Books / Advayataaraka Upanishad

1. Advayataaraka Upanishad

Page 1

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ।

व्याख्येयो विषयः तदधिकारी च

अथातोड्‌द्वयतारकोपनिषदं व्याख्यास्यामः । यतये जितेन्द्रियाय शमादिषड्‌गुणपर्णाय ॥ १॥

श्रीमद्‌द्वाराधीश्‍टानपरमहंससद्‌गुरुरामचन्द्राय नमः d्वैतासम्भवविज्ञानसंविद्‌द्वारद्‌यतारकं । तारकब्रह्मोति गितं वन्दे श्रीरामवैभवं ॥ इह खलु शुक्लयजुर्वेदप्रविभक्त्येन अद्वयतारकोपनिषत् राजयोगसर्वस्वं प्रकटयन्‍ती ब्रह्मात्रपर्यवसन्ना दृश्यते । अस्याः स्वल्पग्रन्थतयो विवरणमारभ्यते । अत्र यथोक्ताधिकार्य्‌युद्देशन श्रुतयः तारकयोगमुपदिशन्‍तीयाह -- अथेति ॥ अथ कर्मोपासनाकाण्डद्व्‌यान्तद्‌रूपणानन्तरं यत् तेन स्वातिरेकेण द्व्‌यं न विद्यते तत् अद्वयं ब्रह्म तन्मात्रबोधिनी विद्या तारकोपनिषत् तां श्रुतयो वयं व्याख्यास्यामः । कस्मा । अधिकारिण इत्यत् आह -- यतय इति । अजितेन्द्रियस्य यतित्वं कुत इत्यत आह -- जितेन्द्रियायेति । अरिषड्‌वर्गान्‍तस्य जितेन्द्रियता कुत इत्यत आह -- शमादिषड्‌गुणपर्णायेति । शमादिषड्‌गुणसम्पत्ते अरिषड्‌वर्गोपरितपूर्वकत्वात् । एतत् साधनवते श्रुतयः तारकयोगमुपदिशन्‍तीयर्थः ॥ १॥

चित्स्वरूपोऽहमिति सदा भवनं सम्यग्‍दृढीमीलिताक्षः किज्चिदुन्मीलिताक्षो वाड्‌नतरदृश्‍या भ्रूद्धरादुपरि सच्चिदानन्दतेन कूटरूपं परं ब्रह्मावलोकयन् तत्‍रूपो भवति ॥ २॥

Page 2

2

एवं निदिध्यासनोपयतत्फलमाह -- चिदिति ।। योगी स्वान्तः चिद्रूपोऽस्मीति भवयनर्धोन्मीलितलोचनः भूमध्यादौ सच्चिदानन्दमात्रं ब्रह्माहमस्मीत्यालोकयन्तदूपस्तारकरूपो भवति ।। २ ।।

3

अद्वयतारकपदार्थों गर्भजन्मजरामरणभयात्सन्तारयति तस्मात्तारकमिति । जीवेेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विध्याय यदवशिष्यते ततद्वयं ब्रह्म ।। ३ ।।

किं तारकमित्यताह -- गर्भेति ।। ज्योतिरिलिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यति: । इति श्रुतिसिद्धज्योतिरिलिङ्गस्य प्रत्यगृप्त्वेन स्वाझ्ज्ञविकल्पिततगर्भोऽसादिसंसारतारकत्वात्तारकं प्रत्यगात्मेत्यर्थ: । जीवेशभेदे सति प्रत्यगभिन्नब्रह्मभाव: कुत इत्याशङ्क्य तयोर्भेदस्य मायिकत्वेन मिथ्यात्वात्तो यच्छिष्यते तदेव ब्रह्मेत्याह -- जीवेति ।। ३ ।।

4

लक्ष्यत्रयानुसन्धानविधि: तत्सदृशयै लक्ष्यत्रयानुसन्धानं कर्तव्यं ।। ४ ।।

तदधिगमोपाय: कथमित्यत आह तत्सदृशया इति ।। ४ ।। परिच्छिन्नप्रज्ञोतीरूपलक्ष्यात्रयानुसन्धानस्यापि चित्तशुद्धिफलकत्वं मृतामृतांत्मकं यत्र तारकद्वयमुच्यते । ज्योतिदर्शनमात्रोक्तिं व्यवस्थास्येऽद्वयतारकं ।। ननु -- जीवेेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विध्याय यदवशिष्यते ततद्वयं ब्रह्म इति यदुक्तं तद् युक्तमेव । अपि तु -- तत्सदृशयै लक्ष्यत्रयानुसन्धानं कर्तव्यं इत्येतदयुक्तं । कुत: लक्ष्यत्रयस्य च देहान्तर्गतत्वेन परिच्छिन्नाज्योति:स्वरूपतया स्वयमपरिच्छिन्नताभावात् । अद्वयब्रह्म हि अपरिच्छिन्नं महाकाशवत् प्रसिद्ध । तत्सदृशयै परिच्छिन्नत्रैलक्ष्यत्रयानुसन्धानं कथं साधनं स्यात् । अपरिच्छिन्नब्रह्मसिद्ध्यै हि अपरिच्छिन्नब्रह्मध्यानं कर्तव्यं । अत: इह विरुद्धमुक्तमिति चेत् -- सत्यमवेत्तत् । तथापि उक्त लक्ष्यत्रयानुसन्धानद्वारा संशुद्धचेतस्येव वाक्यार्थश्रवणमननसंस्कारतत्करणवशीकरणपूर्वकापरिच्छिन्न-ब्रह्मात्मैक्यानुसन्धानकरणासामर्थ्यंसंभावात् । अन्यथा देहमध्यगतज्योतिदर्शनहीनत्य वाक्यादिश्रवणादिप्रवृत्त्यसंभावाच्च परिच्छिन्नानुसन्धानं युक्तमित्यनुसन्धानं ।। १-४ ।।

अन्तर्लक्ष्यलक्षणम्

Page 3

देहमध्ये ब्रह्मानाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति । तन्मध्ये तटित्कोटिसमाकान्त्या मृणालसूत्रवत् सुक्श्माझी कुण्डलिनीति प्रसिद्धाऽस्ति । तां दृष्ट्वा मनसैव नरः सर्वपापविनाशद्वारा मुक्तो भवति । फलोदयंगलाटविशेषमण्डले निरन्तरं तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति । तर्जन्यग्रोन्त्रेलितकर्णन्रह्रद्रये तत्र पूत्कारशब्दो जायते । तत्र स्यिथे मनसि चक्षुर्मध्येगतनीलज्योतिस्थलं विलोक्य अन्तर्दृश्यया निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति । एवंमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं ॥ ५ ॥

अन्तर्बाह्यामध्यभेदेन लक्ष्यं त्रिविधं । तत्र अन्तर्लक्ष्यलक्षणं तदभ्यासफलं च -- देहेति ॥ यदा कुण्डलिन्याः प्राणदृष्टिमनोग्रभिः मूलाधारत्रिकोणाद्वालड्कारसुषुम्नाडधोऽध्वकं विभिद्य तन्मध्ये प्रविशति तदा बाह्यान्तःप्रपञ्चविस्मरणपूर्वकं मुन्यन्तःकरणे निर्विकल्पब्रह्मपदाद् भ्रष्टि । मुनेः निर्विकल्पज्ञानात् विकल्यात् मुक्तो भवतीत्यर्थः । तत्सिद्ध्युपायः कः इत्यत आहू -- फलोदयेत । तद्व्रतसुखानुभवोपायं वदन् अन्तलक्ष्यं उपसंहरति -- तर्जनीति । सूर्यं प्राप्नोति न केवलं वर्णन्रह्रद्रये एवं हृदये ॥ ५ ॥

अथ बहिलक्ष्यलक्षणं । नासिकाग्रे चतुर्थिंः षड्भिररष्टिभिः दशभिः द्वादशभिः कमात् अञ्जुलालन्ते नीलयुतिश्यामवक्त्रषट्कस्फुरसप्तवर्णद्वयोपेतं व्योम यदि पश्यति स तु योगी भवति । चलदृश्या व्योमभागवीक्षितुः पुरुषस्य दृश्टिग्रे ज्योतिर्मयूखा वर्तते । तद्दर्शननेन योगी भवति । तप्तकाञ्चनसदृशाश्ज्योतिमयूखा अपाञ्जान्तात् भूमो वा पश्यति तद्दृष्टिः स्थिरा भवति । शिशोपरि द्वादशाकुलसमेईक्षितुः अमृतत्वं भवति । यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिदृश्टं चेत् स तु योगी भवति ॥ ६ ॥

बहिलक्ष्यलक्षणमाह -- अथेति । योगी भवति इत्यादिकृत्स्नोोपनिषत् प्रायशो मण्डलब्राह्मणोोपनिषदूयास्वोक्तेन व्याख्यातं स्यादिति मन्तव्यं ॥ ६ ॥

अथ मध्यलक्ष्यलक्षणं प्रातिस्विन्रादिवर्णांशण्डसूर्यचक्रवत् वर्ध्विज्वालावलीवत् तद्वद्धीनान्तरिक्षवत् पश्यति तदाकाराकारितया अवन्तश्वति । तद्दूयोगदर्शननेन गुणरहिताकाशं भवति । विस्फुरत्तारकाकारद्वोपमानगाढतमोऽपमं परमाकाशं भवति । कालानलसमद्योतिमानं महाकाशं भवति । सर्वोत्त्कृष्टपरमद्युतिप्रबोधोतमानं तत्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसदृशां सूर्यांकाशं भवति । एवं वाह्याभ्यन्तरसथव्योमपञ्चकं तारकलक्ष्यं । तद्दर्शी विमुक्तफलस्तादृङ्ग्योमसमानो भवति । तस्मात्तारक एव लक्ष्यममनस्कफलप्रदं भवति ॥ ७ ॥

अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह -- अथेति । तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः । यस्मादेवं तस्मात् ॥ ७ ॥

Page 4

५-७

द्विविधं तारकम् । tत्तारकं द्विविधं पूर्वविधं तारकमृत्योरधर्ममृत्युस्क चान्ति । तदर्थ श्लोकौ भवतः -- tद्योगं च द्विधा विद्धि पूर्वंत्तरविधानतः । पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥ ५ ॥

अक्ष्यन्तस्तारयो: चन्द्रसूर्यैप्रतिफलनं भवति । तारकाभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति निश्चीयत तारकाभ्यां तद्दर्शनम् । अत्राप्युभयैक्यदृष्ट्या मनोयुक्तं ध्यायेत तद्योगाभावे इन्द्रप्रवृत्तेर्ननवकाशात् । तस्मातन्तदृष्ट्या तारक एवानुसंधेय: ॥ ९ ॥

Ed. II. तारकयोगस्य सोमसूर्यैक्यदर्शनैकफलकत्वं ।

ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चीयत तारकाभ्यां तदैक्यदर्शनत: तारकयोगसिद्धि: भवेदित्याह -- अक्षीति । अयोगी यथा ब्रह्माण्डस्थचन्द्रसूर्यौं मनस्सहकृततारकाभ्यां पश्यति तथैव योगी स्वमस्तकाकाशविभागे रवीन्दुद्वयं मनस्सहकृतताराभ्यां अवलोकयेदित्यर्थ: । रूपदर्शनस्य चक्षुरधीना त्वात् किं मनसेत्यत आह -- तद्वति । मनसि अन्यत्र व्यापुते रूपादिग्रहणशक्तिः चक्षुरादेः नास्तीत्यतत् अन्यत्रमना अभूवं नादर्शनमित्यत्रमनसि नाश्रौष्मित्यादि श्रुते: । यद्मादेवं तस्मात् ॥ ९ ॥

Commentary I.

Page 5

ननु निर्गुणाकारं परमाकाशं महाकाशं तत्त्वाकाशं सूर्याकाशं चेति तारकलक्ष्यं आकाशपञ्चकमभिधीयते । अत्र कथं पूर्वोत्तरार्धंविभाग: इति । अत्रोच्यते । उभयैक्यदृष्ट्या मनोयुक्तं ध्यायेंतिति तार एवानुसन्धेय: । इति च ध्यानयोगाभ्यास्य विहितत्वात् । तदभ्यासकाल: पूर्वार्ध: तारकयोगसंज्ञक: तत्फलीभूततज्ज्योतिदर्शनकाल: उत्तरार्ध: अमनस्कयोगसंज्ञक: । एवमेव च आकाशपञ्चकदर्शनै: पूर्वोत्तरविभागो मन्तव्य: ।

१०

मूर्तामूर्तभेदन द्विविधमनुसन्धियं तारकं द्विविधं मूर्तितारकं अमूर्तितारकं चेति । यतिन्द्रियान्तं तत् मूर्तिमत् । यत् भ्रूयुगातीतं तत् अमूर्तिमत् । सर्वत्र अन्त:पदार्थविवेचने मनोयुक्तताभ्यास इष्यते । तारकाभ्यां तदूद्र्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणन सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्मात् शुक्लतेजोमयं ब्रह्मोति सिद्धं । तद्ब्रह्म मन:सहकारिरिच्छुषा अन्तर्दृष्ट्या वेधं भवति । एवममूर्तितारकमपि मनोयुक्तेन चक्षुषैव दहरादिकं वेधं भवति रूपग्रहणप्रयोजनस्य मनश्शुकुर्धीनेत्वात् बाह्यद्वान्तरेडपि आत्ममनश्शक्षु:संयोगेनैव रूपग्रहणकायोंदयात् । तस्मान्मनोयुक्ता अन्तर्दृष्टि: तारकप्रकाशाय भवति ।

यदनुसन्धेयं तत् कतिविधमित्यत्र तततारकं ।। बाह्यपदार्थविवेचनवत् अन्त:पदार्थविवेचनमपि मनश्शुकुर्धीनमित्याह -- सर्वत्रेति । ब्रह्मैव उत्तरतारकलक्ष्योमित्यनुसन्धेयं । यस्मादेव तस्मात् भूमध्यादस्थलाविलसितशुक्लतेजसा मन:कल्पतत्पेऽपि ब्रह्म: सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मोति अभिमतिदृढिम्ना लीनं तत् मनसि कल्पकसापेक्षया ल्पनावैरल्ये निर्विकलपं ब्रह्मैव अवशिष्यते इत्यर्थ: । यत्तेजो मन:कल्पितं तद्ब्रह्म । यस्मादेव तस्मात् ।

१०

मूर्तितारकामूर्तितारकयोग इन्द्रयान्तभ्रूयुगातीततत्त्वकथनेन सगुणमूर्तिध्यानपरत्वं चावगन्तव्यं । सगुणमूर्तिध्यानस्य च निष्कामकृतस्य च क्रममुक्तिचित्तशुद्धिप्रयोजनतया सुप्रसिद्धत्वात् ।

११

तारकयोगस्वरूपं भ्रूयुगमध्ये बिले दृष्टिं तदद्वारा ऊर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति । तेन सह मनोयुक्तं तारकं सुसंयोज्य प्रयत्नेन भ्रूयुगमध्ये सावधानतया कीटवद्दृश्वेमनस्क्षिपयेत् । इति पूर्वतारकयोग: । उत्तरं तु अमूर्तिमतमनस्कमित्युच्यते । तालुमूలోर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तत् योगिभिर्ध्येयं ।

कोडयं तारकयोग इत्यत्र भ्रूयुगमध्ये ततत्यान्ज्ञाचक्षे दृष्टियुगं संनिवेश्य । सावधानतया विलोकनं ध्येयं तज्ज्योति: ब्रह्मोति योगिभिःध्वनित्यमित्यर्थ: । तत: किं भवतीत्यत्र तस्मादिति ।

Page 6

११

प्रकृतयोगे पूर्णमनोवलयाभावेन दृश्यमानज्योतिष: प्रत्यगात्मस्वरूपतवनिर्णय: इदं ज्योति: त्वंपदार्थ: आहोस्वित् तत्पदार्थ: इति संश्रीयते । कुत: संशय: त्वंपदार्थविवेचन इति सच्चिदानन्दस्वरूपं ब्रह्मैवेतिच उक्तत्वात् । अत्रोच्यते । त्वंपदार्थ: प्रत्यगात्मैव । ब्रह्मांशत्वाच्चु ब्रह्मत्वमुपचर्यते साक्षाद्ब्रह्मयोगो हि मनोवियुक्ताभ्यासरूप: । तच्चैव मनोनाशसम्भवात् । मनोयुक्ताभ्यासस्तु प्रकृत: कण्ठरवोक्त: । मनस्सहकारिरिचाक्रुष्ण वेद्यं भवतीति च । यदिमनसैव वेधमित्युक्तं तदा अन्र्तदृष्टे: मनोऽनन्यत्वात् मनस: ब्रह्माणि विलयसम्भवाच्च अज्ञानब्रह्मयोग एव विवक्षित: इति वक्तुं शक्यं । न तु तदस्ति । प्रत्यगात्मयोगे च आनतरे वाझावत आत्ममनश्रक्षुस्संयोगेनैव रूपग्रहणकार्योय: स्यात् । न तु ब्रह्मयोगे तदीयाखण्डसम्यग्दर्शनं चक्षुर्धीनं वा भवति । चक्षुर्मनसी पृष्टत: कृतवा स्वयंप्रकाशमानत्वात् । ननु मनोयुक्तान्तर्दृष्टिरित्युक्तत्वात् मनस: अन्तर्दृष्टिद्वारा ब्रह्माणि विलय एव अर्थादवगम्यते इति चेत्न । बह्मावादित्युक्तत्वेन प्रकृतयोगे मनोवलयासम्भवात् । तात्कालिकस्तु मनोलय: सुपुप्तस्येव नात्यन्त श्लाघ्यतमो भवितुमर्हति । यद्वा ऋममुक्तिसाधनीभूतोडपि स मनोलय: पुनर्जन्मबीजभर्जनाभावात न नाशापरपर्याय: इत्यवगन्तव्यं ॥११॥

१२

शाम्भवीमुद्रा अन्र्तबाह्यालक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यं सांभवी मुद्रा भवति । तन्मुद्रारूढज्ञाननिवासात् भूमि: पवित्रा भवति । तदृष्या सर्वे लोकाः पवित्रा भवन्ति । तादृशपरमयोगिपूजा यस्म्य लभ्यते सोऽपि मुक्तो भवति ॥१२॥

यत्योगिभि: ध्येयमुक्तं पर्यवसाने तदेव सांभवी मुद्रा भवतीत्याह ।। मुद्रा भवति इत्यत्र अन्तर्लक्ष्यं बहिदृष्टि: निमेषोन्मेषवर्जिता । एषा सा शाम्भवी मुद्रा सवितनेत्रे गु गोपिता इति श्रुते: । तन्मुद्रारूढयोगिनं स्तौति -- तदिति । पवित्रा भवति इत्यत्र स्वापादन्यासमात्रेण पावयन वस्तुभातलं इति स्वरूपदर्शनोक्ते: । पवित्रा भवन्ति -- स्वेच्छया भूतरा: सर्वे ब्रह्मविदृष्टिगोचरा: । सव्या एवं विमुच्यन्ते कोटिजन्माज्जितेरधै: ।। इति श्रुते: ॥१२॥

१३

अन्तर्लक्ष्यविकल्पा: अन्र्तलक्ष्यज्वलज्ज्योति:स्वरूपं भवति । परमगुरूपदेशेन सहस्रारज्वलज्ज्योतिरिवा बुद्धिग्राहानिहितचिज्ज्योतिवां षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलं ॥१३॥

अन्तर्लक्ष्यं विकल्प्य निर्धार्यति -- परमेति ।। उक्तविकल्पानां एकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र -- तदर्शनमिति ॥१३॥

Page 7

१४

आचार्यों वेदसंपन्नो विष्णुभक्तो विमत्सरः । योगज्ञो योगनिष्ठश्च सदाऽयोगात्मकः शुचिः ॥

आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह -- गुह्यदस्त्वन्विति ॥ १४-१५॥

१५

गुरुभक्तिसमायुक्तः: पुरुषार्थो विशेषतः । एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥

परमात्मदर्शनाझृंभूतप्रत्यगात्मदर्शनस्य सर्वथा अनुपेक्षणीयत्वोद्भोष: नन्विह तादृशपरमयोगिपूज्या यस्य लभ्यते सोडपि मुक्तो भवतीति एतादृशानि वाक्यानि अर्थवाद: एवस्

१६

गुह्यदस्त्वन्धकार: स्यात् शब्दस्त्रिरोधकः: । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥

कुत: सहस्रार्ज्वलज्ज्योतिवा -- इत्यादिवाक्योक्तदेहपरिगृहीष्णत्रज्योतिर्मात्रे पर्यवसन्नाया: अस्या: उपनिषद आद्यन्तपयालोचनेपि अपरिच्छिन्नब्रह्मात्मैक्ययोगस्य क्वचिदपि अनुकतत्वात । इति चेत् -- अत्रोच्यते । सत्यमेवत् । त्वंपदलक्ष्यार्थसिद्ध्यै अहंपदलक्ष्यार्थस्यापि सिद्धत्वेन कैमुतिकन्याय्यात् ब्रह्मपदार्थसिद्ध: कथम् त्वमहंपदार्थौ: भेद: न अस्ति: । तवं पदस्य खण्डप्रत्यगात्मार्थकत्वात् अहंपदस्य तत्पदार्थसिवाक्यार्थज्ञानोदयानन्तरं अखण्डब्रह्मयोगाभ्यासार्थं ग्राह्यत्वेन अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदय: भेदस्य विशिष्टत्वात् ।

१७

गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणं ॥

ग्राह्यत्वेन अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदय: भेदस्य विशिष्टत्वात् । तस्मादत्र उक्तयोगिन: सद्योमुक्त्यभावेन औपचारिकपरमत्वं च प्रकृतवाक्यानि अर्थवादा एव । तथापि स्वदेहान्तर्वंतिज्ज्योतिदर्शनं विनाऽऽत्मत्वमिति उपदिशतातमहं ब्रह्मास्मीति वाड्मात्रेण प्रलपतां च भान्ततमानां कल्ककोटिष्ठपि संसारवन्थान्मोक्षासंभवात् मोक्षप्रथमसाधनत्वाच्च्यास दर्शनस्य उपेक्षा न कदापि कायां इति स्थितं ॥ १२-१५ ॥

१८

गुरुरेव परा काष्ठा गुरुरेव परं धनं । यस्मादत्पदेष्टाडसौ तस्माद्रुरो गुरुरिति ॥

१९

य: सकृद्धुच्चारयति तस्य संसारमोचनं भवति । सर्वजन्तुकृतं पापं तक्षणादेव नश्यति । सर्वान् कामानवाप्नोति । य एव वेदेत्युपनिषत् ॥

ग्रन्थतदर्थपठनानुसन्धानफलमहा -- य इति ॥

पठनफलं सर्वकामाप्ति: परमपुरुषार्थोपितष्ठ । इत्युपनिषच्छब्द: अद्वयतार्कोपनिषत्समाप्त्यर्थ: ॥ १९ ॥ श्रीवसुदेवेनद्रशिष्योपनिषद्ब्रह्मयोगिना । अद्व्योपनिषदूयाख्य लिखितेश्वरगोचरा । अद्व्योपनिषदूयाख्याग्रन्थोडशीतिरितीरित: ॥

Page 8

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

इति श्रीमद्भगवद्गीतासदृशोत्तरशतोपनिषच्छास्वविवरणं त्रिपञ्चाशत्सङ्ख्यापूरकं अद्वयतारकोपनिषद्विवरणं सम्पूर्णं ।

इति श्रीमत्सुन्दरेश्वरताताचार्यशिष्यश्रीपतिशिवाचार्यकृतिषु अद्वयतारकोपनिषद्भाष्यं समाप्तं ॥ ॐ ॥

ॐ श्रीमद्विश्वाधिष्ठनपरमहंससद्गुरुरामचन्द्रार्पणमस्तु ॥