Books / Advaita SiddhisiddhantGuruChandrika

1. Advaita SiddhisiddhantGuruChandrika

Page 1

अद्वैतसिद्धान्तगुरुचंद्रिका

Page 2

॥। हरि: ओं

अद्वैतसिद्धान्तगरुचन्द्रिकायाम्।

श्ोका:

अथमं स्वात्मनि जगदध्यासनिरूपणम् १३४

द्वितीयं स्वात्मजगतोरेकसत्तावादादिनिरुपणम् २९७

तृतीयं सोपाधिकस्यापि जीवस्य विभुत्वनिरूपणम् .. ६९

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं प्रतिकर्म-

.... ७३

पञ्चमं वाच्याद्यैक्यानुकूलं जगन्मिथ्यात्वनिरूपणम् .... २०४

षष्ठं दृष्टिसृष्टिनिरूपणम् ... ७५

सप्तमं एकजीववादनिरूपणम् .... ११५

अष्टमं एकविज्ञानेन सर्वविज्ञाननिरूपणम् १११

नवमं वाच्यैक्यनिरूपणम् १०७

दशमं लक्ष्यैक्यनिरूपणम्

Page 3

विषयसूचकं वचनम्।

[ प्रथमतः एतच्छास्त्रप्रभावाभिज्ञानां महापण्डितानामिमे त्रयोदशश्नोका उदा- श्रियन्ते ।] [दशानां निरूपणानाम्मध्ये कतमस्मिन्कतमस्मिन्निरूपणे कत- मस्मात्क तमस्मात् श्ोकादारभ्य कः को विषय उक्त इति चेत्सूच्यते।] [शास्त्रारम्भे चन्द्रिकाचार्ये आत्मेति तूपगच्छन्ति ग्राहयन्तीति मुत्रोक्ताचाय- धर्मोऽवगम्यते ।]

प्र १. आत्मानात्मविचारप्रवत्तकं यावदध्यात्मशास्त्रं सूत्रयति प्र २. शिष्याणां तत्सूत्रार्थगतविशेषप्रश्नं दर्शयति प्र ११॥. एतच्छास्त्रप्रभावान्दशयति प्र १६. परमतनिराकरणपूर्वक जगतः स्वात्मन्याध्य/सिकत्वमुपदिशति प्र १९. शक्ते: तदवयवरजतावयवाभ्यामारव्वत्ववाद दूषयति प्र २१. प्रतिनिधिद्रव्यस्य विहितद्रव्य समाना व्यवारब्धत्वं दूषयति प २९. तमसो मीमांसको क्त्तनै ल्यादिक्रियाश्रयत्वं खण्डयति प्र ५०॥. अध्यासलक्षणमुपदिशति प्र ५१. पञचाध्यासानुपदिशति। प्र ५६. परस्परविरोधेन स्वात्मपरसिद्धान्तसत्रकृदादीनामभिप्रायं दर्शयति प्र ५७. प्रतीच्येव जगज्जन्मादिकारणत्वलक्षणयोजकाचार्यान्सदर्शर्यात प ६७. सर्वत्र लक्ष्ये लक्षणयोजनप्रकारादेशः प्र ७३. आधिदेविके लक्षणयोजने बाधमाह प्र ७४. ईश्वरे द्विविधप्रकृतित्वं दर्शयति प्र ७६. प्र ८ १. जीवे द्विविधप्रकृतित्वं दर्शयति प्र १०७. स्वात्मजगतोरेकसत्तावादे सकर्मकवाक्यानां तात्पर्य दर्शयति १२६. परीक्षितशिष्याणां ज्ञानं प्रदर्शयति १३२. शिष्यकृतार्थतां प्रदर्शयति

Page 4

[ द्वितीय निरूपणे प्रथमादिन्लोकादारभ्य तत्नत्यविषयाः सूच्यन्ते ]

द्वि १. स्वात्मजगतोरेकसत्तादिहेतृपदेशः द्वि ३. अत्र प्रतिपादनीयविषयप्रदर्शकानां नवानां क्रमोपदेशः द्वि ७॥. तत्र एकैकस्मिन्नपि प्रदर्शके पक्षत्रयप्रतिज्ञा *तत्र प्रथमप्रदर्शके द्वि <।l. प्रथमपक्षे स्वाज्ञाने स्वप्राक्कालिकज्ञानस्याभावत्वोपदेशः द्वि १९. एकोनविशेन श्रोकेन तद्वयाख्यानेन च प्रध्वसाद्यभावत्रयनिषेधं प्रा. कालिकस्ाभावः प्रागभाव इत्यत्र श्रृत्याचार्याणां सम्मति लक्षणञच दर्शयति द्वि ९. द्वितीयादिपक्षेऽज्ञानस्य भावत्वमुपदिशति द्वि १०. तत्र प्रथमपक्षे उपपत्तिमुपदिशति द्वि १५. प्राक्कालिकज्ञानस्याभावानुभवं शक्तिमाययोरनुवादशास्त्रञ्च दर्शयति द्वि ६५. पक्षभेदेनोक्ताज्ञानन्रयप्रमाणानां प्राबल्यादिक दर्शयति द्वि ६९. एकोनसप्ततितमादिश्रोकतद्वयाख्यानाभ्यां स्वात्मन्याध्यासिकभाव- रूपाज्ञाननिषधपूर्वकं सान्त ज्ञानाभावं भ्रमकारणत्वेनापादिशति द्वि ९२, पूर्णस्वात्मानन्दस्य निरावृतत्वमुपदिशति द्वि ९६. जगतः स्वात्ममात्रसत्ताकत्वेन तद्विवर्त्तत्वे लक्षणमाह दव १३९. ज्ञानाभावे आवरणशक्तित्वादिभ्रमप्रतीतौ प्रमाणोपदेशः द्वि १४७. पक्षभेदेन दर्शिताज्ञानानां लक्षणोपदेशः द्वि १५२. अधिकारभेदाभिज्ञश्रत्याचार्यकृततत्वोपदेशानां पूर्वोत्तरविरोधेऽपि- नावरेणोत्तमस्य बाध इत्याह द्वि १५६. आचार्येण कर्त्तव्योपदेशभेदविधिन्दर्शयति द्वि १७५. प्रत्यगात्मनः अद्वितीयत्वे वैदिकावैदिकागमानां तात्पर्यन्दर्शयति द्वि १८२. पक्षभदेन दर्शिताज्ञानानां क्रमाद्वेतुत्वीिशेषन्दर्शयति द्वि १८८. प्रांतबन्धकस्यात्यन्ताभावस्येव प्रागभावध्वसयोरपि हेतुत्वोपदेशः द्वि २२१. पक्षभेदेनोक्ताज्ञानत्रयानुगुण्येन तत्तत्कार्याणां स्वरूपभेदन्दर्शयति द्वि २२३. मिथ्याशब्दार्थत्रैविध्यं पूर्वपूर्वमतेन उत्तरोत्तरमतस्य बाधनीयत्वं दर्शयति द्वि २३९. मुमुक्षुणा भोगार्थिना चक्रमात् ग्राह्याणि मतानि दशयति

Page 5

दवि २४३ मतभेदेन कार्यस्वरूपत्वे च सदस तो: तादात्मेच प्रमाणान्याह द्वि २६९. पक्षभदेन दर्शिताज्ञानत्रयकार्याणं लयभेदन्दर्शयति द्वि २७७. पक्षत्रयाभिमतकार्याणा साधारणलक्षण भ्रमादित्वरूपं तद्विपयञच दर्शयति द्वि २९१. एतच्छास्त्रश्रवणाधिकारिणां दुर्लभत्वादिकं दर्शयति द्वि २९३. द्वितीयनिरूपणं सङ्गह्वाति तृतीयनिरूपणे प्रथमादिश्ोकादारभ्य तत्नत्यविषयाः सूच्यन्ते- तृ १. अवस्थात्रयवतो जीवस्य शरीरत्रयेण अवेष्टितत्वमाह तृ १४. जीवस्यान्त:करणेन परिवेष्टितत्वाद्विच्छिन्न ब्रह्मत्वदोषमाह तृ १९. अन्तःकरणे जीवस्य ब्रह्मप्रतिबिम्बत्वे दोषसाह तृ २०. अविद्यायां जीवस्य ब्रह्मप्रतिबिम्बत्वादौ दोषमाह तृ २४. उक्तदोषासंस्पृष्टजीवस्वरूपमुपदिशति तृ ५५. जीवभेदभ्रमस्य निर्विधयत्वमुपदिशति [चनुर्थनिरूपणे प्रथमादिक्षोकादारभ्य तत्नत्यविषयाः सूच्यन्ते] च १. अपूर्वतत्फलयो: सत्यत्दमुपदिशति चं ५. अपूर्वस्य द्रव्यत्वं प्रकृतित्वञ्चोपदिशति च २३. अपूर्वतत्फलयोः सत्यत्वे श्रुत्यादिकं प्रमाणयति च ४९. जगतो गुणापूर्वनिमित्तकत्वेऽपि सत्यत्वमाह च ५०. प्रतिकर्मव्यवस्थेति शब्दार्थमाह च ५३. प्रतिकर्मव्यवस्था सिद्धान्तञ्च दृष्टिसट्टिवा दात्तद्वैलक्षण्यञ्च दर्शयति च ५६. प्रतिकर्मव्यवस्थावादस्य द्वैतवादाद्रैलक्षण्य दर्शयति च ६१. जगतः सत्ताल्यविभाजकञ्च तदानुगुण्येन स्वात्मपरिमाणभेदञ्च दर्शयति च ७०. द्वेतिनः प्रतिकर्मवादिनश्च जगन्मिथ्यात्वमाक्षिपन्ति आहृत्य नवविषयाः [ पञचमनिरूपणे प्रथमादिश्षोकादारभ्य तत्रत्यविषयाः सूच्यन्ते]

कर्मजत्वं वारयति प ३. कर्मजत्वस्य जगति मायिकत्वश्ुत्या बाधन्दर्शयाते

Page 6

प १०. जगतः आविद्यकत्वश्रुतेरनेकसहायवत्वात्तया कर्मजत्वश्रुतेबीधं द- ्शयति -जगतः कर्मजत्वाविद्यकत्वपरश्रत्योः मध्ये आविद्यकत्वश्र- तेरेव: प १२. स्वप्नावस्थावती जीवात् स्थूलजगत्सष्टिपरागमेन सहायवत्वं दर्श- यति प १५. स्वप्नावस्थावति जीवे स्थूलजगल्लयपरागमेन च सहायवत्वं दर्शयति प १७. सुषुप्त्यव स्थावति निखिलजगल्लयपरागमेन च सहायवत्वं दर्शयति प २०. सौषुप्ताभिन्नविज्ञानमयान्निखिलजगत्मृष्टिपरागमेन सहायत्वं दर्श- यति प २८. स्वात्मज्ञानादेवाविद्यातत्कार्यजगन्निवृत्तिपरागमेन च सहायवत्वं दशयति प ३०. अज्ञानविशिष्टस्वात्मविज्ञानेन सर्वेविज्ञानप्रतिज्ञाश्रुत्या च सहायवत्वं दशयति प ३७. आध्यात्मिकेश्वर एव साक्षात् जीवभावं प्राप्तोतीति शास्त्रेण च सहाय- वत्वं दर्शयति प ४२. अन्तर्यामिणशश्रौतादन्यस्य जीवस्य निषेधपरेण शास्त्रेण च सहाय- नत्वं दर्शयति प ४४. अवस्थितेरिति काशकृत्स्न इति सूत्रतद्भ्ाष्याभ्याञ्च सहायवत्वंदशयीत प ५४. लोकवत्तुलीलाकैवल्यमित्यधिकरणसिद्धान्तभाष्येण सहायवत्वं द शयति -* बहुस्यामित्यादीक्षणं तावत् स्वात्मन; किमात्मकमिति प्राप्ते तस्य :- प ५८. जिजागरिषात्मकत्वं दर्शयति प ६०. तत्र भाष्यकारसम्मतिन्दर्शयति

।एवं जगतः कर्मजन्यत्वपरश्रतेः बहुविधश्रत्यादिभिर्बाधितत्वा दकमेजत्वे सति स्वात्मावारकाविद्याजन्यत्वे ] ५ ६६. श्रीब्रह्मसम्मतिन्दर्शयति प ७१. श्रीरामसम्मतिन्दर्शयति

Page 7

प ८७. श्रीशिवसम्मतिन्दशयति [ यजतेत्यादिलिडादेः परिसङ्वन्ापरत्वे ] प ८८. भाष्यकारादीर्ना सम्मांतन्दर्शयति प ९२. तत्र सूत्रकारसम्मतिञच दर्शयति [ कर्मापेक्ष आधिदैविको जगत्सृजतीति पक्षे तर केवलनिमित्त- कारणत्वमेवेत्यत्र ] प ९७. सूत्रकारादिसम्मतिन्दर्शयति [कर्मनिरपेक्षतया स्वस्मिन्नविद्यया जगदारोपकस्य स्वात्मनः अ- भिन्ननिमित्तोपादानत्वे] प १०८. गौडपादाचार्यसम्मति दर्शयति प १२१. अपरोक्षानुभूतिनामकशास्त्रसम्मतिञ्च दर्शय्ति प १३२. भगवत्पादयविवेकचूडामाणेसम्मतिञ्च दर्शयति प १३८. कर्मशास्त्राणामनुवादकत्वेSनेकाचार्यश्रुतिसम्मतिञ्च दर्शयांत प १४३ आविद्यके कर्मजत्वभ्रमं दृष्टान्तेन प्रत्याययति प १४९. अविद्याया: स्वकार्योत्पादने कर्मानपेक्षत्वं दृष्टान्तेन प्रत्यायांत प १६१. इन्द्रजालस्य सभ्यजनकल्पितत्वं दर्शयति प १७६. क्षणिककर्मापेक्षेश्वरस्य स्तत्वडाप दोषं दर्शयत प १७८. स्ष्टः कमोपेक्षत्वे जीवेशफलभेदस्य वास्तवत्वापत्तिं दर्शयति प १८०. जीवस्येशप्रतिबिम्बत्वादावपीशस्य फलदातृत्वाभावापत्तिं दर्शयति प १८२. स्वाप्रिकगजादेरकर्मजत्वे प्रमाणानि दर्शयति प १८३. कर्मापेक्षेशशरीरस्य, कर्मायत्ततां दर्शयति प १८४. कर्मणा विना वासनया जगद्वैचित्र्यं दर्शयति प १८५. स्वस्य कर्ममार्गोच्छेदकत्वाभाव दर्शयति प १८६. वदवाक्याना प्रामाण्यतारतम्यं दर्शयति प १८७. विधीनां निवृत्तिपरत्वाग्राहिणो बाधं दर्शयति प १९१. श्रुतीनामुद्दीरितविरोधपरिहारे न्यायं दर्शयति १ १९५. श्रुतीनां ग्रामाण्यतारतम्यानभ्युपगमे बाधं दर्शयति प १९६. जगतः स्वाविद्यकत्ववदनफल दर्शयति प १९७. एतत्पञ्चमनिरूपणश्रवणजन्यं शिष्यानुभवं दर्शयति

Page 8

पष्निरवूपणे प्रथमादिक्षोकादारभ्य तत्रत्यवषयाः सु्यन्ते ं

[ जगतो दृष्टिरूपत्वे ]

ष १. कैवल्यश्रतिमुपमानञ्च प्रमाणयति ष ८. स्मृतिञ्च प्रमाणयत

ष् न तन्न उपपत्तिमाह पक्षभेदेन निर्दिष्टाज्ञानत्रयानुसारेण तत्कार्यदृष्टिस्वरूपविषयान्दर्श- थति

ष १५. पक्षभेदेन दृष्टेः सत्ताद्वयं दर्शयति ष १६. तत्र गौडपादाचार्यसम्म्ति दर्शर्यात ष १८. श्रुतिसूत्रभाष्यानुमानोपमानानि दर्शयति ष २१. रामानन्दीयञच प्रमाणयाते ष २२ सूत्रकारस्य तात्पर्य प्रमाणयति ष २९. माण्ड्क्यभाष्यं प्रमाणयति श्र ३१ सिद्धान्तमुक्तावळ्यादिकं प्रनाणयति ष ३३ उपलब्धयधिकरणे परमतदूषणे तात्पर्याभावमाह ष ३६. वेदानुसारित्वे तान्त्रिकसिद्धान्तस्याप्यङ्गीकार्यत्वमाह ष ३८. दृष््या सहाविद्यकदृश्योत्पत्तौ बाधमाह ष ३९. दृष्टिं विना साक्षिवद्यमात्रोत्पत्तौ बाधमाह ष ४१. शुक्त्यादिकं विनैव रजतादिभ्रमेत्पत्ति दर्शयति ष ५१. जगतो दृष्टिरूपत्वे वाचारम्भणश्रुत्यादिकं प्रमाणयति श ५६. विषयवचित्रयं विना दृष्टिवैचित्रयं दर्शयति घ ५८. अद्वैतिना कर्तव्यमुपदिशति ष ५९. विज्ञानवादाद्वैतवादयोवैलक्षण्यं दर्शयति ६०. वाचारम्भणवेदाभिमतज्ञानातिरिक्तकार्याभावस्य दूषणे तात्पर्याभाव- न्दर्शयति

श ६३ सूत्रकारादीनां विज्ञानवादनिरसने तात्पर्याभावमाह ब ६८. अस् दृष्टिरूपत्वे अनुमानान्तरन्दशयति ष ७०. सृष्टदृध्यपेक्षया दृष्टिसष्टेः प्राशस्त्यमाह

Page 9

सप्तमनिरूपणे प्रथमादिक्षोकादारभ्य तत्नत्यविषयाः सूच्यन्ते *सप्मे स्वात्मनः स १. सजातीयराहित्यमुपिशति स २. एकजीववादतात्पर्यगोचरत्वमुपदिशति स ८. परकीय सुखाद्यापरोक्ष्यापत्तिं परिहरति स १०. सजातीयराहित्ये प्रमाणं दर्शयति स १३. सर्वनियन्तृत्वादिकं दर्शयति स १७. स्वकल्पित जीवानामाभासत्व दर्शयति स १८. कल्पकस्य स्वस्वैव बन्धमोक्षाधिकारित्वं दर्शयति स २०. ईशादयुपनिषदामाधिदैविकेश्वरे समन्वयं विना आध्यात्मिके स्वस्गि- न्नेव समन्वयं दर्शयति स २८. वस्तुतत्पुरुषभदेन बन्धमुक्त्यभ्युपगमे बाधमाह स ३७. जीवानामुपाधिकृतभेदमाश्रित्य बन्धाद्यह्गीकारे बाध दर्शयति एकजीववादे स ४८. बन्धम्तिव्यवस्थोपपत्ति दर्शयति स ५१. तत्र केनोपनिषदर्थकब्रह्मवाक्यं प्रमाणयति स ५७. माण्डूक्यार्थनिर्णायकं गौडपादवाक्यं प्रमाणय ति स ६१. भगवद्गीतां प्रमाणयति स ६३. छान्दोग्यार्थनिर्णायकब्रह्मगीतां प्रमाणर्यत स ६६. आनन्दमयस्य द्विविधत्वं दर्शयति स ६८. तत्रोपनिषद्धाष्यादिकं प्रमाणयति स ७५. शिवगीतां प्रमाणयति स ८०

स ८५. तत्र गौडपादाचार्यादिसम्मति दर्शयति स ९४. कार्योपाधिकस्यापि जीवस्य स्थूलजगत्प्रकृतित्वमाह स ९७. सौषुप्तस्यानीश्वरत्ववादिनां तात्पर्य दर्शयति स ९९. एकजाववादे सम्भविष्यत्सकलशङ्कानिवर्त्तकं दर्शयति स १०५. सृष्टिश्रुतेः पुरुषतन्त्रत्वपरत्वाभावं दर्शयति स १०८. तत्र छान्दोग्यार्थपरब्रह्मगतां दर्शयति स ११३. एकजीववादे ज्ञानसौलभ्य दर्शयति

Page 10

अष्टमनिरूपणे प्रथमादिश्ोकादारभ्य तत्रत्यविषयाः सूच्यन्ते - अ १. एकविज्ञानेन सर्वविज्ञानवाक्यस्य चतुर्विधतात्पर्यमाह पुतेषु प्रथमतात्पर्येः- अ ५. आगममुपमानञ्च दशयति अ १०. नानाचार्यसम्मतिञ्च दर्शयति * द्वितायतात्पर्ये अ १४. आगममुपमानञ्च दर्शयति *तृतीयतात्पर्ये -

अ १८. आगममुपमानञच दर्शयति अ १९. प्रथमतात्पर्यापेक्षया क्रमात् द्वितीयतृतीयतात्पर्ययोरवरत्वं द्शयति अ २१. तत्र ब्रह्मगीतां प्रमाणयति

*चतुर्थतात्पये।- अ २४॥. आगममुपमानञ्च प्रमाणयति अ २७. प्रथमादितात्पर्यापेक्षया चतुर्थतात्पार्ये अरुचिं र्दशयति अ ३२. प्रथमनिष्ठाफलन्दशयति े तत्र अ ३३- ब्रह्मगीतां प्रमाणयति अ ३६. उपपत्तिपरम्ब्रह्मवाक्य प्रमाणयति अ ४०. द्विरतायतात्पर्यनिष्ठाफलन्दर्शयि अ ४२. तृतीयतात्पर्यनिष्ठाफलन्दर्शयति अ ४३. द्वितीयतृतायनिष्ठाफलविषये आगमादिकं प्रमाणयति अ ५०. चतुर्थ तात्पर्यनिष्ठाफलन्दर्शयति नवमनिरूपणे प्रथमादिश्षोकादारभ्य तत्रत्यविषयाः सूच्यन्ते : न १. आचार्यवन्दनपूर्वक वाच्यैक्यप्रश्नन्दर्शयत ेतद्वाच्यैक्यम् :- न ४. उपमानप्रमाणन दर्शयति न ६, आधिदविकस्य ईश्वरत्ववाद्यभिमतेनोपमानेन र्शयत

Page 11

१०

न ११. अनुमानप्रमाणेन द्शयति न १२. आगमप्रमणनाप्युपदिशति न १३. जीवेशयोर्ब्रह्मप्रतिबिम्बत्वपक्षेऽपि तददर्शयाते न १५. जीधेशवोर शाशित्वपक्षेषपि तदर्शयति न १६. सूत्र नाधनों का तमा नतोडपि तदर्शयति न २०. सृष्टे: दृष्टिसमस्रमपत्वप्रक्रिययापि तद्दर्शयति न २२. एकविज्ञानेन सर्वविज्ञानपरशास्त्रतः तद्दर्शयति न २४. सूत्रतद्भष्याभ्यां तदुपदिशति न २५. माण्डक्यतैत्िरी यविद्यार्यवचनैर्लोकानुभवैरपि तदर्शयति

न २८. न २९. न ३२. गौडपादाचार्यवचने नाप उपाधिविशिष्टयोरैक्यमुपदिशति न ३७. न ३९. तत्त्वंपदवाच्ययोः भेदाभावे सति तद्वाक्येनापि वाच्यैक्यं सदष्रान्त मुपदिशति

न ४१. कठवल्लीवाक्येनापि तदुपदिशति न ४२. तत्कठवल्लीवाक्यमूलकब्रह्मगीतयापि तदुपदिशति न ४३. बहदारण्यतद्भाष्याभ्याञ्च तदुपदिशति न ४४. अनेकश्रुतिसूत्रादिभिरांप तदुपदिशति न ५३. दृष्टान्तेन च तद्दर्शयति न ५६. श्रतीनामवगतिसामान्येनापि तदुपदिशति न ५८. अन्तर्यामिब्राह्मणतन्मूलकब्रह्मगीताभ्यान्तदुपदिशति न ६६. श्वेताश्वतरोपनिषदापि तदुपदिशात

न ६८. भगवद्गीतयापि तदुपदिशति न ६९. न ७५. महावाक्यार्थावगत्यै लक्षणावृत्त्याश्रयणे हेतुमाह

Page 12

न ७७. तत्र विद्यारण्यसदाशिवब्रह्मणोः सम्म्ति दर्शयति न ७९॥. तत्र श्रृतिसम्मत्ति दर्शयति न ८१. प्रतिकर्मव्यवस्थावादेन वाच्यैक्यस्य अबाध्यत्वे हेतुन्दर्शयति न ८७. महावाक्यगततत्त्वंपदयो: पर्यायत्वादिकमाह न ८८ स्वात्मनि भतानमिकदा जन्मस्थितिविलयान् सदष्टान्तन्दर्शयति न ९३. उभयोरपि प्राज्ञविज्ञानमययोः तत्वंपद्वाच्यत्वे उपपत्तिन्दर्शपति न ९३. आत्मगृहीत्यधिकरणतद्भ्रा्यादिकं प्रमाणयति न ९७. वार्तिकाचार्यसम्मतिश्व दर्शयति न १००. चतुर्थानरूपणातिरित्तनिरूपणानि प्रमाणयति न १०२. ब्रह्मण: स्वकार्येSहमित्यभिमानित्वमेव प्रवेश इति दर्शयति न १०४. तत्र वार्तिकवचनानि प्रमाणयति न १११ वाच्ययोभेदाभेदवादिनीं वाच्यैक्यं विचारयतः न ११३. भेदवादिनां वशीकृतत्वं दर्शयति न११५॥. शिष्यः स्वस्य वाच्यैक्यानुभव दर्शयति न ११६. वाच्यैक्यविज्ञानेन लक्यमानविशषान्तराण्याह दशमनिरुपणे प्रथमादिश्ोकादारभ्य तत्रत्यविषयाः सूच्यन्ते .-

द १. सुपं विज्ञानमयं प्रतिचकमान्मायाशरीरयो: चिशेषणत्वादिकं दर्शयति द ५. विशेषणस्य लक्षण दर्शयतति

द ६. उदीरितविशेषणलक्षण स्वाज्ञानशरीरयोर्योजयति

द ७. उपावेः लक्षणन्दर्शयति

द ८. उपलक्षणस्य लक्षण दर्शयति

द १०. महावाक्यस्य विशिष्टैक्याविनयपरत्वं दर्शयति

द ११. मायाद्युपहितस्वात्मनः साक्षित्वादिक दर्शयति द १५. मायादयुपलक्षितस्वात्मनः साक्षित्वादिराहित्यं दर्शयति द ९७. प्रतिकर्मव्यवस्थायां उकक्यत्रयाभावादौदासान्यमेव कैवल्यमलाह

Page 13

१२

  • एतच्छास्त्रमुपश्ण्वताम्मव्ये - द १९।। माधवतीर्थः स्वानुभवमाचार्यायविदर्यात द २१. सांबयोगी च स्वानुभवमावेदयति द २३. शिवानन्दोऽपि स्वानुभव द्शयलि द २४ चिदानन्दमुनिः स्वानुभवं दर्शयति द २५॥. श्रीनिवासेन्द्रोऽपि स्वानृभवमावेदयति

द २७. वैद्यनाथयोगीन्द्रः एकसत्तारीत्या मुक्तेरेकत्व दर्शर द ३०. दृष्टिस्ृटष्टिरीत्या मुक्ते: पञ्चविधत्वं दर्शयंति द ३६. प्रतिकर्म व्यवस्थारीत्या मुक्त्तेराप्यत्वमे कत्वञ्चाह द ४७. द्वैतवादरीत्यामुक्तेराप्यत्व चातुर्विध्यञचाह द ५० पूर्णानन्दोऽपि स्वानुभवं निवेदयति द ५१. प्रसन्नस्वाचार्यप्रियचिकीर्षवः प्रार्थयन्ति

द ५३. चन्द्रिकाचार्य: स्वकीयं शास्त्रमनुगटह्वाति

Page 14

श्री: हरि: 3

श्रीमन्मदाचार्यप्रदर्शितं मया च विज्ञातमेतच्छात्रप्रभावं दर्शयामि कृष्णा- नन्देन्द्रेत्यादिना। यू. पूर्वाचार्योक्तिसारग्रथनमयगिरा चन्द्रिकार्यं प्रबन्धम्। कञ्चिन्निर्माय निर्मायितहृदयतया श्रावयन्तो महान्तो रामब्रह्मेन्द्रसंज्ञा हृदि मम यतिनो हर्षवर्ष ह्यवर्षन् ॥ १ ॥ गृण्वन्तोऽद्वैतसिद्धान्तचन्द्रिकां हर्षदां सताम्। राजुशास्त्र्याख्ययज्वानः पत्रमेतद्वचलीलिखन् ।।२।। इत्थं चम्पककाननवास्तव्यास्त्यागराजमाखराजाः । रामब्रह्मेन्द्राणां सूक्तिमिमामन्वमोदिषत ।। ३॥ एवं श्रीमदस्मदाचार्यवाक्यम्। महाराज्या साक्षादतुलकुतुकादर्पितमहा-

स्सयत्रं सव्याख्यां कृतिमनलसोSशूशुघदिमाम्॥४॥ सूर्याभिमुख्यसमये सुतरां प्राकाश्यमाप्नुवत्येषा। दोषलवदूरदूरा दोग्धि मुदं काडपि चन्द्रिका सुदृशां ॥ ५ ॥ प्राचीनैस्सुमनोमुखैनिजकृतौ कोण क्वचिद्गोपितं कृच्छेणापि गवेषयन्निखिलमप्यद्वैतसारं स्वयं। एकीकृत्य हि चन्द्रिकाभिधकृतिं निर्माय नृणामसौ कुर्वन्मोक्षमदुर्लभं विजयते श्रीमान्परित्राड्करः ॥ ६ ॥ अमृतमयैर्वचनचयैरमृतं जगतामदुर्ल्डभं कलयन्। अद्वैतराज्यसंराडाभाति यतिस्स चन्द्रिकाचार्यः ॥७ ॥

Page 15

अद्वैतसिद्धान्तगुरुचन्द्रिकाशास्त्रप्रभावः।

सरससरसैवाचां गुम्भैस्स मस्तमयत्नतो ot निगममकुटीगूढं तत्वं नृणां करुणावशात्। करवदरवत्स्पष्टीकुर्वन्भृशं सहि चन्द्रिका- कृतिवरकृतीरामब्रह्मन्द्रगीरयमेजते ॥ ८॥ आमूलाग्रं व्याख्यया साकमेतां दर्शदर्श चन्द्रिकामेष शुद्धाम्। आनन्दाब्घेरन्तरन्तर्न्यमाङुं शिप्यशश्रीम त्त्यागराजाध्वरीशाम्। चन्द्रिक।कृतिकर्तृसंयमिशेखरा निजचन्द्रिकां शृण्दतो मम हर्षवर्षमवर्षिषुर्ह्ृदि निर्भरम्। त्यागराजमखीश्वरैरिति चन्द्रिका ह्यनुमोदिता साधु सर्वेकलाकलापपयःपयोनिधिकुम्भजैः ॥ १० ॥ साक्षाद्यतिप्रवरवीक्षामवाप्य भुवि मोक्षाभिकाडिविबुधैः ग्राह्या सुघालहरिलेह्या यतीशबहुसाह्यात्कृतिः परमसौ। त्यागाधिराजगुरुरागादशङ्कमिति वागालयस्सहृदयं जल्पाम्यसाविति विकल्पादिदूर मधुकल्पाऽदसीय वचनैः॥११ रामब्रह्माभिधयतिशिप्यैस्साकं तेषां कृतिमतिरम्याम्। शुद्धां दृष्ट्रा सुविपुलमोदादित्यालेखीद्गणपतिशास्त्री।।१२।। अ०.। अहमपि यथावद्विदवितमेतच्छास्त्र महिमानं वदामि। सत्ताद्वित्वादिकं यज्जगति गुरुमत मन्दमध्योत्तमेभ्यो

तद्दष्ट चन्द्रिकातामुदमुपगमितो राममुब्वाख्यशास्त्री चौळे भूमण्डलेऽहं सकलगुणयुते शाहजग्रामवासी ॥१३ ॥ व्या। जगति नानाचार्यसम्मतं यत् सन्ताद्वित्वादिकं द्वयोर्भावः द्वित्वं स्वतो व्यावहारिकसत्तेति प्रातिभासिकसत्तेति च सत्तायाः द्वित्वं सत्ताद्वित्वमादिर्यस्य स्वतो निस्सत्वस्य तत् सत्ताद्वित्वादिकं तत्क्रमेण मन्दाद्यधिकारिभ्यो व्याकुर्वन् व्यवृण्वन्नित्यर्थः किं तत इत्यत आह तद्ष्ट्रत्याटिना। एवं प्रागुक्तमहापण्डिताविव तदन्योSपि महाविद्वानद्वैतसिद्धान्तगुरुचन्द्रिकासमवलोकनात्परितुष्ट इति सिद्धम् H

Page 16

:o प्रथमं स्वात्मनिजगदध्यासनिरूपणम्। : 1

व्याचिख्यासुरादौ अविभ्नेन तत्परिसमाप्तये श्रोकद्येन स्वाचार्यदयमाहमान- वर्णनादिपूर्वकं तत्प्रदर्शित स्वात्मतत्वमनुसन्दधाि ॥ श्रीरामब्रह्मते .-- मू. श्रीरामव्रह्मसंज्ञादनवरतचिदाकारवृत्तेर्दयाळो- रादाच्छ्रीसद्गुरोश्चाखिलविबुधजनैः पूज्यमानाद्विमुक्तात्। स्वस्योपादानतादक्सकलहितकरं चन्द्रिकारयं वितन्वन् स्वात्मज्ञानां कवीनां सदसि विजयते चन्द्रिकाचार्यभिक्षु:॥।१॥ अद्वतं प्रत्यगेव त्वमिति दृढतरं बोधयन् यः परित्राड् द्रागेव ध्वंसयन्सन्हृद्यसरसिजे गाढमोहान्धकारम्। उद्यत्सूर्यायमाणो विलसति तमिमं कृष्णयोगीन्द्रपादं दन्दे मच्चान्द्रिकाया अमृतरसझरीनामवृत्तिं प्रकर्तुम् । २॥

यथा च सूर्य: स्वाविर्भावमात्रेण नेशं तमो निशातयन्नरविन्दानां विकासको भवति एवमद्वितीयत्वोपदेशेन हार्द तमो निवर्तयन्मम हृदयारविन्दस्य विकरासकत्वेन विलसतीति सूर्यस्वाचार्ययोस्साम्पं प्रदर्शयन्ति स्म ॥ २ ॥ अ०. इह खलु परमकारुणिकः परमहंसपरिव्राजको नाम्ना चन्द्रिकाचार्य

तत्समक्षं सर्वश्रुतिस्मृतिन्यायानुभवोपेतं स्वस्वरूपानुसन्धानपरं प्रागुक्तमेवश्रोक- मेकं पुनरपि गायति स्म शिव इति .--

Page 17

अद्वैतसिद्धान्तगुरुचन्द्रिकायां शिवोऽहं वासुदेवश्च स यः प्राज्ञादिमस्य मां। प्रकृति चागमैस्स्मृत्या मयैक्यं स्वस्य चाव्रवीत् ॥ १॥ व्या.यः उपास्यः "यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै"इति श्वेताश्वतरोपनिषत्प्रतिपाद्यत्वेन गृहीत आधिदैविकः । क्रो. त्वं शिवोऽसीति वक्तारं गुरुरेवेति निश्चिनु। आत्मेति तूपगच्छन्ति प्राह्यन्ति चेत्यादिस्मृति सूत्रोक्तप्रकारेण प्राज्ञार्दि प्रा- सस्सौषुप्त आदिराद्यावस्थो यस्य विज्ञानमयस्य मम सोऽहं प्राज्ञादिस्तं प्राज्ञादिं (मां) अस्मत्प्रत्ययगोचरं प्राज्ञविज्ञानमयात्मकं (अस्य) वियदादिजगतः (प्रकृति) उ- पादानकारणं चकारेण निमित्तकारणं च (सस्य) उपास्यस्य (मया) प्राज्ञविज्ञा- नमयात्मकेन (ऐक्यञन) एकत्वञ्च प्राज्ञादिव्यतिरेकेणाभावञच (आगमैः) सुषुप्त्या- दवस्थावतो जीवाज्जगत्सष्टयादिप्रतिपादकः "समाननामरूपत्वादावृत्तावप्यवि- रोधो दर्शनात्स्मृतेश्व" "अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके" इति पञ्चमनिरूपणे त्रिनवतितमश्रोकवृत्तौ वक्ष्यमाणार्थकैतत्सूत्रद्वयभाष्यावसरे 'स्वापप्रबोधयोः प्रळयप्रभवौ हि श्रूयेते'इति च "सुषुप्तिकाले परेण ब्रह्मणा जवि एकतां मच्छति। परस्माच्च ब्रह्मणः प्राणादिकं जगजायत इति वेदान्तमर्यादेति च भाष्या- भ्यां दृष्टिसृष्टिपक्ष प्रतिज्ञाय तत्र तत्र प्रमाणत्वेनोदाहृतैः"यदा सुप्तस्स्वपं न कञ्चन पशयति अथास्मिन्प्राण एवैकधा भवति तदैन वाक्सवनामिस्सहाप्येति चक्षुस्सर्वे रूपैस्सहाप्येति श्रोत्रं सर्वैश्शब्दैस्सहाप्येति मनस्सर्वैंर्ध्यांनैस्सहाप्येति। सयदा प्र- तिबुध्यतें यथाम्ेर्ज्वलतस्सर्वा दिशो विष्फुलिद्गा विप्रतिष्ठेरत्नेवमेवैतस्मादात्मनस्सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका" इत्यादिभिः "अयमा त्मा ब्रह्म- प्रज्ञानं ब्रह्म -स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः ।न सन्ति नास्ति मा या च तेभ्यश्वाहं विलक्षणः" इत्यादिमहावाक्यैश्च स्मृत्या श्रो। " यदाध्यासं विहायैष स्वरूपेणावतिष्टते। अविद्यामात्रसंयुक्तस्साक्ष्यात्मा जायते तदा। द्रष्टाऽन्त :- करणादीनामनुभुतेस्स्मृतेरपि । अतोऽन्तःकरणाध्यस्तानध्यस्तत्वेन चात्मनः । भोक्तृत्वं साक्षिता चेति दूयं तस्योपपद्यते। आतपश्चापि तच्छायास्वप्रकाशोविराजते। एको भोजयिता तत्र भुङ्गेऽन्यः कर्मण: फलं.।"इंय्यादिकया स्वगीतया चात्रवत्साशि- बोऽहमित्युक्त्वा एवमेव य उपास्यः प्रागुक्तकौषीतक्याद्यागमैस्तन्मूलया स्वगीतया श्लो।"यावत्मञ्जायते किञ्चित्सत्वं स्थाव रजङ्गमं। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरत- र्षभ। क्षेत्रज्ञं चापि मांविद्धि सर्वक्षेत्रेषु भारत' इत्यादिकया च अव्रवी त्सवासुदेवश्ाह-

Page 18

मिति गायतिस्म।। तथाचोकं भगवत्पादादिमिः श्रो नारायणोSहं नरकाम्तकोउहं पुरा- उतकोडहंपुरुषोऽहमीशः। अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽह निरहं च निर्ममः" "रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितं। प्रबुद्धदृष्टिसष्टत्वात्सुषुप्तौ च लयश्रुतेः" इति च। किञ्च प्रागक्तशिवस्मृतेस्तन्मूलपुच्छवाक्यऋतपानमन्त्रादीनां चक्रमात्सुप्त परत्वं तु सप्तमनिरूपणे एकोनाशीतितमैकसप्ततितमसप्तविंशश्रोकवृत्तौ दर्शयि- ध्यामः ॥।१॥ अ०. अद्वैतसिद्धान्तचन्द्रिकायां प्रागस्माकमात्मानात्मविशेषजिज्ञासो स्पादकत्वेन संप्रयुक्तस्य शिवोऽहमिति वचनसैवाधुनाप्यस्मत्समक्षं पुनरुच्चारणं तद्विशेषान्तरजिज्ञासोत्पादनार्थमेवेति निश्चयवतां माधवतीर्थादानां शिष्यार्णा युत्तानुवादपूर्वकं प्रश्रमनूद्य तदुत्तरमाह शिवोऽहमित्यादिना - मू. शिवोऽहमित्ययं श्रोको दशाभिप्रायद्श्चनः । भाति ब्रूमस्तथाचत्तान्निरूपयितुमहसि। जीवभिन्नेशविभ्रान्त्या जगदारोपितं मयि। भावाद्द्रान्तिरभावाद्वा प्राज्ञस्ताम्यां न वेष्टितः ॥ धर्मे प्रकृतिता तत्र नकिञ्चिद्धचात्मकं जगत्। जगत्कारणमेकोऽहं पदार्थस्तद्धियैव सा।। सर्वधीश्च प्रतिज्ञाता वाच्यैक्यमपि सम्मतं । लक्ष्यैक्यं भाति चैतेषु विशेषाञ्छाघि नो गुरो ।। ५॥। इति पृष्टोऽब्रवीत्स्वामिन्नात्मानात्मविशेषकानू। तथापि तान्विस्तरेण श्रोतुं कौतूहलं हि नः ॥ ६ ॥ विशेषान्तरतो या स्यात्सिद्धान्तगुरुचन्द्रिका । बूहि तां चेद्नवद्भक्त्या तोषितः प्रब्वीमि ताम् ॥ ७॥ सावधानेन मनसा धारयेत दढं हृदि।। ७।।।। क्या॥ भो खामिन् गुरो भवटुक्त्तश्शवोऽहमित्ययंश्रोकस्तमुपणण्वताम- स्मार्क च दृझाभिप्रायदो भाति दशविधाभिप्रायहेतुखवेन स्फुरति। तान् तथा- विधान् अस्माभिस्सामान्यत ऊहितान्त्रूमः । भवच्छिष्या इति शेषः । तथा चेवू . सवता्येगमभिप्रेताश्वेतू तान्निरूपयितुमहास प्रमाणपूर्वक प्रतिपादमितुं समर्थो-

Page 19

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

सि वक्ष्यमाणप्रकारेण खस्मिन्नेव जगदध्यारोपापवादविषयकश्रवणमनननिदि ध्यासनपूर्वकं शिवोऽहमिति साक्षात्कारवत्वात्। नान्येतथानिरूपयितुमर्हन्ति तेषां तत्तदुपासनावासनावशीकृततया हरिहरा- दावाधिदैविके जगत्प्रकृत्तित्ववादित्वादित्युक्ता तेषु। १. प्रथमाभिप्रायं दर्शयन्ति जीवभिन्नेशविभ्रान्त्याजगदारोपितम्म- यीति जीवाद्भिन्न ईश इति स्वस्य सजातीयपरिच्छेदविभ्रान्त्या साकमस्मत्पदार्थे मयि जगदारोपितमिति भातीति पूर्वेणवोत्तरेण वान्वयः॥ एवं प्रथमाभिप्रायरिशष्यै- र्विज्ञापितः ॥ ननु कथं तदाचार्यावाक्यस्यैतदभिप्रायहेतुत्वमिति चेदुच्यते। य- स्मात्तदाचार्येण प्राज्ञादिमित्यादिनाऽस्मत्पदार्थस्यावस्थालयवतो जीवस्ाविद्या- वतो हि प्रागुक्तः 'यदा सुप्तस्स्वप्रं न कञ्चन पश्यती' त्याद्यागमैर्निवेदितनिखिल- जगत्कारणत्वमनुचिन्तितम् अतः प्राग्विद्योदयान्नाहमीश्वर इति जीवेशभेदप्र- त्यक्षस्य भ्रमत्वावगतिः। लोके चाजञसष्टरज्जु सर्पादेराध्यासिकत्ववंत् अज्ञानवता प्राज्ञन सृष्टस्यापि जगतआरोपितत्वावगतिश्च भवेत् ।। २. द्वितीयाभिप्रायं दर्शयन्ति भावान्भ्ान्तिरिति भावरूपादज्ञानाह्वैतभ्रमो भवतीति भातीति पूर्वेणान्वयः ॥ कथमयमभिप्रायस्तदाचार्यवाक्यादवगत इति चेतु उच्यते यतः अयमात्मा ब्रह्मे'त्यादिश्रुत्या भयैक्यं स्वस्य चाव्रवीदित्यवोचत्। शिवोऽहमिति प्राज्ञमहेश्वरयोरभेदश्चानुचिन्तितः ततस्तदनुसन्धानात्पूर्वे प्राज्ञगतं महेश्वरत्वावारकं तद्गतं यदज्ञानं तद्भावरूपमिति गम्यते अन्यथा तस्यावारकत्वानु पपत्ते: 1 द्वितीयाभिप्राये पक्षान्तरं दर्शयन्ति अभावाद्वेति अथवा अभावात् द्वैतभ्रम- प्रतिबन्धकभूतमात्मनो यदद्वितीयत्वज्ञानंतदभावरूपादात्मखरूपानावारकादज्ञानात् भ्रमसामान्यं प्रतिकारणभूताद्वैतभ्रान्तिर्भवतीति भातीति पूर्वेणान्वयः । एतदभि- प्रायजनकत्वमपि कथं तदाचार्यवाक्यस्येति चेदुच्यते प्राज्ञादिमिति तदाचार्योक्त- प्राज्ञशब्दार्थस्य सुखमहमखाप्समिति निरावृतत्वेनाविचारदशायामपि परामृश्य- मानस्ानन्दमयस्यानन्दस्वरूपस्य शिवोऽहमिति वाक्येन ब्रह्मानन्दात्मकत्वस्य दाश- तत्वात् अ मां प्रकृतिमक्रवीदिति वाक्यन सवस्य द्वैतत्रमकारणत्वाङ्गीकाराच्च।। ३. इदानीं द्वितीयाभिप्रायस्य प्रथमपक्षानुसारेणाज्ञानस्यभावरूपत्वमवलव्य तृतीयाभिप्रायमुपपादयन्ति प्राज्ञस्ताभ्यां न वेष्टित इति यत् प्रागुक्त्तभ्रान्त्युपल- क्षित लिङ्गशरीरादिकं कार्य यच्च तत्परिणामिकारणमज्ञानं ताभ्यामवस्थात्रयेष्वपि प्राज्ञो न वेष्टितो न वलयत इति भातीति व्यजिज्ञपन् एतदभिप्रायहेतुत्वम तदा-

Page 20

प्रथमं स्वात्मनिजगदद्धचासनिरूपणम्

चार्यवाक्ये दृश्य ते प्राज्ञादिमस्य मां प्रकृतिञ्चागमैरस्मृत्या5ब्रवीदिति आ- चार्यवाक्येन प्राज्ञस्यावस्थात्रयेष्वपि प्रकृति त्वावगमात्। यथा हि लोके प्रकृतिभाव- मापन्नं मृदादिकं वस्तु न स्वविकारपरिवेष्टितत्वेन तदन्तर्गतं भवति किन्तु ख- विकार साधारमेव भवति एवं स प्राज्ञोऽपि स्वस्मिन्नद्ूयस्ताज्ञानादीनां भवर्तात्यवगतं भवेत् ।। ४. चतुर्थाभिप्रायञ्च निवेदयन्ति धर्मे प्रकृतितेति धर्मपदमधर्मस्याप्यु पलक्षणं तथा च अग्नौ हुतसोमाज्यपयोद्रव्यादि परिणामरूपे द्रव्यरूपेऽपूर्वेह्यमा यिके शरीरादिजगत्प्रकृतित्वं भातीति पूर्ववन्निवेदयन्तिस्म तत्कुत इति चेदुच्यते आगमस्स्मृत्याऽव्रवीदिति तदाचार्यवाक्येनापि श्रुतिस्मृति सामान्यस्य प्रामा- यादानेन'ज्योतिष्टोमेन स्वर्गकामो यजेत"आचार्यवान्पुरुषो वेद"तस्य तावदेव चिर यावन्न विमोक्ष्येऽथ सम्पत्स्ये'इतीत्यादिश्रुत्या'शरीरस्थोऽपि कौन्तेयनकरोति नलिप्य- ते' इत्यादिस्मृत्याच कर्मकार्यशरीरादेर्व्रह्मज्ञाने नविनाश्यत्वाभावस्याभिप्रेतत्वात्। धर्मा- धर्म प्रकृतिकत्वावगतिर्भवितुमर्हति। अन्यथा शरीरादिजगतो गुणापूर्वनिमित्तकत्वे सति मायाप्रकृतिकत्वेऽभ्युपगम्यमाने पूर्वोक्तश्रुतिस्मृत्योरप्रामाण्यप्रसंङ्ग: । तथाहि ब्रह्मज्ञानेन जगत्प्रकृत्य ज्ञाननाशेन तद्विकृतिश्शरीरादिकमवस्थातुं क्षमते यथा चाध्या- सिकी देहात्मवुद्धि: यथाच रज्जुसर्पादि: निमित्तजीवनेन नैमित्तिकजीवनं सम्भवत्वि- ति चेन्न। कुलालदण्डादिनाशेऽपि घटादिस्थितिदर्शनात। अतोऽमायिकं कर्मैव मी- मांसकाभिमंत शरीराद्युपादानमिति चाभिप्रायोऽभवत्।। ५. अथ पञ्चमाभिप्रायमाहु: तत्र न किञ्चिदिति तत्र धर्माधर्मादें किञ्चिदुपादानत्वं निमित्तत्वं वा न सम्भवतीति भातीति पूर्वेणान्वयः।। कुत इति चे- ज्जगतश्शरीरादे: कर्मजत्वे तदनुरूपं चिरजीविनः प्रतिदिनं मरणासम्भवेन 'यदा सुप्तस्स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राणएवैकधा भवति तदैनं वाक्सवैर्नामभिस्स हाप्येति' इत्यादि श्रृत्युक्तलयासम्भवादकर्मजत्वाभिप्रायश्वाभवत्।। ६. इदानीं षष्ठाभिप्रायं च वर्णयन्ति। ध्यात्मकं जगदिति वृत्तिज्ञानात्मक जगदिति भातीति पूर्वेणान्वयः । एतदभिप्रायजनकत्वमपि तदाचार्यवाक्यस्य दृश्यते 'प्राज्ञादिमस्य मां प्रकृतिमत्रवीत्' इति तदाचार्यवाक्येन वियदादेरात्मप्रकृति- कत्वावगमेन स्वापनिकगजादेरिव वृत्यात्मकत्वमभिप्रेतम्। ७. सप्तमाभिप्रायं च वर्णयन्ति जगत्कारणमेकोSहं पदार्थ इति अवस्था- लयवानेक एवाहं पदार्थ: जगत्का रणमिति भाताति पूर्ववत्सम्बन्धः ॥ अयमप्यभि-

Page 21

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

प्रायस्तदांचार्य परिगृहीतया यदासुपतरखप्नं नकचनपश्य्वथास्मिनप्ाण एवकधा भवति' इत्युपकम्य 'एतस्मादात्मनस्सर्वें प्राणा यथायतनं विप्रतिष्ठन्ते' इतेवम- दिश्रुत्या 'प्राशादिमस्य मां प्रकृतिमत्रबीदिति' तदाचार्यवाक्यगतेनच कारणारमपरे णैकवचनान्तशब्देनावगतः ॥ ८. अथाष्टमाभिप्रायं विज्ञापयन्ति ताद्धियैव सा सर्वधीश्च प्रतिज्ञातेति तस्ावस्थात्रयवतो धीर्ज्ञानं तद्दीः तस्येति कर्मणि षष्टी, तयैव सा सर्वविकारविष- विणी प्रतिज्ञातेति भातीति सम्बन्धः ॥अयमभिप्रायश्च 'प्राज्ञादिमस्य मां प्रकृतिम- ब्रवीदिति' तदाचार्यवचनतन्मूलश्रुत्वादिभिरहंपदार्थस्य प्रकृतित्वावगमेन मृज्ज्ञानेन घटादिज्ञानवद्भवेतू।। ९. नवमाभिप्रायं चाहु: वाच्यक्यमपि सम्मतमिति वाच्ययोः त्त्त्वं- पदार्थयोः तत्तदुपाधिविनिर्मोकमन्तरेणैवैक्यमप्येकव्यक्त्यात्मकत्वमपि सम्मतमिति भातीति संबन्धः ॥ अयमप्यभिप्रायः 'प्राज्ञादिमस्य मां प्रकृतिमत्रवीदिति तदा- चार्यवाक्यतन्मूलश्रुत्यादिभिर्भवितुमर्दृति। जगत्कारणत्वेन निर्दिष्टस्य प्राज्ञस्यैव तदुपाध्यज्ञानापरित्यागेन विज्ञानमयत्वावगमात्। १०. इदानीं दशमाभिप्रायं विवृण्वन्ति लक्ष्यैक्यं भाति चेति लक्ष्यस्व तत्वंपदलक्ष्यार्थस्यैक्यमेकत्वञ्च भातीति सम्बन्धः॥ अयमभिप्रायश्च मयैक्यं स्वस्त चाव्रवीदिति' तदाचार्यवाक्येन तन्मूलभूतेन 'प्रज्ञानं ब्रह्म"अयमात्मा ब्रह्म' इत्यादि- महावाक्येन व निष्प्रकारचिन्मात्रावगांहना भवितुमर्हति। एवं चन्द्रिकाचार्यस्य स्वानुभवपरश्रोकैकश्रवणमातेण तत्प्रसादादिबलेन च स्वस्य चित्ते सामान्यतः परिस्फुरद्दशविधाभिप्रायांस्तस्मै निवेद विशेषतस्तदर्थबु- भुत्सवो माधवतीर्थप्रभृतयः तं खेषामाचार्यतवेन भावयन्तः प्रार्थयन्ते पतेषु विशे- पाउछाधि नो गुरविति एतेषु दशविधतात्पर्यविषयेषु विशेषान् ज्ञातव्यधर्मविशे षानू हे गुरो भवदन्तेवासिनामस्माकं शाध्युपदिशेत्यर्थः शेषः सुगमः। अनेनास्य व्याचिख्यासितस्य शास्रस्य वक्ष्यमाणविशेषोपेतोदीरितदशवि- धाभि प्रेतार्थवत्वेन विषयसम्बन्धयोस्सिद्धिः ॥ तत्तद्विशेषार्थावरणानिवृत्तिद्वारा नि- व्यनिरतिशयानन्दरूपेण स्वात्मनोऽवशेषावगतिः फलं माधवतीर्थादीनां तत्सदृशाना च. सर्वकर्मसन्यासादि तत्वजििज्ञासकत्वेनाधिकारित्वं सिद्धम्.॥७॥ अ०. एवं शिष्यैः प्रार्थितस्सचन्द्रिकाचार्यस्ेभ्यः प्रतिवक्तुकामम्खाचार्य चरणरणुं प्रार्थयते ये रामब्रह्मसंज्ञा इति॥

Page 22

प्रथमं स्वात्मनिजगद्द्धचासनिरूपणम मू. ये रामब्रह्मसंज्ञा निरतिशयनिजानन्दभूमैकनिष्ठा दावान्नौ भृङ्गवन्मां जननमरणवत्तप्तगर्त्ते पतन्तम्। देहादेर्द्ष्टितोक्तेस्स्वसुखतमतटं प्रापयामासुरादौ तेषां पूज्याभिपूज्यं चरणनळिनजं यद्रजो ज्ञापयेच्ान्।।८।।। व्या. ये रामब्रह्मसंज्ञा इति पूजायां बहुवचनं तान्विशिनष्टि निरतिशये- त्यादिना निरतिशयो मानुषानन्दादेकादशानन्देभ्य उत्कृष्टो यो निजानन्दो नित्या- नन्दः तद्रूपो भूमा प्रत्यगात्मा 'यो वै भूमा तत्सुखं'इति श्रुतेः तास्मन् एका मुख्या निष्ठा अनवरतचिन्ता येषां ते निरतिशयनिजानन्दभूमैकनिष्ठा इति स्वाचार्यमहिमानमुक्त्वा दृष्टान्तेन स्वकीयप्रागवस्थां दर्शयति दावान्री भृङ्गवदित्यादिना अरण्याभौ महाफलभ्रान्त्या प्रविष्टत्रमरेण तुल्यं कस्य तद्रमरसाम्यमित्यत आह मां जननम- रणवत्तप्तगर्त्ते पतन्तमितिजननमरणवच्च तदाध्यात्मिकादि तापत्रयतप्तैच जननमरणवत्तप्तं शरीरं तदेव गर्तो निर्जलकूपः तस्मिन् पतन्तं प्रविशन्तं मनुष्योऽह शत्रुचोरसर्पजराव्याधीश्वरादिना पीडितोऽस्मीति खिद्यन्तं मामिति स्वकायप्राग- वस्थां दर्शययत्वाऽघुना स्वविषये तदाचार्याणां प्रसादकृत्वमाह देहादेर्व्ष्टितोक्ते- स्स्वसुखतमतटं प्रापयामासुरादाविति स्वापिकतप्यतापकशरीरादेस्स्वप्र प्रत्ययव्यतिरेकेणासत्व्रवदिहापि तप्यतापकरूपदेहादेरहं मनुष्योऽयं शत्रुरयं चोरो- डयं सर्पोडयं व्याधिरियं जराऽयमीश्रर इति दृष्टिव्यतिरेकेणासत्वे सिद्धे कि वृथा परि- तप्यस इत्यादेशानन्तरं, श्रो. 'ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः। पठन्त्यतस्स्व- प्रकाशं सुखं ब्रह्मैव नेतरत्: सुप्तौ ब्रह्मैव। नो जीवस्संसारित्वासमीक्षणात।'इत्यादिशा- स्त्रेण च तदनुसारिभ्यां सुखमहमस्वाप्समिति परामर्शतदनुभवाभ्यां च यत्स्वरूपत्वे- नावगतं यस्यैव च विभाग: आनन्दस्त्रिविधो ब्रह्मानन्दो विद्यासुखं तथा विषयान- न्द इति योगानन्दाख्यशात्रे दृश्यते तत्र विषयानन्दाद्विद्यानन्दस्सुखतरः तस्माद्रह्या- नन्दस्सुखतमः सएव तटं प्रागुक्तस्य तप्तगर्तस्यातिशीतच्छायस्तरिप्रदेशः तदधि- गमे Sस्याध्यासिकसर्वसन्तापनिवृत्तिदर्शनात् 'एषाऽस्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः तत्प्रापयामासुर्मम स्वरूपत्वेन ग्राहयामासुः आदा वितिब हूनां स्वाचार्याणां मध्ये प्रकृते स्तूयमानस्याचार्यस्य प्राथम्यं दर्शयित्वाऽधुना तदाचार्यचरणरेणुं विशिनष्टि पूज्याभिपूज्यमिति लोकपूज्यैर ब्रह्मविदादिभिराभि- मुख्येन पूजनीय चरणनळििनजं यद्रज: तत् तान् दशविधतात्पर्यविषयगतवि-

Page 23

१०

शेषान् ज्ञापयेत् तद्विशेषविषयकविज्ञानं जनयत्वित्यर्थः ॥ ८॥॥ अ. पुनरपि शिष्यैबुभुत्सितार्थान् तत्तदाचार्यप्रसादैकलभ्यं तत्तत्प्रदर्शितजी दर्थ पूर्वांचार्यान्नमस्करोति देवानामिति .- मू. देवानां तृप्तये श्रीविघुदिनकरयोयोर्गेवद्यत्प्रंसादो- त्सिद्धान्तानां प्रबोधर्मम हृदि विशदो योग उत्पत्स्यते यः । साधूनां तृप्तये तत्प्रकटनकुशलं चन्द्रिकार्यं चिकीर्ष- स्तेषां श्रीसद्गुरूणां चरणसरासजं सर्वभावैर्नमामि ।। ९।। ।। व्या. यथा चन्द्रसूययो रमृताश्रययोस्संयागोSमृतोपजीविनां वसुरुद्रादीनां देवानां तृप्तये भवति॥ तथा हि छान्दोग्ये तृतीयाध्याये 'असौ वा आदित्यो देवमधु' इत्युपक्रम्य प्रथमादिखण्डेषु 'यदेतदा्दित्यस्य रोहितं रूप शुक्क रूपं, कृष्णं रूपं पर कृष्णं रूप' इत्युक्तानाममृतानां मध्ये 'तद्यत्प्रथमममृतं तद्ूसव उपजीवन्ती'त्यादि षष्चादिखण्डैर्देवभोज्यामृताश्रयत्वमादित्यस्ावगम्यते, चन्द्रस्यामृताश्रयत्वं तु सुप्र- सिद्धमेवेति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह यत्प्रसादादित्यादिना येषां पूर्वा- चार्याणां प्रसादाज्जायमानैः सिद्धान्तानां प्रबोधैः जीवोनाम क इति प्रश्ने पक्ष- भेदेन अविद्यावद्रह्मेति च, उपाध्यवच्छिन्नं ब्रह्मेति च ब्रह्मांश इति च ब्रह्मप्रतिबिम्ब इति च, एवमीश्ररादितत्वेष्वपि एकैकस्मिन् तत्वे पक्षमेदेन नानाविधास्सिद्धान्ताः प्रदर्शिताः तेषां चन्द्रसूर्यवत्प्रमेयार्थप्रकाशकानां ज्ञानैः विशद: निर्विचिकित्सः यो योग: एकेन सिद्धान्तेनाकांक्षितार्थस्य सिद्धान्तान्तरोक्तार्थेन संबन्ध एककिरण- मस्मिन् चन्द्रिकाख्यशास्त्रे दशसु निरूपणेत्रु तत्र तत्र वश्यमाणो मम हृदि उत्पत्स्य ते भविष्यति, तद्योगस्य प्रकटाकरणचतुरं चन्द्रिकाख्यशास्त्रं शिष्याणां प्रीतये कर्तु- मिच्छन तेषां एकैकास्मन्नपि तत्वे पक्षभेदप्रदर्शकानां श्रीसद्गरूणां चरण- सरसिजं सर्वभावः त्रिविधकरणैर्नमामि, तथा हि श्रयते "यं यं लोकं मनसा सविभाति विशुद्धसत्वः कामयते यांश्र कामानू। तं तं लोकं जयते तांश्र कामां स्वस्मादात्मज्ञं ह्यर्चयेद्ूतिकामः" इति ॥९॥ अ०. अधुना स्वाशास्त्रवैयर्थ्य मनूद्य सविनयं परिहरति वेदादाविति मू. वेदादौ सति बन्धमञ्जनविधौ मुक्त्वापि तत्के वचो गृह्लाुस्तव नूतनं च विरसं यत्नो वृथा स्याचतः ।

Page 24

प्रथमं स्वात्मनिजगदद्धयासार्नरूपणम्

मू. मैवं जहुतनूद्वतां सुरनदीं लोकस्य चोद्धारिकां स्वीकुर्वन्ति यथा जलं गवि भवं प्राज्ञास्तथा मे वचः॥१०॥

व्या. पूर्वपक्षी तावत् वेदादावित्यादिना बन्धनिवृत्तिकरत्वेन प्राचीनं शासत्रं प्रशंसन् चिकीर्षित शास्त्रं दूषयनि के वच इत्यादिना के तव नूतनं विरसं च वचो गृह्नीयुरिति प्रदूष्य तत्फलमाद॥ यत्नो वृथा स्ात्तत इति ततः अग्राह्यत्वादि- त्यर्थ: ॥ एवं प्राप्ते विरसमपि स्ववाक्यं वेदतद्भाष्यादिवत् मुमुक्ष्वादिभिर्ग्राह्यमेव भवेदिति दृष्टान्तेन समाधत्ते-मवमित्यादिना यथा स्नानपानार्थ सरसां गङ्गां प- ञचगव्यार्थ विरसमपि गव्योदकञ्च स्वीकुर्वन्ति, तथा सरसं वेदादिशास्त्रं विरस- मपि चिकीर्षितम् महूचनञ्च सम्यग्ज्ञानारथे स्वीकुर्युरित्यर्थः । अन्र तावत् यथा च गङ्गा तथा वेदोऽपि परमेश्वरादेव प्रादुरभूत्। यथा च जहुमहर्षिस्तां गङ्गां सवरूपतो गृहन् लोकोपकारांर्थे श्रोत्रेन्द्रियद्वा- रा यथारस जाह्वीति नाम्रा सह बीहः प्रचारयामास तद्वत् श्रीमद्भगवत्पादोSपि तंवे- दमर्थतो विशेषेण गृह्न्नद्वैतभाष्यमिति नाम्ना सह वागिन्द्रियद्वारा मुमुक्षूणां परमो- पकारार्थ सर्वत्र प्रकटचिकार। यथा च महद्भ्र्भयभक्तिसदाचारादिसाधनपूर्वकं सेव्यमानामपि गङ्गां तत्साधनविहीना गौ: स्वदाहोपशमनार्थ संपिवति तद्वदहमपि तद्भाष्यं वैदुष्यादि- साधनोपेतप्राचीनाचार्यवत् तत्साधनविकलस्सन् संसारतापोपशमनार्थमग्रहीषम्। यथा वा गौ: स्वपीतां गङ्गां विरसत्वेन परिणममानामन्तरेवाधार्यत्वादर्वागि- न्द्रियेण गव्यमिति नाम्ना सह विमोचयति तद्वत् मद्गहीतं सरसं वेदतद्भाष्यादिकं शिष्यान्प्रत्युपदेष्व्यत्वा दल्पवागुत्पन्नत्वाच्च विरसत्वेन जायमानमिदं शास्त्रमद्वैतसि- द्धान्तगुरुचन्द्रिकति नाम्ना सह यथाशक्ति प्रचारिष्यामि कथ तर्हि विरसं तद्वचोग्रा- हं भवेदिनि चेत् यथा च परिशुद्धधर्थ पञ्चगव्यप्राशनसमये विरसमपि गव्योदकं स्वीकुर्बन्ति तथा मोक्षार्थ स्वस्वरूपिचारसमयेऽल्पवागृत्पन्नत्वेन विरसं मदूचश्र स्वीकुतुरिति पञ्चविधधर्मसाम्येन पूर्णोपमा संप्रदर्श्यते ॥ १० ॥ अ०. ननु भवद्द्िश्चिकीपितस्य शास्त्रस्य यत्किञ्चित्तत्वावभासकत्वेनादे- यत्वेपि तद्भानस्य सर्वार्थप्रकाशकप्राची नशास्त्रजन्यज्ञानान्तर्गतत्वेन नपृथगारंभणीय- मित्याशङ्कय प्राचीनशास्त्रापेक्षया तस्य अद्धयात्मादिभेदाभिनिवेशिभ्यो आ्रन्तेभ्यः परमोपकारकत्वातसृथगारभ्यत इत्याह अविदितेति।

Page 25

२ अद्वैतसिद्धान्तगुरुचान्द्रिकायां

मू गदसहितदृशो ये तद्धितं चिन्तयद्भिः। विबुधपर महंसैश्रन्द्रिका चार्यसंजै- ्गुरुकृतकृतिसौराद्रच्यते चन्द्रिकाऽन्या ।। ११।॥ व्या. अविदितनिजशक्तिस्वात्मरूपे अविदिता निजशक्तिः स्वकीय- जगत्सर्जनादिसामर्थ्ये येन सः अविदितनिजशक्तिः सचासौ स्वात्मा चाविदितनिज- शक्तिस्वात्मा तस्य रूपं स्वरूपं तस्मिन् अविदितनिजशक्तिस्वात्मरूपे 'तरति शोक- मात्मवित्' 'आत्मा वा अरे द्रष्टव्य' इत्यादि शास्त्रात् शोकतरणार्थ अवगस्ये सति 'आत्मैवेदं सर्वे"अहमेवेदं सर्वे"मय्येव सकलं जातं मि सर्वे प्रतिष्ठि- सम्। मयि सर्वे लयं याति तत् ब्रह्माद्वयमस्म्यह' मित्यादिश्रुत्युक्तप्रकारेण जगदु- पादानत्वेन ज्ञातव्ये सति गदसहितदृशो ये श्रोत्रादि तमोन्तमेवाध्यात्मम् ततोऽन्यत् शब्दादिविकारान्तमधिभूतं-ततश्चान्यत् दिगभिमानिदेवतादीश्वरान्त- मधिदैवतमिति भेदाभिनिवेश एव दुःखहेतुत्वात् गदःतत्सहिता दक् मनोडस्य दैवं चक्षु' रिति श्रुत्युकं मनो येषां ते गदसाहतदृशः तद्धितं तेषां हितं यत् अध्या- त्मादिभेदाभिनिवेशनिरसनं-तथा चोकं वार्तिके॥ श्रो ॥ 'अधिदैवतमद्धया- स्ममधिभूतमिति त्रिधा। एकं ब्रह्मविभागेन भ्रमाद्भाति न तत्वतः। विश्वं वैराजरू- पेण पश्येद्द्रेदनिवृत्तये। हिरण्यगर्भरूपेण तैजसं चिन्तयेद्वुघः। जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत्। विश्वादिकत्रयं यस्माद्वैराजादित्रयात्मकम् । एकत्वेनैव संपश्येदन्याभावप्रसिद्धये'। इति यथा हि सर्वात्मकं ब्रह्मेत्यत्र ब्रह्मणः सार्वात्म्यमुक तथास्सिन्वार्त्तिके विश्वादित्रयस्य वैराजाद्यात्मकत्वमुक्तं नान्यथा-तत्तद्वितं तत चिन्तयाद्भ्िः विबुधपरमहंसश्चन्द्रिकाचार्यसंशर्गुरुकृतकृतिसौरात् प्रा चीनाचार्यकृता या कृतिः सैव सौरः प्रचण्डमार्त्ताण्डप्रकाशः अध्यात्मादिभेदग्रहे त्वभिनिवेशरहितानां विशेषतः सर्वार्थप्रकाशकत्वात् तस्मात्प्रकृष्टसूर्य प्रकाशादन्या चन्द्रिका प्रागुक्तरुग्णचक्षुषां प्रमेयगतविशेषवीक्षणानुकूलर्शातप्रकाशात्मकराकाच- न्द्रिकासमाना तु कृती रच्यते-एवमेव 'चन्द्रमा मनो भूत्वा हृदयं प्राविशत्' 'मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्भवेत्। अधिभूतं तदित्युक्त्तं चन्द्रस्त- न्राधिदेवतम्' इत्यादिश्रुतिस्मृतिभ्यां चन्द्रिकाया मनोनुग्राहकत्वं दर्शितम्॥११॥॥ अ. यतपुनरुक्तमध्यात्माधिभूताधिदैवानां भेदाभिनिंवीशीवषये चिकीर्षि तस्य चन्द्रिकास्यशास्त्रस्य परभोपकारकत्वं तदुपपादयति भाष्यादेरिति॥ .....

Page 26

प्रथमं स्वात्मनि जगद्द्धयासनिरूपणम् १३

भाष्यादेः परिचिन्तनादपि मुहुर्यस्य त्वहं कारणं सर्वस्येति दृढा मातश्च न भवेत्सत्तैक्यधीश्चानयोः। तेनान्येन च चन्द्रिका सकृदियं भक्त्या स्वधीता यदि स्वस्मिन्कारणतामतिर्द्ृढतमा सत्तैक्यधीस्स्यादतः॥ १२॥॥ व्या। अनयोरिति अहङ्गारणं सर्वस्येति वाक्यतात्पर्यभूतयोः स्वात्मज- गतोरित्यर्थः अत इति सकृदद्धययनत इत्यर्थः । एवं सकृद्गहीतस्यास्य शास्त्रस्य स्वमात्मानमधिकृत्य वर्तत इति सर्वे जगदद्धयात्ममेवेति अद्धयात्मातिरकेणाधि- भूतमाधदैवमिति तत्वप्रतिषेधकत्वेन कार्यकारणयोरनन्यत्वन्यायेन च स्वात्मनस्त- द्विवर्तेन जगताSद्वितीयत्वबोधकत्वेन च ततस्सजातीयादिपरिच्छेदाभावावगमेन च परमोपकारकत्वं सिद्धमेव एवञ्च सति "मय्यव सकलं जातं मयि सवे प्रतिष्ठितं। मयि सर्वे लयं याति तद्रह्माद्यमस्म्यह" मित्यादिश्रृत्युक्तप्रकारेण स्वात्मतत्वमनन- शीलानां विज्ञेयपरमिदं सर्वे अद्धयात्मशास्त्रमिति प्रसिद्धिरपि सङ्गच्छत इत्यर्थः ॥ अ. इदानीं चन्द्रिकाचार्यः शिष्यपरिपृष्टान्प्रथमाभिप्रायर्वषयगतान्विशेषान् विभज्य तेभ्यो दर्शयति-अङ्गेत्यादिना -- मू.॥ अङ्ग माधवतीर्थाद्या विष्यामि द्वितीयके। आरोपितविशेषांस्तदधिष्ठानगतान्त्रुवे ॥। १३॥॥। योऽवस्थाभिरनष्टत्वादसङ्गश्च विभुर्भवेत् ॥ १४॥ सर्वसाक्षित्वतो नित्यः प्रलयेऽप्यवशेषणात्। अद्रव्यं निर्गुणत्वेन प्रपश्चस्तत्र कल्पितः ॥ १६॥। व्या. शिष्यान्सम्बोधयति अङ्गेति द्वितीयके द्वितीयनिरूपण इत्यर्थः तद- धिष्ठानगतान् तेषामारोपितजगत्तद्विशेषाणामधिष्ठानभूतास्मत्पदार्थगतविशेषान् कर्तृत्वादिविपरीतधर्माध्यासनिवृत्यर्थे व्यवह्रियमाणान्त्ुवे प्रथमनिरूपण इति शेषः तानेव विशेषानदर्शयति य इत्यादिना। जगदधिष्ठानस्य स्वात्मनोऽसङ्गत्वे हेतु- माह अवस्थाभिरनष्टत्वादिति। जाप्रदाद्यवस्थाभि: सह तदवस्थाऽथ्यासवतोS- स्मत्पदार्थस्य प्रागस्वाप्सं स्वप्ने गजमहमद्राक्षमिति परामर्शेनावस्थात्रयविनाशेऽ- प्यनुवर्त्तमानत्वेनावगतस्यात्मनो विनाशाभावात्। परिच्छिन्नत्वभ्रमं व्यावर्त्तयति वि- भुरिति। तत्र हेतुमाह सर्वसाक्षित्वत इति। सर्वसाक्षित्वस्य च प्राग्वीरतदशा- 2

Page 27

१४ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

भिप्रायवद्भिः शिष्यैः सामान्यतोऽवगतत्वाद्धेतुसिद्धिः। नित्यत्वे हेतुमाह प्लये- 5ष्यवशेषणादिति। अस्य च 'आकाशवत्सर्वगतश्च नित्य'इति शास्त्रतः सिद्धिः। अद्रव्यत्वे हेतुमाह निर्गुणत्वेनेति। साक्षी चेता केवलो निगुणश्चेति श्रुतेः । एवं

त्र कल्पित इति॥१५ । अ. इदानीं (श्रु) गगने नालिमा सत्ये जगत्सत्यं भविष्यतीति श्रूयते अस्या अयमर्थः।यः गगने नीलिमा प्रतिभासते साक्षिणा वा परिदृश्यते तस्मिन्सत्ये सति जगदपि सत्य भविष्यतीति। अत्रोक्त्तदष्टान्तेन दार्ष्टान्तिके निरसनीयं चतुर्थनिरू- पणे वक्ष्यमाणप्रकारकं च जगति तत्कारणकर्मकृतपारमार्थिकत्वतात्विकत्वसत्य- त्वव्यावहारिकत्वसंज्ञ कमज्ञातसत्ताकत्वमपोह्य निरावृते गगने नैल्यभानानुवादेन स्वा- त्मजगतोरेकसत्ताकत्वस्यानया श्ृत्याभिप्रेतत्वेऽपि सोपानक्रमेण तत्र प्रातिभासिक- त्वस्वात्मसत्तामान्रकत्वयोः क्रमात् दर्शनीयत्वेन आदौ यत् प्रपञ्चस्य प्रातिभासि- कसत्ताकत्वेन स्वात्मन्यद्धयस्तत्वं प्रतिज्ञातं तस््य श्रौतत्वादिकं प्रदर्शयन् तत्प्रति- पक्षभूतानि मतानि निराकरोति सर्वमिति -- मू.। सर्वै खेडसितवन्मृषेति निगमात्खे भूगुणस्य भ्रमो नोर्द्धूव्योम्न्यसितेक्षितुर्भुवि दृशोऽपाताच्च बौद्धस्य च। नावाधादसतो दशाऽननुभवाद्दान्तस्थनैल्यस्य ना- लोकेनैव विनाशतश्र तमसश्श्रौतं प्रशस्तं ततः ॥ १६॥ व्या ।। प्रथमतः सिद्धान्तमाहसर्वे खSसितवन्मृषेति सर्वे जगन्मृषा स्वात्मन्यद्धयस्तं भदितुमर्हति स्वदृश्यत्वात् नभस्यसितगुणवदित्यनुमानोपमानोपे- तात् निगमात् 'गगने नीलिमा सत्ये जगत्सत्यं भविष्यति' यत्र त्वस्य सर्वषामात्मैवाभु- तत्केन कं पश्येत्॥ श्रो। एवं सर्वे सदा साक्षिस्वरूपे परमात्मनि। सर्वान्तरतमे प्रोता ओता अद्धयस्तरूपतः। सर्वोधिष्ठानभूतस्तु प्रत्यगात्मा स्वयप्रभः। इत्यादागमप्रमा- पात् बाधितत्वेन खसत्यस्य भूगुणस्य च वौद्धस्यासितगुणस्य च असतोऽसित- गुणस्य च द्वान्तस्थनैल्यगुणस्य च भ्रमो न भवतीत्युक्ता आदौ आकाशस्य भूगता- सितगुणस्य च विवेकग्रहणाभावात् खमसितमिति भ्रमो भवतीति वैशेषिकमतेऽनुप- पत्तिं दर्शयति ऊर्द्धव्योम्न्यसितेक्षितुभुवि हशोSपाताचचेति खमसितमिति

Page 28

प्रथमं स्वात्मनि जगद्द्धचांसनिरूपणम् १५

नक्षत्रमण्डलादप्यूद्ध देशगताकाशे नैल्यं पश्यतः तदानीमधोदेशगतभुवि दृष्टिसयोगा- भावात् नान्यथा ख्यातिवादसिद्धिरित्युक्ता बुद्धिगतासितगुणस्याकाशस्य च विवेकाग्रहणात् खमसितमिति भ्रमो भवतीति विज्ञानवादिमतेSप्यनुपप्ति दर्शयति अबाधादिति खमसितमिति प्रथमतः प्रती- यमाने पश्चात्र खमसितं किन्तु आन्तरमेव विज्ञानमसितमिति बाधज्ञानाभावात् ना- प्यात्मख्यातिवादसिद्धिरिति निराकृत्य अभुनाऽसद्रूपासितगुणस्य सद्रूपाकाशस्य च विवेकाभावात् खमसतमिति भ्रमोन भवतीति शून्यवादिमतेSप्यनुपपत्ति दर्शयति दृशाऽननुभवादिति निष्प- कारस्यासतः चक्षषाऽनुभवाभावात् नासत्ख्यातिवादसिद्धिः। ननु शून्यस्यापि ससाक्षित्वादिति सिद्धान्तोक्तरीत्या तन्मतेऽपि साक्षिभास्य- त्वमसतः किन्न स्यादिति चेत् तैद्वैतवाद्येकदेशिभि रात्मनिदर्शनादिक्रियाकर्तृत्वमात्रा- श्ीकारात् तन्मते न साक्षिणा तदनुभवः । अधुना तिमिरगुणस्यासितस्य आकाशस्य च विवेकग्रहणाभावात् खमसित- मिति भ्रमोभवेदिति यन्मीमांसकमतं तत् ॥ श्रो॥ अज्ञानवत्तमो वेद्ं छायाभिन्न- मनीलकम्। पक्षान्यकार्यभिन्नत्वे विषयावारकत्वत इत्यादिना तमःपदार्थस्य नीरूप- त्वाद्युपपादनेन निराकरिष्यन्निह तमसो रूपवत्वाङ्गीकारे तदा परोक्ष्यायाSSलोकव्याप्ते- रावश्यकत्वात् न तन्मतसिद्धिरिति तत्रानुपपत्ति दर्शयति आलोकेनैव विनाशत- श्र तमस इति नभसि नैल्य भ्रमात्पूर्वमेव चक्षुषो रूपग्रहणानुग्राहकेणालोकेन नक्षत्र- मण्डलादूर्द्धदेशगतस्य नीलद्रव्यस्य तमसो विनाशसंभवे नभसि नैल्यभ्रमासंभवात् नाख्यातिवादसिद्धिः अत्र तावात् वाचस्पत्योक्तप्रकारेण मीमांसकमतमुपन्यस्य अधुना प्रागुक्तसिद्धान्तमुपसंहरति श्रौतं प्रशस्तंतत इतिततः प्रागुक्तरीत्या पर- मतानामनुपपन्नत्वात् गगने नीलिमा सत्ये जगत्सत्यं भविष्यतीत्यादिश्रुत्युक्तं दृष्टा- न्तदार्ष्टान्तिकयोराद्यासिकत्वमेव प्रेक्षावदुपादेयमित्यर्थः। अत्र गगने नीलिमा सत्ये जगत्सत्यं भविष्यति मृत्योस्स मृत्युमाप्नोति य इह ना- नेव पश्यतीत्यादिश्रुत्या गगने यो नीलिमा दृश्यते इह स्वात्मनि पुरुषो नानेव पश्यतीति द्वतदर्शनानुवादेन नैल्यजगतो: स्वरूपाद्धयासानुभवो दर्शितः ॥ १६॥ अ. ॥ अधुना वाचस्पत्योक्तं मीमांसकमतमाह देहात्मनोरिति- मू·॥! देहात्मनोर्जपामण्योरनुभूत्यपृथग् ग्रहात्। क्रचिद्रजतशुक्त्याद्योस्स्ृतेरनुभवस्य च ॥ १७॥

Page 29

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अविवेकाङ्गमोSख्यातिरिति श्रीभामतीरिता। सापि नैवोपप्ना स्यादात्मैवेदमिति श्रुतेः ॥१८॥ पृथकू सत्ताविहीनत्वे भेदाभावादनात्मनः । व्या. ॥ अद्धयासकालेSधिष्ठानारोप्ययोरुभयोस्सन्निधाने तत्तद्विषयकज्ञान- योर्विवेकाभावात् अद्धयासो भवति यत्र त्वधिष्ठानमात्रस्य सन्निधिर्नारोप्यस्य तत्र तद्विषयकानुभवस्मरणयोर्विवेकाभावाद्विशिष्टभ्रमो भवतीति अख्यातिवादिमतं भा- मत्याख्यवाचस्पत्योक्तमित्यत्रानुपपत्तिमाह सापीत्यादिना॥ १८ ॥ अ.l। इदानीं यत् पूर्वमीमांसायां षषाद्धयाये तृतीयपादे 'यदि सोम न विन्दे त्पूतिकानभिषुणुयादि'ति श्रुतिमूलकेन 'वचनाच्च न्याय्यमभावे' इति सूत्रेण 'तदी- ययाऽनया कर्म चोदनया विहितद्रव्यालाभे यत्किञ्चिदूव्यप्राप्ती युक्त्तयन्तरेण सदृशस वचनेन च पूतीकस्य नियम'इति भादृदीपिकया च 'सोमेन यजेते'ति शास्त्रेण विहि तस्य सोमद्रव्यस्य कतिपयावयवैर्बहुभिः पूतीकावयवैश्च सोमसदृशपूतीक्द्रव्यस्या- रब्वत्वमङ्गीकृत्य प्रतिनिधिनियमविधिरिति यथा प्रदर्शित तथैव रजतावयवैरेवापण- स्थरजतमारब्धं यत्किञ्चिद्रजतावयवैश्व बहुभिश्शुक्तयवयवैश्च शुक्तिरारब्घेति मी- मांसकमत तदिदानीं निराकरोति शुक्तेरिति- मू.॥ शुक्तेस्तद्गतरौप्यस्याविवेकान्न भ्रमो भवेत् ॥ १९ ॥ शुक्तौ रजतसत्यत्वे न बाद्धयेतेति वाक्यतः । रामानन्ददूितत्वान्मतस्याख्यातिवादिनाम् ॥२०॥ व्या. ॥ मीमांसकमते शुक्तौ रजतसत्यत्वानुवादेन वाचस्पत्योक्ताद्वैलक्ष- ए्यं रामानन्दैर्दर्शितमित्यास्थेयम् ॥ २०॥ अ०. ॥ सदृशयोः समानावयवारब्धत्वे दोषमाह बिम्बेनेति -- मू. ॥ बिम्बेन चाद्यचन्द्रेण सादृश्यस्यावलोकनात्। प्रतिबिम्बे च नेत्रस्थदोषात्खे दृश्यचन्द्रके ।। २१।। बिम्बस्य चाद्यचन्द्रस्यावयवारब्घतास्ति चेत् । बिम्वस्यापगमे नेत्रदोषाधेन्द्दोर्निवर्त्तने ॥ २२॥

Page 30

प्रथमं स्वात्मनि जगदद्धचासनिरूपणम् १७

प्रतिबिम्बो द्वितीयेन्दुरपि जीवेच्च पूर्ववत् । सोमवल्याश्च रौप्यस्य नाशे पूतीकश्ुक्तिवत् ॥२३॥ न्योम्ना च पद्मपत्रेण समत्वाङ्गह्मणः किल। विभुत्वादिष्वन्यजन्यं परं ब्रह्म भवेत्किमु ॥२४ ॥ न्या.॥ बिम्बेनेत्यादिना पूर्वपक्षमनूद बिम्बस्येत्यादिना प्रदूष्य च् तत्र द- धन्तमाह सोमवल्याश्चति स्वावयवैरेवारब्धस्य सोमद्रव्यस्य रजतस्य च नाशे सति सोमावयवसजातीयैः स्वावयवैश्चारब्ध: पूतीक इव रजतावयवसजातीयैः स्वा- वयवैश्वारब्धा शुक्तिरिव च प्रतिबिम्वादिकमपि जनवेत् विभुत्वादिष्विति विभुत्वा- दिधर्मविषयेष्विति यावत्। शेष: सुगमः ॥२४ ॥ अ० ॥ प्रतिनिधिद्रव्यस्य विहितद्रव्यसादृश्यप्रयुक्ततदवयवसमानजा- तायारब्घत्वाङ्गीकारे बाधमाह हरीति- मू॥। हर्यक्ष्यादेश्र पद्मादिवर्णाकारादिसाम्यतः। पद्मप्रतिनिधित्वेन पूजायां नयनार्पणात्। पद्मावयवजन्यत्वे हरेभौतिकता पतेत् ॥२५॥॥ न्या. ॥ हर्यक्ष्यादेरिति आदिपदेन मुखपाण्याद्यवयवो गृह्यते द्वितीयेनादि- पदेन गात्रोष्ठरदनाद्यवयवसदृदशवस्तूनि गृह्यन्ते तृतीयेनोदिपदेन सादृश्यप्रयोजक- धर्मान्तराणि गृह्यन्ते हरिनेत्रस्य पद्मप्रतिनिधित्वविधायकवाक्याभावेSपि सर्वविधि- श्रुतिकारणभूतेन श्रीहरिणैव शिवपूजायां पद्मप्रतिनिधित्वेनादानात् पद्मावयवज- न्यस्वस्य परैरभ्युपगन्तव्यत्वेन भौतिकत्वं बलादापतेत्। तथा चोकतं शिवपुराणा- दिषु भगवता व्यासादिना ।। श्रो॥ नेत्राम्भोजसमर्चनेन हरये तुष्टो रथाङ्ग ददा- वार्तत्राणपरायणस्स भगवान् गङ्गाधरो मे गतिरिति ।२५॥।॥ अ०॥। ननु 'यदि सोमं न विन्देत्पूतीकानभिषुणुया दिति श्रुतेः का गति- रित्याशङ्य यथा 'ब्रीहीन वहन्तीति विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां त्रीहीणां तण्डुलनिष्पत्याक्षेपादेवावहन ननखविदळनाशमकुट्टनानां मध्येऽन्यतमप्राप्तौ कदा- चिदव हननक्रियायाः साधनत्वेनागृहीतांशसंभवे सति तदंशपरिपूरणफलको निय- मविधिरिति स्वीक्रियते तथात्रापि स्यादित्याह वैतुष्येति-

Page 31

१८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

वैतुष्यापेक्षितस्याश्मकुद्टनादेर्निवृत्तये ।। २६।। यथावघाते नियम: पूतीकेऽपि तथा भवेत्। तदन्यापोहनार्थ वा पूर्ताकैर्यागपूर्तये ॥२७॥ व्या.। तदन्यापोहनार्थमित्यन्तेनैकं पक्षमुक्त्वा पक्षान्तरमाह वा पूतीकै- रिति एतदवतरणोक्तप्रकारेण अवहननत्येव 'यदि सोमं न विन्देत् पूतीकानभिषु- णुयादि'ति विध्यभावेऽपि यत्किश्चिद्स्तुन इव च पूतीकद्रव्यस्यापि पक्षप्राप्ती कदा- चित्तदप्राप्तांशपरिपूरणफलक इति च नियमविध्यङ्गीकारे सोमसददशपूतीकस्य सोमसादृश्य प्रयुक्ततदवयचस जातीयारब्धत्वाभावेनेव रजतादिसदृशस्य शुक्त्ादे रपि रजताद्यवयवसजातीयारब्धत्वाभावेन भ्रान्तिकाले शुक्त्यादौ प्रतीयमानस्य

द्वारारब्धत्ववादस्य उभयथाधिकरणे दूषितत्वाच्च वचनाच्चेति सूत्रगतचकार स्याचार- परत्वसंभवाच्च प्रागुदाहृतानां गगने नीलिमा सत्ये जगत्सत्यं भविष्यतत्यादिश्रुती- नामविरोधेन प्रदर्शित यदि सोमं न विन्देत पूतीकानभिषुणुयादिति श्रुत्यर्थवर्णन- मेव प्रशस्तमिति भावः ॥ २७ ॥ अ० ॥ परमतनिराकरणफलमाह अत इति- अतस्स्वरूपतोऽध्यासः प्रतिबिम्बोपचन्द्रयोः । एष्टव्यो भवता यद्वत्खनैल्यजगतोस्त्वयि ॥ २८॥ व्य. । अतः प्रतिबिम्बादीनां बिम्बादिसादृश्यप्रयुक्त्ततदवयवसजातीयार- ब्धत्वाङ्गीकारे ॥ श्रो. ॥ बिम्बस्यापगमे नेत्रदोषाद्येन्द्वोर्निवर्तने। प्रतिबिम्बो द्विती- येन्दुरपि जीवेच्च पूर्ववदिति द्वाविंशक्रोकोक्तदोषसंभवात् (प्रतिबिम्बोपचन्द्रयोः) प्रतिबिम्बश्च नयनदोषादाकाशे चन्द्रसमीपे परिदृश्यमान उपचन्द्रश्च प्रतिबिम्बोप- चन्द्रौ तयोरिव गगने नीलिमा सत्ये जगत्सत्यं भविष्यति य इह नानेव पश्यती- त्यादिश्रुत्या गगने यो नीलिमा दृश्यते इह स्वात्मनि नानेव पश्यतीति च नैल्य- जगतो: स्वरूपाध्यासः सिद्धः ॥२८॥

यति नन्वित्यादिना- अ० ॥ इदानीं मीमांसकानां चोद्यमवतार्य तदुक्तं तमःपदार्थ परिशोध-

ननु च्छायाभिधं चक्षुर्मात्रग्राह्यं तमो यतः। नाख्यातिवादी युष्माभिर्जितस्त्यादिति चेद्रद ॥ २९॥

Page 32

प्रथमं स्वात्मनि जगदद्धयासनिरूपणम् १९

दीपे स्थितेऽपवरके कुड्योपान्ताद्वहिः प्रभा! निबिडा या ततः कुड्योपान्ते यद्दृश्यते चलम् ॥ ३० ॥ स किं प्रभाया विरळावयवः किं तमो भवेत् । व्या.।। छायाभिधं तमः यस्मादालोकरहितेन चक्षुषा ग्रह्यं भवति अतो नाख्यातिवादी युष्माभिर्जितः । 'सर्वे खेऽसितवन्मृषेति' श्रोकोक्तप्रकारेणेति शेषः ननु तमसश्छायाभिधत्वं कथमिति चेत् तमोग्रहस्य राहोश्छायाग्रहशब्दवाच्यत्वद- शनादुपपन्नमेवेत्येवं प्राप्ते। सिद्धान्ती तदुक्तं तमो विकल्पयति (वदेत्यादिना) कुड्ये विनिर्मितापवरकनामकस्थलविशेषे दीपे सति कुड्यसमीपदेशादव्यवहितदे- शे या निबिडा प्रभास्ति ततोऽन्यत् यत् कु्यसमीपदेशे चश्चलं दृश्यते स किं प्रभा- विशेष उत तदतिरिक्तं तम इति प्रश्नार्थः ॥३०॥॥ अ०॥ प्रत्युत्तरमनूद्य निराकरोति तम इति- तम एवेति चन्मैवं विषयाणामनावृतेः ॥३१॥ व्या. ॥ तत्रत्यविषयाणां तदानीमेवानुभूयमानत्वेनावरणाभावान्न तत्तम इत्यर्थः ॥ ३१॥ अ०. ॥ त्हि किं तदित्यत आह सिद्धांती तत्त्विति- तत्तु प्रभाविशेषस्स्यादन्यद्रन्यैस्सह प्रभाम्। विना दृशोपलभ्यत्वान्महाकान्तिर्यथा तथा ॥३२॥ व्या.।। यत् दीपधारिण: कु्यस समीपे च्चलं दृश्यते तस् प्रभाविशे- धत्वं प्रतिज्ञाय तत्र हेतुमाह। अन्यद्रव्यैरित्यादिना ॥ विमतस्य तन्रस्थैस्स्वा- तिरिक्तरूपिद्रव्यैस्सह स्वातिरिक्तप्रभां विनैव दृशोपलभ्यत्वादिति हेतुमुक्ता दृष्टा- न्तमाह महाकान्तिर्यथा तथति यथा महाप्रकाशः स्वेतररूपिद्रव्यैस्सह स्वेतर- प्रकाश विना चक्षुर्मात्ेण गरह्यमाणत्वात् प्रभाविशेषो भवति एवं छायाभिधमिदं प्रभाविशेषो भवेत्। अन्यथा तेनावृतस्व रूपिद्रव्यस्य तदानीमिंद रक्तमिदं पीत- मित्यापरोक्ष्यं नोपपद्येतेव्यर्थः ॥ ३२॥ अ० ॥ इदानी सिद्धान्ती परदष्या विषयजातस्याज्ञातसत्ताकत्वम ङ्रीकृ-

रासाय केवलसाक्षिवेद्यत्वादिकं सावयति अज्ञानवदिति-

Page 33

अद्वैतसिद्धान्तगुरुचन्द्रिकायां अज्ञानवत्तमो वेद्यं छायाभिन्नमनीलकम्। पक्षान्यकार्यभिन्नत्वे सति चावारकत्वतः ॥३३॥ व्या.॥ तमः केवलसाक्षिवेद्यं भवितुमरहृति पक्षान्यकार्यभिन्नत्वे सति विषयावारकत्वादिति हेतुरुक्त: तत्र पक्षान्येति पदं पक्षे हेत्वसिद्धिवारणार्थम् का- ्येपदं दृष्टान्ते हेत्वसिद्धिवारणार्थम्। विषयावारकत्वमात्रोक्तौ कुड्यादौ व्यभिचार: तस्य चक्षुर्वेद्यत्वेन केवलसाक्षिवेद्यत्वाभावात् अतः पक्षान्यकार्यभिन्नत्वमुक्तम् ताव- न्मात्रोक्तावात्मानात्मनोर्भिन्नसत्ताकत्वपक्षे साक्षिणि व्यभिचारः तस्य स्वेन परेण वा साक्षिणा वेद्यत्वाभावात् अतः सावूक्त्तम् पक्षान्यकार्यभिन्नत्वे विषयावारकत्वत इति। तंत्र दृष्टान्तमाह (अज्ञानवदिति) ननु मुदीव दृष्टान्तीकृतपरिणाम्यज्ञाने स्व- कार्यकुड्यादेरभिन्नत्वे सिद्ध कथं पक्षान्यकार्यभिन्नत्वघटितहेतुसङ्गतिरिति चेन्न विक्षेपां शाज्ञानस्य स्वविकारकुड्याद्यमिन्नत्वेऽप्यावरणांशाज्ञानस्य कुड्यादि विभिन्नत्वेन विषयावारकत्वात्। तथा केवलसाक्षिभास्त्वाच्च हेतुसाध्ययोस्संगतिः । पूर्व पूर्व- पक्षिणा तमस्त्वेन निर्दिष्टायाश्छायायाः प्रभाविशेषत्वं साधितम्। अधुना तमस- स्तद्भिन्नत्वं साधयति (तमश्छायाभिन्नमिति) तिमिर तावच्छायाशब्दितप्रभाविशेषा- दन्यद्भवितुमर्हति तत्र हेतुद्ृष्टान्तौ पूर्वोक्तावेव साध्यान्तरमाह (अनीलकमिति) तमो नीलगुणरहितं च भवितुमर्हति पूर्वोक्तावेव हेतुद्ृष्टान्तौ ॥ ३३ ॥ अ०. यत्तावदन्धकारे नीलगुणराहित्यं साधितं ततानुभवञ्च प्रमाणयति निमालनादेरिति- निमालनादेर्वेश्मस्थे ध्वान्ते तज्ज्ञानसाम्यतः । न नैल्यं किं तु तमसा कृतमावरणं हि यत् ॥ ३४ ॥ नयनागोचरो वेद्यं भ्रमान्नैल्यं जगुः परे। व्या ॥ आदिपदेन उन्मीलनं गरृह्यते। तथा च ध्वान्ते वेश्मस्थे सति नैमीलनकालिकेन ध्वान्तविज्ञानेन सहोन्मीलनकालिकस ध्वान्तविज्ञानस्य समत्वात् चक्षुषस्तत्र करणत्वाभावेन न तद्राह्यं नैल्यमस्ति। तथा चोकं वृद्वैः ॥श्रो ॥ग- ढान्धकारकबळीकृतलोचनानामुन्मीलनेन किमुतापि निमीलनेनेति। एवं प्रमाण- भावेन तिमिरे नैल्यं निराकृत्य तत्र नैल्यव्यवहारस्योपपत्तिमाह किन्त्वित्यादिना नयनागोचर: अतएव केवलसाक्षिभास्यं तिमिरकृतं यत् विषयावरणं तदेव भ्रमा- न्नैल्यमिति मीमांसका जगुरित्यर्थः ॥ ३४॥॥

Page 34

प्रथमं स्वात्मनि जगदुद्धचासनिरूपणम् २१.

अ० ॥ इदानीं विषयावरणतद्वेदनसाधनविचारेण प्रागुक्त्तमेव तिमिरस्य केवलसाक्षिभासत्वं द्रढयंति अन्धकारेति- अन्धकारगृहस्थस्य घटस्यावरणं हि यत् ॥ ३५ ॥ तामसं वाSडविद्यकं तज्ज्ञायते चक्षुषाऽथवा। साक्षिणा वा तामसत्वाच्चक्षुषा ज्ञायते यदि ॥ ३६ ॥ नेतने निमीलिते तत यद्धटावरणं तु तत्। चक्षुषा वा साक्षिणा किं ज्ञायते साक्षिणव चेत् ।। ३७ ।। तद्वेद्यं किं तामसं वाऽडविद्यकं मायकं यदि। तामसं तु गतं कुत ततैवास्तीति चेद्वद ।। ३८।। तदा तज्ज्ञायते नो वा ज्ञायते साक्षिणैव चेत्। साक्षिमात्रेण वेद्यत्वाच्चाक्षुषत्वं पलायितम् ॥ ३९ ॥ तर्हि तैमिरिकं तत्स्यादज्ञानेनावृतं यदि। ध्वान्तावृत्योरावृतिस्सा केन वा ज्ञायते सुधीः ॥४० ॥ साक्षिणैवेति चेद्वाढं तिमिरावरणे तथा। साक्षिमात्रेण संभास्ये यथाऽविद्या तदावृती ।। ४१ ।। पक्षान्यकार्यभिन्नत्वे सति चावारकत्वतः। नो चेदावृत्त्यावृतौ स्यादनवस्था दुरत्यया ।। ४२॥ इत्यावरणकृत्त्तु ध्वान्तं वेद्यं न चाक्षुषम् ।।४२।।।। व्या। इदानीमुदाहृतश्लाकगतीन तामसमिति पदानि तैमिरिकपराणि। तहींत्यादिना पूर्वपक्षमनूद्य विषयावारकत्वन विज्ञाते तिमिरे तत्कार्यभूतस्यावरणस्था- ज्ञातत्वाभावेऽपि तदुभयावरणवादिनं पृच्छति ध्वान्तावृत्योरावृतिरिति प्रत्यु- तरमङ्गीकृत्य तिमिरावरणयोः केवलसाक्षिभास्यत्वं साधयति तिमिरावरणे इति साध्यं दर्शयति साक्षिमात्रेण संभास्ये इति अविद्यावरणे दृष्टान्तयति यथेति तत्र ह्ेतुमाह पक्षान्येत्यादिना अस्य हेतोः पदप्रयोजन प्रागेव दर्शितम्। उक्त-

Page 35

1 ..:

२२

प्रकारेण तिमिरस्य केवलसाक्षिमास्यत्वे निरावृतत्वमन्तराSSवरणाङ्गीकारे बाध- माह नो चेदिति। इदानीं तिमिरख केवलसाक्षिभास्यत्वमुपसंहरति इत्यावर- णेति। अ०'ा इदानीं तत्तु प्रभाविशेषस्स्यादिति प्रागुक्त श्लोकोपजीवितामाशङ्गाम- नूद समाधत्ते छायेति -- मू ·।। छायामन्दप्रकाशश्चेत्काष्ण्ये तत्र कथं यदि ॥ ४३ ।।

तदन्नस्वेति विस्पष्टश्रुतेरनुभवादपि ।। ४४ ।। व्या।। मन्दप्रकाशस्तावत्कृष्णगुणक इति प्रतिज्ञाय तत्र 'यदमे रोहित रूप तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्ण तदन्नम्ये' ति श्रुति मन्दप्रकाशोऽयं कृष्णरूप इति लोकानुभव च प्रमाणयति अन्नेरिति॥४४॥ अ॥ मन्दप्रकाशस्य कार्ष्ण्यमङ्गीकृत्य पुनर्महाप्रकाशे तदप्रतीतौ कारणं पृच्छति बाढमिति- मू·। बाढं प्रौढप्रकाशेSस्मिन्कस्मात्कार्ष्ण्य न दृश्यते ॥ ४४॥॥ स्पष्टोऽर्थः ॥४४॥॥ अ० ॥ दृष्टान्तपूर्वकं समाधत्ते पञ्चीकृतेति। मू।। पश्चीकृतवियद्वाय्वोस्स्वांशाधिक्यान्न गृह्यते। यथा रूपरसाद्यंशस्तथा श्रौढप्रकाशके ॥। ४५॥॥ व्या।। श्रो ॥ पृथिव्यादीनि भूतानि प्रत्येकं विभजीद्टिधा। एकैकं भाग- मादाय चतुर्धा विभजत्पुनः ॥ एकैकं भागमेकस्मिन्भूते संवेशयेत क्रमात्। तत- श्ाकाशाभूतस्य भागा: पश्च भवन्ति हि॥ वाग्वादिभागाश्वत्वारो वाय्वादिष्वेव- माविशेत् । पञ्चीकरणमेतत्स्यादित्याहुस्तत्ववेदिनः ॥ इति वार्तिकोक्तप्रकारण पञ्ची- कृतयोराकाशवाय्वोरमेध्ये क्रमात् स्वकीयस्य सूक्ष्माकाशांशस् सूक्ष्मवायंशस्य चाधि- क्यादथा तत्रस्थतरभूतांशीयरूपरसादिरन गृह्यते। तथा पश्चीकृतप्रौढप्रकाशेऽपि स्वांशाधिक्यान्न गरृह्यते पार्थिवः कृष्णांश इति शेषः ।४५॥॥ अ०। दृष्टान्तान्तरेण प्रकाशे कार्ष्व्यस ग्रहणाग्रहणे दर्शयति यथति- मू॥यथा क्षीररसो भाति मिते त्वौष्ण्ये न चामिते।। प्रकाशमान्द्यामान्द्याभ्यां तत्र कार्ष्ण्येग्रहाग्रहौ॥ ४६॥ ॥

Page 36

प्रथमं स्वैत्मनि जगदद्धयासानरूपणम् २३

व्या॥। भवत इति शेष:॥४६।।॥ अ०. ननु वैशेषिकैरिदं रजतमिति भ्रमस्य आपणस्थमेव रजतं विषयो. न तदतिरिक्तमित्यङ्गीकृतत्वात्तदभिमतदृष्टान्ताभावे कथं जगतस्स्वाविद्यकत्वं सिध्य- तीति प्राप्ते 'तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति। केचित्तु यत्र यदध्यास- स्तद्विवेकाग्रहनिबन्धनो भ्रम'इति अध्यासभाष्ये प्रदर्शितस पराभिमतस्याध्यास श- वदशव्दितस्यात्मस्थस्यैव भ्रमख ग्राहकेणेदं रजतमिति ज्ञानवानहमित्यनुव्यवसाय- संज्ञकेनान्यथाग्रहणेन गृहीतत्वात् इदं मदीयं भ्रमो भवितुमर्हति निष्फलप्रवृत्ति- जनकत्वादित्यनुमानादिदं रजतमिति भ्रमज्ञानवानहमिति प्रमाभूतेनानुव्यवसायान्त- रेण बाधितत्वाच्चाध्यस्तत्वं मिथ्यात्वं च परमतेऽपि सिध्यतीति तन्निदर्शनेनापि जगतोऽध्यस्तत्वं साधयति। यच्छुक्ताविति -- म॥ यच्छुक्तौ रौप्यविज्ञानं तत्प्रमात्वावगाहिनः ॥ ४७॥ भ्रमानुव्यवसायस्य गोचरत्वाद्थास्य च। प्रमानुव्यवसायेन बाधितत्वाद्यथा मृषा ॥ ४८॥ आत्मन्योतं जगत्सर्वे मिथ्याभूतं तथा भवेत्। यत्र हि द्वैतवद्भाति तदाऽज्ञः पश्यतीतरत् ॥ ४९॥ यत्र सर्वमभूत्स्वात्मा कं पश्येदिति च श्रतेः । सति भ्रान्तेर्गोचरत्वे स्वाधारज्ञानबाधनात् ॥५०॥ व्या। इद रजतमिति भ्रमस्थले यत् शुक्तौ रौप्यविज्ञानं तदध्यस्तं भवि- तृमहति तत्र प्रभात्वावगाहिनः अत एवं भ्रमरूपस्यानुव्यवसायसंज्ञकस्याध्यासस्य गोचरत्वादिति हेतुमुक्ता हेत्वन्तरमाह प्रमानुव्यवसायेन वाधितत्वादिति एवं दृष्टान्तीकृतस्य व्यवसायज्ञानस्याध्यस्तत्त्वं दशयित्वा तज्जगत्यतिदिशति आत्मनीत्यादिना अत्रापि हेतुद्वयप्रसिद्धिं श्रत्यावगमयति यत्र हीत्यादिना 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति। यत्र त्वस्य सर्चमात्मैवाभूत्तत् केन कं पश्ये' दिति श्रुतेः ॥ ५० ॥ अ०॥ इदानीं सर्ववादिसम्मतमध्यासलक्षणमाह अध्यासेति -- मू ।। अध्यासलक्षणं किं च दुन्यत्रान्यावभासता ।। १०।।।

Page 37

२४ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

व्या। एवमेव 'सर्वथापि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरती'ति भाध्येण अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः 'परत्र परावभासत्वलक्षण न जहाती'ति रामानन्दीयेन चोक्तम् ॥ ५०॥॥ अ०। एतावता ग्रन्थसन्दर्भेण गगने नीलमा सत्ये जगत्सत्यं भविष्यतीति श्रुत्युक्तप्रकारेण दृष्टान्तदार्ष्टान्तिकयोस्स्वरूपाध्यासं च तस्य श्रीमद्भाष्यकारोक्तं सर्व- वाद्यभिमत लक्षणं च निरूप्याधुना 'अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मो- श्राध्यस्ये'ति भाष्योक्तानध्यासवि शेषान् प्रश्नपूर्वकं दर्शयति स्वस्मादिति- मू ॥ स्वस्मात्तद्विकृतौ पृथग्यदि भवेत्सत्ता तदा सज्जग- द्वातीत्येव विजानतोऽिकरणाभेदे जगत्यां परे। सत्तामे न कुतः प्रियं च सदिदं भातीति वाक्यं चित- स्सत्तामाद्यपदाद्वदेच्च चरमाद्ानं स्वतो नास्य तत् ।५१।।।। व्या। स्वस्मात्सद्रूपात्तद्विकृतौ शुक्तिद्रव्यादिव रजते यद्न्यसत्तो भवेदारोपि तस्याधिष्ठानसत्तया सह तादात्म्यात्पूर्वमेव सज्जगद्भातीतिसत्ताभाने स्वरूपतोऽध्य- स्तस्य जगत एव धर्मो नान्यदीयाविति विजानतः पश्चाच्छुक्तया सह रजतस्यव कारणसत्तया सह तादात्म्ये सति कार्यसत्ताभानाभ्यां सहकारणसत्ताभाने सत्स- ज्जगद्भाति भातीति कुतो न भासेते इति प्राप्ते 'सदेव सोम्येदमग्र आसी'दित्युपक्र- म्य 'तदैक्षत बहु स्यां प्रजायेये'ति छान्दोग्येन तथा 'आनन्दाद्वयेव खल्विमानि भूतानि जायन्ते।आनन्देन जातानि जीवन्ति।आनन्दं प्रयन्त्यभिसंविशन्ती'ति तैत्ति-

नाम चेत्यंशपञ्चकं। आद्यलयं ब्रह्मरूपं जगद्रूप ततो दवय मिति श्रृत्या तदन्वर्गतेना- द्येन पदत्रयेण चतुर्थपदनिर्दिष्टे प्रातिभासिकसत्तास्वरूपे जगति प्रदर्शितत्वाजगद- िष्ठानभूतस्वात्मसत्तातद्भाने स्वात्मनि तादात्म्यतद्र्मसंसर्गाद्यासानन्तरमेव हि जगति प्रतीयेतेऽतः ॥ श्रो ॥ आदित्यचन्द्रानलतारकाद्या न भान्ति यस्मिन्ननिशं महान्तं। प्रकाशमानं तमनु प्रभान्ति प्रकाशमस्यैव हि नेतरेषामिति ब्रह्मगतया तथैव श्लो ॥ नानाछिद्रघटोदरस्थितमहादपिप्रभाभास्वरं ज्ञानं यस्य तु चक्षरादिकरण- द्वारा बहिस्स्पन्दते।जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगदिति भगवत्पा- दीय वचनेन च स्वस्मिन्रारोपितानां स्वतो भानप्रतिषेधान्न जगति भानद्वयविषयक- प्रश्नावकाश इत्याह प्रियश्च स दिदं भाती्यादिना॥ ५१६॥

Page 38

प्रथमं स्वात्मनि जगदुद्धयासनिरूपणम् २१

अ०॥ इदानीं स्वात्मनोऽनात्मद्रव्य तद्ध्मैस्तादात्म्यसंसर्गाध्यासौ दर्शयति अज्ञानादीति --

मू। अज्ञानादिजडैश्र तद्गतगुणस्तादात्म्यसंसर्गिते प्राज्ञादेर्मम भो वदेर्हि कृपया तत्त्यागकृत्यै गुरो। विप्रोऽहं परलोकभागिति जडस्मुप्तोऽस्मि चान्यात्मता ब्राह्मण्यान्ध्यजडत्वसर्वभवनैस्संसर्गिता ज्ञायते ॥ १२॥॥ क्या॥ पूर्व्धमीतरोहितार्थम् । स्थूलसूक्ष्मकारण शरीरेषु आत्मनस्तादात्म्यं दर्शयति। विप्रोSहमित्यादिना। विप्रोऽहमिति स्थूलशरीरेण च परिपूर्णस्य स्वात्मन उपाधिभूते परिच्छित्ने लिङ्गशरीरे परलोकगामिनि सति परलोकभागस्मी ति सूक्ष्मशरीरेण च स्वयंप्रकाशमानोSपि जडस्सन् सुप्तोऽस्मीति कारणशरीरेण च तादात्म्य ज्ञायत इत्युत्तरेण संबन्धः । स्थूलादिशरीरधमैस्संसगीध्यासं दर्शय- ति ब्राह्मण्येत्यादिना। सर्वभवनमिति अज्ञानस्य पारिणामिकं बहुभवनमु- कम्। तथा च ब्राह्मण्यं चान्ध्यं च जडत्वं च सर्वभवनं च ब्राह्मण्यान्ध्यजडत्वसर्व- भवनानि तैः संसर्गाध्यासो ज्ञायत इत्यर्थः । तथा चोक्तं कृत्स्नप्रसक्त्यधिकरणे॥ श्रो ॥'न युक्त्तो युज्यते वास्य परिणामो न युज्यते। कार्त्स््याद्रह्मानित्यताप्तेरंशात् सावयव भवेत् । मायाभिर्ब हुरूपत्वं न कात्स्न्यीन्नापि भागतः । युक्कोऽनवयव- स्यापि परिणामोSत्र मायिकः ॥ इति। अनेनाधिकरणेन 'तदैक्षत बहुस्यां प्र- जायेये' त्यादिश्रुत्या सद्रूपानन्दस्य विवर्तोपादानत्वं च मायायां तादात्म्याध्यासपूर्व- कतद्वर्मसंसर्गा ध्यासवशात् बहुभवनं चाभिप्रेतमित्यात्मानात्मनोर्विषमसत्ताकत्वं द- र्शितमित्यवगन्तव्यम् ।। एवं च पञ्चाध्यासो भवेत् ॥ तथाचोक्तं ब्रह्मनन्दीये प्रथम- परिच्छेदे सत्तादात्म्यविचार प्रस्तावे। 'इदमाद्यवच्छेदेन रजतादिकं' तत्तादात्म्यं रजतत्वादेः संसर्ग: रजताद्यवच्छेदेन इक्षमादेस्तादात्म्यं इदन्त्वादे: संसर्गश्र जायते भ्रमस्थले भ्रान्तिकाले बाध्यस्योत्पत्तिस्वािारात् । तदुक्त भाष्ये 'अन्योन्यस्मिन्न- न्योन्यात्मकतामन्योन्यधर्माश्चाध्यस्ये' ति। तथैव संक्षेपशारीरकेऽपि॥ श्रो.॥ इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवास्त्विदमि। रजतभ्रमेऽस्य च परि- स्फुरणान्न यदि म्फुरेन्न हि तु शुक्तिरिवेति ॥।५२॥ अ०.।। इदानीं प्रश्नपूर्वकं जगत्यहमित्यध्यासं दर्शयति म्त्योSस्मीति- 3

Page 39

मू॥ मर्त्योडस्मीति यथा तथैव सकलश्रास्मीति धीरस्तु चे- त्कुंभस्सन्निखिलश्र सन्निति हि सा सच्छब्दतो जायते। सत्वाच्चेति च सूत्रतशक्रुतिबलात्सत्तक्यवादे रता ये तेषां निखिलेष्वहं मतिरियं चाचार्यशिक्षाबलात्।५३॥। व्या। यथा 'सन् घटस्सन् पट' इति घटपटादिशब्दात्पूर्व प्रयुज्यमा- नेन सच्छब्देन घटादेस्सर्वोपादानभूतेन सदात्मना साकं तादात्म्याध्यासावगति- जायते तथा कुंभस्सन्निखिल: सन्निति च कुंभादिशन्दोत्तरं प्रयुज्यमानेन सच्छ- व्देन कुंभादिना साकं सद्रूपस्य प्रत्यगात्मनोऽहमिति तादात्म्याध्यासावगतिश्च जायते। प्रसिद्ध ह्येतत्। ब्रह्मैवेद सर्वम।' 'आत्मैवेदं सर्वम् 'अहमेवेदं सर्वम्' 'स आत्मा''तत्त्वमसी' त्यादि श्रुतिभिर्व्रह्मात्मा Sहंसच्छब्दानां पर्यायत्वम्। एवमविवे- किनां तद्टष्ट्या प्रातिभासिकसत्ताके घटादावहमित्यध्यासं दर्शयित्वा इदानीं विदु- षस्तद्ृष्ट्या स्वात्ममात्रसत्ताके जगत्यहमित्यध्यासं दर्शयति सत्वाच्चेत्यादिना 'सत्वाच्चापरस्ये' ति सूत्रात् 'तदैक्षत बहु स्यां प्रजायेये' ति। 'तदात्मानं स्वयमकुरुत।' 'स य एवं विद्वानेते आत्मानं स्पृणुत' इत्यादि श्रतिप्रामाण्याच्च गुरूपदेशप्रक्रियाबलाच्च ये खात्मजगतोरेकसत्ताकत्ववादपरिशीलिनस्तेषां सर्वत्रा- हम्मतिः प्रमात्मिका भवतीति भावः । एवमेवैतच्छ्त्यर्थः । श्रीव्रह्मणापि स्वगीता- यामुच्यते॥ श्रो० ॥ तप्यतापकरूपेण विभातमखिलं जगत्। प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात। कर्ता कारयिता कर्म करणं कार्यमास्तिकाः ।सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्। प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथा। सर्वमात्म- तया भाति प्रसादात्पारमेश्वरात्। नियोज्यश्च नियोगश्च साधनानि नियोजकः । सर्वे ... पारमेश्वरात । ग्राहकं च तथा ग्राह्यं ग्रहणं सर्वतोमुखम्। सर्वे ... ।। भोक्ता भोजयता भोगो भोगोपकरणानि च । सर्वे ... ।। अयथाज्ञानमज्ञानं संशयज्ञानमेव च । सर्वे ... । घटः कुञ्यं कुसूलञ्च पटः पात्रं चसर्वशः । सर्वे ... ।। पाताळा- दाश्च ये लोकास्सत्यलोका दयोS पि च । सवे ... ।। ब्रह्माण्डं तत्र कुप्तानामण्डानां शतकोटयः । सर्वे ... । समुद्राश्च तटाकाश्च नंदस्सर्वनदा अपिसर्वे ... ।मेरुमन्द- रपूर्वाश्च पर्वताश्ष महत्तराः। सर्वे ... ।। वनानि वनदेवाश्च वन्यानि विविधानि च। सर्वे ... ।। वृक्षाश्च विविधाः क्षुद्रास्तृणगुल्मादयोऽपि च । सर्वे ... ।। आकाशादीनि भृतानि भौतिकान्यखिलानि च। सर्वे ... । शब्दस्पशादितन्मात्नरूपाणि विविधा-

Page 40

प्रथमं स्वात्मनि जगदद्धचासनिरूपणम् १७

निच । सर्वे ... ।। कृमिकीटपतद्गाश्च क्षद्रा अपि च जन्तवः । सर्वे ... ।। पशवश्र मृगाश्चैव पन्नगाः पापयोनयः । सर्वे ... । मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि। सर्वे ... ।। यक्षराक्ष सगन्धर्वप्रमुखास्सिद्धकिन्नराः । सर्वे ... ।। कर्मदेवाश्च देवाश्च देवराजो विराट् खराट्। सर्वे ... । अहं च मद्विभूतिश्व मम भक्काश्च दे- हिन: । सर्वे ... ।। विष्णुर्विष्णुविभूतिश्व विष्णुभक्ता् देहिनः । सर्वे ... ।। रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश् देहिनः । सर्वे ... ।। ईश्वरस्तद्विभूतिश्च तदीयास्सर्वदेहिनः । सर्वे ... ।! सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः । सर्वे ... । दिशश्च विदि- शश्चैव साभ्रनक्षत्रमण्डलम्। सर्वे ... ।। आश्रमाश्च तथा वर्णास्सक्करा विविधा अपि। सर्वे ... ।। निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च। सर्वे ... ।।वासुदेवस्सं- कर्षणः प्रदुम्नश्चानिरुद्धकः । सर्वे ... ।मत्स्यः कूर्मो वराहृश्च नारसिंहोऽथ वामनः । सर्वे ... । शरीरमिन्द्रियं प्राणो मनो बुद्धिरहंकृतिः। कामक्रोधादयस्सर्वे तथा शा- न्त्यादयोऽपि च। जीवात्मा परमात्मा च तयोर्भेदश्व भेदकः। सर्वे ... ।। जडश- क्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदापि च । सर्वे ... ।। अस्तिशब्दोदिता अर्था नास्तिशब्दो - दिता अपि। सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ इति ॥ ५३ ॥ अ०॥ चोदपूर्वकं क्रमात्प्रत्यमात्रसत्ताकतदतिरिक्सत्ता के ष्वात्मबुद्धिम्ता् गुणदोषौ दर्शयति प्राज्ञानामिति- मू॥ प्राज्ञानां महिमा न कोऽपि भवति भ्रान्तो यथा विग्रहे- डहंभावं कुरुते तथैव सकलेऽहंभावकारित्वतः । मैवं स्वस्य विजानतां प्रकृतितां मुक्त्यै भवेन्मानिता स्वाभिन्ने जगतीतरस्य तु भवेद्वन्घाय भिन्ने जडे॥१४॥ व्या। पूर्वार्ध सुगमम्। द्वितीयनिरूपणे प्रथमपक्षत्वेन वक्ष्यमाणाज्ञानो पाधिकस्य स्वस्य जगत्प्रकृतित्वं शास्त्राचार्योपदेशमननादिभिर्विशेषेण विजानतां स्व- मात्रसत्ताकत्वेन स्वाभिन्ने जगत्यहमभिमानिता सार्वात्म्यरूपमोक्षाय भवतीति विदुषां भ्रान्तजनवैलक्षण्यं मैवमित्यादिनावेद्य भ्रान्तस्याSपि विद्वद्वैलक्षण्यं दर्शयति इतरस्येत्यादिना॥ चिन्मालस्य सवस्य जगदुपादानतामजानतंः स्वात्मभिन्नेड नात्मनि आविद्यकशरारादौ अविवेककृताहमभिमानिता बन्धायैव स्यादिति भाव: ॥५४॥ अ०।। कार्यकारण योरेकसत्तावादे तादा त्म्याध्यासमक्षिप्य समर्थयते सत्त केति

Page 41

१८ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

मू॥। सत्तैका जगदात्मनोर्यदि तदा पूर्व सताऽध्यासतो निस्सत्वे जगतः प्रतीतिविरहात्तादात्म्यसिद्धि: कथम् । तादात्याद्ि पुरा मृदा जनिमतोसत्वेऽप्यभेदो यथा भास्यस्याप्यसतस्सता सह तथा तादात्म्यसिद्धिर्भेवेत् ॥ व्या। सत्तका जगदात्मनोर्यदीति सिद्धान्तमनूद्याक्षेपं दर्शयति त- देत्यादिना तदा तस्मिन्पक्षे पूर्व सताऽध्यासतः कारणभूतेन सद्स्तना साकं तादात्म्यात्प्राक् निस्सत्वे जगतः शशश्ङ्गादेरिव सत्ताराहित्ये सति प्रतीतिविरहात् नद्विषयकैन्द्रियवृत्त्यभावात्सद्रूपेण कारणेन साकं तादात्म्यासिद्धि: कथं भवेदिति प्राप्ते ॥ श्रो ॥ 'शून्यसाऽपि स साक्षित्वादन्यथा नोक्तिरस्य ते'।

सत्ताकमृद्धटादिद्ृष्टानतं चावलम््य समाघत्ते तादा््याद्धत्यादिनाथा च लाके कुलालव्यापारादुत्पन्नस्य घटस्य मृत्सत्तया तादात्म्यात्पूर्व स्वतस्सत्ताशून्यत्वे- नैन्द्रियवृत्त्यगोचरत्वेऽपि केवलसाक्षिभास्यत्वेन तादात्म्याध्यास :- एवं स्वतस्सत्तारा- हित्येऽपि जगतः केवलसाक्षिवेद्यत्वेन स्वकारणसद्वस्तुना साकं तादात्म्यसिद्धि- र्भेवतीत्र्थः । एतत्तु विस्तरेण द्वितीयनिरूपणे सप्तमप्रदर्शके॥ श्रो॥ वन्ध्या पुत्रो गृहे त्वस्मिन् धनदः प्रभुरस्तीत्यादिना वक्ष्यति ॥५५॥ अ० ॥। ननु, 'स्वप्रान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभु- मात्मानं मत्वा धीरो न शोचती' त्यादिश्रुत्या स्वात्मनो जगत्कारणत्वानुकूले निरं- कुशविभुत्वे सिद्धे तद्विरोधेन ।। श्रो० ॥ आत्मा देहस्तदन्यो वा चैतन्यं मदशक्ति- वत्। भूतमेळनजें देहे नान्यवात्मा वपुस्ततः। भूतोपलब्धिर्भूतेभ्यो विभिन्ना विष- यित्वतः । सैवात्मा. भौतिकाददेहादन्योऽसौ परलोकभागिति गुणोपसंहारपादे-श- रीरेभावाधिकरणे परलोकगामित्वादिना अल्पपरिमाणवत्त्वं किमर्थमुपदिष्टमिति प्राप्ते एकात्मवादी यो वैदिकः तमसङ्गचिद्विभ्वनेकात्मवादिनः सांख्याः तानपि कर्तृविभ्वनेकात्मवादिनस्तार्किकाः तानप्यनेककर्त्रण्वात्मवादिनो मीमांसकाः ता- नपि देहात्मवादिनो लोकायतिकाश्च क्रमात्प्रद्विषन्ति एतान् सांख्यादीन् कारणभूतै- कात्माहमित्यपरोक्षीकरणे उत्तममद्धयमाधमाधमाधमाधिकारिण: कारणभूतैकात्मवादे वेशयिंतुं तैर्बोद्धादिभि: येषु येषु प्रद्वेष: कृतः तत्तन्निरसनमात्नं मद्यस्थैरस्माभिः कृतञ्चेत् लोकायतिकमीमांसककाणादकापिलानां उत्तरोत्तरं स्वस्वप्रतिवादिभि: मत्र्यं भवेत तदा सर्वैः कारणभूतैकात्माहमस्मीति अपरोक्षज्ञानात् मोक्ष प्राप्येतेत्य- भिप्रेत्य तथोक्त्तमि्याह श्रात इति --

Page 42

प्रथमं स्वात्मनि जगदद्धचासनिरूपणम्

मू।। श्रौते सख्यकृता प्रधानमतिना मैत्र्यं परं कांक्षता काणादेन च कर्मिणाऽपि च तथा बौद्धेन च प्राप्स्यते। मोक्षो हीत्यनुचिन्त्य देशिकवरा गन्ता विभुस्साक्ष्यसी- त्योकोऽसीति च बाधनीयधिषणान्प्रत्येकमेकं जगु: ॥१६॥ व्या। श्रति औपनिषदैकात्मविदि सख्यकृता प्रधानमतिनेति प्रधाने मतिः कारणत्वबुद्धिर्यस्य सः प्रधानमतिः तेन सांख्येन मत्य परं काङक्षतेति वाक्यं काणादादित्रयेणापि संबद्धयते देशिकवराः सूत्रभाष्याधिकरणरक्षमाला- कारा: श्रीव्यासभगवत्पादविद्यारण्याचार्या: गुणोपसंहारपादे त्रिशाधिकरणगतात् व्यतिरेकस्तद्भावाभावित्वान्न तूपलाब्धवदि' त्यादिसूत्रात् तद्भाष्याच्च उत्क्रान्त्यध- करणीयात् नाणुरतच्छतेरिति चेन्त्रे तराधिकारात् तह्ुणसारत्वात्तु तद्वयपदेशोभाक्त- स्तद्भावभावित्वादि'त्यादिसूत्रतद्भाष्याभ्याञ्च तथव वियत्पादे 'यथाच तक्षोभयथति मूत्रस्य भाष्याच्च समन्वयादयाये चतुर्थपादे चमसाधिकरणगतस्य 'कल्पनोपदे- शाच्च मद्धादिवदविरोध' इति सूत्रस्य भाष्याच्च वक्ष्यमाणवादिनां स्वात्मतत्वे सञ्जात- तत्तद्द्रमनिवृत्त्यर्थ स्वात्मनः पराभिमतं सविशषत्वं सिद्धवत्कृत्वा क्रमात् गन्ता विभुस्साक्ष्यसीत्येकोSसीति च अणुत्वपरिमाणवत्वे सति परलोकादिकं प्रति गन्तासीति च दर्शनादिक्रियाश्रयत्वे सति विभुरसीति च विभुत्वे सति साक्ष्यसीति च सर्वदृक्तृतत्साक्षित्वाभ्यां विनिर्मुक्तत्वे सति एको Sसीति च वाक्येभ्यः बाधनीय- धिषणान्प्रति बाधनीया धिष्णा स्थूलशरीरभूतात्मनि अणुचतनात्मनि विभुचेत- नात्मनि सर्वसाक्ष्यात्मनि चाहमित्याद्यासिकी बुद्धिर्यषां लोकायतिकमीमांसकवैशे- षिकसांख्यानां ते बाधनीयधिषणाः तान्प्रति परमतानां पूर्वोक्तानां मद्धये एक- मेकं जगु: स्वकीयसिद्धान्तवेदनोपायत्वेनोपदिदिशुः । एवमुपदिष्टाश्च ते लोकायतिकादयः स्वस्वप्रतिवादिद्वारा निर्विशषकात्मवा, दिना परमाद्वैतिना सह परममैत्र्यमापन्नास्सन्तः परं श्रेयः प्रापुः ॥५६॥॥ अ०॥ नन्वेवं त्वंपदवाच्यः स्वात्मा जगत्प्रकृतिश्वेत् तदा तत्त्वमसीत्यादि महावाक्यस्य वाच्यैक्यपरत्वमापद्येत इष्टापत्तिरितिचेत् तर्हि कथं सूत्रकारेर्जन्माद् :- स्यत इत्यािसूत्रैः स्वात्मभिन्नस्याधिदैविकस्य परमेश्वरस्य तत्पदवाच्यस्य जगत्प्र- कृतित्वमुक्तमित्याक्षिप्य न तैराधिदैविकस्य महावाक्यघटकीभूततत्पदवाच्यत्वं जग- त्प्रकृतित्वं वा Sभिहितिमिति समावत्ते एवमिति-

Page 43

अद्वैतसिद्धान्तगुरुचन्द्रिकायां . एवं चेत्तत्त्वमस्यादिवाक्याद्वाच्यैकता पतेत्॥ ५७॥ इष्ट चेद्धिदैवस् जन्माद्यस्येति सूत्रतः प्रकृतित्वं कथं व्यासरुक्तं चेन्न तथोच्यते ॥१८॥ व्या॥ स्पष्टोऽर्थः ॥ अ० ॥ तर्हि तदैक्षत बहुस्यामित्युपक्रम्य तत्त्वमसीति छान्दोग्ये 'यतो वा- इमानि भूतानि जायन्त इत्युपक्रम्य 'तद्विजिज्ञासस्व तद्राह्मेति भृगुवल्ल्यादौ च कमुहिश्य जगत्प्रकृतित्वं विधीयत इति चेदुच्यते छान्दोग्य इति- मू. छान्दोग्ये त्वारुणियेद्वत्कारणब्रह्मरूपताम् । श्व्वेतकेतुं समुद्दिश्य वारुणिं वरुणोऽब्रवीत् ॥५९ ॥ शिष्यः प्राक्कालिकं स्वस्मिञ्जानाति प्रकृतत्वतः । इति तत्तन्महावाक्यं स्वस्योपादानतां जगी ॥ ६० ॥ अध्यारोपेऽपवादाच्च स्वस् ज्ञयत्वशास्त्रतः विचारेण विनष्टे स्वाज्ञाने चिन्मात्रता भवेत् ॥ ६१ ॥ एवं सति प्रमाणं स्यादन्यथा बाधित भवेत्। आत्मेति तूपगच्छन्ति ग्राहयन्तीति सूत्रकम् ॥६२॥ व्या। अब्रवीत्तद्वद्द्गुवल्ल्यादाविति शेषः। तत्रोपपत्तिमाह शिष्यः प्राक्कालिक- मित्यादिनासत्तद्यदिति सर्वसाधारणपदैरविशदीकृतेSप्युद्देश्ये Sस्मत्प्रत्यय गम्यत्वं स्वा- त्मानन्दत्वादिरूपं विशेष्यत्वं च तदैक्षत बहु स्यामिति प्रागीक्षणकालिकमभिन्ननिमि- सोपादानत्वादिधर्मे च यथातत्वं स्वस्मिन् तत्त्छिष्यः पूर्वप्रकृतत्वाज्जानातीति 'तत्त्वमसि'अहंब्रह्मास्मि 'आनन्दो ब्रह्मति व्यजानादि' त्यादिमहावाक्यं अध्यारोपगम्य- मभिन्ननिमित्तोपादानत्वं स्वात्मनो जगावित्युक्ता स्वस्माज्जगदपवाद्गम्यं निर्धर्म- त्वं स्वस्य दर्शयतति अपवादाच्चेत्यादिना स्वपक्ष आत्मेति तूपगच्छन्ति प्राह्यन्ति चेति सूत्रं संवादयति एवमित्यादिना अस्य सूत्रस्यायमर्थः स्वस्मिञजगदध्यारोपविषय- कश्रवणमनननिदिध्यासनसाक्षारकाररूपसाध्यच्तुष्टयसंपन्नाः ब्रह्मविदोऽहमेव जग- दुंपादानमित्युपगच्छान्ति स्वात्मजगतोनित्यानित्यत्वविवेकादिसाधनचतृष्टयसंपन्ने प्रति त्वमेव जगदुपादानमिति च प्राह्यन्ति इत्युक्कप्रकारेणाध्यारोपापवादाभ्यां स्वस्मिन् विज्ञेयविशेषतद्भावपरश्रुतिसूत्रभाष्यादिशास्त्रं तावत् सप्षमनिरूपणे सप्तविशस्य श्ोकस्य व्याख्यानेऽतिविस्तरेण दर्शयिष्यामः ॥६॥

Page 44

प्रथमं स्वात्मनि जगद्द्धचासानरूपणम्

अ०।। अधुना यतोवा इमानि भूतानि जायन्ते"जन्माद्यस यत' इत्यादिश्रुति- जगत्कारणत्वेन निर्दिष्टस्त्वाधिदैविको वा आद्धथात्मिको वेति संशयनिवर्त्तकात् 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जात सकलं विचित्रम्। मय्येव सकल जातं मयि सर्वे प्रतिष्ठितम् । मयि सर्वे लयं याति तद्रह्माद्वयमस्म्यहामीते' कैवल्यवाक्यात्। सुषुप्तस्थान एकीभूतः प्रज्ञानधन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञः तृतीय: पादः। एष सर्वेक्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य प्रभवाप्ययौ हि भूतानामिति माण्डूक्यश्रुतितद्भाष्याभ्यां च ।। श्रो॥ सौषुप्तमानन्दमयं प्रक्र- म्यैवं श्रुतिर्जगौ। एष सर्वेश्वर इति सोडयं वेदोक्त ईश्वरः। अन्तर्यामी च सर्वज्ञो जगदयेनिस्स एव हि। माण्डूक्यतापनीयादिश्रुतिष्वेतदतिस्फुटमिति विद्यारण्याचार्य- कृतानत्रदीपवचनाच 'यद्वाचाऽनभ्युदितं येन वागभ्युदते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास- ते'इति सभाष्यात् उद्देश्यभूते स्वात्मनि प्रथमतः जगदुपादानत्वप्रयुक्तन्निविधपरि- च्छेदरहित ब्रह्मत्वविधानपूर्वकं उपास्यस हररिहरादेजगदुपादानत्वप्रयुक्ततत्रिविध- परिच्छेदरहि तब्रह्मत्वनिषेधककेनवाक्याच्च । 'सति संपद्य न विदुः सति सम्पत्स्याम हे' इति विज्ञानमयख जगदुपादान- भूतसद्रूप सौषुप्तप्राज्ञभावापत्ति अजानताम विद्वत्वबोधकछान्दोग्यवाक्याच्च- शरो।। यथा हिरण्यं विहितं क्षेत्रज्ञानविवर्जिताः। उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमा:। तथा सुशुप्ती गच्छन्त्यो ब्रह्मलोकं स्वयंप्रभम्। न विन्दन्ति महाभाहादहो मोहस्य वैभवमिति छान्दोग्यश्रुत्यर्थनिर्णायकात् सौषुप्तस्य ब्रह्मत्वविधायकात् ब्रह्म- गीताया: षष्ठाद्धयायवचनाच्च तत्र सौषुप्तख् स्वात्मन एव जगदुपादानत्वरूपब्रह्मत्वमजानतां दूषणोपल- म्भान्च यथा स्वात्मैव जगदुपादानमित्यवगम्यते तथा किंपुनः तद्वेदान्तवाक्य जन्माद्यस्य यत इति सूत्रेणेह लिलक्षयिषितम् भृगुर्वै वारणिः। वरुणं पितरमुपस- साराधीहिभगवो ब्रह्मेत्युपक्म्याह 'यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व तद्दह्यति' तस्य च निर्णयवाक्यम् 'आनन्दाद्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्द प्रयन्त्यभिसंविशन्तीति' अन्यान्यप्येवजातीयकानि वाक्यानि नित्यशुद्धमुक्त्सर्वज्ञस्व-

Page 45

अद्वैतसिद्धान्तगुरुचन्द्रिकायाम् :

लक्षण वाक्यस्य तदर्थस्य च आनन्दाद्येव खल्विमानि भूतानि जायन्त इति वाक्यं तावत् स्व्रस्य च स्वार्थभतस्य सुतुप्तौ सुखमहमासमिति स्वयंप्रकाशमानस्यानन्दर्स्य च क्रमात्पर्यायत्वमैक्य च निर्णयतीति निर्णयं निर्णायकं वाक्यमिति वाक्येन च लक्षणानन्दवाक्ययोः पर्यायत्वस्य तत्त्वंपदवाच्यैक्यस्य चादिष्ठत्वाच्च तदीयात् जन्मा- द्यस्य यत इति सूत्राच्चोपासकस्यैव कारणत्वमवगम्यते नोपास्यस्येत्याह य: कीड- तीत्यांदिना- मू.॥ यः क्रीडति तनौ जीवस्तस्मात्सर्व भवेदिति। मय्येव सकलं जातं मयि सवै प्रतिष्ठितम् ॥ ६३ ॥ मय सर्व लयं याति तद्रह्मांसमीति च श्रुतेः। एष सर्वेश्वरस्मुप्त इति माण्डूक्यवाक्यतः ॥ ६४ ॥ वागाद्यगोचरं स्वं त्वं विद्धि ब्रह्मेति नेतरम्। उपास्यमिति केनाच्च छान्दोग्याच्च तदीयतः ॥६६॥ ब्रह्मवाक्याद्यथा स्वस्मिञ्जगत्प्रकृतितैकता। तथाSस्मद्भाष्यकारोक्तरीत्या सा सूत्रतस्सफुरेत् ॥ ६६ ॥ व्या॥ सौषुप्तस्वानन्दे जगज्जन्मादिकारंणत्वलक्षणयोजनप्रकारस्तु द्विती- यनिरूपणे द्वादशोत्तरशततमादिश्लोकव्याख्यानात् विस्तरेणावगम्यतां। एकता वाच्येक्यमत्यर्थः । शेषः सुगमः । अ•॥ इदानीं श्रोके तथाऽस्मद्भाष्यकारोक्तरीत्या सा सूत्रतस्स्फुरेदिति प्रति- ज्ञानमेवार्थमुपपादयति लक्षणेति- मू। लक्षणान्वयतः प्राक्च विधेयज्ञानतः पुरा। यथा च गवयस्तद्वूद्यस्सुप्तावपरीक्षकः ॥ ६७ ॥ स हि लक्षणवाक्यस्थयच्छब्दाद्रह्यताममिति। जन्मादिसूत्रभाष्ये तन्निर्णायकतयैव हि ॥ ६८ ॥ व्यजानादिति चानन्दो ब्रह्मेत्याचार्यदशितम् ॥६८।।॥

Page 46

प्रथम स्वात्मनि जगदुद्धयासनिरूपणम् ३३

व्या. ।। एवमेव सर्वत्र लक्ष्ये लक्षणविधेययोः साक्षात्कारक्रम: षट्पंचा शादिश्रोकावतरणोक्तभाष्ये भगवत्पादैविवक्षित इत्यर्थ: ॥६८। अ० ॥ जगत्कारणत्वेन निर्दिष्टो यच्छन्दार्थस्तु सौषुप्तःस्वात्मानन्द एवेति भाष्यकारेणेव भृगुबादरायणाभ्यां च निर्दिष्ट इत्याह तथत्यादिना -- मू। तथाSSनन्दाद्धि भूतानि जायन्ते तेन जीवनम् ॥६९ ॥ तेषां लयश्च तत्रेति वाक्यैस्तत्प्राक्समीरिते। यतस्त्विमानि भूतानीत्यत्रोद्देश्ये प्रगोपिते॥ ७०॥ यच्छब्दार्थे हि सौषुप्तानन्दरूपविशेष्यताम्। उद्देश्यताबोधानय हेतुत्वं च विधेयताम् ॥। ७१ ॥ ब्रह्मत्वस्य च विज्ञाय भृगुवद्वादरायणैः। श्रुत्यर्थबोधकाच्चवं जन्माद्यस्येति सूत्रतः ॥ ७२॥ स्वस्थोपादानतादेशान्नेशे प्रकृतितोच्यते ॥ ७२॥॥ व्या .: ।। एवं भृगुबादरायणतात्पर्यनिर्णायकाश्चैते श्रोकाः षट्पश्चाशादिश्रो- कतदवतरणतद्वयाख्यानैः समानार्थकत्वात् न पृथक् व्याख्यायन्ते। ननु"यतो वा इमानि भूतानि जायन्त"इत्यारभ्य'तद्विजिज्ञासस्व। तद्रह्मेति' वाक्यं तावत् कथं यच्छब्दार्थस्य स्वात्मनो ब्रह्मत्वविधायकत्वेन च लक्षणपरत्वेन च भवेदिति चेदुच्यते। यो गोसदृशस्तं गवय इति विद्धीति वाक्यं यथा गोसदशस्य गवय इति संज्ञा- विधायकत्वेनच तद्विधेयाश्रयव्यक्तिमात्स्य लक्षणपरत्वेन च भवति तद्वत् सौषुप्त- स्वात्मतृत्त्वस्य जगज्जन्मादिकारणत्वरूपलक्षणपरत्वेन च ब्रह्मत्वविधायकत्वेन च भवेत्। अतो लक्षणान्वयात् विधेयसाक्षात्काराच्च प्रागेव गवयवत् यथा स्वात्मा- डपरोक्षो भवति न तथेश्वरो लक्षणविधेयग्रहणात्प्रागेव तद्र्हृणयोग्यत्वेनापरोक्षो भवेत् नित्यपरोक्षत्वादिति द्येयम् ॥७२॥॥ श्र० ॥ आधिदैविकस्य जगत्प्रकृतित्वाभ्मुपगमे बाधमाह नो चेदिति-

Page 47

२४ अद्वैतसिद्धान्तगुरुचान्द्रिकायां

मू॥। नो घेन्नित्यपरोक्षत्वादस्मान्प्रत्याधिदैविके। लक्षणस्यान्वयाभावे ब्रह्मत्वस्य ग्रहः कथम् ॥ ७३॥॥ अ०। स्वात्मैव"यतो वा इमानि भूताननि जायन्ते""सदेव सोम्येदमग्र आ- सीत्"सेयं देवतैक्षतेति परोक्षनाम्नोक्त इति दर्शयित्वा आध्यात्मिकं प्रति आधिदैवि- कचैतन्यस्य नित्यपरोक्ष स्वरूपमभ्युपेत्य प्रश्नपूर्वक तस्य फलदातुरुपादानत्वरूप- लक्षणपरशास्त्रस्य तात्पर्यमाह बाढमिति- मू। बाढं प्रकृतितोक्ते: का फलदातुर्गातर्यदि। विभुत्वादाश्रयत्वेन गौणी मायादिकं प्रति ॥ ७४॥॥ व्या। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति महत्वमात्रावगमात्। अ०।। परिलाणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभ- वामि युगे युगे। ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः। ज्ञानवैराग्ययेोश्चैव षण्णां भग इतीरणादिति स्मृतिमंवलंब्य दिव्यशरीरादिपरिवेष्टितत्वेन जीवैस्सद्वितीयत्वेन च परिच्छिन्नपरिमाणवत्वाङ्गीकारे तवौपचारिकमेवोपादानत्वं भवतीत्याह शररेति मू॥। शररिवेष्टितत्वेन देवेशो मितमानवान्। इत्यत्रोपादानताऽस् भवेदेवौपचारिकी ॥ ७५॥॥ क्या। उपासकानां तदुपासापरोक्ष्यकाले 'ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत। त्वंस्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्च- सि त्वंजातो भवति विश्वतोमुख इत्यादिश्रुतिः केवलं स्तुतिरेव तथासति परिच्छि- न्न आधिदैविको देशान्तरं लोकान्तरं वा गन्तुमर्हति स्वामं जैवमिवैश चेन्न कुत्रा- पि गच्छतीत्यर्थः ॥७५॥॥ अ०। फलदातुराधिदैविकस्य विवर्त्तापादानत्वं वारयति मुख्यमिति- मू॥ मुख्यं वैवर्तिकं दातुः प्रकृतित्वं भवेद्यदि। भोक्तृभोग्यतया भाने नदातृत्वं यथाऽडत्मनः ॥ ७६॥ व्या। पूर्वावस्थामपरित्यज्यावस्थान्तरेण भानं विवर्त्त इति विवर्त्तलक्षणो- कोपादानत्वे बाधमाह न दातृत्वमिति तत्र दृष्टान्तमाह यथात्मन इति यथा च स्वप्ावस्थायां ओत्तभोज्यरूपेण विवर्त्तमानस्य तैजसस्य परेभ्यः स्वविवर्त्तफलदा तृत्वं न संभवति तद्वदित्यर्थ: ॥ ७६॥

Page 48

प्रथमं स्वात्मननि-जगद्द्धचासनिरूंपणम् ३५.

अ०। इदानीमाधिदैविकस्य फलदातुरतस्मिन् तद्वद्विरद्धयास इति अद्धया- सलक्षणोक्तरीत्या द्रव्यरूपापूर्वे तदुपहितमायायां वा तादात्म्याद्धयासासम्भवात् तज्जन्यमप्युपादानत्वं वारयति बाढमिति- मू॥ वाढमाद्धचासिकं दातुः प्रकृतित्वं भवेद्यदि। नाविवेकविहीनत्वाद्रव्यापूर्वचयेऽप्यहम् ।।७७॥ इत्यनद्धयासतो नो चेन्नान्यस्मै दातुमर्हति। फलमाद्चासिकत्वेन स्वस्मान्न विभजद्यतः ।। ७८।। व्या। फलप्रकृतावपूर्वादौ अद्धयासाभावेSविवेकविहीनत्वादिति हेतुमुक्ता तस्यापीश्वरस्याद्यासाभ्युपगमे बाधमाह नोचेदित्यादिना ॥ ७८ ॥ अ०॥ फलप्रकृतौ फलदातुः परमेश्वरस्ाहमित्यद्धयासाभाववादिनं प्रत्याह ज्ञानादिति॥ मू. ज्ञानाद्द्चासहीनश्चेन्निमित्तं केवलं भवेत्। भिन्न: फलाच्च प्राणिभ्यः फलं दद्यान्महेश्रवरः ॥७९॥ व्य।। आधिदैविकस्य जगाकारणत्वपक्षे केवलनिमित्तकारणत्वमेव भवेदिति धञ्चमनिरूपणे सप्तनवतितमश्रोकतद्वयाख्यानाभ्यां विस्तरेण दर्शयिष्यामः ॥७९॥ अ० ॥ आधिदैविकस् पूर्वावस्थां परित्यज्यावस्थान्तरप्राप्ति: परिणाम इति परिणामलक्षणोक्तमुपादानत्वं च वारयति पारिणामिकमिति- मू ॥ पारिणामिकमीशस्य प्रकृतित्वं भवेद्यदि।

व्या। यथा क्षीरात् तत्परिणामभूतदधिनवनीतादेरभिन्नत्वात् तदानी क्षीरत्ववैशिष्ट्येन स्वरूपाभावाच्च न तस्य दातृत्वं संभवति तद्वदित्यर्थः ॥ ८० ॥ अ०॥ आद्यमुपादानद्वयमैश्वरमिति चतुस्सप्ततित्तमादिश्लोकद्वयेनोक्ता तृ- तीये चतुर्थ च जवमित्याह जीवइति -- मू। जीवे जगद्विवते वाउद्धचस्तं वा तददेयता। स्वान्यभोक्तुरभावाच्च भ्रान्तिमात्रत्वतः फले ॥८१॥ अतस्स्यादृद्वितीयत्वं स्वात्मनो नेश्वरे भवेत् ॥८१॥॥

Page 49

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

्या॥ पंचमन्त्वीश्वरस्येव जीवस्यापि दोषावहमिति भावः ॥८१।॥ अ० ॥ आत्मनस्तु कामाय सर्वे प्रियं भवति। आत्मा वा अरे द्रष्टव्यशश्रोर्त- व्यो मन्तव्यो निदिद्धयासितव्यो मैत्रेयि आत्मनो वा अरे दर्शनेन श्रवणेन मत्यां विज्ञानेनेदं सर्वे विदितं भवतीति बृहदारण्यश्रुति तत्समानप्रमेयां 'यतो वा इमानि भूतानि जायन्त इत्यादितैत्तिरीयकश्रुति च तदर्थनिर्द्धारणपरामधिकरणरत्मालां च तस्या: मूलभूतानि 'वाक्यान्वयात् ।अथातो ब्रह्मजिज्ञासा। जन्मादयस्ययत इत्यादि- सूत्राणि च स्वात्मन्येव जगत आद्धयासिकत्वप्रदर्शनायोदाहरति आत्मेति- मू ॥। आत्मा द्रष्टव्य इत्युक्तस्संसारी वा परेश्वरः। संसारी पतिजायादिभोगप्रीत्याऽस्य सूचनात् ॥२॥ अमृतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम्। संसारिणमनूद्याथ परेशत्वं विधीयते ॥ ८३॥

यद्यस्म्यहमुपादानं प्रतिज्ञा सा भवेदिति ॥ ८४॥ जायते ब्रह्मजिज्ञासाSद्वितीयत्वावगाहनी। स्वात्मन्येव यदा तस्व जिज्ञासोस्तन्निवर्तकात्॥५५॥ जन्मादिसूत्रतस्सर्वे सौत्रात्त्वत्तो यदर्थकात्। भवत्यतोऽसि ब्रह्मेति विधानात्प्रकृतिस्त्वयम् ॥ ८६॥ अतोऽपि सूत्रकारादयैर्नेशे प्रकृतितोच्यते ॥ ८६॥॥ व्या।। आत्मा द्रष्टव्य इत्यधिकरणरत्नमालाश्लोकदवयार्थस्तु तद्विषयश्रुत्यैवा- वगम्यते आत्मा वारें द्रष्टव्यशश्रोतव्य इति श्रुतिमूलकस्वास्य 'अथातो ब्रह्मजिज्ञासेति सूत्रस्यायमर्थः स्वात्मजगतोर्नित्यानित्यत्वविवेकानन्तरं उद्देश्यभूते स्वात्मनि प्रति- ज्ञाश्रुत्यभिप्रेत जगदुपादानत्वसर्वज्ञत्वादे: ज्ञानाभावात् आवृतत्वाद्वा कुतो ब्रह्मभवामीति जिज्ञासा भवतीति शेषः ॥ एवमेव वाचस्पतेरप्यभिमतम् तज्जिज्ञासानिवर्त्तकं तु 'जन्मादयस्य यत" इति सत्रं तत्सूत्रद्वयार्थ दर्शयति इत्यन्नेत्यादिना। त्वत्तः सर्वजगज्जन्मादिकम् भवतात्यः न्वयः फलितमाह प्रकृतिस्स्वयमिति जिज्ञासोशश्रद्धातिशयपरीक्षार्थ श्रुतिसूत्रयो स्वात्मनः सामान्यतो यच्छन्देन निर्देश इति भृगुकर्तृकातू श्रद्धातिशयकृतविचाराद- बगम्यते तथा हि ॥'

Page 50

प्रथमं स्वात्मनि जगदद्धचासनिरूपणम् ३७

अस्मत्पिता वरुणस्तावत् 'यतो वा इमानि भूतानि जायन्त इत्यादिश्रुतिगत- यच्छन्देन जगज्जन्मादिकारणभूतं पदार्थमुद्दिश्य तस्य तद्विजिज्ञासस्व तङ्रह्मे'ति वाक्येन ब्रह्मत्वमादिदेश तदन्यो ब्रह्मज्ञस्तु 'मय्येव सकल जातं मयि सर्व प्रति- छ्ठितम्। मयि सर्वे लयं याति तद्रह्माद्वयमस्म्यह'मित्यादिवाक्यैः जगज्जन्मादिका- रणभूतं अहंपदार्थमुद्दिश्य तत्र ब्रह्मत्वमवगच्छति अतो मम पितृवाक्यगत यच्छ्द- स्थ अस्मत्पदगम्येऽहंपदार्थ शक्तिग्रह इति निश्चित्य भृगुरहमिति प्रतीयमानेऽन्न- मयादिकोशचतुंष्टये क्रमात्साकल्येन ब्रह्मलक्षणानबगमे सति सौषुप्ते स्वात्मनि जग- ज्जन्मादिकारणत्वं निर्धारितवान् ॥ ८६॥ ॥ अ०। इदानीं सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मा देनं खपितीत्याचक्षते स्वं ह्यपीतो भवतीत्युपक्रम्य ऐतदात्म्यमिद सर्व तत्सत्यं स आत्मा तत्त्वमसीति छान्दोग्यश्रुतिञ्च तदर्थनिर्णायकम 'स्वाप्ययादिति, सूत्र च तदर्थोपपत्तिपरां स्वाप्नसौषुप्ततत्त्वबोधिनीम्' यथा गार्गर्य मरीचयोऽर्केस्यास्तङ्गच्छ तस्सर्वा एतस्मिन् तेजोमण्डल एकींभवन्ति ताः पुनः पुनरुदयतः प्रचरन्ति एवं हवा एतत्सर्व परे देवे मनस्येकीभवतात्युपक्रम्य यथा सोम्य वयांसि वासो वृक्ष संप्रतिष्ठन्ते एवं ह वा एतत्सर्वे पर आत्मनि संप्रतिष्ठते पृथिवीच पृथिवीमात्रा चे त्यादिप्रश्नोपनि- घदञचार्थतः सङ्गह्य प्रतिज्ञातार्थे प्रमाणयति सतेति- मू॥ सता सोम्येत्यादिवाक्यात्स्वाप्ययादिति सूततः॥७॥ परे देवे मनस्येकीभवत्येतदिति ते:। स्वप्ने जाग्रत्कालिकानां लयाधिकरणस्य हि ॥ ८८॥ समनस्कस्य विज्ञानमयस्यापि चिदात्मनः । जगत्प्रकृतिभूतस्त मनसश्च लयो यतः ॥ ८९॥ सुप्तौ स्वस्मिन्ज्ञायतेऽतो नेशे प्रकृतितोच्यते ॥ ८९॥॥ व्या॥ सतेति श्रतिगतस कारणवाचिनः चेतनाचेतनोभयसाधारणस्य सच्छन्दस्याचेतनप्रधानादिपरतव्यावृत्तये 'खमपीतो भवति तस्मादेन स्वपितीत्या- चक्षते सवं ह्यपीतो भवति सआत्मा तत्त्वमसीति' वाक्यानामभ्यासेन सुषुप्त्याद्यव- स्थासु अनुस्यूतस्य जगदुपादानमनोऽज्ञानतादात्म्यापन्नस्य स्वात्मन एवं ग्रहणात नाधिदैविकस्योपास्यस्य प्रकृतिव्वं सिद्धयतीति भावः। अवतरणोक्तप्रश्नोपनिषदर्ध स्तावत् पञ्चमनिरूपणे षोडशश्रोकावतरणातू विस्पष्टमवगम्यताम्।। 4

Page 51

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अत्रोदाहृतछान्दोग्यवाक्यार्थस्तु नवमनिरूपणेS21शातितमादिश्रोकतद्वया- ख्यानै विशेषतोऽवधार्यताम् ॥। ८९॥॥ अ०॥ इदानीं तत्समनन्तरसूत्रमूलभूतां पूर्वसूत्रानुसारिणी तंपदवाच्ये स्वात्मनि जगदप्ययोत्पत्तिविधायकत्वेन नवमनिरूपणे दयशीतितमादिश्रोकैर्वक्ष्य- माणप्रकारेण च तत्त्वेपदवाच्यैक्यपरां प्रथमश्नोकव्याख्याने व्याख्यातां 'यदा सुप्तस्ख्वप्न न कञ्चन पश्यतीत्यादि' कौषीतकीश्रति 'आत्मन आकाशस्संभूत' इति तैत्तिरीयकादिश्रुतीश्र तन्मूलकं गतिसामान्यादिति सूत्रं चार्थतस्सङ्ृह्य प्रतिज्ञातार्थे प्रमाणयति यदेति- मू।। यदा सुप्तस्तदैनं हि वागप्येति च नामभिः ॥ ९०॥ चक्षुश्र सर्वरूपैश्च्ेत्येवं कौषीतकाश्रुतेः । स्वस्माद्वचोमादिकं जातमिति श्रृत्यन्तरादपि ॥ ९१ ॥ अन्यासां गतिसामान्यादिति सूत्रान्तरादृपि। स्वस्थोपादानतादेशाद्वाच्यैक्यं सर्वसम्मतम् ॥९२॥ व्या। गतिसामान्यादिति सूत्र मर्थतस्सज्गह्वाति अन्यासां गतिसामा- *वादिति पूर्वसूत्रेणोदाहतानां श्रुतीनां तात्पर्येण सह श्रत्यन्तराणां गतेरपि समा- नत्वादित्यर्थः। शेषस्सुगम: ॥ ९२॥ अ०. ॥ यत् द्वैत न पश्यति पश्यन्वै तन्न पश्यति न हि द्रषुर्दष्टेर्विपरिलोपो विद्यतेSविनाशित्वात् न तु तद्वितीयमस्ति ततोऽन्यद्विभकं यत्पश्येदिति बृहदारण्य- श्रुरति तन्मूलकं 'ज्ञोऽत एवेति' सूत्रं च 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये- दिति श्रुति च सुषुप्तिकाले स्वात्मनि विलनित्वात जगतो न दर्शनमस्ति मुक्तिदशा- यां मूलाज्ञानेन सहोच्छिन्नत्वाजजगतो न दर्शनमस्तीति क्रमात निर्णायकम्' स्वाप्य- यसपत्योरन्यतरापेक्षमाविष्कृतं हीति' सूत्रं चार्थतस्सङ्कह्य प्रतिज्ञातार्थे संवादयति ब्रह्मत्वादिति- मू॥। ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते। द्वैतादृष्टिर्द्वैतलोपान्नाि द्रष्टुरिति क्रतेः ॥९३ ॥ सुषुप्नौ च विमोक्षे च द्वैतादर्शनबोधकात्।

Page 52

प्रथमं स्वात्मनि जगद्द्धचासनिरूपणम् ३९

शास्त्रात्स्वाप्ययसंपत्त्योरिति सूलान्तरादपि। स्वस्योपादानतादेशान्नेशे प्रकृतितोच्यते ॥९४॥॥ व्यां।। ब्रह्मत्वादेव जीवस्येति शेषः। सुषुप्तौ द्वैतदर्शनाभावे हेतुमाह द्वैतलो- षादिति तत्र चिदस्तीत्याह 'नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेSविनाशित्वादिति श्रुतेः स्पष्टमन्यत् ॥ ९४॥ ॥ अ० ॥ एवमव जगन्सष्टिपराणां सर्वश्रुतीनां स्वात्मन्थेव गतिनिर्णायकम् 'कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्क्तेरिति' सूत्रं चार्थतः संगृह्य प्रतिज्ञातार्थ प्रमाणयति कारणत्वनेति- मू। कारणत्वेन शास्त्रेषु स्वात्मोक्तेरिति सूत्रतः । स्वस्योपादानतादेशान्नेशे प्रकृतितोच्यते ॥ ९५॥॥ स्पष्टोऽर्थः ॥ अ०।। 'अहं ब्रह्मास्मि"अहमेवेंद सर्वम्"त्वं ब्रह्मासि"तत्त्वमसी'त्यादिश्रुतिञ्च तन्मूलकम् 'आत्मेति तूपगच्छन्ति ग्राह्यन्ति चेति'सूतं चार्थतः संगृह्य वाच्यैक्था- पत्तिरस्माकमिष्टैवेत्यत्र प्रमाणयति पश्यन्तीति- नू ।। पश्यन्ति कारणत्वेन स्वात्मानं ज्ञानिनस्तथा ॥ ९६ ॥ ग्राह्यन्ति च शिष्य त्वं कारणं हि भवेरिति। सूत्रात्सोपाधिके जीषे प्रकृतित्वविधानतः ॥९७।।

श्रुतीनामन्वयस्स्वस्मिन्सप्तमे तु निरूपणे ॥९८॥ श्लोकस्य सप्तविंशस्य व्याख्यानादवगम्यताम् ॥९८॥॥ स्पष्टोऽर्थः ॥ अ०. ॥ यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः । तमे- वैकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुरिति मुण्डकश्रुत्या युभ्वाद्याय- तनस्व स्वात्मन एषोऽद्वितीयत्वप्रत्वय एव मोक्षप्रापक इत्युक्त्तम्। तामिमां श्रुति च

Page 53

४० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

तदन्तर्गतयच्छव्दार्थपर स्यात्मशब्दस्य सर्वगतस्वात्मबोधकत्वनिर्णायकम् 'दुभ्वा- द्यायतनं स्वशब्दादिति'सूत्रं चार्थतः सङ्त् प्रतिज्ञातार्थ प्रमाणयति द्यम्वादेरि- ति- मू॥ द्युम्वादेरप्यायतनं स्वशब्दादिति सूत्रतः । स्वस्योपादानतादेशान्नेशे प्रकृतितोच्यते ॥ ९९॥॥ स्पष्टोऽर्थः ॥ अ०॥ ननु पूर्वश्रोकेनोदाहृतश्रुतौ अन्या वाचो विमुञ्चथेति श्रूयते ताः कस्य वाच: तासां स्वार्थे प्रामाण्यस्वीकारे को बाध इति प्राप्ते ताः तत्तदुपासकानां वाच: तासां तत्तदुपास्येषु फलदातृषूपादानत्वांशे प्रामाण्यस्वीकारे षट्सप्ततितमा- दिश्लोकोक्तप्रकारेण उपासकान् प्रति उपास्यानां स्वप्रकृतिकफलदातृत्वाद्यभावापत्ते: न प्रामाण्यं भवतीति परित्यजतेत्यत्र च नेशे प्रकृतितोच्यत इति स्वेन व्यवस्थापितां- शे च ।

मृहीतिरितरवदुत्तरादिति सूल्रस्य च तन्मूलभूतस्य 'आत्मन आकाशस्संभूत' इति तै- त्तिरीयकस्येव लौकिकात्मशब्दस्येव च आत्मा वा इदमेक एवाग्र आसीदित्युपक्रम्य प्रज्ञानं ब्रह्मेत्यैतरेयस्य च । तथैव कतम आत्मा योऽयं विज्ञानमय इत्युपक्रम्य स वा एष महानज आत्मा- डजरोऽमरोऽमृतोऽभयो ब्रह्मेति वाजसनेयकवाक्यस्येव सदेव सोम्येदमग्र आसीदे- कमेवाद्वितीयमित्यन्तरेणैवात्मशब्दमुपक्म्य उदर्के स आत्मा तत्त्वमसीति छान्दो- ग्यस्य च तदधिकरणभाध्यस्य च तदधिकरणार्थनिर्णायकाणां श्रो॥ आत्मा वा इदमित्यत्र विराट् स्यादथवेश्वरः। लोकसष्टेरनेश्वरस्स्याद्रवाद्यानयनाद्विराट्। भूतोपसं- हतेरीश स्स्यादद्वैतावधारणात्। अर्थवादो गवाद्युक्तिर्व्रह्मत्वं हि विवक्षितम्। दयो- र्वस्त्वन्यदेकं वा काण्वछान्दोग्यषष्ठयोः। उभयत्र पृथग्वस्तु सदात्मभ्यामृ पक्रमात्। साधारणोडयं सच्छब्दस्स आत्मा तत्वमित्यतः। वाक्यशेषादात्मवाची तस्माद्वस्त्वेक- मेतयोरिति वर्णकद्वयात्मकाधिकरणरत्नमालावचनानां चानुग्राहकाणि स्वात्मनः जमत्प्रकृतित्वविधानपूर्वकमाधिदैविकानां तदभावपराणि ब्रह्मगीतायां द्वितीयाद्या यवचनानि प्रमाणयति तं हरमित्यादिना- म॥ तं हरं केचििच्छन्ति केचिद्विप्णुं सुरोत्तमा : ॥ १०॥ केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः।

Page 54

प्रथमं स्वात्मनि जगद्द्धय्यासनिरूपणम् ४१

केचित्प्रधानं त्रिगुणं तदन्यान्यपि केचन ॥ १०१॥ सर्वे वादाश्श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः । इति श्रीपद्मजोऽस्वप्रस्स्वानुभूत्यनुसारतः ॥१०२॥ अस्वप्नस्यापि रुद्रादेरिवेशस्थापि मायिनः । व्यामोहाभावतोऽज्ञाने तादात्म्याभावतोऽपिच॥ १०३॥ फलप्रकृतिता भोग्यदातृत्वं च विरुद्धचते। इति ज्ञात्वा तदुभयमुपास्ये वदतां यतः ॥ १०४ ॥ शैवानां वैष्णवादीनां पूर्वपक्षित्वमत्रवीत्। अतस्स्यात्प्रकृतित्वं तु शिवादिष्वौपचारिकम् ॥ १०५॥ व्या॥ तमिति प्रज्ञानं ब्रह्मेत्यैतरेयोपनिषद्रतमहावाक्ये त्वादेन पदेन 'आत्मा वा इदमेक एवात्र आसीत् नान्यत्किञ्चन भिषत् स ईक्षत लोकान्नु सजा' इत्यु पक्रमवाक्ये यो विवक्षितः सष्टेः प्राक्कालिको निष्प्रपञ्चः यमुद्श्य द्वितीयेन ब्रह्मपदेन ब्रह्मत्वं विवक्षितं तं स्वात्मानं यः क्रीडति तनौ जीव इत्यादिभि: प्रागुक्तश्षोकैरुदाह- तश्रुतिसूत्राद्युक्कप्रकारेणाहमेव निखिलजगदुपादानकारणमित्यजानन्तः केचिदुपास, काश्शिवादिकमेव जगदुपादानत्वेन वक्तुमिच्छन्तीति लटः प्रयोगेण नाद्यापि तेषा. मभीष्टसिद्धिरिति ब्रह्मणोऽभिप्रायः तत्रोपपर्त्ति दर्शयति कविः इति श्रीषभ्मजो- डस्वम इत्यादिना। श्रो। अन्यथा गृह्तसस्वप्नो निद्रा तत्वमजानत इति श्रीगौडपा- दकारिकयाऽन्यथागृह्वतः परुषस्य यो धर्मः स खप्न इतिच् स्वात्मतत्वमजानतः यो धर्म: सा निद्वेति चोकम्। तथा च सति ब्रह्मविष्णुरुद्रमहेश्वराणां मद्ये एककस्यापि स्वस्वरूपे स्वप्र-

तद्विशेषणसिद्धये व्यामोद्दाभावादिहेतुद्वयमुक्ता परमते फलितमाह अतस्स्या- दिति ॥ १०५ ॥ अ० ॥ किञच प्रतिज्ञातार्थे भगवत्पादकृतमहावाक्यदर्पणवचनमप प्रमाण- यति न ग्रह्मणेति --

Page 55

४२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू ।। न ब्रह्मणा नापि शिवेन विष्णुना स्वप्नप्रपञ्चो न कदापि सृष्टः । स्वयं िया कल्पित एव भाति तथैव जाग्रत्यपि बुद्धिकल्पितः ॥ १०६ ॥ व्या। ब्रह्मादीनामुपास्यमानत्वेSप्यनुपास्मानत्वे वा कदाचिदपि न तैःस्वप्ा- दिप्रपञ्चस्सज्यत इत्येतत् पञ्चमनिरूपणे पश्चाशीतितम श्रोकेन तत्पूर्वापरैश्शिव गीतागत- श्रीरामवाक्यैश्च विस्तरेणावगम्यताम्॥ १०६॥ अ० ॥ एवं जगतो व्यावहारिकसत्तावादबाधपूर्वकं प्रातिभासिकसत्ता- बादप्रवचनप्रसङ्गादुपस्थिते प्रागुक्त्तेन सार्धेन पञ्चपञ्चाशेन श्रोकेन प्रदर्शिते स्वात्म- सत्तां विना निस्सत्तावादे जिज्ञास्यविशेष प्रश्नपूर्वकं दृष्टान्तादिभिः संप्रत्याययति स्वात्मेति -- मू ॥। स्वात्मसत्तां विना सत्ता जगतोऽस्य स्वतो न चेत् । जानामि तन्न जानामीत्याद्युक्केः का गतिर्यदि ॥ १०७॥ सर्वै ब्रह्मेत्यादिवाक्यं श्रुतिर्वक्तीति वाक्यतः । श्रुतिर्विधिञ्च वक्तीति वाक्यादस्मात्सकर्मकाल् ॥ १०८॥ श्रुतेरकर्म विध्यादि वाक्यं यत्कर्मवद्यथा। भातीत्यत्र गतिस्स्यान्नशश्वुतित्वाद्विघिवाक्ययोः ॥१०९॥

स्वप्ने दृष्टाद्रजादीनां पार्श्वात्पार्श्व्ीन्तरे सदा ॥ ११०॥ दृष्टाच्चित्रगजादीनां पार्श्वात्पार्श्च्ान्तरेऽत्र च। त्रिविधास्वपि सत्तासु ह्यकस्या अप्यसंभवात् ॥ १११ ॥ पार्श्वान्तरात्मना नैव भामि तद्वज्जडात्मना। इति जाने न जाने चेत्यादिवाक्याद्गतिर्भवेत् ॥११२॥

Page 56

प्रथमं स्वात्मनि जगद्द्धयासनिरूपणम्

कया ॥ स्वात्मजगतोरकसत्तावादे जानामीत्यादिवाक्यार्थावगतौ क्रो॥ सर्व ब्रह्मेति कल्याणी श्रुतिर्वदति सादरमिति ब्रह्मगीतादिवचनमर्थतस्संगृह्योदाहरति सर्वमित्यादिना नन्विदं ब्रह्मवाक्यं तावत सर्वे जगत् ब्रह्माभिन्नमित्यमुमर्थ श्रुतिर्वदतीति बोधयति वा किं बा सर्वे ब्रह्मेत्येवंरूपेयं श्रुतिः सार्थ वदतीति बोधयति उत जगतः ब्रह्माभेदपरं सव ब्रह्मेति वाक्यं तद्वाक्यरूपा श्रुतिर्वेदतीति बोधयतीत्यनिर्धारिते कथं सद्वाक्यं स्पक्षसाधकत्वेन परिगृद्यत इति चेत् भवांस्तावत् पृष्टव्यः आदे सा श्रुतिः ब्रह्माभेदपरवाक्यातिरिक्ता वा तद्वाक्यरूपा वा नादः तद्वाक्यातिरिक्तायाः तद्वाक्यार्थबोधकत्वायोगात् नान्त्य: तत्र खपक्षहानि: परपक्षसिद्धिश्च द्वितीये तु भव-

उभयधापि प्रथमपक्षोक्तदोषद्वयापत्तिः । ततस्तृस्तयिपक्षपरिग्रहे तुन कश्विद्दोषः । एवं स्वात्मजगतोरेकसत्तावादिनामस्माकं जानामीत्यादिसकर्मकवाक्यार्था वगत दर्शयित्वान जानामीति वाक्यार्थावगातिं च सदष्टान्तमाह सवपे दृष्टादित्यादिना अत्र च जगत्यपीत्यर्थः ।। ११२॥ अ० ॥ एवं खात्मजगतोरेकसत्तानुसारेण प्रदर्शितः सकर्मकवाक्यार्थो बहु- श्रुत्यारूढ इति प्रतिजानाति भेदेति- मू! भेददृष्ट्यनुसारेण प्रवृत्तं कर्तृकर्मणोः । सकर्मकं यद्वाक्यं तदकर्मकतया श्रुतौ ॥ ११३ ॥ अभेदस्यानुरूपेण भासते कर्तृकर्मणोः ॥११३॥॥ स्पष्टोऽर्थः ॥ अ० ॥ तत्र 'ब्रह्मैव सन् ब्रह्माप्येतीति श्रति प्रमाणयति ब्रह्मैवेति- मू।। ब्रह्मैव संस्तद्प्येतीत्यात्मनि ब्रह्मता भवेत् ॥ ११४ ॥

अ0।।तत्रोपपत्तिपरां 'ब्रह्मविद्ह्मैव भवतीति, श्रुति संवादयति ब्रह्मविदिति -- स्पष्टोऽर्थः॥

मू। ब्रह्मविद्गह्व भवति नेतरश्वेति विश्वतेः ॥११९॥ स्पष्टोऽर्थः ॥ अ०॥ ब्रह्मविदिति सक्मेकवाक्यस्य तदुत्तरवाक्यानुसारेण तात्पर्यमाह अहं ब्रह्मेति --

Page 57

४४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू।। अहं ब्रह्मेति यो भाति ब्रह्मैव भवति स्वयम् ॥ ११५॥॥ अ०॥ उक्कार्थे श्रुत्यन्तरं प्रमाणयति यस्येति -- मृ। यस्यामतं तस्य मतं मतं यस्य न वेद सः। इति व्यावर्त्यते स्पष्ट कर्मत्वं स्वात्मनः किल ॥ ११६॥॥ स्पष्टोऽर्थः॥ अ० ॥ एवं जीवब्रह्मणोरभेदपरवाक्यानुसारेण तद्भेदपरसकर्मकवाक्यस्य न खार्थे तात्पर्यमिति दर्शयित्वा इदं सर्वमत्रजतेति स्षटजगतोः भेदपरसकर्मकश्रुते- रपि 'सत्यं चानृतं च सत्यमभवदिति' तदभेदपरश्रृत्यनुसारेण न खार्थे तात्पर्य- मित्याह तथति- मू॥। तथात्माऽसृजताशेषमिति कर्मनिषिद्धये।। ११७॥ अभवच्चेतनं सत्यमनृतं चेत्यकर्मकम्। वाक्यं स्वात्मातिरिक्तस्य निस्सत्वायापि संभवेत् ॥ ११८ ॥ कर्मजत्वेन सत्यत्वे युज्यतेऽसृजतेति हि। प्रातिभासिकसत्वेऽस्यासृजतेति न युज्यते ॥११९ ॥ वस्तुतन्त्रत्वतो यद्वत्सर्पभ्रान्तिर्न सृज्यते ॥ ११९॥॥ स्पष्टोऽर्थः ॥ अ०। पुनश्च प्रतिज्ञातार्थे श्रृत्यादिरस्तीत्याह अहमिति- मू ॥। अहमन्यवदाभामि ह्वहमेव शरीरवत् ॥ १२० ॥

ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ॥ १२१ ॥ जगद्रूपतयाप्येतद्गह्वैव प्रतिभासते। विद्याविद्यादिरूपेण भावाभावादिभेदतः ॥१२२॥ गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते।

Page 58

प्रथमं स्वात्मनि जगदद्धचासनिरूपणम्

ब्रह्म सर्वमिंद ज्ञानं ब्रह्मप्रापेस्तु साधनम् ॥१२३ ॥ इति श्रीब्रह्मगीतायां द्वादशाद्धयायतोऽपि च। त्रिपञ्चाशस्य पद्यस्य व्याख्याने प्राक्समीरिते ॥ १२४॥ उक्तेभ्यो ब्रह्मवाक्येभ्यः कर्मत्वं जगतो न हि ॥ १२४॥॥ स्पष्टोऽर्थः ॥ अ०॥ निरुपाधिकत्वेनाद्वितीयस्य तत्त्वंपदलक्ष्यार्थभूतस्य प्रत्यगात्मनः सजातीयपरिच्छेदाभावात् तसैव भवद्भिरुदाहृतश्रतिसूत्रभाष्यस्मृत्यादिभि: जगत्प्र- कृतित्वमभिहितम् न तु सोपाधिकस्य खात्मन इत्याशंकामनूद्य निराकरोति नन्विति- मू। ननु भावाभावरूपाज्ञानासम्बन्धिनी तु या ॥ १२५ ॥ चित् तस्या: कारणत्वं हि श्रुतिसूत्रमतं यदि। तदा स्वाप्ययसंपत्त्योरपेक्ष्यान्यतरां हि यत् ॥ १२६ ॥ द्वैतस्यादर्शन प्रोक्तमिति सूत कथं वदेत्। शुद्धे कारणतां तत्र तदभावं वदत्यतः ॥ १२७ ॥ विशिष्टे कारणत्वं स्यान्निरुपाधौ विमुक्तता। स्वामिन्नेवं विजानीमः कुतर्का हृदयाद्ताः ॥ १२८॥ कृतार्थाः स्मो भगवतां कृपया छिन्नसंशयाः॥ १२८॥॥ क्या। स्ाप्ययसंपत्त्योरन्यतरोपक्षमाविष्कृतं हीति सूत्रमर्थतः सङ्गह्वाति स्वाप्ययेत्यादिना तत्सूत्रार्थस्तु प्राक्तिनवतितमश्राकतदवतरणाभ्यामवगन्तव्य: कथं तर्हि श्रतिसूत्रार्थ इत्यत आहात इति विशिष्टेन जानामीति मूलाविद्याव- त्रीत्यर्थः शिष्याः विनीतास्सन्तःस्कृतार्थतामावेदयन्ति स्वामिन्नित्यादिना- अ०॥ इदानीं प्रश्नपूर्वकमध्यासनिरूपणाख्यैतच्छास्त्रश्रवणजन्यं शिष्याणा- मात्मानात्मीयविशेषविज्ञानं दर्शयति चिन्मात्रात्मनीति -- म्॥ चिन्मात्रात्मानि कल्पनात्तिजगतः कि स्याद्यं कारणं। तादात्म्यात्स्वसदात्मनास्य सह किं तव्वानसंगाच्च किम्।

Page 59

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

सत्त्वं स्फूर्तिरवेक्ष्यते सदभिदाभावे तु शून्यं भवेद् देहैस्तद्रुणकैरभेदकरणा्किं शून्यता नान्यथा।। अतोऽस्य सत्ताशून्यत्वादद्वितीया वयं सदा ॥ १३० ॥ प्रातिभासिकतापक्षे देहैस्तादात्म्यविभ्रमात्। बद्धा अभूम मुक्ताश्च भवामस्तं बिना गुरो ।। १३१॥। व्य।। इदःनीमाचार्यः प्रव्यगात्मनि जगत्तयाध्यासवेदनफलं पृच्छति चिन्मात्रेत्यादिना शिष्या उत्तरं ददति वयं कारणमिति अवस्थात्रयसाक्षित्वे- न प्रत्यग्भूताः वयमव जगत्कारणमित्यर्थः ॥ पुनश्चाचार्यस्सच्चैतन्याभ्यां जगदध्या से फलं पृच्छति तादात्यादित्यादिना शिष्यास्तदुत्तर त्रुवन्ति सत्वमित्यादि- ना पुनश्चाचार्यः प्रत्यगात्मनोSनात्मतद्धमैस्साकमाध्यीसिकसंबन्धज्ञान् परिशोध- यति देहैस्तद्गुणकरभेद्करणात्किमिति पुनश्शिष्या विशिष्य तदुत्तरं कार्य- कारणयोरेकसत्तावादानुसारेण वदन्ति शून्यतेत्यादिना। स्वतस्सत्ताशून्येन जगता आत्मनस्तादात्म्याध्यासेन शून्यतैव भवति 'असन्नेव स भवति। असद्रह्मेति वेद चे'दिति श्रुतेः असता सह तादात्म्याकरणे तु न शून्यात्मता भवतीत्याह ना- न्यथेति। अज्ञानादः प्रातिभासिकसत्तामादाय चोत्तरं वदन्ति प्रातिभासिक- तेत्यादिना। शेषस्सुगमः॥। १३१॥ अ०. ॥ इदानीमेतदध्यासनिरूपणस्य श्रवणफळमाह आद्य इति- मू। आद्ये निरूपणे सम्यज्ज्ञाते मुक्तिरभूद्यतः । अतो वः किमु वक्तव्यं ज्ञाते दशनिरूपणे ॥ १३२॥ ्या। दशनिरूपणे एतच्छास्त्रगम्ये दशविषय इति यावत्। अ०॥ आद्यनिरूपणसमाम्िं दर्शयति एवमिति- मू। एवमद्वैतसिद्धान्तचीन्द्रकायां यथामति। अध्यारोपापवादाभ्यां ज्ञातव्यमिति शासनात् ।। ११३ ।। स्वरूपवेदनायात्र पञ्चाध्यासा निरूपिताः । चन्द्रिकाचार्यसंज्ञेन पूर्वाचार्यप्रसादतः ॥१३४ ॥

Page 60

प्रथमं स्वात्मनि जगद्द्धचासननिरूपणम् ४७

व्या॥। यथा मति पञ्चाध्यासा निरूपिता इति संबन्धः ।i

सिद्धान्तगरुचन्द्रिकायां प्रथमं स्वात्मनि जगदध्यास निरूपणं संपूर्णम् ।। हरिः ओं तत्सत्॥ :0 :-

हरिः ओं। अद्वैतसिद्धान्तयरुचन्द्रिकायां। द्वितीयं स्वात्मजगतोरेकसत्तावादादिनिरूपणम् ।।

-: 0

अ०।। भावाङ्भान्तिरभावाद्वेति भ्रमकारणस्याज्ञानस्य, यत् स्वरूप प्रथम निरूपणारंभे शिष्यै्वर्णितं तद्विशेषण प्रतिपिपादयिषुः प्रारिष्सितशास्त्राभिप्रायाभि व्यञ्जकमर्धनारीश्वरमनुसन्दधाति कार्येति- मू॥ कार्यकारणयोरेकां व्यक्तिमादेष्टमुद्यता। अर्द्धनारीतया स्वार्द्ध सृष्ट येन शिवोऽस्म्यहम्॥ व्या॥मयि कल्पितस्याम्बिकार्धस्येव सर्वोपादाने प्रत्यगात्मनि त्वयि कल्पितख जगतो न प्रत्यगतिरिक्तव्यक्तिरस्तीति स्वनिदर्शनेन प्रत्याययन्तमर्द्धनारश्विरमभेदेन अनुसन्दधामीत्यर्थः ॥१॥ अ०. ॥ कार्यकारणयोरेकसत्तादिप्रयोजकं प्रश्नपूर्वकमाह स्वात्मेति -- स्वात्मन्य्दस्तकार्ये किमेकं सत्ताभिदाप्रदम्। नानावाऽडत्मतम:कर्म सत्ता स्यात्तत्तदीयके ॥ २॥ कया॥ अत्र पक्षभेदेन जगत्प्रकृतेः स्वात्मनः तमारूपाज्ञानस्य च द्व्य. रूपापूर्वाख्यकर्मणश्र या पृथक्पृथवसत्ता तखा: क्रमाज्जगति चित्सत्तामात्रहेतुख्

Page 61

अद्वैतसिद्धान्तगुरुचन्द्रिकायाम् 30

सदतिरिक्तप्रातिभासिकसत्ताजनकत्वं च तदतिरिक्कव्यावहारिकससाप्रदर्त्व चावग. म्यतां तथाहि क्रो। ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते। जगद्रपतयाऽप्येतत् ब्रह्मैव प्रतिभासते ॥ विद्याविद्यादिरूपेण भावाभावादिभेदतः । गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते॥ ब्रह्म सर्वमिद ज्ञानं ब्रह्मप्राप्तेस्तु साधनमिति सर्वशास्त्रार्थसंग्रा- हकेण ब्रह्मगीताया द्वादशाद्धयायवचनजातेनोत्तममधिकारिणं प्रति स्वात्मजगतो- रेकसत्तावादं निरूष्य अनन्तरम्। क्ो॥ जगन्मायेति विज्ञानमज्ञानं फलतो भवेत्। तथापि परमाद्वैतज्ञानस्येदन्तु वेदनं।। उपकारकमत्यन्तं तद्ृष्वा वक्ति तच्छ्ूतिरिति वाक्येन जगति प्रातिभासिकत्वज्ञानस्यान्यथाग्रहणत्वेSपि तस्य स्वात्मनि निरंकु- शाद्वितीयत्वग्रहणे महाप्रतिबन्धकभूतं यत् जघन्येनाधिकारिणा कर्मिणा गृहीतं व्यावहारिकसत्यत्वं तद्ूयावर्त्तकत्वात्परमोपकारकत्वेन स्वात्मभिन्नस्य प्रातिभासि- कत्वं चोपन्यस्य चतुर्थनिरूपणे सार्धत्रिंशादिश्लोकत्वेन च पञ्चमनिरूपणेऽष्टषष्टि- तमादिश्रोकत्वेन चोदाहृत्य व्याख्यातेन ॥ श्रो। यथा भातस्वरूपेणेत्यादिना जग- तसत्यत्वमनूद्य। श्रे॥ अतीव पक्वचित्तस्य चित्तपाकमवेक्ष्य सा। सर्वे ब्रह्मेति कल्याणी श्रुतिर्वदति सादरमिति तदानन्तरादस्माच्छ्लोकात् तत्प्राक्तनेभ्यो ब्रह्मवाक्यभ्यश्च उत्तमादीनामधिकारिणां बुद्धयनुसारेण जगति स्वात्मसत्तादित्रयमुपन्यस्त ततः स्थात्मतमः कर्मसत्ताया:जगत्सत्तात्रयहेतुत्वं भवेत् किञ्चास्मिन्द्ितीयनिरूपणे तृतीयप्रदर्शकावसाने च चतुर्थप्रदर्शकारम्भे च तत्तदधिकारिबुद्धयनुस्त्नारेण त्रिवि- धसत्तासु अन्यतमाया उपदेष्टव्यत्वे प्रमाणानि च दर्शयिष्यन्ति ॥२॥ अ० ॥। इदानीमस्मिन् द्वितीयनिरूपणे प्रतिपादनीयविषयान् दर्शयति पक्षभेदेनेति- मू॥ पक्षभेदेन मायाया रूपभेदप्रदर्शकम्। मायास्वरूपभेदेषु प्रमाणकथनं ततः । ३ ॥ भिन्नमायास्वरूपाणां पृथग्लक्ष्मप्रदर्शकम्। सिद्धिकारस्य तात्पर्य तुरीयत्वेन कीर्त्यते ॥ ४ ॥ भिन्नमायास्वरूपेषु हेतुत्वोक्तिस्ततः परम्। विघ्नात्यन्ताभाव एव हेतुस्स्यादिति ये जगुः ॥ ५ ॥ तन्निरासाय हेतुत्वं ध्वंसादेरुच्यते ततः। सपमे कार्यकथनम्मायारूपानुगुण्यतः ।६॥

Page 62

स्वात्मजगतोरे कसचादिवादनिरूपणम् ४९

ततो लयभदोक्तिस्स्यात् कार्याणां लक्षणं ततः। इत्येवं नवधा प्रोक्तं विज्ञेयानां प्रदर्शकम् ॥।७।। व्या।। प्रदर्शकमिति प्रमाणमित्यर्थः ॥७॥ अ०।। अधुना नवभिः प्रदर्शकैः प्रतिपादनीयविषये वक्तव्यपक्षे भेदान् प्रतिजानीते॥ नवभिरिति -- नवभिस्तैः प्रमेये तु यत्तत्पक्षत्रयं ब्रुवे। ॥। । ठया ॥ स्पष्टोऽर्थः ।। ७।॥

। द्वितीयनिरूपणे प्थमप्रदर्शकारंभः ॥

अ०॥ इदानी वक्ष्यमाणेषु प्रदर्शकेषु निरूपणीयानां पक्षत्रयारणां मध्ये द्वितीयतृतीयपक्षयोः स्वात्मनस्तमसा आवृतत्वं वृत्तिविषयत्वश्व कार्यस्य स्वात्मस- त्तातिरिकसत्तारूपव्यक्तित्वञ्र निरूपयिष्यन्नपि। 'यह्वैतन्न पश्यति पश्यन् वै तन्न पश्यति नहि द्रष्ुर्द्ृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् न तु तद्वितीयमस्ति ततो- Sन्यद्विभक्तं यत् पश्ये' दिति बृददारण्ये षष्ठाध्यायगतश्रुल्या।' अधिकरणरत्नमालाव्याख्यातृभिरवं तत्र 'सुप्तौ जीवः कमपि न पश्यतीति, यत् लौकिकैरच्यते 'तदसत पश्यत्रेव स्वयंप्रकाशमान एव जीवस्तदा न पश्यती'ति भ्रा- न्त्या केवलं व्यपदिश्यते। कथं दर्शनमित्यत्र हेतुरुच्यते तत्र द्रष्टुरात्मनःखरूपभूतायाः दष्टेर्विपरिलोपो न ह्ि विद्यते विनाशराहित्यस्वभावत्वात् अन्यथा आत्मनि मनस्संयोग- जन्यस्य गुणात्मकवृत्तिज्ञानस्य लोपवादिनोऽपि निस्माक्षिकस्य लोपस वकुमशक्य- त्वात् कथ तहि लौकिकानां 'न पश्यती' ति भ्रम इत्यत्र हेतुमाह ब्रह्म चैतन्यादन्यत कियाकारकफलरूपेण विभक्तं यत्पश्येत्-टि-स्वरूपप्रकाशेन प्रकाशयेत् तन्ना- स्तितस्य स्वाकारेण विनाशात् अतो जागरण इव द्रष्टदृश्यव्यवहाराणामभावात् न पश्यतीति लौकिकानां भ्रम इति। तस्माव चिद्रूपो जीवः न मनस्सयोगजज्ञानगुणक इति व्या्यातया। तन्मूलकेन 'जोऽत एवेति, सूत्रेण च तदर्थविवरणपरया ॥क्रो । 5

Page 63

९० अद्वैतसिद्धान्तगुरुचन्द्रिकायां. 'अचिद्रपोऽथ चिद्रूपो जीवोऽचिदप दष्यते। चिद्भावात्सुषुप्त्यादौ जाग्र चिन्मनसा कृता॥ ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते। द्वैतादृषटिर्द्वैतलोपान हि द्रष्ठुरिति श्रुतेः ।' इत्यधिकरणरत्नमालया च ॥ श्रो ॥ 'चित्तव्यापारनाशे तु तद- भावं सुरर्षभाः । खवप्रकाशेन जानाति सुषुप्तौ वेद तामपि ॥' इति ब्रह्मगीताया: दशमाध्यायवचनेन च पश्यति पश्यन् दृष्टेः जानाति वेदेत्यादिपदानां स्वतः प्रका- शमानस्वरूपचैतन्यपरत्वावगमात दृष्टे: जानाति वेदेत्यादिपदानां खवतःप्रकाशमा- नस्वरूपचैतन्यपरत्वावगमात् तेषां पदानां । श्रो ॥ 'यथा Sयः पावकेनेद्धं भाती- व दहतीव च । तथा वेदोऽपि देवेदस्सर्वे वककीव भासते'॥ इत्यात्मनः स्वतस्सि- द्धस्वरूपप्रकाशातिरे केणागमादिप्रमाणानां विषयश्राहकत्वनिरासकस्य यज्ञवैभवखण्ड- वचनस्य च ।। श्रो । ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते। जगद्रूपतयाऽप्येतद्गह्वैव प्रतिभासते। विद्याविद्यादिभेदेन भावाभावादिभेदतः। गुरुशिष्यादिभेदेन बह्मैव प्रतिभासत' इति ब्रह्मगीतायाः द्वादशाध्यायवचनगतस्य जाग्रत्कालिकविद्यादिपदस्य च् 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपश्वकम्। आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भांति कुतोऽयमिः । तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभाति' ॥ श्री॥ 'आदित्यचन्द्रा- नलतारकाद्या न भान्ति यस्मिन्ननिशं महान्तम्। प्रकाशमानं तमनु प्रभान्ति प्रकाश मस्यैव हि नेतरेषाम् ॥ आद्यो विकार आकाशस्सोऽस्ति भात्यपि च प्रियः । अवका - शस्तस्य रूपं तन्मिथ्या न तु तत्तयमि'ति श्रुत्यादिभिः प्रदर्शितेन भातीतिपदेनान्त :- करणपरिणामात्मकमिथ्याभूतवृत्तिज्ञानातिरिकब्रह्म चैतन्यपरेण समानार्थकत्वात्।। एतदुक्ॢं भवति सर्वस्य कार्यस्य ब्रह्ममातप्रकृतिकत्वेन तत्सत्तास्फुरणा- तिरकेण तन्न्यूनसत्तास्फुरणाभावन 'नेह नानास्ति किश्चनेत्या'दि शास्त्रविचार भाव- भापन्रं सत् यथावत्स्यं प्रकाशिष्यमाणात्मचैतन्यात्मकविद्यारूपेण तत्प्रागभाव- सहायात् अन्यथा भासमानात्मचतन्यरूपविद्यारूपेण च जीवेशगुरुशास्त्रतद्विचा- रादिभेदेन च ब्रह्मैव प्रतिभासते ततो ब्रह्मविषयकं ज्ञानमज्ञानं वा ब्रह्मातिरिकं यत्किश्चित्प्रातिभासिकसत्ताकं भ्रमादिकं वा नास्तीति। ननुयतः स्वात्मैव विद्यादिरूपेण प्रतिभासते ततस्तस्य प्रमाभ्रमविषयत्वं नास्तीत्युक्तं तन्न यथा घटः प्रकाशत इत्यत्र घटस्य प्रकाशाश्रयत्वं तत्प्रकाशविषयलं च भवति तद्वत्खात्मनोऽपि किं न स्यादिति चेत् विषमोऽयं दष्टान्त: घटस्तावत्ख्वतः प्रकाशरहितत्वात्परप्रकाश्यः परप्रकाश्यत्न्तु घटालोकयोर्भिन्नस्वरूपलवात् ततो घटं तश्निष्ठः प्रकाशः प्रकाशयतु नाम तथापि स्वात्मजगतोरेकसत्तापक्षे स्वात्मातिरि कस्य

Page 64

द्वितीयनिरूपणे प्रथमप्रदर्शकम्।

पृथग्व्यक्त्यभावेन नित्यभानस्वरूपः स्वात्मा विद्याविद्यादिरूपेण भासत इत्यत्र न तस्य प्रततौष्ण्यप्रकाशात्मकसवितुरिव भानकर्तृतं भानविषयत्ं च संभवेत् भानस्य स्वात्मस्वरूपत्वं तु 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यतयं ब्रह्मरूप- सनिति श्रुत्या भान ब्रह्मैव केवलमिति स्मृत्या च सिद्धमेवेति न भवदाशङ्कावकाशः ततो यत् प्रागुदाहृत्य व्याख्यातं तदेतत् वचनमवलंब्य प्रथमादिप्रदर्शकेष्वाद्यपक्षमुप- पादयति प्रतिबन्धकेति- प्रतिबन्धकरूपं यद्दैतविभ्रमजन्मनि ॥ ज्ञानं तत्प्ागभावस्स्यादज्ञानं भ्रमकारणम्। ८॥।॥ व्या।। द्वैतविभ्रमजन्मनि द्वैतभ्रमस्य भोक्तृभोग्याद्यात्मना अन्यथा स्वतो भासमानस्य स्वरूपचैतन्यस्य जन्मनि प्रतिबन्धकरूपं 'नेह नानास्ति किञ्चन । आत्मैयेदं सर्वे। नान्योऽतोऽस्ति द्रष्टा। तत्त्वमसी' त्यादिश्वुत्या द्वैतासत्वे निवेदिते सति यद् ज्ञानं यथावत् स्वयंप्रकाशिष्यमाणं स्वरूपचैतन्यं तत्प्ाग- भाव: तस्य यथावत् प्रकाशिष्यमाणात्मचैतन्यस्य प्रागभावसंज्ञः भोक्तृभोग्यादि- रूपेणाऽन्यथा स्वयंत्रकाशमानात्मचैतन्यगतः सान्तो ह्भावो भ्रमकारणम् त्रमस्य भोक्तृभोग्यादिरूपेणान्यथाभासमानस्यात्मचैतन्यस्य सहकारिसाधनं अज्ञानं अज्ञानशब्दशब्दितं स्यात् न तस्य प्राक्कालिकत्वं विवक्षितं अन्यथा भावत्वमापद्येते- त्यर्थः ॥ ८। । अ०॥ इदानी द्वितीयादिपक्षमाह द्वितीयति- द्वितीया SSवारिका शक्तिस्तमो द्रव्यं तृतीयकम् ॥ ९ ॥ व्या। आवारिकेति जीवे बह्मत्वनिर तिशयानन्दत्वाद्याच्छादिनी शक्तिः द्रव्येतरा द्वितीया द्वितीयपक्षाभिमता मायेत्युक्का तृतीयपक्षाभिमता मायांविशि- नष्टि तमो द्रव्यं तृतीयकमिति जीवे ब्रह्मत्वाद्यावारकं शकतिमद्रव्यमित्यर्थः ॥ अ०॥। प्रथमपक्षे उपपात दर्शयति मायेति- मायाशक्त्योरसत्वं तु यस्माच्छूत्या विधीयते। तस्माज्ज्ञानप्रागभावो भ्रमकारणमिप्यते ॥ १०॥ क्या।। यस्मात् श्रत्या 'तुच्छमिदं रूपमस्येति' श्रुत्या मायाश- कत्यो: माया च शकतिय मायाशककी प्राक् स्वरूपारकत्वेन निर्दिष्टे तयो: काल-

Page 65

५२ अद्वैतसिद्धान्तगुरुचान्द्रिकायों

नये Sप्यसत्वं विधीयते तस्मात् ज्ञानप्रागभाव: ज्ञानस्य 'नेह नानास्ति किश्चने' त्यादिशास्त्रार्थविचारभावमापद्य यथावत् स्वयं प्रकाशिष्यमाणस्य द्वैतासत्वगोचरस्य स्वरूपचैतन्यस्य प्रमातृप्रमाणादिरूपेणान्यथा स्वयं प्रकाशमानत्वप्रतिबन्धकत्वात् तस्य प्रागभावोऽन्यथा स्वयं प्रकाशमानात्मचैतन्यगताभावः भ्रमकारणमि- व्यते भ्रमस्य प्रमातृप्रमाणाद्यात्मना अन्यथा प्रकाशमानात्मचैतन्यस्य कारणमि- त्येष्टव्यमित्यर्थः ॥ १० ॥ अ०।। 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञात भवती'ति मुण्डकोपनि- षन्मन्त्रेण प्रदर्शितस्य प्रश्नस्य प्रत्युत्तरत्वेन स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते' 'यस्तु सोम्य स सर्वज्ञस्सर्वींभवती' तीमां वक्ष्यमाणार्थपराम् यस्सर्वत्यागी यश्च सर्वेषणाविनिर्मुक्त एतदक्षरं जगदुपादानभूत स्वात्मानं वेदि- तुरेवानया श्रुत्या सर्वज्ञत्वसर्वात्मकत्वयोरुपदेशात् वेदयते अहमस्मीति जानाति स सर्वज्ञस्सर्वात्मकश्च भवति ननु जगदुपादानभूतस्याक्षरस्य तदावारकेणाज्ञानेन सद्वितीयत्वे सति कथं पुनरेकविज्ञानेन सर्वविज्ञानसिद्धिरित्यत आह अच्छायमिति तमोरूपाज्ञानवर्जितमित्यर्थः । तथाऽपि लूताकीटस्येव सशरीरस्यैव उपादानत्वं स्यादित्यत आह। अशरीरमिति तथापि नैल्याध्यासाधिकरणस्य व्योम्र इव गुणित्वं स्यादत आह अलोहितमिति अलोहितपदं गुणान्तराभावानामप्युपल- क्षण यत एवं छायादिवर्जितमतः शुभ्रमिति। एवं तमोरुपाज्ञानादिभावपदार्थो माधिकत्वस्य निषेधादक्षराख्यस्य प्रत्यगात्मनः द्वैतभ्रमसाधनभूतः पूर्वोक्तज्ञान- प्रागभाव एवाज्ञानत्वेनाध्यवसीयते अन्यथा भ्रमानुपपत्तेरिति श्रति प्रथमपक्ष- सिद्ध यर्थमुपपत्त्यन्तरपरत्वेन संगृह्गाति कस्मिन्न्विति- कस्मिन्नु विदिते सर्वे ज्ञातं स्यादिति पृच्छते। 'स यो वेत्ति तद्च्छायमशरीरमलोहितम् ॥ ११ ॥ शुभ्राक्षरमुपादानं सर्वीभवति सर्ववित्।' इति प्रत्युत्तरश्रुत्या निरस्तं च तमो यतः ॥ १२ ॥ तस्माज्ज्ञानप्रागभावो भ्रमकारणमिष्यते ॥ १२॥।॥ व्या।। अन्रापि 'ज्ञानभ्रमशब्दार्थो तावत् पूर्ववदेवावगन्तव्यौ ॥। १२॥॥ अ०॥ 'परास्य शन्तिर्विविधव श्रूयत' इति श्वेताश्वतरश्रुति तस्या ईक्षते-

Page 66

द्वितीयनिरूपणे प्रथमप्रदर्शकम् ५३

नाशब्दमिति सूत्रभाष्यव्याख्यानावसरे समीरितं ऐतिह्यमात्रसिद्धा न तु प्रमाण- सिद्धेत्याह श्रूयत इतीति रामानन्दीयश्च व्याख्यानमुपपादितार्थसिद्धये संगृद्धावि परेति -- परा शक्तिश्श्रतैवेति श्रुत्या यस्मात्प्रदर्शितम्। तस्माज्ज्ञानप्रागभावो भ्रमकारणमिष्यताम् ॥१३॥॥ क्या। अत्रापि ज्ञानभ्रमशब्दारथौं पूर्ववदेव ग्रहीतव्यौ ॥ १३ ॥

द्वितीयप्दर्शकारंभः ।

:0 :-

अ० ॥ एवं प्रथमप्रदर्शकमुपपाद्य द्वितीयप्रदर्शकारंभं प्रतिजानीते पक्ष- भेदेनेति- पक्षभेदेन रूपेषु मायाया मानमुच्यते ॥ १४॥ व्या।। प्राक् प्रथमप्रदर्शके पक्षमेदेन निर्दिष्टेधु मायास्वरूपेषु प्रमाणमुच्य त इत्यर्थ: ॥ १४ ॥ अ०॥। पक्षभेदेनाज्ञानस्य स्वरूपभेदात् तत्तत्प्रमाणमपि पार्थक्येन दर्शयति ज्ञानस्ेति -- ज्ञानस्य प्रागभावो यस्तस्य ज्ञानं प्रमाणकम् । आद्ये पक्षे द्वितीयादावनुमानानुवादकम् ॥ १६॥ व्या ॥ ज्ञानस्य। 'नेह नानास्ती' त्यादि शास्त्रार्थविचारात् यथावत्स्वयं प्रकाशिष्यमाणात्मचैतन्यस्य द्वैतासत्वगोचरस्य प्रागभावो यस्तस्य अज्ञानस्या- िकरणभूतत्वेन तद्राहकं ज्ञानं सम्यग्ज्ञानस्य प्रागवस्थोपेतं पूर्वावस्थामपरित्य- ज्यावस्थान्तरेण भानं विवर्त इति विवर्तलक्षणोकतप्रकारेण निष्प्रकारसच्चिदान न्दरूपतामपारित्यज्य प्रमातृप्रमाणादिरूपावस्थान्तरेणान्यथा स्वयं प्रकाशमाननि-

Page 67

५४ अद्वैतासद्धान्तगुरुचन्द्रिकायां

त्यापरोक्षात्मचतन्यम् आद्ये पक्षे ज्ञानप्रागभावरूपा ज्ञानसद्भावपक्षे प्रमाणं अः नुभवकारणमित्युत्का द्वितीयतृतीयपक्षयोरपि प्रमाणमाह द्वितायादाविति द्वितीयतृतीयपक्षत्वेन निर्दिष्टशक्तिमायास्वरूपविषये प्रवृत्तानां तत्तदनुमानाना- मनुवादकं तत्तच्छात्त्रं प्रमाणमित्यर्थः ॥ १५॥ अ०॥ ननु पक्षभेदेन मायास्वरूपाणि तत्तत्प्रमाणानि च परस्परं भिद्य- न्त इत्युक्तं तथापि क्रियायामिव वस्तुनि विकल्पासंभवात् तत्प्रमाणानां मध्ये किम- बाधितं प्रमाणमित्यत आह तन्मानानीति- तन्मानानि क्रमाद्वक्ष्ये तत्प्राबल्यं विमृश्यताम् ॥ १५॥॥

शक्तिरिति -- अ०॥ अज्ञानं नाम ज्ञानप्रागभाव इत्यत्र ब्रह्मादिसम्मति प्रतिजानीते

शक्तिः प्रकृतिरव्यक्तमाकाशोऽव्याकृतं तमः ॥ १६ ॥ एवमादीनि नामानि ज्ञानाभावस्य मेनिरे। ब्रह्मादयस्तुराश्चैव परमाद्वैतवादिनः ॥१७॥

न्या। ज्ञानाभावस्य शक्त्यादिशब्दवाच्यत्वं तावदस्य द्वितीयप्रदर्शक- स्यावसाने अस्मिञ्ज्ञानप्रागभाव इत्यारभ्य प्रतीत्या केवलं शक्तिरित्यादिश्लोकेन दशयष्यति॥ अ०॥ यत्तावत् प्राक् ॥ श्रो॥ ज्ञानस्य प्रागभावो यस्तस्य ज्ञानं प्रमाणकम्। आद्ये पक्ष इति ज्ञानप्रागभावसद्भावे प्रमाणं प्रतिज्ञातं तदुपपादयति द्वैतोपमर्द- कमिति- द्वैतोपमर्दकं ज्ञानं श्रवणान्मव्भविष्यति। इत्युक्त्या तत्प्रागभावज्ञानमाद्ये प्रमाणकम् ॥ १८ ॥ व्या। 'नेह नानास्ति किञचन' 'नान्योऽतोऽस्ति द्रष्टा' 'नतु तद्वितीय- मस्ति'। 'तत्त्वमसि' 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्ये'दित्यादिश्रुत्या

ज्ञानं द्वैतभ्रमोपमर्दकं यथावत् स्वयंप्रकाशिष्यमाणात्मचैतन्यमुद्दिश्य श्रोतव्य इति विधिच्छामापन्नवाक्यार्थात् श्रवणात् विचारभावमापन्नात् मत् मततः भवि-

Page 68

द्वितीयानरूपणे द्वितीयप्रदर्शकम्।

व्यतात्युक्त्या भविष्यतीति व्यवहारेणावभासमानं यत् तत्प्रागभावज्ञानं तस्य यथावत् स्वयंप्रकाशिष्यमाणात्मचैतन्यस्य यः प्रागभावसंज्ञकः अनित्यो ह्यभावः तस्याधिकरणत्वेन तद्विषयकं विचारप्राक्कालिकम् प्रमाणादिरूपेण स्वयंप्रकाशमाना- त्मचतन्यं आद्ये प्रमाणकं ज्ञानस्य प्राक्कालिकस्य अभावरूपाज्ञानसद्भावपक्षे अनु- भवकारणम्। तथा चोक्तम् पञ्चदशप्रकरणे 'द्वतस्य प्रागभावस्तु चैतन्येनानुभूयत इति। अ०॥ इदानीं ज्ञानप्रागभावशब्दस्य समासं तदर्थस लक्षणञ्च दर्शयति प्रक्कालिकसवे त्यादिना-

मू.। प्राक्कालिकस्य ज्ञानस्य योऽभावस्स तथेर्यते ।

व्या। प्राक्कालिकस्येत्यादिना प्रागभावस् आचार्याणामभिमतमनभिमतञ्च चिशेषणं दर्शयित्वा तल्लक्षणमाह स्वाश्रयस्थान्त लक्षण इति सवस्य खज्ञानप्रागभा- वस् आश्रयः पत्यगात्मा तत्रस्थः खप्रतियोग्याविर्भावदशायां विद्यमानः अन्तः विनाशस्स्याददर्शनमित्यमरकोशोक्तं अदर्शनं आत्मनः औदासीन्यरूपं लक्षणं यख सः स्वाश्रयस्थान्तलक्षण इति तदुककं ब्रह्मगीतायां-त्ो.।। असतः प्राक्तृपूर्वाणां विशेषाणामभावत इति किञ्च न प्रतियोगिना च विशेषणेन अभावस्य प्रकृतस्य सहभावित्वमस्ति अतोऽप्यत्र न भावत्व।शङ्कावकाशः । एवमेव सदेव सोम्येदमग्र- आसीत श्रो। इंद सर्वे पुरा सृष्टेरेकमेवाद्वितयिकम्। सदेवासीन्नामरूपे नास्तामि- त्यारुणेर्वच इति श्रुतिगतैवकारेण तदर्थकेन नजा च ज्ञानज्ञेयात्मकस्य जगतः प्राक्का- लेन संबन्धनिषेधात् तदभावो हि तत्प्रतियोगिकत्वात् प्रागभावसंज्ञकः तद्विषये प्राक्कालिकसाक्षिचैतन्यमेव तदनुभवकारणं श्रो.॥ प्रागभावयुतं द्वैत रच्यते हि घटादिवदिति स्मर्यते॥ १. वनु भ्रमप्रतिबन्धकभूतज्ञानात्यन्ताभावस्यैव द्वैतभ्रमं प्रति कारणत्वमङ्गीकार्य मिति चेन्न स्वकीयज्ञानात्यन्ताभावस्य यत् प्रतियोगि तत् स्वकीयमेवज्ञानं न पर- कीयम् तथा सति तस्य स्वात्मन्येव विद्यमानत्वदशायां तदीयात्यन्ताभावस्य प्रति- बन्धकात्यन्तभावरूपत्वात् स्वाश्रये प्रत्यगात्मनि स्वकार्यद्वैतभ्रमारम्भकत्वासंभवात् स्वप्रतियोगिभूतज्ञानस्य देशान्तरे गमने सति कायारम्भकत्व भवेत् यथा प्रति- बन्धमाचरतो मणे: देशान्तरे अपसरणे सति मण्यत्यन्ताभावस्य कार्यारम्भकत्वं

Page 69

५६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

दृष्टम् एवं प्रतिबन्धकज्ञानात्यन्ताभावस्य कारणत्वे वक्तव्ये सति प्रतिबन्धकस्य प्रत्यञ्चात्रप्रकृतित्वेन स्वात्माश्रितस्य ज्ञानस्य आत्मान्तरे गमनासंभवात् द्वैतभ्रम- कारणत्वेन भवदभिमतस्यात्यन्ताभावस्य कार्यानुमे यस्य कार्याभावे स्वात्मनि स्वरू- पासंभवात्।

२. न च नात्यन्ताभावेन स्वप्रतियोगिज्ञानस्य देशान्तरे गमनं कार्यारम्भणायापे- क्षितं किन्तु तन्नाश एवेति वाच्यम् विनष्टप्रतियोगिकस्यैव विघ्नात्यन्ताभावस्य कारणत्वं न विद्यमानप्रतियोगिकस्येति नियमस्य देशान्तरे अपसारितमण्यत्यन्ता भावेन संजातकार्यकेण बाधदर्शनात् 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्ये' दिति श्रुत्या कतकरजोन्यायेनाद्वितीयस्वात्मज्ञानस्यापि विनाशे सति पश्चात्तद्रू- तज्ञानप्रतियोगिकस्यात्यन्ताभावस्य भ्रमारंभकत्वाभावदर्शनाच्च उभयनियमव्यभि चार:। ३. न च भूतज्ञानप्रतियोगिकस्यात्यन्ताभावस्य कारणान्तरसहायाभावात् चरमसाक्षात्कारध्वंसानन्तरं न कारणत्वमिति वाच्यम् कार्यकारणयोरेकसत्तावादे प्रतिबन्ध कभूतज्ञानात्यन्ताभावेन आत्मनः पूर्वावस्थापरित्यागमन्तरेणैवावस्थान्तर- रूषेण स्वयं प्रकाशमानत्वे आकाशेनेव कर्मावरणयोरनपेक्षितत्वात् किञ्च प्रति- बन्धकभूतज्ञानप्रागभावरूपस्याज्ञानस्य प्रमातृप्रमाणादिरूपेण आत्मनस्स्वयमन्य-

न्तरास्वीकाराच्च यथा नीलं नभ इत्यत्र निरशंस्य नभसो नीरूफत्वज्ञानप्रागभावा- तिरेकेणावरणं कर्म वा न स्वीक्रियते सर्वैः तथाचोक्त विद्यारण्याचायेः। श्रो॥ 'निरंशेऽप्यस्त्यसौ व्योम्ि तलमालिन्यकल्पनात्। तथा निरंश आनन्दे विवर्तो जगदिष्यतामिति। ४. न चन प्रतिबन्धकज्ञानात्यन्ताभावस्य कारणत्वाभावे नियामक इति वाच्यम् नष्टज्ञानप्रतियोगिकस्यात्यन्ताभावस्य भ्रमकारणत्वाभावबोधिन्याः 'यत्रत्वस्य स- वमात्मैवाभूत् तत् केन कं पश्ये' दित्यादिश्रुतेः-ज्ञानस् स्ाश्रयं विहायान्यत्न गम- नासंभवस् च नियामकत्वात्। ५. ननु द्वैतभ्रमप्रतिबन्धकभूतज्ञानात्यन्ताभावस्य विनष्ठापसारितज्ञानप्रतियोगि- कस कारणत्वे तस्य भवत्प्रदर्शितश्रृत्यपसरणाभावाभ्यां बाघदर्शनादेवं ब्रूम :- प्रकृतज्ञानात्यन्ताभावस्य न किश्वित्कालावच्छिन्नं ज्ञानं प्रतियोगि-किन्तु कालकृत- विशेषणविनिर्मुक्तमेवेति चेतू न चरमसाक्षात्कारावन्तरमवाशिष्यमाणस नित्यस्य

Page 70

द्वितीयनिरूपणे द्वितीय प्रदर्शकम्। ५७

त्यादिपूर्वोक्तश्रुत्यैव कारणत्वाभावावगमात्। ६: किञ्च किं तव न्यायमतानुसारिण: प्रतिकर्मव्यवस्थावादिनः सर्वभ्रमप्रति- बन्धकज्ञानात्यन्ताभावसत्वे प्रमाणं नेह नानास्ति किञ्चन' 'न तु तदवितीयमस्ती- त्यादि श्रुतिरेवेति चेत् किमियमपवादश्रुतिः प्रत्यगात्मनो भिन्नत्वेन विद्यमानानां भावाभावपदार्थानां ये अत्यन्ताभावाः तेषां प्रतीचिभिन्नत्वेन सत्वं उत सर्वेषा- मसत्वं बोधयति नाद्यः श्षो॥ न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः । न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधे' ति कालत्रयेऽपि त्रिविधवस्तुकृत परिच्छेदशन्यस्ात्मनः त्रिविधवस्तुप्रतियोगिकतैकालिकात्यन्ताभावैः परिच्छेदा- पत्तेर्नाद्वैतसिद्धिः । ७. ननु 'नेह नानास्ति किञ्चने' त्यादि श्रुतेरात्मातिरिक्त्तात्यन्ताभावादि नि- खिलनिषेधपरत्वादद्वैतसिद्धिरिति चेत नेयं श्रुतिस्तवात्यन्ताभावसत्वे प्रमाणं भवेत्। ८. ननु ज्ञानप्रागभावेनापि द्वैतापत्तिस्स्वादिति चेतु न तस्यापि खात्मसत्ताति- रिक्तसत्ताभावेन 'नेह नानास्ति किञ्चन। न तु तद्वितीयमस्ती' त्याद्यपवाद्श्रत्या प्रागभावादिभावाभावपदार्थानां खतः सत्तानिषेधात् अद्वैतसिद्धिः । ९. तर्हि तथैवात्यन्ताभाववादिनां किन्न स्यादिति चेत न तैस्तस्य नित्यत्वाभ्युप- गमातू न ज्ञाननाश्यत्वसिद्धिः नित्यत्वरूपभावधर्माश्रयत्वात् ततो नाद्वैतत्वसिद्धि- रात्मनः तस्याः अपवादश्रुतेः द्वैतभ्रमसाधनभूतप्रतिबन्धकज्ञानात्यन्ताभावपरत्वे अध्यारोपपरत्वापत्तिश्च स्यादतः प्रागभावध्वंसयोरधिकरणे नात्यन्ताभाव इति प्राची- नानां मतानुसारेण प्रकृतसर्वभ्रमप्रतिबन्धकज्ञानस्य नात्यन्ताभावसिद्धिरात्मनि। अन्यथाऽत्यन्ताभावसिद्धयर्थ ज्ञानस्य त्रैकालिकनिषेधप्रतियोगित्वे तमेवं विदित्वाS तिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति श्रुतेरप्रामाण्यं प्रसज्येत । १०. नन्वनया श्रृत्या मुखतः अत्यन्ताभावातिरिक्तभावाभावदृदश्यनिषेधेनात्य- न्ताभाव एक एवावशिष्यते तथापि न तेनात्मनो द्वैतापत्ति: तदत्यन्ताभावस्याधि- करणात्मकत्वादिति चेन्न किं तदत्यन्ताभावप्रतियोगिभिरपराद्वं सर्वेषामधिकरणा- त्मकत्वं 'आत्मैवेदं सर्वे अहमेवेदं सर्व'मित्यादि श्रुतिभिः 'तदनन्यत्वमारंभण- शब्दादिभ्यः ' 'सत्वाच्चापरस्ये'त्यादिस्त्रैश्च मृद्धटादिदृष्टान्तैश् सिद्धमेव । ११. किं चातयन्ताभावस्य तदधिकरणात्मकत्वं नाम तदधिकरणादनन्यत्वं चे- तस्वपक्षहानिः परपक्षसिद्विश्च ततः कार्यकारणयोरभेदवादे अन्योन्याभावास्यभेद स्येव कारणे कार्यात्यन्ताभावस्यापि न स्वरूपसिद्धिः तथोपादाने तदाश्रितत्वेन न

Page 71

अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

कार्यप्रध्वंसाभावस्यापि स्वरूपसिद्धिः श्रो॥ अधिष्ठानावशेषो हि नाशः कल्पितव- स्तुनः । विकाराणां प्रकृतिभावापत्तिर्लय इत्यादिस्मृतेः तथाऽपि यावद्विचारं प्राक्का- लिकज्ञानस्याभाव एव प्रागभावसंज्ञः प्राक्कालिकस्य स्वात्मविवर्त्तस्याभाववदवस्थितः। १२. अन्यथा-प्रध्वंसाभाववत् नित्योऽपि मोक्ष आरभ्यत एवेति चेन्न मोक्षस्य भावरूपत्वात् प्रध्वंसाभावोऽप्यारभ्यत इति न अभावस्य विशेषाभावा- द्विकल्पमातमेतत् भावप्रतियोगी ह्यभावः । यथाह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभाव: पटभाव इति एवं निर्विशेषोऽप्यभावः क्रियागुणयोगात्-टि-क्रियासंख्याध्यासात् द्रव्यादिवद्विकल्प्यते। नह्यभाव उत्पलादिवद्विशेषणसहभावी विशेषणवत्वे भाव एव स्यात् इति शीक्षावल्ल्यवतरणभाष्यं च तदीयं ननु अभावश्चतुर्विधः तत्रानित्यः प्रागभावः प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्गयाह यथा हीति भावप्रत्यय स्यैकाकारत्वात् एक एव भाव: अवच्छेदकभेदात् भिन्न इव प्रकाशते तथा निषेध- प्रत्ययस्यैकाकारत्वादेक एवाभाव: अवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात् संख्यादिगुणयोगात् द्रव्यवदभावो विकल्प्यते न तु तत्वतः स विशेष इत्यर्थः । इतश्च न तंत्वंतस्सविशेष इत्याह न हीति विशेषणं हि विशेष्यान्वयि प्रसिद्ध प्रतियोगिना च विशेषणेन नाभावस्य सहभावोडस्ति। घटप्रध्वंसस्य नित्यत्वे घट- स्यापि नित्यत्वप्रसङ्गात् घटसहभावित्व च तद्भावत्वव्याघातात् भावाभाव यो- स्सहानवस्थानरूपविरोधाभ्युपगमातू। ततः प्रतियोगिविशेषादभावस्सविशेषः कार्यत्वादिधर्मवानिति भ्रममात्र- मित्यर्थ इत्यानन्दगिरयं च असतः प्रात्तपूर्वीणा विशेषाणामभावत इति ब्रह्मगी- तायाः तृतीयाध्यायवचनं चोपरुध्येत। किञ्च द्वैतिनामद्वैतिनां च ज्ञानप्रागभावरूपं भावरूपं वाऽज्ञानं न श्यतीत्यत्र नत- त्तत् तत्तदूंसक्रियाश्रयं किन्तु तदधिष्ठानं स्वात्मचैतन्यमेवेति चेत् बाढमेतदेवं स्यात्। १३. ननु नेह नानास्तीति श्रुतेः पराभिमतं द्वैतात्यन्ताभावपरत्वं नास्ति यदि को- भिप्राय इति चेतू सद्वूपात्मसन्निधौ सदिति प्रतीत्यर्हत्वेन विवर्त्तमानं जगन्मद्वयति- रेकेण शशविषाणवन्निषेधाईमित्यभिप्रायः अयमेव यद्यपि त्रैकालिकनिषेधप्रति- योगित्वं तुच्छानिर्वाच्ययोस्साधारणमित्यादिसिद्धिवाक्येनापि दर्शितः वाढमेवं कि तुच्छस्य त्रैकालिका्निषेध्यत्वं उत्पत्तिविनाशराहित्य तर्ह्यसदात्मवोः को भेदः सद्रूपेणोत्पत्तिविनाशराहित्यं आत्मनःसत्वं नीरूपेणोत्पत्तिविनाशराहित्यं शशशज्ञादे-

Page 72

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्। ५९

रसत्वमिति विभाग: बाढं तुच्छानिर्वाच्ययोरसत्वे तु समाने कथ भेद इति चेदसत्वेन लौकिकैः ज्ञातत्वाज्ञातत्वाभ्यां विवेकः। ननु त्रैकालिकाभाव इत्यत्र कथं समासार्थाविति चेत् त्रैकालिकानां आसी- दहिति भविष्यतीति तात्ततकालिकानां अभावः असत्वं निषेधः समासाथों भवतः तथाचोक्तं 'प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूय'इति सूत्रस्ानेन भाष्येण 'अथात आदेशो नेति नेति नश्ेतस्मा' दिति श्रुत्या ब्रह्मैव रूपवत् प्रति- षिध्यते तद्धि वाडयनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् न तु रूपप्रप- ञचः प्रत्यक्षादिगोचरत्वात प्रतिषेधारह इति पूर्वपक्षे प्राप्ते न ब्रह्म प्रतिषेध उपपद्यते 'ब्रह्म ते प्रब्रवाणी' त्युपक्मविरोधात् 'असन्नेव स भवति असद्रह्मेति वेद च' दि- त्यादिनिन्दाविरोधादित्युपक्रम्य युक्तं च कार्यस्य वाचारम्भणश्नत्यादिभ्योऽसत्व- मुक्तमिति नेति नेतीति प्रतिषेधनम न तु ब्रह्मणः सर्वकल्पनामूलत्वादिति। अत एवारम्भणसूत्रभाष्ये सूत्रगतादि शब्देन 'नेह नानास्ति किञच्ने'त्यादिश्रुतिमादाय तस्या: पूर्वोक्तारंभणश्रुत्या समानार्थकत्वं नास्तीति वाक्यस्यासदिति पदादविशेष- ताश्रौतीत्यभिप्रेत्यैवोक्तम् अतः कारणव्यतिरेकेण कार्यस्याभाव आरंभणश्रुत्यभिप्रेत इति भाष्यगतेनाप्यभावशब्देन कारणात् भेदेन कार्यस्य भूधात्वर्थसत्तव निषिध्यते यथा न सुरां पिबेदिति तत्पानप्रवृत्तिर्निरुध्यते एवमेव नवश्चैष स्वभावः यत्स्वसम्ब- न्धिनोऽभावं बोधयतीत्यत्रापि स्वसम्बन्ध्येव निषिध्यते। एवमेव निषेधवाक्यार्थः गृहीतव्य इत्यत्र पञ्चमनिरूपणे एकनवतितम- श्रोकवृत्तौ बहूनामाचार्याणां सम्मति दर्शयिष्यामः । किञ्च यत् कार्यस्य कारणादनन्यत्वपरमारम्भणसूत्रं यत्तद्तादिशव्देन अ्हीतं नेह नानास्तीति कठवल्लीवाक्यं यच्च नेह नानेति चाम्नायादिति गौडपादीया- द्वैतप्रकरणवाक्यं यच्च न तु तद्वितीयमस्ति ततोऽन्यद्विभक्ततं यत्पश्येदिति बृहदारण्य- वाक्यं सुषुप्तिपरं यच्च प्रागुक्तकठवल्लीवाक्यवत यत्र त्वस्य संर्वमात्मैवाभूत्तत्केन कं पश्येदिति जीवन्मुक्त्यादिपरं बृहदारण्यवाक्यं यदेतच्छ्रृतिमूलकं स्ाप्ययसंपत्त्यो- रन्य तरापेक्षमाविष्कृतं हीति सूत्रं च यान्यारम्भणाधिकरणीयानि गुणसूत्राणि च यानि

साधकानां समानतात्पर्यकत्वात् चिभिन्नं त्रकालिकनिषेधप्रतियोगीति सिद्धिवाक्यस्य चिद्धिन्ने चिदभेदसाधकत्वाच्च असंभाव्यमानसद्धावं प्रतिषेधाह्देमितिप्रागुदाहृत- भाष्योक्तप्रकारेण जगति नासीन्नास्ति न भविष्यतीति करमात् तात्तत्कालिकसत्ता- प्रतिषेधार्हत्वबोधकेन न खात्मनि तस्माद्भेदेन पराभिमतः कालान्तरेऽधुना वाउपा-

Page 73

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

दानान्तरे वा तेन साकमन्यत्र वा विद्यमानपदार्थप्रतियोगिकात्यन्साभावोऽड्गीकृत इति ध्येयम्। उत्पत्तिलयपरेण एवमवामुत्र पुण्याचतो लोक: क्षीयत इत्यादिना चाका- शादीनां कर्मफलस्य च क्रमात् नित्यतमक्षय्यतं च प्रतिषिद्दम्। १४. ननु स्वात्मनो यथावत्सतः प्रकाशिष्यमाणभानस्य प्राक्कालिकत्वाभावसहाय- बलेन बहु स्यामिति श्रृत्यनुसारेण प्रमातृप्रमाणप्रमेयादिरूपेणाSन्यथा स्वयं प्रकाशमान स्वात्म रूपातिरेके णाSनात्मद्रव्यादीनां तदत्यन्ताभावानां चासत्वं नेह नानास्ति किं च- नेत्यादि श्रुत्यभिप्रेतं यदि। १५. अस्मिन्ननात्मनि कपाले तदीयघटो नास्तीत्यत्र तदत्यन्ताभावप्रतीतेः का गतिरिति चेत। १६. अत्रापि अयमात्मा ब्रह्मेति यो नित्यापरोक्षस्तस्मिन् खात्मनि कपालादिजग- द्रूपे णान्यथा स्वतोभासमाने सति स्वात्मजगतोरेकसत्तापरश्रुतितात्पर्यतदनुभवादि- रहितैः स्वात्मसत्तातिरिक्तसत्ताकत्वेनात्मभिन्नत्वेन चान्यथागृहीतेSनात्मनि कपाले तद्भेदेन घटतदत्यन्ताभावादीनामन्यथा गृहीतत्वात् न तेषां स्वरूपसिद्धिः । १७. अन्यथा तदभावस्य नासीन्नास्ति न भविष्यतीति व्यवहारात् यदि त्रैकालि- कत्वं तदा घटः कालत्रयेऽपि तदीयकपाले नास्तीत्युक्त स्यात् न तत्र तदसत्वं सम्भ- वति तत्पक्षे तत्न जायमानघटप्रतीत्या बाधितत्वात् तथाच सति न तदभावस्य लै- कालिकत्वेन स्वरूपसिद्धिरिति प्रथमो दोषः । १८. तथैव यदि कपाले तदीयघटाभावस्य त्रैकालिकत्वेन नित्यत्वमिष्यते तदा कपाले घटस्यानाविर्भावापत्तिरिति द्वितीयो दोषः । १९. तथैव कपाले तदीयघटाभावस्य नित्यत्वेऽपि तत्र घटाविर्भावदशायां तद- भावप्रतीत्यभावे स्वरूपसम्बन्धाभावः कारणं तत्र घटानाविर्भावदशायां तदभाव- प्रतीतौ स्वरूपसम्बन्धः कारणमिति कल्पनाप्यसदर्थप्रलापिनीति तृतीयो दोषश्चापद्येत। २०. तथाहि कपालेन सह तदीयघटात्यन्ताभावस्य स्वरूपसम्बन्धो नाम यदि कपालस्वरूपं तस्य घटवत्वदशायां प्रत्यक्षसिद्धत्वे कदाचित्तन्नास्तीति कथमुच्येत। २१. तदानीं कपालस्वरूपसिद्धावपि तत्र घटाभाववत्तावगाहिबुद्धि कालिककपाल स्वरूपाभावात् तत्सम्बन्धात्मकं कपालस्वरूपं नास्तीति चेत् २२. न एकस्यैव कालभेदेन भेदवादस्य नहि गौस्तिष्टन्गच्छन् गौर्भवति शयानो S्श्वादिजात्यन्तरं भवेदिति बृहदारण्यभष्येण च सोयं गौरित्यभेदप्रत्यक्षेण च तदिदं कापालस्वरूपमित्यभेदप्रत्यक्षेण च बाधितत्वात्।

Page 74

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्।

२३. किं च यदा पुनः कपालतदीयघटात्यन्ताभावयोस्सम्बन्धो नास्तीत्युच्यते तदा तदभाव: किमस्ति विनष्टो वा आद्ये कुत्रास्ति तत्कपाल एवेति चेत् केन सम्ब- न्घेनास्ति स्वरूपसम्बन्धेनैवेति चेत् तत्काले स सम्बन्धः तत्रास्ति नास्तीति च वाक्यस्य 'नैकस्मिन्नसम्भवादिति' सूत्रेण दर्शितस्य स्यादस्ति स्यान्नास्तीति दिग- म्बरवादस्येव परस्परव्याहतत्वापत्तिरूपः चतुर्थो दोषः प्रसज्येत। २४. यदि तत्परिहारायान्यत्र गमनमिष्येत तदा तस्याभावस्य मूर्तत्वापत्तिरूप: पञ्चमो दोष: प्रसज्येत २५. यदि तत्परिहाराय द्वितीयो विकल्पोऽ्भ्युपगम्येत तदा तस्य किमनादित्वेन विनाशोऽङ्गीकरियते किमादिमत्वेन आद्ये तस्याभावस्य वक्ष्यमाणप्रकारेणास्मदीय- भाष्यकारविद्यारण्याचार्याणां प्राचीनानां न्यायविदां चाभिमतप्रागभावत्वसिद्धिरूपः परानभिमतः षष्ठो दोष आपद्येत। २६. द्वितीये तु तस्य सामयिकाभावत्वरूपः सप्तमो दोषः प्रसज्येत। २७. न च तस्य सामयिकाभावत्वं वैशेषिकाणामिषं तैस्तस्य समवायिकारणेतर- भूतलादावेव घटगमनागमनाभ्यामुत्पत्तिविनाशस्वीकारात् २. अतः कपाले घटस्य प्रागभावं विना प्रध्वंसाभावोऽत्यन्ताभावः सामयिका- भाव इव च सर्वोपादाने स्वात्मनि विवर्तमानस्यास्य जगतः प्रागभावं विना न प्रध्वंसाभावोऽत्यन्ताभावस्सामयिकाभावश्र प्रसिध्यति। २९. कि च द्वैतिनामिष्टेनात्यन्ताभावेन सह प्रागत्नोदाहृतेन 'प्रकृतैतावत्वं हि प्रतिषेधति ततो व्रवीति च भूय इति, सूत्रस्य भाष्येण च एतेन शिष्टापरिग्रहा अपि व्याख्याता इति' सूत्रतदीयभाष्याभ्यां च तदविकरणार्थनिर्णायकेनानेन क्रो॥ बाधारऽस्ति परमाण्वादिमतैनों वा यतः पटः । न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः। शिष्टेषटापि परित्यक्ता शिष्टत्यक्तमतं किमु। नातो बाधो विवर्ते तु न्यूनत्वनियमो न हीति। अधिकरणरल्नमालावचनेन च शिष्टर्मन्वादिभिरुपादानांशे परिगृहीतायाः साङ्वयाभिमतमूलप्रकृतेरिव परमाणुकारणवादस्यापि मूत्रकारादिि: परित्यक्क्तत्वे सात तदेकदेशो घटस्य समवायिकारणेतरभूतलादावभिमतस्सामयिकाभावोऽपि न्यायकुशलैर्नवीनैः गौरवापादकत्वेन परित्यक्तत्वात् श्रृत्यनारूढत्वाच्च। 6

Page 75

द्वैतसिद्धान्तगुरुचन्द्रिकायां

अस्मिन्द्वितीय निरूपणे चतुःपञचाशदुत्तरदविशततमादिभिस्सप्तभश्श्राकैरुदा हरिष्यमाणगैडपादायकारिको क्तप्रकारेणात्मोपादानकस्य कार्यस्य द्रव्यत्वाभावेनान्यत्र गमनासम्भवाच्च गन्तव्यप्रदेशान्तराभावाच्च नास्माभिरद्वैतिभिरुपदियः । ३०. ननु सामयिकाभावाभ्युपगमे किं गौरवमिति चेत् भूतले कपाले च घटो नास्तीति वाक्यप्रयोगस्यैकत्वे सति एकत्र सामायकाभावबोधकत्वं अन्यत्न तद- नवबोधकत्वमित्यनियतत्वकल्पनं पदार्थान्तरकल्पनं च गौरवमित्यवगन्तव्यं। ३१. ननु प्रतियोगिज्ञानमन्तरा तदभावज्ञानस्यासिद्धत्वात्कथं प्रागभावसिद्धि- रिति चेत् सदेवसोम्येदमग्र आसीदिति श्रुत्याऽस्य प्रत्यक्षस्यवार्त्तमानिकस्य जगतः प्राक्कालिकत्वाभावस्य दर्शितत्वात् तत्सिद्धिः । ३२. अन्यथा पुरा इमे नामरूपे नास्तामिति परामर्शासंभवापत्तेः । ३३. किञ्च न प्राक् सुषुप्ताविदानीन्तनमिदं जगदभवत्स्वात्मनि इदानीमेव जाय- मानत्वादित्यत्र नित्येन साक्षिणानुभूयमानो जगत्प्रागभावो जगदुत्पत्या नश्यतीति 'गतिसामान्यादिति' सूत्रभाष्ये भाष्यकारैरुदाहृतैः 'समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः स यदा प्रतिबुद्धयते यथान्नेर्ज्वलतः सर्वा दिशो विष्फुलिङ्गा विप्र- तिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतन विप्रतिष्ठन्ते प्राणेभ्यो देवा देवे- भ्यो लोकाः ॥ तस्माद्वा एतस्मादात्मन आकाशस्संभूतः ॥ आत्मन एवेदं सर्वे॥ आत्मन एष प्राणो जायते॥ इति कौषीतकीतततिरयिकछान्दोग्यप्रश्नाख्यैः सर्व- वेदान्तैः अवस्थात्रयवतो जगदुत्पत्तिपरैः विदुषां जगत्ततप्रागभावानुभवौच दर्शितौ। ३४. किञ्चास्मिन् तण्डुले मृदादौ च एतत्सदृशमोदनं गणेशादिकं च करिष्याम- इति वदतां सर्वेषामस्माकं चिकीर्षितस् भविष्यदोदनादेः तत्पाकाकारविशेष- स्य च तत्प्रकृतिनिष्ठाभावे ओदनादिप्रागभावत्वस्य च तत्प्रागभावतद्गुंसयोश्चा- नुभव: साक्ष्यायत्तः सिद्धः । ३५. अन्यथाऽस्मच्चिकीर्षानुगुण्येन नैवौदनादिस्वरूपनिष्पत्तिः स्यात्। किं वास्मिस्तण्डुले तदीय ओदनो नास्तीत्यत्र प्रतीयमानोऽ्भावस्तावत् नात्यन्ताभावः तस्य त्रैकालिकत्वेन सहात्र सप्तदशखण्डादारभ्य सप्तविंगखण्डाव- सानकग्रन्धसन्दभैंनिराकृतत्वात ३६. नापि प्रध्वंसः तस्मिन् तण्डुले त्वबिकियमाणे सति तद्विकृत्योदनध्यंसस्या- बकाशाभावात् ३३. अंतः पारिशेष्यात्तस्य प्रागभावत्वं तदनुभवश्च सिद्ध:

Page 76

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्।

३८. एवमेव ममासन्तुष्टिर्नष्टेत्यत्र साक्षिणा सन्तुष्टितत्प्रागभावतद्विनाशाना- मनुभवः पण्डितैरपि दुरपन्हवत्वात्सिद्ः ॥१९॥ अ० ॥ इदानीं द्वितीयपक्षत्वेन प्रतिज्ञाते मायाया आत्मशक्त्यात्मकत्वे प्रमा- णादिकं दर्शयति अथेति -- मू॥ अथ वक्ष्याम्यात्मशक्तेः प्रमाणमभिधामपि। मायाप्रकृतिरव्यक्तमाकाशोऽज्ञानमेव च ॥। २० ।।

अविद्या तम इत्यादि शक्त्तेर्नामेति वादिनः । संक्षेपगुरवशश क्तेरनादित्वादिकेडपि च ।। २ १॥

श्रौतानि नानावाक्यानि प्रमाणमिति मेनिरे ॥२१॥॥

अ०॥ कानि तानि वाक्यानीत्यत आह अनादीति -- मू॥। अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ॥ २२ ॥ व्या। अनादिमाययेति अनादिभूतया मायया आत्मशक्तेत्यर्थः॥२२ अ०॥ नन्वनया श्रत्या मायाया अनादित्वावगमेऽपि न शक्त्यात्मकत्द- मवगम्यत इति प्राप्ते। तस्यास्तथात्वपरां श्वेताश्वतरश्रुति प्रमाणयति त इति- मू॥ ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्ति स्वगुणैर्निगूढाम् ॥। २२।॥ व्या। त इति जगत्कारणतत्वजिज्ञासवो मुनयः ध्यानयोगानुगताः विचारयोगमाश्रितास्सन्तः निगूढां स्वतो ज्ञातुमशक्यां देवात्मशक्ति देवस्य स्वयं प्रकाशमानस्थयात्मनो जगदद्धयासाद्यनुकूलां शक्ति स्वगुणैः स्वकीयैश्शक्त्या- रब्घैर्गुणैर्गुणरूपलिह्ै: अपश्यन् अविदुरित्यर्थः ॥२२॥

अ०॥ एवमात्मशक्तरनादित्वं मायाशब्दवाच्यत्वञच दर्शयित्वा भधुना जगत आध्यासिकत्वप्रदर्शनार्थे तत्कल्पकस्यात्मनः स्वशक्तिमोहितत्वे कैवल्यश्रति- मुदाहरति स ऐवेति-

Page 77

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू। स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।। २३ ।। स्पष्टोऽर्थः ॥ अ० ॥ इदानीं शक्तेरात्मव्यामोहकत्वसिद्धयर्थे तापनीयश्षतिमुदाहरति मायेति- मू॥ माया चेयं तमोरूपेत्येवमादीनि तद्वलात्। द्रव्यादन्यां तमोरूपां स्वात्मन्यपि च कल्पिताम्॥ २४॥ ज्ञाननाश्यत्वसिद्धचर्थमनिर्वाच्यां समीर्य च। तत्रैतान्यनुमानानि प्रमाणत्वेन मेनिरे ॥ २६॥ व्या। एवमात्मशक्तेर्व्यामोहकत्वप्रयोजकं तमोरूपत्वमित्यत्र श्रुतिं दर्श- यित्वा अनुमानान्यपि मेनिर इत्याह तद्ूलादित्यादिना ॥ २५॥ अ०। कानि तान्यनुमानानीति प्राप्ते तदवतरणाय किञ्चिदनुमानान्तर माह व्योमादीति -- मू॥ व्योमादिकर्तृजं भोक्तृशेषत्वादन्नवत् सतु ॥ २५॥॥ व्या।। व्योमादीत्यादिपदेन कालदिङानशशब्दादिविषयाणां संग्रहः। तेषां कथं भोक्तृशेषत्वमिति चेत् व्योत्रो भोग्यवीणादिशव्दाधिकरणत्वात् कालस्य सर्वे प्रति निमित्तकारणत्वात् दिशां प्राच्याद्याधिपत्यं प्रति निमित्तत्वात् मनआदीनां भोगोपकरणत्वाच्च भोक्तृशेषत्वमवगन्तव्यम्। तत्र दृष्टान्तमाह अन्नवदिति। ननु सिषाधायेषिताया आत्मशक्ते: अनादेरीश्वरस्य च भोक्तृशेषत्वात् कर्तृजन्यत्वं चापदेतेति चेत् बाढमेव स्यात् जीवेशयोर्भेदवादिनाम्। 'पुरत्रये कीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र' मित्यादिश्रुतिमवलम्ब्य एकजीववादं ब्रुवताम- भेदवादिनां न कश्चित् दोषः साधनीयशक्तिकस्य सौषुप्तस्य प्राज्ञस्यैव जगत्स्ष्टुः कार्यानुप्रवेशेन भोक्तृत्वदशायां तदतिरेकेण शक्तीश्वरयोरभावात्। अतश्च न भव- दाशङ्गावकाशः ॥। २५॥॥ अ० ॥ व्योमादिकर्तुर्विचित्शन्किकत्वं साधयति विचित्रति-

Page 78

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्। ६९

भू ॥ विचित्रशक्तिकश्चित्रकर्तृत्वाच्चित्रकर्तृवत् ॥२६॥ व्या। स त्विति पूर्वश्रोकादनुवर्तते। स तु जगत्कार्ता विचित्रभ्नक्तिक: भवितुमर्हतीति साध्यं प्रतिज्ञाय हेतुमाह चित्रकर्तृ त्वादिति चित्स् विचित्रस्म कार्यसय कर्तृत्वादिति हेतुमुक्ता दृष्टान्तमाह चित्रकर्तृवदिति चित्रस्य नानावसरो- पेतरामलक्ष्मणाद्यालेख्यस्य कर्तृवत् चित्रकार इवेत्यर्थः ॥ २६॥ अ०॥ अधुनात्मश क्तेस्सदृष्टान्तमनिर्वचनीयत्वं साधयति अग्नीति- मू । अभिशक्तिर्न तद्भिन्ना तन्नाशेऽस्या अदर्शनात्। यद्यभिन्ना प्रदृश्येत प्रतिबन्धे यथाऽनलः ॥२७॥ नोभयत्वं विरुद्धत्वादनिर्वाच्या ततस्तथा। आत्मशक्तिरनिर्वाच्या शक्तित्वादग्निशक्तिवत् ॥२८॥ व्या। तन्नाशे अगिनाश इत्यर्थः प्रतिबन्ध इति आत्ममिशक्तिका- यविद्यादि प्रतिबन्धकपापादौ सतीत्यर्थः यथानल इति अनलाभिन्नोऽनलवत् अनलाभिन्ना चेत् शक्तिरित्यर्थः शेषस्सुगमः ॥२८॥ अ० ॥ आत्मशक्तेरनादित्वं साधयति चिद्िति- मू ॥ चिच्छक्तित्वादनादिस्स्वशक्तिरीशस्य शक्तिवत् ॥ २८।।॥। अ०।। इदानीं मीमांसक प्रति प्रश्नपूर्वकं शक्तेरात्मावारकत्वं साथयति चक्षुरिति- मू। चक्षुग्रह्यातिरिक्तस्य ध्वान्तं नावारकं यतः । स्वस्य किं जगद्ध्यासहेतुरावारकं यदि॥ काचित्स्वस्यावारिका तद्विशषत्वात्स्वशक्तिषु। आत्मवद्वचतिरेकेण ततोऽन्यदनुमीयते ॥ २९॥॥ ्या। आत्मनो नानाविधशकीनाम्मध्ये स्वस्य जगत्कारणत्वसमर्िका काचिच्छ्तिरिति पक्षनिर्देशः । शेषस्सुगमः ॥ २९॥॥ अ० ॥ शकतौ तमस्त्वं साघयति आवारिकेति --

Page 79

अद्वैतसिद्धान्तगुरुचान्द्रिकार्या

मू॥। आवारिका तु सा शक्तिस्तमो भवितुमर्हति । धीनाश्यभ्रमहेतुत्वादन्धकारो यथा तथा ॥ ३०। ।। व्या। यथा Sन्धकारस्य इय रज्जुित ज्ञाननाश्यसर्पभ्रमहेतुत्वात्तमसत्वं तद्वू दात्मशक्तेरपि देहव्यतिरिक्तोSहमिति ज्ञाननाश्यो यो जातोऽहं मृतोऽहमित्यादि भ्रमः तं प्रति हेतुत्वात्तमस्त्वं न च भ्रमहेतुभूतैन्द्रजालिकमण्यादौ व्यभिचारः तद्वियोगस्यैव तञ्रमनाशकत्वेन ज्ञाननाश्यावत्रमहेतुत्वाभावात् तन्मिथ्यतंतु असत्वं जपावियोगात् मणिलौहित्यवत् मण्यादि वियोगादवगम्यताम्। ३॥॥ अ० ॥ नन्वेतेषां शक्तितद्वर्मविशेषसद्भाबपराणामनुमानानां 'ते ध्यान- योगानुगता अपश्यन् देवात्मशक्तिं स्वगुणै्निगूढा' मित्यादिश्रुत्यनन्तरभावित्वे सति कथम् ॥ श्ो ॥ 'ज्ञानस्य प्रागभावो यस्तस ज्ञानं प्रमाणकम्। आद्यें पक्षे द्विती- यादावनुमानानुवादक' मिति प्रागुदाहृतश्रोकेन श्रुतीनामनुवादकत्वमुक्तमिति प्राप्ते श्रुतिमनपेक्ष्यानुमानानां प्रदर्शितत्वाच्च। 'न स्थानतोऽपि परस्योभयलिद्गं सर्वत्र ही'त्यादि ब्रह्मसूत्रैरात्मनस्सर्वनि- यन्तृत्वसर्वशक्त्तिमत्वादिसद्भावे श्रुर्तीनामनुवादकत्वस्य व्यवस्थापितत्वाच्चेत्याह पतेषामिति- मू ॥ एतेषामनुमानानामनुवादाः पुरेरिताः । वेदा उभयलिङ्गाधिकरणोक्तप्रकारतः ॥ ३१॥ ॥ स्पष्टोऽर्थः ॥

ब्रह्मेति -- मू॥ ब्रह्म किं रूपि वाऽरूपि भवेन्नीरूपमेव वा ॥ ३२ ॥। द्विदिधश्रुतिसद्भावाह्ूह्म स्यादुभयात्मकम्। नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः ॥ ३१ ॥ रूपि त्वनूद्यते भ्रान्तमुभयत्वं विरुद्धचते॥३३॥॥ व्या ।। 'तदेतच्चतुष्पाद्रह्मे' त्यादिश्रुतयः रूपवद्रह्म प्रतिपादयन्ति। 'अस्थूलमनण्वि' त्यादि श्रतयो नीरूपम् तस्मात् 'वस्तुत उभयात्मकं ब्रह्मेति प्राप्ते

Page 80

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्। ६७

ब्रूम: नीरूपमेव शास्त्रप्रतिपाद्यं मानान्तरासिद्धत्वात। जगत्कर्तृत्वादिरूपयुक्त्न्त ब्रह्म क्षित्यादिकं सकर्तृकं कार्यत्वादित्याद्यनुमानेनावगम्यते अत उपासनायामनुद्य- ते न तु तात्पर्येण प्रतिपाद्यते न च शास्त्रानुमानसिद्धयोरुभयोर्वास्तवत्वम् एकास्म- न्वस्तुनि सरूपत्वनीरूपत्वयोविरोधात् तस्मादतात्पर्यविषयस्य शक्त्तिमत्वादि रूपस्य नीरूपपरागमबाधिताभासानुमितिगोचरस्यानुवादकत्वं वेदानां सिद्धमित्यर्थः॥ अ०॥ यथा चोभयलद्वाधिकरणेन आत्मनशशक्तिमत्वादिपर शाब्त्रस्यानुवा- दकत्वमुक्तं तथैव 'ते ध्यानयोगानुगता अपश्यन् देवात्मशकि स्वगुणैनिगढाम परास्य शक्तिर्विविधैव श्रयत' इति श्वताश्वतरमन्त्रोऽपि स्वस्यात्मशवत्यादिमद्भाव अनुवादकत्वमेव दर्शयतीलाह देवेति -- मू॥ देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविद्दुः ॥३४॥ परास्य शक्तिर्विविधेत्येव संश्रूयते मया। इति वेदवचो युग्मं क्रियावाचिपदेन हि॥ ३६ ॥ विस्पष्टं स्वयमेवाह शक्तौ स्वस्यानुवादताम्॥। ३५॥॥ व्या।। अविदुरिति पदेन श्रत्युक्तमपश्यन्निति पदं संगृह्ीत । स्पष्टमन्यत।

व्याचार्यसम्नति दर्शयति निस्तत्वेति- मू i। निस्तत्वाकार्यगम्याऽस्य शक्तिर्मायाऽग्निशक्तिवत्। इति भूतविवेके च शक्तिर्मायेति कीर्तिता ॥ ३६॥॥। व्या॥ अस्येति आत्मन इत्यर्थः ॥। ३६॥॥ अ०॥ अधुना प्रतिज्ञातार्थे श्रीमद्वसिष्ठसम्मीत प्रतिजानीते अतपवति- मू ॥। अतएव च वासिष्ठैरमेन्द्मत्यनुसारिता। शक्तिसन्भावशास्त्रस्य दर्शिता तानि संशणु ॥ ३ ।।।। व्या। यतश्च प्रागुदाहृतश्वेताश्वतरमन्त्रेण स्वस्यात्मशक्तिसद्भाबे अनुवाद कत्वमुपदिष्टं अत एव आत्मनि जगतसर्जनानुकूलशक्तिकत्वे ध्रुतेः प्रामाभ्याभावा- दित्यर्थः । शेषस्सुगम: ॥। ३७॥। । अ० ॥ इदानीमान्मनि शक्तिसद्धावपरशास्त्रस् मन्दमत्यनुसारित्वप्रदशनाम शाफ्तिकल्पकानि वासिष्टवाक्यान्याह सर्वशक्ीति-

Page 81

अद्वैतसिद्धान्तगुरुचन्द्रिकायाम्

भू।। सर्वशक्तिपरं ब्रह्म नित्यमापूर्णमद्यम् ।। ३८।। ययोल्सति शक्त्यासौ प्रकाशमधिगच्छति॥ चिच्छक्त्िर्ब्रह्मणो राम शरीरेषूपलभ्यते ।। ३ ९।। स्पन्दशक्तिश्र वातेषु दार्ढ्यशक्तिस्तथोपले। द्रवशक्तिस्तथाम्भस्मु दाहशक्तिस्तथाऽनले ॥ ४० ॥ शून्यशक्तिस्तथा काशे नाशशक्तिर्विनाशिनि ॥ यथाण्डेऽन्तर्महासर्पो जगद्स्ति तथात्मनि ॥ ४१ ॥ फलपत्रलतापुष्पशाखा विटपमूलवान्।। वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥। ४२॥ क्वचित्काश्चित्कदाचिच्च तस्मादुध्यन्तिं शक्तयः । देशकालविचित्रत्वात् क्ष्मातलादिव शालयः ॥ ४३ ॥ स आत्मा सर्वगो राम नित्योदितमहावपुः । यन्मनाङ्मननीं शक्तिं धत्ते तन्मन उच्यते ॥ ४४ ॥ आदौ मनस्तदनुबन्धविमोक्षदष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना। इत्यादिका स्थितिरियं हि गता प्रतिष्ठा- माख्यायिका सुभगवालजनोदितेव ॥ ४९॥ व्या॥ अतिरोहितार्थः ॥ अ०॥ अधुना शक्तिकल्पनापरस्य शास्त्स्य मन्दमत्यनुसारित्वपराणि वा सिध्ठवचनानि दर्शयति बालस्येति -- मू। बालस्य हि विनोदाय धात्री वक्ति शुभां कथाम्। क्चित्सन्ति महावाहो राजपुत्रास्त्रयः शुभा: ॥४६॥

Page 82

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्। ६९

द्वौ न जातौ तथैकस्तु गर्भ एव हि संस्थितः । वसन्ति धर्मयुक्तास्ते ह्यत्यन्तासति पत्तने॥ ४७॥ स्वकीयशन्यनगरान्निर्गत्य विमलाशयाः । गच्छन्तो गगने वृक्षान् दददशुः फलशालिनः ॥ ४८ ॥ भविष्यन्नगरे तत्र राजपुतास्त्रयोऽपि ते। सुखमद्य स्थिताः पुत्ा मृगयाव्यवहारिणः ॥ ४९ ॥ धात्र्येति कथिता राम बालकाख्यायका शुभा। निश्चयं स ययौ बालो निर्विचारणया घिया॥ ५०॥ इयं संसाररचना विचारोज्झितचेतसाम्। बालकाख्यायिकवत्थमवस्थितिमुपागता ॥ ११ ॥ इत्यादिभिरुपाख्यानैरात्मशक्तेस्तु कल्पना। नोपपन्नेति चादेशादनुमानानुवादिनी ॥५२॥ व्या। यथातिमूढो राजपुत्र इयं तावदाख्यायिका संभाविताभिधेयवत्ये- वेति निश्चिनोति तथेयं संसाररचनोक्तिश्च भवेदिति पौर्वायर्यपर्यालोचनाहीना अनु- मातार: केचित् 'वाचारम्भणं विकारो नामधेय' मिति श्रुतिविरोधेन मेनिरे इत्यु- क्ता प्राग्यत् द्वितीयादावनुमानानुवादकमिति प्रतिज्ञातम् तदुपसंहरति इत्यादि- भिरिति ननु कथं ब्रह्मणि शक्तिसद्भावग्राहिणां विचारो्झितचेतस्त्वमिति चेत् द्विसप्ततितमश्रोकवृत्तौ तद्दर्शयिष्यामः ॥ अ०॥ इदानीं तृतीयपक्षत्वेन प्रतिज्ञाताया मायाया जगत्प्रकृतित्वे प्रमा- णादिकं दर्शयति वक्ष्य इति- मू । वक्ष्ये तृतीयपक्षेऽथ प्रमाणञ्च द्वितीयके। शक्तिर्मायेति चाव्यक्तमाकाशोऽज्ञानमित्यपि ॥ ५३॥ ज्ञगत्प्रकृतिभूताया नामानीति च वादिनः । तत्वनिर्णयकाराद्या अनादित्वादिकेडपि च । 4४॥

Page 83

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

श्रौतानि नानावाक्यानि प्रमाणमिति मेनिरे ॥ ५४॥॥ व्या॥ द्वितीयक इति द्वितीयप्रदर्शक इत्यर्थः । तत्वनिर्णयकारः आद्यो येषाम् सिद्धान्तमुक्तावळीकारादीनां ते ततनिर्णयकारादयाः शेषस्सुगमः ॥ अ०।। कानि तानि वाक्यानीव्यत आह मायां त्विति -- मू । मायान्तु प्रकृति विद्यात् सुप्तश्चानादिमायया ॥ ५५॥ सुषुप्तिकाले सकले विलीने तमसा वृतः। एवमादीनि वाक्यानि तत्प्रामाण्यवलेन च । ५६॥ द्रव्यात्मिकां तमोरूपां स्वात्मन्यारोपितामपि। ज्ञाननाश्यत्वसिद्धच्यर्थमनिर्वाच्यां समीर्य च ॥ ५७॥ तलैतान्यनुमानानि प्रमाणत्वेन मेनिरे ॥ ५७॥॥ व्या॥ एवमादीनीति श्वेताश्वतरादीनि वाक्यानीत्यर्थः। शेषः पूर्ववत ॥ अ० ॥ कानि तान्यनुमानानीत्यत आह विक्कृत्येति- मू॥ विकृत्या प्रकृतेस्साकं सालक्षण्यस्य दर्शनात् ॥५८॥ जडप्रकृतिकं खादि जडत्वात् कुंभव्द्वेत् ॥ ६८॥॥ व्या। पूर्वार्द्धेन व्योमादीनां जडप्रकृतिकत्वानुमानप्रवृत्तिबीजमुक्ता उत्त- रार्द्धेन तदेवानुमानमुपन्यस्तम् ॥५८॥॥ अ० ॥ इदानीं जगत्प्रकृतेरनादित्वं साधयति सर्वेषामिति- मू ॥ सर्वेषां प्रकृतित्वात्स्यात्साSनादि: कापिलं यथा ॥ ५९॥ व्या । कापिलमिति कपिलशास्त्रोक्तं। प्रधानमित्यर्थः ॥ ५९ ॥ अ०॥ इदानीं कार्यस्य कर्तृजन्यत्वं तत्कर्तुरुपादानत्वञ्च क्रमात् साधयति इदमिति- मू । इदं सर्वै कर्तृजन्यं कार्यत्वात् घटवज्जगत्। ईशप्रकृतिकञ्चेशानुवृत्ते मृदुतो यथा ॥ ६०॥ व्या॥ ईश्वरस्य सर्वगतत्वेन तदनुस्यूतत्वात् जगतः तत्प्रकृतिकत्वं यत् यदनुस्यूतं तत् तत्प्रकृतिकमिति सामान्यमुखव्याप्तेः तत्र दृष्टान्तमाह मृदुतो यथेति गथा मृदनुस्यूतः घटः मृत्प्रकृतिकः तथेत्यर्थः ननु घटादेः आकाशानुस्यूतत्वे-

Page 84

द्वितीयनिरूपणे द्वितीयप्रदर्शकम्। ७१

न तत्प्रकृतिकत्वापत्तिरिति चेत् कपालिकादेरिव आकाशादेरपि अवान्तरप्रकृतिकत्वं इष्टमेव ननु कपालिकादेरिव आकाशादेरपि जनिमत्वे हि अवान्तरप्रकृतित्वं भवेत् तत कुतश्चेत् विभक्तत्वादिति त्रूमः तर्हि विभक्तयोः जीवेश्वरयोरपि जनिमत्वापत्तिः न तयो: भेदस्य नवमनिरूपणे निराकिष्यमाणरवात् जगतः गौण ईश्वरप्रकृतिकत्वं सिद्धम् ॥६० ॥ अ०॥ तदर्थ ईश्वरस्य प्रकृतिसाहित्यं प्रकृतेः ईश्वरपारतन्त्र्यञ्च साधयति ईश इति -- मू। ईशः प्रकृतिमान्कार्यकर्तृत्वात्स्यात् कुलालवत् । ईशतन्त्रा भवेत्सा तु जडत्वान्मृत्तिका यथा ॥ ६१ ॥ व्या।। ईश्वरो जगत्परिणामिकारणवानित्यर्थः ॥६१॥ अ० ॥। प्रकृतेः तमोंशविशिष्टत्वं साधयति सतमा इति- मू। सतमा: प्रकृतिर्मोहहेतुत्वात्स्यात्प्रधानवत् ॥ ६१।। । व्या। प्रधानवदिति साङ्गयशास्ोक्तमूलप्रकृत्तिवदित्यर्थः ॥ ६१॥। 1 अ०॥ अवुना 'मायान्तु प्रकृति विद्यादि' त्यादि शास्त्रस्ो कतानुमानानु- बादकत्वमाक्षिप्य परिहरति एतानीति- मू ॥ एतान्यप्यनुमानानि स्युश्शास्त्रैर्विदिते ततः ॥ ६२ ॥ इति चेदनुमानानामनुवादाः पुरेरिताः।

व्या।। 'मायान्तु प्रकृति विद्या' दित्यादिशास्त्ररज्ञाने जगदुपादानत्वेन वि- ज्ञाते सति पश्ात् एतान्यनुमानानि भवेयुरिति चोदमनूद्य समाधत्े इति चदि- त्यादिना उभयलिक्षाधिकरणं तावत् प्राक् द्वाविशादिश्रोकाभ्यामुदाहृत्य व्याख्या- तम् ॥ ६३ ॥ अ०।। ननु यत् 'तत्वनिर्णयकारादिभिर्मायान्तु प्रकृति विद्या दिति' लिसे मायायाः प्रकृतित्वविधायकत्वमङ्गीकृतम् तस्य का गतिरिति प्राप्ते ॥ शो ॥ विचा- रयन्नामरणं नैवात्मानं लभेत चेत् । जन्मान्तरे लभेतैव प्रतिबन्घक्षये सती' त्यत्र यथा 'लभेते' ति लिंङ: अर्हार्थता भवति तद्त् विद्यादिति लिङः अनुमानेम मायां प्रकृतित्वेन विज्ञातुमरईतीत्यर्ह्दार्थतासंभवात तच्छ्रतेरनुवादकरवे न कक्िद्ोष इत्याह प्रकृतित्वेनेति-

Page 85

७२ अद्वैतासिद्धान्तगुरुचन्द्रिकायां

मू।। प्रकृतित्वेन विज्ञातुं मायाख्यामर्हतीति च । मायान्तु प्रकृतिं विद्यादिति वेदोऽनुभाषते ॥ ६४ ॥ व्या॥ स्पष्टोरऽर्थः ॥ अ०॥ ननु जगत्प्रकृतित्वेनानुमितस् द्रव्यस्य कथ श्रुतिमन्तरेणैव मायेति संज्ञा विज्ञातुं शक्यत इत्यत आह प्रधानमिति- मू। प्रधानमिति संज्ञेव माया संज्ञापि लौकिकी ॥ ६४॥॥ व्या। यथा साङ्ग्याभिमतायाः प्रकृतेः प्रधानमिति संज्ञा लौकिकी तदू- दित्यर्थः ॥ ६४॥ ॥ हुइ अथ षट्चत्वारिंशोत्तरशततमश्रोकपर्यनतम् शक्तिमायानुमान बाधकप्रमाणोपन्यास: क्रियते हा अ०॥ एवं पक्षमेदेन मायायास्स्वरूपत्रये प्रमाणान्युपन्यस्य तेषां प्रश्न- पूर्वकं प्राबल्यदौर्बल्ये दर्शयति एतेष्विति- मू ॥ एतेषु कस्य दौर्बल्यं कस्य प्रबलतेति चेत् ॥ ६५ ॥ श्रत्या युक्त्यानुभूत्या च शक्तिमायानुमानयोः । बाधितत्वाद्ध्वेदादं प्रमाणं प्रबलं किल ॥ ६६ ॥ व्या। एतेष्विति॥ मतभेदेन मायास्वरूपत्रयसद्भावे प्रदर्शितेषु प्रमाणेषु कस्य प्रमाणस्य प्राबल्यं कस् प्रमाणस्य दौर्बल्यमिति प्राप्ते वक्ष्यमाणैउश्रुत्यादिप्रमा- णैः प्रागुपन्यस्तयोः शक्तिखरूपमायास्रूपविषयकानुमानयोः बाधितत्वात् आदं ज्ञानप्रागभावरूपाज्ञानविषयकं ज्ञानमेव केनाप्यबाधितत्वात् प्रमाणं भवेदित्यर्थः ॥

अ०॥ इदानीं शक्तिमायास्वरूपविषयकानुमानबाधकं तु 'स यो ह वै तद- चछाय' मित्यादि शास्त्रमेवेति दर्शयति सयो वेत्तीति- मू॥ स यो वेति तद्च्छायमशरीर मलोहितम्। शुभ्राक्षरमुपादानमिति प्रश्नाख्यवेदतः ॥ ६७॥ अस्य रूपमिदं तुच्छमिति श्रुत्या तमो मयी। निराकृता तत स्तस्या अनुमानञ्व बाघितम् ॥६८॥

Page 86

द्वितीयनिरूपणे द्वितीयप्रदशके शक्तिमायानुमानबावकप्रमाणानि। ७३

व्या। उदाहृतश्रुतिदवूयं तावत् मायाशक्त्ोरसत्वं तु यस्माच्छत्या विधा- ग्रत इति प्रागुक्त्तदशमादिश्रोकैरुदाहृत्य व्याख्यातम्। तच्छतिद्वयेन तस्यास्खरू- षावारिकाया आवरणशक्तेमायायाश्च बाधितत्वात् तत्तद्विषयकमनुमानमपि बाधि- तार्थविषयकत्वादप्रमाणं अवेदित्यर्थः ॥ ६८॥ अ०॥। पू्तो कानां शक्तिमायाविषयकानुमानानां अप्रामाण्यवेदनाय तद्वाध- कत्वेन प्रागुदाहृतश्ृत्यनुसारीि देवाशङ्कानिरासकानि ब्रह्मगीतावचनान्युदाहरति ब्रह्मणीति- मू । ब्रह्मण्यद्धयस्तमायायाः निवृत्ति कुरुते तु सा। विद्या यदि न मायायाः प्रत्यगात्मन्यसंभवात् ॥ ६९ ॥ ्या।। प्रत्यगात्मनीति प्रत्यगात्मनि तत्स्वरूपावारकलेन मायायाः स्व- रूपाद्यासासंभषात् तदावरणनिवृत्त्यर्थे ब्रह्मणो वृत्तिविषयत्वं न संभवतीत्यर्थः ॥ अ०॥ इहाले तत्कार्ष्ण्यविरुद्धस्याध्यासिकरजतस्येव प्रत्यगात्मनि तज्ज्यो- तिषा विरुद्धस्य तत्स्वरूपावारकत्वेनाद्यासिकमायास्वरूपस्यासंभवे प्रत्यगात्मा नाध्यासिकतमोविकरणम् भवितुमर्हृति तमोविरोधिज्योतिस्सवरूपत्वात आदित्यप्र- भावदित्यनुमानं श्रुतिं सार्वजनीनानुभवञ्च दर्शयति ब्रह्मा प्रत्यगिति- मू ॥ प्रत्यगात्मा परंज्योतिर्मोया सा तु महत्तमः । तथा सति कथं मायासंभवः प्रत्यगात्मनि ॥ ७०॥ तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्ूने। स्वप्रकाशैकसंसिद्धे नास्ति मायात्मनीति हि॥ ७१॥ निरस्तं ब्रह्मगीतास्थतुरीयाध्यायगैस्तमः । अतशक्तेश्र मायाया अनुमानन्तु दुर्बलम् ॥ ७२॥ व्या।। प्रत्यगात्मेत्यादिकन्तु ब्रह्मवाक्यम्। इति हि निरस्तमित्यादिकं कवि- चाक्यम्। एतेनोदाहृतब्रह्मगीतावाक्येनैव शक्तिमायानुमानयोः श्रुतियुक्त्यनुभवै- बाधदर्शनात भवेदादं प्रमाणं प्रबलं किलेति प्राक् षट्षष्टितमश्ोकेन प्रतिज्ञातार्थ- सिद्धि: तत्षट्षष्टितमश्रोके स्वप्रतिज्ञातानुमानं त्वत्र ब्रह्मणा मुखत एव दर्शिनम् स यो वेत्ति तदच्छायमित्यादि श्लोकनोदाहृतश्रुतिसद्भ्ावश् ब्रह्मोंक प्रमाणेति पदेना- 7

Page 87

भ्यनुज्ञांत: । ब्रह्मणा स्वेन च तत्वज्ञानात्पूर्वमपि तमोरूपं स्वरूपावरणं नास्तीति प्रतिज्ञाते ह्वयनुभूतिं तु सप्तसप्ततितमादिभिः नन्वेकत्वं स्वतो भायादित्यादिश्रोकै- रुत्तरत्र दर्शयिष्यति च । अतो ज्योतिस्स्वरूपे प्रतीचि नाध्यासिकं तमः सिध्यती- त्यास्थेयम् स्वात्मजगतोरेकसत्ताजिज्ञासुभिरित्यर्थः ।

१. शङ्का ।। ननु ब्रह्मोक्तानुमानादिना दर्शितः स्वात्मज्योतिषि आध्यासिक- तमसो ह्यभावस्तु पेचकस्य सूर्यप्रकाशे तदारोपिततमः प्रत्यक्षेण बाधित इति चेत् न। समाधानम्-कदाचिदस्मद्ृष्टेरिव पेचकदृष्टेरपि सूर्यतिग्मप्रकाशप्रतिहृत- शक्तिकत्वप्रय क्तविषयग्रहणाभावातिरेकेण तिमिरख अस्माकमिव पेचकस्यापि प्रकाशसाहित्य दशायां चक्षुषा साक्षिणा वा तदाऽनुपलब्घेः॥१ ॥ स०॥। चक्षुषो महाप्रकाशसाहित्यदशायां आध्यासिकं तमश्रक्षषाऽनुभूयत इति विप्रतिषिद्धत्वाच्च ।। २।। स०॥ अन्यथा सूर्यप्रकाशवच्चन्द्रप्रकाशेऽप्यस्माकं पेचकस् च शुक्तिसदृश- रङ्े रजतकल्पकत्ववत् तमःकल्पकत्वापत्तेश्र ॥३॥ स०।। श्रो० ॥ जीवन्नाखुर्न मार्जाल हन्ति हन्यात् कथ मृत इति मार्जाल मृतमूषिक इव यस्य पेचकस्य रात्रौ विषयं वास्तवं तमो नाव्ृणोति तस्य पेचकस्य स्वारोपितमत एवं वास्तवत्वविहीनं तमो दिवि विषयं कथमावृणुयादिति बाधज्ञा- नाच्च ॥ ४ ॥ स० ॥ अस्मदृष्टः सूर्यतिग्मप्रकाशन प्रतिहतशक्तिकत्वेन विषयग्रहणाभाव- समये तिमिराभावानुभवाच्च ॥ ५॥ स० ॥। इङ्गालादौ रजताध्यासासंभवनिदर्शनाच्च ॥ ६॥ स० ॥। एतन्निरूपणोक्तसप्तषष्टितमादिश्लोकेनोदा हृतागमेभ्यश्व पेचकेत्वा- इततमः प्रत्यक्षस्य बाधितत्वाच्च।। ७।। २. शङ्का । ननूक्तप्रमाणैः स्वयंज्योतिस्स्वरूपचैतन्ये तमोरूपाज्ञानाध्यासस्य तत्वे किमर्थ श्रीरामानन्दविवरणाचार्यादिभि: स्वात्मनि अनुमितं तमइति चेत स०। चतुर्थप्रदर्शके वंक्ष्यमाणानां त्रयाणां सोपानानां मध्ये द्वितीयतस्सो- मतो वा यथाकथञ्चित् मन्दमतीनां बुद्धे: स्वस्वरूपविचारे प्रवेशसिध्यर्थ- प्रम् तथाहि प्रचण्डमार्ताण्डमण्डले पेचकानुभवसिद्धान्धकारवत् अहमज्ञ- नेद्धं भावरूपमज्ञानं दुरपह्ववं कल्पितस्याधिष्ठानास्पर्शित्वात नित्यस्वरूप-

Page 88

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानवाधकप्रमाणानि। ७६

ज्ञानस्याज्ञानाविरोधित्वाच्चेति च विवादपदं प्रमाणज्ञानं स्वप्रागभावातिरिकस्व- विषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वात् अन्ध- कारे प्रथमोत्पन्नप्रदीपप्रभावदिति च एवं जातीयकानुभानोपन्यासः स्वात्मजगतो- रेकसत्तावादश्रवणानधिकारिणां पूर्वोत्तरविरोधतत्परिहार विमर्शरहितानां मन्दमतीनां प्रातिभासिकसत्ताप्रक्रियया व्यावहारिकसत्ताप्रक्रियया वा यथा कथञ्चित् स्वरूप- विचारे प्रवेशसिध्यर्थमिति विज्ञापार्यतुम् ॥

स्वयमेव रामानन्दस्वामिनोऽनेन-कारणवत् कार्यस्यापि सत्वात् सत्व- भेदे मानाभावात् कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह- यथा कारणं ब्रह्म त्रिष्वपि कालेषु सत्वं न व्यभिचरति एवं कार्यमपि जगत् त्रिष्वपि कालेषु सत्वं न व्यभिचरति एकं च पुनस्सत्वमतोऽप्यनन्यत्वं कारणात् कार्यस्ये- त्यारम्भणाधिकरणीयैः सत्वाच्चापरस्येति, सूत्रतद्भाष्यतदवतरणैः केनापि वा- दिना जगति ब्राह्मसत्तासमानपारमार्थिकसत्तानभ्युपगमात् तद्वयावृत्तिपरतया नेतुमशक्यैः तुच्छमिदं रूपमस्य-तदेतदच्छायमशरीरमित्यादि श्रुत्यनुसारिभिः तथैव ईक्षतेर्नाशब्दमिति सूत्रस्य भाष्ये उदाहृतायाः 'ते द्वयानयोगानुगता अपश्यन्दे वात्मश्ति स्वगुणैर्निरूढां। परास्य शक्तिर्विविधैव श्रूयत' इति श्रुतेरनेन स्वात्मनः शक्तिरूपमायास्वकार्यापेक्षया परा विचित्रकार्यकारित्वाद्विविधेति तमोरूपमायाया जगत्कारणत्वमनूद्य सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेति श्रुतिरेवाह श्रूयत एवेति तमसः प्रमाणासिद्धलेनासत्वविधायकश्चतिव्याख्यानेन च आध्यात्मिके प्राज्ञ ॥

एतेनेश्वरस्यापि नित्यनिवृत्ताविद्यस्योत्थानं प्रत्युक्त्तमिति स एव तु कर्मानु- स्पृतिशब्दविधिभ्य इति सूत्रभाष्यतद्वयाख्यानाभ्यां चाधिदेविकपरमेश्वरे च।।

तमोरूपाज्ञानसाधकस्य स्वकीयस्य परकीयस्यानुमानस्य च प्रत्यक्षादेश्च

प्रामाण्याभावं विस्पष्टं प्रदर्शयन्ति स्म ॥ १ ॥

स०।। किंच तदेतदच्छायमशरीरं-तुच्छामेदं रूपमस्येति श्रुनिश्च॥

तन्मूलकमिदानीं व्याख्यायमानं प्रत्यागात्मनि आध्यासिकतमोनिरसनपर ब्राह्ममनुमानवाक्य च ।

तदुपपादनपरत्वेन वक्ष्यमाणं तमोरूपाज्ञाननिरसनपरं। ब्राह्यं वाक्यं च।।

Page 89

७६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

रौ० ॥ विद्यादध्या श्रुतं तुच्छं तस्य नित्यनिवत्तर्नादिति श्रीविद्यारण्याचार्य वचनञ्च ॥

क्षा० ।। अ्रतीत्या केवलं शक्तिरचिद्रपेति ज्ञानप्रागभावपरत्वेन वक्ष्यमाण ब्रह्मवाक्यं च ॥।

एतत् सर्वप्रमाणानुसारीदं स्वात्मजगतोरेकसत्ताकत्वे तयोस्सदसतो रावार्या- वयवगुणधर्मराहित्येन द्वैतभ्रमप्रतिबन्धकज्ञानप्रागभावस्य प्रतिबन्धकाभावविधयैव तन्निमित्तकारणत्वं न भिन्नसत्तावादे अधिष्ठानावारकतमस इवावरणविधयेति बोधकं शास्रं च ।। न मनागपि बाघितं भवति विभिन्नविषयत्वात् ! तथाहिं अद्वैतसिद्धा प्रागुक्त विवरणानुमानन्तु प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानमुक्तमित्यत्रत्यचकारेण नेह नानास्तीति श्रुतिनिषिद्धामपीति दर्शयित्वा न तु दृष्टिसृष्टिवादोनुमित इति व्येयमिति दृष्टिसृष्टिवादश्रवणाधिकारिणोSप्यधमा- धिकारिणं प्रति प्रवृत्तमिति चादिश्य ज्ञानप्रागभावस्यापि विषयावारकत्ववादिनां तदनावारकत्ववादिनां च मतानुसारेण ज्ञानप्रागभाव एवानेनानुमानिन विवक्षित इति भ्रमनिरासाय स्वप्रागभावातिरित्तस्वविषयावरणेतिविशेषितं तमः न ज्ञान- प्रागभावनिरासायेति विवरणाचार्यानुमानगतदृष्टान्तावष्ंभन प्रवर्त्तमानात् सिद्धि-

कार्ययोः। अपूर्व कारणं कार्ये तद्विकारस्तयोभवत्। प्रातिभासिकसत्वेऽस्याधिष्ठानात्मन एव सा। कार्ये निस्सत्वकञ्चेन्नावृतिस्स्वानन्दकार्ययोः। अतोऽनावारकाज्ज्ञानप्राग- भावाद्द्रमोऽन््यमे इति वचनाच्च प्रागुक्तशास्त्राणां विवरणानुमानस्य च भिन्नविषय- त्वं सिंद्धम्॥। २।। ३. शङ्का ॥ ननु श्रीरामनन्दविवरणाचार्यानुमानोपन्यासः स्वात्मजगतोरेक- सत्ताश्रवणानधिकारिणां पूर्वोत्तरविरोधतत्परिहारपरामर्शरहितानां यथाकरथं चित्स्व- रूपविचारे प्रवेशसिद्धयर्थामत्युक्तं के त इति चेत्। स० ॥ दृष्टिसृष्टिवादिनः प्रतिकर्मव्यवस्थानिष्ठाश्च द्वैतिनश्चेति ब्रूमः ॥ तथा हि अपौरुषेयो वेदो ह्येकत्र तुच्छमिदं रूपमस्य तदेतदच्छाय- मित्यादिवाक्येन तमोरूपाज्ञानवर्जितं स्वात्मतत्वं जगद्विवर्त्तोपादानमित्युक्ता स्थला- न्तरे सदनुगुणमेव ते ध्यानेयागानुगता अपश्यन्दवात्मशक्त स्वगुणनिगढाम्। पराड

Page 90

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानतराधकप्रमाणानि। ७७

स्य शक्तिर्विविवैव श्रयत इति स्वात्मधर्मावारकशक्तिसद्भावे स्वस्यानुवादकत्वं च संप्रदर्श्य अन्यत्र स एव मायापरिमोहितात्मा 'शरीरमास्थाय करोति सर्व' मिति पूर्वोक्तश्रुतिविरोधेन आत्मनो मायास्यतमसावृतत्वं व्रवीतीति विरोधविमर्श विना च। तथवैकलात्मैवेदं सर्वमिति वाक्येन सर्वस् जगतः स्वात्ममात्रप्रकृतिकत्व- मादिश्यान्यत्र तद्विरोवेन 'सर्व विकारजातम्मायामात्रमिति' वाक्येन सर्वविका रस्य मायामात्रप्रकृतिकत्वं कथं वदति कथं वा तद्विरोधेन चतुर्थनिरूपणोक्तप्रका- रेण जगतः कर्ममात्रप्रकृतिकत्वमादिशतीति पूर्वोत्तरविरोधपरामर्श विनैव च । सर्वत्र प्रामाण्यग्रहणात् ते पूर्वापरविरोधविमर्शरहिता इत्युच्यन्ते। तथैव स्वात्मन्याध्यासिकतमोनिरासक शास्त्रमुत्तमाविकारिणं प्रति स्वात्म- सत्तातिरेकेण जगति सत्तान्तराभावप्रदर्शनपरमिति च । मध्यममविकारिणं प्रति स्वभिन्नत्वेन प्रतीयमानस्य जगतः स्वात्मन्य-

यकमिव प्रतीयमानं श्रो० ॥ स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वे। सर्वे विकारजातं मायामात्रं सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेती- त्यादि शास्त्रं तावत् प्राग्रामानन्दभाष्यकारविद्यारण्याचार्यव्याख्यातत्वेन प्रदर्शित. सूत्रतद्भाष्यतदूयाख्यानतन्मूलश्रुत्यादिभिर्बाधितत्वेन न स्वात्मजगतोरेकसत्तापर- शास्त्रबावकमिति च । व्यावहारिकसत्यत्वपराणीव प्रतीयमानानि ज्योतिष्टोमेन स्वर्गकामो यजेते- त्यादि लिडादीनि पञ्चमनिरुपणेSष्टाशीतितमादि क्षोकतद्वयाख्यानोत्तप्रकारेण परि- सह्व्याविधया निवृत्तिमात्रपरत्वेन न स्वात्मजगतोरेकसत्तापरशास्त्रस्य बाघकानीति च पूर्वोत्तरविरोधपरिहारविमर्शाभावाच्च ते तथोकताः । किञ्च जगति स्वात्मेतरसत्तानिरतानां शास्त्रेषु पूर्वोत्तरविरोधतत्परिहार- विमर्शराहित्यं त्वस्मिन् द्वितीयनिरूपणे षट्चत्वारिंशािक्षोकत्वनोदाहतवािष्ठवचनै- वगम्यताम्।

किञ्च नवश्चैष स्वभावो यत्स्वसम्बन्धिनोऽभावं बोधयतातिभाष्यानुसारेण सुप्तौ तात्कालिकं यत्तत्वं तदीयानुभवमूलकपरामर्शपरस्य न किञ्चिद्वेदिषमति मदूचनस्य नजो विरोधपरत्वमवलम्व्य स्वात्मविवर्त्तविशेषणजगतोर्मधये यत् स्वविवर्त्ते विशेषणं यत् प्रातिभासिकजगद्वयतिरिकं व्यावहारिकं जगन्

Page 91

७८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां तद्विषयकतमोरूपावरणाश्रयः आसमित्यवेहीत्यन्यथार्थप्रतिपादने अस्थूलमनणु- नहि द्रन्ुर्द्ष्टिर्विपरिलोपो विद्यतेSविनाशित्वात् न तु तद्वितीयमस्ति ततोऽन्याद्विभक्तं यत्पश्येदिति बृहदारण्यादिश्रुत्या सुप्तौ स्वात्मातिरेकेण तद्विवर्त्तविशेषणादिभाव- रूपजगदसत्वविधायकश्रुतिविरोधेन स्वात्मविवर्तविशेषणादि जगदावरणाश्रयत्वे तच्छतिविरोधापत्तिः अपरोक्षस्य स्वात्मविवर्त्तस्यावरणे विवर्तत्वभङ्ग इति च विरोधविमर्शनेन च तथैव तद्वहदारण्यादिश्रुतिरुत्तमाधिकारिणे स्वात्मजगतोरेक- सत्तामात्रमादाय स्वात्मविवर्त्ते तद्विशेषणादिकमन्यथाभानं किञ्चिदपि सुप्तौ ना- स्तीति बोधयत्यतः सुप्तौ मयि न किञ्चिदप्यस्तीति स्वयंप्रकाशसन्मान्रः प्रत्यभा- मीत्यमुमर्थ विहाय अन्यथा कथमभावपरत्वमात्रं नजो विजानतां मादशां न कि- ज्विद्वेदिषमिति वाक्यं अज्ञातसत्ताकवस्तुसद्भावे प्रमाणं भवेत् कथ वा सुप्तौ आवृतसत्ताविषयक लोकदध्यनुवादकशास्त्रस्य च प्रामाण्यं भवेदतो विवर्तयोः स्वात्म- विशेषणजगतोराध्यासिक्रमावरणं नास्तीति तद्विरोधपरिहारविमर्शनेन च रहिता जगति स्वात्मेतरसत्ताग्राहिणः । शक्तिमायानुमानबाधकप्रमाणान्यप्यस्मिन्नेव द्वितीयनिरूपणे पञ्चषष्टितम- श्रोकादारभ्य द्वयशीतितमश्रोकान्तैरुदाहतानि। ४. शङ्का ॥ ननु स्व्रात्मजगतोरेकसत्तावादे स्वात्मसत्तातिरेकेण स्वतो वटादिषु त्रिविधसत्तानां मद्धयेऽन्यतमसत्ताया अप्यभावात् घटमहं जानामि न जानामी्यादि- व्यवहारस् कथमुपपत्तिरिति चेदुच्यते- स० ।! यथा स्वाप्निकगजादीनां ज्ञातैकसत्ताकादपरोक्षभूतात् पाश्वीदन्यं तदीय पार्श्वे चित्रगजीयपार्श्वान्तरञ्च न जानामीत्त्र तत्पार्श्वान्तरयोः-त्रिविध सत्तानाम्मध्येऽन्यतमसत्ताया अप्यसत्वात् यथा तत्पार्श्वात्मना न भामीति वाक्यार्थों भाति तद्वद्वटमहं न जानामीत्यत्रापि घटात्मना न भामीति वाक्यार्थो भवति-घट- महं जानामीत्यल च घटात्मना भामीति च भवति। किञ्च॥ श्रो० ॥ सत्ताहीनस्य कार्यस्ासत्व्रमेव हि युज्यत इति श्री- ब्रह्मगीतोक्तप्रकारेण स्वात्मसत्तां विना जगति स्वतस्त्रिविधसत्ताराहित्यवादे घट- महं पश्यामीत्यन्रत्यद्वितीयाया राहोश्शर इत्यत्रत्यषष्ठया इव वस्तुस्तितयनुसारेण घटात्मना भामीत्यभेदपरत्वं भवेत् यथा च मामहं जानामीत्यत्र मद्रूपतया भामीति भवति यथा वा आत्मावारे द्रष्टव्य इति श्रुतिश्ोदनां ब्रवीतीत्यन्न श्रुतिश्चोदनारूपेण भवतीति चोदनावाक्यस्यापि श्रुतित्वात्।

Page 92

द्वितीयनिरूपणे द्वितीय प्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि। ७९

एवमेवैकसत्तावादे सर्वव्यवहारोपपत्ति श्रुतिस्मृतिवादा दर्शयन्ति -- श्रु० ॥ अहमन्यवदाभामि अहमेव शरीरवत्। अहं शिष्यवदाभामि अहमेव गुरो- गुरुः। स्मृ०॥ जगद्रूपतयाप्येतद्वह्वैव प्रतिभासते। विद्याविद्यादिरूपेण भावाभा- वादिभेदतः । गुरुशिष्यादिरूपेण ब्रह्मैव प्रािभासत इति। किञ्चास्मिन्नेकसत्तावादे उपपत्त्यन्तरं च प्रथमनिरूपणे पञ्चाशक्रोक-

गीतावचनैः सम्यग्विस्तरेणावगम्यताम्। ज्ञानप्रा गभावसद्भावानुभवश्रालाष्टादशश्लोकतद्वयाख्यानाभ्यां दर्शितः- अत्रैकोनचत्वारिंशोत्तरशत तमक्रोकत्वेनोदाहरिष्य माणविद्यारण्याचार्यवचनेन च द्वैतभ्रमनिमित्तत्वेन ज्ञानप्रागभावोऽवगम्यताम्।

तत्प्रतियोगिज्ञानस्वरूपन्तु सप्तमादिश्लोकत्रयतद्वयाख्यानाभ्यामस्मिन्नेव द्वि- तीयनिरूपणे प्रागेव दर्शितम् ॥ ७२॥ अ० ।। अधुना ब्रह्मगीतायाः पञ्चमाध्यायवाक्यान्यपि तमोरूपाया आव- रणशक्तेर्मायायाश्च निरासकत्वेन प्रदर्शयितुकामस्तत्रोक्तानां अज्ञानमितिपदानां अर्थग्रहणे व्यामोहासंभवाय श्रोकचतुष्टयेन तदर्थो विभज्य दर्शयति छान्दो- ग्येति- मू। छान्दोग्यषष्ठाध्यायार्थब्रह्मगीतास्थपञ्चमे । अध्याये यानि वाक्यानि विष्याम्यत्र तत्र तु ॥ ७३ ॥

व्या॥ तत्रेति उत्तरत्ान्वयः ब्रह्मगीतावाक्यानाम्मध्ये इत्यर्थः॥७३॥। अ०॥ संप्रति प्रागुदाहृतैः। 'ब्रह्मण्यद्वयस्तमायाया' इत्यादिभिः ब्रह्म- गाताचतुर्थाध्यायक्रोकत्रयेण सह 'व्यवहारिकमज्ञानं बाधते विद्ययैव तु। अतो न प्रमिति वाक्यं कुरुतेऽज्ञानबाधकम् ॥ व्याहारिकमज्ञानमपि ब्रह्मैव वस्तुत'

भासमानस्वरूपचैतन्यात्मकभ्रमपरत्वमेव सिद्धयतीत्याह यदज्ञानमिति- मू। यदज्ञानं ज्ञाननाश्यं यच्च ब्रह्मेति कीर्तितम् । स्वतोऽन्यथा भासमानस्वात्मचैतन्यमेव तत् ।।७४।

Page 93

८0 अद्वैतसिद्धान्तगुरुचन्द्रिकायां

क्या। व्यावहारिकमज्ञानं बांधते विद्ययैव तु-महावाक्यमिति ब्रह्म- वाक्येन यदज्ञानं ज्ञाननाश्यमिति कीर्त्तितं-व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुत इति ब्रह्मवाक्येन च यदज्ञानं ब्रह्मेति च कीर्तितम् -- तदज्ञानशब्दवाच्यं तु स्वतोS- न्यथा भासमानस्वात्मचैतन्यमेव अन्यथा स्वरूपावारकत्वेन तस्याज्ञानस्य तत्वान्तरत्वे न मुख्यं ब्रह्मरूपत्वं संभवतीत्यर्थः ॥७४॥ अ०॥ इदानीं 'वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः। अतो वाक्यं न चाज्ञानबाधकं स्यान्निरूपणे'। इति वक्ष्यमाणब्रह्मवाक्ये यदज्ञानं नास्तीति वाक्यं' तदनिर्वचनीयतमोनिरसनपरमिति दर्शयति। चिद्धिरोधमिति- मू ।। चिद्विरोधं यदज्ञानं ज्ञानानाश्यं समीरितम्। तस्यावारकतत्वस्य ह्यसत्वान्नाभिदोदिता ॥ ७१ ॥ व्या। चिद्विरोधमिति चिता स्वरूपचैतन्येन कृतो विरोधः स्व- रूपलाभे यस् तमोरूपाज्ञानस्य तत् चिद्विरोधं तस्य व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुत इति ब्रह्मवाक्येन न ब्रह्माभेद उक्त इत्यर्थः ॥७५॥ अ०॥ इदानीं विभागेनाज्ञानशब्दार्थवेदनस् फलमाह अनादीति- मू।। अनादितमसोऽसत्वग्रहायैतद्विविच्यताम्।

व्या। एतदिति अज्ञानशब्दवाच्यमित्यर्थः । अस्येति श्रीब्रह्मण इति यावत् ॥ ७६॥ अ०।। अधुना छान्दोग्यषष्ठाध्यायार्थब्रह्मगीतास्थपञ्चमे इत्यादिभिः प्रा- गुक्तश्रोकै: येषां ब्रह्मगीतागतपञ्चमाध्यायवचनानां पूर्वापराविरोधेनार्थग्रहणाय तत्रोक्ताज्ञानादिशब्दार्थो दर्शितः तान्येव ब्रह्मगीतावचनानि तमोरूपाज्ञानासत्व- पराण्याह तत्वमिति- मू।। तत्त्वं शब्दार्थभूतस्य चिन्मातस्य परात्मनः । एकत्वं यत्स्वतस्सिद्धं सहि वाक्यार्थ आस्तिकाः ॥७७॥ व्या॥ तत्त्वंश्दयोर्यो लक्ष्यार्थश्चिन्मात्रः परमात्मा तस्य स्वरूपभूतं यदेकत्वं प्रकाशान्तरनैरपेक्ष्येण स्वयं प्रकाशमानं भवति स एव तत्वमस्यादि- वाक्यार्थ इत्यवगन्तव्यमित्यर्थः॥७७॥

Page 94

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि। ८१

अ०।। ननु स्वप्रकाशस्य ब्रह्मणस्स्वरूपभूत यदेकत्वं तदपि स्वप्रकाशमेवा- स्तस्य वाक्यबोध्यत्वे स्वप्रकाशत्वभङ्ग इत्यत आह एकत्वेति- मू॥ एकत्वप्रमिति वाक्यं न करोति सुरर्षमाः ॥ ७॥।॥ व्या॥ स्पष्टोऽर्थः ।। ७७॥ ॥ अ०॥ ननु तत्वमत्वादिमहावाक्यस जीवब्रह्मैक्यविषयकप्रमितिजनकत्वा- भावे वैयर्थ्ये स्यादित्यत आह व्यावहारिकेति- मू। व्यावहारिकमज्ञानं बाघते विद्ययैव तु ॥ ७ ॥ व्या। 'तत्त्वमसि' 'नेह नानास्ति किञ्चने' त्यादि वाक्यं तावत् व्यावहारिकं इह जगदस्तीति व्यवहारकालिकं अज्ञानं भ्रमप्रतिबन्धकस्य यथा- वत्स्वयं प्रकाशिष्यमाणात्मभूतचतन्यस्य प्रागभावसाहचर्यात् स्वतोऽन्यथा भास- मानं स्वरूपचैतन्यं तथा विद्याया: प्रागभावरूपामविद्याञ्च विद्यया यथावत् स्वतः प्रकाशमानस्वरूपचैतन्यभूतया बाधते आत्मनः पूर्वावस्थामपरित्यज्य नानात्मना भासमानतामुच्छिनत्ति-उक्क्कविधस्य व्यावहारिकाज्ञानस्य विद्याप्रागवस्थारूपत्वात् बाधत -- एवेति एवकारेण वाक्यवैयर्थ्ये व्यावर्त्य तुशब्देन एकत्वावारकादज्ञानात् व्यावहारिकाज्ञानस्य भेदः प्रतिबोध्यते ॥७८॥

अ5 ॥ ननु तत्त्वमस्यादिवाक्यमेकत्वविषयकप्रमिरति न जनयेच्चेत् प्रमाणाविषयस्यैकत्वस्य नरविषाणवदसत्वं स्ादतस्तस्य ज्ञानाज्ञानविषयत्वं अङ्गी- कार्यनित्यत आह सदेति- मू। सदा प्रमितमकत्वं स्वत एव न चान्यतः । अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम्॥ ७९॥ व्या। परप्रकाश्यस्य हि प्रमाणविषयत्वप्रयुक्तं सत्वमवगम्यते। एकत्व- न्तु स्वप्रकाशचिदनन्यत्वात् सदा अहमहमिति स्वतः प्रकाशत एव। ततः न चान्यतः अन्यस्मात् वाक्यजन्यवृत्तिज्ञानात न प्रतीयते यत एवं अतः एक- त्वस्य स्वप्रकाशात्मरूपत्वादेव न प्रममिति वाक्यं कुरुते न वाक्यमेकत्वविषयं ज्ञानं जनयति किन्तु अज्ञानबाधकं अज्ञानस्य व्यावहारिकमज्ञानं बाधते विद्य- यैव त्विति पूर्वश्ोकव्याख्यानोक्तप्रकारेण बाधकं भवति। अतो न स्वरूपचैतन्यस्य ज्ञानाज्ञानविषयत्वमङ्गीकार्यमित्यर्थः ॥ ७९॥

Page 95

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ०॥ ननु श्रो. ॥ 'एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः । सदा प्र- मितमेकत्वं स्वतएव न चान्यतः ॥ अतो न प्रमिति वाक्यं कुरुत' इति यदेकत्व- विषयकप्रमित्यजनकत्वं वाक्यस्याभिप्रेतम् तत् किमनिर्वचनीयतमोरूपाज्ञानस्य अनावारकत्वात, उत नित्यत्वात् आहोस्विदसत्वादित्याशङ्य असत्वादेवेति सोप- पत्तिकमाह वस्तुत इति- नू ॥। वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः । अतो वाक्यं न चाज्ञानबाधकं स्यान्निरुपणे ॥ ८०॥

व्या।। वस्तुत इति अनिर्वचनीयतमोरूपाज्ञानाख्यतत्त्वतः नास्ति चा- ज्ञानमिति अस्तिशब्दस्सद्वाचकः न शब्दो भेदपर :- तथा चाज्ञानं सद्भिन्न- मसदित्युक्त्या तृतीयविकल्पः अङ्गीकृतः। तथैव ॥ श्रो० ॥ 'अज्ञानमिति वार्तापि त्वर्थसद्भाव एव हि' इत्यादिना स्वयमेव वक्ष्यति ब्रह्मा। चकारेण द्वितीयविकल्पं व्यावर्त्य इङ्गाले तत्कार्ष्ण्यविरुद्धरजताद्धयासस्येव न प्रथमविकल्पस्यावकाश इत्याह चित्प्रकाशविरोधत इति तमस इति शेषः । एवं प्रागुदाहृतैः सप्तषष्टितमादि- श्रोकैः श्रुत्याद्यभिमतोपपत्तिश्च दर्शिता अतः सप्रकाशचैतन्यज्योतिषि आध्यासिक- तमसः स्वरूपासंभवात् निरूपणे उपपत्तिपूर्वकमविद्याविषयकविचारे क्रियमाणे वाक्यं न चाज्ञानबाधकं स्यादित्यर्थः ॥ ८० ॥

अ०॥ ननु तेजसि तिमिरस्येव स्वयंज्योतिष्यात्मनि तद्विरुद्धस्य तमोरूपा- ज्ञानस्य स्वरूपलाभासंभवात् तन्निवृत्यर्थ वृत्तिविषयत्वाभावेऽपि एकत्वप्रकाशार्थ वृत्तिविषयत्वं स्यादिति प्राप्ते-एकत्वस्य स्वरूपभूतत्वात् शब्दप्रवृत्तिनिमित्तानां जातिगुणक्रियाणां अभावाच्च 'एकमेवाद्वितीयं' 'नेह नानास्ति किञ्चने' त्यादि वाक्यवत तत्वमस्यादि प्रमाणमपि प्रत्यगात्मस्वरूपावेदनात् प्रत्यावृत्य तख स- जातीयभेदभ्रममेव व्यावर्तयतीत्याह एकत्वमिति --

मू॥ एकत्वं यत्पुरा प्रोक्तं तत् स्वयं बोद्धुमर्हति। न प्रमाणेन मानानि तस्मिन् कुण्ठीभवन्ति हि॥ ८१॥ व्या० ॥ स्पष्टोऽर्थः ॥८१॥ अ०॥ इदानीं॥ श्रो० ॥ 'व्यावहारिकमज्ञानं बाधते विद्ययैव' त्वित्यत्र व्याख्यातस्याज्ञानविशेषस्य पूर्वावस्थामपरित्यज्यावस्थान्तरेण भानं विवर्त इति

Page 96

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि। ८३

विवर्तलक्षणोक्तप्रकारेण कूटस्थचिदवस्थान्तररूपत्वात् तदभिन्नत्वमाह ॥ व्याव- हारिकमज्ञानमिति -- मू। व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुतः ॥ ८१॥॥ व्या॥ अवंतरणांदेवावगतार्थः ॥l 2१॥॥ अ० ॥ ननु 'वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः। अतो वार्क्य न चाज्ञानबाधकं स्यान्निरूपणे' -- इत्यनेन वचनेन पारमार्थिकाकारेणैवाज्ञानस्या सत्वमुक्तम्-न तु सदसद्विलक्षणाकारेणेत्याशङ्गां व्यावर्तयत्युत्तरग्रन्थसन्दर्भेण ब्रह्मा अज्ञानमिति -- मृ । अज्ञानमिति वार्तापि त्वर्थसद्भाव एवं हि ॥ ८२॥ व्या॥ हि यस्मात्-'यत् साक्षादपरोक्षाङ्ह्म' 'य आत्मा सर्वान्तर' इत्यादिश्रुत्या नित्यापरोक्षस्य निरवयवस्य प्रत्यगात्मन उपादानत्वमवगम्यते- ततस्तत्र तद्विरुद्धं तमोरूपं सदसद्विलक्षणं अज्ञानमिति अज्ञानमस्तीति वार्तापि वचनमपि अपिशब्दात् तद्विषयकं ज्ञान च तदुभयं अर्थसन्भाव एव अर्थस्य सदसद्विलक्षणरूपस्यार्थस्य प्रमेयस्य स्थितावेव भवितुमर्हति नान्यथा अतो न ताहक् तत्वमस्तीत्यर्थः ॥८२ ।। अ०॥ ननु व्यवहारबलादेवाज्ञानस्य सत्वं किं न स्वीकियत इत्यत आह सत एव हीति -- मू।। सत एव हि सद्भावो नासतस्सूक्ष्मदर्शने ॥८२॥॥ व्या।। चिद्रूपस्यैव हि सद्वस्तुनः सद्भावः नासतस्सूक्ष्मदर्शने सूक्ष्मतो विचार्यमाणे सद्भिन्नस्य न सद्भावस्सिध्यतीत्यर्थः ॥ ८२॥॥ अ०॥ ननु प्रतीतिबाधान्यथानुपपत्या सदसद्विलक्षणं तदज्ञानमस्तीति तत्राह सद्सत्कोटीति-

खलु नाभासने भानं ब्रह्मवस्त्वेव केवलम् ॥८३॥॥ व्या।। सदसद्वैलक्षण्यप्रतिपादनमपि तत्तत्प्रकारनिरूपणासहत्वप्रतिपाद- नपरम् न तादगर्थसद्धावपरम् तथाहि अज्ञानस्य सतो बाधायोगात् असतः प्रतीत्ययोगात् सदसद्विलक्षणमिति यदुक्तम् तदपि उभयथा दुर्निरूपणमित्यभिप्रा-

Page 97

८४ अद्वैतसिद्धान्तगुरुचन्द्रिकायाम्

अणवोक्तम्। न तादृग्वस्तुसद्भावेन अतः अर्थभासने खलु ईदृग्विधस्याज्ञानस्य स्वतोभाने सति हि सदसद्विलक्षणं तदिति व्यवहारो भवितृनर्हति नाभासने न स्वतो भानवर्जिते अज्ञाने सदसद्विलक्षणमिति व्यवहारस्संभवति॥ अतः भानरूपं ब्रह्म वस्त्वेव केवलमज्ञानविनिर्मुक्तं सदा भासत इत्यर्थः ॥ ८३॥॥ अ०॥ एवं सदसद्विलक्षणं तमोरूपमज्ञानं नास्तीत्युक्तेपि माभूदज्ञानस्य स्वतो भानं भानरूपत्रह्मसबन्धवशात् कुतो न भासतेति तमोरुपस्याज्ञानस्य स्वरूपतः अनादित्ववादिनामाशङ्कां निराकरोति ब्रह्मा भानेति- मू। भानसंबन्धतो भानमिति वार्ताप्यसङ्गता। संबन्विरूपसद्भावे सति संबन्धसंभवः ॥८४।।।। व्या। संबन्धस्य संबन्धिद्वयसापेक्षत्वात् संबन्धात् प्रागेव ब्रह्मण इवा- ज्ञानस्याऽपि पृथक् स्वरूपसत्वे संबन्धस्संभवति नान्यथेत्यर्थः ॥ ८४॥॥ अ० ॥ इदानीं यस्याज्ञानस्य ब्रह्मसंबन्धतो भानमाशङ्गितम् तस्य ब्रह्मभिन्नं सतमस्ति कि न वा आदे द्वैतापत्तिरित्याभिप्रेत्य द्वितीये न संबन्धसिद्धिरित्याह सन्भ्ाव इति -- मू ॥ सद्भ्ावेऽसति संबन्धिरूपं ब्रह्मैव केवलम् ॥ ८५ ॥ व्या०। सन्भ्रावेऽसतीति अज्ञानस्य ब्रह्मातिरिक्तसत्वाभावे केवलं एक 'निर्णीते केवलमिति त्रिलिङ्गन्त्वेककृत्स्नयो' रित्यमरः संबन्धिरूपं ब्रह्मैव अस्तीति शेष: । एवकारात् न द्वितीयसंब्रन्धि अज्ञानमस्तीत्युक्तं अतो दुर्निरूपस्स- बन्ध इत्यर्थ: ॥८५॥ अ० ॥ परमतमनूद्य तत् न खमतबावकमित्याह अनिरूपितेति- मू।। अनिरूपितरूपेण सद्भाव इति चन्मतम्। अनिरूपितरूपस्य रूपन्तु ब्रह्म केवलम्। ब्रह्मैव रूपं नैवान्यन्न रूपमितरस्य हि॥ ८६॥ ॥ व्या। अपाततः प्रतीयमानस्य तमसः यदनिरूपितरूपमाशङ्गितं तद्रूपन्तु केवलं ब्रह्मस्वरूपमेव तद्वयतिरिक्तस्य सर्वस्य तद्विवर्त्तत्वेन स्वतो निस्स्वरूपत्वात् ब्रह्मस्वरूपातिरेकेण न तमसः किञ्चिदनिरूपित रूपमस्त्यतो न तयोस्सदसतोस्सं- बन्ध इत्यर्थ: ॥८६॥ ॥

Page 98

द्वितीयनिरूपशे द्वितीयप्रदर्शके शक्तिमायानुमानवाधकप्रमाणानि । ८६

अ०॥ इदानमिज्ञानस्यानिरूपितरूपेण स्वरूपाभावेऽपि तदतिरेकेण निरूप- शार्हस्वरूपेण रूपवत्त्वमाशङ्गयाह अस्ति चेदिति -- मू।। अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः । रूपरूपेण रूपं हि ब्रह्मरूपं भवेत् खलु ॥ ८७।।।। कया॥ रूप्यत इति रूपं निरूपणाहै स्वरूपं तत् ब्रह्मणोऽन्यस्यापि विद्य- ते चेतु तदपि रूपं ब्रह्मरूपमेव रूपात्मना उभयोरपि भेदाभावादित्यर्थः ॥८७॥॥ अ०॥ भवेदेवं यदि ब्रह्माज्ञानयोरेकरूपत्वे ब्रह्मणो यद्रूषं ततोऽन्येनैव रूपेणाज्ञानस्य रूपवत्त्वं स्यादिति शङ्कते ब्रह्मेति -- मू !! ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत् ।। ८८ ।। थ्या॥ ब्रह्मसत्तया नास्य सत्ता किन्तु सतान्तरेणैवेति चेदित्यर्थः ॥८८॥ अ० ॥ एकत्वावारकस्याज्ञानस्य ब्रह्मस्वरूपात् रूपान्तरं दूषयितुं त्रिधा वि- कल्प्प तान् निराकरोनि तर्हीति -- मू॥। तर्हि रूपान्तरं रूपाद्भिन्नं वा भिन्नमेव वा। भिन्नाभिन्नन्तु वा भिन्नं यदि रूपाद्विभेदतः ॥ ८९।। तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत्। उक्त्तदोषद्वयापत्तेर्भिन्नाभिन्नं न तन्भवेत् ॥ ९० । टया॥ आयं विकल्पं दूषयति भिन्नं यदीत्यादिना विमतं तमः

्रह्मव्यतिरिक्तस्य अज्ञानस्य पृथक्सरूपलाभो नास्तीत्याह अभिन्नञचेत्तदेव तदिति तृतीय निरस्यति उक्तदोषद्वयापत्तेरिति भेदाभेदपक्षयोरयौ दोषावुक्तौ तयोरापत्तेरिलर्जः। ९० । अ० ॥ 'अनिरूपितरूपेण सद्भाव इति चेन्मत' मिति श्रोकेन प्राग्यदज्ञान- स्यानिर्वचनीयस्वरूपमाशङ्गितं तदनया रीत्या वार्तामात्रमेवावशिष्यत इति निग- मयति अत इति- मू॥। अत एव सुरश्रेष्ठा अनिरूपितरूपतः । सद्भाव इति वार्ता च वार्तैव खलु केवलं । ९१ ॥ 8

Page 99

अद्वैतासद्धान्तगुरुचन्द्रिकायां इत्यन्तवचनैस्तद्वूत्तमोऽज्ञानं निराकृतम् ॥ ९१॥॥ व्या ॥ 'वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधत' इत्यारभ्य 'अत एव सुरश्रेष्ठा अनिरूपितरूपतः । सद्भाव इति वार्ता च वार्तैव खलु केवल मित्यन्तैब्रह्मगीतायाः पञ्चमाद्वयायवचनैर्यद्वत् सदसद्विलक्षणं जीवब्रह्मैक्याद्यावा- रकं तमोरूपमज्ञानं नास्तीत्युक्तम्-तद्व दुत्तरत्रापि वक्ष्यमाणैः-तस्मादज्ञानमेवैतद्रह्वैव सततोदितम्। अज्ञानमयमेवेदं सर्वमित्यभिभाषणम् ॥ नैव भाषणमज्ञानाभावादेव शिवं विना। तस्मादज्ञानमज्ञानकार्यञ्च् सुरपुङ्गवाः ॥ एतद्रह्ैव नैवान्यदिति मे निश्चिता मति' रिति ब्रह्मवचनैः-प्राग्व्याख्यातैः 'ब्रह्मण्यद्वयस्तमायाया निवृत्तिं कुरुते तुसा। विद्या यदी' त्यादिकैर्ब्रह्मगीतायाश्चतुर्थाध्यायवचनैश्वात्मा नित्यापरोक्षः कार्यकारणयोरेकैव सत्तेति खमतं दर्शयितुमात्मन्यूनसत्ताकत्वेन केषांचिदभिमतं तमोरूपमज्ञानं निराकृतमित्यास्थेयम् ॥। ९१।॥ अ०॥ प्रकारान्तरेण चोद्यमनूद्य परिहरति नन्विति- मू। नन्वेकत्वं स्वतोभायात्पूर्णानन्दो न भात्यतः ॥ ९२ ॥। तदावारकमज्ञानं ज्ञाननाश्यं भवेद्यदि। पूर्णानन्दे सवप्रकाशे विरोधान्न तमो भवेत् ॥ ९३ ॥ व्या॥ स्पष्टोऽर्थः ॥९३॥ अ०॥ इदानीमज्ञानस्य ब्रह्मानन्दसत्तातिरिक्तसत्ताकत्वे सति पूर्णानन्दा- वारकत्वं भवितुमहृति। ब्रह्मानन्दमात्रसत्ताकत्वे तु मृन्मात्रसत्ताकस्य घटस्य तदुपा- दानविषय इव न तदावारकत्वं सम्भवतीत्याह अज्ञानमिति- मू॥ अज्ञानं भिन्नरूपञ्चेत् सुखाद्यावारकं भवेत्। प्रागुक्तब्रह्मगीतायां पञ्चमाध्यायतससुरैः ॥ अनिरूपितरूपेण सद्भावोऽस्त्विति शङ्किते। तच्छक्काया निराकर्ता पृथक् सत्तानिराकृतेः ॥ अज्ञानानन्दयोरत्र नानन्दस्यावृतिर्भवेत् ॥ ९५॥॥ ्या॥ अत्ेति कार्यकारणयोरेकसत्तावाद इत्यर्थः । शेषस्मुगम: ॥ ९५॥ ॥ अ०॥ विवर्तस्य लक्षण प्रश्नपूर्वकमाह एकसत्व इति- मू ।। एकसत्वे विवर्तस्य लक्षणं किं यदि ब्रुवे।

Page 100

द्वितीयनिरूपणे द्वितीय प्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि।८७

अवस्थान्तरभानञ्च विवर्तो व्योमनैल्यवत् ॥९६॥॥: व्या॥ यथा नभो नीलमित्यत्र भासमानं निरंशं नीरूपञ्च व्योम पूर्वावस्था- रूपं नीरूपत्वादिकमविहाय नैल्यभानात्मना विवर्तते-चकारेण यथा वा अज्ञातसत्ता कत्वाभावेन निरावृतो भ्रमरूपो देहात्मप्रत्ययः खप्रकाशस्सन्खभ्रमत्वमविहाय तदना- वारकात् स्वगतात् भ्रमत्वेन यथावत् स्वयंप्रकाशिष्यमाणस्वावस्थान्तरभूसज्ञानस्य प्रागभावादेव प्रमारूपेणान्यथा प्रतिभासते। तद्वत् सदा स्वयं भासमानस्स्वात्माSपि क्वप्रकाशकूटस्थत्वमविहाय अवस्थान्तरभूतजणद्भानात्मना स्वयं विवर्तत इत्यर्थः ॥ अ० ॥ इदानीमविचार दशायामप्येकसत्ताकत्वे ब्रह्मतद्विवर्तयोरावरणाभावे च श्रुतिसम्मति दर्शयति अस्तीति- मू॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो दयम् ॥ ९ ७॥॥ व्या। लोकबुद्धयनुसारेणांशत्यरूपेण व्यवहारार्थ प्रदर्शितात् निष्कलात् सच्चिदानन्दात् चतुर्थावयवत्वेन निर्दिष्टस्य रूपस्य वाचारम्भणमात्रत्वात् कार्य- कारणयोरनावृतत्वं सिद्धमित्यर्थः । ९७॥॥ अ०॥ अधुना कारणस्य सच्चिदानन्दस्यानावृतत्वे सर्वानुभवञ्च 'आत्म- नस्तु कामाय सवे प्रियं भवति' इति श्रुतिञच दर्शयति सत्पुत्र इति -- मू॥ सत्पुत्रोयं प्रियो भाति सदा प्रियतमोऽस्म्यहम् । प्रियं भवति सर्वञ्च स्वात्मकामाय नु श्रुतेः ॥९८॥॥ व्या ॥ स्पष्टोऽर्थः ॥ अ०॥ इदानीं जगतः स्वात्मानन्दाभिदानुमाननात्मानन्दस्यानाव्ृतत्वं दर्श- यति सर्वमिति- मू। सर्वै प्रेमास्पदत्वाद्धि स्वात्मानन्दात्मकं भवेत्। सुखमस्वाप्समित्येवं परामृष्टं सुखं यथा ॥ ९९।। ॥ व्या॥ सर्वस्य जगतः स्वात्मानन्दानन्यत्वं प्रतिज्ञाय तत्र हेतुमाह- प्रेमास्पदत्वादिति तत्र निरावृतं सुषुप्तिसुं निदशयति सुखमस्वाप्समित्या- दिना।। ९९॥ ॥ अ०॥ ननु तस्तद्विषयेषु पार्थक्येन प्रतीयमानस्यानन्दस्यापि परिच्छेद- सम्भवाल् कभ तस्य पूर्णत्वमित्वाशङ्क्य दृष्टान्तेन परिहरति सर्वत्रेति-

Page 101

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

भू। सर्वत्राप्युपलब्धस्य सद्रूपस्येव पूर्णता। सर्वत्राप्युपलब्धस्य प्रियभूतसुखस्य च ॥ १००॥ । था॥। आकाशादीनां तत्तद्रूपेण नानात्वेऽपि सर्वत्र सामान्यत एकरूपे- णानुस्यूतस्य सद्रूपस्येव आनन्दस्यापि पूर्णत्वं सिद्धमित्यर्थः ॥ १००॥॥ अ०॥ इदानीं नित्यापरोक्षात्मतद्विवर्तयोरेकसत्तावादे तयोः स्वेतरावारक- स्वरूपाभावात् विचाराद्यथावत् स्वयंप्रकाशिष्यमाणस्वरूपचतन्यात्मकविद्याप्रागभाव एव विवर्तस्य जगतो निमित्तकारणमित्याह इत्यानन्देति- मू ।। इत्यानन्दतिरोधानं विनारोप्यस् दर्शनात्। भ्रमापहप्रागभावो हेतुर्नैव तमोडत्र हि ॥ १० १॥ ॥ व्या॥ अलेति कार्यकारणयोरेकसत्तावादे इत्यर्थः ॥। १०१॥॥ अ०॥ इदानीं निरंशस्यानन्दस्य विवर्तकारणत्वकाक्षिप्य परिहरति सांश इति- मू। सांशे तु किल शुक्त्यादौ विवर्तो दृश्यते यदि। निर्गुणे च निरंशेऽसौ जात्यादौ शूद्रता भ्रमः ॥१०२॥॥ क्या।। अयं शूद्र इति भ्रमस्थले शूद्रताध्यासाधिष्टानसेदंशब्दार्थभूतस्य ब्राह्मण्यस्य निरंशत्वेन तमसा आवार्योशाभावात्-तत्र भ्रमसहकारिसाधनेन ज्ञाना- भावरूपाज्ञानेन शूद्रताभ्रमो भवेत्। एवमेवायं कृष्ण इत्यत्रापि रक्त्तगुणस्य निर्गुण- त्वेन निरंशत्वेन चावरणासम्भवात्तत्र तज्ज्ञानाभावरूपेणैवाज्ञानेन कार्ष्ण्यभ्रमोऽपि भवतीत्यर्थः ॥ १०२॥॥ अ० ॥ प्रतिपादितार्थे श्रीविद्यारण्याचार्यप्रणीताद्वैतानन्दाख्यप्रकरणवाक्यं संवादयति निरंशेति- मू॥ निरंशेऽप्यस्त्यसौ व्यो्नि तलमालिन्यकल्पनात् ॥१०३॥ तथा निरंश आनन्दे विवर्तो जगदिष्यताम्। आद्यो विकार आकाशस्सोऽस्ति भात्यपि च प्रिय: ॥१० ४॥ अवकाशस्तस्य रूपं तनमथ्या न तु तत्त्यम्। अनेकधा विभिन्नेषु नामरूपेषु चैकधा ॥ १०५॥

Page 102

द्वितीयनिरूपणे द्वितीय प्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि। ८९

तिष्ठन्ति सच्चिदानन्दा विसंवादो न कस्य चित्। सच्चिदानन्दरूपेऽस्मिन् पूर्णे ब्रह्मणि वीक्षिते॥ १०६ ॥ स्वयमेवावजानाति नामरूपे शनैश्शनैः ॥ १०६॥ ॥ व्या॥ तन्मिथ्येति तत् चतुर्थावयवत्वेन निर्दिष्ट रूपं तावत् मिथ्या अनृतवचनात्मकमित्यर्थः । १०६॥॥ अ०॥ नन्वानन्दस्य ब्रह्मांशत्वावृतत्वयोरभावे कथ तत्र जगद्विवर्तेतेत्याशङ्ग मैवमिति दृष्टान्तेन स्वयमेव परिहरन्ति यै्विद्यारण्याचार्यास्तद्वाक्यान्यप्युदाहरति अदृष्टेति- मू।। अदृष्ट्ा दर्पणं नैव तदन्तस्थे क्षणं यथा ॥ १०७॥ अमत्वा सच्चिदानन्दं नामरूपमतिः कुतः । प्रथमं सच्चिदानन्दे भासमानेऽथ तावता॥ १०८॥ बुद्धिं नियम्य नैवोर्ध्वे घावयेन्नामरूपयोः । एवं यन्निर्जगद्गह्म सच्चिदानन्दलक्षणम् ॥ १०९॥ अद्वैतानन्द एतस्मिन् विश्राम्यन्तु जनाश्चिरम् ॥१०९॥।॥ या॥। स्पष्टोऽर्थः ॥ १०९॥॥ अ० ॥ उदाहृतब्रह्मगीतादिवाक्यतात्पर्यमाह अस्येति- भू ॥ अस्य ग्रन्थस्य तात्पर्ये सङृत्य स्फुटमुच्यते ॥ ११० ॥ जगत् प्रतीतिवेलायां पूर्णानन्दप्रदर्शनात्। अनावारकमज्ञानं मायाशक्त्यादिशब्दितम् ।। १११।।

तदेव द्वैतभ्रमसहकारिकारणमज्ञानं मायादिशव्दावाच्यमित्यास्थेयम् एकत्वपूर्णानन्द- योस्सदा पूर्वोक्तप्रकारेण निरावृतत्वस्य प्रदर्शितत्वात् इत्यर्थः ॥ १११॥ अ०॥ इदानीमुपपादितार्थे दृढप्रत्ययार्थ पुनरपि श्रीविद्यारण्याचार्यकृतयोगा. नन्दा्यप्रकरणगतानि भृगुवल्ल्यादिश्रुतिमूलकानि कानि चित् वाक्यान्यन्विष्य सं- बादयितुं खप्रतिज्ञा स्मारयति योगेति-

Page 103

अद्वैतसिद्धान्तगुरुचन्द्रिकायां मू। योगानन्दाख्यशास्त्राच्च ब्रह्मानन्दस्य नावृतिः ॥१११॥।॥ क्या॥ स्पष्टोऽर्थः ॥ १११॥।।। अ० ॥ तत्रानन्दत्रैविध्यं प्रतिज्ञाय तत्र ब्रह्मानन्दविवेचनं प्रतिजानीते मग- वान् विद्यारण्याचार्य आनन्द इति- मू।। आनन्दस्त्रिविधो ब्रह्मानन्दो विद्यासुखं तथा ॥ ११२ ॥ विषयानन्द इत्यादौ ब्रह्मानन्दो विविच्यते ॥ ११२॥॥ व्या।। स्पष्टोऽर्थः ॥ ११२॥॥ अ०॥ इदानीं तत्रत्यं भृमुवल्ल्यर्थसङ्गाहकं वचनमुदाहरति भृगुरिति- मू। भृगुः पुत्रः पितुशश्रुत्वा वरुणाद्गह्मलक्षणम् ॥ ११३ अन्नं प्राणमनोबुद्धीस्त्यक्त्वानन्दं विजिज्ञवान्। आनन्दादेव भूतानि जायन्ते तेन जीवनम् ॥ ११४ ॥ तेषां लयश्र तत्रेति स्वात्मानन्दो ह्यनावृतः ॥११४॥॥ क्या।। कार्यानन्दमयवाक्यघटकीभूतपुच्छवाक्येन सुपुप्तस्थान इत्यारभ्य 'सर्वस्य प्रभवाप्ययौ हि भूताना' मिति कारणानन्दमयवाक्येन च निर्दिष्टं सुषुप्ताव- परोक्षतचेनानुभूयमानमानन्दं जगज्न्मादिकारणमिति ज्ञातवान् भृगु: तथाहि। यथा भूमौं दृश्यमानानां ग्रहप्रासादवृक्षादीनां क्षयवशात्त्म्यतिरेकेणाद्ृश्यमानत्वे सत सव भूमि: लयाधिकरणं भवति। सैव प्राक उत्पत्तिस्थितिकारणमुपादानं चा- भवत्। यथा च स्वप्रदृदशि पुनर्जाग्रदवस्थायां परिशिष्यमाणे सति-तदानीं विनाशा- ददृश्यमानानां सौप्िकानां तस्मिन् लयः स एव प्राक् खप्नावस्थायामुत्पत्तिस्थिति- कारणमुपादानमभवत् एवमवस्थाद्वयवत्यात्मनि सुषुप्तावानन्दात्मना परिशिष्यमाणे सति तदानीं विनाशाददृश्यमानानामवस्थादयकल्पितानां तस्मिन् लय: स एव प्राग्भूतानामुत्पत्तिस्थिति कारणमुपादानमभवदिति स्वयं ज्योतिस्स्व रूपे नित्यापरोक्षे स्वात्मानन्दे ब्रह्मलक्षणं भृगुरययुजत्। अन्यथा पूर्णानन्दस्यावृतत्वे कथमज्ञाते तस्मिन् ब्रह्मलक्षणं योजयितुं शक्यते। क्थ वा 'सेषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिते'ति श्रृत्या च भृगोरुत्पन्नाया विद्याया अपरोक्षपरब्रह्मविद्यात्वञ्च प्रदर्शितं। सौषुप्तानन्दमयस्य परिच्छिन्नत्वे कथन्नु भृगु्ब्रह्मजिज्ञासात उपरराम।। श्रुस्या बा 'परमे व्योमन् प्रतिष्ठिते'त्यनुमोदिता तद्विद्या। अतस्सौषुप्तानन्द- मयस्त्वनावृतः पूर्णश्चेति सिद्धम् एवंमेव श्रतिसूत्रभाष्यकारैरभिप्नेतमिति प्रथम-

Page 104

1

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानबाधकप्रमाणानि। ९१

निरूपणे सप्तषष्टितमादिश्रोकैर्विस्तरेण दर्शितं आनन्दमयद्वैविद्धयं तु सप्तमनिरूपणे 'स्वप्नानन्दमय' इत्यादिश्लोकैर्वक्ष्यति च ॥ ११४॥॥ अ०॥ पुनरप्युपपादितार्थे 'यज्ञ नान्यत् पश्यति नान्यच्छृणोति नान्यद्वि- जानाति स भूमा यो वै भूमा तत् सुखं नाल्पे सुखमस्ती'ति सुषुप्तावपरोक्षत्वेन स्वतः प्रकाशमानस्य भूमानन्दस्य निराृतत्वादिबोधकभूमविद्यार्थसङ्गाहकं योगा- नन्दवाक्यमुदाहरति भूतेति- मू॥ भूतोत्पत्तेः पुरा भूमा त्रिपुटी द्वैतवर्जनात् ॥ ११५ ॥ ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी प्रलये हि नो। विज्ञानमय उत्पन्नो ज्ञाताज्ञानं मनोमयः ॥ ११६ ॥ ज्ञेयाश्शब्दादयो नैतत् त्रयमुत्पत्तितः पुरा। त्रयाभावे तु निर्द्वैतः पूर्ण एवानुभूयते ॥ ११७॥ समाधिसुप्तिमूर्छासु पूर्णस्सृष्टेः पुरा तथा। यो भूमा स सुखं नाल्पे सुखं त्रेधा विभेदिनि ॥ ११८॥ सनत्कुमार: प्राहैवं नारदायातिशोकिने ॥ ११८॥॥ ्या। यथा स्वतः सुषुप्त्यादावहमित्यापरोक्ष्येण प्रकाशमानस्यानन्दस्य परिच्छेदकाभावात् पूर्णत्वं तथा सृष्टेः पुराऽपिं भवितुमर्हतीति 'यो वै भूमा तत् सुख'मित्यादि वाक्येन सनत्कुमारो नारदायोपदिदेशेत्यर्थः ॥ ११८॥॥ अ०॥ अधुना मन्दानां तत्तप्रतिपत्त्युपायत्वेन ब्रह्मणः अंशत्वेन गुणत्वेन धर्म लेन वा आनन्द परिकल्प्य तस्मिन्नज्ञानेनावृते सति तत्र तद्विपरीतजगदध्या- सो जायत इति यत् शास्त्रं, तत् तत्तदाचार्यबुद्धिपरिकल्पितमेवेति दिदशयिषुः तदनुकूलमानन्दानुभवतत्परश्रुतिप्रदर्शनपरं योगानन्दाख्यप्रकरणगतं 'चिदात्मत्वात् स्वतो भाति सुख'मित्यादिवाक्यमर्थतस्सङ्गह्नाति उत्तीति- मू।। वृत्त्यभावे कथं सुप्तावानन्दानुभवो यदि ॥ ११९॥ चिदात्मत्वात स्वतो भाति सुखमित्यनुश्ासनात्।२१९।।। व्या। चिदात्मत्वादिति चित् प्रत्यक्कत्वमात्मा स्वरूपं यस्य सुख- स्य तत् सुखं चिदात्म तस्य भावश्चदात्मत्वं तस्मात् स्वतो भाति सुखं साध- नान्तरनिरपेक्षेण स्वरूपभूतसुखं सुषुप्तौ भातीत्यर्थः ॥ ११९॥॥

Page 105

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ०॥ भवतु नाम आनन्दस्य चिदात्मतवं। ततः किमित्यत आह मूल- कारः नानन्दस्येति -- मू ॥ नानन्दस्य गुणत्वं वाडप्यंशता धर्मताऽन्यथा ॥ १२० ॥ व्या। अत्रेदमनुमानमुक्तं। आनन्दः न वैशेषिकाभिमतगुणात्मको भ- वितुमर्हति चिदात्मत्वात्। गुणस्य गुणी अश्रयो भवति न तु स्वरूपं लोके। चि- हूपस्य साक्षिणः 'साक्षी चेता केवलो निर्गुणश्चे'ति श्रुत्या निर्गुणत्वानुशासना च्च नानन्दस्य गुणत्वं सम्भवति। तथा नाप्यंशत्वं संभवति चिदात्मत्वात् 'निष्कलं निष्किरिय'मिति श्रत्या निरंशत्वविधानाच्च लोके चांशी अंशस्याधारो दृश्यते यथा हस्तादेश्शरीरमाधारः नात्मा। एवं ब्रह्मवर्मोऽपि न भवतीत्यर्थः ॥ १२० ॥। अ०॥ अन्यथा बाधमाह चिदिति- मृ॥ चिद्गुणत्वाच्चिदंशत्वात्स्वतो भातीति संवदेत् ॥१२०॥॥ व्या। चिदात्मत्वात् स्वतो भाति सुखमिति किल प्राग्विद्यारण्याचार्यैर्द- सिंत अतो नानन्दस्य ब्रह्मगुणत्वादिकं भवेदित्यर्थः । १२०॥॥ अ०॥ उपपादितार्थे तत्रत्यमेव वाक्यमुदाहरति ब्रह्मेति -- मू। ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः । पठन्त्यतः स्वप्रकाशं सुखं ब्र्ैव नेतरत् ॥ १२१॥॥ कया॥ यस्मात् 'विज्ञानमानन्वं ब्रह्मे'ति वाजसनेयशाखििन आनन्दस वि- ज्ञानेन ब्रह्मणा च सामानाधिकरण्यं पठन्ति। अतस्खप्रकाशं सुखमेव ब्रह्मेत्यानन्द- स्य ब्रह्मरूपत्वमादिश्य 'साक्षी चेता केवलो निर्गुणश्च' 'निष्कल' मित्यादि श्रुतेरानन्द- स्य न ब्रह्मगुणत्वादिकं सम्भवतीत्याह नेतरदिति।। १२९॥॥ अ०॥ योगानन्दवाक्योदाहरणफलमाह कविः एकत्ववदिति -- मू । एकत्ववत् सुखस्यापि स्वतो भानात्तमो न हि ॥ १२२ ॥। न्या।। एकलादेरनावारकं द्वैतभ्रमसाधनभूतं ज्ञानप्रागभावरूपमज्ञानं विना तडावारक तमोरूपमज्ञानं नास्तीत्यर्थः ॥ १२२॥ अ० ॥ पुनः प्रकारान्तरेण परिचोध दृष्टान्तेन समाधत्ते आवारकेति- मू॥ आवारकतमो नो चेद्दुःखकाले सुखं स्फुरेत्। देहात्मप्रत्ययस्यास् यथाऽनावरणेऽन्यतः ॥ १२३ ॥

Page 106

द्वितीयनिरूपणे द्वितीय प्रदर्शके शक्तिमायानुमानबाघकप्रमाणानि। ९३

प्रमात्वकल्पने तत्र भ्रमत्वं न प्रतीयते। सुखस्यावरणाभावे ज्ञानाभावाद्यदा पुनः ॥१२४ ॥ दुःखात्मना विवर्तत्वं सुखं तद्वन्न भासते।

व्या। सुखं स्फुरेदिति पूर्वपक्षे सति। देहेत्यादिना समाधत्ते देहात्म- भ्रमस्यानुभवरूपत्वात् वृत्तिरूपत्वाच्च निरावृतत्वेन प्रकाशरूपत्वे सति तद्गतभ्रमत्वे- न स्वयंप्रकाशिष्यमाणज्ञानाभावात् भ्रमत्वमविहायैव प्रमात्वरूपेण विवर्तमानत्वे सति तेनैव भ्रमत्वभानप्रतिबन्धकभूतेन भ्रमत्वानावारकप्रमात्वभानेन यथा भ्रमत्व न प्रतीयते तद्वत् स्वरूपसुखस्यापि स्वप्रकाशत्वेनावरणाभावेऽपि वक्ष्यमाणादज्ञा- नात् प्रमाणादिभावेन स्वतोभासनानन्तर यथावत्स्वयंप्रकाशिष्यमाणस्य स्वरूप- ज्ञानस्य प्रागभावरूपात् यदा दुःखात्मना विवर्तत्वं भवति तदा दुःखस्य स्वरूप- सुखापरोक्ष्यप्रतिबन्धकत्वान् न स्वरूपानन्दः प्रतीयते। एवमेवात्रोक्तष्टान्तः 'दे- हात्मप्रत्ययो यद्ूत् प्रमाणत्वेन कल्पितः । लौकिक तद्ूदेवेदं प्रमाणं त्वात्मनिश्चया दिति च यथा देहात्मप्रत्ययः कल्पितो भ्रमोऽपि व्यवहाराङतया मानलेन इष्यते वैदिकैस्तद्वत् लौकिकमध्यक्षादिकमात्मबोधावधिव्यवहारकाले बाधाभावात् भ्रम- त्वनिश्चयाभावरूपात् व्यावहारिक प्रामाण्यमिष्यतामिति च समन्वयाधिकरण- भाष्यतद्वूयाख्यानावसाने दर्शितः ॥ १२५।। अ०॥ इदानीं दार्ष्टान्तिकत्वेन प्रदर्शितार्थे भाष्यादिसम्मतिमाह प्रति- बन्धकेति-

मू।। प्रतिबन्धकदुःखानामभावात्परमं सुखम् । सुप्तौ भातीति माण्डूक्यप्राज्ञपादस्य भाष्यतः ॥ १२६ ॥ व्याख्यानात्तमसानन्दो नावृतोतोपमां शृणु ॥ १२६॥॥ क्या॥ स्पष्टोऽर्थः ॥ अ०॥ उक्तमेवार्थ सदृ्टान्तमुपसंहरांत कृष्णेति- मू। कृष्णपक्षाद्यभागे च पूर्वाह्ने पश्चिमे विधौ ॥ १२७ ॥ शुक्कपक्षान्तिमे भागे सायाहे प्राग्दिशि स्फुटम्।

Page 107

९४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अनावृते च प्रत्यक्ष आदित्यस्य प्रभा यथा ॥ १२८॥ दृष्टचन्द्रस् कान्तेस्तु ग्रहणप्रतिबन्धिका। दुःखात्मना स्वतोभानं सुखभानविरोधकम् ॥ १२९ ॥ व्या। कृष्णपक्षे सूर्यास्तञ्ञमनानन्तरं पञचमपिर्यन्तं प्रायशो वैशाल्येन समुदितस्य क्षयिष्णुचन्द्रस्य तत्तत्परेऽइनि सूर्योदयानन्तरमस्तङ्गमनसंभवात् पश्चमीपर्यन्तं पश्चिमे देशे विस्पष्टश्नन्द्रो दृश्येत शुककपक्षे तु क्रमशो वर्धमानस्य चन्द्र- स्य सूर्योदयानन्तरमुदयात् शुक्कपक्षैकादश्यां कृष्णपक्षचतुर्थाचन्द्रसमानाकारेण उत्पन्न: अह्ि प्राग्दिशि च रुपष्ट दृश्येत। तथा सति अनावृतत्वेन चक्षुस्सन्निकृष्टे सति चन्द्रमण्डले यथा चक्षुष्यारूढादित्यप्रभायाः चन्द्रप्रभाविषयकज्ञानोत्पत्ति- प्रतिबन्धकत्वमन्तरेण न तदावारकत्वं संभवति विषयप्रकाशनमावशक्तिमत्वात्। एवं दुःखात्मना विवर्तमानं स्वरूपचतन्यमपि तत् प्रागवस्थाभूतस्वरूपसुखापरो- क्ष्यप्रतिबन्धकत्वमन्तरेण न तदावारकत्वं भजतीत्यर्थः ॥ १२९॥ अ० ॥ अधुना प्रश्नपूर्वकं सुषुप्तौ परमानन्दानुभवपरायाः 'एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेः न परमानन्दा- वरणमस्तीत्याह परानन्देति- मू। परानन्दात्मकत्वादौ किम्मानमिति चेच्छृणु। बृहदारण्यगे षष्ठे तृतीयब्राह्मणे तु यत् ॥ १३० ॥ खण्डं सलिल इत्यादि तत्रोक्तोऽनुभवोऽपि च। एषोऽस्व पर आनन्दस्तस्य मात्राभुजः परे ॥ १३१॥ मनुष्यदेवब्रह्मान्ता इति नास्ति तदाऽडवृतिः ॥ १३१॥॥ व्या। 'सलिल एको द्रष्टेत्यादिखण्डं चास्य विज्ञानमयस्य च एष पर आनन्दस्तस्य मनुष्यादिव्रह्मान्ताः परे प्राणिनो मात्राभुन' इति तलोक्तोऽनुभवोऽपि च प्रमाणं भवति। अतस्सुखमहमस्वाप्स'मिति परामशेविषयस्य परमानन्दस्य नावरणं सुषुप्तिकालेऽप्यस्तीत्यर्थः ॥ १३१॥॥ अ०॥ ननु सुषुप्तावावरणाभावहेतुना परमानन्दः स्वस्वरूपत्वेनानुभूतश्रेत् त बिहाय पुनरुत्थितौ को हेतुरित्याशङ्कय तदुत्तरमाह परानन्द इति- मू। परानन्देऽनुभूतेऽतः कुतश्रेत् पुनरुत्थितिः ॥ १३२ ॥ अद्वितीयतया भानं विघ्नकृद्दैतविभ्रमे.।

Page 108

द्वितीयनिरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानवाधकप्रमाणानि। ९१

तदीयप्रागभावोऽयं पुनरुत्थितिहेतुकः ॥ १३३ ॥ व्या। अद्वितीयतया भानमिति आत्मनो यत् 'नेह नानास्ति कि- जिचने'त्यादि वाक्यभावापत्त्यनन्तरमद्वितीयतया स्वतोभासमानं स्वरूपचैतन्यमि- त्यर्थः । शेषस्सुगम: ॥ १३३॥ ॥ अ० ॥ एवं श्रुतियुक्त्यनुभवैः द्वितीयतृतीयपक्षत्वेनाभिमततमोरूपाज्ञानस्य स्वयंज्योतिष्यात्मनि स्वरूपलाभाभावावगमेSपि तैरनिराकृते ज्ञानप्रागभावात्मक. ज्ञाने कथं भावार्थवाचकानां शक्ति: प्रकृतिस्तम इत्यादिशब्दानां प्रवृत्तिरिति प्रश्न- पूर्वकं सदृष्टान्तमुत्तरमाह अस्मिन्निति- मू॥ अस्मिञ्ज्ञानप्रागभावे प्रागुक्तैरनिराकृते। चित्प्रकाशाविरोधेन चित्स्थेऽनावारके कथम् ॥ १३४ ॥ शक्त्यादिशब्दवृत्तिश्चेच्छक्तौ प्रकृतिशब्दवत् ॥ १३४।।॥ व्या।। यथा अविद्याया आत्मशक्तित्वेन द्वारकारणत्ववादिभिः सङ्केपाचा- र्यादिभिः मृदादौ परिणामिकारणत्ववाचिनः प्रकृतिरिति पदस्य 'भायान्तु प्रकृतिं विद्यादित्यत्र अपररिणामिन्यामात्मक्ती कारणत्वमात्रमादाय परिभाषात्मिका प्रवृ- त्तिरङ्गीकृता तद्ूत् ज्ञानाभावात्मकाज्ञानेSपि कारणत्वमात्रमादाय भाववाचिवत् प्र- तीयमानानां शक्त्यादिपदानां परिभाषया प्रवृत्तिर्भेवितुमर्हतीत्यर्थः ॥१३४॥॥ अ०॥ इदानीं जगदध्यासाय आत्मनः प्रथमपक्षाभिमताज्ञानापेक्षकत्वसि- द्धये तमोरूपाज्ञानानपेक्षकत्वपराणि ब्रह्मगीतापञचमाध्यायवचनानि प्रमाणयति अतञ्चति- मू ॥ अतश्च कारणं नित्यमेकमेवाद्वयं सुराः ॥१३५॥ व्या। यस्मात 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं' 'तदैक्षत बहु स्यां प्रजायेयेति'-'नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्कतयोनिं परिपश्यन्ति धीरा' इति जगत्कारणं प्रकृत्य श्रूयते अतश्च जगत्कारणं देशकालवस्तुकृतपरि- च्छेदशून्यमित्यर्थः ॥ १३५॥ अ०॥ ननु लोके घटादिकार्याणामुपादानं निमित्तं च परस्परं भिन्नमेव दृश्यते तद्ूत् जगत्कारणमपि ब्रह्मकारणान्तरेण भावपदार्थेन सद्वितीयं किन्न स्या- दिति प्राप्ते विषमोऽयं दृष्टान्त इत्याह ब्रह्मा कुलालेति- मू॥ कुलालादेर्मदादेश्च भेदे दृष्टेऽपि भृतले। अचैतन्यान्मृदादिस्तु कुलालादिमपेक्षते ॥ १३६ ॥

Page 109

९६ अद्वैतसद्धान्तगुरुचन्द्रिकार्या

अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि। तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम् ॥ १३७ ॥। स्वयं चेतनमप्येतत्कारणं न कुलालवत्। अपेक्षते मृदा तुल्यमचिद्रपन्तु कारणम् ॥ १३८ ॥ व्या।। अत्रेति मृद्धटयोरिव कार्यकारणयोरेकसत्तावादे हि यस्मात् 'त- देतदच्छाय' मिति श्रुतिवत् अद्वितीयमिति श्रृत्यापि सृष्टेः पूर्वमपि सदाख्यमात्म- तत्वं तद्विजातीयेन द्वितीयेन स्वरूपावारकतमोरूपाज्ञानेन वर्जितमित्युपदिष्टमतः शुद्धचैतन्यमेव निरावृतप्रत्यक्चैतन्यमेव कारण सर्वोपादानं तेन निरावृत- चैतन्यस्य जगदुपादानत्वहेतुना मृद्वत् स्वातिरिक्तं चेतनात्मक कारणं नापेक्षत इत्यर्थः । ननु चेतनत्वात् स्वयं चेतनान्तरं नापेक्षते चेत् तहिं कुलालवत् स्वाति- रिक्तमचेतनमपेक्षेतेत्यत आह स्त्रयं चेतनसप्येतिति 'तदैक्षत व हु स्यां प्रजायेयेती' त्यादिश्रत्युक्तं जगत्कारणमात्मचैतन्यं कुलालवत् मृदा तुल्यमचिद्रूप तुं कारणं नापेक्षत इति संबन्धः ॥। १३८॥ अ० ॥ एवं कार्यकारणयेरकसत्तावादे 'तदेतदच्छायमशररमलोहिनं शु- अ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञस्सर्वीभवति 'एकमेवाद्वितीयमिति' आत्मचै- तन्यस्य जगत्सर्जने तमोरूपप्रकृत्यज्ञाननिरपेक्षत्वपरश्रुतिञ्च 'वाचारंभण विकारो नामवेय'मिति नामधेयातिरेकेण विकारस्य स्वरूपासत्वपरश्रुतिञच अनुसृत्य चेत- नस्य जगत्कारणतमोरूपाज्ञाननिरपेक्षत्वमुपादिश्य इदानीं या त्विद्याSचिद्रपा चि- त्प्रागभावरूपा तत्र कार्यकारणयो्विषमसत्तावादिनां शक्तित्वादिविभ्रमं च तद्कष्ठ्यनु- सारेण स्वरूपावारकभावरूपशक्तित्वादिक च सिद्धवत्कृत्वा तत्सापेक्षत्वं स्पुः अनुवदति श्रुतिरित्याह ब्रह्मा प्रतीत्येत्यादिना- मू।। प्रतीत्या केवलं शक्तिरचिद्रपा समोमयी। सर्वप्रकारैर्विद्वद्भिरनिरूप्या हि शाङ्करी॥ १३९॥ तया दुर्घटकारिण्या तादात्म्येनैव संगतम्। कारणं सकलस्रष्ट सर्वसंहतृ चास्तिकाः ॥ १४० ॥ क्या॥ या त्वविद्या स्वयं अचिद्रपा सती प्रथमपक्षत्वेन निर्दिष्टविद्या- प्रागभावरूपा सती कार्यकारणयोः विषमसत्तावादिनां दृष्टिमात्रेण भावरूपशक्त्या- वात्मना भाति न तादृगनिर्व चनीयतमस्वत्वस्रूपसभ्गावतः-यथा अनन्ताया-

Page 110

द्वितीय निरूपणे द्वितीयप्रदर्शके शक्तिमायानुमानवाधकप्रमाणानि। ९७

सविस्तारोऽपि चन्द्रः लौकिकानां प्तीत्या केवलं प्रादेशपरिमाणवानिव भाति तद्वत् प्रतीत्या केवलमिति पदद्वयेनादिश्य तत्र मन्ददृष्ट्यनुसोरणैव अविद्यायाः तेजोबन्नभूतभौतिकप्रकृतित्वं सिद्धवत् कृत्वा तसादात्म्याषन्नमेव सदाख्यमात्मत- तवं जगत् सृजतीति मन्दाधिकारिणं प्रत्याह तयेत्यादिना ॥ १४० ॥ अ०॥ ननु कथ कार्यकारणयोविषमसत्तावादिनां प्रागक्त्तचित्प्रागभावे भा- वरूपशक्तित्वादिभ्रमोपपत्तिरित्यत आह कविः विवेकेति- मू। विवेकाभावतोSडज्ञाने भावत्वस्य चिदात्मनः । अद्धचासे भावता मानाच्छक्तित्वेन प्रतीयते ॥ १४१ ॥ ्या।। अज्ञान इति आत्मनो विचारभावापत्त्यनन्तरं स्वतो यभावत्प्र- काशिष्यमाणस्वरूपचैतन्यप्रागभावे यदा तदाश्रयात्मगतभावत्वाद्धयासो भवति तदा तद्द्ावत्वाध्यासविशिष्टज्ञानप्रागभावः शक्तित्वेन प्रतीयत इत्यर्थः ॥ १४१ ॥ अ०॥ उक्तमेव शक्तित्वाध्यासमाक्षिप्य निमित्तदष्ान्ताभ्यां व्यवस्थापय ति अभाव इति- मू ॥ अभावो भाव इत्येव गृह्यतां नान्यथति चेत्। भावत्वेन प्रतीतत्वाद्धेतुत्वाद्वस्तुसत्वतः ॥१४२।। यथा दाहक्रियाहेतुश्शक्तित्वेन प्रतीयते ॥ १४२।। ॥ व्या। यथा दाहहेतोः वदिधर्मस्य वस्तुगतत्वभावत्वनिमित्तकारणत्वेभ्यः शक्तित्वेन प्रतीयमानत्वं तद्वत् ज्ञानप्रागभावस्वात्मवस्तुगतत्वं हेतुत्वञ्च स्वतस्सि- द्धम् भावत्वन्तु तदधिकरणभूतात्मगतभावत्वसंसर्गाध्यासात् प्राप्तम्। अतस्तस्यापि शक्तित्वेन द्रव्येतरत्वेन प्रतीयमानत्वं भवतीत्यर्थः ॥ १४२।॥। अ० ॥ प्रतिपादितश क्ततेरात्मसंबन्धञ्च श्रतेस्तत्परत्वं च दर्शयति स्व- कीयत्वेति- मृ ।। स्वकीयत्वभ्रमात्सा स्यात्स्वशक्तिस्तत्परा श्रतिः । परास्य शक्तिर्विविधेत्येवमादि: पुरेरिता ।। १४३।।। व्या ॥ सष्टोऽर्थ: ॥ १४३॥॥ अ०॥ इदानीं कस चिदप्यनावारके प्रागुत्तज्ञानप्रागभावे विषयावारक- त्वतमस्ताद्धयासं सदष्टान्तमाह दीपस्येति- 9

Page 111

१८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू।। दीपस्य द्रव्यताद्येन संसर्गाद्धचासतो यथा ॥ १४४ ॥ आलोकाभावको भाति विषयावारकं तमः । द्रव्यं तथानुमातृणां ज्ञानाभावस्तमो महत् ॥ १४९ ॥ महत्वेनात्मनोऽध्यासाच्छक्तित्वादिभ्रमो भवेत् ॥ १४५॥॥ क्या। दीपस्येति प्रदीपस्य। द्रव्यताद्येन द्रव्यता आद्या यख चल- नादेस्तत द्रव्यतादं तेन सह संसर्गाद्वयासेन आलोकाभावकः स्वत एव विषयाप्रकाशकः प्रकाशाभावः विषयावारकं तमः द्रव्यमिति यथा मीमांस- कानां भाति तथानुमातणां प्रागुक्तप्रकारेण जगत्प्रकृत्यनुमातृणां आत्मनो मह- त्वेनादर्यासात् ज्ञानाभाव: इय शक्तिरिदम्महातम इति भाति अतशशक्तित्वादिभ्रमे भवेदित्यर्थः ॥ १४५॥ ॥ अ०॥ विपक्षे बाधमाह कविः अन्यथेति- मू॥ अन्यथाऽद्धयायशेषेणास्यैकार्थत्वं न संभवेत् ॥ १४६ ॥ व्या। अस्येति प्रागुदाहृतस्य प्रतीत्या केवलं शक्तिरचिद्रूपा तमो- मयीति ब्रह्मगीतायाः पञ्चमादयायवचनस्य अन्यथा भावरूपानिर्वचर्नीयतम- ससद्भावपरत्वे अध्यायशषण प्राक्शक्तिमायानुमानयोबध प्रदर्शनार्थमुदाहृतेन अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव ही'त्यादि श्रोकेन अनिर्वचनीयतमोरूपाज्ञा- ननिरासपरेण एतत्पञ्चमादयायशेषेण एकार्थत्वं न संभवेत् समानार्थकत्वं भज्येतेत्यर्थः ॥ १४६ ॥

द्वितीयनिरूपणे ॥ तृतीयप्रदर्शकपारम्भ: ॥ अ०। इदार्नी प्रतिज्ञापूर्वकाद्यपक्षत्वेनाभिप्रेतस्याऽज्ञानस लक्षणमाह वदा- खोति- मू ॥ ददामि पक्षमेदेनाज्ञानानां लक्षणं क्रमात्। साक्षादाद्यं ज्ञाननाश्यं प्रतियोगिप्रकारतः ॥ १४७॥। रया॥ श्रो० ॥ प्रतिबन्धकरूपं यत द्वैतविभ्रमजन्मनि। ज्ञानं तत्प्रामभा- वहखादज्ञानं अ्मकारणं । द्वितीयाSSबारिका शक्तिस्तमो द्रव्यंतृत्तीयक्रमिति प्रथम-

Page 112

द्वितीयनिरूपणे तृतीयप्रदर्शकम् ९९

प्रदर्शकारम्भे पक्षभेदेन प्रतिज्ञातेष्वज्ञानेषु प्रथमपक्षाभिमतमज्ञानं लक्षयति आद्य- मिति तख लक्षणमाह साक्षाज्ज्ञाननाश्यमिति। तदज्ञानकार्येषु द्वैतभ्रमेषु अति- व्याप्तिवारणार्थ साक्षात्पदं। अस्मिन्पक्षे केन प्रकारेण ज्ञानं नाशयत्यज्ञानमित्यत आह प्रतियोगिप्रकारत इति प्रतियोगिविधयैव-न तु तदज्ञानाधारावगादि- ज्ञानविधये त्यर्थः ॥ १४७॥ अ० ॥ तत्न दृष्टान्तमाह घट इति- मू ॥ घटस्स्वप्रागभावस्य कपालाग्राहको यथा। प्रतियोगितया ज्ञानं प्रागभावविनाशकम् ॥ १४८॥ व्या। स्पष्टोऽर्थः ॥ १४८॥ अ०।। आद्यपक्षे अज्ञाननिवर्तकस् ज्ञानस्य विषयमाह आद्यपक्ष इति -- मू । आद्यपक्षे तु विज्ञानं द्वतस्यासत्वगोचरम् ॥ १४८॥॥ व्या॥ स्पष्टोऽर्थः ॥ १४८॥॥ अ० ॥ तत्र ब्रह्मगीतायाः पञ्चमाद्यायवाक्यञ्च बहदारण्ये षष्ठपञचमा- धयाययोश्चतुर्थ सप्तमञ्च ब्राह्मणं क्रमात् प्रमाणयति सत्तेति- मू ॥ सत्ताहीनस्य कार्यस्यासत्वमेव हि युज्यते ॥ १४९ ॥ नेह नानास्ति नान्योडतो द्रष्टा श्रोतेति च श्रुतेः ॥ १४९॥॥ व्या॥ स्पष्टोऽर्थः ॥ १४९॥॥ अ० ॥ द्वितीयतृतीयपक्षाभिमतयोः शक्तिमाययोर्लक्षणमाह अनादि- रिति- मू ॥ अनादिभावरूपा हिनाश्या शक्तिश्र विद्यया ॥ १५० ॥ व्या।। चकारेण मायाद्रव्यं ग्ृह्यते-परवाद्यभिमतसत्यरूपकार्ये अतिव्यापि- वारणाय विद्यानाश्यतं-मिथ्यावाद्यभिमते शक्तिमायाकार्ये अतिव्याप्तिवारणायाना- दित्वं-विद्याप्रागभावे अतिव्याप्तिनिरासार्थे भावत्वं ।। १५० ।। अ० ॥ केन ग्रकारेण ज्ञानं तमोरूपशक्तिमाययोः विनाशकमित्यत आह झानमिति- मू । ज्ानन्तु ज्ञानविधया शक्तिमायाविनाशकम् ॥ ११०। व्या॥ स्पष्टोऽर्थ: ॥१५०॥॥

Page 113

१००. अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ० । द्वितीयतृतीयपक्षाभिमतशक्तिमायानिवर्तकज्ञानस्य विषयमाह समसोरिति- मू। तमसोर्हि विनाशाय ज्ञानं चैतन्यगोचरम् ॥ १५१॥ व्या॥ स्पष्टोऽर्थः ॥ १५१ ॥ अ०॥ तत्र विद्यारण्याचार्यसम्मतिमाह ब्रह्मणीति- मू॥ ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥ १५१॥॥ ब्या॥ स्पष्टोऽर्थः ॥ १५१॥॥

द्वितीयनिरूपणे ॥। चतुर्थप्रदर्शकारम्भः ॥ अ०।। इदानीं तुरीयप्रदर्शकारम्भार्थ शिष्यप्रश्नमनुवदति यथावदिति- मू ।। यथावत् स्वात्मभानस्य प्रागभावे प्रकाशिते ॥११२ ॥

नास्तीति सिद्धिकारादैः किमर्थ भाषितं यदि॥१५३॥ व्या।। 'नेह नानास्ती' त्यादिवाक्यविचारभावापन्नस्वात्मचैतन्येन तद्रते द्वेतासत्वगोचरस्य खतो यथावत्प्रकाशिष्यमाणस्वात्मचैतन्यस्य प्रागभावे प्रकाशिते सति किमर्थ स प्रागभावो नास्तीति वद्धैरुक्तमित्यर्थः ॥ १५३ ॥ अ०॥ अद्वैतसिद्धिकृतामभिसन्धिं तत्र वृद्धसम्मतिञ्च प्रतिजानीते श्रोतु- रिति- मू॥ श्रोतुश्चित्तविपाकं हि निरीक्ष्यादेष्टुमुद्यता। स्वोपदेशे प्रवेशार्थमेवमुक्तं तथैव हि ॥ १५४ ॥ विद्वद्भिर्ब्रह्मणाप्युक्तं तत्तद्वाक्यं क्रमाङ्गवे ॥ १५४॥॥ न्या। चित्तविपाकमिति चित्तस्य विषयासक्तिरूपं कालुष्यं निरीक्ष्य तत्वमादेष्ट्रमुद्यता सिद्धिकारेण यत् आधिदैविकेन परमेश्वरेण द्रव्यापूर्वमयं विचित्रं जगत्सष्टं-तस्य जीवगतासंगत्वाद्यावारकत्वेन यत्कर्तृत्वापादकं तमः तट्टारकतवेन भावरूपाज्ञानजन्यभेकमेव सत् जीवान् प्रतिकर्मभूतमिति प्रतिकर्मव्यवस्थावादे-

Page 114

द्वितीयनिरूपणे चतुर्थप्रदर्शकम्। १०१

अथ वा जगतः प्रातिभासिकत्ववादे वा सत्तैक्यवादात् व्यावृत्य प्रवेशयितुं निरंश- स्य सच्चिदानन्दस्य स्वत एव जगदाकारेण विवर्तत्वससिद्धये निमित्तभूते ज्ञानप्राग- भावरूपाज्ञाने कारणत्वप्रहणासंभवाय प्रागभावसामान्यं नास्तीति केवलयुक्तिवाद: पचीनानामद्वैतिनां न्यायविदामप्यसम्मतो दर्शित इत्युक्ता तन्न वृद्धसम्मति प्रतिजानीते तथेव इत्यादिना अपिशब्देन श्रीभगवान् कृष्णोऽपि ग्रहीतव्यः॥ अ०॥ तदेव वृद्धवचनं दर्शयति प्राचनरिति- मू ॥ प्राचीनैर्व्यवहारसिद्धविषयेष्वात्मैक्यसिद्धौ परं सन्नह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः । श्रोतुश्चित्तविपाकपाकमननादाचार्यधर्मे रतै- रेवं ह्यप्पयदीक्षितस्समुदितस्सिद्धान्तिनामाशयः ॥१५५॥॥ न्या। प्राचीनिरिति तत्त्वनिर्णयकारसंक्षेपाचार्यादििः अनादरात् तात्पर्यमन्तरा सरणयः अद्वितीयात्मवेदनमार्गभृताः जगत्सष्टितत्कारणमाया- स्वरूपादिभेदोपदेशाः। शेषस्सुगमः ॥१५५॥ ॥ अ०॥ नन्वाचार्यधर्मे रतैः सरणयो नानाविधा दर्शिता इत्युक्त। को- Sयमाचार्यवर्मः ॥ तत कि प्रमाणमित्यत आह यक्षेति- मू॥। यज्ञवैभवखण्डेडयं गुरूणां धर्मे ईरितः ॥ १५६॥ पुनश्शिष्यस्य मेधावी चित्तपाकमवेक्ष्य च। अविद्यापाशविच्छेदं कुर्यात्प्राज्ञस्तु देशिकः ॥ १५७॥ विदित्वा शिष्यचित्तस्य विपाकं पुनरास्तिकाः । द्द्यात्पाकानुगुण्येन विद्यामेनाम्महेश्वरीम् ॥ १६८॥ व्या। पुनश्शिध्यस्येत्यारभ्य कुर्यादित्यन्तेन चित्तपरिपाकवतश्सिष्यस्य सर्वे रहस्यमप्रच्छाद यथातत्वमुपदेष्टव्यमित्युक्त्वा प्राज्ञस्तु देशिक इत्यारभ्य चित्त- परिपाकभेदानुसारेण तस्मै तस्मै शिष्याथ यथातत्त्वं सर्ब रहस्यमनुक्त्वा यथा कथं- चिदापाततः तत्त्वमुपदेश्व्यमिति आचार्यधर्मो द्वितीयो विहितः ॥ १५८ ॥ अ० ॥ इदानी सिद्धिकारस्य प्राग्विहितद्वितीयाचार्यधमानुसारित्वं मन्दा- विकारिभिर्माध्वैर्विवदमानस्य दर्शयति पतदिति --

Page 115

१०२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू । एतन्मानानुसारित्वात्कर्मजं तामसं जगत्। इति सिद्धिकृता प्रोक्त सिद्धौ मन्दाधिकारिणे ॥ १५९॥ व्या ॥ कर्मजं तामसं जगादिति कर्मजन्यत्वे सति जीवगताचिद्या- द्वारकं तत्परिणामो वा भवेत्। तयोर्विभागस्तु अष्टमप्रदर्शके वक्ष्यति ॥१५९॥ अ०॥ प्रतिज्ञातार्थे ब्रह्मगीतावचनं संवादयति इत्थमिति- मू । इत्थञ्च ब्रह्मगीतायां पञ्चमाध्यायगं जगौ। ऐतदात्म्यमिदं सर्वेमित्याह हि परा श्रतिः ॥१६०।। क्या।। एवमेवाधिकारिचित्तस्य मन्दपाकादिकमालक्ष्य कर्तव्योपदेशविशेष- प्रकार: श्रृत्यभिप्रेत इति पञ्चमाध्यायवचनजातं जगावित्युक्त्वा प्रतिपिपादयषित- ब्रह्मवाक्यजातस्य पूर्वप्रकृतमाह ऐतदात्म्यमित्यादिना आत्मनो निरङ्गशाद्विती- यत्वबोधकत्वेन परा श्रतिः हि यस्मात् निखिलस्य नित्यापरोक्षात्ममात्रप्रकृतिक- त्वात ऐतदात्म्यमिदं सर्वमित्याह अतो न जगदितरप्रकृतिकमित्यर्थः ॥१६०॥ अ०॥। ननु आत्मातिरिक्तस्य जगतः "पयसि हीद सरवे प्रतिष्ठितं यच्च प्राणिति यच्च नेती'ति बृहादारण्यश्रुत्या 'असौ वा व लोको गौतमा्नि' रित्यारभ्य

न्तु प्रकृति विद्यात् 'सर्वे विकारजात मायामात' मिलादिश्रुत्या तावत् केवलमा- याप्रकृतिकत्वमस्य जगतोऽवगम्यते तथा च सति कथ 'ऐतदात्म्यमिदं सर्व' मिति श्रुत्या सर्वस्यात्ममात्रप्रकृतिकत्वेन तदनन्यत्वमवगन्तुं शक्यत इत्यत आह ब्रह्मा साक्षादिति- मू। साक्षादर्थस्वभावेन श्रुतिस्सेयं प्रवर्तते। श्रोतुश्चित्तविपाकेन विषण्णा विवशा श्रुतिः ॥ १६१॥ क्वचित्कदाचिदन्यार्थे वक्ति च ब्रह्मण: पृथक् ॥ १६१।।। व्या।। 'ऐतदात्म्यमिदं सर्व'मिति या श्रतिः साक्षात् किञ्चिदपि व्य- वधानमन्तरा अर्थस्वभावेन विवर्तोपादानभूतप्रत्यगर्थस्वरूपेण जगत्प्रतिपाद ितुं प्रवर्तते सेय श्रतिः स्वगृहीतेन श्रोतुश्चित्तविपाकेन भोगातिलम्पट वादिरूप चित्तकालुष्येण हेतुना विषण्णा ततंस्तदानीं तदनुसरणस्यावश्यकत्वेन विवशा परवशा च सती क्कचित् सवैकदेशे कदाचित् शिष्यचित्तस्य मेन्दपाकसभये अन्यार्थ शिष्यबुद्थनुसरणार्थ ब्रह्मण: पृथक् स्वाभिप्रेतात् जगत्कारणभूतात्

Page 116

द्वितीयनिरूपणे चतुर्थप्रदर्शकम्। १०३

प्रत्यगात्मनः पृथगन्यत् द्रव्यापर्वात्मकं कर्म वक्ति च जगत् प्रकृतितेनेति शेषः। चकारेणाधिदैविकस्य परमेश्वरस्य फलदातृत्वमभिप्रेतम् ॥१६१॥॥ अ०॥ इदानी स्वप्रतिज्ञातार्थप्रदर्शनार्थ मन्दचित्तपाकोपेतशिष्योपदेशाय प्रवर्तमानां 'असौ वा व लोको गौतमान्निस्तस्यादित्य एव समित् रश्मयो धूमाः अहरर्चि: चन्द्रमा अङ्गारा: नक्षत्राणि विष्फुलिंगा: तस्मिन्नेतस्मिनमवं देवाशश्रद्ां जुदाति तस्या आहुतेस्सोमो राजा संभवती'त्यारभ्य तस्माज्जुगुप्सेतेति पञ्चान्निविद्याप- रां छान्दोग्यश्रुति पयास हीद सर्वे प्रतिष्ठितं यच्च प्राणिति यच्च नेती' त्यादिबृह दारण्यश्रुतिश्च 'स क्रतुं कुर्वीते'त्यादिमानसक्रियापराश्च 'तदेतत् सत्यं मंत्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतार्या बहुधासन्ततानि तान्याचरथ नियतं सत्यकामा एष वः पन्थास्सुकृतस्थ लोक' इत्यादिमुण्डकश्रुतिं चाथर्तस्संगृह्य प्रमाणयति ब्रह्मा साध्यति -- मू। साध्यसाधनसंबन्धकथनं फलभाषणं ॥ १६२॥ जगद्वैचित्र्यनिर्देशो धर्माडघर्मार्थभाषणम्।

शोभनाशोभनोक्तिश्र भूतभौतिकभाषणम्। शब्दानां भेदनिर्देशस्तदर्थानाञ्च भाषणम्॥ १६४॥ आत्मनोऽन्यस्य सर्वस्त सद्भावोक्तिस्मुरर्षभाः ॥ १६४॥॥ व्या।। 'सोमेन यजत' 'आज्येन जुहुयात् तेजस्कामस्य पयसा जुहुयात्' 'दधा जुहोती' त्यादिश्रुत्या सोमादेस्तत्साध्यकर्मणा सह संबन्धकथनं-तथा प्रा-

द्रव्यापूर्वस्य परिणामभूतं यत् सोमलोकनिवासाह शरीरं तदेव सोमादिद्रव्यसाद्नय- कर्मण: फलमित्युपदेशश्च क्रियते। तथा आत्मनोऽन्यस्य सर्वस्य कर्मप्रकृतिकस्य तन्निमित्तकस्य वा जगतः-प्रातिभासिकस्येव ज्ञाननिवर्त्यत्वाभावात् 'आचार्यवान् पुरुषो वेद' 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य' इत्यादिशुत्या न सन्भावोक्ति: सतस्सत्यस्य भावस्सद्भावः तस्य द्वैतिनामभिमतस्य निर्विचिकित्म- ब्रह्मज्ञानादनिवर्त्यत्वस्य कर्मजत्वस्य वा उत्तिरूपदेशश्च क्रियते न तात्पर्येणत्युक्तम इयमेव प्रकरिया-प्रतिकर्मव्यवस्थति गयते-तत्रैव कर्मप्रकृतिकस्य चैत्रशरीरम्य तच्चत्रेण मैत्रादिभिश्व दृश्यमानत्वाक्तेः । दृष्टिसृष्टिवादे तावत्। आर्यावृत्तम् अन्ये तु सद्गिरन्ते तत्तदविद्याविनिर्मित विश्वं। प्रतिपुरुषमेव भिन्नं भवति यभा

Page 117

१०४

रज्जुसर्प इत्यत्र। चैत्राध्यस्तं विश्वं मैत्राय स्वप्रवन्न भातीति एवं राद्धान्तितत्वात् प्रातिभासिकस्य जगतो ज्ञाननिवर्त्यत्वरूपमिथ्यात्वातिरेकेण नोक्तसद्भावः-सतैक्ख वादेतु॥ श्रो० ॥ 'सत्ताहीनस्य कार्यस्यासत्वमेव हि युज्यत ।' इति ब्रह्मगीताया- पञ्चमाध्यायवचनाच्च-खतस्सत्ताहीनस्य कार्यस्य न सद्भावश्च संभवतीत्यर्थः ।। अ० ॥। इदानी ब्रह्मा तावत् शिष्यचित्तस्य मन्दपरिपाकानन्तर मध्यमपर्रि पाकमालक्ष्य जगतः कर्मवर्जितमायाप्रकृतिकत्वं शुक्तिज्ञानेन प्रातिभासिकरजतस्ये- व ब्रह्मज्ञानसमकालमेव तज्ज्ञाननिवर्त्यत्वं चोपदिदिक्षु 'सर्वे विकारजातं मायामात्र"

मू ॥ मिथ्यात्वभाषणं तस् मायासद्भावभाषणम् ॥ १६५॥ मायात्वोक्तिश्र मायाया बन्ध इत्यभिभाषणम्। गुरुशिष्यकथोक्तिश् ब्रह्मविद्याभिभाषणम्॥ १६६॥ शास्त्राणामपि निर्देशस्तर्काणामपि भाषणम्। अन्यद्विकल्पजातं यत्तदुक्तिश्र समासतः ।। १६७।। अन्यार्थे न परं ब्रह्म श्रतिस्साध्वी न तत्परा ॥ १६७॥॥ व्या। गगने नीलिमा सत्ये जगत् सत्यं भविष्यति -- 'यत्र त्वस्य सर्व- मात्मैवाभूत् तत् केन कं पश्ये दित्यादिश्रुत्या तस् पयसि हीदं सर्वे प्रतिष्ठितं चच्च प्राणिति यच्च नेतीति हि शब्देन स्वस्य लोकप्रसिद्धयनुवादकत्वप्रदर्शकश्रृत्या- दिना प्रतिपादितस्य सर्वस्य जगतः कर्मप्रकृतिकत्वादिप्रयुक्त्तसत्यत्वनिरासार्थ ज्ञानसमकालमेव ज्ञाननिवर्त्यत्वरूपमिथ्यात्वोक्ति: क्रियत इत्याह मिथ्यात्वभाषण- मिति तस्य जगतः ब्रह्मसत्तातिरिक्तसत्तासिद्धयर्थ 'मायान्तु प्रकृति विद्यात्' 'सर्वे- विकारजातं मायामात्र 'मित्यादिश्रुत्या तमोरुपमायासन्भ्रावभाषणञ्य क्रियत इत्याह मायासन्भ्रावभाषणमिति तर्हि जगदाकारेण परिणममानस्य मायिकस्य विक्षेपां- शस्य आरब्धफलकद्रव्यापूर्वस्येवावरणांशेन सह ज्ञानानिवर्त्यत्वरूपं सत्यत्वं स्यादि- त्याशङ्कय 'तत्र को मोहः कश्शोक एकत्वमनुपश्यत' इयादिश्रुत्या विक्षोपांशर्पार व्ामेन शोकादिना सह आवरणविक्षेपांशयोरपि ज्ञानसमकाल एव ज्ञाननिवर्त्यत्वरूप- मिथ्यात्वादेशः क्रियत इत्याह मायात्वोक्तिश्च मायाया इति एवमेव 'स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्व'मिति श्रत्या बन्धस्य मायाधानतादेशः क्रियत इत्याह बन्ध इत्यभिभाषणमिति 'भृगुर्वे वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मे' त्यादिश्रुतेराख्यायिकामात्रत्वमवगम्यत इत्याद्द गुरुशिष्य-

Page 118

द्वितीयनिरूपणे चतुर्थप्रदर्शकम्। १०५

कथोक्तिश्चेति अनेन अनेकशरीरैकजीववादोऽभिप्रेत :- तथैव 'ब्रह्मविद।प्नोति पर' मित्यादिना च अविद्यानिवर्तकब्रह्मविद्याभिभाषणं च तब्रह्मविद्यासाधनानां तत्वमसि 'प्रज्ञानं ब्रह्म' 'अयमात्मा ब्रह्म' 'अहं ब्रह्मास्मी' त्यादि शास्त्राणामपि निर्देशश्च-घटे नष्टे यथा व्योम व्योमैव भवति ख्यम्। तथैवोपाधिविलये 'ब्रह्मौव ब्रह्मवित् सय 'सित्यादिश्रुत्या तर्काणामपि भाषणञ्च। मायन्तु प्रकृतिं विद्यात्' 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणनिगूढा'मित्यादिश्रुत्या अज्ञानस्य मृद्वत् द्रव्यत्वात् द्रव्यकारणत्वंअथ वा हरिद्रासुधागतशक्तिवदात्मशक्तित्वेन अ- द्रव्यत्वात् गुणकारणत्वं वा स्वादिति प्रागुक्तम्यः अन्यद्विकल्पजातं यत्तद- क्तिश्च समासतः क्रियत इत्यर्थः । इदानी 'साक्षादर्थस्वभावेने' त्यादिना सार्वेन श्रोकेनोपक्रमे यत् प्रतिज्ञातं तदुपसंहरति ब्रह्मा अन्यार्थ न पर ब्रह्म श्रतिरिति प्रागुक्तमन्दचित्तपाककात् यो अन्यो मध्यमचित्तपाककः तस्मिन् विषये जगतो मिथ्यात्वमावेदयितुं मायाया एव प्रकृतित्वप्रतिपादिकयं 'मायान्तु प्रकृति विद्यात्' 'सर्वे विकारजातं मायामात्र' 'मित्यादिका श्रतिः न परं ब्रह्म जगत्प्रकृतित्वेन वक्तीति क्वचित् कदाचिदन्यार्थ यक्ति च ब्रह्मणः पृथगित्युपक्रमवाक्यगतक्रियापदेनान्वयः। इदानीं मायान्तु प्रकृति विद्यात् सर्वे विकारजातं मायामावमित्यादिश्रुत्या सह 'स- देव सोम्येदमग्र आसी' दित्युपक्रम्य ऐतदात्म्यमिदं सर्वमित्यादिश्युतेरपि अवगति- सामान्यवत्वाय मायायामेव तात्पर्ये वक्तव्यमित्याशङ्ग्य अस्याः श्रुतेः उत्तमाधि- कारिणे जगतो ब्रह्ममात्रसताकत्वबोधकत्वान्न मायापरतेत्याह साध्वी न तत्परेति साध्वीति श्वतेर्हेतुगर्भविशेषणं-'अस्य महतो भूतस्यं निश्वसितमेवैतद्यदग्वेदो यजु- र्वेदस्सामवेद' इति श्रुतेः स्वपतावात्मन्येव तात्पर्यवत्वात् न मायापरेत्यर्थः ॥१६७॥॥ अ० ॥ प्रागुपपादितैः 'साक्षादर्थस्वभावेने' त्यादिश्लोकैः लिलक्षयिषितानां श्रुर्तीनामुक्तमेवाधिकारित्रैविध्यपरत्वं ब्रह्मा स्वयमेव दर्शयति चित्तेति- मू । चित्तपाकानुगुण्येन श्रोतृणां परमा श्रुतिः ॥ १६८॥ सोपानक्रमतो देवा मन्दम्मन्दं हितं नृणाम्। उपदिश्य विषण्णापि ततः पक्काधिकारिणाम् ॥ १६९॥ ऐतदात्म्यमिद्ं सर्वमित्याह परमाद्यम् ॥ १६९॥॥ क्या। परमेति अबाधितार्थबोधकत्वेन परमा श्रुतिः चित्तपाकानु- गुण्येन श्रोतृणां चित्तपरिपाकतारतम्यक्रमेण मन्दम्मन्दं शनैरशनैः नृणां तत्वजिज्ञासूनां सोपानक्रमतः तात्तत्कालिकार्विकारयशात हितं विषनासककि-

Page 119

१०६ अद्वैतसद्धान्तगुरुचन्द्रिकार्या

दशायां फलानां द्रव्यापूर्व कर्मैव प्रकृतिरित्युक्त्वानन्तरं त एव मन्दाधिकारिणों यदा पुनः 'तरा शोकमात्मविन् "तत्र को मोहः कशशोक एकत्मनुपश्यत' इत्याद शास्त्रोक्तेनात्मवेदनेन तरणीयस्य शाकस्य कर्मजन्यत्वे प्रारब्धकर्मफलत्वेन भोग- मन्तरेण शोकतत्कर्मणोः ज्ञानेन निवृत्त्यसंभवात् शोकस्य ज्ञाननिवर्त्यत्वसमर्पकं कि- मित्यपेक्षन्ते-तदा तेषां मध्यमाधिकारित्वं भवति। तदा तान् प्रति श्रुतिः'मा- यान्तु प्रकृतिं विद्यात्' 'सर्वे विकारजातं मायामात्र' मिति हित शोकादिकारण मायैवेत्यादिश्य अथ तत्वयाथात्म्योपदेशातिक्रमेण प्राप्तानृतभयात् विषण्णाषि ततः पक्काधिकारिणा कालान्तरे पक्काधिकारित्वं प्राप्तानां पूर्वोक्तानामेव जगतो मायिकत्व तेनाप्यनिर्वचनीयेन तत्वेनात्मनो द्वैतापत्त्तिस्स्यादेव अतः केन मार्गेणात्मन: अद्वितीयत्वमभिप्रेतमति चिन्ता भवति-तदा तेषामाह ऐतदात््यमिदं सर्व- मित्याह परमाद्वयं श्रतिरिति पूर्वेण संबन्ध: यस्मादात्मतत्वं कूटस्थमेव सत् पूर्वावस्थामविहायावस्थान्तरञ्चाप्राप्यावस्थान्तरवदिव स्वयमेवावभासते। ततोऽस् जगत आत्मतत्वव्यतिरेकेण खतः असत्वात् प्रत्यक् तत्वं निरङ्कशमद्वितीयं भवे- दित्यर्थः ॥ १६९॥॥ अ० ॥ किञन्व मिथ्यात्वभाषणं तस्येत्यारभ्यान्यार्थ इत्यन्तं ब्रह्मवाक्यं ताव- न्मध्यमाधिकारिपरमेव न मुख्याधिकारिणे प्रवृत्तमिति यत प्रागुपपादितं तत्र ब्रह्म गीताया: पञ्चमाध्यायवचन संवादयति अश्ञनति- मू॥ अज्ञानमयमेवेदं सर्वमित्यभिभाषणम् ॥ १७० ॥ नैव भाषणमज्ञानाभावादेव शिवं विना ॥ १७॥॥ न्या। 'सुखमहमस्वाप्स'मिति सुषप्तावहमित्यात्मत्वेन आनन्दे स्वयं प्रका- शमाने सति तं शिवं विना तदा तदावरणाभावादज्ञानं तमोरूपं जगदुपादानमिति वचनमभिधेयवर्जितमेवेव्यर्थः ॥ १७०॥॥ अ० ॥। ब्रह्मगीतायाः द्वादशाध्यायवाक्यमप्यत्र प्रमाणयति जगदिति -- मू॥ जगन्मायेति विज्ञानमज्ञानं फलतो भवेत् ॥ १७१ ॥ व्या।। मायामयलेन यत जगद्विषयकं ज्ञानं तत् विचार्यमाणे अज्ञानं भवेत् अयथाभानं भवितुमहृति आत्ममात्रोपादानकत्वात्-सच्चिदानन्दात्मकत्वेना- दास्थितस्य जगतोऽनृतजडदुःखात्मनान्यथा भानादित्यर्थ ।। १७१ ॥ अ० ॥ 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति खगुणैनिगूढा' मितिश्वे तताश्वरवारक्यं समवलम्व्यात्मन आवरणशफ्िरद्रव्यात्मि का तत्वारये एुनर्जगद्ुणात्मक-

Page 120

द्वितीयनिरूपणे चतुर्थप्रदर्शकम्। १०७

मेव-न इ्रव्यात्मकं यथा पटगतशककिद्वारतया पटोपादानकं संकोचप्रसरणादिकं कार्ये न द्रव्यात्मकमिति केचिन्मन्यन्ते तथैव केचित् प्राङ्निराकृतोऽपि जगतो मायिक- त्ववादो यथा तत्वविषय एवेति च मन्यन्ते ॥ तदुभयवादिनिरासकं ब्रह्मगीताया-

मू ॥ मायया विद्यते सर्वमिति केचन मोहिताः ॥ १७१॥॥ व्या। माययेति शक्त्या प्रकृत्या वा अस्मिन्प्रकरणे उत्तरक्षोके मायया वेति विकल्पस् विवक्षितत्वादतः कमात् सरवे गुणात्मकं द्रव्यात्मकं वा कार्य स्वरूपा- नन्दातिरेकेण विद्यत इति मोहिता: केचित् वदन्तीति शेषः ॥ १७१॥॥ अ० ॥ तेषां मोहितत्वोपपादकमेव ब्राह्म वाक्यमाह शिवेति- मू॥ शिवरूपातिरेकेण नास्ति माया च तत्वतः।१७२॥ व्या। यतः 'न किञ्चिदवेदिष'मिति परामर्शविषयस्य परमानन्दावारकत्व नावत् 'एषोऽस्य परम आनन्द' इत्यादिकया सौधुप्तिकालिकपरमानन्दानुभवपर- श्रुत्या 'सुखमहमस्वाप्स' मिति परामर्शमूलसुखापरोक्ष्येण च 'अ्ति भाति प्रिय रूप नाम चेत्यंशपञ्चकम्। आद्यत्यं ब्रह्मरूप' मिति श्रुत्युक्त्तप्रकारेण पूर्वावस्थाम- परित्यज्य जगद्रूपेण भानदशायामपि ब्रह्मानन्दानुभवेन च बाधित अतो नित्याप- रोक्षानन्दस्वरूपातिरेकेण तदावारकं तमोरूपं मायाख्यं तत्वत इति प्रथमार्थे तसि: तत्वं नास्ति अत एव तज्जन्यं गुणात्मकं द्रव्यात्मक वाऽनिर्वचनीयं कार्य नास्तीति चकारेणोक्तं एतेन'न किश्चिदवेदिष'मिति नजः अभाचपरत्वमात्र विजा नतां वाक्यं नाज्ञातवस्तुसद्धाव ग्रमाणं भवेदित्युक्तम् अत एव च कार्यकारणयो रेकसत्तावादे कारणसदात्मातिरेकेण इन्द्रियग्राह्यवस्त्वन्तरासत्वपरवाचारंभणश्रृत्य- नुगुणमेव 'पश्यत्यचक्षस्स शणोत्यकर्ण' इति अत्यन्तरमपि चक्षरादीन्द्रियनिराक्- रणपूर्वकं पश्यती'त्यादिघव्देन रूपदयात्मनाऽन्यथा स्वयंप्रकाशते व्यात्नेति द्श- वत्तपित्यास्थेयम् ॥ १७२॥ अ०। अन्यथा बाघब्रदशनपरं ब्राह्यं वाक्यमुदाहरति मायया वेति- मू। मायया वा शिवादन्यद्विदयत्े चच्छिवस्य तु। महत्वं परमं साक्षद्वीयेत सुरपुङ्गवाः॥। १७२।। व्या।। ब्रह्मवत् पारमार्थिकवस्त्वन्तराभावेऽपि तमसा प्रसूत्तमनिर्वचनीय- मानन्दातिरिक्त वस्त्वन्तरं विद्यते चेत् तदा तेनेव परिच्छेदसंभवात् शिवस्य िर डुश् मपरिच्छन्नत्व भज्येतेत्यर्यः ॥ १७३ ॥

Page 121

१०८ अद्वैतासेद्धान्तगुरुचन्द्रिकायां

अ० ॥ इदानीं पूर्वावस्थामपरित्यज्यावस्थान्तरमलब्धा चावस्थान्तरवत इव ब्रह्मण: स्वतो भानमेव विवर्तः इन्दुवदिति विवर्तलक्षणो क्प्रकारेणान्यथा स्वतः प्रकाशमानव्रह्मसत्तातिरिक्तकार्यस्वरूपाभावात् न कार्येण ब्रह्मणः परिच्छेदस्खा. दित्यत्र ब्राह्मं वाक्यमुदाहरति महत्वस्थेति- मू॥ महत्वस्य च संकोचो नास्ति सम्यङनिरूपणे ॥१७३॥॥ व्या। सम्यङनिरूपण इति कार्यकारणयोरेकसत्तावादमाश्रित्य कारणस- सास्पुरणातिरेकेण कार्यस्य पृथक्सत्तास्फुरणं वास्ति किं न वेति सम्यग्विचारे कि- ययमाणे सति न कियानप्यात्मनः परिच्छेदस्संभवतीत्यर्थः ।१७३।।।। अ०।। कार्यस्य ब्रह्मसत्तातिरिक्तसत्ताभ्युपगमे एकमेवाद्वितीयमिति श्रुति- कयाकोपस्स्यादित्यत्र त्राह्मं वाक्यमुदाहरति अस्ति चेदिति -- मू॥ अस्ति चेदप्रमाणं स्याच्छूतिस्सत्यार्थवादिनी ॥ १७४ ॥ व्या॥ स्पष्टोऽर्थः ॥ १७४॥ अ० ॥ आनन्दादयेव खत्त्रिमानि भूतानि जायन्त इत्यल् ह्येवेति पददये- न आनन्दावरणं जगदुपादानान्तरञ्च निवार्य सल्विति पदेन जगत्कारणस्यानन्द- स्य सुधुप्त्यादौ स्व्तः प्रकाशमानत्वस्य दर्शितत्वेन अस्मिन्निरूपणे प्रथमपक्षत्वेन प्रदर्शिताज्ञानसाहचर्यादेव विवर्तवादमङ्गीकृत्य तत्रैव सर्वशास्त्राणां तात्पर्यबोध- के ब्रह्मगीतायां चतुर्थाध्यायवचनजातमुदाहरति तस्मादिति -- मू ॥ तत्मादस्ति महादेव एव साक्षात्स्वयंप्रभः । अनन्दरूपस्संपूर्णो न ततोऽन्यत्तु किंचन ॥ १७५ ॥ इयमेव तु तर्काणां निष्ठा काष्ठा सुरोत्तमाः । प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः ॥ १७६।॥ स्मृतीनां च पुराणानां भारतस्य तथैव च । वेदानुसारिविद्यानामन्यासामास्तिकोत्तमाः ॥१७9॥ शैवागमानां सर्वेषां विष्णुप्रोक्त्तागमस्य तु। अस्मदुक्तकागमस्यापि सुरास्सूक्ष्मनिरूपणे ॥ १७८॥

Page 122

द्वितीयनिरूपणे चतुर्थप्रदर्शकम्

बुद्धागमानां सर्वेषां तथैवान्यागमस्य तु। यक्षगन्घर्वसिद्धादिनिर्मितस्यागमस्य तु ॥ १७९॥ व्या । तस्मादिति यस्मात् वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधत' इत्यादिवचनैः-तदेतदच्छायमिति श्रौतेन जगत्कारणभूताक्षराख्यप्रत्यग्विशेषणेन च शिष्यकर्तृकतत्वनिर्धारणपरयां 'आनन्दाद्येव खल्विमानि भूतानि जायन्त' इति श्रुत्या च तत्प्रदर्शितेनावधारणार्थकेन हिशन्देन च जगत्कारणभूतखानन्दस्यावरण- ञ्च व्यावर्त्य एवकारेण चानन्दातिरिक्ततं जगदुपादानं च निराकृत्य खल्विति पदेन च आनन्दस्य सुषुप्त्याद्यवस्थासु सर्वानुभवश्च दर्शितः । तस्मात अस्ति महादेव एव 'ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते। जगद्रपतयाप्येतद्रह्वैव प्रतिभासते'। इत्यादिवचनोक्त्तप्रकारेण महान् त्रिविधपरिच्छेदरहितश्वासौ देवश् महादेवः प्रत्य- गात्मैव कालत्रयेSप्यस्तीत्युक्ता तमेव विशिनष्टि साक्षात्स्वयंप्रभ इति सदा स्व- यं प्रकाशमानत्वे अनुभवं दर्दयति आनन्दरूप इति तमेव विशदयति संपूर्ण इति 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यन्रयं ब्रह्मरूप' मिति श्रु- त्युक्तप्रकारेण स्वयंप्रकाशमानत्वेन सच्चिदानन्दस्य संपूर्णत्वमावेध तस्य प्राक् प्रति- ज्ञातमेव महत्वं निगमयति भ ततोऽन्यन्तु किश्चनेति एवं परिपूर्णसच्चिदान- न्दातिरिक्तमनिर्वचनीयं सत्यं वा दृश्यं शब्दप्रत्ययगम्यं नास्तीति निराकृत्य तत्रैव द्वैतनिरसने तर्कादिसर्वप्रमाणानां तात्पर्य मर्यादा चेति दर्शयति इयमेव हि तर्काणां निष्ठा काष्ठेत्यादिना ननु कथं बुद्धागमानामपि प्रत्यगात्मनः नित्यत्व- परिपूर्णत्वाभ्युपगमपूर्वकं तदतिरिक्तवस्तुनिराकरणे तात्पर्य भवेदिति चेत् तैरदश्या- नामुत्पत्तिविनाशत्वेनाभिप्रेतयोः दर्शनादर्शनयोः जगद्रूपेणात्मभानतदभावात्मक- त्वात् द्रष्टघर्मत्वेन तद्धर्मद्वयाश्रयात् शाश्वतात् द्रष्टुरात्मनो नान्यत् दर्शनादर्शनधर्म- कवस्त्वस्तीत्यभिप्रेतत्वात् तत्रैव तेषामभिप्राय इति सर्वज्ञेन श्रीब्रह्मणा प्रदर्शितम् एवमेव द्वितीयाद्धयाये द्वितीयपादे 'उत्तरोत्पादे च पूर्वनिरोधा'दिति सूत्रस्य भाष्या- वसाने यदि च दर्शनादर्शने दृश्यवस्तुन उत्पादनिरोधौ स्यातां एवमपि द्रष्टधर्मा तौ न दृश्यवस्तुवर्माविति द्रष्टवस्तुनः शाश्रतत्वप्रसन्न एवेति भाष्येण तन्मते फलि- तार्थो दर्शितः । तर्हि 'नाभाव उपलब्धे' रिति तदुत्तराविकरणसूत्रेण दर्शनाति- रिक्त दृश्यवस्तुव्यवस्थापनस्य का गतिरिति चेत् तस्य वितण्डामात्रत्वमुत्तरत्र षष्ठे दृष्टिसष्टिनिरूपणे प्रदर्शयिष्यत्यतो न कक्चित् विरोधः । तर्हि तथैव प्रागृदाहृतर 'यदि च दर्शनादर्शने दृश्यवस्तुन उत्पादनिरोधौ स्याता' मिव्ादिभाध्यस्य

Page 123

११० अद्वैतसिद्धान्तगुरुचन्द्रिकायाम्

परमतनिराकरणार्थ प्रवृत्तत्वात् वितण्डात्वमेव किन्न स्यादिति चेन्न परमाद्वैति- नामस्मदाचार्याणां द्रष्टः प्रत्यगात्मनः शाश्वतत्वस्यानभिप्रेतत्वाभावात्।

तुमईतीति चेदुच्यते। बाढमवैतत् तथापि समवायिकारणस्य कार्यादद्वितयित्वं तकीदिना कुतो ज्ञा.

उपादानेऽद्वैतशास्त्रणेव समवायकारणे तर्कदिनापि कार्यस्योत्पत्तिस्थिति- विलयानामङ्गाकारात् तदवगम्यताम्। ननु तन्मते कारणे कार्यजन्मस्थितिभङ्गेव्वपि तयोर्भेदाङ्गीकारात् कथं का- रणस्याद्वितीयत्वसिद्धिरिति चेत् तन्नैवमापाततः प्रतीनावपि भवांस्तावत्पृष्टव्यः । तन्मते कार्ये ताकत् कारणावयवसन्धौ कि अवयवद्वयोपरि वा ततोड्न्यत्र वाऽस्ति सर्वधापि प्रत्यक्षविरोधेन दुर्निरूप्यत्वात् न तयोर्भेदासिद्विः । किन्तु कारणात्मकावयवद्वये च एकास्मिन्नेव दारुखण्डे च पाषाणपिण्डे च स्तन्रिग्धमृद्दव्ये च जायमानस्य घटादे: कारणात्मनावस्थानप्रत्यक्षाच्च कारणस्या- द्वितीयत्वसिद्धिः । तथैव कारणे कार्यस्य त्रैकालिकासत्वरूपात्यन्ताभावस्याड्गीकाराच्च कार- णस्याद्वितीयत्वसिद्धिः । नन्वेवं कारणस्य कार्यात्सद्वितीयत्वाभावेऽपि नित्याभ्यां कार्यप्रध्वंसात्यन्ता- भावाभ्यां सद्वितीयत्वं स्यादिति चत्। उपनेत्रनीडाद्यवयवद्वयोः यथोचितसंयोगवियोगाभ्यां तत् पौनःपुन्येन जाता इमे तदीयध्वंसाः एतावन्तस्सन्ति इमे तदीयात्यन्ताभावा: एते तु तदीया- भावदूयातिरिक्ताः घटादयत्यन्ताभावाश्रेति पार्थक्येनानुपल्धसिद्धतदसत्वा्च्च कारणस्याद्वितीयत्वसिद्धिः । एवमेव स्वात्मन्यपे तत्कार्याणां तदभावानां च पार्थक्येनानुपलब्धि सिद्ध- तदसत्वाच्च कारणस्य स्वात्मनोऽद्वितीयत्वसद्धिः । किं च सर्चे ज्ञातृप्रकृतिकं ज्ञात्रभिव्याप्तत्वात् ज्ञानवदित्यनुमानाच्च आत्म- नोऽद्वितयितसिद्धिः । तदर्थमेव पाण्डवानां पतनाय परिक्पितलाक्षागहे तद्रक्षणार्थ तत्र यथा महता विदुरेण गुहमार्गश्च परिकल्पितः तथा प्राणिनां दृष्टयनुसारिणा तर्केणाभि तत्राद्वैतसिद्धान्तग्रहणार्थ तस्मिस्तस्मिन् समवायिनीव स्वात्मन्यपि तत्कार्याणामन्येषां

त्वाच्चात्मनोSद्वितीयत्वमवगच्छेत् एवमेव तदन्येषामपि शास्त्राणां ब्रह्मादिष्टं पर- मतात्पर्य तत तत्र यदि सूक्ष्मा प्रज्ञा तदा प्रतिभायात् अन्यथा तां संपादयेत् 1908

Page 124

द्वितीयनिरूपणे पञ्चमप्रदर्शकम् १११

अ०॥ इदानीमुपपादितत्रह्मगीताव चनानामुत्तमाधिकारिणं प्रति प्रवर्तमानत्व- प्रदर्शनाय मन्दाधिकारिणं प्रति आचार्यधर्मविधायकं भगवद्गीतावाक्यमुदाहरति न बुद्धाति- मू॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥१८०॥ व्या। कर्मसङ्गिनामिति कर्मतत्फलसङ्गिनां विषयलम्पटानां यथातत्वो- पदेशेन जगत्सत्यत्वबुद्धिमबाधयन् सन् विद्वान् सयमपि कर्मवाचरेदित्यर्थः ॥१८०॥ अ०॥। अधुनोपपादितं चतुर्थप्रदर्शकमुपसंहरति अत इति- मू। अतो मद्धचममन्दाम्यां सिद्धिग्रन्थः प्रकल्पितः । यस्तेन बाघितुं ज्ञानप्रागभावसहायक: ॥१८१॥ आत्मा जगदुपादानमिति वादो न शक्यते ॥ १८१॥।॥ व्या। यतः पूर्वोक्तप्रकारेण श्रीव्रह्मणा प्रतिकर्मत्यवस्थावादं ततोऽपि बरं दारष्टसष्टिवादञ्च निराकृत्य सत्तैकवादावट्टम्भेन कार्यस्य कारणसत्तातिरिकतसत्ता- मिरासे श्रुतिम्मृतीतिहासपुराणागमादीनां तात्पर्य इशितम्-अतो जगतो व्यावहा- रिकसत्ताग्रातिभासिकसत्तापरशास्त्रावष्टम्भेन न पण्डितः सत्तैकवादमाक्षिपेदित्यर्थः॥ -: 0: द्वितीयनिरूपणे पञ्चमप्रदर्शकारम्भ: । अ० ॥ अधुना पक्षमप्रदर्शकं प्रतिजानीते पञ्चम इति- मू।। पञ्चमे तु विभेदेवाज्ञानानां हेतुतोच्यते ॥ १८२॥ आद्ये स्यात्सहकारित्वं द्वितीये द्वारहेतुता। तृतीये परिणामित्वं तन्मानानि क्रमाद्गवे ॥ १८३॥ व्या। अस्मिन्द्वितीयनिरूपणे। 'प्रतिबन्धकरूपं यहैतविभ्रमजन्मनि। ज्ञानं तत्प्रागभावस्त्यादज्ञानं भ्रमकारण' मिति अष्टमादिश्लोकोत्तप्रकारेण क्रमादा- द्यपक्षत्वेनाभिप्रेते सर्वोपादानस्यात्मनः श्रवणादिभावापत्त्यनन्तरं यथावत् स्वतः प्रकाशिष्यमाणस्वरूपचैतन्यात्मकज्ञानस्य प्रागभावरूपाज्ञाने सहकारिसाधनत्वम्। तथा द्वितीयपक्षतवेनाभिप्रेतावरणशक्त्यात्मकाज्ञाने तु द्वारकारणत्वञ्च तृतीयप- क्षत्वेनाभिमततमोद्रव्यात्मकाज्ञाने तु परिणामिकारणत्वं च भवेदित्यर्थः ॥। १८३॥

Page 125

११२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां अ०॥ तत्राद्यपक्षत्वेनाभिमताज्ञानस्य सहकारिसाधनत्वे वृद्धसम्मर्त रति जानीते आद्य इति- मू । आद्ये न्यायविदामुक्ति: प्राचां विद्यामुनेरपि ॥ १८३॥॥ त्या।। प्राचीनानां न्यायशास्त्रविदां श्रीविद्यारण्याचार्याणामद्वैतिनाञ्च वच्चन प्रमाणमित्यर्थः ॥ १८३॥॥ अ०॥ तब प्राचीनतार्किकाणां मते प्रतिबन्धकप्रागभावहेतुत्वस्य सुप्रसि- द्धत्वात् उत्तरस्मिन् प्रदशके वक्ष्यमाणत्वाच्च संप्रति विद्यारण्याचार्यकृततृप्तिदीप- वचनं दर्शयति न जानामीति- मू। न जानामीत्युदासीनव्यवहारस्य कारणम्। विचारप्रागभावेन युक्तमज्ञानमीरितम् ॥१८४॥॥ व्या। उदासीनव्यवहारस्येति उदासीवस्य स्वात्मस्वरूपविचारवि- मुखस्य यो व्यवहार: अहं कर्ता भो केत्येवमादिभ्रमप्रत्ययस्तस्य प्रतिबन्धकभूतो यो नाहं कर्ता भो ेलेवमादिविचार: प्रमात्मकप्रत्ययस्तत्प्रागभावस्य कर्तृत्वादि- अ्मप्रत्ययसाधनत्वात् तेन विचारप्रागभावेन युक न जावामत्यसङ्गत्वाद्यावारक तमोरूपमज्ञानं कारणं भवतीत्यत्र तमोरूपस्य भावात्मकस्ात्ञानस्य कारणत्ववा- दिभिरपि भ्रमप्रतिबन्धकस्य विचारस्य यः प्रागभावस्तरापि यत् भ्रमं प्रति सह- कारिकारणत्वमङ्गीकृतं तावन्मान्नमादायात्रेदं वचवमुदाहतमिति मन्तव्यम् अत्र कार्य का रणयोरेकसत्तावादे प्रत्यक्कतन्यमात्रस्य प्रकतित्वावगमादित्यर्थ:॥८४॥॥ अ०। इदानीमज्ञानस्यावरणशक्तिरपत्वपक्षे यत् द्वारकारणत्वं प्रतिज्ञांत तत्र वृद्धसम्मति दर्शयति संक्षेपेति- मू।। संक्षेपाचार्यास्तु ब्रह्मैवाशेषजगदुपादानम्। द्वारतया सच्छक्ति: कार्ये ऋ्रक्ष्णत्वमिव मृदाऽडयाति ॥१८५।।॥। ्या। पूर्वार्द्धेन यदुक्तं ब्रह्मणो जगन्द्रमाधिष्ठानत्वरूपमुपादानत्वं तस्य य- स्किञ्चिद्रह्मधर्माच्छादिनीं तच्छकिमन्तराSसंभवेन तच्छक्तेरद्रव्यत्वादुपादानत्वा- संभवेन द्वारकारणत्वमङ्गकिरणयिम्। द्वारकारणत्वन्नाम यदनुपादानमपि कार्यानु- गतं भवति तत् द्वारकारणमित्युच्यते। एवं द्वारकारणत्वेन सद्रूपे ब्रह्मणि कल्प्य- माना सक्ति: स्वाश्रयभूतब्रह्मणा सह जगति घटादिषु मृदा सहानुपादानमपि मृद्रतश्वक्ष्णतेवायातीति मन्यन्त इति शेषः ॥ १८५॥॥

Page 126

द्वितीयनिरूपणे षछ्ठप्रदर्शकम्

अ०॥ यदज्ञानस्य तमोद्रव्यत्वपक्षे परिणामिकारणत्वं प्रतिभ्ात त वृद्ध समति दर्शयति अथेति- भू।। अथ तत्वनिर्णयकृतः परिणामितया विवर्तमानतया। माया ब्रह्म च विश्वोपादानं श्रतित इत्याहुः ॥ १८६॥॥ व्या।। श्रतित इति 'मायान्तु प्रकृति विद्यात्' 'सोऽकामयत बहु स्यां प्रजायेये' त्यादि श्रुतेरित्यर्थः। एतत् वचनद्वयं सिद्धान्तकल्पवल्ल्यामुक्त्तम्। एवमेव संक्षेपाचार्याणां तत्वनिर्णयकृतां च मतं-सिद्धान्तलेशसङ्गहतद्वूयाख्यानाभ्याञ्चो- पवर्णितम् ॥१८६॥॥

द्वितीयनिरूपये षष्ठपदर्शकारम्भः । अ० ॥ षष्ठप्रदर्शकं प्रतिजानीते विन्नेति- मू ।। विघ्नात्यन्ताभाव एव हेतुस्स्यादिति ये जगुः ॥१८७॥ तन्निरासाय हेतुत्वं ध्वंसादेरुच्यतेऽत हि॥ १८७॥।॥ व्या॥ स्पष्टोऽर्थः ॥ अ० ॥ कार्ये प्रति प्रतिबन्धकप्रागभावादीना कारणत्वं दिदर्शयिषुरादौ अत्यन्ताभावस्य द्रव्यप्रतियोगित्वे सत्येव कारणत्वं नेतरप्रतियोगिकत्वे संभवती- त्याह कार्येति -- मू।। कार्यदेशाद्धि यद्दव्यं विघ्नकृन्निर्गमक्षमम्। तस्यात्यन्ताभाव एव हेतुस्स्यान्मण्यभाववत् ।। १८८।।।। व्या ॥! स्पष्टोऽर्यः ॥ अ०॥ इदानी यस्मिन् कार्ये द्रव्यातिरिक्त्ो भविष्यद्वर्मः प्रतिबन्धको भ- वति तत्र तत्प्रागभाव एव कारणित्याह भविष्यत इति -- मू॥ भविष्यतस्तु धर्मस्य विघ्नकृत्वे हि कारणम्। प्रागभाव इति प्रोक्तं प्रथमे तु प्रदर्शके । १८९।। । ्या। धर्मस्येति अवस्थान्तरस्येति यावत प्रथमप्रदर्शके।। श्षो॥ 'प्र- तिबन्धकरूपं यहुतविभ्रमजन्मनि। ज्ञानं तत्प्रागभावस्खादज्ञानं भ्रमकारणमित्यत्र प्रोक्तम्। ततैव तद्ूयाख्यातञ्व ॥ १८९॥ ॥

Page 127

१२४ अद्वैतसिद्धान्तगुरुचान्द्रिकायां

अ० ॥ संप्रति यदुत्पत्तौ वार्तमानिकस्य द्रव्येतरगुणादेः प्रतिवन्धकत्वं तत् तत्प्रव्वंसाभाव एव कारणमित्याह वर्तमानेति- मू। वर्तमानगुणादीनां विन्नकृत्त्वे तु कारणम् ॥ १९० ॥ ध्वंस ए न चात्यन्ताभावो हेतुर्यतो न हि। विहायाश्रयमन्यत्र गुणादीनां गतिस्ततः ॥ १९१॥ व्या।। वर्तमानगुणादीनामिति वर्तमान: पापरूपो गुण आदिर्येषा- भविचाराश्रद्धादीना ते वर्तमानगुणादयः तेषां वर्तमानगुणादीनां यस्मात् स्वाश्रयं विहायान्यत्र मणेरिव गमनं न संभवति अतस्ततप्रध्वसाभावस्यैव कारणत्वं न तदत्यन्ताभावस्येत्यर्थः ॥ १९१॥ अ०॥ यत्तावदभिहितं भविष्यद्धर्मस्य प्रतिबन्धकत्वे तदीयप्रागभाव एव कारणमिति तत्राचार्यादिसम्मतिमाह ध्यनति- मू।। ध्यानदीपे तथैवोक्तं विद्यारण्यैस्तदुच्यते। परोक्षज्ञानमश्रद्धा प्रतिबन्नाति नेतरः ॥ १२९ ॥ अविचारोऽपरोक्षस्य ज्ञानस्य प्रतिबन्धकः ॥ १९२॥॥ ्या।। अश्रद्धति श्रद्धायाः प्रागभाव एवोक्त: ॥ नात्यन्ताभावो ध्वंसो वा तयोर्नित्यानन्तयोर्निवृत्त्यसंभवात । परोक्षज्ञानमश्रद्वैव प्रतिबभ्नाति न तदितरः अविचारः । ततश्वाश्रद्धानितृत्तौ सकृदुपदेशादेव अस्ति ब्रह्मति परोक्षज्ञानं जायते। 'अहं ब्रह्मास्मी'त्यपरोक्षज्ञानस्य तु विचारप्रागभाव एव प्रतिबन्धकः अस्य भ्रमक- त्वे च न जानामीत्युदार्सीनव्यवहारस्य कारणम्। विचारप्रागभावेन युक्तमज्ञानमी- रितमिति विद्यारण्यीयमेव तृप्तिदीपिकावाक्यं च प्रागुदाहृत्य व्याख्यातं एतेन के- षाश्चित्प्रागभावानां भावानाउच प्रतिबन्धकत्वं सिद्धं प्रतिबन्धकत्वं नाम स्वाति- रिक्तकार्यसहकारिभूताभावप्रतियोगित्वमिति ध्येयं।। १९२।॥ अ०॥ यद्वर्तमानगुणादे: प्रतिबन्धकत्वे तड्ंस एव कारणमित्युक्तं तत्र प्रमाणत्वेन यत् विचारवैध्यर्थ्र्यमाशङ्य तत्परिह्वारपरं विद्यारण्यवाक्यं तदुदाहरति विचारयन्निति -- मू ।। विचारयन्नामरणं नैवात्मानं लभेत चेत् ॥। १९३ ।। जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति ॥१९३॥॥

Page 128

द्वितीयनिरूपणे षष्ठप्रदर्शकम् ११५

व्या।। प्रतिबन्धक्षये सति जन्मान्तरे आत्मानं लभेतेनि विद्यारण्याचा- र्योक्त्या यः प्रतिबन्धकभूतो वार्तमानिकः पापरूपो गुणस्ततप्रध्वंसाभावस्यैव ज्ञान- कारणत्वं सिद्धमित्यर्थः ॥ १९३॥॥ अ०॥ नन्विदं कुतोSवगतमित्याशक्क्य ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्श- नादिति, सूत्रकृता तदभिधानादिति विद्यारण्याचार्यकृतं परिहारवचनमुदाहरति इह वेति- मू।। इह वाडमुत्र वा विद्येत्येवं सूत्रकृतोदितम् ॥१९४। व्या॥ विद्यासाधनश्रवणादेः प्रतिबन्धककर्मण्यसतीह जन्मनि विद्या भवति। सति तु ततक्षयानन्तरं जन्मान्तरे भवेदित्यर्थः ॥ १९४ ॥ अ०॥ इदानीमुपपादितार्थे तत्सूत्रभाष्यसम्मतिमप्याह प्रतिबन्धेति- मू।। प्रतिबन्धक्षयापेक्षं विद्याजन्मेति भाष्यकृत् ॥१९४॥॥ व्या॥ आहेति शेषः ।। १९४॥ ॥ अ०॥ प्रतिज्ञातार्थें श्रीमद्विद्यारण्याचार्यप्रदर्शितां वार्तिकाचार्यसम्मतिमुदा हरति पुनरिति- मू । पुनः पुनर्विचारेऽपि प्रतिबन्धे तु जीविते ॥ १९५ ॥ न वेत्ति तत्वमित्येतद्वार्तिके सम्यगीरितम् ॥ १९९॥॥ व्या॥ स्ष्टोर्य: ॥ १९५॥॥ अ० ॥ तान्येव वार्तिकान्युदाहरति कुतस्तज्ज्ञानमित्यारभ्य भरतख त्रिजन्मभिरितयन्तेन -- मू ॥। कुतस्तज्ज्ञानमिति चेत्तद्वि बन्धपरिक्षयात् ॥ १९६ ॥ व्या। बन्धपरिक्षयादिति प्रतिबन्धक्षयादित्यर्थः ॥ १९६॥ अ० ॥ कोऽसौ ज्ञानप्रतिबन्ध इत्यत आह प्रतिबन्ध इति- मू ।। प्रतिबन्धो वर्तमानो विषयासक्तिलक्षणः । प्रज्ञामान्दं कुतर्कश्र विपर्ययदुराग्रहः ॥१९७॥ व्या। वर्तमानप्रतिबन्धस्तावत् चित्तस्य विषयास्तिरूप एक:, बुद्धेस्तैक्ष्ण्या- भावश्वापरः, शुष्कतार्किकत्वेन श्रुत्यर्थस्यान्यथोहनमितरः। आत्मनः कर्तृत्वदिवर्म- वत्वज्ञाने युफ्तिरहितोऽभिनिचेशश्चान्यः । एतेषामन्यतमस्थापि सत्वे ज्ञानासंभवा- तत्क्षयादेव ह्ेतोज्ञीन भवतीत्यर्थः ॥ १९७ ॥

Page 129

११६ अद्वैतमि इान्नगुरबनद्रेकायां अ० ॥ तहि तेषां केन निदन्निर्यन अह शमादरिति -- मू॥ शमादैश्श्रवणाद्यैश्व तल तलोनिनैः श्षयम्। नीतेSस्मिन्प्रति वन्धेऽनम्म्वम्य बझ्मन्वमश्नुते ।१९८॥। व्या।। 'शान्तो दान्त उपरतम्ननित्म्ममााहनो सा्ेनि प्रुनुषाः से शमाद्यः 'श्रोतव्यो मन्तव्यो निदिद्धषासितत्य' इनि श्रांतबिहता वे भ्रवणादयः तत्तत्प्रतिबन्धनिवर्तनक्षमास्तस्तत्ततप्रतिबन्धे क्षय नाने समि अतः तत्प्रतिबन्ध- क्षयादेव स्वस्य प्रत्यगात्मनो ब्रह्मत्वमवगच्छतीत्र्थः॥।।८।। स० ॥। इदानीं वर्तमानप्रतिबन्धकान्नरप्रदशनेन तत्प्र्वसाभावस्यैव कारणत्वं दर्शयति प्रारब्धेति- मू ।। प्रारब्धकमशेषश्र वामदेवे समीरत: ॥९८॥॥ व्या ॥ स्पष्टोऽर्यः॥ अ० ॥ज्ञानप्रतिबन्धकभूतस्य प्रारब्धम्य भोगमन्तरण निवृत्यभावात् तन्निवृत्तौ कालनियमो नास्तीत्वाह एकेनेति- मू ।। एकेन जन्मना क्षीणो भरतम्य त्रिजन्मभिः ॥१९९॥ व्या॥ एकेनैव जन्मना प्रारब्धशेषकपप्रातबन्धो वामदेवस्य क्षीणः ।। जडभरतस्य श्रिजन्मभः क्षीण इत्यनेनापि प्रतिबन्धकव्वसस्यंव कारण्त्वमड्गी- कृतमित्यर्थः।१९९॥

नन्विति- अ० ॥ प्रागुदाहृतविद्यारण्य वार्तिककारवाक्यानामर्थांन्तरमाशपूष निराकरोति

मू।। ननु वार्तिकपश्चम्या आनन्नर्यम्य मंभवात्॥ प्रतिबन्धक्षये ज्ञानमत्यन्ताभावतो भवेन्। इति विद्यामुनेर्वाक्याद्गम्यते नेन्न तत् कुनः ॥ कुतस्तज्ज्ञानमित्येष हेतुप्रश्नम्तद्ुत्तरम्। क्षयादिति च नैवैते युज्येते त्वन्मने किल ॥२०१॥॥ क्या ॥। आनन्त्यार्थेऽपि पञचमीति शांखण ताद्धि ज्ञानं बन्धपरिक्षयात् भवतीति वार्ततिकोक्तपञ्चम्याः आनन्तर्याथेसभवे 'जन्मान्तरे लभेतेव प्रतिबन्ध-

Page 130

द्वितीयनिरूपणे षष्ठप्रदर्शकम् ११७

क्षये स'तीति विद्यार्याचार्यवाक्येन प्रतिबन्धक्षयकाले ज्ञानोत्पत्त्यङ्गीकारेSपि त- दानीन्तनस्य प्रतिबन्धकात्यन्ताभावस्यैव ज्ञानहेतुत्वमवगम्यते इति प्राप्ते । नि- राकरोति न तदिति तन्र हेतुं पृच्छति कुत इति उत्तरमाह कुत इत्यादि- ना वार्तिकादिवाक्यानां भवदभिमतार्थपरत्वे एते प्रश्नप्रतिवचने नैव युज्येते इत्यर्थः ॥ २०१॥॥ अ०॥ कथं तर्हि तद्वाक्यानां मदभिमतार्थपरत्वे प्रश्नप्रतिवचनाभ्यां भवि- तव्ये इत्यत आह प्रश्न इति- मू। प्रश्नः कदेति कर्तव्यः क्षये सत्युत्तरं वदेत् ॥ २०२॥ व्या॥ कदा तज्ज्ञानं भवतीति प्रश्नः तद्धि बन्धपरिक्षये इति प्रतिवचन च वार्तिके भवेदित्यर्थः ॥ २०२ ॥

शमाधयैरिति -- अ० ॥ प्रागुदाहृतवार्तिकवचना नामर्थान्तरत्वाभावे तदयाख्यातृसम्मतिम ह

मू ।। शमाद्यैः श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम्। नीतेSस्मिन्प्रतिबन्धेऽतस्स्वस्य ब्रह्मत्वमश्नुते ॥ इत्यतत्योडप्यतश्शब्दो व्याख्यात्रा क्षयवाचक: । दर्शितोऽतश्र विन्नस्य प्रध्वंसः कारणं ननु ॥ २०४। व्या॥ स्पष्टोऽर्थः ॥ नन्वित्युत्तरश्रोकेन संबध्यते ॥ २०४॥ अ०। इदानीं तन्तुरज्जोरिव कार्यकारणयोरप्येकस त्ताकत्वे एकस्मिन तम्तौ पौनःपुन्येन जाकमानानां रज्जूनां तत्तत्प्रागभाववत् आत्मन्यप्यनेकज्ञानप्रायभावस्य संभाव्यमानत्वात यथाधत् स्वतो भासमानस्वरूपचैतन्यात्मकज्ञानोतपस्या तत्प्राग- भावनाशोऽपि तदितरज्ञानप्रागभावायत्ते पुनरप्ययथावद्भासमानस्वरूपचैतन्यात्मके द्वैतभ्रमे जाते सति अनिर्मोक्षस्स्यादिति दृष्टान्तेन चोदयति तन्त्विति- मू। तन्तुस्थग्रागभावेषु ह्येकैकस्मिन् विनाशिते। तदन्योऽतो यथा रज्जुं क्रमादेव सृजेत्तथा ॥ भ्रमापहानां ज्ञानानां प्रागभावेषु चात्मनि । ज्ञानोत्पत्त्यैव चैकस्मिन्नष्टेऽन्योऽतो भ्रमं सृजेत् ॥ तथासति विमुक्तत्वं न कदापि प्रसिद्द्यति ॥२०६।।॥

Page 131

११८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या ॥। एकस्मिन्नेवातिदीर्घतन्तौ पौनःपुन्येन रज्जूत्पत्तिविनाशानुकूल- व्यापाराभ्यामनेकरज्जूत्पत्तिदर्शनात् तदेकतन्तुगतानामनेकरज्जुप्रागभावानाम्मध्ये एकैकरज्जूत्पत्त्या एकैकस्मिन् प्रागभावे विनष्टे सति तदन्यः प्रागभावः पूर्वप्राग- भावध्वंसाधिकरणत्वेन विद्यमानस् स्वाश्रयस्य तन्तोः सकाशात् स्वप्रतियोगिनं रज्ज्वन्तरं क्रमाद्यथा सटरजत तदूत् स्वात्मगतज्ञानप्रागभावानाम्मध्ये एकैकज्ञानप्राग- भावस्यापि क्रमात् भोक्तृभोग्याद्यात्मना अयथाभानापादकत्वसंभवादनिर्मोक्ष: प्रसज्येतेत्यर्थः ॥ २०६।। । अ० ॥ कि द्वैतभ्रमसाधनभूताज्ञानप्रतियोग्यात्मक ज्ञानमन्त्यजन्मन्येव भवेदुत सर्वजन्मनि। आदयपक्षे नानिर्मोक्षप्रसङ्ग इति परिहरति यदिति- मू॥ यदन्त्यजन्मजं ज्ञानं द्वैतविभ्रमविघ्नकृत्। तदेकप्रागभावेन सर्वा भ्रान्तिर्भवेद्यदि॥ ज्ञानोत्पत्त्या प्रागभावभ्रान्तिनाशे हि मुच्यते ॥२०८॥ व्या। तदेकप्रागभावेनेति तस्यान्त्यजन्मनि जनिष्यमाणस्य ज्ञानस्य एकेनैव प्रागभावेन सर्वा भ्रान्तिः यतो भवेत् अतो ज्ञानोत्पत्त्या तत्प्रागभावतत्निमि- त्तकभ्रान्त्योः विनाशे सति स ज्ञानी मुच्यत एवेत्यर्थः ॥ २०८॥ अ०॥ द्वितीये तु स्मृत्यादिव्याकोपस्स्यादित्याह बहूनामिति- मू।। बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥२०९॥ सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। इति स्मृतिः प्रकुप्येत द्वितीये तु तथा श्रतिः ।२१० ॥। व्या। सर्वेष्वपि जन्मसु सम्याज्ञानं भवतीति चेत। तदा बहुनां जन्म- नां ज्ञानार्थसंस्काराश्रयाणामन्ते समाप्तौ चरमजन्मनि ज्ञानवान् प्राप्तपरिपाक· ज्ञान: मामस्मत्प्रत्ययगोचरं प्रत्यगात्मानमहमेव वासुदेवस्सर्वमिति च प्रतिपद्यते। 'य एवं जानाति स महात्मा सुदुर्लभ' इत्यादिकेयं स्मृतिः चरमजन्मन्येव सम्य- ग्ज्ञानस्य जनिष्यमाणतं ज्ञानिनो दुर्लभतञ्च ज्ञानानन्तरं सर्वव्यापारपरिसमाप्तिञ्चेा- पदिशन्ती श्रुतिश्व व्याहन्येतेत्यर्थः ॥ २१० ॥

Page 132

द्वितीयनिरूपणे षष्ठप्रदर्शकम् ११९

अ० ॥ केयं श्रुतिरिति प्राप्ते 'तत्र को मोहः कशशोक एकत्वमनुपश्यतः' 'यत्र त्वस्य सर्वमात्मैवाभूत्तत केन कं पश्ये'दितीमां श्रुतिमर्थतस्सङ्वह्य दर्शयति क इति- मू।। को मोहस्तत्र कश्शोक एकत्वमनुपश्यतः । यस्य सर्वमभूत् स्वात्मा कं पश्येदिति च श्रुतिः ।। २११ ।। व्या।। यस्मादियं श्रुतिस्सम्यग्ज्ञानोदयानन्तरं शोकमोहद्वैन प्रतीत्यभावं दर्श- यति अतश्रानेकसम्यग्ज्ञान प्रागभावायत्तविभ्रमादनिर्मोक्षापत्तिर्दूरतो निरस्तेत्यर्थः ॥ अ० ॥ एवं श्रुतिस्मृतिप्रसिद्धं यच्चरमजन्मनि जनिष्यमाणं सम्यग्ज्ञानं तत्प्रागभावस्य विचित्रभ्रमकारणत्वे दृष्टान्तमाह एवमिति- मू ॥ एवं सर्वान्त्यजज्ञानप्रागभावोऽस्य कारणम्। नेतरौ तत्र शास्त्रानुकूलो दृष्टान्त उच्यते ॥ रम्भावेणुफलस्यैव प्रागभावो दळादिषु ॥। कारणं दृश्यते यद्वत्तत्साम्यञ्चात्र योजयेत् ॥२१३॥ व्या। रम्भावेणुफलस्येति कदळीवेणुफलस्य प्रागभाव एव तत्किसल- यादिकारणं न तत्प्रध्वंसादिरित्यर्थः ॥ २१३॥ अ० ॥ तत्साम्यञचात्र योजयेदित्युक्तमेवार्थ विशदयति कदळीति- मू । कदळीवृक्षवत्स्वात्मा तत्फलप्रागभाववत् । स्वात्मज्ञानप्रागभावः पल्लवा इव विभ्रमाः ॥ सर्वान्त्यफलवज्ज्ञानं सर्वान्त्यं भ्रमविन्नकृत्। प्रागभावस्य नाशादेर्हेतुत्वं नोभयत्र हि ॥ २११ ।। व्या।। तत्फलप्रागभाववदिति तस कदलीप्रकृतिकस् फलस्य प्रागभाव इव स्वात्मोपादानकस्य ज्ञानस्य प्रागभाव: प्रागभावस नाशादेरिति प्रागभाव- प्रतियोगिकस्य ध्वंसादेर्द्ष्टन्तदार्ष्टान्तिकस्थलद्येSपि न कारणत्वमस्तीत्यर्थः॥२१५॥ अ०॥ पुनरप्युपपादितमेवार्थ चोदनिरासपूर्वकं दृढीकरोति विघ्नेति- मू ॥ विन्नात्यन्ताभावमात्रकारणत्वे हि लाघवम् ॥ प्रागभावादिहेतुत्वे गौरवं चेन्न गौरवम्।

Page 133

१२० अद्वैतसिद्धान्तगुरुचन्द्रिकाया

प्रत्युत त्वन्मते प्राप्तगौरवस्य निवर्तकम् । विज्ञानप्रागभावस्य जगद्देतुत्वकल्पनम् ॥२१७॥ न्या।। प्रतिबन्धकस्यात्यन्ताभावस्येव तत्प्रध्वंसप्रागभावयोरपि कारण- स्वस्वीकारे गौरवमापतेदिति प्रामे। तन्निराकरोति न गौरवमित्यादिना कि तत् गौरवनिवर्तकमित्यत आह विज्ञानेत्यादिना॥२१७॥ अ.।। इदानीं परपक्षे गौरवं स्वपक्षे लाघवञ्च दर्शयति स्वस्मादिति- मू ॥ स्वस्माज्जगदुपादानात् त्वयाऽन्ये ये प्रकल्पिताः। विविधा अणवोऽनन्ताः कारणानि तथैव च !! पृथग्भूतानि तेभ्यो वै कार्याणि विविधानि च । गुणकमदियोSनन्ताः पदार्थास्तद्पेक्षया ॥ सर्वभ्रमापहज्ञानप्रागभावस्तदाश्रयः । ताभ्यां विचित्रविभ्रान्तिं वदतो न हि गौरवम् ॥ २२०॥ व्या। तदाश्रय इति तस्य ज्ञानप्रागभावस्याश्रयः सदाहमिति स्वतः प्रकाशमान: प्रत्यगात्मा। शेषस्सुगमः ॥। २१०॥॥ अ० ॥ षष्ठप्रदर्शकान्निष्पन्नार्थे दर्शयति अत इति -- मू ।। अतो ज्ञानप्रागभावस्सहकारीति सिद्धयति ॥ २२०॥॥ व्या। कार्यकारणयोरेकसत्तावादे प्रत्यगात्मनो जगदात्मना विवर्तमान- लात् ज्ञानप्रागभावः सहकारिकारणमित्यर्थः ॥ २२९ ॥ -: 0 :- द्वितीयनिरूपणे सप्तमपदशेकपारम्भ: । अ०॥ इदानी सप्तमप्रदर्शके पक्षभेदेन प्रागुपपादिताज्ञानत्रयानुगुण्येन तत्कार्यस्वरूपाण्याह सप्तम इति -- मू ।। सप्तमे पक्षमेदेन कार्यरूपाणि तु ब्रुवे। आद्ये ब्रह्म स्वतः कार्यमन्यथा भासमानकम् ॥ शक्त्यात्मजो गुणो भिन्नो द्वितीये रागवद्भवेत्। मायामयं तृतीये तु द्रव्यं स्यादात्मनः पृथक् ॥ २२२॥॥

Page 134

द्वितीयनिरूपणे सप्तमप्रदर्शकम् । १२१

व्या। स्वतोऽन्यथा भासमानं ब्रह्मैवाद्यपक्षे कार्यशब्दवाच्यं न तदतिरेकेण कार्ये नाम किञ्चित्तत्वमस्ति। शेषः सुगमः ॥ २२२॥॥ अ०॥ इदानीमुपपादितानां कार्याणां सिथ्यात्ववैलक्षण्यप्रदर्शनेन क्रमाददैतं प्रत्यन्तरंङ्वत्वादिकमाह उत्तरोत्तरेति- मू ॥ उत्तरोत्तरबाधाय पूर्वपूर्वमतं भवेत् ॥। २२३ ॥। सद्भिन्नं चेज्जगत्तत्र मिथ्यात्वन्त्वसदात्मके। मिथ्यालक्ष्यत्वमेवाद्ये द्वितीये शक्तिजत्वतः ॥२२४॥ अलातचक्रवद्दव्याभासः कार्य तृतीयके। अविद्याविककृतित्वेन द्रव्यं स्यादन्त्ययोः पुनः ॥२२६॥ स्वात्मविद्याविनाश्यत्वं मिथ्यात्वं जगतो भवेत् ॥ २२६॥॥ व्या॥ 'अथात आदेशो नेति नेति नह्ेतस्मात्' 'नेह नानास्ति किशन वाचारम्भणं विकारो नामधेय मित्यादि श्रुतिभिः श्षो० ॥ ब्रह्म सर्वमिदं ज्ञानं ब्रह्म- प्रास्तेस्तु साधनमिति ब्रह्मगीतावचनेन च जगतः स्वात्मसत्तामात्रकत्वपकियया मिथ्यात्वं तावत् अर्थशून्यमिथ्याशब्दलक्ष्यत्वमिति मुमुक्षणां परमपुरुषार्थसाधन- मुपदिष्टम् तेन बाधनीयमतन्तु 'ते द्यानयोगानुगता अपश्यन्देवात्मशक्ति स्वगुण- निगूढाम्। परास्य शक्तिर्विविवेव श्रूयत इत्यात्मशक्तिजंकार्यमिति श्रो० ॥ जगन्मा- येति विज्ञानमज्ञानं फलतो भवेत्। तथापि परमा्द्वितज्ञानस्येदन्तु वंदनम्। उप- कारकमत्यन्तं तट्टप्टा वक्ति तच्छतिरिति ब्रह्मगीतावचनेन श्रुत्यनुभाषितस्वात्मशाक- जत्वस्य निरसनीयत्वावगमात् अनेन स्वात्मश्तिजत्ववादेन निरसर्नीयं तु'मायान्तु प्रकृति विद्यात्' श्रो० ॥ मायया विद्यते सर्वमिति केचन मोहिताः । िवर्पाति- रेकेण नास्ति माया च तत्वतः। मायया वा सिवादन्यदवियते चेच्छिवस् तु। महत्वं परमं साक्षाद्वीयेत सरपुङ्गवाः । महत्वस्य च सङ्कोचो नास्ति सम्यङनिरपणे। आस्त चेदप्रमाणं स्याच्छतिस्सत्वार्थवादिनीति ब्रह्मगातया ब प्रदर्शितभ्रान्तजनदृष्टिसिद्ध स्वाज्ञानपरिणामं जगदिति मतं दर्शयति तृतीयक इत्यादिना एवं द्वितीयतृतीय- पक्षयोः जगतः प्रातिभासिकसत्ताकत्वेन ख्वात्मज्ञाननाश्यत्वं मिथ्यात्वमित्यादिश्य इतो भिन्नमनित्यत्वरूपं मिथ्यात्वं चतुर्थादिमतेषु दर्शययध्यति ॥ २२५॥॥ अ०। श्रो० ॥ उत्तरोत्तरबाधाय पूर्वपूर्वमतं भवेदिति प्राकप्रतिज्ञातार्थ- मेवाभिनीय दर्शयति सत्तैकत्वविधानेति- 11

Page 135

१२२ अद्वैतासिद्धान्तगुरुचन्द्रिकायां

मू ॥ सत्तैकत्वविधानेन शक्तिजत्वं निवार्य च ॥ २२६ ॥ श्तिजत्वं समालंब्यापोह्याऽज्ञानविकारता। तन्मयत्वं समालम्ब्य वार्यतां चिद्विकारता ॥ २२७ ॥ क्या।। प्रथमनिरूपणे एकाशीतितमे श्रोके स्वात्मनः यदाध्यासिकमुपादानलमुक तत् शक्तिमाययोः तादात्म्याध्यासवशात् द्विविधं भवेदित्यर्थः ॥२२७॥ अ०॥ इदानीं जगतो ब्रह्मपरिणामत्वमवलंब्य पाशुपताद्यभिमतमीश्वरस्य मुख्यं निमित्तकारणत्वं गौणमप्युपादानत्वं निवारणीयमित्याह अहमिति- मू। अहङ्गहे निजोपास्तावीशोपास्ताविदङ्गहे। स्वात्मेशयोर्विकारित्वं विकारार्थ भवेदतः ॥। २२८ ।। समुद्रफेनन्यायेनाद्वितीयत्वं तयोरिति। भोक्तापत्तेरभेदश्वेदिति सूत्रात्तदीयतः ॥ २२९ । भाष्याच्च तद्नन्यत्वभाष्यान्ताच्च तदीयतः । रामानन्दीयतश्चात्र चतुर्थोच्च निरूपणात् ॥ २३० ॥ चिन्मयत्वं समालंब्य यच्छवादिसमीस्तिम्। निमित्तत्वं तथेशे च गौणोपादानतां त्यजेत् ॥ २३१ ॥ क्या॥ विकारित्वमिति परिणाम इत्यर्थः ॥२३१॥ अ० ॥ इदानीं पाशुपतादिमतमवलंव्य निरसनीयं केवलकर्मावलबना मत दर्शयति एतस्मादिति-

कृतप्रयत्नापेक्षेति वैषम्येत्यादिसूत्रतः ॥२३२ ॥ तत्तद्ाष्याच्च जीवेशफलानाञ्च मिदापरात्। फलानान्तु निमित्तेशो विभुत्वादाश्रयो यतः ॥ २३३ ॥ मणीनां सूत्रवत्तस्य गौणोपादानता परात्। फलप्रकृतिभूते यत्स्वातन्त्र्यं कर्मणीरितम् ॥ २३४॥

Page 136

द्वितीयनिरूपणे सप्तमप्रदर्शकम्। १२३

तत्त्याज्यं जैमिनेमर्गिकर्मकाण्डानुसारिणाम् ॥२३४॥॥ ्या॥ स्पष्टोऽर्थः ॥२३४॥॥ अ०॥ इदानीं लोकायतिकमतनिरासार्थमेव प्रवर्त्तमानं मीमांस कमतं दर्श यति पारलौकिकेति- मू ।। पारलौकिककर्मापि तल्लोको नेति वादिनः ॥ २३५ ।। लोकायतिकसंज्ञस्य देहात्मत्वनिवृत्तये। तदेतत्सत्यमित्यादि मुण्डकाख्यश्रुतेरपि ॥ २३१ ॥ तदीयभाष्यतश्चापि ह्याचार्यज्जमिनेरपि। देहादन्योऽयमात्मा हि भोगाय परलोकभाक्। तत्फलप्रकृतिः कर्म निराशमिति दर्शितम् ॥ २३६॥ सत्यत्वेऽत्रास्ति मिथ्यात्वं फलेऽनित्यत्वरूपकम् ॥ एवं तेघाऽस्ति मिथ्यात्वं सत्तात्रैविध्यमेदतः । २३७।। व्या।। स्पष्टोऽर्यः ॥ २३७॥ अ०॥ अवुनोपपादितेषु मिथ्यात्वेषु मिध्याशब्दप्रवृत्ति दर्शयति आद्येति मू ।। आद्ये लाक्षणिको मिथ्याशब्दोऽन्यत्न तु रौढिकः । असतो निष्प्रकारत्वात्सप्रकारत्वतस्सतः ॥२१८।। व्या॥ स्पष्टाऽर्थः ॥ अ०॥ इदानीं द्वाविशत्युत्तरद्विशततमादिश्षोकै: उदाहृततत्तन्मतभेद- विज्ञानवद्भ्िः कर्त्तव्यविशेषान् द्शयति एवमित्यादिना- मू ।। एवं निरूपितेप्वेपु मतेषु किल सप्तमु । आद्यन्रयं विस्तरेण पूर्वोत्तरनिरूपणैः ॥ २३९ ॥ विजानीयान्मुमुक्षुश्च्वेत् भोगार्थी चेद्दितीयकम् । मतत्रयं विजानीयात् चतुर्थाद्धि निरूपणात् ॥२४० ॥ उत्कान्त्यादिश्वुतेर्भोक्तु: कर्मजन्यक्षयश्रुतेः ॥२४०॥॥

Page 137

२२६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

द्वितीयत्रयनिष्ठस्य संसृतिस्सम्भवेत्पुनः ॥ २४१ ।। सप्तमस्यापि सत्यत्वे तन्मतं नोपयुज्यते। 1 मुक्तयेडतो न तड्ाह्यं लोकायतिकदर्शितम् ॥२४२ ॥ व्या॥ स्पष्टोऽर्थः ॥ २४२॥ अ०॥ इदानीमाद्यपक्षे स्वात्मातिरेकेण कार्यस्यासत्वे ब्रह्मगीतायाः पञ्च- माध्यायवचन प्रमाणयति सत्तति- मू ॥ सत्तैकापि भवेद्भिन्नं कारणात्कार्यसंजञितम्। इति वार्तापि वार्तैव कार्यसंज्ञमसत्खलु ॥ सत्ताहीनस्य कार्यस्यासत्वमेव हि युज्यते ॥ २४३॥ ॥ व्या। कार्यकारणयोरेकसत्ताकत्वेऽपि कारणात् कार्ये भिन्नमेव भवेदिति वचनं गगनारविन्दशब्दवत् अर्थशून्यमेवेत्यर्थः । अत्रोक्तपूर्वपक्ष एव कार्यकारण- यर्विषमसत्तावाद इति जानीयात् तत्रव हि सर्वत्रानुस्यूतब्रह्मसत्तातिरेकेण जगतः भिन्नसत्ताकत्वेन तत्तच्छब्दप्रत्ययग्राह्यस्य ब्रह्मभिन्नत्वाभ्युपगमात् ॥२४३॥ ॥। अ० ॥ उष्णीषतादेः सावयवपटाद्यवस्थाविशेषत्वेन ततः पृथक् कर्तुमश- क्यत्वात पटादिस्वरूपातिरेकेण स्वतोऽसत्वे संभाव्यमाने सति सावयवत्वादिर्म- रहित स्वात्माववर्त्तस्य स्वात्मसत्ततिरेकेणासत्व स्वतः सिद्धमेवेति यद्राह्यं मतं तत्स- मर्थयीत गुणेति- म् । गुणावयवसङ्गैश्च विकारै रहितस्य च ॥। २४४॥। निजावस्थाप्रागभावसमेतस्य सदात्मनः । स्वतो वा परतो भावाज्ञानकर्मादितोऽपि च ॥। २४५॥ पटादेरिव विन्यासविशेषादेरसंभवात्। ऋजुवक्रादिकाभासाभावादेव ह्यलातवत् ।। २४६ ।। तद्भिन्नस्य विवर्त्तस्यासत्वात्स्वात्मा सदाऽद्वयः ॥२४६॥॥ व्या॥ तन्भिन्नस्ेति तेभ्यः किसलयपटक्षीरालातेषु क्रमादवस्थान्त- रत्वेन भासमानेभ्यः गुणाSवयवविन्यासविशेषपरिणामद्रव्याभासेभ्यो भिन्नस्या-

Page 138

द्वितीयनिरूपणे सप्तमप्रद्शकम्। १२६

तोऽसद्गात्मन विवर्त्तस्य स्वात्मसत्तातिरेकेण स्वतः सुतरामसत्वात् खात्मनस्सा- तत्येन निरङ्डशमद्वितीयत्वं सिद्धमित्यर्थः ॥ २४६॥॥ अ० ॥ इदानीं कार्यकारणयोविषमसत्तावादी शङते अस्त इति- मू । असतस्तु सता साकं तादात्म्यस्य भ्रमः कथम् ॥ वन्ध्यासूनोरपि स्यात्तदिति चेदस्ति तच्छणु ॥ २४७॥॥ व्या।। अळीकस्यापि विकल्पवृत्तिविषयत्वं वदत्तां प्रतिकर्म व्यवस्थावा- दिनां मतेऽपि सदसतोरविवेकाभावात्तादात्म्यं भवेदित्यर्थः ॥ २४७।॥ अ० ॥ तदस्तित्वमुपपादयति ॥ वन्ध्येति- मू । वन्ध्यापुतो गृहे त्वस्मिन् धनदः प्रभुरस्ति भो: ॥२४८॥ इति व्यामोहकादेशं श्रुत्वा मूदस्तु याचकः । विभ्रान्त्या तङ्गहं गत्वा दरिद्रं जननीसुतम् ॥२४९॥ द्ृष्ट्रायमेव वन्ध्यायाः पुल्रः पूर्व मया श्रुतः । इति यो वेत्ति तस्यास्ति तादात्म्यं चोदितं त्वया ॥२५०॥ व्या॥ मूढ इति वन्ध्याशब्दार्थानभिज्ञत्वेन वन्ध्यातत्सुतयोर्विवेक- ज्ञानरहित इत्यर्थ: ॥ शेषस्सुगमः ॥ २५० ॥ अ० ॥ श्रो० ॥ "शून्यस्यापि ससाक्षित्वात् तदभावे तु कस्य स' इति

सतः सदात्मनश्च विवेकाभावरूपहेतुना 'असन्नेव स भवत्ति। असद्गह्मेति वेद चे' दिति श्रृत्याद्युक्तप्रकारेण मृत्सत्तातिरिक्तसत्ताशून्येन घटेन सद्रूपायाः मृद इव कार्य- कारणयोरेकससतावादेऽपि सदसतोस्तादात्म्यं संभवत्येवेत्याह असतेति- मू ।। असता सह तादात्म्यं सतश्र ब्रह्मण: किल। असद्गह्मेति वेदेन दर्शितं च तथैव च ।। २५१ ।। ब्रह्मसूत्रकृता सत्वाच्चापरस्येति सूत्रतः ।

कारणेनैव कार्यस्य सत्वं नान्यदितीरितम् ॥२५२॥॥

Page 139

१२६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

क्या ॥ 'वाचारम्भणं विकारो नामधेय 'मिति श्रुत्यनुसारेण कार्य- मात्रस्य नामधेयमात्रत्वे कार्यकारणयोरेकैव सत्तेति 'सत्वाच्चापरस्य असदिति- चेन्न प्रतिषेधमात्रत्वादिति च सूत्राभ्यां त्भाष्याभ्यां च यतो दर्शितम्। अतर्सतै क्यवादे न कश्चिद्दोष इत्यर्थः ॥२५२॥॥ अ०॥ इदानीं द्वितीयपक्षे। 'ते व्यानयोगानुगता अपश्यन् देवात्मशक्ति खगुणैर्निगूढा 'मिति श्वेताश्वतरमन्त्रमर्थतस्सङ्कह्य प्रमाणयति देवेति- भू ॥ देवात्मशक्तिं स्वगुणैनिगूढां मुनयोडविद्दुः॥ इति मन्त्रोडस्य जगतो द्वितीये गुणतां जगौ ॥ २५३॥॥ व्या॥ देवात्मशक्तिमिति देवस्य प्रयगात्मनो या जगत्लर्जनानुकूला शक्तिः तां विशिनष्टि। निगूढामिति तत्कार्यमन्तरेण खतः अपरोक्षीकर्तुमश- क्यामिति यावत्। तथा चोक्तं विद्यारण्याचारयेरपि श्रो० ॥'निस्तत्वाकार्यगम्यास्य शक्तिर्मायाSमिशक्तिवदिति' अत एव स्वगुणैः सस्याः स्वकीयायाः तच्छक्तेः कार्यभूलैगुणैः श्रुतिप्रदर्शिता मुनयो जगतकारणत्वेनापश्यन्निति श्वेताश्वतरमन्त्रो द्वि- तीयपक्षे अस्य जगतो गुणात्मतां जगावित्यर्थः ॥ २५३॥॥ अ०॥ ननु द्वितीयपक्षे अनया श्रुत्या जगतो गुणत्वावगमेSपि प्राक पञचविंश- त्युत्तरद्विशततमश्रोकोक्तं न द्रव्याभासत्वमिति प्राप्ते तथात्वपरां गौडपादीयकारि- कां प्रमाणयति ऋज्विति -- मू ।। ऋजुवकरादिकाभासमलातस्पन्दितं यथा ॥ ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ २१४॥॥ व्या। ऋजुवक्राद्यात्मना आभासत इति ऋजुवक्ादिकाभासं कार्यजातं ता- वद्यथा अलाते विद्यमानचलनानुकूलश्तिजन्यं यतो मिथ्याद्रव्यलक्षणहीनं सन्मिथ्या- द्रव्यवदाभासते ततो हि मिथ्याद्रव्याभासात्मकं भवति एवं ग्रहणग्राहकात्मनाSS- भासमानमपि ज्ञानेन्द्रियादिकार्यजातं 'विज्ञानमानन्दं ब्रह्मे' ति श्रुत्युक्ते विज्ञाने क- स्पितशक्तिजन्यं मिथ्याद्रव्यवदाभासत इति मिथ्याद्रव्याभासो भवतीत्यर्थः॥२५४॥ अ०॥ इदानीं विद्यया आध्यासिकब्रह्मशक्तिविनाशे तङ्ह्म तावत् स्वशक्ति- कल्पितमिथ्याद्रव्याभासवर्जितम् भवतीत्यत्र श्रीगौडपादाचार्यसम्मतिमाह अस्प- न्दमानमिति॥ मू । अस्पन्दमानमलावमनाभासमनं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ २५६॥॥

Page 140

द्वितीयनिरूपणे सप्तमप्रदर्शकम्। १७

न्या॥ स्पष्टोऽर्थः ॥ २५५॥।। अ० ॥ इदानीमाद्धयासिकशक्तकल्पितस्य मिथ्याद्रव्याभासत्वसाधंनानुकूल- रृष्टान्तप्रदर्शनपरां गौडपादीयकारिकामुदाहरति अलात इति- मू॥ अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः ॥ न ततोऽन्यत्र निष्पन्दान्नालातं प्रविशन्ति ते। न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः ॥ २५७ ।। व्या ।। अलाते स्पन्दमान इति उल्कायामितस्ततश्चाल्यमानायां प्रतीयमाना: आभासा: ऋजुवक्राद्यात्मना प्रतीयमानद्रव्याभासाः नान्यतो भुवः न कुतश्वचिद्देशान्तरादागत्यालाते भवन्ति । न च तस्मान्निष्पन्दादला- तादन्यत्र निर्गता: । न च निष्पन्दमानमलातमेव प्रविशन्तीत्युक्ता तेषामृजुवक्रा- दीनां मिथ्याद्वव्यलक्षणहीनत्वे सति मिथ्याद्रव्यवदाभासमानानां मिथ्याद्रव्याभास- त्वमनुमानतः साधयति न निर्गता अलातात्त इति गृहाद्वटादय इवेत्यर्थः ॥ तत्र हेतुमाह द्रव्यत्वाभावयोगत इति द्रव्यस्य भावो द्रव्यत्वं तदभावो द्रव्य- त्वाभावः तस्य योगतः द्रव्यत्वाभावयोगतः-द्रव्यत्वानाश्रयत्वात् वस्तृत्वाभावा- दित्यर्थः ॥ वस्तुनो हि प्रवेशादिस्संभवति नावस्तुन इति एतत्कारिकाभाष्येऽप्यु- दाहतम् ॥ २५७ । अ० ॥। ब्रह्मश्तिजन्यस्यापि जगतः अलातचक्रवान्मथ्याद्रव्याभास- रवानुमानपरां श्रीगोडपादकारिकामुदाहरति विज्ञानेति- मू ॥ विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः । विज्ञाने स्पन्दमाने वै नाभासा अन्यतो भुवः ॥२९८॥ न ततोऽन्यत्र निष्पन्दान्न विज्ञानं विशन्ति ते। न निर्गता विज्ञानाच्े द्रव्यत्वाभावयोगतः ॥ २५९।। व्या॥ विज्ञाने ब्रह्मणीति यावत् 'विज्ञानमानन्दं ब्रह्मे' ति श्रुतेः ॥ शेषः पूर्ववत्। ननु कथमुरं सर्वगतस्य ब्रह्मणः स्पन्दनास््यं चलनमिति चेदुच्यते 'ते व्यानयोगानुगता अपश्यन् देवात्मशक्ि'मिति श्रृत्या येषामात्मनि शकतिमत्वाध्या- सो दर्शितः तेषामात्मनि शक्तिकार्यचलनाध्यासस्यापि संभाव्यमानत्वात तद्टुष्व- नुसारेण दर्शितमतो न कश्विद्ोषः ।। २५९।।

Page 141

१२८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ० ॥ ननु ब्रह्मपरिणामत्वेन जगतोऽपि द्रव्यत्वं स्यादित्याशङ्गाव्यावृत्ति- परां गोडपादीयकारिकामप्यल प्रमाणयति कार्येति- मू । कार्यकारणताभावाद्यतोऽचिन्त्यास्सदैव ते ॥ २५९॥॥ व्या। यत इति यस्मात् 'निष्कळं निष्क्रियं शान्तं निरवद्य' मित्यादिश्रु- त्या परिणामित्वहेतुभूत सावयवत्व तदवीनापरिणामादिविक्रिया च निराकृता ततः परिणामपरिणामित्वरूपकार्यकारणत्वयोरभावात् ब्रह्मजगतोः ब्रह्मण तच्छ- क्तजन्याः ये मिथ्याद्रव्याभासाः ते अनिर्वचनीयगुणा एवत्यर्थः ॥ २५१॥ ॥ अ०॥ ननूदाहृतगौडपादवचनन ब्रह्मशक्तिजन्यस्य पदार्थीभासस्य द्रव्यत्वाभावमात्रत्वावगमेऽपि प्रागुक्तश्वेताश्वतरक्षुत्येव न गुणत्वमवगम्यत इत्या- शाङ्कय तद्ूचनस्य गुणपरत्वं दर्शयति गुण इति- मू।। गुणो हि गुणिनोऽन्यत् न गतोऽस्मिन्न लीयते।। इति दृष्टागमेनेव गौडपादेम्समीरितम् ॥ २६०॥॥ व्या॥ इति द्ृष्टति किसलयादिभावमापन्नेष्वाम्रादिपत्रेषु तद्तरूप- पररिमाणादिगुणानां लयाभाव ततोऽन्यत्र गमनाभावञ्च दृष्टा 'न ततोऽन्यत्र निष्पन्दान्न विज्ञानं विशन्ति ते' इत्यादिश्रोकेः मिथ्याद्रव्याभासानां गुणात्मकत्वमेव श्वताश्वतरक्षतिवत् समीरितमिति भावः ॥ २६०॥ ॥ अ०॥ तृतीयपक्षे कार्यस्य मिथ्याद्रव्यत्वं तावत् प्रतिज्ञातं तत्र प्रमाणमाह कार्यस्येति -- मू।। कार्यस्य द्रव्यतायान्तु वार्तिकादिप्रमाणकम्॥ शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरुत्। शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते॥ शब्दस्पर्शरूपर सगुणैरापश्चतुर्गुणाः । शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही॥ इत्यत्र गुणवत्वोक्तेर्द्रव्यं कार्यमितीरितम् ॥ २६३॥॥ कया॥ स्पष्टोऽर्थः ॥ २६३॥॥

Page 142

द्वितीयनिरूपणे सप्तमप्रदर्शकम्। १२९

अ०॥ अस्मिन् सप्तमप्रदर्शके समीरितानां पक्षाणां तारतम्यं प्रतिजानीते एतेष्विति -- मू ॥ एतेषु चाद्यपक्षो हि प्रशस्तो नेतरौ तथा ॥ २६४ ॥ व्या.।। स्पष्टोऽर्थः ॥२६४॥ अ०॥ इदानीं प्रतिज्ञातार्थसिद्धये ब्रह्मगीतायाश्चंतुर्थाध्यायस श्रोकत्रयं प्रमाणयति माययेति- मू ॥ मायया विद्यते सर्वभिति केचन मोहिताः । शिवरूपातिरेकेण नास्ति माया च तत्त्वतः ॥ २६५ ! व्या। तत्त्वत इति तमोरूपाज्ञानाख्यतत्त्वात्मना माया प्रकृतिः चकारे- णावरणशक्तिश्व नास्तीत्यर्थ: ॥ २६५ ।। अ०॥ तदस्तित्वे बाधकं ब्राह्मं वाक्यमुदाहरति मायया वेति -- मू। मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु। महत्त्वं परमं साक्षा्धीयेत सुरपुङ्गवाः ॥२६६॥ व्या॥ मायया वेति मायया प्रकृत्या वाशव्दात् शक्त्या वा निर्मितं शिवादन्यद्रव्यरूपं गुणात्मकं वाऽन्यत् कार्यमस्ति चेत् ब्रह्मणस्त्रिविधपरिच्छेदरा- हित्यं भज्येतेत्यर्थः ॥ २६६ ॥ अ०॥ नन्वियं 'एकमेवाद्वितीय'मिति श्रुतिः ब्रह्मवत् पारमार्थिकवस्त्वन्तर निरासप रैव न मायिकतत्वनिरासपरेत्याशङ्गनिवर्तकं ब्राह्मं वाक्यमुदाहरति मह- त्वस्येति -- मू। महत्त्वस्य च संकोचो नास्ति सम्यङ्निरूपणे। अस्ति चेदप्रमाणं स्याच्छूतिस्सत्यार्थवादिनी। इत्यादिवचनैरन्यपक्षयोर्बाधदर्शनात्। अद्यः पक्षः प्रशस्तस्स्यादिति निश्चीयते किल ॥ २६८॥ व्या॥ स्पष्टोऽर्थः ॥ २६८॥

Page 143

१३०

द्वितीयनिरूपणे अष्टमपदशकभारम्भः । अ०॥ इदानीं प्रतिज्ञापूर्वकमष्टम प्रदर्शकमाह अथेति -- मू। अथाष्टमे प्रवक्ष्यामि कार्याणां विलयं क्रमात्। अन्यथा भासमानत्वोच्छेदो भूम्नो लयो भवेत् ।। द्वितीये शक्तिजन्यस्य गुणत्यो्छिन्नता लयः। तृतीये सर्वकार्याणां विलयः कारणात्मता ॥२७०॥ क्या।। प्रथमद्वितीयपक्षयोः कार्यस् लयो नास कारणभावापत्तिमन्तरा उच्छिन्नतैव-तृतीयपक्षे तु कारणभावापत्तिरिति विवेक: ॥ २७० ॥ अ० ॥ आद्यपक्षयोव्रद्वचनादिकं प्रमाणयति आद्ययोरिति- मू। आद्ययोगौडपादस्य कारिकाSलातशान्तिगा। प्रमाणं हि भवेत् सेयं सदष्टान्ता समीर्यते ॥२७१॥ अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निष्पन्दान्नालातं प्रविशन्ति ते ॥२७२। न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ २७३ ॥ विज्ञाने स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निष्पन्दान्न विज्ञानं विशन्ति ते ॥। २७४ ॥ न निर्गता विज्ञानात्ते द्रव्यत्वाभावयोगतः । संयोगास्यगुणो यद्वत्समवाये लयं बिना ॥ २७६ ॥ उच्छिद्यते तथैव स्यात्कूटस्थे शक्तिजो गुणः॥ २७८॥॥ व्या।। इमा: कारिकाः प्रागस्मिन्निरूपणे सप्तमप्रदर्शके द्वितीयपक्षे शक्ति- जन्यानां मिथ्याद्रव्याभासत्वावगमाय प्रमाणतवेनोदाहताः । अत्र तु विज्ञानतच्छर

Page 144

द्वितायीनरूपणे अष्टमप्रदर्शकम्। १३१

क्तिम्यां परिकल्पिताश्ष मिथ्याद्रव्याभासाः न खस्कारणे विलीयन्ते द्रव्यत्वाभावादिति विकारणां प्रकृतिभावापत्तिरूपलयो न भवेदित्यत्र प्रमाणत्वेनोपपादिताः । ततो न पौनरुक्त्यमिति ज्ञेयम् ॥ २७५॥॥ अ० ॥ तृतायपक्षे प्रमाणमाह तृतीय इति- मू॥ तृतीये तरुवत्सर्व द्रव्यत्वादेव लीयते। तदा वागेनमप्येतीत्यादिकौषीतकीश्षुतेः ॥२७६॥॥ व्या। भुवि वृक्षादिकमिव सवे जगत् खपरिणाम्गुपादाने विलीयते। रआस्मिन् पक्षे लयो नाम विकाराणां सप्रकृतिभावापतिः । प्रकृतिस्तु मायैव। 'मा- यान्तु प्र्टति विद्या'दिति श्रतेः । तत्र 'तदैनं वाक्सरवेंनामभिस्सहाप्ये'तीत्यादि- कां कौषीतकीश्रुति प्रमाणयति तदेत्यादिना एनमिति श्रुत्या जगत्प्रकृतिभूता- ज्ञानविशिष्टः प्रत्यड्ङुनच्यते। सुषुप्त्यवस्थावत्वश्रवणात् । अभ्मिन्नर्थे श्रुत्यन्तराणि च षष दृष्टिसाष्टनिरूपणे। श्षो ॥ 'अत प्रमाणभृतानि वेदवाक्यान्यमूनि ही'त्यादि- ना दर्शथष्यति कौषीतकी श्रुतेः कार्यस्य जगतः द्रव्यत्वे सति वृत्तित्वपरत्वं षष्ठ- निरूपणे वक्ष्यामः ॥२७६।।॥

द्वितीयनिरूपणे । नवमप्रदर्शकारम्भः ॥

अ०॥ नवमे पक्षत्रयाभिमतकार्याणां साधारणलक्षणमाह नवम इति- मू। नवमे संप्रवक्ष्यामि कार्यमात्रस्य लक्षणम्। आज्ञनोच्छेदकज्ञाननाश्यं कार्य भ्रमादिकम् ॥ २७७॥॥ व्या।। भ्रमादिकमिति पक्षत्रयाभिमतः तङ्भ्रम आदिर्यस्य तदनन्तर- भाविनो भयादेः तब्द्रमादिकं कार्य तस्याजानोच्छेदकज्ञाननाश्यत्वं लक्षणं ज्ञानस्व साक्षान्रमनिवर्तकत्वाभावेन अज्ञानोच्छेदकमिति विशेषणम् ॥ २७७॥॥ अ०॥ इटानी क्रमात् पक्षत्रयेऽपि अ्रमस्वरूपं प्रमास्वरूपं च दर्शयति प्रमाया इति -- मू। प्रमायाः प्रागभावेन युक्त आत्माऽन्यथा स्फुरन् ॥

Page 145

१३२

भ्रमः प्रमा विचारस्सन्यथावत्प्रस्फुरन् स्वतः । आद्येऽन्यपक्षयोर््रन्तिर्वृत्तिरूपा तथा प्रमा ॥ भ्रान्तेः प्रमाविनाश्यत्वाल्लक्ष्ये लक्षणसङ्गतिः ॥ २७९॥॥ व्या॥ स्पष्टोऽर्थः ॥२७९॥॥ अ०॥ आद्यपक्षे भ्रमादिज्ञानस्य को विषय इत्यत आह आद्यपक्ष इति- मू। आद्यपक्षे भ्रमज्ञानं विषयेण विवर्जितम् । प्रमा तु स्यात्स्वातिरिक्त्तद्वैतस्वासत्वगोचरा ॥२८०॥॥ व्या।। श्रो० ॥ 'आद्ये ब्रह्मैव कार्ये स्यादन्यथा भासमानक'मिति सप्तम- प्रदर्शकारम्भोक्तप्रकारेणाद्यपक्षे सवयं प्रकाशमानत्वे सति अज्ञानसाहचर्येणान्यथा

शेषस्सुगमः ॥ २८०॥॥ अ० ॥ पूर्वपक्षी चोदयति प्रताच इति- मू।। ग्रतीचो भ्रान्तिरूपस्य तदाऽनित्यत्वमापतेत ॥२८१॥ व्या। तदेति भ्रान्ते: प्रमानाश्यत्व इत्यर्थः । शेषस्सुगमः ॥ २८१ ॥ अ० ॥ सिद्धान्ती दृष्टान्तेन समाधत्ते पटस्थेति- मू॥। पटस्थ वेष्टनात्तत्र कार्यमुष्णीषता भवेत् । प्रसारणेन तन्नाशे पटवच्छिष्यते स्वयम् ॥ २८२॥

अयथाभासनत्वं तन्नाशे तूत्तरभानतः ।। २८३ ।। स्वतोऽसत्ताककार्यस्य नाशोऽसत्वं स्वसाक्षिकम् ।२८३।।।। न्या॥ स्वात्मीययथावद्वासन प्रागभावसाहचर्यात् स्वात्मन्येव यत् अयथाभा प- नत्वमभवत् तस नाशे नेह नानासि्ति किञचनेत्त्यादि श्रुतितट्विचारभावापत्यनन्तर- भाविनः अद्वितीयतया ख्वात्मभामात् जायमाने सति पटवच्छिष्यते ख्यमित्युक्का। कार्यकारणयोरेकसत्तावादे नाशशब्दार्थमाह स्वतोऽसत्ताकेत्यादिना। कार्यस्य नाश स्ताव दुच्छिन्नतैवेत्यर्थः । शेषस्सुगम: ॥ ननु आत्मन आकाशस्सम्भूत इत्यादिशास्त्रात्कार्यस्याकाशोदेरेवोत पत्याद्यव गमें तद्विरोधेन याऽनाद्यनन्तस्यात्मन उत्पत्तिः विनाशश्वाङ्गीकृतः सैषा विप्रतिषि द्वेति चेत्।

Page 146

द्वितीयनिरूपणे नवमप्रदर्शकम् १३३

मैवं 'आत्मन आकाशस्सम्भूत' इत्यादिश्रुतेः नाकाशादेरजनिक्रियाद्याप्रयत्वे ताहर्ये किन्तु एकविज्ञानेन सर्वविज्ञानश्नुतेरिव आकाशादेरात्मानन्यत्वे तात्वर्थे तथा च सति स्वात्मन एवोत्पत्त्यादिक्रियाश्रयत्वेन भासमानत्वमित्यद्वैतशास्त्रता- त्वर्यविदामनुक्रमणमिति विज्ञापयितुं गौडपादाचायेः । श्रो॥ कारणं यस्य वै कार्य कारणं तस्य जायते। भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हीति स्वकीयेSलात- शान्तिप्रकरणेSनाद्यनन्तस्य प्रधानस्यैव सांख्यानिमत जगदाकारेण पारिणामिकज- न्माददिकमदाहृत्य।

यथा। श्रो॥ 'नेह नानेति नाम्नायादिन्द्रो मायाभिरित्यपि' 'अजायसानो बहुधा मायया जायते तु सः। सतो हि मायया जन्म युज्यते न तु तत्वत' इति तदीयेड- द्वैतप्रकरणे तद्भाष्योक्तप्रकारेण अनादनन्तस्य स्वान्मन एव तदाविद्यकवृत्तिषु ता दात्म्यापन्नत्वेन तदविद्यापरिणासवृत्त्यवीनमादयासिक जन्मादिकञ्च मद्दचमायाधि कारिणेऽजीकृतम्।

तथाSद्वैतात्मपरवहुश्रुत्यनुग्टहीतव्राह्ममतातुसारिणा चन्द्रिकाचार्चेणापि। श्रे॥ कारणाच्चेदनन्यत्वं कार्याणासिध्यते तदा। कारणस्थैव जन्यादिमान हि समुप यतामिति। अनादनन्तानावरणीयस्वप्रकाशमानस्वरुपस्य स्वात्मन एववैवर्त्तिक जन्मादिकं भवतीति उत्तमायाधिकारिणे मतमिदमतिश्युभकरमुपदिश्यते तराम।

अ०॥ प्रतीचः भ्रमत्वापादको ज्ञानप्नागभावोऽपि स्वप्रतियोग्युत्पत्त्या नश्य तीत्याह विचारेणेति-

मृ ।। विचारेण प्रमोत्पत्त्या प्रागभावो विनश्यति ॥ २८४ ॥

व्या॥। स्पष्टोऽर्थः ॥२८४ ॥ अ०॥ प्रतीचः प्राप्तयोः भ्रमत्वप्रमात्वयोरमध्ये प्रमतत्वल्ैव तेजस्तिमिरयो- मेदूये तेजस इव बलीयस्त्वात् प्रमात्वेनैव भ्रमत्वं नश्यतीत्याह प्रमात्वेति- मू । प्रमात्ववैरिकत्वेन भ्रमत्वं तस्य नश्यति ॥ २८४।॥ व्या॥ स्पष्टोऽर्थः ॥२८४॥॥ अ०॥ नन्वाद्यपक्षे प्रमात्वोपेतखात्मनः सविशेषत्वात् कि तद्विशेयनिवर्तक मित्यत आह प्रमात्वस्तेति -- 12

Page 147

१३४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू । प्रमात्वस्यादिमत्वेन नश्येत्कतकरेणुवत् ॥ २८५ ॥। व्या। स्वयमेव प्रमात्वं नश्यतीत्यर्थः ॥ २८५ ॥ अ० । शङ्कामनुभाष्य समाधत्ते भ्रमत्वेति- मू॥। भ्रमत्वानादके ज्ञानप्रागभावे स्थिते तदा। प्राज्ञस्यापि भवेत् सुप्तावन्यथा भासनं यदि ॥ २८६॥ ज्ञानाभावयुतत्वेऽपि प्राक्तनायासनुत्तये। उदास्ते हि यतस्सुप्तौ तदा नास्त्यस्य कार्यता ॥१८७॥ व्या। यस्मात्सुषुप्तौ तत्पौर्वकालिकस्य अन्यथा भासमानत्वप्रयुक्तस्याया- सस निवृत्त्यर्थमुदासीनो भवति-ततस्तदा नान्यथा भासमानत्वरूपं कार्यत्वं प्राज्ञस्य संभवतीत्यर्थः ॥ २८७॥ अ० ॥ उपपादितार्थे 'तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य भरान्तस्संहृत्य पक्षौ सल्लयायैव ध्रियते-एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्व्मं पश्य'तीति बृहदारण्ये ष्रष्टा- ध्यायगतज्योतिर्व्राह्मणवाक्यमर्थतः संगृह्योदाहरति अन्यथति- मू। अन्यथा भासमानोऽत्र जातायासनिवृत्तये । तृष्णीमास्ते सुषुप्तौ हि श्येनो यद्वदिति श्रुतेः ॥२८८॥ व्या।। अन्यथा भासमानोऽत्रेति जाग्रदवस्थायामन्यथा सयं प्रकाश- मानः प्राज्ञ: यस्मात् सुषुप्तौ श्रान्त्या नीडे शयानश्येनपक्षीव तूष्णीं भूतो भवत्यतो न तदा कार्यात्मतेत्यर्थः ॥ २८८ ॥ अ०॥ इदानीं ज्ञानप्रागभावसाहचर्यात उपपादितजगदध्यारोपापवादा दशन्तेन प्रत्याययति पञ्चभूतेति- मू ॥ पञ्चभूततदायत्तपञ्चीकरणतां बिना। तेजोबन्न तदायत्तत्रिवृत्करणतो यथा॥ तथा तमो विनाज्ञानप्रागभावाञ्ग्रमस्य हि। अध्यारोपापवादाभ्यां प्रत्यग्विज्ञायते ततः ॥ अस्यार्थो धार्यते येन स यथा तत्वविद्धवेत् ॥ २९०।।।।

Page 148

द्वितीय निरूपणे नवमप्रदर्शकम् १३९

व्या। पञचीकरणप्रक्रियां विना त्रिवृत्करणप्रक्रिययेव तमोरूपाज्ञानं विना ज्ञानभागभावरूपस्याज्ञानस्य सहकारित्वप्रक्रिययैव भ्रमस्य अध्यारोपापवादाभ्यां य्यस्मात् सदा निष्नपञ्चत्वेनात्मतत्वं स्वतो विज्ञायते-तस्मादेतच्छास्त्ार्थज्ञानवानेव यथार्थतत्वविद्भवेदित्यर्थः ॥ २९०॥॥ अ०॥ इदानीमुपपादितपक्षत्रयोपदेशपात्राणां तारतम्यप्रदर्शनपूर्वकं चतुर्थ- निरूपणे वक्ष्यमाणस्य प्रतिकर्मव्यवस्थाख्यचतुर्थपक्षोपदेशपात्रस्य सौलभ्यं दर्श- यति आद्यपक्षेति- मू ॥ आद्यपक्षोपदेशाय सत्पात्रं हि सुदुर्लभम् ॥ मध्यान्त्यपक्षयोः पात्रं विमृग्यं लभ्यते क्वचित्। प्रतिकर्मव्यवस्थायां सर्वे पात्रं न दुर्ल्मम्।। प्रतिकर्मव्यवस्थां तां वदिप्यामश्चतुर्थके ॥ २९२॥॥ ्या। प्रतिकर्मव्यवस्था नाम जीवान्प्रति कर्मण इन्द्रियविषयस्य धर्मावर्म- मायासहायकेश्वरनिर्मितस्य जगत एकत्वेन सद्भावव्यवस्था प्रतिकर्मव्यवस्था तदवि- षयकश्रवणादौ विषयातिलम्पटा अप्यधिकारिण एवेति चतुर्थनिरूपणे दर्शयिष्यामः। अ०। एतावता शास्रेण विस्तरेण प्रतिपादितार्थसंग्रहं श्रोतृणां सौकर्याय प्रतिजानीते विस्तुरेणेति- मू। विस्तरेण यदुक्तं प्राक् संगृह्य प्रोच्यते हि तत् ॥ २९३॥ व्या। यदुक्तमिति यत् पक्षभेदेन मायातत्कार्ययो रूपन्रयमुक्त तत्ससे- पेण क्रमादुच्यत इत्यर्थः ॥ २९३॥ अ० ॥ तेष्वाद्यपक्षं सङ्गह्वाति ज्ञानस्येति- मू । ज्ञानस्थ प्रागभावस्स्यादज्ञानं तन्निमित्तकम् । अन्यथा भासमानं सच्चैतन्यं कार्येशब्दितम् ॥ २९४ ।। व्या॥ स्पष्टोऽर्थः ॥ २९४॥ अ०। द्वितीयपक्षं श्रोकद्वयेन सकृह्वाति कृटस्थ इति- मू॥ कूटस्थे गुणवर्जनाच्च विलसत्कार्यानुमेया परा शक्तिद्वारनिमित्तकं जगति मृच्छलक्ष्णत्ववन्सृन्मये।

Page 149

१३६ अद्वैत सिद्धान्तगुरुचन्द्रिकायां

तत्कार्यन्तु गुणात्मकं गुणतया शक्तेश्र रेखात्मकं चित्रं हैमगतं यथा सुकृतिनश्शक्ताद्रुणापूर्ववत् ।।२९५।। व्या॥ कूटस्थ इति निर्विकारे प्रतीचीति यावत्। तस्य निर्विकारत्वे- 'साक्षी चेता केवलो निगुणश्र' 'अस्थूलमर्नाण्व' त्यादिशास्रसिद्धं हेनुमाह गुण- वर्जनान्देति तत्र भ्रान्तैरनुमितशक्केदरिकारणत्वमाह मिलसत्कार्यानुमेय्ये- स्थादिना द्वारकारणं नवदित्यर्थः ॥ द्वारकारणत्वं नाम अनुपादानत्वे सति कार्या- नुगतत्वमित्यास्थेयम्। कांस्मन् विषय इत्यत आह जगसीति तत्र दृष्टान्तमाहे मृच्छलक्ष्णत्ववन्मन्मय इति मदनादिना मृदि आहित मृद्ळत्वं तावदनुपादान- नपि यथा घटादावनुगच्छति तद्ूदित्यर्थः। शक्तिकार्यस्वरूपमाह तत्कार्य ल शुणात्मकमिति तत्रोपपत्तिमाह गुणतया शकेश्रेति शक्तर्द्रव्यभिन्नतयेति या- वत् चकारेण॥ श्रो० ॥ 'द्रव्य द्रव्यस्य हेनुर्स्यादन्यदन्यस्न चैव ही' ति श्रीगौड- पादाचार्यसम्मतिस्मूचिता। तत्र दष्टानतद्वयमाह रेखात्सकमित्यादिना हेनकुम्भ तम्गताघातवहनशक्तिजन्येन रेखात्मकशुकमयरादिना च कायिकादि ककरियाशक्तिमत जीवे जायमानगुणात्मकापूर्वेण च तुल्यं निखिल जगदित्यर्थः ।। २९५।।

अ०॥ द्वितीयपक्षस्वरूपमेव श्ोकान्तरेणाह शक्तिरिति-

मू। शक्तिस्त्वात्माश्रथेऽस्मिञ्जनयति हि गुणानेव मो द्रव्यरूपा- न्नो चेत्स्याच्छक्तिजानां निलयनमपि तदारशक्तौ सुषुप्तौ। इष्टन्वेच्छक्तिजानां क्विदपि न भवेच्छक्तिमाले लय-

कया॥ शकिस्स्वात्माश्रयेऽस्मिन्निति। ते ध्यानयोगानुगता अपश्य- ेव त्मशक्ति स्वगुणर्निगढा' सित्याद श्रुत्युक्ता आत्म्श्तिस्तावत् स्वस्वरूपाश्रये प्रत्यगात्मनि गुणभूतानेव विकाराञ्जनयति। न द्रव्यात्मकानू विकारान् सृजतीत्य- रथः ॥ अन्यथा बाधमाह। नो चेदित्यादिना शक्तिजानां शक्तिजन्यानं द्रव्येतरेषां गुणानां निलयने प्रविलय: तद्गारशक्तौ तेषां गुणानां द्वारकारण- भूतार्या शक्ता सुषुप्तावपि स्यादित्यन्वयः इष्टापत्ति वारयति इष्टञ्चेच्छक्तिजानां इचिदपि न भवेच्छत्िमाते लथ इति तहि शक्तिजानां सुषुप्तौ का गति

Page 150

द्वितीयनिरूपणे नवमप्रदर्शकम् १३७

रित्यत आह। स्यादुच्छेदस्तद्गणानामिति तर्हि आत्मावग्रतिमन्तरा द्वैतभ्रमा- णामुच्छेदे ज्ञानवैयर्थ्यमापतेदित्यत आह। निजचिद्वग्रतिशशक्तिहन्त्रीत्यदोष इति।२९६ ॥ अ०॥ अधुना तृतीयपक्षं सङ्कह्वाति मायेति-

भू॥ माया सा परिणामिनी यदि तदा द्रव्यं भवेत् खादिकं ज्ञानं ज्ञेयमिति दवयं तत इदं सवपे सुपुप्तौ क्रमात्। चित्ते चावृतिधर्मके च तमस प्राप्याप्ययं जायते भूमावोषधयो यथा च जलधौ भङ्गः पुनर्जायते ॥ २९७॥

। इत्यद्वैतसिद्धान्तगुरुचन्द्रिकार्यां द्वितीयनिरूपणं समास्म्॥

व्या। मायाया: प्रकृतित्वपक्षे तत्परिणामभूत ज्ञान ज्ञेयमिति उभयात्मक- मध्याकाशादिकं द्रव्यं भवेदिति तृतीयपक्षे कार्य जातस्य द्रव्यत्वं विधाय तस्य स्वप्ना- द्यवस्थायामन्तःकरणादी स्वस्वप्रकृतिभावार्पा ्त्तस्पं लयं दर्शयति तत इत्यादिना तत इति द्रव्यत्वादेवेत्यर्थः ॥ २९७।।

द्वितीयं स्वात्माजगतोरेकसत्तावादादि- निरूपणं संपूर्णम् ॥।

ब्रह्मैवाहमस्मि।

ओ तत्सत्

Page 151

॥ हरिः ओम्॥ अद्वैतसिद्धान्तगुरुचन्द्रिकायां तृतीयनिरूपणमारम्भ: ।

अ०॥ श्रीमच्छङ्करभगवत्पादनमस्कारपूर्वकं तृतीयनिरूपणमारभते सवहै- न्मिति- मू । सर्वज्ञं देशिकेन्द्रं श्रीशङ्करं तत्वबोघकम्। नत्वा निरूपणं वक्ष्ये तृतीयं तत्प्रसादतः ॥ १ ॥ न्या॥ स्पष्टोऽर्थः ॥१॥ अ०।। प्रथमनिरूपणे शिष्योकतं तृतीयाभिप्रायमङ्गीकृत्य तन्र सप्रयोजन- प्रमाणं प्रतिजानीने प्राज्ञ इति- मू॥ प्राज्ञस्तु मायातत्कार्य्यैर्भान्यसंवेष्टितश् नः । इति चेत्तत्तथैवाल प्रमाणन्तु निरूप्यते ॥ २ ॥ सोपाधिकदशायां च स्वव्यापित्वग्रहाय हि॥ २॥॥ क्या॥ अततिरोहितार्थः ॥ २॥ ॥ अ०।। प्रश्नोपनिषदि षष्टप्रश्ने 'स ईक्षांचक्रे' इत्यस्य वाक्यस्य भाष्यावसरे 'इहै वान्तशरारीरे सोम्य स पुरुष' इति तत्पूर्वश्रुत्यर्थनिर्णयायेत्थं प्रदर्शितम्। ननु ध्रुतेरिहैवान्तशशरीरे परिच्छिन्न: कुण्डबदरवत् पुरुष इति पुरुषस्य परिच्छिन्नत्व- परं पूर्वपक्षभाध्यम्। न प्राणादिकलाकारणत्वात् न हि शरीरमात्रपरिछिन्नस्य पुरुषस्य प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपतुं शक्कुयात् कलाकार्यत्वानच श- रीरस्य न हि पुरुषकार्याणां कलानां कारये सत् शरीरं स्वस्य कारणकारणं पुरुषं कुण्डं बदरभिवाभ्यन्तरीकुर्यादित्यारभ्य एतेनाकाशस्यापि शरीराधार त्वमनुपपन्नामे- ति सिद्धान्तभाष्यञ्च आत्मन उपाध्यसंवेष्टितत्वप्रदर्शनार्थ संगृह्नाति स ईक्षां- चक्र इत्यादिना --

Page 152

तृतीयं सोपाधिकस्यापि १३९ जीवस्य विभुत्वनिरूपणम्।

मू॥ स ईक्षांचक्र इत्यस्य षष्ठप्रश्ने तु भाष्यकृत् ॥ ३ ॥ नन्विहान्तश्शरीरे स पुरुषोऽस्तीति च श्रुतेः । कुण्डेन बदरस्येव गात्रेण परिवेष्टनात् ॥ ४ ॥ अत्यल्पस्य कथं सर्वकारणत्वं भवेदिति। आशङ्कां संप्रदर्श्यास्य प्रकृतित्वप्रसिद्धये ॥ ५ ॥ कुण्डवद्वदरं गात्रं स्वस्य कारणकारणम्। ब्रह्म नाभ्यन्तरीकुर्यान्निरंशत्वाद्विभुत्वतः ॥ ६॥ इत्यात्मनस्तथा स्वस्य वेष्टितत्वं निवार्य च। उपलब्धिनिमित्तत्वादिति तत्त्यभाप्यतः ॥७॥ इहैवान्तश्शरीरे स इति वेदोऽनुभाषते। भ्रान्तिसिद्धं वेष्टितत्वमित्याहातो न वेष्टकम् ॥ ८॥ ्या। स ईक्षामित्यारभ्याशङ्कां संप्रदश्यत्यन्तं पूर्वपक्षभाष्यपरम्। अस्ये त्यारभ्य निवार्यचेत्यन्तं सिद्धान्तभाष्यपरभ्। अस्यायमर्थः पिप्पलादाख्यमाचार्य मुपसङ्गच्छता भारद्वाजेन यष्पोडशकलः पुरुषः पृष्टः यश्च 'यस्मिन्नेतापपोडशकलाः प्रभवन्ति स प्राणमसजत प्राणाच्छूद्ां सं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्न- मन्नाद्वीरये तपो मन्त्रा: कर्भ लोका लोकेपु च नाम चे' त्युत्तरत्र वक्ष्यमाणः तस्थ 'इहैवान्तरसरीरे सोम्य स पुरुष' इति श्रृत्या शरीरपरिवेष्टितत्वश्रवणात् कुण्डवद- रवत् शरीरापेक्षयाप्यल्पपरिमाणस्य पुरुषस्य कथ प्रागुदीरितश्रुत्युक्तंसर्वकलराकल्प- नाधिष्ठानत्वरूपप्रकृतित्वं घटत इति चेत् विषमोऽयं द्ृष्टान्तः कण्डं तावत् स्वांप- क्षया अल्पपररिमाणं बदरफलं स्वाभ्यन्तरीकर्तुमर्हृति शरीरन्तु स्वयमल्पपरिमाण सत् सर्वोपादानं देशतश्चापरिच्छिन्नं पुरुष कथ स्वाभ्यन्तरीकर्यात्। नन्वाकाशक- देशस्येव ब्रह्मैकदेशस्य पुनुषस्य शरीरेण वेष्टितत्वं कि न स्यात् अत आह निर- शत्वादिति आकाशपुरुषयोरिति शेषः। तर्हि समग्रयोरेवाकाशपुरुषयोश्शरीरवेि- तत्वं स्यादत आह विभुत्वादिति न विभु: परिच्छिन्नवस्तुना कबळीकिय ते इत्या- तमाकाशयोः शरीरवेष्टितत्वनिरासानन्तरमपि तत्रत्यात् उपलब्धिः शरीरसंवेष्टितः

Page 153

१४० अद्वैतप्तिद्धान्तगुरुचन्द्रिकायाम् ।

पुरुष इत्यविद्वद्टष्टिः निमित्तं प्रवृतिमूलं यस्य 'इहैवान्तशशरीरे सोम्य स पुरुष' इति वेदस्य स उपलब्धिनिमित्तः तस्य भावः उपलब्धिनिमित्तत्वं तस्मादित्यर्थकात् उपलव्धिनिमित्तत्वादिति भाष्यतः 'इहैवान्तशशरीरे सोम्य स पुरुष' इति श्रुतेः भ्रमानुवादकतवं चाह यतो भाष्यकारः अतोऽपि नात्मपरिवेष्टकं गात्रादिकमिति शेष: ॥। 6 | अ०।। इदानीं दहराधिकरणे 'अथ यदिदमस्मिन ब्रह्मपुरे दहरं पुण्डरकिं वेश्म दहरोऽस्मिन्नन्तराकाश' इत्यत्र कि दहराकाशशब्दवाच्यं भूताकाशमुत जीवः अथवा ब्रह्मेति त्रिधा संशये आकाशश्रुत्या भूताकाशं भवितुमर्हति ! अथवा अल्प- त्श्रुत्या जीवो भविष्यतीति द्विधा पूर्वपक्षे प्राप्ते-द्वितीयपक्षनिराकरणपरं नह्ुपा- विपरिच्छिन्नस्वाराओ्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितु' मिति भाष्यं आत्मन उपाध्यसंवेष्टितले प्रमाणयति यदीति- मू। यद्यात्मनः पुण्डरीकवेष्टनेन कृताडल्यता। न हि वारयतुं शक्येत्येवं दहरसूत्रके ।९ ॥ भाष्यकारैर्वेष्टितत्वं चितोऽन्येन निवारितम् ॥ ९।।॥ व्या॥ आत्मनः पुण्डरीकपरिमाणसंसर्गाद्धयासातिरेकेण तद्वेष्टनायत्ता चे- दल्पता तदा सा 'यावान्वायमाकाशः' तावानेषोऽन्तर्हृदय आकाशः अयमात्मा ब्रह्मे'त्यादि श्रुत्युक्तविभुत्ववेदनाय न निवर्तयितुं शक्येत्यर्थः ।। ९॥। ॥ अ०॥ शङ्गते पूर्वपक्षी संसारित्वादिति -- मू । संसारित्वाच्छरीरस्थचितोऽस्तु प्रतिबिम्बता ॥ १० ॥ उतावच्छिन्नता नो चेत्स्वर्गतिर्न तदाप्तये। लिङ्गेन वेष्टनं वाच्यं भोक्तुश्चेन्न तथा भवेत् ॥ ११ ॥ व्या॥ उपाद्धयसंवेष्टितत्वेनात्मनो व्यापकत्वाङ्गीकारे न लोकान्तरगति- स्त्ादित्यर्थः ।११॥ अ०॥ इदानीं न तथा भवेदितति प्रतिज्ञातमर्थे सदृष्टान्तमाह उपाधेरिति- मू॥ उपाधेश्चलने भ्रान्त्या व्योन्नि गत्यादिकं यथा। गमनादि च भोगश्च पूर्णे स्वात्मनि भाति हि ॥ १२ ॥ व्या।। नभस्यचञ्चले घटगतं मत्यादिकमिव पूर्णे भोक्तरि आ्रान्त्यैव मनो- गतं गत्यादिकं भातीति भाव: ॥१२॥

Page 154

तृतीयं सोपाधिकस्यापि १४.१ जीवस्य विभुत्वनिरूपणम् ।

अ०। दृष्ान्तान्तरमाह स्वन् इतति- मू ॥ स्वन्नेस्य गत्यभावेऽपि भ्रान्त्या गत्यादिकं यथा ॥ १२ ॥

द क्तरीत्या नाड्यन्तर्गतस्य लिङ्गशरीरस्य स्वप्नकाले कुत्नापि गमनाभाविऽ्पि केवल- म्रान्त्या स्वम्दृशीवावस्थान्तरेऽपि पूर्णे स्वात्मनि गमनादिभ्रमो भवतीत्यर्थः। अ०। ननु व्यापकत्वेन जीवस्य गमनागमनासंभवात् उपाधिगतगम- नावद्यासपूर्वकमथवा उपाधेर्गमनाभावेऽपि केवलभ्रान्त्यैव गन्तृत्वभोक्तृत्वादि- विभ्रमे किमत्थ शास्त्ररस्य गत्यादिरच्यत इति शङ्कते तदन्तराद्ीति- मू ॥ तदन्तरादिस्त्रैप्तैः किमर्थ गतिरुच्यते ॥ १३॥ व्या। शारीरकमीमांसायां तृतीयाद्वयायस्य प्रथमपादे 'तदन्तरप्रतिपत्तौ रंहृि संपरिष्वक्तः पश्ननिरूपणाभ्या' मित्यादिसत्रैः शरीरान्तरप्राप्तौ तदा- रम्भकैः द्रव्यापूर्वेश्वतुर्थनिरूपणे वक्ष्यमाणैः सम्परिध्वक्तर्सन् जीवो लोकान्तर

गतिरुच्यत इत्यर्थः ॥ १३॥ अ०॥। तच्छास्त्राणां न गत्यादिसद्भावे प्रामा्यमित्याह स्वाध्यस्तति- मृ॥ स्वाध्यस्तप्राणघर्मारय वैराग्यार्थमनुद्यते ॥१३॥॥ व्या।। स्वाध्यस्तप्राणधर्मायेति खवात्मन्यध्यस्ताः प्राणधर्माः मुख्य- प्राणादीन्द्रियाणां क्षुत्पिपासागमनादिधर्मा येन तस्मै स्वाध्यस्तप्राणधर्माय मेंड्जन्य-

भोगानन्तरमावेद्य तस्माज्जुगुप्सेतेति पञ्चान्निविद्यावसाने वैराग्यविधानात् तदर्थ- मेवाज्ञदृष्टिगोचरो गतिर ूद्यते अतो न तत्र श्रत्यादेः तात्पर्यमित्यर्थः ॥ १३॥॥ अ०॥ किञ्चान्तःकरणावच्छिन्नो जीव इति पक्षावल्विनाऽपि म्वपक्ष- प्राप्तदोषपरिहारार्थ जीवस स्वाधेयान्तःकरणावच्छिन्नत्वदशायामपि गमनादि- राहित्य व्यापित्वयो: श्रतिदृष्टान्ताभ्यामद्गीकृतत्वात् तदन्यथानुपपत्त्यापि न मनःपरि- वेष्टितत्वमित्याह यदीत्यादिना -- मू॥ यद्यघस्स्थस्य कर्तृत्वमूर्ध्वस्थस्य हि भोक्तृता ॥१४ ॥ कृतहानादिदोषस्स्यादिति तस्यापनुत्तये।

Page 155

१४२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

जीवस्य लिङ्गगात्रेणावच्छिन्नत्वावलम्बिनाम् ॥१५ ।। घटसंवृतमाकाशं नीयमाने घटे यथा। घटो नीयेत नाकाशस्तद्वज्जीवो नभोपमः ॥१६ ॥ एवं श्रुतेर्भोंगकाले व्यापिताभिमता ततः । मनो न वेष्टकं किं तद्यस्मि नेता इति श्रुतेः ॥ १७॥ आधेयं तदुषाधिस्स तद्वच्छिन्न ईर्यते ॥ १७॥॥ व्या॥ प्राणादय इव मनोऽप्यात्मन्याधेयमेव 'रास्मिन्नेताष्बोडशकलाः पभवन्ती'ति श्रुतेः। तदधियोपाधिक आत्मा अहं समेत्यभिमन्यमानप्राणादि- कलाभिरवच्छिन्न इति सम्यग्विचारवद्विरीर्यत इत्यर्थः । शेषस्सुगमः ॥ १७॥॥ अ० ॥ तत्र दष्टान्तमाह यथेति- मू॥ यथाधेयघटोपेतभूतलं तद्वदेव सः ।। १८।। क्या॥ यथा घटस्यावारमपि भूतलं घटावच्छिन्नित्युच्यते। तद्वत् मनस आधारभूतोऽप्यात्मा मनोऽवच्छिन्न इत्युच्यत इति भाव: ॥१८॥ अ०।। षोडशकलात्मकैः कायैरिव तत्कारणेनाज्ञानेनापि न प्राज्ञः परि- वेष्टित इति दशयितुमज्ञानोपाधिको जीव इति मतमवतारयति मनोऽ्वच्छिन्न- तामिति- नू। मनोऽवच्छिन्नतां तत्र प्रतिबिम्बत्वमात्मनः । वदद्विः कृतहानादिदोषाणामपनुत्तये। अज्ञाने प्रतिबिम्बत्वं तदवच्छिन्नतेरिता ॥ १९॥॥ कया। जीवस्यान्तःकरणावच्छिन्नत्वम् तथा अन्तःकरणे तदनवच्छिन्न- ब्रह्मप्रतिबिम्बत्वं च ब्रुवाद्िः स्वस्वपक्षे प्राप्तकृतहानादि दोषपरिहारार्थ व्यापकाज्ञा- नावच्छिन्नत्वम् तदज्ञाने तदवच्छिन्नब्रह्मप्रतिबिम्बत्वं चोक्तम् । तथा हि अन्तः- करणपरिवेषटतचैतन्यस्य जीवत्वं कतृत्वभोक्तृत्वसमययोः तत्त तत्रान्तःकर- णवच्छेद्यचतन्यप्रदेशस्य भिन्नत्वात् कृतहानादिदोषप्रसङ्गः । तथैव प्रतिविम्ब- पक्षेऽपि अन्तःकरणे तदनन्तर्गतः तत्सन्निहितश्व यश्चैतन्यप्रदेशः तत्प्रतिबिम्बस्य वक्तव्यतया तत्र तत्रान्त:करणस्य गमने बिम्बभेदात् तत्प्रतिबिम्चभेदस्याप्य- वश्य मारवन कृनहानादिदोषप्रसङ्गः । एतन्मतद्वयेऽदि उक्कदोषस्य सामब्जस्येन

Page 156

तृतीयं सोपाधिकस्यापि १४३ जीवस्य विभुत्वनिरूपणम् ।

परिहारासंभवात् अविद्याप्रतिबिम्बो जीव इति पक्षे नायं दोष: व्यापकत्वादविद्या- घाः अन्तःकरणवत् गत्यभावेन प्रतिबिम्बभेदानापत्तेः । तथैवाविद्यावच्छिन्नों जीच इति पक्षेऽपि नायं दोष: मत्यभावेनाविद्यायाः तदवच्छेदचैतन्यप्रदेशभेदानापते रिल्यर्थः ॥ १९ ॥ अ०॥ प्राज्ञस्याज्ञाने प्रतिबिम्बत्वार्ददिपक्षेSपि विकल्पपूर्वक दोषमाह तत्रेत्यादिना -- भू ॥। तत्रापि बहवो दोषा: कथं चेत् किं निरङ्कुशम् ॥ २॥ विभ्वज्ञानं साङ्कुशं वाऽडद्ये बिम्बप्रतिबिम्बयोः।

स्यादसत्वं तदा शुद्धदेशस्थचिदभावतः । द्वितीये त्वनव्छिन्नविम्त्रचैतन्ययस्स्थितौ ॥२२॥ न स्यात्तयो: प्रेरकत्वं प्रेर्यगात् प्रेरणश्रुतेः । स्वरूपत्तो विनाशित्वात् प्रतिबिम्वस्य मुक्कुतः ॥२२॥ न्या। अज्ञान तावत् कि निरङुशं विभु उत साङश विभु आद्ये जीवख निरवशमहापरिमाणवदज्ञानप्रतिबिम्बत्वािपक्षे दोषमाह बिम्बप्रतिबिम्बयो- रित्यादिना तत हेतुं दर्शयति तदा शुद्धदेशस्थचिदभावत इति बिम्ब- प्रतिबिम्बादिव्यवहारकाले ह्यज्ञानादूषितप्रदेशगतत्रह्माभावात िम्बप्रतिबिम्वा- देरसत्वमापतेदित्यर्थः । द्वितीयपक्षं दूषयति द्वितीयेत्यादिना तत्र हेतुमाह पर्यगात् प्रेरणश्रतेरिति 'यः पृथिव्यां तिष्ठ न्नित्यारम्य 'यः पृथिवीमन्तरोऽ- यमयती'त्यादिश्त्या 'ईश्वरस्सर्वभूतानां हृद्देशेर्ऽर्जन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायये'त्यादिस्मृत्या च प्रेर्यस्थचैतन्यादेव प्रेरणश्रवणात् आपेक्षिक- महापरिमाणवदज्ञानात् बहिदेशगतयोः तदज्ञानानवच्छिन्नबिम्बचैतन्ययोः न प्रेर- कत्वमित्यर्थः । द्विर्तायपक्षे दोषान्तरमाह प्रतिबिम्बस्य मुक्कत इति तत्र हेतु- माह स्वरूपतो विनाशित्वादिति किञ्वास्मिन् पक्षे ब्रह्मणस्सांशत्वादयोऽपि बहवो दोषा इति मूलादवगम्यन्ते ॥ २३ ॥ अ०॥ एमविद्यायं प्रतिबिम्वादिरूपो जीव इत्यस्यापि पक्षस्थानेकदो- षप्रस्तन्वेन तहोषासंस्पृष्ट 'पुरत्ये क्रीडति यस्तु जीवस्ततस्तु जात सकळ विचित्र'-

Page 157

१४४

मित्यादिश्रुत्युपदिष्टं यत् वार्तिकाचार्यपरिगृहीत मंत तदिदानी स्व्मते प्रमागयति एतदिति- मू ।। एतद्दोषासंभवार्थ पुरत्रय इति श्रुतेः । जविः प्रकृतिभूतोडयं नाभासादिर्यतो विङ्ुः ॥ अतो विम्बाद्यमत्वन्तु सम्मतत्वान्न दूषणम्। भवेत्तथा च प्राज्ञस्य नाज्ञानं परिवेष्टकम् ॥ २५॥ व्या।। अगत्प्रकृतिभूतोऽयं जीवः नाज्ञानप्रतिबिम्बः नाज्ञानावच्छिन्नश्रेति यतो वार्तिककारादयो जानन्ति अतो जीवस्याज्ञानप्रतिबिम्बत्वादिपक्षोक्तं बिम्बाद्य- सत्वं नास्मिन् पक्षे दूषगं भवेत् इत्वात्। एवं च प्राज्ञस्याज्ञानप्रतििम्बत्वाद्यभावे न नाज्ञानं परिवेष्टकं भवेदित्यर्थः ॥ २५ ॥ अ० ॥ इदानीमन्तःकरणावच्छिन्नस्य न तत्परिवेष्टितत्वमित्यत्र उप- पत दर्शयति किञ्चैवमिति -- मू॥ किञचैवं कृतहानादिदोषमभ्युपगच्छताम्। उपाधेर्गमने तद्वच्चितो नैव गतिर्मता ॥ २६॥ ततश्चाच्छिन्न आत्माऽतो नोपाधिपरिवेष्टितः ॥ २६॥। ॥। व्या॥ तद्न्वित शते अन्तःकरणोपाधिमजीवस्येति यावत्। फस्- तमाह तत इत्यादिना यस्मादन्तःकरणवच्छिन्नस्य गतिर्नाभ्युपेता तस्माद- खण्डितो जीव इति गम्यते। चकारेण अच्छेद्योऽयमित्यादि शास्त्रं संगृह्यते यतश्चाच्छिन्नः ततों न घटेन गङ्गोदकवत् देशान्तरापसरणार्थमुपाधिपरिवेष्टित इत्यर्थ: ॥ २६॥। ॥ अ० ॥ प्रागुक्तार्ये उपपत्त्यन्तरं दर्शयति वस्तुतस्त्विति -- मू । वस्तुतस्तु चिदेकत्वात् प्राज्ञवन्नास्य दूषणम् ॥२७॥ कृतहानादिकं चेति पक्षे नैवास्य बेष्टनम्। नो चेत्प्राज्ञोपमादानं व्यर्थञ्चातो न वेष्टितः ॥ २८।। व्या। निरतिशयमहाज्ञानप्रीतीबम्बस्य प्राजस्येव अन्तःकरणावच्छि- नस्य जीवस्येह परत्र च गत्वरान्तःकरणग्रणकृतावच्छेचैतन्प्रदेशभेद्-

Page 158

तृतीयं सोपाधिकस्वापि १४१ जीवस्य विभुत्वनिरूपणम्

क्रमेऽपि चैतन्यस्य वस्तुत एकत्वान्न कृतहानादिदोष इति वदता मते स जीवो नान्त:करणवेषित इति सिद्धान्तलेशसंभ्रहे प्रथमपरिच्छेद्ोक्त्तरीत्या चावगम्यते इन्युक्ताऽन्यथा बाबमाह नो चेदिति अत इति प्रज्ञोपमादानान्यथानुपपतेश्र अन्तःकरणावच्छिन्नः न तत्परिवेष्टित इत्यर्थः ॥२८॥ अ० ॥ प्रमाणान्तरं दर्शयति नाकाशस्येति- भू। नाकाशस्य घटाकाशो विकारावयवौ यथा। नैवात्मनस्सदा जीवो विकारावयबौ तथा ॥ २९॥ इति श्रीगौडपादोक्तेर्न जीवोऽन्येन वेष्टितः ॥। २९।।।। ठया॥ इति श्रीगौडपादोक्केरिति गौडपादकारिकाया: अस्या: निष्कळ निष्क्रियमित्यादि श्रुत्यनुमानानुभवानुसारित्वेन जीवस्य ब्रह्मावयवत्वाभावात् नोपा- विवेषटितत्वं सिध्यतीत्यर्थः ॥ २९॥।॥ अ०। घिम्बानर्वच्छिन्नचैतन्ययोः अनियन्तृत्वापत्या जीवस्थाविद्याया श्रह्मप्रतिविम्वत्वादिपक्षमुपेक्ष्य जीवः प्रकृतिमूतोडयं नाभासादिरिति मतान्तरं प्रतृत्तमित्यत्र कि प्रमाणमित्यत आह इति मत्वेत्यादिना- मू॥ इति मत्वैव सिद्धान्तलेशसंग्रहनामके ॥ ३० ॥ सिद्धान्तकल्पवल्ल्याञ्व परिच्छेदे किलादिमे। जीवरूपपरेणोक्त्वा तत्र भाष्याघयुदाहृतम् । ३१॥ ब्रह्म स्वाविद्यया बद्धं स्वज्ञानेन विमुच्यते। राजसूनोस्स्मृतिप्रात्तौ व्याघभावो निवर्तते ॥ ३२ ॥ यथैवमात्मनोऽज्ञस्य तत्वमस्यादिवाक्यतः । वार्तिककृन्मतमित्थं न प्रतिविम्त्रो न चाप्यवच्छिन्न:।।३३॥ ब्रह्मैवाविद्यातस्संसरतीवाथ मुच्यत इवेति ॥ ३३॥॥ व्या। जीवरूपपरेणेत जीवस्वरूपप्रतिपादकेनेत्यर्थः तघ्रेति जीवखा विद्याप्रतिबिम्बत्वादिराहित्ये सति ब्रह्मरुपत्वे भाष्यादि उदाहृतं प्रमाणत्वनेति शेषः। सिद्धान्तलेशसङ्गहे उदाहृतं त्रह्मेत स्वाविद्यया संसरति स्ववद्यया मुच्यत इति बृह- 13

Page 159

१४६ अद्वैतसिद्धान्तगुरुचन्द्रिकाया

दारण्यभाष्यं संगृह्ाति ब्रह्मति वार्तिकसंमति दर्शयति राजसूनेरिति यथव- मात्मनोऽज्ञस्व अज्ञानोपाधिकस्त अवस्थात्रयवतः संसारिब्रह्मणः तत्त्वमस्यादि- वाक्यतः त्वमाध्यासिकजगत्कारणत्वकर्तृत्वभोक्तृत्वादिधर्मवान् तत् एकमेवा- द्वितीयमित्यािश्रुत्युक्तं नित्यशुद्धं प्रत्यक्चतन्यमसीति वाक्यजन्यज्ञानादाध्यासिकं जगत्कारणत्वादिकं निवर्तते। तथा चोक्तं विद्यारण्याचार्येः ॥ श्रो० ॥ इति शैव- पुराणेषु कूटस्थः प्रविवेचितः । जीवेशत्वादिरहितः केवलस्स्वप्रभश्शिव इति। सि- द्वान्तकल्पवल्लीवचनमुदाहरति वार्तिकक्कदिति ॥३३॥॥ अ०॥ इतोऽपि नान्तःकरणमात्मसंवेष्टकं भवतीत्याह किञ्च्चान्यदिति- मू ॥ किञ्चान्यच्छृणु सिद्धान्तलेशसङ्गहनामके ॥३४ ॥ द्वितीये तु परिच्छेदे बिम्बान्ेदनिवृत्तये। प्रतिबिम्बस्य तोयादिदेशस्थितिनिरासकात् ॥ ३१॥ वचनाद्वेष्टकं नान्तःकरणञ्चेति सिध्यति ॥ ३१॥॥

अ०॥ तर्हि प्रतिबिम्ब इति शब्दप्रत्यययोः को विषय इत्याशङ्क्य यथाह्य विदूद्भिर्घटशब्दप्रत्ययथो: मृदतिरिक्तवस्तुगोचरत्वेन गृहीतत्वेऽपि तत्वज्ञाः मृदमेव घटशब्दप्रत्ययगम्यां मन्यन्ते तद्वदविद्वान्भ्ः प्रतिबिम्ब इति शब्दप्रत्यययोः तायादन्त र्गतवहत्वन्तरगोचरत्वेन गृहातत्वेऽपि विचारकुशलाः तत्त्वविदस्तु दर्पणादानस ग्रीवास्थखमुख प्रत्यक्षीकरणार्थत्वात् दर्पणादीनामभिमुखीभूतमेव वस्तु प्रतिबिम्ब इति शब्दप्रत्यगम्यमिति मन्यन्त इत्याह आदर्श इति- मू॥ आदर्शे सति मे वक्रं तद्वमै भजतीत्यमुम् ॥ ३६॥ प्रतिबिम्वति शब्दोडयं ब्रवीतीति विदुर्बुधाः ॥ २६॥॥ क्या॥ तद्र्ममिति तस्यादर्रास्य धर्मे द्रष्ट्रभिमुखत्वाददिकं मे वत्तूं भजीत तद्धर्मसमानधर्माध्यासवद्गवतीति अमुमर्थमयं प्रतिबिम्बतीति शब्दो व्रवी- तीति विदुरित्यर्थः ॥ ३६॥॥ अश॥ उक्तमेवार्थ सोपपत्तिकं विव्रणोति चक्षुरिति- मू ॥ चक्षुवृत्तिर्येथा गत्वा जलाहत्या समेत्य च ॥ ३७ ॥ स्वस्याभिमुख्यमब्घर्ममध्यस्यति यदा मुखे।

Page 160

तृतीयं सोपाधिकस्यापि १४७ जीवस्य विभुत्वनिरूपणम् ।

प्रतिबिम्बति मे वक्तमिति शब्द: प्रवर्तते ॥३८॥ क्या।। यथा च चक्षवृत्तिर्वेगेन गत्वा जलसङ्व्टनेन पर्वतादिषु प्रक्षिप्तपा- षाणवत् स्वमुखदेशमागत्य स्वास्यं प्रति आभिमुख्यरूपमब्धर्म स्वमुखे यदा अध्य- स्यति मन्मुखं ममाभिमुख वर्तत इत्यन्यथा गृह्नाति तदा मे वक्तूं ममाभिमुख यथा तथा प्रतिबिम्बतीति वचन जायन इत्यर्थः ॥ ३८ ॥ अ०। दारष्टान्तिकमाह मनोवृत्तिरिति -- मू ।। मनोवृत्तिस्तथा गत्वा नित्ताहत्त्या समेत्य च। कर्तृत्वादीश्चित्तधर्मान् स्वात्मनि ग्राहिणी यदा ॥ ३९ ॥ प्रतिबिम्बति चैतन्यमिति शब्दः प्रवर्तते ॥ ३९॥॥ ्या। मनोवृत्तिरिति अहं कर्तेत्यन्नःकरणवृत्तिः यदा अन्तःकरणत- द्ध्मतत्संसर्गाध्यासविशिष्टात्मग्रहणसमये अनात्मभूतान्तःकरणाघट्टनेन प्रत्यावृत्य आत्मनि चित्तधर्मान् गृह्णाति तदा प्रत्यगात्मा प्रतिबिम्बतीति शब्दः प्रवर्तत इत्यर्थः ॥ ३९॥॥ अ० ॥ कैरेवं राद्वान्तितमित्यत आह एवमिति- मू॥ एवं विवरणाचार्यैरुक्तं चाप्पयदीक्षितैः ॥ आभास एव चेत्येतत्सूतभाष्यकृदादिभिः ॥४०॥॥। व्या॥ स्पष्टोऽर्थः॥४०॥॥ अ०॥ ननु कूटस्थचैतन्यात् पृथक् प्रतिबिम्बस्याभावात् न तत्परिवेष्टक- लमन्तःकरणस्य सम्भवति तथापि प्राग्भवदुक्तप्रकारेण प्राज्ञाघद्टितवृत्या प्रत्यगा- त्मनो वेष्टनं स्यादिति दृष्टान्तावष्टम्भेन शङ्कते वृत्तिश्चेति- मू ।। वृत्तिश्चाहतिगत्यादिमत्वाह्गव्यं तयात्मनः ॥ वेष्टनं स्यादयथा स्थाणोस्तत्राहतकशादिना ॥ ४१॥॥ व्या। तयेति 'सुखमहमस्वाप्स' मिति परामर्शहेतुभूतया मायावृत्त्या प्राज्ञस्यात्मनो वेष्टनं स्यादित्युक्ला तत्र दृष्टान्तमाह यथेत्यादिना ॥४१॥॥ अ०॥ दृष्टान्तमर्ङ्गाकृत्य परमव निराकरोति स्थाणोरिति-

Page 161

१४८ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

मू।। स्थाणो: परिमितत्वेन कशया वेष्टनं भदेत् ।।४२॥। ज्ञानाभावात्मकाज्ञानजन्यत्वा हुव्यता नाह। यदि भावात्मकाज्ञानप्रकृतित्वेन मूर्तता ॥ ४३ ।। वृत्त्यादरसर्वथा पूर्णवेष्टकत्वं न युज्यते ॥ ४३॥॥ क्या। ज्ञानप्रागभावरूपाज्ञाननिमित्तकत्वेन निर्गुणचिद्विवर्तायाः वृत्तेर्द्रव्य- त्वमेव नास्ति कुतस्तस्य वेष्टकत्वमित्येकं पक्षं निराकृत्य पक्षान्तरं निराकरोति यदीत्यादिना परिच्छिन्नाया वृत्तेः पूर्णब्रह्मवेष्टकत्वं न घटत इत्यर्थः ॥४३॥॥ अ०।। उक्तमर्थ दृष्टान्तेन समर्थयति न स्वात्मेति- मू। न स्वात्मवेष्टकत्वं स्याद्ृत्तेराध्यासिकत्वतः । द्वितीयेन्दोर्यथा चाद्य चन्द्रवेष्टकता न हि॥ ४४॥॥ व्या॥ स्पट्टोऽर्थः ॥ ४४॥॥ अ० ।। पूर्वपक्षमनूद्य निराकरोति वक्षुरिति -- मू ॥ चक्षुर्वृत्त्या वेष्टितत्वमिन्दुनेमेर्यथात्मनः ॥ ४५ ॥ वेष्टितत्वमहंवृत्त्या तथा स्वादिति चेच्छरृणु। सीमयास्य विहीनत्वादात्मनो नेमिवन्न हि॥ ४६ ॥ व्या।। चन्द्रनेमेस्तावत देशतः परिच्छिन्नत्वात् तदपेक्षया व्यापकवृत्ति वेष्टितत्वं स्ादेव देशतश्रापरिच्छिन्नखात्मनो न तथा वेष्टितत्वं सादित्यर्थः॥ ४६॥ अ० ॥ पुनश्शङ्कते पूर्णत्वेति- मू। पूर्णत्वावृतिनाशाय पूर्ण स्याद्ृत्तिवेष्टितम् ॥ ४६।। ॥ व्या॥ पूर्णमिति ब्रह्मेत्यर्थः ॥ ४६॥ ॥ अ०।। परिहरति आध्यासिकेति- मू।। आध्यासिकार्यसम्बन्धादसक्के व्याप्तया तया ॥ वृत्त्या न वेष्टितं ब्रह्म नभोवन्नीतयोखया॥४७॥॥ व्या। उखयेति पाकस्थाल्या इतस्ततो नीनया आध्यासिवसम्बन्धो- पंतया यथा नभी न वेष्टितं तथा ब्रह्मापीत्र्थः ॥४७॥॥

Page 162

तृतीयं सोपाधिकस्यापि १४९ जीवस्य विभुत्वनिरूपणम् । अ०॥ असङ्गात्मन्युपमानभूतस्याकाशस्य अन्येनाध्यासिकसम्बन्धसिद्यर्थ संयोगसम्बन्वं निराकरोति निरंशेति- मू॥ निरंशनभसस्सर्वैस्संयोगः परमाणुवत् ॥ ४८॥ न्यायविद्विरभिप्रेत इति चेत्तन्न युज्यते। परमाण्वोर्निरंशत्वे कार्ये मानान्तरं कथम् ॥ ४९ ॥ तत्सिद्धच्र्थन्तु सांशत्वे न दृष्टान्तो भवेदणुः । ततस्स्वस्य निरंशस्य संयोगो नैव सिद्धचति ।५०॥ व्या। कार्य इति द्यणुकादौ कारणगतपरिमाणात् परिमाणान्तरं कथ सिद्धयतीति प्रदूष्य तत्परिहाराय परमाण्वोस्सांशत्वाङ्गीकारेऽपि दोषमाह तत्सि- द्धयर्थित्यादिना फलितमाह तत इति ततः निरंशस्य संयोगसम्बन्धानमा- नाय नैयायिकानां दृष्टान्ताभावात् आकाशस्य सर्वेराध्यासिकसम्बन्धातिरेकेण न संयोगस्सिद्धयतीत्यर्थः ॥५० ॥ अ० ॥ इदानीमाकाशस्य सयोगसंम्बन्धनिराकरणफलमाह अवकाशति मू ॥ अवकाशप्रदत्वेन सर्वाधारं वियत् कथम्। स्वाधेयाघेयतां गच्छेन्नातोऽन्येनास्य वेष्टनम् ॥५१॥ क्या।न युगपदेकस्य निरवयवस्याधारत्वाधेयत्वे सम्भवत इत्यर्थः॥५१॥ अ०।। इदानीं प्रश्नपूर्वक सोपाधिकस्याकाशस्य व्यापकत्वचेदनप्रकारमाह तर्हीति मू । तर्हि कुम्भे स्थिते खस्य व्यापित्वं ज्ञायते कथम् । घटम्य गमने व्योग्नो गत्यभावात्तथैव च।। घटस्यान्तरदेशख्च घटलोष्टप्रदेशकम्। घटस्य दशकाष्ठास्संव्याप्याकाशस्य वर्तेनात्।। न्यापित्वं ज्ञायते सम्यक् तथापि भ्रान्तिमात्रतः ।

Page 163

१५० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

भागमारोप्य निर्भागे व्योष्ि तस्यैकदेशकः । संवेष्टितो घटेनेति प्रलपन्ति दृथा जना: ॥ ५४।।।। व्या।। तर्हीति आदाणरयोपाधिपरियेष्टितत्वाभावे सतीत्यर्थः काष्टा दिशः। शेषस्सुगमः ॥ ५४॥ अ०।। प्रश्रनान्तरसन्द्य समावते नारीपितैरिति- मू॥। नारोपितर्वेष्टित क्रेदात्मभदग्रहः कथम् । इन्द्वन्तरप्रतीतिस्सा व्योोख यद्दन्भ्मो भवेत् ॥ ५५॥॥ कया॥ दास्तवादाद्यादिन्दो: आकाशप्रदेशे इन्द्वन्तरप्रतीतिवदात्मभेदप्रती- तिः अविद्यादुर्विलासित्येर्थः ॥ ५५॥। अ० ॥ इदानी वृत्तानुवादपूर्वकमुदीरितचन्द्रोपमानेन उपमेयान्तरा्यप्याह आत्मेसि- मू॥ आल्मैकोऽनेकधा भाति चन्द्रवदृष्टिदोषतः । १६।। स्वारोपितपदार्थानां सत्तास्फूर्तिप्रदोऽबजवत्। सत्याशेपितयोस्सङ्को नेन्द्रोर्येद्रत् परत्र च ॥ ५७ ।। आत्मास्त्यारोपितान्नैव वेष्टितस््याच्च तेन वै। आत्मानन्दवझ्ञादन्ये प्रियािय्येन्दुवत् किल ॥ १८ ॥ ्या॥ नभसि दृष्टिदोषात् चन्द्रसमीपे दृश्यमागस्य मिथ्याचन्द्रस्य अब्जवत् वास्तवचन्द्र इव आत्मा स्वारोपितानां सत्तास्फूर्ततिप्रदश भषा। किञ्वात्मानात्म- नो: सत्यारोपितयोश्वन्हयोरिय न संब्श् भक्षति। सत्ययन्द्रस्य मिथ्याचन्द्राधिक- वेशवृत्तित्ववत्-आत्मनोऽप्यारोपिताधिकदेशवृत्तित्वमस्ति। द्वितीयचन्द्रेणाद्यचन्द्र- बदारोपितेन अज्ञानादिनात्मा न देष्टितक्ष भवति। आय्यचन्द्रवशात् द्वितीयचन्द्र- षत् आत्मानन्दवशात् सर्दे प्रियाश् अवन्तीत्यर्थ: ॥५८॥ अ० ॥ शङ्न्तरमवतार्य समासे न वेष्वित इत्यादिना- मू॥। न वेष्टितस्समग्रश्चेत्पूर्णात्मा ज्ञायते कथम्। स्म्रकाशे न नानास्ति किन्चनेत्यादिवाक्यतः ॥ ५९.H

Page 164

तृतीयं सोपाधि कस्यापि १५१ नीवस्म बिभुत्वनिरूपणम्।

स्वप्रकाशत्वतस्त्वात्मा पूर्णोऽहमिति भासते ॥६० ॥

क्या॥ समप्रतः प्रत्यगात्मा महावाक्यजन्यज्ञानेन न परिवेष्टितश्चेत् कथ पूर्णोSहमिति ज्ञातुं शाक्यत इति प्रश्नं संप्रदर्श्य तत्सन्ाधानार्थ नेह नानास्ति किञ्चने- ति श्रुतिगतेहशब्दार्थमाह स्वप्रकाश इति एतटुकं भवति-आत्मा तावदविद्या- दशयां खारोपितैस्सह ख्यमेव भासते-विद्यादशायान्तु स्वारोपितैर्विना स्वयमेव भासते -- विद्या तु आरोपितमेव अपलपति। एवमेवोक्ं बृहदारण्ये षष्ठाध्याये चतुर्थ- ब्राह्मणे विंशस्य खण्डस्य भाष्येणानेन ज्ञानं च परस्मिन्नात्मनि आत्मभावनिवृत्तिरे· वन तस्मिन् साक्षादात्मभावः कर्तव्यः विद्यमानत्वादात्मभावस्य-नित्यो ह्ात्मभाव- स्सर्वस्य अतद्विषय इव प्रत्यवभासते तस्मादतद्विषयावभासनिवृत्तिव्यातरेकेण न तस्मिन्नात्मभावो विधीयते। अन्यात्मभावनिवृत्तावात्मभावः स्वात्मनि स्वाभाविको यस्स केबलो भवतीत्यात्मा ज्ञायत इत्युच्यते। स्वतश्चाप्रमेय इति अत्र परस्मि- न्नात्मनीति शरीरेन्द्रियसङ्कातो गृह्ते। प्रागप्येत्तत् विस्तरेण द्वितीयनिरूपणे द्वितीय- प्रदर्शके तृतीयपक्षे प्रमाणतारतम्यविचारप्रकरणे 'सदा प्रमितमेकत्व' मित्यादिना प्रदर्शितम् ॥ ६० ॥

हमिति- अ०। एताचता प्रन्थेन प्रतिपादितार्थे सूतसंहितावाक्यं प्रमाणयति पूर्णोS-

मू।। पूर्णोंऽहं सर्वसाक्षित्वात् सर्वदा परमार्थतः । अपूर्णो युगपत् संवै न विजानाति कश्चन।। इति तत्वपरे सूतसंहितासये समीरितम् ॥ ६ १।।।। ्या। सर्वदेति देहादावहम्ममेव्यव्यासतन्निवृत्तिकालादौ अहं शरी- राधुपाधिक: पूर्ण: शरीराद्यसंवेष्टितत्वेन व्यापकः तक्षोपपत्तिमाह सर्वसाक्षि त्वादिति अन्यथा बाधमाह अपूर्ण इत्यादिना। उपाधिपरिवेष्टितत्वेनाल्प- परिमाणवत्त्वे न सर्वज्ञत्वं घटत इत्यर्थः ॥ ६१॥॥ अ०॥ उक्तार्थे वृद्धवाक्यानि संवाद्यति धकोSपीति- i॥ एकोऽप्यसौ सर्वगतस्सर्वज्ञत्वेन हेतुना ।।६२।।

Page 165

१५२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

जडजातमिदं सर्वे वेत्त्यात्मैव न चेतरः । नात्मानं तच्च जानाति जडवेत्ताऽत एव सः ॥ ६३॥ स्वस्यैव भासते सर्व दूरवर्ति ध्रुवादि च। सर्वज्ञोऽतस्स्वरूपञ्च तस्मादात्मा हि सर्ववित् ॥६४ ॥ सर्वगत्वं विना सर्ववेत्तृत्वं नोपपद्यते। सर्वज्ञत्वात्सर्वगत्वं सिद्धमेकस्य चात्मन: ॥६५॥ व्या॥ असाविति शरीरादिसक्कतवन्तमात्मनमुद्दिश्य सर्वगत इत्युपा- धिवेष्टितत्वभ्रमनिरासाय व्यापकत्व साध्यत। तत्र हेतुमाह सर्वज्ञत्वेन हेतुने- ति। हेतुमेवोपपादयति जड़जातमित्यारभ्य सर्वज्ञोऽतस्स्वरूपञ्चेत्यन्तेन। यत- श्चैंवं जीवस्य स्वरूपचैतन्यमेव सर्वावभासकं भवत्यतः सर्वावभासकस्स एव सर्वज्ञ इति हेतुमुपन्यस्य हेत्वन्तरं दर्शयति तस्मादात्मा हि सर्वविदिति यस्मादात्मव सर्वज्ञः तस्मात् स एव सर्वे विशेषतोऽप्यवभासयतीत्युक्त्वा आत्म- नः अज्ञानादिना परिवेष्टितत्वे बाधमाह सर्वगत्वं विनेत्यादिना प्रतिज्ञातमनु- मानमुपसंहरति सर्चक्ञत्वादिति ॥६५॥ अ०॥ एवं जीवे प्रतीयमानस्याल्पत्वस्योपाधिपरिवेष्ठनकृतत्वं निराकृत्य

नोपेयः किमुपेयस्स्यादिति चेन्नात्र निर्भरः ॥६६॥ ्या॥ स्पष्टोऽर्थः ॥ ६६ ॥ अ०। प्रतिज्ञातमेव प्रश्नपूर्वकमुपपादयति जीव इति -- मू । जीवेऽल्पत्वमुपाधिवेष्टनकृतं तन्मानसंसर्गतो वा स्थाच्चेद्विघुमण्डले कुत इमां प्रादेशतां मन्यसे। तद्वत्त्या यदि वेष्टनान्न हि मतेर्तिम्बाद्विशालत्वतो मेघीयाद्यदि नाम्बुदेऽसति दशेर्मिथ्यैवमात्माल्पता ॥ ६७।। व्या। विधुमण्डले पूर्णचन्द्रमण्डल इति यावत् । कुत इति। उपाधेः परिवष्टनपरिमाणाद्यासयोर्मद्धये कतरस्माद्वेतोरुत्पन्नत्वेन प्रादेशता मन्यस

Page 166

तृतीयं सोपाधिकस्यापि १५३ जीवस्य विभुत्वनिरूपणम् ।

इति परिचोद परोक्तिमनुवदति तद्वत्येत्यादिना तत्र प्रादेशत्वग्राहक्वृ्त्त्या क न्द्रमण्डलस्य परिवेष्ठनादित्यर्थः। निराकरोति न हीत्यादिना शकटचक्रनेमिपरि वेष्टकस्यायःपद्टस्येव चन्द्रबिम्बादपि तत्परिवेष्टकवृत्तेरधिकवैशाल्यादित्यर्थः । तरहि चन्द्रमण्डलसन्निहितस्य मेघखण्डस्य चलनवत् तदीयप्रादेशताभ्रमोऽपि चन्द्रमण्ड- ले भवतीति पूर्वपक्षमनुवदति मेघीयाद्यदीति नापि चन्द्रमण्डले मेघखण्डगत प्रादेशताभ्रमसिद्धिरित्याह नास्तुदेSलति दशेरिति चन्द्रमण्डलसमीपे असत्य- प्यम्बुदे प्रादेशताभ्रमानुभवादित्यर्थः । कथ त्हि तत्र प्रादेशताप्रतीतेर्विषय- सिद्धिरित्यत आह। मिथ्येति अनिर्वचनीयेनाज्ञानेन स्वरूपतः अध्यस्तेति यावत्। इदानीमारोपितचन्द्रगतप्रोदशतानिदर्शनेन परिपूर्णे जीवे परिच्छिन्न- त्वस्य स्वरूपतोऽयस्तत्व साधयति एवमात्माल्पतेति ॥ ६ ॥। अ० ॥ एवमज्ञानततकार्ययोरात्मभिन्नसत्ताकत्वेऽप निरवयवात्मपरि- वेष्टकत्वाभावसुपपाद्याधुना आत्ममाससत्ताकत्वप्रकरिययापि तं साधयति दार्घति- मू॥ दीर्घोधारपटे यथा विरचितः कुम्भ: कुसूलो मठ- स्स्वाधारस् न वेष्टने तु चतुरस्सत्ताभिदाऽभावतः । तद्वत्स्वात्मनि कल्पितं वपुरिदं सूक्ष्मं च तत्कारणम् स्वाधारस्य न वेष्टने च चतुरं व्यक्त्यन्तराभावतः ॥ ६८ ॥ व्या।। यथा पटे तन्निमात्रा घात्वन्तरं विनैव कृतिवैचित्र्यात् कल्पितं चित्रघटादिकं न स्वाधारपटसंवेष्टकं भवति पटसंवेष्टकमृत्कुम्भस्येव पृथक् स्वरू- पाभावात्। तदूत् प्रत्यगात्मनि कल्पितस्य शरीरत्रयस्यापि ततः पृथग्व्यक्त्य- भावात् न तत्सवेष्ठकत्वमित्यर्थेः ॥ किञ्च वियत्पादे-'तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञव' दिति सिद्धान्त- सूलस्य अनेन नैतदस्त्यणुरात्मेति उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रव- णात्-तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युकं-तस्मात् यावत परं ब्रह्म ता- वानेव जीवो भवितुमर्हृति-परस्य च ब्रह्मणो विभुत्वमान्नातं तस्मात् विभुर्जीवः । तथा च 'सवा एष महानज आत्मा योऽयं विज्ञानमयः प्राणे' ष्ित्येवं जातीयकाः जीवविषया विभुत्ववादाशश्रौतास्स्मार्त्ताश्र समर्थिता भवन्तीति भाष्येणान्तःकरणादौ ब्रह्मणस्तादात्म्याध्यासपरां प्रवेशश्रतिमवलंब्यापिजीवस्य सोपाधिकदसायाञव विभुत्वव्यवस्थापनेन नोपाधिपरिवेष्टितत्वं संभवतीति मिद्धम् ॥।६८ ।।

Page 167

१५४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ०। इदानीं तृतीयनिरूपणार्थवेदनफलमाह एतदिति- मू॥ एतन्निरूपणाज्जन्यं ज्ञानं येनैव धार्यते। तस्यैव सर्वदा स्वस्य पूर्णत्वं भासते स्वतः ॥ ६९ ॥ ्या॥ सर्वदेति सोपाधिकदशायामपीत्यर्थः ॥ शेषस्सुगमः ॥६९॥

तृतीयनिरूपण संपूर्णम् ।। ब्रह्मवाहमस्मि। । ओं तत्सत् ॥

॥ हरिः ओम् ॥ अद्वैतसिद्धान्तगरुचन्द्रिकायाँ चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं प्रतिकर्मव्यवस्थावादनिरूपणमारभ्यते । अयमेव ईश्वरेण सृष्टस्य दष्टिवाद इति सृष्टदष्टिवाद इत्युच्यते।

अ०।। प्रथमनिरूपणारम्भे धर्मे प्रकृतिता भाती' ति चतुर्थाभिप्रायमावेद्य 'तद्विशेषाञ्छाधि नो गुरो' इति शिष्यैः प्रार्थितस्सन् जगतः कर्नजन्यत्वे कर्म- तत्फलयोद्वतवाद्यभिमतं सत्यत्वनेव विशेष इत्याह अगदिति- भ। जगन्मिथ्यात्वदार्ढ्याय पूर्वपक्षतयाडत्र तु। कर्मेप्रकृतिकत्वे तु सत्यताऽस्य निरूप्यते ॥ १ ॥ व्या। अन्नेति चतुर्थनिरूपण इति यावत्। अस्येति जगत इत्यर्थः ॥१॥ अ०। प्रतिकर्मव्यवस्थासिद्धान्तानभिज्ञस्य प्रश्नमवतारयति जगत इति-

Page 168

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं प्रतिकर्मव्यवस्थावादनिरूपणम् ।

मू॥ जगतः कर्मजन्यत्वे लक्ष्यज्ञानादनाश्यता। सत्यता कुत आयाति तद्धेतुं मानतो वद ॥ २ ॥ व्या। कर्मजन्यत्व इति जगतः कर्मप्रकृतिकत्वे तन्निमित्तकत्वे वेत्यर्थः । शेषस्सुगमः ॥ २ ॥ अ०॥ इदानीं 'तदेतत् सत्यं मन्लरेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थास्सुकृतस्य लोक' इति मुण्डकोपनिषदि प्रथमसुण्डके भ्रयते। अस्येदं भाष्यं 'तदेतत् सत्यं अवित्थं किं तत् मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अनिहोत्रादीनि मन्त्ररेव प्रका शितानि कवयः मेधाविनो वसिष्ठादयः यान्यपश्यन दृष्टत्रन्तो यच्चान्यत् तदेतत् सत्यम्-एकान्तपुरुषार्थसाधनत्वात् तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां लेतायां युगे बहुधा बहुप्रकारेण सन्ततानि प्रत्ृत्ानि कर्मिभिः क्रियमाणानि अतो यूयं तान्याचरथ निर्व्तयथ नियतं नित्य सत्यकामा: यथाभूतकर्मफलकामा- स्सन्त :- टिप्पणं-यथारथेरूपकर्मफलकामास्सन्त इति एष वः युष्माकं यथा पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणो लोक फलनिमित्ते लोक्यते दृश्यते भुज्यते इति कर्मफलं लोक इत्युच्यते तदर्थ तत्प्राप्तये एष मार्ग इत्यर्थ: इत्यादिकं सागमं भाष्यादिकं वक्ष्यमाणश्रुत्यादिकञ्चावलमव्य । श्रो० ॥ सत्यता कुत आ- याति तद्वेतुं मानतो वदेति जगत्सत्यत्वे हेनुं जिज्ञासमानानां साक्षात्प्रणाड्यावा प्रयत्नजन्यत्ात् सत्यत्वं भवेदित्याह ह्ुतेति- मू॥ हुतसोमादिहोम्यानां परिणामात्मकं हि यत्। द्रव्यरूपमपूर्वै तत् सत्यं भवितुमर्हति ॥ ३ ॥ यत्नजन्यत्वतो यद्वत्संयोगः परसम्मतः । तज्जन्यकार्यवच्चैतत् जगत्सत्यं भवेत्खलु ॥। ४ ॥ व्या।। तज्जन्येति संयोगजन्येत्यर्थः । शेषस्सुगमः । ननु यन्नजन्यतवत इति हेतो: सञ्चितकर्मणि व्यभिचारः तस्य असङ्गात्मज्ञाननिव्त्यावेन सत्यत्वा- भावादिति चेन्न अस्मिन्पूर्वपक्षनिरूपणे धर्मेण पापमपनृदतीत्येवञजातीयकशास्त्रा नुवर्तिनां द्वैतिनां मतानुसारेण कर्मनत्फलयोः सत्यत्वसाधकमनुमानादिकं निरुप्य- ते न तन्मते आत्मनोऽसंगत्वं तज्ज्ञाननिवर्त्यत्वं वा कर्मण अतो न हेतोर्व्यभिचार:

Page 169

अद्वैतप्तिद्धान्तगुरुचन्द्रिकायां एतदनुमानादे: पञ्चमनिरूपणे वक्ष्यमाणैः अद्वैतिनामनुकूलैःलिझदीनां परिसङ्ख्या त्वपरैर्जगतः केवलाविद्यकत्वबोधकैश्च शास्त्रैः बाध्यमानत्वमिष्टमेव ॥४॥। अ०॥ प्रतिज्ञातार्थे श्रीमद्विदारण्याचार्यकृतपञ्चदशीवाकयं संतादयति अपरोक्षेति- मू ॥ अपरोक्षशिलाबुद्धिर्न परोक्षेशतां नुदेत्। इत्यत प्रतिमायां सा विहिताऽSध्यासिकीशता ॥ ॥ नाघिष्ठानधिया नश्येत्प्रयत्नज्ञानजत्वतः । अयत्नाज्ञानजस्वप्रवस्तुवद्यतिरेकतः ॥ ६ ॥ इति न्यायाद्यत्नजन्यं सत्यं कर्मादिकं भवेत् ॥ ६।। ॥ व्या॥ स्पष्टोऽर्थः ॥ ननु यतपुनरुक्तं प्रयत्नज्ञानाभ्यां जायमानं न मिथ्येति तन्न प्रयत्नज्ञानजन्ये मिथ्येतिशब्दे मिथ्यात्वदर्शनात न विषमोऽयमुपन्यासः । तथा हि मिथ्यात्वं तावत् द्विविधं शब्दगतमर्थगतञ्चेति शब्दगतं तावदर्थशून्यत्वं अर्थगतं तु ज्ञाननाश्यत्व- मिति विवेक: तथा च सति मिथ्याशव्देऽर्थशून्यत्वरूपमिथ्यात्वस्य विद्यमानलेऽभि न ज्ञाननाश्यत्वरूपं मिथ्यात्वं संभवति मिथ्याशब्दाश्रये तत्प्रयोक्तरि साक्षात्कृतेऽपि तदुदीर्यमाणमिथ्याशब्दस्य तदधिष्ठानज्ञाननाश्यत्वाभावदशनात् अन्यथा साक्षात्कृ- तात अनृतवादाय नियुज्यमानात् न मिथ्यावचनमुत्पद्येत कथं तर्ह्रद्वैतिनां नाम- रूपात्मकस्यास्थ जगतो ज्ञाननाश्यत्वमिति चेदुच्यते। यथा हि स्वप्े स्वस्य श्रोत्रेन्द्रियाद्यभावेऽपि श्रूयते दृश्यते चेति अन्यथा गृही- तयोनीमरूपयो: परकीयकण्ठताल्वाद्याभिघातजन्यत्वादिकं विना स्वकीयाविद्या- मात्रजन्यत्वेन तदधिष्ठानस्वात्मज्ञाननाश्यत्वं तद्वूदस्ापि नामरूपात्मकस्य जगतः सम्भवति। अयमेवाभिप्रायो ज्योतिष्टोमादिश्रुतिबोधितानुष्ठानात्फलसिद्धिस्तु स्वप्रश्रुति- बोधितानुष्ठानप्रयुक्तफलसंवादतुल्येति सिद्धान्तलेशसङ्गहे द्वितीयपरिच्छेदे दृष्टिसष्टि वादसमर्थनपरात् दीक्षितवचनाच्चावगम्यते ॥ ६।।॥ अ०॥ अपूर्वस्य द्रव्यात्मकत्वे किं प्रमाणमिति प्राप्ते 'असो वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशः अन्तरीक्षमपूपः मरीचयः पुत्राः तस्य ये प्राश्चो रश्भयः ता एवास्य प्राच्यो मधुनाड्यः ऋच एव मधुकृतः ऋग्वेद एव पुष्पं ता अमृता आप' इति छान्दोग्ये तृतीयाद्धयाये प्रथमखण्डे आदित्यस्वर्गान्तरिक्ष-

Page 170

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं प्रतिकर्मव्यवस्थावादनिरूपणम्। १६७

भौमोदकरश्म्यग्वेदतत्कर्मतजन्यद्रव्यरूपापूर्वेष्वष्टस्वधिकरणेषु मधु तिर्यग्वंशा- पूषभ्रमरपुत्रमधुरंध्रभ्नमरपुष्परसानां अष्टानां दृष्टिविधायकं वाक्यं श्रयते अस्येदं भाष्यं-यथा च माक्षिकस्य मवुनः पुष्परसः प्रकृतिः तथा वैदिकस्य फल- भूतस्य मधुनः कर्मरसः प्रकृतिः ऋच एव मधुकृतः रोहितरूपं सवित्राश्रयं मधु कुर्वन्ति मधुकृता भ्रमरा इव यतो रसानादाय मधु कुर्वन्ति तत् पुष्पमिव पुष्प- मृग्वेद एव तत्र ऋग्ब्राह्मणससुदायस्य ऋग्वेदाख्यत्वात् शब्दमात्राच्च भोग्यरूपर- सनिस्रावासम्भवात् ऋग्वेदशब्देनात्र ऋग्वेदविहितं कर्माभिलप्यते ततो हि कर्म फलभृतमधुरसनिस्रावसम्भवात मधुकरैरिव पुष्पस्थानीयादग्वेदविहितात् कर्मणः अप आदाय ऋग्भिसंध निर्वर्लंते कास्ता आप इत्यत आह ताः कर्मणि प्रयुक्तास्सो- माज्यरूपा अग्नौ प्रक्षिप्तास्तत्पाकाभिनिर्व्ृत्ता अमृतार्थत्वात् अत्यन्तरसवत्य आपो भवन्तीत्यादि तदेतत् श्रतितज्भाष्यद्वयमपूर्वत्य द्रव्यत्वप्रक्ृतित्वपरमर्थतस्सङ्गव्य प्रमाणयति छान्दोग्य इति -- मू।। छानदोग्ये तु तृतीयस्य प्रपाठस्याद्यखण्डके ॥ ७॥ आदित्यादिषु मध्वादिद्ृष्टिरुक्ता हि तत्र तु । ऋग्वेद्विहिते धर्मे पुष्पदृष्टिं समीर्य च ॥ ८॥ अग्नो ता हुतसोमादया आपो वहिप्रदाहतः । द्रव्यापूर्वात्मिकास्सत्यः पुष्पतोयसमा इमाः ॥९ ॥ मधुनः प्रकृतिस्तास्स्युरिति भाष्यादिके स्मृतम् ।। ९।। ।। क्या॥। अवतरणादेवात्रगतार्थः॥९।।। अ० ॥ इदानीं समस्तस्य खलु साम्र उपासने साध्वित्युपक्रम्य 'लोकेषु पञच- विधं सामोपासीत पृथिवी हिंकार: अभिः प्रस्ताव: अन्तरिक्षमुद्गथः आदित्यः प्रति- हार: दौर्निधन' मित्यादिश्ुति तदीयमिदं कानि पुनस्तानि सावुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति-इमानि तान्युच्यन्ते-लोकेषु पञ्चविधमित्यादीनि । ननु लोकादिदध्या तान्युपास्ानि साघुदृध्ठ्या चेति विरुद्धम् न साध्वर्थस्य लो- कादिकार्येषु कारणस्यानुगतलात मृदादिव द्वटादिविकारेषु-साधुशब्दवाच्यार्थो धर्मो ब्रह्म वा-सर्वथापि लोकादिकार्येष्वनुगतम्-अतः यथा यत्र घटादिदृष्टिः मृदादि- दृध्ट्य नुगतैव सा तथा सावुदृध्यनुगतैव लोकादिद्ृष्टि :- धर्मादिकार्यलात् लोकादीनां- 14

Page 171

-१५८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः-धर्म एत्र साधुशब्दवाच्य इति युक्तम्-साधु- कारी साधुर्भवतीति धर्मविषये साधुशब्दप्रयोगदर्शनादिति भाष्यञवापूर्वस् प्रकृति- तवादौ सङ्गह्वाति छान्दोग्यस्येति- मू ।। छान्दोग्यस्य द्वितीये तु प्रपाठे चाद्यखण्डके ॥ १० ॥ पाञ्चभक्तिकसामादौ धर्मदृष्टिं तु साध्विति। उक्त्वा द्वितीयखण्डेन लोकध्याने समीरिते ॥ ११ ॥ ननु दृष्टिद्वयं कर्तु कथमेकत्र शक्यते। यदि भूरादिकं कार्ये धर्मस्तत्प्रकृतिस्ततः ॥ १२ ॥ भूरादिधीर्धर्मबुद्धया साकं भवितुमर्हति। विकारविषयत्वान्मृद्धीयुक्ता घटधीर्यथा। १३ ॥ इति भाष्याद्यपूर्वस्य द्रव्यत्वादौ प्रमाणकम् ॥ १३॥॥ व्या। पाञ्चभक्तिकसामादावित्यादिशब्देन साप्तभक्तिकसाम परिगृह्यते। तस्मिन्नधिकरणे धर्मभावनां साध्विति पदेन आदिश्य द्विर्तायखण्डन 'लोकेषु पञ्च- विधं सामोपासीत पृथिवी हिङ्गार' इत्यादिना हिङ्गारादिसान्नि पृथव्यादिलोक- दृष्यां समीरितायां तत्र चोद तत्परिहारपरं नन्वित्यादिभाष्यं संगरृह्गाति नन्वि- त्यादिना एकत्रेति साम्नीत्यर्थः । तत इति प्टाथव्यादिलोकानां धर्मप्रकृति कत्वा- दित्यर्थः शेषस्सुगमः ॥१३॥॥ अ० ॥ संप्रति छन्दोग्ये पञ्चमाध्याये 'असौ वाव लोको गातमाप्निः पर्ज- न्यो वाव गौतमाप्निः पृथिवी बाव गौतमामनिः पुरुषो वाव गौतमानिः योषा वाव गौतमामनि' रिति चतुर्थादिखण्डेबु क्रमादन्निदृष्ठ्यधिकरणत्वेन दुलोकादिकमुप- दिश्य तस्मिन्नेतस्मिन्नन्रौ देव: श्रद्धां सोमं वर्षे अन्नं रेतो जुद्वरतीत्यावेद्य तखा आहुतेस्सोमो वर्ष अन्नं रेतो गर्भस्संभवती'ति श्रुति तदीयञ्च श्रद्धां अमिहोत्रा- हुतिपरिणामावस्थ/रूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्त इत्यारभ्य तां श्रद्धामत्रूपां जुह्ृति तस्या आहुतेस्सोमो राजा अपा श्रद्धाशब्दवाच्यानां घुलोकाम हुतानां परिणामः सोमो राजा संभवति। यथा ऋग्वेदादिपुष्परसाः ऋगादि- मधुकरोपनीताः ते आदित्ये यश आदिकार्य रोहितादिरूपलक्षणमारभन्त इत्युक्तम् तथेमाः अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाध्या आपः दुलोकमनु-

Page 172

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १५९ प्रतिकर्मव्यवस्थावादनिरूपणभ् ।

प्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमन्निहोत्राहुत्योरितीदं भाष्यमप्यपूर्वस्य द्रव्य- त्वादौ संगृह्य प्रमाणयति छान्दोग्य इति- भू।। छान्दोग्ये पञ्चमाध्याये चतुर्थादिषु षञ्चमु ॥ १४ ॥ तस्य तस्याद्यवाक्येडन्निमुक्ता तत्ताद्वितीयके। तत्तद्वाप्ये च टीकायामपूर्व परिणामि यत् ॥ १५ ॥ द्रव्यं तद्विकृतिस्सोमवृष्टचन्नेन्द्रियगर्भकाः। इत्युक्तैवं जगत्सृष्टिरुक्ता वाजसनेयके ॥ १६ ॥ इति प्रदर्शितं तस्मादपूर्व प्रकृतिर्भवेत् ॥ १६॥ ॥ व्या॥ चतुर्थादिपञ्चखण्डेषु तत्तत्खण्डस्ाद्यखण्डिकायां युलोकादिकमग्नि- त्वेनादिश्य द्वितीयखण्डिकातद्भाष्यादिषु यदपूर्व यागाङ्गानां सोमाज्यादीनां परिणाम- भूत द्रव्यरूपं तत् सकार्ये प्रति परिणामिकारणं तद्विकारा एव सोमाख्यदेवशरीरादि- गर्भान्ता इत्युपदिश्यानन्तरं छान्दोग्य इव वाजसनेयकेऽप्यपूर्वप्रकृतिकत्वेन जगतः सरष्टिरुक्तेति प्रदर्शित भाष्यकारादिभिरिति शेषः । अतोऽपि प्रतिज्ञातार्थसिद्धिः ॥ अ०॥ इदानीं प्राग्भाष्यकारैः प्रतिज्ञातमेव 'तस्मिन्स्वे प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीद सवे प्रतिष्ठितं यच्च प्राणिति यच्च नेति' वाजसनेय- वाक्यं' तदीयमिदं तस्मिन् पश्वन्ने पयसि सर्वमध्यात्माधिभूताधिदवलक्षणं कृत्सनं जगत्प्रतिष्ठित यच्च प्राणिति प्राणचेष्टावत् यच्च न स्थविरं शैलादि तत्र च हि- शब्दनैव प्रसिद्धचवद्योतकेन व्याख्यातम्। कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वं कारण- त्वोपपत्तेः कारणत्वञ्च अग्निहोत्रादिकर्मसमवायित्वं अग्निहोत्राद्याहुतिविपरिणा- मात्मकञ्च जगत्कृत्स्मिति श्रुतिस्मृतिवादाश्शतशो व्यवस्थिताः-टि-विशेषेणा- वस्णिताः अतो युक्तमेव हिशब्देन व्याख्यातुमिति भाष्यं चार्थतः संगृह्यापूर्वस् द्रव्यत्वप्रकृतित्वांशे प्रमाणयति अध्याय इति-

मू ॥। अध्याये बृहदारण्ये तृतीये पञ्चमे किल ॥ १७ ॥ ब्राह्मणे पयसदिं हि जङ्गमादि प्रतिष्ठितम्। इत्युक्तमस्य वेदस्य भाष्यकारैस्तथेरिते ॥ १८॥

Page 173

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

कथं तत्पयसस्सर्वप्रतिष्ठात्वं भवेदिति । चोदे सति समाधाय कारणत्वाज्वेदिति ।। १९ ।। समवायित्वरूपं तत् कारणत्वं कक्रियां प्रति। अग्निहोताद्याहुतीनां परिणामात्मकं जगत् ॥ २० ॥ इति श्रुतेस्स्मृतेर्वादाश्शतशश्र व्यवस्थिताः । इति श्रीभाप्यकारोक्त्या द्रव्यापूर्वमयञ्जगत् ॥ २१ ॥ व्या। कारणत्वात्पयसः सर्वप्रतिष्ठात्वोपपत्तेरिति समाधानस्यैव विवरण- परं भाष्यं सक्कृह्वाति। समवायित्वरूपंमित्यादिना । शेषस्सुगमः ॥। २१ ॥ अ०। पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिवादव्यवस्थितत्वं यद्द्राष्य- करैरुपादिष्टं तन् सदष्टान्तमाह अध्यात्मेति- मू॥ अध्यात्मसाङ्व्यशास्त्राणां चित्प्रधानं क्रमाद्यथा । तथा कर्मश्रुतिस्मृत्योः कर्मास्य प्रकृतिर्मतम् ॥ २२॥ व्या। द्रव्यापूर्वरूपं कर्मैवास्य जगतः प्रकृतिरिति मतमित्यर्थः ॥ २२ ॥। अ०। इदानीं शारीरकमीमांसायां तृतीयाध्यायस्य प्रथमपादे 'अश्रुतत्वा- दिति चेन्नेष्टादिकारिणां प्रतीते' रिति सूत्रं तदीयं तेषाञ्चामिहोत्रदर्शपूर्णमासादि- कर्मसाधनभूताः दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात् प्रत्यक्षमेवापः सम्भवन्ति ता आह्वनीये हुतास्सूक्ष्मा आहुत्यः अपूर्वरूपाः सत्यः तानिष्ठादिकारिण आश्रय- निति तेषां च शरीरं नैधनेन विधानेनान्त्येऽऔ ऋत्विजो जुह्ृति असौ स्वर्गाय लोकाय स्वाहेति। ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आद्दुतिमय्य आपः अपूर्व- रपास्सत्यः तानिष्ादिकारिणो जीवान्परिवेष्यामुं लोक फलदानाय नयन्तीति भाष्यञच तदीयं तेषां सूक्ष्माभिः द्रव्यापूर्वरूपामिः पञ्चीकृताभिरद्भिस्सम्बन्धं वदन् सहगति विव्ृणोति। तेषां चानिहोत्रेतीति रामानन्दमुनिकृतमवतरणञचा- न्यान्यप्यपूर्वसद्भावपराणि सूत्रतद्भाष्याणि चापूर्वस्य द्रव्यत्वप्रकृतितवज्ञापनाय सङ्कद्धाति व्यासाद्या इति- मृ॥ व्यामाद्यास्साघनाध्याये पादे प्राथमिके विधेः। द्रव्यापूर्वाणि जायन्ते सोमाद्यास्तन्मया यथा ॥ २३ ॥

Page 174

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १६१ प्रतिकर्मव्यवस्थावादनिरूपणम्।

निषिद्धात्कर्मणोऽप्येवं द्रव्यापूर्व प्रजायते। तदेव हेयगात्राणां प्रकृतिश्चेति ते जगु: ॥ २४ ॥ व्या ।। विवेरिति। विधीयत इति विधिः कर्म तस्मात् विहितादित्यर्थः । सोमाद्या इति सोमाख्यं देवशरीरमादिर्येषां वृध्यन्नरेतागर्भपुरुषाणां ते सोमाय्याः। तन्मया इति द्रव्यापूर्वविकारा: स्पष्टमन्यत् ॥ २४ ॥ अ०॥ अधुना अपूर्वस्य द्रव्यत्वप्रकृतित्वपरं प्रमाणनिरूपणमुपसंहरति बहुनेति- मू॥ बहुना किमुपास्तेर्वा कर्मणो वा फलन्तु यत्।

व्या। कस्य चिदहंग्रहोपासनस्य ब्रह्मपरिणामभूतोपासकात्ममात्रद्रव्यक- त्वात्। तदात्मपरिणामभूतस्य द्रव्यापूर्वस्य विकार एव सत्यकामत्वादिविशिष्टात्म- स्वरूपम्। तथाचोक्तं आरम्भणसत्रभाष्यावसाने 'भो क्तापत्तेर विभागश्चेतस्याल्रो- कव' दिति सूत्रतात्पर्ये। सूत्रकारोपि परमार्थाभिप्रायेण तदनन्यत्वमित्याह व्यव- हाराभिप्रायण तु-टि-उपासनादिकर्मजमेघ समस्तं फलात्मकं जगदिति व्यवहाराभिप्रायेणैव स्याल्लोकवरदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति अप्रत्याख्यायैव कार्यप्रपञचं परिणामप्रक्रियां चाश्रयति-सगुणोपासनेषूपयोक्ष्यत इति। तथैव॥ श्रो० ॥ कृपणधीः परिणाममुदीक्षते क्षपितकल्मषधीस्तु विवर्ततामिति रामानन्दस्वानिभिरपि तत्र वृद्धसम्मतिश्र दर्शिता-अतः फलस्य कर्मजत्वपक्षे यत्किञ्चङ्गव्यप्रकतिकापूर्वपरिणामत्वमेव भवेत्-न मायिकत्वं ब्रह्मविवर्तत्वं वेत्या स्थेयम् ॥ २५ ॥ अ०॥ प्राक तृतीयादिश्तोके द्रव्यापूर्वात्मकस्य धर्मस्य यत्सत्यत्वमनुमितं तत्र पुनरप्यागमसद्भावं प्रतिजानीते फलेति- मू॥ फलारम्भकधर्मस्य सत्यत्वे श्रुतिरुच्यते ॥२५॥॥ व्या। स्पष्टोऽर्थः ॥ २५॥॥ अ० योवैस धर्मः सत्यं वै तत् तस्मात सत्यं वदन्तमाहुर्धर्म वदतीति धर्मे वा वद तं सय वदनीत्येतद्वैतदुभयं भवतीति,' इमां श्रुति धर्मस्य सत्यत्वा- वेदनायार्थतः रति योधर्म इति- मू॥ : धनस्स तु सत्यं स्याच्छब्द्तश्रार्थतस्ततः ।।२६।।

Page 175

१६२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

सत्यं वदन्तमाहुस्ते धर्म हि वदतीत्ययम्। धर्मे वदन्तमाहुर्ते सत्यं हि वदतीति च ।। २७॥। इति श्रीवृहदारण्ये तृतीयस्य चतुर्थके। खण्डे चतुर्दशेऽप्युक्तं पर्यायत्वं तयोर्यतः ॥ २८॥ न्या॥ यो धर्मस्स तुसत्यं स्यादिति धर्मस्य सत्यत्वं प्रतिज्ञाय तत्र लोक- प्रिद्धिप्रदर्शनपरां तरादित्यादिकां श्रति सदृह्ाति तत इत्यादिना एवं कृत्रोक्त्क- मित्ारड्य वृहदारण्ये तृतीयाध्यायस्य चतुर्थब्राह्मणे चतुर्दशरण्डे अपिशब्दात तद्भ्रायेडा्युक्तनित्याह इति श्रीवृहद्दारण्य इत्यादिना तयोरिति सत्यधर्म- शब्दयो: यममात् पर्यायत्वमेकार्थपरत्वमुक्तम्-तस्मात् धर्मस्य सत्यत्वं सिद्ध- मित्यर्थः ॥ ३८ ॥ अ०॥ पापस्यापि सत्यत्वं लोकानुभवानुमानाभ्या दर्शयति साक्षीति- म। साक्षिवादाय निर्दिष्टः परपापमुवाच् चेतू। पार्श्वस्थास्सत्य मेवायं वदतीति ब्रुवन्त्यतः ॥ २९॥ पापञ् सत्यसज्ञं नृहेतुत्वात्पुण्यकर्मवत् ॥२९॥॥ न्या॥ अत इति द्वैतिभि: पुण्यतत्फलेष्विव पापतत्फलेष्विपि सत्यशब्द स्य प्रयुक्तत्वात् पापमपि सत्यशब्दवाच्यमित्युक्त्वा तवानुमानप्रदर्शनार्थ हेतुमाह् नृहेतुत्वादिति तत्र दृष्टान्तमाह पुण्यकर्मवदिति उभाभ्यामेव मनुष्यलोक- मिति ध्रुते :- पुण्यपापाभ्यामेव मनुष्यशरीरमारम्यत इत्यर्थः ॥२९॥॥ अ० ॥ अधुना कर्मकार्यस्य सत्यत्वे प्रतिज्ञापूर्वकं ब्राह्मं वाक्यं प्रमाणयति द्रव्येति- मू॥ द्रव्यापूर्वमयस्यास्य सत्यत्वे मानमुच्यते ॥ ३० ॥ यथाभातस्वरूपेण सत्यत्वेन जगच्छूतिः । अङ्गीकृत्य हितं नृणां कदाचिद्िक्ति सादरम् । ३ १ ॥ रत्यत्वेन जगव्धानं संसारस्य प्रवर्तकम्। इति श्रीमह्दगीतायामध्याये द्वादशे स्मृतम् ॥ ३२॥

Page 176

चतुर्थ लक्ष्यैक्यमात्नाविरोधि जगत्सत्यत्वपरं १६३ प्रतिकर्मव्यवस्थावादनिरूपणम्। व्या। अस्थेति जगत इत्यर्थः । पूर्व तावत् 'जगद्रूपतयाप्येतद्वू ह्वैव प्रतिभासत' इत्यादिश्लोकेन जगतो ब्रह्ममातप्रकृतिकत्वेन ब्रह्मातिरेकेण स्वरूपतोS सत्वमेव 'ब्रह्मैवेदं सर्व' मित्यादिश्ुत्यभिप्रेतमिति श्रीचतुराननेनोपदिष्टे सति कथं तर्हि 'तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामा एष वः पन्था: सुकृतस्य लोक' इति प्रथममुण्डकादिवाक्यैक् श्रुतिरेव कर्मप्रकृतिकत्वेन जगतः सत्यत्वं व्रवीतीति प्राप्ते इदमाह ब्रह्मा यथाभातस्वरूपेणेति कर्मजत्वमेव सत्यत्वमिति भातं ज्ञातं स्वरूपं यस्य सत्यत्वस्य तद्भातम्वरूपं भातस्वरूपमनतिक्म्य यथाभातस्वरूपं तेन यथाभातस्वरूपेण रागिणः तत्त्वजिज्ञासाभावात्तदनिराकरणेन सहेति यावत् सत्य- त्वेन यज्जगतः कर्मायत्त लोकप्रसिद्धं सत्यत्वं तेन तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामा इत्यन्न सत्यकामा इति पदेन पयसि हीदिं सर्वे प्रतिष्ठितमित्यत्र लोकसिद्धार्थानुवादकेन हि- शव्देन कर्मप्रकृतिकत्वेनेव जगदनूद्य तस्माज्जुगुप्सेतेति श्रतिर्विरतिमेव सादर वि. दधातीति समाधानेन द्वैतिभि: प्रतिकर्मव्यवस्थावादिभिश्च गृहतं जगत्सत्यत्वं कर्मजत्वमेवेत्यादिश्य स्वयमपि ब्रह्मा जगतः कर्मजत्वज्ञानफलप्रदर्शनेनापि कर्मजत्व मेव जगत्सत्यत्वमिति दर्शयति सत्यत्वेनेत्यादिना कर्मजत्वेन जगद्विषयक ज्ञानमेव संसारस्य संसरतीति संसारो जीवः तस्थ प्रवर्तकम् कर्मणीति शेषः इद वाक्यं कुत्रत्यमत्यत आह इति श्रीव्रह्मगीतायामिति ॥ ३२॥ अ। अस्मित्रेवार्थे छान्दोग्यद्वितायाध्याये त्रयोविंशस्य खण्डस्य इदं न चासत्यमित्युपमर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धि रुत्पद्यत इति भाध्यमर्थतः सङ्गह्य प्रमाणयति ब्रह्मेति -- मू।। ब्रह्मज्ञस्य तु भोग्येऽस्मिन्सत्यत्वाभिनिवेशने । संस्काराज्जायमानेऽय कर्माचरणसंभवात् ॥३३ ॥ नैव स्याद्गह्मसंस्थेति स्वयमाशङ्कय वै पुनः । न चासत्यमिति ज्ञानान्नष्टे सत्यत्ववेदने ॥ ३४ ॥ इदं सत्यमनेनैव कर्तव्यमधुना मया। इति धीर्जायते चेति समाधानेन भा्यकृत् ॥ ३५ ॥

Page 177

१६४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

त्रयोविशस्य खण्डस्य छान्दोग्ये तु द्वितीयके । अध्याये कर्मजत्वं हि सत्यत्वमिति चाव्रवीत् ॥३६॥ कया। जगतो याथात्म्याविचारदशायां कर्मजवेन सत्यत्वेन च गृहीत- त्वात् तद्रहणसंस्कारवशात् जगद्याथात्म्यविचारानन्तरमप्यद्वितीयं ब्रह्मैवाहम स्मीति ब्रह्मापरोक्ष्यवतः फले सत्यत्वाभिमाने जायमाने सति तत्फलकारणकर्मानुष्ठाने प्रतृ- तौ सत्यां कथ ब्रह्मसंस्था सिद्धयतीति प्राप्ते 'सर्वे विकारजातं मायामात्रं ब्रह्मैवेदं सर्व' मित्यादिश्रुत्यनुभवादिभिस्सर्व भोग्यमसत्यमकर्मजन्यत्वश्रवणादिति ज्ञानेन स- त्यत्वग्रहणे नष्टे सति इदं सत्यं फलमनेन कर्मणैव संपादनीयमिति बुद्धिजैव जायत इति समाधानपरेण छान्दोग्यस्य द्वितीयाध्याये त्रयोविंशस्य खण्डस् भाष्येणाचार्यः कर्मजत्वमेव सत्यत्वममित्यव्रवीदित्यर्थः । अन्यथा कर्मजस्यापि मिथ्यात्वे द्वैतमिथ्या- त्वाभिनिवेशादेव-कर्मप्रवृत्तौ न ब्रह्मसंस्थेत्याशंकेतेत्यर्थः ॥ ३६ ॥ अ०॥ उक्तभाष्यार्थविवरणमाक्षिपति नन्विति- मू॥ नन्वयं भाष्यतोऽमुष्मान्न स्पष्टं भासते ह्यतः। व्यावहारिकतैवास्य सत्यत्वं नेतरद्भवेत् ॥ ३७ ॥। न्या॥ यस्मात्कारणात् प्रागुदाहृतभाष्यात् कर्मप्रवृत्तिकारणं फलगतकर्म- जत्वरूपसत्यःवज्ञानमेवेत्ययमर्थः न विस्पष्ट भात्यतः कर्मजत्वातिरिक्तव्यावहारिक- सत्यत्वज्ञानमेव कर्मणि प्रवृत्तिकारणमित्याक्षेपार्थः ॥३७॥ अ०॥ सिद्धान्ती त चोदकं पृत्छति कर्मेति- मू ।। कर्मजत्वातिरिक्ता चेत्फलस्था सत्यता यदि ॥३८॥ तदन्यसत्यताज्ञानात् कर्मणोऽयं निवर्तताम्। कथं प्रवर्ततां विद्वान् कर्मणीत्यार्यदर्शितन् ॥३८।।। व्या।। कर्मजस्वातिरिक्ा चेदिति चोदमनूद्य परमते दोषमापादयति तदन्यसत्यताज्ञानादित्यादिना तस्मात् कर्मजत्वादन्यव्यावहारिकसत्यत्व- रूपधर्मज्ञानात् कर्मणः सकाशात् परहस्तगतकाचाश्मनि कल्पितमणिगतप्राति- भासिकसत्ताज्ञाने सति तन्मणिप्राप्तिसाधनात् याचनाकर्मण इव निवर्त्ततां-नाम व्यावहारिकप्रातिभासिकसत्ताज्ञानयोः कर्मजत्वञ्ञानातिरिक्तत्वस्य तुल्यत्वादित्यर्थः । इष्टापर्तति वारयति कथमित्यादिना भवदभिमतसत्यत्वज्ञानात् ब्रह्मविदपि कर्मणि प्रवर्ततामिति चोदं तत्समाधानं च कथमार्यर्भाष्यकारैः प्रदर्शितं प्रागिति प्रश्नार्थः । अ०॥ चोदकस्समाधत्ते कर्मप्रवृत्ताविति-

Page 178

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १६५ प्रतिकर्मव्यवस्थावादनिरूपणम्।

मू ॥ कर्मप्रवृत्तौ हेतुस्सा व्यावहारिकता ह्यतः ॥ ३९ ॥ व्या॥ यस्मात्सा व्यावहारिकसत्तैव कर्मप्रवृ्तिहेतुरतो भाष्यकारैस्तथा चो- दयादिकं दर्शितमित्यर्थः ॥ ३९॥ अ०॥ सिद्धांती तदीयं समाधानं भाष्येणासंबद्धमिति दोषान्तरेण दर्शयति तहीति- मू॥ तर्हि भोग्ये पदार्थत्वद्रव्यत्वादिघिया विधौ। प्रवृत्तिस्स्यान्निषिद्धाच्च निवृत्तिस्स्याद्कवीषि किम् ॥ ४० ॥ व्या॥'पुण्येन पुण्यं लोकं नयाति पापेन पाप' मित्यादि श्रुत्या पुण्यजमेव सुखावहं पापजमेव दुःखावहमिति बोधिते सति पुण्ये प्रवृत्ति :- पापाच्च निवृत्तिश्च भवति तां श्रौतप्रक्रियां विहाय कर्मजे यत्कर्मजत्वातिरिक्तं व्यावहारिकसत्यत्वं नाम कश्चिद्वर्मोऽस्ति तज्ज्ञानमेव पुण्ये प्रवर्तकं पापाच्च निवर्तकमिति चेत्-तर्हि भोग्य- त्वादीनामपि व्यावहारिकसत्यत्वस्येव कर्मजन्याश्रितत्वे सति कर्भजत्वातिरिक्तत्वात् तज्ज्ञानेनापि पुंसः पुण्ये प्रवृत्तिः पापाच्च निवृत्तिश् खादतो व्यावहारिकमिति परि- भाषाभाषितं कर्मजमेवेत्यर्थः ॥ ४० ॥

सत्यत्वमिति- मू ॥ सत्यत्वं यत्कर्मजत्वमेव चेत्त्वं सुखी भव ॥। ४०॥॥ व्या।। यथाशात्त्रं वदन्तमनुग्टह्लाति सुखीभवेति॥४०॥ ॥ अ०।। कर्मणो जगत्कारणत्वनिराकरणपरे पञ्चमनिरूपणे प्रतिपादनीय- मेव श्रीभगवत्पादकृतविवेकचूडामणिवाक्यजातमिह अगतः कर्मजत्वमेव सत्यत्व- मिति प्रदर्शनार्थमुदाहरति चूडामणीति- भु ॥ चूडामणिस्थवाक्यार्थालोचनात्सिद्धचतीरितम् ।।४१ ॥ व्या॥ यत्प्राक्कर्मजत्वमेव जगतः सत्यत्वमितीरितम् तत्सिद्धयतीत्यर्थः॥ अ० ॥ तत्र प्रथमतस्तावत् कन्चिन्मन्दाघिकारिणं प्रति 'तस्या आहुतेस्सो मो राजा संभवति।पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति पयसि हीदं सर्वे प्रतिष्ठित'मित्यादि श्रुत्यवष्टंभेन कर्मप्रकृतिकत्वं देहस् दर्शयति भगवत्पादः कर्म- पति- मू। कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । ४१॥। ॥

Page 179

अद्वैतसिद्धान्तगुरुचन्द्रिकायां नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४२।।

क्या॥ देह इति जगतः उपलक्षणं तस्य देहस्यैव प्रारब्घाख्यं कर्म कारण- मिति प्रतिकर्मव्यवस्थावादप्रक्रियया कल्प्यतां नानाद्यात्मन इत्यर्थः ॥ ४२॥ अ०।। इदानीं मध्यमाधिकारिणं प्रति ज्ञानोत्पत्तिक्षण एव जगन्निवृत्तिपरां ,यत्र त्वरय सर्वमात्मैवाभूत तत्केन कं पश्येत् तत्र को मोहः कश्शोक एकत्वमनु- पश्यत' इत्यादि श्रुतिमवलम्ब्य दृष्टिसष्टिप्रक्रियया शरीरादेः कर्मजत्वनिरासकं कर्म- अत्यमेव द्वैतवाद्यभिमतं जगत्सत्यत्वमित्यावेदकञ्च विवेकचूडामणिवाक्यमुदाहरति शरीरस्यति -- मू। शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि। अध्यस्तस्य कुतम्सत्वमसत्यस्य कुतो जनिः ॥ ४३ ॥ अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४३॥॥ व्या ॥ हि यस्मात् 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्ये' दि- त्यादिश्रुत्या अध्यस्तस्य शरीरस्य प्रथमज्ञानसमय एव बाधो दर्शितः ततस्तस्य शरीरस्य प्रारब्धाख्यं कर्म कारणमिति कल्पना भ्रान्तिरेव अन्यथा ज्ञानसमकाल्े प्रारब्धतत्कार्ययोः भोगमन्तरेण निवृत्त्यनुपपत्तेः । एवं प्रारब्धकर्मणि कारणत्वग्रहस्य अ्न्तित्वे सांते नाध्यस्तस्थ कर्माधीनं जन्मादिकं भवतीत्याह अध्यस्तस्य कुल- स्सत्वमसत्यस् कुतो जनिरिति शुक्तिरजतवदध्यस्तस्य अत एवासत्यस्य कनः सत्वं सत्यत्वं कस्मात्प्रमाणात्सिद्धयति-यद्यनध्यस्तं शरीरं तदा कर्माधीनं सत्यत्वं संभवेत्-नान्यथा। कृतो वा व्यापारसाध्यघटस्येव आविद्यकस्य शरीरादेर्जन्म भवेत्। अजातस्य शुक्तिरजतवत् कर्मणा जन्मरहितस्य शरीरादेः बन्धनरूपकर्म- क्षयात कन्तुकमुतादेरिव प्रारब्धकर्मक्षयादेव नाशः न कल्पनािष्ठानज्ञानमात्रादिति कुतः कल्पनीयम्। एवं कर्माधीनजन्मरहितस्य असत्यस्येति अध्यस्तस्येति च असत इति च विशेषितस्य शरीरस्य प्रारब्धकर्म कारणमिति कुतः कल्पनीयमित्यनेनोप- देशेन सत्यस्यैव प्रारब्धं कारणमिति कल्पनीयमिति च कर्मजत्वमेव सत्यत्वमिति च आवेदितमिति विस्पष्टं भातीत्यर्थः।।४३॥।॥ अ०॥ ननु आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं याबन्न विमोक्ष्येऽथ संपत्स्य इति विद्वद्दष्टिपरयाऽनया श्ृत्या तत्त्वज्ञानानन्तरमपि सत्संपत्तिरुपसोक्षस्य कमारब्धशरीरपातार्वधिकसमयविळंबाकाङ्कावाचकेन यावदिति पदेन व शरीरस्य कम जत्वरूपस त्यत्वरयांवीदतत्वे सति तद्विरुद्वोऽर्थः वथमत्र भगवत्पादैर्वर्व्यत इति

Page 180

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १६७ प्रतिकर्मव्यवस्थावादनिरूपणम्।

चेत् बाढमेवं भवदुक्तप्रकारेणैव 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्' तत्र को मोहः कश्शोक एकत्वमनुपश्यतः । तथा विद्वान्नामरूपाद्विमुक्त' इत्यादि- श्रुतित्राधितर्माप कर्मजत्वं विद्वच्छरीरस्य 'भोगेन त्वितरे क्षपयित्वा सम्पद्यत' इति सत्नतद्ाष्याम्यामभ्युपगम्य जगद्याथात्म्यानभिज्ञान् प्रति विद्वद्ृष्टिपरैवेयं श्रुति- व्याख्याता। तथापि नेयं विद्वद्टष्टिपरा 'यथा सोम्य पुरुषं गन्धारेभ्योSसिनद्धाक्षमानीय तं ततोऽतिजने विस्जेत् स यथा तत्न प्राङ्कोदङ्कावराङ्डा प्रध्मायीत अभिनद्ाक्ष आनीतोऽभिनद्ाक्षो विसृष्टः तस्य ग्रथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एता दिशं व्रजेति स ग्रामाद्वामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसंपद्येत एवमेवेहाचार्यवान् पुरुषो वेदेत्यन्ता' श्रृतिः-नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्म- वान् किं तर्हि सदयत्तत्वमसीति अविद्यामोहपटाभिनहनान्मोक्षितो गन्धारपुरुषवच्च सं सदात्मानमुपसंपद्यत इत्येतमेवार्थमाहेति छान्दोग्योपनिषद्भाष्येण-आचार्या छ््धावद्यस तत्क्षण एव सत्संपत्तिपरतया प्रदर्शितत्वात्। तथैव 'तस्य तावदेव चिरमित्यारभ्य यावन्न विमोक्ष्येऽथ संपत्स्ये' इत्यन्ता- पि न तत्वविद्ृष्टिपरा-न विमोक्ष्ये इत्येतदुत्तमपुरुषवचनं न विमोक्ष्यत इति पुरुष- व्यत्ययेन गृद्धीयात् सामर्थ्यांत्।। टी० ॥ 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्ये' दित्यादि श्रतिबोधितदेहस्थित्यनुपपत्तिरूपात्-तथैव 'अथ संपत्से' इत्यत्रापीति छान्दोग्योपनिषद्भाष्येण-यथा भस्ीभृतायामपि खमातरि तत्पुत्रैरज्ञैः खप्ने प्राचीनसशरीरत्वसंस्कारादिभिः मातुः तच्छरीरोपेतत्वं परिकल्प्यते तथा 'अशरीरं वाव सन्त न प्रियाप्रिये स्पृशत' इति श्रुत्युक्तप्रकारेण अशरीरे न विदुषि जडैः खवप्राचीनैःसशरीरत्वसंस्कारादिभि: तच्छरीरोपेतत्वं परिकल्प्य कथं पुन- विद्ूच्छरीरस्य ज्ञाननिवर्त्यत्वं संभवति अद्यापि तदीयस्यास्य शरीरस्य तेन विदुषा परेरपि दृश्यमानत्वादित्याशङङ्किते सति-नायमेतेषां तत्वोपदेशसमय इति जानाना सती तेषां ग्रहणमनुसटत्योत्तरं वक्तीति श्रुतीनाम्मिथो विरोधपरिहारार्थमभिप्रेत- त्वाच्च। अतः सर्वश्रुत्यविरोधेन ॥ श्रो० ॥ शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि इत्यादिश्लोकैः शरीरस्य प्रारब्धकर्मजन्यत्वरूपसत्यत्वनिराकरणे न कश्चिदपि दोषः सम्भवतीत्यमुमेवार्थ प्रकटीकुर्वन् कर्मजत्वमेव सत्यत्वमित्यर्थात् दर्शयाते क्षानेनेत्यादिना-

Page 181

१६८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू।। ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥ ४४ ॥ तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्। समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥४५॥ न तु देहादिसत्यत्वबाधनाय विपश्चताम्। इत्याचार्यः कर्मजत्वं सत्यत्वमिति चाब्रवीत् ॥ ४६॥ ठया॥ शङ्कावतो जडान् समाधातुं आचार्यवान् पुरुषो वेदेत्यादिका श्रुतिः 'यावन्न विमोक्ष्ये अथ संपत्स्ये' इत्युत्तमपुरुषप्रयोगेण विद्वद्दष्टिपरेव भूत्वा स्वस्मात् बाह्यस्य शङ्कावतः पुरुषस्य निश्चयानुसारेण प्रारब्धकर्म तत्कार्यञ्च भोगैकनाइय त्वात् ज्ञानेनानिवृतं सत् तिष्ठतीति ब्रूत इत्याह बाह्यटष्ट्या प्रारब्धं वदति श्रतिरिति प्रारभ्यते इति प्रारब्चं शरीरमित्यर्थः ॥न स्वाभिप्रायेण विद्वच्छरीरादे: सत्यत्वावेदनाय कर्मणा प्रारब्धं शरीरमिति ब्रूत इत्याह न तु देहादिसत्यत्व- बोधनाय विपश्चितामिति विवेकचूडामणिवाक्यमुपसंहराते इत्याचार्य इत्यादिना॥ ४६ ॥ अ०॥ इदानीमुदीरितार्थे समन्वयसूत्रभाध्यत्य व्याख्यातृसम्मतिमाह --

मू ॥ रामानन्दोऽप्येवमेव समन्वयनयेऽब्रवीत्। देहात्मनोस्तु संबन्धस्सत्य एवेति शङकते ॥ ४७॥ इत्युक्ताथ प्रतीकस्तु भाष्यस्यायं प्रदर्शितः । धर्माधर्मनिमित्तं हि सशरीरत्वमात्मनः ॥४८॥। इत्यतः कर्मजन्योऽयं संवन्धस्सत्य ईरितः ॥ ४८।।।। व्या॥ अत इति व्याख्यानोक्त्तसत्यशब्दस्य च भाष्योक्तस्य धर्माधर्म निमितं सशरीरत्वमिति वाक्यस्य च एकार्थपरत्वादित्यर्थः। शेषस्सुगमः ॥४८॥॥ अ०॥ द्रव्यापूर्वमयस्य कियाजन्यगुणापूर्वनिमित्तकत्वे Sपि सत्यत्वं सदष्ान्त- साह द्रव्येति- मू॥ द्रव्यापूर्वमयं यत्तद्गुणापूर्वनिमित्तकम् ॥ ४९ ॥ अपि सत्यं वेगतो हि जन्यगन्त्रिषु वद्धवेत्।

Page 182

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्दपरं १६९ प्रतिकर्मव्यवस्थावादनिरूपणम्।

क्या॥ गवि व्याघ्र इति विभ्रमात् बाणप्रयोक्तः पश्चाद्गोसाक्षात्कारानन्तरं तद्रोरक्षणार्थे तद्वाणविनाशार्थ च अयं बाणोऽयोमात्र एव तत्परिणामत्वात् न तद- तिरिक्तो बाणो नाम कश्वित्पदार्थोऽस्तीति सवार्जितबाणाधिष्ठानायस्साक्षात्कारप्रचये- नापि अनिवर्त्यत्वात् स केवलाविद्यकतद्वयाघ्रवत् न मिथ्या किन्तु सत्य एव तद्वत् तदुभयविधकर्मजं जगदप्यर्थः । ननु बाणस्य मौर्व्याघातजन्यवेगगुणात्प्राक्तनत्वे सति गमनक्रियावतो बाण. स्य वेगगुणकबाणजन्यत्वं कथमिति चेत् यथा व्रीहेरवघातात्पूर्वभावित्वेऽपि 'ब्रीह्ी- नवहन्ती'ति विधिप्रामाण्यान्यथानुपपत्त्या वितुषस्य व्रीहेः विधेयावघातजन्यत्वं तद्वत्संभवेदतो न कश्चिद्दोषः ।। ४९॥॥। ।अथ प्रतिकर्मव्यवस्थाशब्दार्थारम्भः ॥ अ०॥ यदेतत् कर्मप्रकृतिकं शारीरादि जगदेकमेव सत् प्रतिजीवं युगप. द्विषयो भवतीति व्यवस्थैव प्रतिकर्मव्यवस्थेत्याह लक्ष्येति -- मू।। लक्ष्यैक्याज्ञानतोऽध्यासः कर्तृत्वस्याथ कर्म यत् ॥ ५०॥ ततो द्रव्यमपूर्व स्यात्तन्मयं निखिलं जगत्।

सज्जीवाभ्याञ्च तादात्म्यापन्नं तच्चक्षुरादितः । जीवान् प्रत्येकदैकं सत्स्यात्कर्मेति व्यवस्थितिः ॥ १२॥ प्रतिकर्मव्यवस्थति मन्दान्प्रत्युपदिश्यते ॥ १२॥॥ व्या।। आत्मानात्मभेदस्य आत्मगतासङ्गत्वादेश्च आचारकं परमेश्वरप्रे रितं यत्तस्मिन् अज्ञाने कर्तृत्वापादके सति कर्ानुष्ठीयमानात् कर्मणः अपूर्वद्वारा जायमान स्वकीयं परकीय वा द्रव्यापूर्वमयं वपुर्ब्रह्मजीवाभ्थां सहाविवेकतः सन्घ- टः अहं मनुष्य इति च तादात्म्यापन्नमेकमेव सत् एकदा जीवान् प्रति कर्मविष- यो भवेदिति या व्यवस्थितिः सा प्रतिकर्मव्यवस्थेति मन्दान् प्रत्युपदिश्यते। आ- चार्येरिति शेषः ।। ५२॥ ॥ अ०॥ वक्ष्यमाणादृष्टिसष्टिवादात् प्रतिकर्मव्यवस्थायाः वैलक्ष्यप्रदर्शनाग तत्पक्षावलम्बिनां सिद्धान्तं दर्शयति अस्मिन्नित्यादिना- 15

Page 183

१७० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू।। अस्मिन्वादे तु सिद्धान्तस्संगृद्य प्रोच्यतेऽघुना ॥ ५३ ॥ लक्ष्यैक्यावारकाज्ञानं कर्तृत्वादौ निमित्तकम्। न जगत्प्रकृतिस्तस्मिन्विचारेण विनाशिते ॥ १४ ॥ लक्ष्योपहितयोरैक्यज्ञानादेव मृतेः परम्। विमुक्तस्स्यात्तदाप्यन्त्यज्ञानेन न विनाश्यता ॥ ५५ ॥ मृतदेहस्य पुत्राद्यैस्संस्कार्यत्वाच्च सत्यता ॥ १५॥।। व्या॥ अस्मिन्वाद इति प्रागुक्तप्रतिकर्मव्यवस्थावाद इति यावत् लक्ष्यैक्या- चरकाज्ञानं लक्ष्यपद उपलक्षितोपहितवस्तुपरं तथा च तयोः यस्स्वकीयशरीर- घ्रयोपलक्षितः यस्तु महेश्वरः तदीयशरीरत्रयोपहितः तयोरेकत्वावारकमज्ञानमित यावत् लक्ष्योपहितयोरैक्यज्ञानादेव विमुक्तस्स्यादित्यन्वयः ननु अ्मिन्वादे तत्व पदोपलक्षितयोरैक्यज्ञानस्य मोक्षसाधनत्वं कुतो नाङ्गीक्रियते यदि जीवस्य विदेह- कैवल्यसमये आधिदैविकस्य महेश्वरस्य स्वकीयसमष्टिशररित्रयात् विवेकसंपन्नत्वे- ऽपि तदीयशरीरत्रयस् 'मायिनन्तु महेश्वरं विद्या'दिति श्रुत्या 'कार्यानन्विततवे सति विद्यमानत्वे सति व्यावर्त्तकमुपाधिरिति उपाधिलक्षणेन च दर्शितप्रकारेण वि- दमानत्वात् तदुपहितेनैवैक्यं विदेहमुक्तस्य सम्भवति । अन्यथा एकस्योपलक्षितत्वसाक्षात्कारेणैव आधिदैविकेश्वरस्याप्युपलक्षितत्व सम्भवे तद्वत् स्वान्येषामपि जीवानां विनष्टोपाधिकत्वेन तत्तच्छरीराययुपलक्षितत्वेन तद्वादाभिमतस्य पुम्भेदेन बन्धमुक्तिव्यवस्था उपरुध्येत। तत्परिहारार्थ जीवस्य प्रतिबिम्बत्वं उपाधिपरिवेष्टितत्वञ्चावलम्बितम्। तयो :- जीवस्तावत् न प्रतिबिम्बो नाप्यवच्छिन्नः किन्तु ब्रह्मैव अविद्यया संसरत् विद्यया विमुक्तञचेति वार्तिकाचार्यसिद्धान्तेन सोSकामयत बहु स्यां प्रजायेये- त्युपक्म्य तदेवानुप्राविशदित्यादिश्रुत्यनुसारिणा प्रनिषेधेऽपि। तन्निषेधमुल्लद्म्य जीवस्य प्रतिबिम्बत्वावलम्बिनः तत्त्वज्ञानात् बिम्बभावा- पत्तिरेव मोक्ष इति दीक्षितैः स्वकीयसिद्धान्तलेशसङ्गहे यथा दर्शितः । तथैव प्रागुक्तवार्तिकाचार्यकृतनिषेवान्तरमुलक्क्य स्वात्मनः उपाधिपरिवेष्टित. त्ववादिन: तत्त्वज्ञानात् विनष्टोपाधिकत्वन उपलक्षितत्वेऽपि तस्य मायाद्युपहित- ब्रह्मभावापतिरेव मोक्ष इति प्रतिकर्मव्यव्रस्थानिष्ठानां दर्शित अलंविस्तरेण शेषस्य

Page 184

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १७१ प्रतिकर्मव्यवस्थावादनिरूपणम् ।

वत्ति: करियते अन्त्यज्ञाननेति चरमसाक्षात्कारेणापि न विनाश्यत्वं मृतस्य विद्व- चछरारस्येत्यर्थः तत्र हेतुमाह पुत्रादयस्संस्कार्यत्वादिति ज्ञाननाश्यत्वाभावादेव रत्यत्वमपि कार्यस्य सिद्धयर्तीत्याह सत्यतति॥५५॥॥ अ० । एवं प्रतिकर्मव्यवस्थायाः दृष्टिसृष्टिवादाद्वैलक्षण्यं द्शयित्वाSबुना तु द्वैतवादाद्रेलक्षण्यं दर्शयति वाच्ययारित्यादिना- मू। वाच्ययोरुभयोर्यद्वज्जीवात्मपरमात्मनोः ॥१६॥ द्वैतिनां हि मिदा तद्वज्जीवानां च परस्परम्। जडेशयोर्जडानां च जडजीवभिदा तथा ॥ ५॥ सत्यैव न तु मिथ्याऽल विज्ञानेनाविनाशतः । अनित्यतैव वादेऽस्मिन् मिथ्यात्वं न तु तद्दूयम् ॥५८॥ त्रैकालिकनिषेधस्व प्रतियोगित्वरूपकम् । चिन्मयत्वे-तामसत्वे-नाश्यत्वं ज्ञानतश्र यत् ॥ ५९.॥ सिद्धेपि लक्ष्ययोरैक्ये नान्यदैक्यं मतं भवेत् ॥ ५९॥॥ व्या। वादेऽस्मिन्निति प्रतिकर्मव्यवस्थावाद इत्यर्थः तत्र जगतः मिथ्या तवं नाम भोगौकनाश्यत्वरूपमनित्यत्वमेव भवेत् न तु सत्तैक्यवादाभिमतं त्रैकलि- कनिषेप्रतियोगित्वरूपमनृतशब्दलक्ष्यात्मकत्वं नापि दृष्टिसष्टिवादाभिमतं ज्ञान- कृतथ्वंसप्रतियोगित्व वा संभवतीत्युक्ता प्रतिकर्मव्यवस्थायां फलितमाह सिद्धेSपीति॥ अ०॥ अधुना ज्ञाननाश्यत्वरूपमिथ्यात्वावलम्बिनां चोद्यमनूद्य प्रकृतं प्रति- कर्मव्यवस्थावदि समर्थयति मुक्तस्ेति- मू॥ मुक्तस् मृतदेहादि: पुत्राद्यज्ञानकल्पितः ॥ ६० ॥ इति चद्दृष्टिसृष्टयाख्यवाद एवापतेत्तदा ॥ ६ ॥ व्या ॥ स्पष्टोऽर्यः ॥६०॥॥ अ० ॥ प्रतिज्ञातामेवापत्तिं विशदयति प्रतिकर्मव्यवस्थायामिति- मू ।। प्रतिकर्मव्यवस्थायां भोगार्थ गतिसिद्धये॥ ६१॥

Page 185

१७२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अंशोऽवच्छिन्न आभासो ब्रह्मणो जीव उच्यते। न कर्मजफलाभावाददष्टिलृष्टौ तथोच्यते ॥ ६२॥ किन्त्वविष्ठानभूतोऽत्ति स्वाध्यस्तं स्वाम्रवत्स्वयम् । ६२।।।। ्या॥ स्पष्टोऽर्थः ॥ ६२॥॥ अ० ॥ अधुना स्वात्मजगतोः एकसत्तादिवादत्रयवैलक्षण्यानभिज्ञाना तद्वादत्रयवैलक्षण्यं दर्शयति स्वात्मन इत्यादिना- मू । स्वात्मनो जगतोऽप्येकसत्वे स्वस्य विभुत्वतः ॥ ६३ ॥ पृथग्व्यक्तेरभावाच्च गत्यनावश्यता किल। प्रतिकर्मव्यवस्थायां दृष्टिसृष्टौ तथैव च ।। ६४ ।। स्वात्मनो जगतोऽप्येकसत्तावादे क्रमाद्भवेत्। कर्माऽज्ञानं स्वात्मवस्तु जगत्सत्ताप्रदं जडे ॥ ६५ ॥ प्रमाताऽथ विभुस्साक्षी स्फूर्त्तिदोऽन्तेडयथा स्फुरेत्॥६॥॥ व्या।। आद्यपक्षदूये स्वात्मातिरिक्तदृश्यवस्तुसम्भवादणुर्विभुश्चात्मा क्रमा- द्विषयस्य स्फूर्तिप्रदो भवेत् अन्ते तृतीयपक्षे तु स्वातिरिक्त्तविषयाभावात् स्वात्मैव स्व्रस्याद्वितीयत्वमविहाय प्रतिबन्धकज्ञानाभाववशात् अयथा स्फुरेदित्यर्थः॥ ६५॥॥ अ०॥ अयं प्रतिकर्मव्यवस्थावादः मन्दाधिकारिणं प्रतिप्रतृत इति केन प्रमाणेन अवगम्यत इति पृच्छति केनेति- मू ॥ केनायमुपदेशस्तु मन्देध्यश्चेति गम्यते ॥ ६६ ॥ व्या॥ स्पष्टोऽर्यः ॥६६॥ अ०॥ उत्तरमाह निरूपण इति- नू। निरूपणे द्वितीये प्रागुक्तं तुर्यप्रदर्शके। श्रोतुश्चित्तविपाकेन विषण्णेत्यादिकं वचः ॥ ६७॥ मानमद्वैतसिद्धौ तु दृष्टिसृष्टावपीरितम् । तथा तर्ह्युपदेशस्तु मध्यमादेः कथं यदि ॥ ६८॥

Page 186

चतुर्थ लक्ष्यैक्यमात्राविरोधि जगत्सत्यत्वपरं १७३ प्रतिकर्मव्यवस्थावादनिरूपणम्।

सोडपि तत्र क्रमेणोक्तः पुरा ुर्यप्रदर्शके। तथापि पञ्चमाद्येषु विस्तरेणावगम्यताम् ॥ ६९॥ व्या।। तन्नेति द्वितीयनिरूपण इत्यर्थ: । शेपससुगम: ॥ ६९ ॥ अ०॥ इदानीं लोकवत्तु लीलाकैवल्यमिति सूत्रभाध्यावसाने न चेयं पर- सार्थविषया साटटश्रुतिः इति भाष्यञ्च वैषम्यनैधण्ये न सापेक्षत्वात्तथाहि दर्शय- तीति सूत्रार्थपरं अभ्युपेत्य च सृरष्टेस्तात्विकत्वमिदमुक्त्तमिति वाचस्पत्यञ्चावलम्ब्य कर्मजन्यस्य पारमर्रिकत्वतात्विकत्वसंज्ञकसत्यत्वसम्भवात् न मिथ्यात्वसद्धिरिं- त्याक्षिपति परार्थमिति -- मू ॥ परार्थ कर्मकार्यस्य सृष्टिर्या सूत्रतो मता। पारमार्थिकतां तस्या ज्ञात्वा वै कर्मजत्वतः ॥ ७०॥ परमार्थपरा नेयं सृष्टिश्रुतिरितीरणात्। तात्त्विकत्वमिद्ं सृष्टेरभ्युपेत्य समीरितम् ॥ ७१॥ इति वैषम्यनैर्धृण्ये नेति सूत्रीयके पुनः । वाचस्पत्ये कर्मजत्वं तात्त्विकत्वमितीरणात्॥ ७२॥ कर्मजन्यस्य सत्यत्वे मिथ्यात्वन्तु कथं यदि। वक्ष्यमाणप्रकारेण मिथ्यात्वमवगम्यताम्॥ ७३॥ क्या॥ एवञ्चैतन्निरूपणे दर्शितैरनुवादकशास्त्रैर्जगतो ब्रह्मविषयकवृत्ति- ज्ञानकृतध्वंसप्रतियोगित्वं विना भोगैकनाश्यत्वस्य द्वैतवादे-प्रतिकर्मव्यवस्थावादे चाङ्गीकृतत्वादत पूर्वपक्षत्वेनोदाहृततद्वादद्वयेSपि पारमार्थिकमति च-तात्त्विकमिति च सत्यमिति च कर्मणा निर्मितमिति व्यवहारे विषयो भवतीति व्यावहारिकमिति च नामभेदवति अनित्यत्वरूपमिथ्यात्वं विना-न कश्विद्विशेषोSस्ति-ततो विशेषस्त्वर्द्वन वादे प्रागुक्तप्रथमादिनिरूपणत्रयेणोत्तरत्र पञ्चमादिनिरूपणषट्केन च विस्तरेणाव- गम्यतामित्यर्थ:॥ ७३॥

लक्ष्यैमात्राविरोधि जगत्सत्यत्वपरं प्रतिकर्म- व्यवस्थावादनिरूपणं संपूर्णम् ॥। ब्रह्मैवाहमस्मि । मो तत्सत्॥

Page 187

१७४ अद्वत्वसिद्धान्तगुरुचन्द्रिकार्यां

॥ हषिः ओम््॥

पञ्चमं वाच्यायैक्यानुकूलं जगन्मिध्यात्वनिरूपणम्।

अ० ॥ प्राकप्रथमनिरूपणारम्भे शिष्याः धर्मे प्रकृतिता भातीति चतुर्थाभि- प्रायमावेद्यानन्तरम् यतस्सुषुप्तावविद्योपाधिके जीवे जगतो लयप्रतिपादिकां श्रृति- मवलम्ब्य तत् न किश्विदिति पञ्चमाभिप्रायावेदनेन फलं प्रति कर्मणः उपादान- त्वं निमित्तत्वं वा न संभवतीति भातात्युक्ता तद्विशेषाञ्छाधि नो गुरविति वाक्येन च धर्माधर्मगर्तावशेषान् सुषुप्तौ विलयिमानजगद्गतविशेषानप्यपृच्छन् अतः तत्प्रति- वचनानुकूलेन अनेन न चाविद्यासहकृतजीवस्य कारणत्वे जगद्वैचित्र्यानुपपत्ति :- जगदुपादानस्याज्ञानस्य विचित्रशक्तिमस्वादिति अद्वैतसिद्धौ दृष्टिसष्टिव्यवस्था- पकवचनेन। तथैव 'शौनको ह वै माहाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति। तस्मै सहोवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद्रह्मविदो वदन्ति परा चैवापारा चेति' श्रुत्यर्थप्रकाशकेन। अनेन परा च् परमात्मविद्या अपरा च धर्माधर्मसाधनतत्फलविषया। ननु कस्मिन्नु विदिते सर्वविद्धवतीति शौनकेन पृष्ठं तस्मिन् वक्तव्ये अपृष्टमाह अङ्िराः ट्रे विद्ये इत्यादि नैष दोषः क्मापेक्षत्वात् प्रतिवचनस्य अपरा हि विद्या अविद्या सा निरा- कर्तव्या तद्विषयो धर्माधर्मसाधनतरफले हि विदिते न किञ्चित्तत्वं नो विदितं स्यादि ति निराकृत्य हि पूर्वपक्ष पश्चात् सिद्धान्तो वच्तव्यो भवतीति। न्यायाबिति भाष्ये- ण च एतदुक भवति तत्वजिज्ञासुस्तावत् स्वात्मनो जगदुपादाबत्ववेदनेन हि सर्वविद्धवेत् धर्माधर्मयोरुपादानलेSपि तयोः नित्यपरोक्षत्वेन तद्विज्ञानेनैव सर्व- स्यापरोक्षीकर्तुमशक्यत्वात् नास्य सर्ववित्त्वं संभवति य आधिदैविक: परमेश्वरो जीवानां कर्मापेक्षस्सन्ुच्चावच्वफलात्मकं जगत् सजति तस्य पाशुपतादिमतोक- रीत्या निमित्तकारणमांत्रत्वेन कार्यभूतात्फलात् जीवेभ्यश्ष वास्तवभेदस्य संभाव्य- मानत्वात् तदभिम्नोऽस्मीति भाकेन विज्ञानेनापि नायं मुमुक्षुस्सर्ववित् स्यात् स्वा- त्मनश्राह्त्वात् म कर्मापेक्ष स्षृत्वं च संभवति कर्मजत्वे च चतुर्थनिरूपणे प्रद-

Page 188

पञ्चमं वाच्याद्यैक्यानुकूलं १७६ जगन्मिथ्यात्वनिरूपणम् ।

र्रितश्रुतिस्मृत्याद्युक्तप्रकारेण सत्यत्वञ्चापतेत् अतः कर्मजत्वं जगतो निराकृत्य अविद्यामान्रेण स्वस्मिन्विवर्तत्वेऽध्यस्तत्वे वा विज्ञापिते सति सर्वविदयं भवेदिति। एतत्सिद्धिवचन-भाष्यादिप्रामाण्यानुगुण्येन सर्वेषां लिझादीनां परिसंख्यात्व- प्रक्रियया कर्मणो निवृत्तिरूपत्वमवगम्यते। निवृत्तिर्नाम पुरुषस्यौदासीन्यमेव ततो भावरूपकर्माभावाज्जगतः कर्मजत्वाभावे सति केवलाविद्यकत्वं ततो ज्ञाननिव्त्येत्व- रूपं मिथ्यात्वं चेति विशेषद्वयमस्मिन् पञ्चमनिरूपणे निवेदयति निवृत्तीति- मू ।। निवृत्तिबोधकत्वेन विधे: कर्म यतो न हि। कर्मजत्वनिरासेन मिथ्येति जगदुच्यते ॥ १॥ ठ्या। यतस्सर्वविधिश्रुतेर्निवृत्तिबोधकत्वेन फलारम्भकं कर्मस्वरूपं न सि- दूथात अतः कर्मजत्वनिरासेन मिथ्येति जगदुच्यत इत्यर्थः॥ विधीनां निवृत्तिबो- धकत्वं तावदष्टाशीतितमादिक्चोकैर्वक्ष्यति तत्र तद्विस्तरेणोपपादयिष्यामः ॥१॥ अ०॥ सदृष्टान्तमस्मिन्पञ्वमनिरूपणे सिद्धान्तपूर्वपक्षयोः फलं विभज्य दर्शयति अज्ञानादिति- मू । अज्ञानादुत कर्मतो मृदि घटो जातः कदाचित्तयो- मृज्ज्ञाने भ्रमहेतुजो न निवसेज्जातो घटः कर्मतः । ज्ञानानां निचयान्न नश्यति तथाऽज्ञानात् क्रियातो जगत् जातं चेन्नवतीति पक्षयुगळे ज्ञेयं फलं भेदतः ॥ २ ॥ व्या। कदाचित् भ्रमस्थले मृत्पिण्डे अयं घटः इत्यज्ञानादारोप्यते-कदा- चित् प्रमास्थले कुलालव्यापारात् घट उत्पन्नो भवेत्-तयोर्मध्ये भ्रान्तिकारणा- ज्ञानजस्तावतू नायं घटः-कित्वियं मृदिति ज्वाने सति तत्क्षणादेव नश्यति। कर्म- जस्तु घटो न व्ञानशतेनापि नश्यति-पृथुबुध्रोदराद्याकारता न त्यजति। यथायं दृष्टान्तस्तथा अगदपीति सिद्धान्तपूर्वपक्षयोः फलं विविच्य ज्नीयादित्यर्थः ॥२॥ अ० ॥ चतुर्थनिरूपणोक्तप्रकारेण अगतस्सत्यलं सवीकृत्याक्षिपति कर्म- जन्यस्येति- मू ॥ कर्मजन्यस्य सत्यत्वे मिथ्यात्वं जगतः कथम् ॥२॥॥ क्या॥। स्पष्टोऽर्थः ॥ २॥॥

Page 189

१७६ अद्वैतासद्धान्तगुरुचन्द्रिकायां

अ० ॥ सर्व विकारजातं मायामात्रं। मायामात्रमिद द्वैतमद्वैतं परमार्थत इत्थादि श्रुतिमवलम्ब्य समाधते यत इति -- मू। यतोऽस्य कर्मजन्यत्वं मायामात्रमिति श्रुतेः ॥३ ॥ बाध्यतेऽतोऽस्व मिथ्यात्वं सिद्धयत्यद्वैतवादिनां ।। ३।॥ व्या।। यतः कारणात् मायामात्रमिदं द्वैतमति श्रुत्या सामानाधिकरण्ये नास्य अगतो मायापरिणामत्वमवबाध्य मात्रपदेन द्रव्यापूर्वपरिणामत्वं तावत् बा- व्यते तस्मात् मिथ्यात्वसिद्धिरित्यर्थः ॥ ३॥॥ अ०॥ पुनशशङ्कान्तरमनूदय तत् दोषमाह-मायिकत्वादिति- मू॥ मायिकत्वादपूर्वस्य तन्मयस्यास्तु सत्यता॥ ४॥ इति चेन्न तदा ज्ञानात्समायं शून्यतां व्रजेत् ॥ ४॥ ॥ व्या।। अयूर्वस्येति सोमाज्यादिविकारस्य-'सर्वे विकारजातं मायामात्र' मिति श्रुत्युक्तप्रकारेण स्वकारणपरंपरया मायाविकारत्वात् तन्मयस्य द्रव्यापूर्व- विकारस्यापि जगतश्चतुर्थनिरूपणोक्तप्रकारेण सत्यत्वं भवेदिति चदपूर्वस्य निर्यन्रं मायाजन्यत्वपक्षे न जगतस्सत्यता संभवति किं तु मायाधिष्ठानात्मसाक्षात्कारात् मायाबाशे तत्परिणामात्मकमपूर्वादिकं जगदपि तदानीमेव नश्येदित्यर्थः ॥ ४॥ ॥ अ० ॥ पुनः प्रकारान्तरेण शब्ठते द्रव्येति- मू।। द्रव्यापूर्वमयत्वेन विना मायामयस्य हि॥ गुणापूर्वनिमित्तत्वे सत्यता किं न सिद्धयति ॥ ५॥।॥ व्या । मायामात्रपरिणामस्य जगतः यक्षजन्यगुणापूर्वनिमित्तकत्वपक्षे सत्यता कथ न सिद्धृयतीत्यर्थः ॥ ५॥॥ अ० ॥ प्रागुक्तमाशङ्कामनूद्य दृष्टान्तप्रदर्शनेन निराकरोति द्रव्यापूर्वमिति मू ॥ द्रव्यापूर्व विनाध्यस्तमाया चेत् प्रकृतिस्तदा ॥६ ॥ न कर्मयोगतो माया विकाराकारतामियात्। शुक्तिरौप्यं यथा स्वर्णकारकर्मप्रयोगतः ॥ ७ ॥ व्या॥ स्पष्टोऽर्थः ॥७॥ अ०॥। शक्कान्तरमनूद्य समाधत्ते जगदिति- मू॥ जगत्प्रकृतिभूतेनासङ्गेन ब्रह्मणाथवा।

Page 190

पर्चमं वाच्याद्यैक्यानुकूलं १७७ जगन्मिथ्यात्वनिरूपणम् ।

अध्यस्तमायया कर्मसंयोगो नास्ति चेत्तदा ।। ८।। तदुपादेयवैचित्र्यहेतुत्वं कर्मणः कथम्। दर्शितं यदि शास्त्रेण मूढानुसरणाय तत् ॥ ९ ॥ व्या। घटपटाद्युपादानभूतेन मृत्तन्त्वादिना सह घटपटादिवैचित्र्यहेतुभूत- कुलालकुविन्दादि क्रियासंपर्कवत् जगतो विवर्तोपादानभूतेन प्रत्यगात्मना-परिणाम्य- पादनिनाज्ञानेन वा जगद्वैचित्र्यहेतुभूततत्तत्प्राणिकर्मसंपर्काभावे कथं वैषम्यनैर्ष- णये न सापेक्षत्वात्तथाहि दर्शयति'-'कृतप्रयत्नापेक्षस्तु विहित प्रतषिद्धाचिग्य्थ्या- दिभ्य इत्यादिसूत्रेण कर्मणो जगद्वैचित्र्यहेतुत्व वर्णितमिति प्राप्ते समाधत्ते। मूढानुसरणाय तदिति तत् कर्मणो जगद्वैचित्र्यहेतुत्वकथनमित्यर्थः॥ एतादृश- शास्रत्य मूढानुसारित्वं तावदुत्तरत्र विस्तरेण प्रपञचयिष्यति । ९॥ अ०॥ शङ्कान्तरमनूद्य समाधत्ते नन्विति- मू ।। नन्वस्य सत्यता श्रुत्या मिथ्यात्वं किं न बाध्यते। यदि साधकवैकल्यात् सत्यश्रुत्या न बाध्यते ॥ १० ॥ किन्तु साधकवत्त्वेन मायामात्रत्ववादिनः । शास्त्रस्य तेन युक्तस्स्याद्वाघस्सत्यश्रुतेः किल ॥ ११ ॥ व्या। नन्वस्येति अस्य फलात्मकस्य सर्वस्य जगतः सत्यताश्रत्या 'तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तन्याचरथ नियतं सत्यकामा' इत्यादिकया चतुर्थनिरूपणेन व्याख्यातया मिथ्यात्वं मायामात्मिदं द्वैतमद्वैतं परसार्थतः इत्याादश्रुतिबोधितं केवलमायकत्वमित्यर्थः । तेनेति साधकवता शास्त्रेण नदेतत्सत्यमित्यादिश्युतेरेव बाधो युक्क्त इत्यर्थः ॥११॥ अ० ॥ सर्वस्य विकारस्य केवलमायिकत्वविधायकस्य 'सर्व विकारजात मायामात्र' मित्यादिशास्त्रस्य साधकशात्त्रसद्भावं प्रतिजानीते-साधकानीति- मू । साधकान्यविरुद्धार्थवादीनि विविधानि च। स्वार्थस्य मायामातत्वतात्पर्याणि क्रमाद्गवे ॥। १२ ॥

Page 191

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

नया।। साधकान्याईं अचिरुद्धार्थवादोनोति सर्वे विकारजातं माया- मात्रमित्यादिश्रुत्थविनुद्धार्थपराणि शोस्त्ाणीति शेषः। तान्येव विभिनाष्ट स्वार्थस्य मायामात्रत्वतात्पर्याणीति कि तान्येकार्थवाचकानि नेत्याह विविधानीति विविधार्थपराणीत्यर्थः ॥ प्रथमं सहायवच्छास्त्रं उपन्यस्यानन्तरं राहायशास्त्राणि वक्ष्य इत्याह कभाङ्गव इति ॥। १२॥ अ०।। इदानीं महावाक्यरत्नावळ्यां जर्गन्मिथ्यावाक्ये समीरितशतोष- निषदन्तर्गतश्रुतिद्वियं दर्शयति मायामात्रमिति- मू॥ मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । सर्वे विकारजातं यन्मायामात्मिति श्रुतेः ॥ १३ ॥ वक्ष्यमाणानि शास्त्राणि सहायानीति गम्यताम् ॥ १३।।॥ क्या। सर्व विकारजातें मायामात्र। मायामात्रमिद द्वतमद्वैतं परमाथेन इति श्रुवेरेवोत्तरत्र वक्ष्यमाणानि शास्त्राण्यनुचराणीतयर्थः ।।१३।। अ०॥ इदानीं 'येयं प्रेने विचिकित्मा मनुष्येऽस्तत्यके नायमस्नीति चैके एनद्विद्यामनुशिष्स्त्वयाह' मिति नचिकनसा शिष्येण पृष्टस्सन् वर्मराजो देवः प्रश्नानुरूपं 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनं। यथा च मरणं प्राप्यात्मा भवति गौतमे' ति प्रतिज्ञाय तमेव प्रतिज्ञातमर्थे 'य एष सुप्तेषु जागर्ति कामं काम पुरुषो निर्मिमाणः । तदेव शुकं तद्रह्म। तदेवामृतमुच्यते। तस्मँलाकाः श्रितास्सर्वे तढ नत्यति कश्चन एनट्रै त' दिति काठके नचिकेनसं प्रत्युपददेश अस्थायमर्थः यो जीवो मरणानन्तरमस्ति न वेति नचिकतसा विचिकित्सितःयश्र वक्ष्यमाणमुण्डक- प्रश्नोपनिषदुत्तप्रकारेण स्वप्नावस्थायां मनसि प्राणादिषु सर्वलोकेषु प्रलीनेषु सत्सु 'जीवापेत वात किलेदं त्रियते न जीवो म्रियत' इति श्षुत्युक्तप्रकारेण जीवः स्वय- मम्रनस्सन् स्वस्याभिनव विचित्रगात्रकळत्रपुत्रादिकं वासनावैचित्र्यात् विचित्रश- किकिमदविद्यासाहचर्याच्च सृजन् सन् तत्सर्व स्वयंप्रकाशमानतया जानाति स एव हन्त त इद प्रवक्ष्यामि गुह्यं त्रह्मेति' प्राग्धर्मराजेन प्रतिज्ञात ब्रह्म न ततो जीवा' दन्यन्ुत्य त्रह्मास्ति यतः तस्मिन्नेव स्वप्नदृदशि जीवे ये पृथिव्यादिलोकाः प्राति भामिकत्वे नाध्यस्ताः तेषु न कश्चन लोकः तं रज्जुं तदारोपितसर्पवदतिकरामतीति। एवमेव सौपुप्ते जीवे जगतो लयप्रतिपादकैः वक्ष्यमाणशास्त्रेः प्रातिभासिकत्वमे- वाभि प्रेनमित्यवगन्तव्यं। तदिदं 'मायामात्नमिदं द्वैनमित्यादिश्रुतेः सहायभूत काठ- कदिवाक्यमर्थनः सकृह्गाति एष इति-

Page 192

पञ्चमें वाच्यादैक्यानुकूलं १७९ जगन्मिथ्यात्वनिरूपणम्।

मू। एष सुप्तषु जागर्ति यस्तं नात्येति कश्चन ।। १४ ।। इतीदं स्यान्मायिकत्वपरायास्तु सहायकं ॥ १४। ।। व्या ॥। अवतरणादेवावगतार्थः ॥१४॥ ॥ अ० ॥ मुण्डकोपनिषदि-हृदयं विश्वमस्येति श्रूयते। अस्यायमर्थो भाष्य- कारैरभिप्रेतः यस्यामूर्तस्य प्रत्यगात्मनः उपाधिभूतं यदन्तःकरणं तदेव तदुपरि- तनं सर्व जगत्-तद्विकारत्वादिति तट्विकारत्वन्तु एतद्वितीयमुण्डकमन्लार्थप्रकाशकेन 'यथा गांग्य मरीचयोऽर्कस्यास्नङ्गच्छतः सर्वा एतस्मिस्तेजोमण्डल एकीभवन्ति- ताः पुनः पुनरदयतः प्रचरन्ति एवं हवा एतत्सर्व परे देवे मनस्येकीभवतीति प्रश्नो- पनिषङ्गतव्राह्मणेन मनसि स्वप्नावस्थायां जाग्रत्कालिकस्य जगतः प्रळयोपदेशेन च तथव 'यथा सुदीप्तात् पावकाट्विष्फुलिङ्गा: सहस्रशः प्रभवन्ते सरूपाः । तथाऽ- क्षराद्विविधा: सोम्य भावाः प्रजायन्ते तत्र चवापि यन्ति' इत्येतस्माद्वितीयमुण्डको- पक्रमवाक्यात् सुषुप्तावज्ञाने प्रलीयमाने मनसि प्रळयोपदेशेन चावगम्यते। अतः इमास्ताशश्रुतीः तद्भाष्याणि च मायिकत्वश्रुतेः सहायभूतानि अर्थत- स्सङ्कह्वाति हृदयमिति- मू। हृदयं विश्वमस्येति मनःप्रकृतिकं जगत् ॥ १५॥ इति भाष्यं सहायं स्यान्मायिकत्वश्रुतेरपि ॥ १५॥॥ न्या। अस्येति यस्येत्यर्थः यस्य हृदयं विश्वमिति मुण्डकवाक्यञच विश्रें मनः प्रकृतिकमिति तद्भाष्यमपि जगतः केवलमायिकत्वपरश्रुतेः सहायकमित्यर्थः॥ अ० ॥ प्रश्नोपनिषदि तावत् 'भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ती'ति केषां चिदेव आध्यात्मिकानां तत्वानां निर्व्यापारत्वेन वर्तते गार्ग्येण पृष्ठे सति पिप्पला- दाख्यगुरुणा 'यथा गारग्य मरीचयोऽर्कस्यास्तइच्छतस्सर्वा एतस्मिस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्ति एवं हवा एतत् सर्वे परे देवे मनस्ये- कीभवती'ति चक्षुरादिगोचर सर्वमुद्दिश्य मनस्येकीभवतीति मनस्येकीभावरूप- लर्यंस विधानेन चक्षुरादीन्द्रियाणां स्वप्नकाले विषयाभावात् मनसि निर्व्यापारत्वेन वर्तनोपदेशात् स्थूलपञ्चभूततत्कार्याणां मनःप्रकृतिकत्वे सति तदुपाधिकाविद्ू ज्जीवकल्पितत्वोपदेशेन प्रातिभासिकत्वमुपदिष्टम् । एवमेव तद्भाष्यकारैरप्यभिप्रे- तम्। तदिद जगतः केवलमायिकत्वपरंश्रुतेः सहायभूतं प्रश्नोपनिषद्वाक्यन्तद्भाष्य ऊचार्थतः सङ्गह्वाति पर इति --

Page 193

१८० अद्वैतसिद्धान्तगुरुचान्द्रिकायां

मू॥। परे देवे मनस्येकीभवत्येतदिति श्रुतिः ॥ १६ ॥ सभाष्या स्यान्मायिकत्वश्रुतेरेव सहायिका ॥ १६॥॥ व्या। अवतरणादेवावगतार्थः ॥ १६॥॥ अ०॥ प्रश्नोपनिषदि 'अत्रैष देवस्सप्रान्न पश्यति अथैतस्मिञ्छरीरे सुखं भवति स यथा सोम्य वयांसि वासो वृक्षं संप्रतिष्ठन्ते एवं हवा एतत्सर्वे पर आ- त्मनि संप्रतिष्ठते पृथिवी च पृथिवीमात्रा चेत्यारभ्य-विज्ञानात्मा सह देवैश्व सवैंः प्राणा भूतानि संप्रतिष्ठन्ति यत्र। तदक्षरं वदयते यस्तु सोम्य स सर्वज्ः सर्वमेवा- विवेशे'ति श्रूयते अस्यायमर्थः विज्ञानमयः खस्योपाधिभृतान्तःकरणादौ तत्प्रकृति- भूताज्ञाने तद्भावापत्तिरूपलयं गते सति स्वयमेव सुषुप्त्यवस्थामापन्नः प्राज्ञस्सन् तदज्ञाने तादात्म्यवशात् तदज्ञानकार्याणां भूतभौतिकान्तःकरणादीनां लयाधिष्टानं भवति-तदा एतास्मिन् स्वस्वरूपे-प्राऊन:कल्पितानां स्वप्नवस्तूनां विलनित्वात् तानि न पश्यति किन्तु स्चद्रूपस्वरूपसुखात्मको भवति तदायमेव प्राज्ञः परमात्मे- त्युच्यते-विज्ञानमयत्ादपि प्राज्ञत्वस्यान्तरत्वात्-तस्मिन् प्राज्ञे पञ्चीकृतानि भूतानि तत्कार्याणि चापञ्चीकृतानि भूताति तत्कार्याणि च ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरण- तद्वत्तयश्च तदनुग्राहकदेवाश्च संप्रतिष्ठन्ते प्रलीयन्ते वृक्षे पक्षिण इव। ननु संप्रति- छ्न्त इत्यनेन कथमभिधीयते प्रविलय इति चेदुच्यते-एतद्राह्मणेन व्याचिख्यासितो य :- 'यथा सुदीप्तात् पावकाद्विष्फुल्लिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरा- द्विविघाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्तीति' द्वितीयमुण्डकोक्तो मन्त्रः। तेनाप्ययस्थ श्रावितत्वात् मन्त्रब्राह्मणयोरेकार्थवत्वाय प्रविलयार्थो घटते-तथैव तत्र हृदयं विश्वमस्येति मुण्डकश्रुतेर्भाष्येणापि प्रदर्शितं-तमेव प्राज्ञं तदक्षरं वेदयते यस्त्विति श्रुत्युक्तप्रकारेण नित्य इति यो जानाति सः स्वारोपितसर्वजगज्ज्ञानवान् सर्वञ्च कार्यजातमुपादानकारणतया व्याप्नोतीति जगतो मायामात्रत्वश्रुतेः सहाय- भूतं तद्वाक्यमर्थतः सङ्गह्वाति यस्मिन्निति- मू।। यस्मिन् स्वात्मन्येष देवस्तुप्तौ स्वप्रान्न पश्यति ॥ १७ ॥ तस्मिन्सर्व पृथिव्यादि नितरां संप्रलीयते। इति श्रुतिर्मायिकत्वश्रुतेरेव सहायिका ।। १८।। व्या॥ एष इति विज्ञानमय इत्यर्थः ॥ शेषः अवतरणादेवावगतार्थः ॥

Page 194

पञचमं वाच्याद्यैक्यानुकूलं १८१

अ० ॥ 'म्रदा सुप्तस्स्वप्ं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति तदैनं वाक् सर्वैरनामभिस्सहाप्योत चक्षस्सवैं रूपैस्सहाप्येति श्रोत्रं सर्वै३शब्दैस्स- हाप्येति मनस्सवैं्ध्यानैस्सहाप्येती'ति कौषीतकिशाखतायां श्रूयते। अस्यायमर्थः अन्तःकरणोपाधिको विज्ञानमयो यदा, सुषुप्त्यवस्थामापन्नस्सन् प्राणशब्दितः प्राज्ञो भवति तदा अयमपि स्वप्न न विजानाति स्वप्नस्य तदाकारतापरित्यागेन स्वस्मिन्विलीनत्वात् वागादयश्र स्वस्वविषयैस्मह एतस्मिन्नेव प्रलीयन्त इति। तदेतद्वाक्यं जगतः केवलमायिकत्वश्रुतेः सहायत्वेनार्थतस्संगृह्णाति यदेति- मू॥ यदायं कञ्चन स्वप्नं सुप्तः प्राज्ञो न पश्यति ॥ १८॥। तदा वागेनमप्येति नामधेयैरितीतरत्। सहायमन्यथा कर्मजत्वे च न लयो भवेत् ॥ १९ ॥ व्या ।। इतरदिति। प्रागुक्तकाठकमुण्डकप्रश्नवाक्येभ्यो भिन्नमिदं कौषीतकीवाक्य तानि काठकादिवाक्यानि च जगतः केवलप्रातिभासिकत्वावबोध- कत्वेन प्रागुदाहृताया सर्वे विकारजातं मायामात्रमित्यादिश्वुतेरेव सहायानि भवन्ति विपक्षे बाघनाह अन्यथा कर्मजत्वे चेति जगतः केवलकर्मजत्वे चकारात् मायाकर्मोभयजन्यत्वे वा नैवोदाहृतश्रत्युक्तलय: संभवति कर्मकारणत्ववादिभिश्चि- रजीवित्वाभ्युपगमात् अतो न कर्नश्रुतेः सहायानि तानीत्यर्थः ॥१९॥ अ०।। जीवे जगल्लयपरादप्यर्थान्तरपराणि शास्ाणि च 'सर्व विकारजातं मायामात्रमति' श्रुतेरेव सहायानि-न कर्मणः कारणत्वपरश्रुतेरिति दर्शयितुं-'स यदा प्रतिबुध्यते यथाम्ेरज्वलतः सर्वा दिशो विष्फुलिक्गा विप्रतिष्ठेरन्नेवमेवैतस्मा- दात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोका' इति कौषीतक्यां श्रूयते। अस्यायमर्थ :- सौषुप्तो जीवस्तावत् यदा जागरणावस्थावान् भवति-तस्मादेव जीवात् इन्द्रियाणि यथा गोळकं विप्रतिष्ठां गच्छन्ति-तदनन्तरं चक्षुराद्यनुग्राहका: सूर्यादय: तदनन्तरं तन्निवासस्थानभूता घुलोकादयश्च अग्रेस्सका- शाट्विष्फुलिङ्गवज्जायन्त इति तां श्रुति तत्समानार्थो च 'यथा सुदीप्तात् पावक- ट्विष्फुलिङ्गा: संहस्त्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधास्सोम्य भावाः प्रजायन्त' इति मुण्ड कश्रुतिञच सङ्कह्वाति कौषीतकीति- मू॥ कौषीतकी मुण्डकं च सुप्तादस्य जनि जगौ। य तस्तस्मान्मायिकत्वश्रुतेरेव सहायकम् ॥ २०॥ 16

Page 195

१८२ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

न्या। यतः कर्मनिरपेक्षात् सौषुप्तादानन्दमयात् निखिलजगदुत्पत्ति श्रा- वयत्यतः केवलमायिकत्वश्रुतेरेव सहायकमित्यर्थः ॥ २० ॥ अ० ॥'स यथोरणनाभि: तन्तुनोच्चरेद्यथामे: क्षुद्रा विष्फुलिङ्गा व्युच्चर्ति- एवमेवास्मादात्मन: सर्वे प्राणास्सर्वे लोकाः सर्वे देवाः सर्वाणि च भूतानि व्युच्च- रन्तीति' बृहदारण्ये चतुर्थाध्याये प्रथमब्राह्मणावसान सुषुप्त्यवस्थावन्तमविकृत्य जगत्सष्टिं श्रावयति अत्र प्राणा इति इन्द्रियाण्युक्तानि। शेषस्सुगमः । तां श्रुति मर्थतस्सङ्गह्थ केवलमायिकत्वश्रुतेः सहायत्वेन योजयति एवमिति- मू । एवमेवात्मनो ह्यस्मालोकाद्या व्युच्चरन्ति च। इति श्रीबृहदारण्यश्रुतिस्सुप्ताज्जनिं जगौ।। यतस्तस्मान्मायिकत्वश्रुतेरेव सहायिका ॥ २१॥ ॥ व्या। स्पष्टोऽर्थः ॥२१॥॥ अ०। प्रतिज्ञातार्थे कैवल्यश्रुतिमप्युदाहरति पुरत्नय इति- मू। पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचिन्रं ।। एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिराषश्च पृथ्वी विश्वस्य धारिणी ॥ २३ ॥ इतीथं स्यान्मायिकत्वश्रुतेरेव सहायिका ।। २३॥।॥ व्या। पुसत्रय इति पुराणं स्थूलसूक्ष्म कारणश्ञरीराणां त्रये जाग्रत्स्वम्- सुषुप्त्यवस्थासु क्रमात् यो जीव: अहमित्युपलस्यनानः सञ्चरति तस्मादेवाभिन्न- निमित्तोपादानकारगात् सकलं सेश्वरं जाग्रत्स्वप्रकालिकं नानाविधं जगत् विचित्र- शक्त्यविद्यासाह चर्याज्जायते अत्र वृद्धसम्मतिश्र।॥ श्रो ॥ स्वस्मिन्नेव स्वप्नवदी- शानत्वादिसर्वेकल्पनया। जीवस्सर्वविकारोपादानमिति त्रुवन्त्यन्ये इति सिद्धान्त कल्पवल्लीकारैरपि दर्शिता। शेषः सुगमः ॥२३॥॥ अ०॥ माण्डूक्ये सुप्ुप्त्यवस्थावन्तं जीवं प्रकृत्य श्रूते 'प्राज्ञस्तृतीयः प्ाद: एष सर्वेश्वर एश सर्वज्ञ एषोऽन्तर्याम्येष योनि: सर्वस्य प्रभवाप्ययौ वि भूता- नामिति" अस्यायमर्थः तत्तदवस्थायाँ कल्पितं द्वैतजातं पवर्षेण जानातीति प्राज्ञः सर्वस्य प्रातिभासिकस्य वियदादेरेष एवेश्वरः अवस्थात्रयेषु स्वेन स्वस्मिन् कल्पि- जानामज्ञातत्वाभावात् तत्सर्वे जानातीति सर्वज्ञः स्वप्रवत्त् स्वस्मिन् कल्पितान्यनु प्रविश्य ययमयतीत्यन्तर्यामी च भवति सर्वे अस्मात्मसूयत इति सर्वयोनि: यत एव-

Page 196

पञ्चमं वाच्यादयैक्यानुकूलं १८३ जगन्मिथ्यात्वनिरूपणम्।

मतः स्वारोपितानां भूतानां प्रभवन्त्यस्मादिति प्रभव उत्पत्तिकारणं अपियन्त्यस्मि- न्नित्यप्ययो लयकारणं च एष एवेति। तदेतद्वाक्यं जगतः केवलमायकत्वश्रुतेः सहायत्वेन संगृह्वाति प्राज्ञ इति -- मू ॥ प्राज्ञस्तृतीयपादोऽयं सर्वज्ञो निखिलेश्वरः ॥ २४ ॥ प्रभवश्चाप्ययोऽध्यस्तभूतानामिति च श्रुतिः । तन्बाष्यं स्यान्मायिकत्वश्रुतेरेव सहायकम् ॥ २६ ॥ व्या। तन्रा्यमिति तसाः प्राज्ञस्तृतीयः पाद इत्यादिमाण्डूक्यश्रुतेः सुप्तो हि भूतपूर्वगत्या प्राज्ञ इत्युन््यते। एष एव साधिदेविकस्य भेदजातस्य सर्व- स्येशिता नैतस्माज्जात्यन्तरभूतोऽन्येषामिवेति भाष्यञ्च सहायकमित्यर्थः॥ अनेन भाष्येणैतदुक्तं भवति 'मायैषा तस्य देवस्य यया सम्मोहितस्स्वयमिति' शास्त्रोक्त- प्रकारेण मायापरिमोहवशेन तस्यां तादात्म्यापन्नत्वेन मायिकस्य सर्वस्य अभिन्न- निमित्तापादानसूतात् प्रकृतात् प्राज्ञादाध्यात्मिकात् नान्यो जात्यन्तरभूतोऽभिन्न- निमित्तोपादानात्मकः आधिदैविक: पुरुषः जगदीश्वरयोर्भेदवादिनामिव संभवतीति। तथा हि 'इन्द्रो मायाभिः पुरुरूपमीयते सोऽकामायत बहु स्यां प्रजाये येति' 'कृत्स्नप्र- सक्तिर्निरवयवत्वशब्दकोपो वा । श्रुतेस्तु शब्दमूलत्वात्। आत्मनि चैव विचित्रा- श्रहि'॥ श्रो० ॥ न युक्क्तो युज्यते वास्य परिणामो न युज्यते। कात्स्न्याद्रह्मा नित्य- ताप्तरशात् सावयवं भवेत्। मायाभिर्बहुरूपत्व न कार्त्स्न्यान्नापि भागतः । युक्तो Sनवयवस्यापि परिणामोSत्र मायिक इति श्रुतिसूत्रतदर्थप्रकाशकाधिकरणरत्नम- लावचनैरुक्तस मार्यिकस्य बहुभवनस्य-स्त्ष्टुः स्वकीयोपाधो अविवेकपूर्वकतादात्म्य- मन्तरेणासंभाव्यमानत्वात् न तादृशतादात्म्यवतः सौषुप्तात् प्राज्ञादन्यो जगदुपा दानं भवति। एवमेवोक्कं श्रीविद्यारण्याचार्यैरपि॥ श्रो० ॥ सौषुप्तमानन्दमयं प्रक्र- म्यैवं श्रुतिर्जगौ। एष सर्वेश्वर इति सोऽयं वेदोक्त ईश्वरः । एवमानन्दविज्ञानन- यावीश्वरजीवकौ। आनन्दमय ईशोऽयं बहु स्यामित्यवेक्षतेति ॥ अन्यथा सौषुप्तात् प्राज्ञादन्यस्याधिदविकस्य विवेकविज्ञानवत्वेन न स्वस्मिन्माययिकबहुभवनाध्यासः स्यात्। कथ तर्हि यत्सौषुप्तस्यास्य प्राज्ञस्य सर्वेश्वरत्वादिवचनं तदौपचारिकमेव आविदैविकेनान्तर्यामिणा सहास्य कारणशरीरोपाधिकत्वसाम्यादिति आनन्दगि- रिस्वामिभिः दीक्षितप्रभृतिभिश्च प्रदर्शितमिति चेदुच्यते प्रतिकर्मव्यवस्थावाद इति दृष्टिसष्टिवाद इति न सत्तैकवाद इति च त्रिविधः तत्वोपदेशप्रकार :- तत मन्दा-

Page 197

१८४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

धिकारिण प्रति प्रतिकर्मव्यवस्थावादः प्रवृत्तः तत्राधिदैविको महेश्वरः प्राणिनां विचित्रकर्मसापेक्षस्सन् जगत् सजति-तत्सष्मज्ञतसत्ताकं भवति। तादशस्य जगतः सुषुप्तिकाले आध्यात्मिके जीवे वा आधिदैविके महेश्ररे वा न मुख्यो लख. स्संभवति तदानीमपि पुरुषान्तरव्यवहारेण साकमज्ञातत्वेन विद्यमानत्वस्त्र तैरे- वाभ्युपगतत्वात्। तादृशस्य प्रतिकर्मव्यवस्थावादस्य प्रागृदाहृतमाण्डक्यश्रति- तद्भाष्यादिभिः बाध्यमानत्वमालक्ष्य प्रतिकर्मव्यवस्थावादनिरतरानन्दगिरिस्वा- मिप्रभृतिभिः तद्वादरक्षणार्थम्॥ श्रो ॥ रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितं। प्रवुद्धदृष्टिसृष्टत्वात् सुषुप्तौ च लयश्रुतेरिति अद्वैतसिद्धो सिद्धिकारप्रदर्शितदृष्टिसृष्टि- वादस्य मूलभूतं माण्डूक्यादिश्रुतितद्भाष्यादिकमन्यथा स्वमतानुसारेण व्याख्या- तम्। ननु प्रतिकर्मत्यवंस्थावादो मन्दाधिकारिविषय इति च आनन्दगिरिस्वामि- प्रभृतयः प्रतिकर्मव्यवस्त्रावादनिरता इति च कुतोऽवगम्यते इति चेदुच्यते। यद्येवं सर्वस्य प्रातिभाषिकत्वे घटादेः स्वज्ञानात् पूर्वमसत्वेन प्रतिकर्मव्यवस्थानुपपत्तिः- अधिष्ठानस्यापि शुक्ताद्यंशस्य रूप्यवदिदं रूप्यमिति ज्ञानात् प्रागसत्वेन संप्रयागादि- हेतुत्रयजन्यत्वस्य अध्यासतटस्थलक्षणस चायोगः इति चेन्न-प्रतिकर्मव्यव स्थायाः संप्रयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाविकारिविषय- त्वादिति अद्वैतसिद्धिकारैः प्रतिकर्मव्यवस्थावादोपदेशप्रयुक्तन्यग्भावः तद्वादोपदे- छृणां माभूदिति तद्वादस्य मन्दाधिकारिविषयत्वेन प्रदर्शितत्वात् तद्विषयत्वमवगम्यते। तथैव द्विविधेऽपि दृष्टिसष्टिवादे मनःप्रत्ययमलभमाना: केचिदाचार्या: दृष्टि- सृष्टिवादं न रोचयन्ते-श्रुतिदर्शितेन क्रमेण परमेश्वरसष्टमज्ञातसत्तायुक्तमेव विश्वं तत्तद्विषयप्रमाणावतरणे तस्य दृष्टिरिति सिद्धान्तलेशसंग्रहस्य द्वितीयपरिच्छेदवचनैः दृष्टिसष्टिवादस्य अद्वैतसिद्धयुक्तप्रकारेण अनेकश्रुतिस्मृतितद्भाष्यवासिष्ठवार्तिका- मृताद्याकर ग्रन्थसिद्धत्वेऽपि तत्राविश्वासपूर्वकं केषाज्चिदाचार्याणां प्रतिकर्म- व्यवस्थावादनिष्ठत्वस्य प्रशंसनाच्च तदुभयमवगम्यते सत्तैकवाद उत्तमाधिकारिणं प्रति प्रवृत्त इति द्वितीयनिरूपणे प्रागेव दर्शितम्। ननु सुषुप्तिकाले जीवे ब्रह्मणि वा तत्तत्प्राणिकर्मप्रसूतानां शरीरादिजगतां प्रतिकर्मव्यवस्थाप्रकारेण मुख्यलयाभावस्याभ्युपगमे को बाध इति चेदुच्यते-सगुणो पास्त्या मुक्तस्य ब्रह्मलोकं गतस्य भोगार्थे द्वैतप्रतीत्यभ्युपगमे-'न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये' दित्यादि द्वैतप्रतीत्वभावपराणां शास्राणां का गतिरिति प्राप्ते-'यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन खपं पश्यति यदा सुप्त-

Page 198

पञन्चमं वाच्याद्यैक्यानुकूलं १८१ जगन्मिथ्यात्वनिरूपणम् ।

रस्वप्नं न कञ्चन पश्यतति। यत्र त्वस्य सर्वमात्मवाभूतू तत् केन कं पश्ये' दिति बृह दारण्यादिश्रुतीनां द्वैतादर्शनपराणां विभागेन विषयप्रदर्शकेन 'स्वाध्ययसंपत्यो रन्यतरापेक्षमाविष्कृतं ही'ति सूत्रेण स्वस्मिन्सौषुप्तिके जीवे दश्यस्य सर्वस्य जगतोऽ- व्ययोपदेशस्य च-मुक्तिदशायामुच्छेदोपदसस्य च असदर्थप्रलपिता स्यात् अतो यथाशात्त्रं यथाविद्वदनुभवं परमात्माक्षरब्रह्माकाशप्राणादिशब्दितः सौषुप्तः परि- पूर्ण: प्रतिबिम्बत्वांशत्वादिधर्मरहितः प्राज्ञ एव केवलाविद्यकनिखिलजगदुपादान- मिति शास्त्रार्थरपारेशुद्धये विद्वद्धिरास्थेयम् ॥२५॥ अ०॥ एवमस्मत्पदार्थस्य प्राज्ञस्य जगन्कारणत्वमावेध त्राहमित्यपरोक्ष- विद्रदनुभवपरां कैवल्यश्रुरतिं जगतः केवलाविद्यकत्वश्रुतेः सहायत्वेन दर्शयति मय्येवेति- मू ॥ मय्येव सकलं जातं मयि सवे प्रतिष्ठितम्। मयि सर्व लयं याति तद्गह्माद्वयमस्म्यहम् ॥ इतयिं स्यान्मायिकत्वश्रुतेरेव सहायिका २६॥। ।। व्या। मय्येव जागरणादिसमये सकलं जगत् जायते जातं च तत्पुन- रसुषुप्त्यवस्थागमनपर्यन्तं मट्येव प्रतितिष्ठति सुषुप्त्यवस्थागमने सति मध्येव सौ- षुप्ते प्राज्ञे विलीयते-न ततोऽतिरिके आधिदैविके यत एवं तस्मादहमेव कार्य- कारणयोरनन्यत्वन्यायेन द्वैतविवर्जित ब्रह्मास्मीत्यर्थः ॥२६॥॥ अ०॥ इदानीमुदाहृतानां सौषुपाज्जगतसष्टिपराणां श्रुतीनां जगतः केव- लमायिकत्वे तात्पर्याभावे बाधमाह एतानीति- मू I एतानि तत्सहायानि नान्यथाऽस्याद्वितीयता ॥ २७॥ व्या॥ तत्सहायानीति तस्याः सर्वे विकारजातं मायामात्रमित्यादि- श्रुतेरेवोदाहृतानि कौषीतक्यादिवाक्यानि सहायानि अन्यथा जमतः केतलकर्मप रिणामत्वे वा कर्मोपेतमायापरिणामित्वे वा सुषुप्तेः पौर्वोत्तरकालिकस्य शरीरादि जगतः एकत्वात् सुषुप्ता प्राज्ञे अधिदैविके वा लयासंभवात् मय्येव सकलं जात-

थर्थः ॥ २७ ॥। अ०॥। इदानी जगतः ज्ञाननाश्यत्वपरा्यपि शास्राणि प्रागुदाहृतकेव- मायिकत्वश्रुतेरेव सहायानीलाह यत्रेति-

Page 199

१८३ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू । यक्ष सर्वमभूत्स्वात्मा कं पश्येदिति च श्रुतिः । को मोहस्तत्र करशोक एकत्वमनुपश्यतः ॥२८॥ इति श्रुतिस्तक्ष शोकमात्मवित्तरतीति घ। एसान्यपि सहायानि नान्बथाऽज्ञाननाश्यता । २९॥। ्या॥ 'थत्र त्वस्य सर्वमात्मवाभूत् तत्केन कं पश्येत्' 'तर्गत शोकमा- स्विदि'त्यादीनि शास्त्रागि सहायानीत्युक्ताऽन्यथा बाधमाह नान्यथेति शरी रादे: कर्मजन्यत्वे भोगैकनाश्यत्वात् न ज्ञाननाश्यत्वसिद्धिरित्यर्थः ॥ २९ ॥ अ० ॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापराणि शास्त्राण्यपि प्रागुक्तायाः दृशयक्ष्य मायिकत्वश्रुतेरेव सहायानीति दिदर्शयिषुरादौ यत् छान्दोग्ये "उत तमा- देशमप्राक्ष्यो येनाश्रतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञात' मिन्यारुणिना श्वत- केत्व्राख्यपुले पृष्टे सति 'कथन्नु भगवस्स आदेशो भवती'ति श्वेतकेतोः प्रार्थनान- न्तर 'यथा सोम्यकेन मृत्पिण्डेन सर्वे मृन्मयं विज्ञात स्या'दिति मृदादिदृशन्त- पूर्वकं येन विचारितेन निश्चितेन अन्यदप्यविचारितमतर्कितमनिश्चितं विचारितं तर्कित निश्चितं भवा तत् जगदुपादानं सदाख्यमज्ञानोपेतं विशेषात्मकसर्वकार्य- वर्जित प्राज्ञतत्वं 'सदेव सोम्येदमग्र आसी'दिति आम्नातं तत् संगृह्वाति केनेति- सू ।। केन ज्ञातेन तत्वेनाश्रुतं चापि श्रुतं भवेत्। इति चेद्वै सदाख्येन प्राज्ञेन विदितेन हि ॥ ३० ॥ सर्वे विज्ञायते सोम्य मृत्पिण्डेन घटादिवत्। प्रतिज्ञेयं मायिकत्वश्रुतेरेव सहायिका ॥३१ ॥ ्या । सुषुप्यवस्थावतः प्राज्ञस्यैव सच्छन्दवाच्यत्वं दर्शयति। सदा- ख्येनेत्याविना कुत एतदवगम्यत इति बेटुच्यते-प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किञवन वेद नान्तर'मिति श्रुत्युक्त यत्-विज्ञानमयस्य तृनीयावस्थं तत्वं प्रा- इशब्दित प्रागस्वाप्समिति प्रत्यभिज्ञायमावं तस्यैव हि-'सता सो्य तदा संप- न्ो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षत स्वं ह्यपीतो भव'तीति ध्रुत्या च-'राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादबात् सन्मान्नः करणोपसं- हरणतो योऽभूत् सुषुप्तः पुमान्। प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायत तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये' इत्याचार्यवाक्यगतेन सन्मात्र इति पदने च एकमेवाद्वितीयमिति श्रुत्युक्तत्रिविधपरिच्छेदराहित्यन सह सच्छब्दवा-

Page 200

पञ्चमं वाच्याद्यैक्यानुकूं १८७ जगन्मिथ्यात्वनिरूपणम् ।

नथवस्य च दर्शितत्वात्। दक्षिणामूर्तये इति जगतः सृष्टिस्थितिसंहारेषु दक्षिणः सम्थश्रासादमूर्तिः शरीररहितश्च दक्षिणामूर्तिः तस्मै श्रीगुरुमूर्तय अस्वाप्समिति ्रत्यभिज्ञाताय पूज्यस्वरूपायेत्यनेनापि विशेषणेन प्राज्स्य जगदुपादानत्वं दर्शितम्। शेष: अवतरणादेव गतार्थः ॥ ३१॥ अ० ॥ इदानीं-'कस्मिन्नु भगनो विज्ञाते सर्वमिदं विज्ञातं भवती'ति मुण्डकोपनिषदि शौनकाख्यशिष्यप्रश्नस्य-यया तदक्षरमधिगम्यते यत्तददेश्यम- ग्राह्ममगोत्रमवर्णमचक्षुः श्रोत्ं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्धूतयोनिं परिपश्यन्ति धीराः' इत्यारभ्य-यथा सुदीप्तात्पावकाट्विष्फुलिङ्गा: सहस्रशः प्रभवन्ते सरूपाः तथाऽक्षराद्विविधाः सोम्यभावाः प्रजायन्ते तत्र चैवापियन्ती'ति प्रतिवचनं श्रूयते। अस्यायमर्थः यदज्ञानोपाविकत्वेन सर्वभूतभौतिकानामुत्पत्त्यादि- कारणं तस्मिन् जगदुपादानभूते विज्ञाते सर्व विज्ञातं भवतीति तदिदं प्रतिज्ञा- वाक्यं जगतः केवलाविद्यकत्वश्रुतेरेव सहायत्वेन संगृह्भाति। कस्मिनन्वति- मू॥ कस्मिन्नु भगवो ज्ञाते सवे विज्ञायते गुरो। इति शौनकवाक्यस्य भूतयोन्यादिवाक्यतः ॥३२॥ एष योनिश्च भूतानामिति माण्डूक्यतो यथा। भूतानां प्रभवो यस्मादप्ययो यत्र बोधितः ॥ ३३ ॥ तद्वेत्तुस्सर्ववित्त्वोक्ति: प्रागुक्तायास्सहायिका ॥ ३३॥॥ ठया ॥ उदाहृतभूतयोन्यादिवाक्मस् सौषुप्तिकप्राज्ञपरत्वे एष योनिः सर्वस्य प्रभावाप्ययौ हि भूतानामिति माण्डूक्यश्रुति संवादयति एष योनिरित्या- दिना। शेष: अवतरणादेव गतार्थः ॥ ३३॥॥ अ०॥ संप्रति 'न वा अरे सर्वस् कामाय सर्वे प्रियं भवति आत्मनस्तु कामाय सर्व प्रियं भवति आत्मा वा अरे द्रष्व्य: श्रोतव्यो मन्तव्यो निदिध्यासि- तवयो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्वे विदित' मिति बृहदारण्ये चतुर्थाध्याये श्रूयते। अ्स्यायमर्थः स्वप्नवस्तुवत् निखिलस्य खस्मि- भेव कल्पितत्वेन प्रातिभासिकत्वमभिप्रेत्यैव तदुपादानभूतस्ारमज्ञानेन खारोपितं सर्वे विज्ञातं भवतीति तदेतत् प्रीतिश्ञावाक्यमपि जगतः केवळमायिकत्वश्ुतेः सहायमिति संगृद्णाति आत्मकामायेति-

Page 201

१८८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू । आत्मकामाय भवति प्रियं सर्वमतस्स्वयम् ॥ ३४॥ परमानन्दरूपोऽयं द्रष्टव्यः प्रकृतित्वतः । मैत्रेय्यात्मविबोधेन सर्वै दृष्टमिति श्रुतेः ॥३५॥ स्वप्नवज्जगतः प्रातिभासिकत्वे प्रसिद्धयति। स्वार्थोऽतस्साधिका चेयं नो चेत्स्वार्थों न संभवेत् ॥ ३६॥ क्या। श्रुतेः स्वार्थः प्रसिद्धयतीत्यन्वयः। अत इति प्रातिभासिकस्वास्य जगतः प्राज्ञोपाध्यज्ञानपरिणामत्वात् इयं प्रतिज्ञा श्रुतिः सर्वस्य मायिकत्वश्रतेरेव साधिका भवतीति शेषः अन्यथा बाधमाह नो चोत् स्वार्थो न संभवेदिति बृहदारण्ये चतुर्थाध्याये पञ्चमब्राह्मणे 'स वायमात्मा सर्वेषां भूतानामधिपति' रित्यस्मिन्खण्डे' 'स एष विद्वान् ब्रह्मवित सर्वोपाधिः सर्वात्मा भव'ताति भाष्योक्तप्रकारेण सर्वेषां विचित्रशक्त्यविद्योपाधिकसौ षुप्तानन्दमयप्रकृतिकत्वेन प्रातिभासिकसत्तां विना अज्ञातसत्ताभ्यपगमे विदुषः सर्वोपाधित्वसर्वात्मत्वा- भावात् न प्रतिज्ञाश्रुतेर्मुख्यार्थसिद्धिः। तथैव सात्मजगतोरेकसत्ताभ्युपगमेऽपि न प्रतिज्ञाश्रुतेमुख्यार्थसिद्धि: तत्पक्षे खात्मनि विज्ञाते न तक््यतिरिक्तमपरं किञ्चिज्ज्ञात- ग्यमस्ति आत्मव्यक्त्यतिरेकेण कार्यस्य व्यक्त्यन्तराभावादिति वक्त्तव्यत्वात् मृन्मा· न्रप्रकृतिकानां मृन्मात्रत्ववदात्ममात्रप्रकृति कानामात्ममालत्वात् प्रागुदाहृतभाष्यो- कं सर्वोपाधिरिति विदुषो विशेषणञ्च न संगच्छेत घटादिप्रकृतिभूताया मृदः घटादयुपाधिकत्वादर्शनाच्चेति विवेक: ॥ ३६ ॥ अ०॥ इदानीं वक्ष्यमाणैश्शास्त्रैरीश्वर एव स्वाज्ञानवशात् साक्षात् संसर- तीति प्रतिपाद्यमानत्वात् स आधिदैविकस्सर्वज्ञः परमेश्वरक्षेत् कर्मफलं जीवस्य ददातीति वकुं न शक्यते जीवेश्वरयोर्भेदाभावात् अतस्साषुप्तिक: प्राज्ः स्वयमी- श्वरस्सन्नपि स्वस्मिन्नज्ञानवशात् कर्तृत्वभोक्तृत्ववत् भोग्यजातमपि स्वरूपतों- डध्यस्यन् स्वयमेव भुङ्गे इति प्रदर्शयितुकामः आदौ तथाविर्ष-'स एव मायाप- रिमोहितात्मा शरीरमास्थाय करोति सर्वम्। रत्रयन्नपानादिविचित्रभोगैस्स एव ज्ञाप्रत्परितृप्तिमेतीति, कैवल्योपनिषद्वाक्यमपि जगतः केवलाविद्यकत्वश्ुतेरेव सद्दा- यत्वेन संगृद्धाति शिवो हीति- मू॥ शिवो हि मायापरिमोहितात्मा शरीरमास्थाय करोति कृत्स्नम्।

Page 202

पञ्चमं वाच्यादयैक्यानुकूलं १८९ जगन्मिथ्यात्वनिरूपणम्।

वधूद कान्नादिविचित्रभोगै: स एव जाग्रत्परितृप्तिमेति ॥३७॥ इतीदं स्यान्मायिकत्वश्रुतेरेव सहायकम् ॥ ३७॥॥ व्या॥ अवतरणादेव गतार्थः ।। ३७॥॥ अ०।। इदानीन्नामरूपव्याकरणादिपर 'सर्वाणि रूपाणि विचित्य वीरो नामानि कृत्वाभिवदन्यदास्त' इति मन्त्रवर्णमपि जगतः मायिकत्वश्रुतिसहाय- त्वेन संग्ृह्णाति एक इति- मू ॥ एको विचित्य रूपाणि कृत्वा नामानि तानि यः ॥ ३८॥

यतस्तस्मान्मायिकत्वश्रुतेरेव सहायकः ॥ ३९ ॥ व्या। यस्मादनेन मन्त्रेण एककर्तृकत्वेन श्रावितानां नामरूपरचनतद भिवदनानाम्मध्ये प्रत्यक्षतो विज्ञानमयस्यैव जीवस्याभिवदनकर्तृत्वदर्शनात् तस्यैव तदभिवदनात्प्राग्विचित्रशक्त्युपेतया स्वाविद्यया स्वम्मिन् नामरूपकल्पकत्वावग- मात् जगतः केवलाविद्यकत्वेन मिथ्यात्वश्रुतेरेव एष मन्त्रवर्णः सहाय इत्यर्थः । अ०॥ इदानीं प्रागुदाहृतश्रुतिसमानार्थकं 'सोऽकामयत।बहु स्यां प्रजायेये' त्यारभ्य 'तत्सष्टा तदेवानुपराविश' दित्यादितैत्तिरीयकवाक्यञ्च 'सेयं देवतैक्षत इन्ताहमिमास्तिस्ो देवता: अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'ति छान्दोग्यवाक्यञ्च जगतः केवलाविद्यकत्वेन मिथ्यात्वश्रतेरेव सहायत्वेन संगृह्ाति बहु स्यामिति- मू। बहु स्ामिति यस्स्रष्टा सोऽनुप्राविशदेव तत। सूक्ष्माणि जीवरूपेण प्रविश्य व्याकरोम्यहम् । ४० ॥ इत्यैक्षत परा देवतेति चाविद्यकं जगौ। यतस्तस्मान्मायिकत्वश्रुतेरेव सहायकम् ॥४१ ॥ व्या॥ सूक्ष्माणीति अत्रिवृत्कृतानि तेजोयन्नानीत्यर्थः ॥ शेषः पूर्ववत्॥ अ ॥ अधुना 'यः पृथिव्यां तिष्ठन् यः पृथिव्या अन्तरः यं पृथिनौ न

Page 203

१९० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

वेद यस् पृथिवी शरीरं यः पृथिवीमन्तरो यमथति एष त आत्मा अन्तर्याम्ममृत' इत्येतत्समान बहुपर्यायादेशान-तरं 'अदृष्टो द्रषाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विझ्ाते'ति अन्तर्यामित्वेन प्रागुपदिष्टस्य स्वात्मन एव प्रत्यक्षादिषयत्वपूर्वकं द्रष्ट त्वादिकमुपदिश्य नान्योऽस्ति द्रष्टेत्यादिना सुप्ाद्विज्ञानमयस्य भेदनिषेधः अन्तर्या- मिब्राह्मणे श्रयते तदिद ब्राह्मणम् जगनः केवलाविद्यकलेन मिथ्यात्वश्रुतेरेव सहा- यमित्याह जीवस्येति -- मू॥ जीवस्य प्रतिविम्बत्वब्रह्मांशत्वाद्यसंभवात्। ईशस्य मोहराहित्यात्कार्येडहंबुद्धयभावतः ।४२॥। सुप्तस्यैव स्वकार्यानुप्रवेशाद्टष्टता ततः । सोऽन्तर्यामी ततो नान्यो द्रष्टेत्यन्यनिषेधकम्॥ ४३ ॥ अन्तर्यामित्राह्मणं च मायिकत्वश्रुतेस्सुहृत् ॥४३॥॥ व्या। जीवस्य प्रतिबिंबत्वाद्यभावस्तावत् प्राक तृतीयनिरूपणे विस्तरेण निरूपितः ईशस्यति आधिदैविकस्येत्यर्थः । सुतस्वेति कारणोंपाधिकस्येत्यर्थः स इति कारणोपाधिक इत्यर्थः ॥।४३॥ ॥ अ०॥ इदानीं प्रागुदाहृतकैवल्यादिश्रूतीनां वर्णितार्थप्रतिपत्तये तच्छति- मूलकं 'अवस्थितेरिति काशकृत्स्न' इति सूत्रं तत्रत्यभाध्यमपि संवादयति आाचार्य इति -- मू॥ आचार्य: काशकृत्सोऽयं मन्यतेऽवस्थितेरिति ॥ ४४ ॥ इति सूत्रं तदीयञ्च काशकृत्स्मतं पुनः। परमेश्वर एव स्याज्जीवस्स्वाविद्ययेत्यतः ।। ४५ ।। इदमेवाश्मरथ्यादिमताड्राह्यतमं भवेत्।

ब्रह्मणोडन्यो गुहायां न निहितोऽस्ति कुतो यदि। तत्सृष्टा तत्स्वरूपेण प्रादिशत्स इति श्रुतेः ॥४७॥ इति भाष्यं प्रसुप्तस्य स्वसृष्टेष्वभिमानतः । जीवताबोधकं चास्याविद्यकत्वश्रुतस्सुह्ृत् ॥।४८ ।।

Page 204

पञ्चमं वाच्यादयैक्यानुकूलं १९१ जगन्मिथ्यात्वनिरूपणम् ।

व्या ।। 'अवसस्थितेरिति काशकृत्न्न' इति सूत्रं संगृह्गाति आचार्य इत्यादिना प्रागुक्तकैवल्यादिश्रतिभिः परमात्मनः प्राज्ञस्यैव विज्ञानमयभावेन अवस्तिरित्यवगमादात्मनस्तु कामाय सर्वे प्रियं भवति-आत्मा वा अरे द्रष्टव्य इत्युप. पन्नमभेदेनोपक्रमणमिति काशकृत्स्नाचार्यो मन्यत इति सूत्रतः शरीरादावहमभि- मानाध्यासवशात् ब्रह्मैव जीव इति दर्शायत्वा अस्मिन्नर्थे तत्नत्यं-काशकृत्स्नत्या- चार्यस्य अविकृतः परमेश्वरो जीवः नान्य इति मतमिति भाष्यमप्युदाहरति-तदी- यञ्चेत्यारभ्य स्वाविद्ययेतीत्यन्तेन। 'प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य'इति सूत्रो काचा- र्येण जीवेशयोः कार्यकारणभावोऽभिप्रेतः । 'उत्क्मिष्यत एवं भावादित्यौडलोमि' रिति सूत्रोक्ताचार्येण जीवेशयोरवस्थान्तरापेक्षौ भेदाभेदौ वास्तवावित्यभिप्रेतौ । तत्र काशकृत्सन्नीयमतं श्रृत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारित्वात् तत्त्व- मस्यादिश्रुतिभ्यः-एवं च सति तज्ज्ञानादमृतत्वमचकल्पते इति तत्त्यमपि काश- कृत्स्नाचार्यमत प्रशंसापरं भाष्यं प्रकृतार्थोपयोगित्वेन सङ्कह्वाति-इदमेवेत्यारभ्य तद्धि- याऽमृत इत्यन्तेन-किं च तत्रत्यं-न च ब्रह्मणोऽन्यो गुहायां बुद्धो निहितोऽरित- 'तत्सष्ट्रा तदेवानुप्राविश' दिति स्ष्टुरेव प्रवेशश्रवणादिति भाष्यमप्यत्रोदाहरति- ब्रह्मण इत्यादिना स्वसृष्टमेव केवलाविद्यकशरीरादिकं प्रतिबिंबादिभावमन्तरेण स्वरूपेणैव प्रविवेशेत्यर्थः ॥ शेषस्सुगमः ॥ ४८ ॥ अ०# इदानी उदाहृतस्य काशकृत्स्नाचार्यमतप्रदर्शनपरभाष्यस्य आधि- दैविकेश्वरपरत्वं निराकरोति तन्द्राष्योक्त इति -- मू । तद्भाष्योक्तः परेशस्तु न सुप्ो हीश्वरो यदि। व्यामोहासंभवात्तस्य संसारित्वं कुतो भवेत् ॥ ४९ ॥ कर्मणश्चेत्तदेशस्य बन्धो ज्ञानान्न नश्यतु ॥ ४९॥ ॥ व्या। आविदैचिकस्य सर्वज्ञत्वेन व्यामोहाभावात्तस्य शारीरत्वप्रयोजकं कर्मैवेति देत् तत्कर्मणः प्रारब्धरूपत्वात् तत्कृतो बन्धो न ज्ञाननाश्यो भवेदित्यर्थः। अ०॥ नन्वव्यामोहितः परमेश्वरः स्वम्ष्टान्तःकरणे प्रतिबिम्बनीति यत

'लोकवत्तु लीलाकैवल्य'मिति सिद्धान्तसूत्रेण लीलया जगत् स्नटृत्वस्य राद्धान्तित त्वात् कथं स्वाज्ञानमोहितस्य प्राज्ञस्य स्वस्मिन्नविद्यया जगदारोपकत्वमिति शक्कते प्रतिबिम्बात्मनेति --

Page 205

१९२ अद्वैतसिद्धान्तगुरुचन्द्रिकाया

मू ॥ प्रतिबिम्बात्मना चित्ते हीशावेश्नो यतस्ततः ॥५० ॥ अव्यामोहित ईशानो लीलया राजवत्सृजेत्। इति मूत्रकृता प्रोक्ते मोहितोऽन्यः कथं सृजेत् ॥६१॥ व्या। अन्य इति आधिदैविकात् परमेश्वरादन्यः सौषुप्तिकः क्थ जगत् सजतीत्यर्थः॥५१॥ अ०॥ समाधत्ते न निर्गुणमिति -- मू॥ न निर्गुणं विभु ब्रह्म स्वाध्यस्ते प्रतिबिम्बति । दृष्टान्ताभावतः किञ्च कृतहानादिदूषणम्॥ ५२॥ अंशोऽवच्छिन्न आभासो जीवश्चेत्संभवेत्तथा। ब्रह्मणो विभ्वसङ्गत्ववाधश्रोक्तस्तृतीयके ॥ ५३ ॥ व्या॥ निर्गुणमिति नीरूपमिति यावत्। जीवस्य निर्गुणब्रह्मप्रति- बिम्बत्वादिपक्षे दृष्टान्ताभावादिदोषत्रयस्य प्राक् तृतायनिरूपणे दर्शितत्वादस्म- त्प्रतिज्ञातार्थसिद्धिरित्यर्थः ॥ ५३ ॥ अ०॥ यत्तूक्त प्रयोजनवत्त्वाधिकरणमवलंब्य वियदादिसर्जनं तत्तत्प्राणि- कर्मसापेक्षकाधिदैविकपरमेश्वरक्तृकमेवेति तस्थ सूत्रकारैस्तत्रत्येन 'न प्रयोजनवत्वा' दिति प्रथमसूत्रेण निरीश्वरवादिनां मीमांसकानां मतानुसारेण पूर्वपक्ष संप्रद्श्ये- शस्य निमित्तकारणत्वमात्रमवलम्ब्य 'लोकवत्तु लीलाकैवल्य'मिति तदुसरसूत्रेण

तदीयेनैव न चेयं परमार्थविषया सृष्टिश्रुतिः अिद्याकल्पितनामरूपव्यवहा- रगोचरत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि न प्रस्मर्तव्यमित्यनेन भा- कयेण सृष्टिश्रुतेः परमार्थजगत्सर्जनपरत्वनिराकरणादवगम्यते -- अतो नेदं जगत् कर्मजत्वेन परमार्थसत्यं किं तु प्राज्ञाज्ञानपरिरकाल्पतत्वात् मिथ्यैवेत्युत्तरमाह परेति- मू ॥ परबुद्धचनुसारेण परिचोद्य समाहितम्। लीलाकैवल्यसूत्रेण सूत्रकारैर्विनाSSशयम् ॥५४॥ एवं ज्ञात्वा भाष्यकारो न चेयं सर्जनश्रुतिः । परमार्थपरा चति प्राहातो नेशजं जगत् ॥ १५॥॥ व्या।। लीलाकैवल्यसूत्रेणत लोकवत्त लीलाकैवल्यमिति सूत्रेणेत्यर्थः एवं झात्वेति उत्तप्रकारेण वक्ष्यमाणगौडपादाचार्यवचनात् प्रबध्येत्यर्थः । एत- तूतरत्र स्वतन्त्रकर्ममात्रस्येत्यादिना प्रपञ्चयिध्यति॥ ५५ ।।

Page 206

पञ्चमं वाच्याद्यैक्यानुकूलं १९३ जगन्मिथ्यात्वनिरूपणम्।

अ० ॥ प्रयोजनवत्वाधिकरणं तावत् परदृष्यनुसारेणैव कृतमिति च जगत आधिदैविकप्रकृतित्वाभावश्च केन प्रमाणेन भाष्यकारैज्ञीतमित्यत आह भोगार्थ- मिति- म्॥ भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे। देवस्यैष स्वभावोऽयमिति सुप्तपरादवैत् ॥ १६॥ व्या। स्वभोगार्थ क्रीडार्थ वा जगत् सृजत्याविंदैविकः परमेश्वर इति ब्रुत- तो परवादित्वं तावत् अन्ये-अपरे इति पदद्याभ्यामवगम्य देवस्यैष स्वभावोऽय- मिति तृतीयपादात्-मायैषा तस्य देवस्य यथा संमोहितः स्वयमिति तदीयकारि- कान्तरसमानार्थकात् देवस्य स्वयंप्रकाशमानस्य अस्वाप्समिति परामृष्ठस्य प्राज्ञस्य य एष अपरोक्षभूतः न किञ्चद्वेदिषमिति परामर्शगोचरश्च 'शर्रारद्वयकारण- मात्माज्ञानमव्याकृतमित्युच्यते-सर्वप्रकारकज्ञानोपसंहारे बुद्धेः कारणात्मनावस्थानं सुघुप्ति: तदुभयाभिमान्यात्मा प्राज्ञः' इति पञ्चीकरणोक्तप्रकारेण स्वभावः तादा- त्म्याध्यासवशात् स्वरूपभूतः मायाज्ञानाव्याकृताकाशादिशव्दितः पदार्थः स एव अयं प्रपञ्चः तत्परिणामत्वात् इति सुप्तपरात् श्रीगौडपादीयकारिकावचनात् सम. स्तस्य जगतः आध्यान्मिकप्राज्ञपरिकल्पितत्वावगमेन नाधिदैविककर्तृकं जगदिति च अवैदाचार्य इति शेषः ॥ ५६॥ अ० ॥ किमात्मकं पुनः पारमार्थिकत्वं प्रागुदाहृतेन-न चेयं सर्जनश्रुतिः परमार्थविषयेति भाष्येण निराकृतम्। किं वा तदुद्वोधितं सृष्टिश्रुतेरविद्याकल्पित- नामरूपव्यवहारगोचरत्वात् न प्रस्मर्तव्यमेतदित्यत आह सन्ध्येति- मू। सन्ध्याधिकरणे यत्तु पूर्वपक्षे प्रकार्तितम् । तदेवात्र प्रपञ्चस्य निराकृत्याथ तत्र यत् ।। साघित तत्परा सृष्टिश्रुतिरित्यत्र कीर्तितम् ॥६७॥॥ व्या।। सन्ध्याधिकरणे पूर्वपक्षे म्वप्नप्रपञचस्याधिदैविकेश्वरकर्तृकत्वन यत्पारमार्थिकत्वमाशङ्कितं तदेवाऽत 'लोकवतु लीलाकैवल्य' मित्येतत्सूत्र भाष्याव- साने व्योमादेर्निराकृत्य अनन्तरं सन्ध्याधिकरणे 'मायामात्रं तु कात्तर्न्येनानभिव्य कस्वरूपत्वा'दिति सूलेग प्रातिभासिकत्वेन यन्मिथ्यात्वं साधित तत्परा ह्यात्मन. आकाशस्संभूत: इत्यादिस््टिश्रुतिरिति-अत्र प्रागुदाहृतसूत्रभाष्यावसाने न प्रस्मः 17

Page 207

१९४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

र्तव्यमिति कीर्तितमतस्ततप्रातिभासिकसत्यत्वात् यत् बलवत्तरं भौगैकनाश्यत्वरूपं सत्वं तदपेक्षयापि बलवत्तमस्य सत्यत्वस्य केनापि वादिना जगत्यनङ्गीकृतत्वात् न तन्निराकरणपरतया क्वचिदपि भाष्यं नेतव्यं किं तु क्वचित् मन्दाधिकारिणे जगतो भोगकनाश्यत्वं पारमार्थिकत्ववास्तवत्वसत्यत्वादिशब्दितं व्यावहारिकत्व मङ्गीकरियते। क्वचिच्छास्त्रार्थपरिशुद्धये मुख्याधिकारिण प्रति बहुतरं तन्निराक्ियत इति तन्न तत्र पर्यालोच्य शास्त्रार्थो ग्रहीतव्यः ॥ अ०॥ श्रो॥ सांसारिकगुहावाच्ये मायाज्ञानादिसंझिते। निहितं ब्रह्म यो वेदेति ब्रह्मगीतानुसारेण पुच्छवाक्यतदीयसूत्रतद्भाष्योक्तस्य सौषुप्तस्यानन्दमय- स्य्र 'सोऽकामयत चहुस्या प्रजायेयेति' 'कामाच्च नानुमानापेक्षे'ति च श्रुतिसूत्रा- दिभिर्विवक्षितेक्षणवत्वं प्रश्नपूर्वंकमुपपादयति यदीत्यादिना -- मू । यदि प्राज्ञो भवेदीशः सृष्टिकामोस्य चेत् कथम् ॥१८॥ श्रीकैवल्याद्यभिप्रेता सृष्टिर्दर्शनमस्य तु। स्वजिजागरिषां रूप्नसुप्त्यन्ते वासनोन्भवाम् ॥१९॥ विनोत्पत्तेरभावेन सैवेक्षा वृद्धसम्मता ॥ १९॥॥ व्या।। यदीत्यादिना प्रश्नमनूद्य प्रतिवचनमाह-श्रीकैवल्यादीति मुमु- क्षोः स्वस्यासंकुचिताद्वितीयत्वज्ञापनाय 'सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति। पुनश्च जन्मान्तरकर्मयोगात स एव जीवस्खिति प्रबुद्ध' इति षष्ठ- निरूपणे चतुर्थादि श्ौकैरुदाहरिष्यमाणा: श्रीकेवल्यश्रुतिरादिर्यस्याः'समाननामरूपत्वा- च्चावृत्तावप्यंविरोधो दर्शनात् स्मृतेश्व-अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैव मेके' इति सूत्रद्वयभाष्यावसरे उदाहृतायाः 'यदा सुप्तर्खप्नं न कञ्चन पश्य' तात्यादि कौषीतकीश्रुतेः सा श्रीकैवल्यादिः तया तथोक्ता तथा स्ापप्रबोधयोः प्रळयप्रभवौ हि श्रूयेते। सुषुप्तिकाले च परेण ब्रह्मणा जीवः-टि-विज्ञानमय एकतां गच्छति परस्माच्च ब्रह्मणः-टि-प्राज्ञात् प्राणादिकं जगज्जायत इति वेदा- न्तमर्यादेति प्रागुदाहृतस्त्रद्यभाष्याभ्यां च स्वप्नवत् कल्पितस्याज्ञातसत्वाभावात् बर्शनं सृष्टिरदर्शन लय इति दृष्टिसष्टिपक्ष: श्रुत्यभप्रेत इति तत्रलरामानन्दीयेन च ॥ श्रो ॥ ज्ञानस्वरूपमेवाहुजगदेतद्विचक्षणाः । अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्य- न्ये कुदृष्टय' इति स्मृत्या च-'रज्जुसपादिवद्विश्वं नाज्ञातं सदिति स्थितं। प्रबुद्ध- दृष्टिसष्टत्वात् सुषुप्तौ च लयश्रुते'रिति सिद्धिवचनाच्च सृष्टिशब्दार्थभूतस्य सज्यमा- नंस्य जगतो जागरणरूपद्यटिरूपत्वावगमात्-तदृष्टेः सुषुप्तिस्रप्रावसाने प्राज्ञतैजस-

Page 208

पञ्चमं वाच्यादैक्यानुकूलं १९१ जगन्मिथ्यात्वनिरूपणम् ।

यो :- प्राचीनसंस्कारजन्यजिजागरिषामन्तरेण अजायमानत्वात् जिजागरिषाशब्द- स्येव अकामयत-कामाच्चेति श्रुत्याद्युक्तकामश्दस्यापीच्छापरत्वाच्च 'तदैक्षते' व्यादिश्रुतेरपि तत्समानार्थस्य वक्तव्यत्वाच्चेक्षणस्य जिजागरिषात्वं वृद्धसम्मतमि- त्युक्का एवकारेण ईक्षणस्येश्वरज्ञानात्मकत्वं व्यावर्लते-अन्यथा 'स एव मायापरि- मोहितात्मा शरीरमास्थाय करोति सर्वे। पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रं'। 'कल्पयत्यात्मनाSSत्मानमात्मा देवस्सवमायया। स एव बुध्यते भेदानिति वेदान्तनिश्चयः । मायैषा तस्य देवस्य यया सम्मोहितः स्वय' मित्यादि- शास्त्रैरावोदतं जगतः केवलाविद्यकत्वेन मिथ्यात्वं प्रपीड्येतेत्यर्थः॥ ५९॥॥ अ०। प्रतिज्ञातार्थे भाष्यकारसम्मतिप्रदर्शनार्थ-'तस्म स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तङ्गच्छतस्सर्वा एतस्मिस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्ति एवं हवै तःसर्वें परे देवे मनस्येकीभव'तीति प्रश्नोपनि- षद्वाक्यस्य यत् तस्मिन्मनसि स्वप्नकाले सर्वे जगत् एकीभवति रविमण्डले मरी- चिवद्विशेषतां गच्छति जिजागरिषोश्च मनस एव मण्डलाद्रश्मिवत्प्रचरन्तीति भाष्यं तदुदाइरति लीना इति- मू ॥। लीना रवेरुदयतो जायन्ते रश्मयो यथा ॥ स्याज्जिजागरिषोर्जीवात् सचित्तान्निखिलं तथा। इति श्रीभाव्यकाराणां प्रश्नोपनिषदो मता ॥ ६१॥ व्या ॥। केवले मनसि जगल्लयोत्पत्िजिजागीरषाद्यसंभवात् समनस्काज्जी- वाज्जगज्जायत इति श्रतितद्भाष्याभिप्रेतमित्याह जीवात्सचित्तादिति। शेषस्सुगमः ॥६१॥ अ०॥ अन्यथा बाधमाह नो चेदिति- मू॥ नो चेद्विशेषणस्वास्य मनसो व्यर्थताऽऽपतेत् ॥ ६१॥ ॥ क्या। नो चेदिति प्रागुदीरितप्रश्नश्रृत्युक्तमनश्शव्दार्थभूतस्य जीवस्य जिजागरिषायाः श्रत्युक्तेक्षणत्वानभ्युपगमे मनसः श्रौतमपि जगत्कारणत्वं करथं घटेत सर्वत्रेक्षणवतश्चेतनस्यैव कारणत्वश्रवणादित्याशङ्कय ईक्षणं नाम सर्वत्र चेत- नस्य जिजागरिषैवेत्यभिप्रेत्य मनशशब्दितस्य जीवस्य पूर्वश्रोके प्रदर्शितं यज्जिजा- गररिषोरिति विशेषणं तस्य वैय्यर्थ्यमापतेदित्यथंः ॥६१॥॥

Page 209

१९६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ० ॥ इदानीं सौषुप्तप्राज्ञीयजिजागरिषैव 'बहु स्या' मिति श्रृत्युक्त्तमीक्षणं न तदतिरिक्तं पर्यालोचनरूपमिति विद्यारण्याचारयैरभिप्रेतमित्याह-या जिजा- गरिषेति -- मू ॥ या जिजागरिषा सैव प्राज्ञस्य स्याच्चिदीक्षणम्।। इति जानद्विराचार्यैरभिप्रेतं तथैव हि। आनन्दमय ईशोऽयं बहु स्यामित्यवैक्षत ।I हिरण्यगर्भरूपोऽभूत्सुप्तिस्स्वप्नो यथेति च । अन्यथा तूपलभ्येत सुप्तानां न स्तदीक्षणम् ।। किञ्च तैर्नेशता श्रौती प्राज्ञे सम्यक्समर्थिता ॥ ६४॥॥ न्या। चिदीक्षणमिति वहु स्यामिति चेतनकर्तृकमीक्षणं तावत्प्राज्ञस्य जिजागरिषैवेति चित्रदीपाख्यप्रन्थे विद्यारण्याचायरभिप्रेतमिति प्रतिज्ञाय तत्नत्य- मेव वाक्यमुदाहरति आनन्दमय इत्यादिना 'सोऽकामयत' 'ब्रह्मपुच्छं प्रतिष्ठा एष: सर्वेश्वर'इत्यादिश्रुतिनिर्दिष्टस्सौषुप्तः आनन्दमयरूपो Sयमीश्वरः 'यदा बहु स्या- मित्यवैक्षत जिजागरिषावान् अभवत्- तदा हिरण्यगर्भरूप: लिङ्गशरीरे तादात्म्या-

पञ्चमहाभूतानि तत्कार्य च सर्वे सप्तदशक लिङं भौतिकं हिरण्यगर्भ इत्युच्यते एवत् सूक्ष्मशरीरमात्मनः जागरितसंस्कारजप्रत्ययः स विषयः स्वप्नः तदुभयाभि मान्यात्मा तैजस' इति-तत दष्टान्तमाह-सुप्तिस्स्वप्नो यथति इतिशब्देन विद्या- रण्याचार्यवाक्यसमाप्तिं दर्शयित्वा विपक्षे बाधमाह-अन्यथेत्यादिना सुधुप्त्य- वस्थां गतानामस्माकमपि तद्वहु स्यामिति श्रृत्युक्तं पर्यालोचनारूपम्रीक्षणंमुपलभ्ये- तेत्येकं बाधं दर्शयित्वा बाधान्तरमप्याह किञचेत्यादिना ॥ ६४॥॥ अ०।। श्रो ॥ 'प्रतिबिम्बात्मना चित्ते हीशावेशे यतस्ततः । अव्यामो- हित ईशानो लीलया राजवत् सजे' दिति श्रोकेनोपात्ताधिदैविकेश्रत्ववादपरिहाराय कृतं प्रासङ्गिकविचारं परिसमाप्य यत्प्राक् प्रक्रान्तं सर्वस्य मायिकत्वश्रतेः साधक पौष्कल्यं तदेव साधकान्तरोदाहरणेन प्रदर्शयन् कर्मणः कारणत्वश्रुतेः तया बाधि- तत्वं दर्शयति खनल्येति-

Page 210

पञ्चमं वाच्याद्यैक्यानुकूलं १९७ जगन्मिथ्यात्वनिरूपणम् ।

सहायमन्यथामिथ्यात्वज्ञानं नोपजायताम् ॥ ६५॥॥ क्या॥ गगने नीलिमा सत्ये जगत्सत्यं भविष्यतीत्याद्युपमानशास्त्रञ्च जगन्मिथ्या भवितुमर्हति अविद्वूद्गोचरत्वात् स्वप्नवदित्याद्यनुमानवाक्यं च जगतो मायिकत्वेन मिथ्यात्वश्रुतेस्सहायमित्युक्ता विपक्षे बाधमाहू अन्यथेति ॥६५॥ ॥ अ०॥ मायामात्रमिदं द्वैतमद्वैत परमार्थतः। सर्वे विकारजातं यन्माया- मात्रमिति प्रागुदाहृतेन श्रोकेन प्रदर्शितायाः श्रतेः-तदुपरितनैः-एष सुप्तेष्वित्या- रंभ्यं-सहायमन्यथा मिथ्यात्वज्ञानं नोपजायतामित्यन्तैः श्रोकैरुदाहतबहुश्रुतिसहा- यवत्वात् तच्छृत्या जगतः कर्मजन्यत्वेन भोगैकनाश्यत्वात् ज्ञाननिवर्त्त्वाभाव- रूपसत्यत्वपरायाः-'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये'-इत्यादि- श्रुतेस्सुनिपुणं बाधितत्वे प्रदर्शितेऽपि जगत्सष्टौ तत्तत्प्राणिकर्मसापेक्षः स्वस्मात् प्राज्ञादन्यः परमेश्वरो जगत्सजतीति अनादिदृढवासनाक्रान्तानां विदुषामपि- 'मय्येव सकलंजातं मयि सर्वे प्रतिष्ठितम्। मयि सवे लयं यानि तद्रह्माद्वयमस्म्यह' मित्यादि जीवन्मुक्तानुभवपरश्रुतिबोधितं स्वात्मनोSद्वितीयत्वानुसन्धानानुकूलं जगन्मिथ्यात्वं न बुद्धौ झटित्यारोहति-अतस्तेषामत् मनःप्रत्ययार्थ यथावज्जग- दयाथात्म्यविदुषां भगवतां श्रीब्रह्म-राम-कृष्णव्यास गौडपाद-भगवत्पादादीनां सम्म- ति प्रतिजानीने अत्रेति- मू ।। अत्र श्रीब्रह्मणो रामचन्द्रादेस्सम्मति ब्रुवे ॥ ६६ ॥ व्या॥ अत्रेति प्रागेष सुप्तेष्वित्यादिश्ाकैरुदाहृतवाठकादिवाक्यसहाय- वत्या सरवे विकारजातं मायामात्रमित्यादिश्रुत्या कर्मश्रुतेर्बाधितत्वविषये त्वित्यर्थः ॥ अ०॥ तत् प्रथमतो ब्रह्मवाक्यं दशयितुं देवानामाशक्कां दर्शयति यदीति- मू।। यदि ब्रह्मन् जगन्मिथ्या कर्मकाण्डम्य का गतिः । इत्याशङ्कां सुराणां श्रीव्रह्मालक्ष्यैवमव्रवीत् ॥ ६७॥ व्या। एवमिति वक्ष्यमाणप्रकारं ब्रह्मगीतायां सर्वशास्त्रार्थसंग्राहके द्वा- दशाध्याये जगादेत्यर्थः ॥ ६७॥ अ० ॥ कर्मकाण्डस्याज्ञटष्ट्यनुवादकत्वात् न कर्मणो जगत्कारणत्वे तात्पर्यम्। किन्तु तन्निवृत्तावेवेति देवेभ्यः प्रतिवचन भूतानि ब्रह्मवाक्यान्युदाहरति यथेति- मू। यथाभातस्वरूपेण सत्यत्वेन जगच्छूति: ।

Page 211

१९८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अङ्गीकृत्य हितं नृणां कदाचिद्वक्ति सादरम् ॥६८॥ व्या॥ तदेतत्सत्यम्मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तान्याचस्थ नियतं सत्यकामा एष वः पन्थाः सुकृतसवं लोक इति मुण्डकादिवाक्यं सङ्कद्वाति यथाभातस्वरूपेणेति चतुर्थीनरूपणोक्तप्रकारेण कर्मजत्वमेत्र सत्यत्वमिति भातं ज्ञातं स्वरूपं यस्य सत्यत्वस् तद्भातखवरूपं भात- स्वरूपमनतिकम्य यथाभातखरूपं तेन यथाभातखरूपेण सत्यत्वेन जगत् कर्मा- यत्तं यत् सत्यत्वं लोकसिद्धं तदुपेतं जगत् अङ्गीकृत्य 'सोमेन यजेत''पयसा जुहुयात्"पयसि हीदं सर्वे प्रतिष्ठितं यच्च प्राणिति यच्च न-तस्या आहुतेः सोमो राजा संभवति सोमादूर्ष वर्षादन्नमन्नाद्रेतो रेतसो गर्भस्संभवतीत्यादिश्रुतिः कर्मण: कारणत्वपक्षे रेतोद्वारा अत्यन्तं जुगुप्सितमेढ्द्वारा त्रीमूत्ररन्ध्रप्रवेशापत्तिं कर्मिणामावेद्य 'तसमाज्जुगुप्सेते'ति रवावयशषेण हित कर्मणररुकाशाद्विरस्कण- मेव नृणां मुमुक्षूणां कदाचिद्धक्ति सादरं यतः अतः कर्मेकाण्डस्य कर्मविरता वेव तात्पर्यवत्वात् न कर्मजत्वेन-जगत्सत्यले प्रामाण्यमित्यर्थः ॥ ६८॥ अ०॥ अन्यथा बाधमाह-ब्रह्मा सत्यत्वेनेति- मू ॥ सत्यत्वेन जगद्ानं संसारस्य प्रवर्तकम् ।६८।।। व्या॥ सत्यत्वेनेति कर्मजत्वेन यज्जगद्विषयकं ज्ञानं तत्-संसारस्य सं सरतीति संसारो जीवस्तस्य प्रवर्तकं कर्मणीति शेषः ॥l ६८॥।॥ अ० ॥ तर्हि किं ततो निवर्तकमित्यत आह ब्रह्मा असत्यत्वेनेति- मू।। असत्यत्वेन भानन्तु संसारस्य निवर्तकम् ॥ ६९ ॥ व्या॥ असत्वलेनेति अकर्मजत्वेन जगद्विषयकज्ञानमेव संसारस्य सं० सरतीति संसारो जीवस्तस्य कर्मणस्सकाशान्निवर्तकं भवेदित्यर्थः ॥ ६९॥ अ०।। यत एवमतः श्रुतिरपि जगतः केवलमायिकत्वमेव दशयतीत्याह ब्रह्मा अत इति- मू ।। अतस्संसारनाशाय कदाचित्परमा श्रुतिः । जगत्सर्वमिदं मायां वदृत्यत्यन्तनिर्मला ॥ ७८॥ हया । यतः फलात्मकशरीरादेर्जगतः कर्मजल्ज्ञानमेव तत्फलसाधनत्वेन गृहीते कर्माण भोक्तारं प्रवर्तयेदतः अकर्मजत्वज्ञानमेव ततो निवर्तयेदित्याह- अतस्संसारनाशायेति संसारस्य फलकारणत्वेन अन्यथा गृहीतस्य कर्मणः

Page 212

पञ्चमं वाच्याद्यैक्यानुकूलं १९९ जगन्मिथ्यात्वनिरूपणम्।

नाज्ञाय कारणत्वनिवृत्तये कदाचित् तत्त्वजिज्ञासासमये जगतः ॥ श्षो० ॥ यथाभातस्वरूपेण सत्यत्वेन जगच्छृतिः । अज्गीकृत्ये'ति प्राग्ब्रह्मणा प्रदर्शितकर्मज- त्वानुवादकश्रुत्यपेक्षया परमा सर्वे विकारजातं मायामात्रं।'मायामात्रमिदं द्वैत' मित्यादिका श्रतिः कार्यसामान्यस्य चिद्ध्यस्तमायामात्रप्रकृतिकत्वे आवेदिते सति न तज्ज्ञानं मायायां। फलकारणे कर्मण कर्मज्ञानमिव भोक्तारं प्रवर्तयेत्-अनादित्वान्नायायाः । किन्तु मायिकत्वात् सर्वे भोग्यजातं मिथ्यैवेति कर्मणो निवर्तयेदेवेत्भिप्रेत्याह- जगत्सर्वमित्यादिना निर्मला कपटरहितेल्यर्थः ॥ एवं मायिकस्य जगतः कर्म- जत्वं निराकुर्वता श्रीव्रह्मणा सौषुप्तात् प्राज्ञादन्यः कर्मसापेक्ष आधिदैविको जगत्स- जतीत्ययं प्रतिकर्मव्यवस्थावादः श्रोतृणां मान्दाविकारकालिक इत्यभिप्रेत इति सिद्धम्॥ ७० ॥ अ०।। इदानीं कमलासनावच्छीरामोऽपि जगद्याथात्म्यं दर्शयतीलाह इती- त्यादिना- मू॥ इति साधकवेदानां मायिकत्वश्रुतेरपि। अवाधायाद्यकाण्डेनास्यानुवादकतां ब्रुवन् ।। ७१॥ ब्रह्मास्या कर्मजत्वञ्च मायिकत्वं यथाब्रवीत्। एवं रामोऽप्युवाचेदं नाधिदैविकनिर्मिनम् ॥ ७२॥ अतश्चाकर्मजं जीवेऽविद्याध्यस्तमिति स्फुटम् ॥ ७२॥॥ व्या।। इतीति पूर्वोक्तप्रकारेण जगतो मायिकत्वपरश्रुतेः तत्सहायानां प्रा. गुदाहृतानां 'य एष सुप्तेषु जागतीं' ति काठकादिश्रुतीनाञ्च कर्मशास्त्रेण बाधाभा- वाय तच्छास्नस्य अज्ञदृष्ट्यनुवादकत्वातिरेकेण स्वतः प्रामाण्याभावं प्रदर्शयन् जग- दक्मजत्वेन केवलाविद्यकत्वात् मिथ्येति कमलासनवद्रामोऽप्युवाचेत्यर्थः ॥७२॥॥ अ० ॥ कुत्रत्येन वाक्येनेत्यत आह पादेति- मू॥ पाझे तु शिवगीतायां सप्तमाद्धयायगैरशुभैः ॥७३॥ व्या। शुभरिति तत्वजिज्ञासावतां शुभकरैरित्यर्थः ॥७३॥ अ०॥ तेषु कानि चिद्वाक्यान्युदाहरति उत्पन्नतत्वज्ञान इति --

Page 213

२०० अद्वैतसिद्धान्तगुरुचन्द्रिकाया

मू। उत्पन्नतत्वज्ञानोऽथ बभूव नृपनन्दनः । अथोपनिषदां सारै रामस्तुष्टाव शङ्करम् ॥ ७४ ॥ व्या। अथेति उत्तरत्र वक्ष्यमाणप्रकारेण विश्वरूपस्य निमित्तमात्रंभूतेन श्रीशिवेन प्रदर्शितानां सुरासुरनरमृगादीनां सर्वेषां स्वाप्निकदेवादिशरीराणामिव प्रेतभावमन्तरा शिवस विवृतानने भक्षणादिव्यापारवर्जिते सति विनाशदर्शना- नन्तरं-तेषां तादृशविनाशदर्शनरूपान्निमित्तात्='दिव्यं चक्षुः प्रदास्यामि तुर्भ्य दशरथात्मज । तेन पश्यसी'ति तत्रत्येन शिवोपदेशेन 'मनोऽस्य दैवं चक्षु'रिति- श्रुत्या च दिव्यचक्षष्ट्रेनावेदितेन मनसैव विश्वरूपस्य ग्राह्यत्वावगमाच्च-प्रकृते विश्रव- रूपे तन्निदर्शनेन वियदादि जगति च उत्पन्नप्रातिभासिकत्वज्ञानवान् सञ्छ्रीराम: शङ्करमाधिदैविकं:परमेश्वरं वक्ष्यमाणप्रकारेण तुष्टावैति सूतवाक्यम् ॥७४॥ अ०। इदानी भगवंस्तव स्वरूपव्यामोहाभावेन स्वस्मिञ्जगदारोपकत्वा- भावे सति लोक: स्वस्वरूपव्यामोहकाज्ञानवशेन यत् द्वैतजातं स्वस्मिन्नध्यस्यति तद्भवति वृधा ह्यारोपयतीति तदीययाथात्म्यकथनेन स्तोतुं लोकदृष्टिं श्रोकचतुष्टये- नानूद्य निराकरोति श्रीरामो देव प्रपन्नार्तिहरेत्यादिना- मू॥ देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द। प्रसीद गङ्गाघर चन्द्रमौळे मां तराहि संसारभयादजाथम्॥ ७५॥ त्वत्तो हि जातं जगदेतदीश त्वय्येव भूतानि च सन्ति नित्यम्। त्वय्येव शंभो विलयं प्रयान्ति भूमौ यथा वृक्षलतादयोऽपि ॥

गङ्गादिनद्यो वरुणालयाश्र वसन्ति शूलिंस्तव वक्त्ररन्ध्रे ॥७७॥ त्वन्मायया कल्पितमिन्दुमोळे त्वय्येव दृश्यत्वमुपैति विश्वम्। भ्रान्त्या जनः पश्यति सर्वमेतच्छुक्तौ यथा रौप्यमहिं च रज्जौ।। व्या। श्रे० ॥ त्वत्तो हि जातं जगदेतदीश त्वय्येव भूतानि च सन्ति नित्यं। त्वय्येव शंभो विलयं प्रयांति भूमौ यथा वृक्षलतादयोऽपि । इति भ्रान्त्या जनः पश्यतीति वाक्येन वियदादेराधिदैविकपरमेश्वरेक्षापूर्वकं तदारोपितत्वतत्प्र- •कृतिकत्वादीनां 'मय्येव सकलं जातं मय सर्वे प्रतिष्ठितम् ॥ मयि सर्वे लयं नाति तद्रह्माद्वयमस्म्यह्द'मिति श्रुत्युक्तविद्वदनुभवेन बाधितत्वादिदं जगत् सर्वप्राणिदृष्टि-

Page 214

पञ्चमं वाच्यादयैक्यानुकूलं २०१ जगन्मिश्यात्वनिरूपणम्।

गोचरं स्वभिन्नेशप्रकृतिकमिति प्रतिकर्मव्यवस्थावादिनो दृष्टि-तथा ब्रह्मेन्द्ररुद्राश्चे- त्यारभ्य इति भ्रान्त्या जनः पश्यतीति वाक्यान्तरेण च श्रीरामः प्रकृतस्य

परदृष्ट्यविषयत्वात् शिवप्रसादलब्धविश्वरूपान्तरदर्शिनः तद्विश्वरूपयाथात्म्यानभि ज्ञस्य दृष्टिं च संप्रदर्श्य भ्रान्तजनख तदुभयविधेऽपि जगति तादृशभ्रमसद्भावं दृष्टान्त

जीवाश्रिताज्ञानपरिणामत्वेन जीवाश्रितत्वे सत्यपि शुक्त्ाद्याश्रितत्वेन यथा चान्यथा गृद्धाति तथा जनः खप्नवत्सदृष्टिमात्रगोचरत्वेनं खाज्ञानपरिणामभूतं विश्वरूपं- 'मय्येव सकलं जात' मित्यादिश्वुत्युक्तं विय्दादिकं च विभ्रमात् त्वत्प्रकृतिकत्वे- नान्यथा गृह्णातीत्यर्थ :- अहे रज्ज्वधिकरणकत्वाभावं खयमेव श्रीरामो रज्जौ भुजङ्ग इति श्रोकेन दर्शयिष्यति ॥ ७८॥ अ०॥ ननु, मम जगदीश्वरस्य वियदादिप्रकृतित्वाभावे मदन्यस्य जगत्स्फूर्ति- प्रदस्याभावात् कथ जीवसु जगदापरोक्ष्यं संभवतील्यत आह=तेजोभिरिति- मूं।। तेजोभिरापूर्य जगत्समग्रं प्रकाशमानः कुरुते प्रकाशम्। विना प्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन ।। ७९॥ व्या।। प्रकाशमान इति खप्नसुषुप्त्योरिव जाग्रदवस्थायामपि स्वयंप्रकाश, मान: जीवः तेजोभिरिति प्रकाश्यगतबहुतं तत्प्रकाशकात्मतेजस्युपचर्यते=तथा च सति जीवः स्वतेजसा जगत्समग्रं पूर्णत्वेनापूर्य दीव्यत इति देवो जीवः तथा. चोकं मायैषा तस्य देवस्य यया सम्मोहितस्खय'मिति तस्य स्वप्नकल्पितदेवतावत् तस्वोपदेष्टत्वादिना दीव्यत इति भवान् देवदेवः तंस् संबुद्धिर्हे देवदेव-स्वतःप्रकाश- मान: सजीवस्तवप्रकाशं विना प्रकाशं कुरुत इत्यन्वयः सर्वस्य प्रातिभासिक्त्वेन स्वत एव जानातीत्यर्थः ॥ अन्यथा सर्वजगदधिष्ठानभूतेनाधिदैविकचैतन्येन सह जीवस्य चक्षुरादिद्वारा संबन्धे सति तदनुग्रहवशाद्वेदितृत्वाभ्युपगमे बाधमाह न दृश्यते विश्वमिदं क्षणेनेति तत्पक्षे क्रभशः केषां चित् पदार्थानों तत्तदिन्द्रिय- संप्रयोगसमये त्वापरोक्ष्यसंभवेपि एकक्षणारूढत्वेन सर्वे न दृश्येत=जीवाऽविद्या परिणतत्वेन जगतः प्रतिभासिकसत्वे तु एकक्षणारूढ तवेन जगदापरोक्ष्यं जीवस्ोप पद्मते। तथा चोक्तं सूतसंहितायां। श्रो०॥ 'पूर्णोऽहं सर्वसाक्षित्वात् सर्वदा पर मार्थतः । अपूर्णो युगपत सर्वे न विजानाति कश्ने'ति ॥ ४९॥

Page 215

२०२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ०।। इदानीं विश्वरूपस्य शिववक्रमात्राविकरणत्वाभावञ्च अविद्योपहित- स्वात्मगतत्वञ्च उपपादयन् परमेश्वरं व्यामोहराहित्येन रामः स्तौति अल्पाश्रय इति- मू।। अल्पाश्रयो नैव बृहन्तमर्थ धत्तेणुरेको न हि विन्ध्यशैलम्। त्वद्वक्त्मात्रे जगदेतदस्ति त्वन्माययैवेति विनिश्चिनोमि ॥८०॥ व्या। पूर्वार्ध स्पष्टार्थ। तथा च सति त्वद्वक्रमात्रे जगदेतदस्ति कथमिति शेषः । वियदादपेक्षयाल्पपरिमाणवति भवदकरे कथं वियदादिकं स्थातुं शक्कोतीलर्थः ॥ अंतः त्वद्ूकगतत्वनेव प्रतीयमानस्यास्य विश्वरूपस्य मन्मातगो- चरत्वेन त्वदूफाद्यवच्छिन्ने परिपूर्णे दग्रूपे मयि त्वन्माययैव त्वयानुग्ृद्दीता माया- मदविद्या त्वन्माया तथाहि॥ श्रो० ॥ 'तमोऽध्यात्ममिति प्रोक्तं विकारस्तत्र मो भवेत् । अधिभूतं तदित्युक्त्तमीश्वरोSताधिदैवत'मिति तयैवेदं विश्वरूपं कृतमिति निश्चिनोमीत्यर्थः ॥ ८० ॥ अ०॥ इदानीं त्वत्तो हि जातमित्यादिश्रोकैः विस्तरेणोक्त्तमेवार्थ सङ्टृह्व स- दृष्टान्तमाह श्रीरामो रज्जाविति- मू।। रज्जौ भुजङ्गो भयदो यथैव न जायते नास्ति न चैति नाशम्। स्वन्मायया केवलमात्तरूपस्तथैव विश्वं त्वयि नीलकण्ठ ।। व्या। यथा प्रातिभासिकत्रमस्थले प्रतीयमानो भयदो भुजङ्गो, रज्जौ न जायते नास्ति न चैति नाशमित्यन्वंयः। तर्हि कुत्र तस् भुनङ्गस्य जन्मादिलाभ इत्यतं आह-त्वन्माययेत्यादिना त्वया आधिदैविकेन परमेश्वरेण आदित्यादि- भिश्वक्षुरादय इव अनुग्रहीता या माया मदविद्या न किञ्चिद्वेदिषमिति प्रत्यभि. ज्ञायमाना सा त्वन्माया-तथा चोक्तं वार्तिके॥ श्रो॥ तमोऽध्यात्ममिति प्रोक्त्ं विकारस्तत्र यो भवेत्। अधिभूतं तदित्युक्त्तमीश्वरोSत्राधिदैवतमिति-श्रीरामोSप्येव- मेवोत्तरत्र ॥ श्रो० ॥ विचार्यमाणे तव यच्छरीरमाधारतां वै जगतामुपैति। तद- प्यवश्यं मदविद्ययैव कृतमिति वाक्येन विश्वरूपमिव तदधिकरणभूतं तव शरीर- मपि मदविद्ययैव कृतमिति मुखत एव च वक्ष्यति-तया त्वन्मायया भुजङ्गः तथा विश्वं च मृहन्येण घटवदात्तरूपस्सन् तदुपादानभुतस् त्वदनुगृहीतस्य मायाशन्दि-

Page 216

पञ्चमं वाच्यादैस्यानुकूलं २०३ जगन्मिथ्यात्वनिरूपणम्।

तस्य तमसोऽधिष्ठानभूते मय्येव विद्यमानत्वात् न रज्जौ वा भुजङ्ग: त्वयि वेदं विश्वं तिष्ठतीलयावेद्य केवलमिति पदेन भुजज्जविश्वयो: यागजन्यद्रव्यापूर्वादिप्रकृतिकत्वादिकं प्रर्तिषिध्यते॥ ८१॥ अ०॥ इदानीं प्रागुदाहृतविश्वरूपमिव तदविकरणवद्भासमानस्य भवच्छरी- रस्य मदज्ञानपरिणामत्वेन तदुपाधिको भवानप्यहमेव सुषुप्तस्थानः आनन्दमय इत्याह विचार्यमाण इति- ॥ विंचार्यमाणे तव यच्छरीरमाधारतां वै जगतामुपैति। तद्प्यवश्यं मद्विद्ययैव पूर्णश्चिदानन्दमयो यतस्त्वम् ॥।८२।। व्या। विचार्यमाण इति सप्ने मत्कल्पितदेवतानामिव त्वत्कल्पितशरीर- स्वरूपव्यामोहादिघर्जितस्य मदनुग्राहकत्वेन प्रतीयमानस्य तव यद्विश्वरूपाधिकरण- मिव प्रतीयमानमिदं शरीरं तस्य मया दृश्यमानत्वात् यद्दुश्यं तन्मिथ्या भवितुमर्हति खप्नवदिति न्यायपूर्वकं किमस्योपादानं को वास्य व्यामोही स्वरूपाध्यासकता-किं एतदुपाधिमच्चैतन्यं मद्भिन्नं न वेति श्रुतिस्मृतियुक्त्यनुभूतिभ्यः पर्यालोच्यमाने तव यदिदं शरीरं विश्वरूपाधिकरणत्वेन प्रतीयते तदपि तच्छरीरं अपि शब्दाद्विश्व- रूपञ्च मदविद्ययैव मम स्वरूपव्यामोहिन: प्राज्ञस्ाविद्ययव कृतमिति विज्ञाप्य एवकारेण एकात्मवादे कारणशरीरान्तराभावात् न लदीयाविद्याकृतमिद भव- च्छरीरमिति व्यावर्लते एवमेव श्रीरामोऽप्युत्तरत्र-सर्वे त्वविद्याकृतमेव मन्य इत्य- नेन स्ववाक्येन वक्ष्यति। एवं विश्वरूपतदधिकरणशरीरयोः स्वाविद्यकर्त्नवे दना-

यतस्त्वमिति यतः यस्मात् प्राक् तृतीयनिरुपणोक्तप्रकारेण कारणशरीरभूतयाS- विद्यया चिदानन्दमयरूपः सौषुप्तोऽहमपरिवेष्टितोऽतः पूर्णः यतः पूर्णोऽस्म्यतः स्वप्नकल्पितदेवताशरीरावच्छिन्नचैतन्य रूपेणेव मदविद्याकृताधिदैवतशरीरोपाधिक भवद्रूपेणाप्यस्मि अतो नानन्दमयान्मत्तो भिन्नोऽसीत्यर्थः ॥ एतद्रामवाक्यार्थविव- रणस्य-'यदा सुप्तस्स्वपं न कञ्चन पश्यतीत्यारभ्य एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका' इति कौषीतकीश्रुत्या-तथा 'एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि च भूतानि व्यु- च्चरन्तीति बुहदारण्यादिश्रुत्या च' तदीयेन विज्ञानमयस प्राक् प्रतिबोधाद्यत्स्व- रूपं तस्माज्जगत्सष्टिं श्रावयतीति बृहदारण्यभाष्ययादिना च एष एवानन्दमयः साधि-

Page 217

२०४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां दैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज्जात्यन्तरभूतोऽन्येषमिवेति माण्डूक्य भाष्येण च अनुग्ृहीतत्वात् नैवात्र स्वस्य निरङ्कशाद्वितीयत्वजिज्ञासावद्भिविवदि तव्यम्॥ ८३ ॥ अ०॥ इदानीमाधिदैविकस्य भगवतः स्वस्मिञ्जगदध्यासकृतत्वेऽपि न जगतः कर्मजन्यत्वमित्याह-श्रीरामः पूजेति- मू।। पूजेष्टपूर्तादिवरक्रियाणां भोक्ता फलं यच्छसि यत्त्वमेव। मृषैतदेवं वचनं पुरारे त्वत्तोस्ति भिन्नं न हि किश्चिदेव।।८३ व्या। पूजेष्टपूर्तादिवरक्रियाणामिति पूजा अर्चनमिष्टं यागादि: पूर्त तटाकादिनिर्माणमादिर्यासां वरक्रियाणां ध्यानक्रियाणां तास्तथोक्ताः तासां भोक्ता उपलब्धा फलानुभवी च सन् लमेव फलं यच्छसीति बोधकं यदन्नादो वसुदानः इत्येतच्छतिवचनं तन्मृषा अर्थशून्यमित्युक्ता तत्र नान्योSतोSस्ति द्रष्टा। सोSकामयत वदु स्ामित्यारभ्य तदेवानुप्राविशदित्यन्तञ्च'सर्वे खल्विदं ब्रह्मे'त्यादि शास्त्रंच प्रमाण यति त्वत्तोऽस्ति भिन्नं न हि किञ्चिदेवेति राजस्सकाशाद्त्यफलयोरिव फल- दातु: त्वत्तः भोक्तृभोग्ययोः भेदे सति त्वदन्यस्मै त्वदन्यफलं दातुमर्हसि नान्यथा न हि तैजसः स्वस्मिन् स्वारोपितं स्वाप्निकं दस्त्राभरणादिकं स्वानन्यविश्वाय दातु- मर्हृति-न परश्चापरेणाध्यस्तमादातुमर्हति च-अत एव धर्माधर्मावनपेक्ष्यैव सर्वे त्वयि त्वदविद्ययैव त्वया अध्यस्तमित्यावेद्य तत्र सर्वसम्मति दर्शयति एवमिति ओमेवं परमं मत इत्यमराभिधानात्॥। ८३ ।। अ०॥ इदानीं जगतः स्वात्मविवर्तत्वमतिदुषां सिद्धान्तं दूषयति श्री- रामोऽज्ञानमूढा इति- मू॥ अज्ञानमूढा मुनयो वदन्ति पूजोपहारादिवालिक्रियाभि:। तोषं गिरीशो भजतीति भिथ्या कुतस्त्वमूर्तस्य तु भोगलिप्सा।। व्या। ईश्वरः कर्मणा प्रसीदतीति वचनस्यार्थशून्यत्वे हेतुमाह-कुतः स्त्वमूर्तस्य तु भोगलिप्सेति-न विद्यते मूर्तमहमित्यभिमन्यमानं शरीरं यस्य सर्वज्ञस्य तव स अमूर्तः । 'न तस्य कार्य करणञ्च विद्यते इति श्रुतेः' तस्य- 'अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशत' इति श्रतेः भोगलिप्सा कुतस्संभवती- त्यर्थ: ॥ ८४ ॥

Page 218

पंञचमं वाच्याचैस्यानुकूलं २०९ जगन्मिथ्यात्वनिरूपणम्।

अ० ॥ एवं फलकारणभूतशिवप्रसादात्मकापूर्बसद्भाववचनस्य अर्थशून्य- स्वमुपपाद्य-फलस्याप्यविद्यामान्रजन्यत्वविधानेन कर्माराधितेश्वरनिर्मितत्वं निरा- करोति श्रीराम: किञ्चिद्दलं वेति- मू।। किन्चिद्दलं वा चुलकोदकं वा यस्त्वं महेश प्रतिगृह्य धत्से। त्रैलोक्यलक्ष्मीमपि यज्जनेभ्यस्सर्वे त्वविद्याकृतमेव मन्ये॥८५॥ क्या।। जनेभ्यस्त्रैलोक्यलक्ष्मीमपि धत्स इति यत् तत्सर्वे त्वविद्याकृतमेव मन्य इत्यन्वय: ॥। ८५ । अ०। ननु, सर्वस्याविद्यामात्रजन्यत्वे कथं जगद्वैचित्र्यहेतुभूतं तत्तत्प्राण्य- दृष्टं विना सजामीत्यत आह संसर्जने वेति- मू।। संसर्जने वाप्यवने विनाशे विश्वस्य किश्चित्तव नास्ति कार्यम्। अनादिभिर्देहभृतामदष्टैस्तथापि तत्स्वप्रवदातनोषि।।८६।। व्या॥ हे स्वामिन् तवाध्यासिकजगत्सष्टिस्थित्युपसंहारविषये न प्राण्य- दृष्टैः किञ्चित्कर्तव्यमस्ति-प्राण्यदृष्टमनपेक्ष्यैव जगत्सर्जनादिकं किय्त इत्युक्त्वा तत्र दृष्टान्तमाह-तथापीत्यादिना-जगद्वूचित्र्यार्थ प्राणिकर्मण्यपेक्षाभावेSपि जी- वो विचित्रस्वप्नवस्तूनीव त्वन्मात्रापरोक्ष तत् जगत्सजसीत्यर्थः ॥ तथाचेक्तं- 'स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम्॥ श्रो० ॥ नादसे कस्यचित्पापं न चैव सुकृतं विभः ॥ अज्ञाने नावृतं ज्ञानं तेन मुहयन्ति जन्तव :- इत्यादि श्रुतिम्मृतिभ्यः । नन्वेतच्छलोकस्य जगत्सर्जने स्वप्रयोजनाभावेऽपि त त्तत्प्राणिकमीनुसारेण विचित्र जगत्मजतीति तात्पर्ये कि न स्यादिति बेत्तदा

परेण अज्ञानमूढा मुनयो वदन्तीत्यादिना च रामवाक्येनैव तदीयस्यास्य श्रोकम्य बाधापत्तेर्न तत्र तात्पर्यमित्यास्थेयम्॥८६ ।। अ० ॥ इदानीं श्रीरामवाक्यमुपसंहरति इतीति- मू।। इत्यस्याकर्मेजन्यत्वं मायिकत्वं च दर्शितम् ॥ ८६।।।। व्या। इतीति पूर्वोक्तप्रकारेणास्य समस्तस्य जगतः कर्मजन्यत्वाभावे सत्याविद्यकत्वं प्रदर्शितं। श्रीरामेणेति शेषः ॥। ८६।। ।। अ०। प्रतिज्ञातार्थे श्रीशिवस्थापि सम्मतिरर्थात् सिद्धत्याह शिवस्पेति- 18

Page 219

१०६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू ॥ शिवस्य राघवज्ञानमनुमोदयतोऽनया। संमतिश्चात्र सिद्धेति ज्ञेया तत्वोपदेशिनः।।श।।।। व्या। अनयेति प्रागुदाहृतरामकृतस्तुत्यत्यर्थः ॥८७।।

॥ विधीनां परिसंख्यात्वादेशारम्भः ॥

अ०।। ननु, श्रो० ॥ निवृत्तिबोधकत्वेन विधेः-कर्म यतो न हि। कर्मजत्व निरासेन मिथ्येति जगदुच्यत इति यत प्राक् प्रतिज्ञातं तत्र जगतः एतावता ग्रन्थे. नोदाहृतशास्त्रैः अकर्मजन्यत्वेन मिथ्यात्वावगमेऽपि कथं तेषां निवृत्तिपरत्वमिति प्रश्नमनूद्य तेषां तत्परत्वावगमाय सर्वशास्त्रतात्पर्यनिर्णायकं भगवद्गीताशास्त्रभाष्या- दिकं प्रमाणयति निवृत्तीति- मू ॥ निवृत्तिबोधकत्वं तु विधानां स्वात्कथं यदि ॥ ८८॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेम्यो मोक्षयिष्यामि मा शुचः ॥।८९।। इत्यस्य गीतावाक्यस्य भाष्यस्ान्ते समीरितात्। बृहदारण्यभाष्यस्य व्याख्यानाच्च तथैव-च ।। ९० ।! फलाधिकरणीयाच्च वाचस्पत्यात्तथैव च। दृष्टिसृष्टिपराद्वैतसिद्धिवाक्याद्विघिश्रुतेः ॥ ९१॥ परिसंख्यापरत्वं तु विस्पष्टं भासते किल ॥ ९ १।। ।। ्या॥ परित्यज्येति विधीनां निवृत्तिपरत्वेन न वेदविहिताः सर्वधर्माः इति संनिवृत्त्यत्यर्थः । इत्यस्य गीतावाक्यस्येति भगवद्गीतायामष्टादशाध्याय- गतस्थ सर्वधर्मान्परित्यज्येति श्रोकस्य भाष्यस्ान्ते समीरितात् सरवशास्त्रार्थ- तात्पर्यनिर्णायकादस्मात्-न च कर्मविधिश्रुतेरप्रामाण्यमस्ति-पूर्वपूर्वप्रवृत्तिनिरोधेनो-

प्युपायख-टि-लिझादिवचनस निवृत्तिपरत्वेन प्रवृततिकर्मफलात्मकविषयाभावादर्थ- शन्यत्वेऽपि।

Page 220

पञ्चर्म वाच्यादयैक्यानुकूलं २०७ जगन्मिथ्यात्वनिरूपणम्।

उपेयसत्यतया सत्यत्वमेव खात्-यथा अनुवादानां विधिशेषाणां-लोकेऽपि बालोन्मत्तादीनां पय आदौ पाययितव्ये सति चूडाविवर्धनादिवचनवदिति भाष्यात्। निषेधापरपर्याया अन्यनिवृत्ति: यच्छास्त्रतात्पर्यविषयीभूता स परिसंख्या- विधि :- तत्र चान्यत्र च प्राप्तिरित्युत्सर्गः-न तु सा लक्षणघटिकेति ध्येयमिति कौ- स्तुभादुक्त्तप्रकारेण परिसंख्यालक्षणस्य लक्ष्येषु सर्वविधिषु समन्वयपरात् बृहदा- रण्यभाष्यव्याख्यानादस्मात् -- स्वर्गकामवाक्ये देहात्मत्वनिवृत्तिः-गोदोहनवाक्ये स्वतन्त्राधिकारनिवृत्तिः नित्यनैमित्तिकविधिषु अर्थान्तरोपदेशेन स्वाभाविकप्रवृत्तिनिरोध: निषेधेषु साक्षादेव स्वाभाविकनैसर्गिकप्रवृत्तयो निरुध्यन्ते-तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्षपरमिति बृहदारण्यभाष्यव्याख्यानाच्च। तथेव फलाधिकरणायादप्यस्मात्- 'स्वर्गकामो यजेते' त्यादिश्रतयः फलं प्रति न साधनतया यागं विदधति- तथाहीत्यारभ्य-'स्वर्गकामो यजेते'ति शरीरात्मभावप्रविलयः। 'गोदाहनेन पशु-

षेंधवाक्यानि च साक्षादेव परृत्तिनिषेधेन फलं प्रति न साधनतया किञ्चित्कर्म- विदधति। विधिवाक्यानि चान्यानि-'साङ्गहण्या यजेत ग्रामकाम' इत्यादीनि न साङ्गहण्यादिप्रत्तिपराणि-अपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि- यथा 'विषं भुङ्क्ष्व-सास्य गृहे मुङ्क्ष्वे'ति-तस्मात् कर्मफलसंबन्धस्य अप्रामाणि- कत्वात् अनादिविचित्राविद्यासहकारिणः ईश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति वाचस्पत्याच्च अत्रोक्तेश्वरपदात् सौषुप्तः प्राज्ञ एष सर्वेश्वर इति श्रृत्युक्तो ग्रहीत- व्यः कर्मनिरपेक्षतयाऽविद्यया स्ष्टत्वाभ्युपगमात्। तथा विधीनां परिसंख्यात्वाभिप्रायेणैव प्रवृत्तादृष्टिसष्टिपरादस्मात्-न चा- विद्यासहकृत जीवकारणत्वे जगद्वैचित्र्यानुपपत्ति :- जगदुपादानभूतस्याज्ञानस्य विचित्र- शक्तिमत्वात्। उपपत्त्यन्तर च सिद्धान्तविन्दु-कल्पलतिकादावस्माभिरभिहितम् वासिष्टवार्तिकामृताद्याकरे स्पष्टमेवोक्तम्।। श्रो०॥ अविद्यायोनयो भावास्सर्वेSमी बुद्धुदा इव। क्षणमुद्धय गच्छन्ति ज्ञानैकजलधौ लयमित्यादि-तस्मात् ब्रह्मातिरिकं सर्वें ज्ञानज्ञेयात्मकं जगदाविद्यकमेवेति प्रातीतिकसत्वं सर्वस्य सिद्धमित्यद्वैतसिद्धि वाक्याच्च।

Page 221

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मुष्टाभप्रयुत्तफलसंवादतुल्येति सिद्धान्तलेशसङ्गहे द्वितीयपरिच्छेदे दृष्टिस्रष्टिवाद- समर्थनपरात् श्रीमदप्पयदीक्षितवचनाच्च सर्वेषां विधिवाक्यानां परिसंख्याबोधक- त्वेन मोक्षपरत्वं निर्विवादेनावगम्यते किलेत्यर्थः ॥ ननु, 'धर्म जैमिनिरत एवे'ति सूतेण स्वतन्त्रं कर्मैव फलकारणमिति यज्जै- मिन्याचार्यमतं दर्शितं तन्निरासकेन तदुत्तरसूत्रीयेणानेन कर्मापेक्षादपूर्वापेक्षाद्वा यथास्तु तथास्तु। ईश्वरात् फलमिति सिद्धान्त इति कासञ्चिद्विविश्रुतानामपूर्व- विधित्वं कासाञ्चिन्नियर्मवधित्वं च सूचयता भाष्येण। 'स्वर्गकामो यजते' त्यादिश्रुतयः फलं प्रति न साधनतया यागं विदधती- त्यारभ्येश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरित्यन्तस्य सर्वश्रुतीनां परिसंख्या- त्वबोधकस्य वाचस्पत्यस्य बाध्यमानत्वात कथ तत्प्रेक्षावदुपादेयं स्यादिति चेत्- भवांस्तावत् प्रष्व्यः कि भवतोदाहृतेन भाष्येण विवक्षितमिति। कर्मा पूर्वयोरन्यतरसापेक्षत्वमीश्वरस्य फलदानाय विवक्षितमिति चेत् न कर्मा. पेक्षादपूर्वापेक्षाद्वेश्वरात् फलमित्येतावतैव तदन्यतरस्य विवक्षितत्वे सिंद्ध यथास्तु तथास्त्वति वाक्यवैध्यर्थ्यात् तर्हि यथास्तु तथास्त्विति वाक्येन तदुभयसापेक्षत्वं अस्वरसो द्शित इति चेत् तदा कर्मणां कारणत्वाभावेन तद्भाष्यमूलकमेव तद्वांच- स्पत्थं तावत् कर्मश्रुतीनां परिसङ्खयात्वपरतया प्रामाण्यं च प्रातिभासिकसत्ताक- वियदादिकं प्रति सौषुप्तस्य प्राज्ञस्येष एव सर्वेश्वर इति माण्डूक्यादिश्रुत्यनुसारेण अभिन्ननिमित्तोपादानत्वञ्च वैषम्याधिकरणीयवाचस्पत्यवद्वबोधयति अतो न कश्चिद्ोष: ।। ९१।।। अ० ॥ इदानी प्रागुक्तप्रकारेण जगतोऽकर्मजन्यत्वेसति मायिकत्वेन मिथ्या- चमेव सूत्रकारैरभिप्रेनमित्याह गीतात्रयानुसारेणेति- भू ।। गीतात्रयानुसारेण व्यासाचार्यैश्र वृद्धवत् ॥। ९२ ॥ समाननामरूपत्वादावृत्ताविति सूत्रतः । अन्यार्थ जैमिनिः प्रश्नव्याख्यानेति च सूत्रतः ॥ ९३ ॥ दृष्टिसृष्टिरभिप्रेता-यदा सुप्त इति श्रुतेः । तत्सूत्रद्वयमूलत्वात्-सुप्तात् सृष्टिपरत्वतः ॥९४॥ अकर्मजन्यतायां सा मायिकत्वेऽस्य युज्यते ॥। ९४॥H

Page 222

पञ्चमं वाच्यादयैक्यानुकूल २०९ जगन्मिथ्यात्वनिरूपणम् ।

व्या। गीतात्रयति प्रामुक्तव्रह्मगीताशिवगाताभगवद्गातानां त्रयमनु- मृत्य सूत्रकारैरपि समाननामरूपत्वाच्चावृत्तावप्यवरोधो दर्शनात् स्मृतेश्व। 'अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चवमेक' इत्यादिसूत्रेषु॥ श्रो० ॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः। अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्य कृदृषयः । रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितं । प्रबुद्धदृष्टिस्ष्टत्वात् सुषुप्तौ च लयशुते' रित्यादिशास्त्रोक्तप्रकारेण दर्शनसष्टिरदर्शनं लय इति दृष्टिस्ृष्टिरभिप्रेतत्युक्त्वा तव 'यदा सुप्तस्स्वप्नं न कञ्चन पश्यत्यथास्सिन् प्राण एवैकधा भवति तरदनं वाक सवैनी- मभिस्सहाप्येति चक्षुस्सवैं रूपैस्सहाप्यति श्रोत्रं सवैंशशव्दैस्सहाप्येति मनस्सवैध्यीनें- स्महाप्येति स यदा प्रतिबुध्यते यथास्ेज्वलतस्सर्वा दिशा विष्फुलिता विर्प्रातष्ठेर्नेव- सवैतम्म दात्मनः सर्वे प्राणा यथायतनं विप्रांतष्ठन्ते प्राणेभ्यो देवा देवेम्यो लोकाः' इत्यादिकौषीतकीश्ुति प्रमाणयति यदा सुप्त इति अतेरित्यादिना अस्तु नाम तावताऽनया श्रुत्या कर्थं दृष्टिसष्टिपक्षसिद्धिरित्यत आह सुशात् सृष्टिपरत्वत इत्यादिना अस् जगतोऽकर्मजन्यत्वेन माथिकत्व साते सूत्रकारेरभिप्रेता सा दृष्टि- सृष्टिः संगच्छत इत्यर्थः ॥ तत्र प्रथमसूत्रस्ायमर्थः ॥ प्रळये देवत्वजातेरप्यनित्वत्वादनित्वनित्ययो: देबवेदयोः संबन्धस्याप्यनित्यत्वविरोधः तदवस्थ एवेत्याशाङ्कायां सुपुततिप्रवोधयोरिच यदा सुप्ः स्वपं न कञ्चन पश्यतीत्यादिश्रुत्युक्तप्रळयोत्पत्योः आवृत्तादपि प्रळयेऽपि प्पञ्चस्याविद्यायां संस्कारात्मना विद्यमानत्वेन पूर्वकल्पप्रपञचसमाननामरूपत्वा-

सस्ति 'धाता यथापूर्वमकल्पय'दित्यादिश्रुतौ दर्शनात् ॥श्रो० ॥ 'यथर्त्ताबनुलिज्ञानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिध्वि' त्यादिस्मृतशेति॥ द्वितीयसूत्रार्थः उच्यते ॥ कौषीतकीब्राह्मणे एव वालाक्यजातशत्रुसंबादे सुप्तपुरुषप्रतिवोधनेन प्राणदिव्यतिरिक्के जीवे-टि-विज्वानमयरूपे प्रतिबोधिते सति पुनर्जीवव्यतिरिक्तविषयः 'क्वैष एतद्वालाके पुरुषोऽशयिष्ट क्व वा एतदभृत् कृत एतदागा'दिति विज्ञानमयस्य अधिकरणादिविषयकप्रश्नः तत्र 'यदा सुप्रस्स्व- म्रं न कश्चन पश्यत्यथास्मिन् प्राण् एवैकधा भवति तदैन वाक् सर्वर्नामभिस्सहाप्ये- ती' त्यादिनाऽधिकरणविषयकप्रश्नस्य प्रतिववनमुक्त 'एतस्मादात्मनः सचे प्राणा यथायतनं विप्रतिष्ठन्त' इत्यादिना 'कुत एतदागादिति' प्रश्नस्यापि प्रतिबच- नमुकत ताम्यां प्रश्नव्याख्यानाभ्यां जैमिनिराचार्योऽस्नन् प्रकरणे अन्यार्थ ब्रक्मा-

Page 223

२१० अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

स्मीति प्रतिपत्त्यर्थ जीवपरामर्श मन्यते। एवमन्यत्रापि च 'कैष तदाभूत् य एषो उन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रश्नप्रत्युक्तिप्रकरणे एके वाजसनेयिनस्समा मनन्ताति सूल्कारैरुदाहृतश्रुत्या जगतः दृष्टिसमसमयोत्पन्नत्वेन प्रातिभासिकत्वा

अनादिविचित्राविद्यासहकारिण: इश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति फला- धिकरणीयं वाचस्पत्यं-तदनुरूपं कृत्सप्रसक्त्यधिकरणमर्थतः संगृह्य अगतोSकर्म- अत्वे सति केवलाविद्यकत्वे प्रमाणयति कृत्स्ेति -- मू।। कृत्स्न्नांशेनैवेश्वरस्य परिणामे त्वनित्यता ॥ ९५ ॥ एकदेशेन चेद्वाघो निप्कळत्वश्रुतेर्यदि। कूटस्थस्वात्मनो मोहात्स्वात्मत्वेन गृहीतया ॥ ९६॥ अविद्यया जगद्भावो यथा स्वप्नदशस्तथा ॥ ९६॥॥ व्या। 'कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वे'ति सूत्रमूलकः प्रथमश्रोकः स्पष्टोऽर्थः ॥ 'श्रृतेम्तु शब्दमूलत्वादिति' सिद्धान्तसूत्रार्थमाह-कूटस्थेत्यादिना कूटस्थस्य सौषुप्तस्य प्राज्ञस्य स्वाज्ञानवशाज्जगद्ूपेण प्रतीयमानस्य 'इन्द्रो मायाभिः पुरुरूप ईयत''स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्व'। 'पुर- न्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र' मित्यादिवेदशव्दैकसमधि- गम्यत्वात् तस्यैव प्राज्ञस्य-'सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति'- प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं-मयि सव लयं यातीत्यादि- श्रुत्या विज्ञानमयेन स्वरूपत्वन प्राप्यस्य जगल्लयावारस्य कूटस्थत्वनावस्थानश्रव- णात् नोक्तदोषापत्तिरिति प्राजस्याविद्यकजगद्रपेण वर्तमानलमादिश्य तत्र दृष्टान्त- समर्पकं 'आत्मनि चैवं विचित्राश्च ही'ति सूत्रमुदाहरति यथा स्वप्दशस्तथति यथाऽसङ्गस्य स्वप्दृशो मण्योषधप्रतिबद्धचक्षषः पुरुषस च स्वरूपानुपमर्देन र्तास्मन्नाविद्यका: विचित्राः गजाश्वादयो जायन्ते । एवं सौषुप्ते प्राज्ञेऽपीत्युक्तमतः प्राजञप्रकृतिकस्य जगतः केवलाविद्यकत्वान्न कर्मजन्यत्वमिति प्रागुदाहृत द्वितसिद्धि-

किञच 'श्रुतेस्तु शब्दमूलत्वा'दिति सूत्रस्य सौषुप्तप्राज्ञपरत्वमनने भाष्येण चावगम्यते यदि च कृत्स्न ब्रह्म कार्यभावेनोपयुक्त स्यात् 'सता सोम्य तदा संप- न्नो भव'तीति सुनुप्तिगत विशेषणमनुपपन्नं स्यात् विकृतेन ब्र्मणा नित्यसंपन्न-

Page 224

पञ्चमं वाच्यादयैक्यानुकूलं २११ जगन्मिथ्यात्वनिरूपणम्।

त्वात् अविकृतस्य च ब्रह्मणोऽभावादिति अन्यथा कृत्स्न्प्रसक्त्यादिदोषपरिहारार्थ सता सोम्य तदा संपन्नोभवतीति सुषुप्तिगतं विशेषणमनुपपन्नं स्यादिति विज्ञान- मयस्य स्वमपीतो भवतीति श्रुत्युक्तस्य सौषुप्तस्य जगत्कारणभूतस्य सद्रूपस्य स्वात्मन एव संपत्तिश्रुत्यनुपपत्तिपरं भाष्यमुपरुध्येत आधिदैविकेश्वरत्ववादिपक्षे सुषप्तिकाले प्राज्ञस्य तदतिरिक्तस्य वा मुख्यजगल्लयाधारत्वासंभवेन कारणत्वेनाव- शिष्यमाणताऽनवगमात् सता सौम्य तदा संपन्नो भवति स्वमपीतो भवति- प्राज्ञो नात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमित्यादिश्वतीनां स्वाप्ययसं- पत्त्यारन्यतरापेक्षमाविष्कृतं हीति सूलदर्शितद्वैतादर्शनपरखं सुप्तपरत्वं समार्थत्वं च पीड्येत नास्माकमिति ध्येयम्।

-कर्मापेक्षस्येश्वरस्य केवलनिमित्तकारणत्वव्यवस्थारम्भ ::

अ०॥ ननु कौषीतक्यादिश्रुत्युक्त्तप्रकारेण निखिलस्य जगतो विचित्र- शक्त्यविद्यासहायकजीवप्रकृतिकल्वेन अकर्मजन्यत्वे सति केवलाविद्यकत्वमभिप्रेतं चेत् कथ 'वैम्यनैधृण्ये न सापेक्षत्वात्तथाहि दर्शयती'त्येवं जातीयकैः सूत्रैः कर्म- सापेक्षेश्वरप्रकृतिकत्वं राद्धान्तितमिति चेतू न तत्र तथा राद्दान्तितं किं तु परमे- श्वरनिमित्तकत्वमात्रमेव कुत इति चेदुच्यते-पूर्वमदेहस्यापि श्रुतिप्राबल्याच्छ- कत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे अन्यथा पुनश्चे- तनकर्तृकत्वं जगत आक्षिपतीति संप्रतीकस्य प्रयोजनवत्वाधिकरणीयस् रामा- नन्दीयस्य-तथा क्षित्यादिक सकर्तृकं कार्यत्वादित्यनुमानेनेव केवलनिमित्तकार- णत्वं श्रुत्यादिष्टमपि न संभवति कुत इति चेत् लोके पुरुषप्रवृत्तीनां तत्पुरुषप्रयो- जनवत्वदर्शनात् तथा परमेश्वरप्रवृत्तेरपि प्रयोजनं यदि परिकल्प्येत नित्यतृप्तत्वं परमात्मनः श्रूयमाणं बाध्येतेति स्वतन्त्रस्य कर्मणः कारणत्ववादिना मीमांसके- नाक्षिप्ते सति 'लोकवत्तु लीलाकैवल्य'मिति सिद्धान्तसूत्रस्य तदीयस्य यथा लोके कस्य चिदाप्तेषणस्य राज्ञो राजामात्यस वा व्यतिरिक्त्तम्-टि-क्राडाविहाराद्यति- रिक्त्म्-किञन्वित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृतयः क्रीडाविहारेषु भवन्तीति त्भाष्यस्य थ॥ श्रो० ॥ भोगार्थ सृष्टिरित्यन्ये क्र्ीडार्थमिति चापरे। देवस्यैष स्वभावोऽयमाप्तकामस्य का स्प्हृति श्रीगौडपादकारिकोक्त्तप्रकारेण ये ब्रह्म-

Page 225

२१२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

पोऽभिन्ननिमित्तोपादानत्ववादिभ्योऽपरे निमित्तकारणत्वमान्नवादिनः । तदनुसा- रित्वमत्रगम्यते-आप्तकामप्रतृत्तीनां क्रीडाविहार रूपार्थवत्वाङ्गीकारात्। तथैव पुन- श्वेश्वरनिमित्तकत्वं फलस्यासहिष्णुना सीमांसकेन उक्तदोषपरिहारार्थमीश्वरम्य आ- धिदैविकस्य केवलनिमित्तकारणत्वप्रक्रिययैव वैषम्याद्यधिकरणं कृतमित्याह स्व- तन्त्रेत्यादिना- मू ॥ स्वतन्त्रकर्ममात्रस्य प्रकृृतित्वाभिमानिनम् ॥ ९७।। ब्रह्मात्मनोर्भेददृष्टिमन्तं मीमांसकं पुनः । ईशताटस्थ्यवादे हि प्रवेशयितुमुद्यता ॥ ९८॥ वैषम्याख्याधिकंरणं तज्जातीयं च तत्कृतम्। यतः पाशुपतेनेव प्राप्तदोषोऽत वारितः । ९९।। अन्यथा रामवाक्यानां वैय्यर्थ्य चापतेत्किल ॥ ९९॥॥ व्या। ब्राह्मणाय गां दद्यादित्यत्र ब्राह्मणस्येव ब्रह्मणोऽपि संप्रदानकारक- स्वस्य मीमांसकेनाभिप्रेतत्वात तं ब्रह्मात्मनोर्वास्तवर्भददृष्टिसन्तं आप्तकामस्येश्वरस्य स्वप्रयोज नार्थ प्रवृत्त्यभावेऽपि कस्मै चित् सुखकरं देवादिशरीरं-कस्मै बिह्ुःखावहं नारकीयं च निर्मिमाणस्य वैषम्यादिदोषः प्रसज्येतेति च चोदयन्तं मीमांसकं प्रति तत्तत्कर्मानुरूपं विचित्रं शरीरं विदवतो न वैषम्यादिदोष इति तत्कृतचोद्यसमा- धानेन परमेश्वरस्य केवलनिमित्तकारणत्ववादे प्रवेशयितुं सूत्रकारेण वैषम्याद्यधि करणं कृतमित्युक्त्वा तत्रोपत्तिमाह यत इत्यादिना यतो भगवता सूत्रकारेणापि प्रयोजनवत्वाधिकरणेन राद्दान्तिते परमेश्वरे प्रापवैषभ्यादिदोषः तत्तत्प्राणिकृत- विषमकर्मसापेक्षत्वाद्विपमफलदातुरीश्वरस्य न संभवतीति पाशुपताधिकरणे तन्मत- स्थेनेव परिहृतः ॥ तत्तः वैषम्याद्यधिकरणम् आधिदैविकश्वरात् फलानां भिन्नत्वे- नेश्वरस्य केवलनिमित्तकारणत्वमेव बोधयतीत्युक्त्वा। अधुना-'लोकवत्तु लीलाकैवल्य' मिति प्रयोजनवत्त्वाधिकरणीय सिद्धान्तसूत्रेण त्रह्मणोऽभिन्ननिमित्तोपादानत्वं जीवेशयोरभेदे चाभिप्रत्य तत्र प्राप्तदोषपरिहारौ वैषम्याविकरणेन दर्शितावित्यङ्गीकारे बाधमाह-अन्यथेत्यादिना रामवाक्या- नामिति॥ श्रो० ॥'पूजेष्टपूर्तादिवरक्रियाणं भोक्ता फलं यच्छसि यत्त्वमेव। सृषतदेवं वचनं पुरारे त्वत्तोऽस्ति भिन्न नि किञ्चिदेव॥ किन्चिद्दळं वा चुलकोदकं जा वस्त्वं महेश प्रतिगृह्य धत्से। त्रैलोक्यलक्ष्मीमपि यज्जनेभ्यः सर्चत्वविद्याकृत-

Page 226

पञ्चमं वाच्याद्यैक्यानुकूलं २१३ जगन्मिथ्यात्वनिरूपणम् ।

मेव मन्ये' इत्यादीनां आधिदैविकस्येश्वरस्याभिन्ननिमित्तोपादानत्वपक्षे कर्मसापे- क्षत्वनिरासपराणं प्रागस्मिन्निरूपणे उदाहृत्य व्याख्यातानां वैय्यर्थ्यमापतेदित्युक्ता किलशब्देन जीवेभ्यो विषमफलदातुरीश्वराद्देयानां भिन्नत्वेन केवलनिमित्तकारण- भूतस्य वैषम्यादिदोषपरिहारार्थ कर्मसापेक्षत्वबोधकशास्त्राणामुपपन्नत्वेऽपि तेषां- स्वार्थे तात्पर्याभावः श्रीरामवाक्यात् सिद्ध इति दर्शितम्। १. प्रश्नः ॥ एवं 'लोकवत्तु लीलाकैवल्य'मिति सिद्धान्तसूत्रस्य करीडाथमिति चापर इति गौडपादकारिकया समानार्थकत्वेन चेतनकारणत्ववाद्यकदेशिमतानु- सारित्वावगमेऽपि कुतस्तत्र वैषम्यादिदोषापादऋस्य मीमांसकत्वं-तत्परिहाराय तत्तत्प्राणिकर्मसापेक्षतया विभागेन फलमुच्चावचं ददातीति प्रदर्शितम्येश्वरस्य कुतश्च प्रमाणन्तरात्केवलनिमित्तकारणत्वं चावगम्यत इति चेदुच्यते- १. उत्तरं॥। यतो वियत्पादे 'परातु तच्छ्रतेरिति' सूत्रत्य भाष्यावसरे यदिदमविद्यावस्थायामुपाधिनियन्धनं कर्तृत्वं जीवस्याभिहितं तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणेति भाष्यस्य व्याख्यानानन्तरं कर्म- मीमांसकमतेन पूर्वपक्षयति तत्नेत्वादिनेति पूर्व पक्षभाष्यमवतारयन्ति श्रीरामानन्द- स्वामिन: ततः तदधिकरणे पूर्वपक्षी मीमांसक इति फलाधिकरणगताभ्यां-ध्मे जैमिनिरत एवेति पूर्वपक्षसूव्रतद्भाष्याभ्यामिवावगम्यते। २. प्रश्नः॥ बाढमेवं। कि तत् रामानन्दप्रदर्शितप्रतीकपूर्वकं पूर्वपक्षभाष्यं येन तत्पूर्वपक्षिणो मीमांसकत्वाध्यवसायः फलाधिकरणेनेव भवेत्-कुतो वा तद्भाष्येण वैषम्याधिकरणीयपूर्वपक्षिणो मीमांसकत्वावगतिरिति चेतू। १. उ० ॥ उच्यते-तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति- कस्मात्-अपेक्षाप्रयोजनाभावात् अयं हि जीवस्स्वयमेव रागद्वेषादिप्रयुक्त: कार- कान्तरसामग्रीसंपन्न: कर्तृत्वमनुभवितुं शक्कोनि तस्य किमीश्वरः करिष्यति न च लोके प्रसिद्धिरस्ति कृष्यादिकासु कियास अनडुहादिवदीश्वरोऽपरोऽपेक्षितव्य इति केसात्मकेन कर्तृत्वेन जन्तून् संसजत ईश्वरस्य नैधृण्यं प्रसज्येत विषमफलञचैर्षा कर्तृत्वं विदधतो वैषम्यं चेति प्राप्ते । २. उ० ॥ ननु, वैषम्यनर्षण्ये न सापेक्षत्वादित्युक्कं। ३. प्र० ॥ सत्यमुक्त्तम् ईश्वरस्य सापेक्षत्वसंभवे सापेक्षत्वञ्चेश्वरस्य सं- भवति सतो: जन्तूनां धर्माधर्मयोः-तयोक्ष सद्भावस्सति जीवस्य कर्तृत्वे-तदेप चेतू कर्तृत्वमीश्वरापेक्षं स्यात्-किविषयमीश्वरस्य सापेक्षत्वमुच्येतेति परायत्ाधि-

Page 227

२१४ अद्वैतसिद्धान्तगुरुचन्द्रिकाय

करणीयपूर्वपक्षभाष्येण तत्र पूर्वपक्षिणे मीमांसकत्वम्। ईश्वरस्तु फलं ददाती त्यनुपपन्नम् अविचितस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घण्यप्रसङ्गादिति फलाधिकरणगतेन धर्म जमिनिरत एवेति सत्रभाष्येणेव निश्चीयते। ३. उ० ॥ तथा च सति एतत्फलाधिकरणपरायत्ताधिकरणाभ्यां सह वै. षम्याधिकरणस्य पूर्वपक्षांशतः साम्यात् तत्रापि पूर्वपक्षी मीमांसक इत्यवगम्यते। ४. उ०॥ यत्तावतपृष्टं प्राणिकर्मसापेक्षतया विभागेन फलदातु: केवल निमित्तकारणत्वं कुता वा प्रमाणान्तरादवगम्यत इति अत्रोच्यते। ५. उ० ॥ 'पूर्वन्तु बादरायणो हेतुव्यपदेशादिति' फलाधिकरर्णायसिद्धान्त- सूत्रार्थप्रकाशकेनानेन बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते केव- लातू कर्मण: अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते कर्मापेक्षा- दपूर्वापेक्षाद्वा यथास्तु तथास्तु ईश्वरात् फलमिति सिद्धान्त इति भाष्येण यथा पाशु- पतादिमते कर्मापेक्षात्-ि-क्षाणककर्मापेक्षात्-अपूर्वापेक्षाद्वा केवलादीश्वरात्-टि- निमित्तकार णभृतात् फलं-टि-सत्यं भवेदिति सिद्धान्तः तथा भवेदेतदधिकरण- सिद्धान्त इति तात्पर्यकेण इत्यभ्युपेत्य च स्रष्टेस्तात्विकत्वमिदमुक्तमिति वैषम्याधि- करणतात्पर्यबोधकवाचस्पत्यस्यापि मूलभूतेन। ६. उ०॥ तथैव ईश्वरस्तु पर्जन्यवत् द्रष्टव्यः यथा हि पर्जन्यो व्रीहिः यवादिसष्टौ साधारणं कारणं भवति त्रीहियवादिवेषम्ये तुतत्तद्वीजगतान्येवासा- धारणानि सामर्थ्यानि कारणानि भवन्ति-एवमीश्वरो देवमनुष्यादिस्ृष्टी साधारणं कारणं भवति देवमनुष्यादिवैषम्ये तत्तज्जीवगतान्येवासाधारणानि कर्माणि का- रणानि भवन्ति एवरमीश्वरः सापेक्षत्वात् न वैषम्यनैर्धृण्याभ्यां दुष्यतीति वैषम्याधि- करणीयभाष्येण च एतद्भाष्यद्वयसमानार्थकेन जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्फलानि विषमं विभजते पर्जन्यवदीश्वरो निमित्तत्वमात्रेण यथा लोके नानावि- धानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमा- नानां साधारणं निमित्त भवति पर्जन्यः इत्यनेन 'कृतप्रयत्नापेक्षस्तु विहितप्रति- षिद्धावैय्यर्थ्यादिभ्य'इति परायत्ताधिकरणीयसिद्धान्तसूत्रस्य भाष्यण च तत्रत्येन परिणाम्युपादानत्वविवर्तोप।दानत्वव्यावर्तकपर्जन्यदष्टान्तेन चेश्वरो निमित्तत्वमात्रेण विषमं फलं विभजत इति वाक्येन च कर्मसापेक्षस्येश्वरस्य केवलनिमित्तकारण- त्वमवगम्यते। ७. उ० ॥ व्रीह्यादीनां तत्तद्वीजानीव देवादिशरीराणां तत्तत्प्राणिकृतामि द्रव्यरूपाप्यपूर्वाणि कर्मशव्दितानि प्रकृतिरिति चावगम्यते ततः प्राग्यत् प्रतिज्ञातं

Page 228

पञ्चमं वाच्याद्यैक्यानुकूलं २११ जगन्मिथ्यात्वनिरूपणम् ।

स्वतन्त्रकर्ममात्रस्येत्यादिना मूलग्रन्थेन मीमांसकं प्रति ईशताटस्थ्यवाद एवं वैष- म्यादधिकरणेन दर्शित इति तत्सिद्धम्। ८. उ० ॥ किश्च 'लोकवत्तु लीलाकैवल्य'मिति सूत्रावयवानुसारिणा भा- व्यभागेन परमेश्वरकर्तृकत्वं जगत आक्षिपन्तं मीमांसकं प्रति केवलनिमित्तकार- णत्वमीश्वरस्य प्रसाध्य अनन्तरं तद्धिकरणेन प्राप्तस्य तत्प्राक्तनरनेकाधिकरणैः प्रत्यगात्मनो विवर्तोपादानतव्रह्मात्मत्वबोधकैः आवेदिताद्वैतसिद्धारन्ताविरोधस्य परिहाराय। न चेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव प्रस्मर्तव्यमति परमात्मनो जीवभा- वजगद्भावाध्यासबोधकेन अद्वैतसिद्धान्तपरेण भाष्येण च तथैवाभ्युपेत्य च सृष्टे-, स्तात्विकत्वमिदमुक्तम् अभनिर्वाच्या तु सष्टिरिति न प्रस्मर्तव्यमत्रापीति वैषम्याधि- करणीयवाचस्पत्येन च जीवेशफलानां पाशुपताद्यभिमतवास्तवभेदबोधकयोः प्रयोजनत्रत्वाधिकरणवैषम्याधिकरणयोः केवलनिमित्तकारणपरत्वञ्च - तदनु- सारिगां परायत्ताधिकरणफलाधिकरणादीनां जीवेभ्यो विषमफलदातुरीश्चरात् देया- नां फलानां भिन्नत्वेन केवलनिमित्तकारणपरत्वञ्चावगमयन्ति भाष्यकारादयः ॥ ३. प्र० ॥ ननु प्रयोजनवत्वाद्यधिकरणै: परवाद्यभिमतजीवेशादिभेदाड- भिप्रेत इति कुतश्राबगम्यत इति चेदुच्यते। १. उ०॥ 'अवस्थितेरिति काशकृत्स्न' इति सूत्रेण तदीयेन चानेन अस्यैव परमात्मनोऽनेनापे विज्ञानात्मभावेन अवस्थानात् उपपन्नमिदममेदेनोप क्रमणमिति काशकृत्साचार्यो मन्यते-तथा च ब्राह्मणं - अनेन जीवेनात्मनाऽनुप्रवि- श्य नामरूपे व्याकरवाणीत्येवं जातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्श- यति मन्त्रवर्णश्र 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्त' इत्यवं जातीयक इत्यारभ्य क्षेत्रज्ञोऽयं परमात्मनः भिन्नः परमात्मायं क्षेत्रज्ञात् भिन्न इत्येवं जातीयक आत्मभेदविषयोऽयं निर्बन्धो निरर्थक: - एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति न हि सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायामिति काञ्चिदेवैकां गुहाभधिकृत्यैतदुक्तं। न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति तत् सृष्टा तदेवानुप्राविशदिति स्ष्ट रेव प्रवेशत्रतणात् ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थ बाधमानाइश्रेयोद्वार सम्यग्द- र्शनमेव-बाधन्ते कृतकमनित्यं च मोक्षं कल्पयन्ति न्यायेन च न संगच्छन्ते इत्यन्तेन स्वमतस्थापकेन पाशुपतादिमतदूषकेण च भाष्येण।

Page 229

२१६ अद्वैतसि द्वान्त गुरुचन्द्रि कार्या

तथैव प्रकृत्यधिकरणेन तद्ाष्येण चे ब्रह्मण एव जगद्भावाध्यासपूर्वक जीव- त्वाध्यासाश्रयत्वप्रकाशकेन सृध्यारंभादिसमये ब्रह्मव्यतिरेकेण जीवानामनादित्वेन स्वरूपाभावमादिश्यानन्तर। यतस्तद्विरुद्धं ब्रह्मव्यतिरेकेण जीवानां पृथक् स्वरूपमनादित्वं च 'उपपद्यते चाप्युपलभ्यते चेति' वैषम्याधिकरणीयेन सूत्रेण तदीयेन उपलभ्यते संसारख्या नादित्वं श्रुतिस्मृत्योः श्रुतौ तावदनेन जीवेनात्मनेति सर्गप्रमुखे शारीरमात्मानं जीवशन्देन प्राणधारणनिमित्तेन अभिलपन्ननादिस्संसार इति दर्शयति - आदि मत्वे तु प्रागधारितप्राणस्सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे भिलप्येत - अनागताद्वि संबन्धादतीतसंबन्धो बलीयान्भवति अभिनिष्पन्न स्वादित्यादिकेन च पाशापतादय इव हि उदाहृतश्रुतितात्पर्यगोचरमिवादिदिशुः ततोऽप्यवगम्यते। २. उ० ॥ कि च तृतीयाध्यायस्य द्वितीयप स एवं तु कर्मानुस्मृति शन्दिधिभ्य इति सूतस्यानेन - किं य एव सत्संपन्नः स एव प्रतिबुध्यते - उत स वाऽन्यो वेति भाष्यण - सुषुप्ती यस्मिञच्छरीरे य एवं सत्संपन्नः स किमुताधि दैविक: परमेश्वरोऽथवा जीवान्तर प्रतिबुध्यत इति त्रेधा संशय्य तदुस्तरेणानेन स एव जीवस्सुप्तः स्वास्थ्ये गतः पुनरुत्तिष्ठति नान्य इत्युपक्रम्य अन्योत्थानपक्षे- न्यस्मिन् शरीरे सुप्तोऽन्यस्मिन् शरीरे उत्तिष्ठतीति कोऽस्यां कल्पनाया लाभ- रस्यात्। अथ मुक्त उत्तिष्ठेदन्तवान्मोक्ष आपद्येत-निवृताविद्यस्य च पुनरुत्था- नमनुपपन्नं - एतेन ईश्वरस्यात्थानं प्रत्युक्त्त नित्यनिवृत्ताविद्यत्वादिति भाष्येण आ- धिदैविकस्य तत्तत्प्राणिकर्मसापेक्षतया तेभ्यो विषमफलदातुरीश्वरस्य विज्ञानमयात् सौषुप्तानन्दमयाच्च वास्तवभेद: पाशुपताद्यभिमतकेवळनिमित्तकारणत्वं चाभिप्रेत इति। तदुत्तरेणानेन - अपिचन जीवो नाम कश्चित् परस्मादात्मनाऽन्यो विद्य- ते - यो जलबिन्दुरिच जलराशेः सतो विविच्येत। सदेव तूपाधिसंपर्काज्जीव इत्यु- पचर्यते इत्यसकृत् प्रपञ्चितमिति भाष्येण - 'तदैक्षत बहु स्यां प्रजायेयेती'ति श्रुत्युक्तं यत् सदास्यं जगतोऽभिन्ननिमिस्तोपाद्वानं सौषुप्तानन्दमयरूपम् - अनि- वृत्ताविद्यं स्वात्मतत्वं तस् प्रतिबिम्बादिभांव विना साक्षात् स्वारोपित कार्यकारणो- पाधौ अहमित्यात्माध्यासकाले सुषुप्तस्थानात् - उत्थानोपदेशात् तथावगम्यते। ३. उ० ॥ अन्यथा - एतेनेश्वरस्योत्थानं प्रत्युक्त्त नित्यनितृत्ताविद्यत्वा- दिति भाष्येण निर्दिष्टस्यैव 'सदेव सेम्यिदमप्र आस्र्री'दित्युपक्रम्य 'तदैक्षत बहु स्यां प्रजायेयेती'त्यादि श्रतिगम्यत्वे।

Page 230

पञ्चमं वाच्यादयैक्यानुकूलं २१७ जगन्मिथ्यात्वनिरूपणम्।

सदेव तृपाधिसंपर्कात् जीव इत्युपचर्यंते इत्यसकृत्प्रपञ्चितमिति भाष्यगतेनै वकारेण सदास्यब्रह्मणः प्रतिबिम्बादिभावमन्तःकरणादावपोह्य साक्षादेव जीव- भावबोधकेन भाष्येणेव जीवात्मनोत्थानमुपदिश्येत - न तथोपदिश्यते - किंतु नित्यनिवृत्ताविद्यत्वादिति हेतुनोत्थानं प्रत्युक्तमेव-अत एष ह्येव साधु कर्म कारयति एष ह्येवासाधु कर्म कारयति अन्नादो वसुदान इत्यादिशास्रमाधिदैविकस्य परमेश्वरस्य पाशुपतादिमतसिद्धमेव केवलनिमित्तकारणत्वं तदीश्वरजीवानां वास्तवभेदं च अनु- वदतीत्यास्थेयम्। ४. उ० ॥ किंचान्यत् यत्र कुत्र चिदाधिदैविकस परमेश्वरस्य प्रकृतित्व- मपि वर्णितं चेत् तद्वाक्यं तत्स्तावकमेवेति ध्येयं तथा हि कारणानां मध्ये यदुपादानं तत्तेषु प्रधानत्वेन स्वकार्यादद्वितीयत्वेन च प्रशस्त लोके - तादृशप्राशस्त्यवचनेन आधिदैविक ईश्वरस्स्तयत एव निरविद्यत्वात् नित्यत्वाच्च न मुख्यं विवर्त्तोपादा नत्वं परिणाम्युपादानत्वं वा संभवेदिति ध्येयम्। ५. उ०॥ तथा हि उपादानादिवायुपादानभूतदिश इव च नित्यनित्ठ- त्ताविद्यात् निमित्तकारणादीश्वरादप्यपृथगदेशकत्वेनेदं मायाख्याविद्यया सन्घटः अह- म्मनुष्य इति सदात्मतादात्म्यापन्नं कर्मप्रकृतिकं जगदीश्वरप्रकृतिकमिति- साख्खया- भिमतप्रधानवत् सर्वव्यापित्वादीश्वरो जगत्प्रकृतिरिति च सिंहो देवदत्त इतीव गौ- यवृत्त्योपास्य: स्तुयत एवेति ज्ञेयम्। ६. उ० ॥ किञ्च सिद्धान्तमुक्तावळीकृतस्तु आयाशक्तिरेवोपदानं न ब्रह्म अपूर्वमनपरं -न तस्य कार्य करणञ्च विद्यत इति श्रुतेः जगदुपादानमायावि- ष्ठानत्वेन तु उपचारादुपादानं तादृशमेवोपादानत्वं लक्षणे विवक्षितमित्याहरिति तत्प्राक् तत्वनिरणयकृदाद्यभिमतत्वेन दर्शितविवर्तोपादानत्वव्यावर्तकशास्स्य सिद्धा- न्तलेशरांग्रहे दीक्षितरुत्थापितत्वात् निमित्तकार णत्वमेव नित्यनिवृत्ताविद्यस्य कर्मा- पेक्षस्येश्वरस्य सिध्यति। ४. प्र० ॥ ननु, प्रयोजनवत्वाधिकरणाद्यैः केवलनिमित्तकारणत्वमाविदै- विकस्येश्वरस्योपदिष्टं चेत कथं तेषामविरोधाध्याये संगतिरिति चेदुच्यते। १. उ०॥ यथा उपास्यव्रह्मपराणां ज्ञेयब्रह्मपराणां अधिकरणानां कमात् जीवब्रह्मभेदाभेदपरत्वSपि ब्रह्मणि समन्चयः तद्वदाधिदेविकेश्वरस्थाव्यामोहितत्वेन केवलनिमित्तकारणत्वपराणामपि तत्रोद्गावितविरोधपरिहारपूर्वकं चेतनसम न् वय प र - त्वेन अविरोधाध्यायसंगतिर्भवितुमर्हति। 19

Page 231

२१८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

५. प्र. ॥ ननु, प्रकृत्यधिकरणारम्भणाधिकरणादैः अभिन्ननिमित्तोपा- दानत्वं प्रत्यगात्मनो व्यवस्थाप्य अनन्तरं प्रयोजनवत्वाधिकरणादैः कर्मसापेक्षत्व- परैः किमर्थ तद्विरुद्धं निमित्तकारणत्मात्रम् आधिदेविकस्य परमेश्वरस्यादिशन्ति सूत्रकारादय इति चेतू मन्दाधिकारिण्णे मीमांसकस्यानुग्रहार्थमेव। १. उ० । यथा च वियत्पादे उत्क्रान्तिगत्यागत्यधिकरणे स्थूलदेहाति- रिक्त्तात्मास्तित्ववादिने मीमांसकाय-'तद्गुणसारत्वात्तु तक््यपदेशः प्राज्ञवदिति' सूत्रेण न तदीशेन च परस्यैव तु ब्रह्मण: प्रवेशश्रवणात्-तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तं तस्माद्यावत् परं ब्रह्म तावानेव जीवो भवितुमर्हति परस्य च ब्रह्मणे विभुस्वमान्न्नातं तस्माव्िभुर्जीवस्तथा च 'स वा एष महानज आत्मा योक्यं विज्ञान- मयः प्राणे' ष्वित्येवं जातीयका जीवविषया विभुत्ववादाःश्रीतास्स्मार्ताश्र समर्थिता भवन्तीत्यादिभाष्येणोपाधिविशिष्टस्यापि "जीवस्य घटसंशृतमाकाशं नीयमाने घटे यथा। घटो नीयेत नाकाशस्तद्वज्जीवो नमोपम" इति श्रृत्युक्तप्रकारेण तृतीय- निरूपणोत्तप्रकारेण च विभुत्वं संस्थाप्य गुणोपसंहारपादे शरीरे भावाधिकरणे 'व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवादिति' सिद्धान्तसूत्रेण तदीयेन भाष्येण च मामांसकापेक्षया मन्दाविकारिणे देहमात्रात्मत्वदर्शिने लोकायतिकाय देहव्यतिरिक्तो यः परलोकभाक् स एव परिच्छिन्नो जीव इति उत्क्रान्तिगत्यागत्यधिकरणीयपूर्व· पक्षेगेवोपदिश्यते तद्वत्प्रतीचः आध्यात्मिकस्य भभिन्नानिमित्तोपादानत्वव्यवस्थाप- नानन्तरमप्याविदैविकस्य परमेश्वरस्य केवलनिमित्तकारणत्वं मीमांसकायादिश्यत S- तो न कश्चिद्दोषः । २. उ० ॥ किञ्च वैषम्याधिकरणेन सह तदुत्तराविकरणस्य भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणस्सत्वात् न तूपादानत्वं तद्वयापकस्य स- गुणत्वस्य अभावादिति प्रत्युदाहरणसंगतिरिति रामानन्दीयेनापि व्याख्यानेन वैष- म्याधिकरणं केवलनिमित्तकारणत्वपरमिति निश्चीयते। ६. प्र. ॥ तर्हि स्वतः कूटस्थत्वादाविदैविकस्य परमेश्वरस्य तत्तत्प्राणि- क्मायत्त जगत्कर्तृत्वं वैषम्याधिकरणेनोपदिश्यानन्तरं सर्वधर्मोपपत्त्यधिकरणेन मायासाहचर्यादुपादानत्वस्य विज्ञापितत्वात् न पराभिमतं केवलनिमित्तकारणत्वं वैषम्याधिकरणेनादिष्टमित्यत्र को दोष इति चेतू । १. उ०॥ न चमसाधिकरणभाष्योक्तरीत्या साक्षी चेता केवलो निर्गुणश्चेति

बहु सां प्रजायेय इन्द्रो मायाभि: पुरुरूप ईयत' इत्यादिश्रुत्युक्तमायिकबद्दुभवनस्य

Page 232

पञ्चमं वाच्याद्यैक्यानुकूलं २१९ जगन्मिथ्यात्वनिरूपणम् ।

स्वधमत्वेनानुसन्धानासम्भवाच्च प्रथमनिरूपणे द्विषष्टितमश्रोकादारभ्य पञ्चसप्तति- पत्युत्तरचतुर्थ- वचनोक्तार्थवादाच्च उपचारेण प्रकृतित्वोपपादनेऽपि केवलनिमित्तकारणत्वमेव सि- द्धयत। २. उ० ॥ तथाहि न चाविद्यासहकृतजीवकारणत्वे जगद्वैचित्र्यानुपपत्तिः जगदुपादानभूतस्याज्ञानस्य क्ो० ॥ न संभवेत् संभवेद्वा सष्टिरेषाSद्वितीयतः। नानाजातीयकार्याणां क्र्मा- ज्जन्म न संभवि। अद्वैतं तत्वतो ब्रह्म तच्चाविद्यासहायवत्। नानाकार्यकरं कार्य- क्रमोSविद्यास्थशक्तिभिरित्युपसंहाराधिकरणेन जीवस्य जगदुपादानत्वादिकं व्यव- स्थाप्य अनन्तरं कृत्स्नप्रसक्त्यधिकरणेन तस्यैवाध्यात्मिकस्य प्राज्ञस्य पारिणामिक-

ज्चादिश्य पश्चात् सर्वोपेताधिकरणेव तस्यैष प्राश्स्य सुषुप्तिकालेSशरीरत्वेSप्यविद्या सद्भावं संप्रदर्श्यानन्तरं प्रागुपपादित प्रकारेण प्रयोजनवत्वाविकरणवैषम्याधिकरण भ्यां मीमांसकं प्रति तत्कृतचोदपरिहाराय केवलनिमित्तकारणत्वमाविदैविकस्ये- श्वरस्यादिश्य अनन्तरं सर्वधर्मोपपतत्यधिकरणेन प्रागुक्त्तसर्षोपेताधिकरणविषयस्या- शरीरस्य सौषुप्तस्य प्राज्ञस्य 'साक्षी चेता केवलो निर्गुणश्चे'ति श्रुत्युक्त्तप्रकारेण भिर्गुणस्य विवर्तोपादाबत्वं व्यवस्थापितं-एवमेव कर्तृत्वोपादानत्वविषये सर्वशङ्का- पङ्कप्रक्षाळनाय महामायमित्युक्तमिति रामानन्दीयेन भाष्यावतरणेन तथा वाचस्प- त्येनापि निश्चीयते ततो राज्ञ इवािदैविकस्य परमेश्वरस्य स्वातिरिक्तप्राणिभ्यः खभिन्नफळदातृत्वरूपं पाशुपताद्यभिमतं निमित्तकारणत्वमेव वैषम्याधिकरणेन दर्शितमिति सिद्धम्। ३. उ० ॥ एवमेव भाष्यकाररप्यारम्भणाधिकरणभाष्येण-प्रतिज्ञाश्रुव्या- रम्भणश्रुतीक्षणश्रुतिप्रवेशश्रुत्यनुसारेण जगदीशयोः जीवेशयोर्विज्ञानमयप्राज्ञात्मक- योश्च अभेदमुपदिश्य अनन्तरं जीवेशयोर्जगदीशयोर्वात्ववभेदवादिभि: ईश्वरे आ- पादितहिताकरणादिदोषनिरासाय 'अधिक तु भेदनिर्देशा'दिति सूत्रभाष्यावसरे केमभेदज्ञानादूर्ध्वे दोषा आपद्यन्ते पूर्व वेति विकल्पद्वयमाशङ्कय तत्राद्यंतुअनेन- अपि च यदा तत्वमसीत्येवं जातीयकेन अभेदनिर्देशेनाभेद: प्रतिबोधितो.भव्यप- गतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च सटत्वं समस्तस्य मिथ्याऽज्ञानविजृ- म्भितस्य भेदव्यवहारख सम्यग्ज्ञानेन बाधितत्वात् तत्र कुत एव सृष्टिः कुतो वा हिता करणादयो दोषा इति भाष्येण निराकृत्य-द्वितीयं तावद्विकल्पमनेन च अविद्या-

Page 233

२२० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

गादिलक्षण: संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम-जननमरणच्छेदनभेद- नाद्यभिमानवदेवेति भाष्येण च ॥। श्रो० ॥ कल्पयत्यात्मनात्मानमात्मा देवस्खव- मयया। स एव बुध्यते भेदानिति वेदान्तनिश्चय इत्यादिशास्त्रेण च जीवस्यैव स्वा- विद्यया स्वस्मिन्जगदारोपकत्वं हिताकरणादिदोषागमोऽपि दर्शितः । ४. उ०॥। अन्यथाऽहं व्रह्मास्मीति जीवज्ञानेन आधिदेविकस्यापि स्ष्टृत्त्वं यद्यपगच्छेत् तदा जीवान्तराणामपि संसार उच्छिद्येत। ५. उ० ॥ किञ्चात्र पञ्चमप्रश्नतदीयप्रथमोत्तराभ्यामुक्तप्रकार एव विद्यारण्याचायैरपि श्रोतृबुद्धयनुसारेण कस्यचिच्छास्त्रस्य जीवेशयोर्जगदीशयोश्रा- भेदपरत्वं - कस्यचिच्छास्त्रस्य तयोश्रोदकदृष्टयनुसारेण बेदपरत्वं च दर्शितम्- तथाहि - ईश्वरस्सर्वभूतानां हृद्देरेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढा नि -मायंयेति भगवद्वचनस्य अन्तर्यामिव्राह्मणमूलकस्य तात्पर्ये- व्यवहारदशायां बहु- भवनप्रवेशश्रुत्यनुसारेण च - अदृष्टो द्रष्टेत्यारभ्य-नान्योSतोऽस्ति प्रष्टेलाद्यन्तर्यामि- ब्राह्मणशषानुगुण्येन च ॥ श्रो॥ विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः । स्वशक्त्ये शो विक्रियते मायया भ्रागणं हि तदिति पञचदशप्रकरणे यैरेव दर्शित तैरेव विद्यार- ण्याचार्येः॥श्रो० ॥ प्रवर्तकोऽस्य रागादिरीशो वा रागतः कृषौ। दृष्टा प्रवृत्तिवैष- म्यमीशस्य प्रेरणे भवेत् ॥ सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः । रागोऽन्त- र्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः॥ इति कर्मसापेक्षस्सन्माधिदैविकः स्वभिन्नान् नीवान् प्रवर्तयतीति केवलनिमित्तकारणत्वमतानुगुण्येनैव परायत्ताधिकरणं व्या- रयातम्। ६. उ० ॥ अन्यथा - 'यो विज्ञाने तिष्ठन् य आत्मनि तिष्ठन् - यस्सर्चेषु भूतेषु ति।'न्नित्यन्तर्यामि ब्राह्मणमूलकयोभगवद्गीता-परायत्ताधिकरणयोर्मध्ये भग- बद्गीतायाः ॥ श्रो० ॥ एवमानन्दविज्ञानमयावीश्वरजीवकौ। सौषुप्तमानन्दमयं प्रक्रम्यैवं श्रुतिर्जगौ। एष सर्वेश्वर इति सोडयं वेदोक्त ईश्वर इति माण्डूक्यश्रुति- मूलकखवाक्यानुसारेण च प्रवेशश्रुत्यनुसारेण च स्नष्टुरेव साक्षाज्जीवभावेन व्यवहा- रावस्थायामप्येकस्वैव प्राज्ञस्येशजीवभावयोः पौर्वोत्तरकालिकत्व्रादेकदा नियन्तृनिय- म्ययोर्भेदाभावे च सर्वोपादानलेनाद्वितीयले च तात्पर्यमुपदिश्य-तद्भिन्नप्रक्रियया यत् परायत्ताधिकरणस्य तात्पर्ये दर्झितं तन्निरर्थकं खात्। अतः परमेश्वरस्याधिदैविकस्य कर्मसापेक्षत्वपरशास्त्रस्य आध्यात्मिकाना- मात्मेशैतदात्म्यानामभेदबोधकशास्त्रैबधितत्वात् केवलनिमित्तकारणत्वमतानुवादि त्वाच्च न स्वार्थे प्रामाण्यमस्तीति भावः ।। ९९॥॥

Page 234

पञ्चमं वाच्यादयैक्यानुकूलं २२१

अ०॥ ननु, केषाञ्चिदेवाधिकरणानां मुख्यसिद्धान्तपरत्वेन प्रामाण्यं-केर्षा चित् परमतानुवादकत्वेनाप्रामाण्यं च कथमुच्यत इति प्राप्ते एवं सूत्रकारैरेव उभयलिङ्गाधिकरणे दर्शितत्वात्तथा तदास्थेयमित्याह निष्कलमिति- मू॥ निष्कलं निष्क्रियं शान्तमस्थूलमिति च श्रुतेः ॥१००॥ धर्मे कारयतीशानो यमितश्रोन्निनीपते। सर्वकर्मा सर्वकाम इत्यादेश्च विरोधतः ॥ १०१॥ कस्याः प्रामाण्यमादेयं कस्या एवानुवादता। स्वीकार्येति च संप्राप्ते साधनाध्यायके पुनः ॥१०२॥ न स्थानतोऽपि सर्वत्रोभयलिङ्गं परात्मतः । इत्यादिसूत्रतः प्रोक्तं सविशेषश्रुतेः किल ॥ १०३॥ अनुवादत्वमेष्टव्यमित्यन्यैश्च तथेरितम् । ब्रह्म किं रूपि वाऽरूपि भवेन्नीरूपमेव वा ॥ १०४ ॥ द्विविधश्चतिसद्भावाङ्गल् स्यादुभयात्मकम्। नारूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः ॥ १०५॥ रूपि त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते। इत्यतः फलदातृत्वपराणामनुवादता ॥ १०६॥ व्या।। साधनाध्यायक इति तृतीयाध्याय इत्यर्थः ॥ तत्र द्वितीयपादे 'न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ही'ति सूत्रं सङ्कह्वाति न स्थानतोSपीति

णार्थावगत्यर्थमाह ब्रह्म किमित्यादि श्रोकदूयेन। फलितमाह इत्यादिना अत इति एतदुभयलिङ्काधिकरणगतेन अपि चैवमेक इति सूत्रेण मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीत्यादि भेददर्शन- निन्दाश्रुत्यर्थस्य दर्शितत्वात् भेदभ्रमोपजीविनां ईश्वरस्य कर्मफलदातृत्वपरागां अधिकरणानामनुवादकत्वेनाप्रामाण्यं सिद्धमिल्यर्थः ॥१०६॥

Page 235

२२२ अद्वैतासेद्धान्तगुरुचन्द्रिकायां

भेदमिति- अ० ॥ तर्हि किमर्थ तान्यप्रमाणान्यधिकरणानि कृतानीत्यत आह न बुद्धि-

मू ॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसद्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥ १०७॥ इति श्रभिगवद्वाक्यादज्ञानुसरणाय तत् ॥ १०७॥।॥ व्या॥ अविदुषां तत्त्वज्ञानमेवोपदेष्टव्यमित्यत आह-भगवान्। श्रो०॥ न बुद्धिभेद जनयेदज्ञानां कर्मसङ्गिनामिति नित्यानित्यवस्तुविवेकरहितानां 'अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवर्तीति'श्रुतिमवलम्व्य न कदाचिदनी- दशं जगदित्यभ्युपगच्छतां मीमांसकानां फलसाधनत्वभ्रान्त्या कर्मणि श्रद्धातिशय- वतां मयेदं कर्म कर्तव्यमस्य फलञ्च भोक्तव्यमिति-निश्चयरूपायाः बुद्धेः 'सर्वे विकारजातं मायामात्रं। मायामात्रमिदं द्वैतमद्वैतं परमार्थत' इत्यांदिश्रुत्या स्व- प्रादिदृष्टान्तेन च स्वर्गादेमायामात्रजन्यत्वस्वात्मविवर्तत्वयोरुपदेशाच्चालनं बुद्धि- भेदस्तं नोत्पाद्येत् तहिकिं कुर्यादत आह-विद्वान् जगतः स्वात्मविवर्तत्वं विजानन्नपि अज्ञान् कर्मसज्विनः जोषयेत् सेवयेत् कारयेदित्यर्थः ॥ कानीत्यत आह-सर्वकर्माणीति कयं कारयेदत आह-युक्तस्समाचरन्तिति अज्ञैः प्रेरयेरुपेतस्सन् तत्समक्षं स्वयं चाचरन्निति श्रीभगवदाज्ञानुसारेण अज्ञजनानुसरणाय तद्विकरणजातं कृतमिति शेष: ।। १०७॥॥ अ०॥ इदानीं जीवेनैव स्वस्मिन् जगतः स्वाजञानकल्पिततवे गौडपादाचार्य- सम्मति प्रतिजानीते श्रीमत इति- मू।। श्रीमतो गौडपादस्य सम्मतिश्रात्र विद्यते ॥ १०८॥ व्या॥ स्पष्टोऽर्थः ॥ १०८॥ अ०॥ तदीयवैतथ्यप्रकरणोक्तं शिष्यप्रश्नं दर्शयति उभयोरिति- मू। उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि। क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ १० ९ ॥ कया। उभयोरपि स्थानयोरिति जाग्रत्स्वप्रयोः भिद्यन्त इति भेदा: दृश्यपदार्थाः तेषामनात्मनां वैतथ्यं मिथ्यात्वमेवैष्टव्यं चेत् कस्ताञ्जानाति तेषा विकल्पकः अध्यासकर्ता च क इति प्रश्नार्थः।१०९।

Page 236

पञ्चमं वाच्यादयैक्यानुकूलं जगन्मिथ्यात्वनिरूपणम् ।

अ० ॥ तदुचरवाश्यमुदाहरति कल्पयतीति- मू ॥ कल्पयत्यात्मनाऽडत्मानमात्मा देवस्खवमायया। स एव बुध्यते भेदानिति वेदान्तानिश्वयः ॥ ११० ॥ व्या। स्वयं प्रकाशमानो जीव एव कूटस्थं स्वात्मानं स्वाज्ञानजन्यविभ्रान्त्या अनेकधा परिकल्प्य जानातीत्युत्तरमुक्त्वा तस्य स्वकपोलकल्पितत्वत्रमं-'स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वे। पुरत्रये क्रीडति यस्तु जीवस्त- तस्तु जातं सकलं विचित्रमित्यादि' श्रतिमवलम्व्य वारयति इति वेदान्तनिश्चय इति सर्वोपनिषद्विचारजन्याध्यवसाय इति जानीयादित्यर्थः ॥ ११० ॥ अ०। उक्तार्थसमर्थनपरं तदीयं दृष्टान्तवाक्यादिकमुदाहरति अनिश्चि-

मू ॥। अनिश्चिता धथा रज्जुरन्कारे विकल्पिता । सर्पधारादिभिर्भाषैस्तद्वद़ात्मा विकल्पितः ॥ प्राणादिभिरनन्तैश्र भावैरेतैर्विकल्पितः ॥ १११। ॥ व्या। भावैरेतैरिति वियद।दिपदार्थैरित्यर्थः ॥ शेषससुगमः ॥।१११॥॥ अ०॥ श्रो०॥। कल्पयत्यात्मनात्मानमात्मा. देवस्स्वमाययेति प्रागुदाहृतवा- क्येन आध्यात्मिकाविदैविकयोर्जीवेशयोर्मध्ये कोऽसौ देवात्मशब्दाभ्यामभिप्रेतः सा माया च कस्येति प्राप्ते आधिदैविकस्य मोहासंभवाज्जीव एवेत्यादिप्रदर्शमपरं गौडपादीयमेव वाक्यमुदाहरति मायति -- मू॥ मायषा तस्व देवस्य यया सम्मोहितस्स्वयम् ॥ ११२ ॥ ठया॥ जीवेशयोर्मध्ये यः स्वयं सम्मोहितः तस्यैव जीवस्य स्वयं प्रका- शमानस्य सैषा मायेत्यर्थः ॥ ११२॥ अ० ॥ एवं वैतथ्यप्रकरणेन जगतो जीवाविद्याकार्यत्वेन प्रातिभासिकत्व- मादिश्य तस्यालातशान्तिप्रकरणेनाSपि अकर्मजन्यत्वमुपदिशति श्रीगौडपादाचार्य इति प्रतिजानीते इत्यादिभिरिति -- मू ॥ इत्यादिभिरशेषस्य प्रातिभासिकतापरैः । वैतथ्याख्यप्रकरणे मायिकत्वं प्रतोध्य च ।। ११३॥

Page 237

२२४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

ब्रह्मरामादयो यद्वद्वाचस्पत्यादयो यथा। तथैवालातशान्त्याख्ये कर्मजत्वं निषेधति ॥११४ ॥ व्या॥ स्पष्टोऽर्थः ॥ ११४॥ अ०॥ इदानीं रज्जुज्ञानसमये तत् परिकल्पितसर्पादेरिव सर्वकल्पनाधि- ष्ठानभूतस्वात्मज्ञानसमय एव सर्वस्य जगतो निवृत्तिपरां 'यत्र त्वस्य सर्वमात्मैवा भूत्तत्केन कं पश्येत् । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः । इत्यादिश्रुति- मवलम्ब्य कर्मणः फलकारणत्वनिषेधपरं गौडपादीयमेव वचनमुदाहरति हेतो- रिति- मू ॥ हेतोरादि: फलं येषामादिर्हेतुः फलस्य च। हेतो: फलस्य चानारदिः कथं तैरुपवर्ण्यते ॥ ११५ ॥ व्या॥ हेतोरादि: फलं येषामिति येषां वादिनां मीमांसकानां हेतोः धर्मादेः फलं शरीरादिकं आदिः कारणं भवति। तथा फलस्य शरीरादेः हेतु: कर्मैव आदि: कारणं भवति। एवं कर्मफलयोरितरेतरकार्यत्वेन जनिमत्वं बुवद्भिरेव हेतोः फलस्य च धर्मादेशशरीरादेश्च अनादि: उत्पत्त्यभावः विप्रति- षिद्ध: कथं तैरुपवर्ण्यंत इत्यर्थः । एवमेव तत्र भाष्यकारैरपि दर्शितम् ॥ ११५॥ अ०।। ननु, तत्र विरोधपरिहाराय किं कर्तव्यमिति प्राप्ते तत्प्रतिवचनभूतं गौडपादीयं वाक्यमुदाहरति संभव इति -- मृ।। संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया ॥११५।।॥ व्या॥ हेतुफलयेरिति कर्मशरीरयोः संभवे उत्पत्तौ कमो वक्तव्य इत्यर्थः ॥ ११५॥॥ अ० ॥ जनिमतो: कर्मशरीरयोः परंपरया कार्यकारणभावो बीजाड्डुरवद्भ- वितव्यः इति प्राप्ते तत्र गौडपादीयवाक्यमुदाहरति बीजाङ्करेति- मू॥ बीजाङ्कुराख्यो दृष्टान्तस्सदा साध्यसमो हि सः। न हि साध्यसमो हेतुस्सिद्धौ साध्यस्य युज्यते ॥ ११६॥ व्या॥ हि यतः श्रो॥ कल्पयत्यात्मनात्मानमात्मा देवस्त्वमायया। स एव बुध्यते भदानिति वेदान्तनिश्चयः इति बीजाङ्करादीनां सर्वेषां आत्ममायामा त्रादुत्पततिमभयुपगच्छतो मम भवदुक्तः सः बीजाङ्कराख्यो दष्टान्तः सदा साध्यसम: त्वरया साधनीयेन कर्मफलव्यक्तीनामिनं प्रथममित्यज्ञायमानत्वरूपेण

Page 238

पञ्चमं वाच्याद्यैक्यानुकूलं २२१ जगन्मिथ्यात्वनिरूपणम्।

प्रतराहानादित्वेन सह साधनीयसाध्यसमानः स दृष्टान्तो भवेदतः त्वत्प्रतिपक्ष- भूतं मां प्रति साध्यसमो हतुः साध्यसमानोडयं दृष्टान्तस्तावत् साध्यस्य सिद्धौ न युज्यते हीत्यन्वयः ॥ ११६॥॥ अ०॥ इदानीमिंद प्रथममिदंमंनन्तरमित्यजानतो दोषप्रदर्शनपरं गौड- पादीयवचनमुदाहरति पूर्वापरेति- मू ॥ पूर्वापरापरिज्ञानमजातेः परिद्पिकं ॥११७॥ जायमानाद्धि वै धर्मात्कथं पूर्व न गृह्यते। व्या॥ यदेतत्कर्मतत्फलयोः पूर्वापरापरिज्ञानं तत्कर्मशरीरयोरनुत्पत्तिबो- धकमित्युक्ता तदेव विशदयति जायमानाद्धि वै धर्मादिति गृह्यमाणाज्जनिमत्प- दार्थादेव कथं पूर्वे न गृह्यते कथं तत्कारणवस्तु न गृह्यत इति वत्तुं शक्यते अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकमपि ग्रहीतव्यं जन्यजनकयोः संबन्ध- स्यानपेतत्वात् तस्मादजातिपरिदपिकं तत्पूर्वापरपरिज्ञानमित्यर्थः ॥११७॥॥

सर्वस्य स्वात्मविवर्तत्वसंभवे कर्थ सूत्रकारैः वैषम्याद्यधिकरणेन आधिदैविकात् परमेश्वरात् कर्माधीनविचित्रफलोत्पत्तिः श्रावितेति प्राप्ते तत्समाधानपरं गौडपा- दीयमुदाहरति उपलम्भादिति- मू ॥। उपलम्भात्समाचारादस्ति वस्तुत्ववादिनाम् ॥ ११८॥ जातिस्तु देशिताबुद्धैरजातेस्त्रसतां सदा ११८।।।। व्या।। उपलम्भादिति द्वैतोपलम्भात् तथा समाचारात् वर्णाश्रम धर्मामुष्ठानाच्च हेतुद्वयाभ्यां अस्ति वस्तुत्ववादिनां वस्तुनः सत्यत्वघादिना- मित्यर्थः ॥ तानेव विशिनष्टि अजातेस्त्रसतां सदेति सदा सर्वे विकारजातं मायामात्रमित्यािश्रुतिभ्यः रज्जुसर्पादिदृष्टान्तेश्व स्वात्मनि जगतः कर्मनिरपेक्षत- या स्वरूपाध्यासश्रवणानन्तरमपि तत्र निश्चयज्ञानाभावेन पूर्ववद्विहितप्रतिषिद्धयोः क्रमादनुष्ठानपरित्यागाभावे स ह्यनादि: परमेश्वरोऽस्माञ्छिक्षयत्येवेति जीवेशभेदवा- सनादार्द्यात् अजातेः ईश्वरात् तसतां भीतानां मन्दाधिकारिणां कर्मसु श्रह्द- धानानां अनिवार्यकर्मकारणत्ववासनानां अत एवं जगत्सत्यत्वधियां तस्मादनादे- रीश्षरात् विचित्राणां कर्मफलानां जातिस्तु उत्पत्तिस्तु वैषम्याद्यधकरणैः देशि- ताबुद्धैः श्रोतृणां चित्तकालष्याभिज्ञैः सूत्रकारैरुपदिष्टेत्यर्थः उक्तप्रकारमेवान्न भा-

Page 239

२२१ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

ध्यकारैरपि दर्शितं एतत्त प्राक् विस्तरेणास्मिन्निरूपणे षष्ठादिश्लोकचतुष्टयेनोप- पादितम् । तदप्यवश्यमत्र विशेषार्थग्रहणाय वीक्षणीयम् ॥११८॥॥ अ० ॥ प्रागष्टाशीतितमादिश्वौकैः उदाहृतप्रकारेण सर्वविधिश्रुतीनां परि- सङ्गयात्वमनभ्युपगम्य नियमविधित्वादिप्रक्रियया तत्तत्प्राणिकृतधर्माधर्मफलत्वेन परमेश्वरसृष्टमेवेदं जगदित्यभ्युपगच्छतां द्वैतिनां प्रतिकर्मव्यवस्थावादिनां च बाध- प्रदर्शनपरां गौडपादीयमेव कारिकामुदाहरति यावदिति-

क्षीणे हेतुफलावेशे नास्ति हेतुफलोन्दवः ॥ ११९॥॥ व्या। आत्मैवेदं सर्वे अहमेवेदं सर्वे सर्व विकारजातं मायामात्रमित्यादि· श्रुतिविरोधेन यावत् कर्मशरीरयोः कार्यकारणभावः अनपोह्य इति हुरभिनिवेशः तावत्तदभिनिवेशवतां कर्माधीनं जन्म च कर्मजेन सत्येन जगता सस्य सद्वितीय्र- त्वञ्च स्ात् तदनभिनिवेशे तुजगतः आविधकत्वज्ञानेन चिद्विवर्तत्वविज्ञानेन वा नाशे सति न पुनर्जन्मेत्यर्थः॥ ११९॥॥ अ०॥ इदानीं श्रीगौडपादाचार्यसमतिमुपसंहरति एवमिति- मू ॥ एवं ह्यलातशान्त्याख्ये कर्मजत्वं निराकृतम् ॥१२० ॥ कया॥ स्पष्टोऽर्थः ॥ १२० ॥ अ० ॥ इदानीमुपपादितार्थे श्रीशङ्करभगवत्पादसंमति प्रतिजानीते उक्तेति मू।। उक्तमानानुसारेण ह्याचार्यशशङ्करात्मकः । अपरोक्षानुभूत्याख्येऽप्युवाचेदमकर्मजम् ।१२१ । न्या॥ उक्तमानानुसारेणेति अस्मिन्निरूपणे तयोदशश्रोकादारभ्य उदाहृतश्रुत्यादिप्रमाणानुगुण्येनेत्यर्थः ॥ १२१॥ अ० ॥ तत्रत्यानि प्रतिकर्मव्यवस्थानिरासकत्वेन दृष्टिसष्टिविधायकानि वा. क्यान्युदाहरति उत्पन्नति- मू॥ उत्पन्नेऽप्यात्मविज्ञाने प्रारब्घं नैव मुश्चति । इति यच्छास्त्रनिर्णीतं तन्निराक्रियतेऽघुना ॥ १२२ ॥ तत्वज्ञानोदयादूर्ध्व प्रारब्धं नैव विद्यते। देहादीनामसंत्वात्तु यथा स्वप्ननित्रोधतः ॥ १२३॥

Page 240

पञ्चमं वाच्याद्यैक्यानुकूलं २२७ जगन्मिथ्यात्वनिरूपणम्।

व्या।। प्रथमश्नोक: स्पष्टोऽर्थः ॥ तत्वज्ञानानन्तरं प्रारब्धास्यकर्मासत्वं प्रतिज्ञाय तत्रोपपत्तिमाह देहादीनामसत्वातत्विति ज्ञानेनाज्ञाननिवृत्त्यनन्तरमपि तत्कार्ये शरीरादिकं यद्यनुवर्तेत तदा तत्स्थितिप्रयोजकत्वेन कर्मणः कारणत्वमुपेत्य तस्य प्रारब्धकर्मणः सत्वमुपेयं खात् न तु तथास्ति ज्ञानेन शरीराद्युपादानभूता- ज्ञाननाशादेव तत्कार्यमपि झरीरादिकं निवृत्तं भवेत् तत एव सत्कारणत्वेन न प्रा- रब्धमम्युपेयमित्युक्त्वा तत्र दृष्टान्तमाह यथा स्वम्नियोधत इति ॥ १२३॥ अ० ॥ एवं तत्वज्ञानादूध्वे प्रारब्धासत्वमुक्ताऽबुना यत् कर्म प्रारब्धमि- त्युचध्यप्ते -तन्निर्वर्तनक्षमस्य शरीरस्याभावात् काललयेऽपि तस्य व्यवहारिकस्वरू पासत्द्विपर तत्रत्यमेव वाक्यमुदाहरति कर्मेति- मू॥ कर्म जन्मान्तरीयं यत् प्रारब्धमिति कीर्तितम्। तत्तु जन्मान्तराभावात् पुंसो नैवास्ति कारेचित् ॥ १२४ ॥ व्या। कर्म जन्मान्तरीयमिति जाग्रत्कालिकात् वार्तमानिकात् मनुष्या- दिजन्मनो यदन्यत् प्रात्तनकराग्रत्कालिकं देवादिशरीरं तत् जन्मान्तरं तत्साध्बं कर्म जन्मान्तरीयं यत् प्रारब्धमिति कीर्तितं तत्तु पुंसो नैवास्ति कर्हिचिदित्यन्वयः करहिंचित्कदाचिदपीत्यर्थः ॥ तत्रोपपत्तिमाह-जन्मान्तराभावादिति वर्तमाना- ज्जन्मनो यदन्यत् प्राप्त्तनजाग्रत्कालिकं देवमनुध्यादिशरीरं तज्जन्मान्तरं तस्य प्रारब्धकर्मनिर्वरतनक्षमस्याभावात् कुतः प्रारब्कर्मणः स्वरूपसिद्धिरित्यर्थः ॥९२४॥ अ०॥ इदानी प्रतिज्ञातार्थसिद्धये जाग्रत्कालिकशरीरसामान्यस्य फला- रम्भककर्मनिर्वतनाक्षमत्वानुमापकं तत्रत्यं भगवत्पादीयवचनमुदाहरति रवमनेतति- मू ॥ स्वप्नदेहो यथाऽध्यस्तस्तथैवायं हि देहकः ॥ १२४॥॥ क्या॥ अत्रेदमनुमानमुक्तं 'यत्र स्वस्य सर्वमात्मैवाभूसत् केन कं पश्ये' दित्यादिश्वुत्या ज्ञाननिवर्त्यत्वेनावेदितो यावत् जाग्रत्कालिको देहः क्रियाश्रयत्ववि- भ्रममन्तरण न फलारम्भककर्मक्षमो भवितुमर्हति अध्यस्तत्वात् स्वप्रदेहवदिति। अथवा ज्ञानानाश्यवादिति हेतोः न कर्मक्षम इत्यर्थः ॥ १२४॥ ॥ अ०॥ लो ॥ उत्पन्ने तत्वविज्ञाने प्रारब्धं नैव मुञ्चति इति यच्छास्त्र- निर्णीतं तन्निराक्रियतेऽघुनेनि प्राक् प्रतिज्ञातार्थसिद्धिबोधकं तदीयं वचनमुदाह- रति अध्यस्तस्येति- मू ॥ अध्यस्तस्य कुतो जन्म जन्माभावे स्थिति: कुतः ॥ १२१॥

Page 241

२१८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या।अध्यस्तस्वेति इह जन्मनि जन्मान्तरे वा जाग्रत्कालिकस्य देहसामा- न्यस्य अध्यस्तत्वेन कर्मनिर्वाहकत्वाभावे सिद्धे कुतः ब्रह्मविदः शरीरस्य कर्माधीन जन्म भवेत् केवलाविद्यकत्वेन जन्माङ्गीकारात एवं कर्माधीनजन्यभावे सति मूला- विद्यानिवर्तकाद्वितीयप्रत्यकसाक्षात्कारानन्तरमाविद्यकस्य देहस्य कुतः स्थितिः तद्वातीपि नास्तीत्यर्थः ॥ १२५॥ अ० ॥ एतावता अपरोक्षानुभूतिवाक्येन गुणापूर्वस्यैव स्वरूपनिष्पत्य- भावेन निमित्तकारणत्वं निराकृतं न द्रव्यापूर्वस्थोपादानत्वमिति शिष्याशङ्कामाल- क्ष्य द्रव्यापूर्वस्यापि प्रागुक्तन्यायेन म्वरूपासंभवात् तस्योपादानत्वनिषेधपरं तत्र- त्यमेव श्रोकमुदाहरति उपादानमिति- मू H उपादानं प्रपश्चस्य मृद्भाण्डस्येव पठ्यते। अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क विश्वता॥ १२६॥ क्या। उपादानमिति घटस्य मृदिव जगत उपादानत्वेन मूलाज्ञानं च- कारात् नदुपाधिस्स्वात्मा च-'मार्यां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर'मित्यादि- श्रुतिभि: पठ्यत इत्युक्ता एवकारेण द्रव्यापूर्वस्यैव जगदुपादानत्वं वार्यते तस्यैव चतुर्थनिरूपणोक्त प्रकारेण जगत्सत्यत्वसम्पादकस्य निरसनीयत्वात्। एवकारेण व्या- वर्त्य स्वयमेव दर्शयति भगवत्पाद: तस्मिन्नष्टे क्वविश्वतेति परिणाम्युपादान- विवर्तोपादानभूतयोरज्ञानस्वात्मनोर्मध्ये तस्मिन्नज्ञाने नष्टे सति कस्मिन्नन्यस्मिन् परिणाम्युपादाने तदभिन्नोपादेयप्रपञ्चताऽनुवर्तेतेति जगतोऽज्ञानेतरद्रव्यानूर्व- प्रकृतिकतैव प्रतिषिध्यते-प्रारब्वावस्थितिः कुत इति तदीयादेव वक्ष्यमाणवाक्यात् द्रव्यापूर्वस्य निषेधावगमात् । १२६॥ अ० ॥ एवं द्रव्यापूर्वस्य कालत्रेयऽपि स्वरूपाभावेन तन्र जगदनुदृत्ति प्र- तिषिध्य सम्प्रति विद्यादशायां जगदविकरणभूते प्रत्यगात्मन्यपि जगदनुवृत्तिनिष- धपरं तदीयं वाक्यमुदाहरति यथेति- मू॥ यथा रज्जुं परित्यज्य सर्पे गृह्णाति विभ्रमात्। तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधी: ॥१२७ ॥ रज्जुरूपे परिज्ञाति सर्पमानं न तिष्ठति। अधिष्ठाने तथा ज्ञाते प्रफञ्वरशून्यतां त्रजेत् ॥१२८ ॥

Page 242

पञ्चमं वाच्याद्यैक्यानुकूलं २२९ जगन्मिथ्यात्वनिरूपणम् ।

व्या॥ रज्जुं परित्यज्येति इय रज्जुरित्यज्ञात्वेत्यर्थः सर्पभान न तिष्ठती- त्यनन दृषषटिरेव सृष्टिरिति पक्षो दर्शितः शेषस्सुगमः ॥ १२८ ॥ अ०॥ यत् पुनरुक्तं प्राक् उपादान प्रपञचस्येत्यादिना चिदध्यस्तस्यावि. दकस्य देहादेर्द्रव्यापूर्वप्रकृतिकत्वं नास्तीति तदुपसंहारपरं तदीयं वाक्यमुदाहरति देहस्यापीति- मू॥ देहस्यापि प्रपश्चत्वात् प्रारब्ावस्थितिः कुतः ॥१२८॥॥ व्या।। देहस्यापीति प्रागाविद्यको यः प्रपञ्चोऽकर्मजन्यत्वेनाधिष्ठान- ज्ञानमात्रेण शून्यतां गत इत्युपपादितः तदात्मकत्वात् तस्य देहस्य द्रव्यापूर्वप्रकृति- कत्वं तावत् ॥ श्रो॥ उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पठ्यते। अज्ञानं चैव वेदान्तैरिति प्रागुक्तश्लाकगतेन एवकारेण यस्मान्निराकृतमतः प्रारब्धावस्थि- तिः कुतः न प्रारब्धावस्थानमित्यर्थः ॥ अत्रोपपादिता जगतः क्मनिमित्तकत्व तत्प्रकृतिकत्वयोरभावोपपत्तिः ॥ उपपत्त्यन्तरमपि प्राग्यत् मायिकत्वादपूर्वस्येति चतुर्थश्रोकादारभ्य सार्घेन श्रोकत्रयेणोपपादित तदप्यत्र विशेषग्रहणार्थिभिरवलो- कर्नायम् ॥ १२८॥॥ अ० ॥ तर्हि किमर्थ रमणीयचरणा रमणीयां योनिमापद्यन्ते इत्यादि श्रुति. र्देवादिशरीरप्राप्ति क्मायत्तां दर्शयतीत्याशक्क्य तत्तात्पर्यपरं भगवत्पादवाक्यं तत्र- त्यमेवोदाहरति अज्ञानजनेति- मू।। अज्ञानजनबाधाय प्रारब्धं वक्ति वै श्रतिः ॥१२९ ॥ व्या। अविदूज्जनानां स्वनिश्चितार्थे विद्यमानदुरभिनिवेशस्य अनिवार्य त्वात् तेषां मीमांसकानां प्रागुदाहृतपरायत्ताधिकरणभाष्योक्तप्रकारेण आधिदेविकस्य परमेश्वरस्य केवलनिमित्तकारणत्वबोधनाय तद्देयशरीरकारणतवेन प्रारब्धं कर्मवदति सा श्रुतिरित्यर्थः ॥ १२९ ।। अ०॥ इदानीं तच्छ्रतितात्पर्योपपत्तिप्रदर्शनपरं भगवत्पादीयं वाक्यमुदा- हरति क्षीयन्त इति- मू॥ क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे। बहुत्वं तन्निषेधार्थे श्रुत्या गीतं च वै स्फुटम् ॥ १३०। 20

Page 243

२३० अद्वैतसिद्धान्तगुरुचान्द्रिकायां

व्या। तस्मिन्निति आविद्यकसर्वजगदधिकरणत्वेन श्रृयमाणे परावरे परो हिरण्यगर्भोऽवरो यस्मात् प्रत्यग्ब्रह्मणः तत्परावरं नस्मिन् दृष्ट स्वात्मरूपेणाह मस्मीति साक्षात्कृते सति अस्थ तत्वविदः कर्माणि सञ्चितागामिप्रारब्धशब्दि तानि पुण्यापुण्यानि क्षीयन्ते कालत्रयेऽप्यलब्धात्मकानीति ज्ञायन्ते-न ध्वंसप्रति योगीनीति-तत्स्वरूपनिष्पादकतवेनाभिमतयोः कर्तृत्वशरीरयोः ज्ञानैकनिवर्त्यत्वेन वास्तवत्वाभावात-खप्ने चाध्यासिककर्तृत्वशरीरादिकरणत्रता क्रियमाणस्य कर्मणः स्वरूपलाभाभावाच्च। अयमवार्थोऽनया श्रुत्याभिप्रेत इति क्षीयन्ते कर्माणीति पद द्वयार्थविवरणपरेणोत्तरार्घेन दर्शयति 'बहुतं तन्निषेधार्थ श्रुत्या गीतं च वैस्फुटमिति तन्निषेधार्थमिति निषेधशब्दं प्रयुञजानस्य भगवत्पादस तेषां कर्मणां स्वरूप- लभाभाव एवाभिप्रेतः अन्यथा तन्निवृत्त्यर्थमित्येव प्रयुञ्जीत-पूर्वार्धगतेन चका- रेण-तदेतदच्छायमशरीरं -तुच्छमिद रूपमस्येति द्विनीर्यानिरूपणे प्रदर्शितश्रुत्या- दुक्तप्रकारेण विचार्यमाणे तमोरूयाज्ञानस्याप्यसत्वमभिप्रेतम् उत्तरार्धगतेन चका- रण त्रिविधान्यपि कर्माणि तत्त्वज्ञानात् प्रागप्यलब्धात्मकानि भवितुमर्हन्ति आ- ध्यासिककर्तृकत्वात् स्वाप्नकालिककमवादेत्यनुमानं सङ्गह्वते वैशव्देन विद्वदनुभवों दर्शित: स्फुटमिति पदेनोदीरितार्थे तूक्तप्रकारण श्रुतियुक्तयनुभवानांसत्वात् संशया भावो दर्शितः ॥ १३० ॥ अ०॥ इदानीं चतुर्थनिरूपणोक्तप्रकारेण सोमाज्यपयःप्रभृतीनां परिणा- मस्य द्रव्यापूर्वस्य जगदुपादानत्ववादिनां मीमांसकमतानुसारेण तत्वज्ञानानन्तरमपि प्रारब्धानुवृत्तौ दोषद्वयप्रतिज्ञापरं तत्रत्यं वाक्यमुदाहरति उच्यत इति- मू॥ उच्यतेSज्ञैरबलाच्ैतत्तदानर्थद्वयागमः ॥१३०॥॥ व्या। अज्ञरिति कालत्रयेऽपि प्रागुक्तप्रकारेण कर्मणां स्वरूपलाभाभावा- नभिज्ञैः बलाच्च हठात्काराच्चकारेण प्रागुक्तश्रुत्यनुमानादिभिर्बाधितप्रमाणाच्च एतत् द्रव्यापूर्वमेवास्य जगत उपादानकारणमिति उच्यते तत् को दोष इत्यत आह-तदानर्थद्वयागम इति तस्मिन्पक्षे प्रमाणद्वयस्य निरर्थकश्वमापतेदित्यर्थः॥ अ० ॥ तद्दोषद्वयापत्तिप्रदर्शनपरं तत्रत्यं वाक्यमुदाहरति वेदान्तपद हानमिति- मू। वेदान्तपदहानं च यतो ज्ञानमिति श्रतिः ॥१३१॥ व्या। श्रतिरिति एवमेवेहाचार्यवान् पुरुषो वेदेतीदृशी श्रुतिः यतः यस्मात् तत्वमस्यादिवाक्यात सर्वजगद्पादानभूतब्रह्मणा साकमकर्तुरात्मन ऐक्य-

Page 244

पञ्चमं वाच्याध्यैक्यानुकूलं २३१ जगन्मिथ्यात्वनिरूपणम् ।

ज्ञानं भवतीत्याह तस्य वेदान्तमहावाक्यस्य तदन्तर्गतपदद्वयस्य च हानं भवती- त्यर्थः॥ तथाहि- यदि द्रव्यापूर्वमेव जगदुपादानं स्यात् तदा तत्त्वमसीत्यादिवाक्या- न्तर्गततत्पदेन प्रकृतं 'सदेव सोम्येदमग्र आसी' दिति श्रृत्युक्तं सच्छब्दवाच्यमचे- तनं द्रव्यापूर्वमेव परामृष्टं स्यान्न चेतनं ब्रह्म तथेव त्वंशब्दार्थोऽपि तहव्यापूर्वहेतु- भूतो वास्तवकर्तृत्वधर्मवानेव स्यान्नाकर्तृसाक्षिचैतन्यं तथा वाक्यार्थोऽपि कर्तुः स्वसाध्यद्रव्यापूर्वेण सह अभेद एव सामानाधिकरण्येनावगतस्स्यात् नाकर्तुस्साक्षि- णो ब्रह्माभेदः विप्रतिषिद्धं हि चेतनस्याचेतनेनाभेदशशास्त्रेणोपदिश्यत इति एवं दोषद्वयापत्ति संप्रदर्श्य चकारेण जीवेशैक्यपरस्मृत्यनुमानयोर्बाधश्च दर्शितः ॥१३१॥ अ०॥ इदानीमाचार्यकृतापरोक्षानुभूतिप्रकरणवाक्यमुपसंहरन् तत्कृतवि- वे कचूडामणिमवगतिसामान्यायावतार्यति इत्यस्थेति -- मू॥। इत्यस्याकर्मजन्यत्वमुक्तं चूड़ामणावपि।

व्या। इत्यस्येति पूर्वोक्तप्रकारेणास्य प्रपञचस्येत्यर्थः ॥ शेषस्सुगमः ॥ अ०॥ सम्प्रति जाप्रत्काले कर्तृत्वाद्धयासदशायां क्रियमाणं कर्म लब्धात्मकं सदनन्तरं ब्रह्मापरोक्षज्ञानात् ध्वंसप्रतियोगित्वं भजत इति भ्रान्तिनिरासाय प्रवृत्तं विवेकचूडामणौ पञ्चाशदुत्तरचतुरशततमश्रोकमुदाहरात अहं ब्रह्मेति- मू ।। अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम्। सश्चितं विलयं याति प्रबोधात्स्वप्रकर्मवत् ॥।१३३॥ व्या। स्वप्नकर्मवदिति स्वप्नकालेऽपि वस्तुतो जीवस्यासङ्गोदासीन. स्वभावत्वात् तत्कालेSनुष्ठीयमानत्वेन प्रतीयमानं कर्म तावत् क्रियमाणत्वभ्रान्ति- व्यतिरेकेण स्वाप्निकगमनागमनवदलब्धात्मकं सत् विलयं प्रविलापनं कालत्रयेऽपि शून्यतां यातीति प्रबोधात् जाग्रत्कालिकज्ञानात् पुंसा यथा निश्चीयते एवं कल्पं- कोटिष्वार्जितत्वेन प्रतीयमान सञ्चिताख्यं कर्मार्जितत्वविभ्रमव्यतिरेकेण अलब्धा- त्मकमेव सच्छून्यतां यातीवि विचारवताऽहं ब्रह्मास्मीत्यसङ्गात्मविद्वानान्निश्वीयत इत्यर्थ: ॥ १३३ ॥ अ० ॥ स्वप्रकर्मवदिति दृष्टान्तेन विवक्षितार्थपरं तत्रत्यमेकप्वाश्षदुत्तर -: चतुश्शततमश्रोकमुदाहरति यत्कृतमिति-

Page 245

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू॥ यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्वणम्। स्वप्नोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥ १३४ ॥ व्या।। स्वप्तकाले कृतत्वेन प्रतीयमानं पुण्यादिकमलब्धात्मकत्वा द्देशान्त- रप्राप्तये स्वाप्निकगमनक्रियेव स्वप्नादवस्थान्तरं गतस्य स्वर्गादिफलाय यथा न भवति तथा जाग्रत्कालिकं सञ्चिताख्यं कर्मापि न फलाय भवेत् - द्वयोरप्या- ध्यासिककर्तृकत्वाविशेषादित्यर्थः ॥ १३४॥ अ० ।। इदानीमाध्यासिकशरीरं प्रति प्रारब्धकर्सणः कारणत्वपरप्रतिकर्म- व्यवस्थावादजन्यज्ञानदूषणेन प्रारब्याख्यमपि कर्म अलब्धात्मकमेव अतो न कमा- धीनं शरीरस्य जन्मादिकमिति दृष्टिसष्टिबोधकं तत्रत्यं चतुष्षष्युत्तरचतुशशततम- श्रोकमुदाहरति शरीरस्यापीति- मू॥ शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि। अध्यस्तस्य कुतस्सत्वमसत्यस्य कुतो जनिः ॥ अजातस्य कुतो नाशः प्रारब्घमसतः कुतः ॥ १३५॥॥ व्या। शरीरस्यापि प्रारब्धकल्पना आ्रन्तिरित्यपिशव्देन सञ्चितकर्मस- द्वावकल्पनस्यापि भ्रमत्वमुक्तं एवकारेण तदुभयकर्मणोः कारणत्वकल्प नज्ञानस्य प्रमात्वं वार्यते हिशब्देनात्र जगन्मिथ्यात्वदर्शिनामनुभवो दर्शितः हिशब्दार्थ तु स्वयमेव विवृणोत्ति अध्यस्तस्य कुतस्सत्वमिति कुत इत्याक्षेपे रज्जुसर्पवदारो पितस्य केवलाविद्यकस्य शरीरस्य सत्वं कर्मप्रयुक्तसत्यत्वं न कस्मादपि अबाधित- प्रमाणात्सिध्यतीत्युक्ता एवमध्यस्तस्य कर्मप्रयुक्तसत्यत्वाभावात कर्मजत्वमाक्षिपति असत्यस्य कुतो जनिरिति कृत इति पूर्ववत् एवमध्यस्तशरारस्य सर्वे विकारजातं मायामात्रमित्यादिश्रुत्या कर्मणा निर्मितत्वाभावावगमात् तदुपादानाविद्यानाशादेव विनाशसम्भवाच्च कर्मक्षयाधानं नाशमाक्षिपति अजातस्य कुतो नाश इति कुत इति पूर्ववदेव एवमध्यस्तस्य सरीरादेः कर्मक्षयाधीनविनाशस्य अनावश्य- कत्वात् 'यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येदित्यादि' शास्त्रविरोधेन शरी· रादिस्थितिप्रयोजकं तदारम्भकं प्रारब्धसंज्ञकं कर्मेति कल्पनमपि भ्रान्तिरेवेति तदाक्षिपति प्रारब्धमसतः कुत इति असत इति अकर्मनत्वात् अस्रत्यस्य ज्ञाननाश्यलेन मिथ्याभूतस्येत्यर्थ ॥१३५॥॥

Page 246

पञ्चमं वाच्याद्यैक्यानुकूलँ १३७ जगन्मिथ्यात्वनिरूपणम् ।

व्या। यथा हि लोके भक्षितं कलञ्जद्रव्यं इतरनिरपेक्षमेव सत् स्वशक्त्यैव विचित्रान् ्रमानुत्पादयति-क्षीरं वा जलं स्वयमेव दध्याभासहिमकरकाद्याकारेण परिणमते हि अनपेक्ष्य बाह्यं साधनं एवं अविद्या च कर्मनिरपेक्षा सती स्वशक्ति- वैचित्र्यादेव विचित्रकार्यरूपेण परिणमेतेत्यर्थः । १५२॥॥ अ० ॥ पुनश्शङ्कान्तरमनूद निराकरोति आचारस्येति -. मू ॥ आचारस्य प्रमाणत्वान्मायिकोऽप्यत्र कर्मजः । इति चेत्स्वाप्रपुत्रार्थ कर्मात्रापि करोतु सः ॥ १५३।।॥ व्या। सर्वे विकारजातं मायामात्रमित्यादिशास्त्रेण जाग्रत्कालिकपुत्रादि- रपि मायकत्वावगमेSपि पुत्रकामेष्टिनागप्रतिष्ठासेतुयात्रादिशिष्टाचारस्यापि प्र- माणत्वेन कर्मजन्यत्वं स्यादिति प्राप्ते दोषमाह स्वाप्नपुत्रार्थमित्यादिना सः पुत्र कामे ध््याद्यनुष्ठातात जाग्रदवस्थायां स्वापिकपुलादिलाभार्थमपि कर्म पुत्रकामे- ष्टथादिकं कुर्यादुभयोरपि मायिकत्वाविशषादित्यर्थः ॥ १५३॥॥ अ० ॥ पूर्वपक्षमनूद चोदयतति अध्यस्तेति- मू॥ अध्यस्तसाघनैरत्र कृतं कर्म फलप्रद्म् ।। यदि स्वप्रे कुतो न स्यात् कृतं कर्म फलप्रदम् ॥ १५४॥॥

व्या। जाग्रदवस्थायामिव स्वप्ेऽ्यध्यस्तसाधनैः कृतमाव्यासिकं कर्मापि फलदानाय कुतो न भवतीत्यर्थः ॥ १५४॥ ॥ अ० ॥ परसमाधानमनूद्य स्वमतेऽपि तत्साम्यं दर्शयति करोमति -- मू॥ करोमीति विनाध्यासं न हि कर्म कृतं तदा। यदि जाग्रति कर्मापि ध्यायतीवेति वार्यते ॥ १५५॥॥ व्या। तदेति स्वपे करोमीति भ्रमातिरेकेणाध्यासिकमपि कर्म न कृत- मिति प्राप्ते 'ध्यायतीव लेलायतीवे'ति श्रुत्या जाप्रदवस्थायामपि कर्म निवार्यत

अ०॥ पुनशशङ्कान्तरमनूद प्रातिभय्येन समाधत्ते श्रुत्थेति- मू।। श्रुत्यानया तु ध्यातृत्वमध्यस्तं न निवार्यते॥

Page 247

२३८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

तत्कर्तृत्वविशिष्टेन कृतं कर्म फलाय चेत्। स्वयं निर्माय संस्कारात् स्वपितीति श्रुतेस्तथा ॥ स्वप्ने कामं निर्मिमाणो यो जागर्तीति च श्रुतेः । आध्यासिकरथादीश्र सृजतेऽयमिति श्रुतेः ॥ अध्यस्तकर्तृताङ्गादि साध्यं कर्म तदास्ति हि। कुतस्तत्कर्मणा पश्चान्न स्वर्गादिस्त्वयेप्यते ॥ १५९ ॥ व्या ॥ 'असङ्गो ह्यय पुरुषः । ध्यायतीव लेलायतीवे' त्यादि श्रुत्या न कर्तृत्वमाध्यासिकं बाध्यते किन्तु पारमार्थिकमेव कर्तृत्वं अतः आध्यासिककर्तृत्व- वता क्रियमाणं कर्म फलाय भवतीत प्राप्ते प्राांतभव्येन समाधने स्वयं निर्माये- त्यादिना स्वयं विहृत्य स्वयं निर्साय स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति च य एष सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाण इति च। अथ रथान् रथयोगान् पथस्सृजते इत्यादिशास्त्रादवगतं यदाध्यासिकं स्वप्न. काले बाह्यसाधनविकलस्यात्मनो निर्मातृत्वं च तात्कालिकपुत्रपश्चाज्याद्यङ्गसाध्यं कर्मवत् तदास्तीत्युक्ता - तदस्तित्वे च सवप्ने पुत्रपश्चादिकमद्राक्षं तेन यागसाध- नेन ज्योतिष्टोमादिकमकरवमिति प्रत्यभिज्ञयापि तन्मूलं लोकानुभवं च स्मारयति हिशब्देन तत्कर्मणा अकरवमिति प्रत्यभिज्ञातेन पश्चात् देहपातानन्तरं कुतस्त्व. या स्वर्गादिफलं नाह्गीक्रियत इत्यर्थः ॥। १५९ ॥ अ०॥ सिद्धान्ती निजाक्षेपफलं दर्शयति शास्त्रेति- मू। शास्त्रे कर्मपरे पुरोक्त्तनिगमस्मृत्यादिभिर्वाधिते स्वप्नानुष्ठितकर्मणा सुरतनुप्राप्त्यादिबाघाच्च नः । दृष्टान्तेऽप्यसतीतरैश्र नं विधेर्हेतुत्वसंस्थापनम् कर्तु शक्यमतो जगच्च सकलं स्वाज्ञानमानोन्भवम् ॥१६०॥ व्या।। कर्मशास्त्रे तावत पूर्वोत्तत्रयोदशादिश्रोकावगतश्रुतिस्मृत्यादिभिबी- घिते सति स्वप्नकाले सुरत्वमगमं नरभावमत्यजञ्चेति परामर्शगम्यस्य स्वप्नानु- भवस्य तद्विषयस्य च मनुष्योऽहमिति जाप्रत्कालिकानुभवेन बाधदर्शनात् फलस्य. कर्मजत्वसाधनार्थ दृष्टान्ताभावे सत्यनुमानासंभवाच्च प्रागुक्तागमादिबाधितैः प्रत्य- क्षार्थापत्यादिप्रमाणैः कर्मणः फलकारणत्व निर्णेतुमशक्यत्वात् जगत्सर्व स्वाविद्या मात्र जन्यमित्यध्यवसेयमिति भाव: ॥।१६० ॥

Page 248

पञ्चमं वाच्याद्यैक्यानुकूलं २३९ जगन्मिथ्यात्वनिरूपणम् ।

-*: ।। इन्द्रजालोत्पत्तिमकारादेशारम्भ: ।॥:

अ० ॥ इदानीमिन्द्रजालोत्पत्तिप्रकारानभिज्ञानां तत्प्रकारमादिश्य इन्द्रजा- लस्येव जगतोऽपि कर्मजत्वं निराकर्तु तच्चोद्यमनुवदति इन्द्रजालमिति- मू।। इन्द्रजालं यथा मायाकर्मभ्यां निर्मित तथा। भवेज्जाग्रच्छरीरादिरिति चेदत्र संशणु ॥ १६१ ॥ व्या। अन्नेति इन्द्रजालविषये सश्णु ज्ञातव्यांशमिति शेषः ॥ १६१॥ अ०।। इन्द्रजालं प्रति सभ्यजनानामेवाभिन्ननिमित्तोपादानत्वं सदृष्टान्त- माह-इन्द्रजालं त्विति- मू। इन्द्रजालन्तु सभ्यैर्हि कल्पितं स्वप्रवस्तुवत् ॥। १६१।।।। अ०।। इन्द्रजालस्य सभ्यजनपरिकल्पितत्वे कथं मायाविकर्तृकत्वप्रसिद्धे- रुपपत्तिरिति प्राप्ते सदृष्टान्तं तदुपपत्ति दर्शयति शब्दस्येति -- मू॥। शब्दस्य श्रवणादूर्ध्वमुद्वत्प्रत्ययस्य हि॥। श्रोन्ुपादानकस्यार्ये तदाडभावात्पृथक्त्वतः । दाताचार्य इति ख्यातिर्यद्वच्छब्दप्रयोगतः ॥ मणिबद्धे तथा नेत्रे तत्पुंसारोपितस्य हि। कर्ता मायीति विरव्यातिर्मण्यादेस्संप्रयोगतः ॥ १६४ ॥ व्या।। उक्तविशेषणविशिष्टस्य शिष्यविज्ञानस्य आये आचार्ये तदा शि- व्यज्ञानार्थे वाक्यप्रयोगसमये अभावादाचार्यगतज्ञानाच्छिष्यगतज्ञानस पृथक्ताच्च शब्दमात्रप्रयोक्तरि यथा ॥श्रो॥ वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनि- जनानां ज्ञानदातारमिति ज्ञानदातृत्वमौपचारिकं - तथा मणिना प्रतिबद्धचक्षुषा सभ्यजनेन प्रत्येकं प्रत्येक स्वप्नत्रत् स्वस्मिन्नारोपितस्य गजाश्वादेः सहकारिभूत- मण्यादिमात्र प्रयोक्तरि मायाविन्यौपचारिकी तत्करतृत्वप्रसिद्धिरुपपद्यत इत्यर्थ:॥१६४ अ० ॥ इदानीमैन्द्रजालिकस्य तज्जालं प्रत्यनुपादानत्वे भाष्यकारादिसम्म- तिमाह सभ्यानामिति-

Page 249

१४० अद्वैतसद्धान्तगुरुचन्द्रिकायां मू । सभ्यानां चक्षुषश्शक्ते: प्रतिबन्धकमौषधम्। मणिमन्त्रौ विना तस्मिन्नाविद्या जालकारिणी। इति श्रीभाष्यकाराद्यैस्तत्र तत्र निरूपितम् ॥ १६५।। ॥ व्या। ऐन्द्रजालिके सभ्यजनदृश्यस्य गजाश्वादेः परिणामिकारणभूतमा- याया असंभवात् न तदाश्रयत्वरूपं तस्येन्द्रजालोपादानत्वमिति तन्र तत्र भाष्या दावुपदिश्यते॥ तथा हि द्वितीयाध्यायस्य प्रथमपादे विलक्षणत्वाधिकरणे - 'न तु दष्टा- न्तभावा'दिति सूत्रीयेण यत्तावदभिहितं कारणमपिगच्छत् कार्य कारणसात्मीयेन धर्मेण दूषयेदिति तत्तु न संभवति - कुतः दृष्टान्तानां भावात् - यथा घटरुचक- चतुर्विधभूतग्रामा मृत्सुवर्णपटृथवीविकाराः स्वस्वप्रकृती विलीनास्सन्तः तत्तत्प्रकृति स्वात्मीयेनाकारपरिमाणादिवर्मेण न दूषयन्तीत्युक्ता अस्नि चायमपरो दृष्टान्तः यथा स्वयं प्रसारितया मायया मायावी त्रि्विपि कालेषु न संस्पृश्यतेऽवस्तुत्वात्- यथा च स्वप्रद्दगेकः स्वप्रदर्शनमायया न संस्पृश्यते प्रबोधसंप्रसादयोरनन्वागतत्वा- दिति भाष्येण च॥ तदीयेन - मृद्धटादिवाक्येन परिणामदष्टान्तमुक्ता विवर्तदष्टान्तमाह अस्ति चायमपरो दृष्टान्तः यथा स्वयंप्रसाग्तिया मायया मायावी त्रिष्विपि कालेषु न संस्पृश्यतेSवस्तुत्वादिति इन्द्रजालस्य सायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह यथा च स्वप्रद्दगेकः स्वप्नदर्शनमायया न संस्पृश्यते प्रबोधसंप्रसादयोरनन्वागतत्वा- दितीति रामानन्दीयेन च विवर्तस्येन्द्रजालस्य नाधिष्ठानं मायावीति शासनात् सभ्यजनप्रकृतिकत्वं सिद्धम् । एवमेव गौडपादकृते चागमप्रकरणे॥ श्ो० ॥ प्रपञचो यदि विद्येतेति कारिकायाश्र-अद्वैतप्रकरणे-सङ्गातास्स्वप्रवत्मर्व इते कारिकायाश्च भाष्यानन्दगि- रीयाभ्यां चावगम्यत इति ज्ञेयम् ॥ १६५॥ ॥ अ०॥ पुनश्चेन्द्रजालस्य कर्मजत्वं शङ्कते नन्विति- मू। ननु मन्त्रस्य कर्मत्वात्कर्मजं तद्धि चेन्न तत्।। वादा इत्यादिवाक्येन वैतथ्याख्यनिरूपणे । मन्त्रस्य हेतुता यस्माद्वौडपादैर्निवारिता ॥ १६७॥ व्या॥ यस्माद्रौडपादाचार्येः ॥ श्रो० ॥ वादा इति वादविद इत्यनेन वा- कयेन न मन्त्रशास्त्रे प्रामाण्यमस्तीत्युक्तमतो न मन्त्रजन्यमिन्द्रजालमित्यर्थः॥१६७॥

Page 250

पञ्चमं वाच्यादैक्यानुकूलं २४१ जगन्मिथ्यात्वनिरूपणम् ।

अ०॥ ननु न तदीयप्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह स्वम्नेति- मू ॥ स्वप्ने जप्तस्य मन्त्रस्य कारणत्वं यथा न हि। तथा जाग्रति मन्त्रस्य कारणत्वं न विद्यते ॥ १६८॥ व्या। एवमेव प्रागुपपादितेन भगवत्पादीयेन ॥ श्रो० ॥ यत्कृतं स्वप्न- वेलायां पुण्यं वा पापमुल्वणम्। स्वप्रोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वेति विवेकचूडामणिवचनेन वाचिककर्मत्वान्मन्त्रस्यापि कारणत्वं निराकृतम् ॥१६८॥ अ०॥ इदानीं सभ्यजनगोचरस्येन्द्रजालस्य ऐन्द्रजालिकेन स्वात्मनि कल्पि- तत्वे बाधमाह मायिनेति- मू ॥ मायिनारोपितं चेत् - तद्वस्त्रादि-व्यावहारिकम्। प्रातिभासिकसत्ताकमपि न स्यात्कुतो यदि॥ आद्ये तस्य न युक्तं स्वाज्जीर्णवस्त्रादियाचनम्। नान्त्यस्तत्कल्पितं तत्स्यादस्मदृष्टेरगोचरः ॥ सवप्ने यथा मयाध्यस्तस्तव दृष्टेरगोचरः । तस्मात्तज्जगतोऽज्ञातमुपमातुं न शक्यते H १७१॥ व्या। सभ्यजनदृश्यस्य वस्त्राभरगादेरैन्द्रजालिकेन अध्यस्तत्वाभ्युपगमे व्यावहारिकप्रातिभासिकसत्वयोरन्यतरदपि सत्वं न संभवतीति प्रतिज्ञाय तत्र क्रमा- द्दोषमाह आद्य इत्यादिना ऐन्द्रजालिकेनाध्यस्तस्य परदध्यगोचरत्वे दृष्ान्तमाह स्वप्न इति तेनाध्यस्तस्यास्मदटृध्ट्यगोचरत्वमिष्टमेवेत्यत्र बाधमाह-तस्मादित्या दिना तस्मादस्मद्टृ थ्यगोचरत्वात्तदज्ञातमैन्द्रजालिकं वस्तु वियदादिजगतो मिथ्या, त्वावगमाय अस्मान्प्रत्युपमातुं न शक्यते तथा च सति तदिन्द्रजालोपमानेन न कस्यापि जगन्मिथ्यात्वज्ञानं संभवेदिति भावः ॥ १७१ ॥ अ० ॥ एवं परपक्षे दोषमुद्धाट्य स्वपक्षे तदभावे सत्यानुकूल्यं दशयति प्रतिबद्धेति- मू। प्रतिबद्ध्शाऽस्माभिरध्यस्तं चेन्निजात्मनि। प्रातिभासिकसत्ताकमुपमातुं तदर्हति ॥ १७२॥ 21

Page 251

२४२ अद्वैत सिद्धान्तगुरुचन्द्रिकायां व्या। प्रतिबद्धद्ृशेति औषधेन मणिना वा प्रतिबद्धनयनरूपसाधनेना- स्माभिस्स्वात्मनीन्द्रजालमध्यस्तं चेत्तदा तत्प्रातिभासिकं-जगन्मिथ्यात्वावगमायोप- मातुं योग्यं भवेदित्यर्थः ॥ १७२ ॥ अ०॥ शङ्कान्तरमनूद्य दृष्टान्तेन परिहरति नन्विति -- मू। नन्वेवं नो विजातीय: प्रत्येकं स्वान्भ्रमो यदि। दूरत्वमात्रतोऽस्माकं पूर्णेन्दौ-नभसि-क्रमात् ॥ प्रादेशमात्रता-नैल्यमेकरूपं यथा तथा। अस्माकं बेत्रबन्घस्याप्येकत्वात्तुल्यविभ्रमः ॥ १७४॥ व्या।। इन्द्रजालख्य सम्यजनैर्यस्तत्वे पुरुषभेदेनास्माकं विजातीयो विभ्र- मस्सादित्याशङ्कानिरासार्थ दृष्टान्तद्वयमाह दूरत्वमात्रत इत्यादिना दार्ष्टान्तिक- माह अस्माकमित्यादिना सभ्यअनानामस्माकं नेत्रप्रतिबन्धक्य तत्कारणमण्या • घुपाधेश्चैकस्यैव दूरतवत् तत्नत्यसर्वजनविभ्रमकारणत्वात् समानभ्रमो भवती- ल्यर्थः ॥ १७४॥ अ०॥ शब्दस् श्रवणादूर्ध्वमित्यादिना सार्धेन श्रोकदयेन मायाकारस्य मण्यादिप्रयोक्तृत्वमात्रादिन्द्रजालस्य तन्निर्मितत्वप्रसिद्धिरित्युक्त्तं इदानीमविवेका- दृपि तथात्वप्रसिद्धिंरित्याह लोकोऽयमिति- मू॥ लोकोडयं जपकर्मसिद्धिजमिति स्वाज्ञानजं जालकं संवीक्ष्यैव वृधा ब्रवीति हि यथा सवने स्वमायो्भवम्। अर्थ भूमिजरायुकोशज इति भ्रान्त्या गृहीत्वा पुन- बोलो वासनया च जाग्रति तया ब्रूते परेभ्यश्च नः ॥ व्या। लोक इति अयं जनः स्ाज्ञानजमेवेन्द्रजालं तदुत्पत्तिप्रकारमजा- नन् सामान्यतो ज्ञात्वा ह्यविवेकादिदमेन्द्रजालिककर्तृकजपसिद्धिज़न्यमति घृधा त्रवीतीत्युक्ता तत दृष्टान्तमाह-यथेत्यादिना बालः अविवेकी वासनया तया खाप्नकालिकभ्रमजन्यसंस्कारेण जाग्रदवस्थायामस्मभ्यं यथा च व्रवीति तद्व- दित्यर्थः ॥ १७५ ॥ अ०। इदानीं कर्मापेक्षादपूर्वापेक्षाद्वा यथास्तु तथास्त्वीश्वरात् फलमिति िद्धान्त इति फलाधिकरणीयभाष्योक्तविकल्पयोर्मध्ये द्वितीयविकल्पस्य तदधि-

Page 252

पञ्चमं वाच्यादयैक्यानुकूलं २४२ जगन्मिथ्यात्वनिरूपणम्।

करणारम्भसूत्रीयेण अनेन-तदपूर्वास्तित्वे प्रमाणाभावात्-अर्थापत्तिः प्रमाणामिति चेत्। न। ईश्वरसिद्धेरर्थापत्तिक्षयादिति भाष्येण बाधितत्वेन प्रथमविकल्पानुसारेण जगतः कर्मजत्वं परिचोय समाधत्ते ईश इति- मू॥ ईशो नष्टविधि स्मरन् सृजति यद्गात्रादिकं मायकं ज्ञानारस्य लये कुतोऽस्य जगतो धर्म विना वर्ण्यते। सृष्टिश्चेत्-प्रतिसुप्तिनाशनिगमप्रामाण्यतोऽपूर्वतो यागाच्च, क्षणिकात्पुरोक्तगुरभेः प्राज्ञैर्जनिर्वार्यते॥ १७६॥ व्या।। राजवंत् क्षणिकसेवाभिज्ञेन परमेश्वरेण मायिकमेव शरीरादिकं सषठमित्यक्गीकारे फलस्य जन्मादिकाले तत्कारणभूतकर्मस्थित्यभावेन ज्ञानसमकाल एव शरीरादीनां तत्कारणाज्ञानेन सह आत्यन्तिकनिवृत्तिसंभवात् किमर्थ ब्रह्मादिभि: कर्माधीनं जन्म जगतो निवारितमिति प्राप्ते समाधसे प्रतिसुप्तीत्यादिमा परमे- श्वरेण क्षणिकक्रियामपेक्ष्य सषमपि शरीरादिकमपूर्व जन्यशरीरादिवच्छतं तदर्धान्वा संवत्सराञ्जीवितुमर्हति तथा च स्रति प्रतिदिनं शरीरादिप्रपञचस्य सुषुप्ती लय- प्रतिपादकश्रुते रप्रांमाण्यापत्तिभयात् कर्मसामान्यतः शरीरादुत्पत्तिर्वारितेत्यर्थ:।१७६ अ०। अधुना निरीश्वरवादिनां मीमांसकानां फलावापये क्षणिकक्रियाति- रेकेण अपूर्वकल्पनस्यावश्यकत्वेपि सेश्वरवादिनां शैवादीनामपूर्वकल्पनमन्तरेणैव वैषम्यादिदोषपरिहाराय क्षणिकयागादिक्रियामातमपेक्ष्य अनादिर्नित्यः परमेश्वरः फलं ददातीत्ययं पक्ष: फलाधिकरणेSपूर्वास्तित्वनिराकरणार्थमवलम्बितोऽपि तत्पंक्षस्य वक्ष्यमाणाधिकरणभाष्याभ्यां प्रत्यगात्मनो वेदोक्त्तजगत्कारणत्वमभिप्रेल परित्यक्त- त्वात् न आ्रह्य इत्याह पूर्वोक्तं त्विति- मू। पुर्वोक्तन्तु समन्वयाधिकरणे पत्युर्नये योगिनां शैवानां कणभुक्सृतौ निवसतां माहेश्वराणां मतम्। य्वै नष्टविधिप्रवाहधिषणादीशात्फलं नो भवे दित्येषाऽन्धपरंपरेति वचनाद्ग्राह्यमेवाभवत् ॥१७७॥

Page 253

२४४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

क्या।। पूर्वश्रोकेनोक्तं यच्छैवादीनां क्षणिकयागाभिज्ञ: परमेश्वरः फलं ददा- तीति मतं तत् समन्वयाधिकरणीयदस्मात्-न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वाऽन्यतस्सशरीरत्वं शक्यं कल्पयितुं-नित्यमशररत्वं अकर्मनिमित्त- त्वादित्यवोचाम-तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् न शरीरसंबन्धस्या- सिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्वेः शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य च

तथैव पत्युरसामञ्जस्यादिति सत्रे प्रदर्शितासामञ्जस्यपरादप्यस्मात् कि पुनरसामञ्जस्यं हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादि दोषप्रसक्त्ेरस्मदादिवदनीश्वरत्वं प्रसज्येत प्राणिकर्मापेक्षत्वाददोष इति चेन्न-कर्मे- श्वरयोः प्रवर्त्यप्रवर तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्। न अबादित्वादिति चेन्न-वर्त- मानकालवदतीतेष्वपि कालेष्वित रेत राश्रयद्ोषाविशेषात् अन्धपरंपरान्यायापत्तेरिति भाष्यवचनाच्चाग्राह्यमेवाभवदित्यन्वयः कणसुक्सृती कणादमहर्षिमार्गे नः अस्माकमित्यर्थः ॥ न चात्राप्युदाहृतभाष्याभ्याम पूर्वसापेक्षत्वमेवेश्वरस्य निराकृतमति वाच्यं सेश्वरवादिनामपूर्वकल्पनस्य अवावश्यकत्वात्क्षणिककर्मापेक्षादश्वरात् फलमिति फलाधिकरणीयभाष्यसमानार्थस्यैव कर्मापेक्ष ईश्वरः फलं दद्दातीति वाक्यस्य अत्रोदाहृत समन्दयाधिकर णादिभाध्यद्वयावसरेऽप्यसकृत्पयोगदर्शवेन तस्यैव क्षणिक कर्मसापेक्षत्वस्य चोद्यपूर्वक निराकृतत्वावगमान्बेतरस्येति सरिद्धम्॥१७७ ॥ अ० ॥ इदानी जीवेश्वरभेदस्य वास्तवत्वपक्षेSपूर्वमथवा क्षणिक धर्मादिक मपेक्ष्येश्वरः फलं ददातीति वत्तुं शक्यते वान्यथेत्याह जीवेशयोरिति- मू॥। जीवेशयोर्विभेदस्तु वास्तवश्चेत्तदेश्वरः । ददाति फलमन्येभ्य इति वक्तुं हि शक्यते॥ भृत्यंभ्यो राजवद्येषां कल्पितस्तत्र नास्ति तत्। प्रवेशागमसंप्रोक्तप्रकारेणेश्वरस्य हि॥। जीवत्वे च कर्थ स्वस्मै स्वयं दातेति युज्यते ॥ १७९॥॥ न्या।। ईश्वरस्य फलदातृत्वपक्षे जीवेशयोर्वास्तिवभेदस्य आवश्यकत्वे दृष्टान्तमाह-मृत्येभ्यो राजवद्विति भेदस्याध्यासिकत्ववादिनां तावद्भेदाभावा- तयोर्दातृत्वादिकं नास्तीत्याह-येषामित्यादिना अन्यथाऽनुपपत्तिमाह-प्रवेशा-

Page 254

पञ्चमं वाच्याद्ैक्यानुकूलं २४९ जगन्मिथ्यात्वनिरूपणम् ।

गमेत्यादिना सोSकामयतेत्युपक्रम्य तदेवानुप्राविशदित्यादिश्वुत्युक्तप्रकारेण प्रा. गुदाहृतचतुस्त्रिंशादिश्रोको क्तप्रकारेण च ब्रह्मण एव साक्षात् स्वसृष्टशरीरतादात्म्या. ध्यासवशाज्जीवत्वे सिद्धे राजभृत्ययोरिव भेदाभावाद्दातृत्वादिकं नोफप द्यत इत्यर्थः ॥ १७९॥॥

भेदमात्रमवलम्ब्य ब्रह्मजीवयोदीतृत्वादिकं कुतो न सादित्यत आह आभास त्वादीति- मू॥ आभासत्वादिपक्षेऽस्य दृष्टान्ताभावतो न तत् ।। निजस्थ प्रतिबिम्बस्यांशस्यावच्छिन्नकस्य वा। कुत्र विम्बोऽनवच्छिन्नो वांशी दातेति दृश्यते ॥१८१॥ व्या। जीवस्य ब्रह्मप्रतिबिम्बत्वादिपक्षे तयोः फलदातृत्वादिकं दृष्टान्ता- भावात्रोपपद्यत इत्युक्त्वा तदेव विवृणोति निजस्येत्यादिना लोके आदित्यमहा काशशरीराणां तदीयप्रतिबिम्बावच्छिन्नावयवानां च क्रमादुपास्ोपासकत्वंदातृत्व. प्रतिगृह्दीतृत्वादर्शने सति कथमीशात्मनोर्दातृत्वादिकं शास्त्रानुमानाभ्यां प्रत्याययितुं शक्यत इत्यर्थः ॥ १८१ ॥ अ०।। इदानी प्रागुदाहृताभिः 'सर्व विकारजातं मायामात्र' मित्यादि- श्रुतिभि: जाप्रत्कालिकानां 'मायामात्रन्तु कात्ल्येनानभिव्यक्स्वरूपत्वा'दिव्यादि- सूलैश्च स्वाप्नकालिकानां च केवलमायिकत्वावगमे सति पुनः कर्मवासनावेशव शेन वितण्डापरमन्यथा गृहीतं च भाष्यमवलम्ब्य प्रत्यवतिष्ठमानं निराकरोति भोगा- नामिति -- मू l भोगानां विधिजन्यताम्युपगमान्भोग्यञ्च विध्युदध्व- श्चेत्सामं भवतु प्रबोधस,मये विद्योदये देहवत्। अन्यावस्थतया लयो भवति चेद्रज्जावहिर्वर्ततां ज्ञानेनैव विनाशितो यदि ततो भोग्यं न विध्युद्धवम् ॥ ठ्या॥ भोगानामिति स्वाप्निकानां सुखादीनां 'सूचकश्व हिश्रुतेराचक्षते च तद्विद' इति सूत्रस्यानेन मन्त्रदेक्ताद्र्व्यवशेषनिमिताश्र केचित् स्वप्ना इत्या- रभ्य यदु्क 'सन्ध्यें सृष्टिराह ही'ति तदेवं सति भाक व्याख्यातव्यं यथा लाङ्गल

Page 255

२४६ अद्वैतासेद्धान्तगुरुचन्द्रिकायां

गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते-न तु प्रत्यक्षमेव लाङलं गवादीनुद्वहृति एवं निमित्तमांत्रत्वात् सुप्तो रथादीन् सृजने स हि कर्तेति चोच्यते।

न च प्रत्यक्षमेत्र सुप्तो रथादीन् सृजति-निमित्तत्वं तख रथादिप्रतिभान- निमित्तमोदत्रासादिदर्शनात् तन्निमित्तभूतयो: सुकृतदुष्कृतयोः कर्तृत्वेनेनि वक्तव्य- मिति सन्ध्याधिकरणीयभाष्येण तथैव।। श्रो० ॥ जीवोपाधिमनस्तद्वद्धर्माधर्मफला· सये। रवप्ने जाग्रति वा भ्रान्त्वा क्षीणे कर्मणि लीयत इति विद्यारण्यकृतयोगानन्द- वचनेन च तदीयेन॥ श्रो० ॥ काविदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक्। पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयत इति पञ्चकोशविचेकवचनेन च विधिजन्यताभ्युप- गमात् तदनुगुणमेव बृहदारण्ये षषाध्याये तृतायब्राह्मणस्य यः 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान् पथस्सृजत' इत्यारभ्य सहि कर्तेति दशमपर्याय: तदीयेनानेन।

तद्वासनाश्रयचित्तवृत्युद्भ वनिमित्तकर्म हेतुत्वनेत्यवोचामस्र्तृत्वम्या रभ्य तत्र जाप्रत्यात्मज्यततिरवभासितैः कार्यकरणः रथादिवासनाश्रयान्तःकरण- वृत्त्युद्गवनिमित्तं कर्म निर्वत्यते तनोच्यते सहि कर्तेति तटुक्कमात्मनैवायं ज्योति- षास्ते पल्ययते कर्म कुरुत इत्यत्रेति भाष्येण च खाप्निकं भोग्यञच विध्युद्धवं इत्यङ्गीकरणीयमिति वदन्तं प्रत्याह-खाप्रं भवतु प्रबोधसमय इति खाप्नकालिकं गज़ादिकमपि भोग्यत्वेन पुनर्जाग्रदवस्थायामनुवर्तेतेत्युक्त्वा तत पराभिमतं दृष्टा- न्तमाह-विद्योदये देहवदिति परकीयं समाधानमनुवदति अन्यावस्थतया लयो भवति चदिति जाअदवस्थातोऽन्यावस्थाकरवेन स्वाप्निकगजादि: पुनर्जाग्रदव- स्थायां विनष्टत्वान्नानुवर्तत इति परोक्तं सरमाधानमाक्षिपति सिद्धान्ती रज्जावहि- वर्ततामिति प्रातिभासिकस्थले दुःखादेस्तत्कारणभूतसर्पस च तदविष्ठानज्ञानस्य चकजाग्रद्वस्थाकलवान् ज्ञानकालेऽपि सभोग्यस्सर्वो जीवेदिति परिचोदिते सति परकीयं तत्समाधानमनुवदति ज्ञानेनैव विनाशितो यदीति प्रातिभासिकस्थले दुःखतद्धेतुभूतसर्पतदधिष्ठानज्ञानानों एकजाग्रदवस्थाकत्वेSपि भ्रान्तिप्रमावेशिष्ट्येन जाग्रदवस्थाया: भेदवत्त्वेन प्रमाकालिकजाग्रद्वस्थाय।ं तत्प्नाक्तनः प्रातिभासिक- स्सर्पः खाप्निकगजादिवद्विनष्ट इति परोक्तमेव न्यायं दार्ष्टान्तिकेऽप्यतिदिशन् पर पक्षं निराकरोति ततो भोग्यं न विध्युन्धवमिति यदा त्वद्वितीयतया स्वात्मानं जानाति तदा भवदुक्त्तप्रकारेण अविद्यावस्थातो भिन्नावस्थाकत्त्वादाविद्यकभोग्य- शरीरादेः ज्ञानमात्रेण विनष्टत्वान्य कर्मजन्यत्वं सिध्यतीत्यर्थः ॥

Page 256

पञ्चमं वाच्याद्यैक्यानुकूलं २४७ जगन्मिथ्यात्वनिरूपणम्।

तहिं स्वाप्निकभोगादेः मन्त्रसुकृतादिकर्मजन्यत्वबोधकयोः प्रागुदाहृतस- नध्याधिकरणीयबहृदारण्यीयभाष्ययोः का गतिरिति चेदुच्यते-तत्र सन्ध्याधिकरणे 'निर्मातारं चैके पुत्रादय'क्वेति पूर्वपक्षसूत्रेण सन्ध्याश्रयस्य सर्गस्य परमेश्वरकर्तृक- त्वेन सत्यत्वं यदाशङ्कितं तस्मिन्-स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योततिषा प्रस्वपितीति जीवव्यापारपरेण श्रृत्यन्तरेण समानार्थकाम् - य एष सुप्तेषु जागर्ति कामं काम पुरुषो निर्मिमाण इति सन्ध्याश्रयसर्गस्य अविद्योपाधिक- जीवारोपितत्वपरां श्रतिमाश्रित्य मायामात्रं तु कार्त्स््येनानभिव्यक्स्वरूपत्वा'दिति सूत्रतद्भाष्याभ्यां निराकृते सति। तहिं स्वाप्निकरथादेर्जीवकर्तृकत्वात् रथकारकर्तृकरथादेरिव सत्यत्वमेव स्या- दित्यनुमानस्य प्रागुदाहृतेन स्वयं विहन्येत्यागमेन बाध्यमानत्वमजानतां स्थूलम- तीनां चोदपरिहारायैव तत्सन्ध्याधिकरणीयभाष्येण ।॥ श्रो॥ प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति। कारणत्वात् प्रधान स्याज्जीवो वा कर्मणो मुखादित्य- न्तर्याम्यधिकरणीयपूर्वपक्षेणेव स्वाप्निकरथादिकं प्रति निमित्तभूतमन्त्रदेव तानुग्रह सुक्कतादिकर्ममात्रकर्तृत्वेन जीवस्य अत्किज्चिन्निमित्तान्तरत्वं केवलवितण्डावादेन दर्शितमित्यवगम्यते। किञ्चाभिन्ननिमित्तोपादानत्वपरैः ॥। श्रो॥ कल्पयत्यत्मानात्मानमात्मा देवस्खमायया। स एव बुध्यते भेदानिति वेदान्तनिश्चयः । आत्मनि चैवं विचि- श्राश् हीति गौडपादीयवचनसूत्रतद्भाध्यबाधितत्वात् -न तुतेषां सुकृतदुष्कृत जम्पत्वावगमायेति चान्यथागृहीतेन भवदुदाहृतबृहदारण्यभाष्येणैवावगम्यते। तत्कथमिति चेदुच्यते भवदुदाहृतभाव्यमूलभूते वृहददारण्यीयषष्ठाध्याय गततृतीयब्राह्मणे 'अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽमौ शान्तायं वाचि कि ज्योतिरेवायं पुरुष इति आत्मवास्य ज्योतिर्भेवत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुत इति' षष्टपर्यायगतकर्मशब्दार्थ प्रकाशकेनानेन -- तस्मादयदपाये देहे दर्शनं न भति - यद्भावे च भवति तद्दशनादिक्रियाकर्नृ - न देह इत्यवगम्यते चक्षुरादीन्येव दर्शनादिक्रियाक्तृणीति चेन्न यदहमद्राक्षं तत्स्पृ- शामीति भिन्नकर्तृकत्वे प्रतिसन्धानानुपपत्तेः-मनस्तहींति चेन्न मनसोऽपि विष- यत्वाद्रूपादिवद्द ष्ृव्वानुपपत्तिः- तस्मादन्तस्थं शरीरादिव्यतिरिककं आदित्यादिवदिति सिद्धमित्यादिभाष्येण।

Page 257

२४८ अद्वैतसिद्धान्तमुरुचन्द्रिकायां

भवादयो धातवः क्रियावाचिन इति कामुदीकाशशिकावृत्तिच्छायापन्नेन-त. स्मान्न संपदादिरूपं ब्रह्मात्मकत्वविज्ञानमतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या किं तर्हि प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैव। एवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य वा न कया चिदपि युक्त्या शक्यं: कार्याः नुप्रवेश: कल्पयितुं-न च धातुविदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः-'अन्यदेव तद्विदितादथोSविदितादधी'ति विदिक्रिया कर्मत्वप्रतिषेधात्-'येनेदं सर्वे विजानाति तं केन विजानीयादि'ति चेत्यादिसमन्वयसूत्रभाष्येणेव। आत्मज्योतिस्संवलित प्रत्यक्षादिप्रमाणजन्यं यदेव ज्ञानमभिहितं-तदेव ज्ञानं भवतोदाहृतेन 'अथ रथान्रथयोगान् पथः सजत इत्यारभ्य स हि कर्तेति' सन्ध्याधिकरणविषयभृतस्यास्थ दशमपर्यायस्य भाष्यगतकर्मशब्देनाप्यभिहितं न सुकृतादिकं कुत इति चेत्-खप्रदर्शितदशमपर्यायभाष्यार्थप्रतिपत्तये तत्समानार्थ- कत्वेन-तदुक्त 'आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुत इति' प्राक् प्रदर्शि- सार्थकस्य षष्टपर्यायवाक्यस्य प्रमाणतेनोदाहृतत्वात्। अतो न दशमपर्यायभाध्येण स्वाप्निकरथादीनां सुकृतदुष्कृतरूपकर्मजन्यत्व- सिद्धि: । तर्हि तद्वासनाश्रयचित्तवत्त्युद्धवनिमित्तकर्महेतुत्वेनेत्यवोचाम तस्य कर्तृत्व- मिति तस्य दशमपर्यायभाष्यस कोरऽर् इति चेत् उच्यते। जाग्रत्प्रज्ञाSनेकंसाधना बहिर्विषयेवावभासमाना मनस्स्पन्दनमात्रासती तथा- भूतं संस्कारं मनस्याधत्ते तन्मनस्तथा संस्कृतं चित्रित इव पटो बाह्यसाधनानपेक्ष- मविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वृदवभासतःइत्यादिना-'स्वप्रस्थानोऽन्तःप्रज्ञ' इति माण्डूक्यश्रुतिभाष्येण स्वप्नपदार्थोत्पत्तिप्रकारबोधकेन: मनस एव वासनाश्रय-

तेषां स्वापिकरथादीनां कारणभूतवासनाश्रयं यत् चित्तं ततः सापिकादि- वृत्तेरुत्पत्तौ निमित्तमिति कर्मशब्देन विवक्षितस दर्शनादेः विशेषणं तहर्शनादि- क्रियाकर्तृत्वमेवावोचामेत्युक्तम् ॥ एवमेव प्राग्भवदुदाहृतस्य रथादिवासनाश्रयान्तःकरणवृत्युद्धवनिमितं कर्म निर्वर्त्यत इत्यस्यापि भाष्यस्यार्थ इति ज्ञातव्यम् ।। किश्च यत् पुनरक्तं ॥ श्रो० ॥ जीवोपाधिमनस्तद्वद्धर्माधर्मफलाप्तये। स्वप्रे जाग्रति वा भ्रान्त्या क्षीणे कर्मणि लीयत इत्यादिविद्यारण्यवचनस्य स्वाप्तिकानां कर्मजन्यत्वपरवं तन्न तद्वचनस्य फलानां भ्रमसिद्धकर्मजन्यत्वानुवादेन-अन्तः.

Page 258

पञ्चमं वाच्यादयैक्यानुकूलं २४९ जगन्मिथ्यात्वनिरूपणम्।

करणस्य सुप्तिकाले तदुपादानभूताज्ञाने लयविधायकत्वात् न कर्मजत्वसिद्धि: एव- मेव येन येन वाक्येन कर्मजमुद्दिश्य सुषुप्तौ लयः सौषुप्तादुत्पत्तिर्वा विधेयते तस्य तस्य वाक्यस्य कर्मजत्वांशेऽनुवादकत्वमेवैष्टव्यं अन्यथा तद्वाक्यविहित- लयोत्पत्त्योरनुपपत्तेः ॥ ननु, चक्षुरादिद्वारा विनिर्गतमनोवृत्तेः विषयप्रकाशकत्वाज्ज्ञानत्वं मनः- प्रवृतिरूपत्वात् सुकृतादिरूपक्रियात्वञ्चेत्युभयात्मकत्वस्य भाष्यकारैरभिप्रेतत्वात् श्वाप्निकरथादीनां वासनाऽपूर्वोभयजन्यत्वं किन्न स्यादितति चदुच्यते ॥ न तावदस्मदाचायै्ञानस्य धर्माधर्मरूपक्रियात्मकत्वमभिप्रेतमिति वक्तुं शक्यते ज्ञानकर्मणोर्वैलक्षण्य स्यानेन ।। ननु, ज्ञान नाम मानसी करिया न वैलक्षण्यात् क्रिया हि नाम सा यत् वस्तुस्व- रूपनिरपेक्षैव चोदते पुरुषचित्तव्यापाराधीना च यथा यस्यै देवतायै हविरगृहीतं स्यात्तां ध्यायेद्वपट्करिष्यन्निति सन्ध्यां मनसा ध्यायेदिति चैवमादिषु ध्यानं चिन्तन यद्यपि मानसें तथापि पुरुषेण कर्तुमकर्तुमन्यथा वाकते शक्यं पुरुष- तन्त्रत्वात्। ज्ञानन्तु प्रमाणजन्यं प्रमाणञ्च यथाभूतवस्तुविषयमतो न ज्ञानं कर्तु- मकर्तुमन्यथा वा कर्तु शक्यं केवलवस्तुतन्त्रमेव तत् न चोदनातन्त्रं नापि परुष- तन्त्रं तस्माम्मानसत्वेSपि ज्ञानस्य महद्वैलक्षण्यं यथा च पुरुषो वाव गौतमाभि: योषा वाव गौतमाभिरित्यत्र योषित्पुरुषयोरत्निबुद्धिर्मानसी भवति केवलचोदनाज- न्यत्वास क्रियैच सा पुरुषतन्त्रा च। या तु प्रसिद्धेSम्रावभिबुद्धिर्न सा चोदनात- न्त्रा नापि पुरुषतन्त्रा किं तर्हि प्रत्यक्षविषयवस्तुतन्त्रवेति विज्ञानमेव तन्न कक्रिया एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यमिति समन्वयमूत्रभाध्येण प्रदर्शितत्वात्। अतो न ज्ञानस्य धर्माधर्मरूपक्रियात्मकत्त्वं वा स्वाप्निकरथादेः कर्मजत्वं वाभिप्रेतं। किञ्च प्राग्विधिश्रुतीनां परिसंख्यात्वविचारावसरे स्वाप्नजा्रत्कालिकपदार्था- नामकर्मजन्यत्वे भाष्यकारादीनां बहूनामाचार्यीणां सम्मतिश्व तत्प्राक्तनग्रन्थेन ब्रह्मरामादिमंमतिश्च प्रदर्शिता॥ तथैव सिद्धान्तलेशसङ्गहे द्वितीयपरिच्छेदे दृष्टिसष्टिप्रम्तावसमये-ज्योतिष्टो मादिश्रुतिबोधितानुष्ठानात् फलसिद्धिस्तु स्वप्नश्रतिवोवितानुष्ठानप्रयुक्तफलसंवाद- ल्येति वाक्येन स्वाप्नजाग्र्कालिकफलजातस्य अवर्मजन्यत्वं दर्शितम्।

Page 259

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

ननु, ज्योतिष्टोमादिश्वतीनां च सत्वशुद्धिद्वारा ब्रह्मणि तात्पर्यमतो ना- प्रामाण्यमति तत्रैव दीक्षिनैः कर्मणः सत्वशद्धिरूपफलारम्भकत्वमभ्युपेत्यैव प्रा- माण्ये सम्पादितमिति चेत्। सत्यमेवमुक्तं तनु दृष्टिमृष्टिवादश्रवणानधिकारिणां कर्मानुष्ठातृणामनुव्ृ्त्त्यर्थ- मिति ध्येयं अन्यथा ज्योतिष्टोम।दीनां सत्वशुद्धिजनकत्वमेव-न सुखदुःखादिशरीर- जनकत्वमित्यत्र नियामकाभावात् ज्योतिष्टोमादिश्रुतिबोधितानुष्ठानात् फलसिद्धिस्तु

वादसिद्धान्तप्रक्रिया समर्थिता स्यात्।। सत्वशुद्धिस्तु 'सर्वे खल्विदं ब्रह्म' त्य दिश्रत्युक्त्तप्रकारेण विषयासत्वादिदोष- दर्शननैव भविष्यात कि कर्मणा। तहिं कथं विधिश्रुतीनामप्रामाण्यपरिहार इति चेत् प्रागुदाहृतभाष्यवाचस्प- त्वादयुक्तप्रकारण परिसङ्क्यात्वमादाय परिहरणीयम्। किञ्च नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे-श्रुतिषु खगार्थ ज्योतिष्टोमादिविधे :- ब्रह्मसाक्षात्कारायर्थ श्रवणादिविधे: आकाशादेर्वाय्वादिहेतुलख चोकिरयुक्केति चेन्न स्वाप्नयोः कार्यकारणभावबोधकवाक्यवदुपपत्तेरित्यद्वैतसिद्धौ दृष्टिप्ृष्टिप्रकरणवाक्येनापि जापत्स्वप्रकालिकभोग्यानामकर्मजन्यत्वं सिद्धम्। किन्च जाप्रत्स्वप्रकालिकस्य सुखादेशशरीरादेश् कर्मजन्यत्वेऽपि ब्रह्मविवर्त- त्वं वदल् वादी प्रष्व्यः किं तत्सुखादिकं तदारम्भकप्रारब्धकर्मक्षयादेव नश्यत्युत तद्धिष्ठानज्ञानात् आद्ये तस्यानित्यलातिरेकेण ज्ञाननिवर्त्यत्वरूप मिथ्यात्वासंभवेन

द्विताये तु स्वपक्षहानिःपरपक्षसिद्धिश्रापतेत् अत एव च स्वाप्निकगनादी नां कर्मजत्वं विना केवलाविद्यावासनामान्नजन्यत्वेन प्रबोधमात्रनाश्यत्वे तम्निदर्श- नेन कर्मनिरपेक्षविचित्रशक्तिमदविद्याकार्यत्वेन जगनो ज्ञानैकनिवर्त्यत्वान्नोकदो घापत्तिरिति दृष्टिसृष्टिवादं प्रशंसद्भिरद्वैतमिद्धिकारैः ॥

नैल्याद्यधिष्टानभूतस्य अज्ञातसत्ताकत्वोपजीविनः प्रतिकर्मव्यवस्थापरशास्त्रस्य मन्दा- धिकारिपरत्वं च यतोऽनेन। घटादे: स्वज्ञानात्पूर्वमसत्वेन प्रतिकमव्यवस्थानुपपत्तिः अधिष्ठानखापि शुक्त्यादंशस्य रूप्यवदिदं रुप्यामिति ज्ञानात् प्रागसत्वेन संप्रयोगादिहेतुत्रयजन्यत्व-

Page 260

पञ्चमं वाच्याद्यैक्यानुकूलं २५१ जगन्मिथ्यात्वनिरूपणम् ।

स्य अध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इति स्वरूप- लक्षणस्य चायोग इति चेन्न-प्रतिकर्मव्यवस्थायाः संप्रयोगादिहेतृत्यजन्यत्व- रूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् सत्यस्य खात्मवस्तुनो मिथ्यावस्तुसम्भेदावभास इति स्वरूपलक्षणन्तु दृष्िसष्टिपक्षेऽप्यविरुद्धमिति अद्वैत- सिद्धौ दृष्टिसष्टिप्रकरणवाक्येन संप्रदर्शितमतोऽपि न खाप्नजाप्रत्कालिकस्य द्वैत- जातस्य कर्मजत्वसिद्धिः । किञ्च। श्रो० ॥ रविसोमान्निपूर्वेषु विनष्टेष्वयमास्तिकाः । चित्तसाक्षितया भाति स्वप्रकाशेन केवळः । चित्तव्यापारनाशे तु तदभावं सुरर्षभाः। स्वप्रकाशेन जानाति सुषुप्तौ वेद तामपीत्यादिना ब्रह्मगीताया दशमाध्यायवचनेन प्रागुदाहृतस्य अस्तमित आदित्ये याज्ञवल्क्येत्यारभ्य आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म- कुरुत इति बृहदारण्यश्चुतिगतस्य कर्मशब्दस्य ज्ञानपरत्वेन भाति जानाति वेदेति पदैः दर्शितत्वात् तज्ज्ञानकर्तृतवमेव तदुत्तरस्मिन् अथ रथान्रथयोगान्पथस्सजते स हि कर्तेत्यस्मिन्नपि वाक्ये विवक्षितमिति वक्तुं न्याय्यं पूर्वोत्तरयोरविरोधात्। अतस्तज्ज्ञानोत्पन्नवासनामयत्वा तिरकेण न स्वाप्निकानां रथादीनां कर्मजत्वं सिद्ध्यतीत्यास्थेयम् ॥१८२।। अ० ॥ इदानीं सुरनरशरीरादेः कर्मजन्यत्वाङ्गीकारे तत्पारमेश्वरस्यैव आपतेदित्याह गात्नादेश्ति- मू॥ गातादेश्च विधेर्जनिर्यदि भवेत्सात्वैश्वरस्यापतेत् सार्वात्म्याद्वहुधा स एव भवतीत्येवं प्रमाणश्रुतेः । मोहाच्चेन्न तथा चिदात्मवशगा मायेति शास्त्रस्य को भावश्चेच्ितिसन्निधौ स्फुरति यत् तस्मादधीना स्मृता ॥ व्या० । गात्रादेरित्यादिना परपक्षे परमेश्वरशरीरस्यैव कर्मजत्वमापते- दित्युक्का तत्रोपपत्तिमाह सार्वात्म्यादिति। तत्र सोऽकामयत बहुस्यां प्रजाये- येति म एव बहुधा भवतत्यादिश्रुति' प्रमाणयति बहुधेत्यादिना; तत्र परसमा- धानमनूद्य निराकरोति मोहाच्चेन्नं तथेति त्वत्पक्षे जीवादन्यस्याधिदैविकस्य सर्वज्ञस्य मोहासंभवात् यथा च सौषुप्तस्य प्राज्ञस्य सार्वात्म्यसिद्धयर्थ मायया मुह्य- मानत्वमङ्गीकियते तथा त्वयाङ्गीकर्तुमशक्त्यत्वात् जगतः कर्मजत्वसत्यत्वाभिनि-

Page 261

२१२ अद्वैतासिद्धान्तगुरुचन्द्रिकायां

वेशं परित्यजेत्यर्थः ॥ वयामोहितत्वमन्तरेणेशस्य कारणत्वं वक्तुकामस्सन् वशी कृतमाय ईश इति शास्त्रस्य कोऽभिप्राय इति पृच्छति चिदात्मवशगेति तदुत्तर- माह चितिसन्निधी स्फुरति यदिति यस्मान्माया स्वतो जडत्वात् सुप्तात्मस- न्निधौ तत्तादात्म्याध्यासबलादेव अभितादात्म्यापन्नायःपिण्डवत् स्फुरति न स्वतोऽतश्चिदधीनेति दर्शितम्। तथाचोक्तं विद्यारण्याचार्यः ॥श्रो० ॥.अस्वत- न्त्रा हि माया स्यादप्रतीतेविना चिति। स्वतन्त्रापि तथैव स्यादसङ्गस्यान्यथा- कृतरिति ॥ १८३॥ अ०। न फलवैचित्र्यादर्थमपि कर्मापेक्षेत्याह वैचित्र्यमिति- मू। वैचित्रयं जगतो विधेर्भवति चेत् कि कर्मणा वासना वैचित्याद्विषयेषु सिद्धयति-यथा स्वामे च नानास्मृतौ। भोगार्थ विधिरस्तु चेन्न च-ततो भोगो हि साक्ष्यात्मना प्रत्यक्षीकरणं सुखस्य-तदिदं गानादिबोधात्किल।। व्या। वैचित्यं जगतो विधेर्भवति चेदिति पूर्वपक्षमनूद्य निराकरोति कि कर्मणेति तर्हि कुतस्तद्वैचित्रयं भवतीत्यत आह-वासनावैचित्र्याद्विषयेधु सिध्यतीति तत्र दृष्टान्तदूयमाह-थथा रवन्े च नानास्मृताविति सर्वे विकारजातं मायामान्नमिति शृत्युक्तप्रकारेण सर्वेषां मायिकत्वाविशेषेSपि स्वाप्निकग. जाश्वादौ जाग्रत्कालिकनानाविधस्मरणे च वैचित्रयं तावद्यथा तत्तदनुभवजन्यसंस्कार. वैचित्र्यादेव भवति-तथा जाग्रत्कालिकफलवैचित्यमपि तत्कारणवासनावैचित्र्यादेव भवेदित्युक्त्वा-फलवैचित्रयस्य वासनावैचित्रयाधीनत्वेऽपि तत्फलस्योपभोगार्थ कर्मास्त्वित्याशङ्कय तन्निराकरोति भोगार्थ विधिरस्तु चेन्न चेति भोगार्थ च नापेक्षणीयं कर्मेति शेष :- तत्र हेतुमाह-ततो भोगो हि साक्ष्यात्मना प्रत्य- क्षीकरणं सुखस्वेति-सुखपदं दुःखस्याप्युपलक्षणं हि यस्मात् साक्षिचैतन्येन सुखदुःखसाक्षात्कार एव भोग: ततस्तदर्थ च न कर्मेति पुनरन्वय :- भवतु नाम सुखाद्यापरोक्ष्यमेव भोग: सुखादिजन्मने कर्मास्त्वित्यत आह-तदिदं गानादि- बोधात् किलेति तदिदं सुखादिकं शब्दादिविषयकबोधात्किल भवति-न कर्मे- न्द्रियसाध्यक्कियाजन्यमिति किलशब्देन विवक्षितं जात्यन्वस्य वस्त्राभरणकृतालक्कार कर्मणा सुखस्याजायमानत्वादित्यर्थः ॥ १८४ ॥ अ०॥ इदानीमेवं जगदाथात्म्यमुपदिशता भवता धर्माचरणस्योच्छेदः स्या- दित्याक्षिप्य परिहरति एवं चेदिति-

Page 262

पञ्चमं वाच्याद्यैक्यानुकूल जगन्मिथ्यात्वनिरूपणम्।

मू॥ एवं चेद्वता ध्रुवं क्षितिसुरा धर्मादधमीकृता

w मद्वाक्येऽप्यवशाच्छूते न विरमेद्रागी सरागी यथा दुष्कर्मी शतशो निवारितकृतिस्स्वाचारतस्त्वागमैः ॥

व्या।। प्रथमपादेन प्रदर्शितं चोदं परिहरति-नाहमिव्यादिना न कर्म- ठान्प्रतीदं. शास्त्रमवोचमतो न धर्माचरणोच्छेदप्रसङ्क इत्यर्थः॥ तर्हि क प्रत्यवद इत्यत आह-श्रातृन्मुमुक्षन्प्रतीति। तत्वयाथात्म्यविचारोत्सुकान्मुमुक्षून्प्रत्येवावदं॥ते विधीनां परिसंख्यात्वदर्शिनः स्वात्मस्वरूपविचाराभिमुखाः भवेयुरित्यभिप्रायः तथाप्येतच्छात्त्रविचारप्रदेशं गतस्य कामिनो धर्माचरणवैमुख्यं भवेदेवेत्यत आह- मद्ाक्येSप्यवशाक्छते न विरमेद्रागीति -स्वर्णादिफलार्थी तावतू मद्दा- क्यमिदमुपश्ण्वन्नपि न विरमेत् तत्साधनत्वेन गृहीताद्र्मांचरणादिति शेषः तत्र दृष्टान्तमाह - स रागी यथेत्यादिना यः सुरापानपरदारादिरतो रागी सतु पुन 'न सुरां पिबेत्' 'न परदारान्गच्छे' दित्यागमैः शतशो निवारितप्रयत्नोऽपि निषिद्धाचरणाद्यथा न विरमति तथा रम्भादिपरिरम्भणातिलम्पटश्च ज्योतिष्टोमा- दिकर्मभ्यः फलसाधनत्वविभ्रमान्न विरमेदुभयोर्भोगातिलम्पटत्वाविशेषादित्यर्थः।।

अ०।। इदानीं भवतः कुतस्सर्ववेदवाक्येषु साम्येन प्रामाण्यग्रहो नास्ती- व्याक्षिप्य तत्रोपपतति दर्शयति आपत्व इति-

मू।। आप्तत्वे वचसां श्रुतेस्तव कुतस्सर्वत् साम्यग्रहो नस्स्याच्चद्वचसां हितादिकथनात्प्रामाण्यभेदात्तथा। ज्योतिष्टोमवचोहितं हिततरं मायामयं चिन्मयं सर्व चेति वचो यतो हिततमं तस्मान्न साम्यग्रहः ॥१८६॥ 22

Page 263

२१४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या। विधिवचसां प्रामाण्यभेदे हेतुमाह-हितादिकथनादिति

ज्योतिष्टोमादिवाक्यावगतो देहात्मभावप्रविलयादि: मुमुक्षूणां जातोऽहं मृतोऽह- मित्यादि विभ्रमनिवृत्तिसाधनत्वाद्धितः-आदिशब्देन तज्ज्योतिष्टोमादिवाक्यतात्प- र्यानुसारेण परित्यक्तात्मभावस्य शरीरादेः 'सर्वे विकारजातं मायामात्रं' 'आत्मै- वैंदं सर्व' मित्यादि श्रतिविहितमायामयत्वचिन्मयत्वयोः हिततरहिततमत्वयोर्ग्रहणं तेषां कथनात् तद्वेद्वाक्येषु आप्तत्वाप्ततरत्वाप्ततमत्वावगमेन कमात् प्रामाण्यभे- दस्य सिद्धत्वात् तथा सर्वत्र साम्यग्रहो न सम्भवतीत्युक्त्वा तदेव स्वयं विव्रणोति उयोतिष्टोमवच इत्यादिना ॥ १८६॥ अ०॥ एवं ज्योतिष्टोमादिवाक्यानां परिसङ्धयात्वपक्षे मुमक्षूणामानुकूल्यं दर्शयित्वाऽवुना विध्यन्तरत्वपक्षे दोषं दर्शयति स्वतन्त्रेति- मू ॥। स्वतन्त्रकर्मजन्यत्वशास्त्रा द्मो क्कतुर्िरी शता। फलस्यानित्यता सातिशयत्वज्ञानिनोऽमुखम्॥ अन्नाद ईश्वरश्रेति शास्त्राज्ज्ञातुर्भयादिकम्। भोक्तृत्वभोगभोग्यानां मायिकत्वपरात्पुनः । उक्तदोषैर्विना स्वस्य ज्ञातुरेवेशता भवेत्। ज्ञानाभाववतस्स्वस्मात्सष्टिज्ञस्याद्वितीयता ॥ १८९। न्या।। स्वतन्त्रकर्मजन्यत्वशास्त्रादित्यादिना ईश्वरपदरहिताज्ज्यो- तिष्टोमादिवचनादिदं फलं स्वतन्त्रकर्मजन्यमिति ज्ञानवतः तत्फलभोक्तुर्निरीश्वर- खवमसुखं चेति दोषद्वयं दर्शयित्वा तत्परिहाराय परमेश्वर एव कर्मफलं ददातीति वदन्तं प्रत्याह-अन्नाद इति 'अन्नादो वसुदान' इत्यादिशास्त्रात् स्वातिरिक्ते- श्वरस्य कर्मफलदातृत्वज्ञानवतोऽपि स्वात्मेश्वरयोर्भेदबुद्धिसंभवेन-उदरमन्तरं कुरुते Sथ तस भयं भवतीत्यादिश्रुत्युक्तप्रकारेण भयं स्यादिति तत्पक्षेऽपि दोषं दर्श- यित्वा प्राग्यदुक्तं 'सर्वे विकारजातं मायामात्'मिति श्रुतर्हिततरत्वं तदुपपादयति भोक्तत्वेत्यीदना प्राक् त्योदशादिश्राकैरुदाहते एष सर्वेश्वर इति माण्डूक्यादि शास्त्रजातस जीवे सर्वेश्वरत्वादिधर्मबोधकत्वेन सर्वभयनिवर्तकत्वाद्विततरत्वं सिद्ध- मित्यावेद्य अधुना सवेषामाविद्यकत्वे-चतुर्थनिरूपणोक्तसत्यवस्तुभिरात्मनः सदि ती यत्वाभावेऽपि प्राद्धितीय निरूपणे चतुर्थप्रदर्शकान्ते व्याख्यातया॥ श्रो ॥ मायया

Page 264

पञ्चमं वाच्याद्यैक्यानुकूलं २११. जगन्मिथ्यात्वनिरूपणम् ।

विद्यते सर्वमिति केचन मोहिताः ॥ शिवरूपातिरेकेण नास्ति माया च तत्वतः । मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु । महत्वं परमं साक्षाद्वीयेत सुरपुङ्गवाः। महत्वस्य व संकोचो नास्ति सम्यकनिरूपणे। अस्ति चेदप्रमाणं स्याच्छतिस्सत्यार्थ- दादिनीति ब्रह्मगीतया चादिष्टप्रकारेण आविद्यकैर्जडवस्तुभिः सद्वितीयत्वसंभवातू तहोष्परिहारार्थ प्राद्वितीयनिरूपणे सप्तमादिश्रोकैरुदाहतात् तत्रत्यनव प्रदर्शकेषु त त्तत्प्रथमपक्षानुकूलशास्त्रात् ख्वात्मनोSसंकुचिताद्वितीय त्वावगमेन तदेव हिततम- मिलाह ज्ञानाभावत इत्यादिना ॥ १८९॥ अ०॥ इदानीं फलस्य केवलकर्मजन्यत्वादिविधायकशास्त्राणां स्वार्थे प्रा माण्यग्रहणात् गुणदोषवत्वं स्यादिति यदुक्त तत्सदृष्टान्तं निगमयति ताळमिति- मू। ताळं वा सुकृतौदमं मुनिहविर्भुक्ता सखे तृप्यता- मित्यादिष्टफलादिसेवनवतः पुंसो यथा संभवेत्। पित्तं ताळफलाशनेऽप्यशचिता सत्रान्नभोगेऽशुचि र्मुन्यन्नस्य निषेवणे त्वधकुलान्मुक्तिश्श्रुतिभ्यस्तथा ॥१९०॥ व्या०॥ यथा कस्मैचित् पाभ्थाय क्षुधाताय व्राह्मणाय केनचिद्द्याळुना समीपदेशस्थं ताळफलमथवा किञ्ञिद्यवहितदेशलभ्यं यागान्नं आहोसत् ततोऽपि किञ्चिदूरदेशस्थमुनिपर्णशालालभ्यं हविर्भुक्ता संतृप्यतामिति वाक्योक्तानां पदा- थानां मध्ये त्वैकैकस्य क्षुन्निवर्तकत्वेऽपि ताळफलाशने पित्तमशुचितं चेति दोष- द्वयं भवति सत्ान्नभक्षणे तुतथा पित्तदोषाभावेऽप्यशुचित्वं भवति ऋष्याश्रमलभ्य- हविर्प्रहणे तूक्त्तदोषद्वयं च न स्यात् सर्वपापनिवृत्तिश्व भवेत्-तथा स्वारध तात्पर्य- वत्वेन गृहीताभ्यः श्रुतिभ्यः स्वतन्त्रकर्मजन्यत्वेत्यादिश्ोकोक्त्तगुणदोषवत्वं भवे- दिव्यर्थः ॥ १९०॥ अ०। यस्तावत् दशमश्रोकादारभ्यैकस्मिन् विषये श्रुतीनां परस्परविरोधे सति परिहारोऽभिहितस्तमिदानीं संगृद्याह-एवमिति- मू। एवं ज्ञानेन गात्रादि नाश्यं वाऽनाश्यमव किम्।

शास्त्रेग ज्ञाननाश्यत्वं प्रतिपाद्यमपूर्वेतः । अनुदते ध्यनाश्यत्वं विरोधान्नोभयात्मता ॥ १९२॥

Page 265

२५६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या।। एवमिति 'यत् त्वस्य सर्वमात्मैवाभूत् तत् केनपश्ये' दित्यादि- श्रत्युक्तप्रकारेण किं शरीरादिकं जगदद्वितीयात्मविज्ञानान्नश्यति -अथवा 'याव- नन विमोक्ष्येऽथ सम्पत्स्य' इत्यादिशास्त्रोक्तप्रकारेण कर्मजन्यत्वेन सत्यत्वात् ज्ञानेन न नश्यतीति संशये सति पूर्वपक्षमनुवदति द्विविधेत्यादिना सिद्धान्तमाह- शास्त्रेणेत्यादिना जगतो ज्ञाननाश्यत्वं तावच्छास्त्रैकसमधिगम्यं भवेदित्युक्ता तत्र हेतुमाह-अपूर्वत इति प्रमाणान्तरागोचरत्वादित्यर्थः । अविद्वत्प्रसिद्धमेव ज्ञाननाश्यत्वाभावं शास्त्रमनवदतीत्याह अनूद्यत इत्यादिना विमोक्ष्यते सम्प- त्स्यत इति छान्दोग्योपनिषद्भाष्योक्तपुरुषव्यत्ययवत्या-'यावन्न विमोक्ष्येऽथ सम्प- तस्ये इति श्रुत्या घिया तत्वज्ञानेनाSनाश्यत्वन्तावदनूद्यत एवेत्युक्ता पूर्वपक्ष निरा- करोति -विरोधान्नो भयात्मतेति - क्रियायामिव वस्तुनि विकल्पासंभवान्नो भयात्मकत्वमित्यर्थः ॥ १९२॥

अ०॥ इदानीं श्रुतीनां परस्परविरोधे सति कासां चिदेव प्रामाण्यं कासां चिदनुवादकत्वमिति यन्न्यायेन दर्शित तत उभयलिंगाधिकरणतद्भाष्यार्थप्रकाशक मधिकरणरत्नमालावाक्यं दृष्टान्तयति ब्रह्म तदिति- मू । ब्रह्म तद्रूपि वारूपि भवेन्नीरूपमेव वा । द्विविधश्रुतिसद्भावाङ्रह्म स्यादुभयात्मकम् ॥ नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः । रूपि त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १९४ ॥ व्या॥। तदेतच्चतुष्पाद्वह्वेत्यादिश्रुतयो रूपचङ्रह्म प्रतिपादयन्ति-'अस्थूल- मनण्वि' त्यादिश्रुतयो नीरूपं प्रतिपादयन्ति • तस्माद्वस्तुत उभयात्मकं ब्रह्मेति प्राप्ते ब्रूम: - नीरूपमेव शास्त्रप्रतिपादं मानान्तरासिद्धत्वात्। जगत्कर्तृत्वादिरूप- i. युक्तं तु ब्रह्म-'क्षित्यादिकं कर्तृजन्यं कार्यत्वाद्टव' दित्यनुमानेनावगम्यमानमुपा- सनार्थमनूद्यते • न तु तात्पर्येण प्रतिपाद्यते - नचैकस्मिन् वस्तुनि शास्त्रानुमाना- भ्यां सरूपत्वनीरूपत्वयोस्सिद्वि: विरुद्धत्वात् - तस्मादतात्पर्यविषयस्य सरुपस्य भ्रमविषयत्वं वस्तुतो नीरूपमेव ब्रह्म प्रमाणसिद्धमित्यर्थः ॥ १९४ ।। अ० ॥यः पुनरेतां विभागेन श्रुतिप्रामाण्यव्यवस्थामुल्लक्क्य श्रद्धाऽ्भास- वशात् जगतः कर्मजत्वं न मुञ्चति तर सदृशन्तं हानिं दर्शयति यावज्जी वेति-

Page 266

पञ्चमं वाच्यादैक्यानुकूलं २७ जगन्मिथ्यात्वनिरूपणम् ।

मू। यावज्जीव विधिश्चतौ परवशात् कर्मानुतिश्ठन्यति- पष्टी यद्दपूर्वजं जगदिदं नाज्ञानमात्रोन्वम् । एवं यो रमणीयकर्मनिगमे श्रद्धापरस्सोऽदयो- डस्म्येवं ज्ञोऽप्यनुभूतितो विरहितो मोहस्य सीमा कुतः ॥१९५॥ व्या॥ यथा कश्चित् सन्यासी श्रद्धाभासव शात् अम्निहोत्रादिकरणे साश्रमात् प्रन्युतो भवेदेवमेव यस्तत्त्वजिज्ञासुः 'रमणीयचरणा रमणीयां योनिमापदन्त' इत्यादिश्रुतौ श्रद्दधानस्सन्निखिलं जगन्मायिना महेश्वरेणापेक्षितकर्मजन्यमेव भवि- तुमहृति-न स्वात्माज्ञानमात्रजन्यमिति जानाति स तु यत्तत्वंपदलक्ष्यार्थभूतं निरु- पाधिकचैतन्यं तद्रह्मैवाहमस्मि उभयोश्चिद्रूपत्वाविशेषािति स्वात्मान मद्वितीयतया जानन्नपि स्वप्रवत् सर्वस् द्वैतजातस्य स्वस्मिन्नेव स्वेन स्वाज्ञानमात्रेणाध्यस्तत्वा- नवगमे सति चतुर्थनिरूपणोक्तप्रकारेण प्रयत्नज्ञानजन्यतवेन सत्यत्वनिश्चये च सति स्वात्मनोSद्वितीय त्वानुभवविकलो भवेत् । ननु, तत्त्वंपदलक्ष्यैक्यज्ञानानन्तरमपि कर्मजन्यत्वबुद्धिर्जगति कुतो भवे- दित्याशङ्कय 'म्येव सकलं जातं मयि सर्वे प्रतिष्ठितम्। मयि सर्वे लयं याति तद्रह्माद्वयमस्म्यह' मित्यादिश्वत्युक्तप्रकारेण स्वात्मनो जगत्कारणत्वतत्पदवाच्य- त्वापरोक्षब्रह्मत्वज्ञानाभावेन तत्तद्विषयकावरणस्य विद्यमानत्वात् ततोऽ्यधिक- ्रमो भवेदिल्ाह-मोहस्य सीमा कुत इति॥ १९५॥ अ०॥ एवं निखिलस्य जगतः कर्मजचाभावेसति के वलाविद्यकलवेदन फलमाह-एवमिति॥ मू॥ एवं श्रत्या च सत्यस्य स्वगतादेर्निषेधतः । सजातीयविहीनत्वाच्चाद्वैतं प्रत्यगीरितम् ॥ १९६॥ न्या।। एवमिति पूर्वोक्तप्रकारेण श्रत्या कौषीतक्याद्यागमेन चकारात् प्रागुक्तव्रह्मादिवचनदृष्टान्तानुमानैश्च जगतः केवलाबिद्यकत्वाज्ीकारे चतुर्थनिरूपणो- कप्रकारेण प्रयत्नज्ञानजन्यत्वेन ज्ञानेनानिवर्तनािस्य सत्यस्य स्वगतादेः। स्वगतं प्रत्यगात्मगतं शरीराविकमादिर्यस्य शरीराद्यारम्भकत्वेन लिहादीनां अपूर्व

गतादितस्य विषेधात् प्रागुत्तक्षुत्यनुमानादिभिर्बाधितत्वादात्मा तावद्वितीयो भवेत्॥

Page 267

२६८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

ननु केवलाविद्यकतवेन मिथ्याभूतैः शरीरादिभिः स्वात्मनः पारमार्थिकपारि- चछेदाभावेऽपि परमार्थभूतैरात्मान्तरैः पारमार्थिकपरिच्छेदःकि न स्यादिति प्राप्ते- 'एको देवस्सर्वभूतेषु गूढ' इत्यादिश्रुतिभिरात्मान्तराभावावगमाम्मैवमित्याह- सजातीयविहीनत्वाच्चाद्वैतः प्रत्यगीरितमिति॥ अ०॥ एवं निखिलस्य जगतः केवलाविद्यकतवमुपदिश्य शिष्याणां स्वोप- दिष्टशास्त्रश्रवणादिजन्यनिश्चयजिज्ञासवे श्रीमच्चन्द्रिकाचार्याय कश्चिच्छिष्यस्स्वाभि-

मू ॥ श्षतेनानेन वो जातं निश्चयं ज्ञापयन्तु नः । इति चेत्करुणासिन्धो वक्ष्ये भवदनुग्रहात् ॥ १९७॥ गौरीशस्य हरेर्यथा वपुरदो धर्म विनाडविद्यया- डध्यस्तं चेति पुराणवेदवचनैः प्रोक्तं तथा मे वपुः ॥ स्थूलं सूक्ष्ममिदं जगच्च सकलं मेSविद्ययैवाभव- त्सुप्तावप्ययदर्शनादितरथा वेदो न मानं गुरो ।। १९८।। व्या॥ पूर्वक्रोकस्तु स्पष्टार्थः ॥ गौरीशस्केति श्रो० ॥ विचार्यमाणे. तव चच्छरीरमाधारतां वै जंगतामुपैति। तदप्यवश्यं मदविद्ययैव पूर्णश्चिदानन्द- मयो यतम्त्वम्। किञ्चिद्दळं वा चुळकोदकं वा यत्त्वं महेश प्रतिगृह्य धत्से। त्रैलोक्य- लक्ष्मीमपि तजनेभ्यस्सर्वन्त्वविद्याकृतमेव मन्ये॥ इत्यादिप्रागुक्ताशवगातावचनैः 'इन्द्रो मायाभि: पुरुरूप ईयत' इत्यदिवेदवचनैश्च यथा न शिवकेशवयोश्शरीरं कर्मायत्तं कित्वज्ञानमात्रेणारोपितमित्युक्त तथव मम स्थूलशर्रारादिरूपं निखिलं ज़मद्भवितुमर्हतीत्युक्ता तत स्वानुभवमाह-सुप्तावप्ययदर्शनाद्िति अन्यथा सौषुपिक प्राज्ञाज्जगदुत्पत्त्यादिपरश्रुतेरप्राप्नाण्यं स्यादित्याह-इतरथेत्यादिना ॥ अ० ॥ ननु जगत अविद्योपाधिकप्राज्ञपरिकल्पितत्वे आधिदैविकस्य पर- मेश्वरस्व कर्मफलदातृत्वपराणामन्नादो वसुदान इस्यादिशास्त्रागां का गतिरिति परीक्षयन्तमाचार्ये प्रत्यपरे शिष्या आहु: यो द्वैतीति- यो दवैली तस्य दातृक्षुतिविधिवचसां स्वार्थवत्वं यदिष्टं तच्छुद्धाद्वैतिनां नो न भवति जगतो ज्ञानमात्रेण नाशात्। एवं स्वामिन्बुधानां प्रवचनवलतो दुर्लमं तत्वबोधं सम्यग्लळब्वा वर्गं त्वन्निरवधिकृपया नष्टमोहाः कृतार्थाः॥१९९॥

Page 268

ऊचमं वाच्याद्यैक्यानुकूल जगन्मिथ्यात्वनिरूपणम्।

व्या॥ दातृश्रतिविधिवचसा फलदातृपरा अन्नादो वसुदान इति श्रतिश्च यजेतेत्यादिवचांसि च दातृश्रुतिविधिवचांसि तेषां दातृश्रुतिविधिवचसां त्वन्निरवधिकृपयेतत तव निरवधिकृपा त्वन्निरवधिकृपा तयेत्यर्थः ॥१९९॥ अ०॥ ननु द्वैतिनामद्वैत्येकदेशिभूतप्रतिकर्मव्यवस्थावादिनां च अभिमत- तत्तत्कर्मजन्यपरलोकानभ्युपगमे। श्रु०॥ अय लोको नास्ति पर इति मानी पुनः पुनवशमापद्यते म इति श्रुत्युक्तनास्तिकत्वमेव भवतामापतेदिति परीक्षयन्तं स्वाचार्य प्रति- द्वैतिनां प्रतिकर्मव्यवस्थावादिनां च मध्ये ये त्वैहिकमात्रस्यास्तित्ववादिनः तेषामेव तद्दोषापत्तिः नास्माकमद्वैतिनां नेह नानास्ति किञ्चनेत्यादि श्रुत्या स्वांत्मनि सर्वेषामसत्वोपदेशात्। तथा हि यतः तत्कर्मफलस्य ऐहिकामुष्मिकमनुष्यदेवादिशरीरस्य संप्र- दाता परमेश्वर एवते निश्चयेनेश्वरोपासकं स्वात्मेश्वरफलानां भेददर्शिनं ॥ श्रु० ॥ अथ योऽन्यां देवतामुपास्ते अन्योSसावन्योऽहमस्मीति न स वेद यथा पशु :- उदरमन्तर कुरुते अथ तस्य भयं भवतीत्यादिशास्त्रैः प्रदूष्य च।

यतः कर्मापेक्षपरमेश्वरे जगत्प्रकृतित्वप्रयुक्त्तव्रह्मत्ववेदननिषेधपूर्वकं। श्रृ० ॥ यन्मनसा न मनुते येनाहुर्मनो मतम। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमु- पासत इति श्रुत्या स्वस्यैव वेदितुर्जगदुपादानत्वेनाद्वितीयब्रह्मत्वं विधीयते अतः परलोकादे: कमीपेक्षपरमेश्वरप्रकृतिकत्वं विना अस्मदुक्तप्रकारेण स्वाविद्यकत्वाभावे ज्ञाननिवर्त्यत्वरूपमिथ्यात्वासंभवात् कथ तच्छतिविहितं जगदुपादानत्वेन अद्वि• तीयब्रह्मत्वं स्वात्मनो घटेत अतोऽस्माकमद्वैतिनां तह्ूषणं दूरतोऽपास्तमिति निवे- दयन्ति कमवति-

मू॥ कर्मैव फलदं यद्वा कर्माराघित ईश्वरः। अथूर्वावान्तरद्वारा कर्मणः फलदातृता॥

कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना ॥

Page 269

२६० अद्वैतासेद्धान्तगुरुचन्द्रिकायां

इत्युक्तप्रतिकर्माख्यव्यवस्थायां च यो वसेत्। तथैव द्वैतवादे च यो रागी निवसेत्पुनः ॥ तं तं ह्यनेन वाक्येन न स वेद यथा पशुः । स्वभिन्नां देवतांयस्तूपास्ते चेति प्रदूष्य च।। हन्मतं येन तद्विद्धि नेदं तद्यदुपासते। इति श्रुत्योपदिष्टत्वात्स्वाज्ञानेन विजुम्भितम् ।। जगन्मिश्येति निश्चिन्मम्त्यजामस्सत्यताभ्रमम् ॥२०४।।।। व्या ॥ केषाञ्चिदधिकरणतिद्वान्तानां परमतानुसारित्वप्रदर्शनाय धर्मे जैमिनिरत एव पूर्वन्तु बादरायणो हेतुव्यपदेशादित्यधिकरणार्थसंङ्गाहकाधिकरणर- त्नमालां दर्शयति कर्मवेति तदधिकरणसिद्धान्तं दशयति इत्युक्तेति तदूषक- मथ योऽन्यामित्यादिशास्त्रं संगृह्णाति तं तमित्यादिना तच्छृत्यदूषितेन मुख्येनाधि कारिणा कर्तव्यविधायकं यन्मनसा न मनुते येना हुर्मनो मतमित्यादिशास्त्रं सङ्कह्वाति हन्मतमित्यादिना फलितमाह इतीत्यादिना ॥२०४॥॥

वाच्यादैक्यानुकूलं जगन्मिथ्यात्वनिरूपणम् । संपूर्णम् ।

ब्रह्मेवाहमस्मि । ॥। ओं तत्सत् H

Page 270

। हरि: ओम्॥

अद्वैतसिद्धान्तगुरुचन्द्रिकायां षछ्ठं दृष्टिसष्टिनिरूपणमारभ्यते।

व्या॥ विषयं बिना भ्रमरूपदृष्टिमात्रस्य सृष्टिरिति निरूपणमित्यर्थः ॥ अ०।। इदानीं प्रकप्रथमनिरूपणारम्भे ध्यात्मकं जगदिति भातीति षष्ठा- भिप्राम्मावेद् तद्विशेषाञ्छावि नो गुरविति शिष्यैः परिपृष्टषष्ठाभिप्रायविशेषान्वक्तु- काम: तद्विशेषबोधार्थ स्वाचार्य नमस्करोति आद्यमिति- मू ॥ आद्य श्रीसद्गुरुं रामब्रह्मार्यं ब्रह्मनिष्ठकं। प्रणम्य तत्प्रसादेन दृष्टिभेदो निरूप्यते ॥ १ ॥ क्या ॥ एतदाचार्यमहिमा तावत्प्राक्प्रथमनिरूपणेSष्टमश्रोकतव्वख्यानाभ्यां प्रदर्शित: 11.91 अ०॥ इदानीं प्राक यत्ठ्ठं लात्पर्ये शिष्यैरावेदितं तत् पञ्चमनिरूपणे निरूपितकौषीक्क्यादिश्रुति सम्मतमित्याहं पूर्वमिति- मू।। पूर्व भवन्भिर्यत्प्रोक्तं निखिलं ध्यात्मकं जगत्। इति तत्तु सुषुप्त्यादौ जगन्नाशश्रुतेर्मतम् ॥२॥ व्या॥ स्षटोऽर्थः ॥ २॥

दाचार्येग तत्सम्यगभिप्रेतमिति संशयाच्छिष्याश्रोदयन्ति सुप्त इति- मू। सुप्ते लयस्य जगतः प्रबुद्धात्सर्जनस्य च । श्रौतत्वेऽपि कथं सिध्येत् सर्वस्य ध्यात्मता यदि । ३॥। व्या। सुप्त इति सौषुप्ते जीवे जगतः प्रविलयस्य च जाग्रदवस्थापन्ना- ज्जीवाज्जगत्सर्जनस्य च 'यदा सुप्तस्खप्न न कञ्चन पश्यत्यथास्मिन् प्राण एवै- कधा भवति तदैनं वाक सर्वैनामभिस्सहाप्येति चक्षुस्सर्वै रूपैस्सहाप्येति श्रोत्ं सवै.

Page 271

२६२ अद्वैतसद्धान्तगुरुचन्द्रिकायां

इशब्दैस्स हाप्येति मनस्पर्वैर्ध्यानैस्सहाप्येति स यदा प्रतिबुध्यते-'यथाम्नेर्ज्वलतस्स- र्वा दिशो विष्फुलिंगा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनस्सर्वे प्राणा यथायतनं विप्र- तिष्ठन्ते प्राणेभ्यो द्रेवा देवेभ्यो लोका'इति कौषीतक्यादिश्वृत्युक्त्तत्वेऽपि वृत्तिरूप- ता कथं सिद्धयेदिति चोद्यमनुवदति यदीति ॥३॥ अ० ॥ इदानीं जगतो दृष्टिमात्रत्वे- सुषुप्तिकाले सकले विलीने तमोडभ- भूतः सुखरूपमेति। पुमश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपिति प्रबुद्ध इत्यादिश्रुति तदनुगुणद्दष्टान्तञ्च प्रमाणयति सुतीति- मू॥ सुप्तिकाले विलीनस्य सर्वस्व प्रत्ययात्मता । मुप्तौ सुखात्मको जीवः पुनर्जन्मान्तरोद्दवात्॥ दर्शनादिक्रियायोगात्प्रबुद्धश्चेति वेदतः । सिद्धाऽन्यथोत्थितस्वास्य विषयोपेततां वढेत। सुप्तौ स्वाम्नस्य लीनत्वाद्धचात्मकत्वं यथा तथा। अस्यापि तत लीनत्वाद्धचात्मकत्वं भवेत्किल ॥ ६ ॥ व्या। सकले विलीन इति श्वत्युक्तसकलशब्देन बाह्यविषयशून्यप्रत्यया- तिरेकेण सेन्द्रियं सविषयं प्रत्ययजात चेद्विवक्षितं तदा तच्छृत्युत्तरार्घेन सुप्तौ वि लीनस्य सर्वशब्दार्थस्य जीवात् पुनरुत्पन्नस्य प्रबोधत्वं पुनश्च जन्मान्तरकर्मयो- गात् स एव जीवस्स्वपिति प्रबुद्ध इति नोच्येत किन्तु स एव जीवो विषयादि- वद्ध इति वाचारम्भणश्रुतिविरुद्मेवोच्येत न तथेत्वुक्ता - दृष्टान्नञ्च दर्शयति- सुप्तावित्यादिना अस्यापीति जाग्रत्कालिकस्य जगतः -तत्नेति मुषुप्तावित्यर्थः॥ शेषरसुगमः ॥ ६ ॥ अ०॥ इदानीं किलशब्देन विवक्षितां प्रसिद्धिं दर्शय यत इति- मू।। यतः कोशे विनाशस्स्याददर्शनमितीरितम्। अतो दृष्ट्यात्मिका सृष्टिर्दष्टिसृष्टिरितीर्यते ॥ ॥ व्या।। यत इति यस्मादमरकोशे-विनाशस्स्याददर्शनमिति विनाशा दर्शनशब्दयोः पर्यायत्वमुक्तमतस्तत्प्रतिद्वन्द्वित्वेन सृष्टिदर्शनशब्दयोरपि पर्याय- वावगमात् दृष्टिरूपा सृष्टि: अथवादृष्टेस्सष्टिर्दृष्टिसृष्टिरित्युच्यन इत्यर्थः ॥ ७ ॥

Page 272

षछ्ठं दृष्टिसष्टिनिरूपणम् । २६३

अ० ॥ इदा नीं प्रतिज्ञातार्थे स्मृतिसम्मति द्शयति ज्ञानेनेति- मू ॥! ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणा: | अर्थस्व्ररूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः ।।८॥ क्या॥ जगदेतदिति स्वाप्िकवस्तुवत्स्वापरोक्षभूतमेतज्जगत्-ज्ञानस्व. रूपमेव ज्ञानस्य भ्रमप्रत्ययस्य स्वरूपमेव स्वरूपं यस् जगतस्तत् ज्ञानस्वरूपं तदि- त्येवाहुरित्येवकारेण आह-विचक्षणा इति वाचारम्भणादिश्रुत्यनुसारेण जगत्तत्व- निर्णयकुशला इत्युक्त्वा एवकारेण व्यावर्त्य मतं दर्शयति-अर्थस्वरूपमिति प्रा- गुक्तभ्रमज्ञानातिरिक्तो व्यावहारिकसत्ताकः प्रातिभासिकसत्ताको वाऽथः वाच्यः स्वरूपं स्वभावो यम् विज्ञेयस्य जगतः तत् अर्थसरूपमिति पश्यन्त्यन्य इत्युक्व। तान् सुषुप्तौ जगतो लयादिप्रतिपादकशास्त्रभिप्रेतस्वप्नास्यप्रत्यय निदशननभिज्ञा त्वेन दूषर्यात भ्राम्यन्तः कुद्ृष्टय इति पदद्वयेन ।। ८ ।। अ० ॥ इदानीमाचार्य. प्राक् शिष्यैः परिपृष्टवीविशेषं विभजते तद्विरे- षानिति- मू ।। तद्विशषान्भवत्पृष्टान्सङ्गहेण वदामि वः । पक्षभेदेन संप्रोक्ताऽज्ञानानामनुरूपतः । भ्रमः प्रमा त्रिधा ज्ञयः क्मशश्च कथं यदि ॥ ९॥॥ न्या। प्राक् द्वितीयनिरूपणे प्रथमप्रदर्शके मतभेदेन प्रदर्शितानामज्ञानानां स्वरूपानुगुण्यन तत्कार्यमपि भ्रमादिकं करमात्त्रिप्रकार ज्ञेयमित्यर्थः ॥ कथं यदी- त्युत्तरेण सम्बन्धः ।। ९।। ।। अ०॥ त्रिप्रकारेषूत्तमं प्रथमपक्ष दर्शयति ज्ञानस्येति- मू । ज्ञानस्य प्रागभावेनाज्ञानेनात्माऽन्यथा स्फुरन् । भ्रम :- प्रमा विचारस्सन्यथावत्प्रस्फुरन् खतः ॥ १०॥॥ व्या।। प्रथमपक्षाभिमताज्ञानसाहचर्येण यः स्वयमन्यथा प्रकाशमानो भ्रम. शब्दवाच्यो भवति। स एवात्मा 'नेह नानास्ति किञ्चने' त्यादिशास्त्रार्थविचार- भावमापन्नस्सन् अद्वितीयतया प्रकाशमानप्रमाशब्दवाच्यश्च भवेदित्यर्थः॥१०॥॥ अ०॥ उक्तमेवार्थ दृष्ठान्तेन स्फुटयति विचारादिति- मू । विचारादविचाराच्च देहात्मप्रत्ययो यथा ॥

Page 273

२६४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

भ्रमत्वेन प्रमात्वेन तथा स्वात्मा विभासते । अविवाराद्विचाराच्च भ्रमत्वेन प्रमांत्वतः ।। १२।। व्या॥ यथा च देहात्मप्रत्ययः कदाचित्कर्मविघिश्रवणात् प्रमतति भाति स्वरूपविचाराद्ग्रमो भवतीत्यु क्ता तद्वयुत्क्मेण दार्ष्टान्तिकमाह अविचारादित्या- दिना ॥ १२ ॥ अ०॥ तत्र किन्चिच्चोद्मनूद् परिहरति भ्रमादेरिति- मू ॥ भ्रमादेरात्मरूपत्वे जातत्वाच्छवणादितः । अनित्यत्वं स्वात्मनश्चेन्मत्वादेर्निवर्तने॥ शिखित्वापगमे चैत्रो यथाऽडत्मा शिष्यते तथा ॥ १३॥।॥ व्या॥ स्पष्टोऽर्थः॥१३॥ अ०।। इदानीं द्वितायपक्षं दर्शयति॥ अज्ञानस्येति- मू॥ अज्ञानस्यात्मशक्तित्वे गुणभूतो भ्रमादिक: ॥ १४ ॥ ्या। भ्रमः आदिर्यस्य प्रमात्मकबोधस्य स भ्रमादिकः ॥ १४॥ अ० ॥ तृतीयंपक्षं दर्शयति मायाया इति- मू ॥ मायाया द्रव्यरूपत्वे द्रव्यरूपो भ्रमादिक: ॥ १४॥॥ व्या। मायायाः परिणामिकारणद्रव्यत्वे तद्विकारो भ्रमादिप्रत्ययो द्रव्य- रूप इत्यर्थ ॥ १४॥ ॥ अ० ॥संप्रति पक्षत्रयेऽपि ज्ञानादेः किमकैव सत्ता अथवा नानेत्यत आह स्वात्मसन्तेति -- मू H स्वात्मसत्तैकसत्ताक आद्यपक्षे भ्रमादिक: ॥ प्रातिभासिकसत्ताक: पक्षयोरन्ययोर्भवेत् ॥ १५।।।। व्या॥ कार्यकारणयोरेकसत्तापक्षे कार्यस्य स्वतः सत्ताराहित्येन स्वात्म- सत्तामातसत्ताको भ्रमादि: अन्यपक्षद्वयेSपि आविद्यकत्वेन प्रातिभासिक इत्यर्थः ॥ अ०॥ इदानी यत्प्रतिपादितं जगतो दृष्यात्मकत्वं तत्र विवदमानमद्वैतिनं प्रति श्रीगौडपादाचार्यसम्मति दर्शयति स्वप्नद्दगिति --

Page 274

षष्ठं दाष्टिसृष्टिनिरूपणम् । २६५

मू। खप्नदक्चित्तदश्यास्ते न विद्यन्ते ततः पृथक्॥ जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक्। इत्येवं दर्शनादन्यनिषेधाद्दर्शनं जगत् ॥ १७॥ ह्या॥ स्पष्टोऽर्यः॥१७॥ अ०॥ यया सुषुप्तौ सर्ववृत्तिविरतौ जगतो विलयः सर्ववृत्त्युत्पत्तौ जन्म- च्ावगम्यते तामेव 'यदा सुप्तस्त्वमं न कञ्चन पश्यत्यथास्मिन्प्राण एवकथा भव- ति तदैनं वाक् सर्वैरनामभिस्सहाप्येति चक्षुस्स्चै रूपैस्सहाप्येति श्रोत्रं सर्वैश्शब्दैस्स- हाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति स यदा प्रतिबुद्धथते इत्यारख्-एतस्मादात्मन- ससर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका इति कौषीत- क्यादिश्रुति दृष्टान्तमनुमानञ्च जगतो दृष्टिरूपत्वे प्रमाणयति नियमनेति- मू । नियमेन मृदस्सत्ता ज्ञानपूर्व घटस्त्र तु। सत्वोपलब्धिमत्वेन मृद्भिन्नो घटो थथा ॥ सुप्तिं दृष्ट्रा जगद्ानेः प्रबोधं च जगज्जनेः । यदा सुप्त इति श्रुत्या प्रोक्तत्वादृष्टिमात्रकम् ॥ १९॥ व्या। विमतो घटः-मृदभिन्नो भवितुमर्हति। मृत्सत्वोपलब्धिपूर्वकें नि. यतसत्वोपलब्धिमत्वात्-मृदूदित्यनुमानेन यथा घटस्य मृदभिन्नत्वं तथा दृष्टि- सत्वोपलब्धिपर्वकं नियतसत्वो पलाव्धमत्वाज्जगतो दृश्यभिन्नत्वं सिद्धम् । एवमेव ह्येतच्द्त्यर्थो वक्ष्यमाणाविकरणतद्भाव्याभ्यामषगम्थते-तथाहि तृती. याध्यायस्य तत्त्वंपदयोरेकार्थत्वपरे द्वितीयपादे सौयुप्तपाज्ञबोधकर द्वितीयाधि- करणस्य 'तदभावो नाडीषु तच्छूतेरात्मनि चति सूत्रेण तदीयाभ्यां सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुबुप्तं न विशिष्यते-तस्मादेकार्थत्वान्नाड्यादीनां विकल्पे- न कदाचित् किञ्चित स्थानं स्वापायपसर्पतीत्येवं प्राप्ते प्रतिपद्यते-तदभावो नाडीष्वात्मनि चेति तदभाव इति तस् प्रकृतस्थ स्वप्रदर्शनस्याभावः सुषुप्त- मित्यर्थ :- नाडीव्वात्मनि चति समुच्चयन एतानि नाञ्यादीनि स्वापायोपैति न विकल्पेनेत्यर्थः ॥ कुतः तच्छ्ृतेः तथाहि सर्वेषामेव नाख्यादीनां तत्र तत्र सुषुप्ति- स्थानत्व श्रूयते-तच्च समुच्चये सङ्कहीतं भवति विकल्पे हेषा पक्षे वाधम्स्यादिति 23

Page 275

२६६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां पूर्व पक्षसिद्धान्तभाष्याभ्यां च सुषुप्तिशब्दवाच्यस्य जाग्रत्स्वप्रकालिकसर्वप्रत्ययप्रवि लय त्येनावगतत्वात् तदभिकरणं स्वात्मभूतः प्राज्ञ एवेत्यादिश्य। तत्रोपपत्तिपरेणाप्यनेन 'अतः प्रबोधोऽस्मादिति' सूत्रेण-तदीयेनानेन- यस्मादात्मैव सुषुप्तिस्थानमत एव कारणात् नित्यवदेवास्मादात्मनः प्रबोधः स्वा- पाधिकारे शिष्यते कुत एतदागादिति प्रश्नस्य प्रतिवचनावसरे-'यथानेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवैत स्मादात्मनरसर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणे- भ्यो देवा देवेभ्यो लोका' इत्यनेनेति भाष्येण च तद्गतप्रबोधपदेन च उदाहृतप्रति- वचनश्रुतिगतेन्द्रिय-देव-तल्लोकशब्दानां दृष्टिपरत्वंमबगम्यते-तत्कुतः-कुत्रायं जी- वो विज्ञानमयो द्वैतभ्रमाभावरूपं यथा स्यात्तथाऽशयिष्टेति बोधको यः-क्व वा एतद्वालाके पुरुषोष्शयिष्टेति प्रश्नः-यंश्च कुत्र च सपरमांत्मनोर्भेद भ्रमाभावरूपं यथा स्यातथाऽभूदिति बोधकः-क्व वा एतदभूदित्यपरः प्रश्नः-यश्च कस्मात् स्व- परमात्मनोरैक्यभ्रंशात्मकभेदभ्रमरूपं यथा स्यात्तथा आगादिति बोधकः-कुतः एत. दागादिति प्रश्नः तत्प्रश्नत्रयानुसारिप्रतिवचनगतत्वात्। अन्यथा 'तदभावो नाडीषु तच्छ्रतेरात्मनि चे' ति सूत्रेण प्राक् प्रतिज्ञातो य आत्मनि सर्वव्ृत्तिविलयस्तद्विषये- अतः प्रबोधोऽस्मादिति सूत्रतन्मूलश्रुत्योरुपपत्तिपरत्वं च-स्वमपीतो भवति-प्राग- स्वाप्समिति च श्रुतिप्रत्यभिज्ञागोचरस्य विज्ञानमयस्य सदाख्यसौषुप्तानन्दमय- तत्वानन्यत्वात् विभुत्वादनादित्वाच्च स्वात्मनि जायमानद्वूत त्रमलयोत्पत्त्यतिरेकेण क्वचिदपि लयात्मकशयनस्य कुतश्वदुत्पत्त्यात्मकागमनस्य च अभावावेदनपूर्वकं ब्रह्मत्वविज्ञापकत्वञ्च तत्प्रतिवचनश्रतेरुपरुध्येत अतस्तत्परिहाराय च। दर्शनं सृष्टिरदर्शन लय इति दृष्टियष्टिपक्षः एतत्प्रतिवचनभूतकौषीतकी- श्रुत्वभिप्रेत इति वक्ष्यमाणयोः देवताधिकरणजगद्वाचित्वाधिकरणभाष्यार्थप्रकाश- करामानन्दीययोः प्रामाण्याय च जगतो दृष्यात्मकत्वमास्थेयम् ॥ १९॥ अ० ॥ एवं जगतो दृष्टिरूपत्वे श्रुतिसूत्रभाध्यैरनुग्रहीतमनुमानमुक्त्वा तत्र तथाविधमेव अनुमानान्तरमाह-जगदिति- मू।। जगदृष्टचात्मकं दृष्टिगम्यत्वादृष्टिवद्यथा। शब्दगंम्यत्वतश्शब्दरूपं सवें च शब्द्वत् ॥ २० ॥ ्या॥ अनुव्यवसायग्राह्यदृष्टिनिदर्शनेन दृष्टिय्ाहयस्य जगतो दृध्यात्मकत्वं साध्य तत 'वाचSडरम्भण विकारो नामधेय' मिति श्रुत्यादिष्ट जगतो म्राह- 1

Page 276

षष्ठं दृष्टिसृष्टिनिरूपणम् । १६७

कान्तरात्मकत्वानुमानं निदर्शयति-यथेत्यादिना यथा सर्वे जगत् सर्वशब्दात्मकं भवितुमर्हति। सर्वशब्देन व्यवहियमाणतात्सर्वशब्दवत्-यथा सर्वमित्युवाचेत्यत्र सर्वशब्दस्य सर्वशब्देनैव व्यवट्वियमाणत्वात् तदभिननत्वं तद्ूदित्यास्थेयम्॥२०॥ अ॥ अधुना- 'स्वापप्रबोधयोश्च प्रळयप्रभवौ हि श्रूयेते-' 'यदा सुप्त-

उपपादितार्थपरत्वे व्याख्यातृसम्मर्ति दर्शयति-श्रतीति- मू।। श्रुतितद्वाष्ययोरर्थों रामानन्दयतीश्वरैः। स्वप्रवत्कल्पितस्यास्याज्ञातताया अभावतः । दर्शनादर्शने सृष्टिविलयाविति दर्शितौ ॥२१॥॥ व्या॥ अस्येति जगत इत्यर्थः ॥ शेषस्सुगमः ॥ २१॥॥ ननु प्राक् सप्तमश्रोकोदाहृतेन-विनाशस्स्याददर्शनामत्यमरवचनेन अधुनो- दाहतेन दर्शन सटष्टिरदर्शनं लय इति रामानन्दीयेन सूत्रभाष्यव्याख्यानेन च दर्शितविनाशलयशब्दसमानेन अदर्शनमिति शब्देन दर्शनप्रध्वंसस्य दृष्टिरूपजग- ल्गत्वस्वीकारात् तदानुगुण्येन दर्शनस्योत्पत्तिरेव स्रष्टिरिति वक्तव्ये सति दर्शनं सषटि- रिति कथमुक्तमिति चेदुच्यते । दर्शनतद्धुंसयोर्यथा कालतो व्यवधानमस्ति तथा दर्शनतदुत्पस्योः कालतो व्यवधान भावात्तथाक्तम्। अन्यथा चैत्रो गच्छतीत्यत्र गतिक्रियायाः चैताश्रयत्ववत् दर्शनं जायत इति व्यवहाराद्ट्टधर्मस्य दर्शनस्य जनिक्रियाश्रयत्वसिद्धयर्थ जनिक्रियायाः प्रागेव दर्शन- स्वरूपसिद्धौ पश्चात् तस्य जनिरेवं न स्यात् । अतो दर्शनं नश्यतीत्यत् दर्शनप्रध्वंसस्येव दर्शनोत्पत्तेरपि द्रष्ट्ाश्रितत्वमङी- कर्त्तव्यम् : अन्यथा दर्शनजनिः दर्शननिष्ठा-दर्शननाशस्तु द्रष्टनिष्ठ इति विप्रतिषिद्धम्। अतः सोऽकामयतेत्युपक्रम्य सच्च त्यच्चाभवत् अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः विकाराणं प्रकृतिभावापत्तिर्लयः तद्दर्शनोत्पत्तिः तदर्शनाभिन्ना तदर्शनकालमात्रकालिकत्वात तददर्शनवदिति श्रुतिस्मृत्यनुमानाद्यविरोधेन दर्शनं जायते नश्यतीत्यत्र द्रट्टा दर्शनरूनेग तद्विनाशाधिकरणात्मना च भवतीति सम्य- ग्विमर्श्य दर्शनं सृष्टिरदर्शनं लय इति व्यवसितम्।।

Page 277

२६८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

न च तदर्शनसमानकालिकपुरुषान्तरदर्शने व्यभिचारइति वाच्यं रामानन्दी- य दृष्टिस्ष्टिवादस्य एकजीववादानुसारितवात्। न चैवमपि दृष्टिसमसमया सरप्टिरिति पक्षे दृश्ये कार्ये दर्शनसमकालिकत्वस्या- भ्युपगतत्वात् तत्र व्यभिचार इति वाच्यं दृष्टिरेव सृष्टिरिति मतस्यैव प्रकृतत्वात्। तर्हि द्रष्टुरात्मनो नित्यत्वभङ्गापत्तिरिति चेत् सा तु प्रागेवात त्रयोदशेन श्रोके न द्वितीयनिरूपणे दयशीत्युत्तरद्विशततमादिश्रोकतक्व्याख्यानाभ्या व सम्यक्परिहृता। अ•॥ तर्हि किमर्थ 'नाभाव उपलब्धे' रित्यादिसूत्रैः दृष्टिव्यतिरिक्तो- पर्थो व्यवस्थापित इत्यत आह। वितण्डयेति- मू॥ वितण्डयैव बाह्यार्थस्सूतकारैः प्रदर्शितः । बौद्धशास्त्रे त्वरुचये क्षणिकात्मभ्रमोऽन्यथा ॥ २२॥।। व्या।। भवेदिति शेषः ।। २२।। ।। अ०॥ तदधिकरणस्य ब्रह्मसूत्रे द्वितीयाध्यायगतद्वितीयपादान्तर्गतत्वेन तन्न सूत्रकारादीनां वितण्डावादित्वं दर्शयति सर्वधेति- मू l सर्वधाऽनुपपत्तेश्रेत्यस्य सूत्रस्य वै पुनः H वृत्तिकारैस्तथा भाष्यकारैरपि मुमुक्षुणा ।

पश्यन्नातिष्ठतेत्यादेरपशब्दस्य कीर्तनात्। ग्रन्थतोऽनुपपत्तेश्र न ग्राह्यं सौगतं मतम् । इति तत्राप्रवेशार्थमपशब्दः प्रदर्शितः । इति निश्चीयते यस्मान्न बाह्यार्थस्य साधकः ॥

बाधकश्चापशब्दोऽतो वितण्डा तस्य खण्डनम् ॥२७ ॥ न्या।। तत्रेति सुगताचार्यमतेSप्रवेशार्थमेवातिष्टदिति वक्तव्ये आतिष्ठते- त्यात्मनेपदि प्रयोगेण अपशब्दरूपो दोषो दर्शिन इत्युक्ता तत्रोपपर्ति दर्शयति वस्मादित्यादिना यस्मात् शशशङ्गं गगनारविंदमितयेव रूपस्सुशब्दो न बाह्या र्थसाधको भवति-तस्मादस्य बाह्यार्थापलापस्य न तदुक्कोऽपशब्दोऽपि बाघको भवेदित्यव गमात् तन्मतखण्डनं केवलं वितण्डँवेति निश्चीयते॥२७॥

Page 278

वहं हषिसट्टनिरूपणम्।

अ० ॥ इदानीं सागतमतदूषणस्य वितण्डात्वज्ञापनाय उपपत्त्यम्तरमाह- अरत एवति- मू।। अत एव च बौद्धैस्तु स्वप्तादिप्रत्ययो यथा । बाह्यार्थविकलस्तद्वूत् जाग्रज्ञानमितीरिते॥ व्यासादिभि: परोक्त्तस्स दृष्टान्तो न निराकृतः ॥ २८॥॥ क्या। जगतो दृष्टिमात्रत्वस्याभिप्रेतत्वादेव 'वैधर्म्याच्च न स्वप्नादिवदि'ति सूत्रतद्भाध्यकारैस्स्वप्रट्ष्टान्तो न निराकृत इति धयेयम्॥२८॥॥ अ० ॥ इदानी 'र्वप्रस्थानोऽन्तःप्रज्र' इत्यादिमाण्डक्यश्रुते; यद्गेतत्- स्वप्ः स्थानमस्य तैजसस्येति स्वप्नस्थान :- जावत्प्रज्ञाSनेकसाधना बहिरविषयेव अ्रदभासमाना-मनस्स्पन्दनमात्ना सती लथाभूत संस्का्र मनस्याधत्ते-तन्मनस्तथा संस्कृतं चिततून इव फटो बाह्यसाधनानपेक्षमविद्याकामकर्मभि: प्रेर्यमाणं जाग्रदवदव- भासते तथा चोक्तम्॥ श्रृ० ॥ अस्य लोकस्य सर्वावतो मात्रामपादायेति। तथा परे देवे मनस्येकीभवतीति प्रस्तुत्य- अत्रैप देवसतप्े महिमानमनुभवतीत्याथर्वणे। इन्द्रिया पेक्षयाSन्तथश्ान्मनस: तङ्गासनारूपा च रवपे प्रज्ञा यस्येति अन्तःप्रज्ञः विषयशून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजस इति विज्ञानवादवत् जाग्रतस्वप्रपत्यययोरपि विषयविकळत्वपर भाष्यमर्थतः संगृत अगतो दृष्टिमात्रत्वे संवादयति बाह्येति-

सवप्ने च प्रत्ययो बाह्यविकलो यः प्रजायतै। तत्साक्षी तैजसश्चेति भाष्यादृष्टयात्मकं जगत् ॥ ३० ॥ क्या ॥। अवतरणादेश गतार्थः ॥ ३० ॥। अ०॥ इदानी अन्यस्तु दृष्टिरेव विश्वसष्टिः दृश्यस् दृष्टिभेदे प्रमाणाभावात् श्रो० H जनखरूपमेवा हुर्जगदेत द्विवक्षणाः। अर्थखरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्ठ्यः इति स्मृतेश्रेति सिद्धान्तमुक्तावळयादिदर्शितो दृष्टिसष्टिवाद इति-सिद्धान्त- लेज्सङ्गहे द्वितीयपरिच्छेदवाक्यमपि सङ्गह्य जगतो दिमात्ररूपत्वे प्रमाणयति मुक्तावलीति-

Page 279

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू ॥ मुक्तावळीकृता तत दीक्षितैश्र स्वकीयके। एवमुक्तं हि सिद्धान्तलेशसंग्रहनामके ॥ ३१ ॥ व्या॥। अवतरणादेवावगतार्थः ॥३१॥ अ०। इदानीं विज्ञानवादिमतनिराकरणसमये किमर्थ-वैधर्म्याच्च न स्वनादिव' दिति सूत्रेण तदीयेन। न च यो यस्य खवतो धर्मो न भवति सः अन्यसाधर्म्यात्तस्य संभविष्यति- न. ह्वग्निरुष्णोSनुभूयमान उदकसाधर्म्याच्छीतो भवष्यतीति भाष्येण च ख्प्रादि- दृष्टान्तोऽङ्गीकृत इत्यत आह-विज्ञानवादिभिरिति- मू । विज्ञानवादिभिर्ज्ञानाद्वाह्यार्ये त्वपलापिते। अपनीतश्रार्धभार इति मत्वाऽनुमोदितः ॥ दृष्टान्तोडयं स्वकर्तव्ये बाह्यार्थस्यापलापने-।। ३२॥॥ न्या।। नेह नानासिति किञ्चन-न तु तद्वितीयमस्तत्यादिश्रुत्यनुरोधेन अप- लाव्ययोज्ञीनज्ञेययोर्मध्ये ज्ञेयापलापस्य खात्मातिरिक्त्ोभयापलापिनां अद्वैतिनां सहायभूतत्वात् सवप्रादिद्टष्टान्तः परोक्तोऽप्यङ्गीकृत इति भाव: ।।३२॥॥

कप्रकारेण च परोक्तस्वप्नादिप्रत्ययवच्च जाग्रत्प्रत्ययस्ाि बाह्यार्थविकलत्वं कुतो नाङ्गीकियत इति उपलब्ध्यधिकरणसिद्धान्तभाष्यावष्टम्भकृतामाशङ्कां सिद्धान्तान्तर- भाध्यनिदर्शनेन परिहरति-नन्विति- मू॥। ननु माण्डूक्यभाष्येण प्रागुक्ेनानुशासिते ॥ बाह्याभावे कुतस्तस्य निरासमकरोद्यदि। कर्मापेक्षतयापीशे वैषम्यादौ निवारिते॥ वैदिकैरिव शैवैश्च यथाचार्येस्स दूषितः । तथैव वेदबाह्यो को वाह्याभावः प्रदृषितः ॥३१॥

पलाधिकरणें आधिदैविकस्य परमेश्वरस्य शैवागममवलम्व्य केवलनिमित्तकारणत्व- वादिनं प्रति।

Page 280

षष्ठं दृष्टिसृष्टिनिरूपणम्। २७१

हीनमध्यमोत्तमभावेन हि प्राणिभेदान् विदधत ईश्वरस्य रागद्वेषादिदोष प्रसक्तेरस्मदादिवदर्वाश्वरत्वं प्रसज्येतेत्यापादितस्य दोषस्य 'एष ह्येव साधुकर्म कारयती'त्यादि श्रुतिमवलम्व्य-'वैषम्यनैर्घण्ये न सापेक्षत्वात्तथाहि दर्शयति' 'कृत प्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य' इत्यादिसत्रतद्भाष्याभ्यामिव प्राणिकर्मसापेक्षत्वाददोष इति कृतेऽपि परिहारे-इति चेन्न - कर्मेश्वरयोः प्रवर्त्य- प्रवर्तयितृत्वे इतरेतराश्रयत्वदोषप्रसङ्गात् ॥ न-अनादित्वादिति चेत् न-वर्तमान-

शैवागममात्रमवलम्व्य अय वैषम्यादिदोषपरिहारोऽभिहित इति स यथा नाङ्गीकृतः

नास्मद्वद्वेदमवलम्ध्याभिहित इति नाङ्गीकृतः इत्यास्थेयंम् ॥ ३५॥ अ०॥ ननु प्रागुक्तमाण्डूक्यादिश्रुतितद्धाष्यैस्सिद्धत्वेSपि बाह्यार्थाभाव- स्य सुगतागमावलम्बेनाप्यवगम्यमानत्वात् तद्वाद उपेक्षणीय इति प्राप्ते दष्टान्तेन परिहरति वेदेनेति- मू। वेदेन ह्यात्मनोSभिन्ननिमित्तत्वं यदीरितम्। पाश्चरात्रावलम्बेन तान्त्रिकैश्र तदेव हि।। संप्रोक्तमपि चास्माभिर्यद्वदक्कीकृतं तथा। बाह्याभावस्तन्त्रतश्च सिद्धोऽपि.ग्राह्य एव नः ॥३७॥ ठ्या॥ संप्रोक्तमपीति पाञ्चरात्राधिकरण इत्यर्थः॥ शेषस्सुगमः ॥३७॥ अ०॥ ननु, सौषुप्तात् ज्ञानज्ञेययोरुभयोरप्युत्पत्तौ को बाध इत्यत आह- सुप्तादिति -- मू ॥ सुप्ताज्ज्ञानेन साक च यदि ज्ञेयं प्रजायते। ज्ञेयस्यावरणा भावाज्ज्ञानवैयर्थ्यमापतेत्।।३८।। क्या॥ स्पषोऽर्थः ॥३८॥ अ० ॥ पुनश्शङ्कान्तरमनूदय निराकरोति-तर्हीति मू ।। तर्हिं चैतन्यमात्रेण विज्ञेयस्यानुभूतितः । अर्थस्यैव-विना दृष्टि सृष्टिस्सुप्तान्भ्रवेद्यदि ॥ स्वप्तादानं च पीड्येत-वैधर्म्यादिति सूत्रके ।। ३९॥॥

Page 281

२७२

क्या।। 'वैधर्म्याच्च न स्वप्रादिव' द्विति सूत्रे स्वप्नादिप्रत्ययवजजाब्रतपत्थ. योऽपि बाह्यार्थविकळः प्रत्ययत्वाविशेषादिति विज्ञानबादिना अस्मदभिमतत्वेन प्रदर्शितस्य स्वप्रादिद्ृष्टान्तस्ष्य सूत्रकारादिभि: अनुमोदनं चकारात्प्रागुक्त्ेन चतुर्थेन एकोनन्रिंशेन च श्रोकेनोदाहृतश्रुतिस्तद्धाष्यं च बाध्येतेत्यर्थः ॥ ३९॥॥ अ०॥ ननु, सौषुप्तात् ज्ञानमात्रोत्पत्ति वदतामपि पक्ष :- वैधर्म्याच्च न स्वमादिवदिति सूत्रेण बाह्यार्थविकलातू स्वप्नप्रत्ययात् जाप्रत्प्रत्ययस्थ बाह्यार्थरूपवै नरर्म्ये सिद्धे कथं सिद्धयतीत्यत आह-अस्मदिति- मू ॥ अस्मत्पक्षाविराधाय-तद्वितण्डेति दर्शितम् ॥। ४० ॥

मित्यर्थः ॥ ४० ॥ व्या॥ तदिति तत्सूत्रं केबलं वितण्डावाद इति प्रागेवास्माभिर्दर्शित

अ० ॥ पुनरशङ्काम्तरमनूंय समाधत्ते नन्विति- मू। ननु जाग्रत्प्रबोधस्य वैधर्म्यादिति सूत्रके। बोध्यवत्वप्रभाषाया वितण्डात्वे-कथं भ्रमः ॥ इदं रूप्यं नभो नीलमिति शुक्त्यादिके यदि। स्वप्नकाले त्विदं नीलमिदं रूप्यमिति भ्रमः ॥ व्यावहारिकसत्ताकं नभरशुक्त्यादिकं विना। इदंशब्दार्थभूतेन स्वात्मनवार्थवान्यथा। तथैव स्यादिडं रूप्यमिति जाग्रन्द्रमोऽपि च॥ ४३॥ ॥ व्या। नन्वित्यादिना बाह्यार्थपरशास्त्रस्य वितण्डात्वे इदं रजतं इंद नील- मिति रजतत्वादिप्रकारकशुक्तिनभोविशेष्यकभ्रमः कथ स्यादिति पूर्धपक्षमनूय समाधत्ते स्वप्नकाल इत्वादिना जाग्रत्कालिकस्य नभो नीलमित्यादिभ्रमस्थापि स्वप्रवत् प्रातिभासिक विषयकत्वेन तत्कारणभूतो यः स्वप्नप्रत्ययजन्यवासनातुल्य

गोचराकाशविशेष्यकत्वकल्पने गौरवापतेः अहमेवेदं सर्वमित्यादिश्रुत्यनुसारेण सर्वस्यैकात्माधिकरणत्ववादिनामस्माकं अनेकाधिकर णत्वकल्पन न सङ्गच्छते।

स्य संप्रयोगाविहेतुत्रयजन्यत्वपरं शाञ्तं तम्मन्दाधिकारिविषयमिति सिद्धिकारैरद्वैत- सिद्धो दृष्टिसष्टिप्रस्तावसमये दर्शितत्वात् ॥ ४३।॥

Page 282

षछठं दृष्टिसृष्टिनिरूपणम्। २७३

अ०॥ पुनदशङ्कान्तरमनूद्य समाधते एवं चेदिति मू॥ एवं चेत्पिहिते नेत्रे न कुतस्संभवेच्च सा ॥। इदं नीलमिति भ्रान्तिरिति चेदुच्यते तदा। तदीयवासनोन्मेषराहित्यात् स्वप्नवन्नहि ॥ ४२ ॥ व्या। जाप्रदवस्थायां नेत्रपिधानसमये इदं नीलमिति भ्रमकारणभूत संस्कारस्य विकासाभावात् स्वप्रवत् सा न जायत इत्यर्थः ॥ ४५॥ अ० ॥। नन्वेवं भ्रमख वासनाविकासजन्यत्वाभ्युपगमे बलादापतेद्वाह्यार्थ- सिद्धिरिति शङ्कामनूद्य परिहरति एकेति -- मू ॥ एकसंबन्धिबोधेन वासनाया विकासतः । बाह्यार्थस्य प्रसिद्धिस्स्यादिति चेत्स्वप्रवासना ॥ विना सम्बन्धि विज्ञानं यथोहुद्धा स्वशक्तितः । उन्मीलनेऽपि तद्वत् स्याद्तो बाह्या न सिध्यति ॥।४७॥ व्या।। एकसंबन्धिबोधेनेति एकसंबन्धिज्ञानमपरसंबन्धिस्मारकमि- त्यत्र यतः प्रागनुभूतयोः हस्तितद्धस्तिपकयोर्मध्ये हस्तिपकविषयकप्रत्यक्षेणैव तद्धस्तिस्मृतिहेतुभूतवासना विकसति-ततः चाक्षुषज्ञानातिरेकेण हस्तिपकस्थेव स्मरणातिरेकेण हस्तिन इव च वासनाविक्कासजन्यभ्रमातिरेकेण बाह्यार्थख सिद्धि- रिति प्राप्ते, दृष्टान्तेन परिहरति-सवप्नवासनेत्यादिना यथा स्वप्नप्रत्ययरूपस्य अबं गज इति स्मरणस्य हेतुभूतवासना तावत्-स्वविकासार्थ स्वप्नक्कालेSपरसंबन्धि ज्ञानं विना स्वशाक्तिबलादेवोद्धद्वा सती स्मरणरूपं स्वप्नप्रत्ययं जनयति-तद्ूच्चक्षुष उन्मीलनसमयेSपि तत्तद्वासना-स्वस्वशक्तिबलात् तत्र्रमं जनयत्यतो न बाह्यार्थ- सिद्धिरित्यर्थः ॥ ४७ ॥

अ०।। पुनः शङ्गान्तरमनूद्य परिहरति भ्रमखेति -- मू। भ्रमस्यावृतकूटस्थचैतन्यवषयत्वतः । बाह्यार्थेन विनैवात्र संस्कारश्चेत्प्रसिध्यति॥ न भावोऽनुपलळधेरित्येतत्सूत्रे कुतः पुनः। बाह्यामावान्न संस्कारो वैचित्यं च धियो भवेत् ॥

Page 283

२७४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

इत्युक्तञ्चेदिहाज्ञातसत्ताकत्वानुभाषणम्। विना जेतुमशक्यत्वात्तत्सूत्रेण तथेरितम् ॥ ५० ॥ ग्या।। इहाज्ञातसत्ताकत्वानुभाषणं विनेति इह जाप्रदवस्थायां दृश्य- मानस्ाधिदैविकपरमेश्वरनिर्मितत्वेन चक्षुरादान्द्रियसंयोगात् पूर्व अज्ञातसत्ताकत्वा- नुवादं विना-जाग्रत्कालिकदृष्टिव्यतिरेकेण तदृष्टयुत्पत्तिकालोत्पन्नत्वेन तद्वाह्यार्था वलमबने-यथा स्वाप्निकविषयवैचित्र्यं विना वासनावैचित्र्यमात्रेण स्वप्रप्रत्ययानां तंद्विषयाणामिव वैचित्यं भवति तथा जाग्रत्कालिकदृष्टीनामपि तद्विषयाणामिव तर्कारणवासनावैचित्र्यादेव वैचित्र्यस्य सम्भाव्यमानत्वे-'न भावोऽनुपलब्धे'रिति सूत्रेण।। श्रो०॥ बाह्याभावान्न संस्कारो वैचित्यं च धियो भवेदिति दोषप्रदर्शकेन विज्ञानवादिनं जेतुमशक्यत्वात तत्सूत्रेण तथेरितमित्यर्थः ॥५०॥ अ० ॥ ननु, विज्ञानवादिजयार्थमेव ात्यार्थाङ्गीकारो न स्वमतस्थापनायेति कुतोऽवगम्यत इत्यत आह वाचेति -- मू। वाचारम्भणमित्यादिवेद्वाक्यात्तयैव च। तद्नन्यत्वसूवाच्च घटशब्दान्मृदोऽपि च। न तु कश्चिद्विकारोऽस्ति वृत्तेनेति च भाष्यतः । पाठभेदेन भावाच्चोपलब्घेरिति सूत्रतः ॥ तदीयभाष्यतो वाचस्पत्यादृपि च तन्तवः । गोचरा: पटचुद्धेस्स्युः न पटो गोचरो यथा॥ जगहुद्धेस्तथा प्रत्यङ्गोचरोऽन्यो न गोचरः । इति शब्दाभिधेयस्य विज्ञेयस्य निषेधकात्॥ दृष्टर्रह्मातिरिक्त्तं तु दृश्यं नास्तीति गम्यते ॥ ५४॥॥ व्या। वृत्तेनेति निस्तलाकारेणेत्यर्थः ॥ वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढ- निस्तले इत्यमरकोशाभिधानात्। शेषस्सुगमः ॥। ५४॥॥ भर०॥ अन्यथा बाघमाइ इत्यादीति -- मृ ॥ इत्यादिशासनं चापि बाह्यार्थे बाधितं भवेत् ॥ १५ ॥

Page 284

षछ्चं दष्टिसृष्टिनिरूपणम्। २७१

व्या।। इत्यादिशासनत्रच्ेति पूर्वोक्तवाचारम्भणश्रुत्याद्युपदेशः चक्षरादि- गोचरत्वेन प्रत्यग्भिन्ने बाह्यार्थऽ्भ्युपगम्यमाने तद्विषयकज्ञानेन बाधितस्स्या- दित्यर्थः ॥५५॥ अ० ॥ पुनरपि विषयवैचित्र्यं विना तद्राहकज्ञानवैचित्र्यस्य कथमुपपत्तिरिति परिचोद दृष्टान्तान्तरेण समाघत्ते विनेत्यादिना -- मू। विना विषयवैचित्रयं करथं दृष्टिविचित्रता । चेद्विना कर्मवैचित्यं विषयाणां विचित्रता । विचित्रशक्तिकाज्ञानविकारत्वान्वेदिति। सिद्धिकारैस्तथा वाचस्पतिभिश्च यथेरिता । तद्ज्ञानविकारत्वाच्तथा दृष्टिविचित्रता ॥ ५७॥॥ व्या। यथेरितेति प्राक्पश्वमनिरूपणे विधीनां परिसङ्गयात्वविचारसमये प्रदर्थ्ितैस्सिद्धिकारवाचस्पत्यादिवाक्यैः यथा विचित्रशक्तिमदविद्याविकारत्वात्कार्य वैचित्र्यमुक्ततं तथैव ज्ञानानामपि तद विद्याकार्यत्वादेव वैचित्रयं भवेदित्यर्थः ॥५७॥॥ अ०॥ तर्ह्यद्वैतिभिः कि करणीयमित्यत आह तस्मादिति -- मू॥ तस्मादद्वैतिभिर्ज्ञानात्त्यज्यतां बाह्यविभ्रमः ॥५८॥। व्या। ज्ञानाद्वाह्यो विज्ञेयकार्यवर्गोऽस्तीति भ्रान्तिः परित्याज्येत्यर्थः ॥५८॥ अ०॥ ननु, विज्ञानवादवद्द्वैतवादेऽपि बाह्यार्थाभावे सति तयोः को भेद इत्यत आह तदुक्ेति -- मू। तट्ुक्तालयविज्ञानप्रतीचोरूभयोः क्रमात्। परिच्छिन्नापरिच्छन्नसाकारत्वादितो भिदा । ५९ ॥ व्या। विज्ञानवाद्यभिमतस्य अहंपदार्थभूतस्यालयविज्ञानस्थ अद्वैतवाद्यभ- मतस्य प्रत्यागातमनश्च करमात् सद्टितीयत्वाद्वितीयलाम्यां च सविशेषत्वनिर्विशेषत्वा दिभ्यां च महान् भेदस्सिद्ध इत्यर्थः ॥ ५९॥ अ०॥ तर्हि कर्तृत्वपरिच्छिन्नत्मादित्रमस्य अस्माभिरिव तैरपि परित्यक्त- त्वे सति तेषामप्येकात्मवादित्वसंभवे सति किमर्थ सुगतागमः सूत्रकारादिभिः प्रदूषित इत्यत आह तथेति --

Page 285

२७६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू। तथापि सूत्रकारादयैर्वेदवाक्याद्विचारयेत् । इति मत्वा च तच्छास्त्रं दूषितं स्यात्किलान्यथा ॥ ज्ञानातिरिक्तज्ञेयार्थवादिनां मन्दतापरम्। ज्ञानाद्वाह्यं तु नास्तीति वादिनां श्रेष्ठतापरम्।। नाभाव उपलब्धेश्रेत्यस्य भाष्यकृतां वचः। श्रुतिसूत्रार्थकं यत्तत् पीड्येंतातो न तत्पराः ॥६२॥ व्या। वेदवाक्यादिति तन्त्वौपनिषदं पुरुषं पृच्छामीति श्रुतेः वेद- वाक्यैरेवात्मानं विचारयेत्-न सुगताद्यागमैरिति मत्वा चकारेण तज्जयार्थ च तच्छास्त्रं दूषितमित्युक्त्वा अन्यथा बाधमाह-ज्ञानातिरिक्तेत्यादिना 'नाभाव उपलब्धे' रिति सूत्रस्य भाष्यं विशिनष्टि श्रतिसूत्रार्थकमिति 'वाचाSSरम्भणं विकारो नामधेय' मिति श्रुतेस्तन्मूलयोः 'तदनन्यत्वमारम्भणशब्दादिभ्यः' 'भा- वाच्चोपलब्धे' रिति सूत्रयोश्चार्थः एवार्थः यख भाष्यक्रदूचनस्व तच्छतिसूत्रार्थकं पीड्येतेति बाधं संप्रदर्श्य फलितसाह-अतो न तत्परा इति तस्मात्सूत्रकारादयः न विज्ञानवादनिरासे तान्पर्यवन्त इत्यर्थः ॥ ६२॥ अ०॥ न तत्परा इति प्रतिज्ञातार्थानुग्राहकं यत् -सुगतागमस्यापि अद्वैता- त्मावगतिपरत्वबोधकं ब्राह्म वाक्यं तदुदाहरति ब्रह्मणेति -- मू।। ब्रह्मणापि स्वगीतायां चतुर्थाध्यायके भृशम। तस्मादस्ति महादेव एव साक्षात् स्वयं प्रभः ॥ आनन्दरूपस्संपूर्णो न ततोऽन्यत्तु किञ्चन। इयमेव तु तर्काणां निष्ठा काष्ठा सुरोत्तमाः ॥ प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः । स्मृतीनां च पुराणानां भारतस्य तथैव च।। वेदानुसारि विद्यानामन्यासामास्तिकोत्तमाः । शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च॥ अस्मदुक्तागमस्यापि सुरास्सूक्ष्मनिरूपणे। बुद्धागमनामित्यादैः प्रत्यग्विषयतेरिता ॥ ६७।।

Page 286

षछ्ठं दृष्टिसृष्टिनिरूपणम् ।

व्या।। यस्मात् कारणात् सत्तकवादप्रक्रियया परा भ्रुतिः ऐतदात्म्यमिदं सर्वमित्याह-तस्मात् स्वयंप्रकाशमानस्नि्निविधपरिच्छेदरहितः आनन्दरूपः प्रत्य गात्मैव सदास्ति -यत एवं ततो निरावृतादानन्दाज्ज्ञानप्रागभावोपेतादन्यस्य जगदुपादानस्याभावेन तदानन्दादन्यज्ज्ञानं ज्ञेयं वा किञ्चिदपि कार्य नास्तीत्यु- का तत्रैव सर्वप्रमाणानां परिसमाप्ति दर्शयति इयमेव हि तर्काणामित्यादिना तका।देशास्राणामपि प्रत्यगात्मन्येव तात्पर्यन्तु द्वितीयनिरूपणे पञ्च सप्ततित मादिश्रोक तद्वयाख्यानाभ्यां अवगन्तव्यम्।। यत एवं श्रीव्रह्मणा बुद्धागमस्यापि ज्ञेयकार्यनिरासकत्वेन प्रत्यकपरत्वं दर्शित- मतः तच्छिष्यवर्गीयाणां सूत्रकारादीनामपि न बाह्यार्थाभाववादनिरसने तात्पर्य- मित्यास्थेयं ।। ६७।।। अ० ॥ इदानीं 'परे देवे मनस्येकीभवती'ति प्रश्नोपनिषद्वाक्यमनुसृत्य मूलाज्ञानतत्परिणामान्तःकरणप्रकृतिकत्वेऽपि जाग्रत्कालिकस्य जगतो दृष्टिमालत्वं साधयति धीमायेति- मू। धीमायाजनिमत्वतो जगदिदं वृत्त्यात्मकं साक्षिणा- भास्यं स्वप्नगजादिवत् - तत इदं स्वप्नास्यवृत्त्यन्तरे। जाते नैव च दृश्यते- सुखधियां सुप्तावद्दश्यो यथा नो चेज्जाग्रति कल्पितोऽर्थनिचयस्स्वने दशो दृश्यताम्॥६८।।॥ व्या। विवादविषयभूतं प्रातिभासिकत्वेन साक्षिमात्रभास्यं जाप्रत्कालिकं घटादिवस्तु वृत्यात्मकं भवितुमर्दति । अज्ञानतत्कार्यान्तःकरणपरिणामत्वात् स्व- प्रगजादिवदित्यनुमानमुक्का तत्रोपपत्तिमाह तत इत्यादिना वृत्तिरूपत्वादेव इद नगत् न खवप्नकाले परिदृश्यते तत्र दृष्टान्तमाह सुखधियामित्यादिना सुख- महमासमिति परामशंहेतुभूतायां त्वरूपसुखविषयकाविद्यावृतौ सत्यां अदृश्यमान: स्ाप्रिको गजादिर्यथा वृत्तिमात्रस्तथा स्वप्रेऽप्यदृश्यमानमिदं जाग्रत्कालिकं अगद्द- सिमातं स्यादित्युक्का अन्यथा बाधमाह नो चेदित्यादिना जाग्रदवस्थायां जीवे- न स्वस्मिन्परिकल्पितत्वेन साक्षिमात्रभास्योऽयं प्रातिभासिको वियदादिप्रपञचो जाप्रत्प्रत्ययनारानन्तरं वासनामात्रतः स्वप्नप्रत्यये जाते साक्षिभास्यः स्यादित्यर्थः अ ॥ पुनर्बाव्यार्थसद्भातमाशङ्य दृष्टान्तेन परिहरति नन्विति- मू।। नन्वज्ञानमनोगताच्च विविधात् संस्कारतस्स्वप्रवत् तज्ज्ञेयं न कुतो भवेदिति यदि ज्ञानैकहेतुत्वतः। 21

Page 287

२७८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां संस्काराद्विविधात् सषुप्तिसमये स्वानन्दमायापरा बोधा एव यथा विनान्यविषयैस्स्वप्ने तथा जाग्रति ॥। ६९।।।। व्या। अज्ञानमनोयु क्ात्संस्का रात्स्वप्रप्रत्ययवत् तज्ज्ञेयोऽप्यज्ञानादेर्विकार: कुतो न स्यादिति प्राप्ते-तत्र हेतुमाह-ज्ञानकहेतुत्वत इति! उक्तविशस्य संस्कारस्य भ्रमप्रमात्मकज्ञानमात्रं प्रत्येव कारणत्वात् ज्ञानातिरिक्त्तं ज्ञेयं न ततो जायत इत्यादिश्य तत्र दृष्टान्तमाह संस्कारादित्यादिना यथा हि सौषुप्तात् पूर्व- स्मात्पूर्वस्मात्, मूलाज्ञानस्व रूपानन्दविषय कभ्रम प्रमाद्वय जन्यात् अज्ञानतद्रतमनोगता द्विविधसंस्कारात सुष्ुप्तिसमये स्वरूपानन्दमूलाज्ञानविषयकप्रत्यया एव अनादि- सरूपानन्दमूलाज्ञावातिरिक्तविषयैर्विना जायन्ते-तद्वत् खप्नजाग्रदवस्थयोरप्यज्ञान- मनोगतसंस्काराद्वत्तय एव जायेरन्निति दृष्टिसृष्टिवादे दृष्टिव्यतिरेकेण सज्यमात्र- निषेध: क्रियते-न तु तदुपादाननिषेध इत्यास्थेयम्॥६९॥॥ अ० ॥ इदानीं दृष्टिसष्टिशास्त्रज्ञानवन्तं पूजयन्नेतन्निरूपणमुपसंहरति अस्मदिति -- मू। अस्मत्प्रत्ययगोचरस्त्वतरवद्ान्त्यैव वादंद्वये भातीति ग्रहणाप्यमुक्तय - इदं कार्य न दृष्टेः पृथक्। इत्यचार्यमुखाद्विचार्य सततं प्रत्यक्स्वरूपे विभौ नित्ये यो रमते महान् कृतमतिस्तस्मै नमः कोटिशः॥७॥॥ व्या॥ निखिलं जगत् प्रत्यगात्ममात्रसत्ताकामेति थः कार्यकारणयोरेक- संत्तांवादो यश्च जगतश्वित्सत्तातिरिक्तप्रातिभासिकसत्ताकाविद्यकविषयशन्यदृष्टि- मात्रवाद: तद्ूयेऽपि प्रत्यगात्मैव भ्रान्त्या जगद्रूपेण प्रत्यवभासते-न तदतिरिक्तं जगदिति निश्चयग्रहणं संप्राप्याद्वितीयात्मावशेषरूपमोक्षार्थ आचार्यमुखादखिलं जगन्न दष्टे: पृथगस्तीति विचार्य त्रिविधपरिच्छेदरहिते स्वात्मन्येव सदा यो रमते तस्मै महात्मने कोटिशो नमस्करोमीत्युक्त्या प्रतिकर्मव्यवस्थाधिकारिभ्यो दृष्टि- सटंषिवादाधिकारिणः प्राशस्त्यं प्रदर्शितं भेदभ्रान्तिस्तु अद्वितीयशुद्धात्मवृत्त्या नश्य- ति - शुद्धात्मवृत्तिश्र कतकरजोवत् स्वयमेव निवर्तते॥ ७०॥॥ श्रीमच्चन्द्रिकाचार्याख्ययतीश्वर विरचितायाममृतरसझरी- षष्ठं दृष्टिसटष्टिनिरूपणं संपूर्णम्। ओ तत्सद्र हैवाहमस्मि ॥

Page 288

॥ हरि: ओम्॥ अद्वैतसिद्धान्तगरुचन्द्रिकायाम। सप्तमम् एकजीववादनिरूपणम्।

अ०॥ इदानीं वृत्तानुवादपूर्वकं प्रारिप्सितनिरूपणविषयं दर्मयति जीव इति- मू॥ जीवस्स्वगतभेदेन हीनो हीति पुरेरितम्। सजातीयविभेदेन हीनश्चेत्यव्न बोध्यते ॥ १॥ व्या।। पुरा षष्ठे दृष्टिसष्टिनिरूपणे जीवस्तावट्टष्टीनां प्रातिभासिकसत्ताप्रकि- यमा दृष्टिव्यतिरिक्कस्वगतवस्तुनिष्ठभेदरहित इति च सतैक्यवादप्रक्रियया तदृष्टि- निष्ठभेदेनापि विहीन इति चोक्तम्। अत्र सप्तमनिरूपणे तावत् स एव जीवः सजातीयजविश्वरनिष्ठमेदरहितः अत्युपदिश्यत इत्यर्थ: ॥१॥ अ०॥ संप्रति यस्तावत् प्राक् प्रथमनिरूपणारम्भे शिष्यैः-अगत्कारणमे- कोऽहं पदार्थ इति भातीति सप्तमाभिप्रायेणोपवर्णितः तस्थैवैकजीववादाख्यशास्त्र- गम्बत्वादिविशेषं प्रतिपिपादयिषुः तच्छिष्याणां स्वकल्पितत्वं दर्शयति मयेति- मू॥ मयैव कल्पितैरिशिष्यैः पुरा यस्तूपवर्णितः । जगत्कारणमेकोऽहं पदार्थ इति तत्परैः ॥२॥ अहमन्यवद्भामि ह्यहमेव शरीरवत्। अहं शिष्यवदाभामि ह्यहं लोकतयाश्रयः ॥ ३॥ स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः । न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः ॥ ४ ॥ क्रीडत्येको जीव एव यः पुरेषु ततो जगत्।


Page 289

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

्या। अहमन्यवदाभामीत्य ध्यारोपश्नतिस्तावदतिरोहितार्था स्वपूर्णात्मा- तिरेकेणेति खात्मभूततुरीयात्मानं विना जगजीवेश्वरादयः तुरीयात्मन्यना दिसिद्धाज्ञानदुर्विलसितं जगत् जीवः अवस्थात्रयोपेतः तत्परिकल्पित ईश्वर आधि- दैविक उपास: परमेश्वरश्वादिर्येषां खप्ने परिदृश्यमानजीवाभासतुल्यानां जीवान्तराणां ते जगज्जीवेश्वरादयो न सन्ति स्ष्टुरेवैकस प्रत्यगात्मनः सर्वत्रानुस्यूततया नानात्मवत् प्रतीते: नास्ति माया च आत्मभेदवत् कल्पितत्वादित्यपवादपरेण शतोपनिषद्वाक्येन च एक एव नीत्र इति दर्शयित्वा पुनरपि स्ात्मनि जगदध्यारोप- पराम् 'पुरत्ये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र' मिति कैवल्य- श्रुतिमर्थतः संगृह्य संवादयति क्राडत्येक इत्यादिना हि शब्देन एकजीववाद एव सर्वश्रुतेस्तात्पर्यविषयभूत इति दर्जिनः ॥५ ॥ अ० ॥ इदानी 'इहैवान्तश्शरीरे सोम्य स्् पुरुषो यस्मिन्नेताष्षोडशकलाः प्रभवन्ती'ति षोडशकळाधारस् एकवचनेन विर्देशादेकत्वं शरीरसम्बन्वोपदेशा च्छारीरत्वं च प्रतिज्ञाय 'स ईक्षांचकरे कस्मिन्वहमुत्कान्ते उत्क्रान्तो भविध्यामि कस्मिन् वा प्रतिष्टिते प्रतिष्ठास्यामी' ति।'सप्राणमसजत प्राणच्छद्धां संवायुर्ज्योति- राप: पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीयें तपो मन्त्रा: कर्म लोका लोकेषु च नाम चेति प्रश्नोपनिषदि पिप्पलादभरद्वाजसंवादे प्राणादिषोडसकलास्टटु: स्वरसृष्टप्राणतादाय- व्यासप्रयुक्त्तोत्कान्त्यादिभ्रमोपदेशेन तदेव शारीरत्वं न संप्रदर्श्य मनसश्व पुरुषाधे- यत्वैकत्वव्यपदेश्ात् तेन परिवेष्टनाभावाच्च विभुत्वेनैकजीवलं सिद्धभिल्याह यस्मिन्निति- मू ॥ यस्मिन्नेताः प्रजायन्ते शरीरे तस्य वेद्यताम्।

स्वाधेयावेष्टितत्वेन विभुत्वादेकजीवता ।७I। व्या॥ अवतरणादेवावगतार्थः॥७॥ अ०॥ इदानीं नानाजीववादिकृतं चोदमनूद्य परिहवरति एकेति- म॥ एकान्तःकरणोपेतजीवस्य विभुता यदि। परेषां सुखदुःखादेरापरोक्ष्यं भवेदयदि॥ मनःकल्पितजीवानां दृष्टिमाल्ात्मकत्वतः।

Page 290

सप्तमं एकनीववादनिरूपणम्। २८१

निरन्तःकरणत्वेन सुखदुःखादिकं यतः । नास्त्यतः परदुःसादेर्नापरोक्ष्यं विभोर्भवेत् ॥ ९॥॥ न्या॥। षष्ठनिरूपणोक्त्प्रकारेण स्वमनःकल्पितानां जीवानां दृष्टिमात- स्वरूपत्वात्तत्परिकल्पकजीवान्तः करणादतिरिक्कान्तःकरणसद्भावे प्रमाणभावाच्च निरन्तःकरणत्वेन सुखाद्यभावे सति नैतच्चोद्यावकाश इत्यर्थः ॥। ९॥॥ अ०॥ इदानीं वक्ष्यमाणश्रुतिभिः स्थूलजगत्कारणस्त्र अन्तःकरणोपाधि- कस्म जीवस्य य इति अस्येति च मनसीति चैकवचनेन निर्देशादेकत्वं सिद्धमित्याह एप इति -- मू॥ एष सुप्तेषु जागर्ति यस्त नात्येति कंश्चनं ।। हृदयं विश्वमस्येति तैजसाख्यनिनात्मनः। परे देवे मनस्येकीभवतीदं सचेतने॥ इति क्रमात्काठकाच्च मुण्डकात्प्रश्नवद्तः। स्थूलकारणतोपेतमनोयुक्तस्य चैकता ॥ १२॥ क्या। इमाशश्रुतय: प्राक् पञ्चमनिरूपणे त्रयोदशश्रोकानन्तरमुदाहाय व्याख्याता: ॥ १२॥। अ० ॥ जीवस्यैकत्वमेवाक्षिप्य दृढयति नन्विति- मू।। नन्ववस्थात्रयोपेताज्जीवादन्यो नहीति चेत्। चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं तत्र यन्वेत्।

सूर्य योऽन्तर्यमयतीत्यादिशास्त्रस्य का गतिः॥ यदि स्वकल्पितैर्देवैस्स्वस्यानुग्राह्यता तथा। उपादानतया सर्वनियन्तृत्वं च संभवेत् ॥ १५ ॥ ्या॥ स्पष्टोऽर्थः ॥१५॥ अ०॥ उक्तमेवार्थ दृष्टान्तेन प्रत्याययति स्वप्रेति -- म्॥ स्वप्े स्वकल्पितर्देवैरनुग्राह्यत्वमात्मनः । स्वस्यैव तन्नियन्तृत्वं प्रकृतित्वाद्यथा भवेत ।।

Page 291

२८२

तथैवात भवेदेकजीवस्यैवोभयं किल ॥ १६॥ ॥ न्या॥ तन्नियन्तृत्वमिति तान् स्वप्रदक्परिकल्पितादित्यादीन्प्रति- नियन्तृत्वं तन्नियन्तृत्वं। शेषस्सुगमः ॥१६॥॥ अ०।। अधुना सदृष्टान्तं कल्पकाज्जीवादतिरिक्तानां कल्पितानां जीवा- नामाभासत्वं दर्शयति स्वप्रादाविति- मू। सवप्नादौ कल्पकाज्जीवात्कल्पितानां चिदात्मनां । ॥ को भेद इति चेत् तन्तुवस्त्रवत्कल्पको भवेत्। वस्त्रालेख्यसुरादीनां वस्त्राभाससमाः परे ॥ १८ ॥ व्या।। वस्त्रालेख्यसुरादीनामिति चित्रकारेण वस्नरे परिकल्पितित्र- रूपसुरादीनामलङ्कारार्थ मष्यादिना लाञ्छितवस्त्राभाससमाः परे स्पप्नदकपरिक- ल्पितजीवाभासा इत्यर्थः ॥ १८॥ अ०॥ इदानीं कल्पकस्यैव जीवस्य स्वरूपतस्सत्यत्वाद्वन्धमोक्षाधिकारित्वं तत्परिकल्पितानां जीवाभासानां तु स्वरूपतो मिथ्यात्वात् तन्न संभवतीति सदृष्टा- न्तमाह चित्रति- मू। चित्राधारपटस्येव न सङ्कोच: प्रसारणम् । कल्पिताभासवस्त्राणां यथा तद्दच्चिदात्मनाम् ॥ कल्पितानां न बन्धादिः कल्पकस्यैव संभवेत् ॥ १९॥।॥ व्या। चिदात्मनामिति जीवाभासानामित्यर्थः ॥ संभवेत् बन्धादि- रिति पुनरध्याहर्तव्यम् ॥ १९॥॥ अ०॥ इदानीमुपपादितार्थस्यैव प्रश्नोपनिषदाद्यभिप्रेतत्वं दर्शयति यस्मि- न्निति- मू॥ यस्मिन्स्वात्मन्येष देवस्सुप्तौ स्वप्नान्न पश्यति॥ तत्राक्षरे पृथिव्यादि चक्षुरादि प्रलीयते। यथा दीप्ताद्विष्फुलिङ्गाः प्रभवन्ति सहस्रशः । तथा जीवाः प्रजायन्ते सौषुप्तादक्षरादिमे। यदाडयं कञ्चन स्वम्ं सुप्तः प्राज्ञो न पश्यति ॥ एतस्मादात्मनो बुद्धात् प्रभवन्ति सुरादयः।

Page 292

संप्षमं एकजीववादनिरूपणम् । २८२

एतस्मादात्मनस्सुप्तात्सुराद्या व्युच्चरन्ति च।। मय्येव सकलं जातं मयि सर्वे प्रताष्ठितम् । माये सर्व लयं याति तद्रह्माद्वयमस्म्यहम् ॥ योऽयं पुरत्रये जीवः क्रीडत्यज्ञस्ततो जगत् ॥ इति क्रमात्प्रश्नवेदात्तन्मूलान्मुण्डकादपि।

कैवल्यश्रुतितस्तस्य सुरानुग्राह्यताभ्रमः । उपादानत्वतस्स्वस्यैषोऽन्तर्यामीति च श्रुतेः ॥ सर्वान्प्रति नियन्तृत्वं कल्पकस्य यतो भवेत् । अत आध्यात्मिके सर्ववेदान्तानां समन्वयः ॥ २७॥।॥ व्या॥ सस्येति पदद्याभिधेयस्यावस्थान्रयवतो जीवस कल्पकस्येति विशेषणं-यस्मिन्नित्यादिश्रोकैः सङ्गहीताः प्रश्नोपनिषदादिमाण्डक्यान्ताः श्रुतय- स्तावत् प्राक् पञ्च मनिरूपणे पञ्चदशाच्छलोकादारभ्योदाहृत्य विस्तरेण व्याख्याताः। किञ्च सर्वेषां ज्ञेय प्रकरणगतानामीशोपनिषदादिवाक्यानां आधिदैविके परमे- श्वरे समन्वयं विनैव एकस्मिन्नाध्यात्मिके मूलाज्ञानोपाधिके परमात्मादिसंज्ञके प्राज्ञे तदीयशुद्धस्वरूपे च क्रमात् समन्वयोऽवगम्यते। तथाहि। 'ईशांवास्यमिदं सर्वे यत्किञ्च जगत्यां जगत्। तेन त्यक्केन भुञ्जीथा मागृथ: कस्य स्विद्धन' मित्युपक्रम्य 'यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते। यस्मिन्सर्वाणि भूतान्यात्मवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यत' इत्या्यात्मिकस्य प्राज्ञस्याध्यासिकजग- दुपादानत्वप्रतिपादनद्वारा तच्छुद्धस्वरूपे ईशोपनिषद्वाक्यानि तद्भाष्याणि च सम- न्वितानि। तथैव 'केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्त्ः । केने- षितां वाचमिमां वदन्ति चक्षुशश्रोत्रं क उ देवो युनक्ती'ति केनोपनिषन्परदर्शि- तस्य प्रश्नस्य 'श्रोत्रस्य श्रोत्र मनसो मन' इत्यादि प्रतिवचनवाक्यानि च आधि- दैविके परमेश्वरे शिवविष्ण्वादौ तात्पर्य बिना श्रोत्रेन्द्रियादिप्रेरकत्वेन तवबिषये च अविद्यातत्कार्यातीते स्वात्मन्याध्यात्मिके हि समन्वितानि।

Page 293

१८४ अद्वैत सिद्धान्तगुरुचन्द्रिकायां

एवमेव। 'यद्वाचानभ्युदितं येन वागभ्युद्ते। तदेव ब्रह्म -त्वं विद्धि नेदं बदिदमुपासते' इंत्यादीनि तदुत्तरवाक्यानि च- तदीयानीमानि अन्यदेव तद्वदिता- दथोSविदितादघीत्यनेन पूर्ववाक्येन आत्मा ब्रह्मेति प्रतिपादिते। श्रोतुराशक्का जाता-तत्कथं त्वात्मा ब्रह्म आत्मा हि नाम अधिकृतः कर्मण्यु- पासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान् स्वगे वा प्राप्तमि- चछति। तत् तस्मादन्यत् उपास्यो विष्णुरीश्वर इन्द्रश्च प्राणो वा ब्रह्म भवितुमहंति- नत्वात्मा - लोकप्रत्ययविरोधात् यथाऽन्ये तार्किकाः ईश्वरादन्य आत्मेत्याचक्षते- तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते - तस्मादुक्ं यद्विदित- मुपास्यं तद्रह्म भवेत्। ततोऽन्य एवोपासक इति तामेतामाशङ्कां शिष्यस्याचार्यो लिग्ेन उपलक्ष्य तद्वाक्याद्वाह। मेवं शहिष्ठाः यत् चतन्यमात्रसत्ताकं वाचा पदरूपया अनभ्युदितं अप्रकाशितमनभ्युक्तं येन ब्रह्मणा वाकू सकरणा पदरूपा विवक्षितेऽर्ये अभ्युद्यते वैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतदित्यारभ्य तदेव आत्मरूपं ब्रह्म निरति शयं भूमाख्यं बृहल्वात् ब्रह्मेति विद्धि विजानीहि त्वं यैर्वागायुपाभिभि: वाचो ह वाक् चक्षुषश्चक्षुश्श्रोत्रस्य श्रोतं मनसो मनः कर्ता भोक्ता विज्ञाता नियन्ता प्रशासि- ता विज्ञानमानन्दं ब्रह्मेत्यवमादयः संव्यवहाराः असंव्यवहार्ये निर्विशेषे परे सौम्ये ब्रह्मणि प्रवतन्ते। तान् व्युंदस्य आत्मानमेव निर्विशेषं ब्रह्म बिद्धीत्ेवशब्दार्थः॥ मेदूं ब्रह्म-श्रुतिरेव निषेधगोचरमिंद शब्दार्थ द्शयति यदिदमुपासत इते यस् इदमित्युपाधिभेदविशिष्टं अनात्मेश्वरादिकमुपासते ध्यायन्ति तदेव ब्रह्म त्वं विद्धीति प्रथमत उक्ेऽपि नेदं ब्रह्मेत्यनात्मनो-टि-हरिहरादेराधिदविकस्य अव्रह्मत्वं पुनरुच्यत - कदाचित् अनात्मन्यपि ब्रह्मबुद्धौ प्रवृत्तायामात्मैन ब्रह्मेति बुद्धिनियमार्थ अन्यस्मिन्नुवास्ये-टि-हरिहरादा या ब्रह्मबुद्धिस्तत्परिसङ्गयानार्थ वेत्यादि भाष्याणि च आधिदैविकस्य शिवावष्ण्वादेः स्वस्वरूपविषये व्यामोहाभा- बेन आध्यासिकोपादानत्वासंभवात् आध्यात्मिकस्य व्यामोहितत्वेन तज्जगदुपादा- मत्वसंभवादद्वितीये तस्मिन्नेव विज्ञेये समन्वितानि।

किञ्व प्रागुकतप्रकारेण ईशकेनोपनिषद्वाक्यानीव आधिदैविके विवर्तोपादान- त्वसमर्पकप्रतिबन्धकाभाववर्जिते परमेश्ररे समन्वयं विनैव आध्यात्मिक परमा- त्मादिसंज्ञके व्यापकाज्ञानोपाधिके प्राज्े तदीयशुद्धस्वरूपे च कमात्कठोपनिषत्तन्मूळ- कगुहाधिकरणादितद्द्राष्याणि च समन्वितानि।

Page 294

सप्तमं एकजीववादनिरूपणम्।

तथाहि 'येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैक इल्या- रभ्य''तं दुर्दर्शे गूढमनुप्रविष्टं गुह्दाहितं गह्गरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहातीति' वाक्यनिर्दिष्टे आध्यात्मिके एव-'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत्ते पदं सङ्गहेण ब्रवीम्योमित्येतत्' इत्यादिवाक्येन सर्ववेदान्तानां समन्वयं प्रतिज्ञाया- नन्तरं तस्यैव-'एतद्वयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परं एतद्येवाक्षरं ज्ञात्वा यो मरिच्छति तस्य तदिति' वाक्यं तद्गतं ह्ेवेति विद्वत्प्रसिद्ध यन्यविज्ञेयनिवृत्तिपर पदद्वयतदभ्यासैः अक्षरव्रह्मादिशव्दगम्यत्वमादिश्य अनन्तरं-यस्य व्रह्म च क्षत्रं च उभे भवत ओदन: । मृत्युयस्योपसेचनं क इत्था वेद यत्र स' इति वाक्यस् च प्रकृत एवाध्यात्मिके समन्धयमादिश्य पश्चादपि 'ऋतं पिबन्तौ सुकृतख लोके मुहां प्रविष्टाविति'मन्त्रस्य च ।। श्रो० ॥ अतोऽन्तःकरणाध्यस्तानध्यस्तत्वेन चात्मनः । भोक्तत्वं साक्षिता चेति दवयं तस्योपपद्यते इत्यादिशिवगीतोक- प्रकारेण गुहायामहमिति तादात्म्याध्यासतदभावाभ्यां क्रमात् जीवभावपर- मात्मभावोपेते आध्यात्मिके एव समन्वयं संप्रदर्श्य अनन्तरं 'सोऽध्वनः पारमाप्रोति तदविष्णोः परमं पदम । इन्द्रियेभ्यः परा ह्र्थाः' इत्यादिवाकयैः 'सता सोभ्य तदा संपन्नो भवति स्वमपीतो भवतीति' श्रृत्यत्यन्तरेणेव विज्ञान- मयस्य प्राप्तृत्वादिकं पर मात्मादिशब्दबाच्यस्य प्रयगात्मनः प्राप्यत्वादिकञ्चोष- दिश्व पश्चात्तस्यैवाध्यात्मिकस्य प्रत्यगात्मनः 'कशविद्धरिः प्रत्यगात्मानमैक्षदावृत्त- यक्षरमृतत्वमिच्छत्निति' वाक्येन चेक्षणविषयत्वं मुमुक्षोरादिश्य पश्चात्तस्मित्रेव अद्वितीय तग्रहणार्थे 'अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभ- व्यस्ष्य स एवाद्य सउश्रः । एतद्वैतदिति' वाक्यस्य जगत्कारणत्वप्रतिपादकस्य च समन्वयमुपदिश्य अन्ते च 'ब्रह्म प्राप्तो विरजोSमूद्विमृन्युरन्योऽप्येवं यो विदंध्यंा- त्ममेवेत्याध्यात्मिके एव स्वात्मनि यतस्समन्विता - कठोपनिषत् अतः तदीय- तत्तद्वाक्यमूलकस्य-अत्ता चराचरप्रहणादित्यधिकरणस्य तद्भाष्यस्य च-गुहां प्रविष्टावात्मानौ हि तदर्शनादित्यधिकरणस्य तदीयस्यास्य तस्मादिह ऋतपानमन्त्रे नीवपरमात्मानावुच्येयातां एष एव न्यायो द्वासुपर्णासयुजा सखायेत्येवमादिष्वपि । तत्राप्यध्यात्माधिकारात् न प्राकृतौ सुपर्णावुच्येते इति भाध्यस्य च-आध्यानाय प्रयोजनाभावादित्याधकरणस्य तद्धाध्यस्य च-शब्दादेव प्रमित इत्यधिकरणस्य तद्द्राष्यस्य च आध्यात्मिके प्राज्े तदीयतुरीयस्वरूपे च क्र्मात् समन्वयस्सिद्धः । किञ्चोदीरितेशकेनकठोपनिषद्वाक्यानीवेयं सभाध्या प्रश्नोपनिषदपि'भगवन् कुत एष प्राणो जायत'इति प्रश्नस्य 'आत्मन एष प्राणो जायत'इांत प्रतिवचनेन च।

Page 295

१८६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

तथैव 'कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति' प्रश्नस्य 'स यथा सोम्य व- यांसि वासो वृक्षं संप्रतिष्ठन्ते एवं हवै तत् सर्वे पर आत्मान संप्रतिष्ठते पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्र वायुमात्रा चाकाश- श्राकाशमाता च चक्षुश्च द्रष्व्यञ्च श्रोतं च श्रोतव्यञ्च घ्राणञच घ्रातव्यञ्च रसश् रसयितव्यं च त्वक् च स्पशयितव्यं च वाक् च वक्तव्यञ्च हस्तौ चादातव्यञ्च उपस्थश्चानन्दयितव्यञ्च पायुश्च विसर्जयितव्यञ्च पादौ च गन्तव्यं च मनश्च मन्तव्यञ्च बुद्धिश्च बोद्धव्यञ्चाहङ्कारश्षाहङ्कर्तव्यञ्च चित्तञ्च चेतयितव्यञ्च तेजश्र विद्योतयितव्यं च प्राणश्च विधारययितव्यं चेति' वाक्यैश् सौषुप्तादाध्यात्मिकात प्राज्ञादाविद्यकजगदुत्पत्ति तस्मिन्नेव तल्यं चावेद्यानन्तरम्।

'एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष इति' वाक्येन तस्यैवाध्यात्मिकस्य परात्मत्वेन प्राकू निर्दिष्टस्य प्राज्ञस्य स्वारोपित- कार्य करणेSहमित्यध्यासात् विज्ञानमयत्वरूपं संसारिखमुपदिश्य। 'स परेऽक्षरे आत्मनि संप्रतिष्ठते' इत्यनेन वाक्येन सुषुप्तिकाले विज्ञान- मयस्य जीवस्योपाधिविलयात अक्षरपर मात्मसंज्ञकसौषुप्तप्राजरूपेणावस्थानं चादिश्य

'स यो हवै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वश्स्सर्वांभवति तदेष श्रोकः॥ विज्ञानात्मा सह देवैश्च सर्वेः प्राणा भूतानि संप्र- विष्ठन्ति यत्र। तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञस्सर्वमेवाविवेशेति' वाक्येन व तदेव सौषुप्तमक्षराख्यमध्यात्मं तदीयं शुद्धस्त्ररूपं चाहमस्मीति विजानतः स- र्वज्ञत्वसर्वात्मकत्वोपदेशेन स्वस्मिन्ताध्यात्मिक एव समन्विता भवति। एवमेवेश केन कठ प्रश्न वाक्यानीव मुण्डकोपनिषद्पि 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति' प्रश्नेः तत्प्रतिवचनावसरे 'द्वे विद्ये वेदितव्ये' इत्यादिवाक्येन परापरविभागेन विद्ादयं प्रतिज्ञाय तयोर्मध्ये 'अथ परा यया तदक्षरमधिगम्यते यत्तददृश्येमग्राह्यमगोन्नमवर्णमचक्षुशश्रोत्रं तदपाशिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्धतयोनि परिपश्यन्ति धीरा इति' वाक्येन जग- त्कारणत्वेन प्रतिबोधितस्य अक्षरसंज्ञकम्य विद्याधिगम्यस्य पुनरपि विद्याविषय- लेन आध्या्मिकत्वेन च परामर्शकस्य 'यस्मिन्ययौः पृथिवी चान्तरिक्षमोतम्मनस्स- ह प्राणश्च सर्वैः । तमवैकं जानथात्मानमिति' तदुत्तरवाक्यस्य च'न तत्न सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभिः। तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभातीति वाक्यस्य च समन्वयं दर्शयति।

Page 296

सप्तमं एकजीववादनिरूपणम्। २८७

किञ्च 'इयदामननादिति गुणोपसंहारपादगतस् एकविंशाधिकरणखा- नेन' द्वासुपर्णा सयजा सखाया समानं वृक्षं परिषखजाते। तयोरन्यः पिप्पलंस्वा- द्वत्त्यनश्नन्नन्योऽभिचाकशीतीत्यध्यात्माधिकारे मन्तमाथर्वणिकारकाः श्वेताश्वतराश्र पठन्ति तथा कठाश्वेति भाष्योक्तप्रकारेण प्रागुक्ताथर्वणशाखीयमुण्डकोपनिषदः तत्त- द्वाक्यमूलकं-अदृश्यत्वादिगुणको धर्मोक्ते' रित्यधिकरणं तद्भाष्यञ्च 'दुम्वाद्यायतनं स्वशब्दा' दित्यधिकरणं तन्भाष्यं च। 'अनुकृतेस्तस्य चे' त्यधिकरणं तद्भाष्यं च 'इयदामनना' दित्यधिकरणं तद्भाष्यं चाध्यात्मिके प्राज्ञे तादयशुद्धस्वरूपे च क्रमा- तसमन्वितं भवाि। एवमेव माण्डूक्योपनिषदपि सर्वे ह्येतद्रह्मेति' वाक्येन नगतस्समस्तस्य ब्रह्मप्रकृतिकत्वमुपदिश्य किं तद्रह्मेति प्राप्ते-'अयमात्मा ब्रह्मेति वाक्येनाध्यात्मिकं प्रत्यगेव ब्रह्मेति दर्शयित्वा पुनस्तस्यैवाध्यात्मिकस्य स्वात्मनः जीवेश्वरभावं बन्ध- मोक्षाधिकारित्वञ्च प्रदर्शयतुं सोऽयमात्मा चतुष्पादिति' वाक्येन पूर्वोत्तरावस्थाभे- देन चातुर्विध्यं प्रतिज्ञाय ततादौ 'जागरितस्थानो बहिःप्रज्ञस्सप्ाङ्ग एकोनविशति मुखः स्थूलभुग्वैश्वानरः प्रथमः पादः । स्वप्नस्थानोऽन्तःप्रज्ञस्सप्ताङ्ग एकोनवि- शतिमुखः प्रविवित्तभुक् तैजसो द्वितीयः पाद' इति वाक्येन जाग्रत्खप्रकाले प्रथ- मद्वितीयपादत्वेन बन्धमोक्षाधिकारयोग्यं शरीरेन्द्रियसङ्काते अहमित्यध्यासवत्स- रूपं संप्रदर्श्य। 'यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन खम पश्यति तत् सुधुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक चेतोमुखः प्राज्ञस्तृतीय: पादः। एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य प्रभ- वाप्ययौ हि भूताना'मिति'वाक्येन तृतीयपादत्वेन निर्दिष्टस्य आध्यात्मिकस्य प्राजस्य प्रागुक्तेशकेन कठ प्रश्नमुण्डकवाक्यानुसारेणैव आविद्यकनिखिलजगदुपादानत्वं निर- कुशमादिश्यानन्तरं-'नान्तःप्रशं न वहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं न

प्रपञ्चोपशमं शान्तं शिवमद्वैत चतुर्थ मन्यन्ते स आत्मा स विज्ञेय' इत्या- ध्यात्मिक एव समन्विता भवति। एवमेव माण्डूक्यार्थप्रकाशिकया सभाष्यया ॥ श्रो॥ 'कार्यकारणसबद्धावि- ष्येते विश्वतैजसौ। प्राज्ञः कारणबद्धस्तु दौ तौ तुर्ये न सिद्धयत इति श्रीगौडपाद- कारिकयापि आध्यात्मिक एव माण्डक्यश्रुतेः समन्वयो दर्शितः । एवमेव-'कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्ते' रित्यधिकरणे तदीये- नानेन सत्यपि प्रतिवेदान्तं सटज्यमानेष्वाकाशादिषु क्रमद्वारके दिगाने न स्रष्टरे

Page 297

१८८ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

किञ्चिद्विगानमस्ति-कुंतः-यथा व्यपदिष्टोक्केः यथा भूतो ह्ेकस्मिन्वेदान्ते सवज्ञ स्सर्वेश्वरस्सर्वात्मकोSद्वितीयः कारणत्वेन व्यपदिष्टः तथा भूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते तद्यथा-'सत्यं ज्ञानमनन्तं ब्रह्मे' त्यत्र तावत् ज्ञानशब्देन-परेण च तद्विषयेग कामयतृत्ववचनेन चेतनं ब्रह्म न्वरूरूपच्छाततं-अपरप्रयोज्यत्वेनेश्वरं का- रणमन्रवीत् -तद्विषयेणैव परेण तस्माद्वा एतस्मादात्मन आकाशस्संभूत इत्यात्म- शब्देन शरीरादिकोशपरंपरया च अन्तरान्तरात्मानुप्रचेशनेन सर्वेषां नः प्रत्यगा- त्मान निरधारयत्-'सोऽकामयत बहुस्यां प्रजायेयेति च आत्मविषयेण बहुभवनाश- सनेन सज्यमानानां विकाराणं स्ष्टुरभेदमभाषत। तथा 'इदं सर्वमसृजत यदिदं किञ्चेति' समस्तजगत्ष्टिनिर्देशन प्राक सष्टेरदद्वितीयं स्रष्टारमाचष्टे।

तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि विज्ञायते 'सदेव साम्येदमप्र आसीत एकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोSसृजत स्रता सोम्य तदा संपन्नो भवति स्वमपतिो भवती'ति।

तथा 'आत्मा वा इदमेक एवाम्र आसीभान्यत्किऊचन मिषत्स ईक्षत लोकान्नु सना' इति च।

एवं जातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तम- विगातिार्थत्वादिति भाष्येण च प्रागुक्तेशकेन कठ प्रश्न मुण्ड माण्डूक्य तत्तद्भाष्ये- रिव तैत्तिरायतरयछान्दोग्य जगत्कारणत्वेन निर्दिष्टे आध्यात्मिक एव तेषां सम- न्वयो दर्शितः ।

एवमेव छान्दोग्यस्याप्यवगतिसामान्यप्रदर्शनाय श्रीब्रह्मणा स्वगीतायां षष्ठाध्याये -श्रो॥ यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः। उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः। तथा सुषुप्ती गच्छन्त्यो ब्रह्म लोकं स्वयं प्रभम्। न विन्दन्ति महामोहादहो मोहस्य वैभवम् ।

अय हृदि स्थितस्साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तरिशवस्संसार- नेचकः । य एवं वेद स स्वर्ग लोकमेति न संशयः। अस्माच्छरीरादुत्थाय सुप्- रस्सुरर्षभाः। परं ज्योति स्वरूपं तं शिंवस्सपद्य हेसुराः। अभिनिष्पद्यते स्वेन व स्वभावतः । एष आत्मा न चैवान्य :- सत्यमेव मयोदितम्। एतदेवामृतं

Page 298

सपमं एकजीववादनिरूपणम् २८९

साक्षादभयं ब्रह्म हे सुराः । य आत्मा दहराकाशस्ससेतुर्विवृतिस्सुराः। असंभेदाय लेकानामेषामेतं महेश्वरम्। अहोरात्रे न तरतो न मृत्युन जरापि चेत्यादिव चनैर वस्था- न्रयवनि खात्मनि दहराकाशत्वजगत्सेतुत्वनिर्मातृत्वद्वारा तुरीये प्रतीचि समन्व- यो दार्शित: । किञ्च आनन्दस्य, मीमांसाफलमुपसंहियते स यञ्चायं पुरुष इति यः गुहायां निहितः परमे व्योत्रि आकाशादिकार्ये संष्ट्रान्नमयान्तं तदेवानु प्रविष्टश्च स -- इति-टि-वक्ष्यमाणप्रकारेण-निर्दिश्यते कोडंसौ-अयं पुरुषे इति अनेन 'भीषास्मा- द्वात: पवत' इत्यष्टमानुवाकभाष्येण। इहैवान्तरशरीरे सोम्य स पुरुष इति श्रुतितद्भाष्यार्थप्रकाशकत्वेनास्माभिः प्रागुदाहृततृतीयनिरूपणोक्तप्रकारेण स्वात्मनो S परिवेष्ठ के शरीरेS हमिति प्रतीय- मान आध्यात्मिक एवं निखिलमाकाशादन्नमयान्तं कार्ये स्वस्मिन्नध्यस्य तत्राभि- मन्ता-अयं पुरुषे इति निर्दिश्यते इत्युक्त्वा पुनस्तखैव। तत्रत्येनैवानेन यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति च सः यश्चासावादित्ये इति निर्दिश्यत इति भाष्येण च। 'कश्रिद्धीरः प्रत्यगात्मानमैक्षदावृतचक्षुरमृतत्वमिच्छन् अध्यात्मयोगधिगमे न देवम्मत्वा धीरो हर्षशोकौ जहाती' त्यादि श्रृत्यन्तरोक्तप्रकारेण युवा स्यात् साधु युवाऽध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस पूर्णा स्ात् स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्ध- र्धाणामानन्दः श्रोतियस चाकामहृतस्येत्यारभ्य उत्तरोत्तरं शतगुणाधिक्येन संभा- व्यमानानां देवगन्धर्वादिहिरण्यगर्भावसानकानन्दानां श्रोत्रियस चाकामहतस्ेत्य- भ्यासेन सात्मतया श्रोत्रियप्रत्यक्षत्वेन निर्दिष्टस्याध्यात्मिकस्य प्रागुक्ताकाशादन्न- मयान्तविकारान्तःपात्यादवित्यमण्डलेSप्यनुवृत्त्यवगमात् तदविरोवेनैव तत्पूर्वापरेषा ज्ञेयस्वरूपपराणां तैत्तिरीयकवाक्यानामप्याध्यात्मिक एव समन्वयख यथावच्छ्री- तार्थजिज्ञासवे भगवताSस्मद्भाष्यक्ता दर्शितत्वात्तथैव ग्रहीतव्यः नाधिदैविके। किञ्च ईक्षत्यधिकरणे 'गतिसामान्या' दिति सूत्रेण तदीयेनानेन समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः 'यथाग्नेज्वलतस्सर्वा दिशो विष्फुलिङ्गा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनस्सर्वे प्राणा यंथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा: देवेभ्यो लोका' इति। 'तस्माद्वा एतस्मादात्मन आकाशस्संभूत' इति-'आत्मन एवेदं सर्वमिति आत्मन एष प्राणो जायत इनि च आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ता: आत्मशब्दथ्ेतनवचन इत्यवोचाम-महच्च प्रामाण्यकारणमेतत् यद्वे- 25

Page 299

२९० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

दान्तवाक्यानां चेतनकारणत्वेसमानावगतित्वं चक्षुरादीनामिव रूपादिषु अतो गतिसामान्यात् सर्वजञं ब्रह्म जगतः कारणं न प्रधानमिति भाष्येण च उदाहृत- कौषीतकीतैत्तिरीयकप्रश्नपनिषद्रतात्मशब्दस्य निरुपपदस्यात्मशब्दस्य प्रत्यगात्म- नि रूढलादिति तत्र तत्न भाष्योक्तप्रकारेण च 'क्षेत्रज्ञ आत्मा पुरुषः प्राणी तु चेतनो जन्मी जन्तुर्जन्युश्शरीरिण इत्यमरकोशोक्तप्रकारेण च' चेतने ब्रह्मत्वाश्रये आध्या- त्मिके एव समन्वयों दर्शितः । एवमेव-'अक्षरमम्बरान्तघृतेः' अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्या- मौपसदवत्तदुक्तमित्यधिकरणद्वयेन लिलक्षयिषितस्य 'कस्मिन्नु खल्वाकाश ओतश्व पतश्चेति प्रश्ने सहोवाच 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमन- [्व'त्यारभ्य 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश् प्रोतश्चे'ति बार्हृदारण्यपञ्च- माध्यायवचनस्य सर्वजगदुपादानभूतमूलाज्ञानाधिष्ठान प्रत्यगात्मपंरस्य तत्र भाष्य- कारैः 'अथ परा • यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्य मगोत्रमवर्णमचक्षुः- श्रोतरं तदपाणिपाद नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्धतयोनिं परिपश्यन्ति धीरा' इति मुण्डकोपनिषदा तद्भाष्येण च निर्धारिते आध्यात्मिके समन्वयो दर्शितः। एवमेव च 'यदा सुप्तः स्वप्नं न, कञ्चन पश्यति अथास्मिन्प्राण एवैकधा भवति तदैनं वाक् सर्वैर्नामभिस्सहाप्येति चक्षुस्सवैं रूपैस्सहाप्येती'त्यादिकौषीतकी- श्रुतेश्च 'पुरत्नये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्र'मिति कैवल्य- श्रुतेश्च स्पष्टमेवाध्यात्मिके समन्वयोऽवगम्यते। किञ्च भगवता श्रीव्रह्मणा व्रह्मगीतायाः चतुर्थाध्यायगतेनानेन ॥ श्रो॥ तस्मा- दस्ति महादेव एव साक्षात्स्वयं प्रभः॥। आनन्दरूपस्संपूर्णो न ततोSन्यत्तु किञ्चन। इयमेव तु तर्काणां निष्ठा काष्ठा सुरोत्तमाः । प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्व- राः। स्मृतीनाञ्च पुराणानां भारतस्य तथैव च। वेदानुसारिविद्यानामन्यासामा- स्तिकोत्तमाः ॥ शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च। अस्मदुक्त्तागमस्यापि सुरास्सूक्ष्मनिदर्शने। बुद्धागमानां सर्वेषामिति वच- नेन सर्वश्रुतिस्मृतीतिहासपुराणागमानां तदितरप्रमाणानाञ्चाध्यात्मिके प्रत्यगा त्मन्येव यस्समन्वयो दर्शितः स तु द्वितीयनिरूपणे पञ्चसप्तत्युत्तरशततमादिश्रो-

एवमेव चित्रदीपे श्रीविद्यारण्याचायैः। श्रो॥ सदा विचारये त्तस्माज्जगज्जी- वपरात्मनः । जीवभावजगद्भावबाधे स्वात्मैव शिष्यते इति जीवभावजगन्भावयोः स्वात्मावस्थाविशेषत्वप्रदर्शनेनाध्यात्मिके सर्वशास्त्राणां समन्वयो दर्शितः ।

Page 300

सप्तमं एंकजीववादनिरूपणम् २९१

किं बहुनाऽस्मिन् शास्त्रे चतुर्थनिरूपणं विना प्रथमादिसप्तमान्तनिरूपणै- र्निरूपितानां श्रुत्यादिप्रमाणानां आध्यात्मिके प्रत्यगात्मन्येव समन्वयमवादिष्म। उदर्के चाष्टमादिनिरूपणैर्वक्ष्यमाणानां शास्त्राणामप्याध्यात्मिके स्वात्मन्येव समन्वयं प्रदर्शयष्यामः ॥ २७ ॥ अ० ॥ नन्वेवमेकस्परेव अनेकेषामप्यवस्थात्रयवतां जीवानां तत्तदविद्यया स्वस्मिन्पार्थक्येन जगद्भावभोक्तृत्वादिसंसाराड्गीकारे जीवभेदेन बन्धमुक्तिव्यवस्था- परशास्त्रस्य सामञ्जस्यं भवेदित्याक्षिप्य निराकरोति नन्वेवमिति -- मू।। नन्वेवं बहुजीवानां सािदैवस्य हेतुता ।। स्याच्चेत्तदा बन्धमोक्षव्यवस्था चात्मभेदतः । सिध्येद्यदि प्रपीड्येत जीवनानात्वखण्डकम्।। अजाधिकरणीयं यन्भाष्यं किं चेत्तदुच्यते ॥ २९।।॥ व्या० ॥ साधिदैवस्येति जगत इति शेष: अजाधिकरणीयमिति अजामेकां लोहितशुक्लकृष्णामित्यादिश्रुतिमूलकचमसाधिकरणीयं भाष्यमित्यर्थ: ॥ अ०॥ इदानीं तदेव जीवनानात्वखण्डनपरं 'अजामेकां लोहितशुक्रकृष्णां बह्नीः प्रजाः सजमानां सरूपाः । अजो ह्येको जुषमाणो Sनुशेते जहात्येनां भुक्त- भोगामजोऽन्य' इति श्रुत्यवष्टम्भेन न चेदमाशङ्कितव्यं एक: क्षेत्रज्ञोऽनुशेते तदन्यो जहाती्यतः क्षेत्रज्ञमेदः पारमार्थिकः परेषां साङ्ग्यानामिष्टः प्राप्नोतीति- नहीयं श्रुतिः क्षेत्रज्ञभेदप्रिपिपादायेषा-किन्तु बन्धसोक्षव्यवस्थाप्रतिपि- पादयिषैवैषा - प्रसिद्धन्तु - भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते - भेदस्तूपा- विनिमित्तो मिध्याज्ञानपरिकल्पितो न पारमार्थिक :- 'एको देवस्सर्वभूतेषु गूढस्सर्व- व्यापी सर्वभूतान्तरात्मे'त्यादि श्रतिभ्य इत्यन्त चमसािकरणभाष्यं अर्थतस्संगृ- ह्म एकजीववादे प्रमाणयति अज इति- मू॥। अजो ह्येक इति श्रुत्या जीवभेद: प्रदर्शतः ॥ इत्याशङ्का न कर्तव्या -नात्मभेदपरा त्वियम्। कि त्वेकस्य अ्रमात्प्राप्तभेदमेवानुभाष्य च।। भूसात्माध्यासतो बन्धस्तद्विवेकाद्विमुक्तता। इति बन्धविमोक्षाख्यव्यवस्थावादिनी श्रुतिः ।

Page 301

१९२ अद्वैतसिद्धान्त गुरुचन्द्रिकायां

इत्यादिश्य यतश्रत्िवको देव इति श्रुतिं। प्रमाणयत्यतोऽनेकतनुषु ह्येकजीवकः ॥३३ ॥ हया॥ एकस्यैव जीवस्यान्रिवृत्कृतेषु स्थूलभूतादुपादानकारणेषु तेजोब- न्नेषु अहमित्यध्यासवशाद्न्धः अंह तत्तेजोबन्नादिसाक्षित्वेन तद्भ्िन्न इति विवे- कज्ञानात् तस्यैव मोक्षश्र भवतीति बन्धमुक्तिव्यवस्थापरत्वं तस्याः श्रुतेरादिश्य पुनस्तेषामेव निरीश्चराणां साङ्ग्यानां जीवनानात्वभ्रमनिरासविषये यस्मात् 'एको देवस्सर्वभूतेषु गूढ' इत्यादिश्रुति प्रमाणयत्याचार्यः तस्मादनेकशरीरेष्वेकजीववाद स्सिद्ध इत्यर्थ: ॥ अ० ॥ ननु, भाध्यकारैरेकजीववादानुगुण्येन व्याख्यातस्य अजामेकामि त्यादिश्वेताश्वतरमन्त्रस्य जीवनानात्वपरत्वे को दोष इति प्रश्नपूर्वकं तत्न बाधं दर्श- यति -- जीवेति। मू। जीवभेदपरत्वेऽस्याइश्रुतेः को दोष उच्यते। तयोभेंदे विभिन्ना स्यादजेहैकैव गम्यते।। सन्निकृष्टपरादेतच्छब्दात्तैस्साधु दर्शितम् ॥। ३४ ।। व्या। तथारिति अजाशब्दितत जोबन्नोपाधिकयोःबन्धमोक्षाधिकारिणोः अविदूज्ज्ञानिनो: भेदपक्षे तत्तदुपाधिभूताप्यज्ञा महाभूतत्रयरूपा विभिन्ना भवितु- मर्हति। ज्ञानेन विनष्टायाः विद्वदुपलक्षणभूतायाः अजायास्सकाशादन्यखाः अवि- दूद्विशेषणभूताया अजाया: यावदविद्यसुपसेव्यत्वात् न तयोर्भेद इहावगम्यते-किंतु अजामेकां लोहितशुकलकृष्णां बह्मी: प्रजाः सजमानां सरूपा :- अजो हेको जुष- माणोऽनुशेत इति' सन्त्रपूर्वभ्राणेब या पुनरजा-स्वाभिमानिना जीवेनोपभुज्य- मानत्वेनोपदिष्टा तामेव एनां भु्तभोगामिति तम्मन्त्रोत्तरभागगतैतच्छव्देन परा- मृश्य जहातीत्युक्ते तां जुषमाण इति पूर्वभागोक्तभोक्तैव तत्त्यागीति वत्तुं शक्यते- इन्यथा प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातां अतो भगवद्भिर्भाष्यकारैर्यत् तच्छूते- जींवभेदभ्रमीनिरासपरत्वं दर्शितं तदेव सान्वियर्थः ॥ ३४ ॥ अ० ॥ चिदेकत्ववादिनः जीबभेदेन बन्धमुत्तिव्यवस्थाऽनुपपत्ति दिदर्श- गिषुरादौ चिद्ेदस्य सत्यत्ववादिन एव तदुपपत्ति दर्शयति यखेति- मू।। यस्य सत्यो व्यक्तिभेदो जीवानाश्च तदीरायोः। बन्धमुक्तिव्यवस्था तु संगता तस्य वादिनः ।। ३५।।

Page 302

सप्तमं एकजीववाद्निरूपणम् २९१

कैया० ॥ यस्य वादिन: इत्यन्वयः तदीशयारिति जीवेशयोरित्यर्थः तच्चितोर्योग इत्यादाविव द्वन्द्वः नैकशेषः ।३५॥ अ०॥ इदानीं चिदभेदवादिनस्तदनुपपत्तिमाह-जीवेशयोरिति- मू। जीवेशयोश्च जीवानां यस्य भेदो अ्रमात्मक: । पुंभेदेन व्यवस्थेयं कथं तस्य समञ्जसा ॥ ३६॥ व्या०।। यस्य वादिन ईशात्मनो: कल्पककल्पितज़ीवानां च कालत एव भेद: न देशनः तस्य पुरुषभेदेन न बन्धादिरभ्युपेया ॥ ३६ ॥ अ० ॥ उपपादितार्थे चोद्यमनुवदति अद्वैतिनामिति- मू॥ अद्वैतिनां चिदेकत्वे जीवाश्चिद्वेष्टकैर्जडैः । अवच्छिन्ना ब्रह्मणोंशा आभासाश्चेति कल्पनैः ॥ जीवेशयोश्च जवानां भेदात्सा चेत्प्रसिध्यति ॥ ३७॥॥ व्या। चिद्वेष्टकैरिति ब्रह्मपरिवेष्टकैरुपाविभिः अवच्छिन्नव्रह्मरूपाः जीवाः अथवा ब्रह्मांशा उत ब्रह्मप्रतिबिम्बभूता भवेयुरिति कल्पनैः जीवेशयोर्जीवानाञ्चो- पाधिकृतभे दसभवाज्जीव भेदेन बन्धमुक्तिव्यवस्था सिध्यत्ेवेत्याक्षेपमनुवद्ति चेदि- ति -- अ०॥ तच्चोदं निराकरोति ब्रह्मण इति- मू॥ ब्रह्मणो वेष्टनाभावात्तृतीयोक्तप्रकारतः । जीवस्य प्रतिबिम्बत्वव्रह्मांशत्वाद्यभावतः । नानात्वाभावतो नो चेत्कृतहानादिसंभवात्। पुंभेदेन व्यवस्थेति सुतरां नोपपद्यते ॥ ३९॥॥ व्या।। तृतायनिरूपणोक्तप्रकारेण निरवयवस्य ब्रह्मणः तदुपाधिभूतशरि- त्रयेणापि परिवेष्टनाद्यसंभवात्कृतहानाकृताभ्यागमादिदोषसंभवाच्च पुरुषभेदेन बन्ध- मुक्तिव्यवस्थेत्यभिसन्धिः सुतरां नोपपद्यते-सम्यगेतच्छलोकद्वयार्थप्रतिपत्तये प्रागु- कतृतीयनिरूपणमान्तं श्रुतं चेतु संस्मरेदश्रुतं चेदेतदाचार्यसंप्रदायाभिज्ञमुखात्तदविचा- रयेत् ।। ३९ ॥ अ० ॥ ब्रह्मणो वेष्टनाभावादिति श्रोकद्वयेनोपपादितार्थे-'तह्गुणसारत्वात्तु

Page 303

२९४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां उत्पत्त्यश्रवणात्-परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्क्त-परमेव चेत् ब्रह्म जीवः तस्माद्यावत्परं ब्रह्म तावाञ्जीवो भवितु- महति परस्य च ब्रह्मणो विभुत्वमाम्नातं-तस्माद्विभुर्जीवः-तथा चं स वा एष महानज आत्मा योऽयं विज्ञानमयः प्रणेष्वित्येवं जातीयकाः जीवविषया विभुत्व- वादाशश्रीतास्त्मार्ताश्च समर्थिता भवन्तीति भाष्यमर्थतस्सङ्गह्य प्रमाणयति गत्या गतीति- मू ॥ गत्यागत्यनुवादेन न जीवोऽणुर्भवेत्कुतः ।। ४० ॥ परस्यैवात्मनः कार्ये प्रवेशश्रवणात्तथा। तादात्म्यस्योपदेशाच्च ब्रह्मैवात्मेति दर्शितम् ॥४१ ॥ तस्माद्यावत्परं ब्रह्म जीवस्तावान्भवेद्यम्। विभुत्वं ब्रह्मणश्चोक्तं तस्माज्जीवो विभुर्भवेत् ॥ ४२ ॥ स वा एष महानात्मेत्येवं जातीयकाः पुरा। विभुत्ववादा जीवस्य श्रौतास्स्मार्ताश्च दर्शिताः ॥४३॥ इति भाष्यं प्रकुप्येत यदि जीवः परात्मनः । अंशो वा प्रतिबिम्बो वाप्यवच्छिन्नस्तदा-यतः ॥ ४४॥ अंशि बिम्बानवच्छिन्नैनीशा दिस्तुल्यमानवान्। लक्ष्यस्योक्तं विभुत्व चेत् प्रवेशश्रुतितस्तथा ॥ ४५ ।। स वा एष महांश्चेति विज्ञानमयवाक्यतः । : वाच्यस्यैव विभुत्वं हि जीवस्योवाच भाष्यकृत् ॥४६ ॥ यतोऽतो लक्ष्यवज्जीवो विभुरेको भवेदयम्। अन्यथा- नैकपरता- तच्चोद्यपरिहारयोः ॥ ४७॥ व्या। गत्यागत्यानुवादेनेति जीवस्योत्कान्त्याद्यनुवादकशास्त्रमांत्रणाणु- त्वं नैव सिद्धयतीत्युक्ता विभुत्वे 'तत् सृष्टा तदेवानु प्राविशदित्यादि शास्त्रं प्रमा- णयति-परस्थवेत्यादिना अत्र तत्सष्ट्ा तदेवानुप्राविशदिति श्रुतितद्भाष्याभ्य। आत्मानात्मनो: विषमसत्तांकत्वे तयोरविचारकृतमेकं तादात्स्यं दर्शयिला तत्वम

Page 304

सप्तमं एकजीववादनिरुपणम्। २९१

सीत्यीदि शात्त्रतद्भाष्याभ्यां तत्वंपदार्थविचारकृतमपरं ताद्रात्म्यं दर्शितम् तथैव श्रो- प्रत्यग्बोधो य आभाति सोऽद्यानन्दलक्षणः। अद्वूयानन्दरुपश्च प्रत्यग्बोघैकलक्षणः । इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्य दा भवेत्। अब्रह्मत्वं त्वमर्थस्य व्यावर्त्येतेति विद्यायत्तं तादात्म्यमुक्तं-इति भाष्यं यदि जीव: परात्मनः अंशो वा प्रतिबिम्बो वाप्यवच्छिन्नः तदा प्रकुप्येतेत्यन्वयः-तत्कुत इत्यत आह-यत इत्यादिना तुल्यमानवानिति तुल्यपरिमाणवानित्यर्थः ॥ उदाहृतभाष्यगतजीवशब्दस्य त्वंपदलक्ष्यार्थपरत्व- वादिनं निराकरोति-लक्ष्यस्येत्यादिना विपक्षे बाघमाह -- अन्यथत्यादिना चोद्वाक्यस्य त्वंपदवाच्यपरत्वं परिहारवाक्यस्य त्वंपदलक्ष्यपरत्वं च यद्यभ्युप- गम्येत-तदा तयोर्भिन्नविषयत्वान्नैकविषयता स्यात्-किं च यावत्परं ब्रह्म तावाञ्जीवो भवितुमर्हतीति भाष्यस्य लक्ष्यदूयपरत्वे तत्वंपदवाच्ययोरुपाधिपरिवे- ष्टितत्वपक्षे भिन्नत्वात् तत्त्वंपदयोरेकलक्ष्यार्थपरत्वावगमाय लक्षणावृत्याश्रयणं । श्लो॥ न तत्त्वमोरुभावर्थावस्मत्सिद्धान्ततां गतौ। ग्रस्तत्त्वंशव्दलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पित इत्यादि शास्त्रं च निरर्थकं स्यात्-अस्मत्पक्षे तु जीवत्वागमनात् प्रागिव तदनन्तरमपि समानपरिमाणंकमेव ब्रह्मेति न कक्षिदोषः ।। ४७ ।। अ०॥ कथं तर्ह्येकजीववादे बन्धमुक्तिव्यवस्थायाः उपपत्तिरित्याशङ्कय प्रागुक्तचमसाधिकरणीयभाष्योक्तप्रकारेण एकस्यैव जीवस्य क्रमात्तदुपपत्तिसंभव सति न लौकिकदृष्टिराश्रयणयत्याह जवेति- मू ।। जीवानुयोगिके भेदे परमेशानुयोगिके। सर्वश्चास्मीति वृत्त्यैव सहाज्ञाने न नाशिते ॥ ४८॥ पूर्णात्स्वस्माद्विनाऽन्येशजीवानां व्यक्त्यभावतः । बन्धमुक्तिव्यवस्थायाः क्रमादेकस्य संभवे ॥ ४९॥ मुक्ता मदन्ये तेऽभूवंस्तदन्योऽहं तु बन्धवान्। इति लोकददशा नैव व्यवस्था वर्ण्यतां बुधैः ॥१०॥ व्या०।। जीवानुयोगिक इति स्वेतरे जीवाः अनुयोगिनो यस्य स्व- प्रतियोगिकस्य भेदस्य स जीवानुयोगिक: तस्मिन् तथैव परमेशानुयोगिके स्वस्मा- दन्य: परमेश्वरोऽनुयोगी यस्य स्वप्रतियोगिकस्य भेदस्य सपरमेशानुयोगिकस्तस्मिन् शेषस्सुगमः ॥५०॥ अ० ॥ उपपादितार्थे ब्रह्मसंमति प्रतिजानीते अन्नेति-

Page 305

२९१ अद्वैतासद्धान्तगुरुचन्द्रिकायां

मूँ ।। अत श्रीव्रह्मगातायाश्चतुर्थाध्यायसम्मतिः ॥१०॥॥ व्या। वक्ष्यमाणप्रकारेणास्तीत्यर्थः । अ० ॥ नन्वेकस्यैवात्मनः स्वकीयपरकीयशरीरेषु कथं साम्येनावस्थानमुप- पद्यते ततो बन्धमुक्तिव्यवस्थान्यथानृपपत्त्या जीवनानात्वस्य अवश्यम्भावादित्या- शङ्गयाह-ब्रह्मा बद्ध इति- मू॥ बद्धो मुक्तो महान् विद्वानज्ञ इत्यादिभेदतः । एक एव सदा भाति चतनस्स्वप्रदटग्यथा । ५१ ।। व्या।। यथा चेतनस्स्वप्रद्दक तैजसाख्यो जीवस्स्वयमेक एव सन्नज्ञानवशा द्रुरुशिष्यादिरूपेण विविधो भाति-एवं जाप्रदवस्थायामप्येक एव विज्ञानमयाख्यो जीव: स्वयमेवाज्ञानवशादहं बद्धोडयं मुक्तस्स महानेष विद्वानसावज्ञ इति विवि- घत्वेन भ्रमाद्भातीत्यर्थः ॥ ५१॥ अ०॥ ननु स्वप्नावस्थावतो जीवात् तत्परिकल्पितानां जीवाभासानामिव जाग्रदवस्थापन्नाजीवात् तत्परिकल्पितानामपि जीवाभासानां माभूद्वेदस्ततः किमायातमित्यत आह -- ब्रह्मा अत इति- मू॥ अतस्सवमुक्त्या चान्येषां आभासानामपि ध्रुवम्। मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः॥ स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम्। आभासानां च संसारं वेद मुक्तिं तथेव च ।। १४ ।। व्या॥ यतः कल्पकात्स्वस्मात्कल्पितानां जीवाभासानां भेदो न विद्यते ततः स्वप्रदृगिवायं जाप्रदवस्थोऽपि जीवः तत्कल्पितानां दृष्टिमात्रशरीराणां निरन्त :- करणानां जीवाभासानामपि स्वाविद्याविद्याभ्यामेव बन्धमुक्ती जानातीत्युक्ता- नानाजीववादजन्यज्ञानवत्वापेक्षया हेकजीववादजन्यज्ञानवत्वं प्रशंसति आत्मवि- दर इति॥ अ०।। ननु कृतः श्रीब्रह्मणा कल्पकस्य चिद्रूपत्वं तत्कल्पितानां चिदाभा सत्व- मभिप्रेतमित्यत आह-सच्चिदिति॥ मू॥ सच्चिदानन्द इत्यत् चिच्छब्दस्स्वात्मबोधकः ।

यतोऽतो बुद्धिरूपाणां आभासत्वं तदीरितम्।

Page 306

सप्तमं एकजीववादनिरूपणम् २९७

व्या॥। स्पष्टोऽर्थः ॥ ५५॥ अ्र०॥ इदानीं ब्रह्मवाक्यमुपसंहरति-इत्यादेशादिति- मू ॥। इत्यादेशाद्विघेरेकजीववादो विशिष्यते ॥ ५६॥ व्या॥ स्पष्टोऽर्थः ॥५६॥ अ० ॥ इदानीमलातशान्तिप्रकरणगतं श्रीगौडपादाचार्यवाक्यमप्यत्र प्रमा- गयति स्वप्रदृगिति- मू !! स्वप्नदृक्प्रचरन्सप्ते दिक्षु वै दुरसु स्थितान। अण्डजान्स्वदजान्वापि जीवान्पश्यति यान् सदा । स्वप्नदक्चित्तदश्यास्ते-न विद्यन्ते ततः पृथक्। चरञ्जागरिते जाग्रदिक्षु वै दशसु स्थितान्।। अण्डजान् स्वेद्जान्वापि जीवान्पश्यति यान् सदा। जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक्॥

आचार्याणामयं ह्येकजीववादो मतो भवेत् ॥ ६० ॥ व्या।। दृष्टान्तदार्ष्टान्तिकयोः निर्दिष्टापिशब्दाभ्यां जरायुजोद्भिजानां संग्रहः रतेन अण्डजादिकल्पकस्य स्वप्रजाप्रदवस्थावतो जीवस्य चित्ततृत्तिव्यतिरेकेण अण्ड जादीनामसत्वविधानात् स्वप्नजागरितदृशा जीवेनैकेन परिकल्पिसानां तचित्त- उत्तिमात्रस्वरूपाणं जीवाभासानां वस्त्राभासवत् स्वरूपतएव अचेतनत्वात् एकजी- तवाद एव आचार्याणां समत इत्यर्थ ॥ ६० ॥ अ० ॥ उपपादितार्थे भगवद्वाक्यमषि प्रमाणयति इद्मिति -- मू॥ इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ यावत् सञ्जायते किञ्चित्सत्वं स्थावरजंगमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ ६२॥ व्या॥ इदमिति इदमेकमन्तःकरणादिकं शरीरं क्षेत्रशब्दितं यो जीवो वेत्ति स क्षेत्रज्ञ इत्युक्ता तस्यैव क्षेत्रज्ञस्याविवेकेन तत्क्षेत्रतादात्म्याध्यासवशात

Page 307

२९८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

एक एव जीवो बन्धमोक्षाधिकारीति श्रीभगवताऽभिप्रेत इत्यर्थः ॥ ६२॥ अ०॥ इदानीं सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य तत्तेजो डछ जतेत्यादि छान्दोग्यश्रुत्या मूलाज्ञानेन तादात्म्यापन्न एक एव जीवो जगत्का- रणत्वेनाभिप्रेत इति छान्दोग्यषष्ठाध्यायार्थनिर्णायक ब्रह्मगीतायाः पञ्चमाध्याय- वचनमुदाहरति। तयेति- मू॥ तया दुर्घटकारिण्या तादात्म्येनैव सङ्गतम्। कारणं सकलस्रष्ट सर्वसंहर्तृ चास्तिकाः ॥ इत्येकजीववादो हि श्रौतत्वेन विरधारितः ॥ ६३॥। ॥ व्या। तयेति मूलाविद्ययेत्यर्थः ॥ आधिदैविकस्य परमेश्वरस्य कर्मसा- पेक्षत्ववादरीत्या अविवेकपूर्वकं तया तादात्म्यासंभवात् सदेव सोम्येदमग्र आसी० देकमेवाद्वितीयमिति श्रृत्या एकजीववाद एवाभिप्रेत इति ब्रह्मणा दर्शितं। एवमेव छान्द्रोग्यवृहदारण्ययोरप्येकजीववादपरत्वं आत्मगहीत्यधिकर णी. येनानेन-आत्मगृहीतिः सदेव सोम्येदमग्र आसीदित्यत्र छन्दोगानामपि भवितु- मर्हति-इतरवत्-यथा-कतम आत्मेत्यन्न वाजसनेयिनामात्मगृहीतिस्तथैव कस्मात् उत्तरात् तादात्म्योपदेशात्। 'अन्वयादिति चेत् स्वादवधारणात् -यदुक्त्कं उप- क्रमान्वयात् उपक्रमे चात्मशब्दश्रवणाभावात् नात्मगृहीतिरिति तख कः परिहार इति चेत् सोऽभिधीयते-सादवधारणादिति-भवेदुपपन्ने हात्मगृहीतिः अवधारणात्- तथाहि येनाश्रत श्रुतं भवत्यमतम्मतमविज्ञातं विज्ञातमितयेकविज्ञानेन सर्वविज्ञान- मवधार्य तत्संपिपादयिषया-सदेवेत्याह-तच्चावधारणं सच्छ्देनात्मगृहीतौ सत्या संपद्यते-अन्यथा हि योऽयं मुख्य आत्मा स कारणत्वेन न विज्ञात इति नैव सर्व- विज्ञानं संपद्येत तथा प्रागुत्पत्तरेकतवावधारणं-जीवस्य च अनेन जीवेनात्मनेत्यात्म- शव्देन सहेवताकर्तृकः परामर्शःस्ापावस्थायां च तत्सभावसंपत्तिकथनं-टि-तस्य जीवस् स्वस्वरूपापत्तिवचनं परिचादनापूर्वकं च पुनःपुनस्तत्त्वमसीत्यववा- रणमिति सर्वमेतत्तादात्म्यप्रतिपादनायामेव अवकल्पत इति द्वितीयवर्णकभाष्येण- तत्सङ्गाहकेण ॥ श्रो० ॥ द्योर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्टयोः । उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात्। साधारणोऽयं सच्छब्दस्स आत्मा तत्वमित्यतः । वाक्यशेषादात्मवाची तस्माद्वस्त्ेकमेतयोरिति श्रीमद्विद्यारण्यीयाधिकरणरत्नमाला- वधनेन च मूलाविद्यया सह तादात्म्यापन्नानन्दमय परेणोक्तव्रह्मगीतावचनेन च गनार्थकत्वादित्यास्थेयम् ॥ ६३॥ ॥

Page 308

सप्तमं एकजीववादनिरूपणम् २९१

अ०॥ इदानीमुपपादितमेवार्थे स्थूणानिखननन्यायेन द्रढयितुं तत् चोदं प्रदर्शयति नन्विति-

नेशोऽयमिति चानन्दमयाधिकरणीयकम्। भाष्यं कुप्येत चेतीमां शङ्कां व्यावर्तयेति चेत् ॥ व्या। स्पष्टोऽर्थः॥६५॥ ।। आनन्दमयद्वैविध्यप्रदर्शनारम्भः ॥32 अ०।। इदानीमानन्दमयविभागप्रदर्शनेन समाधत्ते। सवम्नेति- मू । स्वप्नानन्दमयः कार्योपाधिरेकस्ततोऽपि च। सुप्तानन्दमयश्चान्यः कारणोपाधिकस्तयोः ॥ कार्यानन्दमयस्यैव सर्वेंशत्वं निराकृतम्। न कारणस्य सुप्स्य सर्वेशत्वं निराकृतम् ॥६७॥ व्या ॥ स्वाप्निकान-दमयः एकस्ततोऽप्यान्तरः सौषुप्तानन्दमयः परः तयों- र्मध्ये कार्योपाधिकस्य स्वाप्नानन्दमयस्यैव सर्वेशत्वं आनन्दमयाधिकरणभाष्येण निराकृतमित्यनेन नापेक्षकं स्थूलजगत्कारणत्वं निराकृतमित्यभिप्रायः । शेष- स्सुगम: ॥ ६७ ॥ अ०॥ इदानीं-यस् तावदानन्दमयस्य आनन्दमयाधिकरणभाध्ये सर्वेशत्वं निराकृतमिति प्रतिज्ञातं तस्य पाञ्चभौतिकोपाधिकत्वस्वाप्निकत्वादौ श्रीभगवत्पा- दीयमिदं। एवमेव मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमयान्तैः आकाशादिभूतारब्वैरीवद्याकृतः आत्मवन्तस्सर्वे प्राणिन इति प्राणमयपरोपनिष- द्ाष्यं तथव आनन्द्मय इति कार्यात्मप्रतीतिरधिकारान्मयट्छब्दाच् अन्ना- दिमया हि कार्यात्मानो भौतिका इहाधिकृताः तदधिकारपतितश्रायमानन्दमयः- मयट्चात्र विकारार्थ दृष्टो यथा अन्नमय इत्यत्र तस्मात् कार्यानन्दमय इति प्रत्ये- सव्य इत्युपकरम्य आनन्दमय इति यद्विद्याकर्मणोः फलं तट्विकार आनन्दमयः। स च विज्ञानमयादन्तरः यज्ञादिहेतोर्विज्ञानमयादन्तर इति श्रुतेः - ज्ञानकर्मणोः फलं भोदूर्थत्वादन्तरतमं स्यात्-अन्तरतमश्चानन्दमय आत्मा पूर्वेभ्यः-विद्या- कर्मणो: प्रियाद्यर्थत्वाच्च-प्रियादिप्रयुक्ते हि विद्याकर्मणी-तस्मात् प्रियादीनां फल- रूपाणामात्मसन्निकर्षाद्विज्ञानमयाच्चाभ्यन्तरत्वमुपपद्यते - प्रियादिवासनानिवर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितःसवमे उपलभ्यते इत्यानन्दमयकोशपरोपनिष- द्वाष्यं च ।

Page 309

३०० अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

सरसमानार्थकमेव तस्मादन्नमयादिष्विव आनन्दमयेऽपि विकारार्थ एवं मयड् विज्ञेयो न प्राचुर्यार्थ इति भगवत्पादीय सूत्रभाष्यं चार्थतः संगृह्य प्रमाणयति ब्रह्मवल्ल्यामिति- मू।। ब्रह्मवल्लयां समाम्नाते पञ्चमे त्वनुवाकके। य आनन्दमयः प्रोक्तस्तदु पाधिं सुविस्तरम् ।।६८।। प्राणकोशपर श्रोकभाप्येडमुं पाञ्चभौतिकः । इत्युक्ता तत्परश्रातवाक्यभाष्ये पुनस्तथा। अन्नादिमयवच्चायं भौतिकश्चाधिकारतः । कार्यात्मा च विकारश्र पूर्वे्विव मयट्छूतेः॥ ७ ॥ कर्तुरम्यन्तरश्रायं विज्ञानमयशब्दितात्। कर्मादिफलभोक्ता च स्वप्रावस्थ इतीरणात् ॥।७१॥ भूतोपादानताऽभावात्तदा नास्याखिलेशता।। ७१॥॥ न्या। तत्परश्रौतवाक्यभाष्य इति आनन्दमयस्य उपाधिभूतपञ्चम- कोशपरश्रुतिभाष्ये इत्यर्थः ॥ तदेति खप्नकाल इति यावत्। शेष: अवतरणादेव गतार्थः॥ ७१॥॥ अ०। एवं सर्वेश्वरत्वविह्वीनखानन्दमयस्य कार्यानन्दमयत्वं प्रमाणतो निरुप्य अधुना ॥ श्रो० ॥ न कारणस् सुप्तस्य सर्वेशत्वं निराकृतमिति यत् प्राक् प्रतिज्ञातम् । तदनुग्राहकंब्रह्मविदाप्नोति परं-सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽशनुते सर्वान् कामान्सह ब्रह्मणा विर्पाश्चतेतीति यावद्रह्मवश्रयर्थ- सङ्गाहकं वाक्यञ्च । तदर्थनिर्णायकं। श्रो० ॥ तद्विदाविषयं ब्रह्म सत्यज्ञानसुखाद्वयम्। सां- सारिकगुहावाच्ये मायाऽज्ञानादिशन्दिते। यो वेद निहितं ब्रह्म परमव्योमसंजिते। सोऽश्नुते सकलान्कामान्न क्रमेण सुरर्षभाः। विदितब्रह्मरूपेण जीवन्मुक्तोन संबय इति ब्रह्मगीतावाक्यञ्च । तदनुग्रह्ीतं यावद्रझ्मवल्लयादिश्वुत्यर्थनिर्णायकं भगवत्पादीयमिदम्।

Page 310

सप्तमं एकजीववादनिरूपणम् । ३०१

कर्थ पुनः खप्रधानं सद्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते ब्रह्मपुच्छ प्रतिष्ठेति-नैष दोषः पुच्छवत्पुच्छं प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते-नावयवत्वं एतस्यैवानन्दस्यान्यानि भूतानि मात्रा. मुपजीवन्तीति श्रत्यन्तरादिति सौधुप्तपरज्योतिर्बाह्मणोपेतमानन्दमयाधिकरणभा- कयम्। किं च-सय एवंवित् एतमन्नमयं प्राणमयं मनोमयं विज्ञानमयमानन्दमय- मात्मानमुपसङ्गामति-अथादृश्येSनात्म्येSनिरुक्त्तेSनिलयनेSभयं प्रतिष्ठां विन्दते इति श्रयते। तत्रैतच्चिन्त्यं कोSयमेवंवरित कथवा सङ्कामति-टि-किमन्नमयानां तदन्येषां वा व्यष्टिमुत समष्टिमेवात्मत्वेन पश्यतीति किं परस्मादात्मनोऽन्यस्सङ्कमणकर्ता प्रविभक्त: उत स एव वेति - किं ततः यद्यन्यस्स्थात् श्रुतिविरोधः- तत् सृष्टा त देवानुप्राविशत्-अन्योSसावन्योSहमस्मीति न स वेद-एकमेवाद्वितीयं तत्त्वमसीति। अथ स एव आनन्दमयमात्मानमुपसंक्ामतीति कर्मकर्तृत्वानुपपत्तिः परस्यैव संसारित्वं पराभावो वेत्यारभ्य । स एव तु स्यात् तद्भावस्य विर्वाक्षतत्वात् - तद्विज्ञानेन परमात्मभावोह्यक्ष विवक्षितः ब्रह्मविदाप्नोति परमिति नह्यन्यस्यान्यभावापत्तिरुपपद्यते - ननु तस्यापि

पुच्छं प्रतिष्ठेति पञ्चमानुवाकनिर्दिष्टस्य परमात्मान एव तदीयाविद्यया संसारित्व तदीयविद्यया च तन्निवृत्तिञ्चावेद्य। यदि हि विद्वान् खात्मनोऽन्यन्न पश्यति ततः अभयं प्रतिष्ठां विन्दत इति स्यात्-भयहेतोः परस्यान्यस्य-टि-ईश्वरस्य अभावात्-अन्यव्व चाविद्याकल्पित- त्वेन विद्यया अवस्तुत्वदर्शनोपपत्तिः-तद्धि द्वितीयस्य चन्द्रस्ासत्वं यदतैमिरिकेण चक्षुष्मता न गृह्यते-नैवं न ग्रह्यत इचि चेत्-न-सुषुप्तसमाहितयोः-टि-स्वाति- रिक्तस्येश्वरस्य अग्रहणात्-सुषुप्तेऽग्रहणमन्यासक्तवदिति चेन्न सर्वाग्रहणात्- जाग्रत्सप्नयोरन्यस्य ग्रहणात् सत्वमेवेति चेन्न अविद्याकृतलात् ज़ाग्रत्स्वप्रयोः यदन्य- ग्रहणं जाग्रत्स्वप्रयोः तदविद्याकृतं अविद्याभावेऽभावात्। सुषुप्ते अग्रहणमप्यविद्याकृतमिति चेत्र-स्वाभाविकत्वात्-द्रव्यख हि तत्व- मविक्रिया परानपेक्षत्वात्-विक्रिया न तत्वं परापेक्षत्वात न हि कारकापेक्षं वस्तुनः तत्वं-सतो विशेषः कारकापेक्षः विशेषश्च विक्रकिया जाग्रत्स्वप्रयोश्च ग्रहणं विशेषः यद्धि यस्य नान्यापेक्षं स्वरूपं तत तस्य तत्वं यदन्यापेक्षं न तत् तत्वं अन्याभावे 26

Page 311

३०२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अभावात् तस्मात् स्वाभाविकत्वात् जाग्रत्स्वप्रवत् न सुषुप्ते विशेष इत्यन्तेन पुनश्च पुच्छवाक्यनिर्दिष्टस्य सुषुप्त्यवस्थावत्वेन आकाशादिजगदुपादानभूत्मूलाज्ञानोपाधि- मत्वेन आध्यात्मिकत्वं संप्रदर्श्य ततोऽन्यस्याधिदैविकेश्वरादेरभावं सुषुप्तिसमाध्य- वस्थायामादिश्य। अनन्तरमपि-येषां पुनरीश्वरोऽन्य आत्मनः कार्य चान्यत् तेषां भया- निवृत्ति: भयस्यान्यनिमित्तत्वादित्यन्तकं-ये अन्तःकरणादेः चैतन्यपरिवेष्टकत्व- मक्रियया आधिदैविक्स्येश्वरस्य जगदुपादानत्वनिमित्तत्वावलम्बिनः प्रतिकर्मव्यव- स्थावादिन: ये च जीवेशयोर्वास्तवभेदमवलम्व्य ईश्वरस्य केवलनिमित्तकारणत्व- वादिन: तत्तत्पक्षे प्रागुक्तदोषप्रदर्शनपरं ब्रह्मवल्ल्यामष्टमानुवाकभाष्यं च। तथैव आनन्दमयः आनन्दप्रायः आनन्दानां विषयानन्दानां प्रायः प्राचुर्य समुदायः यस्मात् स आनन्दप्रायः-एषोऽस्य परम आनन्द इति ज्योतिर्ब्राह्मणश्रुते- रित्यारभ्य सोडयं प्राज्ञस्तृतीय: पादः एष हि सर्वरूपावस्थः सर्वेश्वरः साघिदैवि- कस्य भेदजातस्य सर्वस्येशिता-नैतस्माज्जात्यन्तरभूतोऽन्येषामिव-प्राणबन्धनं हि साम्य मन इति श्रृते :- अयमेव हि सर्वस्य सर्वभेदावम्थो ज्ञातेत्येष सर्वज्ञः एषोड- न्तर्यामी अनुप्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव अतः यथोक्ततं सभेद जगत्प्रसू यते इत्येष योनि: सर्वस्-यत एवं प्रभवश्राप्ययश्च प्रभवाप्ययौ हि भूतानामेष्र एवेति माण्डूक्यभाष्यञ्च । तत्समानार्थकमेव-यत् प्रकृतं सत्यज्ञानानन्दलक्षणं यस च प्रतिपत्त्यर्थ पञ्चान्नमयादिकोशा उपन्यस्ता :- यच्च तेभ्योऽभ्यन्तरं येन चेते सर्व आत्मवन्तः तत् ब्रह्मपुच्छं प्रतिष्ठा-तदेव च सर्वस्याविद्याकल्पितस्य द्वैतजातस्य अवसानभूत- मद्दैतं ब्रह्म प्रतिष्ठा आनन्दमयस्येंकत्वावसानतादित्युपनिषद्धाष्यं च अर्थतस्सङ्गत्य प्रमाणयति-ज्योतिरिति- मू॥ ज्योतिर्व्राह्मणसंप्रोक्तहमुप्तो यस्तु स एव हि ॥ ७२॥ माण्डूक्यपुच्छवाक्योक्तस्तस्यानन्दमयस्य हि। विषयानन्दसन्दोहपरमानन्दरूपिण: ॥ ७३ ॥ सर्वेशतादेश्र तत्त्द्भाष्यप्वपि समीरणात्। न कारणस्य सुप्स्य सर्वेशत्वं निराकृतम्॥ ४। व्या॥ साण्डूक्यपुच्छवाक्योक्तमानन्दमयं तद्झवल्लयुक्तादानन्दमयकोशा- दयावर्तयति ज्योतिर्व्राह्मणेश्यादिना शेषोऽवतरणदेव गतार्थः॥ ७४॥

Page 312

सप्तमं एकजीववादनिरूपणम्। ३०३

अ०॥ अधुना-यथा च भाष्यकारैः कर्तृत्वमात्राभिमानवतो विज्ञानमयस्य तदान्तरस्य पश्चमकोशोपाधिकस्यानन्दमयस्य भोक्तृत्वमात्राभिमानवतश्व स्वाप्तिक. खपाञ्चभौतिकोपाधिकत्वाद्युपदेशेन माण्डूक्यपुच्छवाक्यनिर्दिष्टात सौषुप्तिकानन्द- मयात् पूर्वभावित्वेन लिङ्गशरीरोपाधिकत्वमुपदिष्टं। सथैव शिवगीतायां चतुर्दशाध्याये श्रीभगवता सर्वज्ञेन शिवेन दाशरथये श्रीरामाय आनन्दवल्ल्युक्तपश्चकोशविवरणप्रकरणे यैर्वाकयैर्विज्ञानानन्दमययोः लिङ्ग- शरीरोपाधिकत्वमुपदिष्ट तान्यत्र प्रमाणयति-या कर्मेति- मू॥ या कर्मविषया बुद्धिर्वेदशास्त्रैर्विनिश्चिता। सा तु ज्ञानेंद्रियैस्सार्धे विज्ञानमयकोशकः ॥ इह कर्तृत्वमानी यस्स एव तु न संशयः । इहामुत्र गतिस्तस्येत्युक्ता लिङ्गजनिं जगौ ॥। ७६ ॥ व्या। इहेति विज्ञानमयकोशे तादात्म्याध्यासवशात् तद्रतकर्तृत्वाभिमानी- यः स एव यजेतेत्यादिचोदनाविषयः कर्तेत्यादिश्य तस्यैव इहलोकपरलोकविषयक- क्रियाश्रमत्वावगत विषयवीक्षणादिसमये निर्दिश्यानन्तरं शिवो लिङ्गशरीरजनि जमाविति कविवाक्यम् ॥ ७६ ॥। भ०॥। एवं कर्तृत्वमात्राभिमानित्वेन विज्ञानमयमुपदिश्य तस्माद्वा एतस्मा -: द्विज्ञानमयातू अन्योन्तर आत्मानन्दमय इत्यारभ्य आनन्द आत्मेत्न्तां श्रतिमर्थ- तस्सकृष्ण पश्चमकोशत्वेन श्री शियो रामायोपदिदेश तदप्यत्र प्रमाणयति एतदिति- मू॥ एतल्िङ्गशरीरं तु तप्तायःपिण्डवद्यतः । परस्पराध्यासयोगात् साक्षिचैतन्यसंयुतम् ! तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते। विद्याकर्मफलादीनां भोक्तेहामुत्र संस्मृत: ॥। ७८।। क्या॥ क्षुत्पिपासाऽऽन्व्यबाघिर्यकामकोधादयोऽखिलाः । लिंङ्गदेइगता एते ह्यलिङ्रस्य न विद्यते ।' इति श्रुत्या लिङ्गशरीरस्यैव क्षुत्पिपासादिकं नात्मन इति यतोऽवगम्यते-ततो लिङ्शरीरमेव तप्तायःपिण्डवद्यदा साक्षिणा सह तादात्म्या- ध्यासवशेन सचेतनं भवति तदा आनन्दमयकोशसंज्ञकस्सन् इहलोकपरलोकयोः उपासनाकर्मफलभोक्तृत्वाध्यासवान् भवतीत्यर्थः ॥७८॥

Page 313

३०४ अद्वैतसिद्धान्तगुरुचान्द्रिकायां

अ०॥। एवमानन्दमयवाक्यनिर्दिष्टस् लिङशरीरोपाधिकत्वमुपदिश्य इदानीं ततोऽप्यान्तरस्थ सर्वकार्यकल्पनाधिष्ठानभूतस्य ब्रह्मपुच्छं प्रतिष्ठेति पुच्छवाक्य- निर्दिष्टस्य अज्ञानमात्रोपाधिकत्वादेशेन-सुषुप्तस्थान एकीभूत इत्यारभ्य प्रभवाप्ययौ

यदेति- हि भूतानामित्यन्तमाण्डूक्यश्रुतिवत् सैषुप्तिकत्वपरं शिवगीतावाक्यमुदाहरति-

मू॥ यदाऽध्यासं विहायैष स्वरूपेणावतिष्ठते। अविद्यामालसंयुक्तस्साक्ष्यात्मा जायते तदा।। द्रष्टाऽन्तःकरणादीनामनुभूतेस्स्मृते रपि ॥ ७९॥॥ व्या।। एष इति यः प्राग्लिङ्गशरीराभिमान्यानन्दमयो भोक्तेति दर्शित- रस तदानीं सवस्य भोक्तृत्वसिद्धयर्थम् अन्तःकरणदीनां अन्तःकरणमादि्येषां तत्परिणामानां भोग्यानां तान्यन्तःकरणादीनि तेषामन्तःकरणादीनां अनुभूतेस्स्मृ- तेश्व द्रष्टापि दर्शनक्रियाश्रयोऽपि सःयदाध्यासं विहाय यदा सुषुप्तिकाले अध्यासं लिङ्गशरीरतादात्म्याध्यासं विहाय परित्यज्य अविद्यामात्रसंयुक्त: सषुप्तिकाले अन्तःकरणादेः तत्कारणभूतवियदादेश्व प्रभवाप्ययौ हि भूतानामिति माण्डूक्या- दिश्रुत्युक्त्तप्रकारेण तद्पादानभूतायामविद्यार्यां विलीनत्वादविद्यामात्रोपाधिकस्सन् स्वरूपेणावतिष्ठते वियदादिजगत्कारणस्वरूपेण कारणानन्दमयरूपेण वर्तते तदा सुषुप्तिकाले साक्ष्यात्मा जायते तदानीमवशिष्यमाणाज्ञानमात्रसाक्षी भव- तीत्यर्थः ॥ ७९॥॥ अं० ॥ इदानीं स्वम्ननन्दमय इत्यारभयोपपादितग्रन्थतात्पर्यमाह- एवमिति- मू॥। एवं कर्तृत्वसंयुक्तो विज्ञानमयसंज्ञकः ॥ भोक्तत्वमात्रसंयुक्त आनन्दमयनामकः । अज्ञा नमातसंबद्धस्सौपुप्तो जगदीश्वरः ॥ अज्ञानेन विनिर्मुक्तस्तुरीय: केवलो भवेत्। एवं हे ब्रह्मवल्ल्यादी तत्वं ज्ञेयं प्रदर्शितम् ॥ माण्डूक्यभृगुवल्ल्यादौ तत्वादेशस्ततः पृथक्। कर्तृत्वभोक्तृतायुक्तो विज्ञानमयसंज्ञकः ॥

Page 314

सप्मं एकजीववादनिरूपणम् ३०१

केवलाज्ञानकस्ख्ात्मा खौषुप्तो निखिलेश्वरः। विनष्टे सति चाज्ञाने तुरीयं प्रत्यगीरितम् ॥ ८४।। व्या॥ ब्रह्मवल्ल्यादाविति ब्रह्मवल्ली आदि: यस्य तद्भाष्यादिशास्त्रत्य तद्रह्मवल्ल्यादि तस्मिन् ततः पृथगिति ततो ब्रह्मवल्लीतद्भाष्यादयुक्तप्रकारात प्रथक प्रकारान्तरेण माण्डूक्यभृगुघल्ल्यादावुपदेशक्रमः कृत इत्यर्थः॥ शेषस्सुगमः॥ अ०॥ संप्रति यत्तावत् स्वप्नानन्दमय इत्यादिरास्त्रतात्पर्यमभिदितं तत्र वृद्धसम्मति दर्शयति एवमिति -- मू॥ एवं श्रीगौडपादैश् व्यवस्था संप्रदर्शिता। कार्यकारणसंत्रद्धाविष्येते विश्वतैजसौ।। प्राज्ञ: कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः । विद्यारण्यैस्तथा प्रोक्ता श्रुतिभाष्यानुसारतः ॥ सौषुप्तमानन्दमयं प्रक्रम्यैवं श्रुतिर्जगौ। एष सर्वेश्वर इति सोडयं वेदोक्त ईश्वरः । अन्तर्यामी च सर्वज्ञो जगदयोनिस्स एव हि। अयं यत् सृजते विश्वं तदन्यथयितुं पुमान्॥ न कोडपि शक्त्स्तेनायं सर्वेश्वर इति श्रुतः । एवमानन्दविज्ञानमयावीश्वरजीवकौ।। कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । इत्यादिश्रुतिमादाय संक्षेपाचार्यकैस्तथा॥ इमावानन्दविज्ञानमयौ जीवेश्वराविति। दर्शिता च तथाद्वैतसिद्धावांि समीरिता ।। अविद्योपाधिको जीवस्सौषुप्तो निखिलेश्वरः । इत्युक्तत्वात्तदानन्दमयाधिकरणीयकैः ॥

Page 315

, ......

३०६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

भाप्यैर्न स्यादेकजीववादबाधो मनागपि। ततो न कारणत्वस्याप्यौपचारिकता मता ॥९३ ॥ ठ्या॥ कार्यकारणसंबद्धाविष्येते विश्वतैजसाविति कार्य विय- दादिभूतभौतिकं कारणं तदुपादानमज्ञानं ताभ्यां संवद्धा विशिष्टौ जाग्रत्खप्नावस्था- वन्तावुभावपि विश्वतैजसाख्यजीवौ भवतः कारणबद्धस्तु कारणेन मूलाज्ञान- मात्रेणोपेतस्तु सुषुप्तस्थान इयादिमाण्डक्यश्रुतिप्रतिपाद्यः प्राज्ञः आनन्दमय- स्खात् तु शब्देन ब्रह्मवल्लीसमीरितात्कर्मादिफलभोक्तुरानन्दमयात् अज्ञानमालोपा- धिकत्वसुषुप्तस्थानत्वादिमान् व्याव्त्यंते तुर्ये विद्यावस्थावति प्रत्यगात्मनि द्वौ तौ कार्यीपेनकारणसंबन्ध एक: कारणमान्नसंबन्वश्रापरः इत्युभावपि न सिध्यतः न संभवतः इत्युक्तत्वात् इति पूर्वोक्तप्रकारेण परस्पराविरोधेन ब्रह्मवल्लीमाण्ड- क्यादिश्रुत्यर्थस्योक्तत्वात् स्वाप्निकस्य कर्मादिफलभोक्तुरानन्दमयस्य सर्वेशत्वादि निराकरणपरैः आनन्दमयाधिकरणीयभाष्यवाक्यैः एकजीववादे जगत्कारणत्वेना- भिप्रतस्य सौषुप्तानन्दमयस्य सर्वेश्वरत्वादिविधायकशास्त्रस्य न कोऽपि बाधस्सं- भवति । नाव्यवस्थान्रयवतो जीवस्यौपचारिकमेव जगत्कारणत्वं तेषामाचार्याणाम- भिमतं भवेत् तैरेवात्र॥ श्रो । अयं यत्सजते विश्वं तदन्यथयितुं पुमान्। न कोऽपि शक्तस्तेनायं सर्वेश्षर इति श्रुत इति मुख्यस्यैव सर्वेश्वरत्वस्थ समर्थितत्वात् यत्र कुत्रचित् सौषुप्तादन्यत्वेनाधिदैविकं परमेश्वरमङ्गीकृत्य तस्य कारणत्व भुपपादितं चेतू तन्मन्दाधिकारिपरमिति दृष्टिसष्टिप्रस्तावे अद्वूतसिद्धिकारोक्क् प्रकारेणास्थेयम् ॥। ९३ ॥ अ०॥ ननु कारणोपाधिकस्य जीवस्य सर्वेश्वरत्वेऽपि न कार्योपाधिकस्य जीवस्य कारणत्वं संभवतीत्यत आह त्रिवर्णमिति- मूं ।। त्रिवर्ण स्वसमानांश्र विकारान्यत्सृजत् पुनः । तेजोबन्नतयं तस्य जीवोपाधित्वविश्रुतेः ॥

एष सुप्तेषु जागर्तीत्येवमाद्यैः पुरोदितैः ॥ वाक्यैर्मनोविशिष्टस्य श्रौतीकारणतेरिता ॥ ९५। ।।

Page 316

सप्तमं एकजीववादनिरूपणम् ३०७

व्या।। उक्तविशेषणस्य अत्निवृत्कृतस्य पृथिव्यप्तेजोरूपस्य भूतत्रयस्य ।।श्रु ।। 'अजामेकां लोहितशुक्ककृष्णां बह्ीः प्रजास्सजमानां सरूपाः । अजो ह्येको जुषमाणोSनुशेते जहात्येनां भुक्क्तभोगामजोऽन्य' इति जीवोपाधित्वश्रवणा- दनादेर्विज्ञानमयाख्यस्यापि जीवस्य स्थूलजगत्कारणत्वं सिद्धं। शेषः प्रागेव पञ्च- मनिरूपणे त्रयोदशश्रोकादूर्ध्व व्याख्यातः ॥। ९५।।। अ०॥ पुनरुपपाितार्थे किञ्विच्चोदं दर्शयति एवमिति- मू॥ एवं चेद्दीक्षितैः कस्मादौपचांरिकमेव तत्।। सर्वेशत्वं प्रसुप्नस्येत्युक्तं तत्कारणं वद ॥ ९६।। ।। व्या॥ दीक्षितरिति अप्पयदीक्षितैः सिद्धान्तलेशसंग्रहाख्यप्रन्थ इति शेष: ॥ ९६ ॥ 1 अ०॥ समाधते । तेषामिति- मू॥ तेषामाध्यात्मिकात्प्राज्ञादन्यस्मिन्नाघिदैविके ॥ भक्त्युद्रेकवशान्भर्गे सर्वेशत्वप्रसिद्धये। प्राज्ञोऽयं नेश्वरश्रेति श्रुत्यर्थो ह्यन्यथेरितः । तावता श्रुतिवृद्धैन दर्शितं बाघितं भवेत् ॥ ९८।॥ व्या। हि यस्मात् 'प्राज्ञस्तृतीयः पादः एष सर्वेश्वर एष सर्वज्ञ एषोऽन्त- र्यामा एष योनिस्सर्वस्य प्रभवाप्ययो हि भूतानां • पुरत्रये क्रीडति यस्तु जीवस्त- स्तु जात सकलं विचित्रं कार्योपाधिरयं जीवः कारणोपाधिरीश्षरः- यदा मुप्त- स्खपं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतीत्यादिश्रुत्यर्थः । भगवत्पाद- - व्यवस्थामनुसत्य तदधिकारिणं प्रति तत्तहेवतोपासकैरिव दीक्षितरीप प्रकारान्त- रेण ईरितः तावता न प्रागुक्तश्रुत्याचार्यदर्शितो बाध्येतेत्यर्थः ॥ ९८॥॥ अ०॥ इदानीं वृत्तानुवादपूर्वकं कश्विदाक्षिपति स्वप्नवद्विति -- मू ॥ स्वप्नवत् वस्तुतन्त्राऽस्य सृष्टिस्स्वात्मेक्षणं विना॥ ९९॥ सुषुप्तस्थान इत्यादिमाण्डूक्ये च तथैव च। कौषीतक्यां तथाऽन्यत भूमावोषधिवद्यथा।: १००॥। तथाऽक्षरात्सम्भवति विश्वव्चेति समीर्यते।

Page 317

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

आरण्यके च सौषुप्तात्प्राणाद्या व्युच्चरन्ति हि ॥ १०१॥ गुहाव्योमाभिघाऽज्ञाने तादात्म्याध्यासकात्मनः । व्योमादि जायते चेति ब्रह्मवल्ल्यां तथैव च ।। १८२।। यतो भूतानि जायन्ते स्वात्मानन्दात्सुषुप्तिगात्। इति चेदन्यथाऽन्यत पुंतन्त्रेक्षणपूर्विका ॥ १०३ ।। स ईक्षाञ्चक इत्यत्र या सृष्टिस्सेशकर्तृका। तद्वलाद्दीक्षितैरुक्तं को बाधरतत्र चेच्छृणु ॥ १०४ ॥ व्या॥ स्पष्टोऽर्थः॥१०४॥ अ०॥ तच्छ्रत्यैव तत्पक्षे बाधमाह स ईक्षाञ्चक्र इति- मू॥ स ईक्षाञ्चक्र इत्यत्र तदीक्षाकारबोधकम्। उत्क्रान्ते सति कस्मिन्हि कस्मिन्नेव प्रतिष्ठिते ॥ १०५॥ उत्क्रमिप्यामि स्थास्यामीतीक्षाकर्तुर्यदीक्षणम्। प्राणतद्धर्मतादात्म्यसंसर्गाध्यासपूर्वकम् ॥१०६॥ अविवेककृंत तत्स्यादितीक्षावाक्यमब्रवीत्। तदेवैश्वरसङ्कल्पाधीनसृष्टेस्तु बाधकम् ॥१०७॥ व्या ॥ ईश्वरस्य प्राणे तादात्म्याध्यासहेतुभूताविवेकाभावादित्यर्थः । किञ्च प्राक् पञ्चमनिरूपणे अष्टपञ्चाशाच्छ्लोकादारभ्य पञ्चषष्टितमश्रोकपयन्त- कवचनैः ईक्षणस्य जिजागरिषारूपत्वमुपपादितम् इदानीं तज्जिजागरिषायाः जाग- रणरूप प्राणाद्यनात्मतद्धर्मतादात्म्यससर्गाध्यासहेतुत्वं दर्शितम् ॥१०७॥ अ०॥ उपपादितार्थे ब्रह्मादिसम्मतिमाह तदैक्षतेति- मू॥ तदैक्षतेति श्रुत्यर्थपरया ब्रह्मगीतया प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी॥ १०८॥ सर्वप्रकारैर्विद्वव्भिरनिरूप्या हि शाङ्करी। तया दुर्घटकारिण्या तादात्म्येनैत्र सङतम् ॥ १०९ ।।

Page 318

सपमं एकजीववादनिरूपणम् ३०९

कारणञ्चेति विज्ञातं तथा तत्तेज ऐक्षत । इति तेजसि तादात्म्यापन्नन्तद्वित्रेकतः ॥ ११०॥ स्वात्मचैतन्यमेवेति ब्रह्मवल्ल्यां तथाऽन्यथा। आकाशभावापत्त्यादिर्नेश्वरे पारिणामिकः ॥ १११ ॥ आध्यासिको वा धर्मोऽतो नेक्षणन्त्वीशकर्तृकम् ॥ १११॥॥ व्या।। छान्दोग्ये यथातथैव ब्रह्मवल्ल्याञ्च विज्ञातमित्यर्थः ॥१११॥ ॥ अ० ॥ इदानीमस्मिन्नेकजीववादे संभविष्यत्सकलशक्कानिराससाधनमाह यद्यदिति -- मू ॥ यद्यच्चोद्यं भवेदस्मिन्पक्षे तत्तन्निवारयेत् ॥ स्वप्रदृष्टान्ततो ह्येकजीववादो विशिष्यते ॥ ११२॥ ॥ न्या॥ हि यस्मादस्मिन्नेकजीववादे संभविष्यत्सर्वे चोदं स्वप्रदष्टान्तादेव निवारयितुमर्हत्यतोऽयमेंकजीववादो नानाजीववादापेक्षया अद्वैतिनामन्तरत्वाच्च विशिष्यत इत्यर्थः ॥ ११२॥ ॥ अ०॥ यत्तावदभिहितं स्वप्रदष्टान्तस्य सर्वचोदनिरासकत्वं तदेव दृदाक- रिध्यन् प्रश्नमवतारयति नन्विति-

न मुक्तिश्चेति शङ्केयं स्वम्ाद्वयावर्तते कथम् । स्वानुभूत्यनुसारेण ह्ुच्यते हृदि धारय ॥ ११४ ॥ अ०॥ समाधत्ते सौषुस इ्तति -- मू॥।सौषुप्ो जगदीश्वरो जगदिदं सृष्टाऽविवेकादिहा- प्यात्माध्यासवशाचविरं बहुविधं संसारमासाद्य च। सवप्ने कल्पितमित्रतो विषयवत्स्वाज्ञानतो जम्भिता- दाचार्यान्न्रममात्रतां स्वविषये ज्ञात्वा विमुक्तो भवेत् ॥११५ क्या।। सौषुप्त एवानन्दमयः स्वाज्ञानतः सर्व जगत् स्वस्मिन्परिकल्य अनन्तरं स्वात्मजगतोरविवेकादनात्मनि अयमेवाहमिति तादात्म्याध्यासवशादने

Page 319

३१०

कधा संसरन्नथ कदाचित्स्वपे स्वकल्पितादाप्तमुखाज्जिज्ञास्यमिव जाग्रत्यपि स्वा- वज्ञाबपरिकल्नितादाचार्यमुखात् असङ्गो ह्ययं पुरुषः -नेह नानास्ति किञ्चन तत्त्वमसीत्यादि शास्त्रश्रवगमननादिभिश्च स्वगोचराविद्यातत्कार्यविषये त्वाध्यासि- कतववेदनेन विमुक्तो भवितुमर्हत्यतोऽस्मिन्पक्षे मोक्षस्य सुसंपादत्वात्सर्वमनव- दमू करिञ्चातोक्तप्रकारेणवान्यन्नापि मोक्षपराध्यात्मशास्त्रे क्वचिदुत्तमाधिकारिणे जीवो नाम अविद्यादुपाधितादात्म्यापन्नं परिपूर्णे ब्रह्म चैतन्यमेव इत्युच्यते क्वचि न्मन्दाधिकारिगे अविद्यादुपाधिपरिवेष्टितो ब्रह्मकदेश इत्युच्यतेऽबच्छिन्नपक्षे क्वचिदधमाधिकारिणे ब्रह्मांश इत्युच्यते। क्वचिद्धमधिमााधकारिणे ब्रह्मप्रतिबिम्ब इत्युच्यते तत्रोत्तमाधिकारी तावत् प्रथमपक्षारूढां स्वबुद्धि परबुद्धि वा द्वितीयादिपक्षश्रवणान्न चालयेत् बहुशः प्रथम- पक्षे साङत्यं द्वितीयादिपक्षेष्वसाङ्गत्यञ्च तृतीयनिरूपणेSवादिष्म ।

श्रीमत्चन्द्रिकाचार्याख्ययतीश्वरविरचितायां अमृतरसझरीनामक- व्याख्यानोपेतायां अद्वैतसिद्धान्तगुरुचन्द्रिकायां सप्तम- मेकजीववादनिरूपणं संपूर्णम्। हरि:आमू। तत्सत् ।

॥ हरि: ओम् ॥ अद्वैतसिद्धान्तयरुचन्द्रिकायाम। ।। अष्टममेकविज्ञानेन सर्वविज्ञाननिरूपणमारभ्यते ।

अ्र०।। इदानीं प्रथमनिरूपणारम्भे शिष्यैर्यदुक्तं तद्धियैव सा सर्व ध्रीश्च प्रतिज्ञातेति तदनूद्य अत्राष्टमनिरूपणे तदेकविज्ञानेन सर्वविज्ञानप्रति- ज्ञाविशेषनिरूपण प्रतिजानीते जगदिति-

Page 320

अष्टमं एकविज्ञानेन सर्वनिज्ञाननिरूपणम्। ३ १ १

मू॥ जगत्कारणभूतेSस्मिन्विज्ञाते प्रत्यगात्मनि। सर्वे विज्ञायते चेति भातीति प्राक्प्रदर्शिता ॥ तस्या एत प्रतिज्ञाया विशेषोडन्र निरूप्यते॥। १॥॥ व्या॥ स्पष्टोरऽर्थः॥१॥॥ अ०॥ इदानीं तमेव विशेषं सोपपत्तिकं विभजते अधिकारीति- मू। अधिकारिदृशा प्रोक्त्ताऽज्ञानतत्कार्यभेदतः ॥ सर्वविज्ञानवाक्यस्य तात्पर्य स्याच्चतुर्विधम्। अच्छाये प्रकृतित्वेन विज्ञाते ज्ञायते हि सः ॥ शक्ते तु प्रकृतित्वेन विज्ञाते ज्ञायते गुणः । प्रकृत्यज्ञानवज्जीवे विज्ञाते विकृतिर्मता ॥ शोधिते विदिते ज्ञातमज्ञातं च मतं भवेत् ॥ ४॥। ॥ व्या। अधिकारिद्ृशति॥ उत्तमाद्यधिकारिणां दृष्ट्यनुसारेण द्विर्ताय- निरूपणोक्ताज्ञानतत्कार्याणां मेदादित्यर्षः अच्छाय इति 'तदेतदच्छायमशरीर- मिति शरृश्यु क्निर्मायस्वात्मनीत्यर्थः ॥ ४॥ ॥ अ०॥ इदानीमुत्तमाधिकारिणे यदुपदेष्टव्यं कार्यकारणयोरेकसत्ताकत्वं तत्र द्वैतभ्रमप्रतिबन्धकभूतमात्मनो यत् यथावत् स्वयं भासिष्यमानं भासमानं बा स्वरूपचतन्यात्मकं ज्ञान तस्य प्राकालिकत्वाभावोपहितः प्रत्यङ्डेव जगट्पादानं तस्मिन् विज्ञाते तद्वयतिरेकेण ज्ञातव्यान्तरं नास्तीति शस्त्राभिप्रायं प्रतिपिपादयि- पुस्तदनुकूलंजगत्कारणभूतं स्वात्मतत्वं तमोरूपभावात्मकाज्ञानवर्जित तदस्मीति विज्ञानतः सर्वात्मत्वसर्वज्ञत्वयोक्ष बोधकं 'कस्मिन्नु भगवो विज्ञाते सर्वमिद विज्ञातं भवती'ति मुण्डकमन्त्रप्रदर्शितस्य शौनकार्यशिष्यप्रश्नस्य प्रतिवचनभूतं 'स यो हवै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयंते यस्तु सोम्य स सर्वजम्सदीं- भवती'ति प्रश्नोपनिषद्राह्मणवाक्यं प्रमाणयतुं तत्राक्षपादिकं दर्शयति पतदिति- मू॥ एतद्च्छायमित्यादिप्रश्नोपनिषदात्मनः । तमसा वर्जितत्वेपि कारणत्वेन वेदितुः । सर्वज्ञतां च सार्वात्म्यं यदुवाच न तद्भवेत् ।

Page 321

३१२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अन्यथा सृष्टिसान्तत्यमापतेच्चेत् न तद्यतः । सर्वभ्रमापहज्ञानप्रागभावयुतात्मानि। ज्ञाते तत विवर्तन्तु हेतुना सह नश्यति। अतो ज्ञानप्रागभावनाशे नैव विवर्तता॥ प्रतिमानामुपादाने गोपुरे विदिते तदा। तत्र कुप्तविकाराणां स्वरूपाभावतः पृथक्। मृत्स्नासार्वात्म्यविज्ञातुस्सर्वज्ञत्वं यथा भवेत्। सर्वात्मना स्वतोभानं सर्वज्ञत्वं भवेदिह ॥ १० ॥ व्या।। स यो हवै तदच्छायमित्यादिश्रुत्युक्तं सर्वज्ञत्वादिकमाक्षिपति -- न तन्द्वेदिति विपक्षे बाधमाह=+अन्यथेत्यादिना तमोरूपाज्ञानमन्तरेणापि जगत्सध्यभ्युपगमे सम्यग्ज्ञानानन्तरमपि तत्वविद: जगदान्मना विवर्त्तमानत्वमाप तेदिति प्राप्ते निराकरोति न तदिति तत्र हेतुमाह यत इत्यादिना कार्यकार षायोरेकसत्ताकत्वे दृष्टान्तमाह-प्रतिमानामित्यादिना इहेति एकसत्तावादइत्यर्थः।

्यैरिति- अ०॥ इदानीमुपपादितेSस्मिन् प्रथमपक्षे वृद्धसंमति दर्शयति विद्यार-

मृद्ोधान्मृत्तिकाबुद्धेत्युक्तं श्रुत्या यथा तथा । निर्माये प्रकृतित्वेन विज्ञाते ज्ञायते हि सः। वाचारम्भणवाक्याच्च तदनन्यत्वसूत्रतः ॥ कारणाद्यतिरेकेण कार्याभावपरादृपि। तदनन्यत्वसूत्रीयभाष्यात्प्रागुदितेषु यः । प्रतिज्ञावचनस्याद्यस्सप्रशस्ततमो भवेत् ॥ १३॥। ॥ व्या। ज्ञायते हि सः जगत्प्रकृतिभूत आत्मैवेत्यर्थ इति प्रतिज्ञाश्रुतेरस्मा- भिः प्रतिज्ञातचतुर्विधतात्पर्याणां मध्ये यः प्रथमाभिप्रायो दर्शितः स विद्यारण्या- चार्याणामपि सम्मत इति दर्शयित्वा तत्र श्रत्यादिप्रमाणानि दर्शयति वाचार

Page 322

अष्टमं एकविज्ञानेन सर्वविज्ञाननिरूपणम्। ३१३

म्भणवाक्याच्चेत्यादिना प्रतिज्ञावचनस्य चतुर्विधाभिप्रायमध्ये यः प्रतिपादित- प्रथमाभिप्रायस्स एव प्रशस्ततम इत्यर्थ: ॥।१३ ॥ अ०॥ संप्रति 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैरनिगूढा' मिति श्रृत्यवष्टम्भेनाज्ञानस्य आत्मशक्तित्वपक्षे-तत्कार्याणां गुणत्वावगमात् ॥ श्री॥ शक्ते तु प्रकृतित्वेन विज्ञाते ज्ञायते गुण इति यत्प्राक् प्रतिज्ञाश्रुतेर्द्वितीयतात्पर्यमुक्तं तदेव प्रपञ्चमति स्वात्मेति- ॥ स्वात्मारोपितशक्तितो भवति चेत् कार्य तदा चिद्ठुण- स्सोडयं शक्तिमति प्रतीचि विदिते तज्ज्ञानतो ज्ञायते। सौवणे कलशे मतेऽत्र लिखितं रेखात्म चित्रं यथा विज्ञातं सकलं च दै्यसहिते तन्तौ मते चेलगाः ॥ १५॥ व्या। यथा चाघातक्रियावहनशक्तिमति सौवर्णे कलशे ज्ञाते सति तत्र टक्टेन लिखित रेखात्मकं हंसशुकादिरूपं चित्रं ज्ञायते मभाच दैध्यीद्यणुत्वपरिमाण- गुणवत्येकस्मिन्तन्तौ विज्ञाते सति तदेकतन्तुनिर्मितत्वेन तदभन्नचेलगता हूस्व त्ववैशाल्यमहत्वरूपपरिमाणविशेषा विज्ञायन्ते - एवं शक्तिमति स्वात्मनि वि- जञाते सति तज्ज्ञानेनैव शक्त्या - स्वाश्रयचिदात्मनि कल्पितो दृष्टिरूपगुणोSपि विज्ञायत इत्यथ: ॥ १४ ॥ अ०। इदानीं-तन्तुगतरूपस्येवात्मश्क्तेगुणत्वाभावात् तत्कार्यस्य कथ गुणत्वमित्याक्षिप्य दृष्टान्तेन समाथत्ते यदीति- मू॥ यदि शक्तेर्गणत्वं स्यात्तदा स्याच्छक्तिजा गुणः।

हरिद्रासुघयोश्शक्तेर्यथैव गुणहेतुता॥ १५॥॥ व्या। यथा हरिद्रासुधाशक्ते : कगृणहेतुत्वं तद्वदात्मश केरपि गुणहेतुत्वं भवेदित्यर्थः । १५॥॥ अ० ॥ संप्रति हरिद्रासुधागतरूपगुणकार्यमेव तत्सयोगकाले प्रतीयमानो रक्तगुण इत्याशङ्गामनूद्य तत् वाधप्रदर्शनेन शक्तर्गणहेतुत्वं दर्शयति न शक्तिज- इति- 27

Page 323

३१४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां मू॥ न शक्तिजो रक्तगुण: किन्तु तद्रुणजो यदि॥ हरिद्राचूर्णसंयुक्ते नवनीते यतो न हि। अतो हरिद्रासंयुक्तसुधाशक्तेमवेदुणः ॥ १७ ॥ व्या ॥ तद्गुंणज इति तयोर्हरिद्रासुधयोः पीतादिगुणजन्य इत्यर्थः । शेषस्सुगमः ॥।१७॥ अ०॥ अधुना सदृष्टान्सं सुधादौ शक्तिसद्भावं दर्शयति वहाविवेति मू॥ वह्णाविव सुधायाञ्च पाकशक्तिश्र दृश्यते ॥ १७॥।॥ व्या। चकारेण हरिद्रायामपि रक्तगुणहेतुभूता शक्तिर्दश्यत इत्युक्तम्।। अ०॥ अधुना माया तु प्रकृति विद्यादिति श्रृत्यनुसारेण यत्तावतप्रागभि- हितम्॥ श्रे० ॥ प्रकृत्यज्ञानवज्जीवे विज्ञाते विकृतिमतीि प्रतिज्ञाश्ुतेस्तृतीय तात्पर्ये तदेव प्रपञ्चयति स्वाज्ञानमिति- मू ॥ स्वाज्ञानं प्रकृतिर्भवेद्यदि तदा सत्ताभिदासंभवात् तत्कार्य स्वगत भवेत्सुविदितं ज्ञाते व्यवस्थावति। रङ्गाजीवविनिर्मितं पटगतं द्रव्यात्मकं धातुजं विज्ञातं सकलं यथा सुविदिते चेले व्यवस्थावति ॥ १८॥॥ व्या॥ स्वात्माज्ञानं जगदुपादानमित्यस्मिन्पक्षे स्वात्मनः पारमार्थिकसत्ता- स्वात्माज्ञानतत्कार्ययोः प्रातिभासिकसत्तेति स्वात्मजगतोर्व्यक्तिमेदस्य संभाव्यमान त्वादवस्थात्रयवति स्वात्मनि विज्ञाते तज्ज्ञानादेव स्वात्माज्ञान तत्परिणामभूतं जग- दपि विज्ञायत इत्युक्ता तदनुगुणं दष्टान्तमाह=रङ्गाजीवेत्यादिना यथा रङ्गाजी- वाख्यचित्रकारपुरुषेण पटे विनिर्मितैः पिष्लेपनेन मषिमयरेखया च नानावर्ण- द्रव्यपङ्करञ्जनेन च क्रमात् घद्टितत्वलाञ्छितत्वरञ्जितत्वरूपावस्थात्रयवति पटे विज्ञाते तज्ज्ञानादेव पटगतं पटेतरानेकवर्णद्रव्यसत्ताकं मही-महाघर दिवपं कार्यजात विज्ञायते तद्ूदित्यर्थः ॥ १८॥।।। अ०॥ इदानीं प्रथमतात्पर्यापेक्षया द्वितीयतृतीयतात्पर्ययोः कमादवरत्वं दर्शयत द्वितीयेचेति- मू॥ द्वितीये च तृतीये च प्रातिभासिकतात्रलात्॥ स्वात्मज्ञानेन विज्ञांतं कार्य यद्यपि संभवेत्।

Page 324

अष्टमं एकविज्ञानेन सर्वविज्ञाननिरूपणम्। ३११

तथापि श्रुतितात्पर्ये मनाक् सङ्कचितं यतः॥ न प्रतच्यिद्वितयित्वं चिज्जडानां पृंथक्तृंतः ॥। २०।।।। ्या। द्वितीयतृतीयपक्षत्वेन निर्दिष्टस्य प्रतिज्ञाश्रुतितात्पंर्यस्य गनाक्स- डोचे हेतुमाह-यतो न प्रतीच्यद्वितीयत्वमिति तत्र हेतुमाह -- िज्ज डानां पृथक्तृत इति ॥ २०।॥ अ०। अत्र ब्रह्मगीतां प्रमाणयति। माययेति- मू। मायया विद्यते सर्वमिति केचन मोहिताः ॥ शिवरूपातिरेकेण नास्ति माया च तत्वतः । मायया वा शिवादन्यद्विद्यते चच्छिवस्य तु॥ महत्त्वं परमं सक्षाद्धीयेत सुरपुङ्गवाः । महत्वस्य च सङ्कोचो नास्ति सम्यङनिरूपणे।। अस्ति चेद्प्रमाणं स्याच्छतिस्सत्यार्थवादिनी ॥ २३॥॥ व्या॥ इमे श्रोकाः प्राद्द्वितीयनिरूपणे सप्तमप्रदर्शके उदाहृत्य व्याख्याता: अ०॥ श्री० ॥ शोधिते विदिते ज्ञातमज्ञातं विदित भवेत् इति यत्प्रतिज्ञा श्रुनेक्षतुर्थतात्पर्य मभिहितं तदिदानीमन्नादो वसुदान इत्यादिश्वुतिमवलम्ब्य प्रपञ्च- बति मायेति- मू। मायाकर्मयुताधिदैविकत्रितो जातं जगच्चेत्तदा ज्ञाताज्ञा तविभागतस्तु सकलं ज्ञातं भवेत्साक्षिणा।

रैक्याभाववशाद्धि लक्ष्यमुभयोरस्मीति संवेदनात् ।।२४।। कया॥ तत्तत्म्राणिकर्मसापेक्षादव्यामोहितान्मायिनो महेश्वरादाधिदैविका

स्वीकारपक्षे तत्वंपदवाच्ययोम्सर्वज्ञकित्विज्ज्ञयोरक्याभवातु पददयलक्ष्मभूतेन निवृत्तावरणेन जगदनुपादानभूतसाक्ष्यात्मकविदुषा त्वाधिदैविकपरमेश्वरविनिर्मि तस्य वियदादेरज्ञातसत्ताकत्वस्य स्वाप्रिकगजादेः ज्ञातैकसत्वस्य च स्वीकृतत्वास्त-

Page 325

११६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

दुभयविधमपि ज्ञातमज्ञातञ्च कारये साक्षिप्रकाशेन विज्ञातं स्यादित्युक्ता तदुपपततिं प्रश्नपूर्वकमाह कस्माच्चेत्यादिना अभिधेययोरिति तत्त्वंपदवाच्ययोरित्यर्थः सजडयोरिति मायाविद्योपाधिकयोरीश्वरजीवयोरित्यर्थः ।। उभयोरिति तत्त्वंपदयोरिति यावत् ॥ २४॥।॥ अ०। पुनश्च चतुर्थतात्पयमव चोदपूर्वकमुपपादयति=कथमिति- मू ।। कथ मायादिनिर्मोकाच्छोधिते सच्चिदात्मके ॥ प्रकृतित्वविहीनेSस्मिन्ज्ञातेऽन्यज्ज्ञायते यदि। एतस्माल्लक्ष्यचैतन्यादपृथग्देशकत्वतः । सर्वेषां लक्ष्यभास्यत्वं ज्ञाताज्ञातविभागतः ॥ २६।।।। व्या।। ज्ञाताज्ञातविभागतस्सर्वेषां लक्ष्यभास्यत्वमित्यन्वयः ॥२६॥॥

साक्षिणीति- अ० ॥ इदानी प्रथमाितात्पर्यापेक्षया चतुर्थतात्पर्येऽस्मिन्नरुचि दर्शयति

मू॥ साक्षिण्यकारणे ज्ञाते वाच्यसृष्ट मतं भवेत ॥ इत्येव सर्वविज्ञानवाक्येनोक्तं तथास्य च।

आरम्भणश्रुतिप्रा क्तेत्यत्र स्याल्क्लिष्टकल्पनम् ॥।२८।।।। व्या। अन्नति चतुर्थपक्षे तावत् शब्दप्रवृत्त्तिनिमित्तानां जातिगुणकक्रिया- णामाश्रयत्वेन शब्दप्रत्ययातिरेकेण कार्याणां ब्रह्मभिन्नानां परस्परभेदस्य स्वीकृत- त्वात् वाचारम्भणश्नुतेर्मुख्यार्थत्वासेभवेन तया श्रुत्या चतुर्थनिरूपणोत्तप्रकारेण कर्मकार्यस्य वियदादिजगतः सत्यत्वेऽपि ब्रह्मण इव त्रिकालाबाध्यत्वरूपसत्यत्वा- भावादस्य जगतः तत्त्वंपदलक्ष्यार्थभूतशुद्धब्रह्मानन्यत्वमभिप्रेतमिति कल्पनं क्विष्टमित्युक्त्या चतुर्थतात्पर्यापेक्षया तृतायादितात्पर्याणां प्रशस्तत्वादिकं क्रमाद्द- र्शितमित्यर्थः ॥ २८॥॥ अ०॥ ननु कोऽसौ ज्ञाताज्ञातवस्तुद्वयावभासकस्साक्षी अज्ञानोपाधिकश्रेद- स्य चतुर्थतात्पर्यगम्यस्य चैतन्यस्य प्रथमादितात्पर्यगम्याज्जगत्कारणचतन्याद्वैल- क्षण्याभावेन प्रतिज्ञाश्रुतितात्पर्यस्य चातुर्विध्यव्याघातस्स्यात् तदतिरिकश्रेत्तत्र किं प्रमाणमिति प्राप्ते कैवल्यश्रुति प्रमाणयति त्रिष्विीत-

Page 326

अष्टमं एकविज्ञानेन सर्वविज्ञाननिरूपणम्। ३१७

मू॥। त्रिषु घामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् ॥ तेभ्यो विलक्षणस्साक्षी चिन्मातोऽहं सदाशवः ।। २९।।।। व्या। अवस्थात्रयेषु यद्धोज्यं विषयजातं यश् भोक्ा विश्वतैजसप्राज्ञात्म. क: यश्र भोगस्सुखदुःखसाक्षात्कार: यच्च भोगसाधनीभूतं करणं तेभ्यो विलक्ष- णस्सच्चिदानन्दरूपो विदुषोऽहमिति प्रकाशमान: एकत्वावरणरहितश्वैतन्यस्वरूप यस्स एव साक्षीत्यर्थः । २९।।।। अ०॥ नन्वेवं विदुषाऽहमिति प्रकाशमानस्य साक्षिणो ज्ञाताज्ञातवस्त्वव- भासकत्वे कि प्रमाणमित्यत आह ज्ञातरूपेणेति- मू॥ ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिण:।। सर्वे भाति तदाऽडभाति ततस्तद्यापि सर्वदा। इति श्रीब्रह्मगीतायां चतुर्थाध्यायके स्मृतम् ॥ ३१ ॥ व्या।। ज्ञातरूपेण चाज्ञातस्वरूपेण च विद्यमानं सर्वे यतस्साक्षिणो भाति यतश्च तत्साक्षी आसमन्तात्प्रकाशते ततस्तत्साक्षि चैतन्यं विद्यादशायामिवावि- द्यादशायामपि ज्ञाताज्ञातसर्वावभासकत्वेन सदा सर्वव्यापि भवतीत्यनेन चतुर्य- तात्पर्यनिष्ठस्य अविद्यावस्थातः विद्यावस्थायां असङ्गत्वाद्यावरणनिवृत्तिव्यतिरे केण न कोऽपि विशेष इति चतुर्थतात्पर्यस्य प्रथमादितात्पर्यभ्यो विहीनत्वमव गम्यत इति भाव: । ३१।। अ०। इदानीं प्रथमतात्पर्यनिष्ठाफलमाह आद्य इति- मू।। आद्ये निष्ठा यदा ब्रह्मविद्वरिष्ठस्तदा भवेत्। समाधौ तदभावे च विना वृत्ति स्वमानतः ॥ ३२ ॥ व्या।। आद्यपक्षे स्वात्मातिरेकेण तदवभास्यवृत्त्याद्यभावात् समाध्यनु- षठाने तदननुष्ठाने वा वृत्तिं विना स्वात्मनो भानसंभवात् ब्रह्मविद्वरिष्ठत्वं संभवे- दित्यर्थः ॥ ३२॥ अ० तत्र ब्रह्मगीतायाश्चतुर्थाध्यायवचनानि प्रमाणयति ब्रह्मण इति मू॥ ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपिच । तथा सति शिवादन्यत्कथं पश्यति तत्ववित् ॥ ३३ ।।

Page 327

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

क्या॥ हे सुराः भवदाशङ्कानिवृत्त्यथ प्रागस्मिन्नेव चतुर्थाध्याये स्मीरितैः क्रा ॥ वग्मण्यध्यस्तमायाया निवृत्तिं कुरुते तुसा। विद्या यदिन मायायाः प्रत्यगा- त्मन्यसंभवात्॥ प्रत्यगात्मा परंज्योतिर्माया सा तु महत्तमः । तथा सति कथ मात्रासंभवः प्रत्यगात्मनि ।। तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्धने ॥। स्वप्र- काशैकसंसिद्धि नास्ति माया परात्मनीत्यादिवचनैरुक्तरीत्या प्रत्यग्ज्योतिषि तमो- रूपाज्ञानस्य आध्यासिकस्यासंभाव्यमानत्वात् तदीयमनिर्वचनीयं गुणात्मकं द्रव्या- त्मक वा तदतिरिक्त सत्य वा वस्तु ब्रह्मणोऽन्यत् सर्वदा नास्त्येव तथा सति तत्व- वि:स्वातिरिंक्तवसत्वभावात्किमपि न पश्यतीव्यर्थः ॥ ३३ ।। अ०। एवं स्वातिरिक्तवस्त्वन्तराभावपरं ब्रह्मवाक्यमुदाहृत्य अधुना स्व प्रतियोगिकमेदाभाव परमपि ब्रह्मवाक्यमुदाहरति भेद इति- मू॥ भेदोऽमेदस्तथा भेदाभेदस्साक्षात्परात्मनः । नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा ॥ ३४ ॥ क्या॥ स्पष्टोऽर्थः ॥३४॥ अ०।। यत एवमतः प्रत्य्ज्योतिरावारकतमस्तत्कार्याभावात् प्रत्यख्ान्न- प्रकृतिकत्त्व्राच्च सर्वस्य तदनन्यत्वेन तत्वविदो हेयोपादेयाभावपरं ब्रह्मवाक्यमप्चु दाहरत व्रह्मावेति- मू॥ ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च। तथा सति शिवज्ञानी किं गृह्णाति जहाति किम् ॥ ३१ ॥। व्या॥ स्पष्टोऽर्थः ॥३५॥ अ०॥ इदानीमुपपादितार्थे उपपत्ति प्रदर्शयति -- इतीति -- मू। इत्युक्ता ब्रह्मगीतायां चतुर्थाध्यायके ततः । मायया विद्यते सर्वमिति केचन मोहिताः । शिवरूपातिरेकेण नास्ति माया च तत्वतः । मायया वा शिवादन्यद्विद्यते चच्छिवस्य तु॥ महत्त्वं परमं साक्षाद्धीयेत सुरयुङ्गवाः । महत्त्वस्य च संकोचो नास्ति सग्यङनिरूपणे॥।

Page 328

अष्टमं एकविज्ञांनेन सर्वविज्ञाननिरूपणम्। ३१९

अस्तिचे दप्रमाणं स्याच्छूतिस्सत्यार्थवांदिनी ।: इत्येतैः पूर्ववत्पश्चात्तमोऽज्ञाननिराकृतेः ॥ प्रतिज्ञा श्रुतितात्पर्य यदाद्यं ब्रह्मसम्मतम् ॥। ३९॥।॥ व्या। पूर्ववदिति पूर्वोक्तै ब्रिह्मण्यध्यस्तमायाया इत्यादिवचनैरिवेत्यर्थः ॥ इमे श्रोकाः प्रागस्मिन्निरूपणे प्रतिज्ञाश्रुतेर्द्वितीयतृतीयतात्पर्यपक्षे प्रत्यगात्मनः अद्वितीयत्वसंकोचप्रदर्शनार्थमुपन्यस्ताः। इदानीं तु प्रतिज्ञावचनस्य प्रथमतात्पर्य- प्राशस्त्यप्रदर्शनाय पुनरुपन्यस्ताः । द्वितीयनिरूपणे सप्तमप्रदर्शके व्याख्याताश्ातो न पौनरुक्त्यमिति भावः ॥ अ०॥ अधुना - द्वितीयतात्पर्य निष्टाफलमाह द्वितीयस्थ इति- मू॥ द्वितीयस्थो यदा ब्रह्मविद्वरीयांस्तदा भवेत् ।। स्वभास्यगुणदृष्ट्चन्यविकाराणामभावतः । सर्वेदाऽस्य तया दृष्टया स्वात्ममात्रानुभूतितः ॥४१ ॥ व्या॥ स्वभास्यगुणदृष्टयन्यविकाराणामभावत इति। स्वख जगत्कारणभूतस्य श्तिरूपाज्ञानवतः भास्यभूताः याः गुणात्मकदृष्टयः तदतिरिक्त- विकाराणामभावादस्य द्वितीयतात्पर्यनिष्ठावतः सर्वदा तदष्ट्या स्वात्ममात्ानुभवव- त्वात् ब्रह्मविद्वूरीयस्त्वमिति भावः ॥। ४१ ।। अ०। इदानीं तृतीयतात्पर्यनिष्ठाफलमाह तृतीय इति- मू॥ तृतीये तु यदा निष्ठा तदा स्याड्ूह्मविद्वरः ।

सर्वदाडस्य तया दृष्टया स्वात्ममात्रानुभूतितः । ४२।।। - व्या। स्वभास्यद्रव्यदृष्टयन्यविकाराणामिति। स्वस्य जगतका- रणभूतस्य परिणाम्यज्ञानतादात्म्यापन्नस्य भास्यभताः या द्रव्यात्मकदृष्टयः तद- तिरेकेण बाह्यार्थानामभावात् शेषः पूर्ववत् ॥४२॥॥ अ०॥ यत्तावदभिहितं कारणामन एव सर्वदृटिविषयत्वं तत्र वाचारम्भण- श्रुत्यादिकं प्रमाणयति वाचति-

Page 329

३२० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू ॥ वाचारम्भणमित्यादिवेद्वाक्यात्तथैव च।। तद्नन्यत्वसूत्राच्च घटशब्दान्मृदोऽपि च। न तु कश्चिद्विकारोऽस्ति वृत्तेनेति च भाष्यतः । पाठभेदेन भावाच्चोपलब्घेरिति सूत्रतः । तदीयभाष्यतो वाचस्पत्यादपि च तन्तवः ॥ गोचरा: पटबुड्धेस्स्युर्न पटो गोचरो यथा। जगहुद्धेस्तथा प्रत्यङ्गाचरोऽन्यो न विद्यते॥ प्रत्यग्रूपे प्रमाणानां निष्ठां ब्रूमोSद्वितीयके। इत्यादिशासनात्स्वात्ममात्रस्यानुभवस्सदा ॥ ४७॥ व्या।। प्राक् षष्ठे दृष्टिमृष्टिनिरूपणे व्याख्यातैरेतैश्ल्ोकैस्तत्र दृष्टिव्यतिरेके- णानात्मभूत बाह्यार्थाभावो दर्शितः । अत्र तु सर्वदृष्टीनामात्मैव विषय इति प्रदर्श- नार्थमुपन्यस्ताः अतो न पौनरुक्त्यमिति भानः ॥४७॥ अ०॥ इदानीं प्रश्नपूर्वक द्वितीयतृतयिपक्षयोर्भेंदं दर्शयति तर्हीति- मू॥। तर्येतयोर्विभेदस्तु किन्निमित्तो भवेद्यदि। द्वितीये स्वगुणत्वेन दृष्टेस्स्वस्याद्वितीयता।। द्रव्यत्वेन तृताये तु तादृशी नाद्वितीयता। इतीयानेव तद्ेदस्तुर्यनिष्ठाफलं शृणु ॥४२ ॥ व्या। एतयोरिति द्वितीयतृत्तीयतात्पर्यनिष्ठाफलयोः स्वगुणत्वन दष्टेरिति दृष्टे: स्वगुणत्व तावत् प्राक् त्रयोदशादिश्लोकेनोदाहृत्य व्याख्यातं तन्मेद- इति तयोर्द्वितीयतृतीयतात्पर्यनिष्ठाफलयोर्भेदः तद्भेद इत्यर्थः ॥ इतस्तुरीयतात्पर्य- निष्ठाफलं ऋण्वित्यर्थः ॥ ४९ ॥ अ० ॥ तदेव तुरीयतात्पर्यनिष्ठाफलं दर्शयति तुर्येति- मू॥ तुर्यतात्पर्यनिष्ठत्वे ब्रह्मित्वं न चेतरत्। समाधीतरकालेऽस्य बाह्यार्थद्वयदर्शनात्॥१०॥

Page 330

अष्टमं एकविज्ञानेन सर्वविज्ञाननिरूपणम्। ३२१

व्या। बाह्यार्थद्रयदर्शनादिति बाह्यस्य दृष्टिव्यतिरिक्तस्यार्यद्वयस्य व्याव हारिकप्रातिभासकरूपार्थद्वयस्य दर्शनाद्ह्मवित्त्वमेव भवेदित्यर्थः ॥ ५० ॥ अ०॥ पुनश्वोदपूर्वकं चतुर्थतात्पर्यनिष्ठस्य तत्वविदां मध्ये सामान्यत्वं द्शयति तुर्यतात्पर्येति- मू ॥ तुर्यतात्पर्यनिष्ठोऽपि बाह्यदृष्टिविनिग्रहात्। सदा स्वात्मैकनिष्ठस्स्याच्चेद्धयाता न स तत्ववित् ॥५१॥

व्या। अस्य प्रारब्धफलानुभवकाले न स्वात्मनिष्ठत्वमित्यर्थः ।५१॥ अ०॥ इदानीं सदष्टान्तं ब्रह्मवित्त्वादे: फलमाह यवाग्विति- मू। यवाग्वन्नादिभोक्तृत्वे सुखाधिक्यं यथोचितम्। भवेदप्येकरूपैव क्षुन्निवृत्तिर्यथा तथा॥ ब्रह्मवित्तद्वरत्वादौ विशेषेण क्रमाद्भवेत्। जीवन्मुक्तिसुखाधिक्यं कैवल्यं त्वेकरूपकम् ॥ ५३॥ व्या। स्पष्टोऽर्थः।५३।।

झरीनामकव्याख्यानोपेतायां अद्वैतसिद्धान्तगुरुचन्द्रि- कायां अष्टमं एकविज्ञानन सर्वविज्ञान- निरूपणं सपूर्ण म्।

औ तत्सट्वप्ैवाहमस्मि हरि: ओम्। तत्सत्।।

Page 331

॥ हरि : ओम्। अद्वैतसिद्धान्तगुरुचन्द्रिकायाम्। नवमं वाच्यैक्यनिरूपणं आरभ्यते।

दप्र सादं प्रार्थयते जीवेशेति -- मू। जीवेशभेदवादान्धकारचण्डप्रभाकरः । साक्षाच्छिवावतारो यो मय्याचार्यः प्रसीदतु॥ १ ॥ व्या॥ स्पष्टोऽर्थः ॥१॥ अ०।। इदानीं नवमनिरूपणे प्रमेयं दर्शयति पुरेति- मू॥ पुरा निवेदितं शिष्यैर्वाच्यैक्यमपि संमतम्। इति यत् ताद्विशेषस्तु नवमेऽत्र निरूप्यते ॥ २ ॥ व्या॥ तद्विशेषस्त्विति तस्य तत्वंपदवाच्यैक्यस्य विशेषः प्राक् शिष्यैरपेक्षितोऽत निरुष्यत इत्यर्थः ॥२॥ अ०। शिष्यस्स्वाचार्ये पृच्छति सौषुप्त इति- मू॥ सौषुप्तो जगदीश्वरो यदि तदा तच्छब्द्वाच्योडस्ति किं नो वा सोडस्ति यदीह तेन सह मेडमेदो न वा वर्तते। यद्यस्ति स्फुरणं कुतो न भवति ह्यत्रोपमानादिना साक मे परभीरुकस्व वढ़ भे वाच्यैक्यमावश्यकम् ॥ ३॥ ्या॥ सौषुप्तस्य जीवस्य प्रथमादिनिरूपणोक्तप्रकारेण जगत्कारणत्वपक्षे तत्त्वमसीति महावाक्यस्य तत्पदस वाच्यार्थोऽस्ति कि नवा अस्तिचेत् इह जीव- दृशायां तेन सह ममैक्यमस्ति किं नवा अस्ति चेदहमेव तत्त्वमसीति वाक्यं घट- कीभूततत्पदवाच्यः सर्वज्ञत्वादिधर्माश्रय इति कुतो न भामीत्याचार्याय स्वप्रश्न-

Page 332

नवमं वाच्यैक्यनिरूपणम् ३२३

मावेद् 'उदरमन्तरं कुरुते। अथ तस्य भयं भवति''भीषास्माद्वातः पवते' इत्यादि- श्रृत्यनूदितस्य स्वभिन्नत्वेन गृहतात्तत्पदवाच्यादन्तर्यामिणस्सकशात् जायमानस्य भयस्य निवृत्त्यर्थ वाच्यैक्योपदेशं प्रार्थयते अत्रेत्यादिना अत्र वाच्यैक्याप्रतीता. वित्यर्थः ॥ परभीरुकस्येति परस्मादन्तर्यामिणो भीतस्येत्यर्थः ॥ ३ ॥ अ०॥ इदानी तदाचार्यो वाच्यैक्यमुपदिशति वाच्यैक्यमिति- मू॥। वाच्यैक्यं त्वदपेक्षितं तु शृणु तेSसंवेष्टनाद्व्यापि न- स्स्वाज्ञानान्निखिलेश्वरस्य निखिलाभिज्ञस्व चापाततः । किश्चिज्ज्ञत्वमसद्वघा वदसि भोस्स्वाज्ञातसत्वभ्रमे संजाते हि तदप्रतीतिसमये स्वमे यथा तैजसः ॥ ४ ॥ व्या।। वाच्यैक्यं त्वदपेक्षितं शण्विति शिष्यमभिमुखीकृत्य तस्य तत्पदवाच्यत्वावेदनाय व्यापकत्वादिधर्माश्रयत्वं दर्शयति-तेऽसंवेष्टनादित्या- दिना असंवेष्टनात् प्राक् तृतीयनिरूपणोक्तप्रकारेणाज्ञानतत्कार्यस्ते संवष्नाभावात् स्वतश्च व्यापी तत एव स्वाज्ञाने तादात्म्यवशान्निखिलस्य प्रातिभासिकस्य वियदादे- रीश्वरश्च भवसि ततो हि निखिलगोचरज्ञानवांश्च भवसि निखिलगोचरज्ञानवत्त्वादव तव मूलाज्ञानतत्कार्ययो: जीवनानुकूलतुरीयस्व रूपानभिज्ञत्वाति रेकेण कालन्रयेऽप्यसत् किञ्चिज्ज्ञत्वं सर्वज्ञत्वव्यावर्तकमिवाह किञ्चिज्ज् इति वृधा वदसि इत्युक्ता तत्र कारणमाह आपातत इति स्थूलज्ञानादित्यर्थः॥ कदा वदामत्यित आह स्वा- ज्ञातेत्यादिना स्वेनाज्ञातस्य वस्त्वन्तरखासत्वेSप्यावृतत्वेन तदस्तीति भ्रमे सति तस्य प्रतीत्यभावसमये वदसीत्युक्ता तत्र दृष्टान्तमाह स्वसे यथा तैजस इति स्वप्ने भवानेव तैजससज्ञकस्सन् यथा किञ्चिज्ज्ञत्वादिकं वदति तद्वदित्यर्थः॥४॥ अ०॥ सवप्ने यथा तैजस इत्युक्तमेव दृष्टान्तं विशदयति स्वप्न इति -- मू। स्वप्े दृष्टगजदिानां यस्तु पार्श्चों न दृश्यते। तस्य सत्तात्रयाभावाज्ञनादयद्व ङ्गवीषि च ।। ५॥ क्या॥ स्पष्टोऽथः॥५॥ अ० ॥ इदानीं आधिदैविकस्येश्वरत्ववाद्यभिमतं दृष्टान्तमाह सूत्रात्मेति- मू। सूत्रात्मा जगतो यथा च भवति स्रष्टा च सन्नीश्वर- स्सृष्टे तत्प्रकृतावहंकृतिवशात्प्राप्नोति संसारिताम्।

Page 333

३२४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

तद्वत्त्वं जगतः प्रबोधसमये स्रषटृत्वतोऽपीश्वर- स्सृष्टे तत्प्रकृतावहंकृतिवशाज्जीवस्तयोरेकता ॥ ॥

्यगर्भाख्य आधिदैविक: पुरुषः स्थूलभूतादिस्त्रष्टृत्वादीश्वरत्वं स्वसष्टतत्कारणेष्व- हमभिमानाज्जीवत्वं च भअति तहूत् त्वमपि-'यदा सुप्तर्खप्नं न कञ्चन पश्यती

ध्यासाज्जीवत्वं व भजसीत्युक्ता फलितमाह तयारिति तयोस्तत्वंपदवाच्य बोरेकता अस्मत्पदवाच्यस्य जगत्स्नषटत्वसंसारित्वाश्रयत्वादिदमेव वाच्यैक्यमिति भावः ॥ ६।। अ०॥ एवमीश्वरत्वाध्यासाश्रयमेव प्रत्यक्चैतन्यं जीवत्वाध्यासाश्रयमि- त्यादिश्य अधुना नेश्वरत्वाध्यास विना जीवत्वाव्यासस्संभवतीति सदष्टान्तमाह कूश इति- मू ॥! कृशेऽभिषेकपात्रेSस्मिन्विशाले धातुनिर्मिते। पादतो बाणलिङ्गस्य स्थापनार्थमपेोक्षितः । गर्तो यथात्र संस्फोटं विना कर्तु न शक्यते। तथेशत्वं विना स्वसीमन्न जीवत्वं भवोत्किल ।।८ ।। व्या। कृशे ताम्राद्यभिषेकपात्रे तदतिरिक्तपीठमन्तरेण ऊर्ध्वशिरस्कत्वेन- बाणलिङ्गस्य स्थापनार्थमपेक्षितो गर्तो यथा तदनुकूलबुद्बुदाकारमन्तेरण तत्पात्रे कर्तु न शक्यते तद्वत् प्रत्यगातमनीश्वरत्वाध्यासं विना जीवत्वाध्यासो न संभवेदि- त्यादिश्य तत्र 'तत्सृष्टा तदेवानुप्राविशत् सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्त' इत्यादि श्रुतिप्रसिद्धिं दर्शयति किलेति ॥ ८ ॥ अ०॥ ननु, तत्त्वंपदवाच्ययोरेवमत्यन्ताभदे तयोर्मेदव्यवहारस्य का ग- तिरित्यत आह यस्मादिति- मू॥ यस्मादीश्वरतां विना तु न भवेत्सुप्तस्य ते जीवता शारीरेश्वरयोरविभेद्वचनं आ्रान्तैर्वृधा प्रोच्यते। कर्तृत्वेन विना यथा च न भवेज्जीवस्य ते भोक्तृता भत्ववशाद्धि संसृतिरपि रवमे यथा जाग्रति ॥। ९, ।।

Page 334

नवमं वाच्यैक्यनिरूपणम् ३२५

व्या। यस्मात् पूर्वोक्तप्रकारेण सुषुप्त्यवस्थामापन्नस्य तव परमेश्वरत्वं विना जीवता न सभवति अतः शरीरेश्वरयोर्मेदव्यवहारः केवलमूढजनप्रलाप इत्युक्ता तत्र दृष्टान्तमाह कर्तृत्वेनेत्याडिना ननुमम कर्मकर्तृत्वपूर्वकं तत्फलभो- त्कृत्वेपि न कलत्पश्चादिनिर्मातृत्वपूर्वकं तद्भ्ोक्तृत्वमिति प्राप्त दृष्टान्तेन पारहरति निर्मातृत्वेत्यादिना संसरत्यनेनेति ससृति: भोग :- दृष्टान्तेन दर्शतमर्थ दार्ष्टा- न्तिकेडप्यातदिशति जाग्रतीति॥ अ०। ननु सम सर्वजगन्निर्मातृत्वे तदनुकूलसर्वर्त्वमव प्रतीयेत कुत- स्तद्विरुद् किञ्चिज्ज्ञत्वप्रतीतिरित्यत आह वल्मीकेति- मू ॥ वल्मीकोदरमध्यकायभुजगस्तद्वाह्यदेश यदा रन्ध्राभ्यामटनं करोति हि तदा गत्यागतिग्राहिता! यद्वत्स्यादभिभावकेन किल ते किञ्चिज्ज्ञताविभ्रमः स्वाध्यस्ताखिलधीससवतोऽस्ति च ततः किन्चिज्ज्ञसर्वज्ञता ।। व्या।॥ अल्पान्तरदेशस्य वल्मीकस्य द्वाराभ्यां तद्ूहिः गमनागमनं यथा तथा पर्यटतो वल्मीकान्तरदेशस्थमध्यशरीरवतः सर्पस्य गूढपादत्वात् यदा तदीय- द्वितीयादिपादानामेकदा स्वस्वपूर्वपादसंचारार्हदेशप्रवेशः सभवति तदातत्ततप्रथम- पादस्य तत्तत्पुरोदेशप्राप्तिक्रियायाः एकत्वेऽपि यथा तव वल्मीकान्तःप्रविशत्सर्प- शरीराश्रितक्रियानुसारेण आपुच्छमस्तकं गतिक्रियाग्राहित्वं रन्ध्रान्तरद्वारा वल्मी- काद्वाह्यदेशे निर्गच्छत्सर्पाश्रितक्रियानुसारेण आशिरःपुच्छान्तमागतिग्राहित्वं च संभवति तथा स्वात्मनः स्वारोपितसर्ववस्त्ववभासकत्वरूपसर्वज्ञत्वस्य एकत्वेऽपि तस्य सर्वावभासकत्वरूपसर्वज्ञत्वस्य अभिभावकेन इतरग्रहणेन स्वारोपितेष्रु अज्ञातपा्श्वन्तरसत्व विभ्रमेण कृताग्रहणरूपाभिभवात् किश्चिज्ज्ञत्वभ्रान्तिः ख्वारोपि- तानां वियदादीनां सर्वेषां प्रतिभासिकत्वेन तद्वलात् सर्वज्ञत्वमप्यस्तीत्युक्ता तयो- राध्यासिकत्वेन सवप्ने पित्रादिकल्पकत्वतत्पुत्रत्वयोरिव परस्परविरोवाभावादेकस्य तदुभयधर्मवत्वं संभवेदित्याह-तत इति ॥ १० ॥ अ०॥ इदानीं सर्वज्ञत्वकिञ्चिज्ज्ञत्वयोः समानविषयकत्वानुमानेनापि वाच्यैक्यं दर्शयति यात्विति -- मू। या तु सर्वज्ञता प्रोक्ता सैव किन्चिज्ज्ता भवेत्।

28

Page 335

३२६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

स्वप्ने स्वप्नद्दशो यद्वत्ततो वाच्यैकता भवेत् ॥ ११॥ ॥ व्या०। किञ्विज्ज्ञत्वसर्वज्ञत्वयोर्मध्ये अन्यतरत्पक्षीकृत्यान्यतरत्वं साध्यते तत्र हेतुमाह-मध्ये दृग्दश्योस्सर्वदृश्यायत्तत्वसाम्यत इति 'श्रा० ॥। तस्मादस्ति महादेव एव साक्षात्स्वयंप्रभः । आनन्दरूपस्संपूर्णों न ततोऽन्यत्तु कि. जिबने'ति ब्रह्मगतोक्तरीत्या आत्मानात्मनोर्मध्ये एकदेशवाचि किच्छन्दार्थभूत- सर्वदृश्यायत्तत्वसाम्यात् सर्वज्ञत्वकिञ्चिज्ज्ञत्वयोरिति शेषः-तत्र दृष्टान्तमाह- सवपे खप्नटशो यद्दद्िति फलितमाह तत इत्यादिना ननु, यस्सर्वज्ञस्सर्वविदि त्यादि श्रृत्या जगत्स्ष्टुर्यत्स्ात्मनो नित्यशुद्धत्वादिकं-यच्च खवारोपितं द्वैतजातं तदुभयावगाहिज्ञानवत्वमेव विवक्षितं नत्वारोपितदृश्यमात्रज्ञानवत्वं सोऽकामयत ब हुस्यामिति श्रृत्या स्ात्मविषयकज्ञानवत्वदर्शनादिति चेन्मैवं। तस्य खात्मनि जगदध्यासकर्तुः तदध्यासापेक्षितमहमिति यत सामान्य- ज्ञानं तस्य बहुस्यामिति श्रुतिसिद्धत्वेऽपि स्वप्रसृष्टिसमये तैजसस्येव न जगत्स- श्यारंभकाले निर्विशेषत्वावगाहिज्ञानमस्ति।। श्रो० ॥ तया दुर्घटकारिण्या तादा- त्म्येनैव सङ्तम्। कारणं सकलस्रष् सर्वसंहर्तृ चास्तिकाः ॥ इति प्रागुदाहृतब्रह्म- गीतावचनोक्तप्रकारेण मायायां तादात्म्याध्यासवतः तन्मायास्वात्मनोरविवेकदर्श नात् अतो न कश्चिदोषः ॥ ११ ॥ अ०। इदानीमेतादृशप्रज्ञवानेव तत्वंपदवाच्यैक्यादिदर्शी भवेन्नेतर इत्याह-स्वस्मिन्निति- मू॥ स्वस्मिल्लँक्षणयोर्द्वयं च सुमतिर्यो वेतति वाच्यैकता- बोधेनापि निवर्तते भृगुरिवाम्भोजे यथा दृष्टिमान्। मन्दो जीिपरौ विरुद्धविषणावित्यज्ञतादोषत- श्चिद्रूपत्वधियास्मि सर्वविदिति ब्रूतेऽन्धवत्पङ्कजे ॥ १२॥॥ व्या॥ य इति-या तु सर्वज्ञता प्रोक्का सैव किञ्चिज्ज्ञता भवेदिति प्रागु- दाहतश्रोकोक्त प्रकारेण यस्सर्वज्ञत्सर्वविदिति श्रुत्यन्तर्गतसर्वशब्दार्थाभिज्ञः सुमतिः 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम्। मध्येव सकलं जातं मधि सर्वे प्रतिष्ठितम्। माय सर्वे लयं य तीत्ा िश्रित्युक्त यद्रह्मणस्तटस्थलक्षरण यच्च 'सत्यं ज्ञानमनन्तं ब्रह्म'ति श्ृत्यकतं स्वरूपलक्षणं तदुभयं च स्वस्मिन्वेत्तिसः तत्त्वंपद- देर्त्राच्यैकतावोघेन आपेश्दाल्क्ष्यकत्वज्ञानेन च निवर्तते इत्युक्ता त् वैदिकष्ा न्वमाह-भृगुरिवेति - 'भृगुवें वारुणि :- वरुणं पितरमुपससार अधीहि भगवो

Page 336

नवमं वाच्यैक्यनिरूपणम् ३२७

बह्तीति'उपक्रम्य'तँ होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति चत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्रह्मेती'ति पितृमुखाद्गह्मणस्तटस्थलक्षणं श्रुत्वा तस्य परिचिछित्रेष्वत्रमयप्राणमयमनोमये्वव कर्तृत्वभोक्तृत्वधर्मद्वयविशि- ष्टत्वेन कोशद्वयात्मके विज्ञानमयेऽप्यदर्शनात् आनन्दो ब्रह्मेति व्यजानात् आनन्दा- द्रयेव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयंत्य भिसंविशन्ती'ति श्रुत्युक्तप्रकारेण स्वस्मिन्सोषुप्तिकानन्दमये तटस्थलक्षणं तदा- नन्दस्य सच्चिद्रपत्वात्स्वरूपलक्षणं च यथा हष्टा शान्ताकाल्ल बभूवेति वैदिकदृष्टा नतमुक्ता तत्र लौकिकमपि दृष्टान्तमाह-अम्भोजे यथा दृष्टिमानिति यथाहि लोके चक्षुष्मान् आप्तमुखादम्भोजस्य पूर्णचन्द्रसमानाकारत्वे सति आह्ादकरत्व- मिति स्वरूपलक्षणं मध्यवर्तिमेरुकर्णिकाकारहरिद्रा भबाजकोशवत्वमिततत तदितर लक्षणं च श्रुत्वा तदुभयं तत्र योजयञ्छान्ताकाड्ो भवति तद्त्तदुभयलक्षणं सुम- तिस्स्वात्मनि योजयन्निवर्तत इत्युक्ता स्वात्मनि तटस्थत्रम्मलक्षगयोजनाशक्तं दूवय- ति-मन्द इत्यादिना अज्ञतादोषत इति वियदादिषु प्रातिभासिकत्वज्ञाना- भावरूपदोषेण स्वस्य परमेश्वरज्ञानविषयेष्वेकदेशग्राहकत्वभ्रान्त्या 'चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु। चैत्न्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्ममय्यपि' इति महावाक्योपनि- षदुक्तप्रकारेण स्वस्मिन् स्वरूपलक्षणभूतचिद्रपत्वावगाहिज्ञानेन सर्वविदस्मीति ब्रूत इत्युक्ता तत्र दृष्टान्तमाह-अन्धवत्पङ्गज इति यथा चान्धः पङ्कजे प्रागुक्तद्वि- नीयलक्षण स्थापातमहणमात्रेण सर्वज्ञोऽस्मीते प्रलपति तद्ूदित्यर्थः ॥ १२॥॥ अ० ॥ इदानीं जीवेश्वरयोः प्रतिबिम्बत्वपक्षे कथ वाच्यैक्यमिति पृच्छति- ईश्वर इति -- मू ॥ ईश्वरो नाम मायायां ब्रह्मणः प्रतिबिम्बकः ॥ मनसि प्रतिबिम्बस्तु जीव इत्यत्र तत्कथम् ॥ १३॥।॥। व्या०।। स्पष्टोऽर्थः ॥१३॥॥ अ० ॥ तदुत्तरमाह-तन्मायति- मू॥ तन्मायाविकृतित्वेन मनसस्तच्चिदेकता ॥ क्षीरस्थप्रतिविम्तस्य तद्विकारस्थता यथा ॥ १४॥ ॥ ्या० ॥ तच्चिदेकतेति तयोर्मायामनसोः प्रतिबिम्बभूतायाश्चित एक- ता तच्चिदकता तत्रोपपत्तिं दर्शयि -- तन्मायाविकृतित्वेन मनस इति मन- सईश्वरोपाधि भूतमायाविकारत्वेन मायागतब्रह्मप्रातेबिम्ब एव मनोगतत्रह्मप्रतिबिम्बे

Page 337

३१८ अद्वैतसिद्धान्तगुरुचन्द्रिकार्या

भव्तीत्युक्ता तत्र दष्टान्तमाह क्षीरस्थेत्यादिना यदा क्षारम् दध्यादिरूपेण परिण- मते तदा क्षीरगतप्रतिबिम्ब एव दध्यादिगतप्रतिबिम्बत्वेन दृश्यते तद्वदतो जीवे- श्ररंयोर्ब्रह्मप्रतिबिम्बत्वपक्षेऽपि तदभेदसिद्ध घर्थ न लक्षणावृत्तिराश्रयणीया तदुपाध्यो मृद्धटयोरिवाभेदावगमादित्यर्थः ॥। १४॥॥

आव इति -- अ०॥ इदानीं जीवेशयोरंशांशित्वपक्षेऽपि प्रश्नपूर्वक वाच्यैक्यं दर्शयति-

मू।। जीवोंऽशो भवतीति वादिसमये वाच्यैकतां ब्रूहि चे- दीशत्वं सकलांशकेऽस्ति हि भुवश्चांशेषु भूत्वं यथा। अंशेभ्यो व्यतिरेकतः किल भुवोऽसत्वादिहास्त्यंशता त्वं स्त्री त्वं च पुमानसीति निगमाद्वाच्यैकताSत्रापि च।। ११।।।। व्या०। वादिसमय इति॥ वादिनां सिद्धान्ते इत्यर्थः समयाश्श- पथाचारकालसिद्धान्तसंविद इत्यमराभिधानात् जीवेशयोरंशांशित्वपक्षे वाच्यैक्य- स्य विद्वूत्प्रसिद्धिं ईशत्वं च सकलांशकेऽस्ति हीति वाक्येन दर्शयित्वा तल् दृष्टान्तमा- ह-भुवश्चांशेषु भूत्वं यथेति ननु भूत्वस्य व्यापकत्वास्तदंशेषु विद्यमानत्वेऽपि तदंशत्वस्य व्याप्यत्वेन भूमावसत्वात् न वाच्यैक्यसिद्धिरित्यत आह-अंशभ्य- इत्यादिना इहेति नानांशात्मिकायां भुवीत्यर्थः ॥ एव मंशिनि अंशत्वसद्भावमुक्ता तत्र-"त्वंस्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चस्षि सोSकामयत बहुस्यां प्रजायेयेत्यादिश्ुतिं प्रमाणयति त्वमित्यादिना फलितमाह वाच्यैकतात्पि चेति अस्मिन्नपि पक्षे वाच्यैक्यं भवेदित्यर्थः ।।१५॥॥ अ०॥ इदानीं-'दृश्यते त्विति' सूत्रार्थप्रस्तावसमये यस्तावदभिहितः श्रत्य- नुगृहीत एव ह्यन्र तर्कोऽनुभवाङत्वेनाश्रीयते स्वप्नान्तबुद्धान्तयोरुभयोरितरेतर- व्यभिचारादात्मनोऽनन्वागतत्वं-संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तर्नि- छप्रपञचसदासकत्वं-प्रपञ्चस्य ब्रह्मप्रभवत्वात् कार्यकारणयोरनन्यत्वन्यायेन ब्रह्मा व्यतिरेक इ येवं जातीयक इति अत्त्मादपि भाध्यादवस्थात्रयवतो जीवस्थ जगत्कार- णत्वावगमात् वाच्यैक्यसिद्धिरित्याह -- तर्कादिति- मू।। तकोद्भाप्यसमीरितादपि भवेद्वाच्यैकता तत्त्वमो- स्स्वप्नाद्येन ममात्ययस्य विरहान्नित्योऽस्म्यसङ्कोडस्म्यहम् !

Page 338

नवमं वाच्यैक्यनिरूपणम् ३२९

सौषुप्ते मयि सर्वकार्यविलयात्तत्कल्पकश्चास्म्यहं सर्वज्ञो निखिलात्मकोऽस्मि च ततस्स्वमे यथा तैजसः॥। १६॥॥ न्या० ॥ तत इति जगदुपादानत्वात् सर्वज्ञो निखिलात्मकश्चास्मीत्यर्थ :- अत्रोदाहृतस्य भाष्यख सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति प्राज्ञेना- स्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं। प्राज्ञस्तृतीयः पाद: एष सर्वेश्वर एष सर्वज्ञ एोऽन्तर्याम्येष योनिस्सर्वस् प्रभवाप्ययो हि भृतानाम्। पुरत्रये क्राडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रमित्यादिश्ुतिमृलकत्वात् तत्वंपदवाच्यै- क्यसिद्धिरिति भावः ॥ १६॥॥ अ०॥ पुनस्तन्र चोद्यपूर्वकमुपपत्त्यन्तरं दर्शयति-किञ्चिज्ज्ञस्तेति- मू ॥ किञ्चिज्ज्ञस्यास्य जीवस्य सर्वज्ञत्वं कथं यदि॥ यस्सर्वज्ञस्सर्वविच्च यस्य ज्ञानमयं तपः । सस्मादेतद्रल्लनाम रूपमित्यत्र मुण्डके।। सर्वनाम्ना तु यः प्रोक्तस्तस्य कैवल्यवेदतः । जीवत्वेन परामर्शा्वेद्वाच्यैकता किल ॥ १९ ॥ व्या० ॥ कैवल्यवेदत इति पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जाते सकलं विचित्रमिति श्रृत्या यस्सर्वज्ञस्सर्वविदिति निर्दिष्टस्य जीवत्वावगमेन तस्य स्वसृष्टदृष्ट्यात्मकसर्ववस्त्ववभासकत्वरूपसर्वज्ञत्वादेः श्रृतिसिद्धत्वेन तत्वंपदवाच्ये- क्यासद्विरित्यर्थः ॥ १९॥ अ० ॥ इदानीं दृश्यसृष्टेर्द्टष्टिसमसमयत्वप्रक्रिययापि जीवस्य सर्ववस्तुविष यकसर्वज्ञानाश्रयत्वरूपसर्वज्ञत्वमभ्युपगम्य वाच्यैक्यं दर्शयति-नन्विति- मू। ननु सर्वज्ञता नाम सर्वगोचरधीर्यदि। चतुर्थादितरैः पूर्वैस्सप्तभिश्च निरूपणैः ॥ अपि माण्डूक्यतस्तादक सर्वज्ञत्वं च दर्शितम्। सर्वेशत्वं नियन्तृत्वं भूतप्रकृतितादिकम् ॥ निरूपितमितो नान्यद्वाच्यैक्यार्थमपेक्षते ॥ २१॥॥

Page 339

३३० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या० । चतुर्थादितरैरिति चतुर्थनिरूपणातिरिक्तैः प्रथमाद्यष्मान्त- र्सप्तमिर्निरूपणैरित्यर्थः ॥ शेषस्सुगमः ॥ २१॥॥ अ० ॥ किञ्च एकविज्ञानेन सर्वविज्ञानबोधकेन प्रागुक्काष्टमनिरुपणेनापि वाच्यैक्यं सुखेन विज्ञातु शक्यत इत्याह-अष्टमनेति- मू ॥ अष्टमेनोक्तरीत्यैव येन विज्ञायतेऽखिलम्। तस् सर्वज्ञतासिद्धेर्वाच्यैक्यं ज्ञायते यथा। तुर्ये निरूपणं त्वेकं मुक्ताऽन्येषु निरूपितैः ॥ श्रुतिसूत्रादिभिस्तद्वद्वाच्यैक्यं सिद्धमेव हि। तथापि तत्र तत्रोक्तं वृद्धवाक्यादिकं ब्रुवे ।। २४ ।। व्या॥ अन्येध्विति निरूपणेष्वित्यर्थः शेषस्सुगमः ॥२४॥ अ० ॥ 'देहयोगाद्वा-सोऽपीति' सूतद्भाष्ये संग्ृह्य प्रमाणयति-देहाभि मानत इति -- मू॥। देहाभिमानतो ज्ञानमैश्वर्यञ्च तिरोहितम्। इत्युक्तेस्तत्तिरोधानं वाच्यैक्ये स्यान्न चान्यथा ।। २४।। व्या०। तत्तिरोधानसिति यज्जीवस्य स्वारोपितसर्वजगदवभासकत्व- रूपं सर्वज्ञानं यच्च सर्वजगत्कारणत्वरूपमैश्वर्ये तयोर्यतिरोधानं तत्-त्वं पदवा- कयस्यैव तत्पदवाच्यत्वे संभवेत् नान्यथा सिध्यतीत्यर्थः ॥२४॥ अ० ॥ एवं दृष्टिसृष्टिपक्षानुसारेण वाच्यैकन्वे माण्डूक्यब्रह्मवल्ल्याद्यर्थनिर्णा- यकविद्यारण्याचार्यसम्मति दर्शयति -- सौषुप्तमिति- मू । सौषुप्तमानन्दमय प्रक्रम्यैवं श्रुतिर्जगौ। एष सर्वेश्वर इति सोऽयं वेदोक्त ईश्वरः ।। आनन्दमय ईशोडयं बहुस्यामित्यवैक्षत।

एवमानन्दविज्ञानमयावीश्वरजीवकौ। इति माण्डूक्यतः पुच्छब्रह्मव्यापारबोधकात्। तदैक्षतेति चक्रे स ईक्षामित्यादितश्र तत् ॥२७॥॥

Page 340

नवमं वाच्यैक्यनिरूपणम् ३३१

ध्या० ॥ इत्थं कस्मात्प्रमाणादवगम्यत इत्यत आह इति माण्डूक्यत इ त्यादिना सुषुप्तस्थान एकीभूत इत्यारभ्य एष सर्वेश्वर इत्यादिमाण्डूक्यवाक्यतः । तथा ब्रह्मपुच्छं प्रतिष्ठेति सौषुप्तं तत्वमुपक्रम्य सोऽकामयतेति ब्रह्मवली- वाक्यात्। तदैव तदैक्षत बहुस्यां प्रजायेदेत्युपक्रमे पठितस्य सद्वस्तुनः सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवतीति सौषुप्तिकत्वप्रदर्शकात् छान्दोंग्यवाक्याच्च। तथैव स ईक्षांचक्रे कस्मिन्नहमुत्कान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रति- छविते प्रतिष्ठास्यामीति स प्राणममृजत प्राणाच्छद्धां खं वायुर्ज्योतिरित्यादि प्रश्नोपनि- षत्प्रतिपाद्यस्य स्वसष्टे प्राणे तादात्म्यावगमादध्यात्मत्वं 'अत्रैष देवस्स्वप्रान्न पश्य- तात्युपक्म्य विज्ञानात्मा सह देवैश्षसर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र। तद- क्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमवाविवेशेति' तत्रत्यादेव वाक्यात् सौषुप्त- सञ्चावगम्यते ततोऽपि चकारेण सुखमहमस्वाप्समिति सौषुप्तविज्ञानमययोः। अभेद प्रत्यभिज्ञाबलाच्च वाच्यैक्यं तत्सिद्धमित्यर्थः । अ० ॥ इदानी तत्र श्रीभगवत्पादसंमतिमाह-राहुग्रस्तति - मू। राहुग्रस्तदिवाकरेन्दुसददशो मायासामाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान्। प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।। इति श्रीभगवत्पादैर्वाच्यैक्यं स्फुटमीरितम् ॥ २८॥॥ व्या०॥ दक्षिणामूर्तय इति दक्षिणो जगत्सष्टिस्थितिसंहारविषये सम- र्थ श्वासावमूर्तिश्र अशरीरश्षेति दक्षिणामूर्तिः सौषुप्तः प्राज्ञः तस्मै। तस्य विज्ञानमयेन

मीति यावत्॥ २८।।।। अ्र०॥ इदानीमत्र संक्षेपाचार्यादिसंमति दर्शमति -- कार्योपाधिरिति मृ॥ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ॥ इत्यादिश्रुतिमादाय संक्षेपाचार्यकैश्च तैः। इमावानन्दविज्ञानमयौ जीवेश्वराविति।

Page 341

अद्वैतसेद्धान्तगुरुचन्द्रिकायाम्

दर्शितं च तथाउद्वैतसिद्धावुक्तं यतस्तयोः । तदेकत्वप्रत्यभिज्ञाबलाद्वाच्यैकता मता ॥ ३१ ॥ व्या० ॥ तयारिति संक्षेपाचार्याद्वैतसिद्धिकारयोरपि विज्ञानानन्दमययो-

अ•॥ इदानीमुदीरितार्थे चोदमनूद्य निराकरोति -- नान्वत्यादिना -- मू। ननु सुप्तिपरित्यागे -सु्तेनास्यैकताग्रहात्। लक्ष्म्यैकता भवेदेषा-न वाच्यैक्यं भवेद्यदि । ३२ ।। कार्यकारणसंबद्धाविष्येते विश्वतैजसौ। प्राज्ञ: कारणबद्धस्तु दवौ तौ तुर्यें न सिद्धतः ॥३३ ॥ इत्यानन्दमयोपाधिमत्वस्यास्य च जाग्रतः । विश्वतैजसयोस्सप्तौ प्राज्ञत्वस्योपदेशतः ॥ ३४॥ पादतयेण वाच्यैक्यं दर्शयित्वा चतुर्थः । तदुपाधी परित्यज्य लक्ष्यैकत्वं प्रदर्शितम् ॥३१ ॥ तेषां श्रीगौंडपादानां न वाच्यैक्यं मतं यदि। कार्योपाधिरयं जीवः कारणोपाघिरीश्चरः ॥३६ ॥ इत्यागमविरुद्धार्थवादिताऽतश्र तद्भ्वेत् ॥ ३६॥॥ व्या०। सघुप्त्यवस्थाविनिर्मुक्तेन प्राज्ञेन सह जाग्रत्कालिकान्तःकरण-

मिति चोदं नन्वित्यादिनानूद्य गौडपादकारिकया परिहरति कार्यकारणसंबद्धा- विति तत्कारिकागतपादत्रयख तच्चोद्यपरिहारकत्वं दर्शयत इतीत्यादिना कार्य कारणसंबद्धाविष्येते विश्वतजसाविति प्रथमद्वितीयपादकृतेन जाग्रदवस्थापन्न- स्य विश्वस्य चकारेण तैजसस्य च उपाधिभूततत्तच्छरीरस्य तदुपादानात्मकेन प्राज्ञोपाधिभूतमूलाज्ञानेनानुस्यूतत्वेन तदज्ञानतत्कार्योपाधिकत्वोपदेशेन च तृतीय- पादकृतेन विश्वतेजसयोस्तदुपाध्योश् सुषुप्तिकाले प्राज्ञतदुपाध्यातन्मनाSवस्थानो- पदेशेन च वाच्यैक्यं द्शयित्वा द्वौ तौ तुर्ये न सिद्धयत इति चतुर्थपादेन दि भवदुक्तलक्ष्यैक्यं दर्शयतीत्याह चतुर्थत इति अनया कारिकया विश्वादनिां

Page 342

नवमं वाच्यैक्यनिरूपणम्

सरूपमात्रमादिष्टं नत्वैक्यमत्याशङ्कय तत्र बाधमाह तेषामित्यािना स्वाप्रजा ग्रत्कालिकस्य जीवस्य कार्यमात्रोपाधिकत्वप्रदर्शकत्वे 'कार्योपाधिरयं जीव इत्यागम- स्' यो विरुद्वार्थः प्रागत्नत्यत्रयस्त्रिंशश्रोकोक्तप्रकारेण कार्यकारणोभयोपाधिकत्व- रूप: तद्वादित्वमापदयेतेति परपक्षे दोषमापाद्य सपक्षे तत्परिहारमाह अत इत्या- दिना जीवोपाधिभूतस्य कार्यस्य तत्प्रकृत्याऽनुस्यूतत्वात् कार्योपाधिरयञ्जीव इत्यागमस्यापि जीवे उभयोपाधिकत्वबोधकत्वेन वाच्यैक्यिपरत्वे तदाचार्याणां उदाहृतश्रुतिविरुद्धार्थवादित्वाभावाद्यत्प्रतिज्ञातं तद्वाच्यैक्यं संभवेदित्यर्थः ॥ ३६॥ अ०।। इदानीं तत्त्वमसीत्यत्र तत्पदवाच्यार्थस्तावदानिदैविक: परमेश्वर-

विधः। त्वंपदवाच्यस्त्वाध्यात्मिको जीवस्स च व्यष्टिस्थूलसूक्ष्मकारणशरीरो- पाधिसंबन्धाद्विश्वस्तैजसः प्राज्ञ इति त्रिविध इत्याध्यात्मिकाधिदैविकभेदभ्रमस्य वाच्यैक्यज्ञानं प्रति प्रतिबन्धकत्वात् तन्निरासकानि -- पञ्चीकृतपञ्चमहाभृतानि तत्कार्य च सर्व विराडित्युच्यते। एतत् स्थूल- शरीरमात्मन :- इन्द्रिगैरर्थोपलब्धिर्जागरित तदुभयाभिमान्यात्मा विश्वः- अपञ्ीकृतपञ्चमहाभूतानि तत्कार्य च सर्व सप्तदशक लिङ्ग भौतिकं हिर ण्यगर्भ इत्युच्यते। एतत्सूक्ष्मशरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः स्वप्नः तदुभयाभिमान्यात्मा तैजसः । शरीरद्वूयकारणमात्माज्ञानमव्याकृतमित्युच्यते। एतत्कारणशरीरमात्मनः सर्वप्रकारकज्ञानोपसंहारे बुद्रेः कारणात्मनाऽवस्थान सुषुप्तिः। तदुभयाभिमान्या- त्मा प्राज्ञ इति भगवतपादकृतपञ्वीकरणवाक्यानि तद्ूयाख्यानभूतानि । छो०॥ पञ्चीकृतानि भूतानि तत्कार्यञ्च विराड् भवेत्। स्थूलं शैरार- मेतत्स्यादशरीरस्य चात्मनः। अधिदैवतमध्यात्ममधिभूतमिति त्रिधा। एक ब्रह्मवि- भागेन भ्रमाद्भाति न तत्वतः। इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्वितैः। शब्दादिविषयं ज्ञानं तज्जागरितमिष्यते। येयं जागरितावस्था शरीरं करणाश्रयं। यस्तयोरभि मानी स्याद्विश्व इत्यभिधीयते। विश्वं वैराजरूपेण पश्येद्धेदनिवृत्तये। श्रो०॥ ज्ञानेन्द्रियाणि पञचैव पञ्च कर्मेन्द्रियाणि च । मनोबुद्धिरहंकार- श्चित्तं चेति चतुष्ट्यम्। प्राणोऽपानस्तथा व्यान उदानाख्यस्तथैव च। समानश्चेति पञ्चैताः कीर्तिताः प्राणवृत्तयः। खं वाध्यग्न्यम्वुक्षितयो भूतसूक्ष्माणि पञ्च च। अविद्याकामकर्माणि लिङ्नं पुर्यष्टकं विदुः। एतत्सूक्ष्मशरीरं स्यान्मायिकं प्रत्य गात्मनः । करणोपरमे जाग्रत्संस्कारोत्थप्रबोधवत्। ग्राह्यग्राहकरूपेण स्फुरणं स्वप्न.

Page 343

१३४ अद्वैतासिद्धान्तगुरुचन्द्रिकार्या

उध्यते। अभिमानी तयोर्यस्तु तैजसः परिकीर्तितः। हिरण्यगर्भरूपेण तैजस चिन्तयेद् बुधः चतन्याभासखचितं शरीर दयकारणम्। आत्माज्ञानं तदव्यक्तमव्याकृतमुदी थते। ज्ञानानामुपसंहारे बुद्धेः कारणतास्थितिः । वटबीजे वटस्येव सुषुसिराभधी घते। यस्तयोरमिमानी सात् प्राज्ञ इत्यभिधीयते। जगन्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत्। विश्वतैजससौषुप्त विराट्ूताक्षरात्मिः । विभिन्नमिव सम्मोहा- देक तत्वं चिदात्मकम्। विश्वादिकन्नयं यस्माद्वैराजादित्रयात्मकम्। एकत्वनैव संपश्येदन्याभावप्रसिद्धये। इति वार्तिकाचार्यकृतपञ्चीकरणीयवार्तिकवचनानि चार्थतस्संग्रृह्य वाच्यैक्यं दर्शयति-विश्वेति- मूं। विश्व त्वं स विराडास त्वमास भो सूलात्मकस्तैजस त्वं प्राज्ञासि महेश्वरोऽपि सकलोपादानभूतः किल। इत्थ देशिकपुङ्गवैस्त्रिविधकं वाच्यैक्यमादर्शितं श्रीपञ्चीकरणे च वार्तिककृता तन्मूलके वार्तिके॥ ३७॥॥ ्या।। उत्तप्रकारेण वाच्यैक्यानभ्युपगमे 'अजामेकां लोहितशुक्लकृष्ण पह्षी: प्रजास्सजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते अहमिमास्तिस्रो देवता अनन जीवेनात्मनाऽनुप्रविश्ये'ति च ज्ञेयस्वरूपपरश्रुत्यनुसारेण जीवस्य पञ्चमहा- भूतायृपाधिकत्वपराणां प्रागदाहृतपञ्चीकरणादिवाकयानां क्षो॥ विश्व वैराजरूपेण पश्येद्रेदनिवृत्तये। हिरण्यगर्भरूपेण तैजसं चिन्तयेदूधः। जगत्कारणरूपेण प्राज्ञा- रमान विचिन्तयेदिति सप्रयोजनं। तत्वंपदवाच्यानां त्रिविधानामध्येकत्वविधाय- कानां पञ्चीकरणीयवार्तिकवचनानामप्यप्रामाण्यापत्तेः अवश्यं त्रिविधमपि वा- ध्यैक्यमपि शब्दात्प्राज्ञस्य तैजसादैक्यञ्च सिद्धम्। अ०।। ननु वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात् पञ्चीकरणतद्वार्तिको- करीा पदार्थद्वयाभावे कथं तत्त्वमसीत्यादिवाक्यार्थावगतिरिति शङ्कते। विनेति- मू । विनाधिदैविकं तत्वं जीवस्याध्यात्मिकस्य भोः ॥ तदसीत्युपदेशेन सर्वेशत्वं कथं स्फुरेत् ॥।३८।।।। व्या०॥ स्पष्टोऽर्थः ॥ ३८॥॥ अ०॥ समाधत्ते-यमिति-

Page 344

नवमं वाच्यैक्यनिरूपणम् ३३१

मू ।। यं मन्यसे ममारेति नद्यां स दशमोऽसि च ।। स कौन्तेयोऽसि राधेय कर्ण सूर्यात्मजोऽसि च। राड् व्याध भवसीत्याद्यैर्दशमत्वादिवत् स्फुरेत्॥ ४0 ३ क्या। कदाचित् दश पुरुषा देशान्तरगमनसभये नदीतरणार्थ तत्प्रवाहेS- वतीर्य तत्पारं च संप्राप्य किं सर्वे वयमागता न वेति जिज्ञासया जनपरिगणनाय्ष प्रवृत्तास्सर्वे स्वाज्ञानवशादात्मानमेकं मुक्का अयमेकोडयं द्वितीय इति क्रमादयं नव- म इतोऽन्यस्यादर्शनाद्दशमो नद्यामेव गत इति विक्रोशन्तिस्म तन्न दैवादागतः कश्चि- दपरो विद्वांस्तेषां स्वरूपाज्ञानं जानन् त्वमव दशमोऽसीति प्रतिपुरुषमुपदिदेश्ष ते च तद्पदेशेनोद्देश्यभूतस्वात्मातिरिक्तदशम पुरुषाभानेऽप्रि यथा स्वात्मन्येवाव- गतदशमत्ववन्तो भवेयुः-यथा वा कर्ण: स्वातिरिक्तव्यक्त्यन्तरग्रहणं विनास्वस्मि- न्नेव कौन्तेयत्वं सूर्यात्मजत्वं चाग्रहीत्-यधा वा व्याधकुलसंवर्धितो राजपुत्रो व्याधोऽहमिति ग्रहीत एव शरीरे तदतिरिक्त्तश्रीरग्रहणं विनैव राजत्वं च विदि- तवान् तथा विनाधिदैविकं तत्वं स्वस्मिन्नेव सर्वेशत्वाद्यवगतिरप्रि महावाक्याद्भदे- दित्यर्थः ॥ ४० ॥ अ०॥ इदानीमुपपादितार्थे अन्योऽप्येवं यो विदध्यात्ममेवेति कठवल्ी वाक्यं प्रमाणयति-अध्यात्ममिति- मू।। अभ्यात्ममेव यो वेत्ति सर्वबीजतया स हि। मुक्तस्स्यादिति शास्त्रिण वाच्यैक्यं श्रुतिसंमतम् ।। ४१ ॥३ व्या० ॥ यस्मादेव कारेणाध्यात्ममेव तदितरस्मादगधदैविकात् परमेश्वर- द्वेद्यत्वेन व्यावर्तयति श्रुतिरतो्यात्ममेवैंक्राकय पत्यक्तन्यं तत्वप्रद वाध््यमिति श्रुत्याभप्रेतमित्यर्थ: ॥ ४९ ॥ अ०॥ इदानीमुदाहृत कठवलीवाक्यमूलकं ब्रह्मगीतावाक्यमप्यत्र प्रमाण- व्यति -- पतदिति- मू॥ एतत्साक्षात्सच्चिदानन्दरूषं भावाभावाशेषलकस्य हेतुम् श्रुत्या युक्तया ब्रह्म जानन्ति मर्त्या विद्यायोगादेव मुक्ता भवन्ति॥ व्या०। पतदिति करमाद्गुरुशिष्योक्त त्वमहंशन्दार्थभूतप्रत्यक्चतन्य- मुद्िश्य भावाभावशषले।कहतृत्वविधानात् तत्वंपद्वाच्यैक्यं सिद्ध उदाहनश्रति-

Page 345

३१६ अद्वैतासेद्धान्तगुरुचन्द्रिकायां

सूत्रादानां वाच्यैक्यपरत्वं सप्तमनिरूपणे सप्तविंशश्रोकवृत्तौ विस्तरेण दर्शितम्॥४२ अ०। इदानीं बृहदारण्ये चतुर्थाध्याये प्रथमब्राह्मणावसाने सुषुप्तयवस्था- वन्तमधिकृत्य 'स यथोर्णनाभिस्तन्तुनोच्चरेधथाझेःसुद्रा विष्फुलिङ्गा व्युच्चरन्त्येव- मेवास्मादातमनस्सर्वें प्राणास्सर्वे लोकास्सर्ने देवास्सर्वाणिच भूतानि व्युच्चरन्तीति यदात्मतत्वं सर्वजगत्कारणत्वेन श्रयते तदाधिदैविकमेव तत्पदवाच्यं नाध्यात्ममिति भ्रमनिरासाय भाष्यकारैर्यदक्तं-विज्ञानमयस्य प्राक्गतिबोधाद्यत्स्वरूपं तस्मात्सर्व जगज्जायत इत्यादि-तद्भाष्यमर्थतस्संगृह् वाच्यैक्ये प्रमाणयति-प्रागिति- मू ॥ प्राग्विज्ञानमयस्य जागरणते। यद्रूपमस्माच्छूति- स्सृष्टिं ब्रूत इतीरिते स तु पुनर्बद्ध: प्रबुद्धात्पृथक्। एवं बद्धविभिन्नतां निगदतार्भ्रान्तिद्वये वारिते सौषुप्ते जगदीशताद्यवगमादैक्यं भवेद्ठाच्ययोः ॥ ४३॥ व्या० ॥ विज्ञानमयस्थेति जीवम्य जागरणतः जाग्रदवस्थायाः प्राकू सुषुप्तयवस्थायां यद्रपं सुषृप्तयवस्थाभिमानकमज्ञानोपाधिकभाध्यात्मिकं प्राज्ञसरूपं अस्माच्छतिर्सृष्टिं व्रत इतीरिते भाष्यकारैरादिष्टे सति सौषु- पस्य विज्ञानमयादभिन्नत्वेन-स जगत्कारणमपि संसार्येव तदन्योSसंसारीश्वरो नास्तीति प्रथमपूर्वपक्षप्रदर्शकम्। 'न तावदसंसारी परः पाणिपेषणप्रतिबोधिताच्छब्दादिभुजोऽ़वस्थान्तरवि- शिष्टादुत्पत्तिश्रुतेः न प्रशासिताऽशनायावर्जितः परो विद्यते इत्यारभ्य वागादिकर- णव्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति, इत्यन्तं पूर्वपक्षभाष्यं सङ्गह्वाति- सतु पुनर्बद्ध इति॥ सतु विज्ञानमयादभिन्नः सौषुप्तिकस्तावत् संसारिविज्ञानमयाभिन्नत्वात् बद्ध एव न तदतिरिक्तस्त्वसंसारीश्वर इति पूर्वपक्ष दर्शयिला तन्निरासार्थमुत्थापितं 'अत्र पिताऽपिता भवनीति' श्रुतेरसंसारी तावत्सौषुप्तः प्राज्ञ एवं सर्वजगत्कारणत्वादी- श्रः विज्ञानमयाच्च पर इति जीवेशयोर्भेदवाद्याभिमतं द्वितीयपूर्वपक्षप्रदर्शकम्। 'यो जागरिते शब्दादिभुग्विज्ञानमयस्स एव सुषुप्ताख्यमवस्थान्तरङ्गतोऽ संसारी पर: प्रशासिताऽन्यस्स्यात्' इति भाष्यं च संगृह्लाति प्रबुद्धात्पृथगिति- प्रबुद्धाज्जाग्रदवस्थामापन्नाद्विज्ञानमयात्पृथगन्य इति प्राप्ते तयोर्भेदनिराकरणपरम्

Page 346

नवमं वाच्यैक्यनिरूपणम् ३३७

'इति चेन्नादष्टत्वात्-नह्येवंधर्मकः पदार्थो दृष्टोऽन्यत्र वैनाशिकसिद्धा- न्तात् न हि लोके गौस्तिष्ठन् गच्छन् गौर्भवति शयानस्त्वश्चादिजात्यन्तरमिति- न्यायाच्च यद्दर्मको यः पदार्थः प्रमाणेनावगतो भवति स देशकालावस्थान्तरष्वपि तद्धर्मक एव भवति स चेत्तद्धर्मकत्वं व्यभिचरति सर्वः प्रमाणव्यवहारो लुप्येतेत्यन्तं सिद्धान्तभाष्यं च।

तथैव स्वाप्ययादिति ईक्षत्यधिकरणीयसिद्धान्तसूत्रार्थप्रकाशकमिदं तदेव सच्छन्दवाच्यं कारणं प्रकृत्य श्रूयते 'यत्रैतत्पुरुषस्स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवती- त्येषा' श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्ध नाम निर्वक्ति स्वशव्देनेहात्मो- च्यते यः प्रकृतस्सच्छन्दवाच्यः तमपीतो भवति अपिगतो भवतीत्यर्थः अपि- पूर्वस्य एतेर्लयार्थत्वं प्रसिद्धं प्रभवाप्ययावित्युत्पत्तिप्रळययोः प्रयोगदर्शनात् मनः- प्रचारोपाधिविशेष संबन्धादिन्द्रियार्थान् गृह्रन् तद्विशेषापन्नो जीवो जागर्ति तद्वा- सनाविशिष्टः स्वप्पान् पश्यन् मनश्शब्दवाच्यो भवात स उपाधिद्वयोपरमे सुषुप्तय- वस्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवतीत्यु- च्यते यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितं 'स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृदयमिति तस्माद्वृदयमिति' यथा वा अशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः 'आप एव तदशितं नयन्ते तेज एव तत्पीतं नयत इति च' ए- वं स्वमात्मान सच्छन्दवाच्यमपीतो भवतीति इममर्थ स्वपितिनामनिर्वचनेन दर्शयती- त्यारभ्य श्रुत्यन्तरं च प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति सुधुप्त्यवस्थायां चेतने अप्ययं दर्शयति अतो यस्मिन्नप्ययरसर्वेषां चेतनानां तच्चे- तनं सच्छब्दवाच्यं जगतः कारणं त्यादिति सौषुप्तस्याध्यात्मिकस्य स्वात्मनः छान्दोग्यश्रुत्युक्तसत्तत्पदवाच्याथत्वपरं भाष्यं च।

सङ्गहवाति-एवमित्याद्यत्तरार्घेन -- सौषुप्ते त्वमस्वाप्सी: अहमस्वाप्स- मिति त्वमहंपदवाच्ये जगदीशताद्यवगमात् जगदीश्वरत्वादितत्पदवाच्यधम- ज्ञानात् तत्वंपदवाच्ययोरैक्यं भवेदित्यर्थः ।४३ ॥

अ०।। इदानीमुपपादितार्थे 'अवस्थितेरिति काशकृत्स्न इति' सूत्रं तदीयं- अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेन अवस्थानादुपपन्नमिदमभेदेनोप- क्रमणमिति काशकृत्स्नाचार्यो मन्यने-तथा च ब्राह्मणं-अनेन जीवेनात्मनाऽनु-

Page 347

३३८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

प्रविश्य नामरूपे व्याकरवाणीत्येवं जातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति-मन्त्रवर्णश्र। 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्य- दास्ते' इत्येवं जातीयक :-- न च तेज:प्रभृतीनां सृष्टौ जीवस्य पृथवसृष्टिशश्रुता- येन परस्मादात्मनोऽन्यः तद्विकारो जीवस्स्यात् काशकृत्स्नाचार्यस्याविकृतः परमे- श्वरो जीवो नान्य इति मतं आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभि- प्रेतं तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानभिप्रेत इति गम्यते औंडुलोमिपक्षे पुनः स्फ्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते तत्र काश- कृत्स्नीयं मतं श्रृत्यनुसारीति गभ्यते प्रतिपिपादयिषितार्थानुसारित्वात्तत्वमसीत्यादि श्रुतिभ्यः एको ह्ययमात्मा वाममात्रमेदेन बहुधाभिधीयते न हि सत्यं ज्ञानमनन्तं ब्रह्म यो वेदनिहितं गुहायामिति काञ्चिदेवेकां गृहामधिकृल तदुक्त न च ब्रह्मणोS- न्यो गुहायां निहितोऽस्ति 'तत्सष्टा तदेवानुप्रविशदिति' स्ष्टरेव प्रवेशश्रवणात् ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थ बाधमानाइश्रेयोद्वारं सम्यगदर्शनमेव बाधन्त इत्य- न्तं भाष्यञ्चार्थतस्संगृह्य वाच्यैक्ये प्रमाणयति-आचार्य इति- मू॥ आचार्य: काशकृत्स्ोऽयं मन्यतेवSस्थितेरिति। इति सूत्रात्तदीयाच्च भाष्यकारसमीरितात्।। विज्ञानात्मस्वरूपेणावस्थितेः परमात्मनः । परमेश्वर एव स्याज्जीवोऽन्यो नेति भाष्यतः ॥ सुप्तात्मना सूक्ष्मभूतं सृष्टा पश्चात्तु देवता। तलाभिमानतो लब्धे जीवत्वे च प्रजीविते । स्थूलस्य जगतः स्रष्ट्री स्यादिति ब्राह्मणादपि। एवं जातीयकात्सर्वरूपाणि च विचित्य च।। धारो नामान्यभिवदन्निति ततोक्त्तमन्त्तः।

तत्त्वमस्यादिशास्त्रानुसारित्वाच्चेति भाव्यतः । तथैवान्यो गुहानिष्ठो ब्रह्मणश्चेति शङ्किते ॥

Page 348

नवमं वाच्यैक्यनिरूपणम् ३३९

ब्रह्मणोऽन्यो गुहायां न निहितोडस्ति कुतो यदि। स सृष्ट्रा तत्प्रविश्याथाऽभवत्सत्त्यत्तथा श्रतेः ॥ तत्त्वमोरपि वाच्यैक्यं सिध्येदप्युपपत्तितः । स्रष्टुस्तत्पदवाच्यस्य वक्तृता मन्त्रतो यथा॥ तथा तदानुगुण्येन स्रष्टता दिश्यते किल। वक्तुस्त्वंपदवाच्यस्य तत्त्वमस्यादिवाक्यतः ॥ ततोऽपि संभवेदैक्यं वाच्ययोरुभयोरपि ॥ १२॥॥ व्या०। देवतेति सेयं देवतैक्षतेति छान्दोग्ये श्रूयमाणा आदौ सूक्ष्म- भूतं अत्निवृत्कृतं पृथिव्यप्ते जोरूपं महाभूतत्रयम् सष्ट्रत्यन्वयःससृष्टति सोका- मयत बहुम्यां प्रजायेयेतति' तैत्तिरीयश्रुत्युक्तः परमात्मा अभवत् सत्त्यत्तथा श्रतेः सत्पृथिव्यप्रेज :- तयव्वायुराकाश चाभवदित्यर्थः।सच्च त्यच्चाभवदिति श्रुतेः एनेभ्यः प्रमाणेभ्यस्तत्त्वंपदवाच्यैक्यं दर्शयित्वा तदुपपत्तितो दर्शयति-अप्युप- पत्तित इत्यादिना यथा 'सर्वाणि रूपाणि विचित्यधीरो नामानि कृत्वाभिवदन्य दास्त' इति मन्त्रवर्णेन जगस्स्नष्ट्र्नामरूपाभिवदनवर्तृतारूपं त्वंपदवाच्यत्वमुपदिश्य- ते तथा तत्त्वमसीत्यादिवाक्येनापि तन्मन्त्रानुसारेण नामरूपाभिवदनकर्तुस्त्वंपद- वाच्यस्य जगत्स्षटृत्वमादिश्यत इत्युपपत्ति दर्शयित्वा फलितमाह-ततोऽपीत्या- दिना उपपत्तितः आपेशन्दात्प्रागुत्तेभ्यः प्रमाणेभ्यश्चेत्यर्थः ॥५२॥॥ अ०॥ प्राग्यदुक्तमीक्षणादेवता सूक्ष्मभूतमित्यादिश्लोकेन देवता तावत्तेजो- बन्नात्मकभूतत्रयाभिमानेन लब्धजीवभावापरित्यागेनैव स्थूलजगत्कारणमभवदिति तदेव दृष्टान्तेन उपपादयति स्निग्धत्वेनेति -- मू। स्न्िग्धत्वेन विशिष्टैव मृद्धटादिर्भवेद्यथा ॥ अभिमन्तृस्वरूपेण सूक्ष्मभूते प्रवेशिनी । याऽभिमन्तृत्वयुक्ता सा देवता व्याकृतात्मिका ।। स्त्रिग्धत्वस्य परित्यागे मृद्धत्सेयं तु देवता। जीवत्वस्य परित्यागे नैव कारणतामियात् ॥५५॥

Page 349

३४० अद्वैतसिद्धान्तगुरुचन्द्रिकायां

्या० ।। व्याकृतात्मिकेति स्थूलीकृतनामरूपात्मिकाऽ्भवदित्यर्थः जीवत्वस्येति अ्निवृत्कृतेषु तेजोबन्नेष्वहमित्यभिमानवत्वस्येति यावत्-शेष- स्सुगम: ॥ ५५ ॥ अ०॥ उक्तमेवार्थमाक्षिप्य श्रुतीनामवगतिसामान्यप्रद्शननापपादयति- सर्जनति- मू ।। सर्जनानुपयोगि स्याज्जीवत्वं चत्तदा श्रुतिः । छान्दोग्यतैत्तिरीयादि: किमर्थ नियमेन च॥ स्थूलनिर्मातृतां सुप्ते जीवत्वप्राप्तिपूर्वकम्। कैवल्यश्चतिवद्गते ततो वाच्यैकता भवेत् ॥५७॥ क्या॥ विज्ञानमयत्वरूपजीवत्वस्य स्थूलजगत्सर्जनानुपयोगित्वे 'सेयं देव• तैक्षत हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवा णीति च 'सोऽकामयत बहुस्थां प्रजायेये'त्युपक्रम्य तदनुप्रविश्य सच्च त्यच्चाभव- दिति च छान्दोग्यतैत्तिरीयादिश्रुतिः पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रमि'ति कैवल्यश्रुतीयविज्ञानमयत्वप्राप्तिपूर्वकं स्थूलजगत्स््टत्वं निय मेन किमर्थ ब्रूते ततशश्रुर्तानामवगतिसामान्यदर्शनाद्वाच्यैक्यं सिद्धमित्यर्थः॥५७॥ अ० ॥ इदानीमुपपादितमेव वच्यैक्यं शारीरश्रोभयेऽपि हि भेदेनैनम- भायते, इत्यविद्वूतप्रसिद्धार्थानुवादकसूत्रावष्टम्भेन आक्षिप्य अज्ञातार्थावबोधकेनान्त. र्यामिब्राह्मणगतेन 'अदृष्टो द्रष्टाऽश्रुतइश्रोताऽमतो मन्ताSविज्ञातो विज्ञातेत्यादिवाक्ये न' तदन्तर्यामिणो द्रष्टत्वादिविज्ञानमयत्वविधानात् 'नान्योतोऽस्ति द्रष्टा नान्योऽतो इक्ति श्रोतेत्यादिवाक्येन' अन्तर्यामिणस्तस्मादस्य विज्ञानमयस्य भेदनिरासाच् बदेव वाच्यकयं सिद्धान्तयति शारीरश्चेति- मू॥ शारीरश्रोभये ते हि भेदेनैनमधीयते। इत्यादिसूततन्मूलवेदवाक्यैश्च वाच्ययोः॥ जीवेशयोर्विभेदोक्तेर्न वाच्यैक्यं भवेद्यदि। योऽन्तर्बहिस्स्थितो यच्च कार्येऽहम्मानितावशात्।। आन्तरोऽस्मीत्यविज्ञातस्सर्वात्मा यो नियामकः ।

Page 350

नवमं वाच्यैक्यनिरूपणम् ३४१

अन्तर्यामिब्राह्मणस्यादृष्टो द्रष्टेति वाक्यतः । उत्तरत्रापि नान्योडतो द्रष्टा श्रतेति च श्रुतेः ॥ प्रेर्यप्रेरकयोर्भेदनिरासादेकता तयोः। एवं श्रीब्रह्मगीतायां श्रुत्यर्थोडयं प्रदर्शितः ॥ अदृष्टोडयं तथा द्रष्टा श्रोता चायं तथाऽश्रुतः । अमतश्च तथा मन्तेत्यादिवाक्यात्स्वयंभुवा ॥६३ ॥

क्या॥ शारीरश्रोभयेऽपि हि भेदेनैनमधीयते इति सूत्रं संगृद्धाति शारीरश्चेत्यादिना हि यस्मात् उभये ते माध्यन्दिना: काण्वाश्च यो विज्ञाने तिष्ठन् य आत्मनि तिष्ठन्निति च श्रुत्या अन्तर्यामिणो भेदेन एनं शारीरमधीयते तस्मा- ट्टाकाशवच्छरीरपरिवेष्टनात् स्वभावतो वा ब्रह्मभिन्नो विज्ञानमयरूपश्शारीरश्ष साङ्गयाभिमतप्रधानमिव नान्तर्यामी भवतीति असङ्गस्यात्मनो निरवयवत्वेऽप्यु- पाविपरिवेष्टितत्वं नियम्यान्तःकरणादितादात्म्यादिप्रयुक्तप्रेर्य त्वभ्रमानुवादकसूत्राव- षम्भेन न वाच्यैक्यं घटत इति प्राप्ते। सोपाधिकस्यापि जीवस्य तृतीयनिरूपणोक्तप्रकारेण उपाधिपरिवेष्टितत्वा- संभवेन जोवेशयोर्देशतो भेदाभावे सति तयोराधाराधेयत्वस्य 'य आत्मनि तिष्ठ- न्निति' श्रृत्यभिप्रेतत्वाभावात् 'तत्सष्टरा तदेवानुप्राविशत् अहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनानुप्रविश्येत्यादिश्वृत्या'ऽन्तर्यामिणो जगत्सष्टः सूक्ष्मभूतस्रष्टयुत्तर- कालभाविकर्तृत्व भेोक्तृत्वरूपजीवत्वाश्रयत्वावगमाच्च अन्तर्यामिण 'एषोऽन्तर्या- म्येष योनिस्सर्वस्य प्रभवाप्ययौ हि भूताना'मिति श्रृत्यनुसारेण स्वविकारेषु तत्स्वरूप- त्वेन विद्यमानत्वमेव 'यः पृथिव्यां तिष्ठन् यो विज्ञाने तिष्ठन्नित्यादिश्रुत्यभिप्रेतः न जीवेशयोराधाराधेयभाव इत्याह-यदीत्यादिना यस्खविकारेष्वन्तर्बहिश्व व्याप्य स्थितः यः स्वकार्येऽहमभिमानवशात् यं पृथिवी न वेद यमात्मा नवेदेत्या- दिश्रुत्युक्तप्रकारेण आन्तरोऽस्मीत्यविज्ञातश्र आन्तरोऽस्मीति ज्ञानाभावादेव यस्स- वात्मा भवति सर्वत्राहमित्याध्यासिकबुद्धिमान्भवति यश्चान्तर्यामिव्राह्मणन प्रदर्शितस्य साधिदैविकस्य भेदजातस्य कारणत्वान्नियामकश्च भवति सोऽयमन्तर्यामी चक्षु-

Page 351

३४२ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

द्रष्टाऽश्रुतः श्रोतेत्यादन्तर्यामिब्राह्मणेन तच्छेषेण नान्योSतोऽस्ति द्रषेत्ादिना च'त- न्मूलकब्रह्मगीतया च विज्ञानमयस्यान्तर्याम्यनन्यत्वावगमाच्च वाच्यैक्यं सिद्धमि- लर्थः ॥ ननु जीवो नाम ब्रह्मप्रतिबिम्बो ब्रह्मांशो वा अन्तःकरणपरिवेष्टित ब्रह्मरूपो वा भवतु तस्मिन् दर्पणान्तर्गतबदरफलप्रतिबिम्बे तहर्पणस्थबदरफलस्येव समु- दायावयधे समुदायस्येव घटाकाशोपरि महाकाशस्येव च ब्रह्मणो विद्यमानत्वमेव 'य आत्मनि तिष्ठन्नित्यादिश्वुतितात्पर्यविषयः' किन्न स्यादिति चेन्न तृतीयनिरूपणे दशमादिश्रोकेरुदाहृतयुक्त्यादिप्रमाणैः सप्तमनिरूपणे चत्वारिंशादिश्रोकैरुदाहृत- प्रमाणादिभिश्च जीवस्य ब्रह्मत्वातिरेकेण तत्प्रतिबिम्बत्वादेर्बाध्यमानत्वान्नैतच्चो- द्यावकाशः ॥६३ ॥ अ०॥ उक्तमेवार्थ प्रकारान्तरेण परिचोद दृढयति सप्तममिति- मू॥ सप्तमं ब्राह्मणं लक्ष्यचिदेकत्वपरं यदि। लक्ष्यं किं शुद्धमन्यद्वा शुद्धमेवेति चेत्तदा॥ अन्तर्यामी तदुक्तस्स्यान्मायी वाच्योऽस्य एव हि। द्रष्टत्वश्रोतृतादेशाद्वाच्यैक्यं सिद्धमेव तत् ॥ ६५।। व्या। बृहदारण्ये पञ्चमाध्यायगतं सप्तममन्तर्यामिब्राह्मणं तावन्न तत्त्वं पदवाच्यैक्यपरम्। किन्तु तल्लक्ष्यैक्यपरमेवेति पूर्वपक्षमनूद्य विकल्पयति लक्ष्यं किं शुद्धमन्यद्वेति परोक्तिमनुवदति शुद्धमेवेति चेदिति विकल्पप्रयोजनं दर्श- यति तदेत्यादिना मायादिवर्जितस्य शुद्धस्यैव तत्वंपदलक्ष्यत्वे अन्तर्यामिब्राह्मण प्रतिपाद्यस्य मायोपाधिकत्वात् तत्पदवाच्यत्वेन द्रष्टृत्वश्रोतृत्वादिधर्माश्रयत्ववि धानात् त्वंपदवाच्यत्वेन च अवगमात्तदेव वाच्यैक्यं सिद्धमित्यर्थः ॥ ६५॥ अ०॥ इदानीमन्तर्यामिणो मायोपाधिकत्वे कि प्रमाणमित्यत आह- मायां त्विति॥ मू।। मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् विद्यादिति श्रुतस्वैव नियन्तृत्वप्रबोधतः ॥६६ ॥ व्या०।। स्पष्टोऽर्थ: ॥६६॥ अ०॥ इदानीमुपपादितार्थे भगवद्वाक्यमप्युदाहरति-ईश्वर इति-

Page 352

नवमं वाच्यैक्यनिरूपणम् ३४३

मू॥ ईश्वरस्सर्वभूतानां हृद्देशेर्डर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६७ । व्या०॥। स्पष्टोऽर्थः ॥६७॥ अ०। इदानीं चोदयमनूद्य परिहरति अमुष्मादिति-

तथापि वाच्ययोर्भेदप्रतीतेरेकता कथम ॥ आपातबुद्धिमत्वेन वाक्यार्थो भाति वोऽन्यथा ॥ ६८॥।॥

खुष्माकं भातीत्यर्थः । ६८॥ ॥ अ० ॥ इदानीं यस्सर्वेषु भूतेषु तिष्ठन्नित्यारभ्य कृत्स्नान्तर्यामिब्राह्मणा विरोधेन तन्मूलकस्य-ईश्वरस्सर्वभूतानामित्यादिभगवद्वूचनस्य अर्थप्रकाशकानां चित्रदीपगतविद्यारण्यवचनानां मध्ये सर्वभूतानीति तद्भगवद्वचनगतस्य पदस्था- भप्रकाशकम्। विद्यारण्यीयं वचनं यथावद्भगवद्वाक्यार्थवेदनायोदाहरति सर्वेति- सर्वभूतानि विज्ञानमयास्ते हृदये स्थिताः ॥ व्या० ॥ हृदय इति हृदयपुण्डरीके इत्यर्थ: ॥ ६९ ॥ अ०॥ ननु तेषां कुतो हदयेऽवस्थानमित्याशङ्कय हृद्यन्तर्यामिणो विज्ञान- मयरूपेणावस्थानादिति समाधानपरं विद्यारण्याचार्यवचनमुदाहरति तदिति- मू॥ तदुपादानभूतेशस्तत् विक्रियते खलु॥ ६९॥॥ व्या० । तदुपादानभूतेश इति तस्य जीवोपाधेर्विज्ञानमयकोशस्य उपादानभूताज्ञानोपाविक ईश्वरस्तत्र हृदयकमलस्थविज्ञानमयकोशे विक्रियते तादात्म्याध्यासवान् इत्युक्ता तत्र खलुशब्दोनान्तर्यामिणोSदृष्टो द्रष्टाऽश्रतशश्रोते-

अ०।। इदानीं यन्त्रारूढानीत्यत्र यन्त्रारोहशब्दयोरर्थप्रदर्शनपरं तद्विय्या- रण्याचार्यवचनमुदाहरति देहादीति- मू॥। देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता ॥ ७0 ॥ न्या॥ स्पष्टोऽर्थः ॥ ७०॥

Page 353

३४४ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अ०॥। इदानीं भ्रामयन्निति पदे प्रकृत्यर्थपरं विद्यारण्याचार्यवाक्यमुदा हरति विहितेति- विहितप्रतिषिद्धेषु प्रवृत्तिर्श्रमणं भवेत्। व्या॥। स्पष्टोऽर्थः ॥ ७०॥॥ अ०। इदानी णिच्प्रत्ययमायापदयोरर्थप्रदर्शनपरं विद्यारण्याचार्यवचन- मुदाहरति विज्ञनिति- मू ॥ विज्ञानमयरूपेण तत्प्रवृत्तिस्स्वरूपतः ॥ स्वशक्त्येशो विक्रियते मायया भ्रामणं हि तत् । क्या॥ स्पष्टोऽर्थः॥ ७१॥॥ अ०॥ इदानीं श्रौतस्य यमयतीति पदस्याप्ययमेवार्थ इति बोधकं विद्या- रण्याचार्यवाक्यमुदाहरति अन्तरिति- मू। अन्तर्यमयतीत्युक्त्याऽयमेवार्थशश्रुतौ श्रुतः ॥७२॥ व्या॥ स्पष्टोऽर्थः ॥ ७२॥ अ०॥ उत्तस्यैवार्थस्य पर्यायान्तरेष्वतिदेशकं विद्यारण्यीयवचनमुदाहरति पृथिवाति -- मू॥ पृथिव्यादिष सर्वत्र न्यायोऽयं योज्यतां धिया। व्या॥ स्पष्टोऽर्थः ॥ ७२॥ ॥ अ०॥ एवमीश्वरस्सर्वभूतानामिति भगवद्वचनं कैर्व्याख्यातमित्यत आह इतीति- मू। इति श्रीचित्रदीपाख्ये विद्यारण्यैस्समीरितः ॥ भगवद्वचनस्यार्थस्तेन वाच्यैकता भवेत् ॥ ७३॥॥ न्या। स्पष्टोऽर्थः ॥७३॥॥ अ० ॥ एवमन्तर्यामिब्राह्मणानुसारेण वाच्यैक्यं दर्शयत्वा प्रश्नपूर्वकं तदुत्तरब्राह्मणेन लक्ष्यैक्यमपि सिद्धमित्याह किमिति -- मू॥ किं लक्ष्यैक्यपरं शास्त्रं नास्त्युतास्तीति चद्भवेत्। निरुपाधिकतादेशादष्टमं लक्ष्यबोधकम् ।। ७४।।

Page 354

नवमं वाच्यैक्यनिरूपणम् ३४१

व्या०॥ अष्टममिति अस्थूलमनण्वित्यारभ्यादृष्टं द्रष्ट्रश्रुतं श्रोत्रित्यादि निर्धर्मपरं ब्राह्मणं लक्ष्यबोधकमित्यर्थः ॥७४॥॥ अ०॥ इदानमिवं वाच्यैक्ये सिद्धे सति किमर्थ लक्षणादानमित्याशङ्गय परहरति वाच्यैक्य इति- मू।। वाच्यैक्ये सति लक्षणां तु गुरवश्शास्त्रे किमथे जगु- श्वेत्केचित्परिवेष्टितश्च वपुषा जीव :- परो मायया। कृत्वैवं परिचोद्यन्ति च कथं वाक्यं ब्रवीत्येकता मित्येषामधिकारमांद्यमनु तैस्सा लक्षणा स्वीकृता ॥। ७५॥ व्या। वाच्यक्ये सतीत्यादिना पूर्वपक्षमन्द्य समाधते केचिदि- त्यादिन्ग केचिन्मन्दाविकारिणो जीवस्य परलोकादिगामित्वात्स वपुषा चकारेण परिच्छिन्नाविद्यया च परिवेष्टितः (परः) आधिदैविकः परमेश्वरस्तु अविद्यापे- क्षया व्यापिन्या मायया चकारेण तदीयदेवशरीरेण च परिवेधित इति (कृत्वा) तयोः परिच्छिन्नापरिच्छिन्नयोः कथं ततवमसीत्यादिमहावाक्यंसामानाधिकर- ्येन एकतां्रवातीति चोदयन्ति तेषां सवा एष महानज आत्मा योऽय विज्ञानमयः प्राणेष्दित्यादिश्वृत्यर्थग्रहणासामर्थ्यरूपबुद्धिमान्यानुसारेण तदुपदेष्टभिः जहदजहल्कक्ष- णा स्वीकृता न तु वाच्यैक्यासंभवेन तथा चाक्तं यज्ञवैभवखण्डे आचार्यधर्मः श्री ॥ पुनश्शष्यस्य मेधावी चित्तपाकमवेक्ष्य च। अविद्यापाशविच्छेदं कुर्या- त्प्रास्तु देशिकः ॥ विदित्वा शिष्याचत्तस्य विपाक पुनरास्तिकाः । दद्यात्पाकानु- गुण्येन विद्यामेनां महेश्वरीमिति अतोन कश्चिद्दोषः ॥ ७५॥॥ अ०॥ अधुना प्रागुक्तसिद्धान्ततात्पर्थमाह जीवेशयोरिति -- मू॥ जीवेशयोर्देशतो हि विभेदग्राहिणे तु सा। लक्षणा गुरुभि: प्रोक्ता ततो दोषो न कश्चन । ७६॥ व्या॥ स्पष्टोऽर्थः ॥ ७६॥ ॥ अ०। इदानीं प्रतिज्ञातार्थ बृद्धसम्मतित्वं वाहमस्मि भगवो देवतेऽहं वै त्व- मसीति' श्रुतिञ्चार्थतः संगृह्य श्रोकचनुष्टयेन सवादयति तथेति- मू॥ तथैव विद्यारण्यादिवृद्धैः प्रोक्तं तदुच्यते। न तत्त्वमोरुभावर्थावस्मत्सिद्धान्ततां गतौ।।

Page 355

३४६ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

अनादिमायया आ्रान्ता जीवेशौ सुविलक्षणौ। मन्यन्ते तद्वयुदासाय केवलं शोधनं तयोः ॥ मू॥ त्वयि मयि च गण्यमाने मशकान्मशकोऽहमेव देहद्दशा। विश्वाधिकेश ते मे सद्वोदानन्दपूर्णता तुल्या॥ ७९॥ देवतेऽस्म्यहमेव त्वं त्वमेवासि मदात्मना । इत्यत्न पदयोर्नास्ति पर्यायत्वं तथा सति॥ लक्ष्यैक्यमात्रं तत्र स्यान्न वाच्यैक्यमिति स्थिति: ॥।।।। व्या।। इति स्थितिरिति एवमेव प्रतिकर्मव्यवस्थासिद्धान्तः सम्बोध्य- सम्बोधकयोः देशतो भेदादित्यर्थः ॥ ८०॥॥ अ० ॥ अधुना वाच्यैक्वस्य प्रमाणबाहुल्ये सति तख न प्रतिकर्मव्यव- स्थावादेन बाघ इति सार्धेन श्रोकपञ्चकेन दर्शयति मय्येवेति- मू॥ मय्येव सकलं जातमिति ज्ञानुभवे सति ॥८१॥ वाक्यस्थपद्योर्यत पर्यायत्वं तु सभवेत्। तत्र स्यादेव वाच्यैक्यं करादिपद्वत्तथा।।८२।। समानशक्तिमत्वाद्धि पर्यायं वाच्यबोधकम्। इति न्याये च तत्रस्थे ह्युपमाने च संस्थिते ॥ ८३।। तत्सृष्टा सृष्टमेवासौ प्राविशज्जविरूपतः । इति श्रुतेः कालतो हि भेदे जीवेशयोरपि ॥ ८४॥ मुख्याधिकारिणे सद्यो मोक्षपात्ाय धीमते। जन्मादिसूत्रभाष्याद्धि लक्षणानन्दवाक्ययोः ॥८५॥ पर्यायत्वेन वाच्यैक्ये शासिते धर्मसाम्यतः । प्रतिकर्मव्यवस्थातो नास्य वाधो मनागपि।८६ ॥

Page 356

नवमं वाच्यैक्यनिरूपणम् ३४७

क्या।। यत्रेति यस्मिन्प्रकरण इत्यर्थः अत्रेदमनुमानमुक्तम् प्यायपदानि व्यैक्यपराणि समानशक्तिमत्वात् हस्तकरादिशब्दवदिति जीवेशयोः कालतो- हSपीत्यन्वयः अपिशव्दात् स भदो नाध्यात्मिकजीवेशैक्यपरामर्शबाधक इति शतम्। धर्मसाम्यत इति लक्ष्ये तल्लक्षणसमन्वयविधेयसाक्षात्कारयोः पूर्वमेव प्रप्तावहमहमिति स्वतः प्रकाशमानस्वात्मानन्दपरेण 'आनन्दो ब्रह्मेति व्यजानादि- दिवाक्येन उद्देश्यवस्तुनिणीयकेन सह-सामान्यत एवोद्देश्यबोधकस्य यतो वा नानि भूतानि जायन्त इत्यादिलक्षणवाक्यख जन्मादिकारणत्वविघेयब्रह्मत्वरूप मेबोधकत्वस्य विद्यमानत्वात् तयोर्धर्मसाम्यं तस्माद्धर्मसाम्यादित्यर्थः । शेषः गमः ॥ ८६॥ अ०। उक्तमेब न्यायं सार्वेन श्राकेन तत्त्वमसीति वाक्यगततत्वंपदयों- तेदिशति तत्वमिति मू॥ तत्त्वंपद्ञ्च पर्यायं वाच्यैकत्वपरं भवेत्। ब्रह्मत्वादिपराभ्यान्तु सौषुप्ते हि निजात्मनि ॥८७॥ लक्षणानन्दवाक्याभ्यां साम्यात्तद्वाक्यवत्तथा । व्या। अत्रेदमनुमानमुक्तम् तत्त्वमसीति महावाक्यान्तर्गतं तत्वमिति दद्वयमपि पर्यायम् वाच्यैक्यबोधकञ्च भवितुमर्हति दृष्टिसष्टिप्रक्रियया स्वात्मनि गज्जन्मादिकारणत्वव्रह्मत्वबोधकलक्षणानन्दवाक्याभ्यां समत्वात् लक्षणानन्द- क्यदूयवदिति ॥८७ ॥ अ०॥ भृगुवल्ली कौषीतकीमाण्डक्यब्रह्मवल्लीभिरिव सौधुपते प्राज्ञे जीवे- त्वरूपं वाच्यैक्यन्दर्शयित्वाऽधुना तद्गुवल्यादिना च जाग्रदवस्थावति विज्ञान- ये ऽपि तद्वाच्यैक्य दर्शयति यथे र्मीणामिति- मू॥ यथोरमािां व्यक्तिभेदे सत्यब्घेर्दिग्विभेदतः ॥ ८८॥ जन्मस्थितिविनाशानामाधारत्वं-तथैव हि। भृगुवल्ल्यां श्रूयमाणलटाञ्जाग्रत्परत्व्तः ।। ८९।। भूतानां सत्यनेकत्वे दिग्भेदात्स्म्यान्निजात्मनः । जन्माद्याधारता तस्माद्विज्ञानेSपीशता-ननु ॥ ९५॥ ऐतदात्म्यमिति श्रुत्या मतभेदोत्र चेत्-स तु।

Page 357

३४८ अद्वैतसिद्धान्तगुरुचन्द्रिकारयां

स्वात्मा, भेदोडस्य यद्वीजं तदसीति लटस्तथा ॥ ९१ ॥ तच्छब्दाद्वोघितस्याग्रे निर्णायकतयेरितात्। स आत्मा तत्त्वमित्युक्ता जागरेऽपीशताऽडत्मनि ॥ ९१ ॥ क्या। प्रथमतः प्रतिपाद्यांशे दृष्टान्तपरां 'यथा फेनतरङ्गादिसमुंद्रादुत्थितं पुनः। समुद्रे लीयते तद्वज्गन्मय्यनुलीयत इति श्रुतिं सङ्गह्वाति यथार्मीणामि- त्यादिना दार्ष्टान्तिकपरां श्रुतिं दर्शयति तथव हीत्यादिना प्रश्नपूर्वकम् छान्दो- ग्यस्याप्युक्तार्थपरत्वं दशयति नन्वित्यादिना लटस्तथेति यथा भृगुवल्ल्यां आन- न्दाद्येव खल्विमानि भूतानि जायन्ते जीवन्ति अभिसविशन्तीति श्रूयमाणलटां विज्ञानमये जाग्रत्कालिकजगत्प्रकृतितापरत्वं तथा तत्वमसीति वाक्यगतलटोऽपि वार्तमानिकत्वात् एतदात्म्यमिदं सर्वमिति वाक्योक्तं जाग्रत्कालिकसर्वकार्यप्रकृतित्वं विज्ञानमये दर्शयति तच्छ्दाद्वोधितस्याग्र इत्यादिना सृष्टेः प्राक् तदैक्ष- त बहुस्यामिति यदुपक्रमे पठितं सदाख्यं जगदुपादानं तदेव स्वप्रान्तम्मे सोम्य विजानाहि सता सोम्य तदा सपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपिती- त्याचक्षते स्वं ह्यपीतो भवतीन्यादिवाक्यबोधितस्य जगदभिन्ननिमित्तोपादानभूतस्य जिजागरिषारित्यर्थ: कोऽसौ जिजागरिषुरिययत आह स आत्मति य आत्मेदा- नीं जागर्ति स एवप्राक् जिजागरिषुः फलितमाह तत्त्वममिति यत् प्राक् तदैक्ष- तेति श्रत्युक्तञ्जिजागरिषु य इदानीं जागर्त्ति तदुभयं त्वमेवासीत्यर्थः जिजागरि- षात्वं तावदीक्षणस्य प्रागेव पञ्चमनिरुपणेSष्टपञ्चशाच्छ्लोकादारभ्य चतु्ष्ष्ट- तमश्रोकपर्यन्तं प्रमाणतो दर्शितम् अतो विज्ञानमये जीवेशत्वरूपं वाच्यैक्यं सिद्ध- मित्यर्थः ॥९२॥ अ०॥ यत्पुनः जगदुपादानत्वेन सौषुप्ते विज्ञानमये Sपि तत्वंपद्व।च्यैक्यमा- दिष्टं तदेव प्रश्नपूर्वकमुपपादयति पुनरिति- मू ।। पुनस्सुप्तेऽपि विज्ञानमये प्रकृतिता कुतः सुप्त्यारम्भे विलीनत्वात्तदन्ते जायते जगत् ॥ ९३ ॥ जातस्य जाग्रदारम्भे तदन्ते विलयस्ततः । विज्ञानविरतिस्सुप्तिस्तच्च्युती खन्नजागरौ ॥ अतस्सुप्तेपि विज्ञानमये प्रक्ृतिताऽस्त्यतः ।

Page 358

नवमें वाच्यैक्यनिरूपणम् ३४९

तत्त्वंपदाभ्यां वाच्यत्वादेकैकस्मिन्तयोर्यथा ॥ ऐक्यं स्यात्-प्रत्यभिज्ञातस्तथा स्यात्मुप्तबुद्धयोः ॥९५।।।। न्या०। दृष्टिसष्टिप्रक्रियया सुप्ते विज्ञानमये च जगदुपादानत्वमाह अत इत्यादिना फलितमाह अतः तत्वंपदाभ्यामित्यादिना प्रत्यभिज्ञात इति सुखमहमस्ाप्समिति परामर्शादित्यर्थः शेषस्सुगमः । अ०॥ कतम आत्मेति प्रश्नस्य योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स इत्युपक्रम्य स वा एष महानज आत्माऽजरोSमरोऽमृतोऽभयो ब्रह्मेति प्रति- चचनभूतेन वाजसनेयकेन सह। 'सदेव सोम्येदमग्र आसी' दित्युपकमे पठितं यत सदाख्यं जगदुपादानं तदेव 'स्वप्नान्तं मे सोम्य विजानं।हीति यत्रैतत्पुरुषःस्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीनो भवतीति' सुषुप्त्यवस्थावत्वन स्वशब्देनानुकृष्य उदर्के तत्सौषुप्तस्यैव 'स आत्मा तत्त्वमसीति' नवधा विज्ञानमयेनाभेदबोधकस्य छान्दोग्यवाक्यस्य समानार्थकत्वनिर्णायकेन 'आत्मगृहीतिरितरवदुत्तराित्याध- करणेन तद्भाध्येण च तत्त्वंपदवाच्यैक्यं विवक्षितमित्यत्र तदाधकरणार्थसड्ाहक- मधिकरणरत्नमालावाक्यं संवादयति द्वयोरिति- मू॥ द्वयोर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥९६॥ उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात्। साधारणोडयं सच्छब्दस्स आत्मा तत्त्वमित्यतः ॥ ९७ ॥ वाक्यशषादात्मावाची तस्माद्वस्त्वेकमेतयोः । इत्यत्र त्यात्सदाख्यस् स्याद्विज्ञानमयस्य च।। प्रकृतित्वव्यवस्थातो वाच्यैकत्वं च तत्त्वमोः ॥९८॥ व्या० ॥ तत्त्वमोरिति तत्त्वंपदयोरित्यर्थः । अ०॥ संप्रति वाच्यादैक्ये वार्त्तिकाचार्याभिप्रायमाह वार्तिककृदिति- आर्यावृत्तम्। मू॥ वार्तिककृदाह चैक्यं नाभासोंऽशो न चाप्यवच्छिन्नः । ब्रह्मैवाविद्यावत्संसारीवास्ति मुक्त इव चेति ॥ ९९॥॥ व्यार। स्पटोऽर्थः । 30

Page 359

३९० अद्वैतसिद्धान्तगुरुचान्द्रिकायां

अ०॥ अस्मिन्नद्वैतसिद्धान्तगुरुचन्द्रिकाख्यशास्त्रे चतुर्थनिरूपणादन्यैवा ्यैक्यमव गम्यतामित्याह नवमेनेवेति- मू॥ नवमेनेव वाच्यैक्यं प्रागुक्तैरुत्तरत्र च ॥ १०० ॥

स्वस्योपादानतादेशाद्वाच्यैक्यं स्याच्च तत्त्वमोः ॥१०९॥ व्या।। तुर्यादिति चतुर्थनिरूपणादित्य्थः॥ स्पष्टमन्यत् ॥१०१॥ अ०॥ सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनानु- प्रविश्य नामरूपे व्याकरवाणीत्यत्रत्यप्रवेशशब्दार्थज्ञानस्य वाच्यैक्यप्रत्ययहेतुलात्त- द्विषयकप्रश्नमवतारयति देवतेति- मू।। देवता सूक्ष्मभूतानि प्राविशज्जीवरूपतः । स्थूलस्य सर्जनायेति श्रुतावुक्तं हि तत्र तु ॥ १०२॥ प्रवेशार्थस्तु किरूपस्तं विनेंद भवेन्न किम् ॥ १०२॥॥ व्या। इदमिति जगत्सर्जनमित्यर्थः ॥ १०२॥॥ अ० ॥ प्रश्नद्वयस्य सोपपत्तिकमुत्तरमाह उत्थायेति- मू। उत्थायेत्यभिमानहानकथनान्व तेऽभिमानो मतो नेलेडध्यासवियोगतस्स्वमनने रज्जावहिनो यथा। स्तब्धीभूतहृदो यथा च न भवेदृष्टयात्मको-नो तथा भूतात्तेन परात्मनश्च तमसि प्रोक्ता ह्यहं मानिता॥।१०३।। ।।, व्या। उत्थायेति एष संप्रसादोऽस्माच्छरीरात् समुत्थायेति समुत्थान- शबरेन शरीराभिमानत्यागस्य विवक्षितत्वात भवत्प्रदर्शितप्रवेशशब्दस्य भूत तेजोवन्नात्मके अभिमानो Sहमित्यध्यासो मतः अभिमतार्थः इतोऽन्यादृशस्य देशान्तरापसरणरूपेण अंशात्मना वा प्रतिबिम्बात्मना वा प्रवेशस्य आकाशवत् सर्वगताया निरंशाया नीरूपायाश्च देवतायाः असंभाव्यमानत्वात् ननु, गगनस्य जलादाविव नरूपस्यापि ब्रह्मणोऽन्तःकरणे प्रतिबिम्बभावेन प्रवेश: किन्न स्ादिति चेन्न जलेऽपि गगनदेशगतसवित्रादिप्रकाशप्रतिबिम्वातिरे- केण पृथगाकाशस्य प्रतिबिम्बानुपलब्वे; इति प्रथमप्रश्नस्य सोपपत्तिकमुत्तरमुक्ता

Page 360

नवमं वाच्यैक्यनिरूपणम् ३५१

नाध्यासिकजगत्सषः स्वोपाधावभिमानाभावे कार्याध्यासकर्तृत्वमिीत द्वितीयप्रश्नं प्रतिवक्तुकाम: तत्न दृष्टान्तमाह नेत्र इत्यादिना यथा स्वस्वरूपानुसन्धानसमये नेत्रेन्द्रिये ममेत्यभिमानस्याभावाद्रज्जौ नाध्यासिंकस्सर्पः सम्भवतीति प्रतिकर्म- व्यवस्थाप्रक्रियया दृष्टान्तमुक्ता दृष्टिसष्टिपक्षरीत्या च दृष्टान्तमाह स्तब्धी भूतेत्यादिना 'यथा गार्ग्य मरीचयोऽर्कस्यास्तङ्गच्छतस्सर्वा एतस्मिस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं हवै तत्सर्वे परे देवे मनस्येकीभव- ती'ति प्रश्नपनिषदादिभिमनसः सर्वजगत्प्रकृतित्वेऽपि उदासीनावस्थां आपन्ना- दहमित्यनभिमन्यमानादन्त:करणाद्यथा न दृष्ट्यात्मकः प्रपञ्चः संभवतीति प्राति- भासिकद्ष्ान्तमुक्ता तन्न्यायं तेजोबन्नेऽप्यतिदिशति नो तथाभूतादिति तथा सदाख्यदेवतयाऽ्हमित्यन भिमन्यमानादपि तेजोबन्नात् न नामरूपव्याकरणं संभ- चति यत एवमनभिमन्यमानादुपाधेन कार्याध्यासस्संभवति अत एव मूलाज्ञानेऽप्य- हमिति तादात्म्याध्यासपूर्वकमेव सद्रूपश्य प्रत्यक् चैतन्यस्य वियदादि जगदारोप- कत्वमु्तमित्याह-तेनेत्यादिना तत्तदध्यासकर्तुरात्मनः स्वोपाधावहमित्यव्यास- स्यावश्यकत्वहेतुना ॥ श्रा॥ तया दुर्घटकारिण्या तादात्म्येनैव सङ्गत। कारणं सकलस्रष्ट्र सर्वसहर्तृ चास्तिका इति ब्रह्मगीतायाः पञ्चमाध्यायवचनेन परमात्मन- स्तमोरूपाज्ञानेऽहमिति तादात्म्याध्यासा दर्शित इत्यर्थः ॥ १०३॥॥ अ० ॥ यत्तावत्प्रतिज्ञातं ब्रह्मणो मूलाज्ञानेSहमित्यभिमानवत्वं तत्र पञ्ची- करणीयानि वार्तिकवचनानि प्रमाणयति -- आसीदिति- मू। आसीदेकं परं ब्रह्म नित्यमुक्तमविक्रियम् ॥ १०४॥ तत्स्वमायासमावेशाद्वीजमव्याकृतात्मकम् ।। तस्मादाकाशमुत्पन्नं शब्दतन्मात्ररूपकम् ॥ १०५॥ व्या०। आसीदेकमिति त्रिविधपरिच्छेदरहित परं अव्यक्तादप्यान्तर ब्रह्म तुरयं प्रत्यक् चैतन्यं नित्यमुक्तं असङ्गत्वात् सदाऽविद्यादिदोषासंस्पृष अविक्रियं कूटस्थं यत् तत्खमायासमावेशात् स्वारोपितमायायामहमित्यमि- मानात्स्वयमपि अव्याकृतात्मकं अव्याकृते मूलाज्ञाने आत्मा अहमित्याध्यासिकी बुद्धिर्यस्य म्रह्मणस्तदव्याकृतात्मकमीश्वराख्यं बीजं वियदाद्युपादानकारणमभव- दित्यर्थः ॥

अ०॥ ब्रह्मणः स्वमायासमावेश्य अहमित्यभिमानरूपत्वे पुनः पञ्ची- करणीयान्येव वार्तिकवचनान्युदाहरति-चैतन्येति-

Page 361

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

मू।। चेतन्याभासखवचितं शरीरद्वयकारणम् ॥। आत्माज्ञानं तदव्यक्तमव्याकृतमुदीर्यते। ज्ञानानामुपसंहारे बुद्धेः कारणतास्थितिः ॥ वटबीजे वटस्येव मुषुप्तिरभिघीयते। यस्तयोरभिमानीस्ात्प्राज्ञ इत्यभिधीयते। जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत् ॥ १०८॥ व्या० ॥ चैतन्याभासखचितमिति सुषुप्तौ चैतन्यस्फुरणेन प्रकाशित- मिति यावत् नान्यथा श्रो०॥वार्तिककृन्मतमित्थन्न प्रतिबिम्बो न चाप्यवच्छिन्नः। ब्रह्मैवाविद्यातस्स्रंसरतीवाथ मुच्यत इवेति सौषुप्तादिजीवे प्रतिबिम्बादिभावस्य निरा कृतत्वात्। अथवा सौघुप्तस्य प्रतिबिम्बत्वं वत्तुकामै: व्याख्यातृभि: व्यास्येयञच तत्तन्मूलं पाठभेदमिव कृतं वा न जाने विमर्श्यताम्। य द्विराट्संज्ञकपञ्चीकृतभूतभौतिकस्य हिरण्यगर्भसंज्ञकापञ्चीकृतवियदादि- सूक्ष्मशरीरस्य च उपादानमात्माज्ञानमव्याकृतसंज्ञकं -- या च सुषुप्त्यवस्था तदुभयाभिमानिनं प्राज्ञमेव जगत्कारणमिति जानी यादित्युपदेशान्मूलाज्ञाने ब्रह्मणस्तादात्म्यरूपोऽहमभिमानस्सिद्ध इत्यर्थः ॥ १०८॥ अ० ॥ ननु, एषोऽन्तर्यामीत्यादि श्रतिप्रतिपाद्यस्याव्यामोहितस्य परमा- तमन: कथमनात्मन्यज्ञानेSहृमित्यभिमानित्वमित्याशङ्कय नान्योऽतोऽस्ति द्रष्टा ना न्योऽतोऽस्ति श्रोतेत्यन्तर्यामिव्राह्मणोक्तप्रकारेण तदतिरिक्तचिदन्तराभावात् तस्येव व्यामोहितत्वे कैवल्यश्रतिमर्थतस्संगृत्य प्रमाणयति-स एवेति -- मू॥ स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । वधूदकान्नादिविचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ॥१ ०९।। व्या॥ स एवेति॥ स एव परमेश्वरः कोऽसावित्यत आह-माया- परिमोहितात्मेति मायया स्वात्मविषयकाज्ञानेन परिमोहितस्तिरोहितः आत्मा नित्यमुक्ताद्वितीयस्वात्मस्वरूपं यस्य स मायापरिमोहितात्मा तथाभूतस्सन्स कि- करोतत्यित आह-शरीरमास्थाय करोति सर्वमिति स्वमायामयामेदं शरीरमास्थायाविवेकेनात्मत्वेन परिगृह्य भोगस्य कर्मैव कारणमिति भ्रान्त्या सर्वे श्रौतस्मार्तादिकं कर्म करोतीत्युक्त्वा जीवः किल स्वभोगार्थ कर्म करोति नेश्वर इती मानाशङ्कां श्रृतिः स्वयमेव वारयति 'स्त्रयन्नपानादिविचित्रभेगैस्स एव जाम्र

Page 362

नवमं वाच्यैक्यनिरूषणम्

जाग्रत् आागरणावस्थावान् सन् भोक्तृत्वाध्यासाद्वव्वादिभोगै: परितुष्यति नेतर इत्येवकारेण भेदो व्यावर्त्यते भतो मायापरिमोहिति आध्यात्मिक एव नाधिदैविक:॥ अ०॥ इदानीमुदाहृतकैवल्य्रश्रुत्या फलितमाह-स पवेति- मू॥ स एवेत्यस्य चावृत्त्याप्येवकाराचच बाच्ययोः । जीवेशयोरभेदो हि श्वत्या सम्यक् प्रदर्शितः ॥ व्या०॥ स एवेत्यस्य वाक्य्रस्य्रावृत्त्येत्यर्थः ॥ शेषस्सुगमः ॥ अ० ॥ एवं श्रुतिस्मृतिन्यायविद्वदनुभवैराध्यात्मिकस्यानिदं चैतन्यस्य जगत्कारणत्वप्रदर्शनेन तत्वंपदवाच्यैक्यमुप्दिशन्तं कक्षिदाधिदैविकस्येदंपदार्थ- स्योपास्यस्य तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति श्रुत्याऽब्रह्मत्वेन प्रदर्श- तस्य उगत्कारणत्वमवलम्व्य लक्ष्य्रेक्यमान्रसद्भ्ाववादी प्ृच्छति -- वाच्यार्थ योरिति- मू॥ वाच्यार्थयोर्विभेदस्तु सिध्यत्युत न सिध्यति। इत्यावामधुना कुर्बो विचारं क्चिदेव चेत् ॥ १११ ॥ व्या। स्पष्टोऽ़र्थः॥ अ०।। इदानीमाध्यात्मिकाधिद्रविकेश्वरत्ववादिनी कमाद्वादिप्रतिवादिभावमा- भन्नौ ईश्वरास्यतत्वनिर्णयार्थ विचारयतः मत्तोऽन्य इसि- मू। मत्तोऽन्यः परमेश्वरोऽस्य जगतां स्रष्टृत्वमन्यस्य मे नास्तीति ब्रुवतोपमा परमता संप्रोच्यतां भूयताम्। प्रत्यक्तत्वमजानतस्तव यथा रवप्ने तथाडतोऽज्ञता यद्येवं भवतु स्वरूपनिरताच्चेत्सृष्टिरस्मात्कथम् ।॥११२॥ व्या।। प्रथमत आध्यात्मिकेश्वरत्ववादी पृच्छति मत्तोऽन्य इत्यादिना मत्त आध्यात्मिकादन्यः परमेश्वर आधिदैविक इति य उच्यते अस्याधिदेविकस्य जगतां भूम्यन्तरिक्षस्वगलोकानां स्रषटृत्वं भवेदिंत शेषः अन्यस्य तदन्यस्य मे आध्यात्मिकस्य नास्ति जगत्स्षटत्वमति बवता आधिदैविकेश्वरत्ववादिना भवता परमता परश्य त्वदन्यस्याध्यात्मिकेश्वरत्ववादिनो मता सम्मता उपमा उपमानं संप्रोच्यतां इत्याध्यात्मिकेश्वरत्दवादिना पृष्स्सन्नपर उत्तरमाह श्रयतामि- लयादिना यथा र्वम्रकाले मत्यकू तत्वमजानतरतव विचित्रगजाश्वादिकल्पकत्वं

Page 363

३१४ अद्वैतसिद्धान्तगुरुचान्द्रिकाया

तथा आधिदैविकस्यापि विचित्रजगत्स्ष्टत्वमित्युक्माने परेश दर्शिते सातिसिद्ध/- न्ती परमते बाधमाह अतोऽज्ञतेति अत आधिदीवकस्य परमेश्वरस्यापि स्वभ- निर्मात्रज्ञसाम्यादज्ञत्वमापतेदिति प्राप्ते वरस्तत्वरिहरत्ि -- यद्येवं भवतु स्व- रूपनिरतादिति दृषान्ते तावत् स्वात्मयाथात्म्यमविजानतो जीवात् स्वप्रोत्पत्ता वपि स्वरूपावरणाभावेन सदा स्वस्रूपयाथात्म्यानुसन्धानवत आधिदविकादीश्र- रादेव भवतु जगत्सशिरिति प्राप्ते आध्यात्मिकेश्वरत्ववादी तदनूद्य आक्षिपत चेत्सृष्टिरस्मात्कथमिति आस्मादनावृतस्वरूपयाथात्म्यवत आत्मारामादाध्या- सिकी पारमारिकी वा जगत्सृष्टिः कथ सिध्यति-तदैक्षत बहुस्यां प्रजायेयेि सयं देवतैक्षत हन्ताऽहममिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याक- रवाणीति च भवन्न्ते जिजागरिषातिरिक्स्त्रष्टव्यानुसन्धानादिपुर्वकमेय स्रषृत्व- स्य वक्तव्यत्व तद्नुमुणदृष्टाप्ताभावादिति भावः ॥। ११२॥ अ० । एवमाधिदेविकस्य परमेश्वरस्य सवस्वरूपव्यामोहानभ्युपगमात्- न स्वस्मिन् जमदारोपकत्वरूपमीश्वरत्वं सेभवतीति निराकरणेन शान्तविपरीत- आवनं प्रतिवादिन सिद्धान्ती पृष्छात वाच्यैक्यप्रत्ययोत्पादनाय कस्त्वमिति- मू ॥ कस्त्वं तात मया सार्ध बादकृदवद मे प्रिय। देहो वासि तदन्यः किमिति चेदुच्यते गुरो ।। ११३ ॥ भवदीयोषदेशन ज्ञातो यस्स्वात्मरूपतः । प्रत्यभिज्ञायते योऽहमस्वाप्समिति चैकघा ॥ ११४ ॥ व्या०। गुरविति संबोधनेन स्वस्य प्रतिवादिभावं परित्ज्य शिष्यभा- बो दर्शितः । शेषस्सुगम: ॥ ११४ ॥ अ०। गुरवे तदेव स्वात्मतत्वं निवेदयति -- यसेत्यादिना- मूं॥ यस्याज्ञानविजम्भतं जगदिद स्वप्े सुषुप्तौ क्रमात् यस्मिन्नेव विलीयते स च गुरो ह्यस्माति चत्सोऽस्म्यहम्।' इत्यस्मिंस्तव निश्चये सति कुतो नेशा भवेयं सदे- त्युक्तिस्स्यादविचारतो-यदि ततो वाच्यैकता संस्मृता ॥११५॥ व्या॥ यस्येत्यादि सौषुप्तपरं शिष्यवाक्यमनूद्य पृच्छति सोऽस्स्य- हमित्यादिना यो जगतो जन्मादिकारणभूतस्सौषुप्तस्सोऽस्म्यहमिति निश्चयज्ञाने सति नेशो भवेयमित्युक्ति: कस्मात्तव स्यादिति पृष्टस्सञ्ष्य उत्तरमाह

Page 364

नवमं वाच्यक्यनिरूपणम्

आवैचारत इति तं प्रति गुरुराह यदि तत इति 'यदा सुप्तरखंप् न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैम वाक् सर्वैनामभिस्सहाप्येति - चक्षुम्सवै- रूपैस्सहाप्येति श्रोत्रं सवै३शब्दैस्सहाप्येति मनस्सवैं्ध्यीनैः सहाप्यैत सयदा प्रति- वुध्यते यथाग्नेज्वलतस्सवी दिशो विष्फुलिङ्गा विप्रतिष्ठरत्नैवमेवतस्मादात्मनस्सर्वे प्नाणा. यथायतन विप्रतिष्ठम्ते प्राणेभ्यो देवा देवेभ्यो लोकाः-पुरत्रये क्रीडति यस्तु जीवस्ततस्तु आतं सकल विचित्रं -- प्राजञस्तृतीय: पाद एष सर्वेश्वर एष सर्वज्ञ एषो- म्तर्याम्येष योविस्सर्वस्य प्रभवाप्यय हि भूतानामविति कौषीतक्यादिश्रुतिभिर्जग- त्कारणत्वेनायेदितेन सौषुप्तेन सह विज्ञानमयस्य प्रागस्वाप्समित्यदव परामर्शात् वाच्यैकता संस्मृता भवतेति शेषः ॥ ११५ ॥ अ०॥ आचार्ये प्रति भगवत्कृपयैव सम वाच्यैक्यविज्ञानमभवदित्याहं जीवेशाविति- मू॥ जीवेशौ तु विदेशतः किल भिदावन्ताविति भ्रान्ततां त्यक्ता कालविशेषतो बिभुरहं रवसे ज़गज्जागरे।

वाक्यात्तत्वमसीति ते च कृपया वाच्यैक्यविज्ञानवान् ॥ व्या। श्रो ॥ चित्तव्यापारनाशे तु तदभावं सुरर्षभाः । रुवप्रकाशेन जानाe ति सुषुप्तौ वेद तामपीति मह्मगीतोत्तप्रकारेप जामत्स्वप्रकालयोः मध्यारोपितद्वै- तभ्रमस्य लयाविकर पत्वेन हीदानीं सुप्तोऽस्मीतयभरदावगाहिना सुषुक्िकालिकस्वरूप प्रकाशेन किं तच्चरित्रं समं श्रत्मिति पृष्ठे सदर्धमेत्र श्रतं पश्चात्सुन्नस्सन्न जाना- मीति विज्ञानमयेन सहसुप्तस्याभेदव्यवहारेण व वक्ष्यमाणन। अनेन तृतषीयाध्यावस्य तत्वपदयोरेकार्थतवपरे द्वितीयपादे तृतीयाधिकरणी मेवानेन -- एते नेशरहयोत्खानं ब्रह्युक्त नित्यनिवृत्ताविद्यत्वादिति-भाष्येण अधिदैवक क्य परमेश्वरस्य तत्तत्याणिकर्मसापेक्षतया तभ्यो विषमफलदातुर्नित्यनतिवृल्ताविद्य वेन अनिवृत्ताविद्यावतो विज्ञानमयात् सोषुप्ानन्दमयान वास्तवभेदस्य्र पाशुप-

भावेऽपि। तदुसरेणानेन अपि चन जीवो नाम कश्चित्णस्मादात्मनोऽम्यो विद्यते- यो जलबिन्दुरिव जलराशेः = सतो विविच्येत सदेव तूपाधिसंपर्कारजीव ववायु

Page 365

अद्वैतासेद्धान्तगुरुचन्द्रिकायां

पचर्यत इत्यसकृतू प्रपञ्चितनिति भाष्येण तदैक्षत बहुस्यां प्रजायेये त्यादिशुत्युक्त्तं सत् सदाख्यं आध्यासिकस्य जगतोऽभिन्ननिमित्तोपादानं सौषुप्तानन्दमयरूपमनिः वृत्तवविद्यमाध्यात्मिकं स्वात्मतत्वं तस्य स्वारोपितकार्यकरणोपाधौ अहमित्यात्मत्व। ध्यासात् सोऽ़कामयतेत्युपक्रम्य तत्मष्टा तदेवानुप्नाविशत् अनेन जीवेनात्मनानु- प्रविश्य नामरूपे व्याकरवाणीत्यादि श्रृत्यनुसारेण प्रतिबिम्बादिभावमन्तरेश साक्षा- देव विज्ञानमयाख्यजीवरूपेण अवस्थ्रानोपदेशाच्च लत्त्वंपइयोर्वीच्यैक्यं सिद्धम्। तथैव तृतीयाध्यायस्य तत्त्वंपदयोरेकार्थत्वपरे द्वितीयमादे पञ्चमाधिकरणी- यस्य 'दशनाञ्च्ेलि सूत्रस्य भाष्यावसाने परव्याह्याननिराकरणावसरे किं ज्ञेय- त्रह्मप्रकर णस्थानामाकारशब्दानां निषेधपरत्वमुतोपासताप्रकरणस्थानामपि तत्राद्य

ये हि परविद्याधिकारे केचित्प्रपउचा उच्यन्ते यथा युक्ता ह्यस्य हरयश्शता- दशेत्ययं बै हरयोऽयं वै दशच सहवाणि बहूनि चानम्तानि श्वेति एवमाद्य: ते भवन्तु प्रविलयार्थाः''तदेतत् ब्रह्मापूर्वमनपर मनन्तरमबाह्यमित्युपसंहारादिति"भा- कयेण तदीयेनानेन। अस्य जीवभावं प्राप्तस्येश्वरस्य दशहरय: विषयाहरणात् दशेन्द्रिपाणि- प्राणिभेदाप्रेक्षया शतानि सहस्ाणि च तेषामीश्वराद्वेदमाशङ्गयाह-अथमिति अयमीश्वर एव हरय इलर्थ इति रामानन्दीयव्याख्यानेन च एकस्यैव जीवेश्वर

व्र कर्नृत्वभो क्तृत्वपरत्वपदस्य व वाच्चक्यं प्रदर्शयति रम ॥ ११६॥ अ०।। इदानीं नवमनिरूपणमुपसंहरति पाज्षो Sरमीति- मू॥ प्राज्ञोऽस्मीति सुवेदनात्किल यतम्सर्वज्ञसर्वेशता सार्वात्म्यञ्च नियन्तृताऽखिलनगत्स्थित्यप्ययाधारता। लम्यातः श्रवणादिभिस्स्वपरयोर्भेदभ्रमादागतां त्यक्ता संशयभावनां च विद्दुषा बाच्यैक्यमादीयता ॥।११७।। क्रया॥ यस्ात्प्राज्ञस्तृतीय: पाद एष सर्वेक्षर एष सर्वज्ञ एषोन्तर्याम्येष- यीनिस्मर्वस्य प्रभवाप्ययौ हि भूतानामित्यादिभि: प्रागुक्त्तप्रमाणैः प्राज्ञोऽस्मीति सम्यग् ज्ञानादेव कण्ठगतचामीकरन्यायेन स्वस्य सर्वज्ञत्वादिकं लभ्यते अतो नाहमीश्वर दति सो देशकृती भेद इति अ्रमोत्पन्नामहं तत्पदवाच्यरसर्क़ो वा न वाड़हूं सर्वे

Page 366

दशमं लक्ष्यैक्यनिरूपणम् ३५७

श्वरोवा न वाउहं सर्वात्मको वान वाऽहं सर्वनियन्ता वा न वाडहं निखिलजगज्ज- न्मादिकारणं वा न वेति संशयभावनामसंभावनां विपरीतभवनां च क्रमात् स्वान्मन् जगदध्यारोपनिर्णायकश्रवणमनननिदिध्यासनैः परित्यज्य वाच्यैक्यमादीयतां विद्षेत्यर्थः ॥११७॥

त्पादशिष्यश्रीमच्चन्द्रिकाचार्याख्ययतीश्वरविरचितायां अमृतरस- झरोनामकव्याख्यानोपेतायां अद्वैतसिद्धान्तगुरु- चन्द्रिकायां नवमं वाच्यैक्य निरूपणं सपूर्णम्।

हरि: ओमू।

तत्सत्।

-: 0 :- ॥ हरि: ओम्। अद्वैतसिद्धान्तयरुचन्द्रिकायाम् । दशमं लक्ष्यैक्यनिरूपणं आरभ्यते।

अ०। इदानीं दशमनिरूपणमारभमाणः स्वाचार्य नमस्करोति -- वन्द इति- मू॥ वन्दे परमहंसेन्द्रश्रीकृष्णेन्द्रसरस्वतीः । शिप्यप्रार्थितलक्ष्यार्थविशेषप्रतिपत्तये ॥ १॥ व्या०॥ स्पष्टोऽर्थः ॥१॥ अ०॥ अधुना शिध्यानभिमुख्ीकृत्य वक्ष्यमाणविशेषं झापयति-वस्य इति म्॥ वक्ष्ये माधवतीर्थाद्या भवद्भिः प्राथिताश् ये। लक्ष्यैनयस्य विशेषास्तान्मन्दानामपि सिद्धये ॥ २ ॥

Page 367

३६८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

व्या०। मन्दानामिति वाच्यैक्यसाक्षात्कारSसमर्थानामपिशब्दात्तत्रा- पि समर्थानां च नित्यशद्धात्मप्रतिपत्तये लक्ष्यैक्यविशषान्वक्ष्य इत्यर्थः ॥२॥ अ० ॥ संप्रति लक्ष्यैक्यविशेषप्रदर्शनार्थ तदनुकूलं मूलाज्ञानशरीरयोः विशेषणत्वादिकं दर्शयति सुप्तस्येति- मू॥ सुप्तस्य स्यात्प्रबुद्धस्याज्ञानं लिङ्गादिकं क्रमात्। विशेषणमुपाधिश्चाप्युपलक्षणमत्र तु।। तादात्म्येऽतो विवेकेऽस्व विनाशे स्वविचारतः । ३।।।। व्या० । अत्ाज्ञाने सुप्तस्य तादात्म्ये सति अतः अज्ञानात्तस्य विवेके सति च अस्य अज्ञानस्य स्वात्मविचारात् निव्ृत्तौ च विशेषणत्वादिकं भवेत् तथा प्रबुद्धस्यापि लिङ्गादिकं भवेदित्यर्थ: ।: ३॥ ॥। अ०। अधुना विशेषणादीनां लक्षणं प्रतिजानीते-पतदिति- २॥ एतद्विशेषणादीनां पृथग्लक्षणयुच्यते ॥ ४ ॥ व्या०॥ स्पष्टोऽर्थः ॥४॥ अ० ॥ तत्र विशेषणस्य लक्षणमाह-प्रमेयेति- मू॥ प्रमेयानुगतं विद्यमानं व्यावर्तकं च यत्। विशेषणं भवेल्लमबकर्णमित्यत्र कर्णवत् ॥ ५ ॥ व्या०॥ प्रमेयानुगतमित्यादिना विशेषणस्य लक्षणमुक्ता तन्र दृष्टान्तमाह-लम्बकर्णामेत्यादिना लम्बकर्ण पश्येत्यत्न यथा कर्णस्य तदवच्छे. द्यानुगतत्वादिकं लक्षणं तद्ूदित्यर्थः ।।५॥ अ०॥ इदानीमुपपादितं विशेषणलक्षणमीश्वरजीवव्यावर्तकमायाशरीर- योर्योजयति अध्याकृत इति- मू॥ अव्याकृतोऽस्म्यहं-कर्त्ता-मनुप्यो ब्राह्मणोडस्म्यहम्।

्या॥ अव्याकृतोSस्मीत्यादिना अहमित्यभिमन्यमानेष्वज्ञानान्त :- करणस्थूलशरीरेषु प्रागुक्तं तत् विशेषणलक्षणं योजयेदित्यर्थः ॥ तत्र स्थूलसूक्ष्म- शरीरयोर्जीवेनाहमित्यभिमन्यमानत्वं तावत्प्रसिद्धमेव अव्याकृतस्य आध्यात्मिकेश्र- रेण आधिदैविकेनेश्वरेण वा अहमित्यभिमन्यमानत्वन्त ॥। श्रो॥ आत्माज्ञानं तद- व्यक्तमव्याकृतमितीर्यते। यस्तताप्यभिमानी स्यातप्राज्ञ इत्यभिधीयते। आसीदे-

Page 368

दशमं लक्ष्यैक्यनिरूपणम्

कं पर ब्रह्म नित्यमुक्तमविक्रियम्। तत्स्व मायासमावेशाद्वीजमव्याकृतात्मकमिति पञ्ची- करणवार्तिकवचनेन ॥I श्रो ॥ प्रतीत्या केवलं शक्तिरचिद्रपा तमोमयी ॥ सर्वप्र. कारविद्वद्भ्िरनिरूप्या हि शांकरी। तथा दुर्घटकारिण्या तादात्म्यनैव सङ्गतम् । कारणं सकलस्रष्ट् सर्वसंहर्तृ चास्तिका इति ब्रह्मगीतायाः पञ्चमाध्यायवचनेन च सिद्धम्। अ० ॥ अधुनोपावेर्लक्षणमाह मेयेति- मू॥ मेयाननुगतो विद्यमानो व्यावर्तकश्च यः । उपाधि: कर्णसंयुक्तं श्रोत्रमित्यत्र कर्णवत् ॥ ७ ॥ व्या० ॥ कर्णशष्कुल्यवच्छिन्नं नभश्शोत्रमित्यत्र कर्ण इव प्राज्ञेश्वरविज्ञान- मयेभ्यः विवेचितमव्याकृतादिकं जीवन्मुत्तिसमये तेषामुपाधिर्भवेत्॥ ७।। अ०॥ संप्रत्युपलक्षणस्य लक्षणमाह -- मेयाननुगतमिति- मू।। मेयाननुगतं चासत्परव्यावतकं च यत्। स्याच्चोपलक्षणं चैत्रसझनः काकवत्किल ॥। ८॥ व्या० ॥ काकवत् आध्यात्मिकाव्याकृतादेरेव पूर्व विद्यमानत्वेऽपि विदेह केवल्यसमये अविद्यमानत्वादुपलक्षणत्वं भवेदिव्यर्थः ॥। ८ ।। अ०॥ अस्तु नाम मायाशरीरयोर्विशेषणत्वादिकं तावता ताभ्यां व्यावर्ति- तयो: प्राज्ञात्मनोः किमायातमित्यत आह-तृतीयेति मू॥। तृतीयोक्तप्रकारेण मूलाज्ञानशरीरयोः। चित्संवेष्टकताभावे क्रमादैक्यत्रयं भवेत् ॥ ९ ॥ व्या०।। तृतीगनिरूपणोक्तप्रकारेणाज्ञानतत्कार्ययोः प्राज्ञविज्ञानमयरूपेश्वर- जीवपरिवेष्टकत्वाभावे सिद्धे सति क्रमाद्वाच्यादैक्यलयं भवेदित्यर्थः ॥९॥ अ०॥ इदानीं तदैक्यत्रयं विवृणोति-विशिष्टेति- मू ॥! विशिष्टैक्यं तथा चोपहितैक्यं च तथाऽपरम्। लक्षितैकत्वमेतेषु विशिष्टैक्यं तु विस्तरात् ॥ १० ॥ नवमे दर्शितं पूर्व लक्ष्यं शिष्टद्वयं भवेत् ॥ १०॥॥ व्या। लक्षितैकत्वमिति उपलक्षितैक्यमिति यावत् विशिष्टैक्यन्तु वाच्यैक्यं तावत् पूर्व नवमनिरूपणे विस्तरेण द्शितमित्युक्ता तत्त्वंपदलक्ष्यार्थ

Page 369

१६० अद्वैतसिद्धानतगुरुचनन्द्रिकाया

िभजते लक्ष्यं शिष्टद्वयं भवेदिति नवमनिरूपणोक्ताद्वाच्यैक्यादवशिष्टमुपहितै

अ०॥ ननु, स्वात्मनो मायादिविशिष्टत्वोपलक्षितत्वाभ्यामतिरिक्त्क माया- दुपाहितत्व नाम किञ्चिदवस्थान्तरं प्रमाणसद्ध चेत्तदा तद्वयावर्तकर मायांद- रुक्त्तापाधिलक्षणवत्वं तदुपहितस्याप्येकत्वं सिद्ध येदित्याशङ्कय तत्र य्मिन्यौः पृथि- वी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैक ज्ानथात्मानमन्या वाचा विमुञ्च- थामृतस्यष सेतुः। एतस्मिन्नु खल्वक्षरे गर्ग्याकाश ओतश्च प्रोतश्ेत्यादिकां द्युम्वा धुपहितैक्यसाक्षात्कारस्य अमृतत्वप्राप्तिसाधनत्वपरां श्रति संगृह्य प्रमाणयति यस्मिन्निति- मू ॥ यस्मिन्द्युम्वादिकं चोतं तमात्मानं विज्ानतः |I

साक्षिणश्चैकता सिद्धाऽव्याकृतादेरुपाधिता।।१२।। व्या०॥ द्यम्वादिकं चोतमिति चकारेण मूलाज्ञानं परिगृह्यते अव्या- कृसादेरुपाधिता च सिद्धेति पूर्वेणान्वयः ॥ १२॥ अ०।। ननु, धुभ्वाद्यधिकरणभूतस्वात्मनः साक्षित्वं सिद्धञ्वेत्तदा तस्य दुभ्वायुपहितत्वं तद्वावर्तकस्य शुभ्वादेरुपाधित्वं च संभवेदित्याशङ्कय तस्य तथात्व- प्रतिपादकं ब्रह्मगीतावाक्यं प्रमाणयति-एवमिति- मू॥ एवं सवें सदा साक्षिस्वरूप परमात्मनि। सर्वान्तरतमे प्रोता आता अध्यस्तरूपतः ॥ सर्वोधिष्ठानभूतस्तु प्रत्यगात्मा स्वयंप्रभः । न कस्मिश्चित्स्थितस्साक्षा सत्स्वभावस्मुरषभाः ॥ १४ ॥ व्या० ।। सर्वान्तरतम इति सर्वेषां स्थूलभूतादीनामन्तरं सूक्ष्मभूर्त अन्तरतरन्तु मूलाज्ञानं अन्तरतमस्तु प्रत्यगात्मा तस्मिञ्छेषस्सुगमः ॥१४॥ अ० ॥ ननु, प्रत्यगात्मनस्साक्षित्वादिविनिमुक्तं किञ्चित् शद्धस्वरूपं प्र. माणसिद्धं चेत् तच्छुद्धस्वरूपव्यावर्तकस्य अव्याकृतादेरुक्तोपलक्षणलक्षणवत्वं सं- भंददित्याशङ््य 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा- सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्रुतितात्पर्यविषयीभूतस्यापास्तसर्वविशेषस्य शुद्धस्य प्रत्यगात्मन: तज्ज्ञानबावितं जगज्जन्मादिकारणतवं-यो भुजइ्गस्सा स्गित्यत्र स्नज-

Page 370

दशमं लक्ष्यैक्यनिरूपणम् ३६१

स्तज्ज्ञानबाधितभुजङ्गवत् 'इदं सर्वे यदयमात्मा यत्र तस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्' इत्यादिश्वत्युक्तप्रकारेणात्मज्ञानेन बाधितमज्ञानादिक वोपलक्षणं भवेदित्याह-यत्रेति- मू। यत्र नान्यत्पश्यति स्म स भूमत्यादिशास्त्रतः । दग्दृश्यत्वविनिर्मुक्तप्रतीचो ज्ञानवाघितम् ॥। जगज्जन्मादिहेतुत्वं जगद्वाऽस्योपलक्षणम् ॥ १५॥।॥ व्या० ॥ दृग्दश्यत्वविनिर्मुक्तप्रतीच इति दृग्दृश्ययोर्भावः द्ृग्दृश्य त्वं तेन विनिर्मुक्तस्य प्रत्यगात्मन इत्यर्थः ॥ शेषस्सुगमः ॥१५॥॥ अ० ॥ इदानीमुपपादितार्थे ब्रह्मसूत्रं प्रमाणयति इतीति- मू।। इति स्वाप्ययसंपत्त्योरिति सूत्रेण दर्शितम् ॥ १६ ॥ व्या० ।। स्वा्यय संपत्त्यारेन्यतरापेक्षमाविष्कृतं हीत्यनेन सूत्रेण द्वैतादर्शन तावत स्वाप्ययसंपत्त्योः स्वस्मिञ्जीवे जगतोऽप्ययः स्वाप्ययस्सुषुप्त्य- वस्था संपत्तिविदेह कैवल्यं तयोरन्यतरापेक्षमन्यतरामवस्थामपेक्ष्याविष्कृतं प्रकटी- कृत शास्त्रणेति दर्शित तथा हि सुषुप्तिकाले मूलाज्ञानातिरेकेणाविद्यमानं वियदादिक तात्कालिकश्यात्मन उपलक्षणं भवति 'न तु तह्टितीयमास्ति ततोऽन्यद्विभक्तं यत्प- इय्रेदितिश्रुतेः. । विदेहकैवल्यसमये तु स्वरूपातिरे कणाविद्यमानं विद्याविद्यादिकं सर्वे तदानीमवशिष्यमाणस्य शुद्धात्मन उपलक्षणं भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्के- न कं पश्येदिति श्रुतेरित्यास्थेयम् ॥ १६॥ अ०॥ एवं दृष्टिसृष्टिरीत्या आध्यात्मिकयोः जीवशयोः उपाधिपरिवेष्टितत्वा- भावात् वाच्यैक्यादित्रयसुपन्यस्य। अधुना मीमांसकवादवत् प्रतिकर्मव्यवस्थावादेऽपि 'स समानस्सन्नुभौ लोका वनुसञ्चरति श्रो०॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगेयुगे इत्यादिशास्त्रानुसारेण आध्यात्मिकाधिदैविकयोः तत्तच्छरीर- परिवेष्टितत्वेन भोगादर्थ परलोकादिकं प्रति गमनादेरावश्यकत्वेSपि प्रतिकर्मव्यवस्था वादे मोक्षकाले स्वात्मपरिवेष्टकशरीराद्यभावात तदनुगुणम् मोक्षस्वरूपन्निर्धार- णीयम्। ननु घटसंवृतमाकाशं नीयमाने घटे यथा। घटो नीयेत नाकाशस्तदूज्जीवो न- भापेमः इत्यादिश्रुत्या उपाधिपरिवेष्टितत्वेऽपि आकाशजीवयोः गमनादिनिषेधात कथ भवदुदाहृतशात्रात् जीवेशकर्तृकगमनागमनप्रत्ययो भवेदिति चेतू। 31

Page 371

अद्वैतसिद्धान्तगुरुचन्द्रिकायां

भवदुदाहृतश्रुतिस्तावत् प्राक्तृतीयनिरूपणोक्तप्रमाणानीव आकाशस्वरूपपर- न्यायशास्त्रमिव च प्रथमपादेन घटेन परिवेष्टितमाकाशमिति पक्षमनूद्य तत्र तदभावं द्वितीयादिपादैबोधयति तत आत्माकाशयोनिरवयवत्वं विभुत्वञ्च सिद्धं ततो दृष्टिस्ध्ठ्यनुसारिणी सा श्रतिः। अस्मदुदाहृतशास्त्रन्तु कञ्चिदधिकारिणं प्रति प्रतिकर्मव्यवस्थाप्रवर्त्तकम् तत्रा- काशस्तु पञ्चीकरणप्रक्रियया सावयवः तदेकदेशस्य घटेन परिवेष्टनम् देशान्तरं प्रति गमनञ्च सम्भवेदेव तद्वादे आत्मभेदेन बन्धमोक्षयोरङ्गीकृतत्वात् आत्मनां

ततस्तन्मते सम्भाव्यमानम्मोक्षस्वरूपमुपपादयति मायेति- मू॥ मायाशरीरयोरीशजीववेष्टकता यदि। स्वात्मयियोर्विनाशेऽपि देवोपाध्योश् वर्तनात् ॥ १७॥ शोधितत्वपदार्थस्य ह्यौदासीन्यं विमुक्तता ॥ १७॥।।। व्या०॥ मायेति जीवस्य स्वरूपावरणशक्ति: ईश्वरस्य सर्वनियमनशक्ति- श्र परिगृह्यताम् अत्र कर्मणएव जगत्प्रकृतित्वात् नोपादानम्माया 'मायान्तु प्रकृति विद्यादिति' श्रुतेस्तु पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकीति श्रुत्या श्रो०॥सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपीति स्मृत्या च मायाख्येश्वरशक्तेरीश्वरम्वाभावि कत्वपरत्वावगमात्। शरीरपदेन ईश्वरशरीरञ्च जीवशरीरञच परिगृह्यते स्वात्मीययोरिति यत् स्वात्मीयम् स्वरूपावरणम् च लिङ्गादिकर्मप्रकृतिकं शर्रीरञ्च ते स्वात्मीये तयो- रित्यर्थः देवोपाध्योश्चेति देवस्येश्वरस्य उपाधिभूतयोः सर्वनियमनशक्तितदीय शरीरयोरित्यर्थः चकारेण जीवान्तराणं तत्तत्स्वरूपावरणशक्तितत्तच्छरीरयोश्च त दन्यजीवस्वरूपज्ञानादनिवर्त्यत्वेन वर्तनादित्यर्थः । शेषः सुगमः ॥ १७॥॥

परिवेष्टनेति- अ० ॥ इदानीं प्रतिकर्मव्यवस्थायामसम्भाव्यमानमैक्यत्रयन्दर्शयति

भिन्नत्वात्साक्षिणोस्तद्वद्वाच्ययोरपि नैकता ॥ १८॥॥ न्या० ॥ साक्षिणोरिति गजमूषिकयोः कर्णशब्कुल्युपहितनभोवन्माया न्तःकरणोपहित साक्षिणोरभिन्नत्वात् उपहितयोरेकत्वं न संभवतीत्युक्ता तन्न्यायं वाच्ययोरतिदिशति-तद्वदिति वाच्ययोर्भिन्नत्वान्नैकतेति संबन्धः अपिशब्दात् उपलक्षितयोरक्याभावो दर्शितः ईशोपाधेर्जीवनात् ॥१८॥॥

Page 372

दशमं लक्ष्यक्यनिरूपणम् ३६३

अ० ॥ इदानीं स्वयमेव गुरुशिष्यादिभावमापन्नस्सन्ना समा प्त्यु त्तरप्रन्थं प्रत- नोति भवदिति-

वद माधवतीर्थेतच्छूवणात्कि बभूव ते ॥ १९॥॥ ्या० ॥ हेशिष्याः जीवभिन्नेशविभ्रान्त्या जगदारोपितं मर्यात्यारभ्य- तार्द्ूशेषाञ्छाधि नो गुरवित्यन्तेन प्रथमनिरूपणारम्भे भवद्भि: परिपृष्टा आत्मानात्मी- यविशेषान्तराः आत्मानात्मीयविशेषैः सह उपदिष्टा इत्युक्ता-तेषामेतच्छासत- श्रवणात् किमभूत्तात्पर्यमिति जिज्ञासमान इव वदेत्यादिना पृच्छतीति-मन्मा- यायाः प्रभावादित्यन्तिमश्रोकादवगम्यते ॥ १९॥॥ अ० ॥ तत्र माधवतीर्थेस्तावद तच्छास्त्रश्रवणानुसारण स्व- तात्पर्यमाचार्याय निवेदयति-ईश इति- मू॥ ईश आसं सुषुप्त्यादावध्यस्ताज्ञानमोहतः । पञ्चाध्यासैककर्तृत्वादद्वितीयोडस्म्यतो गुरो । २०।। व्या० ।। अत इति स्वातिरिक्तस्य सर्वस्य स्वस्मिन्नेवारोपितत्वात्पारमार्थि- कवस्त्वन्तराभावेनाद्वितीयोSस्मीति दग्धपटन्यायेनानुवृत्तवासनया स्वतात्पर्य निवेद- यामास ॥ २०॥॥ अ० ॥ एवं तदन्येऽपि शिष्याः प्रश्नपूर्वकं सवसाशयं निवेदयन्ति साम्बयोगिन्नित्यादिना-

जाग्रत्यहं विराडासं स्वने सूत्रात्मनाऽभवम्। सुप्तौ महेश्वरश्चासं विद्यायां निष्क्रियोऽस्म्यहम् ॥ २२॥ शिवानन्द तवाद्यैतच्छूवणान्निश्चयं वढ। मायामयमिदं सर्वे मद्दृश्यत्वान्मृषात्मकम् ॥ २३॥ स्वप्ने यथा सजातीयविकलोडस्मि तथात्र च । चिदानन्दमुने ब्रूहि त्वयैतच्छास्त्रतो धृतम् ॥ २४ ।। विद्योदयेऽप्यविद्यायां न मत्तोऽन्यत्तु किञ्चन। सर्वेषामेकसत्वाच्च शान्तोऽस्म्युपरतोऽस्म्यहम् ॥२५॥

Page 373

३६४ अद्वैतसिद्धान्तगुरुचान्द्रिकायां

श्रीनिवासेन्द्र तात्पर्यमेतद्रन्थोद्भवं वद। वृत्त्यात्मकमिद सर्वमेकस्सन्कल्पयाम्यहम् ॥२६॥ क्षणेन संहराम्येक इदं कस्मै ब्रवीम्यहम् ॥ २६।।॥ ्या ॥ एतानि शिष्यवचनानि प्रागुक्तदशनिरूपणोपदेशनिमित्तकत्वेन तद्याख्यानेनैवावगतार्थानि भवन्तीति न पृथगव्याख्यायन्ते ॥ २६॥॥ अ०॥ अधुना प्रश्नपूर्वकमन्योऽपि शिष्यः स्वतात्पर्यमावेदयति वैद्यना- थेति- मू ॥ वैद्यनाथार्य योगीन्द्र वद मे भवदाशयम् ॥ २७ ॥ नेति नेतीति शास्त्राच्च वाचारम्भणवाक्यतः । नेह नानेति शास्त्राच्च जगतस्ख्वात्मनो विभो: ॥२८॥ एका सत्तेति वादे Sलाडस्म्येकत्वेन स्थितस्सदा। सर्वोपलक्षितस्सवात्मा मोक्षो भेदविवर्जितः ॥ २९ ।। व्या० । शास्त्राच्नेति चकारदवयेन तत्तच्छतिमूलकसूत्रतद्भाष्याणां परि- ग्रहः । शेषस्सुगमः ॥ २९ ॥ अ० ॥ एवं स्वात्मजगतोरेकसत्तावादे मोक्षस्य एकरूपत्वं संप्रदर्श्य अधुना जगतः कर्मविहीनस्वाविद्याकार्यत्वे अविवेकादिदशायां क्रमान्मोक्षत्रैविद्धयं दर्श- यति प्रातिभासिकेति- मू। प्रातिभासिकतायां तु. पूर्वाद्िन्नान्त्रवीम च। तत्त्वमोरत्र वाच्यैक्यत्रैविध्यात्स्वात्मनो विभो: ॥३०॥ सार्वात्म्यरूपमोक्ष: स्यादज्ञानादौ विनाशिते। वासनाभिश्र तत्कार्यैस्स्वस्यैवोपहितस्य तु ॥ ३ १ ॥ साक्षित्वरूपमोक्षस्स्याद्यथा सन्यासिना तदा। शिखादियज्ञसूत्रे तु त्यक्ते ज्ञानपुरस्सरम् ॥ ३२ ॥ वासनाभि: स्नानकाले शिखाया मार्जनेन च। वहिश्शङ्कादिकाले च निवीताचरणेन च ॥ ३३ ॥

Page 374

दशमं लक्ष्यैक्यनिरूपणम् १६५

कर्मणोपहितस्यास्य मुण्डिनस्साक्षिता भवेत् ॥ ३३॥। ॥ ्या०। प्रातिभासिकतायामित्यादिना प्रथमतः जगदुपादानाज्ञानतत्कार्या न्तःकरणादितादात्म्यापन्नानां प्राज्ञादानां नवमनिरूपणे विश्व त्वं स विराडसीति श्रोकोक्तप्रकारेण वाच्यैक्यत्रैविध्यज्ञानवतः तरिविधसार्वात्म्यरूपो मोक्षः संभवती त्युक्ता हांष्टसष्टिपक्षे मूलाविद्यादौ तद्विलक्षणस्वात्मसाक्षात्कारेण विनष्टे सति दृष्टि- विनाशाज्जायमानवासनानां स्वात्ममात्निष्ठत्वात् वासनातद्वयापारमात्रोपहितस्य स्वात्मनो वासनाक्षयपर्यन्तं कादाचित्कव्यापारवत्त्वेऽपि तत्साक्ष्यात्मनाSवस्थानरूपो मोक्ष: सम्भवतीति सदष्टान्तमाह अज्ञानादावित्यादिना जगत्कारणभूताज्ञानत- त्कार्यात्मकविषयं विना प्राचीनवासनामात्रोपहितस्य स्वात्मनः कादाचित्कव्यापार- वत्वेऽपि वासनाक्षयावसानकः तत्साक्ष्यात्मनाSवस्थानरूपचतुर्थप्रकारो मोक्षस्संभव- तीत्यर्थः ॥ ३३॥॥ अ०॥ अधुना जगतः प्रतिभासिकत्वपक्षे पञ्चमं मोक्षंदर्शयति सदे- त्यादिना --

मू। सदा स्वात्मानुसन्धानाद्वासनासंक्षये ततः । एकात्मनाऽवशेषश्च वासनालक्षितो भवेत्। वासनातानवं ब्रह्मन्मोक्ष इत्यादिशास्त्रतः ॥ ३१॥

व्या० । स्पष्टोऽर्थः ॥ ३५॥ अ०॥ अधुना प्रतिकर्मव्यवस्थावादे जीवानां तत्तदुपाधिपरिवेष्टितत्वेन तत्र प्रदर्शनीथं मोक्षस्वरूपं दर्शयति शक्तिमद्विति --

मू॥। शक्तिमद्गह्मणो जीवा वियुक्तावयवात्मकाः । यथा च शीकरा नाना जलराशेस्समुद्गताः।३६॥

स्वर्ग गच्छन्ति भोगार्थमुत्कान्त्यादिश्रुतेस्तथा । क्षीरं क्षीरे यथा क्षिपं तैलं तैले जलं जले ॥। ३७॥ संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ।

Page 375

३६६ अद्वैतसिद्धानतगुरुचन्द्रिकायां

इत्यादिशास्त्रतो मोक्षस्त्वाप्य एवात्र सम्भवेत् ॥ ३८॥ अतस्तत्परिहाराय जीवेभ्यश्चाधिदैविकात्। विभिन्नत्वेन शुद्धात्मरूपेणैव हि वर्तनम् ॥ ३९॥ ... कैवल्यमिति वक्तव्यं स्वान्योपाधेश्च वर्तनात्। बन्धमुक्तिव्यवस्थायाः पुम्भेदात्स्वीकृतत्वतः ॥ ४० ॥ व्या०। शक्तिमद्गह्मणो जीवा वियुक्तावयवात्मकाः प्रतिकर्म- व्यवस्थायां फलदाता तु सर्वज्ञत्वादिहेतुभूतसर्वशक्त्याश्रयत्वनाान्नवद्दव्यभूतः अग्नेः स्फुलिङ्गा इव तास्मादीश्वराद्रळितत्वे सति तदेकैकाम्शभूता जीवाः समुद्राच्छीकरा इवचेत्यर्थः शीकराणं ममुद्राभेदेन पुनरवस्थानवत् जीवानां पुनर्रीश्वररूपेणावस्थान- मेव प्रतिकर्मव्यवस्थावादीयो मोक्ष इत्युक्ता पक्षान्तरं दर्शयति अतइत्यादिना॥४० अ०॥ इदानीमाचार्यः प्रतिकर्मव्यवस्थावादिमोक्षवादिनो निश्चयपरक्षिा र्थमाक्षिपति नन्वित्यादिना- मू। नन्वात्मनो विभुत्वेऽत्र न मुक्तेराप्यतेति चेत् । तन्निष्ठत्वादपूर्वाणामत्र स्वर्ग्यन्न कर्मजम् ॥ ४१ ॥ इति चेत्तत उत्प्लुत्याऽपूर्वै दिव्यं फलम्भवेत् । इति चेत्तत्फलस्यात्ता को वा चेद्विभुरेव सः ॥ ४२ ॥। विभुत्वेऽस्याSऽत्मनानात्वं तन्मते नैव सिध्यति। तर्ह्यणुस्तत्र यः कशश्चित् फलम्भुङ्गेडस्य कर्मणः ॥ ४३ ॥ तथा चत्कृतहानादिदोषस्स्यादिति चेत्तदा । विधौ तु परिसङ्ख्यात्वञ्जानतान्न तदागमः ॥ ४४ ।। यद्यसत्वं प्रसज्येत धर्मादेरिष्टमेव चेत्। प्रतिकर्मव्यवस्थाया मूलतो हानिरापतेत् ॥ ४५॥ इष्टञ्चेत्तद्रक्षणार्थ स्वामिन्प्रोक्तं तथेति चेत्। तद्वादीयन्तु कैवल्यं तथैवेत्यवधार्यते ॥ ४६॥

Page 376

दृशमं लक्ष्यैक्यनिरूपणम् ३६७

व्या० ॥ अत्रेति पददूयं प्रतिकर्मव्यवस्थापरम् अत्र क्रमादचार्यकक्षि शिष्य शिष्यकक्षिमाचार्यश्च चेदिति पौनःपुन्येनानुवदति अस्ेति विभोजीवस्येत्यर्थःअत्- त्यमाचार्यशिष्यसंवादरूपं श्रोकषट्कं क्रमात् स्वात्मनः विभुत्ववादाणृत्ववादयोः साधकत्वेन सर्वत्र योजयेत् ॥ स्पष्टमन्यत् ॥४६॥

दिना- अ०॥ संप्रति द्वैतिनां तत्तत्कर्मफलभूतानि मोक्षस्वरूपाण्याह कायेनेत्या-

मू। कायेन मनसा वाचा कृतानां फलमुच्यते। सालोक्यञ्चापि सामीप्यं सारूप्यं साष्टर्यमित्यपि॥ मुक्तिश्चतुर्विधा प्रोक्ता द्वैतिनान्तु यथाश्रुतम् ॥। ४७॥।॥ व्या० ॥ यथाश्रतम् -- यथोपासनमित्यर्थः ॥ ४७॥॥ अ०॥ इदानीं सालोक्यादिमुक्तिगतविशेषद्वयं दर्शयति अत्रेति- मू॥ अत्र मुक्तेर्विकार्यत्वं विकारत्वाद्धि कर्मणः ॥ लोकान्तराप्तिमत्वाद्धि तथाप्यत्वं च सम्भवेत् । इत्येकादशधा मोक्षस्तत्तद्वादानुसारतः ।। ४९ ।। व्या० ॥ अत्रेति द्वैतवाद इत्यर्थः एवं अष्टाविंशश्राकादारभ्य जगतः चिन्मात्रसच्तेति च प्रातिभासिकसत्तेति च व्यावहारिकसत्तेति च सालोक्यादिमोक्ष- स्य कर्मविक रंत्वे5पि अक्षय्यह वे चातुर्मास्ययाजिनः सुकृतं भवतीत्यादि शास्त्रोक्त- प्रकारेण नित्यत्वरूपपारमार्थिकसन्तेति च तथा प्राथमिकसत्ताद्वयवादेपि विभुः सजा- तीयपरिच्छेदरहितो जीव इति च पाश्चात्यसत्ताद्वयवादेपि मुक्तोऽप्यणुः सजातीय- परिच्छेदवान् जीव इति च वाद चतुष्टयानुसारेण दर्शितं मुक्तस्वरूपं कैवल्यं एका- दशविधमिति ज्ञेयम् ॥ ४९ ॥ अ० ॥ संप्रति परिपूर्णानन्दः स्वानुभवमाचार्याय निवेदयति-चित्र- मिति- भू॥ चित्रं तद्गृदि मे गुरो करुणया तत्वोपदेशो द्विघा ज्ञानं यत्क्षणभेदतो जनयतीत्या्क्चर्यमत्रास्ति किम।

Page 377

३६८ अद्वैतसिद्धान्तगुरुचन्द्रिकायां

कूटस्थे किल शक्तिमत्वकरणे लोको विभात्यन्यथा नैवेन्दाविव वक्रदृष्टिकरणे त्विन्द्वन्तरं नान्यथा ॥ ५० ॥ न्या० ॥ भो गुरो करुणया भवत्कृतः तत्त्वोपदेशो मे हृदि क्षणभेदतो द्विधा ज्ञानं जनयतीति यत् तच्चित्रमिति वदन्तं प्रत्याचार्यः पृच्छति आश्चर्य- मत्रास्ति किमिति अतास्मत्कृतोपदेशसानियतज्ञानजनकत्वे किमाश्चर्यमिति वदते स्वाचार्याय तत्कृतोपदेशस्थानियतज्ञानोत्पादकत्वेऽपि लोकातिशायितं दर्श यति शिष्यः कूटस्थ इत्यादिना निर्विकारे प्रत्यगात्मनि शक्तिमत्वकल्पने सति मिथ्याभूतमिदं जगद्विभाति-तच्छक्तिकल्पनाभावे तु नेदं विभातीत्युक्ता तत्र दृष्टान्तमाह-इन्दाविवेत्यादिना यथा चैकस्मिन्नेवेन्दौ वक्रदृष्टिकरणे सतीदमिन्द्व- न्तरं भाति तदकरणे तु न विभाति तद्ूदित्यर्थः ॥ ५० ॥ अ०॥ अधुना श्रीमच्चन्द्रिकाचार्यः स्वशिष्याणां तत्तदात्मविषयकानुभव- श्रवणात् परिपूर्णपरितुष्टिं स्वस्य दर्शयात स्वात्मेति- मू॥ स्वात्मतत्वानुभूतिं वशश्रुत्वा तुष्याम्यहं मुहुः । व्या० । स्पष्टोऽर्थः ॥५०॥॥ अ० ॥ संप्रत्याचार्याय दक्षिणाप्रदानार्थ प्रार्थयन्ति एवमिति- मू॥ एवं चेत्करुणासिन्धो कृतार्थास्त्वद्नुग्रहात् ॥५१॥ विद्याया दक्षिणां शाधि दास्यामो हि यथाबलम् ॥ ११॥॥ व्या० ॥ यस्माद्भगवतो भवतः कृपाबलादेव उब्धा शद्धाद्वैतस्वात्मविद्या ततस्तदर्थ तदक्षिणामाज्ञापयेत्यर्थः ॥५१॥॥ अ०॥ अधुना त्वाचार्यरिशष्यान्प्रत्याह प्रचारयतेति- मू। प्रचारयत तां विद्यां लोकेसिमंस्तदलं मम ॥ १२॥ व्या० । तामिति मदुपदिष्टां बरमाद्वैतस्वात्मविद्यामिति शेषस्सुगमः ॥ अ० ॥ इदानीं चन्द्रिकाचार्यः स्वनामान्तर प्रदर्शयन्निदं शास्त्रमनुगृह्वाति मन्मायाया इति- मू। मन्मायाया: प्रभावाद्विलसितगुरुणा प्रोक्तवाक्यैश्शिवोडस्मी- त्येवं मामद्वितीयं वियदिव विपुलं सर्वदा जानते है।

Page 378

दशमं लक्ष्यैक्यनिरूपणम् ३६९

रामब्रह्मेन्द्रवाणीति च गुरुमुखतो लब्धनाम्ना मयोक्ता श्रुत्या युक्तयाऽनुभूत्या च भुवि विजयतां निर्मला चन्द्रिकेषा ॥१३॥

वया ॥ रामब्रह्मेन्द्रवाणीति रामब्रह्मेन्द्रसरस्वतीति श्रीगुरुमुखाल्ल्घ नामा चकारण एतदद्वेतसिद्धान्तचान्द्रिका्यशा स्रकरणाच्चन्द्रिका चार्य संज्ञकेन मया श्रृतियुक्त्यन्भवरैस्सह समीरितैषा चन्द्रिका इह भुवि विजयतामित्यर्थः ॥५३॥

अमृतरसझरीनामकव्याख्यानोपेतायां अद्वैतसिद्धान्त- गुरुचन्द्रिकायां दशमं लक्ष्यैक्यनिरूपणं संपूर्णम्।

हरि: ओम्।

तत्सत्

। ग्रन्थ: समास: ॥

चेन्नपर्यो 'ओरियण्टल्' मुद्राक्षरशालायाम् मुद्रितम्।

Page 379

हे सूरिण: भवद्भिः कर्त्तव्यं विजाप्यते। अद्वैतसिद्धान्तगुरु- चन्द्रिकायां यस्मिन् यस्मिन् पा्श्चे यस्यां यस्यां पंक्तौ यद्यत् वर्ण विकलाङ्गं भवति पुस्तके तत्तत्स्थलवेदनार्थ शुद्धाशुद्धपत्रिकासु तृतीय- ग्रहे तत्पूर्वाक्षरैस्सह दर्शितं। अतः पुस्तकगते एकैकस्मिन् विकलाङ्गवर्ण- देशे वस्त्रपूतस्त्निग्धं च द्रुमामयजलं वेणुशकलमूलदेशेन संलिप्यं अन- न्तरं तत्समीकरणार्थे तत्र तत्र चतुर्थग्रहपंक्तौ दर्शितं पूर्णाङ्गकं तत्तद्वर्ण- मात्रं निधाय मृदुफलकादौ तीक्ष्णेन सूक्ष्मशस्त्रेण संछिन्द्य प्राक् दरुमामय- जलेन लेपितपुस्तकप्रदेशे वेणुशकलाग्रे निवद्धमूचिकाग्रेण गृहीत्वा योज- येत्। किञ्च यद्यद्वर्ण शिरि बिन्दुरहितं भवति तत्र तत्र लेखिन्या गृहीतकज्जळेन वा समीकुर्यात्। यत्र यत्र गळितवर्णदर्शनार्थ तृतीय- ग्रहे या पडि्क्तर्लिखिता तत्पङ्क्तौ चतुर्थग्रहपङ्क्ति योजयेत् तथा कृतं चेत् यावज्जीवं पठनाय सौकर्य भवेत्।

Page 380

। हरिः ओं ।

शुद्धाशुद्धपत्रिका ॥ मूलपुस्तकस्य

पार्श्वे पड्तौ अशुद्वं शुद्धं

१ १८ कोण कोणे

१४ २२ सर्वेषा सव

१७ १६ तृतीयेनो तुतीयेना

२० २३ सहो सहा

२४ १२ सत्तो सत्ता

२४ १२ व्याददि ब्यादि

२८ ४ ५५ ५५॥

२८ १० इात इति

२८ ११ तादात्म्यारद्वा तादात्म्याद्धी

२८ २७ वेशयितुं प्रवेशयितुं

२९ मत्रयं मैत्र्यं

३२ १८ श्रेवे श्रो

३३ १ षट्पञजाशादि त्रिषष्टितमादि

३३ बोधानय बोवनाय

३५ ६ नान्यस्म नान्यस्मै

३५ २२ आदयग आदमु

३७ १८ ते: श्रुते:

४७ २० स्यात्त सात

५९ २७ स्वरूपारकत्वेन स्वरूपावारकत्वेन

११ १३ प्रागभावसज्ञः प्राक्ताभावः

Page 381

(३)

पाश्र पड़तों अशुद्ध शद्धं

५२ ४ प्रागभाव: प्राक्ताभाव:

१४ प्रागभावः प्राक्ताभाव: 4' ५५ प्रागभावसंज्ञः प्राक्ताभाव:

५८ २२ गिरीयज गिरायञ्च

१९ २७ चिभिन्नं चिद्धिन्नं

६० २८ भष्यण भाष्यण

६५ ११ आत्मान आत्मार्नि

७४ सप्तसप्राति द्विनवतत

७५ चेपिच चेतिच

२ अन्यत्र अन्यत्न'

२ शरीरं शरीरं

२५ वगम्यतं रवगम्यतां

७८ जगदावरणाश्रयत्व जगदावरणाश्रयत्वे

७८ १५ तमश्राकान्तरुदाहताननि भिःश्राकैरुदाहातनि

७९ ५ पञ्चाश त्रिपञचाश

७९ ६ एकोन सप्तोत्तर अन्नकोनचत्वारिंशो अत्रचतुरशीत्यु

७९ २.० इत्यादिभि: इत्यादिना

७९ २० प्रागुदाहनै: प्रागुदाहृतन

७९ २१ व्यवहारि व्यावहारि

८४ १३ द्वैतापात्तरित्या द्वैतापत्तिरित्व

२१ शाब्दावाच्य शब्दवाच्यं

९० १९ सौन्पिकानं स्वान्पिकानां

२६ तविहाय तंविहाय

९५ ६ प्रागभावात्मक प्रागभावात्मका

९६ ८ कारणड कारणं

मत गत صـ

Page 382

(४)

पाश्े पडतो अशुद्धं शुद्धं ९७ १५ वस्तुसत्वतः वस्तुगत्वतः ९७ १८ प्रागभास्व प्रागभावस् ९९ द्रतस्स द्वतस्त्र ९९ २४ ग्रकारेप्प प्रकारण १०४ २९ अधाह अघाहि १०६ १७ वचन वचन १०६ २९ श्वताश्वरवाक्यं श्वताश्नरवाक्यं १०८ १९ अनन्द आनन्द १११ १३ सत्तक सत्तक्य १११ १५ सत्तक सत्तक्य ११३ ९ निरुपये निरूपणे ११७ २१ नाशाऽपि नाशंपि ११८ १० विध्कृतं नाशक ११९ १९ विभ्नकृत् नाशक १२३ ३ इदा । इदानीं १२९ २३ अद्यः आद: १३२ २३ भामात् भानात् १३४ १२ भ्रान्त: श्रान्त: १३६ २१ देवत्म देवात्म १३९ ३ दास्य १३९ दरस्य v स्वस्य १४२ खस्य २२ तदवच्छिन्र तदनवाच्छम् १४२ २३ जीवतवं जीवत्वे १४२ २३ कतृत्व कर्तृत्व १४७ २५ परमत परमतं १४८ २५ नमो १५२ नभो आत्मनं आत्मानं

Page 383

(५)

पार्श्े पङ्को अशुद्ध शुद्धं

१५४ १५ दृष्टिवाद इति दाषवाद: 948 ७ उक्ता उक्ता १५९ १९ स्थविरं स्थावरं १६9 १७ यत्कञ्चत् यन्किञ्चित् १६६ २१ क्षयात क्षयात १६७ एता एतां १७० तद्वादाभिमतस्य तद्वादाभिमत्ता १७१ १९ व्यवस्थावांदे च्यवस्थाचाद १७४ १५ चिषयो शवषये १७६ १२ द्रव्यापूर्वे द्रव्यापवे १.८ २५ गह् गुझ् १७८ २९ काठकादे काठकादि १७९ २० वर्तते वर्त्तन १८० ४ सुख एतत्सुखं १८१ १३ उदाहतया उदाहताया: १८५ मायापरिणामित्वे मायापरिणामत्वे १८५ २५ सति ममिति १८५ २६ यर्थ: त्यथ: १८६ उज्ञान ज्ञान १८७ देश्यं द्ेश्यं १९० नार्न्योस्ति नान्योऽतोस्ति १९२ २८ प्रचुथ्य प्रबध्व १९४ १८ माणाः माणा १९६ १७ स चिषयः सर्पवषय: 1९९ १२ कमलासना क्मलासन २०४ ४ कृतत्वेऽषि कृत्देपि

Page 384

(६)

पार्श्वे पङ्कौ अशुद्धं शुद्ध २०५ १९ विचिन्न विचित्रं २०६ १४ शन्यत्वे शून्यत्व १०८ १५ सापश्न्व सापेक्षतवे २०९ दर्शन दशनं ४ संपत्यनुपपत्तिपरं २११ सौम्य सोम्स २११ ७ प्राज्ञोन प्राशञन ६७ संप्रतीक स्थ सप्रतीकस्य २१३ ३प्र० तथ २१४ पक्षिणे पक्षिणो २१५ अभिर्वाच्या अनिर्वाच्या ११५ श्रेयोद्वार श्रेबोद्धारं गौण्य गौण्या २२० १५ भ्रागणं भ्रामणं १२० १६ प्रवृत्तिवै प्रवृत्तिवे ३२१ परात्मतः परात्मनः १२६ पाडीयं पादीगां १२७ व्यवहारिक व्यावहारिक V

१३ उपपादित उपपादितं २३२ २१ तदुपादानविद्या तदुपादानाविद्या २५ मायामत्रत्व मायामात्नत्व १३४ 93 कथ कथं २३५ ३१ मित्वादि मित्यादि २३६ १० दृष्ट हष्र २३७ ८ पुत्रादि पुत्रादे २३८ १४ वत् च २४१ १२ नान्ये नान्य

Page 385

(७)

पार्श्वे पङ्को अशद्धं शुद्धं

१४२ २४ तया तथा

२४५ २७ लाङ्गल लाङलं

२४६ २५ प्रमा प्रामा

२४९ विधेयते विधीयते

२४९ १० ज्ञान ज्ञानं

२४९ २८ तल्येति तुल्येति १५० ३ प्रामाण्ये आ्रमाण्यं

२५३ १९ नस्स्या नस्या

२५५ ७ ज्ञानाभावतः ज्ञानाभाववतः

२६२ २६ बावगमात् त्वावगमात्

२६३ ज्ञाननति ज्ञानति

२६३ ६ रित्येवकारेण :कइत्यत

२६३ १० निदशर्नानभिज्ञा निदर्शनानभिज्ञ

२६३ २५ प्रकाशमान प्रकाशमानः

२८३ ७ स्त स्य स्स्वस्य

२८५ ७ वाक्यंतद्गतं वाक्यतद्गत

२८५ १६ श्रृत्यत्य श्रृतय

२८५ २२ विदथ्यां विद्च्या

२८६ १० द्रष्टाश्राता

२८६ २१ प्रश्ने: प्रश्ने

२८७ ३ आधर्वणिकारकाः आश्रवेणिकाः

२८७ ७ तदिय तदीय

२८७ १६ वत्स्व वत्व

२८७ २९ करणे करणेन

२८८ ८ त्मान त्मानं

२८८ शिवंस्सं शिवंसं

२८९ २ लेकानां लोकानां

Page 386

(८)

पार्श्वे पङ्का अशुद्धं शुद्धं

२९१ २५ कि किं

२९३ २७. आत्मोत आत्मेति

२९९ १५ नापेक्षकं नापेक्षिक

३०२ १४ साम्य सोम्य

३१० २ वज्ञान ज्ञान

३१० अधमधिमाध अवमाधमाधि

३११ २० विज्ञानत: विजानतः

३१३ २२ क रक्त

३१४ २२ महाधराद महीधरादि

३१७ म्वरूपे स्वरूपो

३२२ १५ साक सारक

३२२ १८ वाक्यं वाक्य

३२३ १६ व्यावर्सकमिवाह व्यावत्तकमिवाहं

३२६ ३ दृश्यो दृश्ययो

३२७ २९ बिम्चे बिम्बो

३२८ २५ इ येवं इत्येव

३३० २० मय मयं

३३३ १४ जागरित जागरितं

३३७ ११ एते: इते:

३३७ २४ धम धर्म

३४१ १३ वेष्टितत्वं वेष्टितत्व

३४१ २१ अभिप्रेतः अभिप्रेतं

३४४ ७ प्रवृत्तिस्स्वरूपतः प्रवृत्तिस्वरूपतः

३४७ २८ मत यद

३५१ २३ तुरीयं अनिदं

३५४ ८ कथ कथं

३५५ १४ अज्ञानादे अज्ञानादि

Page 387

(९)

पार्श्वे पङ्कौ अशुद्धं शुद्ध्ं

३५६ १५ हरय: हरया:

३५६ २४ दीयता दीयतां

३५६ २८ योदेशकृतोभेद इति तयोदेशकृतभेद

३५९ शशेत्रं इश्रोत्रं

३६० २१ साक्षा साक्षी

३६२ १२ त्व त्वं

३६३ १० रता स्ता

३६६ १८ भुट्े भुङ्गे

३६७ १७ विकरत्वे विकारत्वे