1. Akshi Upanishad
Page 1
यत्स्पत्भूमिकाविद्यावेद्यानन्दकेलवरम् । विकलेवरकेवल्यं राचनत्रपदं भेजे ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
अथ हं सांखृतिभगवानादित्यालोकं जगाम । तमादित्यं नत्वा चाक्षुष्मतीविद्यया तन्मस्तुवत् । ॐ नमो भगवते श्रीसूर्या- याक्षितेजसे नमः । ॐ शंकराय नमः । ॐ महासेनाय नमः । ॐ तमसे नमः । ॐ रजसे नमः । ॐ सत्वाय नमः । ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । mृत्योर्माडमृतं गमय । हंसो भगवान्- ष्दुचिरूपः प्रतिरूपः । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् । सहस्ररश्मिं शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेहोवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती- विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुलेड्रो भवति । अष्टौ ब्राह्मणान्प्राहयित्वाथ विद्यासिद्धिर्भवति । य एवं वेद स महान्भवति ॥१॥
अथ हं सांखितरादित्यं प्रच्छं भगवान्- ब्रह्मविद्यां मे बूहिीति । तमादित्यो होवाच । सांख्रते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लंभम् । येन विज्ञातमात्रेण जीवनमुक्तो भविष्यसि ।।९।। सर्वमेकजं शान्तमनन्तं भुवमव्ययम् । पश्यन्नूर्तार्थचिद्रूपं शान्त आस्व यथासुखम् ॥२॥
Page 2
३
अवेदनं विदुर्योऽं चित्तक्षयमकृत्निम्म । योगस्थः कुरु कर्माणि नीरसों वाथ मा कुरु ॥
४
विरागमुपयात्यन्तर्वासनास्वानुवासरम् । क्रियासुदाररूपासु कमते मोदते न्वहम् ॥
५
ग्राम्यासु जडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥
६
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद्विभेति सततं न च भोगमपेक्षते ॥
७
स्नेहप्रणयगर्भाणि पेशलान्युचितानि च । देशकालोपपन्नानि वचनान्यभिभाषते ॥
८
मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कृत्स्नविदानीय नित्यं शास्त्राण्यवेक्षते ॥
९
तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् । एवं विचारवान् स्यात्त्संसारोत्तरणं प्रति ॥
१०
स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः । विचारणाम्नीमितरामागतो योगभूमिकाम् ॥
११
श्रुतिस्मृतिसदाचारधारणाध्ययनकर्मणः । मुख्ययां व्याख्यया व्यात्ताद्वृत्तयति श्रेष्ठपण्डितान् ॥
१२
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् । जानात्यधिगतश्वान्यो गृहं गृहपतियं यथा ॥
१३
मदाभिमानमात्सर्यलोभमोहातिशायिताम् । बहिर्य्यास्थितामीषत्ज्ज्यतयहिरिव त्वचम् ॥
१४
इत्यंभूतमति: शास्त्रगुरुशिष्यजनसेवया । सरहस्यमशेषेण यथावदिगच्छति ॥
१५
असंख्याभिधमान्यां तृतीयां योगभूमिकाम् । ततः पतत्यसौ कान्तः पुष्पशद्यामिवामलाम् ॥
१६
यथावच्छास्त्रवाक्यार्थ मतिमाधाय निश्चलाम् । तपसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः ॥
१७
शिलाशय्यासनासीनो जरात्यायुराततं । वनावनिविहारेण चित्तोपशमशोभिना ॥
१८
असङ्गसुखसौष्ठ्येन कालं नयति नीतिमान् । अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ॥
१९
जन्तोरंधावदेवेयं वस्तुदृष्टिः प्रसीदति । तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥
२०
द्विप्रकारसंसरगं तस्य भेदमिमं श्रृणु । द्विविधोऽयमसंसरगः सामान्पः श्रेष्ठ एव च ॥
Page 3
21
नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः । इत्यसंजननमर्थेषु सामान्यासङ्जनानमकम् ॥ २१॥
22
प्राक्कर्मनिमित्तं सर्वमीश्वराधीनमेव वा । सुखं वा यदि वा दुःखं केवात्र तव कर्तृता ॥ २२॥
23
भोगाभोगा महारोगाः संपदः परमापदः । वियोगायैव संयोगा आधयो व्याधयो भियाम् ॥ २३॥
24
कालक्ष कालनोद्युक्तः सर्वभावावनारतम् । अनास्थयेति भावानां यदभावनमान्तरम् ॥ २८॥ वाक्यार्थलब्धमनसः समानयोःसावसङ्ज्ञम् ।
25
अनेन क्रमयोगेन संयोगेन महात्मनानम् । नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २५॥
26
कृत्वा दूतरते नूनमिति शब्दार्थभावनम् । यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ज उच्चते ॥ २६॥
27
सन्तोषामोदमधुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोडनतरमूलड्कुरिकेव सा ॥ २७॥
28
एषा हि परिमुष्टान्तः संयासा प्रसवैकभूः । द्वितीयां च तृतीयां च भूमिकां प्राप्तुयात्ततः ॥ २८॥
29
श्रेष्ठा सर्वगता ह्रेषा तृतीया भूमिकात्र हि । भवति प्रोज्ज्विताग्रेषसकल्पकलनः पुमान् ॥ २९॥ भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।
30
सं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः । अद्वैते स्थेयंयातेन द्वैते च प्रशमं गते ॥ ३०॥
31
पश्यन्ति स्वपनवल्लोकां चतुर्थीं भूमिकां गताः । भूमिकात्रितयं जाग्रच्चतुर्थीं स्वप्न उच्चते ॥ ३१॥
32
चित्तं तु शरद्भांशाविलयं प्रविलीयते । सत्वावशेष एवास्ते पञ्चम्ीं भूमिकां गतः ॥ ३२॥
33
जगद्विलक्तयो नोदेति चितस्यात्र विलापनात् । पञ्चम्ीं भूमिकामेत्य सुप्तपदनाभिकाम् ॥ ३३॥
34
शान्ताशेषविशेषांशास्स्थिर्यद्वैततमान्त्रकः । गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् ॥ ३४॥
35
सुषुप्तमन एवास्ते पञ्चम्ीं भूमिकां गतः । अन्तर्मुखतया तिष्ठन्वहिर्न्तिपरोऽपि सन् ॥ ३५॥
36
परिशान्ततया नित्यं निःद्वैतलुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ॥ ३६॥
37
षष्ठीं तु याभिधामन्यां क्रमात्पतति भूमिकाम् । यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः ॥ ३७॥
Page 4
३९
केवलं क्षीणमन्नमास्तेऽहुतेऽतिनिर्भयम् । निर्ग्रन्थः शान्तसन्देहो जीवन्मुक्तो विभावनः । अनिवाणोंडपि निर्वाणक्षित्रदीप इव स्थितः ॥
४०
षट्च्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् । विदेहमुक्ततामोक्ता सप्तमी योगभूमिका ।
४१
अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु । लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
४२
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥
४३
ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् । वाच्यवाचकताभेदेनानुपलब्धिः ॥
४४
आकारमात्रं विश्वः स्यादाकारतैजसः स्मृतः । प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥
४५
समाधिकलात्प्रागेव विचिन्त्यात्प्रयत्नतः । स्थूलसूक्ष्मक्रमात्सर्वे चिदात्मनि विलापयेत् ॥
४६
चिदात्मानं नित्यशुद्धबुद्धमुक्तसदृदृश्यः । परमानन्दसन्देहो वासुदेवोऽहमीति ॥
४७
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥
४८
अविद्यातिमिरातीतं सर्वभासविवर्जितम् । आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥
४९
प्रज्ञानघनमाननं ब्रह्मास्मीति विभावयेत् । इत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्द्रिषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इत्यलक्ष्युपनिषत् ॥