1. Alankara Manihara Parakalaswami Ed. Srinivasachar D. Vol 4 University of Mysore 72
Page 1
Barcode : 99999990010994 Title - alankara-manihara pt.4 Author - parakalaswamin, krishna brahmatantra Language - sanskrit Pages - 328 Publication Year - 1929 Barcode EAN.UCC-13
9 999999 001099'
Page 2
GOVERNMENT OF INDIA
DEPARTMENT OF ARCHAEOLOGY
CENTRAL ARCHAEOLOGICAL LIBRARY
CALL No. Sa4A / Sxi
D.G.A. 79.
Page 3
:
Page 4
॥ श्रीकृष्णब्रह्म तन्त्र पर कालम हादेशिकाः ।
विद्वत्कविसार्वभौमाः कविगण्डमेरुण्डाः
Page 5
university or musore.
Oriental Library Publications.
SANSKRIT SERIES No. 72
अलझरमणिहार:
श्रीमद्भिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्द्रैः प्रणीतः
चतुर्थो भाग:
THE ALANKĀRA-MANIMĀRA
BY SRI KRISHNA-BRAHMATANTRA PARAKALASWAMIN
Part IV.
EDITED BY
D. SRINIVASACHAR, M.A., Professor of Sanskrit, Maharaja's College and Ourator, Government Oriental Library, Mysore. SO.AF
MYSORE* PRINTED AT THE. GOVERNMENT BX SCIT PRESK? ** Y1999 ..
Page 6
CENTRAL ARCHAEOLOGIGAS LIBRARY, NEW DELAL. Acc. No .... 97 Date Call No ..... S.ad
Page 7
विषयानुक्रमणिका.
विषयः पुटसखया.
13 रसवदाद्यलङ्कारनिरूपणम् 1
१०५ रसवदलंकारसरः 3
रसस्य रसाङ्गत्वे उदाहरणम् 246 भावाहत्वे 4 .... १०६ प्रेयोSलंकारसर: 6
१०७ ऊजस्व्यलंकारसरः
90८ समाहितालकारसरः 9
१०९ भावोदयसरः ...
११० भावसन्धिसरः 10 ... ...
१११ भावशबलतासर: 11 प्रमाणालंकारनिरूपणम् 12
११ प्रत्यक्षसरः ....
११३ अनुमानसर: 14
११४ उपमानसर: 26
११५ शब्दप्रमाणसरः 27 श्रुतिरूपशब्दप्रमाणम् ... 28 श्रुतेरर्थान्तरकंल्पनेन प्रमाणतयोपन्यासे चारुतातिशयः 29 स्मृतिरूपशब्दप्रमाणम् ... 32 पुराणरूपशब्दप्रमाणम् ... 35
व्याकरणरूपशब्दप्रमाणम् 36 न्यायरूपशब्दप्रमाणम् 54 पूर्वमीमांसान्यायरूपशब्दप्रमाणम् 55 छन्दोरूुपशब्दप्रमाणम् .... 56 .... ज्यौतिषरूपशब्दप्रमाणम् .*** 57 आचाररूपं प्रमाणम् .... .... ....
Page 8
iv
विषय :. पुटसख्या. आत्मतुष्टिरूपं प्रमाणम् .... 60 श्रतिलिङ्गादिरूपं मीमांसकोक्तं प्रमाणम् ११६ अर्थापत्तिसरः 70 ११७ अनुपलब्घिसरः 81 ११८ संभवसर: 82 ११९ ऐतिह्यसरः 83 १२० संसृष्टिसरः 84 १२१ संकरसर: 87 चतुधा संकर: १. अङ्गाद्विभावसकरः २. समप्राधान्यसकरः 93 ३. संदेहसंकर: 98 ४. एकवाचकानुप्रवेशसंकरः 113 संकराणामपि संकराद्वि्छित्तिविशेषः 168 १२२ शब्दालकारसर: 171 छेकानुप्रासः .... 172 वृत्त्यनुप्नासः 173 ... लाटानुप्रास: 174 ... .... यमकम् 178 ... ... यमकप्रभेदाः 179 .... श्लोकावृत्ति: अधावृत्ति: 181 पादावृत्ति: 186 पादभागावृत्तिः 187 ... संकीणभेदप्रकारा: 188 ... मध्यभागयमकम् 205 ..* संकीर्णयमकभेदाः 219 .... पादभागप्रातिलोम्यावृत्ति: 223 *... अर्धस्य प्रातिलोम्येनावृत्ति: 224
Page 9
V
विषयः पुटसंख्या.
श्लोकस्य प्रातिलाम्येनावृत्ति: 225
पुनरुक्तवदाभास: 227
अपशब्दवदाभासः 230
अव्ययाभास: 232
तिङन्तवदाभास: 233 गूढपादचित्रम् 234 क्रियावञ्चनचित्रम् 236
आमन्त्रणवश्चनचित्रम् 238 सप्तविभक्तिवश्चनचित्रम् .... 239 स्वरस्थानव्यअ्जनादिनियमचित्रम् 244 ... वणनियमः ... 254 ... तत्र अपश्चवर्गीणाचत्रम् .... ... अनन्तस्थोष्मवर्णचित्रम् ... एकवर्गीयवर्णनियम: 255 द्विव्य्जनचित्रम् 257 एकव्यअ्ञनचिन्नम् 261 सप्तस्वरनियमचित्रम् 263 अपुनरुक्तव्यञ्ञनचित्रम् 265 समसंकृतप्राकृताचित्रम् 266 षोडशदलपद्मबन्धः 269 द्विचतुष्कबन्धः 270 ... गोमूत्रिकाबन्व: 271
हारबन्ध: 275
गवाक्षबन्ध: 276 ग्रन्थोपसंहारः 278 .... ...
लक्षणश्लोकसंग्रह: ... 291
Page 11
अशुद्ध शोधन म्.
पुटे. पङ्को. अशुद्धम्. शुद्धम्. 17 1 सदा स्सदा 10 विमुखः विमुखः ">
23 1 वर्णीनि वणिनि
3 वर्णिरना वर्णिना
25 16 म्भोध म्भोघे
48 6 शब्दा शब्द
102 24 स्सदेह स्संदेह
148 20 अधशीर्ष अधइशीष
153 11 घ्रज ्रज
156 23 उदत्त उदात्त संवन्धे संबन्धे >>
162 4 गते स्स गतेस्स
171 2 इत्यर्था इत्थमर्था
200 17 दयाते दयत
215 11 न्न्यास न्यास
221 17 वश्यो: वश्ययो:
224 24 जाननां जनानां
242 12 मया माया
256 20 अभिमा अर्भामा
Page 13
श्री: अलंकारमणिहारे चतुर्थभागः
रसवदलङ्गारादिनिरूपणम्
इत्थं यथामति प्राचामर्वाचा च मतान्यलम्। प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥ रसभावतदाभासभावशान्तिनिबन्धनाः। रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः। अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ता: प्राक्तनैबुधैः ।
भावस्य चोदयस्संधिश्शबलत्वमिति त्रयः। एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना॥ अत्रेयं रससिद्धान्तपद्धतिर्वालबोधकृते दिव्वात्रं प्रदर्श्यते।
तोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिन: आनन्दाङ्करपू- र्वावस्थारूपा :- विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः। आनन्दाङ्करकन्दोऽसौ भावरस्थायिपदास्पदम्॥। ALANKARA IV.
Page 14
2 अलङ्कारमणिहारे
इति भरतमुनिना विरुद्धाविरुद्धसजातीयविजातीयभावा- न्तरातिरस्कृतानन्दसूक्ष्मावस्थात्वेन लक्षिता: स्थायिनो नाम भावा: 1 तेषां चेतोधृत्तिविशेषाणां कारणकार्यसहकारिण: विभावा- नुभावव्यभिचारिभावशब्दैः काव्ये नाट्ये च प्रतिपाद्यन्ते। तद्यथा- रतिर्नाम स्थायी भावः तस्या: रतेः कारणानि लोकसिद्धानि
दयमधुकरलतागृहवापीजलदस्तनितादीनि। तत्कार्याणि दर्शन- स्पर्शनोपगूहनचुम्बनभुजवेललनादीनि। सहकारिणो निर्वेदादिभे- दैन त्रयस्त्रिंशत्। यथा-
निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहस्स्मृतिर्धृतिः॥ वीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च॥ सुप्तिविबोधो हर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च।। त्रासश्चैव विकल्पश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावास्समाख्यातास्तु नामतः।।
इति मुनिना लक्षिताः। एते च यथासंभवं नवानामपि स्थायिनां सहकारिणः। प्रकृते रतिरूपशृद्गारस्थायिनः औत्सु- क्यविस्मयावेगहर्षचपलतादयस्सहकारिणः। हासरूपस्थायिनो विकृतवस्तुदर्शनादयो विभावाः। वदनविकासनरदनप्रकाशन- प्रभृतयोऽनुभावा: चापलत्रासादयो व्यभिचारिण इति। अनयैव दिशा रसान्तराणामपि विभावादयो रसार्णवसुधाकरादिप्रब- न्धदर्शिभिसन्नेयाः। एवममीभिर्विभावानुभावव्यभिचारिभि: काव्ये
Page 15
रसवदलङ्कारसरः (१०५) 3.
श्रोकानुसंधानप्रतीतैः नाट्ये अश्यासपाटवनिर्वर्तितवाचिकाङ्कि- कादयभिनयैश्चाभिव्यञ्जितो रत्यादिस्सामाजिकनिष्ठः स्थायीभावो रस:। तदुक्तं मुनिना-'विभावानुभावव्यभिचारिसंयोगाद्रसनि- ष्पत्तिः' इति। इति संक्षेपः॥
अथ रसवदलंकारसरः (१०५)
रसे रसाङ्गे भावाङ्गेडप्येष्वाहू रसवहदुधाः। रसो यत्र रसस्य भावस्य वा अङ्ग भवति तत्र रसव- न्नामाऽलंकारः। रसस्य भावस्य वा प्राधान्य तु ध्वनित्वमेव। अतपव ध्वनिकार :- प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तुरसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः॥ इति। भावो नाम विभावानुभावाभिव्यञ्जितो निर्वेदादि- स्त्रर्यस्त्रिशन्भ्ेदः देवतागुरुशिष्यद्विजपुत्रनृपादावभिव्यज्यमाना र- तिश्च। तदुकतं दर्पणे- रतिर्देवादिविषया व्यञ्चिता भाव उच्यते। एवं भावतया वेद्या व्यञ्ञिता व्यभिचारिणः॥ इति। यथा- सज्यधनुर्गुणनिर्गतशरधारापातधूतयातुदवम्। रघुतनयमुपजुगूहे पुलकिततनुरवनिजा जनस्था- ने॥ २००१ ॥
Page 16
4 अलक्कारमणिहारे
अत्र सीतायाः श्रीरघुनन्दनविषयकसंभोगशङ्गारस्य तद्गत-
यथावा-
ऐक्षत सीता रघुसुतमवनतवदना विलोलतरनय- ना॥ २००२॥
स्मयस्य स्थायिन: परिपोषादद्भुतरसः। स च श्रीरघुनन्दन- विषयकजानकीगतशृङ्गाररसस्याङ्गम्॥। यथावा- युद्धोद्वतेन हरिणा निर्धूतं वेपमानमुप्तकचम्। अवलोक्य भीष्मकसुतं भवति स्मेराननर्स्म ब- लभ्षद्रः ॥ २००३॥ अत्र युद्धौद्धत्याभिव्यज्यमानभगवद्गतवीररसस्य वेपमान- मित्याद्यभिव्यङ्गयरुक्मिगतभयानकरसाङ़गता। तस्य च बलभद्र- गतहास्यरसाङ्गतेति विच्छित्तिविशेषः पूर्वस्मात्॥ रसस्य भावाङ्गत्वे यथा-
न्योन्यम्। वृषगिरिकुटुम्बि मिथुनं विहरतु नस्स्वा- न्तनाम्नि शुद्धान्ते॥ २००४ ॥ अत्र कविगतदिव्यदम्पतिविषयकरतिभावस्य तद्रतशङ्गार- रसोऽङ्गम्। यद्यपि रसभावमापन्नस्याखण्डब्रह्मनन्दसव्रह्मचारिणो
Page 17
रसवदलंकारसर (१०५). 5
विभावादिपरामर्शजीवितावधेरङ्गता न संभवात। तथाऽपि रस- स्थायिभावस्याङ्गतया रसाङ्गतवोपचार इत्याहुः॥
परसुमहाज्याकर्षणरभसोन्नद्वानि रघुकुलविव- यथावा-
स्वन्। लोष्ठानीव महान्ति क्षपाचरशिरांसि को- टिशोडभैत्सी:॥२००५॥ हे रघुकुलविवस्वन् ! परेषां द्विषतां सुमहती या आजि: युद्धं तस्या: आकर्षणे समीपानयने विषये रभसेन वेगेन हर्षेण वा उन्नद्वानि गर्वितानि उत्क्षिप्तानि वा, पक्षे सुमहत्याः अति- विपुलाया: ज्याया: क्षितेः कर्षणरभसेन हलमुखविलेखनवेगेन उन्नद्धानि उदस्तानि महान्ति बृहन्ति कोटिश: असङ्कयाकानीति यावत्। 'बह्वल्पार्थात्' इति शस्। क्षपाचराणां दशाननादिनि- शाचराणां शिरांसि कोटिश: लोष्टभेदनलगुडविशेषः 'कोटिशो लोष्टभेदनः'इत्यमर। कोटिरस्यास्तीति कोटिशः। लोमादित्वा- न्मत्वर्थीयशशप्रत्ययः। लोष्टानीव मृत्खण्डानीव अमैत्सी: व्यदी- दरः। अत्र भगवद्गतवीररस कविगतताद्विषयकरतिभावस्याङ्गम्॥। यथावा- भवता शमिते समितौ दशवदने देव कृत- जगत्कदने। दुन्दुभिरतिवेलाद्भुतकोलाहलशबलि- तोऽनदन्मरुताम् ॥२००६।। देवेति संबुद्धि:। अत्र श्रीरघुनन्दनविषयकत्रिदशगतरति- भावस्य तद्गतवीररसोऽङ्गम्। इत्यलंकारमणिहारे रसवदलंकार: पश्चाधिकशततमः
Page 18
6 अलंकारमणिहारे
अथ प्रेयोलंकारसरः (१०६)
यदि भावरसाङगत्वं भावस्य प्रेय इष्यते। भावस्य भावाङ्गत्वे च प्रेयोऽलंकारो द्विप्रकार:। अयमेव भावालंकार इति कैश्चिद्वयवहियते॥ तत्र भावस्य भावाङगत्वे यथा -: सा मनसि संनिधनां तामरसनिकेतना रुचां विततिः। प्रत्यष्ठापि ययैव हि नित्यं श्रीवेंकटेश्व- रैश्वर्यम्॥२००७॥ अन्र श्रीविषयकरतिभावस्य श्रीनिवासविषयकरतिभावोड- ङ्रम् ॥ भावस्य रसाङगत्वे यथा- वाणीपतिसनकादिमवाङ्गन साविषयभूम्नि शुभ- धाम्नि। व्योम्नि परमे रमेश्वर वतंसयिष्ये कढा तव पदाब्जम्॥२००८॥ अत्र कविगतशान्तरसस्य कदेति सूचितश्चिन्ताख्यो व्यभि- चारिभावोऽङ्गम् ॥ इत्यलंकारमणिहारे प्रेयस्सरष्डुत्तरशततमः
अथोर्जस्विसरः (१०७)
भावाङ्गतां रसाभासो भावाभासोऽयवाSभ्ुते।
Page 19
ऊर्जस्विसरः (१०७) 7
यदा तदेयमूर्जस्विनामालंकृतिरुच्यते॥ यत्र रसाभासो भावाभासों वा भावाङ्गतां प्रतिपद्यते तत्रो- भयत्राप्यूर्जस्विनामालंकारः। रसाभासो नाम रत्यादेरनौचित्येन प्रवृत्ति: 'रसाभासस्तु रत्यादेरनौचित्यप्रवर्तनम्' इत्युक्तलक्षणात्॥। यथावा- नारायणधरणीधरनाथ त्वय्येव लीयतां मम धी:। न पृथग्जनमतिरिव बहुवल्लभता दूषिता भवतात्॥ अत्र समासोक्तिबलेन पृथग्जनमतौ स्वैरिणीत्वप्रतीत्या तद्ग- तशृङ्गारग्साभासस्य कविगतभगवद्विषयकभावाङ्गत्वम्। अत्र शृङ्गाररसस्य बहुषु वल्भेष्वनीचित्येन प्रवृत्तत्वादाभासत्वम् । यथाऽडहु :-
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥इति॥ यथावा -- त्वच्चक्विलूनान्युधि वीरान्दिवि नाथ लब्घदि- व्यतनून्। एकैकैव बहून सुरललनाऽवृणुतैवमप्य- शिष्यत तैः ॥ २०१० ॥ अत्रापि पूर्ववत् योषितो बहुसक्तिरुपरसाभासस्य कवि-
यथावा- विन्दतु चिराय विजयं सौन्दर्य कोसलेश्वरकु-
Page 20
8 अलंकारमणिहारे
लेन्दोः। यदवेक्ष्य मदनकलषास्सिनय इव मुनयोS पि दण्डकारण्ये ॥ २०११॥ अत्र मुनीनां श्रीरघुनन्दनविषयकश्ृङ्गाररसस्यानौचित्येन प्रवृत्तेराभासत्वं, तस्य च कविगतभगवत्सान्दर्यविषयकभावा- ऋत्वम् ॥
क्व वशी त्वं सुकुमारः क नु झूर्पणखाडतिका- यथावा-
मुकी रौद्री। रूप्यं त्वां दाझरथे प्राप्यानिच्छन्त- माप वैरुप्यम् ॥ २०१२॥ प्रशस्तं रूपमस्य रूप्य: 'रूपादाहृतप्शंसयोर्थप्' इति यप्प्र- त्ययः । 'रूप्यं प्रशस्तरूपेऽपि' इत्यमरः । अत्र शूर्णखायामेकत्रै- वातुरागाद्वा अनौचित्येन प्रवृत्तेवां शृङ्गाररसस्याभासत्वम्। स च कविगततद्विषयकरतिभावाङ्गम्। विषमालङ्कारसंकीर्णत्वरूप- विच्छित्तिविशेषोऽत्र द्रष्टव्यः॥ सर्वमिदं रसाभासस्य भावाङ्गत्वे उदाहरणम्। भावाभा- सस्य भावाङ्गत्वे यथा- सर्वो ममावनभरो दर्वीकरगरिपिते त्वयि न्य- स्तः। रक्षसि चेद्रक्षामुं त्यक्षस चेत्यज न जातु निर्विद्ये॥ २०१३॥ न निर्विद्ये निर्वेदं न प्रामोमि। अत्र गर्वरूपभावस्यानी- चित्येन प्रवृत्तेराभासता। स चाभासः भगवद्विषयकभावं प्रत्य- ङ्रभूत: ।। इत्यलंकारमणिहारे ऊर्जस्विसरस्सप्ोत्तरश ततम ः
Page 21
समाहित-भावोदयसरौ (१०८-१०९) 9
अथ समाहितसरः (१०८)
समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः। यत्र 'भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम' इत्यु- क्लक्षणभावशान्तेर्भावाङ्गत्वम् तत्र समाहितम्॥ यथावा -- कुटिलम्रुकुटिविभीषणनिटिलो द्रुहिणादिदुष्प्र- सादोडपि। प्रह्लादं द्ष्टैव प्रासीदस्तव कियन्नु वा- त्लल्यम् ॥ २०१४॥ हे भगवन्नित्यध्याहारः। अत्र 'अपकारिषु पारुष्यमुग्रता- तर्जनादिकृत' इति लक्षितभगवद्गताग्रताख्यभावशान्ति: कविग- ततद्विषयकरतिभावस्याङ्गम। केचितु भावाभासस्य भावाङ्गत्वे समाहितं, भावशान्तर्भांवाङ्गत्वे भावशान्तिरित्याहुः ॥ इत्यलंकारमणिहारे समाहितसरोऽप्रोत्तरशततमः
अथ भावोदयसरः (१०९)
भावोदयस्य भावाङ्गभावे भावोदयो मतः । 'भावोदयस्स्यादुत्पत्तौ व्यङ्गयाया व्यभिच्वारिणाम' इत्युक्त- लक्षणस्य भावोद्यस्य भावाङ्गतायां भावोदयो नामालंकार:।। यथा- अम्भोधरगम्भीरे विजुम्भिते शौरिशार्ङ्गवि- ALANKARA IV. 2
Page 22
10 अलङ्कारमणिहारे
षफारे। अपि विज्वलति भुजोष्मणि वेपथुमभ जन्त हन्त दैत्येन्द्राः ॥ २०१५॥ अत्र दैत्येन्द्रगतत्रासरूपभावादयः कविगतभगवद्विषयक रतिभावस्थाङ्गम्॥। इ त्यलंकारमणिहारे भवोदयसरो नवोत्तरशततमः
अथ भावसंघिसरः (११०)
भावाङ्गत्वे भावसंधेर्भावसंधिरलंकृतिः ॥
'भावसंधिस्तु मावानां तुल्यानां व्यङ्गयता यदि' इत्युक्त लक्षणभावसंधेर्भावाङ्गत्वे भावसंधिरलंकार:॥ यथा- भुजबलहृतभैष्मी मुखवि लोकनोत्फुल्ल लोचन- द्वंद्वः । चैद्याद्यभियोगवशाह्गहञू शा्ङ्क च जयति यदुवीरः ॥२०१६॥ अत्र भुजबलहृतेत्यादिना शुङ्गाररसव्याभेच्वारिणो हर्षस्य
आवेगामर्षादेश्च संभूयवृत्तेः भावसंधिः । स च भगवद्विपयः कविगतरतिभावस्याङ्गम्॥ हत्यलंकारमणिहारे भावसंिसरो दशोत्तरशततमः
Page 23
भावशबलतासर: (१११) 11
अथ भावशबलतालंकारसरः (१११)
भावाङ्गे भावशाबल्ये भावशावल्यमुच्यते। यत्र भावशबलताया भावङ्गित्वं तत्र भावशबलत्वं नामा- लंकार:। भावानां शबलता नाम पूर्वपूर्वोपमर्देन प्रृत्ति:। यथोक्तं-'पूर्वपूर्वापमर्देन तेषां शबलता मता' । इति। तेषां भावानामित्यर्थः । यथा-(युग्मम्) यास्याम्येव जनः किं पश्येन्मां तमसि किंनु विद्यात्सः। यदि पश्येद्बूयान्मां कृष्णे रक्तां त- दाडस्मि धन्यैव ॥ २०१७॥ इति मन्दमन्दमन्घे तमसि चलन्तीं व्रजासि- ताब्जाक्षीम। सरभसमभिमुखमुपयन् सुगाढमुप- गूढवान् जयतु कृष्ण: ॥। २०१८।। अत्र यास्याम्येवेत्यौत्सुक्यं, जनः किंमां पश्येदिति शङ्का, तमास किंतु विद्यात्स इति धृतिः, यदि पश्येदिति वितर्क:, वूयान्मां कृष्णे रक्तामिति मतः, तदाऽस्मि धन्यैवेति हर्षः
इत्यलंकारमणिहारे भावशवलतासर एकादशोत्तरशततमः
Page 24
12 अलक्कार मणिहारे
अथ प्रमाणालंकारा: (११२)
प्रत्यक्षादिप्रमाणानां स्याञ्चमत्कारिता यदि। तदा प्रमाणालंकारानष्टौ प्राहुः परे बुधाः॥ तत्र प्रत्यक्ष यथा- अर्थानामिन्द्रियाणां च संनिकर्षेण यद्धवेत्। ज्ञानं तदाहु: प्रत्यक्षं चारु चेत्तदलंकृतिः॥ इन्द्रियार्थसन्निकर्षजन्यं ज्ञान चासुतया वर्णितं चेत्प्रत्यक्षं नामालङ्कार: ।। यथा- त्वयि नाथ रुचिरवचने सुधाधरे सुन्दरेऽतिसु- कुमारे। सर्वाणि सर्वगन्धे ब्रजसुद्दशामिन्द्रियाणि सुखितानि ॥ २०१९॥ अत्र प्राथिमिकेन विशेषणेन श्रोत्रविषयस्य, द्वितीयेन रसनेन्द्रियविषयस्य, तृतीयन चक्षुरविषयस्य, तुरीयेण त्वाग- न्द्रियविषयस्य, पञ्चमेन म्राणेन्द्रियविषयस्य, सुखितानीत्यनेन सर्वेन्द्रियीवषयानुभवजन्यसुखस्य च प्रतिपादनेन सर्वेन्द्रियज- न्यप्रत्यक्षप्रतीतेश्चमत्कारितया प्रत्यक्षनामालङ्कारः । अत्र 'सर्व- गन्धस्सर्वरसः' इति श्रुतिरतुसन्धेया॥ यथावा- त्वत्तनुमतिदिव्यतमां त्वततीर्थ स्वादु तव सुर-
Page 25
प्रत्यंक्षसरः (११२) 13
भितुलसीम्। तव पद्मतिमृदु चरितं चासव्य कृतार्थ इन्द्रियगणो नः ॥२०२०॥ अत्रासेवनकर्मभूतैः त्वसनुमित्यादिमिः चक्षूरसनघ्राणत्वक्- श्रोत्ररूपेन्द्रियविषयाणां पञ्चानां रूपरसगन्वस्पर्शशब्दाना आस व्येत्यनेन तदनुभवस्य च प्रतिपादनादयमाप पूर्ववत्प्रत्यक्षालङ्कार:।। यथावा- इममधुनाSSलोकपर्थ समनैषं फणिधरेऽत्र म- म नाथम्। गमितो यशश्रुतिपदवीममितोजुलक्षाः पुरा श्रियः कमिता॥ २०२१॥ अत्र फणिधरे अधुना इमं मम नाथं आलोकपथ सम- नैषं अद्राक्षमित्यर्थः । पक्षे लोकपथं स्सृतिपदवीं समनैषमिति। लोकशब्दः स्मृतिवाची। 'अतोऽस्मि लोके वेदे च' इत्यत्र लोके स्मृतावित्यर्थस्य नषितत्वात् । अमितोज्ज्वलभाः यः श्रियः कमिता पुरा श्रुतिपदवीं श्रवणसरणिं वेदवर्तनी गमितः यश्शावणप्रत्यक्षविषयतां पूर्व प्रापितस्सोऽघुना चाक्षुषप्रत्यक्षगो- चरीकृतोऽस्माभिरिति भाव:। पक्षे श्रुतिषु यः श्रियःपतित्वेना- मिततेजरत्वेन प्रथितस्स एव मन्वादिस्मृतिष्वपि तथात्वेनो- च्यत इत्यविद्मिति भावः। अत्र भगवतशश्रावणचाक्षुषप्रत्यक्ष- विषयतया वर्णनम्॥ यथावा- चिन्तामणिगिरिशिखरे कि तावदियं तटिल्ल- ताडम्बुधरे ! संदिद्येत्थं स्थेम्ना मन्दं निरचैषमच्यु ते लक्ष्मीम् ॥ २०२२॥
Page 26
14 अलंकारमणिहारे
स्थेम्ना स्थैर्येण हेतुना अच्युते लक्ष्मी निरचैष नेयं जलधरे विदयुत् किंतु श्रीनिवासे श्रीरिति निरणैषमित्यर्थः । पूर्वत्र प्रत्य- क्षमात्रं, इह तु विशेषदर्शनजन्यसंज्ञयोत्तरप्रत्यक्षमिति विशेष: । इत्यलङ्गारमणिहारे प्रत्यक्षालंकारसरो द्वादशोत्तरशततमः
अथानुमानालङ्कारसरः (११३)
अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम्। लिङ्गं हेतु: धूमादि: लिद्रि साध्यं बह्नयादिः। तथाच हेतु- जन्यसाध्यज्ञानमनुमितिरित्यर्थः । एतञ्च साधारणमनुमानम्। अस्य च कविप्रतिमोन्मिषितत्वेन सुन्दरतायां काव्यालंकारता।।
भुवनतलं शीतलयजू शिशिरमयूखस्स्वकारणं यथा-
भगवत्। श्रीनिलय मानसं तव करुणाशिशिरं परं प्रकाशयति ॥ २०२३ ॥ प्रकाशनं स्फुटबोधनं तञ्चानुमित्यात्मकम्। अत्र च भग- वन्मानसशिशरतारूपलिङ्गिन: शिशिरमयूखकर्तृकभुवनतलशीत- लीकरणलक्षणलिङ्गजन्यत्वेनानुमा नालंङ्कार। भगवन्मानसं करुण शिशिरं भुवनतलशीतलीकरणनिपुणशिशिरमयूखजनिस्थानत्वा- दिति प्रयोग: ॥ यथावा· सामोदवाष्पपूरैः प्रेमोदयसप्रपश्चरोमाच्चैः। भ-
Page 27
अनुमानसर: (११३) 15
गवन् भवदीयजने जानन्ति कृतास्पदां जना भ- क्तिम् ॥ २०२४ ॥ इमे जना: भगवति भक्तिमन्तः सामोदबाष्पपूरादिमत्वा- दिति प्रयोग: ।। यथावा- यद्दर्माम्बुनिषिक्ते क्षेत्रे पुलकाङ्कराः प्रहृष्य- न्ति। तन्मन्येऽस्याइशौरौ हृदयतटाकोऽनुरागर- सपूर्ण: ॥ २०२५ ॥ क्षेत्रमेव क्षत्रमिति श्िष्टरूपकं गात्ररूपकेदारमित्यर्थः । तस्मिन 'क्षेत्रं शरीरे केदारे' इति मेदिनी। अत्र स्वेदाम्बु- निषिक्तक्षेत्राधिकरणकप्रहृष्टपुलकाकरत्वेन द्वेतुना वजललनाया:
गस्तु-इयं शौरिविषयकानुरागरसपरिपूर्णहृदयतटाका स्वेदाम्वु-
पदद्ये लिङ्गलिङ्गिनोशशुद्धत्वं, इह तु रूपकानुप्राणितत्वमिति वैलक्षण्यम्। कविप्रतिभोन्मीलितत्वं तु व्यक्तमेव। इह यत्र लिङ्गलिङ्गिनोस्सत्वं तत्र जानन्ति मन्ये शक्के जाने नूनं अवैमि इत्यादिपदानामनुमितिबोधकत्वं, यत्र तु सादृश्यादिनिमित्त सन्भ्ावः तत्रोत्प्ेक्षावोधकत्वमति विवेक:॥
जडिमाऽपसर्पति यथा यथा च महती स्फुरत्य- यथावा-
झोकश्रीः। शङ्के तथा समीषां साधूनां माधवोऽन्त- रुल्लसति ॥ २०२६॥
Page 28
16 अलंकारमणिहारे
जडिमा शैत्यं अज्ञानं च। अशोकानां वृक्षविशेषाणां श्री: विकाससंपत्। अशोका शोकोपलक्षितहेयगुणराहता श्री: संपत्। माधवः वसन्तः। श्रीनिवासश्च। 'यथा तथेति निपातौ हेत्व- थैकौ' इति गणव्याख्याने। यथा यस्मात् तथा तस्मात् इत्यर्थः। यद्वा। 'यथाशब्दस्तु निर्दिष्टस्तुव्ययोगानुमानयोः' इति विश्व- को शादनुमानवाचकः । अत्र जडिमापसर्पणादिलिङ्गेन माधवोल- सनानुमानम्। अमी साधघः अन्तर्विलसन्माधववन्तः जडिमाप- सर्पणादिमत्त्वादिति प्रयोग: ॥ यथावा- अपहृत्य तव मुखद्युतिमन्तनिशमेव दृश्यनि- जरूप: । वेंकटनाथ शशाङ्गशशङ्गान्वित एव केव लं मन्ये ॥ २०२७॥ हे वेङ्टनाथ! शशाङ्ग चन्द्रमा: शशाङ्कशब्दश्च अनयो- स्तादात्म्यम्। तव मुखद्यात अपहृत्य अन्तर्रिशमेव रात्रावेव, पक्षे अन्तः मध्ये निश निवर्तितशाकारमेव विभ्रशिततावर्ण- मेव यथा स्यात्तथा। क्रियाविशेषणत्वान्नपुंसकता। 'हस्वो नपुंसके प्रातिपदिकस्ा इति हस्वः। दृश्यं निजरूपं स्वस्वरूपं यस्य स तथोक्त: केवलं शङ्गान्वित एव भीत एवेति मन्ये। अन्यथा रात्रावेव स्वरूपप्रकाशः कुतोऽस्येति भावः! पक्षे शशाङ्कशब्दः मध्यगतशाकारलोपे शङ्कान्वितः शङ्क इयाभ्यां वर्णाभ्यामेवान्वित इत्यर्थः। अत्र शशाङ्गनिष्ठशाङ्कान्वितत्वरुपलि-
यथावा- जाने विभाकरोऽयं शौरे त्वचेजसा पराभूतः ।
Page 29
अनुमानसर: (११३) 17
अन्तर्गतभाः पश्राद्विन्यस्तकरो यतसदा विमुखः॥ हे शौरे! अय विभाकर: भानुमान्। पक्षे विभाकर इति शब्द: त्वत्तेजसा पराभूतः अतएव अन्तर्गतभाः निमग्नतेजाः अन्यत्र अन्तर्गतः मध्यभागस्थितः भाः भा इत्याकारको वर्णः यस्य स तथोक्तः। अस्मिन् पक्षे भाशब्दस्य आकारान्तस्य वर्णपरत्वेन स्त्रीप्रत्ययान्तत्वविरहान्नोपसर्जनहस्वः। पश्चात् विन्य- स्ता: करा: येन स तथोक्तः निरस्तपीरुषत्वेनानुत्साहतया शरीर- पश्चार्धसमर्पितपाणिरिति तदनुभावोक्तिरियम्। इतरत्र पश्चात् चरमभागे विन्यस्तौ करौ ककारेरफौ यस्य स तथोक्त: सदा विमुखः अवमानेन न्यकुतवदन इति भावः। पक्षे विकारो मुखे यस्य स तथोक्त:। विभाकरशब्दस्य उपदर्शितवर्णात्मकत्वादिति भावः। अयं विभाकर: भगवत्तेजसा पराभूतः अन्तर्गतप्रकाश- त्वादिभ्यो हेतुभ्य इत्यनुमानशरीरम्। इंदं च उक्तप्रकारशब्दार्थ- तादात्म्यावर्लढिश्षेषोत्तेजितं पूर्ववदेव। एवमग्रेऽप्यूह्यम्॥।
गजराजो गमनेन द्विजराज: पर्यभावि वदनेन। यथावा-
हरितरुणि भवत्या तन्मन्ये तावन्तरा जरालीठौ।। हे हरितरुणि! इदं गजराजादिपराभवपटीयस्त्वद्योतनाय। अन्तरा मध्ये वयस्येव। मध्यभागे इति वस्तुस्थितिः । जरालीढी जरसा वार्धकेन आलीठी व्याती। त्वत्कनपराभवनिमित्तकमनो- व्यथया शीघ्रमेव जीर्णावभूतामिति भावः। पक्षे गजराजद्विजरा- जशब्दौ मध्ये ज रा इति वर्णदयेन व्याप्तावित्यर्थः । अत्र गज- राजद्विजराजयोरन्तरा जरालीढत्वे श्रीवदनगमनपराभूतत्वेन हे- तुना साध्येते।। ALANKARA IV. 3
Page 30
18 अलंकारमणिहारे
यथावा- पुरुष तव पौरुषेण द्विषतामवधीरितं यशो मन्येऽहम। यदिदं योषितमादावविदं शोषितमथ स्वतः क्लीबं च ॥२०३०॥ हे पुरुष निरुपाधिकपुरुषशब्दवाच्य! हे भगवन्नित्यर्थः। भगवानिति शब्दोडयं तथा पुरुष इत्यपि। निरुपाधी च वर्तेते वासुदेवे सनातने॥ इति स्मरणात्। अनेन कारणत्वमपि ज्ञापितं 'पूर्वमेवाहमि- हासमिति तत्पुरुषस्य पुरुषत्वम्' इति निर्वचनात्। तेन च सर्व- ज्ञत्वसर्वशक्तित्वाद्याक्षेपकेण क्वाप्यपरिभाव्यत्वादिकं दयोत्यते। तव एवंविधस्येति भावः। पौरुषेण पुरुषोचितन भावेन कर्मणा वा अप्रधृष्यत्वादिना तेजसा वा 'पौरुषं पुरुषस्य स्थान्ावे करमणि तेजसि' इति मेदिनी। द्विषतां तव द्वेषिणां यशः अव- धीरितं मन्ये। यत् यस्मात् इद यशः एतच्च कर्म। द्विषतां कीर्ति- मित्यर्थः। आदौ पूर्व योषितं स्त्रियं अथ अनन्तरं कालान्तरे इति भावः। शोषित शोष प्रापितं व्यपगमितस्त्रीत्वमिति भावः । स्वतः स्वयमेव कीब नषुंसकं च अविदं। यदिदं यशः पूर्वमेव स्त्रीत्वेन शोषितत्वेन क्वीवत्वेन चाज्ञासिषं तन्मन्ये त्वत्पोरुषेणावधीरित- मेवेत्यर्थः । पुरुषोत्तमपौरुषेण स्त्रीपूर्वस्य निसर्गतश्शोषितस्य षण्डस्यावर्धावणमीषत्करमेति भावः। वस्तुतस्तु यशः यश इति पदं आदौ योषितं यः यकार: उषितोस्मिन्निति तथोक्तं अथ अनन्तरं शोषितं शः शकारः उषितो यस्मिस्तत्तथोक्तं कीबं नपुंसकलिङ्गं च अविदं यशश्शब्दमेवंरूपमज्ञासिषमित्यर्थः । शब्दार्थयोस्तादात्म्यम् । अत्र द्विषां यशसो नियमेनावधीरि-
Page 31
अनुमानसरः (११३) 19
तत्वं साध्यं, स्त्रीत्वादिना विदितत्वं साघनम्। तथाच इद द्विषतां यशः पुरुषोत्तमपौरुषावधीरितं आदो योषित्वेन शो- षितत्वेन क्वोबत्वेन च विदितत्वादिति प्रयोग:। यथा वा- त्वच्चक्ेण विवस्वान् संस्पर्धी नूनमाहतस्तेन। विमुखोऽन्तर्मश्नवसुर्यददन्तो वैशसं परं प्राप्तः।। हे भगवत्निति प्रकरणाल्लभ्यते। विवस्वान् भास्वान् त्व- च्चक्रेण सह संस्पर्धी अतएव तेन समाहतः अभिहतः नूनम्। यत् यस्मात् विमुखः पराजखः अन्तर्मझ्जानि वसूनि किरणा: यस्य स तथाभूतः अदन्तः विगळितरदनः परं दैशसं हिंसां चं प्राप्तः। तस्मादभिहत इति मन्ये इति योजना। पक्षे-विवस्वानित्याकारकश्शब्दः विमुखः विकारो मुखे यस्य स तथोक्त: परं परत्र विद्यमानं शसं शसूप्रत्ययं द्वि- तीयाबहुवचनं प्राप्तः अदन्तः अत् इत्याकारकवर्णदयं अन्ते य- स्य स तथोक्त: वै इति निपातः प्रसिद्धी शस्परकत्वे विव- स्वत् इत्यवस्थानात्तथोकि:। शस् इत्युपलक्षण टादीनामपि। सर्वनामस्थानपरकत्वे नुमो विधानेन अदन्तताया अश्रवणात् शसं परं प्राप्तः अदन्त इत्यभिहितम्। अन्र विवस्वतो भग- वञ्चक्रसमाहतत्वं विमुखत्वादिहेतुभिस्साध्यते।। अत्रेदमवधेयम्-जानन्ति मन्ये इत्यादिपदोपादाने वाच्य- मनुमान, यथा 'सामोदवाष्पपूर:' इत्यायुदाहरणेषु। प्रकाशयती- त्यादिलक्षकपदोपादाने लक्ष्यं, यथा 'भुवनतलम्' इति प्राथामे- कोदाहरणे। तदन्यतरानुपादाने साध्याक्षिपायामनुमितौ प्रतीय- मांनम् ॥
Page 32
20 अलङ्कारमणिहारे
तद्यथा - त्वच्चरणरुचितुलायां हरे प्रवालो बहिष्कृतिं प्राप्तोडमूत। प्रमुखस्सन्वामध्यो यद्गजतेडलं वि- सर्गमेवान्तेऽसौ ॥२०३२।। अत्र साध्येन हरिचरणतुलाबहिष्कृतत्वेनानुमितेराक्षेपात्म्र- तीयमानत्वम्। हे हरे! प्रवालः विद्रमः त्वच्चरणरुचितुलायां वहिष्कृर्ति प्राप्तः । यत् यस्मात् असौ प्रवालः प्रमुखस्सन्वा सर्वैरग्रतो गणनीयो सवननपि मध्य: केनापि निहीनकर्मणा अध- मर्खन्नित्यर्थः । 'मध्यं न्याय्येऽवकाशेऽवलसके लझ्नकेऽवमे' इति विश्वः । अतएव अन्ते पर्यवसाने दूरे वा अलं विसर्गमेव स्वैरतिमात्रं विसृष्टत्वमेव भजते। पक्षे प्रवालः प्रवालशब्द: प्रमुखः प्रवर्णमुखः वामध्य: वा इत्याकारकवर्णो मध्यो यस्य स तथोक्तः लं लवर्ण अन्ते अवसाने विसर्गे च भजते इत्यर्थः॥
तावकवचनामृतरससंस्पर्धी ननु वनपरियो ज- यथावा-
ननि। नप्रिय एवावगतो नेतः प्रीतो यतोऽन्ततो भाति ॥२०३३।। नतु जननि! तावकवचनामृतरससंस्पर्धी वनपप्रिय: नप्रिय एव प्रीत्यविषय एव अवगतः निश्चितः। यतः कारणात् अन्ततः साधु विमर्शेऽपीति यावत्। इतः अस्मात् वनप्रियात् प्रीतः संतुष्टः जनः न भाति कश्वचिदप्यनेन तोषितः क्वापि न प्रका- शत इत्यर्थः। तस्मात् वनमात्रपियोऽयं न जनम्रिय इति भावः। अन्यत्र वनप्रिय इति शब्द: अवगतः वगतः वकारं प्राप्तः सन
Page 33
अनुमानसर: (११३) 21
भवनीति तथोक्त: नप्रिय एव वकारलोपे नग्रिय इत्येवावशिष्ट इत्यर्थः । किंच नेतः नकारेण युक्त: प्रीतः प्रि इति वर्णस- मुदायन युक्त: अन्ततः यतः यकारेण सार्वविभक्तिकस्तसिः। भाति। वनप्रियशब्दस्यैवंविधत्वादिति भावः । अत्र वनप्रियो नप्रिय: श्रीघचनरससंस्परधित्वेन कस्यापि प्रीत्यनाधायकत्वादि- त्यनुमितेशक्षेपात्प्रतीयमानत्वं पूर्ववदेव। एवमग्रेऽषि ॥ यथावा- श्रुतिराह सुमज्जाननं पुमांसमत्रोपसर्जनीभूता। सुमती पुंवत्प्रथते परतन्त्रत्वं तदेनयोस्तुल्यम्॥ श्रुतिः 'सुमज्जानये चिष्णवे' इति श्रुतिः पुमासं परम- पुरुषं श्रीविष्णुं सुमज्ानिं सुमती शोभनवती जाया यस्य तं तथोक्तं कल्याणगुणशालिश्रीसहधर्मिणीकमित्यर्थः। आह। अत्र अनयोः श्रीश्रीनिवासयोर्मध्ये उपसर्जनभिूता भगवद्विशेषणीभूता सुमती श्रीः पुंवत् परमपुरुषवदेव प्रथते सर्वेश्वरत्वसर्वव्याप- कत्वादिना प्रसिद्धयति। 'ईशानो भूतभव्यस्य, एष सर्वेश्वरः' इति भगवत इव 'अस्येशाना जगतः' ईश्वरंगं सर्वभूतानां' इत्यादिना श्रियोऽपि सर्वेश्वरत्वश्रवणात्॥ "गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता मया यथा जगद्वयासं स्वरूपेण स्वभावतः। तया व्याप्तमिदं सर्वे नियन्ती च तथेश्वरी" "त्वया च विष्णुना चाम्ब जगद्यासं चराचरम्"॥ इयादिभिरुभयोरपि जगद्वयापकत्वकथनाच्च । यद्धा भग- वानिव इयमपि प्राधान्येन प्रसिद्धचतीत्यर्थः । 'सुमज्ानये, श्रियः कान्तोऽनन्तः, ब्रह्मणि श्रीनिवासे' इति भगवत इव
Page 34
22 अलङ्कारमणिहारे
'विष्णुपती' इति श्रियोऽि प्राधान्यश्रवणात्। तत् तस्मात् एनयो: श्रीश्रीशयोरुमयोरपि परतन्त्रत्वं अन्योन्यं पराधीनत्वं तुल्यम्। "त्वयि स्त्रीतवैकान्तान्म्रदिमपतिपारार्थ्यकरुणाक्षमा- दीन्वा भोकुं सवति युवयोरात्मनि भिदा। यस्या वीक्ष्य मुख तदिङ्गितपराधीनो विधत्तेऽखिलं। यद्रभङग्गा: प्रमाणं स्थिरचर- रचनातारतम्ये मुरारे:" इत्यायुक्तरिति भावः ॥ अहं तया समाक्रान्तो ह्यहमर्थः प्रस्िध्यति। अहमर्थससुत्था च साऽहन्ता परिकीर्तिता॥ अन्योन्येनाविनाभावादन्योन्येन समन्वयात्। तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः॥
पक्षे-श्रुतिः पुमांसं पुल्िङ्गं सुमज्जानि सुमज्जानिशब्दं आह। अत्र बहुवीहिसमासं पनाप्े सुमज्जानिशब्दे उपसर्जनी- भूता विशेषणतामापन्ना सुमती सुमतोति शब्द: पुंवत् प्रथते। 'स्त्रिया: पुंवद्धाषितपुंस्कात' इत्यादिना विहितं पुंवन्भावं प्राप्ता प्रकाशते। तत् तस्मात् पनयो: सुमज्ानिशब्दयोः परतन्त्रत्वं अन्यपदार्थप्रधानत्वं तुल्यं 'अन्यपदार्थप्रधानो बहुव्रीहिः' इत्यु- करिति भावः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः। अत्र श्रीश्रीशयोरन्योन्यपारतन्त्रयं साध्यम्। इमौ श्रीश्रीशौ अन्यो- न्यपारतन्त्रयवन्तौ समप्रधानैश्वर्यव्याप्तयादिमत्त्वादिति प्रयोगः। अत्रापि वाचकपदानुपादानात्प्रतयिमानमनुमानम्॥
तावकवर्णप्रेप्सुः पुरतो नीतैव शान्तिमनं यद- यथावा-
गात्। श्रीरुत्तमवरव्णनि निशा निराशा तद- न्तरावर्णातौ॥ २०३५॥
Page 35
अनुमानसर: (११३) 23
हे उत्तमवरवर्णीनि! वरः श्रेष्ठः वर्णः सोऽस्या अस्तीति वरवार्णनी। प्रशंसायां मत्वर्थीय इनिः । 'उत्तमा वरवर्णिनी' इत्यमरः । उत्तमा च सा वरवर्णिर्ना च 'सन्महत्परमोत्तम' इत्यादिना समासः । तस्यास्संबुद्धिः। तास्वप्युत्तमेत्यर्थः । 'सीता नारीणामुत्तमा वधूः' इत्येतदत्र स्मर्तव्यम्। हे श्रीः! यत् यस्मात् निशा हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी' इत्यमरः । तावकं वर्ण प्रेप्सुः लिप्सुस्सती आत्मनः केवलवरवर्णनीत्वेन उत्तमवरवर्णन्यास्तव 'हिरण्यवर्णा, आदि- त्यवर्णे' इत्यादिश्रुतं अत्युत्तमं वर्ण प्राप्तुमिच्छन्तीति भावः। पुरतः तवाग्रतः नीतैव प्रापितमात्रव न तु स्वाभप्सितलाभाथरमुयुञ्ा- नेति भावः। शान्तिरस्यास्तीति शान्तिमत् 'शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम् तस्य भाव: शान्तिमत्वं शान्त- त्वमित्यर्थः । परोक्षं त्वद्वर्णलाभे सुलभं मनोरथमात्रं कृतवती। सूर्या हिरण्मयाम्' इति सूर्यवत्प्रकाशमानत्वेन सूर्यरूपत्वेन वा श्रुतायास्तव संनिधौ विच्छायत्वमभजतोति भावः । प्रसिद्धं हि सूर्यप्रभालीढाया हरिद्राया विच्छायत्वॅम्। तत् तस्मात् अन्तरा
मध्ये स्युः' इत्यमरः । वर्णस्य स्वप्रेप्सितस्य तावकवर्णस्येति भावः। आप्ौ प्राप्तौ विषये निराशा निर्गाळततृष्णैवेति मन्ये इति भावः॥ पक्षे-निशा निशेति शब्दः पुरतः प्रथमभागे नीता नि इत्या- कारकवर्णेन इता शा शाइत्याकारो वर्णः अन्तिमः जघन्यः यस्य तत् तस्य भावं शान्तिमत्वं अगात् निशाशब्दस्य उक्तवर्णदया त्मकत्वादिति भावः । अन्ते स्वघटकनिशावर्णयोर्तरे 'अन्तोऽ- स्त्री निश्चये नाशे स्वरूपेडग्रेऽन्तिकेऽन्तरे' इति रत्नमाला। रा
Page 36
24 अलंकारमणिहारे:
इत्याकारको यो वर्ण तस्य आतौ सत्यां निराशेतेव स्याि- त्यर्थोऽपि चमत्कारकः। अत्र भगवत्याः श्रियो वर्णस्य प्राप्तौ निशा निराशैव। तत्सांनिध्यमात्रेण शान्तिमत्तावासतेरित्यनु- मानाकार: प्रतीयते।।
यथावा- भगवति तव पदरुच्या भातत्वाद्गास्करोऽपि तस्कर एव। यदयं गुणसंदानितकरोऽपराङ्गेडन्त- रेसतां गमितश्र ॥२०३६॥ हे भगवति! तव पदरुच्या चरणलक्ष्म्या भातत्वात् भास्क- रोऽपि तस्कर एव चोर एव। अन्यथा अस्य त्वत्पदलक्ष्मी- भातत्वायोगािति भावः । साध्ये तस्करत्वे हेत्वन्तरं चाह- यदिति। यत् यस्मात् अय भास्कर: अपराङ्गे पृष्ठभागे गुणेन रज्ज्वा संदानिता: बद्धा: करा: हस्ताः यस्य स तथोक्त:। दृश्यते हि परस्वस्तेयकृतां पश्चादाक्ष्टसुजतया रज्जुभि: पाण- बन्धनम्। असतां असाधूनामेवंविधार्ना तस्कराणामवेति भावः। अन्तरे मध्ये गमितश्च। कर्मण आधारत्वविवक्षया सप्तमा। यद्ा सतामित्येव छेदः। विदुषामित्यर्थः। अन्तरे बाद्यिःप्रदेशे गमितः सन्भिर्बहिष्कृत इत्यर्थः ॥
छिद्रात्मीय विनाबहिरवसरमध्येऽन्तरात्मानि च।।
इत्यमरः । 'अन्तरं बहिर्योगोपसंव्यानयोः' इति बहिर्योगरुपऽर्थे सर्वनामसंज्ञाया: पूर्वादिभ्यो नवश्यो वा' इति विकल्पितत्वा- न्नेह डे:स्मिन्नादेशः॥
Page 37
अनुमानसर: (११३) 25
अन्यत्र भास्कर इति शब्द: भातत्वात् भाकारस्य तकार- त्वा भाकारमपनीय तत्रैव तकारविन्यसनात् पदरुच्या: इति छेद: पदेषु सुप्तिङन्तात्मकेषु रुचिः अभिलाषः यस्या: तथोक्तायाः पदपरिवृत्तिवैचित्र्यादिकुतू हलिन्या इति यावत्। तव भवत्याः तस्कर: तस्कर इत्येव शब्दो भवाते। किंच यत् यस्मात् अयं तस्करशब्दतामापन्नो भास्करशब्दः अपराङ्े उत्तरभागे गुणेन 'दिवाविभानिशा' इत्यादिसूत्रविद्दितार्धधातुकटप्रत्ययनि- मित्तकेन लघूपधगुणेन संदानितः युक्त: कर: कञ्धातुप्रकृतिका करेति शब्द: यस्य स तथोक्त। अन्तरेसतामिति समस्तं पदम्। अन्तरे इत्येतदेदन्तमव्यय मध्ये इत्यर्थकम्। 'अथान्तरेऽन्तरा: अन्तरेण च मध्ये स्युः' इत्यव्ययेष्वमरः । अन्तरे मध्ये सः 'कस्कादिषु च' इते विहितस्सकारः 'तद्गृहतोः' इति विहित- र्सुट्संबन्धिसकारश्च यस्य स तथोक्त: । तस्य भावः अन्तरे- सता तां गमितः प्रापित इत्यर्थः । इद्मप्याक्षिप्मेवानुमानम् ॥ यथावा- त्वत्कीरतिसुधाम्भोधेशशीतकरोऽयं कणः फणि- गिरीन्दो। यत एष शीकर इति स्वत एव मनी- षिक्िर्व्यवह्नियते ॥२०३७॥ हे फणिगिरीन्दो ! शीतकर: त्वत्कीर्तिसुधाम्भोधे: कणः। इदं साध्यं। तन्न हेतुः यत इति। यतः यस्मात् एषः शीतकर: स्वत एव शीकर इति मनीषिभिर्व्यवहियते। वस्तुतस्तु अतः अविद्यमानतकार: सुष्ट अतः स्वतः विगळिततकारोडयं शीतकर- शब्द: शीकर इति व्यवहियत इत्यर्थः॥ ALANKARA IV. 4
Page 38
26 अलंकारमाणहारे
यथावा- लोपमुपयान्ति तापास्तमांसि सकलानि यद्ध- ळन्तितमाम्। तदमीषां लसति सतां हृदयाका- शे विधुस्सदा विमले॥ २०३८॥ अत्र साध्ये विधुविलसनेनानुमितेराक्षेपात्प्रतीयमानत्वम। सन्तो हृदयाकाशविलसद्विधुत्ववन्तः लुपतापत्वात् गळिततम- स्कत्वाश्चेति प्रयोग:। श्रेषरूपकसंकीणमिदम्। यत्र साध्यस्या- प्यनुपात्तत्वे लिङ्गमात्रस्योपात्तत्वेनागूर्यमाणं साध्यं तत्र ध्वन्य- तुमानम् ॥ यथावा- बृंहन्ति दन्तिनिवहा ह्वेषन्ते हन्त सन्ततं वा- हाः। गृहचत्वरेषु महतां बहुसत्वरगा रथाश्र विहरन्ते ॥ २०३९॥ अत्र महतां लक्ष्मीकटाक्षपात्रत्वरूपसाध्यस्यानुमान ध्वन्यते।। इत्यलंकारमणिहारे अनुमानसरस्त्रयोदशोत्तरशततमः
अथोपमानसरः (११४)
संज्ञायास्संज्िनश्वापि संबन्धप्रत्ययो हि यः। सादृश्यज्ञानकरण उपमानं तदुच्यते॥ सादृश्यज्ञानकरणकस्संज्ञासंविसंबन्धप्रत्यय उपमानम्। तदे- व चमत्कारि उपमानालंकार:॥
Page 39
शब्दप्रमाणसरः (११५) 27
यथा- तं विद्वि कौस्तुभमण वेंकटगिरिनाथ हृदयम- णिनिवहे। योऽत् सखे गगनान्तरतारकनिकरस्थ- हिमकराकारः ॥ २०४० ॥ सुमझरमिव सुकुमारं सुरतरुमिव सन्ततं म- होदारम्। जलनिधिमिव गम्भीरं विदाम देवं वृषाचलविहारम् ॥ २०४१ ॥ अत्र प्रथमोदाहरणे गगनान्तरतारकनिकरस्थहिमकरसदशा- कारताशालिवेंकटगिरिनाथहद्यगतमणिनिवहमध्यस्थित वस्तु
दवाक्यार्थज्ञानादिदं वस्तु कौस्तुभमणिपदवाच्यमित्युपमितिप्रती- तेरयमुपमानालंकार:। द्वितीयोदाहरणे तु सुमशरमिवेत्यादिवा-
लविहारदेवशब्दवाच्यं विदामेति तत्पदशक्तिग्रहलक्षणोपितिफल- स्य प्रतिपादनादतिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सहद दर्शितमिति विशेष: ॥ इत्यलंकारमणिहारे उपमानसरश्रतुर्दशोस्तरशततमः
अथ शब्दप्रमाणसरः (११५)
स शब्दो यन्तु शब्दस्य प्रमाणत्वेन कीर्तनम्। श्रतिस्मृतीतिहासादिरूपश्शब्द इतीर्यते ॥
Page 40
28 अलैंकारमणिहारे
स्वोक्तार्थे श्रुत्यादानां प्रमाणतयोपन्यासश्शब्दप्रमाणालंकारः। शब्दपदार्थमाह-श्रुतीति। आदिशब्देन पुराणाभाणकलौकिक वाक्यादीनां संग्रहः ॥ तत्र श्रुतिरूपशब्दो यथा- नावातर: फणिगिरौ नाथ यदि त्वां कर्थं नु पश्येम। विनुयाम वा श्रुतिर्य दुर्यहमवदत्न चक्षु- षेत्यादिः ॥२०४२॥ अत्र भगवतः परस्य ब्रह्मणः चक्षुरादीन्द्रियाग्राह्यत्वे 'न चक्षुषा गरृह्यते नापि वाचा' इत्यादिश्रुतिः प्रमाणत्वेनोपन्यस्ता। आदिशब्देन 'यत्तद्द्रेश्यमग्राह्यम्' इत्यादेर्ग्रहणम॥ यथावा- वेत्सि मम भक्तिमवने शक्रोषि तथाऽप्युपेक्षसे कस्मात्। सर्वेश्वर श्रुतिस्त्वां सर्वज्ञं ह्याह सर्व- शक्ति च ॥ २०४३॥ अत्र भवतः ममोपेक्षायां मन्दक्तयज्ञानं वा रक्षणाशक्तत्वं वेति विकल्ण्य तदुभयमपि न संभवतीति ज्ञापायेतुं 'यस्सर्वज्ञ- स्सर्ववित्। पराऽस्य शक्तिर्विविधव श्रूयते' इति श्रुतिरूप प्रमाण- मुपन्यस्तम् ॥ यथावा- त्वामद्वितीय इति यो नारायण वेद स भवति भविष्णुः । त्वन्निभमातनुषे तं तन्निगमान्तस्स विष्णुरिति वदति ॥ २०४४॥
Page 41
शब्दप्रमाणसरः (११५) 29
हे नारायण! अनेन वक्ष्यमाणार्थस्य नारायणोपनिषद्गतत्वं सूचितम्। यः पुमान् त्वां अद्वितीय इति अप्रतिद्वंद्व इति वेद वेत्ति सः भविष्णुः वार्धष्णुः उत्तरोत्तरश्रेयइशाली भवतीत्यर्थः।aं एवं वेस्तारं भविष्णुं पुमासं त्वन्निभं त्वत्सदशं आतनुषे। तस्य सायुज्यं ददासीत्यर्थः। पक्षे त भविष्णुशब्द त्वन्निभमित्यत्र त्वं निभमिति छेदः 'वा पदान्तस्य' इति वैकल्पिकोऽनुस्वारस्य परसवर्ण । त्वं निभं भकारशून्यमित्यर्थः। नीत्युपसर्गपूर्षको बहुव्रीहिः। आतनुषे। तत् तस्मात निगमान्तः नारायणोपनिष- दूपः। स पुमान् विष्णुरिति वदति। यथाऽडस्नायते तत्र- 'अथ नित्यो नारायणः' इत्मुपक्रम्य 'निष्कलङ्गो निरअनो निर्विकल्पो निराख्यातश्शुद्धो देव पको नारायण:। न द्विती- योऽस्ति कश्चित्। य एवं वेद। स विष्णुरेव भवति' इति। पक्षे भविष्णुशब्दो भकारच्यावने विष्णुरित्येव भवतीत्यर्थः। अत्र स्वोक्तार्थचमत्कारे उपनिषत् प्रमाणतां प्रापिता। अत्र नारायण-वेद-अद्वितीय :- भवतीति शब्दैरुक्तोपनिषत्प्रत्यभिज्ञा- प्यते ॥। कचिच्छुतेरर्थान्तरपरिकल्पनेन प्रमाणतयोपन्यासे चारुता- तिशयः। यथा- ब्रह्म त्वां गमयति मां यो गुरुरेनं न मानवं मन्ये। तत्पुरुषोडमानव इत्युपनिषदुक्ति: प्रमा- णमिह भगवन् ॥ २०४५॥ अत्र ब्रह्मगमयितृत्वेन हेतुना आचार्यस्यामानवत्वसंभाव- नरूपस्वाभिमतार्थे 'तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति' इति श्रुते: प्रमाणतयोपन्यास इति वैचित्रयविशेषः।
Page 42
30 अलंकारमाणेहारे
यथावा- यडूह्म वृषगिरिगतं तज्जगतां सुकृतमेव जानेऽ- हम्। तत्सुकृतमुच्यत इति श्रुतिराहैतद्दि तैततिरी- याणाम् ॥ २०४६॥ अत्र 'तदात्मान" स्वयमकुरुत। तस्मात्तत्सुकृतमुच्यते' इति स्वात्मन एवोपादानतया स्वीकारेण सुष्ट सृज्यप्रपश्चकरणरूप- प्रवृत्तिनिमित्तेन सुकृतशब्दवाच्यतां ब्रह्मणः प्रतिपाद्यन्ती तै- त्तिरीयश्रुतिः भगवति स्वाभिमतजगत्सुकृतरूपलक्षणे अर्थे प्र- माणतां नीता॥ यथावा- सर्वान्तरात्मनि त्वयि योऽन्यं यजते फणाभृ- दचलमणे। यजमान: पशुरिति या तां श्रुतिमे- तत्परां विजानीमः॥२०४७॥ यथावा- यजते यस्त्वामविदन्यदुनन्दन सर्वयज्ञभोक्ता- रम्। यजमान: प्रस्तर इति या श्रुतिरेषा हि त- त्परा मन्ये॥ २०४८॥ सर्वान्तरात्मनि त्वयीत्यनादराधिक्ये भावलक्षणसप्तमी। प्रस्तरो दर्भमुष्टिः पाषाणश्च। सर्वयज्ञभोक्तारं 'अहं हि स- वयज्ञानां भोक्ता च प्रुरेव च' इति गामादिति भावः । अत एव यदुनन्दनेति साभिप्रायं संबोधनम्। अत्राद्ये पद्े श्रुत्या अन्यार्थतया रूपितस्य यजमाने पशुत्वस्य अक्षत्वेन हेतुना
Page 43
शब्दप्रमाणसर: (११५) 31
रूपणं परिकल्पितम्। द्वितीये तु प्रस्तरकार्यकरत्वेन रूपितस्य यजमाने प्रस्तरत्वस्य पाषाणरूपार्थान्तरकल्पनं वेदितव्यम्।। यथावा- मा भूवं प्रत्यक्षस्तव देव परोक्ष एव भूया- सम्। तर्हि प्रियो भवेयं श्रुतिः परोक्षप्रियान् वदति देवान् ॥२०४९॥ अत्र-'हदिद्र" सन्तमिन्द्र इत्याचक्षते परोक्षेण। परोक्ष- प्रिया हि वै देवाः' इति परोक्षनामग्रहणे देवानां प्रीतिं प्र- तिपाद्यित्री श्रुतिः स्वस्थ परोक्षताहेतुकप्रियत्वाशंसनरूपार्थे प्रमाणभावं गमिता॥ यथावा- वेंकटगिरिमात्रपति त्वा कथयन्तो जना: परं मुग्धाः । विष्णुर्हिं पर्वतानामधिपतिरिति गौर्जर- त्यपि प्राह ॥ २०५० ॥ जरती गौरपि जीर्ण: कश्चित् पशुरपि विष्णुः पर्वतानां सर्वेषामधीश्वर इति वदति । वस्तुतस्तु जरती गौः 'विष्णुः पर्वतानामधिपतिस्स माऽवतु' इति श्रुतिरित्यर्थः । हिशब्दः प्रसिद्धौ, अत्र पूर्वार्धोक्तस्वाभिमतभगवतो वेंकटगिरिमात्रमतित्वं वदतां जनानां सुग्धत्वोपपादनेड्थे उदाहृतश्रुतिरुपोद्वलकतया प्रमाणतामनायि॥ यथावा .- जानासि नैव दीनानस्मान् कस्मादितीह वि-
Page 44
32 अलंकारमणिहारे
शयो नः। वृक्ष इव स्तब्ध इति त्वां श्रुतिराहाथ किं वितर्केण ॥ २०५१।।
यदमी कन्दन्ति हरे त्वामवलम्व्यापि भवपथे यथावा-
मनुजा:। तद्चक्षुशश्रोत्रं त्वां श्रुत्यन्तास्सांप्रतं वद- न्तीति ॥२०२। पूर्वोदाहरणेषु श्रुतिरभिमतार्थे प्रमाणतयोपन्यस्ता। अन- योरुदाहरणयोस्तु-'वक्ष इव स्तब्धो दिवि तिष्ठत्येकः। अच- क्षुशश्रोत्रं तदपाणिपादम्' इति श्रुती अनभिमतार्थे भगवदुपाल- म्भनपरेण भवपथनिर्विण्णेन प्रमाणताँ पापिते इति भिदा। स्तब्धः जडः। वास्तवार्थस्तु नन्तव्यवस्तुविरहाद्वक्ष इवाप्रणतस्वभाव इति॥
विद्धानस्सश्रीकान्विप्रान्कमलापते कुचेलमु- यथावा-
खान्। न श्री रसते ब्राह्मण इति श्रुतिं वितथवा- दिनों व्यदधाः॥२०५३॥ अत्र विप्राणां निश्रीकताप्रमाणभूता न वै ब्राह्मण श्री रमते' इति श्रुतिः तेषां सश्नीकतानिर्वर्तनन वितथार्थवादिता- प्रकाशनायोपात्तति पूर्वापेक्षया विशेषः॥ स्मृतिरूपशब्द प्रमाणं यथा- हत्कमलं मम विमलं श्रय मृदुलं श्रीश भु- जगराडचलम्। विजहीहि चिरं न वलेत्पर्वत इति वर्वृतीति हि स्मरणमू ॥२०५४॥
Page 45
शब्दप्रमाणसरः (११६) 33
स्मरणं स्मृतिः वर्वृतीति क्रियासममिहारेण वर्तते। अत्र
डचलपरित्यजनप्रार्थनरुपस्वाभीप्सितार्थे 'न चिरं पर्वत वसत्' इति मानवी स्सृतिः परमाणभावमनीयत ॥।
नमतां जेतुं वर्गे द्विषतां श्रयसे मृगेन्द्रगिरि- यथावा-
दुर्गम। सर्वेषां दुर्गाणां स्मरन्ति गिरिदुर्गमेव हि ज्यायः ॥ २०५५ ॥ नमतां शरणागतानां सम्बन्धिनं द्विषतां वर्ग कामाद्यारेषडुर्गे जेतुं सृगेन्द्रगिरिदुर्ग शेषाद्रिदुर्ग सिंहाद्विकूरसत्वाधिष्ठितं दुर्गमित्य- पि गम्यते। अत्र श्रीनिवासस्य भगवतः शरणागतसंबन्धिद्विष-
सर्वेणापि प्रयत्नेन गिरिदुर्ग समाश्रयेत्। एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते॥। इति मानवी स्मृतिरेव प्रमाणत्वेन प्रदर्शिता॥
दुर्गमचाक्षुषममतिः प्रपद्यतां नाच्युतं यदाह यथावा-
मनुः। दुर्गमचक्षुर्विषयं न हि प्रपद्येत कार्हैचि- दपीति ॥१०५६॥ दुर्ग दुर्गमं 'क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्त- त्कवयो वदन्ति' इति श्रुतेः 'दुर्लभो दुर्गमो दुर्गः' इति नामस- हस्रपाठाच्च। अचाक्षुषं चक्षुरगोचरं 'न चक्षुषा ग्रह्यते' इति श्रुतेः। ईदृश अच्युतं 'यस्मत्प्राप्ता न च्यवन्ते सोऽच्युतः' इति निरुक्तिविषयं श्रीनेवासं परं ब्रह्म अमति :- ALANKARA IV. . 5
Page 46
34 अलंकारमणिहारे
न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमाः । माययाऽपहतज्ञाना आसुरं भावमाश्रिताः ॥ इत्युक्तरीत्या मूढ: मायया अपहृतज्ञानश्च जनः न प्रपद्यतां प्रपन्नो मा भूदित्यर्थः । उक्तार्थे- 'अचक्षुर्विषयं दुर्ग न प्रपद्येत काहिचित्।' इति स्नातक- धर्मोक्त चक्षुरगोचर कान्तारं कदाचिदपि न प्रविशेदित्यर्थकं मनुवचनं श्ेषभित्तिकामेदाध्यवसायेन प्रमाणतामनीयत। पूर्व स्मृतेरभिमतार्थे प्रमाणतयोपन्यासः। इह तु भगवदप्रपन्नोपाल- म्भपरेणानभिमतार्थे इति विशेष:॥ इतिहासरूपशब्द प्रमाण यथा .- विषयविषाब्धाविन्द्रियमकरैः कृष्टोदपि धार- यन् प्राणान्। अधुनाऽडपं त्वां द्वीपं जीवन् भद्राणि पश्यतीति नयात् ॥ २०५७ ॥। हे भगवननिति प्रकरणाललभ्पते। अधुना याद्दच्छकादि- सुकृतपरिपाकावसरे इदानी त्वामेव द्वीपं आप प्राप्तवानस्मि। अत्र बहूनि कृच्छाण सोढवा प्राणान् धारयतुस्स्वस्य बहो:
'विनाशे बहवो दोषा जीवन् भद्राण पश्यति' इति श्रीरामायणं प्रमाणतयोपात्तम्।।
यथावा- एतदलंकरणगणं नाथ ममादास्त्वमहमपि तवा- दामू। रामायणमाह कृते प्रतिकर्तव्यं सनातनं धर्मम् ॥ २०५८॥
Page 47
शब्दप्रमाणसर: (११५) 35
हे नाथ! एतत् करणगणं इन्द्रियवर्ग त्वदाराधनौपायकमिनि भावः। मम त्वं अलं पर्यासं अदा: दत्तवानसि अहमपि तव अदां अददाम। अस्मिन् पक्षे अलंकरणमिति समस्त पदम्। अलंकरणगण अलङ्कारप्रतिपादकममुं प्रबन्धामत्यर्थः। अत्र स्वाभि- मतेऽर्थे- 'कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः।' इति श्रीरमा- यणस्य प्रमाणत्ववर्णनम्। श्ेषोज्ावितमिदम् । पूर्व तु रूपक- संकीणम ॥। यथावा- यद्यपि सर्वज्ञस्त्वं न भक्तदोषांस्तथादपि जाना- सि। तदविज्ञातेति त्वां नामसहस्त्रे पठन्ति मुनि- वर्याः । २०५१।
अत्र सर्वज्ञस्यापि श्रीनिवासस्य भक्तदोषादर्शननिर्धारणेऽथे 'अविज्ञाता सहस्रांशुः' इति श्रीभारतान्तर्गतसहस्त्रनामस्तुति- वचनं प्रमाणमुपनिबद्धम्।। पुराणरूपशब्दप्रमाणं यथा- हानिस्समजनि माप त्वद्यानभृतोऽपि वासु- देव कथमू। माह पुराणं हानिस्सा यत् क्षणमपि न चिन्त्यसे त्वमिति ॥२०६० ॥ हे माप! माधव हे वासुदेव! त्वद्धयानं विभतीति त्वद्धचान- भृत् तस्यापि निरन्तरं त्वां चिन्तयतोऽपीति भावः। हानिः इष्टहानि: कथं समजनि अजायत। आश्चर्यमेतदिति भावः। हानि: कुतो न संभवेदित्यत आह-प्राहेति। पुराणं-
Page 48
36 अलंकारमणिहारे
यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छद्रं सा भ्रान्तिस्सा च विक्रिया॥ इति पुराणं, त्वं भवान् क्षणमपि अत्यल्पकालमपि वा न चिन्त्यस इति यत् सा हानिरिति प्राह। परिहारस्तु-पूर्वार्धे हा निस्समजनि आप इति छेदः । त्वद्धयानेन भृतः जनः भृअ: कर्मणि क्ः। निस्समां असदशी जनि जन्म 'स हि विद्यातस्तं जनयति तच्छ्रेष्ठ जन्म' इत्युक्तप्रकारं ब्रह्मविद्या- वेनृत्वरूपं जन्मेति भावः । यद्वा 'वर्णाश्रमाचारपरः' इत्युपक्रम्य- महता हेन पुण्येन वैष्णवत्वं लभेत सः। विष्णुभक्तिपरस्तद्वत्सप् जन्मानि मानवः ।। एकान्तभगवद्याजी विप्रो भागवतान्वये। ततस्स लभते जन्म देवैरत्यन्तदुर्लभम्॥ इति वाराहोक्तं लोकोत्तरं प्रपन्नजन्मेति भावः । आप प्राप्तवान्। निस्संदेहैव तत्पाप्तिरिति द्योतनाय 'कृतं कार्यमिति श्रीमान् व्याजहार पितामहः' इत्युक्तरीत्या सिद्धवत्कारेण भूतनिर्देशः। हा इत्याश्चये। अत्र उपपादितश्षशभित्तिका मेदाध्यवसायनिर्व्यूढ-
पुराण रूपशब्दप्रमाणोदाहरणम् ।। व्याकरणरूपशब्दप्रमाणं यथा- महतः परमस्य सतो भवता पुरुषेण पूज्य- मानेन। सामस्त्येडग्रयत्वं स्याद्देवैतत्म्राह सन्मह- त्सूत्रम् ॥ २ ०६१॥ हे देव! महतः पूज्यस्य अत एव परमस्य उत्क्ृष्टस्य सतः ब्रह्मविद: कस्यचित् पूज्येन पुरुषेण भगवता नारायणेन भवता
Page 49
शब्दप्रमाणसरः (११५) 37
त्वया सामस्त्ये सामग्रचे सति संबन्धे सतीत्यर्थः। अग्रचत्वं सकललांकाग्रगण्यता स्यात्। पतत्, इदं कर्म। सन्महत्सूत्रं कर्तृ। प्राह वदति। इममर्थमुक्तसुत्रं कथवतीत्यर्थः। सूत्रपक्ष- महतः परमस्य सत इति च शब्दस्य पूज्यमानेन पुरुषेण पुरुषशब्देन सामस्त्ये समस्ततायां सत्यां समासे संतीत्यर्थः। अग्रचत्वं पूर्वप्रयोज्यत्वं स्यादित्यर्थः। 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' इति सूत्रेण सदादिशब्दानां पूज्यमानवाचकैस्सह समासविधानात्तेषां 'प्रथमानिर्रदिष्टं समास उपसर्जनम्' इत्युप- सर्जनसंज्ञायां 'उपसर्जनं पूर्वम्' इति पूर्वप्रयोज्यत्वं स्यादित्यर्थः। अत्र विवक्षितस्य ब्रह्मविदो भगवत्संबन्धेन सर्वलोकाग्रगणनीय- त्वस्य निर्धारणे उपपादितश्ेषभित्तिका भदाध्यवसायेन पाणिनीय- सूत्ररूपशब्द: प्रमाणपद्वीमनायि।
यथावा- विजितस्स पारिजाताहरणरणाग्रे त्वया हरे म- घवा। बहुळं तान्तोडद्यापिच मघवा बहुळमिति सूत्रमिह मानम् ॥ १०६२॥
हे हरे! मघवा इन्द्रः पारिजाताहरणरणाग्र त्वया विजितः। अतपव अद्यापि च बहुलं अतिवेलं तान्तः ग्लानः। इह अस्मिन्नर्थे 'मघवा बहुलम्' इति सृत्रं मानम्। मघनतोऽद्यापि बडुलं तान्तत्वे उक्तसूत्रं प्रमाणमित्यर्थः। मघवशब्दस्प उक्तसूत्रेण तृ इत्यन्तादेशस्य बहुलं विधानात्तस्य बहुलं तान्तत्वे तत्प्रमाणमिति भावः। अत्रोपपादितार्थस्थापनाय शब्दार्थतादात्म्यमूलकश्लेपो- पष्टम्मेन उक्तसूत्रस्य प्रमाणताप्रदर्शनम्।।
Page 50
38 अलंकारमणिहारे
यथावा- निर्मित्सा चेनव जगदासीदेवात्र नेष्यतेऽभ्या- सः। अत एवाच्युत पाणिनिरत्राम्यासस्य लोपमे- वाह॥ २०६३॥ हे अच्युत! तव जगदेक्वकारणस्यति भावः। निर्मित्सा निर्मातुमिच्छा चेत् जगत् इद भुवनं आसीदेव निष्पन्नमेव। न तु तन्निष्पत्तौ मात्रयाऽपि विलम्बः 'इच्छामात्रं प्रभोस्सृष्टिः' इति श्रुतेरिति भावः। अत्र निर्मित्सायां अश्यासः पौनःपुन्यं नेष्यते। सकृदिच्छोन्मेषमात्रादेव संभवन्त्यॉ जगतसृष्टौ तत्पौन :- पुन्यं नापेक्षितमिति भाषः। अतएव निर्मित्सायामभ्यासानपेक्ष- णादेव पाणिनि: अत्र निर्मित्सारुपेऽर्थे, पक्षे निर्मित्साशब्दे अभ्यासस्य पौनःपुन्यस्य, अन्यत्र द्विर्वचनस्य लोपमेव अदर्श- नमेव आह कथयति। निरित्युपसर्गपूर्वकात् माधातोस्सनि 'सनि मी मा' इत्यारक्य यदुक्तं तत्राभ्यासलोपस्य 'अत्र लोगोऽभ्यासस्य' इति सूत्रेण तेन विितत्वादिति भावः। अत्र भगवतो जगन्निर्माणविषयकेच्छाभ्यासानपेक्षणेडये पूर्ववदेव ग्लेष- मूलातिशयोक्तयवलम्बनेन उपदर्रितं पाणिनिसूतं प्रमाणी- कृतम्।।
सम एव भवति सम्राट् पुरुषत्वं चाि भवति यथावा-
तस्यैव। यन्मो राजि समः क्वौ व्रश्चभ्रस्जति सू- त्रितं मुनिना । २०६४।। मया श्रिया सह वर्तत इति समः। स एव सलक्ष्मीक एव सम्राट् जगदीश्वरो भवाति 'एष ब्रह्मलोकस्सम्राट। राजा-
Page 51
शब्दप्रमाणसरः (११५) 39
धिराजस्सर्वेषां विष्णुर्बरह्ममयो महान्' इत्यादिश्रुतिस्मृतिभ्यः। 'सलक्ष्माकस्य साम्राज्यं सर्वेधा सुप्रतिष्ठितम्' इत्याचार्यश्रीसू- क्ेश्च। न ह्यलक्ष्मीकानां साम्राज्यं कदाऽपि भवेदिति भावः। तस्यैव सलक्ष्मीकस्यैव पुरुषत्वं चापि 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्' इति निरुक्तसर्वकारणत्वसर्वान्तर्यामि- त्वादिप्रकाशकपुरुषशब्दवाच्यत्वं च भवति 'ही श्चते लक्ष्मीश्च पत्नचौ' इति लक्ष्मीजानेरेव 'वेदाहमेतं पुरुष महान्तम्' इति पुरुषत्वश्रवणात्। एवं श्रुतिसिद्धे स्वाभिमतार्थे पाणिनीयसूत्र- लक्षणस्मृतिमपि श्षेषेण प्रमाणीकरोति-यदिति। तदा पूर्वार्ध- स्यैवमर्थ :- यत् यस्मात् सम्राडिति शब्द: सम एव मकार- सहित एव भवेत् 'मो राजि समः क्वौ' इति किबन्ते राजतौ परे समो मकारस्य मकारविधानात्। न तु 'मोऽनुस्वारः' इति विहितानुस्वारसहितः। तस्यैव सम्राट्छव्दस्यैव पुरु भूयिष्ठं यथातथा 'पुरुभू: पुरु भूयिष्ठम्' इत्यमरः। षत्वं 'व्श्चभ्रस्ज- सृजमृजयजराजभ्राजच्छशा षः' इति जश्वस्थानिभूत षत्वं भवति। सम्राडिति शब्द उक्तप्राक्रयया निष्पद्यत इति भावः॥ यथावा- वृद्धाच्छप्रत्यय इह भवेत्वदीयो न चात्र संदे- हः। स्मरति हि भगवान् पाणिनिरमुमर्थ शेषशै- लमौलिमणे॥ २०६५ । हे शेषशैलमौलिमणे! वृद्ध: अभिवृद्ध: तैलधारावदवि - च्छिन्न इति यावत्। अच्छः विजातीयप्रत्ययानन्तरिततया निर्म- लश्च प्रत्ययः त्वद्विषयकध्यानं यस्य स तथाभूतः त्वदीयो भवति 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इत्युक्त-
Page 52
40 अलंकार मणिहारे
रीत्या तव निरतिशयप्रीतिपात्रतामापद्येतेति भाः । अत्र न सन्देहः। यदा वृद्ध: प्रवृद्ध: अच्छः देवतान्तरसंबन्धगन्धद- वीयस्तया विमलः प्रत्ययो विश्वासो यस्य स तथाभूतः महा- विश्वासशालीत्यर्थः। त्वदीयः त्वदेकशरणः पुमान वृद्धाच्छप्र- न्यय इत्यावृत्त्या योज्यम्। अभिवृद्धनिर्मलज्ञानः 'सर्वे ह पश्यः पश्यति। स चानन्त्याय कलते' इत्युक्तरीत्या नित्यासंकुचित- ज्ञानो भवेदित्यर्थः । त्वय महाविश्वासोपलक्षितात्मरक्षाभरसम- र्पण विदधानो मुक्तो भवतीति भावः। अत्र प्राथमिकेऽर्थे उपा सना द्वितीयस्मिन्नचास इति वैलक्षण्यम्।। अन्यत्र वृद्धाच्छप्रत्यय इति सप्तम्यन्ततया छेदः। वृद्धाच्छ- प्रत्यये 'वृद्धाच्छः' इति सूत्रिहितछप्रत्यये कृते सति त्वदाय इति रूपं भवतीत्यावृत्त्या योजनीयम्। 'त्यदादोनि च' इति युष्मच्छब्दस्य वृद्धसंज्ञायां 'वृद्धाच्छः' इति छप्रत्यये, विहिते त्वदीय इति रूपं सिद्धयतीत्यर्थः । उत्तरार्ध सुगमम्। अत्र स्वाभिमते उपपादितेऽर्थे पाणिनिस्मृते: प्रामाणतयाऽवतारणम्।।
यथावा- इयमादेशमजादये धत्ते सुप्प्रत्यये परेडपि श्रीः। भवतीलोपगताऽस्मिन्नर्थे शाब्दिकमुनेर्वचो मा- नम् ॥ २०६६॥ हे श्री :! इलोपगता इलया भूदेव्या उपगता समीपाश्रिता 'लक्ष्मीप्रियसखीम्' इति भूदेव्याः श्रीसखीत्वश्रवणादिति भावः। इय भवती सुप्रसिद्धा त्वं अजाद्ये ब्रह्मादौ चतुर्मुखस्यापि कारण- भूते इति परमात्मन एव विशेषणं वा। सुप्प्रत्यये शोभनज्ञाने, प्रत्यय इत्युपलक्षणं शक्तिबलादनिामपि परिपूर्णज्ञानादिषाड्गुण्ये
Page 53
शब्दप्रमाणसरः (११६) 41
इत्यर्थः। परेऽपि मगवत्यपि 'परोऽरिपरमात्मनोः इति विश्वः । आदेशं शासन धत्ते पुष्णाति। 'यदपाङ्गाश्रितं सर्व जगत् स्थावरजङ्गमम्। यङ्द्रभङ्गा: प्रणाणं स्थिरचररचनातारतम्ये मुरारे:' इत्याद्यक्त:॥ पक्षे-श्रीः श्रीशब्दः अजाद्ये अच् आद्यो यस्य तस्मिन् सुप्प्रत्यये सुप्प्रत्याहारघटक औजस् इत्यादौ प्रत्यये परे सति। अपिशब्दो भिन्नकम उत्तरत्रान्वेति। इय इय इत्याकारकं आदेशं धत्ते। भवति ईलोपगता इति छेदः। ईलोपं ईकारादर्शन गताऽपि प्राप्ताऽपि, अपिस्समुख्ये। सवतति मूधातोलेट्। अस्मि- ननर्थे शाब्दिकमुनेः पाणिनेः वचः प्रमाणम्। श्रीशब्दस्याजादौ विभक्ती परतः 'अचि श्षधातुभ्नवां ख्वोरियङ्डवङै' इति विहि- तस्य इयडो डित्वात् 'डिन्न्च' इत्यनेन अन्त्यवर्णस्य ईकारस्या- देशविधानादिति भाव। ईकारस्य इयडाऽपहतत्वाददर्शनम्। अत्रापि स्वविवक्षिते श्रुत्यादिसिद्धे श्रीपरत्वरूपडयें उपपादित- ऋ्ेषमूलाभेदाध्यवसायेन पाणिनीयवचस: प्रमाणतयोपन्यास:॥ यथावा- आस्ते विष्णुनित्यं पढे परस्मितू श्रिया त्रिलो- कतनुः। नित्यसमासवचस्तत्पुरुषस्योत्तरपढे तद- त्युचितम् ॥ २०६७। त्रिलोकतनुः सकलजगच्छरीरकः 'जगत्सर्व शरीरं ते' इत्यादिप्रमाणात्। त्रिलोकेत्यत्र 'दिक्संख्ये संज्ञायाम्' इत नियमेन समासाप्राप्तौ 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेन समासः । त्रयों लोकाः तनुः यस्येति त्रिपदे बहुव्ीहौ कृते तनुशब्दे उत्तरपदे पूर्वरयास्तत्पुरुषः। अत्रावान्तरतत्पुरुपस्य ALANKARA IV. 6
Page 54
42 अलंकारमणिहारे
विकल्पे प्राते 'द्वंद्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' इति नित्यसमासः । विष्णुः भगवान् थ्रिया लक्ष्या सह 'वृद्धो यूना' इति निर्देशाद्विनाडापे सहशब्दयोगं तृतीया। परास्मिन् पदे श्रीमति वैकुण्ठे आस्ते उपविशति। तत् नस्मात् स चासी पुरुषश्च तत्पुरुषः तस्य पूर्वोक्तस्य परमपुरुषस्येत्यर्थः। उत्तरे श्रेष्ठे पदे स्थाने नित्यं मया ्रिया सह वर्तत इति समः आस: उपवेश: आसेर्धज्। नित्यसमं यथातथा आस इति वा। लक्ष्म्या सहावस्थानं तस्य वचः वचनं अत्युचितम्। पक्षे उपपादितरीत्या उत्तरपदे परतः तत्पुरुषस्य नित्यसमासवचनं अत्युचितमित्यर्थः। अत्र 'वैकुण्ठे तु परे लोके थ्रिया सार्ध जगत्पतिः। आस्ते विष्णुरचिन्त्यात्मा' इात चचनरीत्या स्वोपपादितेऽर्थे उपदार्शित- श्ेषमूलातिशयोक्तया 'द्वंद्वततपुरुषयोः' इत्युक्तव्याकरणवार्तिकस्य प्रमाणतयोपन्यासेन औचित्यं समर्थितम्।।
यथावा- या मदयति स्वसेविनमचिरेण जनं हरिप्रिया सैषा। सुवचा हलिप्रियेत्यपि रलयोरमिदा हि सम्मता विदुषाम् ॥ २०६८॥ या हरिप्रिया स्वसेविनं आत्मानं भजमानं आस्वादयमानं च मदयति हर्षवन्तं मदवन्तं च करोति 'हर्षेऽप्यामोदवन्मदः' इत्यमरः। सा हरिप्रिया हलिप्रियेत्यपि सुवचा हरहलिनोर- भेदादिति भावः। हली बलभद्रः। पक्षे उपपादितेन हेतुनैव हलिप्रिया कादम्बरीत्यपि सुवचा। 'सुरा हललिपप्रिया' इत्यमरः। समाथैतमप्यर्थ स्थूणानिखनन्यायेन पुनस्समर्थयते-रलयोरिति। हि यस्मात् रलयोर्वर्णयोः अभिदा अभेद: विदुषां वैयाकरणानां
Page 55
शब्दप्रमाणसरः (११५) 43
सम्मता। अतो हरिप्रियाशब्दः हलिंप्रियेत्यपि सुवचेति भावः। शब्दार्थतादात्य न विस्मर्तव्यम्। अत्र स्वविवक्षिते हरिप्रियायाः हलिप्रियात्वनिर्धारणे वैयाकरणोक्ते: प्रमाणता।। यथावा- अजरं ब्रह्म तदेकं दैवतमन्यत्तु नाजरं विद्यः। जरसा विकृतिमजादौ मुनिराह हि निर्जरे सम- स्तेडपि ॥ २०६९॥ तङ्गह्म एकमेव अजरं जरोपलक्षितसर्वविकारचिधुरं 'विजरो विमृत्युः, यत्तच्छान्तमजरं परं ब्रह्म' इत्यादिशुतेः। अन्यहैवतं तु अजरं न विद्ः। दैवतान्तरस्य सर्वस्यापि जरामरणाद्यन- तीतत्वात्। हि यस्मात् मुनिः पाणिनिः। अजादौ चतुर्मुखादौ समस्ते निर्जरे दैवतेऽपि जरसा विकृति आह। यद्वा हीति प्रसिद्धी। पक्षे निर्जरे निर्जरशब्दे समस्तेऽपि समस्ततां प्राप्तेऽपि अजादी अजादिविभक्तौ परतः जरसा 'जराया जरसन्यतर- स्याम्' इति विहितजरसादेशेन विकृर्ति आह। समस्तेऽपीत्युक्ति: 'पदाङ्गाधिकारे तस्य च तदन्तस्य च' इति ज्ञापनाय। अन्न भग वदतिरिक्तदवतजराकरान्तत्वनिर्धारणाय शाब्दिकोक्तेः प्रमाणता॥ यथावा- प्राप्तानां त्वां चिह्नं प्रायेण तवेव भवति पर- मात्मन। तत्पुरुषस्य हि परवल्लिङ्गं शाब्दिकमुनी- शिताऽवादीत् ॥ २०७०॥। हे परमात्मन! त्वां प्राप्ानां मुक्तानाममित्यर्थः। ते तव चिह्नं चतुर्भुजत्वादि लिङ्गं प्रायेण भवति। प्रायणेत्यनेन जगत्कारणत्व- ALANKARA VI. 6*
Page 56
44 अलंकाग्मणिहारे
श्रीपतित्वादिव्यावृत्तिस्सूचिता । हि यस्मात् शाब्दिकमुनी- शिता पाणिनि: तत्पुरुषस्य तादृशत्वदीयपुरुषस्य मुक्तस्य परवत् परमात्मनस्तवेव लिङ्गं चिह्नं भवतीत्यवादीत्। वस्तुतस्तु 'परव- छिंङ्गं द्वद्वतत्पुरुषयोः' इति तत्पुरुषस्य उत्तरपदलिङ्गमेवावादी- दिति। अत्र स्वाभिमते भागवतानां मुक्तानां भगवचचिह्वलाभे श्ेलषा- वलम्बनेन पाणिनिसूत्रं प्रमाणतां नीतम्।। यथावा- ननु विश्वमेकनीडं यत्र स पुरुषोत्तमात्किमन्य- रस्यात्। विश्वंभरे मुमागममाह ऋषिश्शब्दवित् स्फुटं सक्तम् ॥२०७॥ विश्वं इदं सर्व जगत् यत्र ननु यत्रैव पुरुषे। ननु रवधारणे। एकनीडं अभिन्नस्थानकं ऐकाधिकरण्यभागित्यर्थः। सः पुरुषोत्त-
न्नारायणात् अन्यः किं इतरस्स्यात्किम्। किमित्यधिक्षेपे। कदाऽपि न स्यादवेति भावः। यत्र विश्वमेकनीडमिति पदसंदर्भैण 'यत्र विश्वं भवत्येकनीडम' इति श्रुतिः प्रत्यभिज्ञाप्यते। अमुं बुद्धिस्थं आगम 'यत्र विश्वम' इत्यायुदाहृतध्रुतिं विश्वंभरे नारायणे स्वस्मिन् सक्तं तत्पर, शब्दवित् शब्शब्दोडत्र 'शब्दश्चातोऽ- कामकारे' इत्यादाविव वेदपरः। वेदविदित्यर्थः । 'वेदान्तविद्वेद- विदेव चाह्म्' इति गानात्। ऋषिः वासुदेवतयाऽवतीणों बदारकाश्रमतापसो नारायण इत्यर्थः। श्रूयते च भगवद्दाचक ऋषिशव्दः 'स्वयं जुहृत एकऋषि श्रद्धयन्तः' इति मुण्डके। ''एककर्षि मुख्यऋषि परमात्मानमित्यर्थः' इत्युपनिषन्भाष्ये व्या- ख्यातम्। 'के ते ऋषयः प्राणा वाव ऋषय,' इति श्रुतिरप्य-
Page 57
शब्दप्रमाणसरः (११५) 45
त्रानुकूला। ऋषय इति बहुवचनान्त ऋषिशब्द: परमात्मपरतया 'तथा प्राणाः' इत्यधिकरणे अभाषि। आह वद्ति॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तम: पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ इति गायन् भगवान् बिभर्तीत्यनन 'यत्र विश्वं भवत्येक- नीडम् इति श्रुति नारायणपरामेवाहेत्यर्थः। तथाह्यत्रोपबृंहणे 'परमात्मेत्युदाहृतः' इत्यनेन-'तस्याशिशिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतिः स्मार्यते। 'यो लोकत्रयमाविश्य' इत्यनेन 'यञ्च किंचित्' इत्यादिकं व्याख्यातम्। "लोक्यत इति लोकः तञ्रयं लोकत्रयं अचेतनं तत्संसृष्टश्चेतनः मुक्तश्चेति प्रमाणाव- गम्यमेतञ्रयं य आत्मतयाSडविश्य विभर्ति तस्माद्वयाप्याज्वर्त- व्याच्चार्थान्तरभूतः" इति श्रीमद्गीताभाष्यम्। बिभर्तीत्याधार- त्वोक्तया 'यत्र विश्वं भवत्यकनीर्डं, तत्सवितुर्वरेण्यं, घवमचल- ममृतं विष्णुसंज्ञं सर्वाधारं धाम' इत्यादेरर्थ उक्तः। अव्ययश- ब्दोक्तया 'शाश्वतं शिवमच्युतम्' इत्यायुक्तसंग्रहः। ईश्वरशब्द इह 'व्याप्य नारायणास्स्थितः' इत्युक्तव्याप्ेः 'अन्तः प्रावेष्ट- शशास्ता' इत्याद्यनुसारात्समस्तनियमनवविशिष्टत्वं 'अत्मेश्वरम्' इत्युक्तानन्यनियाम्यत्वं चाभिप्रैतीति 'पुरुषोत्तमः कः'। इत्यत्र श्रीमत् स्तोत्रभाष्यम्। तस्मात् 'यत्र विश्वं भवत्येकनीडम्' इति श्रुर्ति नारायणे स्वस्मिन्नेव तत्परामाह गीताचार्य इति सुष्टक्म्॥ अर्थान्तरं तु-शब्दवित् व्याकरणवेत्ता ऋषिः पाणिनिः
Page 58
46 अलकारमणिहारे
विश्वंभरे विश्वंभरशब्दे मुमागमं मुमित्याकारकमागमं सक्तं सं. बन्ध स्फुटमाह 'संज्ञायां भृतृवृजि' इत्यादिना विश्वशब्दोप- पदकात् भृत्: खचि 'अरुर्द्विषद्जन्तस्य' इति मुभागमं व्यधन्तेति। अत्र 'यत्र विश्वम्' इत्यादिश्रुतिप्रतिपादितायास्स कलजगदाधारताया: पुरुषोत्तमैकनिष्ठत्वनिर्धारणे स्वामिमते 'यो लोकत्रयमाविश्य' इत्यादिस्मृतिः श्रेषभित्तिकाभेदाध्यवसायेन उदाहृतव्याकरणस्मृतिश्च प्रमाणतयोपदर्शिते इति पूर्वोदाहर- णश्यो विशेषः ॥ यथावा- यो वेद ब्रह्मासदुर्मेधास्तं ह्यसन्तमेवाहुः। आ- स्तां श्रुतिरिह मानं नालं कि नित्यमसिजिति हि सूत्रम् ॥ २०७२ ॥ यः दुर्मेधाः ब्रह्म असदिति वेद सत् अस्तीति न वेदे- त्यर्थः। अ इत्येतन्नञ्समानार्थकमव्ययं 'अभावे नह्यनो नापि' इत्यव्ययेष्वमरानुशासनात्। यद्ा असदिति समस्त पदं यथा- श्रुतमेव योज्यम्। ब्रह्म नास्तीति योवेदेति तदर्थः। अन्यत्तु- ल्यम्। अत्राद्ययोजना "ब्रह्मविषय कज्ञानासन्भावसन्भावाभ्या- मात्मनाशमात्मसत्तां च वदति" इति 'असन्नेव स भवति' इति श्रुत्यर्थवर्णनपरमहासिद्धान्तस्थश्रीभाष्यतात्पर्यानुरोधेन। द्वि- तीथा तु 'आनन्दमयसदसत्वज्ञानान्मोक्षसंसारी भवतः' इति
दुर्मेधश्शब्द चं असन्तं असाधुमेव अन्यत्र अस् इति वर्णा- न्तमेव आहुः। इह अस्मिन्नर्थे श्रुतिः 'असन्नेव स भवति अस- द्रस्मेति वेद चेतू' इति श्रतिः मानं प्रमाणं आस्मां तिष्ठतु
Page 59
शब्दप्रमाणसरः (११५) 47
नाम। नित्यमसिजिति हि सूत्रं, हिशब्दोऽवधारणे। 'नित्यम- सिच् प्रजामेधयोः' इति सूत्रमेवेत्यर्थ। नालं कि न पर्यात किम्। अनेनैव निर्वाहे किं श्रुतिपर्यन्तानुधावनेनेति भावः। उक्त्तसूत्रेण दुरित्युपसर्गपूर्वकस्य मेधाशब्दस्य बहुव्रीहौ अिति समासान्तप्रत्ययस्य विहितत्वादिति वस्तुस्थितिः । अत्रापि असन्तमिति श्लेषभित्तिकामेदाध्यवसायानुप्राणितं शब्दस्मृतिरु- पप्रमाणं श्रुतिप्रमाणन सह उक्तार्थस्थापनायोपात्तम्।। यथावा- येन त्वं सर्वविदस तस्मिन् बोधेऽस्ति सुम- हती शक्तिः। मास्तु गुणेऽन्यत्र गुणो भगवन् बोधे तु सोऽस्ति शब्दनयात् ॥ २०७३ ॥ भगवान् ज्ञानशक्त्यादिपरिपूर्णः तस्य संवुद्धि: हे भगवन् येन बोधगुणेन षाड्गुण्यप्रथमभूतेन त्वं सर्वचित् 'यस्सर्वज्ञस्सर्व- वित्' इत्युक्तरात्या सर्वक्षः असि नित्यासंकुचितबोधवत्वादेव हि तव सर्वज्ञत्वमिति भावः। तस्मिन् बोधे ज्ञाने सर्वसाक्षा- त्काररूपे सुमहती शक्ति: षाड्गुण्यान्तःपातिगुणविशेषः। सा च यदन्यैरशक्यत्वादघटितमिव भाति तद्वटनसामर्थ्यरूपा। सर्व- ज्ञत्वनिर्वह्णसामथ्यमिति तु तत्वम्। अस्ति विद्यते। 'पराऽ स्य शक्ति:' इत्मुक्तरीत्या सर्वशक्तस्तवापि सर्ववित्त्वस्यानेन निष्पादितत्वादस्मिन् बोधे त्वत्तोऽपि महती शक्तिरस्तीति भावः। नन्वियमुक्ति: कथ घटतां गुणे गुणस्थानङ्गीकारात। गुणौ हि बोधशक्ती उभे अपीत्यत आह-माऽस्त्विति। अन्यत्र बोधादन्य- स्मिन् गुणे गुणान्तरं मास्तु अस्तु वा मा वेति भावः। बोधे तु बोधरूपे गुणे तु स गुणः उक्तशक्तिरूपः अस्ति। एवं
Page 60
48 अलंकारमणिहारे
निर्धारणे कि प्रमाणमित्यत्राह-शब्दनयादिति। व्याकरणनयात् बोधे गुणास्तित्वमुक्तमिति भावः। तत्पक्ष बुधधातोर्घञा निष्पन्ने बोधशब्धे 'पुगन्तलघूपधस्य च' इति गुणविधानाद्गुणोऽस्तीीति भावः। अत्र स्वविवक्षितस्य बोधरूपगुणे सुमहाशक्तिरूपगुण-
शब्दाशास्त्रीयप्रक्रियाया: प्रमाणता ॥।
पद्मे तवाङ्गरोचि: परिभवति स्वर्णवर्णसौभा- यथावा-
ग्यम्। वर्णयति शाब्दिकौधो वार्णादाङ्गं बलीय इति तस्मात् ॥ २०७४॥ अत्र वर्णकार्यादङ्गाधिकारकार्यस्य बलीयस्त्वमभिदधाना 'वार्णादाङ्गम्' इते परिभाषा अङ्गवर्णशब्दप्रतिपाद्यार्थद्वयक्षेष भित्तिकामेदाध्यवसायबलेन स्वाभिमतार्थे प्रमाणत्वेनोपन्यस्तेोत विशेष: ।
स्वार्थे विबाधते परमच्युत नित्यं च मेऽन्तर- यथावा-
ङं त्वाम्। शाब्दिकमुनिराह परात्नित्यादप्यन्त- रङ्गनमधिकबलम् ॥ २०७५॥ हे अच्युत ! नित्य 'नित्यो नित्यानाम्' इति श्रुतेः। परं च 'परः पराणाम्' इति श्रुतेः। त्वां मे अन्तरङ्गं मनः कर्तृ स्वार्थे स्वाभाप्सितप्रयोजने विषये बाधते पीडयतीति यावत्। 'नूनं स्वार्थपरो लोको न वेद परसंकटम्' इति भावः। अन्यत्र परं नित्यं च शास्त्रं कर्म अन्तरङ्गं अन्तरङ्गशात्रं कर्ट स्वार्थे विषये बाघते तत्प्रवृत्तिविघातकं भवतत्यर्थः। अत्र
Page 61
शब्दप्रमाणसरः (११६) 49
स्वोक्तार्थे शाब्दिकपरिभाषां प्रमाणयति शाब्दिकेति । शाब्दिक- मुनिः पतञ्जलिः परान्नित्यादप्यन्तरङ्रमधिकबलमाह। 'परनित्या- न्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इति परिभाषणादिति भावः॥ यथावा- कृपया तवाच्युताखिलकर्म विनाशोन्मुखं ततोऽहमघम्। तद्वशगोऽपि न कुर्यामकृतव्यूहा हि पाणिनीयास्स्युः।२०७६।। हे अच्युत! तव कृपया मम अखिलं कर्म विनाशोन्मुखं, ततः कारणात् तद्वशगोऽपि कर्मवश्योऽपि अहं अघं उत्तराधं न कुर्याम्। हि यस्मात् पाणिनीयाः अकृतव्यूहाः 'अकृतव्यूहाः पाणिनीयाः' इति परिभाषितत्वादिति भावः । 'निमित्तं विना- शोन्मुखं द्ृष्टा तत्प्रयुक्तं कार्य न कुर्वन्ति' इति परिभाषार्थः। अत्र विनाशोन्मुखकरमानुरोधेन तत्प्रयुक्तोत्तराघस्याकरणे पाि- नीयपरिभाषाया: प्रमाणोकरणात्कवेः पाणिनीयताऽपि प्रकटिता। यथावा- येषां त्वयाऽनुबन्धस्तेषां भगवन् कथं स्वसा- रूप्यं स्यात्। यदिह वदन्ति पदज्ञा न ह्यनुबन्धेन कृतमसारूप्यमिति ॥२०७७॥
हे भगवन्! येषां जनानां त्वया सह अनुबन्धः संबन्धः भवति भागवतत्वं भवतीत्यर्थः। यद्वा निरवशेषाविद्यानिवृत्ति- पूर्वकं परमे व्योम्नि संश्लेष: भवतीत्यर्थः। तेषां जनानां असारूप्यं त्वदसरूपता कथंनु स्यात् शेषत्वेन त्वया परिगृहीतानां त्वामेव ध्यायतां त्वत्सारूप्यं चतुर्सुजत्वादिकं स्यादेव। यथा-
Page 62
50 अलंकारमणिहारे
ऋतुनयादिति भावः। 'निरञ्जनः परमं साम्यमुपैति' इति श्रुतिरत्रानुसंधेया। यत् यस्मात्कारणात् पदज्ञा: व्याकरणविद्ः अनुबन्धेन 'ऋहलोर्ष्यत्' इत्यादौ कृतेन इत्सं्ञार्थकणकाराद् नुबन्धेन कृंतं असारुप्यं 'पोरदुपधात्' इत्यादिविहितस्य यतः असरूपत्वं न भवतीति वदन्ति 'नानुबन्धकृतमसारूप्यम्' इति परिभाषणादिति भावः । तथाच शप्यं लक््यमित्यादौ शापेल- भ्यादे: 'पोरदुपधात्' इत्यनेन विहितो यत्प्रत्ययः 'कहलो- पर्यत्' इति विहितस्य ण्यतः बाधक एव भवति। न तु 'वा सरूपोऽस्त्रियाम्' इत्यनेन असारुप्यनिबन्धनवैकल्पिकबा- धकत्वं प्राम्नोतीत्यवधेयम्। अत्र श्रुतिस्मृतिशतप्रमाणसन्भ्रावेऽपि चमत्कारातिशयाय 'नानुबन्धकृतमसारुप्यम्' इति शाब्दिक- परिभाषाया: श्रेषेणार्थान्तरं पारिकल्प्य प्रमाणीकरणम्।
यथावा- त्वां परमवरं चान्यं समौ वदन्नापराध्यति मुशरे। पूर्वपरावरसूत्रे परावरौ पाणिनिर्यदाह समौ ॥ २०७८॥ उत्कृष्टं त्वां त्वल्तोऽपकष्टेन देवतान्तरेण तुल्यं वदतो जनस्यापराधाभावरूपेऽर्थे 'पूर्वापरावरदक्षिणोत्तर' इत्यादिपाणि- नीयस्मृतेः प्रमाणतयोपन्यासः । पूर्वोदाहरणेषु पाणिनिस्मृतिर- भिमतार्थे प्रमाणीकृता। इह तु- यस्तु नारायणं देवं सामान्येनाभिमन्यते। स याति नरकं घोर यावच्चन्द्रदिवाकरौ। यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः। समत्वेन विजानाति स पाषण्डीति कथ्यते॥
Page 63
शब्दप्रमाणसरः (११५) 51
इत्याधुक्तारीत्या भगवतो नारायणस्य देवतान्तरतुल्यकक्ष्य- तावर्णनपरजननिन्दापरेण अनभिमतार्थे प्रमाणीकृतेति वैलक्षण्यम्॥।
यथावा- तद्विष्णोः पदमव्ययमान्नातमनव्ययं स्वरादं तु। एवं सति पाणिनिना स्वरादिपदमव्ययं कथम- भाणि ॥ २०७९॥ तत् विष्णो: पदं 'तद्विष्णोः परमं पदम्' इत्यास्न्नातं स्थानं अव्ययं अनश्वरं आम्नातं 'तदक्षरे परमे व्योमन्' इत्यादिश्रुत्या प्रतिपादितम्। स्वरादं स्वर्गादिकं पदं स्थानं तु अव्यय न भवतीत्यनव्ययं नश्वरं आस्नातम्। एवं सति एवं स्थिते पाणि- निना स्वरादि स्वर्गादिकं पदं स्थानं, पक्षे स्वरादिगणपठितं पदं अव्ययं अनश्वरं अव्ययसंझकं च कथमभाणि 'स्वरादि निपातमव्ययम्' इति सूत्रेणेति भावः।।
यथावा- स्वामिन्नैश्वर्ये तव केन निपातः क्ववाऽपि किं दष्टः । एवं स्थितेऽस्य पाणिनिराह निपातं कथं न्विति विचिन्ता ॥ २०८० ॥ हे स्वामिन् हे सर्वेश्वर! ऐश्वर्ये जगदीश्वरत्वे विषये तव 'एष सर्वेश्वर एष भूताधिपतिः' इति श्रुतपारमैश्वर्यस्य तव निपातः भ्रंशः केन पुरुषेण क्व वाऽपि कि दष्टः न दृष्ट एवेत्यर्थः । एवं स्थिते वस्तुस्वरूपे एवमवस्थिते पाणिनिः अस्य एवंविधश्वर्यवतस्तवेत्यर्थः । पक्षे अस्य स्वामिन्निति शब्दस्येत्यर्थः। निपातं भ्रंशं, अन्यत्र ऐश्वर्यरूपेऽर्थे लक्षणा भावे शब्दसाघुत्वाय
0091
Page 64
52 अलंकारमणिहारे
स्वरूपेणोच्चारणरूपं निपातं कथनु आह। 'स्वामिन्नै्वर्ये' इति सूत्रेण ऐश्वर्यरूपार्थे स्वामिन्निति निपातितत्वादिति भावः । इत्यस्माकं विचिन्ता ॥ यथावा- प्रथमः पुमान् समन्तादचीकशत्सर्वनामरूप- मिति। श्रुतिशाह पाणिनिमुनिस्तस्य क्वचिदेव तदिदमाह कथम्॥ २०८१ ॥ श्रुतिः-'अनेन जोवेनात्मनाऽनुप्रविश्य नामरूपे व्याकर- वाणि' इति श्रुतिः प्रथमः पुमान् परव्रह्मभूतः पुरुषोत्तमः सम- न्तात् सर्वतः सर्वनामरूप सर्वेषां नाम च रूपं च अनयोस्स- माहारं, अन्यत्र पुमान् पुंलिङ्ग: प्रथमः प्रथम इति शब्द: समन्तात् सर्वनामताप्रयुक्तकर्यास्पदभूतासु सर्वांसु विभाकषु सर्वनामरूपं सर्वनामशब्दरूप अचीकशत् प्रकाशितवान् इत्याह। पणिनिमुनिस्तु तस्य प्रथमस्य पुंसः तदिदं सर्वनामरूपप्रका- शन क्वचिदेव एकदेश एवेति कथमाहेत्याञ्चर्यम्। पुछ्िङ्गस्थ प्रथमशब्दस्य जस्येव सर्वनामतां 'प्रथमचरमतयाल्पार्धकतिप- यनेमाश्च' इति सूत्रेणावादीदित्याक्षपपरिहारः। अत्र पद्यन्नयेपि सूत्रस्य सर्वसंप्रतिपन्नार्थप्रत्यनीकार्थस्य प्रकाशनपरतां श्वेषेण परिकल्प्य तदभेदाव्यवसायेन तत्प्रणेत्- धिक्षेपाय वैहासिकेन प्रमाणतयोपन्यास इति विशेषः ॥
सकलनयविषयनिगमोद्दरणादरजुषि फणीन्द्र- यथावा-
गिरिनेतः । कथमिव मात्स्ये रुपे नयलोपं ते वढ़- न्ति शब्दविदः ॥ २०८२॥
Page 65
शब्दप्रमाणसरः (११५) 53
हे फणीन्द्रगिरिनतः! सकलानां नयानां मीमांसान्यायानां विषयः यो निगमः वेदः तस्य उद्धरणे उद्धारे आदरजुषि ते तव मात्स्ये मत्स्यसंबन्धिनि रूपे अवतारे शब्दविद: वैयाक- रणा: नयलोपं कथ वदान्ति। सकलनयविषयभूतवेदोद्धरणा- लंकर्मीण अवतारे नयलोपोक्तेरसंगतत्वादिति भावः । मात्स्ये रूपे मात्स्य इत्याकारके अण्णन्ते शब्दरूपे नयलोपं यलोपा- भाव 'सूर्यतिष्यागत्स्यमत्स्यानां य उपधायाः' इति विहितय- कारलोपस्य 'मत्स्यस्य ड्याम्' इति नियमितत्वन यलोपाप्र- सक्तेरिति परिहारः। यद्वा फणीन्द्रगिरीति भिन्नं पदम्। हे नेतः स्वामिन्! फणीन्द्रगिरि पतञ्जलिभाष्य इत्यर्थोप्युपस्कार्यः। तदा सकलनयविषयनिगमोद्वरणादरजुषीत्यस्य उक्त एवार्थः। व्याकरणभाष्यस्य वेदशब्दानुशासनार्थ प्रवृत्तत्वादिति भावः। अत्र स्वविवक्षितार्थप्रत्यनीकत्वं शब्दविद्वाक्यस्य श्रंषेण परिकल्प्य तद्धिक्षेपाय तदुक्ते: प्रमाणतया उपन्यासः। एवमग्रेऽप्यूह्यम्।
विश्वंभरासहोक्तौ वि्वंभर एव शेषतां घत्ते। सै- यथावा-
वास्य शेषभूतेत्युक्तौ संदेग्धि केवलपदज्ञ: ।।२०८३ विश्वंभरायाः भूदेव्याः सहोक्तौ सहसंलापावसरे विश्वं- भरः भगवानेव शेषतां तत्पारा्थ्य घत्ते। पक्षे विश्वंभराश- व्देन सहोक्तो सहवचने विश्वंभर एव शेषतां धत्ते विश्वंभरशब्द- एक एवावशिष्यते। स्त्रीपुंसलक्षणमात्रविशेषसन्भावेन 'पुमान् स्त्रिया' इत्यनेन पुंस एकस्यैव शेषताविधानादिति भावः। सैव विश्वंभरा भूरेव अस्य शेषभूतेत्युकौ 'तथा भूमिश्च नीला च शेषभूते मते मम' इति भगवदुक्तौ, पक्षे विश्वंभराशब्द एव अस्य विश्वंमरशब्दस्य शेषभूता अवशिष्टा इत्युक्तौ केव-
Page 66
54 अलंकारमणिहारे
लपदश: नतु परमपदज्ञः अनाघातभगवच्छास्त्रसत्संप्रदायगन्ध- श्शुष्कवैयाकरणः स्वाधीतव्याकरणमात्रदत्तदाष्टिरित्यर्थः। संदेग्धि 'पुमान् स्त्रिया' इत्यनेन तल्लक्षणमात्रविशेषसन्भावे पुस एवा- वशेषस्य विहहितत्वात् करथं स्त्रीलिङ्गस्य विश्वंभराशब्दस्यावशेष- स्स्यादिति संशते इति भावः। अत्र केवलवैयाकरणेन केन- चिदुपपादितार्थस्य व्याकरणवेरोधं प्रदर्शयितुं भगवच्छास्त्रव- चनार्थोपनबन्ध इति विशेषः। श्रेषोत्तम्भितत्वं तु पूर्ववदेव॥। यथावा- एकमनेकानुगतं नित्यं सामान्यमिति वचो वि- तथम्। एकमनेकानुगतं नित्यमसामान्यमेव य- द्रहरा ॥ २०८४।। यद्वस्तु एक अनेकेषु गवादिव्याक्तिषु अनुगतं अनुस्यूतं नित्यं नाशाप्रतियोगि च। तत सामान्यं जातिरित्यर्थः। 'जाति- र्जातं च सामान्यम्' इत्यमरः। इति वचः 'नित्यमेकमनेका- नुगत सामान्यम्' इति नैयायिकवचनं वितथम्। कुत इत्यत आह-यत् यस्मात्कारणात् ब्रह्म एकं अनेकानुगतं नित्यमपि असामान्यं अजातिरेव। परमार्थतस्तु एकं असदशं अनेकेषु चेतनाचेतनेषु अनुगतं अनुप्रविष्टं 'यः पृथिव्यां तिष्ठन्, य आ- त्मानि तिष्ठन्, अन्तःप्रविष्टश्शास्ता जनानाम्' इत्यादिश्रुतेः। नित्यं 'नित्यो नित्यानाम्' इति श्रवणात्। असामान्यं अनित- रसदशं 'न तत्समञ्चाभ्यधिकश्च दृश्यते' इति श्रुतेः। यद्वा असामान्यं अत्युत्कृष्टमित्यर्थः । 'सामान्यास्तु परार्थमुद्यमपरा- र्स्वार्थाविरोधेन ये' इत्यादौ सामान्यशब्द उत्कर्षापकर्षहीने हि प्रयुक्तः। अत्र स्वविवक्षितार्थप्रत्यनीकतां न्यायविद्वाक्यस्य
Page 67
शब्दप्रमाणतरः (११५) 55
क्ेषेण परिकल्व्य तदधिक्षेपाय तद्वाक्यस्य प्रमाणतयोपन्यास इति पूर्वेभ्यो वैलक्षण्यम्॥। यथावा- असति विरोधे स्मृत्या श्रुत्या उपबृंहणं किल न्याय्यम्। श्रुतिरेव तव गुणानां स्मृतिमुपबृंहयति हन्त नइशौरे ॥ २०८५॥ हे शौरे! विरोधे असति प्रत्यक्षश्रुतिविरोधे अ्विद्यमाने सति स्मृत्या मन्वादिप्रणीतधर्मसंहितया श्रुत्या: वेदस्य उपवृहणं अस्प- प्ार्थविशदीकरणं न्याय्यं मीमांसान्यायादनपेतम्। किलति शास्त्रीयवार्तायाम। सति तु श्रुतिविरोधे स्मृतेरनादरणीयतैव। 'औदुम्बरीं स्पृष्टोद्रायेत्' इति स्पर्शनश्रतिविरोधे 'औदुम्वरो सर्वा वेष्टयितव्या' इति सर्वेवेष्टनस्सृतरिवेति भावः। तदेतत्सूत्रितं महर्षिणा-'विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्' इति। एवं सति शास्त्रीयप्रस्थाने विपरीतमेतित्याह-श्रुतिरिति। तव गुणानां सत्यत्वज्ञानत्वादिकल्याणगुणानां श्रुतिरेव 'सत्यं ज्ञान- मनन्तं ब्रह्म, यस्सर्वज्ञस्सर्ववित्' इत्यादिगुणप्रतिपादिका श्रुतिरेव। पक्षे-निशमनमेव नः अस्माकं स्मृर्ति त्वत्कल्याणगुणादिविषयकां स्मृतिं 'सर्वज्ञस्सर्वटकसर्वशक्तिर्तानबलार्द्वमान' इत्यादपराशर दिस्सृतिमित्यर्थः। अन्यत्र तव स्मरण स्सृतिसंतानमिति यावत्। उपबृंहयति अभिवर्धयति। हन्तेति वैपरीत्यचिन्तनजनिताश्चयें। अत्र श्लेषगर्सस्वोक्तार्थवैचितयपरिपोषाय पूर्वमीमांसान्यायरूप- शब्दप्रमाणोपन्यास इति पूर्वस्माद्विशेषः । यथावा- पादान्ते सक्तास्ते लघवो वा दधति गौरवं
Page 68
56 अलंकारमणिहारे
भगवन्। नाहं ब्रवीमि मिथ्या छन्दोभिज्ञा: किलै- तदभिदघते॥ २०८६॥ हे भगवन् ! ते तव पादान्ते चरणाग्रे। अन्यत्र-पद्यचतु- र्थीशचरमभागे सक्ताः संबद्धा: लघवो वा जातिगुणादिप्रयुक्त- महत्वहाना अपि। पक्षे-ते इत्यस्य लघव इत्येतद्विशेषणता। ते लघवः 'हस्वं लघु' इति सूत्रानुशिष्टा वर्णाः। गौरवं पूज्यत्वं। पक्षे-वा इत्येतद्रौरवमित्यत्रान्वेति। वा गौरवं विकल्पेन गुरुवर्णत्वं दधति। यदाहुः-'सानुखवारो विसर्गान्तो दीर्घो युक्तपरश्च लः। वा पादान्तस्तु' इति। अत्र स्वाक्तचमत्कृतिस्थापनाय उदाहृत- चछन्दशशास्त्रज्ञवचनं प्रमाणतयोपात्तमिति विशेषः। छन्दोभिज्ञाः वेदज्ञा इत्यप्यर्थः प्रतीयते। तेन प्रामाण्यातिशयप्रतोति:॥ यथावा- गुरवस्त्वद्गक्ताः किल ऋजवोऽन्ये लघव एव वक्रास्स्युः। एवं सति वक गुरुमृजुं लघुं छान्दसा वत वदन्ति ॥ २०८७॥ हे भगवन्नित्यनुषज्यते। त्वन्भक्ताः गुरवः पूज्याः 'एवमष्ट- विधा भत्तिर्यस्मिन् म्लेच्छेऽपि वर्तते'। 'सच पूज्यो यथा ह्यहम्' इत्युक्तः । ऋजवः करणत्रयसारूप्यशालिनः । अन्ये त्वदभक्ताः लघवः अल्पा: वक्राः कुटिलस्वभावाः स्युः। एवं स्थते छान्दसाः छन्दरशास्त्रवेत्तार: वैदिकाश्चेत्यप्युपस्कार्यम्। छान्दसा इत्येतत् 'श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः । अनुवाकहता बुद्धि:' इत्युक्तरीत्या मन्दबुद्धिताद्योतनाय। गुरुं वक्र लघुं ऋजुं च वदन्ति। बतेति विपर्रातकथनश्रवणजनितखेदे। अत्र 'असौ ग्वको ज्ञेयोऽन्यो मात्रिको लजुः' इति छन्दशशास्त्रविदां वचनस्य *
Page 69
शन्दप्रमाणसरः (११५) 57
स्वाभिमतार्थविरोधितया तदविक्षेपयोपन्यास इति पूर्वस्माद्वि- च्छित्तिविशेष:।
त्वयि विदधानो मैत्रीं द्विजराजो बुघसुहृद्रव- यथावा-
त्यनरिः। जगति हरेSशेषसमो धामनिधे ज्यौतिष प्रमाणमिह॥ २०८८॥ धामनिधे हे तेजोनिधे हे हरे भगवन्! पक्षे हे भास्व- न्नित्यर्थः । त्वयि भगवति मानौ च मैत्रीं शरणागर्ति 'विदि- तस्स हि धर्मज्ञशशरणागनवत्सलः । तेन मैत्री भवतु ते' इत्यत्र मैत्रीशब्दस्य शरणागत्यर्थकतया व्याख्यानात्। अन्यत्र सुहत्त्वं विदधान: द्विजराज ब्राह्मणमूर्धन्यः चन्द्रमाश्च । चन्द्रमसो भानुमन्मित्रत्वादिति भावः । बुधसुहत् ब्रह्मवित्सौहार्दवान् सौम्य- ग्रहस्य मित्रं च, चन्द्रमसस्तन्मित्रत्वात्। अनरि: कामादि- वैरिवर्गविधुरः। चन्द्रपक्षे शत्रुरहितः तस्य शत्रुग्रहविरहादिति भावः । जगति अशेषेषु समः 'तुल्यो मित्रारिपक्षयोः' इत्युक्त- क्रमेण सर्वत्र समदशी अन्यत्र शेषसम इति छेदः। शेषेषु उक्त- म्रहातिरिक्तग्रहेषु समः भवति। अन्येषां सर्वेषां तत्समत्वादिति भाच। इह अस्मिन्नर्थे ज्यौतिषं ज्योतिश्शास्त्रं प्रमाणं 'तीक्ष्णां- शुर्हिमराश्मजश्च सुहृदौ शेषास्समाइशीतगो:' इति वराहमिहिरा- दुक्ति प्रमाणमिति भावः। अत्र ऋ्ेषमहिस्ता स्वोक्तार्थस्थापनाय ज्योतिषरूपस्मृतेः प्रमाणताप्रा.णमिति पूर्वस्माद्विशेषः।
हरिद्ृष्टिर्यो हंसस्स महार्चिस्सत्क्रियाश्चितः क्र- यथावा-
मतः। उच्चपदस्थो भविता श्रुतिवज्ज्यौतिषमिह प्रमाणं चेत् ॥२०८९॥ ALANKARA IV. 7
Page 70
58 अलंकारमणिहारे
यः हंस: यतिविशेष: भानुश्च। हरौ भगवति विषये दृष्टिः उपासनात्मकज्ञानं यस्य सतथोक्तः। पक्षे हरौ सिंहराशौ दृष्टि- र्यस्य तथोक्त: कुम्भराशिस्थस्सन्निति भावः। तत्रावस्थित- स्यैव तस्मात्सप्रमे सिंहे दृष्टिसंभवात् 'पश्यन्ति सतमान् सर्वे' इति हि ज्योतिर्विदः। सः यतिविशेषः महार्चिस्सत्क्रियाश्चितः महत्या अचिषः आतिवाहिकाद्यभूतस्याग्नेः सत्क्रियया सत्कारेण अश्चितः युक्त: क्रमतः 'अचिषोऽहरहन आपूर्यमाणपक्षम्' इत्या- दुक्तदिनपूर्वपक्षादिक्रमेण उच्चपदस्थ: परस्मिन् पदे स्थितः भविता। पक्षे सः कुम्भराशिगतो भानु: क्रमतः मीनराशिप्राप्तिपूर्वकं सत्क्ियाश्चितः संश्रासी क्रिय: मेषराशिः 'क्रियतावुरुजतुमकु- लीरलेयपाथोनजूक कौपर्याख्याः' इति ज्योतिर्विद्विः भेषादीनां क्रमेण क्रियादिसंज्ञाया उक्तत्वात्। तस्मिन् अश्चितः गतस्सन् उच्चपदस्थः उच्चस्थानस्थितः 'अजवृषभ' इत्यादिना मेषस्य तदुच्चस्थानतोक्तिः। अतएव महार्चि: महादीप्षिः 'स्वोच्चे प्रदीप्तः' इति विद्यामाधवोक्तेः। भविता। स्पष्टमन्यत्। अत्राप्यमिमतेऽर्थे ज्यौतिषस्य प्रमाणता ।।
कवयस्तवोपमानं कथयन्ति हरिन्मणिं हरि- यथावा-
मणिं च। अनयोरन वर्णभेदो यदुच्यते कृष्ण तन्न खलु मिथ्या॥ २०९०॥ हे कृष्ण! नीलनीरदश्यामलेति भावः। कवयः हरिन्मिं मरकतं हरिमण इन्द्रनीलंच तव उक्तवर्णस्य भवतः उपमानं कथयन्ति कथं हरिन्नीलवर्णयोरुक्तरत्नयोश्श्यामलवर्णस्य तव चोपमानोपमेयभाव इत्याशङ्क्य समाधत्ते-अनयोरिि। अनयो: हरिन्मणिहरिमण्यो: वर्णभेदः नेति यदुच्यते कविभिरिति शेषः।
Page 71
शब्दप्रमाणसर: (११५) 59
तत् न मिथ्या खलु अनयोरुक्तशब्दयोः नवर्णेनैव भेदो नान- वर्णैरित्यर्थान्तरमपि चमत्कारि। अत्र भगवतो नीलतोयदनीलस्य
भिमतेऽर्थे 'कनलासंपदोः कृष्णहरितोनगसरपयोः' इत्यारभ्य 'दानवासुरदैत्यानामैक्यमेवाभिसंहित।' इन्यालंक रिकोक्ति: प्र- माणभावं प्रापिता॥ एवं शास्त्रानतरलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युद्ा- हार्याणि। 'आचारश्चैव साधूनामात्मनस्तुष्टिरेव च' इति प्रमाण- प्रतिपादिताचारात्मतुष्टयोरपि मीमांसको क्तधर्पप्र माणयोर्वेदशब्दा- नुमापकतया शब्दप्रमाण एव:न्तर्भावः। तत्राचारपमाणं यथा- सोरिस्स कथ पापो वारे यस्याचरन्ति तव तुष्ट्यै। व्रतममितमहिगिरीश्वर सदसच्च विभाव्य- मिह सदाचारात् ॥ २०९१॥
हे अहिगिरीश्वर! सः सौरिः शनिः कथं पापः। तस्य ज्यौतिषोक्तं पापत्वं न घटत इति सव । तत्र हेतुममिप्रयन्नाह- यस्येति। यस्य शनेः वारे तव तुष्ठचै आमेतं वतं उपवासादेनियनें आचरन्ति सन्त इति शेष:। कथमाचारादेव तस्यापापत्वं निर्णेन- मित्यत आह-सदति। इह लोके सत् साधु अस्न्च असाधु वा सतां आचारादेव विभाव्य निर्णेय हि। स्ववारे सतां श्रीनिवास- प्रीणनव्रताद्याचारदर्शनात्सीरे: पापत्ववाचोयुक्तिरयुक्तेति भावः। अत्र शनेरपापत्वनिर्णये तद्वारे व्रताचरणरूपस्सदाचार: प्रमाणत- योपन्यस्तः। 'आचारो नाम शिष्टानानमिनतो दयादाक्षिण्या- दियुको वृ्त्तिविशेष,' इति माधवीये॥ ALANKARA IV. 7*
Page 72
60 अलंकारमणिहारे
आत्मतुष्टिप्रमाणं यथा- भक्तिः प्रपत्तिरथवा भवदाप्िस्साधने स्मृते तदवि। प्रपदन एव विशेषात्परितोषोडस्मादशां वृषाद्रिमणे ॥ २०९२॥ अत्र. भक्तया परमया वाऽपि प्रपत्या वा महामुने। प्राप्योऽहं नान्यधा प्राप्यो मम कैंकर्यलिप्सुभिः॥ इति विकल्पितयोर्भक्तिप्रपत्यो: प्रपदन एवास्मादशां प्रवृत्ता- वात्मतुष्टिरूयं प्रमाणसुपन्यस्तम्॥। एवं श्रुतिलिङ्गादिकमप मीमांसकोंक्त प्रमाणं संभवदिहोदा- हार्थम्। तत्र श्रुतिर्यथा- नान्नैव हरिरसि न्वं दुरितं हरसे किमत्र लिङ्गेन। स्वकरप्रकोष्ठकङ्गणसमीक्षणे न खलु दर्पणापेक्षा॥ २०९३॥ अत्र श्रीनिवासस्य हरिरित्यभिधानश्रुत्या सकलदुरितहा- रित्वं समर्थितम्। 'श्रुतिरनाम निरपेक्षरवः' इत्याहुस्तत्राविदः॥ यथावा- धत्से ताभयमुद्रामभयं ब्ह्मेति यच्छूतोऽसि हरे। श्रुत्या परमे तत्वे निर्णीते को नु लिङ्गमा- द्रियते ॥ २०९४ ॥ हे हरे श्रीनिवास! त्वं अभयमुद्रां ऊर्ध्ाग्राङ्गळिकपाणित- लप्रदर्शनरूपामभयसूचनीं मुद्रां न धत्से न धारयसे। श्रीनिवास-
Page 73
शब्द प्रमाणसरः (११५) 61
तादृशाभयमुद्रावहनाभावात्तथोकत्तिः। यत् यस्मात् त्वं अभयं ब्रह्मेति श्रुतोऽसि एतदमृतमेतद्भयमेतद्ब्रह्म' इति, 'अभयं वै ब्रह्म' इति च श्रुतिप्रथितोऽसि। अविद्यमानं भयं यस्मादिति पञ्च- मीबहुव्राहिः। तथाहि-श्रुत्या अभिधानश्रुत्यैव परमे श्रेष्ठे तत्वे अर्थयाथात्म्ये निणीते सति लिङ्ग तदनुमापकं सामथर्यरूपं कोनु आद्रियते। श्रुत्यैवार्थनिर्धारणे दुर्बललिद्गादरणं न क्रियत पवति भावः। किंच 'नारायण: परं ब्रह्म तत्वं नारायणः परः' इत्यादि- श्रुत्या नारायणस्यैव परतत्वत्वे निर्गीते सति लिङ शिवालङ्गं कोनु नामाद्रियते। श्रुत्यर्थयाथात्स्यवेत्ता नारायणादन्यं रुद्रादिकं परत- त्वतया नाद्रियत इत्यर्थोऽपि प्रतीयते। अत्र श्रीनिवालस्य 'अभ- यम्' इति श्रुरया अमयमुद्राधारणरूपलिङ्गानावश्यकत्वं समर्थितम्॥ यथावा- श्रुतिशह श्रीपतिरिति मामाभ्यां किमिति शङ्चक्रे प्राकू। अजहा: किमीहगिरीन्दो श्रातेS- र्थे न खल लिङ्गमाद्रियते ॥ २०९५ ॥ हे अहिगिरिन्दो! श्रुतिः 'हीश्च ते लक्ष्मीश्च पत्नचौ' इत्या- दिश्रुतिः मां श्रीपतिरित्याह। आभ्यां शङ्चक्राभ्यां मम किं साध्य श्रीपतित्वस्य श्रुत्यैव निर्णये शङ्जचक्रधारणरूपलिङ्गेन कि प्रयोजन- मिति प्राक् पूर्व शङ्चक्रे अजहाः अत्याक्षीः किमित्युत्प्रेक्षा। तथाहि श्रुने निरपेक्षरवसिद्वेऽयें लिङ्गं नाद्रियते तान्त्रिक्तैरिति शेषः। अत्राप्युदाहृतश्रुत्यां शह्चक्रधारणानावश्यकता समर्थिता। अत्रान्यहेतुकशह्वचक्रत्याग उक्तहेतुकस्संभाव्यते। अत्र कस्य- चिद्राज्रशत्रुविजयाय भगवान् श्रीनिवासशशङ्गचक्रके व्यतारीदिि पौराणिकी कथाऽतुसंहिता॥
Page 74
62 अलंकारमणिहारे
लिङ्गं यथा- भुवनोपकारहेतोस्तव नो भगवन् प्रवृत्तिरेकाड- पि। किन्तु स्वार्था मन्ये निखिलशरीरत्वमेव तद्वदति ॥ २०९६॥ अत्र भगवतशश्रीनिवासस्य 'यस्य पृथिवी शरीरम्' इत्या- दिश्रुतिप्रसिद्ध सर्वोपकारकसरववस्तुशरीर कत्वलिङ्गेन तत्प्रवृत्तेः स्वप्रोजनैकतत्परत्वं समार्थितम्॥ नतु लिङ्गस्य सामर्थ्यात्मकस्य शब्दप्रमाणबहिर्भूततया शब्द- प्रमाणप्रस्तावे कथमुदाहरणमिति चेन्न, स्वतस्तस्य प्रमाण- ताविरहेण वेदानुमापकतयैव प्रमाणत्वाच्छन्दप्रमाण पवान्त- रभावितत्वात्। एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायक- तया लौकिकशब्द एवान्तर्भावः। ताइशलिङ्गमप्येवमेवोदाहार्थम्।। वाक्यं यथा- अधनिष्कृतिप्रकरणे प्रबलं निश्चित्य तावकं वाक्यमू। जननि वृणे शरणं त्वां प्रकरणतो वा- क्यमेव हि बलीयः ॥ २०१७॥ अधनिष्कृतिप्रकरणे प्रायश्चित्तप्रसक्तौ सत्यां तावकं वाक्यं- 'प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे। मामेकां देवदेवस्य महिषी शरणं व्रजेत्'॥ इति लक्ष्मीतन्त्रोक्तं त्वद्वाक्यं प्रबलं निश्चित्य हे जननि श्रीः! त्वां शरणं वृणे। हि यस्मात् प्रकरणतः उभयाकाङक्षा- लक्षणात् वाक्यं सममिव्याहारलक्षणं वाक्यं बलीयः प्रबलं आहुः। तान्त्रिका इति शेषः। तथाच पारमर्ष सूत्रम्-'श्रुति- लिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थि-
Page 75
शब्दप्रमाणसरः (११५) 63
प्रकर्षात्' इति, 'निरपेक्षो रवश्श्रुतिः। सामर्थ्य लिङ्गम्। सम- भिव्याहारो वाक्यम्। उभयाकाङ्क्षा प्रकरणम्। देशसामान्यं स्थानम्। यौगिकश्शब्दसमाख्या' इति संक्षेपः। अत्र प्रकरण- वाक्यरूपशब्द प्रतिपाद्यार्थद्वयश्ष्लेषमूलाभेदाध्यवसायोत्तम्मितेन प्र- करणाद्वलीयसा वाक्येनोक्तार्थसमर्थनम्॥
नान्नैव माधवे त्वय्यान्तदरारिणि कुमार एष यथावा-
इति। वाक्यं कशश्रद्दध्याच्छरृतिलिङ्गभ्यां हि दुर्ब- लं वाक्यम्॥ २०९८॥ हे भगवन् ! नास्नैव माधवे 'माधवं वेङ्कटगिरौ' इति भग- वच्छास्त्रोकेरिति भावः। अनेनाभिधानश्रुतिर्दर्शिता। आत्ते श्रीभ- गवद्रामानुजाचार्यात्स्वीकृते दरारिणी शङ्गचक्रे येन तस्मित्निति लिङ्गम्। त्वय एष कुमार: स्कन्द इति केषांचिन्मूर्खाणां वाक्यं कशश्रद्दध्यात्। हि यस्मात् श्रुतिलिङ्गाभ्यां तदपेक्षया वाक्यं दुर्बलम्। पूर्वोदाहरणे प्रकरणद्वाक्यस्य प्राबल्प पादर्शि। अन्र तु श्रुतिलिङ्गापेक्षया तस्य दौर्बल्पमिति विशेषः। अन्यत्तुल्यम्।। प्रकरणं यथा- यत्रक्कवाडस्तु तव गुणकथाप्रकरणं तदेव सा- धुजनैः। आद्रियते न स्थानं परमपि तत्म्रकरणा- द्वि हीनबलम् ॥ २०९९॥ हं भगवन्1 तव गुणकथायाः प्रकरणं प्रस्ताव: यत्रक्कवा अस्तु अप्रशस्तेऽरपि देशे अस्त्वित्यर्थः। तदेव त्वद्रणकथाप्रक- रणमेव साधुजनैः भागवतैः आद्रियते परं स्थानं परमं पदमपि नादियत तेषां भगवत्कथैकभोग्यत्वादिति भावः । तत्
Page 76
64 अलंकारमणिहारे
परं स्थानं परत्वेन सूत्रोक्तं देशसामान्यरूपस्थानं च प्रकर- णादृपि प्रस्तावादपि उभयाकाङक्षारूपप्रकरणादपि च हीनबलं दुर्बलं हि। पारदौर्बल्यस्य सूत्रितत्वादिति भावः। अत्र उक्त-
ततहस्तेन प्रकरणेन विवक्षितार्थसमर्थनम्। स्थानं यथा- स्थानेन व्यपदिष्टा भाति समाख्याऽपि वेङ्क- टेश तव। यत्कथितं जैमिनिना स्थानं बलवत्तरं समाख्यायाः॥२१००॥
हे वेङ्कटेश! तत श्रुतिशतप्रथितवैभस्यति भावः। समा- ख्याऽपि नामापि स्थानेन त्वदावासभूतवेङ्कटाद्रिलक्षणस्थानेन व्यपदिष्टा व्यपदेशं ख्याति प्राप्ता "वसिष्ठव्यपदेशिनः' इति- वत् वेङ्कटाद्रिरूपस्थानपुरस्कारेणैव हि तव वेङ्कदेश इत्यभिधेति भावः। यत् यस्मात् जैमिनिना समाख्याया: यौगिकशब्दरूप- समाख्याया: नाम्श्च तदपेक्षयेत्यर्थः । स्थानं देशसामान्यरूपं आवासभूतं च स्थानमेव बलवदिति कथितं पारदौर्बल्यसूत्रेण। तस्मात् तव समाख्याऽपि स्थानेन व्यपदिष्टा भातीति योजना।
तेन स्थानेन भगवत्समाख्याया व्यपदेश्यत्वं समर्थितम्।। समाख्या यथा- वेधास्स कृत्तिवासास्सान्ता वृद्धश्रवाश्च विश्वा- त्मन्। नान्तस्त्वमत्र मानं भवति हि युष्मत्समा- खयैव॥ २१०१ ॥
Page 77
शब्दप्रमाणसरः (११६) 65
हे विश्वात्मन्! इदं अत्रैव उदाहरिष्यमाणवचनस्थवि- श्वात्मशब्दप्रत्यभिज्ञापकम्। स इत्येतत वेध:प्रभृतिषु सर्वेष्वप्य- नुषञ्जनीयम्। सः लोकस्रष्टृतया प्रख्यातः वेधा: चतुर्मुखः, सः जगत्संहर्द्टत्वेन प्रसिद्धः कृत्तिवासाः पिनाकी, सः अम- राधीशत्वेन प्रथित: वृन्धश्रवाः इन्द्रश्च सान्ताः अन्तेन सह वर्तन्त इति तथोक्ताः। विनश्वरा इत्यर्थः। पक्षे उक्तास्सवैऽपि शब्दास्सकारान्ता इत्यर्थः । सः 'अजरोऽमृतः। विजरो विमृ- त्युः । सत्यं ज्ञानमनन्तम्' इति श्रुतिशतख्यापितः त्वं नान्तः अनन्तः नशब्दपूर्वको बहुव्रीहिः। नित्य इत्यर्थः । पक्षे विश्वा- त्मन्निति शब्दो नकारान्त इत्यर्थः। अत्र मानं प्रमाणं युष्माकं ते च त्वं च यू्य तेषां 'त्यदादीनां मिथस्सहोकौ यत्परं तच्छि- व्यते' इति परैकशेषः। समाख्या नामैव। अन्र- ब्रह्मादिषु प्रलीनषु नष्टे लेकक चराचरे। आभूतसंपुवे प्राप्ते प्रलीने प्रकृतौ महान्। एकस्तिष्ठति विश्वात्मा स तु नारायण: प्रभु:॥ इति श्रीमन्महाभारतवचनं, ब्रह्मा शम्भुस्तथाऽर्कश्च चन्द्रमाश्च शतक्रतुः । एतदाद्यास्तथैवान्ये युक्क्ता वैष्णवतेजसा॥ जगत्कार्यावसानेषु वियुज्यन्ते स्वतेजसा। वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च।। इति श्रीविष्णुधर्मोत्तरवचनं चार्थतः प्रत्यभिज्ञाप्यते। अत्र विवक्षितेऽर्थ समाख्यायाः प्रमाणता।
यथावा- नतनिवहेन क्रीतो नितरां चक्री समिद्वया
Page 78
66 अलंकारमणिहारे
भक्तया। चक्रीति समारुयैव क्रीतत्वममुष्य वद- ति सुस्पष्टम् ॥ २१०२॥ चक्रीति समाख्या नामव अमुष्य भगवतः क्रीतत्वं क्रय- णकर्मत्वं, पक्षे क्रीत्याकारकवर्णेन इतत्वं युक्तत्वम्। अत्रापि स्वविवक्षिते क्रीतत्वरूपेऽर्थे शब्दार्थतादात्मयमूलकश्षेषमहिम्रा समाख्यैव प्रमाणतां गमिता। अत्र 'भक्तिक्रीतो जनार्दनः' इति प्रमणार्थोऽनुसंघेय:।
यथावा- त्वत्पदविधुतो रविरिह खेऽटेष्वग्रेसरो भवन् भ-
र्थोडसौ॥ २१०३॥
हे भगवन्! रवि: भानु: रविशब्दश्च। त्वत्पदेन तव चरणरुचोति यावत् विधुतः अतएव खेदेषु गर्हयेषु 'खटगर्ह्या- णकास्समाः' इत्यमरः। गगनचारिषु ग्रहेष्विति तत्त्वम्। अग्रे- सरः श्रेष्ठः अन्यत्र अग्रे आदौ सरः शब्दार्थतादात्मयबलेन रेफिशिष्ट इत्यर्थः। भवन् सन् व्यग्रोऽपिं व्याकुलोपि अभवत्। विः विवर्णः अग्रे प्रान्ते यस्य स तथाभूतश्च "अग्रं पुरस्तादुपरि परिमाणे पलस्य च। आलमबने समूहे च प्रान्ते च स्थान्न- पुंसकम्। अधिके च प्रधाने च प्रथमे चाभिधेयवत्" इति मेदिनी। अभवत्। नूनमिति सम्भावनायाम्। अत्र तस्य समा- ख्ययैवायमर्थः अवगस्यते। उक्तरीत्या समाख्यया तादृशार्थला- भादिति भावः । अत्रापि स्वविक्षितेऽर्थे समाख्यैव श्ेषमहिस्रा प्रमाणीकृता।।
Page 79
शब्दप्रमाणसरः (११५) 67
यथावा- विधुरिह विभो भवन्मुखविप्रतिपन्रो धुतस्तत- स्सख्यमगात्। अस्य समाखयैव वदत्यमुमर्थ किं- न्विहान्यमीमांसनतः॥ २१०४॥
हे विभो स्वामिन्! इह विधु: इन्दुः भवन्मुखेन भवनमुखे वा विप्रतिपन्नः विप्रतिपाति गतः विरोधं प्राप्त इत्यर्थः। अत एव ततः सार्वविभक्तिकस्तसिः तेन मुखेनेत्यर्यः। धुतः तिर- स्कृत इति यावत्। तत इत्येतत् मध्यमणिन्यायेनाभयान्वाये। ततः तेन सह सख्यं सौहार्द अगात् उत्कृष्टेनावधीरितस्य निकृष्टस्य कुशलमतेर्झडिति तदाश्रयणमेवोचितमिति भावः। अमुमर्थ उक्तमर्थ अस्य विधो: समाख्यैव वदति प्रकाशयति। इह अस्मिन्विषये अन्यमोमांसनतः किं विचारान्तरमनावश्यक- मिति भावः। समाख्यापक्ष तु-विधु: विधुशब्दः विभो अभ- वत् इति छदः। मुखे प्रथमभागे विप्रतिपन्नः वि इत्याकार- काक्षरेणाश्रितः अभवत् आसीत्। ततः अनन्तरं घुतः सार्व- विभक्तिकस्तसिः । घुवर्णेन सख्यं साहित्यमिति यावत्। अगात् प्रापत्। विघुशब्द एवंनिष्पन्न इत्यर्थः। अन्यत्पूर्ववत्॥ यथावा- आदौ स्वाराद्वशश्रीधर मध्ये त्रासितोऽपि सु- त्रामा। मानुगृहीतोऽन्तेडभूदस्य समाखयैव तमि- ममाहार्थम् ॥ २१०५॥ हे श्रीधर! सुत्रामा इन्द्रः सुत्रामोते शब्दश्च। आदौ दुर्वासश्शापोपप्ठवात्पूर्व स्व: स्वर्गः राद्दं सिद्धं यस्य सः स्वा-
Page 80
68 अलंकारमणिहारे
राद्ध: स्वः स्वर्गे राद्ः संसिंद्ध इति वा। सर्वैश्वर्यपारि पूर्ण इत्यर्थः 'रो रि' इति रेफलोपे 'ढूलोपे' इति पूर्वस्याणो दीर्घः। शब्दपक्षे तु-आदौ सु इति वर्ण आराद्ं येन सः स्वाराद्ः। मध्ये दुर्वासइशापलक्ष्मीकटाक्षलाभयारेन्तराळसमये त्रासितः वैरोचनिप्रभृतिभिः पदभ्रंशनादिना भीषितोऽपि। अन्यत्र मध्ये सु मा इति वर्णद्वयान्तरे त्रासितः त्रा इति वर्णसमुदयः आ- सितः उपवेशितः यस्य स तथोक्त। त्रा इति वर्णसमूहेन सितः बद्ध: संबद्ध इति वा। अपिरत्र समुच्चये। त्रासितश्रे- * त्यर्थः। अन्ते पर्थवसाने मानुगृहीतः लक्ष्मीकटाक्षविषयीकृत इत्यर्थः अन्यत्र अन्ते चरमभागे मानुगृहीतः मा इति वर्णेन घटित इति यावत्। अभूत्। तमिममर्थ अस्य सुत्राम्णः समा- ख्यैव आह सुत्रामेति समाख्ययैव वेदितेऽस्मिन्नर्थे पौराणिको- क्तिपर्यन्तानुधावनं नापेक्षितमिति भावः। अत्र उपपादिते स्वा- भिमतेऽर्थें समाख्यायाः प्रमाणता॥ यथावा- मापमुमापतिरन्तर्विभर्ति तद्धीनसत्त एवा- यम। यदि दुर्ग्रहोऽयमर्थो विमृश्यतां साधु तत्स- मारुयैव ॥ २१०६॥
द्धाति। उमापतिः शिवः मा्वं श्रीनाथं अन्तर्विभर्ति अन्तरात्मतया
ममान्तरात्मा तव च येचान्ये देहिसंज्ञिताः। विष्णुरात्मा भगवतो भवस्यामिततेजसः॥ इत्यादिप्रमाणादिति भावः। अत एव अयं उमापतिः तदधीन- सत्त एव तदायत्तस्वरूपस्थितिप्रवृत्तिभेद इत्यर्थः। अयमर्थः
Page 81
शब्दप्रमाणसरः (११५) 69
यदि अल्पप्रज्र्दुविज्ञानश्चेत् साधु सम्यक् तत्समाख्यैव उमापति- समाख्यैव विमृश्यतां विमर्शे अषमर्थस्स्फुटीमविष्यत्यल्पज्ञाना- मपीति भावः। समाख्यापक्षे तु उमापतिः उमापतिशब्द: अन्तः आद्यन्ताक्षरयमध्ये मापं माश्च पश्च अनयोस्समाहार: माप एवं- रूपं वर्णसमुदयं बिभारते। अतएव अय उमापतिशब्द: तदधीन- सत्त: मापवर्णायत्तस्वस्थितिः उक्तमापवर्णाभावे उमापतिशब्द- सत्ताया दुर्घटत्वािति भावः। अत्र स्वविवक्षिते उमापतेर्भैगवद- न्तरात्मकत्वे उमापतिसमाख्यायाः प्रमाणीकरणम्।। यथावा- सति भवति सर्वभोग्ये कामुक इतरामिषस्य यो भगवन्। अमुकस्स काक एव स्यादेतदवक्ति तत्समारुयैव ॥ २१०७॥ हे भगवन्! सर्वभोग्ये सर्वैस्सर्वप्रकारेण भोग्ये भवति सत्याप य: इतरामिषस्य भोग्यवस्त्वन्तरस्य 'आमिषं पुंनपुं- सकम्। भोग्यवस्तुनि संभोगेऽष्युत्कोचे पललेऽपिच' इति मेदिनी। अन्यमांसस्येत्यप्युपस्कार्यम्। कामुकः कामयिता। 'न लोक' इत्यादिकद्योगलक्षणषष्ठीनिषेधस्य 'कमेरनिषेधः' इति पर्युदस्तत्वात् कामुकशब्दयोगे इतरामिषशब्दस्य षष्ठचेव। सः अमुक: सोडसौ कामुकः। अदश्शब्दसमानार्थकोऽयमव्युत्पन्नो- मुकशब्दः। 'अमुकगोत्रस्यामुकशर्मणः । ज्ञातस्स्वरेणामुकक:' इत्यादिप्रयोगदर्शनात्। न तु साकच्कोऽदशशब्दः। तथा सत्यसुक इति स्यात्। काक एव वायस एव स्यात्। आमिषगृध्तुत्वा- सत्तुल्य वेति भावः। पक्ष कामुकशब्दो सुकारविघटितः काक एव काकशब्द एव स्यात्। अत्र स्वाववक्षितार्थनिर्धारणाय
Page 82
70 अलंकारमणिहारे
च्यावित्तैकवर्णकामुकसमाख्यायाः प्रमाणतयोपन्यास इत्यच्या- वितवर्णसमाख्योदाहरणेभ्यः पूर्वेभ्यो विच्छित्तिविशेषशालीदम् ।। यथावा- प्रतिकूलभावभाक्ते नूनं हंसीति भासि सिंह- त्वम्। ईटदिसिहेत्येतत्पदमेव हि मानमत्र पर्या- प्रम् ॥ २१० | हं सिंह हे नृसिंह! त्वं प्रतिकूलभवभाकत्वे त्वद्विबये प्रातिकूल्यकृत्वे नूनं हंसीति भासि प्रातिकूल्यभाज जनं संहरसीति मम प्रतिभासीत्यर्थ। पक्षे हे सिंहंति सिंहशब्दस्यैव संबोध- नम्। प्रतिकूलभावभाक्त्वे प्रातिलोम्यप्राप्ती हंसीति भासि हंसी- त्यानुपूर्व्या प्रकाशसे इत्यर्थः । अत्र उक्तार्थे ईदक् प्रातिलोम्य- भाकत्वे हंसीति निष्वद्यमानं सिंहेत्यत्पदमेव मान प्रमाणं पर्या- सम्। किमन्यप्रमाणान्वेषणेनेति भावः। अत्र उक्तार्थे उक्तरूपं सिंहेति संबुद्धयन्तसमाख्याप्द प्रमाणतयोषन्यस्तमिति पूर्वस्पा- द्वि्छित्तिविशेषशालीदम्॥ इत्यलङ्गारमणिहारे शब्दप्रमाणसरः पश्चदशात्तरशततमः.
अथार्थापत्तिसरः (११६)
अन्यथाऽनुपपत्या यत्किचिदर्थस्य कल्प्यते। अर्थान्तरं तां कथयन्त्यर्थापततिं विचक्षणाः ॥ किंचिदर्थान्यधानुपपत्तया अर्थान्तरकल्पनमर्थापत्तिर्नामा लंकारः ॥
Page 83
अर्थापत्तिसर: (११६) 71
यथा- नन्दकिशोरकरदरुचिबृन्दं नितरामचूचुरत्कुन्द- मू। उपपद्यतामपरथा विपिनभवस्यापि दान्त- ताऽस्य कथम् ॥ २१०९॥
कुन्दस्य विकार: पुष्पं कुन्दं 'पुष्पमूलेषु बहुळम्' इति बहुलग्रहणाद्वेकारिकाणो लुक्। 'द्विहीनं प्रसवे सर्वम्' इति कीबता। इदं कर्तृ माध्यकुसुममित्यर्थः। नन्दकिशोरकरदरुचि- वृन्दं कर्म अचूचुरत् अवोरयत्। अपरधा एवं चौर्याभावे विपिन- भवस्य आरण्यस्यापि अस्य कुन्दस्य दान्तता दन्तसंबन्धिता कथमुपपद्यतां न कथंचिदप्युपपद्यत इत्यर्थः । कुन्दशब्दस्य दव- र्णान्तत्वाद्द/न्तत्वमिति स्तुस्थितिः। अत्र कुन्दस्य दान्ततान्य-
यथावा- त्वत्पदगतिविद्वेष्टाऽशुचं ततः प्राप्य जननि शुण्डालः। चण्डालोऽभून्मन्ये मातङगत्वं कर्थन्ति- तरथाऽस्य ॥२१॥
हे जननि! शुण्डाल: गजः त्वत्पदगतिविद्वेष्टा त्वच्चरण- गमनद्वेषी तव पदं स्थानं परमव्योम तस्य गति: प्राप्तिः तस्याः विद्वेष्टति च। अतएव ततः विद्वेषात् शुचं शोकं प्राप्य। पक्षे अशु चं इति छेदः। अशु शुवर्णरहितं यथास्थात्तथा चं 'न गिरा गिरा' इति न्यायेन तत्रैव शुवर्णस्थाने कारं प्राष्य चण्डालोऽभूत्। 'यस्तु नारायणं द्वेष्टि तं विद्यादनत्यरेतसम्' इतिवत् लक्ष्मीपदगतिविद्वेषस्य फलमिदमिति भावः। शुण्डाल-
Page 84
72 अलंकारमणिहारें
शब्द: शुक/रापनयनपूर्वकं तत्रैव चकारन्यसनेन चण्डाल इति निष्पन्न इत्यर्थः। इतरथा उक्तरीत्या चण्डालत्वाप्राप्तौ अस्य शुण्डालस्य मातङ्गत्वं कर्थं नु मातङ्गशब्दाभिलपनीयत्वं न स्यादिति भावः। 'मातङ्गइश्वपचे गजे' इति मेदिनी। अत्र गजस्य मातङगत्वव्यवहारान्यथानुपपत्या चण्डालत्वं श्रेषमहिस्ा कल्प्यते ॥
यथावा- हरिमुखरुचिपरिभूतो विधुरिति मन्येऽन्यथा विवर्णमुखः। अतिपाण्डुरुकप्रतिपदंक्षयमपि जाड्यं
विधुः इन्दुः हरे: भगवतः मुखेन परिभूत इति मन्ये। अन्यथा एवं परिभवाभावे अरय विधु: अतिपाण्डुरुक् अतिमात्र- पाण्डुरोगवान् 'स्त्री रुग्रज्ञा' इत्यमरः। अतएव विवर्णमुखः निस्ते जस्कवदनः। पक्षे अतिविशददाप्िः 'स्युः प्रभा रुग्रुचिः' इत्य- मरः। वि इति वर्णों मुखे अग्रभागे यस्य स तथोक्त इतर्थः। क्षयं जाड्यं राजयक्ष्माख्यरोगमपि। पक्षे क्षयं कलापचयं 'क्षयो रो- गान्तरे वेश्मकल्पान्तापचयेषु च' इति मेदिनी। जाड्यं शैत्यमपी- त्यर्थः। कुतः उपयायात्। अत्र विधोर्विवर्णमुखत्वाद्यन्यधानुपप- त्या हरिमुखपरिभूतत्वं कल्प्यते। श्रेषोत्तम्भिवता प्राग्वत् ॥ यथावा- तव सौकुमार्यभूम्रा नवनीतं जननि खर्वितौ- न्नत्यम्। आद्यन्तनतमितरथा कुतो वनगिर्भगं तदेतत्स्यात् ॥२११२॥।
Page 85
अर्थापत्तिसर: (११६) 73
हे जननि! नवनीतं तव सौकुमार्यभूम्ना खर्वितौन्नत्यं संकु- चितसौकुमार्योच्छ्य इतरथा तदेतत् नवनीतं आदयन्तावभिव्याप्य आद्यन्तं नत सर्वदा भुग्नं सदित्यर्थः । कुतो हेतोः वन्याः वनस्य गर्भ मध्यप्रदेशं गच्छतोति वनीगर्भैगं स्यात्। त्वत्सौकुमार्यकर्छ- कस्व सौकुमार्यखर्वींकरणविरहे उक्तरीत्या कुतो वनागर्भ प्रविशे- दिति भाव: ॥। पक्षे नवनीतमिति पदं आद्यन्तयो: नतौ नकारतकारी यस्य तत्तथोंकं वनी इति वर्णा गर्भगी यस्य तत्तथोक्तं स्थात्। नवनीत- शब्दस्वरूपस्यैवविधत्वादिति भावः। अघ नवनीतस्याद्यन्तभुप्नत्व- वनीगर्भगत्वान्यथानुपपत्या श्रीसौकुमार्यातिशयखर्वीक्कतौन्नत्यता संभाविता ॥ यथावा
गाढम्। कथमितरथा त्ववाक्कृतशिरसोडपि न तान्ततां समत्याक्षुः॥२११३॥ हे श्रीः! तटितः त्वच्छीजिहीर्षवः त्वल्लक्ष्मीहरणेच्छवस्सत्यः अतएव त्वया गाढं आहृता: अभिहता: इथरथा तु एवमाघाता- भावे तु अवाक्कृतशिरसोऽपीति लोकोक्ति:। अतिवेलप्रयासमा- जोऽपाति यावत्। तान्तनां ग्लानतां न समत्याक्षुः। तटित इति शब्दस्य प्रातिलोम्येऽपि यथापुरमवस्थानेन तवर्णान्तत्वाप्रहाणा- तथोक्ति:। अर्थगतबहुत्वस्य शब्दे आरोपः। अन्रावाक्कृतशिर- स्त्वेऽपि तान्तत्वाप्रहाणान्यथानुपपत्या तटितां लक्ष्मीगाढपहत्वं कल्प्यते॥।
मकरन्देनाम्ब त्वदचनरसस्तेयमेव न कृतं चेतू। यथावा-
ALANKARA IV. 8
Page 86
74 अलंकारमणिहारे
सूनावस्थानात्स्यादस्य किमुद्दासनावाति:।। अस्य मकरन्दस्य सूनायां हिंसास्थाने। सूने कुसुमे इति तु तत्वं अवस्थानात् स्थितेः 'सूनं प्रसवपुष्पयोः। सूना पुत्रयां वधस्थाने गळशुण्डिकयो: स्त्रियाम्' इति मेदिनी। उद्वासनं प्रम- थनं तस्यावाप्तिः 'उद्धासनप्रमथनप्रथनोजासनानि च' इति वध- पर्यायेष्वमरः। उत्पूर्वकात् 'वस सनेहच्छेदापहरणेषु' इति चौरा दिकाद्धातोर्ल्युट। उत्कृष्टा वासना पारिमळः तस्या: अवाप्तिरिति तु तत्व्रम्। अत्र मकरन्दस्य उपपादितश्लेषसंपाार्दतसूनावस्थानो- द्वासनावाप्चन्यथानुपपत्या जगजननीवचनरसचोरत्वं कल्प्यते।।
यथावा- त्वद्वचनधुतं गव्यं नो यदि तदिदं पुरोऽ्गमा- रूढम्। मध्येऽतिभयेऽवातते श्रीमन्व्याघिगतमन्त- तः कस्मात् ॥ २११५॥
हे भगवन् ! गव्यं गोपयः त्वद्वचनेन घुतं तिरस्कृतमेव नो यदि तदिदं गव्यं पुरः आदौ अग अद्रि आरूढं सत् कर्तरि कः। लोके प्रतिपक्षनिर्धूतानां गिरिदुर्गप्रवेशस्सुप्रसिद्ध इति भावः। मध्ये गिरिप्रदेशगमनावसरान्तरे अतिभये प्रत्यनीकभूतत्वद्वूचन- स्मरणेनात्यन्तिकश्रासे अवाप्ते सति अन्ततः पर्यवसाने व्याधिगतं 'द्वितीया श्रित' इत्यादिना समासः प्राप्तरोगं चेत्यर्थः । अतिमात्र- भयसंभ्रान्तानां व्याधेरि संभवादिति भाव: । कस्मान्भवेत् त्वद्व- चनधुतत्वादेव गव्यस्येद्ृगवस्थावाप्तिरिति भावः । अर्थान्तरं तु शब्दपरम्। अस्मिन पक्षे पुरः। गं। अतिभये। अवापेः । इति छेदः। प्राथमिकार्थे अवाप्ते इति सकम्यन्ततया छेदे परत्रस्थित- श्रीशब्दशकारस्य 'अनचि च' इति वैकल्पिक द्वित्वम्। हे अतिभ
Page 87
अर्थापत्तिसर: (११६) 75
अतितेजस्विन् श्रीमन्! गव्यं गव्यमिति पदं पुरः अग्रे गं गवर्ण आरूढं प्राप्तं तस्य मुखे गवर्णस्य श्रूयमाणत्वात्। ये 'गोपयसो- र्यत्' इति सूत्रेण विहिते वैकारिके यादौ प्रत्यये परे मध्ये गका- रयकारयोरन्तराळे अवाप्तेः अवस्य 'वान्तो यि प्रत्यये' इति सूत्र- विहितस्य ओकारस्थानिकावादेशस्य आसेः प्राप्तर्हेतोः अन्ततः आन्ते व्याधिगतं व्येत्याकारकवर्णसमुदायं प्राप्तं भवेत्। गोशब्दा- दुक्तरीत्या यत्प्रत्यये अवादेशे च सत्येव गव्यशब्दस्य व्यवर्णान्तत्वं सिध्येत् नान्यथेति भावः। अत्रापि गव्यस्य पुरोगारूढत्वाद्यन्य- थानुपपत्या शब्दार्थतादात्म्यमूलकश्षेषावलस्बिन्या भगवदचन- स्वादिमविजितत्वं कल्प्यते। विच्छित्यन्तरं तु स्पष्टमेव॥
स्वकरेण तव भुजश्रीस्पर्धी दन्तावळो मुखेS- यथावा-
भिहतः । मन्येऽन्यथा कथमभूद्विरदत्वं द्विरसना- द्रिनाथस्य ॥ २११६। अभूद्विरदत्वमित्यत्र विरदत्वमिति छंदः। विरदत्वं विभ्रं- शितइन्तत्वम्। द्विरदत्वमिति परिहारः ॥
गाढं प्रहृतस्य मुखे त्वत्तेजस्पर्धिनोऽनलस्य यथावा-
हरे। रदनास्स्फुलिङ्गदम्भाज्गळः कथमन्यथेष ह- विरदन: ॥ २११७।। एष: ह विरदन: इति छेदः। हेत्यव्ययं प्रसिद्धौ 'ह संवुद्धौ प्रसिद्धौ च' इति रतमाला। पक्षे हविरदन इति समस्तं पदम्। हुताशन इत्यर्थः । अनयोरुदाहरणयोरपि विरदत्वाविरदनत्वान्य- थानुपपत्या श्ेषभित्तिकाभेदाव्यवसाय संपादितया दन्तावळान - लयोरमुखेऽभिहतत्वस्य कल्पनम्॥ ALANKARA VI. 8 *
Page 88
अलँंकार मणिहारे
वसुदेवसुतो भगवांत्सूतोऽजनि पारदश् युक्त- यथावा-
मिदम्। कथमितरथा रसो वै स इति श्रुतिवच- नमर्थवत्त्वमियात् ॥ २११८॥ भगवान् वसुदेवसुतः सूतः पारदश्च अजनीति युक्तम्। वस्तुतस्तु सूतः अर्जुनस्य सारथिः। जनिपारद इति समस्तं पदम्। जने: जन्मनः पारं ददातीति पारदः जन्मपरंपरापारभूत- निश्श्रेयसप्रद इत्यर्थः ॥ जन्म कर्म च मे दिव्यमेवं यो वंत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ इति गानात्। अनेन संसारार्णवमग्नानां विषयाक्रान्तचेतसाम्। विष्णुपोतं विना नान्यतिकचिदस्ति परायणम्।। दुर्ग संसारकान्तारमपारमभिधावताम्। एक: कृष्णनमस्कारो मुक्तितीरस्य देशिक:॥ इत्यादिकं स्मार्यते। इतरथा एवं सूतत्वपारदत्वाभावे 'रसो वै सः' इति श्रुतिवचनं कथमर्थवत्स्यात् तस्य रसत्वादेव सूतत्व- पारदत्वे युक्के इति भावः। 'रसस्सूतश्च पारदः' इति त्रयाणामपि शब्दानां तुल्यार्थकत्वानुशासनात्। रसः आनन्दमय इति वस्तु- स्थितिः । अत्र भगवतो रसत्वान्यथानुपपत्या सूतत्वपारदत्वे कल्प्येते।। यथावा-
न्येडहम। सुदृशामिदमक्षिगतं दददशे कथमन्यथा तदिदम् ॥ २११९॥
Page 89
अर्थापत्तिसर: (११६) 77
सुदृशां विदुषां योषितां च अक्षिगतं द्वेष्यं चक्षुर्विषयं च 'द्वेष्ये त्वक्षिगतः' इत्यमरः। अत्राज्जनस्य सुदृगक्षिगतत्वान्यथा- नुपपत्या भगवाद्वेग्रहसुषमाहरणदोषवत्त्वकल्पनम्।। यथावा- स्वशरीरतोऽहरत्तव धम्मिल्लरुचिं घनाघनो म- न्ये। कथमन्यथाऽस्य कमले जगदन्तस्थावराप- कीर्तिजनिः ॥ २१२० ॥
हे कमले! घनाघनः स्वशरीरतः निजवपुषा तव धम्मि- ल्लरुचि अहरत् अमुष्णात् इति मन्ये। अन्यथा अस्य घनाघ- नस्य जगदन्तः लोकमध्ये अपगता कीर्तिः यस्यास्सा अपकीर्तिः सा चासौ जानेश् स्थावर इत्यपकीर्तिजनिः स्थावरत्वेनाप्रश- स्तं जन्मेत्यर्थः। कथं भवेत्। उक्तविधशारीरकर्मदाषवशादेव स्थावरजन्मलाभ इति भाव:॥ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः। वाचिकै: पक्षिमृगतां मानसैरन्त्यजातिताम्।। इति मनुस्मरणात्। पक्षे अस्य संबन्वसामान्ये षष्ठी। अस्मात् घनाघनादित्यर्थः। वरापकीर्तिजनिः । अपां समूह: आपं वरं च तत् आपं च वरापं। कीर्तिः कर्दमः। तयोः जानः उत्पत्तिः जगदन्तस्था जगन्मध्यस्थिता। घनाघनादेव हि जगति सलिलपङ्कसंभव इति भावः। अत्र घनाघनस्य जगदन्तस्थाव- रापकीर्तिजन्मलामान्यथानुपपत्या लक्ष्मीधम्मिल्रुचिचौर्यरूपका- यिकदोषकल्पनम्। श्रेषोत्तम्भितत्वं तु पूर्ववदेव॥।
यथावा- तावकनखानि मोभिस्तारकनिकरो व्यदूदुष-
Page 90
78 अलंकारमणिहारे
न्मन्ये। कथमपरथा सदाख्योडप्येष हि वैहायसी गतिं विन्देत ॥ २१२१।। हे जननि! तारकाणा उडनां आपदादिकृछादुत्तारकाणा- मिति च गम्यते। निकर: तावकनखानि गोभि: वाग्भिः किर- णैश्च व्यदूदुषत् दूषयति स्मेति मन्ये। अपरथा एष तारक- निकर: सदाख्यः साधुरित्याख्यावानपि सदित्याख्या नाम यस्य स इि वस्तुस्थितिः 'भें नक्षत्रं तारक सत्' इत्यनुशास- नात्। वैहायसीं पक्षिसंबन्धिनी गत कर्मफलं कथ विन्देत् 'वाचिकैः पक्षिमृगताम्' इत्यनन्तरपूर्वोदाहरणदर्शितप्रमाणेन वाचिककर्मदोषफलतया प्रतिपादिता वैहायसी गतिः कथं सत्वेन प्रतीतस्यापि संभवेदिति भावः। वैहायसी अन्तरिक्षभवां ग्ति गमनमिति तु तत्त्वम्। 'विहायशशकुने पुंसि गगने पुंनपुंसकम्' इति मेदिनी। अत्र तारकनिकरस्य वैहायसगतिप्राप्तचन्यथानु- पपत्या लक्ष्मीचरणनखकर्मकवाक्करणकदूषयितृत्वं संभाव्यते।।
अमलद्विजस्तव स्मितवसुहारी मानसेऽभव- यथावा-
न्रूनम्। कथमन्यथा पवैस्सह वसेदसावन्त्यजत्व- मासीदन् ॥२१२२॥ अमरद्विज: हंस: निर्मलो विप्रश्चेत्यपि गम्यते। मानसे मनसि तव स्मितस्य वसूनि धनानि हरतीति स्मितवसुहारी अभवत् नूनम्। अन्यत्र स्मितस्य वसुः रश्मिः स इव हारी मनोहरः स्मितवद्विशद इत्यर्थः । मानसे तन्नाम्नि सरसि अभवत् सत्तामलभतेति योजना। हंसानां मानसनिवासित्वा- दिति भावः। अन्यथा एवं मानसकर्मदोषिरहे अन्त्यज्ञत्वमा-
Page 91
अर्थापत्तिसर (११६) 79
सीदिन 'मानसैरन्त्यजातिताम्' इति प्रागुदाहतवचनप्रतिपादित- मानसकर्मदोषफलभूतमन्त्यजातित्वं प्राप्नवन् सन् अन्तिमजकार- वत्तामिति तु तत्वम्। प्रवैः चण्डालै: कारण्डवाख्यविहगैश्च कथं सह वसेत्। 'चण्डालप्रवमातङ्गदिवाकीर्तिजनंगमा, मद्ग: कारण्डवः प्रुवः' इति चामरः। 'हंसकारण्डवाकीर्णाम्' इत्यादौ सर्वत्र हंसस्य कारण्डवसहचारित्वं हि वर्ण्यते 'प्रवस्स्यात्पवने मेळे भेकेडवौ श्वपचे पशौ, इत्युपक्रम्य 'कारण्डवाख्यविहगे' इति मेदिनी च। एवंचोपदार्शतोदाहरणत्रयेण करणत्रयनिर्वर्ति- तकमददोषफलानि क्रमेण दर्शितानि। अत्रामलद्विजस्थान्त्जत्व- मानसिक लक्ष्मीस्मितवसुचौर्य रूपदोषवच्चा कल्पिता ।। यथावा- अग्रकराहितमिह तव कटकं कर्कटकतां गतं मन्येऽहम्। कथमन्यथाऽस्य कमले सिंहमुखत्वं शुचिद्युतिपदत्वं वा ॥ २१२३॥ हे अम्ब! तव अग्रश्चासौ करश्च अग्रकरः कराग्रमित्यर्थः 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्मेदाभेदात्' इत्यवयवावयवि- नोरभेदः । तस्मिन् आहितं न्यस्तं कटकं वलयं कर्कटकतां कर्कटकराशितां गतं मन्ये 'स्यात्कुळीर: कर्कटकः' इत्यमरः। 'स्यात्कर्कटः कर्कटकश्च कर्की' इति कर्कटराशिनामपर्यायेषु विद्या- माधवः। पक्षे अग्रे मुखभागे कर् इते वर्णसमुदयेन आहितः कर आहितो यस्मिश्निति वा। कटकशब्दः कर्कटकर्ता प्रप- द्यत इत्यर्थः । अन्यथा कर्कटकत्वायोगे अस्य कटकस्य कथ सिंहमुखत्वं सिंहराशे: पूर्वगण्यत्वं स्थात् सिंहराशे: कर्कटक- राश्यनन्तरभावित्वादिति आवः। सिंहस्य मुखामेश्र मुखं यस्य
Page 92
80 अलंकारमणिहारे
स तथोक्त: तत्वमिति वस्तुस्थितिः । सिंहमुखाकारवत्वं कटकस्य प्रसिद्धम्, यत् सिंहललाटकटक्रमिति व्यवहियते जनैः। शुचि- ुतेः सितकिरणस्य पई स्थानं तत्वं वा कथं भवेत् कर्कटक- त्वादेव चन्द्रस्य क्षेत्रमासीदिति भावः। 'कर्कटस्य निशाकरः' इति कर्कटस्य तत्क्षेत्रतोक्तेः। वस्तुतस्तु शुचे: शुद्धाया: द्यतेः कान्ते: पदं स्थानं आधार इत्यर्थः । तथात्वं, यद्वा शुचिद्यतेः अ्नितुल्यदीप्ते: पदं अत्युज्ज्वलमित्यर्थः। अत्र कटकस्य सिंह- मुखत्वाद्यन्यथानुपपत्या कर्कटकत्वं कल्प्यते॥। यथावा- त्वन्नखवसंघर्षीन्दुस्तैशशस्राशस्त्रि मर्दितो मन्ये। अहिगिरिनाथेतरथा वहति स मृदुलाञ्छितां कुतो मूर्तिमू ॥२१२४॥ सः इन्दुः मृदुलां मृद्वीं छितां छिननां च सूर्ति कुतो वहति। शस्त्राशस्तरिमर्दितत्वादेव हि मूर्तेर्मदुत्वं छिन्नत्वं चेति भाव:। मृदुश्चासौ लाञ्छिता च मृदुला्छिता तामिति तत्त्वम्। मृद्धी कलडिता चेत्यर्थः । स्पष्टमन्यत्। अत्र मृदुलाञ्छितां मूर्ति कुतो वहतीत्युक्तार्थान्यथानुपपत्या चन्द्रमसो भगवन्नखसंघर्ष- मूलकशस्त्राशस्त्रिमर्दितत्वं कल्प्यते।। यथावा- ननु देव पुष्पवन्तौ सस्पर्धो त्वत्प्रतापकीर्ति- भ्याम्। प्रहृतौ मुखेऽन्यथा तावदन्ततां तान्तता च कथमैताम् ॥ २१२५॥ पुष्पवन्तौ सूर्याचन्द्रमसौ। अदन्ततां अविद्यमानदन्तत्वं तान्ततां कान्तत्वं च। पक्षे अकारान्तत्व तकारान्तत्वं च 'एक-
Page 93
अनुपलब्धिसरः (११७) 81
योक्तचा पुष्पवन्ती' इत्यमरः। ऐताम् अगच्छताम्। अयमदन्त स्तान्तोऽप्यस्ति-'पुष्टिह्वासौ कुमुदसुहृद: पुष्पवन्तोपरागे' इति, 'विलोचने विभोर्यस्य विख्याते पुष्पवत्तया' इत्युभयधाऽपि प्रयोगदर्शनात्। अन्र सर्वत्र श्रेषोज्जीवितत्वं तुल्यम्।। इत्यलङ्कारमणिहारे अर्थापत्तिसर: बोडशोत्तरशततमः
अथानुपलब्धिसरः (११७)
कृतिनो ऽनुपलब्धिं ता रम्यां विदुरलंकृतिम्।
रम्यत्वं तु सर्वालंकारानुगतमेव।। यथावा- दोषलवोडपि यदि स्यात्वयि सुदशां तदुपल- ब्धिरेव स्यात्। कल्याणगुणैकननिधे कलङ्ग उपल- भ्यते हि सकलेन्दौ ॥ २१२६॥ अत्र भगवतो यदि दोषलवोषपि स्यात् तदा सुदृशां 'श्रुति- स्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते' इत्युक्तश्रुतिस्मृतिरूपचक्षु- ष्मतां तदुपलब्धिस्स्यादेवेति तत्सानथया अनुपलब्ध्या दोषग- न्धानवकाशननिर्धारणादनुपलब्धिर्नामालंकार:। कल्याणगुणैकनिधे इति संबोधनं दोषात्यन्ताभावाभिप्रायगर्भम्। सकलेन्द्रौ संपूर्णे चन्द्रमसीत्यर्थः। कलङ्क उपलभ््यते। सत्त्वादेव तदुपलब्धिः। यदि न स्यात्तर्हि नोपलभ्येतैवेति व्यतिरंकदृष्टान्तः। इत्यलंकारमणिहार अनुपलब्धिसरस्सप्तद्शोत्तरशततमः
Page 94
82 अलंकारमणिहारे
अथ संभवसरः (११८)
भव: ॥ यथा- कति कति वा तव करुणा व्यतिकरतो नाप्नु- वञू श्रियं नित्याम्। तेनैव ममापि श्रीजाने सा संभवेन्न किं ब्रुयाः ॥ २१२७॥ तेनैव करुणाव्यतिरेकेणैव। सा नित्यश्रीः ॥ यथावा- कृष्णघन वर्षति त्वयि भुवनाभ्युदयाय दिव्य- तमममृतम्। कथमिव न संक्षविष्यति चातक- वृत्तेर्ममापि तल्लाभः ॥ २१२८॥
भवप्रमाणं प्रदर्श्तिम्।। यथावा- स्फुरतां भवजलधौ चिरमुरुतान्तानां हठान्तव समरताम्। परतारात्ौ सत्यां परितापं यज भवे- नवाप्येषा ॥ २१२९॥
अत्र- ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात्। तत्सर्वे चिलयं याति तोयस्थं लवणं यथा।।
Page 95
ऐतिशसर: (११९) 83
सकृत् स्मृतोऽपि गोविन्दो नृर्णा वर्षशतैश्चितम्। पापराशि दहत्याशु तूलराशिमिवानल: ।। अवशेनापि यन्नास्नि कीर्तिते सर्वपातकैः। पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मगैरिव॥ हरिर्हरति पापानि दुष्टाचत्तैरप स्मृतः। यहच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः । इत्यादुक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरप- रतीराप्तौ संभवन्त्यां तवाप्येषा भवितेति संभवप्रमाणप्रदर्शनम्। परतारेत्यत्र 'दिक्छन्दृश्यस्तीरस्य तारभावो वा वाच्यः' इति तीरशब्दस्य तारादेशः॥ इत्यलंकारमणिहारे संभवसरोऽष्टादशोत्तरशततम.
अथैतिह्यसरः (११९)
यत्रेतिहोचुरित्याद्यमनिर्दिष्टपवक्तृकम्। पारं- पर्ये प्रवादस्य तत्रैतिह्यमलंकृतिः ।। अनिर्दिष्टप्रवक्तृकं इतिहोचुरित्यादिप्रवादपारंपर्यमैतिह्यम्।।
सस्यदशायामनमत्रू शाखी भूत्वा नमेत्तरु: सथा.
किमिति। लौकिकगाधां स्मरता बुद्धिमताऽडबा- ल्यतो हरिस्सेव्यः ॥ २१३०॥ अत्र सस्यदशायामित्यादिलौकिकगाघां स्मरता बुद्धिमता 'कौमार आचरेत्प्राक्षो धर्मान् भागवतानिद' इत्युक्तर्रा्या आ बाल्यादेव हरिस्सेवनीय इत्यर्थः। अत्र लौकिकगाधामित्यनेना- निर्दिष्टप्रवकतृकप्रवादपारंपर्यरूपता दर्शिता॥
Page 96
84 अलंकारमणिहारे
तावत्कर्म न मे स्तानव शौरे यावता स्मृति- यथावा-
नश्येत। तावत्किमर्थमञ्जनमक्षि विनश्येद्धि याव- तेत्याहुः॥२१३१॥ अत्रापि तावत्किमर्थमञ्जनमित्याकारकलौकिकगाधाया: प्रति- बिम्बभूताया: आहुरित्यनेनानिर्दिष्टप्रवक्तृकप्रवादपारंपर्य दर्शित- मिति द्रष्टव्यम् ॥ यद्यप्येते अष्टौ प्रमाणालंकारा: दीक्षितेश्यः प्राचीनैन कृत- विवेकाः। तथाऽप्यनुमानालंकारस्य सवैर लक्षितत्वात्प्रत्यक्षा- दिप्रमाणालंकारा अपि लक्षितप्राया एव। न हि प्रत्यक्षादीनामपि प्रमाणतायामनुमानतोऽस्ति विशेषः। न वा विच्छित्तिसदसन्भा- वकत वैलक्षण्यम्। अतोऽनुमानालंकारकथनं प्राचामितरप्रमाण- लंकारोपलक्षणमित्याशयेन दीक्षितैः कुवलयानन्दे सर्वाण्यपि तानि विविच्य प्रदर्शितानीत्यस्माभिरपि तानि प्रदर्शितानि॥ इत्यलंकारमणिहारे पतिहयासर एकोनविशत्युत्तशततमः
अथ संसृष्टिसरः (१२०)
अलंकृतीनां सर्वासां यथासंभवमेळने। लौकिकीनामिवैतासां चारुताSतिशयेक्षणात्।। नरसिंहप्रक्रियया भात्यलंकारता पृथक्। अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे।। ननूकानाम लकाराणामनेकेषामेकत्रावस्थाने कि तत्तद लंका- रतैव? उताहो नरसिंहन्यायेन समवायकृतमलंकारत्वंम्? इति
Page 97
संसृष्टिसरः (१२०) 85
चेत् अत्र केचित्-नालेकारान्तर युक्तमश्युपगन्तुं, प्रातिस्वि कतत्तदलंकारतातिरेकेण संज्ञान्तरस्य विच्छित्तिविशेषस्य चाभा- वादित्याहुः। अन्ये तु-नरसिंहन्यायेनालंकारान्तरमेव। न च संज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धेः। संसृष्टिसकरसं- ज्ञयोलौंकिकालंकाराणां कनकमुक्ताप्रवाळहरिनीलमरकतादीनाम- न्योन्यविलक्षण शोभाधायकानां मेळनकृतशोभातिशयवदिहापि मे- ळने विच्छित्तिविशेषसन्भावस्य च सहद्यहृदयैकसाक्षिकत्वात्। अतो नरसिंहाकारेण मेळनमलंकारान्तरमेवेति। तदेतन्मतमवल- मं््योंकं 'भात्यलंकारता पृथक्' इति॥ तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम्। संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते॥
त्यर्थः ॥ तिलतण्डुलन्यायन स्फुटावगम्यभेदालंकारमेळने संसृष्टिरि-
शब्दालंकारयोरथालंकृत्योश्र परस्परम्। उभयोरपि संसृष्टिरिति सा त्रिविधा मता॥: तत्राद्या यथा- कलिकलुषशबलितमतिक्षितिपतिसेवातिवाहि- तायुरहम्। अधुना तव मधुनाशन विधुनानि क्कमभरं चरितमघुना ॥ २१३२॥ अत्र शब्दालंकारयोर्वक्ष्यमाणयोरनुप्रसयमकयोः पूर्वोत्तरा
द्वितीया यथा- वृषभूमिभृद्दतंसेन्दीवरमिन्दीवराप् जैत्र मुखम् । श्रीवासनामधेयं तज्जगतां भागवेथमव्यान्नः।।
Page 98
86 अलंकारमणिहारि
मर्थालंकाराणां संसृष्टिः। तृतीया थथा- पन्नगनगपावनवनराजीराजी तमालसालश्रीः। पापातुरमार्ते मां पापातु रमात्तमानसस्स पुमान्॥ पन्नगनगस्य पावनानि यानि वनानि तेषां राज्यां श्रेण्यां राजत इति तथोक्त:। तमालसालस्य श्रीरिव श्रीः यस्य स तथो- कः। रमया श्रिया आत्तं वशीकृतं मानसं यस्य स तथोक्त: स पुमान् परमपुरुष: पापैः आतुरं मां पापातु भृशं पातु। यङ्लुक्। अत्र छेकानुप्रासवृत्त्यनुपरासयमकानां शब्दालंकाराणां उपमापर्या योक्तयोरर्थालंकारयोश्च संसृष्टिः॥
यथावा- शरणं तमेव रमया भजामहे हेमजाभयाSS- श्लिष्टम्। त्वां विपदि महत्यामपि वदेम वा वामदेव शरणमिति॥२१३५॥ हेमजा स्वर्णजन्या आभा प्रभा यस्यास्तथोक्तया हिरण्यवर्ण- येत्यर्थः। रमया आश्िष्टं तमेव श्रीमन्तं नारायणमेव शरणं भजा- महे प्रपद्यामहे। हे वामदेव विरूपाक्ष! त्वां महत्यां विपद्यपि शरणमिति वदेम वा। न वदेमैवेत्यर्थः । शरणमित्युक्तेरपि संभावना न कार्या। किमुत शरणवरणकथोते भावः 'मह- त्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरि' इत्युक्तरीत्या तं श्रियपततिमेव भजामो न तु भवन्तंप्रति रक्षेति वचनमपि वा वदामः। 'नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः' इत्यम्ब- रोषव्रतनिष्णाता वयामति भावः । रमयाऽSल्लिष्टमित्यनेन भग-
Page 99
संकरसरः (१२१) 87
वतस्सरसत्वं वामदेवेत्यनेन तद्वचतिरोकि वकरत्वं च सूच्यते। अत्र पूर्वाधोत्तरार्धयोः अक्षरपश्चकानुलोम्यप्रातिलाम्यलक्षणश- व्दालङ्गारौ परिसङ्क्चया अर्थालङ्गारेण संसृष्टै॥ इत्यलङ्कारमणिहारे संसृष्टिसरो विशत्युत्तरशततमः
अथ संकरसरः (१२१)
यत्रान्योन्यमलंकारा: क्षीरनीरनयादमी। संकीर्येरन संकरोऽयमिति काव्यविदो विदुः॥ क्षीरनीरन्यायेनास्फुट मेदालंकारमेळने संकर इत्यर्थ:॥ सोऽयमङ्गङ्गिभावेन समप्रधान्यतस्तथा। संदेहेन तथा चैकवाचकानुप्रवेशतः ॥ चतुर्था संकरः प्रोक्तश्श्रीमदप्पयदीक्षितैः। एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥ एवं संसृष्टिप्रभृतयः पश्चालंकृतयो नरसिंहाकारा इत्यर्थः॥ अप्रधानालंक्रियया प्रधानालंक्रिया यदि। ऊज्जीव्येत तदाऽङ्गाद्गिभावसंकर इष्यते। यथा- वदनसुषमासुधाम्बुधिनिमग्नकुसुमशरकरिकि- शोरेण। झुण्डाग्रमिवोन्नमितं मृगमदतिलकं विभा- त्यहिनगेन्दोः ॥ २१३६॥
Page 100
88 अलंकार मणिहारे
यथावा ममैव प्रपन्नानन्दस्तुतौ-
म्। नासाविवरविलय्नं नूनं ध्यायामि मौक्तिकं देव्याः॥ २१३७॥ अत्रोदाहरणद्वयेऽपि वदनसुषमासुधाम्बुधीत्यादिवदनरुचि- हद्देत्यादि च परंपरितरूपकमुत्प्रेक्षयोरङ्ग, तदुजीवकत्वात् रूपका- भावे चेदशोत्प्रेक्षानुन्मषात्। अतोऽनयोरङ्गाङ्गिभावलक्षणस्संकरः॥ यथावा- अविवेकपटलमलिनं सुविवेकाअनशलाकया नयनम्। नोन्मीलियति जनो यो जन्मान्घो भ- वति कोनु तत्तोऽन्यः॥। २१३८।। अविवेकानां अज्ञानानां पटलमेव पटलं नयनेन्द्रियाच्छा- दकरोगविशेष: तेन माेनम् नयनम् !सुविवेक: तत्त्व्रत्रययाथात्म्य- विवेचनम्। स्पष्टमन्यत्। अन्राधिवे कपटलेत्यादिरूपकेण जन्मा- न्घताननिर्धारणस्य संकरः॥ यथावा- बर्हमयो यदुनन्दन शिरास वतंसस्त्वया नवो विहितः। व्रजतरुणीहरिणीनां प्रसभं ग्रहणे वितं- सतामैषीत् ॥ २१३१ ॥ नवः नव्यः रम्यो वा वतंसः उत्तसः विहितः न्यस्तः । वितंसतां मृगबन्धनोपकरणताम्। पक्षे वतंस इति शब्द: नवः
Page 101
सकरसर: (१२१) 89
वकाररहितः । नशब्दपूर्वको बहुव्रीहिः। विहितः विः विकार: हितः वकारस्थान एव निहितः यस्य स तथोक्तस्सन् वितं- सतां वितंसशब्दरतां ऐषीदित्यर्थः। अत्र व्रजतरुणीहरिणीनामिति रूपकं वितंसतामिति पदार्थवृत्तिनिदर्शनाया अङ्गम्।। यथावा- त्वर्यात्मशिखान्तस्थे विद्युदिवान्तस्थनीलज- लदाऽस्तु। अन्तस्थनीलतोयदविद्युदसि त्वं कथं नु परमात्मन् ॥ २१४० ॥ हे परमात्मन! अनेन 'तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतपरमात्मशब्दः प्रत्यभिज्ञाप्पते। आत्मशिखा 'तस्य मध्ये वह्निशिखा' इत्युक्ता प्रत्यगात्मरूपा ज्वाला 'वह्निशिखा वह्नश्शिखा आत्मज्वाला' इत्युपनिषद्भाष्यम्। त्वयि नीलतोयद- शयामलदिव्यविग्रहे इति भाव.। अन्तस्थे सति 'तस्याश्शिखायाः' इत्युक्तरीत्या अन्तर्विद्यमाने अन्तस्थ: नीलजलद: यस्यास्सा तथो- क्ता विद्युदिवास्तु 'नीलतोयदमध्यस्था विदुल्लेखव भास्वरा' इति
विदयुन्निभेत्यर्थः। मध्यस्थेति नीलतोयद् विशेषणस्य पूर्वनिपाताभाव- इछान्दसः" इत्युपनिषद्वाष्यकारैरभाषि। अभूतोपमेचन्। त्वं अन्तस्थनीलतोयद्विद्युत् कथ नुआसे। आत्मशिखामध्ये नील- तोयदनिभस्य भवतोऽवस्थानात्सा अन्तस्थनीलतोयदविद्युदिव प्रकाशतां नाम तव तथा प्रकाशः कारणाभावाद्विस्मयावह इति भावः। वस्तुतस्तु अन्तस्थः नीलतोयदशब्दः यस्य सः वियुत विद्युच्छव्दः विद्युदिति वर्णमध्ये नोलतोयदशब्दनिवेशे विनीलतो- ALANKARA IV. 9
Page 102
- 90 अलंकारमणिहारे
यददुत् इति निष्पद्यते शब्द: तद्वाच्य इति यावत्। विनील- जलद इव द्योतत इति तथोक्त इति परिहारः। अत्र पूर्वाधों- दीरिता उपमा उत्तरार्धोदीरितविभावानाया अङ्गं श्षेषोपस्कृतम्॥ यथावा- भवतोऽम्बुजाक्ष भवता भवन्ति ये तारिता न जात्वपि ते। विन्दन्ति विपर्यासात्प्रकृतिविकारं पुनस्तदपि तान्ताः ॥ २१४१॥ हे अम्बुजाक्ष! ये जना: भवता भवतः संसारात् तारिताः मोचिता इत्यर्थः। ते जना: जात्वपि कदाऽपि विपर्यासात् वैपरी- त्यात् पुनरावृत्तेहैतोरिति यावत्। प्रकृतिविकारं प्राकृतलोकं न विन्दन्ति 'एष देवपथो ब्रह्मपथ पतेन प्रतिपद्यमाना इमं मानवमा- वर्त नावर्तन्ते' इत्यादिश्रवणात् 'मामुपत्य तु कौन्तेय पुनर्जन्म न विद्यते' इति स्मरणात् 'अनावृत्तिश्शब्दात्' इति सूत्राञ्चेति भावः। पक्षे तारिता इति शब्द: जात्वपि विपर्यासात् प्रातिलोम्यात् प्रकृतेः तारिता इति प्रकृत्वंशस्य विकारं अन्यधाभाव न विन्दति। यथापूर्वमेवावस्थानादिति भावः। तथाऽपि एवं प्रकृतिसम्बन्धा- न्तारितत्वेऽपि पुनः पूर्ववदिति भावः तान्ताः अशनायापिपासा- दिप्रयुक्तग्लानिशालिन इति विरोधः । तारिता इति शब्दो वैपरी- त्येऽपि पूर्ववत्तारिता इत्येव निष्पत्तेस्तकारान्त एवेति परिहारः। अत्र श्रेषोपस्कृतं काव्यलिशं तथाविधस्य पुनरपि तान्ता इति पूर्वावस्थानुवृत्तिरूपपूर्वरूपस्याङ्गम॥ यथावा- त्वन्ेजोविजिगीषुस्तेन परास्तोऽक्षमः प्रती-
Page 103
संर्करसर: (१२१) 91
कारे। विषमश्नन्मग्नोऽब्धावौर्वोऽच्युत बाडबस्य ग- तिरियती॥ २१४२॥ हे अच्युत! और्वः बडबामुखानि: विषमश्चन् क््वेळं जलं च पिबन्। बाडबस्य ब्राह्मणस्य और्वाग्रेश्च गतिः स्थितिः इयनी पतावती यत्स्वावधीरयतुर्वैरनिर्यातनाक्षमतया विषा- शनेनाब्धौ पतनमिति। पक्षे यजलशोषणेन जलधौ निवास इति। शिष्ट स्पष्टम। अत्र श्रेषावलीढयोविषमार्थान्तरन्यासये- रङ्गाङ्गिभावः ॥ यथावा- अधिगतकृशानुभावो महानुभावं महस्तुलयितुं ते। नूनमपर्यात्तोऽननिर्भगवन्ननलं ततो वदन्त्ये- नम् ॥ २१४३॥ अधिगतः प्राप्तः कृशः अनुभावः प्रमावः येन कृशानुभावः कृशानुत्वं च येन स तथोकतः अग्नि: महानुभावं महाप्रभावं 'अनुभावः प्रभावे च' इत्यमरः। प्रभावः प्रतापः ते धाम तेजः प्रतापमित्यर्थः । तुलयितुं अपर्यातः नूनं। ततः एनं अभ्न अनलं अपर्यापं असमर्थमिति यावत्। अनलशब्दामिलनीयमिति तत्त्वम्। वदन्ति। अत्र कृशानुभावशब्दप्रतिपाद्यार्थद्वयश्ेषाभत्त का भेदाध्यवसानाङ़गकं तुलनाSपर्याप्तत्वसमर्थनरूपकाव्यालेङ्गमनल- मिति निरुक्तेरङ्गमिति विशेषः॥ कोचितु-एवंरुपस्संकरो न केवलमर्थालंकारयो: किंतु शब्दा- लंकारयोरप्यस्तीत्युकत्वा यमकातुलोमप्रतिलोमयोइश्दालंकार- ALANKARA VI. 9*
Page 104
92 अलंकारमणिहारे
योस्संकरमाङडुः। तदेदमुदाहरणम्- देवे नानावेदे प्रथिते नित्यं स्थिता नतानवि- तुम। देवेनानाSवेदेवैषा मामपि रमा क्षमाजलधि:। नानावेदे नानाविधश्रुतौ, जात्येकवचनम्। प्रतिथे प्रसिद्धे सर्वेश्वरत्वेन सर्वेवेदप्रतिपादे इत्यर्थः। देवे भगवति श्रीनिवासे नतान् शरणागतान् अवितुं त्रातुं नित्यं स्थिता क्षणमप्येत- दवस्थानविरहे विनतजनापराधदर्शनजनितक्रोधोष्मलतया नैत- द्रक्षणाभिमुख्यं भगवान् भजेतेति भावः। देवेनाना आनयति प्राणयतीत्याना पचाद्यच् देवानां इना प्रभवः इन्द्रादयो लोक- पाला: तेषां आना प्राणयित्री क्षमाजलधि: मादशापराधमर्षण- निपुणेति यावत्। एषा रमा मामपि अनवरतबहुविधापराधपरं- पराकरणघुरीणमपीति भावः। अवेदेव रक्षेदेवेति संभवोक्ति:॥ यथावा- साऽवतु वृषगिरिभूषा सारसनाभा नदीनभाना सरसा। तद्रूषा साडपिच या सारसनाभा नदीनभा नासरसा ॥ २१४५॥ सारसनामा पद्मनाभा 'अच् प्रत्यन्वव' इत्यत्र अजिति योगविभागादच्। पृषोदरादित्वाद्वा अकारान्तत्वं निर्वोढव्यम्। नदीनभाना नदीनां इनः प्रभुः उदन्वान् तस्य भानमिव भानं प्रकाशो यस्यास्सा जलनिधिश्यामलमूर्तिरित्यर्थः । सरसा सानु- रागा सानन्दा वा भूसहिता वा। सा वृषागेरिभूषा श्रीनिवास इति यावत्। अवतु इति पूर्वारधार्थः। तद्भूषा तस्य श्रीनिवास- स्यापि भूषा आभरणप्राया साडपिच श्रीरपीति भावः। अव-
Page 105
संकरसरः (१२१) 93
त्वित्येतदत्राप्यनुषज्यते। सारसनाभा सारसनेन काश्चीदाम्ना आभातीति तथोक्ता या श्रीः नदीनभाः दीना स्वल्पा भा: दीत्षि: यस्यास्सा तथोक्ता न भवति। सरसा न भवतीत्यसरसा च न भवति सरसैव भवतीत्युत्तरार्धस्यार्थः॥ अत्राद्ये पद्ये प्रथमतृतीययोः द्वितीये द्वितीयतुरीययोश्चरण- योश्च यमकानुलोमप्रतिलोमयोश्शव्दालंकारयोः परस्परापेक्षत्वे- नाङ्गाङ्गिभावसंकरः: सर्वस्वकारस्तु-'ईदशस्थले शब्दालंकार-
किंतु शब्दालंकारद्वयसंसृष्टिरेव। यद्ा अत्र शब्दालंकारदवयमेक- वाचकानुप्रविष्टम्' इत्यभाणीत्। काव्यद णकारस्तु-'द्वयोश्श्दा- लंकारयोः परस्परापेक्षया वैचित्रयातिशयाधायकत्वात्संकर एवे- दृशस्थले न तु संसृष्टिः, अङ्गा्गिभावाभावेऽपि मिथो वैचि- त्रयातिशयहेतुत्वस्याक्षतत्वात्। अङ्गङ्गिभावेऽपि मिथो वैचि- त्रचातिशयहेतुत्वस्थैव पार्थक्येन प्रयोजकत्वात्' इत्यवादीत्॥ अन्यालंकारगर्भैवान्नह्यते काऽप्यलंकृतिः। अन्यया तुल्यकालं चेत्समप्राधान्यसंकरः ॥
यथा- शिरसा स्वं लालयतां प्रथयन्तं नित्यमेव सा- म्राज्यम्। फणिभूभृतः किरीटं काश्चनलक्ष्मी द- धानमीडीय ॥ २१४६॥ स्वं आत्मानं शिरसा लालयतां दधानानां नमस्कुर्वतां च नित्यमेव शाश्वतमेव साम्राज्यं 'येनेष्ट राजसूयेन मण्डलस्ये-
Page 106
94 अलंकारमणिहारे
श्वरश्च य:। शास्ति यश्चाज्ञया राजस्स सम्राट' इत्युक्तलक्षणं सम्रादत्वं, अन्यत्र 'स स्वराड्भवति' इत्युक्तं मुक्तैश्वर्य प्रथ- यन्तं प्रख्यापयन्तं ईदशकीरीटधारणविरहे सम्राटत्वप्रसिद्धेर- योगादिति भावः । पक्षे विपुलयन्तं असंकुचितं वितन्वन्तमि- त्यर्थः। काञ्चनलक्ष्मीं सुवर्णस्य समृद्धि शोभां वा पक्षे काश्चन अनिर्वचनीयवैभवां लक्ष्मी भगवती श्रियं दधान फणिभूभृत् शेषा- द्रिरेव भूभृत् राजा तस्य किरीटं किरीटत्वेनाध्यवसितं श्रीनिवासं ईडीय स्तुयाम्। 'ईड स्तुतौ' लिङुत्तमैकवचनम्। अत्र शिरसा स्वं लालयतामित्याददिश्ेषमूलातिशयोक्तया अङ्गभूतया उन्नह्य- मानैव भगवति श्रीनिवासे किरीटत्वाध्यवसानरूपरूपकातिश- योक्ति: फणिभूभृति महाराजव्यवहारारोपन्िष्टरूपकगभैवोन्न- ह्यते, उक्तश्रेषमूलातिशयोक्तेरुभयोपकारकत्वात्। अत उक्तरूप- कातिशयोकतिरूपकथोरेक: काल: परस्परापेक्षया सौन्दर्योन्मेष- श्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम्। यथावा-
हन्त सरागालापा त्वत्पाणिस्पर्शविवशिता मु. रळी। अतिमधुरं त्वदधररसमनितरसुलभं किला- पिबति शौरे ॥ २४७॥
हे शौरे! मुरळी वशनाळी त्वत्पाणिस्पर्शेन एकत्र रागा- लापार्थेन अन्यत्र परिरम्भाद्यर्थेन विवशिता परवशीकृता एकत्र तदायत्ततया अन्यत्र स्तम्भप्रलयादिसात्विकभावोद्येन, सराग: सानुराग: आलाप: मिथोभाषणं यस्यास्सा तथोक्ता। अन्यत्र रागाणां शंकराभरणादीनां गान्धर्ववेदोक्तानां रागाणां आलापेन
Page 107
संकरसर: (१२१) 95
सह वर्तत इति तथोक्ता। अनितरसुलभं अतिमधुरं च त्वद- धररसं आपिबति किल हन्तेत्येतादशभाग्यलाभपरिचिन्तनज- निते हुषे। अत्र सरागालापेत्यादिक्षेषभित्तिकाभेदातिशयोक्तया अङ्गभूतया परिपोष्यमाणैव मुरळ्या भगवदघररसास्वादोत्प्रेक्षा मुरळ्यां नायिकाव्यवहारसमारोपरूपसमासोफ्तिंगर्लैव परिपो- व्यते, सरागादिशब्दश्लेषस्योभयोजीवकत्वात्। तस्मादुपपादि-
ररसास्वादनोत्प्रेक्षाया निरवलम्बनत्वाच्चान्ापि समप्राधान्यम्। यथावा- मुग्धाSतिललितलोला स्त्रिग्धा श्रीनाथहृदयप- रिरब्धा। गळदंशुकाऽनवरतोल्लासं किल याति हारयष्टिरियम ॥ २१४८॥ मुग्धा रम्या उद्यदयौवना च अतिललितं यथातथा लोला चश्चला। अन्यत्र अत्यन्तं ललितेषु विलासविशेषेषु लोला आ- सक्ता स्निनिग्धा थाळथळ्यवती सेहवती च। इयं हारयष्टिः स्त्री- लिङ्गान्नायिकेति च प्रतीयते। श्रीनाथहृद्येन परिरब्धा सती गळन्तः प्रसमराः अंशवो यस्यास्सा गळदंशुका 'शेषाद्विभाषा' इति कप। अन्यत्र अतयव गळत् स्रंसमानं अंशुकं वसनं यस्यास्सा तथोक्ता। अनवरतं सतत उल्लासं प्रकाशं, इतरत्र नवरते अभिनव संभोगे उल्लासं कुतूहलं याति किलेत्युत्प्रेक्षा।।
मापन्नया उत्तश्यमानैव गळदंशुकेत्यादिश्ष्ेषभित्तिकाभेदाध्यव- सायमूलातिशयांक्तयवलम्बिनी श्रीनिवासोरस्स्थलपरिरम्महेतु-
Page 108
96 अलंकारमणिहारे
कनवरतोलासप्राप्तिरूपोत्प्रेक्षा हारयष्टयां नायकाव्यवहारसमा- रोपरूपसमासोक्तिगभैंवोच्तभ्यते। अनयोश्च श्रेषोत्तम्भितत्वती- ल्यादैककालिकत्वादन्योन्यापेक्षचारुतातिशयत्वाच्च पूर्ववत्समप्र- धानता ।। यथावा- कल्याणगुणामुक्त: पयोधराग्रेसरातिशायिश्रीः। त्रय्यास्तरळो मणिरिव जीयाद्देवो वृषाचलनि- काय्य: ॥ २१४१॥ कल्याणैः मङ्गळरूपैः गुणैः सौशील्यादिभि: अमुक्तः नित्य- युक्तः। आमुक्त इति वा संबद्ध इत्यर्थः। पक्षे कल्याणगुणैः सुवर्णतन्तुत्तिः आमुक्त: बद्ध: यद्वा कल्याणगुणः आ समन्तात् मुक्ता: मौक्तिकानि यस्येत्यामुक्तः। विशेषणोभयपदकर्मधारयः। 'कल्याणं मङ्गळे स्वर्णे' इति रतमाला। पयोधराग्रेसरः घना- घनश्रेष्ठः तं अतिशेते अतिवर्तत इत्यतिशायिनी श्रीः दिव्य विग्रहशोभा यस्य स तथोक्तः। इतरत्र पयोधराग्रे इति व्य- स्तम्। स्तनयोरुपरिसरेषु हारेषु अतिशयितशोभ इत्यर्थः । त्रय्या: श्रुते तरळः हारमध्यगमणिारव स्थितः। अन्यत्सुगमम्।
तरळमणित्वोत्प्रेक्षा त्रय्यां नायिकाव्यवहारसमारोपरूपसमासो-
वेति समप्राधान्यम्।। यथावा- देवर्षिपितणेभ्यो विनतानूनं मुमोचयिषास हरे।
Page 109
संकरसर: (१२१) 97
उद्धारभरं वहसे वृद्धिं वितरन्कुतोन्यथाSमीषाम् ॥ २१५०॥ हे हरे! इद इह विवाक्षितार्थोपस्कारकम्। देवर्षिपितृणां ऋणेभ्यः पितृणेत्यत्र 'अकस्सवर्णे' इति सवर्णदार्थः । विन- तान् शरणागतान् मुमोचयिषसि नूनं मोचयतुमिच्छसीति स. म्भावये। अन्यधा अमीषां विनतानां संबन्धिनीं एतत्प्रदेयामिति यावत्। वृद्धिं उत्तमर्णेन मूलातिरिक्त ग्राह्यं द्रव्यं वृद्धि:। तां। पक्षे वद्धि अभ्युदयं मुक्तै्वर्यरूपां समृद्धि वा 'दद्धिस्तु वर्धने योगेऽप्यष्टवर्गाषधान्तरे। कालान्तरे चाभ्युद्ये समृद्धा- वपि योषिति' इति मेदिनी। वितरन् नियमेन प्रतिपादयन्। भगवत्पक्ष-'लक्षणहेत्वोः' इति शता, हेतुरिह फलं। वितरी तुमित्यर्थः । उद्धारस्य ऋणस्य भरं अतिशयं 'स्यादणं पर्युद- श्चनम्। उद्धारः' इत्यमरः। पक्षे 'तेषामहं समुद्धर्ता मृत्युसं- सारसागरात्' इत्युक्तर्रात्या संसृतिसिन्धोरुवृतिभारं वहसे। अत्र वृद्धिदानपूर्वकोद्धारभारवहनान्यथानुपपत्या भगवतः ऋणविमो- चनेच्छा कल्प्यते। देवर्षिभूतात्मनृणां पितृणां न किंकरो नायमृणी च राजन्। सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ।। इति श्रोकार्थोSत्रानुसंहितः । अत्र वृद्धयुद्धारशब्दश्ेषभि- त्तिकाभेदाध्यवसायमूलातिशयोक्तया उन्नह्यमानैव उक्तार्थापत्तिः
स्तुल्यानीति समप्राधान्यम्॥।
Page 110
98 अलंकारमणिहारे
एकेनान्नह्यते सोऽपि समप्राधान्यसंकरः ॥ यथावा- त्वत्कीर्तिसुमसमुदयं ग्रभातीव त्रयी त्वदीयगु- णैः। गृह्न्तस्तं सुधियः प्रसाधयन्ते दिशां ध्रुवं कबरीः ॥ २१५१॥ अत्रोत्प्रेक्षयोः कालमेदेऽपि समप्राधान्यं, इतरेतरनिरपेक्ष- वाक्यद्वितयप्रतिपादितत्वात्। तं गुह्णन्त इति कीर्तिकुसुमसमु- दय रूपरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात्। नचैवं 'लिस्प- तीव तमोऽङ्गानि वर्षतीवाअ्नं नभः' इतिवदुत्प्रेक्षाद्वितयस्य संसृष्टिरेवेयमिति वाच्यं, लौकिकसिद्धग्रथनप्रसाधनपौर्वापर्य- च्छायानुकारेणोत्प्रेक्षाद्वयपौर्वापर्येंण सौन्दर्योत्कर्षसमुन्मीलनत- स्संसृष्टिवैषम्यात्। तस्माददर्शादिवदेकफलसाधनतया समप्रधा- नमिदमुत्प्रेक्षाद्वयम्। अयं च संकरो दीक्षितोपज्ञमेव। "प्राश्चस्तु अस्मिन् समप्राधान्यसंकरे प्राथमिकोऽङ्गाङ्गीभावेन, द्वितीयस्सं- सृषट्या च गतार्थ इत्याशयेन इमं भेदं न मेनिरे" इति रसि- करज्नीकार:। तद्विस्तरस्तत्रैव द्रश्व्यः॥ साधकं बाघकं वाऽपि यत्रान्यतरसंग्रहे। प्रमाणं नैव दृश्येत स्यात्स सन्देहसंकरः ॥ यत्र विरुद्दयोरलंकारयोरकत्र स्फूरतौ तयोरन्यतरस्य परि- ग्रहे साधकं बाधकं वा प्रमाणं न दृश्येत तत्रानिश्चयात्संदेह- संकर: ।
त्वद्वरदानाविच्युतमाङ्गल्यां सर्वमङ्गळां शौरे। यथा-
Page 111
संकरसरः (१२१) 99
कात्यायनीं वदन्तः कोशकृतो हन्त कोशकृत एव।। त्वद्वरदानेन अविच्युतं माङ्गल्यं यस्यास्तां तथोक्तां नित्य- सौमङ्गल्यशालिनीमित्यर्थः । बाणासुराहवे भगवता महादेवे परा- भूते भीतया भवान्याऽ्क््यर्थितेन तेनैव भगवता नित्यसौमङ्गल्य- लक्षणवरोऽस्यै व्यतारीति पदमपुराणकथाऽत्रातुसहिता। अतएव सर्वमङ्गळां सर्वप्रकारमाङ्गल्य शालिनतिवेन तन्नामामिलपनीयां देवीं भवानी कात्यायनी 'कात्यायनीत्युमा। या चार्धवद्धा काषायवसना गतभका। कात्यायन्यर्धवृद्धा या काषायवसनाऽघव' इत्यमि- हिताभिधानां वदन्तः कोशकृतः रत्नमालानामलिद्गानुशासनादि- ग्रन्थकृत: कोशकृत एव। हन्तेतीदृशजुगुप्सितनामकथनचिन्तन- प्रयुक्ते खेदे। अत्र कोशकृतां कोशकृत्वविधानमनुपयुक्तिबाधितं सत्तद्विवेचकतां गर्नीकरोतीति विध्यलंकारो वा। कोशकृतः कोशकृत एव कोशकाराक्रमय एव न तु विवकशाललिनो ग्रन्धकृत इत्यारोपपूर्वक आद्योऽपह्नवी वेत्युभयोरन्यतरनिर्धारण साधकस्य वा बाधकस्य वा प्रमाणस्यादर्शनादनयोस्संदेहसंकरः॥ यथावा- मुखरुचिजलनिधिविहरन्नयनझष द्ंदजातपोत- धियम्। उन्मीलयदुरगाचलविलासिमृगनाभि- तिलकमव्यान्नः॥२१५३॥ अत्र धियमिति मतेर्भ्रान्तिरुपत्वविवक्षायां भ्रान्तिमदलंकारे विश्रान्तिः, संभावनात्वविवक्षायां उत्प्रेक्षायामित्यनध्यवसायादन- योस्संदेहसंकर:॥
माधवविदूरसत्वा घनागमोल्लासितास्सुजाति- यथावा-
Page 112
100 अलंकारमणिहारे
भवाः। अपि सुमनसश्वयवन्ते वृथैव कतिचन महाफलाग्रहणात् ॥ २१५४॥ माधवस्य विदूरसत्वाः दूरस्थितयः घनानां महतां जनानां आगमेन प्रातथा घनैः आगमैः शास्त्रैवां उल्लासिताः सुजातिभवाः सत्कुलप्रसूता: सुमनसो मनीषिणोऽपि कतिचन महाफलस्य निशश्रेयसरूपस्य उत्तमफलस्य अग्रहणात् वृधैव च्यवन्ते भ्रश्य- निति। अन्यत्र माधवस्य वसन्तस्य विदूरे सत्त्वं स्थिति: यासां ताः घनागमेन प्रावृषा उल्लासिता: विकासिता: शोभनाश्च ताः जातयः मालतीलता: तासु भवाः कतिचन सुमनसोऽपि पुष्पतां प्राप्ता अपि महतः फलस्य अग्रहणात् वृथैव च्यवन्ते। जातीकुसुमानां वस- न्तसमये अनुन्मेषात् प्राटृषि विकासात् फलवत्वविरहात् वृथैव व्यवनं सवतीति भावः। अन्राप्रस्तुतजातीकुसुमप्रशंसा प्रस्तुतेषु उक्तविधेषु विद्वत्सु पर्यवस्यतीत्यप्रस्तुतप्रशंसा वा, प्रस्तुतविद्धद्ध- त्तान्तेनाप्रस्तुतमालतीकुसुमव्यवहारस्फूर्तिरिति समासोक्तिर्वा, प्रकृताप्रकृतश्लेषो वेत्यनध्यवसायादेषां संदेहसंकरः॥
त्वच्चरणसमं किसलयमासेव्याघश्शिराश्चिरा- यथावा-
हस्तः। कान्तरस्तबकस्स्याद्यदि कमले त्वच्चरण- पूजनार्हस्स्यात् ॥ २१५५॥ हे कमले! बस्तः छागः चिरात् बहुकालं अधश्शिराः भक्तया नम्रशीर्षस्सन् बस्तस्य निसर्गतस्तथात्वादिति हार्दम्। आसेव्य संपूज्य भक्षयित्वेति तु तत्व्रम्। कान्तः सुन्दर: स्तबंकः कुसुमगुच्छश्चेत् त्वच्चरणकिसलयास्वादनफलभूतस्तबकजन्मता
Page 113
संकरसरः (१२१) 101
यायाच्चेदित्यभिप्नायः। तदा त्वञ्चरणपूजानाहस्स्यात्। स्तबकज- न्मना विना तदर्हता न स्यादिति भावः। बस्तः बस्तशब्दः अध- रिशरा: विपरीतस्सन् स्तब इति निष्पन्नः ततः यदाकदाचित् कान्तश्चेत् कवर्णान्तस्स्याद्यदि स्तबकशब्दो भवितेति वस्तुस्थि- तिः। अत्र बस्तः स्तबकस्स्याच्चेत्वच्चरणार्चनार्हस्स्यादिति संभाव- ना वा। इद न कदाऽपि सिध्यतीतति मिथ्याध्यवसितिर्वेति कविसंरम्भस्य निर्णेतुमशक्यत्वादनयोस्संदेहसंकर: ॥ यथावा- अर्पयसि स्म यदा त्वं कार्पण्यं माधव प्रपि- त्सोर्मे। मन्ये सर्वाधिक्यात्तदैव कारुण्यमन्तरे व्यतनोः॥ २१५६॥ हे माधव! प्रपित्सो: त्वत्प्रपदनमिच्छतः मे कार्पण्यं- अङ्गसामग्ग्रसंपत्तेरशक्तेश्वापि कर्मणाम्। अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।। उपाया नैव सिद्धयन्ति ह्यपाया बहुलास्तथा। इति या गर्वहानिस्तु दैन्यं कार्पण्यमुच्यते।। इति लक्षितं प्रपदनाङ्गं यदा अर्पयसि स्म कार्पण्योपलक्षित- मङ्गजातमददाः तदैव अन्तरे मनससि सर्वाधिक्यात् सर्वातिशा- यितया कारुण्यं मयि कृपां व्यतनोरिति मन्ये। अन्यधा ममेदशी- मङ्गसंपत्ति नापयेरेवेति भावः। पक्षे यदा कार्पण्यमिति पदं अर्प- यसि र्पवर्णरहितं करोषि स्म तदा सः र्वाधिक्यमिति छेदः। सः त्वमिति योजना एवंविघस्त्वं अन्तरे मध्ये र्वाधिक्यात् रुवर्णा- धिक्यात् कारुण्यं व्यतनारित मन्ये। कार्पण्यशब्दस्य र्पवर्णो- त्सारणेन मध्ये तत्रैव रुवर्णन्यासेन च कारुण्यमिति निष्पादना-
Page 114
102 अलंकार मणहारे
दिति भावः। अन्र कार्पण्यान्यधानुपपत्या भगवतः कारुण्यवि- धानं कल्पितमित्यार्थापत्तिवा। अय भगवान्मयि सर्वाधिक्येन कपावान् मम प्रपदनाङ्गजातार्पयितृत्वादित्यनुमानं वेति संदेहः ॥ यथावा- सुदगिति गर्वात् योऽपरमाह त्वनोऽवि कारणं जगतामू। आहुस्तमेव सुदृशश्शौरेSपरकारणं कि- माश्चर्यम्॥ २१५७॥ हे शौरे! यः पुमान् सुदक सुधीरिति चक्षुष्मानिति च गर्वात् त्वत्तोऽपि अपर अन्यं जगतां कारणं आह व्रवीति सुदृदशः चिप- श्वितः चक्षुष्मन्तश्च तमेव त्वत्तोऽन्यजगत्कारणमस्तीति वदन्तं पुंमासमेव अपरकारणं अपर त्वदन्यत्कारणं यस्य ते तथोक्तं अपरं अवरं अश्रष्टं कारणं यस्य तथोक्तमिति वा आहुः। किमाञ्चर्थमिति लोकोकिः। यस्त्वत्तोऽप्यपर कारणमस्तीति ब्रवाति तस्यापरका- रणत्वमनाश्चयांवहं किंतु युक्तमेवेति भावः। अतएव समालंकारः । यद्ा तं अपरकारणवादिनमेव अपरं व तत् कारणं चेति कर्मधा- रयः तं अपरकारणं आहुः। किमेतदाश्चर्य अत्याश्चर्यमिति भावः। अतएव विरोधाभासः। तं पु्मासमेव अपरकारणं अपगतो रः रेफः यस्मान्तं कारणं काणं आहुरिति वस्तुस्थितिः । 'एको ह वै नारायण आसीत, सर्वभूतस्थमेकं नारायणं, कारणरूपमकारपर ब्रह्मोम्' इत्यादिश्रुतिशतकण्ठरवप्नतिपादितभगवत्कारणत्वचिरु द्वार्थाभिधायी काण एव न तु चक्षुष्मानिति सुदृशो वदन्ति। 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते। पकेन हीन काण स्स्यात्' इत्यायुक्तेरिति भावः। अत्र समविरोधाभासयोरेकत्रैव
Page 115
संकरसरः (१२१) 103
यथावा- दात्रं मन्ये तोत्रं वेत्रं वाडरिच्छिदा त्वया वि- धृतम्। कुरुवीररथकुटुम्बिन दातोवेतस्तु भेद एतेषाम् ॥ २१५८ ॥
हे कुरुवीररथकुदुम्बिन् अर्जुनसारथे भगवन्! त्वया विधृतं तदथ्याश्वचोदनाय पाणी कृतं तोत्रं तोदनं 'पाजनं तोदनं तोत्रम्' इत्यमरः। वेत्रं वा दात्रं रिपुवंशलवनसाधनं लवित्रं 'दात्रं लवि- त्रम्' इत्यमरः। मन्ये संभावये। एतेषां दाव्रतोन्नलवित्राणां भेद: दातः छिन्न इति 'दो अवखण्डने' कर्मणि क्ः। 'आदेचः' इत्या- त्वम्। 'कं दातं दित छितं वृक्ण 1' इत्यमरः । अवेतः अवगतः अवपूर्वकादिण: कर्मण क्त। एतेषां रिपुकुलभेदनरूपधर्मवत्ताया स्साम्यात् भेदाभावो ज्ञात एवेत्यर्थः। तुशन्द्रोऽवधारणे। 'तुः स्यान्रेदेऽवधारणे' इत्यमरः। यद्ा दात्रं मन्ये लवित्रमेवेति निर्धा- रयामीत्यर्थः । अन्यत्सर्वे पूर्ववदेव। तत्वं तु पतेषां दात्रादीनां दातोवेतः क्रमेण दावर्ण तोवर्ण वेवर्णैरव मेद इत्यर्थः। सार्ववि- भक्तिकस्तसिः। अथवा तोन्रं वेत्रं वा दात्रं दात्रतुल्यं मन्ये जाने। पतेषां भेदस्तु दातोवेतः उक्तवणैरव न तु सर्वात्मना । शब्दार्थतादात्म्यं न विस्मर्तव्यम्। अत्र तोत्रवत्रयोदात्रतादात्म्यसं- भावनाभिसंधौ उत्प्रेक्षा, दातरत्वानर्धारणस्योत्तरवाक्यार्थसमर्थि- तत्वाभिसंधौ काव्यलिङ्गम्, दाव्रतोत्रवेत्राणां तुल्यानां स्ववाचक- शब्द्गतयर्तिकचिद्वर्णमात्रभेद इत्यभिप्राय व्यतिरेकः, भगवत्करे धृतं वस्तु दात्रमेव न तु तोत्रं वेत्रं वेत्यभिसंधौ त्वयहुतिरित्येतेषा- मेकत्रैव कविसंरम्मस्य नियन्त्रयितुमशक्यत्वारसंदेहसंकरः॥
Page 116
104 अलंकारमणिहारे
यथावा- तव भक्तैरतिशुचिभिर्नाम्ना शुचिरवमतोऽनलो नूनम्। अहह विषाशनमुपयन् जीवनभङ्गाद्वि शान्ततां यातः ॥ २१५९॥ अतिशुिभि :- योऽर्थे शुचिर्हिं स शुिर्न मृद्धारिशुचिश्युचिः। क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धि: परमा मता ॥ इत्युक्तप्रकारेण सर्वप्रकारशुद्धिशालिभि: त्वन्भक्तैः बहुभि- रिति भावः। नाम्ना शुचिः नाममात्रेणैव शुचिरिति व्यवहार्थः न तु तद्वच्छुितमः एक इति भावः। अनलः अवमतो नूनम्। अहहेति खेदे अद्भते वा। विषाशनं विषोपलक्षितमन्नं उपयन् अश्नन्निति यावत्। जीवनभङ्गात् जीवितभ्रंशात् शान्ततां विनि- प्ृतां यातः। हीतयवधारणे हेतौ वा। वस्तुस्थितिस्तु अहेत्यव्ययं अहृहत्येतदनतिरिक्तार्थकम् । हविषा आज्यादिना अशनं अभेदे तृताया, हविरमिन्नमशन उपयन् जीवनभङ्गात् जलतरङ्गात् शान्ततां निर्वाणतां यात
सायनिर्व्यूढस्य भगवन्भक्तावमतत्वं न हेतुरित्यहेतोस्तस्य हेतु- त्वेन संभावनायां चेदभिसंधिः तदा उत्प्रेक्षायां पर्यवसानं, उक्तविषाशनादयन्यथानुपंपत्या तस्यावमतत्वकल्पनेचेत् अर्था- पत्ती, विषाशनादिहेतुना अवमतत्वसाधने चेत्तात्पर्य तदा अनु- मानालंकारे इति कविसंरम्मस्य नानामुखप्रसृततया अमीषां संदेहसंकर:॥
Page 117
संकरसरः (१२१) 105
यथावा सुमहानेकोऽहार्यः क्षोभं गमितोऽपि नैति वि कृतिलवम्। गाम्भीर्य श्रीधाम्नः स्थिराशयस्यास्य को गदितुमीष्टाम् ॥ २१६०॥ सुमहान् गिरिपक्षे अतिविशालः भगवत्पक्षे अतिपूज्यः मह्यते पूज्यते इति महान् इति व्युत्पत्तेः । एक: अहार्यः गिरिः। पक्षे इतरैरसंहार्य: । ब्रह्माणभिन्द्रं रुद्रं च यम वरुणमेव च। प्रसह्य हरते यस्मात्तस्माद्वरिरितर्यिते । इति भगवत एव सर्वसंहर्तृत्वोक्ते। क्षोभं गमितोऽपि पुष्पफलशिला दार्वादिवस्तुलिप्सुभिर्जनैः स्वस्वाभ्ीष्ट्प्ररप्सुमिरर्थि- मिश्च क्षोभितोापे विकृतिलवं विकारलेशमपि नैति। स्थिरायाः भुवः आशयस्य आधारस्य जलाशय इतिवत् भूधरस्येति यावत् यद्ा स्थिरा: आशया: पनसाः यास्मिन् तस्य 'आशयः स्यादभिप्राये पनसाधारयोरपि' इति मेदिनी। पक्ष स्थिरह- दयस्येत्यर्थः। शरणागतसंग्रहे दोषप्रदर्शकैरन्तरङ्गैरव्यकम्पनीय- हृदयस्योत भावः । तथाचाह- मित्रभावेन संप्राप्त न त्यजेयं कथचन' इति। श्रीधाम्नः सरळद्रुमाणां बिल्वानां वा आध्र- यस्य 'श्रीर्वेषरचनाशोभासंपत्सरळशाखषु। वाणीलक्ष्मलिय- द्रेषु विषे बित्वेऽपि' इति रत्नमाला। 'श्रीर्वेषरचनाशोभाभारती सरळद्रमे। लक्ष्मचां त्रिवर्गसंपत्तिविद्योपकरणेषु च' इति मेदिनी च। पक्षे श्रीनिवासस्येत्यर्थः । अस्य गिरेभगवतश्च गाम्भीर्ये दुष्प्रवेशत्वं अक्षोभ्यत्वं वा। भगवत्पक्षे मक्तानुग्रह्वद्दान्यत्वा- देरमूलतो दुरवगाहत्वं आश्रितापराधेषु प्रतिग्रही 1निकर्षादिषु च ALANKARA IV. 10
Page 118
106 अलंकारमणिहारे
सतोऽपि स्वज्ञानस्य गोपनेन दुर्ग्रहत्वं वा। तद्भिप्रायेण हि सर्वश्स्याप्यविज्ञातृत्वोक्तिः। गार्दतुं वर्णायेतुं क इष्टां शक्कयात्।। अत्राप्रस्तुतस्य कस्यचिन्महागिरे: प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे भगवति श्रीनिवासे पर्यवस्यतीत्यमिसन्धौ अप्रस्तुतप्रशंसा, प्रस्तुतवृषाद्विवृत्तान्ते वर्ण्यमाने विशेषणसाम्या- दप्रस्तुतमहाराजवृत्तांतस्य वा तथाविधदुग्धपयोनिधेर्वा वृत्ता- न्तस्य प्रतीतेस्समासोक्तिवां। अस्मिन् प्रकारे वृषगिरिपक्षे सु- महान् शोमिनमहैरुत्सवैः अनितीत्यन् अनितेः क्विप। महाराज- पक्षे शोभनं महत् राज्यं यस्य तथाभूतः 'वर्तमाने पृषत्' इत्यादिना शतृवद्भावातिदेशादुगित्वातुम्। 'महती वल्लकीभेदे राज्ये स्थानु नपुंसकम्' इति मेदिनी। 'महद्राज्यं च' इत्यम- रश्च। पयोधिपक्षे अतिमहान् अतिविपुलः क्षोभं गमितोऽपि वृषगिरिपक्षे भगवद्दर्शनलिप्सुभिर्जनैरारोहणचरणघट्टनादिभिस्स- ममर्दितोऽपी यर्थः। महाराजपक्षे वैरिजनाधिक्षपादिभिः कदर्थि- तोऽपीत्यर्थः । पयोधिपक्ष अमृताद्यर्थिभिस्सुरैर्मैथनेन विलोडि- तोऽपीत्र्थः । विकृतिलवमपि नैति। स्थिराशयस्य आद्ये स्थिराणां सालपर्णीवृक्षाणां आशयस्य आधारस्य 'स्थिरा भूसालपण्योरना शनी मोक्षबलाद्रिषु' इति मेदिनी। द्वितीये स्थिरा भू: शये करे यस्य तस्य स्वायत्तधरणीकस्येत्यर्थः । तृतीये स्थिरायाः भूमे: आ समन्तात् शेत इति शयः तस्य पचादयच्। मेखला- बद्वं वेष्टितवत इत्यर्थः। श्रधाम्तः आद्यपक्षे- श्रीपदत्वाच्छियो वासाच्छव्दशक्तया च योगतः । रूढ्या श्रीशैल इत्येवं नाम चास्य गिरेरभूत् ।। इति वाराहाक्तरीत्या लक्ष्मीनिवासस्थानभूतस्येत्यर्थः । द्वि- तीये त्रिवर्गसंपत्त्याश्रयस्येत्यर्थः । तृतीये श्रीजन्मनिकेतनस्येत्य-
Page 119
संकरसर: (१२१) 107
र्थः। गाम्भीर्य दुष्प्रवेश्यत्वं दुराधर्षत्वं निम्नत्वं चेत्यर्थः। अन्य- त्पूर्ववत्। यद्वा प्रस्तुतशैलवृत्तान्ते वर्ण्यमाने प्रस्तुतश्रीनिवास- उृत्तान्तस्यैव द्योतनात् प्रस्तुवाङ्करः। अथवा वाच्यस्यैव भगवद्र- पार्थस्य भङ्गयन्तरेण वर्णनात्पर्यायोक्तम्। आहोस्वित् एकोहार्य इत्यत्र एक: हा अर्यः आर्य इति वा छेदेन विशेष्यस्यापि श्िष्ृतया अर्यस्य आर्यस्य वा अप्रकृतस्य अहार्यस्य शेषाद्रेः प्रकृतस्य च श्लेषः । उपपादितेष्वेतेष्वेकत्रैव कविसंरम्भस्याव- स्थापयितुमशक्यतया पतेषां संदेहसंकरः। अर्यः स्वामी एकोऽ- धिपतिरित्यर्थः 'अर्यस्स्वामिव्रैशययोः' इति निपातनात् 'ऋ गतौ' इत्यस्माद्धातार्यत्। आर्यः प्राप्यः आचार्य इत्यर्थः उक्तादेव धातोः 'ऋहलोर्ण्यत्' इते ण्यत्। इदं 'अर्यरस्वामि' इत्युक्तसूत्रस्य प्रत्युदाहरणम्। हेत्यव्ययं गांभीर्यचिन्तनप्रयुक्तविस्मये। 'विस्मये च जुगुप्सायां ह, इति शेषः । अर्यपक्षे स्वामिपक्षे उक्त एवार्थोडनु- संधेयः । आर्यपक्षे तुक्षोभं गमितोऽपि 'इमा रामास्सरथास्सतूर्याः' इत्युक्तदिशा क्षोदिष्ठफलप्रर्दशनादिभिरितरैः प्रलोभितोऽपि विकरृ- तिलवमपि तदासङ्गकृतचित्तविकारलेशमपि नैति। 'तवैव वाहा- स्तव नृत्तगीते' इत्यादिवत्तत्सर्वे प्रत्याख्याय 'वरस्तु मे वरणीय- स्सएव' इत्युक्तरीत्या अस्खलितचित्तवृत्तिरेव भवतीति भाव:।श्री- घाम्नः विद्यानिधे: स्थिराशयस्य स्थिरे मोक्षे आशयः अभिग्रायः यस्य तस्य श्रीस्थिरशब्द्योः कोशस्तु प्रागुक्त एव। अस्य अहार्यस्य अर्यस्य आर्यस्य च गाम्भीर्य गदितुं क इष्टामित्यर्थः॥
मरकतमणिरेकोडयं स्फुरतितरां सकललोक- यथावा-
विभवकृते। भाग्यगरीयांसोऽमुं भोग्यतमं प्रापुव- न्ति नैवान्ये।। २१६१।। ALANKARA IV. 10*
Page 120
108 अलंकार मणिहारे
अत्र भगवानेव मरकतमणितयाऽव्यवसीयत इति रूपकाति- शयाक्तिः, आहोस्वित् अयमिति विषयं भगवन्तं निर्दिश्य तस्मि- नमरकतमणित्वारोपाद्रूपकं, अथवा भगवतो मरकतमणित्वेन सं- भावनाद्वस्तूत्प्रेक्षा गम्या, उत अप्रस्तुतमरकतवृत्तान्तेन प्रस्तुत- श्री निवासवृत्तान्तप्रतीतेरप्रस्तुतप्रशंसा, किंवा मरकतमणित्वेनाध्य- वसितस्य श्रीनिवासस्य सकललोकविभवकृते स्फुरतीति लोकसि- द्वगारुत्मतापेक्षया विशेषस्य गम्यमानत्वाङ्वयतिरेकः, आहो श्री- निवासस्यैव भङ्गयन्तरेण वर्णनात्पर्यायोक्तमिति भूयसामलकाराणां संदेहसंकर:॥ यथावा- त्वदपाङ्गप्रत्यूषे विदळितदुरितौघसंतमसदोषे। उरगगिरिनाथ विसरति परितो विकसति मदन्त- रङ्गाब्जम् ॥ २१६२॥ अत्र त्वदपाङ़ प्रत्यूष इव, अधयूधं संतमसमिव अन्त- रङ्गं अब्जमिवेत्युपमाया वा, त्वदपाङ्ग एव प्रत्यूः। अघयूधमेव संतमसं अन्तरङ्गमेवाब्जमिति रूपकस्थ वा साधकबाधकप्रमाण- भावेनानिश्चयात्संदेहेन संकर। साधकबाधकप्रमाणे न्यायदो- परूपे। यत्र न्यायदोषलक्षणसाधकबाधकप्रमाणयारन्यतरस्याव- तार: तत्रैकतरस्य निश्चयान्न संदेहः। न्यायश्च क्वचिदुपमायास्सा- धकः। रूपकस्य तु न साधको नाप्यत्यन्तप्रतिकूलः । क्वचितु रूपकस्य साधकः । उपमायास्तु न साधको नाप्यन्त्यन्तप्रतिकूल एव, दोषोऽपि क्वनति्रिदुपमाया बाधकः रूपकस्य तु तटस्थ:। क्कचितु रूपकस्य बाधक: उपमायास्तटस्थः। एवमलंकारान्तर- योरपि न्यायदोषावूहनायौ।
Page 121
संकरसरः (१२१) 109
तत्रोपमायास्साधको रूपकंप्रति तटस्थो न्यायो यथा- श्रियमस्माकं तनु तामित्याश्रयतां य अदधीत नु ताम्। गमयन्विपदं तनुतां पदकमलममुष्य संपदं तनुताम् ॥ २१६३॥ अस्माकं तां श्रियं मुक्तिसंपद तनु कुरु इति आश्रयतां जनानां यः श्रीनिवास: विपदं भवमयीं आपदं तनुतां कृशतां गम- यन् सन् तां तत्प्रार्थितां श्रिय आदधीत नु कुर्वीत च। तु इत्येतद- व्ययं पूर्वोक्तविपत्तनूकरणसमुच्चये। 'प्रत्युक्तावुपमाने च विषादो- त्प्रक्षयोरपि । तु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये'इत े अमुष्य भगवतः पदकमलं संपद सर्वप्रकारां श्रियं तनुतां कुरु ताम्। अत्र संपदं तनुतामिति मुख्यतया प्रतिपाद्यमानसर्वप्रकार- श्रीप्रदानरूपार्थः भगवत्पद एवानुकूल्यमश्तुत इति पद कमलमिवे- त्युपमायास्साधकः। पदमेव कमलमिति रूपकस्य तु नाअ्जस्येन, कमले विवा्षिततंपत्प्रदानस्य मुख्यतयाऽसवगतेः । ननु तर्हि रूपकबाधिकैव कि न स्यादुपमेति शङ्कयं, कमलेऽपि सौरभादि- रूपमुख्यसंपत्प्रदानसंभवात्। अतो न रूपकबाधकत्वं, किंतु तट- स्थतैव॥ रूपकसाधक उममांप्रति तटस्थो यथा- साधुगतिप्रतिरोधकमाधुन्वानाSखिलं तमःप्र- सरम। माधवमुखामृतांशोराधत्तां नयनसंमदं ज्योत्स्ा ॥ २१६४॥ साधु यथास्यात्तथा गतेः संचरणस्य अन्यत्र सन्मार्गगम- नस्य अर्चिरादिगतेर्वा प्रतिरोधकम्। अन्यत्सुगमम्। अत्र मुख-
Page 122
110 अलंकारमणिहारे
मेवामृतांशुरिति रूपके ज्योत्स््नापदं साधकप्रमाणं मुख्यतयाऽवग- म्यमानो ज्योत्सापदार्थः अमृतांशोरेवानुकूल्यमश्तुत इति मुखा- मृतांशोरिति रूपकसाधकः । मुखं अमृतांशुरिवेत्युपमायास्तु नाञ्जस्येन साधकः, मुखे मुख्यतया जोत्सापदार्थस्य चन्द्रिका- रूपस्यानवगमात्। न च तर्हि रूपकमुपमाबाधकमेव किं न स्या- दिति वाच्यं, यथा अमृतांशावनुकूल: न तथा मुखे। किंतूपचारे- णानुकूल्यस्य कथचित्संभवान्नोपमाप्रतिकूलता। किंतु ताटस्थ्यमे- वेति ध्येयम् ॥ उपमाबाधकाद्रपकपरिप्रहो यथा- शरदुदितशिशिरकिरणस्फुरणजुषा विशदयन वृषाद्विमणिः। कमलाक्षो नस्स्वान्तं कटाक्षसुध- या विलिम्पति निझान्तम् ॥ २१६५॥ नः अस्माकं स्वान्तं निशान्तं भवनमिति व्यस्तरूपकम्। विशदयन्निति हेत्वर्थे शता। हेतुरिह फलम। शरदुदितेत्यादि कटाक्षसुधयेत्यस्य विशेषणम्। अत्र कटाक्षरसुधेवेत्युपमार्या उक्त- व्यस्तरूपकमेव न बाधाकं, किंतु शरदुदितेत्यादिसामान्यधर्मप्रयो- गोऽपि बाधक एव। न तु तटस्थः 'उपमितं ब्याध्रादिभिः' इत्या- दिना तदप्रयोग एव समासविधानादिति प्राञ्चः। वयं तु क्कचि- त्सामान्यधर्मप्रयोगोऽपि नोपमाबाधक इति ब्रूमः।।
स्ववशानुचरं रुचिरं सपझकं देवकुञ्जरं सुकरम्। यथा-
नागागमसविहारं योगाद्विन्देय धीरगम्भीरम्॥ स्वा स्वकीया या वशा करिणी 'वशा वन्ध्याऽसुता योषा स्त्रीगवीकरिणीषु च। त्रिष्वायत्ते क्विवमायात्तत्वे चेच्छाप्रभुत्व-
Page 123
संकरसर: (१२१) 111
योः' इति मेदिनी। तस्या: अनुचरं सहायम्। पक्षे स्ववशेनैव स्वेच्छयैव अनुचरः। 'यत्र कामगमो वशी' इत्युक्तरत्या सकल. लोकचारी स्वतन्त्र इत्यर्थः। तं तथोक्तं, पद्मकेन बिन्दुजालकेन सह वर्तत इते सपझरः तम्। पक्षे पद्मया श्रिया सह वर्तमानं, शैषिके कपि 'आपोऽन्यतरस्याम्' इति वैकल्पिको हस्वः। सुकरं शोभनशुण्डादण्डं रमणीयपाणिं च। नागानां गजानां आगमेन प्राप्तया सविहारं नागागामे फणिशैले सविहारं च। धीरगम्भीरं देवकुश्जरं देव: कुश्जर इवेति विग्रहः देवश्रेष्टं श्रीनिवासं योगात् युक्ते: सन्नाहादुपायाद्वा पक्षे धयानात् विन्देय 'योगस्सन्नहनोपा- यध्यानसंगतियुक्तिषु' इत्यमरः ॥ यथावा- अतिवृद्धिमदामोदप्रदानतो विवशयन्सदाळि- वरान्। दैवतनागः फाणगिरिवनचारी सकलभा- न्वितो जयतु ॥ २१६७। अतिवृद्धिमतः आमोदस्य आनन्दस्य पक्षे अतिशयिता वृद्धि- र्यस्य स तथा यो मदामोद: तस्य दानपरिमळस्य प्रदानतः सदा- ळिवरान् सतां ब्रह्मविदां आळे: पङ्गे: ये वराः श्रेष्ठाः तान्। पक्षे सदा अळिवरान् भ्रमरश्रेष्ठान् विवशयन्, सकला संपूर्णा भा दीप्तिः 'तस्य भासा सर्वमिदं विभाति' इत्यायुक्तका तया अन्वितः। पक्षे सः कलमैः त्रिंशद्वर्षगजविशेषैः अन्विितः दैवतनागः देवश्रेष्ठः भगवान् जयतु। 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुश्जराः। सिंहशार्दू- लनागाद्या: पुंसि श्रेष्ठार्थगोचराः'इत्यमरः। अत्र पद्यद्वयेऽपि देव- कुञ्जरं दैबतनाग इत्यत्र उपमितसमासाश्रयेण सामान्यधर्मप्रयोगो नोपमाबाधकः। 'बृन्दारककुञ्जरैः पूज्यमानम्' इति सामान्यधर्म-
Page 124
112 अलकारमणिहारे
प्रयोगेऽपि समासविधानात् व्याघ्रादेरकृतिगणत्वादेव सिद्धे सा- मान्यप्रयोगार्थत्वादस्य वचनस्य। तस्मादिह उपमारूपकयोस्संदेह एव युक्त: ॥ रूपकबाधकावुपमापरिग्रहो यथा- नमदमरमकुटपटलीघटितमणीकिरणपुञ्जपि- अ्जरितिम्। भव्यं तनोति जगतां दिव्यं फणिशेल- नाथपदपझ्मम् २१६८॥। अत्र नमदमरेत्यादि विशेषण पद्म कथचिदप्यसंभवीति पद- मेव पझममिति रूपकस्य बाधकं न तु तटस्थम॥ एवं- वृषभूभृति विबुधानामावासे पारिजात इव लसति। जगदामोदविधात्री जयति श्रीमख्जरी मुरं द्विषति ॥ २१६१ ॥ विबुधानां विदुषां देवानां वा आवासे निवासभूते वृष्भू- भृति शेषाद्रौ। पक्षे वृषा इन्द्रः भूभृत् राजा यस्य तस्मिस्तथोक्त। विबुधानामावासे त्रिदशालये पारिजात इव लसति प्रकाशमाने मुरं द्विषति श्रीनिवासे 'द्विषश्शतुर्वा' इति द्वितीया। जगतां आमो- दस्य आनन्दस्य परिमळस्य च विघात्री। शेषषष्ठचास्समासः । श्रीः लक्षीरेव मञ्जरी वलरी जयति। अत्र श्रीमञ्जगीत्यत्र रूपकमे- वाश्युपत्यं, जगदांमोदविधात्रीति सामान्यधर्मोंपादानाप्तस्य चोप- माबाधकत्वात्। न च पारिजात इवेत्युपमोपकमानानुरुप्यमिति वाच्यम, सत्यपि बाधके उपक्रम एवातुरोद्वव्य इतीदं न वेदानु- शासनम्, नापि धर्मानुशासनं न वा राजशासनम्। यत्र तुन
Page 125
संकरसरः (१२१) 113
बाधकं, यथा अत्रैव पद्ये तृतीवचरणे जगदामोदविधातरि' इति कृते प्रकामं भवतु तत्रोपक्रमानुरोधादुपमितसमास एव।। एवं- वृषभूभृति विबुधानामावासे श्रीनिवासकल्प- तरौ। जगदामोदविधातरि जयति श्रीमश्जरी म- होदारे ॥ २१७० ॥ इति पूर्वोदाहृतपद्यस्यैव प्रकारान्तरेण प्रणयने श्रीमञ्जरीत्यत्र सामान्यधर्माप्रयोगेऽपि नोपमासमासो युक्तः। किंतु श्रीनिवास- पारिजात इत्यत्र जगदामोदेत्यादिसामान्यधर्मप्रयोगबलाद्रपकस- मासे स्थिते तदनुरोधस्यैवाचितत्वात्। अन्यथा प्रथममभेदप्रत- नतया प्रकृष्टं रूपकमवलम्व्य पश्चाज्मेदाभेदप्रधानतया ततऽपक- ष्टाया उपमाया अवलमबने पतत्प्रकर्षदोषोऽपि स्यात्।। यथावा- मणिवरपरिरब्धाया वक्षस्स्थल्याः फणीन्द्र खरिमणेः । मौक्तिकमाला विलसति ललिता स्वेदोदबिन्दुमालेव ॥ २१७१॥। अत्र स्वेदोदबिन्दुमालेवेत्युत्प्रक्षा न तूपमा, तथा सति मणिवर परिर्धाया इति वक्षरस्थलीवि शेषणस्य नैरर्थिक्यापाताद्। मौक्तिकमालायास्स्वेदबिन्दुमालोपमाया उक्तविशेषणनैरपेक्ष्येणैव सिद्धेः। अतो मणिवरेत्यादि वक्षर्स्थलीवशेषणमुपमाबाधकम्। अभिन्नपदबोध्यास्स्युर्नानालंकतयो यदि। तदैकवाचकानुप्रवेशसंकर इष्यते।
Page 126
114 अलंकार मणिहारे
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥।
च अर्थालंकारयोश्शब्दालंकारयोर्वां एकस्मिन् वाचके अनुप्रवे- शेन त्रैविध्यम्। अर्थालंकारयोरेव एकवाचकानुप्रवेश इति दीक्षिताः। शब्दालंकारयोरापे स इति सर्वस्वकारः। शब्दार्था- लंकारयोरेवे काव्यप्रकाशकार:। तत्राद्ो यथा- त्वदितरदैवतभजनाद्यदि विन्देतामृतं जनो . जातु। उदमन्थादपि शौरे नूनं विन्देत स खलु नवनीतम् ॥ २१७२।। उदकस्य मन्थः 'मन्थौदन' इत्यादिना उदकशब्दस्य बैक- ल्पिक उदादेशः । अत्र प्रतिपाद्यमानोर्ऽर्थस्तुल्यवाक्यार्थैक्यारोप- लक्षणनिदर्शनारूपः। किंचित्तर्कणमन्यत्तर्कणसाधनमित्युक्तसंभा-
वेशसंकर:॥ यथावा- सुरपुङ्गवे समस्तस्तत्पुरुषे भजति गौरवं स्वा- न्ते। धत्ते सुझब्दतामथ योऽनेवंस्यात्कर्थ नु स सुशब्द: ॥ २१७३।। सुरपुङ्गवे देवसार्वभौमे। तत्पुरुषे इत्यत्र तदिति भिन्नं पदं गौरवविशेषणम्। पुरुषे श्रीमति नारायणे समस्त सर्वोऽपि लोक:
Page 127
संकरसरः (१२१) 115
स्वान्ते मनसि तत् अनिर्वचनीयं गौरवं भक्तिमिति याबत्। भजति अथ सुशब्दतां शोभनश्शब्दः कीर्तिर्यस्य सः तस्य भावं 'शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला ॥
दिवं स्पृशति भूर्मि च शब्द: पुण्यस्य कर्मणः । यावत्सुशब्दो भवति तावत्स्वर्गे महीयते॥
इति भारतप्रयोगश्च। भगवति गौरवभागुत्तमकीर्तिमान् भवतीत्यर्थः । यः पुमान् अनेवंस्यात् भगवति गौरवं न तनुयात् सः कथंतु सुशब्दः सुकीर्तिः भवेत्। भगवदभक्तस्य कथं सुकीर्तिलाभस्स्याित्यर्थः । अन्यत्र तत्पुरुषे तत्पुरुषसमासविव- क्षायामिति यावत्। सुरपुंगवे सुरयुंगवशब्दे गौः अवं इति छेदः। समस्तः समासं प्राप्तः गौः गोशब्दः स्वान्ते स्वस्य चरमावयवभूते ओकारे अवं अवादेशं भजति। 'गोरतद्वित- लुकि' इति गोऽन्ततत्पुरुषाट्टचि चरमावयवस्य ओकारस्य 'एचोऽयवायाव' इत्यवादेशो भवतीत्यर्थः। अथ एवमवादेशा- नन्तरमेव सुशब्दतां साघुशब्दत्वं धत्ते। तत्पुरुषे गोशब्दस्य कृतसमासान्तस्यैव साधुत्वात्। यः तत्पुरुषे समस्तः गोशब्दः उत्तरपद्भूतः अनेवंस्यात् समासान्तटजभावेन अवादेश न प्राम्त- यात् सः कथं सुशब्दः साधुशब्दस्स्यात्। उक्तसमासान्तप्रत्य- यस्य नित्यतया तदभावे तस्य साधुता कथं स्यादिति भावः। अत्र सौशब्द्यभाक्त्वस्य भगवन्भ्क्तिभाक्त्वरूपवाक्यार्थहेतुकत्वा- देकं काव्यलिङ्गम्। अप्रस्तुतभक्तजनसौशब्दभाकत्वरूपकार्यप्रशं- सया तत्कारणभूतभगवन्भक्तरूपकारणस्य शुभप्रदानोत्कर्षप्रती- तेरका कार्यनिबन्धनाSप्रस्तुतप्रशंसा। एवमप्रस्तुतानेवंविधासी- शब्दभाकत्वरूपकार्यप्रशंसया तत्कारणभूतभगवदगौरवरूपकारण-
Page 128
116 अलंकारमणिहारे
स्थानर्थदानोत्कर्षप्रतीतेरन्या चाप्रस्तुतप्रशंसा। प्रकृताप्रकृतश्लेष- श्ेत्येतेऽर्थालंकारा एकवाचकानुप्रविष्टतया संकीर्यन्ते॥ यथावा- हरिगुणमसृणा कृतिरियमनादृता चेत्खलैःकि- मेतस्थाः। लावण्यघना ललना जनुषान्धैर्न्निन्धते यदि किमस्या: ॥ २१७४॥ जनुषान्ध इत्यत्र तृतीयाया अलुक् 'पुंसाऽनुजो जनुषान्ध इति च' इति निपातनात्। अत्र सर्व पद्यं दष्टान्तालंकाररूपम्। पूर्वोस्तरार्धे प्रत्येकमन्यदोषेणान्यदोषानुदयलक्षणावज्ञालंकार रुपे। तेन एकावाचकानुप्रवेशसंकीर्णे। यथावा- भगवन् स दैवनिहतप्रकृतिर्द्वेष्टा तवेडितः क्वनु वा। नित्यमुदात्तप्रकृतिस्तवाश्चिता नेडितः क्व वा दृष्टः ॥ २१७५ ॥ सः दुष्कृतातिशयस्य दुर्ववत्वात्स इति निर्दे।:। तव द्वेष्टा जनः दैवेन निहृता नाशिता प्रकृति: स्वाभाविकभगवच्छेषता- द्याकारो यस्य तथोक्तस्सन् क्ववा ईडितः स्तुतः स्यात् सर्वत्र निन्दित एव स्यादिति भावः । नित्यं तय अञ्चिता पूजयिता उदा- त्तप्रकृतिः श्राध्यस्वभावः कवा नेडितः सर्वत्र सवैर्स्तुत एव स्यादिति भावः । पक्षे द्वेष्टा द्वेष्टेत्याकारकशशब्दः सदैव नित्यमंव निहृता अनुदात्ता प्रकृतिः तृच्प्रकृतिः द्विषधातुरूपा यस्य स तथो कः। द्विषधातोरतुदात्तेषु परिगणितत्वा्विति भावः। अतएव क्कवा इडित: इडागमेन संबद्ध: 'एकाच उपदेशेऽनुदात्तात्' इतीण्निषे-
Page 129
संकरसर: (१२१) 117
घादिि भावः। अश्चिता अश्वितेत्याकारशशव्दस्तु नित्यं उदात्त- प्रकृतिः उदात्तभूता अश्चधातुरूपा प्रकृतिर्यस्य स तथा अतपव क्कवा इडितो न इडागमविशिष्टो न स्यात् उदात्तत्वात् 'आर्धधातु- कस्येड्वलदेः' इतीडागमं प्राप्त एव भवेदिति भावः। अत्र विशिष्टो वाक्यार्थस्समासोक्तिरूप: काव्यलिङ्गरूपाभ्यां वाक्यार्था- भ्यामेकवाच का नुप्रवेशसंकोर्णः । यथावा- शोषगिरीश्वर भवतो वशगौ खगभुजगतल्लजौ यस्मात्। भजतो नित्यसमासं मन्ये तदविग्रहा- वेतौ॥ २१७६॥ हे शेषगिरीश्वः श्रीनिवास! पक्षे शेषगिरि व्याकरणे ईश्वर समर्थेति कस्यचिद्विदुषस्संबोधनम्। 'स्वामीश्वर' इत्यादिना सप्त. मी। प्रशस्तौ खगभुजगौ खगभुजगतल्लजी 'प्रशंसावचैनश्च' इति समासः। तार्क्ष्यशंषाधित्यर्थः। पक्षे खगतल्लजः भुजगतल्लज इत्येतौ शब्दावित्यर्थः । यस्माद्वेतोः नित्यसमासं 'आस उपवेशने' भावे घञ। समश्चासावासश्चति विग्रहः। तुल्यावस्थानं सहावस्थिति- मित्यर्थः । पक्षे नित्यं समस्ततां भजतः । कृष्णसर्पवाप्यश्वादिव- देते नित्यसमासाः' इति 'मतलििका मचर्चिका' इत्यत्र सुधाकारा- दयः। तत् तस्मात् एतो खगतल्लजमुजगतल्लजशब्दी अविग्रहौ वृत्त्यर्थावबोधकवाक्यविरहिती। यद्वा अस्वपद्विग्रहौ मन्ये। अन्यथा नित्यसमासं न प्राप्नुत इति भावः । 'अविग्रहो नित्य समास: अस्वपदविग्रहो वा। वृत्यर्थावबोधकवाक्यं विग्रहः' इते शाब्दिकाः। अत्र श्लेषानुमानयोरेकवाचकानुप्रवशः । यथावा- नक्षत्रपथोल्लङ्की नवघनराज्याभ्षिषेकमभ्षिगमि -
Page 130
118 अलका रमणिहारे
तः । उन्नुङ्गशृङ्गसंगत उचितं भूभुद्वरोऽयमहि- शैलः ॥ २१७७॥ नक्षत्रपर्थं अन्तरिक्षं उल्लङ्गत इति तथोक्त: । अन्यत्र क्षत्रध- र्मानतिवर्तीत्यर्थः। नवया घनराज्या जलदश्रेण्या अभिषेकं अभि- गमितः । अन्यत्र नवं प्रय्यत्रं घने सान्द्र यत् राज्यं तस्मिन् आभे- षेकं अभिगमितः । उततद्वैः शङ्गैः शिखरैः सानुभिर्वा उत्तुङ्रेन शृङ्गेण प्राधान्येन प्रभुत्वेन वा संगतः संबन्द्ः। 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्वुयन्त्रके। विषाणोत्कर्षयोः' इति मेदिनी। 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरश्च। भूमृद्वरः राजवरेण्य: गिरि-
कानुप्रवेशः॥ यथावा- स्वनयनजयिभिर्हरिधृतवैदूयैर्निर्जितोऽय मा- र्जारः। मारो यदि जातु स्यात्तदाऽपि हरिनील- विग्रहजितस्स्यात् ॥ २१७८॥ मार्जार: बिडालः मार्जारशब्दश्च स्वनयनजयिभिः निजलो- चनरुचिविजित्वरैरिति यावत् हारेधृतैः भगवता भूषणतया वि धृतैः वैदूयेः वालवायजमणिभिः।विदूरात्प्रभवन्ति वैदूर्याणीति विग्रहः। 'प्रभवति' इत्यधिकारे 'विदूराञ्जयः' इति ज्यः। 'वैदूर्य वालवायजम' इति विश्वः। अत्र विदूरशब्दो वालवा- यस्यादेशः पर्यायो या तत्रोपचरितो वा। तेन वालवायाद्गिरे- रसौ प्रभवति न विदूरान्नगरात् तत्र तु संस्त्रियत इत्याक्षेप: प्रत्युक्त:। यदुक्तं-
Page 131
सँकरसर: (१२१) 119
वालवायो विदूरं च प्रकृत्यन्तरमेव वा। न वै तत्रोति चेहूयाज्जित्वरीवदुपाचरेत्॥ इति। वक्तव्यान्तरं तु लक्ष्मीसहस्रसौन्दर्यस्तबकव्याख्यायां 'वैदूर्यवीक्षाभयोद्गच्छत्' इत्यत्र प्रपश्चितमस्माभिः । निर्जितः पराकृतः स्वनयनरुचिपराभूत्या स्वयमपि पराभूत इति भावः। शब्दपक्षे निर्जितः अत्र नि इत्युपसर्ग इदन्तः न तु रेफान्तः। निगतः र्जा इत्याकारको वर्णो यस्य सः निर्जाः। निर्जाशब्दा- त्तत्करोतीति िजन्तात्कर्मणि क्ः। शब्दार्थयोस्तादात्म्यसाम्रा- ज्यान्म/जारशब्दस्य वैर्दूयनिर्जितत्वमिति ध्येयम्। अथ यादि जातु मारस्स्यात् विद्वेषिमारकोऽपि स्यात् विक्रान्तशरोमणिवैरनि- र्यातनपटुरवि स्याददिति भावः। कामोऽि यदि स्यादित्यप्यर्थः। मार्जारशब्दे र्जीवर्णोत्सारणे मार इति स निष्पद्येतेति शब्दपक्षेऽ- र्थः। 'जातुयदोर्लिंङ्, यदायद्योरुपसंख्यानम्' इति जातु यदि- शब्दयोगे अनवक्लत्तौ द्योत्यायां लिङ्। अनवक्लप्तिरसंभावना। असंभावनीयमेवैतदिति भावः। तदाऽपि हरिनीलैः भगवद्धते- नदरनीलैः विग्रहे युद्धे जितस्स्यात्। पूर्व वैदू त्यैविजितस्य रूपा- न्तरपरिग्रहेऽपीन्द्रनीलैर्जितत्वं स्यादित्युभयधाऽपि हरिधृतरत्नपरा- भूततैव संभवेद्विति भावः। मारस्य श्यामलत्वेन हरिनीलविग्रह- जितत्वमिति बोध्यम्। भगवद्दिव्यमूर्तिजित इत तदर्थः। अत्र संभा- वनविषमयोरेकवाचकानुप्रवेशः। श्रेषोत्तम्भितत्वं च पूर्ववदेव॥। यथावा- चिदचिद्वरावुभावपि भवतो जगतीश्वरौ न संदेहः। स्त्रीपुंसरूपमात्रे भिन्नौ ननु दिव्यदंपती किंतु ॥ २ १७१॥
Page 132
120 अलंकारमणिहारे
दिव्यदंपती लक्ष्मीनारायणौ उभौ. द्वावपि युवामिति भावः। चिदचिद्वरौ स्वभावान्यधाभावस्वरूपान्यधाभावलक्ष- णविकारविरहेण चेतनाचेतनापेक्षया श्रेष्ठौ तद्विलक्षणाविति यावत्। अन एव जगत्या: जगतः ईश्वरौ। न संदेह उभया- शिष्ठानत्वादैश्वर्यस्य नात्र संदेग्धव्यमिति भावः । एवमुमयो- स्तौल्यमुक्तम। वैलक्षण्यमाह-किंतु स्त्रीपुंसरूपमात्रे स्त्रीपुरुष- रूपमात्रे भिन्नौ ननु तावन्मात्र एव भिदुरी न तु जगदाश्वरत्वे इति भावः। अत्र- त्वं याहशोऽसि कमलामपि ताद्दर्शी ते दारान्वदन्ति युवयोर्न तु भेदगन्धः । मायाविभक्तयुवतीतनुमेकमेव त्वां मातरं च पितरं च युवानमाहुः॥ इति श्रीविष्णुवैमवाधिकारैरुक्तमनुसंघेयम्।
अन्यत्र ननु दिव्यदंपती हे लक्ष्मीनारायणाविति संबोधनम्। जगति लोके ईश्वरौ ईश्वरशब्दौ चिदचिद्वरौ चित् चकारेत्कः अचित् चकारेत्कमिन्न: टकारेत्क इति यावत्। चिदितौ वरौ वरप्रत्ययौ ययोस्तौ 'ईश ऐश्वर्ये' इत्यस्माद्धातोः 'स्थेशभासे' इत्यादिना वरच्प्रत्ययेन 'अशू व्याप्तौ' इति धातोः 'अश्षोतेराशु- कर्मणि वरट् च इन वरट्प्रत्ययेन त निष्पन्नाविति भावः। किंतु स्त्रीपुंसरूपमात्रे स्त्रीलिङ्गपुल्लिङ्गरूपमात्रे मिन्नौ। स्त्रीलि्द्गित्वे वरचा निष्पन्रस्य ईश्वरशव्दस्य टापि ईश्वरेति वरटा निष्प- न्रस्य तु 'दिद्ठ' इति डीपि ईश्वरीति रूपम्। पुल्लिङ्ृत्वे तु उभयथाSपीश्वर इत्येत रूपमिति तये ्भेद इति भावः। अन्र प्रकृताप्रकृतश्लेष यतिरेकयोरेकवाचकानुप्रवेशसंकरः ॥
Page 133
संकरसरः (१२१) 121
यथावा- राजीव ननु रमाक्ष्णा निराकृतो जीवमात्रशि- प्टोडसि। ज्याश्लिष्टोऽवाग्रस्त्वं स्वल्पप्राणात्मन- सि्स्थितिस्त्वियती ॥ २१८०॥ ननु राजीव हे मत्स्य हे हरिणेति वा। पक्षे हे राजीवेति शब्दस्यैव संबोधनम्। 'राजीवं नलिने ना तु भेदे हरिणमीनयोः' इति मेदिनी। त्वं रमाया: अक्ष्णा निराकृतः तिरस्कृतः मत्स्यहरि- णयोलेलनानयनोपमानतायाः कविसमयसम्मतत्वेन निराकृतत्वो- क्तिः। यथोक्तमलंकारशेखरे त्रयोदशमरीच्यां- मृगतन्नेत्रपाथोजतत्पत्रझषखञ्जनैः। नेत्रं चकोरतन्नेत्रकेतकाळिस्मराशुगैः।। इति सदृशत्वेन कविभिर्वर्णनीयमित्यर्थः । प्रयोगश्च-'सदशे वनवृद्धानां कमलानां त्वदीक्षणे, इति। तत्रव पञ्चदशमरीच्यां- भृतकादैश्च मृत्याधैन्यक्कारार्थक्रियापदैः। संदेहतत्तद्वाक्पाघैस्सादश्यं प्रतिपाद्यते।। इति च संदेहतः 'किमिन्दुः किं पझमं' इत्यादैः तत्तद्वाक्यादैः 'तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति' इत्यादैः सादृश्यं प्रतिपाद्यत इति तदर्थः । शब्दपक्षे निराकृत: नीत्येब इदन्त उपसर्गः निवर्तितः रा इत्याकारको वर्णो यस्य स तथोक्त: कृतः। रा इत्यस्य स्त्रीप्रत्यया- न्तत्वाभावान्नोपसर्जनहस्व्रः। जीवमात्रं प्राणधारणमात्रं शिष्ट यस्य स तथोक्तः। 'जीवोऽसुधारणम्' इत्यमरः। अप्राप्ते विधिनियमिते समये दुर्मोचत्वात्प्राणानां तद्धारणमात्रं कुर्वन्निति भावः । पक्षे. रावर्णोद्वासने राजीवशब्दो जीवेति परिशिष्ट इत्यर्थः। अतएव ALANKARA IV. 11
Page 134
122 अलंकारमणिहारे
अवाग्र: अवनतः 'अवाग्रेऽवनतानतम्' इत्यमरः। अवाङमुख इति यावत्। ज्या भूमि: श्लष्टा आलिङ्गिता येन स तथोक्तः असि। भूमाववाङमुखतया निपतितस्तत उत्थातुमक्षम इति भावः। पक्षे जी इत्याकारकवर्णेन आश्लिष्टः युक्त इत्यर्थः वाग्र इति छेद:। वेत्याकारकं वर्णे अग्रे यस्य स तथोक्तः । जीवेति वर्णदयमात्र- परिशिष्टस्य ताद्विध्यादिति भावः। निराकृतोऽयं राजीवः कुतस्त- तप्रतीकारक्षमो नाभूदित्यत्राह-स्वल्पेतति स्वल्पप्राणः अल्पशक्ति: आत्मा देहो यस्य स तथोक्तः तस्य। पक्षे राजावेति शब्दोऽ- ल्पप्राणवर्णात्मक इत्यर्थः । तस्य 'वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः' इत्युक्तेः। स्थितिस्तु इयती पतावती अल्पप्राणस्य वैरिभर्निराकृतत्वेऽपि प्रतीकाराक्षमतया तूष्णी भूमाववाङमुखतथा शयनमित्येतावत्येवावस्थितिरिति भावः। अन्यत्र राजीवेत्यस्याल्पप्राणात्मकस्य शब्दस्य स्थितिरेतावती- त्यर्थः । अत्राप्रस्तुतस्य राजीवस्य निराकरणादिककार्यवर्णनेन तत्कारणस्य प्रस्तुतस्य रमानयनस्य लोकोत्तरथाळथळ्यचाञ्च- ल्यादिप्रतीते: कार्यनिबन्धनाप्रस्तुतप्रशंसा। मीनहरिणयोः राजीव- शब्दस्य चाप्रकृतानां क्षेषः। निराकृतत्वस्य जीवमात्रपरिशिष्टतां प्रति तस्याश्च ज्याश्िष्टतादि प्रति हेतुत्वात्कव्यलिङ्गं सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासश्चेत्येतानि एकवाचकानुप्रविष्टानि। यथावा- जेतुं त्वद्वक्षोजावरिभावात्के विभिन्नमपि नाल- म्। आस्ताम्ब नारिकेलं क्वीवाल्पप्राणमयगति- स्ति्वियती ॥ २१८१॥ हे अम्ब! नारिकेलं नारिकेलफलम्। क्कीबनिर्देशो निष्पौरुष-
Page 135
संकरसर: (१२१) 123
त्वद्योतनाय।'द्विहीनं प्रसवे सर्वम्' इति कीबता। अरिभावात् शत्रभावात् के शिरसि विभिन्नमपि विदीर्णशीर्षमपीति लोकोक्तिः। त्वद्वक्षोजौ जेतुं नालं असमर्थ आस्त। वक्षोजाविति पुछिङ्गद्विव- चननिर्देशेन तयोवीरपुरुषद्वयत्वं प्रतीयते। एकेन क्कीवेन द्वौ वीरपुरुषौ जेतुमशक्याविति भावः। पक्षे नारिकेलमिति पदं अरिभावात् अविद्यमानरिवर्णत्वात् के विभिन्नमपि के इत्याकार- कबर्णों विभिन्नो यस्मिस्तत्। के इत्याकारकवर्णभ्रंशं प्रापितमिति यावत्। अपिशब्दस्समुच्चये। नालं नालमित्यवशिष्टवर्णद्यं आस्ते- त्यर्थः । क्ीवस्य षण्डस्य अल्पप्राणमयस्य अल्पशक्तिमतः गतिः स्थिति: इयती परपराभवानर्हतैवेति भावः। इतरत्र क्ीबस्य नपुंसकलिङ्गस्य अल्पप्राणवर्णात्मकस्य स्थितिरित्यर्थः । अत्र विष- मार्थान्तरन्यासयोरेकवाचकानुप्रवेशः॥ यथावा- नाके स्थितिमत्क्वचन व्यञ्जनपरिवृत्तितोऽप्य- मुक्तार्थम्। श्रीकुचलक्ष्मीस्तेनं परिपाके पतति नारिकेळ मधः ॥ २१८२ ॥ श्रीकुचलक्ष्मीस्तेनं नारिकेळं नाके स्वर्गे कचन कर्मिश्चि- ज्ञातप्रदेशे व्यञ्ञनपरिवृत्तिः स्वचिह्वविनिमयेन वेषान्तरेणेति यावत्। स्थितिमदपि 'व्यञ्ञनं तेमने चिह्न इमश्रुण्यवयवेऽक्षरे' इति रत्नमाला। अमुक्तार्थ अपारत्यक्तस्वमुषितार्थकम्। अनेन पतनहेतुदोषातिशय उक्तः । गर्हितार्जितार्थपरित्यागे तु "शासनाद्वा विमोक्षाद्वा स्तेन- स्स्तेयाद्विमुच्यते। यद्गर्हितेनार्जयन्ति जप्येन तपसैव च। तस्यो- रसर्गेण शुद्धचन्ति" इत्युक्तरीत्या दोषातिशयो न स्यादिति भावः। अतएव परिपाके स्वकृतदुष्कर्मपरिणामसमये अबः पतति अधो- ALANKARA IV. 11*
Page 136
124 अलंकारमणिहार
गर्ति विन्दतीत्यर्थः। पक्षे नारिकलं नारिकेलमिति पदं नाकेस्थि मत् ना के इति वर्णद्वयाविकृतिस्थितिशालि। क्वचन अवशिष्टाक्ष- रयोरित्यर्थः । व्यज्तनयो: हलोः परिवृत्तितः रिल इत्यक्षरस्थरेफ- लकारयोर्व्यत्ययादपीति यावत्। न तु तन्निष्ठयोरिकाराकाररूप- स्वरयोरपीत्यर्थः। तयोर्यथास्थानमेव स्थितत्वादिति भावः। अ- मुकतार्थ अपरित्यक्तस्वाभिधेयमित्यर्थः। उक्तरीत्या नारिकेळशब्द- स्य नाळिकेरमिति रूपान्तराबासावपि तुल्यार्थकताया एव दर्शना- दिति भावः। अत्र नारिकेळाधःपतनस्य श्रीकुचलक्ष्मीस्तनमित्या- दिपदार्थस्समर्थनात्काव्यलिङ्गं अप्रस्तुतनारिकेळाधःपतनकार्यप्र- शंसाया तत्कारणीभूतश्रीकुचसौन्दर्यभूमावगते कार्यनिबन्धनाप्र- स्तुतप्रशंसा चैकवाचकानुप्रवेशेन संकीर्यते॥ यथावा- अहिगिरिविभुना विहितं प्रत्ययमिह कश्विदा- तिशायनिकम्। प्राप्तोऽजादिश्लाध्यं ज्यादेशे ज्ये- ष्ठतां प्रशस्य इयात् ॥२१८३ ॥ कश्चित् प्रशस्यः प्रशंसारहः पुमान् भाग्यवानिति यावत्। पक्षे प्रशस्यश्द: आतिशायनिकं अतिशायनप्रयोजकं प्रकर्षप्रयो- जकमित्यर्थः । "प्रयोजनम्" इत्यनेन ठक। इह प्रयोजनशब्देन हेतुर्विवक्षितः। प्रयोजन फलं कारणं च" इति व्याख्यानात्। पक्षे अतिशायनार्थकं 'अतिशायने तमबिष्ठनौ' इति सूत्रेणातिशयविशि- षार्थवृत्तेर्विहितमित्यर्थः । अतिपूर्वकाच्छेतेर्ल्युद्। अतिशयनमेवाति- शायनं अस्मादेव निपातनाहीर्घः न तुसौत्रः। तेन लोकेऽपि दीर्ध स्साधुः 'अबाधकान्यपि निपातनानि भवन्ति। तेन हस्वोषपि सा- ध्रुः' इति व्याख्यातारः। अतएव अजादिभिः ब्रह्मरुद्रादिभिरप
Page 137
संकरसर: (१२१) 125
श्ाध्यं पक्षे अच् अज्रपो य आदि: प्रथमवर्णः तेन श्ाध्यं इष्ठनमिति यावत्। अतिशायने तमबिष्ठनोरुभयोरविधानात्कः प्रत्ययोऽत्र ग्राह्य- इति संदेहो मा भूदितीदं विशेषणमिति ध्येयम्। अहिगिरिचि- भुना श्रीनवासेन। अन्यत्र अहिगिरि पातञ्जलभाष्ये विसुना तत्त्वा- वधारणपटुना विहितं प्रत्ययं स्मृतिसंतानरूपं ज्ञानं 'सनो देवश्शु- भया स्मृत्या संयुनकुं' इति श्रुतेः। 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते, इति स्मृतेश्चेति भावः। शब्दपक्षे प्रत्ययं शाब्दिक- संकेतितं प्रत्ययं प्राप्तस्सन्। ज्यादेशे भूप्रदेशे 'क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः। ज्येष्ठतां अतिशयितप्रशस्यतां इयात् प्रामु- यात्। प्रथममेवानमिसंहितफल कर्मानुष्ठा नादि प्राप्तनर्मल्यतया प्रश- स्य: पुमान् भगवद्नुग्रहलब्धस्वच्छतमप्रत्ययत्वे अतिमात्रं प्रश- स्यो भवेदिति भावः। शब्दपक्षे प्रशस्यशब्द: अतिशायनिकमिष्ठ- न्प्रत्ययं लब्ध्वा ज्यादेशे 'प्रशस्यस्य श्रः। ज्य च' इत्यनेन ज्येत्यादे- शे ज्येष्ठतां ज्येष्ठ इत्याकारकं रूपं इयात् प्राप्नयात् इत्यर्थः। अत्र प्रशंसनीयपुरुषस्य प्रकृतस्य प्रशस्यशब्दस्याप्रकृतस्य च श्ेषः । ज्येष्ठतावासे: पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गं चेत्येतदुभयमेकवा- चकानुप्रविष्टम्। यथावा- विधिमन्तरङ्गमपि ते विलोडयत्येव नित्यमप- वादः। किमुत परमच्युताखिलगीर्वाणपदानुशा- सनविधातु: ॥ २१८४ ॥ हे अच्युत! अखिलगीर्वाणपदानां चतुर्मुखाद्यखिलत्रिदश स्थानानां अनुशासनविधातु: प्रशासनविधायिनः 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्टतः' इति श्रुतेः
Page 138
126 अलंकार मणिहारे
'शास्ता विष्णुरशेषस्य' इत्युक्तेश्रच। ते तव अपवाद: आज्ञा त्वत्क- तृकं शासनं अपवाद: निन्देति वा। त्वत्कर्मकं निन्दनमित्यर्थः । अपवादौ तु निन्दाजे" इत्यमरः। अन्तरङ्गं आत्मजतया अतिमात्र- प्रत्यासन्नं 'पुत्रो वै हृदयम्। आत्मा वै पुत्रनामासि' इत्यादिध्रुत- योऽत्रातुसंधेयाः। विधिं चतुर्मुखमपि नित्यं विलोडयति कम्प- यति। पतच्छनानातिवृत्ती किं भविष्यतीति महतो भयाद्रह्वाद- योऽपि कम्पन्त इति भाव:। 'यदिदं किंच जगत्सर्वे प्राण एजति निस्सृतम् । महन्भयं वज्रमुद्यतम्' इत्यादिश्रुतिभ्यः। परं अन्यं मरुत्तरणिपावकत्रिदशनाथकालादिकं किमुत विलोडयतीति किमु घक्तव्यमित्यर्थः। आत्मजस्यैव शासनान्निन्दनाद्वा कम्पने अन्येषां का कथेति भावः। अन्यत्र आखिलानां गीर्वाणपदानां संस्कृतश- व्दानामनुशासनं शिक्षण तद्विधातुः 'अथ शब्दानुशासनम्' इति प्रतिज्ञाय महाभाप्यं विधातुरित्यर्थः। ते स्वत्संबन्धी त्वन्निर्णीत इति यांवत्। अपवाद: अपवादशास्त्रं नित्यं अन्तरङ्गमपि अन्त- रङ्गं च विधिं शास्त्रं विलोडयति बाधते। परं परशास्त्रं किमुत बाधत इति किमु वक्तव्यमित्यर्थः। अन्तरङ्बाधकस्यापवादस्य स्ववाध्यबाध्यबाधकत्वं किमाश्चर्यमिति भाव:। यत्परिभाष्यते- 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इति। अत्र वेदान्त- शास्त्रीयेपर्थे शब्दशास्त्रीयव्यवहारारोपात्समासोक्ति: कैमुतयेनार्थसं सिद्धि रूपकाव्यार्थापत्तिश्चेत्युभयमेकवाच कातुप्रविष्टम्।। यथावा- त्वय विन्यस्तात्मभरो नीलमणीमौळिरवरव- र्णोपपि। त्वत्तो विन्दत्युच्चैश्श्रियं श्रियःकान्त दुर्ल- भामितरैः ॥ २१८५॥
Page 139
संकरसर: (१२१) 127
• हे श्रिय:कान्त! नीलमणीमौळिः इन्द्रनीलकिरीट: अवरव- रणोऽपि त्वत्तो न्यूनश्यामलिमाऽपि। पक्षे शूद्रोऽपि 'शूद्राश्चाव- रवर्णाश्च' इत्यमरः। त्वय विन्यस्तः आत्मनः स्वस्य भर: भारो येन स तथोक्त: त्वया मूर्धा धृतत्वादिति भावः। पक्षे त्वय्यर्पितात्मरक्षाभर इत्यर्थः॥ अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता। प्रपत्ती सर्ववर्णस्य सात्विकन्वादियोगिनः । सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ इत्यादिभि: प्रपन्तेस्सर्वाधिकारिकत्वोक्तेः। त्वत्तः उच्चैः पूर्वा- पेक्षयाऽभ्यर्हितां। पक्षे ब्रह्मादिलोकापेक्षयाऽप्युत्कर्षशालिनीं इतरैः त्वद्विधृताभरणान्तरैः दुर्लभां भगवद्दिव्यविग्रहसुषमानवलाम्बि- तया लब्धुमशक्यां, अन्यत्र प्रपन्नेतरैर्दुरापां 'प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम्' इत्यायुक्ेरिति भावः। श्रियं इया- मलिमरूपां अन्यत्र निश्श्रेयससंपदं विन्दति। अत्र प्रस्तुते भगवद्धतेन्द्रनीलमकुटे वर्णनीये विशेषणसा- म्यबलादप्रसुतावरवर्णप्रपन्नवृत्तान्तः प्रतीयत इति समासोक्तिः। अवरवर्णस्याप्युच्चैश्रियः प्राप्तेः त्वाय विन्यस्तात्मभर इति पदा- थहेतुकत्वात्काव्यलिङ्गम्। प्राक्सिद्धस्य स्वनीलिम्नो भगवद्दिव्य-
नुप्रवेशेन संकीर्यन्ते॥ यथावा- न त्यक्ष्याम्यच्युतमिति शपथस्सततं विशस्सु- घटितश्चेत्। अयमेव भवति सुपथो विपथोऽन्यो योहि विघटिता भविता ॥ २१८६॥
Page 140
128 अलंकारमणिहारे
अच्युतः आश्रितरक्षणव्रतच्युतिविरिही भगवान्। तं श्रानि- वासं न त्यक्ष्याम्येवरेति सर्वे वाक्यं सावधारणमिति न्यायात्। विशः मनुजस्य 'द्वौ विशी वैश्यमनुजौ' इत्यमरः । शपथः प्रतिज्ञा सुघटितश्चत् सुद्ृढो यदि- स त्वं प्रहर वा मा वा मयि वजं पुरंदर। नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः॥ इति विष्णुधर्मे अम्बरीषोक्तरात्या भगवदैकान्त्यद्रढीयान् यदीति भावः। अयमेव सुपथः शोभनमार्गः भवति। अन्यः अस्मादितर: विपथः विमार्ग एव। यश्शपथः विघटितः शिथिलो भविता ऐकान्त्यात्प्रच्युतो भवितेति भावः॥ एष निष्कण्टकः पन्था यत्र संपूज्यते हरि:। कुपथं तं विजनीयाद्रोविन्दरहितागमम्॥ इत्यादिकमिह प्रत्यभिज्ञाप्यते। सुपथः विपथः इत्युभयत्राषिन पथिशब्दन समासः 'न पूजनात्' इति समासान्तनिषेधात्। 'पथस्संख्याव्ययादेः' इति क्कीबताप्रसंगाश्च। किंतु 'पथे गतौ' इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादित: पथशब्दोऽस्ति। तेन सह सु वि इत्यनयोस्समासः । तथाच त्रिकाण्डशेषः 'वाटः पथश्च मार्गस्स्यात्' इति। तेन प्रकृते न काऽप्यनुपपत्तिः 'व्यध्वो विपथकापथी' इति रभसश्चाह। अन्यत्र शपथः शपथशब्द: विशः विगतशकारस्सन् सुघटितः सु इत्याकारकवर्णेन घटितश्चेत् अयमेव शपथशब्द एव सुपथशब्दो भवति। अन्यः विपथः यः विशकारस्सन् विघटितः वि इत्याकारकवर्णेन युक्तस्स्यात्। अत्र प्रकृताप्रकृतश्लेषः सुपथत्वविपथत्वयोः पूर्वोत्तरवाक्यार्थाभ्यां स- मर्थनात्काव्यलिङ्गदवयं परिसंख्या चैकवाचकातुप्रवेशेन संकीर्यन्ते॥
Page 141
संकरसरः (१२१) 129
यथावा- अरिरीरितोऽत्रभवताSSकारमथ प्रक्रियादशा- विधुरः । संवृतमेत्यान्तस्थास्वरवान् भूत्वाऽन्ततो विसृष्टोऽभूत ॥ २१८७॥ हे भगवन् अत्र अिः वैरी भवता ईरितः क्षिप्तः निरस्त- स्सन्नित्यर्थः । 'विद्धक्षिप्ेरितास्समाः' इत्यमरः। अतपव अथ अनन्तर प्रक्रियादशया राज्याधिकारावस्थया विधुरः विश्िष्टः 'प्रक्रिया त्वधिकारस्स्यात् । दशाऽवस्था' इति चामरः। भवन्निरस्तस्य कथमितर राज्याधिकारभ्रंशो न स्यादिति भावः। संवृतं गुप्तं आकारं आकृतति एत्य प्राप्य राज्याधिकारभ्रंशप्रयुक्त- त्रपाभूम्ना गूढं क्वापि निलीन इति भवः । अन्तः तिष्ठतीत्य- न्तस्थाः। स्थाधातोः क्किप। 'शंस्था' इति महाभाष्यप्रयोगात्। यद्वा विच्। अत्र वक्तव्यं सर्वे लक्ष्मीसहसत्ररतप्रकाशिकायां 'अन्तस्थोष्मोद्धारात्' इति पद्यविवरणावसरे प्रपश्चितमस्माभिः। ईदृशो यस्स्वरो ध्वनिः सोऽस्यास्तीत्यन्तस्थास्वरवान् भूत्वा लज्जा- भयाभ्यां निमअ्रध्वनिर्भूत्वेत्यर्थः। 'स्वरो नासासमीरणे उदा- त्तादावकारादौ षड्जादौ च ध्वनी पुमान' इति मेदिनी। अन्ततः विसृष्टः परित्यक्त: अभूत्। निष्पारुपतया विक्रान्तगोष्ठीतो बहि- ष्कृतोऽभूदिति भाव:॥ अन्यत्र-अत्रभवतेति समस्तं पदम्। अत्रभवता पूज्येन विदुषेति यावत्। ईरितः उक्तः प्र्रियादशया संधिरूपप्रक्रिया- वस्थया विधुरः हीनः अरि: अरिशब्दः अरिरिति केवलारि- शब्दप्रयोगावसरे अकारस्य अकारान्तरसंघेरदर्शनादिति भावः। अस्मिन् पक्षे भवताकारमित्यत्र भवता अकारमिति छेदः ।
Page 142
130 अलंकारमणिहारे
संवृत संवृतप्रयल्नवन्त अकारं हस्वाकारं 'हस्वस्यावर्णस्य प्रयोगे संवृतम्' इत्युक्ते: प्राप्य प्रक्रियादशायां हस्वस्याकारस्य वित्ृत- प्रयत्नकत्वेन केवलारिशब्दप्रयोगे प्रक्रियादशाभावादकारस्य संतृ- तप्रयत्नकत्वमवत भावः। "एतच्च सूत्रकारेण ज्ञापितम। तथाहि 'अ अ' इति। विदतमनूद् संवृतोऽनेन विधीयते। अस्य चाष्टा- ध्यायीं संपूर्णा प्रत्यसिद्धत्वाच्छास्त्रदष्टया वितृतत्वमस्त्येव। तथाच सूत्रं 'पूर्वतरासिद्धम्' अधिकारोऽयं, तेन सपादसत्ाध्यायीं प्रति त्रिपाद्यसिद्धा। त्रिपाद्यामप पूर्व प्रति परं शास्त्रमसिद्धम्" इति। स्वमिदं कौमुदाग्रन्थे व्यक्तम्। अस्मिन् पक्षे अथेत्येतदत्रान्वति। अथ अकारोच्चारणानन्तरं अन्तस्थास्वरवान् अन्तस्था: आदन्तोडयं अन्तस्थाभिश्च संयुतम्' इति पाणिनीथशिक्षादिप्रयोगात् अरि- शब्दे अन्तस्थासंज्षितो वाणो रेफा। अथ स्वरः रेफोत्तरवर्ती इकार:। 'यरलवा अन्तस्था: । अचस्स्वराः' इत्यनुशासनात्। तद्वान् भूत्वा अन्ततः अवसाने विसृष्टः विसर्गवानभूत् अरिश- व्दस्य हस्वाकाररेफेकारविसर्गघटितत्वात्तथोकिरिति व्येयम्। अत्राप्रकृतस्यारिशब्दार्थस्य अप्रकृतस्यारिशब्दस्य च श्ेषः। आद्यकक्ष्यायां अप्रस्तुतपराभूतवैरिव्त्तान्तेन प्रस्तुतभगवत्पराक्र- मोत्कर्षः प्रतीत इति कार्यनिबन्धनाप्रस्तुतप्रशंसा। भगवान्नरस्त- तया प्रत्रियादशावैघुर्यस्य तस्य च संतताकारत्वादेश्च समर्थना- त्काव्यलिङ्गमाला चैकवाचकानुप्रवेशेन सकीर्यन्ते। यथावा- एकोऽयमनुपसर्जनभावाद्गगवानमध्यमोऽदोऽ- न्यः। अपि कः परस्तदेष हि सर्वादौ गण्यते बुध- वरेण्यैः ॥ २१८८॥
Page 143
संकरसर: (१२१) 131
अय भगवान् श्रीनिवासः एक एव अनुपसर्जनभावात् उपसर्जनमप्रधानं 'अप्रधानोपसर्जजने' इत्यमरः। तदन्यदनुपसर्जन तस्य भावात् प्राधान्यादित्यर्थः । अमध्यमः 'तस्य लोकप्रधा- नस्य जगन्नाथस्य भूपते' इत्युक्तरात्या सकललोकप्रधानतया सर्वोत्तम इत्यभिप्रायः। अदोऽन्यः अमुष्माङ्भगवत इतरः। प- रोऽपि उत्कृष्टोपि कः? नैवेत्यर्थः । अमुष्मादन्यस्य उत्कर्षसं भावनाऽपि का नामति भावः। अपिरत्र संभावनायाम्। बुध- वरेण्यैः ब्रह्मविदुत्तमैः स एष हि अयं भगवानेव 'हि हेता- ववधारणे' इत्यमरः। सर्वादौ सर्वेषां ब्रह्मादीनामपि आदौ अग्रे गण्यते। जगजन्मस्थेमप्रळयकारणत्वेन कीर्त्यते। अन्यत्र एका- दिशब्दाइ्शब्दपरा: एक: अय अमध्यमः मध्यमवर्णविधुर भग- वान् भवानित्यर्थः। अद: अन्यः अपिशब्दो भिन्नक्रमः। कः एक: तत् एषोऽपि शब्द: अनुपसर्जनभावात् अन्योपसर्जनत्वा- भावाद्धेतो: बुधवरेण्यैः वैयाकरणैः सर्वादौ सर्वादिगणे गण्यते। एक इत्यादीनां प्रत्येक गण्यत इत्यनेनान्वयः । 'संज्ञोपसर्जनी- भूतास्तु न सर्वाद्यः महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात्' इत्युक्तेरनुपसर्जनीभूतानामेव सर्वादीनां तद्रणे पाठा- दिति तथोक्तिः। पकेदंभवद्दोऽन्यकिंपरतदेतच्छव्दाः क्रमेणात्र- पद्ये सर्वादिगणपठिता एवोपनिबद्धा इति ध्येयम्। अत्र प्रकृता- प्रकृतगोचरश्क्षेषः । प्रकृतार्थकक्ष्यायां भगवतस्सर्वादिगण्यतायाः पूर्ववाक्या्थेन समर्थनात्काव्यलिङ्गं सर्वोदिगणप्रसिद्धसहंपाठाना- मेकादिशब्दानां न्यसनाद्रलावळो चैकवाचकानुप्रवेशेन संकीर्यन्ते। प्रसिद्धक्रमविपयासेऽपि रतनावळी भवत्यवेति निरूपितमघस्ता- तदलंकारनिरूपणावसरे॥ सर्वादौ नाथ भवानस्मादस्मिंत्समुल्लसति ज-
Page 144
132 अलंकारमणिहारे
गति। परिदृश्यतामनीटक्पर इतरस्सम इतोडस्ति को नाम ॥ २१८९॥ हे नाथ! भवान् सर्वादौ सर्वस्य जगतः आदौ समुल्लसति प्रकाशते। सर्वजगत्कारणभूत इत्यर्थः। अस्मात् एतस्मात् त्वत्तः समुल्लसतीत्यावृत्त्या योजनीयम्। समुल्लसति प्रादुर्भावं प्राप्ते इत्यर्थः । अस्मिन् जगति भुवने अनीदक् अनेवंविधः त्वमिव न जगत्कारणमित्यर्थः। इतः अस्मात्वत्तः पर: उत्कृष्टः सम- स्तुल्यो वा इतर: कोनाम अस्ति? परिदृश्यतां पर्यालोच्यता- मित्यर्थः। सर्वजगकारणभूतस्य तव कार्यभूते अस्मिन् ब्रह्मादिस्त- म्वपर्यन्ते भुवने ईदशजगत्कारणताविधुरः त्वत्कार्यभूतः कोऽन्य- स्त्वत्तोऽप्युत्कृष्टस्समो वा स्यादिति भावः। 'न तत्समश्चाञ्ञ्य- धिकश्च दृश्यते' इति श्रुतेः॥ अन्यत्र हे नाथ ! भवान् भवच्छब्दः सर्वादौ सर्वादिगणे अस्मात् अविद्यमान: ङसिस्थानिक: स्मादित्यादेशो यस्य स तथोक्त। अस्मिन् अविद्यमान: डिस्थानिकः स्मिन्नित्यादेशो यस्य स तथोक्तश्च समुलसति। भवच्छन्दस्य सर्वनामगणपठितत्वेऽि हलन्ततया अदन्तनिमित्तकौ 'ङसिङ्योः स्मात्स्मिनौ' इति विहितौ स्मात्स्मिन्नादेशौ न भवत इति भावः। इतः अस्मिन् सर्वनामगणे सार्वविभक्तिकस्तसिः। परः परशब्द: इतरः इत- रशब्दः सम: समशब्द: क: किंशव्दूश्च। अनीदृशः भवच्छब्द इव स्मात्स्मिन्नादेशविधुरो न भवतीत्यर्थः। उक्तानामेतेषां सर्वनामगणपठितानां परादिश्दानामजन्ततया स्मात्स्मिन्नादेश- योरवश्यंभावादिति भावः। अत्र प्रकृताप्रकृतश्ेषः वर्ण्यस्य भग-
शसंकर: ॥
Page 145
संकरसरः (१२१) 133
यथावा- त्वं सर्वनामवाच्यस्सर्वाधन्तस्थितो यदसि वि- श्वम्। त्वदधर इतरो योऽच्युत नेममिहत्यं ब्रुवे तथा कमपि ॥ २११०॥ हे अच्युत! त्वं सर्वनामवाच्यः सर्वैर्नामभिः ब्रह्मादिनाम- भिः वाच्यः असि। तत्र हेतुमाह-यत् यस्मात्कारणात् स- र्वस्य जगतः आदावन्ते च स्थितः । अन्तस्थित इत्यत्र अन्ते- मध्येऽ्रपि स्थित इति च योजनीयम्। अत एव विश्वं असि। .सर्वजगच्छरीरकोऽसि। 'यतो वा इमानि भूतानि' इत्यादिश्रुत्यु- क्तप्रक्रियया जगज्न्मस्थितिप्रलयनिदानतया सर्वशरीरकत्वाच्छ- रीरवाचिनां शब्दानां शरीरिपर्यन्ततया ब्रह्मादिसर्वशब्दवाच्योS सीत्यर्थः। 'अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयोति' इत्युपक्रम्य 'नारायणात्ससुत्पदयन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते' इत्यन्ता 'ब्रह्मा नारायण: शिवश्च नारायणः' इत्युप- क्रम्य 'नारायण एवेदं सर्वेम्' इत्यन्ता च श्रुतिरर्थतोऽनुसंहिता एवं जगङ्गह्मणोः कार्यकारणत्वनिबन्धनसामानाधिकरण्यप्रतिपा- दिका: 'तत्सृष्टा तदेवानुप्रावविशत् तदनुप्रविश्य सञ्च त्यञ्चा- भवत्' इत्यादयः श्रुतयोऽपीहानुसन्घेयाः। यः इतरः त्वद्धर: तत्तोऽपि न्यूनः। इहत्यं इहेत्यव्ययात् 'अमेहक्कतासत्रश्य एव' इति नियमितः 'अव्ययात्यप्' इति त्यप्। त्वत्कार्यभूतेऽस्मिन् जगत्युत्पन्नं इमं पूर्वोक्त कमपि ब्रह्माणमपि तथा न ब्रुवे त्वामिव सर्वकारणतया सर्वशरीरकतया च सर्वशब्दवाच्यं सन्तं न व्मि।. तस्य सर्वस्याप्यनेवंभूतत्वादिति भावः। पक्षे विश्वं विश्वशब्द: त्वत् त्वच्छब्द: अधरः अधरशब्द: इतर: इतरशब्द: यः यच्छ-
Page 146
134 अलंकारमणिहारे
बदश्च सर्वनामवाच्यः सर्वनामसंज्ञकत्वेनोक्त इत्यर्थः। तत्र हेतु- माह-यत् यस्मात् सर्वादिगणस्थान्ते मध्ये स्थितः 'सर्वादीनि सर्वनामानि' इत्यनुशासनादिति भावः। इह अस्मिन् सर्वादि- गणे नेमं नेमशब्दं त्यं त्यच्छव्दं च ब्रुवे पठामि। तथा कमपि किशब्दमपि सर्वाद्यन्तस्थित ब्रबे इति योजना।, किशब्दस्य सर्वा- दिगणावसाने पठितत्वात्। समासोक्तिप्रतीप भेदयोरेकवाचकानु- प्रवेशसंकर:॥ यथावा- आदौ सर्वे व्यदधानदनु च तद्दूह्म विश्वमवति समम्। अन्तस्स्वं परमवरं चादधदिदमन्यदन्ततः किं स्यात् ॥ २१९१॥ तद्रह्म आदौ अग्रे सर्वे व्यदधात् अस्राक्षीत्। तदनु सर्ज- नातन्तरं सम मया श्रिया सहितं तङ्गह्म विश्वं अवति रक्षति। लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया। रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते॥ इत्युक्तेः। अन्ततः प्रळयावसरे परं ब्रह्मादिकमुत्कृष्टं अवरं तदितरमपकृष्ठं च इद विश्वं अन्तर्स्वं स्वस्मिन्नित्यर्थः आदधत् न्यस्यत् अन्यत् किं स्यात् सर्जनावनकर्तृ ब्रह्मव्य- तिरिक्तं संहर्त वस्तु किमितरत्स्यात्। तस्यैव 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतिभिर्जगज्जन्मस्थेमप्रळयहेतुताप्रति- पादनादिति भावः। अत्र "कस्योदरे हरविरश्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः" इत्यादिकमपि स्मर्तव्यम्॥ पक्षे-तद्रह्म आदौ सर्वादिगणस्यारम्मे सर्वे सर्वशब्दं व्यदधात् विधत्ते स्म। तदनु सर्वशब्दन्यासानन्तरमेव विश्वं विश्वशब्दं च अवति रक्षति न्यस्यतीति भावः। अन्तः विश्व-
Page 147
संकरसरः (१२१) 135
किशब्दयोरन्तराळे सम स्वं परं अवरं अन्यश्च समस्वपरावरा- न्यशव्दान् नात्र कमविवक्षा। आदधत् न्यदधात्। दधातेः पर- स्मैपदिनो लड्। अन्ततः गणावसाने किं किशब्दः स्यात् तेन न्यस्तो भवेत्। सर्वादिगणे आदौ सर्वविश्वशब्दयोः अन्तराळे समपरावरान्यशब्दानामवसाने किंशब्दस्य च दर्शनादिति भावः। अत्र परब्रह्माणि प्रस्तुते अप्रस्तुतस्य शाब्दिकमुनेईत्तान्तः प्रती- यत इति समासोक्तिः। श्रुत्युक्तस्य सृष्टयादे: शब्दनयसिद्ध- सर्वादिगणप्रक्रियायाश्च क्रमेण न्यसनाद्रलावळी च श्ेषसंकीर्णे एकवाचकानुप्रविष्टे इति द्रष्टव्यम्।। यथावा- भवदुभयान्यतरस्य स्वरूपमिह सर्वमुखगणे गणनीयम्। भविता श्रीसख न तथा जात्वपि चरमाल्पकतिपयान्यतमस्य ॥२१९२॥ हे श्रीसख! इदं च वक्ष्यमाणार्थोपस्कारकम्। भवदुभया- न्यतरस्य श्रीश्च भवांश्च भवन्तौ 'त्यदादीनि सर्वैर्नित्यम्' इति भवच्छब्दकशेषः। भवद्रपं यद्ुभयं मिथुनं तदन्यतरस्य श्रियाः भवतश्चेति भावः। स्वरूपं सर्वकारणत्वसर्वशेषित्वादिरूप इह लोके सर्वेषां जनानां मुखगणे वदनसमूहे गणनीयं सर्वैरापे सर्वत्र कण्ठरवेण प्रतिपाद्यमिति भावः । चरमे अर्वाक्तना: अल्पे निहीना ये कतिपयाः चतुर्मुखादयोऽपीति भावः। तेष्वन्य- तमस्य यस्यकस्यापीति भावः। स्वरूपं तथा सर्वमुखगणगणनीयं न भविता। सर्वेषामप्यतथात्वादिति भाव:।। पक्षे-भवांश्च उभयश्चान्यतरश्च एतेषां समाहार: तस्य भवदुभयान्यतरस्य। एतेषां शब्दानां स्वरूपं इह शब्दशास्त्रे
Page 148
136 अलंकारमणिहारे
सर्वमुखगणे सर्वािगणे गणनीयं, तेषां तत्र पठितत्वात् । चर- माल्पकतिपयान्यतमस्य चरमाल्पकतिपयान्यतमशब्दानां पूर्वव- त्समाहारः। स्वरूपं तथा भवदादिशब्दवत्सर्वादिगणपठितं जा- त्वपि न भविता। तेषां तत्रापठिततया 'प्रथमचरम, इति सूत्रेण जस्येव तेषाँ पृथक्सर्वनामताविधानादिति भावः । अत्र प्रकृता-
यथावा- ननु सर्वनामताभागव्यवस्थितो दक्षिणस्सपूर्व- श्र। देवोत्तरो यथाडयं परोवरोऽप्यव्यवस्थितो न तथा॥ २१९३॥ पूर्वः सर्वजगत्कारणभूतः 'सदेव सोम्येदमग्र आसीत्। पूर्वमेवाहमिहासम्। कार्याणां कारणं पूर्वम्' इत्यादिप्रमाणात्। दक्षिणः 'तदैक्षत बडु स्याम्' इत्यायुक्तप्रक्रियया स्वसंकल्पमा- तानुगुणजगत्सर्जनादिचातुर्यशाली। महोदार इत्यप्युपस्कार्यम्। व्यवस्थितः 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' इत्याधु- करीत्या सर्वजगत्यन्तः प्रविश्य नियन्ता! अन्तरद्वैरपि दोषद- शंकरक्षुभितचित्ततया स्थिरप्रतिज्ञ इत्यप्युपस्कार्यम्॥ द्यौः पतेत्पृथिवी शीर्येद्धिमवान् शकलीभवेत्। शुष्येत्तोयनिधि: कृष्णे न मे सोधं वचो भवेत् ॥। इति तेनैवोक्तत्वात्। सोयं देवोत्तर: देवश्रेष्ठो भगवान् यथा सर्वनामताभाक सर्वशब्दवाच्यो भवति। अव्यवस्थितः जगत्कारणत्वान्तःप्रविश्यनियन्तृत्वादिव्यवस्थाविधुर इत्यर्थः । च- शचलचित्ततया प्रतिज्ञातार्थनिर्वहणाक्षम इत्यप्युपस्कार्यम्। अवरः भगवद्पेक्षया न्यूनः परः अन्यः ब्रह्मरुद्रादिरपिन तथा ननु।
Page 149
संकरसरः (१२१) 137
सर्वजगत्कारणत्वादिनिबन्धनां सर्वनामवाच्यता न भजते ख- ल्विति भाव:॥। पक्षे-हे देव! सोऽयं बुद्धिस्थः दक्षिण: दक्षिणशब्द: पूर्वः पूर्वशब्दः उत्तर: उत्तरशब्द: पर: परशब्द: अवरः अवरश- ब्दश्च व्यवस्थित: व्यवास्था प्राप्तस्स्सन् व्यवस्था च 'स्वाभिधे- यापेक्षावधिनियमः' इत्याहुः। यथा सर्वनामताभाक सर्वनाम- संज्ञां प्राप्तः अव्यवस्थितः व्यवस्थामप्राप्ः पूर्वोक्तः दक्षिणादि- शब्द: न तथा सर्वनामसंज्ञाभाङन भवतीत्यर्थः। 'पूर्वपरावर- दक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम' इति व्यवस्था- यामेव तेषां सर्वनामताभाकत्वस्य व्यवस्थाहेतुकत्वादतथात्वस्या- व्यवस्थितताहेतुकत्वाच्च काव्यलिङ्गद्वयं प्रकृताप्रकृतश्षेणैकवाच- कानुप्रविष्टम्॥ यथावा- स्वकरेण तवाङ्गिरुचि जिहीर्षुरभ्येत्य पुरत एव तथा। निर्वासितोडम्ब धूतो वासरकर एष धूसर- करोऽभूत् ॥ २१९४ ॥ हे अम्ब! एष वासरकर: भानु: स्वकरेण निजेन हस्तेन किरणेन च। तव अङ्गिरुचि चरणश्रियं न तु पाणिश्रियं जि- हीर्षुः अश्येत्य अभिमुखमागत्य अभ्यमित्रीणो भूत्वेति भावः। तथा रुच्या स्त्रियेति भावः। पुरत एव स्वावासाङ्गहादेव नग- रादेव वा 'अगारे नगरे पुरम्' इत्यमरः। निर्वासितः प्रसिद्धं हि महापराधिनां निष्कासनम्। अतएव धूतः पुनरपि कीदशो दण्डस्स्याद्वेति कम्पितस्सन्। यद्ा पुरत एव देहादेव निर्वा- सितः संहृत इत्यर्थः। धूतः देहान्तरं प्राप्यापि प्राग्भववास- ALANKARA IV. 12
Page 150
i38 अलक्कारमाणहारे
नया कम्पित इत्यर्थ:। 'पुरं नपुंसकं गेहे देहे' इति मेदिनी। घूसरा: ईषत्पाण्डवः करा; यस्य स तथा अभूत् अतिमात्रम- न्दद्यतिरासीदिति भावः। श्वित्रिपाणिरभूदिति च गम्यते॥ पक्षे वासरकरशब्द: पुरत एव अग्रभाग एव वासितः वा- कारेण संबद्ध: स न भवतीति निर्वासितः। निश्चल इत्यादा- विव निश्शब्दो नञ्समानार्थकः । अविद्यमानवाकार इत्यर्थः । धूतः वाकारस्थान एव धू इति वर्णेन ऊतः घूसरकर इति निर- पद्यतेति वस्तुस्थितिः । अत्र पुरत इत्यादिक्षेषभेत्तिकाभेदाध्यव- सायोपजीवितं वासरकरस्य घूसरकरत्वरूपानिष्टावाप्तिलक्षणवि-
स्कारणीभूतायाशश्रीचरणरुचेः कोऽप्यतिशयो द्योत्यत इति कार्य- निबन्धनाSप्रस्तुतप्रशंसा च काव्यलिन्रेन सह एकवाचकानु- प्रविष्ठे।। यथावा- तावकगिर्यपवाहितमब्जेक्षण पापनाशनं बत तीर्थम्। द्रमिडा एव न केवलमभिदधते पावना- इनं सर्वेडपि॥ २१९५॥ हे अब्जेक्षण! तावकगिरे: शेषाद्रेः अपवाहितं प्रवाहितं पावनाशनं तन्नामानं तीर्थ दमिडा एव द्रमिडदेशजा एव के- वल पावनाशनं तीर्थमिति नाभिद्धते। आपतु सर्वे सर्वदे- शजा अपि जना: अभिदघते। बतेत्याश्चये। द्रमिडानां अना- दिपकारस्य वकारतयोच्चारणस्यागस्त्यव्याकरणशिक्षिततया पाव नाशनमित्युक्तिर्युक्तैव। अन्यदेशजन्यानां तथोश्वारणमाश्चर्याव वहमेवेति भावः। पवनाशनस्य गिरिरूपधरस्य शेषस्य संब-
Page 151
सैकरसर: (१२१) 139
न्धि पावनाशनमिति वा पवनाशनानां ऋषीणां संबन्धीति वा पावनं अशनं प्राशनं यस्यति वा विराध पारिहार्यः । अतएव निरुक्तचलंकारः। पक्षे तावकगिरि त्वदीयवाचि अपवाहितं अपं अविद्यमानपकारं वाहितं पकारस्थान एत वकारेण आहतं पाप- नाशनशब्दं पावनाशनमित्यमिदघते सर्वदेश्या अपीत्यर्थः। अत्र तुल्ययोगगितानिरुक्तय रेक अाचकानुप्रवेशः ।
त्वदनुगृहीतः पुरुषो निगृहीतश्र त्वया बत मु- यथावा-
रारे। सहमहिषीकोऽ्धिवसत्यर्यमशुभ्रं सुभूरिपर्य- ङ्म् ॥ २१९६॥ हे मुरारे! त्वया अनुगृहीतः निगृहीतश्च पुमान् सहम- हिषीकस्सन् आर्यमा भातुरिव शुभ्रं उद्दाप्र 'शुभ्रमुद्दोप्रशुक्कयाः' इत्यमरः। 'शुभ्रं स्यादभ्रके क्रीवमुद्दीप्रशुकयोः त्रिषु' इति मे- दिनी च। सुभूरिपर्यङ्कं शोभनसुवर्णमञ्च अधिवसत कृताभि- षेकाभिर्देवीभिस्सह महीयाँसं विभवमनुभवति महाराजो भव- तीति भावः 'भू्रिना वासुदेव च हरेच परमेष्ठिनि। नपुंसकं सुवर्णे च प्राशे स्याद्वाच्यलिङ्गकः'इति मेदिनी। त्वयाऽतुगृहीत ईदशो भवतीति युक्तम्। निगृहीतोऽ्येवाविधो भवतीत्याश्चर्य बतेत्य- नेन सूच्यते। परिहारस्तु-महिषीमिस्सैरिर्भ मिस्सह वर्तत इति तथोक्तस्सन्। अर्यमशुभ्रं इत्यत्र अर्थ अश्ुभ्रमिति छेदः। अशुभ्रं कलुषं सुभूरि अतिमात्रस्फीतं अर्य र्यवर्णविधुरं पर्यङ्कं पङ्कि- त्यर्थः। अधिवसति महिषजन्म विन्दतीति भावः। अत्र तुल्य- योगितायाः श्रेषोज्ीवितायाः तथाविधसमविभावनालंकारयोश्चै कवाचकानुप्रवेशलक्षणस्सकर: ॥ ALANKARA IV. 12*
Page 152
142 अलक्कारमणिहारे
यथावा- विपरीतदृक्सनातन नतनासेत्याह चेद्रवीतु त्वाम्। कस्सुद्दगनवधिककृपोन्नस्तमाच्टेवे ् ्च्युत - वनाटं त्वाम् ॥ २१९९॥ हे सनातन पुराणपुरुष! विपरीतद्क् यथावस्थितविरुद्ध- ग्राही पुमान् त्वां सामुद्रिकोक्त्तमहापुरुष लक्षण सर्वय स्वशालिनमिति भावः। नता निस्ना नासा यस्य स नतनासः तस्य संबुद्धि: हे नतनास इत्याहचेत् ब्रवीतु कामं ब्रूतां कोऽस्य निरोद्धा न हि विपरीतदृशरसुद्दग्भिर्यथावदुक्तमप्यर्थमुपाददत इति भावः। पक्षे यवन इव प्रतिलोमवर्णदर्शा सनातनंति शब्दं नतनासेति ब्रता- मित्यर्थश्रमत्कारातिशयाय। सुदक सम्यग्द्रष्टा कः पुमान् हे निर- वधिककप हे अच्चुत! उन्नसं 'शुचिस्मितं कोमलगण्डमुन्नसम्' इत्युक्तर्रात्या उन्नतनासिक त्वां अवनाटं नतनासिक आचष्टे। न कश्चिदपि सुद्कथा बूयादिति भावः। 'अवात्कुटारञ्च' इति पूर्वसूत्रात् अनुतृत्तःदवशब्दात् 'नते नासिकायास्सज्ञायां टीटच् नाटच् भ्रटच:' इात नाटच्प्रत्ययः । नासिकाया नतं अवनाटं तद्यो- गाननासिका अवनाटा। पुरुषोऽवनाटः । 'अवटोटोऽवनटश्चाव- भ्रटो नतनासिके' इत्यमरः। यद्वा नासयति न स्थापयतीति नासः आसर्णिजन्तात् पचाद्यच् नशब्देन समासः। नतानां नःसःनतनासः प्रणतजन निश्शेषितेत्यर्थः : तस्य संबुद्धि: हे नतनास! इति व्रवीतु अनवाधककृपया उन्नः आर्द्र: तस्य संबुद्धि: हे अनवधिककृपोन्न! 'समुन्नमुत्तं च' इत्यमर। हे अच्युत त्वां एवं परमकारुणिक- मिति भाव । अवनाटयतीत्यवनाट तथोक्तं 'नट अवस्कन्दने' चुरादिः। अवहकन्दन हिंसने तस्मात् पचाद्यच्। समाचष्े
Page 153
संकरसरः (१२१) 143
वदति परमकरुणाकरं त्वां न कोऽपि सुद्क हिंसक ब्रवीतीति भावः। अत्र विपरीतद्क्त्वस्य नतनासेत्युक्तिं प्रति सुदृक्त्व- स्यावनाट इत्यनुक्तिं प्रति च हेतुत्वात्काव्यलिङ्गद्रयम्। विपरीत दृग्गत दुरुक्तिदोषेण भगवतोवनाटत्वरूपदोषानुदयलक्षणावज्ञालं- कारश्चैकवाचकातुप्रविष्टे। यथावा- मायूरं शेखरितं नन्दकिशोर त्वयेति माद- त्वात्। भूत्वा मुखे सकेकें के यूगीभूय भूषयति बाहुम् ॥ २२००॥
हे नन्दकिशोर! मयूरस्यावयवो मायूरं 'अवपवे च प्राण्यो- षधिव्ृक्षंभ्यः' इत्यवरयवरुवार्थे वैकारिकांडण। मयूरपित्छामे- त्यर्थः। इदं कर्तृ त्वया शेखरितं शेखरवत्कृतं अलंकृतमित्यर्थः। यद्वा शेखर: कृतं शेखरितं परां काष्ठामुत्कर्षस्य प्रापितमित्यर्थः। अवतंसतया धृतामति तु तत्त्वम्। इति हनोः माद्यत्वात् माद्तो भावः मादयत्वं तस्मात् माद्यतेश्शत्रान्तान्ावे त्वप्रत्ययः। माद्यत्वं च निष्कृष्यमाण मदसंबन्ध एवकृत्तद्वितसमासेषु संम्बन्धा- भिधानं त्वतलौ' इति शाब्दिकोक्तः । हर्षांतिरेकप्रयुक्तमदादि- त्यर्थः । मा: माकारः आद्यो यस्य तत् मादयं तस्य भावः •मादयत्वं तस्मात् तकारस्य 'अनाच च' इति द्वित्वं। मायूरशब्दस्य तथात्वादिति भाव:। ल्यब्लोपे पञ्चमी। माकारादत्वं विहाये- त्यर्थः । शब्दार्थयोस्तादात्म्यम्। मुखे वदने सकेकं केकया मयूरवाण्या सह सर्तत इति सकेकं स्वावयविभूतमयूरवत् स्वय- मवि मदपारवश्यात्काकारवं वितन्वदित्यतशयोक्तः। अन्यत्र
Page 154
144 अलंकारमणिहारे
मुखे मावर्णविघटिते आदिभागे सकेकं केवर्णेन सहवर्तत इति तथोक्तमित्यर्थः। 'शेषाद्विभाषा' इति कप्। भूत्वा केयूरीभूय अङ्गदं संपद्यमान भूत्वा उक्तरीत्या केयूरपढं भूत्वेति चार्थः। बाहुं तव भुज भूषयति। स्वशेखरीकरणप्रत्युपचिकोर्षया बडु- मानयतीति भावः। अलंकगेतीति वस्तुस्थितिः। केयूरस्य मयू- रपिञ्छतादात्म्यसंभावनया तस्य मरकतमणिमयत्वं द्योत्यते। अत्रभगवन्मयूरपिञ्छयोः परस्परोपकारवर्णनादन्योन्यालंकार उत्प्रेक्षया एकवाचकानुप्रविष्टः। यथावा- मालूरं तब कुचयुगजिगीषु तेनान्तरेवगमित- लयम्। मायूरं भूत्वाऽथ त्वन्मौळिविलासि नन्द- सुतललने॥ २२०१ ॥ मालूरं बिल्वफलं माळूरमिति पदं च। तव कुचयुगजि- गाषु सत् अतएव तेन कुचयुगेन। अन्तरेव केनाप्यविज्ञातमे- वेति भावः गमितलयं प्रापितप्रलयं सत् अथ अनन्तरं मा- यूरं मयूरबह भूत्वा। पक्षे अन्तः मध्यभाग एव गमितः उत्सा- रितः ल: लकारो येन तादृशो यः यकार: यस्य तत्तथाभूतं मालूरपदं मध्यस्थलकारोत्सारणेन तत्रैव यकारेण संगमितं सत् मायूरमिति निष्पन्नमित्यर्थः । त्यन्मौळौ विलासि विलसनशीलं भवति। वैरनिर्यातनाय साक्षात्प्रतिपक्षमूतायास्तव शिरोऽधि- रोहताति भावः। नन्दसुतललने इति संबोधनं मायूरपिञछं तस्थेव तवाऽपि शेखरीभवतीत्यमिप्रायगर्भम। त्वन्मौळिः तब धमिल्ल इब विलासीति तु तत्त्वम्। 'मौळिः किरीटे धमिले चूडायामनपुंसकम्' इति मेदिनी। बर्हत्वावस्थां प्राप्य त्वत्कब-
Page 155
संकरसरः (१२१) 145
रीसाम्यमभजतेति भावः। अत्र विषमप्रत्यनीकपरिकराङ्कराणा- मेकवाचकानुप्रवेशः॥ यथावा- निर्भासिलता त्वतनुघुताऽथ तत्परिभवेच्छ- याSवनितनये। स्याद्वाSलङ्कविष्टा भ्रष्टा स्वार्था- द्रवेत्तु निर्भासिकता ॥ २२०२ ॥ हे अवनितनये जनकनन्दिनि! इदं च वक्ष्यमाणार्थानुगुण्याय। निर्भासिनी अतिशयेन भासनशीला च सा लता च निर्भा- सिलता। त्वत्तन्वा तावकमूर्त्या घुता तिरस्कृतेति यावत। अथ तस्या: त्वत्तन्वा: परिभवेच्छया लङ्गाविष्टा स्याद्वा त्वत्पराभ- वाय एकाक्ष्येककर्णादिवदियमपि लङ्कां प्रविशतु वा। ताव- ताऽपि निर्भा: विगतभाः सिकता वालुका सती स्वार्थात् स्वा- भप्सतत्वत्तनुपराभवरूपात्प्रयोजनाद्गष्टा भवेत्। अनवाप्मनो- रथा प्राप्तानिष्टा च भवेदित्यर्थः ॥ पक्षे निर्भासिलताशब्दः अलं अविद्यमानलकारं यथास्या- त्तथा काविष्टा तत्रैव प्रवेशितककरा सती निर्भासिकतेतति नि व्पन्ना स्वार्थात् स्वाभिशेयात् प्रकाशमानलतात्वरूपात् भ्रष्टा भवेत् निर्भासिलतत्यानुपूर्व्या याद्ृशर्थः प्रत्याय्यते निर्भासिकते- त्यानुपूर्व्याः तादृशार्थप्रत्यायनायोगादिति भावः। अत्राप्रस्तुत- प्रशंसाविषमौ एकवाचकानुप्रविष्टै॥
त्वत्पदनखरुचिमोषणकृतरुचिरपशदतया फ- यथावा-
णिगिरन्दो। विशदमयूखोऽपि परं विमयूखो भवति नात्र संदेहः ॥ २२०३॥
Page 156
146 अलक्कारमणेहारे
हे फणिगिरीन्दो! विशद्मयूखः स्वच्छांशुरपि त्वत्पदन- खरुचेः मोषणे चौये कृतरुचिः प्ररुढाभिलाषः अतएव अपश- दतया जाल्मतया 'निहीनोऽपशदो जाल्मः' इत्यमरः। परं विम- यूखः विगळिततेजाः 'मयूखस्त्विट्करज्वालासु' इत्यमरः । भ- वति। पक्षे विशदमयूखशब्दः अपशदतया अपगतौ शदौ शकारदकारौ यस्य स तथोक्त: तस्य भावस्तत्ता तया विम- यूख इति निष्पद्यत इत्यर्थः। अत्र विरोधाभासावषमातिशयो- कीनामेकवाचकानुप्रविष्टता ।।
यथावा-
भारतरसाऽखिलाऽच्युत भावत्कैः क्वाप्यवस्थि- तैविमला। प्रतिलोमवर्णभागपि ऋक्षै रात्रीव सारतरभैव ॥ २२०४॥
हे अच्युत! अखिलाऽपि भारतरसा भारतवर्षभूमि: प्रति- लोमवर्ण 'ब्राह्मण्यां क्षत्रियाज्जातः' इत्यायुक्तविधं संकीर्णवर्ण भजतीति तथोक्तापि तमःप्रचुरतया नीलवर्णभागपीति च। क्वाप्यवस्थितैरि 'क्रचिकत्वचिन्महाभाग' इत्युक्तरीत्या क्वच- कत्वचिदवस्थितैरपीत्यर्थ। सावत्कै भवदीयैः ऋैःनक्षत्रैः रात्रीव विमला निर्दोषा स्वच्छा च सती सारतरा श्रेष्ठतरा भा दीप्षि: यस्यास्सा तथोक्तैव भवांत। पक्षे अखिला समग्रवर्णा भारत रसा भारतरसेति शब्दव्यक्तिः प्रतिलोमवर्णभागपि प्रतिकूला क्षरा सती सारतरभेत्येव निष्पद्यत इत्यर्थः। अत्र प्रतिलोमव- रण माकत्व रूपप्नतिबन्धकसन्भावेऽपि सारतरभात्वरूपकार्योदयलक्ष- णवभावनाविशेषस्य उपमायाञ्च एकवाचकानुप्रवेशः।
Page 157
सङ्करसरः (१२१) 147
यथावा- सकलजगदधिपति त्वां वृषगिरिपतिरिति वद- न्तु नाम जनाः । विष्णुस्स पर्वतानामधिपतिरि- ति कथमनादिवाग्बूते॥ २२०५॥ जना: पामरा इत्यर्थः । 'जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति विश्वः। अत्र निरङ्कशनिखिलजगदैश्वर्यस्य भगव- तश्श्रीनिवासस्य यत्किश्वित्परिच्छन्नशैलमात्राधाश्वरत्वं श्रुत्या प्रतिपादितमप्यनुपादेयमेवोति तत्प्रतिक्षपाय विष्णु पर्वतानाम- धिपतिः' इति श्रुतेरुपन्यासाच्छन्दप्नमाणालंकारः पूर्वोत्तरा्ध-
काले। मुक्तत्वाद्दिव्य गुणास्सन्मणयोऽच्युन भवन्ति ते,ग्रसराः ॥ २२०६॥ हे अच्युत! विपुलः यो भवाम्भोनिधिः संसारसागर: तस्य शुकू तत्सम्बन्धिनी शोक: इदमुपलक्षणमशनायापिपासा- धूर्माणान्। तया तिरोहिता: अच्छादितस्वाभाविकस्वस्वरूपा इे यावत्। अन्यत्र विपुलं यथा तथा भवः विद्यमानः यः अम्भो- निधि: तस्य या: शुक्तय मुक्तास्फटाः तासु रोहिता: स्वाति- वर्षजलबिन्दुभिः प्रदुर्भाविता इत्र्थः। चशन्दो भिन्नक्रमः। ततः काल 'विधिपष्णतिभेदाद्वीक्षितस्तेन काले' इत्युक्तप्रक्रि- यया याहाच्छिकादिसुक्कनपरिपाकावसरे। अन्यत्र- नदां तत्र स्वातिगेडकें शुक्तिस्था वर्ष बन्दवः। षड्भिर्मासैर्घनीभूता जायन्त शुद्धमौक्तिकाः॥
Page 158
148 अलङ्कारमणहारे
इत्युक्ते परिपाकसमये नदां ताम्रपर्ण्यो तत्र सागरसंगम- प्रदेशे इति तदर्थः। उद्धताः दयानिधिभिराचार्यैरुपायानुष्ठाना- दिना उज्जीविता: इतरत्र शिल्पिभिरुदश्चिता इत्यर्थः। इंद कृत- सुषिरत्वस्य,प्युपलक्षणम्। मुक्तत्वात् प्रकृतिबन्धवियुक्तत्वात्। पक्षे मौक्तिकत्वात् मुक्ताया: भावः मुक्तत्वं 'त्वे च' इति त्वप्रत्यये परे आपो हस्वः। दिव्याः गुणाः येषां ते तथोक्ताः आवि-
सन्मणयः ब्रह्मविच्छेष्ठा: रमणीयरतानि च ते तव अग्रसराः पुरोवर्तिनः श्रेष्ठहाराश्च भवन्ति। अत्र प्रकृताप्रकृतयोर्विद्वद्रत्न- योश्श्ेष:। उक्तानां विपुलभवाम्भोनिधिशुक्तिरोहितत्वादीनाम- र्थानां क्रमिकत्वाद्रतावळी चैकवाक्यानुप्रविष्टे। यथावा- रुचिमदतस्सौदामनि वल्गस्यत्रे रमाप्रभाभि- हता। पतिताऽघशशीर्ष त्वं निमदासौ स्या यदा तदाऽवैषि॥ २२०७॥ सुदाम्ना अद्रिणा एकदिक् सौदामनी। तटित् 'तेनैकदिक्' इति प्राग्दीव्यतीये एकदिगित्यर्थे अण् 'अन्' इति प्रकृतिभावः। तस्यास्संबुद्धि: हे सौदामनि! शुचिमदतः ममैव द्ुतिलोंकोत्त- रेति गर्वात् अभ्रे अन्तरिक्षे वल्गसीति लोकोक्तिः। जलधरे स्फुरसीति तत्त्वम। रमाप्रभया अभिहता अतएव अधशीर्ष पतिता सती। असी एवं वल्गन्ती त्वं निमदा निशब्दपूर्व- कोडयं बहुव्रीहिः निवात इत्यादिवत्। निर्गळिसरुचिमत्वगर्वे- त्यर्थः। यदा स्या: तदा अवैषीति लोकोक्तिः। उद्वल्गनफलं तदा जानासि किमिदानीं जानासीति भावः। पक्षे सौदामनीति
Page 159
संङ्करंसर: (१२१) 149
संबुद्धचन्तश्शब्दः विलोमत्वे निमदासी इति निष्पद्यत इत्यर्थ- श्रमत्काराय। अत्र अप्रस्तुतसौदामनीगर्वशान्तिप्रशंसया तत्का- रणभूंतरमाप्रभायास्ततोऽतिमात्रोज्ज्वलत्वं प्रतायत इति कार्य- निबन्धना अप्रस्तुतप्रशंसा। रमाप्रभाभिहतेत्यस्थाघशशीर्षपतनं प्रति हेतुत्वात्काव्यलिङ्गं लोकोक्तिश्च एकवाचकानुप्रवेशेन सं- कीर्यन्ते॥ यथावा- देवि त्वदपाङ्गजितस्तं जतुं यदि शिवत्वमेवे- यात्। तदपि न जेतुं प्रभवेच्छिलीमुखोऽपि तु व- लीमुख़त्वमियात् ॥ २२०८ ॥ हे देवि! शिलामुखः रोलम्बः कलम्बो वा 'अळिबाणौ- शिलीमुखौ' इत्यमरः। तव अपाङ्ेन लोचनाञ्चलेन त्वत्सुते- नानङ्रेनेत्यपि गस्यते। 'अपाङ्गत्स्वङ्गहीने स्यान्ने्रततिके - पिच' इति। शिवत्वमेव त्रिलोचनत्वमेव इयात्प्राप्तयाद्यदि तदपि तदाऽपि जेतुं न प्रभवेत् । अपितु वलीमुखत्वं कपित्वमेव इयात्। शिलीमुखशब्द: शिवत्वं शिवर्णस्य वकारत्वं शिव ्णांपनयनेन तत्रैव ववर्णवत्त्वमेयाद्यादि वलीमुख इति निष्पद्ये- तेति वास्तवार्थः । शब्दार्थतादात्म्यवैभवं न प्रस्मर्तव्यम्। अत्र विषमाप्रस्तुतप्रशंसयोरेकवाचकानुप्रवेशः।। यथावा- तावकगुणानुवादी तामरसदळाक्ष तदपवादी च। भवमयपारावारे भविता सुखगो महाप्ठवश्चि- त्रम् ॥ २२०९।
Page 160
150 अलक्कारमणिहारे.
तपवादी तावकगुणानां तदतुबाइिनां वा निन्दक: भव- मये ससाररूपे पारावारे सुखगः महाप्वो भवितेति चित्रम। त्वङ्गणानुवादी सुखगः गुणानुवादजनितानन्दशालो महापुवः भविता महोडुपवदुत्तारको भवितेत्यर्थः। तद्पवादो तुभविता असुखग इति छंदः। भवमयपारावारे महान् आपत्रः आपुवनं यस्य स तथोक्त: नित्यनिमग्र इत्यर्थ। अतएव असुखगः असुखप्र पा। यद्ा महान् पुत्र: चण्डालः 'चण्डालप्वमातङ्ग- दिवाकीर्तिजनङ्गमाः' इत्यमरः। भगवद्गणनिन्दनस्य नेद फल- मलमितिः भावः। अतएव असुखगः उक्तोऽर्थः । यद्वा महान् पः मङ्गकारण्डवादिवत्कश्चित्पुवनामा शोभनः खगः सुखगः स न भवतीत्यसुसगः अशोभनः पक्षी भविता। अन्र रूपक- काव्यलिङ्गतुल्य योगितानामेकवाचकानुप्रवेशः ॥
यथावा- अरविन्दं रविभन्तर्दधतां भवतान्ततस्तथानन्दम्। तदपि भजत्सद्रवितां हरिनयनं स्यान्तवाम्ब न तु नयनम् ॥ २२१० ॥
हे अम्ब! अरविन्दं पझम अन्तः मनसि रवि भातुं दधतां धत्ताम्। 'दूध धारणे' इति भोवदकाद्धातोर्लोट। त्वन्नयनता- वाप्तचै उपास्तामिति भावः। ततः तस्मादुपासनात् तथानन्दं तथा आनन्दो यस्य तत्तथोकं। तल्लाभौपयिक हर्षपरिपूर्ण भवतात् भवतु। तदपि तथाऽषि सत् साघु प्रशस्तं वा यथातथा रवितां भानुता भजत् सेवमानं सत् यथाकतुनयन रविमुपासीनस्य तन्भाव. भाविताया अयश्यंभावः। हरिनयनं पतावताऽपि प्रयासेन भगवन्न-
Page 161
सेङ्करस्सर: (१२१) 151
यनमेव मवेत् तस्य भानुनयनतया लोकवेदविदितत्वादिति भावः। न तु तव नयनम्। सौम्यसुन्दरमहोदारदयातरङ्गितं सकलता- पमोचनं भवत्या लोचनं न स्यादित भावः। पक्षे अरविन्दं अर- विन्दमितिपदं अन्तः स्वाभ्यन्तरे रवि रेफयुक्तविवर्ण दधताम्। तस्य पदस्य मध्ये उक्तवर्णयोश्श्रवणात्। तथा तद्वत् अनन्दमिति छेदः। अश्च न्दश्व अन्दौ अविद्यमानौ अन्दौ यस्य तत्तथोक्त अकारन्दकाराश्या रहितं भवतात्। तदपि सद्रविता सन्तौ विद्यमानौ रवीति वर्णो यस्य तत्तधाकं तत्तां भजत् अन्यवर्णयोर- पाये रवीतिवर्णयोरेवावशेषणादिति भावः । अत्र समविषमसंभा- वनादी नामेकवाच कातुप्रविष्टता द्रष्टव्या। यथावा- अपि हरिमणिमुखमणयस्त्वद्रुचिसाम्येप्सवस्त- याऽपास्ताः । अधरितशिरोऽपि तेष्विदमरं मरत- कं हरे भवेत्कतमम् ॥२२११॥ हे हरे! हरिमणि: इन्द्रनीलमणरेव मुखं येषां ते मणयः महानीलाद्याः 'इन्द्रनलमहानीलमणिप्रवरवेिकम् इत्यी नी लरत्नानां बहुविधत्वप्रसिद्धेः। ये मणयः पुछ्धिङ्गेन पुमांसो बहु- वचनेन बहव इति च गम्यते। त्वद्गुचिसाम्येप्सवः अत एव तया त्वद्रुच्या स्त्रिया एकयैवेति भाव:। अपास्ता: उज्ज्वलश्याम- लिमानस्त एव निरस्ता इति भावः । तेषु मध्ये इदं मरतकं इदमि- त्यनेन इन्द्रनीलाद्यपेक्षया मन्दतमनीलमित द्योत्यते। अरं अति- मात्रं अधरितशिरोऽपीति लोकोक्ति: कतमं भवेत्? इन्द्रनीलादि- व्वपीदं कः पदार्थ: तेष्वपि गणयितुमनहे क्ीवं च कथं नाम त्वद्गुचि- साम्य सौभाग्यमियादिति भाव। पक्षे मरतकं अधशशीर्षमपि अर
Page 162
152 अलङ्कारमणिहारे
रेफरहितं सत् कतममिति सिध्यतीत्यर्थान्तर विच्छित्तिविशेषाय। विषमका व्यार्थापत्त्य प्रस्तुतप्रशंसानामेकवाचकानुप्रवेशः॥ यथावा- मरकतकमेत्वमरतामवाक्छिरोऽप्यस्तु तर्हि क- तकं सत्। काजलमेव विमलयेदच्युत सन्मानसं न वपुरिव ते ।। २२१२ ।। हे अच्युत! मरकतं गारुत्मतं अमरतां देवत्वमेव एतु त्वाई- व्यविग्रहसाम्येप्सया देवत्वमेव लभताम्। न केवलमेतावदेव, अवाक्छिरोऽप्यस्तु अधःकृतशीर्षमपि भवत्विति लोकोक्तिः। तर्हि तथाऽपि कतकं कतकफलमेव स्यात्। देवत्वेऽपि स्वाभीष्टानवासे- रधश्शीर्ष तप्त्बाऽपि कतकरूपमेव भवेदित्युत्कटानिष्टप्राप्तिरेवोक्ता। तदाऽपि कतकरूपेऽ्पि काजलं ईषज्लमेव प्रसादयेत्। तव वपुरिव दिव्यविग्रह इव सन्मानसं सतां मन एव सन्मानसं अतिगभीरं मान- ससरः न विमलयेत् यथा मानसमतिगभीरमपि तव दिव्यमङ्गळ- विग्रहः प्रसाद्येत् न तथा मरकतकमुपदईशतरीत्या महता यते- नापि न प्रसादयेत्। किंतु अत्यल्पकुत्सितजलमेवेति निर्गळि- तोऽर्थः। अनेन मरकतकस्य सर्वात्मना भगवद्विग्रहसाम्यदवीय- स्व्वमुक्तम्। वस्तुतस्तु मरकतकमिति पदं अमरत्वं मकाररेफरा- हित्यं प्राप्य कतकमित्यवशिष्टं बिपर्यासेऽपि कतकतयैवावस्थित- मित्यर्थः । अत्र प्रतपिविषमव्यतिरेकाणामेकवाचकानुप्रवेशऽनु- संधेयः । यथावा- जनिसंततिः प्रयाता बह्ी मुग्धा गता मुधाभा-
Page 163
संकरसर: (१२१) 153
वम्। तव कृपयाऽ्च्युत मा भूत्निजजनिरेषाडपि वा प्रतीपगतिः ।।२२१३ ।। हे अच्युत! बह्नी जनिसंततिः जन्मपरंपरा ममेति शेषः। मुग्धा भगवन्मायया मोहं प्राप्ता अतएव मुधाभावं अनाराधित- त्वच्चरणारविन्द्ुतया व्यर्थत्वमिति भावः। प्रयाता प्राप्ता। एषा निजजनिरपि वा एतन्मम जन्म वा तव कृपया प्रतीपगतिः 'अनृ- तेन हि प्रत्यूढाः' इति श्रुत्युक्तरीत्या भगवन्मायया प्रातिकूल्यं प्रापिता मा भूत् अविदितपरावरतत्त्वयाथात्म्या अननुष्ठितत्वत्पा- प्त्युपाया मा विनङ्क्षीदिति भावः। अन्र- वृधैव भवतो याता भूयसी जन्मसंततिः । तस्यामन्यतमं जन्म संचित्य शरणं ब्रज॥ इति, संसारचक्रमारोण्य बलिभि: कर्मरज्जुभिः। कालेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः।। अहो मे महती याता भूयसी जन्मसंततिः।
अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा।
इत्यादिना चांक्तोऽर्थोऽनुसन्धेयः। पक्षे मुग्धेति शब्दव्यक्ति: अगतामुधाभावमिति समस्तं प- दम्। अगनया अविद्यमानगकारतया गकारे अकार उच्चार- णार्थः। ग् इति हल्मात्रलोपेनंत्यर्थः। मुधाभावं मुधाशब्दत्वं प्रयातेति योजना। किंच निजजनिरिति शब्दव्यक्ति: प्रतीपग- तिर्मा भूत् प्रातिलोम्येन पठिताऽपि पूर्वांनुपूर्व्यैवावतिष्ठत इति ALANKARA IV. 13
Page 164
154 अलङ्कारमणिहारे
भाव:। 'माडि लुङ' इत्यस्य सर्वलकारापवादत्वाल्लडरथे लुङ। अत्र शान्तरसस्य मुधैव जनिसंततिः प्रयातत्यनेन सूचितो निर्वेदस्संचारी भावोऽङ्गमिति प्रेयोऽलंकारः। पूर्वार्धोदितायाः जनिसंततिवृधाभवनाचेन्ताया उत्तरार्धप्रतिपादितनिज्ञजनिप्रती- पतानिषेधप्रार्थन प्रति हेतुत्वात्कव्यलिङ्गं चैकबाचकातुप्रवशे- संकीणे । यथावा- आदौ व्याध्युषितमथो बहुलभ्रष्टं कुतोऽलमु- परि पतेत्। यदि विजिगीषु भुजं ते व्यालकुलं व्याकुलं भवेन्नूनम् ॥ २२१४ ॥ हे हरे! आदौ प्रथममेव व्याधिः उषितो यस्मिन् व्याधि- ग्रस्तमित्यर्थः । अथो अनन्तरं बहुलं भ्रष्टं अधःपतितं शक्तिविरहा- दिति भाव:। व्यालकुलं भुजङ्यूधं कर्तृ न त्वेको व्याळ:। ते तव भुजं विजगीषु यदि कुतः कस्माद्धेतोः अलं समर्थ सत् उपरि पतेत् द्वंद्वयुद्धार्थमिति भावः। किंतु व्याकुलं भवेत् जेतुमक्षमत्वादिति, भावः। अन्यत्र व्यालकुलं व्यालकुलमिति पदं आदौ व्या इत्याकारकवर्णः अध्युषितो यस्मिन् अथो अनन्तरं बहु यथातथा लभ्रष्टं भ्रष्टलवर्णमित्यर्थः। अथ कुतः कुवर्णात् उपरि अनन्तर लें लकारं पतेत् गच्छत् यदि पततिस्सक- र्मकः। 'द्वितीया श्रितातीतपतित' इति समासविधानात्। 'नरकं पतितः, दिवं गच्छ सुबः पत, पत भूमिमवाक्छिराः' इत्यादि- प्रयोगाञ्च। व्याकुलं भवेत् व्यालकुलपद भ्रष्टप्रथमलकारमात्रं व्याकुलमिति निष्पद्येतेत्यर्थः। आस्मन् पक्षे तुशब्दोऽवधारणे। काव्यलिङ्गविषमयो रेकवाच कातुप्रविष्टत्वमत्र द्रष्टव्यम्।।
Page 165
संकरसर: (१२१) 155
यथावा- दरसंयोगं प्राप्तो जनस्त्वदीयो भवत्यमृतदो- ग्धा। युक्तमिद त्वद्विमुखोऽपीद्टग्भवतीति नाथ चित्रमिदम् ॥ २२१५॥
हे नाथ! त्व्दायो जनः दरसंयोगं अल्पकालसंसर्गे प्रा- सोऽपि अमृतदोग्धा निशश्रेयसमार्गोपदेष्टा भवति। अहन्यहनि धर्मस्य योनिस्साघुसमागमः । मोहजालस्य योनिर्हि मूढैरेव समागमः ।। इत्यादिकमिहानुसधेयम्। इदं युक्तम्। त्वद्विमुखोऽपि ईडक् दरसंयोगं प्रासोऽमृतदोग्धा भवतीति चित्रम्। दकारेरफरूप- संयोगं प्राप्तः अमृतदोग्धा अमृतद्रोग्धेति वस्तुस्थितिः। सम- तुल्ययोगितयोरेकवाचकानुप्रवेशः। यथावा- त्वं ननु भवास वदान्यस्सुधातिशिशिरः पृदा- कुशैलेन्दो। विपरीतलक्षणादिह वदान्यमन्यं तु दावमिव मन्ये ॥ २२१६॥ हे पृदाकुशैलेन्दो! त्वं ननु त्वमेव 'प्रश्नावधारणानुज्ञानुन- यामन्रणे ननु' इत्यमरः। सुधेव अतिशिशिर: अतिवेलकृपा- शीतल इत्यर्थः। इन्दुपक्षे सुधया अतिशिशिर इतति। वदान्यः 'प्रियवाग्दानशीलश्ष वदान्य परिकीर्तितः' 'य आत्मदा बलदा' इति श्रुतात्मपर्यन्तसर्वस्वदाता त्वदन्यो महावदान्यः क इति भावः। यथाचाच्यते श्रीविष्णुधर्में- ALANKARA IV. 13*
Page 166
156 अलक्कारमणिहारे
तस्मात्वमपि विभ्रेन्द्र नारायणपरो भव। तदन्यः को महोदार: प्रा्थित दातुमीश्वरः॥
इति। अन्यं त्वदितरं वदान्यं वदान्यंमन्यं त्वितिभावः। विपरीतलक्षणात् सुधातिशशिशिरत्वादिलक्षणविप्रतीपात्तापकर- त्वादिलक्षणात् दावं वनहुताशनमिव मन्ये। दुरुपसर्प दूरत- स्त्याज्य च जानामीति भावः। यद्वा अन्य विपरीतलक्षणात् विरो- धिलक्षणातः सा च जहत्स्वार्थलक्षणैव। यया स्वाभिधेयविपरी- तार्थों लक्ष्यते। यथा 'उपकृतं बहुनाम' इत्यादी वदान्यं अवदा- न्यमित्यर्थः। दावं मन्ये उक्त एवार्थः। पक्षे अन्यं न्यवर्णशूनयं वदान्यं वदान्यशब्दं विपरीतं बिलोमं यथास्यात्तथा लक्षणात् वीक्षणात् दावं मन्ये दावशब्द जाने। वदान्यशब्द्रो न्यवर्णविधुरो वदा इत्यवशिष्टः विलोमतया पठितो दाव इति निष्पदयते। अस्मिन् पक्षे इवशब्दो वाक्यालंकारे। अत्र भगवत्तदितरयोर्वदा- न्यत्वे प्राप्ते भगवत्येव तन्नियमनात्परिसंख्या तयोरेवेन्दुत्वदा- वतुल्यत्वरूपवैलक्षण्यसद्भावाद्वयतिरेकश्च उपमाभ्यामेकवाचका- तुप्रविष्टौ।।
यथावा- सललित तमवलरिपुमणिफलकासु नरा विशा लशालासु। कुरुविन्ददीपरुचिरास्वरविन्दाक्ष त्व- दीक्षिता भान्ति ॥ २२१७॥
तालंकाररूपः। असंबन्धे संबन्धकथनात्मकतया अतिशयोक्तिरू- पश्च। न च सर्वत्र उदत्तस्यासंवन्धे संबन्धकथनरूपत्वं निर्णीत-
Page 167
संकर सरः (१२१) 157
मिति न विविक्तालंकारद्वयसमावेशोस्तीति वाच्यम्, दिव्य ोक- स्थित संपत्स वृद्धिवर्णनादिष्जात शयो कय संस्पृष्ठस्य उदात्तस्य शौ-
शयोक्तश्चान्योन्यविविक्तत्वेन विश्रमात्। तयोश्चेहार्थवशप्राप्त- एकेनान्यस्थानुत्थितेः। स्वातन्त्रयपारतन्त्रयवि शेषावगतेश्च। नापि समप्राधान्यं, यैश्शब्दै- रिह समृद्धिमद्दस्तु प्नतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे सबन्ध- रूपस्य प्रतिपाद्यमानतया विभिन्नप्रतिपादकशब्दव्यवस्थितार्थमे- दाभावात्। नापि संदेहसंकरः, एकालंकारकोटयां तदन्यालंकार- कोटिप्रतिक्षेपाभावात्। तस्मादिहोदात्ताति शयोक्तयोरेकवाचका- नुप्रवेशलक्षणस्संकरः। एवमुक्तसमृद्धेर्भगवत्कटाक्षितताहेतुकत्वा- त्कव्यलिङ्गं चोक्तसंकरैकवाचकानुप्रविष्टममिति विच्छित्तिविशेषश्च।
अत्र समप्राधान्याभाववर्णन च कुवलयानन्दकृतामनुराधेन। रसिकरअ्नीकारस्तु 'इदं चिन्त्यं। समप्राधान्यसंकरमभ्युपग-
प्रेयादावुत्पत्ति विधिभेद सत्त्वेऽपि 'सप्तदश प्राजापत्यान्पशूनालभते' इत्यादौ विधिमेदाभावेऽपि समप्राधान्यव्यवस्थितेः। तद्वदत्रापि प्रतिपादकशब्दमेदाभावेऽपि प्राधान्यसंभवात्। इतोऽपि न सम- प्राधान्यसंकरसंभवः, एकवाचकातुप्रवेशसंकरस्य निर्विषयताप-
समप्राधान्यस्यैवोपपत्तेः' इत्यभाणीदित्यलम्।।
रूपणावसर एवोदाहतः। तृर्तायइ्शब्दार्थयोरेक्तवाचकानुप्रवेशसं. करो यथा-
Page 168
158 अलक्कारमणिहारे
शब्दार्थयोरेकवाचकानुप्रवेशसंकरो यथा- ननु भजति प्रत्यय इह तान्तोऽपि जहाति नैव बत सत्वम्। त्वदभक्तिभृत्यसत्वं स्वयमेत्य ददाति तस्य तान्त्त्वम ॥ २२१८॥
हे भगवन्! इह लोके भजति त्वां सेवमाने पुंसि प्रत्ययः ज्ञानं 'प्रत्ययोऽधीनविश्वासधीरनध्राचारहेतुषु। ख्यातौ सनादौ शपथे' इति रत्नमाला। तान्तोऽपि कदाचिदाध्यात्मिकादिताप- रूपकारणवशात् स्वयं ग्लानोऽपि सत्वं सत्वगुण प्राशस्त्यं वा नैव जहाति। त्वन्भक्तस्य ज्ञानं ग्लानिदशायामपि सत्वगुणसमृद्धि प्रशस्ततां वा न विसृजतीत्यर्थः। अन्र ज्ञानशब्देन- तत्प्राप्तिहेतुर्ज्ञांनं च कर्म चोक्तं महामुने। आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते। शब्दव्रह्मागममयं परं ब्रह्म विवेकजम्॥ इत्युक्तं ब्रह्मविषयकपरोक्षापरोक्षरूपोभयविधज्ञानं विवक्षित म्। भगवदभक्तज्ञानस्य व्यतिरेकमाह-त्वदिति। त्वदभक्तिभृति त्वयि भक्तिमबिभ्राणे जने तु प्रत्यय इतीहाप्यनुषज्यते। प्रत्ययो ज्ञानं स्वयं आत्मना अस्त्वं सत्त्वगुणाभाव अप्रशस्तत्वं वा एत्य प्राप्य तस्य अभक्तिभृतः तान्तत्वं ग्लानि ददाति। त्वदभक्तनिष्ठं सामान्यशास्त्रादिज्ञानं त्वन्भ्क्तिविधुरतया स्वयं सत्गुणानाधा यकं अप्रशस्तं वा संपद्यमानं स्वाश्रयमेव निशश्रेयसरूपपरमपुरुषा- र्थालाभेन ग्लपयतीति भावः। अन्यत्र भजति त्वदभक्तिभृतीत्येतदु- भयमपि शब्दपरम्। भजति भजतीत्याकारके शब्दे प्रत्ययः शतृप्रत्यय: तान्तः तकारान्तः भवति। अपिशब्दो भिन्नक्मस्समु-
Page 169
संकरसरः (१२१) 159
चचये। सत्वं सत्संज्ञावत्त्वमपि नैव विजहाति। 'तौ सत्' इति शतृशानचास्सित्संज्ञाविधानादिति भावः। त्वद्भक्तिभृति त्वदभ- क्िभृच्छन्दे प्रत्यय इत्यस्यात्राप्यतुपङ्ग:। प्रत्ययः क्विप्प्रत्ययः स्वयं असत्त्वं सत्संज्ञामावं शतुरिव क्किपस्सत्संज्ञाया अविधाना- दिति भावः। यद्वा असत्त्वं अविद्यमानत्वं एत्य क्विपस्सर्वंस्यापि 'लशक्कतद्विते। उपदेशेऽजनुनासिक इत् । हलन्त्यम्' इति ककारेकारपकारणामित्संज्ञायां 'तस्य लोपः' इत्यनेन वकारस्य 'वेरपृक्तस्थ' इत्यनेन च लोपविधानादिति भावः । तस्य त्वद- भाक्तमृच्छव्दस्य तान्तत्वं तकारान्त्त्वं ददाति। क्किप: पित्कृ- त्वात्। 'हस्वस्य पिति कृति तुक्' इति भृ इत्यस्य तुगागमे तकारान्तत्वं सवतीति भावः। कविन्निमित्तकत्वात्तुगागमस्य तान्त-
प्रकृतार्थकक्ष्यायां ज्ञानस्य ग्लानतारूपकारणसत्त्रेऽपि सत्वपरि- त्यागरूपकार्यानुदयस्य वर्णनाद्विशेषोक्ति: पूर्वांरधे। उत्तरार्धे तु सामान्यज्ञानस्य भगवन्द्रक्तयभरणरूपकारणानुगुणासत्त्वप्राप्तया- दिकार्यवर्णनात्समालंकार:॥
नात्मकव्यतिरेकरूपः। अप्रकृतार्थकक्ष्यायां तु शतृप्रः्ययस्य तान्त-
णवृत्त्यनुप्रासश्चेत्येतेषामेकस्मिन्नेव वाचकेऽनुप्रवेश इत्येकवाचक- वाचकानुप्रवेशसंकरः॥ न च शब्दालंकारस्य पदावाच्यतया एकस्मिन वाचके वाच्यतयाऽनुप्रवेशाभावात्कथं तस्यैकवाचकानुप्रवेश इति वाच्यं
Page 170
160 अलङ्कारमणिहारे
एकवाचकाश्चितत्वमात्रस्यैव तत्रैकवाचकानुप्रवेशशब्दार्थत्वात्। न चैवमर्थालंकारस्य वाचकवृत्तिताविरहात्कथमेकवाचकानुप्रवेश- विषयतेति वाच्यम, तस्याषि वाच्यतासंबन्धेन तटुपपत्तेरित्याहुः॥ यथावा- भवति खलु सत्पदविदामिह सद्वतिरादरे कि- यायोगे। अथ सत्क्रिया समस्ताऽप्यसद्गतिरनादरे क्रियायोगे ॥ २२११ ॥ सत्पदविदां सदिति यत्पदं वस्तु ब्रह्मरूपं वस्त्वित्यर्थः । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः' इत्युक्तेः। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु' इत्यमरः। यद्वा ब्रह्मस्वरू- पमित्यर्थः । 'तद्विष्णोः परमं पदम्' इत्यत्र 'पद्यत इति पदं स्वरूपम्' इति व्याख्यानात्। तत् विदन्तीति तथोक्ताः। तेषां कतरि षष्ठी। परव्रह्मोपासकानामित्यर्थः। वेदनोपासनध्यानादि- शब्दानामैकार्थ्यस्य 'आवृत्तिरसकृद्ुपदेशात्' इत्यादौ भाष्ये स्थापितत्वात् क्रियायोगे कर्मयोगे अनभिसंहितफलकरमानुष्ठाने आदरे सति सद्गतिः शरीरवसाने अिरादिमार्गगमनं भवति
विद्यां चाविद्यां च यस्तद्वेदोभयग् सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्षुते।। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषान्त'। इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रय:। ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया॥ 'ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमेवाभिसंप- द्यन्ते' इत्यादिप्रमाणातुरोधेन ब्रह्मविदामपि विद्यासहकारित्वेना-
Page 171
संकरसरः (१२१) 161
श्रमानुगुणकर्मानुष्ठानादरस्यावश्यंभावात्तस्य सद्वतिसाधनत्वा- दिति भावः। अथ अर्चिरादिमार्गप्राप्तचव्यवहितमेव समस्ता सर्वाऽपि सक्रिया अर्चिराद्यातिवाहिकक्रियमाणस्संमान: सवती- त्यनुषज्यते। वैपरीत्येऽनिष्टमाह-असद्वतिरित्यादिना। क्रिया- योगे उक्तविधकर्मानुष्ठाने अनादरे सति असद्गतिर्भवति। ब्रह्म- विदामप्याश्रमकर्मलोपे दूषितान्तःकरणतया विद्योत्पत्तेरेवासंभ- वादसद्गतिर्भवतीति भावः। यद्वा सतः परब्रह्मणशश्रीनिवासस्य पदे चरणौ विन्दन्ति प्राप्नवन्तीति तथोक्तानां विन्दतेः ककिप्। प्रप- न्नानाममित्यर्थः। संबन्धसामान्ये षष्ठी। क्रियायोगे कैंकर्यलाभे आदरे सति सद्गतिः जनानामिति शेषः। अनादरे असद्गति- रेव भवति। भगवत्प्रपन्नजनविषयककेकर्यादरतदभावाभ्यां भग- वदनुग्रहलाभतदभावौ भवत इति भावः। अत्र- सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम्। न संशयाऽस्ति तन्रक्परिचर्यारतात्मनाम्।। अनादृतसुतं गेही पुरुषं नाभिनन्दति। तथाऽनर्चततन्भक्तं भगवान्नाभिनन्दति।
इत्यादिकमनुसन्धेयम्॥ अन्यत्र-सत् प्रशस्तं यत् पदं शब्दशास्त्रं तद्विदां व्या- करणवेत्तणामित्यर्थः। आदरे आदररूपार्थे विवक्षिते क्रियायोगे क्रियाशब्दसंबन्धे सत् गतिः इति छेद:। सत् सदित्याकारक- मव्ययं गतिः गतिसंज्ञकं भवतीत्यर्थः। अथ समस्ता सदि- त्यनेन समासं प्राप्ता । क्रियेति विशेष्यकटाक्षेण स्त्रीत्वम्। क्रिया सत्क्िया भवति सत्क्रियेति निष्पद्यने। अनादरे अनादररूपार्थे विवक्षिते क्रियाशब्दयोगे। असत् गतिरिति छेदः। असत् अस-
Page 172
162 अलङ्कारमणिहारे
दित्याकारकमव्यय गतिः गतिसंज्ञकं भवति। अथ समस्ता अस- क्क्रिया भवतीत्यप्युपस्कार्य। 'गतिश्च' इत्यनुवर्तमाने 'आदरा- नादरयोस्सदसती' इत्यादरानादररूपारथयोर्विर्वक्षितयोस्सदसतो- रव्यययोर्गतिसंज्ञायां 'कुगतिप्रादयः' इति गते रसमासविधा- नादिति भावः। अत्र प्रकृताप्रकृतश्लेषः। प्रकृतार्थकक्ष्यायां पूर्वो- त्तरार्धगत समालंकारद्वयं चेत्यर्थालंकारयोर्यमकस्य शब्दालंका- रस्य चैकवाचकानुप्रवेशः ॥ यथावा- यो वर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्या- गम्। योऽवर्विष्णुस्सोडयं श्रयते वृषशैलमाप्तशै- त्यागम् ॥ २२२० ॥ यः वर्धिष्णुः सोडयं आत शैत्यं यैस्ते अगा: वृक्षा: यस्मिंस्तं वृषशैलं श्रयते। द्वितायार्धे यः अवर्धिष्णुःसोडयं प्राप्तः शैत्यागः शै इत्याकारकवर्णस्य त्यागो येन सः षशैलं वृषलमित्यर्थः । 'वृषलाश्च जघन्यजाः' इत्यमरः । अत्र समस्यार्थालकारस्य अर्था- वृत्तिरूययमकलक्षण शब्दालंकारस्य चैकवाचकानुप्रविष्टता।। यथावा- यो भक्तस्तव मध्ये नाकस्थितिमान् सतां स मौळिर्भायात्। योऽभक्तस्तव मध्ये ना कस्थि- तिमान् सतां स मौळिर्भायात्॥ २२२१ ॥ हे भगवन् ! यः तव भक्तः मध्ये नाकस्य मध्येनाकं स्थि- तिमान् त्रिदिवे वसन्नित्यर्थः। सतां तत्र विद्यमानानां दैवर्षिप्रभृ- तीनां मौळि: किरीट इव भायात्। इन्द्रत्वेन प्रकाशेतेत्यर्थः। यः
Page 173
सङ्करस्सरः (१२१) 163
तव अभक्तः सोऽपि तद्वदेव भायादित्याश्चर्यम्। परिहारस्तु- मध्ये ना कस्थितिमान् इति छेदः। सः ना पुमान् 'पुरुषा: पूरुषा नरः' इत्यमरः। मध्ये अन्तराळे कस्थितिमान् कवर्ण- स्थितिमान् मौळिः मौकळिरित्यर्थः। शब्दाथयोस्तादात््यम्। काक इव सतां भायात्। भगवदभक्तो ब्रह्मविदां काकतुल्य- तया दूरतत्स्याज्यो भवेदिति भावः । यद्वा सः तव भक्तः मध्ये- नाकं आकाशमध्ये 'आकाशे त्निदिवे नाकः' इत्यमरः। परमे व्योस्नि वा। स्थितिमान् 'दिवि नक्षत्रभूतस्त्वम्' इत्युक्तरीत्या त्वत्कृपया प्राप्तज्योतिर्मयशरीर इति भावः। सतां नक्षत्राणां मुक्तानां वा मौळिर्भायात् तेषां मध्ये देदीप्यमानो भवेदिति- भावः। त्वदभक्तस्तु मौकळि: काक इव निस्तजस्कः प्राकृते- व्वपि निहीनतयाऽवस्थितः भायात् प्रतिभायादित्यर्थः । 'मौकळिः पिकवर्धनः'इति काकपर्यायेष्वमरः। "मूकलो थमः तस्यापत्यं मौकळिः 'सूकलः प्रेतभर्ता स्यान्मूकलः काननेचरः' इति शब्दा- णेवे" इति टीकासर्वस्वकाराद्यः। अत्र भगवन्भक्तत्वतद्भक्त- त्वयोविशेषणगत्या मौळित्वमौकळित्वे प्रति हेतुत्वात्काव्यलिङ्गद्यं रूपकसंकीर्णे अर्थावृत्तिरूपकयमकेन सहैकवाचकानुप्रविष्टम्। यथावा- असकौ पीनो भूत्योपचितः पीताम्बरं श्रितो यस्स्यात्। असकौपीनो भूत्योपचितो हरिदम्बरं श्रितोऽ्पि स्यात् ॥ २२२२ ॥
यः पीताम्बरं श्रीनिवासं अनेन सर्वसंपत्समृद्धि: सूचिता । श्रितः स्यात् असकौ असौ जनः। अदशशब्दस्य 'अव्ययसर्वा-
Page 174
164 अलङ्कारमणिहारे
नाम्न्ामकचू प्राकुटे:' इत्यकचि 'अदस औ सुलोपश्च' इत्यदस औकारोजनतादेशस्सौपरे सुलोपश्च। तदोस्सस्सौ' इति दस्य सः। भूत्या वस्त्राभरणान्नपानादिसंपदा उपचितः समृद्ध: अतपव पीनः पुष्टाङ्ग: स्यादित्येतदन्नापि संबध्यते। हरिदम्बरं हरितवर्णव- सन दिगम्बरं शिवमिति वास्तवार्थः । 'हारत् क्ीबं तृणे नाश्वे वर्णे त्रिषु दिशि स्त्रियाम्' इति रत्नमाला। श्रितोऽपि जनः भूत्या उपचितः पीनस्स्यादित्याश्चर्यम्। वस्तुतस्तु भूत्या भस्मना उपचितः दिग्धः कौपीनेन सह वर्तत इति सकौपीनः सन भवती त्यसकौपीनः स्यात्। यथाक्रतुनयेन दिगम्बरमुपासीनो दिगम्बर एव स्यात् तत्सारूप्यं भजेदिति भावः। 'भूतिर्मातङ्गश् द्वारे जन्मसंपत्तिभस्मसु । दिग्धवृद्धावुपचितौ' इति च रतमाला। 'भूतिर्भस्मनि संपत्तौ, भवेदुपचितं दिग्धे समृद्धे वाच्यलिङ्गकः' इति मेदिनी च। अत्र शब्दार्थालंकारयोर्यमकसमालंकारयोरेक- वाचकानुप्रवेशः। यथावा- प्राकृतदैवतभ्जनान्मन्ये प्राप्स्यस्थरे नरेश्वर- ताम्। मुग्ध तथैव यतेथा मन्ये प्राप्स्यस्यरेनरे- श्वरताम् ॥ २२२३ ॥ इदं सकलफलप्रदं भगवन्तं श्रीनिवासमुपेक्ष्य प्राकृतदैवतो- पासनेनाधिराज्यं प्रेप्सुं कंचिनमुग्धं प्रति कस्यचित्प्रौढमतेः परि- हासवचनम्। अरे मुग्ध! त्वं प्राकृतदैवतानां भगवदातिरिक्तदै वतानां भजनात् उपासनात् नरेश्वरतां सार्वभौमतां प्राप्स्यसि मन्ये प्राप्स्यामीति मन्यस इत्यर्थः। 'पहि मन्ये ओदनं भोक्ष्यसे' इत्यादाविव परिहासद्योतनायायं पुरुषव्यत्ययः। तथाच सूत्रम्- 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' इति। "मन्यधा-
Page 175
संकरसर: (१२१) 165
तुरुपपदं यस्य तस्मिन् घातौ प्रकृतिभूते मध्यमसस्यात्। मन्य- तेस्तूत्तमस्स्यात्स चैकार्थवाचकस्स्यात्" इति तदर्थः। तथैव यतेथाः। अरे भुग्ध! पुनस्संबोधनं परिहासातिशयं द्योतयति। नरेश्वरतां प्राप्स्यसि लप्स्यसे इति मन्ये अहं जानामीत्यर्थः। हार्दोऽभिप्रायस्तु-अरेनरेश्वरनामिति समस्तं पदम। अरेः रेघ- णविधुरा या नरेश्वरता नश्वरतेत्यर्थः। तां प्राप्स्यास भगवत्यौ- दासीन्येन दुर्देवता यदि भजेथाः तर्हि क नरेश्वरता लभ्येत। किंतु नश्वरतैवेति भावः। अत्र अरेनैरेश्वरतामिति श्लेषः समा- लकारविशेषस्याङ्गं, अयं च संकरः यमकेनैकवाचकानुप्रविष्टः ।
यथावा- ग्रस्तो जरादिभिस्त्वां विमायमेनं नमेयमावि- भक्तिः । पुनरपि तव धाम्मि् परे विराजमानं न मा जरा विशतु हरे ॥ २२२४॥ हे हरे! जरादिभिः आदिशब्देन गर्भजन्मादिकं गृह्यते। ग्रस्तः अहं विभ्रंशिता माया येन सः विमायः तं निश्शेषप्रकृति- बन्धविनिवर्तकमित्यर्थः । मायाशब्दः प्रकृतिवाची। 'मायां तु प्रकृति विद्यात्' इति श्रुतेः। एनं त्वां आविर्भक्ति: प्रादुर्भूत- भक्तिस्सन् नमयं शरणं व्रजेयम्। एवमुपायं प्रार्थ्य फलं प्रार्थ- यते। परे तव धास्ति विराजमान अकर्मवश्यतया प्रकाशमानं 'स स्वराड्भवति' इति श्रुतिरिहानुसंहिता। मा मां जरा जरोप- लक्षितगर्मजनमादिकं पुनरपि न विशतु। त्वय्यात्मनिक्षेपावधि- कमेव हि प्रकृतिबन्धमूलकं गर्भजनमजरामरणादिपीरवर्तनमिति भावः। अत्र पूर्वार्धवाक्यार्थहेतुकः उत्तरार्वाक्यार्थ इति काव्य-
Page 176
166 अलक्कारमणिहारे
लिङ्गं द्वितीयतुरीयपादगतवर्णपश्चकातुलोमप्रतिलोमचित्र रूपश- व्दालंकारैकवाचकानुप्रविष्टमिति ध्येयम्। यथावा- श्रीस्पृहयाळु दयाळु ग्रहयाळु जनस्य चरण- पतयाळो: । श्रद्धाळुरतन्द्राळुर्भद्रानिद्राळु तद्रजे ब्रह्म ॥२२२५॥ श्रद्धाळुः अतन्द्राळु: अहं भद्रानिद्राळु जगन्मङ्गळविधानजाग- रुकमित्यर्थः। अत्र श्रीस्पृहयाळुत्वस्य दयाळुत्वं प्रति तस्य च चरणपतयाळुग्रह्याळुता प्रति च हेतुत्वात्काव्यलिङ्गं मालारूपं तञ्च भजनं प्रति हेतुरिति काव्यलिङ्गान्तरं च वृत्त्यनुप्रासेन सहैकवाचकानुप्रविष्टम। 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आळुच्' इति सूत्रोदाहरणानि सर्वाण्यप्युपेक्षितक्रमाणि रत्ना- वळोविशेषरात्या निबदधानीति विच्छित्तिविशेषोऽनुसंधेयः ॥ # यथावा- फणिगिरिमणिरमणि भवत्फणितिप्रणयो व्य- तानि यदनेन। फाणितमभाणि तदयं खण्ड- विकारो न कारणान्तरतः ॥२२२६॥ हे फणिगिर्मणिरमणि! यत् यस्मात् अनेन खण्डविकारेण भवत्या: फणितौ वाचि प्रणयः विश्वासः सख्यमिति यावत्। व्यतानि व्यरचि। तत् तस्मात् अय खण्डविकार: खण्डशर्करा- विशेष: फाणितशब्देन व्यवाहियत। न तु कारणान्तरतः। फणित्या इदं फाणितं फणितिप्रणयवत्वात्तत्संबन्धीत्यगद्यतेत्यर्थः। फणिति- शब्दात् 'तस्येदम्' इत्यणि 'यस्योति च' इतीकारलोपे आदि-
Page 177
सैकरसरः (१२१) 167
वृद्धौ फाणितमिति रूपं फाण्यते द्रवीभावं प्राप्यते इत्यादि- व्युत्पत्तिभिस्तु फाणितमिति नाभाणीत्यर्थः। अत्र फणिगिरि- मणीति रूपकातिशयोक्ति: फाणितमित्यमाणीति निरुक्ति: न कार- णान्तरत इत्यपह्नवश्चाप्रस्तुतप्रशंसया संकीर्णाः टत्तचनुप्रासेन सहैकवाचकानुप्रविष्टाः। उक्तानां पश्चानामपि नरसिंहाकाराणामलंकाराणां क्वचिदेक- पद्ये मेळने चारुतातिशयः। यथा- स्वाभा तरूपलाल्या सुरुचिरकुरुविन्दबृन्दपटु- कटका। हरिमणिना फणिनायकगिरिधरणी लसति कलिततिलका नु ॥ २२२७॥ तरूपलाल्या तरूणामुपलानां च आल्या पङ्कया स्वाभा शोभनप्रकाशा। अन्यत्र स्वाभातरूपलाल्यति समस्तं प्रथमैक- वचनान्तं पदम्। सुष्ध आमातं प्रकाशमानं यद्रपं- आरोप्यावेध्यविक्षेप्य पारिहायरभूषितमू। यद्भूषितमिवाभाति तद्रपमिति कथ्यते॥। इति लक्षितशशोभाविशेषः । तेन लाल्या लालनीया। सुरु- चिराणि कुरुविन्दानां मुस्तानां पझमरागाणां च वृन्दानि यस्मि- स्तत्तथोक्त पटु अजर्झरं कटकं सानुभागो वलयश्च यस्यास्सा। 'कुरुविन्दाः पझमरागहिंगुलादर्शमुस्तकाः' इते रतमाला। 'कटक वलये सानौ राजधानीनितम्बयोः' इति विश्वः। फणिनयकागर- धरणी हरिरेव हरिमणि: इन्द्रनाल: हरिरेव माणरिति वा। तेन कलिततिलका नु रचिततिलकेव विलसति- प्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि। नु पादपूरणे ज्ञेयो जिज्ञासायां समुचये॥
Page 178
168 अलद्वारमणणिहारे
इति शेष: । अत्र स्वाभातरूपलाल्येत्यादिक्षेषस्य तन्मूलकाति शयोक्तेश्राङ्गाङ्विभावसंकरः। तया चोन्नह्यमाना हरिमणितिलकि- तत्वोत्प्रेक्षा फणिनायकगिरिघरण्यां नायिकाव्यवहारसमारोपरूप-
शयोकत्युत्तम्भितत्व तौल्यात्परस्परापेक्षसौन्दर्यातिशयत्वैककाललि- कत्वयोरपि सन्भावात्समप्राधान्यम्। एतावत्येव कविसंरम्भे अयं संकरः। कलिततिलका नु इत्युपमायां चेत्संरम्भ: तदा फणि- नायकगिरिधरण्याः नायिकौपम्यस्य गम्यमानतया एकदेशविव- त्युपमालंकारः। स श्लेषमूलातिशयोक्तया अङ्रेन संकीर्यमाण इत्य- नयोस्संदेहसंकरः । हरिमणिनेत्यत्र हरिरेव हरिमणि: हरिर्म- णिरिवेत्युभयथाऽपि समाससंभवाद्रपकोपमयोरन्योऽपि संदेह- संकर:। सुरुचिरकुरुविन्दवृन्दपटुकटकेत्यत्र श्लेषमूल/तिशयोक्ते- रनुप्रासस्य चैकवाचकानुप्रवेशसंकरः। एवं कलिततिलकेत्यत्र उत्प्रेक्षानुप्रासयोश्च हरिमणिनति संदेहसंकरस्य पूर्वोत्तरार्ध- गतानुप्रासयोश्च संसृष्टिरिति पश्चाप्यलंकारा अत्र मिळिता इति सुधीभिर्विभावनीयम्। अय च पश्चानामलंकाराणामेकत्र मेळ-
षुचित्पद्येष्वस्माभि: प्रकाशितः । क्वचित्संकराणामपि संकराद्विच्छित्तिविशेष: । यथा-
न्गृहे धनिनाम्। उञ्छन्ति जाम्बवधिया यहाला- स्सा रमाकटाक्षश्रीः ॥ २२२८॥ धनिनां श्रीमतां गृहे जात्यभिप्राथकमेकवचनम्। च्युतान् अनादरादळितान् अजिरेषु अङ्गणेषु आचिताः भूमीसमतलतया
Page 179
संकरसर: (१२१) 169
आतता: ये हरिमणयः फलकाकारा इति भावः। तेषां घृणिभिः किरणैः मसृणान् स्त्िनिग्धान् श्यामलानिति यावत्। वज्रान् हीरमणीन् बाला: क्रीडन्तो माणवका: जम्ब्वा विकारा: जाम्ब- वानि जम्बूफलानीति धिया भ्रान्त्या 'जमब्वा वा' इति वैकारि- कोऽण्। 'फले जमब्वा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः। उञ्छन्ति एकैकश आददते इति यत् सा विधेयकटाक्षश्रशिब्द- कटाक्षेण स्त्रीलिङ्गता। रमाया: श्रीनिवासदिव्यमहि्या: कटाक्ष- श्रीः कटाक्षलक्ष्मीरेव। अत्र तावत् श्रीमतां संपत्तिसमृद्धिवर्ण- नमुदात्तालंकार:। तन्मूलको हरिमणिघृणिमसृणानित्यत्र तद्गणा- लंकारः, तत्रैव वक्ष्यमाणभ्रान्युपपादकपदार्थहेतुककाव्यलिङ्गा- लंकारश्चेति तयोरेकवाचकानुप्वेशसंकरः । तन्मूलको जाम्बवधि- येत्यत्र भ्रान्तिमदलंकारः। ताभ्यां चादात्तालंकारससुन्दरतां ल- म्भित इति तयोश्च तस्य चाङ्गाङ्विमावेन संकरः। एवं श्रीम- द्ववनसमृद्धे हैंतुमतो रमाकटाक्षश्रियो हेतोश्चाभेदवर्णनं हेत्वलंकार:। स च रमाकटाक्षश्रियो निरवधिकोत्कर्षपर्यवसायी। एतावन्मात्रे चेत्संरम्भ: कवे: तदा उपपादितोदात्तालंकारोपस्कृते हेत्वलंकारे विश्रमः । वर्णनीयाया रमाया: कटाक्षलक्ष्मीः कीदृशीति प्रश्नो- त्तरतया निरवधिकैश्वर्यविक्षाणनरूपाप्रस्तुतकार्यमुखेन तदीयक- टाक्षलक्ष्मीप्रकर्षप्रशंसायां चेत्संरम्भ: तदा कार्यनिबन्धनाप्रस्तुत- प्रशंसालंकारे विश्रमः । कार्थस्यापि वर्णनीयतयाऽ्रमिसंधौ तु प्रस्तुताङ्करे विश्रान्तिः। अत्र विशेषानध्यवसायात्संदेहसंकरः। किंच श्रीमन्भवनवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतया अत- शयोक्तेरुदात्तालंकारेण सहै कवा च का नुप्रवेश्संकरः। निरवधिकौ- दार्योत्कर्षपर्यवसायिनो हेत्वलंकारस्यान्भुतातथ्यौदार्थवर्णनात्मिक- याऽत्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुत- ALANKARA IV. 14
Page 180
170 अलङ्कारमणिहारे
प्रशंसालंकारस्य प्रस्तुताङ्करालंकारस्य वा श्रीमत्सम्पत्समृद्धिवर्ण- नात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । वाचकश- ब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यस्य दीक्षितैरवोक्त- त्वात्। तथाचोदात्तातिशयोक्तयोः हेत्वत्युक्तयोः व्यङ्गयोदात्ता- प्रस्तुतप्रशंसाप्रस्तुताङ्गरान्यतरयोरित्यतेषां त्रयाणामेकवाचकानु- प्रवेशसंकराणां समप्राधान्यसंकरः । न ह्येतेषामन्योन्यमितरत्राङ्ग- त्वमस्ति। ननु संपत्समृद्धिवर्णनात्मकस्योदात्तस्यासंबन्धे संबन्ध- वर्णनरूपातिशयोक्तेश्चैकवाचकानुप्रवेशस्थ हेत्वलंकारसौन्दर्याधा- यकत्वेनतराङ्गतायां जागरूकायां कर्थ त्रयाणं समप्राधान्यसंकर इति वाच्यं, उदात्तालङ्कारस्वैव संपत्समृद्धिवर्णनात्मना हेत्व- लंकारचारुताधायकतया अङ्गता। न तत्रातिशयोक्तिसंकरस्या- प्युपयोग इति त्रयाणां समप्राधान्यस्योचितत्वात्। एवमत्र श्ोके चर्तुर्णामि संकराणां यथायोग्यं संकरः । तथाहि-उदात्त
रस्य उदात्ताङ्गकहेत्वलंकारादिसंदेहसंकरस्य चाङ्गा्विभावसंकर इति कुशाय्रीयमतिभिरनुसंधेयम्। एवंजातीयकास्सकराः प्रागुप- दर्शितेष्वर्थालंकारोदाहरणेषु उपदर्शयिष्यमाणेषु शब्दालंकारोदा- हरणेषु च संभवन्तो मनीषिभिरलंकारशास्त्रानष्णातस्स्वयमवाह्यिन्त इति विस्तरभयाद्विश्रम्यते। ग्रन्थान्ते श्रीरिति निर्देशोऽत्यन्त- मङ्गलार्थ इति सर्वे समञ्सम्॥
इत्यलङ्कारमणिहारे सङ्कालङ्गाग्सर एकविशत्युत्तरशततमः
Page 181
शब्दालङ्कारसर: (१२२) 171
अथ शब्दालंकारसर: (१२२) इत्यर्थालंकृतयो यथामति निरूपिताः । निरुप्यन्ते ऽथ दिखात्रं शब्दालंकृतयः क्रमात्॥
शब्दालंकारा अर्थालंकारेभ्यः पूर्व निरूपिताः। काव्यानुशासन- कारस्तु-"अलंकारा: खलु द्विविधाः शब्दालंकारा अर्थालंकाराश्च, तत्रतावदर्थमधिकृत्य शब्द: प्रवर्तते, अतः प्रथममर्थालंकारा एवो- दाहियन्ते" इत्याह। अतएव दण्डिप्रभृतिभि: अर्थालंकाराः प्रक- षातिशयादादौ शब्दालंकारास्तु जघन्यतयाSनन्तरं च निरूपिताः। अतएवास्माभिः काव्यानुशासनकृदादिमतावलम्बनेनार्थालंकार- निरूपणानन्तरमेव शब्दालंकारा निरुप्यन्ते। वर्णानुप्रास :- साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः ।। स्वरवैसादृश्येऽपि व्यञ्जनानां सादृश्यं यत् सवर्णातुप्रासः। व्यञ्जनसाम्यं यमकेऽप्यस्तीति तद्वारणाय मात्रपदम्। तेन स्वर- व्यञ्जनसादृश्य एव यमकत्वस्य वक्ष्यमाणत्वान्न तत्रातिव्याप्तिः। स्वरव्यअ्ञनसाम्यरूपलाटानुप्रासाव्याप्तिवारणाय वर्णपदं लक्ष्ये विशेषितम्। तथाच लाटानुप्रासस्य पदानुप्रासतया वर्णानुप्रासता- विरहाद्लक्ष्यत्वन न तत्राव्याप्तिर्दोषायेत्याङ्डः। रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः। तदुक्तम्-'प्रकृष्टो वर्णविन्यासो रसाधनु- गतो हि यः । सोऽनुप्रासः' इति॥ द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः ॥ अय वर्णानुप्रासश्च छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विविधः। छेका: विदग्धा: तद्भिमतोऽनुप्रासश्छेकातुप्रासः। वृत्तिर्नाम निय- ALANKARA IV. 14*
Page 182
172 अलङ्कारमणिहारे
तवर्णगतो रसविषयो व्यापारः रचनाविशेष इति यावत्। तदा- श्रितोऽनुप्रास इत्याहुः॥ छेकानुप्रास :- छेकानुप्रासमाहुर्यत्साम्यं व्यञ्नयोस्सकृत्।। यद्यञ्जनयोस्सकृत्साम्यं तं छेकानुप्रासमाहुः॥
सन्ततमन्तःकरणं दिव्यं भव्यं भुजङ्गगिरिसाङ्गि। यथावा-
धाम श्यामममेयं विन्दतु कन्दर्पदर्पहररूपम्। अत्र पूर्वार्धे नकारतकारयोः ङकारगकारयोः वकारयका- रयोः उत्तरार्धे नकारदकारयो: रेफपकारयोश्च सकृत्साम्यम्। इदं च- ततोऽरुणपरिस्पन्दमन्दीकृतवपुश्शशी। दभ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्। इतिच्छेकानुप्रासस्योदाहरणदानेन व्यवधानसहिष्णुव्यअ्जन- द्वयसकृत्साम्यस्य छकानुप्रासतामभ्युपगच्छता प्रकाशकारादीनां मतेन! विद्यानाथादीनां मते तु इद लक्षणम्- द्वयोद्वयोर्व्यअ्जनयोर्युग्मयोर्या निरन्तरा। आवृत्ति: क्रियते सोडयं छेकानुप्रास ईर्यते॥
इत्यर्थः । तेनाज्वर्णव्यवधानेऽपि न दोषः ॥ यथावा- देवादेव श्रेयो रामारामस्ववक्षसो ज्यायः।धयेयो
Page 183
शब्दालङ्गाग्सर: (१२२) 173
अत्र पाद्चतुष्टयेऽपि व्यञ्ञनयुग्मानामव्यवधानेनाटत्ते्छेकानु- प्रास:॥ वृत्यनुप्रास :- उल्लङ्ड्य संख्यानियमं पौनरुक्त्यं भ्वेद्यदि। एकद्वित्रयादिवर्णानां वृत्त्यनुपरासमूचिरे॥ अत्रैकस्य व्यञ्जनस्य सकृदावृत्तौ वैचित्रयविरहात्सामथर्या- दसकृदावृत्तिर्लभ्यते। द्वयोस्तु सकृदेव। अन्यथा छेकानुप्रासो भवेत्। व्यवधाने त्वसकृदाटत्तावपि न विरोधः । त्रचादोनां सकृदसकृद्वा व्यवधानेनाव्यवधानेन वा आवृत्तिर्द्ष्टव्या। वृत्तिश- व्द्ैन वैदभर्चादयो विवक्षिताः। तदुपलक्षितोऽनुप्रासी वृत्यनुप्रास- इत्याहुः॥ यथा- मुरघातुकमरतकवर विसृमररुचिनिचयमेच की- भूता। आलसति नीलचेलकनिचोलितेवाहि- भूभृतो भूमि: ॥ २२३१ ॥ फणिवरणीधररमणी रमणीयमणीललन्तिका- लतिका। उन्मीलति काडपि महामहिममही देवता मुदे जगताम् ॥ २२३२॥ कोमलकमल जरुचिमदहररुचि म दुदार लोचने देवे। मुदिरमदरभसनिर्जयरभसि निजाङ्गेडस्तु मम मनो लग्नम् ॥ २२३३॥
Page 184
174 अलंकारमणिहारे
द्वितीये पद्ये महामहिस्तां मही भूमिः आधारभूतेत्यर्थः । काऽपि देवतेति योजना। तृतीये मदरभसो मदवेग: तस्य निर्जये रभसि उल्लासवदित्यर्थः । 'रभसो वेगहर्षयोः' इति विश्वः। अत्र पद्यत्रये यथायोगं एकद्वित्रचादिवर्णानामावृत्तर्वृत्त्यनुप्रासः। अत्र पूर्वत्र च स्वरसादृश्यमानुषाङ्गिकम्। स्वरव्यज्ञनसादृश्यस्य यमकप्रयोजकत्वं वक्ष्यते॥
अथ लाटानुपरास :- तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता। सोडयं शाब्द: काव्यविद्गिर्लाटानुप्रास ईर्यते॥ एवं वर्णगतमनुप्रासं प्रतिपाद्य वर्णसमुदायरूपशब्दगतमनु- प्रासं निरूपयति-तात्पर्यमात्रेति। तात्पर्यमात्रभिन्नं शब्दार्थयोः पौनरुक्तचं यत् सोडयं शब्दो वर्णसमूहः तत्संबन्धी शाब्द :- लाटजनप्रियत्वाल्लाटानुप्रास इति काव्यविद्धिरीर्यते। अत्र शब्द, पौनरुक्तचमात्रं यमकेऽप्यस्तीति तद्वारणायार्थपदम्। यमके चार्थभेदान्न तत्पौनरुक्तयम्। शब्दार्थपौनरुकत्यमात्रं कथितपदत्वादि- रूपदोषसाधारणमित्यतस्तात्पर्यमात्रभिन्नेि विशेषणमिति व्येयम्। वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तब्रिधा॥ सः लाटानुप्रासः वाक्यपौनरुक्तच सुबन्ततिङन्तपदपौन- रुक्त्ये नाम्: प्रातिपदिकस्य पौनरुक्त्ये व त्रिविधो भवति। तत्राद्यो यथा- त्वं चेत्प्रसीदसि हरे वर्णाश्रमधर्मचर्यया किं नः। यदि न प्रसीदसि त्वं वर्णाश्रमधर्मचर्यया कि न: ॥ २२३४॥
Page 185
शब्दालङ्कारसर: (१२२) 175
अत्र प्रथमार्धे वर्णाश्रमधर्मचर्यायाः भगवत्प्रसादरूपफलनि- घ्पत्तौ सत्यामनादरः, द्वितीयार्धे तादृशफलनिष्पत्यभावे अनादर इति तात्पर्यभेदेन वाक्यावृत्तेर्लाटानुप्रासः॥ यथावा- विषममृतं तस्य भवेद्यस्य मनो भवति माघ- वे5स्खलितम्। विषममृतं तस्य भवेद्यस्य मनो- भवति माधवे स्खलितम् ॥ २२३५॥ नृत्यति हृदि यस्य हरि: कलिः कृतं तस्य भवति हन्त युगम्। शौरिर्न यस्य चेतसि कलिः कृतं तस्य भवति हन्त थुगम्॥ २२३६॥ अत्राद्ये पद्ये यस्य श्रनिवासे चित्तमस्खलितं तस्य विषमप्य- मृतं भवेत् प्रह्लादस्येव। यस्य चित्तं रखलितं तस्य अमृतमपि विषं भवेदिति। द्वितीये श्रीनिवासध्यानबद्धादरस्य कलियुगमपि कृतयुगं तदन्यस्य कृतयुगमपि कलियुगमिति तात्पर्यभेदेन वाक्यावृत्तेलाटानुप्रासः॥ कलि: कृतयुग तस्य कृतं तस्य कलिर्युगम्। हृदये यस्य गोविन्दो यस्य चेतसि नाच्युतः॥ इति प्रमाणमत्र प्रत्यभिज्ञाप्यते। यद्यप्यत्र पद्यद्वयेऽपि पूर्वा- धयोर्विषकल्योरुद्देश्यत्वात्प्राथम्यं अमृतकृतयुगर्योर्विधेयत्वाञ्जघ- न्यत्वं च युक्तम। उत्तरार्धे तु उद्देश्यविधेयव्युत्क्रमनिर्देशरूपावि- मृष्टवविघेयांशरूपो दोष:। तथाऽपि तदस्फुरणदशायां प्रतीतिस्थ- गनविरहात् ईदशमपि प्रकाशकारादिमि: प्राचीनैरुदाहतमित्यस्मा- भिरष्युदाहतम्॥
Page 186
, 176 अलङ्कारमणिहारे
द्वितीयो यथा- तेषां चक्षुश्रक्षुस्तेषां जन्मैव जन्म मनुजा- नाम्। ये निध्यायन्त्यनिशं येSनुध्यायन्ति फणि- धरेशं तमू ॥ २२३७॥
'इन्दुरिन्दुरिव श्रीमान्' इत्यादावनन्वयालंकारेऽपि शब्दार्थ पौनरुक्तयसंभवा ल्लाटानुप्रासत्वमेव किं न स्यादिति चेत्सत्यं, यद्यण्यनन्वये अर्थपौनरुक्तयमात्रं लक्षणं तथाऽप निर्देशप्रतिनिर्दे- शयोरैकरूप्यविरहे पर्यायप्रकरमदोषप्रसंगादानुषङ्गिकं शब्दपैौन- रुक्तयम्। अत्र तूमयपौनरुक्तचमप्यावश्यकमेवोति विषयभेदान्न कोऽपि विरोधः। तदुकतं- अनन्वये व शब्दैक्यमौचित्यादानुषङ्गिकम्। अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥ इति, इत्याहुः। नन्वेवमप्यनेनैव लाटानुप्रासेन सिद्धस्यैव चक्षुरादेस्तात्पर्यभेदेन चक्षुष्टदिविधानाद्विध्यलंकारो माऽस्विति चेन्न। 'रामस्य गात्रमसि' इत्यादी शब्दार्थपौनरुक्त्याभावस्थले विध्यलंकारस्यावश्यकत्वादत्राप्यर्थवशात्समावेशे अनयोरेकवाच- कानुप्रवेशसंकरस्यैव वकुं युक्तत्वात्।। यथावा- तद्वैवतं हि दैवतमहिगिरिशिखरेऽस्ति यन्महो- दारम्। मनुजस्स एव मनुजस्सकृदपि वा येन तत्स्मृ्तिं नीतम् ॥ २२३६।।
Page 187
शब्दालङ्कारसर: (१२२) 177
समासैक्ये तद्धितायां स्यात्समासासमासयोः । नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः॥ एकस्मिन् समासे मिन्ने वा समासे समासासमासयोर्वा नाम्न: प्रातिपदिकस्य चातृत्तौ लाटानुप्रासः पुनस्त्रिविधो निष्प- द्यते॥। यथा- अमृतामृतकरशिशिरा शिशिरावनिधरधृति- दयासीमा। सीमा पुरातनगिरां सा मां परदेव- ताऽवतादनिशम् ॥ २२३९॥ दयाविषये असीमा अविद्यमानसीमा अतिवेलद्योर्मिळे- त्यर्थः। दयायास्सीमा अवधिरिति वा। अमृतामृतेत्यत्र अमृतेति प्रातिपदिकस्यैकस्मिन् समासे शिशिरेत्यस्य भिन्ने समासे दया सीमासीमेत्यत्र समासासमासयोश्चावृत्ति:। पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥ वाक्यावृत्तावेकः पदातृत्तावन्यः एकस्मिन् समासे नामावृ- त्तावितरः मिन्ने समासे नामाउत्ती परः । समासासमासयांनामा- वृत्तावपर इति पञ्चविधो लाटातुप्रासउक्त :- सितकरकररुचिरविभा विभाकराकारधरणिघरकीर्ति: । पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य । इत्यायुदाहरतां काव्यप्रकाशकारादीनामनुरोधेन। अत्रेदं चिन्त्यम्-द्वयोरपि करशब्दयोर्वाच्य एव विश्रान्तत- याऽन्यपरत्वविरहान्नस्ति तात्पर्यभेद, तस्यैव तज्ीवातुत्वात्।
Page 188
178 अलक्कारमणहारे
अतोऽतुप्रासमात्रत्वमेवास्य। नच केवलकरादिपदानां स्वार्थव- श्रान्तावपि समासे उपसर्जनीभूतानां स्वार्थत्यागेन परार्थवृत्तेस्ता- त्पर्यान्तरपरत्वमस्त्येवेति वाच्यम्, लक्षणासामग्रीविरहात्। अ- त्राप्यन्यपदार्थप्रधानत्वात्करशब्दस्य गुणीभाव एव नतु मुख्या- र्थबाधा, स्वार्थ एव विश्रान्तेः। न हि गुणीभावमुख्यार्थबाधयोरे- कत्वं सता हि मुख्यार्थस्य किंचिद्पेक्ष्य गुणीभावः। बाधस्तु स्वस्मिन्नेवाविश्रान्तिरित्यनयोमहान् भेद: । नाप्यत्र लक्षणायां किंचित्प्रयोजनमित्येतत्पौनक्त्यमान्रम्। एतेन 'अत्राब्जपत्रनयने नयने निमील्य' इत्यत्र लाटानुप्रासं वदन् सर्वस्वकारोऽपि प्रत्युक्त:। अब्जपत्रशब्दस्थाप्यपानरुक्तचेन तस्य दुर्घटत्वादिति वदन्ति॥ अथ यमकम् अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा। क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत्। यथा- सरसा सरसा सकलाविपुला विपुला फणीन्द्र- भूमिभृतः। शौरर्मोदं जनयति नयति नृणां दुरित- मविरतं विरतिम् ॥ २२४०॥ अत्र सरसासरसासकलेत्यत्र रसासेत्यादीनामनर्थकाना वा विपुलाविपुलेत्यत्रार्थसंभवेन भिन्नार्थकानां वा जनयति नयतीत्यत्र कचित्सार्थकानां क्वचिदर्थविधुराणां वा वर्णानां क्रमाद्यत्पौनरुक्तथं तद्यमकम्। अत्र सरसासरसासकलेत्यत्रावर्त्यमानानां रसासेति वर्णानामर्थाभावेन भिन्नार्थकत्वस्य सार्थकानर्थकत्वस्य चाभावा- दव्याप्ति:, अतउक्तमनर्थका वेति। विपुलाविपुलेत्यत्रावर्त्यमानानां
Page 189
शब्दालङ्कारसरः (१२२) 179
विपुलेति वर्णानामनर्थकत्वम्य सार्थकानर्थकत्वस्य वा अभावाद- व्याप्तिरित्यत उक्त भिन्नार्थका वेति। जनयति नयतीत्यत्र द्वितीय- नयतिशब्दस्य सार्थकत्वान्नानर्थकत्वं नापि भिन्नार्थकत्वं, प्रथम- नयतिशब्दस्यानर्थकत्वात्। अतस्तत्राव्याप्तिरित्यत उक्त सार्थका- नर्थकाश्च वेति। कपिः पिक इत्यदौ भिन्नार्थकानां वर्णनामात्तेर्य- मकत्वप्रसङ्ग इत्यत उक्त क्रमादिति। येन क्रमेण प्रथमं पठिता: तेनैव क्रमेणावर्तिता इत्यर्थान्न तत्रातिव्याप्तिः । वर्णा इति बहु- वचनमविवक्षितम्। तेन- विजयीभव भववन्दित दितदितिजनिजातजा- तभीतिविशेष। शेषभुज भुजगभूघरधरणीरमणी- मणियमान मुरारे ॥ २२४१ ॥ इत्यत्र न यमकत्वक्षतिः। दितिजनीनां दैतयानां जातं समूहः तस्माज्जातो यो भीतिविशेष: सः दितः छिन्नः येन सः तस्य संबुद्धि: 'दित छितं वृक्णम्' इत्यमरः । न चैवं लक्षणाननुगम
त्येके। एकार्थत्वभिन्नशब्दावृत्तिर्यमकम्। एकार्थकत्वभेद्श्च निर- र्थकेषु भिन्नार्थकेषु सार्थकानर्थकेषु वर्णेष्वविशिष्टमिति नाननुगम इत्यन्ये। श्लोकार्धपादतद्ागावृत्त्या स्यात्तच्चतुर्विधम॥ तत् यमकं श्रोकावृत्तौ अर्धावृत्तौ पादाटत्तौ पादभागावृत्तौ च भवत् प्रथमँ चतुर्विधं भवाि॥ तत्र श्ोकावृत्तिर्यथा-
Page 190
180 अलक्कारमणिहारे
मू। तमचलमहिमाधारं सदो गोविन्दमादधत- मिष्टम् ॥ २२४२॥ उन्ुङ्गमध्यवनि कामन्दारोल्लसिसुविपुलक्रोडम्। तमचलमहिमाधारं सद्योगोSविन्दमादधतमिष्टम्।।
आधारं सदः गोविन्दं आदधतं इष्टम्। उत्तुङ्गं अध्यवनि कामे दारोल्लासिसुवियुलोक्रो्डं तं अचलमहिमाधारं सद्योग: अविन्दं आदधतं इष्टम्, इति पदच्छेद:। उन्नता: तुङ्गाः पुन्नागतरवः यस्यां तस्यां उत्तुङ्गायां 'पुन्नागे पुरुषस्तुङ्ग' इत्यमरः। मध्यवनिकायां मध्येSरण्यमित्यर्थः। ये मन्दारा: पारिजाततरवः 'पारिभद्गे निम्ब- तरुर्मन्दार: पारिजातकः'इत्यमरः। तेषु उल्लासी शोभना विपुला भूदेवी यस्य सः सुविपुल: भूदेव्या ्लिष्ट इत्यर्थः । ईदृशः क्रोड: आदिवराहो यस्मिस्त तथोकं, आदवराहस्य भगवतरशेषाद्रावा- विर्भूतत्वात्। 'क्रोडो मूदार इत्यपि' इति वराहपर्यायेष्तमरः । त सुप्रसिद्धं अहिं अचलमित्यन्वयः । शेषाद्रिमित्यर्थः। शेषस्यैवा- चलत्वेनावतीर्णतायाः पुराणप्रसिद्धतया अभेदेन निर्देशः। आधारं निवासस्थान आदधतं कुर्वाणं तत्र निवसन्तमित्यर्थः । इष्ट निरति- शयप्रीतिविषयं 'प्रियो हि ज्ञानिनोऽत्यर्थ' इति गानात्। 'इषु इच्छायां' कर्मणि कः। इष्ट सर्वैः पूजितमिति वा। यजते: क् :- इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु। सप्ततन्तौ पुमान् कीबे संस्कारे ऋतुकर्मणि॥ इति मेदिनी। उत्तुङ्गं सर्वर्गुणैरतिमात्रमुन्नतं। अव्यवीि भूमौ। विभक्तचर्थेऽप्यीभावः । अध्यवनि अहिमचलमाधार- मादधतमित्यन्वयः । कामं पर्यातं यथास्यात्तथा दारैः सह-
Page 191
शब्दालङ्कारसर: (१२२) 181
धर्मिण्या लक्ष्मचा उल्लासि प्रकाशमानं सुविपुलं अतिविशालं क्रोडं भुजान्तरं यस्य ते लक्ष्मीसमाश्रिष्टविशालवक्षसमित्यर्थः। तं वेदा- न्तवेद्यजगत्कारणत्वादिकल्याणगुणगणतया प्रसिद्ध अचलस्य स्थिरस्य मािम्ः माहात्म्यस्य आधारं इष्ट आश्रिताभीप्सित यज्वभि: कृतं यागं वा आदघत पुष्णन्तं गोविन्दं श्रीनिवास 'गोवि- न्देति यदाक्रनदत्' इत्युक्तरीत्या भगवतस्तन्नास्त्रा सौशील्यपराका- ष्ठाद्योतकेवाने प्रीत्यति्य्यमानय ेये गोविन्दनास्न एव जनैः कोर्यमानतया गोविन्दशब्देन निर्देशः। सन् प्रशस्तः योगो ध्यानं यस्य स तथोक्तस्सन् सद्य: अविन्दं शरणमटणबम्। विन्दतेल टुन्तमैकवचनम्॥। अर्धावृत्तियथा- शुभदामोऽदरभासुरजय मापाहिस्थिराधरामो- दिन। शुभ दामोदर भासुर जय मा पाहि स्थि- राधरामोदीन् ॥ २२४४ ॥।
शुभदाम: अदरभासुरजय माप अहिस्थिराधरामोदिन् शुभ दामोदर भासुर जय मां पाहि स्थिराधरामोदिन, इति पद- च्छेदः । अदरभा: अनल्पतेजसः ये असुराः जयतीति जयः पचाद्यच् । तेषां जयः अनल्पविक्रमदैतेयजेतेत्यर्थः तस्य संबुद्धि: अदरभासुरजय! अहिस्थिराघरः शेषाद्रि: तस्मिन् आमोदिन आनन्दिन, शुभ 'मङ्गळानां च मङ्गळम्' इत्युक्तरीत्या मङ्गळ- रूप। दामोदर भासुर स्वप्रकाशस्वरूप। स्थिरायाः भूदेव्या: अधरेण अधररसेन आमोदिन। यद्वा-स्थिराधर धरणघर 'घर- णिधराच्युत शङ्चक्रपाणे, 'धरणिघर मे शिक्षय मनः' इत्या-
Page 192
182 अलक्कारमणिहारे
दिकमिह स्मर्तव्यम्। अतएव आमोदिन् अतिनिर्हारिपरिमळशा लिन्। भूदेव्यास्स्वाभाविकगन्धवत्वेन नित्यतद्योगादिति भाव :- 'विमर्दोत्थे परिमळो गन्धे जनमनोहरे। आमोदस्सोऽतिनिर्हारी' इत्यमरः। यद्वा 'सर्वगन्धस्सर्वरसः' इति श्रवणात्सर्वदिव्यगन्धे- त्यर्थः। माप अ्रपिते! शुभा दामा वैजयन्ती यस्य स तथोक्त: त्वं जय। जिधातोर्लोण्मध्यमैकवचनम्। 'न पुंसि दाम संदानम्' इत्यमर:। दामशब्दस्य स्त्रीलिङ्गस्य 'मनः' इति डीब्निषेधे 'डाबु- भाभ्यामन्यतरस्याम्' इति डाप्। ततो बहुव्रीहिः। मा माँ पाहि पालय।
वदनाभिभाविताव्जं परमञ्जनवेदगिरिशिरस्यु- यथावा-
दितम्। वद नाभिभाविताब्जं परमं जन वेद- गिरि शिरस्युदितम् ॥ २२४५॥ वदनाभिभाविताब्जं परं अज्ञनवेदागिरिशिरसि उदितं वद नाभिभाविताब्जं परमं जन वेदगिरि शिरसि उदितं इति च्छेद: । वदनेन अभिभावितः अभिभवं तिरस्कारं प्रापितः अब्जः चन्द्रो येन तम्। तिरस्कारे भगवतः प्रयोजककर्तृत्वं, वदनस्य प्रयोज्यकर्तृत्वम्। अञ्जनवेदगिरिशिरसि अञ्जनश्चासौ वेदश्च अञ्जनवेद: अञ्जनाख्यो वेदाख्यश्च यो गिरि: तस्य शिरसि शिखरे उदितं आविर्भूतम्। नाभिभाविताब्जं नाभौ भावितं उत्पादितं अब्जं पझमं येन तमू, 'अजस्य नाभावध्येकमर्पितं यस्मिन्निं वि्वं भुन मधिश्रितम् ' इति श्रुतेः । वेदगिरि श्रुतिरूपायां वाचि शिरसि अन्ते वेदान्ते इत्यर्थः। उदितं उदीरितं। वदेः कर्मणि कः । 'तं त्वौपनिषदम्' इति श्रुतेः । हे जन! परं अतिशयितं यथास्यात्तथा परमं
Page 193
शब्दालङ्गारसर: (१२२) 183
अत्युत्तमं वद ब्रूहि। अञ्जनगिरावाविर्भूतं भगवन्तं विधातृज- निनिदानभूतनाभिकमलतया अखिलजगत्कारणं परं ब्रह्मेति वदेति जनान् प्रत्यावेदनम् ॥ यथावा- प्रपदनतस्तव नान्येऽवाकलयन्ते मु्दं ननूपा- याः । प्रपदननस्तवनान्येवाकलयन्ते मुंदं न नूपायाः ॥२२४६॥ प्रपदनतः तव न अन्ये अवाकलयन्ते मुंदं नतु उपायाः प्रपद- नतः स्तवनानि एव अकलयं ते मुंद न तु उपायाः, इति पदच्छेदः। नन्वित्यामन्त्रेण। ननु भगवन्! प्रपदनतः शरणव- रणात् आद्यादित्वात्सार्वविभक्तिकस्तसिः। अन्ये इतरे उपायाः यजदानतपोऽनशनादिसाधनानि तव मुदं प्रीति नावाकलयन्ते नावाकल्पयन्ते। अवाङ्पूर्वकात्कलयतेर्लेट्। ते तव प्रपदे पादाग्रे 'पादाय्रं प्रपदम्' इत्यमरः। नतः शरणागतस्सन् स्तवनान्येव स्तुतीरेव अकलय अरचयम्। कलयतेर्लेङत्तमैकवचनम्। सुंद प्रीति, तेन स्तवनेनोति भावः । नुशब्द: पृच्छायाम्। 'तु पृच्छायां विकल्पे च' इत्यमरः। नोपायाः तु नोपागच्छः किम्? उपाङपूर्व- कादुपपूर्वकाद्वा यातेर्लप्मध्यमः । उपागत पवेति निर्धारयामि। स्तवप्रिय इति हि तव नामेति भावः । द्वितीयार्धे प्रपदनतः स्तवनानीत्यत्र 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्ग- लोप:। अकलयन्ते इत्यत्र 'वा पदान्तस्य इति वैकल्पिकोऽनुस्वा- रस्य परसवर्णः । अत्र- इति वाग्भि: प्रशस्ताभिरयोनिर्विष्णुरीडितः । वाग्यक्षेनार्चितो देवः प्रीयतां मे जनार्दनः॥
Page 194
184 अलङ्कारमणिहारे
इत्यादिप्रमाणान्यनुसंधेयानि। इमे श्रोकावृ्त्त्यर्धावृत्तियम के महायमकं समुद्कमिति नामभ्यां रुद्रटादिभिर्व्यवाहियेताम्। यथोच्यते- 'अर्ध पुनराउत्त जनयति यमकं समुद्रकं नाम। श्रोकस्तु महायमकम्' इति॥ यथावा- लक्ष्मीश्वकास्ति भवतो नवतोयदसारभासिता- दवितः । लक्ष्मीश्र काडस्ति भवतोऽनवतो यद- सारभासितादवितः ॥ २२४७।। लक्ष्मीः चकास्ति भवतः नवतोयदसारभासितात् अचितः, इति पूर्वारधे। उत्तरार्धें तु लक्ष्मीः च का अस्ति भवतः अनवतः यत् असारभासितात् अवितः इति च्छेहः। हे अवितः अवतेः रक्षणार्थकानृच। हे रक्षक! 'न हि पालनसामथर्यमृते सर्वेश्वरं हरिम्'। इत्युक्ते: । नवतोयदाः प्रावृषेण्यवारिदाः तेषु सारः श्रेष्ठः तस्य भा प्रभेव असितात् इयामलात्। यद्वा नवतोयदस्य सारभा श्रेष्ठदाति: सेव असितः तस्मात्। तस्या अप्यसितादिति वा। भवतः त्वत्तः लक्ष्मीः चकास्ति। नीलतोयदमध्यस्थविद्युदिव प्राप्तपरभागतया भासत इति भाव। यद्वा भवतस्सकाशात् लक्ष्मी: संपत् जनानामिति शेषः । चकास्ति त्वत्त एव जगतां समृद्धिलाभ इति भावः । अनवतः आपत्सु अरक्षकात् संहर्तृतया अप्रीणयतश्च भवतः शर्वात् लक्ष्श्री श्रोरप संपदिति वार्ताऽपीति भावः। का अस्ति जनानां तस्मात्काऽपि संपन्न सिध्यतीति भावः। कुत इत्यत आह-यदित। यत् यस्मात्करणात् अयमित्यध्याहार,
Page 195
शब्दालक्कांरसरः (१२२) 185
असारं निस्सारं अश्रेष्ठं वा भसितमेव भासितं वायसराक्षसािवत् स्वार्थिकोऽण। तस्मात् अवितः प्रीतः तृप्तो वा भवति। अवतेः प्रीत्यर्थकानतृप्तयर्थकाद्वा कर्तरि कः। रक्षणासमर्थात् भस्ममात्र-
वत इव जनानां कथं निष्पद्येत्षेति भावः। यथावा- श्रीशोभितस्स दासं पदं श्रितं बहुकरोऽतिही- नमपि। श्रीशोऽभितस्सदा संपदं श्रितं बहु करोडति हीनमपि॥ २२४८॥ श्रीशोभितः सः दास पदं श्रितं बहुकर: अतिहीनं अपि श्रीशः अभितः सदा संपद थ्रितं बहु करोति हि इनं अपि इति पदच्छेदः। श्रिया षाड्गुण्यसंपदा शोभितः । बहवः कराः हस्ताः यस्य स तथोक्तः। स्वसंपदनुगुणपुरुषार्थचतुष्टयदानौपयिक- पाणिचतुष्टय इति भावः । सः सर्वेश्वरत्वेन सकलोपनिषत्प्र- सिद्ध: श्रीशः भगवान् श्रीनिवासः अतिहीनमपि अतेदुर्गतम- पीति यावत्। अपिर्विरोधे। पदं स्वचरणं श्रितं शरणं गतं दासं शेषभूतं चेतनं अभितः समन्ततः सर्वस्मिन् देशे इत्यर्थः। सदा सर्वस्मिन काले बहु विपुलं यथास्यात्तथा संपदं सपत्ति श्रिंत प्राप्तं करोति। नैतावदेव किंतु इन मपि प्रभुमपि करोति। 'इनस्सूर्ये प्रभौ' इत्यमरः। अत्र अपिस्समुच्चये। हिः प्रसिद्धौ।। यथावा- निजधाम्नि देवनेता पवियुक्तशश्रीर्भवत्यनुग्र- हतः। निजधाम्नि देवने तापवियुक्तश्रीर्भवत्यनु- ग्रहतः ॥ २२४९॥ ALANKARA IV. 15
Page 196
186 अलङ्कारमणिहारे
निजधाम्नि देवनेता पवियुक: श्रीः भवत्यनुग्रहतः। निज- धाम्नि देवने तापवियुक्तश्रीः भवति अनुग्रहतः। इति छद्ः। निजं नित्यं धाम तेजः प्रधावो वा यस्यास्सा निजधास्री। तस्यास्संबुद्धि हे निजधाम्ति! 'अन.उपधालोपिनोऽन्यतरस्या म् ' इति वैकल्पिको डोप्। 'रवके नित्यं निजं त्रिषु' गृहगेहत्विट्प्र- भावा धामानि' इति चामरः। 'निजं स्वीये च नित्ये च' इति मेदिनी च। हे श्रीः भवत्या अनुग्रहः भवत्यनुग्रहः तस्मात् सार्व- विभक्तिकस्तसिः 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति भाष्यका- रेष्टेः 'ठक्छसोश्च' इति वार्तिकारम्भेणानित्यताज्ञापनान्भवतीश- वदस्य न पुंवद्धभावः । एतञ्व हंससंदेशरसास्वादिन्यां 'भवती- भागधेयेन जीवन्' इत्यत्र निपुणतरं प्रपश्चितमस्माभिः। देवनेता इन्द्र: पविमुक्त: वज्रसाहित: 'कुलिशं भिदुरं पविः' इत्यमरः। एतेन शौर्यस्थैर्य व्यञ्जितम। अतएव अनुग्रहतः उग्रैः दैत्यादिभिः क्रूरै: हतः हिंसितो न भवतीति तथा। अतएव निजधास्ति स्वस्थाने त्रिदिवे देवने क्रीडने द्यातने मोदने वा। तापवियुक्तश्री तांपैः आध्यात्मिकादिभिः वियुक्ता श्रीस्संपत् यस्थ स तथोक्त: भवति। अत्र विष्णुपुराणकथाऽनुसंधेया। इमान्यर्धावृत्तिरूपय- मकोदाहरणानि सर्वाण्यपि वक्ष्यमाणगोमूत्रिकाबन्धोदाहरणानि भविष्यन्ति॥ अथ पादावृत्तियमकविभाग: आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव। प्रथमपादस्य द्वितीयतृतीयचतुर्थपादेषु क्रमेणाउत्तौ त्रयो मेदाः। युगपदावत्तौ त्वेक इति प्रथमपादावृत्तिनिबन्धनाश्चत्वारो भेदाः 1 तथा द्वितीयपादस्य तृतीयचतुर्थयोः क्रमेणावृत्ती द्वौ
Page 197
शब्दालक्कारसरः (१२२) 187
भेदौ' तृतीयपादस्य चतुर्थपादे आवृत्तावेक इति शुद्धा: पादावृ- त्तिनिबन्धना भेदास्सप्त। तथा प्रथमस्य द्वितीये तृतीयस्य चतुर्थे चावृत्तावेकः। तथा प्रथमस्य चतुर्थे द्वितायस्य चतुर्थे द्विती- यस्य तृतीये चावृत्तावपर इते संकीणों द्वौ मेदौ। आहृत्य पादा- वृत्तिनिबन्धना भेदा नव संपद्न्ते। इदमुपलक्षणम्। यथाहि प्रथमपादस्य द्वितीयादिपादेषु क्रमेण यौगपद्येन चावृत्तौ चत्वारो भेदा उक्ताः । तथा प्रथमस्य द्वितीयतृतीययोर्द्वितीयचतुर्थयोः तृतीयचतुर्थयोश्चाउत्तावन्येऽप त्रयो मेदास्संभवन्ति। तथा द्वितीयस्य तृतीयचतुर्थयो: क्रमेणाटत्तौ भेदद्वयवत् युगपदावृत्ताव- परोडाप भेदस्संभवतीति व्येयम्।।
अथ पादभागावृत्तियमकविभाग: द्विधा विभागे पादानां प्रथमाद्यादिमा यदि। द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दझ।। प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः। भवेयुश्रवेत्तदाडपि स्युरेवमेव भिदा दश ॥। एवं द्विधा विभागे तु भेदानां विंशतिर्भवेतू। त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात्॥ पादानां द्विधा विभागे प्रथमपादाद्यभागस्य द्वितीयादिपा- दाद्यभागेषु क्रमेण युगपच्चाटत्ती चत्वारो मेदा:। द्वितीयपादाद्य. भागस्य तृतीयचतुर्थपादाद्यभागयोः क्रमेणावृत्तौ दौ भेदौ। प्रथ- मपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावेकः । तथा प्रथम- पादाद्यभागस्य चतुर्थपादाद्यमागे द्वितयिपादाद्यभागस्य तृतीय- 15*
Page 198
188 अलद्कारमणिहार
पादाद्यभागे चाटत्तावपरो भेदः। तथा अर्धावत्तिन्यायेन प्रथ- मपादाद्यभागस्य तृतीयपादाद्यभागे द्वितीयपादाद्यभागस्य चतु- र्थंपादाद्यभागे चावत्तावन्यो भेद इत्याद्या भागावृत्तिनिबन्धना दश भेदा:॥ नन्वर्धावृत्तिन्यायनेव श्रोकावत्तिन्यायनापि तत्त्वेदा: कुतो नोच्यन्त इति चेत् विच्छित्तिविशेषाभावेन श्रोकान्तरे भागा- वृत्तिनिबन्धना मेदा नोक्ता इति ध्येयम्। एवमेवान्त्यभागावृत्ति- निबन्धनाश्च मेदा दश। एवं पादानां द्विधा विभागे विशाति- भेदाः त्रिधा विभागे त्रिंशत्। चतुर्या विभागे चत्वारिंशद्भ्व- न्ति मेदा इत्यायूह्यम्। इत्थं शुद्धभेदा निरूपिताः॥
अथ संकीणभेदप्रकारा: एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम्। अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चया:।। यदा प्रथमादिपादगतान्त्यभागो द्वितीयादिपादाद्यभागे यम्य- ते तदा अन्त्य आदौ यम्यत इत्यन्वर्थताश्रयणादन्त्यादिकम्। यदा प्रथमपादाद्यभागो द्वितीयपादान्त्यभागे यम्यते तदा आदयो- इन्त्ये यम्यत इत्यादयन्तकमू। एवं प्रथमादिपादमध्यभागस्य द्विती- यादिपादाद्यभागे यमने मध्यादकम्। एवमाद्यभागस्य मध्यभागे यमने आदिमध्यगम्। एवमन्त्यभागस्य मध्यभागे यमने अन्त्य- मध्यगम्। मध्यमागस्यान्त्यभागे यमने मध्यान्त्यकम्। यदा पतेषां समावेशस्तदैतत्समुच्चयाश्च भव्तीत्यवधेयम्। एवमेक- पादगतभागानां पादान्तरभागापेक्षा मेदा: प्रदुर्शिताः। एकपाद- गतभागानामन्योन्यापेक्षा भेदा: प्रदर्श्यन्ते-
Page 199
शब्दालङ्गारसरः (१२२) 189
एकैकपादे नियता नियतक्रमशालिनः। यम्यन्ते चेदादिमध्यान्त्यभागास्तद्विदाइशतम्।। यदा त्वेकैकस्मिन्नेव पादे आदिमध्यान्त्यभागानां नियतक्र- मत्वेन अनियतक्रमत्वेन च यमनं तदा शतं अनेके भेदास्संभ- वन्ति। एते यमकप्रभेदा: काव्यलक्ष्मीकण्ठगडुभूततया न प्रपश्च- नार्हा इति दिख्ा त्रमेवोदाहियते।। पुरुषस्समाहितमना यस्सेवेताहिशैलमौलिम- णिम्। पुरुषस्स माहितमनास्तस्मै किं कि पदं न विदधीत ॥ २२५० ॥ यः पुरुषः मनुजः समाहितमनाः प्रणिहिनचित्तस्सन् अहिशै- लमौळिमणि सवेत तस्मै पुरुषाय सः 'सकलफलप्रदो हि विष्णुः' इति प्रसिद्ध: माहितमना: मायै श्रियै हितं प्रियं करणं मनो यस्य सः। अनेन पुरुषकारसांनिध्यं तत्प्रीत्याचरणैकतानत्वं चो- क्तम्। पुरुषः भगवान् किं किं फल न विद्धीत 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतन' इत्युक्तेरिति भावः ॥ रत्नपर्वतमारुह्य यथा रतनं नरो मुने। सत्वानुरूपमादचे तथा कृष्णान्मनोरथान्॥
यथावा- नाशमितोऽभवदमुना भवता मम तावदखि- लदुरितौघः। नाशमितो भवदमुना भविता फण- शैलनीलजलद हरे॥ २२५१॥
Page 200
190 अलङ्कारमणिहारे
नाशं इतः अभवत् अमुना इति प्रथमपादे। न अशमितः भवदमुनाः इति तृतीयपादे च छेदः। हे हरे! इदमाश्रितदुरि- तापहारसामर्थयाभिप्रायगर्भम्। अमुना भवता आत्महविस्समर्प- णोद्दश्यभूतेन त्वया, हेतौ तृतीया। मम आखलदुरितौधानां सर्वपूर्वाघव्यूहानां, इदमुपलक्षणं प्रामादिकोत्तराघानामपि । नाशं विनाशं इदमश्लेषस्याप्युपलक्षणम्। इतः प्राप्तः इणः कर्तरि कः अभवत्। उत्तराघाश्लेषस्य सिद्धवत्काराभिसंधिना भूतनिर्देशः। भवस्संसार एव दमुनाः अग्निः 'सप्ताचिर्दमुनाः' इत्यमरः । भवतेत्येतदत्राप्यनुषज्यते। अशमितः न भविता अनिर्वापितो न भविष्यति। भूधातोर्भविष्यति लुद्। फणिशैलनीलजलदेति विशेषणं भवाग्निनिर्वाषणघुरीणताभिप्रायकम्। भवता मम पूर्वो- त्तराघविनाशाश्षेषयोनिर्वर्तितयोः पुनस्संसारतापः कदाऽपि न भविष्यत्येवेति भावः।। यथावा- भविता सत्कृत्त्याद्वतिरच्युत न त्वत्पदाश्रितानां यः। भवितासत्कृत्त्यादृतिरेव स एषोडत्र को नु संशेताम् ॥ २२५२ ॥ हे अच्युत! यः पुमान् त्वत्पदाश्रितानां भागवतानां सत्कृतौ सत्कारे बहुमानने आदृतिः आदरणं यस्य स तथोक्तो न भविता स एष जनः असत्कृत्यादृतिरेव असत् अप्रशस्तं यत्कृत्यं तस्मिन् आदृतिरस्य तथोक्त एव भविता। यद्वा भवितासत्कृत्या- दतिरिति तृतीयचरणे समस्तं पदम्। भवितया संसारितया सतां ब्रह्मबिदां कृत्ये आचारे आदृतिः यस्य स न भवतीत्य- सत्कृत्याहीतरव। अथवा असत्यां अप्रशस्तायां कृत्यायां देवतायां
Page 201
शब्दालङ्कारसरः (१२२) 191
'कृत्या क्रियादेवतयोः' इत्यमरः । आद्ृतिर्यस्य तथोक्त एव भविता। भागवताराधनविमुखानामीदशी गतिरिति भावः । अथवा असत्कृत्या: असती स्पर्शाद्यनर्हा या कृत्तिः श्वादिचर्म 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः। तस्या: हातिः भस्त्रा भविता भागवतसत्कारादरविघुर: पुमान् चर्मभस्त्रिकाप्राय एव न तु चेतन इति भावः। अत्र पद्यत्रयेऽप्याद्यपादस्य तृतीयपादे आवृत्ति: ।
यथावा- क्रियते यद्धुवनावनमीशा नो ननु वृषाचले- झेन। प्रभवेदेतद्रचयितुमीशा नो ननु वृषा च ले- झेन ॥ २२५३ ॥ ईशा नः ननु वृषाचलेशेन। ईशानः न नुदृषा च लेशेन इति छेद। वृषाचलेशेन शेषाद्रिनाथेन नः अस्माकं ईशा 'ईशा वास्यमिदग् सर्वम्' इत्यत्रेव ईंद्ब्दोऽयं तृतीयैकवचनान्तः। स्वामिनेत्यर्थः । यत् सुबनावनं जगत्पालनं कियते एतत् भुवना- वनं रचयितुं ईशानः शर्वः टषा च नु वासवोऽपि वा 'नुपृच्छायां विकल्पे च' इत्यमरः। लेशेन लेशतोऽप न प्रभवन्ननु । ननुरव- धारणे। 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमर:। न हि पालनसामथर्यमृते सर्वेश्वरं हरिम्। स्थितौ स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित्॥ इत्युक्तं पालनसामर्थयं 'न सन्न चासच्छिव एव केवलः' 'इन्द्रो मायाभि: पुरुरूप ईयते' इति कारणत्वशङ्कास्पद्त्वेन श्रुतयोश्शिवशतमखयोन संभवदितति भावः।।
Page 202
192 अलक्गारमीणहारे
यथावा- भूष्णुस्स्याद्यो मनुजो भवति स दामोदरहित- ताश्रेयान्। यो मनुजोऽभूष्णुस्स च भवति सदा- मोदरहितताश्रेयान्॥ २२५४॥ यः मनुजः भूष्णुः वर्विष्णुः स्यात् सःदामोदराय हितः दामोदरहितः 'हितयोगे च' इति चतुर्थी। 'चतुर्थी तदर्थ' इत्यादिना समासः। तस्य भाव. दामोदरहितता तया श्रेयान प्रशस्यतरः भवति। यो मतुजः अभूष्णुः स च संश्चासावामोदश्च सदामोद: प्रशस्तानन्दः तेन रहिततया विघुरतया अश्रेयान् अविद्यमानं श्रेयो यस्य तथाभूतः भवति। 'ईयसश्च' इति बहुव्रीहेरन कप्।।
त्वयि योऽच्युताभिदध्यादन्तर्यामीति शब्दमा- यथावा-
त्रमपि। तां श्रियमेति स न विशेदन्तर्यामीति शब्दमात्रमपि॥ २२५५ ॥। हे अच्युत ! त्वयि विषये अन्तर्यामी अन्तर्नियन्तेति शब्द- मात्रमपि यः अभिदध्यात्। मा स्म तदर्थ ज्ासीदिति भावः । सः पुमान् तां श्रियं संपद पति प्राप्नात। यां श्रियं ईतिशब्दमात्रमपि विष्नवशब्दमात्रमपि अन्तः न विशेत् किमुत तदर्थः । त्वयि अन्त- यामीति शब्दमात्रं प्रयुआ्नोऽपि निरातङ्गां श्रियमैहिकीमामुष्मिकीं वा प्राप्ोतीति भावः। 'ईतिर्डिम्बप्रवासयोः' इत्यमरः । डिम्बो विष्वः 'डिम्बे डमरविप्ुवौ' ईति तेनैवानुशिष्टत्वात्॥
यः फणिशैलनिवेशे श्रीशेSवधिरहितवर्धने यथावा-
Page 203
शब्दालङ्कारसर: (१२२) 193
निपुणः। स भवति वसुधाधीशशश्रीशेवधिरहित- वर्धनेऽनिपुणः ॥ २२५६।।
श्रीशे अवधिरहितवर्धने निपुण श्रशिवधिः अहितवर्धनेऽ- निपुण: इति पदच्छेदः । यः पुमान् अवधिरहितं अनन्तं वर्धनं वृद्धि: यस्य तथोक्ते स्वरूपेण गुणैश्च निरतिशयबृहति परस्मिन् ब्रह्मणीति यावत्। यद्वा अनवच्छिन्नाभिवृद्धौ त्रिविक्रमावतारे तथा प्रत्ृ- द्धत्वादिति भावः। अवधिरहितं यथास्यात्तथा वर्धने वर्धिष्ण- विति वा। 'वर्धनं वृद्धिवर्धिष्णुच्छेदे' इति मेदिनी। 'स्याद्वर्द्धि- घणुस्तु वर्धनः' इत्यमरश्च। फणिशैलनिवेशे श्रीशे श्रीनिवासे निपु- णः मातरि निपुण इत्यादाविव तन्पूजनैकतान इत्यर्थः। 'साधुनि- पुणाक््यामर्चायां सप्तम्यप्रतेः' इत्यचायां गम्यमानायां निपुणश- ब्दयोगे सप्तमी। सः पुमान् श्रियः संपदः शेंवधिः निधिः 'निधिर्ना शेवधिः' इतयमरः । अहितानां वैरिणा वर्धने छेदने विषये निपुणः कुशलः वसुधाधीशः राजा भवाते। अत्र 'क्रियते यद्वनावनम्' इत्यादिपद्यचतुष्टयेऽपि द्वितीयपादस्य तुरायपादे आवत्तिः। अत्र प्रथमस्य पादस्य तृतीये पादे आवृत्तौ संदंशो नाम यमकम्। द्वितीयस्य चतुर्थे आउत्तौ संदष्टकं नाम यम- कमिति रुद्रटः। तथाच तदीयं लक्षणं-
पर्यायेणान्येषामाठत्तानां सहादिपादेन। मुस्संदशाटतय: क्रमेण यमकानि जायन्ते।।
आदिपादेन द्वितीयपादावृत्तौ मुखं नाम यमकम्। तेन तृती- यपादावृत्तौ संदशोनाम यमकम्। तेन तुरीयपादावृत्तावादृतिर्नाम यमकमिति तदर्थः ।
Page 204
194 अलङ्कारमीणहारे
प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन। यमके संजायेते गर्भस्संदष्टकं चेति ॥ इति॥ पश्चिमयोः तृतीयतुरायपादयोः द्वितीयेनावृत्तौ गर्भसंदष्टक- नामनी यमके भवत इति तदर्थः। प्रथमतृतीयपादाभ्यां द्वितीयतु- रीयपादयोरावृत्तिरिहार्यावृत्तेषु न घटत इति नोदाहार्ष्म प्रति- ज्ञाभङ्गभयात्॥ अथ पादभागावृत्तियमकभेदा दिख्ात्रमुदाह्रियन्ते- वनमालीयत नीपावनमाली योगिनां च यत्र गिरौ। वनमाली य इहास्तेऽवनमालीढाब्धिजा- धरं तमये ॥ २२५७॥ यत्र गिरौ शेषाचले नीपावनं रीपानां कदम्बानां बन्धूकानां नीलाशोकानां वा कदम्बबन्धूकनिालाशोकानां सर्वेषां वा तरुवि- शेषाणां अवनं रक्षकं 'वुंवाक्येष्वनेकार्थत्वमदोषाय' इत्यसकृद- वोचाम। 'नीपः कदम्बे बन्धूके नीलाशोकद्रुमेऽपि च' इति विश्वः। वन विपिनं आलीयत आश्िक्षत् स्थितमित्यर्थः। योगिनां सुनीनां आली पाङ्गश्च आलोयतेति योजना। इह अह्म निगरी वनमाली- आपादलम्बिनी मालां वनमालां विदुर्बुधाः। पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः। इत्यायुक्तलक्षणवैजयन्त्याख्यमालालंकृतः यः परमपुरुष आस्ते । अवनं निरुपाधिक सर्वरक्षकं आलाढाब्धिजाघरं आस्वादितरमाधरं त श्रोनिव्ासं अये शरणं प्रपद्ये। ते अवनं अये इति वा योजना। रक्षकत्वेन वृणोमीत्यर्थः। इह प्रथमपादभागस्य वनमालीति चतु-
Page 205
शब्दालङ्कारसर: (१२२) 195
रक्षरात्मकस्य द्वितीयादिपादत्रयभागेष्वावृत्तिः। प्रथमतृतीययोः पञ्चानां वर्णानामावृत्तिरप्यस्तीति विशेषश्च।। मम तावदियं सुतराममता दुरितिाळिरच्युता- त्यमिता। ममतां वहता भवता भवतापहृता क्षमापदं गमिता ॥२२५८॥ हे अच्युत! तावदिति साकल्ये। सुतरां अमता अनभ्युपगता अत्यमिता मम त्वां प्रपन्नस्येति भावः । दुरिताळिस्तावत् सर्वाधततिरित्यर्थः। ममतां मदीयोऽयमिति वात्सल्यमित्यर्थः। वहता भवतापहृता संसारसंज्वरनिरासकेनेति स्वापराधक्षमाद- क्षताभिप्रायकम। भवता क्षमापदं क्षमागोचरतां गमिता नोते- त्यर्थः। अनेन 'न्यासेन क्षपयन्ननभ्युपगतप्रारब्घखण्डं च नः' इत्यु क्तोऽर्थस्संगृहतिः। अत्र प्रथमपादादिमभागस्य ममतेत्यक्षरत्र- यात्मकस्य द्वितीयतृतीयपादादिभागमात्रे आवृत्तिः। न तु तुरी- यपादादिभागे। अत्र यमकान्तरमप्यवधेयम्।। स्तावकमहिशिखरिशशिंस्तावकचरितस्य ध- न्यमिह मन्ये। भावुकमखिलं सुभगंभावुकमेनं यतो नयास मनुजम् ॥ २२५१॥ हे अहिशिखरिशशिन्! तावकचरितस्व स्तावक स्तोतारं जन धन्यं मन्ये। यतो हेतोः सुभगंभावुकं एनं मनुजं अखिलं भावुकं कुशलं 'भावुकं भविकं भव्यं' इतयमरः। नयसि। तस्मादमुं धन्यं मन्ये इति योजना। अत्राद्यपादाद्यभागस्य द्वितीयपादादि- भागे तृतीयाद्यपाइस्य तुरायपादादिभागे वावृत्तिः ॥
Page 206
196 अलङ्कारमणह्ारे
यैर्न कृता क्वचिदपि वा सत्कृत्त्यास्स्युः प्रसे- विकाशशौरे। श्वासान्वितास्त एतेऽसत्कृत्त्यास्स्युः प्रसेविका नूनम् ॥ २२६०॥ यैर्जनैः क्वचिदपि वा सत्कृतिः आदरः तथा सत्कृत्या। 'अनचि च' इति तकारस्य द्वित्वं यमकाविरोधायति ध्येयम्। प्रसेविका: प्रकृष्टास्सेवाः 'धात्वर्थनिर्देशे ण्वुलू वक्तव्यः' इति सेवतेः प्वुल्। धात्वर्थश्च सेवनम्। न कृता: त एते जना श्वासान्विता: श्वसन्त्यः अलत्कृत्याः असती स्व्रर्शाधनहा या कृत्ति: श्वगर्दभादिचर्म तस्याः प्रसेविका: भस्त्रिका एव नूनम्। 'भस्त्रा चर्मप्रसेविका' इत्यमरः। भगवत्सेवनविघुयाः श्वासमात्रवः चर्मभस्त्रिकाप्राया एव। अत्र 'तरवः कि न जीवन्ति भस्त्राः किं न श्वसन्ति च' इत्यादिभागवतश्लोकार्थोऽनुसंधेयः। अत्र द्वितीयतुरीययोराद्यभागावृत्ति: ।। यस्तव कथासुधायां यदुवंशमणे महाद्वतिर्न स्स्यात्। सम्यक्कते विमर्शे स नरो नूनं महाद्- तिर्नसस्यात् ॥ २२६१ ॥ हे यदुवंशमणे! यः नर: तव कथासुधायां महाद्ृतिः महती आदतिर्यस्य तथोक्तः। न स्यात् न भवेत् सः नरः सम्यक् विमशें कृते नस्स्यादित्यत्र नः स्यात् इति छेदः। नः अस्माक स नरः महा- दतिः महती भस्त्रिकैव स्यात् तत्तुल्यो भवेत्। अस्मदृष्टया स चर्मभस्त्रिकाप्राय एव स्यात् न तु चेतन इति भावः । अत्र द्विती- यतुरयपादयोरन्त्यभागावृत्तिः 'द्तिश्चर्मपुटे मत्स्ये' इति मेदि- नी। 'हतेः पादादिवादकम्' इति प्रयोगश्च॥
Page 207
शब्दालङ्गारसर: (१२२) 197
जगतां स भवानीशः फणधरगिरिनाथ न तु भवानीशः । ब्रह्मादपि भवानीशस्तदहं तव किंकरो भवानीश: ॥ २२६२ ॥ हे फणधरगिरिनाथ! भवानेव जगता ईशः स्वामी। भवा- नीशस्तु रुद्रस्तु न नेश इत्यर्थः । ब्रह्माऽ्पि नेश । कुत इत्यत आह-भवानीश इति। भवेन संसारेण अनीशः अस्वतन्त्रः संसा- रबन्धविवश इत्यर्थः। 'अनीशया शोचति मुह्यमानः' इति श्रुतेः। तत् तस्मात् रुद्रादोनां संसारपरतन्त्रत्वात् अहं भवबन्धा- नमुमुक्षुरिति भावः। ईशः ईट्छद्दृष्षष्टयन्तोऽयम्। निरुपाधिक- तथा सर्वेश्वरस्येत्यर्थः 'जुष यदा पश्यत्यन्यमीशं, झञाजौ द्वावजा- वीशनीशौ' इत्यादिश्रुतिभ्यः । तव 'तेषामहं समुद्धर्ता मृत्युसंसा- रसागरात' इत्युक्तरीत्या भवसागराद्विनतानुद्धरतस्तवेति भावः। किंकर: भवानि भवेयम्। लोडुत्तमैकवचनम्। मुमुक्षुरहं 'बद्धस्स्वयं किमु विमोचयिता बतान्यम्' इति न्यायेन स्वयमेव संसृतिबन्धमोमुह्यमानानुमानाथादीननादृत्य निखिल-
भावः। अत्र 'आ ब्रह्मस्तम्बपर्यन्ता' इत्यादिप्रमाणान्यव्यनुसधे- यानि। अत्र प्रथमपादान्त्यभागो भवानीश इति वर्णचतुष्टयात्मको
यथावा- स्वधयैव भृशमनन्तं प्रलयदशायां वृषाचलेश- मनन्तम्। य उपास्ते शमनन्तं न वीक्षते बत स विन्दते शमनन्तम् ॥ २२६३ ॥।
Page 208
19g अलक्कारमणिहारे
प्रलयदशायां स्वधया लक्षम्या सह। एवशब्दो भिन्नक्रम उत्तरत्रान्वेति। 'स्वधा त्वं लोकभावनी इति पुराणोक्ते: स्वधा- शब्दो लक्ष्मीवाची। महाभारते च श्रीवासवसंवादे-'अहं स्वाहा स्वधा चैव' इति श्रिया स्वयमेवोक्तत्वाच्च। भृशं अनन्त प्राणन्तं 'आनीदवातग्ग् स्वधया तदेवाम्' इति श्रुतेः । महा- भारते च- कृत्वा मत्स्थानि भूतानि स्थावराणि चराणि च। एकाकी विद्यया सार्ध विहरिष्ये द्विजोत्तम ॥ इति। विद्याशब्दो लक्ष्मीपरः। 'आत्मविद्या च देवि त्वम्' इत्यायुक्ेः । यद्वा 'तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति' इन्यु- क्तरीत्या स्वधया आनीदिति प्रेमपारतन्त्रये तात्पर्यम्। यद्वा स्वस्मिन् धीयत इति व्युत्पत्या स्वधाशव्दस्स्वसत्ताविषयक:। स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा। तथाच 'श्रेष्ठश्च' इत्य- धिकरणे भाष्यं-'आनीदवातम्' इति तुन जैवं श्रेष्ठं प्राणनम- भिप्रेत्योच्यते अपितु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते इति। 'अन्रानन्याधीनसत्ताकत्वमभिप्रेतम्' इति चतुश्श्लोकी- भाष्ये आचार्याः। अनेन जगत्कारणत्वमुक्तम्। 'कारणं तुध्येय' इति तस्यैवोपास्यत्वश्रवणात्। अनन्तं त्रिविधपरिच्छेद्विधुरं वृषा- चलेशं अर्चात्मना वेंकटाद्राववस्थितं परं ब्रह्मैवेत्यर्थः। यः पुमान् उपास्ते सः तं अतिभीषणतया दुर्दर्श दुष्कतां यातयितारं प्रभुमिति भावः । 'प्रसुरहमन्यनृणां न वैष्णवानाम्' इति ह्युच्यते। शमनं यमं 'शमनो यमराड्यमः' इत्यमरः। न वीक्षते। सकृत्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गणरागि यैरिह। न ते यमं पाशभृतश्च तन्भटान् स्वप्नेऽपि पश्यन्त्यघची- र्णनिष्कृताः॥
Page 209
शब्दालङ्कारसर: (१२२) 199
इति श्रीभागवतायुक्तरिति भावः । अथापि तं.शमनं यम विन्दते प्राम्नोतीति विरोधः। परिहारस्तु शं अनन्तमिति छेदेन अनन्तं अपरिच्छिन्नं शं सुखं परव्रह्मानुभूतिसुखमिति भावः तस्यैवानन्तत्वात्। विन्दुते प्राप्तोतीति। अत्रापि प्रथमपादान्त्य- भागस्य पादान्तरेष्वावृत्ति: ।।
यथावा- याऽघं तपसा्धयति त्वत्कीर्तिसुधां नृणां ततिस्सा धयति। अथ भक्तिं साधयति त्वय्य- च्युत तां भवांश्र साधयति ॥ २२६४ ॥ हे अच्युत! या नृणां ततिः तपसा कछचान्द्रायणादिना अंधं पापं अधयति अधःकरोति तिरस्करोतीत्यर्थः । अवस् इतति सान्ताव्ययात् णाविष्ठवद्मावे टिलोपः। सा नृणां ततिः त्वत्तीर्ति- सुधां धयि पिबति। धेद पाने' कर्तरि लट्। तत्फलमाह- अथेति। अथ त्वाय भकति साघयति निष्पादयति। भवांश्च एव- मुपासितस्त्वमपि तां नृणां तांत साधयति बाढंकेराति साधुं करो- तीत्यर्थः। बाढशब्दात् णाविष्ठवद्भावे 'अन्तिकबाढयोर्नेसाधौ' इति साधादेशः। द्वितीये साधुशब्दात् णाविष्ठवद्धावे टिलोप इति भिदा।। यथावा- करिणो वरद हरे ते चरणे मम दुरितमघनुद हरेते। तद्वयर्थ दहरे ते न ध्याते श्रीपते यदह- रेते ॥ २२६५॥
Page 210
200 अलक्कारमणिहारे
हे हरे! 'हरिरहरति पापानि' इत्येतदत्र स्मर्तव्यम्। अघं दुःखं व्यसनं वा तुदति क्षिपतीत्यघनुदः। तस्य संबुद्धिः। ते तव चरणे मम दुरितं हरेते। यदहः यस्मिन्नहनि अत्यन्तसयोगे द्विताया। दहरे हृदयपुण्डरीिे ते पूर्वोंक्ते एते तव चरणे न ध्याते तदह: व्यर्थ निरर्थकम्। अत्र 'यन्मुहू ते क्षण वाडापे' इति वच- नार्थस्स्मर्तव्यः॥
यथावा- स भवान्यदि नो दयते जन्तोर्ज्ञानं तदाऽस्य नोदयते। कर्माणि न नोदयते तत्वां ध्यातुं रमा- विनोद यते ॥ २२६६॥
विनोदयतीति विनोद: रमायाः विनोदः रमाविनोदः तस्य संबुद्धि। रमायाः विनोद विनोदहेतो इति वा हेतुहेतुमतोरैक्यम्। हे श्रीनिवासेत्यथः। स भवान् जन्तोः प्राणिनः नो दयते यदि दयतेर्लट् 'अधीगर्थदय' इते कर्मणश्शेषत्वविवक्षया षष्ठी। तदा अस्य जन्तोः ज्ञानं निश्श्रेयसौपयिकमिति भावः। नोदयते नोदति। अयतेर्लेट्। स भवान् अस्येत्येतच्चानुषज्यते । अस्य जन्तोः कर्माणि पापरूपाणि न नोदयाते न निवर्तयते । नुदतेर््णि- जन्तालट्। यद्वा अयमित्यव्याहारः। अय जन्तुः कर्माण न नोद- यते इति योजना। पापकर्मगः क्षयाभावे ज्ञानानुदयादिति भावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः' इति हि स्मृतिः । तत् तस्मात् उक्त्ाद्वेतोः त्वां ध्यातुं यते यत्न करोमि। यततेर्लडु-
रसंपादनाय त्वामुपासितुं यत्वान्मवामीति निर्गळिितोऽर्थः॥
Page 211
शब्दालङ्कारसर: (१२२) 201
कृतविधिनाभीकमलं हृदयान्तरकृतनिकेतना- भीकमलम्। व्रजललनाभी कमलंकुरुतां हृड्र्ह्र तद्धुनाऽमीकमलम् ॥ २२६७॥ कृतः सृष्टः विधि:ब्रह्मा येन तथोक्त नाभकिमलं यस्य तत्। हृदयान्तरे वक्षोन्तराळे कृतनिकेतना रचितमन्दिरा अभीः अवि दयमाना भीर्यस्यास्सेति पश्चमीबहुवीहिः। आश्रितभीतिहारिणी। षष्ठीबहुवीहिवा। परिपूर्णापराधेष्वाश्रितयूधेषु कलुषितमतेईण्ड- धरालोकेश्वराज्ज्रतुरप तत्परित्राणे 'किमेवं निर्दोष: क इह जगति' इति बोधयन्ती न विभताति भावः । अभीः कमला यस्य तत् तथोक्तम। आभ्यां परत्वमुक्तम्। वजललनानां गोपमहि- लानां अभीक कासुक 'कम्रः कामयिताऽभीकः' इत्यमर: 'अनु- काभिकाभीक: कमिते' त्यभेः कमितेत्यर्थे कन्प्रत्ययो निपातितः। अनेन सौलभ्यमुक्तम्। ब्रह्म उक्तविध परं ब्रह्म हत् मम चित्तं कर्म अलंकुरुतां परिष्कुरुताम्। तत् मनः कर्तृ। अधुना अलं पर्यासं अभीकं निर्भयं सवति भगवात परास्मन् ब्रह्मणि हृद. यमधिवसति कुतो मम भयवार्तेति भावः। 'यदा ह्यवैष एत- स्मिन्नदशयऽनात्येऽनिरुक्त्त निलय ने 5 भयं प्रतिष्ठां विन्दते अथ सोऽमयं गतो भवति' इति शुते। अन्न प्रथमपादान्त्यभागगतस- स्वरव्यअ्ञनपश्चकस्य तदितरपादा:त्यभोगव्वावृ्त्तििति विशेष:॥ श्रयसि सदा सहितत्त्वं श्रिया यदेतत्पुरा सदास हि तत्त्वम्। अयसि स दासहितत्वं त्वामेवं वेद यः सदा स हि तत्त्वम् ॥ २२६८॥ हे भगवन् ! सदा थिया सहितत्त्वं श्रयसि। श्रिया नित्ययो- गवानिति श्रीमच्छन्दार्थ उक्तः। 'आनीदवातग् स्वधया तदेकम्' ALANKARA IV. 16
Page 212
202 अलङ्कारमणिहारे
इत्युक्तं तस्यैव जगत्कारणत्वमाह-यदिति। एतत् परिदृश्यमानं चिदचिदात्मकं जगत् पुरा सृष्टेः प्राक् सत् आस हि। तत् त्वम् इति छेदः। हिरवधारणे। अयं भिन्नक्रमः पूर्वत्र परत्र चापि संबध्यते। यत् सकलोपनिषत्प्रसिद्धं सत् हि सदेव सच्छव्दाभि- लपनयं ब्रह्मैव आस। जगदिदं यत्कारणकं यदात्मकमेवासीत्। आसेति तिङन्तप्रतिरूपकं बभूवार्थकमव्ययम्। यद्वा आस दिदीपे। दीक्षचर्थकादसधातोर्लिट्। तद्ह्र त्वमेव। त्वमेव तदिति वा योजना। 'सदेव साम्येदमत्र आसीत्' इति कारणवाक्यार्थस्स्मा- रितः। एवंच श्रियःपत्युरेव जगत्कारणत्वं नान्यस्येत्युक्तं भवति। सः ईदृशः त्वं दासेभ्यः 'दासभूतास्स्वतस्स्वें ह्यात्मानः परमा- त्मनः' इत्युक्तरीत्या शेषभूतेभ्यः हितत्वं सिद्धोपायत्वं अयसि प्राम्नोषि। 'इट किट' इत्यत्र प्रण्लिष्टस्य इघातोर्लट्र। यः पुमानू सदा त्वाँ एवं श्रियापतति जगत्कारणं सिद्धोपायभूत च वेद स हि स एव तत्व आत्मपरमात्मयाथात्म्यं वेदेति योजना। अत्राद्यपा- दान्त्यभागगतानां षण्णां सस्वरव्यञ्ञनानां पादान्तरान्त्यभागेष्वावृ ततिरिति पूर्वेभ्यो विशेष: । चतुर्थचरणे यः सदा इत्यत्र 'वा शरि' इति पाक्िको विसर्गस्य विसर्ग एवैष्ठव्यः। न तु 'विसर्जनीयस्य सः' इति सकारः। असयुक्तसकार्यमकप्रक्रमभङ्गापत्तेः॥ वितर शुभां गाङ्गेयं त्वां गायानीह विनतगा- द्रेयम्। लक्ष्मीसुभगाङ्गेयं पूताऽस्तु वृथैव मा र्म गाङ्गेनयम् ॥ २२६१॥
शुभां गां वाचं वितर। गेयं गातं योग्यम्। विनतः गाङ्गयो भीष्म: यस्मिस्त त्वां गायानि गायेयं लोडडत्तमैकवचनम्।
Page 213
शब्दालङ्कारसर: (१२२) 203
विष्णोर्गान च गेयं च नटनं च विशेषतः । ब्रह्मन्ब्रा ह्मण जातीनां कर्तव्यं नित्यकर्मवत्॥ इति शौनकोक्तेरिति भावः। हे लक्ष्मीसुभगाङ्गा श्रीशोभन- मूर्ते श्रीनिवासेत्यर्थः। इयं गौः वाक् पूता अस्तु त्वत्संकीर्तनादिति भाव:। यथाह्यच्यते शौनकेनैव- नृत्यतां श्रीपतेरग्रे करसंस्फोटनादिमि: । उड्डयिन्ते शरीरस्था महापातकपक्षिणः॥ इति। अत्र संस्फोटनादिभिरित्यादिशब्देन गानस्यापे ग्रहणं, पूर्वश्षाके तस्यैव प्रस्तुतत्वात्। वृथा गेयं त्वत्कीर्तनविधुरं गानं मा स्मगाँ न प्राप्रयामेव। हरिगीतं बिना नान्य ड्राह्मणेन नरोत्तम! भाषागानं न कर्तव्यं तस्मात्वापं त्वया कृतम् ॥ इते भवगद्गीतातिरिक्मानप्रतिषेधादिति भावः। अत्राद्यपा- दान्त्यभागस्याक्षरत्रयात्मकस्य पादान्तरेष्वावृत्तिरिति विशेष: । यथावा- महिमानं वेदान्ते वचसां तव विश्रुतस्य वेदा- न्ते। स्वमहं विभवेऽदान्ते करुणय मयि दुरभि- भवभवेऽदान्ते ॥ २२७० ॥ वेदान्ते विश्रुतस्य तव महिमानं चचसां अन्ते वेद जानामि 'यतो वाचो निवर्तन्ते' इति श्रुतेः। विभवे जगत्प्रभवे सर्वव्या- पिने ते तुभ्यं अहं स्वं आत्मान त्वदयं स्वमेवेति वा अदां अददां त्यय्यात्मसमर्पणमकार्षमित्यर्थः। दुरभिभवो भवः संसारो यस्य तस्मिन् त्वच्चरणशरणवरणमन्तरेण उपायान्तरैर्दुरपनय- ALANKARA IV. 16*
Page 214
204 अलङ्कारमणिहारे
संसारे इत्यर्थः । अदान्ते 'शान्तो दान्तः' इत्युक्तदमदवीयसीति- स्वकार्पण्याभिव्यञ्ञनम्। मयि करुणय करुणां कुरु। करुणाशब्दात् "तत्करोति' इति णिच्। अदान्ते इत्यत्र 'वा पदान्तस्य' इति पर- सवर्णः । पूर्ववदेव यमकम्॥ कमलासख तव दास्ये कृतरुचिरात्मानमेव ते दास्ये। अविदितविनतौदास्ये लगति मनस्त्वयि ममेन्दुलसदास्ये २२७१ ।। इद भगवन्तं शरण प्रपित्सो: कवेर्वचनम् । हे कमलासख! अय श्रीमच्छब्दार्थः। अनेन आत्मसमर्पणोद्ेशयत्वं श्रीविशिष्टस्यै- वेति सूचितम्। तव दास्ये कैंकर्ये कृतरुचि: अनेन शरणागतिमन्त्रे उक्तरखण्डगतचतुर्थ्यन्तशब्द्रार्थस्सूचितः। आत्मानमेव ते तुभ्यं दास्ये आत्मरक्षाभरं त्वयि समर्पयिष्याभीति भावः। अनेन 'शरणं प्रपद्े' इत्येतदर्थ उक्तः । अत्र हेतुमुपपाद्यति-अविदि- तेति। अविदितं विनतेषु औदास्यं उदासीनता येन तस्मिन् अतएव त्वयि मम मनः लगति। इन्दुलसदास्ये इति भगवतो विशेषणमनुग्रहप्रसन्नताव्यजनाय। अत्र प्रथमपादान्तिमभागस्य वर्णद्वयात्मकस्य चतुर्ष्वपि पादान्त्यभागेष्वावृत्तिरिति विशेष:॥ यथावा- निखिलमिहालं करणं नियम्य य :श्रुतिवधूम- हालंकरणम्। नरसखमापच्छरणं न भजेत कदा- डपि स भवमापच्छरणम् ॥ २२७२ ॥ यः पुमान् निखिलं करणं सर्वाणीन्द्रियाणीत्यर्थः। अल पं र्थांप्ं यथातथा नियम्य विषयेक््यः प्रत्याहृत्य श्रुतिरेव वधू:
Page 215
शब्दालङ्गारसरः (१२२) 205
तस्या: महाभरणं शिरोमणिमित्यर्थः। नरसखं नारायणं शरणं रक्षितारमुपायं वा आपत् प्राप्तोत् । रक्षितृत्वेन वा उपायत्वेन वा अवृणोदित्यर्थः । स पुमान् कदापि आपदा शरणं निवासभूतं सकलविपज्जन्मभूमिमित्यर्थः । भवं संसारं न भजेत। भगवति न्यस्तरक्षाभरस्य क्व पुनस्संसृतिसृत्यवतार इति भावः। भगवन्त शरणमुपेयिवान् भवं शर्वे आपच्छरणं कदाउपि न भजेत आपत्सु रक्षकतयान सेवेतेति च प्रतीयते। अत्र पूर्वार्धे उत्तरार्धे च चरमभागे यमकम्॥ अथ मध्यभागयमक्कम्-
रघुजाय ते नमरस्तान्न जायते यन्मुधा कदा- यथा-
चिदपि। जलजायतेक्षण जनव्रजा यतेरन्विधा- तुमिदमेव ॥ २२७३ ॥ हे जलजायतेक्षण! अनेन प्रपन्नेष्वतिप्रसतत्वं व्यज्यते। रघु-
शव्रतदीक्षितत्वं द्योतितम्। अतएव 'सर्वलोकशरण्याय राघवा य' इत्युक्तिः। ते तुक्यं नमः 'निवेदयत मां क्षिप्रम्' इत्युक्तमात्म- निवेदनं 'नमस्कारात्मक तस्मै विद्यायात्मनिवेदनम्' इति ह्युच्य- ते। स्तात् भवतु। किं तेने त्यत्राह-यन् नमस्करणं कदाचिदृपि मुधा न जायते निरर्थकं न संपद्ते। फलेग्रहितामेव भजत इति भावः। स्वानुष्ठितमात्मनिवेदनमेव सवैरनुष्ठेयमिति 'प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजराबिकां समृद्धिम्' इति न्यायेना- शास्ते-जनेत्यादिना। जनव्रजा: पामरपराक्षकसाधारण्येन सर्वे जननिवहा: इदमेव भगवते आत्मनिवेदनमेव विधातुं यतेरन् प्रार्थ- नायां लिङ्। यतन्ताम्। किमन्यैरव्यभिच्चरितप्रयोजनैरुपायैः अि-
Page 216
206 अलङ्कारमणिहारे
तथफलमिदमेकमेव सेवन्तां सर्वाधिकारिकत्वादस्य 'अमयं सर्व- भूतेभ्यो ददाम्येतद्वूतं मम्र' इति तेनैव प्रतिज्ञातत्वादपोक्षितसक- लफलदानधौरयत्वाच्चेति भावः। अत्राद्यपादमध्यभागगताः जा- यते इति त्रयो वर्णा एव पादान्तरमध्यभागे यम्यन्त इति मध्यय- मकमिदम्॥ यथावा- सरसी विसारसारससौगन्धिकसारसारहितवृ- निः। भाति घनसारसारसुशाती सरसा रसार- मण तेडद्रौ ॥ २२७४ ॥ रसायाः भूदेव्या: रमण वल्लभ! 'विष्णुपतीं महीं देवीं माधवीं माधवपनियाम्' इति श्रुत्या तस्या भगवत्प्रियात्वस्योक्त- त्वादस्यापि तद्वल्लभत्वमित्यभिप्रायेण तथा संबोधनम्। हे भूवरा- हेति वा। ते तव अद्रौ शेषाचले इत्यर्थः । विसारा: मीनाः सा रसा: पुष्कराह्वखगा: सौगन्धिकानि कहाराणि सारसानि पद्मानि तैः अरहिता वृत्ति: स्थितिः यस्यास्सा तद्ुक्तेत्यर्थः। घनसारस्य कर्पूरस्य सारः स्थिरांशः स इव सुशीता अतिशिशिरा सरसा रसेन मधुररसेन सह वर्तत इति तथोक्ता च। सरसी स्वामिपु- षकरिणी भाति। अत्र प्रथमपादमध्यभागस्य सारसारेतिवर्णद्वय- यमकरूपस्य द्वितीयादिपादमध्यभागे यमनान्मव्ययमकविशेष इाते
यथावा- शरणरणश्रवणक्षणचरणरणत्कटकमतिजवा- देत्य। नीरणरणकितविचकितवारण रणघुर्य देव भव शरणम् ॥ २२७५॥
Page 217
शब्दालङ्कारसर: (१२२) 207
शरणेति रणः ध्वनिः रक्षकेत्याक्रन्दनमिति यावत् 'रणः क्वणे' इति, 'रवे रण' इति च सकीर्णनानार्थवर्गयोरमरः। 'रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम्' इति मेदिनी च। तस्य। श्रवणक्षणमेव चरणयोः रगन्तौ ध्वननती कटको वलयौ यस्मिन्क- मेणि तद्यथास्यात्तया अतिजवात् पत्य ग्राहग्रस्तगजेन्द्रसविधमिति भावः। रणरणकः उत्तरोत्तरतरङ्गितमयविसंघ्ुलत्वं निर्गममितः रणरणको यस्य सः नीरणरणक: तथोक्त कृतः नीरणरणकितः नी- रणरणकशब्दात् णिजन्तात्कर्मणि क्तः विचकितः नक्राक्रान्ततया विशेषतः प्रतिहतः वारण: गजेन्द्रो येन तस्य संबुद्धि: नीरणरणकि- तविचकितवारण! हे रणघुर्य समरधौरेय हे देव मम शरणं भव। गजेन्द्रस्येव ममापि भयचकिततां निर्धूय परित्राणं विदध्या इति भावः। अत्रापि पूर्ववदेव रणरणेति मध्यभागयमकं पादचतुष्टये। श्रीवासादेवासावासाद्या सकलसंपदखिलज- नैः। का वा सा याऽवासादयितुं संपत्ततो न शक्येत ॥ २२७६ ॥ असौ जगदानन्दसंदायितया दश्यमाना अखिलसंपत् श्रीवा- सात् भगवत एव सकाशात् सकलजनैः आसादा प्राप्या। का वा सा या अवासादयितुमिति छेदः। ततः तस्मात् श्रीनिवा- सात् या संपत् अवासादयितुं अवाप्तुं स्वार्थिको णिच् यद्ा ततः तेन रिनिवासेन आसादयितुं शरितान्प्रापयितुं न शक्येत। सा तथाविधा संपत् का वा न कापि तादशी संपदस्तीीतति भावः।अत्रा- दयपादे एकवर्णान्तरव्यवहितवा सा रूपवर्णदयावृ्तिलक्षणमध्यभाग एव तृतायपादे तथाSSवर्त्यत इति प्रागुदाहृताव्यवाहितवर्णद्यात्ृ-
Page 218
208 अलङ्ञारमणिहारे
यथावा- स जयति भुजगेशघरो जपावनं सहजपावनं यत्र। यत्र नृणां दानतपोजपावनं दिविजपावनं भवति॥२२७७॥ दानतपोजपानां अवनं गमन प्राप्तिरित्यर्थः। अवतेर्गत्यर्थ- कान्भावे ल्युद्। दिविजान्पातीति दिविजप: देवेशः भगवान् तस्य अवनं प्रीणनं सवति। प्रीणनार्थकादवतेः करणे ल्युद्। स्पष्टमन्यत्। अत्र द्वितीयपादे वर्णान्तरव्यवधानेनाृत्तस्य जपावनमित्यक्षरस- मुदायस्य तुरीयपादे तथाऽडवृत्तिरिति विशेष: ॥ अतिबहुलसत्तमो जायतेऽहिभूभृत्पते मनो यस्य। बत बहुलसत्तमोजायते हि भूभृत्स तव दष्टया॥ २२७८॥
हे अहिभूभृत्पते! यस्य पुंसः मनः अतिबहुलं सत् विद्यमानं तमः यस्य तथोकं जायते त्वत्कटाक्षप्रसरात्पूर्वमतिमात्रतामसं भवतीति भावः । सः मनुजः तव हष्ट्या 'यत्सत्वं स हरिर्देवः' इति सत्वमयतयोक्तस्य तव कटाक्षेणेति भावः। बहुला सत्ता साधुता प्रशस्तता वा यस्मिस्तत्तथोक्तं यथातथा। यद्ा बहनी लसतो भावः लसत्ता भगवत्सर्रेषः यस्मिंस्तद्यथातथा हि भूमृदिति छेदः। भूभृत् राजा सन् ओजायते। हिरवधारणे। सत्त्वगुणोन्मेषेण दीप्यते। 'तत्र सत्वं निर्मलत्वात्प्रकाशकमनामयम्' इति सत्त्वगु- णस्य प्रकाशकत्वं हि गीयते। अत्र पूर्वार्धमध्यभाग उत्तरार्धम- ध्यभागे आवर्तयते। विपुलानामार्यावृत्तभेदोऽयमिति च विशेष: ॥
Page 219
शब्दालङ्कारसर: (१२२) 209
संलङ्ग्य् गणत्रयमादिमं शकलयोर्द्वयोर्भवति पाढ:। यस्यास्तां पिङ्गलनागो विपुलामभिसमाख्याति। इति लक्षणात्।। यद्वैभवं न मेयं नमेयमहिशैलनाथमहिलां तामू। सर्वस्य हि सुनमेयं न मे यमाद्गीरितःपरं भविता॥ २२७९ ॥ यस्या: वैभवं महिमा मातुं योग्यं मेयं न सवति 'यस्यास्ते माहिमानमात्मन इच त्वद्वलभोऽि प्रभुर्नालं मातुमियत्तया निरव- धिम्' इत्युक्तरात्या भगवताऽप्यपरिच्छद्यमित्यर्थः। तां अहिशैल- नाथमहिलां नमेयं शरणं वजेयम्। कथमेवमज्ञतमसत्वं तां नमेरित्य- त्राह-हि यस्मात् इय अज्ञातनिग्रहंति भावः। सर्वस्य अज्ञस्य सर्वश्ञस्य वा जन्तो: सुनमा सुखेन नमनीया। पामरपरीक्षकविभा- गकापण्यानादरण सर्वशरण्येति भावः । अतोऽहं शरणं वजेयमिति योजना। इतःपरं तच्छरणागतेरनन्तरं मे यमात् भी न भविता। '५रिहर मधुसूदनप्रपन्नान्प्रसुरहमन्यनुणां न वैष्णवानाम्' इत्या- दुक्कतेरिति भावः । सा हि भगवद्विनाभूता। अत्र पादचतुष्टये अन्त्याद्यभागयो: नमेयमिति वर्णानामैकरुप्येणावृत्तिरिति भेद:॥ यथावा- लोके समाननामा समानना मा शुधांशुबि- म्वेन। जुषतां समानना मा समाननामामरा- घिनाथो याम् ॥ २२८० ॥ लोके समानं मानसहित पूज्यमित्यर्थ: तादशं नाम यस्यास्सा असमानं नाम यस्या इति वा। सुधांशुबिम्बेन समानना तुल्यव-
Page 220
210 अलक्कारमणिहारे
दना समं सर्वे जगत् आनयति जीवयतीति समानना कर्तरि ल्युः। 'समं सर्वम्' इत्यमरः । मा श्रीः मा मां जुषतां सेवताम्। मा जुष- तामिति पदाभ्यां 'श्रीर्मा देवी जुषताम्' इति श्रुतिखडः प्रत्यभिज्ञा- प्यते। यां अमराधिनाथः इन्द्रः समाननाम सम्यक् प्रणतवान् शरणं गत इत्यर्थ:। अत्रापि पूर्ववदेव यमकम्। पञ्चानां वर्णाना- मावृत्तिरिति पूर्वस्माद्वैलक्षण्यम्।। न भ्यानकाद्रवेयं न काह्रवेयं यमं समीक्ष्या- स्मात्। नो यदि स वै नते यः सवैनतेयः प्रभु- र्ददात्यभयम् ॥ २२८१ ॥
यमं काद्रवेयं यमरूपमाशीविषमिति व्यस्तरूपकम् समी- क्ष्य भयानकात् अस्मात् न द्रवेयमिति न किंतु द्रवेयमेव। नते शरणागते विषये यः प्रभुः अभयं ददाति सवैनतेयः वैनतेयस हितः सः प्रभुः भगवान् नो वै यदि नैव चेत् न द्रवेयमिति नेति योजना। अत्र प्रथमपादान्त्यभाग: पञ्चवर्णात्मको द्वितीयपादादि- भागे आवर्त्यते। एवमुत्तरार्धेडपि विभिन्नानुपूर्वकिपञ्चवर्णावृत्ति- रिति पूर्वेश्यो विशेष:। एवमग्रेऽपि। सवैनतेयः इत्यत्र 'वा शरि' इति पाक्षिक: विसर्जनीयस्य विसर्जनीयः यमकावैरू- प्यायेष्टव्यः॥
यथावा- नयसे यमसालोक्यं यमसालोक्यं भजेत स हि जन्तुः। गमयसि यं परमपदं परमपद स्यात्स संसरणविपदः॥ २२८२।।
Page 221
(१२२) 211
यं जन्तुं सलोकस्य भावः सालाक्यं न सालोक्यं असालोक्यं आलोको दर्शनं कटाक्षाविषयतामित्यर्थ: नयसेसजन्तुः यमसा- लोक्यं कृतान्तसलोकतां भजेत। ये परमपदं दिव्यं स्थानं गम- यसि सः संसरणविपद: संसारापद: पदं स्थान न पद अपद अवि- षय इति यावत् स्यात् संसृतिकेशान्पुनर्नानुभवेदित्यर्थः॥ यथावा- त्वं ननु बहुलाघवतो बहुलाघवतोऽपि बत नताञू जननि। शौरे रक्षसि दयिता रक्षसि दिताऽसि किमथवाऽऽश्वर्यम ॥२२८३॥ ननु जननि बहुलाघवतः अतिलाघवेन सार्वविभक्तिकस्तसिः। अतिमात्रचित्तचाप्लनेति भावः। बहुलं अधिकं अंध पापमेषाम- स्तीति बहुलाघवतोऽपि नतान् शरणागतान् शौरेदयिता त्वं रक्षा सि। बत अघवतामपि रक्षणमाश्चर्यावहमिति भावः। स्वयमेत्र समाधत्ते-अथवेति। रक्षसि काकासुर एव वा रावण एव व. दयिता दयमाना असि दयते: कर्तरि कः दयाSस्यास्संजाता दयि- तेति वा तारकादित्वादितच्। इदं च पाझरामायणयोः स्पष्टम्। अतः अघवतामपि विनतानां रक्षण किमाश्चर्यमिति भावः । पूर्वव- देवेदं यमकं, षण्णामक्षराणामावृत्ति: परं विशेष:॥ यथावा- दिव्यास्सुतरामहतीस्सुतरा महतीस्सदाऽखि- लाइझक्ती:। भृशमवितथा दधानं तथाऽदधानं श्रियं जयतु दैवम् ॥ २२८४ ॥
Page 222
212 अलक्कारमीणहारे
दिव्या: आश्चर्यावहाः सुतरां अत्यन्तं अहतीः क्षतिरहिताः अग्रतिहता इत्यर्थः। सुतराः कल्पाणतराः महतीः विपुलाः पूज्या वा भृशं अवितथाः अनारोपिता: अखलाः शक्ती: दधानं- समस्ताइशक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरुप्यं रूपमन्यद्वरर्महत्॥ इत्येतदिहानुसंधेयम्। तथा श्रियं निरश्रेयसैश्वर्यपर्यन्तां संपदं आदधानं आश्रितेष्विति शेषः । दैव परं ब्रह्म जयतु। अत्रापि पूर्ववदेव यमकम्। पूर्वार्धे षण्णां उत्तराधें पञ्चानां वर्णा- नामाृत्तिरिति तु वैलक्षण्यम्। उत्तरार्धे तवर्गीयवर्णानां क्रमादा- वृत्तिरिति वि्छित्तिविशेषश्च द्रष्टव्यः। यथावा- हृदयहरश्रीवत्से श्रीवत्से सर्वहृद्यमाधुर्ये। मा- धुर्ये गतविशयं विश यं जानासि शेषिणं हृदय॥ हृदयहर: मनोहारी श्रीवत्सः तन्नामा लाञ्छनविशेष: यस्य तस्मिन्। श्रीः वत्से वक्षसि यस्य तस्मिन सर्वह्द्यं माधुर्य प्रेमा यस्य तस्मिन्। 'स्वादुप्रियौ तु मधुरौ' इत्यमरः। मायाः धुर्ये श्रीवल्लभे इत्वर्थः। हे हृदय ! गतविशयं निस्सशयं यथास्था- तथा महाविश्वासपूर्वकमिति यावत्। विश प्रविश। कर्मणोऽ- घिकणत्वविवक्षया सतमी। यं श्रीवल्लमं शेषिण निरुपाधिकसर्व- शेषिणं जानासि। तस्मिन् विशेति योजना। अन्नाद्यपादान्त्यभा- गावस्थितस्य सस्वरव्यञ्जनत्रयस्य द्वितीयपादादिभागे, एवं द्विती- यपादान्त्यभागस्थस्य तृतीयपादादिभागे, तदन्त्यभागस्थस्य तुरी- यपादाद्यभागे, तदन्त्यभागावस्थितस्य हृदयेत्यस्य पुनराद्यपादादौ चावृत्तिरिति पूर्वैभ्यो वैचित्रचविशेष: ।
Page 223
शब्दालङ्कारसर: (१२२) 213
यथावा- मन्दारैस्संपन्ने संपन्नेतर्नते डरिशंखशाय। खश- यस्तुतो विहरसे हरसेव्ये फणिगाौ समन्दारैः ॥ नते परणते संपन्नेतः संपत्थापक हे अरिशंखशय चक्रशंखपाणे भगवन! मन्दार: पारिभद्रतरुभिः संपने हरसेव्ये शिवेन सेव- नीये फणिगिरौ खशयैः स्वर्गिभि: स्तुतस्सन् दारैस्समं विहरसे। समन्दारैरित्यत्र 'वा पदान्तस्य' इति परसवर्णः । अन्रापि पूवर्प- द्यवदेवान्त्यादियमकं द्रष्टव्यम्। दण्डी तु इद संदष्टयमकमित्याह। यथोक्तं काव्यादर्शे-'संदष्टयमकस्थानमन्तादो पादयोई्वयोः' इति॥ आलीढभारतरसा नभारतरसाधना भवजन- ता। वितमस्सभारतरसा न भारतरसा भवस्य खिद्येत ॥ ३२८७ ॥ हे भगवन्! आलीढा आश्रिता भारती भरतखण्डसंबनधिनी रसा भू: ययासा भरतखण्डजनितेत्यर्थः। भरतखण्डजन्मनस्सर्व- पुरुषार्थसालभ्यस्थ भागवताययुक्तत्वात्तथाक्तिः। भवज्जनता त्वदी- याजनसमूहः। यद्वा भवज्नता आलीढभारतरसेति योजना। आलीढ: आस्वादितः भारतस्य श्रीमन्महाभारतस्य रस्षः आति-
पत्रजनरूपार्थेति यावत्। अतएव नभारतरसाधना। भारतरं अतिगुरु साधनं भक्त्तिरुपं परमपुरुषार्थसाधकोपाय तत् न विद्यते यस्यास्सा तथाक्ता। नशब्देन बहुवीहिः। शरणव्रजनलक्षण- लघू पायलाभेनानाइतभक्तिरुपगुरुतरोपाया सतीत्यर्थः । स्वतन्त्र- प्रपदननिष्ठेति फलितोऽर्थः । अतएव वितमाञ्च सा सभा च
Page 224
214 अलङ्गार माणेहारे
वितमस्सभा 'आदित्यवर्ण तमसः परस्तात्। प्रजापतेस्सभां वेश्म प्रपद्ये' इत्यादिक्षुतिप्रतिपादितमप्नाकृतं दिव्यं स्थानं 'सभा सामाजिके गोष्ठयां द्यतमन्दिरयोरापे' इति मेदिनी। तस्यां रंतं 'जक्षन्क्रीडन्ममाणः' इत्याम्नातं मुक्तानुभाव्यं क्रीडनं। रमतेर्भावे क्तः। तस्मिन् रसः अनुराग: यस्यास्सा तथोक्ता निश्श्रेयस- साम्रान्यमनुभवन्ती सतीति भावः । भवस्य संसारस्य भारत- रसा भारवेगेन 'रंहस्तरसी तु रयस्स्यदः' इत्यमरः । न खििद्येत । ईद्दशामपुनरावृत्तेश्श्रवणात् स्मरणाच्चेति भावः। अत्र पूर्वोत्त- राधयोः मध्ये एकरूपतया नकारमाघ्रव्यवधानेन भारतरसेत्यक्ष- रपश्चकावृत्तेरन्त्याद्ययमकद्वयं संदष्टयमकं च । यमकस्य अय- मकरूपपार्श्वमागाभ्यां संदशेनेव मध्ये दष्टत्वादिति बोध्यम्।। धनिकभवने हयानन धनेहया न न पदं ननु निदध्याम्। त्वद्दत्तमहा विभवं सुमहाविभवमपि किं नु याचेय ।। २२८८ ।। ननु हयानन हे हृयग्रीव! धनेहया वित्तस्पृहया धनिकानां सत्पात्रासात्कृततया निन्दितधनशालिनां निन्दायां मत्वर्थीयष्ठन्। धनशब्दादुक्त एवार्थे मत्वर्थीये इनिप्रत्यये कुत्सायां कन्वा। भवने पदं चरणं न न निदध्या नैव निक्षिपेयम्। न नेति वीप्सायां द्विर्भावः। अत्र भये प्रतिज्ञाने वा द्योत्ये वाप्सा। यदाहु :- प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च । भये च विस्मये चैव पौनःपुन्यमलंकृतिः॥ इति। सामान्यधनिकगृहपदन्यसनवैरस्येऽि महोदारमहा- राजादियाच्चायां को दोष इत्यत आह-त्वदित्यादिना। त्वया
Page 225
शब्दालङ्कारसरः (१२२) 215
दत्तं महः तेज: यस्य स नथोक्तः त्वत्कटाक्षावातलोकोत्तरनित्य- साम्राज्यप्रयुक्तद्विव्यतेजश्शालीति भावः। अहं सुमहान् महाव- दान्यत्वेन सकललोकमाननीय: यः अविभवः भानुसूतु: कर्णः तमपि विभव अर्थ याचेय किंनु ताइशमपि नार्थयेय किमन्यं वदा- न्यंमन्यमिति भावः। अत्रापि पूर्ववदेव यमकं, पूर्वोत्तराधयोर्वि- भिन्नरूपत्वं विशेषः।I भगवन्नयावन्नयासं वन्नयावन्नयां पदोरहीन्द्र- गिरेः। साउहन्ता हन्ता मां हन्ताहन्तां भजेय न पुनरपि॥ २२८९ ॥ हे भगवन्! अहीन्द्रगिरे: वन्या वनसमूह: तस्याः अवन्यां पदोः चरणयो: यावन्नयासं न्नयासर्पयन्तेमव सा स्वस्वरूपभ्रंशयित्री अहंता अहंकार: मां हन्ता नाशयिता हन्तेर्ुट्। हन्तेति भविष्य- न्महालाभचिन्तनजनितहषें। अहं तां अहन्तां पुनरपि शेषशैलवन- भूपदन्यासोत्तरमपि न भजेय विन्देय। भजते संसभावनायां लिड़।
भागस्तादृशयमकरूप एव द्वितीयतुराययो: पादयोराद्यभागे आव- त्यंत इति मध्याद्यथमकविशेष: संदशयमकं च द्रष्टव्यम्॥ ज्ञानन्देयं भवता नन्देयं ननु मुकुन्द येनाहम्। किं नाथेय कमपि वा नाथे यत्त्वयि समर्पितात्म- भर: ॥ २२१० ॥ ननु मुकुन्द मुक्तिभूप्रद ! भवता मह्यमिति शेषः। ज्ञानं त्वद्दि- षयकमिति भावः। भवतैव देयम् येन ज्ञानेन अहं नन्देयं त्वत्सा- युज्यानन्दं प्राप्नयां 'ददामि बुद्धियोगं त येन मामुपयान्ति ते' इति
Page 226
216 अलक्कारमणिहारे
गीतत्वादिति भाषः। अन्य एवामुमर्थ प्रार्थ्यतामित्यत्राह-किमि- ति। कं वा त्वदन्यं कमपि वा नाथेय किं याचेय किं किं नाथे- येति वा। मदभीप्सितज्ञानदानापटुमन्यं किं वस्तु प्रार्थयेय। अपेक्षितार्थस्य तस्मादलब्धेरिति भावः । कुत इय प्रतिशेत्य- त्राह-नाथे इत्यादि। यत् यस्मात् नाथे सर्वेश्वरे त्वयि अहं समर्पितात्मभरः त्वाय न्यत्सात्मरक्षामरस्यान्यनाथनं कर्थ घटेतेति भावः। यथोक्तं- तत्पादभक्तिज्ञानाभयां फलमन्यत्कदाचन। न याचेत्पुरुषो विष्णुं याचनान्नश्यति तुवम्।। इति। अत्राद्यपाद्मध्यभागस्य द्वितीयपादाद्यभागे आवृत्ति:। तृतीयपादमध्यभागस्य तुरीयपादाद्यमागे इति मध्यादियमकं संद- शयमकमेदश्च॥ सम्रमदगण्डकैरहिशिखरी सप्रमदगण्डकैर्लस- ति। दितसारसैरिभैरषि विपुलोदितसारसैरिमै- रपिच ॥ २२११ ॥ सम्मदैः सस्त्रीकै: सहर्षैवां गण्डकैः खडिग्मृगैः। 'गण्डके खड्गखड्गिनो' इत्यमरः। सप्रमदा: प्रकृष्टदानोदकसहिता: गण्डा: करटा: यैस्तैः। सप्रमदगण्डकैः 'शेषाद्विभाषा' इति कय्। दितानि छिन्नानि सारसानि पदमानि यैस्तैः। पमविक्षोभिभिरित्यर्थः। 'दितं छितम्' इत्यमरः । इमै गजैः। विपुलं यथातथा उदितः अति- मात्रप्रवृद्ध: सारः बलं येषां तैः विपुलै: महन्द्िः उदितसाररिति वा। सैरिमेः वनमहिषैः अहिशिखरी लसते। अत्र प्रथमतृतीय-
संदशयमकभेदश्च॥
Page 227
शब्दालक्कारसरः (१२२) 217
एवमेकपादगतभागानां पादान्तरभागापक्षा यमकभेदा दिखा- त्रेणोदाहताः। अथ एकपादगतभागानामन्योन्यापेक्षा मेदा दिख्वा- त्रमुदाह्ियन्ते। यथा- पायादेपाऽपायाजाया शौरेस्सुधाजलधिजा या। छायाया अच्छाया गेयाऽडस्थानी सुधीभिर- विगेया॥ २२१२॥ या अच्छाया: छायायाः कान्तेः आस्थानी सुधीभिः गेया अविगेया केनाप्यनिन्द्या एषा सुधाजलधिजा शौरे: जाया अपायात् पायादिि योजना ॥। यथावा- कल्याणाम्बुजकल्यायिता मृगाधिपनगाधिप- तिदयिता। भाव्याऽमरैश्शुभाऽव्यान्मा तादशवै- भवा जगन्माता। २२९३।। कल्याणमेवाम्बुजं तस्य कल्यायिता प्रभातायमाना 'प्रत्यूषो- डहर्मुखं कल्यम्' इत्यमरः। अमरैः भाव्या ध्येया शुभा कल्याणी तादशवैभवा अवासनसगोचरैश्वर्या जगन्माता मृगाधिपनगाधि- पतेः शेषाद्रीशस्य दयिता मा श्रीः अव्यात् इति योजना॥ यथावा- वृन्दारकारिवृन्दास्कन्देशानस्य नतशिवस्कन्दे। विन्दे पदारविन्दे नन्देष्टसुतस्य संभृतानन्दे। वृन्दारकारीणां देत्यानां वृन्दस्य आस्कन्दे पराभवे ईशानस्य पटीयस:। अन्यतमुगमम्॥ ALANKARA IV. 17
Page 228
218 अलङ्कारमणिहारे
यथावा- विन्देमहि गोविन्दे कन्देSरिदवस्य भुवनतरु- कन्दे। मन्देतराममन्दे कुान्देड्यरदे रुचिं हृदि मुकुन्दे ॥ २२९५॥ अरिदवस्य कन्दे जलदे भुवनतरो: कन्दे मूलभूते 'कन्दस्तु सूरणे सस्यमूले जलधरेपिच' इति मेदिनी। अमन्दे पटीयसि कुन्देड्यरदे कुन्दश्लाध्यदशने मुकुन्दे विषये हृदधि रुचि अभिरति विन्देमहाति योजना।
यथावा- दाता धियमवदातां दाताखिलसंशयामसुर- दाता। पाता श्रियमनिपातां पाता कमलाधरस्य मां पाता ॥ २२९६॥ अवदातां शुद्धां अतपव दातः छिन्नः अखिलसंशयः यया तां 'दो अवखण्डने' इति धातोः कर्मणि कः 'कृत्तं दातम्' इत्यमरः। धियं दाता 'ददामि बुद्धियोगं तं' इति गानात्। अवदाताशब्दो विशुद्धवाची। दातेत्यस्य तृन्नन्तया तद्योगे 'न लोक' इत्यादिना षष्ठीनिषेधः। अनेन तृना भगवतो धीदानताच्छील्यं द्योत्यते। तस्य 'आ क्केस्त्तच्छील' इत्यादिना ताच्छील्ये विधानात्। असुराणां दाता छेत्ता। दतेस्तृच्। शैषिकषष्ठयास्समासः । श्रियं संपदं अनिपातां सरतीं पाता रक्षिता। कमलायाः श्रियः अघरस्य पाता रमाधररसास्वादविधाता भगवान् श्रीनिवास इति विशेषणबला- लभ्यते। मां पाता रक्षिष्यति। पाधातोर्लट्। अत्र पद्यपच्चकेऽपि
Page 229
शब्दालङ्कारसरः (१२२) 219
प्रतिपादमादिमभागस्यान्ते आवृत्तिः अन्तिमे तु आद्यचरणादिम- भाग एव तदन्त्यभागे द्वितीयपादाद्यन्तयो्चावर्त्यते। एवं तृती- यपादाद्यभाग एव तदन्त्यभागे तुरीयपादाद्यन्तयोश्चावर्त्यत इति विशेष: । अथ संकीर्णयमकभेदा दिख्ात्रमुदाहियन्ते। यथा- क्रव्यादां तन्वन्तं तन्वन्तं कतुभुजश्र धिन्व- न्तम्। राममभिवीक्ष्य समितौ स मितौजा रावणोऽपि शमितौजाः ॥ २२१७॥ ऋ्व्यादां क्रव्यादानां तनूनां शरीगणां अन्तं विदधानं ऋतुभुजः देवान् इदं कव्यात्प्रतिद्वन्द्ि भिन्वन्तं प्रीणयन्तं च। रामं समितौ संगरे अभिवीक्ष्य सः दुराधर्षतया प्रिद्धो रावणोऽपि मितौजाः मितं ओज: प्रभावो यस्य स तथोक्त: अतएव शमितौजा: शमित शान्ति प्रापितं ओजः दीप्िः यस्य तथोक्तः अभवदिति शेषः 'ओज: प्रभावे दीप्तौ च' इत्यमरः। अत्र तन्वन्तमिति प्रथमपादान्त्यभागो द्वितीयपादादिभागे समिताविति तृतीयपादान्त्यभागश्चतुर्थपादा- दिभागे चावर्तयते। तन्वन्तमिरयस्य मितौजा इत्यस्य च द्वितीयतु- रीयपाद्यारावत्तिरपीति संकरः॥
यथावा- तरिताSस्मि भवाब्धिमहं तरिता त्वदपाङ्गकेन मातरिता। भवितां ननु कथमिव मम भविता निश्श्रेयसं हि संभविता ॥ २२९८॥ 17*
Page 230
220
अहं भवान्धि तरितास्मि तरिष्यामि 'तृ प्रवनतरणयोः' .अस्माद्धातोर्लुद्। कथं तरितासत्यत्राहहे मातः! तव 'संसा- रार्णवतारिणीम्' इति प्रसिद्धाया इति भावः। अपाङ्गकेन कटाक्षेण तरिता नौत्वं 'स्नियां नौस्तरणिस्तरिः' इत्यमरः। इता प्रप्ता। त्वत्कटाक्षे नौत्वमचलम्बमाने कथमहं भवाब्धिं न तरेयमिति भावः। इतः परं मम भविता संसारिता कथमिव भविता भवि- व्यति। भवतर्लुट्। कुतो न भवेदित्यत्र उपन्यस्तेऽपि पूर्व हेतौ दाढ्याय हेत्वन्तरं चोपन्यस्यति-हि यतः निश्श्रेयसं मुक्ति: संभ- विता संभविष्यतीति। अत्र युग्मयो: पादयोराद्यमागस्यान्त्यभागे अवृत्तिरितीदं एकपादगतभागान्योन्यापेक्षं यमकम् । प्रथमतृतीय- पादादिभागयोर्द्वितीयतुरीयपादादिभागे आवृत्तिरिति पादान्तरभा- गापेक्षयमकं चात्र संकीर्णम्। एवमुत्तरत्रापि द्रष्टव्यम्॥ यथावा- मधुनाशन शुचमधुना मधुना त्वद्दिव्यतरच- रितमधुना। भवता शुभलाभवता भवतापो मे निरासि हृदि भवता ॥ २२९९ ॥ शुचं अधुना इति छेदः। हृद्विभवता हृदयस्थितेन भव- तेति योजना ॥। यदि तु न समुद्रवेद्धुवि हृदयालु दयालु तत्परं ब्रह्म। जगति न समुद्रवेद्रवपतयालुतया लुठन जनो जातु ॥ २३०० ॥ तत् हृदयालु परं ब्रह्म दयालु सत् भुवि अस्थां भूमौ यदि तु न समुद्भवेत् अर्चात्मना वेंकटाचलादौ नावतरेश्व्वेत् भवे संसारे
Page 231
शब्दालङ्गाग्सर: (१२२) 221
पतयालुतया पतनेन लुठन् उपावर्तमान: अय जनः जगति समुत् मुदा सहितः न भवेत् अस्मिन् भुवने न कमप्यानन्दं विन्देदिति भावः। 'को ह्येवान्यात् क: प्राण्यात् यदेष आकाश आनन्दोन स्यात्' इति श्रुत्यर्थच्छायाऽत्रानुसृता। अत्राद्यपाद्मध्यस्थानां नसमुद्भवे इति सस्वरव्यञ्जनानां तृतायपादमध्यभागे आटत्तिः । द्वितीयतुरयपादयोर्मध्ये दयालु दयालु तयालु तयालु इति यमक- विशेषश्च॥ परिभवहरणं श्रयतोपरिभ्वहरणं च भगवत- श्वरणम्। निलयं तु कदर्याणां निरयं न भजत जना: कदर्याणाम्॥ २३०१ ॥
हे जना :! परिभवहरणं 'धयेयं सदा परिभवप्नमभीष्टदोऽहम्' इति श्रीभागवतोक्तरीत्या सर्वपरिभवनिवारणं उपरि इतःपरं भवस्संसारस्तस्य हरणं च भगवतश्चरणं श्रयत। कर्दर्याणां ... आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडेयत्। लोभाद्यः पितरौ भ्रातुन् स कदर्य इति स्मृतः॥ इत्युक्तलक्षणानां कृपणानां कुत्सिताश्च ते अर्याश्च कदर्याः । तेषां अर्था: स्वामिनो वैश्या वा। 'अर्यस्स्वामिवश्योः' इति निपा तनात्साधुः। 'स्यादर्यस्स्वामिचैश्ययोः' इत्यमरः 'कोः कत्तत्पुरुषे- 5चि' इति कुशब्दस्य कदादेशः। निलयमेव निरयं नरकं व्यस्त- रूपक न भजत। धनलिप्सया कुत्सितानां राज्ञां विशां धनिनां वा नरकप्रायान् गृहान्मा सेविद्वमिति भावः।। कलयामि तां सकलयाड़मितां स कलया
Page 232
222 अलक्कारमणिहारे
मितां सदाऽहं यामू। तरसाऽघुनाऽतितरसाधुनाS- तितरसा धुनाति साडवं श्रीः॥ २३०२॥ कलयामि तां सकलया अमितां सः कलया मितां सदा अहं याम् तरसा अधुना अतितरसाधुना अतितरसा धुनाति सा अधं श्री।। इति छेदः। तां प्रसिद्धां सकलया कलया अमिता मितां ज्ञातां सर्वशास्त्रापरिच्छेद्यमहिमतया ज्ञातामित्यर्थः। यां श्रियं सः दासभूतः अहं सदा कलयामि व्यायामि सा श्रीः अतितरसा अतितः सातत्येन प्राप्तः रस: कृपारसः यया सा तथोक्ता सती। अतितेत्यत्र 'अत सातत्यगमने' इत्यस्माद्धातोः कर्मणि क्:। अविश्रान्तकारुण्या सतीत्यर्थः। अतितरश्चासौ साघुश्च अति- तरसाधु: तेन महाश्रेष्ठेनेत्यर्थः । अतिशब्दो वृत्तिविषये द्रव्यव- चनः तेन 'अव्ययघादास्वद्रव्यप्रकर्षे' इति अद्रव्यप्रकर्वार्थवि- हितस्यामोSन्र न प्रसक्तिः । तरसा वेगेन निरवधिकवेगेनेत्यर्थः। अधुना अदयैव अघं पाप्मानं घुनाति कम्पयति। उक्तविशेषणवि- शिष्टां श्रियं ध्यायतो मम सद एव पूर्वोत्तराघविनाशास्लैषी भवत इति भाव:।। दण्डी तु-प्रातिलोम्येन पादाद्यावृत्ती प्रतिलोमयमकमित्यभा- णत्। तथाच तल्लक्षणम्- आवृत्ति: प्रातिलोम्येन पादार्ध्रोकगोचरा। यमकप्रतिलोमत्वात्प्रतिलोममिति स्सृतम्॥। इति। यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपाद:, पूर्वार्धस्य प्रतिलोमावृत्त्या उत्तरार्थ, पकस्य श्रोकस्य प्रतिलोमावटत्या श्ोका- न्तरं च निष्पद्यते तत्प्रतिलोमयमकमिति तदर्थः। अयमनुलामप्र- तिलोमचित्रभेद इत्यन्ये। पादभागप्रातिलोम्येऽपदि दृश्यते। अत्रा-
Page 233
शब्दालङ्कारसरः (१२२) 223
र्यावृत्ततिशषैरेव उदाहरणप्रदर्शनस्य प्रतिश्रुततया तेषामसमगण- पादतया पादप्रातिलोम्यस्य दुर्घटत्वेन पादभागार्धल्लाक्तप्रातिलो- ्यावृत्ति: प्रदुर्श्यते॥ तत्र पादभागप्रातिलोम्यावृत्तिर्यथा- सरसाशय यहासा रस इति विदितो वित- मसि स्थितो यरस्थाने। वनमालाली लीलामा- नव राम त्वयाऽमुनाडवाप्ताऽहो॥ २३०३।। सरसः आशयः अभिप्रायो यस्य तस्य संबुद्धि:। हे लीला- मानव स्वेच्छागृहीतमानुषविग्रह हे राम ! यः त्वं रस इति 'रसो वै सः' इति श्रुतानन्दमयरूप इति यशसा विदितस्सन् वितमसि स्थाने परमे व्योसति स्थितोऽसि। अमुना ईद्ृशेन त्वया वनमाला नां काननच्छटानां आली श्रेणी प्राप्ता अहो अग्राककृतदिव्यधामाव- स्थितस्य प्राकृतदण्डकारण्यावाप्तिराश्चर्यावहेति भावः। अत्र प्रथमतृतीयपादभागयोस्सस्वरव्यञ्ञजनपञ्चकयोः प्रातिलोम्येन यम- कविशेष:।। गह जनयन्नयनं प्रभविष्यति तिष्यविभव एव हरे। तब नाम्नामाम्नानादपरा न नरापदपनयेडस्ति गतिः।। २३०४ ।। हे हरे ! गर्ह निन्दं अयनं मार्ग जनयन् जनानमार्गे प्रवर्तय- न्नित्यर्थः । तिष्यस्य कलेः 'तिष्यः पुष्ये कलियुगे' इत्यमरः । विभव एव प्रभविष्यति प्रभुतां प्रपत्स्यत इत्यर्थः। नात्र युगे याग- दानतप:प्रभृत्युपायानुष्ठानावकाश इति भावः। ताहै कथं दोषनि- हतार इत्यत अह-तव 'हरिर्हरति पापानि' इति प्राख्यातद-
Page 234
224 अलङ्कारमीणहारे
व्यानास्त इति भाव: नाम्नां आम्नानात् अभ्यासात् अपरा अन्या नराणां मानवानां विपद: संस्मृतिरूपापद: अपनयने उत्सारणे गतिः उपायः नास्ति त्वन्नामसंकीर्तनमेव विषदुत्तरणोपाय इत्यर्थः। यथोख्यते- कलेदोषनिधे राजान्नस्ति ह्ेको महान्गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत्। इति। अत्राद्यतृतीयपादयोरन्ते वर्णद्वितयस्य एकान्तरिततया परिवर्तनम्। द्वितीयतुरीययोस्तु अव्यवहिततया वर्णचतुष्टय- स्येति बोध्यम्। अर्धस्य प्रातिलोम्येनावृत्तिर्यथा- सा भायादनघतरा कान्ताशाऽतीव जनवरा- मोदा। दामोरा वनजवती शान्ताकाSSरातघनदया भासा ॥ २३०५ ॥ साभायात् अनघतरा कान्ताशा अतीव जनवरामोदा पामोरा: वनजवती शान्ताका आरातघनदया भासा। इति पदच्छेद:। अनध- तरा अपहृतपाप्मा कान्ताशा कान्ते वल्लमे भगवत आशा आभे- लाषो यस्यास्सा भगवद्विषयकनिरतिशय प्रीतिशालिनाति भावः। यद्वा आश: व्याप्तिः 'अशू व्याप्ती' भावे घञू। कान्तस्य आश इव आशो यस्यास्सा 'त्वया च विष्णुना चाम्त्र जगद्वयास चराचरम्' इत्युक्क्तेः। अतीव अतिमात्रं जनवरामोदा जनवराणां नरश्रेष्ठाना आमोदा आमोदयित्री आङ्पूर्वकान्मोदयतेः पचादयच्। यद्वा वर: आमोदः प्रीतिर्यस्यास्सा जनेषु वरामोदा निरतिशयप्रीतिरि- त्यर्थः। अथवा वरैः तत्तदभिलषितैवरैः आमोदा आमोदयित्री जाननां वरामोदा दामोरा: दाम कुसुममाल्यं उरिस यस्यास्सा
Page 235
शब्दालङ्गारसर: (१२२) 225
दामोरा: अतएत 'महामालाविभूषणा' इति तन्नाम।'उरःप्रभृतिभ्यः कप' इति कप न भवति, समासान्तविवेरानेत्यत्वात्। तथा- च मुरारिप्रयोग: 'आपूर्यमाणोरसम् इति। वनजवती वनज अब्जं अस्या अस्तीति तथोक्ता पद्मिनीत्यर्थः। 'पद्ये स्थितां, पद्मपरिये पझमिनि पद्महस्ते' इत्यादिप्रमाणात्। शान्तं अक आश्रितानां पापं दुःखं वा थया सा शान्ताका। 'अकं पापे व दुःखे च' इति विश्वः। आरातघनदया आराता आत्ता 'रा आदाने' इत्यस्माद्वातोः कर्मणि कः। घना सान्द्रा दया यस्यास्सा। सा प्रसिद्धा श्रीरि- त्यर्थः । भासा प्रभावेन 'भाः प्रभावे च दीपौ च' इति मेंदिनी। भायात् प्रकाशताम्। सा भायादित्यत्र मा भायादिति पाठे माभायात् इति छेदः । तुरीयपादान्ते दयाभासेत्यत्र दयाभा- मेति पाठे आरातघनदया भामेति वा आरातघतदयाभा मा इति वा छेदः। आरातघनद्या उक्त्ोऽर्थःः। द्वितीयपक्षे तु-आराते आत्ते घने दया व आभा चदयाभे यस्यास्सा मा इद विशेष्यं ल्क्ष्मारित्यर्थः । मामां प्रति भायात् प्रकाशतां मयि संनिधत्ता- मिति यावत्॥ श्रोकस्य प्रातिलोम्यं यथा- वैताने भुवि जनिता मा तारारामदमनयो- ज्याज्ञा। मानातिगविभवनदी दासावनसारसर- सनयनाभा ॥ २३०६॥ भानायनसरसरसाऽनवसादाSSदीनवभविग- तिनामा। ज्ञा ज्यायो नमदमरा राता माता निजविभुनेता वै ॥ २३०७॥
Page 236
226 अलङ्कारमणदारे
वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा मानातिग- विभवनदी दासावनसारसरसनयनाभा भानायनसरसरसा अन- वसादा आदीनवभविगतिनामा ज्ञा ज्याय: नमदमरा राता माता निजविभुना इता वै। इति पद्यद्वयपदच्छेदः । वैताने वितान- संबन्धिनि कर्मणीति यावत्। यज्ञियमूकर्षणावसरे इति भावः। भुवि भूमौ जनिता मा श्रीः इद विशेष्यम्। तारारामदमनयो- ज्याज्ञा। ताराया: रामः रमणः वालीत्यर्थः । तस्य दमनः दण्ड- यिता भगवान् दाशरथि: तस्मिन् योज्या योजनीया आज्ञा शासनं यस्यास्सा तस्य तदाज्षानुवर्तितायाइश्रीरामायणे प्रसिद्धत्वात्। मानातिगविभवनदी मानातिगः वेलातीतः यो विभवः वैभवः तस्य नदी आश्रयभूतेोति यावत्। भगवत्यां नदीत्वरूपणेनारूपितमपि विभवस्य सलिलत्वं प्रतययित इत्येकदेशविवर्तिरूपकविशेषः। अत. एव 'महाविभववाहिनी' इति तन्नामसहस्त्रे पठ्यते। दासावनसार- सरसनयनाभा दासानां किकराणां अवने रक्षणे विषये सारा श्रेष्ठा सरसा सदया नयनाभा लोचनश्रीः यस्यास्तथोक्ता। भानायनस- रसरसा भानस्य प्रकाशस्य भातेर्भव ल्युद्ू। अयनं मार्ग: आश्रय इति यावत्। तादृशो यस्सर: हारः तेन सरसा रमणीयेति यावत्। अनवसादा अविद्यमानः अवसाद: कारश्य यस्यास्सा। आदीनवभविगतिनामा आदीनवः केशः 'आदीनवास्त्रवी केशे' इत्यमरः। आदीनवयुक्तानां भविनां संसारिणां गतिः गम्यत इति गतिः कर्मणि क्तिन्। प्राप्यं नाम यस्यास्तथोक्ता तापत्रयदूषित- संसारिजनानुसंधयनामधेयेति भावः। ज्ञा विदुषी सर्वज्ञेत्यर्थः। अत एव 'सर्वज्ञा कमलप्रभा' इति तन्नामसु पठन्ति। ज्यायः इद- मुत्तरत्रान्वेति। नमदमरा नमन्तः अमराः यां तथोक्ता। निजव- भुना स्ववल्लभेन भगवता इता युक्ता ज्याय: श्रेयः अतिप्रशस्यमै-
Page 237
शब्दालङ्कारसर: (१२२) 227
शवर्यमित्यर्थः। प्रशस्यशब्दादीयसुनि तस्य 'ज्य च' इति ज्या- देशः। राता दास्यति। 'रा दाने' लुद्। वै इति प्रसिद्धौ। एवं यमकदिगुदाहता।। अथ पुनरुक्तवदाभास:
पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । पुनरुक्तवदाभासस्स नामाख्यातगोचरः।। यत्रार्थः पुनरुक्तवदाभाति ईष्भाति अमन्वितमिव आमुखेऽ- वभासते। वस्तुतः परमार्थतस्तु अन्वयवेलायामन्यधैव भवति स पुनरुक्तवदाभासो नामालंकारः। अयं च नामावलम्बी अख्याताव- लम्बी चेति द्विविध:। अर्थालंकारत्वेऽप्यस्य शब्दपौनरुक्त्यावल- म्बितया शब्दालङ्कारप्रस्तावे लक्षणोक्तिः। तत्र नामाश्रथो यथा- फणिधरणिभृदचलस्थितिघृणिमन्मित्रप्रभाक- रमुदारम्। मणिरत्नघनोरस्कं प्रणिदध्यां किमपि दैवतं सततम् ॥ २३०८॥ फणिधरणिभृत् भुजगराजः स चासौ अचलो गिरि: तस्मिन् स्थितिः यस्य तत् घृणिमान् भानु: तस्य मित्रं तत्तुल्या या प्रभा तस्या: आकरम्। मणिरतं मणिश्रेष्ठः 'रतं स्वजातिश्रेष्ठेऽपि' इत्यमरः। तेन घनोरस्कम्। अत्र धरणिभृदादानां अचलादिपर्या- यपदप्रयोगेण आमुखे अवभासमानस्य पौनरुकत्यस्य उक्तप्रकारे- णान्वयावसरे अन्यधापर्यवसानात्पुनरुक्त वदाभासोSयं नामाश्रयः।। आख्याताथयो यथा- दीव्यति भाति विराजति दिननाथसहकूप्रकाश
.
Page 238
228 अलङ्कारमणिहारे
ते कमला। भवतीष्टे प्रभवति ननु भगवन्नहिनग- वसुंधराभरण॥ २३०९ ॥ दिननाथसदक्प्रकाश अहिनगवसुंधराभरण ननु हे भगवन्! ते तव कमला ते इति 'लक्ष्मीपते तेऽङ्गियुगम्' इत्यत्रेव विभक्ति- प्रतिरूपकमव्ययम्। न तु युष्मच्छन्दस्य 'ते मयौ' इति विहि- तस्त इत्यादेशः दिननाथसदकप्रकाशत्यामन्त्रितस्य 'आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवन्भावेन पादादित्वात् तस्य चादे- शस्य 'पदस्य पदात्'। अनुदानतं सर्वमपादादौ' इत्यपादादावेव विधानात् ते कमलेत्यनेन 'सदा तवैवोचितया तत श्रिया' इत्यत्रेव 'विष्णोः श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारा- थर्थ प्रतिष्ठाप्यते। दीव्यति क्रीडां विदधाने भाति प्रकाशमाने प्रभवति प्रभविष्णौ इष्टे प्रिये सवति त्वयि विराजति भासते। अन्न दव्यति भाति विराजति प्रकाशते इत्येतेषां ईष्टे प्रभवतत्यिन- योश्च आमुखे एकार्थकाख्यातवदाभासमानतया पौनरुकत्यस्य उप-
कवदाभास इति बोध्यम्। कव्यप्रकाशकारमते तु-
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः । असौ पुनरुक्तवदाभास: शब्दमात्रसमाश्रयः शब्दार्थोभयस- माश्रयश्चेति द्विविधः। तत्राद्यइशब्दमात्राश्रयस्तु समङ्ग: अभङ्ग इति द्विविधः।तत्र सभङ्गः पुनरुक्तवदाभासशश्दैकगोचरो यथा- स्नेहेन हरे त्वय्यव लिपोऽहंकृतमतिश्विरादभ-
Page 239
शब्दालङ्कारसर: (१२२) 229
वम्। बहुधा महितं तेऽज स्थानं मे स्थात्कथ नु दुष्पापम् ॥ २३१० ॥
हे हरे! अव रक्ष। त्वयि विपये स्नहेन प्रेम्पैव तैलादिरस- द्रव्येण लिप्: दिग्धः चिरात् बहोः कालात् अभवम्। बहुधा महितं ते अजति छेदः। हे अज! भगवन् बहुधा बहुप्रकारेण महितं पूजितं ते तव स्थानं परमं व्योम कथ नु दुष्प्रापम् एवं त्वय संजातानुरागस्य सुप्रापमेव स्यादित्यर्थः। अत्रावलितोऽ्हं- कृत इत्यत्र बहुधामहितं तेजस्थनमित्यत्र च अवलिप्ाहंकृतश- ्दयोः धामतेजशशब्दयोश्चैकार्थतया भासमानयोरनयारुक्तरीत्या पदभङ्गेन भिन्नार्थयोनिबन्धनात्सभङ्ग: पुनरुक्वदाभास:।
अभङ्गो यथा- वाक्पतिगुरुसौम्यबुधश्लाध्योऽच्युत भौममङ्गळ- निधानम्। भानुसुतमन्दतावहपरमौदार्यश्रकास्ति भवदीयः ॥ २३११॥ हे अच्युत! भवदीय: भवदनुग्रहगोचरो मनुजः वाक्पतयः वावदूका: गुरवः श्रेष्ठाः सौम्यः अरौद्राश्च ये बुधाः विपश्चितः तैः श्ाध्य:। भूमेरिदं भौमं यत् मङ्गळं कल्याणं तस्य निधानं आधा- रः। भानुसुतस्य कर्णस्य मन्दतावहं अल्पत्वसंपादकं ततोऽप्यति- शयितमित्यर्थः । तादृशं परमौदार्य यस्य तथोक्त चकास्ति। अत्र वाक्पतिगुरुशब्दयोः सौम्यबुधशब्दयोः भौममङ्गळशब्दयोः भानु-
भास उक्तर्रात्या अभङ्गपदाश्रय इति ध्येयम् ॥
Page 240
230 अलङ्कारमणिहारे
शब्दार्थोभयाश्रयो यथा- तपनीयसुवणङ्गं घनजलदसनाभिरुचिरकच- बन्धाम्। लक्ष्मीं प्रभामुदारां महतीं श्रीवास वासय कुले मे॥२३१२ ॥ तपनीयं काश्चनमिव सुवर्ण शोभनवर्ण अङ्ग यस्यास्तां 'हिर- ण्यवर्णाम्' इति श्रुतेः ! घनः सान्द्रः थः जलदः तस्य सनाभिः सगोत्रः तत्सदश इति यावत्। रुचिरः कचबन्धो यस्यास्तां उदारां वदान्यां 'देवजुष्ामुदाराम्' इति श्रुतेः । 'उदारो दातृम- हृतो:' इत्यमरः महतीं पूज्यां मह्यते पूज्यत इति व्युत्पत्तः। प्रर्भा प्रकृष्टा भा दीप्षिर्यस्यास्तां लक्ष्मी हे श्रीनिवास! इद तन्निवास- नौपयिकताभिप्रायगर्भम्। मे कुले संताने गृहे च वासय। अनेन 'श्रियं वासय मे कुले' इति श्रुतिः प्रत्यभिज्ञाप्यते। अत्र सुवर्णधन- प्रभोदाराशब्दानां पर्यायासंहिष्णुतया शब्दाश्रयत्वम्। तपनीय- जलदलक्ष्मीमहतीशब्दानां गाङ्गेयमुदिरकमलापूज्य।दिपदान्तरस- हिष्णुतयाऽर्थाश्रयत्वमित्युभयाश्रितत्वं पुनरुक्तवदाभासस्येति वि- शेयम्॥ अथापशब्दवदाभास:
निवर्तते साधुभावज्ञानाद्यत्रापश्ञब्दघीः । अपशब्दवदाभासस्सोSलंकारो निगद्यते॥
हरिणो यस्य यशोभिर्व्याप्तो लोक: पयोनि- यथा-
धीयति तम्। शरणं ब्रजेयमीशं स्वयंभुव शंभुवं रमाधिभुवम् ॥ २३१३ ॥
Page 241
शब्दालङ्कारसर: (१२२) 231
यस्य यशोभि: व्याप्तो लोक: हरिण: पाण्डुरस्सन् पयोनि- धीयति आत्मानं क्षीराब्धिमिवाचरति। पयोनिधिशब्दात् 'उपमा- नादाचारे' इति क्यच्। तं स्वयंभुवं अनितरकारणकं शंभुवं सुख- भूमिं ईशं सर्वेश्वरं रमाधिभुव श्रीवल्लमं शरणं व्रजेयमिति योज- ना। अत्र हरिण इति प्रथमान्तस्य यस्येति षष्ठचन्तपदसमभिव्या- हारात् करिण इतिवत् षष्टचन्ततया पयोनिधीयतीत्यत्र पय इति च्छेदेन निधीयतीति निपूर्वकाद्धाञ: कर्मणि परस्मैपीतया व्रजेय- मित्यत्र जजे अयमिति च्छेदेन वजतेरात्मनेपदितया शंभुवमित्यत्र समभिव्याहृतस्वयंभुवमितिवत् उवडादेशवत्तया चापशब्दत्वेना- वभासादपशब्दवदाभासत्वम्।। यथावा- श्रीनाथोर्थिजनानामभीष्टदानाय कल्पति वृषा- दरौ। प्रत्यर्थिजनानामप्यनिष्टदानाय कल्पति नि- तान्तम् ॥ २३१४॥ पूर्वार्धे कल्पति कल्पतरुरिवाचरति। उत्तरार्धे कल्पति कल्पः प्रलय इवाचरतीत्यर्थः। 'कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ। सुरद्ुमे विकल्पे च प्रत्ययश्चेत्समार्थता' इति रत्नमाला। अत्र कल्पतीति कपधातोः परस्मैपदवदवभासादपशब्दाभासतवं, तस्य नित्यमात्मनेपदित्वात्।
Page 242
232 अलक्कारमणिहारे
अथाव्ययाभास:
पदानां सुप्िडन्तानामन्यार्थानां निगुम्भने। यथाऽव्ययवदाभ्नासश्चित्रं तन्नाम तद्विदुः ॥ यथा- सद्वारेनोहन्ता बहुधाभूयस्स्वधामवन्नामा। दो- षातीतस्सुदिवाऽडसमयासमयावनोद्यतः प्रापि।। सद्वारेनोहन्ता द्वारा सह वर्तत इति सद्वाः' रेफान्तो- 5यं शब्दः। यत् एनः अघं 'कलुषं वृजिनैनोधम्' इत्यमरः। अविद्यारागद्वेषादिकारणकं पापमित्यर्थः । तस्य हन्ता निरासकः । स्वोपासकसमूलपूर्वोत्तराघनिराकरणघुरीण इत्यर्थः। तत्र हेतुमभ- प्रयन्नाह-बह्निति। बहु चेतनाचेतनात्मना बहुप्रकारं विश्वं दधाति धारयति पुष्णाति चेति बहुधाः। आदन्तोऽयं विश्वपा इतिवत्। भूय: अतिशयेन बहु स्वधाम स्वाभाविक: प्रभावः। 'गृहदेहत्विट्- प्रभावा धामानि' इत्यमरः। तदस्यास्तीति तद्वत् नाम अभिधानं यस्य स तथाक्तः। धारकत्वात्पोषकत्वान्महामहिमनामवत्त्वाच्चास्य सकलदुरितानां समूलघातं हन्तृत्वमिति भावः। अतपव दोषा- तीतः दोषान् अतीतः 'द्वितीया श्रितातीत' इत्यादिना समासः अपहृतपाप्मा 'स एष सर्वेभ्यः पाप्मश्य उदितः' इत्यादिश्रुत्यर्थों- त्रानुसंधेयः। यद्वा भूयांसि स्वधामवन्ति तत्तच्छरीरवन्ति तत्तदू- पवन्ति वा नामानि देवमनुष्यादिनामानि यस्य बहुधा इत्यनेना- त्मत्वं अनेन तु नामरूपव्याकरणपूर्वकतत्तच्छरारप्रवेशप्रयुक्ततत्त- न्रामरूपभावत्वं च दर्शितम्। सुष्ठ दीव्यतीति सुदिवा। स्वाभावि-
Page 243
शब्दालङ्कारसरः (१२२) 233
कज्ञानाननदादिकल्याणगुणवत्तया प्रकाशमान इत्यर्थः। तत्तद्देवादि- शररानुप्रविष्टत्वेऽपि तत्कृततदयिदाषासंस्पृष्टत्वमनेन द्यांतितम्। यत्सूत्रितं 'संभोगप्राप्तिरिति चेन्न वैशेष्य्ति या्रिया। अत्र य इत्यध्याहार्यमुत्तरत्र स इति दर्शनात्। आस दिदीपे। दीप्धर्थकादसर्लिट। स्वाभाविकनिरवधिकदीप्तियुक्त एव यो भगवान् हेस्न्रेव मणिश्श्रिया विशेषतो दीप्यत इति भावः! अवने रक्षणे उद्यतः उदुक्तः 'न हि पालनसामथर्यमृते सर्वेश्वरं हरिम्। इत्युक्तेः। सः पूर्वोक्तगुणशाली भगवान् मया शेषभूतनेति भावः । प्रापि प्रापद्यत प्रपूर्वकादाप्नोतेः कर्मणि लुडधि चिण्॥। अत्र पद्ये सत् वा रे नो हन्त आ बहुथा भूय: स्वधा आम वत् न अमा दोषा अति इतः सुदिवा समयासमया अव न उत् यतः प्र अपि इत्यव्ययपरंपराया आभासः । समयासमयोति द्विरु- काव्ययस्याभास इति द्रष्टव्यम्॥।
अथ तिङन्तवदाभास: यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः। तत्तिङन्तवदाभासचित्रं चित्रज्ञसम्मतम् ।
यथावा- भवतापहर जयावह पापानि भवे दवेस्स्य परिलुठतः। प्रेमोदधे प्रभविता भवतो वातीतरो न चेतस्तः ॥ २३१६।। भवतापस्य हर: तस्य संबुद्धिः। जयावह आश्रितोत्कर्ष- दायिन् प्रेमा प्रियत्वं तस्य उद्धे निरतिशयप्रियेत्यर्थः। 'प्रियो ALANKARA IV. 18
Page 244
234 अलक्कारमणिहारे
हि ज्ञानिनोऽत्यर्थमहम्' इति हि तेन गीयते। भवे संसारे एव दवे वनानले कान्तारे वा व्यस्तरूपकं परिलुठतः समेति शेष:। पापानि अस्य निराकुरु। अस्यतेर्दैवादिकालोण्मध्यमैकवचनम्। कुतो मामेव निर्बभ्ञासीत्यत आह-प्रमवितेत्यादि। भवतः त्वत्तोऽपि इतर: अन्यः प्रभविता पापहरणकर्मणि प्रभुः समर्थ इत्यर्थः । ममेति शेष:। चेतस्तः चिसं द्वितीयायास्सार्वविभक्तिकस्त- सिः। न वाति न गच्छति। वातेर्गत्यर्थकादादादिकालद। त्वत्तोS न्यः पापनिर्वापणघुरीणः मश्चित्तगोचरतां न यातीत्यर्थः । 'हरि- ईरति पापानि दुष्टचित्तैरपि स्मृतः' इत्यादिवचनादिति भावः। अतस्त्वमेव मे पापानि निराकुर्वित्यर्थः। अत्रान्यार्थकपदातुपूर्व्या तिङन्तानां पदानामाभासनात्तिङन्तवदाभासनामेर चित्रमस्मदुप- जम्॥ भवत आप हर जय आवह पापानि भवेत अबेः स्य परि- लुठतः प्रेमः दधे प्रभविता भवतः अव अतीतरः अन चेत स्तः॥ इति छेदे एकोनवविंशतिस्तिउ्तपदान्याभासन्ते इति सावधानं विभावनीयम् ॥
अथ गूढपादचित्रम् अन्यपादगता वर्णा गूढाः पादान्तरेषु चेतू। चित्रं तहूढपादाखयं चतुर्धाडडद्यादिगूहनात्। अन्यपादस्थितानां वर्णानां पादान्तरेषु गूहने गूढपादं नाम चित्रम्। तथ्च प्रथमादानां चतुर्णो पादानामैकैकश्येन गूहनाञ्च- तुर्धा भघति गूढप्रथमं गूढद्वितीयमितादिप्रकारेण॥
Page 245
शब्दालद्वारसर: (१२२) 235
तत्र गूढप्रथमं यथा .- अशिथिलगुणानुबन्धां शिथिलित वन्दारुबृन्द- भवबन्धाम्। अविकलसदवनसन्धां विनुवन्प्रगुणां श्रियं जन इहेन्धाम् ॥२३१७॥
अधिकला सदवने साधुरक्षणविषये सन्धा प्रतिज्ञा यस्या- स्ताम्। प्रगुणां ऋजुप्रकृति आर्जवं च मनोवाक्कर्मणामैकरूप्यं 'कजा- वाजहप्रगुणो' इत्यमरः। श्रियं विनुवन् अभिष्टुशन् जनः इन्धां ऐश्वर्यादिभिर्दीप्यताम्। अत्र प्रथमपादवर्णा अवशिष्टपादेवु गूढाः।।
गूढद्वितीयं यथा- भव्याब्जभानुमाली भाव्याकृतिरादधाति वन- माली। स्तवनकृदखिलबुधालीधृतिं मुरारातिर- नघगुणशाली॥। २३१८।।
भव्यं जगतां क्षेममेव अब्जं तस्य भातुमाली। भाव्या ध्या- . नाहा आकृतिः यस्य सः अनघगुणशाली मुरारातिः स्तचनकृतां अखिलबुधानां आल्या: पङ्गे: धृर्ति घैर्य धारणं वा आदधातीति योजना। अत्र द्वितीयपादवर्णाः पादान्तरेषु गूढाः ॥
गूढतृतयिं यथा- विजिगीषतां दिविषदां स्वाराज्यश्रीर्यया पुरा जुगुपे। श्रीर्मा देवी जुषतां सा देशिकवीक्षणान- शर्माणम् ॥२३११॥ 18*
Page 246
236 अलङ्कारमणिहारे
देशिकानां आचार्याणां वीक्षणात् कटाक्षात् आतं शर्म सुखं येन तं मा मां श्रीः देवी जुषता सेवतां। अत्र 'श्रीर्मा देवी जुष- ताम्' इति श्रुतिवाक्यमेव तृतीयपादत्वेनोपातं तदेव पादान्तरेषु गोपितमिति गूढतृतीयमिदसू । गूढचतुर्थ यथा- काकोदराचलौका लोकाभीष्टार्थदिविजभूमि- रुहः। ललनोरसकः पायात् जलरुहदललोचनोऽ- पायात् ॥ २३२०॥ I5 दिविजभूमिरुहः कल्पतरुः अपायात् पायादिति योजना। अत्र तुरीयपाद आद्यपादत्नितये गोपितः । गोपितानां पादवर्णानां नात्र क्रमनैयत्यमिति ध्येयम्॥
क्रियाढिकं विद्यमानमपि संदर्भकौशलात्। स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वश्वनं विदुः॥ पद्ये विद्यमानमपि क्रियादिकं आदिशब्देन कारकसंबन्धाम- नत्रणादेस्संग्रहः। पदसंदर्भचातुर्यात् स्फुटं न दृश्यतेचेत् तत्क्रि- यादिवश्चन नाम चित्रम् । यथा- कमलाक्ष तव कटाक्षाः कृतहृदयग्रन्थिबन्ध- परिमोक्षाः। विशयमवश्यन्त्वखिलं विशदमव- द्यंतु सर्वकर्म च मे ॥ २३२१ ॥
Page 247
शब्दालङ्गारसर: (१२२) 237
हृदयस्य ग्रन्थिबन्धः ग्रन्थिबन्धवद्दुर्मोचो रागादि: तस्य परिमोक्ष: कृतो यैस्तथोक्ताः तव कटाक्षा: अखिलं विशयं संशयं अवश्यन्तु तनूकुर्वन्तु। छिन्दन्त्विति यावत्। विशदं स्पष्ट यथा- स्यान्तथा मे मम सर्वकर्म च अवद्यन्तु अवखण्डयन्तु क्षपयन्तिव- त्यर्थः। अत्र-
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
इति श्रुत्यर्थोऽनुसंहितः । अवश्यन्तु अवद्यन्तु इत्यत्र 'शो तनूकरणे"दो अवखण्डने' इतिच दैवादिकाद्धातोर्लोंद। अन्रावश्य- मिति अवद्यमिति च सुबन्तभ्रमजननेन क्रिययोर्वञ्चनम्।
यथावा- अगवदुरो या जगतां भद्राय निकाममनुपमे- याय। सा पावनगुणभूमा पापातु रमाऽडर्तमनघ- करुणा माम ॥ २३२२॥
अनुपमा असदक लोकोत्तरेत्यर्थ: या रमा लक्ष्मी: जगता भद्राय क्षेमाय भगवदुरः इयाय यया। इणः कर्तरि लिट् प्रथ- मैकवचनम्। पावनः गुणभूमा यस्यांस्सा अनघकरुणा सा रमा . मां पापातु भृशं पातु। 'पा रक्षणे' अस्माद्यङलाक लोट्। अत्र अनुपमेयायेत्यत्र भद्रायेत्येतद्विशेषणं चतुर्थ्यम्तमेति, पापातु रमातमित्यत्र मामित्यस्य विशेषणं पापातुरं आर्तमिति द्वितीयान्त- पदद्वयमिति भ्रमजननेन इयाय पापातु इति क्रिययोववक्षितयोर्थ- श्चनमिति ध्येयम्॥
Page 248
238 अलङ्कारमणिहारे
यथावा- शुद्धस्वभावमाशु त्वत्तोSवेदप्रसिद्धिमान्कोऽन्यः। दुरितं निरस्य शौरे यस्य च मम तव पढे निधानाय ॥२३२३॥ अत्र अव अवेत् निरस्य यस्य इति क्रियाचतुष्टयस्य वञ्चनम्। शुद्धस्वभ ! स्वयंप्रकाशस्वरूपेत्यर्थः । हे शौरे ! मा मां आशु अब रक्ष। प्रसिद्धिमान्न भवतीत्यप्रसिद्धिमान् । सर्वेश्वरत्वादिप्रसि ि - द्विविधुरः अन्यः इतरः का अवेत् रक्षेत् 'न हि पालनसामथर्यमृते सर्वेश्वरं हरिम्'इत्यादिप्रमाणादिति भावः। मम दुरितं निरस्य निश्शेषय। निरित्युपसर्गपूर्वकादस्यते.दैवादि का तक्षेपण र्थकालोण्म- ध्यमैकवचनम्। तव पदे दिव्ये स्थाने मम निधानाय स्थापनाय यस्य प्रयतस्व। 'यसु प्रयते' दैवादिकादस्माल्लोण्मध्यमः॥
आमन्त्रणवञ्चनं यथा- विभवेतादशि तव पदि निहितभरो नित्यसूरि- सदसोडर्हम्। कैंकर्थमनुपमं त्वाय विधातरीशे सदा विधातुमलम् ॥२३२४।। विभो पतादशाति विधातः ईशे इति च छेदः। हे विधातः जगत्सष्टः 'एष धाता विघाता च। आधातारं विधातारम्' इत्युक्ते: एतादशि एवंवरिधमहामहिमास्पदे तव पदि पादे निहितभर: अर्पितात्मरक्षाभर: नित्यसूरिसदसः अनन्तगरुडविष्वक्सेनादिनि- त्यसूरिपरिषदः अ्हे अतएव अनुपमं कैंकर्य शेषवृत्ति सदा विधातुं ईश समर्थो भवामि । अत्र विभवेताइशीत्यानुपूर्व्या विशेष्यवि-
Page 249
शब्दालक्कारसरः (१२२) 239
शेषणभावापन्नसप्तम्यन्तपददयभ्रमजननात् विभो इति संबुद्धिर्व- श्चिता। एवं विधातरीशे इत्यानुपूर्व्या समभिव्याहृतत्वयीति सप्त- म्यन्तविशेषणताभ्रमोत्पादनेन विधातरिति संबुद्धेश्च वञ्चनमित्या- मन्त्रणवश्चनं नाम चित्रम् । एवमेव ईशे इति पदस्याप्युक्तविध- भ्रान्तिसंपादकतया क्रियावञ्चनं चाभ्युख्चीयते।।
यत्रैकस्यैव शब्दस्य गुप्तास्सप्त विभक्तयः । तत्र सप्तविभक्तीनां वश्चनं चित्रमुच्यते!।
यथावा- भातीदशी मयेयं जगतीष्टे या समर्पितस्वायै। जनताया आघत्ते श्रियर्स्तुता या मनोऽनुभवति च याम् ॥२३२५॥
भाति ईददशो मया इय जगती ईष्टे या सर्मापतस्वायै जनतायै आधत्ते श्रियः स्तुनाः याः मनः अनुभवति च याम् इति छेदः। जनताया आघत्ते इत्यत्र ऐकारस्य आकारे परे 'एचोयवायावः' इत्यायादेशे 'लोपः शाकल्यस्य, इति यलोपः तस्यासिद्धत्वान्न स्वरसन्धिः। इयं जगती लोक: 'अथो जगती लोकः' इत्यमरः। मया लक्ष्म्या हेतौ तृतीया। ईदशी परिदृश्यमानैवविधविविध- विचित्रभो कृभोग्यभोगोपकरणभोगस्थानादिसमृद्धिशालिनी भाति प्रकाशते। एवंविधो जगत्सन्निवेशस्स्वोप लक्ष्मीसंकल्पायस्त
Page 250
240 अलङ्कारमणिहारे
एवेति भावः । 'यस्या वक्ष्यि मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्' इत्यायुक्तयोड़त्रानुसंधेयाः। तां लक्ष्मीमेव विशिनाष्टि-या लक्ष्मीः ईष्टे जगत्सर्गादिकं कर्तु प्रभवतीत्यर्थः । या लक्ष्मीः समर्पितस्वायै न्यस्तात्मरक्षाभरायै 'न बहुव्रीहौ' इति बहुव्रीहौ सर्वनामसंज्ञानि- षेधान्न तत्प्रयुक्तकार्यम्। जनतायै स्तुताः सकललोकश्षाघिता: श्रियः संपद: आधत्ते विनतजनतामानन्दयितुमभीप्सितां लोको- त्तरां समृद्धिं तस्यामादघातीति भावः। यां लक्ष्मी मनः ममेति शेष:। अनुभवति च ध्यायति च तया मया जगती इदशी भातीति योजना ।। ईदृशाथोपस्थापकेनानेन संदर्भेण वक्ष्यमाणरीत्या विभक्तिसप्- कवश्चनं क्रियते। अत्र हि ईशब्दस्य सप्तापि विभक्तयो वश्चिताः तथाहि-भाति ई दशि ई अयेय जगती ईष्टे या समर्पितस्वा यै जनता या: आधत्ते श्रियः तुताः याः मनः नुभवाति च याम् इति छेदः । अः अकारवाच्यो भगवान् 'अकारो विष्णुवाचकः । अकारोणोच्यते विष्णुः । अ इति भगवतो नारायणस्य प्रथमाभि- धानम्' इत्यायुक्क्तेः। अस्य स्त्री ई इति पुंयोगलक्षणङीषि 'यस्ये- ति च' इत्यकारलोपे ई इति प्रत्ययमात्रपरिशेषः। भगवद्वल्लभा श्रीरिति तदर्थः । दृशि चक्षुषि भाति। मम दशो गोचरतया प्रकाशते। ई अकारवाच्यभगवद्ल्लभां श्रियम् । एवमग्रेऽपि। अययं शरणं व्रजेयं। 'इटकिट' इत्यत्र प्रन्लिष्टस्य इधातोर्लिंङ्। तामेव विशिनाष्टि-या श्रिया, ईशव्दाटटाप्प्रत्यये यणादेशः। जगती लोक: ईष्टे ऐश्वर्यशालिनी जगती भूर्देवाति वा ईष्टे भूदेब्या ऐश्वर्य- मपि लक्ष्म्यधीनमेवेति भावः । यै तस्यै श्रियै ईशब्दात् डाये 'आण्नद्याः' इत्याडागमे 'आटश्च' इति वृद्धौ यणादेशः । एवम- ग्रेऽपि। समर्पितस्वा उक्तोर्ऽर्थः । जनता या: तस्या एव श्रियस्स-
Page 251
शब्दालद्कारसरः (१२२) 241
काशात् श्रियः संपद: आधत्ते स्वस्मिन न्यस्यति भार्जयतीति वा। तास्तु उक्तास्संपद: पुनः या लक्ष्म्यास्संबन्धिन्यः। यद्वा तुशन्दोऽ वधारणे या इत्वत्रान्वेतव्यः । यास्तु लक्ष्म्या एव संबन्धिन्यः न हि सर्वेश्वरी महोदारसार्वभौमी सा अन्यदीयां श्रियं भिक्षित्वा स्वाश्रि- तज़नतायै प्रयच्छतीति भावः। यां च तस्यामेव लक्ष्म्यां मनः मम हृदयं भवति सततं तामेव ध्यायतीति भावः । नुशब्दो निश्चये। यामित्यत्र 'डेराम्नद्याः' इति डेरमादेशः। अन्यत्सर्व पूर्ववत्॥
यथावा- स हरिर्माडवति मां श्रय मया बिना किं नु वस्तु मायैतदिदम्। मायाजातं मायादासो ननु भक्तिमांस्तरेर्मायां त्वम् ॥२३२६।।
इदं संसारोत्तरणमभिलष्य तदुपायाद्यज्ञानेन कौन्तेयवत् विषी- दन्तं कंचित्साधुं प्रति कस्यचित्परमकारुणिकस्याचचार्यस्य भगव- तुल्यस्य वचनम्। तथाहि नन्विांते सुकुमारामन्त्रणे। ननु हे साधो! सः सर्वजगत्कारणत्वादिना प्रसिद्धः । हरि: भगवान् मा मां अवति रक्षतीति स्वनिदर्शनप्रदर्शनन शिष्यस्य प्रत्यायनम्। यथा मां रक्षति तथा त्वामपीति भावः। 'तद्विज्ञानार्थ स गुरु- मेघाभिगच्छेत्' इति भ्रयमाणं तत्प्राप्तचुपायज्ञानापयिकं गुरूपस. दनमाह-श्रय भामिति। मां तव भगवत्प्राप्त्युपायादिकमुपदि- दिक्षन्तमिति भावः। श्रय उपसीद। गुरूपसदनविरहे ज्ञानाद्य- सिद्धिमाह-मयेति । मया विना किंतु गुरुं बिना न किमपि सिध्यतीति भावः। 'आचार्यवान्पुरुषो वेद' इति भरूयते। अतो मामाचार्य वृर्णाष्वेति भावः। तत्त्वमुपदिशति-वस्त्वत्यादिना।
Page 252
242 अलद्कारमणिद्दारे
पतत् परिदश््यमानं वस्तु सवोपि पदार्थ: मायैव प्रकृतिरेव 'मायां तु प्रकृति विद्यात्' इति श्रुतिः । कुत इत्यन्राहइदमित्यादिना। इद सर्वे वस्तुमातं मायायाः प्रकृतेः जातं प्रकृतिपरिणामभूतमि- त्यर्थः। कार्यकारणयोरैक्यान्मायवैतददिति भावः। कथमेतत्तरणो- पाय इत्यत्राह-मायादास इत्यादिना। मायायाः प्रकृतेरेव दास- स्सन् भगवत्स्वरूपतिरोधनकरीं स्वविषयायाश्च भोग्यबुद्धर्जननी दैवीं गुणमयी मार्या दासभूतः शरणागतोऽस्मि। तवास्मि दास इति वकतारं मां तारय इति गदितरत्या अनुसंदधानो दासस्सन्निति भावः। भक्तिमान् सन् मायां प्रकृति तरेः तीर्णो भवेः। नात्यथा तसरणं सुकरमिति भावः । अत्र-
दैवीं ह्ेषा गुणमथी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मयामेतां तरन्ति ते।।
इति प्रमाणार्थोऽतुसंहितः । अनेन चामुखे अवभासमानेना- थैन वक्ष्यभाणरीत्या माशब्दुस्य सप्तापि विभक्तयो वञ्चचन्ते। तथाहि-ननु हे सख! हरिणा सह वर्तत इति सहारे: स्ववल्ल- भेन भगवता सहिता मा लक्ष्मी: अवति रक्षते त्वामिति शेष: । तत्रोपायमाह-मां श्रयेति। उक्तरीत्या हरिवल्लभां श्रियं प्रप- द्यस्व! कुतस्लैव शयणीयेत्यत आह-प्रयेति मया सवल्लभया तया श्रिया विना किंतु वस्तु अस्तीति शेषः । 'त्वया च विष्णुना चाम्ब जगद्वयासं चराचरन्' इत्युक्तरोत्या सर्वमपि वस्तु व्याप्त- मिति भावः। तदिदं सर्वे वस्तु मायै सवलमायै भियै। तच्छेव- भूतमेवेत्यर्थः। तत्र हेतु: माया इति। मायाः तथाविधाया: श्रियः सकाशादेव जातं इदं सर्वे जगत्त्सृष्टमित्यर्थ.। तत्सष्टस्य तच्छेषता युक्त्वेति भावः। तस्मात् मायाः भगवत्प्रियतमायास्तस्या: दास-
Page 253
शब्दालफ्गारसर: (१२२) 243
स्सन मायां तस्यामेव लक्ष््यां भक्तिमान सन्त्वं तरे: भवजलघेरु- त्ीर्णो भवेरिति भाव: ।।
यथावा- ओमेनायादस्यै जयतु भजे रक्षितोऽस्मि मम सिद्धिः । अस्तु कृपा न्यस्तात्मत्राणभरस्यास्ति नाणुरपि भार:॥२३२७।।
अः अं एन आय आत् अस्य ए इति छेद:। एषां यथासंख्यं जयत्वित्यादिभिरन्वय । अस् अंइति स्थिते 'ससजुषो रुः' इति रुत्वे 'अतो रोरुतादयुते' इति रोरुत्वे गुणे 'एङः पदान्तादति' इति पूर्वरूपे ओमिति संहिता। अस्य ए इति स्थिते 'वृद्धिरेचि' इति वृद्धौ अस्यै इति संधिः। अः अकारवाच्यो भगवान् 'अ निषधे पुमान्विष्णौ' इत्यनुशासनात्। जयतु। अं अकारवाच्यं तमेव भगवन्तं भजे। एन अकारवाच्येन भगवतैव रक्षितः अहं त्रात इत्यर्थः । तत्र हेतु :- आय तस्मै नारायणाय अस्मि तच्छेष- भूतोऽस्मीत्यर्थः। आत् तस्मादेव भगवतः मम सिद्धि: ज्ञानादिसम- स्तापरेक्षितलाभः । अस्य अकारवाच्यस्य भगवतः कृपा अस्तु मयाति शेषः। ए अकारवाच्ये नारायणे श्रीमति न्यस्तात्मत्राणभ- रस्य अर्पितात्मरक्षाभरस्य ममेति शेषः । अणुरपि स्वल्पोऽपपि भार: ना स्वरक्षणार्थस्वव्यापारान्तरलशोऽपि नास्तीति भावः। अत्र 'न्यस्य त्वत्पादपे वरद निजभरं निर्भरो निर्मयोऽस्मि' इत्येतदनु- संहितम्। अत्र आपाततोऽर्थान्तरभ्रन्तिसंपादकेन संदर्भेण अश- व्दस्य क्रमेण सप्तापि विभक्तय: वर्णान्तरानन्तरितैष्डभिरेवाक्षरै- व्चिता। पूर्वत्र न तथा। पूर्वोदाहरणम् श्िलष्टम्। इदम्िष्टं
Page 254
244 अलङ्गारमाणहारे
यथासंख्येनार्थालंकारेण सकीर्ण चेति विशेष:। अमूानि गूढपा- दादानि चित्राणि प्रहेळिकाभेदतया व्यवहियन्ते। तथाचोक्तं विदग्धमुखमण्डने- व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तरावर्थी कथ्येते ताः प्रहेलिकाः ॥ इति॥
अथ स्वरस्थानव्यञ्जनादिनियमाचित्रम् स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः। प्रोक्तश्रतुःप्रभृत्येष दर्श्यते सुकरः परः ॥ दुष्करचित्रेषु मध्ये स्वरस्थानव्यञ्ञनानां स्वराः अकारादयः अचः स्थानानि 'अकुहविसर्जनीयानां कण्ठः' इत्याक्तानि कण्ठादि- स्थानानि। व्यजनानि हल्वर्णाः तेषां नियमः प्राक्तनैर्यो दुष्करतया प्रोक्त: एषः चतु.प्रभृति दर्श्यते। चतुःप्रभृतीत्यनेन चतुस्त्रिद्वयेक- रूपतया चत्वारो मेदा: प्रदर्श्यन्त इत्युक्त्त भवति। परः अन्यस्तु पञ्चादि: सुकरः अनतिप्रयाससाध्यत्वात्। अतस्तदुदाहरणं यथा- यथमूह्यम्॥ तत्र प्रथमं चतुस्स्वरनियमाचित्रमुदाहियते। यथा- कामो मोहो लोभोऽप्यतिमात्रं गळति तव पदध्यानात्। भोगो वा योगो वा मोक्षो वाडब्जा- क्ष तव कटाक्षात्स्यात् ॥२३२८। अत्र अकार आकार इकार ओकारश्चेति चत्वार एव स्वरा निबद्धाः ॥
Page 255
शब्दालङ्गारसर: (१२२) 245
यथावा- सौभाग्यकैरवग्लौः पद्मास्थैर्यप्रभावताराधौः। अनपायभवार्णवनौरनया भद्राय भासताम- वनौ ॥२३२१॥ ग्लौः चन्द्रमाः। स्थैर्य च प्रभावाश्च त एव तारा: तारकाः सासां दयौः। पद्मा लक्ष्मीः। अत्र अकार आकार ऐकार औका- रश्ेत्येते चत्वार एव स्वरा निबद्धाः॥ त्रिस्वरनियमो यथा. या नागाद्रयावासा सा पायान्मां सदा भवा- पायात्। श्रीःहीधीश्रीकीरतीः प्रीतीर्दधती हर- न्तीतीः ॥२३३०।। नागाद्रयावासा शेषाद्रिनिवासा। हीः अकार्ये लक्जा। धीः प्रज्ञा श्रीःप्रभा। कीर्तिः यशः। प्रीतिः आश्रितेषु प्रेमा। तस्याः विषयमेदाद्वहुत्वम्। दघती पुष्णती। ईतीः उपन्ठुवान्। 'ईति- डिम्बप्रवासयोः' इत्यमरः । हरन्ती श्रीः लक्ष्मीः भवापायात् संसाररूपादपायात् पायात् इति योजना। अत्र अकार आकार ईंकार इत्येते त्रय एव स्वराः॥ यथावा- विनुतस्सततं मुनिभिर्मुमुक्षुभिर्ननु बुभुक्षुभिर- पि त्वम्। तत्तदभिलषितमखिलं वितरसि मुचु- कुन्दवरद मुरमथन ॥२३३१॥
Page 256
246 अलक्कारमणिहारे
अत्र अकार इकार उकार इति त्रय एवैते स्वरा ग्रथिता:। द्विस्वरनियमो यथा- वेदेवेदे वेद्ये ध्येयेडमेये ग्रियेडक्रियेऽक्षेये। गेये5जेये देवे देवेशेड्येऽक्षि मे रेमे ॥२३३२॥ वेदेवेदे प्रतिवेद वेद्ये जेये। ध्येये व्यातव्ये। अमेये 'यतो वाचो निवर्तन्ते' इत्यायुक्तरीत्या वागाद्यपरिच्छेद्ये परिच्छेदत्रि- तयागोचरे वा। प्रिये निरतिशयप्रीतिविषये अक्रिये 'निष्क्रियं निष्कलम्' इत्यायुक्तरीत्या अकर्मव्ये। क्षेतुंयोग्यः क्षेयः सन भवतीत्यक्षेय: तस्मिन् इंद 'क्षय्यजय्यौ' इत्यस्य प्रत्युदाहरणम्। उपलक्षणमेतन्सर्वभावविकाराणां राहित्यस्य। गेये गातुं योग्ये। जेतुं योग्यो जेय: स न भवतीत्यजेय: तस्मिन्। इदमप्युदाहृतसूत्रप्र- त्युदाहरणमेव। देवेशैः म्रह्मादिभि: ईड्ये स्तुत्ये। देवे भगवति श्रीनिवासे मे मप्र अक्षि लोचनं रेमे अरमत तन्निध्यानैकतानमभ- वदिति भावः । अत्र रेमे इति लिट्प्रयोगस्स्वस्य प्रमोदपारवश्यप्र- युक्तपारोक्ष्यं सूचयति। अत्र इकार एकार इत्येतथोद्वयोरेव स्वरयो- र्येन्त्रणम्।।
एकस्वरनियप्रचित्रं यथा- त्वच्चरणशरणवरणक्षतसकलमलस्य कमलन-
यन मम। भवदवपथसंचरणश्रममपनय वरद
परदरक्षपण ॥२३३३।।
परेश्यः कामादिवैरिभ्यः यः दरः भयं तस्य क्षपण: ध्वंसकः तस्य संबुद्धिः। अत्र ह्रस्वाकारस्यैकस्यैव स्वरस्य निबन्धः ॥
Page 257
शब्दालङ्कारसर: (१२२) 247
अथ स्थाननियमः । तत्र चतुस्स्थाननियमो यथा दृष्टिश्रुतिभूभृद्विभुनुतिसृतिभद्गुवि विभीस्सुधी- वृत्ती। नीतिविनीतिद्युतिधृतिविभूतिभूमिश्श्रुति- स्मृतिस्थितिवित् ॥२३३४।। दृष्टिश्रुतिः चक्षुशश्रवाः स चासौ भूमृत् शेषगिरिरित्यर्थः। तस्य विभु: श्रोनिवासः तस्य नुतिसृतिभृत् स्तुतिसरणिभर्ता स्तोतेत्यर्थः। ईदृशो जनः भुवि धीश्च वृत्त चरित्रं तञ्व धीटत्ते शोभने च ते सुधीवृत्ते च ते अस्य स्त इति सुधीवृत्ती मत्वर्थीय इनिः। शोभनबुद्धिशशाभनाचारञ्च्ेत्यर्थः। नीतिः नयः विनीति- र्विनय: द्रुतिः तेजः धृतिः धैर्य विभूतिरैश्वर्य तासां भूमिः आश्रयः श्रुतिर्वेद: स्मृतिधर्मशास्त्रं पतयो: स्थितिः मर्यादा तां वेत्तीति श्रुति- स्मृतिस्थितिवित् 'मर्यादा धारणा स्थितिः' इत्यमरः । भवतीति शेष:। अत्र केवलतालव्यसूर्धनयदन्त्योष्टचैरेव वर्णैर्घटना 'आनुना- सिक्यमेषामधिको गुणः' इति भाषणात्प्रकृते नकारस्य दन्त्यत्वमा- त्रविवक्षया न स्थाननियमभङ्ग इति ध्ययम्। इद निष्कण्ठ्यवर्णाच- त्रमपि। किंचात्र इकार ईकार उकार ऊकार ऋकार इत्येते पद्ैव स्वरा न्यबध्यन्ता यद्यपि पञ्चस्वररेव घटनं नातिप्रयाससाध्यमित्य- नाश्चर्यमित्यवोचाम। तथापि वर्णस्थाननियमे स्वरनियमस्याप्यानु- षङ्गिकत्वे तदप्याश्चर्याबहमेवेति ध्येयम्।। स्फीते मुनिभिर्ध्याते श्रीसिन्धुसुतेऽद्भुते द्युसि- न्धुयुते। झेषे शेषिणि शैलेडभ्येषि प्रीति प्रिये- णोञ्चैः॥२३३५।।
Page 258
248 अलक्कारमीणहारे
हे मुनिभिधर्याते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अन्भते विचित्रे बुसिन्धुयुते आकाशगङ्गान्विते शेषे शैले शेषाद्रौ प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीति मुदं अभ्येषीति योजना। अयं श्रोक: निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठ- स्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ।।
स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥ शोभने अक्षिणी यस्य सः स्वक्ष: 'बहुव्रोहौ सक्थ्यक्ष्णोः' इति समासान्तष्टच्। 'न पूजनात्' इति निषेधस्तु, बहुवीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे। अत्र निस्ताल- वैयरेव वर्णैननिबन्ध:, स्वरपश्चकनियमोप्यानुषङ्िकः।
त्वश्चापलं विमुश्चत्पश्चायुधमश्च दैवतं चेत: ॥२३३७ अत्र कण्ठ्यतालव्यदन्त्यौष्ठयवर्णान्येव निबद्धानि। इदमेव निमूर्धन्यमिति व्यवहियते।। शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहा- ररुचि। अयि किमपि वैभवं भवभवभयभरहर- णमेव परिचर गी: ॥२३३८॥
शिखरैः विशंकट: विशाल: यो वेंकटगिरि: तस्य कटके विहर- तीति तथाक्तं हारिणी मनोहरा हाररुचि: यस्य तत्। भवभव-
Page 259
शब्दालङ्वारसर: (१२२) 249
भयभरहरणं भवात् भवः उत्पन्नः यो भयभरः तस्य हरणं हर्त किमपि वैभवमेव वैभवत्वेनाध्यवसित परं ब्रह्मैव अयि गीः हे वाणि! परिचर तह्ुणानेवानुवर्णयेत्यर्थः। अत्र कण्ठ्यतालव्य- मूर्धन्यौष्टचवणैरैव निबन्धः। इदमेव निर्देन्त्यचित्रम्। अत्र केवल- दन्त्यस्यैव निषेधः, तेन दन्तोष्ठस्थानकवकारसन्भ्ावेऽपयदोष इति ध्येयम ॥
यथावा- फणिशेखरशिखरिशिखामरगणपरिवृदमणी- शमसुरुचिम्। रमणीरमणीयोररशरणं इरणं कमप्यये शरणम्॥ २३३१॥ शरणं रक्षितारं रमणीरमणीयं उरशशरणं हृदयगृहं यस्य तं कमपि पुमांसं शरणमये उपायत्वे स्वीकरोमीत्यर्थः॥ उपाये गृहरक्षित्रोश्शव्दइशरणमित्ययम्। वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥ इत्यहिर्बुध्नयसंहिताक्तेः। इदं सर्वधा निर्दन्त्यम्॥ ममैव प्रपन्नानन्दस्तुतौ- जगदीशहृद्यनिलया जगताञ्ननी जना्ति- हरणचणा। जलजदलायतनयना जलनिधित- नया जयान्कलयतान्नः ॥ २३४० ॥ अत्र कण्ठ्यतालव्यमूर्धन्यदन्त्यवर्णानामेव निबन्धः। इदमेव निरोष्ठयमित्युच्यते। अत्र अकार आकार इकार ईकार ऋकारश्चे- त्येते पञ्चैव स्वरा निबद्धा इति विच्छित्तिविशेषः। ALANKARA IV. 19
Page 260
250 अलद्कारमणिहारे
यथावा- कनकनगकटकतटकनदगगहनग गगनसदन- सततनत। जगदनघजयद घनदय जय गजदरद- हनजलद नरकहर॥ २३४१ ॥ कनकनगस्य वृषाद्रे: कटकस्थ तटे कनतां लसतां अगानां तरूणां गहनं कानन गच्छतीति गहनग: तस्य संबुद्धि: गगनसदनैः दिविषद्भिः सततनत। जगतां अनघं दुःखासंभिन्नं जयं ददातीति जगदनघजयद: तस्य संबुद्धिः। गजदरद्हनजलद गजस्य दर: भयमेव दहनः पावकः तस्य जलद। नरकहर नरकारे जय उत्कर्ष प्राप्तहि। अत्रापि कण्ठ्यतालव्यमूर्धन्यवर्णा एव ग्रथिताः। इद निरोष्ठचमेकस्वरं सर्वलघु चेति विच्छित्तिविशेषः पूर्वस्मात्॥ शेषाचलभूषा शुभवेषा भाषापतिस्तुतिसतोषा। योषाहृदयविभूषा शेषाशेषाऽSदिदेवता सैषा॥ योषा लक्ष्मीः हृदयविभूषा यस्यास्सा सेषा आदिदेवता। शेषा: शेषभूता: अशेषाः सर्वे यस्यास्सा। अत्र श्रीनिवासमु- दिश्य अशेषशेषित्वं विधीयते। इद निर्नासिक्यवर्ण चित्रम् ॥ एवं चतुस्स्थानवर्णनियमो दर्शितः। अथ त्रिस्थानवर्णनियम उदाहियते- यथा- कान्त्यानन्त्यात्कान्ता शान्त्या चात्यन्तया दयाजलधिः। कनकनगनाथदयिता कनति कन- त्काश्चिकाश्चिता जगति ॥ २३४३ ॥
Page 261
शब्दालङ्कारसर: (१२२) 251
कान्तेः आनन्त्यात् अत्यन्तया शान्त्या च कान्ता मनाज्षा दयाजलधि: कनन्त्या प्रकाशमानया कनककाश्चिकया अश्चिता कन- कनगनाथदयिता जगति जयतीति योजना। इदं कण्ठ्यतालव्यदन्त्य- वर्णैरैव निबद्धमति निरोष्ठयमूर्धन्यचित्रम् । अत्रापि 'दृष्टिशृति- भूभृद्विभु' इति प्रागुदाहृतनिष्कण्ठ्यचत्रपद्य इव नकार ईकारयो र्दन्त्यतालव्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम्। अन्यथा चतुर्स्थानवर्णनियमस्यैवोदाहरणं भवेत्। अत्र अकार आकार इकार इति त्रिस्वरनियमाध्यभ्युच्चीयते।। यथावा- सकलेहितदाय जयशशकलितदैत्याय सकल- इशियशसे। सजलजलदालिलालितदीधितये स्तात्खगाचलेशाय॥ २३४४॥ सकलशशियशसे पूर्णचन्द्रसदशकीतये। खगाचलेशाय श्री- निवासाय जय: स्तात्। इति योजना। 'जितं ते पुण्डरीकाक्ष' इतिवदत्र भगवतो जयाशासनम्। इदं तु शुद्धत्रिस्थानवर्णनिय- मोदाहरणं नासिक्यासंवलितत्वादिति पूर्वस्माद्विशेषः॥ द्विस्थानवर्णनियमो यथा- भामाभामापोहो भोगाभोगाभवाहुभागघहा। भूभागमखभुगगभाङ्गामकपापापहो महाभूमा॥ भामायाः सत्यभामाया. भाम: कोपः 'भाम क्रोधे' इत्यस्मा- द्वावे घजू। 'भामः क्रोधे रवौ दीप्ती' इति मेदिनी। सः अपह्यते अपनीयतेऽनेनेति भामाभामापोहः । भोगस्य अहिकायस्य आभाग: परिपूर्णतेवाभोगो यस्यास्सा तथोकता आभा ययोस्ती 19*
Page 262
252 अलह्कारमणहारे
बाहू भजत इति भोगाभोगाभवाहुभाक्। भूभागमखसुगगभाक्। भूमागं भूमिप्रदेशं मखभुगगं स्वर्दुमं भाजयति सेवयतीति तथा। भजतेर्ष्यन्तात् किप। कल्पतरुं भुवं नतिवानित्यर्थः। यद्ा 'भज विश्राणने' इत्यस्माच्चीरादिकात् किप। कल्पतरुं भूलोकाय विश्रा पितवानित्यर्थः । अतएव सामाभामापोह इत्युक्तम्। अतएव महाभूमा विपुलमहिमा अघहा अघासुरहन्ता भगवान्यदुनन्दन: मामक्कपापापहः मदीयदुरितिहरः सवतीति शेषः। अत्र कण्ठ्यौ- छच्वर्णैरेव निबन्धनमिति निस्तालव्यमूर्धन्यदन्त्यचित्रमिदम्। अन्रापि मकारऊकारयोः कण्ठ्यौष्ठचमात्रत्वं पूर्ववत् अकार आकार उकार ऊकार ओकारश्चेति पञ्चैव स्वरा इति स्वरनियमोऽप्यभ्यु- चीयते। एकस्थानवर्णनियमो यथा- काकाघहाडङ्गगाङ़ग: खगाङ्कगागागगाहकः ख- गगः। अङ्गागाङ्गाङ्गाङ्गगकङ्गककङ्गाकहा खगा- झ्ाङ: ॥ २३४६॥ काकाघहा काकस्य पन्द्रेवायसस्य अंध दुःखं हन्तीति तथो- कः। अङ्गगाङ्क: अङ्कं श्रीवत्साख्यं लक्षणं गच्छतीत्यङ्कगः अङ्ग: क्रोडं यस्य सः श्रीवत्सवक्षा इत्यर्थः। कोशस्त्वनन्तरमवोदाहरि- ष्यते। खगाङ्कगागागगाहक :- खगाः द्ुसद: अङ्कगाः समीपगाः यस्य सः अत्युन्नत इाते यावत्। तथोकः अगागः फणिगिरि: 'अगो नगश्च भुजगे नाभौ भूरुहि भूधरे' इति रत्नमाला। 'अगस्स्यान्नगवत्तरी। शैले सरीसृपे भानौ' इति हेमचन्द्रश्च। खगाङ्कगश्चासावगागश्च खगङ्कगागागः तस्य गाहकः उन्नततमं शेषाचलं प्रविष्ट इत्यर्थः। गाहतर्ण्वुल्। खंग खगेन वा गच्छ-
Page 263
शब्दालङ्गारसर: (१२२) 253
तीति खगगः तार्क्ष्यवाहन इत्यर्थः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्' इति' वार्तिकात् गमेडः। यद्वा खग भातुं गच्छ- तीति खगगः सवितृमण्डलान्तर्वर्तात्यर्थः 'य एषोऽनतरादित्ये'
न गच्छतीत्यङ्कागः असंख्याक इत्यर्थः। यद्वा अङ्क कलङ्कं न गच्छतीत्यङ्गागः निष्कलङ्क इत्यर्थः। योऽङ्ग: चित्रयुद्धं तस्य अङ्क: स्थानं तस्य अङ्गं समीप गच्छतीत्यङ्माङ्कगः। यद्ा अङ्ग: अप- राध: तं न गच्छतीत्यङ्कागः निरपराध इत्यर्थः। तथोक्तश्वासा- वङ्काङ्कगश्चेति विशेषणोभयपद: कर्मधारयः। तादृशो यः कङ्गकः गृध: जटायुरित्यर्थः। तस्य कङ्काकहा कङ्कः यमः तत्कृतं यत् अकं दुःखं तद्धन्तीति तथोक्त। हन्तेः किप् 'या गतिर्यक्ञशी. लानाम' इत्यादि वढता भगवता तस्य दिव्यस्थानप्रदानेन यम- विषयगमनदुःखस्य गळहस्तितत्वादिति भावः। अक दुःखाघयोरङ्गो भूषारूपकलक्ष्मसु। चित्राजौ नाटकादंशे स्थाने क्रोडेऽन्तिकागसो:॥। इति हेमचन्द्रः । खगाङ्काङ्ग: सं परमव्योम गच्छतीति खगः यः अङ्ः 'दिव्यं स्थानमजरं चाप्रमेयम्' इत्याधुक्तः श्रीवैकु- पठाख्यस्थानविशेषः । तस्य अङ्गः आभरणभूत इत्यर्थः। अत्र भगवांस्तार्क्ष्यवाहनः परमव्योमनिलयशश्रीवत्सवक्षा एव रामा- त्मनाऽवतीर्य काकासुरविपदपनयनो जटायुनिशश्रेयसविश्राण- यिता च भूत्वाऽर्चात्मना शेषाद्रौ निवसतीति निर्गळितोऽभिप्रायः। परमव्योमनिलयत्वादिना परत्वं विभवरूपावस्थानेन सौलभ्यं अर्चात्मनाऽवस्थानेन तस्यैव निरातशयत्वं च व्याजतम्। अत्र कण्ठयैरेव स्वरैर्व्र्यञ्ञनैश्च पद्यरचना। दुष्करमिदं चित्रमित्याङ्ः॥
Page 264
254 अलङ्कारमणिहारे
अथ वर्णनियम: तत्रापश्चवर्गीगचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ- सरसिरुहालयवासा या सा शिशिरांशुहारि- लवहासा। वरसारसशालिशया सरसा सा श्री- विंशिश्रिये शिरसा ॥२३४७॥ लवहासो मितहसनम्। सा श्रीः शिरसा विशिश्रिये आ- श्रिता। अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यब- ध्यन्त। इदमेवास्पर्शवर्णचित्रम्।।
यथावा- वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे। वल्लववलयसहाय स्वयं श्रिया सह विहार- शीलाव्याः॥ २३४८।
वासवसवस्य इन्द्रयागस्य हर। सवहरवरस्य शम्भुदत्त- वरस्य वश्य: यः असुरवरः बाणासुरः त अस्यत निरस्य- तीति तथोक्ं शौर्य यस्य तस्य संबुद्धिः। वल्लववलयस्य गो- पोलजालस्य सहाय श्रिया सह विहारशील हरे! स्वयं मत्क- तकिचित्कारमनपेक्ष्य अव्या: रक्ष। इदमपि पूर्ववदपञ्चवर्गीय- चित्रम्॥ अनन्तस्थोष्मवर्णचित्रं यथा- कनककनदनघधामा घनभूमा काडपि जगद- धिपभामा। दत्तां मम मतिमत्तामतिमन्तानां पढा- न्तिकं मा गाम ॥२३४९॥
Page 265
शब्दालङ्गारसरः (१२२) 255
घनभूमा सान्द्रमाहमा जगदधिपभामा सर्वेश्वरदयता श्री: मम मतिमत्तां दत्ताम्। अतिमत्तानां सुराणां नराणां वा पदा- न्तिकं चरणनिकटं स्थानसविधं वा मागाम्। यथा दुर्दान्तिश्वर- म्मन्यान्तिकं न गच्छेयं तथा मम मतिम्त्तां संपाद्यत्विति भावः। अत्र कादिमावसानास्स्पर्शा एव वर्णा निबद्धाः। न तु यादय उन्तस्थाशशादय ऊष्माणश्चेति व्यञ्ञननियमः । अकार आकार इकार इति त्रय एव निबद्धा इति स्वरनियमोऽव्यनुसधेय:॥ एकवर्गीयवर्णनियमो यथा- धानादानाघीने दीनानाथाधिधूनननिदाने। नानानन्दनिधाने नाथेऽनधुनातने नतिं नाथे। धानानां पृथुकतण्डुलानां दानेन अधीने आयत्ते कुचेल- स्येति भावः। दीनानां अनाथानां शरण्यान्तरविरहिणां आधे: मनोव्यथायाः घूननस्य निदाने आदिकारणे। नानानन्दानां शत- गुणितोत्तरकरमेणाश्यस्यमानानामानन्दानां निधाने निधौ अनधु- नातने नाथे पुराणपुरुषे भगवति नातिं शरणागात नाथे आशासे 'आशिषि नाथः' इत्यात्मनेपदम्। अत्र तवर्गीयवर्णैरेव निबन्धः ॥ यथावा- नाथोऽनाथानां नो नेताऽनन्तोऽधुना धुनातु तथा। तां दीनतां ततो नो घिनोतु धीदानतो न- तानेतान् ॥ २३५१॥ नाथः जगदीश्वरः अनाथानां रक्षकान्तरविधुराणां नः अ- स्माक नेता अनन्तः भगवान् तां अनिर्वचनीयां दीनतां दैन्यं अधुना सांप्रतमेव तथा धुनातु अपुनरुन्मेषमुन्मूल्यत्वित्यर्थः ।
Page 266
256 अलक्कारमणिहारे
ततः नतान पतान् नः अस्मान् धीदानतः 'ददामि बुद्धियोगं तम्' इत्युक्तबुद्धियोगवितरणेन धिनोतु प्रीणयतु। अत्रापि केव- लतवर्गीयवर्णनियमः॥
भाभाम्ब ममाबाभा भूभूपापाभिभूभामे। पा- यथावा-
भुवि भवति जायत इति भूभू: यः पापः पापिष्ठः भूपुत्रो नरकंः। यद्ा भूसुवः भुवि कृतजन्मान: पापा: प्रलम्ब बक चाणूर कंस शिशुपालादय: त तान्वा अभिभवतीति भूभूपा- पाभिभू: भगवान्वासुदेवः । तस्य भामे ललने। पापाम्बूनि अ- म्बतुल्यानि लोकपापानि तेषां पपीबिम्बं सूर्यमण्डलं उपमा यस्य सः तादृशो भूमा महिमा यस्यास्सा तस्यास्संबुद्धि: अनेन वल्लभसाधर्म्य सूचितम्। 'नित्यं तद्धर्मधार्मणी' इति ह्यच्यते। 'डाबुभाश्यामन्यतरस्याम्' इति डाप्। पातीति पपी: 'थापो: किह्े च' इति पातेरीप्रत्ययो द्वित्वं च। 'पपीस्सूर्यः' इति शाब्दिकाः। भीमा दुरात्मनामत्युग्रा या भा: प्रभावः 'भाः प्रभावे च दीत्ौ च' इति मेदिनी। तस्या: भूमिः आधारभू- ता। तस्यास्संबुद्धिः 'सीतायास्तेजसा दुग्धां। न तदभ्निशिखा कुर्यात्' इत्यादिप्रसिद्धरिपुजनभयंकरदिव्यप्रभावाश्रयभूतामिति भावः। यद्ा अभमेति छेदः। अभिमा अनुग्रा 'शीतो भव हनूमतः। न कश्चिन्नापराध्यति' इत्यायुक्तरीत्या आश्रितविपये साम्या भाः प्रभाव: तस्या: भूमिरित्यर्थः। हे अम्ब! त्वमि- ति शेषः। मम भाभा भस्य नक्षत्रस्य आभेवाभा यस्यास्त- थाभूता सती अबाभाः भृशमद्प्यिथा इत्यर्थः । भातेर्यङ्लुग- न्ताह्डू। अत्र पवगीयैरेव वणैनिबन्धः।
Page 267
शब्दालङ्कारसर: (१२२) 257
द्विव्यञ्ञनं यथा- नामाननानि नामामनानि मामानिनीननामा- नि। नूनमनुन्नमनमना नमामि नानाननानमन- मेनम् ॥२३५३॥ नामाननानि नाम आमनानि मामानिनीननामानि नूनं अनुन्नमनमनाः नमामि नाना अननानमनं एनं इति पदच्छेद: । अविद्यमानं माननं येषां तानि तथोक्तानि न भवन्तीति नामाननानि अतिमात्रमाननीयानीत्यर्थः । मा लक्ष्मीरिति मानिनी तस्याः इनः स्वामी श्रीनिवास इत्यर्थः। तस्य नामानि नूनं निश्चयेन आमनानि अभ्यस्यानि। आङपूर्वकात् म्राधातोः 'पाव्राध्मा' इत्यादिना मनादेशः। लोडुत्तमः। पुनःपुनशश्रीनिवासनामानि कीर्तयेयमिति भावः। उन्नमनमुन्नतिः अनुन्नमनं मनो यस्य सः अनुन्नमनमनाः अनुद्धत इत्यर्थः । अतएव 'मानश्चित्तसमन्नतिः' इत्यमरः । अन- नानमनं अननं प्राणयितृ उज्ीवकमित्यर्थः। ईदशं आनमनं प्रणा- मो यस्य तम्। एकोऽपि कृष्णे सुकृत: प्रणामी दशाश्वमेधावभृथेन तुल्यः दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय। इत्यादिप्रमाणात् पनं श्रीनिवासं नाना अनेकं यथास्या- त्तथा नमामि। नूनं नात्र किंचिदृपि संशेतव्यमिति भावः।
यथावा- नानामौनीनानननामामननामुमामनोमानाम्। मामानमामि नूनं मानामामाममाननामेमि।
Page 268
2,58 अलङ्कारमणिहारे
नाना अनेके ये मौनीना: मुनिश्रेष्ठाः तेषां अननं प्राण- यितृ नामामननं नामधेयानुकीर्तनाश्यासः यस्यास्तां। उमायाः गौर्या: मनसा मान्यत इति माना तां 'अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ। 'संज्ञायाम्' इति प्रायिकमि- त्याहुः। घञन्तोऽप्ययं भेदयलिङ्गः, 'कर्मादौ तु घजद्यन्तमपि विशे- ष्यलिङ्गम्' इति लिङ्गानुशासनात्। यद्ा मानो माननं भावे धञ उमामनोमानोऽस्या अस्तीति तथोक्ता तां मां श्रियं आन- मामि शरणं प्रपद्ये। अमाननां पूजाविधुरां अमां अलक्ष्मी नूनं मा नाम एमि न प्राप्नोमि। लक्ष्मीशरणवरणानन्तरमलक्ष्मीर्न- इयत्येवेि भावः । 'तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीमें नश्यतां त्वां वृणे' इति श्रुत्यर्थोऽ्रानुसंहितः। इदमपि पूर्ववत् द्विव्यञ्जनमेव। यथावा- तान्ति ततां नतानां तनुतां नेता तनोतु ताने- तान्। नेता नोऽतनुतातोऽनीतीन्नन्तृन्नितान्ततोS- नन्तः ॥ २३५५॥ तान्ति ततां नतानां तनुतां नेता तनोतु तान पतान् नेता नः अतनुतातः अनीतीन् नन्तन् नितान्ततः अनन्तः। इतिच्छेदः। ततां विस्तृतां नतानां तान्ति ग्लानि तनुतां कृ- शर्ता नेता प्रापथिता। नयतेस्तृन्। अतएव न कृद्योगषष्ठी। अतनोः प्रदुम्नस्य तातः जनकः नेता स्वामी अनन्तः भगवान् नन्तन् शरणागतान् तानेतान् नः 'ते वय भवता रक्ष्याः' इत्यु- करीत्या त्वदीयानस्मानित्यर्थः। अनीतीन् ईतिः पीडा अविद्य- माना येषां तान् निवृत्ताविद्यासंवलनबाधानिति यावत्। तनोतु
Page 269
शब्दालङ्कारसर: (१२२) 259
कुरुताम्। अत्रैकवर्गीययोरेव व्यञ्जनयोई्वयोर्घटनादिदं द्विव्यख्ञन- चित्रं पूर्वोदाहरणतो वैलक्षण्यशालि॥ यथावा- धाराधरधाराधरधराधरधराधराधारः। राधाघर- धाराधा धीरोधिधुरंधरोऽराघि॥ २२५६॥ धाराधराणां जलधराणां धारा: जलासारा तासां धर: अना- रतघनाघनवर्षधारास्तिमिततया शीतल इति दिव्यप्रबन्धप्रथित इति भावः । यः धराधरः शेष: स चासौ धराधरो गिरि: स एवा- धारोऽधिकरणं यस्य सः उक्तविशेषणविशिष्टशेषाद्रिनिवासीत्यर्थः। राधायाः अधरस्य अधररसस्येति यावत् या: धारा: ताः धयति पिबताति राघाधरधाराधाः 'धेट् पाने' अस्मात् किप। धीरः 'धैर्येण हिमवानिव' इत्युक्तरीत्या घैर्यशाली, धीरोधिनां विषयेभ्यो नियन्र्रितमतीनां योगिनामित्यर्थः 'योगश्चित्तवृत्तिनिरोधः' इति हि पातञ्जलं सूत्रम्। धुरंधरः तद्रक्षाभरस्वीकर्तेत्यर्थः।'योगो योग- विदां नेता' इति हि तन्नामसु पठ्यते। यद्वा 'व्यक्तमेष महा- योगी परमात्मा सनातनः' इत्यायुक्तरीत्या योगिनामीश्वर इत्यर्थः। अराधि अपूजि। अस्माभिरिति शेषः । राधेः कर्मणणि लुड्ि िण्। अत्रापि पूर्ववद्यञ्जनद्वयेनैव घटना, पूर्वार्धे यमकविशेषोड पीति वैलक्षण्यम् । यथावा- दुररिदरदारिदरदोरुरोडररोदारदार दारिद्री। रौद्ारिदुर्दरोदरदरदारदुरोदरादरादारि॥ २३५७।। दुररिदरदारिदरदोः उरोऽररोदारदार दारिद्री रौद्रा- रिदुर्दरोदरदरदारदुरोदरादर अदारि। इति छेदः। रौद्रः
Page 270
260 अलद्वारमणहारे
उग्र: यः अरि: बैरी हिरण्यकशिपुः तस्य दुर्दरः दरीतुं दल- यितुमशक्यः यः उदरदर: जठरश्वम्रं 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । तस्य दार: दारणमेव दुरादर: ूतं पणो वा तस्मिन् आदरों यस्य सः तस्मिन् अदरः निर्भय इति वा। यद्वा रौंद्रारिदुर्दरोदरदरदारे दुरोदर: धूतकार: साहसिक इति यावत्। तस्य संबुद्धिः। 'दुरादरो धूतकारे पणे धूते दुरोदरम्' इत्य- मरः'। उरः वक्षः अररं कवाटमिव उरोऽररं तस्मिन् उदारा: 'श्रियं लोके देवजुष्टामुदाराम्' इति श्रुत्युक्तौदार्याः दारा: यस्य तस्य संबुद्धि: । कवाटविस्तीर्णवक्षस्स्थलविहरमाणश्रीक इत्यर्थः । दुष्टाः अरयः शात्रवाः तेषां दर भयं दत्त इति दुरारदरदौ अरि- दरौ चक्रशङ्ी ययो तथोक्तौ दोषौ बाहू यस्य तस्य संबुद्धि: 'भुजबाहू प्रवेष्टो दोः' इत्यमरः। हे शङ्गचक्रधर! भगवन्नि- त्यर्थः। दारिद्री दारिव्यं ब्राह्मणादेवकृतिगणत्वात् व्यञि वित्वात् 'षिद्गौरादिभ्यः' इति डीष्। अदारि। श्रीनिवासं त्वाभाश्रयतो मम भक्तिविरक्तिज्ञानसंपदादिसर्वविधदुर्विधत्वं विदीर्णमिति भावः। अदारि स्वयमेव व्यदीर्यतेति वा। दृणातेर्विदारणार्थ- कात्कर्मणि कर्मकर्तरि वा लुङि चिण्॥ यथावा- गगनगनगानुगानां गानानुगनाग गोडननाना- गः। नानानगनागानननागनगेनानिनो नु नो ननु गाः ॥ २३५८॥ गगनगनग अनुगानां गानानुगनाग गोऽनन अनाग: नाना- नगनागानननागनगेन आनिनः तुनःननु गाः इति छेदः । अनु- गानां अनुचराणां आश्रितानामित्यर्थः । गगनगनग कल्पशाखिरिन्
Page 271
शब्दालङ्कारसर: (१२२) 261
गानानुगा: स्वप्रवर्तितमुरळीगानानुसारिण: नागा: फणिनः यस्य तस्य संबुद्धिः । 'शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी' इत्युक्तेस्तथोक्तिः। गवां धेनूनां अनन प्राणन। अनागः अप- हतपाप्मन् 'पापापराधयोरागः' इत्यमरः। नन्विति सुकुमारा- मन्रत्रणे। नाना बहुविधा: नगा तरवः नागा: गजाञ्च तेषां अननः प्राणयिता यो नागनग: शेषाद्रि: तस्य इन स्वामिन् श्रीनिवासेत्यर्थः। नः अस्माकं गाः स्तुतिरूपा: वाचः आनिनः 'योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्त्त्ि - धरस्स्वधास्ना' इत्युक्तप्रक्रियया प्राणयः प्राणितवानित्यर्थः। अनि- तेर्णिजन्ताललडि चडि मध्यमपुरुषैकवचनम्। तु इत्ववधारणे। उदाहृतपद्यत्रये विभिन्नवर्गीयव्यञ्जनद्यं निबद्धमिति विशेषः॥ एकव्यञ्जनचित्रं यथा- ननं नो नानेनानेना नेनेन नोनेन। नानैनो- नुन्नानां नानैनेनाननी न नो ननु नौः ॥२३५१॥ नूनं नो न अनेन अनेना: ना इनेन नोनेन नानैनोनुन्नानां नाना पनेन अननी न नः ननु नौः इति पदच्छेदः। न ऊनः नोन: तेन नोनेन: सर्वोत्तमेनेत्यर्थः। अनेन इनेन स्वामिना भगवता हेतुभूतेन ना कश्चिदपि पुमान् अविद्यमानं एनः पापं यस्य सः अनेनाः नो इति न। कित्वनेना एव नूनमित्यु- क्तार्थस्थातिमात्रनिर्धारणे। नानाविधानि च तानि पनांसि पापानि नैः नुन्नानां क्षिप्तानां नः अस्माकं एनेन भगवता 'द्वितीया टौस्स्वेन:' इत्यन्वादेशे एनादेशः । नाना विना 'पृथग्विना नानाभि:' इति तृतीया। 'पृथग्विनाऽन्तरेणर्ते हिरुङ्नाना च वर्जने' इत्यमरः । अननी प्राणायेत्री नौः उत्तरणसामग्रीति यावत्।
Page 272
262 अलङ्कारमणिहारे
न ननु नैव। ननुरवधारणे। यतोऽमुना श्रीनिवासेन भगवता सर्वोऽपि जनः पाप्मनो मोच्यते तत एनं विना नानाविध- दुरिततिरस्कृतानामस्माकं भवार्णवोत्तारकोऽन्यो नैवेति भावः। अत्रैकेनैव नकारेण पद्यबन्धः । यथावा- लीलालोलेलालीलालीलाली ललोडलिलीला- लाः। लोलोल्लोलेलालंलीलालालो ललाल लो- लाल: ॥ २३६०। लीललोलेलालीलालीलालीलल: लीलासु विलासेषु लोला आसक्ता या इला भू: सैव आली सखी तां लालयतीति लीला- लोलेलालीलालिनी। सा चासौ इलानां गिरां आली पक्कि: 'पुंवत्कर्मधारय' इति पुंवद्भावः। लीलालोलेलालीलालीलाली। तथा ललतीति ललः 'लड विलासे' पचादच्। लीलासक्त- भूसर्खालालयितृवाणीश्रेणीविलासीत्यर्थः । अलिलीलाला: अले: भ्रमरस्य लीला विलास: तच्छायेति यावत्। तां लाति आद- दाताति तथोक्तः । 'त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनो:' इतिवच्तत्सदृशद्युतिरित्यर्थः । 'ला आदाने' इत्यस्माद्धातोः ककिप। लोलोल्लोलेलालंलीलालाल: लोला: चञ्चला: उल्लोला: महातरङ्गः यस्यां सा लोलोलोला च सा इला च लोलोल्लोलेला। इला जलं 'भूगोवाचस्त्विडा इलाः' इत्यमरः । तस्यां प्रलयमहोदधिजले इति यावत्। अलं लीयत इत्यलंली: 'ली श्लेषणे' दैवादिका- दस्मात् किए। सा चासौ इला भू: वेदवाणी वा तस्याः ला आदानं 'लश्शके ला तु दाने स्याद्गहणेऽपि निगद्यते। ली श्लेषणे च चपले' इति मेदिनी। तस्यां अलतीत्यलः । पयार्प्त
Page 273
शब्दालङ्कारसर: (१२२) 263
इत्यर्थः । 'अल भूषणपर्यीप्वारणेषु' इति धातोः पचादयच्। महादधिनिमस्नाया भुवो वेदवाचो वा समुद्धर्तेत्यर्थः । ललाल विललास। 'लल विलासे' इत्यस्मालिट। लोलालः लोला लक्ष्मीः 'लोलस्स्याद्वाच्यलिङ्गकः । सतृष्णे चपले लोला जिह्वा- कमलयो: स्त्रियाम्' इति मेदिनी 'लोला तु रसनाश्रियोः' इति हेमश्च। तां अलति भूषयतीत्यलः उक्तधातोरेव पचाद्यच्। लोलाया: अलः लोलालः । यद्वा लोलां ललतीति लोलाल: कर्मण्यण। लोलायां लिनातीति वा लोलालः 'ली श्ेषणे' अस्मात् क्रय्यादिकात् 'अन्येश्योपि दृश्यते' इति डः। अथवा लिनातीति ला लोला ला यस्मिन् सः लोलाल: सर्वथाऽपि श्रीवल्लभ इत्येवार्थः। ललालेत्यन्वयः। अत्र लकारेणैकेनैव पद्य- बन्ध इत्यपञ्चवर्गीयवर्णमेकाक्षरचित्रमिदम्।। सप्तस्वरनियमचित्रं यथा-
रिगदम्। निगमापसारिदमदं पापानि ममाऽडस- दासधनि धाम ॥ २३६१॥ मा लक्ष्मीरिति मानिनी वधू: तस्यास्समागमेन निस्समः असदृशः गरिमा गौरवं यस्य तत्तथोक्तं श्रीवल्लभत्वादेवास्ये दशं महत्त्वमिति भावः। अरीन् दारयतीत्यरिदारिणी अरिणा चक्रेण सह वर्तत इति सारि: सा चासी गदा कौमोदकी यस्य तत्तथोक्तम्। निगमस्य वेदस्य अपसारिणः अपहतार मधुकैटभादयः तेवां दमं दण्डं ददातीति निगमापसारिदमदम। धनमस्यास्तीति धान दासैर्धनि दासघनि दासाभिन्नधनवदि- त्यर्थः। धनवदस्य दासास्संरक्षणीया इति भावः। धाम तेजः
Page 274
264 अलक्कारमाणेहारे
परं ब्रह्मेत्यर्थः । मम पापानि आस निरास्थत्। 'असु क्षेपणे' अस्माद्वैवादिकालिट्। अत्र सरिगमपधनीति संगीतशास्त्रंप्रतीत- सप्तस्वरावबोधकवर्णैरैव श्रोकरचनेतीदमपि चित्रम्। अत्र ऋषभषड्जयोः रिवर्णसकाराभ्यामिव वैवतस्य धकारेणेव दका रेणाप्युञ्चारणं गायकगोष्ठीप्रसिद्धमिति दकारधकारयोरुभयोरपि ग्रथनमिति ध्येयम्। यथावा ममैव रङ्गराजविलासे- मा माधा मम धामनि पदमास सदा गदारि- दध सा सा। पापा निगदपदं परिगद मां मा मदरि- मानिनीदास ॥ २३६२॥ इदं पद्यं भगवन्तं रङ्गराजमाखेटकविहारोत्सवानन्तरमुप- गतमन्यवधूसंगतमाशङ्कमानाया लक्ष्म्या अक्तरुपं वीणयाऽनूदि- तम्। तथाहि-दधातीति दधः। गदारिणोः कौमोदकीसुदर्श- नयो: दध गद्ाचक्रधारिष्नित्यर्थः । तस्य संबुद्धिः । मम धामनि गृहे पद मा माधा: मा स्म निदधा: रोषसंभ्रमान्मा मेति द्विरुक्तिः । आङ्पूर्वकाद्धाओ लुङि 'न माङ्योगे' इत्यट्प्रतिषेधः। कुत ईदशः कोप इत्यत्राह-आसेत्यादिना। सा सा पापा मम सप- तीति भावः । असहनात्तन्नामाग्रहणम्। निगदस्य त्वद्वचसः पदं पात्रं आस। तत्सल्लाप एव तव हृद्यः। मां मा परिगद- मया सह मासंभाषिष्ठा इति भाव:। मा शब्दोडयं न तु माङू। अतो न लुङ्। त्वमेव खल मम प्रेयसीति चादुभिरयं माम- नुनेष्यतीत्याशङ्कय रोषातिभूम्ना संबोधयति-महरिमानिनीदा- सेति। मत्प्रत्यर्थिललनाकिकरेति तदर्थः। अत्रापि पूर्ववत् सरि- गमपधनीति सप्तस्वरवर्णा एव निबद्धाः ।
Page 275
शब्दालङ्कारसर: (१२२) 265
अनन्तरपद्यामदं- इति कुपितया श्रियोक्तं निरासवचनं किलानु- कुर्वाणा। वीणा स्वरसमुदायैरतोषयद्रङ्गराजमति- रम्यैः ॥२३६३ ॥
व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते। चित्रमेतद्विजानीयात्तदनावृत्तवर्णकमू॥। यथा-
ओज:खच्छाये इठ मन इहि गोडवे सदा ऋद्े॥ अथेति मङ्गळार्थकम्। "मङ्गळानन्तरारम्भप्रश्नकात्स्नर्चैष्वथो अथ" इत्यमरः। इदमव्ययं चादौ स्वरादौ च पठ्यते। तेन मङ्गळवाचकस्य सत्वार्थकत्वेऽव्यव्ययत्वं सिध्यति। अतएव श्रीहर्ष :- उदस्य कुम्भीरथ शातकुम्भजाः चतुष्कचारुत्विषि वेदिकोदरे। यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गरस्नपयांबभूव ताम्।। इति। अत्र हि अथ स्नपयांबभूवेत्यस्य मङ्गळस्नपनं चका- रेत्यर्थः । निपातस्तु स्वरूपेणैव मङ्गळो मृदङ्गध्वनिवत्। न चात्र श्रीहर्षपद्ये अथेत्यस्याननतर्यमेवार्थः कुतो न स्यादिति वाच्यं, ALANKARA IV. 20
Page 276
266 अलङ्कारमणिहारे
अथशब्दयोर्द्वयोइश्रवणात्। पूर्वार्धगतस्याथशब्दस्यानन्तर्यार्थक- त्वेन उत्तरार्धगतस्याथशब्दस्य मङ्गळार्थकताया एवावश्यवक्त- व्यत्वात्। अन्यथा पौनरुक्तयस्य दुर्वारत्वादित्यास्तां तावत्। अथ मङ्गळः यः ऋषभाचलः वृषाद्रि: तस्य यत् कूटं शिखरं तस्य आपीडे शेखरभूते भगवतीत्यर्थः । इदं विशेष्यम्। अतिश- यिता चसा घृणा च अतिघृणा निरतिशयकरुणा। सैव झरी प्रवाहः तेन बाढे प्रशस्ते 'भृशप्रशस्तयोबांढम्' इत्यमरः। गोऽवे अवतीत्यवः गवां धेनूनां वेदवाचां वा गो: भुवः दिवश् वा अवः रक्षिता तस्मिन्। सदा ऋद्े समृद्धिमति। ओजःखच्छाये ओजसि तेजसि विषये सं व्योम छाया प्रतिमा यस्य तथाक्ते गगनतलश्यामले इत्यर्थः 'छाया त्वनातपे कान्तौ प्रतिबिम्बा- कयोषितोः' इति विश्वः। 'छाया पङ्गौ प्रतिमायाम्' इति हेम- चन्द्रश्च। शठ धूर्त हे मनः! इहि गच्छ। कर्मणोऽधिकरणत्व- विवक्षया सप्तमी। श्रीनिवासं शरणं वजेत्यर्थः। अत्रोक्त व्यख्जनं पुननोक्तमिरयपुनरुक्तव्यअ्जन नाम चित्रम्। अचां पौनरुक्तचेऽपि न
फणधरवरगिरिगेहं लवणिमपरिवाहधीकलन- बाहम्। वरगुणमणिसंदोहं वन्देऽहं सुन्दरं विस- न्देहम ॥ २३६५॥ यथावा- हरिधरणिधरविहारं हारिमहाकिरणभारमण-
Page 277
शब्दालङ्कारसर: (१२२) 267
हारमू। हेयगुणविसरदूरं गेयगुणं चिन्तये सपरि- वारम् ॥ २३६६॥ कुन्दसुममन्दहासं कुवलयदलकोमलावय वभ्षा- सम्। कुण्डलिभूधरवासं कलये कमलाविलास- सविकासम् ॥ २३६७॥ एषु त्रिषु पद्येष्वपि शब्दानां संस्कृतप्राकुतभाषयोस्तुल्य- रूपतेति समसंस्कृतप्राकृतमिदम्॥
अथ पद्मादिचित्राणि. पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम्। ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरे- खानिष्ठत्वादिति चेत्सत्यम्। वर्णानुमापकरेखानिष्ठानामेवाकाराण- मनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुकक्ति- रित्याहुः॥
तत्र पोडशदलपद्मम्, एकं यदि भवेत्सर्वमेकान्तरितमक्षरम्। तत्पझ्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम्। एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णि- कायां स्लिष्टं पकवर्णे यस्य तत् षोडशदलपद नाम चित्रं भवेत्। 20*
Page 278
268 अलङ्कारमणहारे
यथा- तारागौराकारा श्री रायो राति राद्रास्समेर।
तारा तारका सेव गौराकृतिगौरवर्णा। राद्धः सिद्धः राः विभवो यस्यास्सा। स्मेरा स्मयमानमुखीत्यर्थः। राजभिरारा- ध्या। स्फार: विशालः अहीराधरश्शेषभूभृत् सएवाकर: श्रेष्ठः आविर्भावस्थानभूतो वा आधारः अधिकरणं यस्यास्सा। 'इरा भूवाकसुरापसु स्यात्' इत्यमरः। 'आकरो निवहोत्पत्तिस्थान- श्रेष्ठेषु कथ्यते' इति मेदिनी। सा प्रसिद्धा श्रीः लक्ष्मी आरात् क्षेप्रमिति यावत्। रायः धनानि राति ददाति 'रा दाने'। अयमेव द्विचतुष्कबन्धो गोमूत्रिका च भवति। तल्लक्षणं तु- बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत्। कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः॥ तत्रायुग्माक्षरैः श्िष्टा यदि युग्माक्षरैस्तु वा। गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ।
इति। पतटुक्क भवति-दिखुखकोणक विदिसुखकोणकं चद्धे चतु- ररचक्रे व्यतिकृते विलिख्य तस्य बहिरन्तश्च मण्डलरेखायुगं विलिख्य तत्प्रत्येकमष्टकोष्ठघटितं विधाय बहिर्मण्डले पूर्वार्ध- स्थाश्रिष्टाक्षराण अन्तर्मण्डले उत्तरार्धस्याश्िष्ाक्षराण विलि ख्यार्धद्वयस्य श्िष्टमक्षराष्टरकं मण्डलद्वयमध्याष्टकोणेषु विलि-
Page 279
शब्दालङ्गारसर: (१२२) 269
युग्माक्षरश्िष्टानुलोमगोमूत्रिका। अत्र कोणस्पर्शपूर्वको मण्डल- स्पर्शः। एवमयुग्माक्षरश्िष्टत्वेऽपि गोमूत्रिका भविष्यति। तत्र कोणस्पर्शो मण्डलस्पर्शपूर्वक इति विशेषो बोध्यः।।
गोमूत्रिकाबन्ध :.
ता रा गौरा का रा श्री रा यो रा ति रा द्व रा स्स्मे रा
सा रा जा रा व्या रा त्स्फा राहो रा ध रा क रा धा रा
षोडशदलपझबन्ध :.
धा ता गौ का श्री यो रा ति तस्फ ही। घ
Page 280
270 अलङ्कारमणिहारे
द्विचतुष्कबन्घः.
रा ता रा गौ र का ससमे धा सा
जा
ध्या रा श्री ही
प्रकारान्तरेण गोमूत्रिका. रा यो
ता गौ का श्री यो ति द्ध स्स्से
रा रा रा रा रा रा रा रा
सा जा ष्या त्स्फा ही क धा
यथावा- व्यालाद्री लादोलालीलालोलाचलाचलाबाला। श्रीलाडवेलाम्मे लातीलामालाङ्गिलाखिलाश्ली- ला ।। २३६१।।
Page 281
शब्दालङ्गारसर: (१२२) 271
व्यालाद्रेः शेषगिरे: इलायां धरायां दोलालीलायां आंदो- लनविहारे लोला आसक्ता। अचला स्थिरहदया अचलाबाला भूसुता। इदं विशष्यम्। श्रोला श्रीमती। सिध्मादित्वान्मत्वर्थीयो लच्। लक्ष्मविान् लक्ष्मणशश्रीलः' इत्यमरः। खिलानि ध्वस्तानि अखिलानि अश्ोलानि अमङ्गलानि यया सा। अवेलां मर्यादा- तीतां इलामालां वाणीस्रजं मालिकासदशी वाचमित्यर्थः। मे लाति दत्ते। इति योजना॥। यथावा- धाम व्योमश्यामङ्गामङ्क्षेमक्रमक्षमन्नाम'। प्रे- मस्थेमश्रीमद्गूमक्ष्मामक्कुमन्नमस्याम ॥ २३७० ॥ व्योमेव श्यामं नीलं काम पर्याप्तं यथा स्यान्तथा। क्षेमस्य कुशलस्य क्रमः परिपाटिः तस्य क्षमं अंहै क्षेमंकर- मिति यावत्। प्रेम्ण: स्थेमा स्थैय तस्य श्रीः संपत् तदस्था- स्तीति प्रेमस्थेमश्रीमत्। भूम्नः विभुत्वस्य क्ष्मां आवासभूमि अक्कमं श्रमरहितं इदमुपलक्षणमस्विलहेयगुणदवीयस्त्वस्य । धाम तेजः श्रीनिवासमिति भावः। नमस्याम प्रणमाम। नामे- त्यभुपगमे विस्मये स्मरणे वा। यद्वा व्योमश्यामं धाम तेजः श्रीनिवासं अंकमं भवक्कमामावाय 'निष्प्रत्यूहमुपास्महे' इत्यादा- विव अर्थाभावेऽ्व्ययीभावः 'नाव्ययीभावादृतोस्त्वपञ्चम्याः' इति चतुर्थ्या अमू। काम पर्यातं यथातथा नमस्याम पूजयामेति योजना। 'नमोवरिवश्चितङः क्यच्' इति नमश्शब्दात्पूजायां कयच्। तदन्ताद्धातोलोंडुत्तमैकवचनम्। 'नाम कोपेऽभ्युपगमे विस्मय स्मरणेऽपिच' इति मेदिनी। क्षेमक्रमक्षमन्धामेति पाउेऽपि न चित्रभङ्ग:। तदा-क्षेमकरमस्य क्षमं पर्यासं धाम स्थानं 1क्षमन्वाम.
Page 282
272 अलङ्कारमणिहारे
क्षेमंकरस्थानभूतमित्यर्थः। अत्र श्यामं काममित्यादौ सर्वत्रानुस्था- रस्य 'वा पदान्तस्य' इति परसवर्णो बोध्यः। अन्यथा विव- क्षितचित्रभ्रंशापत्तिः। यद्यपि 'सबिन्दुकाबिन्दुकयोस्सविसर्गा- विसर्गयो:' इति चित्रादावभेदकल्पनाऽभ्युपगता कविभिः । तथापि यावद्वद्धिबलोदयं तादृदशकुशानाश्रयणमेव ज्याय इति व्येयम्। अस्मिन्पद्यद्वयेऽपि तारागौरति प्रागुदाहतपद्यवदेव पझ्मा- दिबन्धा द्रष्टव्याः॥
अथ गोमूत्रिका एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः । गोमूत्रिकायं चित्रं तदाहुश्षित्रविदो बुधाः॥ अर्धयोः श्रोकस्य यथाक्रमं पूर्वोत्तरार्धयोः एकान्तर एकाक्षरव्यवहितं यदेकरूपत्वं अभिन्नाकारत्वं तत् गच्छतो गोर्मूत्राकारकतया घटितत्वे गोमूत्रिकारयं चित्रमिति चित्रकाव्य- विद आहुः। गोमूत्रमिव गोमूत्रिका। 'इवे प्रतिकृती' इति कनि टापि 'प्रत्ययस्थात्' इति इत्वम् ॥ यथा- भोगीश्वरशैलक्षितिविलासलोलो ददातु नः कुशलम्। योगीश्वरजालस्तुतिकुलामलोऽसौ दधा- तु नो कुफलम् ॥ २३७१ ॥ भोगीश्वरशैलक्षितौ विलासे लोल: श्रीनिवास इत्यर्थः । नः कुशलं ददातु योगीश्वरजालस्य स्तुतिकुलैः स्तोत्रनिवहैः अमलः प्रसन्न इत्यर्थः। असौ श्रीनिवास; कुफलं कुत्सितफलं नो दधातु
Page 283
शब्दाल्कारसरः (१२२) 273
न पुष्णात्वित्यर्थः। इयं युग्माक्षरश्लिष्टगोमूत्रिका। उद्धारक्र- मस्तु षोडशद्लपद्मनिरूपणावसर एव प्रदर्शितः।
भो गी श्व र शैल क्षि ति विलासलोलो द दा तु नः कु श लं
यो गी श्वरजा ल स्तु ति कु ला म लो सौ द धा तु नो कुफ लं
इदमेव पद्यं प्रागुपद शितरीत्या त्रिवीधिकगोमूत्रिकाकारोऽपि भवति। एवमुत्तरत्रापि। यथावा- फणिशैलशिरोधामा नवजलजविलोचनस्स- दाऽपायात्। मणिलोलदुरोदामा भववलनविमो चनस्स मां पायात् ॥ २३७२ ॥ मणिना तरळरतेन लोलत् चलत् उरोदाम वक्षोहारो यस्य तथोक्तः सः भगवान् मां सदा अपायात् पायादिति योजना। इयमपि युग्माक्षरश्लिष्टगोमूत्रिकैव। अत्रापि प्रागुपदर्शितरीत्या बन्धलेखनप्रकार: । यथावा- माधव दूरे वचसां चरितं तव पापहारि दलित- भवम्। मामव शौरेऽनुचरं चलितं भवतापतोS- रिकलितभयम् ॥ २३७३॥
भवतापतः संसारतापेन चलितं अनवस्थितचित्तं अरिभि: कामादिभि: कलितं भयं यस्य ते अरिषड्वर्गत्रस्तमित्यर्थः । अनु- चरं तब किंकरं "कुरुष्व मामनुचरम्" इत्येतदनेन ज्ञाप्यते। मां अव रक्ष। इयमयुग्माक्षरश्िष्टगोमूत्रिका॥
Page 284
274 अलङ्गारमणिहारे
उद्धारस्तु- यथावा- मनसिजसमानरूपे हृदयं ल- गतादशेषजगतीझे। महसि लस- वम यम् भ मानचापे सदये लघु ताद्शेडरि- त जयतीव्रे॥ २३७४ ॥ ले
अरिजयविषये तीव्रे तीक्ष्णे मनसि- द क
जसमानरूपे आनयतीत्यानं जगदुज्जीवयितृ रि
रूपं मनसिजसमं आनरूपं यस्य तस्मि- हा ता न्निति विग्रहः। यद्वा मान्यत इति मानं प 'अकर्तरि च कारके' इनि कर्मण घञ् पा ता तादशं च तत् रूपं च तेन सह वर्तत इति व समानरूपं। मनसिज इव समानरूपमिति त विग्रहः तस्मिन् कन्दर्पतुल्यमाननीयरूप 4 त इत्यर्थः। न तु समान रूपं यस्येति विग्रहः। तथा सति 'ज्योतिर्जनपद' इत्यादिना च समानशब्दस्य सभावापत्तेः। यद्वा समा- नशव्दात्प्रशंसायां रूपप्पात्ययः प्रशस्त स- सां
10 मानं समानरूपमिति विग्रहः। मनसिजस्य च
प्रशस्ते समाने इत्यर्थः । तत्तुल्यसौन्दर्ये इति भावः। लसमानं लसनशीलं चापं यस्य तस्मिन्। लसतंश्चानश्। 'लसमाननवां- शुकः' इति माघः । लघु क्षिप्रं हृदयं लग- व
तादिति योजना। इदमपि पद्य अयुग्मा- म ध मा
Page 285
शब्दालङ्कारसर: (१२२) 275
हारबन्धो यथा- श्रीलक्ष्मीलक्ष्माल- श्री
क्ियं घनाघनघनश्रि- क्ष्मा ल डक् यश्श्रयभयदम्। पूत- क्ष्मा
म् म् ॥ २३७५ ॥ भ (ना घ न
श्रीः लक्ष्मी: लक्ष्म श्री- म वत्सश्च अलङ्गिये अलंकारौ यस्य तम्। घनाघनघनश्र- यः प्रावृषेण्यजलदसान्द्ररुचः भयदं ततोऽपि नीलमिति- रा यावत्। पूतैः शुद्धान्तःकरणैः मुनिभि: ध्यांत उपासितम्। रा घ र (इश्र) भ
गुणी अनन्तकल्याणगुणाकर ष
इति भणित श्रुतिभि: प्रति- पादितं शेषधराधरधराया: ध्या मण रतभूत श्रीनिवासं हे चेतः हृदय श्रय आश्रय- त प
स्व ॥ उद्धारस्तु- कचे
1
Page 286
276 अलङ्कारमणिहारे
कृत्तोष्णाभविनिर्यद्रुचिमदविकसनमणि कलये। विनतजनादरणकृतं फणिगिरितिलकं हरिं ध्येयम्॥
उष्णाभात् भानो: विनिर्यन्त्याः रुचे: प्रभायाः यो मदः तस्य विकसन उन्मेषः तत् कृत्तं छिन्नं येन स तथोक्त: मणि: कौस्तुभो यस्य त दिनमणिघृणिमदक्षपणनिपुणमणिवरोरस्क- मित्यर्थः। विनतजनानां आदरणकृतं फणिगिरितिलकं हरि ध्येयं कलये ध्यायामीत्यर्थः । लक्षणं तु-
उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः । तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव।। उभयोरनयोः पार्श्वद्ये कोष्ठान्यनुक्रमात्। सप्त पञ्च तथा त्रीणि निष्पद्ेरन्यथा तथा॥ तुल्यप्रमाणा विलिखेन्तिर्यगर्ध्व च रेखिका: मध्यवीधीशिरःकोष्ठादारभ्य बिलिखेहुधः॥ एकं त्रीन्पश्च सप्ताथ नव सप्त च पश्च च। त्रीनेकं चेति पद्यस्य वर्णास्तिर्यगनुक्रमात्।। ऊर्ध्वमध्यमवीघीस्थवर्णैः प्रमिळितैः क्रमात्। स्वोद्देश्य कविकाव्यादिनाम्नामुद्दतिरिष्यते॥ गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः।
Page 287
कृ त्तो ष्णा भ विनि र्य द्र चि द वि क णिं ल ये वि नतजना द रण कृ तंफणि गिरि ति ल कं ह रि|-ध्ये यम अत्र ऊर्ध्वमध्यमवीध्यां 'कृष्णार्यकविकृतिरियम्' इति कवि- नामादिकमुद्दृतम्। इममेव रथबन्ध इत्यप्याहु:॥
अ म लं ज ग तां का र ण मु दा र र त्ना व भा सितोर स्कंम ह नी यं वि नुम: फ गिरिरा जवि रि कि न्न द्े यम
Page 288
278 अलङ्कारमणिहारे
अमलं जगतां कारणमुदाररत्नावभासितोरस्कम्। महनीयं विनुमः फणिगिरिराजविहारि किन्नरो- द्ेयम् ॥ २३७७॥ अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धार: इत्यलंकारमणिहारे शब्दालंकारसरो द्वार्विशोत्तरशततमः
असमग्रं गार्हस्थ्ये स्वेन कृतां कृतिमिमां यतिवरेण्यः । श्रीशमुदे समपूरि श्रीकृष्णब्रह्मत- न्त्रपरकाल: ॥ २३७८॥ अपूरि अपूरयत् 'दीपजनबुंधपूरि' इते पूरयतेः कर्तरि लुडि चिण्॥ मानातिगनानागमगानार्हयशा: फणीशशिख- रीशः। प्रीणातु श्रीनाथस्स्वेनानेनारचय्य कृतिमे- नाम् ॥ २३७९ ॥ कवनं मम तव नाथ स्तवनायानर्हमिति वि- दित्वाडपि। यदभवमिह साहसिकस्तदखिलमपि बालकृतमिति सहेथाः ॥। २३८० ।। श्रुतयो भृशमप्रतिहतगतयोSपि यतस्स्वतो नि- वर्तन्ते। मितमतिरपि तस्य तव स्तुतिमतनव- मिति तु चपलतोल्लासः ॥ २३८१ ॥
Page 289
ग्रन्थोपसंहार: 279
सुकुमाराकृतिवर्णा सालंकरणा च सुरुचिक- रचरणा। कविताश्रीरेत्य त्वां कामतारं नाथ मदु- दितोल्लसतात्॥ २३८२ ॥ सुकुमाराकृतयो वर्णाः अक्षराणि यस्यां सा सानुस्वार- कोमलवर्णघटितेत्यर्थः । पक्षे सुकुमारी आकृतिवर्णौ यस्यास्से- ति। सुरुचिकराः आस्वाद्यतमाः चरणाः श्रोकपादाः यस्या सा। अन्यत्र सुरुचि शोभनच्छव करचरणं पाणिपादं यस्या- स्सेति। मदुदिता मया उदीरिता मत्तो जातेति च कविता- श्रीः कवनलक्ष्मीः उल्लसतात् प्रकाशतां प्रमोदतां च। धन्या मम कवितेव क्वान्या भवितेह मृग्यतां जगति। कन्यामिवोदधेर्यी मान्यां हृद्यां तनोति फणिगिरिराट्॥ २३८३ ॥ मान्यां पूज्यां उदधे: कन्यामिव यां मान्यां मायाः श्रियः अन्यां तस्या: द्वितीयां सरतीं हद्यां वक्षर्स्थां हद्दायपरियां च तनोतीति योजना।। नन्दतु वा निन्दतु वा मन्दमनीषो निशम्य कृतिमेताम्। हर्ष वाऽमर्ष वा सर्षपमात्रमपि नैव विन्देम। २३८४ ॥. प्रौढतरो हि निबन्धो मूढमतेर्दुनिरीक्ष एव भवेत्। दीपो5तिमात्रमुज्ुलरूपो नेत्रातुरस्येव।।
Page 290
280 अलङ्कारमणिहारे
प्रगुणामलसगुणावलिमसृणितमाद्यन्तमेकरूप- तया। सुवसनमिव सुकवनमिह न मन्दभाग्योऽ- नु विन्दते क्वापि ॥ २३८६ ॥ कोमलधीरस्मादपि कोमलमेकमपि योऽभि- नन्देच्छूलोकम। इह यस्तु कोपकारी कवयेऽस्मै भवति कोऽपकारी तस्मात् ॥ २३८७ ॥ कोमलं न तु कठिनं एकमपि न तु पश्चषान् द्वित्रान्वा, श्लोकं अभिनन्दति यः अस्मात्पुंसः पतदपेक्षया क: पुमान् अमलधीः असू- यादिकालुष्यविधुरतया स्वच्छधी: अस्ति। इह अस्मिन्नेकस्मिन्नपि श्रोके यस्तु कोपकारी असूयाकृदिति यावत् तस्मात्पुंसोऽपि अस्मै ग्रन्थकृते कवये अपकारी कस्स्यात्। असूयापेक्षया कोन्योऽप- कार इति भावः। दुष्प्रेक्षो यो भविता दुष्प्रेक्षस्तेन हि प्रबन्धोऽय- म्। सुप्रेक्षस्तु भवेदयस्सुप्रेक्षस्तेन नात्र संदेहः। दुषटा अविवेकासूयादिदोषदूषिता प्रेक्षा मतिः यस्य सः 'प्रेक्षोपलब्धिश्चित्सवित्' इत्यमरः। दुःखेन प्रेक्ष्यत इति दुष्प्रेक्ष: प्रेक्षितुमशक्य इत्यर्थः । ईक्षतेः 'ईषदुरसुषु कृछ्ाकछ्ार्थेषु खल्' इति खलू। एवमग्रे सुप्रेक्ष इत्यत्रापि। अनधिगतकाव्यपरिमळलेशा: कतिचन गभी- रभावाढ्ये। कविवचने मा जात्वपि गुणदोषविवे- कचापलं यान्तु॥ २३८९॥
Page 291
प्रन्थोपसंहार: 281
सरसकविवचनपरिमळमभिजानन्ति हि बुधा न जात्वन्ये। प्रतिपर्वतशिखरस्थैर्न ह्युपलैर्गृद्यते सूची॥ २३१० ॥
रतितरां तद्नन्धास्वादनेSतिदवीयसः । धुरिन पद- माधचां मृद्दी नवा सुममालिका शिरसि सुदृदशां लाल्या हस्ते कपेरिव जात्वपि। २३९१॥ अन्तर्बहिरपि रसलवदवीयसीं रसविदग्रणीः को वा। सिकतामिव दुष्कवितां चर्वितुमीहेत सर्वतः कठिनाम् ॥ २३१२॥
नावयवा। कविता प्रौढकवीनां भविता ननु खण्डश- र्करातुलिता॥ २३९३ ॥ अविवेचितमपि मधुरं विवेचितं त्वन्तरतिरस- घनत्वात्। कदलीफलमिव सत्कविकवनं रसिक- स्य भाति मधुरतमम् ॥ २३९४ ॥ अविवेचितं-अविचारितं अपृथक्कृतोपरित्वक्ञ। विवेचितं विचारितं पृथक्कृतत्वक्व। रसघनत्वात् केवलरसमयत्वात्। अन्य- त्सुगमम् । ALANKARA IV. 21
Page 292
Ż82 अलंक्कारमणिहारे
सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजा- तम्। तूलामेव काव्यजालं न यदि तथा जातु न गुणलेशमपि ॥ २३९५॥ विवेचनेन विचारणेन। पक्षे बीजतः पृथकरणेन। स्वच्छी- भूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च। तूलमिव-कार्पास तूलमिव काव्यजालं गुणजातं सौशब्दयादिगुणनिवहं तन्तुस- न्तानं च व्यनक्ति।। अनुगुणविवरणमसृणं ससितं नवनीतामिव रसज्ञानाम्। भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ॥ २३९६॥ ससितं-सशर्करं 'शर्करा सिता' इत्यमरः । रसज्ञानां रसि- कानां रसनानां च।। भूयोगुणे प्रबन्धे प्रायो दोषं न गणयति रसज्ञः। मधुरमधुरसनरसिकस्सरघोद्रीर्णमिति चिन्तयति किं तत् ॥ २३१७।। गुणगणयिता कृताविह निरस्यति तरामनीष- दपि दोषम। दूरं त्वचं निरस्यति रसं रसयिता नरो रसालस्य ॥ २३९८॥ सरसकविवचननलिनं समदकुतार्किकलुलाय-
Page 293
ग्रेन्थोपसंहारः 283
वदमृद्नन्। अपरुषविमर्शतः कविरामोदं मन्दपव- न इव विन्देत् ॥ २३९९ ॥ अपरुषविमर्शतः -- सरळतमविचारेण कोमलस्पर्शेन च। आ- मोदं-हर्ष परिमळं च। न प्राचीनत्वं वा नव्यत्वं वाऽपि रम्यताहेतुः। गुण एवैको ग्रन्थं गुणिनो निर्मत्सरा इममुपाध्वम्॥ उपाध्वं उपासीद्दसित्यर्थः । उपपूर्वकादासेलोंट् मध्यमबद्दुव- चनम्। 'धि च' इति सलोप:॥ प्राचीनमेव कवनं मधुरं न नवीनमिति कृति- प्रवराः। भवतां हृदि मा भवतादभिनवमपि मधु कुतो न मधुरं स्यात् ॥ २४०१ ॥ प्रतनं वाऽस्तु नवं वा कवनं गुणवह्ुघैरुपादे- यम्। द्वीपेऽन्यस्मिन्निह वाऽप्युदेतु रत्नं बुधा न ना- ददते ॥ २४०२ ॥ योडलंकृतीरिमा मुहुरालम्बय ियं प्रसाधयेत निजाम्। सोडलं कृतीतरकृती: कूलंकषधीः कर्थ लुलोकिषते॥ २४०३ ॥ यः कृती इमाः पतावता प्रबन्धेन निरूपिता अलंकृती: अ- लंकारान् भूषणारनीत्यपि। गम्यते आलम्ब्य प्राप्य निजा धियं स्वव- 21*
Page 294
284 अलङ्कारमणिहारे
लभामित्यपपि व्यज्यते। प्रसाधयति अलंकरोति। अलं कूलंक- षर्धीः प्रबन्धगतचमत्कृतिसर्वस्ववेदी उचितानुचितविमर्शकारी- त्यपि व्यज्यते। सः कृती कुशलः इतरकृतीः अन्यानसारान् प्रब- न्धान् इतरवधूरित्यपि व्यज्यते। कथं लुलोकिषते द्रष्ुमपि नेच्छ- ति किमुत पश्येदिति। अत एवात्र समासोक्तचलंकार:॥ अभ्यस्तैकैकविद्याः क्वचन मम कृतिं वीक्ष्य हृष्यन्तु मा वा तत्तादृक्सर्वविद्यापरिचयनिपुणा हन्त हृष्यन्त्यवश्यम्। प्रायो मात्सर्यमेषां न खलु विधिवशादद्यमीषामपि स्यात् कि का- र्ये श्रीहयास्यो जयति गुणनिधिस्सर्वविद्यानिषद्या।। विद्याविहृतिनिषद्या हृद्या तुरगानना धुता- वद्या। हद्याहिता प्रसद्यादाद्या सा देवता बुधा- सादया ॥ २४०५॥
ब्रह्माणं प्रविधाय नाभिकमले वेदानपि प्राहिणो- द्यत्तस्मै मधुकैटभोत्थविपदो यत्त्रायते स्माथ तान्। तद्दामावतु पाश्चकालिकपथप्रस्थाननिष्ठैर्यतिश्रेष्ठ- श्रीनिगमान्तदोश कमुखैर्दत्तार्हणं देशिकैः॥ या वाण्या यतिराजराजवशगा चक्रेर्चिता या चिरात् प्राचार्यैर्निगमान्तदेशिकमणिश्रीब्रह्म-
Page 295
प्रन्थोपसंहार: 285
तन्त्रादिमैः। याऽध्यास्ते परकालसंयमिवरास्था- नीमिदानीमपि श्रेयस्संविदधातु सैन्धवमुखी सैषा परा देवता ॥ २४०७॥ श्रीमद्गाष्यं निशम्याद्गुतमिति शिरसा शारदा श्लाघमाना स्वार्ची यां स्वीयपीठे सह यतिपतये भाष्यकाराख्ययाऽदात्। सेयं वागीशसू्तिर्यति- पतिकुरुकेशागमान्तार्यमुख्यैः क्लतार्चा ब्रह्म-
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूल- नामा सीमातीतात्मभूमा मम हयवदना देवता धावितारिः। याता श्वेताब्जमध्यं प्रविमलकमल स्त्रग्धरा दुग्धरािस्मेश सा राजराजप्रभृतिनुति- पदं संपदं संप्रदन्ताम्॥ २४०१ । वन्दे तं देवमादयं नमदमरमहारत्नकोटीरकोटी-
पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिश्शश्वदश्वोत्त- माङ्रम् ॥ २४१० ॥
Page 296
286 अलद्कारमणिहारे
निरालोके लोके विमतकथकध्वान्तनिवहैः श्रियःपत्याSSज्ञप्तो धरणिमवतीर्यातिकृपया। व्य- तानदोभाष्यघ्युमणिमखिलाज्ञानहृतये स जीया- च्छ्रीरामानुजमुनिवरात्मा फणिपतिः॥ २४११॥ टीकाकारस्सूत्रकारोSपि यस्य व्यासाचार्यो भा- रतखूयातकीर्तिः। तच्छ्रीभाष्यं श्रीयतीन्द्रप्रणीतं भूयान्नित्यं भूयसे श्रेयसे नः ॥ २४१२॥ शेषाद्रीश्वरपादपद्मयुगळीकैंकर्यहेतोः पुरा या घण्टा किल भक्तिनम्रमनसा पद्मासनेनार्पिता। त- तत्तन्त्रपिशाचधूननकृते संकल्पतः श्रीपतेः जातायै निगमान्तदेशिकनिभात्कस्यैचिदस्यै नमः॥।२४१३ जिह्वासिंहास नाग्रस्फुटनटनतुरङ्गस्यमजीरझ- आस्पर्धानिर्धार्यवाचानिचयनिचुलितप्रत्यनीकप्र- चारः। श्रीमाव्रामानुजार्थप्रथिततममतश्रीलला- माडर्कधामा नित्यं श्रुत्यन्तविद्यागुरुरिह जगतां भद्रवत्तां विधत्ताम्॥ २४१४॥ संसाराटोपतापक्षपणनिपुण वाग्धोरणीसारणी-
Page 297
ग्रन्थोपसंहार: 287
कलङ्को मोदान्वेदान्तसूरिदिशतु गुरुवरस्सर्वतन्त्र- स्वतन्त्रः ॥ २४१५॥
पजीव्यः सोऽयं श्रीवत्सवंश्यो वरदगुरुरपि च्छा- त्रतां यत्र भेजे। द्वैतीयीकावतारो य इह यतिपते- ब्रह्म यश्ष द्वितीयं छात्रो वेदान्तसूरेस्स खलु विज- यतां ब्रह्मतन्त्रस्वतन्त्रः ॥ २४१६।। यच्चकाङ्गप्रभावाद्यदुनृपतिमुखाः प्राज्यसाम्रा- ज्यगोपा भूपास्सर्वेडपि खर्वेतरनिजयशसइश्रीम- हीशूरपुर्याम्। तेऽमी शेषाद्रिवासाश्श्रुतिमकुटगुरू- संससिद्धान्तिद्धास्सर्वेडप्युर्व्यी प्रथन्तां यतिकुलप- तयो ब्रह्मतन्त्रस्वतन्त्राः ॥ २४१७ ॥
तारो दिव्ये देशे समग्रेकृत निगमशिरोदेशिकार्चा- प्रतिष्ठाम्। यइश्रीम द्रह्मतन्त्रोत्तमयतितिलकास्थान- लक्ष्मीनिधानं कुर्वन्नार्तप्रपत्ति स्फुटनिजमहिमां न्यासविद्यामतानीत् ॥ २४१८॥
Page 298
288 अलङ्कारमणिहारे
यइश्रीकर्णाटसिंहा सन विदित मही शूरराजाधि- राजान् कृष्णाद्यान्वैष्णवाग्रयानकृत समहिळाञ् इङ्चक्राङनायैः। व्याख्यां भाष्यस्य तद्वत्परमुप- निषदां द्रामिडीनां च चक्रे विख्यातोदान्तभूमा स जयतु परकालाभिधानो यतीन्द्रः ॥ २४१९।। श्रीश्रीनिवासनिगमान्तरमानिवासरामानुजा- खय परकालमहायतीन्द्राः। व्यूहा इवात्तवपुषो ज- गतां हिताय चत्वार ऊर्जितसमग्रगुणा जयन्तु।। घण्टावतारनिगमान्तरमानिवासश्रीदेशिकेन्द्र- यतिपुङ्गवरङनाथाः। श्रीव्रह्मतन्त्रपरकालपदावतं- सा जीयासुरुज़लगुणा गुरुसार्वभौमाः॥२४२१॥ दुराधर्षश्रीमद्यतिपतिमतस्थापनपराः परात्य- ल्पप्रज्ञग्रथितकुहनापद्वतिहराः। हरौ लक्ष्मीनाथे निहितनिखिलस्वावनभरा धरायां जीयासुः प्रथि- तयशसोऽस्मङ्गुरुवराः ॥ २४२२॥ श्रीवासब्रह्मतन्त्राग्रिमपदकलिजिद्देशि केन्द्रा-
Page 299
ग्रन्थोपसंहार: 289
कारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभि घानोयतीन्द्रः ॥ २४२३॥ पश्चसहस्त्रष्वेकाधिकेषु (५००१) यातेषु कलि- युगेऽन्देषु। अब्दे विकारिनामनि पूर्णोSलंकारम- णिहारः॥ २४२४।। अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौ- जल्यः। प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणि- हारः॥ २४२५॥ रसवत्प्रेयर्सुन्दर मूर्जस्विसमाहितप्रियंकरणम्। जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च।। रसवत् शृङ्गारादिरसशालि। प्रेय: अन्योन्यप्रियतमं सुन्द- ं। पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम। ऊर्जास्व बलवत्। समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम्। पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं। सना- तनामथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदायकवनं च जयतु॥ भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः। पत्या सतीव तदियं प्रीत्याऽडदृत्या त्वयाऽच्युत कृतिर्मे।। २४२७।।
Page 300
290 अलङ्कारमणिहारे
जयतु जगति नित्यं लक्ष्मणार्यस्य पक्षो जयतु निगमचूडादेशिकेन्द्रस्य सूक्तिः। जयतु हयमुखी- यास्थानसंपत्समृद्धि: जयतु च वृषशैले श्रीनि- वासस्थिरश्रीः ॥ २४२८॥
इति श्रीमव्वेदमार्गप्रतिष्ठापनाचार्य परमहंसपरिव्राजकाचार्य सर्व- तन्त्रस्वतन्त्रोभयवेदान्ताचार्य श्रीमत्कविकथककण्ठीरवचरणनलि- नयुगळ विन्यस्तसमस्तात्मभर श्रीमद्रामानुजसिद्धान्तनिर्धारण- सार्वभौम श्रीमच्छ्रीनिवासब्रह्मतनत्रपरकालसंयमिसार्वभौमकरुणा- कटाक्षवीक्षित तत्कृपास मधिगतब्रह्मविद्यावैशघस्य तत्ताद्दश श्री श्री- निवासदेशिकन्द्रव्रह्मतन्त्रपरकालयर्तीन्द्र महादेशिक कृपासमुपा- जितरहस्यसंप्रदायस्य तच्चरणनलिनसमर्पितात्मरक्षाभरस्य तादश- श्रीरङ्गनाथब्रह्मतन्त्रपर कालमुनिवरण्यमहादेशिककपासुधासारसं प्राप्त तुरीयाश्रम ब्रह्मतन्त्रपरकालगुरुवरास्थानाभिषेकस्य श्री कर्णाटदिव्यरत्नसिंहासनसाम्राज्याभिषिक्त श्रीमन्मही- शूरनगराधीश्वर श्रीकृष्णराजसार्वभौम संततिसंतत देशिकस्य श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रस्य कृतिषु अलंकारमणिहाराख्यमलंकार- शास्त्रं संपूर्णम्. श्री श्रीव्रह्मतनत्रपरकालगुरुपरम्परायै नमः
समाप्तोयं प्रबन्ध:
Page 301
श्रीः अलङ्गारमणिहार लक्षणश्लोकाः
जयतु श्रीवृषाद्विस्थं जगव्वितयरक्षणम्। वदान्यं परमं ब्रह्म वक्षोलडङ्कारलक्षणम्। (१) उपमा. उद्ूता भाति साम्यश्रीरुभयार्यत्र सोपमा। वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा।। पूर्णा लुप्तेत्यलङ्कारतत्वज्ञैस्सा द्विधोदिता । उपमानं चोपमेयं धर्मो वाचकमित्यदः ।। चतुष्टयमुपातं चत्सा हि पूर्णोपमा मता। वर्ण्योपमानयोर्द्धर्मोपमावाचकयोरपि। एकद्ित्यनुपादाने भवेल्लप्तोपमाऽष्टधा। वाचकस्थात्र धर्मस्य धर्मवाचकयोस्तथा ॥। वर्ण्यवाचकयोलोंपे तत्तछुप्ताः खलूपमाः। उपमानस्य लोपे तु तल्लुप्ता पश्चमी स्मृता ॥ पोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः। धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः।। अष्टमी धर्मोपमानवाचकानां विलोपने। एवं कुवलयानन्दमकारेणोपमोदिता॥
Page 302
292 अलङ्कारमणिहारे
माचां मते विभागोडस्या उपमायाः प्पच्चचते । पूर्णा लुप्तेति भेदेन दिविधा सा तयो: पुनः॥ श्रौत्यार्थीति द्विया पूर्णा वाक्यगा च समासगा। तद्धितस्थेति च श्रेधा ते द्वे स्थातां पृथकपृथक्।। यथेववादिशब्दाना साक्षात्सादृश्यवाचिनाम्। उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः।। ये धर्मिव्यवधानेन सादृश्यपतिपादकाः । सदृङूनिभादिशब्दानां तेषामार्थी भयोगतः।। त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा। एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽषधा॥ धर्मस्याथोपमानस्य वाचकस्य विलोपने। त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा॥ धर्मवाचकयोलोंपे तथा धर्मोपमानयोः।
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः। कमेण धर्मलप्तादेर्विभागोडय प्रदर्श्यते।। पूर्णावद्धर्मलृप्ताऽपि श्ररसर्थीति द्विधा भवेत्। तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ।। लुसोपमाना द्विविधा वाक्यगा च समासगा। वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्याि॥ कर्मकर्त्रोर्णमुलि च णिनौ किपि च तद्धिते। एवं नवमकारैषा ज्ेया वाचकलोपिनी।। धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥ धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते।।
Page 303
लक्षणश्रोका: 293
कचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता। कचित्समास एव स्याद्राचकावर्ण्यलोपिनी ।। या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा। एवमष्टविधा लुप्ताः माचां रीत्या निरूपिताः ॥ एकस्यैवोपमेयस्य यद्यनेकोपमानता। तदा मालोपमामेतामाहुः केचिद्विचक्षणाः॥ पूर्वपूर्वोपमेयस्य भवेददयुत्तरोत्तरम्। उपमानत्वमेषोक्ता कचिभी रशनोपमा । (२) उपमेयोपमा उपमेयोपमा सा स्यादुपमानोपमेययोः। पूर्वयोवैपरीत्यं चेत्परतः पुनरुच्यते।।
(३) अनन्वय :. अनन्वयो यदेकस्यैवोपमानोपमेयता॥।
(४) असमः उपमायास्सर्वथैव निषेधोऽसम उच्यते। पाओ्चो नेदमलङ्गारान्तरमित्येव मन्वते ।।
(५) उदाहरणम्. सामान्योक्तसुबोधाय तदेकांशनिरूपणात्। उक्त्ते तयोरवयवावयवित्व उदाहृतिः।
(६) प्रतीपम्. पतीिमुपमानस्य वर्ण्या चेदुपमेयता। अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥
Page 304
294 अलद्कार मणिहारे
लाभाद्व्ण्योपमेयस्य स्यादन्यानादरश्र तत्। उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत्। उपमानस्य कैमर्थ्य प्रतीपं पश्चमं विदुः।
(७) रूपकं. यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् । रूपकं तद्टिधाऽभेदताद्रूप्यावसितं विद्ु:। आरोपे ससभेदस्याभेदरूपकमुच्यते। ताद्रूष्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्गवेत्।
पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम्।। वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम्।
आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् । ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्रिरूह्यताम्। पार्चा मते विभागोऽपि रूपकस्य निरुप्यते। त्रिधा साङ्ग निरङ्गं च परम्परितमिसदः ॥ समस्तवस्तुविषयमेकदेशविवर्ति च । इति सावयवं चापि द्विविधं तत्र रूपकम्। यत्परस्परसापेक्षनिप्पत्तीनां निबध्यते। रूपकाणां तु संघातो भवेत्सावयवं हि तद् ।। निरूपणेऽवयविनोऽवयवानां च शब्दतः । समस्तवस्तुविषयं भवेत्सावयवं हि तत्॥ आरोप्यमाणं शब्दं चेत्कचिदार्थ च कुत्रचित् । एकदेशविवर्त्याख्यमिदं सावयवं विदु:।।
Page 305
लक्षणश्लोका: 295
निरङ्गं तदिदुर्यत्स्यादङ्गिमात्रस्य रूपणम्। तद्व्िधा केवलं मालारूपं चेति सतां मतम् ॥ एकं विषयि यद्यन्यविषय्यन्वितमुच्यते। कार्यकारणभावेन स्थात्परम्परितं तदा ।। श्चिष्टाश्चिष्टविभेदन तत्परम्परितं द्विधा। केवलं मालिका चेति तद्दयं द्विविधं भवेत्।। एवमष्टविधं माचा मते रूपकमिष्यते। (८) परिणामः. विषयी स्वात्मना यत्र प्रकृतानुपयोगतः। विषयात्मत्वमभ्येति परिणामस्स ईरितः ।। (९) उल्लेख :.
रुच्यादिकारणवशात् तमुल्लेखं प्रचक्षते।। एकस्य विषयादीनामनेकत्वनिबन्धम्। नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोऽपि संमतः ।। (१०) स्मृति: या सादृश्यपरिज्ञानोदुद्धसंस्कारतस्स्मृतिः। प्रयोज्या सा स्मृतिर्नामालकति: कथ्यते बुधैः ॥ (११) भ्रान्तिः चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका। अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति॥ (१२) सन्देहः- सम्भावनानिश्चयान्यतरभिन्ना मनोरमा। सादृश्यहेतुका बुद्धि:सन्देहालक्कतिर्मता ॥
Page 306
296 अलङ्कारमाणेददारे
(१३) अपह्नुतिः.
एतां सामान्यतः पाहुरपह्तिमलक्कतिम्॥ अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्रवः । अलक्कतिरियं शुद्धापह्ुतिर्नाम गद्यते।। स एवापह्रवो युक्तिपूर्वश्रेद्धेत्वपहुनिः। पर्यस्तापह्ुतिर्यत्र कचित्तद्धर्मनिद्ववः ॥ वर्णनीये तदारोपफलको वर्ण्यते यदि। भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्ुतिः।। अन्यस्य शङ्मया छेकापहुतिस्तथ्यनिहतौ। छलच्छद्दनिभादैश्च वपुरात्मादिकैः पदैः । निह्ुतिश्वेदभिव्यङ्गया कैतवापहुतिाई सा। (१४) उत्प्रेक्षा. यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् । सोत्प्रेक्षोक्ता त्रिघैषा स्याद्रस्तु हेतुफलात्मना ।। उक्तानुक्तास्पदत्वेन वस्तूत्मेक्षा द्विधा मता। हेतूत्प्रेक्षाफलोत्मेक्षे सिद्धासिद्धास्पदत्वतः । (१५) अतिशयोक्ति :. निगीर्य विषयं यत्र विषय्येवाध्यवस्यते। रूपकातिशयोक्तिं तामलङ्कारविदो विद्दुः॥। उक्ता सापह्वा सैव यद्यपहुतिगर्भिता।
असंबन्धेऽपि संबन्धो वर्ण्योत्कृष्टयै यदीर्यते। संबन्धातिशयोक्तिं तामलङ्कारविदो जगुः ॥
Page 307
लक्षणश्ोका: 297
हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका। हेतुपसक्तिमात्रेण कार्य चेद्विनिबध्यते। चपलातिशयोक्तिस्सा निपुणैविनिगद्यते।। हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः। अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः । (१६) तुल्ययोगिता वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः । अन्वितो वर्ण्यते यत्र तत्र स्याततुल्ययोगिता ।। हितेऽहिते च य्टत्तेस्तौल्यं सा त्वपरा मता । यदुत्कृष्टगुणैस्साम्यवचनं साडपरा मता ॥ (१७) दीपकम् तद्दीपकं स्याद्यदर्ण्यावर्ण्ययोरेकधर्मता । (१८) आवृत्तिदीपकम्. समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्ययोः। आवृत्तिदीपकं मादुस्त्िविधं बुधसत्तमाः ।। (१९) प्रतिवस्तूपमा सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः । द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते॥ (२०) रुष्टान्त: बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं हयोः । वाक्यार्थयोश्चेदौपम्यमार्थ दृष्टान्त ईर्यते॥ ALANKARA IV. 22
Page 308
298 अलक्कारमणिहारे
(२१) निदर्शना उपात्तयोरर्थयोश्चेदार्थाभेद: परकीर्सते। औपम्यपर्यवसितो भवेत्सेयं निदर्शना ।। पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः ।
सदसद्ोधनं स्याच्चेत्किरिययाऽन्या निदर्शना॥
(२२) व्यतिरेक:
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः । उपमेयस्योपमानाद्यदा गुणविशेषतः। उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः॥ (२३) सहोक्ति:
वर्ण्यस्सहार्थसंबन्धस्सहोकिं तां तदा विदुः । (२४) विनोक्ति: किंचिढिना पस्तुतस्य रम्यताऽरम्यताऽपि वा। निबध्यते यदि तदा सा विनोक्तिरलंकृतिः॥
(२५) समासोक्ति: साम्याद्वेदकमात्रस्य गम्यमपस्तुतं यदि। समासोक्तिमिमां पाहुः प्राश्चोऽलंकारवेदिनः । (२६) परिकर: साभिमाये परिकरोSलंकास्स्याद्विशेषणे।
Page 309
लक्षणश्रोका: 299
(२७) परिकराङ्कुर: विशेष्यं यदि साकूतं भवेत्परिकराह्करः.॥
(२८) श्ेष: वर्ण्यावर्ण्योभयालम्बी श्रेषोऽनेकार्थसंश्रयः । आद्योऽषटधा वर्णपदलिङ्गभाषाविभक्तिभि: ।। प्कृतिपसयाभ्यां च वचनैश्क्षेष ईरितः । विभक्त्यादिवशाद्त्र नानावर्णैकरूपता ।। श्रूयते स हि विद्वन्भिर्वर्णक्षेष इतीर्यते। पदश्लेषस्स यश्श्चेषः पदभेदनिबन्धनः।। लिङ्गश्लेपस्स विज्ञेयो हस्वदीर्घसमासतः । स्त्री पुंनपुंसकानां चेच्छव्दानां तुल्यरूपता।। भाषा श्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत्। सुपां तिडं च श्लेषश्रेद्विभक्तिश्लेप ईरितः॥ अश्चिष्टपत्ययकृता पकृतोश्चेत्सरूपता। स एष प्रकृतिश्रेषो द्विधा सुप्िडन्पेक्षया। पकृतिमत्ययघस्यानेकस्य मत्ययैर्यदि। छ्िष्टैस्सरूपता सोडयं प्रत्ययक्षेष उच्यते।। स भवेद्चनश्लेपरश्लष्यन्ति वचनानि चेत्॥ (२९) अप्रस्तुतप्रशंसा स्यात्यस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम्। अमस्तुतमशंसाख्या सैषाSलंकृतिरुच्यते ॥ कार्ये हेतौ तथा व्याप्ये व्यापके पस्तुतेऽन्यगीः। समे समस्य चेत्येवं सैषा भवति पञ्चधा॥ 22*
Page 310
300 अलङ्कारमणिहारे
(३०) प्रस्तुताङ्कुर: प्रस्तुतस्य प्रस्तुतेन व्यञ्ञने प्स्तुताङ्कुरः॥ (३१) पर्यायाक्तम् पर्यायोक्तं त्वन्यमङ्ग्या कथितं चेद्विवक्षितम्। व्याजेन रमणीयेन यदि स्वस्य परस्य वा ॥ साध्यतेऽभीप्सितं तच्व पर्यायोक्तं विदुर्वुधाः ॥ (३२) व्याजस्तुतिः स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि। तत्र व्याजस्तुति नाम पाज्ञा: पाहुरलंकृतिम्॥ स्तुत्या निन्दा निन्दया वा स्तुतिर्भिननैकगोचरा। व्यङ्गया विभिन्नविषया स्तुत्या व्याजस्तुतिस्स्तुतिः ।
(३३) व्याजनिन्दा व्याजनिन्दा तु निन्दाया निन्दया व्यङ्गयता यदि॥
(३४) आक्षेप: स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः। निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत्।। वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगु:।
(३५) विरोधः स विरोधोऽविरोधेऽपि विरोधाभासता यदि। जात्यादीनां स्वस्वपरसंबन्धाद्दशधा भवेत्।।
Page 311
लक्षणश्रोकाः 301
(३६) विभावना कारणव्यतिरेकेऽपि कार्योत्पत्तिर्वि भावना । कारणानामसामग्रचे कार्यजन्म च सा मता। तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना । विभावना चनुर्थी स्यात्कार्योत्पत्तिरकारणात् ।। कार्योत्पत्तिर्विरुद्धाच्चेत्पश्चमी सा विभावना। कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना । (३७) विशेषोक्ति: विशेषोक्ति: पुष्कलेऽपि हेतौ कार्य न चेद्रवेत् ॥ (३८) असंभवः असंभाव्यत्वकथनमर्थासिद्धेर संभवः । (३९) असंगतिः भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः । वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम् ॥ कार्यमन्यत्र यत्तस्य तर्तान्यत्र क्रियापि सा। कर्तुमन्यत्पवृत्तस्य तद्विरुद्धक्रिया च सा ।। (४०) विषमम् अनानुरूप्यभाजोर्यद्धटनं विषमं हि तत्। विलक्षणस्य कार्यस्योत्पातिं च विषमं विदुः। इष्टार्थोद्योगतोऽनिष्टावासिश्च विषमं मतम् ॥ (४१) समम् यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः। समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥
Page 312
302 अलक्कारमणिहारे
यत्किच्चिदिष्टसिद्धचर्थ य उद्योगो वितन्यते। अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते ।। (४२) विचित्रम् इष्टैषिणेष्टसिद्धयै तद्विपरीतं क्रियेत चेतू। पयत्नस्तामिमां प्राहुर्विचित्रालंकृति तुधाः ॥ (४३) अधिकम्
आधाराधिक्यकथनमाघेयाद्विपुलाच्च तत्॥ (४४) अल्पम् आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते। सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्रवेत् ।। (४५) अन्योन्यम् विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः। (४६) विशेष: विशेषस्स्याद्विनाSडधारादाधेयं वर्ण्यते यदि॥ यत्रैक्रमेव युगपदनेकाधारसंश्रयम्। आधेयं वर्ण्यते सोपि विशेष: परिकीर्तितः । किचित्कार्यारम्भमात्रादन्यत्कार्य सुदुष्करम्। कृतं निबध्यते यत्र विशेषस्सोपि संमतः ॥ (४७) व्याघातः तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम्। क्रियते चेत्तदा ख्यातो व्याघातोऽसावलंकृतिः। पराभिमतकार्यस्य विरुद्धा केनचित् क्रिया।
Page 313
लक्षणश्लोका: 303
सौकर्यंतो निबद्धा चेद्वयाघातस्सोपि कथ्यते।। यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता । अर्थेषु पक्ञिबद्धेषु व्यत्ययो वाऽपि शृङ्गला । (४८) कारणमाळा पूर्वपूर्वैवस्तुभिस्स्यादुत्तरोत्तरकारणैः । गुम्भ: कारणमालैषा वैपरीत्येऽपि चेष्यते।। (४९) एकावळी उत्तरस्यात्तरस्य स्थात्पूर्व पूर्व विशेषणम्। विशेष्यं वा यदा माहुरिमामेकावळीं तदा ।। (५०) मालादीपकम
(५१) सार: सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुघैः। (५२) यथासंक्कयम्. उद्देशक्रमतोरऽर्थानां संबन्धो यत्र कथ्यते। प्राश्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥ (५३) पर्याय: आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलकृतिः। क्रमादाघार एकस्मिन्नाधेयानेकताऽपि सः ॥ (५४) परिवृत्तिः निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः।
Page 314
304 अलक्कारमणिहारे
(५५) परिसंख्या
एकस्यानेकसंमासतौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत् पाहुरलंकाराध्वयायिनः ।। (६६) विकल्प: विकल्प: पाक्षिकपाप्तिर्वर्ण्यते चेट्विरुद्धयोः ।
(५७) समुञ्चयः
(५८) कारकदीपकम् क्रमिकाणां क्रियाणां चेदेककारकगामिनाम्। गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥
(१९) समाधिः कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित्। सौकर्य वर्ण्यते यत्र समाधिस्तत्र गोयते।।
(६०) प्रत्यनीकम् बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः। तत्पतिद्वन्द्विसाहं वा मत्यनीकमितीर्यते॥ (६१) काव्यार्थापत्ति: दण्डापूपिकया यत्रार्थान्तरापतनं भवेत्। काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥ अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेद्। आपत्ति: कथ्यते सैषा काव्यार्थापत्तिरुच्यते।।
Page 315
लक्षणश्रोकाः 305
(६२) काव्यलिङ्गम् यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम्। समर्थनयस्यार्थस्य काव्यलिङ्गं तदुच्यते। (६३) अर्थाम्तरन्यासः समर्थनं विशेषस्य सामान्येनास्य तेन वा। आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा।। (६४) विकस्वर: सामान्येन विशेषस्य क्रियते यत्समर्थनम्। पुनस्तस्य विशेषेण स विकस्वर ईर्येते॥ (६५) प्रोढोक्ति: यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवसुखैबुघैः ॥ (६६) सम्भावना सम्भावनं स्याद्यवेवं स्यदित्यूहोऽन्यसिद्धये ॥। (६७) मिथ्याध्यवसिति: मिथ्यार्थोऽन्यः कल्प्यते चेत्किश्चिन्मिथ्यात्वसिद्धये। मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहता।। (६८) ललितम् धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं बिना। तत्र तत्मतिबिम्बस्य वर्णनं ललितं मतम्। (६९) प्रहर्षणम्
अभीप्सितार्थादधिकलामश्चापि पडर्षणम्।।
Page 316
306 अलङ्कारमणहारे
उपायसिद्धये यत्रे क्रियमाणे यदच्छया। साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥ (७०) विषादनम्
(७१) उल्लासः यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः। आधानं वर्ण्यते पाहुरुल्लासालंकृति तु ताम ॥ (७२) अवज्ञा न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत्। (७३) अनुजा अनुज्ञा सा गुणौत्सुक्याद्दोषस्याभ्यर्थना यदि। (७४) तिरस्कृतिः गुणस्य दोषसंबन्धाद्दोषश्रेत्सा तिरस्कृतिः। (७६) लेश: गुणो दोषतया दोषो गुणत्वेनाथवा यदि। वर्ण्यते तमलकारं लेशमाहुर्मनीषिण:।। (७६) मुद्रा प्रकृतार्थपरशशब्दैमुद्रा सूच्यार्थसूचनम्। (७७) रतावळी प्रसिद्धसइपाठानामर्थानां न्यसनं यदि । रावळी सा विख्याता सकमाक्रमताभिदा।
Page 317
लक्षणश्ोकाः 307
(७८) तद्रुणः स्वगुणस्य परित्यागात्तद्गुणोऽन्यगुणग्रह:। (७९) पूर्वरूपम् स्वगुणस्य पुनः प्राप्ति: पूर्वरूपमितीर्यते॥ यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम्। पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥ (८०) अतद्रुणः अतद्रुणं सङ्गतान्यगुणानङ्गीकृति विद्ुः। (८१) अनुगुण: स्वसजातीयगुणवदन्यसान्निध्यतो यदि। उत्कर्ष: पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ।। (८२) मीलितम् न दृश्यते भेद एव सादृश्याद्यदि मीलितम्। वस्तुतुल्पेन लिङ्गेन निजेनागन्तुकेन वा।। पिधायते वस्तुना चेन्मीलितं तदुदाहृतम् ॥ (८३) सामान्यम् न गृहते विशेषश्रेत्साम्यात्सामान्यमीरितम्। गुणताल्यविवक्षातः परस्य पस्तुतेन यत् ।। ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम्॥ (८४) उन्मीळितम् स्फृर्तौ समानगुणयोर्भेदस्योन्मीलितं विदु:। (८५) विशेषकम्
Page 318
308 अलङ्कारमणिहारे
(८६) उत्तरम् उन्नतिप्श्नमथवा निबद्धप्रश्नमुत्तरत्। साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥ चित्रोत्तरमलंकार: प्रन्नाभिन्नोत्तरं भवेद् । यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते।। (८७) चित्रप्रश्नः प्रश्नः प्श्नान्तराभिन्नो यदि वान्यार्थगर्मित:। निबध्यते तं कतिचिच्चित्रपश्नाख्यमूचिरे ।। (८८) सूक्ष्मम् अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते। (८९) पहितम् परछृत्तज्ञसाकृतचेष्टितं पिहितं मतम्। (९०) व्याजोकि: हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम्। (९१) गूढोकि: गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि॥ (९२) विवृतोक्ति: विवृतोक्तिश श्लेषमूढं विवृतं कविना यदि। (९३) युक्ति: युक्तिस्स्यान्मर्मणो गुप्तयै क्रियया परवश्चनम्॥ (९४) लोकोकि: लोकोक्तिस्स्यादसौ लोकमवादानुकृतिर्यदि।
Page 319
लक्षणक्राका : 309
(९५) छेकोकि: स्याच्चेछोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते।। (९६) वक्रोक्त: अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते। केषेण यदि काका वा सा वक्रोक्तिरितीर्यते॥ (९७) स्वभावोक्ति: जात्यादिस्थस्व भावोक्तिस्स्वभावोक्तिरितीर्यते । (९८) भाविकम् वर्णनादद्गुतार्थस्य वस्तुनी भूतभाविनी । प्रत्यक्षे इव दृश्येते यत्र तन्भाविकं मतम् । (९९) उदात्तम् तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्िमत्। अन्योपलक्षकं श्राध्यचरित्रं वा निबध्यते। (१००) अत्युक्ति:
(१०१) निरुक्ति: सा निरुक्तिर्योगतो यन्नाम्नोर्ऽर्थान्तरकल्पनम् ॥ (१०२) प्रतिषेधः प्रतिषेधः पर्तीतस्य प्रतिषेधस्य वर्णनम्॥ (१०३) विधि: सा विध्यलकृातयत्र सिद्धमेव विधीयते।।
Page 320
310 अलक्कारमणिहारे
(१०४) हेतु साकं हेतुमता हेतुरुक्तश्रेद्धेतुरीरितः। केचिद्धेतुपतो हेतोश्चैक्यं हेतुं बुधा जगुः । इत्थं यथामति प्राचामर्वाचां च मतान्यलम् । प्रविचार्य शतं साग्रमलङ्कारा निरूपिताः ॥ रसभावतदाभासभावशन्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः । अपराङ्व्यङ्गचभेदा ये प्रोक्ता: प्रात्तनैबुघैः । अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः॥ भावस्य चोदयस्सन्धिशशबलत्वमिति त्रयः । एवं सप्ताप्यलंकारा निरप्यन्तेऽपरेऽधुना ।।
(१०५) रसवान् रसे रसाङे भावाङ्गेडप्येष्वादू रसवद्धुधाः। (१०६) प्रेय: यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते। (१०७) ऊर्जस्वी भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्रुते : यदा तदेयमूर्जास्विनामाऽलंकृतिरुच्यते।। (१०८) समाहितम् समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः । (१०९) भावोद्यः भावोदयस्य भावाङ्गभावे भावोदयो मतः ॥
Page 321
लक्षणक्षोका: 311
(११०) भावसन्धिः भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः । (१११) भावशबलता भावाङ्गे भावशावल्ये भावशावल्यमुच्यते।। पसक्षादिपमाणानां स्याच्चमत्कारिता यदि। तदा प्रमाणालङ्कारानष्टौ प्राहुः परे बुधाः॥ (११२) प्रत्यक्षम् अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्धवेत्। ज्ञानं तदाहु: प्रत्यक्ष चारु चेत्तदलंकृतिः ।। (११३) अनुमानम
(१९४) उपमानम् संज्ञायास्संज्ञिनश्चापि संबन्धपत्ययो हि य:। सादश्यज्ञानकरण उपमानं तदुच्यते।। (११६) शब्दप्रमाणम् स शब्दो यत्तु शब्दस्य पमाणत्वेन कतर्िनम्। श्रुतिस्मृतीतिहासादिरूप: शब्द इतीर्यते॥ (११६) अर्थापत्तिः अन्यथाऽनुपपत्या यत्किश्रिदर्थस्य कल्प्यते। अर्थान्तरं तां कथयन्त्यर्थापर्ति विचक्षणाः ॥ (११७) अतुपलब्धि:
कृतिनोऽनुपलब्धि तां रम्यां विटुरलंकृतिम्।।
Page 322
312 अलक्कार मणिहारे
(११८) संभवः
(११९) पति्यम यत्रेतिहोचुरित्याद्यम निरदिष्टपवक्तृकम्। पारम्पर्ये प्रवादस्य तत्रैतिह्यमलंकृतिः ॥
(१२०) संसृष्टिः अलंकृतीनां सर्वासां यथासंभवमेळने। लौकिकानामिवैतासां चारुताशियेक्षणात्।। नरासिंहपक्रियया भात्यलंकारता पृथक्। अतस्तन्निर्णयं माचां मतेनात्राभिदध्महे।। तिलतण्डुलससंगेरीत्या यत्रेतरेतरम्। संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥ शब्दालंकारयोरर्थालंकृत्योश्च परस्परम्। उभयोरपि संसृष्टिरिति सा त्रिविधा मता॥
(१२१) सङ्कर: यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी । संकीर्येरन् संकरोऽयमिति काव्यविदो विदु: ॥ सोऽयमङ्गाङ्गिभावेन समपराधान्यतस्तथा। संदेहेन तथा चैकवाचकानुप्रवेशतः॥ चतुर्धा सङ्कर: प्रोक्तश्श्रीमदप्पयदीक्षितैः । एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥
Page 323
लक्षणश्रोकाः 313
अमधानालंक्रियया प्रधानालंक्रिया यदि। उज्जीव्येत तदाऽङ्गाङ्गिभावसंक्कर इष्यते।।
समप्राधान्यसंकर: अन्यालकारगमैंवोन्रह्यते काऽप्य लकृतिः। अन्यया तुल्यकालं चेत्समपाधान्यसङ्करः ॥
एकेनोन्नह्यते सोपि समप्राधान्यसंकरः ।।
संदेहसंकर: साधकं बाघकं वाडपि यत्रान्यतरसङ्गहे। प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः ॥
एकवाचकानुप्रवेशसङ्कर: अभिन्नपद्बोध्यास्स्युर्नानालंकृतयो यदि। तदैकवाचकानुपवेशसंकर इष्यते।।
अनुपवेशतस्सोऽयं त्रिविध: परिकीरतितः ।।
(१९२) शब्दालङ्गार: इत्थमर्थालंकृतयो यथामति निरूपिताः । निरूप्यन्तेऽथ दिख्ात्रं शब्दालंकृतयः क्रमात्। साम्यं व्यअ्जनमात्रस्य वर्णानुपरास ईरितः । द्विधा भवेदयं छेकवृत्त्यनुमासभेदतः ॥ ALANKARA IV. 23
Page 324
314 अलक्कारमणहारे
छेकानुप्रास:
छेकानुमासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत्।
आवृत्तिः कियते सोयं छेकानुपास ईर्यते॥
वृत्त्यनुप्रास: उल्लङ्मय सङ्क्यानियमं पौनरुकत्यं भवेद्यदि। एकद्वित्रयादिवर्णानां वृत्त्यनुप्रासमूचिरे।
लाटानुप्रास: तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता । सोडयं शाब्द: काव्यविद्विर्लाटानुपास ईर्यते।। वाक्यावृत्तौ पदावृत्तौं नामावृत्तौ च तत्रिधा। समासैक्ये तद्धितायां स्यात्समासासमासयोः ॥ नामावृत्तौ पुनस्त्रेधा लाटानुमास ईरितः। पञ्चपकार एवं च लाटानुपास ईरित:॥।
- यमकम् अनर्थका वा भिन्नार्थारसार्थकानर्थकाश्च वा। कमादावर्तिता वर्णा यदि तद्यमकं भवेत्। श्लोकार्धपादतद्रागावृत्त्या स्यात्तचतुर्विधम्। आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव।। द्विधा विभागे पादानां प्रथमाद्यादिमा यादि। द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्मिदा दश।। प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगा: ।
Page 325
लक्षणश्रोका: 315
भवेयुश्चेत्तदाऽपि स्युरेवमेव मिदा दश ॥ एवं द्विधा विभागे तु भेदाना विंशतिभेवेत्। त्रिधा पादविभागे तु त्रिशदित्यूह्यतां क्रमात्॥ एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम्। अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥ एकेकपादे नियता नियतक्रमशालिनः।
पुनरुक्तवदाभास:
पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । पुनरुक्तवदाभासस्स नामाख्यातगोचरः ।
सभङ्गाभङ्गभेदेन द्विया शब्दैकसंश्रयः ।
अपशब्दवदाभास:
निवर्तते साधुभावज्ञानाधत्रापशब्दधीः । अपशब्दवदाभासस्सोलंकारो निगद्यते।
अव्ययाभास:
पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने। यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विद्ुः ॥
तिङन्तवदाभास: यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः। तत्तिङन्तवदाभासचित्रं चित्रज्ञसंमतम् ।।
Page 326
316 अलङ्कारमणिहारे
गूढपादचित्रम् अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत्। चित्रं तत् गूढपादाखयं चतुर्थाद्यादिगूद्दनातू।। क्रियावञ्चनचित्रम् करियादिकं विद्यमानमपि सन्दर्भकौशलात्। 1 रपष्ट न दृश्यते चेत्तत्क्रियादेर्वश्चनं विदुः। सप्विभक्तिवश्चनचित्रम् यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः। तत्र सप्तविभक्तीनां वश्चनं चित्रमुच्यते।।
स्वरस्थानव्यअ्नानां नियमो दुष्करो हि य:। माक्तिश्चतुःप्रभृत्येष दश्यते सुकरः परः॥
अपुनरुक्तव्यञ्ञनचित्रम व्यअनानां कखादीनां यत्रावृत्तिन दृश्यते।
पझ्मादिचित्राणि पद्माद्याकारमापना वर्णाश्चित्रमुदाहृतम्। षोडशद्लपग्मम् एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । तत्पमं षोडशदलं कणणिकाश्िष्टवर्णकम्॥
Page 327
लक्षणश्रोका: 317
द्विचतुष्कम् बहिरन्तर्मण्डलस्थं तावत्कोष्ठविद्ारि यत्। कोणाष्टकयुतं तच् द्विचतुष्कं विदुर्बुधाः॥
गोमूत्रिका
तत्रायुग्माक्षरैश्श्लिष्टा यदि युग्माक्षरैस्तु वा। गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ॥ एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः। गोमूत्रिकारयं चित्रं तदाहुश्चित्रविदो बुधाः ।।
गवाक्षबन्ध: उर्पयुपरि कोष्ठानि भवेयुर्नव मध्यतः । तिर्यक्कोष्ठान्यप तथा भवेयुर्मध्यतो नव।। उभयोरनयोः पार्श्वद्वये कोष्ठान्यनक्रमात्। सप्त पञ्च तथा त्रीणि निष्पधेरन्यथा तथा।। तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्व च रेखिकाः । मध्यवीथीशिरःकोष्ठादारभ्य चिलिखेद्दुधः।। एक त्र्पिश्व सप्ताथ नव सप् च पश्च च। त्रीनेकं चेति पद्यस्य वणार्तिर्यगनुक्रमात्। ऊर्ध्वमध्यमवीधीस्थवर्णेः नमिळितैः क्रमात्।
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः।। समाप्ता अलंकारमणिहारलक्षणलोका:
Page 328
D.G.A. 80. CENTRAL ARCHAEOLOGICAL LIBRARY NEW DELHI Borrowers record.
Call No .- Sa4A/Pri-8091
Author-Sri Krishna Brahmatantra parakalaswamin.
Tıtle-Alankara-Manihāra. Pt.4.
Borrower's Name Date of Issue Date of Return
P.T.O.