1. Advaita Tattva Suddhi Advaita Amoda Pariksha Ananta Krishna Sastri N.S
Page 1
Barcode : 5990010098729 Title - ADDOATTATTOSUDHI Author - MAHAMAHOPADAHAYA SASTRARATNAKAR Language - sanskrit Pages - 387 Publication Year - 1958 Barcode EAN.UCC-13
5 990010 098729
Page 2
अद्वैततत्त्वशुद्धि:
अद्वैतामोदादिपरीक्षापरपर्याया
महामहोपाध्याय-शास्त्ररताकर-शतभूषणी श्रीमदनन्तकृष्णशास्त्रिकृतिः
महामहोपाध्याय-शास्त्ररत्नाकर-शतभूषणी श्रीमदनन्तकृष्ण- शास्त्रिणा संपादिता
कैरविणीक्षेत्रस्थभारती विजयमुद्रणालयद्वारा मुद्रापिता प्रकाशिता च विजयतेतराम्
1958
Page 3
ADVAITA THATVASUDDHI
BY Mahamahopadyaya Sastraratnakara Sathabhooshani N. S. ANANTHAKRISHNA SASTRI Nurani (Sathabhooshant) Village Palghat.
Edited and Published by the Author
Copres avarlable from the Author, C/o BHARATI VIJAYAM PRESS, 5, Venkatachala Chetty Street, Triplicane, Madras-5.
1958 [Price R$. 15/
Page 4
First Edition June 1958
200 Copres for Complimentary 300 „, for Sale, Price Rs 15/- each
Printed at the Bharati Vijayam Press, Țriplicane, Madras.
Page 5
भूमिका मातामहमहाशैलं महस्तदपितामहम्। कारणं जगतां वन्दे कण्ठादुपरि वारणम्॥ केवलाद्वैतविशिष्टाद्वैतविचारपरम्परा कञ्चन कालमारभ्य सौहा- रदेन क्रमेण वर्धते, येन संप्रदायद्वयतत्वविज्ञाने सर्वेषामपि महानेवाव- मरः। तत्र मतद्वयविप्रतिपन्ना विषयास्तत्तत्संग्रदायानुसारेण प्रथममनु- सन्धानमर्हन्ति। तत्र प्राधान्येन विचारमर्हन्तो विषया मतद्वयानु- सारेणादौ संगृह्यन्ते। अनन्तरं चास्य निबन्धस्य परमं लक्ष्यम्, तत्प्रतिपादितानि तत्वानि च संग्रहेण विशदीकरिष्यन्ते। ते यथा- ॥ भेदाभेद्श्रुतिप्रामाण्यम् ।
सकभाव प्राप्यप्रापकभावनिवन्धनभेदस्य शास्त्रकगम्यत्वम्। अभेदोऽपि "सोऽयं देवदत्त " इत्यादौ लोकसिद्ध, इति कथं तस्य शान्त्रवेद्यत्वम्? 1. केवलाद्वतम्-भेदवाक्यानि, अमेदवाक्यानि च वेदे श्रयन्ते; तथाऽपि भेदवाक्यान्यभेदवाक्यापेक्षितनिषेध्यसमर्पकतयोपयुज्यन्ते, इत्यभेद- वाक्याविरोधेन नेयानि। वाक्यस्याभेदपरत्वं तु लोकेऽपि 'सोडयं देवदत्तः' इत्यत्र वर्तत इति तत्र प्रत्यक्षानुग्रहोऽपि। भेदस्य लोकसिद्धस्य तु शास्त्रबाधित- त्वादू न शास्त्रतात्पर्यविषयत्वम्।। । जीव भेदाभेदविचारः॥ 2. विशिष्टाद्वैतम्-अचित्संसृष्टजीवबहुत्वश्रुतिर्लोकसिद्धा। अत्रतु परिशुद्ध- प्रत्यगात्मबहुत्वं शास्त्रण प्रतिपादते। "नित्यानां बहूनामि"ति नित्यत्वबहुत्वयो. सामा- नाधिकरण्यं कथमद्वैतसिद्धान्त उपपद्यते 2 तत्र "नित्यानां चेतनानामि"ति सामानाधिकरण्येनैवान्वय सति संभवे युक्त्त, इति नित्यस्यापि नित्य इति विधया परापरनित्यत्वबोधने, जीवानामौपाधिकनित्यत्वबोधने
Page 6
2
वा न तात्पर्यम्। तथाच सुदर्शनभट्टपादा :- 'नित्यत्वसामानाधिकरण्येन बहुत्वेऽभिहिते परिशुद्धात्मबहुत्वमुक्तं भवती"ति। 2. केवलाद्वतम् -- "नित्यो नित्यानामि "ति श्रुतिरपि लोकसिद्ध- चेतनभेदानुवादपरा, न तु मुग्यजीवभेदपरा, तस्यैव ब्रह्माभिन्नस्य तथा शास्त्रवेद्यस्यकत्वसंभवात्, परमात्ममात्रैकत्वपरत्वायोगाच्च। 'नित्यानामिति' नित्यत्वाम्नानमुपाधितो बहूनामपि स्वरूपतो नित्यत्वाभिप्रायेण, न तु स्वरूपतो बहुत्वाभिप्रायेणापि।। अत एव नित्यानां नित्यः, चेतनानां चेतन इति जीवानां बहूनां नित्यत्वं चेतनत्वं चैकनित्यचेतनम्वरूपानुवेधेनैव, न स्वरूपत, नित्यानां नित्य., चेतनानां चेतन इत्यन्वयम्यैवोचितत्वात्। अन्यथा नित्यानां चेतनानां नित्य इति सामानाधिकरण्येन व्याग्याने चेतनपदं वितथम्। अतः सामानाधि- करण्येनान्वयोऽत्र बाधितः । "तत्त्वमसी"त्यत्र विना लक्षणां विशेष्यमात्रपर- त्वान्न लक्षणा; तथाप्यखण्डार्थपरत्वे न स्वारस्यमिति रत्नसारिणी। संप्रति किं स्वारस्यमधिकं विशिष्टाद्वैतमत इत्यालोचयामः ॥
॥ तच्वममिवाक्यार्थः ॥ 3. विशिष्टाद्वैतम्-"तत्त्वमसी"ति वाक्ये प्रतिपदं स्वरूपचैतन्यमात्र- परत्वे पदान्तरवैयर्थ्यम्, सर्वेषा पदाना पर्यायत्वापत्ति., स्वरूपचैतन्यमात्रस्य प्रतिपादक्य रूपत्वेऽप्ययमेव दोष, तस्य ततो मेदे तु सखण्डार्थता ॥ 3. केवलाद्वैतम्-"तत्त्वमसी"ति वाक्ये सर्वेषां पदानां विशेष- णांशप्रहाणेन विशष्यमात्रपरत्वेऽपि न पदान्तरवैयर्थ्यम्, जीवत्वेश्वरत्वोपलक्षित- स्वरूपरूपेण स्वरूपचैतन्यमात्रबोधनार्थ पदान्तरस्यापेक्षा। अतो नैकेन पदेन गतार्थता, न वा पदान्तरवैयर्थ्यम्, इति समानविभक्तिकपदावगतैक्यपरत्वेन तत्त्वमस्यादिमहावाक्याखण्डार्थता न विह्न्यते। प्रथमप्रतीतविशेषणांशहानेनैव विशेष्यक्यबोधान्न प्रवृत्तिनिमित्तभेदाभावः, न वा पर्यायत्वम्। वाक्यार्थ ऐक्यमपि स्वरूपमेवेति नानुपपत्तिलेशोऽपि॥
Page 7
3
।। अथ मिथ्यात्वानुमानहेतुद्ृयत्वविचार:॥ 4 विशिष्टाद्वैतम्-मिथ्यात्वानुमाने दृश्यत्वस्य हेतुत्वे कालात्ययापदेश- सोपाधिकत्व-व्याघातास्त्रीणि दूषणानि। तन्न जगत सत्यस्य प्रसिद्धत्वात्तद्वाधे कालात्य- यापदेशो वह्नयनौष्ण्यानुमानवत्। अभङ्गुरत्वेन सोपाधिकम्, ब्रह्मसाधारण्यात्तत्रानैका- न्तिकम् ॥
- केवलाद्वैतम् - स्वात्यन्ताभावाधिकरणे प्रतीयमानत्वम्, स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम्। तत्र हेतुर्द्दश्यत्वम्। तच्च दग्विषयत्वं दक्तादात्म्यरूपं ब्रह्मणि न दृग्रपे वर्तते, इति न तस्य तत्रानेकान्तः। प्रत्यक्षं तु ज्ञानमात्रं न प्रमारूपम् ; अ्रमज्ञानस्यापि मिथ्यात्वेनानिश्चीयमानार्थविषयकत्वेन यावद्वाधं प्रामाण्याभ्युपगमेऽपि सति बाधेा अ्रमत्वात् तत्र न नैयायिकानामन्यथाख्यातिः। पश्चीकरणप्रक्रियया यथार्थर्यातिं तु जयतीर्थीयन्यायसुधा "मातृमतङ्गमदिरादौ सुसददशदुग्धादि- भ्रमेण सुरापानादिकमपि दोषाय न स्यादिति प्रत्याचष्टे। अभङ्गुरत्वं तु ज्ञान- निवर्त्यत्वेन सोपादानस्य जगतः सन्दिग्धम्। प्रपश्च, सत्यः ; भङ्गरत्वादित्युपा- ध्यभावेन साध्याभावसाघनं तु व्याहतम् ॥
॥ मिथ्यात्वमिथ्यात्वेऽपि न प्रपश्चसत्यत्वम्। 5 विशिष्टाद्वैतम्-मिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापत्ति । तदुकं चण्ड- मारुते-"मिथ्यात्वस्य मिथ्यात्वेऽपि तेन रूपेण मिथ्यात्वस्यासाध्यत्वादर्थान्तरम्" इति। न ह्यारोपितं मिथ्यात्वं सत्यत्वेन विरुध्यते। ततश्वाद्वतहानि। उकं च सुदर्शनभट्टपादैः- "साध्यधर्मस्य पारमार््यापारमार्थ्यविकल्पे पारमार्थ्य चेदद्वैतहानि, अपारमार्ध्ये प्रपश्व- सत्यता, बाध्यबाधे बाध्यस्वरूपाबाध इति न्यायात्-इति॥
- केवलाद्वैतम्-मिथ्यात्वस्य मिथ्यात्वेन न मिथ्यात्वम्, किन्तु दृश्यत्वेन। बाध्यबाधे बाध्यस्वरूपाबाध इति न्यायो बाध्यतावच्छेदकमेदे, न तु तदैक्ये; सवम्ने गजतदभावयोरुमयनिषेध एकतरसत्यत्वाभावात्। "वैधर्म्याच्च न स्वम्रादिवत्" इति स्वमजागरवैधर्म्योक्तिरद्वैतमत एवोपपयते।
Page 8
4
॥ योगाचाराद्वैतयोर्वैषम्यम् ।। 6. विशिष्टाद्वैतम्-जगन्मिध्यान्ववाढे योगाचारसाम्यम्, उभयत्रापि चिन्मात्रसत्यता+्युपगमात्, जगदपलापमाम्यात्, अस्यव मतस्योपनिषदारूढत्वं समर्थ- यितुमद्वैतिना प्रयास । एवमेव शून्यवादादिभ्योऽपि ना्ह्वनवादस विशेष ॥ 6. केवलाद्वैतम्-योगाचारमते क्षणिकविज्ञानमान्मा, अद्वैतमते नित्यमधिष्ठानं चिन्मात्रं सः। एवं प्रथमे-विपयन्य ज्ञानाकारतामात्रं कल्पितम्। तत्तु तदनादिवासनामात्रनिबन्धनम्। अद्गेते तु विज्ञानविवर्तस्या- घिष्ठानानुवेधेन संसारदशायां सत्त्वेन प्रतीत्युपपनिः । अन्यत्र सावृतमत्यत्वमित्यु क्तावपि तद्यतिरेकेण संसारदशायां तत्प्रतीनिनिर्वाहायोग, निर्धिष्ठानवादश। तत्र नाद्वैतमत इवाज्ञानाश्रयविषयनित्याधिष्ठानस्वीकार,। अत एव वेदप्रामा- प्यादिकं सर्वमपि। न चैवं योगाचारमते। अन. श्रतिप्रामाण्येन मुक्ति- दशायां जगदपलापडपि श्रुतिद्रोहो योगाचारमते, नार्दनवादे। "वैध्म्याच्च न स्वम्ादिवदि"ति सूत्रमत एवोपपद्यते। विशिष्टा्वैनमते तृक्तमूत्रविरोधो दुष्परिहरः। न च योगाचारा अद्वैनसिद्धान्तमेवाद्वैनिवदुपनिपठारूढं मन्यन्ते। शून्यवादस्तु सदसदादिचतुष्कोटिविनिमुक्तत्वान शन्यनत्त्वम्य मनूपत्रम वादे न प्रसरत्यपि॥ ।। अनुभृतिम्वग्रकाशता । 7 विशिष्टाद्वैतम्-अनुभूति., स्वप्रकाशा, अनुमृतित्वान्, व्यति रेके घटादि- वदित्यनुभूतिस्वप्रकाशत्वानुमानमसन्, सिद्धमाधन-कालात्यापदेश-सोपाधिकत्वरूपदषण- त्रयग्रस्तत्वात्। अत्र स्वाश्रयं प्रति स्वप्रकाशत्वसाधने मिद्माधनम, अन्यं प्रति स्वप्रकाशत्वसाधने बाध, पुरुषान्तरज्ञानस्य पुरुपान्तरज्ञानेन प्रकाशात। अन्यया लौकिक वैदिकसर्वव्यवहारविलोपापत्ति। अज्ञानाविरोधित्वं चोपाघिः। घटादौ तस्यवाननुभूति त्वप्रयोजकत्वात्। यत्र यत्राननुभूतित्वम्, तत्र तत्राज्ञानाविरोन्म, पक्षे च साधनाव्या- पकत्वमिति। 7. केवलाद्वैतम्-स्वप्रकाशं चिद्रपं न वेद्यम्; अन्यथा घटादिवद- ननुभूतित्वप्रसङ्ग, इति न जन्यज्ञानं वृत्तिरूप पगभिमतं धर्ममूतं ज्ञान
Page 9
5
वाऽभिप्रेत्य स्वाश्रयं प्रति स्वप्रकाशमानत्वं वा, अन्यं प्रति वेति विकल्पो नावसरति; स्वस्मै प्रकाशमानत्वस्यैव स्वपकाशमानत्वस्य स्वरूपज्ञानसंबन्धि- नोऽत्र साधनात्। तस्य धर्मभूतज्ञानविषयत्वेनास्वप्रकाशत्वे त्वद्वैतिमतेऽपि चिद्धपस्यापि घटादिवत् फलव्याप्यत्वाभावेऽपि वृत्तिव्याप्यत्वस्य स्वीकारात् स्वागतम्। न चाज्ञानाविरोधित्वमचिद्रपत्वे तन्त्रम् ; तत्राज्ञानकार्यत्वस्यैवोज्ञान- विरोधित्वप्रयोजकत्वेनाचिदूपत्वस्य तदप्रयोजकत्वाच्च। चिद्धपत्वं हि नाज्ञान- विरोधि, इत्यज्ञानाविरोधित्वस्य न साधनाव्यापकत्वम्। अतोऽनुभूतिस्वप्रकाश- त्वानुमानं न दुष्टम्। लोकव्यवहारप्रयोजकं ज्ञानं तु धर्मभूतं ज्ञानं वृत्तिरूपम्, तदवच्छिन्नचैतन्यं वा जन्यज्ञानमेव, न नित्यं प्रमाणाजन्यं वा ज्ञानम्, इति नाद्वैतमते लोकव्यवहारविलोपापत्ति ॥ ।। न्नह्मणोऽज्ञानाविरोधित्वम्, अज्ञानेन तिरोधानोपपत्तिश्च ॥ 8 विशिष्टाद्वैतम्-घटो भातीति जडे घटे स्वप्रकाशचिद्रूषं न भातीति तत्राप्रकाश इति ब्रह्मणोSविद्ययाSSवरणे जडचिद्धर्माणा परस्परविरुद्धाना परस्परव्यति- कर। तेन चाज्ञानेन ब्रह्मण आवरणे स्वरूपनाश आपद्यते। प्रकाशैकस्वभावस्य प्रकाश- तिरोधानं हि स्वरूपनाश एव ब्रह्मण। स्वरूपातिरिक्तज्ञानविषयत्वा+युपगमे जडात्वापत्तिर्वा। अनेन-ब्रह्म, जडम्, वृत्तिव्याष्यत्वात, घटवत्-इति फलति। 8. केवलाद्वैतम्-ब्रह्मणो नित्यत्वनिरविशेषत्वखप्रकाशत्वानि भाव- रूपाज्ञानेन तिरोधीयन्ते। तत्र घटादीनां प्रकाशो वृत्तिप्रतिफलितस्वप्रकाश- चित्संबन्धेन, येन फलव्याप्यत्वेन घटो भातीति व्यपदेशः, नतु तस्य प्रकाशस्व- रूपतया। चिद्रूपं तु स्वरूपतोऽज्ञानाविरोधित्वादज्ञानेना ्रियते। स्वरूपतिरोधानं नामाज्ञं प्रति मायया तिरोधानेनाप्रकाशः, न तु स्वयमप्रकाशमानतया। यथा परमते-आत्मा स्वस्मै स्वयं प्रकाशते, अन्यं प्रति विना धर्मभूतज्ञानं न प्रकाशते। अतो न चिज्जडधर्माणां विरुद्धानां परस्परव्यतिकरः ॥ ॥ अज्ञाननिवर्तकं प्रमाणजन्यं ज्ञानम्, न स्वरूपज्ञानम् ॥ 9 विशिष्टाद्वैतम्-त्रह्मस्वरूप स्वरूपत स्वप्रकाशत्वादध्यासविरोधि। न हि शुक्तित्वेन शुक्तिस्फरणे तत्र रजताध्यास. समवति। अज्ञाननिवर्तनस्वभावस्य स्फुरणस्या-
Page 10
6
ज्ञाननिवर्तकत्वेऽनिर्मोक्षप्रसङ्गः। साधारणकारग्रहो भ्रमोत्पादक, असाधारणाकारग्रहस्तु तद्विरोधीति खल शुक्तिरजतादिस्थले दृष्टम्। न चैवं निर्विशेषे ब्रह्मणि त्रमविरोध्यविरो- ध्याकारमेदेनाज्ञानत न्निवृत्त्योरुपपत्ति• सभवति॥ 9 केवलाद्वैतम्-शुक्तित्रमोपादानमज्ञानं मूलाज्ञानावस्थाविशेष स्तूलाज्ञानम्, न तन्निर्विशेषविषयम्; शुक्त्यवच्छिन्नचैतन्यविषयत्वात्तस्य। अत एव व्यवहारदशायामेव तद्रजतस्य तदुपादानस्याज्ञानस्य च बाघः, तद्विषयस्तु शुक्तित्वम्, न तु शुक्तित्व-तद्विशिष्टव्यक्त्युभयम् । अतः शुक्ति- रूप्यस्थले शुक्तिस्फुरणं भ्रमहेतुधर्मिमात्रम्फुरणम्। अम्फुरणं तु शुक्तित्वस्य धर्मस्य, निवतकं त्वस्फूर्णशुक्तित्वम्फुरणम, इति ज्ञाताज्ञातसाधार्णासाधारणधर्मभेद- मादायैव भ्रमतन्निवृत्त्योरुपपत्ति। अयमेव न्यायो ब्रह्माज्ञानतज्ज्ञानयोरपि भ्रमतद्विरोधिनोः। इयान् विशेप :- ब्रह्मावरकमज्ञानं मूलाज्ञानम्, तत्तु चिन्मात्राश्रयम्, चित्वरूपस्याविद्याकल्पितभेदम्यावरकम्। तत्रानावृतांशस्य शुक्ताविव प्रकाशः । तत्रावृतांश आनन्दस्वरूपम्, अनावृतांशौ सच्चिदंशौ, इत्यावृतानावृतकल्पितांशद्यवति ब्रह्मणि शुक्तौ रजतस्येवानावृतांशस्यैव तदा- श्रिताविद्यापरिणामात्मना भानाद् भ्रमाधिष्ठानत्वम्। अनावृतांशस्यापि भाने त्वखण्डात्मना साक्षात्कारादज्ञाननिवृत्तिरिति परिस्थितिः । अतो नाविद्यया ब्रह्मणोऽनावरणम्, इति रजतभ्रमस्येव तस्य प्रमाणजन्यज्ञानेन निवृत्तिरिति सर्वमवदातम् ॥
- विशिष्टाद्वैतम्-अस्मत्प्रत्ययगोचरे विषयिणि चिन्मात्रेऽन्तःकरणाद्यध्यास इति परेषां भाष्यम्। तत्र स्वरूपचैनन्यमात्रस्य स्वप्रकाशस्याधिष्टानत्वे तन्मतेऽस्मत्प्यय- गोचरस्य स्वप्रकाशचिन्मात्राति रेकात् स्वरूपचतन्यस्य ज्ञानान्तरविषयत्वं विनाऽस्मप्रत्यय- गोचरत्वस्य बाघितत्वाच्च स्वप्रकाशस्यापि वेद्यत्वमवश्यमेव स्वीकर्तव्यम्। इंद चानाद- ध्यासे कथमुपपद्यते? तत्राहमर्थ एवाध्यासाधिष्ठानं चेत, ब्रह्माधिष्ठानतावादस्य दत्तोऽ- ज्जलि:। अन्तःकरणाद्यध्यासस्य जीवोऽधिष्ठानमिति विवक्षायामहमर्थात्मताऽसिद्धिः। सर्वथा तु निर्विशेष चैतर्न्यं न सर्वविभ्रमाधिष्ठानम्, इत्यहमर्थ स्वरूपतो नात्मा, किन्त्वात्मानात्मशबलितं स्वरूपमेवेत्यद्वैतसिद्वान्तो न क्षोदक्षम। अहमर्थ आत्मनि
Page 11
7
देहादिभ्रमव्यवस्थापनमेवास्यापि भाष्यस्य लक्ष्यं चेत्, स्वागतम्। तन्र पूर्वपक्ष: शरीरमेवा- त्मेति वादमादाय, सिद्धान्तस्तु तत्निरासपरतयेति वक्तव्यम्। न चायमात्मेति पूर्वमीमासा- ध्ययनानन्तरमपि संभाव्यते, इति व्यर्थमध्यासभाष्यं परेषाम्। 10. केवलाद्वैतम्-यत्तु "युष्मदस्मत्प्रत्ययगोचरयोरि"त्यव्यासाक्षेप- भाष्ये-"अस्मत्प्रत्ययगोचरे विषयिणि "-इति भाषितम्, तदिदमस्म- त्प्रत्ययगोचरत्वं चिन्मात्रस्याधिष्ठानतयाऽहंकारशबलिताहमर्थघटकत्वमभिप्रेत्य। अहमाद्यध्यासे ह्यावृतानावृचैतन्यप्रकाशमात्रं कारणम्, न तु वृत्तिविषयतया शुक्तिरूप्यादिस्थल इवाधिष्ठानस्फुरणविषयतयेति भगवत्पादाशयः। व्यक्ती- क्रियते चेदं परस्ताद्भाष्य एव। अनाद्यध्यासत्वादहमध्यासस्य न साद्यध्यास- स्थलन्यायावसरः। अत एव विषयिणीति विशेष्यम्। तत्र विषयत्वं विषयित्वं च यद्येकस्य बाधितं स्यात्, तर्हि कथं तदुक्तिरिति शक्का तु-सिद्धमनाद्य- हमध्यासं लक्षणेनोपपादयितुं प्रवृत्तत्वादस्य भाष्यस्याहमर्थघटकचैतन्याश- मात्रस्या नन्दात्मनाSSवृतस्याधिष्ठानत्वोपपादनपरमेवेदं भाष्यमित्यभिप्रेत्य परि- हरणीया। तेनात्मानात्मशबलितं रूपमेवाहमर्थ इति सिद्धान्तः स्थापितो भवति। तथा निर्विशेषव्रह्माघिष्ठानतावादोऽपि। तेन चेदं भाष्यं सर्वस्या- त्मव्यतिरिक्तस्य चिद्रपे ब्रह्मण्यध्यासनिरूपणार्थमेव। तत्पदलक्ष्यार्थस्य ब्रह्मण एवाधिष्ठानत्वे वक्तव्येऽस्मत्प्रत्ययगोचरत्वेनािष्ठानोल्लेखस्तु जीवब्रह्माभेदमौ- पनिषद व्यक्तीकर्तुम्। तत्र कर्मकाण्डाधिकारिण आत्मनो न मुख्यमात्मत्वम्, किन्तु मिथ्यात्मत्वमिति निरूपणार्थमध्यासभाष्यमिति तु वस्तुस्थिति: ॥
॥ सगुणनिर्गुणवाक्यविरोधचर्चा, अपच्छेदन्यायचर्चा च।। 11 विशिष्टाद्वैतम्-गुणसामान्यस्य कुत्रचन "निर्गुणं" 'निरज्जनमि'त्यादौ निषेध:, क्वचिच्च सत्यकामत्वसत्यसकल्पत्वादिगुणविशेषविधिश्वाम्नायते। त चोत्सर्ग पवादन्यायेन गुणसामान्यनिषेधस्य गुणविशषेतरविषयत्वं वक्तव्यम्। अन्यथा स्वेनैव विहितानां स्वेनैव निषेधे श्रुतेरुन्मत्तप्रलापत्वापत्ति., अनियतपौर्वापर्यानुष्ठानविशेषविषय- कापच्छेदन्यायस्तु नियतक्रमविषयत्रध्यन्तवाक्यार्थनिर्णये नोपयुज्यते। गुणविधयो यदयुपासनार्था न तत्परा, तहि स्वरूपप्रमाणान्यपि कथं तत्परा2 अत एव-अपच्छेदन्याय
Page 12
यविषय प्रयोगावधिकविरोध, सगुणनिर्गुणवाक्यविरोधस्तु स्वरूषप्रयुक्त। अतो विरो- धाभ्युपगमेऽप्यनियत विरोधपौर्वार्यविषयोऽपच्छेदन्याय-इति श्रतप्रकाशिका। अन्रा- पच्छेदन्यायाविषय प्रयोगावधिकविरोध इत्यस्यायमाशय-नायमुपक्रमाधिकरणस्या- पवाद। तत्र हि नियतपौवपिर्यवाक्यद्वयं विषय, अन्र त्वनियतपौर्वापर्यानुष्टानट्वयविरोवे प्रायश्चित्तशास्त्रव्यवस्थेति। तथा चात्रोत्सगावादन्यायेनव सुणनिरगणवाक्यविरोध परिहरणीय।।
- केवलाद्वैतम्-सामान्यविशेषन्यायो हि-"यदाहवनीये जुहोति," "पदे जुहोती"त्यादौ विध्योरेव, निषेधयोरेव वा, यथा "वार्ताकं न मक्षयेत्" श्वेतवार्ताक न मक्षयेदित्यादौ, न तु विधिनिपंधयोः। न हि "न हिंस्यात् सर्वा भूतानि" "अग्नीषोमीयं पशुमालमेते"त्यत्र सामान्यविशेषन्यायः, क्रत्वर्थहिंसापरत्वादम्नीषोमीयवाक्यस्य. रागप्राप्तहिंसानि षेधपरत्वादहिसावाक्यस्य। अन्यथा रागप्राप्तामीपोमीयहिंसाया इव "श्येने- नाभिचरन् यजेते"त्यादिवाक्यविहितहिंसाया अपि धर्मत्वापत्तिः। 'पञ्च पञ्चनखाः' भक्ष्या इत्यत्रापि पञ्चेतरपञ्चनखवभक्षणपरिसंख्यानेन रागप्राप्तपञ्- पञ्चनखवभक्षणमभ्यनुज्ञायते, न तु दिधीयते, इति नालापि "न हिस्यादि"ति शास्त्रस्यापवादः। अभ्यनुज्ञातं हि कर्तव्यमिति न नियम:, किन्तु कृते तदनुष्ठाने ढोषाभावः। तेन च सगुणवाक्यानां निर्गुणवाक्यानां च विरोधे निर्गुणवाक्यस्य बाधो न सगुणवाक्येन। न हि सामान्यविशेषन्याये विशेषशास्त्रेण सामान्यशास्त्रस्य बाधः, इति परमार्थगत्या निर्गुणस्याप्युपासना- शेषतयाऽभ्यनुज्ञानमेवात्र विवक्ष्यते। सति चैवं वाक्यद्वयमप्यबाधितमविरुद्ध प्रमाणं च भवति। अभ्यनुज्ञाविधित्वाच्च सगुणवाक्यानां तत्रावान्तरतात्पर्याद् न तथैव स्वरूपमिति नियम इति ज्ञाप्यते। अत एव निर्गुणवाक्येन।पेक्षितनिपे- ध्यसमर्पकतया गुणविशेषपराणा प्रामाण्यमपि व्याख्यातम्, अन्यथाSप्रसक्त- प्रतिषेधापत्तिः। प्रसक्तं खल निषिध्यते। तत्र यदि विशेषवाक्यानुसारेण गुणविशेषमात्रस्य पारमार्थिकत्वं मन्यते, तर्हिं सामान्यशास्त्रेण निषेध्या गुणविशेषा: के ? कथ वा ते ब्रह्मणि प्रसजन्ति ? येषां निषेधार्थ निर्गुणवाक्यम्।
Page 13
9
सामान्यविशेषन्यायस्तत्रैव भवति, यत्र सामान्यस्य विशेषातिरिक्तविषयत्वेन सावकाशत्वम्, सगुणनिर्गुणवाक्ययोस्तु सत्यकामत्वादिविहितविशेषगुणाति- रिक्तगुणवत्त्वस्य ब्रह्मण्यप्रसक्तत्वेनैव निर्गुणत्वोपपत्तौ सगुणवाक्यप्रामाण्य एव पर्यवसानाच कुत्रावकाश्चो निर्गुणवाक्यस्य? अतो नात्र सामान्यविशेषशास्त्र- न्यायोऽवतरति, इत्यपच्छेदन्यायेनैव व्यवस्था।
तत्र च गुणवाक्येनोपासनार्थतया प्रसक्तानां गुणानां निषेधादुपासना- शेषतया गुणानां चारिताथ्येऽपि परमार्थतस्तेपां बाधेऽपि सकलबन्धनिवर्तक- सविन्नात्राधिष्ठानज्ञापनान्निर्गुणवाक्यानां मुख्ये प्रामाण्ये सर्वप्रामाण्यनिर्वाहः। अपच्छेदन्यायेन गुणानां बाधेऽपि व्यावहारिकसत्त्वं न बाध्यते, इति घटादिज्ञानानामिव प्रामाण्यमनपोहमू। तदुक्तम्- "देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽडत्मनिश्चयात्।" इति। तत्र पौर्वापर्यमनुष्ठानौपाधिकमेव विवक्षितम्, न तु शास्त्रस्वरूपौपा- धिकमिति तु "पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्" इति त्वपच्छेदन्यायमूले सूत्रे प्रकृतिवदिति दृष्टान्तविरुद्धम्। प्रयोगावधिको विरोधोडपि तन्मूलभूतज्ञास्त्रद्वय- विरोध एव। सर्वमीमांसकव्याख्याविरुद्धं नोपक्रमाधिकरणापवाद इदमघिकरण- मिति ; अन्यथा शाबरं भाष्यं वार्तिकं वा तृणीकृतें स्यात्। व्यक्तं चैतदुपक्रमपरा- क्रमोपसंहारविजयादावपि। न्यायामृतादिकमप्यपच्छेदन्यायमुक्तरूपमेवा- ड्रीकृत्य सावकाशविषयत्वमपच्छेदन्यायस्य प्रतिपादयति। अद्वैतिनोऽपि व्यावहारिकप्रामाण्येन सगुणवाक्यानां प्रामाण्यमेवाभिप्रयन्ति, न सर्वथाSप्रा- माण्यम्। अतो नापच्छेदन्यायादत्र निस्तारः। । ब्रह्मणो निर्विकारत्वाद्युपपादनम् । 12. निर्गुणवाक्यं सत्त्वादिनिषेधपरम्। "सत्त्वादयो न सन्ति यत्र" इति वचनात्, "न भूय. सत्त्वसस्थानो देहोऽस्य परमात्मन.' इत्यादिनिषेधात् 'अशरीरमि'त्या-
Page 14
10
दिकं संधातात्मकदेहनिषेधपरम्। भेदनिपेध -अव्रह्मात्मकभेदनिषेधपरः। अवि- कारत्वमपि-परमैश्वयविहजगदाकारतारूपाविहित परिणतिव्य तिरिक्तनिषेधपरम्, यजेत, उपासीतेत्या दिया गोपसनादिजन्य प्रीत्यात्म विकारव्यतिरिक्तविकारनिषेधपरं वा, न तु सर्वथा गुणशरीरभेदविकारनिषेधपरं निर्गुणवाक्यम्।। 12. केवलाद्वैतम्-ब्रह्मव्यतिरिक्तस्य सर्वस्याSSविद्यकत्वेन दोपत्वाद् यदि निर्दोष ब्रह्म, तर्हिं निरस्तसमस्तगुणमपि। न हि कल्याणगुणो नाम कश्चिदपि, येनासंख्येयनिरतिशयत्वादिकं तस्य संभाव्यते। यदि संघाता- त्मकस्य शरीरस्य निषेधः, तर्हिं 'यस्य पृथिवी शरीरमि'त्यादीनां का गति? यदि न तस्य मुख्यत्वम्, किं वाऽन्यन्मुख्यं शरीरं ब्रह्मणः ? कुत्र वा श्रुतम् १ स्वतन्त्र- मेदनिषेधे यदि मेदश्रुतीनां तात्पर्यम्, तर्हि तत्रापरतन्त्रभेदबोधकं प्रमाणं किम्2 सामानाधिकरण्यं तु कल्पितं भेदमादायाप्युपपद्यते। "उदरमन्तरं कुरुते" इत्यत्यल्पस्यापि भेदस्य निषेघस्तत्र कथमन्यथोपपद्यते परिणामित्वं यदि ब्रह्मणो न विकारः, तर्हि कथं भास्करमतान्निस्तारः। कि वा प्रयोजनं प्रमाणं च सर्वेषां वाक्यानां सवाभिप्रेतार्थपरतयाऽन्यथानयने? सन्तुप्यतां यथाश्रुतार्थग्रहणेन।। सगुण निर्गुणवाक्ययो: छागपशुन्यायाद्यनवतारः॥ 13 विशिष्टाद्वैतम्-'यदाहवनीये जुहोति" "पदे जुहोती"त्यनयोरिव सशुणनिर्गुणवाक्ययोरपि सामान्यविशेषन्यायविषयतयव प्रामाण्यम्, अविशेषं यच्छास्त्रम- न्याध्यत्व विकल्पस्येत्यादिदाशमिकन्यायस्य विधिद्वयविपयस्येव विधिनिषेधविषयस्यापि स्वीकारात्। एवमेव छागपशुन्यायोऽपि। न्यायद्वयमपीदं सामान्यविशेपशास्त्रयोविशष- शास्त्रप्राबल्यपरम्। तत्रैकत्र सामान्यशास्त्रस्य विषयान्तरेऽवकाश., अपरत्र तु सामान्यस्य विशेष एव पर्यवसानमिति परं विशेष-।। 13. शास्त्रस्य च विधिनिषेधरूपत्वेन नाहवनीयपदहोमन्यायविषयतेति पूर्वमेवोक्तम्। 'छागो वा मन्त्रवर्णादि'ति न्यायोऽपि सामान्यस्य विशेष उपसंहाररूपो नात्र प्रवर्तते; उभयोरपि विधिरूपत्वात्, दृष्टान्ते प्रकृते च विधिनिषेधरूपत्वात्।
Page 15
11
तत्रोभयत्र दृष्टान्तयोर्विध्यर्थयोः सामान्यविशेषरूपता। सगुणनिर्गुणवाक्ययोस्तु तदेकदेशयो: सामान्यविशेषरूपतेत्यादि बहुविधं वैषम्यम्, इति निर्गुणवाक्या- न्यथानयनं न न्यायानुसारि। ततश्छागपशुन्याये विधित्सितयोरमयोरपि सामान्यविशेषरूपत्वेन यथैकत्र पर्यवसानम्, नैवं सगुणनिर्गुणवाक्ययोरुप- सहारः, निर्गुणसगुणयोः सामान्यविशेषरूपत्वाभावात्, विधिनिषेघरूपत्वनोप- संहारायोगाच्॥
। नारायणपदस्य विष्णुमात्रपरत्वचर्चा।।
14 विशिष्टाद्वैतम्-बहव उपनिपदो नारायणस्य परमात्मत्वं बोधयन्ति, कुत्रचन "शंभुराकाशमध्ये व्येय" इत्यादौ "शभुरुपास्यत्वेन निर्णीयते। अत शंभुपदस्यापि नारायणपरत्वमेव स्वीकर्तव्यम्, न रुद्रपरत्वम्, नारायणपरमात्मकताया एवौपनिषदत्वात्। "सृष्टिस्थित्यन्तकारिणीं ब्रह्मविष्णुशिवात्मिकाम्। स सज्ञा याति भगवान् एक एव जनार्देन-।।" इति वचनं तु ब्रह्मादिशरीरकत्वेन ब्रह्मादिषु नारायणशब्द व्युत्पादयति। अतो नारायण- शब्दो न ब्रह्मरुद्रसाधारण ॥ तथाहि "ध्येय• सदा सवितृमण्डलमध्यवर्ती नारायण. सरसिजासनसन्निविष्टः" इत्यादिवचनाद् नारायणोत्कर्षववगमात्, "ध्येय: शंभुराकाशमध्ये" इत्यादीना तदविरोधेन नयनमेव युक्तम्। तत्र नारायणोत्कर्षप्रतिपादिका उपनिषदोऽधो निदिश्यन्ते। ता यथा-ब्रह्मबिन्दूपनिषत्, या-"सर्वभूताधिवास च यद् भूतेषु वसत्यधि। सर्वानुग्नाहकत्वेन तदस्म्यहं वासुदेवः, तदस्म्यहं बासुदेव " इत्युपसहरन्ती, "पुरुषो ह वे नारायणोऽकामयत प्रजा सृजेयेति, नारायणाद्गल्माडजायत, नारायणाद्रुद्रोऽ- ज।यत" इत्युपक्रम्य "ओ नमो नारायणाये"ति मन्त्रार्थविवेचनमध्ये नारायणमेव परामृशन्ती "नारायणसायुज्यमाप्नोति" इति नारायणसायुज्येनवोपसंहरन्ती नारायणोप- निषत्, "सहस्रशीर्ष देव विश्वाक्षं विश्वशंभुवम्। विश्वं नारायणं विष्णुमि "त्युपक्रम्य, "स ब्रह्म स शिवः सेन्द्र सोऽक्षरः परमः स्वराट्" इति परविद्याप्रतिपाद्यत्वेन नारायण- मेवोपसंहरन्ती महानारायणोपनिषत्, 'ओ नमो नारायणाये'ति मन्त्रोपासनामाहात्म्य- निरूपणपूर्वकं विष्णुध्यानस्यैव सर्वदु खनिरासनिदानत्वं निरूपयन्ती-आत्मबोधोपनिषत्, पुरषम््तस्य विष्णुपरत्वं प्रत्यचं प्रतिपादयन्ती मुद्रलोपनिषत्, 'एको ह वै नारायण A
Page 16
12
आसीत्, न ब्रह्म, नशान' इत्युपक्रम्य "स ब्रह्म स ईशान" इति परामृरन्ती महो- पनिषत्, 'यदि योन्या. प्रमुच्येऽहं तत्प्रपद्ये नारायणम्" इति विवेचयन्ती गर्भोपनिषत् "दिव्यो देवो नारायण." इत्युपक्रम्य प्रवृत्ता सुबालोपनिषच्च॥ 14. केवलाद्वेतम्- उपनिषत्सु कानिचन वाक्यानि नारायण- परमात्मत्व बोधयन्ति, बहवस्तृपनिषद शंभोः परमात्मत्वम्। तत्रापि शियपर- मात्मत्वबोधिका एवोपनिषदोऽधिकाः । सर्वथा तूपास्यस्वरूपं तत्तदिच्छानुगुण शैव वा भवतु, वैष्णवं वा। पारमार्थिकं स्वरूपं तु सर्वेषां चिन्मात्रमेव, अन्यत्तु सर्वमौपाधिकम्। नारायणपदमपि संज्ञामात्रं विष्णुपुराणे सृष्टिकर्तु- ब्रह्मणोऽपि नारायणात्मत्वं प्रतिपादयति, एवं रुद्रस्यापि, इति शिवापेक्षया विष्णोः, विष्ण्वपेक्षया शिवस्य वोत्कर्षापकर्षयोः श्रतिस्मृतिपुराणेनिहासानां न तात्पर्यम् ।। "सृष्टिस्थित्यन्तकारिणी ब्रह्मविष्णुशिवात्मिकाम्। स संज्ञां याति भगवानेक एव जनार्दनः ॥" इति विष्णुपुराणं विप्णोरपि ब्रह्मादिकोटिप्रवेशात् यथा न ब्रम्मादिस्वरूपं नारायणशब्दार्थः, न विष्णुम्वरूपमपि तथेति ज्ञापयति। जनार्दनशव्दार्थम्तु सर्वमूताशयप्रत्यगभिन्नपरमात्मैव, इति जीवेश्वरत्वोपलक्षितस विन्मात्रात्मनैव ब्रह्मानुसन्धानं परमाय श्रेयसे, अभ्युदयाय तु ब्रह्मविष्णुरुद्राद्यात्मनाऽपीत्येवं- परमेव विष्णुपुराणमिति मन्तव्यम् । तथाहि-"ध्येयः शंभुराकाशमध्ये"-इत्यादि वचनैः शिवस्यैव परमात्मत्वं ध्येयत्वेन प्रतिपाद्यते, इति विष्ण्वादिशब्दानां विष्ण्वादि- शरीरकसदाशिवपरतयैव योजनं युक्तम्। तत्र शिवोत्कर्पप्रतिपादिका उपनिषदोऽधो नान्ना निर्दिश्यन्ते-ब्रह्मणाSSश्वलायनं प्रति-"उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम्। ध्यात्वा मुनिर्गच्छति भूतयो- निभि"त्यादिना परविद्याप्रतिपाद्यत्वं सदाशिवस्यैवेति बोधयन्ती कैवल्योपनिपत्, नारायणपदेनेव महेश्वरपदेनापि ध्येयसरूपस्य प्रतिपादनादुभयानुगनस्वरूप-
Page 17
13 स्यैव परमात्मत्वं प्रतिपादयन्ती गर्भोपनिषत्, रुद्रस्यैव विष्णुदेवेन्द्रादि- सर्वात्मत्वं प्रतिपादयन्ती-अर्थर्वशिरउपनिषत्, "कारणं तु ध्येयः सर्वैश्वर्य- संपन्न. शंभुराकाशमध्ये" इत्यादिना सदाशिवस्यैव सर्वकारणपरमात्मत्वं निर्दिशन्त्यथर्वशिखोपनिषत, 'एवं खल्वात्मेशान. शंभुर्भर्गो रुद्रः प्रजापतिरि' त्यादिशंभ्वादिवाच्यस्यैव विष्णुनारायणादिशब्दवाच्यत्वव्यवस्थापनपरा मैत्रा- यणीयोपनिषत्, 'सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं तत्र गत्वा न निवर्तन्ते, तदेतदचाऽ्भ्युक्तम्-"तद्विष्णो परमं पदमि"त्यादिना सदाशिव- पदस्यैव व्यापकवैष्णवपदत्वादिनिरूपणपरा बृहज्जाबालोपनिषत्, "तत्त्वगसी" त्यभेदवाचकमिदं योजयन्ती "ते शिवसायुज्यभाजो भवन्ति" इति ब्रह्ममावस्य सदाशिवभावत्वमेवाभेदेनेति बोधयन्ती सर्वकारणपरमात्मस्वरूपं शिव एवेति विविश्चाना च शुकरहस्योपनिषत्, 'नमः शिवाय गुरवे सदानन्दमूर्तये' इत्युपक्रम्य प्रवृत्ता निरालम्बोपनिषत्, अन्याश्च तेजोबिन्दु-ध्यानबिन्दु-नारद- परिव्राजक-त्रिशिखब्राह्मण-शरभ-त्रिपाद्विभूत्याद्युपनिषदो विष्णूत्कर्षवादं वार- यन्ति शिवोत्कर्षदृढीकरणेन। परस्परविरोधे चाद्वैतवादेनैव सर्वासामुपनिष- दामैककण्ठयं वक्तव्यम्। अद्वैतस्यौपनिषदत्वे तु नृसिंहतापिनी-सर्वसार- स्कान्द-पैङ्गल-महा-कठरुद्रोपनिषदादयो बहवः प्रमाणानि। तत्र नारायण- पदस्य सर्वकारणस्य मुख्यस्यैव तत्त्वस्य तत्तत्कार्यवशात्तत्र तत्र गौण्या प्रवृत्त-
शरीरभेदमात्रं ब्रह्मरुद्रविष्णूनाम्, कार्यभेदमात्रं वेति शरीरभेदेनैव तेषां भेदः, न तु संविन्मात्रस्वरूपेण। "ब्रह्मविष्णुशिवात्मिकाम्" इत्यत्र शिव इव विष्णुरपि तत्समकोटौ निर्दिश्यते, इति नास्य वाक्यस्य शिवशरीरकविष्णु- परतायां तात्पर्यम्। महाभारतादिकमपि न शिवापेक्षया विप्णुत्कर्षप्रतिपादन- परमिति व्यक्तमधिकमन्यत्र ।।
Page 18
14
। "सर्व खल्विदं ब्रह्मे"त्यादिसामानाधिकरण्यचर्चा ।।
-
विशिष्टाद्वैतस्-"सर्व खल्विदं ब्रह्मेति सामानाधिकरण्यं शरीरशरीरि- भावनिबन्धनम्। तत्र सर्वशब्देन सर्वशरीरकं विवक्ष्यते। तथाच सवेशरीरकं ब्रह्म, तत् सर्वशरीरकं जलानिति योजना। अथवा सर्वमिति निष्कर्षकविधया जगत्परम्, ब्रह्मपर्द तु लक्षणया शरीरपरम्। तत्र प्रथमयोजनाया सर्वशब्दस्य विशिष्टपरत्वं शक्त्यत्र-आकृत्यधि- करणन्यायेन। आकृत्यधिकरणं हि सुसदृशावयवसमुदायवाचित्वं शब्दाना साधयति, यद बहुष्बनुगत प्रतीयते, न तु तदतिरिक्ता जातिर्नाम। तत्रावयवातिरिक्तसमु- दायानङ्गीकारमते, अवयवावयविनोर्भेदाभेदवादिमत वाऽडकृतिवाचकत्वं व्यक्तिवाचकत्वं चेत्यनर्थानन्तिरम्। अनेन न्यायेन चराचरजगद्वाचकानामपि पदानामनुगतं सस्थानं ब्रह्मव, इति शरीरवाचकानां पदाना शरीरिपर्यन्तत्वतात्पर्यमूरीकर्तव्यम्। जगद- पृथक्सिद्धत्वाद् ब्रह्मण. संस्थानापृथक्सिद्धाया व्यक्तरिव सस्थानवाचकशव्दवोध्यत्वे स्वीकर्तव्यम्। एवं सत्येव सामानाधिकरण्यरयोपपत्ति। अद्वैतमते तु बाधायां सामानाधि- करण्यम्। तत्र हि सर्वपदेन सर्वराहित्य त्रह्मशब्देन स्वरूपमात्रं लक्षणयेति लक्षणाद्वयं दूषणम्, इति सामानाविकरण्यप्रतीतिर्विशिष्टाद्वतमत एव सवरसा-इति सर्वमित्यादौ बिशिष्टैक्यपरत्वमेव।
-
केवलाद्वैतम्-"सर्व खल्विदं ब्रह्मे"ति, सामानाधिकरण्यं बाधायाम्। तत्र सर्वशब्दे सामानाधिकरण्यप्रतीतिदशायां न लक्षणा, सर्वस्य ब्रह्मव्यतिरेकणामावावगतिस्तु माविवाधप्रतीतिमादाय। अतो नात्र लक्षणा पदद्वयेऽपि। ब्रह्मपदमप्यत्रोपादानकारणाविद्योपहितपरमेव, इति न तत्रापि लक्षणा। न ह्यन्यथा ब्रह्मोपादानतानिर्वाहः। तद्दि न समवायिकारणतया, न वा परिणामिकारणतयेति परेषामपि संप्रतिपन्नम्। तथाऽप्युपादानत्वं स्वीक्रियमाणं कथ विवर्तोपादानत्वं विनोपपद्यते 2 तथा च मृद् घट इत्यादा- विव कार्यकारणभावनिबन्धनमेव सामानाधिकरण्यम्, न तु शरीरशरीरिभाव- निबन्धनं सवत्र ; मृद् घट इत्यादौ व्यभिचारात्। अत एवेदं रजतमित्यादि- सामानाधिकरण्यम्। न चात्र शरीरशरीरिभावः। तथाचाभेदे सामानाधिकरणयं कार्यकारणभावनिबन्धनमित्येव युक्तम्; लाघवात्।
Page 19
15
तत्राकृत्यधिकरणं संस्थानातिरिक्तजातिपरं वा भवतु, सस्थानपरं वा, उभयथाऽप्यनुगतसंस्थान एव शक्तिः, न तु तद्विशिष्टाया व्यक्तौ। न हि तत्तव्यक्तिरपि संस्थानं नाम, अन्यथा कथश्चित्तयोरभेदमादाय व्यक्तिवाचित्वे किमनेनाकृत्यधिकरणेन ? तेन ह्यनुगते विशेषणे शक्तिः, तद्विशिष्टव्यक्तौ लक्षणेत्येव फलति, इति शरीरवाचकानामपि तत्तत्संस्थान एव शक्तिः, न तु ठयक्तौ। न हि शरीरं सर्वमेकसंस्थानकम् ; देवमनुष्यतिर्यगादिभेदप्रविलया- पत्तेः। सति चैवं शरीरिवाचकत्वं न शरीरपदस्य, किन्तु तल्लक्षकत्वमेव ; नतरां च तद्विशिष्टवाचकत्वम्। न च सर्वें जगद् ब्रह्मोपादेयं ब्रह्मशरीर- तामर्हति। मङ्कातविशेष शरीरं भगवतो नास्तीति वढतां क्थं पृथिव्यादि, सत्त्वरजस्तमोगुणात्मकप्रकृतिर्वा शरीरम् ?
अन्तर्यामिब्राह्मणं सर्वाधिष्ठानतामेव ब्रह्मणो बोधयति; अन्यथा सर्व- कारणाव्यक्तरीरकतामात्राम्नानेनोपपत्तौ कि परथिव्यादि बहुशरीरकत्वाम्नानेन? तत्र यद्यन्तर्यामिब्राह्मणनिर्दिष्टान्येव शरीराणि, तर्हि तदनिर्दिष्टानां कथं ब्रह्म- शरीरत्वम यद्युपलक्षणम्, तहिं किमेतावता निर्देशेन? अतोऽविद्योपहित- स्याविद्यावृतस्याविद्यापरिणामस्थूलसृक्ष्मभूतोपादानत्वम्, तदुपाधिकस्य जीव- म्याप्यौपाधिकोत्पत्तिमतोSपि ब्रह्मोपादेयत्वमेव, परं तु तदौपाधिकम्।।
तदुपादेयत्वं नाम तदध्यम्तत्वम्। तच्चानादघ्याससिद्धमविद्याया अपीति निरूपणार्थमेवान्तर्यामिब्राह्मणम्।।
बहूनि श्रुतिस्मृतीतिहासपुराणवचनानि दृश्यन्ते।
शरीरलक्षणमपि सर्वानुगत दुर्वचन्। सर्व चेदमत्र ग्रन्थे विस्तृतम्। तत्र "सर्व खल्वि"त्यन्र प्रथमयोजनायां ब्रह्मपद लाक्षणिकम्, यन्निष्कर्षक- विधया प्रयुक्त्म्। जलानित्यत्र च जादिपादानां जगत्येव समन्वितानां ब्रह्मणि
Page 20
16
लक्षणा, द्वितीययोजनायां सर्वपदं ब्रह्मपदमुभयं लक्षकम्, इति बाधायां सामानाधिकरण्यपक्षतोऽप्यस्वारस्यमेव, यतस्तत्र नैकस्मिन्नपि पदे लक्षणा। तत्र द्वितीययोजनायां केवलस्य ब्रह्मणोऽनुपादानत्वात् कथं सर्व ब्रह्मेति सामानाधिकरण्यकथाऽपि 2 एतेन- विशिष्टैक्यपरत्वमपि-व्याख्यातम्। विशिष्टयौरक्यं हि विशि- षटैक्यं नाम। सर्व खल्वित्यत्र तुन द्व विशिष्टे प्रतीयेते। "तत्त्वममसी"त्यत्र तु न सूक्ष्मचिदचिद्वि शिष्टस्य स्थूलचिदचिद्विशिष्टम्य चोपस्थितिः, न वा तयोरैक्यं वाक्यार्थ.। तत्रापि चिद्विशिष्टमात्रोपस्थानेऽप्यचिद्विशिष्टस्यानुपम्थानान् कथ चिदचिद्विशिष्टस्योपस्थितिः? शरीरवाचकानां शरीरिपर्यन्तत्व जानन्दमयाकाश- प्राणज्योतिरादिपदाना स्थूलजीवाचिदा कामादिपरत्वशड्काया नोत्थिनिरषि।
॥ माधवदास्यम्य परममुक्तित्व्चर्चा ।।
16 विशिष्टाद्वैतम्-औपनिपद माधवदास्यं सुखाय, न दुःखाय। "सर्व परवश दु.खम्" "सेवा श्ववत्तिराख्याता तस्मात्तां परिवर्जयेत्" इति वचनमलकम्- शेषत्वम्, दुखरूपम्, शेषत्वादित्यनुमानं तु प्रियविशेपशेषत्वेन व्यभिचारि। कर्ममूल- देह्ात्माभिमानप्रयुक्त्वाद् दुखवस्य न शपत्वप्नयुक्तत्वम्। निरस्तगमस्तदोपकत्याणगुणा- करभगवच्छेपतवं तु सुखमाधनतया प्रमाणावगतं धर्मिग्राहकमानविरोधान्न दुःखरपमू,
- केवलाद्वैतम् -- मानुपादिप्रजापत्यानन्दान्तस्य सगुणब्रम्मा- नन्दान्तस्य वोत्तरोत्तरं सुखतारतम्यश्रवणात् कर्मनिबन्धनशरीराभिमानशन्या- नाममिन्द्रादीनामपि दु.खाल्पत्वाम्नानाच्छरीरसंबन्धमात्रं दु ग्वसाधनमेव; तत्र कर्मकृतत्वदिव्यत्वादिकमप्रयोजकम्। उभयलिङ्गत्वं परमात्मनोडपुरुषार्थ- गन्धाभावप्रयोजकम्, न तु तद्ास्यमपि। सर्वथा तु भगवद्दास्यस्य प्रचुरानन्द- हेतुत्वमात्रेण तद्दासानां निरतिशयसुखप्रतिपादकवचनानामुपपत्तिः। मुक्ता- नामपि परमानन्दभोक्तृत्वस्यैव युक्तत्वात्तदास्यमात्रेण न पुरुपार्थपर्यवसानम्, किंतु तद्धावेनैव।।
Page 21
17
। पूर्वोपन्यस्तसर्वार्थ संकलनम्। तदयं निष्कर्ष :- वेदान्तवाक्यानां भेदेऽवान्तरतात्पर्यम्, अभेदे तु महातात्पर्यमित्यभेदस्यैवौपनिषदत्वात, "नित्यो नित्यानां चेतनश्चेतनाना" मित्यस्याप्यमुख्यमिथ्यात्मभेदपरत्वेन जीवत्वेश्वरत्वोपलक्षितमुख्यजीवात्मभेदे- डप्यवान्तरनात्पर्यस्यैव युक्तत्वेन महातात्पर्यविषयत्वेन जीवब्रह्मैक्यस्यैवौ- पनिषदत्वात्. तत्त्वमसीति वाक्यस्याखण्डार्थत्वेऽपि सर्वपदावैयर्थ्यात्, प्राथमिकप्रतीतौ प्रवृत्तिनिमित्तभेदप्रतीत्याः सत्त्वेन सामानाधिकरण्य- प्रतीतिनिर्वाहात्, मिथ्यात्वरूपसाध्यहेतुपक्षाणां सुनिरूपत्वेन मिथ्या- त्वानुमानेनाप्यद्वितीयब्रह्मबोधकवेदान्तवाक्योपबृहणात्, मिथ्यात्वमिथ्यात्वेऽपि प्रपश्चसत्यत्वानुपपत्त्याउद्वैताविघातात्, योगाचारमाध्यमिकादिमतादद्वैतवादस्य महावैलक्षण्येन वेदान्तानां तदुपबृंहणपरत्वस्याद्वैतवादेऽसंभवात्, अनु- भूतिस्वप्रकाशत्वानुमानस्यादुष्टत्वात्, शुक्तिरजतादिस्थल इव ब्रह्मणोSविद्य- याऽडवरणसभवेन ब्रह्मणः सर्वविवर्ताधिष्ठानत्वस्याबाधात्, "अस्मत्प्रत्य- यगोचरे विषयिणि चिदात्मके" इत्यत्र भ्रमप्रतीतिकालिकमांशिकं विषय- त्वमादाय सविन्मात्रस्यास्मत्प्रत्ययगोचरत्वोपचाराविरोधात्, सगुणनिर्गुण- वाक्ययो सामान्यविशेषन्याय-छागपशुन्यायाविषयत्वेनापच्छेदन्यायस्यैव तन्र प्रवृत्त्या निर्गुणवाक्येष्वेव वेदान्ताना परमतात्पर्यात्, ब्रह्मव्यतिरिक्तस्य मर्वस्याSSविद्यकत्वेन, ज्ञाननिवर्त्यत्वेन च दोपत्वेन निरस्तसमस्तदोषत्वाति- रिक्तकल्याणगुणाकरत्वस्य बाधितत्वात, आकृत्यधिकरणस्य शब्दानां जातिविशिष्टव्यक्तौ, शरीरविशिष्टशरीरिपर्यन्तत्वे वा तात्पर्याभावात्, श्रुतिस्मृतिपुराणेतिहासानां शिवविष्णवादैक्य एव तात्पर्येण विष्णूत्कर्षे तात्पर्यामावात्, 'सर्व खल्विदं ब्रह्मे ति सामानाधिकरण्यस्य बाधाया सामानाधिकरण्य एव स्वारस्येन शरीरशरीरिभावनिबन्धनसामानाधिकरण्ये तात्पर्याभावात, माधवदास्यस्य दु.खामिश्रसुखसाधनत्वस्यानन्दमीमांसानुगृ- हीतन्यायविरुद्धत्वेन सच्चिदानन्दरूपाखण्डानावृतसविन्मात्रताया एव परम- पुरुषार्थत्वाच्चाद्वैतवादो निरङ्कुशामौपनिषदं तत्त्वम्॥
Page 22
18
॥ शरीरलक्षणम् ॥
-
विशिष्टाद्वैतम्-यस्य चेतनस्य यत् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं वा शक्यम्, तच्छेषतकस्वरू वा, तत् तस्य शरीरमिति शरीरम्य लक्षणत्रयम्। तुरीयलक्षणं तु यस्य चेतनस्य यदवस्थमपृथकसिद्धं द्रव्यम्, तन् तस्य शरीरमिति। तन्र ग्रथमं लक्षणं यस्य चैतन्यविशिष्टस्य यदवस्थं द्रव्यं यावत्सत्तमसम्बन्धानर्हम्, स्वशक्ये नियन्तव्यस्वभावम्, तत् तस्य शरीरमिति। द्वितीयं-यस्य चेतनस्य यदवस्थं द्रव्य यावत्सत्त धार्यमिति। तृतीय तु-यस्य चेतनस्य यदवस्थं द्रव्यं यावत्स- त्तमशेषतानर्हम्, तदवस्थं तत् तस्य शरीरमिति विभाग ॥ अत्र चैतन्यविशिष्टं प्रति द्रव्यान्तरस्य शरीरत्वनिर्देशाद् न चैतन्यं धर्मभूतज्ञानं वा शरीरम्, न वाऽचेतनं मृदादिकं प्रति तदपृथकसिद्धस्वभावघटादीना शरीरत्वम्, नियन्तव्यरवमावत्वस्य यावत्सत्व धर्यत्वस्य विशेपणाद् न पित्रादिकं प्रति पत्रमित्र- कळत्राणा शरीरत्वम्। मुक्तात्माऽपि यावत्सत्व धार्यत्वात् परमात्मशरीरमेव, तच्छेष- तैकस्वमावे वा, यावत्मत्तमिति विशेषणाद् न प्राणाद्वीनां शरीरमृष्ट प्रागेव सृष्टानां शरीरत्वम्। द्रव्यमिति क्रियादिव्यवच्छेद। यदवस्थमिति विशेषणाद् नम्मीभाव- मापन्नस्य न शरीरत्वम्, तदानी प्रागपस्थशरीरस्यासत्वात्। अन्तर्यामित्राह्मणं चात्र प्रमाणम् ॥
-
के लाद्वैतम् -- यदाश्रित्यैवात्मा भोगवान्, तत् तम्य शरीरम्, आत्मनो यावत्सत्त्वं भोगायतनत्वं शरीरत्वमिति तु निष्कर्षः । तेन न पुत्र- मित्रकलन्रगृहारामादीनां जीवं पति शरीरत्वम्। मुक्तात्मनोऽपि श्रीमाष्य- मतेऽपाकृतदिव्यमङ्गलविग्रहस्य सत्त्वात् तदाश्रित्येव मोगायतनत्वम्। एवमेव भगवतोऽपि। न हि मुक्तात्मानं पति प्राकृतावस्थं शरीरं नाम। यावत्सत्त्वं नियन्तव्यस्वभावत्वं यथा न पुत्रमित्रकलत्रगृहारामादीनाम्, तथा प्रेनशरी- रस्यापि। एवमेवार्चादिशरीराणामपि, इति लक्षणत्रयस्य, कि बहुना- तृतीय- लक्षणस्यापि तत्राव्याप्तिः। सति चवमन्तर्यामिब्राह्मणे पृथिव्यादिशरीरलाम्नानं तदुपाधित्वमात्राभिप्रायम्।। अन्तर्यामिब्राह्मणं हि नाधिदैवं शरीरं परमात्मनः श्रावयति, न वा नित्यसूरिशरीरकत्वम्। अतो न सर्वचिदचिच्छरीरकत्वे तत् प्रमाणम्।
Page 23
19
सुबालोपनिषत्तु-"पादमेवाप्येति यः पादमेवास्तमेति, गन्तव्यमेवा- प्येति यो गन्तव्यमेवास्तमेति, विष्णुमेवाप्येति यो विष्णुमेवास्तमेति, सत्यमेवाप्येति यः सत्यमेवास्तमेत्यन्तर्याममेवाप्येत्यन्तर्याममेवास्तमेति, विज्ञा- नमेवाप्येति विज्ञानमेवास्तमेति, आनन्दमेवाप्येति यः आनन्दमस्त- मेति, तुरीयमेवाप्येति यम्तुरीयमस्तमेति तदमृतममयमशोकमनन्तं निर्बीजं निर्बीजमेवाप्येतीति होवाचे"ति तुरीयनिर्बीज एवान्तर्यामिणोडपि परम्परया लयं श्रावयन्ती चिदचिच्छरीरत्वं मुख्यं परमात्मनो दण्डेन वा्यति। सर्वाणि शरीरलक्षणानि मुक्तशरीरे प्रेतपिशाचादिशरीरेषु चाव्याप्तम ।
॥ धर्मभूतज्ञानम्॥
- विशिष्टाद्वैतम्-धर्मभूतज्ञानं नित्यं सकोचविकासशालि च। तत्र प्रमाणं तु 'न विज्ञातुर्विज्ञातेरविपरिलोषो विद्यतेऽविनाशित्वात्" "न हि द्रष्टर्द्ृष्टविपरिलोपो विद्यते" इत्यादिश्रुतयः ॥ 'यथा न क्रियते ज्योत्स्ना मलप्रक्षालनाद् मणे. । देहप्रमाणान्न ज्ञानमात्मन. क्रियते तथा॥" इत्यादिस्मृतयः, "ज्ञोऽत एवेति" सृत्रं च।। तथापि जीवस्य जागरमुषुप्त्यादिभेदस्तु तमोविशेषसनिधानासंनिधानाभ्याम्। तस्य प्रसरणे प्रमाण तु "प्रज्ञा च तस्मात् प्रसता पुराणी"ति श्रुतिः, "इन्द्रियाणा हि चरता यदेकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा दते पादादिवोदकम्।" इति स्मृतिश्व। तस्यात्मगुणस्यापि प्रसरणस्वमावप्रयोजकद्रव्यत्वं प्रभादृष्टान्तेन। तेन च धर्मभूतज्ञानम् , द्रव्यम्, प्रसरणादिमत्त्वादित्यनुमानं तत्र प्रमाणमिति फलति॥ एतेन-आत्मधर्मभूतस्यापि ज्ञानस्य स्वाश्रयादन्यत्र गमनमपि-व्याख्यातम्। न चान्यत्र गन्तुरपि स्वाश्रयत्याग, किन्त्वविह्यायवात्मानमितश्रेतश्रेन्द्रियद्वारा निस्सार.॥ न च तस्य बहलविरलत्वप्रसङ्ग, विभक्तभागवत्स्वेव तदर्शनात्। अतिसूक्ष्मत्वाद दर्शनोपपत्त्या सत्यपि बहलविरलभावे न काऽपि ह्वानि ; तावतापि दर्शनस्पर्शनाय्यसंभवो
Page 24
मध्वतन्त्रमुखमर्दनम् ७
टि-चतुःसहस्त्रेऽदशते मणिमन्ताद्योऽसुराः। जनिष्यन्ति बह्मयोनौ दैत्याः सद्दर्मदूषकाः । मिथ्यावाद्मसच्छास्त्रं करिष्यन्ति कलौ युगे। गोपयिध्यन्ति सच्छास्त्रं सच्छास्त्रपरिपन्थिनः एवं धर्भेषु नषेषु : स्त्रिषु च कलौ युगे। देवैर्विज्ञापितो विष्णुर्वायुमाज्ञापायिष्यति। उद्धरत्त्व महा- बाहो मम धर्मान्सनातनान्। इत्याज्ञपो भगवता कलौ वायुर्भविष्यति। मध्वनामा यतिर सौ सच्छास्त्राणि करिष्यति। गीतायाश्रोपनिषदां भाष्याणि च करिष्यति। निरासप्यति पाप- ण्डान् सच्छास्त्राणि महामतिः । स्थापयिष्यति रद्धूर्मानसच्छास्त्रं व्याकरिध्यति। श्रीध्यन्ति मुनयः सर्वे छुकाया देवरूपिणः। इते। तथाइलकापुर्रामाहात्म्येवलो तु पापभूथिष्टे मिश्या- ज्ञानपरायणाः। दूषयिष्यन्ति सद्द्र्मन्सच्छास्त्रणि क्लौ पुनः। उद्धर्यति सच्छास्त्रं कवि- त्कालान्तरे यतिः। राजद्वार समाश्रित्य पाषण्डान्निरसिप्यति।व्याकरिध्यति सच्छास्तं देवनाह- णतर्पकः। इति। रकान्दपुराणे श्रीमष्णमाहातम्ये नवमेऽध्याये-क्लौ पाषण्डभूयिष् धर्मलेश- विवर्जिते। वैवस्वतेऽन्तरे प्राप्ते त्वष्टाविशे वलौ युगे। त्रैपुरा भारते युद्दे निहता राक्षसा भवि। यदा प्रवर्तयिध्यन्ति मार्ग पाषण्डगोचरम्। तद्ा रुप्रारितो देवेभगवाव्हारी शरः ॥ ततकर्मदक्षं दिनतं मातरिश्वानमादिशत्। वायरतु यतिरूपेण जनिष्यति कलौ युगे। स दशप्रमतिर्भूता कलौ धर्मान्वदिध्यति। कृत्वा सुच्छारूरसदुर्भ स्थापययिष्यति सत्पथम्। एवमेव महादेवि नारायणपरायणाः। काले काले भविष्यन्ति तत्र तत्र महाव्रताः। ताम्पर्णी नदी यत्र वृतमाला पयरवनी। कावेरी च महापुप्या तथा दुग्धापगा नदी। एतन्मध्यदेशेष धर्मः पादेन दिष्वति। ग्लेच्छाक्रावतं भवेदन्यद्भृतलं त कलौ यगे। व लौ पाषण्डमू्डं पुण्यक्षेत्रं अविध्यति। न च विष्ण,वथा ववापि नापि वैष्णवपद्धतिः । आक्रान्तेषं च देशेष ग्लेच्छ रुपश्व राक्षसः । द्राविडेष च देरेष धर्मः स्थास्यति पादतः। दद्राविडगो धर्मो भोक्षहेतुर्भवित्यति। यदा ददा ि धर्मीय ग्लानिर्भवति पार्वि। अवतीर्य तक्षा विष्णधर्मगोप्ता रयं हरिः। संदरदायेष ने- षु सर्वधर्मे लय गते। विण्णोरनुज्ञया भत्ता: कलो धर्मप्रवर्तकाः। एवं भागवता दर्मा भविध्यन्ति युगे युगे। इत्यादि। तथा बह्मण्डपुराणे क्षेत्रकाण्डे देड्कटगरिमाहा म्ये तृर्तीयेडध्याये रखडलिरितसंवाद-तवं चापि गच्छ हैलेन्द्र पूर्व रदर्णरुसीत्टे। यत्र बरहमरिला नाम सरिमध्ये च ्तत। उगररहपसा क्रदूगयार।निःदमत वे। पादा ईर- नविष्णवादिदेवानां तत्र सन्ति हि। यतिरूपो मातरिद्वाहाविशतितमे क्लौ। ऊवतीर्य वसत्यत्र मध्दनामा वरं विभो.। अवाप तपसा पुण्यः प्रीत्या चागसत्ययोगिनः । ततस्थापितालये पुप्ये चातुमरयं वसष्यति। इवः अष्यति रुच्छारू द६- तीर्थादिहाऽछतः । इति 11 ऋतयापि प्क्षाइदपादियाः। श्रतिवेन रुर्वशहदतवात। तथा च रमृति :- "विश लेक्षण- तोडनृनरतपरवी बहुदेदविति। वेद इतयेव यं पइ्येस वेदो ज्ञानदु्ईनातू" । इति वदन् परारतः। अपररछा: ररहणस्केषृदाहतानां औतरमार्तव्मिधार काना सिल- मन्त्राणं मध्ाचार्यौपतरवमठाविवचनानामिव श्रतितवे विप्रतिपत्यभावन तदूदान्तोदा- हरणतय मोह्सूलवदातू। तेव्वपि विप्रतिपत्यभावेइनादीनि द्वैतसाधकानि तान्यन्येंरह्व-
Page 25
21
न च तत्र विकासस्योलेखोऽपि। आन्तरस्यात्मनो बाह्यप्रकाशस्तु तदुपाध्यन्तः- करणमात्रस्यैकलोलीभावेन विषयदेशव्याप्त्यापि निर्वहृति, इति तदर्थ ज्ञानस्यैव व्याप्तिरपेक्ष्यते। न च तत्र विषयाणामात्मसंबन्धोऽन्तःकरणनिर्गम इव, इति जानामीति प्रतीत्युपपत्तिरन्तःकरणप्रसरण एव ।। न च ज्ञानं द्रव्यम् ; निरवयवत्वात्, येन तस्य प्रसरणादिकमुपपन्नं स्यात्। न च तद्दव्यत्वे किमपि प्रमाणम्। धर्मभूतज्ञानम्, द्रव्यम्, प्रसर- णादिमत्त्वादित्यत्र तु हेतुसिद्धौ द्रव्यत्वसिद्धि, द्रव्यत्वसिद्धौ हेतुसिद्धिरिति परस्पराश्रयता। अत एवात्मघर्मस्य ज्ञानस्यान्यत्र गमनादिकमपि वार्तम्। धर्ममूतज्ञानं हि यदि धर्मिमात्रापृथकसिद्धम्, यावत्सत्तमसबन्धानह च, तर्हि कथं तस्यात्मानमविहायान्यत्र गमनम् 2 कथ वा संबन्धो विपयेण तस्य 2 स हि संयोगविशेषो विभागं विना कथमुपपद्यते १ तत्रायं संयोगो यद्यविभागेऽपि, तर्हिं नित्यः । तत्र च सर्वघटादिप्रकाशापत्तिः ॥ तत्र कालमेदेन धर्मभूतज्ञानस्य परिमाणमेदे "अन्त्यावस्थितेश्रोभय- नित्यत्वादविशेषः" इति दिगम्बरान् प्रति प्रयुक्त चोधं स्वस्मिन्नपि लगति। केवलयुक्त्यादिमूलार्थप्रतिक्षेपे तात्पर्यमित्युभयत्र समानम्। न च धर्मभूत- ज्ञानप्रसरणादौ विना युक्तिमन्योन्याश्रयादिदोषग्रस्ताम्, अस्ति कोऽप्यागमः प्रमाणम्। श्वताश्वतरादिश्रुत्यर्थस्तु प्रकरणविरुद्धो न धर्मभूतं ज्ञानं गोचरयति॥
।। तत्वव्यवस्था ॥
19 विशिष्टाद्वैतम्-अशेषचिदचित्प्रकारं ब्रह्मैव तत्त्वम्। तन्न प्रकार- प्रकारिणोर्मिर्थोऽत्यन्तभेदेऽपि विशिष्ठक्यादेकत्वव्यपदेशः। तदन्तर्गत च सर्व द्रव्या- द्रव्यात्मना विभक्तम्। उपादानं द्रव्यम्। अवस्थाश्रय उपादानम् । अतथाभूतमद्रव्यम्॥ तत्र द्रव्यं जडाजडभेदेन प्रत्यक्पराग्भेदेन च द्विविधम्। अथवा-प्रकृतिकाल- जीवेश्वरनित्यविभूतिभेदेन तत षड्धम्। तत्त्वत्रयव्यवस्था तु धीकालनित्यविभूति- परित्यागेन ॥
Page 26
22
तत्र परत एव मासमानं जडम। तदन्यदजडम्। स्वस्म प्रकाशमानं प्रत्यक्। परम्मै प्रकाशमानं पराक्। तेनाजडाया अपि घिय. पराक्त्वमेव। अस्मत्प्रत्ययविषयत्वं प्रत्यक्त्वम्, इदंप्रतीतिविषयत्वं पराक्त्वमिति तु निष्क्ष। तत्र द्रव्याद्रव्याद्यवान्तर- विभागस्त्वन्यतोऽवगन्तव्यः ॥ तत्र बुद्धितत्त्वविषये चिदचित्प्रकारत्वप्रयोजकशरीरशरीरिमावे चाद्वैतमतात् श्रीमाष्यमतस्यास्ति महान् विशेष। तन्र बुद्धितत्वं नित्यम्। सर्व चेदमुपरिष्ठाद्वयक्ती- भविष्यति॥ 19. केवलाद्वतम्-निर्विशेषं संविन्मात्रं मुख्यं च तत्त्वं तस्याना- वृतावस्थायाम्। आवृतावस्थायां तु द्दग्दृश्यभेदेन द्विविधमवान्तरं तत्त्वम्। तत्र जीवेश्वरावपि विशिष्टरूपेण दृश्यकोटिपविष्टौ, उपलक्षितरूपेण तु हडमात्रौ। तत्र दृक्त्वं स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वरूपं स्वप्रकाशत्वम्। तदेव मुख्यं प्रत्यक्त्वम्। अन्यत्तु सर्व दृगधीनप्रकाशम्, पराक्, इति काल-धी-वि- भूतीनां ब्रह्मलोकान्तानां दृश्यकोटावन्तर्भावः। तत्त्वैकत्वव्यवस्था तु परमार्थ- दृष्टिमाश्रित्य।। तत्र जडं दृश्यमिति चानर्थान्तरम्, इति प्रायेणैकरूप्यमेव मतद्ूयेऽपि। तत्र बुद्धेरपि दृग्विषयत्वेऽपि घटाढाविव स्वप्रकाशार्थ वृत्त्यन्तरानपेक्षणाद् मुख्यज्ञानावच्छेदकत्वाच् ज्ञानत्वोपचारः, स्वप्रकाशत्वव्यपदेशश्च। तत्र बुद्धि- तत्त्वमद्वैतसिद्धान्तेऽन्तःकरणपरिणामो वृत्तिः, या जन्या, न नित्या। न च् चिदचिच्छरीरकतोपपद्यते। तेषु शरीरत्वाम्नानं तु कुत्रचन तदुपाधित्वमात्राभि- प्रायम्, यस्य तत्त्वसाक्षात्कारेण बाधेडद्वैतसिद्धि: ।
॥ ब्रह्म जगदुपादानतोपपत्तिः॥
- विशिष्टाद्वैतम्-ब्रह्म न स्वरूपेणोपादानम्, निर्विकारत्वादिविरोधात्। नापि शक्त्युपधानेन, शक्त्तेरभिन्नत्वे स्वरूपानतिरेकात्, भिन्नत्वेऽद्वैतमतापातान्। भिन्नाभिन्नत्वेऽभिन्नत्वाकारेण विकारादिदोषप्रसङ्गात्, किन्तु कारणावस्थसूक्ष्मचिदच्चि- द्विशिष्टमेव त्रह्मोपादानकारणम्। न च तावता निर्विकारत्वश्रतिविरोधः; तस्या: सर्वा- न्तर्यामिशरीर्यशव्यवस्थितत्वात्। विशिष्टशेषेण विकाराश्रयत्वं त्विष्टमेव। इदमेवाभिप्रेत्य
Page 27
23
स्थूलसूक्ष्मचिदचितां कारणतावच्छेदकत्वेन तन्र तत्र तदेकशेषतैकस्वभावत्वस्य शरीरत्वस् व्यवस्था, तस्य विशिष्ठस्यवोपादानस्यैव निमित्तत्वमयीत्यभिन्ननिमिन्तोपादानं ब्रह्म गीयते। अत्र निर्विशेषवादोऽप्रामाणिक., विशेषाणा स्थूलरूपाणा सक्ष्मरूपाणा वा तदपृथकसिद्धानां ततो वियोगस्यासंभवात्।। अत्र विशिष्टस्येव विशेषणस्यापि नोपादानत्वम्, उपादानतावच्छेदकस्यानुपादान- त्वात्। तथाचोक्तम्-वर्णानागुपादानत्वविचारमधिकृत्य न्यायसिद्धाअने-"उपादाना- वच्छेदकतयोपादानत्वमिति चेत, न, तथात्वे मृत्पिण्डगतपिण्डत्वादिवदनुपादानत्वम्। विशिष्टस्योपादानत्वेऽपि विशेषणस्य विशिष्ठत्वाभावेन तदभावात्" इति। तत्र कुत्रचन विशेष्यमात्रस्य विशेषणमात्रस्य वोपादानत्वाम्नानं विशिष्टोपादानत्वाभिप्रायं विशेष्यमात्रस्य विशेषणमान्नस्य वौषचारिकमिति मन्तव्यम् ॥ 20. केपलाद्वैतम्-मायावच्छिन्नं मायाविशिष्टचैतव्यं वेश्वर एवो- पादानकारणम्। तत्र विशेप्यांशो माययाऽडवरणदशायां विवर्तोपादानम, न परिणामिकारणम्। अतो न निर्विकारत्वश्रुतिविरोधः । परिणामिकारणं तु माया, इत्यंशभेदेन द्विविधमुपादानत्वमादाय विशिष्टकारणतावादः। अथवा अविद्याया निमित्तकारणमात्रत्वात्, सहकारिकारणमात्रत्वाद्वा ब्रह्ममात्रमुपादा- नमिति प्रस्थानमेदेन व्यवस्था। सर्वेषामद्वैते पर्यवसानमविशिष्टम्, इति न विशिष्टस्य विकारित्वप्रसक्तिः। औपाधिकं विकारित्वं त्विष्टमेव तस्य। निर्विकारं ब्रह्मस्वरूपं विगलितमायासम्बन्धं त्वद्वैतमत एव। स्वरूपमात्रमविशिष्टं तूभयत्र नोपादानम्, न वा निमित्तमिति समानम् । तत्र यदि स्वरूपमात्र न कारणम्, तर्हि कथं तत् चिदचितौ च तत्वानि? यदि च विशिष्टमेवोपादानम् ,विकारि च, तहिं 'सत्यं ज्ञानमनन्त- मि'त्यादिवाक्यं किंविषयम् विशिष्टविषयं तत् कथं स्वरूपमात्रपरम् ? स्वरूपमात्रस्यातत्त्वत्वात्, इति "अधीहि भगवो ब्रहमे"त्यादीनाम्-"आनन्दो ब्रह्मेति व्यजानादि"त्यन्तानां किं वा तत्त्वं गोचरः १ आकाशवाय्वादिक्रमेण सृष्टिप्रलयादिपराणां वाक्यानां का वा गतिः2 निष्कर्षकविधया तत्तद्विशेषण- विशेष्यांशस्वरूपविवेचनार्थ घटकश्रुतित्वेन व्यवस्था तु नवीना कल्पना। कुतो वा कुत्र वा घटकविघटकादिभेदः श्रुतीनामघिगतः१ अतोऽध्यारोपापवादनयेन
Page 28
24
सविशेषनिविशेषवाक्यानां नयनमेव युक्तम्। अपच्छेदन्यायस्यात्र प्रवृत्ति- प्रकारोऽन्यत्रात्रैव विवेचितः । शतदूषणी तु-"विशिष्टोपादानतायां विशेषण- मात्रस्य परिणामित्वेऽपि विशिष्टस्यापि परम्परयाSSश्रयत्वेनोपादानत्वप्रतिक्षेप- स्त्वशक्यः" इति विशेपणांशस्य मुख्योपादानत्वम्, विशेष्यस्य तु परम्परयो- पादानत्वम्, इति विशिष्टस्य विकारित्वं मुख्यमुपादानत्वं च प्रतिक्षिपति॥
21 विशिष्टाद्वैतम्-चिच्छायापत्तिसपर्कादिनाSSत्मनो ज्ञातृत्वम्, वस्तुतो न कतृत्वमात्मन इत्यस्मिन्नशे साख्योपदिष्टाथजीवनम्, स्तम्भादिप्रत्यय, मिथ्या, प्रलय- त्वात्, य प्रत्यय, स मृषा, यथा स्व्रप्नादिप्रत्यय इति सौगतोप दिष्टार्थजीवनम्, चावकिोप- दिष्टाहमर्थविनाशाम्युपगमात् चार्वाकमतोपजीवनम्, इति- साख्यसौगतचावकिसकरात् सकरोदय। दूषणान्यपि तान्यत्र मृयस्तदधिकानि च।। यथा ह्यद्वतमत विवरणभामत्यादिप्रस्थानभेदा, एवं श्रीमाप्यसिद्धान्तऽपि। तद्यथा- शरीरलक्षणत्रितयस्य मिलितस्य लक्षणत्वमित्येक पक्ष, प्रत्येकलक्षणत्वमित्यपर.। एवं ग्यष्टिशरीराणामद्वारकशरीरत्वपक्ष एक, सद्वारकशरीरत्वपक्ष इतर। उभयो फलतोऽ- विशेषो लक्ष्यैक्य च समानम्। तत्र सुषुप्तिमूर्छावस्थास्वद्वारकशरीरकत्वपक्षेणैव गति., न तु सद्वारकत्वपक्षेण।। तत्राSऽत्माणुत्वविभुत्वविचारे स संसारदशायामणुपरिमाण, मुक्तिदशाया तु व्यापी। वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीव स विज्ञेय:, स चानन्त्याय कल्पते। इति श्रति व्थमणुपरिमाणत्वं श्रावयतीति वरदविष्णुमित्रमतम्। सारभाष्यं तु ज्ञान- व्याप्तिमात्रम्, न त्वात्मव्याप्तिरिति वदति। तथा सुखदु खयोर्ज्ञानरूपत्वम्, इच्छाद्वेषप्रय. लानामपि ज्ञानरूपत्वमिति प्रस्थानभेद-। तथा वारावाहिकज्ञानेकत्वपक्षो वरदनारायण- मिश्राणाम्, भटटपर।शरपादाना च। अन्येषा तु तदनेकत्वम्। सुपुप्तौ तमोविशेषेण बुद्धेर- स्फूर्तिरिति केषाचन सिद्धान्त., श्रीराममिश्रसिद्धान्तस्तु तत्राषि घियो न स्कूर्ति, अर्थाव्यवहारस्तु करणोपरमादिति। सवथा तु विशिष्टाद्वैताद्वैतसिद्धयोरवान्तरमेदाः प्रक्रि- याविशेषा अविशिष्टाः, इति प्रस्थानविशेषस्य प्रस्थानान्तरावलम्बनेन निरसनप्रकार उभय- त्राषि न सांप्रतम्।।
Page 29
25
- केलाद्वैतम्-औपाधिकं ज्ञातृत्वमित्यस्मिन्नंशे यद्यपि सांख्येन साग्यम्; तथापि शुद्धस्य प्रत्यगात्मनो न तन्मत इव भोकृतृत्वमद्वैत- मते। कर्तृत्वभोक्तृत्वादिरहितसविन्मात्रत्वादात्मनस्तन्र, तथापि सांख्या- भिमतप्रधानकारणवादनिपेधोडदवैतमते। तत्र सेश्वरसांख्यानां प्रधानमात्र- परिणामिनवादो ब्रह्मकारणता विना विशिष्ठाद्वैतमत एव, यत्रांशे सूत्रकारा विरुन्धो, इति सूत्रप्रतिषिद्धांशे साख्यमतोपजीवनं परमत एव। न हि सूत्रकार आत्मन औपाधिकं ज्ञातृत्वं कर्तृत्वं च निषेधति, प्रत्युत समर्थयति- "यथा च तक्षोभयथे"त्यत्र। अहमर्थत्वमात्मनस्तु परमत एवोपजीव्यते चार्वाक- मतात्, यस्तु-निरस्यतेऽद्वैतमते। तस्य सौगतकोटौ वेदाप्रामाण्यविषयेऽत्यन्त- मेव सदृक्षाणां दिगम्बराणामुपजीवनेनैव संकोचविकासशालिनो नित्यस्य धर्म- मृतज्ञानस्य स्वीकार, इति बौद्धसदृक्षार्हतमतोपजीवन परमत एव। अहमर्था- त्मतावादस्यैव चार्वाकाभिमतस्य स्वीकारात्, प्रत्यक्षप्राबल्यवादस्वीकाराच्च चार्वाकोपजीवनम्। अद्वैतमते तु चार्वाकमत इव, परमत इव वा, नाहमर्थ आत्मा, न वा आत्मनाशश्चर्वाकमत इव, अहंकारस्योपाधिमात्रस्य हि तत्र नाश, नाहमर्थविशेष्यसंविन्मात्रस्य मुक्तौ नाशः। व्यक्तं चैतदन्यत्राद्वैत- दीपिकावेदान्तरक्षामणिशतभूषण्यादौ, सिद्धान्तसिद्धाञ्जनादौ च-इति जैनका पिलचार्वाकसंकरादन्त्यजोदयः । दूमणान्यपि तान्येव भूयस्तदधिकानि च।।
आत्मनानात्वे न्यायमीमांसायाः-सिद्धान्तोपजीवनमेव श्रीभाष्य- सिद्धान्ते, अद्वैते तु तद्विरोघः ॥ अद्वैतसिद्धान्ते तत्तत्प्रक्रियाविशेषेषु बहवः प्रस्थानमेदाः सिद्धान्तलेश- संग्रहे सग्रहीताः विवरणभामतीवार्तिकसंक्षेपशरीरकमकटार्थकारादिसमताः सिद्धान्तैक्याविरोधिनः, परं तु प्रस्थानविशेपस्य प्रस्थानान्तरावलम्बनेन निरसनं न साधु । सर्वत्रेयमेव हि नीतिः ।।
Page 30
26
सद्विद्यायां विचारणीयाः प्रतितन्त्रसिद्धान्तभेदाः प्रधाना मतद्वयाभिमता- स्तदवान्तरवाक्यत्रयावलम्बिनोऽधो निर्दिश्यन्ते-"उत तमादेशमप्राक्षीरि" त्यत्रादेशपदार्थः, 'अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी'त्यत्रानेन- जीवेनपदार्थ:, तत्त्वमसिमहावाक्यार्थश्च।
।। सद्विद्यायामादेशपदार्थः॥ 22. विशिष्टाद्वैतम्-अत्रादिशति प्रशास्तीति कर्तुरेव करणत्वविवक्षया "अकर्तरि च कारके सज्ञायामि"ति घनि, आदेशकर्तुरेव विवक्षा। तन च कर्तरि "पचाद्यच" इति विहितस्याचप्रत्ययम्य 'इगुपधज्ञाप्रीकिर क " इत्यनेनाचप्रत्ययस्य बाघेऽषि न क्षति.। करणाधिकरणयोल्युटविधान तु "वा सरूविधानेन वा घञा पुंसि सज्ञाया ल्युडपवादेन 'हलश्रति सनविहितेन वा नात्र 'उपदशेषजनुनासिक' इत्नत्य भाष्योक्तरीत्या- "सर्वे विधयशछन्दसि विकल्प्यन्त" इति महामाष्योक्तव्यवस्थया वा कप्रत्ययादीना वैंकल्पिकत्वाह्वा कतरि घनुषपादनममवाद उपक्रम प्रशासितुरेव, न तूषदेशकगम्यस्य तत्त्वस्य, इति परमोक्रमो नाद्वतवादस्य ।। 22. केवलाद्वैतम् -- कतुरंव करणत्वविवक्षया प्रशासितुरत्र विवक्षापेक्षया साक्षात् कर्मणि घजविवक्षैव युक्ता, इति "इगुपधनाप्रीकिरः कः" इति सूत्रस्य न प्रवृत्तिरेव, इति न बाधकल्पनाऽवश्यिका। अन्यथा 'करणा- धिकरणयोश्चे"ति विहितस्य ल्युटः कथं वा वारणम् 2 वासरूपविधिस्तु स्त्र्यधि- कारात्प्रागेव, इति नात्रावकाशते, येन ल्युटो बाघ स्यात्। बाहुलकत्वाद् व्यवस्था त्वगतिकगतिर्नात्र सत्यां गतौ समवति। एतेन-"सर्वे विधयश्छन्दसि विकल्प्यन्ते" इति व्यवस्थाऽपि-परास्ता; तथा वैकल्पिकविघानस्याप्यगतिक- गतित्ात्। पुंसि संज्ञायामनुवृत्या 'हल्श्रे'ति सूत्रेण ञ्विधानं त्वत्रादेशपद- स्यासज्ञात्वान्न प्रवर्तते। अत. परमोपक्रमो न कर्तुः प्रशासितु., किन्तु कम्यचन तत्त्वस्योपदेशैकगम्यस्यैव, इति-"सदेव सोम्येदमि"लायमेवोपक्मः। स चाद्वितीयं तत्त्वं विषयीकरोति, इति न परमोपक्रमोडद्वैवविरोधी, किन्तु तस्यैवानुगुण:।
Page 31
27
। अनेन जीवेनेतिवाक्यार्थः ॥ 23. विशिष्टाद्वैतम्-"अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी"- त्यन्नानेन जीवेनेति वाक्य जीवसमष्टिशरीरकं ब्रह्म सर्वत्रानुप्रवेशे नामरूपव्याकरणे च क्तृँ, दृति प्रतिपादयति, नतु जीवब्रह्माभेदम्। नच जीवात्मना प्रवेश, नामरूपव्याकरणं च ब्रह्मण संभवति; जीवस्य तत्राकतृत्वात्। सहयोगतृतीया तु सत्या कारकविभक्तौ न प्रसरति। नामरूपव्याकरणे जीवस्य साधकरवाभावाद् न करणतृतीयाऽपि, इति तेन पशामर्श सर्वशरीरकस्य परमात्मन एव, नाद्वितीयस्य तत्त्वस्य; शरीरवाचकाना पदाना शरीरिपर्यन्त- व्वं हि मुख्यम्। चिदचित्पदाना तन्न जीवाभिमान्यन्तर्यामिपरत्वेऽपि निष्कर्षकविधया तत्तन्मान्रद्ृष्टया तत्र तत्र प्रयोगो न विरुम्यते। तत्र च प्रकरणादिना व्यवस्था। विशेषण- वाचकस्यापि विशिष्टपरत्वसमवे तत्र शरीरपरत्वं माक्तं विशद प्रतीयते। तत्र जीवादिपरत्वं त्वविशदम्। परन्तु मुख्यम्। अनुगतसंस्थान विशद व्यज्ञयति व्यक्तिम्। देवमनुष्यादि- शब्दाना मनुप्यादिसस्थानपराणा तत्तज्जीवादिपरत्वमपि स्वीक्रियते मतान्तरेऽपि। तत् कुत 2 यदि तयोरभेदान्, तर्हि कथमुभयोर्विवक्ततया ग्रहणम् 2 यदि तादात्म्यं कल्पित भेदघटितमपि, तर्हि कथं तयोर्विरुद्धयोरेकत्र भानम् यद्येकस्य मिथ्यात्वेन, तर्हि तत्कल्पनाया प्रमाणाभावात् प्रधानाप्रधानभावेन तयोरविरोध, इत्यपृथकसिद्धत्वमेव तादा- त्म्यापरपर्यायं तन्न सम्बन्ध इति स्वीकरणमेव वरम्। तत्र चाप्रधानभेदमादाय विशदं प्रवृतं शरीरवाचकपद शरीरिपरमिति पक्ष एव श्रेयान्, इति जीवपदेन व्यक्तीकृतस्यैवात्मनः आत्मनेति4 देनापि स्पष्टीकरणं न दोषायेति नात्मषदवैयर्थ्यादि॥ 23. केवलाद्वैतम्-"अनेन जीवेनात्मनाऽनुप्रविश्ये"ति वाक्यं ब्रह्मण: स्वस्वरूपजीवात्मना सर्वत्र प्रवेश बोधयति। तेन च ब्रह्म वस्तुगत्या संविन्मात्ररूपेण जीवाभिन्नम्। जीवत्वं तु तत्रानुप्रवेशप्रयुक्तम्। तथाच सर्वत्रानु- प्रविष्टोपि जीवात्मा परमार्थदृष्ट्या ब्रह्माभिन्न इत्येवात्र वाक्यार्थः। जीव- समष्टिशरीरकस्यैवानुप्रवेशकर्तृत्वमिति तु बाधितम् ; सर्वत्र परमात्मन इव जीवस्यापि विशेषणस्य प्रवेशात। तृतीयाया अनन्वयस्त्वपरं तत्र दूषणम्। जीवपदस्य जीवशरीरकपरमात्मपरत्वे तत्रात्मनेति पदं वितथम्। आत्मपद- महिम्नैव जीवस्य शरीरत्वं ज्ञाप्यत इति तु न युक्तम्। तथासति ह्यात्मनापदेन शरीरिपरेणैवेष्टसिद्धया जीवेनेति वितथम्, चिदचिच्छरीरकस्य ब्रह्मणोSत्र प्रकरणमिति तु सद्विद्यायामचिच्छरीरकस्याप्रस्तावान्न युक्तम्। सत्पद तु- B
Page 32
28
नात्र सर्वशरीरकस्य बोधकम्। यथा च शरीरलक्षणं न सौषुप्तमृतदेहादि- व्यापकम्, तथाऽत्रैव व्यक्तं निबन्धान्ते। न वा तत्रापृथक्सिद्धिः सम्बन्धोऽपि। यदि स सयोगविशेष, तर्हि न तेन सामानाधिकरण्य- निर्वाहः। अत्यन्ताभेदेडपि घटो घट इति न सामानाधिकरण्यम्। भेदा- भेदयोस्त्वेकस्य कल्पनां विना न सबन्धत्वम्। यथा च शरीरादीनामात्मना न भेदग्रहः, तथाऽध्यासमाष्ये व्यक्तम्। तत्र च परमात्मनो जीवात्मनाडभेद परमार्थत इत्यात्मनेति पदम्, भेदस्तु कल्पनयेति मत्वा जीवेनेति पदमित्य- द्वैतमते सर्वं सुस्थम्। अतोऽनेन जीवेनेति परामर्शोडद्वैतानुगुण एव।। शरीरवाचकानां पदानां शरीरिपर्यन्ततावादोऽप्यत एव व्याख्यातः । तत्र हि "अथातो ब्रह्मजिज्ञासे"त्यत्र प्रथमं विशेष्यमात्रस्य जिज्ञास्यत्वप्रतिज्ञा व्याहता। ब्रह्मपदस्य चिदचिद्विशिष्टपरत्वं तु न परमतरीत्याऽपि। शरीरवाचवास्य शरीरिपर्यन्तत्ववद् आत्मपदस्य न शरीरविशिष्टपरत्वम्। "अधीहि भगवो ब्ह्मे"त्यत्र ब्रह्मपदेन सूक्ष्मचिद्विशिष्टम्योपस्थापने न किमपि प्रमाणम्। सत्यं ज्ञानमिति तु न विशिष्टपरम ; जन्यथा विशिष्टपरिणामितायास्तद्विकारि- तायाश्च न्यायसिद्धाञ्जनोक्तरीत्या म्वीकारात् सत्यत्वज्ञानत्वादिकं बाधितम्। स्वरूपज्ञानस्य हि धर्मभृतज्ञानाद्याश्रयत्वं परमते। न च विशिष्ं स्वरूपं ज्ञानाश्रयम्। एतेन जीवात्मम्वरूपमपि नयागव्यातम्; तत्रापि विशिष्टस्यैवाह- मर्थत्वम्, इत्यहमर्थ आत्मानात्मशवलित स्वरूपमित्यद्वैत एव पर्यवसानम्। आनन्दमयाधिकरण आनन्दमयस्य जीवपरत्वपक्षेऽपि तस्य शरीरवाचकाना शरीरिपर्यन्तत्वनयेन परमात्मपरत्वस्यैव सिद्धया कि प्रयोजनं तेनाधिकरणेन? आनन्दमयपदस्य, आकाशप्राणज्योतिरादिपदानां च प्रथमप्रथमतृतीयपाद- विषयवाक्यघटकानामपि तदन्तर्यामिपरत्वस्यैव मुख्यत्वात्, अन्तर्यामिणश्च सर्वत्रैक्याच्च कथं तत्र रूढया भूताकाशादिपरत्वमादायोत्थितिरपि पूर्वपक्षस्य? शरीरी हि जीवात्मा, अभिमानिदेवता, अन्तर्यामी वेति स्थिते कि वा नियामकम्-जीवाभिमान्यादिपरतायां तत्र तत्र। यदाऽन्तर्यामिपरत्वम्, तदा
Page 33
29
जीवात्मादौ गौणत्वमिति विवक्षायान्तु शरीरिण्यपि जीवाभिमानिदेवतायां गौणत्वाद् जीवात्माऽन्तर्यामिपरत्वमात्रं कथं मुख्यम्2 आपेक्षिकशरीरमपेक्ष्य जीवाभिमानिपरत्वविवक्षायां तु जीवविशेषणदेवमनुष्यादिशब्दानां न परमात्म- शरीरत्वम्। तच्छरीरत्वे तु न जीवशरीरत्वम्। उमयशरीरत्वं त्वेकस्य व्या- हतम्। अन्तर्यामिब्राह्मणस्य, यत्र प्राणादीनामपि शरीरत्वमान्नायते, तत्र शरीर- पदमुपाधिमात्रपरमिति भाष्यानुसारेण निबन्धमध्य एव विस्तरेण विवेचितम॥ यतु-आनन्दमयाधिकरणे जीवे समन्वय इति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयतीति भाष्यम्, तन्न, उक्तरीत्याऽडत्मशब्दस्य मयेत्यर्था- संभवात्, अहंपदेनैव प्रत्यत्तवस्य लब्घत्वेन मयेत्यस्य व्यर्थत्वात, अह्म्, अनेन मया प्रविश्य व्याकरवाणीत्युन्मत्तवचनतुल्यत्वापत्तेश्र ।। यदपि-मदात्मकजीवेनात्मतयाऽनुप्रविश्ये'ति भाष्यम्, तदपि न, श्रुतस्य आत्मनेत्यस्यात्मतयेत्यर्थे धर्मे लक्षणापत्तेः, जीवे मदात्मकत्वस्यालाभात्। यत्तु-जिज्ञासासूत्रे भाष्ये, वेदार्थनिर्णये च "ऐतदात्म्यमिदं सर्वमि"ति चेतनाचेतनोद्देशेन ब्रह्मात्मकत्वमुपदिश्य तत्त्वमसीति जीवविशेष उपसंहृतमित्युक्तम्, तत्रेंद वक्तव्यम्।।
।। तत्त्वमसिमहावाक्यार्थसंग्रहः ॥* 24. केवलाद्वैतम्-एतेन तत्वमसिमहावाक्यार्थोऽपि व्याख्यातः। तत्र परमते प्रधानं दूषणम्-तत्त्वमसीत्यत्र मध्यमपुरुषानुपपत्तिः। तथाहि- तत्पदेन प्रकृतं ब्रह्म जगत्कारणं सूक्ष्मचिदचिच्छरीरमुक्तम्। त्वमिति च स्वशरीरविशिष्टश्वेतकेतुजीवशरीरकं ब्रह्मैवोक्तमिति सामानाधिकरण्योपपत्ति रित्यानन्दमयसूत्रे भाषितम्। तत्र चासिपदमनन्वितम्; पदार्थैकदेशेनान्वयस्य जघन्यत्वेन शरीरे जीवे तदनन्वयात्, जीवस्य कतृत्वकरणत्वोभयशून्यत्वेन
- अत्राद्वतप्रक्रियामात्रमनूद्यते, येनार्थाद् विशिष्टाद्वतप्रक्रियाऽपि ज्ञाता स्थात्। तत्र मतद्रयेऽपि 'असि' पदसाधुत्वचचैव प्रधाना ॥
Page 34
30
'अनेने'ति तृतीयाया दौर्लभ्याच्च। जीवशरीरकस्य परात्तवाभावेन विशेष्ये ब्रह्मण्यप्यन्वयात्।। किंच आत्मशब्द आधेयत्व विघेयत्व-शेषत्वरूपधर्मत्रयात्मकशरीरत्व- प्रतियोग्याधारत्व-नियन्तृत्व-शेषित्वरूपशरीरित्वपर इति पराभ्युपगमः। अत एव "आत्मन आकाशस्संभूत" इत्युपक्रमस्थात्मशब्दबलादेवाकाशादन्नमया- न्तानि प्रति ब्रह्मणश्शारीरात्मत्व सिद्ध कृत्वा, प्राणमयेऽपि "तस्यैप एव शारीर आत्मा, यः पूर्वम्ये"ति ब्रह्मव शारी आत्मेति व्याख्यातम्। तच्च प्रकृतदेवता- परामर्शिनाऽहंपदेन ब्रह्मणो जीवरूपशरीरस्य तच्छरीरिणश्च लाभाढधिकार्था- भावादनुपपन्नम् ॥ यद्यपि परमते प्रथममृत्र तत्त्वमसीत्यत्र उद्देश्यविधेयविभागप्रश्नम्य ऐतदात्म्यमित्यनेन प्राप्तत्वाद् नात्र किचिदुद्दिश्य किचिद्विधीयत इत्युत्तर- मुक्तम्; तथापि "ऐतदात्म्यमि"त्यनेन पराग्पेण सर्वस्यापि पम्ब्रह्मरीरत्वे ज्ञातेऽहं ब्रह्मशरीरम्, मच्छरीरकं न्र्मेति प्रत्यग्रपेण वेदान्तविधेयाहंग्रहोपासन- समानाकारज्ञानं तत्त्वमसीति वाक्यप्रयुक्तमवश्यमंगीकर्तव्यम। उक्त नथैव- "तन्निष्ठस्य मोक्षोपदेशात्" इत्यत्र मुमुक्षोः श्वेतकेतोः तत्त्वमसीति सदात्म- त्वानुसन्धानोपदेश इति। एवं च प्राप्तत्वादनुवादत्वविधेयत्वासगवेऽपि
Sवश्यमङ्गीकरणीयः। अन्यथा "त्वं वा अहमस्मि मगव," "अह वै त्वमसी"ति वाक्ययोः समानार्थकत्वाद् मध्यमोत्तमपुरुषौ न स्याताम्। ततश्र यस्त्वम् त्वच्छरीरकं ब्रह्म, तदेव तत्कारणरूपं ब्रम्मेति वा, यत् कारणभूतं ब्रम्म, तत् त्वच्छरीरकमिति वा वचनव्यक्तिभेदो वाच्यः, उभयथाप्यसिपदस्य वैयर्थ्य म्पष्टमेव; परसंवोध्यस्य श्वेतकेतोर्जीवस्य कर्तृत्वाभाचाद् मध्यमपुरुपो
'तवात्मा जानाति' 'अहं त्वं संपद्ये' 'त्वद्धवति मैत्रः' इत्यत्रापि मध्यम- पुरुषापत्ति: ।।
Page 35
31
ननु-विकाररूपापत्तौ प्रकृतेः कर्तृत्वात्, मैत्रस्य त्वंशब्दार्थस्य गौणं युष्मदर्थत्वम्, इति गौणमुख्यन्यायेन माऽस्तु मध्यमपुरुषः । तदात्मेत्यत्र तु युष्मच्छब्दस्य लकारसामानाधिकरण्यमेव नास्ति। प्रकृते तु जीवशरीरकब्रह्मण एव मुख्यं युष्मदर्थत्वम्, सर्वेषां शब्दानां चिदचिद्विशिष्टव्रह्मण्येव शत्तयभ्युपग- मात्। ततश्र तत्सामानाधिकरण्ये मध्यमपुरुषो युक्त एवेति-चेत्, न, तथासति 'त्वं पच,' 'त्वं यजस्व,' 'त्वं म्रियख' इत्यादिजीवकर्तृकेषु मध्यम- पुरुषो न स्यात्, ब्रह्मणो नियोगाविषयत्वात्, त्वंपदस्य जीवे भाक्तत्वेन गौणत्वात्, "चराचरव्यपाश्रयस्त्वि"ति सूत्रे सर्वेषां शब्दानां चिदचिद्विगिष्ट- ब्रह्मपरत्वेन केवलचिदचितोर्भाक्तत्वांगीकारत्।। किच छान्दोग्यपष्ठाध्गायोपक्रममारभ्य प्रकृतस्य ब्रह्मात्मकत्वमजानतो श्वेतकेतोर्जीवस्य ब्रह्मात्मकत्वानुसन्धानमुपदेष्ठुं प्रवृत्तेऽस्मित् वाक्ये संबोधितस्य तस्य त्वंपदेन संबोधनरूपेणानिर्देशात्, तस्य ब्रह्मविशेषणत्वात्, ब्रह्मणस्संबोध्य- त्वाद् मध्यमपुरुषानुपपत्तिः। अलिङ्गस्संबोधनैकविषयश्च युप्मत्पदार्थः, तादृशार्थ- सामानाधिकरण्य एव मध्यमपुरुषः । अन एव 'भवान् करोती'ति नालिङ्ग- संबोधनासंबोधनसाधारणार्थकभवच्छब्दपरयोगे न मध्यमपुरुषः, इति युष्मदयुप- पदे समानाधिकरणे इत्यत्र सिद्धान्तितम्। एवमन्येऽपि व्याकरणविरोधाम्तत्र तत्र द्रष्टव्या: स्फुटीभविष्यन्ति ॥
।। एकविज्ञानेन सर्वविज्ञानोपपत्ति:॥
कर्मप्रवाहहेतुकसुरनराद्यात्मकचतुर्विधदेह प्रवेश कृततनदात्म। भिमा नजनिता वर्नीयभव मयवि- धननाय ढेहातिरिकतज्ञाननन्दाद्यात्मकशुद्धप्रत्यगात्मस्वरूपज्ञापनाय प्रवृतानि तत्त्वमस्यादि- महावाक्यानि, तत्स्वरूपाणि च भिन्नानि परमार्थदशायामपि। एवविधचिदचिदात्मकप्रपश्चो- द्ववस्थितिप्रल्यससारनिवतनेकहेतुरसख्येयकल्याणगुणगण परमात्मा नारायण.। तद्वैमव- प्रतिपादनपरा. स्तुतयस्तु तच्छक्ति-तदंश-तद्विभूति-तच्छरीरादिपर. तत्सामानाधि- करण्येन सर्वेषा तननियम्यस्वभावत्वं प्रतिपादयन्ति। एकबिज्ञानेन सर्वविज्ञानं सर्वेषा कारणात्मत्वमेव परमार्थत इति दष्टया। तेन च कारणज्ञानेन कार्यज्ञानं फलति।
Page 36
32
कारणैक्यं हि सर्वेषु कार्येषु द्रव्यैकथमभिप्रेत्य, न तु स्वरूपैक्यम्। ऐतदात्म्यमित्यपि तदेव बोधयति। तन्व शरीरशरीरिभावेनाप्युपपद्यते। अत एवात्रात्मपदं चेतनपरम्। सर्वत्र सस्था- नैक्यं तत्तदवान्तरकारणमात्राभिप्रायेण। मूलकारणदष्टया तु ब्रह्मसस्थानैकत्वम्। अत एवा- कृत्यधिकरणन्यायेन शरीरवाचकाना पदानां शरीरिपर्यन्तत्वम। इदन्तु ज्ञातशास्त्रतत्वाना दृष्टया, पामरदृष्टया तु तत्तच्छरीरमेव तत्तत्पदवाच्यमिति भ्रममात्रेण। अत एव श्वेतके- तोरप्यज्ञानेन प्रश्न सद्विद्याश्रीमा्यसिद्धान्तमेवोपष्टम्भयति। तत्त्वमसिवाक्यस्थयेव- मेवाशय।। प्रकृतेरपीश्वरशरीरत्वात् प्रकृतिशब्दस्तदात्मभृतस्येश्वरस्य तत्प्रकारसस्थितस्य वाचक । एवं पुरुषशव्दोऽपि तत्प्रकारसस्थितस्येश्वरस्य वाचक, इति सर्वस्य विकारजातस्यात्मेश्वर । तत्रोपादानत्वप्रयुक्तो विकारस्तु प्रकारमान्रस्य। एवमपुरुषार्थगन्धोSपि प्रकारस्य जीवस्यैव, न विशेष्येश्वरम्य प्रकार्यशमात्रं नियन्तृ, सत्यसंकल्पादिक च, इति कारणावस्थ एव तदुपादा- नककार्यावस्थोऽपि, इति कार्यकारणयोरनन्यत्वम्। नामरूपविभागानर्हसक्ष्मदशापन्नप्रकृति- पुरुषशरीरकं ब्रश्म कारणावस्थम्। तद्वापापत्ति प्रळय. । नामरूपविभागाहस्थूलचिदचिद्व- स्तुशरीरकं ब्रह्म कायविस्थम्। ब्रह्मणस्तयाविधम्थलभावो जगत. सृष्टिरित्युच्यते। एतादृशं कार्यकारणभावामभिप्रेत्यैव सद्विय्या भार्गवी विद्या च।।
- केवलाद्वैतम्-निर्विशेषज्ञानमात्रमेव ब्रह्म। तच्च नित्यमुक्त- स्वप्रकाशरूपमपि विद्योपादानवशादज्ञमिव बद्धमिव। परमार्थतस्तु नित्यशुद्धवुद्धमुक्तात्मम्वरूपम्। यावदविद्यमेवेशेशितव्या दिविविधविकल्पस्वरूपं जगत। तच्च सत्तादात्म्यात, सति कल्पितत्वाद्वा सदिति प्रतीयते। परमार्थतस्तु मिथ्या। बद्धो मुक्त इति व्यवहारमात्रम्। स्थितप्रज्ञा जीवन्मुक्ता वा शास्त्रदष्टया तत्त्वमिदं श्रौतमनुभूयो- पदिशन्ति। शास्त्रान्तसर्वमिश्यादिवादो भाविबाघप्रतीत्या शास्त्रसिद्धया। कर्मो- पासनाकाण्डानामवान्तरं तत्त्वमर्थशोधनपरतया प्रामाण्यम्। तत्र कारणस्या- विद्योपहितस्वरूपस्य तत्कार्यः, नत्प्रयुक्तैरवा सविशेपत्वे न विप्रतिपत्तिः, किन्तु तेषां पारमार्थिकत्वमात्रे, एकविज्ञानेन सर्वविज्ञानं नान्यथोपपद्यते। तत्र कारणातिरिक्तस्यापि सत्यत्वे नैकविज्ञानेन सर्वविज्ञानसभवः। अत एव निर्गुणं निरञ्जनमित्यादिश्वितयः। तत्र तदेककारणत्वं न तदेकशरीरित्वम्। न हि तदा-"वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि"ति दृष्टा-
Page 37
33
न्तोपपत्तिः। न हि मृत्तिकाया घटशरावादयः शरीरम्। चेतनाचेतनविषयैव व्यवस्थेति चेत्, न चेतनं ब्रह्म परमते मृदिवोपादानमूतं जगत.। न हि मृदिति सदेवेत्युपक्रमात् सर्वमूलकारणपरम्, यदात्मेति मन्यते। अत्रात्मपद स्वरूपपरम्, तेन च तदतिरिक्तस्वरूपनिषेध: पर्यवस्यति। तेन च मूलकारण- विज्ञानेन ज्ञातव्यं नावशिष्यत इत्येव वाक्यार्थः । उक्त च-
"यज्ज़ञात्वा नेह भूयोऽन्यद् ज्ञातन्यमवशिष्यते"
इति। सूक्ष्मचिदचिद्विशिष्टज्ञानेन सर्वविज्ञानमित्यपि दृष्टान्ताननुगुणमेव। अतः सद्विद्याऽद्वैतसिद्धान्तमेव पोषयति॥
विशिष्टयोरेव कार्यकारणभावे विशेष्यस्येव विशेषणस्यापि न विकारः, इति जगतः सृष्टिरिति वादोऽसदनुवाद एव स्यात्। विशेषणस्याप्यविकारित्वे तु विशिष्टपरिणामितायां तद्विकारितायां च पर्यवस्यति, इति विशिष्टं विकारि न पारमार्थिकं स्यात्। विशेषणविशेष्यमात्रे तु न पृथग व्यवहारयोग्यताभपि सहेते। लोकव्यवहारमुल्लंध्य शास्त्रार्थव्यवस्था तु "य एव लौकिकाः शब्दास्त एव वैदिकाः" इति सिद्धान्तविरुद्धा। देवमनुष्यादिपदानामन्यत्रान्यपदप्रयोगस्तु विना भेदाग्रहं प्रवृत्तत्वात् सिंहो देवदत्त इत्यादिवद् नोपचारेण भवितुमर्हति, किन्तु आ्रान्त्यैव, इति देहादीनामात्मन्यध्यास एव। अतः कार्यकारणभावो ब्रह्मजगतोर्त्रह्मणोSविकारेण निर्वहणीयोडद्वैतवादानुगुण एव। नत्र ह्युपाधिभूता विशेषणभूता वा प्रकृतिरुपादानम्, विकारिणी च। ब्रह्म तु विवर्तोपादानम्, अधिष्ठान वा न कार्यात्मना विकुरुते, किन्तु तथा केवलं भाति, इति ब्रह्मणो- Sविकारित्वं जगतो विकारित्वं सर्वमुपपद्यते। मृदादिकमपि तत्कारणाविद्यात्मनैव परिणमते, इति सर्वस्याSडविद्यकत्वे ब्रह्मैव सत्यम्, जगन्मिथ्येति सिद्धान्त एव पर्यवसानम्। अविद्यापरिणामित्वे हि यावदविद्यं लौकिकपारमार्थिकत्वम्, तनम्तु सर्वात्मना बाध इति सर्वमुपपद्यते।।
Page 38
॥ शुद्धप्रत्यगात्मैकत्वानेकत्वचर्चा।। 26. विशिष्टाद्वैतम् -- जीवात्मान स्वयमसकुचितज्ञानस्वरूपाः, कर्मानुरूप- ज्ञानसंकोचमापन्नाः, तत्तदेहोचितलब्धज्ञानप्रसरा, तदनुगुणससारप्रवाहँ प्रपन्ना ढेवादिदेह- मेदरहित ज्ञानैकाकारा, तेन साम्यमापन्ना मगवच्छेषतकरसतया मगवदात्मका भवन्ति। भगवास्तु हेयप्रत्यनीककल्याणैकतान सर्वनियामक सदात्मेति शास्त्रहृदयम्। तत्र जीवात्मानो वस्तुगत्या भिन्ना अषि प्रकृतिविशेपवियुक्तात्मयाथात्म्यज्ञानवन्त सर्वान् जीवान् समाना- कारान् पश्यन्ति। तादश साम्यमादाया जीवाना तन्न तत्रकत्वाम्रानम्, न तु वस्तुगत्या, इत्येकत्वं नानावं च न तेषा विहन्यते॥ 26 केवलार्द्वतम्-ज्ञानस्वरूपेण शुद्धेन जीवानामेकत्वम्, भेदम्तु शरीरभेदमात्रनिबन्धन औपाधिक। धर्मभूतं ज्ञान नित्यं सकोचविकासार्ह वाऽडत्मम्वरूपसमं नोरीक्रिगे। तत्स्थानेन्न करणमेव राकोचविकासशाल्य द्वैतसिद्धान्ते। तत्प्रसरनिबन्धनं साम्य न जीवात्मनाम, किन्तु स्वरूपैक्य- मेव। तत्र प्रकृतिविशेपसयोगविभागाभ्यां जीवस्य बद्धमुक्तात्मरूपत्वम्। एकत्वनानात्वे तु स्वरूपोपाधिप्रयुक्ते। तत्रोपाधिविलये सर्वात्मनैकत्वमेव, न त्वेकत्वनानात्वे सार्वदिके। मगवानप्यसर्यकल्याणगुणो यावत्कारणतावस्थम्, अनन्तरं तु जीववद् ज्ञानैकरसो जीवाभिन्न एवेति शाम्त्रहृदयम्॥ तत्र साघनचतुष्टयस्य ब्रह्मविचारपूर्ववृत्तत्वसंभवासंभवौ, आत्माहमर्थत्व- तदनह्मर्थत्ववादः, आत्मनो ज्ञातृत्वज्ञेयत्वसंभवासमवौ, प्रपंचमिथ्यात्वसत्यत्व- विचारः, संविन्मात्रजीवेश्वरग्यरूपैक,संगवासंभवौ, आत्मनानात्व-तदवणुत्व- तद्विपरीतत्वादिवादादयश्र द्वैनविशिष्टाद्वैतसाधारणा, अद्वैतमतविरुद्धाश्च न्यायामृताद्वैतसिद्धचोर्बहुतरव्याख्योपव्यारूपासंवलितियो विस्तरेण समालोचिताः। अद्वैत विशिष्टाद्वैतविप्रतिपन्ना द्वैतसिद्धान्तस्यापि प्रतिपक्षास्तु सर्वज्ञानयाथा- र्थ्यवाद:, ब्रह्माभिन्ननिमित्तोपादानत्यवादः, पूर्वोत्तरमीमांसैक्यवादः, संकोचवि- कासशालिधर्मभूतज्ञाननित्यत्ववाद:, विलक्षणशरीरशरीरिभावः, अपृथक्सिद्धिस्व- रूपम्, तत्त्वत्रयवादोऽन्ये च केचन परमार्थप्रकाशिकासमीक्षाप्रसंङ्गेन निब- न्घेऽन्र तत्र तत्र विशदमुपन्यस्ताः। अय हि निबन्धोऽद्वैतिनां पारिभाषिकाः
Page 39
35
प्रक्रियास्तत्र तत्र यथासंभवमाब्रह्मसिद्धि, आलघुचन्द्रिकं चोपक्षिपति, येना- द्वैतसिद्धान्तप्रक्रिया सम्यगवगता स्यात्। दूषणभूषणादौ तु विचारदक्षाः पण्डितप्रवराः प्रमाणम् ॥ अत्र प्रतितन्त्रसिद्धानतेषु नित्यसूरिसद्धावादिषु प्रधानतमौ दिषयौ दार्शनिकौ शरीरशरीरिभावः, संकोचविकासशालिनित्यधर्मभूतज्ञानं च। उभयं चेदं क्रमेणास्मिन्नेव निबन्धे पृष्ठेषु*सविस्तरं समालोचि। अनादिपर- म्परास्वी कृततत्तत्प्रतितन्त्र सिद्धान्तमवलम्ब्य प्रतितन्त्रान्तरनिरसनेन स्वस्वमतस्था पनं युगशतेनापि न सुकरम, इति श्रीभाष्यशतदूषण्यादिना महासिद्धान्तोपपादन- प्रसङ्गेडद्वैतप्रतितन्त्रव्यवस्थामुल्लङ्कय स्वप्रतितन्त्रसिद्धान्तेन महासिद्धान्तोपपा- दनेन महापूर्वपक्षनिरसनमद्वैतप्रतितन्त्रव्यवस्था विरुद्धमित्येतन्निष्कर्षणमेवा- द्वैतामोदस्य लक्ष्यम् । अस्मिन् प्रसङ्गेऽद्वैतमतस्थापनावसरे श्रीमाष्यप्तितन्त्रसिद्धान्तस्यापि पदे पदे निरासोऽद्वेतामोदकाराणां यक्षानुरूपो बलिरिति न्यायमेवानुकृत्य, स्वपौढिमप्रकाशनमात्रं वा। परमं लक्ष्यं तु स्वप्रतितन्त्रस्थापनमेव। वस्तुतस्तु- नाद्वैतिनां प्रतितन्त्रसिद्धान्तो नाम कोऽपि। तत्तदर्शनप्रतितन्त्रेष्यौपनिषदसिद्धा- न्तपर्यवसायिनं यं कमपि प्रतितन्त्रमद्वैतिनः समाद्रियन्ते। अनिर्वचनीयख्या- तिस्त्वद्वैतिनां प्रतितन्त्रसिद्धान्त., यतः सत्व्यातिरसत्ख्यातिरात्मख्यातिर्वा परस्- स्परं तैस्तैर्दर्शनकारैः स्वस्वप्रतिसिद्धान्तेन निरस्यन्ते। अद्वैतिनस्तु सर्वेषां दर्श- नानां भावमेकीकृत्य तदनुगुणतया वेदान्तवाक्यानि यथार्थयितुमायतन्ते॥ न चाद्वैतमते व्यवहारे भाट्टनयोऽप्येकान्ततः, न वा सांख्यपातञ्ज- लादिनयोऽपि। यथासभवं सर्वेषां प्रतितन्त्राणां तत्तदर्शनप्रवर्तकाणां यावदुपनि- षदन्वयं तत्तत्प्रतितन्त्रा: समाद्रियन्ते, न तु शिवद्रोहे तात्पर्येण कोपि प्रति- तन्त्रो निरस्यते। अद्वैतामादकारा अपीमामेव नीतिमवलम्ब्याद्वैतसिद्धान्तं यथायथं निबबन्धुः ।
२८२-३२७, १९०-१९५।
Page 40
36
विश्वसिम :- नामोदकाराणामपि, ये श्रीमाष्यस्य सव्याख्यसटिप्पणस्य सर्वदर्शनसंग्रहादिविविधनिबन्धप्रकाशनेन पण्डितकुलस्योत्तमर्णा, श्रीमाष्य सिद्धान्तस्य दूषणं लक्ष्यम्, किन्त्वद्वैतमतोपवृंहणमेव।। यत्तु -- तत्र तत्र स्वकपोलकल्पनजालम्, कुतस्ते बुद्धयारूढ भवति, कोडयं रामानुजीय: पन्था इत्येवमादि तेषां लेखनम्, तत् सर्वमन्येपां केषाश्चन तत्तत्कालीनानां लेखनसरणिमनुसृत्य ? किं बहुना 2 भगवद्रामानुजोऽपि भगव- त्पादान् पदवाक्यप्रमाणानभिज्ञान् भाषते। अन्ये च बहव. परमार्थप्रका- शिकाकारपर्यन्तमद्वैतिनः कुदृष्टीन् व्यपदिशन्ति ॥ परमार्थतस्तु-आमोदकाराः, किं बहुना? सर्वेऽपि-ईषदप्य- वान्तरक्षोभम विधाय सौहार्दमाश्रित्यैकरस्येन लोकयात्रां निर्वोदु सर्वतो बद्धपरि- करा विविधग्रन्थविमर्शनमात्रपरः, विना वृथाऽमिनिवेशं वैयक्तिकविद्विपं च 'न गृहीतमात्रे विश्रममाकलय्य तृष्णीमेव स्थित्वा तत्त्वसरणो जडीभवितव्यम्' इति सुदृढं विनिश्चिन्वाना एव तत्त्वानुबन्धिनमर्थ प्रबबन्धु, प्रबश्रीम। नात्र मात्रयाऽपि सौहार्दस्य चिरन्तनस्य लोप:, ग्लानिर्वाडडशाग्यते, प्रत्युत वर्धेतैव सौहार्दातिशयस्तदीयभूमिकायां परमार्थप्रकाशिकोक्तरीत्या।।
प्रक्रियया सर्वज्ञानयाथार्थ्य-ब्रम्मेपादानत्वादिविपयेपु केपुचनाशेष्वक्कुरिना, न्याय- सुधापरिमलादावभिवृद्धा महाचार्याणां पाराशर्यविजयपर्यन्तम्-अधिकरण- प्रस्थानमधिकृत्य, तदनन्तरं तु प्रायेण सा विचारपरम्पराऽम्तं गतेव।। वादप्रस्थानं तु वेदान्तदेशिकानारभ्याङ्कुरिताऽपि केनापि कारणेन तदीयान्तिमचतुस्त्रिशद्वादानां विलयेऽपि सुरपुरं श्रीवेङ्कटाचार्यद्वारो ज्जीवितमपि तदीयस्यापि निबन्धस्य कुत्राप्यलाभेन नाममात्रावशेषमिव ।। विश्वसिम :- "परैस्तु कलहे प्राप्ते वय पञ्चोत्तरं शतमि"ति न्यायेन श्रीव्यासतीर्थपादकालमारभ्योभयोरपि द्वैतविशिष्टाद्वैतपक्षयोरद्वैत-
Page 41
37
सिद्धान्तेन विवादपरम्परायामेव विशिष्टा दृष्टिरासीत्। ततश्र लघुचन्द्रि- कान्ताद्वैतसिद्धान्तनिरसनमात्रे न्यायभास्करकाराणाम्, सहस्रकिरणीकाराणां च दृष्टिराकृष्टा, यस्यापि निरसनेनाद्वैतसिद्धान्तमेव साधु व्यवस्थापयितुं परमश्रद्धास्पदश्रीत्यागराजमखीन्द्रादीनां च
महामहोपाध्यायश्रीपञ्चापगेशशास्त्रिपादानामन्येषां चाविर्भावः, येषु केचन मुद्रिता:, केचन मुद्राप्यन्ते। केवलाद्वैतविशिष्टाद्वैतपरस्परया विमर्शपद्धतिर्बहोः कालात् प्रायेणास्तं गतेव, परन्तु सा महामहोपाध्यायकपिस्थलश्रीदेशिकाचार्य- स्वामिना व्याससिद्धान्तमार्ताण्डाभिधग्रन्थग्रथनेन कथञ्चनोज्ज्वालिता, यस्य समालोचन सौभाग्यं विधेयस्यास्यावसरमलभताद्वैतमार्तण्डाख्यनिबन्धेन।। ततस्तु --- तपस्विप्रवरविपयैकदष्टिपरनिन्दासुदूरदृष्टिको लियालंस्वा मिपादा विविधनिवन्धद्वारा तां पद्धति सर्वनः प्रसरां प्रस्थापयामासुः, विशिष्य च परपक्षनिराकृतिनाम्ना निबन्धेन, यदविमर्शनाख्योऽि निबन्धो भागद्वयात्म- को वेदान्तरक्षामणिनामा विधेयेनानेन निबध्य बहिरवातारि, यस्य विमर्श- नानुविमर्शनक्रमेण कञ्चन कालमारभ्य विचारपरम्परा तत्र तत्र क्रमते॥ तदनु-आनन्दाश्रममुद्रापिताद्वैतामोदपरीक्षारूपो निबन्ध परमार्थ- प्रकाशिका नामाऽस्मत्सुहृद्दराभिनव देशिका दि बिरुद भूषितो त्तमूरश्रीवीर राघवाचार्य- स्वामिन: पूर्वनिर्दिष्टनपस्विप्रवरको लियालंस्वा मिचरणचरणकैङ्कर्यमेव स्वकुलधनं मन्वानस्य तदाज्ञया निबद्धो निबन्धनिशेष, परमार्थप्रकशिका नाम, यस्य परीक्षा- रूपोऽप्ययं निबन्धः। विश्वस्यतेSत्रापि निबन्धे सर्वात्मना परनिन्दां विहाय विषय- मात्रपरीक्षादृष्टिरेव नीतिरवलम्बिता। लक्ष्यं तु परमस्य गृहीतमात्रे विश्रममाक- लय्य तूष्णी स्थित्वा तत्त्वानुसन्धानसरणौ न जडीभवितव्यमेव," इति तत्वानु- बन्धिनोऽर्थस्य विचारविनिमयदष्टया यथाशक्ति समालोचनेन सवबुद्धिविकासनमेव।। विशिष्टाद्वैप्रतितन्त्रसिद्धान्तभेदान् कांश्रनाधिकृत्य केवलाद्वैतिनां विचारधारा तु १८ दशशतकमारभ्य विशिष्टाद्वैतभञ्जनादिनिबन्धमारभ्या-
Page 42
38
कुरिता, तथापि तेषां निबन्धानाभप्रकाशनेनाद् यावत् साऽप्युत्पन्नविनष्ेव। प्रकृतो निबन्धस्तु ततोऽपि कांश्रनांशानुद्धत्य स्वीयं वक्तव्यमुपबृंह्यति स्वबुद्धि- विकासमात्रं लक्ष्यं मत्वा। विश्वस्यते विचारविनिमयमात्रद्टष्टया श्रौभाष्यलघु-
परीक्षया वा तत्तत्सिद्धान्तानुसारिण: पण्डितप्रवरा आत्मान कृतार्थयिष्यन्तीति॥ न हि सांप्रतिकानां तत्त्ववुभुत्सूना तत्तद्वुद्धितारतम्यबलमात्रेण प्रतिभान्तः प्रकाश्यमाना उच्चावचाः सिद्धन्नार्थभेदा मात्रयाऽपि पूर्वाचार्य- प्रवर्तितसंप्रदायमन्यथयितुमीशते, इति स्वम्वसंप्रदायरक्षणमेव सांप्रतिकाना तत्त्वबुभुत्त्सूनां लक्ष्यम्। न हि सांप्रतिका., अवनारपुरुषाः पूर्वाचार्या इव प्रभवन्ति सप्रदायविशेष प्रवर्तयितुम्, निवर्तयितुं वा। निबन्धेऽत्रानया नीत्या निबद्धे साध्वसाधु विवेकविचक्षणास्तु पण्डितप्रवराः ॥ एतन्निबन्धप्रकाशने यथासंभव विशिष्टसाहाय्यमाचरितवतां श्री- पि. एस्. सुब्रह्मण्यार्याणां सुसुहृदाम्, श्रीमतां मगवत्पादकैक्कर्यमेव कुलधनं मन्वानानां ए. के. लक्ष्मणार्यमहोदयानाम्, जयमुद्रणालयाध्यक्षाणां श्रीमतां मण्यार्यवर्याणाम्, के. एम् सुब्रह्मण्यार्थवर्याणान, म्वनामधन्यवाचस्पतिमिश्रकुल- भूषणानां श्रीहरिगोविन्दमिश्राणामन्येपां चाहमधमर्ण. । एतन्निवन्धसंस्करणेपि शतभूषणीसम्करण इब संशोधनविषये महान्तमुपकारमाचरितवतां पण्डित- प्रवरश्रीरामकृष्णशाम्त्रिणां चाहमाजीवमधमर्ण: ।।
त्यागरायपुरम, इति सुधीजनविधेय: मद्रास. १६-६-५८.) अनन्तकृष्णशर्मा
Page 43
॥ अद्वैततत्त्वशुद्धिविषयानुक्रमणिका॥
विषया: पृष्ठ-संख्या अद्वैतमते भाट्टमत इव प्रत्यक्षादीनि षट् प्रमाणानि, तेषामद्वैत उपयोगश्च, न तु प्रत्यक्षानुमानागमास्त्रीण्येव प्रमाणानि विशिष्टाद्वैतमते, द्वैतमत इव वा ॥ प्रत्यक्षप्रमायां प्रत्यक्षमनुमानमागमश्च यथासंभवं विषयभेदेन प्रमाणानि। भ्रमप्रमासाधारणं प्रमात्वं तद्वति तत्प्रकारकज्ञानत्वम्, प्रमाऽसाधारणं त्ववाधितार्थविषयकज्ञानत्वम्। प्रत्यक्षप्रमा पञ्चविधा नित्यानित्यचिन्मात्रसाक्ष्यादिभेदेन। जन्यप्रत्यक्षप्रमाया ज्ञानगताया विषयगताया वा घटादौ ब्रह्मणि च लक्ष्ये समन्वयः ॥ वृत्तिव्याप्यत्वफलव्याप्यत्वभेदेन प्रमेयत्वभेदः ॥ 50 अन्तःकरणवृत्तिमायावृत्तिपल्लवाविद्यावृत्तिभे देन वृत्तिविभागः, शुक्ति- रूप्यादावपि प्रत्यक्षत्वसमन्वयश्च ।। भ्रमस्य धर्मिणि प्रमात्वोपपादनम्, सत्तैक्यतद्भेदवादानुसारेण सर्वत्र ७
सत्पतीत्युपपत्तिः ॥ व्यावहारिकत्वप्रातिभासिकत्वादिस्वरूपनिर्वचनम्, प्रत्यक्षागमयोः सत्त्वासत्त्वविषयकयोरविरोधः, सर्वस्य ज्ञानस्य प्रकारांशे भ्रमत्वोपपत्तिश्च ।। कार्यात्मना कारणात्मना च सर्वत्र भेदाभेदव्यवहारोपपत्ति ।। १० स्वाम्निकानामपि जागरिकश्रमविपयाणामिव स्वाश्रिततूलाविद्याद्वारा ११ जीवसष्टत्वम्, नेश्वरसृष्टत्वम्। तत्र "वैधर्म्याच्च न स्वम्ादि- चदि"ति सूत्रविरोधाविरोधचर्चा मतद्ूयदृष्टयाऽपि॥ योगाचाराद्वैतमतयोर्भेदोपपादनम्। १२
Page 44
40
विपया: पृष्ठ-संख्या स्वप्नकाले स्वामनिकानां सत्त्वेऽपि बाधोपपत्तिः श्रतिप्रामाण्येऽपि मिथ्याभूतस्यार्थक्रियाकारित्वं स्वाभिकज्ञानम्येवार्थ क्रियाकारि- त्वेऽपीत्यत्रापि न-"सूचकश्च हि श्रुतेराचक्षते" इति सूत्र- विरोधः, स्वान्नप्रत्यक्षत्वोपपादनं च।। विषयचैतन्यं वृत्तिदशाया प्रतिबिन्बचैतन्यमनावृतं च, अन्यथा १४ त्वावृतं चैतन्यमात्रम्। अतो वृत्तौ सत्यामेव घटादीनां फलव्याप्यत्वेन प्रमेयत्वम् । निर्विशेषविषयकनिर्विकल्पकप्रत्यक्षप्रमासाधनं तद्विरुद्धमतनिर- १५ सनेन II प्रत्यक्षपरोक्षजन्यज्ञानस्वरूपविवेक, सविषयन्वनियमो वृत्तिरुपस्य १६ ज्ञानस्य, न तु सविन्मात्रम्य ।। अनुमानप्रमाणस्वरूपम्, तस्य मिथ्यात्वसिद्धावुपयोगः, तदुपष्ट- १८ म्भकश्रुतिवाक्यानि च ॥। सद्विद्याया अद्वत एव तात्पर्यमित्यामोदाशयसमर्थनम्, दृशेरकर्तृ २० कत्वादिकं च॥ सर्वे खल्विदं ब्रह्मे 'त्यादौ बाघायां सामानाधिकरण्यम, न त्ु २१ शरीरशरीरिभावे ।l अधिष्ठानत्वेनैव ब्रह्मण उपादानत्वम्, न तु परिणामित्वेन।। २२ अविद्याया सविशेषत्वं संप्रतिपन्नम्।। २३ एकविज्ञानेन सर्वविज्ञानं नान्तरेणाद्वैतसिद्धान्तम्।। २४ निर्गुणवाक्यानामद्वैत एव स्वारस्यम् ॥ २५ ब्रह्मणोSपि जीवस्येव संविन्मात्रस्वरूपत्वम्, न तु ज्ञानाश्रयत्वम्।। २८ इदं रजतमित्यादावनिर्वचनीयख्यातावेव सामानाधिकरण्यनिर्वाहः॥ २९
Page 45
41
विषया. पृष्ट-संख्या ब्रह्मण: सद्भूपत्वम्, तस्येवोपादानस्य सन् घट इत्यादावनुवेध:, ३० न तु चिदचिद्विशिष्टस्य ॥ एकविज्ञानेन सर्वविज्ञानं ब्रह्मव्यतिरिक्तमिथ्यात्वेन, न तु तत्सत्य- ३२ त्वेन।। शास्त्रावगतस्यापि बाधो न दोपाय। ३३
तावतापि सगुणवाक्यस्य प्रामाण्यम्।। ३४ सगुण निगुणवा क्ययो रुत्सर्गापवादा दिन्यायेन न गुणविशेषमात्रनिषेधे ३५ तात्पर्यम् ।। वाचारम्भणवाक्ये मृत्तिकादृष्टान्तो नाद्वैतमतप्रतिकूल., किंतु विशि- ३६ ष्टाद्वैतस्यैव । मृत्तिकादृष्टान्तस्थाने रज्जुदृष्टान्तस्यानौचित्यम् ; प्रकृतार्थानुपपाद- ३७
कत्वात् ॥ सद्विद्यायां सत्यदेन प्रकृतिविशिष्टस्य ग्रहणे सांख्यप्रत्यवस्थाना- ३८ नुत्थानादि॥ अप्रमेयस्यापि वृत्तिव्याप्यत्वेन श्रुतत्वमतत्वाद्युपपत्तिः । ३९ शरीरशरीरिभावमादाय सद्विद्याया. प्रवृत्तौ मृत्तिकादृष्टान्ता- ४0
नुपपत्तिः ।। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा परविद्यागताऽप्यद्वैतमेवोपबृंहयति॥ ४१ परविद्याया अद्वैत एव स्वारस्यम्॥ ४२ जगत्कारणत्वस्य तटस्थलक्षणत्वम् । ४४ अत्यन्ताभेदे सामानाधिकरण्यस्य वैयाकरणसंमतत्वम् ।। ४५ अद्वितीयवाक्यस्वारस्यमद्वैत एव, तस्यैवौपनिषदत्वात्।। ४८ ब्रह्मणो ज्ञानानन्दादिस्वरूपत्वे प्रमाणानि। ५४ ज्ञानस्वरूपस्यापि ब्रह्मणी ज्ञेयत्व तदुपाध्यविद्यानिवृत्तिमात्रेण। ५५
Page 46
42
विषया: पृष्ठ-संख्या नेहनानास्तिश्रत्यर्थविचारः॥ ५६ "यदेवेह तदमुत्रे"ति श्रतिरवारस्यमद्वैनमते॥ ५७
६० उपमानप्रमाणपरीक्षा ।। ६२ अर्थापत्तिपरीक्षा।। ६३ शब्दप्रमाणस्याद्वैतमत उपयोगः।। ६४ शाब्दनिर्विकल्पकज्ञानसमर्थनम् ॥ ६५ सविकल्पकनिर्विकल्पकज्ञानपरीक्षा।I ६६ मिथ्यात्वानुमानविशेषाः । ६८
शाब्दाखण्डार्थतोपपत्तिः ।। ६९ अपौरुपेये वेदेऽद्वैततात्पर्यापपत्ति., वाक्यस्य संसर्गविषयकत्ा- ७०
नियमश्च ॥ कारणत्वस्य सत्त्वनियतत्वाभावः, ब्रह्मण सत्त्वाभावेऽपि कारण- ७१ त्वनिर्वाहश्च।। ब्रह्मण: कारणत्वमविद्योपाधिकम्, न तु म्वामाविकम् ॥ ७२ अनादेरप्यविद्यायास्तत्त्वज्ञानेन निवृत्त्युपपत्तिः, सत्यपि तत्त्वज्ञाने ७३ तत्संस्कारानुवृत्त्या जीवन्मुक्त्युपपत्तिः । औपाधिकत्वेऽपि जीवत्वस्य तदुपलक्षितसविदात्मना जीवस्य मुक्त्य- ७४
न्वयाविरोध:।। प्रस्थानान्तरावलम्बनेन प्रस्थानान्तरदूषणायोग: ॥ ७५
प्रकृतिशरीरकत्वमिव तदुपहितत्वं ब्रह्मणो न दृषणम्॥ ७८
अनादिजीवत्वेश्वरत्वकल्पकाविद्याया अनादेः कल्पितत्वमविद्ययैव, ७९ न त्वविद्यान्तरेण।
Page 47
43
विषया: पृष्ठ-संख्या अद्वैतमतेऽपि प्रपञ्चसृष्टिप्रलयाद्युपपत्तिः सांख्यादिमत इव, ब्रह्मोपादा- ८० नकत्व परं विशेषः ।। भोगनाश्यस्यापि प्रारब्धस्य यावत्तदवसानमभ्यस्यमानतत्त्वसाक्षा- ८२ त्कारनिवर्त्यत्वाद् न ज्ञाननिवर्त्यत्वमिथ्यात्वविरोधः ।। सत्त्वासत्त्वयो: परस्परविरहरूपत्वामावेन सदसद्विलक्षणत्वरूपमनिर्व- ८३ चनीयत्वं तत्त्वज्ञानबाध्यस्य मिथ्यार्थस्य न व्याहतम्॥ शुक्तिरूप्यस्यानिर्वचनीयस्य विलक्षणसामग्रीजन्वस्योत्पत्तिप्रकारः, ८४ तस्य प्रत्यक्षत्वोपपत्तिश्च ॥ ब्रह्मण औपनिषदत्वमुपनिपदां ब्रह्माज्ञाननिवर्तकत्वमात्रेण।। ८५ साधनचतुष्टयसंपत्तेव्रह्मसाक्षात्कार उपयोगप्रकारः, अतीतस्य कर्म- ८६ विचारस्य ब्रह्मजिज्ञासाधिकारिविशेषणत्वायोगश्च ॥ कर्मविचारस्य मुमुक्षापर्यन्ताधिकारिविशेषणत्वं परम्परया, न तु ८७ साक्षात, कर्मफलानित्यत्वनिर्णयो न पूर्वमीमांसावसेयः । कर्मब्रह्मविचारयोः व्याख्येयक्रमानुसारी न पौर्यापर्यनियम: ॥ ८८ जैमिनीयकर्मविचारस्य न ब्रह्मविचारेऽभ्यर्हितोपायत्वम्। ८९ ब्रह्मसाक्षात्कारे कर्मविचारस्य बहिरङ्गसाधनत्वम्, शमदमादीना- ९०
मन्तरङ्गसाघनत्वम् ॥ श्रवणादिवत् सगुणोपासनमपि निर्गुणसाक्षात्कारे साधनम्, निर्गुण- ९१ परमात्मतायामेव 'न स्थानतोऽपी'त्यधिकरणतात्पर्य च।। श्रवणमनननिदिध्यासनस्वरूपविवेक:, तेषां ब्रह्मसाक्षात्कार उपयोग- ९२
प्रकारश्र ॥ प्रमाणतन्त्रब्रह्मसाक्षात्कारस्यैवाज्ञाननिवर्तकत्वम्, न तु ध्यान्- ९३
मात्रस्य । ध्यानेनाज्ञाननिवृत्तिरित्याद्युक्तीनां परम्परया तदुपयोग एव तात्पर्यम्।। ९४ C
Page 48
44
बिषया: पृष्ठ-संख्या न्रह्मैव संसरतीति प्रस्थानभेदोपपत्तिप्रकारः, तत्रकमुक्तौ सर्वमुक्त्या- ९४ पत्तिपरिहारश्र ॥
जीवन्मुक्तौ न मतद्वयस्यापि विप्रनिपत्ति., तथापि तत््वरूपे प्रकार- ०५ भेदमात्रम् ॥ जीवन्मुक्तौ यावत्प्रारव्धभोगसमाप्ति ज्ञानरक्षार्थ तदभ्यासा- ९६
वश्यकता ॥ मायावादस्य बहुदर्शनसंमतत्वम्, प्राचीनेषु तस्य बहुशोऽनुवादेन ९७ न भगवत्पादकल्पितत्वम् ॥। अद्वैतसिद्धान्तस्य ब्रह्ममीमांसामुख्यतात्पर्यविषयत्वम्, यौगिकस्य ९.८ ब्रह्मशब्दार्थस्य तत्रैवानुगुण्यं च।। ब्रह्मसगुणतायां न विप्रतिपतिः, कितु तत्पारमार्थिकत्व एव, श्रुत- ९९ यस्तु तन्मिथ्यात्वमेवोपबृंहयन्ति ॥ १०० "परं जैमिनिर्मुख्यत्वात्" इति सूत्रं पूर्वपक्षपरं गत्यप्राप्यनिर्विशेष- १०१ वाद एव प्रमाणम्।। सोपानपरम्परया कर्मयोगादिपरमसिद्धान्तप्रस्थानानामद्वैतेन न १०२ विरोध: ।। जीवन्मुक्तानां लोकसंग्रहार्थमेव कर्मानुष्ठानम्, नात्मार्थम्।। १०४ जीवन्मुक्तौ प्रमाणादिविचारः ॥ १०५ जीवन्मुक्तानां शरीरादिविविक्ततयाSहमर्थानुभवः, न तु बद्धाना- १०६ मिव तदविविक्ततया॥ तत्त्वज्ञानपदार्थः ।। १०७ घटादिकं कारणात्मना तत्त्वम्, कार्यात्मना तुन तत्त्वम्।। १०८
Page 49
45
विषयाः पृष्ठ-संख्या अध्यासपक्षेऽपि परिणाम्युपादानान्तरापेक्षा, तदनपेक्षेति प्रस्थान- ११० भेदोडद्वैतमते॥ शून्यविज्ञानाद्वैनवादविवेक॥ १११ अनुबन्धचतुष्टयभेदात् पूर्वात्तरमीमासाभेद:॥ ११२ भिन्नशास्त्रत्वे त्रैवर्णिकस्यानुपनीतस्यापि ब्रह्मविद्याधिकारानापत्तिः ॥ ११३ वेदवाक्यविचारत्वेन न पूर्वात्तरमीमांसयोरैक्यम् ; विषयभेदाच्च।। ११४ फलमेदात पूर्वात्तरमीमांसयो्नैक्यम्। ११५ पूर्वोत्तरमीमांसयो: क्रमविशेषे न किमपि नियामकम्॥ ११६ सर्वज्ञस्य बादरायणस्यानादिसंप्रदायसिद्धन्यायस्वरूपविज्ञानं न ११७ जैमिनीयमीमांसाधीनम्। संज्ञाभेदात् पूर्वात्तरमीमांसयोर्भेदः, तत्कर्तृभेदादपि। ११७ कर्मेव ब्रम्मापि श्रेयसाधनत्वाद् न धर्मपदार्थः, येन धर्मजिज्ञासा ११८ ब्रह्मजिज्ञासाऽपि स्यात्।। स्वाध्यायत्वेन काण्डत्रयैक्येऽपि न तदर्थानामैक्यम्।। ११९. अप्पय्पदीक्षितेन्द्रादीनां न शास्त्रैक्ये तात्पर्यम्।। १२० वृत्तिकारोपवर्षाचार्यमताद् विलक्षणं भगवत्पादमतम् ॥ १२१ एकव्याख्येयव्याग्व्यानत्वेन न पूर्वोत्तरमीमांसयोरैक्यम्। १२२ साङ्गसशिम्स्कवेदान्ययनानन्तरं नित्यमोक्षफलसाघकब्रह्मविचार १२३ एव प्रवृत्ति: स्यात्, न तु कर्मविचारे॥ 'नमेत वेदानुवचनेन ब्राह्मणा विविदिवन्ती'ति वाक्यस्य १२४ ब्रह्मजिज्ञासाप्रतिबन्ध कपापनिवर्तने कर्मोपयोग एव तात्पर्यम्।। तमेतमिति वाक्यार्थविचार।। १२५ धर्मजिज्ञासायाः प्रागपि ब्रह्मजिज्ञासोपपत्तिः। १२७ जैमिनीयकर्मविचारेण न कर्मफलानित्यत्वनिर्णयः ॥ १२९
Page 50
46
विषयाः पृष्ठ-संख्या अपेक्षामात्रेण शास्त्रैक्य आस्तिकनास्तिकसर्वदर्शनैक्यापत्तिः ॥ १३२ घटब्रह्मसाक्षात्कारयोविशेष:, श्रवणाङ्गित्वपक्षे शाब्दापरोक्षवादो- १३४ पपत्तिश्च ॥ रज्जुतत्वब्रह्मसाक्षात्कारयोविशेष: ॥ १३६ रज्जुतत्वज्ञानेनापि प्रथमेनाप्रामाण्यज्ञानास्कन्दितेन नाज्ञान- 31 निवृत्तिरिति प्रामाण्यनिश्चयार्थ सर्वत्र मननाद्यपेक्षा।। जीवन्मुक्तानां भूमिकाभेदेन व्यवहारभेढादिकम् ॥ प्रथमश्रमबाधात्पूर्व तत्रैव रजतभ्रमान्तरेSप्यनिर्वचनीगरजतान्तरमेव १३९ भातुमर्हति, न तु पूर्वोत्पन्नमेव। "आत्मा वा अरे द्रष्टव्य" इत्यत्र दर्शन साक्षात्कार एव, न तु १४२ दर्शनसमानाकारा ध्रुवानुस्मृतिः, तस्या मोक्षसाधनत्वायोगात्॥ "यमेवैष वृणुते" इति श्रत्यर्थविचारः ॥ १४५ कर्मोपासनयोस्समुच्चयेऽपि न ज्ञानकर्मणोः समुच्चय:॥। १४० सविशेषनिर्विशेपवाक्ययोः सामान्यविशेपन्यायाद्यनुसारेणाविरो- १५१ धायोगः ॥। ब्रह्मण: सर्वात्मत्वम्=तद्व्यतिरेकेण सर्वाभावः ।। १५३ सद्विद्यायास्तत्रैव तात्पर्यम्।। १५५ "स एको ब्रह्मण आनन्दः " इत्यत्र ब्रह्मपदार्था न परमोपकान्त १४६ ब्रह्मस्वरूपम् ॥ "यतो वाचो निवर्तन्ते" इति निर्विशेषानन्दस्वरूपपरम्, न १४७ तु सगुणपरम् ॥ निर्गुणवाक्या पेक्षितनिषेध्यसमर्पकतया सगुणवाक्यानामुपयोगः॥ १५८ विशेषाभावेन निर्विशेषत्वविरोधशङ्कानिरासः ॥ १६०
Page 51
47
विषया: पृष्ठ-संख्या विधिमुखेन निषेधमुखेन, शक्त्या, लक्षणया, स्वरूपलक्षणेन वा १६१ बोध्यत्वमात्रेण सविशेषत्वापत्तिशङ्कापरिहारः ॥ सुषुप्तावसंप्रज्ञातसमाधौ च निर्विशेषानुभवः ॥ १६२ भासमानत्वमात्रेण न सत्त्वम्, येन शुक्तिरूप्यादिकं घटादिकं च १६३ सर्व सत्यं स्यात् ।। अनुभूतिस्वप्रकाशत्वोपपादनम्।। १६४ ब्रह्मरूपातिरिक्तलौ किकानुभूतीनामुपपादनम्॥ १६६ अनुभूतेरननुभाव्यत्वे गगनकुसुमादिवदसत्त्वापत्तिशक्कानिरासः॥ १६८ प्रत्यक्षागमाविरोघोपपादनम्।। १७० अनुभूतिनित्यत्वोपपादनम् ॥। १७१ ज्ञानमुत्पन्नम्, नष्टमित्यनुभवस्य जन्यं वृत्तिज्ञानमादायाद्वैतमते १७२ निर्वाह:, परत्र दु न स्वरूपज्ञानम्, धर्मभूतज्ञानं वाऽडदाय सः। न हि विकासादिरुत्पत्तिर्विनाशो वा ; घटाद्युत्पत्तौ सकोचविकासव्यवहाराभावात्। सुषुप्तावात्मानुभवे विषये प्रस्थानभेदः ॥ १७३ अनुभूति निर्विकारत्वोपपादनम्।। १७५ अनुभूति:, अविनाशिनी, अनादित्वादित्यनुमानस्य हेतौ भावत्व- विशषणेनादुष्टत्वम् ।। संविदैक्यसाधनम्॥ १७७ संविदेक्ये तदितरसर्वनिषेधेऽपि न सौगतमतप्रवेशः ॥ १७८ अहमर्थस्यात्मानात्मशबलितत्वोपपादनम्।। १७९ प्रत्यक्तत्त्वविचार. ॥ १८० अहमर्थात्मतायां काणादसूत्रविरोधाविरोधचर्चा ।। १८१
Page 52
48
विपयाः पृष्ठ-संख्या अहमर्थानात्मताया "मथातोऽहङ्कारादेश." "अथात आत्माऽडदेशः" १८५ इति श्रुतिर्मानम् ।। 'बहु स्याम्' इति श्रुतावीश्वरस्याहमर्थत्वोपपादनम् ॥ १८७ अहं मुक्त. स्यामितीच्छोपपत्तिरद्वैतमते॥ १८९ ज्ञानस्वरूपस्यात्मनो ज्ञातृत्वमौपाधिकम् ॥ १९० संकोचविकासशालिनित्यघर्मभूतज्ञानेनात्मनो न ज्ञातृत्वम् ; धर्मभूतज्ञानस्यो क्तविधस्य दुर्निरूपत्वात् ॥ आश्रयविषयापेक्षाऽन्तःकरणवृत्तिरूपस्य गौणम्य ज्ञानम्य, न तु १९५ स्वरूपज्ञानस्य ।। विषयसंब- १९६ न्धापेक्षा विषयप्रकाशार्थ नियता॥ अविद्याप्रतिबिम्बो जीव इति पक्षेऽपि जीवात्मनो ज्ञातृत्वमन्त :- १९७ करणावच्छेदेनैव।। संविन्मात्रेSहमध्यासे संविदहमिति प्रतीत्यापत्तिनिरास. ॥ २०१ सर्वव्यापकस्यापि संविन्मात्रस्यात्मनोऽन्त.करणवृत्त्यपेक्षमेव घटादि- २०३ प्रकाशत्वम्, तस्यान्तःकरणेनाभिव्यक्तिश्च॥ अहमर्थात्मतायां धर्मभूतज्ञानेन सुषुप्तावप्यहमनुभवापत्तिः परमते, २०४ अद्वैतमते संविन्मात्रमाविद्यकवृत्त्या प्रकाशत इत्युपपन्नम् ॥ ज्ञाघात्वर्थो जन्यं वृत्तिज्ञानमेव, न नित्यं स्वरूपज्ञानम्, धर्म- २०६ भूतज्ञानं वा ।। ब्रह्मज्ञाने, सौषुप्तात्मानुभवे वाऽविद्याया न दोषत्वेन कारणत्वम्, २०८ अतो वाक्यजन्यब्रह्मज्ञानं न भ्रमः । अविद्यापरिणामस्यापि शास्त्रस्यावाध्यब्रह्मज्ञाने न दोषमूलकत्वम्, २०९ अन्यत्र भाविबाधप्रतीत्या दोषमूलकत्वमिष्टमेव।
Page 53
49
विषया: पृष्ठ-संख्या शास्त्रप्रतीतस्यापि शास्त्रेण निषेधः संभवति जतिलादिवाक्य २ ११ इव ॥ विशेषमात्रनिपेधपरतयाSविरोधायोग.।। २१२ ब्रह्ममिथ्यात्वानुमानाभासनिरासः । २१३ सत्त्वासत्त्वौदासीन्येन कार्यकारणभावनिर्वाहः ।। २१४ शून्यवाद इव शास्त्रस्य व्यावहारिकघटादेर्वा न निरुपार्यत्वम्॥ २१५ शून्यवाक्यबाधकत्वापत्तिरुमयत्र समाना ।। २१६ "न स्यानतोऽपि परस्योभयलिङ्ग"मिति सूत्रस्याद्वैतानुगुणं २१७ योजनमेव युक्तम्। गीताया निर्विशेषवाद एव स्वारस्यम् ॥ २२० विष्णुपुराणस्याद्वैत एव परमं तात्पर्यम्, तत्रैव स्वारस्यं च।। २२२ विष्णुपुराणे "त्यज भेदमोहमि"त्याम्नानस्य मुक्तावात्मसाम्य- २२४ परतया योजनस्य निरासः ।। प्रत्यंशं विष्णुपुराणस्योपक्रमपरामर्शोपसंहारैरद्वैत एव पर्यवसानम्। २२५ अविद्याया ब्रह्माश्रयत्वोपपत्तिः ॥ २४० अविद्याया जीवाश्रयत्वोपपत्ति. ॥ २४१ ब्रह्मणोSविद्यया तिरोधानोपपत्तिः ॥ २४२ अविद्यायाः स्वरूपोपपत्तिः, भावरूपत्वोपपत्तिश्च । २४४ अविद्याऽनिर्वचनीयत्वोपपत्ति.॥। २४६ निर्विशेषब्रह्मशून्यतावादनिरासः ॥ २४७ ब्रह्मापारमार्थ्येऽपि भ्रमोपपत्तिः, शून्यवादापत्तिनिरासश्च। २४८ मावरूपेऽज्ञानेऽहमज्ञ इति प्रत्यक्षप्रमाणम्। २४८ अह्मज्ञ इत्यनुभवस्य ज्ञानाभावविषयत्वनिरास: ।। २४९
Page 54
30
चिपयाः पृष्ठ-संख्या प्रमाणज्ञानं स्वम्रागभावव्यतिरिक्तेत्या दिविवरणानुमानम्य प्रसक्त- २५० सर्वदूषण निरसनपूर्वकं समर्थनम् । अज्ञाननिवर्तकोपपत्ति ॥ २५२ शास्त्रसिद्धभाविबाधापेक्षया वैकुण्ठादिलोकस्येव प्रपश्चमिथ्यात्वस्य २५३ साम्प्रतं व्यवहारोपपत्तिः ॥ व्यावहारिकप्रातिमा सिकलक्षण निष्कर्षः ॥ २५४ व्यवहारदशायां सत्प्रतीतिविषयस्यापि परमार्थगत्या सदसद्विलक्षण- २५७ त्वोपपादनम् ॥ अनिर्वचनीयर्यातिसमर्थेनम्॥। २५९ स्वामनिकानामीश्वरसृष्टत्वेन सत्यत्वनिरासः ॥ २६० "वैधर्म्याञ्च न स्वमादिवत्" "मायामात्रं तु" इति सूत्रयोः २६३ स्वामनिकमिथ्यात्व एव स्वारस्यम् ॥ जागरिकस्या भिव्यक्तत्वं साक्षात्तदुपादानतत्तवयवाद्यपेक्षयैव माया- २६४ कार्यत्वात्, न तु तत्स्वामिकानामिति जागरिकम्यैवामि- व्यक्तत्वम्, न तु स्वामस्य । सोपाधिकनिरुपाधिकसर्वभ्रमोपपादनम्।। २६५ परिमलस्या निर्वचनीयख्यातावेव तात्पर्यम्।। २६६ रजतादिप्रत्यक्षस्य घटादिप्रत्यक्षसाम्यम् । २६९ अविद्यायामागमप्रामाण्यम्।। २७१ "अनृतेन प्रत्यूढाः" इत्यादावनृतपदस्य "सत्यं चानृतं च" २७२ इत्यादाविव मिथ्यार्थत्वम्।। अनृतपदस्य दुष्कर्मपरत्वनिरासः ॥। "अज्ञानिनां प्रवर्तन्ते कर्मलेपास्त्रयो द्विज" इति विष्णुपुराणं २७४ कर्मातिरिक्ताज्ञानसाधनपरम्।
Page 55
51
विषया: पृष्ठ-संख्या कामानां कारणात्मना सत्यत्वम्, कार्यात्मना मिथ्यात्वमिति २७५ 'सत्याः कामा" इत्यादिश्रुत्युपपत्ति. ॥ आवरणशक्तिमदज्ञाने 'नासदासीत्' इत्यादिश्रुतयः प्रमाणम्॥ २७६ 'अविद्याकर्मसंज्ञाऽन्या' इति विष्णुपुराणस्य कर्मातिरिक्ताविद्यायां २७७ प्रामाण्यम् ।। सर्वस्य ब्रम्मव्यतिरिक्तस्य ब्रह्मशरीरत्वे कुमारिलभट्टानामतात्पर्यम् । २७७ व्यवहारे भाट्टनयः श्रृत्यविरोध्येव स्वीक्कियते। २७७
मायाऽविद्ययोरभेद, मायाशब्दस्य ज्ञानपरत्वमपि भावरूपाज्ञान- २७८
मायाशव्दस्य विचित्रार्थ क्रियाकारित्वपरत्वेऽपि तत्कार्यस्य मिथ्यात्वोपपत्ति. २७९ मायापदार्थनिष्कर्प॥ २८० अविद्यायां श्रुतार्थापत्तिप्रमाणता, जीवेश्वरयोर्विशिष्टयोर्भेदः, जीवत्वे- २८१ श्वरत्वोपलक्षितयोरभेदः, तयोगतेषां च भेदाभेदार्थश्रुत्युपपत्तिश्च॥ तत्त्वमसिवाक्यार्थोडद्वैतमत एव स्वरस., न तु शरीरवाचकानां २८२ पदाना शरीरपर्यन्तत्वसिद्धान्ते॥ तत्त्वज्ञानस्याज्ञाननिवर्तकत्वोपसंहारः, अज्ञाननिवृत्त्युपपत्तिश्च ॥ २८४ अविद्याया मनुपपत्तेर्भूषणत्वम्, विष्णुपुराणस्याद्वेते परमतात्पर्योपसंहार:।। २८५ रीरलक्षणम्य त्रिविधस्यापि श्रीमाष्याभिमतस्य दुष्टत्वोपपादनम्।। २८७ यस्य चेतनस्य यद् द्रव्यं सर्वात्मना नियन्तुं शक्यम्, तत् तस्य २८९ शरीरमिति शरीरलक्षणपरीक्षा।। अन्तर्यामिब्राह्मणस्य चिदचिद्विशिष्टशरीरकत्वे न प्रामाण्यम् २८९ अन्तर्यामित्वस्याधिष्ठानत्वरूपम् ॥ २८९ पृथिव्यादीनां तदुपाधिमात्रत्वम्, अन्तर्यामिब्राह्मणस्य दिव्यशरी- २९० रासावकत्वम्, तस्य सशरीरत्वे ब्रह्मविद्योपनिषदादिविरोघश्च॥
Page 56
52
विषया: पृष्ठ-संख्या अन्तर्यामिब्राह्मणस्य पूर्वो त्तरसन्दर्भालोचनयाSSनन्दयस्य पुच्छत्रह्मण २९१ एव वा सर्वान्तनत्वेनैव शारीरत्वम्। नित्यसूरिदेवतादिस्वरूपशरीरत्वे नान्तर्यामिब्राह्मणं प्रमाणम्।। २९२ सुबालोषनिपदनुसारेणान्तर्याम्यप्ययाधिष्ठान ब्रह्मतत्त्वं परमन्य- २९३ ननिर्बीजमस्तीति निरूपणम् । अन्तर्यामिब्राह्मणसाराशसंकलनम्॥ २९४ "यस्य पृथिवी शरीरमि"त्यादौ शरीरपद नियम्यमात्रपरम्, न तु २९६ पारिभाषिकशरीरपरम्॥ ईशवास्योपनिषद. ब्रह्माशरीरकत्वे प्रामाण्यम्।। २९७ केन-कठ-प्रश्न-मुण्डकोपनिपदां ब्रह्माशरीरकत्वे प्रामाण्यम्। २९८ माण्डूक्य-तैत्तिरीय-छान्दोग्य-बृहदारण्यकोपनिपदां ब्रह्माशरीरकत्वे २०९
प्रामाण्यम्।। सूक्ष्मचिदचितो. शरीरलक्षणायोगः ॥ ३०० श्रीभाष्यदृष्टया शरीरलक्षणपरीक्षा।I ३०० प्रमेयमालाकारदृष्टया शरीरलक्षणत्रयपरीक्षा ।I ३०२ सिद्धान्त्यभिमतशरीरलक्षणानि॥ ३०८ शरीरवाचकानां पदानां शरीरिपर्यन्तत्वशक्का-तत्समाधाने। ३१० निष्कर्षकविधया विशेष्यमात्रस्य विशेषणमात्रस्य वा वाचकत्वायोग: ॥ ३१८ सर्वेपां पदानां परमात्मपरत्वाभावेऽपि"सर्वे वेदा यत्पदमामनन्ती" ३२० त्यस्योपपत्तिः ।। सर्वेषां पदानां ब्रह्मवाचित्वे 'मनो ब्रह्मेत्युपासीत' इत्यादिवाक्या- ३२१ र्थानुपपत्ति., सर्वलौ किकवैदिकव्यवहारलोपापत्तिश्र ।। विष्णुपुराणस्य शरीरशरीरिभावपरत्वायोग।। ३२३ कुमारिलपादानां ब्रह्मण: सर्वशरीरित्वे श्रोभाष्याभिमते न तात्पर्यम्।। ३२७ उपसंहार. ॥ ३३०
Page 57
॥ अद्वैतामोदादिपरीक्षा॥
॥ प्रमाणपरिच्छेदः॥ ।। तत्र प्रत्यक्षप्रमाणम् ॥
मातामहमहाशैलं महस्तदपितामहम्। कारणं नगतां वन्दे कण्ठादुपरि वारणम्।। धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः। तत्रार्थकामयोः पुरुषार्थतवं धर्मा- विरोधेन, न स्वतः। उक्तं च भगवता-"धर्माविरुद्धो भूतेषु कामोडस्मि भरतर्षभ।" इति। तत्राद्यास्त्रयो न नित्याः; जन्यत्वात्, स्वर्गे नित्यत्वाम्ञान- माभूतसंपवस्थायित्वेन। तथाचोक्तम्-"आभूतसंप्नवस्थानममृतत्वं हि कथ्यते।" इति। नित्यस्तु पुरुषार्थो मोक्षो नाम। स च वेदान्तमतेषु भिन्नभिन्नरूपः ॥ तत्र केचन वैकुण्ठादिलोकावाप्त्या भगवता भोगसाम्यं मोक्ष :- इति वदन्ति। अद्वैतिनस्तु-निर्विशेषब्रह्मभाव एव मुक्ति :- इति। व्यक्तीकरिष्यते चेदं प्रयोननपरिच्छेदे। तत्साधनं तु साघनपरिच्छेदे, विषयपरिच्छेदे तु जीवेश्वरा- दिस्वरूपं बद्ध-मुक्त-साधारणम्। प्रथमं तु तत्र सर्वमूलत्वात प्रमाणपरिच्छेद: प्रवर्तते। तत्राद्वैतसिद्धान्ते व्यवहारे भाट्टनयेन षूट प्रमाणानि-प्रत्यक्षानुमानोप-
Page 58
अद्वैततत्त्वशुद्धि
मानागमार्थापत्त्यनुपलाब्घिरूपाणि फलभेदं प्रतीयमानमादाय। फलाभेदे तु प्रत्यक्षानुमानागमैरपि निर्वाहात्, न नामभेदमात्र आग्रहः। तत्र सर्वेषां प्रमाणानां यथासंभवमद्वैतसिद्धयन्तरङ्गोपाये द्वितीयमिथ्यात्वे, चोपयोगः ।। तत्र प्रत्यक्षप्रमा शब्दनन्यापि भ्रमबाधिका, बाधस्वरूपानुपलन्घिर्वा फलतः प्रत्यक्षप्रमा साक्षाद् द्वितीयमिथ्यात्वं व्यञ्जयति। एवमनुमानम्, अर्थापत्तिश्च। शब्दस्तु साक्षान्निर्विशेषं ब्रह्मपि सविशेषमिव बोधगन् साक्षात् ब्रह्मस्वरूपे, तथा द्वितीयमिथ्यात्वे च प्रमाणम्। उपमानफलं तु साम्यमि वैधर्म्यमपि। तेन च द्वितीयस्य ब्रह्मविलक्षणत्वव्यन्जनद्वारा सद्विविक्तत्वरूपं मिथ्यात्वं व्यज्यते। एवमद्वैतासाधारणे द्वितीयमिथ्यात्वे, ब्रह्मनिर्विशेषत्वे च यथासंभवं सर्वाणि प्रमाणान्युपयुज्यन्ते। न केवलमत्रैव, किन्त्वद्वैतिनामसाधारणेऽज्ञाने भावरूपेऽपि तान्युपयुज्यन्ते, इति यथासभवं प्रमाणानासुपयोगः । तत्रानधिगतावाधितार्थविषयकं ज्ञानं प्रमा, तत्करणं प्रमाणमिति सामान्यतः प्रमा-तत्करणस्वरूपम् । तत्र तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वमिति भ्रमप्रमासाधारणं प्रामाण्यम्। अनधिगताबाधितारथेविषयकज्ञानत्वं तु प्रमाSसाधारणं प्रामाण्यम्। तेन च नानिर्वचनीयख्यातिविरोधः। मिथ्यात्वेनानिश्चीयमानार्थ- विषयकज्ञानत्वम्, तदूति तत्प्रकार कज्ञानतव वा स्वतोग्राह्यं प्रमात्वमिति तु विवेकः। तेन च वेदान्तपरिभाषायाम्-अनधिगताबाधितार्थविषयकज्ञानत्वं प्रामाण्यमिति प्रामाण्यं प्रथमतो निरूप्य, स्वतः प्रामाण्यवादे-"तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यमित्युपपादन न विरुध्यते।। तत्र प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणम्। प्रत्यक्षप्रमा च पश्चविधा- (१) चैतन्यमात्रम्, (२) अबाधितविषयावच्छिन्नचैतन्या मिन्नवृत्त्यवर्च्छिन्नचै- तन्यम्, (३) प्रमातृचैतन्याभिन्नाबाघित विषयत्वम्, (४) जीवसाक्षी (५) ईश्वरसाक्षी चेति। तत्र चैतन्यत्वरूपं प्रमात्वं सर्वसाधारणम्। अन्यत् सर्व तत्तदसाधारणम्।
Page 59
प्रत्यक्षप्रमाणम् ३
तत्राद्म्, तुरीय-पश्चमे च नित्ये, द्वितीय-तृतीये प्रमात्वे तु प्रमाणजन्यवृत्त्यपे- क्षत्वात् प्रमाणजन्ये, न नित्ये।। तत्र घटादिज्ञाने, तदाकारवृत्त्यवच्छिन्ने घटदेशेऽन्तःकरणसयोगवशात् घट-तदाकारवृत्त्योरेकदेशस्थत्वेन तदवच्छिन्नचतन्यस्य ताकावृत्यवच्छिन्न चैतन्यस्य च भेदाभावादभेदोपचाराल्लक्षणसमन्वयः । अत्र वृत्त्यवच्छिन्नेत्यत्र वृत्ति-तदवच्छिन्नान्यतरस्य ग्रहणात ब्रह्मज्ञाने तदाकारवृत्तिमात्रे प्रमाणजन्ये लक्षणसमन्वयः। एतेन-विषय प्रत्यक्षत्वमपि-व्याख्यातम्; प्रमातृचैतन्यपदेन साक्षिचैतन्यस्य विवक्षणाद् ब्रह्मणश्च साक्ष्यभेदाल्लक्षणसमन्वयः॥ एतेन1-द्विविधस्य प्रत्यक्षप्रमाणलक्षणस्य ब्रह्मज्ञाने ब्रह्मणि चाव्याप्ति- शङ्का-परास्ता। यत्त-वृत्त्यवच्छिन्नचैतन्यस्य यदवच्छिन्नचैतन्यामेदाद् ज्ञानप्रत्यक्षत्वम्, तस्य,विषयस्यैव प्रत्यक्षत्व विषयप्रत्यक्षत्वमित्येकप्रकारस्यैव सुवचत्वात् प्रमातृचैतन्याभेदो विषयप्रत्यक्षत्वमिति विभाग कुत 2 ज्ञानप्रत्यक्षत्वे वा प्रमातृचैतन्यस्यैव विषयावच्छिन्नचैतन्याभेद कुतो नोच्यते 2 विषयव्यापि- विषयाकारवृत्त्यवच्छिन्नमित्येतावताऽलम्, इति विषयावच्छिन्नचैतन्याभेद- कल्पनमपि मुधा, अविद्याप्रतिबिम्बजीववादे चान्त करणवृत्त्यवच्छिन्नचैतन्य- मादाय जीवस्य प्रमातृत्वं दुर्घटम्। चैतन्यात्मकस्य जीवस्य सर्वव्यापित्वेन स्वत एव घटसबन्धाद् घटावभास स्यात्। अन्त.करणवृत्तिश्च किमर्था ? न चान्त करणवृत्ति स्वच्छा घटस्य जडस्य स्वच्छतामापादयति। ततश्च घट स्वावच्छिन्नं चैतन्यमभिव्यनक्तीति तस्य चैतन्यस्य घटावभासकत्व- मिति-वाच्यम् घटस्य चैत्तन्याभिव्जकत्वेऽन्त करणस्येव घटस्यापि चेतन- त्वेन प्रतीत्यापत्ति b i इति॥
स्थाने प्रमातृचैतन्याभिन्नवृत्त्यवच्छिन्नचैतन्यं ज्ञानपरत्यक्षमिति न युक्तम् ; परोक्षज्ञानातिव्यापकत्वात्। अविद्याप्रतिबिम्बो जीव इति पक्षेऽप्यन्तःकरणो- पहितत्वेनैव जीवस्य साक्षित्वम्, इत्यन्तःकरणवृत्ति विना घटादेः प्रमाण- 1. अन्न सवेत्र एतेन-शंका-परास्तेति परमार्थप्रकाशिकाशंका विवक्ष्यते॥
Page 60
४
चैतन्याभेदस्य बाधितत्वात् विषयस्य प्रमातृचैतन्यामेदाभिव्यक्तचर्थमन्तःकरण- वृत्तिर्नियतेत्यद्वैतिनां प्रक्रिया तत्र तत्राद्वैतनिबन्धेषु विशदा। अतः प्रमातृचैतन्याभेद एव विपयस्य प्रत्यक्षत्वमिति वक्तव्यम्। वृत्त्यवच्छिन्नचैतन्या- भिन्नविपयत्वस्यैव विषयप्रत्यक्षत्वे तु घटमहं जानामीति त्रिपुटीमानस्य त्रितय- प्रत्यक्षरूपस्य न निर्वाह्। अत एव विषयस्य प्रत्यक्षत्वं सविदभेदादिति पूर्वाचार्याः। सवित्पदार्थश्चात्र प्रमातृचतन्यमिति तदीयं विवरणम्।। एतेन-विषयव्याषित्वमात्रं वृत्तेरास्ताम्, किमिति तत्रावच्छिन्नचेत-
विषयव्यापित्वं च यदि म्वविषयविषयकत्वम्, तर्हि परोक्षज्ञानेऽति व्यापकम्। यदि तु संयोगमात्रम्, तर्हि वृत्तिनिर्गमो दुर्निवारः ॥ तत्र वृत्तेरज्ञाननिवर्तकत्वं तत्र चैंतन्यप्रतिफलनेन; चैतन्यस्यैवाज्ञान- विषयत्वादिति चैतन्यावच्छेदकत्वेनैव घटादेः प्रत्यक्षत्वात् तत्रावच्छिन्नचतन्या- भेदव्यवरथा, इति विषयावच्छिन्नचैतन्याश्रितमज्ञान तदाकारवृत्यवच्छिन्नचैतन्या- भेदं विना कथम्? घटतदाकारवृत्त्योरेकदेशस्थत्वेन हि घटावच्छिन्नचैतन्यगत- मावरणम्, अज्ञानविषयत्वं वा निवतते। अन्त करणवृत्तिर्हि स्वच्छा घटा- वच्छिन्नचैतन्यमनावृतयति, स्वच्छयति वा। वृत्त्युपहितो घटस्तु स्वच्छचैतन्या- वच्छेदकत्वमात्रेण स्वच्छवदेव। ततश्च वृत्तिरेव चैतन्यं स्वच्छयति, न घटः, इति कथं घटस्यापि चेतनत्वापतिः १ यथा चान्तःकरणवृत्तिनिर्गमाभावे प्रत्यक्षत्वपरोक्षत्वादिविवेकानुपपत्तिः, तथाSभेदाभिव्यक्तयर्था वृत्ति:, चिदुपरागार्था वृत्ति:, आवरणाभिभावार्था वेत्यत्र तत्र तत्र प्रकरणग्रन्थेषु विस्तृतम्। वृत्तिनिर्गमो नामान्त:करणस्य विकासमात्रम्-विषयदेशसम्बद्धविक- सितान्तःकरणभागविशेष एव। अत एव घटादीनामन्तःकरणावच्छिन्नचैतन्य- रूपप्रमातृचैतन्याभेदः, अन्यथा वृत्त्यन्तःकरणयोर्भिन्नदेशस्थत्वात् कथ प्रमातृ- चैतन्यामेदेन विषयप्रत्यक्षत्वम् 2 अधिकं न्यायरत्ावल्यादौ। नचायमनुभवा-
Page 61
प्रत्यक्षप्रमाणम् ५
गोचरः। कथमन्यथा परमार्थप्रकाशिकामते विषयप्रत्यक्षत्वनिर्वाहः। यदि स धर्मभूतज्ञानविकासेन, तर्हि किमयं सर्वजनानुभवगोचरः 2 धर्मभूतज्ञानसंकोच- विकासकथा हि श्रीमाष्यसिद्धान्तासाधारणीः, कस्य वा नरस्यानुभवगोचरः? अन्तःकरणवृत्तिर्हि चैतन्यावच्छेदेनैवोत्पद्यते, स्वप्रकाशा च, इति कथं तस्यास्तू- लाविद्याऽपरिणा मिन्या: प्रातिभासिकरनतवत मिथ्यात्वमनुभूयमानायाः, प्रतीतिस- मसत्ताकाया व्यवहारदशायाम पिः प्रतिभाससमसत्ताकत्वेनौपचा रिकप्रातिभासिका हि सुखादयोऽन्तःकरणवृत्तिप्रतिबिम्बविशेषा: प्रातिभासिका अपि न तत्र मिथ्याभूताः। तथाच विमतम्, मिथ्या, इत्यनुमाने प्रतीतिसत्तासमसत्ताकत्वस्य नोपाघित्वम्; अप्रयोजकत्वात्। अत एव प्रपञ्चमिथ्यात्वेऽपि सर्वव्यवहारोपपत्तिः ; यावद्वाधं व्यवहारस्या विरोधात्। तदेवं प्रत्यक्षत्वं चिदाभासव्याप्तिनिबन्धनं फलव्याप्यानाम्; ब्रह्मणस्तु तदाकारवृत्तिविषयतामात्रेणेति पूर्वेमेव निरूपितम् ।।
तत्र सर्वात्मनाऽनावृतचिन्मात्रमेवाखण्ड तत्त्वमसिवाक्यजन्यवृत्ति- विषयः। न त्वेकत्वं नाम किमप्यन्यत्तत्र विषयः, इति तत्रैकत्वं ब्रह्मातिरिक्तं वा, नवा, इत्यादिविकल्पा नावसरन्ति। तत्राखण्डस्य ब्रह्मणो वृत्त्याकारत्वं तत्संबन्धमात्रम। नच विषयत्वं घटादाविव। इयान् विशेष :- यद् घटादौ विषयत्वम् =तदवच्छिन्नचैतन्याभिन्नचैतन्यावच्छेदकत्वम् तच्च तद्द्वारकम्। ब्रह्मणस्तु तद्विपयत्वमात्रम्। इदमेवाभिप्रेत्याहु :- फलव्याप्यत्वमेवास्य शास्त्रकृद्धिर्निराकृतम्। ब्रह्मण्यज्ञाननाशार्थ वृत्तिव्याप्यत्वमिष्यते।।
इति। स्वरूपज्ञानस्य ब्रह्मणोऽज्ञानाविरोधित्वात्, वृत्तेरेवाज्ञानविरोधित्वाच्च न वृत्ति विनाऽज्ञाननिवृत्ति: स्वप्रकाशतायामपि। यथाहि धर्मभूतं ज्ञानं श्रीमाष्य- मतेऽनडम्, एवमन्तःकरणवृत्तिरद्वैतमते। जडत्वं त्वस्वप्राकाशत्वम्। नच वृत्ति: स्वप्रकाशा धर्मभूत ज्ञानमिव जडा नाम, येन तस्या अज्ञाननिवर्तकत्वायोगः।
Page 62
६
विभागोऽद्वैतिनां निराबाघः ॥ वृत्तिश्च्वेयं त्रिविधा-अन्तःकरणवृत्तिः, मायावृत्तिः, पल्लवाविद्यावृत्तिरिति। तत्र मायावृत्तिमादाय सर्वदेशवरस्य सर्वविषयप्रमातृत्वम्, अन्तःकरणवृत्तिमादाय जीवानां घटादिविषयप्रमातृत्वम्। शुक्तिरूप्या दिप्रत्यक्षत्वं शुक्तिरूप्याकारपल्लवा- विद्यावृत्तिमादाय ॥ तत्र ज्ञानप्रत्यक्षत्वं सूपपादम् ; विषय-तदाकारवृत्त्योरुमयोरप्याविद्यक- त्वाद् एकदेशस्थत्वाच्च तदुभयावच्छिन्नचैतन्याभेदात्। विषयप्रत्यक्षत्वं तु शुक्तिरूप्यस्य प्रमातृचैतन्याभिन्नशुक्तयवच्छिन्नचैतन्याध्यस्तत्वात् ्रमातृचैत- न्याभिन्नत्वादनपोहम्। तत्रेदं रजतमिति अ्रमदशायामपि रजताकाराविद्या- वृत्तेरपि शुक्त्याकारवृत्त्यवच्छेदेनोत्पन्नतया शुक्त्ाकावृत्तेर्तकवृत्तिरुपायाः प्रमात्वात्तदर्वच्छन्नचैतन्याभिन्नरूपत्वेन प्रत्यक्षप्रमात्वमेव यावद्वाघोदयम्। भाविबाघमादायैव रजत-तदाकारवृत्योर्थ्र्र्ान्तिविषयत्वव्यपदेशः।। तत्र चेन्द्रियसन्निकर्ष एव परम्परया प्रमावृत्तेः कारणमिति वस्तुस्थितिः । अत एव भ्रमकाले रजतम्यापि चाक्षुपत्वमानुभविकं सर्वेषाम्। तत्र चेदन्त्वस्य पारमार्थिकत्वस्य च शुक्तिगतस्य रनतेऽन्यथाख्यातिः, इति न तत्रानिर्वचनीय- त्वम्, भ्रमकालेऽपि बाधितत्वं वेति। तत्र पारमार्थिकत्वांशे भ्रम इत्यादि- वादोऽपि न विकल्पसहः। न हि भ्रमसमये पारमार्थिकत्वमपि बाघित प्रतीयते। भाविबाधप्रतीतिमादाय बाधितत्वं तु शुक्तिरूप्यस्यापि समानम् । तथाच-शक्तिरूप्या दिस्थले इन्द्रियजन्यशुक्तिवृत्त्यपेक्षया रजतविषयका- विद्यावृत्तेरतिरिक्ततया स्वीकरणस्यापि कस्यचिद्वाच्यतया प्रमाणषट्टकविभाग भङ्गप्रसङ्ग इति-परास्तम्॥ रजताकाराविद्यावृत्त्यंशमात्रे प्रमात्वस्यानङ्गीकारात। तद्वति तत्प्रकार- कत्वेन प्रामाण्यं हि रजतांशेऽनिर्वचनीयख्यातिवादे यावद्वाघमेव। तदा त्विन्द्रिय- जन्यशुक्त्याकारवृत्त्यभेदादेव प्रमात्वव्यपदेशः, न तु रजतवृत्तिमात्रे, येन-
Page 63
प्रत्यक्षप्रमाणम् ७
इदँ रजतमिति ज्ञानस्य रजते पारमार्थिकत्वांशे भ्रमत्वे- Sप्यनिर्वचनीयरजतोत्पत्तिस्वीकारेण वर्तमानरजतावगाहि- न्या वृत्ते रजतत्वविशिष्टधर्म्येशे प्रमात्वादिति वाचोयुक्ते- रवसरः स्यात्॥ भ्रमा: सर्वे धम्येशे प्रमा इति राद्दान्तस्तु भाविबाघाभावाद् बाधक- ज्ञानविषयत्वाद्वा शुक्तयादिधर्म्यशाभिप्रायः, न तु रजतत्वविशिष्टघर्म्यशाशयः॥ तत्रैकसत्तावादे रजतस्य न प्रातिभासिकमपि सत्त्वम्, किन्तु सत्तादात्म्य- मेव, इति न रनतत्वविशिष्टांशे प्रमात्वशक्काऽपि, अबाधितत्वरूपसत्ताया भ्रमदशायामग्रहणात्। सत्तात्रैविध्यमते तु-मातिभासिकं सत्त्वं प्रतीयते। तेन च यावत्प्रतिभासं स्वतो ग्राह्ं प्रमात्वमपि, इति पूर्वमेवोपपादितम्-स्वतो- ग्राहें प्रमात्वं भ्रमप्रमासाधारणमितिनिरूपणेन न्यायरलावल्युक्तरीत्या। तथाच बाधितत्वं गृह्यमाणप्रकाराभाववत्त्वम्। अबाघितत्वं गृह्यमाणप्रकाराभाववदन्यत्व- मित्यादि यदि तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वम्, तदभाववति तत्प्रकारकत्व भ्रमत्वमिति प्रमाप्रमालक्षणाभिप्रायेण, तर्हि पूर्वोक्तविधया भ्रमकाले गृह्यमाण- प्रकागभाववत्त्वं न कुत्रापि भ्रमे वर्तते। भाविबाधप्रतीतिमभिप्रत्य हि त्रमत्व- न्यपदेशः । नहि भ्रमकाले पारमार्थिकत्वाभावो रजताभावो वा गृह्यते॥ एतेन-सत्तात्रैविध्यमपि-व्याख्यातम्। त्रिविधा सत्ा-प्रातिभासिकी, व्यावहारिकी, पारमार्थिकी चेति। तत्र यावत्प्रतिभासकालमात्रमबाध्यत्वं प्राति- भासिकं सत्त्वम्, यावद्ब्रह्मसाक्षात्कारपूर्वेक्षणमबाध्यत्वं व्यावहारिकसत्त्वम्। तच्च भाविबाधप्रतीतिं लोकसिद्धां शास्त्रसिद्धां वाऽभिप्रेत्य। कादचित्कबाधप्रति- योगित्वे प्रातिभासिकत्व-व्यावहारिकत्वे, कालविशेषावच्छिन्नबाघाभावस्तु पार- मार्थिकत्वं ब्रम्मणो लोकतः शास्त्रतो वा भाविबाधाभावादिति विवेकः। व्यवहारद- शायानवाध्यत्वं व्यावहारिकत्वमिति तु निष्कर्ष॥ एतेन-१४-१६ व्यवहारकालिकमबायत्वं न व्यावहारिकत्वम्; जगतस्तत्त्वज्ञानवाभ्यत्वेन बाध्यत्वसामान्याभावरूपाबाध्यत्वस्य विशेष्यस्य
Page 64
८ अद्वैततत्त्वशुद्धि
तत्र दुर्वचत्वेन विशिष्टाभावस्य तत्राभावात्, यर्त्किचिद्बाध्यत्वप्रतियोगिकाभा- वस्तु शुक्तिरजतेऽपि शुक्तिज्ञानवा+येऽतिप्रसक्त इति-परास्तम् ॥ यावद्रह्मसाक्षात्कारं बाध्यत्वेनानिश्रीयमानत्वं व्यावहारिकत्वं घटादीनाम्, तत्त्वबाधितम्, शुक्तिरुप्यादीनां तु ब्रह्मसाक्षात्कारपूर्वेक्षणावच्छेदेन बाध्यत्व- निश्चयात् नेदं शुक्तिरूष्यादि साधारणम्। नहि भ्रमकाल एव तत्त्वज्ञानबाध्य त्वनिश्चयः, येन जगतस्तत्त्वज्ञानबाध्यत्वेन बाध्यत्वसामान्याभावरूपाबाध्यत्वस्य तत्र दुर्वचत्वम्।। सप्रकारकज्ञानबाध्यत्वं प्रातिभासिकत्वम्। निष्प्रकारकज्ञानबाध्यत्व व्यावहारिकत्वम्। तच्च भाविबाघनिश्चयाधीनमेव, नतु भ्रमकालीनवस्तुगतिमनु सृत्य। अत .- अबाध्यत्वमेव सत्तेति न व्याहतमिदम् । देहात्म्यैक्यमिव, जलोष्णत्वमिव वा व्यावहारिकमेव। निष्प्रकारकज्ञानबाध्यमूलाज्ञान-तत्कार्या- न्यतरत्वं वा व्यावहारिकत्वम्, सप्रकारकज्ञानबाध्यतूलाज्ञान-तत्प्रयुक्तान्यतरत्व- योग्यत्वं प्रातिभासिकत्वमिति तु विवेकः। ब्रह्मज्ञानाव्यवहितपूर्वप्रातिभासिके तु तूलाज्ञानस्यापि मूलाज्ञानावस्थाविशेषस्य मुलाज्ञानप्रयुक्तत्वात मूलाज्ञाननाश- प्रयुक्तनाशप्रतियोगित्वाद् व्यावहारिकत्वं न विरुद्धयते। सप्रकारकज्ञान- बाध्यत्वं हि पल्लवाज्ञानतत्प्रयुक्तान्यतरत्वरूपमेव, इति न ब्रह्मप्रमाव्यवहितपूर्व- प्रातिभासिकेऽतिप्रसक्तिरुक्तस्य प्रातिभासिकत्वस्य। एकस्मिन्नेवाबाध्यत्वाख्ये सत्त्वे विशेषणभेदाद्वेदो न विरुद्धयते॥
वस्तुतस्तु-सत्तात्रैविध्यवादे जगतः सत्वं नाबाध्यत्वम्, किन्त्वर्थ- क्रियाकारित्वम्। तच्च यावद्वाघमेव, ब्रह्मणस्त्ववाध्यत्वमिति नैकस्यामेव सततायां परमार्थप्रकाशिकोक्तरीत्या त्रैविध्यम्।। अत एव भिन्नविषयकत्वात् प्रत्यक्षागमयोर्न विरोधः, इति प्रत्यक्ष- बाघोद्धारे व्यवस्था ॥
Page 65
प्रत्यक्षप्रमाणम्
एतेन-सतो जगत उत्पत्तिश्रतिरपि-व्याख्याता ; विवर्तवादाभि- प्रायत्वाद् श्रतेः। कारणविषमसत्ताकः खलु विवर्तो नाम। कालविशेषावच्छिन्न- बाधाविषयत्वं पारमार्थिकसत्त्वम्। ब्रह्मसाक्षात्कारपूर्वक्षणावच्छिन्नबाघविषयत्वं व्यावहारिकत्वम्, तत्पूर्वक्षणावच्छिन्नबाधविषयत्वं प्रातिभासिकसत्त्वम्, बाध्य- त्वव्यवहारस्तु भाविबाधप्रतीतिमादायैवेति पूर्वमेव विवेचितम् ॥ सति चैवम्-अबाध्यनिष्ठा सत्ता पारमार्थिकसत्ता, व्यवहारकाला- बाध्यनिष्ठा सत्ता व्यावहारिकसत्तेति प्रकारान्तरसभावनादयुत्प्रेक्षणम्, तन्निरसनं चाकाण्डताण्डवमेव।। अत्र बाध्यत्वाबाध्यत्वव्यपदेशः -अघिष्ठानसाक्षात्कारप्रयुक्तबाधत्तद- भावावभिप्रेत्यैव, नतु बाघितशब्दव्यपदेश-तदभावमात्रमाश्रित्य, इति न जगतो- डप्यबाधितत्वम्। बौद्धेन ब्रह्मणोऽपि बाध्यत्वाङ्गीकारादिकथा निरालम्बा। बौद्धकल्पितबाध्यत्वव्यपदेशो हि सगुणब्रह्मणोऽपि समानः, जगतश्च। स च न श्रौताघिष्ठानसाक्षात्कारमादाय। नहि शून्यं नाम चतुष्कोटिविनिर्मुक्तं तत्त्वं बौद्धमतेऽप्यधिष्ठानं नाम। नहि निषेधमात्रं बाध:, किन्तु तत्त्वज्ञानप्रयुक्तनाश- प्रतियोगित्वमेव, इति न बौद्धानां बाधितव्यपदेशो मुख्यः सभवति। अतो न सत्तात्रैविध्य विभागोSनुपपन्नोऽद्वैतिनां श्रतिशरणानाम् ॥ तदेवं भ्रमप्रमाविभागो भाविबाघतदभावावाश्रित्येति मतमास्थाय, वस्तु- गत्या भ्रमज्ञानस्यापि प्रमात्वमादाय प्रमालक्षणं सत्तात्रैविध्यमादायोपपादितम्। भाविवाधनिश्चयेन भ्रमदशायामप्यंशविशेषे बाधितत्वमादाय लोकसिद्धभ्रमप्रमा- व्यवहारपक्षे तु सर्व सप्रकारकं ज्ञान धम्येश एव प्रमाणम्। प्रकारांशे तु भ्रम एव। इदमेवाभिप्रेत्य सन्मात्रविषयकं ज्ञान प्रमा, विकल्पांशे तु सर्व ज्ञान भ्रम एवेति ब्रह्मसिद्धित्तत्वशुद्धिकारादीनां सिद्धान्तः । विकल्पाप्रामाण्यवाद इत्यपि तस्य नामान्तरम्। विकल्पपदार्थस्तु धर्म्यतिरिक्त: ; ध्म्येशवदेकरूपत्वाभावात्। अधिष्ठानं हि सर्वत्रैकरूपमेव, नतु भिन्नम्, प्रकारांश इव। तत्र प्रकारांशोडपि धर्मिरूपेणैकरूप एव, स्वरूपेण मिन्नभिन्नोऽपि। उक्तं च-
Page 66
१० अद्वैततत्त्वशुद्धि:
कार्यात्मना तु नानात्वमभेदः कारणात्मना। हेमात्मना यथाऽमेदः कुण्डलाद्यात्मना भिदा॥
इति। अत्र हेमात्मनेति परिणामिकारणामिप्रायेण प्रयुक्तमपि विवर्तकारणात्मने- त्यस्याप्युपलक्षणम्। तथाच विवर्तरूपेण विकल्पानां भेदः, सदूपेण त्वभेदः । अत एव "सर्व खल्विदं ब्रह्मे" इति सामानाधिकरण्यम् ॥
एतेन-१०१ सर्वप्रत्यक्षाणां सन्मात्रावगाहित्वस्वीकारे बहुविधमेद- प्रत्यक्षतद्वयवहारादिसर्वव्यवस्थापह्नवप्रसङ्ग इति शंकापि-परास्ता ॥ कार्यात्मना भेदव्यवहारादिसर्वव्यवस्थोपपत्ते। शास्त्रं हि सर्वात्मना- Sनावृतमखण्डं ब्रह्म बोधयितुमेव, नतु किचिद्रपेण ज्ञानमात्रं बोधयितुम्, इति सर्वस्य प्रत्यक्षस्य सन्मात्रावगाहित्वेऽपि न शास्त्रवैयर्थर्यम्। तथाच प्रकाराणां सर्वेषां द्वितीयानां शुक्तिरजतदष्टान्तेनानिर्वचनीयत्वाद् अद्वितीयं निर्विशेषं च ब्रह्मैव तत्त्वमस्यादिमहावाक्यविषय इत्यद्वैतसिद्धान्तः। (२६-२७) यतु-शुक्तिरनतादिकं न प्रामाणिकम्-इति। यदि तत् तस्य स्वरूपतः, पारमार्थिकत्वेन वा बाधाभावमभिप्रेत्य, तर्हि नेदं रजतमिति भाविबाधो- पपत्तिविरुद्धम्। तस्य बाध्यत्वं च पलवाज्ञानप्रयुक्तत्वेन ; न ह्यन्यथा तत्प्रत्यक्षत्व- निर्वाहः। देशान्तरस्थन्तु रजतं सन्निकृष्टस्थल एवान्यथाख्यातिस्वीकारात् स्मरणमात्रत्वे चाक्षुषत्वानुभवविरोधाच्च नात्र भासेत। तच्चाक्षुषत्वं तु शुक्तया- कारवृत्त्यवच्छेदेन तदविद्यावृत्तिस्वीकाराद् उभयावच्छिन्नचैतन्याभेदात् प्रमात्र- मेदाच्च ज्ञानप्रत्यक्षत्वस्य विषयप्रत्यक्षत्वस्य निर्वाहाच्च न विरुध्यते। प्रतिभासमात्रकालिकस्यापि तस्यैकसतावादे स्वरूपतः पूर्वक्षणे, नतीतिक्षणे, बाधक्षणे चाभावात् त्रेका लिकनिषेधप्रतियोगित्वम्। एवमेव जगतोऽपि ब्रह्मभिन्नस्य सर्वस्य। सत्तात्रैपिध्यवादे तु ब्रह्यवदबाध्यत्वाभावात्। पारमार्थिकत्वेनाभावो नाम जगत. पारमार्थिकत्वाभाव एव। अवाध्यत्वाभाव इति यावत्, इति न सत्यत्व-
Page 67
प्रत्यक्षप्रमाणम् ११
मबाध्यत्वरूपं तस्य समस्ति, स्वरूपेण कारणात्मना वा विनाशित्वं बाध्यत्वम्, तदभावः सत्यत्वमिति चानर्थान्तरम् ॥ बाध्यस्यापि प्रपश्चस्यार्थक्रियाकारित्वरूपं सत्त्वं सत्तात्रैविध्यवादे याव- त्प्रतीति न विरुध्यते। स्वामार्थोऽपि तत्प्रतीतिदशायां स्वत एवार्थक्रियाकार्येव। नच तत्र ज्ञानमेव सत्यमर्थक्रियाकारि; तत्र ज्ञानस्याप्यविद्यावृत्तिरूपस्यासत्यत्वात। भाविबाधप्रतीत्यैव सर्वत्र बाध्यत्वमिथ्यात्वव्यपदेशः, नतु प्रतीतिदशायामिति पूर्वमेवोपपादितम्। सति चैवं कथं वाऽसत्यात् सत्योत्पत्तिवादाक्षेपोडद्वैतसिद्धान्ते प्रसरम पि लभते।। (२९-३०) यत्तु-स्वाप्नरथादीनामपि सत्यत्वात् स्वाप्नभोगप्रदकर्माभि व्यक्तिवलाद् रथादिसृष्टि स्वप्रे श्रतिसिद्धेति भवन्तोऽपि मन्यन्ते। तत्र चेश्वरस्यैव कर्मफलप्रदत्वात् तत्र तत्सृष्टत्वाभ्युषगम एव युक्त। नहि शुक्तिरजतादौ जीवकल्पिते सृष्टिव्यवहार-इत्यादि। तत्नेश्वरसृष्टत्वे स्वामरथादीनां तेषां स्वमदङ्मात्रानुभाव्यत्वचाक्षुषत्वादि कथमुपपद्यते 2 जीवकल्पितत्वे तु चाक्षुषत्वादिकमपि चक्षुराध्ुपरमात् कल्पितम्, स्वम्रद्ड्मात्रानुभाव्यत्वं चोपपद्यते। स्वाननरथादीनामीश्वरसृष्टत्वे "वैधर्म्याच्च न स्वम्रादिवत्" इति कथमुपपद्यते 2 ईश्वरशक्तिवैचित्र्यविशेषात् सर्वोषपत्तिस्तु तद्वशेनैव जागरादिसृष्टेरपि सभवात् किमन्तर्गडुना सूक्ष्माचिता प्रकृत्या वा परिणामिकारणेन 2 लौकिकोपादानाद्यनपेक्ष विलक्षणसामग्रीजन्यत्वं मतद्वयेऽपि समानम्। सा चैश्वरविचित्रशक्तिः, तुलाविद्या वा जीवगतेति तु विशेषः। स्वमदङ््मात्रानुमाव्यत्वं जीवाविद्याकार्यत्वे सुलगति॥ यत्तु रत्नसारिण्या तत्वसारव्याख्यायाम्-मृषावादिनां योगाचाराणां चार्थमिथ्यात्वाभ्युपगमस्याविशेषान्न दोष इति। तदुक्तं भट्टसुदर्शनपाद- "प्रतीतत्वे सति बाधार्हत्वस्योमयाभिमतत्वाच्च" इति, "कारणदोषबाध-
चण्डमारुतेऽप्युक्तम्-"जागरितप्रत्यय, निरालम्बन, वेदनत्वात्, खाप्न- प्रत्ययवत्" इति बौद्धानुमानम्" "वैधर्म्याच्च न स्वप्नादिवन् इति
Page 68
१२
सूत्रभाष्ये भगवता दूषितम् । मायिना 'प्रपञ्चः, मिथ्या, दृग्विषयत्वात् ; शुक्तिरजतस्वाप्नादिवत्' इत्युक्तम्। एवं च ज्ञानत्वेन मिथ्याविपयत्व- साधनस्य ज्ञानविषयत्वेन मिथ्यात्वसाधनस्य चाविशेषात्, ज्ञानत्वहेतु- दूपणान्येव तद्विषयत्वहेतोरपि भवन्ति " इति॥ तत्र योगाचाराद्वैतसिद्धन्तयोर्विशेष :- प्रथमे ज्ञानत्वेन निर्विषयत्व- साधनमर्थस्य ज्ञानाकारत्वमात्रमाघनम्-स्वप्ने जागरे च, द्वितीये तु दग्विष- यत्वेन विषयमिथ्यात्वसाधनमिति स्वयमूरीकृतम्, तावता च ज्ञानातिरिक्त विषयसत्त्वासत्त्वाभ्यां विशेष ऊरीकृत एव। एवं च स्वप्नेऽपि ज्ञानातिरेकेण विषयो वर्तते, परंतु स बाधित, इत्यनिर्वचनीयार्थसत्त्वमद्वैतमते, परत्र तु विषयस्यात्यन्तासत्त्वम्, प्राचीनवासनामात्रमर्थाकारः । तच्च ज्ञानं क्षणिकम्, नाद्वैतमत इव स्थिरमज्ञानाश्रयविपयः अधिष्ठानं वेत्यादिविशेषा विवरणादौ विवेचिता एव। अत एव दग्विपयत्वेन मिथ्यात्वसाधनम्, न तु ज्ञानत्वेन । तत्र योगा चारमतेऽपि विषयस्य ज्ञानत्वेन न मिथ्यात्वसाधनम्, विपये ज्ञानत्वा- भावात्, किन्तु ज्ञानत्वेन ज्ञानस्य निरालग्यनत्वमाधनमेव। बाधितत्वावाधि- तत्वाभ्यां वैधम्य खलु सूत्रेण प्रतिपाद्यते, तत्र श्रीभाप्यमते सतव्यातौ, यत्रेश्वर- सृष्टत्वम्, 'मायामात्रमि'ति सूत्रेण विवक्ष्यते, तत्र किं बाधितम् 2 कि वाडबाघितम् स्वाप्नजागरयोरीश्वरमृष्टत्वाविशेपे 2 अद्वैतसिद्धान्ते तु तूलाविद्याकार्यतवं स्वाप्ना- नाम्; मूला विद्याकार्यतं च जागराणां शुक्तिरूप्यादिव्यतिरिक्तानाम्। तत्र च बाधितत्वाबाधितत्वाभ्यां वैषम्यमुपपन्नतरम्, इत्यद्वैतमत एव "वैधर्म्याच्च न स्वप्नादिवत" इति सूत्रस्वारस्यम्। श्रुतप्रकाशिकायाम्-कृत्वा चिन्तयेदं सूत्रमिति श्रीसूक्ते: का वा गतिरन्यथा 2 एतन-श्रुतिप्रामाण्ये स्वप्नस्य तत्काले वर्तमानतव, श्रुत्यनादरे तु कालान्तरस्थस्य वस्तुनः स्मृतिरिति न प्रातिमासिकत्वरे प्रमाणमिति-परास्तम्। नहि स्वानप्रातिभासिकतावादिनोऽपि स्वम्काले वर्तमानतां स्वामिका- नामपहुवन्ति। किं स्वामसत्यतावादिनोऽपि जागरादिवर्तमानतामीश्वरमृष्टानाम-
Page 69
प्रत्यक्षप्रमाणम् १३
परेषामिवोरीकुर्वन्ति १ प्रातिभासिका: शुक्तिरूप्यादयोऽपि यावत्प्रतिभासं वर्तन्त इति खल्वद्वैतराद्धान्तः । तन्मिथ्यात्वन्तु कालान्तरे बाघमादाय ! ईश्वरस्यैव कर्म फलप्रदातृत्वं को वा वारयति 2 नहि कुलालादिसष्टानां नेश्वरसृष्टत्वम्। साधारणकारणं हि काल, ईश्वरादिश्च। कर्मफलप्रदत्वं स्ष्टृत्वं च नैकम्। ईश्वर- सृष्टत्वे च स्वाप्नानाम्, किं तत्र परिणामिकारणम् 2 यदि विचित्रा शक्तिः, सा किं सूक्ष्माचितोऽतिरिक्ता, उत सैव। आद्ये-"माया तु प्रकृतिं विद्यादि"ति मायायाः प्रकृतित्वं कथं श्रौतमुपपद्यते 2 तस्य ब्रह्मगतत्वे तु ब्रह्मपरिणामितावाद- प्रसग.। द्वितीये स्वम्नहड्मात्रानुभाव्यत्वविरोध.। सर्वथा तु स्वामप्रातिभासिकता- पक्षेऽपि नासत्यात्सत्योत्पतति.। असत्यात्सत्योत्पत्तिवादो हि भाविबाघादसत्यत्व- मादायैव। इदन्तु व्यावहारिकस्यापि समानम्। रेखागवयादिदृष्टान्ता अपि सर्वेऽपि भाविबाघमादायासत्यत्वं नार्थक्रियाकारित्वविरोधीत्यभिप्राया एव। भाविबाधोपपत्तिस्तु सांप्रतिकामिथ्यात्वनिश्वचयेन तन्निबन्धनप्रमाण्येन च न विरुध्यते ; अन्यथा सांप्रतिकवैकुण्ठाद्यनिश्चयेऽपि श्रुत्या तद्भाविकालनिश्चयः कथमुपपद्यते ? अधिकं तु भाविबाधोपपत्तिप्रकरणेड्वैतसिध्यादौ व्यक्तम्।। एतेन "सूचकश्च हि श्रतेराचक्षते" इति सूत्रमपि स्वाप्नगजविज्ञानस्यैव सूचकत्वमुपपादयति, नतु रथादेरिति-परास्तम्॥ स्वाननरथादिज्ञानं नान्त:करणवृत्तिः, न वा विकासितधर्मभूतज्ञानम्। धर्मभूत- ज्ञानस्य प्रत्यक्षाकारस्य तदा बहिरप्रसरात्, अन्यथा जागरिकार्थस्मरणादेरपि न कथं प्रत्यक्षत्वम् 2 तदपीश्वरशक्तिवैचित्यनिबन्धनम्, इति न प्रामाणिक- कल्पनम्। तथाच स्वाप्नरथादिद्ृष्टान्तेन, किं बहुना १ शुक्तिरूप्या दिद्दष्टान्तेन वा नासत्यात्सत्योत्पतिवादो निहोतुमलम्।
प्रमात्रमिन्नत्वेन वेन्द्रियोपरमेऽपि न विरुध्यते। न हीन्द्रियजन्यमेव प्रत्यक्षमित्य- द्वैतिनां सिद्धान्तः । अत एवाजन्यं साक्षिप्रत्यक्षं जीवेश्वरसाक्षिमेदेन द्विविधं
Page 70
१४ अद्वैततत्त्वशुद्धि:
पूर्वमुपपादितम्। स्वमेऽपि साक्षिचतन्यं वर्तते, तत्सम्बन्धादेव सुखादीनामिव प्रत्यक्षत्वमद्वैतराद्धान्त उपपद्यते। अन्त.ररणवृत्तिनिर्गमो हि बाह्यानां साक्षि- सम्बन्धस्य द्वारमात्रम्। तत्र विषयावच्न्निचैतन्यं वृत्तिपतिबिम्बितं सत् विपगस्य भासकमिति प्रक्रियायामद्वैतसिद्धायां कथ न तयोरभेदः १
यत्तु-(३०-३१) चिदाभासस्य विषयावच्छिन्नचैतन्यामेदो न सभवति; विषयचतन्यं नाम विषयावच्छिनचतन्यम, न त्विदं प्रतिबिम्ब चैतन्यम्, अस्वच्छे घंट प्रतिबिम्बासभवात्। एवं च वास्तवचैतन्यस्य प्रति बिम्बचैतन्यस्य चाभेदकथानमयुक्त्तम्-इति॥ तत्र घटाकारवृत्तौ सत्यां वृत्युपहिते घट दौ जललिसायां मित्तौ मुखादीब घटावच्छिन्नमेव चैतन्यं प्रतिबिम्बतां भजति, इति विठलेशीयादौ व्यक्तम्, इति विपयावच्छिन्नमेव चैतन्यं वृत्तिप्रतिबिम्बमपि भवति; उभयत्राप्यवच्छिन्न- चैतन्यविवक्षणात्। उभयोरेकदेशस्थत्वेन तु तदवच्छिन्नचतन्याभेदः॥
यत्तु-(१८) एवं सति रूपवान् घट इति प्रत्यक्षे परिमाणादे प्रत्यक्ष- त्वापति। न खलु परिमाणावच्छिन्नचैतन्यस्य घटावच्छिनर्चेतन्यस्य च मेदोऽस्ति-इति॥
तत्र रूपघटयोरिव परिमाणघटयोरपि मिन्नदेशस्थत्वाद् नैक्यसंभावनापि, अन्यथा घटप्रत्यक्षतादशायां तद्रपतदेकत्वादिप्रत्यक्ष कथ वार्यते। अथ यदि रूपप्रत्यक्षतादशायां परिमाणपत्यक्षतापत्तिरिति मन्यते, नर्हि तत्तदराकारवृत्त्यु- पहितप्रनात्रमिन्नन्वस्येव विषयप्रत्यक्षत्वात् तदा परिमाणाकारवृत्त्यभावेन न तस्य प्रत्यक्षत्वापत्तिः। तत्र परिमाणाकारत्वं परिमाणविषयकत्वय्, न तदधीन- कारत्वम्, न वाडन्य: सम्बन्धविशेषः। विषयविषयिभावो हि सर्वत्र धर्मभूत- ज्ञानतत्सम्बन्धिनोरेव, नतु स्वरूज्ञानस्यान्येन। नहि वृत्तिरपि धर्मभूतज्ञाना- परपर्याया, धर्मभूतज्ञनवदस्वप्रकशा, जडा वाडद्वैतमते। पराक्रान्तं चात्र परिभा- षादौ। नहि रूपकारवृत्तिदशायां परिमाणाकारवृत्तिर्नियता ; उमयाकारवृत्त्युत्पत्तौ तूभयप्रत्यक्षत्वमिष्टमेव।।
Page 71
प्रत्यक्षप्रमाणम् १५
इदं च प्रत्यक्षं नेन्द्रियादिद्वारकमिति नियमः, 'पर्वतो वहिमानि' त्यादौ सन्निकृष्टस्थले पर्वतांशेऽनुमानेनापि प्रत्यक्षम्, एवं 'दशमस्त्वमसी' इत्यादौ दशमत्वांशेडपि। अयमेव न्याय :- 'सोड्य देवदत्त' इत्यादावषि, शाब्दापरोक्षवादस्वीकारात्, तस्य चादुष्टत्वात्। व्यक्तीकरिष्यते चेदमागम- प्रमाणविचारावसरे ॥
इंद च प्रत्यक्षं सविकल्पक-निर्विवल्पकमेदेन द्विविधम्। निर्विकल्पकत्वं च प्रत्यक्षस्य प्रकारांशाविवक्षया। अविवक्षा च विद्यमानत्वेऽपि भवति, बाधित- त्वेन तत्रासत्त्वेऽपि। तत्र शाब्दे प्रत्यक्षे निर्विकल्पके शब्दतात्पर्यानुसारिणी व्यवम्था। तत्र 'तत्त्वमसी' इत्यादौ जीवत्वेश्वरत्वयोर्धर्मयोर्बाघादविवक्षा, 'सोडयं देवदत्त' इत्यादौ विद्यमानस्याप्यविवक्षामात्रेणेत्यन्यदेतत्।।
यत्तु-विविध (९३-९४) कल्पो विकल्प =अनेकप्रकार.। तथाचानु- वृत्तितद्विन्नद्विविधप्रकारावगाहि सविकल्पकम्। अतथाविधं किंचित्प्रकाराय- गाहनेऽयनुवृत्त्यग्राहि निर्विकल्पकम्। गवादिषु प्रथमपिण्डग्रहणे सस्था- नस्यानुवृत्ताकारता न प्रतीयते। द्वितीयादिग्रहणेषु तु तदेवेद सस्थानम्' इत्यनुवृत्तिधर्मविशिष्टत्वं प्रतीयत इति द्वैविध्यम्। सस्कारोद्वोधसहकृतेन्द्रिय- जन्यज्ञान सविकल्पकम्, तद्रहितं प्रत्यक्ष निर्विकल्पकमिति निष्कर्ष इत्यादि- घरास्तम् ॥ प्रमाणवाधितप्रकाराविवक्षया शब्दजन्यनिर्विकल्पाङ्गीकारो हि नोक्त- निष्कर्षविरोधी। एकप्रकारकत्वनियमस्तु नोपपद्यते। नहि सविकल्पकज्ञानं सर्वं द्विप्कारकम् ; इयं गौरिति द्वितीयज्ञाने सस्थानस्यैव गां प्रति प्रकारत्वात्, अनुवृत्तेः सस्थानप्रकारत्वेऽपि विशेष्याप्रकारत्वात। नच शब्दाबोधि- तानुवृत्ति. शाब्दे प्रकार इति संभवति। अभिलापकशब्दोडपि शब्द एव। नच तत्नानुवृत्त्यमिलापक, कोऽपि शब्दोऽस्ति, इत्यगत्याऽभिलापकप्रतीतेर भिलप्य- मानप्रतीतितुल्यत्वात्, अभिलापकप्रतीतेः प्रकारद्यानवगाहित्वेना मिलव्यमान- प्रतीतेरप्यनुवृत्त्यप्रकारत्वात् को वा विशेषो निर्विकल्प-सविकल्पयोः ? इति
Page 72
१६ अद्वैततत्त्वशुद्धिः
निष्परकारक ज्ञानं निर्विकल्पकम्, सप्रकारकं ज्ञान सविकल्पकमित्येव विशेष स्तयोः, न त्वेकप्रकारकत्व-द्विप्रकारकत्वाभ्यां तयोर्विशेप :; व्यभिवारात् । प्रत्यक्षत्वं नेन्द्रियप्रयुक्तम्, किन्तु विषयाकारासत्त्वाभानापादकाज्ञान- निवर्तकवृत्तिविषयत्वम्, ग्रमातृचैतन्याभिन्नत्वं वेति निर्विकल्पकाखण्डाकारा- सत्त्वापाद कामानापादकानानन्दतापादकाज्ञाननिवर्तकज्ञा नजनकत्वेन शब्दोऽप्य- परोक्षं जनयतीत्यङ्गीकारे न काऽपि बाघा। असत्त्वापादकाज्ञानाविषयत्व- प्रयोजकविशिष्टचैतन्यं परोक्षज्ञानम्, असत्वाभानापादकाज्ञाननिवृत्तिप्रयोजक- विशिष्टमपरोक्षज्ञानमिति हि व्यवस्था। तत्त्वमसीत्यादिवाक्यानि हि सर्वविधा- ज्ञाननिवर्तकं ज्ञानमेव जनयन्ति। प्रत्यगात्मा हि सदा विशिष्टः, उपहित इव चोपलक्षितोऽप्यपरोक्ष एव। तस्य परोक्षत्वं परोक्षोपाध्युपधानेनैव, सर्वोपाधि विरहेऽप्यपरोक्षत्वमेव तस्य स्वभावः । त्वंपदार्थ इव तत्पदार्थोऽपि प्रत्यगात्मेत्यु- भयसंप्रतिपन्नम्। सति चैव तत्त्वमसीति वाक्यं सर्वोपाधिविरहितशुद्धप्रत्यगात्म- ज्ञानं कथ नापरोक्षमेव जनयति 2 स्वतोऽपरोक्षस्वभावस्य स्वप्रकाशस्य वा प्रत्य- गात्मनोऽपरोक्षयोग्यत्वमेव, नतु धर्मादीनामिव शब्दमात्रगम्यानां परोक्षमात्रत्वम्; अन्यथा शुद्धप्रत्यगात्मसाक्षात्कारः, ईश्वरसाक्षात्कारो वा भक्तेरपि कथ फलं स्यात् ॥
यत्तु-विकल्पराहित्यमपि दुर्भेणम्, ज्ञानस्य ज्ञातृज्ञेयनिरुयत्व- नियमादित्यादि ॥ तत्र वृत्तिज्ञानविषयस्योक्तनियमस्य यादद्वतिज्ञानं प्रवृत्त्याSखण्डाकारवृत्ति- काल एवाज्ञाननिवृत्त्या तन्निबन्धनज्ञातृज्ञेयादिनिवृत्त्या न विरोधलेशोऽपि। यथा- चाखण्डाकारवृत्तेस्तत्रो पाधित्वमेव, नतु विशेषणत्वम्। तन्र ब्रह्ममात्र्य विषयत्वेऽपि न निर्विकल्पत्वविरोधः। ज्ञाता त्वन्तःकरणाद्यपलक्षित एव तदा भाति, नतु तद्वि- शिष्टः, इति न त्रिपुटीभानमखण्डाकारवृत्तिदशायाम्, तथा न्यायरलावल्यादौ व्यक्तम् ॥
Page 73
अनुमानप्रमाणम्
तदेवं सविकल्पकनिर्विकल्पकमेदेन प्रत्यक्षद्वैविध्यम्, निर्विकल्पक- ज्ञानस्यैव प्रामाण्यम्। सविकल्पेऽपि निर्विशेषसन्मान्र एव प्रामाण्यम्। विकल्पांशे तु सर्वेषां ज्ञानानामप्रामाण्यम्। विशेषतस्तु प्रत्यक्षस्येति विवेचितम्। तेन च प्रत्यक्षविरोधाच्छृतेरप्रामाण्यमिति कथाया नोत्थितिरपि। नच प्रत्यक्ष- प्रमाणेन शब्दप्रमाण बाध्यते ; भिन्नविषयत्वात् श्रति-प्रत्यक्षयोः । श्रुतिप्रामाण्यम- सन्दिग्धं श्त्यविरोधे विषयस्याबाधितत्वे च स्वत एव। नचवं संभावितपुरुषदोष प्रत्यक्षम्-इति। नचात्र विनिगमनाविरहः, येन प्रत्यक्षविरुद्धत्वाद् श्रतेरेधा- प्रामाण्यं प्रसञ्जयितुं शक्येत। अधिकमागमपरिच्छेदे ॥* ।। इति प्रत्यक्षपरिच्छेद.॥
॥ अनुमानप्रमाणम् । ज्ञातसंबन्धस्यैकदेशदर्शनादेकदेशान्तरे ज्ञानमनुमानम्। तस्य प्रयोजन- मद्वैतसिद्धान्ते द्वितीयमिथ्यात्वनिर्णयद्वाराद्वेतसिद्धिः। तदुक्तम्-"अद्वैत- सिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वाद् द्वैत मिथ्यात्वं प्रथममुपपादनीयम्-इति। इदं च श्रुत्यर्थे विप्रतिपत्तिनिरसनेन श्रुत्युपष्टम्भकतयैव तत्र प्रमाणम्, न तु श्रत्यन- पेक्षम्। अत एव "मन्तव्यः" इति मननविधानम्। श्रुत्या समावितमेव द्वितीयमिथ्यात्वमनुमानेनोपबृंह्यते, न तु स्वतन्त्रं साध्यते। तेन चानुमानेऽपि श्रताविव प्रत्यक्षविरोधेनाप्रामाण्यशङ्काया नोत्थितिः । तेन च निर्विशेषत्वसिद्धि- ब्रह्मण: फलम् ॥ श्रुतिर्हि-ब्रह्म सत्यम्, तद्यतिरिक्त्तं च सवें मिथ्यैवेति ज्ञापयति। तत्र कानिचन सद्वितीयं ब्रह्म प्रस्तुल्य तदद्वितीयमिति बोधयन्ति। तानि
- यत्त-तृतीये पृष्ठे पश्चमपड्क्तौ वृत्त्यवच्छिन्नचैतन्येत्यत्र वृत्तितदवच्छिन्नान्य- तरस्य ग्रहणात्-इति, तत्र वृत्तिपदेनावरणाभिभवमात्रप्रयोजनवृत्तिमात्रविषयत्वं विवक्ष्यते। वृत्तितदव च्छिन्नेत्यत्र वृत्यवच्छिन्नचैतन्वृत्स्ेत ठनीयम्: अतो नातिप्रसङ्ग 2
Page 74
१८ अद्वततत्त्वश
यथा-(१) "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्," (२) "नेह नानास्ति किश्चन" (३) "यत्तदद्रेश्यम ग्राह्यमचक्षुःश्रोत्रें तद्ूतयोनि परि- पश्यन्ति घीरा:," (४) "न दष्टेर्द्रष्टारं पश्येः" (५) "आत्मा वा इदमग्र आसीत् नान्यत्किंचन मिषत्," (६) वाचारम्मणं विकारो नामधेय मृत्तिकेत्येव सत्यम्," (७) सर्व खल्विद ब्रह्म," (८) अपहतपाप्मा विजरो विमृत्यु," इत्यादीनि, येषामुपष्टम्भकानि-(१) "न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि" (२) "मायामात्रन्तु कारत्स्न्येनानभिव्यक्त- स्वरूपत्वादित्यादीनि सूत्राणि। कानिचन ब्रह्मव्यतिरिक्तम्य ज्ञाननिवर्त्यत्वबो- धकानि द्वितीयस्य भीतिकारणत्वबोधकानि च यथा-"तमेवं विद्वानतिमृत्युमेति," "द्वितीयाद्वै भयं भवति," "उदरमन्तरं कुरुते। अथ तस्य भयं भवति" इत्यादीनि। तत्र श्रुत्युपष्टब्धानि मिथ्यात्वानि-(१) सदसद्विलक्षणत्वम्, (२) प्रति- प्रन्नोपाधौ त्रैका लिकनिषेधप्रतियोगित्वम्, (३) ज्ञाननिवर्त्यत्वम्, (४) स्वा- त्यन्ताभावाधिकरणे प्रतीयमानत्वम्, (५) सद्विविक्तत्वमित्यादीनि, येषा साधनार्थमनुमानानि-विमतम्, मिथ्या, जडत्वात् ; जगत्, अपरमार्थम्, व्यावतमानत्वात् ; सन्, परमार्थ:, अनुवर्तमानत्वादित्यादीनि ॥
तत्र-"सदेव सोम्येदमग्र आसीत्। एकमेवाद्वितीयम्" इत्युपक्म्य प्रवृत्ता सदिद्या तत्पदवाच्यार्थजगत्कारणं प्रथमत उपक्षिप्य तम्याध्यारोपापचा दन्यायेन सजातीय-विजातीय-स्वगतभेदराहित्यं मृत्पिण्डादिद्ष्टान्तेन कारणाति- रिक्तकार्याभावरूपमिथ्यात्वं चोपपाद तस्य त्वंपदार्थेनामेर्द प्रतिपादयन्तीति निर्विशेषात्मवादे प्रमाणम्-इत्यद्वैतामोद उपन्यस्यति। परमार्थप्रकाशिका तु-इय श्रतिर्निविशेषात्मतत्वं प्रतिपादयतीतीद शाकरभाष्यविरुद्धम्, असंभावितं च। तथाच तत्रत्यं भाष्यम्-एकमेवेति स्वकार्यप तितमन्यन्नास्तीत्युच्यते अद्वितीयमिति-मृद्यतिरेकेण गथा मृदोऽन्यद्धटाद्याकारेण परिणामयितृ कुलालादि निमित्तकारण दृष्टम्, तथा न सद्यतिरेकेण सहकारिकारणं द्वितीय वस्त्वन्तरमिति प्रतिपाद्यते। अनेन च
Page 75
अनुमानप्रमाणम् १९
सृष्टिकालिकं भावि यद्रहु 'बहु स्याम्' इत्युपरितनवाक्यदर्शितम्, तदभाव एव गम्यते। तथाऽद्वितीयपदं लोकदृष्प्रक्रिययोपादानातिरिक्तनिमितत- कारणशङ्कायां तव्यवच्छेदार्थमिति च स्पष्टम्। एवं च बहुभवनरूपविकार- राहित्यस्य, निमित्तकारणभूतविजातीयराहित्यस्य च प्रतीतावषि सकल- सजातीय-स्वगतभेदराहित्यरूपं निर्विशेषत्वं न प्रतीयते। उपरि च "अस- देवेदमग्र आसीत। एकमेवाद्वितीयमि"त्यस्य व्याख्यानावसरे कथ पुन- रसत 'आसीदि'ति प्राक्कालसम्बन्ध, एकमिति सख्यासम्बन्ध इत्याक्षिपतो भाष्यकृत• सत्कारणवाक्य इत्थमनुपपत्तिन भवितुमहेतीत्याशयस्य स्पष्टमव- गम्यमानतया नात्यन्तनिर्विशेषत्वमत्र सख्याकालादिसबन्धिन सुवचभित्या- दिना कारणत्वादिविशेषबोधनान्न निर्विशेषवादे भायाशय।। एवं जगन्मिथ्यात्ववादिमते ब्रह्म साप्रतमषि निर्विशेषमासीदित्यर्थ- वर्णनानौचित्यादपि नास्य निर्विशेषपरत्वमित्यादि-वदति ॥ इद च यदि प्रळयावस्थायां निर्विशेषत्वनिरामाभिप्रायम्, तर्हि स्वागतम्, आवृतावस्थायां ब्रह्मणस्तत्पदवाच्यस्य कारणस्य सविशेषत्वं चाध्या- रोपेण। अनावृतावस्थायां खलु तत्पदलक्ष्यार्थस्य निर्विशेषत्वमित्यद्वैताशय। तत्र कारणावस्थायामनभिव्यक्तनाम रूपेदंतादात्म्यम्, "सदेव सोम्येदमग्र आसीत" इति वाक्येनोपक्षिप्य तस्य वस्तुगत्या सजातीय विजातीयस्वगतभेदराहित्यम्- "एकमेवाद्वितीयमि"ति संबोध्य पुनस्तदेव सदेव कारणं प्रस्तुत्योपादानत्वं "बहु स्यामि"त्युपन्यस्य "तत्तेजोऽसृजते"ति निमित्तकारणत्वमप्युपपाद्यते । तथाचैकमेव म्वकार्यपतितमन्यन्नास्नीत्युच्यते, इत्येकमेवपदप्रस्तुतोपादानत्वं ब्रह्मण एवाविकारेणोपादानत्वरूपं विवर्तोपादानतापरपर्यायं "बहु स्यामि"ति बाक्यार्थ इति भाष्याशय । तेन च "सदेवेदमि"ति प्रस्तुतं सामानाधिकरण्यं बाघायामेव, न विशेषण- विशेष्यभावे, अत्यन्ताभेदे, प्रतीकादाविवाध्यासे, न वाऽ्न्यथेत्येव भाष्याशयः फलति। न हि विवर्तोपादानत्वमन्तरा स्वकार्यपतितस्यान्यस्य तद्यतिरेकेणाभावः सभवति। अत्र कार्यप्रपश्चस्य ब्रह्मत्यतिर केणामावबोघनेन कार्यप्रपञ्चसूक्ष्मावस्थारूप- परिणामिका णाविद्याब धोऽपि सूच्यते, न ह्यन्यथा तद्यतिरेकेणाभावो भवति।
Page 76
२० अद्वैततत्त्वशुद्धिः
विवर्तकारणता हि ब्रह्मणि सर्वस्य कल्पितत्वेन, इति सव ब्रह्ममयमेव भवतीति विजातीयस्वगतसर्वनिपेधोरऽर्थसिद्ध एव। सतः कारणस्य प्रळयावस्थस्य सृष्टयवस्थस्य चैकत्वं कालसंबन्धो वा नाद्वैतिभिरपि वार्यते॥ जगन्मिथ्यात्वन्तु भाविबाधप्रतीतिमादायैव न तु ततः प्रागपि इति बहुश आवेदिनमधस्तात्, इति ब्रह्मणः सप्रत्यपि निर्विशेपतावादो निरालम्ब। आवृतावस्थाया सृष्टिस्थितिसंहारकारणस्य सविशेपत्वं व्यावहारिकं कल्पना- मात्रेण। अनावृतावस्थायान्तु परमार्थतो विशेषाभावान्निर्विशेपत्वमिति तु निष्कर्ष, इति किं सृष्टौ पारमार्थिकविशेषवत्त्वं ब्रह्मणोऽस्तीत्यादि विकल्प्य, तद्दृषणानि न क्षोदक्षमानि ॥ अ्र "सदेवे"त्यत्र सत्पदेनासद्रपत्वं व्यावर्त्यते, एकपदेन प्रळया- वस्थायां निवृत्तानामप्यबाघात मायोपहितकारणात्मना सर्वस्यास्तित्व बोध्यते। उपादानेन सह नाश: खलु बाधो नाम। नचावृतावस्थायां बाघसमावनापि। तत्राविद्याया एव सूक्ष्मावस्थात्वेऽपि तस्या ब्रम्माश्रयविपयकतयैव प्रळयकाले सत्त्वात् तस्य ब्रह्मसम्बन्धस्य चानादित्वात स्वतन्त्रतया मायासत्वं निपेद्गमेव "सदेवे"त्येवपदम्। अविद्या हि ब्रह्मावृण्वती सत्येव स्वप्रकाशेन ब्रह्मणैव स्वोषहितेन मास्यते, यावत्स्वसत्त्वं तत्सम्बन्धस्तु तिरोधानमात्रेण, नतु शरीरतयेति त्वन्यदेतत्। ब्रह्मणो व्यापित्वकारणत्वादयोऽपि धर्मा व्यावहारिका एव, न पारमार्थिकाः, इति न तैः परमार्थतो निर्विशेषत्वस्य क्षतिः॥। तत्र द्रष्टदृश्ययोर्द्शिसत्ताधीनसत्ताकत्वं तयोरुपाघिद्वारा, स्वतश्रा व्यासात्, इति न ताभ्यामपि ब्रह्मणो निर्विशेषत्वस्य हानिः। द्रष्टत्वं हि दशेरेवा- न्तःकरणोपाधिसम्बन्धादौपाधिकजीवभावावस्थायाम्, न तु सविन्मात्रतयेत्याधु- त्तरत्र विशदीभविष्यति, इति न दशेरेव सकर्तृकतया, सकर्मकतया चाश्रयविष- याऽडकांक्षा नियता। अन्तःकरणवृत्तिर्हि ज्ञाधात्वर्थः सत्त्वपरिणामः सकर्तृका,
Page 77
अनुमानप्रमाणम् २१
सकर्मका चाश्रयविषयनियताकाडक्षा, न तुसंविन्मात्रम्, इति संविन्मान्स्य सविशेषत्वनियमकथा कथामात्रमेव। यथाच वृत्तिरपि स्वप्रकाशा, सविषया च न जडा, परमते धर्मभूतज्ञान- वत्, तथा बहुश आवेदितम, इति तस्या एव ज्ञाघात्वर्थत्वं न विहन्यते। यदा तु वृत्त्यवच्छिन्नचैतन्यमेव घटादौ विषये सकर्तृकम्, सकर्मकं च, तदा न कोऽपि विरोध: । तस्य सोपाधिकं ज्ञानस्वरूपत्वम्, वृत्तेस्तु चतन्यावच्छेदकत्वेन। तत्राद्यस्य प्रमाणजन्यत्वमौपाघिकम्, द्वितीयस्य तु ज्ञानत्वमौपचारिकमिति विशेषः। अज्ञाननिवर्तकं हि ज्ञानं नाम तत्त्वं तु वृत्तेरेवान्तःकरणस्येवाहमादि- म्थले, इति तत्संविद्रूपत्वपक्षोऽपि न विरुध्यते।। जगत्कारणत्वं हि ब्रह्मण उपादानत्वेन। तदपि न परिणामित्वेन, न वा समवायिकारणत्वेन। सति चैवं भ्रमाघिष्ठानत्वरूपविवर्तोपादानत्वं ब्रह्मणि सर्वस्य कल्पितत्वं विना नोपपद्यते।। न च शरीरशरीरिमावः, कार्यकारणभावश्चैकः, येन शरीरशरीरिभावनि बन्धनमेव सामानाधिकरण्यं "सर्व खल्विदं ब्रह्मे" त्यादौ सुवचम्। "तज्जलानि" नि हि कार्यकारणभावनिबन्धनमेव सामानाधिकरण्यं "मृद् घट" इत्यादाविव प्रतीयते। "सदेवेदम्" "सदद्वितीयमि"ति च कथमन्यथोपपद्यते 2 कार्यकारण- सावनिबन्धनं सामानाधिकरण्यमन्यत्, शरीरशरीरिभावनिबन्धनं च तदन्यत्, उतैकम् 2 आद्े सामानाधिकरण्यद्वयकल्पने गौरवम्। द्वितीये तु सर्वाधिष्ठान- त्वापरपर्यायं विवर्तोपादानत्वमेव सर्वस्य ब्रह्मणा सामानाधिकरण्यप्रयोनकमिति फलति। तच्च सर्वस्य ब्रह्मणि कल्पितत्वं विना नोपपद्यते। तत्राविद्याया ब्रह्मणाऽनादिराध्यासिकः सम्बन्ध, । तत्र ब्रह्मण "सदेवेदमि"ति बाघायां सामानाधिकरण्यम्।। एतेन-साद्यध्यासस्थले सामानाधिकरण्यमपि-व्याख्यातम्। तत्र विवरणमतेऽविद्यायाः परिणामिकारणत्वाज्जगतः सूक्ष्मावस्थात्वम्। भामतीमते
Page 78
२२ अद्वततत्त्वशुद्धि.
तु ब्रह्मण एव सूक्ष्मावस्थात्वम्। तत्राद्ये "सर्व खल्विदं ब्रह्मे" त्यादावविद्याद्वारा जगतः ब्रह्मणा तादात्म्यम्, भामतीमते तु साक्षात्। अत एव ब्रह्मणः कारण- त्वात् सर्वत्रानुगम साक्षात्, तत एव व्यापकत्वं च। शुक्तिर जतादिस्थले ह्यविद्याविषयेणाधिष्ठानेन विवर्तोपादानेनैव तादात्म्यं दृश्यते, सामानाधिकरण्यं वा, न तु परिणामिकारणेनाविद्यया। अथमेव ब्रह्मप्रपश्वयोरपि। मृद्घटादिस्थले हि सदात्मना, मृदात्मना चोभयात्मना सामानाधिकरण्यमुभयोरमि परिणामित्वेन न संभवति, इति सतो विवर्तमानत्वेन, मृदः परिणामित्वेन चोपादानत्वमिति दृष्टचरम्। अयमेव न्यायो ब्रह्मप्रपंचयोरपि। अत्रापि जाड्याद्यनुवृत्त्या भायोपा दानत्वम्। सदात्मनाऽनुवृत्त्या विवर्तोपादानत्वम्, नचात्र सत्ता घटम्यैव धर्मः ; व्यभिचारात्, बाधाच्, किन्तु मायाया एव। अतो ब्रह्मविवर्तत्वम कामेनाप्यूरीकर्त- व्यम्। इदमेवाभिप्रेत्योक्तम्- "अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्ं त्रयं ब्रह्मरूपं जगद्रूपं ततो दवुयम्"॥ इति। अत्राचेतनानां स्वरूपतो ब्रह्मणि कल्पितत्वेन व्रह्मोपादानकत्वम्। चेतनाना तूभाधिद्वारा तत्र कल्पनेनौपाधिकं ब्रह्मविवर्तत्वम्।। अत एव "सर्व खल्विदमि"त्यत्र बाघायाम्, "अहं ब्रह्माम्मी" त्यादा- चभेदे सामानाधिकरण्यमिति व्यवस्था, इत्युपाधिमिथ्यात्वात सर्वोपाधिविरहित- प्रत्यगभिन्नसंविन्मात्रनिर्विशेषत्वमेव वेदान्तमहातात्पर्यविषयः परमं तत्त्वम्। तत्र "मृद् घट" इत्यादौ कार्यकारणमावस्थले कार्यगतविशेषरा हित्यम विप्रति- पन्नम्, इति तेन न्यायेन ब्रह्मणोऽपि सर्वकार्यगतविशेषराहित्यम्। इयान् विशेष :- यत् परिणामिकारणत्वान्मृदः कार्यगतविशेषराहित्ये- डपि न सर्वविशेषराहिित्यम्, ब्रह्मणस्तु विवर्तोपादानत्वादनावृतचिन्मात्रावस्थायां सर्वविशेषराहित्यम्। आवृतावस्थायां तु तत्तद्विशेषवत्त्वमपि। अपरोऽयं विशेष :- यत् परिणामिकारणस्य येन केनचन रूपेण कार्यविशेषरूपेण,
Page 79
अनुमानप्रमाणम् २३
स्वरूपेण वा विशेषवत्तानियम:, विवर्तोपादाने तु भाविबाघोपपत्या सर्वतद्विवर्त- राहित्यम्-नष्टे विवर्तोपादानताप्रयोजक आवरणे; अन्यदा तु सविशेषत्व- नियम :- इति ॥
अत एव कारणसमसत्ताकं कार्य परिणामः, कारणविषमसत्ताकं कार्य विवर्त., अेदस्तूमयत्र समान इति विभागः । अत एव यत्र सविशेषत्वम्, तत्राधिष्ठाने तदारोपमात्रं कार्यत्वमिति नियमात् सविशेषत्वपरमार्थत्वे कार्यत्वस्या- नित्यत्वप्रयोजकत्वनियमव्याहतिः। न ह्यारोप्यस्येवाघिष्ठानस्याप्यधिष्ठानापेक्षा सभवति।
अधिष्ठानत्वं हि किश्चिदपेणाज्ञानम्, किश्विदपण ज्ञान चापेक्षते। न चारोप्यस्याधिष्ठानत्वम्। अत एव परस्पराध्यासेऽिष्ठानस्य न स्वरूपतोऽध्यासः, किन्तु तत्संसर्गमात्रस्येति तत्र तत्र व्यक्तम्। अत एव सविशेषब्रह्मभावोडवा- न्तरमुक्तिरेव, न परमा भुक्तिरित्यद्वैतिनः।
न हि निर्विशेषं ब्रह्म कारणम्, किन्तु मायोपहितमेवेति हि राद्ान्तः, इति न सर्वदा कार्यभावप्रसङ्ग ; सविशेषस्यैव कारणत्वात्। तथाचानादावपि समारे तत्तज्जीवाज्ञाननिवृत्तौ न परममुक्तिविरोधः ॥
यत्तु-अविदया सविशेषा वा, निर्विशेषा वेति विकल्प्य सविशेषत्वे कार्यत्वेन तस्या मूलकारणत्वासिद्धि-इति ॥
तत् परमतेऽपि प्रकृतेः सविशेषाया मूलकारणत्वाङ्गीकाराड् न क्षोदक्षमम्। त्रह्मणोऽप्येवं सविशेषस्य मूलाघिष्ठानानपेक्षेति तु तदैव स्यात्, यद्ुभयमप्यु- पादानं स्यात्। न चोभयोपादानत्वं परमते, अद्वैतमते तु चिन्मात्ररूपेण ब्रह्मण:, मायायाश्चोपादानत्वस्वीकारात् सविशेषस्याप्यनाद्यध्यस्तरूपस्य स्वीकारात सविशेषस्य मूलाघिष्ठानापेक्षा न विरुध्यते। यथाच प्रकृत्युपादानत्वातिरिक्त्तं सविशेषस्य नोपादानत्वं परमते, तथा तदीयनिबन्घेषु व्यक्तम्।।
Page 80
२४ अद्वैततत्त्वशुद्धिः
डपि स्वीकारात सविशेषेऽप्यवान्तरतात्पर्य वेदान्ताना नानभिप्रेतम्, विप्रतित्तिस्तु तत्र वेदान्तानां पर्यवसान एव। अ्रतिर्हि "अथात आदेशो नेति नेति" "एकमेवाद्वितीयमि" त्यादिरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञापरा विशेष- निषेधेन निर्विशेषमेव परिशेषयति। अत एव सप्तमाध्याये- "यद् ज्ञात्वा नेह भूयोडन्यद् ज्ञातव्यमवशिष्यते" इति प्रतिज्ञाय-"ज्ञानी त्वात्मैव मे मतम् ", "नच मतस्थानि भूतानि" इत्यादिना निर्विशेपत्मवादमेव भगवान् समर्थयति ॥ अत एव सजातीया द्विजातीयात्स्वगताच्च भेद निषेधपरा"ण्येकमेवद्वितीयम्", "अथान आदेशो नेति नेती"त्यादीनि॥ यत्त-सजातीयादिसत्वे तड्ेदस्यावश्यकत्वम्-इति, को वाऽत विप्रति- पद्यते-सजातीयवत् तद्वेदस्यापि सत्वे। उमयं चेदं ब्रह्मणि कल्पितमूरीक्रियत एव, परमार्थतः खलु ब्रह्मणि तयोरुमयोरपि निषेधोऽध्यारोपापवादनयेनाद्वै- तसिद्धान्ते।।
एतेन-निर्विशेषत्वमपि-व्याख्यातम् ; अध्यारोपेण प्रसक्तविशेष- निषेधपरत्वाद् निर्विशेषपदस्य। सत्यमत्र भेदवद्धेदराहित्यमपि मिथ्या, किमेतावता? न चैतावता भेदसत्यत्वापत्तिरत्रेति मिथ्यात्वमिथ्यात्वेऽपि न प्रपश्चसत्यत्वमिति प्रकरणे व्यक्तं सिद्धान्तलेशस ड्ग्रहादौ।। वस्तुतस्तु-भेदराहित्यस्य ब्रह्मस्वरूपत्वात् पारमार्थिकत्वपक्षोऽप्यद्वैतसि- ध्यादौ व्यक्तः। तथाच सजातीयाद्विजातीयातस्वगताच्च भेदनिषेधेन पञ्चमीनिर्दे- शेऽपि स्वगतशब्देन मेदस्यापि विवक्षणात् भेदनिषेघोऽपि विवक्षित एव।। अत एव तत्र तत्र ब्रह्म निर्विशेषमिति श्रति:। इयं च विभ्रमविशेषराहित्यमेव बोधयतीति परमार्थप्रकाशिका ॥
Page 81
अनुमानप्रमाणम् २५
तन्न विभ्रमविशेषपदे यदि कर्मधारयसमासः तर्हि विशेषपदस्य श्रतिगतस्य सक्कोचेन लक्षणा। यदि तु सर्वस्य विशेषस्य विभ्रमत्वं ्रमसिद्धतवं वा तेन विवक्ष्यते, तर्हि स्वागतमेव; ब्रह्मणि विशेषाणां सर्वेषामध्यारो- पाङ्गीकारात् ॥ "तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम्। निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।।" इति ब्रह्मसिद्धिरप्यत एवोपपद्यते। अत्र प्रथमं निर्विकल्पपदं निर्विशेषपरम्, द्वितीयं तु निर्विकल्पज्ञान- विषयत्वपरम्, इति न पौनरुकत्यं परमार्थप्रकाशिकोक्तरीत्या। "यतो वाचो निवर्तन्त" इति श्रतिरपि ब्रह्मणो निर्विशेषस्य लक्षणयैव बोधः, न तु शक्त्येत्यर्थपरेतीष्टसिद्धिः। तत्र यच्छब्देन लक्ष्यस्वरूपानुवादः, "वाचो निवर्तन्ते" इत्यादिभिरगोचरपदेन वा शक्तिनिषेधः । तेन च विनापि शक्तिं लक्षणेक्षुक्षीररसादिमाधुर्यादाविवेति ज्ञाप्यते, येनावाच्ये डप्रमेये वा न लक्षणेति शक्कापि निरस्ता। आकृत्यधिकरणेन व्यक्तरशक्याया अपि लक्षणया बोधो विशदः। प्रमाणान्तराप्रमेयत्वं सगुणब्रह्मणोऽप्य- विशिष्टम्। निरपेक्षप्रमाणे श्रतौ, तदर्थे वा प्रमाणान्तरप्रमेयत्वकथा कथामात्रम्। श्रुतिप्रमेयत्वं तु निर्विशेषस्यापि समानम्। अतो न मम माता वन्ध्येति न्यायावसर: ॥ निर्गुणनिरञ्जनादिपदान्येव निर्गुणत्वनिरञ्जनत्वादि विशेषणवैशिष्टयपरा- णीति न विशेषणराहित्यं तदर्थः, आरोपितसर्वविशेषशून्यपरत्वात् तेषां पदानाम्। अत एव निरञ्जनमिति पदान्तरम्। तेन हि विशेषाणां तत्र कल्पनामात्रम्, न तु तैर्ब्रह्मणः संबन्धलेशोऽपीति सूच्यते। तथाच भाष्य- मध्याससमर्थनानन्तरं-"तत्रैवं सति तत्कृतेन दोषेण गुणेन वाडणुमात्रेणापि
Page 82
२६ अद्वैततत्त्वशुद्धिः
स न सम्बध्यते"-इति। "यस्सर्वज्ञः सर्ववित्" इति श्रुतिरप्यद्रेश्यत्वादिना निर्विशेपतया प्रस्तुतस्यैवारोपेण भूतयोनित्वं यदुपक्षिप्तम्, तस्यैवोपपादनपरा कल्पितमेव सविशेषत्वमनुवदति, न तु वस्तुगत्या ; तटस्थलक्षणविधयैवास्य वाक्यस्य प्रवृत्तिरिति हि जन्माद्यधिकरणे भगवत्पादा विशदयन्ति। कारणवाक्यानि कानिचित् सद्वितीयं प्रस्तुत्य निर्विशेषमुपसंहरन्ति-"यतो वा इमानि भृतानि जायन्ते"-आनन्दो ब्रह्मेति व्यजानान्"; "सदेव सोम्येदमग्र आसीत्" एकमेवाद्वितीयम् " "यस्मिन् पञ्च पश्चजना आकाशश्च प्रतिष्ठितः-"नेह नानास्ति किश्चन" इत्यादीनि, यानि-प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रति योगित्वं मिथ्यात्वं विवेचयन्ति, कानिचन निर्विशेष प्रम्तुत्य- सविशेषपरतया, यथा परविद्यायाम्-"यत्तदद्रेश्यमग्राह्यम्" "भूतयोनि परिपश्यन्ति धीराः" "यस्सर्वज्ञः सर्वविदि"त्यादीनि, येन म्वात्यन्ताभावाधिकरणे प्रतीयमानत्वं मिथ्यात्वं निर्दप्यते। इदमेव मिथ्यात्वं तुरीयतयाउद्वैतसिध्यादौ समर्थ्यते। अतः "यम्सर्वज्ञ" इत्यादिवाकयं न सविशेषमात्रपरमार्थतापरम्, येन तदनुसारेण निर्गुणादि- पदानां हेयगुणादिनिषेधपरतया सक्कोचो युज्येत। "नात्र रजतं" इति बाघवद् निर्गुणादिपदं बाधपरमेव, यद्धि भ्रान्तिप्रसक्तं निषेधति, नतु प्रमाणप्राप्तम। तेन च पारमार्थिकत्वभ्रमो निरस्यते। यथाच पारमार्थिकत्वेन निषेधेऽपि न व्युत्पत्तिविरोध:, तथा लघुचन्द्रिका-विठ्ठलेश्यादौ व्यक्तम्। व्यधिकरणधर्मा- वच्छिन्नप्रतियोगिताकाभावस्थले सर्वत्रेयमेव गतिः । "विना हेयर्गुणादिभिः" इति हि सर्वानपि ब्रह्मणि प्रसक्तान् गुणान्, दोपान् निवारयन्ती, आदिपद- प्रयोगात् सर्वविशेषनिषेधमेवाभिप्रैति। गुणत्वं हेयत्वं च व्याहतम् ॥
न चात्र गुणशब्देन सत्त्वादिगुणविवक्षा, तेषां ब्रह्मणि म्रान्त्याऽप्यप्रसक्त- त्वेनाप्रसक्तप्रतिषेधापत्तेः। अत एवात्र न "-अमीषोमीय पशुमालभेत" "न हिंस्यात्सवां भूतानी" ति न्यायावसरः, गुणविशेषविधानाभावात, सर्वज्ञादि वाक्यानामनुवादपरत्वेन विध्यभावात्। "यस्सर्वज्ञस्सर्ववित् तम्मादेतद्रम्म
Page 83
अनुमानप्रमाणम् २७
नाम रूपमन्नं च जायते, अतः स भूतयोनिः, योडद्रेश्यत्वादिना सर्वविशेषरहित इति हि तत्र योजना। निर्गुणश्रतेः सङ्कोचेन नयन हि जीवो निर्गुण इति प्रयोगस्यापि यत्किश्चिद्णनिषेधपरतया साधुत्वापत्त्या न युक्तम्। न च तथा प्रयोगो दश्यते ।। यत्तु-कामं स्यात्, प्रकरणानुसारेण हि वाक्यार्थ-इति॥ तदिदमप्रसक्तप्रतिषेधापत्या प्रकरणानुसारेण वाक्यार्थवर्णने कारण- वाक्यं प्रस्तुत्य प्रवृत्तनिषेधवाक्यानामपि तद्गतसर्वनिषेधपरतया विवरणस्यैव युक्तत्वेन च न युक्तम्। यत्त-जीवेऽपहतपाप्मत्वादिस्वभावे गुणराहित्ये सत्यपि सत्त्वा- दिगुणप्रकृतिसम्बन्धयोग्यत स्ति, ब्रह्मणि तु साऽपि नास्तीति पुष्कलं निर्गुण- त्वम्-इत्यादि।। तत्र शुद्धस्य प्रत्यगात्मनो जीवस्वरूपस्यापि सत्त्वादिगुणराहित्यस्य गीतादिषु प्रतिपादनात् तत्रापि न निर्गुणपदप्रयोगोसाधु: स्यात। अद्वैतमते तु तत्रापि शुद्धस्य निर्गुणत्वमव्याहतम्। को वा विप्रतिपद्यते-गुणपद सत्त्वादिगुण- परमपीति 2 इदमेव तु विप्रतिपन्नम्, सत्त्वादिगुणपरमेव ब्रह्मणि निर्गुणपदे गुणपदमिति। गुणसामान्यनिषेधपरत्वे का वाऽनुपपत्तिः १ यदि सत्यकामत्वादि- गुणाम्नानात् तथा, तर्हि सत्यकामादिविशिष्टाद् अन्यत निर्गुणं ब्रह्मेति कुतो न विषयविवेक: 2 प्रत्याम्नायन्यायेन हि विधिनिषेघयोर्व्यवस्था - प्रकृतौ विधिः, विकृतौ निषेध :- इति। सत्यपि गुणनिषेधेऽप्रसक्त्तप्रतिषेधो न कथम् ? उक्तं चानुपदमेव "जीवे सत्त्वादिगुणप्रकृतिसंबन्धयोग्यतास्ति, ब्रह्मणि न साऽपीति पुष्कलं निर्गुणत्वमिति। अतो ब्रह्मणो मायोपहितस्य सगुणत्वम्, तदनुपहितस्य निर्गुणत्वम्। मायोपहितस्य त्वनादिसिद्धमाया-तत्संबन्ध दिनिबन्धनं सगुणत्वमित्येव साधुः पन्थाः। न चाविद्यास्वरूपे, तस्य ब्रह्मणा संबन्धे च विप्रतिपत्तिः, किन्तु तस्या आवरणशक्तौ, शुद्धब्रह्मणि मायाया आश्रय-
Page 84
२८ अद्वैततत्त्वशुद्धि:
विधयतयोरेव। व्यवस्थापयिष्यन्ते चाविद्यायां प्रमाण-तद्धावरूपत्व-तद्निर्वचनी- वत्व-ब्रम्म-जीवाश्रयत्व-ब्रह्मविषयकत्व-तन्निवर्तकतन्निवृत्तय उत्तरत्र। तदेवं सर्वा- त्मना सर्वविशेषराहित्य ब्रह्मण उपपादिनम द्वैतामोसिद्धान्तितम्॥ तत्र "सत्यं ज्ञानमनन्तं ब्रह्म" "पज्ञानं ब्रह्मे"त्यादिकं ब्रह्मस्वरूप- परमिति संप्रतिपन्नम्। तत्र ज्ञानपदस्य अर्शआद्यजन्तत्वे ज्ञानवत्त्वं ब्रह्मणो लक्षणं स्यात, न तु ज्ञानस्वरूपत्वम्। तथाच न्यायवैशेपिका दिमत इव ब्रह्मणोड- चेतनत्वापत्तिः । अथ यदि तद्वारणार्थ स्वरूपपरत्वं विवक्ष्यते, तर्हि न ज्ञानगुण- वत्व सिध्यति। अर्थद्वयविवक्षा त्वेकम्यैव तन्त्रेणवृत्त्या वा सति प्रमाणे सवति। न च ज्ञानस्वरूपत्वं ज्ञानवत्व चोमयं बोधयदेकमप्यस्ति प्रमाणम्, इति परते स्वरूपज्ञानसिद्धान्तकर्थैवास्तमियात॥ "प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसाम्, आत्मसवेद्यं तज्जानं ब्रह्मसन्दितम्।।" इत्या दिवचनानि तु ज्ञानस्वरूपत्वमेव ब्रह्मण. प्रतिपादयन्ति, न तु ज्ञानाश्रयत्वम्। "तदेक्षते"त्यादिकं तु ब्रह्मण औपाधिकमीक्षणं प्रतिपादयति, न नु स्वाभाविक ज्ञानाश्रयत्वम् ; अन्यथा सृष्टिस्थितिसंहाराणां तत्तत्सक्कल्पवशात् सार्वदिक्त्वं स्यात्, तेन च सुन्दोपसुन्दन्यायेनेकमपि न स्यात्। "विज्ञानघनः" इत्यादिश्रुतयोऽप्यत एव व्याख्याताः। तद्घनत्वं नाम तदेकस्वरूपत्वम्, रसघनादिशव्द्रा अप्युपचारेण रसकस्वरूपत्वस्यैव बोबकाः। अत एव "विज्ञानं ब्रह्मेति व्यजानात्" "आनन्दो ब्रह्मेति व्यजा- नात्" इस्यादिश्रुतयः । "प्राणो ब्रह्मति व्यजानात्" इत्यादाविव स्वर्ूप- मात्रमेव हि विज्ञानशब्दो गोचरयति। अत एव "आनन्दो ब्रह्मे" त्यन्न 'आनन्द'पद पुलिङ्गम्। स्वयंज्योति.पदप्रयोगस्तु ब्र्मणि नान्यथोपपद्यते। "ज्ञोऽत एवे'ति सूत्रं तु जीवस्नैव कथञ्चन ज्ञानस्वरूपत्व तदाश्रयत्वं च विषयीकरोति, न तु ब्रह्मण.। अत ईक्षगादिकमपि मायोपादानप्रयुक्त
Page 85
अनुमानप्रमाणम् २९
ब्रह्मणो न स्वाभाविको धर्म। सति चैवं "विज्ञातारमरे केन विजानीयात्" इति स्वाभाविकविज्ञातृत्वनिषेधेन ज्ञानस्वरूपत्वमात्रमुपपादयतीति वक्तव्यम्। विज्ञतृत्वमात्रविवक्षायामस्य स्वरूपज्ञानत्वसिद्धान्तः किंनिबन्धनः 2 अतो विज्ञानस्वरूपस्यैव ब्रह्मणोडज्ञानेनावृतस्य विव्त एव सर्वोडपि प्रपश्च इति ब्रह्मणो ज्ञानस्वरूपत्वप्रतिपादनपराण्यपि वचनानि निर्विशेषत्वस्यैवोपबृंहकाणि। अत एव "सर्व खल्विदं ब्रह्मे"ति सामानाधिकरण्यम्। इदं हि बाधायामेवेदंरजतमितिवदिति पूर्वमेवोपपादितम्। तेन चाद्वितीयपदेनाप्येक- वाक्यता। निर्विशेषत्वं चात्रार्थिकम्॥ इदमत्र सहृदयो भूत्वा भवान् पश्यतु-इंद रजतमित्यादौ किमिदंरूपं तदभिन्नं वा रजतमस्ति सत्ख्यातिवादेऽपि। कि पुरोवर्ति रजतकार्य करोति ? कि तयोरमेदोऽन्यथाख्यातिवादे, अख्यातिवादे, असत्ख्यातिवादे, अन्यत्र वाऽनिर्वचनीयख्यातिं विहाय। अनिर्वचनीयख्यातिवादे यावद्वाधं रजतलाभनि- बन्धन आनन्दलाभः सर्वानुभवसिद्धः। तथाच भाष्यम्-तथाच लोकेऽनु- भव :- "शुक्तिका हि रजतवद्वभासते" इति रनतवदिति वत्कारपुरस्सरम्॥ शुको घट इत्यादि तु विशेषणविशेष्यभावे समानाघिकरणम्। अतस्तस्मादस्य विशेषः । न चात्र सृद् घट इतिवत् कार्यकारणभावप्रयुक्तमपि सामानाधिकरण्यम्, मृद इव ब्रह्मणोऽपि विकारित्वापतेः। अत एव भास्करम- तात् श्रीभाष्यसिद्धान्तस्यापि विशेषः, अन्यथा तन्मतप्रवेशापत्तिः। अविकृत- ब्रह्मोपादानतावादो हि शुक्तिरूप्यादिस्थलदष्टान्तानुसारेणाद्वैतमत एव, नान्यत्र ।। एतेन-ब्रह्मणि रावकिाराङ्गीकारे निर्विकारश्रतिविरोध इति चेतू, नन्वियमपि श्रुतिरेव। अस्या परमन्यथाकरणं कथमिति चेत, तदपि श्रुतिरेव दर्शयतीति-परास्तम्॥ अन्यथानयनेन अ्रत्युपष्टम्भो हि सर्वत्र समानः, इति कथ विशिष्टाद्वैत- मेव तत्त्वमिति समीक्षतां भवान्।
Page 86
३०
अद्वैतपंद हि केवलं भगवत्पादानां सिद्धान्ते, श्रीमाष्यसिद्धान्ते तु विशिष्टपद्घटितम्। तत्र ब्रह्माद्वैमिति केवलब्रह्मपदेन समन्वितं कथ विशिष्टा- द्वैतपदं बोधयेत। एकत्वमद्वैतपदार्थ, ब्रम्मद्रैतं हि ब्रह्मकत्वपरम, न चिवचि- द्विशिष्टब्रह्मपरतामर्हति; विशेपणभेदप्रयुक्तत्वाद् विशिष्टभेदम्य, अत एव -- ब्रह्मणो ज्ञानरूपतायाः, सन्मात्रतायाश्च- "प्रत्यस्तमितमेदं यत् सत्तामात्रमगोचरम्। वचसाम्, आत्मसवेद्यं तज्ज्ञानं ब्रमशब्दितम् ।" इति वचनसिद्धाया अनुपपत्तिः परमते। न हि सतो ज्ञानरूपत्वं सन्मात्राति रेके युज्यते। सन्मात्रातिरिक्त ज्ञानं धर्मभूत ज्ञानं जन्य नित्यं वा नात्र निषेधामः, किन्तु सन्मात्रस्य स्वरूपज्ञानातिरेकमात्रम्। यथाच धर्मभूतज्ञान- मात्रस्य सन्मात्रस्योरीकारे ब्रह्माचेतनत्वापत्तिः, तथोपपादितमधस्तात् ॥ सन्मात्रं हि ब्रम्म न सत्ताविशिष्टम्, येनाद्वेतभङ्ग स्यात। न हि घटादिसाधारणं सन्मात्रम् ; तेषामेकसत्तावादे सन्मात्रतादात्म्येऽपि सद्रूपत्वा- भावात्। सत्तात्रैविध्यवादेऽपि घटादिसत्त्वविलक्षणमेव सत्त्वं सन्मात्रत्वं ब्रह्मणः । सत्तात्रैविध्यप्रक्रिया चाघस्तादेव प्रापश्चि॥ यद्यपि "सदेव सोम्येदमि"ति मायोपहितं सन्मात्रमुच्यते, न तु निर्वि- शेषम्; मायोपहितस्यैव कारणत्वात्, तथापि सत्पदं न सत्ताविशिष्टपरम्; "सत्य ज्ञानमित्यादिना ब्रह्मणः सन्मात्रत्वबोधनात्। न ह्यबाध्यत्वातिरिक्तं सत्त्वं ब्रह्मणोऽसाधारणं रूपम्। सत्तावैशिष्टयं हि घटादिसाधारणम्।
एतेन-'आसीत्' इतिपदमपि- व्याख्यातम्। मायोपहितस्य काल- संबन्धाविरोधात्। अत एव 'अग्रे' इति पदम्। न च तन्निर्विशेषम्॥
तत्र प्रकृतिविशिष्टम्योपादानतवं न प्रकृतिमात्रोपादानत्वेन, किन्तु- ब्रह्मोपादानत्वेनापि। तत्र प्रकृतिः परिणामिकारणम्, ब्रह्म विवर्तोपादानम्। अत
Page 87
अनुमानप्रमाणम् ३१
एव "सर्व खल्विद ब्रह्मे"ति बाधाया सामानाधिकरण्यम्। अन्यथा कथं ब्रह्मोपादानत्वनिर्वाह: 2 यत्तु-प्रागवस्थाविशेषस्यैवोपादानपदार्थतया तस्य विशेषण इव विशेष्येऽपि सत्त्वात् न ब्रह्मणो गौणमुपादानत्वम्-इति। तत्र विशिष्टोपादानतायां विशेषणमात्रस्य परिणामित्वेऽपि विशेष्यस्यापि परम्परयाSSश्रयत्वेनाश्यत्वमात्रादुपादानशब्दवाच्यत्वमिति भवदाचार्योक्त्या साक्षा- द्विशेषणस्येव विशेष्यस्य मागवस्थावैशिष्टयं बाधितम्। प्रागवस्था हि स्थूलकार्यदष्टयैव, न तु प्रकारेण। न च स्थूलकार्यप्रागवस्थारूपत्वं साक्षात्तद- परिणामिनो ब्रह्मण. समवति, इति कथं मुख्यमुपादानत्वं ब्रह्मणः 2 इत्यगत्या तदुपादानत्वनिर्वाहाय शुक्तिरनतन्यायेन विवर्तोपादानत्वमेव स्वीकार्यम्। नियामऋत्वमात्रणोपादानत्वकथ। हि ब्रह्मणः श्रीजयतीर्थीयन्यायसुधायामप्यनूद्य निराकारि ; ब्रह्मनिमित्तकारणतामात्रसिद्धान्तसाधारण्यात् ब्रह्मनियामकतायाः ॥ यदा तु-"आत्मा वा इदमग्र एवासीदि"ति श्रत्यन्तरानुसारेण सत्पदम- प्यात्मपरमेव। अत एव चेक्षत्यधिकरणमपि, तदा मायोपादानत्वमपि विहाय ब्रह्मोपादानत्वमात्रं विशेषणांशस्य मायाया निमित्तकारणत्वमात्रविवक्षया, इति विवर्तापादानत्वं विना नान्या गतिः। अद्वैतामोदस्तु-सद्विद्याया उभयोपादानतापरतायामपि विशेष्यांशस्य तदुपादानत्वेनैवोपादानत्वं परम्परयेति मतनिरासार्थम्-'आत्मा वा इदमि'ति वाक्ये केवलात्मोपादानत्ववर्णनमद्वैतमेव व्यवस्थापयतीत्यभिप्राय एव, न तु तयो- र्मिन्नवाक्यत्वा भिप्रायः। तत्र "कारणवाक्यानामैकार्थ्याभावादि"त्युक्तिस्तु सर्वत्र न विशिष्टकारणत्वमेव, किन्तु विशेष्यमात्रकारणत्वाम्नानमपि वर्तत इत्याशयेन। न हि सदात्मशब्दयोर्विशिष्टपरयोः परमते तदभिमतचिदचिद्विशिष्टपरत्वम्- सत्पदनाचिद्विशिष्टस्य, आत्मपदेन चिद्विशिष्टर्य च अ्हणेऽपि चिदचिद्विशिष्ट- कारणस्याबोधनात्। न हि सूक्ष्माचिद्विशिष्टग्रहणमात्रेण, ताद्शचिद्विशिष्ट-
Page 88
३२ अद्वैततत्त्वशुद्धि
मात्रग्रहणेन वैकेन सर्वविज्ञानप्रतिज्ञोपपद्यते। अद्वैतमते तु निर्विशेषब्रह्ममात्र- विज्ञाने एकविज्ञानेन सर्वविज्ञानं सूपपादम्॥। वम्तुतस्तु-एकविनानेन सर्वविज्ञानमेकस्य चिदचिद्विशिष्टस्य ग्रहणेन सूपपादम्। कारणविज्ञानेन कार्यविज्ञानं हि साक्षात्परम्परया वा परिणामि- कारणविज्ञानेन न सम्भवति। परिणामिकारणतायां हि-कार्यकारणयोर्ना- त्यन्ताभेदः कारणरूपेण कार्यरूपेण च। "कार्यात्मना तु नानात्वमभेदः कारणात्मने"ति सिद्धान्तात्। न हि मृदात्मना जगतीतलवर्तिनां सर्वेपा विकाराणां ज्ञानं भवति, अद्वेतमते तु ब्रह्मविवर्तमानताया विवक्षणात् तत्र चो- पादानव्यतिरेकेण कार्यस्वरूपस्यैवाभावाद् नान्यत् ज्ञातव्यमवशिष्यत इति विधयंकविज्ञानेन सर्वविज्ञानम्। इदमेवाभिप्रेत्य भगवान् गायति- "ज्ञान विज्ञानसहितं प्रवक्ष्याम्यनसूयवे। यत् ज्ञात्वा नेह भूयोऽन्यद् ज्ञातव्यमवशिष्यते"॥ इति। भक्तियोगविषयस्य सविशेषस्यापि सर्वविशेषरहितनिर्विशेषज्ञान एव मुख्यं पर्यवसानम्-इति च। अत एव-"ज्ञानी त्वात्मैव मे मतम्," "नच मतस्थानि भूतानि" इत्यादि ॥ अत एव कुत्रचन मायोपहितस्य, कुत्रचनात्ममात्रस्य, "तम आसीत तमसा गूढमग्रे प्रकेतम्" "अजामेकां लोहितशुककृष्णां बह्ीः प्रजा जनयन्ती सरूपाम् " इति प्रकृतिमात्रस्य च कारणत्वाम्नानम्। तदेवमुभयोरप्युपादानत्वाम्नानं तटस्थलक्षणविधया विवर्तोपादानशुद्धनिर्विशेषपरत्वमेव गमयति। एवं स्वतन्त्रोपादानताप्रकारभेदे सति गुणोपसंहारनयेन शाखोपसंहारनयेन वा किमिति सर्वत्र चिद चिद्विशिष्टपरत्वं लक्षणया स्वीकर्तव्यम् 2 तत्र तम आसीदि- त्यादौ तमःपदस्य अचित्परस्य चिदचित्परत्वं कथं विना लक्षणया ? गुणोपसंहारादिन्यायो हि ज्ञेयं स्वरूपं सर्ववाक्यैकवाक्यतया व्यवस्थापयति, न त्वन्यत्र श्रयमाणस्यान्यपरस्य पदस्य सर्वार्थपरत्वमपि शक्त्यैव।।
Page 89
अनुमानप्रमाणम् ३३
"आत्मा वा इदमग्र आसीत। स ऐक्षत लोकान्नु सृजा" इत्यत्रात्मपद मायोपहितपरमेव, न चिदचिद्विशिष्टपरम्; प्रमाणाभावात्, अनुपयोगाच्च। तत्राद्वैतम तेऽपि यद्यपि कारणवाक्यानि विशिष्टगराण्येव, नथापि तत्रैकविज्ञानेन सर्वविज्ञानं न विशिष्टविज्ञानेन, किन्तु विशेष्यमात्रविज्ञानेन; तस्यापि कारण- त्वात्। निर्विशेषं हि ब्रह्म प्रधानतमं विज्ञेयं तटस्थलक्षणविधया मायाद्वारैव प्रथमं बुद्धावारोपयितुं शक्यते। न हि शास्त्रमिदन्तया निर्विशेषं बोधयति;
अत्र सदेवेति वाक्ये मायोपहितग्रहणं न सच्छब्दस्यैव विशिष्टपरत्व- माश्रित्य, किन्त्विदंपदसामानाघिकरण्यमहिम्नेदंपदार्थविशिष्टस्यैव। इदमर्थोड- नभिव्यक्तावस्थनामरूपात्मको मायाया एव तत्कारणस्य तत्सूक्ष्मरूपत्वात् सूक्ष्माचिदेव।। तत्र तत्र सत्पदेन विशिष्टग्रहणवर्णनमप्येतदाशयमेव। सत्पदं तु शक्त्याऽडत्मपरमेव। "आत्मा वा इदमग्र आसीत" इत्यत्रात्मपदमप्यनेन न्यायेन विशिष्टपरम्। तत्रेदमर्थमायाया इव सदात्मशब्दार्थब्रह्मणोऽप्युपादानत्वमपि सद्वि- द्यादितात्पर्यविषय उभयोरप्युपादानत्वाभिप्रायेणेति तु तत्त्वम्। केवलब्रह्माकारण- तापराणि-"यतो वा इमानि भूतानि जायन्ते-आनन्दाद्येव खल्विमानि भूतानि जायन्ते" इत्यादीन्यपि हि वाक्यान्याम्नायन्ते। तथा केवलप्रकृति- कारणतामात्रपराणि, उभयोपादानपराणीति तु निष्कर्षः। तत्राद्वितीयमित्य- विद्याया अपि निषेधो भाविबाधप्रतीत्या पूर्वोक्तरीत्योहनीयः ; "अविद्या सह कार्येण नासीदस्ति भविष्यति" इति वचनात्॥ अनभिव्यक्तन। मरूपात्मकाविद्यानिषेधेनार्थसिद्ध एव, नामरूपात्मककार्य- रूपजगतोऽपि सः। अतोऽविद्यानिषेधे न जगतो निषेधाभावः । न हि वाक्य- प्रतिपन्नत्वमात्रेण प्रामाणिकत्वम्; अन्यथा "जर्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वे"ति प्रतीतस्य "अनाहुतिर्व नर्तिलाश्ष गवीधुकाश्च पयसा- 3
Page 90
३४ अद्वैततत्त्वशुद्धि:
Sिहोत्रं जुहोति" इति च वाक्यद्वयस्यापि प्रामाण्यापत्तेः । अतो न प्रनीत प्रामाणिकम्, न वाडबाध्यम । तत्र यदि दष्टान्ते पूर्वत्र तात्पर्याभावात, निषिद्धत्वाच्च न तात्पर्यम्, उतस्याक्यार्थ एव तु तात्पर्यम्, तर्हि प्रकृतेऽपि "सदेवेदमि"ति प्रतीतस्या- द्वितीयमिति निषेघात्, पूर्वत्राविद्यासबन्धांशेऽनुवादमात्रत्वादविद्यानिषेधो न विरुध्यते॥ शास्त्रप्रापतस्य शास्त्रेण निषेधायोगस्तूभयोरपि तार्त्पविषयत्वविवक्षायामेव, यत्रोमयम्रामाण्यम्, यथा-"अतिरात्रे षोडशिनं गृह्णाति" "नातिरात्रे षोडशिनं गृह्नाति" इत्यादौ। "यज्तिषु येयजामहं करोति नानूयाजेपु" इत्यत्रापि तन्न्यायस्तु न प्रवर्तते ; पर्युदासविधया विरोधपरिहारात्। सगुणवाक्यानि तूपासनापराण्यप्युपास्यासत्यतायामपि नाप्रमाणानि, आरोपितरूपेणाप्युपासनासम्भवात्, इति सगुणवाक्यानां न गुणेषु तात्पर्यम्, किन्तु निषेधापेक्षित निपेध्यसमर्पकत्वमेव ।। सगुणनिर्गुणवाक्ययोरविरोधो हि निर्वहति, अन्यत्र तु निर्गुणवाक्यानामपि सगुण एव सक्कोचेन प्रामाण्यस्वी- कारात् यथाश्रतार्थाविवक्षणात निर्विशेषांशेऽपरामाण्यमेव।। तत्र सामान्यविशेषन्याय उभयोरपि विधित्वेन प्रामाण्यनिश्धयेना- न्यतरस्यानुवादत्वे, यथा-"आहवनीये जुहोति" "पदे जुहोति " इति। तत्र ह्युभयोरपि सावकाशत्वम्। सगुणनिर्गुणवाक्ययोरुमयोरपि सगुण एव तात्पर्ये तु निर्गुणचाक्यं न स्वतन्त्रं प्रतीयमानेडर्थे प्रमाणम्॥ उपसंहारन्यायोऽपि सामान्यविधेरस्पष्टत्वे, विशेषविधे: स्पष्टत्वे च। स च विध्योरेव; यथा-"आझेयं चतुर्धा करोति" "पुरोडाशं चतुर्धा करोति" इत्यादौ। न चात्र सोऽपि ; एकशाखागतत्वादुभयो:, उभयोरपि स्पष्टत्वात्,
Page 91
अनुमानप्रमाणम् ३५
एकप्रकरणगतत्वाच्च। "सदेवेदमि"ति "एकमेवाद्वितीयमि"त्यत्र नान्यत्रा- न्यतरस्योत्कर्षकथापि।। "न हिस्यात् सर्वा भूतानि" इति निषेध पुरुषार्थः, "अग्नीवोमीयं पजुभालमेते"ति तु क्रत्वर्थः, इति विषयमेदात नात्र सामान्यविशेषन्याय इत्यन्यत्र विस्तरः ॥ "सदेव सोम्येदमग्र आसीदि"ति "एकमेवाद्वितीयमि"ति च वाक्य- भेदेSप्येकवाक्यत्वात् पुरोवादानुवादपरतया योजनमेव युक्तम्, न तु स्वतन्त्रमेक- त्बादिविध्यन्तरपरत्वम्। तत्र चानुवादापेक्षया पुरोवाद एव बलवानिति - विवर्तवादपक्षे कार्य-कारणयोरविषमसत्ताकत्वात् प्रसक्तेदंपदार्थेनिषेधो भ्रमप्रसक्तस्य 'नेदं' रजतमित्यनेनेव युज्यते॥ तत्र द्वितीयादिराहित्यं नात्रोपदेष्टव्यमपि चिदचिद्विशिष्टस्य सत्पदेन ग्रहणात् सृष्टेः पूर्व सूक्ष्मचिदचिद्धाह्यस्य कस्यापि स्वतन्त्रस्याभावात् कस्य वा निषेध: स्वतन्त्रस्याद्वितीयपदेन 2 एवं विशिष्ट विशेष्यस्य प्राधान्यात् तद्वोधकस्यैवपदस्यापि किं कृत्यम् ? कथं चात्रैकविज्ञानेन सर्वविज्ञानम्2 एकविज्ञानेन सर्वविज्ञाने साक्षादु- पादानमेव सृत्तिका दष्टान्ततयोपात्तम्, न तु विशिष्टम्, इति कथं विशिष्टोपादं।- नतापक्षे तत्स्वारस्यम्? अद्वैतसिद्धान्ते तु साक्षात्कारणविज्ञानेन सर्वविज्ञानाद् न दष्टान्तानुपपत्तिः ।। तत्र यद्यपि मृत्तिका परिणामिकारणमेव दृष्टान्तः, न तु विवर्तोपादानं शुक्तिरज्ज्वादि ; तथापि विवर्तोंपादानतायाः परिणाम्युपादानाविद्यासापेक्षत्वात् तटस्थलक्षणविघया तदुपस्थापनपर्यन्तं व्यापार इति स्वीकर्तव्यम्, साक्षाद- परिणाम्युपादानत्वं वा ब्रह्मणः । न च परिणाम्युपादानत्वं साक्षाड्डह्मणः परस्या पीष्टम्ं।।
Page 92
३६ अद्वैततत्त्वशुद्धिः
तत्र "मृत्तिकेत्येव सत्यमि"ति मृत्तिकापदस्योपलक्षणविधया ब्रह्म- पर्यन्तोपस्थापनार्थमेवेतिपदम्। न हि घटादिकं प्रति मृत्तिकादिरेवोपादानम, सत्ताभानप्रीत्यनुगमबाधात्, किन्तु तदुपलक्षितं चतन्यमपि। तत्र च मृत्ति- कामात्रं न सर्वकार्योपादानम्, तदुपलक्षितं चतन्यं तु सर्वोपादानम्। अतश्वतन्य- मात्रोपस्थापन एव तटस्थविधया तात्पर्यम्।। अत एव "वाचारम्भणं विकारो नामघेय" मिति कार्यस्य वटस्य न ग्रहणम्, किन्तु विकारमात्रस्य। तस्यापि वाचारम्भणत्वनिर्देशस्तु विवर्तो- पादानताऽविवक्षायां नोपपद्यते। मतान्तरे तु सर्वमिदं नोपपद्यते।। अत्र "वाचारम्मणं विकारो नामधेयम्, मृत्तिकेत्येव सत्य" मित्यत्र नामधेयपदस्य मृत्तिकापदेनाप्यन्वयात् मृत्तिकायाः तदुपलक्षितायाः प्रकृतेरपि नामधेयत्वमात्रम्, वाचारम्भणत्व च ज्ञाप्यते, तेन चाविद्यायामपि निवृत्ताया परिशेषितं चिन्मात्रमेव सत्यम्, तद्विज्ञाने नान्यत् ज्ञातव्यमवशिष्यत इति फलति। शुक्तिरज्ज्वादिदष्टान्ते तु तदद् घटादीनामपि प्रातिभासिकत्वमेव स्यात्, ततश्च स्वम्ृष्टान्तेन विज्ञानवादप्रवेशापत्तिरिति शङ्का स्यात् । ततस्तन्तिराकरणार्थ 'वैधर्म्याच् न स्वम्नादिवदि' ति सूत्रितं वैधर्म्यमपि ज्ञापितं भवति॥ "प्रकृतिश्च प्रतिज्ञदृष्टान्तानुपरोघात्" इत्यधिकरणमप्येतदाशयमेव। प्रकृतित्वं ह्युपादानत्वमद्वैतमते, भास्करमते, शुद्धाद्वैतमते च ब्रह्मणः स्वरसम्; साक्षात् ब्रह्मण उपादानत्वस्वीकारात। तत्र भास्करादिमते परिणामिकारणत्वम्। तत्तु निरस्तमेव श्रीमाष्यकारैरपि।। परिणामपदं च अन्यथाभाव इवान्यथाभानेऽपि प्रयुज्यते, विवर्तपरि- णामपद्योरुमयत्र प्रयोगात्। अन्यथा भासमानस्य सत्ताभेदो विवर्तवादे, परिणामवादे तु तदैक्यम्। कार्यकारणयोरमेदस्तूभयत्र समानः। एतदेवाभिप्रेत्य भाष्यवार्तिके "परिणामात्" इति विवर्तादिति व्याख्यातम्। दृश्यते
Page 93
अनुमानप्रमाणम् ३७
च तत्र तत्र कापिलप्रस्थानेSपि विवर्तपदप्रयोग: परिणामे, तथा परिणामपदं च विवर्तेडद्वैतनिबन्धेषु। भास्कशादिमतेऽपि मृत्तिकेति पदं लो कदष्टान्तेन ब्रह्मोप- लक्षणमेव।।
रज्जुसर्पादिस्थले तु न ब्रह्म शुद्धमुपादानम्, किन्त्ववच्छिन्न चैतन्यमेव। अतस्तस्य दृष्टान्ततयोपादानं न ब्रह्मविज्ञानेन सर्वविज्ञानोपपादनक्षमम्। परमते तु "मृत्तिकेत्येव सत्य"मिति 'मृद् घट' इति ज्ञानस्य प्रमात्वनिरूपणरं कथमेक- विज्ञानेन सर्वविज्ञानोपपादकम् 2 कथंतरां च ब्रह्मप्रकृतित्वोपपादकौ प्रति- ज्ञादष्टान्तौ ?
प्रकृतित्वम्, परिणामश्च तस्य परम्परयेति कुतोऽत्रावगम्यते 2 प्रकृतित्वं हि परिणामितयैव प्रसिद्धमिति परिणामिकारणस्यैव विवक्षणे किमर्थ "परिणामा"दिति सूत्रम् 2 कार्याभेदपरेण परिणामपदेन कथं विवर्तवादस्य व्यावर्तन विवर्तवादस्य प्रमाणान्तरसिद्धत्वे 2 तदभावे तु किमर्थमिदं सूत्रम् ।
सूक्ष्मचिदचिद्विशिष्टयोरुपादानोपादेयभावो विशेषणयोरुपादानोपादेय- भाव एव मुख्ये यदि पर्यवस्यति, तर्हि विविच्यताम्-कुत एवमिति ? यदि विशेष्ये साक्षादभावात, तर्हि ब्रह्मानुपादानतायामेव पर्यवसानात् घट्टकुट्यां प्रभातम् ॥
तन्र 'मनुष्यो जातः' इस्यादावात्मनो जन्मप्रतीतिरौपाघिकी, न तु स्वाभाविकी। वस्तुगत्या तु न जन्यल आत्मेति खल गीयते, श्रयते च- "न जायते म्रियते वा कदाचित्" इति। तत्र यदि तेन न्यायेन प्राक्तनाव- स्थाविशेषरूपेण प्रकृते: कारणत्वं मन्यते, ब्रह्मणश्च तद्विशिष्टत्वेन, तर्हि तावता किमायातम् 2 ब्रह्मणोऽप्यात्मन इव हि स्वाभाविकमनुपादानत्वम्, किंत्वौपा- धिकमेव तद् गौणमेव, न मुख्यमिति। न ह्यात्मनो जन्म मुख्यमिति कस्यापि सिद्धान्त आस्तिकस्य ॥
Page 94
३८ अद्वैततत्त्वशुद्धि:
शरीरवाचकानां पदानां शरीरिपर्यन्तत्वेन कारणवाचिशब्दस्य विशिष्ट- परत्वेनापि किमायातं ब्रह्मकारणताया मुख्यायाः 2 तत्र हि चिदचिद्विशिष्ट- कारणताया यदि विवक्षा, तर्हि विशिष्टस्य विशिष्टरूपेण कारणत्वमवगम्यते, न तु मुख्यं विशेषणमात्रस्य, तद्ूशाद् विशेष्यस्यापि। तत्र "सदेव सोम्येदमि"त्यत्र सच्छब्दार्थो यदि शरीरवाचकानां पदानां शरीरिपर्यन्तत्वमिति नियमेन सूक्ष्मचिदचिद्विशिष्टम्, तर्हि सच्छब्द प्रकृत्ति परस्सन् तद्विशिष्टब्रह्मपर इति वक्तव्यम्। तन्र च ब्रह्मणः सत्त्वगपि बाधितम्, कथञ्चात्र सांख्यमतस्योत्थानमपि ? सच्छब्देन प्रधानविवक्षाया एवासम्भवात्। 'असदेवेदमग्र आसी 'दिति शङ्काया अपि नोत्थानम्। न हि ब्रह्मासच्छरीरकमपि, न वा सद्विशिष्टप्रति- द्वन्दिव केवलम्, 'अमदि'ति कथं वा असत्कारणतावादस्य प्रत्युत्थानमपि। सच्छ्देनात्मानात्मसाधारणार्थविवक्षायां खल तस्य प्रत्युत्थानसम्भावनाSपि।।
इंद च शरीरवाचकानां पदानां शरीरिपर्यन्तत्वनियमाभाव एव युआते। सदाख्यशरीरविशिष्टो ह्यात्मैव भवति, नानात्मा, इति-"गौणश्चेन्नात्मशब्दात्" इत्यादिसूत्राण्यप्यत्र वितथान्येव।। सर्वथा तु विशिष्टकारणत्वं विशेषणविशेष्योभयकारणत्वेनैव युज्यते, न तु विशेषणमात्रकारणत्वेन, अन्यथाSपृथकसिद्धविशेषणस्य प्रकृतेः कारणत्वमपि विशेष्यकारणत्वमादारयैवेति विशेषणपककृतिकारणत्वकथा कथ न भज्येत? कथं च ब्रह्ममात्रकारणतावाद एव न परिशिष्येत प्रकृतेर्निमित्तकारणतामात्रेण भामतीसिद्धान्ते पर्यवसानेन 2 ब्रह्मपरिणामसिद्धान्तपर्यवसानेन वा 2
किश्च सत्पदेनैव तद्विशिष्टस्य ब्रह्मणो ग्रहणे "अग्रे इदमासीदि"ति श्रयमाणेदपदेन सामानाधिकरण्यं कथं सत्पदस्य 2 इदंपदेन स्थूलचिदचिद्वि- शिष्टस्य ग्रहणात् सामानाघिकरण्यं सृष्टेः प्राक् स्थूलचिदचितोरभावादनुपपन्नम्।
Page 95
अनुमानप्रमाणम् ३९
"उत तमादेशमप्राक्षी"रित्यत्र आदेशपदम्, उपदेशपद च पर्याय एव। अत एव-"एष आदेश. एष उपदेशः, एषा वेदोपनिषत्" इत्यादेशोपदेश ब्रह्मविद्यानामैक्येनोपसंहारः। उपदेशपदस्य सामान्यतो भावार्थपर- स्याप्युपदेशमप्राक्षीरिति कर्मतयाऽत्र निर्देशात् "कृदमिहितो भावो द्रव्यवत् प्रकाशते" इति न्यायेनोपदेशयोग्यस्यैव वस्तुनोऽत्र विवक्षा। पराक्रान्तं चात्र दीक्षितेन्द्रेः सद्विद्याविलासे। एकविज्ञानेन सर्वविज्ञानप्रश्नोपपादकत्वं ह्यप्रमेयस्य, तथाप्यज्ञाननिवृत्ति- मात्रेणानावृतस्वयंत्रकाशस्य तत्त्वस्योपदेशमात्रगम्यस्योपदेशपदेन विवक्षाया- तथाचोपदिश्यमानवस्तुविज्ञाने सर्वविज्ञानमिति कार्यकारणभावोडप्यत्र न विरुध्यते। ज्ञातव्यान्याभावेन हि सर्वविज्ञानमत्र विव- क्षिनं सर्वम्य ज्ञातात्मतत्त्वविवर्तत्वेन। अत एव "सदेवेदमि "ति बाघायां सामानाधिकरण्येनोपक्रमः ।।
तत्र "येनाऽश्रतं श्रुतं भवती"ति श्रूयमाणार्थातिरेकेणार्थान्तराभाव एव विवक्ष्यते, यथा रज्जुतत्त्वविज्ञानेन रज्जुस्वरूपातिरिक्तज्ञातव्यसर्पाभावः। रज्जुज्ञानेन हि सर्प-तज्ज्ञानतदुपादानानां सर्वेषामपि तद्यतिरेकेणाभावरूपो बोध एव, न तु सर्पज्ञानादिनिवृत्तिमात्रम्। तत्र तत्र रज्जुज्ञानेन सर्पज्ञानादि-
सन् घट इत्यादौ घटादीनां सत्त्वप्रतीतिर्हि न कम्बुग्रीवादिमद्घटसत्य- त्वाभिप्रायेण; घटस्य सद्बुद्धिव्यभिचरितत्वात्। इदमेवाभिप्रेत्य श्रयते "वाचारम्भणं विकारो नामघेयम्, ृत्तिकेत्येव सत्यमि "ति॥
अत्र मृत्तिकापदेन सदेव विवक्ष्यते ; तस्य सर्वत्रानुवर्तमानत्वात्, तस्यैव प्रकृतत्वाच्च। एतदर्थमेव मृत्तिकेत्येवेतीतिपदम्। नचात्र मृद घट इति ज्ञानस्य प्रमात्वबोधनं प्रकृतम् ।
Page 96
४0 अद्वैततत्त्वशुद्धि:
अस्तु वा कथचन मृद् घट इति ज्ञानस्य प्रमात्वमेवात्र प्रतिपिपाद- यिषितम्। तावताऽपि तस्य सृदंश एव किमव्यभिचरितार्थबोधकत्वेन प्रमात्वम्, उत घटांशे, आहोस्विद् उभयत्रापीति। तत्र सृदंश इव घटांशो नाव्यभिचरितः; घटान्तरप्रतीतावेतद्घटप्रतीत्यभावात्, किन्तु मृदंश एवाव्यभिचरितः ; सर्वासु घटप्रतीतिषु विशेष्यतया प्रतीयमानत्वात्। तथाच "मृत्तिकेत्येव सत्य"मिति वाक्यमनुवर्तमानस्य सत्यत्वम्, व्यावर्तमानस्य नाममात्रत्वमिति न्यायं बोधयितु- मेव, तेन च सन् घट इत्यादिप्रतीतिपरीक्षायां सत एवानुवर्तमानत्वम्, तद्यतिरिक्तस्य तु व्यार्वर्तमानत्वम्, इति सव्यतिरिक्तस्य सर्वस्य नाममात्रत्वमि- त्येवात्र प्रकरणार्थः ॥ एतद्वाक्यार्थोप बृंहणार्थमेव नासतो विद्यते भावो नाभावो विद्यते सत. । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ॥ इति गीयते भगवता। व्यक्तं चैतद्वाष्ये, तद्याख्यायां चानन्दगिरिकृनाया- मिति तत एवाघिकमवगन्तव्यम्। नहि शरीरशरीरिभावव्यवस्थायामेव सद्विद्यायास्तात्पये-'तदैक्षते' त्यारभ्य सतः कारणत्वोपदेशः, वावारम्भणं विकारो नामधेयमिति कार्य- कारणयोः कारणस्य सत्यत्वोपदेशश्च दृष्टान्तविघया सङ्गच्छते। सत्यं दृष्टान्त- दार्ष्टान्तिकयोर्न सर्वथा साम्यं सर्वत्र, केनचन रूपेण साम्यं तु वक्तव्यमेव। केन वा रूपेणात्र साम्यं विवक्षितमिति सहृदयो भूत्वा विवेचयतु। मृतिकेत्येव सत्यमितीतिकरणं मृत्तिकाया अत्र तदधिष्ठानसदूपब्रल्मोपलक्षणार्थम्, न तु मृति- काया: परिणामिन्या एवात्र विवक्षा, येन तदनुपपततिः स्यादिति सूचनार्थम्॥ न चात्र-'सदेवाग्र एकमेवासीदि'ति वाक्ययोजना; वाक्यभेदात, किन्तु-अग्रे इद सदासीत्, तच्चैकम्, अद्वितीयं चेति। तत्र प्रथमं वाक्य- मुद्देश्यपरम्, द्वितीयं तु विधेयपरम्, उभयं मिलित्ा तु महावाक्यं वाक्यैक-
Page 97
अनुमानप्रमाणम् ४ १
वाक्यतयेति हि वस्तुस्थितिः। तत्र उद्देश्यस्य सत एव बहुभवनसङ्कल्पः, न त्वेकत्वविशिष्टस्य। तन्रैकत्वं हि सजातीयाभाव एव, न त्वेकत्वसंख्या ; ब्रह्मण्यनेकत्वशङ्काया एवाभावात्। कथं चैकस्य बहुभवनम् 2 यदि विभक्त- नामरूपावस्थावत्त्वेन, तर्हि विविच्यताम्-अवस्थान्तरप्राप्तिः किं साक्षात् १ उत परम्परयेति 2 आद्ये परिणामिकारणतापत्तिः, द्वितीये तु स्वतो न विभक्तनाम- रूपावस्था ब्रह्मण: स्वाभाविकी, किं त्वौपाधिकी, गौणी वा। सदेवेत्येवकारस्तु सदितरसत्तानिषेधार्थः। तेन चाविदादीनामनादीनां षण्णामपि सद्यतिरेकेणा- भावो ज्ञाप्यते, "एकमद्वितीयम्" इत्यादिना तु तत्कार्यजातस्य सद्यतिरेकाभवो ज्ञाप्यते। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा या प्रस्तुता, सा न केवळं सद्विद्या, किन्तु परविद्याऽपि। तत्र तु-"अद्रेश्यमग्रह्यामचक्षुःश्रोत्र" मित्यादिना न शरीरित्वेन ब्रह्म प्रस्तुत्यैकविज्ञानेन सर्वविज्ञानमुपक्षिप्यते। तथा भूतयोनिमिति केवलभूतयोनित्वम्, न तु भूतशरीरित्वम्, विशिष्टयोः कार्यकारणभावो वा। अत्र प्रथमतो निर्विशेषतयोपक्रमात, तस्य भूतयोनित्वविधानाच्च निर्विशेषस्य मायोपधानमात्रिणैव भूतयोनित्वम्, न त्वनावृतचिन्मात्रत्वेनेति ज्ञाप्यते। "अक्षरात्परतः पर" इति प्रकृतेरपि परत्वम्, तद्धर्मशून्यत्वेन, तदवस्थया- डवस्थाशून्यत्वं च प्रतिपादते॥ तथाच मायोपहितस्य नित्यत्वविभुत्वभूतयोनित्वसर्वगतत्वसुसूक्ष्मत्व- कारणत्वाद्याम्नानम्, अशरीरत्वाम्नानमुभयं चोपपद्यते। नित्यत्वं सत्यत्वं च भिन्न मित्युभयसंप्रतिपन्नम्। तत मायाया आब्रह्मसाक्षात्कारमनुवर्तमानत्वात्, तस्या इव तदुपहितस्याप्यौपाधिकम्, ब्रह्मस्वरूपं तु न तथेत्यक्षरपदेनैव सूच्यते। अभावस्याधिकरणात्मकत्वाद् अदृश्यत्वादयो न ब्रह्मधर्मा:, सद्विधैक- वाक्यतया सदूपत्वे निर्णीतेऽद्रेश्यत्वादिमात्रेण नासत्त्वापत्तिः, येनासत्त्वापति- वारणार्थ भावघमा अपि स्वीकर्तव्याः। तुच्छं हि शून्यं नाम सदसत्-
Page 98
४२ अद्वैततत्त्वशुद्धिः
सदसत्-सदसद्विलक्षणात्मकचतुष्कोटिविनिर्मुक्तम्। ब्रह्म तु प्रथमा सत्कोटिः । अतो न शून्यत्वापत्तिशङ्काया अवसरलेशोपि॥ एवंरूपत्वं तु धीरैकविज्ञेयम्। मूढास्तु सविशेषमेव सत्यमिति पश्यन्तीति परविद्यातात्पर्यम्।। अत्र परिपश्यन्तिषदार्थ: सर्वात्मना दर्शनम्, न तु विविधविशेषण- विशिष्टरूपेण दर्शनम्, येन सविशेपत्व एव पर्यवसानं स्यात्। ततश्र "यत्त- दद्रेश्य" मित्यादिनेतरनिषेधमुखेन निर्विशेपतात्पर्यतैव परविद्यार्थः । सर्वात्मत्वं बाधायां सामानाधिकरण्येन ब्रह्मव्पतिरकेण तद्यतिरिक्तसर्वाभाव एवं। परि- दर्शनं हुपदेशमात्राधीनसाक्षात्कारः । स च परतत्त्वस्यैव, नापरतत्त्वस्य।। अत एव परविद्येति नामादि। "अक्षरात्परतः परः " इति वाक्यशेषो विगलितमायादिसम्बन्धं निर्विशेष विद्यात्वममिप्रेत्यैव। सगुणविद्या तु कर्मकाण्ड- वदपरविद्यैव॥I अपरपदार्थो हि यस्मादन्यः परः प्रकरणे निर्दिश्यते, स एव। अत्र च "यस्सर्वज्ञः सर्वविदि"त्यादिना प्रस्तुत मायोपहितमेव।परशब्दार्थः, तदनुपहितं च परशब्दार्थः। "यम्मात्परं नापरमस्ति किश्चित्" इति वाक्यं तु यदि सविशेष- परम्, तर्हि तस्य स्तुत्यर्थमेव तस्य सर्वतः परत्ववर्णनम्। अतो न तदनुसारेण परविद्यार्थनिर्णयो युज्यते। "सत्यं ज्ञानमनन्तमि "ति वाक्यमपि ब्रह्मण सत्यज्ञानाद्यभेदं बोधयत् सत्यत्वादिविशेषणांशाविवक्षया सच्चिदाद्यभेदं बोधयच्चाभेदे सामानाधिकरण्यमेवा- भिप्रैति। न चात्र विशेषणविशेष्यभावे सामनाधिकरण्यम्; धर्मधर्मिणोर्मेदस्य जागरूकत्वात्। त्रिविधपरिच्छेदराहित्यरूपानन्तत्वं नान्यथा तत्रोपपद्येत।। इद हि कारणवाक्योक्तव्रह्मस्वरूपलक्षणमेव। न चास्य धर्मधर्मिभावेन लक्षणत्वम्। स्वरूपमप्यसङ्कीर्ण सङ्कीर्णस्वरूपव्यावर्तकतया लक्ष्यतामर्हति कल्पितेन
Page 99
अनुमानप्रमाणम् '४३
धर्मधर्मिभावेनेत्यद्वैतसिद्धयादौ व्यक्तम्। असत्यादिव्यावर्तकत्वेनासङ्कीर्णब्रह्म- स्वरूपं ह्यत्र विवक्ष्यते।। इद हि सत्यत्वादिविशेषणस्य न लक्षणम्, किन्तु विशेष्यमात्रस्येति संप्रतिपन्नम्। विशेष्यमात्रं च निर्विशेषमेव, न तु सविशेषम्, इति कथमस्य सविशेषलक्षणत्वम्2 सविशेष हयुपास्यं कल्पितेनापि रूपेणोपास्यतामर्हति, इति व्यावहारिकतत्प्रामाण्येऽपि न कापि क्षतिः। न च परमाण्वादयोऽपि सविशेषा नित्या इत्यद्वेतिनः, विशिष्टाद्वैतिनो वा मन्यन्ते॥ सत्यशब्दो हि सत्पर्याय इति सम्प्रतिपन्नम्। सत्त्वं चात्राबाध्यत्वम्, कालविशेषावच्छिन्नपाधाडयोगयलगेव। तच्चाधिष्ठानरूपं सर्वबाधस्वरूपं स्वतो- डबाध्यं च। कथं सत् ब्रह्म सविशेषम् १ सविशेषत्वं ब्रह्मण औपाधिकम्, विशेषाणां ब्रह्मणि कल्पितानां बाधाद् बाध्यतामेवार्हति। सा चौपाधिकीति त्वन्यदेतत्, इति कथमबाध्यत्वरूपं सत्यत्वं सविशेषस्य 2 बाधोऽपि विकारविशेष एव, इति तस्य निर्विकारत्वम पि, इति निर्विकारं सत्यं वस्तु निर्विशेपमेव, न सविशेषम् ॥। ज्ञानपदं तु यदि सविशेषपरम्, अर्शआद्यजन्तत्वविवक्षया, त्हि ब्रह्मणः स्वरूपज्ञानत्वे प्रमाणाभावात् नैयायिकादिमत इव तस्याचेतनत्वापत्तिरित्यादि पूर्वमेवोपपादितम्। निर्विशेषा निराश्या च स्वरूपचिदात्मिकाऽनुभूतिः स्वप्रकाशान्या, सविशेषं साश्रयं च जन्यं ज्ञानमन्यदित्यन्यत्र व्यक्तम्। अतो नात्रानुभूतिमत्तापि विवक्षिता। विशेषणभूता ह्यनुभूतिः सकोच विकासशालिधर्म- भूतज्ञानं वा भवतु, अन्तःकरणवृत्तिर्वा ; उभयथाऽपि ज्ञानमुत्पन्नं नष्टमित्यनुभवात् न नित्या, नतरां सत्या। धर्मिमात्रसत्यत्वविवक्षायां तु सत्यपदेन सामानाघि- करण्यं स्वरूपमात्रस्य, न तु विशिष्टस्य, इति परत्र सत्यपदसामानाघिकरण्यानु- पपत्तिः। अतोऽवश्यमूरीकर्तव्यमत्र ज्ञानपदं स्वरूपमात्रपरम्, न तु तद्विशिष्ट- परम्-इति॥
Page 100
४४ अद्वैततत्त्वशुद्धिः
"सत्यं ज्ञानमि"त्यत्र स्वरोऽपि भावार्थानुगुण एवाध्ययनसंप्रदायसिद्धः, अन्यथा स्वरविवक्षया श्रत्यक्षरानुगुण्यव्यवस्थायां तु न प्रमाणम्। प्रमाणत्वेऽपि सत्यज्ञानपदयोः सामानाधिकरण्यश्रुत्यनुपपत्त्या लक्षणयापि स्वरूपमात्रपरत्वमेव युक्तम्, न तु विशिष्टपरत्वम्, लक्षणाऽपि हि लौकिकीति शबरस्वामिनः॥
जगत्कारणत्वं हि ब्रह्मणस्तटस्थलक्षणम्, सत्यज्ञानादि तु स्वरूपलक्षण- मिति हि संप्रदाय. ; शाखा चन्द्र इति तटस्थलक्षणात् पृथक प्रकृष्टप्रकाशश्चंद्र इति लक्षणवत्। तत्र च स्वरूपलक्षणावसरे तटस्थलक्षणस्यापि लक्ष्यनिष्ठत्वं न विवक्षितुं शक्यते; बाघात्, इति जगत्कारणत्वबाघेन स्वरूपलक्षणलक्षणं न दोषाय।।
यदा तु-जगत्कारणत्वमपि-जगदात्मना परिणममानाविद्याविषयत्व तदघिष्ठानत्वरूपं विवक्ष्यते, तदा जगत्कारणत्वमपि स्वरूपलक्षणमेव शुद्धस्य ब्रह्मण: ; आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।। इति संक्षेपशारीरकवचनात्। न च लक्षणान्तरवैयर्थ्यम्; लक्षणस्य लक्षणान्तरादूषकत्वात्।
तत्र सत्यत्वमबाध्यत्वमित्येक: पक्षः । तेन च बाघ्याद्यावृत्त्या लक्षणत्वम्। व्यावृत्तर्व्रह्मरूपातायामपि व्यावृत्तित्वोपलक्षितरूपेण पूर्वं ब्रह्मणोऽज्ञातत्वाद् न लक्षणवैयर्थ्यम्। भावाद्वैतवादे त्वभावधर्मवत्वं नाद्वैतविरो- धीति त्वन्यदेतत्। सर्वथा तु-न "एकमेवाद्वितीयमि "ति श्रुतिव्याकोपः ॥ यत्तु-प्रवृत्तिनिभित्तमेद एव सामानाधिकरण्यम्, न त्वभेद-इति, तदिंद विशेषणविशेष्यभावे सामानाधिकरण्याभिप्रायम्, अन्यथा "अध्न्ये! देवि ! सरस्वति"! इत्यत्र प्रवृत्तिनिमित्तभेदाभावेऽपि कथं सामानाधि- करण्यम् 2 न हि नामधेयेषु तत्र शक्यतावच्छेदकमेदोडस्ति ।।
Page 101
अनुमानप्रमाणम् ४५
यतु-तत्राषि तत्तत्पदवाच्यत्वरूपप्रवृत्तिभेदोऽस्ति, यदच्छाशब्दाना तत्तच्छब्दस्वरूपप्रवृत्तिनिमित्तवत्-इति, तदिदं शब्दगत सामानाधिकरण्यं यद्यर्थाभेदविवक्षायामविरोधाभि- प्रायम्, तर्हि सत्यज्ञानादिवाक्येऽपि स्वरूपाभेदविवक्षायाः सामानाघि- करण्यस्य चाविघातकम्। तत्र यदि नामधेयातिरिक्तस्थले शब्दस्वरूपाति- रिक्तप्रवृत्तिभेदो नियतः, तर्हि "नामन्त्रिते समानाघिकरणे सामान्यवचनम्" इत्यस्य पर्यायपदप्रयोगमात्रविषयत्वमिति फलति। सर्वथा तु सामानाधिकरण्यं नियमेन न प्रवृत्तिनिमित्तभेदगर्भमिति नागोजिभट्सिद्धान्तः । एतत्सूत्रमात्रविषयविषयं सामानाधिकरण्य विनापि प्रवृत्तिनिमित्तभेदमिति यदि तात्पर्यम्, इदं च पर्यायपदप्रयोगमात्रविषयमिति चाभिप्रेयते, तर्हि तत्र "नामन्त्रिते पर्याये" इत्येव सूत्येत, न तु समानाधिकरणपद्घटितम्। तत्रापि कस्यचनार्थस्य यौगिकस्य विवक्षया सामानाधिकरण्यव्यवस्था तु "न पर्यायपद- पयोगेऽस्य सूत्रस्य प्रवृत्तिरि"ति महाभाष्यविरोधादयुक्ता। न हि धर्मभेदेन योगलब्घेन पर्यायत्वं नाम। शक्यतावच्छेदकैक्ये खलु पर्यायत्वम्, न तु तद्वेंदे। प्रतीयमानेन धर्मभेदेन पर्यायत्वेऽपि सहप्रयोग: सम्भवति पर्याय- शब्दानाम्, अन्यथा 'पङ्कजं सरसिजम्' इति वाक्यस्यापि बोधकत्वापततिः । पर्यायशब्दानामपि सामानाधिकरण्यादिति कैयटोक्तिरपि विना प्रवृत्तिनिमित्त- भेदमपि सामानाधिकरण्यमेव नागेशाभिप्रेतं साधयति॥ यत्तु-नागोजिभट्टोऽपि-सामानाधिकरण्यं चैकार्थविशेष्यबोधजनक त्वमेव, न तु प्रवृत्तिनिमित्तमेदगर्भमिति वत्तुं नैव पारयति. यत- "अनुविद्धमिव ज्ञानं सर्व शब्देन भासते।', इति न्यायेनान्तत शब्दप्रकारभेदस्यावर्जनीयत्वात् समानाधिकर्णवाक्ये
किमनेनाभिप्रेयते-किं सामानाधिकरण्यमेव वैयाकरणमते न सम्भ- वतीति, अथवा सम्भवत्यपि सामानाधिकरण्ये प्रवृत्तिनिमित्तमेदो नियत इति।
Page 102
४६ अद्वैततत्त्वशुद्धि
आद्ये-"नामन्त्रिते समानाधिकरणे" इति सूत्रें समानाधिकरणपदविरोधः ; द्वितीये-पर्यायाणां प्रवृत्तिनिमित्तभेदशून्यानां समानाधिकरणत्वं बाधितम्, पर्यायविषयत्वमत्र सामान/धिकरण्स्येति भाव्यदिरोषश्च। न हि नामसु प्रवृत्तिनिमित्तमेदः, अन्यथा नानत्वमेव हीयेत। न हि घटकलशादिशब्दानां प्रवृत्तिनिमित्तमेदः, विशिष्य च पाणिनिमते। सर्वाणि पदानि व्युत्पन्नानि धातुजानीति हि शाकटावनम्य निरुक्तस्य वा मतम् , इति पाणिनिसूत्रप्रत्युदाहरणेपु नामम्वर्थविशेषस्य प्रवृत्तिनिमित्तस्य विवक्षयैव नामत्व- मिति व्याहतम्। तथाच वैयाकरणसम्मतस्फोटवादेऽपि अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥। इति शब्दार्थयोः तादात्म्यमेव सम्बन्धः ॥ तत्र च शब्दो विशेष्यम्, अर्थः प्रकार, तत्र कल्पितश्रामिप्रेयते, शब्दविवर्तत्वादर्थस्य, शब्दश्च स्फोटोडचेतन इति केचन, चेतन इति चापरे। व्यक्तञ्वैतत् न्यायमञ्जर्याम्। यत्र चेतन एव स्फोट:, तत्राद्वैतमताद्वैयाकरण- मतस्य न कोडपि विशेष, किन्तु नामभेदमात्रम्, इति नागोजिभद्ृस्याद्वैतमत- पक्षपातो वैयाकरणस्यापि न विरुद्धः ॥ अस्तु वा वैयाकरणमतमद्वैतमताद्विलक्षणमिति, एवमपि 'नामन्त्रिते समानाधिकरणे' इति सूत्रे समानाधिकरणपदकृत्यावसरे पर्यायशब्दानामेव समानाधिकरणानां विवक्षेत्येव नागोजिमद्दस्यापि भाष्यकैयटादीनामिव मतमित्यत्र तुन विप्रतिपतिः। उक्तप्रत्युदाहरणसमर्थनं तु सामानाधिकरण्यस्य प्रवृत्तिनिमित्तभेदगर्भत्वं विनैव गतिरिति तु सत्यन्, तत्रापि कथञ्चनार्थविशेष- विवक्षया प्रवृत्तिनिमित्तभेदकल्पना तु ग्वकपोलकल्पनैव, न हि सा भाष्यकैय- टादिमूलेति तु तत्त्वम्।। अद्वैतामोदस्तु-"नामन्त्रिते समानाधिकरणे" इति सौत्रसामानाधिकरण्य- न्यायेनात्यन्ताभेदेऽपि सामानाधिकरण्यमे कार्थत्वमात्रेण प्रौढिवादेनोपपादयति।।
Page 103
अनुमानप्रमाणम् ४७
वस्तुतस्तु-सत्यज्ञानादिपदेष्वपि प्रवृत्ति निमित्तभे दो स्त्येव ,् तावता किम् 2 यदि सोडस्ति, तर्हि नियतं स विपक्षणीय इति सविशेषपरत्वं पर्यवसन्न- मिति चेत्, कि वा सर्वत्र वाक्येषु पदार्थाः प्रथमप्रतीता एव शब्दबोधे भासन्ते १ यद्योम्, तर्हि गङ्गायां घोष इत्यत्र कि गङ्गव वाक्यार्थे भासते ? यदि न, तत् कुतः 2 यदि बाघात् तत्र लक्ष्यार्थस्यैव वाक्यार्थे भानम्, तर्हि प्रकृतेऽपि पूर्वोक्तविघया स्वरूपमात्रमानं लक्षणया, अभिहितान्वयवादेन पदार्थ- गतया शक्त्या वा स्वीक्रियताम्। ततश्र कथं सत्यज्ञानादिवाक्यमपि न निर्विशेषमेव बोधयति ? यथा चात्र 'तत्त्वनसी 'त्यन्र च स्वरूपचैतन्यमात्र- विवक्षायामप्यमिहितान्वयवादे, अन्यत्र च नैकेनैव पदेन निर्वाहः, सर्वाणि च पदानि सार्थकानि, सर्वपदलाक्षणिकत्वमपि न दोषाय, तथा न्यायरता- वल्यामुक्तम्॥ इदमेवामिप्रेत्य सद्विद्याप्येकाद्वितीया दिपद्घटिता निर्विशेषमेव ब्रह्म बोध- यतीति पूर्वमुपपादितम्। तत्र "येनाश्वतं श्रतं भवती"ति वाक्यगतयच्छब्दार्थ एव सच्छन्दार्थः। स च ब्रह्मैव केवलम्, न चिदचिद्विशिष्ट ब्रह्मेति निरूपितमध- स्ताद्विस्तरेण। तेन चाद्वितीयत्वादेव ब्रह्मण एकविज्ञानेन सर्वविज्ञानोपपतिः, न तु सद्वितीयत्वेनेति विशदमवगम्यते, तत्रैव भगवत्पादभाष्यस्य तात्पर्यमिति च। तत्र सदुद्देश्यकेदन्तादात्म्यबोधः "सदेव सोम्येदमग्र आसीदिति वाक्यार्थो भवतु, इदमुद्देश्यकसत्तादात्म्यबोधो वा, फलतस्तु न विशेषः। एकमेवाद्वि- तीयमित्यत्र त्विदमभिन्नसदुद्देश्यकैकत्वाद्वितीयत्वबोधे तु न वैरुप्यम्। इदन्ता- दाम्यविशिष्टसत्पदार्थोद्देश्यकैकत्वाद्वितीयत्वविधाने वाक्यभेदस्तु न भवति; एकत्वविधान एव तात्पर्यात्, एकपदस्य ह्यद्वितीयादिपदाभावे सजातीयविजा- तीयस्वगतभेदशून्यत्वमर्थः, तत्सत्त्वे त्ववयुत्यानुवादः, एवाद्वितीयपदे तदनु- बादमात्रे, यथा श्रीमाष्यमते निदिध्यासितव्यपदार्थस्यैव द्रष्टव्यपदेनानुवादः, द्रष्टव्यपदसत्त्वे, अन्यथा तु ध्यानविधेरेव दर्शनपर्यन्तार्थविवक्षा। अतो नैकोददेशेनानेक विधानाद्वाक्यभेदः॥
Page 104
४८ अद्वैततत्त्वशुद्धि:
वस्तुतस्तु-वाक्यान्तरप्राप्तोद्देशेनानेकविधाने हि वाक्यभेदः, अत्र तु "पश्य मृगो घावति" इत्यादाविव प्रथमवाक्यार्थ उद्देश्यमात्रसमर्पकः, न तत्र विधि:, विधिस्तु एकमेवेति विशिष्टवाक्यमेकसेवेति "मापे कर्मणि नानेको विधातुं शक्यते गुणः" इति न्यायो न प्रवर्तते॥ तन्र सत्पदेनासद्ावः प्रतिक्षिप्यते, न च सदिवासत् स्वरूपविशेषः, धर्मी वा, येन सत्पदस्य धर्मिमात्रपरत्व एकेनान्यव्यावृत्त्यसम्भवः स्यात्, विशिष्ट- परत्वे च सविशेषब्रह्मवादश्च स्यात्। अत एव सदेवेति प्रस्तुतं सत्पदार्थमुद्दि- श्याद्वितीयत्वविधानम् ।। सत्यं द्वितीयपदम्-"असिद्वितीयोऽनुचचार पाण्डव. " ताते चाप- द्वितीये वहति रणधुर" मित्यादौ सहायपरम्, न तु द्वितीयसामान्यपरम्, तथापि ब्रह्मणि द्वितीयसामान्यनिषेधस्यान्यत्र कठवल्ल्याम्, बृहदारण्यके च-'नेह नानास्ति किश्चने'ति द्वितीयसामान्यस्य निषेधात् तदेकवाक्यतया द्वितीयसा मान्यनिषेधपरत्वमेव युक्तम् ; तत्रेवात्र सक्कोचे प्रमाणाभावात्, इति"सदेवेद मि"ति प्रकरणं सजातीयविजातीयस्वगतभेदमेव साधयति॥ "सनातीयं न मे किश्चित् बिजातीयं न मे क्वचित्। स्वगतं च न मे किश्चित् न मे भेदत्रयं भवेत्"॥ इति तेजोबिन्दूपनिषदपि प्रतिपादयति॥ यत्तु-तेजो बिन्दूपनिषत्तु न सर्वप्रामाणिकप्रवरपरिगृहीता-इति तत्रेदं प्रष्टव्यम्-के ते प्रामाणिका 2 य उपनिषदमप्यप्रमाणं मन्वानाः। यदि भवन्त एव, तर्हि न भवन्तः प्रामाणिकाः, नतरां च प्रामा- णिकप्रवराः। कुतो वाऽस्या अप्रामाणिकत्वं भवन्तो मन्यन्ते-किं स्वमतविरो- धात् 2 तर्हि प्रकृतोपनिषद्विरुद्धत्वात् भवतां मतमेवाप्रामाणिकं मन्यताम्। अन्यतराप्रामाण्ये च स्वीकर्तव्ये उपनिषदप्रामाण्यवादात् स्वमताप्रामाण्यवाद एव वरः ॥
Page 105
अनुमानप्रमाणम् ४९
अथ यद्यनुपपन्नार्थेयमुपनिषत्, अतोऽपमाणम्, तर्हि निरुप्यता का नामान्नानुपपत्तिर्भवताऽवगतेति। यथोपपद्यत इयमुपनिषत्, तथा विवरणार्थ खलु यतनीयम्, न तूपनिषदमप्रमाणयितुम्।।
यत्तु-तत्र 'मे' इत्यनेन भवन्मतसिद्धोऽहक्कारोऽहमर्थ, तदवच्छि ननात्मा वा गृह्यते चेत्, तत्र भेदत्रयं भवद्भिरेव स्वीकृतम्। शुद्धचैतन्य तुन 'मे' शब्दार्थ , अपसिद्धान्तात्। अतस्तद्वाघितविषयम्-इति ॥ तत्रापसिद्धान्तः केषाम् 2 यदि भवताम्, तर्हि किमनेनाद्वैतिनां छिन्नम् 2 श्रुतिविरुद्धो भवतां सिद्धान्त इति खल्वनेनापतति। को वा भवतां सिद्धान्तो नापसिद्धान्तः 2 अद्वैतिनां तु नायमपसिद्धान्तः। अहमर्थो हि भगवत्पाददृष्टया त्रिविध :- गौणात्मा, मिथ्यात्मा, सुख्यात्मा चेति। तत्राहङ्कारः केवलं नाहमर्थः, तदवच्छिन्नात्मा मिथ्यात्मा, मुख्यात्मा तु निर्ग- ळिताऽहृङ्कारादि: शुद्धः प्रत्यगात्मा-यः, "शास्त्रदृष्टया तूपदेशो वामदेववत्" इत्यत्र निर्णीतः, यस्यैव केवलसन्मात्रस्य त्वंपदलक्ष्यार्थस्य तत्पदलक्ष्यार्थेन शुद्धेन ब्रह्मणाऽमेद :- 'तत्त्वमसि' महावाक्यार्थः, यदेवाद्वैततत्त्वम्।। तत्राहंशब्दो भूतपूर्वगत्या; सोऽपि त्वंपदार्थतामात्रेण। प्रत्यगभिन्नं ब्रह्म- स्वरूपं त्वनावृतचिन्मात्रं महावाक्यार्थः । तत्पदलक्ष्यार्थोपि सविशेषस्य ब्रह्मणो- Sहमर्थ एव। तत्र शुद्धप्रत्यगात्मनोऽपि केवलस्य सजातीयभेदः, स्वगतो वा भेदः, एवं तत्पदलक्ष्यार्थस्यापि। अभिन्नस्य तुन सजातीयः, विजातीयः, स्वगतो वा भेदस्त्रिविधोऽपि। तद्विज्ञानादेव हि सर्वविज्ञानम्। भवन्मते तु सत्यमस्ति त्रिविधोऽपि मेदो 'मे' पदार्थस्य प्रत्यगात्मनः, ब्रह्मणश्च। तत एव चक- विज्ञानेन सर्वविज्ञानप्रतिज्ञाऽपि प्रतिहन्यते॥ तत्र विशेषो हि कार्योऽपि भवति, अनादिरपि। उभयविधोऽपि कार्यात्मना, स्वरूपतश्च भिन्न एवेति नैकविज्ञानेन सर्वविज्ञानम्। अनादी चिदचितावपि शरीरभूते अप्यात्मनो मिन्ने एव। न हि शरीरमेवात्मा; चार्वाकमतप्रवेशा- 4
Page 106
५० अद्वैततत्त्वशुद्धि
पत्तेः। सत्य शरीरमात्मनाऽपृथक्सिद्धम्, किमेतावता2 शरीरात्मर्नोर्भेदः कथमेतावता वारयितुं शक्यते 2 चिता सूक्ष्माणां स्थूलानां वा स्वरूपतो मेदाव एकसूक्ष्म चिद्विशिष्टज्ञानेनापरस्थूलसूक्ष्म चिद चिद्विशिष्टविज्ञानम्, "अहं ब्रह्मा- स्मी"त्यादिसामानाधिकरण्य च तत्तदहमर्थभेदात् कथ सूक्ष्मसर्वचिदभिप्रायेण? स्थूलचिदभेदाभिप्रायेण वा 2 न ह्यहमर्थः स्वदष्टया परमात्मशरीरम्। अद्वैत- मते त्वात्मैक्याद् अहं ब्रह्मास्मीति सामानाधिकरण्यमबाधितम्, इति कथं तेजोबिन्दूपनिषदप्रमाणमद्वैतमते, तत्रापसिद्धान्तो वा ॥ यत्तु-इदमित्यस्योपरि सृष्टिवाक्येषु निरूष्यमाणसृज्यवस्तुमात्र- घरत्वस्य प्रकरणसिद्धत्वात् तावन्मान्रस्य सविशेषज्ञानेन ज्ञेयता घटत एन, भवन्मत इदमित्यनेनानाद्यविद्या ग्रृह्यते वा, न वा 2 ग्रह्यते चेत, अग्रे तदभाव सिद्ध एवेति कथमनादिता ? न चेद् विशेषेण सर्वग्रहणं कथम्- इति॥ तत्र सृष्टेः प्रागनभिव्यक्तामरूपात्मि का विद्यातादात्म्यमेव सत इदमा विवक्ष्यते, न तु सृज्यमानवस्तुतादात्म्यम् ; सृष्टेः पूर्व तद्भावात्। सविशेष- ज्ञानेन तावन्मात्रज्ञानम्, नैकविज्ञानेन सर्वविज्ञानम्। न चैवं सर्वविज्ञानप्रतिज्ञा कस्यापि मते। न हि सविशेषज्ञानेन तेजोवत्त्वविज्ञानमेवात्र शास्त्रार्थः। तत्र प्रकरणान्तरावधृताकाशज्ञानं सविशेषविज्ञानेन भवति वा 2 न वा 2 यदि तत्प्रकरणवशात् तत्र निर्णयः, तर्हि तैतिरीयश्रुत्यादौ सर्वविज्ञानप्रतिज्ञानाभावः। यदि तेषां ब्रह्मणाSपृथक्सिध्यभावेन, तर्हि "आकाशशरीरं ब्रह्मे"ति वाक्या- प्रामाण्यम्। गुणोपसहारन्यायेन कार्यसामान्यविवक्षा चात्र न कथम्? अद्वैत- मते त्विदंपदेनाविद्या परिगृहीतैव। अत एवाग्रे ब्रह्मणः सविशेषस्यैव कारणत्वम्, तर्हि कथमग्रे तदभाव. १ सकार्याया अविद्याया मिथ्यात्वात्। तस्या मिथ्यात्वनिर्ण- यस्तु शास्त्रतो भाविबाघप्रतीत्या। न ह्यनादिरविद्याSखण्डाकारवृत्ते: प्रागपि नास्ति। यदा नास्ति, तदा न किञ्चिदवशिष्यत इति पूर्वमेवोपपादितम्, इति नाद्वैतसिद्धान्त एकविज्ञानेनासक्कोचेन सर्वविज्ञानासम्भवः। अत एवैकाद्विती-
Page 107
अनुमानप्रमाणम् ५१
यादिपदैरविधान्तसर्वाभावोऽत्रार्थो विवक्ष्यते। भवन्मते सत्पदेन चिद- चिद्विशिष्टस्य ग्रहणे सतोप्यधिष्ठान्नन्तरं चिद्रपमचिदूपं वा न प्रसक्तमित्यद्वितीयपदं तच्छक्कावारणार्थतया न सप्रयोजनम्। अनेनैव नयेन ब्रह्माऽपृथकसिद्धचिद- चिदन्यतरनिमित्तान्तरमप्यप्रसक्तम्, इति निमित्तान्तरशङ्कावारणमपि नाद्वितीय- पदकृत्यम् ।। "तदैक्षत बहु स्यां प्रजायेये"ति श्रतिरपि ब्रह्मणः साक्षादुपादानत्वं न भवन्मते बोधयति, इतीक्षितृत्वाश्रयणेन तस्यैव निमित्तत्वं सूचितम्, इति कथ तदतिरिक्तनिमित्तान्तरशक्काऽपि। न हि कारणवाक्यमेव निर्विशेषबोधकम्, किन्तु तदनूद वाक्यान्तरमेव तद्वोधकम्। तत्र च यत्र कारणवाक्यमात्रं श्रूयते,
गुणोपसंहारपाद इति प्रायिकत्वाभिप्रायेण। स्वरूपोपसंहारोऽप्यत्र 'पादार्थ' इत्यादि "आनन्दादयः प्रधानस्ये"त्यधिकरणे व्यक्तम्, इति तेन न्यायेन निर्विशेषस्यापि स्वरूपस्योपसंहारो न विरुध्यते। व्यक्तं चैतद् लघुचन्द्रिकायाम्- "अद्वैत सिद्धेर्द्वैतमिथ्यात्व सिद्धिपूर्वकत्वादि"ति सिद्धिप्रथमवाक्यविवरणावसरे॥ सत्यं निर्विशेषत्वे सिद्ध एव सविशेषत्वं मिथ्येति निर्वाहः, तत्तु वाक्यगतिपर्यालोचनेनैव सिध्यति, यतो विना सङ्कोचं निर्गुणश्रतीनां तात्पर्यनिर्णय- स्तदानीमेव। न हि निर्गुणवाक्यानां सक्कोचेनान्यथा नयनं स्वरसम्, प्रामाणिकं वा ॥ तत्र कुत्रचन पूर्व सगुणवाक्यानि, कुत्रचन निर्गुणवाक्यानि प्राक्। सगुणवाक्यान्युभयत्रापि निर्गुणवाक्यापेक्षित निषेध्यगुणसमर्पकानि। तत्र यत्रानन्तरं सगुणवाक्यानि, तत्र पाठक्मादर्थक्रमो बलीयानिति न्यायेन वाक्यानां योजना। यथा च शास्त्रबोघितानामपि शास्त्रेण निषेधो नानुपपन्नः, तथा जर्तिल्यवाग्वादि- वाक्यन्यायेनोपपादितम्। सर्वज्ञत्वादिक तु भूतयोनित्वं कल्पितमुपपाद- यितुमेव, न तु परविद्याप्रमेयनिर्गुणाक्षरस्वरूपोपपादनार्थम्। अद्वितीयादि-
Page 108
५२ अद्वैततत्त्वशुद्धिः
वाक्यानि, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा च ब्रह्मणि सर्वविशेषाभाव बोधयन्ति॥ निर्गुणपदं निर्विशेषपरं सर्वधर्मनिषेधपरमेव, न तु नैयायिकामिमत- गुणमात्रनिषेधपरम्। तत्र हि न सत्त्वादिगुणनिषेध इति पूर्वोक्तिविरोध एकं दूषणम्। सामान्यतः प्रवृत्तस्य पापादिगुणमात्रनिषेधपरतायामपि सक्कोचेना- न्यथानयनदोषस्तु स्थित एव।। सामान्यतः सगुणत्वाम्नानं तुन कुत्रापि श्रुतौ, पुराणेतिहासादौ वा। सामान्यतो गुणवर्णनं सगुणाभिप्राय न केनापि वार्यते। न चैतावता निर्गुण- वाक्यानामन्यथानयनमुभयोरपि समबलत्वेऽपि। विरोधो हि विषयभेदेन परिहारमेवार्हति, न त्वेकस्याप्रामाण्येन, अन्यथा नयनेन वा सति सम्भवे। सर्वज्ञत्वादीनां न सत्यत्वमाम्नायते। सत्यकामश्रतिस्तु सङ्कल्पादीनामुपाधि- धर्मत्वात्, उपाधेरसत्यत्वात्, नित्यत्वनयेन बहुकालाबाध्यत्वेन, व्यावहारिकत्वेन वा निर्वहति॥ "कामः सड्खल्पः" इति श्रतिरूपाधिधर्मत्वमेव कामादीनामाचष्टे। "कामः सङ्कल्प" इति जीवोपाध्यभिप्राया जीवस्य मनउपाधिकं कामाद्याश्रयत्वं बोधयति। 'मनस्तु कार्य मायायाः' इति कामादेर्मायोपाधिधर्मत्वस्योपलक्षणम्। तदुक्तम्- 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।।' इति। ईश्वरसर्वज्ञत्वादिकं मायापरिणामवृत्त्याश्रयत्वेनेति हि सिद्धान्त॥ "ज्ञोऽत एव" इति जीवात्मपरं हि सूत्रम्। "कामः सङ्कल्पः श्रद्धाऽश्रद्धा धृतिरधृतिहींघीं" रिति श्रुतिर्हि मनोधर्मत्वं धियो बोघयति, नात्मधर्मत्वम्। इदं तु सूत्रं भावार्थत्वात् ज्ञपदस्यात्मनो ज्ञानस्वरूपत्वपरमेव, न तु तदाश्रयत्वपरम्, अन्यथा कथमात्मनो न्यायमत इव नाचेतनत्वापत्ति ? सर्वथा तु-सूत्रमिदं जीवात्मन एव ज्ञानं धर्मोडपीति बोधयति, न तु परमात्मनोऽपि ज्ञानं धर्मोडपीति॥
Page 109
अनुमानप्रमाणम् ५३
यदीदमुपलक्षणम्, तर्हि 'कामः सङ्कल्प' इति श्रुतिरपि कामादीनामीश्वर- विषयेऽप्युपाधिघर्मत्वमुपलक्षणविधया कथ न बोधयितुमलम्। न चेदं सूत्रम्, श्रुतिर्वा सन्दिग्धा, येन तयोरन्यथानयनं साधु स्यात्। सर्वथा तु कामादेरपि चेतनघर्मत्वं नोक्तं सूत्रं सूचयति॥ न च कामोऽपि धर्मभृतं ज्ञानमत्मनो नित्यधर्मः। "मनसैवतान् कामान् पश्यती" ति श्रुतिर्मनउपलक्षित आत्मा मनोघर्मानप्यात्मधर्मान् पश्यतीत्येव बोधयति। न हि कामादीनामपि ज्ञानवदात्मधर्मत्वे ज्ञानज्ञेयत्वं कामानां सम्भ- वति। धर्मभूतं ज्ञान हि स्वात्मने स्वयं प्रकाशते, प्रकाशयति च स्वाश्रयमात्मानं स्वप्रकाशमिति हि भवतां सिद्धान्तः । अतः कामादीनामात्मधर्मत्वे, विशिष्ट- परमात्मधर्मत्वे वा न किमपि प्रमाणम्॥ न हि परमात्मनोऽपि समस्ति मनो नाम, येन "मनसैतान् कामान्पश्यती"ति परमात्मपरमपि स्यात्, इति "मनसैवे"ति अत्यनुसारेण 'कामः सङ्कल्प' इत्यस्या औपचारिकार्थपरत्वं न युक्तम्। मनो हि कामादेरुपादानकारणम्, इत्युपादानो- पादेययोरभेदस्य सर्वसम्मतत्वात्-"मन एवे"ति तदभेदश्रवणं नाद्वैतमते विरुद्धम्। "मनसैवैतान् कामान्पश्यन् ब्रह्मलोके महीयते" इति श्रुतिर्मनो- व्यापाराधीनत्वं कामाना ब्रह्मलोके मनस एवाभावात्-कथं जीवविषयां 'कामः सङ्कल्प' इति श्रुतिमन्यथाकर्तुमलम्॥ यदि ब्रह्मलोकेडप्याहङ्कारिकस्य मनसो भावादिति, तर्हि "मनसैवैतान् कामान् पश्यन् ब्रह्मलोके महीयते" इति श्रुतिमवष्टभ्य मनःपरिणामत्वं कामस्य, तद्धर्मत्वं च "काम: सङ्कल्प" इति श्रुतिसिद्ध कथं दण्डेन वार्यते 2 कुतो वाडवगत- मद्वैतमतेऽपि मनसः कामाद्यभेदो बाघित इति 2 कि तदा तदा तत्र तत्र परमार्थपकाशिकयोदाहियमाणा वेदान्तपरिभाषा मनसः कामाद्यभेदश्रवणमेव मनोधर्मत्वं कामादीनां शिक्षयन्ती प्रकृतेंडशे न शिक्षिता 2 न वा स्वयं वा द्रष्टं नापार्यत ?
Page 110
५४ अद्वततत्त्वशुद्धिः
"स्वाभाविकी ज्ञानबलक्रिया चे"ति श्रतिस्तु सत्यमीश्वरघर्मत्वं ज्ञानस्य शिक्षयन्ती प्रकृत उपयुज्यते, परंतु सापि ज्ञानमात्रस्य, न तु कामादे- रपि। न चात्र ज्ञानपद कामस्याप्युपलक्षणमित्यत्रास्ति किमपि प्रमाणम्। ज्ञानमन्यत्, कामसङ्कल्पावन्यौ। स्वाभाविकत्वं च ज्ञानस्य सप्रकाशसंविदूपत्वेन, न तु धर्मभूतज्ञानमात्राश्रयत्वेन, मायापरिणामवृत्तिरूपज्ञानाश्रयत्वेन वाडनित्येन।। अयमेव न्याय आनन्दांशेऽपि। सोऽपि ब्रह्मस्वरूपः, न तु ब्रह्मणो धर्मः। अत एव-'आनन्दो ब्रह्मेति व्यजानात्' इति पुंछिङ्गानन्दपदेन ब्रह्मपदस्य सामानाधिकरण्यम्। इंद हि वाक्यं गुरुशिष्यमावेनोपदेशार्थ प्रवृत्त- मज्ञाततत्त्वावबोधकं नान्यथा व्याख्यातुमलम्। न चात्रार्शआद्यजन्तत्वकल्प- नया नित्यनपुसकज्ञानपद्वत योजयितुं शक्यम। "एतस्यैवानन्दस्यान्यानि मूतानि मात्रामुपजीवन्ती"त्यत्रैतस्यानन्द्रस्येति सामानाधिकरण्येनान्वयस्यैव न्याय्यत्वाद् आनन्दस्वरूपत्वं ब्रह्मण उपदिश्यते। तदानुगुण्यात् "आनन्दं ब्रह्मणो विद्वानि"त्यपि राहोः शिर इतिवद् अमेदे षष्ठयैव योजनमर्हति। अत एव-"आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन" इत्यानन्दस्वरूपज्ञानेन भयाभावाम्नानम्। आनन्दगुणवतोऽत्र विव- क्षायां तु तद्विरुध्यते। तथाच श्रुति :- 'द्वितीयाद्वै भयं भवति' इति। न चात्र परिच्छिन्नतयाSSनन्दज्ञानं वाक्यार्थः। 'उदरमन्तरं कुरुते' इति हि धर्मतोऽपि भेदमानन्दस्वरूपस्य भीतिसाघनतया न सहते॥ आनन्दमीमांसाऽपि "स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकाम- हृतस्ये" इति सविशेषब्रह्मानन्दपर्यन्तमुत्तरोत्तरोत्कर्षेण परिच्छेदमीमांसामुप- संहृत्य-'यतो वाचो निवर्तन्ते' इति वाङ्मनसागोचरत्वमानन्दस्वरूपस्यैव बोधयति। "स एको ब्रह्मण आनन्दः " इति वाक्यपस्तुतब्रह्मानन्दगुणस्यैवात्र विवक्षायां तु-तस्य प्रजापत्यानन्दशतगुणितानन्दरूपेण वाचा परिच्छिन्नत्वात्- 'यतो वाचो निवर्तन्त' इति कथमुपपद्यते ?
Page 111
अनुमानप्रमाणम् ५५
'सोडश्नुते सर्वान् कामात् सहे' त्यस्यापि सर्वानन्दमात्रमूलानन्दस्व- रूपानुभवप्रतिपादन एव तात्पर्यम्। अश्नुतेपदं तु तस्यैव सच्चिदानन्द- स्वरूपत्वं ब्रह्मणो बोधयति। अत एव सर्वकामावाप्तिर्युगपदत्र प्रतिपाद्यमानो- पपद्यते। आनन्दगुणतायां तु युगपत्सर्वानन्दानुभवो नाञ्जसः। 'ब्रह्मणा सहे'ति तृतीया सहपदप्रयोगश्च भिन्नवाक्यस्थत्वात् सर्वज्ञब्रह्ममावातिं युगपत्सर्वकामानुभवं च गोचरयति। इत्थभूतलक्षणाया अत्र विवक्षणाद् अभेदे तृतीयाडपि सूपपादा। विपश्चित्पदं तु सर्वप्रपञ्चतादात्म्यमेव सर्वज्ञत्वमिति भामतीमतेन वृत्त्युपहित- चिन्मातत्वाभिप्रायेण। विवरणदष्टया 'सत्यं ज्ञानमि'ति प्रस्तुतज्ञानस्वरूपत्वा- भिप्रायेणैव। यथाचात्र ज्ञानपदं न ज्ञातृपरम्, ब्रह्मणो ज्ञानस्वरूपत्वभङ्गापत्तेः, तथोपपादितम्। विस्तरस्तु वेदान्तरक्षामणौ ।।
"ब्रह्मविदाप्नोति", 'यो वेद निहितं गुहाया'मित्यादौ ज्ञेयत्ववर्णनं तु-"यस्यामतं तस्य मत मत यस्य न वेद स.", "अविज्ञातं विजानतां विज्ञातमविजानताम्" इत्यादिवाक्यैकवाक्यतया घटादिवत् सविशेषतया ज्ञेयत्वनिषेधपरं सद् घटादिसाधारण चिदुपरागादिरुपेण ब्रह्मज्ञातत्वनिराकरणपरम्, न तु वृत्तिव्याप्यत्वमात्रनिराकरणपरमपि। अत एवोक्तम्-
"फलव्याप्यत्वमेवास्य शास्त्रकृद्िर्निराकृतम्। ब्रह्मण्यज्ञाननाशार्थ वृत्तिव्याप्यत्वमिष्यते ।"
इति। ततश्र ब्रह्मणस्तत्र तत्र ज्ञेयत्वप्रतिपादन तदावरणनिवर्तकवृत्ति- मात्रविषयत्वेन, न तु तत्प काशार्थ चिदुषरागाद्यपेक्षया घटादाविवेति तु निष्कर्षः। अत एत-"अनाशिनोSप्रमेयस्ये"त्यप्रमेयत्वं गीतं शुद्धस्यात्मनो निर्गळिताहङ्का- रस्य। अप्रमेयपदस्यार्थान्तरपरतया योजनं तु क्विष्टयोजनम्, श्रुतार्थत्यागः, अश्रुतार्थकल्पना च। ततश्रात्मा न ज्ञाता, न वा ज्ञेयः, किन्तु ज्ञानस्वरूपमात्रं निर्विशेषमिति सिद्धम् ॥
Page 112
५६ अद्वैततत्त्वशुद्धिः
तेन च ब्रह्मणो दुर्यहत्वं ज्ञेयत्वं च न विरुद्धम्, इति घटादिवैलक्ष- ण्यम्, सविशेषाहमर्थादिवैलक्षण्यम्, स्वगतधर्मशून्यत्वं चैकाद्वितीयादिपदबोधित- मेव सर्वत्रोपसहियते।।
एतदभिप्रायैव 'नेह नानाऽस्ति' इति श्रुतिरपि। इमामेवावष्टभ्य- प्रतिपन्नोपाधौ त्रैक्ालिकनिषेधप्रतियो गित्वं मिथ्यात्वमद्वितीयत्व निर्विशेष- त्वाद्यपरपर्यायमनुमा नेनत साध्यते, तरा्भवन शङ्का मा भृदिति शुक्तिरुप्यादि दृष्टान्त: ॥।
अत्र नानापदार्थो भिन्नः, न तु भेदमात्रम्। तत्रापि किञ्चनपदसमभि- व्याहाराद् अणुमात्रमपि भिन्नं नास्तीति सजातीयविजातीयस्वगतभेदशून्यत्वमे- वैकैवाद्वितीयपदार्थों विवक्ष्यते, इति "सदेवेदमग्र आसीदे कमेवाद्वितीयमि"ति वाक्यैकवाक्यताSपि सिध्यति॥
यद्यपि पृथिवी घटादिभेदेन भिन्ना, इत्यत्रावान्तरधर्मभेदानां विवक्षा- स्थलेऽवान्तरभेद एव विवक्ष्यते. तदपरिग्रहेण पृथिवी भिन्नेत्यादिप्रयोगे तु विजातीयभेदमात्रं विवक्ष्यते। अत्र तु किचन नाना नास्तीति प्रयोगात सर्व- विधभेदशून्यत्वं वाक्यार्थः॥
अत एव कठवल्ल्यां भगवत्पादभाष्यम्-"इह ब्रह्मणि नाना किंचनाणु- मात्रमपि नास्ती"ति। तेन च "उदरमन्तरं कुरुते। अथ तस्य भयं भवती"ति वाक्यैकवाक्यता ज्ञाप्यते।।
यतु-जगतीदृशनानात्वनिषेध इत्यामोदः, तस्य जगतीतलवर्तिसर्वविध- नानात्वनिषेध एवार्थ:, न तु इहपदार्थ जगतीति मत्वा जगति नानात्वनिषेधः, न ब्रह्मणीति, येन-कथमनेन ब्रह्मणि भेदनिषेधः सिध्यतीति शङ्काऽवसरेत्। नानात्वदर्शननिषेधो हि नानात्वस्य विद्यमानस्य निषेध एव। दर्शनं हि साक्षात्कारो
Page 113
अनुमानप्रमाणम् ५७
विद्यमानस्यैव भवति, नाविद्यमानस्य। तथाच जैमिनीयं सूत्रम्-"सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं विद्यमानोपलम्भनत्वात्" इति॥ तथाच नानात्वदर्शननिषेधो नानात्वनिषेध एव पर्यवस्यति। "नेह नानास्ति किंचने"ति श्रतिर्हि नानात्वं निषेधति, न तु नानात्वदर्शनमात्रम्। इहशब्दार्थे प्रषश्चवति ब्रह्मणि नानानिषेध: सर्वस्य ब्रह्मभिन्नस्य ब्रह्मविवर्तोपादान- तायामेव, नान्यथेति ह्यद्वैतसिद्धान्तः, यतो नात्र ब्रह्मपरिणामवादः । यत्तु-जगदुपादानत्वं ब्रह्मणोऽस्माक्कमपि, संमतमिति, तदिदं निराकारि। न च हश्यमाना मेदा दर्शनावस्थायां दर्शनयोग्या- वस्थायाम्, किं बहुना १ तत्सत्तादशायां वाऽपलप्यन्ते केनापि, व्यावहारिक- सत्त्वाङ्गीकारात ॥ कथञ्चात्र 'सर्व खल्विद ब्रह्मेति' सिद्धब्रह्मात्मकत्वस्य निषेधसम्भावनाSपि। न चात्रावान्तरभेद एव नानापदार्थः ; किञ्चनपदवैयर्थ्यापतेः, इति न ब्रह्मण्य- वान्तरभेदनिषेधमात्रे तात्पर्यमुक्तश्रुतेः॥ वस्तुतस्तु-अनेकब्रह्मनिषेध एव यद्युक्ताया· श्रुतेः तात्पर्यम्, तर्हिन ब्रक्म नानास्ति, इंद न नानाऽस्तीति वा श्रवणापत्तिः, न तु नेह नानाऽस्ति किश्चनेतीह- पदघटितम्, किश्चनपदघटितं च तत्सजातीयमवान्तरभेदं द्रव्यं मिन्न न भिन्नमित्येव वा प्रथमान्तपदसमभिव्याहृतमेव वाक्यं प्रयोगमर्हत्यवान्तरभेदविवक्षायाम्, न त्विह भिन्नमिति, न भिन्नमिति वा॥
यत्तु "यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्यो• स मृत्युमाप्नोति य इह नानेव पश्यति ॥" इति मन्त्रेणेहामुत्र च ब्रह्मैकमित्युक्त्या तत्र भेदो निषिध्यते। अनेन त्विहैव ब्रह्म सृष्ट्यादिकार्यभेदेन, प्रकारान्तरेण वा न नानेत्येव बोध्यत इति कठवल्ल्यर्थ। वृहदारण्यकेऽप्यस्य मन्त्रस्यैकेनैव प्रकारेणानुसन्धानम्, न प्रकारान्तरेणेत्येव बोध्यते। इहपदं चात्रेहलोकपरम्, न ब्रह्मपरम्। स च
Page 114
५८
प्रकार-अप्रमेयत्वविरजस्त्वादि, सरजोऽन्यद् इत्येवं ब्रह्म नानाविध न मन्तव्यमित्युच्यते-इति, तदिदं 'यदेवेह तदमुत्रे'ति वाक्ये लोकद्यसाघारण्यं न ब्रह्मणः प्रतिपाद्यते; तस्य व्यापकस्य देशभेदेनानुपहितस्य भेदशङ्काया एवाकाशस्येवा- सम्भवात्, किन्त्वन्य एवार्थो भाष्यादौ प्रसिद्धः। एवं सृष्टिस्थित्यादिकार्य- भेदकर्तृ ब्रह्मेहैवेति न केनापि प्रमाणेन सिद्धम्, इति तत्तत्प्रकारभेदेन ब्रह्म- भेदशङ्काया इह नावसरः ॥ वस्तुतस्तु-ब्रह्मण: सृष्टिस्थित्यादिकार्यभेदेन ब्रह्मरुद्राद्यात्मना भेद एवोभयसम्मतः, अन्यथा पाञ्चरात्रमेव प्रमाणम्, न तु पाशुपतमित्यादिमतभेदो निरालम्बः स्यात्, नापि वा ब्रह्मा नारायणस्य, रुद्रम्तु ब्रह्मणः पुत्र इत्यादि- वादा अवसरेयुः ॥ इहपदं हि 'नेह नानास्ति किश्चने'ति "मनसैवेदमाप्तव्यमिति" पूर्ववाक्यप्रस्तुतं विशेष्यं ब्रह्मैव परामृशति। वृहदारण्यके च "यस्मिन् पश्च पञ्च- जना आकाशश्र प्रतिष्ठितः" इति पूर्ववाक्यप्रस्तुतस्य यच्छब्दार्थस्य ब्रह्मण एवेह- शब्देन परामर्श इति विशदम्। "एकवैवानुद्रष्टव्यमि"त्यन्नैकधापदमपि स्वरूपेणा प्रमेयत्वादिनिर्विशेषरूपेणैवावगन्तव्यम्, न तु सविशेषरूपेणेत्यर्थ- परमेव॥ अप्रमेयत्वं हि निर्विशेषतायामेव भवति, न सविशेषतायां पारमार्थि- क्याम्। भवन्मते हि स्वप्रकाशानुभूतिरप्यनुभाव्या, नाननुभाव्येति हि मन्यते, इति कथं ब्रह्मण: संविद्रवस्याप्यप्रमेयत्वम् ? अत्र नानापदस्य मिन्नपरस्थ प्रकारान्तरपरत्वं क्विष्टकल्पनयैव। न च ब्रह्मणि प्रकारान्तरेण भेद: प्रत्यक्षसिद्धः, येन प्रत्यक्षसिद्धस्य भेदस्यापलापायोगः। सर्वात्मस्वरूपतया वस्तुतत्त्वज्ञाने, न कर्ता, न कर्म, न क्रियेत्युभयसंप्रति- पन्नम्, तदभावस्तु स्वरूपत इत्यद्वैतम्, न पृथक्तयेति भवताम्, ब्रह्मणा सर्वस्या-
Page 115
अनुमानप्रमाणम् ५९
पृथक्सिद्धयङ्गीकारात। यथाचापृथकूसिद्धत्वम्, अयुतसिद्धत्वमिव दुर्निरूपम्, तथा परमाणुकारणतावादनिराकरणावसर आकरे व्यक्तम् । तत्र सर्वात्मत्वं ब्रह्मणो न तदपृथक्सिद्धत्वेन, किन्तु सर्वाभावेनेति 'सर्व खल्विदं ब्रह्मे'ति वाक्यं बोधयति। कार्यकारणयोस्तादात्म्यं हि द्रव्यैक्य- निबन्धनम्, सर्वात्मत्वं तु शरीरशरीरिभावेन। तत्र द्रव्यैक्यं कारणद्रव्यातिरेकेण कार्याभावनिबन्धनं बाघायां सामानाधिकरण्येनैव।।
दानत्वम्, अन्यद्वा सम्भवति। ब्रह्मव्यतिरेकेण सर्वाभावविज्ञाने हि सुलभा शान्तिः । सर्वमुद्देश्यम्, इंद ब्रह्म प्राकरणिकं विधेयम्। अन्र ब्रह्मत्वविधानं न नानात्वनिषेधपर्यवसायि। न च शरीरत्वेऽपि सर्वेषां शरीरशरीरिणोरपृथक्- सिद्धयोरपि भेदस्वीकारच्च नानात्वनिषेधः सम्भवति। स्वतन्त्रपरतन्त्रादि- भेदो न प्रामाणिकः। न हि स्वतन्त्रमेदज्ञानमशान्तिकारणम्, परतन्त्रभेद- ज्ञानं शान्तिहेतु: ; बद्धानामपि शरीरात्मस्वरूपतया प्रत्यगात्मज्ञानस्यापि शान्ति- हेतुत्वापत्तेः । अस्मदादिशरीरतत्तच्छरीरिणोरपि न स्वतन्त्रभेदः । अतो बाधायां सामानाधिकरण्यमेव-"सर्व खल्विदं ब्रह्मे"त्यादौ। ततश्च सदविद्या- परविद्यादिकं 'नेह नानास्ति किञ्चने'त्यादिकं च वेदान्तवाक्यजात ब्रह्मणोड- द्वितीयत्वम्, निर्विशेषता च बोधयतीत्यवश्यमेव स्वीकर्तव्यम्।। तत्र "श्रोतव्यो मन्तव्य" इति विधीयमान मननं वेदान्तानां द्वितीय- मिथ्यात्वनिर्णयायोपकरोति निर्विशेषस्यैव पारमार्थिकत्वे। तत्सविशेषताया एव परमतात्पर्यविषयतायां तु किं कृत्यं मननस्य वेदान्तार्थनिर्णये ? श्रोतव्यविधि- सिद्धविचारमात्रेण चारितार्थ्यात्, इति निर्विशेषतावाद एवानुमानप्रमाण- स्वीकारस्य स्वसिद्धान्तसमर्थन उपयोगः साक्षात्, परम्परया वा सम्भवति। अनुमानप्रमाणप्रयोजनं तु जैनसौगतादिसाधारणमपि, न वैदिकानामसाधा- रण प्रमाणम्, इति पृथगनुमानप्रमाणाङ्गीकारो भवतां निष्प्रयोजनः । अद्वैतमते तु नैवम्, उक्तरीत्या सप्रयोजनत्वात्।।
Page 116
६० अद्वैततत्त्वशुद्धि:
तत्रानुमाने (101-108) दृश्यत्वादिकमिव व्यावर्तमानत्वमपि हेतुः। तथा हि-विमतम्, अपरमार्थम्, व्यावर्तमानत्वात्-इति। अत्रापरमार्थत्वरूप- साध्यं कालविशेषावच्छिन्नबाघयोग्यत्वम्। न चैवं ब्रह्म, न वा शून्यम्, इति न बौद्धादिसाधारण्यं साध्यमानस्यापारमार्थ्यस्य। इयान् विशेष :- बौद्धमते शून्यं परमार्थम्, अद्वैतमते तु सच्चिदानन्दरूपं ब्रह्म ॥ शून्यं न सत्, नासत्, न सदसत्, न वा सदसद्विलक्षणम्, मिथ्या- Sपरमार्थो वा। प्रपञ्चस्य सांवृतिकसत्यत्वं तु समानम्। परं तु सावृतसत्यत्वं तत्र निरधिष्ठानकत्वप्रयुक्तम्, न तत्त्वाश्रयविषयाविद्याप्रयुक्तत्वम्, किन्तु सवासनविज्ञानसन्तानमात्रप्रयुक्तत्वम्। विशिष्टाद्वैतमते तु सर्व परमार्थम्। अतस्तदेवोपलक्ष्यापारमार्थ्य शुक्तिर जतादिसाधारणं साध्यते। उभयत्र व्यावर्त- मानत्वम्, अधिष्ठानसाक्षात्कारप्रयुक्तनिवृत्तिप्रतियोगित्वम्, कालविशेपावच्छिन्न- बाघयोग्यत्वमत्र साध्यते। न चाद्वतमते द्वैतरूपप्रतियोग्यसिद्वयाऽद्वैतानुपपत्तिः; व्यावहारिकस्य तस्य प्रसिद्धत्वात्। इदमेव लौकिकपारमार्थिकत्वं नाम, बौद्धमते च संवृतसत्यत्वमिति। विशिष्टाद्वैतमतेSपारमार्थ्थ सर्वज्ञानयाथार्थ्यवादस्वी कारात् प्रतियोग्यप्रसिद्धयाS सिद्धम्, इति प्रकृतानुमानेन तत्साघनम्। पारमार्थ्य प्रपश्चस्य हि तन्मते दुर्वचम्। न च ब्रह्मणो यादृशपारमार्थिकत्वं तादशमेव जगतोऽपि। तस्य हि ज्ञानानिवर्त्यत्वं पारमार्थिकत्वम्। न चैतज्गतोऽपि ज्ञाननिवर्त्यतया श्रत्यवगतस्य। अविनाशित्वं वा ब्रह्मण: पारमार्थिकत्वम्, न चैतत्प्रपश्चस्यापि विनाशिनः । तचाज्ञाननाशप्रयुक्तनाशप्रतियोगित्वम्, नाशप्रतियोगितवं वा। न चैतद्विशिष्टा- द्वैतमतेपि सिद्धम्, येन सिद्धसाधनं स्यात्॥ प्रमाणजन्यवृत्तिविषयत्वयोग्यत्वं पारमार्थ्यमित्यपि युक्तमेव। न चतज्ज- गतोपि; सन्मात्रे ज्ञानस्य प्रामाण्यमिति तत्त्वशुद्धिकारमते विकल्पांशे सर्वस्य ज्ञानस्य भ्रमत्वेन प्रमाणजन्यवृत्तिविषयत्वाभावात्, ब्रम्मणोSपारमरथर्यप्रसङ्गाभावाच्च॥
Page 117
अनुमानप्रमाणम् ६१
अदृश्यत्वं पारमार्थ्यम्, तद्विपरीतमपारमार्थ्यमित्यपि युक्तमेव। ब्रह्मणस्तु नादृश्यत्वाभावः, दृश्यत्वं वेति न दोषः ।। अबाध्यत्वं पारमार्थिकत्वम्, बाध्यत्वमपारमार्थिकत्वमिति तु फलितोऽर्थः। अनिर्वचनीयख्यातेरेव युक्तत्वेन सदन्यथाख्यात्योरयोगेन, नेदं रजतमिति बाघज्ञानस्यान्यथानयनायोगेन च शुक्तिरूप्यादौ बाधप्रसिद्धे, अप्रसिद्धौ वानेनैव साधनात्। रज्जुसर्पादिस्थले ज्ञानमेव बाध्यम्, न सर्प इति वादस्तु सत्ख्यातिवादिनां भामत्यादौ विस्तरेण निरस्तः ॥ देशकालविशेषे विषयास्तित्वं विना ज्ञानस्योपपत्तिर्न विरुध्यत इति तु न युक्तम् ; यत्र यद्बुद्धि, तत्र तदालम्बनत्वनियमात्। एकत्र निरालम्बनत्वे सर्वत्र कथं न निरालम्बनत्वमिति विज्ञानवादात् कथं निस्तारः 2 रज्जुसर्प इति रज्जावेवास्ति कश्चनापूर्वः सत्यसर्पाकार एवेति ह्यनिर्वचनीयख्यातिः। एवमपि तस्य मिथ्यात्वं तु भाविवाधप्रतीत्या, न तदानीमेव बाघेन। अयमेव न्यायो घटादावपि।। अपरमार्थमेव किञ्वचिन्नास्ति चेत् "अनाशी परमार्थश्रे"ति परमार्थ- शब्दोक्त्या किं कृतम् 2 देशकालविशेषापेक्षयाऽस्तित्वनास्तित्वप्रतियोगिनि केवलास्तित्वबुद्धियोगित्वमात्रमपरमार्थत्वमिति तुन युक्तम्; देशकालसम्बन्धान-
स्वीकारं विनाऽसम्भवात्। तदेवम्-विमतम्, अपरमार्थमित्यनुमाने साध्य- स्वरूपनिष्कर्षः ॥ अथ व्यावर्तमानतवं हेतुरपि सुवच एवेति नात्र हेतोराभासत्वम्। न चात्राभावप्रतियोगित्वमात्र व्यावर्तमानत्वम्, अपारमार्थ्य न केवलास्तित्वाभावः, कादाचित्कास्तित्वम्, येन घटादौ सिद्धसाधनं स्यात्। निरुक्तं ह्यदुष्टमपरमार्थत्व- मन्यविधमधस्तात्। न च तद्धटादौ सिद्धम्, इति न तत्र सिद्धसाधनावकाशः॥ अत्राभावप्रतियो गित्वेन त्रैका लिकनिषेधप्रतियो गित्वसाघने जगत्, त्रैका- लिकसत्तावत्, कदाचित्सत्त्वादिति सत्प्रतिपक्षो न सम्भवति; शुक्तिरूप्ये द्वितीया-
Page 118
६२ अद्वैततत्त्वशुद्धिः
नुमानस्य व्यभिचारात्। न च शुक्तिरूप्यासिद्धिः परं प्रत्यनुमानमयोगावसरे भवता वक्तं शक्यते, परेण तदङ्गीकारात्। तदसिद्धवत्कृत्यानुमानपरयोगेऽ- प्यप्रयोजकोडयं हेतुर्द्वितीयानुमाने। ब्रम्मणसत्रैकालिकसत्त्वं तु बाघकज्ञाने बाध्यतयाऽविषयत्वप्रयुक्तम्, न तु कदाचित्सत्त्वप्रयुक्तम् ।। किश्च कदाचित्सत्त्वम्-किम स्तिक्रियासंबन्धित्वम्, कदाचिदबाधितत्वम् ? उत कदाचित्सत्तादात्म्यम् 2 कदाचित् सत्तासामान्यवत्वम् 2 अर्थक्रियाकारित्वम् ? अन्यद्वा 2 तत्र नादः, शशश्ृङ्गमस्तीति प्रतीत्या तत्र व्यभिचारात् । अस्तिरप्रयुज्यमानोऽपि गम्यत इति हि न्यायः। न द्वितीयः ; कालविशेषे बाध्यत्वेन जगतोऽसिद्धेः । न तृतीयः ; दृष्टान्ते ब्रह्मणि हेत्वसिद्धेः, सति भेदघटितसत्तादात्म्याभावात्। न तुरीय; सामान्यादौ व्यमिचारात। सर्वत्र कदाचित्मदकृत्याभावेन व्याप्यत्वासिद्धिः। सत्त्वमात्रस्य हेतुत्वेऽपि पूवोक्तान्येव दूषणानि। सर्वेषु पक्षेप्वप्रयोजकत्वं च। अत्यन्ताभावप्रतियोगित्वं स्वानधि- करणकत्वविशेषितमेवात्र विवक्ष्यत इति न ब्रह्मणि व्यभिचार:॥ एतेन-सन्, परमार्थः, अनुवर्तमानत्वादित्यनुमानम पि-व्याख्यातम। अनुवर्तमानत्वं सर्वप्रतीतिविशेप्यत्वम् ; घट. सन्, पटः सन् इत्यादौ सर्वत्र सत एव विशेष्यतया विपयत्वात। उक्तं च- "सर्वप्रत्ययवेद्येऽस्मिन् ब्रह्मरूपे व्यवस्थिते।" इति। अत्र सदिति ह्यधिष्ठानानुवेधः, न तु घटादिगतं सत्तासामन्यार्थक्रियाकारि त्वादिकम्, इति नात्राप्याभासशङ्का हेतोः। तदेवं श्रृत्युपवृह्मकतयाऽनुमानस्यो- पयोगाद अद्वैतसिद्धान्तोपबृह्मकमनुमानं वेदान्तवदेवाद्वैतसिद्धयुपयोगि, अन्यत्र तु न तथेत्यनुमानप्रमाणपरिच्छेदः ।। ॥ इति अनुमानप्रमाणम् ॥
। अथोषमानपरिच्छेदः ॥ उपमानमपि धर्म इव ब्रह्मण्यपि प्रमाणमद्वैतमते भाटमत इव। धर्मे हि तस्य प्रामाण्यं विकृतौ प्राकृतधर्माणामतिदेशायोपयुज्यते। अन्यसादृश्यादन्य-
Page 119
अथार्थापत्त्या दिप्रमाणप्रयोजनादि ६३
सादश्यज्ञानमुपमानमिति हि तल्लक्षणमुभयत्रापि। तत्राद्वैते सादृश्यस्येव वैसादश्यस्याप्युपमानप्रमेयत्वेन ब्रह्मवैलक्षण्येन प्रपश्चस्य मिथ्यात्वम्, प्रपञ्च- वैलक्षण्येन ब्रह्मसत्यत्वं चाद्वैतिनामसाधारणं प्रयोजनम् ।।
तदनन्तरं सवत्रोपमानप्रमाणचर्चा सर्वत्रोपमानप्रमाणवादिनिबन्धेषु। उपमानस्याप्यनुमान एवोपयोग इति विशिष्टाद्वैतिनः। तत्रालौकिकप्रत्यक्षे डन्तर्मावो भवत्विति शङ्का हि, या 'अनुमिनोमी' त्यनुव्यवसायानुपपत्त्याऽनुमान- प्रमाणस्य स्वतन्त्रस्य स्वीकारे प्रधानासु युक्तिष्वन्यतमा, तयैव-उपमिनोमीत्यनु- व्यवसायानुपपत्त्योपमानप्रमाणमपि स्वत्तन्त्रं स्वीकर्तव्यमिति तत्प्रामाण्यवादिनः।। अत्र नैयायिका :- गवयो गवयपदवाच्य इति ज्ञानमुपमितिरिति वदन्ति। तत्र च-'शक्तिग्रहो व्याकरणोपमानकोशे'त्यादिना शक्तिआ्ाह के षूपमानस्या पि परिगणनादुपमानस्य स्वतन्त्रं प्रामाण्यम्। विशिष्टाद्वैतमते तदङ्गीकारस्या- साधारणं प्रयोजनं यदि नास्ति, तर्हि तदनङ्गीकार एव तु पूर्वोक्तरीत्या समुचित:। ॥ इत्युपमानपरिच्छेद ॥
॥ अथार्थापत्यादिग्रमाणप्रयोजनादि ॥ एवं व्यतिरेक्यनुमानेनैव गतार्थत्वे नार्थापत्तिरपि प्रमाणमित्यादि परिभा- षाव्यख्यायां रामकृष्णदीक्षितकृत्यादौ व्यक्तम्। अनुपलब्धेर्मानान्तरत्वं भट्ट इवाद्वैतिनोऽपि स्वीकुर्वन्ति। अधिकरणम्वरूपत्वपक्षेऽप्यभावस्य, अभावत्वेन तज्ज्ञानस्य बाधज्ञानत्वव्यपदेशः तत्स्वतन्त्रप्रमाणताङ्गीकारस्य प्रयोजनम्॥ अन्यथा प्रमात् पूर्व शुक्तिस्वरूपस्यापि रजताभावरूपत्वात् चक्षुषा शुक्त्यंशस्य ग्रहणात्-कथ तदानीन्तनशुक्तिज्ञानमपि न बाधज्ञानं स्यात् ? कथंतरां च भ्रमज्ञानत्वमेवोदयमिया दित्यादिशक्का दुष्परिहरा ॥ तत्रोपाधिसङ्करेऽप्युपधेयासङ्कर इति न्यायेनानुपलब्धिप्रमाणमपि यद्यपि प्रत्यक्षम्, यथाऽनुमानेन पर्वतांशे ज्ञान प्रत्यक्षलक्षणलक्षितं प्रत्यक्षमेव, एक्मनुप-
Page 120
६४ अद्वैततत्त्वशुद्धि:
लब्धिफलस्य प्रत्यक्षत्वं न विहन्यत इत्यद्वैतिनामाशयः। येषां मते नेन्द्रिय- जन्यत्वं प्रत्यक्षत्वम्, तेषां बाघज्ञानस्यापि प्रत्यक्षत्वोपपादनमनुपलब्धिप्रमाणा- न्तरत्वे न युज्यते, इत्यनुलब्धेर्न प्रमाणान्तरत्वम्, प्रत्यक्षपमाणाभावस्यैवानु- पलन्धिप्रमाणत्वात्। अमावप्रत्यक्षमेव प्रत्यक्षप्रमाणाभावरूपानुपलब्धिफलमिति तु निष्कर्पः । न् ह्यभावज्ञानसामान्यमनुपलब्धिपमा, किन्तवभवप्रत्यक्षप्रमाण- मेवानुपलब्धिरिति वदन्तो भट्टाचार्या एवात्र प्रमाणम्। सर्वथा तु बाघाख्या- भावप्रमानिरूपणार्थमनुपलब्धिप्रमाणम्। तदपि मिथ्यात्वस्वरूपनिर्णय एवोप- युज्यतेऽद्वैतमते, अन्यत्र तु न तथेति न तत्रास्था ।i । इत्यर्थापत्त्यादिप्रमाणप्रयोजनादि ॥
अथ शब्दप्रमाणम्॥ शब्दप्रमाणप्रयोजनं तु प्रमाणान्तरानवगतसविशेषब्रह्मस्वरूपनिर्णयो विशिष्टाद्वैते, अद्वैते त्ववान्तरतात्पर्थविषयतया सविशेषब्रह्मणः, महातात्पर्य- विषयतया विर्विशेषब्रह्मस्वरूपस्य च निर्णयः फलम्॥
तत्र शब्दस्याप्यनुपलब्ध्यादेरिव प्रत्यक्षम्, तत्रापि निर्विकल्पकं प्रत्यक्षं फलमित्यद्वैतिनां प्रस्थानविशेषः, यत्र 'श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति वाक्ये वेदान्तश्रवणम्, श्रता वेदान्ता वा प्रधानम्, मनननिदिध्यासने अङ्गे। इंद तु विवरण-तदनुयायिनां प्रस्थानम्। भामतीप्रस्थानं तु मन एव श्रवणमननादि- जन्यसंस्कारसचिवमात्मप्रत्यक्षसाघनम्, शब्दस्य तु न साक्षात्कारः फलम्, यत्र निदिध्यासनाङ्गि, प्रभानं वा, श्रवणमनने त्वंङ्ग। तत्रानास्थावन्तोऽपरे तु सर्वाणि समप्रघानानि, नात्राङ्गाङ्गिभाव इति ॥ तत्र केषांचन श्रवणमात्रेणापरोक्षसाक्षात्कारः सम्भवति, येषां शब्देनापि साक्षात्कारो न विरुध्यते। श्रवणमनननिदिध्यासनानीव सगुणोपासनं भक्ति- रप्यात्मसाक्षात्कारसाधनमित्यपि केचन कल्पतरुकारादयः ।
Page 121
शब्दप्रमाणम् ६५
तन्र शब्दप्रामाण्ये शब्देन शाब्दप्रमायां जननीयाथामाकाडक्षायोग्यता- सत्तितात्पर्यज्ञानानां सहकारिकारणत्वे न विप्रतिपत्तिः । सर्वथा तु साक्षात्कार- स्यैव तत्त्वमस्यादिमहावाक्येन जननेडपि न तस्य प्रत्यक्ष एवान्तर्माव इति त्वनु- सन्घातव्यम्। तत्रानुपलब्धेः सर्वत्र प्रत्यक्षकफलकत्वात् तस्याः प्रत्यक्ष एवान्त- र्भाव इति कामं भवेत, शब्दस्य तु प्रत्यक्षम्, परोक्षम, तत्रापि सविकल्पकम्, निर्विकल्पक वा ज्ञानं यथायथ फलमिति फलभेदात, तत्र विप्रतिपत्तावपि स्वतन्त्रप्रमाणान्तरत्वे, तत्रापि वेदप्रामाण्ये प्रायेण न विप्रतिपत्तिः। अत्र प्रायपद- प्रयोग: प्राभाकरमते लौकिकशब्दानामनुमानविधयैव प्रामाण्यम्, वेदानां त्वपौरुषेयतया पृथक् प्रामाण्यमिति मतभेदः कश्चनास्ति प्रामाण्यवादिष्विति सूचयितुम्।।
तत्र शब्दनन्यं ज्ञान सविकल्पकमेव, तेन च वेदान्तानां सविशेष एव प्रामाण्यम्, न तु निर्विशेषे, इति विशिष्टाद्वैतादिपक्षपातिन. सर्वेडपि वेदान्तिनः। तत्र प्रथमं निर्विकल्पकं ज्ञानं शब्दजन्यम्, इन्द्रियजन्यं वा भवतु ; तस्य निर्विशेषे वस्तुनि प्रामाण्यम्, उत नेति विचारोSत्रात्यन्तमुपयुज्यते, इत्यादौ निर्विकल्पक- ज्ञानस्वरूपं विचार्यते॥
तत्र विविध: कल्पो विकल्प अनेक प्रकार अनुवृत्ति-तद्भिन्न- द्विविधप्रकारावगाहि सविकल्पकम्, अतथाविधं निर्विकल्पकम्। गौरिति गोत्व- विशिष्टगोज्ञानं गोत्वस्य केवलस्य गवि ग्रहणेन निर्विकल्पकम्, अनुवृत्ति- विशिष्टगोत्वप्रकाराबगाहि तु 'गौरि'ति ज्ञान द्वितीयादि सविकल्पकम्, सस्कारोद्बोधासहकृतेन्द्रियजन्यज्ञानं निर्विकल्पकम्, तत्सहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम्, निर्विकल्पशब्दात् सामान्यत सर्वविधविकल्प- राहित्यस्य प्रतीयमानत्वेऽषि विषयविधया तद्राहित्ये सङ्कोचे प्रमाणाभावात् सन्मात्रावगाहिनी त्वन्तःकरणवृत्ति• सविकल्पकभिन्नवाद्यनेकधमेसद्भावादनु- भवानुरोधेन नानाधर्मावगाहित्वस्यापि तत्र सत्त्वेनानुवृत्तिरूपविषयस्य विषयविधया राहित्यपरतया सकोचोऽषि युक्त एवेत्यादि-परमार्थप्रकाशिका भणति। 5
Page 122
६६ अद्वैततत्त्वशुद्धिः
तत्र ज्ञाने साक्षादनुवृत्तेरन प्रकारत्वम्, किन्तु प्रकार एवानुवृत्ते: प्रकारत्वम्, इति सविकल्पकत्वं कथमनुवृत्ति-तद्िन्नप्रकारकत्वम्? कर्थ चनानेकस्य प्रकारतामात्रेण सविकल्पत्वम्, तद्वैपरीत्येन निर्विकल्पत्वमिति विवक्षा तु प्रकारमात्राविवक्षयाऽपि उपपद्यते, इति सर्वात्मना निष्प्रकारत्व- मेव निर्विकल्पकत्वमित्यत्रैव पर्यवस्यति। न ह्येकप्रकारकत्वमेवानेकप्रकारत्व- प्रतिद्वन्द्वि। यधनुभवानुसारात् तथा कल्पनम्, तर्हि कस्यायमनुभवः 2 सर्वात्मना निष्प्रकारकमेव हि निर्विकल्पकमिति सर्वानुभवसिद्धम् ॥ एतेन-सस्कारोद्वोधासहकृतेन्द्रियजन्यज्ञानं निर्विकल्पकम्, तत्सह- कृतेन्द्रियजन्यज्ञान सविकल्पकमिति-परास्तम् ॥ तथा सति हि सर्वं सविकल्पक प्रत्यभिज्ञानात्मकमिति फलति, इति को वा विशेषः प्रत्यभिज्ञात 2 तत्तादृशविषयत्वाविषयत्वाभ्यामिति चेत्, सस्कारोद्वोधस्य सहकारिकारणत्वेन कथं न तत्रापि तदभानम्। न च सवें सविकल्पकं ज्ञानं सम्कारोद्वोघसहकृतेन्द्रियजन्यम्! इन्द्रियादिजन्यत्वमात्रेण हि सविकल्पकप्रत्यक्षत्वम्, न तु तत्र संस्कारोद्वोघोऽपि सहकारी ; अन्यथा प्राथमिकज्ञानस्य कथ प्रत्यक्षत्वम् 2 तत्र प्राथमिकप्रत्यक्षे सस्कारोद्वोघासहकृतेन्द्रियजन्यत्वम, इति द्वितीयादौ यावत्संस्कारोद्वोधं निर्वि कल्पकं प्रत्यक्षम्, सविकल्पकप्रत्यक्ष तु तत्सहकृतेन्द्रियनन्यमिति प्रत्यक्षस्य द्विविधस्य द्विविधं लक्षणम्, प्रत्यभिज्ञानस्य त्वपरं लक्षणमिति लक्षणानेकत्वम्।। तत्र च प्रत्यभिज्ञायामिव तत्तायाः सविकल्पेऽपि कथं न भानम् 2 अतः सर्वात्मना प्रकारानवगाहित्वमेव निर्विकल्पस्य लक्षणम्। तथैव च तल्लक्ष्यते -"सप्रकारकं ज्ञानं सविकल्पकम्, निष्प्रकारकं ज्ञानं निर्विकल्पकम्" इति। सप्रत्यवम्श प्रत्यक्ष सविकल्पकमित्यपि प्राचामेवोक्तिरिति चेत्, सोडयमिति परामर्शस्यैव प्रत्यवमर्शरूपत्वात्। सेयं गौरिति द्वितीयादिज्ञानं तथाननुभवान्न प्रत्यभिज्ञानमपि; स्वरूपमात्रप्रश्नोत्तरशब्दानन्यं सविकल्प- मित्यभिप्राया सा तेषामुक्तिरिति सन्तुष्यताम् ।।
Page 123
शब्दप्रमाणम् ६७
सति चैवं निष्प्रकारकं ज्ञानं निर्विकल्पकम्, सप्रकारकं ज्ञानं सविकल्पकमिति पूर्वाचार्योक्तिरपि नाप्रमाणं भवति। न हि विद्यमान सर्व मासत इति नियम:, अन्यथा प्राथमिकज्ञानगतान्तःकरणवृत्तित्व-सविकल्प- भिन्नत्वाद्यनेकघर्माणामप्यनुवृत्यविशेषितानां क्थ न प्रतीति:१ यदीन्द्रिया- सन्निकर्षात्, तर्हि सामान्यमात्रस्येन्द्रियसन्निकर्षात् तज्ज्ञानमात्रं निर्विकल्पकम्, घर्मिणोऽपीन्द्रियसंनिकर्षात् तद्विशिष्टज्ञानं सविकल्पकमेवास्थीयताम्। अथवा प्रथम पिण्डमात्रग्रहणं निर्विकल्पकम् ; अप्रकारकत्वात्, द्वितीयादि- ज्ञानं तु धर्मविशिष्टग्रहणात् सविकल्पकमिति॥ न हि सर्व सर्वत्र वा सत् प्रतीयत इति नियमः। विषयविधया सर्वप्रकारराहित्यमेव निर्विकल्पकत्वं ज्ञानस्य, तदपि वृत्तिरूपस्य ज्ञानस्य। संविन्मात्रं स्वरूपज्ञानं तु सर्वदा निर्विकल्पमनावृतावस्थायाम्, आवृतावस्थायां वृत्त्यज्ञानान्यतरोपाधिवशात् सविकल्पकमेव, यदि स्वरूपातिरिक्त्तं प्रकारतया भासते। अत एव सर्व ज्ञान सन्मात्रे निर्विकल्पकमिति प्राचामाचार्याणां व्यवस्था ॥ सविकल्पनिर्विकल्पभेदेन प्रत्यक्षविभागो हि वृत्तिरूपं ज्ञानमादाय, न तु स्वरूपज्ञानम्। अत एवाखण्डाकारवृत्तेरप्यखण्डचिन्मात्रविषयत्वेनैव निर्विकल्प- त्वम्, यथा सोडयं देवदत्त इति वाक्यजन्यज्ञानस्य। यथा चानुवृत्तः प्रथम- ग्रहदशायामप्यविषयत्वेन निर्विकल्पत्वम् ; तद्धासकाभावात। एवं तत्त्वमस्यादि- वाक्यजन्यज्ञानस्यापि तत्त्वंपदार्थयोः सतामपि धर्मागामौपाधिकानामविवक्षया- जभानात् निविकल्पकत्वं कथं दण्डेन वार्यते ? 0
वाक्यजन्यज्ञानविषयतायां हि तत्तत्पदार्थज्ञानमेवाकाङ्क्षादिसहकृतं प्रयोजकम्, न तु पदार्थत्वम्, तद्धर्मत्वमात्रं वा। ज्ञानस्य त्रिपुटीविषयकत्व- नियमोऽपि सविकल्पकवृत्तिज्ञानाभिप्रायः, न तु स्वरूपज्ञानाभिप्राय इति संप्रतिपन्नम् ; स्वस्मै स्वयंप्रकाशस्य तस्य स्वातिरिक्तविषयाद्यप्रकाशत्वात्।।
Page 124
६८ अद्वततत्त्वशुद्धि:
स्वरूपज्ञानं ब्रह्म निर्विकल्पमिति वस्तुतो ब्रह्मणि विकल्पानां सर्वषां कल्पितत्वेन भाविबाधमादाय, यावद्वां तु तदपि सविकल्पकमेव। अत एव सविशेषपरत्वमप्यवान्तरतात्पर्यविषयतया वेदान्तानाम्। वृत्तिज्ञानं कदाचित्स विकल्पकम्, ब्रह्म तु सदैव सविकलपकमिति तुन युक्तम्, समर्थस्य क्षेपायो-
विशेषपक्षकं निर्विशेषानुमानमपि न दुष्टम्। तद्यथा-विशेषाः साधिष्ठानाः, बाध्यत्वात्, शुक्तिरूप्यादिवत्" इति। 'नात्र रनतमि'ति बाघज्ञानेन देशविशेषे रजताभावबोघात् देशविशेषावच्छिन्नास्तित्वप्रकारक- प्रतीतिविषयत्वमेव स्वीकर्तव्यम्, न तु अस्तीति प्रतीतिविषयत्वमात्रम्। अत शुक्तिरूप्यादिष्वपि बाध्यत्वं साधिष्ठानकत्वं च वर्तते, इति दृष्टान्तसिद्धिः। अत एव मननविधिरुपपद्यते।। विशेषा:, सामान्यप्रकृतिका, विशेषतवादित्यनुमानमपि न दुष्यति। मृदादौ सामान्येऽपि निर्विशेषत्वेनैव प्रकृतित्वम्, अन्यथा सदा घटादीना तत्र सत्त्वे कारकव्यापारवैयर्थ्यम्। सामान्यं नाम न जातिः, किन्तु निर्विशेषानु- गतस्वरूपमात्रम्। निर्विशेषस्य ब्रह्मणः प्रकृतित्वमन्यादृशम्, मृदादेस्त्वन्या- दृशमिति त्वन्यदेतत्।। इदं निर्विशेषत्वानुमानमपि शब्दप्रमाणोपबृह्मकतयैव प्रमाणम्, न तु स्वतन्त्रतयेति तु स्थितमन्यत्र। न च निर्विशेषत्वस्य दृष्टान्ताभावेनाविघेयत्वम्; मृदादिद्टष्टान्तस्य प्रसिद्धत्वात्। तथाच श्रुतिः-"वाचारम्भणं विकारो • नामधेयम्, मृत्तिकेत्येव सत्यम्" इति। अनेन हि घटादीनां प्रकृतौ त्रैकालिकसत्त्वमान्रं निषिध्यते। तच्व जगतो ब्रह्मण्यपि समानम्। पक्षसंबन्धादिकं तु यावद्वां व्यावहारिकसत्त्वमादायोपपद्यते।। सत्यं सविशेषस्य विशेषणविधया निर्विकल्पज्ञानेऽभानेऽपि स्वरूपतः सत्त्वात् निर्विशेषविषय निर्विकल्पकज्ञानेनापि वस्तुतः सविशेषत्वं न वार्यते,
Page 125
शब्दप्रमाणम् ६९
यथा मृदि घटादीनां स्वरूपेण त्रैकालिकसत्त्वाभानेऽपि न घटस्य स्वरूपतः कालत्रयेऽप्यभावः ; अन्यथा मृदः पुनरपि घटान्तरानुत्पादात्। कारणात्मना तु तत्र कदाचित्सत्त्वमनिवारणीयम्। एवमेव ब्रह्मण्यपि प्रपश्चस्य सर्वदाऽभावः सर्वेणापि रूपेण न संभवतीति चेत्, सत्यम् ; परिणामिकारणत्वात् मृदः, कारणरूपेण, स्वरूपेण वा कालत्रयेपि सत्त्वं घटादीनाम्, न त्वेवं ब्रह्मात्मना, स्वरूपेण च सवेदा विशेषाणां सत्त्वम्; अविद्यापरिणामात्मत्वात् विशेषस्य यावदविद्यमेव तथात्वात्।।
अखण्डब्रह्मसाक्षात्कारेणाविद्यायां निवृत्तायां न तु स्वरूपेण, कारणात्मना वा कस्यापि विशेषस्य कदापि सत्त्वम्। अतो विशेष: ।
यावदखण्डाकारसाक्षात्कारं विशेषो न वर्तत इति को वा वदति ? तावत्पर्यन्तमपि त्रैकालिकसत्त्वाभावो भाविबाघमभिप्रेत्यैव। अखण्डाकाराप्रामाण्य- पूर्व विशेषस्य विद्यमानस्याप्यविवक्षया निर्विकल्पत्वव्यवहारः, ततस्त्वनावृतचिन्मात्रमादाय वस्तुगत्या निर्विशेषमपि विषयो निर्विकल्पकज्ञानस्य।।
न च निर्विशेषत्वमपि व्रह्मणो धर्म एव, विशेषाभावस्य तस्याधि- करणस्वरूपत्वात्। अस्तु वा तस्याधिकरणातिरिक्तत्वम्, किमेतावता 2 तस्यापि मिथ्यात्वापत्तिरिति चेत्, काममास्ताम्। का नो हानि: 2 विशेषस्य पारमार्थिकत्वापत्तिरित्यद्वैतव्याघातेन मूलहानिरेव भवतामिति चेत्, पराक्रान्त- मत्र "मिथ्यात्वमिथ्यात्वेऽपि न प्रपञ्चसत्यत्वम् " इति प्रकरणेऽद्वैत- सिद्धयादौ।। यत्त-वाक्यस्य(35-38) ससगविगाहित्वनियमे न बाधकम्। न च तात्पर्यानुसारेण व्यवस्था; वक्तृतात्पर्यस्यापौरुषेये वेदेऽसम्भवात्। तदन्यमात्र- प्रतीतीच्छयाऽनुच्चरितत्वे सति तत्प्रतीतिजननयोग्यत्वं तात्पर्यमिति परि-
Page 126
७० अद्वैततत्त्वशुद्धि
भाषालक्षिते तात्पर्ये तु नानार्थबोधनार्हस्य वैदिकवाक्यस्य पूर्वापरपर्यालोच- नया नियन्त्रितस्य सर्वतात्पर्यकत्वापत्ति :- इति ॥
तत्र पूर्वापरपर्यालोचनया नानार्थतया प्रतीयमानानां वाक्यानामर्थविशेषे तात्पर्य नियन्त्रयितुं हि तात्पर्यग्राहकाण्युपक्रमोपसंहारादीनि, पूर्वोत्तरमीमांसा- न्यायाश्र ।।
यतु-अपौरुषेये वेदे किश्चित्पतीतीच्छयोच्चरितत्वाभावः, ईश्वर- प्रणीतत्वशङ्कासमाधानादिकम्, तत् सर्वमत्र तात्पर्यस्वरूपस्य तदन्यमात्रप्रतीती- च्छयाऽनुच्चरितत्वस्यैव विवक्षणाद् यत्किश्चित्पतीतीच्छयोच्चरितत्वस्याविवक्षणाच्च न विकल्पसहम्॥
अत्र तात्पर्यघटकं तत्प्रतीतिजननयोग्यत्वं तत्तद्वाक्यघटकतत्तत्पद विषयक शक्तिलक्षणादिरूपमेव। तज्ज्ञानकारणं तूपक्रमोपसंहारादयः पूर्वोक्ता एव। आकाडक्षा तु परस्परापेक्ष्यमाणक्रियात्वकारकत्वान्यतरवत्त्वं ततोऽतिरिक्तमेव। न चाकाड्क्षाज्ञानं शब्दबोधे कारणम्, किन्त्वाकाडक्षैव। न च तावन्मात्रेण, विना तात्पर्यज्ञानं शाब्दबोधो भवितुमर्दति। तात्पर्यसशयोत्तरवाक्यार्थज्ञान एव तात्पर्यज्ञान कारणम्, इति कुत्रचन विनाऽपि तात्पर्यबोधं शाब्दबोधो न विरुध्यते। व्यक्तञ्चैतदपि परिभाषायामेव ॥
वाक्यस्य संसर्गावगाहित्वनियमस्तु सति तत्र तात्पर्यसंशयाभाचे। यत्र तु तत्संशयः प्रकरणविशेषे, तत्र सति तात्पर्यनिश्चये संसर्गावगाहित्वम्, अन्यथा तु न। तत्त्वमसिवाक्ये तु संसर्गविषयकत्वेऽसंशयात् तदविषयत्व- तात्पर्यनिर्णयाच्च न संसर्गावगाहित्वम्। परिभाषायां वाक्यप्रामाण्योपक्रमे संसर्ग विषयकत्वोलेखस्तु-अभेदस्यापि संसर्गत्वमभिप्रेत्य। यथा च स्वरूपैक्येऽपि विनापि प्रवृत्तिनिमित्तभेदं स्वरूपमात्रविवक्षायामपि सामानाधिकरण्यम्, तथा- 'नामन्त्रिते समानाधिकरणे' इति सूत्रार्थविचारप्रसङ्गे विवेचितमेव॥
Page 127
शब्दप्रमाणम् ७१
एतदभिप्रायैव परिभाषाऽपि-अभेदान्वये च समानाधिकरणप्रतिपाद्यत्व- मित्यादि वदति। प्रत्यक्षपरिच्छेदे-संसर्गानवगाहिज्ञानजनकत्वमखण्डार्थत्व- मित्युक्तिस्तु पदस्मारितपदार्थस्वरूपातिरिक्ताविषयकत्वाभिप्रायेण। तद्विवरणार्थ- मेव हि-यद्वा तत्पातिपदिकार्थता॥ संसर्गो नाम पदस्मारितपदार्थातिरिक्त एव। न च संसर्गोऽपि पदार्थः, पदवाच्यो वा। पदवाच्यत्वं नामान्विताभिधानवादे पदनन्यशक्तिज्ञानविषय- त्वम्, न तु स्वरूपसच्छक्तिविषयत्वमात्रम्। तत्र च शक्तिरन्वये स्वरूपसत्येव कारणम्, इति पदस्मारितातिरिक्तत्वम्। अभिहितान्वयवादे तु पदार्थेषु संसर्ग- बोधानुकूला शक्ति, न तु पदेषु, इति न पदस्मारितत्वं संसर्गस्य। अतो न पूर्वापरविरोधः । पदार्थस्यैव भिन्नतयाऽवगतस्य न वाक्यार्थत्वम्। अतो न वाक्यार्थरूपासक्कीर्णस्वरूपबोधकं 'तत्त्वमसि' वाक्यम्। स्वरूपमात्रस्यासङ्कीर्णस्य बोधो हि पूर्वोक्ततात्पर्यग्राहकप्रमाणवगततात्पर्यज्ञानाधीन इत्यपि तत्रैव व्यक्तम्। यथा च मतान्तराभिमतान्यादगर्थो न तात्पर्यग्राह कप्रमाणवगततात्पर्यज्ञानविषयः, तथा तत्र तत्र व्यक्तम्। ततश्र तत्त्वमस्यादिवाक्यानां निर्विकल्पकज्ञानजनकत्वं निर्न्यूढमेव। तच्च निर्विकल्पं प्रत्यक्षं परोक्ष वेति प्रस्थानभेद इति त्वन्यदेतत्। न च प्रस्थानमेदेऽपि लक्ष्यैक्यात परस्परविरोधकथा॥ यत्तु-कारणवाक्ये कारणत्वबोधनस्यावश्यकतया कारणत्वस्य कार्या- व्यवहितप्राक्कालिकसत्त्वरूपतया, 'अग्रे' "आसीदि" त्युक्ततया च कथं निर्विशेषत्वम्-इति ? तत्र कारणत्वं न सत्त्वनियतम्- "पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ। हेतुतत्त्वबहि र्भूतसत्त्वासत्त्वकथा वृथा। अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत् कारण तदसत्ततः ।।" इत्यादिना खण्डनकारैरेव हि तद् निरस्तम्॥
Page 128
७२ अद्वैततत्त्वशुद्धि:
सत्तासामान्यादिरूपं तु सत्त्वं कारणस्य कामं भवतु नाम। कथं तस्य निर्विशेषत्वमिति चेत्, को वा वदति कारणतादशायामेव निर्विशेषत्वमेवेति। भाविबाधापेक्षया हि कारणस्यापि निर्विशेषत्वम्। अयमेव न्यायो जगन्मिथ्या- त्वेऽपि। तच्च ब्रह्मण: कारणत्वमविद्यासंबन्धप्रचुक्तनेश्वरत्वेन, न तु संविन्मात्र- रूपेण, येन प्रलयकालेऽविद्यासंबन्धाभावेन सृष्टेरभावः स्यात्॥
तत्र यथा प्रकृतिः, ईश्वरः, प्रकृतीश्वरसंबन्धः, जीवः, जीवेश्वरभेदश्चा- न्यत्रानादयः, एयमद्वैतमते शुद्धचिदनादिः। इयान् विशेष :- प्रकृतरेवान्या- भिमताया आवरणशक्त्तेरधिकाया अपि स्वीकारात् शुद्धचित इवाविद्याया अप्यनादेरादि: सबन्ध इति॥
तत्र शुद्धायाश्रितोSविद्यासबन्वश्रयुक्तं जीवत्वेश्वरत्वादि। शुद्धचिद्रूपत्वेन सृष्टेः पूर्वमनादित्वस्वी कारस्तु भाविपारमार्थिकस्वरूपज्ञानापेक्षया, न तु पलयकाले संविन्मात्रसत्तापेक्षया। भाविस्वरूपाभिप्रायेण मुक्तात्मस्वरूपचर्चा हि बद्धानामपि शास्त्रानुसारिणी सर्वत्र समाना। अतो न पारमार्थिकविशेपवत्त्वं कारणस्य, जीवस्य, बद्धस्य वा बन्धावस्थायामेवाद्वैत सिद्धान्ते।
संवित्संवेद्यसंवेत्तृणां संविन्मात्रं पारमार्थिकम्, सवेत्ुस्त्वौपाधिकं कल्पितत्वम्, दृश्यस्य तु स्वरूपतः कल्पितत्वमिति विभागः। गधीनसत्ताकत्वं दृश्यस्य, द्रष्टश्रेति तु निष्कर्षः। न ह्यन्यनिरूपणाधीननिरूपितत्वेन कल्पितत्वम्। तत्सत्तातिरिक्तसत्ताकत्वाभावो ह्ेकसत्तावादे। तच्च तत्राध्यस्तत्वेन। जन्यज्ञानं हि कर्तृकर्मसाकाङ्क्षम्, न तु नित्यं संविदरूपं स्वप्रकाशम्, येन दशेरेव दृश्यद्रष्ट्र- धीन निरूपणत्वेन कल्पितत्वापत्तिः ॥
अनेन न्यायेन ब्रह्मण: कारणत्वमप्यविद्योपधानप्रयुक्तमेव, न स्वाभावि- कम्। तस्य जगदपेक्षया सूक्ष्मत्वं व्यापकत्वमित्यादिकमुपाघिसंबन्घाधीनमेव। तत्राविद्यादयुपाधिविलये न कारणत्वम्, जीवत्वम्, ईश्वरत्वं वा ॥
Page 129
शब्दप्रमाणम् ७३
तत्रानादित्वेप्यविद्याया विलयो न विरुद्धः। तत्राविद्या स्वत एव ब्रह्मण्यनादितयाऽध्यस्ता। एवम विद्यासंबन्धोडपि। अनाद्यविद्यासंबन्धप्रयुक्तमनादि जीवत्वम्, ईश्वरत्वं च। शुद्धं चैतन्यं त्वनादि, अकल्पितं स्वतः सिद्धमिति विभाग: ।। तत्रानादित्वं चेदमविद्यायाः, न जीवस्य शरीरसंबन्धादिकमिव प्रावाहिकम्, किंतु स्वाभाविकम्। तेन च-'कलपना चेयं कदा १ एतज्जन्मारम्भ इति चेदित्यादिशंकातद्दृषणादीनां नावसरः, न वा बीजाङ्कुरवदनादित्वे प्रतिनन्मा- विद्याभेदश्च स्यात्। वस्तुतस्तु-बीजाङ्कुरन्यायेनानादित्वं तत्रैव स्यात्, यत्र प्रत्यक्ष: कार्य- कारणभावः। न च जीवस्य शरीरसंबन्धोऽपि बीजाङ्कुरन्यायेन। व्यक्तं चैतत्- "नित्यमशरीरत्वमकर्मनिमित्तमि" त्यादिभाष्यतद्विवरणादिषु। न हि जीवत्वप्रयो- जकसूक्ष्मशरीरसंबन्धोऽनादि: प्रावाहिकः, किंतु यावन्मुक्ति प्राथमिकानाद्य- विद्यान्त.करणादिरेक एव, अन्यथा कृतहानाकृताभ्यागमप्रसङ्गात्। न हि एतज्जन्मारम्भे एतत्सूक्ष्मशरीरादिसंबन्धः, अन्यथा कथमत्रापि न कृतहाना- कृताभ्यागमौ 2 कथंतरां वाडत्रापि पूर्वेपूर्वजन्मन आवश्यकत्वात् कल्पनासमय- दौस्थ्येन सूक्ष्मशरीरादेस्तत्रापि न सिद्धि: 2 कथंतमां च बीजाडुकुरन्यायेना- नादित्वे प्रतिजन्म न सूक्ष्मशरीरादिभेद इति पर्यनुयोगो भवन्मतेऽपि॥ तत्रानादेः सूक्ष्मशरीरस्य भौतिकस्य मुक्त्यवस्थाया विलयोस्ति वा ? न वा 2 आद्ये कथमनादेर्विनाशः 2 अन्त्ये कथ दिव्यशरीरकत्वम् 2 स्थूलशरीर- मात्रं यदि दिव्यम्, तर्हि मुक्तावपि कथं सांसारिकानुभववासनानुवृत्त्या न बन्ध इत्यादिपर्यनुयोगपरम्परा दुष्परिहरैव भवतामपि। यावत्तत्वज्ञानम्, यावन्मुक्ति च सूक्ष्मशरीरादिरिवाविद्याऽप्यनुव्तत इत्यङ्गीकाराद् न कापि कृत्याऽद्वैतसिद्धान्ते॥ इयान् विशेष :- यद् जीवन्मुक्तेष्वविद्यासंस्कारानुवृत्तिः, तस्या विक्षेप- शक्तिमात्रानुवृत्तिर्वा, विदेहमुक्तौ तु सर्वनिवृत्तिरिति। अत एव तत्त्वज्ञानविना-
Page 130
७४ अद्वैततत्त्वशुद्धि.
श्यत्वमविद्यायाः, इति साडनादिरपि सान्तैव, नानाधनन्ता ; अन्यथा सूक्ष्म- शरीरमप्यनाद्यनन्तं च स्यात्। एवमेव जीवेश्वरविषयेऽपि, तस्य जीवत्वमीश्वर- त्वं वाडनादि, तदुपाध्यविद्याविनाशादन्तवच्चेति समानत्वात्। तावत्पर्यन्तं जीवत्वं त्वौपाघिकं व्यावहारिकं चेति वस्तुस्थिति: ।।
अनादित्वम विद्याया जीवत्वस्यान्यस्य वा नाविनाशप्रयोजकम्, अनादि- सूक्ष्मशरीरे व्यभिचारात्। अत एव परिणामितावादोऽनादे: प्रकृत्याः, अविद्याया वोभयत्र। परिणामित्वे हि विनाशापतिरिति खलु ब्रह्मपरिणामवादो भास्करस्य निरस्यते। तच्च प्रकृतेरपि साधारणम्, इति कथं सा परिणामिन्यनन्ता च।। यत्तु-जीवस्य कल्पितत्त्वे तस्य मुक्तावनन्वयदूषणम्, तदिदमद्वेतमते कल्पितजीवत्वरूपबन्धनिवृत्त्या स्वस्वरूपावाप्तरेव मुक्ति- त्वात तदा जीवत्वस्यैवाभावात् जीवस्वरूपस्याविनाशाच्च न दूषणम्॥ न हि स्थूलसूक्ष्मशरीरस्य मुक्त्यर्थ प्रयतमानस्य तेनैव रुपेण मुक्ता- वन्वयः। तथाच स्थूलसूक्ष्मशरीर।भिमानिनोऽस्य प्रत्यगात्मन एव स्वबन्धनिवृत्तये, मुक्तये वा शृङ्धलादिबद्धस्य शृद्धलाबन्धनिवृत्तय इव प्रवृत्तिः, न तु मुक्तस्यैव मुक्तय इति संप्रतिपन्नम्। इयान् विशेप :- यत्-अहमर्थ एव मुक्ता- वप्यनुवर्तते जीवो नामेति विशिष्टाद्वैतम्, अद्वैतं तु निर्गलिताहंकारः सन्मा- मात्रमेव प्रत्यगात्मा मुख्यो जीव इति। तत्रोपाध्यनुवृत्त्यननुवृत्ती बद्धमुक्तयो- रुभयन्नापि समाने ।। तत्र जीवेश्वरस्वरूपविषये सिद्धान्तलेशसंग्रहे- मायाऽविद्याभेदपक्षे मायाप्रतिबिम्बचैतन्यमीश्वरः, अविद्याप्रतिबिम्बचैतन्यं जीवः । तत्रैव मायागत- शक्तिविशेषस्यैव मायाऽविद्यापदवाच्यत्वमिति कश्चन पक्ष उपक्षिप्तः। अपरे तु मायाडविद्याडभेदपक्षम्, अनेकाविद्यापक्षम्, एकाविद्यापक्षं च प्रदर्श्य तत्तदव- च्छेद प्रतिविम्बवादभेदः, आभासवाद इत्यादयो जीवभेदावलम्बिनः, एक- जीववाद इत्यादयस्तत्तदाशयविवेचनपूर्वकं निरूपिताः ॥
Page 131
शब्दप्रमाणम् ७५
सर्वमिदं प्रस्थानभेदमात्रम्, स्वरूपं तु जीवेश्वरयोः सर्वत्र प्रतिष्ठितमेव। अनिर्गलिताहंकारादयुपाधिकसविन्मान्रं जीवः; ईश्वरो वा तत्वंपदवाच्यार्थः । तत्त्वंपदलक्ष्यार्थस्तु सर्वत्रैकरूपतया। तत्र कश्नोत्तमोऽधिकारी निर्विकल्प- समाधौ जाग्रद्दशामेव स्वमवत् सुषुप्तिवत् पश्यन् एकजीववादं मुख्यं मन्यते। अपरोडनेकजीवादम्। तत्रापि प्रतिबिम्बवाद बन्धस्यौपाधिकत्वं विचारदशायामेव तत्सर्व सम्यगवगन्तुं शक्यत इति प्रतिपत्तिसौकर्यार्थमनुसन्धते, इति पक्षभेदेष्वे- कस्य द्वयोरवा पक्षयोरुत्तमत्वेन प्रतिपादन न परस्परविरुद्धम्, यथा वा विशिष्टा- द्वैतसिद्धान्ते प्रपत्तौ साधनफलत्वपक्षभेद, तस्याः सर्वप्रायश्चितत्व-तुरीयसाधन- त्वप्रकारभेद, इति प्रस्थानभेदमात्रेण न परस्परविरोधः । न चैकस्मिन् पक्षे श्रद्धातिशयप्रकाशनमात्रेण पक्षान्तरं प्रस्थानभेदमात्रं वा दूषितं भवति। अतो रिक्तमिदं वचनम्-
'एवं भवत्यरिशेषितस्यकस्य पक्षस्य दूषणेऽन्येषा भवतैव दूषितत्वेन मतदौ स्थ्य सुगभम् '-इति॥ तत्तद्वादस्यैव तत्तद्वादविचारावसरे सौष्ठवप्रकाराश्च सिद्धान्तलेशसंग्रहे, कल्पतरुपरिमले च दीक्षितेन्द्रैस्सम्यगेव विचार्य निरणायिषत।।
तत्र 'शब्दगन्घरसानां च कीदृशी प्रतिबिम्बता' इत्यादिना नीरूपस्य प्रतिबिम्बायोग:, श्रतिसूत्रयोस्तत्रैव तात्पर्य च भामतीसिद्धान्ते समन्वयसूत्रान्ते परिमले दीक्षितेन्द्रा व्यचारयन्। ततः काँश्चनांशानादाय परमार्थप्रकाशिका प्रतिबिम्बवादं दृषयति, परंतु सिद्धान्तलेशसंग्रहेऽवच्छेदवादे कानिचन दूषणानि प्रदर्श्य प्रतिबिम्बवादमेव समर्थयन्तश्र लक्ष्यैक्येऽनाग्रहिणः प्रस्थानमेदेषु दीक्षितेन्द्रा इत्यत्रेदमेव पर्यांप्त प्रमाणम्।।
तत्राचाक्षुषस्य चतन्यस्य प्रतिविम्बवर्णनमेव तावदशक्यमित्यादि,- नाविद्यायां चैतन्यप्रतिबिम्ध इति किंचित्करम्-इत्यन्तम्
Page 132
७६ अद्वैततत्त्वशुद्धिः
अवच्छेदवादपक्षसमर्थनावरसरगतस्य परिमलवाक्यार्थस्य संग्रहमात्रम्। एवमेवान्यत्रापि बहुत्र पक्षान्तरसिद्धान्तेन पक्षान्तरसिद्धान्तदूषणजालमत्र।। तत्र बिम्बप्रतिबिम्बयोः प्रतिबिम्बस्यौपाधिको भेदः, अभेदस्त परमार्थः, अविद्यान्त:करणाद्युपाधिमात्रनाशः, न प्रतिबिम्बस्वरूपनाशः ; बिम्बरूपस्यैव प्रतिबिम्बत्वात् औपाधिकत्वाच्च भेदस्येत्येक पक्षः। उभयोरप्यभेद एव। अत एव मम मुखमिति प्रतीतिरिति बिम्बप्रतिबिम्बयोरभेदपक्षोऽपरः । तत्र द्वितीये दर्पणाद्युपाधिस्तयोरभेदप्रतीतिं विरुणद्धि, भेदबुद्धिं चादघाति। तन्निवृत्तौ तु वस्तुतत्त्वावबोध इति पक्षद्वयस्यापि सारः ॥
तत्रोभयत्र जीवब्रह्माभेदायोग इति परमार्थप्रकाशिका तु पक्षद्वयफल- मन्यथा वदति, विपरीतवादेन च दूषयति-
तत्र एवं तत्त्वमसीति तच्छन्देन बिम्बभूतमीश्वर गृहीत्वा तदभेदस्यैव कथनात् न शुद्धचेतन्याख्यब्रह्माभेदबोधनसमव। एवं प्रतिबिम्बे ब्रह्माभेदो- पि न सभवति, व्रह्मणोऽन्यसत्ताधीनसत्ताकत्वाभावात्, प्रतिबिम्बस्यान्य- सत्ताधीनसत्ताकत्वात्, बिम्वसत्ताधीनसत्ताकस्य प्रतिबिम्जस्य ्रह्मत्वायो- गात्। एवमज्ञानावच्छिन्नचैतन्यस्य तत्पदार्थत्वेऽपि त्वंपदार्थप्रतिबिम्बस्य तदभेदसिद्धि. शुद्धब्रह्माभेदासिद्धिश्च द्रष्टव्या। एवमविद्यानाशे व्रह्मव्यतिरिक्त- प्रतिबिम्बनाशात् जीवस्य नाशारथमेव परवृत्तिरिति शोभनो वेदान्तार्थ .- इति च।।
तत्र तत्पदवाच्यार्थस्य त्वंपदवाच्यार्थस्य चाभेद इत्येको दुरनुवादः । अपरं तु-तच्छब्देन बिम्बभूतमीश्वरं गृहीत्वा तदभेदस्य कथनं नाद्वैतमते ; तत्त्वंपदलक्ष्यार्थयोरेवामेदस्य तद्वाक्यार्थत्वात्। न हि तत्पदलक्ष्यार्थस्य त्वंपद- वाच्यार्थस्य चाभेदोऽद्वैतमते-इति प्रतिबिम्वे ब्रह्माभेदो न संभवतीत्यस्यानु- क्तस्यार्थस्योपालम्भनम् ॥ यत्तु-एवमज्ञानावच्छिन्नचैतन्यस्येश्वरस्य तत्पदार्थत्वेऽपि त्वंपदोक्तप्रतिबिम्बस् तदमेदसिद्धि, शुद्धब्रह्माभेदासिद्धिश्च-इति.
Page 133
शब्दप्रमाणम् ७७
तदू अवच्छेदवादप्रतिबिम्बवादयोः संकरेण, न त्ववच्छेदवादमात्रेण, प्रति- बिम्बवादमात्रेण वा। उभयत्र कथं वाजज्ञानावच्छिन्नचैतन्यस्याज्ञानप्रतिबिम्बस्य चाभेदप्रसक्तिरपि 2 सर्वत्र लक्षणयाऽनुपहितशुद्धचैतन्या मेदस्यैवोपाध्यविवक्षया विवक्षणाद् न शुद्धब्रह्माभेदासिद्धि। अपिचोपाधिनाशे ब्रह्मनाश इति कथा- मात्रम्। न हि घटनाश आकाशनाशः, दर्पणनाशे वा मुखनाशो दृष्टचरः, श्रुतचरो वा ।।
चाद्वैतमते विभुत्वस्वीकारात्, परिच्छिन्नदेशे परिच्छिन्नप्रतिबिम्बवादो न युक्त :- इति। तत्र जले महापरिमाणेऽपि कल्पितदेशविशेषमात्रेष्वेकस्य भास्करस्य बहुतरप्रतिम्बदर्शनादविद्याया अप्यवस्थामेदमान्रेषु कल्पितेषु, देशविशेषेषु वा तत्तद्देशगततत्तच्चैतन्यभागमात्रस्य प्रतिबिम्बसंभवाद् न कोऽपि दोष इति तु तत्वम्। उपाधिदेशभेदेनोपहितेऽपि भेदकल्पनान्न कोडपि दोष: । अन्तःकरणप्रतिबिम्बचैतन्यं जीव इति पक्षे जीवस्य ज्ञातृत्व-संसारादिबन्ध औपाधिक आञ्जसः। अविद्याप्रतिबिम्बो जीव इति पक्षेऽपि जीवपरिच्छिन्न- त्वानुभवोपपत्त्यर्थम्, उत्क्रान्ति गत्याद्युपपत्त्यर्थ चाविद्यावस्थाविशेषान्तःकरणो- पाधिकत्वमपीति तत्र तत्र व्यक्तम्।। सति चैवं जीवस्यान्तःकरणधर्मवृत्ति ज्ञानाश्रयत्वेनौपा धिकज्ञातृत्वा दिको बन्ध उपपद्यत एव। अहंपदार्थो ह्यद्वैतमतेऽविद्याप्रतिबिम्बपक्षेऽप्यहंकारो- पाधिकमेव चैतन्यं परिच्छिन्नं जीवो नाम। अन्यथा व्यापकाविद्योपाधिकत्वमात्रे जीवस्याहंप्रतीति विषयत्वम्, परिच्छिन्नत्वम्, उत्क्रान्तिगत्यादिकं च नोपपद्येत। न चाहंपदमात्रमहपदार्थोडद्वैतमतेऽपि, किंत्वहमर्थ एव ।। इयान् विशेष :- आत्मानात्मशबलितो मिथ्यात्माऽहमर्थोडद्वैतमते, अन्यत्रात्ममात्रोSहम्थ इति। तथाचान्तःकरणतादात्म्याध्यासप रिनिष्पन्नाहमथस्या विद्यापतिबिम्बस्याप्यौपाधिकज्ञातृत्वाध्यासात् कथं न बन्धो नाम 2 अविद्याप्रति-
Page 134
७८ अद्वैततत्त्वशुद्धि
बिम्बस्यैवान्तःकरणादितादात्म्याध्यासाद् अहं जानामि, अहं पश्यामि, अहं गौरः इत्याद्यनुभवः। बिम्बस्य चैतन्यत्वात् प्रतिबिम्बस्यापि चतन्यत्वं न विरुध्यते ; प्रतिबिम्बस्य बिम्बसमानरूपत्वनियमात्। प्रतिबिम्ब औगाधिनधर्मान्तराश्रयत्वं त्वधिकम्, न तु बिम्बसमानरूपत्वाभावोऽपि, तथैवानुभवात्। न चान्तःकरणं ज्ञातृ इत्यद्वैतिनां राद्धान्तः, किंतु तत्तादात्म्योपहिताहमर्थ एव तथेति सर्वमनवद्यम्।। एकजीववादे तु सवमे गुरुशिष्यभावोपदेशादिवत् सर्वोपपत्तिरिति सिद्धान्तलेशसंग्रह-वेदान्तरिभाषादौ व्यक्तम्। यथा चानेकजीववादे जगन्मिथ्या- त्वेऽपि मिथ्याभूतस्याप्यर्थक्रियाकारित्वात् परस्परसव्यवहारादिकं न विरुद्धम्, तथोपपादितमघस्तात्। न चानेकजीववाद उपेक्षितोडद्वैतामोदेन, किंत्वेकजीव- वादस्य दुरुपपादस्यापि सूपपादनमेव तेन प्रदर्श्यते॥ समस्तकल्याणगुणाकरस्य सर्वज्ञस्य सर्वशक्तिकस्य परमात्मनः प्रकृति- शरीरकत्वेन यदि न श्रुतिकदर्थनम्, तर्हि प्रकृत्यपरपर्यायमायोपहितस्याज्ञानाव- च्छिन्नत्वे कथं वा श्रुतिकदर्थनम् 2 अज्ञानावच्छिन्नत्वं हि तदुपहितत्वमात्रम् । न चोपाधेर्विम्बपक्षपातित्वम् ; प्रतिबिम्बपक्षपातित्वात्तस्य। तत्र मायोपा धिमत्त्वं तदाश्रयतवं वा शुद्धचैतन्यस्य, न तु सर्वज्ञस्य। मायोपधानं हि ब्रह्मण ईश्वर- भावस्येव सर्वज्ञत्वस्याप्युपपादकम्, न विघातकम्। सर्वथा तु जीवत्वेश्वर- त्वादेरौपाधिकत्वाद् जीवस्य ससारबंधः, ईश्वरस्य स्त्रष्टरत्वादिकं च नानुपपन्न- मज्ञानावच्छेदवादेऽपि॥ यद्यज्ञानविषय उदाहृताः श्रुतिस्मृतयः, तर्हि कि तास्तस्यानिर्वचनीयत्वं न साधयन्ति? किं वा तस्यानिर्वचनीयत्वाभावेऽमावरूपत्वे च प्रमाणं परमार्थप्रकाशिकाऽप्युपन्यस्यति ? विचारयिष्यते चेदमुपरिष्ठात्। अज्ञानविषये सप्तानुपपत्तिनिरासेन सर्वमज्ञानविषयं स्वरूपप्रमाणादिकम्, यथा चाविदा ब्रह्मण्यध्यस्ता, अनादिः सान्ता च तथचोषपादितं तत्सादित्वादि- निरसनेन, कृतहानाकृताभ्युपगमापत्तिनिरासादिना च॥ ·
Page 135
शब्दप्रमाणम् ७९
यत्तु-अविद्याया ब्रह्मणि कल्पितत्वे कल्पकस्य दोषस्य, कल्पनाशालि पुरुषस्य कल्पनायाश्चाभाव, सभवे च तस्या अनादित्वभङ्ग. । न च प्रवाहा- नादित्वम्। अतस्तस्या- पारमार्थिकत्वमेव-इति ।। तत्राविद्याया स्वत एवानादध्यासस्य, तस्या ब्रह्मणा सम्बन्धस्य, तदा- श्रयस्य जीवस्याप्यनादित्वस्य चोपपादनादू न दोषगन्धोऽपि॥। एतेनाविद्यासम्बन्धोऽपि व्याख्यातः। यथाऽनिर्जले प्रविश्य तदीयं शैत्यमपहुत्य स्वकीयमौष्ण्यं तत्र संक्रामयति, एवमविद्या चैतन्यस्य निर्विषयक- निराश्रयस्वरूपमपहुत्य सविषयत्वादिकं संक्रामयति। तत्रापि ब्रह्माश्रयविषये- त्यादिकं विवरणप्रस्थानम्, अपरं तु ब्रह्मविषया, जीवाश्रयेति॥ तत्र प्रथमे पक्षे ब्रह्मण्य विद्ययाSSवरणेनाविद्याकार्यविशेषाणां भानम्, तेन च ब्रह्म सविशेषम्। द्वितीये तु जीवनिष्ठाया आवरणशक्तिमात्रम्, न विक्षेपशक्ति:। न वाडविद्योपादानकारणम्, किन्तु निमित्तकारणमात्रम्। तत्र च ब्रह्मा विद्ययाऽऽवृतमविद्यामज्ञातं च सर्वे प्रकाशयति। अविद्या- वरणवशात् नामरूपात्मना विवर्तते, इति स्वयंप्रकाशमप्यावृतं ब्रह्माविद्यावशा- दप्रकाशम्। अविद्या चास्वप्रकाशा सप्रकाशा च भवति, न तु ब्रह्मनिष्ठं चैतन्यं जोवनिष्ठं भवति, जीवस्यापि ब्रह्मत्वात्, स्वप्रकाशसंविन्मात्रत्वात्, ब्रह्मचैतन्ये चैतन्यवत्त्वाभावात्। ततश्च चैतन्यस्वरूपस्य जीवस्याविद्यावशात बन्धः, अविद्यायाश्च साक्षिणा भानमिति जीवाश्रयत्वेऽप्यज्ञानस्य न बन्घकत्वानुपपत्तिः ॥ शुद्धमेव ब्रह्म प्रस्थानद्वयेऽज्ञानविषय इति हि वस्तुस्थितिः । सति चैवमविद्यासम्बन्धवशात् तत्परिणाममहदहङ्कारतन्मात्राणां ब्रह्मविवर्ततोपपद्यते। ततः पञ्चतन्मात्रेभ्यस्त्रिगुणेभ्यः समासव्यासाभ्यां पश्चप्राणमनोबुद्धिदशेन्द्रियस- मुदायात्मकसूक्ष्मशरीरोत्पत्तिरिति क्रमोऽनुसन्घेयः ॥ यत्तु-मृषावादिमत ईदृश सृष्टिकमो न सङ्गच्छते। भवता हीश्वरो- Sविद्याया विषय, जीवोऽज्ञानाश्रय इति प्रागुक्तम्। मिथ्यावादिना प्रतीयमानत्व- निबन्धना वस्तुस्थितिरास्थेया, न पुनः प्रतीते. प्रागषि वस्तुस्थिति। न हि
Page 136
८० अद्वैततत्त्वशुद्धि
शुक्तिरजतस्थले प्रतिभानात् पूर्व रजतसत्ता, इति तन्न्यायेन महदादीनामपि प्रतीते प्राक् सृष्टयसंभव । यद्धि ब्रह्मणि पूर्वमध्यस्तम्, तत्पूर्वमुत्पन्नम्, यत् पश्चात्, तत्प्वादिति वक्तव्य ईदृशसृष्टिकल्पनं न सभवति। उपनिपद्यय यदि कमो दृश्यत, तहि त्यज्यता मिथ्यावाद। अयमेव न्यायोऽविद्यायामपि; प्रतीते पूर्व तत्सत्ताऽयोगात्। ब्रह्मविवर्तोपादानताऽपि परास्ता, अत्या- साधिष्ठानत्वस्यैव विवर्तोपादानव्वात्-इत्यादिकथनम् ॥ तत्राद्वैतसिद्धान्ताशय एवम्। अद्वैतसिद्धान्ते हि केचन प्रातिभासिकाः प्रतिभाससमकालोत्पत्तिकाः, येषां तद्वासकसाक्षिचतन्यतादात्म्येनैवोत्त्तिः। तत्रामानापादकमज्ञानं नास्ति-यथा शुक्तिरूप्यादय, सुखादयश्च। तत्र शुक्तिरूप्यादिकं प्रमातृचैतन्याश्रिततूलाविद्यापरिणामः। सुखादिकं तु प्रमात्रु- पाध्यन्तःकरणपरिणामः । प्रथमस्य व्यवहारदशायामेव बाघः । द्वितीयस्य तु व्यावहारिकस्याविद्यानाशादेव बाध इति वस्तुस्थितिः। महदहंकार-तन्मान्र- सूक्ष्मशरीरघटकसप्तदशावयवस्थूलभूतततकार्यघटादिकं त्वज्ञातब्रह्मण्यध्यासाद् उत्पद्यमाना एव न भान्ति ; अधिष्ठानस्य स्वयंप्रकाशस्यापि विना प्रमाणजन्य- वृत्ति साक्षिण इवाभानात्। अत एव प्रातिभासिकानां दृष्टिसष्टिः, व्यावहारिकाणां तु सृष्टिदष्टिः, प्रतिकर्मव्यवस्था वेति प्रक्रिया। इमामेव प्रक्रियामाश्रित्य सृष्टिक्रमः । सरवत्र दृष्टिसृष्टिवादे तु न सृष्टिक्रमः । आमोदो हि प्रथमं पक्षमाश्रित्यौपनिषद क्रममाद्रियते। सृष्टावनिर्भरे तु दृष्टिसृष्टिरेव। इयं हि जीवन्मुक्तानामेव दृष्टया, न तु बद्धदष्टया। जीवन्मुक्ता हि प्रतीतमात्रं मिथ्येति सर्व मन्यन्ते शुक्तिरूप्यादिवदेव। न च तैर्व्यवरहर्तुमप्यायतन्ते, इति नात्र विरोधलेशोऽपि। विक्षेपशक्तिमात्रस्य जीव- न्मुक्तेष्वनुवृत्तर्नामरूपात्मनैव सर्वस्य जीवन्मुक्तिदशायां प्रतीतिः, न तु अस्ति, भाति, प्रियमिति रूपत्रयेणापि। अत एव बद्धवत् तदभिमुखी न प्रवृत्तिर्जीवन्मुक्तानाम्।
सृष्टिृष्टिवादे प्रातिभासिकव्यावहारिकव्यवस्थाभेदमूलं तु-मूलाविद्या-
Page 137
शब्दप्रमाणम् ८१
ज्ञानकारणत्वं प्रातिभासिकेष्वौरसर्िकम्, व्यावहारिकेषु तु तदप्रयोजकम्। अत एव नविलक्षणत्वाधिकरणम् ॥
तत्र महत्तत्वं बुद्धितत्त्वम्। ततु न वृत्तिरूपज्ञानमात्रम्, किन्तु तदुपा- दानम्। तत्तु त्रिपु्यन्तर्गतज्ञानोपादानत्वात् उपादानोपादेययोश्चा मेदात् ज्ञान- स्याप्युपलक्षणम्। वृत्त्याश्रयान्तःकरणं महत्तत्वमिति यावत्। अहंकारस्तु तस्यै- वावान्तरविभाग:, यदवच्छिन्नोऽहमिति प्रतीयमानो ज्ञाता नाम, योऽपि त्रिपुटीघटक एव। ज्ञेयं तु जडं तन्मात्रादिकमिति विभागः ।
तत्र सृष्टिक्रमे वृत्त्युपादानान्तःकरणस्य प्राथम्यम्। जन्यज्ञानमन्तः- करणघर्मो वृत्तिरेव, नात्मघर्म इति सूचनम्, तेन च ज्ञानं त्रिपुट्यन्तर्गतमेव साश्रयविषयम्, न तु स्वरूपज्ञानमिति सूच्यते।। अनन्तरमहंकारसृष्टिः, येन ज्ञाता जीवोऽपि नाहमर्थो नित्यः, किन्तु जन्याहंकारोपहितत्वादौपाधिको ज्ञानवदेव जन्य, तस्यैवोपहितस्य ज्ञातृत्वं घर्मः, न तु चिन्मात्रस्येति सूचनम्, बुद्धितत्वसृष्टयनन्तरं तत्सृष्टिः, ज्ञान- ज्ञात्रपेक्षत्वाद् ज्ञेयस्य तस्य तदनन्तरं सृष्टिः, इति महदहंकारतन्मात्राणां त्रयाणां सृष्टिक्रमः ॥
साश्रयविषयं हि ज्ञानम। तत्र ज्ञानं प्रथमम्, अनन्तरं तदाश्रयः, अनन्तरं तद्विषय इति क्रमो हि व्यवहारसिद्धः । ज्ञातुः प्राक् ज्ञानसृष्टौ निमितं तु ज्ञातृत्वं तस्य न स्वाभाविकम्, किन्त्वौपाधिकमिति सूचनम् ॥
तत्राकाशादयो द्विविघाः-सूक्ष्माः, स्थूलाश्। तत्र प्रथमे तन्मात्र- पदेन, अन्त्या आकाशादिपदेन व्यपदिश्यन्ते। तत्र तन्मात्रेम्य आकाशादीना- मुत्पत्तिः, ततः पश्चीकरणमित्यामोदवाक्यार्थस्तु तमोगुणप्रधानतन्मात्रेभ्यः स्थूलभूतानामुत्पत्तिम्, स्थूलभृतानामेव पश्चीकरणसिद्धान्तं च बोधयति, इति न काव्यनुपपतिः । 6
Page 138
८२ अद्वैततत्त्वशुद्धिः
आनन्दमयोऽपि कोश एवेत्यामोदः । तत्कोशतायां तु पंचकोशोष- निषत्, अन्याश्च बहव उपनिषदः प्रमाणम्। आनन्दमयब्रह्मतायां बहूनि दृषणानि परपक्षनिराकृतिसमालोचनेन वेदान्तरक्षामणौ, न्यायरक्षामण्यदिखव व्यक्तानि ॥ 'ब्रह्मविदानोति परम् ' इति प्रस्तुतं ब्रह्म ह्यानन्दमयाधिष्ठानतया 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्र ब्रह्मशब्दसंयोगात् प्रत्यभिज्ञायते, इति पश्चकोश विवेकेन निष्कृष्टनिर्विशेषब्रह्मज्ञानादेव मोक्षः ॥ "ब्रह्मज्ञानं हि साक्षात्कारात्मकम्। ज्ञानागि: सर्वकर्माणि भस्मसात्कुरुतेर्ऽर्जुन।।" इति वचनात् सश्चितागामिकर्मणा प्रारब्धकर्मव्यतिरिक्ताना तेन नाशोऽवगम्यते। न च ज्ञानमात्रेण परमा मुक्ति:, किं त्वप्रामाण्यज्ञानानास्कन्दितपटुतमसंस्कारसहित- भ्रमव्याप्यभुज्यमानादृष्टाभावसह कृतात्मसाक्षात्कारस्यैव मोक्षसाधनत्वम्।। "भोगेन त्वितरे क्षपयित्वा तत' संपद्यते" इत्यत्र भोगपद तु तावत्पर्य- न्तमभ्यस्यमानसाक्षात्कारपरम। इदमेवाभिप्रेत्य-अप्रामाण्यज्ञानानास्कन्दित- पटुतमसंस्कारसहितेत्या दि विशेषितसाक्षात्कारस्यैव मोक्षसाधनत्वमुक्त्तम्।। ब्रह्मसिद्धिरपि-"जीवन्मुक्तानामविद्यासंस्कारनिवृत्तिः स्वतः, तत्त्व- ज्ञानादेव वे"ति विशद्यति जीवन्मुक्तिप्रकरणे, यदवलम्बा न्यायरलावली पूर्वोक्ता ।। एतेन-प्रारब्ध पुनर्भोगैकनाश्यमिति न भवन्मते वत्तुं शक्यम्। तत्त्वज्ञानानन्तरमपि प्रारब्धकर्म चेद् न नश्यति, न तहि तन्मिथ्यात्वम्, कितु सत्यत्वमेवेति व्यक्तमिदं श्रीभाष्य इति-प्रत्युक्तम् ॥ जीवन्मुक्तो हि गुणातीतः पञ्चमः, सप्तभूमिकास्थेषु सशरीरः सन्नपि सप्तमभूमिकायां स्थितो न ततो व्युत्तिष्ठति, इति न कदापि व्यवहरति। षष्ठभूमि- कास्थः कदाचनान्येनोत्थापिताSपि सक्चन्दनादीन पश्यन्नपि ब्रह्मात्मना पश्य-
Page 139
शब्दप्रमाणम् ८३
तीति नामरूपात्मना सर्व पश्यन् बद्ध इव नामिनिवेशेन प्रवर्तते। एवमेव पंचमभूमिकास्थोऽपि स्वयमुत्थितस्तथादर्शनमेवाभ्यस्यन्। व्यक्तं चैतत् भग- वद्गीतायाम्-स्थितप्रज्ञगुणातीतलक्षणवर्णनम्रसङ्ग इति॥ यतु-आमोदेन कार्यात्मना सक्चन्दनादीन् न पश्यतीत्युक्तम्, तदिदं सर्वत्र तस्य ब्रह्मदृष्टयभिप्रायम्। बद्धानां साभिनिवेशा स्वतः प्रवृत्तिः जीवन्मु- कस्य त्वन्येच्छया निरभिनिवेशा प्रवृत्तिरिति तु निष्कर्षः ॥
तत्त्वज्ञानिनो हि जीवन्मुक्तस्य प्रारब्घेतरस्य तत्त्वज्ञाननिवर्त्यत्वाद् मिथ्यात्वम्। अत. शुक्तिरूप्यवद् न सत्वेन भानम् ; बाध्यत्वात्। न चास- त्वेन, प्रत्यक्षतया प्रतीयमानत्वात्। प्रमाणजन्यज्ञानविषयत्वाद्वा शुक्तिरूप्य- ज्ञानमपि प्रमाणजन्यमेव। अत एव स्वतो ग्राह्यं प्रामाण्यं तस्यापीत्युपपादितम्। ततश्च सदसद्विलक्षणत्वादनिर्वचनीयमेव जगत्, इति न जीवन्मुक्तो बद्ध इव सर्वं जगत् सत्त्वेन पश्यति। अतो न तस्य बद्धवत् साभिनिवेशा प्रवृत्तिः॥
यत्तु-सत्त्वासत्त्वयो परस्परविरहरूपत्वेन सत्वाभावेऽसत्वस्य, असत्वाभावे सत्वस्य चावश्यकत्वेन तस्य सदसद्रपत्वस्यैवावगमात् कथं सदसद्विलक्षणत्वम्2 त्रैकालिकसत्वासत्वनिर्बन्धेन हि कदाचित् सत्यम्, कदाचिदसत्यमित्येव सिद्धयति, तच् न सत्यत्वविरोधि, इति कथ शुक्तिरूप्यस्य, तद्दृष्टान्तेन जगतश्चानिर्वचनीयत्वम्-इति, तत्र सत् कालविशेषावच्छिन्नवाघायोग्यम्, असतु तुच्छं विवक्ष्यते, न तु कदाचित्सत्त्वम्, कदचिदसत्त्वं च। नचेद मुभयं शुक्तिरूप्यजगतोः समस्ति । अतो नानिर्वचनीयमात्रस्य हानि:॥ एतेन-सत्त्वासत्वयो परस्परविरहत्वमषि-निरस्तम्॥ अत्र तादशसत्त्वस्यापि लक्षणात्। अद्वैतसिद्धयादौ त्वन्यथोक्तशङ्का परिहता। अथवा-सत्त्वं ज्ञाननिवर्त्यत्वम्, असत्त्वं तुच्छत्वमत्र विवक्ष्यते। न ज्ञानानिवर्त्यत्वाभावोऽसत्त्वम्, तदभावः सत्त्वमिति सत्वासत्वयोः परस्पर-
Page 140
८४ अद्वैततत्त्वशुद्धिः
विरहरूपत्वं युक्तम्, तुच्छे ज्ञाननिवर्त्येत्वस्याभावात्। ज्ञाननिवर्त्यत्वं हि ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियो गित्वमिति बहु पराक्रान्तमद्वैत सिद्धयादौ।। यतु-शुक्तिरप्यं हि प्रत्यक्षमवभासते। प्रत्यक्षत्वं च तस्येन्द्रियसन्नि- कर्ष एव भवति। स च रजतोतत्त्यन्तरमेव। रजतोत्पत्तिस्तु रजतसस्कारो- द्वोधेनेति वक्तव्यम्, न चैवसुच्यते-इति, तत्रेयं रजतोत्पत्तिप्क्रियाऽनुसन्धेया। शुक्तिज्ञाने, सादृश्यज्ञानसमु- द्वोधितव्यावहारिकरजतसस्कारोद्वोधे च सति प्रमातृचैतन्याभिन्नशुक्त्यवच्छिन्न- चैतन्यनिष्ठा तूलाविद्या रनताकारण, तदाकारवृत्याकारेण च परिणमते। तच्व रजत प्रमातृचेतन्याभिन्नशुक्त्यवच्छिन्नचतन्येनेव प्रमातृचैतन्येनाप्यमिन्नमिति साक्षिमास्यत्वात् प्रत्यक्षमिति, न तु व्यावहारिकरजतवदिन्द्रियसन्निकर्षजन्य- ज्ञानविषयत्वेन प्रत्यक्षम्। अतो नोक्तायाः शङ्काया अवसरः । वक्तव्यं चात्र सर्व पूर्वमेवोक्त्तम् ।। कार्यकारणभावस्य कार्यकारणसत्त्वानियतत्वस्य खण्डनोक्त्यनुसोरण पूर्व- मुपपादनाद् असत्यस्यापि शास्त्रस्य तत्त्वज्ञानजनक्त्वं न विरुद्धम् ।। तत्र शास्त्रस्य तत्त्वज्ञानजनकत्वमज्ञाननिवर्तकत्वमित्यामोदो हि- "अविध्यानिवृत्तिपरत्वाच्छास्त्रस्येति" भगवत्पादभाष्यमर्थतोऽनुवदति। तदा- शयस्तु-आकांक्षायोग्यलातात्पर्यज्ञानादिसहकृतानि वेदान्तवाक्यानि ब्रह्माकार- वृत्तिमात्रेण तदाश्रयविषयकाज्ञाननिवृत्त्या फलव्याप्तिपर्यन्तं न व्याप्रियन्ते- विषयान्तरेष्विव सर्वाण्यपराणि च प्रमाणानीति। शास्त्रमखण्डाकारवृत्तिद्वाराजज्ञान- निवर्तकमिति तु निष्कर्षः ॥ परमार्थप्रकाशिका तु-ज्ञानस्याज्ञाननिवर्तकत्वात् कथं शास्त्रमज्ञान- निवर्तकमिति पृच्छति-साक्षात् ज्ञानस्याज्ञाननिवर्तकत्वे विना प्रयासं सर्बेपा बन्धो निवर्तिष्यते। ज्ञानभिन्ननिवर्त्यत्वे चाज्ञानादीनां ज्ञानानिवर्त्यत्वेन तन्मिथ्यात्वासिद्धिरिति च तद्वाक्यमपथेनैव दूषयति॥
Page 141
शब्दप्रमाणम् ८५
ज्ञातमपि तदभिप्रायमज्ञातमिव मत्वा, अज्ञातमेव वा मत्वा। ज्ञानस्यैवा- ज्ञाननिवर्तकत्वविवक्षायामपि किं विना प्रयासं बन्धो निवर्तिष्यते 2 आस्तामिय- मपथगामिनी कथा॥ "सिद्धं तु निवरतकत्वादि" त्यस्य विवरणं शास्त्रस्य निवर्तकत्वात् प्रामा्यं सिद्धमित्यपि दृश्यते। तत्र या गतिः, सैवात्रापि। शास्त्रमपि प्रमाणमिति ज्ञानद्वाराऽज्ञाननिवर्तकमिति तु निष्कर्ष: ॥ तच्चावगतिपर्यन्तं ज्ञानमेव, न तु ज्ञानमात्रम्। "अथातो ब्रह्मजिज्ञासे"ति सूत्रेऽवगतिपर्यन्तस्य ज्ञानस्यैवेष्यमाणत्वसूत्रणात्। तच्च निर्विचिकित्सम- परोक्षज्ञानमेव ॥ तत्ाथशब्दार्थ: -साघनचतुष्टयसंपत्त्यानन्तर्यमिति भगवत्पादीय- सिद्धान्तः । कर्मविचारानन्तर्यमेव स इति श्रीभाष्यसिद्धान्तः। तत्र साधन- चतुष्टयस्य साक्षात्कारपर्यवसायिश्रवणोपयोगित्वम्, न तु श्रवणमात्रोपयोगि- त्वम, साक्षात्कारमात्रोपयोगित्वं वा। अत एवा "वगतिपर्यन्त च ज्ञानं सन्- वाच्याया इच्छायाः कर्मे"ति भाष्यम्। तेन चात्र अ्रवणाधिकारिनिरूपणमिति व्यवस्थायाः "तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽडत्मन्ये- वात्मानं पश्येत्"इत्याम्नानस्य च न विरोघः। श्रीमाष्यमतेऽपि श्रवणमननादि-
तत्र साधनचतुष्टयं श्रवणादिकालेSविद्यमानं चित्तैकाय्यादिसंपादनद्वारा-
तत्र साघनचतुष्टये-प्रथमं नित्यानित्यवस्तुविवेकः, अनन्तरमिहा- मुत्रार्थफलभोगविरागः, ततश्शमदमादिः, अनन्तरं मुमुक्षेति क्रमे न निर्भरः, युगपद्विपरीतरूपेण वाडक्रमेण वा साघनचतुष्टयापेक्षायामेव निर्भरः। तव्वेह जन्मनि पयत्नसाध्यमिति तु न नियमः । फलावस्थं साघनचतुष्टयमेवाधिकारि- विशेषणम्। तत्र कर्मापि चित्तशुद्धयादिद्वारोपयोगीति तु, सत्यम्, परं तु तत्साघ-
Page 142
८६ अद्वैततत्त्वशुद्धिः
नावस्थमेव फलाय कल्पते। तत्फलं तु न फलावस्थ शमदमादिकमिव चित्तै- काड यादिद्वारा साक्षात्कारोपयोगि, किंतु साधनावस्थं प्रत्यवायपरिहारद्वारा। चित्ताशुद्धिप्रतिबन्धे प्रतिबन्धकाभावविधया कर्मविचारस्योपयोगः। जन्मान्तर- एवानुष्ठितकर्मणा सर्वप्रतिबन्धनिवृत्तौ तीव्रायां तु साधनचतुष्टयसंपत्तौ सिद्धायां ब्रह्मचर्यादेव विविदिषासन्यासमाश्निताना न यज्ञादिकर्मापेक्षा, इति साधना- वस्थम पि न नियमेनोपकरात्यवगतिपर्यन्ते ब्रह्मज्ञाने। अतीतावस्थं तु कर्म नाधिकारिविशेषणम्, किन्तु वर्तमानावस्थम्, सुतरा तु कर्मविचारस्तथा। न हि श्रीमाष्यमतेऽपि आप्रायणं कर्मेव दर्शनसमानाकारघुवानुस्मृतिरूपवेदनं कर्मविचारश्वोमयं समकालमेवानुष्ठेयम्, वेदनकर्मसमुच्चयवद् वेदनकर्मविचारो- भयकर्तव्यतायां प्रमाणाभावात, प्रत्युत विरोधात, न वा कर्मनिचारव्रह्मविचारो- भयकर्तव्यतायाम् ; असंभवात्।।
न हि शमदमादिकं कर्मविचारवटतीतमधिकारिविशेषणम्, किन्तु वर्तमानम्। अतीतः कर्मविचारः खलु ब्रह्मजिज्ञासायामपेक्ष्यत इति विशिष्टाद्वैतम्। न च सोऽधिकारिविशेषणतामहति। अतः कर्मविचारानन्तर्य नाथशब्दार्थः॥
न हि यद्यत् ब्रह्मजिज्ञासायां वर्तमानमतीत भावि वाऽपेक्ष्यते, सर्व- मधिकारिविशेषणं भवति। तत्र नित्यानित्यविवेकेन निष्पन्ने वैराग्ये, तदधीनायां निष्पन्नायां शमादिसंपत्तौ, ततो मुमुक्षायां च पूर्वपूर्वरूपापायेऽपि मुमुक्षामात्रं नाधिकारप्रयोजकम्, किन्तु सर्व समुदितमेवानुवर्तमानम्। अत एव साधनचतुष्टयसंपत्तयानन्तर्यमथशब्दार्थ, न तु मुसुक्षामात्रम्। सति चैवमतीतो ब्रह्मजिज्ञासासमये, अननुवर्तमानश्च कथ कर्म विचारोऽधिकारिविशेषणतामर्हति? कथं नोपकुवन्नपि परम्परया।।
न हि नित्यानित्यवस्तुविवेकादि कमुत्तरोत्तरो प कार क्राम प्यतीताव स्म घि - कारिविशेषणम्, किन्तु सदेव समुदितम्। न च तथैव कर्मविचारोप्यधिकारि-
Page 143
शब्दप्रमाणम् ८७
विशेषणमिति मन्यते भवता, अन्यथा वेदाध्ययनम्, उपनयनम्, अन्यच्च पूर्वपूर्वम प्यधिका रिविशेषणमापद्येत।। सति चैवम्-मुमुक्षापर्यन्तदशा न फलेतिकर्तव्यतादिपरिपाक- सहितकर्मविचारं विना भविष्यतीति घरमार्थप्रकाशिकाऽपि-व्याख्याता॥ को वा प्रतिपद्यते-कर्मणः, तद्विचारस्य वा नोपयोगलेशोऽपीति 2 किन्तु तस्य ब्रह्मजिज्ञासाधिकारिविशेषणत्वं न युक्तमित्येव।। तत्र कर्म, सत्यम्, अनुष्ठानद्वारा चित्तशुद्धिसंपादनेनोपकरिष्यति कथञ्चन परम्परयाप्यवगतिपर्यन्तस्य ज्ञानस्य, तावतापि चित्तशुद्धिरेवानुवतमानाऽघिकारि- विशेषणतामर्हति, नतुकर्म, न तरां च तदुपयोगी कर्मविचारः । स हि सत्यं कर्मानुष्ठानोपयोग्यर्थज्ञानद्वारा कर्माधिकार उपकरिष्यति, न तु कथमपि ब्रह्मावगतौ साक्षात्काररूपायाम्, ध्रुवानुस्मृतिरूपायां वा ॥ तत्रोपासनायामुपास्यस्वरूपज्ञानमेवाधिकारिविशेषणम्, तच्च ब्रह्ममीमां- सामात्राधीनम्, न तु कर्मस्वरूपज्ञानमिव कर्मविचाराधीनम्। ब्रह्मावगतौ विशिष्टाद्वैताभिमतायामपि कथ कर्मस्वरूपविचार उपयुज्यते 2 कर्मफलानित्यत्व- निर्णयस्तु धर्म जिज्ञासायां कुत्र वाडध्याये, पादे, अधिकरणे वा वर्तत इति परमार्थ- प्रकाशिकैव प्रकाशयतु तत्त्वम् ॥। एतेन-न च विशिष्य कर्मतत्फलानित्यत्वज्ञानाभावे तत कश्चित् विरज्येदिनि-परास्तम्॥ सत्यम्, नित्यानित्यवस्तुविवेकादयो मीमांसामन्तरेण न संभवन्ति। विविच्यतां का वा मीमांसाऽत्र मीमांसापदार्थ: १ कि कर्ममीमांसा, उत ब्रह्ममीमां- सेति। मीमांसैक्यमभिप्रेत्य मीमांसापदेन कर्ममीमांसाऽपि यद्यर्थ., तर्हि कर्ममीमांसाधिकारिविशेषणमपि कर्मस्वरूपतत्फलानित्यत्वशमदमादिसंपत्तिरघि कारिविशेषणं स्यात् वैदाध्ययनमिव, तथा वेदाध्ययनमपि ब्रह्मजिज्ञासायामघि- कारिविशेषणं स्यात्, मीमांसाद्वयस्यैक्यात् ।।
Page 144
८८ अद्वैततत्त्वशुद्धि:
के वांशा उत्तरमीमांसागताः पूर्वमीमांसयैवावगम्यन्ते१ यदि श्रुति- लिङ्गादयः, तर्हि पूर्वमीमांसागतास्तेऽन्ये, उत्तरमीमांसागताश्रान्ये। शब्दमात्र- साम्यं त्वकिञ्चित्करमिति व्यक्तमन्यत्र।
शब्दमात्रसाम्येन तदपेक्षा तु न संभवति ; जैमिनिसूत्रार्थमपेक्ष्यैव न तदुरुचरणबादरायणस्य ब्रह्ममीमांसाप्रणयनम्, पूर्वमीमांसान्यायातिदेशो वोत्तरमीमासायाम्, किंतु स्वतन्त्रमेव बादरायणस्य तस्यैव न्यायस्योपपादन- मिति न कथम् 2
"परीक्ष्य लोकानि"ति न पूर्वमीमांसापेक्षं लोकपरीक्षणमत्र विवक्ष्यते, किन्तु पूर्वमीमांसानपेक्षप्रत्यक्षानुमानद्वारेत्यन्यत्र व्यक्तम्।।
एतेन-व्याख्येयक्रमानुसरणमपि-व्याख्यातम्। तत्रेदं परमार्थप्रकाशिका विविनक्त-किं पूर्वमीमांसायामपि व्याख्येय- तत्तन्मन्त्रपाठकममनुसृत्यैव मीमांसा प्रवृत्ता-किं ब्रह्मकाण्डे, उपनिषद्धागे, कर्मविचार एव नास्ति 2 किं न बृददारण्यकान्ते व्रतविशेषाद्युपदेशः 2 तैत्तरीयके वाऽडवहन्तीहोमादयो न हश्यन्ते 2 तथा ऋग्वेदे कर्मकाण्डे वाडव्यात्मिकपरतया सायणाचार्यैरन्यैश्र बहवो मन्त्रा व्याख्यायमाना न प्रत्यक्षा:2 किं शिक्षाव्या- करणादीनां वेदाङ्गानां क्रमेण प्रणयन तत्तत्प्रवर्तकानाम् 2 कि कल्पसूत्राणि वैंदिकवाक्यक्रममपेक्ष्यैव प्रयोगं विद्धति संगृह्नन्ति च 2 फलभेदात्, चोदना- प्रवृत्तिभेदात्, अधिकारिभेदात्, प्रमाणभेदाच्च, कर्मब्रह्मजिज्ञासायाः को या क्रमस्तत्र। न च कर्मविचारानन्तरमेव क्रियमाणो विनापि वैराग्यादिकं ब्रह्म- विचारः फलाय कल्पते। यदि यदा कदाचन कृतः कर्मविचारो ब्रह्मविचारं परम्परयोपकरिष्यति, तर्हि विविच्यताम्-कियान् विलम्चस्तत्र सोढव्य इति? यदि नात्र किमपि विनियामकम्, जन्मान्तरीय: कर्मविचारोऽपि कथ नाधि- कारिविशेषणम् 2
Page 145
शब्दप्रमाणम्
वस्तुतस्तु-कर्ममीमांसा, ब्रह्ममीमांसा च न वैधी, किन्तु रागप्राप्तेति खलु भवतः सिद्धान्तः । तत्र यस्य कर्मविचारे न रागतः प्रवृत्तिः, किन्तु ब्रह्मविचार एव, तस्य कर्मविचारानन्तरं ब्रह्मविचारः कथम् ? अत एव-
साधनं प्रभवेत् पुंसां वैराग्यादिचतुष्टयम्। नित्यानित्यविवेकश्र इहामुत्रविरागता। शमादिब्रह्मसंपत्तिर्मुमुक्षायां समभ्यसेत्।।
इति वागहोपनिषत्। यथा विनैव कर्मविचारं हितकारिवचनात् संपन्नमुमुक्षो भविष्यति, तथा प्रत्यक्षादिना परीक्षणेन संपन्नवैराग्य। ब्रह्मापरोक्ष्यज्ञानं तुन श्रवणादिकं विना भवितुमर्हति। न हि साघनं विना फलसिद्धिः कुत्रापि। कर्मविचारस्तु न वैराग्यादिसाधनम्, किन्तु कर्मानुष्ठानोपयोगितदर्थज्ञानस्यैवेति तु विशेष: ।। यत्तु-कर्भफलमक्षय्यमिति शङ्कापरिहाराय कर्मविचारोऽपेक्षित। एवं नित्यानित्यवस्तुविवेकोषि कमकाण्डविरुद्धत्वशङ्कया स्वयमप्रतिष्ठित एव भवति। अत कर्मविचार एवाभ्यहिंत उपाय, तत्रापि जैमिनीयकर्म- विभागमेव पौन.पुन्येन स्वाभिमतार्थोपयोगितयोत्तरमीमांसायामाकलनात् तदपेक्षा सुदृढमवधार्यते-इति।। तदिदम्-जैमिनीय कर्म विचारे कर्मफलाक्षय्यत्वशक्कापरिहारस्य कुत्राप्य- भावात्, तत एव कर्मकाण्डविरुद्धत्वं नित्यानित्यवस्तुविवेकस्येति शङ्कायाः कर्म- विचारेणापरिहारात, प्रत्यक्षानुमानादिनैव नित्यानित्यवस्तु विवेकस्य साधनचतुष्टया- न्तर्गतस्य सुप्रतिष्ठितत्वावधारणेन तन्र जैमिनीयकर्मविचारस्याभ्यर्हितोपायत्वा- संभवात्, देवतानां ब्रह्मविचाराघिकारे जैमिनीयकर्मविचारस्यानपेक्षितत्वात्, तत्र तन्न्यायविशेषाणां पूर्वोत्तरमीमांसासाधारणानां जैमिनीयविचारमनपेक्ष्यैव पौनःपुन्येन भगवता बादरायणेनाकलनसंभवात्, स्वशिष्यकृतमीमांसासाहाय्येनैव गुरुचरणानां स्वीयमीमांसाप्रवर्तनकथाया अनौचित्यपराइतत्वात, कर्म-
Page 146
९० अद्वततत्त्वशुद्धि:
विचारब्रह्म विचारयोरेकका लिकत्वस्य साघनचतुष्टयब्रह्ममीमांसयो रिवासंभवाच्च-न क्षोदक्षमम् । कर्म काण्डविचार: कर्मकाण्डार्थविचार: कर्मानुष्ठानोपयोगी, इति तदन- न्तरमेव कर्मानुष्ठानसंभवः, इति कथञ्चन कर्मब्रह्मविचारयोरेककालत्वेऽपि कर्म- विचारब्रह्मविचारयोः समकालिकत्वं बाधितमेव ॥ न चायं विरोध: शमदमादीनामधिकारिविशेषणत्वे, इति शमदमादिकं मीमांसासमका लिकमन्तरङ्गं. साधनम्, कर्मविचारम्तु बहिरङ्गं साधनम्, तत्रापि ब्रह्ममीमांसाया श्रवणरूपायामन्तरङ्गतममिति तु निष्कर्षः। अनेन कर्मविचारस्य परम्परयोपकारकत्वमेव फलति, न तु साधनत्वम्, अङ्गत्वं वा संनिपत्योपकारकत्वेन, आरादुपकारकत्वेन वा; अन्यथा कर्मानुष्ठानब्रह्ममीमांस- योरिव सहमावेन, समुच्चयविधया वा कथञ्चनोपयोग उपनयनादेरपि समानः, विशिष्य च वेदाध्ययनब्रह्मविचारयोरपि। साधनचतुष्टयघटकमुमुक्षा प्रत्यगभिन्नस्वरूपप्राप्तीच्छैव, न तु ब्रह्मलोक- प्राप्तीच्छा। ब्रह्मलोकान्तविरागो हि प्रकृते तदन्तर्गतो विरागो नाम। एवमपि सगुणब्रह्मतदुपासनतदुपकरणादेश्चतुरध्याय्यां विचारस्तु सगुणोपासनमपि श्रवणादीनीव ब्रह्मविद्यायामन्तरङ्गं साघनमिति सूचयितुम्। विस्तृतं चैतत् न्यायरलावलीब्रह्म विद्याभरणादौ।। न हि भगवत्पादाः सगुणब्रह्मविचारं वारयन्ति, किन्तु देवतामीमांसया व्यवस्थापितसगुणब्रह्मोपासन एव वेदान्तानां तात्पर्यम्, नान्यत् वेदान्तप्रति- पादं तत्त्वमस्ति ततोऽपि परमिति अ्रमवारणार्थ श्रवणादीव सगुणोपासनमपि ब्रह्मविद्याङ्गमिति खलु भगवत्पादानां राद्धान्तः । अत एव भगवद्गीताया भक्ति- योगोऽपि यथावदेव व्याख्यातः । अत एव कल्पतर्वादि :- 'वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम्।'
Page 147
शब्दप्रमाणम् ९१
"ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।" इति। भगवत्पादा अपि-"ब्रह्म च नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसम- न्वित चे"ति द्विविधमपि ब्रह्म जिज्ञास्यं प्रतिजानन्ति, विवेचयन्ति च तथैवा- न्तस्तद्धर्माधि करणोपोद्धाते-"द्विरूपं हि ब्रह्मावगम्यते"- इत्यादिना ॥ यत्त-न खल श्रीशङ्कराचार्यादिभिरषि निर्गुणब्रह्मप्रतिपादकतया, वेदान्तानां सगुणब्रह्मपरत्बशङ्कोपक्षेपपूर्वकं निर्गुणब्रह्मपरत्वस्थापनपरतया वा सूत्राण्ययोज्यन्त-इति, तदिदम्-"न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि" इत्यधिकरणे वेदान्तानां निर्गुणब्रह्मण्येव पर्मं तात्पर्यम्, न तु सगुण एवेति व्यवस्थापनाद् न विचारसहम्। सर्वथा तु यावन्निर्गुणब्रह्मसाक्षात्कारं विचारदशायां सगुणो- पासनस्यापेक्षायामपि, कर्मानुष्ठाननैयत्येऽपि च कर्मविचारस्यानपेक्षितत्वात्, अनु- ष्ठीयमानस्यापि कर्मणो ब्रह्मविचारेण फले जननीयेऽनुपयोगित्वात, ज्ञानेन फले जननीये न कर्मविचारापेक्षा। विस्तृतं चैतद्भामत्याम्-"धर्म जिज्ञासायाः प्रागप्यघीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः" इति भाष्यविवरणावसरे॥ कर्मब्रह्मविचारयोः क्रमे श्वत्यर्थपाठस्थानमुख्यप्रवृत्तिषु क्रम निर्णायकं किमपि नास्तीति भगवत्पादैरेव व्यक्तीकृतम्। नित्यानित्यवस्तुविवेकादिपदार्थविवेकस्तु भामत्यामन्यत्र च विशदः । तदिदं सिद्ध साधनचतुष्टयसंपन्नस्यैव श्रवणे, मनने, निदिध्यासने चाघिकारः। तथैव चाम्नायते-"शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाSS- त्मन्येवात्मानं पश्येत्।" "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः " इत्यादि ॥ तत्र विद्याङगत्वं शमदमादीनां प्रथमवाक्ये निर्दिष्टम्। द्वितीयवाक्ये श्रवणादीनां दिख्जात्रमुपदिष्टम्। तत्र शमदमादीनां श्रवणाद्यघिकारद्वारा विद्याङ्ग- त्वम्, श्रवणादीनां तु साक्षात्तदङगत्वम्। अत एव शमदमादि विद्याया
Page 148
९२ अद्वैततत्त्वशुद्धि:
अन्तरङ्गमङ्गम्। श्रवणादिकं त्वन्तरङ्गतरमिति पूर्वमुक्तम्। कर्मविचारस्य साक्षा- द्विद्याङ़गत्वबोधकं नैकमपि वाक्यं वर्तते। "तमेतं वेदानुवचनेन ब्राह्मणा विवि- दिषन्ती"ति अ्रतिस्तु वेदनप्रतिबन्धकचित्ताशुद्धिविषयानुरागादिनिरसनद्वारा कर्मणाम्, कर्मविचारस्य च कर्मानुष्ठानद्वारा विद्याङ्गत्वं श्रावयति, इति कर्म श्रवणादिकम्, विद्यां प्रति वा बहिरङ्गमङ्गम। कर्मविचारस्तु बहिरङ्गतरमङ्गमिति वस्तुस्थिति:॥ तन्र वेदान्तार्थस्य न्यायतो निरूपणं श्रवणम्, तेन चासंभावना निवर्तते। वेदान्तवाक्यानि न जीवप्रधानादिपराण्येव, सगुणब्रह्मपराण्येव वेति संशयनिवृत्तिद्वारा तेन च मननाङ्गसहकृतेन परोक्षमेव ज्ञानमुपजायते, नापरोक्षम्, विपरीतभावनादीनां भेदवासनानां सत्त्वात्। यस्य तु तत्त्वमसी- त्यादिमहावाक्यश्रवणमात्रेण तन्नान्तरीयापरोक्षसाक्षात्कारानुवृत्तिः, तस्य तु श्रवण- मात्रेणाप्यपरोक्षसाक्षात्कारः। जन्मान्तरीयापरोक्षसाक्षात्कारस्य प्रारब्घकर्मणा प्रतिबन्धात्, तच्छेषस्य जन्मान्तरेऽप्यनुवृत्त्या तं प्रति सत्संस्कारोद्वोघनमात्रे श्रवणस्य व्यापारः, शरीरान्तरग्रहणेन साक्षात्कारस्य प्रमोषात्। न्यायानुसन्धान- द्वारा वेदान्तश्रवणमात्रं तस्य कार्यकारि, तं प्रति तुमननादिकं वितथमिति भगवत्पादा विवेचयन्त्युपनिषद्माष्यादौ। न च श्रवणेपि, वस्तुतत्त्वे विपरीत- भावनादिना वस्तुतत्त्वासिद्धौ वेदान्ताप्रामाण्ये पर्यवसानम्, प्रमाणस्यैव सतो वेदान्तस्यैवमर्थो वा, अर्थान्तरं वा, अस्मिन्नर्थ प्रामाण्यं वा, अर्थान्तरे वेति संशयनिराकरणार्थ खलु मीमांसा; अन्यथा धर्ममीमांसापि निरर्थिका स्यात्, परमतेऽपि मननादिविधानम्, तदनुवादो वा वेदान्तानां प्रामाण्ये पर्यवसानं कथं न साघयति 2 ऐतेन-वेदान्ताभिहितार्थस्य संशयितत्वात् श्रवणस्य निर्णयरूपत्वोक्ति, तेन संशयनिवृत्त्युक्तिश्र विरुध्यत इति-परास्तम्, सत्यं वस्तुतच्वावरोधेन वेदस्यान्योर्ऽर्थो न भवति, अथाप्यसंभावनादि- दोषवशात् परपुरुषस्य तथाऽध्यवसानं त्वनुभवसिद्धम्। एवं मत्वैव हि
Page 149
शब्दप्रमाणम् ९३
निर्विशेषात्मतत्त्वेऽन्यथावुद्धिः परेषां सर्वत्राप्यद्वैततत्त्वोपयोगिनीषु प्रक्रियासु वेदान्तबोधितास्वपि। न हि गुरुमुखाच्छ्रवणमात्रेण सत्य एवार्थो बुद्धयते, नासत्य इति नियमः। इन्द्रविरोचनोपाख्यानं ह्यत्र प्रत्यक्षं निदर्शनं वेदान्तेष्वेव। लोके च बहुतराणि दर्शनान्यात्मतत्त्वविषये-एवम्, अनेवमित्यनेकप्रकाराणां दर्शनेन॥ सति चैवं श्रवणेनासंभावनायाम्, मननेन विपरीतभावनायां च निवृत्तायाम्, ध्यानेन निर्विचिकित्सापरोक्षज्ञाने जाते, तदभ्यासातिशयपरिपाक- सहकृतं श्रवणमेवाज्ञान निर्वत कम परोक्षज्ञानं जनयति श्रवणमङ्गीति पक्षे। निदिध्या- सनमेवाङ्गीति पक्षे तु-श्रवणमननजन्याप्रामाण्यज्ञानानास्कन्दितभावनाप्रचयसह- कृतमन्तःकरणमेवाज्ञाननिर्वत कमपरोक्षाका रवृत्तिज्ञानमुपजनयति। तथाच ध्यानेन संशयनिवृत्तिरित्यनेन भावनाप्रचयसहककृतान्तःकरणवृत्तिरज्ञानं निवर्तयतीति विवक्षितम् ॥ यत्तु-ध्यानातिरिक्ताया वृत्तेरसंभवात् किमर्थं वृत्तिज्ञानमिति शङ्का नावसरति-इति, को वा विप्रतिपद्यते-उक्तरूपवृत्तिपर्यन्तमज्ञानम्, भ्रमो वा नानुवर्तते, तन्निबन्धनाश्च सर्वे व्यवहाराः। जीवन्मुक्तानामप्यज्ञानं संस्कारात्मनाऽनुर्तत इति
वृत्युत्पत्तिपर्थन्तमज्ञानम्, तन्निबन्धनाश्रानुवर्तन्ते सर्वे व्यवहारा इति। इमानेवा- धिकृत्य भगवत्पादानां भाष्यम्-"पश्वादिभिश्चाविशेषादि"ति-"अतः गश्ादिभि: समानः प्रमाणप्मेयव्यवहारो विदुषामपी"ति॥ अत्र "ध्यानेन भ्रमनिवृत्तिरि"त्यनेन नान्येन ध्यानजनितापरोक्षसाक्षा- र्कारेण अ्रमस्य बाधोऽध्यवसितः, न त्वन्यत्रेव क्षणिकत्वेनाननुवृत्तिमात्रम्। यथाच जीवन्मुक्तानां निवृत्तेऽप्यज्ञाने विक्षेपशक्तिमात्रानुवृत्त्याऽ्ज्ञानलेशस्यैवा- ज्ञानावरणविशेषस्यानुवृत्त्या वा लोकव्यवहारोडविरुद्धः, तथा पूर्वमेवोपपादितम्
Page 150
९४ अद्वैततत्त्वशुद्धि
अत एव "मिद्यते हृदयग्रन्थि." इति सविकारान्तःकरणनिवृत्तिर्विदेहमुक्तानां प्रतिपादते। तत्र जीवन्मुक्तानां प्रारब्धकर्माख्याविद्यावस्था विशेषस्यानुवृत्तिः, अन्येषां तु साविदयानां न तथा शुक्तिरूप्यादिस्थल इव। अज्ञाननिवृत्त्या तदुपादानक- भ्रमतद्विषयोभयनिवृत्तिरिति सर्वत्र समानम्। जीवन्मुक्त तु सोपादेयाविद्या- वस्थाविशेष एवानुवर्तते, अन्तिमेन तु साक्षात्कारेण सोपादानभ्रमनिवृत्तिरिति ब्रह्मसिद्धयादौ व्यक्तम्। अतो ध्यानेनाज्ञाननिवृत्तिरित्यादि सर्वसुपपन्नम्। तत्र ब्रह्मैवाविद्यया ससरति, विद्यया मुच्यत इत्यस्ति प्रस्थानमद्वैतमते। तत्र ब्रह्मेवाविद्याप्यनादिः। तत्राविद्यावस्थाया स्वरूपाज्ञानेन तस्यैव दु.खतत्परि- हारार्थप्रयासादिकम्। न हि ब्रह्मवाविद्याया. कल्पकमिति। तत्र-यथा कर्णस्य कौन्तेयत्वाज्ञानेन स्वीयेन राधेयवदेव व्यवहारः, कौन्तेयत्वज्ञाने जातेऽपि तत्रा- प्रामाण्यज्ञानानास्कन्दितज्ञानाभावात् पुनरपि कौन्तेयवदेव न व्यवहारः, अन्ते तु पितामहादिवत, पार्थवच्च ज्ञातेऽपि तत्त्वे युद्धे प्रवृत्तस्य स्वनियमपालनं प्रारब्ध- कर्मवशम्, न परित्याग:, एवमेव स्वाविद्यावशात् संसरद् ब्रह्माज्ञानदशायां व्यवहरति, अविद्यायां निवृत्तायां स्वात्मनैवावतिष्ठते॥ तत्राविधयानानात्वपक्ष एव, न तदेकत्वपक्ष इति नैकमुक्तौ सर्वमुक्त्या- द्यापतिः, अविद्याप्रतिबिम्बपक्षादस्य पक्षस्य फलतो न विशेषः। अविद्योपहितो जोव इति पक्ष एवायम्। सति चैवमज्ञानानुपहितब्रह्ममावो मोक्षः, तदुप- हितं ब्रह्म जीव इति तत्त्वम्।। तत्र जगत्कारणत्वम, शास्त्रयोनित्वादिकं चाविद्यानुपहितरूपेण, न तत् संसरदवस्थं शास्त्रस्य कल्पकम्, न वा स्वस्यैव स्वदुःखार्थ प्रयत्नः, तेन रूपेण जीवानां सतां भेदात्, तद्दशाया न शास्त्रोपदेशगुरुशिष्यभावाद्ययोग:, न वा धर्माघर्मतदुपायतदादरणा दिपद्धतिभेदविरोध:, यथा कर्णस्य कौन्सेयत्व- ज्ञानदशायां राघेयत्वप्रयुक्ता: सर्वे व्यवहाराः, इति सर्वमनवद्यम्। व्याधकुल-
Page 151
शब्दप्रमाणम् ९५
संवर्धितराजकुमारं प्रसिद्धं परित्यज्य कर्णोदाहरणं तु-ज्ञातेऽपि तत्त्वज्ञाने निर्विचिकित्से, जीवन्मुक्तानां जीवदवस्थावदेव व्यवहारः प्रमाणारूढ इति ज्ञाप- यितुम् ॥
तत्र जीवन्मुक्तशब्दव्यवहारो निबन्धग्रन्थेषु दृश्यते। स च प्रामाणिक इत्यत्र न विप्रतिपत्तिरिति परमार्थप्रकाशिकाऽषि न विप्रतिषद्यते। तत्राद्वताभिमतं जीवन्मुक्तस्वरूपमेव तस्या विप्रतिपन्नम्। कारणं च तत्राद्वैत- मते तद् दुरुपपादमिति। तत्र विशिष्टाद्वैताभिमंत जीमन्मुक्तत्वम"मृतत्वं चानुपोष्ये"ति सूत्रसिद्धमिति परमार्थप्रकाशिका वदति। तदिदं तत्सूत्रगत श्रीमाष्यम्-विदुषोऽप्यु- त्क्रान्तिः समाना, अमृतत्व त्वनुपोष्य शमादिसंबन्धेन दग्घोत्तरपूर्वाघयोरविश्रेष- रूपममृतत्वमिति। तथाच विदुषोऽप्यमृतत्वं जीवन्मुक्तस्य सशरीरस्यैवोत्तर- पूर्वाघाविक्रेषरूपं यदि ब्रह्मानुभवबलात् स्वीक्रियते, तर्हि अद्वैतमतेऽपि कथ न जीवन्मुक्तत्वं संभवति 2 कथं च ब्रह्मानुभवेऽपि पुण्यपापाविश्रेषः १ यदि ब्रह्मानु- भवबलात्, तर्ह्यद्वैतमतेऽपि ब्रह्मानुभवबलाद् जीवतोऽपि मुक्ति: कथं वार्यते ? शरीरेन्द्रियरूपबन्धमुक्तिर द्वैतमतेऽपि संभवति। को वा ब्रूते जोवन्मुक्तस्य शरीरादिसंबन्धो नास्तीति 2 विद्यमानमपि शरीरादिकमविद्याया विक्षेपशक्ति- मात्रत्वान्न तस्य बन्धः। उत्तरपूर्वाघयोरश्लेष इत्येव ह्यद्वैतमतमपि। अत एवोक्तम्-'अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्।' इति। स्वदृष्टयाऽभिमाना- भावादशरीरः, परहष्ट्या तु सशरीर इति हि तदर्थः ॥
अज्ञाने नष्टे कथं तदुपादेयस्य शरीरस्यानुवृत्तिरिति चेत, केवलेन नामरूपात्मनाऽनुवर्तते, न सदादितादात्म्येनेत्यादि पूर्वमेवोपपादितम्। ब्रह्मानु- भवस्तु निर्विशेषब्रह्मानुभवो वा, सविशेषव्रह्मानुभवो वेत्यन्यदेतत्॥ अत एव जीवत एव मुक्तिर्जीवन्मुक्तिः। न चात्र सर्वबन्धाद् मुक्तितिं परित्य्य प्रारब्धातिरिक्तादेव बन्धान्मुक्तिरिति विवक्षायां संकोचो दूषणम्।
Page 152
९६ अद्वैततत्त्वशुद्धि:
श्रीभाष्यमतेऽप्यमृतत्वं सामान्यतः प्रस्तुतमुत्तरपूर्वाघाविश्लेषतया कथं संकुच्यते इति समानो दोष:। कर्मविशेषाधीनमपि शरीरं प्रारब्धभोगानुगुणत्वात् प्रारब्ध- कल्पमेव। "ज्ञानाभिः सर्वकर्माणि भस्मसात् कुरुतेडर्जुन।।" इत्यस्य प्रारब्घेतरकर्मनाशकत्व एव तात्पर्यात जीवन्मुक्तशरीरं कर्माधीनमपि यावत्प्रारब्घभोगसमाप्ति न ज्ञानेन दह्यते, क्षुदादिकं तु जीवदवस्थशरीरधर्मः, शरीरात्माडभिमानरहितस्य जीवन्मुक्तस्य न बन्धनम्। बद्धैर्द्वश्यमानं कर्म सर्व- मनात्मगतम्, प्रकृतिघर्म वा जीवन्मुक्तः पश्यति, नात्मधर्मम्। तदुक्तम्- "कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येपु स युक्त: कृत्स्नकर्मकृत्।।" इति। विदुषामविदुषां च विशेष एवंभावेनैव परैरपि वक्तव्यः ॥ जीवन्मुक्तौ हि पट्ठतमसंस्कारसहितब्रह्मसाक्षात्कारो धारावाहिकतयाडनु- वर्तते। तत्पयोजनं तु प्रारब्घभोगान्तेऽज्ञानसंस्कारस्यापि ज्ञानादेव नाशः, तेन च तस्यापि ज्ञाननिवर्त्यत्वेन मिथ्यात्वसिद्धिः ॥ अत एव तत्र ज्ञानरक्षा। सा चन तपोविशेषः, किन्त्वप्रामाण्य- ज्ञानानास्कन्दितात्मसाक्षात्कार एव। स च पञ्चमषष्ठसप्तमभूमिकाभेदेनोत्तरो- त्तरमतिशयितो जीवन्मुक्तानां स्वत उत्थाय, अन्योत्थापितानां चाऽत्मस्वरूपानु- सन्धानपूर्वकं व्यवहारविशेषोडपि, इति न विरुध्यते। अत एव- "ज्ञात्वा वय तत्त्वनिष्ठां ननु मोदामहे वयम्। अनुशोचाम एवान्यान्न आ्रान्तैर्विवदामहे॥ "न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते।" "घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् ॥ तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम् ॥
Page 153
शब्दप्रमाणम् २७
क्षीरं क्षीरे यथा क्षिप्ं तैलं तैले जलं जले। संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुने।" इत्यादिवचनानि जीवन्मुक्तं परममुक्तं चाधिकृत्य प्रवृत्तान्युपपद्यन्ते।। तत्र "न शक्यते वर्णयितुं गिरा तदा" इति वचनं जीवन्मुक्तस्य, स्थितप्रज्ञस्य वा षष्ठावस्थादिगतस्यानन्दानुभवं प्रतिपादयति। जीवन्मुक्तस्य शरीरेन्द्रियादिकम्, अन्तःकरणं चात्मनः पृथक्तयैव प्रकाशमानं वर्तते। ब्रह्मानन्दानुभवो हि तस्य तस्यामवस्थायाम् ॥ एतेन-"घटे नष्टे यथा व्योमे"ति वचनमपि-व्याख्यातम्। अस्या- प्रामाण्यवादस्त्वौपनिषदस्य कस्य वा शोभेत ? "क्षीरे क्षीरं यथा क्षिप्तमि"त्यपि परिच्छिन्नतादशायां जीवस्येव क्षिप्यमाणक्षीरांशस्यापि कथंचनाघाराधेयभावः, क्षेपानन्तरं तु न भेद इत्येवंपरमेव। अत एव-"विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते" इति बृहदारण्यकवचनैकवाक्यता। तत्र "असन्तं भेदं कः करिष्यती"ति स्पष्टं भेदः प्रतिषिध्यते। तत्राद्वैतामोदकाराणां विशिष्टाद्वैतमताज्ञानं विस्तरेण परमार्थप्रका- शिका स्वयमेव डिण्डिमयति, आमोदकारानुसारिणस्तु परमार्थप्रकाशिका- काराणामद्वैतविरुद्धांशानां बहूनां तत्रोपक्षेपेणाद्वैतमताज्ञानम्। किमनेन, स्वस्व- पाण्डित्यविशेषस्य, अपरापाण्डित्यविशेषस्य च स्वगोष्ठयां स्वगेह एव वा घोषणेन वितथेन 2 तत्तदुक्तदूषणसमुद्धारार्थ तत्तन्निबन्धकाराणां प्रवृत्तिरेव समुचिता, स्वस्वपक्षसमर्थनार्थ च।। तत्र मायावादो भगवत्पादैरेव स्वकपोलकल्पित इति पाझपुराणादिना परे मन्यन्ते। अद्वैतामोदस्ततोऽपि पूर्वाचारयैर्मायावादोऽनूदितो दर्शनान्तरेषु, अनुवादस्तु खण्डनार्थ वा, मण्डनार्थ वेति त्वन्यदेतत्। सर्वथा त्वनादिरयम- द्वैतवाद, औपनिषदश्च। वेदान्तदर्शनत्वेनैव ह्यस्यानुवादः प्राचीनेषु दर्शनेषु॥ 7
Page 154
९८ अद्वततत्त्वशुद्धि:
सत्यं देहात्मवाद उपनिषदि वर्तते ; अन्नमयात्मतावादादेस्तत्र दर्शनात्, परं तु तत्रैव।"न्योऽन्तर आत्मे"ति स निरस्तः। न चैवमद्वैतात्मवादो वेदान्तेषु निरस्यते। विशिष्टाद्वैतसिद्धान्तस्तु नाथोपज्ञ., टङ्कद्राविडाचार्यादिप्रवर्तितोऽपि कथं प्राचीन: औपनिषद. सिद्धान्तः१ किन्त्वपूर्व एव कश्चनेत्यद्वैतामो- दस्याशय: । न चायमद्वैतवादो ब्रह्मसूत्रकारानभिमतः, "मायामात्रं तु कार्त्स्न्येनान- भिव्यक्तस्वरूपत्वादि "ति स्वामिकमायामात्रत्वस्य सूत्रकारेण सूत्रणात्, तद्दृष्टा- न्तेनैव जागरिकमायिकत्वस्यापि सूत्रकाराभिमतत्वावगमात्। अत एव "वैधर्म्यान्र न स्वम्ादिवत्" इति व्यवहारदशायां बाघितत्वाबाघितत्वाभ्यामेव वैधम्ये सूत्रितम्। विशिष्टाद्वतसिद्धान्ते तु मायामत्रत्वस्येश्वरसृष्टत्वाभिप्रायत्वात् कथ तयोवैषम्यम्, कथंतरां चोक्तसूत्रस्योपपत्तिः? श्रुतप्रकाशिकायां "कृत्वा चिन्तयेदं सूत्रमि "ति विवरणमप्यद्वैताभिमतविवरणस्यैव श्रौतत्वं गमयति॥ वस्तुतस्तु "तदनन्यत्वमारम्भणशब्दादिभ्यः" "न स्थानतोऽपि परस्यो- भयलिङ्गं सर्वत्र हि" इत्यादीनि सूत्राणि जगदनिर्वचनीयत्वव्यवस्थापराणि, "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादि"ति ब्रह्मण उपादानत्वनिरूपणपरं च सूत्र "मायामात्रं तु" इति सूत्रसध्रीचीनं मायावादमेवोपबृहयन्ति। न केवल भगवत्पादभाष्यम्, किन्तु श्रीमाष्यमपि मायावादमेव सौत्रें विशदयति। तद्वाष्यस्याद्वैतभाष्यस्य च नैकार्थ्यमत्रेति तु न परमार्थप्रकाशनम्॥ तत्र "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादि"ति ब्रह्मण उपादानत्वं न परिणाम्युपादानत्वमिति तत्रैव श्रीमाष्यमेव विशदयत। न च समवायिकारणत्वं ब्रह्मणो विशिष्टाद्वैतमते, नयायिकाभिमतासत्कार्यवादस्य तत्रैवान्यत्र निरासात्, इत्यगत्या विवर्तोपादानत्वमेव स्वीकर्तव्यम्। अविकृतब्रह्मपरिणामवादो भास्करादीना यदि न प्रामाणिकः, तर्हि ब्रह्मविवर्तोपादानतैव हि गतिरुप- निषदाम्, इत्यद्वैतवाद एव सूत्राणामुक्तानां स्वारस्यम्॥।
Page 155
शब्दप्रमाणम् ९९
बृहत्त्वं व्यापकत्वं वा सर्वत्र स्वव्यतिरिक्ते सत्प्रतीतिद्वारा ब्रह्मणोऽनु- वेधेनैव। तत एव तस्याविकृतस्य नित्यशुद्धत्वादीन्यपि। बृहत्वं हि स्वरूपेण, न तु गुणैरपि परमार्थतः ॥
यद्यपि कालाकाशादयोऽपि व्यापकाः, तथापि तत्रापि सदात्मनाडनु- वेधाद् ब्रह्मण एव निरवधिकातिशयं महत्त्वम्, तच्चोपादानत्वं विना नोपपद्यते। मृदादीनाम, भावरूपतयाऽज्ञानस्य चोपादानत्वं निरवधिकव्याप्त्या स्वम्वकार्य- मात्रे मृदादीनां नामरूपात्मनाऽनुवेघात्। ब्रह्मणस्तु तत्रापि व्याप्त्या मुख्यमु- पादानत्वं निर्वधिकं स्वीकर्तव्यम्। अत एव मृदादीनामुपादानत्वादघिकं किंचिदुपादानत्वं ब्रह्मणः। तच्च विवर्तोपादानत्वमेव, इति नात्रोपादानत्वसको- चः। मृदादयुपादानेषूपादानत्वमपि नोपादानत्वस्य संकोचेन। अभिन्नत्वरूपं ह्युभयोपादानत्वं न सामान्यविशेषापन्नम्, येन संकोचकथाप्यत्रावसरेत्।। ब्रह्मशब्देन परमात्मनो ग्रहण निरतिशयव्यापकत्वेन पूर्वोक्तविधया। न च महति घटे, अन्येषु च सातिशयमहत्त्वयोगिषु सवर्तते, इति महान् घट, ब्रह्म घट इत्यादिप्रयोगो न संभवति। नैमित्तिके सति निमित्तानुसरणम्, न तु निमित्तमस्तीति नैमित्तिकारोप इति न्यायोSपि ब्रह्म घट इत्यादिप्रयोगं वारयति। यथा च विवर्तोपादानत्वमेव ब्रह्मणः प्रामाणिकम्, तथाऽनुपदमेवोक्तम्।।
बृहत्त्वं च परिमाणविशेषो वस्तुगत्या शोधनेऽनेकवस्तुसवन्ध इति परमार्थप्रकाशिका॥ स चाद्वैतमते ब्रह्मव्यतिरिक्ते ब्रह्मणो विषमसत्ताकाभेदस्य विवक्षणाद- विरुद्धः। "बृहन्तोऽस्मिन् गुणाः" इत्यपि सर्वेषां ब्रह्मापेक्षयाप्रधानत्वेन गुणत्वा- दारोपितसजातीय विजातीयव्यावर्तकधर्मसंबन्धात् निर्विशेषे ब्रह्मणि न विहन्यते।
न चात्र गुणशब्दो नैयायिकाभिमतपारिभाषिकगुणपर इति हि परमारथप्रकाशिकाऽपि। द्रव्यभजडं धर्मभूतज्ञानमपि हि ब्रह्मणो गुण इति तदीयँ मतम्। अत. सगुणत्वं मतद्वयेऽपि समानम्॥
Page 156
१००
तत्र तस्योरापितत्व-तदभावाभ्यां विशेष । श्रयते हि ब्रह्मणः सगुण- त्वमिव निर्गुणत्वमपि। उभयोपपत्तिरद्वैतमते गुणानामारोपितत्वतदभावाभ्याम, विशिष्टाद्वैतमते हेयगुणरा हित्यकल्याणगुणवत्वाभ्यामिति विशेषः, इति सत्त्वादिगुणरा हित्येन निर्गुणत्वम्, कल्याणगुणवत्त्वेन सगुणत्वमिति उभयत्र गुण- पदस्य सकोच एव। "बृहन्तोऽस्मिन् गुणाः" इत्यत्र तुन रात्वादिगुणानां विवक्षा। तत्र हि न प्रकृतिघर्माणां ब्रह्मणि प्रसक्तिरपि, येन तन्निषेघ: स्यात्, इत्यप्रसक्त- प्रतिषेध: । यदि प्रकृतिशरीरित्वात् ब्रह्मणश्शरीरघर्माणां शरीरिणि धर्मिण्यपि प्रसवत्या नाप्रसक्तपतिषेधः, तर्हि प्रकृतिपरिणामित्वस्य क्थं ब्रह्मण्यपि न प्रसक्ति: १ इति परम्परयोपचारेण वा ब्रह्मोपादानत्ववादस्य दत्तस्तिलाञ्जलि:। ब्रह्मणि कारणत्वाम्नानात् प्रकृतिधर्मोऽपि ब्रह्मणि विवक्ष्यते चेत्, न; अन्यथोपपद्यते ब्रह्मणि कारणत्वाम्नानम्। साक्षात् कारणत्वमपि विवर्तोपादानत्वं ब्रह्मणि सभवति। न चान्यत्र विवर्तोपादानत्वं न दष्टम्, रजुसर्पादिस्थले दर्शनात्। न च तत्रापि सत्ख्यातिरेव, न वानिर्वचनीयासत्ख्यातिरिति तु विवेचितमन्यत्र विस्तरेण। सर्वथा तु बहुग्रन्थपरिशीलनीयमिदम॥ न हयद्वैतिनोऽप्यमूलं किमपि वदन्ति, लिखन्ति वा, यदेव भवता मूलं तदेवाद्वैतिनामपि। बृंहयति ब्रह्मयति तदुच्यते परं ब्रह्मति विधया नाद्वैतिनोऽपि ब्रह्मशब्दस्य सगुण एव ब्रह्मणि शक्तिरिति विवदन्ते, किन्तु सगुणपरत्ववत तस्य लक्षणया निर्विशेषपरत्वमप्यस्तीति। तत्रापि व्यापकत्वमेव यदि ब्रह्मशब्दार्थः, तर्हिं साक्षात, यद्यनेकगुणवत्वेन, तर्हि बहुलं प्रयोगात्तत्र मुख्यवृत्त इति संप्रतिपन्नम्। ततश्र- वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्द्गिणि। तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने॥ यस्मिन् प्रयुज्यमाने वै गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ।। इति गारुडवचनं नाद्वैतमतेऽपि विरुद्धम् ।
Page 157
शब्दप्रमाणम् १०१
विष्णुपुराणं हि ब्रह्मपदम्- प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम्। वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मशब्दितम् ।। इति परामूर्ते निर्विशेष आत्मन्यपि संकेतयति। न चायं परामूर्तो मुक्तात्मैव; ब्रह्मण एव चतुर्धा प्रस्तावात्, मुक्तात्मनोऽप्यद्वैताभिमतस्यैव ब्रह्माभिन्नस्यैवं- रूपत्वात् प्रकरणसंशुद्धिरद्वैतमत एव ।। को वा विप्रतिपद्यते-"परं जैमिनिर्भुख्यत्वादि"ति परमेव ब्रह्म कण्ठरवेण ब्रह्मशब्दार्थ बादरायणो वदति "स एनान् ब्रह्म गमयतीत्यत्रे"ति, "कार्य बाद रिरस्य गत्युपपत्तेरि'त्यत्र कार्यमपि ब्रह्म शब्दार्थ स सूत्रयति। किमायातमेतावता-ब्रह्म- शब्दस्यार्थद्वयमस्तीत्यद्वैतिनोSपि मन्यन्ते, एवं ब्रह्म तत्र तत्राम्नायमानं लक्ष्यार्थः, अन्यत्र तु शक्यार्थ इति। "परं जैमिनिरि"ति सूत्रं नोभयत्रापि सिद्धान्तसूत्रम्। अद्वैतमते "कार्य जैमिनिरि'ति सिद्धान्तसूत्रम्, विशिष्टाद्वतमते तु तत्- "अप्रती का लम्बनान्नयती"ति। अपरोऽयं विशेष :- "कार्य बादरिरि"ति एनान्- पदार्थविचारपरं विशिष्टाद्वैतमते, अद्वैतमते तु ब्रह्मपदार्थविचारपरम्, उभयत्रापि ब्रह्मशब्दः परापरब्रह्मपर इति त्वविप्रतिपन्नम्। आम्नायते च "द्वे ब्रह्मणी वेदितव्ये परं चापरं चे"ति, परं तूभय- विवक्षोपायोपेयभावेन, इति तदुभयजिज्ञासार्थ" मथातो ब्रह्मजिज्ञासे"ति भगवत्पादीयः सिद्धान्तः। तत्र भगवत्पादाभिप्रेतपरब्रह्मविचार एव प्राधान्येन विवक्षितः। तदेव परं ब्रह्म, न ततोऽपरं सविशेषं नाम परं ब्रह्मास्तीत्य- द्वैतम्। सविशेषात् परं निर्विशेपं नाम नास्तीति विशिष्टाद्वैतम्, तत्राद्वैते सगुणं निर्गुणं च शक्तिलक्षणाभ्यां यथायोगं ब्रह्मशब्दार्थः। पूर्वोदाहृतविष्णु- पुराणवचनात् राक्यमेव ब्रह्मोभयमपीति वा मन्यताम् । देवतामीमांसायाम्-"स विष्णुराह हि स विष्णुराह हि तद् ब्रह्मे- त्याचक्षते" इति प्रस्तुतसगुणत्रह्मानुषङ्गण सगुणोपासनमपि पूर्वोक्तविघयाड-
Page 158
१०२ अद्वैततत्त्वशुद्धि:
न्तरङ्गतरं साधनमित्यभिप्रेत्योपायोपेयोभयविधब्रह्मणो जिज्ञासैव-'अथातो ब्रह्मजिज्ञासे'ति प्रस्तुता, न सा सगुणमात्रस्य, निर्गुणमात्रस्य वेति खलु भगवत्पादीयं भाष्यम्। अत एव सगुणवाक्यानां विचारः, गुणोपसंहारपादश्राद्वैतिनामपि॥ को वा विप्रतिपद्यते-श्रीभाष्ये, श्रुतप्रकाशिकादौ च ब्रह्मशब्दोSत्र सगुणपर एव, न तु निर्गुणपर इति लघुमहासिद्धान्ताभ्यामद्वैतमतस्य समूलं हननेन विशिष्टाद्वैतमतं स्थापयितुं महानायास इति। अद्वैतामोदो मन्यते-"सर्वमिदमद्वैत सिद्धान्तापातालोचननिबन्घनम्, अपर्यालोचननिबन्घनं वेति॥ "सर्वमिद श्रीमति भाष्ये, श्रतप्रकाशिकादौ च विस्पष्टमिति, अदृष्टूIS- बुध्वा चाक्षेपकरणमयुक्तमेवेति परमार्थप्रकाशिका लिखति। आस्तामियं कथा स्वगोष्ठयाम्॥ अद्वैतामोदो हि-श्रीभाष्यकाराणामद्वैताक्षेपनिरसनार्थ यतमानोडद्वैतं यदि सम्यग जानाति, तावतैव पर्याप्तं स्वमतसमर्थनाय, अद्वैतमतमप्यामोदो न जानाति, विशिष्टाद्वैतमपि न जानाति, अहमेव सर्वे जानामीति मानस्तु दुरभिमान एव।। तदिदं सिद्धमुभयविधब्रह्मजिज्ञासा ब्रह्मजिज्ञासापदार्थः। तत्र सविशेष- ब्रह्मजिज्ञासया तदुपासनमात्रमोक्षसाधनतापरया तदुपासनफलं जगद्वयापारवर्ज- ब्रह्मभावो मुक्ति: परमा मुक्तिरिति परैर्मन्यते, अद्वैतिभिस्तु साऽपरमा गौण- मुक्तिर्मन्यते, तत्स्वरूपे तु न विप्रतिपत्तिः। तस्य गौणमुक्तित्वे परं विप्रतिपत्तिः। तत्र तस्यां मुक्तौ न कर्मजशरीरादीनामभावः। सा चोत्क्ान्तिप्राप्यैव। तत्र "द्वादशाहवदुभयविधम्।" इति शरीरपरिग्रहतदभावयोरौचित्यम्, संकल्पा- देवाभीष्टसर्वफलस्ष्टृरत्वभोक्तृत्वादिकं सर्वमेवाद्वैतिनोऽपि मन्यन्ते॥ इयान् विशेष :- यदियं मुक्तिर्न परमा, किन्तु गौणी, परमा त्वना- वृतचिन्मान्नस्वरूपं जीवत्वेश्वरत्वोपलक्षितमित्यद्वैतिनः। इयं तु ब्रह्मसाक्षात्कारे
Page 159
शब्दप्रमाणम् १०३
जाते प्रारब्घभोगसमाप्त्यनन्तरमात्मानं लभमाना विदेहमुक्तिरिति, आपरारब्ध- फलभोगसमाप्ति ब्रह्मसाक्षात्कारेऽप्रयत्नसाध्ये फलारब्धे धारावाहिकतया स्वत एवाडडवर्तमाने सत्यपि शरीरादिसंबन्धेऽज्ञानलेशे च समाध्यवस्थायाम्, सर्वस्मिन विषयजाते चित्रमयस्त्रीवत् छायावच्च हश्यमाने, सर्वकामादिनिवृत्तौ च जीवन्मुक्ति- रिति व्यपदिश्यते॥। तत्र जीवन्मुक्तानां स्वत एवाज्ञानलेशस्य, शरीरादिसंबन्घस्य, तन्निबन्ध- नस्य च सर्वस्य व्यवहारजातस्य निवृत्तिरिति वचस्तु तदीयसाक्षात्कार- स्यानुवर्तमानस्य प्रयत्नसाध्यत्वाभावमभिप्रेत्य। व्यक्तं चैतद्योगवासिष्ठे-प्रथ- मादिसोपाना उत्तरोत्तरसोपाने सिद्धावस्थां भजन्ति। तत्र पश्चमादिसोपाने स्थितस्य क्रमेण सप्तमावस्थापर्यन्तं गतस्य समाधिम/त्रावस्था सिद्धैव भवति, न तत्र प्रयत्नापेक्षोत्तरोत्तरसोपानं प्राप्तस्येति। सर्वथा तु जीवन्मुक्तिरस्त्येका । तथा चाद्वैतमते जीवन्मुक्ति:, गौणी मुक्ति, विदेहमुक्ति:, परमुक्तिवति विभागो न निर्मूल । जीवन्मुक्तिरियं विक्षिष्टाद्वैतेऽपि वर्तते-"अमृतत्वं चानुपोष्ये"ति तु परमार्थप्रकाशिकाऽपि स्वीकरोति। परममुक्तौ, जीवन्मुक्तिस्वरूपे च तस्या विप्रतिपत्तिः ।। न केवलं तत्रैव, किन्तु मुक्तिसाधनविषयेऽप्यस्ति विप्रतिपत्तिः । तत्र निर्विशेषतावादमादाय परममुक्तौ, तत्साघने च विप्रतिपत्तिः, तद्विषये तु बहुशः पूर्वमावेदितम्, आवेदयिष्यते च यथावसरम् । तत्र परमार्थप्रकाशिका-विदेहमुक्तौ दर्पणस्थानीयबुद्धयभावात् तत्प्रति- बिम्बरूपजीवाभावात् स्वद्ष्टया, परदष्टया च मुक्तात्मनि द्वितीयवस्तुप्रतीत्यभावेऽपि जीवन्मुक्तस्य बुद्धयुपाघिरस्त्येव, तथा तत्सम्बन्घप्रतीतिरपि-इति वदति। परंतु तस्य स्वस्मिन् न जीवत्वबुद्धिः, किन्त्वहं प्रतिबिम्ब इति ज्ञानमस्ति, एवमहंभावादिधर्मा- णामस्वगतत्वेन नाहंकारिगतत्वेन तस्य प्रतीतिरस्ति, नायमहंकारविमूढमात्मानं कर्तारं मन्यते मूढात्मवत्, किन्तु गुणा गुणेषु वर्तन्त इति मत्वा न सीदतीति तु
Page 160
१०४ अद्वैततत्त्वशुद्धि:
तत्त्वम्। तथा चात्मनि प्रतीयमाना दोषा नात्मीयाः, किं त्वन्यदीयाः, तानेवा- मीयत्वेन विज्ञाय दुःखानुभवः। जीवन्मुक्तानां तूपाधिगता इमे दोषाः, नेमे स्वदोषा इति विज्ञानाद् नौपाधिकगुणदोषभाक्त्वमिति तु निष्कर्षः ॥ तन्र यथा चटकः स्वप्रतिबिम्बं चटकान्तरत्वेन पश्यति, न तु स्वप्रति- बिम्बत्वेन, तेन च तेन सह युद्धार्थं प्रयतते, प्रेमवशात् क्रीडार्थ वा, एवं बद्ध आत्मानं चित्स्वरूपमपि न बिम्बत्वेन जानाति, न वाऽडत्मानमौपाधिकप्रतिबिम्ब- स्वरूपमिति। जीवन्मुक्तस्तु चित्स्वरूपमेवात्मन. स्वरूपम्, न तु प्रतिबिम्बित- रूपं स्वस्वरूपमिति जानातीनि दष्टान्तार्थः॥ तत्र प्रतिबिम्बं चटकान्तरमिव बद्धोऽपि वस्तुतोऽनुपहितं स्वरूपं स्वतोऽतिरिक्त्तं मन्यते, न प्रतिबिम्बत्वेन, जीवन्मुक्तस्तु न तथा। म्वस्वरूप- ज्ञानानन्तरं तावत्पर्यन्त ज्ञात स्वस्वरूपं प्रतिबिम्बमात्रम्, औंपाधिका एव ममेमे प्रतिभासा इति निश्चिनोति। चटकस्तु स्वशरीरमचेतन चेतनं मन्यते, जीवस्तु प्रतिबिम्बावस्थायामपि चेतन एव सन् स्वात्मानं प्रतिबिम्बं न पश्यति। न चायं नियम: प्रतिबिम्बोज्चेतन एवेति। यत्र/चेतनं बिम्बम्, तत्रा- चेतनः प्रतिबिम्बः, चटकस्य तु शरीरस्याचेतनमात्रस्य प्रतिबिम्बः, न चेतनस्य, जीवस्तु चिन्मात्रस्य प्रतिबिम्ब इति तु विशेषः। चैतन्यांशस्यापि प्रतिबिम्बस्तु छायादेव्यां संज्ञादेवीप्रतिबिम्बे श्रुतचरः, दृष्टचरा च तत उत्पत्तिर्विवस्वदा- दीनाम्। चटकटष्टान्तोऽयं व्यधिकरणदष्टान्त इति वैषम्यं बहुविधं तत्र भूषणमेव, न तु दृषणम् ।। अद्वैतामोदो जनक जीवन्मुक्तमादाय लोकसंग्रहार्थ कर्मानुष्ठानं जनका- देरवदद्। परमार्थप्रकाशिका तु जनकस्य कर्मानुष्ठानमपि स्वार्थमेवेति। भगवानपि- "लोकसंग्रहमेवापि संपश्यन् कर्तुमहसि।" इति वर्णनपूर्वकं स्वस्यापि कमाुष्ठानसुपन्यस्यतीति लिखति।
Page 161
शब्दप्रमाणम् १०५
तत्र परमार्थप्रकाशिका जनकं जीवन्मुक्तं मत्वेदं लिखति, उत तं जीवन्मुक्त- ममत्वा। आद्ये जीवन्मुक्तिरङ्गीकृता, तत्र कर्मानुष्ठाने जीवन्मुक्तस्य कर्मान- धिकारात् अजीवन्मुक्तं कंचन जनकमादाय परमार्थप्रकाशिकेति वक्तव्यम्। आस्तामेवं कामम् ॥ जनक इति वंशनाममात्रम्, न तु व्यक्तिविशेषस्येदं नामेति विष्णु- पुराणे व्यक्तम्। जीवन्मुक्तानां लोकसंग्रहार्थमेव कर्माधिकारः । किं बहुना ? भगवतोऽपीत्युक्तौ का बाधा 2 यदि जीवन्मुक्तिरङ्गीकृता, तत्र परमार्थप्रकाशि- काभिमतानां जीवन्मुक्तानामप्युत्तरपूर्वाघयोरक्र्वेषविनाशौ स्वीकृतौ, इति तेषामपि कर्मानुष्ठानं लोकसग्रहार्थमित्यवश्यं स्वीकर्तव्यम्।।
दष्टान्तदार्ष्टान्तिकभाव उपपद्यतां वा, मा वा-वस्तुस्थितिं तु यदि परमार्थ- प्रकाशिका काममङ्गीकरोति, तर्हि तावतैवालम्। दृष्टान्तदार्ष्टान्तिकभावो हि किंचित्साम्यमादाय समर्थयितुं शक्यते, किचन वैषम्यमादाय विघटयितुमपि। न हि जीवन्मुक्तः स्वात्मलाभार्थ दृष्टान्तमपेक्षते। स्वतः प्रमाणशास्त्रसिद्धानां तदुपबृंहणार्थ हि दष्टान्तान्वेषणा। स च यथाकर्थचित् सर्वत्र संपादयितुं शक्यते।। अत एव "-तमेवं विद्वानमृत इह भवति" इति श्रतिः। इयं हि श्रुति :- इहास्मिन्नेव शरीरेऽमृतो भवति विद्वानिति प्रतिपाद्यति। तत्रामृतत्व- मुत्तरपूर्वायविश्रेषाभावो वा भवतु, अशरीरत्वं वा। सशरीरत्वं हि शरीराभिमान- मात्रनिबन्धनमात्मनि शरीशध्यासनिबन्धनमिति त्वद्वतमतम्। यदि चैवं जीवन्मुक्त- स्यापि देहेऽवतिष्ठमानस्यापि न देहित्वम्। अतोऽशरीरत्वावस्था न ज्ञानिनो विरुद्धयते। विदेहमुक्तिस्तु शरीरे पतिते, न तु सति शरीरे। "तमेवं विद्वानि"ति वाक्य इहशब्दार्थस्तु विदेहमुक्तिमात्रपक्ष एतज्जन्मपरम्, न त्वेतच्छरीरपरम्। तथाचेहशब्देन शरीरविवक्षायां जीवन्मुक्तिपरता, जन्मपरतायां विदेहमुक्तिः, इतीहपदार्थो जीवन्मुक्तिपक्षेऽपि नानुपपत्रः॥
Page 162
१०६ अद्वैततत्त्वशुद्धि:
यथा चाघिष्ठानसाक्षात्कारे सत्यपि तस्यापरामाण्यज्ञानानास्कन्दितपटुतम- संस्कारसहितप्रारब्घभोगरूपप्रतिबन्धका दिनाऽसक्कर एव तस्याज्ञानलेशनिवर्त- कत्वम्, नान्यथा, अतो न जीवन्मुक्तयनुपपत्तिः, तथोक्तमधस्तात्॥ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इति श्रुतिर्जीवन्मुक्तौ प्रमाणमिति तु तदङ्गीकारवादिनां प्रक्रिया। प्रारब्घभोगानाम्, तदुपयो गिशरीरसंबन्धादीनां चाविद्याविक्षेपशक्तिमात्रनिवन्धनानामपि भोगान्तपर्यन्तमनुवर्तमानफलावस्थ- धारावाहिकाधिष्ठानसाक्षात्कारनिवर्त्यत्वाद् मिथ्यातं दुर्निवारम्, इति तेषां सत्यत्वापादनं न विचारसहम्। अविद्याया इव तद्गतशक्तेरपि तत्त्वज्ञान- निवर्त्यत्वमेवाद्वैतसिद्धान्ते, इति जीवन्मुक्तिपक्षे न प्रारब्धभोगासाङ्गत्या- पत्तिः परमार्थप्रकाशिकारीत्या ।। तत्र जीवन्मुक्तानां स्वर्गाद्यर्थकर्मानुष्ठानाभावेऽपि शरीरयात्रार्थभिक्षाट- नादिप्रवृत्तिवत् लोकसग्रहार्थ कर्मानुष्ठानमप्याधिकारिकाणामिव संभवति, परं तु शरीरादिषु तत्तत्किरियाभावनया न तदनुष्ठानम्, न वा स्वस्मिन्नेव कर्मकर्तृ- भावनया- "कर्मण्यकर्म यः पशयेदकर्मणि च कर्म यः ॥" इति न्यायेन, इति तस्य न बन्धापादकत्वम्। व्यक्तं चैतद् भगवद्गीतायाम्।। विशिष्टाद्वैताभिमतस्यापि जीवन्मुक्तस्य लोकसंग्रहार्थ स्वार्थ वा कर्मानुष्ठानं न भेदवासनादिबन्धवर्धकमिति संप्रतिपन्नम्। जीवन्मुक्तो हि- "नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।" "कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।" इत्यादिवचनानुसारेणात्मानं कर्तारम्, तत्तत्किरियाश्रयं वा न मन्यते, चक्षु: पश्यति, नाहं पश्यामीत्येवं सर्व पश्यति, यथा शरीरविलक्षणमात्मान जानन्नेव बद्धः स्वर्गाद्यर्थ शरीरेण प्रयतते, एवं सूक्ष्मशरीरान्तविविक्त जानन् भिक्षाट- नादर्थं प्रयतते।।
Page 163
शब्दप्रमाणम् १०७
तत्र जीवन्मुक्तोऽप्यात्मानं यद्यप्यहमिति जानाति, तथापि बद्धवत् नाहमर्थानात्माविविक्ततया, किन्तु ततो विविक्ततया। बद्धोऽहंकारविशिष्ट- मात्मानं जानाति, जीवन्मुक्तोऽहंकारोपहितमहमिति विजानाति, इति न, अहंकरोमीत्यभिमानाभावेऽपि न कर्मानुष्ठानम्, इति जीवन्मुक्तस्याहम्भावावभास आमोदोक्तो न व्याह्न्यते।। अनेन-भिक्षाटनादिप्रवृत्तिरपि-व्याख्याता। तत्राप्युपहितस्यैव प्रवृत्तिः, उपाधिगततया तु क्षुदाद्यनुसन्धानम्, न स्वगततयेति न विरुध्यते ॥ तत्रैकजीववादे तत्कल्पितानां सर्वेषां स्वम्नकल्पितानामिव कल्पकमुक्तावेव मुक्ति:, वामदेवादीनां मुक्तिव्यवहारस्तु स्वाभिकमुक्तव्यवहारवदुपपद्यत इत्यादि तत्तन्निबन्धेषु विशदम्, अर्थवादो वा वामदेवादिमुक्तिवचनमिति। सर्वथा तु प्रस्थानभेदमात्रम्, इति प्रस्थानविशेषस्य प्रस्थानान्तरेण विरोधोऽकिञ्चित्कारः। यथा भक्तिबलेन कर्मणां निवृत्तौ परमते शास्त्रं प्रमाणम्, एवमद्वैतिनामपि तत्त्वज्ञानेनाज्ञाननिवृत्तौ तदेव प्रमाणम्, अन्यथा योजनं तूभयत्र समानम्। तत्त्वज्ञानं तु तत्त्वस्य ज्ञानमिति षष्ठीतत्पुरुषमपेक्ष्य, तत्त्वं ज्ञानमिति वा कर्मधारयसमासम्। तत्र तत्त्वस्य वृत्तिमात्रविषयत्वं निर्विशेषत्वेऽप्युपपद्यते। तत्र वृत्तिरुपाधिमात्रम्, न विशेषणम्, येन स्वविषयापि स्यात्, इति वृत्तिविशिष्टतया न सविशेषता स्यात् । वृत्तिमात्रेण तत्क्षण एवाज्ञानतत्प्रयुक्तानां सर्वेषां बाधेऽनावृतचिन्मात्रमद्वितीयं कथं सविशेषम् १ वृत्तिकाले ततः पूर्व वा विद्यमाना अपि विशेषा न ज्ञाने भासन्तेऽविवक्षया, इति वृत्तेरन सविशेष- विषयत्वम्, पश्चात्तु बाघितत्वात् न ते सन्त्यपि। अत. षष्ठीसमासपक्षे न सविशेषत्वापत्तिः । सर्वस्य निवृत्त्याऽद्वैतसिद्धिः ॥ ज्ञानविषयत्वं हि विवक्षाधीनम्, तात्पर्याधीनं वा। न हि सन्तीति सर्वे धर्माः सर्वत्र भासन्ते, अन्यथा घटज्ञानदशायामुद काहरणनिमित्तत्वकुलाल-
Page 164
१०८ अद्वैततत्त्वशुद्धि:
कार्यत्वपरिमाणविशेषगन्धादीनां सर्वेषामपि ज्ञानं स्यात। ततश्च सत्स्वपि विशेषेषु वृत्तेः प्राक्काले न तेषां भाननियमः, पश्चात्तु यदि सन्ति, यदि च विवक्ष्यन्ते, भासन्तां नाम यथाविवक्षमपरे विशेषाः। अखण्डाकारवृत्त्यनन्तरं तु बाधात् सर्वेषां विशेषाणाम्, कथं नाम सविशेषस्यैव शास्त्रार्थत्वम्। स्वरूपज्ञान नाज्ञानस्य निवर्तकम्, किन्तु प्रमाणजन्यवृत्तिरूपमेव। न हि स्वरूपज्ञानं सविषयम्, वृत्तिस्तु स्वरूपज्ञानविषया, इति तदनधिकविषयकत्वं वा, तदधिक- विषयकत्वं वा वृत्तिज्ञानस्येति विकल्पो दुःस्थ एव, इति कथं वृत्तिज्ञानविषयत्वं ब्रह्मण: संपादयितुं यर्तिंकचिद्वर्मविशिष्टत्वं कल्पनीयमद्वैतसिद्धान्ते॥ तत्त्वमेव ज्ञान तत्त्वज्ञानमिति तु- "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।।" इति वार्तिकानुसारात् सत्राखण्डाकारवृत्त्युपलक्षितस्वरूपज्ञानं मोक्षस्वरूपम्, तत्र तत्त्वज्ञानादेवेति पञ्चमी तत्त्वज्ञानमुपलक्ष्येत्याशया। तथाचानावृतचिन्मात्र तत्त्वमिति तदाशयः ॥ न चास्मिन् पक्षेऽनावृत तत्त्वरूपं ज्ञानं सर्वदाडस्ति, येन सर्वदा मोक्ष, बन्धाप्रसक्त्यादयो वा दोषा: प्रसज्येरन्। अतस्तत्त्वज्ञानादेव मोक्ष इत्यत्र षष्ठी- समासपक्ष:, कर्मघारयपक्षश्रोभावपि नाद्वैतमते विरुद्धौ। कथं च भवतां मते तत्त्वज्ञानमित्यत्र षष्ठीसमासपक्षे स्वरूपज्ञानविषयक- ज्ञानान्तरस्यापि तदनधिकविषयत्वेन निवतकत्वासंभवदोषो न समानः। तदधिक- विषयं तु न तदज्ञाननिवर्तकम्। किं तत्त्वस्याज्ञानमेव भवतां मते नास्ति ? तत्त्वमेव ज्ञानमिति कर्मधारयपक्षेऽपि तस्य सर्वदा सत्वात् कथ सर्वदा न मोक्ष इत्यादिशंका: परिहरणीयाः, इति समानावुभयत्र शंकापरिहारौ। अयं भाव ·- घटादीनि कार्याणि मृदात्मनैव तत्त्वम् ; अनुवर्तमानत्वाद्। घट्राधात्मना त्वतन्वम् ; व्यावृत्तत्वात्, तत्र मृदपि तत्कारणात्मना तत्त्वम्, कार्यात्मता त्वतत्त्वम्, इति क्रमेण सर्वस्य नामरूपात्मकस्य प्रपश्चस्याविद्यात्मतैंव
Page 165
शब्दप्रमाणम् १०९
तत्त्वम्, तत्राविद्याया उपादानत्वमपि ब्रह्मण्यनाद्यध्यासेन ब्रह्मावरणमपेक्ष्यैव, न तु स्वतः। तत्र ब्रह्मापि शास्त्रणोपादान प्रतिपादते, इति तदात्मतैव तत्त्व- मविद्याया अपि, इति ब्रह्मरूपतत्त्वज्ञानात्तत्रानाद्यध्यस्ताज्ञानतत्परिणामादीनां सर्वेषां निवृत्तौ मोक्ष इति क्रमर्तत्वज्ञानात् मोक्ष इत्यनेन विवक्षितम्। इदमेवाभि- प्रेत्योक्तम्- "कार्यात्मना तु नानात्वमभेदः कारणात्मना"॥। इति। तथाच यदा घटरूपकार्यरूपतया न प्रतीतिः, न वा सत्ता, तदा घटादीनां मृत्सत्तातिरिक्तसत्ताभावात् नष्ट इति व्यवहारः। स तु घटात्मना प्रतीतिदशाया- मेव। सति चवं वस्तुस्थितिमनुरुध्य मृदात्मना तत्त्वनिरूपणपरमामोदमन्यथा ग्रृहीत्वा घटसत्तायामेव घटो नष्ट इति प्रतीत्यापत्तिरिति दूषणमदूषणम्।। शुक्तिरूप्यादिस्थलेऽपि रजतस्य तूलाविद्यापरिणामस्य तद्विषयशुक्त्य- वच्छिन्नचैतन्यविवर्तस्य च शुक्तिव्यतिरेकेण तदवच्छिन्नचैतन्यव्यतिरेकेण वाड- भाव: शुक्तितत्त्वज्ञानादेवेत्यनुभवसिद्धम्। तत्रापि रजताध्यासाप्रमाणिकत्वकथा, तत्प्रामाणिकत्वसमथनं च पौनःपुन्येनोभाभ्यामपि चर्व्यते। तत्र मतद्वयमपि परस्परं विप्रतिपन्नमिति स्वस्वकथायाः स्वस्वगोष्ठीमात्रे पौनःपुन्येन पेषणं नि- षप्रयोजनम्। अद्वैतप्रक्रियामनुसृत्याद्वैनमतनिरसनार्थ खलु श्रीभाष्यादीनां यथा- संभवं प्रवृत्तिः। तत्र मतान्तरप्रक्रियया मतान्तरनिरसनं न फलाय कल्पते ; किं भवतां मंत सर्वेसम्मतम् 2 मतान्तरेण वा न निरस्यते ? अद्वैतमत तु सविशेपोपासनस्यापि स्वीकारात् यथासंभवमद्वैता- विरोधेन सविशेषवादिनां प्रक्रियां स्वीकृत्यैव स्वमतं पोषयति-सविशेष- वाक्यानामिव निर्विशेषवाक्यानामपि विना संकोचं गतिवर्णनेन। तथा चाध्यासो नाङ्गीक्रियते, स चाङ्गीक्रियत इति क्रियासमभिहारेण पिष्टपेषणप्रकारं परित्यज्यैव विचारप्रणाळी बुक्ता। अन्यथा तु न विचारस्य कापि काष्ठा। तत्रा- द्वैतिनां मूलप्रक्रियाः सर्वा दूरीकृत्य तन्मतनिरसनं स्वगोष्ठयां कामं नाम
Page 166
११० अद्वैततत्त्वशुद्धिः
क्रियताम्। अद्वैतिनोऽपि स्वस्वगोष्ठयां तथाऽनुकरणेन चरितार्था भवितारः, किमेतेन १ श्रुतौ मृदादिद्दष्टान्तोपन्यासे कारणं पूर्वमेवोपपादितम्। तत्र मृत्पद- मुपादानकारणस्योपलक्षणमित्युभयसंमतम्। तेन च प्रकृतिरेवोपलक्ष्यते, न ब्रह्म। सति चैवं ब्रह्मविज्ञानेन, प्रकृतिविशिष्टव्रह्मविज्ञानेन वा सर्वविज्ञानम्, शरीरिविज्ञानेन सर्वशरीरविज्ञानं वा कथमुपपद्यतेः तत्र यदि शरीर्येव सत्यम्, न शरीरम्, तर्हि न प्रकृतिः सत्या। यदि तु मृत्तिकापदेन तच्छरीरकः परमात्मा विवक्षितः, तर्हि सूक्ष्मचिदचिद्विशिष्ट कथमत्र प्रतीयते 2 अचिन्मा- त्रोदाहरणेन कथमत्र चितोऽपि सूक्ष्मायाः प्रतीति:2 उपादानकारणज्ञानेन कार्यज्ञानमत्र यदि विवक्षितम्, तर्हि उपादानकारणताया यत्र विश्रान्तिः तद्विज्ञानेन सर्वविज्ञानमेवात्र विवक्षितमिति वक्तव्यम्। ब्रह्म चोपादानं साक्षादद्वैतमत एव, विशिष्टाद्वैतमते तु परम्परया, इति कथमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिकमद्वैतमत इवोपपद्यत इत्यद्वैतामोदोऽप्रामाणिक: 2 किमिति वा तदीयमद्वैताशयानुसारि परित्यज्य यथाश्रुतं गृहीत्वा तन्निरासार्थ प्रयत्यते ? यथा चाध्यासपक्षेऽपि सृष्टिक्रमो न विरुध्यते, तथा पूर्वमेवोक्तम्। तत्र प्रकृतिकारणतां परित्यज्य ब्रह्मकारणतावादे सृष्टिक्रमो भवितुमर्हति वा, न वेति तु विचारान्तरम्। प्रकृतेरपि कारणत्वस्याद्वैतमते स्वीकारात् तत्कारणवादिना- मिवैषामपि प्रकृतिपरिणांमाशे क्रममुपादाय कथं वा नोपपतिः सृष्टिकमस्य ? तत्राध्यासपक्षे परिणाम्युपादानानपेक्षेति परमार्थप्रकाशिका वदति॥ तदिदं भामतीप्रस्थाने? उत विवरणप्रस्थाने प्रस्थानान्तरे वा 2 तत्राद्येऽपि किमविद्याया एव निरासः, उत तस्याः परिणामितायाः। तत्राधे विनाऽविद्यामध्यासाधिष्ठानत्वं न संभवति। द्वितीये त्विष्टापत्तिः ; तन्मतेSविद्याया ब्रह्मावरणमात्रेण निमित्तकारणतामात्रत्वात्। विवरणप्रस्थाने हि परिणाम्युपादान- मविद्याऽपीति स्वीक्रियते। अन्त्येऽपि प्रकृतिपरिणामवादिनोऽपि सन्तुष्यन्तु-इति।।
Page 167
शब्दप्रमाणम् १११
भामती हि प्रकृतिपरिणामवादमेव निरस्यति, विवरणं तु तुष्यतु दुर्जनन्यायेन प्रकृतिपरिणाममपि स्वीकृत्य ब्रह्मविवर्तोपादानतां समर्थयते। उभयोरपि ब्रह्मविवर्तोपादानतायामेव निर्भरः। आस्तामियं कथाउद्वैतवादे। विशिष्टाद्वैतमते प्रकृतिपरिणामवादः कुतः, कि वा प्रयोजनमस्य, कथं वा स्वमस्थल इव विचित्रशक्तियोगेन ब्रह्मकारणतामात्रेण न निर्वाहः१ कि तत्रापि प्रकृतिरेवोपादानम् 2 यद्योम्, तर्हि कथं स्वमद्ड्मात्रानुभाव्यत्वं स्वाभिकाना- मीश्वरसृष्टानाम् १ यदि ब्रह्मण एव शक्तिविशेषस्तत्र कारणम्, तर्हि जागरिकेष्वपि तेनैवापरेण शक्तिविशेषेण निर्वाहः, इति कि परिणाम्युपादा- नस्यान्तर्गडो प्रकृत्याः स्वीकारेण 2 श्रुत्यनुसरणं तूभयत्र समानम्। अनादे- रप्यविद्याया ब्रह्मण्यध्यासादिसमर्थनं कृतहानाकृताभ्यागमप्रसङ्गादिनिरासेन पूर्व- मेवाकारि।। तत्र विज्ञानवादादद्वैतमतस्यायं विशेष :- यत् क्षणिकविज्ञानातिरिक्तो विषयो विज्ञानवादे नास्ति, अद्वैतमते तु जन्यवृत्तिज्ञानातिरेकेण विषयो मतान्तर- वत् स्वीक्रियते। जन्यज्ञानाकारत्वमेव विषयाणामिति विज्ञानवादिनिरसनं सर्वेषामपरेषां समानम्। विशेषस्तु स्वरूपज्ञानविवर्तत्वाद् विषयाणाम्, तद्वयति- रेकेण विषयो नास्तीति। त्रिपुटयन्तर्गतज्ञानातिरिक्तज्ञेयाभावः खलु विज्ञानवादे, तदन्तर्गतं तु ज्ञातृज्ञेयातिरिक्तं जन्यज्ञानम्, धर्मभूतज्ञानं वा न स्वरूपज्ञानम्। जन्यज्ञानातिरिक्तविषयनिरासपरत्वाद् विज्ञानमात्रवादस्य । एतेन-विषयनिरूप्यत्वाद् ज्ञानस्य त्निरासे ताभ्यां सह ज्ञाताऽपि निरस्तो भवति, इति शून्यमेव तत्त्व स्यात्। अत एव विज्ञानमात्रवादो बाह्यालम्बनावश्यकत्वेन सवैनिराक्रियत इति-परास्तम्। शून्यं तु तत्त्वं सदसत्सदसत्तदनुभयात्मकचतुष्कोविनिर्मुक्तमपरमेव तत्त्वम्। यत्र ज्ञानस्वरूपं ब्रह्म नोरीक्रियते, इति तत्र प्रथमकोटे:, सदूपस्य चतुष्कोटिविनिर्मुक्तत्वाभावात् नाद्वैतमते शून्यवादगन्धोऽपि। तदिदं सिद्धम्- तत्त्वज्ञानदेव मोक्षः, तत्त्वं चाध्यासाघिष्ठानं विवर्तोपादानं वा निर्विशेषं ब्रह्ैव।
Page 168
११२ अद्वैततत्त्वशुद्धि
सविशेषं तूपासनामात्रेणाभ्युदयसाधनं तत्त्वज्ञानस्यान्तर ङ्गतरसाधनोपासनामात्रार्थ- तयोपयुज्यते।। कर्मकाण्डदेवताकाण्डज्ञानकाण्डमेदेन विषया भिन्नभिन्नाः। तत्र कर्मविचारब्रह्मविचारयोर्नेकशास्त्रत्वम्। साधनचतुष्टयसंपत्त्यनन्तरमेव ब्रह्ममी- मांसा। साधनचतुष्टयानन्तर्यमेवाथशब्दार्थः, न तु कर्मविचारानन्तर्यमिति प्रागेव निरूपितम्। अनेन च पूर्वोत्तरमीमांसयोर्भिन्नशास्त्रत्व मुपपा दितप्रायम।। तत्र प्रयोजकानि तु। (1) कर्तृमेदः (2) प्रतिपाद्यभेदः (3) विरु- द्वार्थत्वम् (4) अथशब्दस्यानारभ्याीतत्वेन प्रकरणभेदः (5) सज्ञाभेदः (6) प्रयोजनभेदश्चेत्यादीनि प्रधानानि॥ (1) तत्रानुबन्धचतुष्टयैक्यं तद्वेदश्च शास्त्रैक्य-तद्भेदप्रयोनकौ सर्वत्र। तत्र पूर्वमीमांसायामधिकारी त्वधीतवेदः, उत्तरमीमासाया न स एवेत्युभय- संमतम्। तत्राध्यायमेदादधिकारी न पृथक् पूर्वमीमांसायामपि मुख्याधिकारि- परित्यागेन। तथाच तृतीयाध्यायादावथशब्दप्रयोगेऽपि वेदाध्ययनानन्तर्यमेव प्रधानं तत्रेति संप्रतिपन्नम्। सति चैवम्-"अथातो ब्रह्मजिज्ञासे"त्यन्नापि वेदा- ध्ययनानन्तर्यं मुख्योऽथशब्दार्थः, तदीयषोडशाध्यायानन्तर्यमवान्तरोऽथशब्दार्थ इति वक्तव्यं शास्त्रैक्यवादे, इति जैमिनीयकर्मविचारानन्तरमधीतवेदेन देवता- मीमांसा कर्तव्या, तेनैव तदनन्तरं ब्रह्मजिज्ञासा कर्तव्येत्येव पर्यवस्यति। सति चैवम्-"अथातो धर्मजिज्ञासे"ति प्रस्तुतधर्मविचारस्यैव मुख्यत्वम्, अवान्तरमी- मांसा, ब्रह्ममीमांसेति शास्त्रैक्यवादे फलति॥ तत्र धर्मैकदेशविचार एव यद्त्र विवक्ष्येत, तर्हि "चोदनालक्षणोऽर्यो धर्म:" इत्यनेनैव गतार्थत्वात् "जन्माद्यस्य यतः," "शास्त्रयोनित्वात्", "ततु समन्वयादि"ति त्रिसूत्री, यत्र ब्रह्ममीमांसातत्त्वं सर्वमाविष्क्रियते, वितथा स्यात्।। सर्वथा तु देवतामीमांसानन्तर्यमेवाथशब्दार्थो वक्तव्यः, न कर्मविचा- रानन्तर्यम्, न वा कर्मफलानित्यत्वनिर्णयेन मुमुक्षया ब्रह्मजिज्ञासायां प्रवृत्ति-
Page 169
शब्दप्रमाणम् ११३
रपि साघनीया पृथक ; देवतामीमांसयैव गतार्थत्वात्। तत्र "तत्ु समन्वयात्" इत्यत्रोपास्यदेवतास्वरूपमेव नास्तीति जैमिनीयमतमपास्य ब्रह्मपारमाथ्य साघयितुं समन्वयाधिकरणमिति शङ्कासमाघानादिकं कथसुपपद्यते? देवतामीमांसयै- वोपास्यस्वरूपस्य, तत्रापि देवतापरकाष्ठात्वं विष्णोरेवेति व्यवस्थापनात् किमनेन समन्वयाधिकरणेन शास्त्रैक्यवादे? तत्र पूर्वोत्तरमीमांसाकर्त्रो रेकसिद्धान्तत्वे पूर्वमीमांसासिद्धान्तनिरसन- मुत्तरमीमांसायां कथम्2 एवमेव देवताधिकरणे जैमिनिमतनिरसनं कथम् 2
नम् 2 वेदाध्ययनानन्तरं कर्तव्याया ब्रह्ममीमांसायास्तदनधिकारिषु कथं प्रसक्तिरपि पूर्वमीमांसायां त्वध्ययनविधिफलनिरुपणार्थमपशूद्धाधिकरणमिति युज्यते। कथं च नाध्ययनानन्तर्य मुख्योऽथशब्दार्थ: 2 अवान्तरमेव कर्मविचा- रानन्तर्यमथशब्दार्थ इति पक्षे किमिति पुनरुक्तिः साधितस्यैवार्थस्य यदि जैमिनिमुखमपेक्ष्यैव तदूरितार्थपूरणार्थ बादरायणीया मीमांस। स्यात। अतः परस्परानपेक्षया ग्रन्थरचनमुभयोरपि, इति विरुद्धसिद्धान्तकर्तृभेदः शास्त्रभेद- प्रयोजक इति स्वीकर्तव्यम्। तत्र च सिद्धान्तमेदस्यैव विवक्षणाद् न पूर्वापर- विरोधः, न वा पुनरुक्तिदोषः ।। पृथक्शास्त्रत्वे साधनचतुष्टयसपन्नस्यानुपनीतस्य त्रह्मजिज्ञासाया- मधिकारापत्तिरिति परमार्थप्रकाशिका-वदति॥ उक्ताशक्कानिराकरणार्थमेव स्वतन्त्रमपशूद्धाधिकरणमुत्तरमीमांसायाम्। ब्रह्ममीमांसा हि वेदान्तार्थमीमांसा, न तु सर्वेवेदार्थविचारः। न च तावन्मात्रा- ध्ययनस्य "स्वाध्यायोऽध्येतव्य" इत्यनेन विधानम्। अतो वेदान्ताध्ययनमात्रेण ब्रह्मजिज्ञासायां प्रवृत्तिरनुपनीतानामपि भवतीति शङ्कावारणार्थमपशूद्राधिकरणं सफलमुत्तरमीमांसायाम्। वेदान्ताध्ययनस्यापि वेदाध्ययनविधिप्रयुक्तत्वेऽपि तदर्थमात्रविचारस्य वेदाध्ययनविध्यप्रयुक्तत्वात् अनधीतवेदान्तस्य ब्रह्ममीमांसा- यामधिकार: स्यात्। इदमेवाभिप्रेत्य भाष्यम्-"धर्मजिज्ञासायाः प्रागप्यधीतवेदा- 8
Page 170
११४ अद्वैततत्त्वशुद्धि:
न्तस्य ब्रह्मजिज्ञासोपपत्तेरि"ति। जन्मत एव विरक्तानामपि वेदाध्ययन विना न ब्रह्मविचारेऽधिकारस्त्रैवर्णिकानामपीति हि तदाशयः, इति कर्तृभेदात् शास्त्र- भेदोऽपरिहरणीयः। एतेन-वेदत्वेन सर्वेषामैक्यवदत्रैक्यमिति -- परास्तम्। न हि शास्त्रत्वेन साख्ययोगवैशोषिकार्हतसौगतद्वैत विशिष्ठा द्वैताद्वैत- शास्त्राणा सर्वेषामैक्यम्। यदि तत्र प्रतिपाद्यभेदः प्रयोजकः, तर्हि स्वागतम्। अत्रापि प्रतिपाद्यभेदादेव शास्त्रभेद इति जानातु भवान्। यथा च कर्म- विचारोऽतीतो नाधिकारिविशेषणम्, तथोपपादितमघस्तात्, इत्यधिकार्यभावो विशिष्टाद्वैतमते ॥ कर्मफलानित्यत्वनिर्णयद्वारा कर्मविचारस्याघिकारिविशेषणत्वे तु कर्म- फलानित्यत्वज्ञानस्य वैराग्यपादाघीनस्य ब्रह्मविचारतः पूर्वमसंभवादन्यो- न्याश्रयो भवतामपि। न च जैमिनीयकर्मविचारे कर्मफलानित्यत्वं कुत्रापि। अधिक्मधस्तादत्रैव। अत्राद्वैतमते मतद्वय इव पूर्वमीमांसायामधीतवेदोऽधिकारी, उत्तरमीमांसायां तु साधनचतुष्टयसपन्न स इत्यधिकारिभेदात शास्त्रभेदः । शास्त्रैक्यवादे, यत्र धर्मजिज्ञासया ब्रह्मजिज्ञासाSपि प्रतिज्ञाता ; ब्रह्मणोडपि धर्मशब्दवाच्यत्वात्, नत्रोभयत्र प्रधानमधिकारिविशेषणमधीतवेदत्वमेवेति सत्यं नाधिकारिमेदः; तथापि तत्पक्षे पूर्वोक्तरीत्या कृतकर्मविचार, क्रियमाणकर्म- विचारो वा नाधिकारी। सर्वथा तु न कर्मविचारानन्तर्यमथशब्दार्थ.॥ (२) विषयभेदोऽपि पूर्वोत्तरमीमांसयोरैक्यवादं बाधते। धर्मजिज्ञासा- याम्-"चोदनालक्षणोडर्थो धर्मः" इत्युत्तरसूत्रात साध्यघर्मो विचार्यते, सिद्धो धर्मस्तूत्तरमीमांसायाम्। पूर्वत्राविरक्तोऽधिकारी, उत्तरत्र विरक्त्ोऽघिकारीति हि शास्त्रैक्यवादिनोऽपि। अत एव-"अथातो ब्रह्मजिज्ञासे"ति पृथग जिज्ञासा- प्रतिज्ञा-लक्षण-प्रमाणादिविवेचनम्। तत्र ब्रह्मपदार्थो यः कोऽपि भवतु, धर्मविचाराद्विन्नो ब्रह्मविचारो विषयभेदनिबन्धन इति तु नापहोतुमलम्॥
Page 171
शब्दप्रमाणम् ११५
(३) एतेन-फलमेदोऽपि-व्याख्यातः। कर्मविचारफलं प्राधान्ये- न कर्मानुष्ठानद्वारा स्वर्गादिः। ब्रह्मविचारफलं निःश्रेयसं मोक्षो वेति न विप्रतिपन्नम् , मोक्षस्वरूपं तु यदि विप्रतिपन्नम्, तर्हि भवतु नाम, फलभेदः कथं नात्र दुर्निवारः। स्वतन्त्रस्वर्गसाघनस्य विनियोगान्तरेण मोक्षे कर्मणां विनियोगमात्रेण ततस्तस्योपकारकत्वमात्रं भवेत्, न तु तयोरैक्यम्। न हि "दर्श- पूर्णमासाभ्यामिष्टा सोमेन यजेते"ति विनियोगवशात् दर्शपूर्णमाससोमानामैक्यम्। संयोगपृथक्त्वमात्रं हि तत्र, इति कर्मणां ज्ञाने विनियोगमात्रेण कर्मब्रह्म- ज्ञानयोरिव कर्मब्रह्मविचारयोरपि नोपकार्योपकारकभावोडपि। न हि धर्मशब्दार्थत्वमात्रेण विहितं साध्यक्रियारूपं सिद्धपरमात्मस्वरूपं चैकम्, येन विषयैक्यादैकशास्त्यमुपपद्येत। न चोपासनमपि कर्मैव, इति न तदैक्यवादः संभवदुक्तिकः। तथा सति कर्मतया करणतया वा सिद्धद्रव्यविचारस्य जैमिनीयद्वादशलक्षण्यामेव कृतत्वात् किमनया ब्रह्ममीमांसया ?॥ उपास्यस्वरूप सत्यम्, स च विष्णुरेव ब्रह्मपदवाच्य इति निरूपणं तु देवतामीमांसयैव गतम्। यदि वाक्यविशेषाणां विष्णुपरत्वमन्यपरत्वं वेति संशय- निरासार्थमियं मीमांसा, तर्हि काशकृत्स्नेन, पैलेनान्येन वा प्रस्तुताया देवता- मीमांसाया एवानुकर्षेणेक्षत्याद्यधिकरणमारभ्यैव जिज्ञासा प्रस्तूयताम्, किमनया चतुःसूतरया 2 इंद सर्वमभिप्रेत्यैवोक्तं भाष्ये-आरभ्यमाणं चैवमारभ्येत- "अथातः परिशिष्टघर्मजिज्ञासा"- "अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे"ति वदि"ति। अतो देवतामीमांसानिर्णीतसगुणब्रह्मानुषङ्गेण सगुण निर्गुणोभयब्रह्म- जिज्ञासैवोत्तरमीमांसायां विवक्षिता॥ तत्रापि प्राधान्येन मुख्यतात्पर्यविषयतया निर्विशेषमेव ब्रह्म विषयः, इति विषय भेदोऽपि शास्त्रभेदप्रयोजकः ॥ प्रयोजनभेदस्तूभयोः स्यादेवेति कर्मब्रह्मविचारयोरैक्यवादो न क्षोदक्षमः। विषयप्रयोजनभेदेन संबन्धभेदोऽप्यर्थसिद्धः, इत्यनुबन्धचतुष्टयं
Page 172
११६ अद्वैततत्त्वशुद्धि:
शास्त्रैक्यवादस्य नितरां प्रतिकूलम्। अत एकार्थप्रतिपादकत्वामावान्नैकशासतर- त्वमित्यामोदोक्त दुष्प्रकम्प्यम्।
(4) आरम्याधीतत्वम्, अनारभ्याीतत्वं च न क्रमपाठमादाय निर्वेहति। सत्यङ्गाद्विभावसंबन्धयोग्यत्व आरभ्याधीतत्वम्, तत्तत्प्रकरणसंबन्धा- योभ्यत्वेऽनारभ्याघीतत्वम्-यथा "यस्य पर्णमयी जुहूमवती "ति। न हि तदपि वाक्यं कस्यचन वाक्यस्यानन्तरं पठितमिति कृत्वाऽडरभ्याधीतम्॥
न च जैमिनीयकर्म विचारानन्तरमेव ब्रह्मविचारो बादरायणीय इति क्रमे किमपि प्रमाणमस्ति, सकर्षकाण्डानन्तरमेव वेति। "अथातो ब्रह्मजिज्ञासे"ति स्वतन्त्रं जैमिनिमनपेक्ष्य बादरायणेन ब्रह्ममीमासा पूर्व युगपद्वा कृतेति वादे का वा बाधा 2 एवं जैमिनिनाऽपि बादरायणमनपेक्ष्य कृता धर्मजिज्ञासेति वादेऽपि का वा हानि: 2 अनादिसंप्रदायसिद्धानां न्यायानां जैमिनिना, बादरायणेन वा संग्रहमात्र सूत्ररूपेण ग्रथितमिति हि सांप्रदायिक: पन्थाः; अन्यथा जैमिनिना, बादरायणेन, तत्प्राचीनैर्वा कर्मविचारं जैमिनीयं बादरायणीयं वा विना कर्मब्रह्मतत्वज्ञानमनधिगतं स्यात, देवतानां ब्रह्मविद्याधिकारो वा कथं बादरायणेनापि समर्थयितुं शक्यते? किं बादरायणीयब्रह्मजिज्ञासायां बादरायणोऽधिकारं नियमयति 2 सर्वथा तु जैमिनीयकर्मविचारस्य बादरायणीयब्रह्मविचारस्य च न क्रमः, न वा कर्मप्रकरणे ब्रह्मविचारः, इति कथ कर्मविचारमारभ्याधीतत्वं ब्रह्मविचारस्य 2 अतोऽनार- भ्याधीत एव ब्रह्मविचारः, सोऽपि स्वतन्त्र एव बादरायणस्य।।
(5) अस्तु वा कथंचनारभ्याधीतत्वमपि, तथापि-"अथैष ज्योति- रथैष विश्वज्योतिरि"त्यादाविवाथशब्देन प्रकरणविच्छेदपूर्वकम्-"अथातो ब्रह्मजिज्ञासे"ति, ब्रह्ममीमांसेति नामान्तरेण च प्रस्तुतो ब्रह्मविचारः संज्ञयाऽपि भेदमेवार्हति कर्मविचारात, यस्य धर्मजिज्ञासेति संज्ञान्तरम् ।
Page 173
शब्दप्रमाणम् ११७
तन्र 'अथातो धर्मजिज्ञासे'ति धर्मपदेन सिद्धसाध्यघर्मद्वयस्य विवक्षायां धर्मपदमपरित्यज्य परिशिष्टधर्मजिज्ञासेति सिद्धधर्मजिज्ञासेति वा सूत्रणीयम्। न तु तत्पद दूरीकृत्य ब्रह्मपदप्रक्षेपेण। तेन च ज्ञायते "कृष्णं धर्म सनातनमि" त्यादिवचनसिद्धसगुणविचार एव तत्र प्रक्रान्तः, नतु निविंशेषसंवित्स्वरूप- जिज्ञासाडपि। अतश्च पृथक् ब्रह्मपदेन न सगुणब्रह्ममात्रपस्तावो ब्रह्ममीमांसायाम्॥
तत्र निर्गुणं न धर्मपदार्थ, सगुणं तु धर्मपदार्थोऽपि, ब्रह्मपदार्थोडपि। अत एव धर्मपदत्यागेन ब्रह्मपद्प्रयोगः । तेन च धर्मजिज्ञासातः पृथव्त्वं ब्रह्म- जिज्ञासाया निगदव्याख्यातम्।
भिन्नकर्तृकत्वं हि तत्कार्यभेद न प्रयोनयति, अन्यकृतस्यापूरितस्य प्रासादादे: कादम्बर्यादेरवाडन्येन पूरणं क्रियते विषयस्य चैक्ये। न चात्रोभयमपि। कर्मविचारः पूरित एव जैमिनिना; अन्यथा ब्रह्मजिज्ञासेति किं नामान्तरेण? न हि बहुकर्तृकस्यैकस्य प्रासादम्य, कादम्बर्यादेरवा कर्तृभेदप्रयुक्तकार्यभेदस्य नामा- न्तरेण व्यपदेशः । अतो धर्मजिज्ञासा, ब्रह्मजिज्ञासेति नामभेदात् तत एव तत्कर्तृभेदादपि शास्त्रभेद एव शरणम्।। सर्वथा तु क्रमिकत्वेऽपि कर्मविचारादेः कर्मविचारानन्तर देवताकाण्ड- विचारः, तदनन्तरं ब्रह्मविचार इत्येव युक्तम्। देवताविचारानन्तरं ब्रह्मविचार- विवक्षायां तु देवतामीमांसाया एव सगुणन्रह्मविचारत्वात् तदानन्तर्य निविशेष- ब्रह्मविचारस्यैवायातम् न तु सगुणब्रह्मविचारस्यैव, इति घट्टकुख्यां प्रभातम्।।
श्रीभाष्यमते हि सगुणोपासनकमणोरेवोपकार्योपकारकभावः; निर्विशेष- ज्ञानस्यैवानङ्गीकारात्। तत्र यदि ब्रह्मजिज्ञासेति सगुणव्रह्मबेदनमभिप्रेत्यैव, तर्हि सगुणोपासने सहानुष्ठानेन कर्मणामुपकारकत्वमद्वैतिनामपि संमतम्। तथाच श्रुतिः -"विद्यां चाविद्यां च यस्तद्वेदोभयं सहे"ति। न च कर्मविचारस्य ब्रह्म- विद्यया साहित्ये किमपि प्रमाणमस्ति ॥
Page 174
११८ अद्वततत्त्वशुद्धि:
फलं चास्य ततो विलक्षणमेव। न चोक्तविधब्रह्मजिज्ञासायां कर्मणः, तद्विचारस्य वोपयोगः। साक्षात् परम्परया वा तदुपयोगस्तु जन्मान्तरीयेण कर्मणाडपि, इति भामत्यादौ व्यक्तम्, इति न कर्मविचारानन्तर्य ब्रह्मविचारस्य। नच ततः शास्त्रैक्यवाद इति वस्तुस्थिति: ॥ (३) एतेन-आराधनाराध्यभूतयो. कर्मब्रह्मणोरविरोध इति- परास्तम्। सगुणब्रह्मकर्मणोस्तद विरो घित्वेऽपि निर्विशेषब्रह्मणा तस्य विरोधस्य निराबाधात्। यत्त-श्रेयःसाधनत्वात् कर्मेव ब्रह्मापि धर्म-इति, तत्र कर्मण: फलसाधनत्वे भगवत्प्रसादस्य द्वारत्वेन तद्द्वारा फलदातृ- त्वेऽपि न भगवतः श्रेयस्साधनत्वम्; कर्मविधौ कर्मवत्साधनत्वेनेश्वरस्याप्रतिपाद- नात्, अन्यथा कर्मणः श्रेयस्साधनत्वानुपपत्तिरिति कथ कर्मवत् ब्रह्म श्रेय- स्साघनम् ; अननुष्ठेयत्वाच्च ब्रह्मणः। क्रिया, तत्साघन वा क्रियासम्बद्धमेव फलसाघनम्, यत्र फलं साध्यम्। तत्र क्रिया तत्साधनं वा परम्परया फलसाधनम्। उपास्यं हि ब्रह्म नोपासनाया करणम्, किन्तु तत्कर्म, इति तद्विशिष्टोपासनमेव भगवत्प्रसादद्वारा फलसाघनमिति कथं चोदनालक्षणोऽर्थो धर्म इति सूत्रोपन्यस्तं धर्मत्वं ब्रह्मण.2 येन ब्रह्मविचारोऽपि धमजिज्ञासा- विषयः स्यात् ॥ अतो धर्मविचारत्वं न विचारद्वयानुगतो धर्मः। वेदार्थविचारत्व- मात्रविवक्षायां "चोदनालक्षणोडर्थो धर्म" इति सूत्रवैय्थ्यमेकं दूषणम्। अपरं तु भामत्युक्तम्-'अथातो ब्रह्मजिज्ञासे'ति सूत्रवैयर्थ्यम्। वेदार्थविचारत्वेनैक्यं तु द्वैताद्वैतविशिष्टाद्वैतविचाराणामैक्यापत्या नोचितम्। तन्र द्वैताद्वैतविचाराः पूर्वपक्षतया विशिष्टाद्वैतेऽपि क्रियन्ते, एवं विशिष्टाद्वैतविचारः पूर्वपक्षतया द्वैताद्वैतविचारयोरिति स्थितेऽपि वेदार्थविचारत्वं सर्वेषामक्षतम् ॥
Page 175
शब्दप्रमाणम् ११९
यदि सिद्धान्तार्थमादायैव वेदार्थविचारत्वमैक्यप्रयोजकम्, न पूर्वपक्ष- तया विचारत्वम्, तर्हि "धर्म जैमिनिरत एव" "मध्वादिष्वसंभवादनबिकारं जैमिनि:" 'तत्तु समन्वयादि'त्यादौ, देवताघिकरणे 'शब्द इति चेन्ने'त्यादौ च जैमिनीयविचारस्यापि पूर्वपक्षतया ग्हणात् तेनापि विशिष्टाद्वैतरीत्या ब्रह्म- विचारस्य नैक्यम् ।। जैमिनीयधर्मविचारः कर्मविचार इति मत्वा खलु कर्मब्रह्मविचारयोरैक्यं मन्यते, तेन च जैमिनीयो न ब्रह्मविचार इति निगदव्याख्यातम्, इति विषयमेदे स्पष्टे, कथमैक्यं वेदार्थविचारत्वमात्रेण2 दर्शपूर्णमासाग्निहोत्रादि कर्म- विचारस्य कर्मरवेन वेदार्थविचारत्वात् तद्विचाराणामैक्यम्, न तु ब्रह्मापि कर्म। धर्मविचारत्वेनैक्यं तु वेदार्थविचारस्य जैमिनिप्रतिज्ञातस्य कर्मातिरिक्तधर्मविषयत्वे सत्यं स्यात्, न चैतद् भवताऽपि मन्यते। जैमिनीयः कर्मविचार इति हि पौन :- पुन्येनावर्त्यते। धर्मशब्देन ब्रह्माविवक्षाकारणानि तु पूर्वमेवोपन्यस्तानि ॥ तत्र कर्मकाण्डोपनिषद्धागयोरेकवेदाध्ययनविधिगोचरत्वेन सशिरस्क- वेदस्यैव तत्तच्छाखाभेदभिन्नस्य "स्वाध्यायोऽध्येतव्यः" इत्येकवचनान्तस्वा- ध्यायपदेन ग्रहणादेकत्वम्, न त्वर्थैक्यमभिप्रेत्य, वेदत्वजात्याक्रान्तत्वेन जाता वेकवचनेन हि तत्रैकत्वम्; अन्यथा सर्वेषां वेदानामपि वेदत्वेनैक्यापत्त्या वेद- विभागकथैव लुप्येत ।। इंद चैकशास्त्रयं जैमिनेरपि नाभिमतम; यतो ब्रह्मविचार विरुद्धं धर्मस्यैव फलसाघनत्वम्, शब्ददेवतात्वम्, देवताविग्रहनिषेधम्, तत एव देवतानां ब्रह्मविद्यानधिकारित्वम्, उपनिषदर्थवादत्वम्, यथा-"शेषत्वात पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरि"ति सूत्रोक्तविधया स्वानभिमत बादरायणविचारं जैमिनिर्मन्यते॥ उत्तरस्यां मीमांसायां "तदुक्तमि"ति त्वविरुद्धांशे जैमिनीयन्यायानामपि 'अनुक्तम विरुद्धमन्यतो ग्राह्यमि'ति न्यायेनानुसन्धानं बादरायणस्य स्वशिष्यस्यापि
Page 176
१२० अद्वैततत्त्वशुद्धि:
तन्त्रान्तरप्रवर्तकस्यांशविशेषे समादरणमभिप्रेत्य-स्वीयमुद्देशं किश्चन सम्य- गुपक्षिपतीति॥
अधिकारिभेदमूलस्य तस्य तत्र प्रवर्तकत्वम्। अन्यं चाधिकारिणमभिप्रेत्य तस्य तन्त्रान्तरप्रवर्तकत्वमिति तु तत्त्वम्। न च जैमिनेरप्युक्तन्यायविस्तरः स्वबुद्धिप्रभावेण, किन्तु बादरायणोपदेशप्रभावमात्रेण। न्यायाश्च सर्वेऽनादि- संप्रदायसिद्धाः, न तु जैमिन्यादयुपज्ञाः, इति जैमिनि प्रति स्वोपदिष्टस्य न्यायस्यैव "तदुक्तमि"ति स्वयमनुसन्धानं न दोषाय। व्यक्तं चैतदन्यत्र- न पूर्वमीमांसोपजीवकत्वमुत्तरमीमांसाया :- इति। अतो पूर्वमीमांसोक्तन्यायानु- सरणेनोत्तरमीमासेति वाक्यं यदि पूर्वगीमांसाद्वारैव तदीयन्यायानुसरणमभिप्रेत्य, तर्हि बाधितम्। स्वोपदिष्टानामपि न्यायानामनुम्मरणं जैंमिनिगुरो: स्वशिष्य- कृतिमपेक्ष्येति न श्रिष्टतरम ॥
"एक आत्मनः शरीरे भावात" इत्यधिकरणे भाष्ये-"ननु शास्त्रप्रमुख एव प्रथमे पादे शरीरानात्मत्वं शबरस्वामिने"त्यादिना यद्यपि शासत्रैक्यं मीमांसात्वेनोपन्यस्तम्, तथा सर्वसिद्धान्तसारसग्रहे, पुराणन्यायमीमां सेत्यादौ मीमांसात्वेन मीमांसयोरैक्यानुसंधानवत् विशतिलक्षणी मीमांसेति; तथापि न तद्विषयैक्यम्, प्रयोजनैक्यम्, अधिकार्यैक्यम्, कर्मविचारानन्तर्य ब्रह्मविचारस्येति वा मत्वा; जिज्ञासाधिकरणे सर्वेषामेषां निरसनात। एतादृशमैक्यं तु वेदत्वेनैक्यमिवाकिंचित्करम्।
शिवार्कमणिदीपिका हि बहुमिः कारणः शास्त्रैक्यं प्रसाध्य, न तत्राग्रह इत्युपसंहरति-विषयभेदादिना शास्त्रभेदमेवान्ततो व्यवस्थापनेन विशिष्टाद्वैत- वादमाश्रित्यापि॥ वस्तुतस्तु-वृत्तिकारमताभिप्रायेणैव "एक आत्मनः" इत्यत्रैक- शास्त्र्यं भाष्य उत्तम्, न तु स्वमतेन-स्वसिद्धान्तविरोघिनामन्येषामाचार्या-
Page 177
शब्दप्रमाणम् १२१
णामपि तत्रैकमत्यमिति। तत एव विस्तारोऽवगन्तव्य इति ज्ञापनार्थ पूज्यतया वृत्तिकारादीनामनुसन्धानम्, न तु तदीये शास्त्रैक्येऽपि स्वाभिमतसूचनार्थम्। न चेमे वृत्तिकाराः पूर्वाचार्या बोधायनाचार्याः ; एतन्मते आत्मविभुत्वा- दीनामङ्गीकारात्। विस्तृतं चैतत् श्रोकवार्तिके वृत्तिकाराभिमतात्मवादनिरुपणा- वसरे। अत उक्तम्-भाष्यानुसारेणापि न शास्त्रैक्यं साधयितुमलम्।। इमे हि वृत्तिकारा-अद्वैतिनां विशिष्टाद्वैतिनां च ब्रह्मपरिणामवादे, ज्ञानकर्मसमुच्चयवादे, अविकृतात्मपरिणामे, नित्यधर्मभृतज्ञानवादे च विरुद्धाः, सर्वात्मना विशिष्टाद्वैतिनां तु आत्मविभुत्ववादेऽपि, इति तन्मतानुसरणमुभयोरपि विधातायैव। अंशत स्वाभिमतानुवादमात्रेण शास्त्रैकये भगवत्पादानां तात्पर्यमिति कल्पनायां विशिष्टाद्वैतमतेऽप्यात्म विभुत्वज्ञानकर्मसमुचयब्रह्मपरिणामवादाद्यापतिः, उपवर्षाचार्या एव भास्करसंप्रदायप्रवर्तका इति भास्करभाष्ये व्यक्तम्। भास्कर- मत तु विशिष्टाद्वैतमतेऽपि निरस्यते॥ अत एव- कपिलस्य कण।दस्य गौतमस्य पतञ्जले । व्यासस्य जैमिनेश्रापि शास्त्राण्याहुः षडेव हि।। इति वचनम्। इंद वचनमद्वैतसिद्धान्तपक्षपातिन कस्यचिदिति न प्रमाणमिति परमार्थप्रकाशिका-भणति॥ तत्राद्वैतपक्षपात एव यद्यप्रामाण्यनिमित्तम्, तर्हींदं विविच्यताम्- किमिदं विशिष्टाद्वैतिनां दृष्टचाऽप्रमाणम्, उताद्वैतिनां दृष्टया, उतोभयदष्टयेति? आद्येडद्वैतपक्षपातिनां केषां वाक्यं विशिष्टाद्वैतिनां प्रमाणम् 2 द्वितीये तु बाधितम्। अत एव न तृतीयः; इदमेवात्रानुयुज्यते-विशिष्टाद्वैतपक्षपातिनां किं वाक्यमद्वैतवादिनां प्रमाणमिति, इति स्वविरोधमात्रेणाप्रामाण्यव्यवस्था न फलाय कल्पते, किञ्चित्करी वा ।
Page 178
१२२ अद्वैततत्त्वशुद्धि:
यथाच पूर्वोत्तरमीमांसयोविषयादिभेदनिबन्धन एव भेदः प्रामाणिक:, न च मीमांसात्वेन तदैक्यम्, तथा पूर्वमेवोक्तम्। अतः पुराणन्यायमीमांसेति वाक्ये मीमांसात्वेनैक्यनिर्देशो नोक्तवचनविरुद्धः; अन्यथा पुराणत्वेन सात्त्विक- राजसतामसपुराणानाम्, अङ्गत्वेन शिक्षाव्याकरणछन्दोनिरुक्तज्योतिषामप्येक- त्वमापद्येत॥
निर्णयसिन्धु-रघुनन्दनतत्त्व-वैद्यनाथदीक्षितीयादीनामे कस्मृतिव्याख्यान- त्वेनैकत्वापत्तेः। यदि तत्र कर्तृभेदः, तर्हि अत्रापि समानम। सायण-भट्टमास्कर- भाष्याणाम्, किं बहुना? तत्तद्ब्रह्मसूत्रभाष्याणामप्येकग्रन्थत्वापत्तिरे कव्यार्येय- व्यख्यानत्वादिति पूर्वमेवावेदितम् ।। यथा च ब्रह्मजिज्ञासा नियमेन कर्मविचारं नापेक्षते, उपनीतानामधीत- वेदान्तानामपि साधनचतुष्टयसंपन्नानां जन्मान्तरीयकर्मानुष्ठानेन विगलितान्त :- करणमलानां जैमिनीयकर्मविचार विनापि जैमिनिबादरायणतत्प्राचीनपराशर- प्रभृतीनां देवतानां च कर्मानधिकारिणां ब्रह्मविचारस्य विष्णुपुराणा दितोऽवग- मात्, तथा पूर्वमेवोपपादितम् ।। यत्तु-वेदाध्ययनजनितापातप्रतीतिकाल एव केवलकर्मणैवानन्तस्थिर- फललाभसभवे किमिति कर्मोपकारबलेन फलहेतुतया प्रतीयमानब्रह्म- विज्ञानेनेति बुद्धयापि कर्मविचार एव प्रवृत्ति प्राथमिकी स्यात्-इति, तदिदम्-सशिरस्कवेदाध्ययनजनितापातप्रतीतिकाले, उपनिषद्धाग- मात्राध्ययनजनितप्रतीतिकाले वा केवलब्रह्मज्ञानेनैवानन्तस्थिरफललाभ:, कर्मणां त्वल्पास्थिरफलहेतुत्वमिति बुद्धया ब्रह्मविचार एव प्रवृत्तिः प्राथमिकी स्यात्, इति विपरीतशंकाया अपि संभवाद् नोपपद्यते।। शङ्कितं चैवं श्रुतप्रकाशिकायामपि। यत्रोक्तशंकापरिहारमुखेन- "अथातो ब्रह्मजिज्ञासेत्येव प्रथमा प्रतिज्ञा, जैमिनीयकर्मविचारस्तु तृतीय-
Page 179
शब्दप्रमाणम् १२३
चतुर्थचरणशेषतया, पाठक्रमादर्थक्रमो बलीयानिति न्यायावष्टम्भेनेत्यादि। तत्र सर्वस्य जैमिनीयकर्मविचारस्य साधनाध्यायशेषतया योजनकल्पना तु व्यासस्य ब्रह्ममीमांसाया यथाय्थं रचनायामसामर्थ्यमेव ज्ञापयति॥ यद्ययमेव व्यासाशयः, तर्हि "सर्वापेक्षा च यज्ञादिश्वुतेरश्ववत्" इति कर्मणामिव तद्विचारस्यापि साधनाध्याय एव सूत्रणं न कुतः १ यदि सर्वांपेक्ष- येति सूत्रेणैव तद्विचारसाधनत्वमपि सूचितम्, तर्हि किमनेन कर्मविचारेण पृथक् सूत्रितेन, तृतीयतुरीयचरणशेषतया योजनेन च 2 यदि वस्तुस्थिातिकथन- मात्रमिदम्, तर्हि किमिति व्यासेनैव कर्मविचारोऽपि न कृतः 2 किमिति वा स्वशिष्यद्वारा सवसिद्धान्तविरुद्धानामर्थानां पूर्व सवविचाराङ्गानामेव प्रचारणम्? "अथातो ब्रह्मजिज्ञासे"त्यत्र विवक्षितं ब्रह्मज्ञानं कर्मविरुद्धम्। देहाति- रिक्तत्वेनात्मज्ञानमात्रं कर्मण उपकारकम्, न त्वकर्तृत्वादिरूपेण। तच्व कर्मानुष्ठा- नस्य कर्तृत्वादिज्ञानसापेक्षस्य विरोधि, भेदगर्भत्वात् कर्मणाम्। सत्यं सविशेष- ज्ञानमपि भेदगर्भम। को वा विप्रतिपद्यते तस्य भेदगर्भतायाम् 2 विप्रति- पत्तिस्तु ब्रह्मज्ञानमत्र विबक्षितं निर्विशेषा कर्त्रभोक्त्रादिसविन्मात्रविषयकमेव विवक्षितं वा, न वेति।। तदेवात्र विवक्षितमित्यद्वैतिनः । परे तु तत्र विवदन्ते। एकांशवाद- मध्ये वादान्तरमादाय दूषणं शाखाचंक्रमणमेव। ब्रह्मनिर्विशेषत्वं कृत्वाचिन्त- याऽत्राभ्युपगम्यैव कर्मब्रह्मणोरविरोघचर्चा प्रस्तुता। ब्रह्मसविशेषत्ववादे तु तदविरोध: संप्रतिपन्न एव। ततश्र सविशेषमेव मनसि निधाय कर्मब्रह्माविरोध- समर्थनं सिद्धसाघनमेव।। अस्तु वा श्रवणादाविव भेदगर्मत्वं कर्मणोऽपि ब्रह्मणा विरोधं विरुण- द्वीति, तथापि निर्विशेषब्रह्मज्ञानसाधनत्वं न साक्षात् शमदमादीनामिव ज्ञान- कालपर्यन्तमनुवर्तमानानाम् ; शमाद्यन्तरङ्गसाधनेनैव तस्य गतार्थत्वात्। प्रमाणमा- त्रापेक्षे प्रत्यक्षे तु कर्मणां न कथमप्युपयोगः ॥
Page 180
१२४ अद्वैततत्त्वशुद्धि:
न च-अत्र, वेदन न साक्षात्कारः, किन्तु दर्शनस्मानाकारध्रुवानुस्मृति- रूपं निदिध्यासनमेवेति-वाच्यम्; विप्रतिपन्नं हीदम्। नच साक्षात्कारकाले सह, समुच्येन वा कर्मणोऽपि सम्बन्धः । न च साक्षात्कारोऽपि कर्मवत् पुरुष- तन्त्र:, किन्तु प्रमाणतन्त्रः। निदिध्यासनान्तसाधने परम्परयोपकारकत्वं तु संप्रतिपन्नमेव॥ "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेने " ति श्रुतिर्हि न निर्विशेपात्मसाक्षात्कारार्थत्वं कर्मणां बोधयतीति संप्रतिपन्नम्। तत्र स- विशेषवेदनसाधनत्वमेव, न तु निर्विशेषज्ञानसाधनत्वमिति तु विप्रतिपन्नम् । तन्र विदन्तीत्यप्रयोगेण विविदिपन्तीति सन्नन्तप्रयोगस्य किमस्ति प्रयोजनमिति विवेचनीयम्। ततः परंतु सन्नन्तप्रयोगस्थले इच्छाया एव फल- त्वम्, उतेप्यमाणस्येति चर्चोतिष्ठति। तत्र वेदनसाधनताय। एव विवक्षणे सन्नन्त- प्रयोगवैयर्थ्य विशदमेव। तत्सार्थक्यं तु विविदिषासाधनत्वेनैव यज्ञादीनाम्। तत्र ससाधानसन्नन्तप्रयोगस्थले साध्यत्वं सन्नर्थस्य वा, उत प्रकृत्यर्थ- घात्वर्थस्य वा। तत्र द्विविधाऽपि गतिर्वर्तते-'अधेन जिगमिषति,' 'असिना जिघांसति,' 'औषधेन बुमुक्षती' त्यादौ॥ तत्राश्वस्य गमनसाधनत्वम्, असेर्हननसाधनत्वमिति सन्प्रकृत्यर्थस्यैव साध्यत्वमाद्ययोः। औषधेन बुभुक्षतीत्यत्र तु सन्नर्थस्यैव साध्यत्वम्।। तत्र प्रथमे द्वितीये च न सन्नर्थविवक्षा, यत्र घात्वर्थस्य साध्यस्यापि भाव्य- वस्था न विवक्ष्यते, तृनीये तु भोजनप्रतिबन्धनिवृत्तीच्छापर्यन्तत्वम्, तत्र साध्यत्वं भाविन एवेति सन्निर्थकः। अतस्तत्र लक्षणया प्रकृत्यर्थमात्रस्य विवक्षा। "विविदिषन्ती" त्यत्र तु यज्ञादीनां न साक्षातसाघनत्वमश्वादेर्गमनादाविव, किन्तु परम्परयेति संप्रतिपन्नम्। तृतीये तु साक्षात्साघनत्वं लक्ष्यार्थे व्याहतम्, इति तन्न्यायेन विविदिषार्थत्वमेव यज्ञादीनामित्यद्वैतिनां केषांचनाशयः, अन्येषां तु परम्परया ज्ञानसाघनत्वमपि यज्ञादीनामिति। तत्र द्विवि-
Page 181
शब्दप्रमाणम् १२५
धोऽप्यर्थोडद्वैतिनामविरुद्धः। वेदनस्वरूपमात्रे विप्रतिपत्तिः। तच्व जन्मान्तरा- नुष्ठानमात्रेण, उतेहैव जन्मन्यनुष्ठानेन वेति त्वन्यदेतत्। तत्र विविदिषासाघनत्व पक्षोऽपि न वेदनरूपफलेच्छासाधनतवेन, किन्तु कर्मणां वेदनप्रतिबन्धकचित्त- मालिन्यनिवृत्तिद्वारेत्येत्यद्वैतिनामाशयः॥
ऐतेन-विविदिषा नाम वेदनरूपफलेच्छा। न च फलेच्छां विनो- पायफलेच्छा भवति। न चता विनोपायभूतकर्मानुष्ठानं भवतीति विविदिषा- रूपफलविषयिणीच्छा काचित् कल्प्या, विविदिषाया अषि स्वयं फलत्वाभावात् तदिच्छापि तत्फलेच्छाऽधीना, इच्छाया इष्यमाणप्रधानत्वात्। विविदिषाया वेदनमेव फलम्। तथाच वेदनेच्छां विना विविदिषेच्छा न भवतीति तस्या. सर्वप्राग्भावित्वेन कर्मानुष्ठान विनैव विविदिषा न भवति, इति तस्या. सर्वप्रागभावित्वे कर्मानुष्ठानं विनैव विविदिषोत्पन्ना, इति कुत. कर्मानुष्ठानम्? अतो वेदनार्थमेव कर्मेति-परास्तम्॥
तत्र फलेच्छया साघने प्रवृत्तिः, न तु साधनेच्छापि साधनानुष्ठानानुष्ठा- नार्थपेक्ष्यते, यदि साधनमपि फलत्वेन न विवक्ष्येत ; फलेच्छामात्रेण साधने प्रवृत्तिसंभवात्। तत्र विविदिषायाः फलत्वे तद्विषयेच्छान्तरमपेक्षितं स्यादित्य- नवस्थापत्त्या नेच्छायाः फलत्वम्। एतदभिप्रायेणैवोक्तम्-"ब्रह्मजिज्ञासायाः अनधिकार्यत्वात्"-इति। तेन न्यायेनात्रापि न फलं भवितुमर्हति। अतो वेदनप्रतिबन्धकनिवृत्तिरेवात्र विविदिषापदार्थः। वेदननिर्वृत्तिस्तु तत्साधन- श्रवणादिसाघनाघीना। अत एव "अथातो ब्रह्मजिज्ञासे" त्यत्रेच्छाविषयज्ञान- स्यावगतिपर्यन्त निश्चयात्मकज्ञानजनकविचार विधयैवेच्छाविषयत्वं विवक्ष्यते। तेन विचार एव साधनान्वेषणा, न तु वेदने, इति नात्र-"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने"ति वाक्यार्थो विचार्यते।
तदर्थमेव हि-सर्वापेक्षाधिकरणं तृतीयाध्यायतुरीयचरणे, इत्यत्र कर्मोपयोगविचारचर्चैव नास्ति, सुतरां कर्मविचारस्य ब्रह्मविचारसाधनत्वचर्चा शमदमादिसंपत्तेरिव ज्ञानप्रकरण एव श्रुताया इव ।।
Page 182
१२६ अद्वैततत्त्वशुद्धि:
उद्देश्यत्वं हि वेदनप्रतिबन्धकेच्छानिवृत्तेरपि संभवति। तत्र वेदनम् -जिज्ञासाधिकरणविषयवाक्ये "आत्मा वा अरे द्रष्टव्यः" इत्यत्र फलतयाऽ- भिप्रेत आत्मसाक्षात्कारः, न तुध्यानम्, तस्य विधेयत्वेनाफलत्वात्। 'द्रष्टव्यः' इत्यस्य दर्शनसमानाकारघुवानुस्मृतिपरत्वे दर्शनमपि ध्यानरूपत्वाद् विधेयमेव, न फलम्। न च-फलविशेषं बिना कुत्रापि विधिः। सर्वथा त्वत्र प्रकरणे सर्व- शास्त्रोपसंहारन्यायेन पञ्चपादिकोक्तरीत्या नित्यानित्यवस्तुविवेकादीनामेव साघ- नाना निर्देशः । "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती"त्यत्र जिज्ञासा- विषयवाक्यगतदर्शनमेवानूद्य कर्मणाम्, तद्विचारस्य वा विधाने- "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुण:" इति न्यायविरोध:, इति तत्प्रतिबन्धकनिवृत्त्युद्देशेनानेकविधानमेव युक्तम्। अतः "औषधेन बुभुक्षती"त्यादाविव सन्नर्थविवक्षया विवरणमेव युक्तम्। अतो नात्र चेदन फलम्, किन्तूक्तविधया विविदिषैव। अभ्युपगत च परमार्थ- प्रकाशिकयाऽपि "औषधसेवनेन बुभुक्षती"त्यादौ भोजनप्रतिबन्धकनिवृत्तेरुद्देश्य- त्वम्। न चात्र भोजनस्योद्देश्यत्वं संभवति ; औषघस्य भोजनसाघनत्वा- भावात्। परम्परया साघनत्वं विविदिषावाक्येऽपि समानम्। अत एवाद्वैतिनामेव केषांचन वेदनोद्देश्यत्वपक्षः। न चात्र वेदनस्योद्देश्यत्वं साक्षादित्युक्तमेव ; उत्पत्तिशिष्टगुणावरोधन्यायेन नित्यानित्यवस्तुविवेकाद्यतिरिक्तस्य साक्षात्साधन- त्वेनान्वयायोगात्। तत्र सगुणोपासनाङ्गत्वं कर्मविचारस्य न वार्यते। सगुणोपासनमपि स्वतन्त्रम्, कर्माङ्गोपासनं वा कर्मविचारमपेक्षताम्। अत एव कर्मविचारानन्तरं देवतामीमांसा ।। "अथातो ब्रह्मजिज्ञासे"त्यत्र प्रस्तुतनिर्विशेषसाक्षात्कारे कर्मणाम्, तद्ि- चारस्य वा पूर्ववृत्त्वं खलु वार्यते। सगुणोपासनस्यापि ब्रह्ममीमांसायामनुषङ्गेडपि मुख्यं प्रतिज्ञाविषयत्वं निर्विशेषजिज्ञासाया एव। तत्र च कर्मणां तद्विचार
Page 183
शब्दप्रमाणम् १२७
एवोपकारकत्वम्। अत एवोक्तम्-"उद्गीथादिविचारस्तु प्रासङ्गिकः" इति। प्रासङ्गिके तत्र कर्मविचारापेक्षाऽकिंचित्करी ; निर्विशेषज्ञाने तदप्रयोजकताया एव विवक्षणात्॥
न हि सर्वात्मनाSप्रसङ्गोऽपि सकर्मविचारस्य सगुणोपासनस्य निर्गुणसाक्षा त्कारान्तरङ्गसाधनस्य। अन्यथा का वा सङ्गतिरत्र कर्माधिकाररहितानां देवतानां ब्रह्माधिकारविचारस्य ?॥
तत्राधीतवेदस्यानधिगतजैमिनीयकर्म विचार स्येन्द्रा देर्यदि ब्रह्मविद्याधिकारः, तदा कैव कथा धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मविचाराघिकारे ?
तत्र कर्मविचारोऽप्रधान. सगुणब्रह्मविचार एवोपयोगी, न प्रधानब्रह्म- जिज्ञासायाम्, इति न स प्रधानसाधारणविचारोपयोगी, इति प्रधानविचार- मात्रापेक्षितसाधनचतुष्टयसंपत्तिरेवात्राधिका रिविशेषणम् । प्रतीकोपासनानि, दहरोपासनादीनि च सर्वाणि श्रवणमात्र एवोपकारकाणि। तदानी ब्रह्मज्ञानं तु परोक्षतया, नापरोक्षतया, इति न विरोधलेशोऽपि। सगुणोपासनादीनामप्य- प्राधान्येन निर्णयस्यात्र विवक्षितत्वात् कथश्चनोद्गीथादिविचारोऽपि नाप्रसक्त इति विवेचितम्। कथञ्चन कर्मविचारस्यापि तदीयोपयोगनिरासार्थमन्ततोऽपेक्षणात् तदानन्तर्यस्याथशब्दार्थत्वे न्याय-वैशेषिक-सांख्य-पातञ्जल-शैव-जैन-सौगतादि- मतानामपि निरासात् तदानन्तर्यमप्यथशब्दार्थ: स्यात्। तत्र यदि साङ्गोपाङ्गवेदमधीतवतो विचारात् प्राक् वैशेषिकादिशास्त्र- परिज्ञानमपि पूर्ववृत्तमेव, तर्द्यत्रापि तादश पूर्ववृत्तत्वं काममास्ताम्। परं तु तस्य ब्रह्मवेद नोपकार कत्वेनाधिकारिविशेषणत्वं तु नास्ति। न हि ब्रह्मजिज्ञासापूर्ववृत्तत्वं परम्परयाऽपि वैशेषिकादिज्ञानस्य श्रतिचोदितम्। यदि तत्तच्छास्त्रप्रस्तावसमये तत्तच्छास्त्रार्थज्ञानम्, तर्हि कर्मविचारस्यापि तत्प्रसङ्गमात्रे तदर्थज्ञानं भवतु, किमिति तस्यापि ब्रह्मविचारपूर्ववृत्ततया?
Page 184
१२८ अद्वैततत्त्वशुद्धि.
न चैतावता कर्मणामविरुद्धता; अन्यथा वैशेषिकादितन्त्राणामपि न कथ विरोध: १ इति समान. पर्यनुयोगः कर्मविचारवैशेपिकादिपूर्ववृत्तत्वयोः । इदमेवाभिप्रेत्य भाषितम्-"धर्म जिज्ञासायाः पागप्पधीतवेवन्तस्य ब्रह्मविज्ञासोप- पत्तेः" इति। न चानधीतवेदस्यापि साधनचतुष्टयसपन्नस्यैव ब्रह्मविचारप्रसङ्ग इति पूर्वमेवोक्तम् ॥ अतः-"यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इत्युक्तरीत्यैककमपि वेदं सृजन् भगवान् जीवराशेविपरीतप्रवृत्तिविघटनार्थम्- यथाकालमुपनयनम्, वेदाध्ययनम्, कर्मकाण्डार्थविचार., ततम्तदनुष्ठानम्, नित्यानित्यविवेकादौ ब्रह्मविचारः, भक्तियोग, ज्ञानयोग इत्यादिषु यथारुचि पुरुष नियुङ्क्ते, इति वस्तुस्थितौ कथं कर्मविचारानन्तर्यमत्राथशब्दार्थः ॥ तत्र कर्मविचारस्य कर्मफलानित्यत्वनिर्णयेन वैराग्योपयोगः श्रीमाष्येऽपि प्रतिपादयते, इति तत्फलस्य विरागस्याधिकारिविशेषणत्वोक्तावर्थात् परम्परया वाऽवगमोऽकिंचित्कर: ॥ तत्र कर्मविचारेण कर्मफलानित्यत्वं केषांचिदेव जायते, केषाश्चन तु प्रत्यक्षानुमानाभ्यां कर्मफलानित्यत्वम्। कर्मविचारावगततद नित्यत्वबुद्धयघीनमेव वैराग्यमिति न नियमः। कर्मविचारेण कर्मफलनित्यत्वनिर्णयोऽपि तत्र दृश्यते॥ "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायादि"त्युक्तरीत्या प्रत्यक्षानुमानावगततदल्पफलत्वादिना तु वैरा्यं दढं नियमेन भवति। अतः कर्मविचारस्य कर्मफलाल्पास्थिरफलत्वनिर्णयोपयोगित्वानियमात् वैराग्यसाधन- विधयाऽपि पूर्ववृत्तत्वं न नियतम ॥ मुमुक्षायास्तृत्कटाया नित्यानित्यवस्तुविवेकादिक्रमेण साध्यत्वम्, इत्यु- त्कटमुमुक्षाया अधिकारिविशेषणत्व एवात्र तात्पर्यम्। तथापि मुमुक्षाया उत्कटत्वानुत्कटत्व निर्णयो नित्यानित्यवस्तुविवे कादिसाघनत्रयस्याप्यनुवृत्तिदशाया- मेव, नान्यथेति मत्वा साधनचतुष्टयपूर्ववृत्ततोक्तिरिति व्यक्तमन्यत्र। न चैवं
Page 185
शब्दप्रमाणम् १२९
सकृत्कर्म विचाराव गतकर्माल्पास्थिरफलत्वनिर्णयः कर्मविचारस्याभ्यासेन सर्वदाडनु- वृत्तावेवेति वत्तुं शक्यम्।।
जातमोक्षाभिलाषस्यानन्तस्थिरफलब्रह्मजिज्ञासा हयनन्तरभाविनी' इति श्रीमाष्यम् -कर्मणामल्पास्थिरफलकत्वनिर्णयेन मोक्षेच्छा भवति। सा च ब्रह्मजिज्ञासा- रूपोपायेच्छाहेतुभूता फलेच्छा , मुमुक्षाजिज्ञासयोः कार्यकारणभावस्योभयसंप्रति- पन्नत्वात्, इति वदत् मुमुक्षाया एव ब्रह्मजिज्ञासािकारिविशेषणत्वमद्वैतमत इवानुमन्यते। मुमुक्षाहेतुस्तु-कर्मास्थिरफलत्वनिर्णय इति वचनात इहामुत्रार्थ- फलविरागः कारणमिति च प्रतिपादयति। तच्च साक्षाद्वा शमदमादिद्वारेण वेत्यनुक्तत्वेऽपि शमदमादेरपि तैरपि मुमुक्षोपयोगित्वस्वीकारात साघनत्रय- संपत्तिरप्यत्र द्वारतया विवक्ष्यते ।। एवं कर्मफलानामनित्यत्वस्य, ब्रह्मणो नित्यत्वस्य च वैराग्यसाधनत्वमव- गम्यते, इति तन्मतेऽपि साधनचतुष्टयसपत्त्यानन्तर्यस्य हेतुत्वं न विभतिप्रन्नम्।। कर्मणामल्पास्थिरफलत्वं ब्रह्मजिज्ञासाया अनन्तस्थिरफलत्वं च कुतोऽव- गम्यत इति विचारणीयम। कर्मणामल्पास्थिरफलत्वावगमः किं साङ्गकर्मभागा- ध्ययनेनाविचारितेन, अथवा विचारितेन कर्मविचारेण, अथवा कर्मपरकर्मकाण्डां- शेन विचारितेन। एवं ब्रह्मजिज्ञासाया अनन्तस्थिरफलत्वनिर्णयोऽपि किमधीत- साङ्गोपनिषद्धागेनाविचारितेन, विचारितेन वेति। तत्राद्ये प्रथमे कर्मविचारस्य पूर्ववृत्तताकथा दूरं गता, प्रथमे द्वितीये तु भाष्ये अधीतसाङ्गसशिरस्कवेदस्ये- त्येतावन्मान्ननिर्देशात विचारानवगमः, तत्रापि कर्मविचारपूर्ववृत्तता बाधितैव तत्रापि साङ्गसशिरस्केति विशेषणमहिम्ना कर्मणामल्पास्थिरफलत्वमुपनिषद्धा- गावगम्यम्, न कर्मकाण्डावगम्यमिति विमर्शनीयम्। तत्र च कर्मकाण्डे कुत्रापि कर्मफलास्थिरफलत्वं न दृश्यते, उपनिषद्धाग एव, "पुवा हयेते अदढाः यज्ञरूपाः" "तद्यथेह कर्मचितो लोकः क्षीयते एव- 9
Page 186
१३० अद्वैततत्त्वशुद्धि
मेवामुत्र पुण्यचितो लोक: क्षीयते" इत्यादिना कर्मकाण्डस्यास्थिरफलत्वादिकं प्रतिपाद्यते, तदप्यध्ययनमात्रेण, न तु विचारितेनेत्यवधार्यते॥ एतेन-द्वितीयपक्षोऽपि-व्याख्यातः, उपनिषद्भागाध्ययनमात्रेण तत्रा सन्देहात्, तस्याप्यविचारेऽपि ब्रह्मणोऽनन्तस्थिररूपत्वं प्राप्यस्य जिज्ञासाफल- स्याधिगम्यते।। सति चैवं कथमनेन भाष्येण कर्मविचारस्य कर्मफलाल्पत्वादिनिर्णायक- तया पूर्ववृत्तत्वमवधारयितुं शक्यते 2 तत्र कर्मणामल्पास्थिरत्वज्ञानं प्रतिबन्धक- निवृत्त्यधीनमिति व्याख्यया चेदमवगम्यते-कर्मणां प्रतिबन्घकनिवृत्तिद्वारैव जिज्ञासोपयोगित्वम्, न साक्षादिति॥ सति चवं विविदिषासाधनत्वं कर्मणां प्रतिबन्धकनिवृत्तिद्वारेति विवक्षणाद् बुभुक्षतीत्यादाविव न सन्प्रकृतिघात्वर्थसाघनतया कर्मणाम्, कर्मविचारस्य वोपयोगं विवक्षति, किन्तु पूर्वाक्तविधया विविदिपासाधनत्वमेवेति फलितम्, इति कथं कर्मविचारस्य ब्रह्मविचारपूर्ववृत्तत्व इदं भाष्यमुपष्टम्भकम्। न हि प्रतिबन्धनिवृत्तिमात्रोपयोगमात्रेण जिज्ञासासाधनत्वं कर्मणः, कर्मविचारस्य वा युज्यते! अतः कर्मावबोघानन्तर्य नात्राथशब्दार्थः ॥ एतेन-कर्मज्ञान विनाऽघीतसाङ्गवेदस्य मोक्षाभिलाषो न भवतीति- परास्तम् ; पूर्वाक्तविधया मोक्षामिलापे कर्मविचारस्यासामर्थ्यात्। इदमेवाभि- प्रेत्यामोदो वदति-"कर्मज्ञानाभावेऽपि मोक्षाभिलाषसंभवात् तन्मात्रमलम्-इति।। जिज्ञासा हि-"ब्रह्मशब्दश्रवणेन तत्तदभिमतब्रह्मस्वरूपविषयेण। सा च किं तद् ब्रह्मस्वरूपमत्र विवक्षितमिति विप्रतिपत्तिनिबन्धनसंशयनिरासार्था। तत्र "अथातो धर्मजिज्ञासे"त्यत्रावैदिका भिमतधर्मस्वरूपमत्र विवक्षितम्, उत वैदिकधर्मस्वरूपमिति संशयनिरासः-स एवात्र धर्मो विवक्ष्यते, यो वेदा- ध्ययनमन्तरेण नावगन्तुं शक्यते, इत्यथशब्देन वेदाध्ययनान्तर्यविवक्षया क्रियते "स्वाध्यायोऽध्येतव्य" इति वाक्यस्यैव विषयवाक्यत्वविवक्षया॥
Page 187
शब्दप्रमाणम् १३१
एवमेव "अथातो ब्रह्मजिज्ञासे"त्यत्रापि ब्रह्मशब्दतत्समानार्थकात्मशब्द- घटितबिषयवाक्यस्यैवात्र विवक्षया तत्तत्प्रकरणपठितनित्या नित्यवस्तुविवेकाद्यान- न्तर्यस्यैवाथशब्दार्थत्वव्यवस्था कर्तव्या, न तु "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेने"त्यादिवाक्यस्य विषयवाक्यत्वविवक्षया, ब्रह्मात्म- शब्दयोरन्यतरस्यात्राभावात्, श्रवणादिविध्यदर्शनाच्च । सति चैवमत्र वेदाध्ययनानन्तर्य नाथशब्दार्थः, चोदनालक्षणधर्मविचा- राधिकारिविशेषणस्य तस्य ब्रह्मविचाराघिकारिविशेषणत्वायोगात। नचैवमनधिगतवेदस्यापि ब्रह्मविचारापतिः। किमनेन साङ्गसशिरस्क- क्रमिकतत्तच्छाखाध्ययनं ब्रह्मविचारार्थमपेक्ष्यत इत्यभिप्रेतम्, उताधीतवेदान्तभा- गस्यैवाघिकारो विवक्ष्यते। तत्रान्त्य इष्टापत्तिः। 'स्वाध्यायोऽध्येतव्य' इति वेदा- ध्यनविधिर्हि वेदैकदेशाध्ययनेन व्रात्यतापरिहारमनुजानाति। अत एव-'यं यं ऋतुमधीते' इत्यंशमात्राध्ययनमपि प्रयोजनाभिधानेन प्रशंसति। नाद्योऽपि दुष्टः; अधीतसाङ्गसशिरस्कस्य साधनचतुष्टयसपत्तौ वेदान्तविचारमात्रे विनापि कर्ममी- मांसां प्रवृत्तिसंभवात्॥ धर्मजिज्ञासा ब्रह्मजिज्ञासा च न क्रमेण वेदवाक्यानि विचारयति, किन्तु तत्र तत्राक्रमेण सन्दिग्धानि वाक्यान्येव न्यायसङ्गतिमात्रमादाय। अतोS- न्तरेणाध्ययनक्रमं धर्मजिज्ञासायाः, ब्रह्मजिज्ञासायाश्च प्रवृत्तिरित्यविवादम्। तत्र यस्य यस्मिन् प्रवृत्तिः, तस्य तावन्मात्राघिकारोऽप्रत्यूहः। अत्यन्तविरक्तस्यो- पनीतमात्रस्याधीतसाङ्गसशिरस्कवेदस्य गुरुमुखात् धर्मतत्त्वं सामान्यतोऽवगत- वतोऽधीतोप निषद्धागमात्रस्य वा विनापि धर्मजिज्ञासां ब्रह्मजिज्ञासा नानुपपन्ना।। तद्यथा विशिष्टाद्वैतमते कर्मविचारः, वेदाध्ययनं चोभयं नाधिकारिवि- शेषणम् ; अतीतत्वादध्ययनस्य, एवमद्वैतमतेऽपि वेदाध्ययन न पश्चममघि- कारिविशेषणम्, इत्युपनीतस्याधीतवेदस्य, अधीतवेदान्तस्यैव वा तत्तज्जिज्ञा- सायामधिकार इत्यवचनसिद्धम् ।
Page 188
१३२ अद्वैततत्त्वशुद्धिः
तत्र यदि धर्मजिज्ञासायां वेदाध्ययनमधिकारिविशेषणं विवक्ष्यते, अधीतसाङ्गसशिरस्कवे देस्यैव ब्रह्मजिज्ञासायामधिका रवर्णनात, तर्हि तत्रापि वेदा- न्ताध्ययनमात्रं साधनचतुष्टयसंपत्तिरिवाधिका रिविशेषणं काममास्ताम्। अत एव भगवत्पादानामपि भाष्यम्-"धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञा- सोपपत्ते."-इति। अत एवानुपनीतस्य न ब्रह्मविचाराधिकारापतिः साधन- चतुष्टयसंपन्नस्यापि। पराक्रान्तं चात्र सिद्धान्तसिद्धाज्जने ॥ उपनिषदध्ययनमपि "स्वाध्यायोऽध्येतव्यः"इति विधिप्रयुक्तमेव। यस्य तु शिष्यस्यानुपनीतस्यापि बाल्यत एव जन्मान्तरवासनावशाद् ब्रह्मविचार एव प्रवृत्तिस्तोटकाचार्यादेरिव, तस्य तु "उप त्वा नेष्ये" इति न्यायेन सत्यकामस्येव वेदान्ताध्ययनमात्रोपयोगितयोपनयनमपि विधीयत एव। तत्र च "उपनिषदमा- वर्तयेदि"ति विधिर्मूलमिति व्यक्तमन्यत्र॥ एतेन-कृतस्नवेदाध्ययन आवश्यके तस्य कर्मविचारं विना न मुमुक्षासं- भव इति-परास्तम ; कृत्स्नवेदाध्ययनानियमात्, तन्नियमेऽप्यधीतवेदान्तभाग मात्रस्य साधनचतुष्टयसंपन्नस्य ब्रह्मचर्यादेव संन्यस्तस्य यज्ञानधिकारिणोऽपि ब्रह्म- जिज्ञासायामेवाधिकारसंभवाच्च।। न हि विशिष्टाद्वैतमतेऽपि ब्रह्मचर्यात् संन्यासोऽशास्त्रीयः, न वा ब्रह्म- चर्यावस्थायामधीतसाङ्गसशिरस्कवेदस्य विरक्तस्यापि संन्यासं जिघृक्षोः कर्मानुष्ठा- नोपयो गिकर्मविचारो नियतः। कर्मविचारप्रयोजनं हि कर्माधिकारिणस्तद्विशेषार्थ- ज्ञानम्। न च तत् कर्मानधिकारिणा संन्यासिनाऽपेक्ष्यते, इत्यगत्या धर्मजिज्ञा- सायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासा स्वीकर्तव्या॥ देवतानामकृतकर्म विचाराणामन्तराऽध्ययनं सर्ववेदवाक्यानाम्, विना च जैमिनीयकर्मविचारं ब्रह्मविचारो विशद एव।। कथं तर्हि-उत्तरमीमांसागतानां पूर्वमीमांसान्यायानामनुसन्धानमकृत- कर्मविचाराणामिति चेत्, कथं तर्हि अनधीतवैशेषिका दिनास्तिका स्तिकदर्श-
Page 189
शब्दप्रमाणम् १३३
नानां ब्रह्मविचारेऽधिकार :? यदि तत्राचार्यमुखादपेक्षिततदंशमात्रावगमः, तर्हि स न्यायोऽत्र कथ दण्डेन वार्यते ? साधनचतुष्टयसंपत्त्यानन्तर्यमथशब्दार्थ इत्युभयसंमतम्। तत्र परम्परया कर्मविचारोऽपि यद्यप्युपयुज्यते; तथापि तस्य कर्मानुष्ठानोपयोग्यर्थज्ञानद्वारा कर्मानुष्ठान एव साक्षादुपयोगस्तदर्थज्ञानेतिकर्तव्यतया, कर्मणा तु जन्मान्तरीयेणापि जिज्ञासाप्रतिबन्धकनिवृत्तिद्वारा तदुपयोगसंभवाद् न तदानन्तर्यमथशब्दार्थः । न तु तथा नित्यानित्यवस्तुविवेकस्यापि परम्परयोपयोग:, येन मुमुक्षयैव निर्वाहात् तदानन्तर्यमेवाथशब्दार्थः स्यात्। व्यक्तं चैतदघस्तात्॥ यथाच क्रमेणैव वेदवाक्यानां कर्मविचारे, ब्रह्मविचारे वा न विचारः, तथोक्तं पूर्वमेव, इति कर्मकाण्डोपनिषत्क्रमेण विचारस्य न नैयत्यम्। तत्र त्रिवर्गप्रवणानां स्वसाध्यकर्मविचारे प्रवृत्तिरावश्यिका, मुमुक्षूणां तु न तद- पेक्षेति तु निष्कर्षः ॥ कर्मणामल्पास्थिरफलत्वं प्रत्यक्षानुमानाभ्यामेवावगम्यते, न तु कर्मवि चारेण, तत्रापि न जैमिनीयेन। तत्र कर्मफलमात्रानित्यत्वनिश्चयवतां सगुणब्रह्म- प्राप्त्युपायसगुणोपासने, भक्तौ च प्रवृत्तिर्युक्ता। अत एव कर्मविचारानन्तरं देवतामीमांसा। तस्याप्यनित्यत्वनिर्णयवतां तु साधनचतुष्टयसंपत्तौ निर्विशेष- ब्रह्मज्ञानार्थत्वमिति मुक्तिसोपानः ॥ प्रमाणजन्याखण्डाकारसाक्षात्कारनिर्वर्त्या हि मुक्तिः। द्रष्टव्यपदेन हि मुख्यया वृत्त्या साक्षात्कार एव बोध्यते। शुक्तिरजतादिस्थले हि तदुपादानस्य तस्य च साक्षात्कारमात्रनिवर्त्यत्वमेव दृष्टम्, न तृपासनादिना निवर्त्यत्वम्। न हि गुरुडोपासनादिनापि रज्जुसर्पनिवृत्ति: । द्रष्टव्य इति दर्शनसमानाकारं ध्यानमेव विवक्ष्यते, तत्साध्य एव मोक्ष इति तु न युक्तम्। तन्र साक्षात्कारे यद्यपि विधिन भवति ; तथापि तत्साधन- तया श्रवणादिविधिर्न बाधितः । न हि पदार्थज्ञानं विध्यपेक्षम्। अद्वितीय-
Page 190
१३४ अद्वैततत्त्वशुद्धि:
ब्रह्मणि तात्पर्यनिर्णयानुकूलन्यायविचारे तु विधिर्भवत्येव। वाक्यस्यापि साक्षात्कारननकत्वं विषयस्य प्रत्यक्षत्वयोग्यतायां तत्प्रयोजकसत्त्वे च न विहन्यते॥। प्रत्यक्षत्वं हि नेन्द्रियजन्यज्ञानत्वम्, किंतु विषयावच्छिन्नचैतन्यामिन्न-
नावृत चिद्रपे ब्रह्मणि वर्तत एव।। तत्र वृत्तेरज्ञाननिवृत्तिमात्रे व्यापारः, न तु चिदुपरागार्थत्वे, अभेदामि- व्यक्त्यर्थत्वे वा घटादिस्थल इव ॥ ब्रह्मज्ञानमात्रप्रत्यक्षत्वमेवंरूपम्। न चेदं घटादिज्ञानसाधारणम्; घटावच्छिन्नचैतन्यस्य तत्प्रत्यक्षतादशायामनावृतचिन्मान्रत्वाभावात्। अतो घटादिप्रत्यक्षे नाव्यापितिः । तत्र मनन तु श्रवणाङ्गतयैवाद्वितीयब्रह्मसाक्षारकार- साधनमिति नानुमानजन्यनिर्विशेषज्ञानमनावृतचिद्विषयम्। एवं श्रवणमपि न साक्षात् स्वत एवापरोक्षसाधनम्, इति सकृत् श्रवणमात्रेण न साक्षात्कारापतिः॥ व्यक्तं चैतत् समन्वयसूत्रभाष्ये-श्रवणप्रतिष्ठापनार्थत्वात् मननादेन तद्वैय- थ्र्यमिति निरूपणावसरे। घटादिविलक्षणत्वाद् ब्रह्मणो न तत्र ज्ञानप्रत्य- क्षातिरिक्तं विषयप्रत्यक्षत्वम्। वृत्त्युपहितमपि चैतन्यं तत्र वृत्तेरभानात् चैतन्यां- शेनावृतचिद्ूपत्वेनैव प्रमाणजन्यं प्रत्यक्षम्। यत्र श्रवणमात्रेणापरोक्षसाक्षात्कारो जन्मान्तरे कृतमननादेरनुद्बुद्धरूपेणानुवर्तमानब्रह्मसाक्षात्कारस्य, परं तु तत्र मननादिकमपेक्षितम् ॥ "दशमस्त्वमसी"त्यत्रापि मनननिदिध्यासनसहकृतश्रवणेनैव दशमत्व- साक्षात्कारः ; श्रवणानन्तरं स्वयमपि विचार्यैव दशमत्वसाक्षात्कारस्यानुभवात्। कस्यचन विना मनननिदिध्यासने साक्षात्कारानुभवस्तु न विरुध्यते पटठुतम- प्राक्तनसंस्कारोद्वोधे यद्यापतवचना द पि ंय विपर्ययौ निवर्तेते॥ अनाद्यसंभावना, विपरीतवासना वा श्रवणमात्रेण निवतते। निवृत्तभेद- वासनानां तु श्रवणमात्रेण साक्षात्कारो न दोषाय। ब्रह्मणि सन्निहितेपि सतीष
Page 191
शब्दप्रमाणम् १३५
च भेदवासनासु प्रत्यगभिन्नसंविन्मात्रमसंनिहितमिथ। अतो न श्रवणमात्रेण प्रत्यक्षम्। भेदवासनासु मननेन निवृत्तासु हि स्वरूपेण संनिधानम्, साक्षा- त्कारश्च, मननेन वा भेदवासनानिवृत्तौ साक्षात्कारो न दोषाय। प्रत्यक्षप्रमाकरणं शब्द:, अनुमानम्, प्रत्यक्षम्, अनुपलब्धिर्वा-यदि तत्रत्यं ज्ञानं प्रत्यक्षप्रमैव, निदिध्यासनसंस्कारसचिवेन मनसाऽपि ब्रह्मसाक्षात्कारो भामत्या स्वीक्रियते। तत्र निदिध्यासनमेव प्रधानम्, अथवा श्रवणमिति त्वन्यदेतत्। असंभावितविपरीतभावनानां निवृत्त्या श्रवणादीनामपि नाद्वैतमतेऽपि वैयर्थ्यम्। तत्र भक्तिर्ध्यानमित्यनर्थान्तरम्। ततु साक्षात्कारद्वारा मुक्तिसाघनम्, न तु साक्षात् ॥ तन्रापातप्रतीतिमनोऽभिगतगुरोरपि विना श्रवणं न ब्रह्मसाक्षात्कारो भवति, स्वयं तदर्थमनननिदिध्यासने विना। अत एव द्वान्रिंशद्वत्सरपर्यन्त-
विरोचनस्य विपरीतभावनयाऽन्यथैवोपदिष्टार्थावगमः । अत एव मनननिदि- ध्यासने इन्द्रस्योपपद्येते। न च प्रथमोपदिष्टादर्थादर्थान्तरोपदेश इन्द्रं प्रति प्रजापतेर्द्वितीयादि- पर्यायेषु। अत एव हि-"एतं त्वेव ते पुनर्व्यार्यास्यामी"ति प्रतिपर्यायमावृत्तिः ॥ तत्र श्रवणमङ्गि, मनननिदिध्यासने अङ्गे इति कल्पे नान्तिमविधानेन पूर्वस्य प्राप्तिः; उत्तराङ्गविधानेन प्रधानप्राप्तेर्विध्यपेक्षायाः कुत्राप्यदर्शनात्। अयमेव न्यायो निदिध्यासनप्राधान्यपक्षेऽपि, प्रधानविघिमात्रिणाङ्गानुष्ठानस्या- प्राप्तेः। त्रीण्यपि समप्रधानानीति पक्षेऽप्ययमेव न्यायः॥ तत्रापरोक्षज्ञानादेव वाक्यजन्यादविद्याया निवृत्तिः, न तु परोक्षज्ञानेन। व्यक्तं चैतत्-"पश्वादिभ्यश्चाविशेषादि"त्यत्र भाष्ये। विदुषामपि जीवन्मुक्तानां बाधितानुवृत्त्या सर्वव्यवहारोपपत्तिराऽडप्रारब्धभोगावसानम्। ततस्तावत्पर्यन्तम- भ्यस्यमानेन साक्षात्कारेण विदेहकैवल्यमिति व्यक्तमन्यत्र। "ज्ञानाभिः सर्व-
Page 192
१३६ अद्वैततत्त्वशुद्धि:
कर्माणि" इत्यत्र प्रारब्घव्यतिरिक्तानीति विवरणं संप्रतिपन्नम्। तत्र कथ न प्रारब्घकर्मणोऽपि न नाश: 2 अयमेब न्यायोSत्रापि ।। अन्ते भेदवासनानां स्वतो निवृत्तिर्नाम-तदर्थ तन्निवर्तकसाक्षात्कारेणा- *यस्यमानेन बाघ एव। व्यक्तं चैतदन्यत्र।। जीवनमुक्तावनुवर्तमाना मेदवासनास्तु प्रारब्घभोगमात्रोपयोगिन्य एव, नानन्ताः । अनन्ता अपि प्रारब्घभोगान्ते न सन्त्येव। यदि चिरं तदनुवृत्तिः, काममनुवर्तन्ताम्। तावत्पर्यन्तं व्यवहारा अप्यनुवर्तन्त एव।। न चात्र कालनियम: ; "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इति शरीरपाताकालावधिं श्रतिरेव नियच्छति। प्रारब्घफलातिरिक्तानां सर्वेषा- मेकाज्ञानमूलकत्वेSपि तत्वज्ञानेन जीवन्मुक्तिपरप्रमाणानामनुसारेण चाज्ञानेन साकं नाशेऽपि संस्कारात्मनाऽवस्थानं दग्घपटन्यायेनाभासमात्रतया न विरुद्धयते। रज्जुतत्वज्ञाने सति रज्ज्ववच्छिन्नचैतन्ा रितुलाज्ञानानां तत्कार्याण- मिव सर्पभूदळनजलधाराणां भिन्नत्वाद् न सकृदेव सर्वाज्ञानानां तत्कार्याणां च निवृत्ति: ; सर्वेषामेकाज्ञानाकार्यत्वात्, इति क्रमिकस्त्वज्ञानेनाज्ञानतत्कार्य- विनाशो दृष्टचरः, इति प्रारब्धफलनाशनक्षमपटुतमसंस्काराभावेन तावन्मात्नानु- वृत्ति:, अनन्तरं तन्नाशश्च न विरुध्यते।। तत्र यथा गाढान्घकारे प्रदीपज्वालाविकासवृद्धिक्रममनुसृत्य क्रमेणान्ध- कारस्य नाशः, न तु सद एव सर्वान्धकारविनाशः, तद्वत्प्रकृतेऽपि साक्षात्कार- संस्कारपाटववृद्धिक्रमेणाज्ञानपरारब्घादिनाशः। तत्र यथा दीपज्वालोत्पत्तिकाल एव न गाढान्धकारनिवृत्तिक्षमप्रभाविकासः, तथैवात्रपीति न कोऽपि दोष: ॥ अत्र तत्त्वज्ञाननिवर्त्या अनिर्वचनीया भावरूपा चाविदया, विपरीतभ्रमो वा, न तु ज्ञानप्रागभावः; शुक्तिरजतज्ञानानिवर्त्यत्वात् रूप्याज्ञानस्य। न हि रूप्यज्ञाननिवत्य रुप्याज्ञानम्; शुक्तिज्ञाननिवर्त्यत्वाद् रूप्याज्ञानस्य। विपरीत
Page 193
शब्दप्रमाणम् १३७
भ्रमस्याविद्यातं तुन दुष्टम्। न ह्युत्तरज्ञाननाश्यत्वमेव पूर्वज्ञानस्य ; कतिपय- क्षणावस्थायिनः स्वम्ान्ते समुत्पन्नस्य विनापि ज्ञानान्तरोत्पतिं नाशर्शनात्॥ अत एव योगिनां सर्वचित्तवृत्तिनिरोध: स्वप्रयत्नसाध्य उपपधते। तत्र निरोधोऽपि यदि वृत्तिविशेषः, तर्हिं योगत्वमेव भग्नम्। विपरीतश्रमस्य तत्त्वज्ञाननिवर्त्यत्वं कारणात्मनाऽप्यभावः, न चोत्तरज्ञानप्रयुक्त: स कथमपि॥ यत्र प्राथमिकेन साक्षात्कारेणाज्ञानस्यापि निवृत्तिः, तत्र मनननिदि- ध्यासने नापेक्ष्येते। यत्र तु भेदवासनानामनन्तत्वात् पटतमसंस्कारसहित- साक्षात्कारेणैव निवृत्तिः, तत्र न प्रथमज्ञानेनैव अमस्य निवृत्तिः । यथा रथ्यायां रज्जुं सर्पादिरूपेणावगत्य ज्वराक्रान्तः पित्रादिना रज्जुरेवेति बोधितोऽपि परोक्ष- ज्ञाने यावतवापरोक्षसाक्षात्कारं न विमुक्तज्वरो भवतीत्यनुभवसिद्धम्, इति न 'रज्जुरि'ति प्रथमज्ञानमात्रेण सर्पभ्रमनिवृत्तिः, किं बहुना 2 अपरोक्षसाक्षा- त्कारेणापि प्रथमेन न सर्पभ्रमनिवृत्ति: । यथा स्वपित्रा यस्मिन् देशे अ्रमः संजातः, तत्र रज्जुरियमिति बोधनेऽप्यसंभावनया, विपरीतभावनया व सत्यप्यपरोक्षसाक्षात्कारे नेयं मया दृष्टसर्पाधिष्ठानरज्जुः, किन्तु रज्वन्तरमेवेति मत्वा न विगतभ्रमो भवति, एवं वेदान्तबोधितेऽप्यर्थेऽन्यथा ग्रहणेन जातमपि प्राथमिकं साक्षात्कारमन्यथैव मत्वा न विमुक्तबन्धो भवति॥ अतः प्राथमिकेन श्रवणेन जातोऽपि साक्षात्कारोSसंभावनाविपरीतभाव- नादिदोषसध्रीचीनो नाज्ञाननिवृत्तिक्षमः ; अपरोक्षत्रमस्यापरोक्षप्रमामान्ननिवर्त्य- त्वात्, "एकश्चन्द्रः" इति परोक्षप्रमायां सत्यामपि द्विचन्द्रप्रत्यक्षस्यानुभवात्। तत्र द्विचन्द्रपत्यक्षस्यैकश्चन्द्र इति प्रत्यक्षेणैव बाघः। तत्रैकश्चन्द्र इति प्रत्यक्षे दोषः प्रतिबन्धकः, तस्मिन्निवृत्ते तु एकश्चन्द्र इति प्रत्यक्षं जायते, ततो द्विचन्द्रप्रत्यक्षभ्रमनिवृत्तिरिति व्यवस्था।। यत्तु-दोषे नष्टे द्विचन्द्रभ्रमानुस्पादमात्रम्, नैकश्चन्द्र इति तत्र प्रत्यक्षज्ञानमपि-इति,
Page 194
१३८ अद्वैततत्त्वशुद्धि:
तत्र कथसुत्पन्नस्य द्विचन्द्रभ्रमस्यानुत्पादवादः2 यः खल द्विचन्द्रभ्रम- प्रत्यक्षस्य कारणं तिमिरादिदोषः, स एव चन्द्रैकत्वप्रत्यक्षमपि प्रतिबभ्नाति। तदानीमाप्तवाक्येनैकश्चन्द्र इति बोधनेऽपि परोक्षतयैव तिमिरादिदोषदूषितोऽनु- भवति। दोषनिवृत्तौ तु चन्द्रैकत्वमपरोक्षयति। तेन च अ्रमस्योत्पन्नस्य बाध एव, न त्वनुत्पादः ।। चन्द्रैकत्वप्रत्यक्षप्रतिबन्धके हि दोषे निवृत्ते चन्द्रैकत्वप्रत्यक्षमेव भवति। तेन च द्विचन्द्रप्रत्यक्षत्रमो निवर्तते, न तुनोत्पद्यते; उत्पन्नत्वात्। तत्र यथा दोषस्यात्यन्तिकनिरासपर्यन्तं चन्द्रद्वित्वभ्रमोऽनुवर्तते, न तु दोषस्यांशतो निवृत्ति- मात्रेण, एवमत्राप्यात्मसाक्षात्कारेण पटुतमसंस्कारादिसध्रीचीनेनैवाज्ञाननिवृत्ति:, न तु ततः प्राक्, इति प्राथमिकेन श्रवणेनाज्ञानानिवृत्तिन दोषः । न हि तिमिसमपि सकृदौषधलेपादिनैव नश्यति। तत्र यथा द्वित्रादिनौषधसेवनेन किंचित्तिमिरापनयेऽपि चक्षुष्मानिति न व्यवहारः, एवमत्रापि यावत्प्रारब्घेतर- सर्वनिवृत्ति न जीवन्मुक्तपदेन व्यपदेशः ॥ वस्तुतस्तु-योगवासिष्ठोक्तासु जीवन्मुक्तस्य सपमु भूमिकासु द्वितीय- भूमिकायां विद्यमानोSपि जीवन्मुक्त एव। श्रवणमननाद्यवस्थावान् प्रपञ्चं सर्वमपि सत्यं मत्वा व्यवहरन्नपि जीवन्मुक्त एव। अस्य प्राथमिकं भूमिकात्रयं हि जाग्रदवस्था नामेत्यादि योगवासिष्ठे व्यक्तम्॥ न हि परोक्षज्ञानं प्रत्यक्षज्ञानेऽप्रामाण्यनिश्चयायालम्, किन्तु तच्छक्का- मात्रमादधाति। यत्र पीतश्शंख इति सोपाधिकोऽपरोक्षभ्रमः, तत्र चान्थाख्याति- रेव, नानिर्वचनीयख्यातिः ; पीत्त्वस्य तत्र सन्निकर्षात्। तत्र चोपाधिरेव दोषः, इति तत्र सत्यपि भेदग्रहे भ्रमः स्वीक्रियते, इति श्वेतः शंख इति श्वेतत्वप्रत्यक्ष- दशायामेव पीतत्वभ्रमात् 'श्वेत शंखमानये'त्युक्ते श्वेतशंखानयन न विरुद्धम्।। न चायं न्यायः प्राथगिक्श्रवणजनितसाक्षत्कारेSपि; आत्मन्यन्तःकरणाद्य- ध्यासस्य तन्निबन्धनभेदव्यवहाराणां च निरुाधिकाध्यासनिबन्धनत्वात। न चात्र
Page 195
शब्दप्रमाणम् १३९
प्राथमिकश्रवणमात्रेणानाद्यविद्यानिवर्तनक्षमः साक्षात्कारो भवति, येनाविद्या- निवृत्तिः संपद्येत। दोषनिबन्धनाध्यासो हि सर्वात्मना दोषनिवृत्तावेव निवर्तते, यथा तिमिरादिनिबन्घनाघ्यासः॥ अयमेव न्यायः शुक्तिरजतादिस्थलेऽपि। तत्र शुक्त्यवच्छिन्नचैतन्या- श्रितप्रमातृचैतन्यनिष्ठतुलाविद्या रजतरूपेण, तदाकारवृत्तिरूपेण च परिणमते। तत्रापि नेद रजतमिति परोक्षज्ञानेन न रजत बाध्यते, कित्वपरोक्षज्ञानेनैव। यद्यपि यावद्वाघं रजतभ्रमः, रजतं च परोक्षज्ञानेन, ज्ञानान्तरेण वा या- वत्काचादिनिवृत्ति तूलाविद्यात्मना वर्तते, तथापि रजतान्तर्रमे तस्यैव रजतस्य तस्यैव च भ्रमस्यापरोक्षस्य न भानम् ॥ तत्रोत्तरज्ञानेनैव रजतज्ञानं यद्यपि नष्टम्, तथापि रजतं न निवृत्तं घटादिस्थल इव। इयान् विशेष :- व्यावहारिकघटादेर्दण्डादिना नाशः, प्राति- मासिकस्य तु सकारणस्यापरोक्षज्ञानेन नाशः। तत्र भ्रमान्तरे तूलाज्ञानान्तरम्, तत्परिणामो रनतं तदाकारवृत्तिश्च भिन्नानि॥ परमार्थप्रकाशिका पृच्छति-्रमान्तरेऽपि पूर्वोत्पन्नं रजतमेव परोक्षेऽ- पि रजताभावज्ञाने तत्र विद्यमानं कुतो नावभासते ? किमर्थ रजतान्तरो- त्पत्तिः स्वीकर्तव्या ?- इति । तत्रेदमनुयुज्यते-अ्रमान्तरे पूर्वोत्पन्नं रजतं भासतामिति पर्यनुयोक्त्रा भ्रमान्तरं ज्ञानमुत्पद्यत इति स्वीक्रियते वा, न वा 2 आद्ये तदविद्यापरिणामो वा, उतान्तःकरणपरिणामः । अविद्यापरिणामत्वे का वाडविद्या तदात्मना परिणमते ? पूर्वोत्पन्नरजततदा कारवृत्त्यात्मना परिणतैवाविद्योक्त्रमात्मनाSपि यदि परिणमते, तर्हिं सा प्रमातृचतन्यनिष्ठा तूलाविद्या तद्रजतसतायां न रजतान्तरोत्पादनक्षमा, तदात्मना तु कालान्तरे परिणता, न पुनरपि तदात्मना तदाकारवृत्त्यात्मना च परिणमितुं शक्नोति।। न हि घटसत्तादशायां घटान्तरात्मना मृत् परिणममाना दृष्टचरी। परोक्ष- ज्ञानेन रजतभ्रमनिवृत्तौ हि तदुपादानाविदया प्रमातृचैतन्यमेवाश्रिता, दोषसत्ता-
Page 196
१४० अद्वैततत्त्वशुद्धिः
यामपि न शुक्त्यवच्छिन्नचैतन्याश्रिता भवति; अन्यथा शुक्तिप्रमादशायामपि प्रातिभासिकरजतप्रत्यक्षापतिः । तदाकारवृत्त्यभावाद्यदि न प्रत्यक्षम्, तर्हि भ्रमान्तरेऽपि प्राचीनाविद्यायास्तत्र प्राचीनरजतात्मना तदाकारवृत्त्यात्मना च परिणामायोगादू न पूर्वोत्पन्नस्य भानसंभवः; अन्यथा घटध्वंसानन्तरं मृदात्मतां गतस्य तस्यैव घटस्य पुनरुत्पत्तिरापद्यते।। परिणामिकारणं हि सकृद्यदात्मना भवति, तन्नाशानन्तरं स्वरूपेणैव कारणात्मना वर्तमानमपि न पुनस्तदात्मनैव परिणमते, किन्तु कार्यान्तरात्मनैव पूर्वोत्पन्नकार्यसदशस्यैवोत्पादेडपि। प्रागभावोऽपि तत्तदुत्पतिं प्रति कारणमेव। तत्प्रागभावस्तु तदुत्पत्तिमात्रेण नष्टः, तस्यैव पुनरपि कारणं न भवति। न हि तत्र स एवायं घट इति प्रत्यभिज्ञा; अन्यथा कस्यापि कार्यस्य नाशे पुनस्तद्पापि- संभावनाभावेन दुःखमेव न स्यात्। न हि बाल्यनाशे प्राप्यमाणं यौवनम्, यौवननाशे प्राप्यमाणं वार्धकं वा तदेव बाल्यम्, तदेव यौवनमिति प्रत्यभिज्ञा- यते। तेनैव न्यायेन परोक्षज्ञानेन रजताकारनिवृत्तावपि तत्प्रागभावरूपकारणा- भावात् तदुपादानाज्ञानाभावाद्वा पूर्वोत्पन्नरजतज्ञानमेव नोत्पन्नं भवितुमर्हति, इति शुक्तितत्त्वस्याSडब्रह्मसाक्षातकारमे कत्वेSपि तद्विषयतूलाज्ञानस्य तत्तद्रजतपरि- णामिकारणस्य च भेदात् तत्तदज्ञाननाशकत्वमेव स्वीकर्तव्यम्, नतु सर्वाज्ञान- नाशकत्वम्; अन्यथकस्यां रज्जौ कालभेदेन संजातसर्पभृतळनादीनामेकेनैव रज्जु- ज्ञानेन विनाशापत्तिः; शब्दबुद्धिकर्मणां विरम्य व्यापारायोगेनैकेन तत्त्वज्ञाने- नैकस्यैवाज्ञानस्य निवृत्ते:, तथैवानुभवात्।। एकेनैव तत्त्वज्ञानेन सर्वेषां भ्रमाणां निवृत्त्यनुभवस्तु धारावाहिकभिन्नभिन्न- तत्त्वज्ञानेष्वेकत्वभ्रमेण, तदेकत्वे तु पुनरपि ज्ञानान्तरेणैव निवृत्तिः। न चैवं व्यावहारिके अ्रमेऽज्ञानभेदः, किंत्वेकमेवाज्ञानम, पूर्वपूर्वाहमध्यासनिबन्धन उत्तरोत्तराहमध्यास इति तु सृष्टिकालाभिप्रायम् ; तत्र तत्तदुपादानाज्ञानस्याना- शात, सोडयमिति प्रत्यभिज्ञानाच्च नाहमध्यासान्तरोत्पादः। न च शुक्तिरजतस्थल एकस्यैवाज्ञानस्य सर्वप्रातिभासिकरजतोत्पादकत्वम्।।
Page 197
शब्दप्रमाणम् १४१
नन्विदं सर्वं विपरीतभ्रमोSविद्येति पक्षे कथमुपपद्यते 2 तत्तद्विपरीतभ्रम- नाशे तस्य तस्य स्वरूपतो नाशादहमादीनां स्वरूपतोऽनुवृत्तिरेव कथमिति, सत्यम्, कार्यभ्रमस्याप्यौपचारिकं भ्रमत्वव्यवहारमूरीकृत्येदमुक्तम्।। तस्यापि भावरूपाज्ञानपक्ष एव तु पर्यवसानम्। तत्र ज्ञानप्रागभावस्य विपरीतभ्रमस्य च बाध्यत्वं न लोकसिद्धम्, किन्तु निवृत्तिमात्रम्। तदुपादान- भावरुपाज्ञानस्यापि नाशे तु त्रैकालिकबाध्यत्वे पर्यवसानमात्रम्। अत एव पुना रजतोत्पाद एव स्वीक्रियते प्रातिभासिकस्थले। व्यावहारिकस्थले तु तदुपादाना- ज्ञाननाशे न संभावनापि, कालान्तरे वा सत्वं तस्येति॥ अत एवाद्वितीयत्वं ब्रह्मणः। तत्र वस्तुनो ज्ञाननिवर्त्यत्वं तु प्रातिभासिक- स्थले वर्तत एव। अतोऽज्ञानमात्रस्य नाशो न परोक्षज्ञानेन।। अनिर्वचनीयवस्तृत्पत्तेर प्राम णिकत्वो क्तिस्त्वेत वत्पर्यन्तं तदुपगम्य प्रवृत्त- विचारस्य त्यागात् प्रतिज्ञाहानिपराहता, शाखा चंक्रमणं वा ॥ न केवलं कार्याणाम्, किंत्वज्ञानस्यापि भावरूपत्वमनिर्वचनीयत्वमन्यच्व सरवे यथावसरं निरूपयिष्यते, तस्यैव प्रत्यक्षादिविषयत्वं च।। यद्यप्यद्वैतमतासिद्ध प्रत्यक्षलक्षणं प्राथमिकज्ञानेऽपि वर्तते ; तथापि पटठतर- संस्काराभावात् विपरीतभावनादिप्रतिबन्घाच्च न तत् कार्यक्षमम्, भेदवासनानां त्वभेदानुसन्धानपरम्परारूपेण निदिध्यासनेन निवृत्तौ त्वपरोक्षकल्पमिव भासमानं प्राथमिकज्ञानं निर्विचिकित्सं कार्यक्षमं प्रत्यक्षरूपं भवति॥ अत एव प्रथमज्ञानेन नाविद्यानिवृत्तिः। अप्रामाण्यज्ञानानास्कन्दित- पटुतमसंस्कारादिसाहित्ये त्वपरोक्षज्ञानस्य सा निर्वतते। प्रथमज्ञानेनापि मात्रयाऽज्ञाननिवृत्तिर्भवत्येव, यथा प्रभाविकासतारतम्येनान्धकारमन्दीभावः, क्रमेण सर्वात्मना तन्निवृत्तिस्तथेति मन्तव्यम्। प्राथमिकसाक्षात्कारोऽपि प्रारब्घभोगान्त एव भवतीति स्वीकार एव वरम्, इति तु पक्षान्तरम। तथापि निर्विचिकित्सापरोक्षकल्पपरोक्षज्ञानमात्रेण मिथ्यात्वनिश्चयेन निर्बन्धा अपि
Page 198
१४२ अद्वततत्त्वशुद्धिः
बद्धवदेव व्यवहरन्त्यनासकत्येति तु तत्पक्षः। सर्वात्मना प्रारब्घेतरबन्धतो मुक्ता इत्यभिप्रेत्य जीवन्मुक्तिपक्षः। फलतस्तु नात्र भेदः ॥ तत्र प्रष्टव्यम्-"तस्मिन् दृष्टे परावरे" इत्यादौ दृशिघातोः श्रवणाद- ज्ञाननिवर्तकं ज्ञानं साक्षात्कार एव, न तु ध्रुवानुस्मृतिपदवाच्यदर्शनसमानाकार- स्मृतिसन्तान :; तस्य दर्शनपदार्थत्वाभावात, इति निदिध्यासनमननसहकृतं श्रवणं साक्षात्कारमेव जनयति, न तु दर्शनसमानाकारस्मृतिसन्तानम ; स्मृति- सन्तानस्य प्रमात्वाभावात्, दर्शनसमानाकारत्वाभावाच्च। यदि "वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्" इत्यसन्निहितस्य श्रीरामस्य दर्शनं न साक्षाद्दर्शनम्, तर्हि परमात्मनोऽपि कथं साक्षाद्दर्शनम् 2 न चात्र दर्शनसमानाकारत्वं कविहृदयङ्गमम्। भावना- प्रचयसहकृतं हि मनः साक्षात्कारं जनयतीति लोकानुभवसिद्धम् ॥ "समृतिप्रतिलम्भे मोक्षः" इति तु दर्शनसमानाकारस्मृतिप्रतिलम्भः । सैव साक्षात्काररूपा न पर्यवस्यतीत्यभिप्रायम्, येन "तस्मिन् दृष्टे परावरे" इत्यनेनैक- वाक्यता। दर्शनसमानाकारत्वे तु दर्शनव्यपदेशे गौणी कल्पना, मुख्यार्थत्या- गश्च। अतो ध्यानमेवात्र, न साक्षात्कारः ॥ यदि ध्यानमात्रेणाभ्यस्यमानेन परमात्मसाक्षात्कारसमानाकारतामापन्नेन मोक्षः, तर्हि तेनैवाभ्यस्यमानेन निर्विशेषस्वरूपसाक्षात्काररूपमेव कुतो नेष्यते? भावनाप्रचयेन च व्यापकपरमात्मस्वरूपसाक्षात्कारो न कुतः ? अत्र ध्यानं दर्शनसमानाकारस्मृतिरिति चानर्थान्तरं भवन्मते। अत एव द्रष्टव्य इत्यनुवाद इत्यूरीक्रियते। तत्र ध्यान यदि स्मृतिः, तर्हि कथं सा प्रत्यक्षा- नुभव: 2 न हि स्मृतिरनुमवो नाम। अद्वैतमते शब्देन साक्षात्कारो जन्यत इति स्वीक्रियते। तस्यानुभवत्वे न विप्रतिपत्तिः। शाब्दापरोक्षमपि लोक- सिद्धमेव। ध्यानमेवाङ्गि, न श्रवणमिति मते ध्यानस्य साक्षात्कारजनकत्वमपि संप्रतिपन्नमेव, दर्शनसमानाकारता यदि परित्यज्यते। दर्शनस्येन्द्रियसन्निकर्ष-
Page 199
शब्दप्रमाणम् १४३
जन्यत्वं धर्मभूतज्ञानेनापरोक्षसाक्षात्कारे, भक्त्या परमात्मसाक्षात्कारे च व्यभि चरति परमते, अद्वैतमतेऽपि मनोऽनिन्द्रियत्वमते सुखा दिप्रत्यक्षे ईश्वरज्ञाने च।। विप्रकृष्टस्थले भावनातिशयेन कामिन्यादिसाक्षात्कारो यदि न प्रमा, तर्हि ब्रह्मणि परं कथं सा प्रमा 2 यदि भगवान् सर्वत्र सन्निहितः, तर्हि कथ प्रथमेन ज्ञानेनैव न तस्य साक्षात्कारः, इति कुतो न परमतेऽपि-"आवृत्ति- रसकृदुपदेशात्" "आप्रायणादि" त्यादिवैयर्थ्यम्॥ 'हमृतिप्रतिलभ्भे मोक्षः' इत्यत्र स्मृतिपदं ध्यानपर्यायमिति संप्रतिपन्नम्। तच्च न मुख्यं दर्शनम्, किन्तूपचारात। तदपेक्षया तु दर्शनत्वमेव वरम्। न चैवं सत्यदृष्टकल्पना। न च दर्शनवत् भानमेव, "वृक्षे वृक्षे च पश्यामी"त्यादाव- विद्याकृतत्ववादो वा ॥ "अविद्यावैदेही न लिपिकराणाम्" इत्यत्राविद्यावैदेहीत्वं च कवीनां चमत्कारमात्रम्। न हि भ्रमत्वमस्य युक्तम्। अ्रमत्वेऽपि दर्शनत्वं न हीयते, इति नात्र दर्शनसमानाकारत्वे किमपि प्रमाणम्। भगवद्धयानादौ ध्यानप्रीतेनानुग्रहबुद्धया स्वेच्छया पारमार्थिक- विग्रहपरिग्रहेणाविर्भूय साक्षात्कारप्रदानं नाद्वैतिनोऽनुमन्यन्ते। परमार्थतोऽ- विद्यमानेऽपि व्यावहारिकोपास्योपासनमात्रेण फलसिद्धिर्बहुशो दृश्यते। न चोपास्यसत्यतायां किमपि प्रमाणम्। समन्वयः पुरुषार्थत्वेनान्वयो न सगुणस्य ब्रह्मणः। यतु निर्विशेषचिन्मात्रस्य नित्यप्राप्तस्याप्यप्राप्तत्वेन ज्ञायमानस्य प्राप्तिश्रवणम्, तदप्राप्तत्वत्रमनिरासमात्रेणेति ह्यद्वैतमतम्, इत्यद्वैतमते ध्यानस्य दृष्टविधयैवोपयोगः, न त्वदष्टविधया। अनुग्रहसाध्यः साक्षात्कार इति पक्ष एव ह्यदष्टकल्पना। कर्मणामदष्टविधया फलोपकारकत्वमपि भगव- दनुग्रहस्यैवादृष्टरूपत्वमङ्गीकृत्योपपदते। अत एव सूत्रम्-"फलमत उपपत्तेः" "पुरुषार्थोऽतः शब्दादिति बादरायणः" इति च।
Page 200
१४४ अद्वैततत्त्वशुद्धि:
"नायमात्मा प्रवचनेन लभ्यो न मेधया बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि"ति श्रुतौ निर्विशेषस्य ब्रम्मणो वरण तदात्मना प्रकाशः । तनूश्च स्वरूपमेव। शरीरपदस्य स्वरूपपरत्वं पञ्चावयवमधिकरणशरीरमित्यादौ बहुशो दृष्टम्, कोशानुमोदितं च। लभ्यत्वं च व्रियमाणतैव। सा च भक्तिरेव। अतः- "भक्तया त्वनन्यया लभ्यः अहमेवंविधोर्ऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्ठं च परन्तप।।" इत्यादौ भक्त्याः दर्शनसमानाकारता प्रतिपादते॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। इति तु स्पष्ट ज्ञानसाधनत्वं प्रतिपादयति। प्रत्यगात्मसाक्षात्कारसाधनत्वं भक्तेरत्र विवक्ष्यते। "भक्त्या त्वनन्यया लभ्यः" इत्यत्र प्रत्यगात्मसाक्षात्कारसाघनत्वं प्रतिपाद्यत इति न वैरूप्यकल्पना युक्ता।।
अत्र- सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ॥ इति हि भगवतः साक्षात्कार एवार्जुनस्य प्रतिपादते, न तु दर्शनसमाकार- स्मृतिसन्तानः ॥
अत्र सर्वात्मतया परमात्मदर्शनम्-विरुद्धानां विशेषाणां सर्वेषां परमात्मन्यध्यासम्, तद्व्यतिरेकेणाभावं च वस्तुगत्या सूचयितुमेव। अत एव द्वादशाध्याये-अव्यक्तनिदिध्यासनस्य प्रस्तुतस्य श्रष्ठयम्, उत व्यक्तोपासन- स्येति प्रश्नः। तत्राव्यक्तपदं प्रकृतपरमात्मपरमित्येव युक्तम्, न त्वप्रस्तुतशुद्ध- प्रत्यगात्मपरम्। सगुणोपासनं निर्गुणसाक्षात्कारस्यान्तरङगतरं सानम्, इति भूमिकाक्रमेण लक्ष्यलाभार्थमेव प्रयत्नो युक्तः। साक्षादन्तिमभूमिकाया एव साधनार्थ प्रयत्नो युक्त इत्युत्तरमपि भगवतोऽत एनोपपद्यते।।
Page 201
शब्दप्रमाणम् १४५
अत्र-भक्तिज्ञानदर्शनप्रवेशा विशिष्टाद्वैताभिमताः सिंहीस्तन्यवद् विजा- तीयामृनरसिकानामेव सुज्ञाना: इति लिखन्ती परमार्थप्रकाशिका कस्या वा सिंह्या: स्तन्यरसपानेन तद्रसामृतमनुभवति-कि ग्रमसिंह्याः, उत वनसिद्याः, इति सैवानुभूय संतुष्यतु सर्वत्र श्रीभाष्याशयतद्धावापत्या। न च दर्शनमत्र लाभो नाम। क्विष्टकल्पना तूभयत्र समाना ॥ इदं हि वाक्यं निर्विशेषप्रत्यकस्वरूपचिन्मात्रस्य प्करणगतम्, न तु परमात्मपरम्। न चात्र परमात्मनः प्रश्नः, उपन्यासो वा; वरत्रयातिरेकेण परमात्मविषयवरान्तरकल्पनाया अयोगात। "यस्य ब्रह्म च क्षत्रं च" इत्युत्तरत्र सगुणस्येश्वरस्याप्यधिष्ठानतया संविन्मात्रस्य प्रतिपादनाद् नात्र सगुणस्य ब्रह्मणः प्राधान्येन प्रतिपादनम् ॥ सति चैवं "यमेवैषः" इत्यत्र निर्विशेष चैतन्यप्रधानस्य यच्छब्दार्थत्वम्। एषपदं तु साधकपरम्, न तु प्राप्यपरम्, इति साधकप्राप्ययोरभेदवर्णनं विना नात्र प्रकरणशुद्धिः। आपातदष्टया क्विष्टकल्पनाडद्वैतमते प्रकरणानुगृहीता सहनमर्हति, परमते तु प्रकरणोलद्कनम्, वरचतुष्टयकल्पनम्, "यस्य ब्रह्म च क्षत्रं च च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इत्यत्र यत्रप- दानन्वयः, तद्वैयर्थ्यादिकं च दोषः । परमात्मन उभयत्र सर्वगतत्वाद् लभ्यत्वं गौणमेव। परमते नित्यप्राप्तस्य व्यापकस्य परमात्मनो लाभार्थ का वाडपेक्षा ध्या- नादेः१ भक्त्यतिशयो वा स्वेच्छया गृहीतशरीरमात्रस्य परमात्मनः परिच्छिन्नस्य कथमपरिच्छिन्नस्वरूपसाक्षात्कार: 2 "तमेव विदित्वाऽतिमृत्युमेति" "विद्वान्नामरूपाद्विमुक्तः" "ब्रह्मवि- दामोति परम् " इत्यादौ श्रयमाणो विदिधातुः-"आत्मा वा अरे द्रष्टव्यः" इत्या दिवचनैकवाक्यतया स्वरूपसाक्षात्कारपर एव। सोऽपि प्रमाणजन्य., न तु पुरुषतन्त्र: । "किमप्यद्वैतामोदो न जानाति" इति लिखन्त्यद्वैतसिद्धान्तविरुद्धं बहु स्वखण्डनानुगुणमनुवदन्ती च परमार्थप्रकाशिकाउद्वैतसिद्धान्ताभिज्ञतां सुष्ठु 10
Page 202
१४६ अद्वैततत्त्वशुद्धिः
स्वगोष्ठयां घोषयति। सादरमनुयुज्यते परमार्थप्रकाशिका-भक्ति-ज्ञान-दर्शन- प्रवेशरूपाणि विशिष्टद्वैताभिमतान्येव परमार्थानि, नाद्वैताभिमतानीति किमिति परमार्थत्त्त्वं न प्रकाश्यते, यत् सिंहीस्तन्यवत् कस्यापि दुर्लभम्, स्वगोष्ठीमात्र- विज्ञेयरहस्यतया गोप्यतया च सरक्ष्यत इति॥ एतेन-अत एव श्रुतिस्मृत्योरेवमभिधीयते-"तमेव विदित्वाऽतिमृ- त्युमेती"ति श्रीभाष्योक्तिरपि व्याख्याता॥ अत्राद्वैतामोद-अत एव शब्दार्थ ध्रुवानुस्मृतेर्भक्तिशब्देनाभिधाना- दिति वा, भक्तिशब्दस्योपासनापर्यायत्वेनेति वा-लिखतीति परमार्थप्रकाशि- कापि वेदनस्य भक्तिरूपोसनापरत्वादित्येव व्याचष्टे। परं तु लिखति-अत एवेति सूक्त्यज्ञानविलसितमद्वैतामोदस्य विवरणमिति। इदं तु श्वश्रा भिक्षानि- षेघाधिकारन्यायं स्मार्यति। अद्वैतामोदोऽपि भक्त्युपासनयोरकार्थ्यमेवात्र प्रति- पादयति परमार्थप्रकाशिकेव, न तु किमप्यपूर्व तत्त्वम् ।। तत्राद्वैतामोद :- स्मृतौ भक्तिशब्दोपाद।नेऽपि श्रतौ तदनुपादानेन तदु- ल्लेखस्य प्रकृतानुपयोग यद्वदति, तत्र परमार्थप्रकाशिका-श्रुतौ भक्त्यनुपादान- मामोदोक्तं हृदयेनानुमनुते। तथापि वदति- "भक्त्युपासनयोर्भेदेऽपि श्रतौ वेदनोपायत्वविधानपूर्वकं तदतिरिक्तो- पायनिषेध, स्मृतौ भक्त्युपायत्वविधानेन भक्त्यतिरिक्तोपायनिषेधश्च पर- स्परविरुद्ध स्यात्। अतोऽपि हेतोर्वेदनं भक्तिरूपोपासनं प्रतिपत्तव्यम्" इति। तत्र श्रतौ वेदनोपायत्वं प्रतिपादितम्, स्मृतौ भक्त्युपायत्वं प्रतिपादि- तमिति श्रुतिस्मृत्योरविरोधो मक्तेरुपासनस्य चैक्यस्वीकरणेन कामं परिहियताम्। मोक्षसाधनं वेदनं श्रुतिसिद्धं ततोऽतिरिक्तमिति श्रतिप्राबल्यमनुसृत्य स्मृतेर्थ- वर्णनं प्रकाशिका कथं निराकरोति 2 यदि भक्तेरुपादानं श्रुतौ नास्तीति मन्यते, तर्हि स्मृत्या भक्तेरुपायत्वमुक्त वेदनद्वारेति वर्णन एव स्वारम्यम्, न तु श्रत्यर्थस्यान्यथानयनेन। स्मृतिरपि-
Page 203
शब्दप्रमाणम् १४७
'मयि चानन्ययोगेन भक्तिरव्यभिचारिणी' "भक्त्या त्वनन्थया लभ्य अह्मेवंविधोर्डर्जुन। ज्ञातुं दषटं च तत्वेन प्रवेष्ट च परंतप ।।" इति ज्ञानसाघनत्वमेव भक्ते: प्रतिपादयतीति स्पष्टमिदम्, इति सर्वस्य वाक्य- स्यैकैकस्वस्वाभिमतार्थवर्णनमात्रं न पर्याप्तम्। न्यायानुमतं हि विवरणम्, न स्वेच्छामात्रनिबन्धनम्, इत्यद्वैतामोदाशयः ॥ तत्र ध्यानम्, श्रवणं वा सब्कृदनुष्ठितं न फलाय कल्पते, किंतु दृष्टार्थ- त्वाद् आप्रायणम्, यावत्पटुतमसंस्कारम, यावत्मार्घफलभोगान्तं वाऽडवर्तनीय- मिति सूत्रितम्-"आवृत्तिरसकृदुपदेशादि"ति सप्रतिपन्नम्। तत्र सकृद् ध्या- नमात्रेण कस्य च भक्तप्रवरध्रुवादेरिव प्रायणात्पूर्वमपि भगवत्साक्षात्कार इव कस्य चनोत्तमाधिकारिणो जन्मान्तर एव कृतश्रवणादिकस्य साक्षात्कारः, तदा- नीमेव प्रारब्घभोगावशेषाभावे विदेहकैवल्यं च भवति, केषाश्चन क्रियमाणश्रवण- मनननिदिध्या सनानाम पि भेदवासनादिप्राबल्येऽज्ञाननिवर्त नाक्षम साक्षात्कारे, बहुकालपटुतराभ्यासविशेषेण साक्षात्कारे पदुतमेऽपि सज्जाते प्रारब्घभोगाव- शेषाभावे मुक्तिमुख्या भवत्येव, केषांचन तु सजातेऽपि पटुतरसंस्कारे साक्षा- त्कारे प्रारब्धानुवृत्तौ तु प्रारब्घेतरोपादानांशनाशे प्रारब्घमात्रानुवृत्तौ जीवन्मु- कानां स्थितप्रज्ञानां गुणातीतानां वा मिथ्यात्वबुद्धया व्यवहारानुवृत्तिः परं वर्तते। तत्र शरीरधर्मा: क्षुत्पिपासादयस्तान् न बाधन्ते, तेषां भिक्षाट- नार्था प्रवृत्तिरपि न संभवति समाधिदशायाम्। व्युत्थानानन्तरं त्वज्ञानलेशानु- वृत्त्या भिक्षाटनादौ प्रवृत्ति:, गुरुशिष्यभावादि भेद बुद्धिनिबन्घनोपदेशादाश्रानु- वर्तन्ते, यथाSSधिकारिकाणां रामकृष्णाद्यवताराणां च लोकसंग्रहार्थ व्यवहाराः, तेषां हि विदुषामपि देहाभिमानानुवृत्त्या सर्वे व्यवहारा न विरुध्यन्ते। भोगेन क्षपणयोग्यानामपि प्रारब्घकर्मफलानामाप्रायणदनुष्ठीयमानसाक्षात्कारे- णैवाज्ञानलेशा दिनाश इत्यत्र-हि "आप्रायणादि"ति सूत्रमेव प्रमाणम्।
Page 204
१४८ अद्वैततत्त्वशुद्धि:
तत्र सकृच्छवणम/त्रेण लब्धाज्ञाननिवर्तनक्षमसाक्षात्काराणामननुवर्तमान- प्रारब्धशेपाणां प्राप्तविदेहमुक्तीनां न भिक्षाटनादौ प्रवृत्तिर्ब्रह्मभावमापन्नानाम्। अन्येषां त्वनुवर्तमानाज्ञानलेशानाम्, अप्राप्तपटुतमसंस्कारसाक्षात्कारणां वा मात्रयापि भिक्षाटनादौ पवृत्तिरन समाधिदशायाम्, व्युत्थाने तु स्वयं शरीराभि- मानस्यानुवर्तनात् "शारीरं केवलं कर्म कुर्वन्नामोति किल्बिप"मिति न्यायेन स्वयं भिक्षाटनादौ प्रवृत्तिर्न विरुध्यते। जीवन्मुक्ततं हि तत्त्वसाक्षात्कारेणा- ज्ञानांशानां बहुतराणां निवृत्तिम/त्रेण, न तु सर्वात्मनाऽज्ञाननिवृत्त्या परमैकान्ति- नामिव, आधिकारिकाणामिव वा ॥ तत्र-"आप्रायणादि"ति सूत्रं परमत इवाप्राप्तपटुतमसंस्कारसहिता- त्मसाक्षात्काराभिप्रायम्। आत्मसाक्षातकारदशायामेवाहार्यज्ञानमिव वासनावशात संप्रज्ञातसमाधाविवानात्मविदम भिप्रेत्यापि। "आप्रायणादिति " सूत्रं फलाध्याये प्राप्तफलस्यापि तद्रक्षणं यावच्छरीरपातमपेक्षितमिति सूचनार्थ परमत इव। परमतेऽपि हि ध्यानस्याप्रायणमनुष्ठानं सिद्धस्य फलपर्यन्तस्य वितथम्, साधना- वस्थस्य तु फलाध्याये विचारोऽसङ्गत इति समानम् ॥ प्राप्तपटुतमसंस्कारस्य तु निवृत्तेष्वज्ञानांशेषु बहुतरेषु कर्तृत्वभोक्तृत्वाद्यमि- मानाभावे जीवदवस्थायामपि न भाविकर्माधिकारः, न वा भाविकर्माकरणेन प्रत्यवायः, लोकसंग्रहार्थ कर्मानुष्ठानं त्वाधिकारिकाणामिव। जीवन्मुक्तानां कर्मानुष्ठानं ह्याधिकारिकाणामिव लोकसडग्रहार्थमिति वदति भगवान् स्वयमेव- "न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किश्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥" "लोकसडग्रहमेवापि संपश्यन् कर्तुमर्हसी"त्यादि। तत्र लोकसडग्रहो नामाश्रद्धया समार्गभ्रष्टानां कर्मसु विश्वासोत्पादन- मेव। न ह्यात्मस्वरूपस्य शरीरादिविविक्ततया ज्ञानानन्तरं शरीरघर्मब्रह्मणत्वाद्य- भिमाननिबन्धन कर्माधिकारो जीवन्मुक्तानां लोकसङग्रहाधिकारमतिरिच्य। जीव-
Page 205
शब्दप्रमाणम् १४९
न्मुक्तस्य कर्म न भवतीत्यादिवचनानि तस्य कर्मानुष्ठानप्रयुक्तस्वार्थप्रयोजनाभाव- मुददिश्य, इत्यद्वैतामोदस्य न कुत्रापि व्याघातः। न हि विहितकर्मानुष्ठानं जीवन्मुक्तस्य विद्यानिष्पन्त्युपयोगि; विविदिषार्थत्वाद् यज्ञादीनाम्, विद्याप्रति- बन्धकचित्तमालिन्यादिनिरसनद्वारा परम्परयेह जन्मनि, जन्मान्तरे वा कृतानां कर्मणां कृतार्थत्वात्। न चायं नियम :- यत् जन्मतः प्रभृति विरक्तो विविदिषुः सर्वोऽपि। यस्तु तथा, तस्य जन्मान्तरीयेणैव कर्मणा चित्तशुद्धयादिनिर्वाहः । विविदिषासाघनत्वमेव कर्मणाम्, न तु विद्यासाधनत्वमिति गतमघस्तात्।। आत्मोपासनादीनां तु विद्यान्तरङ्गतरसाधनत्वम्, न त्वेवं कर्मणाम्। तेषां चित्तशुद्धिद्वारा विविदिषाधिकारप्रयोजकत्वेन बहिरङ्गत्वात्, इति नोपा- सनासाम्यं कर्मणाम्, इति "कर्मानुष्ठानेनैव विद्यानिष्पतिः" इति श्रीमाष्योक्ता- वेवकारो नान्ययोगव्यवच्छेदार्थ इति संप्रतिपन्नम्। अयोगव्यवच्छेदार्थोडपि यदि परम्परया तदुपयोगाभिप्रायेण, तर्हि स्वागतम्; जन्मान्तरीयैः कर्मभिरपि तन्निर्वाहात्॥ "विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्य- याऽमृतमश्नुते" इत्यत्र सहशब्द एकपद वा भवतु, स., ह इति पदद्वयं वा ; उभयथाऽपि कर्मोपास्त्योरेव साहित्यं समुच्यो वा विवक्ष्यते ; तत्र विद्याशब्देनो- पास्तेरेव विवक्षणात्। तत्रोपास्तेरमृतप्राप्तिसाघनत्वं साक्षात्कारद्वारैव, न साक्षादित्येव विवक्ष्यते, उत्तरग्रन्थस्वारस्यात्, इति सहशब्दार्थविचारोडयं नाद्वैतविरोधी, विशिष्टाद्वैतस्यात्यन्तमुपकारी वा। तत्त्वसाक्षात्कारस्य कर्मसाहित्ये तु न किमपि प्रमाणम् । "इयाज सोपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्म विद्यामधिष्ठाय तर्तु मृत्युमविद्यया॥" इति ज्ञानिना केशिध्वजेन जनकादिवत् कर्मणोऽनुष्ठानकथन तु पटठतरसंस्कारं संपज्ञातसमाधिस्थानाम्, असंप्रज्ञातसमाधिस्थानामपि व्युत्थितानां मृत्युशङ्कया
Page 206
१५० अद्वैततत्त्वशुद्धिः
तत्परिहारार्थ लोकसंग्रहार्थ वा न विरुध्यते। अत्र मृत्युशब्देन प्रारब्धफल- व्यवहारप्रयुक्तसंभावितमालिन्यमेव विवक्ष्यते, न त्वन्येषामिव स्वाभाविकं मालिन्यम्। अतो 'विद्यये'ति न विरुध्यते। केशिध्वजो हि पटुतरसाक्षात्का- रानुदयात तदर्थ यतमानः कर्मत्यागे नाधिकारीति तु निष्कर्षः । सर्वथा त्विहैव जन्मनि कर्मानुष्ठानद्वारा कर्मविचार एवाथशब्दार्थ इति तु नोपपद्यते।। यथाच पूर्वमीमासान्यायमुपजीव्य नोत्तरमीमांसा प्रवृत्ता, तथा पूर्वमेवो- पपादितम्। वस्तुतस्तु जैमिनिरपि लोकसिद्धोत्सर्गापवादोद्देश्यविधेयभावादि- निमित्तमुपजीव्यैव मीमांसते, न त्वलौकिकप्रक्रियाविशेषेण। सा च स्वतन्त्रोत्तर- मीमांसायां बादरायणमीमांसायामपि नियामिका भविष्यति। लौकिकानां न्यायानां विषयव्यवस्था खलु मीमांसाककृत्यम्। किमिदमपूर्व बादरायणस्य जैमिनिगुरो: 2 येन जैमिनीयं विचारं विना बादरायणेन स्वयं न मीमांसितुं शक्येत। तत्र "त्रीहीन् प्रोक्षती"त्यादौ द्वितीयाश्रुतिरङ्गित्वमेव बोधयति, एवमश्वमानयेत्यादावपि; तथापि तस्या एवाङ्गत्वेऽपि परम्परया तात्पर्यं मीमांसान्यायप्रकाशे निरूपितम्। तृतीयाश्रुतिरेवाङ्गत्वबोधिका साक्षा दित्यत्र तु न विवादः । पराक्रान्तं चात्र शासत्रैक्यविचारप्रघट्टके।। सत्यम्-"तस्मादेवंविच्छान्तो दान्तः-आत्मन्येवात्मानं पश्येदि"त्यत्र शमदमादेः साक्षातकारसाघनत्वमेवोक्तम्, न तु साक्षाच्छूवणसाघनत्वम् ; तथापि "आत्मा वा अरे द्रष्टव्यः " इत्यादौ श्रवणादेः साक्षात्कारसाधनत्वबोधनात्, "शान्तो दान्तः" "एवंवित् पश्येदि"ति दर्शनात् पूर्व वेदनस्य, तदङ्ग- तया शमदमादेश्च विधानात् श्रवणादिद्वारैव शमदम।दिकमात्मसाक्षात्कार- साघनमिति निर्धारयते, इति फलतोऽन्र जिज्ञासाधनत्वमेव पर्यवस्यतीत्यामोदः ॥ परमार्थप्रकाशिका त्वन्यथाग्रहणेन खण्डयतीमं सन्दर्भम्-कथमत्र साक्षात्कारसाधनत्वे शमदमादीनां श्रयमाणे श्रवणसाघनत्वबोघनमिति सर्वथा तु श्रवणकाले, तदुत्तरं च शमदमाद्यावश्यकता न विप्रतिपन्ना। शम-
Page 207
शब्दप्रमाणम् १५१
दमादिस्वरूपं च विवेकचूडामणौ भगवत्पादैः सम्यगेव विवेचितमद्वैतसिद्धान्तानु- गुणम्, इति तत एवाधिकमवगन्तव्यम्। निर्विशेषात्मसाक्षात्कारे, तत्साधने वा सति शमदमादिकं यथाऽनुवर्तते, न तथा कर्मविचारमात्रे। अत एव तस्य बहिरङ्गसाधनत्वम्। नचात्र सगुणब्रह्मवेदनमेव दर्शनसमानाकारं विवक्षितम्, न वा सविशेष एव वेदान्तानां प्रामाण्यम्, न निर्विशेषे; निर्विशेषे वस्तुन्येव वेदान्तानां परमतात्पर्यात्।। तत्र वेदान्तानां यद्यपि भामतीप्रस्थाने वृत्त्युपहितपरत्वमेव, न तु शुद्धविषयत्वम्; तथापि वेदान्तनन्याखण्डाकारवृत्याऽज्ञाने निरस्तेऽनावृतं संविन्मात्रं स्वत एव प्रमेति स्वप्रकाशतया, वेदान्तजन्याखण्डाकारवृत्ति विषयता- मात्रेण वार्डर्थात् निर्विशेषवस्तुसिद्धि।। यतु-प्रमाणानां प्रमाणान्तरानपेक्षेत्यामोदः, तत् स्वतः प्रामाण्यवादेन। तदुक्तम्-"तत्प्रमाण बादरायणस्यानपेक्षत्वात् " इति। यथा प्रदीपस्य प्रकाशकत्वं न प्रदीपान्तरापेक्षम्, एवं प्रमाणस्य प्रामाण्ये प्रमाणान्तरानपेक्षत्वम्, न तु प्रदीपस्य, प्रमाणस्य वा सहकारिकारणान्तरानपेक्षत्वमपि ; अन्यथाSनवस्थापातः। प्रमाणस्य प्रमाणान्तरापेक्षायां हि न प्रमाणसंख्याकळप्तिः। तत्र ब्रह्म स्वयं- प्रकाशं सविन्मात्रमपि तदावरणनिवृत्त्यर्थ सत्यं प्रमाणमपेक्षते। तत्र ब्रह्म संविन्मात्रं प्रमा, न प्रमाणम्, इति प्रमाणस्य प्रमाणान्तरानपेक्षायां तन्र व्यभिचारोन्नयनं न दोषाय। अयमेव न्यायः संविन्मात्रे प्रत्यगात्मन्यपि। न चैव सति शास्त्रवैयर्थ्यम्, प्रत्यक्षादिप्रमाणानवकाशप्रसङ्गो वा॥ सत्यं सविशेषवाक्यानि विशेषनिषेघवाक्यापेक्षितविशेषसमर्पकाणि, उपास्यतया सविशेषप्रमाणानि च। न चोभयविधानामुक्तविघया प्रामाण्येऽन्यतरा- प्रामाण्यम्, अन्यतरसंकोचो वा। न च विधिनिषेधयोर्निषेधवाक्यबाघकत्वं स- विशेषवाक्यस्य, निषेधस्य निषेध्यप्रसक्त्यपेक्षावद् विघिवाक्यस्य निषेधवाक्यापेक्ष- प्रवृत्त्यभावात्॥
Page 208
१५२ अद्वैततत्त्वशुद्धि:
"अग्नीषोमीयं पशुमालभेत", "न हिंस्यात्सर्वा भूतानी"त्यत्रापि निषेध- वाक्यमुपजीव्य न विधिवाक्यं प्रवृत्तम्, एवमपि सामान्यविशेषभावाद्वाक्य- द्वयार्थस्य, क्रत्वर्थत्वपुरुषार्थत्वाभ्यां विषयभेदाच्च न निषेधशास्त्रेण विशेषस्य बाघः। न चात्र सामान्यविशेपभाव इति प्रागेवोपपादितम्। क्रत्वर्थत्वपुरुषार्थ- त्ववदुपास्यत्वज्ञेयत्वाभ्यामविरोघोऽत्रापि समान., इति न विशेषवाक्यानुसारेण निर्विशेषवाक्यानामन्यथा नयनं सांप्रतम्॥। निर्विशेषत्वं चेदं न स्वरूपातिरिक्तम्, किन्तु स्वरूपमेव। तत्र निर्विशेषे ब्रह्मण्यध्यारोपेण विशेषाणां निर्देशः क्रमेण "नेति नेती" ति निषेधविघया, अपवादविघया वा, न तु विशेषाणां पारमार्थिकत्वाभिप्रायेण। अतो निर्विशेषं नाप्रामाणिकम् ॥ - "यस्मिन् ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनाम्।" इति विष्णुपुराणादिवचनान्यप्यनावृत्ते निष्प्रपश्चेद्वितीये च न प्रमाणानि सर्वप्रपञ्चाधिष्ठाने तद्विवर्तोपादानकारणे च ब्रह्मणि यावद विद्यानिवृत्ति प्रमाणानि, अनन्तरं तु न किमपि प्रमाणं तत्रेति हि स्वरसोरऽर्यः, न तु परिपूर्णमपरिच्छिन्न- मनेकविभूतिमच्च ब्रह्मेति॥ तद्धि कथं न प्रमाणवेधम् 2 अन्यथा कथ तत्सिद्धि: १ इति कथ वा न शून्यवादापति: 2 न चेदं स्तुतिमात्रमर्थवादवत न स्वार्थपरम्। अद्वैतमते तु प्रमाणानि न साक्षाद् ब्रह्म बोधयन्ति, स्वप्रकाशस्य तस्य स्वतः सिद्धत्वात्, किन्तु तदावरकाज्ञाननिवृत्तिमात्रेण दूरत एवावतिष्ठन्ते प्रमाणानीति प्रमाणाना- मुपयोगः साक्षादप्रमेयत्वेऽपि स्वप्रकाशस्य ब्रह्मणः। इदमेव प्रमाणानां दूरतो- डवस्थानम्-यत् साक्षात्तदसंस्पर्शः ; तथापि तदप्रकाशप्रतिबन्घेन तत्प्रकाशो- पयोगित्वम्, न तु साक्षात्तत्संबन्धित्वम्। प्रमाणानि स्वविषयत्वेन घटादिवद् ब्रह्म न बोधयन्तीति तु सारांशः । अत्र दष्टान्तः प्रदीपः । स हि केनचन घटेन, अन्येन वाऽडवृतो न स्वप्रकाशार्थ प्रकाशान्तरमपेक्षते, किन्तु दण्डादिना घटस्फो-
Page 209
शब्दप्रमाणम् १५३
टादिना तदावरणनिवृत्तिमात्रम्। न चात्रांवरणनिवर्तको दण्डादिरपि प्रकाशको नाम, इति नात्र प्रदीपवैषम्यं ब्रह्मण, न वा प्रमाणानामावरणनिवृत्तिमात्रेणा- प्रमापकत्वम् वा। न ह्यत्र दण्डः प्रदीप संबध्यैव घटस्य प्रकाशक:॥ अत्र "सर्वशक्तिनिलये" इति ब्रह्मणः सर्वशक्तिनिलयत्वं सर्वासां शक्तीनां ब्रह्मस्वरूपत्वाभिप्रायेग। तत्र शक्तिरपि न ब्रह्मणो विशेषः । सर्वशक्तित्वं हि तस्य सर्वविवर्तोपादानत्वेन। तच् सर्वात्मना परिणममानाविद्यासंबन्ध- मात्रम्। तच्चानादध्यस्तरूपमेव, इत्यविद्याया इव तस्यापि परमार्थतो विलय एव। न च विवर्तोपादानत्वं तदात्मना मानमात्रं ब्रह्मणोडर्थान्तरम्। अत एव "सन् घट" इत्यादि सदारमनैव सर्वेषामनुभवः। तत्र न केवलं शक्तिः, शक्यान्यपि सर्वाणि ब्रह्मस्वरूपाण्येव परमार्थतः। उक्तं च- अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यं त्रय ब्रह्मरूपं जगदूपं ततो दयम् ॥ इति। अतो न केवलम् शक्तिमत्वेन, किन्तु शक्यत्वेनापि न सविशे- शेषत्वम्। अत एव-"एकमेवाद्वितीयमि "ति ब्रह्मणि सजातीयविजातीय- स्वगतसर्वभेदराहित्योपदेशः ॥ तत्र सर्वस्य ब्रह्माभिन्नत्वम्-शुक्तिव्यतिरेकेण रूप्याभाववद् ब्रह्मव्यतिरे- केण तद्धिन्नसर्वाभावः, तत्सत्तातिरिक्तसत्ताकत्वाभावो वा, न तु गुणगुण्यादाविव भेदाभेदाभ्याम्। यथा च- "जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्या तच्वितोर्योग: षडस्माकमनादयः।।" इति सिद्धान्ताद् ब्रह्मणि सर्वप्रपश्चकल्पको जीवोऽनादिसिद्धः, तथा पूर्वमेवोपपा दितम्। अतो नात्र दोषगन्धोऽपि परमार्थप्रकाशिकारोपितः प्रसरति॥ तत्र परमत इवाद्वैतमतेऽपि सविशेष ईश्वरोऽनादिसिद्ध इत्यनुपदमेवो- क्तम्, इति सृष्टिकाल:, सृष्टिस्थितिसंहारपरम्परामालाउद्वेतमतेSपि तत्रेवोपपद्यन्ते।
Page 210
१५४
इयान् इति तद्विनाशे निर्विशेषब्रह्मात्मनाऽवतिष्ठते। एवमेव जीवोऽप्यन्तःकरणादि- सर्वोपाधिविलये निर्विशेषचिन्मात्रतयाऽवतिष्ठत इति। तावत्पर्यन्तं तु मतान्तर इव कालादिव्यवस्थाऽद्वैतमतेऽप्युपपद्यते। सति चैवम्-"यतो वा इमानि भूताति जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति " इति जगज्जन्मस्थितिलय कारणत्वेन तटस्थलक्षण विधयेश्वरस्य सविशेषस्याध्यारोपापवाद- न्यायेन सर्वविशेषविलये सच्चिदानन्दात्मकनिर्विशेषस्वरूप एवं पर्यवसानम्। तद्धि निर्विशेषं स्वयंप्रकाशमप्यविद्ययाऽडवृतं सदन्येषामस्वप्रकाशं च सत् तत्तत्कार्यात्मना विवर्तते। ततश् सविशेषमिव भवति। तेन च तत्स्वरूपस्या- ज्ञानाद्विप्रतिपत्तयः, तत्तादशा विवादाश्च समुल्लसन्ति; अविद्याप्रयुक्तत्वात् संशय- विपर्ययादिवृत्तिविशेषाणाम्, इति निर्विशेषस्वप्रकाशत्वम्, सर्वव्यवहारादि- निर्वाहाश्राद्वैतमते न व्याहन्यन्ते। तत्र निर्गुणश्रतेर्गुणविशेषमात्रनिषेधे तात्पर्यम्-अम्नीषोमीयहिंसावाक्य- नयेन न संभवतीति गतमघस्तात्। तत्र "ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः॥" इति सविशेष ब्रह्म बोधयतीति, सत्यम्। को वाऽतर विप्रतिपद्यते 2 निर्विशेष- वाक्यबाधकतवमस्य सन्दर्भस्य कथमिति खल पर्यनुयोगः । न चात्राग्ीषोमीय- न्याय प्रसरति, कल्पितैरपि विशेषैः सविशेषत्वस्य वस्तुतो निर्विशेषत्वस्य चोपपत्तर्वाक्यद्वयस्याप्यविरोधात्। अपहृतपात्मत्वादयो हि गुणा उपसनामात्र- विषयाः, तेनैवोपास्येन संबद्धा नोपास्यान्तरेण संबध्यन्ते। न च सर्वेषूपासनेषु सर्वेऽपि गुणा उपसंहियन्ते, न वा सर्वोपासनानामैक्यम्, येन "ब्रह्मविदामनोति परमि "त्यादिना पस्तुतस्य ब्रह्मण एव सर्वेपीमे गुणा: स्युः, तदतिरिक्ताना- मेव विशेषाणां निरासश्च स्यात्।।
Page 211
शब्दप्रमाणम् १५५
सद्विद्या हि-सर्वतादात्म्यं ब्रह्मणः प्रस्तुत्य सर्वाभावं प्रतिपादयति, न तु यत्किश्चिदभावमात्रम्। अधिकमधस्तात्। तत्र सविशेष सर्वकारणमपि ब्रह्म न सर्वविशिष्टतयोपास्यम्, किन्तु हेयैर्गुणै रहितमेव ; अन्यथा ततक्रतु- न्यायेनोपासकानां तद्रपमपि प्राप्येत, ततश्र दुःखित्वाद्यापत्िः, जगद्वयापारवर्ज ब्रह्मभावविरोध। ब्रह्मणस्तु सर्वकारणस्यापि न तैरसङ्गस्य सङ्गगन्धोऽपीति न तत्प्रसङ्ग, इत्यभिप्रेत्यैव केषाञ्चन गुणानामेवोपासनार्थमेवोपासनावाक्येषु सङ्कल- नम्, न वा स्वाभाविकं तावन्मान्रविशेषवत्त्वम्, अन्यथा- "ये चैव सात्त्विका भावा राजसास्तामसा्च ये। मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि॥" "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।" इत्यादौ ब्रह्मणः सर्वविशेषसंबन्धप्रतिपादनमसङ्गतं स्यात। अतो गुणविशेष- वत्त्वमात्रे न सविशेषवाक्यानां तात्पर्यम् किन्तु, निषेधस्य प्रसक्तिपूर्वकत्वात
वाक्येवु ॥ सर्वप्रकृतित्वं तु ब्रह्मणः सर्वविवर्तोपादानत्वरूपं सर्वाघिष्ठानत्वरूपं वा सर्वत्र सदित्यनुवेधप्रयुक्त्ं ब्रह्ममात्रपारमार्थिकत्वमेव साधयत् तन्निर्विशेषत्वमेवो- पबृंहयति। न च कार्यकारणयोः सामान्यतः, विशेषतश्रोपादानोपादेययोः सालक्षण्यनियम इति स्थितं नविलक्षणत्वाघिकरणे ; अन्यथा वस्तूनां सलक्षणप्रकृतिकत्वस्यैव दर्शनेन विलक्षणब्रह्मोपादानत्वानुपपत्तिः । अद्वैतमते तु कार्य विलक्षणप्रकृतित्वरूपं कार्यविषमसत्ताकत्वरूपं वा विलक्षणत्वमेव ब्रह्मजगतोः, इति न सलक्षणप्रकृतित्वमपि। एवमपि नविलक्षणत्वाधिकरणसाफल्यं तु विवर्तो- पादानोपादेययोरपि शुक्तिरजतादिस्थले सालक्षण्यदर्शनात् प्रसक्तं सालक्षण्यमप्र- योनकमिति निरूपयितुम्। व्यक्तं चैतद्भामत्यादौ। अतो ब्रह्मणः प्रकृतित्वं निर्विशेषत्वस्योपपादकम्, न सविशेषत्वस्य। घटादिकमिव शुक्तिरूप्यादिकमपि
Page 212
१५६ अद्वैततत्त्वशुद्धि
सविशेषमेव, इति न सर्व: सविशेष: सविशेषप्रकृतिक एवेति नियम:, स्वा- मानां हि साक्षिचैतन्यमधिष्ठानम्, इति न कारणस्य प्रातिभासिकेऽपि कार्यें सलक्षणत्वनियम:, व्यावहारिके तु नतराम्। तदघिष्ठानं हि- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।" इति वचनाद्-अविद्ययाऽडवृतं निर्विशेषचिन्मात्रमेव, अन्यथा ब्रह्मोपादानताया न निर्वाहो विशिष्टाद्वैतमते। निर्विशेषं हि वस्तु न केवलं शब्दात्, प्रत्यक्षाद्वा, किन्त्वनुमानादपि सिध्यति। तथाच योगसूत्रम् (1-25) "सामा- न्यमात्रोपसंहारे च कृतक्षयमनुमान न विशेषप्रतिपत्तौ समर्थम्" इति। इदं हि सूत्र सामान्यमात्रोपसहारे न विशेषप्रतिपत्तिरनुमानेनेति बोधयद् न विशेष- धर्मस्यानुमानं निषेधति ; अन्गथा वह्नयादिसविशेषानुमानमप्रमाणं स्यात्, इति स्थितस्यापि विशेषस्य प्रतिपत्तिरनुमानान्न भवतीत्यत्रोक्तसूतस्य तात्पर्थम्। न चैवं पर्वतो वह्विमानित्यत्रापि वहिसामान्यमेवानुमित स्यात, न तु तद्विशेषानु- मानम् ॥ तत्र निर्विशेषं ब्रह्मापि तैनैव न्यायेनानुमेयमपि भवतीति शारीरक- मीमांसाभाष्यवार्तिरक प्रतिपादयति। श्रुतयस्तु बहवो निर्विशेषबोधिका विशदा. । तत्र "यतो वाचो निवर्तन्ते" इति श्रुतिर्विशेषद्वारा अभिधाविधया वा ब्रह्म- स्वरूपं न बोधयितुमलम्, निर्विशेषत्वादिति स्पष्टमभिप्रैति निर्विशेषतां ब्रह्मणः । तत्र-"स एको ब्रह्मण आनन्दः" इति वाक्यनिर्दिष्ट ब्रह्म 'ब्रह्म- विदानोति परमि" ति प्रस्तुतमत्र प्रत्यभिज्ञातं च ब्रह्म नैकम् ; 'स एको ब्रह्मण आनन्दः" इति प्रस्तुतब्रह्मानन्दस्य प्रजापत्यानन्दशतगुणितानन्दवत्तया वाक्परिच्छिन्नत्वेन तदपरिच्छेदस्यात्र विवक्षणासम्भबात, इति निर्विशेष- मन्यदेव ततोऽत्र विवक्षितमिति वक्तव्यम्। अतो नात्र पूर्वोक्तनिखिलगुण- विशिष्टस्य ब्रह्मणो यच्छब्देन परामर्शः पूर्वप्रकृतस्यापि, किन्तु प्रकरिष्यमाण-
Page 213
शब्दप्रमाणम् १५७
परामर्शी यच्छब्दोऽत्र। तत्र वाञ्यनसयोस्तद्ग्रहणसामर्थ्याभावो वाक्प्रवृत्ति- प्रयोजकविशेषाभावनिबन्धन एव, न तु गुणानामनन्तत्वनिबन्धनः । अत एव 'अप्राप्ये'तिपदमत्र, यस्य प्रधानेन ब्रह्मणाऽन्वयः, न तु तद्गुणैः ; तेषामत्रा- श्रवणात्। अध्याहारे तु क्विष्टकल्पनैव प्रधान दूषणम्।। यत्तु-"यतो वाचो निवर्तन्ते इत्यत्रापि ब्रह्मणो व्रह्मण इति पदेन बोध- नात, यो यो विशेष, स स सामान्यप्रकृतिक इति पूर्वोक्तयुक्तया च मन- सापि कल्पयितुं शक्यत्वान्च न वाङनसातीतत्वसिद्धि। एवमानन्दस्य ब्रह्मरूपत्वे तस्यानन्दपदविषयत्वे वा ब्रह्मणोऽषि वाग्विषयत्वमायातम्। वस्तुतस्तु आनन्दनिरूपणप्रकरणत्वादस्य, यच्छब्देनानन्दग्रहणमेव युक्तम्। तत्र च 'ते ये शतं प्रजापतेरानन्दा' इत्यत्र शतपद न तत्सख्यापरम्, किन्त्वानन्त्यपरम्। ततश्व ब्रह्मानन्दापरिच्छेदबोधन एवोक्तसन्दर्भस्य तात्पर्यम्-इति।। तत्र किं मनुष्यानन्दापेक्षया शतगुणितगन्धर्वानन्दादिस्थलेSपि शतपद- स्यानन्त्यपरत्वम्, उत 'ते ये शतं प्रजापतेरानन्दाः' इत्यत्रैव ? आद्ये सर्वा- नन्दानामानन्त्ये शतगुणोत्तरोत्कर्षः कथम्? तत्र यद्यनन्तानन्दानामेव शत- गुणोत्तरमुत्कर्ष: सर्वत्र, तर्हि-"स एको ब्रह्मण आनन्दः" इत्यत्रापि प्रजापत्यनन्तानन्दशतगुणितोत्कर्षरूपेण परिच्छेदस्यैव विवक्षणात् "स एको ब्रह्मण" इत्यत्र नानन्त्यस्य पूर्तिः, इति वाड्मनसापरिच्छेद्यत्वं निर्विशेष- ब्रह्मानन्दस्यैवेति वक्तव्यम्। न चात्र ब्रह्मानन्दपदाभ्यामेव परिच्छेदाद् वाड्मनसापरिच्छेद्यत्वं बाधितम्। इंदं तु समं परमतेऽपि, ताभ्यां परिच्छेदे- डपरिच्छेदवर्णनासंभवात्। ब्रह्मणः, ब्रह्मरूपानन्दस्य वा निर्विशेषस्याद्वैतमते- डभिधाविधयाऽत्राविवक्षणात् नाभिधावृत्त्यविषयत्वमत्र विरुद्धम्। अयमेव न्याय आनन्दपदेऽपि। व्यक्तं चैतदिष्टसिद्धौ।। अथवा-"यतो वाचो निवर्तन्ते" इतीयं श्रुतिरिदन्तया विधिसुखेन। बाच, मनसा सह ब्रह्मणो निवर्तन्ते, नेति नेतीति निषेधमुखेन तु प्रवर्तन्त
Page 214
१५८ अद्वैततत्त्वशुद्धि:
इत्याशया। एतेन-निर्गुणपदमपि-व्याख्यातम्, तस्यापि ब्रह्मणि गुणसामान्यनिषेघमुखेनैव प्रवृत्तेः। न चात्र पक्षे निर्गुणपदस्य "नेति नेति- पदयोश्च लक्षणा, न वाSत्राध्याहारादिदोषः; परिच्छिन्नत्वप्रतिपादकवागविषय- त्वेनोक्तवाक्ययोजनायां त्वध्याहारादिदोषो विशद एव।। वस्तुतस्तु-निर्विशेषवाक्यान्यम्नीषोमीयन्यायेन सत्यकामत्वादिगुणविशे- षातिरिक्तगुणनिषेधपराणीति हि परमते विवरणम्। तत्र च तत्तत्करणपठित- गुणविशेषाणां परिच्छिन्नतया, परिच्छिन्नवाग्विषयत्वमेवात्रायातम्, इति कथ तत्र परिच्छिन्नवागविषयत्वेन सक्कोचो युज्यतेऽपि 2 आनन्दमात्रपरिच्छिन्नत्व- वागविषयत्वपरतया विवरणं तु प्रागेव निरस्तम्। निर्विशेपत्वं प्रमाणमूर्धन्य- श्रुतिसिद्धं प्रमाणविरुद्धमिति व्याहतम्। न चात्र वाक्पदं लाक्षणिकपरम्, सर्ववागविषयत्वस्यैवाभिघाविघयाऽत्र विवक्षणात्। 'यतो निवर्तन्ते' इत्यस्य यन्न प्रतिपादयन्तीत्यर्थपरतया लाक्षणिकत्वं तु समानमुभयत्र विधिमुखेन प्रवृत्त्यभावविवक्षायाम्॥ "सत्यं ज्ञानमनन्तम्" इत्याद्यप्यसत्यादिव्यावृत्तिमुखेनैव ब्रह्म बोधयति। 'यस्सर्वज्ञ:' 'यद्धतयोनि' इत्यादि तटस्थलक्षणपरं सविशेषपरं तु विधिमुखेनैव प्रवर्तत इति सम्प्रतिपन्नम्। 'मनसा सहे'ति मनःपदमशुद्धमनःपरमिति स्वीक्रियते ; निवर्तन्तेपदसमभिव्याहारात्। कल्पितसर्वविशेषवत्त्वेन सविशेषपरं वा सर्व विधिमुखेन प्रवर्तमानम्। निर्विशेषवाक्यानि तदपवादेन निर्विशेष- पराणीति तु न विरोध इत्युक्तमेव प्राकू॥। यथा हि 'इदं रजत'मिति प्रतीयमानमपि रजत "नेदं रजतमि"ति बाध- वशात्परत्वेन बाध्यते, एवं निर्विशेपवाक्यैरपि परत्वाद्वाध्यन्ते सविशेपवाक्यानि, इति कथं सविशेषतावाद एवाबाघित इत्युद्धोषणमर्हति 2 न केवलं तत्पदार्थः, किन्तु त्वंपदार्थोऽपि वस्तुगत्या निर्विशेष:, असति बाधके विशेषाणामनुगत- सामान्यप्रकृतिकत्वनियमात, इति सर्वानुगतसंविन्मात्रमेवैंकं स्वीकर्तव्यम्।।
Page 215
शब्दप्रमाणम् १५९
तत्तादात्म्येन वा, न तु स्वत इति न स्वप्रकाशत्वासिद्धिः। अनुभूतिः, स्वप्रकाशा, अनुभूतित्वात्, इत्यादाविव स्वप्रकाशत्वस्याप्यनुमानेनास्वप्रकाशत्व- शङ्कानिरसनेनोपयोगान्निर्विशेषस्यापि कल्पितधर्मध मिभावकल्पनयाऽनुमानवेद्यत्वं न विरोधि। प्रकृतित्वं हि विवर्तमानतया, परिणामितया वा, इति चिन्मात्रमिव न गमनपचनादिकमपि सामान्यं न प्रकृतितयाऽSपादनमर्हति। एतेन- माधुर्यादिरसरूपादिविशेषाणां सामान्यप्रकृतिकत्वमपि-व्याख्यातम्।। सच्चिदानन्दस्वरूपे ब्रह्मणि सत्त्वचित्त्वादिधर्मोऽपि कल्पित एव। तदुक्तम्-"आनन्दो विषयानुभवो नित्यत्वं चेति धर्मा अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते" इति, इति सत्त्वचित्त्वादिनापि न परमार्थतः सविशेष ब्रह्म। जडत्वं हि अस्वप्रकाशत्वम्, स्वप्रकाशे चिद्पे चित्त्वाभावेऽपि नाबाधितम्।
वर्तते, येन जडत्वं तस्यापद्येत। विशेषास्सामान्याश्रया इत्यादिप्रकारेण निर्विशेषस्योपसंहारविधया सिद्धावपि न तत्पक्षसाध्यहेतुकानुमानं तत्र स्वी- क्रियते। महाविद्यानुमानेन हि निर्विशेषानुमानम्॥ निर्विशेषब्रह्मणि वेदान्तोपबृंहितार्थापत्तिरेव प्रमाणम्, नानुमानम्। कुत्रचनानुमेयत्वोक्तिरपि तदभिप्रायेणैव। अभावस्तु धर्मो ब्रह्मरूपत्वाद् नाद्वैत-
श्रुतिर्मानम्। हेयगुणनिषेधपरतया विवरणं तु निरस्तम्, येन कतिपयविशेष- रहितस्यापि ब्रह्मण: सविशेषत्वं सूपपादम्। न हि ब्रह्मणि निष्कर्षहेतुभूता विशेषा. केपि सन्ति ; सर्वविशेषप्रतिषेधार्थत्वादद्वितीया दिवाक्यानाम्। तत्र विशेष इव विशेषाभावोऽपि कल्पितः, अपारमाथिकश्च, इति कथं निर्विशे- षस्य विशेषाभाववत्त्वं कश्चन पारमार्थिको धर्मः, अद्वैतभङ्गश्च स्यात्॥
Page 216
१६० अद्वैततत्त्वशुद्धि:
अधिष्ठानत्वं हि ब्रह्मणो यावदज्ञानावरणं न पारमार्थिकम् ; अज्ञान- विषयत्वरूपत्वात्तस्य। तच्चाखण्डाकारसाक्षात्कारेणाज्ञाननाशे, तत्प्रयुक्तानाम- न्येषामिव नाशाद् नानावृतचिद्धपस्य वर्तंते, इति न तेन ब्रह्मनिर्विशेषत्वव्या- घातः। तथा चोक्तम्- "अक्षमा भवतः केयं साधकत्वप्रकल्पने। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्।।" इति। अयमेव न्यायः सविशेषत्वेऽपि। इदमेवामिप्रेत्याद्वैनामोदो वदति- विशेषप्रकृतित्वं भासमानविशेषानविष्ठानत्वाभायमात्रमिति। तेन चाज्ञानविष- यत्वमात्रं विवक्षितम्, इति न तावन्मात्रेणानावृतसविन्मात्रस्य सविशेषत्वा- पादनं सम्भवति॥ एतेन-विशेषाभावस्यापि विशेषत्वाद् निर्विशेषत्वेनैव सविशेषत्वा- पत्तिरपि-निरस्ता, धर्मधर्मिभावस्य, विशेषाणां चाज्ञानकल्पित्वेनैवात्मत्वाभावात्, अना- वृते संविन्मात्रे तदतिरिक्तस्य कस्याप्यभावेन कमपि विशेषमादाय सविशेषत्वा- पादनस्यासम्भवाच्च।
एतेन-घीत्व - स्वयंप्रकाशत्व- नित्यत्वादीन्यपि-व्याख्यातानि; तेषां सर्वेषां ब्रह्मधर्मतयोक्तविधया भावरूपतया, अभावरूपतया वा आब्रह्म- साक्षात्कारमेव ब्रह्मधर्मत्वात्, अनावृतावस्थायां तदभावात् कथ तरपि वस्तुतो निर्विशेषत्वस्य हानि: ?
एतेन-विधिमुखेन, निषेधमुखेन, शक्त्या लक्षणया, स्वरूपलक्षणेन, तटस्थलक्षणेन वा केनापि प्रकारेण बोध्यत्वे तेनैव सविशेषत्वापत्तिरिति- निरस्तम् ;
णडाकारसाक्षत्कारे जननीये द्वारभूताः सन्तु सर्वेऽपि प्रकाराः, न तेन वाक्यार्थ-
Page 217
शब्दप्रमाणम् १६१
साक्षात्कारानन्तरमप्यात्मानं लभन्ते ; अन्यथा सर्वशास्त्रवैयर्थ्यात्। साधनाव- स्थायां खल सर्वेऽपीमे प्रकाराः, न तु मुक्तावस्थायामिति तु तत्त्वम्॥ तत्र ब्रह्मणि तत्त्वमादिपदानां शक्ति: सविशेषे, लक्षणा निविशेषे शक्य- सम्बन्धिनि। न चात्र शक्यार्थेनैव निर्वाह: ; तत्त्वमर्थाभेदस्यान्यथा दुरुपपाद- त्वात्। शक्यातिरिक्ते निर्विशेषे ब्रह्मणि सविशेषे ब्रह्मणीव श्रुतिरेवोक्तविधा प्रमाणम्, इति न तत्र मानाभावः सुशङ्कः ॥ तत्र निर्विशेषब्रह्मणो लक्ष्यत्वं सङ्केतविशेषवशाद् वाच्यत्वं वाऽज्ञान- निवृत्तिपूर्वक्षण एव, न तदनन्तरक्षणे, इति कथं तेन सविशेषत्वमनावृतस्य ब्रह्मणः । वाक्यानां प्रामाण्यं हि प्रकरणोपक्रमोपसंहारादितात्पर्यग्रा हकप्रमाणा- वधृततात्पर्यवशादेव सर्वत्र, न तु पदद्वयादिसमभिव्याहारमात्रेण यत्किश्चिदर्थ- बोधकत्वमात्रेण ; जरद्गवादिवाक्यानामपि प्रामाण्यापत्तेः। तात्पर्य चात्र "सद्विद्यादौ निर्विशेषे ब्रह्मण्येव, इति सिद्धं निर्विशेषे ब्रह्मणि वेदान्तानां प्रामा- ण्यम् । इयमेव नीतिर्लौकिकेष्वपि वाक्येषु ॥ न हि शब्दप्रमाणमात्रावसेयं वस्त्वपि लोकसिद्धमेव; अन्यथा- धर्मादौ, किं बहुना 2 सविशेषे ब्रह्मण्यपि प्रामाण्यं श्रुतेन स्यात्। लोके हि सविशेषपरमिव निर्विशेषपरमपि सोडयं देवदत्त इत्यादिवाक्य वर्तते, इति लोकसिद्धप्रक्रिययैव निर्विशेषप्रामाण्यं वेदान्तानाम्। तत्र शक्यार्थबाधे लक्ष- णाऽपि हि लौकिक्येव। तत्त्वमस्यादिवाक्ये तु नान्या गतिः। तदुक्तम्- "सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोघोद्भवः । उत्पन्ने च विरोध एकरसिके वस्तुन्यखण्डार्थघीः" इत्यादि। अलौकिकार्थवादो हि सविशेषवादेऽपि समानः, इति कथं निर्विशेषवादस्य प्रामाणिकस्य परमश्रेयोनिदानस्य निरसनम् ? 11
Page 218
१६२ अद्वैततत्त्वशुद्धिः
तत्र सत्यपि सामान्यविशेषसर्वग्राहिण्यां सामत्रयां धर्मिमात्रग्राहि निर्विकल्पकं ज्ञानं परोक्षमपरोक्षं वा तात्पर्यानुसारि दुर्वारम् ; वाक्यस्य तात्पर्य- विषयमात्रबोधकत्वेन संसर्गविषयकत्वानियमात्। व्यक्तं चेदमधस्तात्। सामा- न्यविशेषसर्वधर्मत्रहणप्राम्भावि 'इदमि 'ति निर्विकल्पकं ज्ञानं ह्यनुभवसिद्धम्। तत्र हि न देश., काल:, धर्मो वा कश्चन भाति; इदमित्याकारमात्रोल्लेखात्, प्रकारसंसर्गयोस्तत्राभावात् ।। सत्यम्, घर्मिग्राहकसामध्र्येव धर्मग्राहकसामग्री, तथापि धर्मप्रतीत्य- विवक्षया प्रयुक्तवाक्यात् स्वरूपमात्रप्रतीतिरविरुद्धा। न हि रूपप्रतीतिदशायां परिमाणस्यापि प्रतीति नियता, उभयग्राहकसाम प्रयैक्येऽपि। अविद्यानिवृत्तिर्हि न सन्मात्रग्राहिप्रत्यक्षेण, किन्त्वखण्डसाक्षात्कारेण। न हि सन्मात्रत्राहिणि प्रत्यक्ष आनन्दांशोऽपि भाति। सदादिभेदस्यानाद्यविद्याकल्पितस्यानादे: खलु 'सन् घट' इत्यादौ भानम्, न तु निर्विभागस्य। अतो न प्रतिक्षणं जीवन्मुक्तत्वापत्तिः । सुषुप्तावात्मानुभवोऽपि निर्विकल्प एव। तत्र ह्यात्मा ना'हमि'ति भासते, किन्त्वज्ञानोपहिततया चिन्मात्रतयैव स्वप्रकाशः, तदाकाराविद्यावृत्तिरेव वा निर्विकल्प एव। तत्र ह्यात्मा वस्तुगत्या निर्विशेष एव। 'घटः सन्' इत्यादौ सन्मात्रे ज्ञानप्रामाण्ये ब्रह्मसिद्धयादिसम्मते तत्र सन्मात्रज्ञानं निर्वि- कल्पकमेव। न हि तत्र सन्मात्रातिरिक्ततं भासते। अत एवोक्तम्- "सन्मात्रग्राहि सम्प्रोक्तं प्रत्यक्षं निर्विकल्पकम्" । इति। तत्राखण्डं ब्रह्म तु श्रुत्येकसमधिगम्यम्। तच्चाखण्डाकारवृत्तिविषयत्वेन प्रत्यक्षग्राह्यमपि, शाब्दापरोक्षवादस्वीकारात्। प्रकारानवगाहि ज्ञानं निर्वि- कल्पकमिति हि तल्लक्षणमिति न्यायदर्शनम्। तत्र हि ज्ञातुर्न भानम्, ज्ञेयस्यापि न प्रकारतयाऽपि भानमिति तु परे। 'इदं किश्चिदि'त्यत्र किञ्चि- त्पदमिदंपदस्य विवरणमिदन्तया विषयस्याभानोपपादकम्, न तुस प्रकारो-
Page 219
शब्दप्रमाणम् १६३
डपि। तत्र लौकिकं निर्विकल्पकं न शब्दजन्यं प्रत्यक्षमिति केचन, अन्ये तु तदपि शब्दजन्यं प्रत्यक्षं चेति। अयमेव न्यायो वैदिके निर्विकल्पकप्रत्यक्षेऽपि। विशिष्टाद्वैताभिमत तु ससंस्थानप्रथमपिण्डग्रहणं निर्विकल्पकम्। सविकल्पकं त्वनुवृत्ततया संस्थानग्रहणमित्यादि पूर्वमेव निरस्तम् ॥ तत्र निर्विशेषस्यानुमानवेद्यत्वम्, अनुमानेनापि तस्य प्रत्यक्षत्वं च पूर्वमेवोपपादितम्। तत्राभावस्य ब्रह्मरूपत्वाद् न तेन सविशेषत्वमित्यपि निरूपितम् ॥ तत्र ब्रह्मणि सर्वस्य कल्पितत्वात् प्रषश्चभेदो न प्रामाणिक: । प्रपश्चे तु ब्रह्मभेदो वर्तते; कार्यात्मना भेदस्यैव स्वीकारात्। परस्पराध्यासोऽपि प्रपञ्चे ब्रह्मतादात्म्यमात्राध्यासेन, न तु ब्रह्माध्यासेन। सोऽपि कल्पित एव ।। अत एव घटपटादिभेदोऽपि व्याख्यातः । यथाच घटपटादिभेदोऽपि दुर्निरूपः, तथा खण्डनखण्डखाद्ये व्यक्तम्। प्रतिभासमात्रं न वस्तुसत्ताम- पेक्षते, येन प्रतीयमानत्वेनैव घटादिसत्त्वमापद्येत, शुक्तिरजतादाववभासमानेड- प्यबाध्यत्वविरहेण तस्य तदप्रयोजकत्वात्॥ न हि 'इदं रजतमि'त्यादावन्यत्र प्रसिद्धं रजतं प्रत्यक्षवदवभासितुं शक्रोति, लौकिकप्रत्यक्षवदिति बा। जगदनिर्वचनीयत्वम्, शुक्तिरजताद्य- निर्वचनीयत्वं च स्थापितमेव। अत एव भाष्यम्-"शुक्तिका हि रजतवदव- भासते" इति। अत्र 'रजतवत्' इति वत्कारः प्रसिद्धरजतवैलक्षण्यं शुक्तिरज- तस्य साधयति। अधिकं भाष्यवार्तिके॥ न च भासमानत्वमात्रें सत्त्वम्, न वा मिथ्यात्वम्, येन ब्रह्मवत् शुक्तिरूप्यस्य सत्त्वम्, शुक्तिरूप्यवत् ब्रह्मणोऽपि मिथ्यात्वं च स्यात्। ब्रह्म हि भासमानमपि बाधकज्ञाने बाध्यत्वेनाविषयत्वात्, बाध्याविद्याप्रयुक्तत्वा- भावाद्वा पारमार्थिकम्। न चैव शुक्तिरूप्यादिकम्, अविद्यातत्प्रयुक्तघटपटादि- भेदो वा, येन ब्रह्मवत् घटपटादिभेदोऽपि पारमार्थिक: स्यात्।।
Page 220
१६४ अद्वैततत्त्वशुद्धिः
तत्र भेदो गोत्वादिरूपः स्वाश्रये व्यवहारहेतुरपि स्वस्मिन् न स्वव्यव- हारहेतुः, इति तत्रापि भेदान्तराभ्युपगमेऽनवस्थापत्तिः । अतो भिन्न इति व्यवहारोपपादनासंभवात् भेदस्य दुर्वचत्वमेव। वस्तुतस्तु भेददुर्वचत्वं तस्य सत्त्वेनासत्वेन वा दुर्निरूपत्वेनैव, न तु व्यवहारहेतुत्वाभावेन, इति घटादिवत तद्यावहारिकसत्त्वाङ्गीकारो न दोषाय, तत्पारमार्थिकत्वनिरासमात्रनिर्भरत्वात्। अतो न वर्णाश्रमधर्माधर्मादि सर्वं दुर्निरूपम् ।। तत्र जातिः संस्थानं चैकमिति मीमांसकाः । अन्ये तु संस्थानादति- रिक्तामेव जाति मन्यन्ते। तदभिप्रायेणामोदो वदति-"संस्थानं प्रतिव्यक्ति भिन्नम्, जातिश्र सर्वत्रैके"ति। तन्र संस्थानजात्योरेकत्वानेकत्ववादः, सत्यम्, प्रकृतानुपयुक्तः। जातिवादस्तु वेदान्तिनाम्, किं बहुना 2 वैदिकानां सर्वेषा- मपि न सम्मतः। तथापि लोकदष्टया न संस्थानवादो युक्त इति प्रासङ्गिकोऽयं विचार आमोदस्य। न तत्रामोदस्यापि निर्भर। श्रीमाष्यमपि संस्थानैकपक्ष- पात्यपि भेदनिरूपणप्रसङ्गे गोत्वादिजातेर्मेदरूपत्वं समर्थयद् जातिव्यतिरिक्तं संस्थानं न व्यवहरति। ततश्र श्रीभाष्यस्यात्र पूर्वापरविरोधोद्धावनमात्र आमोदस्य निर्भरः। सर्वथा तु भेदस्य पारमार्थिकतया दुर्निरूपत्वमामोदस्याव्याहतम्। भेदप्रतीतिश्चेयमाब्रह्मसाक्षात्कारमेव ।। यत्त-सदनुभूतिविशेषयोर्विषयविषयिमावेन भेदस्य प्रत्यक्षसिद्धत्वा- दनुभूतिरेव सतीत्यद्वैतसिद्धान्तो न युक्त इति-श्रीभाष्यम्, त्रानुभूतिविशेषपदेन वृत्तिरूपं ज्ञानं यदि विवक्षितम्, तहि तस्या- स्सदूपत्वानङ्गीकारात् तयोर्भेदसाधनमिष्टसाधनम्। न च तावता संविन्मात्र- स्वरूपस्य सद्वपत्वं विरुध्यते। न हि प्रत्यक्षं सतः संविन्मात्रतां गोचरयति। अतो न सदनुभूतिस्वरूपत्वस्य तदभेदस्य वा काचन क्षतिः ।। अन्नानुभूतिसद्विशेषयोरित्यत्र विशेषपदं हि सत्पदेन, अनुभूतिपदेन चोभयेनान्वेति 2 उत अन्त्येनैव 2 आद्येऽनुभूतिविशेषोऽन्तःकरणवृत्तिः, तद-
Page 221
शब्दप्रमाणम् १६५
वच्छिन्नं चैतन्यं वा, सद्विशेषस्त्वनाद्यज्ञानसंबन्धवशात् कल्पितभेदं सदूषं सदात्मना ज्ञातम्, आनन्दात्मनाऽज्ञातं च ब्रह्मरूपमधिष्ठानं नाम। तत्रायं सदूपविशेषोऽघिष्ठानात्माऽविद्योपहित उपहितात्मना बाध्यः, न तु स्वप्रकाशाना- वृतसंविन्मात्रात्मना, इति न तयोरैक्यमद्वैतमतेऽपि। तथाच यस्या अनुभूते- रखण्डाकारवृत्तिव्याप्याया सतैक्यम्, तयोर्भेंदो यदि विवक्ष्यते, तहि तत्र विशेषपदं व्यर्थम्, विरुद्धार्थ विपरीतं वा श्रीभाष्यकाराणाम्।। इदमेवाभिप्रेत्यामोदो वदति-"अत्र विशेषपदं व्यर्थम्" इति। द्वितीय- पक्षोऽप्यत एव परास्तः, सद्विशेषस्यानुभूत्याऽभेदस्यानङ्गीकारात्। अत्राप्यनु- भूतिपदेन वृत्तेर्विवक्षणे तत्सामान्यस्याखण्डचिन्मात्रस्य वृत्तिविषयत्वेऽपि सतश्चि- न्मात्रानुभूत्यविषयत्वाद् नानेन सन्दर्भेण सदनुभूतिभेदसाधनं संभवदुक्तिकम् तथा चामोदः-'सत्सामान्यस्याप्यनुभूतिविषयत्वात्' इति॥ एतेन-विशेषपदेन सतां मिन्नभिन्नत्वाद् अनुवर्तमानत्वं नास्ति, किन्तु व्यावर्तमानत्वमेवेति सूच्यत इति-परास्तम्॥ न हि सत्, व्यावर्तमानम्, सर्वत्र प्रतीतिषु सन् घटः, सन् पट इत्येवमनुगतत्वात, इति न व्यावर्तमानत्वमत्र सद्विशेषपदे विशेषपदार्थः । तत्र हि विशेषपदस्य व्यावर्तमानपरस्य विशेषणात् विशेषसदित्येव प्रयोगापातात, न तु सद्विशेष इति। न च व्यावृत्तानां संविद्वपानुभूतेश्र विषयविषयिभावः, न वा भेदोडद्वैतमते, इत्यनुभूतिसद्विशेषयोर्भेदसाधनमिष्टमेव। परमतेऽनुभूतेः सत्त्वमभ्युपगम्यते, अन्येषां च सत्त्वमित्यनुभूतिमात्रस्य सत्त्वसाधनं वितथम्। अद्वैतमतेऽनुभूतेरेव सत्त्याभ्युपगमात् तन्मतनिरसनमेव यदि लक्ष्यम्, तर्हि वितथमिदम, अद्वैतिभिरनुभूतेः स्वयंप्रकाशायाः संविन्मात्राया वा सदपत्वा- ड्रीकारेऽपि सत्त्वानङ्गीकाराद् अनुभूतिरेव सतीत्यस्यापि तदभिप्रायत्वात्।। तत्र यदि घटोऽस्तीत्यादिप्रतीतिविषयाणां सताम्, घटोऽनुभूयते इत्यादि प्रतीतिगोचराणामनुभूतीनां च नैक्यमत्र साध्यते, तर्हि सवागतम्।
Page 222
१६६ अद्वततत्त्वशुद्धि:
घटोऽस्तीत्यत्र प्रतीयमानाSस्तिक्रिया, घटोऽनुभूयत इत्यत्र प्रतीयमाना वृत्तिश्चै- केति को वा प्रतिपद्यते यन्मतनिरसनमत्र परमार्थप्रकाशिकाया लक्ष्यम्।। यत्तु-अद्वैतमते ब्रह्मात्मकानुभूतिव्यतिरिक्ता लौकिक्योऽनुभूतयो न सन्ति। तदतिरिक्तस्य सर्वस्य जडत्वात्, अन्त करणवृत्तीनामपि जडत्वा- विशेषादनुभूतित्वासम्भवात्। अत एव जडत्वाद् वृत्तीना विषयग्राहित्वासम्भ- वाद् ब्रह्मचैतन्यसबन्धविशेषबलायत्त विषयग्राहित्वं तत्रोरीक्रियते-इति, तत्र विशिष्टाद्वैतमते धर्मभूतज्ञानमिवाद्वैतमतेऽन्तःकरणवृत्तिरपि स्वप्र- काशाऽजडा च। तस्य ब्रह्मणि केवलावरणाभिभवार्थत्वमात्रम्, घटादौ तु तस्य जडत्वेनावरणाभावात् तदवच्छिन्नचैतन्यगताज्ञानविषयत्वनिरसनद्वारेण परम्परया तत्प्रकाशकत्वम्, इति घटोऽनुभूयत इत्यादौ वृत्त्यवच्छिन्नं चैतन्य- मेवानुभूतिः, न तु शुद्धसंवित् , यस्यास्सद्रूपत्वम्, अनुभूति: सतीत्यादिना विवक्ष्यते, न तु तत्तदवच्छिन्नचैतन्यम्, तत्तदाकारवृत्त्यवच्छिन्नचैतन्यं वा सदिति। सन् घट इत्यादावपि सद्ूपब्रह्मतादात्म्यमेव भासते, न तु सद्पत्वम्, अबाध्यत्वरूपं वा सत्त्वम्। वृत्तीनामावरणनिवृत्तिद्वारा विषयग्राहित्वमावृतघटाधि- ष्ठानगताज्ञानविषयत्वद्वारकम् , तदवच्छेदकत्वप्रयुक्तं वा। सर्वथा तु-वृत्तयः, तदवच्छिन्नचैतन्यं वैव घटोऽनुभूयत इत्यादावनुभूतिपदार्थः। प्रमाणजन्यत्वेन प्रमात्वमपि तस्या एव। ब्रह्मचैतन्यं तु नित्यं प्रमाणव्यापारमन्तरा सर्वदा प्रमा, न स्वप्रकाशार्थ प्रमाणमपेक्षते, "अविद्यानिवृत्तिपरत्वात् शास्त्रस्ये"ति हि भग- वत्पादाः ॥ अनावृतचिद्रपानुभूतिस्तु सदूपा स्वतो निविषया। अत एव स्वप्रका- शाया अनुभूतेरन परप्रकाश्यत्वम्। विषयवृत्त्यादिपरिहारेण ब्रह्मरूपानुभूतयः, लौकिक्यो ज्ञातृज्ञेयानुविद्धाश्च ता मिन्नाः। नैकत्वमासाम्। तत्र सर्वप्रत्ययवेद्यत्वं विवर्तोपादानत्वेन ब्रह्मणः, तदपि सद्पमात्रेण, नानन्दरूपेणापि।। अखण्डं हि ब्रह्म मुख्याऽनुभूतिः, न त्वनाद्यविद्यासंबन्धप्रयुक्ततदभेद- वत्यप्यनुभृतिः। अनावृताखण्डब्रह्मस्वरूपं संविन्मात्रप्रत्यगात्मरूपं चैकम्, न
Page 223
शब्दप्रमाणम् १६७
त्वन्तःकरणधर्मभूतज्ञानमपि तथा। जीवब्रह्मक्ये चोक्तविधे वेदान्ताः प्रमाणम्। अतो नासिद्धिरस्य। अतोऽनुभूतिसद्पत्वनिरसन निरालम्बम्॥ न चानुभूतेरनुभाव्यत्वं प्रामाणिकम्। अत एवेष्टसिद्धि :- "अनु- भूतिः, नानुभाव्या, अनुभूतित्वात्, अनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्व- प्रसङ्ग:" इति ॥ यत्तु-अनुभूतेरननुभाव्यत्वेऽज्ञानाविरोधित्वं स्याद् गगनकुसुमादि- वदिति-श्रीभाष्यम्, तत्राद्वैतामोदो वदति-इहानुकूलतर्को नास्ति - अनुभाव्यस्य घटादेरप्यज्ञानाविरोघित्वं दश्यते, इति नाज्ञानाविरोधित्वमननुभाव्यत्वप्रयोज- कमिति॥ तत्राज्ञानाविरोधित्वं नाननुमाव्यत्वप्रयुक्तम्, वृत्तिज्ञानस्याननुभाव्यस्यापि स्वप्रकाशस्याज्ञानाविरोधित्वाभावात्, किन्तु चित्त्वप्रयुक्तमेव। तदुक्तम्- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।" इति। यदाश्रयमज्ञानं प्रपञ्चात्मना परिणमते, यदावृतं च यद् यदात्मना विवरतते, तदेव तदविरोधि। न चासदज्ञानाविरोघि, अज्ञानस्य तदाश्रय- त्वाद्यभावात्। अतोऽननुभाव्यत्वे न गगनकुसुमादिवदसत्त्वप्रसङ्गः। तद- विरोधित्वं हि तदाश्रयत्वेन तद्विषयत्वेन ब्रह्मण इव, नासतः ॥ वस्तुतस्तु-यदज्ञानं प्रपञ्चात्मना विवर्तते, यज्ज्ञानं च तत् बाघते, तदेवाज्ञानविरोधि। अज्ञानाविरोधित्वं तस्यैव, यद् अज्ञानविरोधिवृत्तिविषयोS- ज्ञानस्य बाधकम्। न चोभयमपि गगनकुसुमादेः, इति नाननुभाव्यत्वेऽसत्त्वा- पत्तिशङ्कोत्तिष्ठति। तथाच-अनुभृतिः, अज्ञानाविरोघिनी, अननुभाव्यत्वात्, गगनकुसुमवदिति सत्पतिपक्षोडस्मदभिमत एव; अनुभूतेरज्ञानाविरोधि- त्वस्यैवास्मदभिमतत्वात। असतु न दृष्टान्तः, तस्य पूर्वोक्तरीत्याऽज्ञानाविरोधित्वा- भावात्।
Page 224
१६८ अद्वैततत्त्वशुद्धिः
अज्ञानविरोधिन्यनुभूतिस्तु वृत्तिरेव, न तु स्वप्रकाशचिन्मात्रस्वरूप- चैतन्यम् ; तस्याज्ञानसाधकत्वात्, अत एवाप्रयोजकत्वम्। अज्ञानाविरोधि- त्वरूपसाध्याभाववति वृत्तिरूपज्ञाने व्यभिचारोऽप्यत एव। वृत्तिरूपाया अनुभूतेः प्रकरणसमे विवक्षायां तु बाधः। इदं सर्वमभिप्रेत्यैवाद्वतामोदो वदति-अत्रा- नुकूलतर्को नास्तीति॥ इष्टसिद्धिकारानुमाने त्वनुभूतेरननुभाव्यत्वे घटादिवदननुभूतिप्रसङ्ग एवापादितः, न तु घटादिवदज्ञानाविरोधित्वम्। अज्ञानाविरोघित्वं हि स्वप्- काशाया अनुभूतेरिष्टमेव, इति नापाद्यम्। तत्राननुभूतित्वं घटादेरनुभाव्यस्य वर्तते, यत्र यत्रानुभाव्यत्वम्, तत्र तत्राननुभूतित्वं दृष्टम्, इति संविदोऽप्यनु- भाव्यत्वेऽननुभूतित्वापादनं युक्तमेव। अत्रानुकूलतर्क :- यत्रानुभाव्यत्वं घटादौ, तत्राननुभूतित्वं दष्टमिति व्याप्तिः। प्रतिकूलतकस्तु-अनुभाव्यत्वेऽननुभूति- त्वापत्तिः । एतेन दष्टान्तोऽपि-व्याख्यातः ॥ तत्र स्थाप्यानुमाने व्यतिरेकद्ष्टान्तो घटादिः, बाधकानुमाने तु नानु- कूलतर्कः, न वा प्रतिकूलतर्कः, न वा दृष्टान्तः। गगनकुसुमं नाज्ञानाविरोधि पूर्वोक्तविधया ; अज्ञानाश्रयविषयत्वरूपत्वादज्ञानाविरोधित्वस्य। साध्यसाधन- वत्त्वेनाप्रसिद्धत्वाद् गगनकुसुममप्रसिद्धविशेषणाद्यपि। अतोऽपि न तस्य दृष्टान्तत्वम्। जगत्, नासत् , प्रतीयमानत्वादित्यत्र ब्रह्मान्वयदृष्टान्तोऽस्ति। नात्र व्यतिरेकदष्टान्तोऽपि विवक्षितः, विवक्षणीयो वा॥ एतेन-अनुभूतिनित्यत्वमपि-व्याख्यातम्। तत्रानुभूतेरनित्यत्वं तस्य प्रागभावप्रतियोगित्वेन वक्तव्यम्। न चैतत् सम्भवति ; स्वरूपज्ञानस्य प्राग- भावप्रतियोगित्वस्य, अनित्यत्वस्य चोभयत्रास्वीकारात्। प्रागभावप्रतियोगित्वं हि लौकिकवृत्तिरूपज्ञानस्याद्वैतमते सम्भवति, अनित्यत्वं च तस्य तत इष्टमेव। परमते तु धर्मभूतज्ञानस्यापि नित्यत्वात ज्ञानप्रागभावकथा कथामात्रम्, इत्यनुभूतिसामान्यस्य प्रागभावो दुर्ग्रहः, इति वदतोऽद्वैतामोदस्यापि सर्वानु-
Page 225
शब्दप्रमाणम् १६९
गतब्रह्म रू पस्व रूपज्ञानमेवानुभूतिसामान्यपदार्थः, न तु जन्यानुभुतिसामान्यम्। अनुभूति: स्वरूपज्ञानमिति चानर्थान्तरम्। वृत्तिज्ञानस्यानुभूतित्वं हि स्वरूप- ज्ञानावच्छेदकत्वादुपचारमात्रेणेति हि पञ्चपादिकाप्रस्थानम्। अतो वृत्त्यति रिक्तानुभूतिसद्भावे न प्रमाणाभावः, ब्रह्मणि प्रमाणस्यैव तत्रापि प्रमाणत्वात्। अयमत्र निष्कर्ष :- स्वरूपज्ञानमनादिनिघनम्, तत एव प्रागभावशून्यं च्ेति सम्प्रतिपन्नम्। तत्र 'घटोऽनुभूयते' इत्यत्र भासमानाऽनुभूतिः स्वरूप- ज्ञानादतिरिक्ता। न च तस्यास्सदूपत्वमद्वैतिनोऽपि स्वीकुर्वन्ति, न वा तस्याः सद्रपत्वं साधयितुमद्वैतिनामेकैकशः सद्वशो वा प्रवृत्तिरपि। तत्र मुख्या ब्रह्मानुभूति: सती निराश्रया, निष्पागभावा, एका च। तद्विपरीताश्च लौकिक्यो- डनुभूतयः । न च तासां स्वरूपज्ञानस्य चैक्यमद्वैतसिद्धान्ते॥ तत्र 'सन् घटः' 'सन् पटः' इत्यनुगतसत्प्रतीत्या घटादीनां भेदानां सति कल्पितत्वं शुक्त्यादाविव रजतादेः, इति सर्वस्य ज्ञानस्याधिष्ठानांशे प्रामाण्यमिति नियमात् सन्मात्रस्याधिष्ठानस्य पारमार्थ्यम्, विकल्पानां तु घटादीनां रूप्यादीनामिवापारमार्थ्यम्। तत्र सदात्मनेव चिदात्मनाऽपि प्रकाश- मानमेवाधिष्ठानम्, इति सदंश इव स्वरूपज्ञानांशेऽप्यधिष्ठाने ज्ञानसामान्यस्य प्रमाणजन्यस्य प्रामाण्यम्। तत्र सदनुभूत्योर्न विषयविषयिभावः, किन्तु स्वतः- प्रकाश एवाधिष्ठानताप्रयोजकः। विषयविषयिभावस्तु जन्यज्ञानाधिष्ठानारो- प्याणामेव, इति न सदनुभूत्योर्भेदशक्कोत्तिष्ठत्यपि। तथापि नित्यानुभूते स्वरूपानुभूतेश्र भेदाग्रहेण केषांचन तद्भेदशङ्कायां तन्निरासार्थ सदनुभूत्येक- तायाः, तत्प्रागभावशून्यतायाश्च साधनं तत्र तत्राद्वैतनिबन्धेषु। सर्वथा लौकि- कानुभूत्या ब्रह्मणैक्यमिति नायमद्वैतसिद्धान्तः॥ तत्र प्रत्यक्षादेः घटाद्यविषयकत्वमिति नाद्वैतमतम्, किन्तु घटादि- विकल्पांशे प्रत्यक्षस्य रजतांश इव अ्रमत्वमित्येव, यदेव गृहीत्वा विकल्पा- प्रामाण्यभङ्गवाद: शतदूषण्याम्, तत्परीक्षा च शतभूषण्याम्। तत्र शास्त्रमना-
Page 226
१७०
वृतमखण्डं सच्चिदानन्दरूपं निर्विकल्पं तत्त्वं बोधयति। प्रत्यक्षं तु सन्मा्त्री सर्वेषु ज्ञानेष्वधिष्ठानतया गृहाति। न चोभयमपि शास्त्राप्रवृत्तिदशायामेकम- द्वैतसिद्धान्ते॥ प्रत्यक्षं हि सच्चिदात्मकं ब्रह्मानाद्यविद्याप्रयुक्तानादिभेदं गोचरयति, शास्त्रं तु निर्मेदं सच्चिदानन्दरूपमखण्डं ब्रह्म वृत्त्या विषयीकरोति। तत्राद्यम- ज्ञानदशायाम्। द्वितीयं तु भावितन्निवृत्तिदशामादाय। न चात्रोभयोरेक- विषयत्वम्। अतः सन्मात्रग्राहिणः प्रत्यक्षस्य सच्चिदात्मकाखण्डब्रह्मग्राहित्वं नाद्वैतराद्धान्त: ।। तत्र प्रत्यक्षागमयोर्नैकविषयत्वम्, न वा विरोधः। शास्त्रं यद्यपि प्रत्यक्षांशे सन्मात्रं न बाधते, तस्यापि बाघकज्ञानविषयत्वात्, विकल्पांशे तु शास्त्रं प्रत्यक्षस्य बाधकम्। प्रत्यक्षं तु सन्मात्रावगाह्यपि विकल्पांशस्य साधकम्, न तु बाधकम्। तत्र प्रत्यक्षमावृतं ब्रह्म गोचरयति। शास्त्रं त्वनावृतम्, यदखण्डमित्यनुपद्मेवोक्तम् ॥ परमते तु "सन् घट" इत्यादौ नाघिष्ठानविधया सदनुवेध:, किन्तु घटादीनां भेदानां स्वरूपतः सत्त्वम, तस्य कालत्रयेऽपि ब्रह्मज्ञानेनाप्यबा ध्यत्वम् , भेदस्य सुनिरूपत्वं च मन्यते, इति तत्र न प्रत्यक्षागमयोंरविरोधो विवक्ष्यते, इति तन्मतरीत्याऽद्वैतसिद्वान्ते प्रत्यक्षविरोधोऽनिवार्यः ॥ तत्र प्रपञ्चमिथ्यात्वे न शास्त्रस्य विरोधोऽद्वैतमतेऽपि। प्रत्यक्षस्यापि विकल्पांशेऽपामाण्येन तत्सत्यत्वाग्रहादिति खल्वद्वैतराद्धान्तः। अनुभूतीनां स्वरूपज्ञानातिरिक्तानामेव प्रागभावप्रतियोगित्व-साश्रयत्वसविषयत्वानेकत्वान्य- द्वैतमते, स्वरूपज्ञानस्य तु तद्विपरीतम्।। तत्र स्वरूपज्ञानस्याप्यहमर्थस्यानेकत्वमात्मनः परमत इति तु विशेषः ।
चामेदावलम्बनेन जन्यनित्यानुभूतीनामैकरूप्येणानुवादेन चाद्वैतमतनिरसन
Page 227
शब्दप्रमाणम् १७१
परमार्थप्रकाशिकायाः, तद्विपरीतं वस्तुसदर्थविवेचनेन स्वमतरक्षणमद्वैतामोद- स्येति वस्तुस्थिति:।। सर्वथा चिन्मात्रस्यानुभूतेः प्रागभावशून्यत्वमवचनसिद्धम् ; स्वरूपज्ञान- नित्यत्वस्योभयसंप्रतिपन्नत्वात्। तस्य सामान्यरूपत्वेनोल्लेखस्तु सर्वत्रानुवर्तमान- त्वमात्रेण। अतो लोकप्रसिद्धसामान्यविशेषभावाभावोऽकिंचित्करः ; तत्रा- निर्भरादद्वैतामोदस्य। तदिदं सिद्धम्-यत् प्रागभावशून्या स्वप्रकाशा संवित, अनुभूतिर्वेति। अत एवेयं संविद् नित्या। नित्येतिपदेनात्र नानित्येति निषेधमुखेन सा ज्ञाप्यते। अतो नित्यत्वधर्ममादाय ब्रह्मणो न निर्विशेषत्वस्य हानि:॥ एवमेव स्वप्रकाशादिपदान्यद्वैतमतरीत्या परप्रकाश्यत्वाभावपरतया व्या- ख्येयानि। यथा परमते धर्मभूतज्ञानं स्वरूपज्ञानम्, इति ज्ञानानां भेद:, एवमत्रापि जन्याजन्यादिभेदेनानुभूतीनां भेदात् तद्वारणार्थं नानित्येति विवरणम्। तेन चान्यासामनुभूतीनामनित्यत्वसाश्रयत्वसविषयत्वानेकत्वान्य- द्वैतमतेऽपि न विरुद्धानि॥ तत्र सर्वस्य कल्पितत्वेन मिथ्यात्वमसत्यत्वं वा ब्रह्मसाक्षात्कारदशामभि- प्रेत्य। नित्यत्वानित्यत्वे तु तत्पूर्वक्षणावस्थामाश्रित्य। अनित्यत्वं हि घटादीनां दण्डादिना निवृत्तिमात्रेण, मिथ्यात्वं तु शुक्तिरूप्यादीनामिव बाध्यत्वमाश्रित्य। तत्रानुभूतीनां व्यवहारदशायामनित्यत्वम्, न तु स्वरूपज्ञानस्येति सूचयितु- मेव नित्येति पद नानित्येति विवृतम्। अयमेव न्याय. स्वप्रकाशपदार्थविवर- णेडपि।। तन्र जन्यानुभूतयो नित्यसंविन्मात्रानुभूतिप्रकाश्यत्वाद् न संविद्धत् स्वयंप्रकाशाः। सवसजातीयप्रकाशान्तरानपेक्षप्रकाशत्वेन प्रदीपवत् सूर्यादिवद्वा स्वप्रकाशत्वं तु नानेन वार्यते। सूर्यादयोऽपि स्वप्रकाशा एवमेव। अत एव श्रुतिः-"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽय-
Page 228
१७२ अद्वैततत्त्वशुद्धि:
मग्निः। तमेव भान्तमनुभाति सर्वं तम्य भासा सर्वमिदं विभाति" इति। लौकिकानुभूतीनां स्वप्रकाशत्वं परप्रकाश्यत्वं चोक्तन्यायेनाविरुद्धम्। अमुमर्थ सूचयितुमेव स्वप्रकाशपदं परप्रकाश्यत्वाभावपरतया विद्ृतम्। सम्मतमिदं परमतेऽपि ज्ञानं नित्यमनित्यं चेति। तत्र स्वरूपज्ञानं नित्यम्, धर्मभूतं ज्ञानमनित्यमिति। तत्र धर्मभूतं ज्ञानमद्वैतमतेऽन्तःकरणादि- वृत्तिविशेष:, परमतेऽप्यात्मापृथक्सिद्धम्, नित्यं च। परं तु तस्य संकोचविकास- द्वाराऽनित्यत्वम्, अद्वैतमते तु साक्षात्। उभयत्र ज्ञानमुत्पन्न नष्टमिति प्रतीति: समाना। तत्र धर्मभूतज्ञानस्य नित्यस्यापि तत्प्रसरविशेषापेक्षस्योत्पत्ति- विनाशव्यवहारः, स्वरूपतस्तु धर्मभूतज्ञानमपि नित्यमेव परमते। तत्र नित्यत्व- मनित्यत्वं च रूपभेदेनैकस्योच्यमानं न स्वरसमित्यद्वैतामोदो वदति॥ परमार्थप्रकाशिका तु-घटत्वावस्थाया मृदि घटो जातो नष्ट इति व्यवहारवत् सकोचविकासावस्थापन्न धर्मभूतज्ञाने तथा व्यवहार इति लिखति। तत्र मृदि घटत्वावस्थायां यथा मृत् उत्पन्ना, नष्टेति न व्यवहारः, एवं सङ्कोचविकासावस्थायां सङ्कोच विकासावुत्पन्नौ नष्टौ वेति व्यवहार एव स्यात्, न तु धर्मभतज्ञानोत्पत्तिव्यवहारौ, इति ज्ञानमुत्पन्नं नष्टमिति व्यपदेशो नोप- पद्यते। न च मृदो घटात्मनेव जन्म धर्मभूतज्ञानस्य संकोचविकासात्मना परि- णामोऽपि। कारणद्रव्यस्यावस्थाविशिष्टं द्रव्यं खल तत्परिणामो नाम। न च संकोचविकासौ धर्मभूतज्ञानस्य द्रव्यस्यावस्थाविशेषो मृद इव घटः, न वा सक्कोच- विकासौ तत्परिणामावस्थाविशेषो नाम ।। न हि मृद्धट इतिवत् धर्मभूतज्ञानं संकोचो विकासो वेत्यनुभवः, व्यपदेशो वा। अन्यथा धर्मभूतज्ञानस्यैव संकोचविकासात्मना परिणामे कथ ब्रह्मपरिणामवादे ब्रह्मण इव धर्मभूतज्ञानस्यापि नित्यत्वम्? कथंतरां च देह- परिणामवादिनामार्हतानां मतनिरसन परमते ? इति कथमामोदोक्तरीत्या न निरन्वयविनाशो धर्मभूतज्ञानस्य?
Page 229
शब्दप्रमाणम् १७३
किञ्च किं नामानुभाव्यत्वं ब्रह्मणः साध्यते परेण 2 यदि ज्ञेयत्वम्, तर्हिं किं तदपि वृत्तिविषयत्वमात्रम् 2 उत वृत्त्यवच्छिन्नचिद्विषयत्वम्, अन्यद्वा। आद्य इष्टापत्ति, घटादिवैलक्षण्यात्, वृत्तिविषयत्वस्य तुच्छसाधार- ण्येनाननुभाव्यत्वे गगनकुसुमादिवदसत्त्वप्रसङ्गादिति व्याहतम्। द्वितीयं तु नोरीक्रियते॥ किंच परमतेऽपि स्वस्मै स्वयंप्रकाशमानस्यात्मनः किं वा धर्मभूतज्ञानेन प्रकाशकेन 2 यदि बाह्यप्रकाशार्थम्, तर्हि बाह्यानामेवानुभाव्यत्वम्, न स्वयं- प्रकाशस्यात्मनः, परमात्मनो वा। न हि धर्मभूतज्ञानप्रकाशार्थ धर्मभूतज्ञाना- न्तरमङ्गीक्रियते ; अनवस्थानात्। धर्मभूतज्ञानवदात्मन एव सङ्कोचविकासाभ्यां बाह्यप्रकाशोपपत्तौ किं धर्मभूतेन ज्ञानान्तरेण 2 यद्यात्मनः सङ्कोचविकासाभ्यु- पगमेSनित्यत्वापत्तिः, तर्हिं धर्मभूतज्ञानमात्रे सा कथ वार्यते? तत्रानुभूतीनां सविषयत्वम्, संविदस्तु निर्विशेषत्वं स्वापमदमूर्छासु संविन्मान्रस्फुरणेनावगम्यते। जागरे संविन्मात्राननुभवस्तु तदा तस्याः सविष- यानुभूतिसंबन्धात्।। यत्तु-तत्र पिशाचशशविषाणादिस्फुरणस्य तदानी निषेधासभवः- इति, तदिदं सुप्तोत्थितस्याहमिति संविद एवाह्मनुवेधेन प्रतीतिवत् पिशा- चादीनां प्रतीत्यभावाद् नोपपद्यते। न च संविद इव पिशाचादेः स्वप्रकाश- त्वम्। स्वापादन्यत्रेतरानुवेधः, स्वापे तु तदननुवेधेन स्वतः स्फुरणकल्पना न विकल्पसहा। स्वापे हि संविन्मात्रस्य प्रतीतिरविद्यावृत्तिः, तत्संस्कारश्रा- विद्योपहिते तत्र, इति न तत्र संस्काराश्रयानुपपत्तिः, न वा सुप्तोत्थितस्य "न किश्चिदवेदिषमि "ति स्मरणानुपपत्तिः ॥ वार्तिकं तु "न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिः" इति संविदशेऽनुभव एव, अहक्कारविषयाद्यंश एव तु स्मरणमिति प्रतिपादयति।
Page 230
सर्वथा तु निर्विषयसंवित्प्रकाशः स्वापादिषु दुर्निवारः, नैमित्तिके सति निमि- 808
त्तानुसरणम्, नतु निमित्तमस्तीति नैमित्तिकारोप इति न्यायात्। संवित्सामा- न्यानुभवोऽस्तीति गमनादिक्रियासामान्यानुभवोऽपि न सुकल्पः। न हि संवि- दिव गमनादिकं स्वापे सर्ववृत्त्युपरमे स्वप्रकाश प्रकाशत इति कल्पनाग- न्धोऽप्यवसरति॥ तत्र "न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिरि"ति पक्षे स्वप्न- जागरादौ पूर्वानुभूतस्य सुषुप्तौ लयं गतस्याहंकारादयंशे स्मरणमिति चेत्, स्वापादौ तदनुभवाभावेऽपि प्राचीनाहद्काराद्यनुभवजनितसंस्कारोद्वोघात् तत्स्- रणोपपत्तिः ।। अविद्यावृत्युपगमपक्षे तु संविन्मात्रेऽपि स्मरणमुपपद्यते, परन्तु प्रबोध- दशायां न केवलं संवित् प्रकाशते, किन्त्वहङ्कारतादात्म्यापन्नैवानुभूयते। तत्राहमाद्यंशे पूर्वोक्तरीत्या स्मरणमुपपन्नमेव। अयमेव न्यायो विषयाद्यंशे स्मर- णेडपि। विषया हि संविन्मात्रानुभवेऽपि स्वापेऽज्ञानात्मनैवासन्, इति सर्व वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिभास्यमिति सिद्धान्तादज्ञाततया साक्षिभास्याः स्वापे आसन्, इति तेषामपि स्मरण न विरुध्यते। संस्काराधारस्त्वज्ञानोपहितः साक्षी प्राज्ञसम्परिष्वक्त इति न किञ्चिदनुपपन्नम्॥ अयमत्र निष्कर्ष :- जागरदशायां लौकिक्योऽनुभूतयः सविषया एव स्फुरन्ति, न निर्विषयाः । सुषुप्तिदशायां त्वविद्यावृत्त्या संविन्मात्र स्फुरति। तत्र सुषुप्तौ संविद् निर्विषया, अविद्यावृत्तिस्तु जन्यानुभूतिः निर्विषयसंविन्मात्र- विषया। तथाच न प्रबुद्धस्य तत्स्मरणानुपपत्तिः। को वा विप्रतिपद्यते- संवित् निराश्रया, निरविषया च स्वापे न प्रकाशते, नानुभूयते वा ? येन तत्स्मरणानुपपत्तिः। तत्रानुभवस्य, तत्संस्कारस्य चाश्रयोऽविद्योपहित आनन्दमयः प्राज्ञो जीव एव विलीनान्तःकरणादिरिति न किमपि छिन्नमद्वैतमते। तदेवं निराश्रया निर्विषया च संविदनुभृतिशब्दवाच्यैका, साश्रयसविषयजन्या
Page 231
शब्दप्रमाणम् १७५
लौकिक्योऽनुभूतयश्चान्याः। तत्र प्रागभावादिशून्यत्वं प्रथमायाः, अपरस्यास्तु तद्विपरीतम् ॥ तथा निराश्रया निर्विशेषा चानुभृतिः प्रथमा निर्विकाराऽपि। विका- रश्षात्र नाश एव। तत्रोत्पत्त्यभावसाधनेन नाशाभावोऽप्यर्थसिद्धः ॥
प्रागभावेऽनुत्पन्नेऽपि विकाररूपना शदर्शनादिति-श्रीभाष्यम्, तत्राद्वैतामोदो वदति -- तत्र प्रागभावस्य नाशो न विकार :; अवस्था- न्तरप्राप्तिरूपविकारस्य प्रागभावे दुर्वचत्वात्। वस्तुतस्तु सत्कार्यवादे कारण- भावापत्तेरेव विनाशरूपत्वाद् न प्रागभाव एव समस्ति, येन तत्रोक्तनियमो व्यभिचरेत्-इति ॥। तत्रेयं परमार्थप्रकाशिका-प्रागभाव पृथगञ्कीक्रियतां मा वा। विकार- स्योत्पत्तिव्याप्यत्वं नास्त्येव, भावरूपेऽज्ञाने व्यभिचारात्। न च कारणरूपेण सत्त्वमेवोत्पत्ते प्राक् कार्यस्य, न तु प्रागभावोऽस्तीत्यपि युक्तम्, सद्भाव- वादेऽपि कारणरूपेण सत्त्वेऽि कार्यरूपेणाभावात् प्रागभावस्यावश्यकत्वात्। न चैकान्तत प्रागभावानज्ञीकारोऽद्वैतमतेऽपि, अज्ञानानुमानादौ स्वप्रागभाव- व्यतिरिक्तेति विशेषणात्। स्वप्रागभावनाशस्यापि तद्रपतया यत्किञ्चिद्वि- कारत्वस्याषि सम्भवाच्च-इति ॥
तत्रोत्पत्त्यभावेऽपि विनाशः किं नष्टमित्त्यनुभवानुपपत्त्या १ उतोत्पत्त्यति- रिक्तविकाराणामुत्पत्तिव्याप्यत्वनियमो नास्तीति मात्रेण 2 आदे स्वरूपज्ञानस्य परमत इव नोत्पत्तिव्यवहारः, विनष्टव्यवहारो वा विद्यते। उक्तनियमो नास्तीति कृत्वाऽनादीनां सर्वेषां विनाशकल्पने ब्रह्मणोSपि नाशकल्पनापत्त्या निरधिष्ठानकार्यवादापत्तिः, शून्यवादापत्तिवा। न चात्र संविद्पाया अनुभूतेर्नाशे किमपि प्रमाणमस्ति। लौकिकानुभूतीनां तूत्पत्तिरिव, विनाशोऽपीष्यत एव।। न चोत्पत्तिव्यतिरिक्तविकाराणामुत्पत्तिव्याप्यत्वनियमः परमतेऽपि ; अनादेः प्रकृतेः परिणामिन्या अपि विनाशापत्तेः। अद्वैतिनं प्रति प्रकृतेर्ना-
Page 232
१७६ अद्वैततत्त्वशुद्धिः
शायो गित्वमनादित्वेन खल परमते साध्यते। तच्च नाद्वैतदृष्ट्या; तत्रानादेरपि प्रकृतेः, जीवेशभेदादीनां च विनाशाङ्गीकारात् ॥ तन्राविद्यादिविनाशेऽनादित्वं न प्रतिबन्धकमित्य विद्या निवृत्त्यनुपपत्त्या तन्नाश: स्वीक्रियते। न चायं न्यायः प्रकृते सविदि, स्वरूपज्ञानेऽपि वा, स्वरूपज्ञाननाशकाभावात्, तन्नाशाश्रवणाच्च।। ज्ञानमुत्पन्नं नष्टमिति परमते धर्मभूतज्ञानसङ्कोचामिप्रायेण, अद्वैतमते त्वन्तःकरणधर्मभूतज्ञानाभिप्रायेणेति समानम्। अतोऽत्रोक्तनियमव्यभिचार- शङ्कादिकमप्राप्तकालम्, स्वव्याघातकं च ।। आस्तामिदम्। कुत्र वाऽस्य नियमस्य व्यभिचार:2 किं वाऽनुमानं तन्रामिप्रेत्य2 तत्र यदि-अनुभूतिः, अविनाशिनी, अनादित्वादित्यनुमानस्य व्यभिचारः प्रागभावे, तहिं भावत्वे सतीति विशेषणात्तत्परिहारः। अद्वैता- भिमताविद्या तु न भावरूपा, नाप्यमावरूपा, किन्तु भावाभावविलक्षणेतीष्ट- सिद्धिचित्सुख्यद्वैतसिद्धयादावुक्तम्, इति न तत्रोक्तहेतोर्व्यभिचारः॥ अत्रानुभूतिपदेन लौकिकानुभूतिविवक्षणे तु न तत्र साध्यम्, न वा हेतुः, इति बाधासिद्धी। भावरूपमज्ञानं ब्रह्मणः शक्तिरूपं ब्रह्माभिन्न च ब्रह्मवन्न नश्यतीति ब्रह्मपरिणामवादः, इति तन्मतरीत्या वा भावरूपेऽज्ञाने व्यभिचारपरिहारः ॥ यद्यपि मतद्वयविरुद्धो ब्रह्मपरिणामवादः; तथापि भवन्मतेऽपि प्रकृतेरेव मायात्वात् तस्या एवावरणशक्तयाघिक्यमात्रेणाद्वैतिभिरविद्यात्वस्वीकाराद् भवन्मतरीत्याऽपि तत्र न व्यभिचारः। अद्वैतमतरीत्यैव व्यमिचारोद्धावने तु तत्र भावाभावविलक्षणत्वस्यैव स्वीकाराद् न तत्र व्यभिचारः। भावरूपाज्ञानस्य ब्रह्मशक्तित्वपक्षनिरासस्त्वद्वैतिनामपि संमतः। न चात्र भावरूपाज्ञानसान्तत्वे विप्रतिपत्तिः, केवलं तद्धावरूपत्वमात्रे। अविद्यानुमानं त्वज्ञानस्याभावव्यतिरिक्त- त्वमात्रं साधयति, न त्वज्ञानमपीत्यन्यत्र व्यक्तम्।।
Page 233
शब्दप्रमाणम् १७७
तत्र ब्रह्मणोऽज्ञानव्यतिरिक्तत्वनित्यत्वैकत्वस्वयंप्रकाशत्वादयः पूर्वोक्त- रीत्याऽनित्यत्वादिनिषेधरूपाः, भावरूपत्वेऽपि तद्विषमसत्ताका एव, इति न निर्विशेषत्वहानिः, ब्रह्मसमसत्ताकविशेषाभावस्यैव निर्विशेपपदार्थत्वात्। अनित्यत्वाद्यभावानां कल्पितं धर्मत्वमादाय धर्मधर्मिभावव्यवहारोऽिकरण- रूपत्वेऽप्यभावस्य ।।
तत्राभावस्याधिकरणात्मत्वमभावत्वोपलक्षितरूपेण, न तु तद्विशिष्टेन रूपेण, येनाभावत्वधर्मेण सविशेषत्वमापद्येत, अभाववद् ब्रह्मणोऽपि सप्रतियो- गिकत्वं वा स्यात्। संविदि घटो नास्तीति प्रतीतिस्तु विशिष्टप्रतीतिदशायामेव, अन्यथा भूतले घटो नास्तीत्यादावपि कथ निर्वाहोऽभावस्याधिकरणात्मत्वे ? कथं वा भूतलमभाव इति न प्रतीति: 2
एतेन-अभावत्वमात्रं तत्र स्वीक्रियते, न भूतलमभाव इति- परास्तम् ॥
सत्यभावेऽ्भावत्वमभावत्वस्य कल्पितत्वेन वा, अभाववत् तस्य सत्यत्वेन वा १ आद्ये ब्रह्मण्यभावत्वघर्मस्वीकारेऽपि न निर्विशेषत्वस्य हानिः। द्वितीये कथं भूतलं नाभावोऽपि, सप्रतियोगिकश्च १ इदमेवाभिप्रत्योक्तम्-अभावत्वो- पलक्षितरूपेणा धिकरणस्याभावरूपत्वमिति। तत्र लौकिकानुभूतीनां सविषयक- त्वादिकं संविन्मात्रस्य सविषयकत्वादावकिश्चित्करम् ।
अत एव संवि दूपेणात्मनामेकत्वमित्यद्वैतसिद्धान्तः। तत्र स्वरूपज्ञानं हि साक्षान्निर्विषयमिति सम्प्रतिपन्नम्। धर्मभृतज्ञानद्वारा सविषयकत्वं त्वौपा- धिकम्, न स्वाभाविकम्॥ "अर्थेनैव विशेषो हि निराकारतया घियाम्" इति तु लौकिक- जन्यानुभूतिविषयम्, न स्वरूपज्ञानविषयम्, इति स्वरूपज्ञानात्मकस्य संविन्मात्रस्य निर्विषयत्वे का वा बाधा? 12
Page 234
१७८ अद्वैततत्त्वशुद्धि:
यत्तु-यदि संविदमेकामभ्युपगम्य तत्राधारस्य ग्राह्यस्य बाह्यस्य च कल्पित त्वं कल्पयसि, नून प्रपश्चापलापिनं बौद्धं प्रति प्रयुक्ताद् दूषणणद् न निस्तार ·- इति ॥
तत्र सौगतनये प्रवृत्तिविज्ञानस्य ज्ञानाकारातिरिक्तविषयाकारानभ्युप- गमात्, सत्यं तदतिरिक्तग्राह्याद्यभावः, अद्ैतमते तु परमत इव सौगतप्रवृत्ति- ज्ञानस्थानीयलौकिकानुभूतीनां सविषयकत्वम्, लौकिकपारमार्थिकत्वम्, ज्ञाना- कारातिरेकेणार्थसत्त्वं च स्वीक्रियते, एवं लौकिकानुभूतिव्यतिरेकेण परमत इव स्वरूपज्ञानान्तरमपि स्वीक्रियते, इति परमत इव न प्रपञ्चापलापः, किं तु ब्रह्म- साक्षात्कारानन्तरभाविनं शास्त्रसिद्धं प्रामाणिकमभावमादाय परमार्थतस्तदभाव उच्यते। क्षणिकप्रवृत्तिविज्ञानविलक्षणार्थाकारलौकिकानुभूतिस्वीकारे, तदति-
मतादद्वैतस्य न कोऽपि विशेष :- स्वरूपज्ञानस्यैवाह मर्थत्व तदनर्थत्वज्ञातृत्वाज्ञातृ- त्वैकत्वानेकत्वादिरूपं कञ्चन विशेषमपहाय। तत्र स्वरूपज्ञानस्याहमर्थत्वम्, ज्ञातृत्वम्, अनेकत्वं च यद्यप्यद्वैतिनो- उप्यनुमन्यन्ते, परन्त्वौपाधिकम्, न तु स्वाभाविकमिति। परे तु तत्स्वाभाविकमिति। तत्राद्वैतमत उपपत्तयो यथावसरं प्रदर्शयिष्यन्ते। साम्प्रतं तु निराश्रयत्वं निर्विपयत्वं च सिद्धवत्कृत्य संविन्मात्रस्यात्मत्वम्, तदेकत्वं च साधयितुमेव प्रवृत्ति: । तत्राहमर्थ :- अन्तःकरणसंवळिता संवित्, न संविन्मात्रम्, न वाडन्त :- करणमात्रम्। तत्राहं जानामीत्यादौ ज्ञातृतया स एवात्मा भासते। स च मिथ्यात्मा, न मुख्यात्मा। मुख्यात्मा तु संविन्मात्रम्। एतदर्थमेव ह्यध्यास भाष्यं भगवत्पादानाम्। तत्र संविन्मात्रेऽध्यस्तमन्तःकरणम्, तत्तादात्म्यप्रयुक्त- वृत्तिरूपं ज्ञातृत्वं च मुख्यात्मनो बन्धः, तन्निवृत्तिश्च मोक्ष:, बन्धमोक्षयोरा- त्मनाऽसम्बन्धः, अन्यस्य बन्धोऽन्यस्य मोक्षश्र, अन्तःकरणस्य ज्ञातृत्वमित्या-
Page 235
शब्दप्रमाणम् १७९
द्युक्तिस्त्वामोदस्य वस्तुत आत्मधर्मत्वाभावमभिप्रेत्य, गुहाधिकरणपूर्वपक्षन्याय- मात्रमनुसृत्य च, इति न शास्त्रवैयर्थ्यम्।। वस्तुतस्त्वमहमर्थात्मधर्मत्वं तु "यथाच तक्षोभयथा" इत्यत्र गुहाधि- करणे च सिद्धान्ते च निर्णीतमेव। न च परमतेऽप्यहमर्थधर्मत्वमेव ज्ञातृत्वा- देरित्यत्र विप्रतिपत्ति :- अहमर्थमुख्यानात्मत्वमपहाय। तत्र को वा विप्रतिपद्यतेऽहमर्थात्मतायाम्, विप्रतिपत्तिस्तु तस्य मुख्यात्मतायामेव। न चान्तःकरणमात्मेत्यद्वैतिनोऽपि स्वीकुर्वन्ति। निरस्तं चान्त:करणादेः करणस्यात्मत्वमध्यासभाष्यभूमिकायां विस्तरेण भामत्याम्। गुहाधिकरणसिद्धान्तोऽप्ययमेव। अत एवात्मानौ इति द्विवचनम् । अद्वैतामोदोऽपि - "न च व्यावहारिकास्मदर्थत्वमन्तःकरणे स्वीकुर्म:, परन्त्वस्मदर्थप्रतिको टिभूतयुष्मदर्थविलक्षणघी विशेषसिद्धत्वरूपयुष्म- दर्थाक्रान्तत्वादन्यादृशास्मदर्थत्वमात्मनीष्यते" इति वदन् युष्मदर्थान्तःकरण- तादात्म्याध्यासप्रयुक्ताहंप्रतीतिविषयस्य युष्मदर्थान्तःकरणातिरिक्तस्यात्मानात्म- शबळितिस्यैवाहंप्रतीतिविषयत्वम्, आत्मत्वं चामुख्यं स्वीकरोति, न त्वन्तः- करणमात्रस्य युष्मदर्थस्य। न चेदं व्यावहारिकास्मदर्थविलक्षणं परमार्थप्रकाशि कोक्तरीत्या। द्विविधो ह्यस्मदर्थोऽहंप्रतीतिविषयः-एकोऽहमिति प्रतीतावधिष्ठान- तयाऽहंप्रतीतिकाले स्वयं प्रकाशमानः, अपरश्च विशिष्टोऽह्मर्थः । तत्राद्यो मुख्यः, द्वितीयस्तु मिथ्यात्मा, अमुख्यात्मा वा ॥ तत्र संविन्मात्रस्याहमर्थत्वं त्वधिष्ठानतयाऽन्तःकरणतादात्म्याध्यासाच्चौ- पचारिकम्। विशिष्टस्य तु मुख्यम्। न हि लोकसिद्धोऽहमर्थ एव मुख्यात्मा ; 'अहं गौरः' इत्यादिप्रतीत्या, 'अहं पश्यामी' त्यादिलौकिकप्रतीत्या च शरीरेन्द्रियादीनामपि व्यावहारिकास्मदर्थानां मुख्यात्मत्वापत्तेः । तत्र यद-
Page 236
१८० अद्वैततत्त्वशुद्धि:
नात्मन्यात्माध्यासमात्रम्, तर्हि प्रकृतेऽपि समानम्; विशिष्टस्य व्यावहारि- कस्याह मर्थस्याप्यौपाधिकस्यानात्मत्वेन तत्रात्माध्यासप्रयुक्तमेवात्मत्वमिति स्वी- कारेणाहृगर्थस्य मुख्यात्मत्वायोगात्।। तत्र युष्मदस्मत्प्रत्ययगोचरयोरिति भाष्ये युष्मदर्थोऽन्त:करणम्, न तु सम्बोध्यः ; परमतेऽपि सबोध्यस्य देवदत्तादेः सशरीरस्यानात्मनः संबोध्यत्वात्। न हि परात्मा पुरतोऽस्ति स्वस्य प्रत्यक्ष:, येन तस्य संबोध्यत्वं स्यात्। तत्र यदि संबोध्यैकदेशत्वात्संबोध्यत्वम्, तर्हिं अन्तःकरणस्यापि तत् समानम्॥ वस्तुतस्तु-इदमस्मतात्ययगोचरयोरित्येवात्र विवक्षितम्। युष्मदर्थ त्वोक्तिस्त्वन्तःकरणस्यानात्मत्वं सूचयितुमिति भामत्यादौ व्यक्तम्। न च विशिष्टोऽहमर्थो मुख्यो युष्मदर्थः; अन्तःकरणमात्रस्य तत्त्वात। दृग्दृश्ययोरि- त्येवात्र विवक्षितमिति तु न्यायरलावळी, याऽन्तःकरणस्य प्रतिभासतो- Sहमर्थत्वेऽपि दृश्यत्वेनानुमानिकं युष्मदर्थत्वभिति वदन्ती-'युष्मदस्मत्प्रत्यय- गोचरयोरि' तिपदं दग्दश्यपरं व्याचष्टे।। न चाहं जानामीति प्रतीतिसिद्धो ज्ञाता युष्मदर्थ इत्यद्वैतसिद्धान्तः, किन्त्वन्तःकरणमेव युष्मदर्थः ॥ येन-'अहं जानामी'ति प्रतीतिसिद्धो ज्ञाता युष्मदर्थ इति वचनं जननी मे वन्त्येतिवद् व्याहतार्थमेवेति परमार्थप्रकाशिका-सावसरा स्यात्। तत्र ज्ञाताऽहमर्थः, अन्तःकरणं तु नाहमर्थो ज्ञाता वेति ह्यद्वैतामोदो- डभि्रैति।। सति चैवमहमर्थो विशिष्टो नात्मा, किन्तु तत्राधिष्ठानतया प्रतीयमान एवात्मा। प्रत्यक्तृमपि तस्यैव। तत्तादात्म्याद् विशिष्टस्यापि प्रत्यक्तोपचार- मात्रम् ॥ प्रत्यक्तं च 'अहंप्रतीतिविषयत्वम्। तत्र प्रतिभासमानस्यैकस्यैव, नाने- केषाम्। तच्चाधिष्ठानात्मना भासमानस्य संविन्मात्रस्यैव, न विशिष्टस्य, न
Page 237
शब्दप्रमाणम् १८१
वा तत्र विशेषणतया तत्तादात्म्याश्रयस्यान्त करणस्य; अन्यथा शरीरादेरपि प्रत्यगात्मत्वप्रसङ्गः। आत्मनि भासमाने सवमे शरीरप्रतीत्यभावात्, जागरेऽपि शरोरादेरहंप्रतीतिविषयत्वाभावाच्च यदि नात्मत्वम्, तर्हिं स्वमेऽपि मनसोऽहं- प्रतीतौ भानात् तदप्यहमर्थः स्यात। सुषुप्तावात्मनि प्रतिभासमानेऽन्तःकरणा- देरसत्त्वात्, तस्य तदाऽमानाच्च यद्यनात्मत्वम्, तर्हिं सुषुप्तावात्मनि भास- मानेऽप्यहंप्रतीत्यभावात् नाहमर्थः प्रत्यगात्मा, किन्तु संविन्मात्रमेव स इति सिद्धम् ॥ ततश्च, आत्माऽहमर्थ एव, प्रत्यक्तादित्यनुमानस्य सौषुप्तात्मनि बाघः। अहमर्थत्वं ह्यहंप्रतीतिविषयत्वमेव। तच्च सौषुप्तात्मनि नास्तीति नाहमर्थः प्रत्यगात्मा। प्रत्यक्त्तूं स्वप्रकाशत्वम्। तत्तु संविन्मात्रस्याधिष्ठानस्यैव। एतेन- जीवे प्रत्यगात्मव्यवहारोऽपि-व्याख्यातः, तस्यान्तःकरणादिसंबन्धरहित- शुद्धप्रत्यगात्मविषयत्वात्॥ यतु-प्रत्यकशब्दार्थः सर्वव्यापित्वमित्यामोदः, तदपि संविन्मात्रस्यैव सर्वत्र सद्रपेणानुवेधात् न विरुद्धम्। न चाविद्यापि सर्वत्रानुगतरूपेण प्रतीयते, संविद्वद् व्यापिनी च। सर्वव्यापित्वं ह्यधिष्ठानविधयाऽनुवर्तमानत्वम्। तच्च संविद्ूपे त्वंपदलक्ष्येऽप्यविशिष्टम्। संविन्मात्रस्य सर्वत्र व्याप्ति :- "तदनुप्रविश्य सच्च त्यच्चाभवत्" "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीत्यादि श्रुतिसिद्धं संविन्मात्रे वतते। संविन्मात्रमेव जीवस्येश्वरस्य च परमार्थम्। अहमादिपरिच्छिन्नरूपेण भानं तु परिच्छिन्नतादात्म्याध्यासमात्रेण। अतो व्यवहारदशायां जीवस्य सर्वव्यापित्वाज्ञानं न तस्य सर्वव्यापित्वं पारमार्थिकं विरुणद्धि। यत्तु-"अहमिति प्रत्यगात्मनि भावात् परत्राभावाद् अर्थान्तरप्रत्यक्षः" इति काणादसूत्रम्, तत्र यत्-अहमिति प्रत्ययस्य प्रत्यगात्मनि स्वात्मनि भावात् परत्र परात्मन्यभावादिति शक्करमिश्रविवरणम्, तदिदं " एतेन
Page 238
१८२
शिष्टापरिग्रहा अपि व्याख्याताः" इति बादरायणनिरस्तप्रस्थानाभिप्रायं न वेदान्तार्थनिर्णय उपकरोति॥ इदं हि सूत्रं व्याचक्षाणा परमार्थप्रकाशिकाऽपि- - स्वदेहस्येव परदेहस्यापि प्रत्यक्षत्वात् तत्राप्यहंप्रत्ययापत्ति। अतो देहादिभ्योऽर्थन्तिरमस्य विषय। तत्रापि प्रत्यक्षाप्रत्यक्षत्वविमर्शेन देहाद्यति- रिक्तात्ममात्रविषयकत्वस्वीकारे परमात्मन्यहंप्रत्ययापत्ति, प्रत्यक्षभूतार्थान्तर- विषयकोऽहंप्रत्यय इत्युपसंहरन्ती च परमात्मन परोक्षस्याहंप्रत्ययाविषयत्वं विवेचयति। इदं च स्वसिद्धान्तविरुद्धम्। मुख्यमहंप्रत्ययविषयत्वं सर्वात्मनः पर- मात्मन एवेति हि तत्सिद्धान्तः। अतो नोक्तं सूत्रं प्रमाणमात्मस्वरूपनिर्णय इति सम्प्रतिपन्नम् ; अन्यथा आत्मविभुत्वस्य, तत्स्वरूपज्ञानत्वाभावस्य स्वतोऽचेतन- त्वस्य च काणादाभिमतस्यापि स्वीकारापत्तिः ।। वस्तुतस्तु-नेदं काणादसूत्रमद्वैतमतविरुद्धम्। तत्र हि-अह- मिति प्रयोग: स्वान्तःकरणतादात्म्यापन्ने संविन्मात्र एव, नान्तःकरणादि- तादात्म्यापन्ने। तत्र संविन्मात्रस्य प्रत्यक्त्वेऽपि अहमितिप्रयोगो नान्यन्र।। इंद हि सूत्रं परमात्मनोऽपि प्रत्यगात्मत्वं निषेधतीति जानन्त्यपि पर- मार्थप्रकाशिका कुतः स्वसिद्धान्तोपष्टम्भार्थसुपन्यस्यति 2 यद्यद्वैतामोदस्य, अद्वैतसिद्धान्तस्य वा खण्डनमात्रं स्वहत्यामपि तृणवत्कृत्य लक्ष्यं मत्वा, तर्हि चित्रम्। न चानेनाद्वैतामोदस्याद्वैतस्य वा वधः, किन्तु स्वस्यैव हत्येति विज्ञाय स्वयं सन्तुष्यतु परमार्थप्रकाशिका॥ तत्र युष्मत्प्रत्ययविषयपरागर्थवैलक्षण्येन प्रत्यगात्मेति व्यवहारोस्मत्प्र- त्ययविषयत्वनिबन्धन इति सम्प्रतिपन्नम्। स च संविन्मात्रानुबन्धी, न तु संविदसंवित्संवळििताहमर्थसंबन्धी, अन्तःकरणमात्रानुषङ्गी वा; संविन्मात्रस्याप्य- न्तःकरणानुषङ्गप्रयुक्त्यैव, नान्यथेति ह्यद्वैतसिद्धान्तः । तेन च परात्मनि नाहं-
Page 239
शब्दप्रमाणम् १८३
प्रत्ययव्यवहारोऽद्वैतदृष्टयाऽपि। परात्मा हि तदीयान्तःकरणान्तरानुषङ्गेणैवाह- मिति स्वात्मानं प्रत्येति। तत्र- "अहंबुद्धया परागर्थात्प्रत्यगर्थो हि भिद्यते" इति श्रीभाष्यकारोक्तिस्त्वहंप्रतीतिविषयत्वमात्रं प्रत्यगर्थत्वं मन्यते। इंद तु तद्दृष्ट्या, नाद्वैतद्ष्ट्या, इति परमार्थप्रकाशिकोक्तरीत्या नात्र मतद्वयस्यापि संप्रतिपत्तिः। संविन्मात्रस्यास्मत्प्रत्ययविषयत्वम्-"नायमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वादि"ति भगवत्पादीयं भाष्यम्-आत्मनोऽहंबुद्धिविषय- त्वाभावः, अन्तःकरणमात्रस्य तद्विषयत्व इदमुललेख एव स्यात् , नास्मदुल्लेख इति परमतेन, इति भामतीकल्पतरुविवरणप्रसङ्गेन विव्ृतम्। तदाशयस्तु भामत्युक्त- रीत्याऽहमध्यासात्पूर्व विन्मात्रस्य विषयत्वाभावेऽप्यहमध्यासकालेऽघिष्ठानतया संविन्मात्रमान वर्तते। सति चैवं भ्रमज्ञानेऽधिष्ठानस्य वृत्त्या पूर्व प्रकाशो न नियतः, स्वरूपप्रकाशमात्रेणालम्। वृत्तिविषयत्वं भ्रमकालीनेनापि वृत्तिविषय- त्वेन निर्वहृतीति। व्यक्तं चेदं कवितार्किकचक्वर्तिमतनिरूपणावसरेऽन्यत्र।
परमार्थप्रकाशिका तु-अन्तःकरणमात्रस्याहमर्थत्वं निषेधति। इंद तु संविन्मात्रस्यापि समानम् ॥ अयं हि सन्दर्भोSहमर्थ विवेचयति, न तु तस्यैव प्रत्यक्त्वमपि। प्रत्यक्त्वं तु सविदन्तरानपेक्षप्रकाशत्वरूपं संविन्मात्रस्य। अधिकं तु जडत्वनिरुक्तौ लघु- चन्द्रिकादौ व्यक्तम्। न चाहमर्थस्यैवंविधं स्वप्रकाशत्वम्, किन्तु संविन्मात्रस्य। तदनुषङ्गातु विशिष्टस्याहमर्थस्यापि प्रत्यक्त्वोपचारः ; नियमेन भासमानत्वाच्च। न चैतद्धटादिसाधारणमित्याद्यन्यत्र व्यक्तम्। अयमेवाद्वैतराद्धान्तः ।। स्वस्मै प्रकाशमानत्वं स्वाश्रयं प्रति प्रकाशमानत्वं वा स्वप्रकाशत्वं स्वरूपज्ञानविषयं धर्मभूतज्ञानविषयं च नाद्वैतिनां सम्मतम्। न चाद्वैतमते स्वरूपज्ञानं फलि ; निर्विशेषसंविन्मात्रत्वात्। सर्वथा तु परमार्थप्रकाशिकाया
Page 240
१८४ अद्वैततत्त्वशुद्धिः
अद्वैत सिद्धान्तस्यान्यथा विवरणेनाद्वैतसिद्धान्तविरुद्धं संविन्मात्रप्रत्यक्त्वम्, अह- मर्थस्यैव प्रत्यक्त्वं चेति सविस्तारसुपपादनं बालक्रीडितमेव।। तत्राद्वैतमते संविन्मात्रस्याहंप्रत्ययविषयत्वं ह्यन्तःकरणतादात्म्याध्यासेन, न तु स्वरूपतः, इति नाहमर्थो वस्तुगत्या प्रत्यगात्मा, किन्तु स्वरूपज्ञानम्। तत्र प्रत्यक्त्वं संविन्मात्रम्, अहंप्रत्ययविषयत्वं तु नाघिष्ठानसंविन्मात्रस्य, न वाऽन्त:करणमात्रस्य, किन्तु विशिष्टस्यैव परस्परतादात्म्याध्यासनिष्पन्नस्येति तु तत्त्वम्। तेन चाहंप्रत्ययो न निरालम्बन :- अन्त.करणमात्रस्य, संविन्मात्रस्य वाऽहंप्रतीतिविषयत्वाभावेऽपि ॥ तत्राहंत्वमन्तःकरणतादात्म्यापन्नचिदृपत्वम्। तस्य ज्ञातृत्वम्, हानो- पादानादिकर्तृत्वं तत्तत्फलभोक्तृत्वं चौपाधिकम्, न परमत इव स्वाभाविकम्। स्वयंप्रकाशत्वं तत्र सविन्मात्रस्य, नाहमर्थस्य परमत इव, इति नाहंप्रत्ययविप- यत्वबलसिद्धं प्रत्यक्त्वम् ; संविन्मात्रे तस्य बाघितत्वात्। सति चैवं- अतोऽहंप्रत्ययविषयत्वबलसिद्ध प्रत्यक्त्वं स्वीकृत्याहंप्रत्ययविषयत्वस्याहमर्थत्वस्य चा स्वीकारोऽप्रामाणिको दुःशकश्रे"त्यादि स्वकल्पनामात्रसिद्धाद्वैतसिद्धान्त- स्यैव निरासः, न तु वस्तुसदद्वैतसिद्धान्तस्य ।। "अहमर्थो न चेदात्मा प्रत्यक्त्वं नात्मनो भवेत्" ॥। इति स्वगोष्ठीगर्जितं नाद्वैतिनां भीषणतामर्हति॥ न च मुख्यात्माऽहमर्थः, किन्त्वहंभावापन्नं चैतन्यमेव। तच्चाहंभावग्य कल्पनया। अत एव छान्दोग्ये-"अथातोऽहंकारादेशः" इत्यस्मात्परम्- "अथात आत्मादेशः" इत्यहमर्थात् परमात्मोपदेशः, अन्यथा तदुपदेश- वैयर्थ्यम्। तत्राहक्कारोऽन्तःकरणं वा भवतु, महत उत्पन्नमहंतत्त्त्वं वा तस्य प्रकृतिविकृतिरूपस्य, विक्कृतिमात्रस्य वाऽनात्मत्वे तु न विवादः। अन्तःकरण- तादात्म्यापन्नोऽहमर्थोऽहंतत्त्वतादात्म्यापन्नो वाऽहमर्थ इति प्रस्थानभेदमात्रम्, नात्र सिद्धान्तापसिद्धान्तकथाया अवसरलेशोऽपि।।
Page 241
शब्दप्रमाणम् १८५
न हि प्रस्थानभेदः मुख्य सिद्धान्ताविरोधी कोऽप्यपसिद्धान्तो नाम। न हद्वैतामोदोऽप्यन्तःकरणं महत्त्वं चैकमभिप्रैति, येन सिद्धान्तविरोध: स्थात्। सात्त्विकतन्मान्नभूतकार्यमन्तःकरणम्, अहंतत्त्वमहंकार इत्येव तस्यापि सिद्धान्तः। जीवोपाधित्वमहंतत्त्वस्य वा, अन्तःकरणस्य वेति प्रस्थानभेदः । अतो नात्रापसिद्धान्तकथावसरः। अहमर्थात्माऽहंतत्त्वतादात्म्यापन्नो वा भवतु, अन्तःकरणतादात्म्यापन्नो वा। उभयथापि औपाधिकस्सः, न मुख्यात्मा। अन्यस्यान्यतया भानमध्यासनिबन्धनमनात्मनि शरीर आत्मता- दात्म्याध्यासेन दृष्टचरम्, दृश्यते च। शुक्तौ रजताध्यासे दोषो निमित्त- कारणमात्रम्। न च तत्र शुक्तिरजतयोरिव तद्दोषयोरपि तादात्म्याध्यासः । तादात्म्याध्यासस्थलेऽन्यत्रान्यभावस्य अन्यभानस्य च नियमो न व्याहतः । सर्वथा तु नाहमर्थः स्वाभाविकात्मा, किन्त्वौपाधिक एव ।। तच्चाहमर्थत्वं पूर्वोक्तविधयाऽहंतादात्म्यापन्नचिन्निष्ठम्, न तु केवला- त्मनिष्ठम्, न वा केवलान्त करणनिष्ठम्। स्थूलोडहं गौरोऽहमित्यादिप्रत्यक्षं त्वहमवच्छिन्नचैतन्य एव स्थूलादिविशिष्टशरीराध्यासेन, न त्वन्तःकरणगता- हमर्थत्वस्य देहादावारोपेण, येन देहात्मताभ्रमो न स्यात्। अहं जाना- मीत्यादि त्वन्तःकरणधर्मवृत्तिज्ञानस्यात्ममि धर्माध्यासविधयाऽडरोपेण। यथाऽयो दहतीत्यादौ दग्घृत्वाश्रयवह्ितादात्म्याध्यासादयो दहतीति व्यवहारः, तथा वृत्तिमदन्तःकरणतादात्म्याध्यासादेव ह्यहं जानामीति व्यवहारः। न चाद्वैतिनो- डहमर्थ आत्मेति वदन्ति, येन तत्कल्पना निर्मूला स्यात। तत्रात्मनो बन्धो क्रियादुःखादिमदन्तःकरणतादात्म्याध्यासेन, यथा स्वप्ने व्याघ्रादितादात्म्याध्यासेनाज्ञाननिबन्धनेन, तत्त्वज्ञानेन तु मोक्ष इति का वाऽनुपपत्तिरद्वैतमते बन्धमोक्षयोः 2 वस्तुगत्या तु न बन्धो न मोक्षः । "न विरोधो न चोत्पत्तिर्न बन्धो न च मुक्तता ॥" इति हि तत्त्वविदः। दृष्टचरौ च मिथ्यासर्पदष्टस्य बन्धमोक्षौ ज्ञानाज्ञाननिब-
Page 242
१८६ अद्रततत्त्वशुद्धि:
न्धनौ। आरोपितं ज्ञातृत्वकर्तृत्वभोक्तत्वादिकमेव बन्धः, निर्विशेषज्ञानेनाज्ञात- तद्धावापत्तिरेव मोक्ष इति तु तत्त्वम् ॥ अहंनाशे मुक्तिरिति हि कनकदासः। तत्र चैत्रः सत्यपि पाण्डित्ये मूढतया गृह्यमाण:, सत्यम्, स्वयं मूढमात्मानं मन्यते मूढमैत्रतादातम्याध्या- सेन। दृंष्ट च पुत्रमात्मतया, स्वामितया वा गृह्यानस्य गौणात्मनोऽपि दुःखे तदभिमानिनो दुःखादि, इति स्थिते किमु वक्तव्यम्-अन्तःकरणतादात्म्य- मात्मन्यध्यस्य तदात्मतयैवात्मानम्, विना मेदग्रहलेशं मन्यमानस्य तदीय- दुःखेन सुखेनान्येन वाऽडत्मनि सुखादौ।।
एवमेव हि बन्धमोक्षयोरुपपादनम्। तत्र बन्धो मिथ्या, मोक्षः सत्यः । बन्घसत्यतायां तु तस्य मोक्ष: कथ निदिध्यासनेन, अन्येन वा 2 न हि श्रृङ्धला- बद्धो परमात्मध्यानमात्रेण विनाऽन्येन तद्वन्धविनिर्मोकेण ततो मुक्तो भवति। गरुडोपासकेनापि मन्त्रपठनपूर्वकं पत्रविशेषादिना सर्पदष्टभागताडनादिकं विना विषापनयनं न दृश्यते।।
सत्यं हि ज्ञानमात्रेण न निवर्तते, असत्यं वा नोपासनमात्रेण। आत्मन्यहंत्वस्यारोप एव बन्ध इति पक्षे, आत्मस्वरूपसाक्षात्कारमात्रेण बन्धनिवृत्ति: सूपपादा ; तन्निबन्धनदुःखादीनामपि तत एव निवृत्तेः ॥
अहंत्वारोपेणैवात्मन्यहन्त्वम्, न तु स्वयम्, अन्यथा कथं सुषुप्तावपि तथाऽत्मनो न भानम्2 किं सुषुप्तावात्मा नास्त्येव 2 सति चवमहमनुभवमनुरु- ध्याहमेवात्मेति इष्यताम्। परं त्वन्तःकरणाध्यासनिबन्धनमेवाहंत्वम्। सुषुप्तौ त्वन्त.करणलये स्वरूपेणात्मा भासते, अन्तःकरणं स्वकारणाविद्यात्मना वर्ततेऽनभिव्यक्ततया। अत एव सुषुप्तिमात्रेण न मुक्तिः; अज्ञानस्य कारण- शरीरस्य तदा सत्त्चात्। तत एव हि प्रबोधेऽभिव्यक्तान्तःकरणतादात्म्यादात्मनो- डहंरूपेण भानमिति व्यवस्था ।
Page 243
शब्दप्रमाणम् १८७
तत्र यथा जपाकुसुभनिमोके लोहितः स्फटिक इति बुद्धिर्निवर्तते, एवमन्तःकरणनिर्मोके स्वरूपेण चिदात्मा प्रकाशतेऽहमिति सुष्टु लगति ॥ परमार्थप्रकाशिका तु पृच्छति-स्फटिकनिर्मोकवत् किमन्त करण- निर्मोकेऽप्यमहमित्युल्लिख्यते वा न वेति।। तत्रेदमेवोत्तरम् - यत्स्फटिक निर्मो कवदघिष्ठानात्मस्व रूपनिर्मो को ा न भवति, न वाऽन्तःकरणमात्रमहमिति। एवमिदमध्यासेनात्मन इदंत्वम्, न त्वहंत्वम्। अत एवान्नायते-"सदेव सोम्येदमि"ति, न तु सदेवाह- मिति। न हीदमिति घटपदादिकं सर्वमेकम्॥ अनेन न्यायेन-"बहु स्यां प्रजायेये"त्यत्रापि मायापरिणामाहमाकार- वृत्त्यैवाहमिति प्रतीतिरुपपादनीया। न हीश्वरोऽप्यहमर्थः; "अहं ब्रह्मास्मी"ति सामानाधिकरण्यानुपपत्तेः। सत्यम्, मायायां मूलप्रकृतिरुपेण नाहंत्वमस्ति; तथापि तत्प्रकृतिमहत्तत्त्वस्य परम्परया तत्परिणामसात्त्विकपञ्चभूतस्य वा माया- त्वेनैवाहंकारान्तःकरणादिकारणत्वात् समष्टयहंकारान्तःकरणतादात्म्यस्यापि सत्त्वात्, किं बहुना १ सृष्टे• प्राक् सर्वेषां मूलप्रकृतिरूपमायात्मनैवावस्थानात् मायापरिणामाहमाकारा वृत्तिरीश्वरे न विरुद्धा। यत्तु-न हि "बहु स्यामि" ति सङ्कल्पकाले मायायामहद्कार उत्प- न्नोऽस्ति, इत्यद्वतमते नेश्वरस्याहंप्रत्ययानुपपत्तिः-इति। तत्राहंप्रत्यय आत्ममायातादात्म्याध्यासनिबन्धन एवेति स्वीकर्तव्यम्। अयमेव न्यायो जीवात्मन्यपि। तत्र यथा सुषुप्तौ नाहमनुभवः, एवं मुक्तावप्यहंभावनिवृत्त्या नाहं- प्रत्ययः । "अह्मन्नाद " इत्याद्यनुभवोऽपि जीवन्मुक्त्तस्य व्युत्थितस्य। तस्य हि प्रारब्धफलोपयोगिसर्वाज्ञानांशानिवृत्त्याऽहंव्यवहारो न विरुध्यते। न हि सुखानुभवो मोक्षो नाम, किन्त्वनुभावर्धर्मधर्मिभावादि भेदलेशशून्यः। शुभाशुभ- श्रुतिस्तु तदाकारवृत्त्युपलक्षितानन्दस्वरूपाभिप्राया। सच्चिदानन्दखवरूपस्यावरण- निवृत्त्या सवप्रकाशानावृतब्रह्मभावो हि मोक्षो नाम। न च तत्रानुभविता लौकि-
Page 244
१८८ अद्वैततत्त्वशुद्धि:
कानुभूति., तदनुभवो वा। विषयसुग्वानि त्वद्वैतमतेऽखण्डानन्दांशमात्रप्रति- बिम्बानुभव एव, न तु साक्षादानन्दानुभवः, अखण्डानुभवो वा। इदमेवाभिप्रेत्य-"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती"ति श्रुतिः। "सोऽश्नुते सर्वान् कामान् सहे" त्य.पि सर्वानन्दरूपावाप्तिपरैव। अत एव-तस्या "ब्रह्मविदामोति परम् " इत्यनेनैकवाक्यता। खप्रकाशाख- ण्डानन्दस्वरूपमेव हि मोक्षः। न तस्य मुक्तावप्रकाशमानता। न चखप्रका- शोऽसत्प्रायः। परिभाषा हि- "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।" इति वार्तिकानुसारेणानावृतात्मस्वरूपमेव मोक्षमभिप्रैति, सवप्रकाशानन्दस्वरूपं वा। न च दुःखाभावमात्रं मोक्षो नाम वेदान्तसिद्धान्ते॥ तत्रानन्दस्वरूपमिदं स्वप्रकाशं चिद्रपमपि। चिद्रपत्वं तु न धर्म- विशेष:, किन्तु स्वरूपमात्रं निर्विशेषमनावृतावस्थम् ; चित्स्वरूपस्यैव तस्य स्वप्रकाशस्यापि न खप्रकाशत्वेन व्यपदेशः ; निर्विशेषत्वात्, किन्तु परप्रकाशत्वाभावरूपेण। "तदप्रमायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्ग: " इति भामती त्वधिष्ठानस्वरूपप्रकाशमात्रं वदति, तदप्यविद्योपहितस्यैव। पर- प्रकाश्यत्वाभावादिना व्यपदेशस्तु शुद्धस्यानुपहितस्य। तन्मते हि न शुद्धमुपहि- तादिकमिवान्यप्रकाश्यम्, उपहितमात्रपरत्वाच्छास्त्राणाम्। शुंद्ध चैतन्यं हि तन्मते नािष्ठानम्। अतो जगत आरोपार्थ न तत्र प्रकाशापेक्षा। ततश्र याद- शो वस्त्वन्तराप्रकाशः, तादृशः प्रकाशोऽपि न तत्रापेक्ष्यते। प्रकाशो हि व्यव- हारानुगुण्यम्। न च मोक्षे व्यवहारः। स हि भेदापेक्षो निर्विशेषे निर्मेदे चानावृते चतन्ये बाधितः ॥ मोक्षेच्छया प्रवृत्तिस्तु शास्त्रद्वाराऽविद्यानिवृत्त्यर्थम् ; अविद्यानिवृत्तिपर- त्वाच्छास्त्रस्य। "रसं ह्येवायं लब्ध्वाSडनन्दी भवती" ति तु निवृत्तायाम- विद्यायां वस्तुस्थितिमात्रपरम् ।।
Page 245
शब्दप्रमाणम् १८९
"निरस्ताखिलदुःखोऽहमनन्तानन्दभागू विराट्।" इत्यप्येवमाशयमेव। मुक्तावानन्दावाप्तिवचनानामप्राप्तत्वभ्रम विषयस्वरूपविषयाप्त- त्वभ्रमनिवृत्तावेव तात्पर्यम्।।
अहं सुक्तः स्यामिति प्रवृत्तेः पूर्वम्, सत्यम्, अहम्भावोऽनुवर्तते। को वा वदति मुमुक्षादशायामेवाहंभावो गच्छतीति 2 मुक्तस्याहंभावानुवृत्तौ तु न किमपि प्रमाणमस्ति। निरस्ताखिलदुखोऽहमिति तु जीवन्मुक्तपरम्, स्थितप्रज्ञपरं वा, न त्वनावृतप्रत्यगभिन्नसंविन्मात्राशयम्। मुक्तौ तु संवि- न्मात्रस्यानुवृत्तिः, न त्वहमर्थस्य। संविदेव हि मुख्यात्मा। स च मुक्तावनु- वर्तत एव। दुःखात्यन्ताभावमोक्षता तु पूर्वोक्तरीत्या तदभावत्वोपलक्षितानावृता- खण्डब्रह्मरूपत्वेनैव, न तु तदभावत्वेन। अनावृतं संविन्मात्रं त्वानन्दखवरूपमेव ; अखण्डत्वात्तदा ब्रह्मणः, इति नात्रापि पक्षे गौणो मोक्षः, किन्तु मुख्य एव।।
न च मोक्षकाले कश्चन द्वितीयः पदार्थः सजातीयो विजातीयः सवगतो वाऽस्ति, येन सुखानुभवः, तत्रानुभविता च स्यात्। "द्वितीयाद्वै भय भवती" ति हि द्वितीयसत्तामात्रं भीतिकारणमित्याम्नायते। द्वितीयो ब्रह्मणि चिदात्मके- डज्ञानकल्पित एव। अत एव-"एकमेवाद्वितीयमि" ति श्रुतिः। ततश्र मुक्तिकाले द्वितीयं वस्त्वज्ञानकल्पितं न स्थानमर्हति। सत्यं तु तदसंभावितम्, उक्तश्रुतिविरुद्धं च॥। "सत्यं ज्ञानमनन्तमि" ति ब्रह्मैव मुख्यं सत्यम्, सत्यस्य सत्यं बोध- यति। न च प्रपश्चसत्यतायां तदुपपद्यते। सर्व हि वाक्यं सावधारणम्। ब्रह्मव्य- तिरिक्तस्य तु सर्वस्य कल्पितत्वम्। तत एवाद्वितीयं ब्रह्मेति श्रुत्यर्थः। सर्व द्वितीयं आ्रान्तिकल्पितं प्रतिकूलमेव, नानुकूलं किमपि, येन प्रतिकूलादेव भयम्, नानु- कूलादू द्वितीयादिति स्यात्। न वा दुःखाभावमात्रं मोक्षः । अहमर्थोडप्यौपा- धिक: कल्पित एव, इति तत्सत्ताऽपि मोक्षे भीतिकारणमेव। न च मोक्षेऽहमर्थ-
Page 246
१९० अद्वैततत्त्वशुद्धि:
सत्तायां किमपि प्रमाणमस्ति, प्रत्युत सर्वाभाव एव प्रमाणानि। नच संकोचेऽपि प्रमाणमस्ति ॥ आत्मनो ज्ञातृत्वमप्यत एव व्याख्यातम्। तद्धयहमर्थस्यौपाधिकस्यौ- पाधिकमेव, न तु स्ाभाविकम्। न च तत् सविदूपस्यात्मनः। ज्ञातृत्वं हि ज्ञानाश्रयत्वम्। न च ज्ञानसरूपस्य ज्ञातृत्वं तेनैव ज्ञानेन; एकस्यैव धर्मधर्मि- भावायोगात्। ज्ञानान्तरं तद्धर्मो जन्यो वा, नित्यो वा। आद्ये कस्यायं धर्मः १ कस्य वा कार्य: 2 यद्यात्मन एव धर्म., तस्यैव च कार्यं मीमांसकमत इव, तदाSत्मन. परिणामित्वेनानित्यत्वापत्तिः। परिणामी नित्यश्चेति हि भास्करीयो राद्धान्तः। नित्यत्वे तु सर्वदा सर्वज्ञानापत्तिः, ब्रह्माज्ञानानुपपत्तिर्वा, न वा ब्रह्मजिज्ञासोपपत्तिः। तथाचाहुरद्वैतरसिका :- "लौ किकवाक्यानां सिद्धार्थपरत्वसंभवेऽपि वेदान्तानां सिद्धूब्रह्मसद्धाव- बोधपर्यवसानेन फलवत्त्वमाश्रित्य विचारारम्भसमर्थनं न युक्तम् ; अज्ञाते शास्रमर्थवदित्यस्य सर्वानुमतत्वात्। त्वन्मते च ब्रह्मण्यज्ञातत्वस्य दुरुपपादत्वात्। तथाहि-इत्थं हि भवतो मतम्-सत्यज्ञानानन्दरूपम्, ज्ञानानन्दाद्य- संकोचगुणकम्, वेदान्तवेद्यम्, देशकालवस्तुपरिच्छेदशून्यम्, चितामचितामन्तः प्रविष्टं ब्रह्म। जीवास्तु ब्रह्मभिन्ना अणुपरिमाणाः, दीपवत् स्वप्रकाशज्ञानानन्द- रूपा:, दीपप्रभावत् द्रव्यात्मकसंकोचविकासशालिज्ञानानन्दगुणकाः, अपहृत- पात्मत्वादिब्रह्मसमानधर्माणः। तत्र नित्यसिद्धानां नित्यसिद्धं निर्दोषत्वम्। गुणाश्च ब्रह्मगुणेभ्यः किञ्चिन्न्यूनाः। सर्वेडपि तत्तुल्या वा। तदपि ब्रह्मनित्येच्छाधीनम्।
पापरूपानाद्यविद्याप्रतिबन्धककृतं ज्ञानं प्रमाणजन्यमनोवृत्तिद्वारा विकसितं सत् तत्तद्विषयसंबन्धेन जीवस्य तत्तदनुभावकं ब्रह्मोपासनाजन्येश्वरानुग्रहादविद्या- निवृत्तौ निरतिशयविकासतो ब्रह्मणो जीवस्य तद्रुणानां च कार्त्स््येनावभासकं मुक्त्तावाविर्भवतीति॥
Page 247
शब्दप्रमाणम् १९१
तत्र कोडयं संकोच: १ येन मुक्ताविव संसारदशायां जीवस्य ब्रह्म न भासते :- किं संयुक्तानामवयवानां निबिडसंयोगेनावयविनो Sल्पदेशव्यापित्वम् 2 विषयसंबन्धविरोधिव्यवधायकवत्त्वं वा 2 विषयप्रकाशाजनकत्वं वा 2 अस्पष्टतया विषयप्रकाशत्वं वा 2 किंचित्प्काशमानत्वेSप्यप्रकाशमानस्वीयरूपान्तरवत्त्व वा 2 प्रतिबद्ध विषयम्काशनशक्तिमत्वं वा 2 नाद्यः; ज्ञानस्य जीवधर्मस्य नित्यत्वेनापूर्वावयवोपचयापचयासंभवात्, मुक्तिकालीनानंत विकासप्रयोजकानन्तावयवानामाकुंचित कूर्माङ्गवत् वळितपट्टवच्च निविडसंयोगादल्पदेशव्यापित्वेन व्यवहितघटाद्यप्रकाशत्वेऽपि स्वसंयुक्तवस्तु- प्रकाशनशक्त्यपरिलोपात, जीवान्तःप्रविष्टब्रह्मसंयोगस्य नित्यसिद्धत्वात्, मुक्ति- कालीनानुभाव्यस्यानन्दाद्यनन्तगुणकस्य ब्रह्मणो जीवनिष्ठधर्मधर्म्युभयात्मका- नन्दापहतपाप्मत्वादिगुणस्य च संसारदशायामपि प्रकाशप्रयुक्तेर्दुष्परिहरत्वात्, प्रत्युतानावृतदीपप्रभामध्यस्था पेक्षया घटावृतदीपप्रभामध्यस्थवस्त्वन्तराणामविस्पष्ट- प्रकाशदर्शनात्।। न द्वितीयः ; ब्रह्मनिष्ठजीवादष्टरूपाविद्ययाSमूर्तया घटादिवद्यवहारा- संभवात्, तथा सति ब्रह्मधर्माणामपि व्यवधानापत्ते., ब्रह्मणो जीवतद्धर्मेष्वनु- प्रवेशाभावप्रसंगात्। किश्च घटादिप्रतिबन्धनिवृत्तौ संकुचितप्रभाया गमनद्वारा देशान्तरसं- बन्धदर्शनवत् ज्ञानस्यापि क्रियां विना दूरस्थविषयसंयोगासंभवात् ज्ञानविकासे जीवस्य कर्तृत्वांगीकाराच्च विकारित्वापत्त्या विनाशादिप्रसंगः। किंच ब्रह्मणो निर्विकारत्वात् तस्मिन् निग्रहरूपजन्यगुणासंभवान्न कर्मणो मिथ्यात्वं संभवति॥ न च ब्रह्मणोऽप्यप्राकृतदेहेन्द्रियगुणकर्मागी का रात्तदत्तिरूपनिग्रहादि- संभवः ; तस्य तादृशसूक्ष्मस्थूलदेहादावहमनुभवासंभवेन तस्य तद्वत्तायोगात्। अहंप्रत्ययो हि जीवब्रह्मणोः केवलात्मगोचर एव। जीवस्य तु देहाहावहमभि- मान: प्राकृताहंकाराहंकारित इति भवतो मतम् ॥
Page 248
१९२ अद्वैततत्त्वशुद्धि
न च ब्रह्मण: प्राकृताहंकारोडस्ति, येन देहादावहमभिमानः सिद्धयंत्, तत्सत्त्वे वा तस्यापि आ्रान्तत्वापत्तेः। अतो न ब्रहमनिष्ठप्रीत्यप्रीत्याख्यकर्मरूपा- विद्यया व्यवधानं संभवति। संभवेऽपि वा न घटादीनां व्यवहितत्वं संभवेत्॥ किंच-ब्रह्मतद्धर्माणां ब्रह्मानुप्रवेशादेव सर्वस्य वस्तुत्वं शब्दवाच्यत्वं चेति वदता जीवे तदुपादाने च ब्रह्मानुप्रवेशस्यावश्यं वाच्यत्वात्तव्यवधाना- संभवात्, मुक्तिसंसारयोरविशेषापत्तिः । ननु-न कर्मरूपाविद्यया साक्षाद् व्यवधानं बूपः, किन्तु जीवः स्वकर्म- सहकृतेनेश्वरेण प्रकृतिपरिणागलिङ्गशरीररपमंजूपां प्रवेशित घटस्थदीपवत्तदा-
तत्तदेहानुगुणविहितनिषिद्धाचरणः कुलालचकवञ्द्रमति। अतस्सूक्ष्मदेहस्यैव सौक्ष्म्याद्यवधायकत्वम्। मुक्तौ तन्निवृत्त्या ज्ञानस्य निरतिशयविकासो जायत इति बूम इति-चेत्, न ; तथापि जीवधर्मलिंगशरीरेष्वनुप्रविष्टस्य ब्रह्मणो लिंग- शरीरेण व्यवधानासंभवात्, अन्यथा जीवस्य तज्ज्ञानस्य च परस्परव्यवधाना- पत्त्या स्वरूपप्रकाशोऽपि न स्यात् ॥ न तृतीयः ; विषयप्रकाशात्मकज्ञानस्य प्रकाशान्तराजनकत्वात्, अन्यथाऽनवस्थापत्तेः, विषयगतज्ञातताया अनंगीकाराच्च। न चतुर्थः ; अस्पष्टतया व्यवहितविश्रकृष्टसकलज्ञानापत्तेः, अस्पष्टत्वस्य विषयनिष्ठसकलयोग्यधर्माप्रकाशरूपत्वेन किंचिद्धर्माप्रकाशेऽपि बहुधर्मविशिष्ट- ब्रह्मण: प्रकाशापत्ते: ।। किश्च दीपप्रमाया विरळाया अस्पष्टप्रकाशत्वम्, तैलादिविशेषाद- वयवान्तराकलनात् स्पष्टप्रकाशत्वं च युक्तम्, न तु ज्ञानस्य ; अवयवान्तरो- पचयापचयासंभवात।। नापि पञ्चमः, ज्ञानस्य प्रकाशान्तराजनकत्वेन तदनुकूलशक्त्ेरभावेन
Page 249
शब्दप्रमाणम् १९३
ननु-संकुचितधर्मरूपज्ञानस्य विषयासंभवात् तद्यवहाराजनकत्वम्। तत्तद्विफासकसामग्रीसमवहितस्य तु तत्तद्विषयप्रसाररूपविकसनेन तत्तव्यवहार- जनकत्वम्। तदेव प्रकाशकत्वम्। अत एव प्रकाशप्रसारानुत्पत्तिभेव तिरोधानभूता: कर्मादयः कुर्वन्तीति वेदार्थसंग्रहग्रन्थेन विकासप्रतिबन्ध एवा- विद्यया क्रियत इति-चेत्, एवमपि व्यवहितानां घटादीनां प्रकाशो नित्यम- वयवोपचयापचयशून्यं कार्त्स््येन विद्यमानमीश्वरानन्दादपकृष्टत्वेन शतश उत्कर्ष- परमावधि हिरण्यगर्भपरमानन्दसदश संकोचादल्पपरिमाणमपि परमातिशयं स्वप्रकाशमनुकूलज्ञानद्वाराऽडनन्दरूपं नित्येन संयोगसंबन्धेन जीवस्य 'जाना- म्यहम्', 'सुख्यहम्', इति व्यवहारापादकं सुप्तावपि प्रकाशमानं मुक्ताविव किमिति न भासते2 कुतो वा स्वान्तप्रविष्टं विकासमनपेक्ष्यैव स्वसंबन्धं स्वरूपतो गुणतश्च निरतिशयानन्दम्, अस्थूलत्वाद्यपहतपाप्मत्वाद्यखिल- निषिद्ध सिद्धस्वरूपं ब्रह्म न भासयति ? अल्पदेशव्यापिना ज्ञानेन परिच्छिन्नस्य ब्रह्मणः कार्ल्येन संयोगा- भावादिति चेत्, निरवयवके ब्रह्मणि कात्र्न्यभावस्य दुरुपपादत्वात्, घटादा- वेकदेशसंयुक्ेनापि चक्षुषा घटतद्रुणजात्यादिप्रकाशदर्शनेन जीवप्रदेशे ब्रह्म- संयोगस्यैव कृत्स्नसंयोगत्वात्, अन्यथा मुक्तावपि कार्त्स्न्यस्य सर्वावयवत्वा- वच्छिन्नरूपस्यासंभवात्, जीवज्ञानस्य कृत्स्नस्यावयवयावच्छेदेन संसारेडपि ब्रह्म- संयुक्तत्वात्, ब्रह्मधर्माणामपि ब्रह्मणि व्याप्यवृत्तितया निरवयवत्वेन च तत्संबन्ध- स्यापि नित्यसिद्धत्वात्, जीवतद्धर्मानुप्रविष्टानामपि ब्रह्मवद्धर्माणां तदसंबन्धस्य दुरुपपादत्वात्, अपरिच्छिन्नतया ब्रह्मानुभवाभावेऽपि परिच्छिन्ने जीवप्रदेशे ब्रह्मानुभवस्य दुष्परिहरत्वाच्च॥ किंच जीवस्याणोरपि ज्ञानानन्दस्वरूपत्वमपहतपाप्मादिमत्त्वमभावस्या- धिकरणात्मकत्वं च तवाभिमतम्। ततस्तत्सर्वं संसारे कुतो न भासते? न हि जीवस्वरूपं धर्मरूपज्ञानापेक्षं स्वप्रकाशम्; तथा सति परप्रकाश्यतया तार्कि- कात्मवज्जडत्वापत्तेः, न तरां तद्विकासापेक्षम् ; नित्यसंबन्धत्वात् । 13
Page 250
१९४ अद्वैततत्त्वशुद्धि:
नित्यत्वं संकोचविकासशालित्वं च धर्मभूतस्य व्याहतम्, आर्हतमत- प्रवेशापत्तेः, तदभावस्याज्ञानत्वानुपपत्तेश्। सर्वं चेदं शतभूषण्यां विशदम्। न च तत्र ज्ञानमुत्पन्नं नष्टमिति प्रतीतिरुपपद्यते। तस्य संकोचापेक्षयाSनित्यत्वं तु निरस्तमेव। अतोऽन्तःकरणपरिणामः तद्धर्मश्व ज्ञानरूपो धर्मः, येनात्मनो ज्ञातृत्वमिति वक्तव्यं सांख्यमत इव। यदि चैवम्, अन्तःकरणघर्मेण ज्ञानेना- त्मनो ज्ञातृत्वं तदुपाधिकत्वेनैव, इति ज्ञातृत्वमात्मनो नात्मत्वेन, अहमर्थस्य त्वौपाधिकमिति फलति॥ आश्रयविषयापेक्षा तु लौकिकानुभूतीनामेव, न स्वरूपज्ञानस्येति प्रागे- वोपपादितम्। लौकिकानुभूतय एवान्तःकरणवृत्तिपदेन व्यपदिश्यन्ते, तदव- च्छिन्नं चैतन्यमेव वा। तदाश्रयत्वं चात्मन, पूर्वोक्तविधयाऽन्तःकरणतादा- त्म्यपरिनिष्पन्नस्याहमर्थस्यौपाधिकस्य, न तु संविद्पस्य। न त्वेकान्ततो निराश्रयं निर्विषयं च स्वप्रकाशम्, किन्तु सर्वाधिष्ठानत्वात् सर्वाश्रयं सर्वविषयं च, परं त्वध्यासमात्रेण। न तु तस्याश्रयान्तरं किमपि संभवति; निराश्रयत्वाद् ब्रह्मण:, अन्यथाऽनवस्थानात्। सर्व स्वकारणमेवाश्रित्यावतिष्ठते। न च ब्रह्मणः किमपि कारणमस्ति। जन्यज्ञानस्याश्रयं त्वन्तःकरणम्, तदुपाधिकत्वेन त्वहमर्थ इति सर्व गतमधस्तात्। सविद्रपं हि ब्रह्म निराश्रयम्। सविषयकत्वं तु तस्य तत्र सर्वस्याध्यासेन। तावन्मात्रेण ब्रह्मण. सर्वज्ञत्वं तु भामतीप्रस्थाने, विवरणमते तु मायावृत्त्याश्रयत्वेनैव सर्वज्ञत्वमित्यादि व्यक्तमन्यत्र ॥ अयमत्र निष्कर्ष :- ज्ञानं द्विविधम्-स्वरूपज्ञानम्, धर्मभूतं ज्ञानं चेति। घर्मत्वं च ज्ञानस्यान्त,करणपरिणामत्वेन, तच्चान्तःकरणस्यैव मुख्यम्, अज्ञानविरोधि, न त्वधिष्ठानं सवप्रकाशं च ब्रह्मरूपम्। तद्धयज्ञाननिवर्तकं तदा कारतामात्रेण प्रमाणजन्यम्। अज्ञाननिवर्तकत्वादस्य ज्ञानत्वमन्त.करणपरि- णामत्वेऽपि। तत्परिणामिकारणस्य चान्तःकरणस्य तैजसत्वात् सूर्यादि किरण वत् स्वतोऽपि स्वोपहितांशमात्रगताज्ञानावस्थाविशेषनिवर्तक त्वात्परका शत्वाच्च
Page 251
शब्दप्रमाणम् १९५
तद् ज्ञानमिव। तत्र घटं जानामीत्यादिस्थले ज्ञाधात्वथोंऽन्तःकरणपरिणामवृत्ति- रेव, उपचारात्। तत्राहमर्थस्यौपाधिकं तदाश्रयत्वमादाय ज्ञातृत्वमित्यादि पूर्व- मेवोपपादितम्॥ तत्राहमर्थेऽन्तःकरणेनैवाज्ञानावस्था निवृत्तर्वृत्तेरहमंशप्रकाशकार्ये न व्या- पार। तत्राश्रयत्वं वृत्तिमात्रमादायापि निर्वहति। घटादिविषये तु वृत्तेरा- कारताख्यविषयतासंबन्धेन तद्विषयतापादकत्वमात्रम्। घटादिस्तु विषयतया तदाश्रयः । अन्तःकरणम्, अत एवाहमर्थ एव ज्ञाता, न तु घटः। अन्यत्रापि विषयतयाSS- श्रयस्य विषयत्वेनव व्यपदेशः, न तु ज्ञातृत्वेन। तदाश्रयत्वं हि तदुपादेयत्व- निबन्धनम्। न च विषयो वृत्तिज्ञानस्योपादानम्। अत एव विषयतासम्बन्धेन विषयसंबन्धेऽपि 'अह जानामी' तिवद् घटो जानातीति न प्रयोगः। ब्रह्मज्ञानेऽ- प्ययमेव न्यायः । इयान विशेष :- साक्षात् ब्रह्माश्रयत्वात् तद्विषयकत्वाच्च तदाकारतामात्रेण वृत्तिरज्ञाननिवर्तनक्षमा, घटादिस्थले तु घटस्याज्ञान- कार्यस्याज्ञानाश्रयत्वविषयत्वयोरभावात् घटावच्छिन्नचैतन्यगताज्ञानमेव वृत्त्या निवर्तनीयम्। वृत्तिस्तु घटाकारा, न तदवच्छिन्नचैतन्याकारा। अतो घटाकारवृत्तिर्घटावच्छिन्नचैतन्यांशस्य, स्वस्मिन् प्रतिफलनद्वारा घटस्य तदवच्छिन्नचैतन्यगताज्ञाननिवृत्तिद्वारेण च प्रकाशमादघाति। तथाच घटं जानामीत्यादौ वृत्त्यवच्छिन्नचैतन्यसबन्धेन घटस्य परम्परयाऽज्ञातस्य पर- म्परया ज्ञानम्, न तु ब्रह्मण इव साक्षात्। उभयत्रापि स्वोपादेयवृत्त्याश्रया- न्त.करणतादात्म्येनैवाहमर्थस्य ज्ञातृत्वम्, न तु वृत्त्यवच्छिन्नचैतन्याश्रयत्वेन। वृत्त्यवच्छिन्नचैतन्याश्रयत्वेन त्वौपचारिकमेव। सति चैवम्-घटावच्छिन्नचित्प्ति फलनसंबन्धेन विषयत्वमात्रम्, नतु तदाश्रयत्वम् ; वृत्त्याश्रयतादात्म्यप्रयुक्त- वृत्त्याश्रयत्वस्यैव तदाश्रयताप्रयोजकत्वात्, इति विषये चैतन्यप्रतिफलनार्य- संबन्धातिरिक्त एवाश्रयसंबन्धः । अत एव 'स जानाती'ति न प्रयोग:, अहं
Page 252
१९.६ अद्वैततत्त्वशुद्धि:
जानामीत्येव प्रयोग्च, इति न परमार्थप्रकाशिकापादितस्य घटो जानातीति प्रयोगप्रसङ्गस्यात्रावसर: ॥ वृत्तिसम्बन्धापादितखच्छता कघटादौ तदाकारवृत्तौ वा प्रतिफलनं ज्ञान- स्य विषयेण संबन्धः। अहमर्थस्य तु स्वयं सर्वदाप्रकाशस्य चैतन्यस्य घटा- कारवृत्तिप्रतिफलनापेक्षो न ज्ञानसबन्धः, किन्तु परम्परया वृत्त्याश्रयत्वरूपः संबन्धः, इति नैकरूपः संबन्धो ज्ञानस्य विषयेण घटादिना, ज्ञात्रा चेति वस्तुस्थिति: ।। अत्रान्त:करणेन्द्रियत्वचर्चा नोपयुज्यते, विषयावच्छिन्नचैतन्यामिन्न- वृत्त्यवच्छिचैतन्यत्वं प्रत्यक्षलक्षणमिति तदनिन्द्रियत्वपक्षमादायैव प्रवर्तनात् विषयाकारवृत्त्यवच्छिन्नचैतन्यस्य स्वावच्छेदकवृत्त्याकारापेक्षा विषयापेक्षयेति निष्कर्षः । वृत्तेर्विषयाकारता त्वनुभवसिद्धा। तथापि घटस्य साक्षादज्ञा- तत्वाभावात, अज्ञातचैतन्यावच्छेदकत्वादेवाज्ञातत्वात् परम्परयैव ज्ञात- त्वमपि निर्वहणीयम्, इति तदवच्छिन्नचैतन्यवृत्त्यवच्छिन्नचैतन्यपर्यन्तानु धावनम्। वृत्तः शुद्धचैतन्याकारत्वं प्रागत एव व्याख्यातम्। साक्षात्परम्परया वाऽज्ञानोपहितस्य वृत्त्योपधानमेव तदाकारतापदार्थः, इति जडत्वेऽपि वृत्तेस्तदाकारता न विरुध्यते॥ यत्त-विषयसम्बन्धात् प्रागेवान्त करणवृत्त्यवच्छिन्नत्वसिद्धया तद- तिरिक्तस्य चाश्रयत्वस्याभावेन विषयसबद्धचैतन्यमाश्रयापेक्षमिति दुर्वचम्- इति, तत्र वृत्त्यवच्छिन्नचैतन्यस्यैवाश्रयविषयापेक्षत्वस्य लोकसिद्धत्वाद् विषयावच्छिन्नचैतन्यस्य विषयाश्रयापेक्षत्वस्यासंभवाद् नात्रोक्तायाइशक्काया उत्थानमपि। विषयसबन्धात् प्रागेव वृत्त्यवच्छिन्नत्वस्य सिद्धतयेति त्वन्तःकरण स्य विषयेण संबन्धानन्तरमेव तदाकारवृत्तेः स्वीकारात् चैतन्यस्य तदवच्छिन्न त्वमात्रेणाश्रयापेक्षानिर्वाहेऽपि विषयापेक्षानिर्वाहार्थ विषयावच्छिन्नं चैतन्यमपि तत्र प्रतीयत इति न दोष:।
Page 253
शब्दप्रमाणम् १९७
तत्र वृत्तेः साक्षादन्त:करणधर्मत्वम्, परम्परया त्वमहर्थघर्मत्वम। तेन चाहमर्थस्य ज्ञातृत्वमौपाधिकमिति प्रागेवोपपादितम्, इति परम्परया वृत्त्याश्रय- त्वेन, वृत्त्याश्रयान्त:करणतादात्म्याद्वा ज्ञातृत्वमहमर्थस्योपपद्यते। तत्र ह्यर्थस्या- न्तः करणोपाधिसम्बन्धाधीनसिद्धिकस्यैव प्रथमं प्रतीतिः। देहेन्द्रियादिनां त्वन्त :- करणोपहितशुद्ध चैतन्याध्यस्तानामपि तदधिष्ठानस्यान्तःकरणाश्रयत्वादेवाहं प्रतीति:, इति कथमन्तःकरणावच्छिन्नस्याहमर्थस्य न प्रतीतिः2 तत्राविद्या- प्रतिबिम्बो जीव इत्यनेनानेकाविद्यावादे, अविद्यावस्थाविशेषस्यैव जीवोपाधि- त्वात् तत्प्रतिबिम्ब एव जीवः। तदैक्यवादे त्वविद्याया अनादिसिद्धपरिणामान्तः- करणप्रतिबिम्बो जीवः, इत्येकमुक्तौ सर्वमुक्तिशक्कापरिहारार्थ प्रस्थानभेदमात्रं तत्तदाचार्यानुभवसाक्षिकम्। अविद्याप्रतिबिम्बवादेSविद्याप्रतिबिम्बस्यौपाधिक- स्याहमर्थत्वम्, इत्यन्तःकरणावच्छिन्नचैतन्याहमर्थतावादस्यैव सर्वानुभवसिद्ध- त्वाद् नान्त:करणावच्छिन्नचैतन्याहमर्थतावादस्य कुत्रापि परित्यागः॥ एतेन-अविद्याप्रतिबिम्बो जीव इति पक्षेऽन्त करणगतस्याहमर्थज्ञा- तृत्वस्यात्मन्यारोपेऽहं जानामीति प्रतीतिर्न साधिका, अहमोऽन्त करणा- वच्छिन्नचैतन्यपरत्वात्। कथंचित् प्रतिबिम्बग्रहणेऽपि तस्याविद्याप्रतिबिम्ब- स्यान्त करणवृत्त्यवच्छिन्नचैतन्याश्रयत्वमपि दुर्घटम्। अत आत्मैवाहमर्थ इति-परास्तम् ॥ न ह्यन्तःकरणमहमर्थो ज्ञाता वा, किन्त्वहमर्थोपाधिः। स चाविदया- प्रतिविंबादेऽप्यविशिष्टः। सर्वथा त्वात्मा, अन्त.करणं वा नाहमर्थः, किन्त्वन्तःकरणावच्छिन्नं विशिष्टं चैतन्यमेवाहमर्थ इति सुस्थम्।। "विज्ञातारमरे केन विजानीयात्" इति त्वौपाधिकज्ञानाघिष्ठानं स्वरूपज्ञानमात्रं केन जानीयादिति बोधयति, न तु मुख्यात्मनो ज्ञातृत्वमपि। अन्यथा विज्ञातुर्ज्ञानाश्रयस्य स्वाश्रितज्ञानेनैव सिद्धत्वात् कथं "विजानी- यादि"ति सङ्गतः १ अतो ज्ञायते साश्रयसविषयातिरिक्त्तसंविन्मात्रविषय एवायं प्रश्नः। अतोऽहमर्थो ज्ञातैव प्रत्यगात्मेति निश्चितम्, इति वचनं
Page 254
१९८ अद्वैततत्त्वशुद्धि:
त्वहमर्थस्यान्तःकरणावच्छिन्नचैतन्यस्थैवोक्तविधया ज्ञातृत्वम्, न त्वन्तःकरण- मात्रस्य, चिन्मात्रस्य वेत्यद्वैतसिद्धान्तोपष्टम्भकम्। तत्राहमर्थो जीवो वा भवतु, ईश्वरो वा ; तत्र ज्ञातृत्वस्याद्वैतिभिरपि स्वीकारात्। अत्र जीवेश्वरपदाभ्यां न चेतन्यांशः, न वोपाधिर्गृद्यते, किं- त्वविशिष्टमिति न कोऽपि व्याघातः । तत्राहमर्थस्य प्रत्यगात्मत्वमपि प्रत्यगा- त्मन्यध्यासेन तत्तादात्म्यादुपपद्यते। इदं हि वचनम्-आत्मनो न ज्ञातृत्वम्, किं त्वहमर्थस्यैव विशिष्टस्य। अहमर्थ एव ज्ञाता, प्रत्यगात्मा च। शुद्ध प्रत्यगात्मस्वरूपं तु नाहमर्थो, न वा ज्ञातृ इति तदर्थः। अन्यथाऽहमर्थस्यैवात्मत्वे तऽज्ञातृत्वेऽविवादात् ज्ञातैवेति तस्य ज्ञातृत्वर्णनं किमर्थम् ॥ यत्तु-अद्वैतमते ज्ञातृत्वादेरात्मत्ववैयधिकरण्यं स्वीकृतम्, इति तत्प्रतिषेधार्थ सामानाधिकरण्यम्-इति, तत्राहमर्थे न ज्ञातुः सामानाधिकरण्यं वितथम्, अहमर्थपदवैयर्थ्थ च। न चेदंपदमात्मस्वरूपोपस्थापनार्थम्; प्रत्यगात्मपदेनैव तस्य गतार्थत्वात्। अहमर्थातिरिक्तो ज्ञाता नास्ति। स च प्रत्यगात्मेति सुष्ठु लगन्ति सर्वाणि पदानि, सप्रयोजनानि च ॥ यथाच परमते नित्यधर्मभूतज्ञानाश्रयत्वेन ज्ञातृत्वं दुरुपपादम्, तथाऽ- न्यत्र व्यक्तम्। तत्र परमतेऽपि स्वरूपज्ञानं नाश्रयविषयापेक्षमद्वैतमत इव, आश्रयविषयापेक्षं तु धर्मभूतं ज्ञानम्। तदप्यलौकिकम्, न तु लौकिकम्। तच्च ज्ञानं साश्रयविषयम्, स्वयमविषयश्चेति विषयस्यैवाश्रयत्वात्, कथं न घटादिकमपि तस्य नाश्रयः, कथं च घटो जानातीति न प्रयोगः। न चाद्वैतमत इवान्तःकरणस्यैवोपादानत्वादाश्रयत्ववत् स्वरूपज्ञानस्यैवाश्रयत्वे किमपि प्रमाण- मस्ति। दृष्टान्तत्वेनाभिमतयोः प्रभाप्रभावतोः प्रभायाः प्रदीपाश्रयत्वमिव प्रकाश्यगृहाद्याश्रयत्वमपि वर्तते। विषयत्वं च विषयाणां जडायाः प्रभाया, कथम् 2 कीदशं वा विषयत्वं प्रभानिबन्धनं गृहादीनाम्, इति घटो जानातीति प्रयोग: कथं न भवति धर्मभूतज्ञानेनैव विषयाणां भाने।।
Page 255
शब्दप्रमाणम् १९९
तत्र यथा प्रभावतो नाश्रयापेक्षा, एवमत्र स्वरूपज्ञानस्यापि नाश्रयापेक्षेति समानमनुभूतित्वेनैकजातीयत्वेऽपि लौकिकानुभूतीनां संविद्रपानुभूतेश्र। तत्र 'घटमहं जानामि' 'पटमहं जानामी'त्यादिषु प्रतीयमानं ज्ञानमेकं वा, अनेकं वा। आद्ये पूर्वज्ञानेनो त्तरज्ञान निर्वाहापत्तिः, एकस्यैव ज्ञानस्याज्ञाननाशकत्वात् घटपटादिज्ञानानामेकत्वापत्तिश्र। अवस्थाभेदेनानेकत्वे नित्यत्वानुपपत्तिः । न च प्रकृतिरिव धर्मभूतज्ञानमपि विषयात्मना परिणमते। तथा सति हि विज्ञानवादापतिः, जानामीति निर्दिष्टधर्मिज्ञानातिरिक्तधर्मभूतज्ञानाङ्गीकारः किमर्थः । धर्मधर्मिभावनिर्वाहार्थ चेत्, सममद्वेतमतेऽपि; संविदतिरिक्तधर्म- भूतज्ञानाङ्गीकारेणैव निर्वाहात्। तस्य जडत्वानुमाने तु धर्मभूतज्ञानं वा कथमजडम्। नियमेनात्मसम्बन्धादिति चेत्, समं प्रकृतेऽपि। कथं वा नैयायिकमते ज्ञानं न जडम् ; अचेतनात्मधर्मत्वात् 2 यदि प्रकाशकत्वमात्रेण तथा व्यबहारः, तर्हि सममत्रापि। सर्वथा तु लौकिकानुभूत्यतिरिक्तनित्यसंविद्रपं ज्ञानं साक्षात्परम्परया वा वृत्तिरूपं धर्मभूतज्ञानं वोरीकर्तव्यम्, न त्वनुभूतित्वेन सर्वासामैक्यम्। अन्यथाऽज्ञाननिवर्तकाभावात् कुत्रापि जानामीति प्रतीतिर्न निर्वहेत्। तथा चानुभूतिरिति ज्ञानावगत्याद्यपरनामा सकर्मकोऽनुभवितुरात्मनः परम्परया धर्मोऽन्यः; साक्षात् घात्वर्थतां विना जन्यस्य धर्मभूतज्ञानस्य तद्धर्मत्वायोगाद्। स च सकर्मकः। अन्या च संविद्पाऽनुभूतिः, या निर्विषया, निराश्रया च प्रदीपवत्। घटं जानामीत्यादावपि परमत इव धर्मभूतज्ञानातिरिक्तोऽहमर्थ एव धर्मितया भाति। तत्राहमर्थान्तर्गततया संविदूपभानेऽपि वृत्तिरूपज्ञानधर्मित्वं न तत्र संविन्मात्रस्य, किन्तु विशिष्टस्यैव। न च तत्र घटादीनां तदवच्छिन्न- चैतन्यसम्बन्धातिरिक्तोSहमर्थघटकसंवित्संबन्धस्तत्र समस्ति। तथाच घटमहं जानामीत्यादौ संविदरपातिरिक्तानुभूतेर्न भानमिति परमार्थप्रकाशिकायामद्वैत- सिद्धान्तोपदेशः स्वीयानामेव शोभेत, नाद्वैतसिद्धान्तपरिनिष्ठितानाम्।
Page 256
2०० अद्वैततत्त्वशुद्धि:
तत्र घात्वर्थतया प्रतीयमानं सकर्मकं ज्ञानमुभयत्र स्वरूपज्ञानातिरिक्तमेव। तस्य प्रभाया इव साश्रयत्वसविषयत्वनियमः परमत इवाद्वैतमतेऽप्यव्याहतः। संविद्पायास्तु प्रदीपस्येव न साश्रयत्वसविषयत्वनियमोडद्वैतमतेऽपि। "सत्यं ज्ञानमि"त्यादिवाक्यप्रतिपादितं संविदूपं तु निर्विशेषमेव। तत्र यदि परमते प्रदीपस्येव निराश्रयत्वं साक्षान्निविषयत्वं च स्वरूपज्ञानस्य, तर्हि किमपराद्धमद्वैतमतेन निर्विशेषस्वरूपवादिना ? लौकिकानुभूतिव्यतिरिक्त संविद्रपमद्वैतसिद्धान्तेऽपि न स्वीक्रियत इत्यसदनुवादः। यदि वृत्तिरूपज्ञानस्या- द्वैतमते मुख्यज्ञानत्वं नोरीक्रियते, तावता किम्2 औपचारिकं वृत्त्यवच्छिन्नं संविद्रपातिरिक्तमेव तत्र भासताम् १ तस्यैव धात्वर्थत्वात्, स्वरूपज्ञानमात्रस्य परमत इव धात्वर्थत्वाभावात्।। तत्र लौकिकानुभूति: धर्मभूतज्ञानं वा सविषयम्, न तु विषयाकारम्, स्वरूपज्ञानं तु न तथा मतद्येऽपि। तत्र निर्विशेषत्वमद्वैतमते स्वरूप- ज्ञानस्य, इति कथ ज्ञानाकारार्थवादिनां निरासे न प्रतीयमानस्य ज्ञानसविषय- त्वस्योपेक्षा 2 प्रवृत्तिविज्ञानस्य लौकिकानुभूतिस्थानीयस्य हि निरालंबनत्वं योगाचारमते। न च तदद्वैतमतेऽपि। अनेनैव न्यायेन लोकसिद्धव्यवहार स्यापि घट जानामीत्यादेः सविषयस्य न बाधः। न च वास्तवज्ञानं स्वरूपज्ञानं मतद्येऽपि घटं जानामीत्यादौ साश्रयविषयकतया व्यवहारसिद्धम्, किन्तु लौकिकानुभूतिरेव तथा। सविषयकत्वं तु प्रभास्थानीयाया लौकिकानुभूतेरेव।। न च साश्रयं सविषयं च प्रदीपस्थानीयं स्वरूपज्ञानम्। तच्चात्मस्वरूप- मेवेति संप्रतिपन्नम्। यदि चात्मन्येव ज्ञानशब्दो रूढ: परमते, तर्हिं समानमेतदद्वैतमतेऽपि। घटोऽनुभूयत इत्यादावनुभूतिर्नात्मस्वरूपम्, किन्तु वृत्त्यवच्छिन्नं चतन्यम्। न स्वरूपं घटाद्यनुगतं सच्छब्दस्यैवार्थः। सत्त्वं हि परोक्षापरोक्षसाधारणं ब्रह्मस्वरूपम। 'सन् घटो भाती' त्यत्र चिदात्मनोऽपि सतोऽनुवर्तमानत्वं विवक्षितम्, सत एव चिदूपत्वात्।
Page 257
शब्दप्रमाणम् २०१
सविदात्मेति संप्रतिपन्नम्, धर्मिण्यविप्रतिपत्तेः। तम्याहंरूपत्वे परं विप्रतिपत्तिः। आत्मस्वरूपं च संविन्मात्रं नित्यं लौकिकज्ञानविलक्षणमित्यसकृदा- वेदितम्। परमते यद् धर्मभूतं ज्ञानम् तदद्वैतमते लौकिकं वृत्तिरूपं ज्ञानम्, इति न तस्य साश्रयविषयस्य प्रभास्थानीयस्यात्मत्वमद्वैतमतेऽपि, येन तद् बाधितं स्यात्। स्वयंप्रकाशात्मसरूपा संवित ॥ स्वयंप्रकाशत्वं तु तस्या अनन्याधीनस्वप्रकाशत्वम्। घटादेस्त्वन्याधीन- प्रकाशत्वाद् न तत। न हि विषयसुखादिकमन्तःकरणपरिणामविशेषः प्रकाशो नाम 2 न हि सुखमपि ज्ञानविशेष:। धर्मभूतज्ञानमेव सुखमपीति चेत्, को वा विशेष: सुखदुःखयोः घटादिज्ञानस्य च। तत्खप्रकाशत्वे तु सुखादेः सर्वदा भानापत्तिः ।। यत्तु-सविद आत्मत्वेऽहमर्थस्य तत्रारोपेऽनुभूतिरहमिति प्रतीति स्यात्-इदं रजतवदिशति, न पुनरनुभवाम्यहमिति विशेष्यविशषणभावेन इति, तत्र हि, अहमर्थोऽन्तःकरणावच्छिन्नं चैतन्यं घटाकाशवत्। तत्रा- धिष्ठानं संविद् आरोपितमन्तःकरणं च मिलितमेवाहमर्थः। न चाहमर्थस्य संविद्यारोपः, किंत्वघिष्ठानारोप्योभयरूपः सः। तदुक्तम्-"अन्योन्यस्मिन्नन्योन्या- त्मकतामध्यस्याहमिति व्यवहारः" इति। न हीदं रजतमित्यत्रेदंत्वविशिष्टस्याधि- ष्ठानारोपापेक्षा, येनाधिष्ठानारोपेणेदमः प्रतीति :- इदमिदं रजत मिति ; अनव- स्थापातात्, इति संविद्हमर्थारोपेणानुभूतिरहमिति प्रतीत्यापादनमघिष्ठाना- रोप्यभावव्यवस्थाविरुद्धम्। अनुभवाम्यहमित्यत्र त्वनुभवो घात्वर्थो न संविन्मात्रम्; तस्याघात्वर्थत्वात्, साश्रयसविषयलौ किकानुभूतिस्वरूपत्वात्तस्य। अहमित्यत्रा- लौकिकानुभूतिप्रकाशोऽप्यघिष्ठानोपपादकः, इति न तदर्थमनुभवामिपदघट- कानुभवोऽप्यधिष्ठानांश इति कल्पना, इत्यनुभवामिपदार्थघटकानुभवस्यालौकि- कानुभूतिरूपत्वाभावेऽपि नाहमिति अ्रमनिर्वाहापत्तिः, अनुभूतित्वेनैवानुभूते-
Page 258
२०२ अद्वैततत्त्वशुद्धिः
तत्र ज्ञातृत्वमिव कर्तृत्वमप्यन्तःकरणगतक्रियाश्रयत्वेन परस्परतादा- त्म्येन निर्वहति। ज्ञातृत्वं हि ज्ञानाश्रयत्वमात्रम्, न तु तदतिरिक्तं ज्ञानकर्तृत्वं नाम। एवं कर्तृत्वमपि क्रियाश्रयत्वमेव। तच्च ज्ञान परमते सकोचविकासाश्रयं धर्मिभूतज्ञानम्, धर्मभूतज्ञानमात्रं वा भवतु, उभयथापि न क्रियाश्रयः । अयमेव न्यायोऽन्रापि। अन्तकरणवृत्तिर्ह्यन्तःकरणपरिणामविशेषो द्रव्यमेव धर्मभूतज्ञानवत् , विकासावस्थापन्नमन्तःकरणं वा, इत्युभयत्रापि ज्ञानाश्रयत्वेनैव ज्ञातृत्वं वक्तव्यम्। अयमेव न्यायो नैयायिकमतेऽपि, यत्र ज्ञानं नाम गुणविशेषः, न तु क्रिया। इयान् विशेष :- गुणस्यापि जन्यत्वेन क्रियात्वोपचारात् तत्र ज्ञानस्य धात्वर्थत्वम्, एवमद्वैतमतेऽपि जन्यत्वाद् द्रव्यस्यापि क्रियात्वोप- चारेण धात्वर्थत्वम्। परमते तु धर्मभूतज्ञानसंकोचविकासयोर्जन्यत्वाद् धर्मभूत- ज्ञानस्य द्रव्यस्य क्रियात्वोपचारेण घात्वर्थत्वम्। अतो न ज्ञानं मानसी क्रिया। भामत्यादौ क्रियात्वोक्तिस्तु तस्य मनःपरिणामत्वाभिप्रायेण, न तु द्रव्यत्वप्रति- षेधेनोत्क्षेपणापेक्षेपणादिवत् क्रिया त्वेन।
न च संविन्मात्रं घात्वर्थः। व्यक्तं चेदमधस्तात। अहमर्थस्यैव ज्ञातृत्वं नान्त:करणस्येति। अचेतनान्तःकरणपरिणामवादः कथमिति शङ्का तु प्रकृति- परिणाम इवेश्वरस्य सर्वत्रान्तर्यामित्वेनाघिष्ठातृत्वेन परिहरणीया। अचेतनस्य देहादेरिवान्तःकरणस्यैव ज्ञातृत्वाच्चार्वाकमतप्रवेशापत्तिरिति शक्काऽप्यत एव नोन्मिषति॥
सर्वव्यापकस्यापि संविन्मात्रस्यान्तःकरणावच्छेदेन विशदावभासः, नान्यत्र। अत एवान्तःकरणस्य चतन्याभिव्यञ्जकत्वव्यपदेश.। यथा दर्पणादौ मुखस्य प्रतिफलनम्, नान्यत्र। "तदनुप्रविश्येति" ब्रह्मणः प्रवेशे हि तदवच्छे- देन विशदावभास इति हि तैत्तरीयोपनिषदि भगवत्पादाः। ततश्रान्तःकरण- प्रतिबिम्बे तदवच्छिन्ने वाऽहमर्थ एवान्तःकरणधर्मवृत्तेः सम्बन्घेनौपाधिकमह- मर्थज्ञातृत्वम्। ज्ञानस्याहंकारनिष्ठत्वं तु साक्षाद्वस्तुगत्याऽहंकाराख्यान्तःकरण-
Page 259
शब्दप्रमाणम् २०३
धर्मत्वेन। तत्र ब्रह्मचैतन्यस्याहंकारव्यञ्जकता हि नाखण्डरूपेण, किन्तु तद- वच्छेदमात्रेणाहंरूपेणैव। इदमेवान्त.करणस्य चैतन्याभिव्यञ्जकत्वं नाम। व्यंग्यत्वं तु विशदावभासमात्रम् । तत्रान्तःकरणं स्ववृत्तिद्वारा स्वावच्छिन्नचैतन्याभिव्यञ्जकमित्येकं प्रस्थानम्, अपरं तु प्रस्थानं वृत्तिं विना स्वयमेवेति। इदमेवाभिप्रेत्य प्रमाण- जन्यां वृत्ति विना साक्षिभास्यत्वं केवलसाक्षिवेद्यत्वमिति च विभागः। अत एवाहमर्थस्य सर्वदा भानम् ; साक्षिरूपत्वात् , घटादयस्तु जडा नाज्ञानाश्रयाः, न वा तद्विषयाः। उक्त्तं च --- आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति। तत्र घटाद्याकारवृत्तयो घटावच्छिन्नगताज्ञानविषयत्वनिवृत्तिद्वारा स्वस्मिन् प्रतिफलितचैतन्येन घटादीन् भासयन्ते। अत एव फलव्याप्यत्वं तेषाम्। न हि वृत्तिज्ञानानि घटाद्यज्ञाननिवृत्तिद्वाराऽखण्डाकारवृत्तिरिव साक्षात् घटादीन् भासयन्ति। इदमेवाभिप्रेत्याद्वैतामोदः-घटादिवृत्तिज्ञानान्यन्तःकरण उत्पद्य- मानानि घटादिगतमज्ञानकल्मषमपनयन्तीति-वदति, न घटादयोऽज्ञानाश्रय- विषया जडा अपीति। व्यक्तं च-सिद्धान्तलेशसंग्रहे-घटादिज्ञानानि घटा- वच्छिन्नचैतन्यगताज्ञानविषयत्वानि निवर्तयन्ति, नतु तदज्ञानम्। प्रातिभासि- करजतस्थलेऽपि रजतप्रतीतिदशायां तदसत्त्वापादकाज्ञानविषयत्वनिवृत्तिरज्ञानेन स्वीक्रियते, अन्यथा कथं सदिदं रजतमिति सदात्मना रजतप्रतीति: 2 अधिकं तु न्यायरत्नावलीतोऽधिगन्तव्यम्। तथाच घटादिज्ञानानि घटादिगतमज्ञान- कल्मषमपनयन्तीत्यस्य घटावच्छिन्नचैतन्यगताज्ञानविषयतावच्छेदकत्वं तस्या- पनयन्तीत्येवार्थः ॥ तत्रान्त:करणादेश्ववैतन्याभिव्यञ्जकत्वं स्वौपहित्येन, स्वप्रतिबिम्बत्वेन, वा। तत्रान्त्ये स्वनिष्ठत्वेनाभिव्यञ्जकत्वम्। आद्ये तु स्वोपधानेन, यथ
Page 260
२०४ अद्वैततत्त्वशुद्धि:
प्रदीपे घटादीना स्वोपधानेनेति विवेकः । तत्र प्रदीपो घटादीन् स्वोपधाने- नापि व्यञ्जयति। दर्पणादिकं स्वनिष्ठतयेति प्रत्यक्षम्। तत्र प्रदीपः प्रभाद्वारे- वान्त:करणमहमाकारवृत्तिज्ञानद्वारा चैतन्यमभिव्यञ्जयत्यवच्छेदवादे। प्रति- बिम्बवादे तु साक्षादभिव्यल्जयति। अथवा चक्षुरादिरश्मिप्रतिफलनद्वारैव वृत्ति- फलनद्वारेति विवेकः। अंहङ्कारस्य ज्ञानव्यञ्जकत्वमप्येवमेव। ज्ञानं चात्र न वृत्तिज्ञानम्, किन्तु ब्रह्मचैतन्यमिति पूर्वमेवोक्तम्। सर्वथा त्वात्मनोऽहमर्थ- स्यान्त:करणावच्छिन्नस्यौपाधिकं ज्ञातृत्वमप्रकम्प्यम्।। तत्र सविन्मात्रस्य स्वतः प्रत्यकत्वम्। अहमर्थस्य तु संविदोऽघिष्ठान- तथा प्रकाशेन। प्रत्यकृत्वं स्वप्रकाशत्वं वा संविन्मात्रस्यानहमर्थस्यैव मुख्यम्, अहमर्थस्य त्वधिष्ठानतया संविन्मात्रस्य प्रकाशेन। अहमर्थस्यैवात्मत्वे तु- सुषुप्तावपि तदनुभवापतिः। इदमत्र विविच्यताम्-किं सुषुप्तावहमर्थत्वं भाति, आहो अहमिति, अथवाऽन्यथा। तत्रन प्रथमद्वितीयौ, तदानी- महमिति प्रतीतेरनुभवविरुद्धत्वात्। यद्यपि स्वरूपज्ञानतयाऽहमर्थस्याहमर्थे भासमानेSहमर्थत्वमपि भासत इति सुवचम्, तथाऽपि स्वप्रकाशतया स्वरूप- ज्ञानमात्रं सुषुप्तावपि सर्वानुभवविरुद्धमासीदित्यत्र प्रमाणं वक्तव्यम्। तत्र 'सुखमहमस्वाप्समि'ति प्रबोधे परामर्शानुपपत्तिस्तत्र प्रमाणमिति चेन्, परामर्शो हि स्मरणं ज्ञाननाशजन्यसंस्कारोद्बोघाधीनं स्वप्रकाशस्व रूपज्ञाननाशजन्यसंस्का- राधीनं दुर्वचम्, सुषुप्तावात्मनाशापत्त्या प्रबोधकथाया एव व्याघातात्। स्मरणं हि धर्मभूतज्ञानसंको चलक्षणज्ञानप्रयुक्तसंस्काराधीनमेव घटादिस्मरणस्थले दष्टम्। न च तथा सुखविषयके स्वरूपज्ञानविषयके च विकसिते धर्मज्ञाने किमपि प्रमाणम्। सुषुप्तौ सुखमनुभवामीति कस्याप्यमनुभवाभावात्। अनुभवा- मीत्यपलप्यमानोऽनुभवो हि धर्मभृतज्ञानम्। स्मरणमप्यवस्थाविशेषापन्नं धर्मभूत- ज्ञानमेव, इति सुषुस्तौ धर्मभूतज्ञानाभावे स्मरणं निर्वोदुं न पार्यते। अत एव न तृतीय: ; अभ्युपगतं हि परमार्थप्रकाशिकयाऽपि-तृतीयः पक्षस्तु नेष्यत एवेति वदन्त्या।।
Page 261
शब्दप्रमाणम् २०५
अयं भाव :- सुषुप्तावपि धर्मभूतज्ञानं नित्यमस्तीति परसिद्धान्ते कथं न तेनात्मा प्रकाशते, न वा सुखमहमिति प्रथमं विवेचनीयम, येन संस्कारोद्बोधाद् जागरे स्मरणं स्यात्। तत्र यदि विषयसंबन्धाभावेन न प्रकाशः, तहींदं वक्तव्यम्-किं सुषुप्तौ स्वरूपज्ञानमपि नासीत्, तथा सुखं च। यद्योम्, तर्हिं कथं स्मरणमात्मनः, सुखस्य च 2 धर्मभूतज्ञानं साश्रय- विषयापेक्षमेव भायादिति हि भवतां सिद्धान्तः, इति विषयाभावे कथं तत्सत्ताऽपि सुषुपौ। तत्र यद्याश्रयापेक्षेव नियता, न तु विषयापेक्षा, त्हिं आश्रयविषयापेक्षमेव ज्ञानमिति प्रतिज्ञाभङ्ग: ॥ आस्तामिदम्-इदं विविच्यताम्। धर्मभूतज्ञानं नियतं स्वाश्रयं सुषुसौ प्रकाशयति वा, न वा। यदि प्रकाशयति, तर्हिं तेनैव विषयेण सविषयत्वं धर्मभूतज्ञानस्यायातम्। अन्यथा तदंशे जागरे स्मरणनिर्वाह: कथम् 2 कथं वाऽननुभूतस्य सुखस्य स्मरणम् 2 अन्यथा स्वरूपज्ञानमात्रस्य सवप्रकाशस्य संस्काराधायकत्वायोगात् सुखस्यापि धर्मभूतज्ञानविशेषस्याभावात् कथं तयोः स्मरणनिर्वाह:2 तदर्थ धर्मभूतज्ञानेन तद्ग्रहणाङ्गीकारे तु सुषुप्तौ जागर इव सुखमहं खवपामीत्यनुभवापत्तिः। न चेदं परेणापि स्वीक्तियते, इति सुखमहमख्वाप्समिति स्मरणानुपपत्त्या नाहंकारेणात्मनः प्रकाशः सिद्धयति॥ किंच यदि धर्मभूतज्ञानेन सुषुप्तौ न कस्यापि भानम्, तर्हिं तदा तदा- सीदित्यत्र किं मानम् 2 कुतश्र तस्य नित्यत्वम् 2 यदि "न विज्ञातुविज्ञाते- र्विपरिलोपो विद्यते" इत्यादिश्रुतिबलात् तन्नित्यत्वमभ्युपगम्यते, तर्हि सुषुौ धर्मभूतज्ञानं विकसितावस्थमेवासीत्, उत संकुचितावस्थमेव, उत सकुचित- विकसितोभयावस्थमुत्पद्यमानम्, विनश्वरं च। आद्ये न केवलमान्तराणाम्, किन्तु बाह्यानामप्यनुभवो धर्मभूतज्ञानेन मुक्तात्मन इव सर्वेषां स्यात्, इति जागरावस्थातो महीयसी सुषुप्त्यवस्थाडपद्येत। यदि संकुचितावस्थमेव, तर्हि का वा गतिः-"न विज्ञातुविज्ञातेरविपरिलोपो विद्यते" इत्याम्नायस्य। को वा
Page 262
२०६ अद्वैततत्त्वशुद्धि:
विपरिलोपः संकोचादपरो धर्मभूतज्ञानस्य 2 तृतीये तु न जागरात्सुषुप्तेविशेषः। ततश्ान्तःकरणधर्म एव धर्मभूतज्ञानम्। तच्च न नित्यम्। न च तत् सुपुप्तावस्ति, इत्यलौ किकमात्मधर्मभूतज्ञानमिति स्वीकर्तव्यम्, अविद्यावृत्तिरूपं वा सुपुप्त्यादि- साधारणम्। सति चैवं सुषुप्तौ सविन्मात्रस्य सुखखवरूपस्याविद्यावृत्त्या भानम्। तस्मिन्नंशे जागरे स्मरणम्, अहमंशस्य सुषुप्तौ न भानम्, तदंशे तु जागरपरामर्शेऽनुभव एवेत्यद्वैतसिद्धान्त एव सुष्ठु लगति॥ एतेन-सुषुप्तावनुभूतावेव न प्रमाणमिति-प्रत्युक्तम्, सुखमहम- स्वाप्समिति जागरपरामर्शस्यैवार्थापत्तिविधया तत्र प्रमाणत्वात। एतेन-ज्ञाधातुना धर्मभूतज्ञानमुच्यते। न च धर्मभूतज्ञानं किचि- द्विशेषणविकलमात्मानं ग्रृह्णाति, अननुभवात्, स्वप्रकाशे तादृशे तत्र तद्वैय- थ्याच्च। तत्राहमर्थविषयकधर्मभूतज्ञाननिषेधो विशेषणविशिष्टाहमर्थग्रहण- निषेध एव पर्यवस्यति। क्वचिदहमर्थ स्वयमेव ज्ञायते इत्यादौ ज्ञाधातुप्रयोग औपचारिक इति-परास्तम्। तत्र किश्चिद्विशेषण विकलस्यात्मनो धर्मभूतज्ञानेन न ग्रहणम्, स्वप्रकाशे केवल आत्मनि धर्मभूतज्ञानवैयर्थ्यात्। विशेषणविशिष्टाहमर्थग्रहणनिषेवश्च निरुप्यमाण :-- सुषुप्तावहमर्थे गृह्यमाणेऽहमर्थत्वमपि गृह्यते, आत्मनः स्वप्र- काशत्वात् सुषुप्तावहमिति प्रकाशो वर्तत एवेति पूर्वोक्तया विरुद्धयते॥ तत्र यदि स्वप्रकाशोऽहंत्वादि विशेषणविशिष्टरूपेण न गृह्यते, तहिं किं- रूपेण तदा गृह्यते? यदि नाहंरूपेण, किन्तु स्वरूपज्ञानमात्ररूपेण, तर्हि स्वरूप- ज्ञानं नाहमर्थ इत्येव फलति, इत्यद्वैतमत एव निपाते। 'न किंचिदवेदिषमि' त्यपि तदनुगुणमेव पूर्वोक्तविधया योजनीयम्। तत्र यथा परमते स्वरूपप्रकाशो न मुख्यो घात्वर्थः, किं त्वौपचारिक., एवमेवाद्वैतमतेऽपि संविन्मात्रे ज्ञाधातु- प्रयोग औपचारिक: ॥ वस्तुतस्तु ज्ञानपदं तत्र रूढमेव, न तु यौगिकमिति प्रागेवोक्तम्। तत्राद्वैतमते परमत इव मुख्यो ज्ञाधात्वर्थो लौकिकानुभूतिरेव धर्मभूतज्ञानमिव सविषयेति निष्कर्षः ॥
Page 263
शब्दप्रमाणम् २०७
सति चैवं "न किश्िद्वेदिषमि "त्यद्वैतरीत्या सुतरां पूर्वोक्त- विधयोपपद्यते।। परमार्थप्रकाशिका तु-घटोऽनुभूयत इत्यादौ ब्रह्मानुवृत्त्युपपादनाय परमात्मचैतन्यमेव ज्ञाधात्वर्थत्वेन मन्यते, इति भवदभिमतानुभूत्यभावसाधक एवायं "न किचिद्वेदिषमि"ति प्रत्यय इत्यन्यथाऽद्वैतसिद्धान्तमनूद्य 'न किचिदवेदिषमि 'ति प्रत्ययमपथे नयति॥ अयं हि प्रत्ययः पूर्वोक्तविधया संविदंश इवाहमंशेऽपि स्मृतिः। अद्वैतमते हि सर्व वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिभास्यमिति सिद्धान्तात् विषयविशेषविशेषिताज्ञानानुभवस्य सौषुप्तस्य स्वीकारात्। सर्वथा तु संविन्मा- त्रात्मतासिद्धान्त एव सौषुप्तानुभवस्य तन्निबन्धनजागरपरामर्शस्य च निर्वाहः॥ तत्राद्वैतमते-सुषुप्तौ संविन्मात्रं प्रकाशते, न ज्ञाता। ज्ञातृत्वं हि न संविन्मात्रस्य धर्मः, किन्तु संविदसंवित्संव लितस्याह मर्थस्यौपाघिकस्यौपाधिको धर्मः। तत्र सुषुप्तावुपाधेः कारणात्मना सत्त्वेऽप्यभिव्यक्तरूपेणानवस्थानादह- मर्थोप्यौपाधिकोऽनभिव्यक्त एव, अतो न ज्ञातुस्तत्र प्रकाशः। परमते तु धर्मभूतज्ञानाश्रयत्वस्यैव ज्ञातृत्वात्, सुषुप्तावपि साश्रयस्य धर्मभूतज्ञानस्य स्वीकारात कथं न ज्ञातृत्वेनात्मनः प्रकाश:2 सत्यमद्वैतमते साक्षित्वेनात्मा वर्तते, परं तु नान्त:करणोपहितत्वेन, किं त्वविद्योपहितत्वेन। स चायमभि- व्यक्तोऽहं साक्षी तदा प्रकाशत एव। अत एव 'न किंचिद्वेदिषमि'ति परा-
सुषुप्तावज्ञानोपहितत्वादेव नाहमित्यात्मनो भानम्, जागरे तु तस्यै- वान्त:करणोपधानादहंरूपता, तत्र तु न स्मरणमिति प्रागेवोक्तम्। "हन्ताह- मिमास्तिस्रो देवता." इत्यत्रापि समष्टयन्तःकरणात्मना मायोपहि तस्यैवेश्वर- त्वादहमिति परामर्शो न विरुद्धयते। तत्र मायोपधानमनादीश्वरस्य सर्व- नियामकस्य न संसारितापादकमिति संप्रतिपन्नम्। सर्वथाऽन्त.करणोपहि- तस्यैवाहमर्थजीवात्मरूपत्वात् तस्यौपाघिकं ज्ञातृत्वादिकम्, उपाधिविलये तु
Page 264
२०८ अद्वैततत्त्वशुद्धि:
नाहमात्मना ज्ञातृत्वमित्यद्वैतसिद्धान्ते सौषुप्तानुभवोऽपि प्रमाणम्। सर्वं चेदं शास्त्रैकसमधिगम्यम्, इति शब्दप्रमाणस्याद्वैतमतेऽसाधारणं प्रयोजनम्- कर्तृत्वादिबन्धस्य मिथ्यात्वावगमः, अद्वितीयब्रह्मावगतिश्च ॥ तत्राद्वैत सिद्धान्ते जगन्मिथ्यात्वेन शास्त्रस्यापि मिथ्यात्वेऽपि तस्यानधि- गतार्थबोधकत्वरूपं प्रामाण्यमनपोहम्। अत एव बाष्पे घूमत्वभ्रमेण पर्वते बह्वयनुमानं प्रमात्मकं सर्वसाक्षिकम्। अतो बाधितेनापि प्रमाज्ञानं प्रसिद्धम्। वस्तुतस्तु यावद्ब्रह्मसाक्षाकारमबाधात् शास्त्रमबाधितमेव यावत्तत्सत्वम्। भाविबाघदृष्टया खलु जगतः, शास्त्रस्य च मिथ्यात्वम्। शुक्तिरूप्यादिकमपि यावद्बाघं प्रमाणमेव। अत एव स्वतोग्राह्यं प्रामाण्यं भ्रमप्रमासाधारणं तद्वति तत्प्रकारकज्ञानत्वमिति स्वतःप्रामाण्यवादे, अ्रमव्यावृत्तमनधिगतार्थविषयकं ज्ञान प्रमेत्युपक्रमे च परिभाषा निरवोचत्। न्यायरतावली च-मिथ्यात्वे- नानिश्चीयमानार्थविषयकं ज्ञानं प्रभा भ्रमप्रमासाधारणमिति। तत्र यद्यप्युक्त- विधं प्रामाण्यं प्रत्यक्षस्यापि, यदि श्रत्यमूलं प्रत्यक्ष किमपि भाविबाधायोग्यं तत्त्वं बोधयति, न तु तथा ॥ विरोधो हि श्रुतिप्रत्यक्षयोर्जगत्सत्यत्वमिथ्यात्वयोर्द्दश्यते। तत्र च श्रुतिरप्रमाणम्, प्रत्यक्षं प्रमाणमिति वा स्यात्, श्रुतिः प्रमाणम्, प्रत्यक्षम- प्रमाणमिति वा। तत्र शास्त्रमसंभावितदोषं प्रबलं प्रमाणम्, संभावितदोष च प्रत्यक्ष दुर्बलमप्रमाणमित्यद्वैतिनः। तत्र करणापाटवादिदोपमूलकं प्रत्यक्षं निवृत्ते दोषे तेनैवेन्द्रियेण जन्येन प्रत्यक्षान्तरेण बाध्यत इति "इंदं रजतम्" "नेद रजतमिति" प्रत्यक्षस्थले दृष्टम्। तत्र प्रत्यक्षत्वे समानेऽपि निर्णीतदोपम्, बाधितं वा प्रत्यक्षमनिर्णीतदोषेण, अबाधितेन वा प्रत्यक्षेण बाध्यत इति वस्तु- स्थितिः, इति प्रत्यक्षमित्येव सर्व न प्रमाणम्, श्रुतिस्तु नाप्रमाणतामर्हतीति "चोदनालक्षणोऽर्थो धर्मः " "शास्त्रयोनित्वादि" त्यादौ सप्रतिपन्नम्॥ अविद्या हि यत्र केवलं विषयात्मना परिणमते, न तु ज्ञानात्मनाऽपि तत्रैव दोषविधया हेतुः, यथा घटादौ, न तु तज्ज्ञानेपि। तद्धयविद्यापरिणामा·
Page 265
शब्दप्रमाणम् २०९
न्तःकरणस्य परिणामः, न त्वविद्याया घटादिप्रत्यक्षस्थले। अयमेव न्यायः शा- स्त्रेऽपि, इति शास्त्रमेवाविद्यापरिणामः, न तु तज्जन्या प्रमाऽपि तत्परिणामः। शुक्तिरूप्यादिस्थलेऽप्यविद्यैव रजतात्मना, तदाकारवृत्त्यात्मना च परिणमते, इति तत्र काचकामलकरणापाटवादिकमेव दोषविधया हेतुः। तत्र प्रत्यक्षे संभावितदोषत्वं शुक्तिरजतादिस्थले दृष्टम्, शास्त्रे तु न तथा। घटादिप्रत्यक्षे यद्यपीन्द्रियदोषो न तद्दशायां निर्णीयते, तथापि निश्चितप्रामाण्यशास्त्रविरुद्ध- त्वात् संभाव्यते दोषः। स च भाविबाधप्रतीत्याऽविदयैवेति निश्चीयते। अनेन न्यायेन शास्त्रजन्यज्ञानेऽप्यविद्या दोषविघया यत्र कारणत्वेन भाविबाधप्रतीत्या च निर्धार्यते, तत्र शास्त्रजन्यज्ञानमपि प्रमा। तत्र च तत्त्वमस्यादिमहावाक्यजन्यं ज्ञानमप्यप्रमा स्यात्, अद्वितीयादिवाक्यानि च-यदि तद्विषयोSपि प्रमाणा- न्तरेण बाधित: स्यात। अयमेव न्यायः सगुणवाक्येषु, कर्मकाण्डे च। तत्र च सगुणनिर्गुणवाक्ययोर्विरोधे कस्य प्रामाण्यम्, कस्याप्रामाण्यमिति संशये परत्वादपच्छेदन्यायेन निर्गुणवाक्येन सगुणवाक्यस्य बाघः, न तत्र प्रत्यक्ष- बाधाबाघशंकाऽपि ; उभयोरप्यलौकिकत्वात्। "स एष यशायुधी अञ्जसा स्वर्ग लोकं याती"त्यत्र तु प्रत्यक्षविरोधेन शास्त्रस्य बाधमाशड्क्य प्रत्यक्षापेक्षया शास्त्रपाबल्यमभिप्रेत्य शरीरातिरिक्तात्म- वादो भगवता शबरस्वामिना प्रथमे तन्त्रे निरधारि; अन्यथा शरीरात्मवाद एव सर्वस्य शास्त्रस्य पर्यवसानापत्त्या नास्तिकवादेनैव जितं स्यात्, न कर्म- काण्डम्, उपासनाकाण्डम्, अन्यद्वा प्रमाणं स्यात्। भेदवासना अपि दोषा भवितुमर्हन्ति। तन्निर्णयस्तु बाधनिर्णयाधीनः, न बाधनिर्णयाधीनो दोषनिर्णय इति शाबरभाष्ये श्लोकवार्तिके च निर्णीतम्। व्यक्तं चतद् न्यायरतेऽपि श्रोक- वार्तिकविवरणे॥ एतेन-दोषत्वनिश्चये शास्त्रस्य निर्विशेषबोधित्वनिश्चय, निर्विशेष- बोधित्वनिश्चये दोषनिश्चय इत्यन्योन्याश्रय इति-परास्तम्। 14
Page 266
२१० अद्वैततत्त्वशुद्धिः
व्यक्तं चैतत्-"यस्य च दुष्ट करणं यत्र तु मिथ्येति बाधक प्रत्यय." इति शाबरभाष्यविवरणावसरेडन्यत्र च।। भेदवासनानामेकत्र प्रत्यक्षादौ दोषत्वे निर्णीते भेदपराणां वेदान्त- वाक्यानामपि संभावितदोषत्वेन दौर्बल्यमर्थसिद्धम्, इति सगुणवाक्येन प्रत्यक्षा- दिवद् अभेदपरवाक्यानां बाघो दुर्वचः। संगुणवाक्यानि ह्युपासनापराण्य- प्युपासनामात्रपरतयोपास्यस्य भाविबाधप्रतीत्या व्यावहारिकप्रमाणान्येव।। "सदेव सोम्येदमग्र आसीदि' त्याद्युपक्रमपराशमर्शोपसंहाराद्युपबृंहिता- भेदवाक्यानां ज्ञानमात्रेण मोक्षप्रतिपादकानां नान्यथोपपततिः । परा विद्या ह्यद्वितीयं ब्रह्म प्रस्तुत्य भूतयोनित्वसर्वज्ञत्वादिना रूपेण कारणं ब्रह्मोपस्था- पयति, "सदेवे"ति तु सद्वितीयं ब्रह्मोपक्रम्याद्वितीयमुपस्थापयति। तत्रो- भयत्राप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञाऽध्यारोपापवादन्यायेन परमार्थतोऽद्विती- यत्वे ब्रह्मण इत्येव वक्तव्यम्, इति कारणवाक्यान्यपि तटस्थलक्षणविधया ब्रह्म बोधयन्ति परमतात्पर्येण निर्विशषपराण्येव सर्वाणीति लघुचन्द्रिका विशदयत्युपक्रमे।। न चैवमद्वितीयवाक्य सगुणस्वरूपोपपादकमर्थान्तरपरं योजयितुं शक्यते। तत्रोपासनाप्रकरणाभावाद् न तेषामुपास्यसमर्पकतयोपयोगः, न वा प्रयोजनान्तरं तद्विज्ञानमात्राम्नानस्य। अत एव भेदपराणि सर्वाण्यभेदप्रतिपा- दनपराणि निपेधापेक्षितप्रतियोगिसमर्पणविधया चरितार्थानि, न स्वार्थमात्र- पर्यवसानेन प्रमाणानि, इति न निर्विशेषवाक्यानां सगुणवाक्यैर्बाधोऽन्यथानयनं वा युक्तम्। निषेध्यसमर्पकाणामपि सगुणवाक्यानामभ्युदयोपासनार्थपरतया न वैयर्थ्यम्, येन 'निर्गुणवाक्यैरेव गतार्थत्वाद, किमेतैः सगुणवाक्यैः । न हि शास्त्रं विना प्रयोजनं निषेध्यमात्रसमर्पकं बहुलमप्रमाणं परमार्थत इति कल्पनं युक्तमि'ति शङ्का सावसरा स्थात्॥
Page 267
शब्दप्रमाणम् २११
"जर्तिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा न आ्म्यान् पशून् हिनस्ति नारण्यान्, अथो खल्वाहुरनाहुतिरवै जर्तिलाश्च गवीधुकाश्च पयसाडनिहोत्रं जुहोति" इति जर्तिलयवागूस्तुत्या तद्विधानम्, पुनस्तस्यैव निषेधेनाजक्षीरविधानं चोभयमपि प्रयोजनवशेन दृश्यते। स एव न्यायः, सगुणवाक्यानां निर्गुणवाक्यैर्बाधेऽपि, इति सगुणवाक्यानां निषेध्यसमर्पकाणा- मपि न वैफल्यम्। अत एव नेदं रजतमिति ज्ञानस्य प्रातिभासिकरजतबाधकत्वं परत्वात्, इति निर्गुणवाक्यानां प्राबल्यम्। न च निषेधापेक्षितनिषेध्यसमर्पकाणि निषेधवाक्यानामुपजीव्यानि; बाध्यबाघकयोः परस्परानपेक्षयोत्पत्तेः येन निषेध्यसमर्पकाणामेव प्राबल्यं स्यात्। अ्रमज्ञानमेव च प्रमां बाधेत। व्यक्तं चैतद्भामत्याम् ॥ "यजतिषु येयजामहं करोति नानूयाजेषु" इत्यत्र न प्रतिषेधः ; वस्तुनि क्रियायामिव विकल्पायोगात्। "अथात आदेशो नेति नेती"ति प्रत्यक्षा दिप्राप्तस्य खलु "नेह नानाऽस्ति किंचने"त्यादाविव निषेधः, इति नात्र विकल्पसंभावनाSपि, न वा पर्युदासपरतया योजनं च, इति "न कलञ्जं भक्षयेदि"त्यादाविव दुर्बलप्रमाणप्रसक्तस्य निषेध एव "नेह नानास्ति किंचने"- त्यादौ युक्तम्, इति नात्र यजतिषु येयजामहं करोति नानूयाजेषुवाक्यविषय- न्यायस्यावसरः, इति सगुणवाक्धप्राबल्ये कारणाभावाद् निर्गुणवाक्यस्यैव परत्वेन प्राबल्याच्च न सगुण एव वेदान्तानां पर्यवसानम्, किन्तु निर्गुणवाक्येन बाधितत्वात् तस्य निषेधापेक्षितप्रतियो गिसमर्पकत्वेन, उपासनार्थत्वेन वोपयोगः॥ यत्तु-सगुणनिर्गुणवाक्ययोरत्र विरोध एव नास्ति, निर्गुणपदस्प हेय- गुणराहित्यपरतया योजनेन प्रामाण्यसभवात्-इति। तत्रेदमेवोच्यते-को वा वदति सगुणवाक्यस्याप्यप्रामाण्यमिति ? व्यावहारिकार्थपरतया तस्यापि प्रामाण्यस्वीकारात्। इंदं न यथाश्रुतयोजनया, किंत्वन्यार्थपरतया कल्पनेनेति चेत्, सम निर्गुणवाक्यप्रामाण्येऽपि। तत्रा-
Page 268
२१२ अद्वैततत्त्वशुद्धि:
न्यतरस्यान्यथानयन आवश्यके प्रबलनिर्गुणवाक्यापेक्षया दुर्बलसगुणवाक्या- न्यथापरत्वमेव युक्तम्, न तु दुर्बलेन प्रबलस्यान्यथा नयनस्॥ उपक्रमाधिकरणं परस्परापेक्षविध्यर्थवादविषयम्, एकवाक्यविषयम्, न तु स्वतन्त्रप्रमाणद्वयविषयम्, विधिनिषेधविषयं वा। तत्र ह्यपच्छेदाधि- करणनय एव-"पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवदि"ति सूत्रारूढः । न चेदं नियतपौर्वापर्यविषयम्। तत्र ह्यपरोऽपच्छेदन्यायः, यत्रान्यतरस्य प्रामाण्यम्। अधिकं वेदान्तरक्षामणौ। कमिकापच्छेदो हि नियतपौर्वापर्य एव। "नेह नानास्ति किंचन," "एकमेवाद्वितीयम्" "मृत्योः स मृत्युमान्नोति य इह नानेव पश्यति" इत्यादिना सर्वकारणे, तत एव सर्वतादात्म्यापन्ने ब्रह्मणि सर्वनिषेधाद् न सर्वसत्यत्वं तद्विरुद्धेन प्रत्यक्षेण स्थापयितुं शक्यते। "सर्व खल्विदं ब्रह्मे" ति सामानाधिकरण्यमपि सर्वस्य ब्रह्मव्यतिरिक्तस्य मिथ्यात्वं बाघायां सामाना- धिकरण्यविधया ज्ञापयति॥ सर्वाणि कारणवाक्यानि ब्रह्मण उपादानत्वनिरूपणपराणि जगत्सत्यत्वे नोपपद्यन्ते, इति बहुतरवेदान्तवाक्याप्रामाण्यं प्रत्यक्षस्याबाघ आपद्येत। अतो भेदविरोध्यर्थप्रतिपादकत्वमभेदशास्त्रस्य नास्तीति बाधितमिदम् ॥। तथाच विमता घटपटादिप्रतीतिः, संभावितदोषमूला, प्रत्यक्षप्रतीतित्वात्; संमतवदित्यनेन प्रत्यक्षे संभावितदोषत्वेनानाश्वासः। न चात्र बाधितत्वमुपाधि :; घटपटादिप्रतीतीनां शास्त्रबाधितत्वेन साधनव्यापकत्वात्। बाघितत्व तु भाविबाघमादायैव, न तु प्रतीतिकालिकं तमादाय ; अन्यथा न साध्यव्यापक- त्वमपि। न हि शुक्तिरूप्यादिकमपि प्रतीतिकाले बाघितम्, तत्र प्रातिभासिक- सत्त्वाभ्युपगमात्। तत्र बाधितत्वपदेन प्रातिभासिकत्वस्यैव विवक्षायां तु देहा- त्मैक्यप्रतीतौ साध्यव्यापकत्वम् ; दोषमूलायां तस्यां प्रातिभासिकत्वाभावाद्। जागरिक: प्रत्ययः, निरालंबनः, प्रत्ययत्वात्; स्वाम्नप्रत्ययवदिति योगाचारानु- मानेऽपि स्वामिकं प्रातिभासिकत्वं जागरितप्रत्ययस्य नास्तीत्येव प्रतिपादितम्।
Page 269
शब्दप्रमाणम् २१३
तावतैव वैधर्म्यं तत्र। तदेवात्रापि यदि विवक्ष्यते, तर्हिं तु स्वागतम्। न हि जागरिका अपि प्रातिभासिका इत्यद्वैतिनो मन्यन्ते। परमतरीत्या शुक्ति- रूप्यादीनामपि न बाधितत्वमित्यन्यदेतत्।। तत्रा भेदश्रुतिर्दोषमूला, प्रतीतित्वात, भेद्श्रुतिजन्यप्रतीतिवदित्यनुमानं तु भेदश्रुतिजन्यप्रतीतेर्भाविबाधमादायैवेति वक्तव्यम्। न च तेन न्यायेना- भेदश्रुतेरपि दोषमूलत्वानुमानं संभवति ; तद्बाधकाभावात्। तथाच भाविबाधप्रमितिविषयत्वं बाधितत्वं परेषामाभाससाम्य एवोपाघिः, न तु प्रत्यक्षप्रतीतेर्दोषमूलत्वानुमाने। अनेन भेदश्रुत्यप्रामाण्यमपि यथाश्रुतार्थे सिद्धप्रायम्। न हि निर्णीतदोषमूलयाSनिर्णीतदोषमूला भेदश्रुतिर्बाधमर्ति॥ एतेन-विवादाध्यासितं ब्रह्म, मिथ्या, अविद्यावदुत्पन्नज्ञानविषयत्वात्, असत्य हेतुजन्यज्ञान विषयत्वाद्वा, प्रपञ्चव दित्याभाससाम्यमपि-प्रत्युक्तम्। तत्र प्रपञ्चमिथ्यात्वं नाविद्यावदुत्पन्नज्ञानविषयत्वप्रयुक्तम्, न वाड- सत्यहेतुजन्यज्ञानविषयत्वप्रयुक्तम्, किन्तु तद्बाधकज्ञाने बाध्यत्वेन विषय- त्वप्रयुक्तम् ; यथा शुक्तिरजतादौ। न व ब्रह्म तथा; ब्रह्मबाधकज्ञानस्य बाध्यत्वेन तद्विषयकस्याभावात्। तथाच बाधितत्वमेवात्राष्युपाधिः । द्वितीय- हेतुस्तु बाष्पे धूमभ्रमप्रयुक्तानुमितिविषये वह्रावनैकान्तिकः। अत एवो- भयत्राप्रयोजकत्वम्, इति प्रत्यक्षविरोधेन न शास्त्राप्रामाण्यम्, किन्तु शास्त्र- विरोधेन प्रत्यक्षस्यैवाप्रामाण्यम्; अन्यथा चिदचिच्छरीरकत्वमपि ब्रह्मणो न सिध्येत्। न च तत्र प्रत्यक्षाविरोधः । एतच्छरीरस्यैतदात्मशरीरत्वं हि प्रत्यक्षं कथं न परमात्मशरीरत्वबोधकशास्त्राविरुद्धम् 2 अयमेव न्यायोऽभेदश्रुति- निर्णयेऽपि। न च तत्र प्रत्यक्षविरोधोऽपि, जीवत्वेश्वरत्वोपलक्षितसंविन्मात्र- भेदस्याप्रत्यक्षत्वात, तदभेदस्यैव शास्त्रार्थत्वाच्च। यथा चासत्यादपि सत्यार्थ- प्रतीतिन विरुद्धा, तथोपपादितमधस्ताद्विस्तरेण। संग्रहस्तु-स्वामिकचोरादेः सत्यभयहेतुत्वं हि प्रमाणसिद्धम्। तत्र तज्ज्ञानमेव हेतुरिति वर्णनमपि भक्षितेऽपि लशुनेऽरोगशान्तिरेव। तत्र तज्ज्ञा-
Page 270
२१४ अद्वततत्त्वशुद्धि:
नमपि चोरादिवत् तत्राविद्यापरिणामत्वात प्रातिभासिकमेव। तावतापि सत्त्वा- बाधे तु व्यावहारिकाणामपि व्यावहारिकसत्त्वाबाधाद् न कार्यकरत्व- विघातः। उक्तं च- पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ। हेतुतत्त्वव हिर्भूतसत्त्वासत्त्वकथा वृथा।। वस्तुतस्तु सत्त्वं न कारणतावच्छेदकम्- अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः ।। इति हि खण्डनकारः। अत्राद्वैतामोदकाराणां खाम्नज्ञानस्मरणत्वोक्तिस्तु स्मृति- रूपत्वाभिप्रायेण। भाषितं हि-"स्मृतिरूपः परत्र पूर्वदष्टावभासः" इति। अत एव स्वामिकानामसत्यत्वोक्तिस्तत्र तत्र।। "अ्थेनैव विशेषो हि निराकारतया घियामि"त्युक्त्याऽर्थविशेषितस्यैव ज्ञानस्य स्वाम्स्य कार्यकारित्वादर्थोऽपि तत्र कारणमेव; अन्यथा सर्वेपां स्वामानां जागराणाम्, विषयभेदेऽपि च ज्ञानत्वाविशेषादेककार्यकारित्वापत्तिः, इत्यर्थस्य प्रतिभासमानत्वमेवापेक्षितम, न तु ज्ञानजनकत्वमपीत्यादि नोपपद्यते। स्वाभनिकार्थस्य स्वामिकज्ञानजनकत्वमस्तु वा, मा वा। खाम्नज्ञानकार्ये कारणता- वच्छेदकतया जनकत्वं विना कथमुक्तरीत्या न कार्यासांकर्यम्। सर्वथा तु स्वाभिकज्ञानजनकत्वमप्यविद्यापरिणामत्वादसत्यस्यैव, न तु सत्यस्य।। एतेन-विषयासत्त्वेऽपि ज्ञानासत्यत्वं नास्तीत्यत्रैव निर्भर इति- परास्तम्; स्वाम्नतज्ज्ञानयोरुभयोरपि प्रातिभासिकसत्तायामेव तात्पर्यात्, असत्यात् सत्योत्पत्तौ सत एव कारणत्वानियमात्॥ सत्कार्यवादस्तु नाबाध्यकार्यवाद:, किन्तु कारणे विद्यमानस्य कार्य- स्योत्पत्तिवादः। कारणसत्ताऽपि पूर्वसंबन्धनियम एव, नाबाध्यत्वे। प्रकृत्य-
Page 271
शब्दप्रमाणम् २१५
तिरिक्तं सप्रकृतिविकृतिरूपं न नित्यम्, नतरां सत्यम्। निरुपाख्यादसतो न कार्योत्पाद इति संप्रतिपन्नम्।।
न च शासत्रं वा मृदादिकं वा निरुपाख्यम्, शुक्तिरूप्यादिकं वा। असतः कारणत्वापतिस्तदैवावकाशेत, यदि पूर्वसंबन्धनियम: स्यात्। अनेनैव न्यायेन शास्त्रस्यापि सत्त्वासत्त्वौदासीन्येनैव प्रमाणत्वात्, वस्तुतस्तदसत्त्वेऽपि प्रामाण्यमनपोहम्। असत्त्वं चात्र शब्दस्याबाध्यत्वाभावमात्रम्, न तु तुच्छत्वम्, सदसद्विलक्षणत्वरूपत्वान्मिथ्यात्वस्य। न च सत्त्वासत्त्वे परस्पर- विरहरूपे, सत्त्वाभाववति सत्त्वेऽसत्त्वाभावात, असत्त्वाभाववत्यसत्त्वे सत्त्वा- भावाच्च। अयमेव न्यायो विषयस्य ज्ञानजनकतायामपि। दूरतो गुल्मे शशं तच्छिरसि शाग्वाखण्डं च पश्यतः शशश्ृङ्गज्ञानं तु प्रातिभासिकस्यैव शशशृङ्गस्य। एवमेव तत्र शाखाखण्डसंलग्नशोणितकुसुमदर्शितं शोणितं शश- श्ृङ्गमिति ज्ञानमपि। तस्यार्थक्रिया कारित्वं तद्दर्शनेच्छया प्रवृत्तिदर्शनाद्वर्तत एव।। वस्तुतस्तु-व्यावहारिकं सत्त्वं शास्त्रस्यापि वर्तते ; तज्जन्यज्ञानस्या- प्यबाधितार्थविषयकत्वलक्षणं प्रामाण्यात्। यथा चैवं सति ब्रह्मणोऽपि न व्यावहारिकत्वापत्तिः, तथा पूर्वमेवोक्तम् ।। तत्र मिथ्यात्वं द्विविधम्-फलसंवाद्यर्थक्रियाकारित्वम्, तद्विसंवाद्यर्थ- क्रियाकारित्वं च। तत्रादयं व्यावहारिकत्वम्। प्रातिभासिकत्वं तु द्वितीयम्। तत्र प्रथममेव तत् शास्रस्य, न द्वितीयम्। मिथ्याशब्दत्वमात्रेण तु तयोः साम्यमेव। तथाच मिथ्यात्वेऽपि शास्त्रस्य प्रामाण्यमेव। कण्टकेन हि कण्ट- कोद्धरणम्। तदपि व्यावहारिकेण व्यावहारिकस्य, न तु मिथ्याकण्टकेन प्रातिभासिकेन व्यावहारिकस्य कण्टकस्योद्धरणं कोऽपि वदति, येन मिथ्या- त्वेऽपि कार्यकारित्व उक्तदूषणमापतेत्। अन्यानि चात्र स्वस्य कण्टका दिग्रहणे- नात्र दूषणान्यप्यत एवानवकाशानि।
Page 272
२१६ अद्वैततत्त्वशुद्धिः
यथा शास्त्रोपदेशमात्रेण प्राप्तिमात्रं पुरुषार्थः। सर्वस्य परमात्मैवात्मा। अहमपि परमात्मनश्शरीरमेवेति कुतोऽन्ये तत्रैव न व्याप्रियन्ते, लोकव्यवहार- रसिकाश्च। यदि वस्तुतः परोक्षज्ञाने शास्त्रतो जातेऽपि तदनुसारेण तत्तत्सा- धनानभ्यासात, तर्ह्यद्वैतमतेऽपि शास्त्रतो मिथ्यात्वेऽवगतेऽपि न सिद्धावस्था प्राप्ता केषांचन। केषांचन तु सिद्धानामपि प्रारब्भोगानुसारिणी प्रवृत्तिरा- धिकारिकाणां तत्तत्संप्रदायाचार्याणामिवेति मन्तव्यम्। दृष्ट हि नाटकादौ मिथ्यानलत्वादौ निर्णीतेऽपि नलवदभिनयः, अवताराणां च रामकृष्णादीनां तत्तज्जन्मानुगुणो व्यवहारः, इति सर्वमिथ्यात्वे कथमद्वैतिनां लौकिकव्यवहार इत्यपि परिहासो न विकल्पसहः ॥ प्रातिभा सिकरेखावर्णादिना सत्यवाक्यज्ञानाद् रेखागवयादिना सत्यगवयादिप्रतीतेश्र प्रातिभासिकादसत्यादपि व्यावहारिकप्रमादर्शने स्थिते कथं व्यावहारिकादपि शास्त्रात् पारमार्थिकप्रमोत्पतिर्न भवति 2 न केवलं बाला:, वृद्धा अपि रेखां वर्णमेव प्रत्यभिजानन्ति, न तु रेखासु वर्णसंकेतं स्मृत्वा ततो वाक्यस्वरूपं निश्चिन्वन्ति। ततश्च तत्र सर्वत्र कथं रेखावर्णो नासत्य: ? यतु-श्रुतेर्बाधकत्वे शून्यवाक्यमपि बाधकं स्यात्-इति, तत्रेदमनुयुज्यते-भवतां मते कथं शून्यवाक्यं ब्रह्मणो न बाधकम्? यदि सर्वयाथार्थ्यवादिनां सर्वं प्रमाणम्, तहिं शून्यमेव तत्त्वं भवतामपि। तस्य पौरुषेयत्वेनानाप्तप्रणीतत्वेन यदि न प्रमाणम्, तर्हि "नेह नानास्ति किंचने "ति वाक्यमतादृशं जगन्मिथ्यात्वं बोघयत् कथं न तत्र प्रमाणम्? मिथ्यात्वस्यापि मिथ्यात्वं दृश्यत्वस्य प्रतियोगिसाधारणस्य निषेध्यतावच्छेद- कत्वाद् न विरुद्धम्, न वा तस्य तद्वाक्यत्वेन प्रामाण्यं सुनिवारम्। 'सर्व शून्य- मि'ति वाक्यस्यापि 'नेह मानास्ती'त्यनेन स्वरूपेणापि बाधेन 'अस्ति ब्रह्मे'ति वाक्यनिषेध: कथम् ? न च शून्यं तत्त्वं सर्वेषामधिष्ठानं शून्यवादिनां मते। न
Page 273
शब्दप्रमाणम् २१७
हि चनुष्कोटिविनिर्मुक्तं घटादौ सत्त्वप्रतीतेनियामकतामहंति, न वा निर्विशेषं ब्रह्म शून्ये कल्पितम्, इति तस्य मतं सर्ववैदिकमतविद्वेषिणः, यतो ब्रह्मैव नोरी- क्रियते तत्त्वमिति। एवं शून्यमपि न तत्त्वमिति वैदिका मन्यन्ते, इति कस्य मतेन कस्य वा बाधो नाम 2 तदप्रामाण्यं त्वद्वैतिनामपि समानम्। तथाच शास्त्रस्य निर्विशेषपरत्वे प्रपञ्चमिथ्यात्वे च श्रुतिबाधो वर्तते वा, न वेत्येव वक्तव्यम्। तत्र च वक्तव्यं सर्व पूर्वमेव वर्णितम्, इति भाविबाधामादाय शास्त्राणां दश्यत्वेन मिथ्यात्वेऽपि विपयतो न मिथ्यात्वं शास्त्रजन्यज्ञानस्य, इति निर्विशेषे ब्रह्मणि, सर्वमिथ्यात्वे च नाप्रामाण्यम्।। "सदेव सौम्येदमग्र आसीदि"त्यादीनि निर्विशेषवाक्यानि पूर्वमेव निर्विशेषप्रमाणतया निर्णीतानि। तत्तत्प्रकरणभाष्यादौ चाधिकं व्यक्तम्। वाक्य- विशेषाणामुपनिषद्धाष्ये भगवत्पादा अप्यद्वैतसिद्धान्तविरुद्धमेव भाषन्ते, इति तु तद्भाष्याशयापरिशीलननिबन्धनम्, इति नात्र ग्रन्थविस्तरमयाद् व्याप्रियते॥ स्मृतिवाक्येषु, पुराणे चोपनिषदभिमताद्वैतसिद्धान्त एवोपबृंद्यते। तत्र यद्यपि पुराणानामपि स्मृतित्वेनैव प्रामाण्यम्; तथाप्यवयुत्यानुवादोऽयम्। तत्र ब्रह्मसूत्रमपि स्मृतिरिति परे। तत्र च "न स्थानतोऽपि परस्योभय- लिङ्गं सर्वत्र ही "ति सूत्रमद्वैतसिद्धान्तमेव पोषयतीति व्यक्तं तत्सूत्रभाष्य- भामत्यादौ, वेदान्तरक्षामण्यादौ च।। यत्तु-स्वभावतः, स्थानतश्च निर्विशेषं सविशेषं च न भवतीति- व्याहतम्। न हि ब्रह्म सविशेषमपि न भवति, निर्विशेषमपि न भवति। निर्विशेषतया श्रुत्युक्तत्वादिति वाक्यमन्वितार्थम्, निर्विशेषतया श्रुत्युक्तत्वे तन्निषेधासंभवात्, तथा सविशेषतया श्रुत्युक्तत्वे तन्निषेवायोगाच्च। एक- तरमात्रनिषेधार्थत्वे सविशेषमित्येवोभयलिङ्गस्थाने निर्देशौचित्यात्-इति, तत्रेदं सूत्रं तत्पदार्थशोधनपरमिति संप्रतिपन्नम्। तत्र बहनां सविशेष- वाक्यानां दर्शनेन सार्थादपि तस्करा बहव इति न्यायेन वेदान्तवाक्यानि सविशेषप्रधानानि, उत तात्पर्यलिङ्गादिपर्यालोचनेन निर्विशेषप्रधानानि, कस्य
Page 274
२१८ अद्वैततत्त्वशुद्धिः
लिङ्गस्य प्राबाल्यमत्र, कस्य चान्यथा नयनमिति पूर्वोत्तरपक्षबलाबलनिर्णायक- कारणाभावादुभयलिङ्गमिति पूर्वपक्षे तन्निराकरणार्थमिदं सूत्रम्। तेन च सविशेषवाक्यस्य निर्विशेषवाक्यस्य चोभयस्य प्रामाण्येन सविशेषवाक्यस्य समस्तकल्याणगुणपरत्वेन निरस्तसमस्तहेयगुणपरत्वेन निर्विशेषवाक्यस्य च योज- नेनोभयलिङ्गमिति द्विविधवाक्यानामपि परस्परबाधकायोगमभिप्रेत्य पूर्वपक्ष इति फलति। तेन च निर्गुणश्रुतीनां हेयगुणराहित्यपरतया योजनेन सगुणवाक्यानां यथाश्रुतयोजनम् । तत्रोभयलिङ्गमिति हेतूपन्यासः, 'न स्थानतोऽपी'ति स्थानप्रयुक्तापुरुषार्थ- गन्धाभावसाधनम्। तत्र यद्यप्यपुराषार्थगन्धाभावे साध्ये निरस्तसमस्तदोषत्वमेव पर्याप्तो हेतुः, तथापि समस्तकल्याणगुणाकरत्वेन सविशेपवाक्यानामपि निर्वि- शेषवाक्यसमानयोगक्षेमतया प्रामाण्यसूचनार्थमुभयलिङ्गत्वस्य हेतूकारणं स्वरूप- कथनमात्राशयेन । अथवा निर्विशेषवाक्यस्य प्राबल्येन सगुणवाक्यानां तदपेक्षितनिषेध्यसमर्पकतया वा योजनमपि संभवतीत्युभयविधवाक्यानामप्यबाधे नोपपत्तिरिति भवति। न चैवं सत्युभयलिङ्गत्वं ब्रह्मणों व्याहतमिति फलति ॥ तत्र च सिद्धान्त :- नोभयलिङ्गं ब्रह्म, किन्तु निर्विशेषमेव, इति सविशेषवाक्यानि निषेध्यसमर्पकतयाऽभ्युदयफलोपासनामात्रपरतयाSवान्तर- तात्पर्याणि, मुख्यतात्पर्य तु निर्विशेषवाक्यानामेवेति फलति। इदमेवाभिप्रेत्य तत्र सगुणवाक्यानि निर्गुणवाक्यापेक्षितनिषेध्यसमर्पकाणीत्यद्वैतिनां व्यवस्था। तत्रोभयलिङ्गस्थाने सविशेषमिति सूत्रणे संशायकसामत्रयुन्नयनं न संभवतीत्येकं दूषणम्। द्वितीयं तु 'स्थानतोऽपि' इत्यप्यशवैयर्थ्यम् निर्विशेषवाक्यानां गत्यसूचनं तु पूर्वपक्षस्य न्यूनता। अतो नोभयलिङ्गमिति योजनमेव युक्तम्। तत्र स्थानत इति सूचितसविशेषत्वलिङ्गदौर्बल्यं सिद्धान्त- युक्तिरपि सूच्यते। अत एव 'स्थानतः' 'अपि' इति पदद्वयसार्थक्यम्। पूर्वपक्षे त्वपिपद्वैयर्थ्यम्, उभयलिङ्गिवैयर्थ्य च; एकेनैव निरस्तसमस्तदोषत्वेनेष्ट-
Page 275
शब्दप्रमाणम् २१९
सिद्धेः। सविशेषवाक्यस्य निर्विशेषवाक्यसाम्यसूचनं त्वप्रयोजनम्, अपि- शब्देन न स्वभावत इत्यस्य संग्रहः। तेन च स्थानाधीनस्य सविशेषत्वस्य दौर्बल्यं ज्ञाप्यते, येन निर्विशेषवाक्यानामेव मुख्यं तात्पर्यं फलति ; स्वा- भाविकार्थपरत्वस्यैवोचित्यात्। सविशेषवाक्यानां त्वौपाधिकरूपपरत्वाद् न मुख्यं तात्पर्यम्। अन्र पूर्वपक्ष उत्सूत्रः । सौत्रस्तु सिद्धान्तः । ततश्र निर्वि- शेषवाक्यादौ हेयगुणराहित्यपरतयाऽन्यथानयनं न युक्तमिति सूच्यते । अतोऽद्वैतसिद्धान्तानुगुणमेवोक्तं सूत्रम्। तत्र हि ब्रह्मगता विशेषाः सर्वेऽप्य- विद्याकल्पिता हेयगुणा एव, इति न कल्याणगुण एकोऽपि ब्रह्मणि, इति कथ- मुभयलिङ्गत्वम्। परमते तु सविशेषपरत्व एव सूत्राणां तात्पर्ये "संभोगप्राप्ति- रिति चेन्न वैशेष्यात्" इत्यादिषु बहुषु न्यायेषु शरीरसंबन्धप्रयुक्तापुरुषार्थ- गन्धशङ्काया निरस्तत्वात् निरस्तसमस्तदोषत्वसत्यकामत्वाद्युभयलिङ्गब्रह्मनिरू- पणमनपेक्षितम्। 'उभयलिङ्गं सर्वत्र हि' इत्येव सूत्रणं च स्यात्-यद्युभयलिङ्गत्वं निरस्तसमस्तदोषत्वसत्यकामत्वादिकमेव विवक्षितं स्यात। अधिकं त्न्यन्न । अत्र परमते न स्थानतोऽपुरुषार्थगन्धः, तत्र कारणं निरस्तसमस्त- दोषत्वमिति योजना। अपरं तु लिङ्गं कुत्रोपयुज्यते 2 इत्युभयपदवैयर्थ्यम्। ब्रह्मण: सत्यकामत्वादिकं श्रुतिसिद्धमन्यलिङ्गतया कथं सन्दिग्धमपि, येन तन्निर्णयोऽपेक्षितः स्यात्॥
उभयं लिङ्गमिति व्यस्ततया सूत्रणं तु-ब्रह्मणा तस्यानन्वयाद् ब्रह्मण इति पदाध्याहारेण योजनीयं स्यात्। अद्वैतमते तु प्रक्रान्तं ब्रह्म विशेष्यतया विवक्ष्यत इति सूचनार्थम्, स्थानतोऽपीत्यपिशब्दस्वारस्यार्थ च समस्ततया निर्देशः। इदं च परमतेऽनुपपन्नम्। उभयलिङ्गघटकेन केन लिड्गेन स्थानत इत्यस्यान्वय इति दुर्वचम्। परस्यपदं तु 'सर्वत्र ही'त्यनेनान्वेति। तेन च ब्रह्मस्वरूपविवक्षाऽत्र, न तु तदीयलिङ्गमात्रव्यवस्थेति फलति। तत्र नशब्द- निषेध्यांश: सौत्रमुभयलिङ्गमिति स्वारसिकोऽन्वय.। परस्य तु तत्रापुरुषार्थ-
Page 276
२२० अद्वैततत्त्वशुद्धि:
गन्धस्याध्याहारः। जीवस्येव स्वाप्नादिसम्पत्तयो न परस्येति स्वान्परीक्षायामेव परीक्षितम्। सत्यकामत्वादिकमभिव्यक्तमीश्वरस्येति निर्णीतमिति वितथमिद मधिकरणम्। अद्वैतसिद्धान्ते तु तत्पदार्थशोधने प्रकृते सविशेषनिर्विशेषत्वयोर्व्य- वस्थार्थमिदमधिकरणम्। "न द्वैतं न चाद्वैतमित्येतत्पारमार्थिकम्" इति स्मृति- रपि नोभयलिङ्गं ब्रह्मेति सिद्धान्तमेवाभिप्रयदुक्तसूत्रस्य विवरणमद्वैतसिद्धान्त इति सुष्धु लगति। तेनापि न सविशेषपरत्वमेव शास्त्राणाम्, इति तदविरोधेन निर्विशेषवाक्यानां योजनं युक्तमित्येव स्थाप्यते। परमार्थप्रकाशिका तु परमार्थमत्रान्यथाऽनुवदति॥ "यो मामजमनादि च वेत्ति लोकमहेश्वरम्॥" इति दशमाध्याये प्रकटविष्यमाणं सर्वात्मस्वरूपम्, तस्योपदेष्टा वार्ष्णेयो वासुदेवोऽप्यंशः, ब्रह्म त्वभिन्ननिमित्तोपादानम्, सविशेषं च ; इति तस्याजत्वाना- दित्वमहेश्वरत्वादिविशेषवत्त्वं न व्याहतम्। तथापि सर्वात्मत्वमत्र न केवला- चिदंशमात्रेण, किन्तु सर्वचिदंशेनापि। तत्राचिदंशेन बाधायां सामानाधि- करण्यम्, चिदंशेन त्वभेद एव, इति मुख्यवासुदेवेन तादात्म्यं वार्ष्णेयवासु- देवस्येव, दिव्यशरीरादित्येन्द्रमरुद्वसुरुद्रबृहस्पतिस्कन्दरामादिनेव च जीवन्मुक्तै- रन्यैश्राभेदः प्रतिपाद्यमानः शरीरभेदप्रयुक्त एव भेदो मम मदंशैः, स्वरूप- तस्त्वभेद एवेति तत्र प्रतिपाद्ते॥ यथा च-वसुदेवपुत्रस्वरूपं न सशरीरम्, एवं रामादीनां दशरथपुत्र- स्वरूपादिकं न वस्तुसदूपम्। दिव्यं शरीरमप्यादित्यादीनामिव न भेदसाधक- मित्यभिप्रेत्य स्वस्य पारमार्थिकं रूपम्, न केवलमनादि, किन्तु "बहु स्यां प्रजायेये"ति संकल्पहेतुमायोपहितं रूपमपि न तथा, इत्यविद्योपलक्षितं निर्विशेषस्वरूपमेवेति बोधयितुमेव अजमनादीति पदद्वयम्। अत एव लोक- महेश्वरमिति महेश्वरपदप्रयोगः। विश्वरूपमपि मया प्रदर्शयिष्यमाणमैश्वरमेव-
Page 277
शब्दप्रमाणम् २२१
यतु देवानां वामनावतारावसरे सुलभमासीत्। लोकमहेश्वरं तु निर्विशेषमेव देवादीनाम्, किं बहुना, ममाप्यधिष्ठानमिति भगवदाशयोऽवगम्यते।। तच्च तटस्थलक्षणविधया तत्तत्कार्यमुखेनैव "नेति नेती"ति निषेधमुखेन- चावगम्यमिति भगवदभिप्रायं मनसि निघायैवाद्वैतामोदो वदति-निर्विशे- षस्यास्य लोकमहेश्वरत्वं सर्वाधिष्ठानचित्स्वरूपत्वेनाविरुद्धमेव। अजत्वादिकं त्वविकृतोपादानभावेन वस्तुगत्या निर्विकारत्वेनेति। तत्राजत्वस्याभावरूपत्वान्न निर्विशेषत्वहानिरिति॥ अहंशब्दार्थस्तु सर्वानुगतं सन्मात्रं स्वप्रकाशं "शास्त्रदष्टया तूपदेशो वामदेववत्" इति न्यायेन जीवेश्वरत्वोपलक्षितप्रत्यगभिन्नमनावृतं संविन्मात्रमेव भगवतोपदेशकालेऽनुसन्धेयम्, न त्वहमर्थत्वरूपम्। तस्य मायोपहितस्यौपाधिके- Sहमर्थत्वे सत्यपि भूतपूर्वगत्यैव तत्राहंपदम्। अयमेव न्यायः "शास्त्रदृष्टया- तूपदेशो वामदेववदिति सूत्रसिद्धः। सर्वत्र पुराणेषु मांपदेन तत्तदेवतामात्रो- पासनायां मांपदप्रयोगेण बिवक्षितायां सुन्दोपसुन्दन्यायेन परस्परव्याघातेन सर्वेषां पुराणानामितिहासानां चाप्रामाण्यं स्यात्, इति मांपदप्रयोगोऽत्र परमार्थदष्टया नाद्वैतसिद्धान्तस्य विरोधी। सप्रपञ्चोऽप्यहं वस्तुगत्या निष्प्रपञ्च एवेति भगवतोऽभिप्रायः। सूचितं चैतद् भगवता स्वयमेव नवमाध्याये- मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।। इत्यत्र ।। परमार्थप्रकाशिका तु-अनादिभूताधारत्वमप्राकृतस्वभाव विशेषगुण- वत्त्वम्, तन्निषेधश्च सत्त्वादिगुमनिषेध इति-व्याचष्टे स्वीयभाष्यविवरण- मप्युल्लंय। एकत्रैव श्रोके भूतपदस्य प्राकृताप्राकृतपरतया योजनेन कथ वा सा सन्तुष्यति ? गीताया अद्वैत एव परमतात्यर्थमिति गीतातरङ्गिण्यां व्यक्तम्। तदिदं सिद्धम्-"न स्थानतोऽपी"ति सूत्रानुसारेण पारमार्थिकं निर्विशेषत्वम्, सविशेषत्वं त्वौपाधिकं वेदान्तार्थ इति। अनेनैव न्यायेन-
Page 278
२२२ अद्वैततत्त्वशुद्धिः
"इतिहासपुराणाथ्यां वेदं समुपबृंहयेत्।" इति वचनाद् विष्णुपुराणस्य, किं बहुना 2 सर्वेपां पुराणानामौपाधिकसगुणस्व- रूपबोधकत्वम् , परमार्थतो निर्विशेषबोधकत्वं च व्याख्यातम् । तत्र विष्युपुराणे ब्रह्मणोSरूपत्ववचनं नस्थानतोऽप्यधिकरणगतम् -- "अरूपवदेव हि तत्प्रधानत्वादि"ति सौत्रमरूपपद प्रत्यभिज्ञापयति, इति नेदं परमार्थप्रकाशिको क्तरीत्या नीलपीताद्यभावपरम्। "नीलमेघश्यामलमि"ति भग- वतः सर्वेपु पुराणेषु वर्ण्यमानं सविशेषस्य तस्य नीलगुणाभावे विरुध्यते। अथवाऽ- प्राकृते परमात्मनि तद्प्रसक्त्या तस्य निषेधेऽप्रसक्तनिषेधः। अत एव तत्र तत्र निर्गुणपदस्य हेयगुणनिपेधपरतया विवरणमपि नावसरति। एनेन-तस्य वस्तुगत्या निर्विशेषत्वमेव "अपाणिपादमि"त्यादि ज्ञापयतीति-व्याख्यातम्। तेन परमात्मनोऽशरीरत्वावगमाद् रूपपाणिपादादौ सर्वत्राप्राकृतरूपादिविधेय- परतया प्राकृतपाणिपादसप्तधातुमूत्रपुराषादीनां सर्वेषामप्राकृतानां कल्पनं कस्य वा शोभेत 2 परमार्थप्रकाशिका तु-अत्र पुरुषविधनिरासाभिप्रायं विशदयन्ती तत्र तत्राप्राकृतभूताधारत्वं दिव्यशरीरत्वं च भगवतः प्रतिपादयति, पुरुषविधत्वं चात्र निषेधन्ती-"सवा एष पुरुषविध एवे"ति तैतरीयोपनिषदं विहान्ति॥ "ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते जगतीतले"॥ इति वचनं हि- "अस्ति भाति प्रियं रूपं नाम चेत्यंशपश्चकम्। आद्यं त्रयं ब्रह्मरूपं जगद्रूप ततो द्यम् ॥।" इति वचनसिद्धं ब्रह्मण्यध्यासप्रयुक्त सदादिरूपं च जगत् केवलनामरूपात्मनैव मायिकेन रूपेण पश्यन्ति, न त्वमायिकेन सच्चिदानन्दात्मना पश्यन्ति भ्रान्त्येत्यभिप्रायमिति विशदम् ॥
Page 279
शब्दप्रमाणम् २२३
तत्रार्थस्वरूपं जगदेतदिति च सर्वं ज्ञेयजातं विवक्ष्यते। तेन च जगदात्मना भ्रमो ज्ञानस्वरूपस्य प्रतिपादते।। परमार्थप्रकाशिका तु-सामान्यत, प्रवृत्तं जगत्पदम्, अर्थमद च सर्व देहपर विवाय देहात्मभ्रमपरतया व्याचष्टे। इदं च भगवतो देहात्मभ्रमपरतया वा, द्रष्टणां स्वस्मिन् देह आत्मत्व- भ्रमपरतया वेति विवेचनीयम्। आद्यं तु बाघितम्। भगवच्छरीरमेव भगवत्स्वरूपमिति न चार्वाकोऽपि वक्तुमीष्टे। अन्येषां तु तथा अ्रमोऽसंभावित एव। जीवानामेव देहात्मभ्रमो विवक्षित इति तु न युक्तम्, परमात्मप्रकरणे तस्यासङ्गतेः॥ तत्र यदि ज्ञानपदं संविन्मात्रपरं प्रत्यगभिन्नब्रह्मपरम्, तहिं कथंचन जीवप्रकरणमपीदमिति वत्तुं शक्यते। परं त्विदमद्वैतसिद्धान्त एवोपमद्यते, न सिद्धान्तान्तरे। तत्र च ज्ञानमित्येकवचनात् प्रत्यक्स्वरूपस्यात्मन एकत्वं स्वभावत., भेदस्तु तस्य देहात्मनैव॥। परमार्थप्रकाशिका तु-"ज्ञानस्वरूपमखिलं जगदि"ति वर्णनादत्र जीवनानात्वमभिप्रैति। निमित्तं तत्रैकैकस्मिन्नपि चिदनुप्रवेशः । तत्रैकस्या एव चितोSचित्प्रवेशनिमित्तं यदि नानात्वम्, तर्हिं स्वतश्चित एकत्वम्, नानात्वं त्वौपाधिकमित्यवगमात् स्वसिद्धान्तं स्वयमेव निहन्ति। एतेन-देहाद्यर्थस्व- रूपमात्रे भ्रमत्वं ज्ञानस्योच्यते, न जगद्ग्रहणांशेऽपीति-व्याख्यातम्। किमनेन विवक्ष्यते-विषयमान्नं जगन्मिथ्या, न तु ज्ञानमिति वा, जगदपि सत्यमिति वा। आदेऽपि किं 'स्वरूपज्ञानमधिष्ठानं विवक्षते, लौकिकं जन्यं ज्ञानं वा। तत्राद्ये प्रथम इष्टापत्तिः। द्वितीये यदि नित्यमौपचारिकं जन्यं धर्मभूत ज्ञानम्, तदा तस्य जगद्विषय कस्य जगदूपत्वाश्रवणादू विरोधः। वृत्तिज्ञानेऽद्वैताभिमते विवक्षिते तु तस्यापि व्यावहारिकत्वेनाखिलजगत्कोटिप्रविष्टत्वाद् बाधितमिदम्। सर्वथा तु स्वभावत आत्मनानात्वाभिप्रायो नात्र ।।
Page 280
२२४
अत एव विष्णुपुराण एव- "विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिनः ।" इति वचनमुपपद्यते। तत्र विज्ञानं "विज्ञान ब्रह्मेति" वाक्यप्रत्यभि- ज्ञानात् ब्रह्मस्वरूपपरम्, द्वैतपद च पूर्वोक्ताखिलजगत्परम्। तेन च ब्रह्म सत्यम्, जगन्मिथ्येत्यद्वैतसर्वस्वं विविच्यते॥ अत्र परमार्थप्रकाशिका वदति-द्वैतमिथ्यात्वदर्शनं नाम-सर्वेष्वात्म स्वविशेषेण सर्वदा ज्ञानस्वरूपेषु कश्चिदात्मा देवादिशरीरपरिग्रहे ज्ञानस्वरूप, कश्चित् शिलादिस्थावररूपत्वे जड इति दर्शनम्-इति। तत्र द्वैतमिथ्यात्वं ब्रह्मेतरद्वितीयमिथ्यात्वमेव, न तु द्विविधं दर्शनम्। तत्र सर्वेषामात्मनां सर्वदा ज्ञानरूपत्वं किं स्वतो मिन्नानामेव, उतौपाधिक- गेदवताम्। आद्ये तु-विज्ञानं परमार्थो ही" त्येकवचनविरोधः। द्वितीये तु नात्मनानात्वम्। न नात्मनां विज्ञानरूपत्वम्, शिलादिस्थावराणां ज्ञान- स्वरूत्वं चैकम्। न च शिलादिस्थावरमप्यात्मा, अचेतनत्वात्, विषयकोटि- प्रविष्टानां भवदुक्तरीत्यैव मिथ्यात्वाच्च। परमार्थतस्तु भवतां मते सर्वज्ञान- याथार्थ्यस्वीकारात् विष्णुपुराणगतभ्रमवचनानां का वोपपतिः १ तत्र जयतीर्थीयन्यायसुधा सर्वज्ञानयाथार्थ्यवादे मातृमतङ्गमदिरादिष्वयवयसादृश्य- प्राचुर्यात् तत्र भार्यादिबुद्धयोपभोगो न प्रत्यवायाय स्यादिति वदति। "सत्यं त्यज मेदमोहमि"ति भेदबुद्धिज्ञानस्य भ्रमत्ववचनमत एवोपपद्यते॥ यत्तु-एकं निरात्मकं, अन्यत् सात्मकम्, एक आत्मा यादृश, न तादृशोऽपर आत्मा, देवादिदेहस्यैवात्मत्वादस्ति वैषम्यमिति मेदमोहं त्यजे- त्यर्थ -- इति, तत्रेदं विविच्यताम्-किमनेन सर्वेषामात्मनामैक्यं विवक्ष्यते, उत साम्यम्। आद्ये गतमात्मनानात्वेन। द्वितीये- "सर्वभूस्थमात्मानं भजत्येकत्वमाश्रितः
Page 281
शब्दप्रमाणम् २२५
इत्यैक्यवचनविरोधः। किं चेदं प्रकरणमात्मभेदमात्रस्य निषेधपरम्, तत्रापि जीवात्मभेदमात्रस्य। आद्ये जीवात्मपरमात्मभेदग्रहस्यापि मोहत्वमुक्तप्रायम्, इत्यद्वैतसिद्धान्त एव पर्यवसानम्, द्वितीये तु प्रकरणविरोधः। सर्वमिदं प्रकरणं परमात्मन एव।।
अत एव तत्र भूतयोनिप्रकारणम्। तत्र भूतयोनित्वम्, अकारणत्वं च वस्तुतोऽद्वितीयत्वम्। परविद्याप्रतिपादं वस्तुतोऽद्वितीयम्, अकारणं च। तथाप्यध्यारोपेण तत् सद्वितीयमित्येव विष्णुपुराणाशयः । परविद्या हि विष्णु- पुराणे षष्ठांशे स्वयं व्याख्याताऽद्वैतमेव तत्त्वं मन्यते॥
यत्तु-भूतयोनिपदप्रमितार्थनिषेधायोगाद् बहुव्रीहिवृत्तम्-अकारण- पदम्-ब्रह्मणोऽषि कारणान्तरनिषेधपरम्-"न चास्य कश्विजनिते' इतिवत्-इति।
तत्त परविद्येति समाख्यामात्रेण-"अक्षरात् प्रकृतेरपि परः" इति श्राविते परतः परे कारणान्तशङ्कव नोत्तिष्ठति, इति किमनेन बकबन्धन- प्रयासेन 2 न चाद्वैतसिद्धान्तस्यात्र विरोधलेशोऽपि।।
तत्र 'ज्ञानस्वरूपमखिलं जगत्' इति सामानाधिकरण्यं बाधायाम्। अत एव- "अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते जगतीतले।" इति विज्ञानेऽर्थस्याध्यासः शुक्तौ रजतवत्। अयमर्थ :- "ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्।।" इत्यत्र प्रत्यभिज्ञायते। अत्रार्थपदं जगत्परम्, "ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्ति भ्राम्यन्ते मोहसंप्वे॥" 15
Page 282
२२६ अद्वैततत्त्वशुद्धि
इत्यत्र तस्यैवार्थपदेनानुकर्षात्, इति नात्र संकोचलेशोऽपि, येनार्थपदार्थत्वेन तद्वयतिरिक्तग्रहणेन संकोचस्यावश्यकत्वाद् आ्रान्तिदर्शनत इत्यत्र देवमनुष्यादि- मात्रेण संकोचो न दोषाय, "यश्चोभयोरि"ति न्यायादिति व्यवस्था च योग्या स्यात्। तत्र यदि सर्वे दश्या अर्थपदेन गृह्यन्ते, तर्हिं ज्ञानातिरिक्तस्य सर्वस्य दृश्यत्वात् परमत आत्मनोऽपि दृश्यत्वात् तस्यापि ज्ञानेऽध्यस्तत्वेन मिथ्यात्वापत्त्या न स्वतस्सिद्धिः। अद्वैते त्वात्मन एवाधिष्ठानस्वरूपज्ञानरूप- त्वाद् ज्ञानार्थयोरिदं रजतमित्यादाविव तादात्म्याद् ज्ञानस्यार्थाभेदवर्णनमुपपद्यते। न चैतत् परमते निर्वहति॥ न च बाधायां सामानाधिकरण्यस्थले सत्यासत्यवस्तुनोरैभ्यम्, किन्तु तादात्म्यम्। तत्फलं तु बाधायामघिष्ठानातिरेकेणारोप्यस्याभावमात्रम् । अतः सामानाधिकरण्यप्रतीतिः। न चात्रान्यतरस्य परित्यागः, परमते तु ज्ञान- स्थार्थात्मताभ्रान्तिः, अर्थज्ञानयोः सामानाधिकरण्यप्रतीतिरुभयमपि बाघितम्, अनुपपन्नं च । अत एव-"जगच्च स" इति विष्णुपुराणोपक्रमे जगङ्गह्मणोः सामानाधिकरण्यश्रुतिः, तद्लेन प्रपञ्चमिथ्यात्वसिद्धिश्च॥ यत्तु-सामानाधिकरण्येनैक्यसिद्धौ जगतोऽपि सत्यत्वापत्ति .- इति, तत्र सामानाधिकरण्यस्यात्र तादात्म्यरूपस्य भेदघटितत्वस्यैव स्वीकारात् सामानाधिकरण्यं नैक्याभिप्रायम्। तथाच "जगच्च स " इति सामानाधि- करण्यमपि तयोर्विवर्तोपादानोपादेयभावाभिप्रायं ब्रह्मणि जगत आरोपेणार्था- त्मना भासमानं ब्रह्मेत्येव गमयति॥ न हीदशमुपादानत्वं ब्रह्मणो जगत प्रति स्वीकर्तु शक्यते परमते, यत्र न ब्रह्म समवायिकारणं नैयायिकदष्टया, न वा परिणाम्युपादानं भास्क- रादिसिद्धान्त इव । तत्र यदि विवर्तोपादानमपि न ब्रह्म, त्हिं त्यज्यतां ब्रह्मो- पादानकथा। यदि परिणाममानप्रकृत्यपृथक्सिद्धया तत् तथा, तर्हि कथमपृथक् सिद्धूधर्मभूतज्ञानसंकोचविकासाभ्यामात्मनोऽपि संकोचविकासौ नाश्रीयेताम्।
Page 283
शब्दप्रमाणम् २२७
इष्टापत्तौ तु साक्षात्स्वरूपज्ञानस्यैव संकोचविकासाभ्यां बाह्यप्रकाशनिर्वाहात् किमन्तर्गडुना धर्मभूतज्ञानेन 2 इति स्वनिरस्तार्हतमतप्रवेशान्न निस्तारः॥ यत्तु-"जगच्च स' इति नोपादानप्रश्नोत्तरम्, किन्तु "यन्मय च जगत् सर्व जगच्चैतच्चराचरम्॥" इति वाक्यगत 'यन्मयमि'ति पदनिर्दिष्टशरीरिप्रश्नोत्तरम् । अभिन्ननिमित्तो- पादानप्रश्नपर तु "यतश्चैतच्चराचरमिति, यस्योत्तरम्-"विष्णो. सकाशा- दुदूभूतं" "स्थितिसयमकर्ताऽसौ" इति। तत्र मयद्प्रत्यय, प्राचु यर्थिक । प्राचुर्य च व्यापकस्य व्याप्त्या। तत्र शरीरी शरीर व्याप्तः, इति "यन्मयमि"त्यस्य शरीरिप्रश्नतोपपत्ति-इति। तत्रान्नमयो यज्ञ इत्यत्र आनन्दमयपरमात्मत्वपक्षेऽपि प्राचुर्यप्रतियोगिनः शरीरित्वं न दृश्यते, न वा तदनुयोगिनः शरीरत्वम्। न चान्नं शरीरि, अन्नमयं शरीरमिति लोके, वेदे वा, इत्युपादानोपादेयभावमादायैव यन्मयमिति मयटूप्रत्यय इति वक्तव्यम्। तत्रोपादानत्वं मृद इव परिणामविधयाऽपि भवति, विवर्तोपादान- विधयाऽपि। तत्र यन्मयमिति विवर्तोपादानप्रश्नः, "यतश्चतच्चराचरम् " इति त्वभिन्ननिमित्तोपादानस्य प्रश्नः। विवर्तोपादानं हि न निमित्तम्, न वा परिणा- म्युपादानम् ; अन्यथा सविकारमेव। किंच- "अविकाराय शुद्धाय नित्याय परमात्मने। सदैकरूपरूपाय विष्णवे प्रभविष्णवे॥" इत्यत्र प्रस्तुतं विष्णुस्वरूपम्, अविकारशुद्धपरमात्मस्वरूपं चैकं वा, नैंक वा यद्यभिन्नम्, तर्हिं तत्र यो विष्णुः, स कारणं कथं शुद्ध: 2 कथं च विकारं विना कार्यकारणभाव इति शङ्कां मनसि निधायैव "यन्मयं च जगद् ब्रह्मन्नि" त्यादिप्रश्नौ, तदुत्तरे च। तत्र प्रथममविकारिकारणस्वरूपप्रश्नोऽधिष्ठानप्रश्नः- यन्मयमिति; अधिष्ठानस्वरूपातिरिक्तारोपितस्वरूपाभावात्। यन्मयमिति स्वार्थे मयट्। औपचारिको विकारे कार्ये वा। ततो "विष्णवे प्रभविष्णवे" इति विष्णुत्वं निमित्तकारणत्वं च यदवगतम्, तद्विषयप्रश्नः-"यतश्चैतच्चरा-
Page 284
२२८ अद्वैततत्त्वशुद्धि:
चरमि"ति। तत्र तटस्थलक्षणविधया प्रथममभिन्ननिमित्तोपादानतया विष्णोरुपा- दानत्वम् "विष्णोः संकाशादुद्भूतं जगदेतच्चराचरमि"ति॥ अत्र विष्णुपदार्थो मायोपहितं सविशेषस्वरूपमेव। तत्र च मायोपधानाद विष्णुरेवोपादानकारणम्, निमित्तकारणं च। तत्रोपादानत्वं मायायाः परिणाम- विधया, ब्रह्मणो विवर्तोपादानतया, विशिष्टस्य निमित्तकारणतयेति विभागः । व्यक्तं चैतत् सिद्धान्तलेशसंग्रहे-ईश्वरोपादानत्वपक्षेऽपि चैतन्यांशस्यैवोपादा- नत्वम्, न तु विशिष्टस्येति। तथाच सविशेषोपादानतायामपि कारणमयत्वं जगतो विवर्तोपादानं चिदंशमात्रमादाय। स एव लक्षणया विशेष्यतया विष्णुपदबोध्योऽविकारः, शुद्धः, नित्यः, परमात्मा, सदैकस्वरूपः, सर्वतादा- त्म्याद् विष्णुः, प्रभविष्णुश्चेति सुष्ठु लगति॥ तत्र सविशेषविष्णोरेव विशिष्टरूपेणात्र मङ्गळश्लोके विवक्षायां तु "यन्मयमि"ति प्रश्नोत्तरम्-"जगच्च स" इति परमते नोपपद्यते, यतो विष्णोरुपादानत्वं न परमते, इति "विष्णोः सकाशादुद्भतमि"त्यत्र पञ्चम्या नोप- पत्तिरुपादानाविवक्षायाम्। हेतुमात्रपरत्वविवक्षावादिनापि प्रकृतिसाधारण हेतुत्वं विवक्ष्यते। तेन चाभिन्ननिमित्तोपादानत्वं विवक्ष्यत इति परमतम्। तत्र च सविशेषस्य ब्रह्मणो विशिष्टरूपेण नोपादानत्वं समवति; विकारित्वापत्ते., "सत्यं ज्ञानमि"त्यादिनाऽनन्वयाच्च। विशेषणांशस्तु प्रकृतिर्विष्णोश्शक्तिरूपेति हि विष्णुपुराणं श्रावयति। न हि तस्याः प्रकृतित्वं विष्णोर्भवति ॥ अतो 'जगच्च सः' इत्यधिष्ठानारोप्यभावनिबन्धनतादात्म्यम्, अधिष्ठा- नव्यतिरेकेणारोप्याभावलक्षणं बाघायां सामानाधिकरण्य एव पर्यवस्यति। तेन च- "यद् ज्ञात्वा नेह भूयोऽन्यद् ज्ञातव्यमवशिष्यते" इति गीतावगत सर्वस्य ब्रह्मात्मत्वमेव वस्तुसदिति तत्त्वमेव जगच् स इति विष्णुपुराणं बोघयतीति व्यक्तमन्यत्र ।।
Page 285
शब्दप्रमाणम् २२९
"यन्मयमि"त्यत्र तु मयट् सार्थे वा भवतु, विकारार्थे वा। प्राचुर्यार्थ- त्वं तु नात्र संभवति, येन शरीरशरीरिभावपरताऽत्र स्यात्। तत्र पश्चम्यर्थो न प्रकृतित्वमेव; तथापि तस्य प्रकृत्यर्थत्वे न विवाद इति तु परमार्थप्रकाशिकापि वदति। तावदेवाद्वैतिनामपि पर्याप्तम्। अत्र शरीरवाचकानां पदानां शरीरि- पर्यन्तत्वं परमतसिद्धं न सांप्रतं परीक्ष्यते ; अनपेक्षितत्वात्। यथावसरं तु तदपि समालोचयिष्यते॥ स्वार्थे मयटि यन्मयमिति प्रश्नोत्तरं जगन्मिथ्येत्येव वक्तव्यम्; तथापि मिथ्यापदार्थानामपि स्वरूपं न शशविषाणादिवतुच्छं स्वरूपम्, किन्तु तदधिष्ठानस्वरूपमेव पारमार्थिकमिति निरूपणं तदधिष्ठानस्वरूपवर्णनं विना न निर्वहति। अत एव "जगच्च स" इति बाघायां सामानाघिकरण्येनोत्तरम्। जगन्मिथ्या, जगद्विष्णुरिति चानर्थान्तरम्। विष्णुपदस्थाने सपदं प्रयुक्तम्। न च तथा बोधने सत्यत्वमापततीति बाधायां सामानाधिकरण्यमिति पूर्वमेवोक्तम्। तत्र यन्मयमिति प्रश्नार्थो यदधिष्ठानक इति। अधिष्ठानत्वं तु केवलस्य न भवति, किन्तु सपरिणामिकारणकस्य, तथा निमित्तकारणापेक्षस्येति प्रश्नत्रयमप्यावश्यक- मेव। उत्तरमपि प्रश्नत्रयस्य सम्यगेव-"विष्णोः सकाशादुद्भूतम्" "स्थितिसंयमकर्ताऽसौ" "जगच्च सः" इति, इति विष्णुपुराणवचनानि सर्वाण्यद्वैतमते न विरुद्धानि॥ अत्र विष्णुपुराणम्- "सोहमिच्छामि धर्मज्ञ श्रोतुं त्वतो यथा जगत। बभूव भूयश्च यथा महाभाग भविष्यति ।।" इति जगतः सृष्टिप्रळययो: प्रश्नमुपक्रम्य- "यन्मयं च जगद्गह्मन् यतश्चैतच्चराचरम्" इति तं प्रश्नं विवृण्वद् "यथा बभूवे "त्यस्यांशस्य लयकाले यदात्म जगदसीत्, यदुपादानकमासीदिति प्रश्नाशयं "यन्मयमि"त्यनेनोपक्षिपति। "भूयश्चे"त्यनेन
Page 286
२३० अद्वततत्त्वशुद्धि:
प्रस्तुतसृष्टिप्रश्नाशयं "यतश्चैतच्चराचर" मित्यनेन विवृणोति। लीनमासीत्, लयमेष्यतीति तु "यथा बभूव भूयश्च भविष्यति"त्यस्यैव विवरणम्, नतु प्रश्नान्तरम्। सति चवं "यतश्चैतच्चराचरमि "त्यस्य प्रथममुक्तस्य "यन्मय मि"ति लीनमासीत्, लयमेष्यतीति च प्रश्नस्यानन्तरमुत्तरं "विष्णोस्सकाशादु- द्भूतम्" "जगच्च स" इति च यथाक्रमम् ॥ तत्र सृष्टिप्रश्नस्य स्थितिप्रश्नोपलक्षणत्वात् स्थितिसंयमकर्तेति स्थितिकर्तुरपि समाघाने निर्देशः। न चात्र शरीरशरीरिभावप्रश्नः, लीनस्य जगतः प्रलयावस्थस्य ब्रह्मशरीरत्वाभावात्। ततश्र "यतो वा इमानि भूतानि जायन्ते" इति श्रत्यर्थविवरणमेवात्रोत्तरम्, इत्यभिन्ननिमित्तोपादानं ब्रह्म। तत्राप्युपादानतवं विवर्तविधयेत्यभिप्राय एव विष्णुपुराणोपक्मः । अत एव "अविकाराय शुद्धाये"ति महोपक्रमोऽपि। तथाच पूर्वोक्तरीत्या सविशेषमुखेन निर्विशेष- स्वरूपप्रतिपादनपरमेव विष्णुपुराणम्॥
अत एव षष्ठांश उपसंहारे- "तद्धावभावमापन्नस्ततोऽसौ परमात्मना। भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत्।।" "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं क: करिष्यति ॥" इति। सति चैवं विष्णुपुराणगतं विष्णुपदमपि निर्विशेषस्वरूपपरमेव। अत एव हि तत्रैव- "अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । बिम्बमेतत्परं चान्यद्वेदभिन्नदृदशां नृणाम्।। प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम्। वचसामत्मसंवेद्यं तद् ज्ञानं ब्रह्मसंज्ञितम्।।
Page 287
शब्दप्रमाणम् २३१
तच्च विष्णोः पत रूपमरूपाख्यमनुत्तमम् । बिम्बस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ न तद्योगयुजा शकयं नृप चिन्तयिंतुं यतः । ततः स्थूलं हरे रूपं चिन्तयेद् विश्वगोचरम्॥ हिरण्यगर्भो भगवान् वासुदेवः प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः॥ एवत्सर्वमिदं विश्वं जगदेतच्चराचरम्। परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ।" इति हिरण्यगर्भवासुदेवादीनामपि विभूतिकोटौ निर्देशः, निर्विशेषस्वरूपस्यैव पारमार्थ्यप्रतिपादनं चोपपद्यते।। प्रसीद सर्व सर्वात्मन् क्षराक्षरमयेश्वर। ब्रह्मविष्णुशिवाख्याभि: कल्पनाभिरुदीरितः ।।
अनार्येयाभिधान त्वं नतोऽस्मि परमेश्वर ।। न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । तङ्गह्म परमं नित्यमविकारि भवानजः ॥ न कल्पनामृतेऽर्थस्य सर्वंस्याघिगमो यतः । ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरीड्यते।। इति वस्तुतो निर्विशेषात्मना भगवतः पश्चमांशे स्तुतिरक्ररस्थोपपद्ते। अनेन स्पष्टमवगम्यते-निर्विशेषस्य कल्पितैर्नामरूपादिभिरेव प्रथमतोऽधिगम :? ततस्तु तत्र नामरूपादिहीनतया क्रमेणानुसन्धानं स्वरूपानुसन्धाने पर्यवस्य- तीति। अत एव षष्ठांशे-परापरभेदेन मूर्तमूर्ताभेदेन च परमात्मनश्चातुर्विध्यं प्रस्तुत्य परमार्थस्वरूपम्-
Page 288
२३२ अद्वैततत्त्वशुद्धि:
"यच्च मूर्त हरे रूपं यादक् चिन्त्यं नराधिप। तच्छ्यतामनाधारा धारणा नोपपद्यते।। <6 प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम्। सुकपोलसु विस्तीर्ण ललाटफलको ज्वलम्। समकर्णान्तविन्यस्तचारुकुण्डलभूषितम्। कम्बुग्रीवं सुतिस्तीणश्रीवत्सांकितवक्षसम्। वलित्रिभङ्गिना भग्ननाभिना हयुदरेण च। प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ समस्थितोरुजङ्घं च सुस्थितांड्घ्रिवराबुजम्। चिन्तयेद्दह्मभूतं तमतिनिर्मलनाससम् ॥ किरीटहारकेयूरकटका दिविभृषितम्। शार्ङ्गशंखगदाखङ्गचक्राक्षवलयान्वितम् ॥ वरदाभयहस्तं च मुद्रिकारत्नभूषितम्। चिन्तयेत तन्मयो योगी समाधायात्ममानसम्॥ यावत्तावद् द्रवीभूता तत्रैवत्ववधारणा। व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा। ततश्शंखगदाचक्रशार्ङ्गादिरहितं बुध। चिन्तयेद्धगवदूपं प्रशान्तं साक्षसूत्रकम्।॥ सा यदा धारणा तद्वदवंस्थानवती ततः । किरीटकेयूरयुग्मैर्भूषणै रहितं स्मरेत्।। तदेकावयवं देवं चेतसा हि पुनबुघ। कुर्यात ततोऽवयविनि प्रणिधानपरो भवेत्।
Page 289
शब्दप्रमाणम् २३३
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि तत्। मनसा ध्याननिष्पादं समाधिस्सोऽभिधीयते॥ इति सर्वकल्पनातीतं स्वरूपमात्रमेव परमात्मनः परामूर्तरूपमेव परं तत्त्वमिति प्रतिपादयते। सति चैवं परविद्या प्रतिपादं परस्वरूपं द्विविधं श्रवयति-मूर्तम्, अमूर्त च। तत्र मूर्तं भूतयोनि:, अमूतमकारणम्, यत्-"यत्तदद्रेश्यमग्राह्य- मवर्णमि"त्येवमादिनोपक्रमे निविशेषं प्रस्तूयते, तं भूतयो निमित्यादिना, यस्सर्वज्ञ स्सर्वविदित्यादिना च परं भूर्तं श्रावयति। तत्रापरविद्या यद्यपि शब्दब्रह्मैव; अर्थब्रह्म तु द्विविधमिति निर्णीयते विष्णुपुराणेन ।। "यत्तदव्यक्तमजरमचित्यमजमव्ययम्। अनिर्देश्यस्वरूपं च पाणिपादाद्यसंयुतम्।। विभु सर्वगतं नित्यं भूतियो निरकारणम्। तद्गह्म परमं धाम तद्धयेयं मोक्षकाडिक्षभिः॥ श्रुतिवाक्योदितं सूक्ष्म तद्विष्णोः परमं पदम्। तदेव भगवच्छब्दस्वरूपं परमात्मनः ॥ वाचको भगवच्छब्दस्तस्याक्षयपरात्मनः । अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज।। पूजायां भगवच्छब्द: क्रियते ह्युपचारतः । शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दितः ॥ मैत्रेय भगवच्छब्दः सर्वकारणकारणे। एवमेव महान् शब्दो मैत्रेय भगवानिति। परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ।। तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोडयं नोपचारेण त्वन्यत्र ह्यपचारतः ।।"
Page 290
२३४ अद्वततत्त्वशुद्धि
इति वचनानि हि-परस्य सूक्ष्मस्यामूर्तस्य परमात्मनो भगवच्छब्दवाच्यत्व- मुपचारेण वा, परिभाषया वा। तत्र प्रथमपक्षे भगवच्छब्दस्य सविशेषे रूढिः, शुद्धब्रह्मण्युपचारात् , लक्षणया वा भगवच्छब्दः। द्वितीये ब्रह्मणि भगवच्छब्दस्य संकेतः, सविशेषे तु तस्योपचारः। परमूर्ते रूढिः, परामूर्ते वा रूढिरिति तु निष्कर्षः । तत्र शब्दब्रह्मण उपकममात्रम्, न तत्र विशेषाणां श्रवणमिति वस्तुस्यितिः । अत एवोक्तमामोदे- "अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज। पूजायां भगवच्छब्दः क्रियते ह्यौपचारिक: ॥" इतिवचनाद् भगवच्छब्दोऽपि ब्रह्मण्यौपचारिकः । अत एव- "शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दितः । मैत्रेय भगवच्छब्दः सर्वकारणकारणे"॥ इत्युत्तरसन्दर्भ :- इति॥
परमार्थप्रकाशिका तु-पूर्वसन्दर्भपर्यालोचनया "अशब्दगोचरस्या- पीति शब्दब्रह्मपरम्, न तु मुख्यब्रह्मपरमिति-वदति॥ तत्र शब्दब्रह्मणोSपरविद्याया वा नात्र संबन्धलेशोऽपि। "तस्यैवं ब्रह्मण- स्तथा" इति तच्छब्देन त्रयीमयस्य ब्रह्मण एव ग्रहणं स्यात्-यदि तस्य प्रतिपाद्यत्वम्। पूर्वोदाहृतपञ्चमांशवचनानिपरमात्मनस्तत्छ्दवाच्यत्वं कल्पनामात्रेण, एवमेव षष्ठांशे सरूपमपि तस्य धारणार्थ कल्पनामात्रेणेति प्रतिपादयन्ति। कथं चामूर्तस्य निर्विशेपस्य मुख्यं भगवच्छब्दवाच्यत्वम् ? संकेतमात्रेण मुख्यार्थत्वं त्वन्यत्रोपचारमेव स्थापयति। अत एव परामूर्त प्रस्तुत्य- "प्रत्यस्तमितभेंदं यत् सत्तामात्रमगोचरम्। वचसामात्मसंवेद्यं तजज्ञानं ब्रह्मशब्दितम्।।"
Page 291
शब्दप्रमाणम् २३५
इति ब्रह्मशब्दस्यात्र भगवच्छब्दस्येव निर्विशेषे ब्रह्मणि संकेत उपपद्यते। तथाच निर्विशेषस्य ब्रह्मणोऽपि कल्पित शब्दवृत्तिविषयत्वं वर्तत इति विष्णुपुराणं श्रावयति। किं बहुना 2 आदित आन्तं विष्णुपुराणमद्वैतानुगुणमेव। तत्रापि केवलाद्वैतानुगुणमेव।। तथाहि-विष्णुपुराणस्य षडंशाः। तत्र प्रथमेंऽशे मैत्रेयप्रश्नोत्तरे अद्वैत एव स्वरसे। ततस्तु परविद्याप्रतिपादं प्रकृत्युपहितं ब्रह्मस्वरूपं प्रस्तुत्य तस्य सत्वरजस्तमःप्रधानमायोपघानेन ब्रह्मविष्णुरुद्रात्मता प्रतिपादिता। तथाच त्रिमूर्त्यतिरिक्तो मायोपहि तस्तटस्थलक्षणविधया भूतयोनिः, परमार्थतस्तु प्रधान- पुरुषब्रह्मणां त्रयाणामनादीनां प्रक्रमात्-"अक्षरात्परतः परः" इति निर्दिष्टं प्रधानानुपहितं तत्त्वमेव मुख्यं तत्त्वमिति निर्धार्यते॥
तत्र- "तन्निबोध यथा सर्गे भगवान् संप्रवर्तते। नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः ।।" इति सर्गावस्थब्रह्माणं नारायणविष्ण्वादिपदैरनुकृष्य- ब्रह्मस्वरूपी भगवाननादिस्सर्वसंभवः । अत्र चोदाहरन्तीमं श्लोकं नारायणं प्रति।। "आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः पूर्व तेन नारायण: स्मृतः ॥" इति नारायणपदार्थत्वमुपसंहियते। इंद चोपलक्षणम्-स्थितिसंहारावस्थस्य विष्णुरूपिणो रुद्ररूपिणश्च, इति नारायणपदमुख्यार्थत्वमात्रेण न त्रिमूर्त्यन्तर्गत- स्य विष्णोरेवात्र पुराणे विष्णुपदार्थत्वम्, किन्तु मूर्तित्रितयमूलतत्त्वस्य मायो- पहितस्य, तस्यापि मूलतत्त्वस्य वा निर्विशेषब्रह्मण एव ब्रह्मपदेन विशिष्य प्रस्तूय- मानस्येति सिद्धम्। ततश्र स्थित्यवस्थायां नारायणं विष्णुपदेनानुकृष्य
Page 292
२३६ अद्वैततत्त्वशुद्धि:
तस्यैव लक्ष्मीः पत्नीति प्रतिपादनेन तयोरुभयोरपि सर्वान्तर्यामित्वेन स्थिति- नियामकत्वस्त्रीपुरुषान्यतररूपेणावस्थेति विवृतम्। स एव च ध्रुवाद्युद्धरणेन स्थित्यवस्थ इति बहुभिरुपाख्यानैरुपवृहितम्। तथाच सवषां नारायणपदमु- ख्यार्थत्वेऽपि स्थितिमतो विशिष्टमुपासने स्थानं भूर्तित्रये, परंतु मुख्यं ब्रह्म मूर्तित्रयातीतं तुरीयमेव। नारायणपदयौगिकार्थस्तु मुख्यो लोकपितामहो ब्रह्मैव।I
ततोऽसंप्रज्ञातसमाधिद्वारा प्रत्यगात्मावलम्बनं तत्पदार्थावलम्बनं च ज्ञानमनुक्रम्य,
"उभयोस्त्वविभागेन साध्यसाधनयोर्हिं तत्। विज्ञानमद्वैतमयं तद्भागोऽन्यो मयेरितः ॥ ज्ञानं न यस्य वै तस्य विशेषो यो महामुने। तन्निराकरणद्वारा दर्शितात्मस्वरूपवत्।। निर्व्यापारमनार्येयं व्याप्तिमात्रमनुत्तमम्। आत्मसंयोगविषयं सत्तामात्रमलक्षणम् ।।
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम्। विष्णोर्ज्ञांनं तु यस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम्।।" इत्यादिना स्थितिकर्तुः प्रस्तुतस्य ज्ञानमयस्यापि मूलतत्त्वं सन्मात्रमद्वैतं निर्विशेपं ब्रह्मशब्दितमवतारितम्, यदेव-"अक्षरं तत् परं ब्रह्मे"ति चोपसंहृतम् ॥ तत्रामूर्तस्य परब्रह्मेति, मूर्तस्य तु परस्य हरिविष्ण्ादिपदैरुपदेशसतत्र तत्र दरीदृश्यते। ततोऽन्ते- "आत्मानमस्य जगतो निर्लेपमगुणालयम्। बिभर्ति कौस्तुभमणि स्वरूपं भगवान् हरिः ॥"
Page 293
शब्दप्रमाणम् २३७
इत्यादिना कौस्तुभ-श्रीवत्स-गदा-शंख शार्ङ्ग-चक्र-वैजयन्तीशरासि-कोशरूपेण
विद्यापेरूण निरुप्य- "अस्त्रभूषणसंस्थानं स्वरूपं रूपवर्जितम्। बिभर्ति मायारूपोडसौ श्रेयसे प्राणिनां हरिः ॥" इति वस्तुगत्या मूर्तस्यापि सविशेषस्य ब्रह्मणो विशेषा मायामया इति प्रति- पादते। तेन च पूर्वोदाहृतषष्ठांशवचनानुसारेण क्रमेण तत्तदूपराहित्येनानु- संन्धानमेव मोक्षसाधनमिति प्रथमांशषष्ठांशोपसंहाराभ्यामवगम्यते। द्वितोयांशेडपि- "स च विष्णुः परं ब्रह्म यतस्सर्वमिदं जगत्। जगल्लयो यत्र चेदं लयमेष्यति सर्वशः ॥ तद्गह्म परमं धाम सदसत्परमं पदम्। यस्य सर्वमभेदेन यतश्रैतच्चराचरम्। स एव मूलप्रकृति: व्यक्तरूपो जगच्च सः ।" इति प्रथमांशोपक्रमक्रमेण सर्वोपादानं ब्रह्म प्रस्तुत्य, तस्य मूलप्रकृतित्वं व्यक्त- रूपेण जगद्रपत्वं चानुसन्दधानः कार्यकारणभावनिबन्धनम् "जगच्च सः" इति वचनं विशदीकुर्वन् पराशरोऽन्तेऽहमर्थम्- "एको व्यापी समशशुद्धो निर्गुणः प्रक्ृतेः परः । जन्मवृद्धयादिरहित आत्मा सर्वगतोऽव्ययः ॥ यस्यात्मपरदेहेषु सतोडप्येकमयं हि यत्। विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः॥ वेणुरन्ध्रप्रभेदेन भेद: षडजादिसंज्ञितः । अमेदो व्यापिनो वायोस्तस्यैवं परमात्मनः ॥।"
Page 294
२३८
इति एकत्वसर्वगतत्वौपाधिकभेद मिन्नत्वादि मे देनोपदिश्य निर्विशेषचिन्मात्रं जीवात्मस्वरूपं परमार्थस्वरूपमिति विविनक्ति॥ तृतीयतुरीयांशौ मन्वन्तरवंशानुचरितयोर्विस्तरेणोपपादनप्रसगेन वर्णा- श्रमधर्मादीन् विवेचयतः । पचमांशस्तु भगवतः श्रीकृष्णस्य जन्मादिवैकुण्ठलोकप्राप्त्यन्तचरित- वर्णनप्रसङ्गेन भगवतो निर्विशेषमेव मुख्यं तत्त्वमिति प्रतिपादयतीति पूर्वमेव निरूपितं तत्राक्रूरस्तुतिसमालोचनेन ।। अत्रापि परापरविद्याया विस्तरेणादौ समाकलनं निर्विशेषम्, विश्वरूपं वा, तदपि धारणार्थ कल्पितमेवेत्यक्रूरस्तुतिप्रसगेन परमात्मनोऽवाच्यत्वादिकं व्यवस्थापितम्। अत्रापरविद्यायाः शब्दब्रह्मरूपेण पृथक् करणाद् तयोः परस्पर- सम्बन्धाभावः, परविद्यार्थस्याशब्दगोचरत्वं च विशदीक्रियते। "प्रकृतेः परः" इति "अक्षरात्परतः पर" इति च प्रकृतिसंम्बन्धविनिर्मोको विशदमवगम्यते॥ किं बहुना 2 द्वितीयांशोपसंहारे-ऋभुनिदाधसंवादे- "तदेतदुपदिष्ट ते संक्षेपेण महामतम्। परमार्थसारभूत यदद्वैतमशेषतः । एवमुक्तो ययौ विद्वान्निदाघं स ऋभुर्गुरुः । निदाधोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् । सर्वभूतान्यभेदेन दद्दशे स तदात्मनः । एवं ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तिदृष्टिभिरात्मापि तथैकस्सन् पृथक् पृथक् ॥।" "सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्।।"
Page 295
शब्दप्रमाणम् २३९
इति न केवलं परमात्मा, किंतु जीवात्माऽपि संविन्माम्, न नाना ; किन्तूपाधिभेदाद्भिन्न इव भातीति डिण्डिमयति। सवषामेतेषां वचनानामद्वैत- परतयैवादित आन्तं प्रवृत्तानामपि न केवलाद्वैते तात्पर्यम्, किन्तु विशिष्टा- द्वैत एवेति वादो घटस्य पटीकरणमेव, यदागमानां सहस्त्राणामपि दुःशकम्। सर्वथा तु विष्णुपुराणं बहषु स्थलेषु जगतां भ्रान्तिदर्शनत एव स्थितिम्- "प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम्। वचसामप्यसंवेद्यं तज्ज्ञानं ब्रह्मसांब्दितम्।।" इति निर्विशेषे संविन्मात्रे ब्रह्मशब्दं संकेतयच्चाज्ञानकल्पित जगद् ब्रह्मणीति विवेचयति॥
तत्र ब्रह्माज्ञानकल्पितत्वं न भवतीत्यत्र परमतेनाज्ञाने षडनुपपत्तयः प्रधाना: प्रदर्श्यन्ते,-(१) आश्रयानुपपत्तिः, (२) सा द्विविधा-ब्रह्माश्रयानु- पपत्तिः, जीवाश्रयानुपपत्तिः-इति। (३) तिरोधानानुपपत्तिः । (४) स्वरूपानु- पपत्तिः, साऽपि भावरूपतानुपपत्तिः, अनिर्वचनीयत्वानुपपत्तिश्चेति द्विविधा; (५) प्रमाणानुपपत्तिस्तु-प्रत्यक्षप्रमाणानुपपत्तिः, अनुमानप्रमाणानुपपत्तिः, आगमप्रमाणानुपपत्तिः, अर्थापत्त्यनुपपत्तिरिति चतुविधा, (६) निरवरतकानुपपत्तिः, निवृत्त्यनुपपत्तिः-इति ॥ तत्र प्रथमं ब्रह्माश्रयत्वमविद्याया :- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्यो भवति नापि गोचरः ॥" इति वचनमुपपाद्यति। तत्र ब्रह्मणो ज्ञानरूपस्याज्ञानस्य तमोरूपस्य च तेज- स्तिमिरयोरिव विरोधादज्ञानस्य ब्रह्मश्रयत्वपक्षाक्षेपनिरासः प्रमाणजन्यज्ञान- स्यैवाज्ञान निवर्तकत्वेन विरोधित्वात्, स्वरूपप्रकाशस्य तदविरोधित्वाद् न ब्रह्मा- श्रयत्वमज्ञानस्य नोपपद्यत इतीष्टसिद्धयादौ क्रियते। इंद तु प्रस्थानान्तरम्॥
Page 296
२४० अद्वैततत्त्वशुद्धि:
प्रस्थानान्तरं तु ब्रह्मसिद्धि-भामतीकारादीनां जीवाश्रयत्वमज्ञानस्य, न ब्रह्माश्रयत्वमिति। तत्र जीवाश्रयत्वपक्षोपपादनप्रसगेनामोदस्य-"माऽस्तु वा ब्रह्माश्रयत्वमि "ति वाक्य व्याजीकृत्य परमार्थप्रकाशिका वदति-"तया ब्रह्माश्र- यत्वं नेष्टमि"ति। तुष्यतु दुर्जन इति न्यायेन प्रक्रमवाक्येनैव तत्रानिर्भर- परेण परमार्थप्रकाशिका चेत् सन्तुष्यति, सन्तुष्यतु नाम। ब्रह्माश्रयत्वपक्षस्तु न दुष्टत्वादनिष्ट आमोदस्य, किन्तु प्रस्थानान्तरोपन्यास एव तस्य निर्भरः। श्रीभाष्योपक्षिप्स्य पक्षान्तरस्यापि न प्रसंग इति निरूपणप्रसंगेन हि ब्रह्माश्रय- पक्षोपसंहारः, पक्षान्तरोपक्रमश्च। तथाचाविद्याया ब्रह्माश्रत्वानुपपत्तेरस्माभिरनभ्यु- पगमादिति प्रस्थानान्तरमवलब्यैवैति विज्ञायाऽडमोदतु प्ररमार्थप्रकाशिका॥
इतः परं जीवाश्रयत्वपक्षः समालोच्यते। तत्र जीवाश्रयत्वमज्ञानस्य जीवोपाधित्वमात्रेण। जीवो हि त्रिविध :- अज्ञानावच्छिन्नः, यस्यान्तःकरणा- द्युपाध्यन्तरसंम्बन्धादहंभावादिः । स हि नाज्ञानाश्रयपदेनोच्यते, किं त्वज्ञानो- पहितपदेन। तथाच ब्रह्मचैतन्यस्याविद्योपाधित्वमात्रेऽपि तत्कार्यान्तःकरणा- वच्छेदाद् जीवपदेन व्यपदेशः। तत्राविद्याश्रयत्वं जीवस्य ब्रह्मोपाध्यविद्या- कार्यान्तःकरणाश्रयत्वम्, न तु साक्षादविद्याश्रयत्वम्। अत एव ब्रह्माविद्यो- पहितं जगदुपादानम्, ब्रह्मैव वृत्त्युपहितमज्ञाननिवृत्त्या मुक्तात्मेति व्यवस्था। तथाच परमतेऽनादिप्रकृतिसंबन्ध इव ब्रह्मणोऽनाद्यविद्योपधानम्, तेन च कारणत्वम्, जीवत्वं च, न तु जीवस्याज्ञानाश्रयत्वम्। अत एव केषांचन जीवकारणाताभ्रमनिवारणार्थ वदति कल्पतरु :-
"जीवाज्ञानाज्जगत्सर्व सकारणमिति ब्रुवन्। क्षिपन् समन्वयं जीवे न लेजे वाक्पतिः कथम्॥"
इति भामतीतात्पर्यविवेचनार्थम्। तथाच जीवाश्रयत्वपक्षेऽन्योन्याश्रया- पादनं चिन्मात्रस्यानाद्यविद्योपाधि प्रयुक्तानादयन्तःकरणाश्रयत्वाज्जीवभावस्य न
Page 297
शब्दप्रमाणम् २४१
प्रसरत्यपि। व्यक्तं चैतद् ब्रह्मसिद्धौ। तत्राद्वैतसिद्धधादावनादित्वान्नान्योन्याश्रय इति वचनस्यापि पूर्वोक्त एवाशयः ॥। एतेन-जीवस्याज्ञानश्रयत्वं न भवति, जीवभावस्याविद्याधीनत्वेना- न्योन्याश्रयादिति-परास्तम्, वस्तुतस्तु परमतेऽपि स्वरूपचैतन्यस्य स्वप्रकाशस्याविद्याविरोघिखवात् कथं कर्मरूपाविद्याश्रयत्वम् १ यदि तस्य नाज्ञानविरोित्वम्, कथं तस्य ब्रह्माश्रयत्व- पक्षस्याक्षेपः 2 दोषसाम्यात्। 'यश्चोभयोः समो दोषो न तत्रान्यतरोऽनुयोक्तव्यः' इति न्यायात। एवमहमर्थोऽनादिरविद्याश्रय इति भवन्मतेऽपि कर्मरूपाविद्या- श्रयत्वेन जीवत्वम्, जीवत्वे सिद्धे कर्मरूपाविद्याश्रयत्वमिति कुतो नान्यो- न्याश्रयः १ यदि प्रावाहिकानादित्वात्, तहींदं सिद्धम्-जीवत्वमप्यनादि, कर्मसबन्धोऽप्यनादिरिति। तावताऽपि कथमन्योन्याश्रयपरिहारः, यद्यनादि- त्वेन, तर्हि तुल्यम्।। तत्रानादित्वं नैसर्गिकम्, उत प्रवाहतः। आद्ये प्रकृतेरिव कर्मणामप्य- विनाशापत्तिः, द्वितीये जीवभेदे कर्मभेद इत्युभयभेदात कृतहानाकृताभ्युप- गमप्रसंगः। तत्र जीवस्वरूपमात्रं यदि नैसर्गिकमनादि, कर्मरूपाविद्यासम्बन्धस्तु प्रवाहतः, त्हिं कर्मसंबन्धस्य शरीराद्यपेक्षत्वाच्छरीरसंबन्धाघीना कर्मसिद्धिः, कर्मसिद्धया च शरीरसिद्धिरित्यन्योन्याश्रयः। अदृष्टस्य कर्मरूपाविद्याया अप्रत्य- क्षत्वात् तदधीनशशरीरसम्बन्ध इति न बीजाङ्कुरन्यायेन निर्वोदुं पार्यते। बीजाक्कु- रादौ कासुचन परपरासु कार्यकारणभावस्य प्रत्यक्षत्वेन खल बीजाङ्कुरन्यायः ॥ एतेन-युष्मन्मते कर्मप्रवाहवत् बीजांकुरन्यायेनोपपत्तिरिति चेतू, तर्ह्यनेकाविद्यास्वीकारापत्ति। तत्र च पूर्वपूर्वाविद्यानिवृत्तिः कथम्, तत्त्व- ज्ञानाभावे मिथ्याभूतस्य निवृत्त्ययोगात्। निवृत्त्यभावे किमविद्यान्तरकल्पनेन? कथ च कल्पनातः प्राक मिथ्याभूताविद्यासद्धाब इत्यादिप्रश्नपरम्परा- निरालम्बा , "नैसर्गिका विद्यान्तःकरणसंबन्धाधीनत्वाद् जीवभावस्य तस्याऽडब्रह्मसा- क्षात्कारमेकस्यैव स्वीकारात्, प्रावाहिकानादित्वस्यास्वीकारादनेकाविद्या- 16
Page 298
२४२ अद्वैततत्त्वशुद्धिः
कल्पनवैयर्थ्याच्च। भवन्मते तु प्राथमिककर्मसंबन्धः कथमिति प्रश्नस्तु दुष्परि- हारः। अतोऽज्ञानस्य ब्रह्माश्रयत्वं जीवाश्रयत्वं च नानुपपन्नम्।। अत एव तिरोधानोपपत्तिरपि व्याख्याता। न हि स्वरूपज्ञानमज्ञानस्य विरोधि, इति पूर्वस्मिन् प्रकरण उपपदितत्वात् कण्टकेन कण्टकोद्धरणन्या- येनाSSविद्यकान्तःकरणवृत्युपधानस्यैवाज्ञाननिवर्तकत्वात्। तत्र मेघैः सूर्यस्या वरणवदत्रोपपत्तिरनुसन्घेया। यत्त-मेधैः सूर्यप्रकाशस्य तिरोधानं तस्य प्रकाशस्य ज्ञानरूपत्वाभावाद् मेधैस्तत्प्रसरप्रतिबन्धाच्चास्माकं तदग्रह्णम्, ब्रह्मप्रकाशस्य तु ज्ञानरूपतया तद्विनाशाभावे ब्रह्मग्रहणमस्त्येवेति कथ तिरोधानम्-इति ? तत्रेदमनुयुज्यते-यदि सूर्यप्रकाशस्य ब्रह्मणो ज्ञानरूपस्य च वैलक्षण्यम्, तथान्धकारस्य, ज्ञानस्य च, तहिं कथं तेजस्तिमिरयोरिव ज्ञानाज्ञानयोर्विरोधो- डभिसंहित इति। तत्र यदि प्रकाशाप्रकाशाभ्याम्, अप्रकाशतिरोधानाभ्यां च साम्यम्, तर्हि प्रकृतेऽपि मेघैस्तिरोधानं प्रकाशस्य कथ न दृष्टान्ततामर्हति ? न च स्वरूपज्ञानाज्ञानयोविरोधकथाऽपि, अन्यथा कर्मरूपाविद्यासम्बन्धो जीवस्य स्वरूपज्ञानस्य कथम् 2 अत एव ब्रह्मरूपं ज्ञानं नाज्ञानस्य नाशकम्। तत एव यावदखण्डाकारवृत्ति न ब्रह्मणो ग्रहणमपि, इति न तिरोधानमज्ञानेन स्वाश्रयेण स्वोपाधिना वा ब्रह्मणो नोपपद्यते। अनेनाज्ञानस्वरूपमपि व्याख्यातम्। तमःप्रकृत्यादिशब्दाभिधेयं हि तदावरणविक्षेपशक्तिमत् किंचिद्धावरूपमिति निगदं व्याख्यातम्। प्रकृति- शब्दवाच्यत्वात्, मायापदार्थत्वाच्च। तस्य विक्षेपशक्तौ न परस्यापि विप्रति- पत्तेः संभावनाऽपि। तमश्शब्दवाच्यत्वं तु तस्यावरणशक्तिं विना नोपपद्यते। "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः॥ इति गीता तु ज्ञाननाश्यत्वमज्ञानस्य प्रतिपादयन्ती, अज्ञानस्यावरणशक्ति मकाशापरपर्यायज्ञाननाश्यत्वं च द्रढयति।
Page 299
शब्दप्रमाणम् २४३
इदमज्ञानं न ब्रह्मण: शक्तिः, तस्यांशो वा, किन्त्वनाद्यध्याससम्बन्धाद ब्रह्माश्रितम्, ब्रह्मावरकं च। अतो न ब्रह्मपरिणामवादः, किन्तु तद्विवर्तवाद एव, इति नाद्वैतमते ब्रह्मपरिणामवादादिप्रसंगः। तत्र तत्र तस्य शक्तित्वेनोल्लेखस्तु ब्रह्मण आवरणेन विवर्तमानताप्रयोजकत्वमात्रेण, न तु भास्करादिमत इव तच्छक्तित्वेन। अत एव न सा ब्रह्मणोडभिन्ना, येन ब्रह्मवत् सत्यत्वापत्तिः । नाप्यत्यन्तभिन्ना; तत्रानाद्यघ्याससिद्धस्य तस्य तेन तादात्म्यात। अत एव नाद्वैतविरोघोऽपि ; अनादेरप्यस्य ज्ञानबाध्यत्वेन तेन सद्वितीयत्वस्या- भावात्। अनावृतसंविन्मात्रं खल्वद्वैतं नाम। न च तादृशे ब्रह्मण्यज्ञानम्, अन्यद्वा द्वितीयं सजातीयं विजातीयं स्वगतं वा संभाव्यतेऽपि, इति नाद्वैतहानि- रज्ञानस्वीकारेऽपि। ब्रह्माश्रितं तदावरकं चाज्ञानं तदुपहितस्य तत्प्रतिबिम्बस्य वा जीवस्य भासते, अहमज्ञ इति तस्यैवानुभवात्।। अनादीदमज्ञानं स्वप्रकाशब्रह्मावरकमपि तेन सर्वदा प्रतिभासाद् यावत्सत्त प्रतिभासात् सुखादिकमिव प्रातिभासिकमुच्यते, न तु शुक्तिरूप्यादि- समतया प्रातिभासिकसत्तया। व्यावहारिकं हि तत्। यदप्रतिभासमानं न कदापि न समस्ति, तदेव प्रातिभासिकं नाम। अनादिरविद्यासंबन्धः। तत्सम्बन्धप्रयुक्त ईश्वरश्च तद्विशिष्टः तत्प्रतिबिम्बो वा। उभयथापि मायाया यावद्ब्रह्मसाक्षात्कार- मविनाशात् प्रलयेऽपि न तदभावः ॥ सकलघीवासनोपरक्तचैतन्यमीश्वर इति पक्षे तु जीवस्येव कारणात्मना विद्यमानोपाध्युपधानात् प्रलयेऽपि सत्त्वमिति न कोऽपि दोषः। तत्राज्ञत्वमज्ञान- कार्योपाधिसम्बन्धप्रयुक्तं जीवस्य, अज्ञानोपहितस्य ब्रह्मण एव वस्तुगत्या जीवत्वाद्, जीवस्याप्यज्ञानसम्बन्धः, तद्भानं वा न विरुद्धयते॥ तत्रैकत्र द्वयमिति रीत्याऽन्तःकरणाज्ञानयोः शुद्धचैतन्यसंबन्धाद् जीवे- Sज्ञत्वव्यवहारः। अनाद्यविद्याकार्यान्तःकरणस्यैकस्य तत्तज्जीव प्रति स्वीकाराद् न प्रतिकल्पं जीवभेदापत्तिः। तत्र सुषुप्ताविव प्रलयेऽपीश्वरसंकल्पविशेषात् तत्तद-
Page 300
२४४ अद्वैततत्त्वशुद्धि:
न्तःकरणोपहितानामेव जीवानामाविर्भावः। अतो न कृतहानाकृताभ्यागम- प्रसंगो मतद्वयेऽपि ।। तत्राज्ञानं ब्रह्मेवानादि, स्वत एव कल्पितम्, न केनापि कल्पितम्। न हि सविशेषब्रह्मवादेऽपि प्रकृतेरनादेः, ब्रह्मणो वा कश्चन कल्पकोऽस्ति। तत्र यदि विना कल्पकान्तरं ब्रह्म सिद्धम्, तर्हि संरव तद्वदेव स्वयं कल्पितं भवत्विति शंका भवत्सिद्धान्तेऽपि समाना। तत्र यदुत्तरम्, तदेवात्रापि। न हि कल्पकान्तरं नास्तीति कृत्वाSज्ञानस्यातिप्रसिद्धस्य स्वरूपानुपपत्तिः संभवति। अन्यथा सविशेषब्रह्मवादिनां तस्यापि कल्पकाभावेन स्वरूपासिद्धयापत्तिः ॥ स्वरूपानुपपत्तिः प्रकृते भावरूपा, अभावरूपा वा न भवितुमर्दृतीत्येव प्रस्तुता। तत्र प्रकृतिरिवाविद्यापि भावरूपैव, प्रकृतेरेवाविद्यात्वात्। कि परमते प्रकृतेरपि स्वरूपानुपपत्तिः स्वीक्रियते, ब्रह्मणो वा 2 तत्राविद्या भावरूपेत्यत्राहमज्ञ इति प्रत्यक्षं प्रमाणीकरिष्यते परस्तात्। तदेवानुसृत्य भावरूपामविद्यां वयमा- श्रयामहे। न चाहमज्ञ इत्यत्यापामरसाधारणं ज्ञानं ज्ञानाभावावगाहि॥ न ह्यन्र ज्ञानप्रागभावो विषयः । स्वरूपज्ञानस्य स्वप्रकाशत्वाद्, नित्यत्वाच्च न तत्प्रागभावस्तत्र गोचरो भवितुहति। स्वरूपज्ञान- विषयकज्ञानान्तरप्रागभावोऽपि नात्र विषयः । तच्च ज्ञान जन्यज्ञानं वा, नित्यज्ञानं वा प्रतियोगितया भासते। तत्राभावज्ञाने प्रतियोग्यनुयोगि- ज्ञानस्य कारणतया तस्य सत्त्वे न ज्ञानप्रागभावः ; विरोधात्। तत्राहमज्ञोडस्मी- ति प्रतीति: कस्यचन भाविनो ज्ञानस्य प्रागभावं गृह्णाति वा, सर्वस्य भाविनो ज्ञानस्याभावं गृहणाति वा। तत्र हि प्रागभावस्य भविष्यतीत्याकारज्ञानविषयत्वाद् नञ्घटितवाक्यजन्यज्ञानाविषयत्वात्, नञ्घटितवाक्यजन्यज्ञानाभावग्रहस्य तद- त्यन्ताभावविषयकत्वाच् नात्र ज्ञानप्रागभावस्य भानम्। प्राकालावच्छिन्नाभावः सलु प्रागभावो नाम। न चाहमस्मीति प्रतीतिविषयो वर्तमानकालावच्छिन्नो- डभाव: प्रागभावो नाम। सत्यम्, वर्तमानकालोऽपि कश्चित् कालं प्रति प्राकालः;
Page 301
शब्दप्रमाणम् २४५
तथापि नात्र प्राक्कालावच्छिन्नतवं भासते, न वा तस्य वर्तमानकालावच्छिन्न- तया भानसंभवोऽन्ताभावस्येव त्रैकालिकस्य। अतो नात्र ज्ञानप्रागभावो विषयः। धारावाहिज्ञानस्थल उत्पत्तिमात्रेण ज्ञानप्रागभावस्य स्फुटस्फुटतरादिभेदेन ज्ञाना- नुभवप्रतीत्यनुपपत्त्याऽपि नाज्ञानस्य ज्ञानप्रागभावस्वरूपत्वसंभवः। ज्ञानात्यन्ता- भाव:, सामयिकाभावो वा नात्राज्ञानपदार्थः; तस्य ज्ञाननाश्यत्वाभावेन तद्पेण प्रकृताज्ञानत्वाभावात्॥
वस्तुतस्तु-"मायां तु प्रकृति विद्यात्" इत्यादिश्रुतिसिद्धजगत्परिणामि- कारणस्याविद्याया एवात्र प्रस्तुतत्वात्, तस्याश्च भावरूपत्वस्य भवद्भिरपि स्वीका- रात्, भावरूपैवाविद्यति स्वीकर्तव्यम्। न चाविदयायाः कारणत्वं विप्रतिपन्नम् ; तस्यां विक्षेपशक्तिमत्यामविप्रतिपत्तेः। आवरणशक्तौ विप्रतिपत्तिस्तु भवतामकि श्चित्करी ; तस्या आश्रयविषययोरनुपदमेव विवेचनात्। इदमेवाभिप्रेत्योक्तमामो- दे-व्यावहारिकताया अविद्याख्यमूलवस्त्वधीनत्वात् तत्सिद्धये भावरूपाज्ञान- मावश्यकम्-इति॥ तत्राविद्याकार्यस्य व्यावहारिकत्वे विप्रतिपत्तावपि तस्यास्तत्परिणामितया कारणत्वस्य स्वीकारात् कथ प्रकृतिकारणतावादिनां भवतां भावरूपाज्ञानवादो निराकतु शक्यते तत्र यदि प्रकृतिरेव परिणामिकारणम्, इति तत्समर्थनार्थ- मेवाविद्याया भावरूपायाः स्वीकार, तर्हि नास्माकमपि तत्र विप्रतिपत्तिः ॥
तस्याः कार्यमपि सत्यमेव स्यादिति कथ भावरूपाज्ञानसाधनेन जगन्मिथ्यात्वमिति चेत्, श्रयतां सावधानम्-अविद्याभावत्वसमर्थनं हि न तत्र निर्मरेण, किन्तु तस्या अभावव्यावृत्तय एव भावत्वोपपादनम्। वस्तुतस्तु-सा न भावरूपाऽपि, सत्त्वेनासत्त्वेन वाऽनिर्वचनीयत्वात्, इति तस्या भावाभाव- विलक्षणतृतीयप्रकारतायामेव निर्भर इतीष्टसिद्धिब्रह्मसिद्धयादौ, तत्त्वप्रदीपि- कादिषु च व्यक्तम् ।
Page 302
२४६ अद्वैततत्त्वशुद्धि:
तत्रानिर्वचनीयत्वं वस्तुतो न सत्त्वम्, न वासत्त्वम्, इति सदसद्विलक्षण- त्वमेव। तच्च शोधनफलमात्रम्, न तु तथा प्रतीतिसामान्ये विषयत्वेन। तथाच घटस्सन्निति प्रतीतावपि घटादीनां सत्त्वपरीक्षायां भाविबाधादिविवेकेन व्याव- हारिकसत्त्वव्यवस्थया, सदसद्विलक्षणत्वाविरोध्यर्थक्रियाकारित्वादिव्यवस्थया वा निर्वाह्संभवाद् न विरोधलेशोऽपि। एतदर्थमेव प्रत्यक्षबाघोद्धारादिप्रकरणानि वादग्रन्थेषु, सिद्धान्तसिद्धाञ्जनादौ च। यथाच जगतः सदसद्विलक्षणत्वेऽपि सन् घट इति प्रतीतावपि सदसद्विलक्षणत्वस्य सत्त्वप्रतीतेश्र सत्तात्रैविध्यवादेन, एकसत्तावादेन, विकल्पाप्रमाण्यवादेन वाडविरोधः, तथाऽन्यत्र विस्तर. ॥ तत्र सर्वं वस्तु प्रतीतिमात्रेण न यथावन्निर्णेतुं पार्यते, अन्यथा देहात्मतावादादिनिरासः, सौगतार्हतादिमतनिरासनं वा कथं सुसाघम्? तथाच सदिति प्रतीयमानमपि भाविबाधादिपरीक्षादिनाऽसदिति वा प्रतीयमान- मपि सदसद्विलक्षणत्वेन निर्धारयितुं शक्यते। त्रिकालाबाध्यत्वेन वा तुच्छत्वेन वोभयरूपेण वा घटादीनां प्रतीत्यभावात् सदसद्विलक्षणत्वमिति तु विवेक: ।। प्रत्यक्षं हि तत्कालमात्रसत्त्वमवगाहते, न तु कालत्रयाबाध्यत्वम्। तुच्छं तु न प्रमाणजन्यज्ञानविषयः। अतस्तदुभयस्वरूपसदसत्त्वग्राहकामावात् सदसद्विलक्षणम्। परं तु सद्रपेऽनध्यासात् तस्य जगतो विशेषः। वस्तुतस्तु श्रुत्या जगतो ज्ञाननिवर्त्यत्वस्यावगमेन भाविबाघप्रतीत्या न सत्त्वमत्रा- बाध्यत्वरूपम् ।। एतेन-न ह्वनिर्वचनीयमित्यज्ञानं लोके प्रतीयते, येनाज्ञानं तथा स्यादिति-परास्तम्॥ ज्ञाननिवर्त्यस्य तस्य सत्त्वाभावेन, प्रत्यक्षत्वेन प्रमाणजन्यज्ञानविषय त्वेन वा सत्त्वाभावेनार्थापत्त्यापि न तस्यानिर्वचनीयत्वासिद्धिः। न ह्यज्ञानं सकलप्रतीत्यविषयोऽपि सिद्धयतीति वदामः, किन्तु प्रतीयमानमपि त्रिकाला- बाध्यत्वरूपेण सत्त्वेन न प्रतीयते, न वाडसत्त्वेन। प्रत्यक्षादिप्रमाणसिद्धस्यापि
Page 303
शब्दप्रमाणम् २४७
भावाख्यस्य तस्यानिर्वचनीयत्वमर्थापत्त्यापि, इति नाव्यवस्थापातः। निर्विशेषं ब्रह्म तु नाज्ञानमिव प्रमाणान्तरबाध्यमिति न सद्विलक्षणम् ।। अत एव तत्- "न सन्नासन्न सदसद् न चानुभयात्मकम्। चतुष्कोटिविनिर्मुक्तं शून्यं माध्यमिका विदुः ॥" इति वचनसिद्धं न शून्यम्, प्रथमकोट्यविनिर्मुक्तत्वात्। न च तस्य निर्वि- शेषस्यापि न प्रमाणसिद्धत्वम् ; तत्र हि प्रमाणजन्यज्ञानस्य तदाश्रयविषयका- ज्ञाननिवृत्तिपर्यन्तमात्रं व्यापारेण फलव्याप्यत्वाभावेऽपि वृत्तिव्याप्यत्वात्। आवरणाभिभवार्था, चिदुपरागार्था, अभेदाभिव्यक्तयर्था वा वृत्तिरिति त्रीणि हि प्रयोजनानि वृत्तिरूपस्य ज्ञानस्य। तत्र घटाकारवृत्तर्घटावच्छिन्नचैतन्याशा आवरणाभिभवमान्नार्थत्वेन वृत्तिव्याप्यत्वमात्रम्, न तु चैतन्यस्य फलव्याप्यत्वम्। घटांशे प्रत्यक्षत्वं तु तदभिव्यक्तचतन्यभास्यत्वेन, इति तत्र फलव्याप्यत्वम्। अज्ञा नकार्ये घटेऽज्ञानाश्रयत्वाभावेनावरणाभिभवमात्रेण वृत्तेः प्रत्यक्षत्वानापादक- तवात्। अतो न प्रमाणव्यापारस्य ब्रह्मण्यज्ञाननाशार्थमनुपयोगः, इति न ब्रह्मणः प्रमाणासिद्धत्वम्। तच्च प्रमाणजन्यवृत्त्युपधानमात्रम्, तद्विषयत्वं वा कल्पित- मिति त्वन्यदेतत्॥ एतेन-ब्रह्मवद् भावाज्ञानमनिर्वचनीयं प्रतीति विनैव सिद्धयतीति खलु व पदार्थसरणिरिति-परास्तम्॥ अज्ञाने ब्रह्मणि चोभयत्र तत्स्वरूपे प्रमाणस्य प्रत्यक्षादेः सत्त्वात्, तस्य चासकृदावेदितत्वाच्।। तत्राज्ञानमपि ब्रह्मवदनादि, तदपरमार्थत्वं तु भार्विबाधावसेयम्, न तावत्पर्यन्तमनुभूयते, इति वस्तुगत्याऽपरमार्थत्वेऽपि तत्सत्तादशायामा- वरणादिकार्यकारिण्येव, अन्यथा काचकामलादिदोषाणां पश्चात् नक्ष्यता कथमावरकत्वम् 2 अयमेव न्यायोऽज्ञानेऽपि; तत्त्वज्ञानानन्तरं नंक्ष्यतोऽपि स्वसत्तादशायामावरकत्वाविरोधात्।।
Page 304
२४८ अद्वततत्त्वशुद्धि:
एतेन -- दोषापारमार्थ्ये केन व्रह्माच्छिदेत 2 कथं च जीव सिद्धधेत् 2 कर्थ च भ्रम. 2 कथ च जगदित्यादिप्रतिबन्दीपरम्पराधि-परास्ता, अनादिसिद्धाज्ञानेनानष्टेन ब्रह्मावरणादिसर्वकार्यनिर्वाहस्याविरोधात। इदमेवाभिप्रेत्याद्वैतामोदो वदति-ब्रह्माभावे किमुपजीव्य दोषकूलप्तिः 2 कुतो जीवसिद्धि: 2 कुतो ब्रह्मज्ञानम् 2 कुतो जगदिति भ्रमहेतुदोषाश्रयत्ववदघिष्ठा- नापारमार्थ्येऽपि भ्रमोपपत्तेः, इति श्रीभाष्यमाश्रित्य या चात्र पूर्वोक्ता प्रतिबन्दी- परम्परा, सा तु दूषितैव ॥ यत्तु-ब्रह्मापरमार्थ्येऽपि अ्रमोपपत्तिरिति सर्व शून्यं स्यादिति श्री- भाष्याशयवर्णनम्-ब्रह्मव्यतिरिक्तापारमार्थ्ये हि तेषां कदाचिद् बाध्यत्वम्, एवं ब्रह्मापरमार्थ्ये शून्यमेव सर्वमिति ज्ञानेन सर्वस्य बाध्यत्वमवश्यं स्वीकर्त- व्यम्, इति सर्वशून्यत्व एव पर्यवासानम्-इति॥ तत्रेदं विविच्यताम्-सविशेषब्रह्मपारमार्थ्यवादे कथं सर्वशून्यज्ञानेन बाध्यत्वाद् न सर्वशून्यतानापत्तिः, न वा ब्रह्मणोऽपि पारमार्थिकत्वमिति। यदि ब्रह्मणः श्रुतिसिद्धस्यान्यबाध्यत्वायोगात्, तर्हि कथ नसविशेषब्रह्मा- पारमार्थ्यम्, इति कथं वा भवतामपि शून्यवादान्निस्सारः। यदि श्रुतिप्रामाण्याद् व्यवस्था, तर्हि समानम्। यथा च श्रुतिप्रामाण्यमद्वैतमतेऽपि, तथा प्रागेवावे- दितम्। न चाज्ञानादौ ब्रह्मणि च न प्रमाणम्। न चाज्ञाने प्रमाणानुपपत्तिः। 'अहमज्ञ' इति प्रतीतिर्हि भावरूप- मेवाज्ञानं विषयीकरोति, न तु ज्ञानप्रागभावम्, न वा ज्ञानात्यन्ताभावमिति पूर्वोक्तम्। तत्र प्रकृतिस्थानीयस्य तस्य प्रकृतेरिव भावरूपत्वमेव परैरपि स्वीकर्तव्यम्, न तु ज्ञानाभावरूपत्वमित्यपि प्रागेवावेदितम्। तत्र ज्ञानप्राग- भावो यदि जन्यज्ञानप्रागभावः, त्हि तस्य सत्कार्यवादेऽन्तःकरणात्मत्वात्, अन्तःकरणमेव वृत्तिप्राक्कालावच्छिन्नमज्ञानम्, तदेव वृत्तिज्ञानावस्थं ज्ञानमिति वक्तव्यम्। तत्र च सत्कार्यवाद उत्तरावस्थया न पूर्वावस्थाया निवृत्तिः ; उत्तरावस्थायामपि पूर्वावस्थापन्नकारणाभेदस्य सत्त्वेन तन्नाशायोगात्। आरम्भ-
Page 305
शब्दप्रमाणम् २४९
वादे खल ज्ञानप्रागभावस्य ज्ञानेन नाशः, न तु सत्कार्यवादे; अन्यथा मृद् घट इति कारणात्मनोऽपि घटेऽनुवेधानुभवविरोधापत्तिः । ततश्र "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।" इति वचनविरोधापत्तिः । ज्ञानप्रागभावस्यैवाज्ञानरूपत्वे तु सर्वेषां ज्ञानोत्पत्तिमात्रोणाज्ञाननिवृत्तेरावश्य- कत्वात् येषामिति विशेषणमनर्थकं स्यात। अनेन ज्ञायते-उत्पन्नेऽपि ज्ञाने तत्राप्रामाण्यशङ्कादौ पटुतरसंस्काराभावे च नाज्ञाननिवृत्तिः केषांचन भवतीति।।
ज्ञानात्यन्ताभावविषयकत्वं तु नात्र संभवति। तथाहि-किमत्र ज्ञानसा- मान्याभावोऽज्ञानम्, उत ज्ञानविशेषाभावः । तत्र 'अहमज्ञः' इति प्रतीतिकाल आश्रयज्ञानस्य, प्रतियोगिज्ञानस्य च सत्त्वे न ज्ञानसामान्याभावो विषयता- मर्हंति। तत्र च ज्ञानसामान्याभाव एवाज्ञानमित्यापत्त्या न विशेषाज्ञानसिद्धिः। तत्र यदि सामान्यनिषेधस्य विशेषनिषेधनान्तरीयकत्वाद् विशेषनिषधोऽप्यर्थ- सिद्धः, तर्हिं घटं न जानामीत्यादौ पटाज्ञानमपि, विषयः स्यात्। न हि विषयाविशेषितं निराश्रयं च जन्यं ज्ञानमस्तीति तत्र तत्र संप्रतिपन्नमेव। सति चैवं न तत्तद्विषयविशेषितज्ञानसामान्याभाव एवाज्ञानमिति वक्तव्यम्, न तु सामान्यतो ज्ञानाभावः । तत्र च 'घटं न जानामि' "पटं न जानामि' 'इमं घटं न जानामी'त्यादिप्रत्ययनिर्वाहार्थमनेकाज्ञानकल्पनापत्ति। तत्र च 'घंट न जानामि' इमं तु घटं न जानामि, 'अमुं घटं न जानामि' 'सर्वै घटं न जानामी 'त्यनुभव विरोधश्रापरिहार्यः; निराश्रयनिर्विषयज्ञानासंभवात्। आश्रयविषयज्ञाने ज्ञानरूपप्रतियोगिज्ञाने च सति ज्ञानाभावप्रत्यक्षानुपपत्तिरेव। अत एव न द्वितीयः, तत्तद्विशेषज्ञाने सति तदभावप्रत्ययानुपपत्तेः। अद्वैतमते त्वज्ञानस्य भावरूपत्वाद् न प्रतियोगिज्ञानापेक्षा ; आश्रयज्ञानस्य साक्षिस्वरूप- त्वाद् विषयस्यापि साक्षात्तत्तदवच्छिन्नचैतन्यस्याज्ञानाविरोधित्वाद्, नाज्ञानानु- भवविरोघ:।
Page 306
२५० अद्वैततत्त्वशुद्धि
एनेन-भबतोऽपि परमाश्मानमहं न जानामि, अहं परमात्मज्ञाना- माववानित्यभावविषयकप्रत्ययस्यानुभवसिद्धतया, तत्र प्रतियोगिग्रहणमहिति बा, न वेति विकल्प्य, तद्दूषणे सुकरे तत्र च-यश्चोभयो समो दोष. परिहारोऽपि वा समः। नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे॥ इति- परास्तम्। न ह्यद्वैतमते परमात्मानं न जानामीत्यादौ ज्ञानाभावो विषयः, किन्तु भावरूपं प्रतियोगिनिरपेक्षमज्ञानमेव, इति नाभावज्ञानपक्षोक्तविकल्प- तद्दृषणे प्रसज्येते। तदेवं प्रत्यक्षमज्ञाने प्रमाणमिति स्थिंतम्॥ न केवलं प्रत्यक्षम्, किं त्वनुमानमपि तत्र प्रमाणम्-तदथा-प्रमाण- ज्ञानम्, स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्र- काशितार्थप्रकाशकत्वात् ; अन्धकारे प्रथमोत्पन्नप्रदीपपभावत्-इति ।।
यत्तु-प्रकृत साध्यानुमितिरूपमपि ज्ञानं प्रमाणज्ञानतया पक्ष, इत्य- प्रकाशितार्थप्रकाशकत्वात् तद्विषयाज्ञानावरकाज्ञानान्तरमेषितव्यम्। तत्र चानभिमतार्थसिद्धि। एवं चाज्ञानान्तराच्छादितस्याज्ञानस्य प्रतीत्यभावाद्, ब्रह्मातिरोधायकत्वभङ्ग.। तत्र विरुद्धत्वं द्विविचम्-साध्याभावव्याप्यत्वरूपम्, सिद्धान्तमभ्युपेत्य 'तद्विरोधे विरुद्धम' इति न्यायसत्रात् स्वाभिमत सिद्धान्त- विरोधित्वं चेति। तत्राज्ञानविषयकाज्ञानान्तरस्वीकारे प्रथमविरुद्धत्वाभावेऽपि द्वितीयं विरुद्धत्वमनिवारणीयम्-इति। तत्र ब्रह्मसिद्धिकारोक्तरीत्याऽज्ञाने न कस्यापि विप्रतिपत्तिः ; सर्वेषु दर्शनेष्वज्ञानस्य केनचन प्रकारेण स्वीकारात्, प्रत्यक्षादिसिद्धत्वाच्च, किन्तु तस्याभावरूपत्वे, आवरणविक्षेपोभयशक्तिकत्वे, विक्षेपशक्तिमात्रे, ब्रह्माश्रय- विषयकत्वादावेव विप्रतिपत्तिः। अतश्च प्रत्यक्षेणाभावव्यतिरिक्तत्वे भावरूपत्वे च साधिते, तस्यैवोपबृंहणार्थमनुमानम्-द्वि्बद्ध सुबद्धं भवतीति न्यायेन।। तन्रान्धकारस्य प्रकाशाभावरूपत्वं न सभवति, किन्तु 'नीलं तमः'इति प्रतीत्या तस्य भावरूपत्वमेवेति स्थितमेव दर्शनान्तरे। अनुभवोऽपि प्रदीप आरोपितेऽपि क्रमेण प्रकाशवृद्धिरिति। तथा तत्र क्षणभेदेन प्रकाशभेदः,
Page 307
शब्दप्रमाणम् २५१
मन्दमन्दतरादिभेदेन तमोऽनुभवश्च। तन्र प्रकाशाभावस्य तमस्त्वे तस्य प्रथमप्रभ- यैव निवृत्तत्वात् कथं तमोऽनुभवः 2 इति तेन न्यायेन पूर्वोक्तविधयाऽज्ञानस्य प्रागभावरूपत्वासंभवात् प्रत्यक्षस्यापि तमःशब्दवाच्यभावरूपाज्ञानविषयत्वं दृष्टान्तमुखेनापि साधयितुमुक्तानुमानम्॥ एतेन-'अहमज्ञ' इति प्रत्यक्षेणैवाज्ञानसिद्धौ तत्र विवादाभावेनानु- मानस्यैव प्रयोगायोगादिति-परास्तम्। किं वाऽस्मिन्ननुमाने दूषणमभिप्रेयते? सिद्धसाधनं चेत्, यं प्रत्यसिद्धम्, तं प्रत्येव हि सर्वत्रानुमानप्रयोगः । यदि भवतां भावरूपमज्ञानंसिद्धम्, तर्हि स्वागतम् ; विवादाभावात्। इदमेवात्रानुयुज्यते-किं पौनःपुन्येन प्रत्यक्षस्य- ज्ञानाभावविषयकत्वमेव, न भावविषयकत्वमिति चर्वितचर्वणेन।। इदं ह्यनुमानम्-अज्ञान आश्रायानुपपत्ति-तिरोधानानुपपत्ति-स्वरूपा-
वारयद् अभावव्यतिरिक्तं ब्रह्माश्रयं तत्तिरोधायकं ज्ञाननिवर्त्य वस्त्वन्तरं भाव- विलक्षणं भावाभावविलक्षणं व ज्ञानं साधयति विशिष्टम्। तत्र प्रागभावव्यति- रिक्तत्वमपि साधितमेव साध्यकोटावज्ञानस्य प्रागभावव्यतिरिक्तत्वविशेषणेन। अज्ञानं प्रागभावव्यतिरिक्तमित्येवानुमानप्रयोग: कर्तव्य इति नेयं राजाज्ञा॥ अज्ञानम्, प्रागभावव्यतिरिक्त्तम्, स्वविषयावारकत्वात्, तमोवदि- त्यादिरूपेण पृथगनुमानमपि नासंभवम्। यथा चाहमज्ञ इत्यस्य न ज्ञानाभाव- विषयकत्वम् , तथा पूर्वमेवोक्तम्। भवन्मतेऽपि स्वरूपज्ञानप्रागभावो धर्मभूत- ज्ञानप्रागभावो वा नाज्ञानमिति तु स्थितमेव। न चाज्ञाने कस्यापि विप्रतिपतिः, किन्तु तस्य प्रागभावादिरूपत्व एवेति नाज्ञानमत्र साधनीयम् ; अज्ञानत्वेन तस्य निर्णीतत्वात्, किन्तु तत्तद्विशेषणविशिष्टतयैव तत् संदिग्धम्, इति नात्र परोक्तरीत्या विशिष्टसाधनायोगः। अज्ञानरूपधम्यशेऽप्रकाशितार्थ प्रकाशकत्व- मनुमानस्येत्यद्वैतसिद्धिरपि तत्तद्विशेषणविशिष्टत्वेनैव धर्म्यशसाधनमभिप्रैति॥
Page 308
२५२ अद्वैततत्त्वशुद्धि
यत्तु-अहमज्ञ इति प्रत्यक्षस्यैवा प्रकाशितार्थप्रकाशकत्वादज्ञान/वरका- ज्ञानान्तरपूर्वकत्वापत्ति। तत्र साध्यानंगीकारे चानैकान्त्यम्। अहमज्ञ इति प्रतीतेन ब्रह्मावरकाज्ञानविषयत्वानुपपत्ति.। ततश्र तस्यानावृतत्वात् स्वयं सिद्ध एव मोक्ष· स्यात्-इति। तत्राहमज्ञ इति प्रतीतौ साक्षिभातस्यैवाज्ञानस्य भानमिति नाप्रकाशि- तार्थप्रकाशकत्वमिति नाज्ञानविषयकाज्ञानान्तरापत्तिः, इति न तत्रानैकान्त्यम्। अहमज्ञ इति प्रतीतिर्ब्रह्माश्रयाज्ञानपक्षे एकत्र द्वयमिति रीत्याऽन्तःकरणाज्ञानो- भयतादात्म्यापन्न ब्रह्मचैतन्यमेव स्वाश्रयविषयकमवगाहृत इति पंचपादिका- विवरणे व्यक्तम्, इति तन्मतेन न ब्रह्मणोऽनावृतत्वम्, येन ब्रह्मणोऽतिरो- धानम् , स्वयंसिद्धो वा मोक्षः स्यात्। भामतीमते त्वमज्ञानोपहितमेवेत्यु- पाधिना तेनावरणं न विरुद्धमिति न कोऽपि दोषः। अर्थप्रकाशकत्वहेतुघटकमावरणनिवर्तकत्वं पक्षदष्टान्तसाधारणम् न च तदू ज्ञाने ब्रह्मविषयके वर्तते। न च तद्विषयकत्वमात्रं तत्पकाशकत्वम्, येनाज्ञानस्यापि ब्रह्मप्रकाशकत्वापत्तिः । अत एव न द्विषयव्यवहारजनकत्वम्, अन्यद्वा। यथाचाज्ञानाश्रयत्वेऽपि जीवस्य नान्योन्याश्रयादि., तथा पूर्वमेवावे- दितम्, इति जीवाश्रयत्वपक्षोऽपि न दुष्टः। ब्रह्मरूपस्य ज्ञानस्य नाज्ञानविरोध इत्यपि पूर्वमेव निरूपितम्॥ अत्रास्थानेऽपि तदपि प्रकरणमत्रैवालोच्यते। तत्र निवर्तकानुपपत्तिमधिकृत्याज्ञानभावरूप- त्वानुपपत्तिप्रकरणे कश्चन विचारः, अज्ञानानुमानहेतुविचारावसरे कश्चन विचारः, तत्प्रसंगेना निर्वचनीयत्वखण्डनादिप्रसंगेऽपरो विचारः ॥ तत प्रथम: प्रकार .- अस्याज्ञानस्य परमात्मज्ञानेन निवृत्तिर्वक्तव्या। तच्ज्ञानं न शाब्दबोधात्मकम्, न वा निदिध्यासनानन्तरं चरमभावि। आद्ये तत एव सर्वबन्धनिवृत्तौ मननादिवैयर्थ्यम्। अन्ये तु शाब्दबोधात्प्राक् साक्षात्कारात्प्राग वा परमात्मानं न जानामीति प्रत्ययापत्ति.। ततश्वाचार्यस्या- प्यज्ञत्वादुपदेशानुपपत्तिः-इति ॥
Page 309
शब्दप्रमाणम् २५३
एतावता हयत्पन्नसाक्षात्कारस्याज्ञाननिवृत्त्या तद्दृष्ट्या गुरुशिष्य- भावाभावादुपदेशानुपपत्तिरिति साध्यते। तत्र च जीवन्मुक्तानामधिगतब्रह्मसा- क्षात्काराणामपि प्रारब्धानुवृत्त्योपदेष्टत्व भवतीति पूर्वमेवोपपादितम्।। द्वितीय प्रकारस्तु-ज्ञानतेजसो प्रकाशरूपत्वात् तेजसा तिमिर- मिव ज्ञानेन सता निवर्त्यमेवाज्ञानमिति नाज्ञानस्यात्मलाभोऽपि, इति कथ- मज्ञानेन ब्रह्मण आवरणम्-इति॥ सोऽपि प्रमाणजन्यज्ञानस्यैवाज्ञाननिवर्तकत्वात् स्वरूपज्ञानस्याविद्या- विरोधित्वाभावस्योभयसंप्रतिपन्नत्वादुत्पतन्नेव हन्यते। न च सत्यं वस्तु ज्ञान- नाश्यमिति भगवत्पादानां सिद्धान्तः, किं त्वधिष्ठान आरोपितम्, प्रातिभासिकं वाऽधिष्ठानसाक्षात्कारेण प्रमाणजन्येन निवर्त्यत इति। यथा शुक्तिज्ञानेन तत्रारोपितस्य रजतादेनिवृत्तिरिति। सर्व ज्ञानं यथार्थमिति वादस्तु सर्वानु- भवविरुद्धो न प्रमाणम्, इति शुक्तिरजताद्यनंगीकारवादः सर्वानुभवविरुद्ध उपेक्षणीय एव। को वा विप्रतिपद्यते सर्व परमार्थम्, अपरमार्थभूतं ज्ञाननाश्यं वा किमपि नास्तीति परेषां सिद्धान्त इति। अनुभवविरुद्धः, अनुमानागमा- र्थापत्त्या दिप्रमाणविरुद्धो ऽयमित्येवाद्वैतामोदकारादयः॥ भावरूपं सर्व सत्यम्, यथाकाशादिकमिति तु दृष्टान्तस्यासंप्रतिपन्नत्वात तत्र व्यभिचारात्, तत्पारमार्थिकत्वसाधनस्य श्रुतिविरुद्धत्वात्, अज्ञानस्य भावा- भावविलक्षणतृतीयप्रकारस्य केवलभावरूपत्वाभावाच्च न सांप्रतम्। अद्य जातस्य रजतभ्रमस्य दिनान्तरजातेन शुक्तिज्ञानेन निवृत्तौ न तावत्पर्यन्तं रजतज्ञा- नानुवृत्त्यापत्तिः। ज्ञानान्तरेणोत्तरेण निवृत्तौ तस्य शुक्तिज्ञानेन निवृत्तिवादो न युक्त, इति रजतभ्रमस्येश्वरज्ञानेन निवृत्तस्यापि बाधो शुक्तिज्ञानेनेति वक्तव्यम्।। तच्च तस्य तदुपादानभावरूपाज्ञाननिवृत्तौ निवर्तते, इति कथ तत्र नानिर्वचनीयतावाद: 2 जगत इव तदुपादानस्याज्ञानस्यापि मिथ्यात्वं भावि- बाधापेक्षयैव, न तु ततः प्राक्, इति मिथ्याभूतस्य मिथ्यैवोपादानं भवित-
Page 310
२५४ अद्वैततत्त्वशुद्धिः
मर्हतीत्यत्र नान्योन्याश्रयः ; श्रौतत्वादुभयमिथ्यात्वस्य। उपादानोपादेययोः साजात्यस्यौत्सर्गिकत्वमभिप्रेत्य मिथ्याभूतस्य मिथ्याभूतमुपादानम्, सति तु बाधे न स नियम इत्येव 'नविलक्षणत्वा'धिकरणम्॥ अत्राज्ञानस्य, तदुपादेयस्य च बाध्यत्वादुभयोः साम्यं प्रतिपादितम्। न चाज्ञानं बाधमर्हतीति वादस्तु निवृत्त्यनुपपत्तिपरीक्षावसरे परीक्षिष्यते। सांग्रतं तु तत् सिद्धवत्कृत्य विचारः,-शुक्तिरूप्यादिस्थले तथा दृष्टम्, इति सत्योपादान- कत्वमुपादेयमिथ्यात्वं चाधिष्ठानारोप्ययोर्नाद्वितिमिरपि कैश्चन दण्डेन वार्यते। भामती तु तत्रापि विप्रतिपद्यते; अविद्योपहितमेवाघिष्ठानसुपादानं वेति मन्वाना। शुक्तिरूप्यादिस्थलेऽपिष्ठानविधया शुक्तयर्वच्छिन्नं चैतन्यम्, परि- णाभविधया तूलाविद्या च कारणमिति सर्वप्रम्थानसंमतम्। तूलाविद्या तु शुक्ति- ज्ञानबाध्या प्रातिभासिकी, इति न साजात्यवैधुर्यम्। न च शुक्तिरूप्यादिकं प्रति व्यावहारिकाविद्योपादानम्, येन व्याव- हारिकस्य जगतः पारमार्थिकाविद्योपादानं स्यात। पारमार्थिकब्रह्मोपादान- त्वविवक्षायां तु न तत्र सालक्षण्यम्। कार्यविषमसत्ताकस्यैव हि विवर्तोपादानत्वम्, परिणामिकारणं तु कार्यसमसत्ताकमिति तत्रैव सालक्षण्यनियमः। सालक्ष्ण्यं चात्र सत्तांश एव। तदपि परिणामिकारण एव, इति शुक्तिरूप्यतदुपादानतूला- विद्यादृष्टान्तेन जगतोऽपि मिथ्याभूतस्य मिथ्यैवोपादानमित्यनुमानमदुष्टमेव। 'नविलक्षणत्वा' धिकरणं तु शुद्धत्वाशुद्धत्वादिवैधर्म्ये परिणामिपरिणामयोरप्रयो· जकम्, विवर्तोपादाने तु सत्तामादायापि साधर्म्यं साधयति। सादृश्यं तु शुक्तिरजतादिस्थले कारणतयाऽपेक्षितमेव, परन्तु न तत्रापि नियम इत्येवोक्ताधि- करणतात्पर्यम्। सत्तासाम्यमविद्यातत्कार्ययोरपेक्षितमेव। अत्राविद्याया' सत्याया नोपादानत्वं परिणामविधयेति श्रत्यर्थापत्त्यनुगृहीतमनुमानमत्र प्रमाण- मेव। परमतेऽपि सूक्ष्मचिदचितोः साक्षात्परिणामिनो स्वकार्यस्थूलचिद चिद्भ्यां सालक्ष्ण्यमूरीकियते। तत्रापि ब्रह्मणोऽप्युपादानत्वं स्वीक्रियमाणं यदि परिणा-
Page 311
शब्दप्रमाणम् २५५
मित्वेन, तर्हिं तत्र सालक्षण्याभावः साक्षात् परिणामित्वाभाव एव। उपादानत्व- कथा तु या काऽपि भवतु ॥ सत्यम्, शुक्तिरूप्यादौ व्याव हारिकरजतसंस्कारसधरीचीना विद्यापरिणा- मत्वं दृश्यते, नायं नियमेन। "स्मृतिरूपः परत्र पूर्वदृष्टावभास." इत्यत्र पूर्वदर्शनजनितसस्कारः सहकारिकारणमित्युच्यते। तच्च पूर्वदर्शन न सांप्रतिक- रजताधिकसत्ताकस्येति भाषितम्। प्राचीनानुभवमात्रमेतत्सदृशस्य तेनापेक्ष्यते। स च प्रमात्मको वा भ्रमात्मको वेति तु न विशेषः । अ्रमादपि प्राचीनाद् भ्रमान्तरं हि दृश्यते ॥ तत्र यदि प्रमात्मकानुभवजनितसंस्कार एव तत्र विवक्ष्यते जगतः, तर्हिं सांप्रतमिव कल्पान्तरेSपि ब्रह्मसाक्षात्कारपूर्वक्षणावच्छिन्नबाधाविषयत्वेना- बाधितत्वात् पारमार्थिकत्वमेव प्राचीनस्यापि वर्तत एव। परमार्थत्वं चेंदं लौकिक- पारमार्थिकत्वम्। तत्र प्रकृतज्ञानविषयसदृशत्रिकालाबाध्यज्ञानजनितसंस्कारसह- कारिकारणतायां तु न किमपि मानम्। इद तु सर्वानुभवसिद्धम्। प्रत्यहं तदा तदा घटज्ञानं सर्वेषां जायते। सर्व च ज्ञानं घटविषयकम्, एतद्धटसदृश- नूतनघटज्ञानान्यपि भवन्ति, भविष्यन्ति च । सर्वेषां घटज्ञानं व्यावहारिक घटज्ञानमेव। तत्र नूतनघटादिज्ञानानामपि व्यावहारिकघटविषयाणां विनाऽपि पारमार्थिकघटान्तरज्ञानजनितसंस्कारमाविर्भावो दृश्यते॥ तत्र नूतनघटादिज्ञानानां ब्यावहारिकघटान्तरज्ञानजनितसंस्कारजन्य- त्वेन यदि प्रमात्वम्, तर्हि कल्पान्तरकालीनघटादिज्ञानानामपि कल्पान्तरीय- व्यावहारिकघटान्तरज्ञानजनितसंस्कारेणैव ज्ञानं कथ दण्डेन वार्यते? एवमे- वान्त:करणादीनां सर्वेषां व्यावहारिकप्रकृत्यात्मनैवावस्थानाम्, मृदाद्यात्मनेव घटादीनाम्। तत्राविद्यापरिणामत्वमेव सर्वेषां घटादीनामित्यविप्रतिपन्नम्। अविद्या चानादि: सर्वदैकैव व्यावहारिकी च। तत्समसत्ताकत्वेन तत्परिणात्वं च तत्कार्या-
Page 312
२५६ अद्वैततत्त्वशुद्धि:
णामित्यविप्रतिपन्नम्। शुक्तिरूप्यादौ प्रातिभासिकतूलाविद्यानानात्वेन, तदा- त्मना प्रातिभासिकस्य रजतस्यावस्थानं वक्तं न शक्यते। यदा तु भ्रमानन्तरं बाधज्ञानं न संजातम् , तदाऽज्ञानात्मना तद्रजतमवतिष्ठते। तदा प्रातिभासिक- सदशरजतान्तरज्ञानजनितसंस्कारादपि प्रातिभासिकत्रमान्तरं भवत्येव। यत्र त्वविद्या तत्कार्यमुभयं च बाधितम्, तत्रापि भ्रमो भवति, परं तु तत्र व्यावहा- रिकसदशरजतज्ञानजनितसंस्कारेणैव निर्वाहः ॥ न चैवं व्यावहारिकभ्रमस्थले, व्यावहारिकाणां सर्वेषां स्वोपादान- कारणात्मनाऽवस्थानेन तत्र तज्ज्ञानजनितसस्कारेणैव निर्वाहात्। अत एव श्रुति :- "धाता यथापूर्वमकल्पयत" इति। तत्र शुक्तयज्ञानं वास्तवरजत- ज्ञानाधीनतसंस्कारसापेक्षमेव रजतोपादानमित्यत्र वास्तवत्वं तत्कालाबाधित- त्वमात्रेण। तथा व्यावहारिकश्रमस्यलेपि तत्कालाबाधितघटान्तरज्ञानजनित- संस्कारसापेक्ष मूलाज्ञानं घटाद्यघ्यासे कारणं घटाद्याकारेण परिणमत इति समानम्। भासमानाधिकसत्ताकसदशज्ञानजनितसंस्कारापेक्षायां तु न प्रमाणम्। न हि शुक्तिरूप्यादिस्थले त्रिकालाबाध्यरजतज्ञानजनितसंस्कारः कारणम्, येन पारमार्थिकघटादिज्ञानं पूर्वमपेक्षितमिति वाचोयुक्तेरवसरः स्यात।
व्यावहारिकाणां सदशव्यावहारिकान्तरज्ञानजनितसंस्कारोSविद्यायाः सहका- रिकारणम्। प्रातिभासिकानां तु यथासंभवं सदशप्रातिभासिकान्तरज्ञान- जनितः, तस्य बाधितत्वे तु तत्सदृशव्यावहारिकज्ञानजनितसंस्कारः सहकारि- कारणम्। यस्य रज्जौ सर्पज्ञानस्य बाघो बहुकालपर्यन्तं न जातः, तस्य कालान्तरे रज्जुत्वाज्ञान इदंरूपमात्रेण ज्ञाने पुनरपि तत्र सर्पबुद्धिर्जायते। तत्र प्राचीनप्रातिभासिकसर्पज्ञानजनितसंस्कारेणापि प्रातिभा सिकसर्पान्तरबुद्धिस्तदु- पादानतूलाविद्यावशाद् भवति। तत्र मिथ्यात्वनिर्णयस्तु प्रातिभासिकानां लौकिकपारमार्थिकत्वेन त्रैकालिकाभावबोधनेन, व्यावहारिकाणां त्रिकालाबा-
Page 313
शब्दप्रमाणम् २५७
ध्यत्वरूपपारमार्थिकत्वेन त्रैकालिकेनाभावेन। एकसत्तावादे तु सर्वेषां स्वरूपत एव बाध इति विवेक: ॥ सति चैवं प्रतीतिकाले प्रातिभासिकसतामपि पारमार्थिकत्वेन त्रैकालि- कनिषेध उपपद्यते। न हि बाधज्ञानेऽविशेषेण सत्ताभावो विषयः सत्तात्रैविद्यवादे। एकसत्तावादे त्वविशेषेण सत्त्वाभावो यद्यपि विषयः, तथापि प्रतीतिकाले सत्तादात्म्यमात्रम्, न तु सत्त्वमिति स्वीकारात् त्ैकालिकसत्तानिषेध: स्वरसः। नेदं रजतमित्यादिबाधज्ञानं हि शुक्तिव्यतिरेकेण सार्वत्रिकरजताभावमेव बोधयति। न चैतावता रजतस्यासत्त्वम् ; पूर्वप्रतीतत्वात्। एकसत्तावादे हीयमेव व्यवस्था। एवमेव सत्तात्रैविध्यवादेऽपि प्रातिभासिकत्वेन प्रतीतत्वेऽपि पारमार्थिकत्वेनाप्रतीतत्वात् त्रैकालिकः पारमार्थिकत्वेन रजताद्यभावः । न चात्रापि पक्षेऽसद्रजतम् ; अ्रमकालेऽधिष्ठानानुवेधेन प्रतीतत्वेनास- द्वैलक्षण्यात्। न च पक्षद्वयेऽपि रजतं प्रतीतिकाले पारमार्थिकत्वेन प्रतीयते, तदभिमुखी प्रवृत्तिस्तु सत्तात्रैविध्यवादे तात्कालिकसत्त्वप्रतीत्या, पक्षान्तरे सत्तादात्म्यात्। इदंतादात्म्येनैव हि रजतस्येदम इव सत्तादात्म्येन सत्त्वानुभवः, न तु साक्षात् तदनुभवः ; बाधितत्वात्। अधिष्ठानगतसत्त्वस्य संसर्गाध्यासमात्रं रजतादौ, न तु तद्गतं सत्त्वं तत्रापि, येन ब्रह्मवद् घटादेरपि सत्यत्वापत्तिः । सति चैवं शुक्तितत्त्वानुभवकाले रजतं नास्ति नासीन्न भविष्यतीति प्रतीतावपि तस्या: पारमार्थिकत्वेन स्वरूपेण वा त्रैकालिकनिषेधाभिप्रायत्वाद् न प्राति- भासिकशुक्तिरूप्यकल्पनं निर्मूलम्, बाधितं च, इति नानिर्वचनीयख्यातिर- संभविनी ॥ यत्तु-रजतप्रतीतेः, इन्द्रियगतदोषस्य, इन्द्रियस्य, दुष्टेन्द्रियस्य वा प्रातिभासिकरजतकारणत्वं नास्तीति भाषणम्, तदिदं दूषणावसरे संभावित- विकल्पोद्धावनमात्रम्, नाद्वैतिनामपि तथा संमतमिति कृत्वेति पर एव स्वीकरोति। अयमेव न्यायो रजतप्रतीती रजतं प्रति कारणमित्यपसिद्धान्तानु- 17
Page 314
२५८ अद्वैततत्त्वशुद्धि
वादेऽपीति सर्वत्र सिद्धान्तविरुद्धांशे संभावितविकल्पोद्वावनमात्रमिति पर एव स्वीकरोति। तथाच यदि तत्र न निर्भर, तर्हि स्वागतमेव॥ तत्रेदं रजतमित्यत्र रजतोत्पततिं प्रति शुक्तिसादृश्यज्ञानसमुद्धोधितरजत- संस्कार सधरीचीना प्रमातृचैतन्याभिन्नशुक्तयवच्छिन्नचैतन्यनिष्ठाSविद्या कारणम्, न सादृश्यज्ञानमात्रम्, रजतसंस्कारमात्रम्, इदंज्ञानमात्रम्, अविद्यामात्रं वे- त्यवश्यमभ्युपगमनीये रजतस्ादृश्यज्ञानादिव तादशसौसादृश्यप्रतीतेरेवेदंरजत- मिति निर्वाहादन्येषामत्र कारणत्वकल्पनं वृथा, गौरवं चेति परे। मामती तु नात्र सादृश्यप्रतीतिरनुभूयते। इदं रजतमिति तादात्म्यप्रतीतिः खल्विदं- रजतयो. प्रतीयते। न च देशान्तरस्थरजतस्यानुभव; इदंतादात्म्येनानुभवात्, देशान्तरस्थस्य चेदमा तादात्म्याभावादित्यादिना दूषयति-'इदं रजतमि'त्यन्न प्रातिभासिकरजतकल्पनं विना नान्या काऽपि गतिर्वर्तते-इति।।
इदं तु सादृश्यज्ञानस्यापि सहकारिकोटिप्रवेशमूरीकृत्योक्तम्। कवि- तार्किकचक्रवर्तिनस्तु शुक्तौ बहुवस्तुसादृश्ये सत्यपि 'इदं रजतमि'ति प्रतीतौ शुक्तिसादृश्यज्ञानसामग्रयाः कारणत्वेनैव निर्वाहात् सादृश्यज्ञानं न कारणमिति वदन्ति। इदमेवाभिप्रेत्याद्वैतामोदकारः-सादश्यज्ञानं न कारणमिति प्रतिपाद- यति। तन्मतानुसारे तु इदं रजतमित्यत्र न सादृश्यप्रतीतिरेव।। एतेन-इन्द्रियदोपकारणतापि-व्याख्याता। सोडपि न साक्षाद्रजतो- त्पत्ति प्रति कारणम्, किन्तु तूलाविद्याया रजतात्मना तदाकारवृत्त्यात्मना च परिणामे सादश्यज्ञानमिव सादृश्यसामग्रीव वा सहकारिकारणमेव। अतो न कारणदोषो विषयमन्यथाकरोति, किन्त्वन्यथा मानमेव कारयति। अन्यात्मता तु तूलाविद्याधीनैव। सा च तूलाविद्यावच्छिन्नचैतन्यनिष्ठा, न तु शुद्धचैतन्यनिष्ठा। अवच्छेदकं च तत्रान्तःकरणमेव, इति यद्यपि प्रमातृचैतन्यनिष्ठैव, तथापि शुक्तीन्द्रियसन्निकर्षे तद्देशेऽन्त करणसम्बन्घेऽन्तःकरणशुक्त्योरेकचैतन्यावच्छे- दकत्वादुभयावच्छिन्नचैतन्यैक्ये शुक्त्यवच्छिन्नचैतन्निष्ठाSपि भवति। अत एव
Page 315
शब्दप्रमाणम् २५९
मूला विद्याकार्येऽपि शुक्तिशकल उक्तचैतन्यावच्छेदके तादात्म्येन रजताध्यासः। तत्र शुक्तिशकले रजतस्यैवाध्यासे कारणं तु तत्सादृश्यमात्रसंस्कारोद्वोध एव।। यत्तु-सादृश्यज्ञानस्य कारणत्वे रजतं सदगमिति प्रतीति स्यात, न 'इदं रजतम्'-इति, तदिदं परस्यात्मानं विस्मृत्यैव वर्णनम्; यतोऽयं इदं रजतमित्यत्र रजतसादृश्यप्रतीतिरिति स्वोकिं विस्मृत्यैवैवं वदति। उक्तं च पूर्व रजत- सादश्यज्ञानं अ्रमे सहकारिकारणमात्रम्, न सादृश्यज्ञानमेव भ्रम इति। तथाचेदं रजतमित्यत्र शुक्तौ रजतसौसादृश्यप्रतीतिरेवेति रजतसादृश्यप्रतीत्या रजतभ्रमे रजतसादृश्यमिति बुद्धिर्युक्ता। नेदं रजतमिति गवय इव गो- सादृश्यबुद्धिरिति स्वभाष्यविरुद्धाSपि रजतसौसादृश्यप्रतीतिरेव रजतज्ञानमिति कथा परस्य ॥ तत्र शुक्तिरजते रजतबुद्धिस्तत्र प्रातिभासिकरजतत्वाङ्गीकारेण, उभय- साधारणरजतत्वाङ्गीकारेण वा यद्यपि भवति; तथापि प्राचीनाचार्याणां रीत्या तत्र लौकिकपारमार्थिकरजततादात्म्यमप्यध्यस्यत इति स्वीकारात् रजत- बुद्धयुत्पत्तिः ; तत्र रजते प्रातिभासिकं रजतत्वमपि स्वीकृत्य व्यावहारिकरजत- तादात्म्यमपि स्वीकृत्य सर्वनिर्वाहात्, अनिर्वचनीयख्या तिराप्यतयाऽभिमतस्या- सन्निकृष्टत्वे, तत्सन्निकर्षे त्वन्यथाख्यातिर्नानिष्टा प्राचीनाचार्याणां मते। ब्रह्मा- नन्दादयस्तु तत्राप्यनिर्वचीयख्यातिं स्वीकुर्वन्ति॥ यत्तु-ना निवचनीयख्यातिवादो युक्तिपथमारोहति। सत्ख्यातिवाद एव युक्त। तत्र त्रिवृत्करणबलाद् मरुमरीचिकाया जलांशस्यापि सद्भावात तत्र विद्यमानस्य जलस्य ज्ञानम्। यत्र तु शुक्तिकादौ रजतावयवसत्त्वे विसवादः, तत्र प्राभाकराभिभताऽख्यातिवादेन यथासभवं व्यबस्था-इति। तत्रेदंकारामिमुखप्रवृत्तिनिर्वाह इदमि रजतसंबन्धं विना न निर्वहति। मरुमरीचिकायां जलांशसत्त्वे पिपासातुरस्य तदभिमुखं प्रवृत्तस्य पिपासोप- शमनं न भवतीत्यादिप्रकारेण पक्षद्वयमपीदमध्यासभाष्यविवरणावसरे निरस्तं
Page 316
२६०
विस्तरेण। तत्र शुक्तौ न रजतावयवा वर्तन्ते, किंतु शुक्त्यवयवे रजतावयव- सादृश्यमात्रम्। न च तावता तत्र रजतप्रतीतेनिर्वाहः। मरुमरीचिकायां त्रिवृत्करणेन जलांशसद्भावेऽपि तम्य सूक्ष्मत्वाद् न तेष्वस्ति त्रिवृत्कृतेष्वपि व्यक्तवज्जलाशमानं संभवति॥
ज्ञानम्, न तु तत्र विषयः, ज्ञान चोभयमपि सत्यम्। असत्यस्यापि तस्यार्थ- क्रियाकारित्वं प्रागेवोपपादितम्। तत्र शुक्तिरूप्यादिकमपि यद्यपि प्रमातृ- चैतन्यनिष्ठतूलाविद्याकार्यम्, तथापि बहिरिन्द्रियाणामव्यापाराद् तत्र प्रमातृ- चैतन्याभिन्नशुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्यापरिणामो रजतम्, तदाकार- वृत्तिश्च। अ्र तु प्रमातृचैतन्य एवेन्द्रियाणामप्यध्यास इत्यैन्द्रियकत्वं स्वामस्थले। तत्र स्वमे निद्रा दोषविघया सहकारिकारणम्, शुक्तिरूप्यादौ काचकामला- दिस्तथा। तत्र स्वमेऽविशदावभास प्रमातृचैतन्यमधिष्ठानम्, प्रबोधे तु तस्य विशदावभासेन सर्वनिवृत्तिः। अविशदावभासविशदावभासयोनिद्रादोषतदभावौ हेतूमवतः। जागरभ्रमेऽपि प्रमातृचतन्यनिष्ठतूलाविद्याकार्यत्वात् तत्तत्ममातृमात्रस्य तत्तद्नुभवस्तु समान: ॥ जागरिकाणामीश्वरसष्टौ तु तदुपाधिमायापरिणामभूतास्ते तादृशचक्षुरा- दिमतां सर्वेषामपि प्रत्यक्षाः। सति चैवं सवमे नेश्वरसष्टानामेव स्मरणम्। अनुभव: खलु स्वाम्निकानाम्, न स्मरणम् ; तत्ताननुसन्धानात्, तद्देशाभि- मुखप्रवृत्तेरनुभूयमानाया अनुपपत्तेश्र। ईश्वरसष्टानामनुभवस्तु तत्सृष्टेन्द्रियद्वारेण सर्वेषामेव जागरिकेष्विव स्थात। न च तत्र स्वाम्जागरयोर्वैषम्यमपि स्यात्, इति "वैधर्म्याच्च न स्वम्ादिवत" इति सूत्रविरोधोऽपि॥ "कृत्वाचिन्तयेद सूत्रमि"ति श्रुतप्रकाशिका तु हृदयेनानुमन्यते- न स्वामिकानामीश्वरसृष्टत्वं संभवतीति। श्रीभाष्यं तु स्वम्नद्दङ्मात्रानुभाव्यत्वमी श्वरीयशक्तिवैचित्र्यादिति भाषते। इदं च स्वाभिकसृष्टौ पुण्यपापादिसहकार
Page 317
शब्दप्रमाणम् २६१
ईश्वरस्य जागरसष्टाविवेति सूचयति। अद्वैतमते तु जीवसष्टत्वात् युक्तं पापपुण्य- फलं शुक्तिरजतादिज्ञानम्, स्वाम्ज्ञानं वा। सति चैवं स्वाम्ज्ञानमपि न यथार्थम्। यथार्थत्वे हि बहुतरानुभाव्यस्तद्विषयः स्यात्। पुण्यपापफलं तु तस्य तस्यैव भोगाय केवलम्, नान्येषां साक्षात्कारादयर्थमपि। न हि रथगजादय ईश्वरसृष्टा, तत्तत्पुरुषीयपुण्यपापफलास्तत्तन्मात्रभोग्याः प्रत्येकं भिन्नभिन्नास्तत्त- न्मात्रदश्याश्र दृश्यन्ते।। ईश्वरीयशक्तिवैचित्र्यादुपपत्तिस्तु कथं जागरेष्वपि दण्डेन वार्यते विना प्रकृतिसाहाय्यं सर्वेषाम् । एतेन-स्वप्ने सर्वस्य वस्तुनस्तदेकानुमाव्यतया पुण्यपापानुगुणं भगवता सृष्टिरिति-परास्तम्॥ तत्र यथा जागरे प्रत्यक्षीक्रियमाणाः सर्वेऽपि सर्वेषां न भोगाय, केषां चनैव भोगाय, अन्येषान्तु दष्टयोदासीना एव। किं तत्र कारणम्2 तेषां तद्ोगकारणपुण्यपापाभाव इति वक्तव्यम्। तथाचेश्वरस्य प्रपंचसृष्टचै न पुण्यपापे सहकारिकारणे, किन्तु तत्तन्मात्रभोग्यतापादने, इति स्वामिकानामपि सृष्टयै नेश्वरस्य पुण्यपापे सहकारिकारणे इत्यन्येषामपि तत्साक्षात्कारः कथ न १ यदीन्द्रियाणामुपरमात्, तर्हि स्वम्द्डमात्रस्यापि कथं तत्साक्षात्कारः 2 अत एव निर्णीयते-इन्द्रियोपरमेऽप्यैन्द्रियकतया प्रत्यक्षीक्रियमाणाः स्वाननिकाः पदार्था नेश्वरसष्टाः, ईश्वरसृष्टेन्द्रियाणामुपरमेऽपीन्द्रियग्राह्यत्वात्। इदमेवात्रालोचनीयम्-यदिन्द्रियोपरम इन्द्रियग्राह्यत्वं कथमिति। तत्र यदीश्वरीयशक्तिवैचित्र्याद् इन्द्रियाणामपि सृष्टिः, तर्हि तान्येवेन्द्रियाणि पुनर्जागरे कुतो नानुवर्तन्ते ? कुतश्च स्वभनिकानामेव प्रबोधानन्तरमपि दिना- न्तरीयाणामिव नोपभोगः 2 न वा साक्षात्कारादिकं च? प्रत्यहं स्वमे तत्तदिन्द्रियाणां सृष्टौ चासंख्येयशरीरेन्द्रियादिरेक एव जीवेऽस्मिन् जन्मनि जन्मान्तरे च कृतानां नानुसन्धानाय भवति। अतो वरं
Page 318
२६२ अद्वैततत्त्वशुद्धि:
तत्तज्जीव एव सृजति स्वीयतूलाविद्याद्वारा स्वोपभोग्यान् उदासीनान् रथगजा- दीन् तद्ग्राहकेन्द्रियाणि सर्वाणि, निद्रादोषापगमे प्रमातृचैतन्यस्य विशदाव- भासे च स्वयमेव तानि बाध्यन्ते रथगजादय इवेति। ततश्च स्वाप्नज्ञानं "स्मृतिरूपः परत्र पूर्वदृष्टावभास" इत्युक्तरीत्या स्मृतिरूपम्, अविद्यमानेऽपि वस्तुगत्या वस्तुनि प्राचीनानुभवजनितसंस्कारप्रभवं च। इदमेवाभिप्रेत्यामोदो वदति-"सवने कल्पना केवलं स्मृतिरूपे"ति। अत्र कल्पनात्वं स्मृतिरूपत्वं यदुक्तम्, तदिदमध्यासरूपत्वं मत्वैव "स्मृतिरूपः परत्र पूर्वदृष्टावभासः" "इत्यध्यासलक्षणं मनसि निधाय। नेदमध्यासभाष्यविरुद्धम्।। यत्तु-अद्राक्ष मित्यनुभवानुसारेण सष्टुरेव तत्र सवीकार-इति, तत्र यदि सेयं सृष्टिरीश्वराधीना, तहीन्द्रियाणामुपरमादीश्वरसष्टानां कथमद्राक्षमिति ? जागरे शुक्तिरूप्यादीनां चाक्षुपप्रत्यक्षत्वन्तु चाक्षुषप्रत्यक्ष- शुक्तयवच्छेदेन प्रमातृचैतन्याभिन्नशुक्त्यवच्छिन्नचैतन्याध्यस्तत्वेन प्रमातृचैतन्या- भिन्नतयोपपद्यते, परम्परया तत्र चक्षुर्व्यापारस्य रजतेपि सचवात्। न चैवं स्वम ईश्वरसृष्टिस्वीकारे। न चैवं सति शुक्तिरूप्यादिस्थले रजतादीनां स्मरण- मात्रम् ; इदंकाराभिमुखप्रवृत्तरदर्शनात्, आपणाद्यभिमुखप्रवृत्तेरदर्शनाच्च। सृष्टिरनामेश्वरस्य जीवस्य वा स्वोपाधिपरिणामात्मना प्रतिभास एव। स तु स्वम्नेऽपि जीवसष्टावप्युपपद्यते। न चामोदकारः स्वमं स्मृतिरिति वदति, किन्तु स्मृतिरूपमिति। तत्र कुत्रचन लिखितमपि स्मृतिपदम् "सवझे कल्पना स्मृतिरूपे "ति परोदाहृतवाक्यानुसारेणैव योजनीयम्। अतो नानिर्वचनीयताया सिद्धान्तविरोध आमोदस्य कुत्रापि, इति "मायामात्रमि"ति सौत्रपदमप्य- द्वैतसिद्धान्तस्यैव पोषकम्। तत्र स्वामनिकानां जागरेऽपि शुक्तिरुप्यादीनां चानिर्वचनीयत्वं तत्तत्पुरुषमात्रानुभाव्यत्वे सति तत्कालावसानत्वम्। इदं च जीव्रसष्टानामेव। ईश्वरसृष्टानां नैवंरूपमनिर्वचनीयत्वम्।।
Page 319
शब्दप्रमाणम् २६३
अत एव सूत्रम्-"वैधर्म्याच्च न स्वम्ादिवदि"ति। परमते तु तत्त- त्पुरुषमात्रानुभाव्यत्वं तत्कालावसानत्वं च स्वानिकानां कथम् 2 कथं च स्वप्नजागरपदार्थयोरीश्वरसृष्टयोवैधर्म्यम्2 ईदृशं वैधर्म्य स्वम्नजागरयोरभिप्रेत्यैव सोंगतमतनिरसनम् ॥ "मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादि "ति सूत्रे कार्त्स्न्येना- नभिव्यक्तस्वरूपत्वादित्यस्याद्वैताभिमतं विवरणम्-देशकालतत्तत्सामग्रीविशेष- संपत्त्यपेक्षमनभिव्यक्तत्वादिति।।
तत्र भामती-"न हि तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः, न जात्वीश्वरगृहेऽपि चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते। न चेतरस्य रजतानुभवसमयेऽनुकूलेन्द्रियोऽन्यस्तस्य शुक्तिभावमनु- भवति, प्रत्येति च। न च-उभयरुपं वस्तु, सामग्रीभेदात् कदा चिद स्य तोयभावोऽनुभूयते, कदाचिन्मरीचिरिति-साम्प्रतम्, न हि मरीचिभिः कदाचित् तृष्णाजन्योदन्या शाम्यति"-इत्यादि॥ तथा चेश्वरसृष्टत्वे सर्वेषामेकरूपोऽनुभवो भवति, सर्वानुभवयोग्यश्च भवति। सर्वोऽपीश्वरसृष्टः प्रपंचः। तत् कुतः१ देशकालसामग्रीभेदाद्यपेक्ष तत्सृष्टत्वात्। न चैवं स्वाम्निका भावा देशकालादिहेतूनपेक्ष्येश्वरेण सृज्यन्त इति कल्पना भवति; तथा स्रष्टत्वस्येश्वरे कुत्राप्यभावात्, अन्यथा जागरा अपि तथा कथं न स्ष्टुं शक्यन्ते १ कथं वा शक्तिवैचित्र्येण स्वामिका अपि न सर्वसाधारणा ईश्वरसृष्टाः१ तथा च खभनिकाः, नेश्वरसृष्टाः, तत्तदेशविशेषे तत्तत्कालविशेषे, तत्तत्सामग्रीभिरनभिव्यक्तत्वात्, इति कार्स्न्येनानभिव्यक्तस्व- रूपत्वादिहेतुरीश्वरसृष्टत्व उपपद्यते। मायामात्रं त्विति 'तु' शब्दोऽपि तत्र यथार्थः ॥ यत्तु-जागरिकार्थस्येवानिर्वचनीयस्य स्वाप्निकस्याधि यथावदेव दृश्य- मानत्वादनभिव्यक्तस्वरूपत्वं दरुपपादम्-इति।
Page 320
२६४ अद्वैततत्त्वशुद्धि:
ततिकं स्वाप्निका अपि रथगजादयो जागरिकरथगजादिकार्याय प्रभवन्ति १ शुक्तिरजतादयो वा रजतादिकार्य निर्वहन्ति2 इत्यकामेनापि जागरिकाणा मिवानभिव्यक्तस्वरूपत्वं स्वामनिकानां स्वीकर्तव्यम्। सति चैवम्- "अनभिव्यक्तस्वरूपत्वादि"त्यस्य सत्यकामत्वा दिजीवघर्माणामनभिव्यक्तत्वादिति विवरणे जीवानामित्यध्याहारदोषोऽनिवारणीयः ॥ किंच किमभिव्यक्तस्वरूपा अपि किं स्वामिकानेव भावान् स्रष्टुमर्ह- न्ति, उत जागरिकानपि तेषामुपभोगाय ? तत्र यद्ुभयत्रापि तेषां सष्टत्वम्, तर्हि स्वामिकसृष्टिमात्रे जीवानां कर्तृत्वनिरसने कथमुक्तो हेतुरुपपद्यते ?
वस्तुतस्तु-सर्वयाथार्थ्यवा दिनां मते सर्वम्येश्वरसृष्टत्वेऽविवादात् सा- भिकानां केवलमीश्वरसृष्टत्ववर्णनं किमर्थम्? यदि ब्रह्मणि सर्वकारणत्वं जीवकारणत्वश्रुतिविरोधपरिहारेण कर्तव्यं स्वामिकविपय इति तद्विचारः, तर्हिं द्वितीयाध्याये खलु तस्य संगतिः, न तु साधनाध्याये। किं बहुना? सर्वोऽपि जीवस्वरूपविचारोऽत्राध्याये पादे चासंगत एव।
अयमेव न्यायः शुक्तिरूप्यादिपु। प्रातिभासिकानां स्वाप्निकानामीश्वर- सृष्टत्वे शुक्तिरूप्यादीनामपि तत्साधारणमिति स्वामिकानामेव तस्येश्वरसष्टत्व- व्यवस्था कुतः १ यदि तत्र भाष्यकाराणं न नैर्मर्यम् ; तस्य रजतकार्यकारित्वस्य बाधानुभवात, तर्हि किं स्वाभनिकानां सर्वेषां तत्कार्यकारित्वमबाधितम्? किच स्वने काश्यां रथादयो ये खम्द्ङ्मात्रेणानुभूताः, ते यदीश्वरसृष्टाः, त्हिं कि प्रबुद्ध: काशी गतः तानध्यक्षीकरोति 2 न केवलं काश्याम्, किन्तु स्वगृह- द्वारे सम्नकालेऽनुभूत तत्रैव किं तदव्यवहितोत्तरमेव तदध्यक्षयति 2 अतः शुक्ति- रजतादेरिव तत्कार्यकारित्वाभावात् सामिकानामीश्वरसृष्टिपरतयोक्तसूत्रस्य नयनं नोपपद्यते।।
Page 321
शब्दप्रमाणम् २६५
"स हि कर्ता" इति तु पूर्वोक्तविधया शुक्तिरूप्यादाविव स्वामिको- पादानतूलाविद्याश्रयत्वेन भाष्योक्तरीत्या जीवस्य परंपरया हेतुत्वमात्रेण नेया। "य एषु सुप्तेषु जागर्ति" इति तु स्वम्ावस्थासंम्बन्धादसाधारणात् जीवपरैव। जाग्रदाद्यवस्थात्रयवत्त्वं हि जीवलक्षणम्, इति तत्रान्यतमावस्थयाSपि स एव प्रथमं प्रती ते। प्राज्ञा भेदाज्जीवस्य सष्टत्वमिति तु पूर्वपक्षयुक्तिः, नतु सिद्धान्तयुक्ति:। व्यक्तं चैतद्धामत्याम्। सिद्धान्तयुक्तित्वेऽपि"प्राज्ञेनाउडत्मना परिष्वक्तः" इति तत्तादात्म्यमात्रं विवक्ष्यते, न तु प्राज्ञेनात्यन्ताभेदः। न च जीवेश्वराभेदो विशिष्टजीवब्रह्माभेदोऽद्वैतसिद्धान्ते। सर्वथा तु स्वामिकानां नेश्वरसष्टत्वम्, कित्वनिर्वचनीयत्वमेव; सत्त्वासत्त्वाभ्यां निर्वक्तमशक्यत्वात्।। लोहित: स्फटिक इत्यादौ सन्निकृष्टस्थलेऽन्यथार्यातिरिति प्राचीनाः। ब्रह्मानन्दादिद्ष्टया तु-सर्वत्र अमेष्वनिर्वचनीयख्यातिवादः। तत्र ब्रह्मसूत्र- भाष्यवार्तिकं परोक्षत्रममेव नांगीकरोतीति मतभेदा अद्वैतमते वर्तन्ते। तत्रैकत- न्त्रमनुसृत्य तन्त्रान्तरनिरासवत् प्रस्थानभेदेन प्रस्थानान्तरनिरसनं न सांप्रतम्।। एतेन-अलातचक्रथ्रमोऽपि-व्याख्यातः, न हि सम्यक चक्रेऽन्त- रालवदलातेऽन्तरालं वर्तते, येनान्तरालाग्रहणम्, तत्पूर्वकतद्देशसंयुक्तवस्तु- ग्रहणं वाडस्यात्, इति तत्रान्तरालम्, तदग्रहणपूर्वकतद्ेशयुक्तवस्त्वन्तरं चोभ- यमपि कल्पनीयम्। न च तत्र तत् सन्निकृष्टम्। अतोऽनिर्वचनीयख्यातिरेव। चतुष्कोणेऽन्तरालाग्रहण एव हि तत्र च प्रतीति: ॥ प्रतिबिम्बस्थलेऽपि दर्पणे मुखस्य सम्वन्धाभावेऽपि न बिम्बस्य तत्र प्रतीतिः, किंत्वन्यस्यैव स्वमुखस्य तदन्तर्गततया। तच्चासन्निकृष्ट मुखमेव; औपाधिकदोषाणामपि तत्र भानात ॥ अयमेव न्यायो द्विचन्द्रभ्रमस्थलेऽपि। तत्र हि पृथग द्ौ चन्द्रौ तिमिरादि- दोषदुष्टानां प्रतीयेते। न च द्वितीयश्चन्द्र: प्रथम एव। सन्निकृष्टस्थले हि धर्म-
Page 322
२६६
मात्रस्यान्यथाख्यातिः, न तु स्वतन्त्रस्य धर्मिणोऽप्यपरस्य। अतस्तत्रापि द्वितीय- श्रन्द्रमा अनिर्वचनीय एव ।। यत्तु-शुक्तौ रजतमपि पारमार्थिकमेव भासत इति याथार्थ्थवादिनो- वदन्ति, तत्रेदं पृच्छ्यते-यत्पारमार्थिकरजतस्येश्वरसष्टस्यैव तत्र सत्यरजतस्या- पणस्थस्येव कथं न सर्वानुभाव्यत्वम् 2 किन्तु तत्तज्ज्ञातृमात्रविषयतयेति। यदि तत्र शुक्तौ सर्वानुभवानर्हरजतत्वबुद्धिमात्रं जायते, तस्य च बाधः, तर्हि बाधक ज्ञानं शुक्तितत्त्वज्ञानं वा, अन्यद्वा 2 आद्े नामान्तरेणानिर्वचनीयख्यातिरेव।। एतेन-एकमात्रानुभाव्यतया भगवत्सृष्टे तत्र सर्वाुभवार्हरजतत्व- बुद्धिभ्रान्तस्य जायते। तत्र वस्तुतस्तदर्हत्वाभावात् तदंशे बाध्यबाधकभाव, यस्याशस्य प्रत्यक्षदृश्यत्वं तत्रैव सृष्टत्वप्रयुक्तयाथार्थ्यख्यातेरगीकारात्, सर्वातु-
जातीयाना सर्वकालसर्वपुरुषानुमाव्यत्वत्वेनास्य तद्विलक्षणत्वेन तदंश एव भ्रमत्वमिति-परास्तम्। सर्वानुभाव्यत्वभ्रमो ह्यस्य दोषवशादेव, न तु स्वतः, इति दोषनिमि- ततत्वमस्य स्वीक्रियते, तद्बुद्धिरतु सर्वानुभाव्यरजततादात्म्यभ्रमेण। 'इदं रजत- मि'ति शुक्तिविशेष्यकतद्धानमपि तत्र भ्रम एव ; शुक्तिविशेष्यकतया भगवता सृष्टत्वात्। शुक्तेरीश्वरसृष्टायास्तत्र सर्वानुभाव्यत्वेन तत्र तस्याभावात्। सति चैवं दोषवशात् रजते तन्मात्रानुभाव्ये आ्न्तस्य सर्वानुभाव्यसादृश्यनिबन्धन तद्बुद्धि- त्वस्वीकाराद्, अपूर्वस्य रजतस्य लौकिकविलक्षणस्यैव स्वीकारात, तस्येदं- विशेष्यकत्वस्य स्वीकारात्, भ्रमत्वस्य च स्वीकारात्, को वाडयं सर्वज्ञान- याथार्थ्यवादः १ ईश्वरसष्टत्वमात्रेण चेत्, किं तत्र मानम् १ यदि तन्मात्रानु- भाव्यत्वम्, तर्हिं तत्सृष्टमेव तद्रजतं विलक्षणसामग्रीजन्यमनिर्वचनीयमेब, इति कुतोऽनिर्वचनीयख्यातिनाममात्रे विद्वेष :- शिवद्रोहे तात्पर्यमन्तरा ? यत्तु-भामतीकल्पतरुपरिमलानां भ्रमप्रक्रिया ग्रन्थालोचनप्रसंगेन परि- मलकाराणामन्यथाख्या तिवादानुसारेणावान्तरशंकामादाय परिमलकाराणामन्य-
Page 323
शब्दप्रमाणम् २६७
थाख्यातौ नैर्मर्य प्रदर्श्यते, तदिदं न केवलमत्रोद्धतशशश्रृंगे भ्रममात्रमादाय, स्वाप्नभ्रमादिकं चादायान्यथाख्यातिवाद्युपक्षिप्तसर्वदूषणपरिहारेण परिमल एवा- न्यथाख्यातेः समर्थनात् तदीयपूर्वपक्षानुवादमात्रम्, न परमार्थप्रकाशनम्। एवं रीत्या खण्डनमण्डनप्रक्रियायामाद्रियमाणायां दष्टया श्रीभाष्यकाराणामपि महापूर्वपक्षमादायाद्वैतमत एव महान्निर्भरः कथं न स्यात्? वस्तुतस्तु-समर्थितैवा निर्वचनीयख्यातिः प्रातिभासिकरजतोत्पत्तिकार-
निरूपणेन। तत्र पूर्वानुभवजनितसस्काराभावान्न व्यावहारिकाणामनिर्वच- नीयत्वमिति पूर्वकल्पमेवात्रापि पुनरनुवदति, इति तत्रत्यसमाधानमेव- भ्रमप्रमासाधारणानुभवजनितसंस्कारस्यैव भ्रमकारणत्वम्, व्यावहारिकघटप्रमा- जनितसंस्कारेण प्रमात्वाभिमतव्यावहारिकघटज्ञाननिर्वाह इत्यादिरूपमत्राप्यनु- सन्धेयम्। प्रतारकवाक्यात् शशश्रृंगभ्रमे तु यद्यपि न शशश्रृंगविषयकपूर्वानु- भवजनितसंस्कारोऽस्ति, तथापि तत्र प्रतारकवाक्यजन्यानुभवः परोक्ष एव, न प्रत्यक्ष:, सोऽपि तुच्छविषयकः, इति अ्रमे भासमानप्रातिभासिकाधिक- सत्ताकतज्जातीयानुभवजनितसंस्कारस्तत्र कारणमित्यस्यात्रैव व्यभिचारः।
एतेन-अरण्ये शशश्रृंगमस्तीति वाक्येन तत्रापि पूर्वानुभवस्योपपाद- नात् अरण्ये शशशंगमितीदमनुभूतविषयकमेवेति को विशेष इति- परास्तम्, प्रतारकवाक्यजन्यज्ञानस्य परोक्षत्वात्, अरण्ये जातस्य शशश्रृंगज्ञानस्य तु प्रत्यक्षत्वात्। तथाच यथाकथंचिदनुभवजनितसंस्कार एव यथासंभवं भ्रमं प्रति कारणमिति स्वीकर्तव्यमनिर्वचनीयख्यातिसमर्थनार्थमित्येव परिमळाशयः ॥ अत एव स्वमे मनुष्यपशुपक्षिवृक्षाद्नेकरूपस्योक्तस्य अ्रमो विशकलिततयैकैकमा- त्रानुभवं प्राक्तनमादाय निर्वहणीयः, न तु सर्वात्मकैतादृशवस्तुनः पूर्वानुभव- मपेक्ष्यैव भ्रमः ॥
Page 324
२६८ अद्वैततत्त्वशुद्धिः
अनेन चेदमपि सिद्धं भवति- यत् "पूर्वदृष्टावभासः" इति प्रायिकम्, न तु नियतमिति। तथाच घटादिज्ञानस्य पूर्वतनानुभवाभावेऽपि न क्षतिः । प्रातिभासिक्रमे तन्नियम इत्यभिप्रायेण पूर्वदृष्टमित्यपि सूच्यते। तत्र प्रतारकवाक्यजन्यज्ञानमरण्ये शशशरृंग वर्तत इति परोक्षं यद्यपि सफलम्, तथापि तत्परीक्षणार्थमरण्यगमनादिकमन्यत्रेव न विरुद्धम्। तत्रारण्ये शशश्रृंग- मिति प्रत्यक्षमेव भ्रमात्मकं जातम्। तन्निबन्धनं च दर्शनमात्रजं सुखं तु विलक्षणं आ्रां्तस्य तत्र वर्तत एव, इति न केवलं स्वरूपतः, किन्तु फलतोऽपि तत्र विशेषो वर्तते। तत्र काष्ठांशे श्रृंगानुभवो हि नान्यथाख्यातिः, किन्त्वनिर्वच- नीयख्यातिरेव। एवमेव श्रृंगे शशीयत्वेऽपि । यद्यपि विलक्षणसामग्रगा विलक्षणरजतकल्पने गौरवम्, देशान्तरस्थ रजतसंसर्गमात्राध्यासे तु लाघवम्, तथापि शुक्तिकाया रजतवत्प्रत्यक्षानुभवः, 'नेदं रजतमि'ति बाधानुभवश्च नान्यथोपपद्यते; परोक्षस्यैवांशविशेषे प्रत्यक्ष- वदवभास इति कल्पनागौरवम्, देशान्तरीथरजतस्य शुक्तौ संसर्गमात्राध्यास- स्वीकारादिप्रयुक्तं गौरवमन्यत्रापि। सर्वथा तु फलमुखगौरवं न दोगाम। शुक्तिरजतादीनां तत्तद्द्रान्तमात्रानुभवादिव्यवस्थायां तु क्वेशादिकम्। अन्यत्रापि अन्यथार्यातिपक्षनिरसनप्रकारा भामतीकल्पतरुपरिमलादौ विस्तृताः। रजतस्मृतौ प्रत्यक्षत्वारोप इत्यादिकथा त्वारोपकारणाधिष्ठानादिनिर्णयं विना नोत्तिष्ठति। इदंप्रत्यक्षरजतस्मृतिरूपवृत्तिदयैक्यवादरूप एव, नायमख्यातिः, न वाऽन्यथाख्यातिः, न वा सत्ख्यातिः न वा ज्ञानमात्रयाथार्थ्यवाद इति संप्रतिपन्नम्। सत्यप्येवं तत्राविवाद इति हठवाद एवायम् ॥ तत्रानिर्वचनीयरजतमुत्पद्यमानं सदेव शुक्तयभिन्नतयैव प्रतीयते, इति न तत्र तज्जन्यः प्रत्ययः, शुक्तिज्ञानेन बाघाद् न तस्य विनाशप्रत्ययः इदं- तादात्म्येनैवानुभवान्न द्रव्यद्वयरूपेण भानम्। तादात्म्यमपि तत्र कल्पितमेव। तत्र त्रयाणां स्वरूपत्वभानं च वर्तते। तथापि प्रकारसंसर्गविशेष्यविधया
Page 325
शब्दप्रमाणम् २६९
भानम्, न तु स्वतन्त्रतयेति परं विशेषः । सत्यम्, अन्नारजते रजतबुद्धिः; तथापि भासमानं रजतं तत्तत्पुरुषमात्रानुभाव्यत्वाल्लौकिकरजतविलक्षणम्। तत्र परमत ईश्वरसृष्टिपक्षे निर्वाहप्काराः सर्वेऽप्यनुसन्धेयाः-अनिर्वचनीयतां शमविहाय, ईश्वरसृष्टतां च परित्यज्य। ततो नान्यथाख्यातिरत्र। तदेवेदें रजतमिति प्रतीतिस्तु तत्सादृश्यमात्रेण, न तु तत्त्वेन। न च तावतापि तत्रान्यथाख्यातिः । तत्रानिर्वचनीयस्य रजतस्य प्रत्यक्षत्वं तु लौकिकपारमार्थिकविधया प्रत्यक्षत्वमेव, नान्यत्तत्र प्रत्यक्षत्वम्, तत्प्रयोजकं वा। तत्र विषयावच्छिन्न- चैतन्याभिन्नवृत्त्यवच्छिन्नचैतन्यत्वं ज्ञानगतं प्रत्यक्षत्वम्, अनावृतचिन्मात्रत्वम्, प्रमान्नभिन्नत्वमित्यादिकं तत्र तत्र व्यक्तम्। नेन्द्रियजन्यज्ञानमात्रं प्रत्यक्षम्, येना निर्वचनीयरजतज्ञानं न प्रत्यक्षं स्यात्।। न चेन्द्रियसन्निकर्षजन्यज्ञानत्वं प्रत्यक्षत्वम्, इन्द्रियसन्निकर्षस्य वृत्तिजननमात्र उपयोगेन प्रत्यक्षत्वाप्रयोजकत्वात्। प्रत्यक्षभ्रमेऽपि सन्निकर्षोS- पेक्ष्यत इति तु तस्याधिष्ठानज्ञान उपकारकत्वाभिप्रायेण। स चाधिष्ठानज्ञान- रूपकारणनिर्वाहकतया वा, स्वत एवेति वा प्रकारभेदस्त्वकिञ्च्ित्करः ॥ न हीदं रजतमित्यत्र मिथ्यारजतेन सत्यस्य शुक्तिशकलस्य संयोग:, किन्तूभयोरप्येकसाक्ष्यवच्छेदकत्वेनैकत्र चैतन्येऽध्यासप्रयुक्तं प्रमात्रभिन्नत्वम्, येनोभयोरपि प्रत्यक्षत्वम्, इति तयोः संयोगायोगप्रयुक्तानामाक्षेपाणामनवसरः॥ तत्र शुक्तित्वाज्ञानजन्यं रजतं तदाकारवृत्तिश्च शुक्तित्वज्ञाने सति निवतते। तत्र निवृत्तिस्त्रैकालिकनिषेधरूपत्वाद् ज्ञानोत्पत्तिक्षण एव भवति ; ज्ञानाज्ञानयोर्विरोधेन सामानाधिकरण्यायोगात्। तथाच ज्ञानोत्पादकसामम्रयेव ज्ञानम्, अज्ञानतत्कार्यनिवृति च ज्ञानक्षण एव निर्वर्तयति; त्रैकालिकनिषेधरूपा- ज्ञानतत्कार्यनिवृत्तेस्त द्विरो धिसम्बन्धक्षणावच्छेदेन प्रतीतेरनुभवसिद्धत्वात्, ज्ञान- व्यापकत्वस्यैवाज्ञानतत्कार्यनिवृत्तौ स्वीकारात्। अतो न शुक्तितत्त्वज्ञानक्षणेऽपि
Page 326
२७० अद्वैततत्त्वशुद्धि:
इदं रजतमिति प्रतीत्यापत्तिः । वस्तुतस्तु-इदं रजतमिति ज्ञानस्य ज्ञाना- न्तरेणैव नाश:। केवलं रजतं तदुपादानाविद्या चानुवर्तते। शुक्तित त्वज्ञानानन्तरं त्वज्ञानस्य, तन्निवृत्त्यन्तरं तत्कार्यस्य रजतस्य च निवृत्तिरित्येव भवतु॥ न चैतावता "इदं रजतमि"ति प्रत्यक्षानुपपत्तिः। तत्रेयं शुक्तिरिति ज्ञान नेदं ज्ञानम्, किन्तु ज्ञानान्तरमेव। 'इद रजतमि'ति रजताकाराविद्यावृत्तिरतु नष्टा। न चेयं शुक्तिरिति ज्ञानकाले रजतज्ञानसामग्री समस्ति। रजतप्रत्यक्षत्वा- पादनंच तद्विषयकमानसवृत्तिमादाय न भवति। अविद्यावृत्तिस्तु नष्टा न हि विद्यते, इति न सर्वदा सर्वप्रत्यक्षत्वापत्तिः । न च शुक्तित्वज्ञानदशायां तदज्ञानस्य रजताकारवृत्तिकारणत्वम्। तत्र यथा घटज्ञानदशायां न घटाज्ञानम्, एवमत्रापि। अज्ञानज्ञानं तु साक्ष्यधीनम्। न चाज्ञानोपहितसाक्षिसम्बन्ध इंदंपदार्थस्य शुक्तित्वज्ञानदशायाम्, इति कथं च शुक्तित्वज्ञानदशायां रजत- प्रत्यक्षापत्तिः । प्रातिभासिकत्वं हि शुक्तिरूप्या देर्यावत्तदाकारवृत्त्येव। यद्ा रजताकार- वृत्तिनाशे रजतमपि नष्टमेव; सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति न्यायात्। ततश्राविद्यामात्रं वर्तते, तावन्मात्रं च शुक्तित्वज्ञानेन निवर्तत इति वाऽनुसन्धेयम्। अथवा रजताकाराविद्यावृत्तिनाशे तदुपहितं साक्षिस्वरूपमपि नष्टम्, इति न रजताकारवृत्त्यवच्छिन्नस्य रजतावच्छिन्न- चैतन्यस्य चैक्यम् ॥। ज्ञानमज्ञानस्य निवर्तकम् ; यथाऽन्धकारस्य प्रदीपप्रभा। तत्र शुक्तित्व- ज्ञानेन तदज्ञाने नष्टे तत्प्रयुक्तप्रातिभासिकरजताद्यपि बाधितमेव, इति बाधितस्य तस्य कथं रजतत्वेनानुवृत्तिः १ न हि रजतत्वेन रजतं न तूलाविद्याकार्यम्; अन्यथा कथं तत्र रजतमिति प्रतीति: ? अधिष्ठानज्ञानमज्ञाननिवर्तकमिति नियम: । स च निरुपाधिकभ्रमे, न सोपाधिकभ्रमे, इति न "न लोहितः
Page 327
शब्दप्रमाणम् २७१
स्फटिकः" इति ज्ञानेन लौहित्यस्य बाधः, उपाधिनाशाधीननाशमात्र हि तत्र। अतो न तत्र व्यभिचारः॥
तत्र शुक्तिरुप्यं तूलाविद्याया: परिणामः। न च तस्याः व्यावहारिकत्वं ब्रह्मप्रमारिक्तबाध्यत्वरूपम्। न च शुक्तिरूप्यं तूलाविद्याविषमसत्ताकम्, येन तत्परिणामत्वानुपपत्तिः, व्यावहारिकस्य प्रपंचस्य वा पारमार्थिकब्रह्मपरिणाम- त्वापत्तिः। ब्रह्मणस्तु जगद्विवर्त एव । अविद्यापरिणामान्वेन तस्य जन्म, विवर्तत्वेन तु तस्य ब्रह्मण्यध्यास इति न विरोधः । विवर्तोपादानत्वं तु ब्रह्मणस्तदध्या- साधिष्ठानत्वमेव, नान्यत्। न च ब्रह्मविवर्तोपादानताया असिद्धिः । ततश्र भ्रमस्थले विकल्पस्याध्यासः, तदाकारप्रतीतेश्र। प्रतीतिस्तु तत्राविद्यावृत्तिः, न तदुपहितं साक्षिचैतन्यम्। ज्ञातृत्वं तु तस्यौपाधिकमिति पूर्वमेवोक्तम्। सर्वथा तु नानिर्वचनीयख्यातिर्विरुध्यते, इति तत्रार्थापत्तिः प्रमाणम्, तदुपादानमविद्यामपि भावरूपां प्रमापयतीत्यविद्यायामर्थापत्तिरप्यनुमानमिव प्रमाणम् ॥ आगमोऽप्यविद्यायां प्रमाणम्। तथाहि-अविद्या हि ब्रह्माश्रयविषयिणी सविन्मात्रब्रह्मावरणद्वारा तदवस्थाविशेषान्तःकरणोपहितं तत्प्रतिबिम्वं वा स्वीयेन दोषण बघ्नाति। तेन ब्रह्मस्वरूपमिव स्वस्वरूपमपि जीवा न जानन्तीति- "अनृतेन हि प्रत्यूढाः" इति श्रतिबोधयति। आवरणशक्तिर्हि तमोवत् तत्र तत्र तमशशब्देनोपात्ताया अविद्यायाः श्रुतौ श्रयते। "अज्ञानेनावृतं ज्ञानमि" ति स्मृतावपि तथा ॥ "सत्यं चानृतं च सत्यमभवत् " नानृत वदेत्-इत्यादौ मिथ्यार्थ एव प्रसिद्धमनृतपदम्। "ऋतं पिबन्तावि"त्यत्र कर्मफलपरत्वमृतशब्दस्य "सुकृतस्य लोके"-"पिबन्तौ" इति शब्दसमभिव्याहारमात्रात्, लक्षणया वाऽवश्यभोक्तव्यत्वोपचारेण वा। न चर्तशब्दस्य कुत्रचन कर्मफलपरत्वं दृष्टम्, इत्यनृतशब्दस्यापि कर्मविशेषपरत्वम्। न हि काम्यकर्मैवानृतम्, न तु नित्यकर्मे-
Page 328
२७२
त्यत्र प्रमाणमस्ति। "ऋतं पिबन्तौ" इत्यत्र ऋतशब्दो नित्यकर्मफलपरमपि। न हि नित्यकर्मफलं चित्तशुद्धयादिकं बन्धः, इति तत्र तत्र ऋतशब्दस्य कर्ममरत्वं स्वीकर्तव्यम्, इत्यनृतशब्दस्तद्विरुद्धनित्यकर्मपर एव भवितुर्हति। तत्तु न बन्धाय। परमतेऽविद्यैवं कर्मेति ऋतशब्दोSविद्यापरः, अनृतशब्दस्तु विद्यापरः स्यात्। तथाच प्रत्यूढपदार्थानन्वयस्तत्र दूषणम्। न च कुत्राप्यनृतशब्दः काम्ये कर्मण्येव दृश्यते। असत्यानृतपदयोः पर्यायत्वात् कथमनृतपदं नासत्यपरम् 2
"अनृतादात्मानं जगुप्सेत्" इत्यत्र श्रुतप्रकाशिकापि प्रस्तुतपुण्यकर्मा- दिप्रतिद्वन्द्विपरत्वाद् ऋतशब्दः कर्मवाचीति निश्चीयत इति प्रकाशयन्ती पुण्यकर्मादिप्रतिद्वन्द्विपदसमभिव्याहाराभावे तत्प्रस्तावाभावे वाऽनृतशब्दस्या- सत्यार्थपरत्वमभ्यनुजानाति। अतो नानृतशब्दस्य पापकर्मपरत्वम्, काम्यकर्मपरत्वं वा। सर्वथा तु ऋतशब्दस्य प्रकरणानुसारेणैव कर्मवाचि- त्वम्, तत्रापि पुण्यकर्मवाचित्वम्, पापकर्मवाचित्वं वा सकोचेन प्रकरणाद्वा वक्तव्यम्, इति परमतेऽपि कर्मवाचित्वेप्यविद्यायामियं श्रतिः प्रमाणमेव। यथाच न कर्माविद्या। किन्त्वावरणविक्षेपशक्तिमती भावरूपा मार्यैव तु सा, तथोपपादितमधस्तात्। न हि कर्मरूपाविद्ययाऽइमज्ञ इति प्रतीतिरुपपद्यते, कर्मणोऽदृष्टत्वेनाप्रत्यक्षत्वात्, तस्यावरणशत्तयभावाच्च। न हि कर्मणा ब्रह्मण आवरणम्, तस्य्र ब्रह्मागोचरत्वात्॥ आस्तामिदम्। प्रकरणमेवात्रालोच्यताम्-कथमत्रानृतशब्दः कर्मपरः प्रकरणात्? अनृतप्रतिद्वन्द्ि किं वाऽत्र वाक्ये निर्दिष्टमिति च। इदमत्राम्ना- यते "त इमे सत्या. अनृताभिधानाः" इति। तत्र च सत्यप्रतिद्वन्द्वि अनृतमसत्यमेव भवितुमर्हति, न तु काम्यं कर्म। कामा इति बहुवचनं तत्कार्याभिप्रायः। सत्याव तु व्यावहारिकसत्यत्वाभिप्रायेण। एकसत्तावादे सत्तादात्म्येनैव। सत्तात्रैविध्यवादेऽप्यधिष्ठानमेकमेव सत्यम् न चानेकानि
Page 329
शब्दप्रमाणम् २७३
सत्यानि, इति नैकसत्यतावादस्य हानिः। मुख्यसत्यभिन्नत्वमात्रेणात्रानृतपदम- सत्याज्ञानपरम्। अपिधानमावरणं वा तमःशब्दवाच्यस्याज्ञानस्यैव, इत्यनृतापि-
कामा:" इत्यत्र सत्यतादात्म्यापन्ना इति विवक्ष्यते। बहुवचनं तु कामानपेक्ष्य। अधिष्ठानरूपेणारोप्याणामप्येकत्वम्, आरोप्यरूपेण तेषां नानात्वम् । अतः पारमार्थिकसत्यविवक्षायामपि नात्र बहुवचनविरोधः। अतोऽनृतशब्द- स्यासत्यपरत्वं पारमार्थिकसत्यप्रतिद्वन्द्वित्वेन निर्वहति॥ अस्तु वाऽनृताभिधाना इत्यत्रानृतशब्दस्य दुष्कर्मपरत्वम्। "अनृतेन प्रत्यूढाः" इत्यत्र तु न तत्परत्वम् ; दुष्कर्मण आवरणशक्त्यभावात्, सुषुप्तौ तदभावाच्च। क्षणिकत्वात्कर्मणां नाशेऽप्यक्षीणकर्मत्वमुभाभ्यामपि, सत्यम्, स्वीकर्तव्यम्। तच्च कारणात्मनाऽवस्थानेनैव। तच्च कारणमज्ञानमेव, इति कथ- मुक्तश्रुतिरविद्यायां न प्रमाणम् ? उत्तरत्रास्मिन्नेव प्रकरण आत्मनोऽपहतपाप्मत्वाम्नानादपि नात्र काम्य- कर्मणा, पापेन वा पिधानमुपपद्यते। न च ब्रह्मज्ञानस्य वा, मोक्षस्य वा प्रति- बन्धकत्वमात्रेणावरणत्वं कर्मणः। तद्धि प्रकृतं देहात्म्यैक्याभिमानसाधारणम्, इति न कर्मण एव। न चात्र कर्मप्रकरणमपि। ब्रह्मवेदनप्रतिबन्धकं चात्राज्ञानं ज्ञाननिवर्त्यमेव वक्तव्यम्। तच्चाज्ञानमेव। अनृतशब्दस्य "तम आसीत" "तमसा गूढमग्रे" "नीहारेण प्रावृत्ताः" इत्या दिश्रुत्येकवाक्यतयाऽप्यावरणशक्तिमद विद्यापर त्वमेव युक्तम्। न हि प्रलयेऽपि कर्म स्वरूपेण वर्तते। कारणात्मनाऽडवारकत्वं चाज्ञानवादे एव पर्यवस्यति। सर्वथा तु-अनृताभिधाना इत्यादावपि कारणात्मनाSSवारकत्वमेव कर्मणो वक्तव्यम् ; कार्याणां सर्वेषां सत्कार्यवादे न कार्यात्मतामात्रम्, किन्तु कारणा- त्मताऽपि। तथा च मृद्ध इत्यादौ मृदात्मना श्रक्ष्णतारूपादिमत्त्वमिवाविद्या- तमना कर्मणामावरकत्वम्। इदं तु पुण्यकर्मणामपि समानम्। न हि पुण्यकर्म न 18
Page 330
२७४ अद्वततत्त्वशुद्धि.
बन्धकम्, पापकर्मैव तु बन्धकम्। "सर्वे पाप्मानो निवर्तन्ते" इति हि पुण्यमपि पापकर्मतया विवक्षति। अत एव सूत्रम्-"इतरस्याप्येवमसंक्लेष. पाते तु" इति। तथाच श्रुति .-- "नैनं सेतुमहोरात्रे तरतः" इति। न हि काम्यकर्मैव मोक्ष- प्रतिबन्धकम्, किन्तु नित्यकर्मापि। यावत्तदधिकारं न बन्धो निवर्तते। विष्णुपुराणमपि षषठाशे- "अज्ञानिनां प्रवर्तन्ते कर्मलेपास्ततो द्विज। नरकं कर्मणां लेपात्फलमाहुर्मनीषिणः ॥" इति कर्मलेपस्याज्ञानकार्यत्वं प्रतिपादयदज्ञानं न कर्म, किन्तु तत्फलमेव कर्म, तत्फल तु नरकादीति बोधयत् कर्मणोSविद्यात्वं परम्परयैव श्रावयति।
"अन्ध तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम्। यथा सूर्यस्तथा ज्ञानं यद्विप्ेन्द्र विवेकजम्॥" इति तमस इवावरणमप्रकाशनमेवाज्ञानकार्यम्, तन्निवृत्तिश्च प्रमाणजन्यज्ञाने- नेति तत्र श्राव्यते। तथा द्वितीयांशेऽपि-
"अविद्यासचितं कर्म तच्चाशेपेपु जन्तुषु ॥" इत्यविद्याकार्यत्वं कर्मणां प्रतिपादते। ततश्र-
"विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा। अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते।।" इति षष्ठांशगतवचने "अविद्याकर्मसज्ञाऽन्ये" त्यत्र साक्षात्परम्परासाधारण्ये- नाविद्यास्वरूपनिरूपणपरे 'अविद्याकर्मसंज्ञे'ति द्वन्द्वसमास एव, इति न कर्मण एवाविद्यात्वम्-एकत्वं मुख्यमविद्यात्वमेकस्यैवेति मत्वा। समस्तपद- त्वेऽपि तु तत्र हेतुमतोरैक्याभिप्रायेणैवोपपत्तिवर्णनीया। व्याख्यातं चैवमेवात्र श्रीधरस्वामिना ॥
Page 331
शब्दप्रमाणम् २७५
यत्तु यागादिकर्मारव्यमविद्याऽपरपर्यायं शक्त्यन्तरमिति विष्णुचित्तीय- ·ाख्यानम्, तस्यापि कार्यकारणभावाभ्यामुभाभ्यामप्यावरणशक्तावेव तात्पर्यम्, जन्यथा प्रलयादौ तदवस्थानाभावेन स्थितिकालेऽपि तस्य नष्टत्वेन कारणा- त्मना सत्त्वस्य यावत्फलोदयं स्वीकर्तव्यत्वेन च विरोध आपद्येत। अपि च "अविद्याकर्मसंज्ञे"ति कर्मशब्देन कर्मसामान्यमेव प्रतिपाद्यते, न तु काम्य- कर्म, दुष्कर्म वा, इति काम्यकर्मण एवात्र विवक्षायां प्रमाणाभावः । सर्वथा त्वावरणविक्षेपशक्तिके भावरूपाज्ञान एव विष्णुपुराणस्य तात्पर्यम्।। तत्र भावरूपत्वं कर्मणोऽविद्यात्ववादेऽपि समानम्। एवमावरणस्वभा- वोऽपि। तस्य द्रव्यरूपत्वेन परिणामित्वे न विप्रतिपत्तिः। यतः प्रकृतेः परि- णामित्वं तत्र स्वीक्रियते। अद्वैतिनस्तु-अनादिप्रकृतेरेवावरणशक्तिमपि स्वीकृत्य यावन्मोक्षमेकामविद्यां स्वीकुर्वन्ति। तत्र कर्माविद्यात्वपक्षे तस्य बहुत्वात्, नश्वरत्वात्, पुरुषभेदेन भेदात, तस्यैकविष्णुशक्तित्वमेकत्वं च-"अविद्या- कर्मसंज्ञान्ये"ति प्रतिपादितं नोपपद्यते॥ तत्र यदि-यदा तु मुक्तः किंचित्कामयित्वा पश्चान्न तद्वाल्छति, तदा तद्विनाशस्यावश्यकत्वात्, न मुक्तिकालीनाविनाशित्वं संभवति, तदेदं विवेचनीयम्-'कथं सुक्तानां कामा अपि सत्या2 इति 'सत्याः कामास्स- माहिताः' इत्यत्र सत्यत्वमौपचारिकमिति स्वीकर्तव्यम्। तच्चाद्वैतमते पूर्वोक्त- रीत्या सदात्मतया, सत्तादात्म्येन च निर्वहत्येव। सर्वथा तु सत्यपदसामा- नाधिकरण्यायोग उभयत्र समानः। सति चैवमवश्यंभावित्वमात्राभिप्रायतयो- भयत्र सत्यपदप्रयोगेऽपि सत्यपदप्रतिद्वन्द्वित्वमात्रेणानृतपदमसत्यपरमित्येवोरी- कर्तव्यम्, इति सुषुप्तिकालेऽनृतप्रत्यूहनस्याप्युपपत्तिर्भवति। तथाच सत्यपदं परित्यज्य ऋतपदप्रयोगे हेतुरपि सूचितप्रायः। पूर्वत्रेवात्रावश्यंभावित्ववैपरीत्या- र्थबोधनमात्रं न विवक्ष्यतामित्यभिप्रेत्यैव तु तदर्थकर्मपदप्रयोगः। अन्यथा काम्यकर्मफलानामप्यवश्यंभाव्यत्वादू, विनाशित्वाच्च कथमनृतपदेन तद्विपरीतार्थ-
Page 332
२७६ अद्वैततत्त्वशुद्धि:
स्यात्र ग्रहणम्। अन्ततो गत्वाऽनृतपदं यदि विनाशित्वमेव बोधयति, तावता- डप्यज्ञानस्य विनाशस्तस्य बाध एवेति तत्त्वज्ञाननिवर्त्यत्वलक्षितस्याज्ञानस्य विवक्षा न व्याहन्यते ।। एतेन-भगवत्प्रीणनत्वेनाभङ्गरकर्म ऋतपदार्थ:, तद्विलक्षणं मङ्गुरं कर्मा नृतपदार्थ इति-परास्तम्। कर्म, अभङ्गरमिति च व्याहतम्, अवश्यंभाविफलक- त्वमभङ्गरत्वमप्युभयत्र समानम्। अतः पूर्वोद्धृतविष्णुपुराणव चनैकवा क्यता दिना Sनृतपदं ज्ञाननिवर्त्याज्ञानपरमेव॥ "नासदासीन्नो सदासीत् तम आसीदि "ति श्रुतिरावरणशक्तिमत्याम- विद्याया प्रमाणम्। अत्र यत् तमस्सृष्टे: पूर्वमासीत्, तद् न सत् त्रिकालाबाध्यम्, नाप्यसत् तुच्छम्, इति तमसः सदसद्विलक्षणत्वमान्नायते। तावता च तमसोऽ- निर्वचनीयत्वे सिद्धे तदुपादेयानामप्यनिर्वचनीयत्वमर्थसिद्धम्। 'तम आसीत्' इति सत्तानुवादस्त्वर्थाद्यावहारिकत्वे पर्यवस्यति। इदं वाक्यं चिदचिद्विशिष्टपर- मिति तुन युक्तम्; सृष्टे. प्रागपि चिदचिद्विशिष्टब्रह्मसत्त्वात् "नासदासीन्नो सदासीदि"ति निषेधानुपपत्तेः । स्थूलचिदचिद्विशिष्टं तदा नासीदिति विवक्षायां तु "तम आसीदि "ति सूक्ष्माचिद्विशिष्टमात्रमासीदिति न युक्त्तम्। उपलक्षणत्वे तु न प्रमाणम्। विष्णुपुराणं तु नोक्तार्थे प्रमाणमित्युपपादयिष्यते। तद्धि- "नाहो न रात्रिर्न नभो न भूभि: नाशीकरो ज्योतिरभूच्च नान्यत्। श्रोत्रादिबुद्धयनुपलभ्यमेकं प्राधानिकं ब्रह्म पुमस्तदासीत्।।" इति चिदचिद् ब्रह्मणामनभिव्यक्तस्वरूपेण स्वतन्त्रमवस्थानमेव बोधयति, न तु चिदचिद्विशिष्टमेकं ब्रह्म। अत एव - "विष्णोस्सकाशात्परतोदिते ते रूपं प्रधानं पुरुषश्च विप्र। तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरं तद्विद कायसंज्ञम्॥"
Page 333
शब्दप्रमाणम् २७७
इति परमात्मनः पृथक् तेषां प्रळये संयुक्तरूपेण, सृष्टौ विभक्तरूपेण च प्रतिपाद्योत्तरत्र- प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्यये।। इति सर्गकाल एव प्रकृतिपुरुषयोः प्रवेशो निर्विशेषस्य ब्रह्मणः प्रतिपाद्यते। तत्र प्रळयकाले शरीरशरीरिभावेनैव चिदचिदीश्वराणां सचवे सर्गकाले तत्प्रवेशवर्णनमीश्वरेच्छया प्रतिपाद्यमानं नोपपद्येत। जीवात्मनः कौस्तुभमणित्वेन, प्रधानस्य प्रकृतेः श्रीवत्सरूपेण च रूपणम्, अन्येषां च सर्वेषां कार्याणामाभरण- रूपेण रूपणमप्यपृथक्सिद्धशरीरशरीरिभावं प्रधानादीनां वारयति। एवम्- विष्णुशक्ति: परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा। अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते॥ इति चिदचितोर्ब्रह्मशक्तित्वेनाम्नानं शरीरशरीरिभावेन चिदचिद्विशिष्टतां ब्रह्मणो निपेधति। न च शरीरं शक्तिरित्यनर्थान्तरम्, भास्करमतप्रवेशापत्तेः। सति चैवं तत्र तत्र "समष्टिव्यष्टिमूर्तये" "स्थूलसूक्ष्ममूर्तये" इति मूर्तिपदप्रयोगमात्रेण शरीरशरीरिभावो न युक्त: कल्पयितुम् ।। कुमा रिलपादानां सामाना धिकरण्यस्य कुत्रचन कुत्रचन शरीरशरीरिभावेन समर्थनं तु तन्मत उपनिषदामर्थवादत्वात्, तासां स्वार्थपरत्वेऽप्युपास्यसत्यतां विना कयाचन कल्पनयोपासनासमर्थनाभिप्रायेण, न तु तत्सत्यताभिप्रायेण।। न च तैरपि चिदचिच्छरीरकं ब्रह्मतत्त्वमूरीकृतम्, तदेव प्रामाणिक- मिति वा। भोगाधिष्ठानत्वमात्रेण शरीरत्वं गौणमेव, न मुख्यम्, येन परमतमेव भादृसोमेश्वरादीनामपि मतमिति कल्पनाया अवसरः स्यात् ॥ व्यवहारे भाट्टनयः श्रत्यविरोध एव। न च परमतेऽपि स एकान्तेन। न च परमतं कुमारिलमतं चैकम्। अत एवाऽडत्मविभुत्वादिकमुपन्यस्य-
Page 334
२७८
"दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन ।" इति ते वर्णयन्ति। न चायं वेदान्तार्थः परमते, न वाऽडतपरिणामत्वमनित्यत्वं चात्मधर्मस्य ज्ञानस्य तदभिमतं परे स्वीकुर्वन्ति। आस्तामिदम्-"नासदासीदि"त्यस्य सदसद्विलक्षणाज्ञानप्रतिपादनपरत्वं नानुपपन्नम्। चिदचिद्विशिष्टपरत्वे तु-"तम आसीदि"त्यचिन्मात्रस्य विशिष्य बोधनमनुपपन्नम्। नमसा गूढमिति तु परमते बाधितम्। न हि भगवत. स्वशरीरेणावरणं नाम। जीवस्यापि सूक्ष्मशरीरम्, तदन्तर्गतान्तःकरणं वाडभिव्यं- जकम्। तमः शरीरमिति, तेन गूढमिति च व्याहतम्। आवरणशक्तिमत्तमः- पदेन प्रकृतेः सूक्ष्माचित आदानं ससिद्धान्तस्यैव घातकम्। तुच्छेनेति पदं परमतेऽपि नासत्परम्। तदेवानिर्वचनीयताभिप्रायेणेति वर्णने का बाधा ? अद्वैतानुगुणयोजनप्रकारस्तु भाष्य एव व्यक्तः, इति न व्याहतार्थताऽद्वैतमते॥ सायणाचार्याणां व्याख्याप्रकारोऽप्येवं न विरुद्धयते। तत्रापि तम.पदेनो- पादानाद् आवरणशक्ति: स्वीक्कियते। तुच्छेतिपदेनाप्यनिर्वचनीयत्वमेव, इति कथं तेनापि नानिर्वचनीयावरणशक्तिमदज्ञानासिद्धिः १ "मायां तु प्रकृतिं विद्याद् मायिनं तु महेश्वरम्। तरत्यविद्यां विततां हृदि तस्मिन्निवेशिते॥" इति श्रत्या मायाविद्ययोरभेदोऽवगम्यते। इदं चावरणविक्षेपशक्तिमत्त्वेन, "तरत्यविद्यामि"ति तस्या ज्ञानमात्रनाश्यत्वं चोच्यते, इति भावरूपावरण- शक्तिमदविद्यायां ज्ञाननिवर्त्यायामियं श्रुतिरपि प्रमाणम्। तन्र मायाशब्दो ज्ञानपर इति नैघण्टुकं वचनं ज्ञानस्य मायापरिणा- मत्वेन मायाविशेषान्तःकरणधर्मत्वाभिप्रायेण वा प्रवृत्तं जन्यज्ञानस्यात्मघर्मत्वपक्षं निरसितुम्॥ मायाशब्दस्याश्चर्यपरत्वं तस्या एवाघटितघटनापटीयस्त्वेन, विचित्र- शक्तियोगेन वा। न हि ब्रह्मणो विचित्रशक्तियोग: किंचित्करः। स हि "धाता
Page 335
शब्दप्रमाणम् २७९
यथापूर्वमकल्पयत् " इति श्रुत्या न घटं पटयति। माया त्वनिर्वाच्या स्वव्य- तिरिक्तानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति। यदीश्वरो विचित्रशक्ति- योगेन कार्यकरणदक्षः, तर्हि किमर्थ चिद चिच्छरीरापेक्षा।। एतेन-मायाशब्दो विचित्रार्थसर्गकरवाची, न मिथ्यावाचीति- परास्तम् ; किमनेन विवक्षितम्-यदि मायाया एव विचित्रसृष्टिकरणे सामर्थ्य- मिति, तर्हिं स्वागतम्। को वाऽन्र विप्रतिपद्यते? अथ यदि न मिथ्या सा, न वा मिथ्यार्थकारिणीति, को वा विचित्रार्थ क्रियासमर्थाया मायाया मिथ्यात्वे, मिथ्यार्थ- क्रियाकारित्वे वा विरोध:१ किं सत्य एव विचित्रार्थक्रियाकारी, सत्यश्चेति राजाज्ञा 2 यद्योम्, तर्हि किं वा विचित्रार्थकारित्वम् 2 अघटितघटनापटीयस्त्वं हि विचित्रशक्तियोगो नाम। सा च स्वयं मिथ्या, मिथ्याकार्यकरी च। का वाऽन्र बाघा 2 मिथ्यात्वे सति विचित्रार्थक्रियाकारित्वमिति मायालक्षणमप्यत एवोप- पद्यते। स्वयं वैचित्यम्, विचित्रार्थकारित्वं चेत्युभयनिरूपणं हि मिथ्यात्वे सतीति विशेषण एवोपपद्यते, इति न मायापदार्थे मिथ्यात्वे सतीति विशेषणवैयर्थ्यम्।। का वा राजाज्ञा-विचित्रचित्तविकारकारकत्वमेव न तु विचित्रसर्ग- हेतुत्वं मिथ्याभूतानामित्यत्र। इदमेव वैचित्र्यं मिथ्याभूताया मायायाः। यद्यस्या विचित्रसर्गहेतुत्वमपि। तत्कार्याणां मिथ्याभूतानां सर्पादीनां विचित्रसर्गहेतुत्वं दुष्टमिति चेत्, तर्हिं किमायातम् 2 माया स्वयमेव विचित्रं सर्ग करोति, न स्वकार्यमपि न कारयतीति। किमीश्वरो विचित्रशक्तियोगेन स्वसष्टानां पदार्था- नामपि विचित्रसर्गशक्तिमादधाति १ विचित्रशक्तियोगेनेश्वरसृष्टः सर्पः खमे कथं तर्हि विषं न वमति ? मायाया मिथ्याभूताया अयमेव विचित्रशक्तियोग :- यत् कुत्र चनैकत्रै- वैकं वस्तु सम्बन्धयति, कंचन बहुषु देशेषु कालेषु च क्रमेण सम्बन्धयति। शुक्तिरूप्यादिकमन्यत्र न सम्बन्धयति। घटादीस्तु देशभेदे कालमेदे च
Page 336
२८० अद्वैततत्त्वशुद्धि
सम्बन्धयति। एवं चेत् शुक्तिरूप्यमपि कथं घटादिकमिव नोपलभ्यते ? यतो। नास्ति, अस्ति चेदुपयुज्यतां देवानांप्रियेण। को वा प्रतिबन्नाति ? अपरमपि सामर्थ्य मायाया इदमेव-यदत्र सच्चिदानन्दरूपं ब्रह्म, तदाश्रित्य, आवृत्य चान्यथा भ्रामयति, अन्ततः तत्साक्षात्कारेण स्वयं नश्य- त्यपि। न हि ब्रह्ममाययोर्वैषम्यमद्वैतिनोऽप्यपहुवन्ति, खयं वा मायाविन इव ब्रह्मण: सर्वार्थकारित्वम्। ब्रह्म नियामकमपि प्रकृतिमपेक्ष्यैव कर्तृ, न तामन- पेक्ष्य। माया तु ब्रह्माधिष्ठानतयाऽपेक्षते विचित्रसर्गाय। अत एव वैषम्यनैर्धृण्ये मायाया., न तु ब्रह्मणः । सा हि ब्रह्माणमपि भ्रामयति। नारायणमप्यवतारग्ति। तौ, अन्यान् वा देवान् बन्धयति। तदपि तदीयविचित्रशक्तियोगेन। मायाशब्दो मिथ्यार्थे लोके प्रसिद्धो मायावीत्यादौ। मायाविनिर्मिता पदार्था अपि बहव आश्चर्यभूताः, मिथ्या च। मिथ्यात्वं नाम व्यवहारदशायामेव। अन्यदा तु सति तत्त्वज्ञाने सवयं स्वरूपतोऽसती, तत्प्रयुक्ताश्च मिथ्याूताः । तन्मिथ्यात्वं त्विन्द्रजालनिर्मितेष्विव बाघायां प्रत्यक्षम्। तत्तु सत्यमाश्चर्यम्, मायायाः शक्तिवैचित्र्याधीनत्वात्।।
स्वीयश क्तिवैचित्र्येण प्रदर्श्यन्ते। मूलाविद्यावस्थाविशेषास्तूलाविद्या अपि परम्पर- येश्वरशक्तय एव। परं त्वैन्द्रजालिकसृष्टिवद् नार्थक्रियाकारिणः। अन्ततः स्वरूपतोसन्त एव। तथा प्रदर्शनं चेश्वरस्य यदि मायाद्वारा, तर्हि तु स्वागतम्। तेषां सर्ग ईश्वरेण, तथापि वितथा इति चित्रतरमिदम्। एवं वदतामद्वैतिनां विचित्रकार्यकारिषु व्यवहारदशायामबाधितेषु मायाशब्दप्रयोगो नाभिमतो विचित्रशक्तियोगमात्रेण ॥ तेन मायासहस्रं तच्छम्बरस्याशु गामिनः । बालस्य रक्षता देहमेकैकश्येन खण्डितम्॥
Page 337
शब्दप्रमाणम् २८१
इत्यादौ सत्येऽप्यर्थे मायाशब्दप्रयोग उपचाराद् न विरुध्यते। तदेवं सिद्धम्- यदविद्यायां श्रुतिरपि प्रमाणमिति॥ एतेन-मायायाम्, अविद्यायां वा श्रतार्थापत्तिरपि प्रमाणमिति- व्याख्यातम्। तत्र "तरत्यविद्यामि"ति श्रुतिज्ञातज्ञाननिवर्त्यत्वानुपपत्तिस्तत्र प्रमाणमिति पूर्वमेवोपापादि। न केवलमिदम्-'तत्त्वमसी'ति जीवब्रह्मणो- रैक्योपदेशानुपपत्तिरपि तत्र प्रमाणम्॥
तथाहि-'तत्त्वमसी'ति तत्त्वंपदयोः सामानाधिकरण्यमाम्नायते। तच्च भेदस्य मिथ्यात्व एवोपपद्यते। तच्च तस्याविद्याहेतुत्वं विना नोपपद्यते, इति तदनुपपत्त्याऽज्ञान कल्प्यते। उपदेशत्वाद्वेदान्तवाक्यस्याज्ञातार्थ- बोधकत्वं नियतम्, अबाधितार्थबोधकत्वं च।।
तत्र विशिष्टयोर्जीवश्वरयोर्भेदः प्रत्यक्षसिद्ोऽपि बाधितः । न "ह्यादित्यो यूपः इति यूपामेद आदित्ये श्रथमाणोऽपि प्रत्यक्षविरुद्धो न बाध्यते। अन्यथानयनं वा नोरीक्रियते। अतः प्रत्यक्षविरुद्धार्थेडपि न श्रुतेस्तात्पर्यम्। एवमेव तदुपजीव्यानुमानविरोधेऽपि। तत्र श्रत्यवष्टब्धे प्रत्यक्षानुमाने तु तदुपजीव्य श्रुतीनां श्रुत्यन्तरस्य चाविरोधे, विरोधेऽपि श्रुत्यन्तरस्य प्राबल्ये च श्रुत्यन्तरं दुर्बलम्। तत्र बाध्यबाधकयोरबहुत्वाल्पत्वे न बाध्बाधकभाव- प्रयोजके। "विप्रतिषेधे भूयसां स्यात् स्वधर्मत्व"मिति न्यायः समबलत्वे श्रुति- ह्वयस्य प्रवर्तते। न चात्र समबलत्वमद्वैतश्रुतेः, भेदश्रुतेश्च । सति चैवमनन्तभेदश्रुत्यनुरोधाद् न कतिपयश्रुतीनामन्यथानयन- मवकाशते। अयमेव न्यायः प्रत्यक्षानुमानबहुश्रुतिवाक्यबाधापेक्षया कति- पयश्रत्यन्यथानयनकथायामपि ॥ अस्तु वा प्रत्यक्षाविरोधार्थं 'तत्त्वमसि' वाक्ये यथाश्रुतयोजनं न कर्तव्यमित्यन्यथानयनम्। तथाऽपि कथं वाडन्यथानयनं कर्तव्यमित्यत्र का वा
Page 338
२८२
विनिगमना 2 तत्राद्वैते लोकिद्धप्रक्रियामाश्रित्य श्रयमाणानामेव पदानां लक्षणामात्रमाश्रित्य तावतैव तत्र विरोधपरिहारः ॥ 'तत्त्वमसि' वाक्ये यथाश्रुतया योजनयाऽभीप्सितार्थसिद्धिर्न भवती- त्यन्यथानयनमेवाद्वैतिभिः क्रियते। तदपि प्रतीयमानविरोधपरिहारार्थमेव। तदपि लौकिकलक्षणाद्याश्रयणेनैव, न तु व्युत्पत्तिविशेषादिकल्पनया। लक्षणापि हि लौकिकी। परमते तु शरीरवाचकानां पदानां शरीरिपर्य- न्तत्वम्, शरीरिवाचकानां तु निष्कर्षकविधया स्वरूपमात्रपरत्वमिति व्युत्पत्तिबलेन 'असि' पदानन्वयदोषमविगणय्य जीवशरीरी परमात्मेति वाक्यार्थो वर्ण्यंते, सामानाधिकरण्यनिर्वाह्श्र क्रियते-सद्विद्यायामपि चिद- चिच्छरीरकत्वमेवान्तर्यामिब्राह्मणसिद्धं वक्तव्यमिति कृत्वा। अद्वैतिभिस्तु- "सदेव सोम्येदमग्र आसी "दित्युपक्रमे तत्पदार्थमध्यारोपापवादनयेन कारणतया प्रस्तुत्याद्वितीयतया चोपसंहृत्य 'तत्त्वमसी'ति प्रवृत्तत्वात्, विशिष्टजीवेश्वरयोरैक्यस्यासम्भवात्, उपक्रमश्रुताद्वितीयत्वमभिप्रेत्यैवाभेदस्य तात्पर्यविषयत्वावश्यकत्वाच्च वाक्यगतिपर्यालोचनया जीवत्वेश्वरत्वयोरविवक्षया लक्षणया, विनाऽपि लक्षणामभिहितान्वयवादप्रक्रियया वा चिन्मात्र- विवक्षयाऽमेदो बोध्यते-तस्थ प्रमाणान्तरेणानधिगमाद् उपदेशत्वमबाधं भवतीति मत्वा। न चात्र तत्त्वंपदार्थयोः शरीरशरीरिभावेनोपक्रम.। "सदेवे" त्युपक्मे सत्पदेन कथञ्चन चिदचिच्छरीरकत्वेन प्रस्तावेऽपि तत्त्वमसीत्यत्र जीवशरीरकत्वमात्रस्य विवक्षणाद् उपक्रमवैरूप्यं प्रतीयते, "सदेवे"ति वाक्यविवक्षितादर्थाद् अर्थान्तरमपूर्व वा न बोष्यते, उपक्रमे विशिष्टे विशेष्य- तया प्रस्तुतस्यात्र केवलविशेष्यतया निष्कर्षकविधया निर्देशे जीवशरीरकः परमात्मेति वाक्यार्थे 'असि 'पदानन्वयः प्राथमिकवाक्यार्थविवक्षावसरेऽपि शरीरशरीरिभावमात्रविवक्षायां कार्यकारणभावेन ब्रह्मणो विवक्षा, "मृतिके त्येव सत्यमि"ति कारणमात्रसत्यत्वेन दृष्टान्तानन्वय इत्यादिबहुतरदूषणानि।
Page 339
शब्दप्रमाणम् २८३
अद्वैतमते तु लक्षणामात्रेण सर्वसामञ्जस्यमिनि जीवत्वेश्वरत्वयोस्तत्प्रयुक्तभेद- स्याविवक्षया वाक्यार्थे निष्पन्ने तन्निबन्घनसाक्षात्कारेणाभेदज्ञानतत्प्रयुक्त- सप्रतियोगिकभेदनिवृत्ति:, इति पर्यवसिते वाक्यार्थज्ञानेन भेदतत्प्रयोजकाज्ञान- योर्बधेनैवोपपत्तिः, इति 'तत्त्वमसि' इत्युपदेशानुपपत्तिरज्ञाने प्रमाणम्॥। तत्र तत्त्वंपदयोर्न शुद्धे लक्षणा, किन्तु विशिष्टशक्त्यैव विशेष्यमात्रा- न्वयतात्पर्यज्ञानसहकृतया विशेष्यमात्रोपस्थापकत्वमिति वा, अभिहितान्वयवा- देन तत्त्वंपदाभ्यां विशिष्टोपस्थितावपि तात्पर्यवशाद् विशेष्यमात्रस्य शाब्दबोधे भानमिति वा यथा तथा वा भवतु। परमतेऽपि विशिष्टवाचकानां निष्कर्षक- विधया विशेष्यमात्रोपस्थापनमपि लक्षणयैव, न तु शक्त्या। एवं विशेषण- मात्रविवक्षायाम्। तथाचाद्वितीयत्वेन प्रस्तुतस्य तत्पदार्थस्य तद्ूपेणैवात्रार्थो वर्णनीयः, एवं तदभेदेनापि ; अत्र स्वरूपोपदेशात्। अत्रोपसंहारेऽपि तद- भेदयोग्यस्वरूपमेव त्वंपदार्थो विवक्षणीयः। तच् शक्त्या वा भवतु विना लक्ष- णाम्, लक्षणया वा भवतु। सविन्मात्रस्वरूपेणोभयाभेद एवात्र वाक्यार्थ इति तु तत्वम् । एतदुपष्टम्भकतया वायुपुराणदेवीभागवतादिवचनोपष्टम्भस्तु विवक्षि- तार्थस्यात्र सिसाधयिषितस्योपबृंहणार्थमेव। यदि तत्र वैयासिकेऽपि विद्वेषः, तर्हि मा प्रमाणं मन्यताम्, नात्र निर्भरः ॥ विष्णुपुराणस्यैकस्य वा प्रामाण्यं यदि स्वीकृतम्, तावतैव पर्याप्तम्। अद्वैतिनस्तु वैयासिकं वचनं नाप्रमाणयितुं साहसमवलम्बितुमुत्सहन्ते। तत्र त्वंपदलक्ष्यार्थज्ञानमात्रं जीवेश्वरभेदतत्प्रयोजकाज्ञानयोर्न निवर्त- कम्, न वा तत्पदलक्ष्यार्थज्ञानमात्रम्, किन्तूभयोरप्यैक्यज्ञानमेव; तस्यैव तद्विरोधित्वेन तन्निवर्तकत्वात्॥ सा च तत्त्वमसीति वाक्यजन्याखण्डाकारवृत्तिरेव प्रमाणजन्या। सा हि निर्विशेषधर्मिमात्रविषयाऽपि तदुभयाभेदप्रतीतिरूपत्वाद् निवर्तिकैव। यत्कि-
Page 340
२८४ अद्वैततत्त्वशुद्धि
श्विद्विशेषविशिष्टधर्मिज्ञानस्यैवाज्ञाननिवर्तकत्वं त्वज्ञानस्य विशिष्टविषयकतायाम्, यथा शुक्तिज्ञाने, न तु निर्विशेषविषयतदाश्रिताज्ञाननिवर्तकतायाम्। अज्ञानोपहितचैतन्यमधिष्ठानं विवर्तकारणम्, वृत्युपहितं चैतन्यम- नावृतं संविन्मात्रं त्वज्ञानसंबन्धप्रयुक्तसर्वभेदनिवृत्तिरूपं स्वव्यतिरिक्तसर्वनिषेधरूपं वा न सपपञ्चतामर्हति। उपहितान्याविषयकत्वे सत्युपहितविषयकं ज्ञानमेवा- ज्ञाननिवर्तकम्; समानविषयत्वात्। न चोक्तविधनिवर्तकज्ञाने वृत्त्यतिरिक्तस्य निवर्तककोटौ प्रवेशः। वृत्तिरपि सत्तामात्रेणोपयुज्यते, न तु विषयतया। "तमेव विदित्वाऽतिमृत्युमेति" इति हीतरविषयताऽनिरूपितात्मविषयताकत्वे- नैवात्मज्ञानस्याज्ञाननिवर्तकतामान्नाति। अतो न विशेपान्तरविषयताऽज्ञान- निवर्तनार्थं निर्विशेषज्ञानेऽपेक्ष्यते। प्रमाणजन्यं वृत्तिमात्रमज्ञाननिवर्तकम्, न स्वरूपज्ञानम्। इदमेवा भिप्रेत्योक्तम्- "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।" इति। अतो नाज्ञाननिवर्तकानुपपत्तिरपि॥ एतेन-अज्ञाननिवृत्तिरपि-व्याख्याता। तन्रापि ज्ञाने सति सुखादि- मिथ्यात्वबुद्धौ निवृत्तायां तद्भावनादाढर्येन क्वचिदपि प्रवृत्त्यभावात् कर्माभावाद् मुक्ति: सिध्यतीति न्यायदर्शनमपि ॥ इयान् विशेष :- 'यद् न्यायदर्शने क्रमिकेयं मुक्तिर्मुख्या, अद्वैतमते तु जीवन्मुक्तिपर्यन्तमयं क्रमः । अनन्तरं तु देहपाते युगपदेव सर्वविनाशः। जीवन्मुक्तिपर्यन्तं तु क्रमोऽपि न विरुध्यते। यथा च मिथ्यात्वनिश्चयेऽप्याधि- कारिकाणामिव जीवन्मुक्तानामपि प्रवृत्त्युपपत्तिः, तथा सनिदर्शनमुपपादित- मधस्तात्। सर्वथा तु तत्त्वज्ञानादज्ञाननिवृत्तिरात्यन्तिकी प्रारब्धभोगान्ते तावत्पर्यन्तमभ्यस्यमानपट्ठतरात्मसाक्षात्काराद् भवितैव ।। सा चाविदयानिवृत्ति :- 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः' इति वार्तिकमते स्वरूपतो जन्या, परं तु निवृत्तित्वोपलक्षितरूपेण नित्या।
Page 341
शब्दप्रमाणम् २८५
इष्टसिद्धिमते तु सा यद्यपि जन्या, तथापि न सती, नासती, नापि वा सदसती, न वा सदसद्विलक्षणा, न वा ज्ञाननिवर्त्या, किन्तु पञ्चमप्रकारेति। सापि मिथ्यव, दृश्यत्वेन मिथ्यात्वमिथ्यात्ववद्-इति केचन। अकार्येति तु नोरीक्रियते। तन्मिथ्यात्वं तु सद्विविक्तत्वम्, त्रैकालिकप्रतिषेधप्रतियो गित्वं वा। अस्मिन् पक्षे भावाद्वैतमेव, नाभावाद्वैतमिति सर्व सुस्थम्। चतुष्कोटि- विनिमुक्ताऽपि सा जन्यत्वात् सप्रतियोगिकत्वाच्च न शून्यम्। अविद्याया- मनुपपत्तिस्तु भूषणम् ॥। तत्राविद्यायामनुपपत्तिर्भूषणमिति वदतामयमाशयः-तस्याः सत्त्वेन असत्त्वेन वा निर्वचनानुपपत्तिर्भूषणम्; अनिर्वचनीयत्वोपपादकत्वात् । आश्रयविषयाद्यनुपपत्तयस्तु सुपरिहराः, नात्रानुपपत्तिसंभावनाSपि। अथवाS- विद्यायां मिथ्यार्थजनकत्वायोगाद्यनुपपत्तयो विचित्रशक्तियोगोपपादकतया भूष- णम्, न तु प्रामाणिकानामप्यप्रामाणिकत्वोरीकारेण तद्भूषणतायां तात्पर्यम्।। सप्तविधानुपपत्तयस्तु तदवान्तरभेदेन साकं नाविद्यायामवतरन्ति। सर्वथा त्वविद्यायामनुपपत्तिलेशस्याप्यसंभवात्, तस्या भावरूपाया ब्रह्माश्रय- विषयकायाः, तज्ज्ञाननिवर्त्यायाश्च ब्रह्मभिन्नतया प्रमाणसिद्धत्वाद न सा ब्रह्मस्वरूपा, सत्या वा, इति तन्निवर्तकतत्त्वसाक्षात्कारार्थ साधनचतुष्टय- सम्पन्नैविचारः कर्तव्यः, तदर्थ प्रयासश्च सर्वेषामुपपन्न एव। यतोज्द्वैतमेव ब्रह्ममीमांसायाः, उपनिषदां च तत्त्वम् ॥ "इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।।" इति स्मृत्या वेदोपबृंहकत्वेनाभिमतेषु प्रधानं विष्णुपुराणमप्यद्वैतपर्यवसायीति पूर्व यथावसरं विवेचितम् ॥ तत्र विष्णुपुराणस्य स्थूलदष्टया विनाऽन्यथा, क्विष्टां वा योजनां समा- लोचने तत्तात्पर्यविषयोऽद्वैतमेवेति जडभरतोपाख्यानादिना पूर्व निरूपितम्। अन्यान्यपि कानिचन वचनान्यत्र सङ्कह्यन्ते॥।
Page 342
२८६ अद्वैततत्त्वशुद्धिः
तत्र सृष्टिकर्ता ब्रह्मैवः, नारायणपदस्य-"आपो नारा इति प्रोक्ताः" इति वचनसिद्धव्युत्पत्त्या नारायण इति पूर्वमुपपादितम्, परन्तु तदुपलक्षणं रुद्रस्यापि। तत्र प्रमाणं तु- "तमोद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः । भक्षयित्वा च भूतानि जगत्येकार्णवीकृते॥ नागपर्यङ्कशने शेते च परमेश्वरः । प्रबुद्धश् पुन. सृष्टि करोति ब्रह्मरूपधृक्॥ सृष्टिस्थित्यन्तकारिणी ब्रह्मविष्णुशिवात्मिकाम्। स सज्ञां याति भगवान् एक एव जनार्दन ।।" इति वस्तुगत्या निर्विशेषस्य तुरीयस्य परमात्मनोंडशा एव शिवविष्णवादय इति, तत्तत्कार्यभेदमात्रेण नारायणस्य तुरीयस्यैव संज्ञाभेदा इति चावगम्यते॥ सति चैवं शिवस्य विष्णुत उत्पत्त्युल्लेखः स्थित्यवस्थपरमात्मविभूतित्वा- शयेनैव। इदमुपलक्षणम्-शिवविभूतित्वे ब्रह्मविष्ण्वोः, ब्रह्मविभूतित्वे शिव- विष्ण्वोश्चेति। वस्तुगत्या तु शिवविष्ण्वाद्यभेद एव विष्णुपुराणस्य तात्पर्यम्। शिवविष्णुभावकृतो भेदस्त्वौपाधिक इत्यद्वैतामोदोक्तिरप्येतदाशयैव। अत एव- "शङ्करो भगवान् शौरिः श्रीश्च गौरी द्विजोत्तम ।" इति तुरीयनारायणविभूतित्वेन सर्वेषां निर्देशः। अनेनाप्यवगम्यते -- विष्णु- पुराणं शिवविष्णवाद्यभेदं मुख्यं तत्राप्येकस्य प्राधान्यं च विवक्षतीत्यद्वैतसिद्धा- न्तस्यैवानुगुणं विष्णुपुराणम्-इति। स्थित्यवस्थामाश्रित्य- "पुनामा भगवान् हरिः स्त्रीनाम्नी लक्ष्मीः" इति श्रवणं न शिवविष्णुभेदसाधकम्। "ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण आ्रान्तिदर्शनतः स्थितम् ॥
Page 343
शब्दप्रमाणम् २८७
परमार्थस्त्वमेवको नान्योऽस्ति जगतः पते। तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ यदेतद् दृश्यते मूर्तमेतत् ज्ञानात्मनस्तव। आ्रान्तिज्ञानेन पश्यन्ति जगदूपमयोगिनः ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो अ्रमन्ति मोहसंपवे॥ यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम। तदेषोऽहमयं चाभ्यां वक्तमेवमपीष्यते।। यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवानित्येतद्विफलं वचः ॥" इत्यादिवाक्यानि प्रत्यगात्मपराणि वा भवन्तु, परमात्मपराणि वा, उभयथाजद्वैत एतेषां वचनानां स्वारस्यम् ।।
विष्णुपुराणे हि शरीरशरीरिभावश्चिदचितोर्न कुत्रापि प्रतिपाद्यते। केवलं सामानाधिकरण्यं 'ज्योतीषि विष्णु' रित्यादौ श्रयते। कचितु मूर्तामूर्ते इति मूर्तादिपदम्। तत्र शरीरशरीरिभावविवक्षायां मूर्तिपद वितथम्। सामा- नाधिकरण्यं तु 'मृद् घटः' 'इदं रजतम्' इत्यादाविव कार्यकारणभावे- डप्युपपद्यते। अन्यत्तु सर्वमद्वैतमतेऽप्युपपद्यते। धर्मभूतज्ञानकथाऽपि विष्णुपुराणे नास्ति, न वा जीवाणुत्ववादः। अपरः कोऽपि विशिष्टाद्वतासाधारणप्रक्रिया- विशेष: प्रतितन्त्रसिद्धान्तो नात्र दृश्यते, इति विशिष्टाद्वैतसिद्धान्त एव विष्णुपुराणस्वारस्ये न किमपि प्रमाणम्। किं बहुना 2 विष्णुरपि परमात्मरूपेण योऽत्र प्रतिपाद्यते, तत्सिद्धान्तविरुद्ध एवात्र दृश्यत इत्यनुपदमेवोपपादितम्।।
शरीरलक्षणं नियम्यत्वमात्रमिति तु न युक्तम् ; तावताऽपि नियामक- त्वरूपं पारिभाषिकमेव शरीरित्वम्, शरीरत्वं वोपपादितं भवति। न चैतादृशं
Page 344
२८८
शरीरत्वं शरीरित्वं वा कस्यापि वैदिकस्यानभिमतम्। निर्विशेषब्रह्मवादेऽप्य- न्तर्यामिब्राह्मणानुसारेण नियामकत्वं तस्योरीक्रियत एव, द्वैतमते, द्वैताद्वैतमते, किं बहुना 2 ईश्वराङ्गीकर्तृणां मते सर्वत्र तदङ्गीक्रियते, परं त्वपृथक्सिद्धि- मनङ्गीकृत्य। शरीरदुःखेन शरीरिणः परमात्मनोऽपि दुःखित्वापत्तिशङ्कापरि- हारार्थे "भोक्त्रापत्तेरविभागश्चेत स्याल्लोकवदि"ति सूत्रे दृष्टान्ततया नियामको राजा यदि शरीरी, प्रजाश्च, नियम्या. शरीरम्, तर्हिं किं तत्र प्रजाशरीर- योरपृथक्सिद्धत्वम् ? यत्तु यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थ नियन्तुं धारगितृं वा शक्यम्, तच्छेषतैकस्वरूपं च, तत तस्य शरीरमिति शरीरलक्षणम्, तत्र तत्कृतिप्रयुक्तचेष्टासामान्यकत्वम् तत्कृतिप्रयुक्तस्वप्रतियो गिकपतनप्रतिबन्धक- संयोगसामान्यवत्वम्, तन्निष्ठातिशयाधेयकत्वं वा प्रत्येकं लक्षणम्। तत्र प्रथमलक्षणे भृत्यो राजशरीरमिति व्यवहारवारणाय सामान्यपदमिति वर्णनं तु, भोक्त्रापत्तिसूत्रे राजभृत्यदष्टान्तं विहन्ति, औपचारिक शरीरत्वमादाय दृष्टा- न्तता तु मुख्यशरीरदोषेण शरीरिणोSपि दोषभाक्त्वमिति शङ्कासमाधाने नोप- युज्यते। जीवस्य सूक्ष्मस्य, स्थूलस्य वा चेष्टासामान्यस्य परमात्मकृतियुक्तत्वे तस्य वैषम्यनैर्घृण्यदोषो दुष्परिहरः । तत्र सूक्ष्मचितः सूक्ष्माचितश्च सुषुप्त्य- वस्थायां चेष्टैव नास्ति, इति कथं तत्र लक्षणसमन्वय १ अनेन देवमनुष्यादि- शरीरे शरीरलक्षणसमन्वयोSपि बाधित इति सूच्यते। सुपुप्तौ श्वासनिश्वासौ हि प्राणसत्तानिबन्धनौ न सुप्जीवाधीनौ। न च तत्र जीवस्य कृतिः, अन्यथा सुषुप्तिरेव न स्यात्। न च तदा परमात्मन एवेद शरीरम् ; न जीवस्य ; सुप्तो देवदत इति प्रतीतिविरोधात्। अतस्तत्र तत्र ब्रह्मशरीरत्वं प्ृथिव्यादीनां तन्नियम्यत्वमात्राभिप्रायमित्येव वक्तव्यम्।।
यस्य चेतनस्येति पारिभाषिकशरीरलक्षणमपि दुष्ट व्यर्थविशेषणं च। तत्र चेतनस्येति व्यर्थम्। चेतनस्य कृत्यभावेन कृतिप्रयुक्तचेष्टा-
Page 345
शब्दप्रमाणम् २८९
सामान्यकत्वेनाचेतनशरीरत्वस्य पृथिव्यादावग्रसङ्ग: । धर्मभूतज्ञानेडति- व्याप्तिपरिहारार्थ यदि चेतनस्येति पदम्, तर्हि जीवधर्मभूतज्ञानस्य ब्रह्मशरीर- त्वापत्तिः, जीववत् तद्धूर्मभूतज्ञानस्य चैतन्यविशिष्टब्रह्मनियम्यत्वाद। इष्टापत्तौ तु जीवं प्रत्यपि धर्मभूतज्ञानस्य शरीरत्वे का कृत्या, येन चेतनस्येति सार्थकं स्यात्। तात्रापीष्टापत्तौ नियामकत्वमात्रेण कथं सर्वात्मत्वम् ? एतेन सर्वात्मनेत्यपि व्याख्यातम। तेन हि यावदत्मभावमिति यदि विवक्षितम्, तर्हिं परमते भावानां प्रतिक्षणपरिणामित्वेन सूक्ष्मचितां स्थूल- चितां वोक्तविधं नियम्यत्वं बाधितमित्यसभवदूषणग्रस्तमिदं लक्षणम्। सूक्ष्मचितोः स्थूलचितोर्वा सर्वदा तद्धावेनावस्थायां सृष्टिस्थितिसंहारानुपपत्तिः। तत्तदवस्था- विशेषेषु यावत्तत्कालं नियम्यत्वं तु गृहाभरणादीनामपि यावत्तत्कालं तत्तज्जीव- नियम्यानां तच्छरीरत्वापादकम् । मुक्तात्मनियम्यत्वाच्च प्रकृतेः तच्छरीरत्वमपि प्रकृतेः स्यात्। न चेदं शरीरसामान्यलक्षणमपि ; मृतदेहेऽनियम्ये, शरीरपद- प्रवृत्तिनिमित्ताभावादव्यापेः। यद्यौपचारिकशरीरत्वेन तस्यालक्ष्यत्वम्, तर्हि, "यस्य पृथिवी शरीरमि"त्यादौ पृथिव्यादावपि तत्पदभौपचारिकम्, उपाधिपरं वेति विज्ञाय सन्तुष्यताम्॥। किंच "यस्य पृथिवी शरीरमि"त्यादिना विवक्षितमन्तर्यामिस्वरूपं किं सूक्ष्मचिदचिच्छरीरकम्, उत स्थूलचिदचिच्छरीरकम्, आहो उभयशरी- रकम् 2 आद्ये पृथिव्यादिकार्यशरीरकत्वायोगः। द्वितीये तज्ज्ञानस्य सर्ववित्त्वा- द्यनुपपतिः। अत एव न तृतीयः ; सर्वकार्यशरीरकस्यात्राप्रतिपादनात्, कार्या- वस्थचिदात्मनाऽवगमस्य बन्घसाधनत्वेनौपनिषदत्वायोगाच्च ।। एतेन-चिच्छरीरकत्वमपि-व्याख्यातम्। तत्र शरीरत्वं मुक्तात्मनोऽपि विवक्षितं वा, न वा। आद्ये तस्य स्थूलावस्थापत्त्या न मुक्तत्वम्, यदि तदपि कारणतावच्छेदकम्। अन्त्ये तु-तस्य कार्यकारणतान्यतरावच्छेदकत्वात तद्गतातिशयाधायकत्वरूपशरीरलक्षणायोगः-इति।। 19
Page 346
२९० अद्वततत्त्वशुद्धि:
सूक्ष्मचिदचिद्विशिष्टस्यैव कारणत्वे विशेष्यस्येव विशेषणस्यापि न साक्षाद् उपादानत्वसंभव। साक्षात् प्रकृतेरिव ब्रह्मणोऽप्युपादानत्वाम्नानं समानम्। विशिष्टस्यैवोपादानत्वे जगज्जन्मस्थितिप्रयोजकत्वमन्तर्यामितं तस्यैव स्यात्, न विशेष्यमात्रस्य ; अन्यथा विशेषणस्यापि शरीरित्वमन्तर्या- मित्वं च स्यात्। अद्वैतमते त्वधिष्ठानत्वेन सर्वसत्तास्थित्या दिपयोजकत्वेन ब्रह्ममा- त्रोपादानत्वस्य सर्वाधिष्ठानत्वरूपस्य सत्त्वात्, सर्वोपाधिकत्वाच्चान्तर्थामित्वसुप पद्यते सर्वकारणस्य। अन्तर्यामित्वं हि न सशरीरत्वेन, किं त्वधिष्ठानत्वेनैव। अत एव-
इति ब्रह्मविद्योपनिषदादिः । एतेन-नित्यसूर्यादयोऽपि-व्याख्याताः । कि वा प्रयोजनं पृथिव्यादिशरीरकत्वेनान्तर्यामिणो नियामकत्वेनावगमस्य न हि परमात्मनो नियामकत्वमन्यापेक्षम्; अन्यथा कथं लौकिकनियामक- वैलक्षण्यम् ? यदि पृथिव्यादिनियमने शरीरान्तरानपेक्षा, नियम्यातिरिक्तशरी- रान्तराभावादिति ज्ञापनार्थत्वात् तच्छरीरत्वनिर्देशस्य लौकिकनियामकवैल- क्षण्यम्, तहिं न सर्वशरीरकत्वेऽन्तर्यामिब्राह्मणस्य तात्पर्यम्। अतोऽशरीरस्यैव नियामकत्वे पर्यवसानान्न चिदचिच्छरीरकपरमात्मन्येव पर्यवसानम्। कथं च पृथिव्यादिशरीराणां दिव्यत्वम्। दिव्यत्वं च यदि परमात्मशरी- रस्य ज्ञानानन्दादिरूपशुद्धप्रत्यगात्मम्वरूपत्वम्, त्हिं न सूक्ष्मचितः शरीरत्वम्, तस्यातद्ूपत्वात्I यदि नित्यं भगवन्नियम्यत्वमात्रम्, तर्हि कथं तेन परमा- त्मनोSपि दुःखादिप्रसङ्ग:, इति तच्छङ्कावारणार्थं "संभोगप्राप्तिरिति चचेत्, न वैशेष्यात्" "न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि" इत्यादिसूत्राणि वितथानि। न चास्मदादिशरीरमपि परमात्मनियम्यम्, नियम्यत्वमात्रेण शरीरं
Page 347
शब्दप्रमाणम् २९१
वा। कर्म कलभोगालम्बनत्वमात्रेण हि बद्धानां तत्तच्छरीरस्य शरीरत्वं नाम। न हि राजनियम्याः प्रजास्तच्छरीराणि॥ वस्तुतस्तु- अन्तर्यामिब्राह्मणं वसितमुत्तरम्। तद्धि उषस्तचाक्रायणकहोळप्रश्नोत्तरस्य सर्वान्तरस्यैव सर्वनियन्तृत्वरूपेणोपपादनपरम् ; सर्वान्तरत्वस्य पूर्वोपक्षिपस्यैवानुषङ्गेणान्त- र्यामिव्राह्मणस्य प्रवृत्तेः। वाक्यभेदस्त्वकिंचित्करः, ब्राह्मणभेदो वा, अन्यथा कहोळप्रश्नोतरयोर्भिन्नविषयत्वापत्ते: । "सैव हि सत्यादयः" इत्यधिकरणं हि वाक्यभेदेऽप्युपास्यस्वरूपानुकर्षणेन स्थानभेदमात्रेऽपि न विद्याभेद इति विवेच- यति। अयमेव न्यायोऽन्रापि।। अत एवान्ते वाचक्रवीप्रश्नोत्तरेणाक्षरस्यैव सर्वविधारकत्वप्रशासितृ- त्वेनोपसंहारः। न चाक्षरमन्तर्यामि च वस्तुगत्या मिन्नमत्र ; औपाधिकस्या- न्तर्यामिण एव प्रशासितृत्वानुवादेन, तदपवादेन वा निर्विशेषसवरूपेणैव परमात्मन उपसंहारस्तृतीयाध्यायस्य। इदमेवाभिप्रत्य-शरीरपदम्-"यस्य पृथिवी शरीरमि "त्यादावुपाधिपरमित्युक्तमधस्तात्॥ परमार्थतस्तु-अन्तर्यामिब्राह्मणस्य सर्वान्तरत्वं सर्वोपाधिकत्वेन, न तु खरूपत इत्येवमर्थे तात्पर्य स्वीकर्तव्यम्। अन्यथा-"एष त आत्मा- न्तर्याम्यमृतोऽदष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ता नान्यदतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतोSतोऽन्यदार्तमिति तदितरस्यार्तत्वाम्नानमुपरुध्यते। अत्रान्त- र्यामिणोऽन्यस्यार्तत्वं बोध्यते। तत्रान्यत्वं कस्य सर्वशरीरकस्यैवात्रान्तर्यामिपदेन विवक्षायाम् 2 न चात्रोपसंहारेऽन्तर्यामी शरीरित्वेनाम्नातः, येन तस्य शरीरित्वं मुख्यतात्पर्यविषयः स्यात्। सर्वत्र तत्तच्छरीरान्तरत्वेन सर्वान्तरत्वं बोध्यमानं "यत् साक्षादपरोक्षाद् ब्रह्म स आत्मा सर्वान्तरः" इत्याम्नांतं सर्वान्तरं प्रत्यभिज्ञापयत् तस्यैवान्तर्यामित्वं ज्ञापयति॥
Page 348
२९.२ अद्वैततत्त्वशुद्धि
वाचक्रव्यास्तृतीयप्रश्नोत्तरं दु "नान्यदतोऽस्ति विज्ञातृ" इत्यादिना इन्तर्यामिब्राह्मणावगतमौपाधिकं द्रष्टत्वमपि प्रतिषेधति, इति तस्य निर्वि- शेष पारमार्थिकं स्वरूपमेव प्रतिपाद्यत इत्यवगम्यते। तेन चान्तर्यामिवद् न दृश्यः, परं तु न द्रष्टापीति विशेप सिध्यति, इति, केवलं द्ृग्रपमेव पारमा- र्थिकमिति फलति। अत एव वाचक्रव्याः-"भगवन्तस्तदेव बहु मन्यध्वम्। यदस्मान्नमस्कारेण मुच्यध्वं नैव जातु युष्माकमिमं ब्रह्मोदं जेते"त्युपसंहारो ब्रह्म- विचारस्य-"ब्राह्मणा भगवन्तः यो नो ब्रह्मिष्ठः एता गा उद्जतामि"त्युपक्रा- न्तस्योपपद्यते। अन्यथाऽन्तर्यामिब्रह्मविज्ञानेनैव ब्रह्मिष्ठत्वे तत्रैव ब्रह्मविचारम्थोप- संहार आपद्येत, न वा वाचक्नव्याः प्रश्नस्योत्तरस्य वोत्थानमपि॥ किंच-अन्तर्यामिब्राह्मणमिद देवतानामपि ब्रह्मशरीरत्वं प्रतिपादयति वा, न वा। आद्येऽन्तर्यामिब्राह्मणमधिभूतमध्यात्मं चैव ब्रह्मणश्शरीरत्वेन पृथिव्या- दीन् वागादीश्र श्रवयति, न त्वधिदैवनमपि। द्वितीये तुन विशिष्टयोरद्वैतम्। चिदचिद्ब्रह्मातिरिक्तानां देवानां ब्रह्मपृथक्सिद्धानां तदशरीराणां च स्वतन्त्राणा सत्त्वात्। अद्वैतमते त्वाधिभौतिकाध्यात्मिकयोरेव दृष्टया सर्वान्तर- स्यान्तर्यामित्वेनोपास्यत्वमिति सृष्ठु लगति॥ तत्रान्तर्यामित्वमवस्थाविशेवण शक्तिविशेपेण वा न भवति, किं त्वौपा- धिकत्वेनैवेति भाष्य एव व्यक्तम्। तेन चान्तर्यामित्वेनोपासन न देवा- नामप्युपाधितया विवक्षणेनेति फलति। निष्कर्षस्तु-"यस्य पृथिवी शरीरमि"त्यादौ शरीरपदं तैत्तिरीयमनोमयादौ शरीरमुखेनोपदिश्यमानत्ववत् पृथिव्या दिकार्यमुखेनोपदिश्यमानत्वाभिप्रायम्। तत्रान्तर्यामित्वं हि शरीरान्तःसंचारमात्रेण, न तु तदपृथक्सिद्धत्वेन। अन्तःसंचारस्तु-"तदनुप्रविश्य सच्च त्यच्चाभवदि"त्युक्तरीत्या तदात्मना भान- मात्रम्, येनाधिष्ठानत्वं ब्रह्मणः स्थिरीकृतं भवति। अत एव-"अन्तश्शरीरे- निहितो गुहायामज एको नित्यो यस्य प्ृथिवी शरीरं यः पृथिवीमन्तरे संचरन् यं
Page 349
शब्दप्रमाणम् २९३
पृथिवी न वेद यस्यापः शरीरं योऽपोऽन्तरा संचरन्" इत्युपक्रम्य "यस्य मृत्यु शरीरं मृत्युमन्तरा संचरन् यं मृत्युर्न वेद स एष सर्वभूतान्तरात्माऽपहतपात्मा दिव्यो देव एको नारायण:" इत्यन्ते सर्वमूतान्तरात्मत्वमेव सुबालोपनिषदि नारायणस्याम्नायते।।
स चायं नारायणो "न सन्नासन्न सदसदि"त्यादिना सुबालोपनि- षदि प्रक्रान्त :- "भगवन् कस्मिन् सर्वेडस्तं गच्छन्ती"ति रैक्कप्रश्ने "चक्षु- रप्येति, यच्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येत्यादित्यमेवास्तमेति य आदित्य- मेवास्तमेति, स विराजमेवाप्येति, यो विराजमेवास्तमेति, प्राणमेवाष्येति, यः प्राणमेनास्तमेति, विज्ञानमेवास्तमेति, यो विज्ञानमेवास्तमेत्यानन्दमेवास्तमेति, य आनन्दमेवास्तमेति, तुरीयमेवाप्येति, तदमृतमभयमशोकमनन्तं निर्बीज- मेवाप्येती"ति प्रस्तुत्य-"श्रोत्रमेवाप्येती"त्यादिना-श्रोत्रनासाजिह्वात्वग्- वाग्-हस्तपादपायूपस्थमनोबुद्धयहं कारचित्तानामप्ययस्थानत्वेन निरुप्यमाणो ब्रह्म विष्णुरुद्रातिरिक्तोऽशरीर एवेति प्रतीयते।।
विष्णोः, किन्त्वन्तर्यामिणोऽपि प्रतिपाद्य तस्याप्यप्ययस्थानत्वं तुरीयस्य प्रतिपाधते। एवमेव बुद्धिपरमाप्ययस्थानत्वस्य तुरीये पर्यवसानोपपादनावसरे, तथाऽहंकारस्य परमाप्ययस्थानोपपादनावसरे च ब्रह्मकृष्णरुद्रादीनामप्यवा- न्तराप्ययस्थानत्वं प्रतिपाद्यत इति सुबालोपनिषत्तात्पर्यानुसन्धानमद्वैतमतमेवो- पबृहयति॥
अत एव सुबालोपनिषत् तुरीयस्याप्यप्ययस्थानं निर्बीज तत्वमित्युपसंहरन्ती -"य एवं निर्बीज वेद निर्बीज एव स भवती"ति तस्य तृतीयखण्डोपक्षिप्ं "न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते। ब्रह्मैव सन् ब्रह्माप्येती"ति प्रस्तुतोत्क्रमणनिरपेक्षब्रह्मभावसिद्धान्तं केवलाद्वैतिनां साधु व्यवस्थापयति॥
Page 350
२९४ अद्वैततत्त्वशुद्धि
शरीरलक्षणं तु श्रीभाष्यस्य तदनुसारिणां च मृतशरीरे, अर्चायां चा- व्याप्तम्। न हि मृतशरीरं यावत्सत्तमसंबन्धानर्हम्। स्वशक्ये नियम्यसभावं वा, मन्त्रादिना देवताप्रतिष्ठाविधे: पूर्वम् ; पुनः प्रतिष्ठायां बालालयस्था- पनानन्तरं वा शिलादिविग्रहे यावत्सत्तमसंबन्धानर्हत्वात्।। शरीरलक्षणं तु मुख्यं यदाश्रित्यैवात्मा भोगवान् भवति, तत्त्वमेव। इद तु श्रीभाष्यसिद्धान्तेऽषि मुक्तात्मनोऽप्यप्राकृतेन्द्रियशरीरादिस्वीकाराद् नाव्याप्तम्। ईश्वरस्य तु न शरीरित्वमविप्रतिपन्नम्, येन तत्राव्याप्तिराशंक्येत। मायावच्छिन्नम्, तदुपहितं वा चैतन्यं खल्वीश्वरो नाम। ईश्वरेण स्वेच्छ्या गृहीतमप्राकृतं शरीरमपि तस्य भोगायतनमेव। व्यक्तीकरिष्यते च सर्व- मुपरिष्टात्॥। सारांशस्तु-सर्वान्तरत्वनिर्णयाय गार्गिप्रश्ने पूर्वस्मात्पूर्वस्मादुत्तरस्यो- त्तरस्यान्तरत्वेन ब्रह्मलोकशब्दवाच्यव्रह्मान्तारम्भकभूतपर्यन्तं निरूप्य तत्राप्यन्तरं सूत्राख्यं सूक्ष्म वायुतत्त्वं समष्टिसृष्टिलिंगात्मकमुद्दालकप्रश्नोत्तरेण निरूप्य सूत्रादप्यन्तरं तस्यैव नियन्तारमन्तर्यामिणं निरूपयति-"यः पृथिव्यां तिष्ठ- न्नि"त्यादिना। तन्र स्थितिर्यस्य कस्याप्यस्तीत्यत उक्तम्-प्ृथिव्या अन्तर इति। अभ्यन्तर इत्यर्थः। पृथिव्यभिमानिनि जीवेऽपि तदन्तरत्वमस्तीत्यत उक्तम्-यं पृथिवी देवता मदन्योऽस्तीति यं न वेदेत्यर्थः-खात्मान त्वमहमिति वेत्त्येवेति तद्यावृत्ति: ।। ननु-वास्यादिप्रेरकत्वं शरीरिणि वर्धक्यादौ दष्टम्, तद्वदीश्वरस्य पृथिवीनियमने शरीरापेक्षा स्यात्। शरीरित्वं चेश्वरस्य श्रुतिषु सिद्धूमयुक्तम्। "यस्य पृथिवी शरीम्" इति प्ृथिव्याख्यं द्रव्यं शरीरम्, यं पृथिवी न वेदेत्युक्तम्। पृथिवीदेवताकर्मार्जितम्, उपलक्षणमेतत् तदीयं करणं च तदेव यस्य संबन्धि, न तु सकीयं शरीरमिन्द्रियं वाऽस्तीत्यर्थः। न च-शरीरत्वस्य प्रतिसंबन्ध्यप्यपेक्ष्यते। अतो यस्येति षष्ठी शरीरिभावाधीनेति-वाच्यम्।
Page 351
शब्दप्रमाणम् २९५
शरीरत्वं ससंबन्धिकं नेति शरीरलक्षणे वक्ष्यमाणत्वात्। किं च पृथिवी- शरीरं यस्येति न वाक्यार्थः, तस्य प्रकृते सर्वान्तरत्वेऽनुपयोगात्, नियम्यत्वस्य वास्यादौ नर्तितदासुयन्त्रादौ च व्यभिचारेण शरीरित्वानियतत्वात, पृथिवी- मन्तरो यमयतीत्यनेनैव भवदीयशरीरवत्त्वस्यार्थसिद्धत्वेन पौनरुक्तयात्, त्वन्मते शरीरत्वस्य नियम्यत्वघटितत्वेन शरीरमित्यनेनैव तत्सिद्धेरुत्तरवाक्यवैयर्थ्यापातात्, आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीति भवदभ्युपगमात्। न च 'यस्य पृथिवी शरीरमि'त्यचित्पृथिवीनियामकत्वलाभाय, 'यः पृथिवीमन्तरो यमयती'त्यनयोः पौनरुक्तयस्य वज्रलेपत्वात्, अचेतनापृथिवीति जीववदात्मत्वाभावात, पृथिवीनियामकस्य जीवस्य नियामकतयैव पृथिवी- नियामकत्वसर्वान्तरत्वयोर्लाभात, 'आत्मनी' त्यनेन सर्वात्मनां शरीरत्वे सिद्धे विशिष्टजीवानामपि शरीरत्वसिद्धेश्च पोनरुक्तयदोषानिस्तारात्। असन्मते तु विज्ञानाख्यान्तःकरणाभिमान्यपेक्षया प्ृथिव्याद्यभिमानिनां न्यूनाधिकभेदान्न पौनरुक्तयशंकावकाशः । तस्माद् नात्र पृथिव्यादिशरीरकत्वं वाक्यार्थः, किन्तु पृथिवी शरीरमेव यस्येति परिसंख्यार्थके सवशरीरेन्द्रियनियमने शरीरेन्द्रियान्त- रानपेक्षावदीश्वरस्यापि सन्निधानमात्रेण नियामकत्वादीश्वरनिष्ठनियामकत्वस्य नित्यतया वर्धकिनिष्ठनियामकत्ववत् सामग्रयजन्यत्वाच्च पृथिवीनियमने शरी- रान्तरापेक्षा नास्तीत्याशयेन शरीरान्तरनिषेधपरत्वात्।। यथा त्वन्मतेऽन्नमयादिकोशेषु ब्रह्मण एव "तस्यैष एव शारीर आत्मे"ति
एवे"त्यनेन शारीरात्मकस्यानन्दमयस्य ब्रह्मत्वं न सिध्येदित्याशंक्य आनन्दमयस्य पूर्वकोशेषु शारीरात्मत्वेन निर्दिष्टस्य ब्रह्मणश्शारीरात्म- त्वात् संसारवारणार्थ तस्यैष एव शारीर आत्मा, न तु शारीरात्मान्तरमिति परिसख्यार्थ वचनम्, न तु सवस्यैव स्वं प्रति शारीरात्मविधानार्थमित्युक्तम्, तद्वूदिहापि शरीरत्वविधावपि तात्पर्ये वाक्यभेदप्रसंगात् सर्वान्तरत्वनिरूपणेडन-
Page 352
२९६ अद्वैततत्त्वशुद्धि:
पेक्षितत्वाच्च शरीरत्वविधानं न संगच्छते। यस्य शरीरमित्युक्ते शरीरित्वमेव षष्ठयर्थ: स्यादिति चेत्, न ; तस्यासिद्धत्वात्, निषिद्धत्वाच्च ॥ किंनिरूपितं तर्हिं शरीरत्वमिति चेत्, पूर्ववाक्यस्थपृथिवीदेवताकर्मा- जितत्वादिति तन्निरूपितमेव शरीरत्वमनूद्यते। ततश्च पृथिवीदेवताकर्मार्जितं पृथिव्याख्यं शरीरमेव, यस्य पृथिवीनियमने प्रयोजकम्, न तु सकीयमिति फलितोऽर्थः ॥ वस्तुतस्तु-शरीरशब्दोSत्र नियम्यपर., इति नियामकत्वं षष्ठयर्थ इति न काप्यनुपपत्तिः। अतो न पृथिवीशरीरकत्वे तात्पर्यम्। श्रुतत्वमात्रेण तदं- गीकारे "पृथिव्यां तिष्ठन्" इति श्रुत्या पृथिव्याधेयत्वमपि ब्रह्मण. स्यात्। स्वे महिन्नीति श्रुत्या बाधितं तदिति चेत्, शरीरित्वमपि श्रुत्या बाघितमिति वक्ष्यामः ॥ गार्ग्युद्दालकप्रश्नाभ्यां सूत्रार्यस्य लिङ्गस्यान्तरत्वकथनेनोपरतस्य प्रक्षे प्रतिज्ञातं लिङ्गोपाधिकजीवस्य सर्वान्तरत्वम्, लिंगाख्यसूत्रादप्यांतरत्वेन निर्व्यूढं तस्यैव जीवस्य सोपाधिकं रूपम् ।। वस्तुतस्तु-उपाधितो भिन्नमिवात्मानं मन्यमाने स्वप्रतिबिम्बजीवे स्थितस्स यमयति तत्तद्व्यापारेपु नियमयति-"यः एष एवात्मवा- न्तर्यामी ; अमृतोसंसारीत्यर्थः। अत्रान्तर्यामिप्रकरणे तमोऽन्धकारतेजस्सह- पाठात्। विज्ञानं बुद्धिः; करणप्रायपाठात्। माध्यन्दिनपाठ आत्मशब्दो बुद्धिपर एव ; विज्ञानस्थाने पठितत्वात्। ततश्च बुध्युपाधिको जीवोऽर्थ। तस्मान्नेयं श्रुतिर्जगच्छरीरत्वे मानम्। सुबालोपनिषदि च "तदाहुरि"त्यादि- नाऽचेतनानां महदादिक्रमेण सृष्टिम्, व्युत्क्रमेण लयं चोक्त्ाSडप्राणादयनन्तरं ब्रह्मसत्यतपोदमदानदयादिभिः स्वाधीनवतो "न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येती"त्युक्त्वा, दहराकाशेऽपि सुप्ं जीवस्वरूपं तदेकतापति पुनर्जागरितं चोक्त्वा "य एतस्मिन्नन्तरे संचरति, सोऽयमात्मेत्यादिना सर्वा-
Page 353
शब्दप्रमाणम् २९७
न्तरमन्तर्यामिणम्-"अयमात्मे"ति जीवाभिन्नमुपास्यत्वेन प्रक्रम्य, "य एष सर्वेश्वरः" इत्यादिनाऽपीश्वरमन्तर्यामिरूपं तस्यैवौपाधिकमन्नमयादिरूपत्वं चोक्त्वा "नास्ति द्वैतमि"ति द्वैतनिषेधपूर्वकं परस्परस्यापि नारायणादुत्पन्नत्वेन कार्यकारणयोरभेदान्नारायणशर्मकत्वमुक्त्वा, "अन्तशशरीरे निहितो गुहायामि" त्युपक्रम्य "यस्य पृथिवी शरीरमि "त्यादिनाऽन्तर्यामित्वेन सर्वान्तर्यामित्वमेवो- पपादितम्। अग्रे च "अस्मिन् सर्वेडस्तं गच्छन्ती"त्यादिना स्वल्याघिष्ठानत्वेन ब्रह्मणस्सार्वात्म्यमुक्त्वा "य एवं निर्बीज वेद निर्बीज एव भवति सर्वस्यात्मा भवति य एवं वेदे"ति जीवस्यान्तर्याम्यभेदेन ब्रह्मैक्यमुक्त्वा, उपसंहारे ब्रह्मलोकान्तानामात्मन्येव प्रोतत्वकथनेन सर्वान्तरात्मत्वमेवोपपादितम्। अतस्त- त्रापि सर्ववेदान्तप्रत्ययन्यायेन बृहदारण्यकान्तर्यामिनिरूपणेनास्मदुक्तं सर्वमनु- सधेयम्। तत्राप्युपक्रमे, मध्ये, उपसंहारे च सर्वान्तरत्वे, अद्वैते च तात्प- र्यावगमात्, शरीरशरीरिभावकथनस्यानुपयोगात्, अतिदुष्टे शरीरे गुहायां निहितोऽप्यात्मा न शरीरं पश्यतीत्युपसंहृतम्। एवमन्यत्राप्यूह्यम् । तस्माङ्गह्मण- स्सशरीरत्वे कापि श्रुतिन मानम् ॥ स्मृतिपुराणागमेष्वपि नियम्यत्वमात्रेण शरीरत्वव्यपदेश औपचारिक एव, न तूक्तवक्ष्यमाणहेतुभिमुख्यं शरीरत्वम्। निषिद्धं चेश्वरस्य सर्वश्रुतिषु शरीरित्वम्; ईश्वावास्ये-"स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपा पविद्धमि"त्यत्र 'अकायमि'ति शरीरसामान्यस्य, 'अव्रणमस्नाविरमि'ति स्थूल- शरीरस्य च निषिद्धत्वात्। न च स्वकर्मारब्घस्यैव निषेधः ; संकोचे माना- भावात्, 'अपापविद्धमि'त्यनेन कर्मतत्कृतदेहोपभोगानां निषिद्धत्वाच्च॥ नच-अन्ते "यत्ते रूपं कल्याणतमं तत्ते पश्यामी"ति शरीरित्वमुक्त- मिति-वाच्यम्; तत्रादित्यस्य प्रकृतस्य तत्ते इत्यनेनोक्तत्वाद् रूपशब्दस्य स्वरूपपरत्वात्, शरीरे रूपत्वाभावाच्च, अग्रे च "योऽसावसौ पुरुषस्सोऽह-
Page 354
२९८
मस्मी"ति पुरुषात्मनोरैक्यस्योक्तत्वात, अहंपदस्य मच्छरीरीत्यर्थपरत्वेऽ- स्मीत्युत्तमपुरुषानुपपत्ते:, पुरुषशरीरमहमित्यर्थे पुरुषशब्दस्य शरीरलक्षणापत्ते.॥ तलवशाखोपनिषदि च-"केनेषितं पतति प्रेषितं मन" इति प्रेषितं प्रेरितमित्युक्ते देहादिसापेक्षत्वेन प्रेरकत्वप्रसक्तौ तद्व्युदासायेषितमिति विशेषणादिच्छामात्रेणैव प्रेरकत्वम्, न तु वाक्कायाभ्याम्, इत्यशरीरत्वमेवो- पक्रम्य 'श्रोत्रस्य श्रोत्रमि'त्यार्दिना 'न तत्र चक्षुर्गच्छति, न वाग गच्छति' इति च वागगोचरीभूतमशरीरमेवोक्तम्। अत एवाग्रे देवानामिन्द्रियगोचरे प्रादुर्भू- तम् यक्षरूपमीश्वरस्य न वास्तवम्, किन्तु मिथ्यामृतमिति विद्युद्द्दष्टान्तोक्तिः॥ कठवल्याम्-"अशरीरं शरीरेष्वनवस्थेष्ववस्थितमि"ति शरीरसामा- न्यनिषेधेन देवमनुष्यादिशरीरेपु तत्प्रति शरीरत्वापन्नेऽवस्थावत्त्वेऽपि ब्रह्मण- स्तेषा च शरीरशरीरिभावाभावस्योक्त्वात् "अशब्दमस्पर्शमिति" च स्वरूपतो विशिष्टरूपेण वा रूपादिराहित्योक्तया, "रूपं रूपं प्रतिरूपो बभूव" इति देवादिकृतरूपवत्त्वोक्तया च वास्तवाशरीरत्वकथनाच्च न ब्रह्मणः शरीरित्वम् ।। प्रश्नोपनिषदि च-चतुर्थे गार्ग्यप्रश्ने-"अच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते" इति ब्रह्मण. शरीरमात्रनिषेधात्, पंचमे-सत्यकामप्रश्ने "परात् परं पुरिशयं पुरुषमीक्षते"इति पुरिशयनमात्रोक्तया भ्रान्तिप्राप्तस्य शरीरस्य निरासायाग्रे-"शान्तमजरममृतम्" इति जराख्यशरीरधर्मसंबन्धनिषेधाच्च ब्रह्म न सशरीरम्। षष्ठे प्रश्ने षोडशकलं पुरुषं प्रकृत्य "स एषोऽकलोऽमतो भवती"ति मुक्तावशरीरब्रह्मैकधस्योपसंहारात्, "यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम- चक्षुःश्रोत्रं तदपाणिपाद"मिति स्थूलसूक्ष्मशरीरद्वयनिषेधात्, अग्रे च-"दिव्यो ह्यमूर्त: पुरुष:," "अप्राणो ह्यमनाश्शुभ्र इति तन्निपेघाच्च॥ मुण्डके यद्यपि-"अग्निमूर्घे"त्यादिना विराडरूपमुक्तम्, तथापि तस्य न त्वदभिप्रेतशरीरसाधाकत्वम्। यम्य "सर्वाणि भूतानि शरीरमि'त्यादिना
Page 355
शब्दप्रमाणम् २९९
सर्वस्य साक्षाच्छरीरत्वादिनावयवत्वसंभवात्। अवयववाचकानां वागादिशब्दानां शरीरपर्यन्तत्वासंप्रतिपत्तेश्र, अग्रे "निष्कळं निष्क्रियमि"ति तन्निषेधाच्च॥ माण्डूक्ये च-"अदृश्यमव्यवहार्यमि"त्यादिना तन्निषेध:, प्रपंचो- पशममिति च साक्षान्निषेघश्च॥
आकाशशरीरमित्युक्तं भवतु भवदुक्तरीत्यभिप्रायेण। परं तु तत्रापि शरीरपदं वितथमेव। ऐतरेयके च-सूक्ष्मस्थूलदेहसृष्टयनन्तरं 'कथ न्विद महते स्यादिति अथ कोऽहमिति च प्राणादिव्यापाराणां निरघिष्ठातृकत्वमात्रं 'स एतमेव सीमानं विदार्यैतया द्वारेति प्रतिपाद्य, तत्रेश्वरस्यैव प्रवेशमुक्त्वा, स्थितस्य प्रविष्टस्य तिस्रोऽवस्था इति जाग्रदादिस्थानान्युक्त्वा, "स जातो भूतान्यभि- व्यख्यत" इति तस्यैव देहादयभिमानित्वेन ब्रह्मणश्शरीरित्वकथनात्॥ छान्दोग्ये-"अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति "न ह वै सशरीरस्ये"ति चान्वयव्यविरेकाभ्यां शरीरसामान्यनिषेधः ॥ बृहदारण्के-अन्तर्यामिब्राह्मणोक्तं शरीरान्तरं विना साक्षात्पर्यत्व- रूपगुणयोगादौपचारिकं शरीरपदम्, "यस्य पृथिवी शरीरमि"ति शृ्वतो आ्रान्त्या प्राप्तं मुख्यशरीरत्वं निराकर्तुं तदुत्तरगार्ग्यप्रश्नेऽक्षरविद्यायामचक्षुषमश्रोत्र- मित्याद्यमुखमित्यन्तेन स्थूलसूक्ष्मशरीरनिषेधात्, "न तदभ्नात्यस्थूलमित्या"- दिना तद्धर्मक्रियागुणनिषेधात्, अकामयमान इत्युपक्रम्य-अथायमशरीर इति मुक्तजीवस्य ब्रह्मकयाभिप्रायेण शरीरमात्रनिषेधाच्च न ब्रह्म सशरीरम्।। न च-स्वकर्मार्जितशरीर स्ये वे तेा सर्वें नि ष घ ा : , अन्यथा " ' हिण्यश्म- श्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः " इति "सहस्रशीर्षा पुरुषः " "अभि- र्मूर्धा चक्षुषी चन्द्रसूर्यावि"त्यादिश्रुतिविरोध इति-वाच्यम् ; पुरुषसूक्तादिपू- पासनार्थ तत्तदवयवत्वकल्पनया साक्षान्नियम्यतामात्रेण शरीरत्वोपचारात्।।
Page 356
३०० अद्वैततत्त्वशुद्धि
अत एव भक्तानामुपासनार्थमीश्वरेण गृहीतानां शिवविष्ण्वादि- विग्रहाणां भौतिकानामभौतिकानां वा स्वमायया कल्पितत्वाद् न वास्तवं शरीरत्वम्। परन्तु तेषु शरीरेषु जीवान्तर्भावात्साक्षादीश्वरप्रेरणयैव चेष्टाजन- नात् तदीयमिदं शरीरमिति गौणो व्यवहारः। अत एव शिवविष्णुकृष्णरामादि- शब्दा: स्मृतिपुराणादिषु शरीरमनन्तर्भाव्य ब्रह्मण्येव व्युत्पादिताः, नतु शरीरवाचकत्वेन शरीरिपर्यन्ततामाश्रित्य समर्थिताः ॥
नापि सूक्ष्मचिदचितोः शरीरलक्षणसमन्वयः, तत्साधारणशरीरलक्षणा संभवात्॥ यद्यपि कर्मफलमोगसाधनेन्द्रियाश्रितत्वे सति पञ्चवृत्तिपाणाधीनधारण- त्वे सति भूतसंघातविशेषकत्वं न शरीरलक्षणम्, पारमेश्वरलीलाविग्रहेषु मुक्तानां शरीरेषु च कर्मफलभोगार्थत्वाभावेन मौतिकत्वामावेन चाव्याप्तेः, स्थावरेषु प्राणस्य पञ्चवृत्तित्वाभावाच्च, अहल्याशिलारूपे इन्द्रियाश्रयत्वभोगहेतु- त्वयोरभावाच्च।।
नापि भोगायतनत्वं लक्षणम् ; वेश्मादावतिव्याप्तेः। न च यत्र स्थित- स्यैव भोगः, तदेवायतनमिति-वाच्यम् ; परकायप्रविष्टजीवं प्रति शरीरत्वा- भावात्, भोगायतनत्वाच्च तत्रातिव्याप्तेः॥ नापि यदिच्छाघीनस्वरूपस्थितिप्रवृत्ति यत्, तत्तस्य शरीरमिति लक्षणम्, देवप्रेतपिशाचादीनां जीव प्रति शरीरत्वात्तत्राव्याप्तेः, तेपां जीवायत्त स्वरूपस्थितिप्रवृत्तित्वाभावात्, देवे च जीवायत्तप्रवृत्त्यभावात्, मृतदेहे जीवा- यत्तस्थित्यभावादव्याप्तेः, नर्तनप्रतिमादिप्वव्यापेश्र॥ नापि तद्देशनियम्यविधार्यवेपत्वं लक्षणम् ; क्रियादिष्वतिव्यापे: ॥ तथापि जरायुजादिसर्वशरीरेष्वनुगतैका काराभावाच्छरीरत्वस्योपाधि- रूपस्यैव वाच्यत्वात् श्रृतिसिद्धेश्वरशरीरचिदचिदवतारमुक्तदेहानुगतस्यैव
Page 357
शब्दप्रमाणम् ३०१
दृष्टप्रयोगानुसारेण शरीरपदप्रवृत्तिनिमित्तत्वं कल्पनीयम्, इति मनुष्यत्वादिक- मननुगतत्वादुपेक्ष्योपाघिरूपमेव प्रवृत्तिनिमित्तं कल्पयते॥ ननु-यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यम्, तच्छेषतैकस्वरूपं च तत् तस्य शरीरमिति लक्षणम्। रुग्णदेहे रोगेण प्रतिबन्धा- न्नियमने शक्तिरस्त्येव, इति नाव्यापिः, सुकृतदेहे तु मरणकाल एव प्रक्रान्तवि- शरणत्वात्, देहैकदेशत्वेन देहशब्दस्तत्र गौणः। चिदचिद्दपं जगत्त्वीश्वरेण नियम्यं धार्यं तच्छेषभूतं सर्व तच्छरीरमेवेति भाष्योक्तं सम्यगिति-चेत्, न ; द्रव्यगुणकर्माद्यात्मकं सर्वमचेतनं जीवाश्चेश्वरं प्रति शरीरमिति त्वया वाच्यम्, अन्यथा 'ऐतदात्म्यमिदं सर्वमि'ति पदाभ्यां परामृष्टस्य प्रत्यक्षादिप्रमाण- सिद्धस्य सर्वस्यैतदात्म्यासिद्धिप्रसंगादेकविज्ञानेन सर्वविज्ञानानुपपत्तेः, "सर्वं खल्विदं ब्रह्म तज्जलानि"ति द्रव्यस्येव जन्मादिमतो गुणक्रियादेरपि हेतूपन्या- सेन ब्रह्मात्मकत्वस्य स्वीकृतत्वाच्च। उक्तं च जिज्ञासासूत्रान्ते "सर्वावस्था- वस्थितचिदचिद्वस्तुशरीरतया तत्प्रकार. परमपुरुष एव कार्यावस्थकारणावस्थ- जगद्वूपेणावास्थितः" इति। अवश्यं चैतत्त्वया वाच्यम्, अन्यथा चिदचितोः सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुषः सर्वदा सर्वशब्दवाच्य इति ग्रन्थासंगतिः स्यात्, रूपरसशुक्ककृष्णलोहितयाग- च्छेदनादिशब्दानां शरीरवाचकत्वाभावात्, सर्वशब्दवाच्यत्वाभावप्रसंगात्। अतो द्रव्यपदे दत्ते ब्रह्म प्रति न गुणकर्मादावव्याप्तिरित्युक्ते तु जीवं प्रति तत्रैवातिव्यापेः, उभयथाऽनन्दादावतिव्याप्तिः; ज्ञानानन्दयोस्त्वया द्रव्यत्वांगीकारात्। चेतनस्येति च व्यर्थम् ; अचेतनस्य नियमनाशक्तेः। सर्वा त्मनेत्यस्य सर्वावयवेष्वित्यर्थे जीवेऽव्याप्ति .; निरवयवत्वात्, जीवं प्रति देहे चाव्याप्ति. ; सर्वावयवेषु नियामकत्वासंभवात। स्मामदेहेषु चाव्याप्ति: तेषु जीवस्यास्वातन्त्र्यात् , तत्सष्टेरीश्वरकर्तृकत्वांगीकारात् तन्नियमने चासामर्थ्यात्।।
Page 358
३०२ अद्वैततत्त्वशुद्धि.
तच्छेषतैकस्वरूपमिति च तं प्रति शेष एवेति वा तं प्रत्येव शेष इति वार्डर्थः 2 आद्य एकपदवैयर्थ्यम्। तं प्रति शेष एव, न तु शेषीति हि तदर्थः। न चैकं प्रत्येवैकस्य शेषत्वशेषित्वे स्तः। न चान्यं प्रति शेपित्वं व्यावर्त्यम्, जीवानां स्वशरीराणि प्रति शेपित्वेनाव्यास्े। द्वितीये ब्रह्म प्रत्यचित्स्वव्याप्तिः। अचितां जीवं प्रत्यशेषत्वात्, अन्यथा देवादिदेहेष्वव्याप्ति.। तस्माद् नैतल्वक्षणम्। अत एव "सर्वं खल्वि"त्यादौ स्ामानाधिकरण्यमपि न शरीरशरीरिभावनिबन्धनम्, किन्तु कार्यकारणभावनिबन्धनम्। अत एव "तज्जलानि"ति तत्र वाक्यशेषः। अचितां जीवं प्रत्यशेषत्वात्, अन्यथा देवादिदेहेष्वव्याप्तिरिति। तस्ान्नैतल्वक्षणं युक्तम्॥
अत्र प्रमेयमालाकार :- लोके तावद्विभिन्नाकारेषु नरपशुनागादिपु ब्रह्मादिस्थावरान्तजीवशरीरेषु भगवल्लीलादिविग्रहेपु च 'यस्य आत्मा शरीरम्' 'यस्याव्यक्तं शरीर'मिति ब्रह्म प्रति सर्वावस्थावस्थितचिदचितोश्च शरीरशब्दः प्रयुज्यते। तत्र सति संभवे सर्वानुगत प्रवृत्तिनिमित्त वाच्यम्। न च मनुष्यत्वा- द्याकृतिरनुगता। नापि चेष्टेन्द्रियभोगाश्रयत्वरूपं गौतमोक्तमुपाधित्रयमनु- गतम् ; चिदचितोर्ब्रह्मशरीरत्वेन श्रुत्यादौ बहुळव्यवहृतयोरयाते। न च तत्र लाक्षणिकत्वम्, मनुष्यादावेकत्र शक्तिः, अन्यत्र लक्षणेत्यपि सुवचत्वात्। अतो भाष्योक्तं लक्षणत्रयमेव सम्यक्। तस्यायमर्थ :- यस्ये'ति षष्ठयन्तं पुत्रत्वादिवच्छरीरत्वं सप्रतियोगिक- मिति सूचनाय। किंच "आत्मन आकाशस्सभूतः" इत्यादिपु केवला- त्मपदश्रवणात्, आत्मत्वस्य शरीरप्रतियोगिकत्वादात्मेतरस्य सर्वस्य शरीर- त्वसिद्धिः। चेतनस्ये'ति पदं धार्यत्वशेपत्वलक्षणे लक्षणद्वये दीपं प्रति प्रभायां त्रिष्वपि लक्षणेष्वात्मधर्मज्ञाने चातिव्याप्तिवारणाय। चैतन्यविशिष्टा- द्विन्नस्यैव चैतन्यविशिष्टं प्रति शरीरत्वलाभात्। द्रव्यपदम् जीवगत- क्रियादिवारणाय। सर्वात्मनेति यावद्दृव्यभावितयेत्यर्थः । तेन कदाचि-
Page 359
शब्दप्रमाणम् ३०३
न्नियम्यगृहवस्त्राभरणादिव्यावृत्तिः। अत एव जीवसमष्टिधार्यप्रकृतौ जीवस- मष्टिं प्रति नातिव्यापिः। एकैकजीवं मुक्त्वा समुदायस्यान्यान्यत्वेन याव- त्प्रकृतिसत्त्वं विधारकैकसमष्टयमावात्। स्वार्थे स्वशक्ये तत्तच्छरीरासाधारण- कार्य इत्यर्थः। तेन शक्यार्थे नियम्यत्वाभावेऽपि नासंभवः। नियन्तुं धारयितुं शेषभूतमिति च ब्रह्मादिष्वव्याप्तिवारणाय। शक्यम्-शक्तिविषय इत्यर्थ.। तेन रुग्णदेहे प्रतिबद्धा नियमनशक्तिरस्तीति नाव्याप्तिः। करपादाद्यवयवानामेवे- न्द्रियाणां समुदायावस्थापत्त्या शरीरत्वात् तत्तदूपेणैव नियम्यरोगत्वादिदर्शनात, विभक्तानां तदर्शनाच्च न तत्रातिव्याप्तिः। जीववियोगलक्षण एव शरीरे प्रारब्धे मृतदेहे पूर्वदेहैकदेशत्वाच्छरीरशब्दो गौण इति न तत्राव्याप्ति- र्दोषाय-इति॥ अत्र बम :- न तावत्सकलशरीरव्यवहाराणामनुपचरितत्वादेकं शरीर- लक्षणं वत्तुं शक्यम्, उक्तं वा भवता। लोकव्यवहारे मृतसंस्कारादिविधिषु चाश्रेडितानामनन्तमृतदेह विषयशरीरशब्दानां त्वयैव करणवत्त्वानगीकारात्, "अहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं शरीरं शेते। अथायमशरीरकः" इत्यारण्यके दर्शनाच्च "भेदश्रुतेर्वैलक्षण्याच्चे" त्यत्र भाष्ये एतच्चैव सर्वे रूपमभवन्निति श्रुतौ रूपम्-शरीरम्, अभवन् तद- धीनप्रवृत्तयोऽभवन्निति रूपशब्दस्य शरीरार्थकस्य गौणार्थस्यभानात्, आरण्यके च वाच: पृथिवी शरीरमिति शरीरश्रवणस्यादश्शरीरमिति करणाधारत्वात् प्रायेण शरीरशब्दप्रयोगदर्शनात्, सर्वेषु श्रुतिस्मृतिपुराणेषु "अकायमशरीरमि"त्यादि- शरीरनिषेधेषु शरीरादिपदानां प्रतिषेध्यसमर्पकाणां कर्मवश्यशरीरपरत्वेन विशेषलक्षणांगीकार/च्च ॥ किंच 'मनुष्य. कर्मणा देवो जायते' इत्यादौ देवादिपदानां देहपराणां सामानाधिकरण्यस्य शरीरिणि लक्षणयोपपत्तावप्यनुपचरितप्रचुरप्रयोगानुरोधेन शरीरव्याप्तिशक्तिं कल्पयित्वा तद्दृष्टान्तेनापृथक्सिद्धप्रकारत्वेन जातिगुण-
Page 360
३०४ अद्वततत्त्वशुद्धि
शरीराणां तद्वाचकशव्दाना प्रकारिपर्यन्तत्वदर्शनात्, शरीरिपर्यन्तं शक्तिम- ड्रीकृत्य, "आत्मैवेदम्" "तत्त्वमसी 'त्यादौ चाचिद्वाचिनां त्वमिदमहमादि- षदानामचिद्देहकजीववाचकानां तादशजीवशरीरकब्रह्मणि शक्तत्वेन मुख्य- सामानाधिकरण्य निर्वोढु चिढ चित्साधारणं शरीरत्वं भवता निरुक्तम्। एवं च सति देवमनुष्यादिशरीरेपु श्रति परित्यज्य तत्मापकादृष्टसहकृताहंकारज- नितप्रत्ययविषयत्वयोग्यतारूपं देवत्वादिकं देहात्मनोरनुगतं देवादिपदप्रवृत्ति- निमित्तं स्यात। ततश्र न शरीरविशिष्टे शक्तिसिद्धिः, देवो मनुष्यो जात इति चात्मरूपपदद्वयार्थव्यक्तिमादाय सामानाधिकरण्योपपत्तिः ॥ किंचैंव लक्षणोच्छेद., शक्यलक्ष्यार्थयोस्सबन्धम्यावश्यकत्वात्, गंगा- तीरसयोगाश्रयत्वं गंगापदप्रवृत्तिनिमित्तमाश्रित्य तीरे शक्ते: सुवचत्वात् ॥
किंच ब्रह्मान्यत्वं शरीरत्वं नियम्यत्व वा। तद्वाचकानां ब्रह्मपर्यन्ततोच्य- ताभ्, किमनेनायासेन? अत आत्मप्रतियोगिकशरीरत्वस्य चार्वाकादिपामर- परीक्षकासाधारणसर्वानुभूयमानचाक्षुषज्ञानविषयत्वासंभवाद् न भवदुक्त शरीर- व्यवहारनिर्वाहकम् ॥ न च-चेष्टेन्द्रियभोगाश्रयत्वमपि न चाक्षुषम् ; विशेषणानामचा- क्षुषत्वादिति- वाच्यम् ; साक्षादलजन्यक्रियाविशेपरूपचेष्टासुखदुःखानु- भवस्य चक्षुरादिगोळकाश्रयत्वस्य सर्वेपां स्वशरीरे प्रत्यक्षत्वेन मनुप्यत्वादे- स्तद्याप्यत्वनिश्चयसंभवात्, तदाकृतिविशेषोपनीनतादशशरीरत्वविशिष्टाध्यक्ष- संभवाद् देहातिरिक्तात्मज्ञानशून्यानां भवदुक्तशरीरत्वज्ञानगन्धामावाद्। एतेन-लक्षणे 'यस्ये'ति पष्ठी शरीरत्वस्य चेतनप्रतियोगिकत्वस्य ज्ञानायेति- परास्तम् ; उक्तदोषप्रसगात्। न चेदं शरीरमिति ज्ञानानन्तरं कस्येत्याकां- क्षानियमात् सप्रतियोगिकत्वमिति-वाच्यम्; गौरिति ज्ञानादपि कस्येत्याकां क्षादर्शनाद् गोत्वादेरपि सप्रतियो गिकत्वापत्तेः॥
Page 361
शब्द प्रमाणम् ३०५
यदि तत्र लोके गवां स्वस्ामिकत्वनियमज्ञानादानुमानिकखत्वज्ञानात् स्वाम्याकांक्षा, तहिं संज्ञाविशेषविशिष्टभोक्ृनियतत्वज्ञानाच्छरीरस्यापि तज्जि- ज्ञासा भविष्यति। अत एव कोडयं मृत इति संज्ञाविशेषविशिष्टजिज्ञासा दृश्यते।। यदपि-"आत्मन आकाशस्संभूत" इति केवलात्मपदग्रहणेऽपि तदितरस्याकाशादे शरीरत्वलाभः फलमित्युक्तम्; तदपि तुच्छम् ; आत्मनः शरीरप्रतियोगित्वाभावात्, "द्युभ्वाद्यायतनं स्वशब्दात् " इत्यादौ आमो- तीत्यात्मा इति निर्वचनात्॥ न च-आप्तिराप्यसापेक्षेति-वाच्यम्, तावतापि त्वदुक्तशरीरत्व- विशिष्टानपेक्षणात्। अत एवात्रैव स्वेतरसमस्तनियन्तृत्वेन व्यापिस्तस्यैव संभ वतीति व्याप्तिसद्धावोपपादकं नियन्तृत्वमुक्तम्, न शरीरित्वं प्रवृत्तिनिमित्तम्।। यञ्-चैतन्यविशिष्टस्येत्यनेन ज्ञानातिव्याप्तिनिरास :- इति, तन्न, यदि चैतन्यविशिष्टस्येत्यनेन चैतन्यस्य नियन्तृकोटिप्रवेशान्न नियम्यकोटि- प्रवेश इत्यभिप्रायः, तहिं जीवो ब्रह्मशरीरं न स्यात्, तस्यापि खनियम्यकोटय- प्रवेशात्।। यदि च 'यस्ये'त्युक्त्वा तत्तच्चतन्यविशिष्टविशेषग्रहणान्नाव्याप्तिरिति, तर्हि ब्रह्म प्रति जीवगतज्ञानेऽतिव्याप्तिः। चैतन्यविशिष्टं ब्रह्म प्रति जीववच्चैत- न्यस्यापि नियम्यत्वात्। न चेष्टापत्तिः ; जीवं प्रत्यपि ज्ञानस्य शरीरत्व इष्टापत्ते: सुकरत्वेन ज्ञानव्यावर्तनवैयर्थ्यात्।। धार्यत्वघटितद्वितीयलक्षणे च मुक्तान् प्रति ब्रह्मतज्ज्ञानादेः शरीरत्वं स्यात् ; "सोऽश्नुते सर्वान् कामान् सहे"ति तत्कल्याणगुणानां मुक्तभोग्यत्वा- ड्रीकारात। द्रव्यपददाने च गुणक्रियादावव्याप्तिः प्रागेवोक्ता। 'सर्वात्मने'ति यावद्द्रव्यभावेनेत्यर्थः; त्वन्मते भावानां प्रतिक्षणपरिणामित्वेन गृहाभरणादी- नामपि नियतकालीनानां तदभावकालीनेभ्यो मिन्नत्वेन तत्रातिव्याप्तेरपरि- 20
Page 362
३०६ अद्वैततत्त्वशुद्धि
हारात। आद्यसूत्रे-अचिदशस्तु चिदंशपरिणामी, कर्मनिमित्तपरिणामभेदो "विनाशी"ति, "उत्पत्त्यसंभवात् " इत्यत्र प्रकृतिपु तत्तद्विक्रियेति च कथनात्, अन्यथा मृतदेहे नियामकाभावात्, तदभेदाज्जीववद्देहेष्वसंभवापत्तेः ॥ यञ् -- जीव समष्टि विधार्यप्रकृतौ नातिव्याप्त, जीवसमष्टर्ननाल्ात् इति; तदप्ययुक्तम्, नित्यमुक्तानामेकैकं प्रति प्रकृतेश्शरीरत्वप्रसंगात्, त्वन्मते ब्रह्मलीलोपकरणत्वेन कृत्स्न जगत्पश्यतां सर्व सुखरूपमेवेति मूमाधि- करणोक्त्े:, प्रकृतेर्मुक्तोपभोग्यत्वेन यावत्सत्त्वं तस्य धार्यत्वात्, तच्छेपत्वाच्च। उक्त्तं हि भूमाधिकरणे ब्रह्मणो लीलोपकरणं तदात्मकं चानुसधीयमान जगन्नि- रतिशयप्रीतये भवतीति। श्रुतौ मुक्तं प्रक्रम्य "तस्य सर्वेषु लोकेषु कामचारो भवती"ति तच्छेषत्वाभिधानाच्च॥ नियन्तुमिति नियमनं कार्यानुरूपबुध्युत्पादनम्, अनुमन्तृत्वम्, परिणमयितृत्वं वा सर्वथा जीवं प्रति मनुष्यादिदेहेप्वव्याप्तिः। न ह्यचेतने देहे बुध्युत्पत्तिरम्ति, येन तत्प्रयोजको जीवः, अनुमन्ता वा स्यात्, देह उपचयापचयरूपपरिणामस्य जीवकर्तृकत्वाभावाच्च ।
न तृतीयोऽपि। न च-देहनिष्ठचेष्टाजनकलम्, तच्च जिगमिषाद्यन्वया- द्यनुविधानादस्त्येवेति-वाच्यम्, स्वामशरीरेष्वव्याप्तेः, स्वमस्य ईश्वरकर्तृ- कत्वात्। न च-स्वप्नेऽपि मनोवृत्तिसत्वात्ा स स्वम्र द् ह प्रे ्ता स्त्े व त वाच्यम्; स्वमे स्वदेहसष्टयभावेन गजतुरगादिदर्शनस्य मनोमात्रविशिष्ट- जीवकर्तृकत्वात् ॥ "तदानी असौ स जादित्यो य एप तस्मिन्मण्डुले पुरुषो यश्चायं दक्षिणे
इत्यन्तेन ग्रन्थेन ते अक्षरचिन्तकाः पञ्चाग्निविद्योपासकाः मां मत्समानाकारम- संसारिणमात्मानं प्राप्नुवन्त्येवेत्युक्तमित्युक्तम्। त्रयोदशाध्याये चातिशयितैश्वर्या-
Page 363
शब्दप्रमाणम् ३०७
पेक्षाणामात्मकेवलपयात्रापेक्षाणां च भक्तियोगस्तत्तपेक्षितसाधनमिति चो कम् ॥ अष्टमे कैवल्यार्थिनां "यदक्षरं वेदविदो वदन्ती"त्यादिनोक्तं ब्रह्मोपास- नमपि ब्रह्मप्राप्तिसाधनमित्युक्तम्-अत्र यद्यपि पंचाग्निविद्यायाः प्रकृति- वियुक्तात्मयाथात्म्यविषयत्वं न श्रुतिलिङ्गगम्यम् ; तयोरभावात्। यत्तु "पंचम्यामाहुतावापः पुरुषवचसः " इति प्रकृतिस्वरूपस्य "रमणीयचरणाः" इत्यादिना मनुष्यत्वादेः कर्मकृतत्वेन, जीवस्य स्वतोऽसंसा- रित्वादात्मस्वरूपस्य च प्रकरणविवेचनात "तद्य इत्थ विदुरितीत्थंशब्देन प्रकृत्यात्मविवेकस्य परामर्शेन तत एव च नियम्यत्वाद् मनस्यतिव्यापिः । न हि तदा जागर इव स्थूलसूक्ष्मशरीरसमुदायरूपेण प्रेर्यता, येनेष्टापादनं स्यात्, तदानी स्थूलदेहज्ञानाभावात।। धारयितुमिति च किं धार्यत्वम्-आधेयत्वं वा 2 तत्प्रयोज्यस्थितिकत्वं वा आद्ये अणोर्जीवस्य देहे स्थितत्वान्न तदाघेयत्वम्, मुक्तस्वीकृतनाना- देहेषु च "प्रदीपवदावेश;" इत्यत्र ज्ञानव्याप्तिमात्रांगीकारे जीवशरीरयो स्संयो गस्यैवाभावान्नाघेयत्वसंभवः॥। यदि संयोगमात्रेण, ज्ञानप्रवेशमात्रेण वाडडघेयत्वम्, तर्हि मुक्तान् प्रति ब्रह्मणो जीवानां च परस्परशरीरत्वप्रसंगः । किंचाघेयत्वपक्षे जीवसमष्टि- विधार्यत्वेन प्रकृतावतिव्याप्तेः, गहादावतिव्याप्तेश्च परिहारावसंगतौ; ब्रह्मण इव प्रकृतेर्गृहादेश्र जीवाघेयत्वाभावात्॥ अन्त्ये नित्यमुक्तान् प्रति प्रकृतिब्रह्मतद्गुणेष्वतिव्याप्तिः; तेषां मुक्त- भोग्यत्वेन तत्स्थितेस्तत्प्रयुक्तत्वात्, अन्यथा जीवस्य ब्रह्मशरीरत्वं न स्यात् ; ततस्थितेरपि ब्रह्मप्रयुक्तत्वाभावप्रसंगात् ॥। शक्यमिति च व्यर्थम्। अनियमनकालीनव्यक्तीनां मृतशरीरवद्गौण- त्वसंभवात्।।
Page 364
३०८
किंचाSडघेयत्वपक्ष आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनि-
यच्च-परगता तिशयाघानेच्छयोपादेयत्वमेव यस्य स्वरूपम्, स शेप: परश्शेषी, अन्यस्मिन् फलं जनयितुं स्वीकार्यत्वमेव यस्य स्वरूपप्रयुक्तम्, स शेष इत्यर्थः। ससम्या फलस्य स्वविनाश्यकर्मशेषत्वनिरासः, अन्यस्मिन् जन- यितुमित्युक्त: परगतमतिशर्यं स्वस्मिन् सन्निधातुमुपादेये शेषिणि नातिव्यापिः, तत्फल नाश्रयत्वलाभात्। फलशब्देनानुषड्गिकफलाश्रयत्वे नासंभवशकावकाशः; भृत्यस्वीकारे मुख्यफलानाश्रयत्वात्। स्वीकर्ता च शेष, शेष्यन्यो वा, एवकारेण शेषित्युदास. । भृत्यगतातिशयाधायकत्वेऽप्युपादातृत्वात् स्वरूप- प्रयुक्तपदेनोपादेयगुणाद्याश्रये नातिव्याप्ति-इति, तत्तुच्छम् ; फलस्य पुरुषशेषत्वाभावापतेः। न हि फलेन पुरुपेऽन्यत्फलं जन्यते; अनुकूलज्ञानत्वस्यैव सुखत्वांगीकारात्। कर्तुश्च यागादिशेषत्वं न स्यात् ; उपादातृत्वात्, मुख्यफलाश्रयत्वाच्च। जीवेपु चाव्याप्िः ; ब्रह्मणि जन्यसुखा- मावेन लीलारसस्य दुर्वचत्वात्, प्रेतसंसारान्मुक्तो निरतिशयसुख्यहं भूयामित्येव जीवानामुपासनादौ प्रवृत्तेः, ब्रह्म सुखी भूयादिति कस्याप्यप्रवृत्तेः ॥ निरतिशयसुखं जीव आधातुमेव ब्रह्मण उपादेयत्वात् ब्रह्मण एव शेषत्वापत्तिः, नित्यमुक्तान् प्रत्यपि ब्रह्मप्रपंचस्य शेपत्वापत्तिश्च। तस्मान्न मवदुक्त- लक्षणत्रयं युक्तम्॥ कि तर्हि शरीरत्वमिति ; चेष्टाश्रयत्वमेव । चेष्टा हि प्राणसंयोगजन्य- क्रियाविशेपः । ततश्च प्राणविधार्यत्वं फलितम्। बृहदारण्यके-"अहमेवैत- त्प्राणमवष्टभ्य विधारयामी"ति "यावदस्मिञ्छरीरे प्राणो वसति तावदायुरेति, यम्मिन्नुत्कामति इदं शरीरं पापिष्ठमि "ति च प्राणविधार्यत्वस्य, तद्वियोगे "विना-
Page 365
शब्दप्रमाणम् ३०९
शित्वस्य चोक्तत्वात्। त्वन्मते मुक्तब्रह्मविग्रहयोरप्राकृतरूपादिवत्प्राणेन्द्रिय- सत्त्वान्नाव्याप्तिः ।।
प्राणविधार्यत्वं च प्राणसंबन्धव्याप्यस्थितिकत्वम्। अतो न जीवे ब्रह्मणि प्रकृतौ वाऽतिव्याप्तिः। मृतशरीरे तु त्वयोक्ता गतिः। रुग्णदेहे च नाव्याप्तिः । अहल्याशिलादिदेहे च तरुगुल्मादिदेहे च तरुगुल्मादिपदे तत्संज्ञत्वादस्त्येव लिंगशरीरमिति नाव्याप्तिः। स्वान्नशरीरेष्वपि तत्तुल्याःप्राणाः सन्तीति नाव्याप्ति:।।
यद्वा अत्यन्तायोगव्यवच्छेदमात्रेण विधार्यत्वयोग्यतामात्रं विवक्षितम्। ततश्च मनुष्यत्वाढिकं प्राणविधार्यान्यावृत्तिसामान्यमननुगतमेव ; योग्यताव- च्छेदवमुपादाय लक्षणनिर्वाहाद् न मृतशरीरे चौपचारिकत्वकल्पनं युक्तम् ; त्वयापि नियन्तुं धारयितुमिति वा शक्यं इति शक्यतावच्छेदकमादायैव लक्षणस्य निर्वाह्यत्वात् सर्वशरीरानुगतस्य तस्यासंभवात, सभवे वा तस्यैव लाघवेन शरीरलक्षणत्वापत्ते:, अननुगतस्यैवावच्छेदकस्यावश्यं प्रवेशनीयत्वात्।। मद्वा-इन्द्रियगोलकत्वमेव शरीरत्वम्। ऐतरेयके-"आयतनं नः प्रजानीही"ति इन्द्रियैः पृष्टे, ताभ्यो गामनयदित्याद्युक्ते इन्द्रियाश्रयलक्षण- त्वस्य सूचितत्वात्, कृत्स्नं च स्थूलशरीरं लिङ्गशरीरत्वगिन्द्रियगोलकमेवेति नाव्याप्तिशडका ।।
यद्वा-स्वतन्त्रभोगायतनत्वं शरीरत्वम्। स्वतन्त्रत्वं चात्र भोगायत- नान्तरनिरपेक्षत्वम। लिङ्गशरीरं तु न मोगायतनमिति तत्सापेक्षत्वेन स्थूल- शरीरे नासभवः, "अशरीरं वाब सन्तं न प्रियाप्रिये स्पृशतः। न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ती" त्यन्वयव्यतिरेकाभ्या भोगायतनत्वस्य सूचितत्वात् ॥ न च मुक्तशरीरलीलाविग्रहयोरव्याप्ति ; तत्रापि त्वया लीलारसानुभवा- ड्गीकारात्। अहल्याशिलादेहेऽपि भोगोऽस्त्येव ; अन्यथा पापफलत्वानुपपत्ते.।
Page 366
३१० अद्वैततत्त्वशुद्धि.
गृहादिकं च न स्वतन्त्रभोगायतनम्, देहान्तरसापेक्षत्वात्। अत एव न पिशाच- अ्स्तशरीरेऽतिव्याप्तिः। परकायस्तु प्रविष्टजीवान्तरं प्रति शरीरमेव॥ वस्तुतस्तु-शरीरत्वस्य सप्रतियोगिकत्वाभावान्न तत्र लक्षणासंगति- र्दोषाय। यद्वा-ज्ञानान्यत्वे सति गौणाहंपदजन्यप्रतीतिविशेष्यतायोग्यत्वं शरीरत्वम्। देहात्माभिमशन एवाविद्येति त्वयाऽभ्युपगतत्वाद् न तत्र गौणत्व- मयुक्तम् ; ईश्वरेणाहमित्युक्ते श्रोतृणां देहविशिष्टे ज्ञानजननाद् न तद्देहेष्वति- व्याप्तिः ।। न च-एवं त्वन्मतेऽप्यशरीरत्वमीश्वरस्य मुक्तानां च न स्यात् ; लीला- विग्रहवत्त्वादिति-वाच्यम्; प्रपनवत्तेपामपि श्रौतनिषंधबलेन मिथ्यात्वांगी- कारात्॥ यद्वा-शरीरित्वं शरीर आत्माभिमानवत्त्वम्। तच्च सर्वजीवाना- मामुक्तयंहकारकृतं त्वयाप्यंगीकृतम्। न त्वीश्वरस्य तदस्तीति तादृशशरीरित्व- मेव निषिध्यते। अत एव न ह वै शरीरीत्युपपयते। हिरण्यगर्भस्य जीवत्वात्। इद- मेव देहात्मनोरभेदज्ञानमुपजीव्य शरीरवाचकानां शरीरिणि लौकिका वैदिकाश्र व्यवहारा: प्रवृत्ताः, जलक्षीरयोरविवेकेन क्षीरशब्दवत्। अतो न शरीरवाच- कानां कार्त्स््येन शरीरिपरत्वम्। अतो न प्रकृतिजीवयोर्ब्रह्मशरीरत्वम्; चेष्टाश्रयत्वादिनिरुक्तलक्षणाना तत्राभावात्।। अपिच त्वया मृत्वा शीर्तवा साधितस्य चिदचितोब्रह्मशरीरत्वस्य फलं न पश्यामः॥ इत्थं हि तव मतम्-सर्व ज्ञानं सप्रकारकमेव, इदमित्थमित्याकार- गोचरत्वेनैव सर्वस्य ज्ञानस्यानुभवसिद्धत्वात्, इत्थमित्यस्य प्रकारित्वावश्यं- भावात्, त्रिकोणत्वसास्नाद्याकारं विना वस्तुनोऽनुभवागोचरत्वादाकारस्यैव सामान्यशब्दार्थत्वात्। स एव चाकारो वस्तुनो वस्त्वन्तराद्वेदः, न त्वन्योन्या- भाव:, प्रतियोग्यज्ञानेन प्रथमज्ञाने तज्ज्ञानासंभवात्, इतरनैरपेक्ष्यस्य प्रमा-
Page 367
शब्दपमाणम् ३११
ज्ञानेऽपि भासमानत्वाच्च, परन्तु प्रथमपिण्डज्ञाने भासमानोऽप्याकारः पिण्डान्त- राज्ञानात्सामान्यत्वेन न भासते, द्वितीयादिपिण्डज्ञानेषु तु सामान्यत्वेन भासते। एतादृशप्रत्यक्षमूलकत्वाच्च प्रमित्यन्तराणां सविकल्पकत्वनियमः । तद्विषयाश्च केचित्प्रकारा एव प्रकारिभ्यः पृथकसिद्धिस्थितिप्रतीत्यनर्हाः, यथा-'खण्डो गौः' 'शु्: पट' इति जाति:, गुणाश्च। कानिचिद् द्रव्याण्यपि-यथा प्रज्ञानशरीराणि गौर्मनुष्य· इति। कानिचिद् द्रव्याणि पृथकप्रतीत्यर्हाणि-यथा दण्ड: कुण्डलमिति। कालोSपि द्रव्यविशेषणमेव; इदानीमिति विशेषणतयैव प्रतीतेः। यद्प्यत्र गोत्वं शौक्ल्यं शरीरं प्रभा ज्ञानं काल इति स्वातंत्र्येणापि प्रयोगप्रत्ययौ दृश्येते, तथापि व्यवहाराणा व्यवहार्यपदार्थविवेचनाय निष्कर्षकशब्दैः स्वरसतः प्रकारभृतानामेव पृथककृत्य व्यवहारो न स्वारसिकः । अतो जातिगुणवचनानां गौः शुक इत्यादीनां प्रकारिपर्यन्तत्वेऽननुगतत्वेन जातित्वगुणत्वयोरनियामकत्वा- त्कर्मणा मनुष्यो देवो जात इति देवमनुष्यादिशब्दानामात्मन्यनुपचरितत्वप्रयोगा- ल्लाक्षणिकत्वानुपपत्तेः, जातिगुणशरीरेष्वनुगतमपृथक्सिद्धप्रकारत्वमेव् तद्वाच- कानां प्रकारिपर्यन्तत्वप्रयोजकं कल्प्यते। अतः शरीरवाचकानां सामानाधि- करण्यावसेयमेव शरीरिप्रकारित्वम्, न तु स्वाभाविकम्। पृथक्सिद्धानां तु प्रकारत्वं 'दण्डी' इत्यादिमत्वर्थीयप्रत्यथावसेयमेव।
ननु-व्यक्तिं गुणं च प्रति जातिगुणयोरिवात्मानं प्रति शरीरस्यापि नियमेन प्रकारत्वे प्रकारप्रकारिणोस्सहोपलम्भनियमो भज्येत, शरीरग्राहिणा चाक्षुपेणात्माग्रहणादिति-चेत्, न, जातिव्यक्तयोः, गुणगुणिनोश्चैकेन्द्रिय- ग्राह्यत्वेन सहोपलम्भनियमेऽपि देहात्मनोरेकेन्द्रियग्राह्यत्वेन सहोपलम्भनियमा- भावात्।। कुतस्तर्हि प्रकारत्वनियम इति चेत्, शरीरस्यात्मविश्लेषे विनाशा- दात्मैकाश्रयत्वम्, आत्मकर्मफलोपभोगार्थत्वेनात्मैकप्रयोजकत्वम्, देवो मनुष्यो जात इत्यादिप्रतीत्याSडत्मविशेषणत्वं च दृष्टा जातिगुणवदात्मैकप्रकारत्व-
Page 368
३१२ अद्वैततत्त्वशुद्धि:
नियमस्यानुमानात्। अत आत्मैकप्रकारतैकखवभावत्वाच्छरीरस्य स्वचक्षुष; प्रकारिग्रहणासामर्थ्येऽपि तत्समर्थो देवमनुष्यादिशब्दः तत्प्रकारकमेवात्मानं बोधयति। न च-जातिर्गुण इत्यादिवच्छरीरमित्यादौ शब्दोडपि न प्रकारत्वेन शरीरं बोधयतीति व्यभिचार इति - वाच्यम्। निष्कर्षकशब्द- व्यतिरिक्तानामेव प्रकारिपर्यन्तत्वनियमात्, एतेषां च निष्कर्षकत्वात्। ततश्र प्रागुक्तलक्षणे ब्रह्मातिरिक्तस्य कृत्स्नस्य ब्रह्मशरीरत्वाज्जीवादिशब्दा ब्रह्मरूपशरीरपर्यन्ता एव। देहादिशब्दास्तु देवत्वविशिष्टदेह विशिष्टजीवशरीर- ब्रह्मवाचका एव, इति वेदान्तश्रवणेन सर्वशब्दानां ब्रह्मणि शक्तिग्रहः पूर्यते। अत. "तत्त्वमसि" "अयमात्मा ब्रह्म " "अनेन जीवेनात्मना" "सर्व खल्दि ब्रह्मे" त्यादौ," त्वमात्मा जीव इत्यादिपदानां तत्तच्छरीरकब्रह्मपरत्वा- लक्षणां विनैव त्रह्मवाचकसामानाधिकरण्यान्नाद्वेतसिद्धि :- इति। अत्र ब्रूम :- यत्तावदुक्तं त्रिकोणत्वाद्याकारकमेव ज्ञानं जायत इति, तत्रेदं वक्तव्यम्-किं त्रिकोणत्वादिकं पटत्वादिव्यतिरिक्तो धर्म., उत व्यक्तयन्तर्भूत इति। नादयः; अवस्थान्तरापन्न हि कारणं कार्यमित्युच्यते, न कारणमात्रम्। अवस्थान्तरं कारणगतसंयोगविशेषाः । ते च द्वयोर्द्वयोस्तन्त्वो- र्भिन्ना एव, इति न सर्वेपां तन्तूनामेकं संस्थानत्वम्। सर्वे च तन्तवो मिळिताः पट्बुद्धिविशेषविषयाः, न प्रत्येकम्। मेळनं च तावता संस्थानानामेव। न च संस्थानं मुक्त्वा तन्तुषु पटबुद्धिरस्ति। अतः सस्थानविशिष्टा एव तन्त्वादयः पटादिव्यक्तयः। अतः त्रिकोणत्वादि संस्थानं विशेषणं मवदप्यवयवानामेव भवेत्, न तु पटादेरवयविनः कार्यस्येति। अत एव पट उत्पन्नः, विनष्ट इत्यादयः प्रत्ययाः पटशब्दार्थे विशेषेऽनुपचरिताः ॥ तन्तव एव पटव्यक्तिः। संस्थानमेव पटत्वमित्यंगीकारे तु पटे तेपा- सुपचरितत्वं स्यात्। पटत्वमुत्पन्नं विनष्टमित्येव प्रत्ययो मुख्यः स्यात्। कार्य-
Page 369
शब्दप्रमाणम् ३१३
कारणयोरनन्तत्व च भज्येत, पटत्वे कार्यत्वाभावात, संस्थानगुणस्य च तन्तु- भ्यो भिन्नत्वात् ॥ किंचोपादानगतोत्तरावस्थैव पूर्वावस्थानाश इति मतम्। तत्र कपालाव- स्थाया: घटत्वरूपावस्था विनाशत्वेऽपि न घटनाशत्वम्, मृद्द्रव्येण घटेन कपाल- तत्संस्थानयोरविरोधात। अतः केवलादुपादानादवस्थाविशेषोत्पत्तिरूपो- पाधिना तस्यैव व्यावहारिकमेदमाश्रित्योत्पत्तिविनाशादिकं निर्वाह्यम्, पार- मार्थिकाभेदेन च कार्यकारणानन्यत्वं निर्वाह्यम्। अतः पटत्वमवस्था- विशेषापन्नतन्तुरूपपटव्यक्तौ केवलतन्तुकारणिकायां सामान्यमाश्रयणीयमिति न संस्थानेन पटस्य सप्रकारकत्वम् ।। किंच न संस्थानमात्रं पटत्वम् ; रज्ज्वादावपि सत्त्वात्, किन्तु संस्थान- विशेषः । न च सकलसस्थानेष्वनुगतसामान्यं विना विशेषो निर्वक्तुं शक्यम्। सादृश्यस्याप्यनुगतत्वे तस्यैव जातित्वाद् अननुगतत्वेऽनुगतबुद्धेरनिर्वाहात् संस्थानस्यैवोत्पत्तिविनाशयोरंगीकृतत्वेनैकपटनाशे सर्वपटेषु पटत्वनाशप्रसंगात् सकलावयवसंस्थानसमुदायनिष्ठानुगतधर्मान्तराड्गीकारे च तस्यैव जातित्वात्, प्रतीत्यनुरोधेनावस्थाविशेषापन्नतन्तुष्वेव तस्य कल्पनौचित्याच्च। जलमरीचिस्थ- सूक्ष्मद्व्येपु गुणकर्मसामान्यरूपं विना नाकारोऽस्य सुनिरूपः। अतः प्राथमिक- ज्ञानं सर्वतो विलक्षणव्यक्तिस्वरूपं ग्ृह्गाति, द्वितीयादिकन्तु सप्रकारकमित्यभ्यु- पगन्तव्यम्। अखण्डार्थनिरूपणे च निपुणतरं वक्ष्यामः ॥ एतेन-द्वितीया दिज्ञानेषु सामान्यत्वेन भासत इति-निरस्तम् ; प्रति- व्यक्ति सास्नावत्त्वत्रिकोणत्वादेर्भिन्नत्वेनानुगत्यभावात्, सास्नात्वादेर्गवेतरवृत्ति- त्वविशिष्टसकलगोवृत्तित्वरूपगोत्वाद्गिन्नत्वात्, तस्यापि तत्तदवयवसंस्थानरूप- त्वेनाननुगतत्वात्॥। किंच 'गौरि'त्यादौ प्रत्यक्षेण गोतवं स्वरूपेणैव भासते, न तु तत्र सामान्यत्वम्। अनेकवृत्तित्वरूपसामान्यस्यानेकानुपस्थितावत्रहणात,
Page 370
३१४ अद्वैततत्त्वशुद्धिः
विषयानवस्थापाताच्च। शाव्दज्ञानेऽपि न गोत्वे सामान्यत्वमानम्; शब्दस्य तत्राशक्ते, अतिगुरुणि सामान्यत्वे शक्तिकल्पनायामप्रामाणिकगौरवापत्तेः॥ यदपि-जातिगुणशरीराणां पृथकस्थितिप्रतीत्यनहत्वं प्रकारतैक- स्वभावत्वं मत्वर्थीयलक्षणां च विनैव व्यक्तिगुणशरीरिसामानाधिकरण्यं च, दण्डादौ तु विपरीतम्-इति॥ तत्रेदं किंप्रयुक्तमिति द्रष्टव्यम्। वम्तुप्रयुक्तमिति चेत्, न ; 'दण्डी पुरुष:' 'पुरुषे दण्डः' इति धीभेदेनोभयोः प्रकारत्वाप्रकारित्वानुभवात्। न च-तत्र मतुपो लोपविधानात्तथेति-वाच्यम्, शुक्लो घट इत्यादावपि गुणवचनेभ्यो मतुपो लुग्विधानतुल्यत्वात्। किंच प्रकारत्वम्-आश्रितत्वं वा द्रव्यसापेक्षार्थक्रियाकारित्वं वा १ विशेषणत्वं वा 2 नाद , पुरुषे दण्ड इत्यत्र दण्डेऽतिव्याप्ि:, पुरुषे डव्याप्तिश्र, गोमान् रथी गृहीत्यादावव्यापिश्च ।। अत एव न द्वितीयोऽपि; प्रमाज्ञानशरीरेष्वव्याप्तेः, पुरुषादावति- व्याप्तेश्र। आश्रयनिरपेक्षार्थक्रियाकारित्वाभावस्तदर्थ इति चेत्, न ; दण्डी रथी गोमान् गृहीत्यत्राव्याप्तेः, दण्डरथगोगृहाणां स्वतोऽप्यर्थक्रियाकारित्वात्। न तृतीय: ; विशेषणत्वस्य व्यावर्तकत्वपरत्वेन व्यतिरेकमात्रसाधारणत्वेन विशेष्येड व्याप्तेरनिस्तारान्। व्यावृत्तिवुद्धिप्रयोजकस्वरूपविशेपवत्त्वं तदिति चेत्, दण्डी पुरुषः पुरुषे दण्ड इत्युभयोरपि ताद्ृशरूपत्वेन तद्दोषतादवस्थ्यात्। अतो ज्ञानाभिधानस्वरूपविशेषप्रयुक्तमेव प्रकारत्वम्, न स्वरूपकृतम्।। तथाहि-'खण्डो गौः,' 'शुको जनः' 'दण्डी' 'गोमान्' 'गृही'त्यादौ सविकल्पकं जायमानं किंचिद्वस्तु विशेष्यत्वेन, किंचिद्वस्तु विशेषणत्वेन, किंचि- त्संसर्गत्वेन चावगाहृत इत्यानुभाविकम्। शब्दोऽपि तादृशघीजननशक्तित्वात्त- थाऽभिधत्त इत्युच्यते। अत. शब्दशक्तया ज्ञानस्य रूपविशेषेण च वस्तुप्रकार- त्वादिकम्, न स्वरूपतः। ततश्र ब्रह्मण आनन्दवाक्यार्थे ब्रह्मणोSपि विशेषणत्वेन
Page 371
शब्दप्रमाणम् ३१५
प्रकारत्वात्, 'गुणे शुक्कादयः पुंसी'ति केवलगुणे शुक्कादिशब्दानाम्, रूप- रसादिशब्दानाम्, प्रभाज्ञानशरीरेषु प्रभाज्ञानशरीरपर्यायाणाम्, गामनये- त्यादौ शरीरवाचकानां च प्रयोगेषु गुणप्रभाज्ञानशरीराणां प्रकारत्वं विनापि प्रतीतेश्र न क्वापि प्रकारतैकस्वभावत्वम्। नाप्यपृथक्सिद्धेषु मत्वर्थीयामावनियमः, 'प्राज्ञो' 'मेधावान्' 'शिखी' 'केशी,' 'शाखी,' 'हस्ती' 'समूही' ति दर्शनात्। नापि पृथक्सिद्धेषु मतुबनियम:, क्षीरं तक्रं मण्डमिति प्रक्षिप्तजलेऽपि प्रयोगात्, 'सिकता' 'शर्करेति' च तद्वति देशे प्रयोगात् ॥
किंच पृथक्सिद्धिस्थितिप्रतीत्यनर्हत्वमव्यवस्थितम्, त्वन्मते संस्थानगुण- रूपाकृत्युत्पत्त्यैव द्रव्योत्पत्तिव्यवहारात्, जातिगुणाभ्यां पृथग्घटाद्युत्पत्तिभावात् तद्विनाशादेव द्रव्यनाशात्पृथकस्थित्यभावात्, सर्वज्ञानानां सविकल्पकत्वां- गीकारेण पृथक्प्रतीत्यभावाच्च, प्रकारिणो घटादेरपि पृथक्सिद्धिस्थितिप्रतीत्य- नहत्वापत्तेः, दीपमणीनां कुड्यादन्तरितानां ग्रहणेऽपि प्रभाप्रतीते., प्रत्युत प्रभां विना तेषामेवाप्रतीतेः, तेषां सहोत्पत्तिस्थितिकत्वाच्च वैपरीत्यापत्तेः । निर्मिकल्पकानङ्गीकारेण ज्ञानगुणं विनाप्यात्माप्रतीतेः, आत्मनोऽपि ज्ञानाद पृथक्सिद्धिस्थितिप्रतीत्यनर्हत्वापत्तेः। परकायस्य प्रविष्टजीवं प्रति पृथगुत्पत्ति- सत्त्वाच्च, भगवतोऽपि चिदचिल्लीलाविग्रहत्रिपाद्विभूतीनां नित्यत्वात्सदा सर्व- ज्ञत्वाच्च स्वस्यापि पृथक्सिद्धिस्थितिप्रतीत्यनर्हत्वात्॥ यत्त-देहस्य प्रकारतैकस्वभावत्वमनुमीयते-इत्युक्तम्, तन्न; आत्मविशेषे विनश्यति तत्तदेकाश्रयमिति व्याप्तिरुपजीव्या। तत्र चाश्रयत्वं नाधारत्वम्, अणो: स्थूलदेहाधारत्वाभावात्, प्रत्युत "अनवस्थितेरसंभवाच्च नेतर:" इत्यत्र त्वया जीवस्य स्थानविशेषे वृत्तिरित्युक्तत्वाच्च, किन्तु तदधीन- स्थितिकत्वम् ।
Page 372
३१६
तच्च यद् यत्संबन्धाभावव्याप्यविनाशं तत्तदधीनस्थितिकमिति फलितम्। आश्रयनाशनाश्यगुणादिकं च दृष्टान्त.। तदिदं कायव्यूहेऽणोर्जीवस्य ज्ञान- व्याप्तिमात्रांगीकाराढ् जीवसंयोगाभावेऽप्यविनाआद् व्यभिचरितम्॥ स्वस्थितिप्रयोजकं यत्, तत्संबधनाश्यत्वं हेतुः। कायव्यूहे च ज्ञानसंबन्ध एव स्थितिप्रयोजकः, इति तन्नाशनाश्यत्वमस्त्येवेति न दोप इति चेत्, तथा सति तदधीनस्थितिकत्वरूपसाध्यघटितत्वाद् हेतोर्व्याप्त्यसिद्धि.।। किंच प्रतिक्षणं परिणामित्वेन देहाना भिन्नत्वात् तत्सिद्धेर्जीवसंबन्धा- प्रयोज्यत्वादसिद्धिः॥ प्रत्यभिज्ञाविरोधिविसदृशपरिणामस्यैव नाशत्वात्तस्य च जीवविश्रेष-
अचिरमृतदेहे प्रत्यभिज्ञासत्त्वेन जीवविशेषे विनाशाभावात। जीवसक्लेप विश्लेषाप्रयोज्यत्वाद्देहस्थितिनायोः, स्वर्गादागतस्य राजविशेषस्य स्वशरीर- भक्षणकथनेन तद्विश्लेषस्य तन्नाशाप्रयोजकत्वात्॥ किंच "अहमेवैतद्वाणमवष्टभ्य विधारयामीति", "याचदस्मिच्छरीरे प्राणो वसति तावदायुरि"ति श्रुतिभ्यां प्राणसंबन्धस्य शरीरस्थितिहेतुत्वावगमात्, प्राणविश्रेष एव देहनाशहेतुः , न तु जीववि्रेषः । वम्तुतो जीवस्य स्थूलसूक्ष्म- शरीरारम्भककर्मतन्नाशाभ्यामेव तत्संक्लेषविक्रेषौ, इति देहनाशः कर्मनाशकृतः, न तु तज्जीवविश्रेषकृतः। गण्डशैलपातचूर्णीकृतदेहनाशे पूर्व जीवविश्रेषा- भावेन कर्मनाशस्यैव प्रयोजकत्वादिति न तदेकाश्रयत्वसिद्धिः। प्रत्युत जीवस्य देहविक्लेषे ज्ञानतद्गुणोत्पत्तिविनाशाभ्यामेव द्रव्योत्पत्तिविनाशां- गीकाराज्जीवस्यैव देहाश्रयत्वम्, न तु विपरीतम्। उक्त हि "स्वाप्ययादि"त्यत्र "आमोक्षाज्जीवस्य नामरूपविश्रेषादेव स्वव्यतिरिक्तज्ञानमि"ति। वस्तुत- स्तदेकाश्रयत्वं सप्रकारनियतम्। 'हस्ती' समूही 'शाखी' इति हस्तशाखयो- वर्यवयोराश्रितत्वे तद्विक्रेपेण विनाशित्वेप्यवयविनः प्रकारत्वाभावात्, पृथक-
Page 373
शब्दप्रमाणम् ३१७
सिद्धिस्थतिप्रतीत्यनर्हत्वेऽपि मत्वर्थीयप्रयोगाच्च, न सामान्याकारस्यानियम इत्युक्तमेव॥
तदपि न प्रकारत्वसाधकम्, ब्रह्मणोऽपि मुक्तानां भोगार्थत्वेन प्रकारत्वापत्ते: । शब्दादिविषयेपु व्यभिचाराच्च। पत्नीपुत्रवस्वादीनामपि भर्तृपितृस्वामिन· प्रति प्रकारत्वापत्तेश्र ।।
यदपि देवो मनुष्यो जात इत्याद्यात्मविशेषणनियमः शरीरस्य-इति, तन्न; अनात्मनि देहेऽहमित्यात्म प्रकारा भेदसंसर्गकदेह विशेष्यकधियोऽङ्गीकाराव्। अहं कृशोऽहं मनुष्य इत्यादिप्रत्यक्षे, 'आत्मा वै पुत्रनामासि तज्जाया जाया भवति ताभ्यो गामानयेत्यादिषु शब्दज्ञानेषु च शरीरस्य स्वातंत्र्येण प्रती- तेश्च विशेषणत्वे नियमाभावात्, देवो मनुष्य इत्यत्र तु देवमनुष्यशरीरयो- रेककालवर्तित्वाभावेन विरुद्धत्वाद्; विशिष्टयोरभेदासंभवेन विशेषणत्यागेन लक्षणाया आवश्यकत्वाद्विशेषणासिद्धिः ; अन्यथा पाकरक्ते घटे श्यामरक्तो- ड्यमिति प्रतीत्यापत्तिः। त्वन्मते त्रिवृत्करणप्रक्रियया नीवारेषु ब्रीहिवत शुक्तौ रजतवच्च देवमनुष्यशरीरयोः पारस्परानुगमादभेदव्यवहारोपपत्तेः, "पंचम्यामाहुतावापः पुरुषवचसः" इति तदेव मनुष्यदेहभागाधिक्याद् देवो मनुष्योऽभूदिति पदद्वयप्रयोगसाफल्याच्चात्मनो विशेष्यत्वौसिद्धेः विशेषणत्व- प्रकारत्वयोरभेदेन साध्याविशिष्टत्वाच्च न शरीरस्यात्मैकप्रकारत्वम्।। अस्तु वा तथा, न तावता शरीरवाचकशब्दानां शरीरिपर्यन्तत्वनियमः। तथा हि-शरीरवाचकानां शरीरा दिनिष्कर्षकशब्दव्यतिरिक्तदेवमनुष्यादि कशव्दानां देहेऽनुपचरितप्रयोगप्रत्ययदर्शनात्, मुख्यवृत्त्यैव शरीरिणि शक्तिकल्पनात्। चिदचिद्वाचकानामीश्वरे मुख्यत्वात् "अयमात्मा ब्रह्म", "अनेन जीवेनात्मनाऽनुप्रविश्य", "आत्मैवेदम्" "तत्त्वमसी," त्यादिष्वात्मजीवेदं ..
Page 374
३१८ अद्वेततत्त्वशुद्धि:
त्वमादिपदानां जडजीवशरीरकब्रह्मपरत्वेन ब्रह्मादिपदसामानाधिकरण्यं लक्षणां विनैवेति न निर्विशेषाद्वैतसिद्धिरिति॥ तत्रेदं वक्तव्यम्-शरीरवाचकानां शरीरिणि न शक्तिः, लक्षणयैवो- पपत्तो शक्तिकल्पनायां गौरवात्, अनन्यलभ्यश्शब्दार्थ इति न्यायात्।। न च-वाच्यार्थान्वयाद्यनुपपपत्ति प्रति स न्धा नं्क वि न ा प माक् शरी रिप्रिती तिर्न लक्षणेति-वाच्यम्, प्रचुषप्रयोगवलात्तदुपपत्ते, गवादिगब्दानामनेके- ष्वर्थेषु शक्तिमत्त्वेऽपि प्रचुरप्रयोगात्साम्नादिमत एवार्थस्य शीघ्रोपस्थि- तिरिति त्वयापि "आकाशस्तल्िङ्गादि"त्यल्ोक्तत्वात्। अत एव सा निरूढ- लक्षणेत्युच्यते। अंगीकृतं च त्वया भगवच्छब्दस्य ब्रह्मातिरिक्त लाक्षणिकत्वम्। किंच शरीरादिशब्देभ्य. शरीरिणोऽप्रतीतेर्न नियमेन शरीरिणि शक्तिः ॥ यतु-निष्कर्ष कव्यतिरिक्तानामेव शरीरिपर्यन्तत्वनियम:, जातिर्गुण इत्या- दीनामपि प्रकारपर्यन्तत्वानभ्युपगमात-इति। किमिदं निष्कर्षकशब्दत्वम्? शरीरमात्रप्रयुक्तत्वमिति चेत्, "यः पृथिव्यां तिष्ठन्" "य आत्मनि तिष्ठन्" "भागो जीवस्स विज्ञेयः," ताभ्यो गामानयत् तेभ्योऽश्वमानयत्' इत्यदौ- केवलशरीरे प्रयुक्तानां पृथिव्यात्मगवाश्वादिशब्दानां निष्कर्षकशब्दत्वापत्तेः । आत्मन्यप्रयुक्तत्वे सतीति विशेषणीयमिति चेत्, "यस्यात्मा शरीरमि' त्यात्मन्यपि शरीरशब्दस्य प्रयुक्तत्वाद् निष्कर्षकत्वापत्तेः। शरीरविशिष्टऽप्रयुक्तत्वे सतीति विशेषणीयम्। एतौ च गुणे, विशिष्टे च शुक्कादिशब्दवच्छरीरे शरीरविशिष्टे च प्रयुक्तौ, अतो न निष्कर्षकत्वम्। शरीरादिशब्दस्तु न शरीरविशिष्टे प्रयुक्त:, अतो निष्कर्षकत्वमिति चेत्, न शरीरादिशब्दानामपि त्वया जीवपर्यन्तत्वानंगीकारेSपि ब्रह्मपर्यन्तत्वांगीकारेण मृष्टं वांछत्ययं देह इत्याद्यनहंकारवाक्येषु वांछाया देहप्रयुक्तत्वाभिप्रायेण लक्षणया विशिष्टा- त्मैनि देहादिशब्दप्रयोगेण च निष्कर्षकत्वासिद्धेः॥
Page 375
शब्दप्रमाणम् ३१९
किंच शरीरविशिष्टेऽप्रयुक्तत्वे सति शरीरे प्रयुक्तत्वस्य विशिष्टाभावमपेक्ष्य विशेषणस्याभावः शरीरविशिष्टे प्रयुक्तत्वमेव लाघवाद् निष्कर्षकत्वप्रयोजकम्; अधिकस्य व्यर्थत्वात। तच्छरीरत्वादि यौगिकेषु व्यमिचरितम्। भवदुक्तविशिष्टा- भावोऽपि तत्र व्याभिचरित एव ।। किच आत्मजीवादिशब्देषु हेतोरसिद्धेः, तत्सिद्धौ च तेषां ब्रह्मणि प्रयोगास्याप्रसिध्या विशेषणाभावस्य सन्दिग्धत्वात्, विशेष्यस्य सत्वाच्च ब्रह्मपर्यन्तशक्तिसिद्धौ तेषां विशिष्टप्रयुक्तत्वरूपहेतुसिद्धिः, तात्सिद्वौ च ब्रह्मणि सिद्धिरित्यन्योन्याश्रयः। तस्मान्न शरीराचकानां शरीरिणि शक्तौ किंचित् प्रमाणम् । किंच शरीरविशिष्ट एव शक्तिः, उत स्वातंत्र्येण शरीरेऽपि शक्त्यन्तरम् 2 आद्ये सर्वशब्दानां किचिज्जीवविशिष्टब्रह्मबोधकत्वाद् दण्डिनमानयेत्यादौ केवल- दण्डस्य पदार्थेकदेशतयाSऽनयनान्वयादर्शनात्, गामानयेत्यादावपि गोशरीर- विशिष्टजीवशरीरकब्रह्मण आनयनान्वयायोग्यतया वाक्यार्थबोधानुदयात्, सर्व- व्यवहारविलोपापत्ति ॥ न च दीपानयने पात्रानयनवदुपपत्तिः, तत्र विशेष्यस्य देशान्तरप्रापण- रूपाऽडनयनान्वययोग्यत्वाद् अन्वयबोधे श्रुतार्थापत्त्या पात्रानयनस्याक्षेपसंभवात, ब्रह्मणो विभुत्वेनानयनायोग्यत्वेन वाक्यार्थबोधस्यानुदयात्।। न च-वेदान्तश्रवणात्प्राग लौकिकव्यवहारेण विशेषणभूतगवादिमात्र- शक्तिग्रहणान्न व्यवहारविलोप इति-वाच्यम्, श्रुतवेदान्तानां भवदीयानां शक्तिग्रहपूरणेडपि तादृशप्रयोगप्रत्ययानुवृत्तिदर्शनात्, शक्तिभ्रमेण लौकिकव्य- वहारोपपादनेऽपि प्रमाणशिखामणेर्वेदस्य वास्तवशक्तिलक्षणादिमूलकार्य एव तात्पर्यात्, शक्तिभ्रममूलके च तात्पर्याभावेनाप्रामाण्यापत्तेश्र। पुत्रपशुस्वर्गव्रीहि- दधिपयः प्रभृतिब्रह्मपर्यन्तशक्तपद संहब्ध कर्मोपासनापरवाक्यानां "स्वर्गकामो यजेत" "पशुना यजेत" इत्यादीनां तत्तत्कर्मोपासनाविधिपरत्वासंभवेन तद्वोधा-
Page 376
३२०
जननात्, तद्भ्रमजननाद्वा तत्तदनुष्ठानासिद्धे। सिद्धावप्यविहितानुष्ठानत्वेन फलजनकत्वाभावात् सकलवैदिकमार्गविलोपापति., सर्ववेदाप्रामाण्यं चापतेत्। एतेन-"चराचरव्यपाश्रयस्तु स्यात्तद्त्यपदेशो माक्तस्तद्वावभावित्वात्" इति सूत्रव्याख्यानम्-परास्तम्॥ तद्धि एवम्-नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दै. समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रत्यक्षादिप्रमाणाविषयत्वादित्युपक्रम्य लोके तत्तद्व- स्तुमात्रे वाच्ये, ते ते शब्दाः भडक्त्वा भक्तया व्यपदिश्यन्ते तेन तत्परिहा- रतया व्याख्यातम्॥
तत्र भञ्नं नाम विशिष्टविपयशक्तरेव विशेषणाविषयमात्रत्वभ्रमो वा, शक्तधन्तरं वा? शक्तयन्तर्रमो वा लक्षणा वा विशिष्टशक्तस्यैव विपयमात्रे तात्पर्ये वा ?
नादः, उत्तरीत्या शरीरवाचकत्वहेतुना विशिष्टविषयशक्तेरसिध्या नि- ष्परिपन्थिवृद्धव्यवहारेण विशेषणमात्रशक्तिसिद्धेर्रमत्वाभावात्। व्याकरण- कोशाप्वाक्यादीवा शक्तिग्रहहेतुत्वस्यैव सर्वसंमतत्वात्॥ यन्न दुःखेन संभिन्न न च ग्रस्तमनन्तरम्। अभिलापोपनीतं यत्तत्सुखं सवःपदास्पदम् ।। इत्यादिना लोकप्रसिद्धसुखत्वादिपुरस्कारेण स्वर्गादिपदशक्तेरेव ग्रहात्, सर्व- प्रमाणविरुद्धस्य शरीरवाचकत्वहेतुनाऽनुमानस्योपजीव्यविरोधेनाभासत्वात्।। न च-"सर्वे वेदा यत्पदमामनन्ती "ति श्रुत्यैव सर्वशब्दानां ब्रह्मणि शक्तिस्सिद्धेति-वाच्यम्; वेदशब्दस्याक्षरराशिविशेषे "मन्त्रब्राह्मणयोर्वेद- नामधेयमि "ति रूढिप्रतिपादनात्, अन्यथा वेदाधिकरणविरोधात्, वेदावयव- परत्वे च लक्षणाप्रसंगात, सर्वेषां वेदान्तानां ब्रह्मणि महातात्पर्यप्रतिपादनपर-
Page 377
शब्दप्रमाणम् ३२१
त्वात्, तस्य वाक्यस्य प्रतिपदं ब्रह्मणि शक्तिग्राहकत्वाभावात्, त्वदीयशरीर- लक्षणे द्रव्यपददानेन जातिगुणक्रियाणां शरीरत्वाभावात्तद्वाचिनां ब्रह्मणि शक्त्य- नभ्युपगमाच्च। वेदोदितानां च सर्वेषां धर्माधर्मविधिनिषेघवाक्यानां साक्षा- त्परंपरया वा मनोनैर्मल्यादिद्वारा ब्रह्मविद्योपायत्वेन ब्रह्मणि महातात्पर्योपपत्ते- रस्य वाक्यस्य चरितार्थत्वात् सर्वप्रमाणसिद्धस्योपजीव्यस्य तत्तदर्थपर्यवसन्नशक्ति- ग्रहस्य भ्रमत्वकल्पनमप्रामाणिकम्। एतेन-द्वितीयतृतीयपक्षावपि-प्रत्युक्तौ। न चतुर्थ :; सर्वेषां शब्दानां ब्रह्मण्यप्रामा णिकानन्तशक्तिकल्पनागौरव- मङ्गीकृत्य ब्रह्मेतरतत्तदर्थपरानन्तवाक्येषु ब्रह्मान्वयाद्यनुपपत्तिप्रतिसन्धानं विनापि लक्षणाकल्पनापेक्षया क्वाचित्केषु शरीरिपदनिर्देशेषु शरीरवाचिनां लक्षणाकल्पनस्यैवोचितत्वात्, 'प्रक्षाळनाद्धी'ति'न्यायात्। तात्पर्याभावे च विशेषणमात्रे तात्पर्यादन्वयबोघो भवति। प्रकृते त्वघीतवेदान्तस्य विशिष्ट- प्रतीतिरेव नास्तीति वैषम्यम्।। अपिच स्वर्गिणं ध्वस्तं जानीहीत्यादौ विशेषणे लक्षणैव ; "प्रकृति- प्रत्ययौ प्रत्ययार्थ सह ब्रतः"इति विभक्तयर्थस्य प्रकृत्यर्थान्वयनियमात्, 'गामानये' त्यादौ गोत्व आनयनकर्मत्वानन्वयवद् ध्वंसप्रतियोगिनि स्वर्गे कर्मत्वानन्वयापत्या स्वर्गे भागत्यागलक्षणाङ्गीकार्या। वस्तुतस्तु- विशेषणोपहिते विशेष्ये विशेषणनिष्ठधर्ममारोप्य विशेष्यस्यैव शब्दोऽन्वयं बोधयति, केवलविशेष्य- स्यैवान्वययोग्यत्वात्। प्राप्ताप्राप्तविवेकेन विशेषणमात्रान्वये बाधस्तु श्रतार्थापत्ति- लभ्यो वा, मानसो वा। एवं "दण्डी प्रैषवानन्वाहे"त्यादिप्राप्तदण्डविशेष्यक- होत्रनुवचनं विशेषणे व्याहतमिति दिक्॥ अपिच सर्वशब्दानां ब्रह्मवाचित्वे "मनो ब्रह्म" "वाचं घेनुम्" "आदित्यो ब्रह्मे"त्यादौ मनोवागादित्यादिशब्दानां तच्छरीरब्रह्मपरत्वात्तेषां वाक्यानां मुख्यब्रह्मोपासनाविधिपरत्वाद् ब्रह्माद्याभासभावप्रतीकोपासनात्वाभावे' 21
Page 378
३२२ अद्वैततत्त्वशुद्धि:
"ब्रह्मदृष्टिरुत्कर्षात्", "आदित्यादिमतयश्चाङ्ग उपपत्तेः " "अप्रतीकालम्बनान्न- यतीति बादरायणः" इत्याद्यधिकरणानि निर्विषयाणि स्यु: ॥ किंच देवो मनुष्यो जात इत्यत्र जातपदमहिम्ना पूर्व देवः, इदानी मनुष्य इति प्रतीते: देवशरीरकत्वस्यातिरिक्तत्वेनोपलक्षणत्वाद् उपलक्ष्यविशेष्यै- कयादभेदबोघसंभवेड़पि तत्त्वमसीत्यत्र न शरीरशरीरिभावेनाभेदबोघसभवः, येन वाक्यस्य विशिष्टाद्वैतपरत्वादखण्डाद्वैतपरत्वं न स्यात्। अतोऽतीव निष्फलस्तव प्रयासः ॥ अन्तर्यामिब्राह्मणेऽपि "यस्य पृथिवी शरीरमि"त्यादौ शरीरशरीरिणौ पृथक सिद्धावेव निर्दिश्येते। विना कार्यकारणभावं शरीरशरीरिावमात्रेण कुत्र वा लोके वेदे वा सामानाधिकरण्यं दृश्यते? स्थूलोऽहमिति सामा- धिकरण्यमत्र मत्वर्थाचप्रत्ययान्ततयेति द्वैतिन, अन्ये तु केचन गौणं सामाना- धिकरण्यमिति। अद्वैतिनोऽघिष्ठानारोप्यभावनिबन्धनं तदिति। कुत्र वाड न्यत्रापृथकसिद्धिनिबन्धनं सामानाधिकरण्यं प्रसिद्धम्? अत एवामोदो वदति "नवीनमिदं कल्पनमिति" ॥ भगवतः सर्वत्रानुप्रवेशनिबन्धनं यदि शरीरित्वम्, तदात्मत्वेन वा, तर्हिं पूर्वोदाहृतविष्णुपुराणवचनात् प्रघानपुरुषयोः सृष्टेः परमेव स्वेच्छयाऽनु- प्रवेश, श्रावितः, इति सृष्टेः पूर्व ब्रह्मणः सूक्ष्मचिच्छरीरकतावाद: कथमुप- पद्यते 2 कुमारिलपादाशयस्तु परीक्षित एव।। "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते" "ऋतं पिबन्तौ सुकृतस्य लोके गुहा प्रविष्टौ परमे परार्ध्ये" इत्यादौ जीवपरमात्मनो- रुभयोरपि जडदेहशरीरित्वं प्रतिपादितम्, न तु जीवशरीरकत्वं परमात्मनः । सर्वथा तु "तदनुप्रविश्य सच्च त्यच्चाभवत" इत्यादावविद्यापरिणामेषु सच्चि- दूपेणानुवृतिरेवाम्नायते, न शरीरशरीरिभावोऽपृथकसिद्धिनिबन्धनः ; कार्य- कारणभावनिबन्धनत्वात् तत्र तादात्म्यश्रुतेः॥
Page 379
शब्दप्रमाणम् ३२३
एतेन- "ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च। नद्यः समुद्राश्र स एव सर्व यदस्ति यन्नास्ति च विप्रवर्य। ज्ञानस्वरूपो भगवान् यतोऽसाविशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविज़म्भितानि ॥" यदा तु शुद्ध निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम्। तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ यच्चान्यथात्वं द्विज भाति भूयो न तत्तथा तत्र कुतो हि तत्त्वम्।" इति विष्णुपुराणवचनान्यपि कार्यकारणभावनिबन्धनं तादात्म्यमेव बोधयन्ति, अधिष्ठानारोप्यभावनिबन्धनमेव वा। न ह्यत्र शरीरशरीरिभावनिबन्धनं सामा- नाधिकरण्यम्, तद्गमकं किमपि वा श्रयते। यतु- "यदम्बु वैष्णवः कायः ततो विप्र वसुन्धरा। पझ्माकारा समुद्धता पर्वताद्रयादिसंयुता ।।" इत्यत्र-अम्बु वैष्णवः कायः इत्युक्तम, अत्र कायशब्दार्थ: स्वरूपम् ; कारण- स्वरूपत्वात् कार्यस्य। न तु जलं भगवतः शरीरं नियम्यत्वनिबन्धना- पृथक्सिद्धम्, वैष्णव इति पृथक् सिद्धतया निर्देशात्। अत्र 'यदम्बु' इत्यत्र यदित्यनुवादाद् यद् मत्त उद्धतमाकाशम्, ततो वायुः, ततस्तेजः, तत उत्पन्नमिति कार्यकारणभावप्रयुक्तमेव वैष्णवत्वमिति प्रसिद्धमत्र यच्छब्दार्थ.॥ अत एव तदनन्तरवाक्ये-ततो विप्र वसुन्धरेति जलादुत्पत्तिरेव वसुन्धरायाः प्रवर्तिता। आकाशादित उत्पन्नमपि ब्रह्मत उत्पन्नमिति हि सिद्धान्तः । तथा च सूत्रम्-"तदभिध्यानादेव तु तलिङ्गात् सः" इति। इदं नाम्बु पृथिवीमात्रस्य, किन्तु सर्वस्यापि प्रपञ्चस्योपलक्षणमिति प्रतिपाद- नार्थम्-"ज्योतीषि विष्णुरि"ति। न चात्र शरीरशरीरिभावनिबन्धनं
Page 380
३२४ अद्वैततत्त्वशुद्धिः
सामानाघिकरण्यम्, किन्तु सर्वस्य भगवत उत्पन्नत्वात् कार्यकारणभावनि- बन्धनमेव सामानाधिकरण्यम्। इंद विशदयितुमेव द्वितीयः श्रोक, यत्र सर्वस्याशेषस्य प्रपश्चस्याज्ञातस्वरूपाद् ब्रह्मणो विवर्तविधया, अधिष्ठानारो्य भावविधया वा कार्यत्वं बोध्यते-वसुन्धरा पझ्माकारा याऽम्बुनो जाता पर्वताब्ध्यादिसंयुता, तस्या एव परम्परया सर्वकार्यविशिष्टायाः पुनर- प्यनुकर्षणेन- "ज्ञानस्वरूपी भगवान् यतोऽसावशेपमूर्तिन तु वस्तुभूतः । ततो हि शैलाब्धिघरादिभेदान् जानीहि विज्ञानविजृम्भितानि ॥" इति शैलाब्धिधरादीनां यत् कायत्वमुपन्यस्तम्, तज्ज्ानस्वरूपपरमा- तमन्यध्यासमात्रेण। अतोऽघिष्ठानव्यतिरेकेणारापिनस्य वस्तुतः स्वरूपतोडभावा- दधिष्ठानस्वरूपमेवाम्बुप्रभृतीनां म्वरूपमित्यत्र तत्त्वम्। अत एव-कायत्वेनो- पन्यस्तं सर्व ब्रह्मणि कल्पिततया व्रह्मोपादानकम्, न परमार्थम्, किन्तु मिथ्यैवेति बोधनार्थम्-"अशेपमूर्तिर्न वस्तुभूत" इत्युक्तम्॥ अत्र विज्ञानविजुम्भितत्वं विज्ञानस्वरूविवर्तकार्यत्वमेव। अत्र विज्ञान- शब्देन कारणस्याविद्योपहितस्य विवक्षणाद् आविद्यकवृत्तिपरत्वेऽपि मिथ्यात्व- मनपोहम्। न तु विज्ञानशब्दोऽत्र सङ्कल्पपरः , कारणस्य ब्रह्मणो वीक्षणाति- रिक्तसकल्पाभावात्। यदि त्वीक्षणमेव-"तदैक्षत बहु स्यां प्रजायेये"त्यत्र सङ्कल्पपदार्थ., तर्हीष्टापत्तिः। आमोदेन तु-ईक्षणसङ्कल्पयोरिव सृष्टिकाले भिन्नयोर्नावस्थानमिति सूचयिदुं विज्ञानपदस्यार्थान्तरमुक्तम्। ईक्षणार्थत्वे तु तस्याविद्यापरिणामत्वात् परमात्मोपाध्यविद्याया एव वृत्तिद्वारा तत्र हेतुत्वमभिप्रेत्य तु विज्ञानपदमज्ञानपरं व्याख्यातम्॥ ज्ञानसङ्कल्पौ तु मिन्नौ; "सङ्कल्पः कर्म मानस"मिति तस्य पुरुषतन्त्र- क्रियापरत्वात्, ज्ञानस्य च वस्तुतन्त्रत्वात्। अत एव न वस्तुभूतं सर्वें जगत्।
Page 381
शब्दप्रमाणम् ३२५
हि सर्वाणि मनोरथान्युच्चावचानि न भवन्ति; बाघितत्वादिति निरूपणार्थ तुरीयश्लोक :- "यदा तु शुद्धं निजरूपि सर्वम्" इत्यादि। अस्यार्थ :- सर्वात्मतया प्रतीयमानमावृतं ब्रह्मानावृतसंविन्मात्रं यदा भवति, तदा तद्यति- रिक्तसर्वाभाव इति। ततश्र सर्वोऽप्ययं सन्दर्भ :- पौर्वापर्येण समालोच्यमानो-
अत्र चिदचिच्छरीरकता न बोध्यते। तत्र-"यदस्ति नास्ती"ति भावाभावात्मकं जगदेव गोचरयति, न तु चिदचिती; अचितोऽस्तित्वेन नास्तिपदार्थत्वाभावात्, अन्यथा तेनैव सर्वशरीरकत्वे विवक्षिते-"यदम्बु कायः" इत्यादिना, भावाभावात्मकत्वेनोपसंहार एव प्रपञ्चितः स्यात् ॥ गदि-अस्तिनास्तिपदार्थविवरणार्थमेव "ज्ञानस्वरूपी भगवान् यतोऽसावशेपमूर्तिर्न तु वस्तुभूतः" इति, तर्हि पूर्वोपात्ताशेषमूर्तेर्ज्योतिरादिरूपस्य भवदभिमतपरमात्मशरीरस्या- वस्तुसत्त्वप्रतिपादनं कथं न विरुद्धम्? तत्र यदि देवमनुष्याद्याकारमात्र- मशेषमूर्तिपदार्थ:, तर्हिं सङ्कचितार्थवर्णनं दूषणम्। एवमेव न वस्तुषु वस्तु- भेदा इत्यत्रापि। न चात्रास्ति किमपि प्रमाणं परकीयां कल्पनां विहाय। इदं सर्वमभिप्रेत्यैवामोदो वदति "सर्वमिदं नवीनं कल्पन"मिति॥ वस्तुतस्तु-"ज्ञानस्वरूपं निजरूपि सर्वम्" इत्यस्तिपदार्थोऽपि नास्तिपदार्थमात्रम्। अथ यद्युपलक्षणम्, तहिं नास्तिपदार्थो भवदुक्तो नोचितः, किन्तु देवाद्याकारतामात्रम्, नास्तिपदार्थस्तु तत्र परमात्मैव, न जीवात्मेति कथम् 2 अतोऽस्ति च नास्ति चेत्यनेन न चिदचितोः शरीरयोरत्र ग्रहणम्। अतोऽस्ति नास्तीति भावाभावयोरेव ग्रहणम्। न चाभावोऽपि परमात्मन: शरीरम्, देवाद्याकारता वा 2 अतः सिद्धं विष्णुपुराणोपक्रमे श्रुतं "जगच्च सः" इति न शरीर- शरीरिभावनिबन्धनं सामानाधिकरण्यमिति, यन्मयमिति च यदुपादानकमिति
Page 382
३२६ अद्वततत्त्वशुद्धि.
तत्र यन्मयमिति यदि नोपादानप्रश्नः, किन्तु शरीरिप्रश्न एव, तहिं किमिति- समाधानावसरेऽपि तन्मयं जगदिति मयडन्तपदस्यैव न प्रयोग :? अतो विष्णु- पुराणस्वारस्यमद्वैतमत एवेति नियतमूरीकर्तव्यम्। तत्र विनोपादानोपादेयभाव यदि क्वचन तादात्म्यं निर्दिष्टं स्यात्, विना वाऽत्यन्तामेदम् शरीरशरीरिभावमात्रविवक्षया, शरीरपदाप्रयोगेण च, तदा शरीरशरीरिभावनिबन्धनं सामानाधिकरण्यं प्रामाणिकम्, नतु नवीनं कल्पनं स्यात्। अनुपदसंगृहीतविष्णुपुराणवचनानन्तरक्रोका प्रपञ्चमिथ्यात्व- निरूपणद्वारा सामानाधिकरण्यं जगद्ब्रह्मणोर्बाधायां सामानाधिकरण्यमेवेति विशदयन्ति। ते यथा- "वस्त्वस्ति कि कुत्रचिदादिमध्यपर्यन्तहीनं सततैकरूपम्। यच्चान्यथात्वं द्रिज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम्॥ मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः। जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु॥ तस्मान्न विज्ञानमृतेऽस्ति किश्चित क्वचित्कदाचिद् द्विज वस्तुजातम्। विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाऽभ्युपेतम।। ज्ञानं विशुद्ध विमलं विशोकमशेषलोभादिनिरस्तसद्डम। एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति॥ सद्धावमेवं भवतो मयोक्तं ज्ञानं परं सत्यमसत्यमन्यत्। एतत्तु यत् संव्यवहारभूतं तथापि चोक्तं भुवनाश्रित तत् ।।" इति। अन्र जगतोऽसत्यत्वं व्यावहारिकत्वं च बोध्यते। एतदेवाभिप्रेत्य सत्तात्रैविध्यवादः। एतेन-
"तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रत। इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
Page 383
शब्दप्रमाणम् ३२७
रूपस्पर्शादयो येऽपि महाभूतगुणाः स्मृताः । प्रत्येकमात्मनां तेऽपि देहाः सभ्भोगहेतवः ॥ शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते। तदप्यघिष्ठितं सर्वमेकेन परमात्मना । तथर्ग्वेदयो वेदाः प्रोक्तास्तेऽपि पृश्नक पृथक। भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा ।" इति भट्टपादोद्धता श्रोका अपि व्याख्याताः ॥ अत्र "व्योमशरीरः" इति "आकाशशरीरं ब्रह्मे "ति वाक्यार्थानुवाद- मात्रम्। तेन चाकाशस्वरूपत्वं व्यापकत्वेनावगम्यते, तदुपाधिकत्वेन वा। अतः सर्वत्र परमात्मविशेषणतया शरीरपद तदुपाधित्वमात्राभिप्रायं सत् तत्तदवच्छिन्नत्वमात्रं परमात्मनो गमयति। अधिकं व्यक्तीकृतमधस्तात्। न त्वाकाशं शरीरमिति सामानाधिकरण्यम्। तत्र हि वेदा अपि चैतन्यवत्त्वेन चेतना:, यथाऽन्ये पृथिव्यादयोऽपि, इति यथा पृथिव्यादिमहाभूतारब्धदेहा- धिष्ठितानामात्मनां चैतन्याख्यज्ञानवत्त्वेन तत्पूर्विका विवक्षा, यथा वा-"तेजोऽ- ब्रवीत्" आपोऽबुवन् "वनस्पतय सत्रमासत," तथर्ग्वेदादिदेहाघिष्ठिता- नामात्मनां चैतन्याख्यज्ञानवत्त्वेन तत्पूर्विका विवक्षा सम्भवति। नित्यानामपि वेदानामाकाशवत् चैतन्याधिष्ठितत्त्वं न विरुध्यत इति व्योमदष्टान्तेनोपपाद- यितुं प्रवृत्ता: श्रोकाः-तथा "व्योमशरीरोऽपि " इत्यादयः ॥ इंद हि प्रकरणं सर्वेषां चेतनत्वम्, अचेतनः पदार्थः कोऽपि नास्तीति पक्षमाश्रित्य, यदेव नविलक्षणत्वाधिकरणे "ननु चेतनत्वमपि क्वचिदचेतनत्वा- भिमतानां श्रयते-यथा "मृदब्रवीत्, आपोडब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त" इत्यादयः। योऽपि कश्चिदाचक्षीत-श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्वलेनैव समस्तं जगच्चेतनमवगमयिष्यामि ; प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्।
Page 384
३२८ अद्वैततत्त्वशुद्धि:
अविभावनं च चैतन्यस्य परिणामविशेषात्। तत एव-'विज्ञानं चाविज्ञान- चचे' ति विभागोऽपीत्यादिना "अभिभानिव्यपदेशस्तु विशेषानुगतिभ्याम्" इति सूत्रावतारिकारूपेणोपक्षिप्तम्, न तु पराभिमतशरीरशरीरिभावा- भिप्रायेण।। एतन्मतरीत्या-'खं ब्रह्मे' ति सामानाधिकरण्यमप्याकाशस्यैव ब्रह्मशब्दसामानाधिकरण्यात् चेतनत्वाभिप्रायेण, अथवा आकाशस्यैव "मनो ब्रह्मेत्युपासीते" त्यादिवत् प्रतीकाभिप्रायेण। यदपि पूर्वपक्षतया 'श्रुतोप- निषत्कव्यपदेशात्' इति सूत्रभाष्यभामत्यादौ विस्तृनम्, इति पराभिमतशरीर- शरीरिभावो नात्र विवक्षितः । अत एव-'द्वा सुपणे'ति श्रुतेरत्र प्रमाणतयोप- न्यास: ।। न्यायसुधा हि तत्रैकस्य शरीरस्यात्मद्वयाधिष्ठितत्त्वं विशद्यति। वेदा- धिष्ठातृत्वेन परमात्मनोऽत्र न विवक्षा, यतो न्यायसुधा पौनःपुन्येन वेदाधिष्ठि- तानामत्मनामिति बहुवचनमत्र प्रयुडक्ते, न त्वेकत्र वेदमात्रे, इति पृथिव्यादि महाभूतारब्धपरा भिमतशरीरशरीरभावविवक्षायां नेदमुपपद्यते। "खं ब्रह्मे"त्यत्र हि सिद्धान्त उपचारात् खशब्दस्य ब्रह्मपरत्वम्, न तु मूताकाशपरत्वमिति हि भाष्यम्।।
त्यादुपन्यस्य करचरणादिमत्त्वम्, इन्द्रिश्रयत्वमित्यपि न लक्षणमित्यभि- प्रायेण सर्वस्यापि पदार्थस्य परमात्मशरीरत्वं वेदे श्रुतानां "खं ब्रह्मे"त्यादि समानाधिकरणवाक्यानामुक्तशरीरशरीरिभावनिबन्धनत्वं च विस्पष्टमेवो- दुष्टमिति-परास्तम्; पूर्वोक्तदिशा सर्वस्य चेतनत्वपरताया एव तत्रोपपादनेन तन्मतरीत्या स्र ब्रह्मेत्यादीनामाकाशा दिचेतनतायामेव तात्पर्येण पराभिमतेऽर्थे तात्पर्याभावेन, प्रत्युत व्याघातेनासदनुवादत्वेन चानादरणीयत्वात्। अयमेव न्यायस्तदुद्धृत- न्यायसुधाभागेऽपि, इति तद्दर्शिनां प्रत्यक्षमेव। नियामकत्वमात्रेण।त्मत्वमत्रोपन्य-
Page 385
शब्दप्रमाणम् ३२९
स्तम्, किन्तु तत् तदधिष्ठानचिन्मात्रामिप्रायेण। व्यक्तं चैतत् न्यायसुधायाम्, इति कुमारिलपादाभिमतोऽपि स्वाभिमतः शरीरशरीरिभावो जागद्वह्मणो रित्ति वर्णनं व्यामोहनगेव। कुमारिलश्लोका इसे प्रौढिवादमात्रमिति केचन, वयं तु पश्यामः, न प्रौढिवादमात्रेणापि न तस्य पक्षरयोत्थितिरपीति। या तुनविलक्षणत्वाधि- करणेऽभिमानिव्यपदेशस्तु इति सूत्रावतरणिका सर्वचेतनत्ववादाभिप्राया, तन्नि- रासपरं तत्सूत्रमिति हि श्रीभाष्येऽपि व्यक्तम्। सर्वचेतनत्ववादोऽन्यः, परमात्म- सर्वशरीरकत्ववादोऽन्यः । आद्य अनेकात्मत्वम्, द्वितीये तदेकत्वम्। कुमारि- लाशय आत्मानेकत्ववादमाश्रित्येति व्यायसुधाऽडत्मनामिति बहुवचनप्रयोगेण सूचयति। खं ब्रह्मेत्यत्र व्योमान्तसवितृमण्डले परमात्मोपासनवद् आकाश- प्रतीकनयोपासनापरत्वेऽपि न शरीरशरीरिभावविवक्षा पराभिमता न्यायसुधा- दृष्टया सेत्स्यति॥ इयान् विशेष :- मीमांसकद्ष्टया सर्वत्र ब्रह्मणः प्रतीकोपासनमेव, ततो वाचो धेनुत्वमिव सर्वत्र ब्रह्म कल्पितम्, न वस्तुसदिति। अद्वैतिव्यतिरिक्त- दैदिकमते तूपास्यमपि ब्रह्म सत्यमेव, तस्य न प्रतीकोपासनमात्रम्, किन्त्वहं- अ्होपासनमपि, यत्-सम्यगाचरितं भगवत्प्रसादद्वारा मोक्षं साधयतीति। अद्वैनमते त्वद्वितीयब्रह्मसाक्षात्कार उत्पन्नमात्रः पटुतरत्वादिविशेषणविशिष्टो विनाऽनुष्ठानं मोक्ष जनयति। उक्तंच भाष्ये-'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतयो ब्रह्मविद्यानन्तरं सद एव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ती"ति। अत् कर्तव्यान्तरनिषेधोऽनुष्ठाननिषेधाभिप्रायेण, अदृष्टविधया, भगवत्प्रसादद्वारेण वा तस्य मोक्षोपयोगिनिषेधाभिप्रायेण च।। यत्तु-भगवद्रामानुजसिद्धान्तोऽपि स एव-इति, यद्येवमेव, तर्हि स्वागतम्। यदि ब्रह्मविद्यासरूपे विप्रतिपत्तिः, तर्हिं न स एव भगवद्रामानुजसिद्धान्तः। यदा ब्रह्मविद्यास्वरूपे विप्रतिपत्तिः, तदा तस्य मोक्षोपयोगप्रकारविषये, मोक्षस्वरूपे, मुक्तात्मस्वरूपे सर्वत्र विप्रतिपत्तिः,
Page 386
३३० अद्वैततत्त्वशुद्धिः
इति कथं भगवत्पादानां सिद्धान्त एव भगवद्रामानुजानामपि सिद्धान्तः2 मुख्या विप्रतिपत्तिस्तु प्रपश्चपारमार्थिकत्वतदमावयोरुभयोरपि, साक्षात्कृतब्रह्म- तत्त्वानां कर्तव्यान्तरसत्त्वासत्त्वयोरपरा तु निगढव्याख्याता ।
तत्र साक्षात्कृतब्रह्मणामपि जीवन्मुक्तानां प्रारब्धवशेन व्यवहरतां स्थितप्रज्ञानां गुणातीदानां वा व्युत्थानदशायां ग्रन्थग्रथन-तत्त्वोपदेश-निदि- ध्यासनवृत्त्यात्मकब्रह्मसाक्षात्कारपाटवार्थप्रयत्नादिकं सर्वमविप्रतिपन्नम्। तत्र शिष्यानुग्रहार्थ अ्रन्थग्रथनतत्त्वोपदेशो, निदिध्यासनसाक्षात्कारपाटवार्थप्रया- सस्तूत्पन्नस्य साक्षात्कारस्य सुदृढं रक्षणार्थम्। न ह्यथ्रुवैः प्राप्यते हि ध्रुवम्' इति यज्ञादिकर्माभिप्रायम्, न तु स्वसाधननिषेधाभिप्रायम्। वृत्तिज्ञानं त्वज्ञाननिवृत्तिमधुवामेव प्रथमं जनयति। तदप्यनावृतसंविन्मात्रमावार्थम्। न हि मोक्षः प्राप्तव्योऽपि॥ चिन्मात्रमुपहितरूपेण साक्षात्कारदशायां प्राप्तम्, उपाधिसंबन्धाच्च स्वरूपमात्रं प्राप्तमप्यप्राप्तवदवभासते। तत्राप्राप्तत्वभ्रमनिवृत्तिरेव प्राप्या, न तु स्वरूपमात्रमिति तु निष्कर्षः। कर्तव्यान्तरनिषेधो ज्ञानांशे कर्तव्यान्तरानुष्ठानं कर्मोपासनयोरिव नास्तीत्यभिप्रायेण, न त्वज्ञानदशायां कर्मोपासनादिकर्तव्या- न्तराभिप्रायेण। वाक्यजन्यापरोक्षसाक्षात्कारम्य स्वकार्याविद्यानिवृत्त्यार्य फलनिष्पत्तये साक्षात्कारातिरिक्तं किमपि नापेक्ष्यते। वाक्यार्थज्ञानस्य वृत्त्यति- रिक्तस्योपासनस्यानुष्ठानं न कर्तव्यमित्येवार्थ.। न चाज्ञानदशाया प्रपश्चमि- थ्यात्वनिर्णय. कर्तृत्वाभिमाननिवृत्तिपर्यवसायी कस्यापि भवति, इति कर्मोपासनाविधीना सार्थक्यम्॥ अत एवाऽडत्मविज्ञानार्थ साधनचतुष्टयसम्पन्नस्य गुरूपसदनमपि न विरुध्यते। गुरूपसदनाधिकारी तु साधनचतुष्टयसम्पन्न एव। प्राप्तकर्मावबोध- मात्रस्य गुरूपसन्नस्य तु श्रवणमनननिदिध्यासनादिना निर्विशेषब्रम्मसाक्षात्कारः, सेनानावृतचिन्मात्रता च स्वयं सिध्यति॥
Page 387
शब्दप्रमाणम् ३३१
तत्र निर्विशेषमेव ब्रह्म मुख्यार्थः, ब्रह्म सत्यम, जगन्मिथ्या" इति वेदान्तडण्डिमः। तत्र निर्विशेषात्मतत्त्वसाक्षात्कारोपयोगितयाउद्वैत- विशिष्टाद्वैतशुद्धा द्वैता दिसर्वशैव श्रीवैष्णवगाणपत्यशाक्ता दि सिद्धान्तप्रपश्चप्रदर्शि - तेन, श्रीशङ्करभगवत्पादप्रवर्तितेन वा येन केनापि प्रकारेण यथाघिकारं कर्मयोगभक्तियोगज्ञानयोगेष्वेकस्य, द्वयोः, क्रमेण त्रयाणां वाऽनुष्ठानेन शङ्करावतारषण्मतस्थापनाचार्यभगवत्पादसरण्या, वैदिकसिद्धान्तान्तरावलम्बनेन वा सर्वे कृतकृत्या भवन्त्विति सादरं निवेद्यत इति ओं तत् सत्।।
इति शास्त्ररत्नाकर-शतभूषण्यादिविविधबिरुदभाजो महामहोपाध्यायानन्तकृष्णशास्त्रिण: कृतिष्वद्वैततत्वशुद्धिर्नाम निबन्धः ॥
Page 388
भारती विज्यम् प्रेक्ष, मद्रास्-५.