1. Advaita Vidyatilaka Samara Pungava Dikshita Darpana Dharmayya Dikshit Ed. Ganapati Lal Jha Sampoornanada
Page 1
Barcode : 1990030070498 Title - Advaita Vidyatilakam Author - Sri Samarapungava Diksita Language - sanskrit Pages - 114 Publication Year - 2005 Barcode EAN.UCC-13
1 990030 070498"
Page 2
THE
PRINCESS OF WALES
SARASMATI BRAVAnA TEXTS
No. 34.
( PART I )
-0-
EDITED BY
GOPĪ NATHA KAVIRĀJA
THE
ADVAITA VIDYATILAKAM
( PART I )
Printed by Jai Krishna Das Gupta At the Vidya Vilas Press, Gopal Mandir Lane, Benares City.
1930
Page 3
श्रीसमरपुङ्गवदीक्षितकृतम्- अद्वैतविद्यातिलकम् श्रीधम्मय्यदीक्षितकृत 'दर्पण' नामकटीकासहितम्
पण्डित श्रीगणपतिलाल झा शर्म्मणा संशोधितम्
THE
ADVAITA VIDYĀTILAKAM
By S'RĪ SAMARAPUŃGAVADĪKSITA
WITH A COMMENTARY BY
S'ri Dharmayya Dixsita
Edited with Iutroduction, ete By
GANAPATILAL JHA, M. A., SADHOLAL RESEARCH SCHOLAR,
Government Sanskrit Library,
BENARES.
Page 4
PREFATARY NOTE.
The following edition of the Advaitavidyatilaka by Samara Pungava Diksita and its Commentary, called Darpaņa, by Dharmayya Diksita, is based upon a single manuseript of the work existing in the Sarasvatī Bhavana Library of the Government Sanskrit College, Benares. The work is a Commentary on the Brahmasūtras of Badarayana, written after the manner of S'ankaracharva, in the form of enlogistic verses addressed to S'iva. The adhikaranas are arranged in proper sequence and carefully summed up in the text. It is presented to the publie for the first time in the hope that it may afford some facilities for under- standing the true import of the Vedanta Sütras in the light of S'ankaracharya. The age and personal details of the authors of the Text and Commentary will be fully discussed in the Introduction which will appear in the second part of the work.
Sarasvati Bhavana, Benares. GANPATI LAL JHA.
Page 5
श्रीसमरपुङ्गवदीक्षितकृतम्- अद्वैतविद्यातिलकम्। श्रीधम्मय्यदीक्षितकृत 'दर्पण' नामकटीकासहितम्।
दक्षिणोरुनिहितं पदाम्बुजं वेदबोधितमिदं परं पदम्। सुद्रयेति विबुधान् विबोधयन् पाटवं दिशतु मे धिय: शिव: ॥ १॥
मीमांसापदमानहंसचिलसच्क्राहनक्रोज्जवला। गन्तव्येशसरित्पतिः प्रतिबुधप्रान्तदुमैः पातिभि- ज्ञातमौढरया सहस्त्रसरणः सा मे घियः पाटवम् ॥।२।। अस्ति प्रशस्तचरितो भुवि मित्रमिश्र: शाण्डिल्यगोत्रकलशाम्वुधि लब्धज न्मा । पुंसः परस्य हृदयङ्रमकौस्तुभोऽसी सर्वासु दिक्षु विततोर्जितकीर्ततिराशिः ॥ ३ ॥ विकासयति पङ्कजं जगति घर्म्मरश्मि: स्फुट विरिश्चिशिवकेशवप्रमुखदेवपूजापरः।
Page 6
अद्वैतविद्यातिलकदर्पणम् ।
कराम्बुरुहकुड्मलः सरलमित्रमिश्रस्य भो विकासि करनीरजं कलयतेतरामर्थिनाम् ॥४। अद्वैत विद्यातिलकाभिधाना शम्भो: स्तुतिः सामरपुङ्गवीया। तनोति टाकका बुधमित्रमिश्र- सम्पेरितो धर्म्मयदीक्षितोऽस्याः ॥५॥ यद्यपि-'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्', 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा, 'यत्र त्वस्य सर्वमात्मैवाडभूत तत्केन कं पश्पेत', 'प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम्। वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंजि- तम् ॥'-इत्यादिश्रुतिस्मृतिसन्दोहसम्पतिपत्नं निरस्तसमस्त कर्वृ - कर्मादिभेदपपञ्चम् अखिलवाद्मनसपथातीतं निर्गुणं शिवतरवं न स्तुतिगाचरकिर्तु शक्यं, तथाऽपि-'मायां तु पकृति विद्यान्मा- यिनं तु महेश्वरम्', 'उमासहायं परमेश्वरं प्रमुं त्रिलोचनं नीलकण्उं पशान्तम्', 'अमूर्ते यत्परं ब्रह्म सादरश्रुतिचोदितम्। सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम्। तस्येदमैश्वरं रूपं खण्डचन्द्राव- तंसकम्। तमालश्यामलगलं लसन्भालविलोचनम्'-इत्यादिश्रु-
दिविभागम् अजाव्ययाद्यनन्तमङ्गल्यगुणमणिगणरत्नाकरं नी- लकण्ठत्वविर्ुपाक्षत्वादि विशिष्टशुद्धतत्त्वमय वविविध विग्रह विभ्राज
यतचिहिताविर्भावम् उम्पासहायं परशिवशद्धितं फलाध्यायतुरी
Page 7
प्रथमाध्याये प्रथमः पाद :- ३
यपादतृतीयाधिकरणे 'ब्राह्मेण जैमिनिरुपन्यासादिभ्यः इत्यत्र बद्धपुरुषापेक्षया सगुण झुक्तपुरुषापेक्षया निर्गुणं प्रतिपादितं लमेव परमेश्वरं स्तोतुकाम: आदौ शिष्टाचारपरिमासं मङ्गलं श्रोकद्वयरूपेण कृतं प्रबन्धादौ निबध्ाति-
कल्याणानि करोतु वः स भगवान् कात्यायनीनन्दनो यस्याभ्यन्तरमम्बिक्ाजनकयोर्यातस्य लीलाविधौ।। साकं भाति तदाननैर्मुखततिः छायाधि स्पर्धया स्वात्मानं बहुधेव संभृतवतश्रन्द्रस्य बिम्बावलिः।।१।
पुत्रोमाविशिष्टशिवानुसन्धानं तत्क्रतुन्यायेन स्वस्थाऽपि तादृशगुणपाप्त्यर्थमिति कवेरहदयम्। 'तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम्। तेषां शाश्वतिकी सिद्धिर्नेतरेषामिति श्रुतिः ॥'इति ॥ १ ॥ 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं पशान्तम्। ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षि तमसः परस्तात्।' इत्यादिश्रुतिभिः उमाविशिष्टशिवातुसन्धानस्य परमपुरुषार्थ- हेतुत्वावगमात् गुरुरूपेण शिवानुसन्धानं शास्त्रार्थन्फूर्तिहेतुरिति शक्तिविशिष्टशिवरूपं गुरुमनुसन्धत्ते-
अङ्कस्थायाः किमप वलता हैमवत्याः कुचाग्रे व्याचक्षाणं मदननिगमान् वामहस्ताम्बुजेन।।
Page 8
४ अद्वैतविद्यातिलकदर्पणमू।
अन्येनार्ऽर्थानकृतकगिराम्चता बोधमुद्रा- मीक्षे साक्षादखिलजगतामीशमाद्यं गुरुणामू॥२ ॥
इति ॥ २ ॥ सकलनिगमा अपि त्वां स्तोतुं चकितचरिता: सन्तः कथश्चन त्वां स्तुवन्ति मादशस्य का गतिरियाशङ्क्य स्तात्रेण सम्भावितापराधं परमेश्वर एव दू्रीकरोत्विति मार्थयते-
क्वाडहं जड: क्व च कुलाद्रिसुतापते त्वं निर्धारणीयमहिमा निगमैरनन्तैः॥ तस्य स्तुतिं तव विधातुमभीप्सतो मे डिम्भस्य चापलमिदं धिनुतान्मनस्ते ॥३।।
[ १ जिज्ासाधिकरणम ]
अथातोब्रह्मजिज्ञासा। (ब्र०सू०१।१।१)
'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासित- न्यः' इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनश्रवणं विधीयते। श्रवणं नामाऽ्द्वितीये ब्रह्मणि वेदान्तानां तात्पर्यावधारणानुकूलो व्यापारविशेष:। ब्रह्मविचारात्मकं शास्त्रमारभ्यं न वेति विषय- प्रयोजनसद्भावाभावाभ्या संशये पूर्वपक्षः। 'तन्वमसि', 'अयमा- तमा ब्रह्म', 'सत्यं ज्ञानमनन्तं ब्रह्म' इसादिवाक्यननिश्चितत्वात् ब्रह्म-
Page 9
प्रथमाध्याये प्रथम: पाद :-
णः सन्देहाभावान्न विचारविषयत्वं, प्रयोजनाभावाच्च' तत्वमास' 'अयमात्मा ब्रह्म' इति वाक्यैर्ब्रह्मनिर्णये सत्यपि अविद्यानिटत्तिरु पफलाSदर्शनादिति पाप्े सिद्धान्तयति-
प्रत्यक्तया वदति वेदशिखा भवन्त- मन्यात्मना कलयते तमहंप्रतीतिः । आत्मस्वरूपमवधारयितुं त्वदीयं धन्यो वृषाङ्क तनुते श्रवणं विमुक्त्यै। ४ ॥
वेदान्ता: हे वृषाङ्क त्वां 'अयमात्मा ब्रह्म' इति जीवाभि- ननं वदन्ति। प्रत्यक्षं तु नाऽहमीश्वर इति तद्विरुद्धमर्थ विषयी करोति। अतः प्रमाणद्वयबलाबलानिरपणात् संशये साधनचतु- ष्टयसम्पन्नः मुक्तिफलाय श्रवणं तनुते इत्यर्थः । स्थूलोऽहं, कृशोऽहं, गौरोऽहं, काणोडहं, बधिरोडइम्, इत्याद्यहंप्रत्ययाना दृष्टविसंवादतया पूतिकूष्माण्डायमानोइमीश्वराद्भिन्न इति प्रत्ययो बाध्यते श्रुत्येति। न चैतरं 'अयमात्मा ब्रह्म' इत्यादिवाक्यार्थ- ज्ञाने सत्यपि अज्ञाननिवृत्त्यदर्शनेन प्रयोजनाभावादिदमनारम्भ- णीयमिति वाच्यम्, असम्भावनाविपरीतभावनारूपप्रतिबन्धक- सच्वान्न तेन तन्निटृत्तिः, न हि पतिबन्धदशायां तृणाद्यदाहकस्य वह्नेस्तद्ाहकत्वं हीयते। मनननिदिध्यासनाभ्यां तन्नित्तावविद्या निवरतत एवेति सपयोजनं च शास्त्रमारम्भणीयमेवेति। विषयसं- शयपूर्व पक्षसिद्धान्तसङ्गतीनामाधारोऽधिकरणम् ॥ ४ ॥
Page 10
अद्वैतविद्यातिलकदर्पणम्।
[२ जन्माधिकरणम् ]
जन्माद्यस्य यतः । (ब्र०स०१।१।२)
'यतो वा इमानि भूतानि जायन्ते, येन जातानि जी- वन्ति, यत्पयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्रह्मेति', 'सत्यं ज्ञानमनन्तं ब्रह्म', 'यो वेद निहितं गुहायाँ परमे व्योमन्', 'सर्वमिईं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्पसूयन्ते स- र्वाणि चेन्द्रियाणि सह भूतैन कारणं कारणानां ध्याता का- रणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शंभुः' इत्या- दिविषयः। प्रयन्ति म्रियमाणानीत्यर्थः। इह श्रूयमाणं लक्षणं घटते न वेति संशयः। जन्मादिकं वा जन्मादिकारण त्वं वा तटस्थलक्षणं न संभवति। जन्मादीनां जगनिष्ठत्वेन ब्रह्मसम्बन्धाभावात्। द्वितीयं तु कल्पितं ब्रह्मण वर्तते तथाऽपि कल्पितेन कथ सत्यं ज्ञापनीयं काऽप्यदर्शनात्। स्वरूपलक्षणमपि न घटते, लोकमसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न मिदधयेत्। अप्रसिद्धस्य सत्यादेर्लेक्षणत्वमयुक्तं तस्माछ्व- क्षणद्वयमप्यनुपपत्रमिति माप्ते सिद्धान्तयति-
आशीविषो य इह रज्जुरसावितीव यत्कारणं स शिव इत्युपपत्तिलाभात । सत्यादिशव्दनिकरैरपि चैत्यसिद्धे- रहुदयं तव न दुर्घटमङ्गजारे ॥ ५॥
Page 11
प्रथमाध्याये प्रथमः पाद :-
जन्मादिकमन्यनिष्ठमपि शाखाग्रं चन्द्रमसमित ब्रह्म लक्षयेत। जगत्कारणत्वं ब्रह्मणि कल्पितं ब्रह्म ज्ञापयेदेव, योऽयं सर्पः सैव रज्जुरित्यत्र मिथ्याभूतस्यापि सत्यज्ञापकत्वदर्शनात्। यज्जगत्कारणं तद्रहति लक्षयितुं शक्यत्वाद्। भिन्नार्थानामपि
विरोधस्तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशद्वानामखण्ड ब्रह्माप र्यवसायित्वे स्वरूपलक्षणसिद्धिरिति लक्षणदयमप्युपपत्रम् । श्लोकार्थः रपष्ट एव। इह देशे यो भोगीति ज्ञातः स एत रज्जुरिति मिथ्याभूतस्य सर्पस्य सत्यरज्जुज्ञापकत्वदर्शना- दिति॥ ५॥
[२ शास्त्रयोनित्वाधिकरणम ]
शास्त्रयोनित्वात्। (व्र०सू०१।१।३)
'अस्य महतो भूतस्य निःशवरसितमेतदयदटग्वेदो यजुर्वेद: सामवेदः' इति श्रूयते विषयः। यदग्वेदादिकम- स्ति तदेतस्य नित्यससिद्धस्य ब्रह्मणो निश्वास इवाप्रयन्नेन सिद्धमियर्थः । ब्रह्मणो वेदकर्वृत्वं युक्तं न वेति संदेह न युक्तमिति पूर्वः पक्षः। वाचा विरूपनित्ययेत्यादेवांचो नि- त्यत्वप्रतिपादिकाया। श्रुतेर्विरोधात, वेदानां ब्रह्मकार्यत्वे पौरुषेयत्वेनापामाण्यपसङ्गाच्च। तस्मात् ब्रह्मणो न वेदकर्वृत्वमिति भापे सिद्धान्तपति-
Page 12
अद्वैत विद्यातिलकदर्पणम् ।
सर्वज्ञतां वहसि यत्नसमुत्थितेन विश्वावभासकरवेदनिबन्धनेन।।
पूर्वोक्तश्षृतेर्निश्वसित त्र द्वेदराशेरप्रयब्रेन ब्रह्मणः प्रादुर्भावा- वगमात, 'ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति श्रुतेश्व, वेदकर्तृत्वसिद्धिः। स्वात्मनि विलीनानां वेदानां पूर्वपूर्ववर्णानुपू- व्यतुरूपरचनया पुनः कर्त्ता भवति सर्वज्ञः परमेश्वरः । अत एव वेदानामपौरुषेयत्वमीश्वरकार्यत्वंच। अतो निरस्तसमस्तदो- पस्यावाप्तसमस्तकामस्य परमेश्वरस्य वचन प्रमाणमेव। अतः सर्ववस्त्ववभासकानां वेदानां कर्तृतया परमेश्वरस्य सर्वज्ञता निश्चीयते, अज्ञातस्य वक्तुमशक्यत्वादिति ब्रह्म सर्वज्ञमिति सिद्धम् । अत्र वर्णिकान्तरमुच्यते- अत्र जगत्कारणं ब्रह्म शासत्रैकगम्यमुत भमाणान्तरेणापि वेति सन्देहः। सावयवत्वेन जगतः कार्यत्वं म्रसाध्य कार्यत्वेन प्रपञ्चः स्वोचितकर्वक इति कश्रित् कल्पनीयः सर्वज्ञत्वादिमानू। नासौ शास्त्रैकगम्य इति नास्मिन् शास्त्रस्य भामाण्यं, शास्त्रस्य प्रमाणान्तरामाप्तविषयत्वात्, इति पूर्वपक्षे सिद्धान्तयति-
रूपादिमत्वविरहादपि लोचनादि- सीमातिगश्रुतिशिरोनिकरैकवेद्य: ।। ६ ।।
जगत्कारणं ब्रह्म वेदान्तशास्त्रैकगम्यम्। 'नावेदविन्मनुते
Page 13
प्रथमाध्याये प्रथम: पाद :-
तं बृहन्तम्' इत्यादौ शास्त्रमन्तरेण ब्रह्मणो बोधासंभवश्रव- णात्। यदुक्तमनुमानेन कर्तृसिद्धिरिति तदसत्, विचित्ररचनस्य गोपुरप्रासादादेर्वहुकर्वृकत्वदर्शनेन नातुमानेनैककर्तृकत्वसिद्धिः। व्यासिवलेन तस्य कर्मवश्यत्वादिकमपि सिद्धयेत्। विलक्षणैककर्तृ- सिद्धावपि निमित्तोपादानशक्तियुक्तैककर्तस्षिद्धिस्ततो नास्सेव । तस्माद्वेदान्तैकगम्य ब्रह्मेति सिद्धम्। श्रोकार्थस्तु-निःश्वाम- वदयत्रसिद्धेन सर्वविषयज्ञानजनकेन त्वत्कर्तृकवेदपबन्धेन सर्व- जञत्वं तव सिद्धम्। ब्रह्म रूपादिहीनत्वात् प्रत्यक्षं न भवति, तद्व्याप्तलिङ्गाभावान्नानुमानगम्यमतः श्रुत्येकवेध- मित्यर्थः ॥ ६ ॥
[४ समन्वयाधिकरणम ]
तन्तु समन्वयात् (ब्र०सू०१।१।४)
अत्र सर्वाणि वेदान्तवाक्यानि विषयाः ॥सर्वे वेदान्ता: ब्रह्म स्व्रपाधान्येन प्रतिपादयन्ति न वेति संशयः। न प्रतिपा- दयन्ति। जीवप्रकाशकवाक्यानि कर्तृपराणि, ब्रह्मपकाशकवा- क्यानि देवतापराणि, सृष्टिपकाशकवाक्यानि साधनपराणि। तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति। ब्रह्मपरत्वे तवनुष्ठानासंभवात् निःप्रषोजनत्वं स्यात्। तस्माद्वेदान्ताः कर्तृ- देवतासाधनप्रतिपादनपरा इति पाप्ते सिद्धान्तयति- २
Page 14
१० अद्वैत विद्यातिलकदर्पणम्।
हे वाकलिङ्गनिवहेन भवन्तमेव प्राचीनवागवधयः प्रतिपाद्यन्तः।
ब्रह्मपराः वेदान्ताः, भिन्नमकरणपठितानां तेषां कर्तृन्वादि- प्रतिपादकतया कर्मशेषत्वासंभवात्, तात्पर्यनिश्चयहेतुभिः पड्ि-
पूर्वता फलम्। अर्थवादोपपती च लिङ्गं तात्पर्यनिर्णये' इति। 'सदेव सोम्येदमग्र आसीत' इत्युपक्रमः। 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्वमसि' इत्युपसंहारः । तयोब्रह्मि-
मानान्तरागम्यत्वमपूर्वता। एकविज्ञानेन सर्वविज्ञानं फलम्। स- प्टिस्थितिपलय प्रवेशनियमन प्रतिपादकानि वचनान्यर्थवादा:। मृ- दादिदृष्टान्ता उपपत्तिः। एतैलिङ्गे: स्वातन्त्रयेण [वेदान्ता:] ब्रह्म- परा एव। न चानुष्ठानमन्तरेण प्रयोजनाभावः, 'नायं सर्प्पः' इत्यादाविव बोधादनर्थनिट्टत्ते: संभवात्। वर्णकान्तरमेकदेशी मन्यते- ब्रह्मपरत्वेऽपि न वेदान्ता ब्रह्मण्येव पर्यवस्यन्ति, पारो- क्ष्येण ब्रह्मततत्वं प्रतिपाद्य पश्चादपरोक्षपततिप्त्ति विदधतत । तथा च सति वेदान्तानां शासनाच्छासत्तत्वसुपपद्यते। किश्च, 'श्रोत- न्यः' इति श्रवणं शाद्धज्ञानात्मकं विघायाथ 'मन्तव्यो निदिध्या- सितव्यः' इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेत्र विधीयते।
Page 15
प्रथमाध्याये प्रथमः पाद :- ११
तस्मात् प्रतिपत्तेर्विधातारो वेदान्ता इति पापते सिद्धान्तयति-
कार्येतरग्रहविधौ विमुखा भजन्ते त्वय्येव पर्यवसितुं तुहिनांशुमौले।७॥
न प्रतिपत्तिविधि: संभवति, कर्तुमकर्तुमन्यथाकर्तुमशक्यत्वे- नापुरुषतन्त्रत्वात्। शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतं, सिद्ध वस्तुशंसनेनापि तदुपपत्तेः । शाद्धज्ञाने जाते पश्चात्तदनुभवा- तमकं मननादिकं विधीयते इति वक्तुं न युक्तं, दशमस्त्वमसी- तिवत शद्धस्यैवापरोक्षातुभवजनकत्वेन शाङ्बोघात्पुरैवासंभा- वनाविपर्रीिभावनानिवृत्तये व्यापाररुपस्य कर्तृपरतन्त्रस्य मननादेविधानात्। तस्मात्त्त्वमसी त्यादयो वेदान्ता: ब्रह्मणिव्य- वस्थिता इति। श्लोकार्थस्तु, वेदान्तास्तात्पर्यलिद्गैर्भवन्तमेव प्रति पादयन्तः पुरुषकृत्यमाध्यज्ञानविधौ विमुखाः सन्तश्च हे तुहिनां- शुमौले त्वय्येव पर्यवसिति भजन्त इति ॥७॥
[५ ईक्षत्यधिकरणम् ] ईक्षतेर्नाशब्दम्।(ब्र०सू० १।१।५)
छान्दोग्ये श्रूयतेऽस्य विषयः । 'सदेव सोम्येदमग्र आसी- देकमेवाद्वितीथिम्' इति प्रस्तुत्य 'तदैक्षत बहु स्पां प्रजायेयेति तत्तेजोऽसटजत' इति। तत्र सांख्या मन्यन्ते-सच्छद्ध- वाच्यं सर्वजगत्कारणं मधानं न तु ब्रह्म, प्रधानस्प सत्वगुणयु-
Page 16
१२ अद्वैतविद्यातिलकदर्पणम्।
कतया परिणामितया च ज्ञानक्रियाशक्तिसम्भवात्, निर्गुणस्य कूटस्थस्य तदसंभवादिति पाप्ते सिद्धान्तयति- निध्यातृभावकथनादपि नामरूप- व्याकर्त्तृदैवतपरादपि चात्मशब्दात। छान्दोग्यवाक्यगतसत्पदवेदनीयो हेतुस्त्वमेव जगतामसि चन्द्रमौले ॥ ८॥
ईक्षितृत्वश्रवणाच्चेतनं ब्रह्म सच्छन्दवाच्यम्। अचेतनस्य प्रधानस्येक्षितृत्वासम्भवात्। ज्ञानक्रियाशक्ती तु ब्रह्मणि मा- यया सम्भविष्यतः । किश्च 'अनेन जीवेनात्मनानुपविश्य नाम- रूपे व्याकरवाणि' इति नामरूपव्याकत्री जगत्कारणदेवता स्ववाचकेन शब्देन चेतनं जीवं व्यपिशति, तथा 'तच्वमसि' इति चेतनस्य शचेतकेतोजगत्कारणतादात्म्यं गुरुरुपदिशति । तदुभयमपि अचेनतस्य पधानस्य जगत्कारणत्वे विरुद्ध्यते। 'पुरु वै रुद्रः सन्महो नमोनम' इति श्रुतौ शिवस्य सच्छद्धवा व्यत्वं दृश्यते। तस्माच्चेतनं ब्रह्म सच्छद्धवाच्यं कारणमिति सिद्धम्॥८ ॥
[६ आनन्दमयाधिकरणम्]
आनन्दमयोऽभ्यासात्। (ब्र०सू०१।१।१२) 'तस्माद्वा एतस्माद्विज्ञानमवादन्योऽन्वर आत्मानन्दमय' इसा
Page 17
प्रथमाध्याये प्रथमः पाद :- १३
रभ्य 'तस्य प्रियमेव शिरः, मोदो दक्षिण: पक्षः, ममोद उत्तर: पक्ष, आनन्द आत्मा, ब्रह्म पुच्छ प्रतिष्ठा,' इति श्रूयते विषयः । तैत्तिरीयके देहपाणमनोबुद्ध्यानन्दरूपा अन्नमयमाण- मयमनोमय विज्ञानमयानन्दमयसंज्ञिता: पश्चपदार्थाः क्रमेण एकै- कम्मादान्तराः पठिताः । तत्र सर्वान्तरस्यानन्दमयस्य 'ब्रह्म पुच्छं प्रतिष्ठा' इति ब्रह्मानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं माधान्यतः प्रतिपाद्यत इति संशये सति, आनन्दमयस्यावयवत्वे- नेति तावत्माप्तम्। लोके पुच्छशन्दस्यावयववाचित्वेन पसिद्ध त्वादिति माप्ते सिद्धान्त :-
पुच्छोक्तिलक्ष्यपुरुषाश्रयभावशालि- ब्रह्मावबोधजनिका भणितिः पुराणी। त्वद्गोचराभ्यसनतरत्वदुपक्रमाच्च प्राधान्यतः शिव भवत्प्रतिपादयन्ती॥९॥
उच्यते-न पुच्छशब्दोऽवयववाची किन्तु लांगूलवाची। नचानन्दमयस्य लांगूलमस्ति, लांगूलस्य गवादिलक्षणत्वात्। अतः पुच्छशब्दस्य मुख्यार्थासम्भवे सति योग्यतावशादत्राधारो लक्ष्यते। आनन्दमयस्य ब्रह्माधारः, तत्कल्पनाघिष्ठानत्वात्। न चानन्दमयः परमात्मा। प्राचुर्यार्थस्य स्वीकारेऽपि अल्पदुःखस- द्दावप्रतीतेः । तस्माज्जीवाघारो ब्रह्म पाधान्येन प्रतिपाद्यत। तथा,
Page 18
१४ अद्वैतविद्यातिलकदर्पणम्।
'असन्नेव स मवति असद्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः इत्यादौ ब्रह्माभ्यासो 'ब्रह्मविदान्नोति परमिति' व्रह्मोपक्रमश्चातुकूलो भवति। पश्चावयवयुक्तपक्षि- त्वेन कल्पनं प्रतिपत्तिसौकर्याय, अपेक्षितविषयदर्शनजन्यं सुखं प्रियं, तल्लाभजन्यं सुखं मोद:, तद्भोगजन्यं सुखं ममोद:, भा- समानमज्ञानोपहितं सुखसामान्यमानन्द इति विषयवाक्यपदाना- मर्थ इति ज्ञातव्यम् । ९॥
[७ अन्तरधिकरणम्]
अन्तस्तद्र्मोपदेशात्। (ब्र०सू०१।१।२०)
'अथ य एषोऽन्तराद्वित्ये हिरण्मयः पुरुषो दृष्यते हिर- ण्यरमश्रुर्हिरण्यकेश आप्रणरवात्सर्व एव सुर्वणस्तस्य यथा क- प्पासं पुण्डरीकमेवमक्षिणी' इति श्रूयतेऽस्य विषयः। अत्रा- दित्यमण्डलान्तः शूगमाण: कश्रिजीवो वा परमेश्वरो वेति सन्देहे देवताविशेषो जीव एव, ऐश्वर्यपर्यादाया आधारस्य शरीरस्य च श्रवणात्-'ये चामुष्मात्पराश्चो लोकास्ते- षां चेष्टे देवकामानां च' इति, 'अन्तरादित्य' इति च, 'हि- रण्मय: पुरुष' इति च। नहि सर्वेश्वरस्य सर्वाधारस्य नारू पस्य परमेश्वरस्य ऐ्वर्व्यमयर्यादाघाररूपाणि सम्भवन्ति । वस्माव देवताविशेष इति मासे सिद्धान्तयति-
Page 19
प्रथमाध्याये प्रथम: पाद :- १५
न्रिःशेषदोषरहितत्वविशेषणाच्च। मन्यामहे मिहिरमण्डलमध्यभाजं त्वामेव भर्ग तपनीयमयं पुर्मासम् ॥१० ॥
उच्यते-हिरण्मयः पुरुष ईश्वरे भवेत । कुतः, सर्वात्मत्व- श्रवणात्-'सैव ऋरु तत्साम तदुक्यं तद्यजुः इतादि- वाक्येन तच्छद्वैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सा-
पद्यते नतु सद्वितीयायां देवतायाम्। तथा 'स एष सर्व्वेभ्यः पा- पमभ्य उदित' इति श्रूयमाणं सर्वपापराहितं ब्रह्मणः सा- धारणं लिङ्गम्। यद्यपि देवतायाः कर्मण्यनधिकारात् क्रिय माणकरिष्यमाणपापयोरभावः तथाप्यसुरादिनिमित्तजनित-
र्यादाधाररूपाणि तु उपाधिघर्मतया सोपाधिके परमात्मन्यु- पास्ये वर्ततितुमर्हन्ति। नतु मण्डलान्तर्वर्ती न परमेश्वरः 'पुण्डरी कमेवमक्षिणी' इति अक्षिदवयकथनाुपपत्तेरिति चेत्, त्रिपुत्रं ब्राह्मणं प्रति द्वौ पुत्रावस्यापनिकल्पावित्युक्ते द्विसंख्याग्रहणं न शेषपुत्रनिषेधपरं किन्तु पुत्रद्वयस्याग्निसादृश्यपरम्, तद्वदत्राषि कमुदकं रश्मिभिः पिवतीति कप्यः सूर्यः तेनासितं विकासतं पुण्डरीकं यथा स्फुरति तथा परमेश्वरस्य लोचनद्वयं, तृतीयलो-
Page 20
१६ अद्वैतविद्यातिलकदर्पणम्।
चनं तु मुकुलितस्व्रभावमिति तथोक्तिः। 'आदियो वा एष एतन्मण्डलम्' इत्यादित्यमण्डलमुकत्वा, तत्र 'य एष एतन्मण्डलेऽर्विद्ाप्यते' इति मण्डलप्रभामुकत्वा, 'य एष एतस्मिन्मण्डलेऽन्िषि पुरुषः' इति मण्डलाभिमानिनं सूर्यमभिधाय 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इति हिरण्मयं पुरुषमादित्यान्तयर्यामिणमुक्त्वा, पुनः 'आदि- त्यो वै तेज ओजो बलम्' इत्यादिना तस्यादित्यरू- पस्य विभूतिमभिधाय, 'एष पुरुष एष भूतानामधिपतिः' इति भूतपतित्वेन निर्दिश्य, पुनः कीदृशः पुरुष इत्याका द्वायां 'सर्वो वै रुद्रः' इत्यारभ्य 'हिरण्यवाहवे हिरण्यपतये- डम्बिकापतय उमापतये' इत्युपसंहृतं बाहुग्रहणस्योपलक्षण- त्वाव् हिरण्यरूप इति तात्पर्यम्। 'असौ योऽवसर्पति नी- लग्रीवो विलोहितः। उत एनं। गोपा अदृशन्द्ृशन्तुद- हार्यः । उत एनं विश्वाभूतानि स दृष्टो मृडयाति नः' इत्यादि वचनजातैरादित्यान्तर्यामी शिव इति सिद्धम्। श्रो- कार्थस्तु-सैवक्समित्यादिना सकलभुवनाश्रयतोपदेशाद 'स एष सर्व्वेभ्यः पाप्मभ्य उदितः' इति सर्वपापरहितत्वाच्च हे भर्ग त्वा- मेवादित्यानर्य्यामिणं पुरुष हिरण्मयं मन्यामद इति ॥ १० ॥
[< आकाशाधिकरणम्]
आकाशस्तल्विङ्गात्। (व्र.सृ०१।१।२२)
Page 21
प्रथमाध्याये प्रथम: पाद :- १७
'आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याका- शादेव समुत्पधन्त आकाशं मत्यस्तं यन्साकाशो होवैभ्यो ज्या- यानाकाशः परायणम्' इति छान्दोग्येऽस्य विषयः श्रूयते। शालावत्येन ब्रह्मर्षिणा सर्वलोकाधारे वस्तुनि पृष्टे सति पवाहणो राजोत्तरमाह। तत्रत्यं वाक्यमेतत्। तत्रा- काशशब्दवाच्यो भूताकाशो ब्रह्म वेति संशये रूढत्वाद्वियदिति माप्तम्। 'आकाशाद्वायुः वायोरग्निः' इत्यादिना वाख्वादीना वि- यत्कार्यत्वश्रवणादिति पाप्ते सिद्धान्तयति-
वेद प्रतीति दृढरू ढिवियत्समेत- भूतावलीजनकतासहकृत्वरीभ्यामू।। ज्यायस्त्वकर्मफलदानसमर्थताभ्या- माकाशवागभिदघाति भवन्तमेव ॥ ११ ॥
ब्रह्मैवाकाशशब्दवाच्यम्, 'सर्वाणि ह वा' इत्यत्रासंकुचित- सर्वशब्देन वियत ++हवि सर्वभृतोत्पत्तिहेतुत्वश्रवणात्। नच वियतो वियद्धेतुत्वं सम्भवति। रूढिस्तु लौकिकी वियत्येवास्तु, श्रौती तु ब्रह्मण्यपि 'आकाशोह वैनाम नामरूपयोर्निर्वहिता' इति प्रयोगदर्शनात्। किंचाकाशदेवेत्येवकारः कारणान्तरं निरस्थति। न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्वति- रिक्तानां मृदादिकारणानासुपलम्भाव। ब्रह्मपक्षे ब्रह्मणः स- ३
Page 22
१८ अद्वैत विद्यातिलकदर्पणम्।
दरूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते। ज्याय- स्त्वपरायणत्वे श्रुत्यन्तरे ब्रह्मणि श्रूयते, 'ज्यायानन्तरिक्षात्' 'विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्' इति कर्मफळं .. ...... ' ...... " .... .. दातुं समर्थमित्यर्थः। तस्माड्कह्मैवाकाशशद्वाच्यमिति। श्लोकार्थस्तु-'आकाशो वा' इत्यादि वैदिकपयोगेण ज्ञातरुढ्या- काशादिपदेन भूतजनकत्वेन च सहकृतार्भ्या ज्यायस्त्वफलदातृ- त्वाभ्यां हे शिव आकाशपदं त्वामेवाभिदधातीति ॥ ११ ॥
[९ प्राणाधिकरणम]
अत एव प्राण: । (व्र०सू०१।१।२३)
छान्दोग्ये प्स्तावनाम्नः सामभागस्य देवतायां प्रस्तोत- पृष्टायामुपस्तिरुत्तरं ददौ। सद्वाक्यमेतत्-'प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि माणमेवाभिसंविशन्ति प्राणम- भ्युज्जिहते सैषा देवता मस्तावमन्वायत्ता' इति। तन्न म्राण- शहार्थो मुखबिलान्त्वर्तिवायुर्भवेत्, सर्वभूतलयस्य तत्र सुसंपा- दितत्वात, सुपुप्तिकाले भूतसाराणामिन्द्रियाणां वायी मविलया- दिति प्रास्ते सिद्धान्तयति-
सर्वप्रपथविलयाश्रयतामनन्य- साधारणीमुपदिशन्नवधारणेन।
Page 23
प्रथमाध्याये प्रथमः पाद :- १९
माणाख्यया पशुपते पृथिवीसुरस्त्वां प्रस्तावदैवतमवोचदुषस्तिनामा ॥ १२ ॥
इन्द्रियमात्रविलयपरत्वे व्यारयायमाने 'सर्वाणि ह बा' इत्यत्रामौ सर्वशद्धः सङ्कचितार्थः स्पात्। अत आकाशश- व्दवत्माणशद्धोऽपि श्रौतरूढ्या ब्रह्मवाचकः । अस्ति ह्वि माणशब्दस्य ब्रह्मणि श्रौतरूढि, 'प्राणस्य माणम्' इत्यत्र ब्रह्मविवक्षया द्वितीयमाणशब्दभयोगात । तस्मादीश्वरः भाण इति। श्रोकार्थस्तु-सर्वपरपञ्चलयकारणत्वमेव कारणेनानन्यसा- धारणमुषस्तिनामा द्विजः त्वामेव मस्तावदैवतमवोचदिति ॥१२।
[१० ज्योतिश्चरणाधिकरणम्]
ज्योतिश्चरणाभिधानात्। (ब्र०सू१।१।२४)
'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्पेषु सर्वतः पृष्ठुष्वनुत्तमेधूत्तमेषु लोकेष्विदं वाव तद्यदिदपस्मि- न्रन्तः पुरुषे जयोतिः' इत्यादि। अत्र सकलळोक- व्याप्तता(?)न्यादिविश्रयमाणमपरज्योतिः परमेश्वरो वा तदन्यो वेति संशयः । द्रोशद्वस्याकाशवाचित्वात् 'परो दिव' इत्या- काशवर्ती सूर्य एवात्र प्रतिपाद्ते ज्योतिरिति, अथवा 'अन्तः पुरुषे ज्योतिः' इति पुरुषान्तवर्तितया जठरानिरिति वा, पूर्वे ब्रह्मणोऽसत्निद्दितत्वाद् तेन वाक्यस्य ब्रह्मपरत्वायोगात, तेज :-
Page 24
२० अद्वैतविद्यातिलकदर्पणम्।
परत्वं तु लिङ्गसद्भावादिति माप्ते सिद्धान्तयति-
त्वामादितः प्रकृतमेव निजैकदेश- विश्रान्तविश्वमधिकृत्य यदित्यनेन। छान्दोग्यनाम्नि समुदीरितमागमान्ते ज्योतिःपदं निविशतां त्वनु शूलपाणे॥ १३ ॥
असिद्धोऽसन्निधिः। पूर्वस्मिन्गायत्रीखण्डे 'पादोडस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' इति चतुष्पदो ब्रह्मणः भकृतत्वात्, तस्य चात्र प्रकृतवाचिनाऽथशद्नातुवर्तनादस्य ब्रह्मण: सर्वाणि भूतान्येकांशः, पाद्त्रयोपलक्षितमनन्तं स्वरूपं, दुनामके स्वस्मिन्नवतिप्ठुत इस्र्थः । न चैतत्संभवति जठराभनिसूर्ययोः। नच ज्योतिःशद्धस्प ब्रह्मणि उृत्यनुपपत्तिः, ब्रह्मणो जगद्भासकत्वात। तेजोलिंङ्रं त्वौपाधिके ब्रह्मण्यपि कल्पते। तस्माज्ज्योतिर्व्रह्म।श्रोकार्थस्तु-पादोऽस्य सर्वा भूतानी- त्यादौ प्रकृतनिजैकांशसमापनिखिलपपत्रं त्वामेव 'यदतः परः' इत्यत्र यच्छद्वेन परामृश्य छान्दोग्यना्नि तदुपरि पठितं जयोतिःपद कुत्र वान्वेतु त्वां विना न कुत्रापत्यर्थ इति ॥१३॥
[११ प्रतर्दनाघिकरणम् ]
प्राणस्तथानुगमात्। (ब्०सृ०१।१।२८)
Page 25
प्रथमाध्याये प्रथम: पाद :- २१
कौपीतकोपनिषदीन्द्रपतर्दनोपाख्यायिकार्या प्रतर्दनं भती- न्द्रो वक्ति-'प्राणोऽस्पि पज्ञात्मा तं मामायुरमृतमित्युपास्व' इति तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संदिद्यते-इदं शरीरं परि- गृद्योत्थापयतीति माणलिङ्गम्, अस्मीति वक्तुरिन्द्रस्याहंकार- वाद इन्द्रस्य लिङ्गम, वक्तारं विद्यादिति वक्तृत्वं जीवस्य लिङ्रम्, आनन्दोऽजरोऽमृत इति ब्रह्मलिङ्गम् । तत्र प्रावल्य- दौर्बल्यविवेकाभावादनिर्णय इति प्राप्ते सिद्धान्तयति-
वाक्ये कृतान्तविजयिन्बलशासनस्य कौषीतकोपनिषदन्तरधीयमाने। प्राणाभिधा हिततमे भजतामघौघ- संहर्तृबोधविषये त्वाय जाघटीति॥१४ ॥
सन्त्यत्र ब्रह्मणोऽनेकानि लिङ्गान्यनन्यथासिद्धानि। तथ्था-'त्वमेव दृणीष्व यं त्वं मतुष्याय हिततमं मन्यसे' इति हिततमत्वमेकं लिङ्गम्, 'यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन' इति ज्ञानमात्रेणैव महापातकाद्यक्षेष इति परं लिङ्गम। एवमन्यान्यपि लिङ्गानि ज्ञातव्यानि। न चैतानि माणे- न्द्रजीवपक्षेषु कर्थचिदप्युपपादयितुं शक्यन्ते। माणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते भाणादीना ब्रह्मबोधद्वारत्वाद्। तथा च
Page 26
२२ अद्वैतविद्यातिलकदर्पणम्।
ब्रह्मलिद्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्रावल्यं, तस्पाड्रस्मौ वात्र मतिपाद्यमिति सिद्धम्। श्रोकार्थस्तु-हे कृतान्तशत्रो कौषीतकोपनिषदि पठ्यमाने 'प्राणोऽस्मीति' वाक्ये माणशब्दः सकलपापनिवर्चकज्ञानविषये त्वय्येव वर्तत इति॥ १४ ॥
इति श्रीमत्परशुराममिश्रात्मजमित्रमिश्रमेरितस्य वेङ्कभट्ट-
भथमाध्यायस्य प्रथम: पाद: ।।
[१ सर्वत्र प्रसिख्धधिकरणम]
सर्वत्र प्रसिद्धोपदेशात्। (व्र०सू०१।२।१)
छान्दोग्ये श्रयतेऽस्य विषय :- 'मनोमय: माणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सवकर्मा सर्वकाम: सर्वगन्धः' इत्यादि। अत्र मनोमयत्वादिधर्मकश्रूयमाणः पुरुषः परमेश्वरो वा जीव्रो वेति संशयः।जीव इति पूर्वः पक्ष:, मनस्सम्बन्धादीनां जीवे सम्भवात्। मनसो विकार इति मन- रसम्बन्धः । पराणः शरीरस्येति माणसम्बन्धः। न चेदमीश्वरे सम्भवति । 'अपाणो हामनाः शुभ्रः' इति निषेषात। तथा 'एष आत्मान्तर्हर्दयेऽणीयान्' इति श्रूयमाणमणीयस्त्वं
Page 27
प्रथमाध्याये द्वितीय: पाद :- २३
हृदयेऽवस्थानं च निराधारस्य सर्वगतस्य न सम्भवति । सत्यसङ्कल्पत्वमपि सति ब्रह्मण्यसङ्कल्प इति जीवेऽपि योजनी यमिति भाष्ते सिद्धान्त :-
सर्वप्र सूति लय जीवन कारणत्व-
देपाभिलापविषयापगमेन शान्त- स्त्वामन्तरव्वति मनोमयतादिधर्मैः ॥१५॥
'सर्वे खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्ये तस्मिन् शमविधिपरे पूर्ववाक्ये श्रूषमाणं यद्रह्म तदेव 'मनो- मयः' 'प्राणशरीर' इत्येताभ्यामपेक्ष्यते विशेष्यत्वेन। श- मवाक्यस्यायमर्थः-यस्मात् सर्वमिदं ब्रह्म, तज्जत्वाव तल्लयत्वात् तदनत्वाच्च तज्जलात्, तस्मात् सर्वात्मके ब्रह्मणि रागद्वेषविषय- त्वासम्भवादुपास्तिकाले शान्तो भवेदिति तद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति। न च ब्रह्मणो मनम्सवन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्ताव- पि सोपाधिकस्योपास्यचिन्तनार्थतया तदुपपत्तेः । तस्मात्सर्वेष्वपि घेदान्तवाक्येषु यद्रह्म उपास्यत्वेन प्रसि्द्धिं तदेवात्राप्युपास्यम् । न हि कचिदपि वेदान्तेषु जीवस्थोपास्पत्वं भमिद्धम्। ततो ध्र- ह्लैन्रेति सिद्धम्। अथर्वशिरस्यपि सर्वस्य शिवात्मकत्वमुक्तम्-'दे-
Page 28
२४ अद्वैतविद्यातिलकदर्पणम्।
वाह वै स्वर्गलोकमगमन् देवा रुद्रमपृच्छन् को भवानिति । सोऽब्रवीदहमेक: प्रथममासं वर्तामि च मविष्यामि च नचान्य: कश्चिन्मत्तो व्यतिरिक्त इति'। उक्त च शिवपुराणे-'वृक्षस्य मूलसेकेन शाखा: पुष्यन्ति वै यथा। शिवस्य पृजया तद्ूतपुष्य- त्यस्य त्पुर्जगत्। सर्वोपकारकरणं सर्वानुग्रहणं तथा। सर्वाभय- मदानं च शिवस्याराधनं विदुः। देहिनो यस्य कस्यापि निग्र- हः क्रियते यदि। अनिष्टमष्टमूर्तेस्तन्नात्र कार्या विचारण'। सर्व- स्थापि शिवात्मकत्वात् शान्त एवोपासीतेति ॥ १५ ।।
[२ अत्रधिकरणम् ]
अत्ता चराचरग्रहणात। (ब्र०सू१।२।९)
कठवल्यामाम्नायतेऽस्य विषय; । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन:। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति। अम्यार्थ :- मृत्यूपसेचनमिलित ब्रह्मक्षत्रोप
पुरुषो यत्र वर्तत तत्स्थानमिदमित्थमिति को वेद न कोऽपि जानातीति मृत्यूपदंशमिलिताखिलविष्टपान्नभोक्ता पतीयमा नो जीवोडशनिरीशो वेति त्रिकोटिकसंदेहे जीव इति 'तथो- रन्यः पिप्पलं स्वादृत्ति' इति जीवस्यान्तृत्वश्रवणाद् । अधवाग्निर्भवेत् 'अग्निरभ्ादः' इति श्रव्रणादिति पाप्ते सि-
Page 29
प्रथमाध्याये द्वितीय: पाद :- २५
द्धान्तमाह-
धर्माद्यतीतमहिमांशतनूभवस्य वाणीमुखादवगतं कठवल्लिकायाम्। मृत्यूपदंशमिलिताखिलार्विष्टपान्न भोक्तारमिन्दुधर निश्चिनुमो भवन्तम् ॥१६॥।
मृत्यूपदंश मिलित सकलजगदिह भोज्यत्वेन मतीयते। न हि तादृशस्य भोज्यस्येश्वरादन्यो भोक्ता संभवति । किश्च 'अ. न्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यन्न भूताच भ- व्याच्च यत्तत्पश्यस तद्वद'इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति 'यस्य ब्रह्म च' इति वाक्येन यम उत्तरं ददौ। तस्मादीश्वरोऽत्र प्रतिपाद्य: । 'अनश्न न्रन ्यो अभिचाकाशीति' इति ईश्वरस्य भोक्कृत्वं निषिध्यत इति चेत्, सर्ह्ततृत्वं नाम संहर्तृत्वं भविष्यति। तच्चेश्वरस्य सववेदान्तेषु मर. सिद्धम्। अथर्वशिरसि भ्रूयते संहर्तृत्वभावः परमेश्वरस्य-'त स्मादुपसंहर्त्े महाग्रासाय वै नमो नमः' इति। सर्वान्संहृत्य यः मलयकाले वर्चते संहर्त्ता स शिव एवेति पतिपादयति शवे- ताश्वतरमन्त्र :- 'यदा तमस्तन्न दिया न रात्रिर्न सन्न चास- च्छिव एव केवल:' इति। तस्मात्सर्वसंहर्चा शिव इति सिद्धम् ॥ १६ ॥
Page 30
२६ अद्वैतविद्यातिलकदर्पणम्।
[३ गुहाप्रविष्टाधिकरणम्]
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्। (ब्र०सू० १।२:११)
'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराद्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाशयो ये च त्रिणाचिकेताः' इति कवल्लीषु अ्यतेऽस्य विषयः। अस्यायमर्थः-सुकृत स्थ फलभूतं यद्दाह्मणादिशरीरं तत्परस्यार्द्ध परब्रह्मण उपल डिधस्थाने, तच्च परमं विद्याधिकारहेतुशमदमाद्युपेतत्वाद, ता- हशस्य शरीरस्य मध्येऽवस्थितं हृदयपुण्डरीकं गुहा ता प्रविष्टी दौ ऋतशब्दवाच्यं कर्मफलं पिवन्तौ छायातपवत्परस्परविलक्षणौ वैदविदो वदन्तीति। तौ द्ौ बुद्धिजीवौ जीवेश्वरौ वेति संदेह बुद्धिजीवाविति पाप्तं, तयोः परिच्छिन्नयोः गुहाप्रवेशसंभवाद्, जडाजडरूपत्वेन छायातपचद्दैलक्षण्यसम्भवाच्च, ईश्वरस्य सुकन- फलभोक्तकृत्वासंभवाच्च। बुद्धिजीवयोरभोंगस्तु प्रसिद्ध एवेति प्राप्त मिद्धान्त :-
पुण्यार्जिते त्वदपलम्भभुवि द्विजाति- गात्रे हृद्म्बुजगतौ परमे शमादयैः। स्वामिन्नुभौ फलभुजावसमस्वभावौ जीवं भवन्तमपि वक्ति चिरंतनोक्तिः।।।७।।
Page 31
प्रथमाध्याये द्वितीयः पाद :-
विवन्ताविति द्विवचनेन द्वयोश्षेतनत्वं प्रतीयते। अतश्चेत- नाविह जीवेश्वरौ भवतः। सर्व्वगतस्पापीशरस्य हृदयेऽवस्थान- सुप ळब्चौ वर्ण्पते। द्वयोश्षेतनतवेन साम्पेऽपि सोपाधिकत्वनि- रुाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते। यदुक्तं सुकृतफलभोक्तृत्वं न संभवतीति, तन्न युज्यते। सुकृतफल तत्तदृत्तिपरिच्छिनं सुखं,
नदविषयमायादत्तिरुपसुखानुभवसंभवात्। एवं च तयोर्भोगस्थ साधारण्येन श्रवणेऽपि तत्र विशेष: समाश्रीयते, भोक्तृविशे- पात्। यथा राजभृत्यावन्नं भुञ्जात इसत्र तत्तदुचितान्नविशेष इति: पुण्यार्जित इत्यनेन सुकृतस्य लोक इत्यस्पार्थ:, त्वदु- पलम्भभुरवीत्यनेन परार्ध इत्यस्यार्थः, हृदम्बुजगतावित्यनेन गुहां प्रविष्टावित्यस्यार्थ:, स्वामिन्नुभौ फलभुजावित्यनेन ऋतं पिवन्तावित्यस्यार्थः संगृहीतः । श्रोकार्थः स्पष्टः ॥१७॥
[४ अन्तराधिकरणम् ]
अन्तर उपपत्तेः। (ब०सू० १।२।१३)
छान्दोग्ये उपकोसलविद्यायासुपकोसलं शिष्यं प्रति सत्य- कामेन गुरुणोपदिष्टवाक्यमध्यगतमेतत्-'य एपोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतममयमेतद्रह्लेति' इति क्ूयतेऽस्प विषय:। इहामृतत्व्रादिलक्षणोडकयन्तः भूयमाणः पुरुषः ईश्वरो
Page 32
२८ अद्वैतविद्यातिलकदर्पणम्।
डन्योवेति संशये परमेश्वरादन्य इति वदामः। परमेश्वरस्य दहरं विपाप्मं पद्मकोषप्रतीकाशमित्यादिषु दहरपुण्डरीकवच्चक्षुषि सन्निधानाश्रवणात्। जीवस्य तु रूपादिग्रहणदशायां चक्षुषि स न्निधानं पसिद्धमेवातः स एवाक्षिपुरुषः। अथवा छायापुरुषः, अक्ष्याधारत्वदृश्यत्वयोस्तत्र संभवात् । अथवा आदिसदेवता स्थाद, आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशदितिश्रवणात्। सर्वथा न परमात्मा, तस्याधारदृश्यत्वासंभवात्। तस्माच्छायाजीवदेवेषु कोडप्यस्त्विति प्राप्ते सिद्धान्तमाह- ..............
-.... कामावहं भुवनभासकमाप्तकामम् । अन्तर्विलोचनमनङ्गरिपो भवन्त- मुद्धावयत्यकृत कोक्तिरुपासनीयम ॥
'कें ब्रह्म खं ब्रह्म' इति सुखरूपमाकाशवत्परिपूर्ण यङ्रह्म पूर्ववाक्येनोक्तं तदेव 'य एषोऽक्षिणि' इति प्रकृतवाचकेनैतच्छ ब्देन परामृश्य, अक्षिण्युपास्यत्वेनोपदिश्य वामनीत्वभामनीत्व संयद्वामत्वगुणातुपासनायोपदिशति। वामनीतं कामपाप- कत्वं, भामनीत्वं जगन्भासकत्वं, संद्धामत्वरं भाप्तकामत्वम् । एतैर्गुणैरुपास्यस्य ब्रह्मणः सोपाधिकत्वादक्ष्याघारत्वं शा- स्रदृष्ठ्या दृश्यत्वं च न विरुध्यते । छायाजीत्रमूर्षेषु अमृ-
Page 33
प्रथमाध्याये द्वितीय: पाद :-
तत्वाभयत्वादीनि न संभवन्ति। 'एतदमृनमभयम्' इत्यत्रामृ- तशब्देन शिव एवोच्यते। जाबालीपनिषदि 'भगवन् कि ज- प्येनामृतत्वं ब्रूदीति'पश्नानन्तरं 'शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि' इति शतरुद्रियेणेत्युत्तरम्। तत्र शिवनामा- नि श्रीरद्रपदानि शिवस्य नामधेयानीति वक्तव्ये, अमृतस्य ना- मधेयानीत्युक्त्या, अमृतपदं शिवस्य नामेति निश्चीयते ॥ १८॥
[५ अन्तर्याम्यधिकरणम्]
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्। (ब्र०सू०१।२।१८)
अन्तर्यामिब्राह्मणेऽस्य विषयः श्रयते 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिती न वेद यस्य पृथित्ी शर्रीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्यर्याम्यमृतः' इति। एवं पृ थिवीमारभ्य प्रतिपर्यायमव्यक्तात्मनत्तरपर्यन्तमखिल वस्त्वन्त य्र्यामितया श्ूयमाणः परमेश्वरः जीवः प्रधानं वेति संदेहे स्व्रो- पारित विचित्रकर्मफ लभोगाय सकलभूतेन्द्रियातुपवेशो जीवस्य युज्यते। अथवा महदादिरूपेण परिणतत्वात्मधानस्य सर्वच्या- पकत्वसुचितम् ।ततः परमेश्वरमन्तरेण जीवो वा प्रधानं वा स्या- दिति पाप्ते सिद्धान्तयति-
त्वामेव कामविजयिन्नमृतत्वजीव- तादात्म्यतन्नियमनप्रमुखैः प्रकारैः ।
Page 34
३०
रारण्यकोपनिषदाकलितं प्रतीमः ॥ १९ ॥
'वष त आत्मान्तर्थ्याम्यमृतः' इति अन्तर्यामिणो जीवता दात्म्यममृतत्वं च श्रूयते। तथा अन्तरिक्षादिषु सर्ववस्तुष्वन्तर्या मित्वोपदेशे सर्वव्यापित्वं प्रतीपते। तेभ्यो हेतुभ्योऽनतर्यामी परमे शरः। प्रधानस्थान्तर्यामित्वं न संभवति, 'अदृष्टो द्रषाभ्ुवःश्रोता' इति श्रोतृत्वाद्यवगमात्। नापि जीवस्य,काण्वा: माध्यन्दिनाक्ष 'यो विज्ञाने तिष्टन', 'य आत्मनि तिष्ठुन' इत्यादिना जीवादन्तर्या मिणं भेदेनाधीयते। अतो जीवनियामकत्वादमृतशब्दवाच्प त्वाच्चान्तर्यामी शिव एतर । 'उपम्बकं यजामहे। सुरमिं पुष्टि धैनं। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात' इति शिव मन्त्रत्वेन प्रसिद्धे तत्रामृतशन्दवाच्यत्वं शिवस्थ निश्चितम्। ननु 'मृत्योर्मृक्षीय माऽमृतात् इत्यत्र मृत्योर्मोचनं यथा परार्थ्यते तथा अमृतस्य मोक्षस्थ मोचनाभावः मार्थ्यते इति न तत्रामृतश- न्दार्थः शिव इति चेत, मृत्यो: मसक्तत्वेन तन्मोचनं प्रार्थ्यते मो क्षस्य नित्यपुरुषार्थत्वेन तन्मोचनमपसक्तमिति तभावो न मार्थ नीय इति वामिष्ठे मृत्युअ्यकल्पे वसिष्ठे नैवासृवशन्द: शिवपर इति पतिपादितम्। यद्वा अम्बकानि चक्षूँषि त्रीण्यस्येति उयम्बकः त्रिलोचनं त्रिलोकेशं तं वयं पूजयामहे। यो लोके दृश्यते गन्धः शोभनः सर्ववस्तुषु।
Page 35
प्रथमाध्याये द्वितीयः पाद :- ३१
स शर्वरयैव देवस्य सुगन्धिः कथ्यते ततः॥ अथवाँ शोभनैर्गन्घैः पुष्पैश्ापि मनोहरैः। धूपदीपादिभिश्चैव पूजनीयो महेश्वरः ॥ सर्वेषामेव देवानां गन्र्वोरगरक्षसाम्। उपासकानां सर्वेषां पुष्टिहेतुरुमापतिः ।। उर्वारुकं यथापक स्वयं मुच्येत बन्घनात्। अहमेवं प्रसादेन देवदेवस्य शुलिनः। अनायासेन सुच्येयं मृत्योर्लोकलयंकरातू ॥ ततः प्राप्यामृतं देवं तमेव परमेश्वरम्। माडभूवं तद्वियुक्तोऽहमिति मन्त्रार्थयोजना ।। वेदार्थो यः स्वयं ज्ञातस्तत्राज्ञानं भवेदपि। ऋषिभिनिश्चितेह्यर्थे का शङ्का स्यान्महात्मनाम् ॥ इत्युपबृंहितत्वात्पुरुषबुद्धिकल्पितार्थो न ग्राह इति। तस्मा- दन्तर्यामी शिव इति सिद्धम् ॥ १९ ॥।
[ ६ अदृश्यत्वाद्यधिकरणम्]
अदृश्यत्वादिगुणको धर्मोक्तेः । (ब्र० सू० १।२।२१),
'अथ परा यया तदक्षरमधिगम्यते', 'यत्तदद्रेश्यमग्राह्यम- मोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपाद नित्यं विभुं सर्वगतं सु. सूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा' इत्याि मुण्ड कोपनिषदि श्रयतेऽस्य विषयः । अत्राक्षरं प्रधानं जीव्र: पर
Page 36
३२ अद्वैतविद्यातिलकदर्पणम्।
मेवरो वेति संदेहे प्रधानमत्राक्षरं, तस्य महदादिपरिणामिनी भृतयोनित्वसंभवात्। अथना जीव, तस्य क्षरं प्रधानममृताक्ष- रमिति श्रुतेरक्षरशब्दवाच्यत्वमुचितं, स्वकर्मवशेन महाभृतयोनि त्वं च । अतस्तयोरन्यतरदक्षरशब्दवाच्यमिति मापे सि- द्वान्तयति-
बाह्यान्तरत्वमजनित्वमितीरितैषा। न्यायच्छटा त्वय नियच्छति भूतयोनि- शव्दं त्रिशूलधर मुण्डकशाखयोक्तम् ॥२०॥
'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति सामान्याका रेण सर्वज्ञत्वं विशेषाकारेण सर्ववित्वं पर्यालोचनात्म्क तपश्े त्येतादशस्य ब्रह्मलिङ्गस्य कीर्तनात भूतयोनिरक्षरं परमं परमे श्वरः। न चाचेतनासर्वज्ञयोः भृतयोनित्वं युक्तं सामर्थ्याभा बात, 'अक्षरतः परः' इति प्रधानात्परत्वेन भूतयोनेरभिधानाक्ष। 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्रजः' इति बाह्याभ्य- न्तरव्यापित्वजन्मादिराहित्ययो: श्ुतत्वात्, परिच्छिन्नस्य ज. न्मादिमतो जीवस्य तदसंभवात्, सर्वज्ञपदस्य 'कृशानुरेता मर्वझः' इत्यमरकोशादिषु शिवनामत्वेन पसिद्धत्वाद्, जीवम धानयोरेतद्वाक्यप्रतिपाद्यत्वं नास्तीति ॥ २० ॥
Page 37
प्रथमाध्याये द्वितीय: पाद :- ३३
[७ वैश्वानराधिकरणम]
वैश्वानरः साधारणशब्दविशेषात्।(ब्र० सू० १।२।२४)
'य स्त्वेतमेवं प्रदेशमात्रमभिविमानमात्मानं वैश्वानरसुपास्ते' इत्यादि छान्दोग्येऽस्य विषयः श्रूयते। तत्रोपास्यतयोक्तो वैश्वा नरः अन्यो वेति संशये वैश्वानरशब्देन जाठराग्निरुच्यते। 'अयमग्निवैश्वानरो-येनेदमनं पच्यते-तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इति जाठराग्नौप्रयोगदर्शनात्। महाभूततृतीयोऽग्निर्वा स्यात्, 'एष वा अग्निर्वैश्वानर' इत्या दौ वैश्वानरश्दस्य तत्र प्रसिद्धत्वात्। देवता वा स्यात्, 'वैश्वानरं द्वादशकपाल निर्वपत् पुत्रे जाते' इति पुत्रेष्टिदेवतात्वेन फलदातृत्वश्रवणात्। न परमेश्वरः प्रादेशमात्रमिति परिच्छेदा- वगमादिति प्राप्ते सिद्धान्तयति-
चन्द्रावतंस वियदादिजगत्स्वरूप- शीर्षप्रधानविविधावयवोपदेशात्। ब्रह्मश्रुतेरपि परत्वविबोधिकाया वैश्वानरः स तु भवानिति वर्णयामः ॥२१॥
परमेश्वर एव वैश्वानरः । कथं-'को न आत्मा कि ब्रह्म', 'आत्मानमेव्रेम वैश्वानरं सम्पत्यध्येषि तमेन नो
Page 38
३४ अद्वैत विद्यातिलकदर्पणम्।
ब्रूहि' इत्यादिषु परमेश्वरासाधारणब्रह्मशब्दादेभिर्विशेष्यमाण त्वान्, जाठराग्न्यादेस्तदसम्भवात्। किश्च 'तस्य हवा एतस्या- त्मनो वैश्वानरस्य मूर्दैव सुतेजाश्चक्षुविश्वरुपः प्राणः पृथग्वतर्मा- रमा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ' इसत्र परतिपाद्यमानं पपश्चशरीरित्वं ब्रह्मणोऽन्यत्र न सम्भवति। वैश्वानरशव्दस्तु योगव्ृत्या ब्रह्मणि वर्तते-विश्वश्चासौ नरश्व विश्वानर एव वैशवानरः, तं परमेश्वरमस्मिन्तुपासक- शरीरे पराणाहुतिवेलायां भोक्तृतया 'शिवो मा विशापादाहाय ईशः सर्वस्य जगतः पीणातु विश्वभुकू'इत्यामनन्ति तैतिरीयाः। हे शिव उ निपातः सम्बोधनार्थः मा मामित्यर्थः । हे सिव मामू अम्रदाहाय विशेत्यर्थः। छान्दसः सन्धिः । 'अंगुष्ट मात्रः पुरुषो मध्य आत्मनि तिष्ठिति। ईशानो चूतभव्यस्य' इति श्रुताविव ईशः सर्वस्य जगत इति वाक्यप्तिपाद्यः शिवः विश्वभुक् सर्वसहर्त्ता प्राणाहुत्या प्रीणात्विति द्वितीयवाक्यार्थः ।
विद्याविषयो न भवति किन्तु शिव एवेति सिद्धम्॥ २१.॥
इति श्रीमत्परशुराममिश्रात्मजमित्रमिश्रमेरितस्य वेङ्कटभट्टसूनु धर्म्मय्यदीक्षितस्य कृतौ अद्वैत विद्यातिलकदर्पणे प्रथमाध्यायस्य द्वितीय: पाद: ।
Page 39
प्रथमाध्याये तृतीय: पाद :- ३५
[१ धुभ्वाद्यधिकरणम् ]
द्युम्वाद्यायतनं स्वशब्दात्। (व्र०सू०१।३।१)
'यस्पिन्यौः पृथिी चान्तरिक्षमोतं मनः सह प्ाणैश्र सवः तमेवैंक जानथ आत्मानमन्या वाचो विमुश्चथामृतस्यैष सेतुः' इति सुण्डकोपनिषदि शरूयमाणं वाक्यं विषयः। धुभ्वाद्यायतनं श्रूयमाणं परमेश्वरोजन्यो वेति संशये सूत्रात्मा स्थात्। 'वायुना वैं गौनम सूत्रेणायं च लोक: परश् लोक: सर्वाणि च भूतानि सं- हब्धानि भवन्ति'इतिवायो: सूत्रात्मनो दयुभ्बाद्याधारत्वावगमात्। अथवा प्रधानं वा स्थात्, तस्य सांख्यमते सर्वोपादानत्वेन सर्वाधारत्वावगमात्। 'तमेतैंक जानथ आत्मानम्' इसात्मशब्द श्रवणात् जीवो वा स्यादिति मासे सिद्धान्तयति
योगाढपक् मविधेरुपसंहतेश्र । आत्मेत्यधीतमलिकेक्षण मुक्तगम्यं त्वामेव धाम कलये दयुमहीमुखानाम्। २२॥
- न तावत्सूत्रात्मजीवमधानानि सुण्डकोपनिषत्पतिपाधानि भवन्ति, 'यदा पश्यः परपते रुकमवर्ण कर्तारमीशं पुरुषं ब्र. हमयोनिम्। तदा विद्वान्पुण्यपापे विधूय निरजनः परमं साम्यसुपैति'इति दुभ्वाद्यायतनस्थ मुक्तपाष्यत्वश्रवणात्, जीव-
Page 40
अद्वैतविद्यातिलकदर्पणमू।
गधानवायूनां तदभावात्। 'कस्मिन्तु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति एकविज्ञानेन सर्वविज्ञानमुपक्रानतं 'ब्रह्मवेद ब्रह्मैव भवति' इत्युपसंहृतं, तथा च सुण्डकोपनिषदः कात्स््येन ब्रह्मपरत्वात् 'यः सर्वज्ञः सर्ववित्' इसादि सर्वज्ञश्रुया घुभ्बा घयायतनं शिव एव, 'कर्तारमीशम्' इतिशब्दश्रवणादपि शिव एव द्युभ्वाद्यायतनमिति। श्रोकार्थस्तु-उपक्रम एव विधिः प्रेरकः कृतस्ं वाक्यं वायुमधानजीवान्व्यवच्छिद्य ब्रह्मणि वाक्यं नियु ङ्े' इति उपक्रमे विधिशब्द: प्रयुक्त:, सर्वज्ञत्वादिगुणकथनात्। उपक्रमोपसंहाराभ्यां 'तमेवैक जानथ आत्मानाम्' इयात्मतवेनाधीतं 'निरञ्जन: परमं साम्यमुपैति'इति मुक्तमासं दयुमही प्रभृतीनामायतनं त्वामेव जानीम इति ॥ २२ ॥
[ २ भूमाधिकरणम् ]
भूमा सम्प्रसादादध्युपदेशात् । (ब्र०सू०१।३।८)
छान्दोग्येऽस्य विषयः श्रूयते, 'नान्यत्वश्यति नान्यच्छृ- णोति नान्यद्विजानाति स भूमा' इति। तत्र संदेहः भूमशब्द वाच्य: प्राणो वा परमेश्वरोवेति। तत्र भूमशब्दार्थः प्राण एवं। नारदं प्रति सनत्कुमारो नामादीन्युत्तरोत्तरमुत्कृष्टानि बहूनि तच्वान्युपदिश्यान्ते निरतिशयं भूमानं प्रश्नप्रतिवचनं विनैतोपदि- देश। तथाहि पूर्वेषु नामाितत्त्वेषु 'अ्ति भगवो भूयः' इति नारदः पदे पदे पृच्छति, सनत्कुमारस्त्वस्तीति प्तिवदति ।
Page 41
प्रथमाध्याये तृतीय: पाद :- ३७
एवं च प्रश्नप्रतिवचनपूर्वकतया नामादीनि प्राणान्तानि बहूनि तत्वान्युपदिश्य माणस्योपरि विनैव प्श्नप्रतिवचने भूमानसुप- दिदेश। अतः माणभूम्नोर्मध्ये विच्छेदकाभावात्माण एव भूमा। किश्च माणतत्वसुपदिश्य माणोपासकस्यातिवादित्वरू- पमुत्कर्षमुक्त्वा प्रकरणविच्छेदशक्कानिव्ठ त्तये तदेवातिवाद म नुवर्यथ भूमानमुपदिशन्माणभूम्नोरभेदं दर्शयति। तस्पात्म्राणो भूमेति भास्ते सिद्धान्तयति-
तच्वानि पूर्वमभिधानपुरःसराणि प्राणावधीनि कतिचित्प्रतिपाद्य शम्भो। विच्छिद्य तत्प्रकरणं च तुना विभो त्वा- माख्याति भूमवचसा श्रुतिरद्धितीयम् ॥ २३ ॥
भूमा परमेश्वर एव। कुतः । 'एष तुवा अतिवदति यः सत्येनातिवदति' इत्यत्रातिवादित्वहेतुं माणोपासनं तु शब्देन व्यावर्त्तयन्मुख्यातिवादित्वहेता्ब्रिह्मणः सत्यशब्देन पृथगुपक्र- मात्। तथा परमात्मोपक्रमेवेद्यतया 'तरति शोकमात्मवित्' इति परमात्मोच्यते। तथा च 'यत्र नान्यत्पश्पति' इति द्वैतनिषेधेन भूम्नो लक्षणमभिधीयते। तस्मादद्वैतः परमात्मा भूमशब्दार्थ इति ॥ २३॥
Page 42
३८ अद्वैतविद्यातिलकदर्पणम्।
[२ अक्षराधिकरणम् ]
अक्षरमम्बरान्तधृतेः । (ब्र०सू० १।३।१०)
'ए तट्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्व- मदीर्घमलोहितमस्नेहमच्छायम्' इत्यादि बृहदारण्यकवाक्यं वि पयः। अत्राक्षरशब्दार्थः पणवः परमेश्वर वेति संये इति पाप्तम्, अक्षरशब्दस्य वर्णपर्षायत्वात्। प्रणव एवाक्षरश न्दार्थ इति पूर्वपक्षे सिद्धान्तयति-
अव्याकृतास्पदममानविगाहनीय- मात्मीयशासनधृताखिलविश्वतन्त्रम् । अस्थूलतादिभिरनुज्झितमक्षरं त्वां गार्ग्याः स्वयं कथयतिस्मस याज्ञवल्क्य: ॥२४॥
अत्राक्षरशब्दवाच्च परं ब्रह्मैव । कुनः, 'यदूर्ध्व गार्गि दि वो यदवाक् परथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूंत च भवच् भविष्यच्ेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति' सर्वविकाराधारतया निर्दिष्ट आकाशा कस्मिन्ोतश्र प्रोतश्चेति नार्ग्या पृष्टे 'एतद्वै तदक्षरं गाग ब्राह्मणा अभिवदन्ति' इत्या- दिना 'एतस्मिन्तु खल्बक्षरे गारग्याकाश ओतश्च प्रोतश्च' इत्य- न्तेन याज्वल्क्यवचनेन निर्दिष्टस्याक्षरस्याकाशन्तपपश्चधृ
Page 43
प्रथमाध्याये तृतीय: पाद :- ३९
तिरकगम्यते। कथमेतदन्यत्र परमेश्वरात्सम्भवति। ततः परमेश्वर एवाक्षरपदार्थ इति। किश्चास्थूलमनण्वहस्व- मित्यक्षरे सर्वससासरधर्मा निषिध्यन्ते, तथा 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः', इत्यक्षरस्य जगच्छासितृत्वमुच्यते। शासनं शिवस्पैव, 'एको रुद्रो न द्वितीयाय तस्मैय इमाँलोकानीशत ईशिनीभिः' इत्यथर्वशिरोवचनादवगम्यते। किश्च 'तद्वा एतदक्षरं गार्ग्यद ष्टं द्रष्ट्रश्रुतं श्रोत्रमतम्', इत्यादिना द्रष्टृत्वािपमाणाविषयं चाम्ना- तम्। तच्चैततस्व ब्रह्मण्येव सम्भवति। तदेवाक्षरम्। श्रो- कार्थस्तु-अपश्चीकृताकाशाधारं पूर्वोक्तरीत्या मानाविषयं स्व. कीयशासनविधृतमपश्चं स्थूलत्वादिधर्मरहितमक्षरं त्वां याज्ञ वल्क्य: गार्ग्या अकथयदिति ॥ २४ ।।
[४ ईक्षतिकर्माधिकरणम्]
ईक्षतिकर्मव्यपदेशात्सः । (ब्र०सू०१।३।१३)
'यः पुनरेतं त्रिमात्रेणमित्येतेनैवाक्षरेण परं पुरुषमभि ध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदरस्त्वचा विनि र्मुच्यते एवं ह वै स पाप्मना विनिमुक्त स सामभभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्पर पुरिशयं पुरुषमीक्ष- ते', इति पश्नोपनिषदि भ्रूपते विषयः। तत्र ध्यानकर्मत्वेन श्रूयमाण: परमेशवरोऽन्योवेति संशयः । नासौ परमेशवरः, हि
Page 44
४० अद्वैतविद्यातिलकदर्पणमू।
रण्यगर्भ एव 'स सामभिरुन्नीयते ब्रह्मलोकमिति' तल्लोकमाप्ति- श्रवणादिति प्राप्ते सिद्धान्तयति-
आम्रेडितेन पुरुषं परमिल्यनेन प्रत्यायिते पदयुगेन विधेः परस्मिन्। त्रय्यन्तवागमिहितं प्रणवाक्षरेण ध्येयत्वमीश घटते भवतीक्षितव्ये॥ २५॥
परमेश्वर एव ध्येयः, ईक्षतिकर्मत्वेन प्रत्यभिज्ञानात, 'जीव घनात् परात्परं पुरिशयं पुरुषमीक्षते' इति व्यष्टिजीवापेक्षया परात् जीवघनात परमीश्वरमीक्षत इति शिवविषयमीक्षसं श्रूयते। ध्यानेक्षणयोः ममानविषयत्वात् 'परं पुरुषमाध्यायी- त'इति ध्यानकर्मापि परमेश्वर एव। उत्तरत्र 'तमोंकारेणैवायत- नेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयमिति' शिवासा- धारणामृतशब्दात् शिव एवोपास्य इति। ब्रह्मलोको हि तत्र गुणशिवलोकपरः परं पुरुषमीक्षत इति ॥ २५ ॥
[५ दह राधिकरणम् ]
दहर उत्तरेग्य: । (ब्र० सू०१।३।१४)
'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डराकिं वेश्म दहरो- डस्मिन्न्राकाशस्तस्मिन्यदन्तस्त द न्वेक्टव्यं तद्वाव विजिज्ञासि
Page 45
प्रथमाध्याये तृतीय: पाद :- ४१
तव्यम्' इति छान्दोग्ये अ्रयनेस्य विषयः। ब्रह्मण उपल- बिधिस्थानं शरीरं ब्रह्मपुरं तत्राल्पं हृदयपुण्डरीकं वेश्म तस्मिन्वे- समनि दहराकाशो वर्त्तत इत्यर्थः । नतु 'दहरोऽस्मिन्नन्तराका- शस्तस्मिन्यदन्तः' इत्यत्र तस्मित्निति तत्पदेन अव्यवहितदहरा काशपरामर्शः कि न स्यान्! अव्यवहितपरामर्शे 'दहर पुण्ड- रकिं वेश्म दहरोऽस्मिनन्तराकाशः' इतिवत 'अस्मिन् ब्रह्म- पुरे' इतिवच्चास्मिन्निति पदं मयुज्येत। अतस्तस्मिन्निति तच्छन्द्ो व्यवहितपरामशीति ज्ञायते। अत्र दहराकाशः परमेश्वरो वाऽडन्पो वेति संशये भृताकाश इति पाप्तम्, आका- शस्य तत्र रूढत्वात्। अथवा दहरश्देनाल्पत्वोक्ते: परिच्छि - नो जीवो भविष्यतीति प्राप्ते सिद्धान्तयति-
आधारमस्य जगतोऽपहताघमंघ- मात्मानमभ्रवददभ्रमशेषसतुम्। ब्राह्मे पुरे हृदयपङ्कजवेश्मभाज- माकाशमाश दहरं त्वदभिन्नमाहुः॥२६॥
बरह्मवात्ाफाशशन्दवाच्यम्, 'उभे अस्मिन्य्यावापृथिवी अन्तरंत्र समाहिते' इत्यादिना दातापृथिव्याद्यशेषजगदाधार- तव्रं दहराकाशस्य भ्रूयते। तथा 'एप आत्मापहतपाप्मा' इत्या- त्मत्त्रमपहतपाप्मत्वं च, 'य आत्मा स सेतुर्विधृतिः' इति जग- न्मर्यादानामसाङ्कर्षाय विधारकत्व्लक्षणं सेतुतं च जगद्धृतिश्र
Page 46
४२ अद्वैतविद्यातिलकदर्पणम् ।
शिवस्य महिमा 'एप सर्वेश्वर एव भृताधिपतिरेष भूतपाल एष सेतुर्विधरण: इति अ्रुतेः। 'हृत्पुण्डरीकं विरजम्' इत्यारभ्य 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं पशान्तम्। ध्यात्वा सुनिर्गच्छति भृतयोनिम', इसादि कैवल्योपनिषदि च दहरपुण्डरीकमध्यवर्त्ती दहराकाश उपास्य उमासहितः शिव एवेत्युक्तम् ॥ २६॥
उत्तराचेदाविर्भूतस्वरूपरतु । (ब्र०सू०१।३।१९)
वादे श्रूयतेऽस्य विषय :- 'य एपोऽक्षिणि पुरुषो दृच्यते एष आत्मेति होवाच' इति। तत्र जीवात्मेति प्राप्तमवस्थात्रयोप- न्यासात, 'य एषोऽक्षिणि पुरुषो दृश्यते'इति, 'य एष स्वप्ने म हीयमानश्वरति' इति, 'सुप्ः समस्तः संपसन्न: स्वप्नं न विजा- नाति' इति वाक्यत्रयेण एवमवस्थात्रयोपन्यासे सति अवस्था- वान जीवो ग्रहीतुमुचितम(1), ईश्वरस्यावस्थाराहित्यादिति प्ा- मे सिद्धान्तयति-
नाधन्त योरत नुशासितरैक रूप्यात। सोऽसि त्वमक्षिपुरुषः सुरनायकादि- संवादमध्यगतसूक्तिस मर्पणीयः ॥२७॥
Page 47
प्रथमाध्याये तृतीय: पाद :- ४२
ईश्वर एवाक्षिपुरुषः । कुनः, 'य आत्मापहतपाष्मा विज- रे त्रिमृत्युः' इति परमात्मानमुपक्रम्य 'स उतमः पुरुषः' इत्य- नेन परमात्मन एवोपमंहारात्। न चैवं सति जागरणाछ्गुप- न्यामानुपपत्तिः, शाखाग्रचन्द्रन्यायेन परमात्मवोधोपक्षीणत्वात्। अवस्थात्रयोपन्यासान्ते पर्यायत्रयेऽपि 'एतदमृतमभयमेतङ्रस्म' इति अक्षिपुरुषस्य ब्रह्मत्वपनिपादनात्, अमृतमिति पदस्प सिववाचकत्वस्य प्राकस्थापितत्वात् इंद शिवपरमेव॥२७॥
[ ६ अनुकृत्यधिकरणम्]
अनुकृतेस्तस्य च। (ब्र०सू०१।३।२२) सुण्डकोपनिपदि श्रूपतेऽस्य विषय :- 'न तत्र सूर्यो भाति न चन्द्रनारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भा- न्तमनुभाति सर्वे तस्य भामा सर्वमिदं विभाति' इति। अस्था- यमर्थः-तत्र 'ज्यातिषां जपोतिः इति पूर्वपकते उपोतिषि सूर्य- चन्द्रादयो न भान्ति, किन्तु तमेव उयोतिषां भासकं पुरतो भा- समानं पदार्थमनु पश्रात् सर्वे जगद्भाति। भासनदशार्या चन्द्रा- दिकं स्व्रतन्त्रेण(!) न भासते। कि तर्हि ? तस्य भासकस्य तेज- सा सर्वे विभातीति। अत्र वाक्ये श्रूयमाणं सूर्यादिसदशं जग- द्वासकं चाक्षुष तेजोऽन्तरमुतेदं चैतन्यमिति संशये तेजोऽन्त- रमिति बदाम:। कस्पाद । सूर्यादितेजोऽभिभावकत्वाठ् । महत- स्तेजस: सन्नियौ स्वल्पं तेजोभिभूयते, यथा सूर्यस्नि दी
Page 48
अद्वैत विद्यातिलकदर्पणम्।
पः। तथा च सुर्यादीनामभिभावकमन्यत् तत्सूर्यादिभ्योऽिकं तेजोऽनतरमेवेति मापे सिद्धान्तयति-
अर्कादिदीप्त्यविषयस्य महोऽन्तरस्य तेजस्तदन्यसकलार्थविभासकस्य। प्राग्भासुरस्य जगतः परमप्रसिद्धे श्चैतन्यमेव तव तादृशमित्यनौमि॥२८॥ सूर्यादिभिरभास्यमानतया श्रूयमाणं वस्तु चैतन्यमेव। सू- र्याद्यभिभावकस्य महतस्तेजोऽन्तरस्यामसिद्धत्वात्। किश्च 'त मेव भान्तमनुभाति सर्वम्' इति सर्वस्माज्जगतः माग्भासमानत्वं चैतन्पस्यैवेति॥ २८॥
[७ प्रमिताधिकरणम्]
शब्दादेव प्रमितः (ब्र०सृ०१।३।२४)।
कठवल्ल्यामस्य तिषयः श्रूयते-'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईश्ानो भूतभव्यस्य न ततो विजुगुप्सते इत्यादि। इहाङ्रुष्टमात्रतया श्रूयमाणः पुरुषो जीवः परमेश्वरो वेति संशये जीव इति वक्तुसुचितम् । 'स विश्वरूपस्त्रि गुणासर- वर्त्मा प्राणाधिपः संचरति स्वकर्मभिः। अङगुष्ठमात्रो रतितुल्प- रूपः संकल्पाहंकारसमन्त्रितो यः' इति तम्याङ्गुएठमात्रत्वमसिद्धेः, 'मध्य आत्मनि तिष्ठति' इति देहान्तवर्ततित्वावगमाच्चेति
Page 49
प्रथमाध्याये तृतीयः पाद :- ४५
माप्ते राद्धान्तयति-
अल्पीयसो हृदयवारिरहादुपाधे- रङ्गुश्ठसम्मितमतीतपुरस्सरेशम। एवं विरधं पुरुषमिन्दुशिखामणे त्वां जानीमहे जनिमतः परमीशितव्यात् ॥२९॥ परमेश्वर एवाङडुष्टमात्र इति बरूमः । 'ईशानो भूतभव्यस्य' इति परमेश्वरलिङ्गशब्दात्। 'सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भु- राकाशमध्य' इति तस्यैव सवेश्वरत्वश्रवणात् व्यापकस्यापि पर-
[८ देवताधिकरणम्]
तदुपर्यपि बादरायण: संभवात्। (व्र०सू०१।३।२६) परमेश्वरोपासने देवानामधिकारोऽस्ति न वेति संशये, नाहित तेषामधिकारः।अर्थी समर्थो विद्वान् शास्त्रणापर्य्युदस्तश्र वैदिके कर्मण्यधिकारीत्यर्थित्वमेव तावन्नास्ति, तेषां परमेश्वर- स्य च लोकभेदाभावात्। 'देवा ह वैस्वर्ग लोकमगमन् ते देवा रुद्रमपृच्छनू को भवानिति' श्रुत्या स्वर्ग एव लोको रुद्रस्य सगुणव्रह्मणः पदमत्रगम्यते। स एव देवानामपि पदम्। एकपदत्वात् तत्पदारशर्थित्वमपि नास्ति। सामर्थ्यमपि नास्ति, शरीराभावाद। शरीरिणो हि कस्थचित् स्तुतिध्याना-
Page 50
४६ अद्वैतविद्यातिलकदर्पणम्।
दिषु समर्थाः । 'इन्द्रो वन्राय वज्रमुदयच्छत्' इत्यादीनां भामा- ण्यात्तेषां विग्रहवस्वमिति चेन्न, विध्येकवाक्यतापन्नानामन्पत्र तात्पर्याभावात्। वैदुष्यमपि तेषां नाहि्ति उपनयनसंस्कारपू वकस्य वेदाध्ययनस्याभावेन वेदान्तविचाराभावेन ब्रह्मबोधा नुपपत्तेः। तत एव ते्षां शास्त्रपर्युदासश्च। तस्मादेवाना नास्ति ब्रह्मोपासनेऽधिकार इप्रि मापे सिद्धान्तयति- मन्त्रादिसिद्धतनवो मरुतस्तपोभि- रसफीतैर्विनापि नियमं प्रतिभातवेदाः। ऐश्वर्य्यपािशयिता सुघटार्िभावा विद्यासु ते मदनजेतरधिक्रियन्ते ॥ ३० ॥
ब्रह्मोपासने देवानामप्यधिकारोऽस्ति। कुतः, तेषामर्थि- त्वसंभवात्। नच परमेश्वरस्य देवानां च पदं समानं, यतः सामान्येन सुखवाचकोऽपि स्वः शब्द: मकरणादिना विशेष मभिघत्ते। यथेश्वरशब्दः स्व्रामिमात्रवाचक: भक्करणवशात् 'उपे- यादीशवरं चैव योगक्षेमार्थसिद्धये' इत्यादिषु जनपदाधिपत्य- मात्रवाची राजविषय:, ब्रह्मणः मकरणे पुनरयं निरतिशयै- श्वर्यवाची तद्विषयो भवति, तथा सुखमात्रवाचकः स्वर्गशब्दः प्रकरणेन प्रमाणान्तरोपपच्या च देवानां पदमतिस्वल्पकालव- र्ति स्वल्पसुखर्मपमभिधत्ते, सगुणब्रह्मणः शिवस्य पदं तु तद- पेक्षयाधिककालस्थायि महासुखमभिघत्ते। अतः स्वल्पसुखप-
Page 51
प्रथमाध्याये तृतीय: पाद :- ४७
दवार्तेना मधधिकसुख रूपब्रह्मपद मत्यर्थित्वमस्त्षेव। सामर्थ्य चा- स्ति, 'इन्द्रो वतराय वञ्रमुदयच्छत्' इत्याद्यर्थवादाना स्वर्गार्थ वादवत् भृतार्थवादत्वेन स्वार्थे पामाण्यसम्भवात्, 'आदित्यो यूप:', 'अग्निहिमस्य भेषजम्' इत्यर्थवादयोरिव मानान्तरविरो- धमानान्तरप्राप्त्योरभावात्। शक्त्यतिशयेन स्वयंप्रभातवेदार्थ त्वात् पूर्ताधीतवेदार्थविस्मरणाभावाच्च तेषा वैदुष्यं च सम्भत ति। शास्त्रस्य साधारण्येनोपासनाविधायकत्वात् अधिकारस्य दुर्नित्रारत्वेन दूरतस्तत्पर्युदास:। तस्माङ्टह्मविद्यायाधिका - रिणो देवाः। अत एव देवानां परमेश्वरविषयमुपासनं श्रूयते अथर्वशिरसि-'ते देवा रुद्रं ध्यायन्तीति'॥ ३०॥
[९ अपशूद्राधिकरणम्]
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि। (ब०सू०१।३।३४)
छान्दोग्ये श्रूयतेऽस्य विषय :- 'आजहारेमाः शुद्रानेनैव मुखेनालापयिष्यथा' इति। अत्राचार्यः शिष्यं मति शूद्रेत्या- मन्त्रयते। अतः शुद्राणामपि ब्रह्मविद्यायामधिकारोऽस्ति न वेति संदेहे तेषामधिकारोऽस्ति, अर्ित्वादिसम्भवाद् । न च त्रैवर्णिकानामेवेति नियमः। अत्रैवर्णिकानापि देवानां तदद- शनाद्। न च देवानामुपनयनाध्वयनादेरभ।चेडपि स्वयं प्रभा- तवेदार्थतया युज्यते वैदूष्यं कथ शूद्राणामिति शक्कां, तेपामपि
Page 52
४८ अद्वैत विद्यातिलकदर्पणम्।
पुराणश्रवणादिना बोधोपपत्तेः। निषादस्थपतिन्यायेन महा- वाक्यश्रवणेऽधिकारसम्भवाच्च। तस्माच्छूद्वाणामपि ब्रह्मवि- दयायामधिकारोऽस्तीति माप्ते सिद्धान्तयति- जानश्रुतिं त्रिपुरशासन तावकीन विद्यापरिश्रमविनाकृतिजातशोकम्। क्षत्रपचोदनपुरस्सरभूतिमत्वा द्राजानमभ्यधित शूद्रपदेन रकैः ॥ ३१ ॥
नास्ति शुद्राणामधिकारः। तेषामध्ययनाभावेनोपासनो- पायभूतोपास्यतद्गुणादिज्ञानासम्भवात्। इतिहासपुराणानि वेदोपवंहणं कुर्वन्ति सन्त्येवोपायभावमनुभवन्ति न स्वातन्त्र्येण। शूद्रा णामितिहासपुराणश्रवणानुज्ञाने तु तस्य पापक्षयः फलमू। विदुरधर्मव्यासादीनां जन्मान्तरसिद्धज्ञानापमोषात् ब्रह्मनिष्ठता। कथ ब्रह्म विद्योपदेशे शूद्रेत्यामन्त्रणमिति चेन्न, तत्र जातियोगेन न शुद्रेत्यामन्त्रणम्। किन्तु ब्रह्मज्ञानाप्ाप्त्या शुगस्य संजातेति 'सयुग्वानमित्र रैक्कमात्' इति इंसानादरश्रवणाद् ज्ञायते । शुचा द्रवतीति शूद्धः इत्यर्थः। उपाख्यानोपक्रमे 'जानश्षतिई पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आससह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽत्स्यन्तीति' इति जानश्रुते्दा नपतित्वबहुतरपका न्नायित्वं चोक्तवा मध्ये च 'संजिा क्षत्तारमुवाचं इति क्षत्रं भृषण चावगम्यते। एतर्लिगरजनश्रुतेः
Page 53
प्रथमाध्याये तृतीय: पाद :- ४९
क्षत्रियत्वमवगम्यते। तस्मान्न शूद्रस्याधिकार इति ॥ ३१॥
[१ कम्पनाधिकरणम्]
कम्पनात् (ब्र०स०१।३/३९)
कठवल्ल्यां श्रूयतेऽस्य विषय :- 'यदिदं किश्न जगत्सर्व माण एजति निःसृतम्। महंद्दयं वज्रसुद्यतं य एतद्विदुरमृतास्त भव- न्ति' इति। अस्यायमर्थः-निःसृतमुत्पन्नं यदिदं जगत्सर्वे प्राणे निमित्तभूते मति कम्पते तच्न प्राणशब्दवाच्य वस्तु उद्यतं वज्र- मिव महाभयहेतुः। एतत्म्राणशब्दवाच्यं ये विदुः ते मरणरहिता भवन्तीति। अत्र जगत्कम्पनहेतुः माणपदार्थः परमेश्वरोऽन्यो वेति संशये अशनिरिति तावत्पाप्तम्। कुतः, महन्भयमिति भयहेतु- त्वश्रवणात्। वायुर्वा भविष्यति, प्राण एजति' इति प्ाणशब्दवा- च्यस्य देहादिचालनकर्तृत्वादेरवगमादिति मासे सिद्धान्तयति- संचाल कर्त्रि जगतोखिलशक्तियोगा- दन्तर्नियामकतया भयहेतुरस्य। आत्मीयवेदनवताममृतत्वदायी प्राणश्रुतेस्त्वमसि भाजनमन्तकारे॥ ३२ ॥।
ईश्वरः प्राणशब्दवाच्यः । 'य एतद्विदुरमृतास्ते भवन्तीति' तद्वेदनस्यामृतफलकत्वोक्ते:। भयहतुतादि अन्तर्यामितया ईश्व- रक्य भविष्यति। 'भीषास्माद्वातः पहमते। मीमोद्रेनाममप. ७
Page 54
५० अद्वैतविद्यातिलकदर्पणम्।
भीषास्पादग्निश्रेन्द्रश्च।मृत्युर्धावति पश्चमः' इति श्रुसन्तराहे हादिचालकत्वं च मर्वशक्तित्वादीशवरम्पपपद्यते। 'यदा चर्म- वदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति' इति श्रुतेः शिवज्ञानस्वैव मुक्तिहेतुत्वपतिपादनाव पाणशब्दवाच्य: शिव एवेति सिद्धम्॥ ३२॥
[११ ज्योतिरधिकरणम्]
ज्योतिर्दर्शनात्। (व्र०सू०१।३।४०)
'एप संप्रसादोऽस्माच्क्वरीरात्समुत्याय परं ज्योतिरुपस- म्पद् स्वेन रूपेणाभिनिष्पद्यते स उत्तम पुरुषः' इति । सम्यकू मस्तीित्यस्या सुपुप्त्यवस्थायाममिति मम्पसादो जीवः, शेषः सुगमः। ज्योतिःशब्दवाच्यं ब्रह्म वा आदित्यमण्डलं वेति संशये रविमण्डलमेव । कस्मात। 'शरीरात्ममुत्थाय परं ज्योतिरुपस- म्पद्ते' इति देहान्निर्गत्य पश्चाज्ज्योतिः प्राप्नोतीत्युच्यमानत्वात्, ब्रह्मपाप्तौ निर्गमाभावात, पाप्तपासव्यभेदानुपपच्तश्रेति मासे राद्ान्त :-
देहद्रयादतिविविक्ततयैव जानन् प्रत्यकूपदार्थममुना पुनरचितैक्यम। ज्योतिःपरं पशुपते पुरुषोत्तमं त्वां पश्यन्निजां प्रकृतिमृ्च्छात संप्रसाद: ॥३३।
Page 55
प्रथमाध्याये तृतीयः पाद :- ५१
ज्योतिःशब्दवाच्यं ब्रह्मैव। कस्मात्। 'उत्तम: पुरुषः' इत्यु- तमपुरुषसंकीर्तनात, रविमण्डलस्य तदयोगात्। यदुक्तं 'शरी रात्समुत्थाय परं ज्योतिरुपसम्पद्यने' इत्येतद्द्वयं ब्रह्मपक्षे न स० म्यवतीति तदसत्। न क्वत्र समुत्थानं निर्गमनम्। कि तर्हि ?त्वं पदार्थस्य ब्रह्मत्वेन बोधनम्। अग्रे 'एतदमृतमभय मेतदूब्रह्म'इति वाक्यं त्रिरुक्तमिति तत्रामृतपदाभ्यासात् इदं वाक्यस्थज्योतिःदं शिवपरमेवेति। अन्ये तु-जीवः अस्माच्छरीरद्यात्समुत्थाय अ- चिरादिमार्गेण सगुणब्रह्मलोकं गत्वा 'परं ज्यातिः' सगुणं ब्रह्म तदुषसम्पद्य तत्समीपे स्थित्वा तत्क्रतुन्यायेन तत्समानगुणभोगो भूत्वा 'ब्रह्मणा सह ते सर्वे संप्राप्त पतिमश्चरे। परस्यान्ते कृ- तात्मानः अविशन्ति परं पदम्' इति प्रमाणानुसारेण पश्चात्स्वे- न रृपेणाभिनिष्वद्यत इति सर्वोपाधिविनिर्मुक्तस्वरूपमात्रतया - वस्थानं श्रुत्या प्रतिपाद्यत इति वदन्तीति ॥ ३३ ।।
[१२ अर्थान्तरत्वव्यपदे शाधिकरणम्]
आकाशोर्ऽर्थान्तरत्वादिव्यपदेशात।
पजापतिविद्यान्ते श्रूयतेऽस्य विषयः। 'आकाशो वै नाम नामरूपयोनिर्वहिता ते यदन्तरा तह्र्ह्म तदमृतं स आत्मा'इति। अत्राकाशपदार्थ: जगदूपयोर्नमरूपयोनिर्वाइकः । ते च नामरूपे यस्मादाकाशात् मिन्ने अथवा यस्याकाशस्यान्तरेव ते वर्ततेते
Page 56
५२ अद्वैतविद्यातिलकदर्पणम्।
तदाकाशं मरणरहितं ब्रह्म तच्च प्रत्यगातमेति। तत्राकाशपदवा- कयं ब्रह्म वा भूताकाशो वेति सन्देहे भृताकाश एव, नामरूप- योनिर्व हितेत्युक्तस्य निर्वाहक्कत्वस्या चकाशपाातरति वियतत सम्भ वादिति पाप्ते सिद्धान्त :- एकैव हेमगिरिकार्मुक नामरूप- निर्वोढता निखिललोकनियन्तृभूते। आकाशनाम विनिवेशयितुं त्वयीष्टे ब्रह्मामृतात्मपदसाह्यवती तु सा किमू॥ ३४ ॥ अत्र निर्वाहकत्वं नाम नावकाशमदानमात्र, किन्तु निया- मकत्वरं, सर्वप्रकारनिर्वाहकस्य नियन्तृत्वात्। नह्यचेतनं सर्वान् प्रकारन् ज्ञात्वा नियन्तुं शक्रोति। अन्तर्यामिब्राह्मणे चेतनस्यैव नियन्तृत्वकथनात् वाक्यशषे 'तङ्कह्म तदमृतं स आत्मा'इति श्रूय- माणानां ब्रह्मामृतात्मपदानामाकाशे असम्भवात् ब्रह्मैवाकाशशब्द- चाच्यं, तदमृतमित्युक्त्या शिवपरमिति स्पष्टमेव् ॥। ३४ ।।
[१३ सुषुप्त्युत्कान्त्यधिकरणम् ] सुषुप्त्युत्क्रान्त्योर्भेदेन। (ब०सू०१।३।४२) बृद्ददारण्यके श्रूयते, 'योडयं विज्ञानमयः माणेषु हृद्न्त- डर्योतिः पुरुषः स समान: सन्तुभौ लोकावनुसश्चरति' इति । अस्यार्थ :- विज्ञानमयो लिङ्गशरीरमयः, तेन स्थूलदेह्पतिरि-
Page 57
प्रथमाध्याये तृतीयः पाद :- ५३
क्ः सिद्ध: आ्राणेषु चक्षुरादीन्द्रियेषु पाणादिवायुषु च हृदि अन्तःकरणे सप्तम्या आधारत्वनिर्देशात् आधेयस्य पुरुषस्य इन्द्रि यत्रायुमनोव्यतिरिक्तत्वं सिद्धम्। अन्तःशब्देन धीट्टत्तिभ्य: कामसङ्कल्पादिभ्यो व्यतिरिक्त, बुद्धिपरिणामरूपाणां तार्सा वृत्तीनां वहिर्भूतत्वात। एवं च स्थूलदेहादी्द्रियेभ्य: प्राणवा- युभ्धः अन्तःकरणात्तदवृत्तिभ्य: कामसङ्कल्पादिभ्यो व्यतिरिक्त- क्तेषां साक्षित्व्रन चित्ज्योतिःस्वरूप: पुरुष इत्युक्तं भवति। स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुमञ्चरतीति। तत्र विज्ञानमयो जीवो भ- वितुमहति, ज्योतिर्व्राह्मणशारीरब्राह्मणयोरादिमध्यावसानेषु संमारस्यव मरयंच्यमानत्वात्। आदौ तावदुभौ लोकावनुसञ्- रतीति संसारोक्तिः। संप्रसादस्वन्नान्तजागरप्रतिपादकैरग्रिप- भागैरवस्थात्रयं प्रपञच्यते । अन्तेऽपि 'स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः' इत्यादिना सोपाधिकस्वरूपय- णैनेन संसार एवोच्ते। तस्पाज्जीव इति पूर्वपक्षे सिद्धान्त :- आदौ विवेक्तुमसुगन्धवहाद्युपाधे-
श्रीकण्ठ दर्शयितमुक्तमनद्य जीव- मस्य त्वदैक्यमव्धौ निगमोऽभिधत्ते॥ ३५॥
जीवः प्रतिपाद्ो न भतति। कस्मात्। लौकिकादहम्प्रत्यया-
Page 58
५४
देव तस्य सिद्धेः। किमर्थ तहि जीवाद्यभिधानमिति चेतु, माणा द्ुपाधिभ्यो विवेकतुमादावभिधानं मध्येऽप्यवस्थात्रयसङ्गराहिसं दर्शयितुमभिधीयते। अन्ते तूक्तजीवस्वरूपमनूद्य तस्य ब्रह्मत्वं पतिपाद्यते। तम्य मानान्तरेणामाप्तत्वात्। तस्माद्वह्मात्र पति- पाधम् ॥ ३५ ॥
सू.तुधर्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे प्रथमाध्यायस्य तृतीय: पाद: ।
[१ आनुमानिकाधिकरणम् ]
आनुमानिकमप्यकेषामिति चेन्न शरीररूपकविन्यस्त- गृहीतेर्दर्शयति च । (ब्र०सू०१।४।१)
'इन्द्रियेभ्यः परा हर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्वुद्वेरात्मा महान्परः ॥ महनः परमव्यक्तमव्यक्तात्पुरुष: परः। पुरुषात्र परं किश्चित्सा काठ्ठा सापरा गतिः'॥ अत्रा- व्यक्तशब्देन सांख्याभिमतं प्रधानमभिधीयते। कस्माद् । मत्य- भिज्ञानाद। महदव्यक्तपुरुषाः सांख्यशासत्रे परापरभावेन यथा मसिद्धा: तथैव श्रूयन्ते। प्रत्यभिज्ञानाच्चाव्यक्तशन्दवाच्यं पधा-
Page 59
प्रथमाध्याये चतुर्थः पाद :- ५५
नमिति माप्ते सिद्धान्तयति-
अव्यक्तमत्र शशिशेखर पूर्ववाक्ये विन्यस्त रूपकशरीरपरं वदामः। पूर्वोक्तयावदभिधेयविमर्शनेन सांख्यनधानवचसोऽत्र कथं प्रसङ्ग: ॥ ३६ ॥
अव्यक्तशब्दवाच्यं वपुरेव पूर्ववाक्योक्तशरीरस्य प्रत्यभि- ज्ञानात्। तथाहि पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्ता- नि -- 'आत्मानं रथिनं विद्धि शरीर रथमेवर च। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषर्यास्तेषु गोचरान्'इति तानि पूर्वोक्तानि वस्तून्यस्मिन्वाक्ये पत्यभिज्ञायन्ते। स्मार्तप्रत्यभिज्ञानादपि श्रौंतं पत्यभिज्ञानं प्रवलं प्रत्यासन्रत्वाद्। नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वात् शरीरमेवाव्यक्तशब्द- वाच्यमिति कुतोऽवसीयत इति चेत, परिशेषात्। तथाहि पूर्व- सिपिन्वाक्ये इन्द्रियार्थमनोवुद्धिशब्दनिर्दिष्टाः पदार्थाः उत्तर- म्मिन्ताक्ये तैरेत शब्दैनिर्दिश्यन्ते। पूर्वधात्मशब्दनिर्दिष्टं वस्तु उत्तरत्र पुरुषशब्दनैव निर्दिष्टम्, पूर्ववाक्ये बुद्धिशव्देन यननिर्दिए्ठं तदुत्तरवाक्ये महच्छव्देन सङ्गृहीतम्। बुद्धिईि द्विविधा-अस्म- दादीनां बुद्धिरेका तत्कारणभूता हिरण्यगर्भेबुद्धिरपरा महच्छ- ब्दवाच्या। तयो: पूर्वतैकत्वेनोक्तयो: उत्तरत्र भेदेन निर्देशः। एवं च पूर्ववाक्ये शरीरमेकं परिश्िष्टमुत्तरवाक्ये चाव्यक्तमिति । न
Page 60
५६ अद्वैत विद्यातिलकदर्षणम्।
चैवं परिशेषेऽपि शरीरस्ष्य स्पष्टत्वादव्यक्तशब्द्रवाच्यत्वानुपप त्तिरिति वाच्यम्, कारणावस्थापन्नश्य शरीरम्य सूक्ष्मत्वेना व्यक्तशब्दारईत्वात् अव्यक्तशब्दवाच्यं शरीरमेव॥ ३६ ।
[२ चमसाधिकरणम् ]
चमसवद्विशेषात्। (ब्र०सू०१।४।८)
'अजामेकां लोहितशुक्ककृष्णां बह्ीः प्रजाः मृजमानां सरूपाः अजो ह्योको जुषमाणोऽतुशते जहत्येनां भुक्तभोगामजोऽन्यः' इति श्वताशत्रतरोपनिषदि भ्रगतेऽस्य विषयः। सर्वपजाकारणत्वेन श्रूयमाणा अजा सांख्यसिद्धप्रधानमीशरपरतन्त्रा पककतिर्वेति विशये प्रधानमिति वदामा, अजामिति जन्माभाववचनात्, सर्वपजाजनकत्वाच्च, लोहितशुक्रकृष्णामिति वर्णोपलक्षितगुण त्रयावगमाच्चेति पाप्त सिद्धान्तयति --
सूतां त्वया गिरिश लोहितशुक्लकृष्णां तेजोजलाशनमयीं जननीं प्रजानाम्। एकामजामुपनिषत्प्रथितस्वरूपा सांख्याः प्रधानमिति संकथयन्ति मूढाः ॥३७॥ 'यदग्ने रोहितं रूपं तेजसस्तदूप यच्छुवलं तदपा यत्कृष्णं तदन्नस्य' इति छान्दोग्ये तेजोऽबन्नात्मिकायाः भक्कतेर्लोहितशु- कलकृष्णरूपाणि श्तान्येवात्र मत्यभिज्ञायन्ते। तत्र श्रतप्रत्य-
Page 61
प्रथमाध्याये चतुर्थः पाद :- ५9
भिज्ञाया परावल्यात लोहितादिशब्दानां मुख्यार्थसम्भवाच्च तेजोऽवन्नात्मिका पकृतिरजेति गम्यते। तहजेति कथमुच्यते ? छागे रूढस्याजाशब्दस्य बहुपजाजनकत्वसाम्येनाग्निमार्णवक इतिव- द्रगौणोऽयं प्रयोगः, मकृतेस्तेजोऽबन्नात्मिकायाः ब्रह्मणो जा. तत्वात। ३७ ॥
[२ संख्योपसं ग्रहाधिकरणम्]
न संख्योपसंग्रहादपि नानाभावाद्-
तिरेकाच। (ब्र.सू०१।४।११)
'यस्मिन्पश्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्त्रह्मामृतोऽमृतम्' इति बृद्ददारण्यके षष्ठाध्याये(?) श्रयतेऽस्य विषयः। तमेवाश्रयमात्मानममृतं ब्रह्म मन्ये इत्थं विद्वानहममृतो भवामीति मन्त्रार्थः । अत्र 'पश्र पञ्चजनाः' इति श्राताः पदार्थाः कि वा सांरयशास्त्रपसिद्धानि तत्वानि वेति संशये सांख्यतत्त्वान्येव। कस्मात् १ पञ्चवरिंशतिसंर्याया: सांख्य शास्त्रमसिद्धाया अत्रावभासनाठ। तथाहि पश्चपश्चेति शब्दद्वयं श्रूयते। तत्रैकपश्चशब्देन तत्र गता पश्चसंरुया विवक्षिता, द्वितीयेन पश्चसंख्याविषया परा पञ्चसंख्या विवक्षिता। तथा च पश्चसंख्याविशिष्टानि तत्वपश्चकार्नात्युक्तं भवति । ततः पक्च- मिः पश्चकैः पश्चविंशत्यवभासनाव् सांख्यतर्वान्येवेति पास्ते
Page 62
५८ अद्वैत विद्यातिलकदर्पणम्।
सिद्धान्त :-
आख्याति पच्चजनवाक्यमगेशय त्वां प्राणेक्षणश्रवणभक्तमनःप्रतिष्ठाम्। प्राणादिवाचकपदैर्भगवन् द्वितीयै- स्तत्साक्षितां तव गृणाति यदीयशेषः ॥३८।।
पश्च संख्याविषया परा पञ्चसंख्या अूयतां, तथापि पञ्चविं- शतितत्वमात्रं श्रूयते, पश्चविंशतितच्वानां तदाश्रयस्यात्मनोऽपि प्तीतेः। न चात्मा (पश्च?) विशत्यन्त:पातीति वाच्यम्। तथा सति एकस्यैवाधारत्वमाधेयत्वं चापतेत्। 'आकाशश्च प्रतिः छ्ठितः' इत्याकाशश्राधिका श्ररयते। पूर्वोक्तैः समुच्चयार्थशब्दश्च। अत आत्माकाशाभ्यां सप्तविंशतिसंपत्तेः न सांख्यपदार्थानामत्र प्रसङ्ग:। तहि 'पश्च पञ्चजनाः' इतिवाक्यार्थो वत्तव्यः। उच्यते -- पञ्चजनशब्दोडयं समस्तः कस्यचित्संज्ञा 'दिक्सखये संज्ञायाम्' इति संज्ञायां समासविधानात्। ततः पञ्चजनसंज्ञकाः पदार्था: पञ्चसंख्या इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्माणादयो- डवगन्तव्याः। 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रो- त्रमुतान्नस्यान्नं मनसो ये मनो विदुः' इति द्वितीयैः भ्ाणा- दिशब्दैः पश्चानां साक्षी चिदात्मेत्यभिधीयते। तम्माद्वाक्यशेषा- त्माणादयः पश्चजना भवेयुः॥ ३८॥
Page 63
प्रथमाध्याये चतुर्थः पाद :- ५९
[४ कारणत्वाधिकरणमू]
कारणत्वेन चाकाशादिषु यथाव्यपदिष्ोक्ते। (ब्र. सू० १।४।१४)
ननु वेदान्तानां समन्वयो युक्तो न भवति। करमात्? वेदा न्तानां बहुशो विरोधदर्शनाद्। परस्परविरुद्धानामपमाणत्वात्। तथाहि-'आत्मन आकाशः सम्भूतः' इति तैत्तिरीयके विषदा- दीन्पति स्रष्टृत्वं श्रयते आत्मनः । छान्दोग्ये 'तत्तेजोऽसृजत' इति तेजआदीन्पति । ऐतरेपके 'स इमाँलोकानसजत' इति लोकान्पति। सुण्डके 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति प्राणादीन्प्रति। कारणस्वरूपोपन्यासेऽपि विरोधः। 'सदेव सोम्येदमग्र आसीत' इति छान्दोग्ये सद्रूवं कारणमवग म्यते। अन्यत्र 'असदेवेदमग्र आसीत' इत्यसदूपत्वम्। ऐतरेयके 'आत्मा वा इदमेक एताग्रमासीत' इति। ततो विरोधात्समन्वयो न सम्भवतीति पाप्ते सिद्धान्त :- व्योमादिसृज्यविसरस्तदनुक्रमो वा भूयाद्विवादविषयो भुवनैकहेतुम्। त्वामेव वक्ति निगमोक्तिरनामरूप- मात्मस्वरूपमसदात्मपददयेन । ३९॥
भवतु नाम सृउपेपु विषदादिषु तत्क्रमे च विवाद:, वि
Page 64
६० अद्वैतविद्यातिलकदर्पणम्।
यदादिषु तात्पर्याभावाद। अद्वितीयबोधायैव हि तदुपन्यासः। तात्पर्यविषये हि जगतसत्रष्टरि ब्रह्मणि न कापि विवादोऽस्ति, क्कचित्सच्छ्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपविवक्षया आत्मशब्दरेनाभिधानात्। यत्तसच्छ्देनाभिधानं तदव्याकृत- त्वाभिमानाभियायं न त्वसन्ताभावाभिपायम्, 'कथमसतः स- ज्जायेत' इति श्रुत्यन्तरेणाभावस्य कारणत्वनिषेधात्। तस्मा- देकवाक्यतायाः सुसम्पादत्वाद्विरोधाभावाछ्युक्तो जगत्कारणे वे- दान्तानां समन्वयः ॥ ३९ ॥
[५ बालाक्यधिकरणम् ]
जगद्दाचित्वात्। (ब्र. सू० १।४।१६)
कौषीतकिव्राह्मणोपनिषदि श्रयतेऽस्य विषय: । 'ब्रह्म ते ब्रवाणि' इत्युपक्रम्य 'यो वै वालक एतेपां पुरुषाणां कर्ता यस्य वै तत्कर्म स वेदितव्यः' इत्यादि। तत्र परमेशरोऽन्यो चेति संशये एतेषां पुरुवाणां कर्ता जीव एव कर्मशब्दस्यापूर्व- वाचित्वात्, तहारा तत्कर्तृत्वसम्भवात्। निर्धूतसतकलकर्म- सम्बन्धे परमेशवरे तदभावात् जीव एवायमिति पूर्वपक्षः । सि- द्धान्तस्तु --
ब्रह्मेति षोडश रविश्रमुखान्वदन्तं बालाकिमुक्तमनृतं भवतेत्युदीर्य।
Page 65
प्रथमाध्याये चतुर्थः पाद :- ६१
त्वामन्तरेण कथयेत्किमु यस्य चैत- त्कर्मेत्यनेन वचसान्यमजातशत्रुः॥४०।।
कर्मशब्दस्य एतच्छव्दसामानाधिकरण्येन जगद्वाचित्वात् क्रियत इति कर्म कायेंमात्रवाचि न तु चलनमात्रवाचि। तथा सति पोडशपुरुषचलनात्मककर्ममात्रकर्ता प्रतिपाद्य: स्याद्। तथा सत्यजातशत्रोरषि वालाकिनं मत्युक्तदोष: स्यात्॥४०॥।
[६ वाक्यान्वयाधिकरणम् ]
वाक्यान्वयात्। (ब्र०सू०१।४।१९)
'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि- तव्प:' इति बृहदारण्यकेऽस्य विषयः। अत्र श्रोतव्यत्वेन भती- यमान आत्मा जीवो वा परमात्मा वेति सन्देहे जीवात्मैव। क- स्मात् ! 'न वा अरे पत्युः कामाय पतिः मियो भवति आत्म- नस्तु कामाय पतिः प्रियो भवति' इसादिवाकयैः भोगप्रीतियु- कस्पात्मनः संसारित्वसूचनात्। अयमस्थार्थः-पत्यौ भीति कु- र्वन्ती जाया न पत्युः सुखाय मरीति करोति किन्तु स्वसुखायैव। एवं पुत्रादयोऽवि स्वरस्वमोगायवेतरत्र प्रीतिं कुर्तन्तीति भोग भीतियुक्तमात्मानमुपक्रम्ध 'आत्मा वा अरे द्रष्टव्यः' इति श्रत्र- णाव संसारीति मासे सिद्धान्तयति-
Page 66
६२ अद्वैतविद्यातिलकदर्पणम्।
मैत्रेय्यभीकमुनिसूक्तमुपक्रमोप- संहारयोरमृतभावमहत्निरीक्ष्य। जीवं पुरोदितमनूद्य शिव त्वयास्य श्रोतव्यवाक्यमभिदां वदतीति मन्ये ॥४१॥
एतद्वाक्योपक्रमे मैत्रेयी वित्तसाध्येन कर्मणा ककिममृतं स्यादिति पमच्छ। याज्ञवल्क्यस्तु 'अमृत्त्वस्य तु नाशास्ति वित्तेन' इत्यमृतत्वरप्रत्याशापि कर्मणा नास्तीत्युत्तरमाह। उप- संहारेपि 'एतावदरे खल्मृतत्व्रम्' इत्युपसंहृतम्। अत उप क्रमोपसंहारवशादमृतत्वसाधन मात्मज्ञानमत्र प्रतिपाद्यम्। जीवा- त्मज्ञानं च नामृतत्वसाधनम्। तस्माद् भोगप्रीतिमज्जीवमनूय तस्य ब्रह्मत्वं पतिपादते।इलोकार्थस्तु-उपक्रमोपमंहाराभ्पाममृत- त्वसाधनमात्मज्ञानमात्रमित्यहं ज्ञात्वा मैत्रेय्यभीकमुनिसूक्तं य- दस्ति तत्रोपक्रमोपसंहाराभ्यां पुरोदितं जीवं चानूय जीवस्पा स्य हे शिव त्वदभेदम् 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' इति वाक्यं वदतीति मन्ये इति ॥४१ ॥ [अ प्रकृत्यधिकरणम्]
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। (व्र०सू० १।४।२३) जगत्कारणत्वपतिपादकानि सर्वाणि वाक्यानि विषय: ।
Page 67
प्रथमाध्याये चतुर्थः पाद :- ६३
अत्र कि ब्रह्म निमित्तमेवोपादानमपीति वा इति सन्देहे निमि- त्तकारणमेव 'तदैक्षत' इति स्रज्यकार्यविषये पर्यालोचनश्रवणात्। पर्यालोचनं च कुलालादिनिमित्तकारणे दृष्टं नोपादाने मृदादौ। तस्मान्निमित्तकारणमिति माप्ते सिद्धान्तयति - निःशेषकार्यविषयेण निमित्तहेतु- रालोचनेन जगतामसि चन्द्रमौले। भूभूधरप्रभृतिभूरिपदार्थभाव- संकल्पसंघटनया प्रकृतिश्र तेषामू॥। ४२।। 'तदैक्षत बहु स्या प्रजायेय इति ईक्षितुरेव प्रकर्षेणोत्पच्या बहुभावः श्रूयते। तत उपादानमपीति। 'यस्मिन्विज्ञाते सर्व- मिदं विज्ञातं भवति' इति सर्वविज्ञानप्रतिज्ञानं च ब्रह्मण उपा दानतवे घटते। उपादानब्रह्मव्यतिरेकेण कार्याणामभावात् त. दुपपादयितुं शक्यम्। केवलनिमित्तत्वे तु सर्वेषु ब्रह्मव्यतिरि क्ेषु सत्सु एकविज्ञाने सर्वविज्ञानं कथं प्रतिपाद्यताम् ? तस्मा- न्निमित्तोपादानं ब्रह्मेति ॥ ४२॥ [८ सर्व्याख्यानाधिकरणम्]
एतेन सर्वे व्याख्याता व्याख्याताः।(व०सू०१।४।२८)
अत्र वेदान्ता विषयाः। ब्रह्मण इव परमाणुशून्यादीना मपि जगत्कारणत्वं श्रतम्ति। अथवा ब्रह्मण एव नियतं का
Page 68
६४ अद्वैत विद्यातिलकदर्पणस्।
रणत्वमिति संशयः। अण्वादीनामपि कारणतंश्रुत वटधानादि- दृष्टान्तश्रवणात्। तथाहि छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युप- दिशन्नुद्दालकः सूक्ष्मे तच्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादाये तुमाह। दृक्षगर्भितानि वटबीजानि द्ृष्टान्त्त्वेनोदाजार।् अ स्तादशा: परमाणवो दार्ष्टान्तिका: भ्रुता भवन्ति। शून्यस्य त्वसदेवेदमग्र आसीदिति कारणत्वं श्रुतम्। साक्षादेवाभावमेके कवयो वदन्ति कालं तथान्ये इत्यभावकालपक्षौ श्रौतौ। तस्मात् परमाणत्रादीनामपि श्रंतं कारणत्वमिति पूर्वपक्षे सिद्धान्तमाह-
अव्याकृतत्वहृदयादखिलप्रमाण- वेद्येतरप्रकृतिताविषयाच्च भावात। किं ते विरुद्धमभिधानमसत्पदेन विश्वेश सूक्ष्मवटबीजनिदर्शनं च ॥ ४३ ॥ एकविज्ञानेन सर्वविज्ञानं शून्यादिमते नोपपद्यते, शून्या- दिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात्। धानादिद्- ध्टानतस्तु ब्रह्मण्यपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । अस- च्छब्दस्य नामरूपराहित्याभिपायश्चतुर्थाधिकरणे वर्णितः । अ- भावकालपक्षौ तु पूर्वपक्षश्रुत्योपन्यस्तौ। श्लोकार्थस्तु-अव्या- कृतत्वहृदयादिति। हे विश्वेश असत्पदस्य नामरूपरहितब्रह्म-
हणोडपि सूक्ष्मत्वात् ब्रह्मण्यसत्पदं वटघानदष्टान्तक्षोभयसुपप-
Page 69
प्रथमाध्याये चतुर्थः पाद :- ६५
दयते। प्रत्यक्षादिप्रमाणवेद्येतरा प्रकृतिः स्वभावो यस्य स त- थोक्तः तस्य भावस्तत्ता तद्विषयात् भावादभिपायादित्यर्थः ।।४३।। ननु प्रथमाध्यायप्रतिपादितन्यायैः तत्तदधिकरणविषयवा- क्यानामेवार्थस्य निर्णीतत्वात् शाखान्तरगतानां वाक्यानामर्थ निर्णयः कथमित्याशदा सूत्रकारेणैवेयमाशङ्कानेनैव सूत्रेण प- रिहृतेत्याह- न्यायवूजैः कतिपयश्रतिमस्तकानां तात्पर्यनिर्णयकृते कथितैरमीभिः। कृतस्ना मृषेतरगिरामवसानवाच: पञ्चानन त्वयि भर्वन्ति समन्वितार्थाः ॥४४॥।
पतेन सर्वे व्यारुपाता व्याख्याताः । एतेन प्रथमाध्या यपदर्शितेन न्यायसमूहेनेवान्तशाखागतवाक्यानामर्थनिर्णय इति सर्व्ञशरोमणिना व्यासेनैवातिदेशः कृत इति नातुपप- सिर्वर्णकान्तरमिदमिति। श्रोकार्थस्तु स्पष्ट एव ।। ४४ ॥ इति श्रीमत्परशुराममिश्रात्मजमित्रमिश्रमेरितस्य वेङ्कटमट्टः सूतुधम्पयदीक्षितस्य कृतौ अद्वैतविद्यातिल कदर्पणे प्रथमाध्यायस्य चतुर्थः पादः ॥
समाप्त्ाध्यायः प्रथम: ।।
Page 70
६६ अद्वैतविद्यातिलकदर्पणम्।
[१ स्मृत्यधिकरणम्]
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाश- दोषप्रसङ्गात्। (ब्र०सू० २।१।१)
अस्मिन् पादे समन्वयमाक्षिप्य समाधीयते। तत्रास्मिन्न धिकरणे वैदिकस्य समन्वयस्य सांख्यस्मृत्या सङ्कोचोऽस्ति न वेति संशयः । सङ्कोचोऽस्ति । कुतः । सांख्यस्मृतेर नवकाश - त्वेन प्रबलत्वात्। सांख्यस्मृतिरिह वस्तुतच्वनिरूपणाय प्रवृत्ता न तु अनुष्ठेयधर्म क्चिदपि प्रतिपादयति। यदि तस्मिन्नपि वस्तु- न्यसौ वारय्येत तदा निरवकाशा स्यात्। वेदस्तु धर्मब्रह्मणी प्रतिपादयन् ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः । तस्मादनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्त इति पाप्ते सिद्धान्तयति-
त्वत्कारणत्वकथने पटुभिः प्रसिद्ध- वेदैकमूलकतयातिपटीयसीमिः। मन्वादिसूक्तिभिरमूलतया प्रधान- हेतुत्ववादिकपिलस्मृतिरेव बाध्या ॥ ४५ ॥ सांख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः । मन्वा- दिस्मृतिभि: ब्रह्मकारणवादिनीभि: बाधितत्वात्। प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदभूलत्वात्। न तथा कपिलस्मृते:
Page 71
द्वितीयाध्याये प्रथमः पाद :- ६७
पधानकारणवादिन्या मूलभूतं कश्चन वेदमुपलभामहे। दृश्यमा- नवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात्। तस्मान्न सांख्यस्मृत्या वेदस्य सङ्कोचो युक्तः। श्रोकार्थस्तु स्फुट एव ।। ४५ ॥
[२ योगप्रत्युक्धिकरणम ]
एतेन योग: प्रत्युक्त: । (ब्र०सू०२।१।३)
योगस्मृत्या वेदस्य सङ्कोचोडस्ति न वेति संशये तया वेद- स्य सङ्कोचोऽस्त्येव। योगस्मृतिः पातञ्जलशास्त्रम्। तत्राष्टाङ्ग योग: प्रतिपादितः । स च पत्यक्षवेदेष्वप्युपलभ्यते, शवेताश्व- तरोपनिषदि सांख्ययोगस्य प्रपश्चितत्वात्। किश्च, अयं योगस्त- व्वज्ञानोपयोगी दश्यते। 'त्वग्रया बुध्येति' योगसाध्यस्य चित्तै- काग््यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात्। ततः प्रमाणभूतं योगशास्त्रं, तच्च प्रधानस्यैव जगत्कारणत्वं वक्ति । तस्माद्योग- स्मृत्या वेदस्य सङ्कोचोऽस्तीति मासे सिद्धान्तयति -- स्थाणो भवत्प्रमितिसाधनयोगचिन्ता- भागे प्रमाकरणभावमुपागतापि। पातञ्जलस्मृतिरसौ भवति प्रमाणं नैव प्रधानमुखतच्वनिरूपणांशे॥ ४६॥ अष्टाङ्गयोगतात्पर्यवत्त्वात् पमाणभूतापि योगस्मृतिरवैदि-
Page 72
६८ अद्वैतविद्यातिलकदर्पणम्।
के प्रधानादौ न प्रमाणं, तत्र तात्पर्याभावात्। तथाहि 'अथ योगातुशासनम्' इति प्रतिज्ञाय 'योगश्चित्तवृत्तिनिरोधः' इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे मपश्चयामास इति न तच्वनिरूपणे तात्पर्यर्यम्। प्रधानादीनि तु न मतिपाद्यतया परति- ज्ञातानि। ककि तर्हिं ? द्वितीयपादे यमनियमादिसाधनप्रतिपादनं हानहेतुं च विवेचयन् मसङ्गात्सांखयस्मृतिपसिद्धानि प्रधाना- दीनि व्याजहार। ततो न तत्र तात्पर्य्यम्। तस्मान्न योगस्मृत्या वेदस्य सङ्गोच: ॥ ४६ ॥
[३ विलक्षणत्वाधिकरणम्]
न विलक्षणत्वादस्य तथात्वं च शब्दात्। (ब्र०सू ०२।१।४)
अचेतनं जगच्चेतनाज्जायते न वेति संशये अचेतनं जग- न्न जायते चतनाद्ब्रह्मण: ब्रह्मविलक्षणत्वात्। यदेन चिलक्षणं तत्तस्मान्न जायते, यथा गोर्महिष इत्यनेन तर्केण समन्वयो बाध्यत इति प्राप्ते सिद्धान्तयति --
जन्तौ शकृज्जनुषि वृश्चिकनाम्नि देह- जन्ये च कुन्तलभरे व्यभिचारशाली। विश्वैकनायक विलक्षणभावहेतु- लोंके भवत्प्रभवतां नहि रोद्धुमीषटे ॥ ७॥
Page 73
द्वितीयाध्याये प्रथमः पाद :- ६९
विलक्षणभावहेतुर्वैलक्षण्यहेतुरित्यर्थः। यद्रेन विलक्षणं तत्तस्मान्न जायते इति व्याप्तरववश्चिकादौ व्यभिचारो दृश्यते, अचेतनात् गोमयात् चेतनस्य वथ्िकस्योत्पत्तेः, चेतनात्पुरु षादचेतनानां केशादीनासुत्यत्ेः। अतो वेदनिरपेक्षशुष्कतर्को न बाधकः ॥ ४७॥
[४ शिष्टापरिग्रहाधिकरणम् ]
एतेन शिष्टापरिग्रहा अपि व्याख्याताः।(ब्र०सू०२।१।१२) तरहि कणादबुद्धादिस्मृतिभिस्तदीयतकैश्च समन्वयो वाध्य- ताम्। कणादो हि महर्षि: परमाणूनां जगत्कारणत्वं सस्मार, तर्क च तस्मित्नर्थे प्रोवाच-विमतं व्यणुकादिकं स्वस्मात न्यूनपरि माणेनारब्धं कार्यद्रव्यत्वात् यथा तन्तुभि: पटः । बुद्धश्च भगव. तो विष्णोरवतारः अभावं जगद्वेतुं वदतिस्म। तर्क तदनुक्ू- लमाह-विमतं भावरूपं जगदभावपुरस्सरं भवितुमईति भाव- रूपत्वात् यथा सुपुप्तिपुररसरः स्वप्नपपश्च इति। ततः परबलैः कणादादिमतैर्वाध इति प्प्ते सिद्धान्तयति --
स्वन्यूनहेतुजनितत्वकथा न कार्य्या द्रव्यस्य देव जगतीह भवद्िवर्त्तें। दूरस्थिता चलमहाविटपिप्रसृत- दूर्वाङकुरप्रकरविभ्रमदर्शनेन ॥। ४८.॥
Page 74
७० अद्वैतविद्यातिलकदर्पणम् ।
स्वप्न प्रपञ्चजनिपूर्वसुषुप्तिकाले प्राज्ञात्मनः पशुपते तव वर्त्तनेन। वाक्यैः सपक्षविरहाद्रभुवनस्य भाव- कार्यस्य दुर्वचमभावपुरस्सरत्वम ॥ ४९॥
यदा वैदिकशिरोमणिना पुराणकर्तरा तत्र तत्र प्रसङ्गादुदाहता प्रकृतिपुरुषादिप्रतिपादिका सांख्य योगादिस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता तदा निखिलैः शिष्टैरुपेक्षितानां कणादा दिमतानां दौर्बल्यमिति किमु वक्तव्यम्। न खलु ब्राह्मपादादि- पुराणेषु कचिदपि मसङ्गात् व्णुकादिप्रक्रियोदाहता प्रत्युत 'हैतुकान् बकवृत्तींश्च वाऊात्रेणापि नार्चयेत्' इति बहुशो नि- न्दोपलभ्यते। यस्तु न्यूनारभ्यत्वनियम उक्तः, नासौ वि- वर्तवादेऽस्ति पुरःस्थितपर्वताग्रस्थितैर महावृक्षैरलपदूर्वाङ्कुरपकरवि- भ्रमस्य जन्यमानत्वात्। यदप्यभावपुरस्सरत्वातुमानं तत्रापि साध्यविकलो दृष्टान्तः सुपुप्तेरवस्थात्वेनात्मनः सदूपस्थाङ्गीक- रणीयत्वे सति स्वप्नस्याभावपुरस्सरत्वाभावात्। तस्मादेतैर्मतै- रनास्ति बाघ:। प्रथमश्लोकेन न्यायमतस्य द्वितीयेन बौद्धमतस्य निरासः ॥४८ ॥४९ ॥
[५ भोक्रापत्यधिकरणम ]
Page 75
द्वितीयाध्याये प्रथम: पाद :- ७१
समन्वयेनावगम्यमानमद्वैतं मत्यक्षादिसिद्धेन भोकतृभोग्य- भेदेन बाध्यत इति चेत-
भूतेशितस्त्वदभिदां नहि भोजकादे र्भेदो निषेधति समन्वयतः प्रतीताम्। फेनोर्मिबुद्बुदपृषद्पुषा प्रसिद्ध: सोऽयं मिषन्नपि यथा जलधेरमेदम्॥ ५० ॥
तरङ्गादिरूपेण भेदस्य समुद्ररुपेणाभेदस्य च दष्टत्वेन भेदा-
रहिते अत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात्, तस्मात् ब्रह्माकारेणाद्वैत भोक्तृभोग्याकारेण द्वैतमिति आकारभेदाव्यव- स्थासिद्धौ न विरोधः ॥ ५०।।
[६ आग्म्भणाधिकरणम्]
तदनन्यत्वमारम्भणशब्दादिभ्यः। (ब्र०सू०२।१।१४) ब्रह्मण: मपश्चस्य च भेदाभेदौ तान्विकौ व्यावहारिकौ वेति संशये समुद्रतरङ्रयोरिव तयोभेंदाभेदौ तार्विकौ बाघाभा- वादिति पाप्ते सिद्धान्त :-
कलोलिनी विट इव त्वाये कामवौरिन् आकारभेदविरहादविशेषगन्धे।
Page 76
७२ अद्वैतविद्यातिलकदर्पणम्।
भेदाभिदे परमिह व्यवहारसिद्धे त्वामागमो वदति तात्विकमद्वितीयम्॥५१॥ भेदाभिदे न तान्विके श्रुतियुक्तिभ्यां बाधात्। तथाहि 'नेह नानास्ति किश्चन' इति श्रुतिर्भेदं बाधते, युक्तिश परस्परो- पमर्दात्मकयोरमेदाभेदयोरेकत्रासम्भवात् एकस्मिन् चन्द्रमसि द्वित्वासम्भवात्। यदुक्तं पूर्वाधिकरणे आकारभेदान्वेद इति तदप्यसत्, अद्वैतवस्तुन्याकारभेदस्यैवासम्प्तिपत्तेरिति। समु- द्रादौ तु दृष्टत्वादभ्युपगम्यते। न हि दृष्टेेऽनुपपत्तिरस्ति। अत्रापि ब्रह्माकारजगदाकारौ दष्टाविति चेन्न, ब्रह्मणः शासत्रैकसमधिग- भ्यत्वात्। तस्मात् श्रुतियुक्तिवाधितत्वात् व्यावहारिकौ भेदाभेदौ। कि तहि तत्वमिति चेत्, अद्वैतमेव तत्वमिति वदामः। कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात्। तथा श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति। 'यथा सोम्थैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वाचार- म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्-एवं सोम्य स आ- देशो भवतीति'। तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकार- शब्दन श्रतिस्तानुदाहरति । मृद्धस्तुनो विकारा: संस्थानवि- शेषा घटादयो न पृथग्वस्तुभूताः, यथा देवदत्तस्य बाल्ययौ- वनस्थाविरादयस्तद्वृत। एवं सति घटाकारपतिभासदशायाम पि मृन्मात्रं स्वतन्त्रं वस्तु। ततो मूदयवगतार्या घटादीनां यत्तात्ति- कं स्वरूपं तत्सर्वमवगतम्। आकारविशेषा न ज्ञायन्त इति
Page 77
द्वितीयाध्याये प्रथम: पाद:
चेतू, मा झ्ञायन्तां नाम तेषा वस्तुभूतानां जिज्ञासानहत्वात्। चक्षुपा पतिभासमाना विकार: निरूपिताः सन्तो मृद्यतिरेकेण न स्वरूपं किश्चिल्लभन्ते, घटोडयं शरावोऽयमिति वादं निष्पा दयमानं नामधयमात्रं लभन्ते। अनो निर्वस्तुकत्वे सति उपल- न्यमानस्वरूपेण मिथ्यात्वलक्षणेनोपेतत्वात् असत्या विका- रा:। मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभत इति सत्या। तथा ब्रह्मोपदेशोऽवगन्तव्यः । ब्रह्मण मृत्तिकान्याय स्य जगति घटादिन्यायस्य योजयितुं शक्यत्वात्। तस्माज्जगतो ब्रह्माभेदात अद्वैतं ब्रह्म तास्विकम्। एवंविधविचारशून्यानां पुरुषाणामापातदष्टया वेदेनाभ्युपेत्ताद्वितीयब्रह्मपतिपत्तेः पसक्षा दिभिर्भेदप्रतिपत्तेश्र सद्भ्ावात् समुद्रतरङ्गन्यायेन भेदाभे दाववभासेते। तस्माव्यावहारिकाविति स्थितिः।। ५१॥
(ब्र०सू ०२।१।२१)
परमेशवरो हि केषांचित् जीवानां संसारासक्तानां वैराग्या- दिकं हितं न निर्मिमीते अहितं च नरकहेतुमधर्म निर्भिमीते। निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति। तस्मात् स्व. स्यैव हिताकरणमहितकरणं च पसज्येयाताम्। एतच न युक्तं, नहि लोके प्रेक्षावान् कश्विदपि स्वस्य हितं न करोति अहितं १०
Page 78
७४
च करोति। तस्माद्धिताकरणादिदोष इति आरप्ते सिद्धान्त :-
स्वाभिन्नजीवसुखदुःखभरे मृषात्वं पश्यन्निजात्मनि च लेपविमुक्तभावमू। शम्भो शरीरिगतशर्मविषादजातै न स्पृश्यसे नलिनपत्रमिवाम्बुलेशैः ॥ ५२॥
सर्वज्ञत्वादीश्वरः जीवसंसारस्य मिथ्यात्वं स्वस्य निर्ले- पत्वं च पश्यति। तम्मान्न हिताहितभावत्वदोषः । ५२ ।।
[८ उपसंहारदर्शनाधिकरणम्]
उपसंहारदर्शनान्नेति चेन्न क्षीरवाद्व। (ब्र०सू०२।१।२४)
अद्वितीयब्रह्मणः सकाशात् विचित्रगगनादिक्रमिकसटष्टि: सम्भवति न वेति संशये न सम्भवतीति ब्रूमः । कुतः । 'एकमे- वाद्वितीयम्' इति ब्रह्मणः स्वगतसजातीय विजातीयैर्भेदेः शून्यत्व. मनगम्यते। स्रष्टव्यानि चाकाशवाय्वग््यादीनि विचित्राणि। न हविचित्रे कारणे कार्यवैचित्र्यं युक्तम्, अन्यथैकस्मादपि क्षी- राद्धितैलाद्यनेकविचित्र का र्यप्रमङ्गात्। क्रमश्वाकाशादीनां श्र. त्यावगम्यते।न च तस्य व्यवस्थापकं किश्चिदस्ति। तस्मादने ककार्याणां क्रमेण जन्म अद्वितीयव्रह्मणो न सम्भवतीति पा
Page 79
द्वितीयाध्याये प्रथमः पाद :- ७५
से सिद्धान्त :-
किं चित्रमत्र गगनादिविचित्रशिल्प- मेकादय प्रकृतिकोऽप यदातनोषि। अन्यादृशी निगमशक्त्यनुभूतिगम्या साचिव्यमाचरत चेत्तव शाम्बरी सा ॥५३॥ यद्यपि तत्वतो व्रममह्वैतं, तथापि श्रुत्यनुमानातुभ वगम्या माया। तम्माद्विचित्र गगनादिक्रम स ्टिकाणं ब्रममार्या ुृति विद्यान्मायिनं तु महेश्वरम्' इति श्रतिः। मायैवाविद्या, उभयो-
वास्तवस्य द्वितीयस्याभावान्, न जानामीत्याद्यनुभवेनानुमानेन च तस्या: सिद्धेः। अत एकमपि ब्रह्माविद्यासहायवशात् ना- नाकार्यजनकं भवति। न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात्। तस्मादद्वि तीयव्रह्मणो विचित्रक्रमिकनानाकार्याणां स्टिरुपपद्यते ।।५३।।
[९. कृत्स्नप्रस त्तचधिकरणम् ] कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा। (व्र० सृ० २।१।२६ )
आरम्भणाधिकरणे कार्यकारणयोरभेदः प्रतिपादितः ।
Page 80
७६ अद्वैतविद्यातिलकदर्पणमू।
स्मात् क्षीरदधिन्यायेन परिणामो बक्तव्यः । ततू किं ब्रह्म का- तहर्नर्येन परिणमते उतैकदेशेन वा ? नादा, कात्स््येन परिणामे ब्रह्मणोऽनित्यत्वपसङ्गात् क्षीरवत्। द्वितीये, सावयवत्वप्रसङ्गातू। तस्मान्न परिणाम इति प्राप्ते सिद्धान्त :-
स्यातां न तौ भवति शंकर माययैव व्योमादिरूपविकृति प्रतिपद्यमाने।
सम्भावितौ विलयसावयवत्वदोषौ।। ५४॥
'इन्द्रो मायाभि: पुरुरूष ईयते' इति श्रुतेः ब्रह्मणो मा- याशक्तिमि: जगद्रूषेण विवर्त्तः। न त्वसौ वास्तवः । तेन कृत्स्नै-
दानत्वं ब्रह्मण: ॥ ५४ ॥
[१० सर्वोपेताधिकरणम् ]
सर्वोपता च तद्दर्शनात्। (ब्र० सू०२१।३०) लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनादशरीर- स्य ब्रह्मणो न माया सम्भवतीति भास्ते सिद्धान्त :- रूपं विनापि तव लोकविलक्षणस्य मायाविनो भुवनस्टिरिविद्ययैव।
Page 81
द्वितीयाध्याये प्रथम: पाद :-
धामादिकर्म तृणदारुमृदो विनापि माहेन्द्रजालिकजनस्य यथा जगत्याम् ॥५५॥
गृहादिनिर्मातृणां निर्मातृत्वे स्वव्यतिरिक्तमृद्दारुतृणादिबा- ह्यमाधनकर्मसापेक्षत्वदर्शनेऽषि ऐन्द्रजालिकस्य तृणदारुमृदो विनापि वाह्यसाधननैरपेक्ष्येण यथा गृहादिनिर्मातृत्वं तथाSलौ- किकमायाविनः। शररिसापेक्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमाणमिति चेत्तर्हि ब्रम्मणोडपे शरीरनैरपेक्ष्येण जगननिर्मातृत्वमस्तु। माया- सद्वावेऽपि 'मािनं तु महेश्वरम्' इति श्रुतिः प्रमाणमस्तु ।।५५।।
. ११ प्रयोजनवत्वाधिकरणम ]
न प्रयोजनवर्वात्। (ब्र० सू०२।१।३२)
'आनन्दो ब्रह्म' इति शास्त्रेण नित्यतृप्तः परमेश्वरः । ता- दृशस्य सृष्टिविषयेच्छायामभ्युपगम्यमानार्या नित्यतृप्रता व्या- हन्पेत। अनभ्युपगम्यमानायामवुद्धिपूर्विका सृष्टिं विरचयत उन्मत्तनरतुल्यता मसज्येत इति मासे सिद्धान्तयति-
प्रस्तुयते मुहुरियं भवता कपार्द्देन् अर्थ विनाप्यखिलविष्टपसृष्टिलीला। मधाविभिर्विहृतयो मृगयादिरूपाः कस्मै फलाय जगतीपतिमि: क्रियन्ते ॥५६॥
Page 82
७6 अद्वैतविद्यातिलकदर्पणम्।
बुद्धिमद्विरेव राजादिभिरन्तरेण प्रयोजन लीलया मृगया. दिप्रवृत्ति: क्रियते, श्वासोच्छूसव्यवदारस्तु सार्वजनीना, व्य र्थचेष्ाश्च वालै: क्रियमाणा: बहवपो दृश्यन्ते, तद्वन्नित्यतृप्तोऽपीश्व रः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन् अशेषं जगत् सजतु ॥५६॥
[१२ वैषम्यनैधृण्याधिकरणम्]
वैषम्यनैर्धृण्ये न सापेक्षत्वात्तथाहि दर्शयति। (व्र०सू०२।१।३४)
ईईवरो देवादीनत्यन्तं सुखिनः सृजति, पश्वादीनसन्तदुः खिनः, मनुष्यांश्च मध्यमान्। एवं तारतम्पेन पुरुषविशेषेषु सुखदुःखे सजन्नीश्वरः कथ विषमो न स्यात् ? कथं च नीचैर- सन्तं जुगुप्सितं देवतिय्यङ्पनुष्याशेपजगदुपस्षहरभ्निर्धृमोन भ वेत ? तस्माद्वैपम्यनैर्धृण्ये परसत्येयातामिति मासे सिद्धान्त :-
तत्तत्क्रियासमुचितोत्त ममध्यमादि भावार्षणान्न विषमो भवसि प्रजानाम। जन्तून् सभाजायेतुमेव महासुषुप्त्या निर्भ्मन्थितो गिरिश निरधृणता कुतस्ते ॥५७॥ न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति, प्राणिनामुत्तममध्य- माधमानां लक्षणवैषम्ये तत्तत्कर्मण्ामेत्र प्रयोजकत्वाद् । न
Page 83
द्वितीयाध्याये प्रथमः पाद :- ७१
तावता ईश्वरस्य स्वातन्त्र्यहानि, अन्तर्यामितया कर्माध्यक्ष- हत्। नन्वेवं सति घट्टकुटीपभातवृत्तान्तन्याय आपद्यते, ई- वरे वैपम्यं परिहर्स्तु कर्मणो वैषम्यं हेतुमुक्त्वा पुनरपीश्वरस्य वातन्त्यसिद्धये तत्कर्मनियामकत्वे अभ्युपगम्यमाने पुनरीश्व- स्यैव वैषम्यप्रसङ्गात्। नायं दोपः। नियामकत्वं नाम तत्तद्र तुशक्ती नामव्यवस्थापरिहर्तृत्वमात्रत्वम्। शक्तयस्तु मायाशरीर ूताः। न तासामुत्पादक ईश्वरः। ततश्व स्वशक्तिवशात कर्म- ॥ वैषम्यहेतुलेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यपसङ्ग: । रहारस्य सुपुप्तिवत् दुःखाजनकत्वाद् प्रत्युत सर्वक्रशनिवर्तक- वात् सघृणत्वमेव । तस्मान् कोऽपि दोष इति ॥५७॥
[१३ सर्वधर्मोपपत्यधिकरणम ]
सर्वधर्मोपपत्तेश्र । (ब्र० सू० २।१।३७ )
मकनित्वं नाम कार्याकारेण चिक्रियमाणत्वस्। तच्च सगुण एव लोके मृदादौ दष्टम्। तनो निर्गुणस्य ब्रह्मणो न पकृतितेति नाप्ते सिद्धान्तयति- गंगावतंस गुणगन्धविवर्जितोऽपि रवं जायमे त्रिजगदध्यमनैकभूमिः । मालिन्य दृ पितमहीमुरभाजि जातौ शुद्रभ्रम: किमु जनस्य न वोभवीति ॥ ५८ ॥
Page 84
८० अद्वैत विद्यातिलकदर्पणम्।
यद्यपि प्रक्रियतेऽनयेति प्रकृतिरिति व्युत्पच्या विक्रियमाणत्वं प्रतीयते तथापि तद्विक्रियमाणत्वं द्वेधा सम्भवति-क्षीरादिव त्परिणामित्वेन वा रज्ज्वादिवद्भ्रमाधिष्ठानत्वेन वा। अत्र निर्गुणस्य परिणामित्वासम्भवेपि भ्रमाधिष्ठानत्वमस्ति। दृश्यते निर्गुणेऽपि जात्यादौ भ्रमाधिष्ठानता, मलिनं ब्राह्मणं दृष्टा शुद्रोऽयमिति भ्रान्तव्यवहारदर्शनात्। तस्मात् निर्गुणमपि ब्रह्म प्रकृतिरिति ॥५८॥
धर्म्मय्यदीक्षितस्य कृतौ अद्वैतविद्यातिलकदर्पणे द्वितीयाध्यायस्य प्रथम: पाद: ।
पूर्वोंक्तसमन्वयः परमतदूषणेन स्थिरीक्रियते इत्याह- एतावता प्रकरणेन यदभ्यधायि सर्वागमान्तवचसां त्वाय सामरस्यम्। व्यासोदितेन विमतस्थितिदूषणन दाक्षायणीधव तदत्र दृढीकरोति ॥५९॥
[१ रचनानुपपतत्यधिकरणम् ]
रचनानुपपत्तेश्र नानुमानम् । (ब्र० सृ०२।२।१) पधानं जगतो हेतुर्न वेति संशये, सांख्यास्तु-सुखदुःखमो-
Page 85
द्वितीयाध्याये द्वितीय: पाद :-
हात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखदुःखान्वयदर्शनाद। घटादयो लभ्यमाना: सुखदा भवन्ति उदकाहरणादिकार्यका- रित्वा। त एवान्यैरपहियमाणास्तस्यैव दुःखदा भवन्ति। यदा उदकाहरणादिकं नापेक्षित तदा न सुखदुःखे जनयन्ति केव- लसुपेक्षणीयत्वेनावतिष्ठन्ते। तदिदमुपेक्षाविषयत्वं मोह:, सुद- वैचित्य इति घातोर्मोहश्दनिष्पत्ेः उपेक्षणीयेषु चित्तट- रयनुदयात्। अतः सुखदुःखमोहान्वयदर्शनात् प्रधानं जगतः मकृ- तिरिति वदन्तीति प्राप्ते सिद्धान्तयति-
संदृश्यमाननियताकृति सत्निवेश- वैचित्र्यवर्म्मित चराचरसंविधायै। विज्ञानशेवधिमृते विषमेक्षण त्वां कल्पेत किन्नु कपिलाभिमतं प्रधानम् ॥६०।।
न प्रधानं जगतो हेतु:, देहेन्द्रियमहीधरादिरपस्य विचि- त्रस्य प्रतिनियतसन्निवेशविशेषस्य च जगतो रचनायामचेतन- स्य प्रधानस्य योग्यत्वासम्भवात । लोकेऽपि प्रतिनियतकार्य- स्य विचित्रमासादादेरतिबुद्धिमत्कर्तृत्वोपलम्भाद। आस्तां ताव- दियं रचना तत्सिद्धयर्थपवटत्तिरपि नाचेतनस्योपपद्यते, चेतना- नषिष्टितशकटादौ तददर्शनात। अथ चेतनस्य प्रकृत्यधिष्ठातृ- त्वमभ्युपगम्यते, तर्श्वसङ्गत्वं पुरुषस्य हीयेतेत्यपसिद्धान्तः । यदुक्तं सुखदु:खमोहान्विता घदादय इति तदसत्, सस्ादी ११
Page 86
नामान्तरत्वात् घटादीनां बाह्यत्वान्र मधानं जयतो हेतु:।६०।।
[२ महद्दीर्घाधिकरणभ्]
महद्दीर्घवद्दा हस्वपरिमण्डलाभ्याम्। (ब्र०सू०२।२।११)
पूर्वस्मिन् पादे चेतनात् ब्रह्मणो विलक्षणमचेतनं जगत् जायत इत्यत्र सांख्यान् प्रति लोकसिद्धं गोमयवश्चिकादिनिद- शनमभिहितम्। तावता सांख्यैः क्रियमाणस्थाक्षेपस्य परिहृतत्वाव स्वपक्षसाधनं संपन्नम्। परपक्षदूषणं चास्मिन् पादे पक्रम्य पू- वाधिकरणे सांख्यमतं दूषितम्। इतः परं वैशेषिकमत दूषयि- तव्यम्। तन्मतस्य प्रक्रियाबहुळत्वात् तद्ासनावासितः पुरुष: स्वमतीिद्धदृष्टान्ताभावेन विलक्षणात ब्रह्मणः प्पश्चोत्पाचि न बहु मन्यते। अतो विसदशोत्पत्तौ कणादमतसिद्धद्दष्टान्तोडस्ति मं वेति विचार्यते। नास्तीति तावत्माप, यतः शुक्कपटः शुक्केभ्य एव तन्तुभ्यो जायते न तु रक्तेभ्यः। तस्मान्नास्तीति प्राप्त सिद्धान्त :- उन्मत्तचूडपरिमण्डलपीलुयुग्मात
अप्यायतत्र्यणुकासिद्धिम णुत्रयेण त्वत्तो वृषाङ्क विषमाज्जनुषस्त्रिलोक्याः॥६१॥ अस्यैव विसदशोत्पचौ दृष्टान्तः । तथाहि परमाणवः पा-
Page 87
द्वितीघाध्याये द्वितीय: पाद :-
रिमाण्डल्पपरिमाणयुक्ता: न त्वणुपरिमाणयुक्ता:, दाभ्यां पर- माणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणरुपेतं व्यणुकमुत्प- दते। इदमेकं निदरशनम्। तथा हस्वपरिमाणोपेतं दीर्घपरिमा गरहितं व्यणुकं, ताद्दशेभ्य: त्रिभ्यो व्वणुकेभ्यो दीर्घपरिमाणो पेतमणुपरिमाणरहितं त्यणुकसुत्पद्यते। इदमपर निदर्शनम् । एवमन्यत्राप्युदाहर्तव्यानि॥६१॥
[३ परमाणुजगदकारणत्वाधिकरणम् ]
उभयथापि न कर्मातस्तदभावः । (ब्र० सू० २।२।१२) सष्टेः पूर्व निश्चळेषु परमाणुषु यदा परमेश्वरस्य सिसृक्षा भवति तदा प्राणिकर्मवशान्निश्चलेषु परमाणुष्वाद्यं कर्मोत्पद्यते। तस्मात्कर्मणः एक: परमाणुः परमाण्वन्तरेण संयु्यते। तस्मा- दादसंयोगात् व्यणुकमारभ्यते। तेभ्यो व्यणुकेभ्यस्त्रिभ्यस्त्रय णुकमित्यादिक्रमेण कृत्स्नजगदुत्पत्तौ बाधकाभावात् संयुक्ता: परमाणवो जगज्जनयन्तीति भापे सिद्धान्तपति-
सर्गादि कालपरमाणुसमाश्रिताद- कर्मोद्गतैर्दुरपवादतया विपक्षैः । तन्मूलविश्वजननाघटनादगत्या तैरीशितु: प्रकृतितैव तवाम्युपेया ॥ ६२ ॥
Page 88
अद्वैतविद्यातिलकदर्पणमू।
यदेतदादं कर्म तन्निर्निमितं सनिमितं वा । निर्निमित्तत्वे नियामकाभावात सर्वदा तदुत्पन्तौ भलयाभावप्रसङ्ग: । सनिमि- ्तत्वेऽपि तन्निमितं दष्टमदष्टं वा। न तावत् दृष्टं, पयत्नस्याभि- घातस्य वा शरीरस्योत्पत्तेः मागसम्भवात्, ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकर्म प्रत्यनियामकत्वात्। नाप्यद्ृष्टमाद्य- कर्मनिमित्तम्, आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात्। तथा चाद्यकर्मासम्भवात् संयुक्तेभ्य: परमाणुभ्यो जगदुत्पत्यसं- भवात् ब्रह्मोपादानमेव जगदिति ॥६२॥ [४ समुदायाधिकरणम ] समुदाय उभयहेतुकेऽपि तदप्राप्ति:। (ब्र०सू०२।२।१८) बाह्यास्तित्त्रवादिनो मन्यन्ते बौद्धा :- द्वौ समुदायौ बाह्य आभ्यन्तरक्षेति। तत्र बाद्यो भूनदीसमुद्रादिकः। आन्तरश्षि त्तचैतन्यात्मा। सदेतत्समुदायद्वयमेव समस्तं जगत। तत्र बाह्य- समुदायस्य परमाणवः कारणम्। ते च परमाणवश्चतुविधा :- के. चित् खरा: पार्थिवाखूया, अपरे स्निग्धा आप्या:, अन्ये चो- ष्णास्तैजसाख्याः, अन्ये चलनात्मकाः वायवीयाः। तेभ्य- श्वतुर्विधेभ्यः परमाणुभ्यः युगपत्पुञभूतेभ्यः बाह्यसकल- समुदायो जायते। आन्तरस्य च समुदायस्य स्कन्धपञ्चकं का- रणम्-रूपस्कं्धो, विज्ञानस्कन्धो, वेदनास्कन्धः, संज्ञास्कन्धः .
संस्कारस्कं्धक्षेति। तत्र चित्तेन निरूप्यमाणा: शब्दस्पर्शादयो रूपस्कन्धा, तद्विषय कें ज्ञानं विज्ञानस्कन्:, तज्जन्यं दुःखं वे-
Page 89
द्विती याध्याये द्वितीय: पाद :- ८५
दनास्कन्धः, देवदत्तादिनामधेर्य संज्ञास्कन्धः, पतेषां वासना संस्कारस्कं्धः। पुञ्जीभूतेभ्यः पश्चस्कन्धेभ्यः आन्तरः समुदायो जायते। तस्माद्युज्यते समुदायद्वयमिति भास्ते सिद्धान्तयति-
नाथ त्वदभ्युपगमं न वितन्वते ये जल्पन्ति चेतनमपि क्षणिकस्वभावम्। रूपादयः खरमुखाः परमाणवश्च तेषां मते समुदयौ कथमारभन्ताम्॥ ६३ ॥
किमणूना स्कन्धानां संघातोत्पत्तौ निमित्तभूतः चेतनो- डन्योडस्ति कि वा स्व्रयमेव संहन्यन्ते ? आद्ये अपि स चेतनः स्थायी क्षणिको वा स्थायित्वे अपसिद्धान्तः, क्षणिकत्वे प्रथमं स्वयं लब्घात्मकः पश्चात्संघातापत्ति करोतीति वक्तव्यम्। द्विताये त्वचेतना: स्कन्धाः अणवश्च नियामकं चेतनमन्तरेण प्रतिनि- यताः कथ संहन्यन्ते ? तस्मान युक्तं समुदायद्वयम् ॥ ६३ ॥
[५ अभावाधिकरणम ]
नाभाव उपलब्धे: । (ब्र०सृ०२।२।२८)
केचिद्धौद्धा: बाह्यार्थमपलपन्तः विज्ञानमात्रं तर्वमित्याहुः। न च तत्र व्यवहारातुपपत्ति: रवमे बाह्यपदार्थाननपेक्ष्य केव- ळया बुध्या व्यवहारदर्शनात। तथैव जाग्रव्वहारस्थाप्युपपत्तः।
Page 90
अद्वैत विद्यातिलकदर्पणम्।
तस्माद्विज्ञानस्कं्धमात्रत्वं युज्यत इति पाप्ते सिद्धान्तयति-
ये नाम सर्वमिदमान्तरमेव दृश्य- जालं बहिर्वदवभासत इत्युशन्ति। बाह्योपमानवच एव महेश तेषां मानं बहिस्त्रिजगतीह भवत्प्रणीते॥ ६४ ॥
विषमो हि स्वप्नदृष्टान्तः प्रबोधदशायां स्वम्रस्य वाध्य मानत्वात। जाग्रव्ववहारस्य न क्वचिद्वाघं पश्यामः। न च बाह्यार्थसद्भ्रावे प्रमाणाभावः उपलब्घेरेव प्रमाणत्वात्। उपल- भ्यन्तें हि घटादयो बहिष्ट्रेन। अथोच्यते बुद्धिरेव बाहया घटाः दिवदवभासते तथाहुः 'यदन्तर्ज्ञेयतच्वं वहिर्वदवभासते' इति, एवं तहिं त्वदुक्तिरेव बाह्यार्थसद्ध्ावे प्रमाणमिति बूमः। कचिदपि बाह्यार्थाभावे तत्र व्युत्पत्तिराहित्यात् बहिर्वदित्युपमानोक्तिर्न सङ्गच्छते। तस्माद् बाह्यार्थसन्भ्ावात् विज्ञानमत्रत्वं न युक्तम् ।६४।।
[६ एकस्मित्न संभ वाधिकरणम् ]
नैकस्मिन्नसंभवात । (ब्र०सू०२।२।३३)
आईता मन्यन्ते। जीवोऽजीवश्चेति द्वौ पदार्थौ। जीवश्चे तनः शरीरपरिमाणः सावयवः। अजीवः षड्विधः । तत्र मही- धरादिरेकः। आस्त्रवसंवरनिर्जरब्धमोकख्याः पश् । आस्रव
Page 91
द्वितीयाध्याये द्वितीय: पाद :- ८७
इत्यनेन जीवो विषयेष्वत्याश्रव इन्द्रियसंघातः। संवृणोति विवेकमिति अविवेकादि: संवरः । निश्शेषेण जीर्यत इति का- मक्रोधादिरिति केशोल्लुञ्छनं तप्नशिलारोहणादिकं तपः निर्ज- रः। कर्माष्टकेनापादिता जन्ममरणपरंपरा बन्धः। चत्वारि घा- तिकर्माणि पापविशेषरूपाणि चत्वारि चाघातिकर्माणि पुण्य- विशेषरूपाणि। शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्ग- तस्य सततोर्ध्वगमनं मोक्षः । त एते सप्तपदार्थाः सप्तभङ्गि रूपेण न्यायेन व्यवस्थाप्यन्ते। स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्य:, स्यादस्ति चावक्तव्यक्ष, स्यान्नास्ति चावक्तव्यक्ष, स्यादस्ति च नास्ति चावक्तव्यश्चेति सतभङ्गि- न्यायः। अस्यायमर्थ :- स्यात्स्याच्छब्द ईषदर्थवाची निपातः। प्रतिवादिनश्चतुर्विधाः-सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिन श्रेति। पुनरष्यनिर्वचनीयमतेन सम्मिश्रि तानि सदादीनि मतानीति त्रिविधा वादिनः। तानेतान् स- सविधान्वादिनः प्रति सप्विधा न्यायाः पयोक्तव्याः । तद्था सद्वादी समागत्याह ते मति कि त्वन्मते मोक्षोऽस्तीति पृष्टे सति तत्राहोप्तरं बुते ईषदस्तीति। एवमन्यानपि वादिनः प्रति स्यान्ना- स्तात्याद्युत्तराणि उदाहर्तव्यानि। तावता वादिनः सर्वे निर्वि- णणाः सन्तो नोत्तरं प्रतिपद्यन्ते। अतोऽस्य सप्तभङ्गिरूपस्य साधकन्यायस्य सद्भावात् जीवादीनां सप्तपदार्थानां सिद्धौ कि- माश्वर्यमिति पासते सिद्धान्त :-
Page 92
अद्वैत विद्यातिलकदर्पणम्।
एकार्थ एव सदसत्वविभावनादि- दोषातिरेकहतयापि च सप्तभङ्गया। जीवास्रवप्रभृति सप्तपदार्थसिद्धिं त्वदश्चिताः कतिपये कथयन्ति शम्भो॥६५॥
सप्भङ्गिरूपोऽयमपन्यायः, एकस्य जीवपदार्थस्य स- द्वादिनं प्रति सद्ूपत्वमसद्वादिनं पससदूपत्वमित्येवमादिविरुद्धघर्ष- पतिपादकत्वात्। न च जीवस्य सावयवत्वं युज्यते, अनित्य- त्वप्रसङ्गात्। तदा नित्यमोक्ष: कस्य पुरुषार्थः स्पात्। तम्मा- न्न्यायाभासेन सप्तभङ्गया न जीवादीनां सिद्धिरिति ॥ ६५॥
[७ पत्यधिकरणम्]
पत्युरसामञ्जस्यात्। (ब्र०सू० २।२।३७)
पूर्वाध्याये परमेश्वरस्ष्य प्रपश्चं प्रति निमित्तत्वमुपादानत्वं च प्रतिपादितम्। तदिदमसहमानास्तार्किकशैवादय: केवलनिमि- तत्वमीश्वरसष्य वदन्ति, युक्तिं चाहु: यथा कुलालोऽनुपादानभूतो मृदादि नियच्छन् कर्त्ता भवति तथा तटस्थ ईश्वर इति प्राप्ते सिद्धान्तयति-
ताटस्थ्यमास्थितवतां तव तान्त्रिकाणां
Page 93
द्वितीयाध्याये द्वितीय: पाद :- ८९
कर्मानुगत्वपरवेदगवेषणाया कामं समापतति घट्टकुटीप्रभातम् ॥ ६६ ॥ न युक्तं केव लनिमित्तत्वं वैषम्यनैर्ध्ृण्यदोषस्य दुष्परिहर त्वाद। कथं तहिं दोष: परिहियत इति चेत्, माणिकर्मसापेक्ष- त्वादिति बरूमः । तथात्वे चागमोडस्माकं प्रमाणम् । त्वयाप्यन्त- तो गत्वा आगमश्चेदङ्गीक्रियते तटस्थत्वमीश्वरस्य परित्याज्यं, 'बहु स्याँ प्रजायेय' इत्युपादानश्रुत्या विरोधात्। तस्मान्न तट- स्थेश्वरवादो युक्तः ॥६६ ॥
[< उत्पत्यसम्भवाधिकरणम्]
उत्पत्त्यसम्भवात्। (ब्र० सृ० २।२।४२) पाश्चरात्रागमे नारायणपूजाप्रतिष्ठातत्फलानां सर्ववैदिकै- रड्गीकारात् भगवानेको वासुदेवस्तस्माद्वासुदेवात्सकर्षणारूयो जीवो जायते तस्मात्म युम्नाख्य मनो जायते मनसश्चानिरुद्धा ख्योऽहङ्कारः। त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मका इ- ति पाश्चरात्रिका वदन्तीति प्राप्ते सिद्धान्तयति-
नामान्तरात्तव नदीघर वासुदेवात संकर्षणस्य कतिचिज्जनिमाद्रियन्ते । किं ते भवन्ति कृतहान्यकृतागमाख्य- दुर्वारदोषयुगलीतरणे प्रवीणाः।।६७॥। १२
Page 94
अद्वैतविद्यातिलकदर्पणम्।
श्रुतियुक्तिविरुद्धार्थोऽभ्युपगम्यते। जीव उत्पद्यते इत्ययुक्तं कृतहान्यकृताभ्यागमपसङ्गात्। पूर्वसष्टौ यो जीव: तस्योत्पत्तिम- वेन प्रलयदशायां विनष्टे सति तत्कृतयोर्धर्मा्धर्मयोरफलप्रदत्वेन विनाशः प्रसज्यते। तस्मिन्कल्पे उत्पद्यमानस्य नूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरि् सुखदुःखमाप्तिर्भवतीत्य- कृतांभ्यागमः प्रसज्येत, तस्मान्न जीव उत्पद्यते ॥ ६७॥
इति श्रीमत्परशुराममिश्रात्मजमित्रमिश्रमेरितस्य वेङ्कटभट्टसुतु. धर्म्मध्यदीक्षितस्य कृतौ अद्वैतविद्यातिल कदर्पणे द्वितीयाध्यायस्य द्वितीय: पाद:।
[१ वियद धिकरणम् ]
न वियद्श्नुतेः । (ब्र० सू० २।३।१)
तैत्तिरीयके 'आत्मन आकाशः संभूतः' इति श्रूयते। तत्रा- काशो जायते न वेति संशये स न जायते, कारणत्रयासंभ- वाद। 'संभूतः' इति जनिश्रुतिस्तु शौर्यादिगुणयोगेन माणवके
णयोगेनाकाशे गौणी। तस्मादनाधनन्तं व्योम न जायते इति
Page 95
द्वितीयाध्याये तृतीय: पाद :- ९१
पासते वदति-
चन्द्रार्धभूष भवतोऽवगमादशेष- विज्ञानमित्यखिलवेदशिखैकवादः। संबोभवीति स किमम्बरनित्यताया- मातस्त्वदेतदुपजायत इत्यवौि ॥ ६८ ॥
एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु प्रसिद्धम्। तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपाद- यितुं शक्यते नान्यथा। यत्तु कारणत्रयासंभव इत्युक्तं तन। आरम्भवादे तदपेक्षायामवि विवतवादे तदनपेक्षणात्। तस्मा- दविद्यादिसइकृतब्रह्मणः कारणात् आकाशो जायत इति ॥६८॥
[२ मातरिश्वाधिकरणम् ]
एतेन मातरिश्वा व्याख्यातः । (ब्र०सृ० २।३।८)
तैत्तिरीयके व 'आकाशाद्वायुः' इति श्रयते। सेयमुत्पत्ति- क्रुतिः गौणी, बृहदारण्यके 'सैषाSनस्तमिता देवता यद्वायुः' इति वायोविनाशप्रतिषेधात्, उत्पत्तिमच्वे च तदयोगात्। तस्मान्न जायते वायुरिति पराप्ते सिद्धान्तयति-
वायोः प्रसूतिमुपसंहततैततिरीय- वाक्यान्विता वदति कौथुमसर्गसूक्तिः।
Page 96
१२ अद्वैतविद्यातिलकदर्पणम्।
व्योम्ना विशिष्ट्वपुषो भवतः सकाशाद् गौणी ततो मरुदनस्तमितत्ववाणी॥ ६९॥ छान्दोग्ये वायोर्जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्ति- रीयकवाक्यस्य इतरत्रोपसंहारे सति श्रुतमेव छान्दोग्ये वायुजन्म। अनस्तममितत्वश्रुतिस्तु न सुख्या उपासनापकरणे पठितत्वेन स्तु- त्यर्थत्वात। आकाशोत्पत्तिहेतवश्चात्रानुसन्घेयाः। न च वायो- राकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावात् ब्रह्मज्ञानेन वायुज्ञानं न सि- ज्येत् इति शङकनीयम्, पूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्य- हेतुत्वस्य वक्ष्यमाणतया वियदापन्नस्य ब्रह्मण एव वायुकारण- त्वाद। तस्माद्वायुर्जायते ॥ ६९ ।।
[३ असंभवाधिकरणम् ]
असंभवस्तु सतोऽनुपपत्तेः । (व्र०सू० २।३।९) 'सदेव सोम्येदमग्र आसीत्' इति छान्दोग्ये भ्रूयमाणं जग. त्कारणं सदूपं ब्रह्म जायते कारणत्वाद्वियदादिवदिति भाष्ते सिद्धान्त :- यत्कारणं जननशालि तदित्यमुष्य
तत्कारणस्य च विवेक्तुमशक्यभावा- दुत्पद्यते नहि भवानुड्ुराजमौले॥। ७० ॥
Page 97
द्वितीयाध्याये तृतीय: पाद :- ९३
सद्ूपं ब्रह्म न जायते तज्जनकस्य दुर्निरूपत्वात। न ता- वदसत्कारणं, 'कथमसतः सज्जायेत' इति निषेधात्। नापि स- देव सतः कारणं, 'पुरुषो वै रुद्रः सन्मछ' इत्यादिवाक्येनावग तस्य सच्छब्दार्थस्य शिवस्य 'अजात इत्येवं कबिद्वाुः मपद्यते। रुद्र यत्ते दक्षिणं मुखम्' इत्यादिश्रुत्या जन्माभावश्रवणात्। नापि वियदादिकं तज्जन्यं तत्कारणम्। यत्कारणं तज्जायत इति व्या- प्रिः पूर्वोक्तश्तुत्या 'स वा एष महानज आत्मा' इति श्रुसा च वाध्येति, ततः सत् ब्रह्म न जायते । ७० ॥
[४ तेजोऽधिकरणम्]
तेजोऽतस्तथाह्याह। (ब्र०सू० २।३।१०)
ब्रह्मणो जायते तेजः ब्रह्मसंयुक्ताद्वायोरवा इति संशये छा- न्दोग्ये 'तत्तेजोऽसृजत' इति श्त्या तेजसः ब्रह्मजनित्वं श्रूयते, तैत्तिरीयके 'वायोरगिः' इति वायुजत्वं श्रयते तेजसः । तत्र वा योरिति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात् केवलं ब्रह्मज- न्यं तेज इति प्राप्ते सिद्धान्त :-
संभूतशब्दसहभूतसपञ्चमीक- वायुश्रुतिव्यतिकरात्प्रकृतित्वासिद्धेः। संभूय वेदयुगलीगतवाक्ययुग्मं जन्माह वायुसहिताद्वतः कृशानो ॥ ७१॥
Page 98
९४ अद्वैतविद्यातिलकदर्पणम्।
अतुवर्त्तमानेन संभूतशब्देनान्विताया वायोरिति पश्चम्या उपपादनार्थत्वस्पैव मुख्यत्वात् उभयो: श्रुत्योरेकवाक्यत्वे सति वायुरूपापन्नात् ब्रह्मणस्तेजो जायत इति लभ्यते ।।७१ ॥
[५ अबधिकरणम्]
आपः । (ब्र० सू० २।३।११) अपां जन्म ब्रह्मणो वा वह्रेत्रैति विषये 'तदपोऽसृजत' 'अग्रे- रापः' इत्युभयोः छ्वान्दोग्यतैत्तिरीययोः तेजोरूपब्रह्मजन्यत्व- मेवा्पां श्ूयते, तथापि न तद्युक्तम्। निवर्त्यनिवर्तकयोरग्निजल- योर्जन्यजनकभावो नेति प्राप्ते सिद्धान्त :- पञ्चीकृतेतरपयोदहनाविरोधात् स्वेदाम्बुवर्षजलसंभवतश्र तापैः । आसेदुषा हुतवहोपहितामवस्था- माधीयते गिरिश सृष्टिरिपां त्वयैव ।। ७२ ॥ पश्चीकृतयोर्वद्विजळयोर्विरोधेऽपि अपश्चीकतयोः श्रुत्येक- समिगम्ययोर्विरोधकल्पनातुपपत्ते:, तापाधिक्ये स्वेददृष्ट्योर्द- रशनाञ् श्रुतिद्वयानुसारेण तेजोरूपापभात् ब्रह्मणः अपां जनि- रिति॥ ७२॥ [६ पृथिव्यधिकाराधिकरणम् ]
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।(ब्र०सू०२।३।१२)
Page 99
द्वितीयाध्याये तृतीय: पाद :- ९५
छान्दोग्ये 'ता अन्नमसृजन्त' इत्यद्भ्योऽन्नस्य जन्म श्रूयते। तत्रान्नशब्दस्य लोकपसिद्धया ब्रीहियवादिकमर्थ इति भासे सिद्धान्तयति-
भूताधिकारपठनादसितत्वरूप- संकीर्त्तनाच्छवणतः पृथिवीपदस्य। हन्ता पुरामवनिमन्नगिरा प्रतीतां पाथोमयत्वमधिगत्य भवान् प्रसूते॥ ७३ ॥ पृथिव्यन्नशब्दार्थ: पश्चमहाभृतसृष्टेरधिकृतत्वात्। किंच 'यद्ग्ने रोहितं रूपं तेजसस्तदरूप यत् शुक्कं तदपां यत कृष्णं तदन्नस्य' इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते नतु ब्रीदि- यवादौ। तथा 'अद्भयः पृथिवीति' तैत्तिरीयकश्रुत्यैकवाक्यताब- लातू अन्नं पृथिवीति। न चानशब्दस्य तत्र प्रतृत्यनुपपत्ति: का- र्यकारणयोरत्नपृथिव्योरभेदविवक्षया तदुपपतेः। तस्मादनं पृथिवी।। ७३ ।।
[७ तदभिध्यानाधिकरणम्]
तदभिध्यानादेव तु तल्लिङ्गात्सः । (ब०स्०२।३।१३)
पूर्वाधिकरणेषु पूर्वपूर्वोंपाधिकाद्रह्मण उत्तरोत्तरकार्योत्प- त्तिरिति यदेतत्सिद्धवत्कृस सिद्धान्तितं तदयुक्तम्। 'आकाशा- द्वायुः' 'वायोरभिः' इत्यादौ ब्रह्मनिरपेक्षत्वात् केवलाव्यो
Page 100
९६ अद्वैतविद्यातिलकदर्पणम्।
मादेरुत्तरो त्तरकार्योत्पत्तिश्रवणात् इति प्राप्ते सिद्धान्तयति --
आलोचनात्मकनिरीक्षण पूर्विकायां सृष्टौ परं जडतया स्वयमक्षमायामू।
स्थाने समीरमुखसाधकता पुरारे॥ ७४॥
'आकाशमन्तरो यमयति' 'यो वायुमन्तरो यमयति' इत्या- दिना अन्तर्यामिव्राह्मणेन व्योमादेः स्वातन्त्रयं निवारितं, तथा 'तत्तेज ऐक्षत ता आप ऐक्षन्त' इति तेज आदेरीक्षणपूर्वकं स्रष्टृत्वं श्रयते तच्चेक्षणं चेतनब्रह्मणो निरपेक्षाणामचेतनाना न संभवति। तस्मात व्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम्।७४।।
[८ विपर्ययाधिकरणम् ]
विपर्ययेण तु क्रमोऽत उपपद्यते च। (ब्०सू०२।३।१४)
प्रलये सृष्टिक्रमो वा विपरीतक्रमो वेति विशये, आकाशा- दिक्रम: सष्टौ क्लृप्तः प्रलयेऽपि स एव क्रमः इति प्राप्ते सि- द्धान्तयति-
उत्पच्यनुक्रमविपर्ययतः पिनाकि- न्नुत्तोलयस्त्वयि महीमुखसृज्यराशेः।
Page 101
द्वितीयाध्याये तृतीय: पाद :- ९७
कार्यस्य क्चिदपि कालमवस्थितिः स्या- त्पश्चादपि प्रथमतो विलये प्रकृत्याः ॥७५॥ पथमतः कारणे बिलीने सति रूपादीनां कार्याणां किश्चि- त्कालमवस्थानं प्रसज्येत। किश्च 'जगत्पतिष्ठा देवर्षे पृथिव्यप्सु मलीयते । तेजस्यापः पलीयन्ते तेजो वायौ पलीयते' इति विप- रीतक्रमस्योक्तत्वात् क्लृप् एवायं क्रम इति ॥७५ ॥
[९ अन्तराविज्ञानाधिकरणम्]
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्ना- विशेषात्। (व्र० सू० २।३।१५)
'एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायु- ज्योतिरापः पृथिती विश्वस्य धारिणी' इति श्रयते सुण्डकोप- निषदि।तत्र प्राणादीनां वियदादिभ्यः पूर्व श्रूयमाणत्वात माणवाय्वादिस्ष्टिक्रमो वियदादिसष्टिक्रमं निरक्षितुं शक्नोति न वेति प्राप्ते सिद्धान्तयति-
प्राणादिकस्य भवदेकभुवो यथा्ह- मन्तर्गमादलिकलोचन भूतसंघे। क्षेप्तुं क्षमो नहि भवत्यसुमारुतादि सृष्टिकमो वियदुपक्रमसर्गशैलीम॥ ७६ ॥ १३
Page 102
९८ अद्वैतविद्यातिलकदर्पणम्।
'आकाशाद्वायुर्वायोरनिः' इत्यवि क्रस्याश्रयमाणत्वा- दुत्पत्तिमात्रं तु केवलं भ्रयते। तस्मान्नानया श्रृत्या पूर्वोक्त- क्रमभङ्गोऽसतीति प्राणमनइन्द्रियाणां भूतेष्वन्तर्भावं कृत्वा खं वायुरित्यादिना पूर्वक्रममेव श्रुतिर्वदतीति ॥७६ ॥
[१० चराचरव्यपाश्रयाधिकरणम् ] चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तभ्भाव- भावित्वात्। (ब्र० सू. २।३।१६) लोके जातो मे पुत्र इति व्यवहारात, शास्त्रे जातकर्मादिसं- स्कारोक्तेश्र जन्ममरणे जीवस्येति पास्ते सिद्धान्तयति-
क्ळृप्तप्रहाण्य विहिता गमनप्रसक्त्या भाक्तौ परं भवलयौ भवतः प्रतीचः । त्वं च त्रवीषि वषुषो भगवत्निनाश- मेतन्निषेधसि च तस्य शरीरभाजः॥ ७७॥ जीवस्य मुख्यजन्ममरणाङ्गीकारे कृतनाशाकृताभ्यागम- मसङ्गस्य दुर्वारत्वात् देहगते एव जन्ममरणे जीवस्पोपचय्येते। औपचारिके एते अपेक्ष्य लोकव्यवहारकर्मशास्त्रपोः पृत्तिः । उपनिषच्छास्त्रं तु 'जीवापेतं वात किलेदं म्रियते न जीवो ।म्रि यते' इति जीववियुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जी- वस्य तन्निराचष्टे। तस्माद्वपुषो जन्ममरणे॥ ७७ ॥
Page 103
द्वितीयाध्याये तृतीय: पांद :-
[११ आत्माधिकरणम् ]
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः। (ब्र० सू० २।३।१७) 'यथाऽये क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तयेवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवा: सर्वाणि भूतानि सर्व एव आत्मानो व्युच्चरन्ति' इति तस्मात्कल्पादौ वियदादिवद्रह्मणो जीवो जायते इति माप्ते सिद्धान्तयति-
पुष्पेषुशासन पुरैव विधाय च त्व- मातन्वतस्तदनु ते तदनुप्रवेशम्। पूर्व प्रपञ्चजनुषः श्रुतिबोध्यमाना- मद्धैततां किमपि न क्षमते विभङ्क्तम् ॥७८॥
यद्द्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण मविशति, 'त- र्सृष्टा तदेवानुमाविशत्' इति श्रुेः। 'नित्यो नित्यानां चेतन- श्वेतनानामिति' तस्मात्कल्पादौ जीवा नोत्पद्यन्ते॥ ७८ ।।
[१२ ज्ञाधिकरणम् ]
ज्ञोऽत एव। (ब्र० सू० २।३।१८) जीवश्चिदूवः अचिदूपो वेति संशये तार्किका वदन्ति-सुषुप्ति मूर्च्छसमाधिषु चैतन्याभावादचिद्रूपो जीव: । जागरणे त्वात्म- मनस्संयोगच्वैतन्यारयो गुणो जायते इति मास्ते सिद्धान्तयति-
Page 104
अद्वैतविद्यातिलकदर्पणम्।
जीवात्मना हृदयसीमनि सन्निविष्टे जाग्रत्यपि त्वाये चिदेकरसस्वभावे। मध्ये सुषुप्तिमिति सत्वमपह्नुवानः स्वापावधौ किम सुखाद्यनुसन्दधीत ॥७९॥
चिदूपस्थ ब्रह्मण एव जीवरूपेण प्वेशश्रवणाठ् न चैत- न्यं सुषुप्त्यादौ लुप्यते सुषुप्त्यादिसाक्षित्वेनाव्स्थानात्। अन्य था सुषुप्त्यादिपरामर्शायोगाद्। क्थ तहि सुषुप्त्यादौ द्वैतापती- तिरिति चेत् द्वैतलोपादिति बूमः । तथा च श्रतिः -- 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति-नहि द्रष्टुर्द्ष्टेर्विपरिलोपो विद्यते- Sविनाशित्वान्र तु तद्ितीयमस्ति ततोऽन्यद्रिभक्तं यत्पशयेत्' इति अस्यायमर्थः-तत्र सुषुप्तजीवः किमपि न पश्यतीति यल्लौकिकैरुच्यते तदसत् पश्यन्रेव जीवस्तदानीं न पश्यतीति भ्रान्या व्यपदिश्यते। कथं दर्शनित्पत्र हेतुरुच्पसे-द्रष्टुरा. तमन: स्वरूपभूताया द्ष्टेलोपो नहि विद्यते विनाशरहितस्व्रमा- वत्वात। अन्यथा लोपत्रादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्यत्वात्। क्थं तहि लौकिकानां भ्रप इत्यत्र हेतुरुच्यते- ब्रह्म चैतन्यादन्यत् क्रियाकारकफळरूपेण विभक्तं जगदारुयं यत् द्वितीयं वस्तु तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जाग- रणवद्द्रष्ट्रदृश्यदर्शनव्यवहाराणामभावात् न पश्पतीति लौकि- कानां भ्रम इति। तस्माचिद्रपो जीवः ।। ७९॥
Page 105
द्वितीयाध्याये तृतीय: पाद :- १०१
[१३ उत्क्रान्तिगत्यधिकरणम् ]
उत्क्रान्तिगत्यागतीनाम्। (ब्र० सू० २।३।१९)
जीवोऽणुर्वा सर्वगो वेति सन्देहे 'एषोऽणुरात्मा चेतसा वेदितव्यः' इत्यणुत्वं श्रुतम्। 'अस्माच्छरीरादुत्क्रामति' इत्युत्क्रा- न्तिः। 'चन्द्रमसमेव ते सर्वे गच्छन्ति' इति गतिः। 'तस्माल्लोका- त्पुनरैति' इत्यागमनम्। नैतदृव्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते मध्यमपरिणामस्य तदुष्पत्तावपि अणुश्रुतिर्विद्यते। अनिसत्वं च दुर्निवारम्। तस्मादणुर्जीव इति प्राप्ते सिद्धान्तयति-
देहाच्च निःमृतिरथ त्रिदिवं गतिश्र प्रत्यागतिश्र निगमप्रतिपाद्यमाना। अस्त्येव चित्तमुकुरोदरमाश्रयन्त्याः जीवाकृतेः शिव भवत्परतियातनायाः ॥ ८०॥
चैतन्यपतिबिम्बसहिता बुद्धिरसर्वगता। तदुपाधिकत्वात् जी- वस्योत्क्रान्त्यादय उपपन्नाः। स्वतस्तु जीवस्य ब्रह्मरूपत्वात् 'सर्वगतम्', 'स वा एष महानज आत्मा', 'सर्वव्यापी सर्वभूतान्त रात्मा' इत्यादिषु सर्वगतत्वं श्रुतम्। तस्मात्सर्वगतो जीवः ॥l८०।i
[१४ कर्त्रधिकरणम्] कर्त्ता शास्त्रार्थवत्वात्। (ब्र० सू० २।३३३)
Page 106
१०२ अद्वैतविद्यातिलकदर्पणम्। जीवः कर्त्ता वा न वेति संशये, सांख्यास्तु बुद्धे: परिणा मित्वेन क्रियावेशात्मकं कर्तृत्वं संभवति न त्वसङ्गत्पात्मन इति पाप्ते सिद्धान्तयति-
कर्तृत्वमस्ति करणत्वजुषो न बुद्धे: सतत्वे परं तु करणं परिकल्पनीयम्। कर्तैव मास्त्वति नहि श्रवणादिकं ते सापेक्षमत्र पशुरेव ततः स कर्त्ता ।। ८१ ।।
करणत्वेन क्लसश्तिकाया: बुद्धः कर्तृशक्तिर्न कल्पायेतुं शक्या, कुठारादावदर्शनात्। बुद्धेः कर्तृत्वे करणान्तरस्य कल्प नीयत्वात। न च माभूत्क सैवेति वाच्यम्। पूर्वकाण्डोक्तयागादि- व्यापाराणामुत्तरकाण्डोक्तश्रव णादिव्यापाराणां लौकिकव्यापा - राणां च कर्तृसापेक्षत्वात्। तस्माज्जीवः कर्ता ।। ८१ ।।
[१५ तक्षाधिकरणम्]
यथा च तक्षोभयथा। (ब्र० सू० २।३।४०) कर्तृत्वं वास्तवं कल्पितं वेति संशये कर्तृत्वस्य बाधाभावा- द्वास्तवमिति माप्ते सिद्धान्तयति-
प्रत्यक्तनोस्तव यजेतिपदार्पितोऽि निःसंगतैकपरवाक्यनिवार्यमाणः।
Page 107
द्वितीयाध्याये तृतीय: पाद :- १०३
भास्वन्मणेररुणिमेव जपानुबन्धा- द्धीसन्निधे किमपि दीव्यति कर्तृभावः ॥८२॥
'असङ्गोह्ययं पुरुषः' इति श्रुसा कर्तृत्वसम्बन्धो बाध्यते। अतो जपाकुसुमसतन्निधिवशाल्मफटिके रक्तत्वं यथाध्यस्तं तथा
[१६ पराय्ताधिकरणम् ]
परात्तु तच्छूतेः । (ब्र० सू० २।३।४१)
लोके कृषीबलादीनां रागद्वेषावेव प्रवर्तकौ दष्टौ। तदतुसा राद्धर्माधर्मकतृजीवस्थापि तावेव प्रवर्तकौ अभ्युपेयौ। ईश्वरस्य पवर्तकत्वे कांश्षिज्जीवान् धर्मे प्रव्तयति कांश्चिदधर्म इति वैष- म्यं दुर्वारम्। तस्मान्नेश्वरः प्रवर्तक इति पाप्ते सिद्धान्यति-
साधारणो गिरिश हेतुरसि प्रवृत्तौ बध्नाति कर्म जनिमत्फलतारतम्यम्। वर्षे समेऽपि सति शालियवादिबीज- वैषम्यतो भवति सित्यविशेषसिद्धिः ॥८३॥
ईश्वरस्य न वैषम्यप्रसङ्ग: वृष्टिवत्साधारणनिमित्तत्वाद् । यथा वृष्टेः सस्याभिटृद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजाना-
Page 108
१०४ अद्वैतचिद्यातिलकदरपणम्।
मेव निमित्तत्वं तथेश्वरस्य यथा यथा जीवा: पवर्तन्तामित्यतुज्ञया साधारणप्वर्तकत्वेऽपि न वैषम्यं, पूर्वकृतकर्मणां वासनानां च वैष- म्यहेतुत्वात्। कर्मणां फलहेतुत्वमेव न कर्मान्तरहेतुत्वमिति चेत सत्यम्। सुखदुःखस्वरूपस्य च फलस्य प्रदानाय जीवं व्यापारय त्कर्म्म हर्थात्कर्मान्तरमपि निष्पादयतीति दुर्वारं तद्धेतुत्वम्। वास- नानां तु साक्षादेव कर्महेतुत्वम्। तथा चेश्वरस्य कुतो वैषम्यप्रस्त- ङ्ग:। यतोऽनुरागस्य प्रवर्तकत्वमुक्तं तत्तथास्तु। तावतेश्वरस्य प्र- वर्तकत्वं न हीयते। सर्वान्तर्यामिणेश्वरेण रागोऽपि नियम्यते। तस्मादीश्वरो जीवस्य प्रवर्तकः ॥ ८३॥
[१७ अंशाधिकरणम् ]
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वम- धीयत एके। (ब्र०सू०२।३।४३)
तच्वमस्थादिश्रुतिः जविश्वरयोरभेदं प्रतिपाद्यति। 'आ. त्मा वारे द्रष्टव्यः' इत्यादिना द्रष्टृद्रष्टव्यरूपेण भंदः प्रतीयते। तथा सति भेदश्रुतिबलात् जीवो नास्तीत्यपलदितुं न शक्यते। अभेद- श्रुत्या चेश्वरात्पृथकत्वेन व्यवस्थापयितुं न शक्यते। तस्माद्विद्यमान- स्य जीवस्थ ईश्वरेण सांकर्य दुर्वारं, परस्परं च जीवनामीश्वरा-
घटत इति प्रासे सिद्धान्त ::
Page 109
THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS.
Edited by GOPINATH KAVIRAJ, M. A.
No. 1-The Kiraņavali Bhaskara, a Commentary on Udayana's Kiranavalī, Dravya section, by Padmanabha Miśra. Ed.with Introduction and Index by Gopinath Kaviraj, M.A Rs. 1-12 No. 2-The Advaita Chintamani, by Rangoji Bhatta, Ed, with Introduction ete. by Narâyana S'astri Khiste Sāhityücharya. Rs. 1-12 No. 3-The Vedanta Kalpalatika, by Madhusūdana Sarasvatī. Edited with Introduction ete. by Ramajna Pāndeya Vyā- karaņāchārya. Rs. 1-12 No. 4-The Kusumanjali Bodhani, a Commentary on Udayana's Theistic Tract, Nyaya Kusumanjali, by Varadaraja. Ed. with Introduction ete by Gopinath Kaviraj, M.A,Rs. 2-0 No. 5-The Rasasara a Commentray on Udayana's Kiraņavalī, Guņa Section, by Bhatta Vadindra. Ed. with Introduetion ete.by Gopinath Kaviraj, M.A. Rs. 1-2 No. 6 -- (Part T)-The Bhavana Viveka by Mandana Misra, with a Com- mentary by Bhatta Umbeka. Ed, with Introduction ete. by M. M. Ganganatha Jha, M. A., D. Litt. Rs. 0-12 No. G-(Part II)-Ditto Ditto Rs. 0-12 No. 7-(Part T)-The Yoginihrdaya dipika, by Amrtananda Natha, being a Commentary on Yoginihrdaya, a part of Vāmakeśvara Tantra. Ed.with Tntroduction ete by Gopinath Kaviraj, M.A. Rs. 1-8
No 7-( Part II ) Ditto Ditto Rs. 1-4 No. 8-The Kavyadākini, by Gangananda Kavīndra. Ed. with Introduction ete. by Jagnnatha S'astri Hoshing Sahityopādhyāya Rs 0-10
Page 110
( 2
No. 9-(Part I)-The Bhakti Chandrika, a Commentary on S'andilya's Bhaktisūtras, by Nārāyaņa Tīrtha. Ed.with a Prefatory Note by Gopinath Kaviraj, M.A. Rs. 0-15
No. 10-(Part I)-The Siddhāntaratna, by Baladeva Vidyābhūșaņa. Ed. with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.1-2 No. 10-(Part II)-Do. Do. Rs. 2-12 No. 11-The S'ri Vidya Ratna Sūtras, by Gaudapāda, with a Com-
mentary by S'ankarāraņya. Ed. with Introduction etc. by Nārāyaņa S'āstrī Khiste Sāhityāchārya. Rs. 0-9
No. 12-The Rasapradīpa, by Prabhākara Bhatta. Ed. with Introduction etc. by Nārāyaņa S'astri Khiste Sāhityāchārya. Rs. 1-2
No. 13-The Siddhasiddhanta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14-The Triveņika, by Asādhara Bhatta. Ed. with Introduction by Batukanatha S'armā Sāhityo- pādhyāya, M. A. and Jagannatha S'astri Hoshing Sahityo. pādhyāya. Rs. 0-14
No. 15-(Part I)-The Tripurarahasya. ( Jnana Khanda) Ed with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.0-14
No. 15-( Part-II )-Do. Do. Rs. 2-4 No. 15 -- ( Part III )-Do. Do. Rs. 2-0 No. 16-The Kavya Vilasa, by Chiranjīva Bhattāchārva. Ed. with Introduction etc. by Batukanātha S'armā Sahityopadhyava M A. and Jagannatha S'astri Hosing Sāhityopādhyāya. Rs. 1-2
No. 17-The Nyaya Kalikā, by Bhatta Jayanta. Ed. with Introduction by M. M. Ganganatha Jhi, M. A, D. Litt. Rs 0-14
Page 111
( 3 )
No. 18-(Part I)-The Goraksa Siddhanta Sangraha. Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs, 0-14 No. 19-( Part. I )-The Prākrita Prakāśa by Vararuchi with the Prākrita Sanjīvanī by Vasantarāja and the Subodhinī by Sadānanda. Id. with Prefatory note etc. by Batuk Nath S'arma, M. A. and Baladeva Upadhyaya, M. A. Rs 2-4 No. 19-( Part.II ) Ditto Ditto Rs. 2-12 No 19-( Part. III ) Introduction etc. ( In Preparation. ) No. 20-The Mansatattvaviveka by Viśvanātha Nyāyapanchānana Bhatțāchārya. Edited with Introduction etc. by P. Jagannātha S'astri Hoshing Sahityopadhyaya, with a Foreword by Pandit Gopi Nath Kaviraja, M. A., Principal, Government Sanskrit College, Benares. Rs. 0-12 No. 21-( Part I ) The Nyāya Siddhānta Mālā by Jayarāma Nyāya Panchānana Bhațțāchārya, Edited with Introduction etc. by Mangal Deva S'astri M. A., D. Phil. ( Oxon ), Librarian, Govt Sanskrit Library, Sarasvati Bhavana, Benares. Rs. 1-2 No. 21-( Part-II ) Ditto Ditto Rs. 2-0 No. 22-The Dharmanubandhi S'lokachaturdasi by S'ri S'esa Krsņa with a Commentary by Rama Pandit. Edited with Introduction etc. by Nārāyaņa S'ästri Khiste Sahityacharya, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares. No. 23-Navaratrapradīpa by Nanda Pandit Dharmādhikārī. Ed. with Introduction etc. by Vaijanātha S'astri Varakale, Dharmasastra-S'astrī, Sadholal Research Scholar, Sanskrit College, Benares, with a Foreword by P. Gopinath Kaviraj, M. A., Principal, Government Sanskrit College, Benares. No. 24-The S'ri Ramatapiniyopanisad with the Commentary called Ra. ma Kasika in Purvatāpinī and Anandanidhi in Uttaratăpinī
by Anandavana.
Page 112
4 )
Ed. with Introduction ete. by Anantarama S'astri Vetala Sāhityopadhyaya, Post-Acharya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Natha Kaviraja, M. A., Principal, Government Sanskrit College, Benares. Rs 3-12 No. 25-The Sapindyakalpalatika by Sadasivadeva alias Apadeva with a commentary by Narayana Deva. Edited with Introduction ete, by Jagannatha S'astri Hosinga, Sahityopadhyaya, Sadholal Research Scholar, Govt. Sanskrit College, Benares. Rs. 1-4. No. 26-The Mrgankalekha Nātika by Visvanatha Deva Kavi. Edited with Introduction ete. by Narāyana S'āstri Khiste Sahityacharya, Asst. Librarian, Government Sanskrit Library, Benares. Rs. 1-0 No. 27-The Vidvachcharita Panchakam By Narayana S'astri Khiste, Sahityacharya, Assistant Librarian, Govt. Sanskrit College, Library, Sarasvati Bhavana, Benares. With an Introduetion by Gopinath Kaviraja, M. A., Principal, Govt. Sanskrit College, Benares. Rs 2-0 No.28-The Vrata Kos'a by Jagannatha Sastri Hosinga Sāhityo- padhyaya, late Sadholal Research Scholar, Sanskrit College, Benares. With a Foreword by S'ri Gopinatha Kaviraja, M.A., Principal, Govt. Sanskrit College, Benares. Rs 4-0 No 29-The Vritti dipika By Mauni S'ri Krșna Bhatta. Edited with Introduction ete by t. Gangadhara S'astri Bharadvaja, Frofessor, Govt. Sanskrit College, Benares. No. 30-The Fadartha Mandanam By Sri Venidatta. Edited with Introduction ete by Pandit Gopala S'ästri None, Professor, Govt, Sanskrit College, Bonares. No. 31 ( Part I)-The Tantraratna by Partha Sarathi Mis'ra. Edited by M. M. Dr. Ganganatha Jha, M. A., D. Litt, Vice-Chancellor, Allahabad University, Allahabad. No. 32-The Tattvasara by Rakhaldasa Nyāyaratna. Edited with Introduction etc. by Harihara S'astri, Benares Hindu University. No. 33-The Nyaya Kaustubha ( Part I) by Mahadeva Puntamkar. Edited with Introduction ete, by Umes'a Miśra, M. A., Allahabad University, Allahabad.
Page 113
THE PRINCESS OF WALES SARASVATI
BHAVANA STUDIES :
Edited by
GOPINATH KAVIRAJ, M. A. Vol. I- (a) Studies in Hindu Law (1) : its Evolution, by Gangānātha Jhã. (b) The View-point of Nyaya Vaisesika Philosophy, by Gopi nath Kaviraj. (e) Nirmāņa Kāya, by Gopinath Kaviraj. Rs. 1-12
Vol. II- (a) Parasurāma Miśra alias Vāņī Rasāla Raya, by Gopinath Kaviraj. (b) Index to S'abara's Bhasya, by the late Col. G. A. Jacob. (c) S'tudies in Hindu Law (2) :- its sources, by Ganganath Jha (d) A New Bhakti Sutra, by Gopinath Kaviraj. (e) The System of Chakras according to Goraksa nātha, by Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. (g) Hindu Poetics, by Batuka nātha S'armā. (h) A Seventeenth Century Astrolabe, by Padmākara Dvivedi (i) Some aspects of Vira S'aiva Philosophy,by Gopinath Kaviraj (j) Nyaya Kusumanjali ( English Translation ), by Gopinath Kaviraj.
(k) The Definition of Poetry, by Narayanā S'astri Khiste. (1) Sondala Upādhyāya, by Gopinath Kaviraj. Rs. 5 Vol. III-
(a) Index to S'abara's Bhāsya, by the late Col, G. A. Jacob. (b) Studies in Hindu Law (3): Judicial Procedure: by Gangā- nātha Jha. (c) Theism in Ancient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyaya Vaifeșika Literature, by Gopinath Kaviraj. (e) Naişadha and S'rī Harsa by Nīlakamala Bhatțāchārya. (f) Indian Dramaturgy, by P. N. Pātankar. Rs. 5
Page 114
Vol. IV- (a) Studies in Hindu Law (4): Judicial Procedure: by Ganga nãtha Jha. (b) History and Bibliography of Nyaya Vaisesika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Prātisākhya, by Mangala Deva S'āstrī (d) Nārāyana's Gaņita kaumudī, by Padmākara Dvivedi. (e) Food and Drink in the Ramayanic Age, by Manmatha natha Roy (f) Satkāryavāda: Causality in Sankhya, by Gopinath Kaviraj (g) Discipline by Consequences, by G, L. Sinha. (h) History of the origin and expansion of the Aryans. by A. C. Ganguly. (i) Punishments in Ancient Indian Schools, by G.L. Sinha. Rs 5 Vol. V- (a) Ancient Home of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Ramayana, by Manmatha natha Roy. (d) A Comparison of the Contents of the Rgveda, Vajasaneya, Tait tirīya & Atharvaveda Prātisākhyas, by Mangala Deva S'āstri, (e) Formal Training and the Ancient Indian Thought, by G.L. Sinha. (f) History and Bibliography of Nyaya Vais'esika Literature, by Gopinath Kaviraj. (g) A Descriptive Index to the names in the Rāmāyana, by Manmatha natha Roy. (h) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI- (a) Index to S'abara's Bhasya, by the late Col. G. A. Jacob .. (b) Some Aspects of the History and Doctrines of the Nathas, " by Gopinath Kaviraj. (c) An Index etc. the Ramayana, by Manmatha natha Roy. (d) Studies in Hindu Law by M. M. Ganganatha Jha, (e) The Mimamsa manuser in the Govt. Sanskrit Library (Benares, by Gopinatha Kavirāj. (f) Notes and Queries, by Gopinatha Kaviraj.
Page 115
( 3 )
Vol. VII. (a) Bhamaha and his Kavyalankara, by Batukanatha S'arma and Baladeva Upadhyaya. (b) Some variants in the readings of the Vais'esika Sutras, by Gopinātha Kavirāj. (c) History and Bibliography of Nyâya Vais'esika Literature, by Gopinātha Kavirāj. (d) An attempt to arrive at the Correct meaning of some obscure Vedic words, by Sttaram Joshi. (e) A comparison of the contents of the Rig Veda, Vajasaneya, Taittiriya, and Atharva Veda ( Chāturadhyāyika ) Prātis'ā- khyas, by Mangal Deva Shastri. (f) An Index to the Ramayana, by Manmatha Nath Roy. (g) An Index to S'abara's Bhasya, by the late Col. J. A Jacob, (h) Gleanings from the Tantras, by Gopinatha Kavirāj. (i) The date of Madhusudana Saraswati, by Gopinatha Kavirāj. (j) Descriptive notes on Sanskrit Manuseripts, by Gopinātha Kavirāj. (k) A note on the meaning of the torm Parärdha, by Umes'a Mis'ra. Vcl. VIII. ( In progress ) (a) Indian Philosophy, by Taraknath Sanyal. (b) An Index to the Ramayana, by Manmatha Nath Roy.
To be had of The Superintendent Government Press, U. P., Allahabad.