1. Akshamalika Upanishad
Page 1
अकारादिक्षकारान्तवर्णजातकलैवरम् ।
विकलैवकैवल्यं रामचन्र्पदं भेजे ॥
ॐ वाड्मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म् एधि ॥
वेदस्य म आणीस्थ:
श्रुतं मे मा प्रहासीरनेनाधीतेनारात्रा-
न्सन्धाम्यतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ । अथ प्रजापतिरगृहं पप्रच्छ्छ भो
ब्रह्मान्क्षमालामभेदर्विधिं बूर्हीति । सा किं
लक्षणा कति भेदा अस्या: कति सूत्राणि कथं
घटनाप्रकारः के वर्णाः का प्रतिष्ठा
कैषाधिदेवता किं फलं चेत् । तं गृहः
प्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्कु-
रजताष्टपदचन्दनपुत्रजीविकाऽज्जे रुद्राक्षा
इति । आदिक्षान्तमूर्त्तिः सावधानभावा ।
सौवर्णं राजतं ताम्रं तन्मुखे मुखं
तत्पुच्छे पुच्छं तदन्तरावर्त्तनक्रमेण
योजयेत । यदस्यन्तरं सूत्रं तद्ब्रह्म ।
यदक्षपार्श्वे तच्छ्छेदैव । यद्वामे
तद्वृष्णवम् । यन्मुखं सा सरस्वती ।
यत्पुच्छं सा गायत्री । यत्सुषिरं सा
विद्या । या ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते
धवला: । ये स्पर्शास्ते पीता: । ये परास्ते
रक्ता: । अथ तां पञ्जरिभग्नैरमृते:
पञ्जरिभग्वैर्गान्धोदकैन संग्राप्य
तस्मात्सौौ्क्कारणं पत्रकृचेन् स्नपयित्वा-
षट्भिर्गन्धैरालिप्य सुमनःस्थले
निवेश्याक्षतपुष्पैराराध्य प्रत्यक्ष-
मादिक्षान्तैर्वर्णैर्भावयेत् । ओम्
Page 2
मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ ।
ओमाङ्काराकर्षणात्मकरङ्गत द्वितीयेऽक्षे प्रतितिष्ठ ।
ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ ।
ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ ।
ओमुङ्कार सर्वबलप्रद सातारर पञ्चमेऽक्षे प्रतितिष्ठ ।
ओमुङ्कारोच्चाटन दुःसह षष्ठेऽक्षे प्रतितिष्ठ ।
ओमुङ्काकार सक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ ।
ओमुङ्कार संमोहनकरोज्ज्वलाष्टमेऽक्षे प्रतितिष्ठ ।
ओम्लुङ्कारविद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ ।
ओम्लुङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ ।
ओमेङ्कार सर्ववश्यकर शुद्धसच्चैकोदशेऽक्षे प्रतितिष्ठ ।
ओमैङ्कार शुद्धसात्त्विक पुरुषवश्यकर द्वादशेऽक्षे प्रतितिष्ठ ।
ओमोङ्काराखिलवाङ्गय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ ।
ओमोङ्कार सर्ववाङ्गय वश्यकर चतुर्दशेऽक्षे प्रतितिष्ठ ।
ओमाङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतितिष्ठ ।
ओमःकार मृत्युजाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ ।
ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ ।
ॐ खङ्कार सर्वक्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ ।
ॐ गङ्कार सर्वविध्नशमन महत्तरैकोनविंशेऽक्षे प्रतितिष्ठ ।
ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ ।
ॐ उकार सर्वविपनाशकरोग्रैकविंशेऽक्षे प्रतितिष्ठ ।
ॐ चङ्काराभिचारकृर द्वाविंशेऽक्षे प्रतितिष्ठ ।
ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ ।
ॐ जङ्कार कृत्यादिनाशकर दुर्घर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ ।
ॐ झङ्कार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ ।
ॐ ञकार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ ।
ॐ टङ्कार सर्वव्याधिहर शुभग सप्तविंशेऽक्षे प्रतितिष्ठ ।
ॐ ठङ्कार चन्द्रूपाष्टविंशेऽक्षे प्रतितिष्ठ ।
ॐ डङ्कार गरुडात्मक विषच्छ्नोभनैकोनत्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ ढङ्कार सर्वसंपत्प्रद शुभग त्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ णङ्कार सर्वसिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ तङ्कार धनधान्यादिसंपत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ धङ्कार विषज्वरनिद्र्घ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ ।
Page 3
ॐ पङ्कार विष्णुनाशन भव्य सप्तत्रिषेडक्षे प्रतितिष्ठ ।
ॐ फङ्काराणिमादिसिद्धिप्रद ज्योतीरूपाष्टत्रिषेडक्षे प्रतितिष्ठ ।
ॐ बङ्कार सर्वदोषहर शम्भनेकनचत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ भङ्कार भूतप्रशान्तकर भयानक चत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ मङ्कार विद्धृषिमोहनकरैकचत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ रङ्कार दाहकर विकृत त्रिचत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ लङ्कार विश्वम्भर भासुर चतुःशतवारिङ्क्षे प्रतितिष्ठ ।
ॐ वङ्कार सर्वाःयानकर निर्मल पञ्चचत्वारिङ्क्षे प्रतितिष्ठ ।
ॐ श्रङ्कार सर्वफलप्रद पवित्र षट्चतवारिङ्क्षे प्रतितिष्ठ ।
ॐ षङ्कार धर्मार्थकामधवल सप्तचतवारिङ्क्षे प्रतितिष्ठ ।
ॐ सङ्कार सर्वकारण सर्ववर्णकाष्टचतवारिङ्क्षे प्रतितिष्ठ ।
ॐ हङ्कार सर्ववाङ्मय निर्मलैकोनपञ्चाशदक्षे प्रतितिष्ठ ।
ॐ ळङ्कार सर्वशक्तिप्रद प्रधान पञ्चाशदक्षे प्रतितिष्ठ ।
ॐ क्षङ्कार परापरतत्त्वजापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ ।
अथोवाच ये देवाः पृथिवीदस्तेभ्यो नमो
भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
शोभायै ज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये देवाः अन्तरिक्षसदस्तेभ्यः ॐ नमो
भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
शोभायैज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये देवाः दिविषदस्तेभ्यो नमो
भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
शोभायै ज्ञानमयीमक्षमालिकाम् ।
अथोवाच ये मन्त्रा या विद्यास्तेभ्यो
नमस्ताभ्यःक्षोभनमस्त च्छिकतरस्याः
प्रतिष्ठापयति ।
अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः
सगुणेभ्यः ॐ नमस्तद्वीर्यमस्याः
प्रतिष्ठापयति ।
अथोवाच ये साङ्क्यादितत्त्वभेदास्तेभ्यो
नमो वृत्तेभ्यं विरोधडनुवर्त्तध्वम् ।
अथोवाच ये शैवा वैष्णवाः शाक्ताः
शतसहस्रशास्तेभ्यो नमो नमो भगवन्तोऽ-
नुमदन्त्वनुग्रूणतु ।
अथोवाच याः मृत्युोः प्राणवत्यस्ताभ्यो
Page 4
नमोनमस्तेनैतं मृडयत मृडयत । पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेन पूर्वेमालिकामुत्पाद्यारभ्य तन्मर्यो
महोपहारेरुपहृत्य आदिक्षान्तैरक्षरैरक्षर-मालामष्टोत्तरशतं स्पृशेत ।
अथ पुनरुत्थाप्य प्रदक्षिणीकृत्यो नमस्ते भगवति मन्त्रमातृकेडक्षमाले
सर्ववर्णोन्नमस्ते भगवति मन्त्रमातृकेड-क्ष्मालिके श्रेष्ठस्तभिन्योन्नमस्ते भगवति
मन्त्रमातृकेडक्षमाले उच्चाटन्योंन्नमस्ते भगवति मन्त्रमातृकेडक्षमाले विश्वामृत्यो
मृत्युरूजयस्वरूपिणि सकल्ललोकोधिपिनि सकललोक-रक्षाधिके सकललोकोज्जीविके सकललोकोत्पादिके
दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यनतरं यासि देशान्तरं यासि द्वीपान्तरं यासि लोकान्तरं
यासि सर्वदा स्पुरसि सर्वहृदि वाससि । नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्ते
मध्यमारूपे नमस्ते वैखरीरूपे सर्वात्मके सर्वविद्यात्मके सर्वशक्त्यात्मके सर्वदेवात्मके
वसिष्ठेन मुनिनाराधिते विश्वामित्रेण मुनिनोपजीव्यमाने नमस्ते नमस्ते ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायंप्रातः प्रयुञ्जानः पापोडपापोभवति । एवमक्षमालिकया जप्तो मन्त्रः सदः सिद्द्धिकरो
भवतीत्याह भगवान्ग्रह प्रजापतिमित्युपनिअषत ॥ ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्मं एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरेनाधीतेअहोरात्र-
न्सन्धायाम्यं वदिष्यामि सत्यं वदिष्यामि । तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इत्यक्षमालिकोपनिषत्समाप्ता ॥