वटो भिन्न' इति भेदानुभवस्य लौकिकपरीक्षकसाधारणत्वात्। न द्वितीयः; अयथार्थता हि विषयबाधगम्या, वाघश्च विपरीतप्रमा, सा च प्रकृते प्रात्यक्षिकी नास्ति, 'घटः पटो न भवती'ति प्रत्यक्षानन्तरं 'घटः पट एवे'ति विपरीत- प्रत्यक्षस्याभावात्। नापि युक्त्या, तथाविधयुक्तेरनालोकनादिति-चेन्न; सर्वादृष्टेरविज्ञानात्स्वादृष्टेर्व्यभिचारतः। 'घरः पट एवे'ति सर्वाद्वैतवादिनामनुभवोऽसत्येव, ततश्च तानू प्रति प्रत्यक्षबाधाभावोऽसिद्धः । अन्यस्यापि नास्तीत्यन्न तव निश्चायकप्रमाणाभावात्। अन्येऽपि, एतद्विषये बाधरहिताः, ज्ञातृत्वादहमिवेति चेतू, न; ब्रह्मवादिनि व्यभिचारात् सर्वासद्वादिनिच। तदन्यरवेसतीति चेत्, न; विशेषणाप्रसिद्धेः। स्वार्थानुमाने न दोष इति चेत्, न; अप्रयोजकरवात्, प्रमातृत्वं चासिद्धम्, सामान्यव्याप्तौ चेतरबाघरहिते शुक्तिरजतादावन्येपां बाधसश्वात्, परवचनात्तस्य बाधाभावो ज्ञायत इति चेत्, न; तेषां बहुत्वेन सर्वेषां ज्ञातुमशक्यत्वात्। मम तावद्वाधविरहोऽत्र विषये वर्तत इति चेसन; तवापि न भविष्यतीत्यत्र प्रमाणाभावात्। इदानीं नास्तीति चेत्ततः किम् ? नहि शुक्तिरजतादिभ्रमानन्तरं तव तस्मि अन्मनि बाधो नावर्तिष्टेत्येतावता तत्तथेत्युपैपि, तथापि तत्र बाधयोग्यत्वमस्तीति चेत्, न तत्मकृतेपि दण्डवारितम्। यदाघ तव कदाचिद्भगवदनुग्रहात्सत्वशुद्धिरुत्पतस्यते, तदा सर्वाद्वैतज्ञाने जाते भेदप्रत्ययस्य बाधमपि साक्षात्करि- व्यसिि। तदुक्तम्-'ईश्वरानुग्रहादेपा पुंसामद्वैतवासना। महाभयकृतत्राणा द्वित्राणां यदि जायते' इति। कालान्तरे देशान्तरे च बाधाभावो दुज्ञय एव सर्वथाऽसर्वज्ञेन। किंच 'नीलं तम' इति प्रत्ययानन्तरम'नीलं तम' इति प्रत्ययो नास्ति, 'अहं कृशो गौरः स्थूलो मनुष्य' इत्यादयश्च प्रत्यया आसंसारमनुवतन्ते, तावता किमू तेपां तात्विकत्वमभ्यु- पेतम् ? अथ-तत्र युक्त्या तमसोऽभावत्वे आत्मनो देहादिभिन्नत्वे च सिद्े तेपां प्रत्ययानां भ्रान्तत्वं कल्प्यते, तह्यन्नापि श्रुत्या्भेदे प्रतिपादिते भेदबुद्धेर्भ्रान्तित्वं कल्प्यताम्। प्रत्यक्षं श्रुतेर्बलवदिनि-चेत्, युक्तेः कथं न बलवत्? तथाच तद्विरोधे तमसोऽभावत्वमात्मनो देहादिव्यतिरिक्तत्वं च त्यक्तव्यं स्यात् ।श्रुतेः शब्दात्मकप्रमाणत्वात्तस्य च योग्य-
प्रकृतेऽपि युक्तिविरोधो विद्यत एव; किं मिन्ने किंवाऽभिन्ने किंवोदासीन इनि विकल्पग्रामस्योक्तत्वा्। ननु-भेदो वर्तत इति कोऽर्थः? कि संयोगसमवाययोरन्यतरः पृच्छयते, किंवा स्वभावसंबन्धः? नाद्ः;अभावे तदनङ्गीकारात्। यदि द्वितीयः, तदा घटः स्वभावं नियमयन्नन्योन्याभावेनोपरक्तो भासत इत्येवोत्तरमिति-चेत्, न; अन्योन्या- भावेनोपरकतो भासत इत्यत्रैव प्रश्नस्य विद्यमानत्वात। तथाहि-उपरक्तो नाम विशिष्टः, वशिष्ठ्यं चान्योन्याभावसं- बन्धः। स किमन्योन्याभावस्वरूपमेव अथोभयस्वरूपम्, अर्थान्तरं वा ? न तृतीयोऽनभ्युपगमात्। तत्रापि संबन्धा- न्तरेऽनवस्थापाताच्च। न द्वितीयः; घटस्वरूपस्य घटावृत्तेः घटतत्संबन्धप्रतीत्यनुपपत्तेः । न प्रथमः; तदात्वेऽन्योन्या- भावस्य वैशिष्टथं पट इनि न स्यात्। संबन्धस्य भेदाधिष्टानत्वात्। राहोः शिर इतिवद्धविष्यतीति चेत्, तर्हि संबन्धा भावे संबन्धबुद्धिरभ्रम इत्युक्तं स्यात्। तथाच न घटेऽन्योन्याभाववशिष्ट्यसिद्धिः। अन्योन्याभावस्वरूपमेव विशिष्ट- बुद्धिसुत्पादयनीति ब्रम इति चेन, तर्हि तदेव कुत्रोत्पादयेत्। किं भिन्ने किंवाऽभिन्ने किंवोदासीन इति प्रश्नावसरो विद्यत एव। यत्र विद्यते तत्रोत्पादयतीनि चेतू, वर्तत एव। कुत्र ? यत्र प्रतीयत इति चेत्, तदेवाधिकरणं भिन्नम- भिन्नं वेनि पृच्छयमानत्वात्। ननु-गोत्वादिकमपि तद्वनि तद्भाववनि वा वर्तत इति विकल्पस्य संभवान् स्यादिति तथाच तव्यवहारोच्छेदप्रसङ्ग इति चेत्, न; 'बाधेऽटढेऽन्यसाम्याक्किं टृढेऽन्यदपि बाध्यताम्। क ममस्वं मुमुक्षणाम- निर्वचनवाढ़िना'मित्युक्तत्वात्। तथासत्यर्थान्तरतेति चेत्, न; तस्याः पुरुपदोषत्वात्। न वा तदपि; 'नहि पक्षे पक्षसमे वा व्यभिचार' इति न्यायस्य संभवात्। किंचोत्पन्नमात्रो घटः कथं भिन्नः स्यात्! भेदेन संबन्धाभावात्। ननूतपन्न- मात्रो घटः कथं घटः स्यात् ! घटत्वेनासंबन्धादिति चेत्, त्यज तर्हि घटस्यापि घटत्वम्। किं नश्छिस्म्! प्रतीतिर्वर्तत इनि चेत्, न; दत्तोत्तरत्वात्। ननु-'जातसंबन्धश्चेत्येकः काल' इति न्यायादुत्पत्तिसमय एव घटत्वादिना संबन्ध इति-चेन्न; क्षणमगुणत्ववदुत्पत्तिक्षणे निर्धर्मकत्वसंभवात्। लब्घसत्ताकस्यैव द्वितीयक्षणेऽन्येन संबन्धसंभवात्। किंच घटनिष्टो योऽन्योन्याभावस्तस्य पटे कथं विशिष्टप्रत्ययजननयोग्यत्वं नास्तीति वक्तव्यम्। विशिष्टप्रत्ययादर्शना- दिति नेतू, उत्पत्तिक्षणे किं विशिष्टप्रत्ययो न दृश्यते! उत्तरकाले न दृश्यत इति चेत्तदा तर्हि स्वरूपसंबन्धः स्वीक्रियतां।
Page 594
श्रीमधुसूदनसरस्वतीप्रणीतम्। ११
घटवति भूतले चरवरीयघटाभावयोग्यस्वस्येव कालमेदेन सस्वासरवाजीकारात, सर्वदाऽयोग्यतवे घटवत्पि भूतले तत्रतीत्यापत्तिः । तस्मास्कालमेदेन तदेव योग्यमयोग्यं चेति वत्तव्यं तथात्रापि किं न स्यात् ? किंच योग्यतावच्छेदकं रूपमस्ति न वा ? नाद :; तस्यातिरिक्तर्यासंभवात् अनङ्रीकाराच्। नान्त्य :; तथासति तन्न जनकत्वतधोग्यत्वयोर्गृ- हीतुमशक्यस्वात्। तयोरनुगतरूपावच्छेद्यत्वात् अन्यथाऽतिप्रसग्गात्। अथ-अस्ति वैशिषट्थमतिरिक्तमिति-चेभ्र; तस्यैकतवेSतिप्रसङ्गात्। भिन्नतवेऽननुगम एव। किंचोत्पत्तेः पूर्वं कीषगासीद्ट इति वक्तव्यम्। नासीदिति चेत्, तर्हि तदन्योन्याभावः कथमासीत् ? तत्प्रागभावतज्जात्यादिवदिति चेत्, अहो श्लाघनीयप्रज्ञो देवानांप्रियः ! यदयमसिद्दम- सिद्धेनैव साधयति, दष्टान्ते साध्यसाधनविकलतां च न पश्यति। प्रतियोग्यसरवकाले संबन्धाभावेनोदिते प्रागभावे कं विशेषं रृष्टा स दष्टान्तीकृतः ? अथ प्रलये व्यक्त्यभावेऽपि जातिस्तिष्ठतीति चेत्, तत्काले जातेः सश्वे प्रमाणा भावात्। नित्यत्वं प्रमाणमिति चेत्, न; तदसिद्वेः, ब्रह्मातिरिक्तस्य सर्वस्यानित्यतास्वीकारात्। अर्थान्तरतेति-वेत्रन; रष्टान्तस्योभयवादिसिद्दस्यैव व्याप्तिग्रहहेतुत्वात्। पक्षेऽन्यतरासिद्धिवशात् रष्टान्तेऽपि तद्दोपस् संभवाच्च, तस्य पुरुष- दोषत्वाच्। सकलपदार्थानङ्गीकारे बौद्धवननिराकरणीया वेदान्तिन इति चेत्, न;तेपां युक्तिशून्यत्वेन निर्मूलत्वात्। न्यायशास्त्रवत्, वेदान्तिनस्तु श्रुतिं सकलप्रमाणमूर्धवर्तिनीं ब्रह्मविषयां दढमूलामादाय तदविरुन्दवां युक्तिमुन्धावयन्तो व्यवहरन्तस्तव पितामहेनापि निराकर्तुमशक्याः, प्रत्युत तरेव तार्किकंमन्यः सुखनिरस्यः । तदुक्तं 'एकं ब्रह्मास्त्- मादाय नान्यं गणयतः क्वचित्। आस्ते न धीरवीरस्य भङ्गः संगरकेलिष्वि'ति। तदेवं भिआ्नादिविकल्पग्रस्तत्वास् भेद- सिद्धि: संभवतीति सिद्धम् ॥ इति मिन्नादिवृत्तिविकल्पेन भेदयाथार्थ्यभङ्ग:।।७।। अथ स्वविशिष्टे स्ववृत्तावंशत आत्माश्रयोपपत्तिः ॥८॥ ननु-अस्तु भिन्ने भेदो वर्तत इत्ययं पक्षः। नचानवस्था; भेदान्तरानङ्गीकारात्तेनैव भेदेन भिन्ने स भेदो वर्तत इत्यङ्गीकारात्। मचात्माश्रयः; तज्जेदे तद्जेदानङ्गीकारात्। नच-तद्विशिष्टवृत्तावंशतो विशेषणस्य वृत्तिरायातीति- वाच्यम्; यद्विशेष्यवृत्ति तद्विशेषणेऽपि वर्तत इति नियमानङ्गीकारात्, 'घटे रूपमि'त्यत्न व्यभिचारात्, 'दण्डी पुरुषः कुण्डली'त्यत्र व्यभिचाराच्चेति-चेन्न; 'रूपवति रस' इत्यत्रेवोक्तस्थलेऽपयुपलक्षणत्वस्यैव मणिकृतोक्त्तत्वाद्विशेपणत्वस्वी- कारेऽपसिद्धान्तापत्तेः। अथ व्यावर्तकत्वे सति क्रियान्वयितवं विशेषणत्वमिति लक्षणपक्षे भवदुक्तदोपावकाशोऽस्तु नतु तह्वक्षणं विशेषणत्वस्य, किं तहिं ! प्रत्याय्यव्यावृत्त्यधिकरणतावच्छेदकत्वं, स्वकालनियतव्यावृत्तिबोधजनकत्वं वा विशेष णत्वम्। तघ विशेष्यवृत्तिघर्मानधिकरणतायामपि संभवत्येव। तथाचेत्तन्वेदानाश्रितोऽपि स भेदस्तन्वेदवताश्रितो भव- तीति-चेत्, न; विशिष्टवृत्तेर्धर्मस्य विशेषणांशे वृत्तेरेव विशेषणत्वव्यवहाराल्लाकिकानाम्, तदतिक्रमे विशेषणत्वस्य पा- रिभाषिकत्वापत्तेरंपेक्षणीयत्वापतेश्व। अन्यथा 'दण्डिनं भोजये'त्ािविशेषणत्वसंभवे त्रो्षत्व्यारःस रवेपां लोकानां भज्येत। लक्ष्यानुसारेण हि लक्षणं कर्तव्यं नतु लक्षणानुसारेण लक्ष्यं त्याज्यम्। तथासति घटत्वादीनामपि पृथिवीलक्षणत्वापत्तेः । किंच 'घटोऽयमि'ति प्रतीत्यनन्तरं अघटात्पटाव्यावृत्तिः प्रतीयत इति स्वीक्रियते त्वया, साच प्रतीतिः 'पटान्जिसो घट' इत्याकारा। तथाच पटभिअ्नत्वमपि घटविशेषणं चेत्सवीकुरुपे तेनापि पुनर्व्यावृत्तिः प्रत्याय्येति स्वीकार्यम्। साच किं घटादुत पटार्दुतान्यसमात्?। न प्रथमतृतीयौ; असंभवात्। द्वितीयपक्षेऽपि विशेषणभूता व्यावृत्ति: अन्या वा ? नान्त्य :; अग्रे धावनेऽनवस्थापत्तेः, अननुभवश्च। न प्रथमः; तस्या व्यावृत्तेः प्रथमत एव बुद्ध- स्वात् ? अन्यथा विशेषणत्वायोगात्तद्धिकरणतायाश्च तदव्यवच्छेद्यत्वे आत्माश्रयापत्तेश्र। एतेन-सकाले नियतव्या- वृत्तिबोधजनकत्वमित्यपि-अपास्तम्; विशेषणस्यापि सर्वदा व्यावृत्तिबुद्धजनकत्वात्, कदाचिदुपलक्षणस्यापि जनक- त्वाच्च 'दण्डचयमासीदि'त्यादो स्वाकालेऽपि व्यावृत्तिबुद्धिजनकत्वाश्न। नच-उपलक्षणमेव प्रतियोगीति-वाच्यमू: काकप्रतीतिं विनापि गृहप्रतीतिवत् प्रतियोगिंप्रतीति विनाप्यभावबुद््यापत्तेः। नचेष्टापत्तिः; अभावस्य सविकल्पकैकवे- अरवत्यागेऽपराद्ान्तापत्तेः, निर्विकल्पकैकवेद्यस्य च व्यवहारानङ्त्वात्। किंच प्रत्याय्यव्यावृत्तिरित्यत्र किं येन केनापि प्रत्याय्या उत विशेषणेन?। नाध :; तस्य सर्वत्र सुलभरवात्। न द्वितीयः; आत्माश्रयापत्तेः। किंच प्रतीतिर्विशेषण- मुपलक्षणं वा ? नाद :; प्रतीते: पूर्वं विशेषणत्वाभावापत्तेः, ततश्र कथं तेन व्यावृत्तिर्बोध्या ? न द्वितीय :; व्यावृत्ति निष्ठैकरूपानिर्वचने उपलक्ष्यत्वानुपपत्तावव्यावर्तकतापत्तेः कथवा प्रत्याय्यपदमुपादीयते ? नह्यप्रत्याय्या व्यावृत्तिरस्ति, येन सा व्यावर्तनीया स्यात्; काकादीनामपि प्रत्याय्यव्यावृत्यधिकरणतावच्छेदकत्वाच्च। अथ-अवच्छेदकत्वं नाव- चिछत्तिप्रत्ययजनकत्वं, किंतु अवच्छित्यन्यूनानतिरिक्त्तकालीनविशेष्यसंबन्धवत्वम्। एवंहि काकादेरुपलक्षणस्य व्युदास:। गृहादौ विशेष्ये काकादिविरहकालीनाया अपि व्यावृत्ते: प्रतीत्या तस्य व्याधृत्यधिकरणत्वन्यूनकालीनविशेष्यसबन्धव स्वात्, दण्डस्य तुन तथा; पुरुषे दण्डसंबन्धविरहकालीनाया अदण्डिव्यावृत्तेरप्रतीतेरति-चत्, नः 'दण्ड्ययमासी- दि'त्यन्न दण्डाभावकालीनाया अपि व्यावृत्तिबुद्धेर्जीयमानत्वात्। नघ-तत्कालीनाया एव व्याृत्तेरिदानीं बोध्यमा-
Page 595
१२ अद्वैतरत्नरक्षणम् ।
नत्वं तदानीं विशेषणस्यापि सत्वमासीदिति-वाच्यम्; इदानीं व्यावृत्तिबुद्धनुत्पत्यापत्तेः। तत्कालीनसत्वस्येदानीं बुद्धिं प्रत्यहेतुत्वात्, हेतुत्वे वाऽसतोऽपि काकस्य विशेषणत्वेन किमपराद्धम् ? अथ-तदानीं दण्ड उपलक्षणमेवेति- चेत्, न; अपराद्धान्तापत्ते:, तदानीं तदव्यावृत्तिं प्रति दण्डस्य विशेषणतवाभ्युपगमात्। किंच पूर्वोक्तवैचित्ये प्रमा- णाभावश्र; उभयत्रापि वैशिष्ट्यबुद्धेरविशेषात्। नहि 'काकवन्तो देवदत्तस्य गृहाः''दण्डी देवदत्तः' इत्यनयोः संबन्धबोधे कश्चिद्विशेषोऽस्ति । अथ-'काकवन्तो देवदत्तस्य गृहा' इत्यत्र गृहे काकस्यात्यन्तायोगाव्यवच्छेदः प्रतीयते, नतु तद्यो- गमात्रम्। सच तत्र कदाचित्काकसंबन्धे जाते काकविगमदशायामप्यस्तीति तत्रापि तत्प्रतीयत एव। तथाच तत्प्रतीत्या तत्र काकस्यात्यन्तायोगव्यावृत्तिरपि बोध्यते; तदानीं तस्यास्तन्न सत्वादेव, दण्डीपुरुष इत्यत्र पुरुषे न दण्डात्यन्ता- योगव्यवच्छेदः प्रतीयते किंतु दण्डसंयोग एव। सच दण्डविगमदशायां तत्र नास्तीति तत्र प्रत्येतुं न शक्यते। अतएव तन्र तदा दण्डयोगरहितव्यावृत्तिर्न प्रतीयते नवाऽस्ति तदानीं तस्यैव दण्डयोगरहितत्वादिति -चेन्न; एवं कल्पने प्रमाणाभावात्। प्रतीतिरेव कल्पिकेति चेत्, न, विशेष्यक्रियान्वयिनो विशेषणत्वम् तदन्यस्योपलक्षणत्वमित्येतावति प्रतीतेर्पपत्तेः । अतएव 'रूपवति रस' इत्यत्र सत्वेऽपि न विशेषणत्वम्, विशेष्यक्रियान्वयित्वाभावात्, अविद्यमानस्यापि दण्डस्य 'दण्डयमासी'दित्यादो विशेषणत्वात्। किंच काकादे- रपि यदा योग एव तात्पर्य तदा का गतिः!तदा विशेषणमेवेति चेत्, तर्हि तदभावदशायां व्यावृत्तिबोधो न स्यात्। अस्ति च तत्रापि बोधः। नहि काकापगमे देवदत्तगृहमितरभिन्नं न प्रतियन्ति। किंच यदि व्यावृत्तिघटितं विशेषणं तदा कथं पूर्व प्रतीतिः स्यात्, व्यावृत्तिबोधो नास्त्येवेति चेत्, न; विशेषणत्वेन विशेषणबुद्धभावे विशिष्टवैशिष्वबुद्धना- पत्तेः। नच-विशेपणतावच्छेदकप्रकारकं विशेषणज्ञानमपेक्षितं, नतु विशेषणत्वप्रकारकमिति-वाच्यम्। विशेषण- त्वाग्रहे तदवच्छेदकप्रकारस्याप्यग्रहापत्तेः । नच वस्तुतस्तथेनि-वाच्यम्; क्वापि विशेषणत्वाग्रहे वस्तुत इत्यस्येवा- सिद्धेः। नच-पर्वते वह्वधग्रहेऽपि वह्निव्याप्यत्वग्रहवदिदं स्यादिति-वाच्यम्; तत्र दृष्टान्ते वह्निव्याप्यत्वानुभवेन तत्संस्कारसंभवे विशिष्टबुद्धः संभवात्, इह नु प्राथमिकविशेषणवुद्धेविचार्यमाणत्वादस्तुवा तत्राप्यनुपपत्तिः। तस्मादवि- शेष्ये यदन्वेनि तदन्वयित्वे सत्येव विशेषणत्वं लोके सिद्धं निर्वहति, तथाच तन्भेदविशेषणके विशेष्ये तद्जेदवृत्तावंशतः स्वाश्रयतापत्तिरिति सूष्टू क्तं भगवता खण्डनकृता। अन्यदीयवचनं तु तदबोधविजृम्भितमिति सर्वमवदातम्। इति स्वविशिष्टे स्ववृत्तावंशत आत्माश्रयोपपत्तिः ॥८॥
अथ विशिष्टवृत्तो संबन्धानुपपत्तिः ॥९॥ किंच तन्जेदविशिष्ट स भेदो वर्तत इति वदन् प्रष्टव्यः किं तद्जेदस्तत्र संबद्धः सन् विशेषणभुतासंबद्धः?।न चरम :; अतिप्रसङ्गात्। न प्रथमः; संबन्धस्यव विचार्वमाणत्वात् भेदस्यान्योन्याभावस्य नित्यत्वेन नित्यसंबन्ध- त्वात् असंबन्धपक्षस्याप्राप्तिरिति चत्, संबन्धिनो घटादेरनित्यत्वेन नित्यः संबन्ध इृत्यस्यवासिद्धेः । अथ-अतीते- नानागतेन च प्रतियोगिना विशिष्टप्रतीतिदर्शनाद्विशिष्टप्रनीतेः संबन्धासाध्यत्वम्, अन्यथा 'घटस्य प्रागभावो घटस्य ध्वंस' इत्यादिप्रत्ययो न स्यादिति-चेन्न्न; अप्रत्युत्पन्ने पदार्थे उपरक्तप्रत्ययजननयोग्यत्वस्यासंभवात, संभवे वा धर्मि- मात्रापलापापत्तेः । किंच तत्रापि तज्ज्ञानमेव विशिष्टप्रत्ययोत्पत्ता हेतुनतु घटादिस्न्यथाऽसतएव जनकत्वापत्ती जित- मसद्वादिना। ननु-उत्पत्स्ते घटो विनष्टो वेति त्वया प्रतीयते नवा?। नेनि बुवाणोऽपह्ववकृत पक्षपाती, प्रथमे प्रतीयते त्वयापि संबन्धः, तदेव कथमिति तु न पर्यनुयोगावकाशः; वस्तुस्वभावस्य तादृशत्वात्, प्रतीतेरेव च वस्तु- स्वभावनियामकत्वादिति-चेत्, न; सर्वाद्वेतवादिनं प्रत्यसिद्धेः, प्रतीतिमात्रस्य च वस्त्वसाधकत्वात्, स्वभाववादा- पत्तेश्र। नच-यथाऽनुत्पन्नयोरपि संबन्धिनोः समवायः प्रागासीदेवमुत्पन्नस्यापि घटस्य भेदसंबन्धः सार्वदिको भवति, एतावांस्तु विशेप :- समवायः संबन्धिभिन्नोयं तु संबन्ध्यात्मको ज्ञानविपययोरिवेति-वाच्यम्; तत्रहि संबन्धिभि- अत्वादव तद्भावेऽपि संबन्धसत्वं न, विरुध्यते, अत्रतु स्वरूपसंबन्धस्य संबन्ध्यभिन्नत्वे तदसच्वे सत्वानुपपत्तेः, समवायज्ञानविषय स्थलेऽपि विप्रतिपत्तेश्र। नचार्थान्तरता; टष्टान्तस्योभयवाढिसिद्धस्यैव साधनोपयोगित्वात्। अन्यथा स्वाभिप्रायमवलम्ब्य यन्किंचिद्ृपणस्य सर्वैर्वकुं शक्यत्वात्। तथाचाऽसिद्धमसिद्वेन साधयतो महानैयायिकतवं.तव। एवंच सति 'रूपवति रूपं' 'रसवनि रसः' 'गवि गोत्वमि'त्यादिकमपि कथंचिदुपलक्षणपक्षएव योज्यं ननु विशेपणत्व- पक्षे; अंशतः स्ववृत्यापत्तेरुक्तत्वात्। ननु-अस्त्वभिस्ने भेदो वतत इत्येवोत्तरम्, नहि स्वस्मादपि घटो नाभिस्नः। तथाच घटादिभिन्ने घंट पटभेदो वनत इति प्रश्नोत्तराथः संपद्यत इति-चेत्, भ्रान्तोऽसि नितराम्; यत्परप्रश्नार्थ- मबुध्या परिहरमि छलवादीवान्याभिप्नायेण प्रयुक्तस्य वचनम्यान्यमर्थ वर्णयन् कुतोऽस्य नवकम्बलत्वं दरिद्वत्वादित्यादि। नहि घटाद्िने घटे घटादभिन्ने वा घटे पटभेदो वर्तत इति प्रश्नाथः । कि तर्हि पटात् भिन्नेडभिन्ने वा घटे पटभेदो वतत इति। तथाच परिभावयस्वाज्ञानम्। नच-एवंविधः प्रश्नो न युक्तिमान्; विरोधितावच्छेदक प्रकारेणोपस्थितस्य
Page 596
श्रीमधुसूदनसरस्वतीप्रणीतम्। १३
धर्मिणो विरुद्धप्रकारावच्छेदेन प्रश्नस्याऽदृष्टचरत्वात्। नहि भवति मृन्मयोडयं घटो वह्निमयो न वा। ब्राह्मणोऽयं चैन्नः शूद्रो नवेति वा। अन्यथा विज्ञानात्मकं ब्रह्म जडं न वा, सुखात्मकं ब्रह्म दुःखात्मकं न वा इति पृच्छतो युक्तिशते- नापि त्वया साध्यमानेऽपि विज्ञानसुखात्मकतवे पृच्छानिवृत्तिर्न स्यादिति-वाच्यम्; घटपटयोः पारमार्थिकमेदासिद्धौ विरोधितावच्छेदकप्रकारेणोपस्थितेरसिद्धेः, सिद्धो वा विरोधाभावापत्तेः । मम तावत् सिद्ध इति चेत्, न; देहात्म- भावेन त्वसिद्धेन दत्तोत्तरत्वात्। 'मृन्मयोयं घट' इत्यादौ तु यदा घटादेस्तेजोमयत्वादिविरोधित्वं न निश्चितं तदा प्रभो भवत्येव। अन्यथा शब्दो नित्योनित्यो वेत्यपि प्रश्षो न स्यात्; शब्दस्याऽनित्यकरूपत्वात्, तव मते मीमांसकमते च नित्यैकरूपत्वात्। यदि च तत्र विप्रतिपत्तितः प्रक्षं स्वीकरोपि, तर्ह्वत्रापि विप्रनिपत्तितस्तं स्वीकुरु। ज्ञानात्मकं ब्रह्म जडं नवेत्यत्र प्रक्ने न जडमित्येवोत्तरम्, कुतः ? इति प्रश्ने तद्विरुद्वत्वादित्येवोत्तरम्। यदित्यं तत्तथा यथा तमःप्रका- शाविति जातेन चोत्तरेण तस्य भ्रमनिवृत्तिर्भवत्येव। नच पुनः प्रश्नावकाशः; भ्रमस्य निवृत्तत्वात्। तथा तवापि प्रषु- ्रम इति चेत्, यदि विचारे कृते पटाद्टो भिन्नो भविष्यति, तदा तथेव, अन्यथा तु तवैव विभ्रमः, प्रश्नस्तु ममो- पपद्यत एव। नच-भेदः कुत्र वर्तत इति प्रश्ने यत्र प्रतीयत इत्युत्तरं, कुत्र प्रतीयत इत्यत्न यत्र वर्नत इन्युत्तरमिति- वाच्यम्; तदेवाऽधिकरणं भिन्नमभिन्नं वेति प्रश्नस्य संभवात्। नच-प्राभाकरं प्रत्येतदुत्तरम् तं प्रत्यवयव्यादेः प्रति- बन्दिस्थानस्य विद्यमानत्वात्। दुर्दुरूढवेदान्तिनस्तु खण्डनयुत्तयैव निरसनीया इति-सांप्रतम्; वितण्डामाश्रित्य वदतो मायावादिनः प्रति पुनः पर्यनुयोगानवकाशात् 'त्वया निर्वाह्यं तैर्दूपणीयमि'त्यस्यामेव नियमस्थिती कथायाःप्रवृ- त्तत्वात्। किंच खण्डनयुक्तयो ब्रह्मवादिभिरेव प्रयुक्ता: कार्य साधयितुं समर्थाः नत्वन्येन चक्रमित विष्ण्वतिरिक्त्ेन। नच-भेदः प्रतीतो नवा, यमधिकृत्य प्रश्न इत्यादिरूपा युक्तिर्वक्तुं शक्यत इति-वाच्यम्; प्रतीतिमात्रस्य वस्त्वसा धकत्वात् प्रश्रेऽपि युक्त्यभावात्। किंचवं सति खण्डनयुक्तीनामेव बलव्त्वं स्यात्। तथाच तद्वादिन एव जत्रता । नच-मया त्वत्पक्षनिराकरणे ममेव जय इति-वाच्यम्; मत्पक्षस्य त्वया निराकर्तुमशक्यत्वात्, जयप्रत्याशाभावात् तावतापि च तत्र निर्णयालाभान्। नच-अनुन्मत्तः सह तत्वनिर्णयः कार्य इति-वाच्यम्; मायावादिनोऽपि तथा- त्वात्। तेपामुन्मत्तत्वेन वा तथात्वे का प्रत्याशा विचार्यमाणे त्वमेवोन्मत्तः यथा स्वरूपात्माSविज्ञानित्वान्। तथोक्ततं 'अन्यथा सन्तमात्मानं योऽन्यथा प्रतिपद्यते । कि तेन न कृतं पापं चोरेणात्मापहारिणा।' तथा 'मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् ॥ न ते पश्यन्ति तं देवं वृथा तेपां परिश्रम' इत्यादि। तत्वनिर्णये च क्रियमाणे खण्डनदूपणम- वश्यमुद्धतव्यमन्यथा तत्त्वनिर्णयस्य कर्नुमशक्यत्वात्। नच तदुद्धर्तुं शक्यं शक्रेणापीत्युक्तम्। वक्ष्यतेच ।। इति स्ववि- शिष्टवृत्ती संवन्धानुपपत्तिः ॥९। अथ भेदवृत्तावभेदप्रतिबन्दिनिरासः ॥१० ॥
ननु-सर्वाभिस्नं ब्रह्मेत्यत्राप्यभेदो नाम धर्मो भिन्ने ब्रह्मणि वर्तत उताभिन्ने, आद्ये यद्रह् पूर्व भिन्नमासीत्तत्कथ पश्चादभिन्नं स्यादिति विरोधः, द्वितीये तेनेवाभेदेनाभिन्नोऽभेदान्तरेण वा। आद्ये तव आत्माश्रयत्वम्, द्वितीयेS- नवस्था। अपिच यद्येकदा सर्वेडभेदा ब्रह्म परिरम्भन्ते, तदा किमभेदादभिन्ने कोऽभेद इति तेपां वृत्तावन्योन्यकोलाहलं कः समादध्यात् ? अभेदभूयस्त्वे च भेदपर्यवसानमित्यधिकं दूपणमिति-चेन्न; प्रपञ्चस्यानिर्वचनीयत्वेन तेन ब्रह्मणोऽ- भेदान्गीकारात्, अन्यथा प्रपञ्चस्यापि सत्वस्वीकारापत्तेः तदभावे केन सहाभेदो निरूप्येत ? भेदस्तर्हि स्वीकृतः स्यादिति चेत्, न; प्रपञ्चस्यानिर्वचनीयत्वादेव। तृतीयः पन्था नास्तीति चेतू, न; अधिष्टानत्वस्य विद्यमानत्वात्। तदेव कथमिति चेत्, शणु; समस्तजगदाकारपरिणममानाविद्याविपयत्वं तन्। तथाच तत्वज्ञानेन सविलासाज्ञाननि- वृत्तो बाधावधित्वेन ब्रह्मावशेपः। रजज्ञानें सविलासतदज्ञाननिवृत्तौ रज्ववशेपवत्। तथाच न कस्याप्यभेद: कुत्रचि- द्वतत इति वृत्तिविकल्पकारी कथं नोपहासास्पदं परसिद्धान्तानभिज्ञः स्ात्।, किंच घटादभिन्नो घट इत्यत्र वृत्ति- विकल्पे यदेवोत्तरं त्वया दीयते, तदेव मम भविष्यति। तत्र चोत्तराभावे एकाभावाह्वयमपि न स्यादिति हा कष्टम् तव ! तत्र चाभेदो नाम घटस्वरूपमेवेति यदि बूपे, अस्माकमपि प्रपज्ञाभदो ब्रह्मस्वरूपमेवेत्युत्तरमस्तु, नच तथा- न्योन्याभावरूपो भेद: संभवति; तस्य वृत्तिमत्वेन स्वरूपातिरिक्तत्वेन च भिन्नादिवृत्तिविकल्पसंभवात्। नच-त्यक्ततं मयान्योन्याभावरूपमस्तं वृत्तिविकल्पदूपणगणकुण्ठितशक्तित्वात्, स्वरूपभेदासत्रमादायेव योत्स्े तथा घटस्वरूप- स्यैव भेदत्वाङ्गीकारे वृत्तिविकल्पमुद्रणमस्त्विति-वाच्यम्; अर्थान्तरतापत्तेः अन्योन्याभावभेदे विप्रतिपत्तौ स्वरूप- भेदमादाय परिहरतस्तव। नच तस्य पुरुषदोपत्वम्; तावतैवास्माकं जयव्यवहारात्। त्त्वनिर्णयस्तु शुद्धसत्वैः सह करणीयः । किंच मुखमुद्रणमपि कर्तुमशक्यम्। अन्यसाकाङ्कस्वभावस्य घटस्य भेदत्वेऽन्यसाकाङ्गतापत्तो स्वभाव- व्याघातापत्तेः । नच-ब्रह्मणोऽभेदस्वभावत्वे घटाभिन्नं ब्रह्मेत्यन्यसाकाङ्गतापत्तिस्तुल्येति-वाच्यम्; घटस्याविद्यावि- निर्मितत्येन ब्रह्मनिरूपकत्वानङ्गीकारात्। नह्यखण्डे चिदेकरसे ब्रह्मणि अद्वितीये कस्यचिन्निरूपकत्वसंभवः। यदि च
Page 597
१४ अद्वैतरत्नरक्षणम् ।
घटो भिननोऽस्ति तदा कथमभिन्नता, यदि नास्ति ततः पृथक तदा कस्याकाङ्का स्यात्, तव तु पटस्य पृथक् विद्यमान- स्वात् तत्साकाद्करवं घटस्य यदि स्थान्तदा स्वभावव्याघातापत्तिरिति। तस्मादस्थाने प्रतिबन्दीग्रहग्रहस्ते परसिद्धान्तान- वबोधकृतः । ननु-घटत्वेन निरूप्यमाणो घटोऽन्यानपेक्ष एव, भेदरवेन निरूप्यमाणोऽन्यसाकाल्कोऽस्तु को दोष: ? प्रकारभेदेनोभयाविरोधात्, केवलं मम मते घटत्वभेदृत्वयोः प्रकारभेदोऽप्यस्ति, तव मते सोऽपि दुर्लभ इति-चेतू, म; घटत्वातिरिक्तस्य भेदत्वस्य वक्तुमशक्यत्वात्। यदि च घटतवातिरिक्तो घटवृत्तिघर्मो भेदत्वं नामातिरिक्तमङ्गी- क्रियते, तदापि प्रष्टव्यं किमसौ भावरूपः, आहोस्विदभावरूपः। आद्ये द्रव्यादिरूपत्वे गुणादावसंभवो योज्यः। अतिरिक्तत्वेऽपसिद्धान्तः । द्वितीयेऽन्योन्याभावो वा संसर्गाभावो वा । आद्ये घट्टकुव्यां प्रभातायितम्। द्वितीये परागभावप्रध्वंसयोरनङ्गीकारेऽत्यन्ताभावः परिशिष्यते। सोऽपि पटस्य वा स्यात, पटादेव वा। नाद्यः, घटः पटात्यन्ताभाववान्, घटः पटो नेत्यनयो: प्रतीत्योर्विलक्षणत्वात्। द्वितीयेपि वैधर्म्ये भेदस्य नामान्तरकरणम्। तन्रापि वृत्तिविकल्पस्तुल्य एव। तस्यैव च भेदत्वमुचितम्; आधाराधेयप्रतीत्यनुरोधात्। स्वरूपभेदपक्षे चाधाराधेय- प्रतीत्यनुपपत्तिः, अभावमात्रोच्छेदप्रसङ्गश्व । अधिकरणस्वरूपेणैव भेदबुद्धिवत्त्ुख्ुपप्त्तेर्ित बुद्धबन्धुना ; ता वृश्र्चि कभिया पलायमानस्याशीविषमुखे निपातस्ते। तस्मात्स्वरूपभेदे प्रकारभेदेन परिहारोऽसङ्गत एव। किंच कसमान्नेद इत्याकाङ्का तावदस्येव। तथाच स्वरूपस्य साकाङ्कतापतिर्दुर्वारा। तवाध्यभिन्नं ब्रह्म केनेत्याकाङ्का विद्यत एवेति चेन्न; त्रिविधपरिच्छेदशून्ये ब्रह्मणीद्ृशप्रश्नस्यासङ्गतत्वात्। तथाप्यविद्यादशायां संभवतीति चेन्न; तत्राप्येतस् सद्रूपत्वादेव। अध्यस्तस्य च घटादेरधिष्ठानस्वरूपसत्तयैव सत्वं तत्स्फूर्तिः, रूपान्तरं तु तस्यानिर्वचनीयम्। अधिष्ठा- नज्ञाननिवर्त्याज्ञानतद्विकल्पान्यतरत्वं न तत्। तथाच तत्र सापेक्षत्वं ब्रह्मणो वदन् बालैरप्युपहसनीयः । किंच भेदवि- शेषणिका घटविशेष्यिका प्रतीतिरस्ति। नच भेदे सा घटेत। घटनायां वा दण्डीत्यादावतिरिक्तविशेषणस्वीकारे रुचिस्ते प्रमाणं न त्वन्यत्। तथाच मायावादिना सह योदुं स्वरूपभेदमस्त्रमन्यदीयं गृह्णतस्तव विशेषणमात्रोच्छेदमपश्यतो महान् व्यामोहो विद्वद्भिरवगतः । 'अभिन्नं घ्रह्मे' त्यभेद विशेपणेद्धा बुद्धिस्तव मतेऽपि कथमिति चेन्न ; विशेपणविशेष्य- भावानङ्गीकारात्। प्रतिबन्दीअ्रहेऽपि च दोषानुद्धरणात् । यः परिहारस्तव सतु ममापि भविष्यतीति चेन्न; एकमत- परिशेषापत्तेः । मम च सर्वव्यवहारातीतनिर्धर्मकस्वप्रकाशचिन्मात्राभ्युपगम एव परिहारः। त्वयापि च तथैव स्वीकारे मच्छिप्योऽसि, अनङ्गीकारे पृथगेव परिहारस्त्वया वाच्यः । तथाच प्रतिबन्दिग्रहग्रहो वृथैचेति ॥ इति मेदवृत्ताव भेदप्रतिवन्दिनिरासः ॥ १० ॥
अथ भेदस्वरूपत्वनिरासः ॥११ ॥
किंच भेद: स्वरूपमिति वदन् प्रष्टव्यः किं स्वरूपं भेदेऽन्तर्भवति, स्वरूपे वा भेदः। न प्रथमः; स्वरूपव्यवहार- लोपप्रसङ्गात्। द्वितीये तु भेदमात्रं वा स्वरूपेऽन्तर्भवति प्रतियोगिघटितं वा। न प्रथम :; भेदमात्रस्य प्रतीत्यनारूढ- स्वात्। तस्य च स्वरूपान्तर्भावेऽभिधीयमानेऽविवादात्, व्यावहारिकस्य भेदस्य विचार्यमाणत्वात्। प्रतियोगिघटित- श्रेत् स्वरूपेऽन्तर्भवति, तथाच पटान्जेद इत्येवंरूपस्य तस्य घटस्वरूपतवे पटादभिन्नो घट द्त्येव स्यात्। तथाच भेदाय धावता विपरीतं कृतं स्यादिति परिभावयाज्ञानम्। एवं घटारपटभेदेऽपि द्रष्टव्यमूँ। तथा जगद्वटभेदेऽपि जगतो घटा- स्मता प्रतिपाढिता स्यात्। ननु-पटः प्रतियोगी यस्य तरस्वरूपं भेद इत्युच्यमाने त्वयैव भेद: कण्ठोक्तः स्यात्। नय्य- भेदे बहु्रीहिसमासो भवति। तथाच समस्यमानपदार्थभूतात्पटात्तदन्यपदार्थो घटो भिअ्नत्वेन प्रतिपादितो भवत्येव। समस्यमानपदार्थादन्यस्यैव बहुवीह्यर्थत्वात्। नहि 'चित्रगुर्देवदत्त' इत्युक्त चित्रया गवापि देवदत्तस्याभेदः प्रतीयते, कि तर्हि ? गोर्विशेषणत्वमात्रम्। प्रकृतेपि पटभेदत्वेन घटस्वरूपे निरूप्यमाणे पटस्य विशेषणत्वमात्रमभ्युपगतं नत्वमेदोऽपि, एवं घटस्वरूपभेदप्रतियोगी पट इत्युक्ते कथं पटस्य घटात्मत्वम् ? पूर्वयुक्ते: सत्वात्। तथाच यदद्वाक्यमुच्चार्य त्वया पटस्वरूपे घटस्वरूपे व घटः पटो वान्तर्निवेशनीयस्तेन तेन त्वदचनेनैव तयोभेंदो व्यवस्थापनीय इति यथा यथा तव भेदनिरासाय यल्स्तथा तथातिषष्टबालक इव ते पुरोवर्ती भेद -इति । अत्रोच्यते-'शिरःस्वरूपो राहुरि'त्यत्र दिविष्टचन्द्रस्वरूपो जलचन्द्रः, महाकाशस्वरूपो घटा- काश:, कम्बुग्ीवादिस्वरूपो घटः, चिद्पः पुरुषः, कृष्ण ईश्वरस्वरूप, इत्यादौ च बहुवीहिसमासेऽप्यभेद एव प्रतीयते। नहि राहुशिरसोर्भेंदमम्युपपि। तथान्येपामप्युदाहृतानामभेदमभ्युपगच्छसि। अथ तत्राभेदस्य प्रमा- णसिद्धत्वाज्वेदबुद्धिरविद्यापक्षे निविशते औपचारिकीति मन्यसे वा, तर्हि घटपटयोरपि तथैव स्वीकर्तुमर्हसि तावता पितुस्ते का हानिः? तथाच भेदसाधमाय प्रयुक्तो बहुयीहिरनिच्छन्तं रुदन्तमपि त्वामभेदं आ्हयतीति त्वदीयमरं स्वामेव म्रहरतीति महत्कौतुकम्। किंच बहुमीहिरपि स्वरूपं भेदं वदता त्वयाऽभिधीयते न त्वस्माभिः। तथाचास्मान् प्रति निरनुयोज्यानुयोग: कृत इति परिभावय। तथापि त्वयानुवाद: कृत दति चेतू, ततः किं; नह्यनुवादमात्रे
Page 598
श्रीमधुसूदनसरस्वतीप्रणीतम्। १५
निर्बन्धः, तथासति परपक्षं निषेधार्थ कोऽपि नानुवदेत्? किंच चित्रगुरित्यत्र गौर्न विशेषणम्, किं तर्हि? उपलक्षणम्। अन्यथा तद्रुणातहुणसंविज्ञानबहुव्रीह्योर्भेदो न स्यात्। भवतु तथा तथापि भिदाऽसीति चेतू, तथापि तवाज्ञानमेव, सोऽपि स्वरूपं वान्योन्याभावो वा। नाद् :; प्रतियोगिघटितस्य स्वरूपान्तर्भावे भेद एव भेदमात्रस्य च बुख्धनारो- हात्, तत्रापि बहुवीहिसमासेन भेदोपादाने पूर्वदोपान्न निवर्तसे। न द्वितीयः; स्वरूपभेदमादाय योत्स्य इति प्रतिज्ञा- हान्यापत्तेः। वृत्तिविकल्पश्चानुवर्तत एव। तथाच यद्यदेव त्वया भेदप्रतिपादकमुदाहरणीयं तदेव स्वरूपभेदपक्षेऽभेद- पर्थवसायित्वेन त्वां प्रत्युदाहार्यम्। किंच क्वचिच्चेद्द्ेदो निरूपणपथमगात्ततः स दष्टान्तीकर्तु युक्कः। नह्द्वैतवाधन्येषां परस्परभेदं स्वीकरोति। घटपटयोः परं न स्वीकरोति। ततः कथं तमसिद्ध दष्टान्तीकुर्वन्न लजसे। तदुक्तं भगवता खण्डनकृता-"नानात्वमवलम्ब्यापि वदत्यद्वैतवादिनि। असिद्धभेदाद्याघातः पतेदापादकात्कुतः ॥" इति। किंच स्वरूपस्य भेदत्वे तस्यान्यसाकाङ्कतापत्तिः, साचानिष्टा; एकस्य वस्तुनो द्वैरूप्यासंभवात्। अथ-केयमन्यसाकाङ्कता नाम ? घटाद्यो निष्प्तियोगिकास्त एव चेन्नेदाः स्युस्तदा सप्रतियोगिकाः स्युः । अभाववत्समचायवणे- ति-चेत्, भवन्तु नाम सप्रतियोगिकाः, तावता न नः किंचिद्वाध्यत इति चेन्न, स्वभावव्याघातापत्तेः, लोकव्यव- हारव्याघातापत्तेश्र । किंचिद्धि सप्रतियोगिकं किंचिन्निप्प्रतियोगिकमिति लोकव्यवहारः । लोकव्यवहारत्यागे च
ननु-स्वाभावाभावेन निरूप्यमाणा घटादयोऽपि सप्रतियोगिकास्तथाच को दोष इति-चेत्, तर्हि तद्वदेवे- तरनिरूपणाधीननिरूपणाः स्युः सप्रतियोगिकज्ञानमात्रविपयाश्च स्युरिति। नच-सप्रनियोगिकपदार्थोडपि प्रकारान्त- रेण जायते, यथाऽभावः समवायो वा प्रमेयत्वादिना, तथा कि न स्यादिति-वाच्यम्; यथाऽभावत्वेनाभावज्ञाने प्रतियोग्यपेक्षावश्यंभाविनी, तथा घटत्वेनापि तज्ज्ञाने प्रतियोगिज्ञानापेक्षाप्रसङ्गात्। नहि घटत्वादन्यन्वेदृतवं नाम । तथाच स्वात्मानमुपालभस्व येन तथानियममङ्गीकृत्यापि स्वयमेवान्यथा प्रलपसि। अथ वयं सप्रतियोगित्वं निष्पति- योगित्वं वा वस्तुनः स्वाभाविकमेवेति नाङ्गीकुर्मः । किं तर्हि? यत्प्रकारावच्छेदेन यज्ज्ञानं नियमतो यद्विशिष्टज्ञानमपे- क्षते तत्प्रकारावच्छेदेन तद्वस्तु तत्प्रतियोगिकमिति बूमः। तथाच स एव घटो घटत्वेन ज्ञायमानो नान्यद्विशिष्टज्ञान मपेक्षते, अतो घटत्वावच्छेदेन निप्प्तियोगिक इत्यभिधीयते। स्वाभावाभावरवेन तु ज्ञायमानो घटो नियमतः स्ाभा- वाभावज्ञानमपेक्षत इति मेन प्रकारेण सप्रतियोगिक एवेत्यभिधीयत इति। यद्यपिच वह्वित्वेन वह्िज्ञानमपि कदा- द्धू मज्ञानमपेक्षतेऽनुमितिरूपमतो वह्नित्वेनापि वह्निः सप्रतियोगिक एव स्यादित्यत उक्त-नियम इति। नहि प्रात्य- क्षिकमपि वह्ित्वप्रकारकं धूमज्ञानापेक्षि, येन धूमो वह्ने: प्रतियोगी स्यात्। यद्यपि च वह्नित्वनिर्विकल्पकं वह्नित्ववि- शिष्टज्ञानं नियमतोऽपेक्ष्यत इति वह्नित्वमपि वह्नेः प्रतियोगि स्यात्, तथापि न तद्विशिष्टज्ञानमित्यपेक्षणीयज्ञाने वैशिष्ष्वं विशेषणमुपात्तं-इति, मैवं; एवंभूतप्रक्रियायां मानाभावात्, स्वबुद्धिमात्रविकल्पितत्वेन परस्य तत्र विश्वासाभा- चात्। किंच प्रतियोगित्वं विरोधित्वं, नच घटपटयोस्तदस्ति। अथ नियमतस्तज्ज्ञानाधीनज्ञानविषयत्वमेव तदिति चेत्, ताह घटस्य पटज्ञानमन्तरेण ज्ञानं न स्यात्। भेदत्वज्ञाने तथैव चेतु, तकिकं घटत्वादधिकं तथाच सिद्धोऽन्योन्याभावो- इधिकः। अनधिकत्वे तु स दोपस्तदवस्थः । अथ भेदशब्दवाच्यत्वं तदिति चेत्, भ्रान्तोसि नितराम्; प्रत्यक्षज्ञानविषयो भेद: क इनि पृष्टे भेदशब्दवाच्यत्वं यदुदाहरसि। नह्ययं घट इति ज्ञाने घटशब्दवाच्यत्वमपि स्फुरति; तस्य पूर्व नियमेनोपस्थितौ मानाभावेन प्रत्यक्षज्ञाने मानाभावात्। तथाच धंधनमात्रमेतत्। किंच यद्यन्यज्ञानसापेक्षप्रतीतिवि- पयत्वमेव नियमेन विरोधित्वं स्यात्, तर्हि गोत्वाश्वत्वयोर्न विरोधित्वं स्यात्। तत्र सहानवस्थालक्षणो विरोधस्तरकृतश्र प्रतियोग्यनुयोगिभाव इति चेत्, तर्हेकरूपानिर्वचने शब्दप्रवृ्त्यनुपपत्तिः । घटत्वादीनां च सप्रतियोगित्वे सति प्रतियोगिनिष्प्रतियोगिव्यवहारस्य लोपः स्यात्,। नच-यत्पदार्थस्य यद्साधारणं वाचकपदं तत्प्रवृत्तिनिमित्तं य्तत्प्- कारकज्ञानस्य विशिष्टज्ञानसापेक्षत्वनिरपेक्षत्वप्रयुक्तं तन्भविष्यतीति-वाच्यम्; दण्डी पुरुष इति विशिष्टबुद्धिविषयर्े नियमेन दण्डसविकल्पकज्ञानापेक्षणेSपि सप्रतियोगिकत्वव्यवहाराभावात्, प्रमेयपदेन च संयोगेऽभिधीयमानेऽन्यसा पेक्षत्वाभावेन संयोगस्य निष्प्रतियोगिकत्वापत्तेः । संयोगपदेनाभिधानेऽपेक्षास्तीति चेन्न; संयोगस्य तथास्वभावत्ववद्द- टस्यापि तथास्वभावत्वे नियमेनान्वयप्रतीति विना प्रतीत्यनुपपत्तेरुक्तत्वात्। तत्सिद्धमेतन्न घटादय एव स्वरूपभेदास्त- थात्वेऽन्यसाकाङ्गतापत्तौ स्वभावव्याघातापत्तेरिति। किंच यदि स्वरूपं भेद:, तच्च नाना, नच तत्रानुगतमेकं रूपमस्ति, तथाच कथं तत्र भेदपदस्य समयग्रहः? किं यत्किंचित्स्वरूपे तद्रहः, किं वा सकलस्वरूपे। प्रथमे च निगमनाविरहः, द्वितीये सकलरूपप्रतीत्यसंभवः; स्वरूपत्वस्यैकस्यानङ्गीकारे सामान्यलक्षणाया वक्तुमशक्यत्वात्। अथ-स्वरूपत्व- मेकं सर्वस्वरूपेषु स्वीकरणीयमन्यथा समयग्रहाद्यसंभवापत्तेः । नच तदनिर्वचनम्; स्वनिष्ठधर्मात्यन्ताभावासमाना- धिकरणधर्मवरवस्य तस्य सुवचत्वात्। अस्यचायमर्थ :- सवनिष्ठो यो धर्मस्तस्य योऽत्यन्ताभावस्तदसमानाधिकरण-
Page 599
१६ अद्वैतरत्नरक्षणम् ।
धर्मवस्वमिति। अतएव न घटस्वरूपं पटः; तस्य पटनिष्ठधर्मात्यन्ताभावसमानाविकरणधर्मवर्वात्। न वा घटान्तरस्वरूपं घटान्तरम् ; तत्राप्येकतरधर्मस्यापरत्रात्यन्ताभावनैयत्यादिति-चेन्न्; स्वरूपमिति प्रत्यये उक्तरूपस्याभावात्, स्वरू- त्वस्य च प्रवृत्तिनिमित्तत्वे स्वरूपशब्दात्तत्प्रकारकबुद्यापत्तेः । नचेष्टापत्तिः; तथानुभवाभावात्। वस्तुमात्रं प्रतीयते ततः। नच स्वरूपत्वमुपलक्षणम्; उपलक्ष्यतावच्छेदकस्यैकस्याभावेनाननुगमापत्तेः। किंच स्वनिष्ठधर्मात्यन्ततभावा- समानाधिकरणधर्मवत्वमित्यत्र स्वशब्देन सकलवस्तुग्रहणेऽसंभवः यत्किंचिद्रहणेऽननुगमः। स्वस्वस्यैकस्याशक्यनिर्वच- नत्वेन तत्रापि पर्यनुयोगसाम्यापत्तेः । किंच तादृशधर्मवत्वं च घटे घटत्ववत्वं पटे पटत्ववर्वं च भविष्यति, तच्च नानेति कथमनुगतं तत्स्यात् ? तथाच शिष्यधंधनमेव केवलं भवतः । किंच स्वनिष्ठधर्मात्यन्ताभावासमानाधिकरण- धर्मवर्वे धर्मान्तरास्वीकारे तस्यैवासग्रहः। स्वीकारे चाग्रेधावनेनवस्था । यत्रैव विश्रान्तिस्तस्यैव स्वरूपत्वान्नि- वृत्तिः । किंच प्रमेयत्वाभिधेयत्वयोः स्वरूपशब्दवाच्यत्वाभावप्रसङ्ग; तत्र सर्वथा धर्मान्तराऽनङ्गीकारात्। अथ-अस्ति प्रमेयत्वमभिधेयत्वेऽभिधेयत्वं च प्रमेयत्वे इति-चेन्नः तस्यात्यन्ताभावस्याप्रसिद्धत्वात्, तेन लक्षण- गमनस्यासंभवात्। ननु-अस्ति तयोरपि नित्यत्वं धर्मः तस्य चात्यन्ताभावो घटादौ तेनासमानाधिकरणं तदेव तत्र स्वरूपत्वमिति-चेन्न्न; नित्यत्वे तथाविधधर्माभावेनासंग्रहापत्तेः। अथ-अस्ति नित्यत्वेपि घटान्यत्वादिकं, एवं मेयत्वादावपि यथाकर्थंचिद्धर्मान्तरे तदादाय लक्षणनिरूपणं भविष्यतीति-चेत्नः स्वरूपत्वस्य नानात्वेन प्रवृत्तिनि- मित्तत्वानुपपत्तेः । तथात्वे व्यक्तीनामेव तथाभावोपपत्तौ वृथानस्वरूपत्वनिर्वचनम्; चानुमितिरेव निस्ताराय, गोत्वा- देरपि तथासत्युच्छेदापत्तेः जितं व्यक्तिवादिना। नच-तादृशधर्मवत्त्वं सर्वत्रानुगतं तदननुगमेऽपीति-वाच्यम्; तस्यापि क्वचित्समवायत्वेन क्वचित्संयोगत्वेन क्वचिच्च स्वरूपत्वेनाननुगमतादवस्थ्यात्, त्रिपु च संबन्धत्वस्यैकस्य वक्तुमशक्यत्वात्, विशिष्टप्रत्ययासाधारणकारणत्वादेरनुगत रूपापरिचयेऽपरिच्छेद्यत्वात्। तथात्वेचानुगतरूपनिर्वचन- मयुक्तमेव। किंच तट्टटनिष्ठसंयोगात्यन्ताभावसमानाधिकरणत्वात्तद्वटत्वस्य तद्धटोपि तद्धटस्वरूपं न स्यात्। नच- अत्यन्ताभावे प्रतियोगिविरोधित्वं विशेषणं देयं सच प्रतियोग्यविरोधीति-वाच्यम्; तस्याविरोधित्वेऽभावत्वाभावा- पत्तेः । प्रतीतिरैकाधिकरण्येन वर्तेत इति चेत्, तहि भावाभावरूपत्वं त्यज्यताम्। किंच भावाभावयो- रविरोधित्वं मुख्यं, तद्वाचकत्वं च गोत्वाश्वत्वादीनां, तयोश्वदैकाधिकरण्यं त्वया स्वीकृतं, नूनं गोत्वाश्वत्वायोरपि स्वीक- रिष्यससि। तत्र सामानाधिकरण्यप्रनीतिर्नाम्तीनि चेत्, प्रकृतेऽपि यदवच्छेदेन संयोगम्तद्वयवावच्छेदेन तदन्यन्ताभावो नास्तीति कुतः सामानाधिकरण्यप्रतीतिः ? अथावयविन्येव संयोगो वर्नते तदभावश्, अवयवस्तु तद्यावर्तक इत्येता- वन्मात्रमुच्यते, न; अविरोधेन तयोरेकाधिकरण्ये एकावयवावच्छेदेनापि वृत्तिः स्यान्। अथ-विरोधान्न तयोरेका- वच्छेदन वृत्तिः, तहिं विरोधाद्भावाभावयोरेकस्मिन् वृत्तिर्गीर्वाणरपि दुर्भणेति सामानाधिकरण्यवुद्धिभ्रम एवावतिष्ठते। किंच अभावस्य निर्धर्मकत्वादुक्तलक्षणाभावात्स्वरूपशब्दवाच्यत्वानुपपत्तिः। नच-तत्राप्यभावत्वं प्रतियोग्यादिकं वा यत्किंचिद्धर्मोऽभ्युपेयः, तथाच तस्यापि यया कयाचिद्ृत्या स्वनिष्टधर्मात्यन्ताभावासमानाधिकरणधर्मवत्वस्य विद्यमान- तया स्वरूपशब्दवाच्यत्वं स्यादिनि-साम्प्रतम्; अभावत्वप्रतियोगित्वयोर्वक्तुमशक्यत्वात्। नचैवमर्थान्तरम्; अप्र- कृतानुपयोगित्वाभावात्, सिद्धेSभावत्वादिध्मे प्रकृतलक्षणस्य तत्र वक्तुं शक्यत्वान, अन्यथाSसिद्धेनासिद्धं साधयतो महानैयायिकत्वापत्तेः। अथ-असत्वभावत्वं जातिस्वरूपमनुगतप्रत्ययस्य तत्साधकस्य विद्यमानत्वादिति-चेत्न; अभावत्वजातिवृत्त्यन्याऽभावे तद्वृत्तेर्यकुमशक्यत्वात्। अभावे च जात्यङ्गीकारे ततयायेन सत्तास्वीकारापत्ती राद्दान्त- विपरीताभ्युपगमो भावत्वापत्तिश्र; सत्तायोगित्वस्यैव भावत्वात्। अथ-अस्तु भावविरोधित्वं तल्लक्षणं विरोधित्वं च सहानवस्थाननियम इति-चेन्न; अवस्थानस्यानवस्थानाभावरूपत्वेनात्माश्रयापत्तेः । नापि भावभिन्नत्वम्; भेद- स्यान्योन्याभावरूपत्वे उक्तदोपत्वापत्तेः, अभावाधिकरणकाभावानङ्गीकाराच्च। स्वरूपरूपत्वेतु तस्य तत्तद्भावव्यक्तिरु- पत्वेन स्ववृत्त्यनुपपत्ती स्वरूपलक्षणत्वानुपपत्तिः, अभावपद्समयग्रहासंभवश्च। नच-प्रतियोगिनिरूणापधीननिरूणत्वं तदिति-वाच्यम्; प्रतियोगित्वं यदि विरोधित्वं तदाऽभावघटितं तत्। अथाभावविरहात्मत्वं, तथापि तथेव। अथ स्वभावविशेषत्वं, तदातिप्रसक्तम्। नह्यन्यस्य स्वभावः स्वभावो न भवति नवा विशेषो न भवन। संबन्धान्तरमन्तरेण विशिष्टप्रत्ययजननयोग्यत्वं तदितिचेत्तदप्यनुगतरूपापरिचये कथं स्यात् ? अतीतेऽनागते प्रतियोगिनि तदसंभवाच्। तज्ज्ञानस्य च तथात्वेन तस्यैव प्रतियोगित्वापत्तेः॥ अन्यन्च अभावत्वं प्रतियोगित्वं च दुर्भणमेव। अथ द्रव्यादिपडडपाध्यन्ताभावत्वमभावत्वमिति-चेन्न; प्रत्येक- मतिव्याप्तेः । अभावकूटो यत्रेति चेसन; अभावकूट एवाव्याप्ेः, तत्रच तद्टृत्तावात्माश्रयापत्तेः, अन्यस्य स्वीकारेऽनव- स्थानात्। किंचात्यन्ताभावत्वमप्यभावज्ञानाधीनज्ञानं, नहि घटत्वेऽज्ञाते नीलघटत्वं शक्यज्ञानम्। तथाचात्माश्रयः। अथ-अखंड उपाधिरेवाभावत्वमस्तु तत्तेदंतावदिति-चेन्न; तस्य पदार्थान्तरत्वापत्तेः । नच सामान्येऽन्तर्भावः जात्यपलापापत्ते:, गोत्वमप्यखण्डोपाधिरित्यस्यापि सुवचर्वान्। किंच यद्यभावे प्रतियोगिरूपो विशेष: स्वीकार्यः,
Page 600
श्रीमधुसूदनसरस्वतीप्रणीतम्। १७
सच विशेषणं स्यादुपलक्षणं वा। नाद्: अतीतानागतादेरविशेषणत्वाभावापत्तेः; असतोऽपि व विशेषणत्वस्वीकारे लोक- विरोध:। तदानीं तत्र विदयमानधर्मस्य च तद्विशेषणत्वे पाकरक्ते घटे श्यामस्य विशेषणत्वापत्तिः, तथा 'इदानी श्याम' इत्यस्यापि प्रत्ययस्य प्रमात्वापत्तिः । तथाचासन् प्रतियोगी अभावे विशेष इति वदन् बालैरप्युपहास्यः, एवमुपलक्षण- पक्षेऽपि दोषो देयः। ननु प्रतीयते तावद्वटाभाव इति, तथाचान्यस्य विशेषस्य वक्तुमशक्यत्वात् घटएवासननपि विशेष: स्वीक्रियते; प्रतीतेर्दुर्लङ्क यत्वात्, अन्यथा तवाप्यप्रतीकारादिति, न; प्रतीतिमात्रस्य वस्त्वसाधकत्वात्, युक्ति- बाधस्य चोकत्वात्। ममत्वनिर्वचनीयतैव शरणम्। तदुक्तम्-"समस्तलोकशास्त्रैकमृत्यमाश्रित्य नृत्यतोः। का सद्स्तु गतिस्तत्तद्वस्तुधीव्यवहारयोः ॥" इति प्रभ्नादुत्तरं-"उपपादयितुं तस्तैर्मतैराशङ्कनीययोः। अनिर्वक्तव्यसावाद- पादसेवा गतिस्तयोः ॥" तस्मान्न स्वरूपभेदपक्षे भेदशव्दसंकेतग्रहासंभव इति सिद्धम् ॥ अतएयेद्मप्यपास्तं स्वरूपमित्युक्ते सकलस्वरूपोपस्थितौ विशेपप्रतिपादनाय घटस्वरूपं पटस्वरूपमिति तत्तत्सम- भिव्याहारप्रयत्नः। अयमेव च धर्मो घटस्वरूपस्य भेदुत्वं एतट्ाकारावच्छेदेन ज्ञायमाने घटे इतरनिरूपणाधीननिरू पणो नतु संहतोपाधिरुपहितप्रत्ययायोगात्-इति; स्वरूपत्वस्यैकस्य वक्तुमशक्यत्वात्, सकलोपस्थित्यसंभवात्, उक्तरूपापरिज्ञानेऽपि भेदप्रतीतितच्छब्दप्रयोगदर्शनात्। किंचायमपि प्रकारो घटत्वादिरेव, तस्य च ज्ञाने प्रतियोगि- ज्ञानानपेक्षणात्। उक्तश्चात्र पक्षे विस्तरेण दोष:। किंच यदि स्वरूपं तद्वेदस्तदा, शुक्तिस्वरूपे दृष्टे रजतान्मेदो गृहीत इत्यभेदारोपो न स्यात्, न स्याच्च दूरादनभिव्यक्तकरचरणादिपुरुपस्वरूपे दृष्टे स्थाणुर्वा पुरुषो वेति संशयः । ननु-न भेदमात्रं संशयविपर्यययोर्विरोधि, किंत्वारोप्यारोपविपयगतधर्मयोरन्योन्यस्मिन्नभावदर्शनम्,आरोप्यधर्मस्यारोप्यविषये व्यतिरेकदर्शनं वा, भेदत्वेन भेददर्शनं वा, आरोप्यधर्माधिकरणारोपविपययोरन्योन्याभावदर्शनं वा; तथैवावधारण- दिति-चेत्, तर्हि तस्यैव भेदत्वं स्यात् नतु धर्मिणः, लाघवसत्वात्, तज्ज्ञानस्य भ्रमसंशयविरोधित्वेन विशेषदर्शन- त्वात्। भेदशब्दवाच्यं च तदेव रूपं न धर्मिस्वरूपम्। तथाच वृत्तिविकल्पभिया पलायमानस्य तत्रैव निपातः। तथाच स्वरूपं भेद इति रिक्ततं वचः। किंच घटस्वरूपं यदि भेद: स्यात्, तदा कथमन्यदपेक्षितम् ? नहि नीलमन्यापेक्षया नीलं भवति, किं तर्हि स्वतएव तत्तथा, घटस्वरूपमपि चेन्देदः स्यात्, नान्यदपेक्षेत। यदि घटः प्रतियोगिना निरूप्यमाणो भेद: स्यात्, नीलमपि केनचिन्निरूप्यमाणं पीतं स्यात्। नचतदस्ति। नचापादकाभावः; अन्यस्यान्येन निरूपणे- इन्यात्मताभ्युपगमे स्वयैव व्याप्तेरभ्युपगन्तव्यत्वात्। अन्यथा कथं पटेन निरूप्यमाणो घटो भेद: ? अथ-अविरुद्ध- योर्घटत्वभेदत्वयोरस्तु समावेशोऽविरुद्धत्वादेव, विरुद्धयोस्तु नीलपीतत्वयो: कथं तथा स्यादिति-चेन्न; घटत्वभेदत्व- योरविरोधासिद्ेः। यथाहि नीलपीतयोर्विलक्षणप्रतीतिवेद्यतवं तथा तयोरपि, सप्रतियोगिको हि भेदः प्रतीयते- 'अयमस्मान्जेद' इति, निप्प्रतियोगिकस्तु घटः। तथाच प्रतीतिवैलक्षण्येपि यदेकत्न समावेशोऽन्यत्रापि स्यादेवेति व्यवस्थायां तु रुचिरेव तव प्रमाणं वेदद्वेपो वा।। किंच स्वरूपं वा भवतु भेदोऽन्योन्याभावो वा, सर्वथा तत्प्रतीतावभेदज्ञानमुपजीव्यम्। घटपटयोर्हि तादालयं निपेध्यम्। तथाच उपजीव्यं त्वभेदज्ञानमेव प्रमा नतु विपरीतमेतत्। भेदाभावो दमेदस्तादात््यं वा, तथाच भेदप्रतीतिं विनाऽभेदबुद्धिरेव न भवतीति चेत्, तर्ह्यन्योन्याश्रयग्रस्तत्वादेकमपि न स्यादित्यागतं। ननु-भेदशव्दाद्भेदप्रतीताव- भेदज्ञानं नापेक्ष्यत इति-चेत्, भ्रान्तोऽसि, प्रत्यक्षेण भेदासिद्धौ शब्दसंकेतग्रहो दूरत एव, कुतस्ततः प्रतीति- संभावनापि, ममत्वनिर्वचनतव शरणम्। सर्वधियां च भेदाविषयत्वमतद्यावृत्तिवैशिष्निराकरणेन प्रागेव दर्शितम्। तस्मात्सर्वधियां भेदोल्लेखित्वमिति मनोरथमान्रम्॥ इति भेदस्वरूपतादिनिरासः॥ अथ भेदपारमार्थिकतानिरासः ।। ननु-'घटपटौ न भिन्नावि'ति किं पारमार्थिको भेदो निषिध्यते, उतापारमार्थिकः। नाद्ः; तस्य निषेदुमशक्य- श्वात्, अन्यथाऽडर्मनोपि निषेधापत्तेः । न द्वितीयः; तव्निपेधेऽपि मदभ्युपगतपारमार्थिकभेदानिपेधात् सिद्धं नः समीहितमिति-चेन्न; लोकसिद्धस्य भेदस्य निषिध्यमानत्वात्। अन्यथा कि पारमार्थिकाभेदो निषिध्यते, उतापार- मार्थिकः । आधे तस्य निषेधानुपपत्तिः । द्वितीये मदभ्युपगताभेदस्यानिषेधात्सिद्धं नः समीहितमित्यस्यापि सुवच- स्वाद्। किंचापारमार्थिको भेदो निराक्रियत इत्येवोत्तरम्। नचैतावता पारमार्थिकस्यावस्थानम्। भेदस्य युरुयसहत्वेन पारमार्थिकत्वानुपपत्तेः। सवाSडग्रहमात्रेण पारमार्थिकत्वं त्वनादरणीयमेव। किंचाभावज्ञाने प्रतियोगिज्ञानमात्रम- पेक्ष्यते, नतु तत्प्रमात्वमपि, व्यतिरेकाभावेन तस्याप्रयोजकत्वात्। नच-तथासति अप्रमितभेदनिराकरणेनाप्युपपसी प्रमितो भेद: स्थास्यतीति-वाच्यम्; युक्यसहत्वेन भेदस्य प्रमितत्वाभावस्योक्तत्वात्। अन्यथा क्ापि परपक्षनिरा- करणं न स्यात् ॥ इति मेदपारमार्थिकतानिरास:॥ अ. सि. ११६
Page 601
१८ अद्वैतरत्नरक्षणम् ।
अथाद्वतस्य ब्रह्मनिष्ठत्वोपपादनम्। ननु-श्रुत्या यदद्वैतं प्रतिपाधते तत्किं घटादिनिष्टं, किंवा ब्रह्मनिष्ठम्, उतोभयनिष्ठम्, उत ब्रह्मस्वरूपम्। आद्ये भेदविरोधे भेदाविरोधे वा उभयथापि भेदसिद्धिः, एकत्र विरोधनिरूपकतयाऽन्यत्र श्रुतिप्रतिपभ्राद्वैताविरोधादेव। अथ ब्रह्मप्रपञ्चोभयनिष्टमद्वैतं नाम धर्मः श्रुतिप्रतिपाद्यः, तदाऽन्रापि पूर्ववदेव भेदसिद्धिः। अथ ब्रह्मस्वरूपमेवाद्वैतं, तदा न नो विवाद: श्रुत्या भेदस्याप्रतिक्षेपादिति-चेत्न; ब्रह्मणि सर्वद्वैताभावस्य श्रुत्या प्रतिपाद्यत्वात्। नच-एवं द्वैतमध्ये ब्रह्मणोऽपि प्रवेशात्तभ्निषेधोऽपि स्यादिति-वाच्यम्; निरधिष्टानस्य निषेधस्यानुपपत्तेः । "स एष नेति नेत्यात्माऽशीर्यो नहि शीर्यतेऽगृद्यो नहि गृह्यत" इति मूर्तामूर्तनिषेधेन ब्रह्ममात्रस्य परिशेषात्। तथा "तदेव ब्रह्मापूर्वमनपरमनन्तर- मबाहयं एतद्वै तदक्षरं गार्गि अस्थूलम्" इत्यादिना स्थूलादिनिषेधेन ब्रह्ममात्रपरिशेषाच्च। तथाचाह-भगवान्वेद- व्यास :- "प्रकृतैतावश्वं हि प्रतिपेधति ततो ब्रवीति च भूय" इति। तथा "नेह नानास्ति किंचन" इति श्रुतिरपि ब्रह्मणि सर्वनिषेधप्रतिपादनेन ब्रह्म परिशिनष्टि पराचष्टे चान्यत्सर्वमिति॥ इत्यद्वैतस्य ब्रह्मनिष्ठत्वोपपादनम्॥ अथाद्वैतस्य ब्रह्मतद्भिन्नस्वरूपत्वाद्युपपादनम्। ननु-अत्र द्वैतनिषेधोऽपि ब्रह्मभिसनो नवा। न प्रथमः; तस्यैव द्वितीयत्वात्। द्वैतमात्रनिषेधानुपपत्तेः, तस्य च पारमार्थिकत्ये तत्प्रतियोगिनो जगतोऽपि पारमार्थिकत्वापत्तेः । तथाच नेष्टसिद्धिः। न चरमः; तथापि द्वैतमात्रनिषे- धासिद्धेः, ब्रह्मण एव द्वितीयस्य सिद्धेरिति-चेन्न्न; उभयथापि दोपाभावात्, भावाद्वैतस्वीकारात, प्रथमो न दुष्टः।नच प्रतियोगिनोऽपि पारमार्थिकत्वापत्तिः; निषेधानुपपत्यैव तदसिद्धेः। नहि शक्तिरजतयोस्तादालयं संसर्ग वा निषेध- प्रतियोगिनमपि प्रामाणिकं स्वीकुरुषे, नच तयोरप्यन्यत्र विद्यमानयोरेव भानम्; सदुपरागेणासतोरपि तादात््यसंसर्ग- योर्भानादिति साम्प्रदायिकाभ्युपगमात्। तत्यागेन च मणिकारमतग्रहे कव साम्प्रदायिकरवाभिमान: ? तच्च मणिकार- मते च दृषणं वक्ष्यामः ॥ इत्यद्वैतस्य ब्रह्मतद्भ्िन्नस्वरूपताद्युपपादनम् ॥ अथ भेदनिषेधानुपच्यादिकम् । किंच प्रामाणिकं निषिध्यत इति क्वावयोः सिद्धमस्ति सर्व जगन्मिथ्येति मतेऽप्रामाणिकस्यैव निषेधात्। तव मतेऽपि प्रामाणिकस्यैव दुर्निरूपरवात्। नच-एवं निपेधोऽप्यप्रामाणिकः स्यादिति-वाच्यम्; तत्र बाधकप्रमाणाभावान्। प्रपञ्ञनिषेधश्च श्रुत्यैव प्रतिपादित इति विशेषः । नच-एवं दृश्यत्वहेतोस्तत्रैवानैकान्तिकतेति-वाच्यम्; तद्भि- सत्वेन हेतोर्विशेषणात्, प्रपश्चाभावस्य पूर्व ज्ञातुमशक्यत्वेन व्यभिचारज्ञानाच्च। ब्रह्मातिरिक्तस्य निषेधस्याङ्गीकारेण द्वितीयोऽप्यनवद्यः, ब्रह्मणो द्वैतरूपत्वाभावात्, श्रुत्यैव तन्मात्रस्य परिशेषप्रतिपादनात्॥ किंचान्योन्याभावस्वरूपभेदयो: पूर्वं निरस्तत्वात् प्रपज्ञाभाव एव युक्त्तः, नत्वस्त्यन्योन्याभावस्वरूपम्। तल्लक्ष- णासन्भावात्। तथाहि-ननु तादात्म्यावच्छिन्नप्रतियोगिकोऽभावोऽन्योन्याभावः । नच-तादात््यस्य प्रमितत्वे निषेधानुपपत्तिः, अप्रमितत्वे च निषेधस्याप्रामाणिकतेति-वाच्यम्; घटत्वरटत्वादेरेव तादालयशब्दवाच्यत्वात्, तस्य च प्रमितरवमेव। नच-घटत्वादेरभावप्रतियोगित्वेऽत्यन्ताभाव एव स्यान्नत्वन्योन्याभाव इति-साम्प्रतम्; घट- स्वावच्छिस्नस्य घटस्यैवाभाव इत्यङ्गीकारात्, मवम्; 'घटो भूतले नास्ती'त्यत्यन्ताभावेऽतिव्यापेः । अथ तत्र घटत्वं न प्रतियोगितावच्छेदकं, किं तहि ? संसर्गित्वमिति चेत्, तर्हि संसर्गी भूनले नास्तीति प्रतीत्यापत्तिः । संसर्गावच्छिन्नो घट इति चेतू, "अधिकं तु प्रविष्टं नतु तद्धानि"रिति न स्यादेवान्योन्याभावत्वम्। किंच भूतले संसर्गावच्छिनो घटो निषिध्यते इति वक्तव्यम्। तथाचाप्रसिद्धिरेव। नहि तन्नूतलघटयोः संसर्गः प्रमितः। विस्तरस्तु पूर्वमेवोक्त इत्युपरम्यते॥ इति भेदनिषेधानुपपत्त्यादिकम्॥ अग्निहोत्रं जुहुयात्सर्गकाम इत्यादिवाक्यानामप्यद्वैतएव पर्यवसानमिति निरूपणम्। ननु-मेदास्वीकारे "अभिहोत्रं जुहुयात् स्वर्गकाम" इत्यादी श्रुतिपक्षपातिना त्वया हेतुफलभावोऽपि कथमुपपा- दनीयः ? तस्य भेदगर्भत्वात्। तथा समासादितदण्डो घटाय न प्रवर्तेत, दण्डात्मना घटस्यापि तेनाऽडसादितत्वात्। दण्डस्य सर्वे घटासत्वं चेत्तदा सदानीतनविरुद्धधर्माध्यासादेव भेदसिद्धि: सिद्धृत्य च कारणत्वादसिद्धस्य च कार्यत्वा- त्। किंच वाजपेयसाध्यस्वर्गार्थ कलज्मपि भक्षयेत्; वाजपेयकलज्जभक्षणयोरभेदात्, वाजपेयजन्यस्वर्गकलअभक्षण- जन्यनरकयोरभेदात्, "गां दद्यादि"ति विधे रासभमपि दद्यात्; गोरासभयोरभेदात्। "सुरां न पिबेदि"ति निषेधात् क्षीरमपि न पिबेदित्यादिश्रीतसमातलौकिकबहुविधायाससाध्यसकलव्यवहारविप्ववः सात्। आगमे चेत्तव श्रद्धा, कर्म-
Page 602
श्रीमधुसूदनसरस्वतीप्रणीतम्। १९
परतस्तदागमप्रतिपाद्यस्वर्गापूर्वादिपारमार्थिकतवे क: प्रद्वेपः ? को वा ब्रह्माद्वैतप्रतिपादकोपनिषदेकदेशप्रामाण्येSनुराग इति, मैवम् ; दण्डादिमिर्ब्रह्मण एवाभेदस्वीकारात्। अधिष्ठानाध्यस्तयोरेवाभेदो न त्वध्यस्तानां परस्परमभेदः । तथाच परसिद्धान्ताज्ञानविजम्भितमेतत्। कर्मपराभिस्तु श्रुतिभिर्न भेद: प्रतिपाद्यते; भेदशवदश्रवणात्, आर्थिकस्तु भेदोड्द्वै- तपराभि: श्रुतिभिर्बाध्यते। नच स्वर्गादीनां तत्प्रतिपाद्यत्वेन पारमार्थिकत्वे द्वैतसत्वापत्तिः; तेषां जन्यत्वेन शुक्तिरजता- दिवन्मिध्यात्वे पर्यवसानात्। नच-एवं वेदार्थत्वाविशेषे ब्रह्माद्वैतसत्यत्वे कस्ते प्रतिभूरिति-वाच्यम्, "तत्सत्य स आत्मा" "सत्यस्य सत्यम्" "अतोऽन्यदार्तम्" इति श्रुत्या तस्य सत्यत्वप्रतिपादनात्। अन्यस्य च सर्वस्य विनश्वरत्वेन मिथ्यात्वप्रतिपादनात्॥ किंच "यम्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम्। अभिलापोपनीतं च तत्सुखं स्वःपदास्पदम्" इति श्रुत्या दुःखासंभिन्नं सुखं प्रतिपादयते। ब्रह्मता च तादृशमिति स्वर्गपराणां श्रुतीनां ब्रह्मण्येव तात्पर्यमिति। नच- तस्य साध्यत्वानुपपत्ति :; अभिव्यअ्ञकान्तःकरणवृत्त्युतपत्या तस्योतपादोपपत्तेः मूर्तद्रव्योत्सारणेनाSSकाशस्येव; तथाच त्वदुपम्यस्तं प्रमाणं रुदन्तमपि त्वां द्वैतरागिणमद्वैतमेव बोधयतीति परिभावय। यथाच न भेदस्य पारमार्थिकस्वं तथोपपादितमधस्तात् ॥ इत्यग्निहोत्रं जुदुयात् स्वर्गकाम इत्यादिवाक्यानामद्वैतपर्यवसानम्।। अथ सर्वैक्येऽपि त्रिविधसच्वेन सर्वव्यवहारोपपत्तिः॥ व्यावहारिकत्वनिर्वेचनासंभवशङ्का तत्परिहारौ च। किंच त्रिविधसत्वोपगमात् सर्वव्यवहारोपपत्तिः । तथाहि-पारमार्थिकं सत्वं ब्रह्मणः प्रातीतिकं शुक्तिरू- प्यादेः, व्यावहारिकं तदितरस्य जगत इति। तथाच भेदोऽपि व्यावहारिक इति॥ ननु-किमिदं व्या- वहारिकत्वम् ? न तावज्ज्ञानरूपव्यवहारविषयत्वम्; इष्टत्वात्, ब्रह्मणि विद्यमानत्वेनाऽतिव्यापकत्वाच्च। नच- ब्रह्मणि ज्ञानविषयत्वमेव नास्ति तस्य स्प्रकाशत्वादिति-साम्प्रतम्; एतद्वाक्यजन्यज्ञानविषयत्वभावाभावाभ्यां व्याघातात्, श्रुतेस्तत्र प्रामाण्याङ्गीकाराच्च। नाप्यभिलापविपयत्वं तत्, पूर्वोक्तदोपादेव। नापि नयनान- यनादिविषयत्वम्; अन्योन्याभावरूपभेदे तदभावात्, गुणादावसंभवाच्च। नापीच्छाप्रयल्नादिविषयत्वम्; पूर्वोक्त- दोषात्। नापि बाधितत्वम्; पारिभाषिकत्वापत्तेः, बाधस्य विपरीतप्रमात्वेन तद्विपयत्वस्वीकारे प्रमाविष- यत्वेन प्रामाणिकत्वाभ्युपगमापत्तेः । नापि भ्रमविपयत्वम्; भेदः पारमार्थिक इति ज्ञाने त्वया भ्रमत्वेनाङ्गी- क्रियमाणे पारमार्थिकत्वांशबाधेऽपि धर्म्यशेऽवाधनात् भेदस्य पारमार्थिकत्वापत्तेः, "धर्मिणि सर्वमभ्रान्तं प्रकारे तु विपर्यय". इत्यभ्युपगमात्। अन्यथा ब्रह्मापारमार्थिकमित्यपारमारथिकत्वबाधे ब्रह्मणोऽपि बाध्यत्वं स्यात्। नच-घटो भिन्न इति ज्ञानं आ्रन्तम्, तत्र च प्रकारो भेद एवातस्तस्यापि तत्वमिति-वाच्यम्; घटपटौ भिन्नाविति ज्ञाने बाधस्य वक्तमशक्यत्वात्, क्वचित्काले क्वचिद्देशे क्वचिद्विषये भेदस्य बाध्यत्वेऽपि सर्वत्राऽबा- धात्। नहि सार्वत्रिको बाधस्त्वयापि शक्योपदर्शनः। नाप्यबाध्यत्वेनाशक्यव्यवस्थापनत्वं व्यावहारिकत्वम्; बाधस्य निरसनादेवाबाध्यत्वसिद्धेः, तस्य ब्रह्मण्यपि विद्यमानत्वाच्च। नच-तत्र श्रुतिप्रतिपाद्यत्वादेवाबाध्यत्वव्यवस्थितिरिति -माच्यम् ; भेदे स्वर्गापूर्वादेरपि तुल्यत्वात्। नच-भेदग्रहे केषामपि कदापि कुत्रापि बाधो नास्तीति कथं त्वया ज्ञायते येन भेदस्याबाध्यत्वं मन्यस इंत-वाच्यम्। त्वद्यवस्थाप्यमानबाध्यत्वव्यवस्थाविरहादेवाबाध्यत्वसिद्धेः। नापि ब्रह्मभिन्नत्वमेव तत्; एतादृशव्यावहारिकस्यास्मदपेक्षितत्वात्, भेदभिन्नत्वेन ब्रह्मणोऽपि व्यावहारिकस्य सुवचत्वात्, ब्रह्मभिन्नत्वस्य त्वयाभ्युपगम्यमानस्य पारमार्थिकत्वे भेदपारमार्थिकत्वस्य सिद्धत्वाच्च।नाप्यसत्यत्वं तत्; असत्यत्वं यदि बाध्यत्वं तदोक्तमुत्तरम्। अप्रामाणिकत्वं च, प्रमाणगोचरत्वोपादनेनैव निरस्तम्। नाप्यलीकत्वम्; विधिनिपेधव्यवहार- गोचरत्वोपादानेनैव निरस्तत्वात्। नाप्यसत्वम्; तद्यदि सत्ताऽयोगित्वं तदेष्टपत्तिः। अन्योन्याभावस्य सस्तायोगित्वा- नभ्युपगमात्। अभावत्वमेवासत्वमिति चेन्न; इष्टत्वात्। अभावप्रतियोगित्वमिति वेस्; इष्टत्वादेव। नाप्यमोक्षकत्वम्। इष्टत्वात् ; आत्यन्तिकस्य दुःखाभावस्य मोक्षतयाऽन्योन्याभावभिन्नत्वात्। नापि मीक्षोपायज्ञानाविषयत्वं व्याबहारि- कत्वम्; श्रवणमनननिदिध्यासनादीनां मोक्षोपायज्ञानानां शरीरात्मभेदविषयकत्वात्, भेदज्ञानार्थमेव श्रवणादीना- मुपयोगः। नापि सप्रतियोगित्वम्; इष्टत्वात्। नाप्यद्वैतविरोधित्वम्; इष्टत्वात्, वैपरीत्यस्यापि सुवचत्वाच्च। नापि प्रपश्चान्तर्गतत्वम्; प्रपञ्ञबहिर्भूतत्वेन ब्रह्मणोऽपि व्यावहारिकत्वस्य वनुं शक्यत्वात्, प्रपञ्चस्याप्येवं विकल्पकदर्थ- नीयत्वाश्च। नाप्यविद्यादशावेद्यत्वम्; इष्टपत्तेः । वैपरीत्यं च सुवचम्। नाप्यविद्याविषयत्वम्; क्चिततथापि पारमा- र्थिकत्वाक्षतेः । नापि जडत्वम्; तद्यदि ज्ञानविपयत्वं तदेष्टापत्तिः। अथात्मभिन्नत्वं, तथापि तथा। अथानन्दभिन्नतवं, तथापि तथैव। नापि प्राक्तनावेद्यत्वम्; इष्टत्वात्। भेदस्य पारमार्थिकतवे मुक्तिदशायां कथं म वेद्यत्वमिति चेत्, वेदन- विरहादिति गृहाण। ब्रह्मणस्तदा कथं वेदनमिति चेत्, इयमपि तव भ्रान्तिः। तस्माध्ावहारिको भेद इति तवाङ्गीकारो न किंचिदनिष्टमापादयति, केवलंपारमार्थिकत्वं व्यावहारिकत्वमिति च ब्रह्मप्रपञ्ञयोर्धर्मद्दयं वृद्धैर्वेदान्तिभि: शवमु-
Page 603
२० अद्वैतरत्नरक्षणम् ।
ट्टिन्यायेन बोधितम्, तदादायाऽर्वाचीना अपि वेदान्तिनो व्यामुग्धा वर्तन्ते, वस्तुतः प्रमाणसिद्धतया ब्रह्मप्रपञ्नयोर्वि- शेषो नास्त्येवेति-पूर्वः पक्षः॥ राद्द्ान्तस्तु-अनादिभावरूपाज्ञानतद्धीनान्यतरत्वमेव व्यावहारिकत्वम्। नचाननुगमः । अननुगतस्यैव लक्ष्यत्वात्, मोक्षहेतुज्ञाननिवर्त्यत्वेनानुगमाच्च। नाप्यव्याह्यति व्याप्ी; प्रपञ्चे सर्वत्र विद्यमानत्वात्, ब्रह्मण्यविद्यमान- स्वाच्च। नचेष्टापत्तिः; उक्तरूपस्य भवन्मतेऽसिद्धेः॥ इति त्रिविधसत्वेन सर्वव्यवहारोपपत्तिः व्यावहारिक- त्वनिर्वचनं च ।। अथ श्रुतिस्मृतीतिहासादिभिरविद्यास्वरूपसमर्थनम्। नच-ज्ञानप्रागभावभ्रमतत्संस्कार व्यतिरिक्तभावरूपाSविद्या दण्डायमाना नास्त्येव, तत्र प्रमाणाभावादिति-वा- ्यम्; अर्थान्तरत्वात्। नच तस्य पुरुपदोपत्वम्; तावतैव तव भङ्गोपपत्तेः। तश्वनिर्णयस्तु वैदिकैः सह करणीयः। तैरे- वच पृष्टे किमुत्तरमिति चेत्, श्रुतिस्मृतीतिहासपुराणान्येव। तथाहि-"मायान्तु प्रकृति विद्यान्मायिनं तु महेश्वरम्।" "ते ध्यानयोगानुगता अपश्यन् देवतात्मशक्तिं स्वगुणैनिगूढाम्" "नासदासीनो सदासीत्" "तम आसीत्" "तद्ेदं तर्ह्यव्याकृतमासीत्" "इन्द्रो मायाभिः पुरुरूप ईयते" "न तं विदाथ य इमा जजानान्यदुप्माकमन्तरं बभूव। नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश्ररन्ति" इत्याद्याः श्रुतयः सहस्रशः। तथा "आसीदिदं तमोभूतमप्रज्ञात- मलक्षणम्।" "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्" "दैवी ह्येपा गुणमयी मम माया दुरत्यया" "प्रकृतिं पुरुषं चैव विद्यनादी उभावपि" "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। प्रकृतिः पुरुषश्रव लीयते परमात्मनि।" इत्यादिस्मृतयः ॥ नच-एते शब्दा अदृष्टे समवेतार्थाः। तथाचोक्तम्-"इत्येपा सहकारिशक्तिरसमा मायादुरुन्नीतितो मूलतात्प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता। देवासौ विरतप्रपज्जरचनाकल्लोलकोलाहल: साक्षात् साक्षितया मनस्यभिरतिं बभ्नातु शान्तो मम"इति-वाच्यम्; उपादानकारणे प्रकृतिशब्दप्रयोगात्, ज्ञानबाध्ये च मायाशब्दप्रयोगात्। अदृष्टस्य तदुभयरूपत्वाभावात्। नच त्त्वज्ञानेनाऽटष्टबाधः, किंतु ध्वंसः । नवा सोऽपि; भोगेनैव क्षयाभ्युपगमात्। लोका- नुसारेणैव च वैदिकशब्दनिर्णयः, तत्परित्यागेन च स्वयं परिभापाकरणेनास्मत्प्रतिपक्षी भवान्, लोके चेन्द्रजालिके मायीति शब्दप्रयोगः । तथाच मिथ्यावस्तूपादानभूत एव मायाशब्दप्रयोगः। मृदादावुपादानकारण एव प्रकृतिशब्द- प्रयोगः । नच-प्रकृतिशष्दः स्वभावेऽपि प्रयुज्यमानो दृश्यते "प्रकृतिस्त्वां नियोक्ष्यति" दत्यादाविति-वाच्यम्, प्रकरणवशेनाथविशेषनिर्णयोपपत्तेः । तस्माददृष्टस्य मायादिशब्दवाच्यतवं श्रुतिस्मृत्यादिलोकविरुद्धम्॥। युक्तिश्ात्र भवति-असङ्गोदासीनकूटस्थाद्वितीयसवप्रकाशचैतन्यमात्रं ब्रह्म जगतः कारणं श्रूयते। नहि तस्माजगदु- तपत्तिः संभवति केवलात्; मुक्त्यवस्थायामपि उत्पत्तिप्रसङ्गात् । ततोऽनादिसिद्धभावभूताविद्याशक्तिसिद्धिः । श्रुतार्थापत्या क्षणभङ्गियागस्य कालान्तरभाविस्वर्गसाधनत्वानुपपत्याSस्याप्यपूर्वसिद्धिवत्। नच-अदृष्टमेव सहकारि भविष्यतीति-वाच्यम्; अविद्यामन्तरेणादृष्टस्यैवानुपपत्तेः । अतएव तज्ज्ञानिनोSदष्टोत्पत्ति नाभ्युपैपि। भ्रम एवावि- य्याशब्दवाच्य इति चेत्, न; सस्यापि जन्यधर्मत्वेनाऽऽत्माधारत्वानुपपत्तेः । असदायतनत्वाच्च तत्संस्कारस्तथेति चेतू, न; तस्यापि भ्रमवदुपादानसापेक्षत्वास। स्मृतिमात्रहेतोस्तस्य परोक्षत्वेन तत्वज्ञानानिरस्यतवेन च 'तदुक्त्तमर्थ न जाना- मी'ति साक्षिप्रत्यक्षविपयावरणत्वस्य 'एतावन्तं कालं ममेहाज्ञानमासीतवदुपदेशजन्येन ज्ञानेनाद नष्टमि'ति साक्षिप्रत्य- क्षत्वस्य ज्ञाननिरस्यत्वस्य चानुपपत्तेः। तथाच सर्वभ्रमतत्संस्कारोपादानत्वेन तत्वज्ञाननिवर्त्यत्वेन चाविद्यासिद्धिः। नच विद्याप्रागभावरूपाऽविद्या; तस्याः विद्यानिवर्त्यत्वात्, तन्निवृत्तिरूपत्वाद, विद्यायाः प्रागभावे मानाभावाच। नच- तथासति उत्पन्नोऽपि घट उत्पद्येत सामग्रीक्षणस्य कार्योत्तरत्वनियमादिति-वाच्यम्; 'एका सामग्रयेकमेव कार्यमर्जय- ती'ति नियमोपपत्तेः, तत्तत्क्षणादिरूपसहकारिविरहेण सामग्रीध्वंसाच्च, अदष्टविशेषाभावाच्, अभावरूपाज्ञानस्याऽडव- रकत्वानुपपत्तेश्र, तस्य सत्वं चाह सर्वेश्वरः-"अज्ञानेनावृऽऽतं ज्ञानं तेन मुदयन्ति जन्तव" इति ॥ 'अहमज्ञ:' 'मामहं न जानामी'ति च साक्षिप्रत्यक्षमज्ञानं ज्ञानसामान्यविरोधि भावरूपं गृह्णाति; तस्य ज्ञानसामा- न्याभावविषयत्वे धर्मिप्रतियोगिज्ञानाज्ञानाभ्यामनुपपत्तेः । प्रथमे ज्ञानस्य सत्वादेव ज्ञानस्य विषयविषयित्वनियमात्। द्वितीये च सामंर्यभावात्, ज्ञानाप्रतिसंधानेप्यहमज्ञ इत्यनुभावाच्च। नच-तदसिद्धम्; सर्वलोकानुभवसिद्धत्वात्। तदुपेक्षणे वादित्वान्निवर्तसे। 'किमपि न जानामी'ति चानुभवो निबिडं भावरूपमज्ञानमावेद्यति। प्रतियोगिज्ञाने च किमपीत्यस्यानुपपत्तेः । ज्ञानविशेषाभावविपयत्वे ज्ञातेऽपि न जानामीति प्रतीतिप्रसङ्गः। ज्ञानविशेषाभावानामा- संसारमनुवृत्ते: ।
Page 604
श्रीमधुसूदनसरस्वतीप्रणीतम्। २१
अनुमानं च देवदत्तनिष्ठा प्रमा, देवदत्तनिष्ठज्ञानाभावविपर्ययसंशयतत्संस्कारातिरिक्त्तविरोधिनिवर्तिका, प्रमात्वात्, यज्ञदत्तप्रमावत्। अर्थान्तरवारणार्थ साध्यविशेषणानि, देवदत्तनिष्ठपदं साध्याप्रसिद्धिवारणार्थम्, विरोधिपदमुदासीन- निवृस्याऽर्थान्तरवारणार्थम्। नचाप्रयोजकत्वम्; निरुपाधिसहचारभङ्गस्यैव बाधकत्वात्, स्वप्रकाशचिदपे ब्रह्मणि अस- कोदासीने भावरूपाज्ञानावरणमन्तरेण जगद्विभ्रमाधिष्ठानत्वानुपपत्तेः । नचैवंरूपत्वमात्मनोऽसिद्धम्; 'असग्गो हाथ पुरुष' इत्यादिश्रुतिशतेभ्यस्तस्य सिद्धेः, तस्याश्च प्रामाण्यानभ्युपगमे बौद्धनिराकरणयुक्तिभिरेव निराकरणीयोऽसि । नच-पतत्स्वप्रत्रियानुसारेणोक्तवतो नाड्गीकार्यमिति-वाच्यम्; सवैरव वादिभिस्तथाभिधानात्। नच-तवमप्य स्मत्प्रक्रियामाश्रित्य कथयसि। वस्तुतस्त्वसयाः प्रत्रियायाः श्रुतिस्मृतीतिहासपुराणसिद्धत्वेन वैदिकैरज्रीकर्तुसुचितत्वा- स्वमपि चेतथा भवसि, तदेमां स्वीकुरु ? न चेत्तदेवोक्तमेवोत्तरम्। तस्मात्प्रत्यक्षानुमानार्थापत्तिश्रुतिसिद्धत्वादश्ञानस्य भावरूपस्यानादितस्तादृटशाज्ञानतद्धीनान्यतरत्वं व्यावहारिकत्वमिति लक्षणं सिद्धम्। नच-पारिभापिकत्वापतिः । एतस्य रूपस्य सकललोकसिद्धत्वात्। नह्यज्ञानतत्कार्ययोः कश्चिद्विप्रतिपद्यते; तथासति तस्यापि व्यवहारस्यानिर्वाहा- पत्तेः। पारिभाषिकत्वेऽपि वादिना दूपणं वक्तव्यं, न त्वया तद्वकुं शक्यते; निराकरणात्। नच-अनादिभावस निवृ- शयनुपपत्तिरन्यथा ब्रह्मणोऽपि तथात्वापत्तिः केन वारणीयेति-वाच्यम्; निवर्तकसत्वासत्वाभ्यां विशेषोपपत्ते :; अज्ञा- नस्य ज्ञानमेव निवर्तकमिति लोकस्मृत्यादिप्रसिद्धम्। अन्यथाSनाद्यभावस्यात्यन्ताभावादेर्निवृत्यदर्शनात् प्रागभावस्या- प्यनादेर्निवृत्तिर्न स्यात्। विरोधिस्भावस्तूभयत्र तुल्यः । ननु-एवं सति पारमार्थिकत्वव्यावहारिकत्वलक्षणद्वि- विधसत्वस्वीकारे त्रिविधसत्वाभ्युपगमभङ्गप्रसङ्ग इति-चेत्, सोडयं स्वगोत्रकलहो नतु व्यावहारिकतवविवादः। नवा सोऽपि झटिति, बाधाबाधापेक्षया व्यावहारिकप्रतीतिकसत्वयोरभेदोपगमात्। वस्तुतस्तु-प्रपञ्चस्यैक- विधमेव सत्वम् ॥ इति श्रुतिस्मृतीतिहासादिभिरविद्यास्वरूपसमर्थनम्।
यद्वा-भ्रममान्रविपयत्वं व्यावहारिकत्वम्। यद्यप्यधिष्ठानाध्यस्यमानयोरेकज्ञानविषयत्वमस्तीति सद्रूपेण सर्वा- विष्ठानब्रह्मणो भ्रमचिपयत्वमप्यस्ति; तथापि न तन्मा्रविषयतवं, यतः तत्त्वमस्यादिवाक्यजन्यान्तःकरणवृत्तिरूपसा- क्षात्कारात्मकप्रमाविषयत्वमप्यस्तीति मात्रशब्देन तद्यावृत्तिः। ननु-भेदः पारमार्थिक इति ज्ञाने तवया भ्रमत्वेनाक्गी- क्रियमाणेऽस्य पारमार्थिकत्वांशबाधेऽपि धर्मी भेदोऽबाधित एव। तथाच तस्य प्रमाविषयत्वमस्तीति न भ्रममात्रविषयत्व- मिति-चेन्न; सर्वत्र भ्रमे ब्रह्मण एवाधिष्ठानत्वात्। तथाच धर्मिणि सर्व भानमभ्रान्तमित्यङ्गीकारेऽपि तनः काचितक्षतिः। नच-चक्षुर्जन्यज्ञाने कथमात्मनो विषयत्वम्? रूपवत एव द्रव्यस्य तथात्वात्। तथाच चक्षुर्जन्यज्ञानादावन्यदेवाविष्ठा- नम्, अन्यथा 'अहंरजतमि'ति बुद्धापत्तेरिति-वाच्यम्; सच्चिद्रूपानन्दस्वीकारादात्मनः। तथाघ यथा सत्तायाश्राक्षुषा- दिज्ञानविषयत्वं न विरुद्धं तथा ब्रह्मणोऽपि द्रव्यत्वं त्वठ्क्रियासिद्धं तवैव दोषमावहति; शुक्तयवच्छिन्नस्य रजताघिष्ठा- नत्वात्, अहंकारावच्छिन्नस्य चानधिष्ठानत्वात् अहमित्युल्लेखः पराकरणीयः । अन्यथा तवापि घटावच्छिस आत्मन्यह- मिति बुद्यापत्तिः । शरीरावच्छिन्नस्यैव तथाभावे ममापि तुल्यम्। नच-सर्वप्रत्ययवेद्यत्वे ब्रह्मणः स्वीक्रियमाणे सिद्धान्तविरोधः, "पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्" इति श्रुतिविरोधश्चेति-शङ्क- नीयम् ; निरुपाधिकस्यात्मनस्तथात्वाङ्गीकारात् सिद्धान्तश्रुतिविरोधानुपपत्तेः । तथाचोक्तं ब्रह्मसिद्धौ मण्डन- मिश्रैः-"सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते। प्रपञ्ञस्य प्रविलयः शब्देन प्रतिपाद्यते" इति। अन्येप्याङ्ग :- "अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्जकम्'। आद्यं त्रयं ब्रह्मरूपं जगद्रूपं द्वितीयकम्"-इति। त्रयमिति सत्ता ज्ञानं सुखमित्युच्यते। द्वितीयं नाम रूपं चेत्यर्थः । ननु-"नेति ने"त्यादिवे दवाक्यरजगननिंषेधः प्रतिपाद्यते, तथाच जगदपि निषेधप्रतियोगित्वेन तस्मिन् ज्ञाने भांसते, तञ्न ज्ञानं प्रमेति तवाभ्युपस्रतम्। तथाच प्रमाविषयतवं जगतो- इप्यस्तीति भ्रममात्रविषयत्वमसिद्धमिति-चेत्, न; यद्दर्शनजन्मा यो भ्रमस्तपर्शनमेव तददर्शननिवृश्या तं भ्रमं निवर्तयतीति नियमाच्छुक्तयदर्शनजनिते रजतभ्रमे 'शुक्तिरियं' इति ज्ञानेन निवर्तिते। यथा 'नेदं रजतमि'ति वाक्यम- थंप्राप्तं रजतनिपेधमनुवदृति, तथा तत्वमस्यादिविधिवाक्यज निताखण्डाद्वितीयसच्चिदानन्दात्मविषयान्त:करणवृत्तिरूप- साक्षात्कारेण विरोधिना सविलासायामविद्यायां निवर्तितायामर्थप्राप्तं जगन्विपेधमनुवदन्ती निषेधश्रुविस्तुवादकत्वलक्ष- णप्रामाण्यमभुवाना न जगदंशे प्रमाणत्वेनोपन्यासमहति, 'अप्राप्ते शास्त्रमर्थव'दितिन्यायादिति वैदिकं प्रति वकुं शक्य- स्वात्। तार्किकं प्रत्यपि "न सुरां विबेदि"त्यत्न सुरापानमिष्टसाधनमिति यत्तन्नेति निषेधबोधने सुरापानेष्टसाधनतांशे प्रतियोगिनि श्रुतेर्न प्रामाण्यम्; रागप्राप्तत्वात् निषेधानुपपत्तेर्विकल्पापत्तेश्रेति यथा, तथा प्रपञ्ञांशेऽपि श्रुतेर्न प्रामाण्यम्; पूर्वोक्तदोषभयादेवेति वक्तुं शक्यत्वात्। नच-प्रतियोगिनो मानप्राप्तत्वे तद्दटितस्य निपेधस्यापि तथा- स्वम्, निषेधस्याप्रामाणिकत्वे प्रतियोगिन एव प्रामाणिकत्वापत्तिरिति-साम्प्रतम्; निषेघ्नांशस्य बाधाभावेन प्रमा-
Page 605
२२ अद्वैतरत्नरक्षणम् ।
विषयत्वोपपत्तेः । ननु-प्रपञ्ञनिषेधस्य प्रामाणिकत्वे तेनैव द्वैतापत्तिः, अप्रामाणिकत्वे च सिद्धं नः समीहितमिति- चेत्, न; भावाद्वैतस्वीकारात् अभावमात्रे, प्रकारवद्भावाभावे तार्किकवच्चाधिकरणातिरिक्त्काभावानङ्गीकाराद्वा वस्तुतस्तु-प्रपञ्चस्य न भावो नाप्यभाषः, किंत्वधिष्ठानब्रह्मात्मकत्वमेवेति तृतीयः पन्थाः, अधिष्ठानमेव अध्यस्तस्य स्वरूपं तद्भावस्यापीति सिद्धान्तरहस्यम्। कथमन्यदन्यस्य स्वरूपं स्यादिति-चेन्न; अन्यत्वस्यानङ्गीकारान्तदेव हि तत्। कथं तर्हि तथाप्रतीतिरिति-चेत्, भ्रान्तोऽसि; यस्यां दशायामीदृशं तश्वं साक्षात्कृतं तस्यां तथाप्रतीतेरसिद्धि रेव यतः, तस्मान्वावनिषेधोऽभाव इति ये स्वीकुर्वन्ति, तेषामयं दोषो न त्वस्माकम्, तृतीयस्य स्वीकारात्। तसमाद्न ममात्रविषयत्वं व्यावहारिकत्वमिति लक्षणं सुस्थम् ॥ यद्वा-बाधितत्वमेव व्यावहारिकत्वं तच्वाधिष्टाने ब्रह्मणि अविद्या तत्कार्य च नासीदस्ति भविष्यतीति प्रमाविष- याभावप्रतियोगित्वम्, त्च ब्रह्मणि नास्ति; तस्य तादग्बोधविषयत्वेऽपि निषेधप्रतियोगित्वाभावात्। इदमेव च मि- थ्यात्वमनिर्वचनीयरवं च कथ्यते। नच-पारिभाषिकत्वापत्तिः; प्रमाणसिद्धत्वात्। नच-प्रपञ्चस्यापि प्रमाविपयत्वेन सत्यरवापत्ति :; प्रपञ्चांशे तस्य ज्ञानस्य प्रमात्वाभावात्।।
यद्वा-अबाध्यत्वेनाशक्यावस्थानत्वमेव व्यावहारिकत्वम्। नच-बाधस्य निरसनादसिद्धमिदमिति-साम्प्रतम्; भेदबाधकयुक्त्तेरुक्तत्वात्, प्रपञ्चस्यापि ज्ञानेन सह संबन्धानिरूपणात् सिध्धनुपपत्तेः । स्वरूपमेव संबन्ध इति चेन्न; तस्य घटज्ञानपटयोरपि सर्वात्। स्वरूपविशेष इति चेन्न; तदनिर्वचनात्। संबन्धान्तरमन्तरेण विशिष्टप्रत्ययजन- नयोग्यत्वमिति चेन्न; योग्यतावच्छेदकरूपापरिचये योग्यत्वस्यैव दुर्जेयत्वात्। तद्यदि घटत्वादिकं ज्ञानत्वं तदाऽतिप्रस- कमू ; यतः पटज्ञानस्यापि ज्ञानत्वं वर्तते घटस्य च घटत्वम्, तयोरपि स्वरूपसंबन्धत्वापत्तिः । नापि घटज्ञानत्वादिकम्; ज्ञानस्य घटीयत्वस्यैव विचार्यमाणत्वात्। तथाचान्योन्याश्रयः। तत्तत्स्वरूपमेव तथेति चेन्न; विशिष्टप्रत्ययस्यानियतहे- तुकत्वापत्ते: । किंच प्रत्ययशब्देन ज्ञानमात्रं वा प्रमा वा विवक्षितम्। नाद्यः; भ्रमजनकत्वस्य सर्वत्र संभवेनातिप्र- सङ्गापत्तेः । न द्वितीयः; अन्योन्याश्रयापत्तेः । तथाहि-यत्र यदस्ति तत्र तस्यानुभवः प्रमा, तथाच अस्तीति यदि विद्यमानता, तदा पाकरक्ते श्यामोऽयमिति घीः प्रमा न स्यात्; तदानीं तत्र तस्याविद्यमानत्वात्, 'स एवायमि'ति तत्तांशेऽपामाण्यापत्तेश्र, तस्मादस्तीति वृत्तिमात्रं वक्तव्यम्। वृत्तिश्च संबन्धः, सच संयोगः समवायः स्वरूपलक्षणो वा, तथाचान्योन्याश्रयः । अथ संबन्धमात्रं तत्र ज्ञायते नतु विशेष इति चेत्, तदपि अविशिष्टप्रत्ययव्यावृत्तविशिष्टधी- नियामकत्वमेव, तथाच धीपदेन ज्ञानमात्रविवक्षायामतिप्रसक्तिः, प्रमाविवक्षायां चात्माश्रयादिः। विशिष्टशब्दस्य संब- न्धघटितत्वेनात्माश्रयादिः। नियामकत्वं यदि जनकत्वम्, तदा संबन्धेष्वननुगतेपु तदशक्यग्रहणम्, अनुगतस्य नु विचार्यमाणतमेव । किंचातीतानागतविपयस्थले विशिष्टप्रत्ययं प्रत्यजनकत्वात्तद्योग्यत्वस्य तत्र वक्तमशक्यत्वा- दव्याप्तिः। असदेव तज्जनकमिति चेत्, योग्यस्यापि तथैव जनकत्वोपपत्तावद्दष्टकल्पनानुपपत्तिप्रसङ्गात्। दण्डादेरप्य- सतएव जनकत्वापत्ती जितमसद्वादिना। अथ तग्र ज्ञानमेव विशिष्टप्रत्ययजनकमिति चेन्न; तस्य केवलस्यासंबन्ध- खवात्। द्वयं हि संबन्धः । अगत्या तत्रकमपि संबन्ध इति चेत्, तर्ह्यगत्या संबन्धाभावेऽपि संबन्धबुद्धिरस्तु। तथासति बुद्धिर्भ्राम्ता स्यादिति चेन्न; इषटापत्तेः। किंच यधेकमपि संबन्धः, घटस्यापि कथं घटः संबन्धो न भर्वत ? तथा प्रतीत्यभावादिति चेत्, यदि वस्त्वस्ति प्रतीतिरपि स्यादेव। अथ ज्ञानमतीतविपयेण सह स्वस्य संबन्धः नतु स्वस्य स्वयं संबन्ध इति चेतु, तर्द्यतीतस्यासत्वादेव तेन सहेत्यनुपपत्तेः। किंच 'घटीयं ज्ञानमि'ति या विशिष्टबुद्धिर्जायते तां प्रति घटो न जनकः, किं तर्हि ज्ञानमात्रम; अनुव्यवसायस्य ज्ञानातिरिक्तविणयाजन्यत्वात्। तदुक्तं मणिकृता- 'अनुव्यवसायस्यानुमितेर्वा विषयाजन्यत्वाद' इति। किंच स्वरूपद्वयस्य संबन्धत्वे, घटीयं ज्ञानमिति न स्यात्; घटीयत्वं हि घटसंबन्धाधारतं ज्ञानमपि घटसंकाधमध्ये प्रविष्टम्। तथाच स्वस्मिनं स्ववृत्तिर्न संभवतीति। किंच परकीयं ज्ञानं ज्ञानत्वेन गृहीतं घटोऽपि घटत्वेन तथापि संशयो विद्यते-परो घटं जानाति न वेति परज्ञानस्य घटो विषयो न वेति वा। सोयं न स्यात्; ज्ञानघटस्वरूपद्वयस्य संबन्धत्वात्तस्य च निश्चितत्वात् । स्वरूपविशेषो न गृहीत इति चेत्, नूगं शिष्यधन्धकोऽसि; यतोऽतिरिकं न स्वीकरोषि, तहूयं च गृहीत्वाऽगृहीतं वदसि। विशेषणताविशेपो न गृहीत इति चेत्, सोऽप्यतिरिक्तानतिरिक्तविकल्पेन खण्डनीयः । अथ विपयविपयिभावो ज्ञानाथयोः संबन्ध इति चेन्न; तस्यातिरिक्तत्वे कृतान्तविरोध:, अनतिरिक्तत्वे तूक्त एव दोप :; संयोगसमवायावसंभावितावेव, ज्ञानस्य गुणत्वाभ्युपगमात्, आत्मनि समवायाभ्युपगमाच्। नापि ज्ञानघटयोर्ञातलक्षण एव संबन्ध :; तत्सरवे प्रमाणाभावात्, अतीतानागतयोस्तदसंभवाच्च। ज्ञातताया: संबन्धान्तराभ्युपगमेऽनवस्थानात्, तद्भावे च तयोरेव ज्ञातता न स्यात्, स्वरूपसंबन्धस्य च निरा- कृतत्वात्। नापि ज्ञानार्थयोस्तादात्म्यसंबन्धः; विरुद्योस्तादालयानुपपत्तेः प्रकाशतमसोरिव नापि ज्ञाननिष्ठाकारा- र्पकरवं विषयत्वं तद्वस्वं च विषयित्वमिति; अर्थस्याकारार्पकरवे प्रमाणाभावात्, संबन्धं विना तदसंभवाच। तम्मातू
Page 606
श्रीमधुसूदनसरस्वतीप्रणीतम्। २३
ज्ञानार्थयो: संबन्धाभावेन ज्ञानस्य तरिसद्धिरूपत्वानुपपस्ते: सेयं जगत्कबलनयुक्तिः। तम्ात्सुषटूक्तम् अबाध्यत्वेनाश- क्यव्यवस्थापनत्वमेव व्यावहारिकतवमिति ॥ यद्वा-अलीकश्वमेव व्यावहारिकत्वम्। नच-तथासति विधिनिषेधगोचरत्वानुपपत्तिः; तमोरप्यलीकरबात्। नचापसिद्धान्तः; "तत्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति" इति वार्ति ककृताऽभिधानात्। येन संबन्धेन यद्वच्छेदेन यस्य यद्धिकरणत्वं तेन संबन्धेन तदवच्छेदेन तस्य तब्रिष्ठकालत्रयवत्य- त्यन्ताभावप्रतियोगित्वमेव चासत्वमलीकमित्यादिभि: कथ्यते। "तुच्छाऽनिर्वचनीया च वास्तवी चेति सा त्रिधा। जेया माया त्रिभिर्बांधैः श्रौतयौक्तिकलौकिकेः" इति श्रुतिषष्या तुच्छत्वमेव; "प्रपञ्चो यदि विधेत निवर्तेत कथं च न;"
यद्वा-अमोक्षात्मकत्वभेव व्यावहारिकत्वम्। नचेष्टापत्तिः; अस्मदभिमतज्ञानानन्दस्वरूपमोक्षात्मरूपभिस्नत्वस्य भवताऽनभ्युपगमात्। नच-मोक्षस्य दुःखध्वंसरूपत्वात्तस्य चान्योन्याभावभिन्नत्वादिष्टापत्तिरस्मन्मते स्यादिति- वाच्यम्; मोक्षस्य दुःखाभावरूपतवे प्रमाणाभावात्। नच "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत" इति श्रुतिर्मानम्; यदा शरीरं नास्ति तदा प्रियाप्रियस्पर्शो नाम्तीत्येतावन्मात्रं श्रुतेरर्थः नतु दुःखाभावस्य मोक्षतवे सा श्रुतिः प्रमाणम्। तत्र तस्या असामथ्यात्, प्रलयकालेऽपि तत्संभवात्। नच "बाधनालक्षणं दुःखरं तदत्यन्तविमोक्षोऽपवर्ग" इति सूत्रं प्रमाणम्;तस्याप्तविधया प्रामाण्याभावात्, ततोऽत्यन्ताभावप्रतीतेश्र। युक्तयुत्थापकरवेन प्रामाण्ये तथाविधयुक्तेर भावात्। पुरुपार्थत्वाद्युःखाभावो मोक्ष इति चेन्न; सुखस्यापि तथात्वापत्तेः। तस्य ततकालेऽसंभव इति चेन्न; अनित्यस्यासंभवेऽपि नित्यस्य संभवात्। विरक्तस्य मोक्षेऽधिकारस्तस्य च सुखे कामना नास्ति चेत्, दुःखाभावेपि न स्यात्। नहि दुःखाभा- वेच्छा न रागः,अपितु सुखेच्छैवेति नियामकमस्ति। तथापि च विषयसुख एवोपेक्षा स्यात् नतु नित्येऽपि, तत्र क्षयिष्णु- त्वादिदोपाभावेन वैराग्यानुपपत्तः । किंच दुःखाभावस्य काम्यत्वे दुःखविशिष्टस्याभावस्य कामनाविषयत्वे दुःखस्यापि तदापत्तौ पुरुषार्थत्वापत्तिः। अथ-दुःखेनोपलक्षितं व्यक्तिस्वरूपमेव काम्यं, कथमन्यथा लौकिकदुःखाभावोऽपि काम्यः स्यादिति-चेन्न; व्यक्तिमात्रस्य काम्यत्वेऽतिप्रसङ्गात्। व्यक्तिविशेपस्य च तथात्वे प्रतियोग्यतिरित्तस्य तस्य वक्तुमशक्यत्वात्। व्यक्तिरेव विशेष इति चेन्न; अननुगमे तत्कामस्याधिकारित्वं न स्यात्, श्रुत्या वक्तुमशक्यत्वात्, व्यक्तयन्तरस्यापि व्यक्तिविशेपत्वाञ्च। लौकिकदुःखाभावोऽप्यस्मन्मते सवतो न काम्यः; उक्तदोपात्। किं तर्हि ? तद- भिव्यक्तो ब्रह्मानन्द एव; तदर्थत्वेनैव यथाकर्थंचित्तत्र कामनोपपत्तेः । अन्यथा भारापनये सुखिनः संवृत्ताः स इति प्रत्ययो न स्यात्। तत्रात्मनि सुखत्वारोप इति चेन्न; बाधकाभावात्। नहि नाहं सुखी संवृत्त इति विपरीतप्रत्य- यस्तस्यास्ति। अथ,विपयजन्यत्वात् सुखस्य तत्र च विपयाभावात् युक्त्या बाध इति चेन्न; मानोरथिकस्वामिकदुःखादौ विषयजन्यत्वाभावेऽपि सुखस्याबाधान्। तन्र तद्विषयज्ञानमेव जनकमिति यदि, तर्हि भारापगमेपि दुःखाभावस्य भारापनयज्ञानस्य वा सुखजनकत्वं स्वीकुरु, अनियतहेतुकस्यावश्यमेष्टव्यत्वात्। एतावांस्तु विशेष :- तव जन्यं सुखं मम तु सदेव ब्रह्म सुखमभिव्यक्तमिति। अतएव सुपुप्ते सुखानुभव उपपद्यते, अन्यथा 'सुखमहमस्वाप्समि'ति परामर्शों न स्यात्। ननु-नित्यस्य सुखस्य स्वप्रकाशस्य काऽभिव्यक्तिर्नाम ! आवरणध्वंस इति वदामः । कि तदावर- णम् ? यस्य ध्वंसः, भावरूपमज्ञानमिति गृहाण। किंचातिरिक्ताभावे मानाभावाक् न दुःखाभावो मोक्षः; अनति- प्रसक्ताधिकरणस्वरूपेणैव अत्यन्ताभावान्योन्याभावप्रतीत्युपपत्तेः, अभावप्रतियोगिताभावाधिकरणयोस्तयोस्तथव भव- ता स्वीकाराच्। प्रागभावस्तु कपालादिस्वरूप् एव; अतिरिक्तस्य तस्य सत्वे मानाभावस्य पूर्वमुक्तत्वात्, ध्वंसोऽपि मुद्रादिपातादिरेव; तदतिरिक्तस्याननुभवान्। नच-मुद्गरपाताजातो ध्वंस इत्यनुभवः कथं स्यादिति-वाच्यम्; तस्यासिद्धेः । मुद्राज्ातो ध्वंस इत्येवानुभवः। मुद्गरपातस्तु तज्न्यो भवति। एकध्वंसाधिकरणयोः संबन्धानुपप- त्ेश्र, स्वरूपसंबन्धस्य पूर्वमेव निराकृतत्वात्। यद्वा-कपालावस्थैव घटस्य ध्वंसः; गुणगुण्यादिभेदाभावात्, न पृथक् ध्वंसः । तस्मातसुष्ट्क्तम् अमोक्षात्मकत्वमेव व्यावहारिकत्वम्॥ यद्ा-मोक्षोपायज्ञानाविषयत्वमेव व्यावहारिकत्वम्। नच-श्रवणज्ीनां भेदविषयत्वात्कथमेतदिति-साम्प्र- तम् ; तेपां भेदविपयत्वे प्रमाणाभावात्। अभिन्नत्वेनच श्रूयत आत्मा। तथाहि-"ब्रह्म तं परादाद्योऽन्यत्रातमनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद" इत्यादयुक्त्वा "सर्व तं परादाद्योऽन्यत्रात्मनःसर्वं वेद-यद्यमात्मा" इत्यादिवाक्यानामस्थूलादिवाक्यानां चात्यन्ताभावपरत्वं व्याख्यातमेव। तथाच भेदस्य मोक्षविषयात्मज्ञानविषयस्वं भ्रम एव तार्किकंमन्यस्य। नच-शरीरात्मभेदज्ञानं विना कथं मोक्षसद्मेदज्ञानस्य संसारहेतुत्वादिति-वाच्यम्; ब्रह्मात्माज्ञानस्यैव संसारहेतुत्वात्। प्रतिपादितं चैतदुधस्तात् ।। यद्ा-मुकेनावेद्यत्वमेव व्यावहारिकत्वम्। न चेष्टापत्तिः; तदानीं भेदस्य सत्वे वेदनापत्तेर्वज्जलेपामितसवात्।
Page 607
२४ अद्वैतरत्नरक्षणम्।
वेदनाभावास जानातीति चेन्न; "नहि द्रषुर्टष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्" इत्यादिश्रुत्या वेदनसन्भावस्य सर्वदा प्रतिपादितत्वात्। तत्प्रामाण्यानभ्युपगमे तु बौद्धवदुपेक्षणीयोऽसि। तसमात्तदानीं प्रपञ्चस्यासत्वादेवावेदनीयता। तदयं
स्वमते तु ग्रूमः। सति प्रमातरि बाध्यतवं सविकल्पकज्ञानबाध्यतवं मोक्षसाधनेतरज्ञानबाध्यत्वं वा प्रातीतिकत्वम- विद्योपाधिकम्। प्रमात्रा सह बाध्यतं मोक्षहेतुज्ञानमात्रबाध्यतवं मायोपाधिकं व्यावहारिकत्वम्। एकस्यैवाज्ञानस्य किंचिदवच्छिस चैतन्यविषयत्वेनानवच्छिन्नचैतन्यविषयत्वेन चाविद्या मायेति व्यपदेशः। तदेतन्वेदप्रपञ्चसाधारणं त्रयम, पूर्वोंक्त तु त्रयं शुक्तिरजतसाधारणम्॥। एतड्टूयविलक्षणत्वं ब्रह्मण: पारमार्थिकतवं नाम। नच-विलक्षणतवं वैधर्म्यम्। तथाच भेदस्य नामान्तररूपमिति -वाच्यम्; स्वप्रकाशचित्स्वभावस्यैव तथाऽभिधानादिति। तस्मा्यावहारिकत्वपारमार्थिकतवविशेषाङ्गीकारे महदिष्ट वेदान्तिनामनिष्टं च तार्किकाणामिति। नच-धर्मद्वयवद्धर्मिद्धयस्वीकारे इष्टापत्तिरिति-युक्तिमत्; प्रपञ्चस्य बाधेना- स्थन्ताभावस्वीकारात्, ब्ह्मस्वरूपस्यैव च पारमार्थिकश्देन कथनात्। तस्मात् सत्यो भेद: प्रपज्जो वेति वृद्धैस्तार्किकैबों- धितमाकपर्याडर्वाचीना अपि तार्किका व्यामुग्धा वर्तन्ते। वस्तुतस्तु प्रमाणसिद्धमद्वैतं प्रपज्जो वा कालत्रयेऽपि नास्तीति सिद्धम्॥ इति भ्रममात्रविषयत्वबाधितत्वादिव्यावहारिकत्वनिर्वचनेन सत्तात्रैविध्योपपत्तिः॥ अथ प्रपश्चसत्यत्वानुमानभङ्ग:।। ननु-अस्वनुमानात्प्रपञ्चस्य सत्यत्वम्। तथाहि-भेदः, पारमार्थिको, व्यावहारिकत्वात्, यन्न पारमार्थिकं तभ व्यावहारिकं यथा ब्रह्माद्वैतम्, नायं व्यावहारिकस्तस्मात्पारमार्थिक इति व्यतिरेकीति-चेत, पारमार्थिकत्वं यदि स्वप्रकाशचिद्रूपत्वं, तदा बाघः, तवानङ्गीकारश्र। अथ सत्तायोगित्वम्, तथापि तथा। अथ बाघविधुरत्वम्, तदपि न; पूर्व बाधस्योक्तत्वात्, ब्रह्माद्वैतसाधनभावेनास्मन्मते व्यतिरेकव्याप्तिभूम्यभावाच्च। शुक्तिरजतादौ च हेतुर्व्यभिचारी पक्षहेत्वोर्भेदासिद्धौ तदनुपपत्तेश्र । साध्याप्रसिद्धौ व्यतिरेकव्याह्यग्रहः । प्रसिद्धौ चानुचिता। तदीदृशमनुमानं प्रयु- आनो नूनमजैषीखपां परं नतु प्रतिपक्षिणमिति॥ अथास्त्वन्वयी हेनुः, तथाहि-पारमार्थिकत्वापारमार्थिकत्वाभ्यां विवादपदं भेद:, पारमार्थिकः, व्यावहारिक- त्वात् यद्यव्यावहारिकं तत्तत्पारमार्थिकं यथा ब्रह्म, पारमार्थिकत्वव्याप्यव्यावहारिकत्ववांश्चायम्, तस्मात्पारमार्थिक इति चेम; साध्यसाधनविकलत्वादृष्टान्तस्य। नहि ब्रह्मण्यविद्यातत्कार्यान्यतरत्वस्य व्यावहारिकत्वस्य त्वद्भिमतस्य वा सत्तायोगित्वादे: पारमार्थिकस्य सत्वमस्माभिः स्वीक्रियते; उभयसिद्धस्यैव दृष्टान्तत्वात्। तथापि शब्दप्रयोगरूपं व्यवहारविषयत्वमस्तीति चेन्न; "यतो वाचो निवर्तन्त" इत्यादि श्रुत्या तन्निपेधात्, स्वप्रकाशे तस्मिन् तत्प्रतिपाद्यत्व- स्याप्यसिद्धेः। कथं तर्हि वेदान्ता ब्रह्मणि प्रमाणमिति चेत्, तदाकारान्तःकरणवृत्युत्पादनद्वारा तन्निष्टाज्ञाननिवर्तकत्वा- देव। तदाकारत्वं च वृत्तिनिष्ट एव कश्चिदनिर्वचनीयो धर्म इत्यद्वैतसिद्धौ विस्तरः। तदुक्तं-"सिद्धं तु निवर्तकत्वात्" इति। किंच उपहितस्य ब्रह्मणो व्यवहारविषयत्वेऽपि न तस्य पारमार्थिकत्वम्, तथाच साध्यविकलता। निरुपाधिकस्य तु सर्वव्यवहारातीततैव। नच-ज्ञानरूपो व्यवहारस्तन्रास्तीति-सांप्रतम्; तस्यैव ज्ञानरूपत्वेन तत्र ज्ञानान्तरा- स्वीकारात्। नच-ब्रह्मण: सर्वाभिव्नत्वेन घटाथानयनादिव्यवहारोऽपि त्वन्मते तस्यैवेति-सांप्रतम्; सर्वाधिष्टान- स्वस्यैव सर्वाभिन्नशब्दार्थत्वात् यथा सर्पाद्यभेदेपि रज्वा: स्वीक्रियमाणे न सर्पाद्यानयनं तस्या भवति। यदि सर्वस्य ब्रह्माभिन्नत्वमेव निरणायि तदा व्यवहारस्यातिरिक्तस्याभावात् कस्य ब्रह्म विपयः स्यादिति परिभावय। नच-ब्रह्म न व्यावहारिकमित्यम्ततो निषेधरूपव्यवहारस्यापि त्वयाभ्युपगमादन्यथा व्यावहारिकत्वानिषेधे व्यावहारिकत्वमयत्- सिद्धमिति-वाच्यम्; निषेधकशब्दाविषयत्वेऽपि तदाकारान्तःकरणवृत्तयुत्पादनेन परभ्रमनिरासफलत्वाच्छन्दस्य व्यावहारिकत्वानिषेधेऽपि तत्साधकप्रमाणाभावादेव ब्रह्मणि तदसिद्धेश्च। शक्तिनिषेधकाभावेऽपि तत्साधकप्रमाणाभा- वादिव तदसिद्धिः। किंच "एकमेवाद्वितीयं नेह नानास्ति किंचन" इति श्रुतिः सर्वनिषेधं ब्रह्मणि बोधयन्ती व्यव- हाराभावमपि बोधयत्येव। नच-द्वितीयत्वादिरूपेण अ्ह्म व्यवहरणीयमित्येतत्परैवेयं श्रुतिरिति-वाच्यम्; व्यवहार- स्याशब्दार्थत्वात्, तथापि तथात्वेऽतिप्रसङ्गात्। बाधकसर्वात्प्रकृते तथा कल्प्यत इति चेन्न; श्रुतेरन्यस् बलवतः प्रमाणस्याभावात्। सर्वतो बलवती हि श्रुतिः । किंच मायामयव्यवहारविषयत्वेन माथामयत्वमेवाऽडयाति, नतु पार- मार्थिकत्वम्। तथाच ब्रह्मणि परमार्थतो व्यवहारविपयत्वं नास्त्येवेति सिद्धम्। तथाच यथा यथा तव व्यवहा- रविषयरवसाधने यतः तथातथा तद्विषयत्वमेवायातीति महत्कौतुकमित्यात्मानमुपालभख ॥ अथाह्त्वद्मनुमानम्-भेदः, पारमार्थिको, वेद्यत्वातू, यदेवं तदेवं, यथा ब्रह्म, तथाचायं, तस्मारथा, वेद्यखवं च
Page 608
श्रीमधुसूदनसरस्वतीप्रणीतम्। २५
वेदनविषयत्वं, तञ्व तव मते ब्रह्मण्यप्यस्त्येव। तथा-भेदः, प्रमाविषयः, ज्ञानविषयत्वात्, यदेवं तदेवं, यथा ब्रह्म, तथाचायं, तस्मात्तथेति-चेस; वेद्यत्वस्य ब्रह्मण्यसिद्धेः, "अन्यदेव तद्विदितादथोऽविदितात्" इति श्रुतेः। "श्रोतव्य" इत्यादिरपि श्रुतिरस्तीति चेन्न; तदाकारान्तःकरणवृत्युत्पत्तिमात्रफलकत्वात्तस्याः, नतु तावता ज्ञानविषयता समा- याति। ज्ञानं हि वृत्तिस्तदभिव्यकं चैतन्यं वा। तत्रान्त्ये भेदघटिता विषयता कथमभेदे स्यात्?। आद्यऽपि वृत्तेरे- वानिर्वचनीयाया अनिर्वचनीयतदाकारत्वं नाम धर्मो नत्वतिरिक्ता विषयतास्तीत्युक्तम्। समानसत्ताकयोरेव हि संब- न्धो नतु सत्यानृतयोः । किंच त्वन्मते विषयत्वं हि स्वरूपसंबन्धविशेषः। तस्य च ज्ञानस्य मायामयत्वेन ब्रह्मणा समं स्वरूपसंबन्धानङ्गीकारात्। किंच वेद्यत्वमस्तु, पारमार्थिकत्वं मास्तु इति विक्षेपको दोपः। तथासति वेद्यत्वमपि न स्यादिति चेन्न; कार्यकारणभावादेबाधकस्याभावात्। पारमार्थिकत्वव्यतिरेके वेद्यत्वव्यनिरेकस्य त्वयाऽनङ्गीकारात् दृष्टान्तभूमेरभावात् हेतु: केवलान्वयी भविष्यतीति-चेन्न; अप्रयोजकत्वात्। किंच शुक्तिरजततादालये शशीये च विषाणादौ हेतुर्व्यभिचारी, नतु तयो: पारमार्थिकत्वप्रमाविषयत्वयोः संभवः। ननु-तादात्म्यं नाम तद्ृत्तिर्धर्म एव, तथाच रजतत्वं शुक्तो प्रतीयते, तच्च पारमाथिकमेव प्रमाविपयश्च तत्संसर्गस्तत्र नास्तीति-चेत्, नः तस्याप्य- न्यत्र विद्यमानत्वात्। नहि तद्तिरिक्तवैशिष्टयं शुक्तो भासते। कथं तर्हि शुक्तो रजतज्ञानं भ्रम इति चेत्, व्यधि- करणप्रकारावच्छिन्नविषयताप्रतियोगित्वेन, विशेष्यावृत्तिधर्मप्रकारत्वेन, विशेष्यनिष्ठात्यन्ताभावप्रतियोगिधर्मप्रकारत्वेन वा। व्यधिकरणप्रकारत्वेन नत्वसद्विषयतया वणिग्वीथ्याद्यनुभूतरजतत्वस्य स्मरणे सति शुक्ताविन्द्रियसन्निकृष्टायां शुक्तिरजतयोभेदग्रहाभावे सामग्रीवशात्तादृशारोपसंभवात्। तथाच नैयायिकानां ज्ेयत्वप्रमेयत्वयोरविनाभाव एवेति व्यभिचारः। ननु-रजततादात्यं शुक्ती नाम्नि, तथाच कथं सदेव वैशिष्टयं शुक्त्तो भासत इत्यङ्गीकरिष्यसीति- चेत्, त्किं रजततादात्म्यस्य क्वचिदभावोऽम्नीति तस्यापारमार्थिकत्वं, तदा तादृशमपारमार्थिकत्वं घटपटादीनां सर्वेषामप्यङ्गीकुर्मः । कोहि घटादीनामभावप्रतियोगित्वं नाड्गीकरोति। एतेन-स्वप्रटृष्टकामिन्यादीनामपि तरङ्गप्रसङ्गा- नुभूतचन्द्रभेदादीनामपि पारमार्थिकत्वमभ्युपगच्छतामस्माकं तटटृष्टान्तावष्टम्भेन जागराद्यवस्थानुभूयमानघटपटतन्जे- दानामपारमार्थिकत्वानुमानं न किंचिदनिष्टमापादयतीति बोध्यम्।
अत्रोच्यते-एवं हि तादात्म्यारोपसंसर्गारोपयोर्भेंदो न स्यात्। उभयत्रैव धर्मस्यैवाऽडरोपात्। नहि केवलस्य संस- गस्यारेपः, अपितु कस्यचित्। तथाच सर्वत्र धर्मारोप एव। नचेष्टपत्तिः; तादात्म्यारोपसंसर्गारोपयोस्तत्र तत्र शास्त्रे भेदेनोपादानान्। किंच शुक्तित्वविशेषदर्शनानन्तरम् 'इदं रजतं ने 'त्यन्योन्याभावबुद्धिरम्ति तव मते, वैधर्म्यज्ञानस्य तदकफलकत्वाभ्युपगमात्। तथाच शुक्तिरज़तयोरभेदरूपतादात्म्यारोपाभावे अभेदनिषेधरूपाऽन्योन्याभावबुद्धिर्न स्यात्। रजतत्वसंसर्गारोपे 'रजतत्व्रमिह नाम्नी'ति बुद्यापत्तिः; नतु रजतमिदं न भवतीति-भूतले घटसंसर्गारोपे भूतले घटो नाम्नीतिवत्। नच-रजतत्वारोप एव रजतनिपेध इति-सांप्रतम्; अन्यारोपेऽन्यनिपेधेऽतिप्रसङ्गात् । तस्माच्छुक्तिरजतयोरभेदाख्यं तादालयं अ्रमे भासते, तन्निपेधे तादात्याभावरूपोऽन्योन्याभावो विहतो भवति । ननु-तथापि नानिष्टमस्माकम्; रजताभेदस्य रजत एव प्रसिद्धत्वात्। स एव पुरोवर्तिनि आरोप्य निपिध्यत इति-चेत्, न पुरोवर्तिना समं रजनाभेदो भासते-पुरोवर्तिनाऽभिन्नं रजतमिति। तथाच पुरोवर्तिना सह रजता- भेदोसिद्ध एव। अन्यथा पुरोवतिनि रजताभेद इति बुद्यापत्तिः, नतु इदं रजतमिति। किंच रजते प्रसिद्धस्याभेद- स्येहारोप्यमाणत्वे 'रजताभेदः पुरोवर्तिनि नाम्ती ति बाधस्याकारः स्यात्, नतु इदं रजतं न भवतीति; संसर्गारोपे तथ- व दर्शनात्। किंच रजतान्योन्याभावाभाको रजताभेदो रजतमेव। तथाच रजतमारोप्यत इत्युक्तं स्यात्। तथाच नोक्तरूपं बाघशरीरं स्यात्, तस्मादकामेनावि पुरोवतिरजतयोरभेद एवान्योन्यात्मा भासत इत्यङ्गीकर्तव्यम्। किंच नात्र रजतत्वसंसर्गारोपः संभवति; रजतत्वसंसर्गस्य समवायरूपस्य शुक्तौ विद्यमानत्वात्। समवायस्यैकत्वात् रजतत्वनि- रूपितः समवायस्तत्र नास्तीति चेन्न; य एव रजतत्वनिरूपितः समवायो रजते तस्यैव शुक्तावपि भावात्। अन्यथा तश्निरूप्यत्वतदनिरूप्यत्वयोर्विरुद्धयोर्धर्मयोरध्यासाद्धर्मभेदापत्तेः। तर्हि रजतत्वमपि तत्र स्यादिति चेत्, आत्मानमु- पालभस्व यस्त्वमेकमेव समवायं स्वीकरोपि। ननु-रजतत्वात्यन्ताभाव एव शुक्तौ, धर्मिस्वाभाव्यात्, वायाविव रूपात्यन्ताभावः । कथमिदमिति च न पर्यनुयोज्यम्; स्वभावस्यापर्यनुयोज्यत्वात्, अन्यथा ब्रह्म स्प्रकाशं कथं नान्यदित्यस्यापि पर्यनुयोगस्य संभवादिति-चेत्, न यत्र यस्य संबन्धस्तत्र तस्यात्यन्ताभावस्य नियमेनाद- र्शनात्, अत्यम्ताभावसंबन्धयोर्विरोधावधारणात्, तादृशस्वभावस्यापि त्यागे तवैव व्याघातापत्तेः । अथ-रजत- त्वतदृत्यम्ताभावयोर्विरोधो नतु संबन्धेन सह तथेति-चेत्, ताहि रजतत्वस्यारोपः शुक्तौ, नतु रजतत्वसंसर्गस्येत्या- गत्तमू। तथाच संसर्गारोप इति रिक्तं वचः । अथास्तु रजतत्वस्यैवारोपस्तथापि सिद्धाऽन्यथाख्यातिरिति चेन्न; तथासति इदमिति रजतत्वमिति च बुद्धापत्ते: नतु इदं रजतमिति। वैशिष्याभाने च इदरजतत्वे इति समूहालम्बनान्न विशेष: अ. सि. ११७
Page 609
२६ अद्वैतरत्नरक्षणम्।
स्यात्। किंच रजतत्वासंसर्गाभावोऽपि तत्र प्रतीयत एव बाधकज्ञानेन, तथाच भ्रमेऽपि रजतत्वसंसर्गो भासत इति वक्तव्यम्; अन्यथा निषेधानुपपत्तेः, प्रास्यभावात्, तथाच स यदि तत्रास्ति तदा बाधो न स्यात्, तथाचासन्नेव रजतत्वसंसर्गो भासत इति वाच्यम्। अतएव सदुपरागेणाऽसतोरेव तादात्म्यसंसर्गयोर्भानं सांप्रदायिका मन्वते । नच-तदङ्गीकार एवास्माकमिति-सांप्रतम्; अपसिद्धान्तापत्तेः । एकदेशिवद्धविष्यतीति चेन्न; अपसिद्धान्त- स्यानिग्रहत्वापत्तेः, सर्वत्रेव 'मयेदं नाभ्युपगम्यत' इत्यस्य वक्तुं शक्यत्वात्। तथाप्यन्यत्र विद्यमानरजतत्वत- रसंसर्गभानवादिमते किं दूपणमिति चेत्, मानाभाव इति गृहाण । तथाहि-येयं रजतव्यक्तिः पुरोवर्तिभि- स्नत्वेन भासते यो वा रजतत्वसंसर्ग: पुरोवर्तिनिष्ठत्वेन भासते सा चान्यत्राम्तीत्यत्र किं प्रमाणम्? न ताव- ्द्रमस्तत्र तावत्प्रमाणम्; तस्य तत्तदेशतत्तत्कालवृत्तितवेन तत्तत्पदार्थविषयीकरणात्, अन्यत्र सत्तायास्तनानु लखात्। उल्लेखे वा पुरोवर्तिप्रवृत्यभावापत्तेः । भ्रमः प्रमाणमिति च वदन् श्राधनीयप्रज्ञोऽसि देवानांप्रियः ? नापि नेदं रजतमिति ज्ञानम् तथा; तस्याभावमात्रविषयत्वात्, प्रतियोगिनो देशान्तरसत्वाविपयत्वात् । यद्यन्यत्र सत्वं न स्यात्तर्हि निषेधो न स्यादिति चेत्, बाढम्; तर्ह्यस्यानुग्राह्यं मानं-विमतमिह निपिध्यमानं, दशान्तरे सत्, इह निषिध्यमानत्वात्। यद्यदत् निषिध्यते तत्तदन्यत्र सत्। यथा भूतले निषिध्यमानं घटादिकम्, तथाचेदं, तस्मात्तथेति चेन्न; अप्रयोजकत्वात्, विपक्षे बाधकतर्काभावात्। हेतुभङ्ग एव बाधकस्तर्क इति चेन्न; तस्य प्रप्तिमात्रापेक्षत्वेनाऽन्यत्र सत्ानपेक्षणात्, इह चोत्पन्स्य घटस्येहैव नष्टस्यात्रच निपिध्यमानस्यान्यत् स्त्वं नास्तीति तेन व्यभिचाराख्। नच-देशान्तर इत्यनुक्त्वा क्वचिदिति पदेन साध्यनिर्देशः कार्यः, तथाच तस्यापि तद्देशे सत्वात् क्वचित् सदिति साध्यमस्तीति-वाच्यम्; तर्हि तत्र सत्वेऽपि तत्र निषेधो न विरुद्श्च कालभेदेनेत्यागतम्, तथाच भ्रम- विषयीभूतमपि रजतादि भ्रमदशायां तंत्रैव सत् कालान्तरे निपिध्यतां को दोप इति न देशान्तरसत्त्वसिद्धिः। तत्रा सत्वे कथं तस्य निपेधो भविष्यतीति चेत्, तत्रवोत्पन्नस्य तत्रैव नष्टस्य च कथं निषेध इत्यत्रापि दीयतां दृष्टिः । पूर्व तस्य सत्वमेवोत्तरकाले ध्वंसे जाते मुद्गरादिना पश्चान्निपेधप्रत्यय इति चेत्, इहापि पूर्वमुत्पस्नस्य रजतस्याऽघि्टान- साक्षात्कारेण निवर्तितस्य निषेधो 'नेदं रजतमि'ति ज्ञानेन विपयीक्रियत इति तुल्यम्। ज्ञानस्य कथम्थनिवर्तकत्वमिति चेत्, मुद्ररादेवा कथम् ? अन्वयव्यतिरेकाभ्यां तथाऽवधियत इति चेत्, तुल्यमितरत्राप्यन्यत्राभिनिवेशात्। ननु- रजतोत्पत्तिसामग्री तत्र नास्ति, तथाच कथं तदुत्पत्तिरिति-चेत्, सामभ्यभावस्यायोग्यत्वेन प्रत्यक्षेण तस्याऽवधार- यितुमशक्यत्वात्, प्रत्युत रजतलक्षणकार्यसत्वात्तदुस्नयनस्थैव युक्तत्वात्। अन्यथा खण्डघटपाकजघटयोरन्यत्र कुप्- दण्डचक्रकुलालादिसामउयभावादुत्पत्तिर्न स्यात्। कार्यदर्शनेन सामग्यन्तरकल्पनमिहापि तुल्यम्। तथाच का साम- भीति चेन्; विशिष्याऽनभिधानेऽपि क्षत्ययोगात्। ननु-अपूर्वरजतव्यत्तयुत्पाढे तत्स्वरूपं तत्सामग्री चति द्यमपि कल्पनीयम्, तथाच कल्पनागौरवम्, प्रसिद्धरजतव्यक्ेर्भाने च न कल्पनागोरवम्। तथाच तदेवात्र भासत इति कल्प्यत इति-चेन्न; सिद्धासिद्धाभ्यां कल्पनागौरवस्यादूपकत्वात्। किंच देशान्तरस्थितव्यक्तिभाने न भ्रमः प्रमाणम्, नापि बाधो नापि मानान्तरम्। तथाचागत्या पूर्वव्यक्तयुत्पाद एव स्वीकार्यः लाघवात्तदेव भासत इति चेन्न; द्विती- यस्य प्रतियोगिनोऽनुपस्थितौ लाघवानिरूपणात्, तद्रजतचाक्षुपज्ञाने तद्रजतचक्षुःसंयोगस्ेव कारणतवेनाऽन्यथा- ख्यातेहैत्वभावेनासंभवाच्च। रङ्रजतयोः 'इमे रङ्गरजते' इति अ्रमे संभवन्नपि ताद्टशः संयोगो दोषप्रतिबन्धान्न जनकः । अन्यथा गुणजन्यत्वेन प्रमात्वापातादित्यद्वतसिद्धौ विस्तरः ॥
विप्रतिपत्तिरपि-तन्न रजतत्वं पारमार्थिकत्वेनाभिमतरजतव्यक्तिभिन्नत्यक्तिवृत्ति न वा। प्रयोगश्च-रजतत्वं, पार- मार्थिकत्वाभिमतरजतव्यक्तिभिन्नव्यक्तिवृत्ति, सकलरजतवृत्तिजातित्वात्, यदवं तदवं यथा सत्तादि, तथाचदम्, तस्मा- त्तथा। नच रजतमात्रवृत्तित्वमुपाधि :; पक्षमात्रव्यावर्तकत्वेन पक्षेतरत्वादनुपाधिवत्वात्। नापि रजतभिन्नवृत्तित्वम्; उक्तदोषात्। नचाप्रयोजकत्वम्; असिद्धव्यक्तिभाने प्रमाणाभावात्, व्यक्त्यन्तरानुत्पादे च निर्विषयज्ञानानुत्पत्तेरेव बाधकतर्कस्य विद्यमानत्वात्। यतः पठन्ति-"अर्थेनव विशेषो हि निराकारतया धियाम्" इति । दत्थंभूतलक्षणे चेयं तृतीया। तथाचार्थरूप एव विशेषः । नच शुक्तिरेव विषयः; रजतस्याऽनुभवसाक्षिकत्वात्, अथ दोपवशाद्देशान्त- रस्थितैव व्यक्तिर्भासते, दोपस्य च भ्रमनियामकत्वमुभयवादिसिद्धमिति चेत्, तर्हि दोपस्य भ्रमोत्पादकत्ववत्तद्विषयो- त्पादकत्वमप्यस्त्वविशेषात्। नचैवं सति गौरवम्; प्रतीतेरेव वस्तुसाधिकाया विद्यमानत्वात्, गौरवप्रतियोगिनोऽनुप- स्थितेः, सिद्धसिद्धिपराहतत्वाच्च। अथान्यत्र ज्ञानकारणस्य विपयोत्पादकत्वमदृष्टं चक्षुरादौ, तथाच कथं तत्कल्पनीय- मिति चेत्, तर्हन्यत्र भ्रमजनकत्वमपि न दष्टमिति तदृपि न कल्पनीयमिति जितमख्यातिवादिनेति। अथ-दोषस्य स्वविषयज्ञानजनकत्वं कृप्तं अ्रमस्यापि च ज्ञानत्वमसत्येवेति-चेत्, त्हि तस्य स्वनिष्ठगुणजनकत्वमन्ततः स्वध्वंसज- नकत्वमपि कृप्तमिति तुल्यमू। दृष्टत्वमात्रस्याप्रयोजकत्वाञ्च। तस्मात्- .
Page 610
श्रीमधुसूदनसरस्वतीप्रणीतम्। २७
वाच्याऽन्यथोपपत्तिर्वा त्याज्यो वा दष्टताग्रहः। नह्येकत्र समावेशश्छायातपवदेतयोः ॥ इति।
किंच मिथ्याभूतव्यक्तयनङ्गीकारे व्यधिकरणप्रकारज्ञानमात्रस्वीकारे 'मिथ्या रजतं मया दष्टमि'त्याद्य्थगतं न व्यव- हवियेत। रजतत्वेन शुक्तिर्ज्ञाता इत्येव तस्यार्थ इति चेन्न; रजतधर्मिकमेव मिथ्यात्वमनुभूयते न त्वन्यत्। तथाचानु- भवापलापेन किमपि भवतः सिध्येदिति जितमसद्वादिना। किंच ज्ञानस्य मिथ्यात्वेनेव तदस्वीकारे च तस्याप्य- स्वीकार एवोचितः । नच-व्यधिकरणप्रकारत्वमेव मिथ्यात्वं न त्वन्यदिति-सांप्रतम्; लाकिकमिथ्यापदार्थत्यागे पारिभाषिकत्वापत्तेः, अनुभवस्य च व्याख्याय प्रदर्शयितुमशक्यत्वात्। किंच व्यधिकरणप्रकारत्वमसिद्धम्; रजत- त्वस्य रजताधिकरणस्येव इह भासमानत्वात्। अथ-विशेष्यावृत्तिप्रकारकत्वं च तत्र विशेषणमिति-चेन्न; रजतस्यापि क्वचिद्विशेष्यत्वात्। अथ-यत्र ज्ञाने यद्विशेप्यं तत्र तदवृत्तिधर्मप्रकारत्वमिनि-चेन्न; अननुगमापत्तः। नच- इष्टापत्तिः; लक्ष्यस्याप्यननुगतत्वादिति-वाच्यम्; तथा सति लक्ष्यतावच्छेदकस्यकस्य धर्मस्यानिरुक्ती तास्वननुगतासु व्यक्तिपु लक्षणस्य ज्ञातुमशक्यत्वेनेतरभेदानुमानासंभवात्। अप्रमा इतरेभ्यो भिद्यतेऽप्रमात्वात्। इतरत्र यद्यप्यप्र- मात्वं नैकं तहिं हेतोर्भांगासिद्धत्वापत्तिः। पक्षतावच्छेदकं च यदि तदेव, तदा तम्नानात्वेनाऽवच्छेदकत्वानुपपत्तिः। व्याप्तिग्रहसमय एव पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यसिद्धमिति किमनुमेयं च स्यात। नच विसंवादिप्रतृ- त्तिजननयोग्यत्वं पक्षतावच्छेदकम्; अनुगतधमाज्ञाने योग्यताया दुर्ज्ञानत्वात्, उक्तरूपस्य धर्म्यशेऽपि भावात्, तत्र साध्येबाधान्। नापि प्रमाभिन्नज्ञानत्वम्; असंभवात्, धर्म्यशे प्रमात्वात्। अथ हेतुतावच्छेदकमप्रामाण्यम्, तदैक्याच धूमवद्धेतुन्वोपपत्तिरिति चेत्, तदेव किमिति विचारमर्हति। नतावज्ातिः, अनभ्युपगमात्। नाप्युपाधि:, अनिर्वचनात्। अप्रमामान्रवृत्तित्वमिति चेन्न; अप्रामाण्यस्य नानात्वेनैकस्य सकलाप्रमावृत्तित्वाभावात्। नाष्यप्रामा ण्यशब्दाभिधेयत्वम्; अनुगतरूपाभावे तस्याप्यसंभवात्। अथ-तदभाववि तत्प्रकारकज्ञानत्वं अप्रामाण्यम्, तथाच ज्ञानत्वस्यानुगमात्तदनुगमः, अतएव परंपरासंबन्धा जातिरेवोपाधिरुच्यत इति-चेत्, नः ज्ञानत्वस्य ग्रमावृत्तित्वेनाप्नामाण्यवृत्तित्वेन च अतिप्रसक्तत्वात्। तन्मान्रवृत्तिरहिं धर्मोऽनुगमको भवति। किंच यदि ज्ञानत्वं परं- परासंबद्धमप्नमात्वं तद्वत्ति वा अनुगमकम्, तदा तथैव बोधापत्तिः स्ात्। नचवं संभवत्यपि, अन्यस्यानुगमेऽन्यस्यानुगम इति। तस्मान्मिथ्यार्थविपयत्वमेवाप्रमात्वम्। तथाच मिथ्याभूतार्थमेव स्वीकारः। अन्यथाऽपरामाण्यस्य वक्तुमशक्य- त्वात्। ननु-मिथ्यार्थविपयत्वमसिद्धम्; सत्यस्याऽधिष्ठानांशस्यापि तत्र स्फुरणात्, अन्यथा 'रजतमि'त्येव प्रतीत्या- पत्तेः। नच-सत्यांशस्मरणमविरुद्वमिति-वाच्यम्; एकस्य प्रमात्वाप्रमात्वरूपविरुद्धधर्माध्यासेन भेदापत्तेरुक्तत्वान्, अन्यथा अन्यधाख्यातिवादेऽप्यविरोधात्। किंच मिथ्यारजते सत्यरजतवृत्तिरजतत्वमस्ति न वा, न प्रथम :; तस्य यो- ग्यव्यक्तिवृत्तित्वनियमात्, शृङ्गत्ववत्, अन्यथाख्यात्यापत्तेश्र। न द्वितीयः; अनुगतबुद्यभावापत्तेः, रजतशब्दप्रयोगा- पत्तेश्र। रजतत्वं हि तत्र निमित्तम्, तत्र रजतत्वान्तरस्य प्रवृत्तिनिमित्तत्वेऽनेकार्थत्वापत्तिरिति-चेत्, उच्यते; इद- मिति इदंत्वेन शुक्तिमवगाहमानमन्तःकरणवृत्तिरूपं ज्ञानं जायते, दोषप्रतिबन्धात् न शुक्तित्वमवगाहते, तदनु- दोपवशाद्रजततद्रोचरज्ञानाकारेणाऽज्ञानं शुक्तयवच्छिन्नचतन्यावरणरूपं विवर्नते, रजतमिति। उभयोश्च ज्ञानयोर्विवे- काग्रहांदकत्वाभिमान एकफलाद्वा। नचैवं प्राभाकरमतप्रवेशः; तेन मिथ्यारजतस्याऽनङ्गीकारात्, किंचित्साम्येन साम्यापादने सर्वस्य सर्वत्वापत्तिः । नच रजतशब्दप्रयोगानुपपत्तिः सविकल्परजतानुभवसंस्कारजन्यतया रजत- भ्रमस्य तद्वाचकशब्दोल्वेखोपपत्तेः। यद्वा अस्त्येव तन्न रजतत्वं, नच तस्य योग्यव्यक्तिवृत्तित्वनियमः; असिद्वेः सत्तादिव- दुपपत्तेः, घटादिकमपि तथा स्यादितिचेत्, दष्टपत्तिः, नहि घटो भ्रमविषयः। व्यावहारिकरजतत्वाश्रयत्वे तदपि व्याव- हारिकमेव स्यान्ननु प्रातीतिकमिति चेन्न; तन्र तत्संसर्गस्य प्रातीतिकत्वात्, व्यावहारिके च तस्य व्यावहारिकत्वादेव। नच-तस्यापि समवायरूपत्वेनैकत्वातकथमेवं व्यवस्था स्यादिति-वाच्यम्; असिद्धेः। नहि य एव गोतवसंसर्गःस एव रजतत्व संसर्गः; तथासत्यतिप्रसंगापत्तेः। तथाच संसर्गभेदाद्यवस्थोपपत्तिः । नचापसिद्धान्तः; "इदंतासंसर्गचन्। रजतस्य शुक्तिकासत्वसंसर्गोSयमवभासते, न रजतस्यापरं सत्त्वम्" इति विवरणकृताऽभिधांनात्। तथाच यथा सरवमन्यदीयं तत्र भासते, तथा रजतत्वमपीति को विरोधः ? सत्त्वमधिष्ठानेऽस्ति, नतु रजतत्वमिति चेत्, न; तस्यापि 'सर्वासर्वगता जातिरि'ति न्यायेन सर्वत्र संभवेनाऽनिर्वचनीयव्यक्तयाभिव्यक्तिसंभवात् । तथाच अनुगतव्यवहारशब्दप्रयोगाद्युपपत्तिः। ननु-त्रिविधसश्ववादिमते कथमयं दष्टान्तः ? तथाहि परमार्थसर्वं ब्रह्मणः; निरुपाधिकरवात्, सर्वथा सर्वदा बाधा- भावाज्। अर्थक्रियासामर्थ्यं सत्वं मायोपाधिकम्; आकाशादेर्व्यवहारदशायां विसंवादाभावात्, प्रमात्रा सह बाध्य- त्वाश्च। अविदयोपाधिकं सध्वं रजतादेः; व्यवहारे विसंवादात्सति प्रमातरि बाध्यत्वाच्ेति-चेन्न्न; एतस्याभ्युपगमवा- दत्वात्, अधिष्टानसश्वमेवाऽध्यस्ते भासते, नान्यत्सश्वान्तरमित्येव मुख्यः सिद्धान्तः। अतपवोकतं महन्दिरिः- 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्जकम्। आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो दयम् ॥'तथाच सत्ताभानानन्देभ्यो निष्कृ- व्यमाणं जगद्ावितं तुच्छमनिर्वचनीयमित्यादिशब्दैः कथ्यते। अतएव "ददं सर्व यषयमात्मे"त्यपि संगच्छते; सदादिरूपेण
Page 611
२८ अ्वैतरल्नरक्षणम् ।
जगद्गह्मणोरभेदात्, रूपान्तरं तु नास्त्येवेति तेन सह न भेदो नाप्यभेदो नापि भेदाभेद इति। तदेतद्वाघोत्तरं शक्य- ज्ञानम्, ततः पूर्व तु सदादिरूपेणव जगत्प्रतीयते। तथाच शुक्तिरजतस्याSSकाशादेश्व जगतो न कश्चिद्विशेषः। यन्तु- शुक्तिरजतादेमायामयत्वप्रतिपादनं शास्त्रे, तत्परं प्रति दष्टान्तार्थम्। व्यावहारिकप्रातीतिकभाषाSपिच तात्कालिकबा- धाडबाधाभ्याम्। ननु-एवं मिथ्यारजतोत्पत्तिस्वीकारेऽघिष्टानसाक्षात्कारानन्तरं 'पूर्वमिदं रजतमत्रासीदिदानीं ने'ति पूर्वापरस्थलावधित्वेन प्रतीतिः स्यान्नतु 'नेदं रजतं कालत्रयेऽप्यत्र नास्ती'त्यत्यन्ताभावोललेखिनी, भूतले ध्वस्तघटपटस्य तथेव प्रतीतेरिति-चेन्न्न; मायामयस्य कालत्रयेऽप्यत्यन्ताभावस्यैव विद्यमानत्वात्, अन्यथा ज्ञानेन तन्निवृत्यनुपपत्तेः। अतएव प्रतिपन्नोपाधा निषेधप्रतियोगित्वमित्यनिर्वचनीयलक्षणं संगच्छते। घटस्य तु तथा प्रतीतिर्युक्तैव। नंच-असदेव तर्हि रजतं स्वीकृतं स्यादिति-वाच्यम्; अपरोक्षप्रतीतिगोचरत्वात्। अत्र तन्न सत् ; बाध्यत्वात्, नाप्यसत् ; अपरोक्षप्र- नीतिविषयत्वादित्यनिर्वचनीयमित्याख्यायते। यन्तु-'नेदं रजतमि'ति निषेधो नानिर्वचनीयस्य, तस्य तत्र कालत्रये- Sत्यन्ताभावाभावात्, किंतु लोकिकप्रसिद्धरजतस्येव; तस्य तत्र तथात्वात्-इति तन्न; तस्य प्राध्यभावात्। नच- रजताभासप्राप्तयैव तत्याप्ति :; अन्यस्य प्राह्याऽन्यप्राह्यनुपपत्तेः, उपपत्तो वाऽनिर्वचनीयरजतकल्पनानुपपत्तेः। नह्यन्न रजतद्वयमनुभवसिद्धम्। किंच "नेतिनेति" वाक्येन यदा सर्वप्रपञ्चनिषेधोऽविशेषेण बोध्यते, तदा कः प्रतीकार: ? नहि तन्नापि प्रपञ्नदयमस्ति। अस्तु वा त्रिविधमेव सत्वम्, तथापि नानुपपत्तिः; अत्रापि व्यावहारिकरजतत्वभाने दोपाभावात्। अतएव 'तदेवेदं रजतमि'ति संगच्छते। अन्यथा व्यक्तिभेदे प्रत्यभिज्ञा किंनिबन्धना स्यात् ? तस्माद्र- जतत्वं मिथ्यारजतवृत्ति इति साधने न कोऽपि दोपः। नच-अस्येवानुमानस्य मानत्वे कथमनिर्वचनीयत्वं रजतस्य ? मानगम्यत्वात्, अमानत्वे सिद्धं नः समीहितमिति-वाच्यम्; व्यावहारिकमानविषयत्वाभ्युपगमात्, तश्वावेदक- मानविषयत्वं तु नाऽभ्युपगम्यते; हेत्वाभासोद्धाराच्च पदार्थान्तरव्यवहारवदुपपन्नोऽस्य व्यवहार इति परमुखमुद्रणम्। वस्तुतस्तु-तद्रजतं साक्षिसिद्धम्, तदभावोऽपि साक्षिसिद्ध एव, तस्य च प्रमाणाप्रमाणोदासीनत्वान्न कोऽपि दोपः। अतएव व्यावहारिकरजताभाव एव 'नेदं रजत'मित्युल्विख्यते; तस्येन्द्रिययोग्यत्वात्, नत्वनिर्वचनीयरजता- भाव :; तस्यायोग्यत्वात्। नच पारमार्थिकस्यात्राप्रसक्तिर्दोपः; तस्य भ्रमाविषयत्वेऽपि अधिष्ठानसाक्षात्कारानन्तरं स्मृ- त्युपस्थितस्य निषेधोपपत्तेः । प्रतियोगिज्ञानापेक्षत्वादभावबुद्धेः। तत्स्मारकं चाधिष्टानज्ञानमेव; प्रतियोगिज्ञानमेवा- भावबुद्धौ हेतुर्न तु यत्राभावबुद्धिस्तत्राधिकरणप्रतियोग्यारोपोऽपि; प्रमाणाभावात्, दोपाभावेन प्रतियोग्यारोपासंभ- वाच्च। नच-एवं सर्वत्रैव निपेधप्रतीतिः स्ादिति-वाच्यम्; अधिकरणासन्निकर्पादिना योग्यानुपलब्घेरभावात्, यत्वारोप्य निषिध्यत इति मतं, तन्निष्प्रमाणकत्वात्तुच्छमेव; प्रतियोगितद्याप्येतरयावदुपलम्भसमवधाने प्रतियोगि- ज्ञानस्येवाऽभावोपलम्भकत्वात्, प्रतियोग्यारोपव्यतिरेकेण कार्यव्यतिरेकाभावाच्च। भ्रमस्थले तु विवाद एव। विचरण- कारमते प्रतिपल्नोपाधौ निषेधमप्रतियोगित्वमनिर्वचनीयत्वमिति लक्षणं, तदुक्तमेव कथं संगच्छतानिति न वाच्यम्; प्रतिपन्जस्य रजतादेरुपाधेरधिष्टानं तत्र यो निपेधः सविलासाविद्यानिवृत्तिः त्तियोगित्वमितर्त्वान्, नचवं- विधकरपनायां प्रमाणाभाव :; 'कालत्रयेऽपि रजतमिह नास्ति' 'मिथ्यारजतं मायाप्रतिपन्नमि'त्यनुभवस्यैवाऽन्यथानुपपसस्य कल्पकस्य विद्यमानत्वात् । नच-"नेतिनेत्या"दिश्रुत्या जगन्निपेधे नायं प्रकारः संभवति, जगद्दयाभावादिति-वाच्यम्; सति प्रमातरि बाधे पूर्वगतेरुक्तत्वात्। अयंतु प्रमात्रा सह बाधः; अद्वैतात्ममाळपरिशेपात् । आकाशादेः प्रप्चस्य ब्रह्मात्माज्ञानेनोत्पन्नत्वात्तस्य ब्रह्मप्रदर्शकवाक्येन निरासे तत्कार्यस्यापि सर्वात्मना निरास एव। रजतादेस्तु शुत्त्याद्यव- च्छिन्नव्रह्माज्ञानोत्पन्नत्वम्, तेन तद्वाधेऽप्यन्येपामवस्थानं संभवतीति विशेषः। ननु-एवं रजतस्य साक्षिमात्रवेद्यत्वे कथं तत्र रजतत्वं व्यावहारिकत्वं भासेते, तज्ज्ञाने तस्यान्तःकरणवृ्त्त्यपेक्षणादिति-चेन्न; सुखत्वादिभानवदुपपत्तेः। अथ-अन्तःकरणवृत्तितद्धर्मादौ नापेक्षाSन्यत्रतु भविष्यतीति-चेन्न्न; 'रजतमहं जानामी'त्यनुभवबलेनाSविद्यावृत्युप- ग्रहेणापि रजतत्वे साक्षिप्रवृत्तौ दोपाभावात्, फलबलेन तथा कल्पनात्-। तस्मात् सर्वथा मिथ्यारजतभाने न कोऽपि दोष इति सिद्धम्। मिथ्यात्वंच सत्वेनासत्वेन सदसत्वेन विचारासहत्वम्, प्रतिपन्नोपाधी निषेधप्रतियोगित्वम्, अविद्या- तत्कार्यान्यतरत्वमित्यादिकमूह्यम् । भ्रमबाधव्यवस्थोपपत्तिरद्वैतसिद्धौ सविस्तरमनुसन्धेयेतीहोपरम्यते। तत्सिद्धमेतज्जेद- पारमार्थिकत्वानुमानं शुक्तिरजतादौ व्यभिचारि।
तथा भेद:, प्रमाविषयः, ज्ञानविषयत्वाद्गह्मवदित्यपि दुष्टम्; अप्रयोजकत्वादुक्तप्रकारेण दष्टान्तासिद्धेश्र, अमेदश्रु- तिबाधितत्वाश। किंच प्रमातवं यदि व्यवहारौपयिकार्थविषयत्वम्, तदा सिद्धसाधनम्, अथ यथार्थविषयानुभव- त्वम्, तत्र यदि यथाशब्दस्य सादृश्यमर्थः, तदानीं यथाकथंचिदर्थसादृश्यं भ्रमेऽप्यस्ति, तद्विषयत्वेन सिद्धसाधनम्। असाधारण्येन रूपेण सादृश्यस्यासंभव एव। अथ तत्वानुभवत्वम्, तदापि भ्रमस्यापि रजतत्वादिस्वविषयत्वात्तेनै- वार्थान्तरम्। अथ-यत्र यदस्ति तत्र तत्तत्वं तद्नुभवत्वमेव तत्र प्रमात्वम्, तथाच न शुक्ती रजतत्वमस्तीति न तदनुभवः प्रमा, तथाच न सविषयतवेनाऽर्थान्तरमिति-चेत्, न; विकल्पासहत्वात्। तथाहि-अस्तीति यदि वर्त-
Page 612
श्रीमधुसूदनसरस्वतीप्रणीतम्। २९
मामता विवक्षिता, तदा पाकरके घटे श्यामोऽयमिति बुद्धि: प्रमा न स्यात्; तदानीं श्यामत्वस्य वर्तमानत्वाभावात्। अथ यदा कदाचित् सत्वमात्रं विवक्षितम्, तदा 'इद़ानीं श्याम' इत्यस्यापि प्रमात्वापत्तिः। पूर्व घटसत्वे इदानी चासर्व इद़ानीं घटवदित्यस्यापि ज्ञानस्य प्रमात्वापत्तिश्च। किंच किमिदमस्तित्वं वृत्तिमात्रं वा, सत्तायोगित्वं वा, स्वरूपसत्वं वा, प्रामाणिकत्वं वा, नाद्यः; संयोगसमवायस्वरूपसंबन्धसाधारणस्य संबन्धत्वस्य मात्रशब्दार्थस्य वक्त- मशक्यात्। अविशिष्टधीव्यावृत्तविशिष्टधीनियामकत्वं तदिनि चेन्न; यस्य यत्र यः संबन्धः स एव वैशिष्वं तत्रेति विशिष्टशब्दनिर्वचने आत्माश्रयापत्तेः, धीशब्देन च ज्ञानमात्रविवक्षायां 'लोहितः स्फटिक' इत्यादौ व्यभिचारः, प्रमाविवक्षायामात्माश्रयः । अथ-अखण्डोपाधिः संबन्धत्वमिति-चेत्, न; तत्स्वीकारे जात्यपलापापत्तेः, तेनैव व्यवहारस्य चरितार्थयितुं शक्यत्वात्। अथ-संबन्धशब्दो नेकार्थोSक्षादिशब्दवत, तथाच क्वचित्संयोग: क्चित्सम- वायः क्चित स्वरूपसंबन्ध इति यथासंभवं वृत्तिपदेन ग्राह्यम्, तथाच न कोऽपि दोष इति-चेत्, न; तथा सति सकृदुच्चरितादेकस्येवार्थस्य प्रनीत्यापत्तावव्यापकतापत्तेः । संभवाध्रयमपि लक्षणवाक्ये ग्राह्यमिनि चेन्न; तथा व्युत्प- त्तिविरहादक्षादौ तथाऽदर्शनात्। तत्र तात्पर्याभावोऽत्रतु न तरथेति चेन्न; व्युत्पत्यनुसारेणैव तात्पर्यकल्पनात्, अन्य- थाऽतिप्रसंगात्। कथं तर्हि 'गङ्गायां घोषमत्स्यौ वसतः''सैन्धवमानये'त्यत्र युगपदनेकत्र तात्पर्ये युगपदनेकार्थावबोधः? शध्दावृत्येति गृहाण। अन्यथा शब्दस्वभावभङ्गप्रसङ्गात्। नच-अत्राप्यावृत्या लक्षणवाक्येSनेकार्थप्रतीतिरिति- सांप्रतम्; वादिवाक्ये आकृतिलक्षणयोरभावात्, अन्यथा कथाया अपर्यवसानप्रसंगात्। किंच नित्यप्राप्तित्वं हि समवायत्वं भवन्मते, तथाच प्राप्तित्वं संबन्धत्वमेव, तथ् त्रितयसाधारणं दुर्वचमेव, तत्यागे नित्यत्वमात्रमतिप्रस- कम्। नित्यत्वमपि ध्वंसाप्रतियोगित्वं प्रतियोगित्वज्ञानाधीनज्ञानम्, तच्च स्वभावविशेषः, स घ संबन्धान्तरमन्तरेण विशिष्टप्रत्ययजननयोग्यत्वरूपः । योग्यता च बाधकप्रमाविरहः । तत्र संबन्धान्तरशब्देन च संयोगसमवाययोर्विवक्ष- णेन चात्माश्रयादिकं योज्यम्। एवं स्वरूपसंबन्धनिर्वचनेऽपि दोषो देयः; अभावाधिकरणादावेकधर्माभावेन विशिष्ट- प्रत्ययजननयोग्यत्वस्याऽपरिच्छरेद्यत्वात्। विशिष्टशब्दस्य संबन्धघटितत्वेन प्रत्ययशब्दस्य प्रमापरत्वे नात्माश्रयादि; ज्ञान- मात्रपरत्वे नु अ्रमरूपतादृशप्रत्ययजनके संबन्धत्वापत्तिः। तसमाद्वृत्तिमात्रमम्तित्वमित्यलक्षणम्। नापि सत्तायोगित्व- मिति द्वितीयः; घटत्वस्य घटे सत्तायोगित्वाभावात्, तज्जञानाव्याप्ेः, सर्वथात्वभावे तदभावादभावविशिष्टप्रमायाम- व्याप्तिः। नापि तृतीयस्वरूपम्; स्त्वस्य तत्स्वरूपतवेन लक्षणानुपपत्तेः; नच-लक्ष्यमप्यननुगतमिति नायं दोप इति वाच्यम्; तत्तत्स्वरूपस्य स्वशब्देन वक्तुमशक्यत्वात्। नापि चतुर्थः; आत्माश्रयापत्तेः। किंच 'लोहितः स्फटिक' इत्यादौ लौहित्यं स्फटिकेSम्तीनि तदनुभवात्तत्र प्रमा स्यात्। नाम्ति तत्तत्रति यदि ब्रूयात्, स प्रतिवक्तव्यः, शौकयं स्फटि- कत्वं वा तत्र कथमम्तीति ? प्रतीयमानत्वादिति यदि तत्किं लौहित्यसंबन्धस्तत्र न प्रतीयते; भ्रान्तिः सेति चेन्न; प्रमा- त्वानिरुक्ती सा भ्रांन्तिरियं प्रमेत्यस्यवासिद्धेः। बाधात्तत्र तस्य संबन्धाभावो निश्चीयत इति चेत्, तर्हि यत्र यस्याबा- धितः संबन्धः तत्र तस्यानुभवः प्रमेति लक्षणार्थः; बाधस्य विपरीतप्रमारूपत्वात्। किंच स्वस्य बाधाभावो वा तत्र, सर्वस्य वा। नाद्यःः 'नील तम' इत्यादो स्वस्य तत्काले बाधाभावेन तत्र नीलादिसंबन्धस्वीकारापत्तेः। न द्वितीयः कीलान्तरे देशान्तरे सर्वेषां स्वस्य बाधाभावस्यासर्वजन ज्ञातुमशक्यत्वात्। किंच आनुरभवको बाधो यौक्तिको वा। नाद्य :; 'नीलं तम' इत्यादौ तदा तदैभावात्। न द्वितीयः; प्रकृतेपि तत्संभवात्। रजतत्वादेस्तदवति तद्भाववति वा वृत्तावात्माश्रयातिप्रसंगौ। तदुपलक्षितवृत्तौ च व्यक्तिमात्रं वोपलक्ष्यं व्यक्तिविशेषो वा। प्रथमेऽतिव्याप्ति: द्वितीये- 5ननुगमः। सास्रादिमत्वादिना तदुपलक्षितं यदि, तन्रापि विशेषणोपलक्षणपक्षोक्तदोषः संचारणीयः। एवं सर्वत्र वृत्तिमति पदार्थे दोपो देयः। ननु-कुत्नाम्तीति प्रश्ने यत्र प्रतीयत इत्येवोत्तरम्, कुत्र प्रतीयत इति प्रक्ने यत्राम्नीत्ये- वोत्तरमिति-चेन्न; यत्रास्तीत्यत्रैव तद्वति तदभाववति प्रश्नस्य विद्यमानत्वात्, यत्रेतिह्याधारः कथ्यते। स एव च विचार्यते। प्रतीतिस्तावदस्तीति चेन्न; दत्तोत्तरंत्वात्। नापि यत्र यदम्ति तत्र तस्पानुभवः प्रमा; रजते रजततवानुभवो- Sस्तीति भ्रमेऽतिव्याप्तेः। नापि यत्र विशेष्ये यदस्ति तत्र विशेष्ये तत्प्रकारकत्वम्; रजतस्यापि क्वचित् ज्ञाने विशेष्य- त्वात्, यत्र झाने यद्विशेष्यं तत्र वर्तते यो धर्मस्तत्प्रकारकानुभवस्तत्प्रमा इति चेत्, नः विकल्पासहत्वात्। तथाहि -किं वस्तुगत्या यस्मिन् ज्ञाने यद्विशेष्यं तत्र यो धर्म इति वा, किंवा यस्मिन् ज्ञाने विशेष्यतवेन यो भासते तस्मिन् यो धर्म इति वा। नाद्य :; वस्तुगत्येत्यस्य प्रमाणसिद्धत्वमित्यर्थो यदि तदाऽडरमाश्रयः । अन्यस्य चानिर्वचनात्। न द्वितीयः; विशेष्यत्वं यदि अन्यव्यावृत्तिवैशिष्ववत्वम्, यदि वा अतव्यावृत्यधिकरणत्वम्, यदि वा विशेषणसंब- न्घरवम्, यदिवा प्रत्यक्षनियामकेन्द्रियसभ्निकर्षाश्रयत्वम्, यदि वा प्रधानत्वम्, सर्वथा 'घटोऽयमि'त्यादिज्ञाने तस्य भानाभावः । तत्रहि घटघटत्वतत्संबन्धा भासन्ते। संबन्धोऽपि स्वरूपेण भासते। तथाच न तत्र विशेष्यतवस्य भानम्; पूर्व तज्जञानाभावेन प्रकारीभूय भानासंभवात्। वस्तुगत्येत्यस्य निरस्ततवात्। किंच यत्तदोर्नित्यसंबन्धे यत्र विशेष्ये यो धर्मः तत्र तस्यानुभवः प्रमेत्युक्ते घटत्वांश एव तस्य ज्ञानस्य प्रमात्वं स्यान्नतु विशेषयसंबन्धांशयोः । तथाच
Page 613
३० अद्वैतरत्नरक्षणम् ।
तयोरप्रमितत्वापत्तिः। अथ-तत्रापि घटवत्कपालमित्यादितद्वयवेष्वेवं संभवात् सर्वत्र प्रमाविषयत्वं स्यादिति- चेन; गगनात्माद्यवृत्तिपदार्थ तदसंभवात्, तेषां क्वाप्यवृत्तेः । तेषामपि कालवृत्तित्वमस्तीति चेत्, न काले तद्भावात्, 'सर्व ज्ञानं धर्मिण्यभ्रान्त' मिति सिद्धान्तव्याकोपश्च धर्म्यशे प्रामाण्यास्वीकारे। किंच धर्मज्ञानप्रमात्वे आत्मज्ञानस्य मुक्तिहेनुत्वं न स्यात्। तथाच तद्वोधकश्रुतिविरोधः ननु-न ब्रूमो यत्र यदम्ति तत्र तस्यानुभव आधेयांशे प्रमेति, येन गगनादिप्रमायामव्याप्ति: स्यात्, किनाम ? यत्र यदम्ति तन्न तस्यानुभवस्तद्विशेप्ये तत्प्रकारे च प्रमेनि। तथाच क्व गगनादिप्रमायामव्याप्तिगन्धोऽपीति-चेन्नः वैशिष्वांशेऽप्रमात्वापत्तेः, तत्र कस्याप्यवृत्तेः। नहि घटत्वविशिष्टे किमप्यम्ति। त्रितयमेव विशिष्टमिति चेत्, अस्तु, तथापि तद्विशिष्टे तहृत्त्यभाव एव। किंच यस्य यत्र यः संबन्धस्तदेव वैशिष्यम्। तथाच संबन्धत्वस्वरूपसंबन्धत्वनिर्वचने आत्माश्रयादिरत्रापि देयः। किंच 'घटत्वमम्ती' त्यादी घटप्रकारकं ज्ञानं घटत्वे जायते, तत्राऽव्याप्तिः। नहि घटत्वेऽपि घटस्य संबन्धोSम्नीति-वाच्यम्; तस्यासंभवात्, न तावजातौ व्यक्ते: समवायः; अनङ्गीकारात्। नापि संयोग :; पूर्वोक्तदोषादेव। नापि स्वरूपम्; तस्य व्यत्तयन्तर- साधारण्यात्। नापि संबन्धान्तरमन्तरेण विशिष्टप्रत्ययजननयोग्यत्वम्; अनुगतरूपाभावेन तस्य ज्ञातुमशक्यत्वात्, आत्माश्रयाच्च। एवं सर्वत्र तादृशज्ञाने दोपो देयः। नापि तद्वति तत्प्रकारकत्वम्; अ्रमेऽतिव्याप्तेः, तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वमिति चेत्, नः भ्रमगतत्वादेव। तत्र रजतं न विशेष्यमिति चेन्न; विशेषणसंबन्धवत्वादेर्विशे- व्यत्वस्य तत्र विद्यमानत्वात्। रजतत्वं हि तत्र विशेषणम्, अन्यथा रजतत्वप्रकाशकज्ञानं विना पुरोवर्तिनि प्रवृत्यभा- वापतेः। अथ-भासमानवैशिष्वाधारता तत्प्रतियोगिता च विशेषणता, रजतभ्रमे च रजततादात्म्यं रजतत्वसंसर्गो वा वैशिष्म्, तदुभयमपि न रजते भासते; दोपस्य प्रतिबन्धकत्वात्। तथाच न तत्र विशेष्यतेति-चेन्न; पुरोवर्ति- नोऽपि विशेष्यत्वानापत्तेः, भासमाने वैशिष्याधिकरणत्वाभावात्। तत्रापीदंसंसर्गस्य भासमानस्याऽधिकरणताऽम्तीनि चेत्, रजतमित्येतावन्मान्ं यत्रोल्लिख्यते नत्विदंत्वमपि तत्र तस्याभावात्। नच-तदसिदं, सामान्याकारज्ञानस्य भ्रम- हेतुत्वादिति-वाच्यम्; तस्य तद्धेतुत्वेऽपि नियमेन तद्भाने प्रमाणाभावात्, 'रजतं जानामी'त्यनुव्यवसायांच। किंच भासमानवैशिष्ट्यानुयोगित्वलक्षणं विशेष्यत्वं रजतेऽप्यस्त्येव। नहि रजतत्वसंसर्गो रजततादात्म्यं वा यत् शुक्तो भासते तद्रजते नाम्ति। यद्गत्तित्वेन भासते भासमानव्रैशिष्ट्यं तद्विशेप्यमिति चेन्न; रजतवृत्तित्वेनापि तयोभीसमान- त्वादेव, अन्यथा रजतांशे तज्ज्ञानस्य निर्विकल्पकत्वापत्तेः। नच दोपेग तत्मतिबन्धः दोपो हि पुरोवर्तिरजतयोर्भेदग्रहे पुरोव तिनि रजतत्वा संसर्गग्रहे च प्रतिबन्धकः भ्रमोत्पादकश्च; तथैव ग्रन्थकृताऽभिधानात्। किंच स्मृतौ रजतत्ववैशिष्टयं भासते, नवा। नान्त्य :; स्मते: सविकल्पकत्वनियमात्। आद्ये तथव अ्रमेऽपि भानं युक्तम्; विशिष्टवशिध्यबाधे तथव कारणत्वाभ्युपगमात्। किं रजततादात्म्यम् ? यदि रजतस्वरूपमेव, तदा तन्भासतएव। अथ रजतत्वं, तदा तादात्म्यसंसर्गारोपयोर्न भेदः, तदपि च रजते भासत इत्युक्तमेव। तस्माद्विशेप्यपढे दत्तेऽपि भ्रमाव्य/वृत्तिरेव। किंच जलशरावादभ्यन्तरे कश्चित्पदार्थोऽनुभूतम्तदनन्तरं तस्यव जलशरावस्योपरि भागे जलासंस्पर्शी स एव पदार्थः स्थापि- तोऽनन्तरं तस्य तत्र प्रतिबिम्बोदयो भवति, तदा तत्पदार्थवत्वेन तस्यैव जलशरावस्य ज्ञानं भवति 'तत्पदाथज्ञानवान- यमि'ति, तदपि ज्ञानं प्रमा स्यात्। नचेष्टापत्तिः; दोपजन्यत्वात्; प्रतिबिम्बज्ञानस्य भ्रमत्वेन सवरिष्टत्वाच्च। नच- तत्र काले स तत्र नास्तीति-वाच्यम्। पूर्व सत्त्वस्य विद्यमानत्वात्। अन्यथा "सोऽयमि'ति प्रत्यभिज्ञाऽपि प्रमा न स्यात् ; तदानीं तत्तायास्तन्रासत्वात्। नच-उदाहृतप्रतिबिम्बभ्रमस्थले कालविशेपो वर्तमानतारूपो भासत इति- वाच्यम्; नियमतस्तन्भाने मानाभावात्। अन्यथा पाकरक्ते श्यामोडयं, सोऽयमित्यादावपि कालविशेपस्य भाननैयत्ये तत्प्रमात्वाभिधानविरोधात्। ननु-उदाहृतस्थले कालविशेपाभाने दोषजन्यत्वप्रमात्वे एचेति-चेत्, न; स्वाच्छया- दिदोपोत्कर्षा्धमोत्कर्पदर्शनात्, तदनङ्गीकारे च अन्यप्रतिबिम्बादित्रमोदाहरणस्यापि त्यागप्रसंगात्, तत्रापि दोषो न हेतुरित्यस्य सुवचत्वात्। किंच 'गन्धप्रागभावावच्छिन्नो घटो गन्धवान्' इत्यत्रातिव्याप्तिः, नच-सापि प्रमैव, कदा- चिद्धन्धस्य तन्र सत्वादिति-वाच्यम्; लोकव्यवहारविरोधात्। मणिकारमतेच बाधस्यासंकीर्णमुदाहरणं तन्न स्यात्; बाधस्याभावात्। तथाच गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यत्राप्यनुमितिः स्यादेवेति सुष्ट मणिका- रमतसमर्थनम्। नच-यद्वच्छेदेन यत्र यो वर्तेत तदवच्छेदेन तत्र तस्यानुभवः प्रमेति-वाच्यम्; एतदप्रतिसंधानेऽपि प्रमाव्यवहारस्य लोकसिद्धत्वात्, पाकरक्ते श्यामोऽयमित्यापाताच्च, घटपटावितिसमूहालम्बनेऽव्यापिश्च; वटत्वाभाववति पटे घटत्वप्रकारकज्ञानत्वात्। नच तत्रांऽशभेदेन व्यवस्था; ज्ञानस्य स्वतो निरंशत्वात्। विषयरूपोंऽशोस्तीति-चेत्, न; ज्ञानस्य विषयानारभ्यत्वात्, अन्यथा साकारवादापत्तेः। अथ-विषयो विशेषणं ज्ञानस्य, स च अनेकात्मकस्तथाच तज्जेदन ज्ञानस्यापि तद्यवहार इति-चेन्न; ज्ञानस्यहि स्वभावविशेषः संबन्धस््वयोच्यते। सचकरूप एवेति न कश्रि- द्विशेष: । किंच इदंतानुल्लेखि रजतमितिज्ञाने धर्मिणि सर्वमभ्रान्तिकमिति कथं स्यात् ? तदंशे तद्टृत्तेर प्रकारत्वात्। नच तत्राप्रमात्वं नास्तीति तदर्थः प्रमा; स्ववृत्तावप्रमात्वस्यैत वृत्यापत्तेः । किंच 'इद संयोगी' त्यत्न तद्दति तत्प्रकार-
Page 614
श्रीमधुसूदनसरस्वतीप्रणीतम्। ३१
तवात् तदभाववति तत्प्रकारत्वाश्च प्रमाडप्रमारूपत्वं स्यात्। न चेष्टापत्तिः; तस्य प्रमात्वेनेव लोकव्यवहारात्। नच- यदवच्छेदेन संयोगो न तदवच्छेदेन तदभाव :; भावाभावयोरवच्छेदभेदेनैव प्रतीतेरिति-वाच्यम्; अस्त्वेवं तथा- प्युक्तलक्षणे विवक्षितालाभात् । तत्रापि सास्त्रावत्वाद्यवच्छेदेन गोत्ववृत्तिरसत्येवेति-चेत्, नः सास्रावानिति प्रतीतौ तदभावात्। तत्र गोव्वमवच्छेदकमिति चेत्, न; परस्पराश्रयापत्तेः । किंच सुखादिप्रतीता सुखत्वविशिषट सुखं भासते। नच तत्र सुखत्ववृत्तावच्छेदको धर्मोऽन्यः कश्चिदस्ति; गुणवृत्तिजातो व्यञ्ञकनियमानङ्गीकारात्। तथाच ताष्टशप्रतीती सर्वत्राऽव्याप्तिः। किंच प्रकारघटितं लक्षणं निर्विकल्पकेऽव्यापकम्; तस्य निष्प्रकारत्वात्, नच तदल- क्ष्यमेव; तथा सति तत्राऽप्रमात्वापत्तेः । तदुभयबहिर्भूतमेव तदिति चेत्, न; तस्य जन्यज्ञानत्वाभावप्रसंगात्, तस्य तयोरन्यतरेण व्याप्तत्वात्। अग्रयोजकमिदमिति चेन्न; सामान्यसामधर्या विशेपसामग्रीमादायेव कार्यार्जकत्वनियमात्। तथाच दोषतदभावान्यतरघटितज्ञानसामग्रीजन्यत्वे प्रमात्वाप्रमात्वयोरन्यतरस्याऽवश्यम्भावः स्यात्। अन्यथा ज्ञान- सामग्रीजन्यत्वमेव न स्यात्। तथाच ज्ञानमपि न स्यात, अन्यथा सविकल्पकमपि प्रमाऽप्रमायहिर्भूतं किमप्युत्पद्येत तदुभयरहितज्ञानसामडया जनकत्वे। तस्माल्वक्षणकरणासामर्थ्याल्लक्ष्यत्याग इति स्थितम्। नच-एतद्नुरोधेना- नुभवत्वमात्रं लक्षणमेवेति-वाच्यम्; ज्ञानत्वस्यापि तथा वक्तुं शक्यत्वात्। तस्यालक्ष्यव्ृत्तित्वं यदि, प्रकृतेऽपि समम्। किंच यत्तन्यां लक्षणकरणेऽननुगमो दोपः। नच-लक्ष्यस्याप्यननुगतत्वादयमेव दोपः, नहि प्रमा सर्वत्र प्रमा, किंतु क्वचित्, तथाच किं ज्ञानं कुत्र प्रमेति प्रश्नोत्तरं च यत्तत्रामिति-वाच्यम्; एवं हि सति कुत्नाप्यननुगमस्य दोपत्वमेव न स्यात् । सर्वत्र तथा वक्त्ुं शक्यत्वात्। तथाच शास्त्रे तद्दोपत्वव्यु- स्पादनविरोधः। अथ-यत्र लक्ष्यतावच्छेदक एको धर्मोडस्ति, तत्रासौ दोषः, यथा गन्धवती पृथ्वीत्यत्र पृथ्वीत्वं लक्ष्यतावच्छेदकं गन्धवत्वं लक्षणम्, वैपरीत्यं वा, नचात्र तथास्तीति-चेत्, नः समर्थप्रवृत्तिजनकत्वभ्रम- ज्ञानत्वादेरत्रापि त्वया वकुं शक्यत्वात्। लक्ष्यतावच्छेदकस्याऽनुगतधमे विना तदपि दुर्ग्रहमिति चेतु, भ्रान्तोऽसि: यतस्तथासनि तेन प्रामाण्यानुमानमपि कथं ते स्यात् ? किंच घटत्वादिकमेव पृथिव्या लक्षणमस्तु, नचाननुगमः; लक्ष्यस्याप्यननुगतत्वात। तथा सति पृथियीशब्दसंकेतग्रहो न स्यात् आनन्त्यव्यभिचाराभ्यामिति चेत्, प्रमाशब्देऽपि नुल्यमेतत्। पृथिवीत्यनुगतप्रतीतिवशादनुगतधर्मसिद्धिरिति चेत्, तुल्यं प्रमायामपि। प्रमाशव्दोऽनेकार्थ एवाऽक्षा- दिशब्दवदिति चेत्, न; अक्षशब्दे हि विभीतकत्वादिप्रवृत्तिनिमित्तन्नयमासाद्य प्रवृत्तिः शब्दस्य शक्यग्रहा, प्रमात्वानि तवनन्तानि, घटवति घटत्वप्रकारकत्वादीनि हि तानि, तथाच तेपां सर्वेपां ग्रहीतुमशक्यत्घेन कथं तदादाय शब्द- प्रवृत्ति: ? नच-अनुभवत्वानुगमात्तदनुगमः तञ्च जातिरूपमिति-वाच्यम्; नहि तावन्मात्रं प्रमात्वम्, तज्ज्ञानेऽपि प्रमाशब्दराप्रयोगात्, किं तर्हि ? विशिष्टम्, तच्चाननुगतमेव। काचेयं वाचोयुक्तिरन्यस्यानुगमादन्यदनुगतमिति ? विशिष्टं च केवलादन्यदेव। किंच प्रमा इतरेभ्यो भिद्यते प्रमात्वादित्यत्र सकलपक्षव्यापकं प्रमात्वमेकं नास्तीति भागा- सिद्धो हेतुः। नच-प्रमात्वत्वेनैकेन धर्मेण प्रमावृत्तिनाऽवच्छिन्नस्य हेतुत्वं धूमत्वावच्छिन्नस्येव धूमस्येति-वाच्यम्; असिद्धेः । प्रमेतरावृत्तित्वे सति सकलग्रमावृत्तित्वं हि तद्गोत्वत्ववदिति चेतु, न; एकस्य प्रमात्वस्य सकलप्रमावृत्तित्वा- भावात्, 'किंचिद्धि वस्तु स्वतो व्यावृत्तमि'ति न्यायेन गोत्वे धर्मान्तराभावाच्च। अन्यथा जात्या व्यावृत्ता व्यक्तिर्जातिं व्यावनयि्यति, व्यक्त्या च व्यावृत्त जातिर्व्यक्तिमिति परस्पराश्रयापत्तेः। नच-प्रत्येकप्रमां पक्षीकृत्य प्रत्येकप्रमात्वा- दितरभेदानुमानं स्यादिति-साम्प्रतम्; पृथिव्यादावपि तर्थवोपपत्ती पृथिवीत्वादावपि प्रमाणाभावापत्तेः । तत्र बाधकं नास्तीति चेत्, अन्यथवोपपत्तेः। साधकमपि नास्तीति पश्य। सर्वज्ञस्य सर्वप्रमाभेदज्ञानानुपपत्तिश्च, तथाचत- तम्रमात्वनिरूपणं नेतरभेदज्ञानाय, नापि शब्दरूपव्यवहाराय, नापि प्रवृत्त्यर्थम्। तस्या अप्रामाण्यशङ्काशून्यज्ञानादेव स्वी- कारात्तथैवोपपत्तेश्चति व्यवहारानङ्गत्वाद्यर्थमेव। नापि विशेष्यवृत्तिप्रकारकानुभवत्वम्; समूहालम्बनाव्याप्तेः। घटपटा- वित्यत्र हि घटत्वं पटे नास्ति पटत्वं च घटे बास्ति, तदेव तत्र प्रकारः। नचांशभेदमादाय व्यवस्था; ज्ञानस्य निरंश- त्वात्, प्रमात्वस्य च ज्ञानवृत्तित्वात्, विषयस्य च सांशत्वे किमायातं ज्ञानस्य ! किंच घटोडयमिति ज्ञाने घटत्वं विशे- व्यावृत्ति न भवतीति कथं ज्ञेयम्?नियमतोऽन्यवृत्तितयाऽज्ञानात, तद्वृत्तितयेव ज्ञानादिति चेतू, न; 'नीलं तम' इत्यादौ व्यभिचारात्। तत्र बाधोऽस्तीति चेत्, अत्रापि भविष्यतीति संभावनाया विद्यमानत्वात्। किंच 'इदं रजतमि'त्यत्र अ्रमेऽपि विशेष्यावृत्तिप्रकारकत्वं विद्यत एव, नहि रजतं न विशेष्यं क्वचित्। यत्र ज्ञाने यद्विशेष्यं तद्विवक्षितं इति चेन्न; हेत्वन्तरतापत्तेरननुगमापत्तेश्च, भ्रमेऽपि यथा रजतं विशेष्यं तथा प्रतिपादितमधस्तात्। नापि विशेष्यनिष्ठात्यन्ताभावा- प्रतियोगिधर्मप्रकारनुभवत्वम्; पूर्वोक्त्तोपात्,'अय संयोगी'त्ंयोगराकप्रमयामव्यापेश्व; संयोगस्य विशेष्य- निष्ठात्यन्ताभावप्रतियोगित्वात्। नचाभावे व्याप्यवृत्तित्वं विशेषणं देयम्; 'गुणः संयोगी'त्यप्रमायामतिव्याप्तेः, तद- त्यन्ताभावस्यैकत्वात्। नचाधिकरणभेदेनाभावभेद :; प्रमाणाभावादपसिद्धान्तापत्तेश्व। नापि विशेष्यवृत्यन्योन्याभाव- प्रतियोगितावच्छेदकधर्माप्रकारकानुभवत्वम्। अस्यार्थ :- 'घटोऽयमि'ति ज्ञाने विशेष्यं घटस्वरूपं, तत्र वर्तते योऽ
Page 615
३२ अद्वैतरत्नरक्षणम।
न्योन्याभाव: पटादीनां, तस्य प्रतियोगितावच्छेदको धर्मः पटत्वादिः, सः अप्रकारको यस्यानुभवस्य-इति। 'मूले वृक्ष: कपिसंयोगवास'इस्यबाधितानुभवबलात् संयोगस्याप्यव्याप्यवृत्तित्वात्, अव्याप्ेस्तदवस्थत्वात्। नच-'स एवायं वृक्ष' इत्यबाधितानुभवबलास्नान्योन्याभावोऽव्याप्यवृत्तिरिति-वाच्यम्; पूर्वप्रत्ययस्यैव बाधकस्य विद्यमानत्वात्, बा- धकस्य विपरीत प्रमात्वेनाSSरमाश्रयापत्तेश्च, भेदाभेदस्य प्रतीतिसिद्ध त्वेनादोपत्वात्, समूहालम्बनेऽव्यापेश्च। नापि संवा- दयनुभवत्वम्; ज्ञानान्तरेण तत्तोल्िख्यमानार्थत्वस्य तस्य भ्रमेपि सत्वात्। नच-अर्थप्राप्तेः संवाद इति-वाच्यम्; स्वप्नकामिनीदर्शनादावर्थप्राप्तेरपि विद्यमानत्वात्, उपेक्षाप्रमायामव्याप्ेश्र। तत्र योग्यताऽस्तीति चेन्न; तस्या बाधक- प्रमाऽभावात्, विषयस्य च दोषगुणाजन्यत्वात्। तथाच तज्ज्ञानं यदि दोषजन्यम्, अप्रमैव स्यात्, अथ गुणजन्यं प्रमैव स्यादिति व्यवस्था त्वदभिमता न सिद्धेत्। नापि प्रमात्वं जातिः; ज्ञानव्यक्तित्रहे योग्यव्यक्तिवृत्तित्वेन प्रमात्व- स्यापि अहापत्तौ कचिदपि संशयो न स्यात् ; प्रमात्वस्याऽनुमेयत्वाङ्गीकाराच्च। साक्षात्वादिना सङ्करापत्तिश्च, साक्षारवं हि प्रमात्वं विहाय तिष्ठति। प्रकारांशाप्रमायां प्रमात्वमपि तद्विहायानुमित्यादाविति । नच गुणवृत्तिजातौ न संकरो दोष :; बीजसाम्येन तत्रादोषत्वाङ्गीकारे द्रव्येऽपि तदापत्तेः, अ्रमे धर्म्यशप्रमायामव्याप्ेश्च। जातेर्व्याप्यवृत्तित्वनिय- मातू। नच-अवच्छेदभेदेन तद्ृत्तिः स्यात् संयोगतद्भावयोरिवेति-वाच्यम्; अवच्छेदस्य वक्तुमशक्यत्वात्। नच- विशेष्यावृत्त्यप्रकारकत्वतद्वृत्तिप्रकारावच्छेदेनोभयोः प्रमात्वाप्रमात्वयोर्वृत्तिरास्तामिति-वाच्यम्; अवच्छेदकधर्मस्य विशेषणत्वे तत्रापि प्रमात्ववृत्त्यापसेः, उपलक्षणत्वे तु ज्ञानमात्रमुपलक्ष्यं। तथाच न कश्चिद्विशेपः, अवश्यकल्प्योपाधि- द्वयेनैव प्रमाSप्रमाध्यवहारोपपत्तो जातेवैयर्थ्यापत्तेश्र। नच-व्यक्षकमादाय जातेर्निराकरणे गोत्वादुच्छेदापत्तिरिति- वाच्यम्; इषटपत्तेः, विशेष्यावृत्त्यप्रकारकत्वस्य व्यञ्ञकत्वासिद्धेश्च, तद्ग्रहेऽपि प्रमात्वव्यवहारात्। नाप्यज्ञातार्थविषय- कत्वे सति यथार्थत्वम्; यथाशब्दार्थखण्डनादेव। अज्ञानस्य विशेपणतवे अज्ञानस्याप्यरथज्ञानविपयतापत्तिः, उपलक्ष णत्वे त्वर्थमात्रमुपलक्ष्यम्। तथाच विशेषणं व्यर्थम्, व्यावर्त्याभावात्, ब्रह्मातिरिक्तस्याऽज्ञानकार्यत्वेनाज्ञानविषयत्वा- सुपपत्तेश्च। कथं तहि घटो ज्ञात इति ? घटावच्छिन्नं चैतन्यमज्ञातमिति गृहाण। तस्मात् प्रमात्वस्य निर्वक्तमशक्यत्वा- द्वेदः प्रमाविषयः ज्ञानविषयतवादिनि दुःस्थमेव। ननु-अस्ति तावत् प्रमाव्यवहारः सकललोकसिद्धः, कथं त्वयापि समर्थनीयः ? तदसमथने च कथं तात्रिकता ? तथाच "यत्रोभयोः समो दोषः परिहारोऽपि वा समः। नकः पर्यनु- थोक्तव्यस्तादगर्थविचारणे" इति न्यायापात इति-चेत्, नः वितण्डावादिनं प्रत्येवं पर्यनुयोगानवकाशात्। 'त्या स्थाप्यं मया दूष्यमि'त्येव हि समयं बध्वा कथाऽडरम्भोSकारि। तथाच विस्मरणशीलो भवान्। तथापि शिष्यभावेन पृच्छतः किमुत्तरमिति चेत्, शृणु- समस्तलोकशास्त्रकमत्यमाश्रित्य नृत्यतोः । का तदा तु गतिस्तत्तद्वस्तुधीव्यवहारयोः ॥ उपपाद्मितुं तैस्तैर्मतैराशङ्कनीययोः । अनिर्वचनतावादपादसेवा गतिस्तयोः ॥ इति ॥ तथाच प्रमात्वमनिर्वचनीयं लोकसिद्धम्। तदादाय सर्वोऽपि व्यवहारो यावदविद्यं प्रतीयते। तच्च प्रमात्वं मा- योपाधिकसर्वार्थविषयकज्ञाननिषं सव्यावहारिकमिति कथ्यते। तदेतत्परत्यक्षादीनां व्यावहारिकं प्रामाण्यमिति गीयते। तादृशप्रमाकरणत्वं च तत्। तत्वमस्यादिवाक्यात् शोधिततत्वंपदार्थस्य त्वंकारोपहितस्य प्रमातुः समुत्पन्नं विज्ञानं साक्षास्कारापरनामकमन्तःकरणवृत्तिभेदरूपं निरुपाध्यखण्डानन्तानन्दज्ञानात्मविषयकं जीवपरयोरक्यावगाहि। पार- मार्थिकप्रमारूपम्; निरुपाधिकसत्वारथविषयकत्वात्। तदेतत्तात्विकं प्रामाण्यम्। नित्याविनाशिनिरुपाधिकविपयत्वं हि तत्। वेदन्तानां च तात्विकं प्रामाण्यं तादृशप्रमाकरणत्वमेव। अप्रमात्वमप्यविद्योपाधिकसरवार्थविषयकत्वं बाधकज्ञा- नोत्तरगम्यम्। 'मिथ्याभूतोऽर्थो मया ज्ञात' इति हि लोकाः प्रतियन्ति। ननु-निष्कम्पप्रवृष्यापयिकं किमपि प्रामा- एयं त्वयापि निर्वक्तव्यम्, कथमन्यथा स्वतःप्रामाण्यमिति तव सिद्धान्तः संगच्छेत ? नच मायोपाधिकसरवार्थविषय- कत्वं तत्; तस्य स्वतो गृहीतुमशक्यत्वास्, विशेषणाभाने विशिष्टप्रत्ययायोगात्, पारिभाषिकत्वापातात्, ब्रह्मसाक्षा- त्कारे तदभावाञ्च। अन्य्च तव मते दुर्वचमिति-चेत्, न; अनिर्वचनीयमेव प्रमात्वं प्रमानिष्ठमित्युक्तत्वात्॥ किंचाशातार्थ निश्चयात्मकत्वमेव प्रामाण्यमस्मतपक्षे तञ्च सर्वत्रानुगतम्, ब्रह्मज्ञानस्यापि तथारूपत्वात्। नच भ्रमेऽतिव्याप्ि :; तद्विषयस्य भ्रममात्रकालीनत्वेनाऽज्ञातत्वाभावात्। यद्यपि भटादावप्यज्ञाततवं नास्ति, चतन्यमात्राश्र- यविषयकस्यैव तस्य स्वीकारात्, तथाचोक्तं-"आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धत- मसो हि पश्चिमो नाश्रयो भवति नापि गोचर"इति; तथापि घटाद्यवच्छिन्नस्य म्रह्चैतन्यस्य भज्ञातत्वाद्टादेरश्ञातत्वम्। अज्ञातत्वस्य च साक्षिमात्रसिद्धत्वेनाऽज्ञातत्वानधिकरणत्वेऽप्यदोषः। यद्ा-'यावन्ति ज्ञानानि तावन्त्ज्ञानानी'तीष्ट- सिद्धिकारवचनात् घटादेरपि पृथक्ज्ञातेन निवर्त्यमज्ञातत्वं स्वीक्रियते। स्मृतिव्यावृत्त्यर्थ निश्चयात्मकमिति। नच-
Page 616
श्रीमधुसूदनसरस्वतीप्रणीतम्। ३३
तत्र प्रामाण्योपचारः स्मृतिवत्। किंच प्रत्यक्षस्य वर्तमानार्थग्राहित्वेन स्वाश्रयक्षणविशिष्टस्तम्भादिग्राहकत्वात् अगृ- हीतग्राहित्वमस्त्येव। अन्यथा प्रेक्षणीयान्तराभावेनेकस्मिन् समयेऽनेकज्ञानोत्पत्तिप्रसंगः। नच क्षणानामतीन्द्रियत्वम्; स्थूलोपाधिरपि तव मतेऽतीन्दिय एव। तथाच सोऽपि कथं भासत इति पश्य। यदि च ज्ञानान्तरोपनीतः स्थूलोपा- धिर्भांसत इति स्वीकुरुषे, तदा क्षणोऽपि तथव भासत इति त्यज वृथाऽग्रहम्। नच-वेदात्क्रमोत्पन्नचेदार्थगोचर- धारावाहिकबुद्धव्याप्तिस्तत्र क्षणस्यापि भानाभावादिति-सांप्रतम्; शब्दबुद्धिकर्मणां विरम्य व्यापाराभावेन वेदा- त्क्रमिकधारावाहिकबुद्यसिद्धेः, सिद्धौ वा द्वितीयादिज्ञानस्याऽनुवादकत्वलक्षणमप्रामाण्यमेव। नच-अनादौ संसारे वेदार्थस्य पूर्वं ज्ञातरवादस्मिन् जन्मन्यनुवादकत्वापत्तिरिति-वाच्यम्; तस्मिन् जन्मन्यज्ञातत्वस्य विद्यमानत्वात्, ब्र- ह्मप्रतिपादकवाक्ये सर्वथा तदसंभवाच्च। नच तस्मिन् जन्मनि पूर्वावस्थायां ज्ञातस्योत्तरावस्थायां ज्ञाने तदापत्ति :; इष्टत्वात्, तदानीं तत्राऽज्ञातत्वस्य विद्यमानत्वाच्च। नच-श्रुत्या ज्ञाते आत्मनि मननादीनामनुवादकत्वपत्तिरिति- वाच्यम्; तत्र अज्ञातत्वस्य विद्यमानत्वादेव। नहि श्रवणमात्रेणाज्ञानं गच्छति, तथासत्यन्येपां वैयर्थ्यापत्तेः। साक्षा त्कारे जाते पुनः प्रमाणप्रवृत्यभाव इष्ट एव; "भूयश्चान्ते विश्वमायानिवृत्तिरि"ति श्रुतेः, अज्ञानभेद निवृत्तिफलकत्वेन सार्थकत्वाच्।।
तच्चेदं प्रमात्वं स्वत एव गृह्यते। स्वतस्त्वं च ज्ञानविपयकत्वग्रहविषयकत्वनियमः । नच-अप्रमाविपयकज्ञानस्य प्रमात्वाग्राहकत्वान्न नियम इति-वाच्यम्; अप्रमाया अज्ञानविरोधित्वरूपज्ञानत्वाभावेन तज्ज्ञानस्य ज्ञानाग्राहकत्वातू, अज्ञानवृत्तिर्हि सा नाज्ञानविरोधिनी, प्रमाचान्तःकरणवृत्तिस्तथा। नच-एवं सति ततो व्यवहारो न स्यादिति-वाच्यम्; इदमाकारान्तःकरणवृत्त्यविविक्ताविद्यावृत्त्यभिव्यक्तसाक्षिचतन्यात्तदुपपत्तेः । नच-'भ्रमज्ञानं मे वृत्तमि'ति भ्रमेऽपि ज्ञानर्वमनुव्यवसीयत एवेति तद्विरोध इति-वाच्यम्, इदमाकारान्तःकरणवृत्तिनिष्ठमेव ज्ञानत्वं तद्विविक्ताविद्या- वृत्तिरूपे अ्रमे प्रतीयते, नतु तन्निष्टं तत्; तस्य ज्ञानाभासत्वात्। नहि हेत्वाभासो हेतुभवति, तद्वन्न ज्ञानाभासस्य ज्ञानत्वम् । यदा पुनः 'इदं रजतमि'त्येकैवाविद्यावृत्तिरिदमंशमपि कल्पितं रजतगतमेव गृह्लाति न शुक्तिगतम्; तस्य व्यावहारिकत्वेन दोषाजन्यज्ञानग्राह्यत्वात्, तदा तत्र स्वप्नवदेव स्मृतिहेतुत्वादिसाधर्म्येण कल्पित एव ज्ञानत्वप्रमा- त्वादिव्यवहारः। ननु-एवमविद्यावृत्त्यवच्छिन्नस्येश्वरज्ञानस्यापि न ज्ञानत्वं स्यात्। तथाच तस्य सर्वज्ञत्वव्याहतिः, नच-ईश्वरज्ञानं नाविद्यावृत्त्यवच्छिन्नमिति-वाच्यम्; तथा सति स्वरूपचैतन्यस्यासङ्गस्य निर्विषयस्य विषयभानत्वा- नुपपत्तेः, "चितिगतजडशक्तेराद्य इष्टो विवर्तश्चितिनिकटनिरासाल्लब्धदीप्तिर्जडोऽपि। श्रुनिशिरसि निपण्णैरीक्षणं कथ्यते तन्ननु परमपदस्यापीक्षणं बुद्धिवृत्तिः"इत्यादिना जन्येक्षणस्यैव जगत्सर्जन हेतुत्वाभिधानाच्चेनि-चेन्न; सत्त्वप्रधानमाया- वृ्त्यवच्छिन्नत्वादीश्वरज्ञानस्य ज्ञानत्वोपपत्तेः । रजतादिवृत्तिस्तु तमःप्रधानाविद्याया दोषजन्येत्यस्ति विशेषः। यद्वा- सश्वप्रधानमायाप्रतिबिम्बः बिम्बो वा ईश्वरः, स च स्वरूपज्ञानेनव नित्येन सर्व जगत्पश्यति। नचासङ्गत्वक्षतिः; अविद्यादशायां तथोच्यमानत्वात्, सर्वोपाधिविनिर्मुक्तचैतन्यस्यैवासङ्गत्वेनावस्थानाच्च। वस्तुतस्तु-ईश्वरज्ञानं न प्रमा; अज्ञानविरोधित्वाभावात्, नापि भ्रमः; मिथ्यावस्तुनो मिथ्यात्वेनेव अहणात्, तार्किकैरपि तस्ा भ्रमप्रमाब- हिर्भावाभ्युपगमात्, ज्ञानत्वं तु तस्याज्ञानानिवर्तकत्वेऽपि स्मृत्यादिवदिच्छादिजनकत्वाद्गोणमेवेति। नच-तथाप्य- ज्ञातत्वस्य पूर्व भानाभावे कथं तदुपाहेतं प्रामाण्यं शक्यग्रहम् ? विशेषणज्ञानं विना तन्रानासंभवादिति-वाच्यम्; विशिष्टभानस्य विशेषणभानजन्यत्वानङ्गीकारात्, नच-अन्यत्र तथाऽङ्गीकारेऽपि अज्ञातत्वस्य सप्रतियोगित्वात् प्रति- योगिज्ञानापेक्षास्तीति-वाच्यम्; अज्ञातत्वस्य भावरूपत्वाङ्गीकारात्। नच-उत्पन्ने ज्ञानेऽज्ञातत्वं नष्टमिति कथं ज्ञानग्राहकेण ग्राह्यमिति-वाच्यम्; अज्ञातत्वविशिष्टस्याऽर्थस्य पूर्व साक्षिणा गृहीतस्यैवाज्ञातत्वेनापि ग्रहणात् साक्षि- ज्ञानमेव, तच् विषयेण सह प्रत्यासत्यन्तरमन्तरेणैव ज्ञानाज्ञानयोर्ग्राहकम्। तथाचोपपादितमाचार्य: पञ्चपा- दिकाविवरणे-"ज्ञातत्वेनाज्ञातत्वेन च सव साक्षिचतन्यवेद्यम्" इनि। तथान्व प्रामाण्यमपि साक्षिवेद्यमेव; तस्यैव ज्ञानग्राहकत्वात्। ननु तथापि 'घटज्ञानं ममास्ती'ति शब्दात्परस्य तावद्वटज्ञानविषयकं ज्ञानसुत्पद्यते। नच तस्मिन ज्ञाने उक्तरूपं प्रामाण्यं भासते; अज्ञातत्वस्य पदादनुपस्थिता शाब्दबोधे भानायोगात्, तथाच कथ नियमः ? इति- चेन्न; वस्तुतो यद्ज्ञातं तवनिश्चयात्मकत्वं प्रामाण्यमित्यर्थात्। तच्च तस्मिन् ज्ञाने भासत एव। अथवा-ज्ञानत्वम- ज्ञानविरोधित्वघटितमिति ज्ञानत्वभाने भानमेवाज्ञानमिति न प्रामाण्यभानानुपपत्तिः ।। ननु-एवमपि न स्वतःप्रामाण्यग्रहः, तथा सति अनभ्यासदशोत्पन्नज्ञानप्रामाण्यसंशयो न स्यात्, अस्ति च सः । जलज्ञानानन्तरं हि इदं जलं न वेति। नासौ ज्ञानप्रामाण्यसंशयं विनोपपद्यते, निश्चिते संशयानवकाशात्। नच- अर्थसंशय एवान्यथानुपपद्यमानो ज्ञानप्रामाण्यसंशयं कल्पयति। निश्चिते ज्ञानविषयत्वादेवार्थे संदेहो नतु ज्ञान- प्रामाण्यसंदेहात्। दृश्यते हि ज्ञानविपयः क्वचिदस्ति क्वचिन्नास्तीति-वाच्यम्; विशेषदर्शने सति प्रामाण्यसंशयं अ. सि. ११८
Page 617
३४ अद्वैतरतरक्षणम्।
विनार्ऽर्थसंशयानुपपसेः । अन्यथा संशयोष्छेद: कापि न स्यात्; जलज्ञानं प्रमा नवेति संशयानुभवासिद्धत्वाच् । मच-यथा 'श्वेतः शङ्ड' इत्यानुमानिके ज्ञाने स्थितेऽपि पीतारोपो भवति, तथात्रापि विपरीतं ज्ञानं स्यादिति-वा- व्यम्; तत्र हि परोक्ष विशेषदर्शनं भ्रमस्त्वपरोक्ष इति न विरोधः, अत्रतु तदुभयमपरोक्षमिति स्वादेव विरोधः। नय- तत्रापि शङ्कत्वरूपविशेषदर्शनमपरोक्षमिति-वाच्यम्; आरोप्यकोटिविरुद्धकोटेर्विशेषस्य यद्दर्शनमपरोक्ष तदेव प्रति- बन्धकं यतः । तब्न पीताभावज्ञानमेव, तक्न तत्र नास्ति दोषात्, अत्रास्ति, अत्रोच्यते-दोषप्राबल्यानिश्चितेऽप्यथे निश्चितेऽपि प्रामाण्ये संशयः । द्विविधो हि निश्चयः, दोषसहितो दोषाभावसहितश्च। तत्र प्रथमो न विपरीतज्ञानवि रोधी। द्वितीयस्तु विरोधी। प्रकृते च अनभ्यास एव दोषः । स च भूयोभूयः प्रवृत्यभावः। कचित् कश्चिद्दोष इत्यभ्यु- पगमात्। नच-तस्मिन् सति कथं प्रामाण्यभानमिति-वाच्यम्; फलबलेन तत्र तस्याऽदोषत्वात्। विपरीतज्ञानो- स्पत्तावेव स दोषः। अतएव शास्त्रयुक्तिसंस्कारपाटववतां स्थूलादिपदार्थोपनयानन्तरं स्थूलादिभिन्न इति मानसे सा- क्षास्कारे स्थितेऽपि 'स्थूलोऽहं अन्धोऽहम्' इत्यादिसाक्षारकारो भ्रमरूपो जायमानः सर्ववादिसंमतः संगच्छते; भ्रमसं- स्काररूपस्य दोषस्य विध्मानतवात्। नच-उक्साक्षारकारो न विरोधीति-वाच्यम्; कथं न विरोधीत्युक्ते दोषसहि- सत्वादित्येवोत्तरम्। तथाच सिद्धं नः समीहितम्। अथ-योगजधर्मजन्यसाक्षात्कारस्यैव तद्विरोधित्वमिति-चेत्, तर्हि स एव दोषाभावसहित इति परिभावय। अन्यथा स्थिते दोषे पुनर्विपरीतज्ञानं स्यादेव। तथाऽभावत्वेन भासमा- नेडपि तमसि नीलारोपो रृष्टः। नच-तत्रेदंत्वेनोपस्थिते तमासे नीलारोप इति-सांप्रतम्; तथासति 'इदं नीलमि'ति बुद्धापसे :; प्रतीयते तु 'तमो नीलमि'ति। नच-तमस्वदर्शनं न विशेषदर्शनमपितु नीलात्यन्ताभाववरवेन साक्षात्कारः, सच तत्र नास्ति, दोषादिति-वाच्यम्; अभावे प्रतियोग्यतिरिक्तस्य विशेषस्याऽभावात्, आरोपस्य दोष प्राबल्यादेवो- पपस्ेः, अन्यथा आहार्यारोपे का गतिः? नहि तत्रापि विशेषदर्शनमस्ति, तथाच आवश्यकदोषादेव विपरीतज्ञानोत्पत्तौ संभवन्त्यां कुत्रापि न विशेषादर्शनं हेतुः। तथाच न कार्यवैजात्यकल्पनमपि। तत्कल्पने वा आहार्यभ्रम इवाऽनाहार्य विशेषदर्शनकालीनभ्रमेऽपि तदस्तु, का नो हानिरिति ? किंच विशेषाणामननुगमात् तद्दर्शनाभावानामप्यननुगमेन कथं भ्रमविशेषं प्रति कारणत्वमिति विवेचनीयम् ? तस्माद्दोपा्रम इत्येव मन्तव्यम्। तथाच गृहीतेऽपि प्रामाण्ये दोषात्संशयोऽस्तु, दोषोच्छेदादेव तदुच्छेद इति०को दोष: ? अथवा-योग्यव्यक्तिग्राहकेण जातिरिव दोषासहकृतेनैव ज्ञानग्राहकेण प्रामाण्यं गृह्यते न दोषसहकृतेनापि; अन्यथा दोषसहकृतेन 'इदम्' इति शक्तिव्यक्तिग्राहकेण शुक्तित्व- स्यापि ग्रहणे भ्रमोच्छेदप्रसंगात्, दोषासहकृतेनतु गृह्यत एवेति न काप्यनुपपत्तिः । परतःप्रामाण्यज्ञाने च अनवस्था। नच-न सर्वस्य ज्ञानस्य प्रामाण्यं ज्ञातव्यमिति नाऽनवस्थेति-वाच्यम्; तथासति तत्सत्वे कदापि प्रमाणानुदयेऽस- स्वापत्तौ तद्विषयपर्यन्तासत्वापत्तेः । तस्मात्सवं ज्ञानं ज्ञायते एव, तत्प्रामाण्यमपि गृद्यत एवेति नियम: ॥
एवमुत्पद्यतेऽपि प्रामाण्यं स्वतः ज्ञानसामग्रीमात्रासतु गुणात्। नच-ज्ञानसामग्रीमात्रजन्यत्वेSप्रमापि प्रमा स्यादिति-वाच्यम्; तस्या ज्ञानसामग्रीजन्यत्वाभावात्। नच-एवं सति सा ज्ञानमपि न स्यादिति-वाच्यम्; इष्टापत्तेः, अविद्यावृत्तिर्हि सा दोषजन्या ज्ञानाभास इत्यभ्युपगमात्, ज्ञानस्य चान्त:करणवृत्तित्वाभ्युपगमात्। न च तस्या जडत्वेन ज्ञानत्वानुपपत्तिः; तद्वच्छिल्स्य तत्प्रतिबिम्बितस्य तदाभासस्य वा चैतन्यस्य तथोच्यमानत्वात्, गु- णाधीनत्वे च प्रमाया ईश्वरज्ञाने प्रामाण्यं न स्यात्; तत्र गुणाभावात्। अथ-जन्यप्रमायां तदपेक्षा, तद्पि न; दोप- सहितज्ञानसामध्यजन्यत्वेऽनाप्रमात्वशून्यस्यापि ज्ञानस्योत्पत्तिप्रसंगात्। ज्ञानमात्रे ज्ञानत्ववत् प्रमात्वस्याप्यनुगमात्सा- मान्यसामग्रीमात्रप्रयोज्यता। अप्रमात्वस्य तु क्ाचित्कत्वाद्दोपसहितसामग्रीविशेषप्रयोज्यतेति नाऽSगन्तुकहेतुसापेक्षता प्रमाया :; गुणत्वस्यैकस्याभावाच्च। नचावच्छेदकरूपमेकमन्तरेण कारणताग्रहः संभवति। अथ-प्रत्यक्षप्रमायां यथा- डर्थेन्द्रियसन्निकर्षो गुणः, अनुमितौ यथाऽथलिङ्गज्ञानं, शाब्दे यथार्थवाक्याथज्ञानं उपमितौ यथार्थसादृश्यज्ञानं गुणोऽनु- गत एव, प्रमामात्रे तु नास्त्येवानुगतो गुण इति-चेन्न; जन्यप्रमात्वस्याSSकस्मिकरवापत्तेः। नचेष्टापत्तिः; अन्यत्रापि तथात्वापत्तेः । किंच इन्द्रियसननिकर्षोपि नैकः; तस्य पङ्डिधत्वाङ्गीकारात्। अनुमिता यथार्थलिङ्गज्ञानशाब्दे यथार्थ- वाक्याथज्ञानं, नच-इन्द्रियसक्निकर्षत्वमेकमनुगतमस्ति कारणतावच्छेदकमिति-वाच्यम्; इन्द्रियविषयरूपसंबन्धि- मेदेन तस्यापि नानात्वात्। नापि भूयोऽवयवेन्द्रियसन्निकर्षो गुण :; भूयस्वस्य त्रिचतुरादित्वेनाऽननुगमात्। तलान्न गुणजन्या प्रमा, किंतु ज्ञानसामग्रीमात्रजन्येति सिद्धमित्यलं प्रसक्कानुप्सक्त्या ।।
प्रकृतमनुसराम :- तदित्थमियता प्रबन्धेन सिद्धमेतत् न ज्ञेयत्वप्रमेयरवयोरविनाभावः, किंतु सहचारमात्रम्; शु- किरजतादौ व्यमिचारात्। सहचारमात्रमित्यप्यभ्युपगमवादः, वस्तुतस्तु-ज्ञेयत्वमिथ्यास्वयोरेव व्यापिः। तथाच प्रपञ्चो मिथ्या दृश्यत्वात्। यदित्थं तत्तथा, यथा शुक्तिरजतादि, तथाचेदम्, तस्मान्मिथ्या। नचाऽप्रयोजकता; दग्दश्य- यो: संबन्धानुपपत्तेरेव बाधकस्य विद्यमानस्वात्। स हि न संयोग :; अनभ्युपगमात्, नापि समवायः; अनभ्युपगमा-
Page 618
श्रीमधुसूदनसरस्वतीप्रणीतम्। ३५
देव। नापि स्वरूपम्; अतिप्रसङ्गात्। नहि घटज्ञानं घटश्रेति स्वरूपम्, अथ स्वरूपविशेष:, सच न; संबन्धान्तर- मन्तरेण विशिष्टप्रत्ययस्थाननुगतहेतुकत्वापत्तेः । विस्तरस्तु जगत्कबलनयुक्तिप्रस्तावेऽनुसंधेयः। एतेन स्वप्कामिन्या- दीनामपि मिथ्यात्वं सुप्रसिद्धम्, तथाच तदपि दृष्टान्तीकतुं शक्यत एव। नच-पूर्वानुभूतमेव कामिन्यादिकं तत्र भासत इति-वाच्यम्; तथा सति तदित्युल्लखापत्तेः। दोषात् तत्ताप्रमोष इति चेत्, न; संस्कारस्य स्वभावपरावृश्या- पत्तेः। ननु-स्मृत्युपनीतं पित्रादिकं मनोजन्येऽपरोक्षज्ञाने भासतामिति नोक्तदोष इति-चेत्, तर्हि विशेष्यत्वेन पित्रादीनां भानं न स्यात्। अस्ति च 'अयं पित्रादिरि'ति प्रतीतिः, तस्मादनिर्वचनीय एव पित्रादिः खमे भासत इत्य- ड्ीकर्तव्यम्। तथाच तहृष्टान्तेन विश्वस्यापि मिथ्यात्वं साधयितुं शक्यत एव। ननु-यदेतन्मिथ्यात्वज्ञानमुरपन्नं तेन सह तस्य संबन्धोऽस्ति नवा, नचेत्, मिथ्यात्वासिद्धिः, अस्ति चेत्, पूर्वोक्तसंबन्धखण्डनं तत्रापि योजनीयमिति स्वव्याघातकत्वाज्जात्युत्तरं तदिति-चेन्न; अनिर्वचनीयस्य संबन्धस्य स्वीकारात, घटतज्ज्ञानयोरपि तथाजीकारोस- न्मतप्रवेशः । तथा प्रपञ्चो मिथ्या व्यवहारविषयत्वात्, सवप्नप्रपञ्चवत्, नच ब्रह्मण्यनैकान्तिकता; तस्य व्यवहारविषय- त्वानङ्गीकारात्, आह चेदं श्रुतिः-"यतो वाचो निवर्तन्ते" इत्यादिः। "सकलवाङ्नसातिगता चितिः" इति च विद्वद्वचनम्। विस्तरस्तु पूर्वोक्त एवात्रानुसंधेयः । ननु-भेदग्राहकेणानुमानेन बाधितमेतत्। तथाहि-घटः, पटप्रतियोगिकान्योन्याभावात्यन्ताभावरहितः, पटत्वप्रतियोगिकात्यन्ताभाववत्वात्, यथा पटः, नचायं पटत्वप्रतियो- गिकात्यन्ताभाववान्, तस्मात् पटत्वप्रतियोगिकान्योन्याभावात्यन्ताभावरहित इति व्यतिरेकी, घटः पटप्रतियोगिका- न्योन्याभाववान् पटत्वप्रतियोगिकात्यन्ताभाववत्वात् यदेवं तदेवं, यथा लोष्ट, तथाचायं, तस्मात्तथेत्यन्वयीचेति- चेत्, न; प्रथमानुमाने साध्ये व्यर्थविशेषणत्वात्, पटप्रतियोगिकान्योन्याभाववानित्येतावात कृत एव साध्यसिद्धेः। अस्तु तर्थेति चेत्, न; अविद्यादशायां विद्यमानेन भे देनाडर्थान्तरत्वात्, सिद्धसाधनादवा। पारमार्थिके च तत्र हष्टान्ता- सिद्धिः, "सलिल एको द्रष्टाउद्वैतो भवती"ति श्रुत्याऽपहृतविषयत्वाच्च। पक्षहेतुदृष्टान्तानां च भेदादिसिद्धौ तर्वानु- पपत्तिः। सर्वत्र चानुमानेन भेदसाधनेऽनवस्थाऽन्योन्याभावश्च न शक्यनिर्वचन इत्युक्तमधस्तात्। एतेन-घटपटौ, अन्योन्यभेदवन्तौ, अन्योन्यधर्मात्यन्ताभाववत्वात्, यदित्थं तत्तथा, यथा विद्याडविद्ये, तथा घटत्वं पटतादाल्यावच्छि अप्रतियोगिकाभावसमानाधिकरणम्, पटत्वासमानाधिकरणधर्मत्वात्, यदेवं नभवति तदेवं न भ्वत, यथा पटत्वं, न चैतन् तथा, तस्मादुक्त्तसाध्यसमानाधिकरणमिति व्यतिरेकी, तथा घटवन्भूतलं, घटप्रतियोगिकाभावाधिकरणम्, घटत्वप्रतियोगिकाभावाधिकरणत्वात्, पटवत्, पक्षविशेषणमहिम्रा च संसर्गाभावबाधेऽन्योन्याभावसिद्धिरिति- अपास्तम् ; उक्तदोपेणैवेति। अथ-अस्तु प्रपञ्जः सत्यो दृश्यत्वात्, यन्नैवं तन्नव, यथा ब्रह्माद्वैतमिति-चेन्न्न; ब्रह्मा- द्वेतस्य दृश्यत्वे व्यतिरेकव्याप्तिभूमित्वानुपपत्तेः, तव मते दृश्यत्वमस्तीति चेत्तर्हि मम मते सत्यत्वमप्यस्तीति न व्यति- रेकदष्टान्तः। अन्वयित्वमस्त्विति चेन्न; दष्टान्तस्य साधनविकलत्वात्, शुक्तिरजतादौ व्यभिचाराघ। एतेनेदमपा- स्तम् प्रपञ्नः, पारमार्थिक:, अभिधेयत्वात्, यदवं तदेवम्, यथा ब्रह्म, तथा भेदज्ञानं, सद्विषयकं, ज्ञानत्वात्, यदेवं तदेवं, यथा ब्रह्मज्ञानम्-इति; सवप्रादिप्रपश्चेन तज्ज्ञानेन च व्यभिचारात्। साधितं च स्वप्ादिप्रपश्चस्यासत्वम् । किंच स्वशिरश्छेदक्षि त्यादिगिलनाकाशपातस्वर्वेश्यासंभोगसमुद्रतरणमहेन्द्रा दि विजयसुमेरुशिख रसमारो हणैरावतादि यानगमनादिकमपि निद्धाविद्रावितेन्द्रियगणः पुरुषः पश्यति, नच तदपि पारमार्थिकं तज्ज्ञानं वा सद्विषयकमुररीकनु शक्यं ब्रह्मणापि; सर्वजनीनानुभवविरोधात्। तथाच सर्वजनीनानुभवविरोधिनस्तव किमपि वस्तु न सिद्धेत्। नच- तेऽपि पदार्थाः पूर्वमनुभूता एव भासन्त इति-युक्तिमत; तेषां तज्जन्मन्यनुभवाभावेऽपि भ्रमस्यानुभवसिद्धत्वात्। नच जन्मान्तरीयस्तदनुभवः कल्पनीयः; कल्पनागौरवादेव। नच पुराणादितः तेपामाकलनम्; तद्श्राविणोऽपि तादृश- स्वम्रानुभवस्य विद्यमानत्वात्। य्तु बालस्य स्तनपाने प्रवृत्युपपत्तेः जन्मान्तरीयज्ञानकल्पनम्, तदपि न; जीवनयो- निप्रवृत्तौ व्यभिचारात्, तत्रेव जीवनान्यथानुपंपत्तेः स्नपानप्रवृत्तावपि सत्वाद्। चिकीर्षाधीनप्रवृत्तौ ज्ञानं हेतुरिति श्ेत्, जीवनाष्टासाधारणकारकप्रवृत्ति भिन्नप्रवृत्तेरेव चिकीर्षाधीनत्वेनेष्टपतेः। नीमांसकैश्र जन्मान्तरानुभूतस्मरणान- म्युपगमात् संस्कारादृटषटाभ्यामेवाऽऽद्यप्रवृत्तिरित्यङ्गीकृतम्। आद्यप्रवृत्तौ ज्ञानापेक्षायामपि अविद्यादोषादव व्याप्यज्ञान स्थानिवंधनीयस्योत्प्तेर्न पूर्वानुभूतव्याप्तिस्मृतिकल्पनमिति। तस्माद्रह्म आत्मैकत्वाविद्यानिद्धादिदोषव शाद्गजतुरगका- मिन्याधयाकारेण विवतते। स एव च विवर्तः समानुभवस्य गोचरः। तथाच विलक्षणकामिन्याद्यनुभवः संगच्छत इति। तथाचाह भगवान्वेदव्यास :- "मायामात्रं तु कारत्स््येनानभिव्यक्तस्वरूपत्वादि"ति। किंच यदि प्रमेयत्वसंयोगि- स्वादिना प्रपश्नसाम्यं, रासभसाम्यं च ब्रह्मणस्त्वयोच्यते, तथा सति नास्ति कोऽपि तव विशेष :; शाखत्रोक्तव्रह्मानड्रीकारा- विशेषात्। ननु-तवयापि रासभादिना ब्रह्माभेद: स्वीक्रियते, तथाच सादृश्यस्वीकारापेक्षयाSभेदस्वीकारस्याधिकदो षावहत्वमिति-चेत्, न; अध्यस्तस्याधिष्ठानात्मकत्वस्वीकारात्। तथाचाध्यस्तवाधेनाधिष्ठानमात्रबह्परिशेषे क दोषा- वकाशः? यथाचाध्यस्तसर्पादिदोषगुणै रजुर्न लिप्यते, तथाऽध्यस्तप्रपश्चदोषगुणाभ्यामपि न ब्रक्म लिप्यते; तस्यासङगैक-
Page 619
३६ अद्वैतरत्नरक्षणम्।
स्वभावत्वात्। आह च-"न लिप्यते लोकदुःखेन बाह्यः" इति। तथाच श्रुत्यर्थानमिश्ञो भवान् ब्रह्मद्वेषटैव केव- लमू। किंच ब्रह्मप्रपञ्चयोर्यदि स्त्वं तुल्यमभिमतं सात्, तदा प्रपञ्चतिरस्कारेण ब्रह्मणो भूयोभूयः प्रतिपादनमुपनि- पत्सु न स्यात्, अस्ति तु तत् "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" "मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन" "सत्यस्य सत्यम्" "अतोऽन्यदार्तम्" "द्वितीयाद्व भयं भवती"त्यादौ श्रुतौ। स्मृतिरपि "सर्वधर्मान् परित्यज्य मामेकं शरणं ब्रजे"त्यादिका। अथ-ब्रह्मसाक्षात्कारः साक्षादेव दुःखोच्छित्तिरूपपरमपुरुषार्थोपयोगी, नतु प्रपञ्चसाक्षार्कार इति बोधयितुं तथा प्रतिपादनमिति-चेत्, हन्त तर्हि तवैष रीत्या ब्रह्मसाक्षात्कारस्यैव पुरुषार्थहेतुरेन ब्रहै- वोपादेयमित्यागतम्। तथाचेतरस्य प्रपञ्चस्य स्वीकारो वृथैव; सत्यत्वात् स्वीकार इति-चेत्, भ्रान्तोऽसि नित- राम् ; यतो निष्प्रयोजनमपि सत्यं स्वीकरोषि। यथार्थदर्शी तु वैदिको निष्प्रयोजनं दुःखैकहेतुं प्रपञ्न मिथ्या मन्यते। तस्माद्गह्ैव सत्, प्रपञ्चस्तु नासीदस्ति भविष्यतीति युक्तमुत्पश्यामः। किंच सकलमुनिवरमूर्धन्यभगवद्वेदव्यासप्रणीत- सूत्रकलापपौर्वापर्यालोचनया ब्रह्माद्वतमेव प्रतीयते, नान्यत्, तथाच यदि श्रुतेर्नाभेदे तात्पर्यं स्यात्, कथं तथा वर्ण- येत् ? अथ-यदि भेदे श्रुतेस्तात्पर्य न स्यात् कथमक्षपादकणभुक्प्रभृतिभिस्तथाऽभिवर्णितम् ? कथं वा सुरगुरुणा चार्वाकशास्त्रमभाणि ? नहि वेदव्यासात् ते निकृष्टप्रज्ञा इति शक्यं संभावयितुम्। यदिच ते पापण्डान् व्यामोहयितुं तथा कृतवन्त इति मन्यसे तथा प्रकृतेऽपि तद्वकुं शक्यत एवेति-चेत्, न; शिष्टपरिग्रहापरित्रहाभ्यां विशेषात्, वेदस्यापि प्रामाण्ये शिष्टपरिग्रह एव हेनुः। तथाच बृहस्पतिप्रणीतस्याप्रामाण्यमेव; शिष्टापरिग्रहात्, गौतमादिप्रणीतस्य यद्यप्यधुनातनशिष्टाभासपरिग्रहोऽम्ति; तथापि न पूर्वेषामस्ति; विगीतत्वश्रवणात्। तथाच श्रूयते मोक्षधर्मे- "आन्वीक्षिकीं तर्कविद्यामनुरक्तो निर्थकम्। तस्यैवं फलनिर्वृत्तिः शगालत्वं वने मम।" मनुरप्याह-"हैनुकान् बकवृत्तींश्च वाञ्यात्रेणापि नार्चयेदि"ति। व्यासोऽप्याह-"एतेन शिष्टापरिग्रहा अपि व्याख्याताः" इति। शिष्टाश्र मनुप्रोक्ता :- "धर्मेणाधिगतो यस्तु वेदः सपरिबृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः" इति। यन्त- "यस्तर्केणानुसंधत्ते स धर्म वेद नेतर" इति, तत् मीमांसाख्यजैमिनितर्कपरम्; तस्यैव "अथातो धर्मजिज्ञासे"ति धर्मम- धिकृत्य प्रवृत्तेः। यत्तु-"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशे"ति याज्ञवल्क्यवचनं, तदपि पदार्थव्युत्पादनद्वारा विद्यान्तरोपकारकत्वेनोपयुज्यते। न्यायशास्त्रमप्येतत्परमेव, नतु तज्ज्ञा- नस्य मुक्तिहेतुत्वपरम्; "नपा तर्कण मतिरापनेया" इति श्रुतिविरोधात्, भेदप्रतिपादकानां च तर्काणां श्रुतिविरोधे- नाऽऽभासरवात्। तस्मान्यायशास्त्राध्ययनं न निषिध्यते, किं तहि ? तत्परत्वम् "अनुरक्तो निरथिकामि"ति वचनात्। बादरायणीयं तु तत्रं सर्वेर्मुनिभिस्तात्पर्यतः संगृहीतमेव, तंदव मोक्षार्थिभिरध्येतव्यमिति। नच ते भ्रान्ताः; श्रुति- संवादात्परमशिष्टत्वेन सवैंः परिगृहीतत्वाच्च। किंच "कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्। को ह्यन्यः पुण्ड- रीकाक्षान्महाभारतकृद्भवेत्। द्वापरे द्वापरे विष्णुर्व्यासरूपी जनार्दन" इत्यादिवचनशतरीश्वर एव व्यास इत्यवग- म्यते। तथाच न तस्य भ्रमप्रमाद्विप्रलिप्सादयः संभाव्यन्ते। तद्वचनादान्नायप्रामाण्यं तन्मे प्रमाणं शिव इति च तववाङ्गीकारात्तदुक्ती विश्वासोऽन्येपां च भ्रमादयः संभाविता इति न तदुक्ती समाश्वासः । तदुक्तं-"भ्रान्तेः पुरुपधर्मत्वात्" इनि। ननु-द्वैतरागिणो मम हृदि शतशस्त्वयोच्यमानमपि ब्रह्माद्वैतं नादरमादघाति; पूर्वोक्तरनुमा- नैर्भैदस्य सिद्धत्वादिति-चेत्, न; श्रुत्यादिभिर्भेदस्य बाधितत्वात्। अथ-अगमबाघोह्यागमजन्या साध्यविपरीत- प्रतीतिः, सा च सत्या न वा, आद्य कथं बाधः? तयैव सत्यया द्वतसिद्धेरद्वैतप्रमाऽभावात्; अन्त्ये सुतरां न बाधः; असत्येन ज्ञानेन बाधायोगादिति-चेन्न; अद्वैतबुद्धेरसत्वेपि तद्विपयसत्यत्वेन बाधकत्वोपपत्तेः। नहि ज्ञानस्य स्वरू पसत्वं बाधकत्वे प्रयोजकम्; भ्रमस्यापि बाधकत्वप्रसङ्गात्, किं तहि? विषयसत्यत्वम्, तच्च प्रकृते विद्यत इति। तथापि पूर्वानुमानेऽन्यो दोप: क इति चेन्, साध्याविशिष्टतव, भेदस्य क्वाप्यसिद्धेश्च। नच-व्यावहारिको भेदः सिद्ध इति-वाच्यम्; तथा सति तेजनैव सिद्धसाधनतापत्तेः। नच-आभासव्युदासेन स एव पारमार्थिकः सेत्स्य- तीति-वाच्यम्, अनुमितेव्यांवहारिकभेदविपयत्वेनाप्युपपत्तो कालत्रयाबाध्यत्वलक्षणस्य पारमार्थिकत्वस्याविषयीक- रणात्। नच-भेदं पक्षीकृत्य पारमार्थिकत्वं साध्यम्, तथाच न सिद्धसाधनतेति-वाच्यम्; "नेह नानास्ति किंचन" इतिश्रुत्या बाधितत्वात्। पारमार्थिकत्वं च यदि प्रमाविषयकत्वम्, तन्न; अप्रयोजकत्वात्, प्रातीतिकमेदेनैव व्यवहारापत्ते: । अन्यच्च पूर्व दूषितमेव। किंच वेद्यत्वादीनां हेतूनां पारमार्थिकत्वाभावव्याप्यत्वेन विरुद्धश्र। नच- ब्रह्मण्यपि वेद्यत्वमस्तीति-वाच्यम्; तस्य वेद्यत्वानङ्गीकारात्। ननु-'ब्रह्मणि वेद्यत्वं नासी'त्यत्र ब्रह्मपदेन ब्रह्मो- पस्थाप्यते नवा। आद्ये त्वद्वाक्येनैव वेद्यत्वं, अन्त्ये न अ्रह्मणि वेद्यत्वनिपेधस्त्वया कर्तु शक्यः; वेद्यत्वनिषेधकेन वाक्येन ब्रह्मानुपस्थापनादिति। ब्रह्मशब्देन यद्यस्मदभिमतं त्रिविधपरिच्छेदशून्यं वस्तु स्वीकृत्य वेद्यत्वमापाद्यते, तदा तवैव व्याघातः, अथ ज्ञानाययधिकरणं जडमात्मानमङ्गीकृत्य, तथा सति तत्र मिथ्यात्वमप्यस्तीति न दोषः। किंच ब्रह्मणि वेद्यत्वस्वीकारे श्रुतिविरोधश्च। तथाहि श्रूयते-"अन्यदेव तद्विदितादथो अविदिताद्धि" इत्यादि। तदाका-
Page 620
श्रीमघुसूदनसरस्वतीप्रणीतम्। ३७
रान्त:करणवृश्युत्पादमात्रेण च वेदान्तानां तद्वोधकत्वोपचारः। ब्रह्मणि वेद्यरवं नास्तीत्यस्य अब्रह्मण्येव वेद्यत्वमित्यर्थः । मुख्याया असंभवे जघन्याया एव वृत्तेन्याय्यत्वात्। उपपादितं चैतदद्वैतसिद्धा दृश्यत्वहेतूपपादने। यतो ब्रह्मणि वेद्यसवं गीर्वाणैरपि दुर्भणम्। श्रुतिबाधभयात्तस्मान्मिथ्या दृश्यं नियोगतः ॥ तथाच प्रयोग :- प्रपज्जो मिथ्या वेदत्वात्, शुक्तिरजततादात्म्यवत्, भेदो, न पारमार्थिक:, व्यावहारिकत्वात, तरङ्गप्रसङ्गानुभूतचन्द्रभेदवद्। नच्च घ्रह्मणि व्यभिचार :; तत्र हेतोरप्यभावात्, सिद्धान्तस्य च प्रसाधितत्वान्न तदसिद्धिः। साध्यं च मिथ्यात्वं निरुक्तम- द्वैतसिद्धौ भ्रममात्रविषयत्वं प्रमित्यविषयत्वं वा। नचासिद्धिः; भ्रमविपयस्यैव तादृशस्य च सिद्धत्वात्, सदसच्ाम- निर्वचनीयतवं वा। नचायं पुरुषदोष :; वस्तुदोषत्वात्। तथाहि-यदि सत्स्यात् न व्यभिचरेत्, यथा चिदात्मा, यदिचासत् स्यान्नापरोक्षप्रतीतिपथमवतरेत्, तस्मादेत्वयविलक्षणत्वसिद्धिः प्रपञ्चस्य। किंच सत्वासत्वसदसत्त्वपक्षेषु दूषणदर्शनादनिर्वचनीयत्वमेवावघारयामः। ननु-अनिर्वचनीयत्वेऽपि दोषं पश्यसि नवा। आद्ये तदपि कथम- बधारितवानसि? द्वितीये त्वनिर्वचनीयत्वेनैव वास्तवेन धर्मेण व्यवस्थितः प्रपञ्जो ब्रह्मभिन्नतया व्यवस्थास्यत इत्यद्वैतपक्षाय वितीर्णो जलाअ्ञलिः। नच-अनिर्वचनीयत्वमप्यपारमार्थिकत्वमेवेति-वाच्यम्; तथासति तद्भिमतं निर्वचनीयत्वमेवाङ्गीकृतं स्यात्, तथाच न विवादः। नच-न निर्वचनीयत्वं नाप्यनिर्वचनीयत्वं किं तर्हि? उभया- भाववत्वमिति-वाच्यम्; तथासति तेनैव रूपेण प्रपज्जो व्यवस्थित इत्युक्तं स्यात्। तथाच दोपस्तदवस्थः। नच- विरोधात्तदृपि नाङ्गीकुर्म इति-वाच्यम्; तथासति प्रकारान्तरेणैव व्यवस्थित इति सर्वया ब्रह्मप्नपज्जयोः सिद्धो भेद इति, अत्रोच्यते-न सत्वं नाप्यसत्वं नाप्यनिर्वचनीयत्वं नोभयाभाववत्वं नान्यतरत्वम्; सर्वेपां पक्षाणां दुष्टत्वात्। दुष्ट्त्वमेव तहि पारमार्थिकमिति चेन्न; "नेह नानास्ति किंचन" इति दुष्टत्वस्यापि निषेधात्, अदुष्टत्वमेव तर्हि पार- मार्थिकमिति चेत्, न; तस्यापि निषेधादेव। निषेधस्तर्हि पारमार्थिक इति चेत्, ततः किं? तेनैवाद्वतापत्तिरिति चेन्न; भावाद्वतस्वीकारात्। एतेन-मिध्यात्वं धर्मो यदि प्रपञ्जनिष्टोऽमिमतस्तदा प्रपञ्ञस्वीकारापत्तिरिति-अपास्तम्; धर्मधर्ममिभावानभ्युपगमादेव। किंच प्रपञ्चसत्यत्वसाधकानुमाने विपक्षबाधकतर्काभावश्च। नच-लौकिकवैदिक- व्यवहारविपृवरूपो बाधकस्तकोंस्नीति-वाच्यम्; तस्य मिथ्यारूपस्य मिथ्यावस्तुभिरेवोपपत्तेः । नहि जगन्मिथ्येति- वादिमते सत्यं साध्यं किमप्यस्ति। आत्मसाध्यं जगदिति तव सिद्धान्त इति चेत्र; विद्यामूलत्वाभ्युपगमात्।ब्हकार- णत्ववादस्तु तद्धिष्ठानत्वमूलः। ननु-ब्रह्माद्वैते किमपि प्रमाणमस्ति नवा, न चेत, शशविपाणकल्पता, अस्ति चेत्, श्रुतिरन्यद्वा, नान्त्योSनभ्युपगमात्, न प्रथम :; तस्य पारमार्थिकतवापत्ता अद्वैतहानेः, अपारमार्थिकत्वे च कथं ततः पारमार्थिकं ज्ञानं स्यादिति चेन्न; अपारमार्थिकादपि स्वम्नानुभूतकामिनीसंसर्गाच्चरमधातुविसर्गदर्शनात्। नहि स्वमानु- भूतकामिनीसंसर्गस्य पारमारथिकत्वमनुभवानुसारिणा वक्तुं शक्यम्। ननु-तदानीं कामिनीतत्संसर्गयोरभावेऽपि तज्ज्ञानाददृष्टसंस्कारादिसहकृतादुत्पाद्यमानश्चरमधातुविसर्गः पारमार्थिकहेतुत एवेति-चेत्; न; वैषयिकसुखे तज्ज्ञानवत् तस्यापि हेतुत्वात्, अन्यथा जागरावस्थायामपि विषयज्ञानमेव हेतुरिति विषयाङ्गीकारो व्यर्थ एवेति जितं विज्ञानवादिभिः। किंच अदष्टस्य दृष्टोपहारकत्वेनैव जनकता, तथाच जागरे विषयमुपहृत्यैव सुखोतपादकता, तथा स्वप्रेऽपीति सिद्धो मायामयो विषयः । किंच न ज्ञानमात्रं सुखजनकम्, किं त्हि ? कामिनीज्ञानम्। तथाच विशि- ष्टस्य जनकत्वे विशेषणमपि जनकर्मेव। तदसत्कथं जनकमिति चेतु, आ्रान्तोऽसि; मायामयं स्वीकृत्य यतः कृती न भवसि। किंच कामिनीज्ञानमपि मिथ्या; मिथ्यार्थविषयत्वात्, नह्यन्यन्मिथ्यात्वं ज्ञानस्य वक्तुं शक्यत इृत्युक्तम- धस्तात्। तस्मात् स्वयमसत्याऽपि श्रुतिरद्वैतज्ञानं सत्यविपयकं सत्यमुत्पादयतीति सिद्धम्। ननु-एवं सत्यं चेतु ज्ञानं तेनैव द्वैतापत्तिरिति चेत्, न; त्स्यं स्वयमसत्यत्वात्। तथासति कथं प्रमेति चेतू, भ्रान्तोऽसि नितराम्। ननु-विद्याविद्ययोः पारमार्थिकत्वापारमार्थिकत्वयोभदे सिद्धेऽसिद्धोऽभेदः, अभेदे च बाध्यबाधकत्वानुपपत्तिः, प्रपञ्चव्रह्मविभागानुपपत्तिश्चेति-चेन्न; अविद्यादशायां विधमानभेदाङ्गीकारात्"। परमार्थतस्तु ब्रह्माद्वैतमेव। ननु- प्रपज्ञांशे यथातथाऽस्तु जीवेश्वरयोस्तु यदि न भेदस्तर्हि चिदानन्दघनस्य परमात्मनोऽदुःखमयतवाशरीरत्वसर्वज्ञत्वादि- विरोध इति-चेत्न; उपाधिभेदाङ्गीकारात्। उपाधिभेदश्वापारमार्थिक इति न द्वैतापत्तिः। ननु-एवं क्षेत्रज्ञेश्वरयो- रत्यन्ताभेद उपाधिभेदस्य च मिथ्यात्वे तत्कृतदुःखादिसंबन्धस्यापि मिथ्यात्वात्कनिरासार्थ श्रवणमननादिकं स्यात्? नहि शशविषाणनिरासार्थ किमपि मुग्यते। तथाच तदनुष्ठानलक्षणत्रि्याव्याघात इति-चेन्न; अविद्यानिवृत्तेः प्रयोजन- ख्वाद्। तदुक्तं कात्यायनेन व्याकरणवाक्यकारेण-"सिद्धं तु निवर्तकत्वात्" इति। ननु-अविद्या यदि सती तदा तस्या निवृत्त्यनुपपत्तिः, अथासती तदा नित्यनिवृत्तैवेति यत्ानथक्यमिति-चेत्, न; सदसद्विलक्षणत्वाभ्युपग- यातू। तथाप्यनादिभावस्य निवृत्यनुपपत्तिरिति चेन्न; भ्रमसंस्कारेण व्यभिचारात्। व्यक्त्यनादितवं तत्र नास्तीति चेन; भागभावेन व्यभिचारात्। तत्र भावत्वं नास्तीति चेत्, न; स्वरूपसद्भावत्वस्य तत्रापि विद्यमानत्वास्। सत्ता योगितवं भावत्वं तत्र नास्तीति चेतू, अविदयायामपि तमास्त्मेव, तस्माअ्यतिकचिदेतत्। किंच भभादेर्भवस्येवानादेरभावस्या-
Page 621
३८ अद्वैतरत्नरक्षणम् ।
व्यत्यन्ताभावादेर्विनाशादर्शनेऽपि विरोधिसामग्रीसव्निपातादनादे: प्रागभावस्य यथा विनाशोऽीकृतः; अन्यथा कारण- व्यापारवैयर्थ्यापत्तेः, एवमज्ञानेऽपि दीयतां दृष्टिः, अन्यथा प्रमाणव्यापारवैकल्यापत्तेः। तस्मादनाद्यभावत्ववदनादि- भावत्वमपि न प्रयोजकम्। किंतु विरोधिसामग्रीसमवहितत्वमेवातथाप्यविद्यानिवृत्यैव द्वैतापसिरिति चेन्र; अधिष्ठान- ब्रह्माभ्युपगमात् ज्ञात एवात्माऽविद्यानिवृत्तिरित्युच्यते, अतोऽज्ञानदशायां न तथा व्यवहारः। ननु-ब्रह्मसाक्षात्कार- स्याविधानिवर्तकस्य ब्रह्माभिन्नत्वे सर्वदाSविद्यानिवृत्यापत्तिः, यागादिसाध्यत्वानुपपत्तिश्र, ब्रह्मभिव्वत्वे च सिद्धो भेद इति-चेन्न; अभिन्नत्वेऽपि वेदान्तवाक्योत्थान्तःकरणवृत्यभिव्यक्त्तस्यैवाSविद्यानिवर्तकत्वात्। तस्याश्च वृत्तेः साध्यरवेन साक्षारकारस्यापि साध्यत्वोपचारः। वृत्तेश्र ब्रह्मणः वस्तुतोऽभेद एव, भेदस्त्वविद्याविजम्भित इति। एतेनेदमपा- स्तम्-वेदान्तिनां मते मुमुक्षाप्यसती, प्रवृत्तिरप्यसती, मोक्षज्ञानमसत्, विद्याप्यसती, योगाभ्यासोऽप्यसन्, वेदो- डप्यसभनेव, स्वर्गापूर्वादिकं तु नास्त्येवेति साधु तीर्थकरत्वाभिमान इति; सर्वेषामसद्विलक्षणत्वाङ्गीकारात्, यावदविद्यं सश्वाभ्युपगमाच्। ननु-सर्व ब्रह्माभिन्नमिति ते मतम्। तथाच जानीहि मम हृदि किमस्ति ? तव मम चाभेदा- दिति-चेत्, जानीयां यद्यवच्छेदभेदो न स्यात्, तत्किमवच्छेदभेदमङ्गीकरोषि। तथासत्यवच्छेद्यमेदे कः प्रद्वेष इति चेत्, न; उभयोरपि मिथ्याभूतयोरेवाऽड्रीकारात्, कथं तर्हि मम हृदयं न जानासीति चेत्, अविद्याकबलनान जानामि। अविद्यां ब्रह्मभिन्नां मन्यमान: कथं न लजस इति चेत, न; पारमार्थिकभेदानभ्युपगमात्। तसमातू- "एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्रचित्। आस्ते न धीरवीरस्य भङ्ग: संगरकेलिपु।" ननु-तथापि शरीरादीनां वस्तुतो ब्रह्माभिन्नत्वात्तज्ज्ञानमेव ब्रह्मज्ञानमित्यनायाससिद्धं ब्रह्मज्ञानम्; नच ततो मुक्तिरस्ति; संसारस्यानुभवसिद्धत्वात्, तथाच शरीरादिभिन्नत्वेनैव ब्रह्मसाक्षात्कारः कारणं मुक्तिं प्रतीति त्यजाद्वैतज्ञानं जातमपि वेदवाक्यादिति-चेन्न; शरीरादीनामध्यस्तानां यदधिष्ठानं रजतादेरिव शुक्तयादि, तज्ज्ञानस्य मुक्तिहेतुत्वा- भ्युपगमातू। तज्ज्ञानंचाधुना नास्तीति युक्तः संसारोपलम्भः । तस्मात्- "धीधना बाधनायास्यास्तदा प्रज्ञां प्रयच्छथ। क्षेसरं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ।।" इति। तदेवं सिद्धेऽद्वैते आत्मनानात्वव्युत्पादनं भ्रममूलमिति॥ ननु-अस्त्यत्र प्रमाणम्। तथाहि-आत्मत्वं, नानावृत्ति जातित्वात्, घटत्ववत्, इति-चेन्न; अन्योन्याश्रयात्। सिद्धे हि नानावृत्तित्वे जातित्वसिद्धिस्तेन च तत्सिद्धिरिति । तथाचांशतः साध्यसमो हेतुः। जातिपदस्य च धर्ममात्र- परत्वे एतद्धटत्वादी व्यभिचारः, आत्मत्वम्, न नानावृत्ति, विभुमात्रवृत्तिघर्मत्वात्, आकाशत्ववदिति प्रतिरोधश्च। किंच आात्मा, न द्रव्यत्वव्याप्यजातिमान्, विभुत्वादाकाशवत्। द्रव्यत्वव्याप्यजातिमत्त्वे च विभुत्वभंङ्गो बाधकः। नच-तथासति बन्धमोक्षसुखित्वदुःखित्वादिव्यवस्थानुपपत्तिः; तत्तदन्तःकरणावच्छेदेन तत्तद्विद्यावच्छेदेन वा तदु- पपत्तेः । तस्मान्मूर्खप्रलपितमेतत् ॥ अथ-अस्त्वनुमानान्तरं-देवदत्तात्मा, चैत्रवृत्यन्योन्याभावप्रतियोगी चैत्रवृत्त्यनन्ताभावप्रतियोगिधर्माधिकर- णतवात्, यदेवं तदेवं, यथा घटः, यज्जवं तन्नैवम्, यथा चैत्रात्मेतिव्यतिरेकी वेति-चेन्न्न; अभेदवादिनं प्रति हेत्व- सिद्धेः, व्यावहारिकमेदेन सिद्धसाधनाच्च। पारमार्थिकेतिच भेदविशेषणे साध्याप्रसिद्धिः, व्यर्थविशेषणत्वं च । एतेन-ब्रह्म चैत्रमैत्रादिभिन्नम्, अनित्यज्ञानानधिकरणत्वात्, यदवं तदेवम्, यथा घटः, अनित्यज्ञानाधिकरणं चैतत्। तस्माच्वैत्रादिभिन्नम्। अथ अहं अ्रह्मप्रतियोगिकपारमार्थिकमेदकान्, सुखात्यन्ताभावविरोधिधर्मानधिकरण- त्वात्, नित्यज्ञानानधिकरणत्वात्, यन्नैवं तज्ैवं, यथा ब्रह्मेति-निरस्तम्; औपाधिकभेदेनाडर्थान्तरत्वात्, अप्रयोज- कत्वात्, ब्रह्मशब्देन त्रिविधपरिच्छेदशून्यवस्तुनिर्दशे बाधात्, तदितरस्य पक्षत्वे सिद्धसाधनत्वाच्च। द्वितीयानुमाने च हेत्वसिद्धि :; इच्छादीनां क्षेत्रधर्मत्वानङ्गीकारात्, "तत्वमसि" "अहं ब्रह्मास्ि" "अयमात्मा ब्रह्मे"त्यादिश्रुतिभि- र्बाधश्र सर्वत्रानुमाने द्रष्टव्यः। ननु-ज्ञानं तावदात्मनो गुणो वक्तष्यः । तथाच तत्सामानाधिकरण्यादिच्छादीनामपि तह्ुणत्वनिश्चय इति-चेत्, न; ज्ञानब्रह्मणोरभेदश्रवणात्। तथाहि-"विज्ञानमानन्दं ब्रह्म" "को होवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्" "अन्रायं पुरुषः स्वयं ज्योतिर्भवति" "विज्ञानघन एव" "आननदाज्धेव खल्विमानि भूतानि जायन्ते" "सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायाम्" "भारूपः सत्यसंकल्पः" इत्या्याः श्रुतयः सहस्रशो ज्ञानसुखाभिनं ब्रह्म प्रतिपाद्यन्ति तात्पर्यतः । ताश्च ततपराः सत्यो न शक्या ब्रह्मणाप्यन्यपरीकर्तुम्॥ ननु-यदि ब्रह्माभिन्नं सर्व, तदाऽनित्यज्ञानस्वरूपतवं अनित्यसुखस्वरूपतवं च ब्रह्मण: किमिति नाभ्युपैषि ? अथ-"विज्ञानमानन्दं बह्मे"ति श्रुत्या नित्यज्ञानानन्दात्मकतामात्रं प्रतिपाधते। तथाच तान्मान्रं स्वीक्रियते नातो- डभिंकमिति-घेन्न; "एकमेवाद्वितीयं अ्रह्म" "इदं सवं यद्यमात्मे"त्यादिशुत्या दुःसात्मकताया अपि प्रतिपादनातू।
Page 622
श्रीमधुसूदनसरस्वतीप्रणीतम्। ३९
तथाचैकरूपस्वीकारे पररूपत्वपरिहारे च रुचिस्ते प्रमाणम्। तथाच मुक्तिदशायामुभयरूपसद्भावाम्मुकस्य सुखानुभव- बत् दुःखानुभवोऽपि स्यादिति सुखरागिणस्तवानन्तदुःखाब्धिपातः । नच"आनन्दं श्रह्मणो रूपं तथ मोक्षे प्रतिष्ठित- मि"ति श्रुत्याऽSनन्दस्यैव मोक्षावस्थायां सत्त्वप्रतिपादनात्, तद्धानौ ब्रह्मस्वरूपस्यापि हान्यापतेः। तस्पान्वेद एव ब्रह्मण: सुखादेश्रेति युक्तमुत्पश्यामः। कथं विज्ञानमानन्दं ब्रह्मेति ? शणु, विशिष्टं ज्ञानं यस्येति विज्ञानं ज्ञानवदिस्यथंः। ज्ानस्य च विशेषो नित्यतवं सर्वविषयता च। आनन्दश्च सुखं तधस्यास्ति तदानन्दं मरवर्थीयाच्परत्ययेन। तथाच नपुं- सकलिङता संगच्छते। "आनन्दं ब्रह्मणो रूप"मिति श्रुतिस्तु आनन्दं सुखं ब्रह्मणोऽरूपं अस्वरूपमिति। कथमेवमित्यत आह-तथ्व मोक्षे प्रतिष्ठितम्; चो हेती यतस्ततसुखरूपत्वं मोक्षे प्रतिष्ठितम्। यदि ब्रह्म सुखस्वरूपं स्यात् तदा मोक्षद- शायामपि सुखस्वाभाव्यं तस्य स्यात्। तत्तु नास्ति, प्रमाणबाधात्। तथाहि-यद्रह्मरूपं सुखं तथ्चेभ्नित्यं स्यादिदानीमपि साक्षास्किरियेत। अनित्यं चेद्रह्मणो नित्यसुखात्मकतया कथमवस्थानं स्यादिति ? अत्रोच्यते-"आनन्दानोव खल्वि- मानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति" "आनन्दो ब्रह्मेति व्यजानात्" "को होवान्यात् कः प्राण्यात् यदेष आकाश आानन्दो न स्यात्" "सत्यं ज्ञानमनन्तं" "एतस्येवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्यादिश्रुतिशतेभ्यः सुखज्ञानसत्तात्मकं ब्रह्मेति प्रतीयते। नच तान्यन्यपराणि; "आनन्दो ब्रह्मेति व्यजानादि"त्यादिनिर्णयवाक्यविरोधात्। न चैवं सति "इदं सर्वं यद्यमारमे"त्यादिवाक्यवलादनित्य- दुःखात्मकतापत्तिः; प्रपञ्जस्य बाधे श्रुतेस्तात्पर्यात्, यथाहि 'सर्पोडयं रजुरेव' इत्युक्ते रजमान्रावशेपः,सर्पस्य तु बाध एव, तथा सर्वाधिष्ठानभूतेन ब्रह्मणा प्रपज्जस्याभेदे प्रतिपादिते ब्रह्ममात्रावशेषः, प्रपञ्चस्य तु बाधः। अयमेव नियमः कथ- मिति चेत्, श्रुतित एव। "तत्सत्यं स आत्मा" "सत्यस्य सत्यम्" "अस्तीत्येवोपलब्धव्यः" "असन्नेव स भवति अस- द्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" इत्यादिश्रुतिशतैः सच्चिदानन्दस्य ब्रह्मणोSस्तित्वप्रतिपाद- नातू। प्रपञ्चस्य "नेति नेति" "नेह नानास्ति किंचन" "अतोऽन्यदार्तम् "सलिल एको द्रष्टाउद्वैतो भवति" इत्यादिवा- क्यशतैरभावबोधनात्। तथाच यदि श्रुतिप्रामाण्यं स्वीकरोषि, तर्द्युक्तव्यवस्थामङ्गीकुरु नचेदौद्धवदेव खण्डनयुक्तिभि- रेव निरसनीयोऽसि। किंच "आानन्दं ब्रह्मणो रूपं तथ् मोक्षे प्रतिष्ठितम्" इति श्रुतिबलादपि मोक्षावस्थायां सुखमा- त्रावशेष:, दुःखादीनां तु बाध एव। नच-दुःखादीनां ब्रह्मरूपत्वेन बाधो न युक्त इति-वाच्यम्; तेषां मिथ्यात्वेन ब्रह्मरूपत्वासिद्धेः। नह्यानन्दरूपस्य दुःखरूपता संभवति, विरोधात् । नहि भवति यदेवोष्णं तदेव शीतमिति । यच्चोक्तमानन्दं ब्रह्मणो रूपमिति, अश्लेष इति, तदपि "आनन्दो ब्रह्मेति व्यजानादि"ति श्रुतिविरोधादपास्तम्। अक्लेपे प्रमाणाभावश्र। नचाधुनापि ब्रह्मरूपस्य सुखस्य प्रतीत्यापत्तिः; इष्टापत्तेः; नहि स्वप्नकाशमानन्दात्मकं ब्रह्मेदानी नास्ति, कथं तहि नांभिलापः सर्वेषाम् ? कथं वा परमं सुखमाप्तवतां क्षुद्रे भोजनादिसुखे जनानां प्रवृत्तिरिति चेत्, व्यजका- भावादिति वदामः । अविद्यानिवृत्तिहि व्यक्षिका, सा चेदानीं नास्ति, तर्वज्ञानाभावात्। क्षुद्गतरे सुखे प्रवृत्तिश्व मो- हाेव। मोहनिवृत्तौ तु प्रवृत्त्यभाव इष्ट एव। यच्चोक्तं दुःखादेरपि ब्रह्मरूपत्वेन तद्धानौ ब्रह्महानिरिति, तदतिमन्दम्; दुःखादीनां जडत्वेन मिथ्यात्वात्। ऐक्यश्रुतिस्त्वधिष्ठानसत्त्वव्यतिरेकेणाध्यस्तस्य सत्वं नास्तीति तावन्मात्रपरा । यधोक्तं विज्ञानमानन्दं ब्रह्मति विशिष्टं ज्ञानं यस्यति बहुवीहिरित्यादि, तदपि मूर्खप्रलपितम्; विस्पष्ट ज्ञानं विज्ञानमिति हि लोकप्रसिद्धं। तत्यागे चोपेक्षणीयता, कर्मधारये च संभवति बहुवी हेरनादरणीयत्वात्, "एतया निषादस्थपति याजयेत्" इत्यत्र पष्ठीततपुरुषानादरेण तथैव व्यवस्थापितत्वात्। तथाSSनन्दपदेऽपि मतवर्थीयाच्प्रत्ययकल्पनमनुचितम्। नच नपुंसकलिङ्गतानुपपत्तिः; वेदे बहुलिङ्गव्यत्ययस्योपलम्भात्। ननु-विज्ञानानन्दयोरनित्यत्वाङ्रह्मणश्च नित्यरवादमे- दस्य बाधितत्वादगत्या बहुव्रीहिर्मत्वर्थलक्षणा चाश्रीयत इति-चेत्, न; तत्पदार्थेन समस्तभेदबाधने बाधाभावात्। अस्मदादीनां हि ज्ञानसुखयोरनित्यत्वमनुभूयते प्रत्यक्षेण, नतु भगवतोऽपि, तथाच तत्र बाधाभावादभेदबोधो निस्तरमः। सुखमनित्यमेवेति व्याप्तिरस्तीति चेन्न; व्याप्तेरस्मदादिसुखविषयत्वात्। अन्यथा, ज्ञानमनित्य मेवेत्यतिव्याप्तिः स्यात् । तथाच जितं मीमांसकैरिति। सुखं धर्मजन्यमेवेति चेतु, ज्ञानमपि कर्मजन्यमेवेनि। तस्मात्ततपदार्थेनेश्वरेण ज्ञानसुख- योरभेदबोधे बाघाभावः सिद्धः। त्वंपदार्थऽपि नास्ति बाधः। तथाहि-किं विषयसंपर्काननतरं सुखं मे जातं नष्टं च तथा ज्ञानं मे जातं नष्टं चेति प्रत्यक्षेण श्रुतेबांधः, किंवा 'अहं सुखी' 'अहं जाने' इत्याधाराधेयभावग्राहकप्रत्यक्षेणेति।
जातेरिव ध्वन्युर्पादविनाशाभ्यां शब्दस्येति वा। अथ मानान्तरेण बलवता जात्यादीनां नित्यत्वे सिद्धे तथा कल्प्यते, प्रकृते च न मानान्तरासित्यतवसिद्धिः। नच-अत्रापि श्रुतिरस्ति मानमिति-वाच्यम्; तस्याः शब्दात्मकत्वेन योग्यताज्ञानं विनाऽबोधकत्वात् "आवाणः प्रवन्त" इतिवत्। बाधाभावो हि योग्यता। प्रकृते प्रत्यक्षं बाघकसुपन्य- समिति-चेन; ज्ञानमात्रस्याबाधत्वात्, साध्याभावप्रमा हि बाघः। नचात्र साध्याभावज्ञानस्य प्रमात्वमुभयवादि- सिद्धम्; प्रत्यक्षस्य बहुलं विसंवादोपलम्भातू। तथाच किं व्यक्ताविवोत्पादुविनाशौ पारमार्थिकौ, किंवा जाताविवौपा-
Page 623
४० अद्वैतरल्नरक्षणम्।
विकाविति विशषे श्रुतिर्नित्यत्वं बोधयतीति क्ायोग्यतया पराभवः? अन्यथा 'अहं गौरः स्थूल: कृशः, गच्छामी'स्या दिप्रत्यक्षबाधादस्थूलादिश्ुतिरपि स्वार्थ न प्रतिपाद्येदिति जितं चार्वाकेण। युक्तयाऽस्थूलादिरूपसिद्धिरिति चेतू, भ्रान्तोऽसि; श्रुत्या सिद्धे ह्यात्मन्यश्रद्धामलक्षालनार्थ युक्तयभिधानम्, श्रुतिश्चेदयोग्यतयाडर्थ न बोधयत्येव, कुत्र युत्तयभिधानावकाशः ? "ग्राघाणः प्रवन्त" इत्यादौ तु ऋजावर्थ प्रयोजनाभावादन्यत्र तात्पर्यकल्पनम्, नतु प्रत्यक्षवाधात्। यदिच यथाश्रुतार्थे प्रयोजनलाभस्तदा श्रुतिः प्रत्यक्षशतेनापि बाधितुमशक्यैव, नित्यज्ञानानन्दम्रह्मस्व- रूपप्रतिपादने च बहुलं प्रयोजनं श्रूयते-"तरति शोकमात्मवित्"इत्यादि। तस्मान्न विनाशादिग्राहकेण प्रत्यक्षेण श्रुते- र्बाधः संभवी। नापि द्वितीयः; अन्तःकरणावच्छिन्नो हि चिदात्मा प्रमाता, तथाचान्तःकरणतद्टृष्योराधाराधेयभाव: अन्त:करणावच्छिन्नचिदात्मतद्ृत्त्यवच्छिन्नानन्दज्ञानयोरुपचर्यत इति क बाधशङ्गावकाशः? कल्पना चेयममेदबोधक श्रुतिमूलैव। ननु-तथापि रवप्रकाशानन्दरूपस्य सर्वदैकरूपत्वान्मुक्तसंसारिणोरविशेषापत्तिः, मचाविद्यासर्वास- स्वाभ्यां विशेष :; तदसश्वस्यापुरुषार्थत्वात्, नह्यविद्याऽभावो दुःखाभावसुखयोरन्यतरः; तयोरेव च पुरुषार्थत्वं लोक- सिद्धमिति, उच्यते; अविशेषापादनमिष्टमेव। तदुक्तं-"याद्गस्य द्वये रूपं स्वात्मनैवानुभूयते। तावदेव हतान्ध्यस्य सद्न्यानवशेषत"इति, श्रुतिरपि-"विमुक्तश्च विमुच्यते" "ब्रह्मैव सन् ब्रह्माऽप्येती"त्यादि मुक्तसंसारिणोरविशेषमाह। कथं तहिं नित्यस्य पुरुषार्थत्वमिति चेत्, निरुपाधीच्छाविपयत्वादिति गृहाण। तदसाध्यं कथमुक्तरूपमपि स्यादिति चेत्, सुखरूपत्वादेव। तदा कथं तदर्थ पुरुषप्रवृत्तिरिति चेत्, ब्रह्मस्वरूपं साक्षात्कृतवतः प्रवृत्यभावात्, अज्ञस्य तु नित्य एव तस्मिन् सुखे उपाध्युत्पत्तिमारोप्य प्रवृत्युपपत्तेः । कोऽसावुपाधिरिति चेत्, अविद्यानिवृत्तिरेव । स्वर्गोऽपि हि नित्य एच; तस्याप्युपाध्युत्पत्यर्थमेव प्रवृत्तिः । तत्र च धर्मविशेषजन्यान्तःकरणवृत्तिभेद एवोपाधिः। वस्तुतस्तु- नित्यमुक्त्तमेव ब्रह्म तदभिननो जीवोऽपि नित्यमुक्त एव, अविद्यादिकं तु नासीदम्ति भविष्यतीति। तदुक्तं-"ज्ञाते द्वसं न विद्यते" "प्रपञ्जो यदि विद्येत निवर्तेत कथंच न" "बन्धो मोक्ष इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य माया- मूलत्वान मे बन्धो न मोक्षणम्" इति। तस्मात् सिद्धान्तरहस्यमविज्ञाय वेदान्तिमते दृपणाभिधानं कुतार्किकाणां परं शोभत इति। ननु तथापि संसारावस्थायां प्रकाशसुखात्मकब्रह्माभिन्नोऽहमिति कथं न प्रतीतिः ? ननूक्तमविद्यापिहि- तव्वादिति, सत्यमुक्तम्, सैव तु नास्तीति चेन्न; ब्रह्मज्ञानोत्पत्तेः पूर्व तस्याः स्वीक्रियमाणत्वात्, कुतस्तर्हि तन्निवृत्ति- रिति ? ब्रह्माकारान्तःकरणवृत्तिभेदादिति गृहाण। यद्यपि सा जडा; तथापि तत्पतिबिम्बितश्चिदात्मैच तक्षिवर्तक इत्युच्यते। सा चान्तःकरणवृत्तिरविद्यां सकायां नाशयित्वा स्वयमपि नश्यति दग्धेन्धनानलवत्। तस्माद्रह्म क्षेत्रज्ञे- भ्योऽभिन्नम्, क्षेत्रज्ञाश्च ब्रह्मणोऽभिन्ना एव, भेदस्त्वविद्योपाधिकः; कर्तृत्वभोक्तृत्वादयो जीवे, सर्वज्ञत्वादयोऽपि परमे- श्वरे मायाकल्पिता एव; सकलश्रुतिस्मृतीतिहासपुराणानां तात्पर्यतोऽयमर्थो निष्पन्न इति तथापि वेदान्तवाक्यजन्या- सविर्विकल्पकसाक्षात्कारादेव मुक्ति:, भेदज्ञानं तु सर्वथा मुक्तिप्रतिबन्धकम्; "द्वितीयाद्व भयं भवती"ति ्रुतेः। गौत- मादीनामप्यत्रैव तात्पर्यम्; तस्मात् ।।
प्रामाणिको निपेधश्रेन्भेदोऽप्रामाणिकस्ततः । भेदस्यापि निपिद्धत्वाच्छ्रुतिभङ्गोऽन्यथा भवेत् ॥ श्रुतिर्हि सामान्याकारेण द्वैतमात्राभावं प्रतिपाद्यति, भेदोऽपि च द्वैतमध्ये प्रविष्ट एव। अद्वैतसिद्धिरद्वैतं न विहन्ति कथंचन ॥ सत्यत्वाद्धन्ति चेननैवं द्वैतमात्रनिषेधतः ॥ अद्वैतसिद्धिरपि ब्रह्मातिरिक्ता निषिध्यत एव श्रुत्या, तथाच क्ाद्वैतव्याघातः ? श्रुतिस्तर्हि सत्येत्यपि नाशङ्कनीयम्; तस्या अपि निषेधात्। नह्द्वैतश्रुतिः स्वात्मानं रक्षति। तथा सति स्वविषयसिद्धिः प्रसज्येत। आत्माभेदमजानाना: स्वतःसिद्धं मुमुक्षवः ॥ माभूवन्नफलायासा इत्यभेदो निरूपितः ॥ ननु-यद्यपीयता प्रबन्धेनाऽद्वैतरलं सुनिरूपितं भवन्िर्दयालुभिः। तथापि नास्मदीयहृदये आस्पद्माद्धाति। किमत्र करोमि।। शणु-वृद्धोक्ष ! शैलसारहृदयोऽसि। तदुक्तम्-"इत्येवं श्रुतिनीतिसंशवजलैरभूयोभिराक्षालिते येषां नास्पदमादधाति हृदये ते शैलसाराशयाः । किंतु प्रस्तुतविप्रतीपविधयोऽप्युप्वैर्भवच्चिन्तकाः काले कारुणिक ! त्वयैव कृपया ते भावनीया नराः ॥ ब्रह्मन् किमित्यधिक्षिपसि वृद्धोक्षेति ? तवापि चित्ते किमद्वैतरत्वं चकास्ति ? नितरां मूर्खोऽसि। नहि त्वमिवाहम्। तदुक्तं तत्रैव-अस्माकं तु निसर्गसुन्दर! चिराज्ेतो निमझं त्वयीत्यद्धाSSनन्दनिधे! तथापि तव तन्नायापि संदश्यते। तम्राथ त्वरितिं विधेहि करुणां येन त्वयैकात्मतां याते चेतसि नाम्कम शतशो याम्याः पुनर्यातनाः॥
Page 624
श्रीमधुसूदनसरस्वतीप्रणीतम्। ४१
अत्र च यत एवाऽऽनन्दनिधिरत एव निसर्गसुन्दरः; सुखरूपत्वमन्तरेण निसर्गसुन्दरत्वानुपपत्तेः। नघ-आनन्दश- ब्देन दुःखाभावो लक्ष्यते, तथाच तद्धिकरणप्रतिपाद्योप्ययमर्थ इति वाच्यम्; तथासति भगवतो निसर्गसुन्दरत्वा- नुपपत्तेः । तस्माद्यथाश्रुतमेव ग्राह्यम्। तथा सति वेदोऽप्यनुगृहीतो भवति॥ ब्रह्मन् ! तथापि मम चित्ते नायात्यद्वैतरत्षम्। शणु ब्रह्मबन्धो ! म्रह्मद्वेप जनितपातकदूपितान्तःकरणोऽसि ॥ ब्रह्मन् ! शाधि मां यथाऽस्मिन्नद्वैताध्वनि मच्ित्तं प्रविशतीति। शृणु वस्स! ईश्वरमुपास्ख। तदुक्तम्-"ईश्वरानुग्रहादेषा पुंसामद्वैतवासना। महाभयकृतत्राणा द्वित्राणां यि जायते" इति । तथा "मन्मना भव मद्दक्तो मद्याजी मां नमस्कुरु। मामैवेप्यसि युक्त्वेवमात्मानं मत्परायण" इत्यादि॥ ब्रह्मन् ! किमिति वत्सेति संबोधयसि ? वृद्धोऽहम् ॥ ततः किम् ? "न तेन स्थविरो भवति येनास्य पलितं शिरः। यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदु"रिति ॥ ब्रह्मन्नीश्वरोपासनमपि सर्वदा कर्तुमशक्यम्, विपयाक्षिप्तचित्तत्वात्। अरे बालिश! विपये दोषं पश्य "अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः।। इन्द्रियार्थेपु वैराग्यमनहक्कार एव च। जन्ममृत्युजराव्याधिदुःखदोपानुदर्शनं॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिपु॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेश सेवित्वमर तिर्जनसंसदि ॥ अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा" इति। एतज्ज्ञानम् ज्ञान- साधनमित्यथेः । तथाचैतावन्ति साधनानि यस्य तस्यैव ज्ञानं मुक्तिहेतुभूतमुत्पधते। तदेतानि संपादय ।। ब्रह्मन् ! एतेपां मध्ये एकमपि साधनं मम नाम्ति सुगममुपायं वद। स्मर तर्हि विष्णुमहर्निशम्। तदुक्तम्-"सतव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिपेधाः स्युरेतयोरेव किंकराः । चिन्त्यमानः समस्तानां केशानां हानिदो हि यः। समुत्सृज्याखिलं चिन्त्यः सोऽच्युतः किंन चिन्त्यते" ? इति। तथाच सर्वदा विष्णुनामस्मरणेन शुद्धान्तःकरणः सन् उक्तसाधनकलापवान् भविष्यसीति ॥ भगवन् ! सर्वदा भगवन्नामकीरननेऽप्यहमसमर्थस्ततोऽप्युपायान्तरं वद। शृणु वत्स ! लोकिकं वदिकं वा यत्किंचन कर्म तत्सर्व भगवत वासुदेवे समर्पितं कुरु। तदुक्तम्-"सर्वकर्मा- ण्यपि सदा कुर्वाणी मद्यपाश्रयः । मत्मसादातपरां शान्तिमचिरेणाधिगच्छति ॥ यत्करोपि यदभ्नासि यजुहोषि ददासि यत्। यत्तपस्यसि कोनतेय ! तत्कुरुप्त मदर्पणम्" इति ॥ भगवन् ! तत्तत्कर्मजन्यस्वर्गादिफलकामनाक्षिप्मनस्तया फलमनुद्दिश्य तत्तत्कर्मजातमपि कर्तु नाहमुर्स हे। अरे, नृनसृपरात्माऽसि॥ भगवन् ! किं बहव आत्मानस्तव मते ? यन्मामूपरात्मेति संबोधयसि। शृणु वत्स ! एक ब्रह्म त्रिविधपरिच्छेदशून्यं वस्तु वृत्तमीदृशम्, तथाप्यनाद्यननताभिरविद्याभि: परिच्छिम्ं अनेक- मिव भर्वात। तस्यामविद्यावस्थायां स्थित्वोपगत्मा त्वं निगदयसे।। भगवन् ! नाहमुपेक्षणीयः, सर्वमुक्तेस्वयाप्यङ्गीकारात्; अहमपि च स्वरूपयोग्यो भवाम्येव, संसारित्वेनैव मुक्तावधिकारात्, स्वरूपयोग्यस्य च नित्यम्पावश्यं सहकारिलाभात्, तथाचाहमपि कदाचिच्छमदमादिभिः सहितो भविष्यामि॥। शृणु वत्स ! फलरागं त्यक्त्वा भगवदर्पणेन कर्माणि कुरु, फलरागत्यागे व क्षयिष्णुत्वादिदोपदर्शनमेवोपायः, तदाह-"तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयत" इति॥ भगवन् ! एवं करिप्यामि, आविर्भूतं मम चित्ते दोपदर्शनं विषयेषु, तथाहीह संसारकान्तारे बहूनि दुःखदुर्दिना- न्यल्पाच सुखद्योतिकेत्युश्पन्नविवेकबुद्धिरनुष्ठितभगवदर्पणकर्मकलापः शुद्धस्वान्तः संप्रति संवृत्तोऽस्मि, भगवन् ! शाधि किमत: करवाणीति ? श्रणु वत्स! गुरूपसदनं कुरु। तथाहि-"परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्ास्त्यकृतः कृतेन। तद्विज्ञानार्थ स गुरुमेवाभिगच्छेरसमित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्"; अकृतो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः। एतावता बिद्यमान एव मोक्षो ज्ञानेनाभिव्यज़्यत इत्पर्थः प्रतीयते। तथाच जन्यो मोक्ष इति पक्षो वेदविरुद्ध इति ध्येयम्। अ. सि. ११९
Page 625
४२ अद्वैतरत्नरक्षणम् ।
भगवन् ! उक्तलक्षणो गुरुस्त्वमेव, अतस्त्वामुपसनं संसारदुःखजर्जरिन्तातःकरणं मां विद्यार्थिनमुपदिश, येनाहं निरतिशयानन्दं सर्वदुःखाभावोपलक्षितं लब्ध्वा कृतार्थो भवामीति। शणु, तत्वमस। महानुपदेशोऽयम्, श्रद्धस्व सौम्य !। भगवन् ? अत्र को वा तदथः ? को वा त्वमित्यस्यार्थः ? को वाऽसीत्यस्य ? अद्वितीयं सचिदानन्दरूपं ब्रह्म तदर्थः । अहमिति प्रत्यये भासमानो देहादिव्यतिरिक्तः सुगादिम्त्वेन च भवत्रसिद्धस्त्वमर्थः । उभयोः पदार्थयोरभेदो वाक्यार्थः असीत्यनेन च तस्यैव सार्वदिकत्वं प्रांतपाद्ते। तदुक्तम्- "तवं प्रत्यगव्यवहितं तव सुप्रसिद्धं ब्रह्माद्वितीयमुदितं च तदस्यजस्रम्" इति॥ ननु-कथमेवं बोदुं शक्यते, यावता ब्रह्माद्वितीयमपरोक्षमसंसारि च, अहं च तद्विपरीत इति तयोरभेदप्रत्ययो बाधित एव। वस्तुतस्तु-प्रत्यय एव न जायते; योग्यताज्ञानाभावात्, बाधविरहस्य तथात्वात्, अन्यथा 'गौरश्व' इत्यादावपि सामानाधिकरण्येनान्वयबोधापत्तेः । नच 'सोडयं देवदत्त' इतिवदभेदप्रत्ययो युक्तिमान्; तत्र हि एक- स्मिन् धार्मणि देवदस्े तत्तेदन्तावैशिष्टयं सः, अयम् इति पादाभ्यां प्रतिपाद्ते, तच्व तत्र तिष्ठत्येव, नत्वेवं प्रकृते संभवति; अखण्डवाक्यार्थाभ्युपगमात्। तथाच विपमो दृष्टान्तः। नच-तत्ताविशिष्टस्येदन्ताविशिष्टस्य चाभेद एव वाक्येन प्रति- पाधते, न वैशिष्यमात्रम्; अन्यथा भेदभ्रमनिवृत्तिर्न स्यात् ; न स्याच्चाभेदसिद्धिः, तस्य तदेकमानत्वादिति-वाच्यम्; तथापि वाक्यार्थस्तन्र, सखण्ड एवाधर्मद्वयवैशिष्स्य तत्र सत्वात्। यदिचकैव व्यक्तिरुभाभ्यां पदाभ्यां प्रतिपाद्यते, किंच नित्यज्ञानादिमति जगत्कर्तरीश्वरपदं तावच्छक्तम्। स एव तत्पदेन प्रतिपादनीयः, तद्विलक्षणे च जीवात्मन्यत्य- स्तभिसने जीवपदं शक्तम्। स एव च त्वंपदेनात्र वक्तव्यः । तथाच हिमवद्विन्ध्ययोरिव न कयाऽपि वृत्या तयोरभेदः श्रुतिशतेनापि वकुं शक्यः, धर्मिग्राहकमानेन तयोस्तथव सिद्धेः । नच-अज्ञानोपहितो जीवः, तदनुपहितश्रे- श्वरः। यह्ाऽज्ञानोपहित ईश्वरः, अन्तःकरणोपहितो जीनः। तथाचोपाध्यंशपरित्यागेनहि तयोरेदबोधो नायोग्य तया पराभवितुं शक्य:, घटाकाशो महाकाशः, जलशरावस्थचन्द्रो दिविष्टचन्द्र एव, दर्पणस्थं मुखं ग्रीवास्थमुखमेवेति वदिति-वाच्यम्; दुःखित्वसर्वज्ञत्वादेः पारमार्थिकत्वात्, उदाहृतस्थले च तदभावान्, उक्तप्रक्रियायां मानाभा- वाच्च। क्षित्यादेः सकर्तृकत्वानुमानेन तादृशस्यवेश्वरस्य सिद्धेः, सुग्ाद्याश्रयत्वेनैव जीवस्य सिद्ेश्च। प्रत्यक्षादिना अभेद्बोधकं च वाक्यं यथाकथंचिद्योज्यमिनि। अत्रोच्यते-'स एवायं देवदत्त' इति शब्दः स नायं, सोडयं न वेनि वा विपर्यम्नं संदिहानं वा प्रति प्रयुज्यते भ्रमसंशययोनिवृत्यर्थम्। तञ्च प्रयोजनं कदा निर्वहृति ? यदि देवदत्तस्वरूपमात्रमभिन्नं प्रतिपाद्यते। तथाच नच्छ- ब्दस्तत्ताभागं त्यक्त्वा व्यक्तिं लक्षयति, इदंशव्दोऽपि तथा, तदनन्तरमुभाभ्यां पदाभ्यां वाक्यार्थत्वेनाऽभिन्ना व्यक्ति: प्रतिपाद्यते; तत्ताविशिष्टस्येदानीमविद्यमानत्वेन इदंताविशिष्टे स्वाभेदासंभवात् मुख्यार्थबाधोऽस्येव। एवंच य दीदंपदेऽपि लक्षणा न स्यात, तदा विशिष्टाविशिष्टयोरैक्यमसंभावितमेव। नच पौनरुत्तयम्; वाच्यार्थे तदभावात, लक्ष्यार्थेस्विष्टापत्तिः। तदैवाऽभेदो वाक्यार्थः संभवति नान्यथा। नच-त्त्वंपदयोरत्यन्तविभिन्नयोर्धमिणोर्न शक्तिग्रहः, ईश्वरपद्समानार्थत्वात्तदः, जीवपदसमानार्थत्वाच्च त्वम इति-वाच्यम्; असिद्धः, "सदेव सोम्येदमग्र आसीदेकमे- वाद्वितीयम्" "विज्ञानमानन्दं ब्रह्म" "सत्यं ज्ञानमनन्तं व्रह्मे"त्यादिश्रुतिभ्य एवेश्वरादिपदानां जगत्कारणे ब्रह्मणि संग- तिग्रहः स्वर्गादिपद्वत्, तत्समानार्थश्च प्रकृते तच्छब्दः। यनतु नित्यज्ञानादिमानेवेश्वरपदार्थ इनि, तन्न; "आनन्दा- ज्येव खल्विमानि भूतानि जायन्त" इति श्रुतिविरोधात्, श्रुतिसिद्धे चार्थेऽनुमानानवतारात्। तदुक्तम्-"उपासनैव क्रियते श्रवणानन्तरागते"ति। अन्यथा स्रक्चन्दनादिमति स्वर्गीति पदप्रयोगात् स्वर्गपदस्यापि तत्रव संकेतग्रहा- पत्तेः । तथाच "स्वर्गकामो यजेते"त्यादिप्वपि तस्यैवार्थस्य ग्रहणे स्रक्चन्द्रनादिकामो यजेतेत्यर्थः स्यात्, तथाच साधु समर्थितं वैदिकाभिमानित्वं स्वस्येति। तस्यच ब्रह्मणो विज्ञानसुखात्मकस्याऽद्वितीयस्य निरपेक्षस्य कारणत्वे सर्वदा कार्योतपत्ति: स्यादिति मायादीनां द्वारभावः कल्प्यने। तदुक्तम्-"चित्रायागः पशुफल इनि श्रूयमाणेऽपि चित्राऽपूर्व द्वारं पशुफलतमाऽऽक्षिप्यते तत्र तद्वत्। चैतन्यात्मा जगदुद्यकृच्छयतेऽत्रापि पश्चान्मायादीनां भवति जगति द्वारभाव: फलेऽस्मिन् ॥" अत्र च मायादीनां द्वारभावो जगद्विवर्तोत्पत्ता सहकारित्वमेव, नतु चित्राजन्यापूर्वमिव ब्रह्मजन्यत्वम्; अनवस्थापत्तेः । मायोत्पत्तौ मायानपेक्षणे च कार्यान्तरेऽपि सा नापेक्ष्येत। संसारस्य सादिस्वापत्तेश्र। नच-"मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमि"ति श्रुत्या साक्षादेव मायायाः कारणत्वं प्रतिपाद्यते, कथमु- च्यते कल्प्यते ? इति-वाच्यम्; "तस्माद्वा एतस्मादात्मन आकाशः संभूत" इत्यादिवाक्यैर्व्रह्मणः कारणत्वप्रतिपा- दनपरवाक्यश्रवणादेव कल्प्यत इत्यस्याभिधानात्। किंचास्त्युभयोः कारणत्वप्रतिपादकत्वम्, विकल्पश् वस्तुन्यसं- भवी, अष्टदोषदुष्टश्न। नंघ-विशिष्टस्य कारणत्वाभ्युपगमेनोभयश्रुतिसामअस्यमिति-वाच्यम्; यतो विशिष्टं न
Page 626
श्रीमधुसूदनसरस्वतीप्रणीतम्। ४३
कस्यापि वचनस्यार्थः यवमिश्रितो व्रीहिरिव। तस्माद्रह्मण एव कारणतवं रजवा इव सप प्रति, माया तु शक्तिरेव। सथाच शक्तिमड्रह्म जगदुपादानकारणं भवति। तथाच "जन्माद्यस्य" इति कारणत्वं ब्रह्मलक्षणं संगच्छते। तदुकं वार्तिककृता-"आत्माऽबिद्यव नः शक्तिः"इति। अन्यैरप्युक्तम्-"साभासमेतदुपजीव्य चिद्द्वितीया संसारका- रणमिति प्रवदन्ति धीराः। साभासमेतदिति संसृतिकारणत्वे द्वारं परं भवनि कारणता दृशस्तु॥ यावदृशोऽन्यविह संसृतिकारणं तद्वेदान्तवादिसमये न मतं जडत्वात्। यद्यजडं भवति संसृतिकारणं तन्नेति स्फुटं वदति सूत्रकृदत्र यस्मात्।। अजडकारणभावनिबन्धनं सकलमेव जडं न तु कारणम्। इति च वेदशिरःसु विचक्षणाः कपिलपक्षनिरा- करणे जगुः ॥ कारणत्वमुपलक्षणं चितो ब्रह्मणो न खलु तद्विशेषणम्। इत्यपीदसुपपद्यते तदा चेतनो भवति कारणं यदा ॥ अन्यदेव यदि कारणं भवेत्कारणत्वमुपलक्षणं कथम्। चेतनस्य घटतेऽन्यगामिना वस्तु नान्यदुपलक्ष्यते यतः॥ बहु निगद्य किमत्र वदाम्यहं शणुत संग्रहमद्दयशासने। सकलवाऊनसातिगता चितिः सकलवाऊनसव्यवहारभाक्॥" तस्माद्रह्मैव शक्तिमदुपादानकारणमिति। ननु-शक्तिमदित्यत्र शक्तिविशेषणमुपलक्षणं वा । आद्ये विशिष्टस्य कारणत्वे विशेषणस्यापि तदागतमेव, अन्त्ये ब्रह्मेत्येव तदुच्यतां उपलक्षणेन विशेषाभावादिति-चेत्, मायोपहितस्य कारणतवात्, उपाधिश्च विशेषणो- पलक्षणाभ्यां तृतीयः प्रकारः । तथाहि-स्वरूपान्तर्निविष्टत्वेन यावत्कार्यमवस्थायि भेदहेतुर्विशेषणम्-यथा "दुण्डी प्रपानन्वाहे"त्यत्र दण्डः। अत्र विशेषणत्वप्रयोजकं यद्रूपद्वयं तत्स्वरूपान्तर्निविष्टत्वं यावत्कार्यमवस्थायित्वंच तदुभयाभावेन तदन्यतराभावेन च भेदहेतोरुपलक्षणतोपाधिता च द्रष्टव्या। यथा-चैत्रगृहस्वरूपानन्तर्गतस्य कादाचित्कस्य काकस्य तद्जेदकत्वमुपलक्षणतया, यथावा प्राभाकराणां धेनुशव्दप्रयोगे गोत्वं स्वरूपान्तर्गतमपि याव- त्कार्यमवस्थायित्वादुपाधि: कार्यव्यापकमित्यर्थः। विवरणकृतस्तु-त्रैविध्यमत्र संभवति, रज्वाः संयुक्तसूत्रद्वयव- न्मायाविशिष्टं ज्रह्म जगत्कारणमिति वा, "देवात्मशक्ति स्वगुणैनिगृढामि"ति श्रुतेर्मायाशक्तिमत्कारणमिति वा, जगदु- पादानमायाश्रयतया ब्रह्म कारणमिति वेति। तत्र विशिष्टपक्ष तथेव ब्रह्मत्वेनोपलक्षितस्य ज्ञानानन्दादिस्वरूपलक्षणेन मायानिष्कर्पाल्लक्षणद्वयेन विशुद्धब्रह्मसिद्धिः। उत्तरपक्षयोस्तु मायाया ब्रह्मपरतघ्रत्वात् तत्कार्यमपि ब्रह्मपरतम्रं भवति यथांऽशुतन्त्वारब्धोऽपि पटोंऽशुतत्रःप्रतीयते। ततश्चोत्पद्यमानकार्यस्य यदाश्रयोपाधि ज्ञानानन्दलक्षणं च तद्रह्मेति विशुद्धब्रह्मलाभ :- इत्याहः॥ तत्र प्रथमपक्षे ब्रह्मणो निमित्तत्वम्, उपादानत्वं तु द्यस्यैव। द्वितीयपक्षे तु ब्रह्मणः प्राधान्यं मायायाश्चोपसर्जन- त्वम्। तृनीयपक्षेतु उपादानत्वं मायाया एव, ब्रह्मणस्तु तद्धिष्टानत्वमिति विवेचितं वृद्धैरिति॥ अत्रेदं विवेचनीयम्-किमिदं मायाया उपसर्जनत्वम् ? न तावत्कार्य प्रत्याधारत्वम्; प्रथमपक्षाद्विशेषापत्तेः, नापि कार्य प्रत्यजनकत्वम्; मायाया अनुपयोगापत्तेः, नापि कार्य प्रत्यनधिकरणत्वम्; तत्पक्षव्याख्यानरूपविवरण- विरोधात्, नापि निमित्तत्वम्; तदाश्रयत्वव्याख्यानविरोधादेव। नहि निमित्तकारणं कार्यमाश्रयते।
अत्र वदाम :- उपाधित्वमेव मायाया अप्रधानत्वं नाम। तथाचोपहितसमवहितमपि कार्यमुपाधौ प्रतीयत इति तदाश्रयतोक्तिः। वस्तुतस्तु-मध्यमपक्षे ब्रह्मनिष्टमेव कार्यमिति ध्येयम्। सर्वथा उपादानकोटावस्ति ब्रह्मप्रवेश इति। यथा जगदुपादाननिमित्तकारणभूते वस्तुनि ईश्वरपदं शक्तम्, तथा जीवपदमप्यन्तःकरणोपहितब्रह्मण्येव शक्तम्। नच निष्ममाणकमेतत्; "स वा अयमात्मा ब्रह्म" "विज्ञानमयो मनोमयः प्राणमयश्रक्षुर्मय" इत्यादि, तथा "स वा एष महानज आत्मा योऽयं विज्ञानमयः", तथा "सधीः स्वप्ो भूत्वेमं लोकमतिकरामति" "आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीपिण" इत्यादिश्रुतिभ्यः। 'अहम्' इति चानुभवेऽहंकारोपहित एवात्माऽवभासते सर्वेषाम्, अतस्तत्रैव संगतिग्रहः।.त्वंशब्दस्यापि स एवार्थः। नच सुपुप्तिप्रलयादौ जीवासत्त्वापत्तिरिति-वाच्यम्; तदानीमपि संस्कारात्म- नाऽवस्थानात्। तथाचाहंकारवासनावासितमज्ञानमेव तदानीमुपाधिः। तदुक्तं संप्रदायविद्भिः-"स्वाविद्यया हि पर एव स जीवभावमागत्य संसरति लिङ्रसमागमेन। ब्रह्मैव संसरति मुच्यत एतदेव दौवारिकं भवति संसरणं तु तस्य"॥। तथा"मुक्तिः पुनर्भवति चिद्धपुपैव तस्य स्वाज्ञानतः स्वमहिमप्रतिबोधतश्च ॥ स्वाज्ञानान्वयिनी चिदेव भवति स्वाज्ञानमस्या: पुनर्नास्त्यन्तःकरणोपरागशबलीभावं विना युक्तितः ॥" तथा "पुर्षष्टकं भवति तस्य परस्य मोहात्तेना- न्वितस्य तु नभोमलवद्यलीकम्। दुःखं त्रिधा भवति संसरणाभिधानं नान्यः परादधिकरूपभृदस्ति जीवः"। तथा "इह तावदक्षदशकं मनसा सह बुद्धित्त्वमथ वायुगणः । इति लिङ्गमेतदमुना पुरुषः खलु संगतो भवति जीवः"॥ इति। तथा "न पुराष्टकेन रहितस्य तव क्वचिदस्ति संसरणदुःखयुजा। न पुराष्टकेन सहितस्य तथा क्चिदम्नि दुःखवि- गमश्च तवे"त्यादि, तथाऽन्यन्नापि "'जीवो भवेत्करणपूगवशीकृता चिदि"ति॥
Page 627
४४ अद्वैतरत्नरक्षणम्।
विवरणकृतस्तु-ननु कोऽयं जीवो नाम ? यस्य स्वरूपं त्वंपदेन लक्ष्यमाणं ब्रह्मैव वाक्यार्थः संपधते, ब्रह्मै- वाऽविद्याप्रतिबिम्बितमति वदामः, ततश्च त्वंपदेनाशेषोपाधिनिराकरणेनाSSतमस्वरूपमेव लक्ष्यमाणम्, तत्पदोपलक्ष्यं ब्रह्मैव, पदद्वयसामर्थ्यात्संपद्यते। नचतदुपाधिट्वयनिराकरणेन विशुद्धब्रह्मात्मज्ञानमेकेनैव पदेन लभ्यते; विरोधानु- पपत्तरिति-आहु: ॥ नचास्मिन् पक्षे जीवब्रह्मणोरुपाधिसंकरः; बिम्बस्ेश्वरत्वात्, प्रतिबिम्बस्य च जीवत्वात्। नच-एवं सत्युपाधि- ध्मैयथा जीवानां संसर्गस्तथा ब्रह्मणोऽपि स्यादिति-वाच्यम्; उपाधिधर्माणां प्रतिबिम्बपक्षपातित्वनियमात्, ब्रह्मणो निरावरणज्ञानत्वात्, अहंकृतिविरहान्। तथाचोपहित मात्रांशशक्यत्वेऽप्युपाधिनिराकरणार्थ लक्षणाऽडयाता। वाक्या थंस्फुरणवेलायां उपाघिरपि स्फुरत्येव, विशिष्टवाच्यत्वपक्षे विशेष्ये सुतरां लक्षणा॥ अत्र च महावाक्ये भागलक्षणैव युक्ता । तदुक्तमाचार्येः-"तत्वमस्यादिवाक्ये तु लक्षणा भागलक्षणे"ति। प्रपञ्चितस्त्वयमर्थो विस्तरेणान्यत्र॥
ननु-तथापि वाक्याज्ातं ज्ञानं परोक्षमपरोक्षं भ्रमं कथमनुवदेत्? दिओोहादौ तथाऽदर्शनात्।नच-'नायं सर्पः किं तहि? रजुः' इत्याप्तवाक्याजायमानं भ्रमं निवतयत्येव, कथमन्यथा निर्भयः पुरुषोऽवतिष्ठत इति-वाच्यम्;रज्ृत्वा- धसाधारणधर्ममन्तरेण भ्रमस्यानुभवसिद्धत्वात्। भयाभावस्त्वाप्तविस्त्रम्भात्, तथाऽत्रापि श्रुतिविस्त्रम्भान्जवतु तदुक्करये समाश्वासो भ्रमस्तु न निवर्तत इति। नच-अपरोक्षज्ञानमेव श्रुतेर्जायत इनि-वाच्यम्; लोके तथाऽदर्शनात, मनननिदिध्यासनयोवैयर्थ्यापत्तेश्च। नच 'दशमस्त्वमसी'तिवाक्यं दृष्टान्तः; तत्रापि शब्दः परोक्षमेव ज्ञानमुत्पादयात, भ्रमनिवृत्तिस्तु तत्समनन्तरोत्पन्नेन्द्रियजन्यसाक्षात्कारादिति- अत्रोच्यते-दशमस्त्वमसीतिशब्दश्रवणसमनन्तरं तावदस्ति श्रोतुः स्वात्मविषयं प्रत्यक्षम्। नच तत्रमाणान्तरा- ज्ातमिति कल्पयितुं युक्त्म्; 'एतस्माच्छब्दादहमात्मानं साक्षात्कृतवान्' इतिप्रत्ययविरोधात्, अन्यथा मध्यमवृन्धोऽि मानान्तरादेवार्थ ज्ञातवानिति बाल: कल्पयेत्। तथाच गतं शब्दस्य प्रवर्तकत्वमिति। नच-शब्दस्वभावभङ्गस्तस्य परोक्षमात्रज्ञानजनकत्वादिति-वाच्यम्; असिद्धेः, मनोवत्। फलबलेनेव स्वभावस्य कल्पनात्; स्वात्मविषयकं ज्ञानं यस्मात् कस्माच्चित्प्रमाणाज्ायमानमपरोक्षमेव जायते इति केचित्॥ वस्तुतस्तु-योग्यपदार्थनिरूपितप्रमात्रभेदभेदपरशब्दत्वेनैव परोक्षज्ञानजनकता, तदन्यशब्दत्वेनापरोक्षज्ञानजन- कता, शब्दातिरिक्ततं चात्मविषयं प्रमाणं नास्तीत्यादि निरूपितमद्वैतसिद्धिवेदान्तकल्पलतयोरिति नेह प्रपञ्ञयते। नच- शाब्दत्वापरोक्षत्वयोर्जात्यो: संकरः, तथाहि-'गामनये'त्यादिशब्दजन्ये ज्ञाने शाब्दत्वमस्ति नार्यपरोक्षत्वं, घटो- डयमितीन्द्रियजन्ये ज्ञानेस्त्यपरोक्षतवं नास्ति शाब्दत्वम्। आत्मविपयके च ज्ञाने तदुभयमस्तीति-वाच्यम्; आत्म- विषयके ज्ञाने शाब्दत्वजातेरभावात्, तस्या: परोक्षत्वव्याप्तत्वात्। नच परोक्षत्वमात्मज्ञाने तिष्टतीत्युक्तम्; उपाधिसं- क रवजजाति संकर स्यादृषणत्वात्, शाब्दत्वापरोक्षत्वादे: प्रमात्वाप्रमात्वलाकिकत्वालौकिकत्वादिवज्जातित्वानभ्युपगमाच्च। तस्माद्वेदान्तवाक्यकरणक आत्मसाक्षात्कारे शाब्दत्वापरोक्षत्वयोनानुपपत्तिः।अथ-एवं सति श्रवणमनननिदि- ध्यासनानां क उपयोग: ? पूर्वत्रैवात्मनः साक्षान्भ्ासमानत्वादिति, अत्रोच्यते-यद्यपि श्रवणादे: प्रागपरोक्षमेव ज्ञानमुर्पन्नम्, तथाप्यसंभावनाविपरीतभावनाअ्रस्तत्वादुन्मज्जन्निमजदिव न फलपर्यवसायि भवति वाराणस्यादिप्रदेशे जायमानार्द्रमरीचादिज्ञानवत्। नच-फलाभावात् ज्ञानं नोत्पन्नमिति-वाच्यम्; तथासति विचारारम्भानुपपत्तेः। नच-योग्यताऽभावात् प्रथमतो ज्ञानमेव नोत्पादयति शब्द इति-वाच्यम्; योग्यतायाः स्वरूपसत्या एव शाब्द- प्रमायां कारणत्वाभ्युपगमात्। नच-तथासति योग्यताभ्रमाच्छाब्दभ्रमो न स्यादिति-वाच्यम्; आकाङ्काSSसत्तिम- त्वेन ज्ञायमानादेव शाब्दो भ्रमो, जायत इत्यङ्गीकारात्। नच-तथासति बाधे जातेपि शब्दाद्वोधः स्यादिति- साम्प्रतम्; तस्यैव तत्प्रतिबन्धकत्वात्, अयोग्यतानिश्चयस्याऽप्रामाण्यशङ्कानास्कन्दितस्य शाब्दज्ञानप्रतिबन्धकत्वात् तद्भावमात्रं तत्रोपयुज्यते, नतु मोग्यताज्ञानमपि; तेनायोग्यतानिश्चयाभावात्, प्रामाण्यसंदेहाद्वा शाब्दबोधोपपत्तिः। किंच "अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति ही"ति मतेऽयोग्यत्वेन ज्ञायमानादपि शब्दादर्थबोधो भवत्येव; प्रत्य- क्षानुमानयोस्तृत्पत्तिप्रतिबन्ध एव । शब्दस्थले तु बाधेनाप्रामाण्यं ज्ञाप्यते, नतूत्पत्तिः प्रतिबध्यते॥ तदयं क्म :- शन्दास्प्रथमतोऽपरोक्षज्ञानं जायते विचारप्रयोजकम्। तदनन्तरमसंभावनोदये सति विचारशाखत्र प्रवनते। तच्व वेदान्तानां ब्रह्मण्यद्वितीये समन्वयप्रतिपादनद्वारा परपक्षखण्डनद्वारा चोपयुज्यते प्रमाणगताऽसंभावना श्रवण निवर्त्या प्रमेयगताऽसंभवना तु मनननिवर्त्येत्यन्यत्र विस्तरः। तदनन्तरमपि विपरीतभावना तिष्ठत्येव, सा निदिध्या- सनेन निराक्रियते, तदनन्तरं पुनरपि महावाक्यमनुसन्धीयमानमविद्योन्मूलनसमर्थमन्तःकरणवृत्तिभेदरूपं मुक्तिफलकं
Page 628
श्रीमधुसूदनसरस्वतीप्रणीसम्। ४५
साक्षास्कारमुषपाद्यति। तदेतदाहाचार्यः संप्रदायवित्-"पुरुषापराधमलिना घिषणा निरवद्यचक्षुरुदयाऽपि यथा। न फलाय भचुविषया भवति श्रुतिसंभवाऽपि तु यथाऽऽत्मनि धीः॥ पुरुषापराधविगमे तु पुनः प्रतिबन्धकव्युद- सनात्सफला। मणिमध्नयोरपगमे तु यथा सति पावकाद्भवति धूमलता॥ पुरुषापराधविनिवृत्तिफल: सकलो विचार इति वेदविदः। अनपेक्षतामनुपरुध्य गिरः फलवद्भवेत्पकरणं तदतः । पुरुषापराधशतसङ्कलता विनिवर्त्यते प्रकरणेन गिरः। स्वयमेव वेदशिरसो वचनादथ बुद्धिरुद्रवति मुक्तिफले"ति ॥ अर्चुनामा कश्विद्राशो मश्री गन्धारपुरुषखवेन य. श्छान्दोग्ये दर्शित: । यसु प्रथमतो जायत एव शब्दादपि परोक्षज्ञानम्, प्रतिबन्धकानन्तरमेव त्वपरोक्षं जायत इति मतम्, तन्तुच्छम्। ग्रं्थकारस्य तथा स्वरसाभावात्, दृष्टान्तेऽपरोक्षज्ञानोत्तरमेव संशयस्योक्तत्वात् दार्ष्टान्तिकेऽपि तस्यैवोचितत्वात् । नचैवं कल्पनायां प्रमाणाभावः; "तं त्वौपनिषदं पुरुपं पृच्छामी"ति ्रुत्योपनिषन्मात्रवेद्यत्वप्रतीतेः, "नावेदविन्मनुते तं घृहन्तमि"ति च। असाधारणेनहि व्यपदेशा भवन्ति, 'चाक्षुपं रूपम्' इतिवत्। "पराज्ि खानि व्यतृणत् स्वयं- भूस्तस्मात्पराङ पश्यति नान्तरात्मन्" दतीन्द्रियगम्यत्वनिषेधाच्च। नच-"दृश्यते त्वञ्यया बुद्धा सूक्ष्मया सूक्ष्म- दर्शिभिः।" "मनसैवेदमाप्तव्यम्" इत्यादिश्रुत्या मनोगम्यत्वमपि ब्रह्मणः प्रतीयत इति-वाच्यम्; तथ्वमस्यादिमहा- वाक्येन साक्षात्कारेण जनयितव्ये मनसः कर्तृत्वेन सहकारित्वस्योदाहृताभिः श्रुतिभिः प्रतिपादनादिति संप्रदायः ॥ भामतीकारास्तु-शब्दाप्परोक्षभेव ज्ञानं जायते; शब्दप्रमाणस्वाभाव्यात्। नच-अपरोक्षे प्रत्यगात्मनि परि- पूर्णव्रह्मणि परोक्षज्ञानं भ्रमः स्यादिति-वाच्यम्; परोक्षत्वेनाऽनुलेखात्, अपरोक्षं तु ज्ञानं श्रवणमनननिदिध्यासना- भ्यासजम्यसंस्कारप्रचयोपबृंहितमनोजन्यमेव । नच भावनाजन्यसाक्षाकारत्वेन कामिन्यादिसाक्षात्कारवदनाश्वासः; श्रुतिभूलत्वेन समाश्वाससंभवात्। नच श्रुतिविरोध :; शास्त्राचार्याहितसंस्कारासमवहि तमनोगम्यत्वनिषेधपरत्वाभ्नि- पेधश्रुतीनाम्, विधिश्रुतीनां तु तादृशसंस्कारसहितमनोगम्यत्वप्रतिपादनपरत्वादिति-आहुः॥ ननु-तथापि साक्षात्कारोत्पन्यनम्तरमविद्याऽस्ति, न वा, आद्ये विद्या विफलाSनिर्मोक्षश्।द्वितीये सकार्याSविद्यानि वृस्तो सद्योमु्तिरिति विद्यासंप्रदायोष्छेदः, अत्र वदन्ति-विद्योत्पश्यनन्तरं सधोमुक्तिरित्येव पक्षः।नच उपदेष्टरभावः; कल्पितस्य तस्य सद्भावात्। स च कल्प्यमानो गुरुविद्यावश्वेनेव कल्प्यते, स्वम्गुरुवत्। नच-तदीयेनैव ज्ञानेनाऽज्ञान- निवृत्ता शिष्यज्ञानस्य वैयर्थ्यमिति-वाच्यम्; तस्य कल्पितत्वेनाऽज्ञानाश्रयत्वाभावात्। तदुक्तम्-"तस्ा एष विलास एव भवता गुर्वादिभेदान्वितः संकृप्तो नतु विद्यते पृथगसो सन्ध्ये यथा धामनि"। "मुक्क्कामुक्कौ विद्वदज्ञौ खवदन्या- वाकाशादिक्ष्मावसानं च विश्वम्। स्वाविद्योत्थस्वानतनिप्पन्दनं तद्विज्ञातव्यं मा ग्रहीरन्यथतत्" ॥ तथा "तव चिदात्म- तमसा जनितं परिकल्पयत्यखिलमेच जगत्। तव कल्पनाविरचितः स गुरुस्तव रूपमद्टयमुदाहरति ॥ परिकल्पितोऽपि सकलज्ञतया गुरुरेव पूर्णमवबोधरयात" तथा "सम्यग्ज्ञानविभावसुः सकलमेवाऽज्ञानतत्संभवं सदो वस्तुबलप्रवर्तन- मख्द्यापारसंदीपितः । निर्लेपेन हि दन्दहीति न मनागप्यस्य रूपान्तरं संसारस्य शिनष्टि तेन विदुषः सद्योविमुक्तिर्धु- वा ।।" "जीवन्मुक्तिप्रत्ययं शासत्रजातं जीवन्मुक्ते कल्पिते योजनीयम्। तावन्मान्रेणार्थवत्वोपपत्तेः सथोमुक्ति: सम्य- गेतस्य हेतो"रिति ॥ तथाचकाज्ञानवादिपक्षेऽयमर्थः संपन्नो यत्सद्योमुक्तिरिति॥
थमेवं स्यादिति-वाच्यम्; पारमार्थिकप्रपज्जोपदर्शकांशस्येव विद्यया विरोधात्, प्रातिभासिकमात्रांशेनाSविरोधात्। तस्य चांशस्य प्रारब्धक्षयादेव क्षयः; "भोगेन त्वितरे क्षपयित्वा संपद्यत" इति सूत्रबलातू तथव प्रतीतेः, जीवन्मुक्ति- शास्त्रबलाव्चेति-आहु:॥ भामतीकारास्तु-बहून्येवाऽज्ञानानि। तानिच जीव निष्ठानि ब्रह्मविषया्ण। नय-अज्ञानसंबन्धे सति जीवतवं जीवतवे चाज्ञानमित्यन्योन्याश्रय इति-वाच्यम्; अनादित्वाज्ीवाविद्यासंबन्धस्य, तथाच तत्तज्जञानावच्छिन्नास्तत्तद- जज्ञानावच्छिन्नप्रतिबिम्बिता वा जीवा अनन्ता एव; अवच्छेदकानामज्ञानानामनन्तत्वात्। तेषां मध्ये यस्य श्रवणादिना ज्ञानमुत्पद्यते स सुच्यते नान्यः। नचैवं द्वैतापत्तिः; सर्वेपां जीवानां ब्रह्माभेदस्वीकारांत्। एवं सति "तथो यो देवानां प्रत्यबुद्धत स एव तद्भवत्तथर्षीणां तथा मनुष्याणामि"ति श्रुतयः, "बहवो ज्ञानतपसा पूता मन्दावमागता" इति स्मृतयश्चोपपन्नतरा भवन्ति। अविद्यालेशस्त्ीकाराश् जीवन्मुक्तत्वाधुपपत्तिरिति-ऊचिरे॥ ननु-तथापि न ब्रह्मात्मज्ञानान्मुत्तयुपपत्तिः; अनन्तभवसंचितानां कर्मणां भोगेन विना क्षयासंभवाद्। नय- ज्ञानादेव सर्वकर्मक्षयः; जीवन्मुक्तिशास्त्रविरोधात्, नच-प्रारब्वातिरिक्तस्य ज्ञानात् क्षय इति-वाच्यम्; "नाऽ- भुक्तं क्षीयते कर्म कल्पकोटिशतरपि"। "अवश्यमेव भोत्तव्यं कृतं कर्म शुभाशुभ"मिति स्मृतिविरोधात्। नच-प्रा- यश्चित्तादिशास्त्रेण कर्मनाश: प्रतिपाधयते, तथाच तदनुरोधेनावश्यं भोगद्वारा कर्मक्षयप्रतिपाद्कस्य शास्त्रस्य संकोचो
Page 629
४६ अद्वैतरत्नरक्षणम्।
वाच्यः, अतो शानात् कर्मक्षयस्थलेऽपि तच्छाम्रं संकोच्यतां वेदबोधितानाशकानाशस्थैव कर्मणो भोगैकनाश्यत्वात्, प्राय- श्वित्तज्ञानयोश्ष वेदेनैव नाशकत्वं बधितमिति-वाच्यम्; प्रायश्चित्तादावनन्यगतिकत्वेन तथा कल्पनात्। नहि प्राय- श्विते कर्मान्तराधिकार: फलम्; सर्वत्रापि पापे कर्मानधिकाराभावात्; प्राणान्तिके तदसंभवाश्, ज्ञानस्थाने तु भोग- द्वारेणापि क्षयसंभवे संकोचो न युक्त्तः। नच-तत्र ज्ञानं विनापि भोगात्कर्मनाशदर्शनात् व्यभिचारात् कथं तत्वज्ञा- नस्य कारणतेति-वाच्यम्; कर्मप्रागभावासहवृत्तिकर्मनाशे युगपन्धोगे चाव्यभिचारात्। नच-तत्वज्ञानवता भोगार्थ प्रवृत्तो हि विहितनिषिद्धाचरणसंभवेन धर्माधर्मोत्पत्ती मोक्ष एव न स्यादिति-वाच्यम्; दोषाभावेन तयोरुत्पश्यसं- भवादिति, अत्रोच्यते-"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥" इत्यादिभि: श्रुतिभिः हृदयग्रन्थ्यादिनाशे ज्ञानहेतुत्वं प्रतिपाद्यते। तत्र यदि कर्मनाशे भोगो द्वारं कल्प्यतेऽल्पमपि तदा हृदय ग्रन्थ्यादिनाशे जनयितव्ये द्वारं कल्पयितव्यं स्यात्, तथाच यथा द्वारमन्तरेणैव तत्वज्ञानमात्रादेव हृदय- अ्न्ध्यादेनांशः, तथाच बाध्यबाधकभाव एव, पदहोमाऽहवनीयहोमयोरिव अभ्नीषोमीयहिंसाऽहिंसयोरिवेति। नच- अबाधेनाप्युपपत्ती बाधकल्पनमनुचितमिति-वाच्यम्; भोगेन क्षयाभ्युपगमे ज्ञानवैयर्थ्यापत्तेः। किंच यावदेव स्मृत्या श्रुतिः कल्प्यते तावदेव प्रत्यक्षश्रुत्या ज्ञानस्य साधनत्वं बोध्यते। तच्च साक्षादेव, तस्मिन् बाधके सत्येव परंपरात्वस्य कल्पनात्। तदनन्तरं कल्पिताऽपि श्रुतिस्तदितरविपयाSवतिष्टते। तत्वज्ञानिविषयत्वे तु साक्षाच्छ्रुतिविरोधेऽनुमानमेव न स्यात्। तदुक्तं-"विरोधे त्वनपक्ष स्ादसति ह्यनुमानम्" इति। श्रुतिश्च "तद्धेतत् पश्यन् ऋपिर्वामदेवः प्रतिपेदेहं मनुरभवं सूर्यश्रे"त्यादिर्यदेव ज्ञानं तदैव ब्रह्मभावमाह; हेतौ शतुः स्मरणात् 'भुज्ञानस्तृप्यति' इतिवत्।अविद्यानाशान- न्तरमेवाSविद्याकृतस्याब्रह्मत्वस्य निवृत्तेः, उपादाननाशादुपादेयनाशस्य सर्वत्र दर्शनात्। यथाच कारणनाशानन्तरं कार्य निरधिकरणं क्षणमात्रं तिष्ठति, तथा बलवर्त्पातबन्धवशादनेकक्षणमपि स्थास्यति । तथाच श्रुतिः-"तस्य तावदेव चिरं यावन्र विमोक्ष्येऽथ संपत्स्ये" इति प्रारब्धकर्मफलभोगपर्यन्तं नष्टाविद्यस्यापि स्थूलसूक्ष्मशरीरयोः सद्भावं दर्श- यति। प्रारब्धकर्मभोगश्च क्वचिदेकेनैव शरीरेण, क्वचिन्नानाशरीरैःतत्राऽSद्यमिदानींतनानाम्, द्वितीयं तु महानुभावानां वसिष्ठादीनाम्। अत्र,सूत्रं-"यावदधिकारमवस्थितिराधिकारिकाणाम्" इति। भगवदाज्ञापालनौपयिक बलवत्सुकृतं कर्माऽधिकारस्तत्समाप्तिपर्यन्तमाधिकारिकाणां सूर्यादीनां वसिष्ठादीनां च शरीरग्रहणप्रवाहावस्थितिरित्यर्थः। एकशरीर- भोग्यस्येवानेकशरीरभोग्यस्य प्रारब्धस्य कर्मणः संभवात्। एतादृशानां च योगीश्वराणां योगप्रभावात् न्त एव स्वेच्छया कायबाहुल्यतदुपसंहारो। अत्र सूत्रं-"प्रदीपवदावेशस्तथाहि दर्शयति"। एवं सगुणविद्याविदामपि योगीश्वराणाम्। निर्गुणविद्याविदां त्वनधिकारिणां वर्तमानदेहभावे जीवन्मुक्तिस्तद्भावे च विदेहमुक्तिः। तत्र ज्ञानात् कर्मक्षयप्रतिपा- दके सूत्रे "तदधिगम उत्तरपूर्वाघयोरश्रलेषविनाशौ तद्यपदशात्" "इतरस्याप्येवमसंश्लेपः पाते तु" इतरस्य सुकृत- स्येत्यर्थः, तस्मात् ज्ञानिनः कर्मभोगार्थमयोगिनोऽपि कायव्यूहकल्पनं मौक्यमान्नेणैव। ज्ञानस्य प्रारब्घकर्मानाशकत्वे सूत्रं "भोगेन त्वितरे क्षपयित्वा संपद्यते" इति प्रागेवोदाहृतम्॥
अद्वैतरत्नमेतत्तु श्रीविश्वेश्वरपादयोः । समर्पितमथतेन प्रीयतां स दयानिधिः॥
श्रीमधुसूदनसरस्वतीविरचितमद्वैतरत्नरक्षणं समाप्तम् ॥
शुभं भवतु ॥