Books / Alankara Manihara Vol 1 MORI

1. Alankara Manihara Vol 1 MORI

Page 1

GOVERNMENT OF INDIA

DEPARTMENT OF ARCHAEOLOGY

CENTRAL ARCHAEOLOGICAL LIBRARY

CALL No. Sa4A/ Sri

D.G.A. 79.

Page 3

-: श्रीकृष्णब्रह्मतन्त्रपरकालमहादेशिकाः *:-

-:* विद्वत्कविसार्वभौमाः कविगण्डभेरुण्डा: *-

Page 4

Government Oriental Library Series

Bibliotheca Sanskrita No. 51.

अलङ्गारमणिहार:

श्रीमद्भ्िः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्दै: परणीतः

प्रथमो भाग:

ALANKARA-MANIHARA

BY SRI KRISHNA-BRAHMATANTRA PARAKALASWAMIN

Part I

EDITED BY

L. SRINIVASACHARYA . Pandit, Government Oriental Librury, Mysore

Published under the authority of the Government of His Highness the Maharaja of Mysore

PRINTED AT THE GOVERNMENTANCH PRESS.

3

Page 5

CENTRAL ARCHAEOLOGIGAD LIBRARY, NEW DELHI. Aco. No ..... 80 90 Date ....... 4.1.57 .... .......

Page 6

प्रस्तावना.

अथेदानीं किञ्चिदत्र प्रस्तूयते-सुप्रसिद्धं खल्वेतत् प्रेक्षावतामप्रेक्षा- वतां च सर्वेषां पुरुषाणां, यत्-कर्णाटजनपदसंपदिष्ठानभूतमहीशरमहा-

सार्वभौमवंशदेशिकेन्द्राः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्द्राः परश्शतप्रबन्ध- निर्माणधुरंधुराः सर्वतन्त्रस्वतन्त्राः अनन्यजनसामान्यमान्यतमानेककार्यनि- र्वहणविचक्षणा: श्रीव्रह्मतन्त्रपरकालमहास्थानमभूषयन्निति.

ते किल महाभागाः अलंचक्रुरपि निखिलेतरशास्त्रेष्विवालंकारशास्त्रे केनचन महता प्रबन्धेन अलंकारमणिहारनामधेयेन भगवन्तं श्रीनिवासं परमं दैवतं देवतानामपि, अयं च प्रबन्ध: प्रत्यलंकारमात्मीिरेव लक्ष्यलक्षणैः केवल- भगवद्विभूतिविषयकैरारचितः परिहृतश्र तेन वहोः कालादापतितो महतो- लंकारशास्त्रस्य उदाहरणगर्हणनिबन्धनो दोषः। इदानीं पुनरनेन महता प्रबन्धेन लक्ष्यलक्षणसमन्वयविषयकसङ्कोचोपि शिथिलीभविष्यति पठितिणां पाठयितृणां च।। किं चास्मिन् प्रबन्धे प्राच्योदीच्याखिलालङ्काररिकसम्मतस्सिद्धान्तः पर- स्परं मतभेद: तत्र साधुत्वासाधुत्वविवेकश्च स्फुटं निरूपित: प्रायः सर्वेष्वप्य- लङ्कारेषु। तेन च सुशकं विज्ञातुमखिलमप्यलद्कारसर्वस्वं, अन्तरेणैव अवलोकनं प्राचीनस्य नवीनस्य वा कस्याप्यपरस्यालङ्कारप्रबन्धस्य ।।

अस्मिंश्र पुस्तके प्रथमभागे उपमालङ्गारमारभ्य समासोक्तिपर्यन्ताः पञ्चविंशतिरलङ्कारा: सविचारा: संग्रथिताः, द्वितीयभागे चावशिष्टाः, सङ्गथ्य-

न्ते. इत्यावेदयति

मैसूरु, सज्न विधेय:, 31-3-1917. लक्ष्मीपुरं श्रीनिवासाचार्य:

Page 8

विषयानुकमणिका.

पुटसङ्या पुटसङ्गया

उपोद्धातः 1 प्रतीपालंकार: 98

उपमालंकार: 11 रूपकालंकार: सविभागः 105

सविभागमुदाहरणम् 14 अत्र विचार: 110

प्राचां रीत्या सविभागं प्रपश्चे- प्राचां मते सावयवरूपकम् ... 112

नोदाहरणम् 19 प्राचां मते निरवयवरूपकम् 116

अत्र विशेषविचार: 31 प्राचां मते परंपरितरूपकम् 119

39 अत्र विचार: 119

मालोपमा सप्भेदा 41 122

अत्र विचार: 43 142

रशनोपमा 48 रूपकध्वनिः 143

अत्र विचार: 60 परिणामालंकार: 144

63 अत्र विचार: 147

उपमेयोपमालंकार: 67 तस्य ध्वनि: 149 ....

अनन्वयालंकार: 81 उल्लेखालंकार: 150

उपमादानां ध्वनि: 85 द्वितीयोलेखः 155 ..

असमालंकार: 89 तस्य ध्वनि: 158

अत्र विचार: 92 स्मृत्यलंकार: 159

तस्य ध्वनि: 93 विचार: 162

उदाहरणालंकार: 94 तस्य ध्वनि: 165

अत्र विचार: 97 भ्रान्तिमदलंकार: 166

Page 9

vi

पुटसङ्गया पुटसङ्गया

तस्य ध्वनि: 169 गम्योत्प्रेक्षा 259

सन्देहालंकार: 170 विचार: 262

तत्र विचार: 175 श्लेषेण साधारणीकरणम् .... 263

तस्य लक्ष्यत्व व्पङ्गयत्वे 180 अपहुत्या साधारणीकरणम् 267

अपह्ुत्यलंकार: 181 तत्र विचार: 278

शुद्धापह्नुति: 184 रूपकातिशयोक्ति: 281

हेत्वपह्गुतिः 194 विचार: 285

पर्यस्तापद्रुतिः 195 291

तत्र विचार: 197 292

भ्रान्त्यपह्गुतिः 198 भेदकातिशयोक्ति: 293

छेकापह्दुतिः 200 असंबन्धातिशयोक्ति: 296

कैतवापहुतिः 207 चपलातिशयोक्ति: 299

उत्प्रेक्षालंकार: 212 अत्यन्तातिशयोक्ति: 300

स्वरूपोत्प्रेक्षा 214 तत्र विचार: 302

तत्र विचार: 215 तुल्ययोगिता 303 ....

हेतूतप्रेक्षा .. 218 अपरा तुल्ययोगिता 317

तत्र विचार: 220 तत्र विचार: 323

फलोत्मरेक्षा 222 अन्या तुल्ययोगिता 324 0 ...

तत्र विचार: 226 दीपकम् 326

प्राचां मते विभाग: 228 आवृत्तिदीपकम् 334

वाच्योत्प्रेक्षायां स्वरूपोत्मेक्षा. 229 प्रतिवस्तूपमा 339

वाच्योत्प्रेक्षायां हेतूत्प्रेक्षा 248 तत् विचार: 342

तत्र विचार: 252 दृष्टान्त: 344

वाच्योत्प्रेक्षायां फलोत्प्रेक्षा 256 वाक्यार्थनिदर्शना .... 347

Page 10

6 vii

पुटस्क्या पुटसङ्गया पदार्थनिदर्शना 352 न्यायशास्त्रीयव्यवहारारोप: 457

तत्र विचार: 356 सांख्यशास्त्रीयव्यवहारारोप :. ... 461

सदर्थनिदर्शना 358 पौराणिकेऽर्थे अलंकारशास्त्रीय-

असदर्थनिदर्शना 360 व्यवहारारोप: .... 474

व्यतिरेक: 363 पौराणिकेऽर्थे भगवच्छास्त्रयिव्य-480

प्राचां रीत्या व्यतिरेक: 379 पौराणिकेऽर्थे न्यायशास्त्रीयव्य-485

तत्र विचार: 396 पौराणिकेऽर्थे शन्दशास्त्रीयव्य- 487 402 ऐतिहासिकेऽर्थे शब्दशास्त्रीयव्य-495 404 अलंकारान्तरोत्तम्भितः 405 ऐतिहासिकेऽर्थे धर्मशास्त्रीयव्य-497

सहोक्ति: 407 ऐतिहासिके छन्दरशास्त्रीयव्य- 499

तत्र विचार: 412 भगवच्छास्त्रीये पूर्वमीमांसाशा- 508

अलंकारान्तरसंकीर्णा 417 भगवच्छास्त्रीये ज्योतिश्शास्त्रीयव्य 510

विनोक्ति: 420 भगवच्छास्त्रीये वैद्यशास्त्रीयव्य-515

अस्या ध्वनिः 425 लौकिकेऽर्थे वेदान्तशास्त्रीयव्य- 521

समासोक्ति: 426 लोकिकेडर्थे योगशा- 524

तत्र विचार: 429 लौकिकेऽर्थे धर्मशास्त्रीब- 526

अस्या: प्रभदा: 433 लौकिकेऽर्थे न्यायशा- 527 ...

तत्र विचार: ... 437 लौकिकर्थे ज्योतिश्शा- 528

वेदान्तशास्त्रीय व्यवहारे प्रस्तुते लौकिकेर्थे छन्दश्शा- 531

अप्रस्तुतपूर्वमीमांसाशास्त्रीय- लौकिकेऽर्थे नाटकीयव्य- 533

व्यवहारारोप: 440 शास्त्रीये लौकिकव्यवहारारोप: 535 ...

शब्दशास्त्रीयव्यवहारारोप: 147 अस्या अलंकारान्तरानुगुण्यम् 537

Page 12

॥ श्रीरस्तु ॥ अलङ्गारम णिहारः

श्रीहृयवद्नपरब्रह्मणे नमोनमः । श्रीनिवासपरब्रह्मणे नमः ।।

श्रीवासे देशिकेन्द्रे कलिमथनगुरावार्पितात्मीयभारम्। र ङ्गेन्द्रव्रह्मतन्त्रादिम पद कालेजिद्देशिकेन्द्रात्ततर्य श्रीकृष्णब्रह्मतन्त्राग्रिमपदपरकालार्यवर्य श्रयामः ॥

वाणी मम परिचिनुतान्नाणीयः किमपि मङ्गळं जगताम् ॥ १॥ अत्रालङ्कारशब्देनास्य प्रबन्धस्यालङ्कारविषयकत्वं सूचितम्।। हृदयभुवं मम हयमुखलक्ष्मीनारायणावलक्क- रुताम्। राजयुवराजभूतौ परकालास्थानराज्य- सीमनि यौ॥ २ ॥ सादरमिह वेदगिरिप्रादुर्भूतं सरोजभूदयितम्। घनसारसरसभासं शिरसा हरिमानमामि परमा- दम् ॥ ३ ॥ ALANKARA

Page 13

2 अलंकारमणिहारे

वेदगिरौ वेङ्कटाद्रौ 'वेदाद्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात्। प्रादुर्भूतं अभिव्यक्तं सरोजभुवः श्रियः 'साडहं वैप- झजे जाता' इति महाभारतोके। दयितं वल्लभं घनसारः जल- धरवरः 'सारो बले स्थिरांशे च न्याय्ये कीबं वरे त्रिषु' इत्यमरः । तमिव सरसभासं आद्यं जगत्कारणं अतएव परं सर्वस्मादुत्तमं हरिं श्रीनिवासं सादरं यथा स्यात्तथा शिरसा आनमामि।

पक्षे-सरोजभूर्वह्मा तस्मिन् दयाऽस्य सञ्जाता दयितः तारकादित्वादितच्। तं तथोक्तं, अतएव वेदगिरि निगमवाचि सादरं, अतएव प्रादुर्भूतं मधुकैटभनिर्वर्तितनिगमापहारनिर्विण्णे नीरजासने एतस्मिन्नन्तरे राजन् देवो हयशिरोधर:। जग्राह वेदानखिलान् रसातलगतान् हरि: ॥ इति हयशिरउपाख्यानोक्तरीत्या वेदोद्धरणाय कृतावतारमि- त्यर्थः । घनसार: कर्पूरः 'अथ कर्पूरमस्त्रियाम्। घनसार:' इत्यमरः। तमिव सरसभासं रमणीयविशदसुषमं आद्य शिर- सा हरिं हयशिरसमित्यर्थः । 'इत्थंभूतलक्षणे' इति तृतीया। परं अत्यन्तं आनमामि। अत्र श्रीनिवासहयाननयोरुभयोरपि नन्तव्य- त्वेन प्रस्तुतयोरेव श्ेष: ॥ ३॥

अन्योन्यानुगुणाधिकविकस्वरोल्लासिललितम- धुरतमम। विश्वालङ्गरणं तद्विभातु मम हृदि स- दातनं मिथुनम् ॥ ४ ॥ अन्योन्यस्य परस्परस्य अनुगुणानि अधिकं विकस्वराणि

Page 14

उपोद्धात: 3

उल्लासीनि उल्लासवन्ति यानि ललितानि विलासविशेषा:

स्तीति तथोक्तं भिन्नं पदम्। ललितमधुरतमं विश्वालङ्करणं स- कललोकविभूषणभूतं सदातनं मिथुनं श्रीश्रीनिवासरूपं मम हृदि विभातु। पक्षे-अन्योन्यं अनुगुण: अधिकं विकस्वरः उल्लासश्चेत्ये- तेऽलङ्कारा अस्मिन् सन्तीति तथोक्तम्। ललितेन ललितनाम्ना- लङ्कारेण मधुरतमं विश्वं सर्व अलङ्गरणं अलङ्गारशास्त्रमित्यर्थः। यद्वा-विश्वानि अलङ्करणानि यस्मिन् विषयविषयिभावसम्बन्धेन सन्ति तत्तथोक्तं तद्ूपं मिथुनमिति योजना। स्पष्टमन्यत्। वि- वक्षितसूचनायायं श्रेषसंरम्भ: ॥।४॥।

न्। सपरिकरसमाधिविधीन्वचसाSलंकृतिमणी- न्गुरून्कलये ।। ५ ।। युक्तीनां उल्लेखेन ऊहेन विचित्रा आश्चर्यावहाः या: प्रौढा: प्रगल्भाः उक्तयः तासां निदर्शनेन प्रकाशनेन अतिगम्भीरान् सप- रिकर: यमनियमादिपरिकरसहितः समाधिविधि: ध्यानविधानं येषां तान् अनारतपरब्रह्मध्यानवद्धादरानित्यर्थः। विशेषणद्वयेन 'द्वे विद्ये वेदितव्ये' इत्युक्तपरावरज्ञानोपादातृत्वं सूचितम्। कृतिमणीन् विद्धद्वरिष्ठान् गुरून् लक्ष्मीनाथाद्यस्मदाचार्यपर्य- न्तान् अलं वचसा कलये स्तौमीत्यर्थः । पक्षे-युक्ति: उल्लेखः विचित्रं प्रौढोक्ति: निदर्शनेत्येतैरल- क्वारविशेषैः अतिगम्भीरान् परिकर: समाधिः विधिरित्येतैरल-

Page 15

4 अलंकारमणिहारे

क्वारैस्सह वर्तन्त इति तथोक्तान् गुरून् श्रेष्ठान् अलङ्गतयो मणय इव अलङ्कगतिमणयः तान् वचसा कलये ग्रश्नामीत्यर्थः । अत्र सूच्यार्थस्य श्ेषेण सूचनम् ॥ ५॥

वकुलसरालङ्कारं सकलभवामयभरागदङ्गगरम्। अशठान्तरङ्ग्सव्यं इठारिमभ्येम्यहं दृढाभक्ति:॥

दढा भक्तिर्यस्य सः दृढाभक्तिः। अत्र दढाशब्दस्य न पुंव- द्दावः 'स्त्रिया: पुंवत् इत्यादिना पुंवद्भावविधौ 'अपूरणीप्रि- यादिषु' इति पर्युदस्ते प्रियादौ भक्तिशव्दस्य पाठात्। अत्राप्य- लंकारशब्देन वक्ष्यमाणसूचनम् ॥६॥

नाथमुनिं कलयेऽलं क्रियावतां ब्रह्मवेदिनां मा- न्यम्॥ ७॥

उपमोत्प्रेक्षायाः साम्यसम्भावनायाः अगोचरं असदशमि- ति यावत्। उद्धता: निर्मूलिताः विषमैः प्रतोपैः प्रतिमतकथकैः दृष्टाः अन्ताः निश्चयाः तेषां दृष्टान्ताशशास्त्राणि वा येन तं नि- रस्तसकलविमतसिद्धान्तमित्यर्थः। 'अन्तोऽस्त्री निश्चये नाशे स्व- रूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला, 'दृष्टान्तावुभे शास्त्रनिदर्शने' इत्यमरः। पक्षे-उपमोत्प्रेक्षे अलङ्कती गोचरौ प्रतिपाद्यौ यस्य तं उद्धता: स्थापिता: विषमं प्रतीप दष्टान्त इत्येतेऽलङ्गारा येन . तं, अलं पर्याप्तं यथा स्यात्तथा क्रियावतां अननुसंहितफलकर्मा- नुष्ठानशालिनां अतएव ब्रह्मवेदिनां ब्रह्मविदां मान्यम्, अनेम

Page 16

उपाद्वात: 5

'क्रियावानेष ब्रह्मविदां वरिष्ठः' इति मुण्डकश्रुतिः प्रत्यभिज्ञा- प्यते। पक्षे-अलङ्गियावतां आलङ्कारिकाणां, अन्यत्सुगमम् । अ- त्रापि क्षेषमहिम्रा विवक्षितं सूचितम्॥७। साधुकलिताल्पसारावज्ञं यामुनमुनीन्द्रमामनवै। छेकोक्तिपरिग्रन्थितसाक्षेपप्रत्यनीकवक्रोक्तिम् ।।८।। साधु यथा स्यात्तथा कलिता कृता अल्पसारेषु ऐहिक- फलसाधनकर्मप्रतिपादकवेदपूर्वभागेषु अवज्ञा तिरस्कारो येन तं 'असारमल्पसारं च सारं सारतरं त्यजेत्' इत्युक्तरीत्या परि- त्यक्ताल्पसारमित्यर्थः। अनेन असाररूपवाह्यकुद्दा्टिशास्त्रावज्ञानं कैमुतिकन्यायसिद्धम्। इदं आमुष्मिकफलप्रतिपादकघेदभागरू- पसारावज्ञायाः आत्मतत्प्राप्तिसाधनमात्रप्रतिपादकांशलक्षणसार- तरावज्ञायाश्चोपलक्षणम्। अनेनैव 'भजेत्सारतमं शास्त्रे रत्नाकर इवामृतम्' इत्युक्तरीत्या परमात्मतत्प्राप्तितत्साधनप्रतिपादक- वेदप्रदेशरूपसारतमनिष्ठता चार्थसिद्धा। छेका: विदग्धा थाः उ- क्तय: ताभि: परिग्रन्थिताः बाधिताः क्रान्ता इति वा, साक्षेपा: आक्षेपसहिताः प्रत्यनीकानां प्रतिमतकथकानां वक्रोक्तयः अनृ- जुव्याहारा: येन तं तथोक्तं 'ग्रन्थितं गुम्भिते क्रान्ते हिंसिते च त्रिलिङ्गकम्' इति मेदिनी। पक्ष-साधु यथा स्यात्तथा क लिता: रचिताः अल्पं सारः अवज्ञा चेत्येता अलङ्कतयो येन तं; छेकोक्ति: तन्नामालङ्कतिः तया परिग्रन्थिते गुम्भिते मिश्रिते इत्यर्थः । आक्षेपेण तन्नाम्नाऽलङ्कारेण सह वर्तेते इति साक्षेपे, प्रत्यनीकं च वक्रोक्तिश्चेत्येते अलङ्गती येन तं तथोक्तम्। यामु- नमुनीन्द्रं आमनव्रै ध्यायानि। मनु अवबोधने, लोट्, उत्तमै- कवचनम्। सूचनं पूर्ववत्॥

Page 17

6 अलंकारमणिहारे

यश्रक्षुश्श्रुतिनाथस्त्रातुं वेदान्मुनित्वमभिपद्य। श्रुतिचक्षुरग्रगण्यो बभूव तमिमं भजेय भाष्य- कृतम् ॥ ९॥ चक्षुश्श्रुतिनाथः शेष: वेदान् त्रातुं अर्थतः शब्दवश्च र- क्षितुं मुनित्वं रामानुजमुनित्वं पतञ्जलिमुनित्वं चाभिपद्य प्राप्य श्रुतिचक्षुषां वेदविदां अग्रगण्यो बभूव। आदौ चक्षुशश्रुतिनाथः मुनित्वे श्रुतिचक्षुरग्रगण्य इत्येतदेव वैलक्षण्यमिति भावः । भाष्यकृतं श्रीभाष्यकारं महाभाष्यकारं च भजेय ।। ९ ॥

स्मृतिसन्देहभ्रान्तिमदसंगतिविकल्पमीलनो- ल्वासी। वेदान्तदेशिकमणिर्मोदान्विदधातु जग- दलङ्कारः ॥ १० ॥ स्मृतिषु मानवादिधर्मसंहितासु सन्देहभ्रान्तिमतां संश- यभ्रमवतां कौतस्कुतानां असङ्गतयः सङ्गतिरहिता: असम्बद्धा इत्यर्थः । ये विकल्पाः तेषां मीलने निरासे उल्लासी। पक्षे- स्मृत्यायुल्लासान्तास्सप्तालङ्काराः ते सन्त्यस्मिन्निति तथोक्तः । इदमुपलक्षणं सर्वालङ्कारवत्तायाः ॥१० ॥

श्रीब्रह्मतन्त्रकलिरिपुगुर्वास्थानीधुरन्धरानखि- लान्। हृदि भावये ऽत्युदारान्वसुधालङ्गरमणि- हारान्॥ १ ॥ वसुधालङ्कारमणिहारानित्यनेन अलङ्कारमणिहार इति विव क्षितप्रबन्धनामसूचनम् ॥११॥

Page 18

उपोद्धात: 7

अतिमात्रा प्रतिपत्तिश्श्रीशे यस्याद्गुता जनै- दद्दशे। सुमहान्परकालमुनिस्स मदन्वयशेखरो गुरुर्जयतात् ॥ १२ ॥

यस्य गुरोः श्रीशे भगवति विषये अतिमात्रा मात्रामति- क्ान्ता अतिवेला प्रतिपत्ति: गौरवं प्रबोधो वा-

प्रतिपत्तिः प्रवृत्तौ च प्रागल्भ्ये गौरवेऽपि च। संप्राप्तौ च प्रबोधे च पद्प्राप्तौ च योषिि ।।

इति मेदिनी। पक्षे-अविद्यमानं तिमात्रं तिवर्णमात्रं यस्यां सा प्र- तिपत्तिः प्रपत्तिः भरन्यसनमित्यर्थः । प्रतिपत्तिशब्दे तिवर्णापनयने प्रपत्तिरिति निष्पत्तेः, शब्दार्थयोस्तादात्म्यमिह शरणम्। अद्भता आश्चर्यावहा सती जनैः ददृदशे। भगवति यस्य गौरवं ज्ञानं प्रप- दनं चात्याश्चर्यावहतया जनैर्दष्टानीत्यर्थः । प्रपद्नस्याश्चर्यत्वं च अनेनाचार्येणातिमात्रार्ततया प्रपदनमनुष्ठाय स्वाभीप्सित एव समये मोक्षसाम्राज्यस्यासादितत्वादिंति तद्वैभवप्रकाशिकादिषु सुस्पष्टम्। ददृशे इत्यनेन सर्वलोकसाक्षिकत्वमहिशप्रपदनस्य दर्शितम्। मदन्वयस्य विद्यया जन्मना च मद्ंशस्य शेखरः। उभयोरपि श्रीशैलघनगिर्यप्पलार्यवंश्यत्वात्तथोक्तिः ॥१२॥

वादाः कुद्दशां शमिता जलदेनेव प्रतीपता- भाजः। येन स गुरुर्विजयतां श्रीवासब्रह्मतन्त्र- परकालः ॥ १३ ॥ जलदेन, प्रतीपताभाजः प्रतिलोमतां प्राप्ता वादा: दावाः

Page 19

8 अलंकारमणिहारे

इत्यर्थः। त इव, अर्थगतं बहुत्वं शब्दे आरोप्यते। येन आचा- र्येण प्रतीपताभाजः प्रातिकूल्यभाज: कुद्दशां वादा: शमिताः।स्पष्ट- मन्यत् ॥ १३ ॥ शरणगतजनपुनर्भवभयापनेता जयाय मे भ- वतात्। श्रीवासदेशिकेन्द्रोपपदश्रीब्रह्मतन्त्रयति- नेता। १४ ॥ एकेन येन बुधता गुरुता कविता च दर्शिता विधुता। दुर्ग्हबाधां शमयतु स श्रीरङ्गेन्द्रकलि- रिपुयतीन्द्रः । १५ ॥। येन एकेनैव विघुता चन्द्रता पक्षे अविधुता अप्रक- म्पिता अन्यापरिभावनीयतेत्यर्थः। बुधता सौम्यता प्राज्ञता च, गुरुता वाक्पतिता आचार्यता च कविता भार्गवता काव्यकर्तृता च दर्शिता। दुर्ग्रहबाधां दुष्टग्रहाणां कुजादीनां पीडां दुराग्रहव्यस- नितां च शमयतु। एकस्यैवास्य चन्द्रवुधादिशुभग्रहरूपत्वात् दुग्रहबाधाशमनपटीयस्त्वमस्तीति भावः। अन्यत्सुगमम् ॥१५॥ तातार्यस्य गुरोर्में ख्यातात्मगुणस्य चरणन- ळिनयुगे। अतिवेलं लगतु मनः प्रतिलोमं वाऽ- नुलोमं वा ॥ १६॥ प्रतिलोमं मनः नम इत्यर्थः । प्रतिलोमानुलोमशब्दयोः 'अ- चप्रत्यन्ववपूर्वात्सामलोम्नः' इत्यच् ॥१६॥ नवदुर्गतातदेशिक कृष्णाम्बासूनुरातनोतीमम् । श्रीशैलान्वयजन्मा कृष्णोSलङ्गारमणिहारम्॥१७

Page 20

उपोद्दातः 9

श्रीश्रीनिवासमनुपममुपमाद्यैरखिलजगदल झरम्। अश्चामोऽलङ्गरैर्वाञ्छामस्माकमेष सफ- लयतात् ॥ १८॥ चपलोसावुद्युङ्के विपुलालङ्गारवर्णनव्याजात्। भगवत्स्वरूपरूपप्रभावगुणविभवलेशमभिधातुम्।। वाणीं हरिगुणभणनात्कृतार्थयितुमेव कृतिरि- यं क्रियते। ललिततया बालानामुपकुर्याच्चेत्प्रका- ममुपकुरुताम्॥ २०॥ आरचये कृतिमेतामात्मीयैर्लक्ष्यलक्षणैरेव । यक्षाधिपो नवनिधिर्भिक्षाक इवान्यवसु किमा- दन्ते ॥ २१ ॥ आनुष्टुभेन लक्षणमार्याजातेन लक्ष्यजातमपि। वृत्तेन विरचयेऽहं यत्तेन प्रीयतां फणिगिरीझ:।।२२ श्रीपतिरहिगिरिनिलयः प्रापयतु नितान्तहृद्य- तामेनम्। स्वोपज्ञलक्ष्यलक्षणरूपमलङ्गारमणिहा- रम् ॥ २३ ॥ देवच्छन्दोऽनुगुणो दीव्यादुपमादिसरससरशत- भाकू। लक्ष्मीवल्लभहृदये ललितोSलङ्गारमणि- हारः ॥ २४॥ ALANKARA 2

Page 21

10 अलंकारमणिहारे

देवस्य श्रीनिवासस्य छन्दसः अभिलाषस्य अनुगुण: अ- तुरूपः 'छन्दः पद्येऽभिलाषे च' इति सान्तनानार्थेष्वमरः। श्री- निवासप्रीत्युचित इत्यर्थः । पक्षे अनुगतो गुणेन अनुगुणः 'अ. वाद्यः क्रष्टाद्यर्थे तृतीयया' इति समासः। उपमादयः अल द्वारा एव सरसाः रमणीया: सराः यष्टयः तेषां शतं भज- तीति तथोक्तः। 'लतिका लडिका यष्टिस्तुल्यार्थास्स्युस्सरस्सरि:' इत्युक्तेः। अत एव देवच्छन्दः तन्नामा, 'देवच्छन्दोऽसौ शत- यष्टिकः' इत्यनुशासनात्। ललितः अलङ्कारमणिहारः एतन्नामा प्रबन्धः । पक्षे-अलङ्काररूपश्चासी मणिहारश्र लक्ष्मीवल्लभस्य हृदये सनसि वक्षसि च दीव्यात् प्रकाशताम्॥२४॥

सिन्धुमिवास्मद्रून्थं मन्थानेनेव चेतसा मश्न- न्। विषमिव दोषं हित्वा मणिमिव गुणमाददातु विबुधेन्द्रः ॥ २५॥

इत्यलङ्कारमणिहारे अलङ्कारप्रबन्धे उपोद्धातः.

जयतु श्रीवृषाद्रिस्थं जगव्रितयरक्षणम्। वदान्यं परमं ब्रह्म वक्षोऽलङ्कारलक्षणम् ॥ १॥

वक्षसः अलङ्कारः आभरणभूतं लक्षणं श्रीवत्सचिह्नं यस्य तत्। अनेनालङ्कारलक्षणत्वमस्यानुष्टुभप्रबन्धस्य सूचितम् । अय- मलङ्कारलक्षणारम्मश्षोक:॥

Page 22

उपमालंकारसरः (१) 11

अथोपमालङ्कारसरः (१)

उद्धूता भाति साम्यश्रीरुभयोर्यत्र सोपमा।

यत्र काव्ये उभयोरुपमानोपमेययोस्सहृदयहृदयाह्लादिनी सा- दृश्यलक्ष्मी: चारुसादृश्यमिति यावत्, उन्दूता व्यङ्गयभावमन्त- रेण स्फुटतमा सती भाति निषेधाप्रतियोगितया लसति तत्रो- पमालङ्कार इत्यर्थः। अत्र यत्र द्वयास्सादृशयं वर्ण्यते तत्रोपमा- लङ्कार इत्येतावदुक्तौ 'ग्रश्नामि काव्यशशिनं विततार्थरश्मिम्' इत्यादौ उपमालङ्कारापत्तिः, तत्र काव्यशशिनोरर्थरशमीनां च स- हृदयहृदयाह्रादिधर्मसाम्येन सादृश्यप्रतीतेः। अत उपमानपमेय- योरित्युक्तम्। कविसमयप्रसिद्धया उपमानोपमेयत्वयोग्ययोरित्य- र्थः । न हि काव्यशशिनोरुपमानोपमेयत्वयोग्यताऽस्तीत्यदोषः। 'गोसदृशो गवयः इत्यादौ गोगवययोस्तथात्वेऽपि नोपमालङ्कार इति तत्रातिव्याप्तिवारणाय सहदयहृदयाह्नादिनीति। इदं सहदयह- दयाह्मादित्वविशेषणं सर्वालङ्कारलक्षणानुयायि। अतएव 'गौ- र्बाहीकः' इत्यादौ न रूपकं, 'स्थाणुर्वा पुरुषो वा' इति न सन्देहः' 'इदं रजतम्' इति न भ्रान्तिमान्, 'नेदं रजतं किं तु शुक्तिः' इत्यादौ नापह्वव इत्याद्याहुः। उद्धूतेति व्यङ्गयोपमाव्यावृत्त्यर्थम्- समराङ्गणमारूढं भवन्तं पश्यतां नृणाम। भवं कल्पान्तसंकुद्धं द्रषटुं नोत्कण्ठते मनः ॥

इत्यादौ तथाभूतं त्वां दृष्टवतस्तथाभूतभवदर्शनमासीदिति प्र- तीतेः किश्चित्कुर्वतोऽशक्यवस्त्वन्तरकृतिरूपविशेषालङ्गारः। तेन च तथाभूतो भव इव तदा त्वं स्थित इत्युपमा व्यज्यते।

Page 23

12 अलंकारमणिहारे

अत्रोपमाया व्यङ्गयायाः प्राधान्येनालङ्कार्यता, न त्वलङ्कारता। अत उद्धूतेत्यस्याव्यङ्गयत्वपर्यवसानादस्य न व्यङ्गयोपसायामति- व्याप्तिः। निषेधाप्रतियोगित्वविवक्षणात् व्यतिरेकव्युदासः। ततश्च सहृदयहृदयाह्वाददायित्वे सत्यव्यङ्गयं सादृश्यमुपमेत्येतावदेव ल- क्षणमिह विवक्षितम्, न तूपमानोपमेयत्वयोग्ययोरित्यपि, 'ग्र- आामि काव्यशशिनम्' इत्यादौ चारुत्वाभावादेवातिव्याप्तय- संभवात्। अतएव उभयोस्साम्यश्रीरित्येवोक्तं, तदप्यनन्वयेऽ. तिव्याप्तिनिरासाय।

न चैवमप्युपमेयोपमाप्रतीपयारतिव्याप्तिः। तयोरुक्तसादश्य-

दस्य प्रसिद्धोपमानप्रातिलोम्येन प्रसिद्धोपमेयोत्कर्षस्याधिकस्य तत्र फलस्य सद्भावेन तत एव तयोरुपमायाः पृथगुक्तेः, उ- पमेयोपमायां प्रकृताप्रकृतगोचरोपमादयरूपतया प्रतीपे अप्रकृत- विषयतया च तस्या: प्रतीतेः । अन्यथा अप्रकृतविषयस्मृत्या- - 'प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्गाह्यमेवेति न तद्वचापनं लक्ष- पास्य दोषः' इति चित्रमीमांसायामुपमालक्षणपरिष्करणावसरे कण्ठ़रवेणैव प्रतिपादितम्।

चारुसादृश्यमुपमेति विवक्षितम्। तेन अनन्वयोपमेयोपमाप्रती- पेषु न क्वाप्यतिव्यापप्तिः, तत्र सादृश्यस्यानुपमत्वद्योतनतृतीयस- राव्यवच्छेदोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया साद-

Page 24

उपमालंकारसरः (१) 13

इदं कुवलयानन्दकृदनुरोधेन। रसगङ्गाधरकृदनुरोधेन त्वेवं लक्षणम्-

वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा॥२॥

सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कतिः। चारुत्वं च चमत्काराधायकत्वं, चमत्कारश्चानन्दविशेषस्सहृद्यहृदयसा- क्षिकः। 'सागरस्सागरोपमः' इत्यादयनन्वये सादृश्यस्य द्वितीय- सतीर्थ्यनिवर्तनमात्रार्थमुपात्ततया स्वयमप्रतिष्ठानादचमत्कारित्व- मेव। अतएव तस्यान्वयाभावादनन्वयं तमभिदधते। 'नाथ त्वद्वदनौपम्यं कथं धसां सुधाकर:' इत्यादिव्यतिरंके चमत्का- रिणो निषेधस्य निरूपणाय प्रतियोगिनस्सादृश्यस्य निरूपणम- चमत्कारकमेव। एवमभेदप्रधानेष्वपि रूपकापह्नतिपरिणामभ्रा- न्तिमदुल्लेखादिषु, भेदप्रधानेषु द्ृष्टान्तप्रतिवस्तूपमादीपकतुल्य- योगितादिषु चमत्कारिषु तत्तन्निष्पादकत्वेनावस्थितस्यापि सा- दृश्यस्य चमत्कारितावैधुर्येण नास्त्युपमालङ्कारत्वम्। 'मुखमिव चन्द्र:' इति प्रतीपे, 'चन्द्र इव मुखं मुखमिव चन्द्रः' इत्यु- पमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्गश्शङ्कयः,

ननु-'त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्या- दावुपमानस्यातिमात्रमसम्भाविततया न तावत्सादृश्यमेव शक्यं प्रतिपत्तुं, चमत्कार: पुनर्दवीयानेवेति चेत्-कविना हि खण्डशः पदार्थोपस्थितिमता यथेप्सितं संभावितत्वेनाकारेण सुधाकरा- धिकरणकं पावकं परिकल्प्य तेन सह साम्यस्यापि कल्पने बा- धकाभावात्। न च कल्पितमसत्सादश्यं कथंकारं चमत्कार-

Page 25

14 अलंकारमणिहारे

मारचयेदिति वाच्यम्। सुकुमारसुन्दरतरसुवर्णप्रतिमात्वेन भा- वनया पुरतर्स्थिताया वनिताया: परिरम्भस्य प्रियम्भावुक- तादर्शनात्। उपमानोपमेययोस्सत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषगन्धोऽपि॥ अतएव-

स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरग: ॥

इत्यादावापे नानुपपत्ति:।।

परे तु-अस्या: कल्पितोपमाया उपमानान्तराभावफलक- त्वेनालङ्गारान्तरतामाहुः। तन्न-सादृश्यस्य चमत्कारितयोपमान्त- र्भावस्यवोचितत्वात्, सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात्। उपमानान्तराभावफलकत्वं ह्यपमावेशेषत्वे साधकं न तूपमाबाहे- र्भावे इति॥

पूर्णा लुप्तेत्यलंकारतत्त्वज्ञैस्सा द्विधोदिता। उपमानं चोपमेयं धर्मो वाचकमित्यदः । चतुष्टयमुपानं चेत्सा हि पूर्णोपमा मता ॥३ ॥ 4

यथा-

आनन्दनिलयनामनि विमानधामनि विभास- मानं तत्। धाम चिरत्नं रत्नं श्यामलमिव हैमसं- पुढे जयति ॥२६॥

अत्र श्यामलं रत्नं चिरत्नं धाम विभासमानं इवशब्दश्रे-

Page 26

उपमालंकारसर: (१) 15

त्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाना- दियं पूर्णोपमा। इदं कुवलयानन्दानुसारेणोदाहरणम्॥ रसगङ्गाधरानुसारेण तु यथा- कृपया सुमहाजालाकृष्टान्मीनानिवाहिशैलम- णे। मोचयसि मोहजालाविष्टान्दीनान्कदा नु खल्वेनान् ॥२७॥ अत्र प्रतीयमाना उपमा समग्रवाक्यार्थस्य कदेति शान्त- रसस्य सूचितचिन्तोपस्करणद्वारा उपस्कारकतयाऽलङ्कार:।। वर्ण्योपमानयोर्धर्मोपमावाचकयोरपि। एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽषटधा॥४॥ वर्ण्यमुपमेयं उपमेयादीनामेकस्य द्वयोस्त्रयाणां वाऽनुपा- दाने लुप्तोपमा। सा चाष्टविधा भवेत्॥ वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा। वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः ॥५॥ उपमानस्य लोपे तु तल्लुप्ता पश्चमी स्मृता। प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः ॥६ ॥ धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः। अष्टमी धर्मोपमानवाचकानां विलोपने ।७॥ तामेव विभजते-अत्र वाचकादीनां लोपे तत्तलुप्ताः। तथाहि -- १ वाचकलुप्ा। २. धर्मलुप्ता। ३. धर्मवाचकलुप्ता।

Page 27

16 अलंकारमणिहारे

४. उपमेयवाचकलुप्ता । एवमुपमानलोपरहिताश्चत्वारो भेदा:। १. उपमानलुप्ता। ६. वाचकोपमानलुसा। ७. धर्मोपमानलुप्ता। ८. धर्मोपमानवाचकलुप्ता। एवमुपमानलोपसहिताश्चत्वारो भेदा: इति लुपोपमा अष्टविधाः।।

तत्र वाचकलुप्ता यथा-

चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदवि- नीलम्। मन्दरधरमहिगिरिपतिकन्दरधामास्तु नाम हृद़ि धाम ॥२८॥

अत्र चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलमि- त्युभयत्रापि वाचकलोपः चन्दिर इव रुचिरं वार्षिकाम्बुदमिव विनीलमित्यर्थे 'उपमानानि सामान्यवचनैः' इति समासविधा- यकशास्त्रनिबन्धनः ।।

धर्मलुप्ता यथा-

शरदिन्दुसदृदशवदनं स्फुरदिन्दिरमहिगिरीन्द्र- कृतसदनम्। कुन्दसुमोपमरदनं बृन्दं महसां धु- नोतु भयकदनम् ॥ २१॥

भयकदनं भवभयसंमर्द 'कदनं मर्दने पापे' इति विश्वः। अत्र शरदिन्दुसदृशवदनं कुन्दसुमोपमरदनमित्युभयत्रापि धर्म- लोप:।स त्वैच्छिकः न तु शास्त्रविहितः, आह्लादनादिना शर- दिन्दुसदृशवद्नमित्यादेरपि सुवचत्वात्।

Page 28

उपमालंकारसरः (१) 17

यथा वा- कुसुमसमे लावण्ये सरिज्झरीवेगसदृशि ता- रुण्ये। आयुषि तृणानलनिने फणाभृदद्रीश नैव विश्वसिमः ॥३०॥

अत्र क्षिप्रम्लानत्वमेकथाऽनवस्थानं सदयोनिर्वाणत्वं च समानधर्मा अनुपात्ताः ॥

धर्मवाचकलुप्ता यथा- चन्दनगिरिकन्दरचरसुन्दरतरगन्धवाहशाबन्ती। भिन्तामपाङ्गरेखा सन्तापं दन्दशूकगिरिनेतुः॥३१ अत्र गन्धवाहशाबन्तीत्यत्र धर्मवाचकलुप्ता। गन्धवाहशाब इवाचरन्तीत्यर्थे विहितस्य गन्धवाहशाबवदानन्दनात्मकाचारार्थ- कस्य ककिपः इवशब्दन समं लोपात्। अत्र धर्मलोप ऐच्छि- कः आनन्ददायितया गन्धवाहशावन्तीति तद्ुपादानस्यापि स- म्भवात्। भिन्तां भिनत्त। भिदे: रौधादिकस्य स्वरितेत्वा- तडि लोट्॥३१॥

उपमेयवाचकलुप्ता यथा- मुनिमनसामपि दूरे स्वकृतविहारेऽलमुपनिष- त्सारे। परमपदीयति विभवैः परमे न रमेत फ- णिगिरौ को वा ॥ ३२॥ ALANKARA 3

Page 29

18 अलंकारमणिहारे

उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति- मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्। स्वामिपुष्करिणीतीरे रमया सह मोदते॥ इत्युक्तप्रकारेण स्वस्मिन्विहरमाणे सतीत्यर्थः। परमपदीयतत्यित्र वाचकोपमेयलोपः आत्मानमित्युपमेयस्योपमावाचकेन सहानुपा- दानात्। नच-'उपमानादाचारे' इत्युपमानादाचारार्थे क्यचो वि- धानात्परमपदमिवाचरतीत्यर्थावगमेऽप्यात्मानमित्यस्य कथं निर्णयः अन्यस्यापि तत्सम्भवादिति वाच्यम् । परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन तदवगमात्, तथाविधा- चरणे विभवानां स्वारसिकतया स्वकीयत्वावगतेः । अयं च लोप ऐच्छिक:, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात् ॥३२।

उपमानलुप्ता वाचकोपमानलुप्ता च यथा- द्विरदसमालसगमनं सुरगिरिगुरुधैर्यमखिलभ- यशमनम्। हरिमीडे रिपुदमनं द्विरसनगिरिसद- नमिन्दिराकमनम् ॥ ३३ ॥

अत्राद्ये पादे द्विरदसमालसगमनमित्यत्र द्विरदगमनस्योप- मानस्यानुपादानादुपमानलुत्ता। द्वितीयपादे सुरगिरिगुरुधैर्यमित्यत्र वाचकस्य इवादेस्सुरगिरिधैर्यस्योपमानस्य चानुपादानाद्ाच- कोपमानलुप्ता॥।

धर्मोपमानलुप्ता धर्मोपमानवाचकलुप्ता च यथा- जलनिधिनिभगाम्भीर्य कलये हृदि कल्पका-

Page 30

उपमालंकारसर: (१) 19

गमौदार्यम्। निलयितशेषाहार्य जलधिसुताचि- तहारि सौन्दर्यम् ॥ ३४ ॥

सौन्दर्यमेतदिं भिन्नं पदं, तत्वेनाध्यवसितो भगवान् श्रीनिवास इत्यर्थः । अत्र जलनिधिनिभगाम्भीर्यमित्यत्र निरव- धिकत्वादेस्साधारणधर्मस्य जलनिधिगाम्भीर्यस्योपमानस्य चानु- पादानाद्धमोपमानलुप्ता। कल्पकागमस्यौदार्यमिवौदार्य यस्य तदि- तिविग्रहे निरवशेषाभीष्टार्थपरिपूरणादेर्धर्मस्य कल्पकागमौदार्य स्योपमानस्य इवादेर्वाचकस्य चानुपादानाद्धमोपमानवाचक- लुसा। अन्यदग्रे वक्ष्यते॥।

एवं कुवलयानन्दप्रकारेणोपमोदिता। प्राचां मते विभागोSस्या उपमायाः प्रपश्चयते ॥ पूर्णा लुप्नेति भेदेन द्विविधा सा तयोः पुनः ॥ श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा। तद्ितस्थेति च त्रेधा ते द्े स्यातां पृथकपृथक्॥८ प्राचीनानामालंकारिकाणां मते उपमा पूर्णा लुप्तेति द्विवि- धा। तयोर्मध्ये पूर्णा श्रौती आर्थाति द्विविधा ते श्रौत्याथ्यौं द्वे अपि पृथकपृथक् वाक्यगा समासगा तद्धितगेति त्रेधा स्यातामिति पूर्णोपमा षड्विधा भवतोत्यर्थः ॥

यथेववादिशव्दानां साक्षात्सादृश्यवाचिनाम्। उपादाने भवेच्छ्रौतीत्याहुशशास्त्रविचक्षणाः ।। ९ ।।

Page 31

20 अलंकारमणिहारे

ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः । सदृङ्गिभादिशब्दानां तेषामार्थी प्रयोगतः ।। १० ।। श्रौतीमार्थी च लक्षयति यथेत्यादिना-साक्षात्सादृश्यप्र- तिपादकयथेवादिशब्दानां प्रयोगे श्रौती श्रुत्या सादृश्यप्रति- पादनात्। वादीत्यादिशब्देन 'तत्र तस्येव' इति विहितवते- ्रहणम्। तस्य इवार्थे विहितत्वात्। सादृश्यविशिष्टधर्मिपर्यन्त- तुल्यसददशसद्दड्निभसङ्काशादिशब्दानां प्रयोगे आर्थी, अर्थसिद्ध- त्वात्। निभादीत्यादिशब्देन 'तेन तुल्यं' इति विहितवतेर्ग्रहणम्। तस्य तुल्यार्थे विहितत्वात्। यद्यपि यथेववािपदानि यस्मा- च्चन्द्रादिपदात्पराणि प्रयुज्यन्ते, तानि तदर्थस्य चन्द्रादेरुप- मानत्वप्रतीतेरुपमानविशेषणानि सन्ति स्वसमभिव्याहृतपदा- र्थस्योपमानत्वप्रसीतिप्रयोजकानि। न तु मुखादेरुपमेयत्वप्र- तीतिपयोजकानि। तथाऽपि यथा राज्ः पुरुष इत्यत्र षष्टयास्स्व- समभिव्याहृतप्रातिपदिकार्थे राज्ञः स्वार्थभूतसम्बन्धप्रतियोगित्व- प्रतीतिप्रयोजकत्वेऽपि पुरुषपद्समभिव्याहारे सति व्युत्पत्तिम- हिम्ना तदनुयोगित्वप्रतीतिरपि तथा मुखादिसमभिव्याहारे मु- खाद्यनुयागित्वप्रतीतिरधि सम्भवति। एतेन पझ्ममिव मुखमित्यत्र पद्मसादृश्यं मुखमिति प्रतीतिस्स्यात्, न तु पद्मसदृशं मुख- मिति परास्तम्। यथा राज्ः पुरुष इत्यत्र प्रकृतिप्रत्ययपुरुषपदैः राजा संबन्धः पुरुष इति प्रतीतावपि समभिव्याहारवशाद्राज- सम्बन्धी पुरुष इति प्रतीतिः, तथैव व्युत्पत्तेः। एवमत्रापि वि- शिष्टप्रतीत्युपपत्तिरित्याङ्ुः प्राश्चः। वस्तुतस्तु-इवार्थस्सादृश्यमेव। तच्च नोपमानस्य चन्द्रादे- र्विशेषणम्। किं तु उपमानभूतश्चन्द्रादिरेव सादृश्ये प्रतियोगि-

Page 32

उपमालकारसरः (१) 21

तासम्बन्धेन विशेषणम्। चन्द्रादिविशेषितं च सादृश्यं मुखा- दावनुयोगितासम्बन्धेनान्वेति। चन्द्रप्रतियोगिकसादृश्यानुयोगि- मुखमित्याकारकश्चन्द्र इव मुखमित्यादौ बोध इति बोध्यम्।।

तत्र श्रौती त्रिविधा यथा- गगनं यथा फणीश्वरनगपतिहृदयं विनीलमु- ज्ुलति। तारावळिरिव हारावळिरार्द्रवञ्च कौस्तुभे शोभा (कौस्तुभस्य श्रीः) ॥ ३५॥ अत्र गगनं यथत्यादिविनीलमित्यन्ते श्रौती वाक्ये पूर्णा यथेत्यसमस्तस्य वाचकस्य गगनमित्युपमानस्य फणीश्वरनग- पतिहृद्यमित्युपमेयस्य बिनीलमिति साधारणधर्मस्य चोपादा- नात्। तारावळिरिव हारावळिरित्यत्र समासे श्रौती पूर्णा। 'इवेन सह समासो विभक्त्यलोपश्च' इति इवशब्दयोगे समा- सस्य विभक्त्यलोपस्य च स्मरणात्। वाचकादीनां चतुर्णामु- पादानाच्च। आर्द्रावत्कीस्तुभे शोभेत्यत्र तद्धिते श्रौती पूर्णा। स- प्रमीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेण इवार्थविहितवतेर्वा- चकस्य उपमादीनां त्रयाणां चोपादानात् आर्द्रायामिव आर्द्रा- वदिति विग्रहः । कौस्तुभस्य श्रीरिति पाठे आर्द्राया इवेति विग्रहः षष्ठीसमर्थादप्युक्तसूतरेणैव वतेर्विधानात्॥३५।।

आर्थी त्रिविधा, पूर्णा यथा- शशधरबिम्बेन समो विशदतया कुन्दबृन्दसङ्ग- इः। धवळसरोरुहवदयं प्रविलसति करोदरे हरे- इशङ्: ॥३६॥

Page 33

22 अलंकारमणिहारे

शशधरबिम्बेन समो विशदतयेत्यत्रार्थी पूर्णा वाक्ये। वि- शदतयेत्येतत्सर्वत्रान्वेति। कुन्दवृन्दसङ्काश इत्यत्रार्थी समासे पू- रणा। धवळसरोरुहवदित्यत्रार्थी तद्धिते पूर्णा 'तेन तुल्यं क्रि- या चेद्वतिः' इति तुल्यार्थविहितस्य तद्धितस्य वतिप्रत्ययस्यो- पादानात्। एवं षड़डिधाऽपि पूर्णा संक्षेपत उदाहता ॥ अथ लुप्तास्सामान्यतो विभजते- त्रिविधा स्यादेकलुप्ता दविलुप्ता तु चतुर्विधा। एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा॥११॥ धर्मस्याथोपमानस्य वाचकस्य विलोपने। त्रिविधा स्यादेकलुप्ता दिलुप्ता तु चतुर्विधा ॥१२। धर्मवाचकयोरलोंपे तथा धर्मोपमानयोः । वर्ण्यवाचकयोस्तद्वदाचकावर्ण्ययोरपि ॥१३॥ त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः। धर्मलुप्ता, उपमानलुप्ता, वाचकलुप्ा चेति त्रिविधा एक- लुप्ता। द्विलुप्ता तु-धर्मवाचकलुप्ता, धर्मोपमानलुप्ा, उपमेयवा- चकलुप्ता, वाचकोपमानलुप्ता चेति चतुर्विधा। त्रिलुप्ा तु-धर्म- वाचकोपमानलुप्तत्येकविधेति सामान्यतो लुप्ाऽष्टविधा॥ यथा- त्वं निधिरिव तव सदृशो नैव विभुर्जलदनील जलजाक्ष। तव सौशील्यमतुल्यं मित्रीयसि नत- जने डब्धिगाम्भीर्यः ॥३७॥

Page 34

उपमालंकारसर: (१) 23

त्वं निधिरिवेत्यत्र भोग्यत्वादिधर्मानुपादानाद्धर्मलुप्ता।।१। तव सदृशो विभुर्नैवेत्युपमानस्य सामान्यतो निषेधादुपमानलुप्ता॥२। जलदनीलेत्यत्र जलद इवेति वाचकानुपादानाद्वाचकलुप्ता॥३॥ जलजाक्षेत्यत्र जलजे इवाक्षिणी यस्येति प्रसन्नतादेर्धर्मस्य वा- चकस्य चानुपादानाद्धर्मवाचकलुप्ता॥४॥ तव सौशील्यमतुल्य- मित्यत्र लोकोत्तरत्वादेर्धर्मस्य अतुल्यमिति निपेधेनोपमानस्य चानुपादानाद्धर्मोपमानलुप्ता ॥५॥मित्रीयसि नतजने इत्यत्र मि- त्रमवात्मानमाचरसोत्युपमेयभूतस्यात्मनो वाचकस्य चानुपादा- नाडुपमेयवाचकलुप्ा ॥६॥ वाचकोपमानलुत्ा त्वग्रे उदाहरि- ष्यते।। अब्धिगाम्भीर्य इत्यत्र अब्धेर्गाम्भीर्यमिव गाम्भीर्यमित्य- स्मिन्नर्थे उपमानस्य वाचकस्य धर्मस्याप्यनुक्तेर्धर्मवाचकोपमा- नलुप्ता ॥७।। इति सामान्यतस्सप लुप्ोदाहरणानि संगृहीतानि॥ क्रमेण धर्मलुप्तादेर्विभागोऽय प्रदर्श्यते ॥१४॥ पूर्णावद्धर्मलुप्ताऽपि श्रौत्यार्थीति द्विधा भवेत् ॥ तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः॥१५॥ शुद्धधर्मलुप्ता पूर्णावदेव श्रौती आर्थी चेति द्विधा भवेत्। वाक्य समासे तद्धिते च भवेत् । तत्र श्रौती धर्मलुप्ता तु तद्धिते न सम्भवेत् पष्ठासमर्थात्सप्तमीसमर्थाद्वा विहितस्य वतेधरमोंपादानं विनाऽन्वयसाकर्याभावात् न हि भवति मधु- रावत्पाटलिपुत्रे पाटलिपुत्रस्य वेत्यत्र प्राकार इति धर्मोपादानं विनाऽन्वयसौकर्यम्। तद्धिताधिकारविहित कल्पव्देश्यादिप्रयोगेSपि कृष्णकल्पः कृष्णदेश्य इत्यादौ धर्मिसामानाधिकरण्यप्रतीतेरा- थर्येवेति श्रौत्या धर्मलुप्ताया असंभवात्सा पश्चविधैव॥

Page 35

24 अलंकारमणिहारे

ननु-'इवे प्रतिकृतौ' इत्यधिकारे इवार्थविहितच्छादिप्रत्य- यान्तानां 'कुशाग्रीया वुद्धिः, शैलेयं दधि' इत्यादीनां पदानां प्रयोगे धर्मोपादानं विना नैराकाड्यसन्भावात्संभवति श्रौती धर्मलुपताS- पीति चेन्न । 'इवे प्रतिकृतौ' इत्यधिकारविहितानां प्रत्ययानां तुल्यार्थ एव विधानाभ्युपगमावश्यंभावात्। अन्यथा तेषां सा- दृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेथ- सामानाधिकरण्यासम्भवात्सादृश्यविधानमपि सदशे पर्यवस्य- तीति सूत्रे इवग्रहणं न विरुध्यत इति वदन्ति॥

श्रौती धर्मलुप्ता वाक्ये यथा-

जलदो यथा तथा त्वं नाकिन इह केकिनो यथैव तथा। जलधिर्यथा तथा त्वं नरा ननु स- रिज्झरा यथैव तथा॥३८॥

अत्र हे भगवन्निति सम्बुद्धिस्सामथ्यालिभ्यते। जलदो यथा केकिनो यथेत्यादौ यथेत्यसमस्ततया निर्देशाद्वाक्ये श्रौती ध- र्मलुप्ा, यथाक्रममानन्दावहत्वादेरुल्लासित्वादेश्च। एवं जलधिर्य- थेत्यादौ प्राप्यत्वादे: नरा इवेत्यादौ तत्प्रवणत्वादेश्च साधार- णधर्मस्यानुपादानात्।।

श्रौती धर्मलुप्ता समासे यथा-

चिन्तामणिधरणीभृति रन्तारं भुवि जगन्निय- न्तारम्। चिन्तामणिमिव मनुजास्त्वां तावत्सं- श्रिता हरे सर्वे ॥ ३९।।

Page 36

उपमालंकारसरः (१) 25

अत्राभीप्सितदातृत्वादिधर्मानुपादानात् चिन्तामणिमिवेति समासे श्राती धर्मलुप्ता। तद्धिते त्वियं न सम्भवतीत्यवोचाम। चिन्तामणिधरणीभृदिति वेङ्कटाद्रेरेव नामान्तरम् । तथा चो- च्यते वामनपुराणे- चिन्तिसत्य तु सिद्धथेमं चिन्तामणिगिरिं विदुः॥ इति॥ ब्रह्माण्डपुराणान्तर्गते वेङ्कटाद्रिमाहात्म्ये च- श्रीवेङ्कटगिरिर्नाम क्षेत्रं पुण्यं महीतले। इत्युपक्रम्य- अञ्जनाद्रिर्वृषाद्रिश्च वेदाद्रिर्गरुडाचलः ।

वृषभाद्रिर्वराहाद्विर्ज्ञानाद्रि: कनकाचलः । आनन्दाद्रिश्च नीलाद्रि: क्रीडाद्रि: पुष्कराचलः । सिंहाचलश्च श्रीशैलस्तथा नारायणाचलः॥ वैकुण्ठाद्रिश्शेषशैल इति नामानि विंशतिः ।इति ॥

आर्थी धर्मलुप्ता वाक्यसमासतद्धितगा यथा- वृषशिखरिशिखरधरणी सदृशी रमणीमणेर्मु- रारातिः। मृगमदतिलकनिकाशः पुष्करिणी दर्प- णीकल्पा ॥४० ॥ अत्र सदशी रमणीमणेरिति वाक्यगा, मृगमदतिलकनि- काश इति समासगा, दर्पणीकल्पेति तद्धितगा चार्थी धर्मलुप्ता; रामणीयकश्यामलिमनैर्म ल्यादिधर्माणामनुपादानात्। क्वचित्पटुपटुरित्यादौ द्विर्भावेऽपि धर्मलुप्ता दृश्यत इति चित्रमीमांसाकारा। तदेदमुदाहरणम्- ALANKARA 4

Page 37

26 अलंकारमणिहारे

आभाति मधुरमधुरं स्वर्गादिफलं न जातु त- न्मधुरम्। फणधरधराधरधुरंधरं भजत तज्जना- श्रिरं मधुरम् ॥४१॥ अत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधा नाद्यत्स्वभावतोऽमधुरमेवापाततो मधुरवन्भाति तद्वचनोऽयं मधु- रशब्दो मधुरसदृशे वर्तत इत्यार्थी धर्मलुप्ता। न चैषा वाक्ये समासे वा, मधुरमधुरमित्येकपदत्वात्। रसगङ्गाधर कारस्तु-पटुपटुरित्यादौ वाचकस्याप्यनुपादाना-

धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात्। अन्यथा ए कलुपात्वेन द्विलुप्तानां त्रिलुप्तायाश्च ग्रहणात्पृथगुपादानमसंबद्ध- मेव स्यात्। न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोप: अपि तु धर्ममात्रस्यैवेति शक्यं वक्तुं, द्विर्भावस्य भाष्यकैय- टादौ सादृश्यद्योतकताया पवाङ्गीकारेण तद्वाचकताया अस- म्भवादित्यवादीत्॥ लुप्तोपमाना द्विविधा वाक्यगा च समासगा।

लुप्तोपमाना वाक्यगा यथा- विचिते निखिलेऽपि जगत्युचितं श्रीवेङ्कटाद्रि- णा सदशम्। नूनं नोपलभेत स्थानं जातोऽथ जायमानो वा ॥४२॥

अत्र सदशनिषेधादुपमानलुप्ता वाक्ये। अत्र 'वेङ्कटाद्रिसमं

Page 38

उपमालंकारसरः (१) 27

स्थानं ब्रह्माण्डे नास्ति किश्चन' इति वचनं स्मर्तव्यम्। न चात्रोपमानाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसा- नस्य चोपमाजीवितत्वादलङ्कारान्तरमेव नोपमानलुप्तेति वाच्यम्। वेङ्गटाद्रिणा सदशं स्थानं जातो वा जायमानो वा नोपलभे तेत्युक्त्या जनिष्यमाणेन येन केनचित् किमपि स्थानमेतत्तु- ल्यमुपलप्स्येतेति सादृश्यपर्यवसानमस्तीत्युपमानलुभैवेयमुपमा, नालङ्कारान्तरमिति वक्तुं युक्तत्वात्। उपमानलुप्ता समासगा यथा- नास्तीह वस्तु धन्यं कस्तूरीसहृशमिति वयं विद्मः। भुजगगिरीशस्य मुखं त्रिजगत्तिलकस्य तिलकितं ह्यनया॥४३॥

अत्र सदृशनिषेधादुपमानलुप्ता समासे।। वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यडि। कर्मक्त्रोर्णमुलि च णिनौ क्विपि च तद्विते॥ एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी ॥ १७॥

वाचकलुप्तां विभजते-वादिलुप्ता उपमानवाचकवायथेवा- दिलुप्ता समासे 'उपमानादाचार' इति विहितकर्मक्यचि, 'अधि- करणाञ्च' इति विहिते अधिकरणक्यचि, 'कर्तुः क्यङ्सलोपश्च' इति कर्तृक्यङि, 'उपमाने कर्मणि च' इति कर्मणमुलि, चा- त्कर्तृणमुलि, 'कर्तर्युपमाने' इति विहिते णिनौ, 'सर्वप्रातिपदि- केभ्यः क्विव्वा वक्तव्यः' इत्याचारार्थविहिते क्विपि च तद्धिते च भवन्ती नवविधा भवति,

Page 39

28 अलंकारमणिहारे

अत्र वाचकलुप्ता समासगा यथा- विदलितवलरिपुमणिवरशकलविनीलं श्रयन्त- महिशैलम्। वारं वारं हृदये स्मेरं कलयेय कमपि शृङ्गारम् ॥ ४४ ॥ अत्र शकलविनीलमित्यत्र समासे वाचकलोप:। 'चन्दिररु- चिरनिटालम्' इति पूर्वमुदाहतमप्यस्योदाहरणम्॥

कर्मक्यच वाचकलुप्ता यथा- हर्यङ्के विहरन्ती पर्यङ्कीयति तमेतमुनुङ्गम्। उ- पधानीयति कमला तस्य भुजं भुजगभोगसुकु- मारम् ॥ ४५॥ अत्र पर्यङ्कीयति उपधानीयतीत्युभयत्राप पर्यङ्कमिवाचरति उपधानमिवाचरतीत्यर्थे कर्मक्यचि हर्यङ्कपर्यङ्कयोः भुजोपधान- योश्च उत्तुङ्गं भुजगभोगसुकुमारमिति साधारणो धर्मः । पर्यङ्की- यतीत्यादौ 'उपमानादाचारे' इति कर्मणस्सुबन्तादाचारार्थे क्यचि 'क्यचि च' इत्यकारस्य ईत्वम्। हर्यङ्क पर्यङ्कमिवाचरतीत्यत्र वाक्ये प्रकरान्तं कर्मदयं, तत्रोपमानकर्मणोऽन्तर्भूतत्वात्तदपेक्षयाS- सावकर्मको धातुः। तदुक्तं- धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्गहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मका क्रिया॥ इति। अन्यकर्मापेक्षया तु सकर्मक एव। यदाह भगवान् भा- व्यकार :- 'द्े ह्यत्र कर्माणी उपमानकर्मोपमेयकर्म चेति। उप-

Page 40

उपमालंकारसरः (१) 29

मानकर्मान्तर्भूतं उपमेयकर्मणा सकर्मको भवति' इति। एवमन्य- त्रापि द्रष्टव्यम्।

यथा वा --

इन्द्रीयन्ति दशस्ते स्पृशन्ति यांस्तान्विशो भृझं विभवैः। चन्द्रीयन्ति दिशस्ते यशःप्रकाशा विशालविशदिम्ना ॥ ४६॥

इदमपि कर्मक्यच वाचकलुप्ाया एवोदाहरणम्। इन्द्री- यन्ति चन्द्रीयन्तीत्युभयत्रापि इन्द्रमिवाचरन्ति चन्द्रमिवाचर- न्तीत्यर्थे कर्मक्यच इन्द्रस्य विशां च विभवैरिति साधारणो धर्मः चन्द्रस्य दिशां च विशालविशदिन्नति साधारणो धर्मः। विशः मनुजानित्यर्थः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः। द्वितीयपादे भृश विभवैरित्यत्र 'भृशमुदाराः' इति, चतुर्थचरणस्य 'यशः प्राकाशास्तु काशनीकाशाः' इति 'शेषशैलेन्दोः' इति वा निर्माणे उभयत्रापि धर्मस्याप्यनुपादानाद्धर्मवाचकलुप्ताऽपीयं भविष्यतीति व्येयम्॥ एवंचात्र धर्मोपादानानुपादाने ऐच्छिके इति ध्येयम्। अस्य पूर्वोदाहरणादयमेव विशेषः॥

अधिकरणक्यचि वाचकलुप्ता यथा-

जलधौ जननगृहीयति जलजे केळीगृहीयति मनोज्ञे। सौधीयति वेङ्कटपतिविशङ्कटोरस्थलेS- मले कमला ॥४७॥

Page 41

30 अलंकारमणिहारे

मनोज्े इत्येतज्लधावित्यत्राप्यनुषञ्जनीयम् । अत्र जलधौ जननगृहीयतीत्याद्यधिकरणक्यचि जलधिजननगृहयोः जलज- केळोगृहयोश्च मनोज्ञे इति, भगवद्वक्षस्थलसौधयोः अमले इति च साधारणधर्मः । मनोज्ञे इत्यस्य जलधावित्यत्रानन्वये धर्म वाचकलुप्तायास्तदुदाहरणं भविष्यति इतरद्वाचकलुप्तायाः। एवं चात्रापि धर्मोपादानानुपादाने वैवक्षिके एवेति ध्येथम्॥ कर्तृक्यडि वाचकलुप्ता यथा- भगवन्भवञ्चरित्रं भवतप्तानां विधूयते नृणाम। अदसीयरसज्ञानां तदसीम मधूयते रसज्ञानाम्॥ अद्सीयरसज्ञानां एतद्भगवच्चरित्रसम्बन्धिरसविदां जनानां सम्बन्धसामान्ये षष्ठी रसज्ञानां रसनानां असीम अनवधिकं त- च्चरित्रं मधूयते इत्यन्वयः । अत्र विधुरिवाचरति मध्विवाचर- तीत्यर्थे विधूयते मधूयत इति क्यडि भगवञ्चरित्रस्य विधुम- धुनोश्च आचारस्साधारणो धर्मः, स चोपात्तः। आचारमा- त्रार्थकतया क्यच्क्यडो: प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्य- प्रतिपत्तिरितिनय सादृश्यवाचकाभावाद्वाचकलुप्ता। पर्यङ्कीय- तीत्यादिसमुदायस्यैव पर्यङ्कादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्व- मितिनयेऽपि चकलुप्ता॥ यथावा- राधायन्ते भामा: कामाधिकरूप तव विलोकनतः। वेधायन्ते पुरुषाः पुरुषोत्तम वृषगिरीश तत एव।। तत एव विलोकनत एवेत्यर्थः। आदौ कर्मणि षष्ठी। ततः

Page 42

उपमालंकारसरः (१) 31 कर्तरीति विशेषः । अत्रापि राधेवाचरन्ति वेधा इवाचरन्ती- त्यर्थे राधायन्ते वेधायन्ते इति क्यडि भामापुरुषयोराचारस्सा- धारणो धर्मः। कामाधिकरूपेति सम्बुद्धिर्भामानां राधावदाच- रणौपयिकी, पुरुषोत्तमेत्येतत्तु पुरुषाणां वेधोवदाचरणौपयिकी। वेधायन्त इत्यत्र 'कर्तु: क्यड् सलोपश्च' इति क्यङस्सलोपो विशेषः। इदं तु आचारस्य साधारणधर्मतामभ्युपयतां प्राचां मते उदा- हरणद्वयम् ये तु क्यजाद्यर्थ आचारो न साधारणो धर्मः धर्ममात्ररूपस्याचारस्य उपमाप्रयोजकत्वाभावात् 'नारीयते स- मरसीम्नि कृपाणपाणेरालोक्य तस्य ललितानि सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाऽध्यवसित- स्याचारस्योपमानिष्पादकत्वात्। यदि च क्यजाद्यर्थ आचारमात्र- मुपमानिष्ादकस्स्यात् तदा 'त्रिविष्टपं तत्खल भारतायते' इत्यादौ सामान्येनाचारोपस्थितावप्युपमालङ्गतेरनिष्पत्तिः तस्यैव 'सुपर्व- भिश्शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निष्पत्तिश्च न स्यात् तस्मात् क्यजाद्यर्थस्साधारणाऽपि नोपमां प्रयोजयति उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधानात्, अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्ल मिव पङ्कजम्' इत्यादी पूर्णोपमापत्तेरित्याचारमात्रस्य साधार- णधर्मतां नाभ्युपगच्छन्ति, तेषां मते तु नेदं वाचकमात्रलुप्ताया उदाहरणं भवितुमर्हृति धर्मस्यापि लुप्तत्वात्। किन्त्वन्यदेव॥ यथा- त्रिभुवनलोभनविभवं विभुमहिशैले भवन्तमा- भान्तम्। अनिमेषमीक्षमाणास्सनिमेषा अपि न रास्सुरायन्ते ॥५० ॥

Page 43

32 अलंकारमणिहारे

अत्र सुरनरयोरनिमेषेक्षणं साधारणो धर्म उक्त इति कर्तृ- क्याङ वाचकमात्रस्य लोप इति बोध्यम्।।

कर्मकर्तृणमुलोर्वाचकलुप्ता यथा- गर्भनिधायंनिदधद्गर्भे भुवनान्यनन्यशरणानि। जननीरक्षंरक्षसि घननीरदनील नीरजाक्ष त्वम्। अत्र गर्भानिव निदधदित्यर्थे गर्भनिधायमिति कर्मणमुलि गर्भाणां भुवनानां च निधानमनन्यशरणत्वं च साधारणो धर्मः 'गर्भे भुवनानि युगविगमसमये' इति द्वितीयपादे पितेऽपि निधानं साधारणो धर्मः। जननीव रक्षसीत्यर्थे जननीरक्षमिति कर्तृणमुलि रक्षसीति भगवज्जनन्योस्साधारणो धर्मः 'उपमाने कर्मणि च' इति णमुलि 'कषादिषु यथाविध्यनुप्रयोगः' इति णमुल्प्रकृतेर्धातोरतुप्रयोगः ॥

णिनौ वाचकलुप्ता यथा- मदमधुरद्विपगामी कामी कस्यांचिदम्बुधिविभूतौ। मदकलहंसालापी कोपीहापीनदोश्श्रियं दत्ताम्। कस्यांचिदम्बुधिविभूतौ अम्बुधिविभूतित्वेनाध्यवसितायां लक्ष्म्यामित्यर्थः। कामी कामुको भगवान् मदकलहंसालापी 'म- त्तहंसस्वरो युवा' इति श्रीरामायणोक्तेः । आपीनाः अतिमा- त्रपीवरा: दोष: भुजाः यस्य तथोक्तः। अत्र द्विपगामी हंसा- लापीत्युभयत्रापि द्विप इव गच्छति हंस इवालपतीत्यर्थे 'क- तर्युपमाने' इति विहितणिनौ वाचकलुप्ता। गमनं आलपनं च समानधर्मः । केचित्तु-कोकिलालापिनीत्यादिस्थले 'उप-

Page 44

उपमालंकारसरः (१) 33

पद्मतिङ्' इति समासस्य सन्रावेन समासगणनयैवैतस्यापि क्रोडीकाराद्वाचकलुप्ताविभागे णिनेः पृथग्ग्रहणं नाद्रियन्ते ॥५२॥ क्विपि वाचकलुसा यथा- अळिबालति हरिनीलति घनजालति सन्ततं. तमालति च। नीला तब रुचिमाला नीलाचलमौ- लिविहतिलोलात्मन् ॥५३।। नीलाचल इति वेङ्कटाद्रेरेव नामान्तरम्- नीलस्य वानरेन्द्रस्य यस्मान्नित्यमवस्थितिः । तस्मान्नीलाचलं नाम्ना वदन्त्येनं महर्षयः ॥ इति वाराहीयवेङ्कटाचलमाहात्म्योक्तेः। अत्र अळिवालतीत्यादी अळिबाल इवाचरतीत्यर्थे क्विपि नीलत्वं भगवद्रुचिमालायास्तेषां च साधारणो धर्मः । आत्मन्निति पृथक्पदं परमात्मन्निति भ- गवतस्सम्बोधनम्॥ तद्धिते वाचकलुपता ग्रथा- वेङ्कटपतिषदपङ्गजकिङ्करतायां न जातु यस्य रुचि: । दुर्विषयेष्वेव सदा वर्वर्ति नरोऽशुचिः खरकुटी सः ॥५४॥ खरकुटी खरनिवासक्षुद्रतमस्थानविशेषः। अत्र खरकुठीव पुरुष इत्यस्मिन्नर्थे 'इवे प्रतिकृतौ' इति विहितस्य कनः 'लु- म्मनुष्ये इति मनुष्यार्थे लुब्विधानात् खरकुटीत्यत्र वाचकलोप- स्तद्धिते। 'लुपि युक्तवद्वयक्तिवचने' इात युक्तवन्भावेन प्रकृति- लिङ्गता। अशुचित्वं साधारणो धर्मः। 'वर्वर्तति स एप खरकुटी- ALANKARA 5

Page 45

34 अलंकारमणिहारे

मनुजः' इति चतुर्थचरणनिर्माणे तदनुपादानेन धर्मवाचकलोपश्चात्र संभवति । 'लुम्मनुष्ये' इति सूत्रे चश्चेतिवत् खरकुटीत्यप्यु- दाहतं काशिकादौ॥ धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥१८॥ यथा- हृदये तव माऽलासीत्तदपाङ्गाळिस्तु परममा- लासीत। त्वं पितरसि मातरसि भ्रातरसि च दे- वपुङ्गव नतानाम् ॥ ५५॥ तव हृदये वक्षसि मा लक्ष्मीः अलासीत अराजीत् तस्याः अपाङ्गाळिः कटाक्षरेखा तु परं अतिशयितं यथातथा अमाला- सीत् मालेवाचारीत् मालातुल्याऽभूदित्यर्थः । मालाशब्दादाचा- रार्थे क्विपि लुडि सिचि 'यमरमनमातां सक्र' इति इट्सकौ॥ पितेवाचरसि पितरसि । एवमन्यदपि । अत्र 'माता पिता भ्राता' इत्यादिश्रुतिरतुसंहिता॥ अत्र मालेवाचारीत् पितेवा- चरसीत्यादयर्थे अमालासीत पितरसीत्यादौ मालादिशब्दाः क्वौ लुसे धातवः। तत्र मालादिशब्दाः लक्षणया मालादिसादृश्यं बोधयन्ति। लुप्नोपि स्मृतः क्िबाचारं बोधयतीि पक्षे वाच- कधर्मलोपस्स्पष्ट एव। मालादिशब्दा एव लक्षणया सादृश्या- भिन्नमाचारं बोधयन्तीति पक्षेऽपि सादृश्यस्येव धर्मस्यापि त- न्मात्रबोधकाभावाल्लोप एवेति वदन्ति। देवः पुङ्गव इवेति स- मासे वाचकलोपस्साधारणधर्माप्रयोगश्चेति धर्मवाचकलुप्ता । इयं च कर्माधिकरणक्यचोः खरकुटीत्यत्र तद्धितेऽपि धर्माप्र- योगे सम्भवतीत्यवोचाम ॥।

Page 46

उपमालंकारसरः (१) 35

धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्विते॥ वृत्तौ समासे इत्यर्थः ॥ वाक्ये धर्मोपमानलुप्ता यथा- येन समान: कश्चन मानवलोके क्ववाऽपि न लुलोके। तेन मयादपि दयाब्धे श्रीनिलय प्रा- थ्यसेऽपवर्गमहो ॥५६॥ अत्र येन मया समानो मानवलोके न लुलोके इति विशि- व्योपमानानुपादानाद्धर्मानुपादानाञ्च वाक्ये धर्मोपमानलुप्ता ।। समासे धर्मोपमानलुप्ता यथा- क्वापि सुदर्शनसदशो नादर्शि न दृश्यते न च द्रष्टा। येन पुरा वनमाली मालिशिरस्तत्सुमा- लिवदलावीत् ॥५७॥ अत्र क्वापि सुदर्शनसदशो नादर्शीत्यादिना उपमानस्य समासगतस्य निषेधात्समासगा धर्मोपमानलुप्ता । द्रष्टेति कर्मणि लुट्। तत् दुश्छेदतया प्रसिद्धं मालिनः तन्नाम्नोऽसुरस्य शिरः। सुमालिवत् सुमानां कुसुमानां आळिवत् पङ्किवत् सुमालिना- मासुरशिरोवत् इत्यपि प्रतीयते। अलावीत् अच्छिनत्। अ- नयाश्च नोपमानस्वरूपमेव प्रतिषिध्यते। किन्तूपमानदर्शनमिति नानन्वयालङ्कतिभ्रम: कार्यः । नापि वक्ष्यमाणचतुर्थप्रतीपशङ्का युक्ता, तस्य वर्ण्येनान्यस्योपमाया अनिष्पत्ती चमत्कारितया उपमानदर्शननिषेधेन चमत्कारिणोऽस्माद्वैलक्षण्यादिति दिक्॥

Page 47

36 अलंकारमणिहारे

तद्धिते धमोंपमानलुप्ता यथा-

मुचुकुन्दस्य गुहायां यदिह मुकुन्देन मेळनं य-

यमेतदिति ॥५८॥

अन्धकवर्तकीयमित्येतव काकताळीयशब्दतुल्यतया 'समा- साञ्च तद्विषयात्' इति सूत्रे काशिकायामुदाहतम्। वर्तको ना- म कश्चित्पक्षिविशेषः 'तेषां विशेषा हारीतो मद्गुः कारण्डवः प्रवः' इत्युपक्रम्य 'वर्तको वर्तिकादयः' इति खराविशेषवाचि- षु नामलिङ्गानुशासनात् । अत्र तद्धिते धर्मोपमानलुप्ता । तथा हि-अन्धकवर्तकययिमित्यत्र समासवविषये अन्धकवर्तकशब्दौ त- त्समवेतक्रियावर्तिनौ। ततश्च अन्धकावस्थानमिव वर्तकागमन- मिवेतीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासः। 'सुप्सुपा' इति वा। उभयत्रोपमेयं क्रमेण मुचुकुन्दस्य गुहायां क्वचिदवस्थानं तत्रैव मुकुन्दस्य गमनं च। तेन मुचुकुन्दस्य मुकु- न्दस्य च समागमः अन्धकवर्तकसमागमसदृश इति पर्यवस्य- ति। ततः पुनरन्धकवर्तकमिव अन्धकवर्तकायमिति द्वितीयस्मि- न्निवार्थे 'समासाच्च तद्विषयात्' इति सूत्रेण 'इवे प्रतिकृतौ' इत्यधिकारस्थेन छप्रत्ययः । ततश्च-अकस्मादागतो वर्तको यथा निरुद्यमेनान्धकेनासादित: तथा यदच्छयागतो मुकुन्दो निश्चे- प्टतया निद्राणेन मुचुकुन्देनासादित इति निष्पद्यते। तथाचांत्र प्रत्ययार्थोपमायां अन्धककृतवर्तकोपादानरूपस्योपमानस्य साधा- रणधर्मस्य चानुपादानाद्धर्मोपमानलोपः । धर्मलोपस्त्वैच्छिकः । अत्र-

Page 48

उपमालंकारसरः (१) 37

यन्मेळनं गुहायां मुकुन्दमुचुकुन्दयोर्यदस्यास्मात्। वरलाभो यादच्छिकमासान्धकवर्तकीयमेवेदम् ॥

इति पद्यस्य प्रकारन्तरेण निर्माणे तु याद्ृच्छिकत्वरूपध- मौपादानात्प्रत्ययार्थोपमायां केवलोपमानलोपस्यापि तद्धिते इद- मेवोदाहरणं भविष्यति। अन्धकावस्थानमिव वर्तकागमनमि- वेति समासार्थोपमायां तु मुचुकुन्दावस्थानमुकुन्दागमनमेळनोप- मानभूतस्यान्धकावस्थानवर्तकागमनसमागमस्यानुपादानादुपमा - नलोप:। तथा समासवशाद्ाचकलोपः धर्मानुपादानाद्धर्म- लोपश्चेति धर्मवाचकोपमानलोपस्यापीदमेवोदाहरणं भविष्यती- त्यवहितचित्तैरन्तेवासिभिरनुसन्धेयम् ।।

क्वचिछलुप्ता वाचकोपमेयाभ्यामपि संमता॥ १९

यथा-

श्रीवासीयति सर्वोप्यावासं प्राप्य तस्य वृष- शैले। अतसीसुमसमतद्रुचिकृतसीमातीतका- लिमा कामम् ॥ ५९॥

सर्वोऽपि जनः वृषशैले तस्य श्रीनिवासस्य आवासं दि- व्यालयं प्राप्य प्रविश्य कामं यथेप्सितं अतसीसुमसमया तस्य श्रीनिवासस्य रुच्या प्रभया कृतस्संपादितः सीमातीतः अनव- धिकः कालिमा श्यामता यस्य तथाभूतस्सन् श्रीवासीयति आत्मानं श्रीनिवासमिवाचरति नीलवर्णतया तद्वदाचरतीत्यर्थः अत्र आत्मानं श्रीनिवासमिवाचरतीति सामथर्याद्गम्यमानतया

Page 49

38 अलंकारमणिहारे

स्वात्मन उपमेयस्य वाचकस्य च अनुपादानाद्वाचकोपमेयलोपः। इहात्मानमित्यपि सुवचत्वादुपमेयलोप ऐच्छिकः । न चात्र सर्व इंत्युपमेयोपादानमस्तीति कथमुमेयलोप इति वाच्यम् । कर्म- विभक्तयभावेन सर्व इत्यस्य श्रीवासीयतीत्यत्रोपमेयसमर्पकत्वा- भावात। न चैतदनुसारेण श्रीवासीयतीत्यत्र 'श्रीवास इवाचर- तीति समानविभक्तिकत्वकल्पनं घटते। कर्तृक्यचोऽननुशासना- दिति दिक़॥ क्वचित्समास एव स्याद्ाचकावर्ण्यलोपिनी॥ अवर्ण्यमुपमानम्। वाचकोपमानलुप्ता तु समास एव स्यादित्यर्थः ।

यथा- रहसि ब्रजसुन्दर्यास्समागमो यश्च यस्तदुप- भोगः। लोलम्बाम्बुरुहीयं तदिदं शौरर्यदच्छयोप- नतम् ॥६०॥ लोलम्बाम्बुरुहीयमित्यत्र काकताळीयमित्यत्रेव विग्रह.। तथाहहि-लोलम्बाम्बुरुहशब्दी वृत्तिविषये तद्गतक्रियावर्तिनौ । तेन लोलम्बागमनमिव अम्बुरुहविकसनमिव लोलम्बाम्बुरुहमिति पूर्वोक्तदिशा समासः। उभयत्रोपमेयं क्रमेण शौरेर्यत्रक्वचिन्नि- इशलाकप्रदेशे गमनं तत्रैव व्रजसुन्दर्या अवस्थानं च । तेन शौरिव्रजसुन्दरीसमागमो लोलम्बाम्बुरुहसमागमसदृश इति स- मासार्थोपमायाः पर्यवसानात्तत्र लोलम्बागमनस्याम्बुरुहविकस- नस्य च उपमानस्यानुपादानात्समासे वाचकलोपाच्च वाचकोप- मानलोपः। यदच्छयोपनतमिति धर्मोपादानान्न तल्लोपोऽपि॥

Page 50

उपमालंकारसरः (१) 39

या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा॥२० धर्मवाचकोपमानलुप्ता तु समासगा भवति। अवर्ण्यमु- पमानम् ॥। यथा- घनविद्युल्लावण्यं विनतसुरासुरनरावळिशर- ण्यम्। विलसतु किमपि वरेण्यं वृषगिरिपतिहृदय- धाम तारुण्यम् ॥ ६१ ॥ तारुण्यमिति पृथक्पदम्। तारुण्यत्वेनाध्यवसिता श्रीरित्यर्थः। अत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येत्यास्मन्नर्थेऽ- नुशिष्टो विद्युल्ावण्यमित्यत्र धर्मोपमानवाचकानां लोप: । सर्वो- व्ययं लोपः 'सप्तम्युपमान' इति शास्त्रकृतः। अयं च त्रिलो- प :- यन्मेळनं गुहायाममित्यत्र समासार्थोपमायामपि भवतीत्य वोचाम प्राक्। ततश्च त्रिलोपे धर्मलोपः क्वचिद्छिकोऽपि भवतीति द्रष्टव्यम्। नन्वत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येति विग्रहे सति समासे उपमेयभूतलावण्यपद- स्यैव लोपः किंन स्यात् तथा च वाचकोपमेयलुप्तैवेयं सम्प- द्यतां न तु धर्मवाचकोपमानलुप्तेति चेत् उपमेयलोपेऽपि न त्रि- लोपवत्त्वहानिरित्येके ।। वस्तुतस्तु-'अनेकमन्यपदार्थे' इति सूत्रस्थ 'सप्तम्युपमा- नपूर्वपदस्योत्तरपदलोपश्च' इति भाष्यवार्तिकानुरोधेनोपमानपद- स्यैवात्र लोपो युक्त। तथाहि वार्तिकस्यायमर्थः-सतम्युपमा- नपूर्वपदस्यत्यत्र सप्तमी कण्ठे स्थ इत्याद्येकदेशभूता कण्ठे इत्यादि- का सप्तमी उपमानं उष्ट्रमुखादिशब्दघटकं उष्ट्रेत्यादिकं उपमानं

Page 51

40 अलंकारमणिहारे

वा पूर्वपदं यस्य तत् सप्तम्युपमानपूर्वपदमिति बहुव्रीहिः । तस्य पदान्तरेण बहुव्रीहिः, उत्तरपदस्य पूर्वसमासचरमावयव- भूतस्य स्थ इत्यस्य मुखमित्यस्य च लोपश्च वाच्य इति। तथाच तत्र भाष्यम् । 'सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्री- हिर्वक्तव्यः। उत्तरपदस्य च लोपो वक्तव्यः। कण्ठेस्थः कालो यस्य कण्ठेकाल: उष्टमुखमिव सुखमस्य उष्ट्रमुखः' इति । अत्र वार्तिके उपसानशब्देन मुख्योपमानभूतस्य उष्ट्रमुखस्याश्रय उ- ष्रे लक्ष्यते। अन्यथा उष्ट्रमुखमित्यस्योपमानपूर्वत्वं न स्यात्। अतएव 'उष्ट्रमुखमिव मुखमम्य उष्टमुखः' इति प्रकृतवार्ति- कोदाहरणभाष्यप्रतीकमादाय 'अवयवधर्मेण समुदायस्य व्य- पदेशादुष्टस्योपमानतेत्युपमानपूर्व उष्ट्रमुखशब्दः' इति कैयटे व्य- व्रियत। एवंचात्र यथा कण्ठेस्थः कालो यस्य स इति बहु- व्रीहौ कण्ठशब्दोत्तरवर्तिस्थशब्दस्य लोप: यथा वा उष्टमुख- मिव मुखमित्यत्र षष्ठतित्पुरुषचरमावयवभूतमुखशब्दलोपश्च, तथा घनविदुल्ावण्यमिव लावण्यं यस्येति बहुव्रीहौ विद्युच्छब्दोत्तर- वर्तिमुख्योपमानवाचकलावण्यपदस्यैव लोपः न तूपमेयभूतलाव- ण्यपदस्येति धर्मवाचकोपमानलुपताया एवेदमुदाहरणं वोध्यम्। इदं सर्वमपि हंससन्देशरसास्वादिन्यामादिमपद्ये कल्पाकारा. मित्यस्य व्याख्यानावसरे निरूपितमस्माभिः॥

प्राश्चस्तु केचित्-अयश्शूलसदृशेन करेणाचारेण स्वार्थ- मन्विच्छति खले प्रयुज्यमाने आयश्शूलिकः खल इत्यत्र क्रूरा- चाररुपस्योपमेयस्य तैक्ष्ण्यादेर्धर्मस्य इवादेर्वाचकस्य चाप्रयो- गाद्धर्मोपमेयवाचकलुसाऽपि त्रिलोपे सम्भवतीत्याहः। तन्न चतु- रश्रम्-अयश्शूलपदेन कराचारं निगीर्याध्यवसानेनातिशयोक्त्या

Page 52

उपमालंकारसर: (१) 41

उपमेयस्योपादानात्तत्र नोपमेयलोप इति वदन्ति। आयश्शूलिक इत्यत्र 'पार्श्वेनान्विच्छति' इत्यधिकार 'अयश्शूलदण्डाजिनाभ्यां ठक्ठऔ' इत्यन्वीच्छतीत्यर्थे ठक्। ती्ष्ण उपायोऽयश्शलं ते- नान्विच्छतीत्यर्थः । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्र- त्ययविशेषगोचरतया शब्दशास्त्रव्युत्पत्तिवैदग्ध्यप्रदर्शनमात्रप्रयो- जनो नातिमात्रमलङ्कारशास्त्रेऽर्हति व्युत्पादनीयतामित्याद्कः॥

एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः२०॥

एवं मालोपमारशनोपमासावयवनिरवयवोपमादयोऽनेके भे- दास्सम्भवन्तोऽप्युक्तभेद एवान्तर्गतत्वान्न लक्षणीयाः पृथक्। अथापि कांश्चिल्लक्षयाम :-

एकस्यैवोपमेयस्य यद्यनेकोपमानता। तदा मालोपमामेतामाहुः केचिद्विचक्षणाः॥२१।

मालायां यथा एकेन पुष्पेणापरस्य पुष्पस्य ग्रथनं तथा उपमानां परस्परसम्बन्धान्मालोपमेत्येषा व्यवहियते। तथा च दण्डी- पूष्ण्यातप इवाह्नीव पूषा व्योम्नीव वासरः। विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमा मता ॥ इति ॥

एवंविधवैचित्र्य एवैषा । केवलमुपमानबाहुळ्ये तु वक्ष्यमाणा बहू- पमैव॥

यथा-

व्यालीशति कालीशति काशति राकाइशिप्र- ALANKARA 6

Page 53

42 अलकारमणिहारे

काशति च। कनकनगेशनखाभा कर्पूरति गाङ्गपू- रति च ॥ ६२ ॥ व्यालीशश्शेषः । कालीशशशम्भुः । कनकनगेशः वेङ्गटाद्रीशः। अत्रैकस्या एवोपमेयभूतायाइश्रीनिवासनखप्रभाया: मालारूपेण व्यालीशादयनेकोपमानोपादानान्मालोपमेयम्। अत्र पूर्व वाचकलु पोदाहरणतयोक्तः 'अलिबालति हरिनीलति' इत्यादिश्ोकोऽ- व्युदाहरणं, तत्र नीलेतिधर्मोपादानं विशेषः। सादृश्यनिमित्तधर्मों- पादाने च धर्मस्यैक्ये भेदे चेयं मालोपमा भवति॥

तत्र धर्मैक्ये यथा- निकष इव कनकरेखा विद्रुमलतिकेव विल- सति समुद्रे। अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला ॥ ६३ ॥ राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कवि- राजः । कुसुमसमृद्येव मधुर्माधवभकत्या विरा- जते मनुजः ॥६४॥ प्रातरिव पद्मलक्ष्मीशशीतज्योतिःकलेव सि- तपक्षे। सायमिव कुवलयश्रीः प्रायश्श्रीशाश्रिते विभाति श्रीः॥६५॥

मधुमासीव हिमानी विधुभासीवास्तमेति ता-

--

Page 54

उपमालंकारसर: (१) 43

पद्धिः। इरदीव च जलदाभा वरद तवालोकने दुरितविततिः ॥६६॥ धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन्। मशका इव कीटेषु च वशिका नूषु ते त्वयीश ये विमुखाः॥६७॥ अत्रोदाहरणपश्चकेऽपि लक्ष्मप्रभृतीनामेकैकोपमेयानां कन- करेखाद्यनेकोपमानोपादानान्मालोपमा। निकष इवेत्यादिना ध- र्मस्य बिम्बप्रतिबिम्बभावेन विलसतीत्यादिना अनुगामितया च निर्देश: पूर्वोदाहरणापेक्षया विशेषः । वशिका इत्यस्य तुच्छा इत्यर्थः । 'वशिकं तुच्छरिक्तके' इत्यमरः । अत्राप्याद्योदाह- रणत्रितये श्राध्यान्युपमेयानि। अन्तिमोदाहरणद्वितये गर्ह्ये उप- मेये इति वैलक्षण्यं बोध्यम्। इयमेव स्तबकोपमा मालारूपा। यथोक्तं दण्डिना-

अनेकस्यार्थयुग्मस्य सादृशयं स्तबकोपमा। श्रितोस्मि चरणे विष्णोर्भृङ्गस्तामरसे यथा॥

इति। नच विधुभासीव पतङ्गिका इवेत्यादौ लिङ्गभेद उप- मादोष इति शङ्कयम्। सहृदयहृदयानुद्वेगदायितया तस्यादो- षत्वात्। यथाऽह दण्डी -- न लिङ्गवचने भिन्ने न हीनाधिकते अपि। उपमादूषणायालं यत्रोद्वेगो न धीमताम्।। स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव। प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता॥

Page 55

44 अलंकारमणिहारे

भवानिव महाराज देवराजो विराजते। अलमंशुमतः कक्ष्यामारोदुं तेजसा नृपः ॥ इत्येवमादि सौभाग्यं न जहात्येव जतुचित्। अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा॥ हंसीव धवळश्चन्द्रस्सरांसीवामलं नभः । भर्तृभक्तो नरइश्वेव खद्योतो भाति भानुवत्।। ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम्। इति॥

धर्मभेदे यथा- जलधिवदतिगम्भीरा जलरुहदळवन्नितान्तसु- कुमाराः। कल्पागमवदुदाराः कल्पन्तां नशुभा- य हरिदाराः॥ ६८।

पूर्वोदाहरणेषु सर्वत्र साधारणधर्म एक एव। इह तु भिन्न- भिन्नः। पूर्वत्र समासगा वाक्यगा च पूर्णोपमा । इह तु तद्धि- तगा सेति भेदः । मालारूपत्वं तु तुल्यमेव ॥

रुद्रटस्तु धर्मभेदे सत्येव मालोपमां मन्यते। तथा च काव्यालंकारे- मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम्। उपमीयेतानेकैरुपमानैरेकसामान्यैः ।। इति। उदाजहार च- इयामा लतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे। हंसीव कलालापा चैतन्यं हरति निद्रेव। इति।

Page 56

उपमालंकारसर: (१) 45

मते त्वस्मिन् 'जलधिवत्' इत्यादिकमेव मालोपमोदाहरणं बोध्यम्॥। भरतस्तु- एकस्यैकेन सा कार्याऽनेकेनाप्यथवा पुनः। अनेकस्य तथैकेन बहूनां बहुभिस्सह॥ इत्युपमायाश्चातुर्विध्यं प्रादर्शयत् । सा उपमेत्यर्थः । तत्र एकस्यैकेनोपमारूप: प्रथमप्रकार: 'गगनं यथा फणीश्वरनग- पतिहृदयम्' इत्यादिप्रागुदाहतपद्येषु द्रष्टव्यः॥ एकस्य बहुभिरुपमारूपो द्वितीयप्रकारस्तु तेनेत्थं प्रदर्शितः तथाहि- शयेनबर्हिणभासानां तुल्याक्ष इति या भवेत्। एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता॥ इति। दण्डी च इममेव प्रकारं वहपमेति व्यवाहार्षीत्। त- थाच काव्यादर्शे- चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः। स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥ इति। तदनुरोधेनेदमुदाहरणम्। यथा- कुवलयजलधरयमुनातमालसब्रह्मचारिरुचिर- रुचिः। सरसिजकिसलयविद्रुमसहचरचरणो म- माच्युतश्शरणम् ॥ ६९॥ अत्र सब्रह्मचारिसहचरशब्दौ उपमानार्थकौ। तथाच दण्डी-

तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ॥

Page 57

46 अलंकारमणिहारे

प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । सदक्सदशसंवादिसजातीयानुवादिन:। प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः। सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि। सवर्णतुलितौ शब्दौ ये वाऽ(चा)न्यूनार्थवाचकाः॥ समासञ्च बहुव्रीहिश्शशाङ्कवदनादिषु। स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति॥ आक्रोशत्यवजानाति कदर्थयति निन्दति। विडम्बयति संरुन्धे हसतीर्ष्यत्यस्यति॥ तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्ति विलुम्पति॥ तेन सार्ध विगृह्षाति तुलां तेनाधिरोहति ॥ तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते। बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिणः॥ तमन्वेत्यनुबन्नाति तच्छीलं तन्निषेधति। तस्य वाऽनुकरोतीति शब्दास्साधर्म्यबोधकाः॥ उपमायामिमे प्रोक्ता: कवीनां बुद्धिसौख्यदाः ॥ इति ॥

अत्र तस्य वाऽनुकरोतीत्यत्र इतिशब्द: प्रकारवाची। एवंप्र- काराश्शब्दास्साधर्म्यबोधका इत्यथेः। तेन सगोत्रसब्रह्मचारिदाया- दप्रभृतानामप्युपमानबोधकत्वं सिध्यति । अत्र इवादयो निपाताः । वदिति इवार्थे तुल्यार्थे च विहितो वतिप्रत्ययः । कल्पदेश्य- देशीयास्तद्धितप्रत्ययाः । यद्यप्येते ईषदसमाप्तचर्थे विहिताः तथाऽपपि तुल्यार्था एव। ईषदसमाप्तेरपि सादृश्ये पर्यवसानात्।

Page 58

उपमालंकारसर: (१) 47

यथोक्तं कैयटेन-'गुड इवेषदसमाप्ता द्राक्षा गुडकल्पा। यद्यप्य- त्रोपमानं नोपात्तं, तथाऽपि सामर्थ्यादुपमानोपमेयभावः' इति। तत्र प्रत्ययानामुपमानोत्तरमेव प्रयोग: तस्यैव तत्प्रकृतित्वात्। नि- भादीनां पदानां तु-'वाच्यलिङ्गास्समस्तुल्यः' इत्यारभ्य 'स्यु- रुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः' इति नि- त्यसमासविषयतानुशासनात् चन्द्रेण समं चन्द्रनिभमित्यस्व- पदेन विग्रह्ः प्रदर्शनीयः । तदुक्ततं क्षीरस्वामिना-'उत्तरपदे इत्युक्तेश्चन्द्रेण निभमिति न भवति'रति। वैरिसुहृद्वाचकास्सा- दृशयार्थाः। शशाङ्गवदनेत्यादौ उपमानपूर्वपदो बहुव्ीहिः। प्रति- बिम्बः स्पर्धत इत्याद्यस्सादृश्याक्षेपका इत्यलम्। प्रकृतमनु- सरामः। अनेकस्यैकोपमारूपस्तृतीयप्रकारश्च भरतेनैवं प्रदर्शित :- चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमाः । एकेन सा त्वनेकेषासुपमा संग्रकीर्तिता॥ इति ॥ तत्रेदमुदाहरणम- अमृतमयलोकबान्धवदृष्टिप्रथिता जगत्स्थिति- कृतास्थाः । हृदि सच्छ्रियं दधाना भगवत्तुल्या वि- भान्ति भागवताः॥। ७० ।।

अमृतमयलोक: अप्राकृतलोक: परमं पदमित्यर्थ। तस्य बान्धवी प्रापयित्रीति यावत्। दृष्टि: ज्ञानं दर्शनं वा येषां ते तथा- विधा इति प्रथिताः निशश्रेयसप्रदाननिदानज्ञानपौष्कल्यवत्तया प्रसिद्धाः तथाविधदर्शना इति प्रसिद्धा इति वारऽर्थः । पक्षे-अमृ. तमयश्चन्द्रमाः लोकबान्धवो भानु: तावेव दष्टी अक्षिणी यस्य तथोक्त इंत प्रथित इति वचनविपरिणामेन योज्यम् । जगतः

Page 59

48 अलंकारमणिहारे

स्थितिः वर्णाश्रमादिधर्ममर्यादा 'स्थितिः स्त्रियामवस्थाने मर्या दायां च सीमनि' इति मेदिनी। तस्यां कृतास्थाः 'अविप्ठु- वाय धर्माणां मर्यादास्थापनाय च' इत्यारक्य 'मनीषी वै- दिकाचारं मनसाऽपि न लङ्गयेत्' इत्युक्तरोत्या स्वानुष्ठाना- दिना जगन्मर्यादापालयितार इत्यर्थः । पक्षे-जगतां स्थितौ पालने कृतास्थ: ॥ नहि पालनसामर्थ्यमृते सर्वेश्वरं हरिम्। स्थितौ स्थितं महाप्राज भवत्यन्यस्य कस्यचित्॥ सृजत्येष जगत्स्ष्टा स्थितौ पाति सनातनः । इत्युक्तेः। हृदि मनासे सतां श्रीः सच्छीः तां त्रयीमित्यर्थः । 'ऋचस्सामानि यजूषि। सा हि श्रीरमृता सताम्' इतिश्रुतेः। दधाना हृद्रतसकलवेदतदर्था इत्यर्थः । पक्षे-सतीं श्रियं लक्ष्मीं दधान इति । भागवताः भगवत्तुल्याः विभान्ति। अत्रानकेषां भागवतानां भगवानेक एवोपमानं समानधर्मश्क्षेषमूलकः । भग- वत्तुल्या इत्यत्रोपमानवाचिपदगतवचनस्य वृत्तिलुप्ततयाऽनुद्वे- जकत्वान्न भिन्नवचनतालक्षणदोष इति व्येयम्। इयं सामान्यध- र्मस्यैक्य एव सवति उपमानस्यैकत्वादिति ध्येयम्॥। बहूनां बहुभिरुपमारूपस्तुरीयः प्रकारस्तु पूर्वमुदाहते 'धा- न्येषु पुलाका इव' इत्यादौ द्रष्टव्यः॥

पूर्वपूर्वोपमेयस्थ भवेद्यदुत्तरोत्तरम्। उपमानत्वमेषोक्ता कविभी रशनोपमा ॥ २२॥

प्रथमोपमायां यदुपमेयं तच्चेदुत्तरोपमायामुपमानं भवति सा रशनोपमेत्यर्थः ॥

Page 60

उपमालंकारसरः (१) 49

यथा-

हृदयमिव हारि वदनं वदनमिवानन्ददायि तव वचनम्। वचनमिव ललितवर्ण नयनं नयनश्रुती- न्द्रशिखरिमणे ॥७१॥

अत्र पूर्वपूर्व प्रत्युपमेयत्वेनोपात्तस्य वदनादेरुत्तरोत्तरं प्रत्युप- मानत्वेनोपादानमुत्तरोत्तरस्य शृङ्रलायामिव पूर्वपूर्वसम्बन्धित- येति रशनोपमा। हृदयवदनयोः हारीति हारवत्वमनोहरत्वरू- 2

पार्थद्यक्रोडीकारेण समानधर्मः। एवं वचननयनयोरपि ललित- वर्णमिति मधुराक्षरत्वरमणीयविशदतादिवर्णवत्त्वरूपार्थद्वयाभेदा- ध्यवसायेन। वदनवचनयोस्तु आनन्ददायात्यनुगामितयेति वैल- क्षण्यमनुसन्धेयम् ॥ इयं धर्मभेदे रशनोपमा॥

धर्मक्ये यथा-

ऐश्वर्यमिव स्थैर्य स्थैर्यमिवौदार्यमहिगिरिसुर- द्रोः । औदार्यमिवावार्य शौर्य शौर्यमिव हन्त गा- म्भीर्यम् ॥७२॥

अत्रावार्यित्येक एव धर्मः। एवं धर्मलोपेऽप्युदाहार्यम्॥

इयमुपमाऽपि रूपकवत्केवलनिरवयवा मालारूपनिरवयवा समस्तवस्तुविषयसावयवा एकदेशविवर्तिसावयवा केवलश्िप्ट- परम्परिता मालारूपश्विष्टपरम्पारता केवलशुद्धपरम्परिता मा- लारूपशुद्धपरम्परिता चेत्यष्टधा। तत्रोपमायां केवलत्वं मालान- न्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम्। इयं च बहुधा ALANKARA 7

:

Page 61

50 अलंकारमणिहारे

पूर्वमेवोदाहता। मालारूपनिरवयवाऽपि 'अलिबालति हरिनील ति, व्याळीशति कालीशति' इत्यादावुदाहतैव। समस्तवस्तुविषया सावयवा यथा- रचितोदया कळिन्दाद्रुचिरोदारा गिरेरिव मुकु- न्दात्। सरिदिव सुषमालहरिर्हरते परितापमिव घनं पापमू॥७३॥

यथा वा- यमुनाहदमिव हृदयं कमलमिवावैमि कौस्तु- भममुष्मिन्। डिण्डीरा इव हारा: कुण्डलिशिख- रीन्द्रमण्डन तवैते॥ ७४॥

समस्तानि वस्तूनि अवयवी अबयवाश्च विषया यस्या- स्सा समस्तवस्तुविषयेत्यर्थः। अत्र श्रोकद्वयेऽपि अवयविनोऽव- यवानां चोपमानानां शब्दैरेव सामस्त्येनोपादानात्समस्तवस्तु- विषयताऽस्याः, अवयवोपमाननिष्पाद्यमानत्वाच्च सावयवता च। अत्रादये पद्ये धर्मस्योपादानं द्वितीये तु तन्नेति विशेषः। इय- मनेकेवशब्दा वाक्यारथोपमेति दण्डी। यथोक्तं काव्यादर्शे तेन- वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा॥ त्वदाननमधीराक्षमाविर्दशनदीघिति। भ्रमन्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम्॥ नलिन्या इव तन्वङ्गयास्तस्या: पझ्ममिवाननम् ।

Page 62

उपमालंकारसरः (१) 51

मया मधुवतेनेव पायंपायमरम्यत। इति। एकेवशब्दवाक्यार्थोपमा त्वग्रे प्रदर्शयिष्यते॥

एकदेशविवर्तिनी सावयवा यथा- ननु भवदाहितगर्भा प्रकृतिः प्रासूत नाथ हं- सीव। कोशमिव ब्रह्माण्डं श्रीश ततोऽजनि विधा- तृकादम्बः ॥ ७५।। अत्र- मम योनिर्महद्रह्म तस्मिन् गर्भ दधाम्यहम्। सम्भवस्सर्वभूतानां ततो भवति भारत ॥। सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥ इति गीताश्ोकार्थोऽनुसंहितः । "कृत्स्नस्य जगतो योनि- भूतं मम महद्गह्म यत् या प्रकृतिः तस्मिन् गर्भ द्धामि 'इतस्त्वन्यां प्रकृति विद्धि मे पराम्। जीवभूताम्' इति निर्दिष्टाचेतनपुञ्जरूपा या परा प्रकृतिः सेह सकलप्राणिबीज- तया गर्भशब्देनोच्यते। तस्मिन्नचेतने योनिभूते महात ब्रह्मणि चेतनपुञ्जरूपं गर्भ दधामि अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृति संयोजयामीत्यर्थः। ततः तस्मा- त्प्रकृतिद्वयसंयोगान्मत्सङ्कल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्य- न्तानां संभवो भवति। सर्वासु योनिषु देवगन्धर्वादियोनिषु तत्तन्मूर्तयो यास्सम्भवन्ति तासां ब्रह्म महदयोनि: कारणं मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणमि- त्यर्थः । अहं बीजप्रदः पिता तत्रतत्र तत्तत्कर्मानुगुण्येन

Page 63

52 अलंकारमणिहारे

चतनवर्गस्य संयोजकश्चाहमित्यर्थः" इति भाष्यम् । कोश- मिव अण्डामव 'पेशी कोशो द्विहीनेऽण्डम्' इत्यमरः। अत्रो- त्तरार्धे विधातृकादम्ब इत्यत्र उपमितसमास एव, विशेषणस- मासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्। उपमानप्रायपा- ठाञ्च। 'श्रीश ततोज्जनि मराळ इव धाता' इति तुरीय- पादपाठे तु स्पष्टैवोपमा। अत्र भगवतः कलहंसोपमा शब्दे- नानभिहिताऽप्यङ्गोपमाभिराक्षिप्ता प्रतीयत इत्येकदेशविवर्तिनी- यमुपमा। अवयवावयविनोरेकदेशे विशेषेण वाच्यतया वर्तत इत्येकदेशविवर्तिनीति ध्येथम्। अत्र विधातृकादम्ब इति जी- वसमष्टिभूतचतुर्मुखजननवर्णनादन्येषामपि जननमर्थसिद्धमित्यु- दाहृतवचने 'सम्भवस्सर्वभूतानां' इति सर्वभूतोत्पत्तिकथने- नेदं न विरुध्यते। एवं सति- अप एव ससर्जादी तासु वीर्यमपासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्॥ तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकापितामहः। इति मनुवचनमप्यनुगुणं भविष्यतीति द्रष्टव्यम्।। केवलश्िष्टपरंपरिता यथा- आदित्याम्युदयस्य प्रत्यूष इव प्रकाशभूमा- नम्। विदधानो घनधामा श्रीमानाभाति शेषगि- रिघामा ॥ ७६॥ आदित्यानां देवानां आदित्यस्य भानोश्च अंभ्युदय: ऐ. शवर्य उदयश्च। अत्र क्षेषोपस्थापितेन देवाभ्युदयेन सूर्योदय- स्योपमा भगवतः प्रत्यूषोपमोपाय इतिं केवलव्लिष्टपरंपरिता।

Page 64

उपमालंकारसरः (१) 53

अन्यान्योपायतारूपस्यैव परंपरितत्वस्येह परिभाषणात् माला रूपताविरहाच्च।

केवला मालारूपा श्लिष्टपरंपरिता यथा-

सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यज- लद इव। तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो॥७७॥

सत्वस्य सत्त्वगुणस्य मृगादिजन्तुजातस्य च। जात्यभिप्रा- यकमेकवचनम्। हिमालय इव यथा हिमाद्रिस्सर्वसत्त्वषोषण- घुर्राणः तथाऽयं भगवान् स्वाश्रितानां सत्वपोषणधुरीण इति भावः । 'महान् प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः' इति हि श्रूयते। रजसः रजोगुणस्य पांसोश्च प्रावृषेण्यजलद इव नि· र्वापक इति भावः। तमसः तमोगुणस्य तिमिरस्य च मह- सां निधिरिव निश्शेषनिवर्तक इति भावः। अत्र श्ेषोत्था- पितैः जन्तुपांसुतिमिरैस्सत्वरजस्तमोगुणानामुपमाः हिमाचल- प्रावृषेण्यजलदभानुभिर्भगवत उपमानामुपायाः। नन्वत्र जन्तु- पांसुतिमिराणामिव सत्त्वरजस्तमसामित्येतादृशी उपमा कथ- मिव सुशका प्रत्येतुम्। उपमानपिमेयशब्दानां पृथगदर्शनादिति चेत्-शेषस्थले ह्येकपदोपात्तत्वेन रूपणाभेदाध्यवसानस्येव ते- नैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात्। तस्यैव प्रकृते प्रयोज्याया उपमाया उपायत्वादिति वदन्ति॥

यथा वा- शाखिकुलामोदानां माधव इव माधवाहिधर- 1

Page 65

54 अलंकारमणिहारे

धामन्। सुकविरिवास्तोकानां श्लोकानां घन इ- वासि भुवनानाम् ॥ ७८ ॥ अहिधरधामन् हे साधव श्रीनिवास माधव इति श्रीनि- वासस्य नामान्तरं 'माधवं वेङ्कटगिरौ' इति भगवच्छास्त्राक्ते: । शाखा एषां सन्तीति शाखिन: तरवः वेदभेदाध्यतारो द्विजाश्च तेषां कुलस्य आमादा: परिमळाः आनन्दाश्च तेषां 'शाखा पक्षान्तरे बाहौ वेदभागद्रुभागयोः' इति मेदिनी। माधव इव वसन्त इव प्रवर्तक इति भावः। अस्तोकानां श्ोकानां प- दानां यशसां च सुकविरिव निदानभूत इति भावः। 'तस्य नाम महदशः' इति श्रुतेः । 'पद्ये यशसि च श्रोकः' इत्य- मरः। भुवनानां जलानां जगतां च घन इव आधारभूत इति भाव:। अत्र श्ेषोन्मीलितैः तरुकुलपरिमळपद्यजलैः वैदिकप- रिषदानन्दयशोलोकानामुपमा: वसन्तसुकविघनाघनैरभगवदुपमा- नामुपायाः॥

यथा वा- उल्लासयसि निकामं शरदागम इव शुचिद्वि- जान् श्रीमन्। कल्याणानां महतामाधारस्त्वं सु- मेरुरिव भूमन् ॥ ७९ ॥ हे भूमन् भगवन् 'यत्र नान्यत्पश्यति नान्यच्छृणोति ना- न्यद्विजानाति स भूमा' इति श्रुतेः। शुचिद्विजान् हंसान्।पक्षे- योऽर्थे शुचिर्हि स शुचिर्न मृद्धारिशुचिरशुचिः। क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धि: परमा मता॥

Page 66

उपमालंकारसरः (१) 55

इत्युक्तप्रकारसर्वविधशुद्धिमतो विप्रान् कल्याणानां सुवर्णानां मङ्गळानां च 'कल्याणं हेस्नि्रि सङळे' इति हेमचन्द्रः। अत्र ऋ्ेषोपस्थापिताश्यां हंससुवर्णाभ्यां शुद्धविप्रमङ्गळयोरुपमे श- रदागमसुमेरुश्यां भगवत उपमयोरुपायः। पूर्वोदाहरणयोर्धरमों- तुक्त: इह तूक्त इति भिदा। यद्यपि 'सत्त्वस्य' इति प्राथमि- कोदाहरणे भासोत्यनेन साधारणधर्म उपात्त इव भातति। तथाऽपि तत्रावश्यं विवक्षितानां पोषणनिर्वापणनिश्शेषनिवर्तनानामेव स- मानधर्मतायास्स्वारसिकतया केवलभानस्यातथात्वेनाचमत्कारि तया च स न विवक्षित इति ध्येयम् । किं च पूर्वोदाहरण- योर्बहूनां मालारूपता अन्तिमोदाहरण द्वयोरिति भेदः। आद्- योरपि परस्परं भेद: अनुपदमेव स्फुटीभविष्यति॥ केवलं शुद्धपरंपरिता यथा - अहिपतिगिरिपतिहृदये प्रहसितलसितासिता- म्बुजात इव। अलिसंहतिरिव विलसति तुलसी- दलसम्भृता माला ॥८० ॥ प्रहसितेति भावे क्ः । प्रहसितेन विकासेन लासते असि- ताम्बुजे इन्दीवर इत्यर्थः। तुलसादलमालाया अलिसंहत्या

जातपरंपरम्॥ केवला मालारूपा शुद्धपरंपरिता यथा- पुंगवसि गवन्तीनां पुरा करेणवसि करिणय- न्तीनाम्। नन्दव्रजसुदतीनां चन्दनसि मुकुन्द व- ल्लयन्तीनाम् ॥८१॥

Page 67

56 अलंकारमणिहारे

पुरा पुंगवसि पुंगव इवाचरसि 'पुरि लुङ्गास्मे' इति पुराशन्दयोगाङ्भते लट्। गाव इवाचरन्त्यः गवन्त्यः तासाम्। क- रेणुरिवाचरसि करेणवसि करिण्य इवाचरन्त्यः करिणयन्त्यः तासाम्। वल्लय इवाचरन्तीति वल्लयन्त्यः तासाम्। सर्वत्राचारार्थे किप। अत्र गोपिकानां गवादिभिरुपमा भगवतः पुंगवाद्यपमाया उपाय इत्युपमा एतास्संजातपरम्परा मालारूपा: केवलं शुद्धाः॥ यथा वा- नयगहनस्य पथीनति परविद्याजलनिधेर्म- थीनति च । कृतमतिदिविषद्विततेः कृष्ण ऋभुक्षी- णति त्वयि प्रणतः ॥ ८२ ॥ हे कृष्ण त्वाय प्रणतो जनः नयः शास्त्रं तत् गहनमिव दुरवगाहं वनमिव नयगहनमित्युपमितसमास, पथीनतीत्युप- मानालविङ्गात्। न तु मयूरव्यंसकादिः । तस्येहानुपयोगात् । तस्य पर्थानति पन्था इवाचरात पथीनति 'उपमानादाचारे' इति ककिप। 'अनुनासिकस्य क्विझलोः' इत्युपधादीर्घः। एवम- ग्रेऽपि। अनेन 'तत्रापरा ऋगवद:' इत्यायुक्तापरविद्याप्रवक्तृत्वं सूचितम्। परविद्या 'अथ परा यया तदक्षरमधिगम्यते' इत्युक्ता ब्रह्मविद्या। जलधिरिवेति पूर्ववत्समासः । तस्य मथीनति मन्था इवाचरति। अनेन ब्रह्मविद्यासर्वस्वपरामार्शित्वं सूचितम्। अत एव कृतमतयः वैज्ञानिका: दिविषद इव तेपां विततेः ऋभुक्षा इवाचरतीति ऋभुक्षीणति। अत्र नयपरविद्याकृतमतीनां गहनजलनिधिदिविषदुपमा: भगवत्प्रणतस्य पथिमथितभुंक्ष्युप- मानामुपाया इत्युपमा एता: पूर्ववदेव परंपरिताः मालारूपा- शशुद्धाश्च । अत्र 'पथिमथ्यृभुक्षाम्' इति सूत्रनिबद्धपथ्यादि-

Page 68

उपमालंकारसरः (१) 57

शब्दार्थानामुपमानविधया क्रमेण निबन्धनाद्वक्ष्यमाणरतनावळ्य- लङ्कारेण सङ्कीर्णत्वं पूर्वोदाहरणाद्विशेष: ॥

एवमुपमानयोरन्योन्यमुपमेययोश्चानुकूल्ये उपमेययोरेषोपाय- ता निरूपिता ॥ प्रातिकूल्ये उपायता यथा- जलदायते सदा खल निदाघदावाग्निदाहते म- हते। द्विपदां कुलाय विपदां पृदाकुवरगिरिमदा- वळेन्द्रोडयम् ॥ ८३ ॥

निदाघदावाग्निदाहवदाचरते महते द्विपदां मनुजानां स- म्बन्धिने विपदां कुलाय जलदायते जलद इवाचरति। पृदा- कुवरगिरिश्शेषाद्रि: तस्य मदावळेन्द्रः तत्त्वेनाध्यवसितश्श्रीनि- वास इत्यर्थः। अत्रोपमानयोर्दवास्निदाहजलदयोरन्यान्यमुपमेय- योश्च मनुजविपत्फणिशिखरिनाथयोः प्रातिकूल्येऽपि उपमयोः परस्परमानुकूल्यादुपायतैव॥

इयं मालारूपतायामपि भवति। यथा- सुत्रामाणसि महतां सपक्षशिखरीणतां सुर- द्विषताम्। पूषाणसि हिमतामिह राजानसि तम- सतां च शौरे त्वम् ॥८४ ॥

सुत्रामेवाचरसि सुत्रामाणसि सुन्नामन्शब्दात् 'सर्वप्रा- तिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विपि 'अनुनासिकस्य किझलोः' इत्युपधादीर्घः । एवं शिखरीणताभित्यादावपि। सप- ALANKARĄ 8

Page 69

58 अलंकारमणिहारे

क्षशिखरिण इवाचरन्तीति सपक्षशिखरीणन्तः तेषाम् । क्किब- न्ताच्छता। पूषेवाचरसि पूषाणसि हिमानीवाचरन्तीति हिमन्तः तेषाम्। राजेव चन्द्र इवाचरसि राजानसि तमांसीवाचरन्तीति तमसन्तः तेषां। सर्वाणि षष्ठचन्तपदानि सुरद्विषामित्यस्य वि- शेषणानि। एवं केवलल्िष्टपरंपरितमालारूपोपमाया उदाह- रणे 'सत्वस्य हिमालय इव' इति प्राथमिकपद्ये 'रजसस्त्वं प्रावृषेण्यजलद इव' इत्यादौ प्रातिकूल्ये उपायता द्रष्टव्या। एवं च सा आनुकूल्यप्रातिकूल्यमिश्रेति सिद्धम्। इतश्चान्येऽ- पि भेदा: कुशाग्रीयमतिभिः कृतिभिस्स्वयमेव विभावनीया इति विस्तरभयादुपरम्यते॥

अत्रोपमायां पूर्णायां धर्मः क्वचिदनुगाम्येव निर्दिश्यते। क्वचित्केवलं बिम्बप्रतिबिम्बभावमापन्नः। क्कचिद्वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिच्छुद्धवस्तुप्रतिवस्तु- भावमापन्नः। क्वचिदसन्नप्युपचरितः । क्वचिच्छन्दात्मकः, अयमेव श्लेषात्मकः । क्वचित्समासान्तराश्रयणमूलकः । क्वचिदेषां यथास- म्भवं मिश्रणेन ।।

तत्रानुगामी धर्मो यथा -

ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ म हामहसौ। सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्दौ ॥८५॥

अत्र नित्यसंबद्धाविति सकृन्निर्देशात् ज्योत्साचन्द्रमसोः श्रीश्रीनिवासयोश्च साधारणो धर्मोडनुगामी॥

Page 70

उपमालंकारसर: (१) 59

यथा वा- कादम्बिनीव नीला काकोदरगिरिदरीविहति- लोला। आप्याययति सुमहती काऽप्येषा देवताऽ- द्ुता जगतीम् ॥८६॥ अत्र नीलेति आप्यायतीति च सकृन्निदेशात्परदेवताका-

यथा वा- निधिमनवधिमिव फणिगिरिनिहितपद हितपदं विधुतविपदम्। निर्विश्य नीरजाक्षं नितरां को नाम भवति दीनात्मा ।८७॥ हितपदं हिताधायकं अत्र हितपदत्वादिर्धमोऽनुगामी॥ यथा वा -- तावकपदपद्मयुगीसेवकतां ये न जात्वपीप्सन्ति। नाशायैव हि जाताश्श्रीशाब्धेर्बुहुदा इव त एते ॥ यथा वां- सुकतेक्षणजनुषान्धास्सकृदपि न नमन्ति ये रमाकान्तम्। अकृतहिता व्यर्थममी शकदुदिताः क्रिमय इव विनश्यन्ति ।८९।। सुकृतेक्षणे पुण्यदर्शने विषये जनुषान्धाः जात्यन्धाः 'पुं- सानुजो जनुषान्ध इति च' इर छुक। सुकृतव्युत्पत्तिशून्या

Page 71

60 अलंकारमणिहारे

इत्यर्थः । अत्र भगवदप्रणतानां निन्दायामेव तात्पर्यादुपमानस्य निहीनत्वं न दोष: । प्रत्युत गुण एव। उभयत्र नाशोऽनुगा- मीधर्मः ॥ केवलं बिम्बप्रतिबिम्बभावमापन्नो धर्मो यथा- कमलाभुजयुगळाश्चितपरितःपरिरम्भमद्गुतं किमपि। कनकशलाकावलयितमरकतनिभम- स्तु मनसि मम वस्तु ॥ ९० ।। कमलाभुजयुगळेन अश्चितः प्राप्तः परितः परिरम्भ: सर्वत- स्संश्षेषो यस्य तत् किमपि अद्भुतं वस्तु श्रीनिवासः अत्र कमला- भुजयुगळकनकशलाकादेर्विम्बप्रतिबिम्भावेन साधारणधर्मता।। ननु कमलाभुजयुगळादेरसाधारणत्वात्कथमुपमेति चेत्- अत्राहु :- उपमेयगतानामुपमानगतानां च असाधारणानामपि ध- र्माणां सादृश्यमूलेनाभेदाव्यवसायेन साधारणत्वकल्पनादुपमा- सिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कर्थं नाम कम. लाभुजयुगळकनकशलाकादेर्वस्तुतो भिन्नस्य साधारणत्वसिद्ध- येऽत्यन्तमसन्नभेदइशक्रयात्सेद्ुम्, भ्रमेणार्थसिद्धेरयोगादिति वा- च्यम् । 'तव कोपो समाभाति सुधांशाविव पावकः' इत्या- दावप्युपमानोपमेययोरतिमात्रमसत्त्वऽपि यथा कल्पनामात्रेण नि- ष्पत्तिः तथैव प्रकृते साधारणधर्मस्यापीति व्येयम्। अयमेव हि 'वस्तुतो भिन्नयोर्धर्मयोः परस्परसादृश्यादभिन्नतयाऽध्यव- सितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः' इति प्राचीनैराभिधीयते॥ वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्न- स्तु धर्मस्त्रिविध: विशेषणमात्रयोः विशेष्यमात्रयोः तगुगळयोर्वा वस्तुप्रतिवस्तुभावेन करम्भितः ॥

Page 72

उपमालंकारसर: (१) 61

तत्राद्यो यथा- उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलि- खरशशिन्। उपरिष्टाज्चलदलकं वदनं तव विश्व- सम्पदां सदनम् ॥९१॥ अत्र उपरिचरत्वोपरिष्टाच्चलत्वयोर्वस्तुत एकविधयोरपि पृ- थक्छब्दाभ्यां निर्देशाद्वस्तुप्रतिवस्तुभावः तद्विशेषणकयोर्मधुकर कुलालकयोरबिम्बप्रतिबिम्बभाव इति तत्करम्भितत्वं धर्मस्य॥ द्वितीयो यथा- स्मितरुचिमसृणितमधरं फणघरधरणीघराधि- नेतुर्नः । दुग्धोद्धिमुग्धोर्मिस्त्निग्धं विद्रुममिवावले- ढि मनः ॥९२॥ अत्र मसृणत्वस्त्निग्वत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनो- पादानाद्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयोः स्मितरुचिदुग्धोदधिमु- ग्धोम्योर्विम्बप्रतिबिम्बभाव इति तत्करम्भितोऽयं साधारणधर्मः ॥ यथा वा- जाम्बूनदाद्रिशृङ्गे जम्बूतरुमिव चकासतं सत- तम्। कनकाभिधगिरिशिखरे कनन्तमीडीय कम- पि शुभराशिम् ॥९३॥ अत्र चकासत्त्वकनत्त्वयोर्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयो- जाम्बूनदाद्रि शृङ्गकनकाभिधगिरिशिखरयोर्विम्वप्रतिबिम्बभाव इ- त्ययमपि तत्करम्भित एव। कनकाभिधगिरिरवेकटाद्रि:। शुभ- राशित्वेनात्र भगवतोऽध्यवसानम्॥

Page 73

62 अलंकारमणिहारे

यथा वा- हीरकुरुविन्दहारप्रसृमररुचिशबलिता तनुलता श्रीः। देव तव गाङ्गसारस्वतपूरविचित्रितेव मि- त्रसुता ॥ ९४॥ अत्रापि शबलितत्वविचित्रितत्वयविस्तुप्रतिवस्तुभावः। तद्वि- शेष्यकयोः हीरकुरुविन्दहाररुचिगाङ्गसारस्वतपूरयोश्च बिम्बप्रति- बिम्बभाव इत्ययमपि तत्करम्भित एव। तृतीयो यथा- शिशिरतरसलिलरुचिरा इशिशेखरमकुटवा- हिनीवैषा। शीतलतरकरुणारसमधुराSहिधुरंधरा- द्रिनाथवधूः ॥९५॥ अत्र विशेषणयोश्शिशिरतरत्वशीतलतरत्वयोः विशेष्ययोः रुचिरत्वमधुरत्वयोश्च वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितस्सलि- लकरुणारसयोिम्वप्रतिबिम्बभाव इत्ययमपि तत्करम्भित एव।।

यथा वा -- सुन्दरकुरुविन्दमणीसमुद्गकान्तस्थहीरहारल- ताम्। मसजुलरदनच्छदयुगमध्यगता जयति नाथ दशनाळी ॥ ९६॥ अत्रापि विशेषणयोस्सुन्दरत्वमञ्जलत्वयोः विशेष्ययोश्चान्त- स्थत्वमध्यगतत्वयोः वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितः कुरु विन्दमणीसमुद्रकदशनच्छदयुगयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्करम्भितः ॥

Page 74

उपमालंकारसर: (१) 63

यथा वा- असितैः कुसुमैर्मसृणाश्शाला बिभ्रत्तमालसाल इव। नीलैर्मणिभिर्निबिडा बाहा दधदहिगिरे: पतिर्जयति ॥१७।।

अत्र कुसुममणिविशेषणयोरसितत्वनीलत्वयोस्तद्विशेष्ययो- श्च मसृणत्वनिबिडत्वयोः एवमेव शालाबाहाविशेषणत्वमापन्न-

प्रतिवस्तुभावेनोभयतस्संपुटितः कुसुमानां मणीनां शालानां बा- हानां च बिम्बप्रतिबिम्बभाव इत्ययमपि वस्तुप्रतिवस्तुभावक- रम्भित एव । पूर्वत्र संपुटित एको बिम्बप्रतिबिम्बभावः इह तु द्वाविति विशेषः । शालाः स्कन्धशाखाः 'स्कन्धशाखा- शाले' इत्यमरः । स्कन्धान्निर्गता शाखा स्कन्धशाखा स्क- न्धो नाम मूलाच्छाखावधि: प्रकाण्ड: 'अस्त्री प्रकाण्डस्स्क- न्धस्स्यान्मूलाच्छाखावधेस्तरोः' इत्यमरः । स्कन्धशासत्रा शा- ला चेत्येतौ शब्दौ उक्तशाखावाचिनौ । अयं तृतीयः प्रकारो रसगङ्गाधरकारेणोक्तः । चित्रमीमांसायां तु प्रागुक्ती द्वावेव प्र- कारौ दर्शितौ। यथोक्तं तत्र-'एकस्यैव धर्मस्य सम्बन्धि- भेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः।स तु शुद्धो न सम्भ- वति किं तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्रतिवि- म्बभावकरम्भितः' इति। एवं च शुद्धवस्तुप्रतिवस्तुभावाप- न्नो धर्मों न संभवतीत्येव ते मन्यन्ते॥ रसगङ्माधरकारस्तु-'विमलं वदनं तस्या निष्कलङ्कमृगा- ङृति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबि- म्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं य-

Page 75

64 अलंकारमणिहारे

द्यस्ति तदा शुद्धवस्तुप्रतिवस्तुभावापन्नोप्येष षष्ठो धर्म इत्य

पन्नोऽपि भेदोऽधस्तात्परिगणितः॥

स यथा-

विमले विलोचने तव विशदशरद्विकसिताम्बु- जायेते। मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जा- ये ते ।।९८।।

मृगराजाह्वयविलसन्नगराजाधश्विरस्य श्रीवेंकटाद्रिनेतु: जाये सहधर्मिणि ते विमले विलोचने विशदे स्वच्छे शरद्विकसि- ताम्बुजे इवाचरतः विशदशरद्विकसिताम्वुजायेते, क्यङन्ताल्ल- ट्प्रथमपुरुषद्विवचनम्। अत्र विमलत्वविशदत्वयोर्वस्तुत एक- रूपयोरविम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुप- मानिष्पादकत्वमिति शुद्धवस्तुप्रतिवस्तुभावापन्नता धर्मस्येति ध्येयम्॥

न च 'कमलाभुजयुगळाश्चितपरितःपरिरम्भम्' इत्यादौ मरकतभगवतोरुपमायां धर्मान्तरस्यानवगमात्कमलाभुजयुगळ क- नकशलाकयोः परिरब्धत्ववलयितत्वयोश्च बिम्बप्रतिबिम्बभावो यथाऽवश्यमभ्युपेयः प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः, विलोचनाम्बुजयोर्मनोहरत्वरूपसाधारणधर्मस्य प्रतीयमानत्वेन ध- र्मान्तरानपेक्षणादिति वाच्यम् । एवं तार्ह 'यान्त्या मुहुर्वलि- तकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभू- तिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कन्ध- गवन्तयोर्विम्बप्रतिबिम्भभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिव-

Page 76

उपमालंकारसरः (१) 65

स्तुभावस्य च सर्वैरालंकारिकैस्स्वीकारो विरुध्येत। अतो यथाऽवस्थितमेव साधु॥ असन्नप्युपचरितो यथा- द्रुहिणस्मरहरमुख सुरमहिमानोऽप्यहह तावक- महिम्नि। जलजविलोचन जलधौ कुलाचला इव किलाभिमजन्ति ॥९९॥

अत्र मज्नं मूर्तद्रव्यधर्मो महिमसूपचरितः ॥ यथा वा- प्रसभं प्रवेशितमपि प्रायश्ररिते तवेश शठह- दयम्। नैव द्रवति समुद्रेऽप्ययो घनतरं पयोजन- यन यथा॥ १००॥

प्रसभं प्रवेशितमित्यस्य उत्तरार्धे समुद्रे इत्यत्राप्यन्वयः। घनतरं अयो यथा कालायसमिवेत्यर्थः । अत्र प्रवेशनद्रवयोर्मू- तद्रव्यधर्मतया हृदये उपचारः॥

श्ेषात्मको यथा-

वनमालेव विचित्रा वनमाला प्रसृमरामोदा।।

मञ्जुलै: तमालैः तापिळ्छैः सती प्रशस्ता श्रीइशोभा य स्यास्सा तथोक्ता। पक्षे-मञ्जुलतमा लसच्छीरिति छेदः, म- ALANKARA 9

Page 77

66 अलंकारमणिहारे

ञजुलतमा अतिमनोज्ञेत्यर्थः। लसन्ती श्रीः लक्ष्मीः यस्यां सा। अञ्जनधरणीधरेशस्य अञ्जनाख्यागरिवरस्य। पक्षे-वेंकटाद्रिनाथ- स्य भगवत. हृदयं मध्यभागं वक्षश्च गता प्राप्ता। प्रसृमरः वि- सृत्वरः आमोद: परिमळविशेषो यस्यास्सा। अन्यत्र प्रकृष्टः सृ- मराणां महाचमरीमृगाणां आमोदो हर्षः यस्यां सा। 'समरो गवयश्शशः' इति मृगविशेषनामस्वमरः । वनमालेव विपिनपङ़ि रिव वनमाला वैजयन्ती विभिः पक्षिभिः चित्रा विस्मयावहा। पक्षे 'पश्चवर्णा तु या माला वैजयन्ती गदाभृतः' इत्युक्तरी- त्या पञ्चवर्णतया शबलेत्यर्थः । अत्र वनपङ्गिवैजयन्त्योश्ेषकृत- स्साधारणो धर्मः । अत्र उपमानापमेयगतस्यार्थस्यैकस्याभावाच्छ- ब्द एव साधारणधर्म इत्यन्ये।

यथावा-

निजविभवमहिमगायकमयूरविभ्राडुदान्तघनते जाः । वर्षासमय इवायं तर्षान्शमयति रमासखो जगताम् ॥ १०२॥

निजविभवमहिमगायकाः मयवः किन्नराः यस्य स त- थोक्तः। 'स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः' इत्यमरः । र- विभ्राट सूर्य इव भ्राजमानः । उदात्तं श्रेष्ठं घनं सान्द्रं तेजो यस्य स तथोक्त: इति भगवत्पक्षे । वर्षासमयपक्षे तु-निजावभ वमहिम्नः गायकाः केकारवैः प्रकाशकाः ये मयूरा: तैः वि- भ्राद् भ्राजिष्णुः। उदात्तं घनानां तेजो यस्मिन् तथोक्तः । तर्षान् आशाः उदन्याश्च शमयति। अत्रापि श्लेषकृतस्समानधर्मः ॥

Page 78

उपमालंकारसर: (१) 67

समासभेदाश्रयणमूलको धर्मो यथा-

मांसलशङ्गसुदर्शनहंसावर्ता सनाभिनाळीका। शमितामितमवद्सुना यमुनालहरीव तव तनु- इशौरे ॥१०३॥

मांसलौ पृथुलौ शङ्धसुदर्शनो हंसावर्ताविव शङ्सुदर्शन- हंसावर्तौ यस्यां सा तथोक्ता । अन्यत्र-शङ्गसुदर्शनाविव हंसा- वर्ताविति समासः। नामेर्नळीकं तेन सह वर्तत इति तथोक्ता। अन्यत्र नाभ्या मध्यसथकर्णिकथा सह वर्तन्त इति तथोक्तानि नाळीकानि पद्मानि यस्यां सेति वा नाभितुल्यं नाळीकं तेन सह वर्तत इति वा समासः । भवः दमुनाः अगनिरिवेति। पक्षे- भवसदशः दमुनाः इति समासः। एवं समासभेदाश्रयणेन स- मानधर्मता। कोचदिमं साधारणधर्म पृथङ्काद्रियन्ते, समासभेदनि-

श्षेषात्मके समानधर्म एवास्याप्यन्तर्भाव इति तेषामाशयः॥

फलवानिव धरणिरुहो जलवानिव जाह्नवीह- दो जगति। बलवानिव धरणिपतिर्जलजेक्षणभ- क्तिमान् जनशश्लाध्यः।१०४।

अत्र भगवन्भक्तिमत्व फलवत्वादि च विम्वप्रतिबिम्बभाव- भापन्नौ धर्मौ ऋ्ाध्यत्वे अनुगामिनि धर्मे अभेदमासाद्य स्थितौ॥

Page 79

68 अलंकान, मणिहारे

यथावा- अपि सुमनःकुलजाताः खेटास्त्वन्महिमस- म्पदनभिज्ञाः। अपि सुमनःकुलजाताः कीटा इव दूरतस्त्याज्याः ॥१०५॥ सुमनःकुले विद्वद्वंशे द्वितीयार्धें कुसुमसमुदये जाता: खेटाः गर्ह्या जनाः 'कुपूय कुत्सितावद्यखेटगर्याणकास्समाः' इत्यमरः । अत्र भगवन्महिमसम्पदनभिज्ञानां गर्ह्जनानां कीटानां च दूर- तस्त्याज्यत्वरूपोऽनुगामी धर्मः विद्वद्वंशजातत्वकुसुमसमूहभव- त्वयोर्विम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकः॥ यथावा- परतासौशील्याभ्यां दुरधिगमो नाथ भवसि सुगमश्च। उच्चैस्त्वफलित्वाभ्यामुत्तमनग इव नृ- णां खगगिरीन्दो ॥१०६।। अत्र दुरधिगमत्वं सुगमत्वं च परत्वसौशील्ययोरुच्चैस्त्व- फलित्वयोश्च विम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकमनुगामी सा- धारणो धर्मः । अत्रादं मालारूपं, द्वितायं यमकेन तृतीयं य- थासङ्कचेन सङ्कीर्णमिति विशेषः । यथा वा- सम्राज इवानम्रा भूपाला तित्यमप्यनतिवेलाः। शिरसा दधते शासनमरविंदासनमुखाश्र तव भू- मन् ॥१०७॥ सम्राज इति षष्ठयन्तं पदम् । अत्रानम्रत्वादिकं सामा-

Page 80

उपमालँकारसरः (१) 69

ति ध्येयम्॥

यथावा- फणिशैलनाथ मसृणितमणिवरमौक्तिकसरो हरे भवतः। प्रतिभाति हृदयदेशः प्रतिबिम्वितच- न्द्रतार इव सिन्धुः ॥१०८॥ माणवरः कौम्तुभः । एवं पूर्वमुदाहते 'आनन्दनिलय' ٢

इति पद्येऽपि मिश्रणं द्रष्टव्यम। इदं शुद्धबिम्वप्रतिबिम्बभावा- नुगामिनोर्मिश्रणम्॥। अनुगामित्ववस्तुप्रतिवस्तुभावकरम्भित बिम्बप्रतिविम्बभाव- योधर्मयोरमिश्रणं यथा- उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यैः। पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसितः।। अभ्युदितः अभ्युदयं प्राप्तः। अत्राश्युदितत्वसमुल्लसित- त्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकाणां भगवज्ज्ञानभजनवै- राग्याणां प्रसूनफलपल्लवानां च विम्बप्रतिविम्बभाव इति त- त्करम्भितोऽय धर्म उपसर्पणे अनुगामिनि धर्मे अभेदमापन्नः॥।

यथावा- वृजिनव्रजविनिमग्रो गज इव सीदामि मक- रमुखलग्नः। त्वामन्तरेण को मे कामं क्षेमंकरो हरे भविता ॥११०॥ 1

Page 81

70 अलंकारमणिहारे

हरे इति करिवरदत्वाभिप्रायकं, हर्यवतार एव गजेन्द्र- मोक्षणात्। अत्र विनिमन्नत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभाव, तद्वि- शेष्यकयोः वृजिनव्रजमकरमुखयोर्बिम्बप्रतिबिम्बभावः । तदवल- म्बनेनसीदामीत्यनुगामी प्रामसत्ताक इत्यनयोर्मिश्रणम् । न च विनिमस्नत्वलस्नत्वयोर्विभिन्नत्वान्न वस्तुप्रतिवस्तुभावस्सम्भवतीति वाच्यम् । वृजिनव्रजे निमज्जनस्यासम्भवात्तत्रापि सम्बन्धमा- त्रस्यैव विवक्षणेन तयोरेकरूपत्वात्॥

यथावा- अविरळदळकुसुममयस्तबकस्तिमितो द्विरेफ- राज इव। घनघृणिहरिमणिमयफणिशिखरिवि- लीनो हरिर्मनो हरति॥१११॥

अत्र अविरळत्वघनत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनो- पादानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकानां दळानां घृणीनां च । एवं स्तिमितत्वविलीनत्वयोर्वस्तुप्नतिवस्तुभावः । तद्विश- ष्यकयोः कुसुममयस्तवकहरिमणिमयफणिशिखरिणोश्च बिम्बप्र- तिबिम्बभाव इति तत्करम्भितोऽयं धर्मो मनोहरणे अनुगामि- नि धर्मे अभेदमासाद्य स्थित इत्यनयोर्मिश्रणम्। पूर्वोदाहर- णद्ये विशेष्ययोर्वस्तुप्रतिवस्तुभावः । इह तु विशेष्यस्य वि- शेषणस्य चेति द्विविधो वस्तुप्रतिवस्तुभाव इति भिदा॥

क्वचिद्धेतुहेतुमन्भावेन यथा- सौलभ्यजनिस्थानं सेव्यस्सवैर्नरैस्सरोजाक्षः। सौरभ्यजन्मभूमिस्सरसीरूहनिवह इव मधुकरौघैः॥

Page 82

उपमालंकारसरः (१) 71

अत्र जनिस्थानत्वजन्मभूमित्वयोर्वस्तुप्रतिवस्तुभावः। तद्वि- शेष्यके सौलभ्यसौरभ्ये बिम्बप्रतिबिम्बभावापन्ने सरोजाक्षसर सीरुहनिवहयोस्सेव्यत्वेऽनुगामिनि हेतुः । इदं मिश्रणं शुद्ध- बिम्बप्रतिबिम्बभावेऽपि भवतीति ध्येयम्॥

अनुगामित्वश्लेषयोर्मिश्रणं यथा-

नरसिंहगिरिवरोऽयं शिरसा सुकलाभिपूर्णवि- धुबिम्बम्। उदयाद्रिरिव दधानः प्रददात्यानन्दम- खिललोकानाम्॥११३॥

सुकलाभिपूर्ण 'मन्त्रमन्त्रेश्वरन्यासात्साऽपि षाड्गुण्यविग्र- हा' इत्युक्तरीत्या सकलकलापरिपूर्णमिति भगवद्विम्बपक्षेऽर्थः । अन्यत्र तु स्फुट एव विधुबिम्बं श्रीनिवासार्ची सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रविम्बयोः । तेनार्च्यो भगवान् साक्षान्नोपचारधिया क्वचित्॥

इति भगवच्छास्त्रवचनान्यत्रानुसन्धेयानि। अन्यत् चन्द्रबिम्ब- मित्यर्थः । अत्र सुकलाभिपूर्णविधुबिम्वशव्दश्लेषोपजीवनेन प्रा- प्रात्मस्थितिकमखिललोकानन्दप्रदत्वमनुगामी साधारणो धर्मः ॥

वैशदं नैति नरो विद्यां संशिक्षितोऽप्यसुरशी- लः। शागोल्लिखितो ऽप्यच्युत मलिनप्रकृतिर्यथे- झनल: ॥११४॥

Page 83

72 अलंकारमणिहारे

असुरशील :- द्विविधो भूतसर्गोऽयं दैव आसुर एव च। विष्णुभक्तिपरो दैवो विपरीतस्तथाऽडसुरः॥ इत्युक्तप्रकारेणासुरप्रकृतिरित्यर्थः । विद्यां 'सा विद्या या वि- मुक्तये' इत्युक्तां ब्रह्मविद्यां संशिक्षितोऽपि सम्यगनुशिष्टोऽपि वैशदं परतत्त्वबोधनं नैति। जन्मान्तरसहस्त्रेषु या वुद्धिर्भाविता पुरा। तामेव भजते जन्तुरुपदेशो निरर्थकः॥ नैवासुरप्रकृतयः प्रभवन्ति बोङ्धम्। इत्यादुक्तरिति भावः । पक्षे-वैशदं धावळ्यं अन्यत्सुगमम् ।

म्बप्रतिबिम्बभावः शीलप्रकृत्योर्वस्तुत एकरूपयोर्विभिन्नशब्दाभ्यां निर्देशात्, तद्विशेष्यकयोः असुरमलिनयोर्वस्तुतोऽभिन्नयोरपि सारूप्येणैकत्वाध्यवसानाच्च। विद्यासंशिक्षितत्वशाणोछिखितत्व- यो: केवलं बिम्बप्रतिबिम्बभावः । वैशदं नैतीति स्िष्टस्स- मानधर्मस्ताभ्यामुत्तेजित इति द्रष्टव्यम्।।

प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरी- न्दोः। विद्येव श्रीर्हद्या चेतोहृत्पद्यमुज्लयतीयम्। प्रेक्षावतः प्रज्ञाशालिनो जनस्येव साक्षात्परमस्य ब्रह्मण: श्रीनिवासस्य विदेव काव्यच्छन्दोव्याकरणादिविद्येव श्रीः लक्ष्मीः हृदयस्था चित्तधृता अयातयामा सतीत्यर्थः । भवार्थे हृदय- शब्दाद्दिगादित्वाद्यत् । अन्यत्र हृदयप्रिया सती 'हृदयस्य

Page 84

उपमालंकारसरः (१) 73 प्रियः' इति यत्। उभयत्र 'हृदयस्य हल्लेखयद्ण्लासेषु' इति हदादेश। चेतोहत् मनोहरं पद्यं श्लोकं काव्यमित्यर्थः। उज्ल- यति प्रवर्तयतीति यावत्॥ श्रीपक्षे-च इतः हत इति त्रिपदतया छेदः । चशब्दो भिन्नक्रमः। इत इति सार्वविभक्तिकस्तसिः। अस्य श्रीनिवास- स्येत्यर्थः । हृत् वक्षः पद्यं पदं चरणमस्मिन् दृश्यमिति पद्यं, यावकविलिप्तनिजचरणतलाङ्गितं सदित्यर्थः । पद्यं यथा स्या- त्तथेति वा। 'पदमस्मिन् दृश्यम्' इति पदशब्दादुक्तार्थे यत्। उज्जवलयति च कौस्तुभाद्यपेक्षया उत्कृष्टत्वेन प्रकाशयति चे- त्यर्थः । ज्वलतेर्णिजन्तालटि घटादित्वेन मित्वाद्धस्वः। अत्र 'पूर्ण तेजस्स्फुरति भवतीपादलाक्षारसाङ्कम्' इत्यादिकमनुस न्घेयम्। अत्र प्रेक्षावत्परब्रह्मणोर्बिम्वप्रतिबिम्बभावः। हृद्या चे- तोहृत्पद्यमिति श्ेषः, उज्ज्वलयतीत्युपचार इत्येतेषां मिश्रणम्॥

तिबिम्बभावश्ेषानुगामितानां यथा- भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्ति- शेवधयः। दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीयाः॥।११६॥ सुदीप्तिनिधयः दीपा इव सुकीर्तिशेवधयः भवदीयाः अ- भिरूपास्सन्तः भवनेष्विव भुवनेषु संचरन्तीति योजना। अ- भिरूपा: मनोहरा: विद्वांसश्च। 'प्राप्तरूपसुरूपाभिरूपा बुधम- नोजयोः' इत्यमरः । अत्र भवनभुवनयोः केवलं बिम्वप्रतिवि- म्बभावः, निधिशेवध्योः वस्तुप्रतिवस्तुभावः, तद्विशेष्यकयोः दी- ALANKARA 10

Page 85

74 अलंकारमणिहारे

प्तिकीत्योर्विम्बप्रतिबिम्बभावः, तत्करम्भितः अभिरूपा इति श्ेष:, संचरन्तीत्यनुगामित्वमित्येतेषां मिश्रणम्।।

जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम्। अमृतमिव त्वञ्चरितं सुरा इव नराः पि- बन्ति मुरवैरिन् ॥ १९७॥

सारस्वतं सरस्वत आगतं 'तत आगतः' इत्यर्थे प्रा- ग्दीव्यतीयोऽण्। उदितं उदय: आविर्भावो यस्य तत्, प्रवि- ततं च तत् सारस्वतोदितं चेति विग्रहः, विस्तृतं दुग्धादेधि- जनितं चेत्यर्थः । पक्षे-प्रविततानि यानि सारस्वतानि सर- स्वतीविभूतिभूतानि शास्त्राणि 'यत्सारस्वतदुग्धसागर' इत्या- दिप्रयोगात्। तैः उदितं उदीरितम् । अत्र समन्तात्प्रथितत्व- मनुगामी, प्रविततमारस्वतोदितमिति श्िष्टः, अमृतचरित- योर्बिम्बप्रतिबिम्बभावापन्नः पिबन्तीत्युपचरितस्साधारणधर्म इ. त्येतेषां मिश्रणम् । एवमन्यैरपि व्यामिश्रणं सुधीभिरुन्नेयमति- भूमित्वादेषां दिख्मात्रमुदाहार्ष्म। तथाचोक्तं काव्यालोके- अपर्यन्तो विकल्पनां रूपकोपमयोर्यतः । दिञ्ात्रं दर्शितं धीरैरनुक्तमनुमीयताम्॥इति॥ 'पूर्णायामेवेमे धर्मभेदाः । लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्मस्यानुगामित्वनियमात्' इति चित्रमीमांसाकृतः । रसगङ्गाधरकारस्तु नेमं नियममभ्युपति। तथाच तद्र्न्थ :- "यच्चाप्पदीक्षितैः लुपायां तु नैवं मेदाः तस्यां साधारणधर्म-

Page 86

उपमालंकारसरः (१) 75

स्यानुगामितानियमादिति। तन्न-'मलय इव जगति पाण्डुर्वल्मीक इवाधिधरणि घृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानां सर्पाणां दुर्योधनादीनां बिम्बप्रतिबिम्बभावस्यैव प्र तिपत्तेः । न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमि- त्याग्रहो विदुषामुचितः, श्रौतत्वार्थत्वाभ्यां बिम्बप्रतिबिम्बभाव- स्य द्वैविध्यौचित्यात्। अतएवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवा- कयार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते" इत्य- भाणीत् । अयं चात्र विशेष :- 'उभयमध्ये प्रतिबिम्बस्यैवोपा- दाने उपमाने धर्महानिर्दोषः तत्र तत्स्थानीयधर्मानुक्तेः । बिम्ब- मात्रोपादाने तूपमाने धर्माधिक्यं दोषः उपमेये तत्स्थानीयध- मानुक्ते:। तस्माद्विम्बप्रतिबिम्बभावापन्नयोर्ई्वयोरेव शाब्दत्वं द्व योरेव वार्डर्थत्वं विवक्षितं, न त्वेकस्य शा्दृत्वमन्यस्यार्थत्व- मिति तत्वम्' इति वदन्ति। एवंच क्वचिदर्थगम्योऽपि बि- म्बप्रतिबिम्बभावापन्नो धर्मस्सम्भवतीति सिद्धम्॥

यथा-

संक्न्दननन्दनवनभूमिरिवानन्दभूमिधरभूमि:। व्यालेशाचलरमणः प्रालेयाचलवरेण्य इव ।११८ आनन्दभूमिधरशशेषाद्रि: आनन्दाद्विरिति तन्नामसु पाठात्। वचनं त्वेकोनत्रिंशे 'चिन्तामणिधरणीभृति' इति श्रोके उदा- हाष्मार्धस्तात् । अत्र नन्दनवनशेषाचलभूम्योः हिमाचलश्रीनि- वासयोश्चानुगाम्यादिधर्मान्तराप्रत्ययेन कल्पतरोश्श्रीनिवासस्य च गङ्गाया द्यायाश्च बिम्बप्तिविम्बभावस्यैव गम्यमानत्वादुपमा- निष्पत्तिः॥

Page 87

76 अलंकारमणिहारे

यथावा- पवनाशनाचलाग्रं धनाधिनाथस्य कोशभवन- मिव। खनिरिव जलनिधितनयाप्रणयवती देवता परा सैषा ॥ ११९॥ जलनिधितनयायां प्रणयवती परा देवता श्रीनिवास इत्य- र्थः। अत्र शेषाचलाग्रधनदकोशभवनयोः खनिपरदेवतयोञ्चानु- गाम्यादिधर्मान्तराप्रतीत्या भगवतो निधेश्च गुणानां मणीनां च विम्बप्रतिबिम्बभावस्यैव प्रतीयमानत्वान्निष्पत्तिरुपमाया इति ध्ये- यम् ॥ इत्यलङ्कारमणिहारे उपमासर: प्रथम:

अथोपमेयोपमा.

उपमेयोपमा सा स्यादुपमानोपमेययोः। पूर्वयोवैंपरीत्यं चेत्परतः पुनरुच्यते ॥ २३॥ पूर्वोपमायासुपमेयस्थ द्वितीयोपमायामुपमानत्वं तत्रोपमा- नस्योपमेयत्वं च यत्र वर्ण्यते सा उपमेयोपमेत्यर्थः॥ यथा- श्रीवासहृदयलोला वननिधिबालेव कनति व- नमाला। वनमालेव विराजति वननिधिबाला विभासिगुणजाला ।।१२०।।

Page 88

उपमेयोपमालंकारसरः (२) 77

अत्र वननिधिबालावनमालयोर्वाक्यभेदेन उपमानत्वमुपमे- यत्वं च वर्णितम् । तत्र प्रथमे वाक्ये श्रिय उपमानत्वं वन- मालाया उपमेयत्वं, द्वितीये तु व्यत्ययेनेति लक्षणसमन्वयः। लक्ष्मीवनमालयो: कस्याश्वित्कयाचित्सादृश्येऽभिहिते तस्या अ- व्यन्यया सादृश्यमर्थसिद्धमपि कण्ठरवेणाभिधीयमानं तृतीयस दृशव्यवच्छेदं फलति। अत्रोदाहरणे प्रकृतयोरेवोपमानोपमेयत्व कल्पनं, प्रकृताप्रकृतयोरप्येषा सम्भवतीति कुवलयानन्दे स्थितम्॥

तत्रेदमुदाहरणम- घनपतिरिव भुवनपतिर्भुवनपतिरिवैष घनप- तिर्लसति। चपलेवैषा कमला कमलेव चकास्ति चपलाडपि ॥ १२१॥

भुवनपतिः भगवान्, चपला विद्युत्। अत्र सुवनपतिः क- मला च प्रकृतौ, एषः एषेति निर्देशात् । इयं च ताव्ूिविधा उक्तधर्मा व्यङ्ग्यधर्मा चेति। उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धमैरनेकधा। तत्रानुगामी धर्मस्त्वव्यवहितोदाहरणे लसति चकास्तीत्युक्त एव ।। विम्मप्रतिबिम्बभावापन्नो धर्मो यथा- शरदम्बुदपरिवीतः कलशाम्बुधिराजवीचिम- ध्यगतः । भुजगधरो मन्दर इव स मन्दरो भुज- गधर इव विभायात् ॥ १२२॥

विभायादिति सम्भावनायां लिङ्। अत्र परिवीतत्वमध्य- गतत्वाश्यां विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां

Page 89

78 अलंकारमणिहारे

करम्भितः शरदम्बुदकलशाम्बुधिवीचिरूप: परस्परं बिम्बप्रति बिम्बभावमापन्नो धर्मः ॥

केवलं वस्तुप्रतिवस्तुभावापन्नो यथा- कमलालयाकपोलौ विमलौ सुस्त्िग्धवज्मुकु- रसखौ। सुस्त्रिग्धवज्रमुकुरौ सुविमलकमलालया- कपोलनिभौ ॥ १२३॥ अत्र विमलत्वसुस्न्निग्धत्वयोः केवलं वस्तुप्रतिवस्तुभावः॥ उपचरितो यथा- मधुमथनभक्तचरणा विधुकिरणा इव जगद्वि- शदयन्ति। विधुकिरणा इव शिशिरिममसृणा म- धुमथनभक्तचरणाश्र ॥१२४॥ अत्र शिशिरिममसृणा इत्येतत्पूर्वार्धेऽप्यन्वेतव्यम्। शिशि- रिममसृणा विशद्यन्तीति चोपचरितः । भक्तचरणा इत्यत्र चरणशब्दो गुरुचरणा इत्यादाविव पूज्यवाची॥

श्षेषात्मको यथा-

विकसितपुष्करविसृमरतररसशीकरतरङ्गिता- त्मरुचिः। करिणी वा पुष्करिणी पुष्करिणीवाहि- शैलगा करिणी ॥ १२५॥ अहिशैलगा पुष्करिणी स्वामिपुष्करिणी करिणी वा, वा- शब्द उपमावाचकः। विकसितानि यानि पुष्कराणि कमलानि

Page 90

उपमेयोपमालकारसरः (२) 79

तेभ्यः, अन्यत्र विकसितं यत्पुष्करं शुण्डाग्रं तस्मात् विसृम- रतरैः रसशीकरैः मकरन्दकणैः सलिलकणश्च तरङ्गिता अतिशय ता आत्मनो रुचि: प्रभा स्वादुता च यस्यास्सा तथोक्ता। अत्र विकसितेत्यादिश्षेषरूप: पुष्करिणीकरिण्योस्समानधर्मः ॥

व्यङ्गयधर्मा यथा-

कल्पलतेवाम्भोनिधि सुता Sब्धिदुहितेव हन्त क- ल्पलता। नन्दनवनमिव शौरर्हदयं हृदयमिव न- न्दनवनं च ॥ १२६॥ इयमेव परम्परितरूपाऽपि। एवं घनपतिरिवेति प्रागुदाहते पद्येऽपि। एषा सर्वाऽपि स्फुटे वाक्यभेदे प्रपश्चिता॥

आर्थे तु वाक्यभेदे यथा- यद्वेङ्कटगिरिभाग्यं सौभाग्यं दौग्धसैन्धवं यदपि तन्मिथुनं भुवनेऽस्मित्नुन्मिषति परस्परोपमैश्वर्यम्। अत्र परस्परोपमैश्वर्यमिति संक्षिप्ताद्वाक्यादिदमोयमैश्वर्यमे तदीयेनैश्वर्येण एतदीयमिदमीयेन च सदशं भवतीति वाक्य- द्वयं विवरणरूपमुन्मिषति। सौभाग्यं दौग्धसैन्धवमित्यत्र 'ह. द्गसिन्ध्वन्ते' इत्युभयपदवृद्धिः । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशस्सर्वेऽपि भेदास्सम्भवन्ति।।

तत्र दिक्ात्रमुदाहियते- नीतिर्यथा विनीतिर्यथा विनीतिस्तथैव नीति-

Page 91

80 अलंकारमणिहार

रपि। ख्यातिरिव भूतिरच्युत भूतिरिव ख्यातिरपि तव जनानाम ॥ १२८॥ आयत्या तुल्याऽदृतिरादृत्याऽप्यायतिस्तथा तु- ल्या। सन्नतिरुन्नतिसदशी सन्नतिसदृदशी तथोन्न- तिश्वापि ॥ १२९॥ धृतिवन्मतिर्विजयते मतिवद्दृतिरहिपतिक्षिति- धरेन्दो। एतावती समृद्धिस्स्फीता भविता किम- भवदीयानाम् ॥ १३०॥ इदं पद्यत्रयमेकान्वयत्वाद्विशेषकम्। 'द्वाभ्यां युग्ममिति प्रोक्त त्रिमिश्श्रोकैर्विशेषकम्' इति लक्षणात्। अन्तिमपद्ये वि- द्यमानं विजयत इत्येतत् पूर्वेषु सर्वेष्वपि वाक्येषु समानधर्मत- याऽन्वेति। अत्र श्रौती तद्वितगामन्तरेण यथाक्रमं प्रथमेऽ र्धे श्रौती वाक्यगा, द्वितीयेऽर्धे श्रौती समासणा इवेन सह स- मासविधानात, तृ्तीयेऽर्धे आर्थी वाक्यगा, तुरीयेऽर्धे आर्थी समासगा, पञ्चमे आर्थी तद्धितगा चेति श्रौत्यार्थी च पञ्च- विधा पूर्णोपमेयोपमा द्रष्टव्या। अत्रैव तृतीयश्षोकप्रथमार्धे 'धृ- तिदेशीया मतिरपि मतिदेशीया धृतिः फणिगिरीन्दो' इति प- ठिते धर्मस्यानुपादानात्पश्चविधाऽपि वाचकलुप्ता भविष्यति। श्रौती धर्मलुप्ता तु तद्धितगा न संभवतीत्यवोचाम॥ मेरवति वे ङ्कटाद्रिर्मेरुइश्रीवेङ्कटाद्रयति कामम्। गङ्गायतेऽभ्रगङ्गा सुरपथगङ्गायते गङ्गा ॥ १३१ ॥

Page 92

अनन्वयसरः (३) 81

अन्भ्रगङ्गासुरपथगङ्गेत्याभ्यां वेङ्कटाद्रिगता आकाशगङ्गोच्यते 'स्वामिपुष्करिणी चैव वियद्रङ्गा ततःपरम्' इति ब्राह्मोक्तेः । अत्र क्विपि क्यडि च धर्मवाचकलुपतोपमेयोपमा। अनयैव दिशा प्रतिभाशालिभिरन्येऽपि तत्प्रभेदा यथासम्भवमुन्नेयाः॥

इत्यलङ्कारमणिहारे उपमेयोपमासरो द्वितीयः

अथानन्वयसरः.

अनन्वयो यदेकस्यैवोपमानोपमेयता।

यत्रैकस्यैवोपमानोपमेयभावो निवध्यते तत्रानन्वयः । वर्ण्य- मानमपि स्वस्य स्वेन साधमर्य नान्वेतीति व्युत्पत्तेः । यथा रुद्ररादनवपोच्छेदनाद्यर्थवादे स्तुतिनिन्दाभूतस्यासदर्थस्य निब- नधनं स्तुतिनिन्दयोरुपयुज्यते तथैवानन्वयिनोऽपि स्वस्य स्वेन सादृश्यवर्णनं द्वितीयसब्रह्मचारिव्यवच्छेदेनानुपमत्वद्योतनायोपयु- ज्यते। एवंच द्वितीयसदशव्यवच्छेदफलकवर्णनविषयाभूतमे- कोपमानोपमेयकं सादृश्यमनन्वय इति पर्यवस्यति। स च कस्याप्युपस्कारकत्वेऽलंकारः। अन्यथा तु स्ववैचित्रयमात्रविश्रा- न्तः। एवमलंकारान्तरेष्वपि॥

सविधे विचरति भगवति समुदितमेचकिम वृषशिखरिशिखरम्। प्रावृषि विजृम्भमाणैर- म्भोदैरिव करम्भितं भाति ॥ १३२ ॥। ALANKARA 11

Page 93

82 अलंकारमणिहारे

अत्र श्रीनिवासदिव्यविग्रहरुचिमेचकितं भुजगशखरिशिखरं स्वेनैव प्रावृषि नीलाम्बुदैः करामेभतेनोपमीयत इतति तत्साद्- श्यवारणाय भूतान्तं विशेषणम्। न ह्यन्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः॥ बदने पृदाकुगिरिवरसदनस्य हरेस्स्मितप्रभा लसति। शारदरविकरविकसितनीरज इव चन्द्रच- न्द्रिका सान्द्रा ॥ १३३ ॥ इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमा- नोपमेयकमिति। अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः ॥ उदाहरणं- विधुतत्रिविधावधिकं वेदस्त्वां वदतु निस्समं भगवन्। निपुणं विचिन्तने पुनरुपमा भवतोऽस्ति ननु भवानेव ॥१३४॥ विधुतः त्रिविधोऽवधि: देशकालवस्तुपरिच्छेदो यस्य तं तथोक्तं 'सस्यं ज्ञानमनन्तम्' इति श्रुतेः । त्वां वेदः 'न तत्सम- आ्चाभ्यधिकश्च दृश्यते' इत श्रुतिः निस्समं द्वितीयसदृशवस्तु- रहितं वदतु। उपमासदृश इत्यर्थः 'प्रतिकृतिरुपमोपमानं स्यात्' इत्यमरः। 'सहकार न प्रपेदे मधुपेन तवोपमा जगति' इति प्रयोगश्च ॥ यथा वा- अखिलं भुवनं विचितं तेषां स्वरूपमपि विदि-

Page 94

अनन्वयसर: (३) 83

तम्। अर्थिजनेप्सितदाने तीर्थगिरीश त्वमेव तव सहशः॥१३५॥ तीर्थगिरिरिति शेषाद्रेरेव नामान्तरम्। 'सर्वतीर्थमयत्वाच्च तीर्थाद्विं प्राहुरुत्तमाः' इति वाराहे तन्नामनिर्वचनात्। पूर्वस्मिन् पद्ये सर्वोत्कृष्ठत्वरूपो धर्मोडनुगामी व्यङ्गयः, इह तु अर्िजने- प्सितदाने इति वाच्य इति वैलक्षण्यम् । उभयत्रापि भगवद्वि- षयकरत्युपस्कारकत्वादलंकारोऽयम्। बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति, तस्मिंश्च सति किंचिद्धर्मार्वच्छन्नेन स्वेन सा- दृश्यस्थ धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदशा- न्तरव्यवच्छेदाप्रतिपत्तेश्चानन्वय एव न स्यात्। अयं चानन्वयः पूर्णों लुप्तश्चेति तावद्विविधः। पूर्णस्तूपमावत् षड्डिधोऽपि संभवति।

यथा- श्रीशश्रीर्यथा घनकृपा कमला कमलेव पूर्ण- सौभाग्या। नाथोऽच्युतेन सदृशोऽच्युत एव हरि- र्हिंतो हरिसदक्षः॥१३६॥

अत्र युग्मे आद्यपादे श्रौतः पूर्णो वाक्यगोऽनन्वयः। द्वि- तीयपादे समासगश्श्रौतः पूर्णः । इवेन सह समासविधानात्। नाथ इत्याद्यच्युत एवेत्यन्ते आर्थस्समासगः पूर्णः । शिष्टे तु- रीयपाद हरिरित्यादौ समासग आर्थः पूर्णः । द्वितीयश्षोकाद्यार्धे 'तेन तुल्यम्' इति वतेस्सत्वादार्थस्तद्धितगः पूर्णः । तद्िती-

Page 95

84 अलंकारमणिहारे यार्धे 'तत्र तस्येव' इति वतेस्सत्वाच्छ्रौतस्तद्धितगः पूर्ण इति ध्येथम्। लुप्नेष्वपि धर्मलुतः पञ्चविधोऽपि संभवति, स च प्रागुक्तपद्ययोरेव धर्मवाचकपद्मपनीय कमला यथैव कमले- त्यादिरीत्या पदान्तरन्यासे भविष्याति।

वाचकलुप्ोऽपि तथा संभवति, यथा- वेङ्टभूमिधरोऽयं वेङ्गटभूमीधरायते सुमहान्। तत्र वसन् भगवानपि तत्रवसद्गगवदुजुलो जयति। अत्र क्यड्नसमासयोर्वाचकलुप्त :-

वृषभाद्रिनाथदर्श वृषभाचलनाथमग्रतः पश्यन्। विततप्रमोदबाष्पस्सततं नन्दामि मन्नन्दम्॥१३९ वृषभाद्रिनाथमिव वृषभाद्विनाथदर्श पश्यन् अहमिव म न्नन्दं नन्दामि। अत्र कर्मकर्तृणमुलोर्वाचकलुप्तः॥ कौस्तुभति कौस्तुभोऽयं लक्ष्माणति लक्ष्म हारति चहारः। वक्षसि फणिगिरिबन्धोस्सिन्धो- र्दुहिता च सिन्धुदुहितरति ॥१४०॥ अत्र धर्मवाचकयोरलोपः। अयमेव मालारूपोऽप्यनन्वयः ॥ सलिलनिधिं गाम्भीर्ये तुलयन्तस्सन्ति कति कति न देवाः। एष तु शेषगिरीशशशेषगिरीशान- गाम्भीर्य: ॥ १४१ ॥

Page 96

अनन्वयसर: (३) 85

अत्र वाचकधमोपमानानां लोपः। अत्र चोपमानलुप्तादयोऽन्ये भेदास्त्वसंभवादचारुत्वाच्च नोदाहताः॥ इदं तावदत्रावधेयम्-प्रायेणोपमादिरलङ्कारो यदा समग्रेण वाक्येन प्रधानतया ध्वन्यते तदा परास्तालङ्कारभावो ध्वनि- व्यपदेशभाग्भवति। अस्मिश्चालंकारव्यपदेशः कदाचिदप्यलङ्का- रभावमनापन्नेषु समुद्रकाद्यन्तर्निहितेषु हारकेयूरकटककुण्डला- दिष्विवालंकुर्वाणहारादिगतधर्ममात्रसंस्पर्शनिबन्धनः । तत्रादावु- पमाध्वनिरुदाहार्या। एषा चोपमा क्वचिच्छब्दशक्तिमूलानुध्वनन- विषयः, क्वचिदर्थशक्तिमूलानुध्वननविषयः ॥

तत्राद्या यथा- कटकोज्लपुन्नागो गन्धर्वकुलैरुदीर्णसौभाग्यः। धरणीभृच्नूडामणिरनणीयशश्रीनिवासतां धत्ते ॥ कटकेषु सानुषु राजधानीषु च उज्जवला: पुन्नागाः तरु- विशेषा: पुंगजाश्च यस्य स तथोक्तः। 'कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । गन्धर्वाणां देवयोनिविशे- षाणां तुरगाणां च कुलैः । धरणीभृतां गिरीणां नृपाणां च चू- डामणिः अनणीयान् श्रीनिवासो यस्मिन् तस्य भावं अनणी- यस्या: श्रियः संपद: निवासतां धत्ते॥

यथा वा- तापातुरा निकामं तमसा प्रत्यस्तदष्टयः स्थि- त्वा। दैवाद्विघूदये सति नन्दन्तितरां द्विजाः क- तिचिदेव ॥ १४३ ॥

Page 97

86 अलंकारमणिहारे

निकामं तापैः आध्यात्मिकादिभि: आतपजनितैश्च आतुराः, तमसा तमोगुणेन तिमिरेण च प्रत्यस्ता निरस्ता दृष्टिः ज्ञानं चक्षुश्च येषां ते तथोक्ता: स्थित्वा कंचित्कालमिति भावः। दै- वात् भाग्यविशेषात् विधो: भगवतः उदये अनवरतभावनामू- लकप्रत्यक्षतापत्तौ। पक्षे-विधोः चन्द्रमसः आविर्भावे सति कतिचिदेव द्विजा: भाग्यशालिनो विप्रादय एव नान्ये भाग्य- दवीयांस इति भावः। पक्षे-चकोरादयः खगविशेषा एव न- न्दन्ति अत्रोदाहरणद्वयेऽनेकार्थानामपि पदानां प्रकरणेन कृतेऽ- पि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य महाराज- रूपस्य खगविशेषरूपस्य चार्थान्तरस्थाप्रस्तुतस्याभिधानं मा प्र- साङ्क्षीदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थ- तया कल्प्यते। अत्र छ्िष्टानां कटकादिशब्दानां नितम्बादिश- ब्दपारवृत्त्यसहिष्णुतया शब्दशक्तिमूलानुध्वननविषयोऽसावुपमा। अर्थशक्तमूलानुध्वननविषयो यथा- असमानरोचिरहमित्यभिमानस्तव घनाघन म- हीयान्। ननु नामाढौकिष्ठा न मनागपि वा फ- णाभृदचलशिखाम् ॥१४४॥ यथा वा- रत्नाकर इति गर्वै यत्नाद्विजहीहि मम गिरो- दन्वन्। न चलसि पदात्पदं वा ना (क्वा)द्राक्षी- इश्रीनिवासकोशगृहम् ॥ १४५ ॥

उपमैव ध्वन्यते॥

Page 98

अनन्वयसर: (३) 87

एवम्- गङ्गनं कुतो जिगमिषस्यङ्गात्र विसृत्वरीमिमां स्वैरम्। सङ्गाहस्व वृषाचलशृङ्गारदयाझरीमिमां गाढम् ॥ १४६॥

अलङ्कारेणोपमाध्वनिर्यथा- फणिशिखरिणि विलसन्तं वीक्ष्य हरिं तं रमा- समाश्िष्टम्। सचपलजलदनिरीक्षणनिरास्थतां दधरिरे मयूरगणा:॥१४७॥ अत्र मयूराणां सवियुजलद्निर्रा्षिणास्थासम्बन्धेडपि तद- संबन्धोक्तिरूपातिशयोक्त्या भगवतशश्रीनिवासस्य तदुपमा ध्व- न्यते एवमुपमाध्वनिदिगुदाहता॥ अथोपमेयोपमाध्वनिदिगुदाहियते- शरदिजविकर्तनस्य हि मुरवैरिसुदर्शनो द्विती- योऽयम। मुररिपुसुदर्शनस्य तु शरदुदितविकर्त- नोडपि तथा॥१४८॥ अत्र द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्यक्तिरेव।। यदि तु लक्षणा तदेदमुदाहरणम्- हरिपद्युगनखरेखा शरदुदितसुधामयूखरेखा च। गर्वायेते ऽन्योन्यं लावण्याध्यापनाय भृशमन्तः॥

Page 99

88 अलंकारमणिहारे

अत्र हरिपदयुगनखरेखादिकर्तृकस्यान्योन्याध्यापनस्य बा- धालावण्यसंक्रान्तिविशेषस्य लक्षणया प्रतीयमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभाव इति ध्येयम् ॥

अथानन्वयध्वनिरुदाहियते- दर्शदर्शी सम्यङ्गशामर्श मयाऽ्य्य विश्रान्तम्। भिन्नतया पन्नगपतिसन्नगनेतुस्तुला यतो नैक्षि॥ अत्र भिन्नतया तुला नैक्षीत्यनेन अभेन्नतया ऐक्षीति ध्वन्यते॥

यथा वा-

कति कति न सन्ति गिरयः कतमो दध्रेऽच्यु- तेन चरमाङे। प्रादुरकरोच्च कमलां येनान्ये मन्द- रस्य सदशास्स्युः ॥१५१॥

अत्र को वा मन्दरेतरो महीधरो भगवता चरमाङ्गे धृ. तः को वा श्रियमब्धेः प्रादुरभावयत् येनान्ये गिरयो मन्दर- सदृशास्स्युरित्यर्थेन तस्य पुनर्भगवता चरमाङ्गधृतत्वे श्रीप्रादु- र्भावयितृत्वे च स एव तत्तुल्य इत्यर्थोऽनन्वयात्मा मन्दरनिरु- पमत्वपर्यवसायी अन्यपदमहिस्ना व्यज्यते॥।

एवं-

परमं पदमपि हित्वा चिरमवसत्कस्य शिख-

Page 100

अंसमालकारसर: (४) 89

रिणश्शिखरे। परमस्सरमस्स पुमान् फणिधर यस्मिस्तवोपमां विद्यः॥ १५२॥ इत्यत्राप्यनन्वयध्वनिर्द्रष्टव्यः । अत्र 'मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्' इत्याद्यर्थोऽनुसंहितः ॥ इत्यलङ्कारमणिहारे अनन्वयसरस्तृतीयः

अथासमालंकारसरः.

उपमायास्सर्वथैव निषेधोऽसम उच्यते ॥२४॥ सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः । अयं चानन्वये व्य- ङ्योपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न भजते पृथगलंकारव्यपदेश्यताम्। वाच्यतायां तु स्वातन्त्रयेण चमत्का- रितया पृथग्वचपदेशभाग्भवति॥ यथा- सब्रह्मचारि किंचिन्न त्रह्मापीक्षितुं तव पटीया- न्। यस्य तव निस्समत्वं निस्संदिग्धं श्रुतिर्ब्रवीति हरे॥१५३॥ यथा वा -

स्त्वत्तुलनाकलनायोग्यस्संभाव्यतां कदा क्व नु वा॥ 1

ALANKARA 12

Page 101

90 अलंकारमणिहारे नासीन्ास्ति च भवतो नाथ समं वस्तु वेधस- रसर्गे। अग्रेऽपि यथापूर्व स्रष्टाऽयं किं तदाSपि त. हम्यम् ॥१५५॥ तद्वस्तु नैव ससृजे न सृज्यते स्नक्ष्यतेऽपि वि- श्वसृजा। यत्र भवतः प्ररोहेदुपमालवलेशगन्धो- पि ॥ १५६॥

यथा वा- अस्ति समानं शौरर्व्त्विति मूर्खो ब्रवीति चे- द्रताम्। यत्र क्व वा समानं लभेत किमसावट- न्नपि जगन्ति ॥१५७॥ सोडसौ सूर्खः जगा्ति सर्वाण्यटन्नपि यत्र क्व वा मानं भगवत्समानवस्तुसत्तायां प्रमाणं लभेत किं न लभेतैवेत्यर्थः । यद्वा मानं पूजा लभेत किं, भगवत इतरसाधर्म्य वक्तु: क्वापि पूज्यता न स्यादेवेति भावः । पक्षे असौ मूर्खः समानं भग- वतस्सदृशं वस्तु यत्र क्व वा न लभेतैवेत्यर्थः। अत्र श्ेषचम- त्कार: पूर्वोदाहरणेभ्यो विशेषः॥ यथा वा- त्वं सद्वितीय एव हि सृजसि जगत्पासि संह- रिष्यसि च। तदपि श्रुतिरव्जेक्षण वदति त्वाम- द्वितीयमेव बत ॥१५८॥

Page 102

असमालकारसरः (४) 91

सद्वितीयः द्वितीयवस्तुना सहितः चिद्चिद्विशिष्ट पवेत्य- र्थः । द्वितीयया सहधर्मिण्या श्रिया सहित एवेत्यप्यर्थः। श्री- विशिष्टस्यैव जगज्जन्मादिकारणत्वात्सद्वितीय एव सृजसीत्या- दुक्तिः । तदपि तथाऽपि श्रुतिः 'एकमेवाद्वितीयम्' इति श्रुतिः अद्वितीयं द्वितीयवस्तुरहितं असदृशमिि तु वास्तवार्थः ॥ यथा वा- असदश इति निगदंस्त्वां जनोडभिनन्देत स- दशमाहेति। सदगस्ति तवेति वढन्न सदृगिति जनैर्विनिन्दते चित्रम् ॥१५१॥ हे भगवन्! त्वां असदश इते वदन् जनः सदशमाह अनुरूपं युक्तमाहेति जनैरभिनन्द्यते। तवासदृशत्वस्य वस्तुसतो यथा- वदुक्तत्वादिति भावः । तव सदक् सद्शः अस्तीति वदन् जनः न सदक सदशो न योग्यो न अननुरूपार्थकथनादिति भावः। दशा सह वर्तत इति सदक् न अन्ध एव ज्ञानहीन एवेत्यर्थः। यद्यस्य दृष्टिरेवाभविष्यत्ताहै तव सहगस्तीति नाव- दिष्यदेवेति भावः । इति जनैर्विनिन्ध्ते, चित्रं असदृशं वक्तु- स्सदृशवक्तृत्वेन सदशं वक्तुरसदक्त्वेन च कथनमाश्चर्यावह- मिति भावः। अनयोरुदाहरणयोश्श्रेषमूलकविरोधसंकीर्णत्वं पू- र्वेभ्यो वैलक्षण्यं बोध्यम्॥ एवम्- न किमपि कौस्तुभतेजस्सममभवङ्गवति वाऽ थ भविता वा। यत्र किल मित्रशशधरकुशानुता- रास्स्फुलिङ्गकाकाराः ॥। १६०॥।

Page 103

92 अलंकारमणिहारे

नासीदस्ति भविष्यति विधातृसर्गे क्व वादपि मादृक्षः । त्वयि सति शुभगुणविपणौ योऽन्यं पि- पणायिषामि कृपणमना: ॥ १६१॥

इत्यादावपि काव्यलिङ्गादिसंकीर्णता द्रष्टव्या। सर्वेष्वेतेषू- दाहरणेषु सर्वथैवोपमाननिषेधादसमालंकार:, क्काचित्कस्सद्दशप्र- तिषेध उपमानलुनाया विषयः । अस्य त्वात्यन्तिकसदृशप्रति- षेध इति नोपमानलुप्तोपमया चारितार्थ्यम्। सर्वात्मनैवोपमा- नप्रतिषेधेन सादृश्यस्याप्रतिष्ठानान्नात्रोपमागन्धोपि ।

नन्वसमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथग- लंकारता कथमिति चेत्-सत्यं, दीपिकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथंनाम पृथगलंकारत्वमिति तुल्यम्। न च दीपकादावुपमाव्यङ्ग्यत्वेऽपि गुणीभावात् प्रकृते तु स्वसाद्ृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वनना- द्वैषम्यमेति वाच्यम्। यथा हि दीपकसमासोकत्यादौ गुणीभूतव्य- ङचसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यङ्गयसत्त्वेऽपि न किंचिद्विरुद्धम्। अनन्वयशरीरस्य सादृश्यमात्रस्थ वाच्यत्वे- न वाच्यालङ्कारव्यपदेशोऽपि मुख्य एव। दीपकाद्यलङ्कारकाव्ये गुणीभूतस्य व्यङ्गयस्य सत्त्वादस्तुनाम गुणीभूतव्यङ्गयत्वम । ध्वनित्वं पुनर्न क्वाप्यलङ्गतिकाव्ये द्ष्टमिति चेत् पर्यायोक्तसादृश्य- मूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्, इति वदन्ति॥ प्राश्चो नेदमलङ्गरान्तरमित्येव मन्वते।

अयमसमालकारो व्यज्यमानोऽपि सम्भवति। यथा-

Page 104

असमालंकारसर: (४) 93

सर्वज्ञोपि गिरीशस्तव सदृशं वस्तु किमपि निजिगदिषुः। श्रीश तदप्रतिपन्तेरद्यापि स्थाणुतां न विजहाति ॥ १६२॥ अत्र यस्त्वां तुष्टूषुस्सर्वज्ञो गिरीशोऽप्येतावन्तं समयं त्व- त्तुल्यवस्त्वप्रतिभानात् स्थाणुरेवासीत् सोऽग्रेऽप्येवमेव स्यात्। अन्यथाभावे मानाभावादिति सर्वथैव त्वत्सद्ृशं वस्तु नैवास्तीति गम्यते। एवंच व्यज्यमानोऽप्यत्रासमालंकार: प्रधानीभूतभग- वत्स्तुत्युत्कर्षोपस्कारकतयाऽलंकार एव ।। मुख्यतया ध्वन्यमानो यथा- दर्वीकराद्रिशेखर सर्वे पदमर्थवत्त्वया व्यरचि। तुल्याभिधायि तु पदं कालत्रितये ऽपि नार्थवदहो ते॥ त्वया सर्वे पदं सुप्तिङन्तात्मकं इन्द्रादिस्थानं च अर्थवत् अभिधेयवत् विभववञ्च व्यरचि। ते तव तुल्याभिधायि सद- शार्थाभिधायि पदं तु कालत्रितयेऽपि नार्थवत् न धनवत् ना- भिधेयवञ्च कस्मादित्याश्चर्यम्। यथा वा- गगनलिखितेषु पन्नगनगवरधौरेय चित्रपुरुषेषु। स गणयितव्यः पुरुषोऽनुगुणो यस्त्वदुपमालव- स्यापि ॥१६४॥ अनयोरुदाहरणयोरसमत्वं प्राधान्येन व्यज्यते। अयं क्वचि- दुपमानस्य निषेधात्, क्वचिच्च साक्षादुपमाया एव। तत्राद्य उपदर्शित: ॥

Page 105

94 अलंकारमणिहारे

द्वितीयो यथा- अन्तर्वहिरपि कमलाकान्त समन्तात्त्वयैव प- रिपूर्णम्। जगदिदमखिलं भवतो जगदीश तुला पदं क निदधीत ॥१६५॥ हे जगदीश! भवतस्तुला उपमा कर्त्री क्व पदं निदधीत। सर्वस्य जगतस्त्वयैवान्तर्वहिश्च परिपूर्णत्वात्त्वदुपमायाः पदन्या- सस्यापि नावकाश इति भावः॥ इत्यसमालंकारसरश्चतुर्थः.

अथोदाहरणालंकारसरः

सामान्योक्तसुबोधाय तदेकांशनिरूपणात्। उक्त्ते तयोरवयवावयवित्व उदाहृतिः ॥२५॥ सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं नि- रूप्य तयोस्सामान्यैकदेशयोरवयवावयविभावे उक्ते उदाहृतिः उदाहरणं नामालंकारः । अत्रार्थान्तरन्यासवारणायोक्त इति। वचनं च इवयथानिदर्शनदष्टान्तप्रमाणोदाहरणसाक्ष्यादिशब्दैः काव्येषु व्यक्तम्। अर्थान्तरन्यासे ह्यवयवावयविभावो व्यङ्गयः। न च इवयथाशब्दयोस्सादृश्यवचनयोरवयवावयविभावे विशेष- सामान्यात्मके नास्ति वृत्तिरिति वाच्यम्। लक्षणायास्साम्राज्या- त्। अन्यथा ह्यत्प्रेक्षाबोधकताऽपि दुर्घटा स्यात्। अत्रालंकारे सामान्यविशेषयोर्विशेषणानि पृथग्वा सकृद्वा निर्दिश्यन्त इति ध्येयम्॥।

Page 106

उदाहर णालंकारसरः (५) 95 .

यथा -- मलिनमपि गुणमहिम्रा महति पद़े वस्तु मा- न्यतामेति। मृगनाभिस्सुरभितया भगवत इव नि- टिलफलकसीमायाम् ॥१६६॥ न नात्र मलिनवस्तुमृगनाभ्योरुपमा शक्या वक्तुम् । त- योस्सामान्यविशेषभावेन सादृश्यस्यानुन्मेषात् । तथा सति तु इवादिशब्द इव सदशादिशब्दा अप्यलंकारेऽस्मिन् प्रयुज्येरन्। अत्र मृगनाभिसुरभिताभगवद्वदनानि मलिनवस्तुगुणमहिममहा- पदानां विशेषाः। अत्र पद्ये इवशब्देनावयवावयविभावोक्ति:॥

यथा वा- संसर्गान्महतामिह सर्वज्ञेनापि लाल्यते कश्ि- त्। गरुडध्वजपदसङ्गद्गङ्गपूरो यथा पुरामरिणा॥ अत्र गरुडध्वजपदसङ्गादयो महत्संसर्गादीनां विशेषा:। अत्र यथाशब्देनावयवावयविभावोक्ति:॥

यथा वा- लोकोत्तरवस्तु वहन्नेको लोके महोन्नति धत्ते। काकोदरशिखरीन्द्रो निदर्शनं बिभ्रदत्र लोकेशम्।। एक इत्यस्य पदार्थ इति विशेष्यमुपस्कार्यम्। एवं पूर्व- पद्ये कश्चिदित्यस्यापि। अत्र निदर्शनशब्देन।।

यथा वा- यत्र क वाडस्तु जातस्तेजस्वी भवति भूषणं

Page 107

96 अलंकारमणिहारे महताम्। उदधौ जातश्श्रीपत्युरस्स्थितः कौस्तु- भोऽत्र दष्टान्तः ।१६९॥। अत्र उद्धिजातकौस्तुभौ यत्र क्व वा जाततेजस्विनोर्विशे- षी। एवमग्रेऽपि द्रष्टव्यम् । अत्र दृष्टान्तशब्देन॥

यथा वा- उत्तमचेतनसंश्रयदत्तातिशयो गिरीश़तां धत्ते। कश्विविदचेतनभावेऽप्याश्वर्यमिह प्रमाणमहिशैलः ॥ उत्तमचेतनः श्रेष्ठो जीवः, अन्यत्र भगवानित्यर्थः । गिरी- शतां वाग्विषये ईश्वरत्वं, अन्यत्र शैलेन्द्रताम्। अविद्यमाना चेतना ज्ञानं यस्य तस्य भावे अज्ञत्वे इत्यर्थः । अन्यत्र चेतन- भिन्नत्वे गिरेरचेतनत्वादित्यर्थः । अत्र प्रमाणशब्देन।।

यथा वा- त्वामन्तर्निदधानइश्रीमन् खेटोपि भवति ते- जस्वी। अम्वुजकदम्बबन्धोर्विम्ब इह स्यादुदाहर- णम् ॥| १७9 ॥ खेट: कुत्सितः 'कुपूयकुत्सितावद्यखेटगर्याणकास्समाः' इत्यमरः। पक्षे-खे अटतीति खेटः गगनचारीत्यर्थः। 'तत्पुरुषे कृतिः' इत्यलुक्। अत्रोद/हरणशब्देनावयवावयविभावकथनम्॥

यथा वा- अपि बहुषु वस्तुषु महानादन्त स्वानुरूपवस्त्वे-

Page 108

उदाहरणालंकारसरः (५) 97

व। उदधिभवेष्विह कमलामुपाददानोSत्र माधव- स्साक्षी ॥१७२।। आदौ तामसहिततां दधदपि वस्तु त्वदाश्रितं स्यान्चेत्। अन्ते रसवद्रविता हरिदयिते तत्र सा- क्षि तामरसम् ॥१७३॥ आदौ प्रथमं तामसेभ्यो हिततां दधदृपि। पक्षे तामे- त्याश्यां वर्णाभ्यां सहिततां दधदित्यर्थः । अन्ते रसवत् ब्रह्मा- नुभववत् 'रसो वै सः' इत्यादिश्रुतेः । रसशब्दो ब्रह्मपरः। पक्षे-अन्ते चरमभागे रसाभ्यां रेफसवर्णाभ्यां युक्तमित्यर्थः । अत्र पदद्वयेऽ्रपि साक्षिशब्देनावयवावयविभाववचनम्॥ इवयथादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्। नि- दर्शनद्ृष्टान्तादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदञ्च वि- शेष:। प्राश्चस्तु -"नायमलंकारोऽतिरिक्तः, उपमयैव गतार्थत्वात्। न च सामान्यविशेषयोरसादृश्यानुल्लासात्कथमुपमेति वाच्यम्। 'निर्विशेष न सामान्यम्' इति सामान्यस्य यत्किश्चिद्विशेषं वि- ना प्रकृतत्वायोगात्। तादृशविशेषमादाय विशेषान्तरस्य साद श्योल्लासे बाधकाभावादिवादिभिरासुखे प्रतीयमानस्यापि सामा- न्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः" इत्याहुः॥ नन्वेवमुदाहरणालंकाराभ्युपगमे सामान्यस्य विशेषेण सम- थनं नार्थान्तरन्यासभेदशशक्रयान्भ्वितुम्, अनेनैव चरितार्थत्वा- दिति वाच्यम्। तत्र इववायथादिशन्द्प्रयोगाभावस्यैवेतो वैल- क्षण्यात्। एवमपि स वाचकाभावादार्थ उदाहरणालंकार एवास्तु न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्त्यनयोवैलक्षण्यं-सामा- न्यार्थसमर्थकस्य विशेषवाक्यार्थस्य दयी हि गतिः । अनुवा ALANKARA 13

Page 109

98 अलंकारमणिहारे

द्यांशमात्र विशेषत्वम्। विधेयांशस्तु सामान्यगत एवेत्येका। अनुवाद्यावधेयोभयांशेऽपि विशेषत्वमत्यपरा। तत्राद्या उदाह रणालङ्कारस्य विषयः। द्वितीया त्वर्थान्तरन्यासभदस्य। एवं च 'मृगनाभिस्सुरितया भगवत इव निटिलफलकसीमायाम्' इत्युदाहरणालङ्कारगते विशेषे मान्यतामेतीति प्राचीनसामान्या- र्थगतैव यथोक्तरूपेण क्रिया विधेया। 'भगवद्वदने बिभर्ति ति- लकत्वम्' इति तुरीयपादपाठेनार्थान्तरन्यासगते तु पृथगुपा- सविशोषरूपेण। एवं-'यत्र क्ववाऽस्तुजातस्तेजस्वी भवति भू- षण महताम्' इत्याद्यदाहरणालङ्कारश्षोकेष्वपपि 'यदयं जनि- मानुदधौ हृदये प्रचकास्ति कौस्तुभोऽचयुत ते' इत्याद्युत्तरा- धपाठे उदाहरणार्थान्तरन्यासविशेषयोवैलक्षण्यं बोध्यमिति। यदि चायमल्पो विशेषो नार्थान्तरन्यासविशेषस्योदाहरणालङ्कारात्पृथ- गलङ्कारतामीष्टे साधयितुं, अपि तु तद्विशेषतामित्युच्येत, तदा उदाहरणालङ्गारोऽर्थान्तरन्यासस्य, प्रतिवस्तूपमा दष्टान्तस्य, अति- शयोक्ती रूपकस्य च विशेष:, उपमैव चार्थी स्मरणभ्रान्तिमत्स- न्देहा इत्यपि सुवचं स्यात्, तत्रापि विशेषस्याल्पत्वात्। उप- मयैवेमं गतार्थ मन्वाना: प्राश्चस्तु विशेषेण सामान्यस्य सम- र्थनमर्थान्तरन्यासं विनाऽन्यत्र नेष्टे प्रवेषमित्यभिप्रयन्तीति दिक्॥ इत्यलङ्कारमणिहारे उदाहरणालङ्कारसर: पश्चम:

अथ प्रतीपालङ्करसरः.

प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता॥२६॥ प्रसिद्धोपमानवैपरत्येन वर्ण्यमानमौपम्यं प्रतीपिम्। तद्वैप- रोत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया। अत्र प्रसि-

Page 110

प्रतीपालंकारसर: (६) 99

द्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य यञ्चोपमानं त- स्योपमेयत्वान्नचूनत्वस्थ च प्रत्ययः फलम्। इदमेव चौपम्यस्या- विशेषेऽप्युपमालङ्कारादस्य वैलक्षण्ये बीजम्। नन्वेवमौपम्यस्यो- पमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमन्यस्य न्यूनत्वं च गम्यत इत्येतत्कुत इति चेदवधहहि-उपमाने हि साधारणधर्म- सम्बन्धोऽनूद्य उपमेये विधीयत इति तावत्सर्वसंप्रतिपन्नम् । विध्यनुवादी च साध्यत्वसिद्धत्वाभ्यां। ते च क्रमेणोपमेयो- पमानयोर्न्यूनत्वाधिक्ये प्रयोजयेते। लोकेऽपि निश्चितराजभावो यथा मान्यते तथा नानिश्चितराजभाव इति व्यक्तमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । अत्र पञ्च- विधे प्रतीपे वक्ष्यमाणे आद्येषु त्रिषूपमितिक्रियानिष्पत्तिरस्ति । अन्यत्र तु सा नेति भेद:॥ यथा- जल्पतु जरद्वी त्वां हिरण्यवर्णा रण्यदयि- तततमे। शुचितप्तं यदि तत्स्यात्सुचिरं त्वद्वर्णता भजेतापि ॥ १७४॥ जरद्रवी श्रुतिः जीर्णा गौरित्यपि गम्यते। शुचितत्ं ग्रोष्मे पञ्चास्निमध्यकृततपः । यद्वा शुचीति भिन्नं पदम्। शुचि शुद्धं तप्तं तपस्वि चेत्यर्थः। अग्नौ पुटपाकेन शोधितमिति तु हृद- यम्। अत्र पूर्वाधोपमाग्यमुपमानताप्रयुक्तं सुवर्णवर्णाधिकयं तिरस्कृत्य द्वितीयार्धे प्रतीपं श्रीलक्ष्मीवर्णस्योपमानत्वप्रयुक्तमा- धिक्यं गमयति। शुचितापं विना प्रतपिमपि दुर्लभम्, उपमा तु स्वपेऽपि दूरतोऽपास्तेति जरद्रवी जल्पत्वित्याभ्यां गम्यते। शरण्यदयिततमे इति श्रियस्संवुद्धि:॥

Page 111

100 अलंकारमणिहारे

यथा वा- आदित्यवर्णतां ते श्रुतिस्तवतन्त्रा ब्रवीतु जग- दम्ब। उदयेन्महातपइश्रीस्स यदि त्वत्पादवर्ण एव स्यात् ॥ १७५ ॥ श्रुतिः, 'आदित्यवर्णे तपसोऽधिजातः' इति श्रुतिः । सः आदित्यः महती तपशश्रीः आतपश्रीश्च यस्य स तथोक्तः उद. येत्। अभ्युदयमाविर्भावं व प्राप्तुयाद्यादि तदाSाप त्वत्पादवर्ण एव तब चतुर्थाशवर्ण इव वर्णो यस्य स तथोक्त एव स्यात्, न तु पारपूर्णत्वद्वर्ण इति भावः। त्वञ्चरणारुणवर्ण इति तुहद- यम्। अत्रापि पूर्वाधोपमागम्यमुपमानताप्रयुक्तादित्यवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीप जगज्ननीवर्णस्य उपमानताप्रयुक्त- माधिक्यं गमयति। महातपश्रीसाहित्येनोदितत्वमन्तरा प्रतीप- मपि दुर्घटं, कुतो वा उपसावार्तेति श्रुतिस्स्वतन्त्रा ब्रवीत्वित्य- नेन गम्यते। त्वत्पादवर्ण एवेति श्रेषोऽप्यस्यैवार्थस्योपस्कुरुते॥ अवर्ण्यस्योपमेयस्य लाक्षाद्वर्ण्यतिरस्कृतिः। लाभाद्वर्ण्योषमेयस्य स्यादन्यानादरक्ष तत् ॥२७।। अद्वितीयगुणशालितया वर्ण्यमानस्यान्यत्र स्वसाद्ृश्यमक्ष- ममाणस्य उपमेयं कंचित्प्रदर्श्य तावता तस्य तिरस्कारो द्वि- तीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशेषशाललि। अत्युत्कृष्टतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कार: पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् । यथा- अहमेव पालयित्री जगतामिति दप्य मा जल-

Page 112

प्रतीपालंकारसर: (६) 101

धिपुत्रि। फणिगिरिपतिहृदि धात्रीसदृशी करुणा तवास्ति शुभदात्री ।१७६।।

त्वमनन्तहृद्यभूषणमहमिति गर्व जहीहि धाम- निधे। संकलयसि सदशं तव वेङ्गटनाथस्य मणि- मुरसि न किमु ॥१७७॥

अत्राद्योदाहरणे तव सदृशीत्युपमितिक्रियानिष्पत्तावपि क- रुणाया उपमेयीकरणेन वर्ण्याया लक्ष्म्या अनादरः । द्वितीयो- दाहरणे तु अनन्तहृद्यभूषणतया क्वचिदप्युपमानभावमक्षममाण- स्यावर्ण्यस्य धामनिधेस्ताद्शं श्रीनिवासारस्स्थकौस्तुभमुपमेयं प- रिकल्प्य तस्यानादर उक्तः। अनन्तस्य गगनस्य श्रीनिवासस्य च हृद्ं मनोहरं हृदयस्थं च भूषणमिति श्ेषोपस्कृतमिदम्। अनयोर्मेदयो: फलं स्फुटमेवेति न विवेचनीयमस्ति॥

तीपं दृश्यते। यथा-

करचरणनयनसदशं सरसिरुहं परमपुरुष तव कमला। करभूषणयति गृहयति सरयति संश्रय- ति चापि तन्नाम ॥१७८॥।

अत्रारुण्य सौगन्ध्यमार्दवादिमहिस्रा प्रसिद्धोपमानभावस्य स- रसिरुहस्योपमेयत्वमात्रमुक्तम। न तु तस्यानादरः। उपमायामि- वास्मिन्नपि पूर्णालुसादयो भेदास्सम्भवन्तो बुद्धिमद्भ्िरुत्रेयाः ॥

Page 113

102 अलंकारमणिहारे

उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि ततू।। वर्ण्येनेति तृतीयाया निरूपितत्वमर्थः । वर्ण्यनिरूपिता अन्य- स्यावर्ण्यस्य या उपमा तस्या अनिष्पत्तिवचनं चतुर्थ प्रतपिम्। आद्ययोरवर्ण्यस्योपमेयत्वकल्पनया तृतीये वर्ण्यस्योपमेयत्वकल्प- नया चोपमितिक्रियानिष्पात्तिरस्ति। अत्र तु सा नास्तीति पूर्वेभ्य उत्कर्षशालीदम्।

यथा- अपि पुण्डरीकमक्ष्णोरुपमा स्यादुरगशैलनाथ तव। साहसिकी मन्ये श्रुतिराह यथा पुण्डरीकमे- वमिति॥१७९॥ हे उरगशैलनाथ तव अक्ष्णोः पुण्डरीकमपि उपमा स्या- दिति काकु:। अपीत्यनेन पुण्डरीकस्य कादाचित्कम्लान्यादिना अरामणीयकं व्यक्जितम्। तर्ह्यन्तरादित्यविद्यायां 'तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' इति श्रुतिः कथमाह पुण्डरीक- साधर्म्य भगवल्लोचनयोरित्यत आह-साहसिकीति। या श्रुतिः 'तस्य यथा कप्यासम्' इत्यादिः पुण्डरीकसादृश्यमाह, मन्ये सा साहलिकीति। सहसा वर्तते साहसिकी 'ओजस्सहोऽ- म्भसा वर्तते' इति ठक्। टिड्डेति डीए। नेत्रे निमील्य वदती- ति भावः। अत्र अपि पुण्डररमक्ष्णोरुपमा स्यादित्यनेन उप मा न सम्भवतीति गम्यते। साहसिकीत्युत्तरार्धममुमेवार्थमु- पोद्दलयति॥

उपमानस्य कैमर्थ्य प्रतीपं पश्चमं विदुः२८॥

Page 114

प्रतीपाळकारसर: (६) 103

कः अर्थः प्रयोजनं यस्य स किमर्थः तस्य भावः कैमर्थ्य निरर्थकत्वम्। उपमेयस्यैवोपमानकार्यघूर्वहृतया उपमानकैमर्थ्य- मुपमानप्रातिलोम्यात्पश्चमं प्रतीपम्॥ यथा- गुणवशितपरब्रह्मणि फणिशिखरिणि विरचि- ताङ्गुतानन्दे। निवसन्तः खलु सन्तः परमव्यो- स्राऽपि किमिति मन्यन्ते ॥ १८०॥

यथा वा- पद्मावत्याः पाणिं परिगृह्ानः फणाभृदचले- शः। लीलाव्जमपि निरास्थो निरास्थदेतत्किम- र्थमिति॥१८१॥ अत्र क्रमेण उपमययोः फणिशिखरिपद्मावतीपाण्योरेव नि- रतिशयानन्ददानादिकार्यधूर्वहृतया उपमानभूतयोः परमव्यामली- लाकमलयोः कैमर्थ्यमुक्तम्॥ तदेवं पश्चविधं प्रतीप प्राचामनुरोधान्निरुपितम् । वस्तु- तस्तु आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । तुरीयस्त्वनुक्त- वैधर्म्ये व्यतिरेक। पश्चमस्तु केषांचिदाक्षेपः। तथाहि-नि- ष्पद्यमानं सुन्दर वा सादृश्यमुपमा। न ह्यादे प्रतीपे मुख- मित्रकमलमित्यादौ सादृश्यस्यानिष्यत्तिरसौन्दर्य वाडस्ति। येनो- पमातो बहिष्कृतिस्स्यात्। सौन्दर्यविशेषस्य त्वयाऽप्यभ्युपग मात्। विशेषस्य सामान्यानिवारकत्वात्। न च प्रसिद्धकम- लादिप्रतियोगिकमेव सादृश्यमुपमेत्यस्ति वेदानुशासनम्। न

Page 115

104 अलंकारमणिहारे

चोपमावविरुद्धवाचिनः प्रतपिशब्दस्य महिस्नैव तथाविधं साद- श्यमुपमेति शक्यं वदितुम। उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवंचादं प्रतीप प्रसिद्धोपमावदुपनाविशेष एव। अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव, उपमानोपमे- ययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेन्न तूपमासामान्यात्। तदनुस्यूतत्वेनैव तत्प्रतीतेः । ने हि शर्करा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवेत् । अपि च यद्यपमानो-

तथा स्यात्॥ यथा ननु पातकिनो वयमित्यनुतापं मा स्म दुर्ज- ना: कुरुत। कति कति न भवादृक्षाः कलाविहा- स्मृतसरीसृपगिरीझाः ॥ १८२॥ अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कार: फलं, तस्य दप्त- त्वाद्यविवक्षणात् । किन्तु तदनुतापशान्तिः, एवंच फलवैल- क्षण्यमात्रेणालङ्कारान्तरत्वं ब्ुवाणेनास्याप्यलङ्कारत्वमभ्युपेयं स्यात् प्रतिषष्ठप्रभेदत्वं वा। किंच त्वदुक्तप्रतपिभेदानामपि परस्पर- वैलक्षण्येन पृथगलङ्कारता स्यान्न तु प्रतीपभेदत्वं, प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात्। अन्यतमत्वं तु दू- षणसहस्रकबळिठितत्वादलक्षणमेव। उपमालक्षणं तु सर्वसाधार- णम्। पश्चमप्रभेदस्तु येषां मतेनाक्षेपस्तेषामस्तुनामालङ्कारः। तु- रीयस्य तूक्तैव गतिः॥ इत्यलङ्कारमणिहारे प्रर्तापालङ्कारसरः षष्ठः

Page 116

रूपकसरः (७) 105

अथ रूपकम्.

यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम्। रूपकं तद्डिधाऽभेदताद्रूप्यावसितं विदुः ॥२९॥ विषयि उपमानभूतं चन्द्रादि, विषयस्तदुपमेयभूतं वर्ण- नीयं मुखादि। विषयिणो रूपेण यद्विषयस्योपरञ्जनं उपरञ्ञ- नमिवोपरञ्जनं स्वोपरक्तबुद्धिविषयीकरणमिति यावत। तद्रूपकं, अन्यरूपेण रूपवत्त्वनिष्पादनात् । तञ्च क्वचित्प्रसिद्धविषय्य- भेदे पर्यवसितं, क्वचिन्द्ेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम्। ततश्च रूपकं तावट्विविधं-अभेदरूपकं ताद्रू- व्यरूपकं चेति। तदेतदाह- आरोपे सत्यभेदस्याभेदरूपकमुच्यते। ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्रवेत्।३० ताद्रूप्यस्य सः आरोपो भवेद्यदि ताद्रूप्यरूपकमित्यर्थः । अभेदारोपश्च 'मुखं चन्द्रः' इत्यादावाहार्यचन्द्राभेदनिश्चयः। ताद्रू- व्यारोपस्तु 'मुखमपरश्चन्द्रः' इत्यत्रापर इति भेदस्य स्फुटतया

निश्चयः । न च तस्य मुखे सत्त्वात्कथमारोप इति वाच्यम्। चन्द्रकार्यसजातीयकार्यकारित्वस्यैव मुखे सत्त्वात्। यद्यपि ना- मार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्यका- रिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाऽप्युपमान- तावच्छेदकरूपेणाभेदभाने पवाभेदरूपकत्वं, तत्कार्यकारित्वादिरू- पेणाभेदभाने तु ताद्रूप्यरूपकत्वमित्याङ्क: ॥ ALANKARA 14

Page 117

106 अलंकारमणिहारे

द्विविधमपि रूपक प्रत्येकं त्रिविधम् । प्रसिद्धविषय्या- धिक्यवर्णनेन तन्नचूनतावर्णनेन आधिक्यन्यूनताराहित्योक्त्या चे- त्येवं रूपक षड्डिधम्। तत्राभेदरूपकेष्वधिकाभेदरूपकं लक्षयति- पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम्। वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम् ॥३२

यथा- असुरासुरविक्षुभितादहिराजघरेशजलनिधेरुदि- तम्। वितरत्यजरामरताममितां स्मितममृतमेत- दनुसरताम्॥१८४॥ अत्राहिराजधरेशजलनिधेरिति जलधिना सह श्रीनिवास स्याभेदं प्रतिपाद्य असुरासुरविक्षुभितादित्यनेन विशेषणेन ज- लधेः, एवं स्मितममृतमित्यमृतेन सह वर्णनीयस्य स्मितस्य तादात्म्यं प्रतिपाद्य अमितामजरामरतां वितरतीत्यनवच्छिन्नाज- रामरत्वदानोक्त्या अमृतस्य च पूर्वावस्थात उत्कर्षविभावना- दधिकाभेदरूपकद्यं परंपरितम। अत्र प्राथमिकं समस्तं रू- पकं, द्वैतीयीकं तु व्यस्तमिति विशेष:॥

न्यूनता प्रागवस्थातश्रेन्नयूनाभेदरूपकम्।।

यथा- अनुपदमनुपमफणिपतिगिरिमणिगुणगरिमम-

Page 118

रूपकसर: (७) 107

सृणिता कविता। त्रय्येव पौरुषेयी धुनोति दुरितं तनोति सुखममितम् ॥१८५॥ अत्र वर्णनीयाया: भगवद्गणविषयकार्वाक्तनकवितायाः त्र- य्येवेति प्रसिद्धत्रयीतादात्म्यं प्रकाश्य पौरुषेयीत्यपौरुधेयत्ववैक ल्यप्रतिपादनान्नयूनाभेदरूपकम । पुरुषेण कृता पौरुषेयी 'सर्व- पुरुषाभ्यां णढञौ' इत्यत्र 'पुरुषाद्वधविकारससूहतेनकृतेष्विति वक्तव्यम्' इति ढजि 'टिड्ड' इति डीप। भाष्यकारप्रयोगा- त्तेनेत्यस्य द्वंद्वमध्ये निवशः। न्यूनताप्रतिपादनमप्यभेददार्ढ्या- पादकत्वाच्चमत्कारि ।।

आधिक्यन्यूनताभावेऽनुभयाभेदरूपकमू ।३४।। यथा- षदधदमन्त्रोद्रीतं सकमलरेखं रसोदयनिकेतम् . कलयामि श्रीशरणं नलिनं साक्षाद्रमापतेश्ररणम॥ षद्धदमन्त्रेण 'षट्दोऽयं द्विखण्डः' इत्युक्तमन्त्ररत्ेन उद्गातं, तत्र भगवच्चरणयोरुपायताप्रतिपादनात्। अन्यत्र पट्टदानां भ्रम- राणां मन्त्रैः गुज्जितैरिति यावत्, उद्गीतम्। सकमलरेखं कम- लाकाररेखाभिस्सहितं पद्मपङ़िसहितं च । रसाया: भूमे: उ- दयनिकेतं जनिगृहं 'पन्नयां भूमिः' इति श्रुतेः । अन्यत्र रस- स्य मरन्दस्य उदयनिकेत, श्रियः साकुमार्यादिलक्ष्म्याः श्रीदे- व्याश्च शरणं आश्रयं जन्मनिकेतनं च। अत्र साक्षादिति वि- शेषणेन नलिनतादात्म्यं भगवच्चरणस्य प्रतिपाद्य षद्दमन्त्रोद्री- तामत्यादिविशेषणैस्तस्य पूर्वावस्थात उत्कर्षापकर्षयोरवर्णना- दनुभयाभेदरूपकम्॥

Page 119

108 अलंकागमणिहारे

ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्गिरूह्यताम् ॥३५ तत्राधिकताद्गुप्यरूपकं यथा- परमन्दरसंक्षोभं न भजति जात्वपि भुजङ्गगि- रिनेतुः। स्वान्तसरित्कान्तोSस्मिन् जयति समु- द्रो बुधान्न रञ्जयति ॥१८७॥ जात्वपि परमं अधिक दरेण भयेन संक्षोभम्। पक्षे-परं अतिशयितं मन्दरेण गिरिणा संक्षोभं मथनं भुजङ्गगिरिनेतुः स्वान्तं सरित्कान्तः न भजति, अ्मिन् स्वान्तसरित्कान्ते ज- यति सति समुद्र: प्रसिद्धस्सिन्धु: बुधान् देवान् विदुषश्च न रक्षयति अतथाविधत्वादिति भावः । अत्र स्वान्तसरित्कान्त इ. त्यत्र सरित्कान्तपदं सरित्कान्तकार्यकारित्वमात्रपरं, समुद्रो बु- धान्न रञ्जयतीति प्रसिद्धसमुद्रान्ेदस्य विवक्षितत्वात्। तथाच परमन्दरसंक्षोभं न भजतीत्यनेन स्वान्तसरित्कान्तस्योत्कर्षप्रति- पादनात्प्रसिद्धसमुद्रे तद्वैलक्षण्यस्य स्फुटतया आधिक्यं वर्णि- तमित्यधिकताद्रप्यरूपकम्॥ यथा वा- गर्जन्विषं प्रदत्ते पर्जन्यशशीतको मलिनवक्तः। फणिगिरिपतिपर्जन्यः प्रददात्यमृतमपि सुखसुखे- नैव ॥ १८८॥ पर्जन्यः शीतक: अलसः शीतं करोतीति शीतकः 'शी- तोष्णाभ्यां कारिणि' इति कन्। 'आलस्यश्शीतकोऽलसः' इत्यमरः। अन्यत्र शीतं क उदकं यस्य स इति विग्रहः ।

Page 120

रूपकसरः (७) 109

मलिनं कोधदूषिततया मलीमसं, पक्षे निसर्गतो नीलं मुखं वदनं अग्रभागश्च यस्य स तथोक्तः । गर्जन् तर्जयन्। पक्षे स्तनन् सन्। विषं गरळं जलं च प्रदुत्ते। एवमलसः क्रोध- मलिनमुखो गर्जन्नप्यन्ततो विषमेव प्रदत्ते न तूपादेयं वस्तु। फणिगिरिपतिपर्जन्यस्तु अमृतं सुधामपि निश्श्रेयसमपि च सुख- सुखेनैव अनलसोऽमलिनमुखोऽतर्जयन्नक्केशनैवेति भावः। प्रद. दाति। 'अकृछे प्रियसुखयोरन्यतरस्याम्' इति द्विर्वचने कर्म- धारयवन्भावात्सुब्लुक्। अत्र प्रसिद्धपर्जन्यापेक्षया भगवत्पर्जन्य- स्याधिक्यमुक्तम्। न्यूनताद्रूप्यरूपकं यथा- प्रणमन्ति ये भजन्ति च फणिगिरिकान्तं स्तु- वन्ति चाश्चन्ति। तेऽमी भगवद्रक्ता भूमीजनुषोऽ- परे मुक्ता: ॥१८९॥ अत्र मुक्तेष्वपर इति विशेषणात्प्रसिद्धमुक्तेभ्यो भगवद्भक्ता-

द्रृप्यरूपकम् ॥ अनुभयताद्रूप्यरूपकं यथा- विबुधेभ्योSमृतवितरणनिपुणमिदं हरिणकिर- णजनिशरणम्। फणिधरणिधरशिरोमणिहृदयं जानीमहेऽपरं जलधिम् ॥१९०॥ विबुधेभ्यः देवेभ्यो विद्वन्भ्चश्च अमृतस्य सुधायाः नि- शश्रेथसस्य च वितरणे निपुणम्। हरिणकिरणस्य चन्द्रम-

Page 121

1io अलंकारमणिहारे

सः जनिशरणं जन्मगृहम् । अब्धेश्चन्द्रोदयस्य प्रसिद्धेः, पक्षे 'चन्द्रमा मनसो जातः' इति श्रुतेः । अत्रापरं जलधिमिति प्रसिद्धजलधेर्भेदमाविष्कृत्य तस्य च प्रसिद्धजलधिकार्यकारि-

कुवलयानन्दकृतां मतमनुरुध्योभयविधत्वं रूपकस्य तत्राप्येकै- कस्य त्रैविध्यं च वर्णितम्।। मङ्गक-मम्मट-भामहप्रभृतयः प्राचीनास्तु अभेदरूपकमेवाङ्गय कार्षुः न तु तादरूप्यरूपकम्। तेषामयमाशय उन्नीयते-अभेद- रूपकं ताद्रूप्यरूपकमिति न युज्यते विभागः, 'मुखमपरश्चन्द्र' इत्यादावप्यभेदरूपकस्यैव संभवात्। न चोपमानतावच्छेदका- वच्छिन्नाभेदभाने ह्यमेदरूपकं, उक्तस्थले चापरपदेन चन्द्रभेद: स्यैव प्रतीत्या चन्द्राभेदभानासंभवात्कथमभेदरूपकं स्यात्। अ तश्चन्द्रपदस्य तत्र चन्द्रकार्यकारित्वावच्छिन्नपरतामाश्रित्य ताद्रू. व्यारोपात् ताद्रप्यरूपकमेवाञ्युपेयमिति वाच्यम्। अपरादिपद- स्येद्टशस्थले स्वार्थान्वयितावच्छेदकाश्रययत्किश्चिद्वयक्तिप्रतियो गिकभेदमात्रबोधकत्वव्युत्पत्तेः प्रसिद्धचन्द्रव्यक्तिभेदभानेऽपि च न्द्रसामान्यभेदाभानाच्चन्द्रद्वित्वभ्रममूलकस्य मुखादौ चन्द्रत्वा- वच्छिन्नाभेदभानस्य संभवात्। अन्यथा चन्द्रपदस्यात्र चन्द्र- कार्यकारिपरत्वेऽपि चन्द्रकार्यकारित्वेन प्रसिद्धचन्द्रासाधारणेन

वस्थ्यात्। चन्द्रकार्यकारितायाः प्रसिद्धचन्द्रेतरसाधारण्ये च मुखे तदारोपस्यैवानावश्यकतया रूपकस्यैवाप्ररोहात्। एवं 'मुखं चन्द्रकार्यकारि' इत्यादावपि ताद्रूप्यरूपकप्रसङ्ग:। तस्मादभेदा- रोप एव रूपकं न तु ताद्रूप्यारोप इति। यदि तु अभेदरूपकं ताद्ूप्यरूपकमिति विभागसंगमनमावश्यकमित्यागृह्यते तदा उप-

Page 122

रूपकसर: (७) 111

मानतावच्छेदकार्वच्छिन्नारोपे अभेदरूपकं उपमानतावच्छेदकध- र्मारोपे ताद्रूप्यरूपकमित्येवाश्रयणीयम्। आद्यस्योदाहरणं 'मुखं चन्द्रः, मुखमपरश्चन्द्रः' इत्यादिकं विषयिविषयवाचकपदयोस्सा- मानाधिकरण्यस्थलं सर्वमेव । द्वितीयस्य तु 'आस्ये पूर्णश- शाङ्कता' इत्यादीति ध्येयम्। तत्राप्यभेदरूपकं द्विविधम्। अ- भेदस्य संसर्गत्वे एकं पदार्थत्वेऽपरम्। यथा- चिन्तामणिरसि भजतां सन्तानो वा तरुस्त्व- मब्जाक्ष। हरिनीलाद्वैतं तव तनुरेत्यथवा तमाल- तादात्म्यम् ॥। १९१।। चिन्तामणेर्हरिनीलाद्वैतं सन्तानतरोस्तमालतादात्म्यमप्या- श्चर्यमिति भावः । अत्र त्वं चिन्तामणिः संतानतरुर्वेत्येतदाद्य- स्योदाहरणम्। अत्र ह्यभेदस्संसर्गरूपः । द्वितीयस्य तु तव तनुर्हरिनीलाद्वैतं तमालतादात्म्यं वा एतीति। अत्र ह्यभेदः पदार्थरूप: । एवं 'मुखं चन्द्रः' इत्यादौ 'चन्द्राद्वैतमेति' इत्यादावप्य भेदस्य संसर्गरूपता पदार्थरूपता च द्रष्टव्या। अनयोश्चाभे- दतादूप्यरूपकयोरुपपाद्योपपादकभावोऽपि संभवति॥ यथा- हारास्तवाम्बुधारा: कनकपटीयं तटित्प्रभार- भटी। अम्बुरुहेक्षण तत्त्वय्यम्बुदतां नियतमेव जानीमः ॥११२॥ मन्दस्मिते सुधात्वं मन्दारत्वं तवाच्युत कटाक्षे। फाले बालेन्दुत्वं भाति तदम्भोनिधेरभिन्नस्त्वम् ॥

Page 123

112 अलंकारमणिहारे

अत्राधे पद्े अभेदरूपकमुपपादकं ताद्रूप्यरूपकमुपपादं, द्वितीये तु तद्विपरीतम् । तत्राप्यादे उदाहरणे उपपादके रू- पके अभेदस्संसर्गरूप:, द्वितीये तूपपाद्यरूपके स पदार्थरूप इति भिदा। तदेवं कुवलयानन्दकृद्भिः प्रदशितस्य रूपकवि- भागस्य संगमनेऽपि तदुपदर्शितानि 'वक्त्रेन्दौ तव सत्ययं य- दपरश्शीतांशुरुज्जृम्भते । साध्वीयमपरा लक्ष्मीः' इत्यादिपद्या नि ताद्रूप्यरूपकस्यानुदाहरणान्येवेत्यलं दूरधावनेन॥। प्राचां मते विभागोपि रूपकस्य निरूप्यते। त्रिधा साङ्ग निरङ्ग च परंपरितमित्यदः॥३६॥। समस्तवस्तुविषयमेकदेशविवर्ति च । इति सावयवं चापि द्विविधं तत्र रूपकम् ॥३७ अदः रूपकं साङ्गं सावयवं निरङ्गं निरवयवं परंपरित- मिति त्रिधा त्रिप्रकारम्। तत्र उक्तरूपकत्रयमध्ये सावयवं रू- पकं समस्तवस्तुविषयं एकदेशविवर्ति चेति द्विविधम्॥ सावयवं लक्षयति- यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते। रूपकाणां तु संघातो भवेत्सावयवं हि तत् ।। अन्योन्यसापेक्षनिष्पत्तीनां रूपकाणां संघातस्सावयवरूपक- मित्यर्थः ॥ तत्रापि समस्तवस्तुवृत्ति सावयवं लक्षयति- निरूपणेSवयविनोऽवयवानां च शब्दतः। समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥३ १।

Page 124

रूपकसरः (७) 113

यत्र समस्तान्यवयवावयविरूपवस्तून्यारोप्यमाणानि शब्दो- पात्तानि तत्समस्तवस्तुविषयं सावयवरूपकमित्यर्थः॥ यथा- हरिहृदयपअ्जरे नवमुक्तामणिहारजालके नद्द- म्। श्रीवत्सकीरहेतोर्दाडिमफलमेव कौस्तुभम- णीन्द्रः ।१९४।। अत्र संघातात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुगत्या समर्थ्यसमर्थकभावस्यान्योन्यं समानत्वेऽपि कवेर्दा- डिमफलरूपकस्यैव समर्थ्यतया विवक्षितत्वात्समर्थकतयोपादानम न्येषामिति प्रतीयते। एवं सति समर्थकरूपकाणां विषयविष- यिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यकौस्तुभदाडिम रूपकस्य विषयविषयिणोः पृथग्विभक्तिश्रवणाद्विधेयतया तदा दाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यप- दिश्यते। यथा योधसंघातान्तर्गतस्य प्रधानस्य कस्यचिद्योध- स्य विजयपराजयाश्यां योधसंघातो विजितः पराजितश्चेत्युच्य- ते। न चैवमादौ प्रतीयमानोत्प्रेक्षा शक्या वक्तुम्। अभेदस्य निश्चीयमानत्वात्। सत्यां चोत्प्रेक्षायां संभाव्यमानता स्यात् । अन्यथा 'मुखं चन्द्रः' इत्यादावपि प्रतीयमानोत्प्रेक्षापत्या रूपक- प्रळयापत्तेः । यथा वा- सिंहधराधरशेखरसिंहळसंभूतमसितविद्योतम्। श्रीरुचिकनकोपचितं शौरिमहानीलमा्रिये ह- दये ॥१९५॥ ALANKARA 15

Page 125

114 अलंकारमणिहारे

श्रीरुचिकनके उपचितं प्रत्युप्तं 'हेम्नीवोपचितो मणः इत्यादावुपचितशब्दस्य तथाविधार्थकत्वदर्शनात् । सिंहधराधर- शेखरः शेषाद्रिश्रेष्ठः स एव सिंक्षळः द्वीपविशेष: तस्मिन् सं- भूतं 'सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः' इत्यगस्त्यो- के: । हृदये मनसि वक्षसि च। अस्य सावयवरूपकस्य त्वनु- वाद्यत्वमेव, विषयविषयिणोः पृथग्विभक्तेरश्रवणात। उदाहरण- दयेऽप्यवयविनोऽवयवानां च समस्तानां वस्तूनामारोप्यमाणानां शाब्दतया समस्तवस्तुविषयं सावयवरूपकम् ॥

एकदेशविवर्ति सावयवं लक्षयति- आरोप्यमाणं शाब्दं चेत्कचिदार्थ च कुत्रचित्। एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥४०॥।

यत्र क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिव्चार्थसाम- थ्याक्षित्तं तत् एकदेशे शब्दानुपात्तावेषयिके अवयवरूपके वि- वर्तनात्। स्वस्वरूपगोपनेनान्यथाभावेन वर्तनादेकदेशविवर्ती- त्यर्थः । यद्वा-एकदेशे उपात्तविषयिके अवयवे विशेषेण वा- च्यतया वर्तनादेकदेशविवर्तीति॥

यथा- भ्वजलनिधिमतिविपुलं विविधमहावासनान- दीशबलम्। लोकोडयं तरतितरां काकोदरगिरिप- तेरुपास्य कृपाम् ॥१९६॥ अत्र भवादिषु जलध्यादिरूपकैः कृपायां नौत्वमाक्षिप्यत इत्येकदेशविवार्ति रूपकम्॥

Page 126

रूपकसरः (७) 115

यथा वा- विततैश्शुभगुणकिरणैर्वितरन्सत्कोकलोकस- म्मोदम्। फणिशिखरिमणिद्युमणिर्धरणिसुतामु- खविकासकृज्जयति ॥११७॥

धरणिसुता यज्ञार्थ भुवं शोधयता आकाशराजेन लब्धा भूतलादुद्गता धरण्याख्यस्वमहिषीहस्ते दत्ता तया संवर्धिता भगवता श्रीनिवासेन परिणीता पझ्मावतीनाम्नी साक्षाल्लक्ष्मीति वाराहे वेंकटाचलमाहात्म्ये प्रसिध्यति । पूर्वस्मिन्नदाहरणे क- वेस्समर्थ्यत्वेनाभिमतस्य कृपायां नौत्वारोपरूपकस्याक्षेप:। इह तु समर्थकत्वेनाभिमतस्य धरणिसुतामुखे पद्मरूपकस्याक्षेप इति विशेषः । एवंच समर्थर्थरूपकस्यैवाक्षेपो न समर्थकरूपकस्येति नाग्रहः कार्यः। एवमेव रसगङ्गाधरादावुदाहृतत्वात् । अत ए- वैकदेशविवर्तित्वसंज्ञाऽप्यस्य युज्यते। एकदेशे समर्थ्यरूपे अ- वयविनि समर्थकरूपे अवयवे वा विवर्तत इति तदर्थात्॥

इदं सावयवं द्विविधं श्िष्टमपि दृश्यत इति विमर्शि- नीकार:॥ तत्र समस्तवस्तुवृत्ति सावयवं श्िष्टं यथा-

मणिकिरणरसनविसरः फणभृद्दरणीघरो भाति॥ मणिमयशिरस्सहस्त्रमेव मणिमयशिरस्सहस्त्रं तेन उत्तुङ्गः । साधु थथा स्यात्तथा गुप्ताः रक्षिती: गूढाश्च बहवंः पादा: प्रत्यन्तपर्वताः येन तथोक्तः बहुपादा एव बहवश्चरणाः यस्य

Page 127

116 अलंकारमणिहारे

स तथोक्तः । 'कुण्डली गूढपात्' इत्यमरः । फणभृद्धरणीध- रइशेषाद्रिरेव फणभृद्धरणीधरश्शेषः । अत्र शिरआदिशब्दाः- श्िष्टाः 'शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मस्तके' इति रत्न- माला ॥ यथा वा- दुर्विषयगहनविपथे कर्षन्तं मां स्वरूपहरणाय। निगळय निखिलनियन्तर्हदयैकागारिकं तव प- देडबजे ॥१९९॥

दुर्विषयगहनविपथे दुरिन्द्रियार्थदुःखदुरध्वे एव दुर्देश- कान्तारकदध्वनि 'विषयो गोचरे देशे, गहनं वनदुःखयोः' इति च रत्नमाला। स्वरूपस्य भगवच्छेषतैकरूपस्य हरणा- यान्यथाकरणायैव स्वरूपहरणाय प्रशस्तवित्तापहाराय प्रशस्तं स्वं स्वरूपम्। 'प्रशंसायां रूपप' इति रूपप्प्रत्ययः। मां कर्ष- न्तं हृदयमेव एकागारिक चोरं 'ऐकागारिकट्टोरे' इति निपा- तनात्साधुः। एकमसहायमगारं प्रयोजनमस्य मुमुषिषोस्स ऐे- कागारिक इति विग्रहः । तव अब्जे पद्मसदृशे पदे चरण एव अब्जे जलमध्यस्थिते जलधिमध्यगत इति यावत्। पदे स्थाने कारागार इति यावत्। निगळय। अत्र निश्चलीकरण- मेव निगळवत्तासंपादनम् । 'निखिलनियन्तः' इतिसंबुद्धिरीद्द- शनिग्रहानुग्रहस्वतन्त्रताभिप्रायिकी । अत्रापि दुर्विषयादिशब्द्ा- शश्लिष्टाः॥ निरवयवरूपकं लक्षयति- निरङ्ग तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम्।

Page 128

रूपकसरः (७) 117

तद्विघा केवलं मालारूपं चेति सतां मतम्॥ निरङ्गं निरवयवम् । अङ्गिमात्रस्य अवयविमात्रस्य॥ तत्र केवलं निरवयवं यथा- वातंधयगिरिजातं स्फीतं धनमखिलशरणम- वदातम्। ख्यातं धनपतिगीतं ध्यातं धवळयति ह- त्सरोजातम् ॥२०0॥

स्फीतधनत्वेन भगवानध्यवस्यते। हृत्सरोजातं हृदयकमलं धवळयति प्रसादयतीत्यर्थः । अत्र हृत्सरोजातमिति रूपकं सा- पेक्षरूपकसंघातात्मकताविर हान्निरवयवम्। मालात्वविरहात्केव- लम्॥ निरवयवं मालारूपकं यथा- सौन्दर्यबृन्दकन्दं मुचुकुन्दानन्दचन्दनं वन्दे। व- न्दारुकबृन्दारकमन्दारं दन्दशूकशिखरीन्दुम् ॥ एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । अन्यो- न्यसापेक्षताविरहान्निरवयवम्।। विमर्शिनीकारस्तु - अनेकवरिषयकानेकपदर्थारोपेऽपीदं निर- वयवमालारूपकं श्िष्टास्लिष्टभेदेन दश्यत इत्याह।

नयने नलिने वदनं सदनं लक्ष्म्यास्तव स्मितं त्वमृतम्। गण्डौ दर्पणखण्डौ कुण्डलिवेतण्डशिख- रिमार्तण्ड ॥२०२।

Page 129

118 अलंकारमणिहारे

अत्र नयनादीनामनेकेषामश्लेषनिबन्धनानेकारोप:।। श्लेषनिबन्धनानेकारोपो यथा- तव पुष्करं हि वदनं हृदयं रत्नाकरो द्युतिः कृ- षणा। हत्तापनाशिनी टक्ततीर्थगिरीश भवसि ती- र्थमयः ॥२०३॥

तीर्थगिरिरिति वेङ्कटाद्रेरेव नामान्तरमित्यवोचाम। अत्र पु- एकररत्नाकरकृष्णाहत्तापनाशिनी शव्दा: ल्लिष्टा इत्यनेकेषां वद- नादीनामनेके श्िलिष्टा आरोपाः। तदियं श्िष्टार्थरूपकमाला। पु- षकरं कमलं प्रसिद्धतीर्थविशेषश्च। रत्नानां कौस्तुभादीनामाकर: स्थानं समुद्श्च। कृष्णा नीला नदीविशेषश्च। हत्तापनाशिनी मनस्तापनिवर्तिनी वीक्षारण्यक्षेत्रगततीर्थविशेषश्चेत्यर्थः । तीर्थ- मयः 'सर्वतीर्थात्मकस्सर्वग्रहरूपी' इति हि तन्नामसु पठ्यते॥ यथा वा- अक्षि तव पुण्डरीकं कुमुदं स्मितमअजनं प्रभा- विसरम्। चरितं तु सार्वभौमं जानंस्त्वां वेझि दिग्गजात्मानम् ॥२०४॥

र्थका दिग्गजार्थकाश्चेति श्विष्टा एवानेके अनेकेष्वक्ष्यादिषु दि- गगजारोपा इति श्िलष्टार्थरूपकमाला । 'ऐरावतः पुण्डरीको वा- मनः कुमुदोऽञ्जनः । पुष्पदन्तस्सार्वभौमस्सुप्रतीकश्च दिग्गजाः' इत्यमरः । सार्वभौमं सर्वस्यां भूमौ विदितं 'तत्र विदितः' इत्यधिकारे 'सर्वभूमिपृथिवीभ्यामणञौ' इत्यण् । अनुशतिका- दित्वाहुभयनद्वृद्धिः । पक्षे दिग्गजविशेषमित्यर्थः॥

Page 130

रूपकसरः (७) 119

एकं विषय यद्यन्यविषय्यन्वितमुच्यते। कार्यकारणभावेन स्यात्परंपरितं तदा ॥४२। विषय आरोप्यमुपमानं हेतुहेतुमन्भावापन्नं एकारोप्यान्वि- तमन्यदारोप्यं विषये तादात्म्येन निबध्यते चेत्तत्परंपरितरूपकम्॥ यथा- विनताखिलजनताजलनिधितारानाथ देववर भवता। ननु तादशभवमयतपजनितातनुतापसं- पदुपशमिता॥२०५॥ तारानाथश्चन्द्रमाः । तपो ग्रीष्मः । अत्र विनताखिलज- नताजलनिधितारानाथेत्यत्र हेतुहेतुमन्भावापन्नजलनिधितारानाथ- रूपकयोर्मध्ये जलनिधिरूपके आरोप्यभूते जलनिधिनाऽन्वितमेव तारानाथरूपमारोप्यं विषयभूते भगवति तादात्म्येन निबध्यते। जलनिधिसम्बन्धितारानाथत्वेनैव रूपणस्य विवक्षितत्वादिति भ- वत्यत्र परंपरितरूपकम । विषयिणि विषय्यन्तरान्वितत्वविशे- षणेन सावयवरूपके 'सिंहधराधरशेखरसिंह ळसंभूतमसितवि- द्योतम् । श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये' । इत्यादौ नातिव्याप्तिः । तत्र हि शौरौ महानीलरूपकस्य सिं- हधराधरादौ सिंहळादिरूपकस्य च हेतुहेतुमन्भावसन्भावेऽपि आरोप्यमाणमहानिले रूपकान्तर प्रविष्टसिंह ळादिरुपारोप्यस्यान्व- यविरहान्नातिप्रसङ्गः । तत्र शौरर्महानीलत्वेनैव रूपणं न तु सिंहळादिसंबन्धिमहानीलत्वेनेति ।। पतेन-'नियतारोपणोपायस्स्यादारोपः परस्य यत् । तत्प- रंपरितम्। इति प्राचीनलक्षणस्य सावयवरूपके 'ज्योत्स्नाभस्मच्छुरणघ-

Page 131

120 अलंकारमणिहारे

वळा' इत्यादौ अतिव्याप्तिर्दुर्वारा। तत्रापि कापालिकी- त्वरूपणे भस्मादिरूपणस्य नियमेन हेतुत्वाश्रयणसंभवान्। यथा हि 'विद्वन्मानसहंस' इत्यादौ राशि हंसत्वरूपणं विद्वन्मानसे मानससरस्वरूपणमन्तरा नोपपद्यते, तथा रात्र्यां कापालि- कीत्वरूपणमपि ज्योत्स्नादौ भस्मादिरूपणमन्तरा नोपपद्यत इति साम्यात् । 'विद्वन्मानसहंस' इत्यादावेवैकरूपकस्य नियमेन रू- पकान्तरसापेक्षत्वं नान्यत्रेत्यस्य तु शपथमात्रसाध्यत्वादिति परा- स्तम्। तादृशलक्षणस्यास्मदुपदर्शितलक्षण एव पर्यवसानस्या- भिमतत्वात् आरोप्ये आरोप्यान्तरान्वयस्थले हि एकारोप आ. रोपान्तरे नियमेन हेतुर्भवतीति तल्लक्षणस्य तथा पर्यवसानं संभवति । एतेन-'आरोपद्वयमात्रपर्यवसितं परम्परितं सावयवं तु न तथा' इति केषांचिदुक्तिरनादरणीया। 'विद्वन्मानसहंस' इत्यादौ प्रकाशायुदाहते परंपरितरूपके आरोपबहुत्वस्यैव वर्त- मानतया अव्यास्तिप्रसङ्गात् । न चात्र पद्ये विद्वन्मानसहंसादि भागे प्रत्येकं रूपकद्वयमात्रत्वमस्त्येवेति नाव्याप्तिः । अत एवै

त्तमिति वाच्यम्। एवं सति 'ज्योत्स्नाभस्म' इति पद्येऽपि 'बिभ्रती तारकास्थीनि, रात्रिकापालिकीयम्' इत्यंशे रूपकद्ध- यमात्रत्वसंभवेनातिप्रसङ्गापातः। न च रूपकान्तरनिरपेक्षहेतुहेतुम- द्धावापन्नरूपकदयमात्रत्वमेव परंपरितलक्षणम्। तथाच 'ज्योत्स्ना- भस्म' इत्यादौ कापालिकीरूपके यथा 'तारकास्थीनि' इति रूपकसापेक्षत्वं तथा 'ज्योत्स्नाभस्म' इत्यादिरूपकसापेक्षत्व- स्यापि सत्वान्नातिप्रसङ्ग: । 'विद्न्मानसहंस' इत्यादौ च हंसा- दिरूपके प्रत्येकं मानसरूपकाद्येकैकरूपकसापेक्षत्वमेवेति लक्षण-

Page 132

रूपकसर: (७) 121

संगतिश्चेति वाच्यम् । एतमपि 'अमुष्मिन्पोतक्ष्मारमणसुतसू- रक्षितिपतेर्यशश्शेषे सोऽयं स्वपिति गगनश्रीसहचरः' इत्यादौ शेषरूपकसापेक्षश्रीसहचररूपके सावयवरूपकत्वेन काव्यदर्पणो दाहते अतिप्रसङ्गापातात्। न चेष्टापत्तिर्युज्यते, 'नियतारोप- णोपायस्स्यादारोपः परस्य यत्' इति परंपरितं लक्षयतां का- व्यप्रकाशकारादीनामनभिमतत्वात्। यशास शेषत्वमरूपायेत्वाS- पि 'यशोव्याजे शेषे स्वपिति गगनश्रीसहंचरः' इति पद्यपा ठेन श्रीसहचररूपकोपपादनसंभवात्तत्रत्य रूपकयोर्नियतहेतुहेतुम- द्वावासंभवात्। न चैवं सति नियतहेतुहेतुमन्भावापन्नत्वमेव रूपकद्ये निवेश्य परिष्क्रियतां लक्षणमिति वाच्यम्। एवमपि 'चतुर्दशलोकवल्िकन्दः' इत्यादी प्रकाशादभिमते परंपरिते अ- व्याप्तिप्रसङ्गात् । तत्रापि 'चतुर्दशलोकवल्लिहेतुः' इति वा 'चतुर्दशलोकमूलकन्दः' इति वा निबन्धसंभवेन नियतहंतुहेतु- मन्दावस्य दुरुपपादत्वात्। तस्मादेकरूपकीयविषय्यन्वितविष- यिकरूपकान्तरत्वमेव परंपरितरूपकलक्षणमास्थेयम् । काव्यप्र- काशसर्वस्वादिप्राक्तनमाननीयनिबन्धोपात्तेषु सर्वेष्वेव परंपरित- रूपकोदाहरणेषूत्तररूपके विषयवाचकपदं विषयिवाचकपदेनास- मस्ततयैव दृश्यत इति भवति तत्र पूर्वरूपकारोप्यान्वितस्यै- वोत्तररूपकीयारोप्यस्य तदीयविषयेऽन्वयः ॥

एवम्- निगममकुटीवधूटीवतंसचरणं श्रयामहे शर- णमू। भवजलधितरणिकरुणं तरुणाम्बुदनीलमहि- धराभरणम् ॥२०६॥ AĻANKARĄ 16

Page 133

122 अलंकारमणिहारे

इत्यादौ परंपरितरूपकोदाहरणे उत्तररूपकदये चरणकरुणा- रूपविषयवाचकपदयोः वतंसतरणिरुपविषयिवाचकपदाभ्यां स- मस्ततया दर्शनेऽपि पूर्वरूपकीयवधूटीजलध्यारोप्यान्विततयैवो- त्तररूपकीयाव तंसतरणिरुपारोप्ययोस्तदीय चरणकरुणारूपविषया- भ्यामन्वयः । तथा तदुपात्तेषु सावयवोदाहरणेषु च न क्वचि- दप्येकरूपकारोप्ये रूपकान्तरारोप्यान्वयौपयिकस्समभिव्याहारो- स्तीति नातिप्रसङ्गशङ्गावकाशः । न चैवं 'मुग्धारिप्राणदुग्धा- शनमसृणरुचिस्त्वत्कृपाणो भुजङ्ग:' इति रसगङ्गाधरीयपरंपरि- तोदाहरणे पूर्वरूपकारोप्यस्य दुग्धस्याशनादिपदव्यवधानादुत्त- ररपकारोप्ये भुजङ्गे अन्वयासंभवादव्याप्तिरिति वाच्यम्। आ- रोप्ये आरोप्यान्वितत्वस्य साक्षात्परंपरासाधारणस्यैव निवेशात्।

नन्वेवं सात- सुविपुलशुभगुणजलनिधिफणधरगिरिराजप- तिकृपागङ्गाम्। अवगाह्य नराश्शिशिरां न विगा- हन्ते कदाडपि तापकथाम् ॥२०७॥

इत्यत्र पूर्वरूपकारोप्यस्य जलनिधेरुत्तररूपकारोप्यायां ग- ड्गायां परंपरयाऽत्वयसंभवादतिव्याप्तिरिति चेन्न । लक्षणे रूप- कद्वये हेतुहेतुमद्भावापन्नत्वविशेषणोपादानादेव तद्वारणात्। अत्र हि प्रदर्शितरूपकद्वयस्य न हेतुहेतुमन्भावः। यद्यपि 'पर्यङ्को राजलक्ष्म्याः' इति पद्यं मालापरंपरितोदाहरणतयोपन्यस्य अत्र 'क्ष्मासौवदल्लः' इति परंपरितमप्येकदेशविवर्तीति सर्वस्वका-

राजपत्नयारोपस्यार्थतया सौविदल्लरूपे उत्तररूपकारोप्ये पूर्वरूप-

Page 134

रूपकेसरः (७) 123

कारोप्यभूताया राजमहिष्या अन्वयाभावात् । तथाऽपि परंपरि- तस्यैकदेशविवर्तित्वं न सर्वस्वकृतोऽभिमतम् । स्वकीयप्राक्तन- विभागव्याघातात् । तत्र हि 'इदं तु निरवयवम्' इत्यादिना सावयवावान्तरभेदतयैव एकदेशविर्वातरूपकं गण्यते, न तु परं- परितावान्तरभेदतयाऽपीति। उपदर्शितसर्वस्ववाक्यं तु अत्र पद्ये 'क्ष्मासौविदलः' इत्येतदेकदेशविवर्तिरूपकं 'पर्यङ्कः' इत्यदिपरंप रितमालासमानाधिकरणमपीत्येतदर्थकतया कथंचित्संगमनीयम्। अन्यथा आक्षिप्तरूपकसंपन्नरूपकद्वयमात्रतया तत्र परंपरितरूपक- स्वीकारे 'निरीक्ष्य विद्युन्नयनैः' इति पद्ये एकदेशविवर्तिरूपक-

एव प्रकाशादिषु प्राक्तनेषु रसगङ्गाधरादिष्वर्वाक्तनेषु चालंका- रनिबन्धेषु परंपरितमध्ये एकदेशावेवर्तिविधाया अपरिगणनमु- पपद्यत इति॥ वस्तुतस्तु-'क््मासौविदल्ः' इत्यत्राक्षेपलभ्यराजमहिशीरूप केण परंपरितरूपकाञ्युपगमेऽपि नास्मदुपदर्शितलक्षणत्य तत्रा- व्याप्तिप्रसङ्ग: । 'क्ष्मासौविदलः' इत्यस्मादपि क्ष्मामहिषीसौवि- दल्लः इत्येवान्वयबोधस्याक्षेपसहकृतशब्दजन्यस्य स्वीकारेण प्रथ- मरूपकारोप्यान्वितत्वस्य द्वितीयरूपकारोप्ये निर्बाधात्। आक्षे- पलभ्यस्याप्यर्थस्य उपात्तशब्दार्थेन सह शाब्दबोधे भानं जाति- शक्त्याद्यभ्युपगन्तृतान्त्रिकसमयसुप्रसिद्धमेवेति ॥। एवंच-सर्वस्व्रकारीयविभागवाक्यस्योपलक्षणत्वमवश्याश्रय- णीयम। अन्यथा तेन परंपरितमात्रे प्रदर्शितस्य श्िष्टाश्ष्ष्ट- विधाद्यस्य तद्वयाख्यातृविमर्शिनीकारेण सावयवेऽपि प्रदर्शनं 'क्षमासौविदल इति परम्परितमप्येकदेशिवर्ति। पवमादयोऽ- न्येऽपि भेदा लेशतस्सूचिता एव' इति सर्वस्व्रकृत एवोक्ति:,

Page 135

124 अलंकाग्मणिहारे

'एवमादयः' इति प्रतीकमादाय 'परंपरितमप्येकदेशविवर्तीत्ये- वंप्रकाराः' इति विमर्शिनीकृदुक्तिश्च स्वरसतो न संगच्छेत । न संगच्छेऽत च ्लिष्टपरंपरितनिरूपणावसरे 'विद्वन्मानसहंस' इति पद्यमुदाहृत्य 'इद हि एकदेशविवर्त्यपीत्युच्यते' शति काव्य- प्रदीपग्रन्थः, इद हीति प्रतीकमादाय 'मूले इदमपीत्यन्वयः । एक-

त्रापरारोपः तस्य भेदेन विषयनिर्देशापेक्षत्वात् । अन्यथा विष- यनिगरणात्मिकायामतिशयोक्तावपि तत्प्रसङ्गात्। तस्मादार्थ एवायमारोप इत्येकदेशविर्तित्वमत्रापि युक्तम्' इति प्रभाख्यत- द्वयाख्यानं च । तस्मात् अत्र 'क्ष्मासाविदल्लः' इत्यादिसर्वस्व- वाक्यं यथाश्रुतगत्या परंपरितस्याप्येकदेशविवर्तित्वं प्रत्याययतीति स्वीकरणमेव समुचितमित्युक्तावपि न क्षतिः।।

सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोंद्रमः कान्तेः कार्मणकर्म नर्मवचसामुलासनावासभू:। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया प्राणा: पश्चशिलीमुखस्य ललनाचूडामणिस्सा प्रिया॥

इत्यस्य पद्यस्य चित्रमीमांसायां मालानिरवयवरूपकोदाहरणत्वमु- क्तमसङ्गतं स्यात्। तत्र 'सौन्दर्यस्य तराङगिणी' इत्यादौ सौन्द- रयादौ सलिलत्वाद्यारोपणमन्तरा तरङ्गिणीत्वारोपस्यासौन्दर्यादा-

परितत्वस्याव्याहतत्वादिति चेत्सत्यम्। एतद्न्येषां 'कान्तेः कार्मणकर्म' इत्यादीनां मालानिरतयवरूपकोदाहरणतेत्यदोषः । तत्र हि प्रियायां कार्मणकर्मादिमात्रमारोप्यते न तु कान्त्यादौ

Page 136

रूपकसर: (७) 125

किमपि। तथा च परंपरितसंकीर्णमेवेदं मालानिरवयवरूपक- मिति व्येयम्। दृश्यते ह्येकालंकारमुख्योदाहरणेष्वप्यलंकारा- न्तरसंकीर्णता। यथा-'ज्योत्साभस्म' इति सावयवरूपकोदाह- रणादौ 'लाञ्छनस्य छलेन' इत्यादिकैतवापहुत्यादिसंकीर्णता॥ इद तु शुद्धमालानिरवयवस्योदाहरणम्- नमदमरमस्तमकुट कमलाभूमीकराग्रलीला- ब्जम्। तच्चरितश्रोतृजनश्रोत्रवतंसं श्रये हरेश्रर- णमू ॥ २०८॥ नीलाम्बुजसंवननं कालाम्बुदकार्मणं तमाल- श्रीः। व्यालाचललीलारसलोला मूर्तिर्हरेर्हरत्या- र्तिमू ॥ २०९॥

संवननं वशक्रिया। कार्मणं मूलकर्म 'वशक्रिया संवननं मूलकर्म तु कार्मणम' इत्यमरः। श्रीः संपत्। अत्रादे उदाहरणे हरिचरणे विषये मकुटलीलाब्जवतंसमात्रारोपः। द्वितीये तु हरिमूर्तौ नीलाम्बुजसंवननकालाम्बुदकार्मणतमालसंपन्मात्रारोप इति शुद्धमालानिरवयवम्। एवमेव वैयधिकरण्येनारोपे 'द्वि- र्भाव: पुष्पकेतोर्विबुधविटपिनां पौनरुक्तयम्' इत्यादावपि शु- द्धमालानिरवयवत्वं बोध्यमित्यलं पल्लवितेन।। तत्परंपरितं च विभजते- श्छिष्टाश्िष्टविभेदेन तत्पंरपरितं द्विधा॥ केवलं मालिका चेति तह्यं द्विविधं भवेत्।

Page 137

126 अलंकारमणिहारे

एवमष्टविरधं प्राचां मते रूपकमिष्यते ॥४३॥

तत्परंपरितं द्विधा। तत्रापि समर्थकत्वेन विवक्षितस्या रोपस्य श्लेषमूलकत्वे श्िष्टपरंपरितम्। तदुभयं च केवलं मा लारूपं द्विविधम्। अत्र परंपरितरूपके उत्तररूपकस्य पूर्वरूपकं प्रति हेतुत्वमिति मङ्गकादयो मन्यन्ते। तेषामयमाशयः- 'विद्व न्मानसहंस' इत्यादौ राजादेः वर्ण्यत्वेन पुरस्स्फूर्तिकतया तत्र हंसाद्यारोपपूर्वकमेवावण्ये विद्वन्मानसादौ पश्चात् श्ेषेण सरो- विशेषाद्यारोपः। एवमश्िष्टपरम्परितेऽपीति ॥ मम्मटादयस्तु-पू- र्वरूपकस्योत्तररूपकहेतुत्वं मन्वते। यदाहु :- 'एवमारोपनिमित्तो हंसत्वाद्यारोपः' इति । तेषामयं भावः-'विद्वन्मानसहंस' इत्यादौ मानसेत्यादिश्लेषस्य प्राथमिकतया तन्मूलकार्थद्वयाभे- दाध्यवसायोपजीविरूपकस्य प्रथमप्रतीत्या तद्वद्धेरुत्तररूपकबु- द्विं प्रति हेतुत्वं युक्तमिति। हेतुहेतुमन्भ्ावापन्नैकवषय्यन्विता- न्यविषयिकत्वं परम्परितत्वमित्यस्मदीयलक्षणने मतद्यस्यापि सं. ग्रहो भविष्यति॥

तत्र केवलं ्लिष्टपरंपरितं यथा- भज हृदय रचितयत्नं भुजगाधिपभूमिभृच्छि- रोरत्नम्। पुरुषं कमपि प्रत्नं प्रसाधनं तव ततो- ड्पि किमु नूत्नम् ॥२१०॥

अत्र दयोरप्यारोपयोस्समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्य- त्वेऽपि भूमिभृत् शैल एव भूमिभृत राजेति श्रेषमूलकेनारो- पेण भगवति शिरोरततादात्म्यारोपस्य समर्थनीयतायां कवेरा-

Page 138

रूपकसरः (७) 127

शयः । अत एव चतुर्थचरणनिवेदितः प्रसाधनान्तरतिरस्कारो- Sपि संगच्छते॥।

यथावा- विपुलाहिराजविपुलाधरविपुलावासरसिक क- मलाक्ष। चपलावलाहकस्त्वं बहुशस्तोयश्श्रियं समेधयसे ॥२११॥ विपुलः विशालः अहिराजविपुलाधरः शेषाद्रिः तस्य वि- पुलयां भूम्यां वासे रसिक हे कमलाक्ष चपलावलाहकः ल. क्षमीविद्यद्वारिवाहः 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति मेदिनी। त्वं बहुशः तोयश्रियं सलिलसंपदं समेधयसे। पक्षे- बहुशस्तः अयः शुभावहो विधिः तस्य श्रियं संपदम्। यद्वा- बहुशस्तः यः श्रियमिति छेद: बहुशस्तः त्वं चपलावलाहक: यः त्वं श्रियं संपदं समेधयसे इति वाक्यभेदेन योजना। अत्र यच्छब्दस्योत्तरवाक्यस्थतया न पूर्ववाक्ये तच्छब्दोपादानावश्य- कत्वम्। अत्रोभयोरप्यारोपयोः परस्परं समर्थ्यसमर्थकभावतौ- ल्येऽपि चपला लक्ष्मीरेव चपला विद्यदिति श्ेषभित्तिकेनारो- पेण भगवति बलाहकतादात्म्यारोपस्समर्थनीय इति कवायतुर- भिप्रायः । अत एव चतुर्थचरणगतसमङ्गश्लेषावेदितं बहुशस्तो- यश्रीसमेधनमपि युज्यते। उदाहरणद्वयेऽपि रूपकद्यं कार्य- कारणभावेन संजातपरंपरत्वात्परंपरित श्विष्टशव्दनिबन्धनं माला- i रूपत्वविरहात्केवलं च॥ तदेव मालारूपं यथा- सकलसुमनोवसन्तं साधुकदम्बस्य घनतटि-

Page 139

128 अलंकारमणिहारे

त्वन्तम् । मुक्ताळिसरस्वन्तं स्वान्तं श्रयतान्ममा- हिगिरिकान्तम् ॥ २१२॥ सकलसुमनसां समस्तविदुषामेव कुसुमानाम । साधुकद- म्बस्य सज्जननिवहस्यैव रमणयिनीपतरोः । मुक्तानां प्रकृतिब- न्धवियुक्तानां आळि: पड्किरेव मौक्तिकावळि: तस्याः। स्वान्तं हृदयं कर्तृ॥

यथावा- अनिमिषकुलसलिलनिधिं घनविभवविलास- भरतपर्त्ववधिम्। परमहिमताहिमानीघरमरविन्दे- क्षणं भुवि नमानि ॥ २१३ ॥

अनिमिषकुलं दैवतयूधमेव मीनकुलं तस्य सलिलनिधिम्। घनस्सान्द्रो विभवविलासभर एव जलदवैभवलीलातिशयः तस्य तपत्ववधि ग्रीष्मावसानं वर्षासमयमित्यर्थः । परमहिमता श्रेष्ठ- माहात्म्यवत्तैव अतिशयितहिमवत्ता तस्या: हिमानीधरं हिमवन्तं अरविन्देक्षणं भुवि नमानि नमेयम् । प्रणम्य कृष्णं सहसा पांसुक्किष्टे महोतले। निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात्॥ इत्यादिप्रमाणानुसंधानेन भुवि नमानीत्युक्तिः । नमतेलोंडुत्तमैक- वचनम्। अत्र सुमनसामेव सुमनसां वसन्तमित्यादौ श्रष- मूलकेनारोपेण श्रीनिवासे वसन्तत्वद्यारोपस्य समर्थनीयतया- इभिमतस्य बहुधा निबन्धनात् श्िष्टमालापरंपरितमिदम्॥

Page 140

रूपकसरः (७) 129

अत्र केचित् 'विद्वन्मानसहंस' इत्यादौ वर्ण्ये हंसत्वाद्या-

मेवेदमत्याहुः। वस्तुतस्तु श्िष्टशब्दनिबन्धनाभेदारोपरूपवै- चित्रचनैयत्यात्ततो भिन्नमेवेदमिति दिक्॥ एवमेव- भद्रश्रीमलयाद्रिं श्रीवत्सविलासदानसुरसुरभि- म्। हंसोल्लासनशरदं वरदं वन्दे वृषाचलद्विरदम्॥ इत्यत्रापि ्विष्टपरंपरितं द्रष्टव्यम्। भद्रश्रीः मंगळसंपदेव भद्रश्रीः चन्दनम् । श्रीवत्स एव श्रीयुक्तो वत्सः । हंसाः ज्ञानिन एव मराळा: ॥ शुद्धपरंपरितं केवलं यथा- पवनोदरंभरिगिरेरवनौ लवनाय रिपुकुलवना- नाम्। अवनाय च भुवनानां भवनमकार्षिश्श्रिता- ब्जभुवन हरे॥ २१५ ॥ भवनं आविर्भावम्। श्रिताव्जभुवनेत्यत्र भगवति सलिल- त्वारोप: श्रितेष्वब्जत्वारोपसमर्थ्यत्वेनाभिमत इति परंपरितम् । मालाश्लेषविरहात्केवलं शुद्धं च।। इदमेव मालारूपं यथा- भूकेकिनीपयोदं राकेन्दुं तं रमाकुवलयिन्याः। नाकेशजलजभानुं लोकेशं वन्दिषीय झेषाद्रौ।। अत्र लोकेशे श्रीनिवासे पयोदाद्यनेकारोपस्य भूम्यादिषु केकिन्याद्यारोपप्रतीक्षत्वान्मालापरंपरितं शुद्धम्॥ ALANKARA 17

Page 141

130 अलंकारमणिहारे

इदमेकदेशविवर्त्यपि भवतीत्यवोचाम, तद्यथा- कान्तेर्नर्तनरङ्गं शान्तेरन्तःपुरं महोनतुङ्गम्। क्षा- न्तेर्हरिनुरङ्गं स्वान्ते कलयेम धाम दिव्याङ्गम् । अत्र भगवति नर्तनरङ्गादिरूपक्तैः कान्तिशान्तिक्षान्तिषु न- रतकीराज्ञीपझ्मिनीरूपकाणि प्रतयिन्त इत्येकदेशविवर्ति मालापरंप- रितं शुद्धम्॥

भुवनानामाधारं भानामवलम्बनं फणिगिरि- स्थम्। शाखिकुलोल्लासकरं किंचन सौभाग्यमश्च मम हृदय ॥२१८॥

अत्र भुवनानां लोकानामेव सलिलानां, भानां त्विषामेव ताराणां, शाखिकुलस्य वेदशाखाध्येतृनिवहस्यैव तरुनिकरस्येति श्िष्टरूपकैर्भगवति विषये समुद्रसुधाकरवसन्तरूपकाणां गम्य- मानतया इदमेकदेशविवर्ति श्रिष्टपरंपरितमिति दिक्।

ज्ञानं धनं मतिमतां भानं धनमिह महस्विनां महताम्। सूनं धनं मधुकतां नूनं धनमहिगिरी- शिता नमताम् ॥ २११॥ अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथम्भेदगणनायां गण्यते । आरोप्यमाणमाला तु चमत्कारवि- शेषशालित्वाद्गण्यत एव । अथ कथं छ्िष्टपरंपरिते 'भुजगा- धिपभूमिभृच्छिरोरतम्, सकलसुमनोवसन्तम्' इत्यादावेकस्या- रोपस्यारोपान्तरहेतुत्वं, यस्मात् श्षेषेण शैलस्य राज्ञश्च विदु-

Page 142

रूपकसर: (७) 131

षां कुसुमाना चाभेदमात्रमत्र प्रतयिते नैकत्रान्यारोपः तस्य स्वतन्त्रविषयनिर्देशापेक्षत्वात्। न च शुद्धामेदप्रत्यय एवारोप, विषयनिगरणात्मिकायामतिशयोक्तावतिप्रसङ्गादिति चेत-सत्यम्, श्ेषेण शुद्धाभेदप्रतीतौ सत्यां प्रकृतारोपसमर्थनाय अन्तरा मा- नसस्य भगवत्संबन्धिनि गिरौ शिरोरत्संबन्धिराजाभेदारोपस्य एवं भगवत्संबन्धिषु देवेषु वसन्तसंबन्धिकुसुमाभेदारोपस्य चं कल्पनान्नानुपपत्तिः। अथ कथं- सौन्दर्यरत्नसिन्धुं सौभाग्यशरत्सरोजिनीबन्धुम्। स्वान्ते यतेय बन्धुं कौन्तेयसखं फणीन्द्रगिरिब- न्धुम ॥२२०॥ इत्यादौ सौन्दर्यरत्नसिंघुमित्यादिपरंपरितरूपके रूपकत्वं, अभेदारोपस्य सत्वेऽपि तस्य सादृश्यमूलकत्वाभावात्। न हि भगवत्सिन्ध्वोस्सादृश्यमत्रोच्यते इति चेतु, न-समर्थकेन सौन्द- र्ये रत्तारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वादिति दिक्। बन्धुमिति बन्धतेस्तुमुन् ॥ एवं 'भूकेकिनीपयोदम्' इत्यादावारोप्यमाणयोः परस्पर- मारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः॥ प्रातिकूल्ये यथा- कृतिपतिशतनुतशीलं दितिसुतसंघातभूतिवा- तूलम्। निलयितफणिपतिशैलं कलय परं हृदय दैवमतिवेलम् ॥२२१॥

Page 143

132 अलंकारमणिहारे

दितिसुतसंघातस्य भूतिरैश्वर्यमेव भूतिर्भस्म तस्याः वा तूलम्। इदं श्िष्टकेवलपरंपरितम्॥। इदमेव मालारूपं यथा भुवनजडतावसन्तं संतमसकदम्बकैकभास्व- न्तम। स्वान्ताहिशैलकान्तं चिन्तय दुर्व्याळकुल- गरुत्मन्तम् ॥२२२॥ हे स्वान्तेति संवुद्धि: । भुवनजडता लोकजाड्यमेव ज- लशैत्यं तस्य वसन्तम्। दुष्टाः ये व्याळाः शठाः दैत्यादयः।त एव व्याळा: भुजगा: 'भेद्यलिङ्गइशठे व्याळ: पुंसि श्वापदस- पयोः' इत्यमरः । तेषां गरुत्मन्तम्। नाश्यनाशकभावरूपप्रा- तिकूल्यमुपमानयोस्तथैवोपमेययोश्च। अनुग्राह्यानुग्राहकभावः पुन- रारोपयोरविशिष्ट एव। एवमग्रेऽपि ॥

यथा वा- दोषोल्लासविभातं दैत्यावश्यायचण्डकरमेतम्। भज भुजगधराभरणं शरणागतपङ्गजातसितकिर- णम् ॥२२३॥ दोषोल्ास एव रात्रिविकासः तस्य विभातं प्रभातम्। दैत्यानामवश्यायो गर्व एव हिमं 'अवश्यायो हिमगर्वयोः' इति रत्नमाला। शरणागतानां पङ्कजातं दुरितबृन्दमेव कमलम्। अत्र भजेत्युक्ति: स्वहृदयं प्रतीति बोध्यम्।। यथा वा- दुस्तृष्णाकासारं सासारघनं भवाभितापानाम। वेंकटनाथं कलये जगदातङ्कागदङ्गारम् ॥२२४॥

Page 144

रूपकसरः (७) 133 दुस्तृष्णा दुर्विषयलिप्सैव निरवधिकपिपासा। 'तृष्णा स्या न्तर्षलिप्सयोः' इति मेदिनी । तस्याः कासारं सरः । भवाभि- तापा एव तापा: तेषां सासारं धारासहितं घनम। जगतां आतङ्का: भयान्येव आतङ्काः रोगा: तेषां अगदंकारं वैद्यम्। 'अ तङ्कस्संज्वरे रोगे साध्वसे मुरजध्व नौ ' इतिरत्रमाला॥ प्रातिकूल्ये केवलपरंपरितं यथा- अघयूधतिमिरधूननविभातमहिराजभूधरनिके- तम्। संप्राप्य भवनिशायां शयितः को नाम न प्रबोधमियात् ॥२२५॥

प्रातिकूल्ये मालापरंपरितं यथा - सौहार्दचन्द्रदर्शैस्सौमुख्यलतादवानलस्पशैः। सौर्य जलातपमर्शैरलमन्यैस्त्वयि सतीश दुर्दर्शैः हे ईश भगवन्॥ यथा वा- दितितनुजमृगवितंसं दुरितद्विर दाळिकेसरिवतं सम्। फणिशिखरिप्रेयांसं भजे विपत्पाकघूककु- लहंसम् ॥२२७॥ दितितनुजमृगाणां वितंसं वन्धनोपकरणं 'वितंसस्तूपक- रणं बन्धने मृगपक्षिणाम'इत्यमरः। विपदां विपाकः परिपाकः स एव घूककुलं दिवान्धयूधं तस्य हंसं भानुम्। पूर्वमुदाहरणं भ- गवदितराश्रयणनिन्दनपरं, इदं तु भगवत्प्रशंसापरमिति विशेष:।

Page 145

134 अलंकारमणिहारे

यथा वा-

रिणैः । शमदमवनदवदहनैरलं खलैरतिविशङ्गलै- दृष्ठैः ॥२२८॥ हरिभक्तिरेव बीजराजिः तस्याः इरिणैः ऊषरैः 'इरिणं शून्यमूषरम्' इत्यमरः । शुभं कल्याणं शीलं सद्वत्तं तदेव बालतृणं तस्य हरिणैः कुरङ्गैः । शमः कामकरोधाद्यभावः दमः तप: क्ेशसहनं इन्द्रियनिग्रहो वा । 'शमथस्तु शमश्शान्ति- र्दान्तिस्तु दमथो दमः' इत्यमरः । तयोस्समाहारः शमदमं तदेव वनं तस्य दवदहनैः । अतिविशृङ्धलैः खलैः दष्टैरलं त- ददर्शनमप्यस्माकमनभिमतमिति भावः॥ यथा वा- सज्जनगोव्रजरक्षणतरक्षुभि: क्षुभितमभित इद- मसुरैः । दुरितदवशमनपवनैर्भुवनं कोऽच्युत वि- नाडविता भविता ॥२२१॥

अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके। अयमर्थः-द्योरेव मालारूपत्वं च पूर्वेभ्योऽत्र विशेषः । एवं प- दार्थरूपकं दिझ्ात्रं दर्शितमेव । वाक्यार्थे विषये वाक्यार्था- न्तरस्यारोपे वाक्यार्थरूपकम्। यथा हि विशिष्टोपमायां विशे- षणानामुपमानोपमेयभाव आर्थः तथाऽत्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयमिति रसगङ्गाधरकृदादयः । अन्ये तु वाक्यार्थे वाक्यार्थान्तरारोपं निदर्शनां मन्वाना: रूपके न क्व- चिद्पि बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टतया विषयविषयिणो-

Page 146

रूपकसर: (७) 135

रुपादानम्। सावयवरूपकेपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये- आङ्गदण्डो हरेरुर्ध्वमुत्क्षिप्तो बलिनिग्रहे। विधिविष्ठरपद्मस्य नाळदण्डो मुदेऽस्तु वः॥ इत्यत्रापि अ्गिदण्डनाळदण्डयोर्न बिम्बप्रतिबबिम्बभावापन्नवस्तु- ववशिष्टरूपता। तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरक

तृविष्टरकमलश्िष्टत्वरूपसाधारणघर्मवत्तासंपादनाय विशेषणवि- शिष्टतामात्रमुपमेयस्येति वाक्यार्थे वाक्यार्थारोपं न रूपकमित्याहुः तत्र प्राथमिकमतेन वाक्यार्थरूपकं यथा- श्रुतिशतनुतयशसस्ते प्रतियत्नो माहशां वचो- भिर्यत्। घनसारस्यान्यैस्तत्सुरभीकरणं निसर्गत- स्सुरभे: ॥२३०॥ प्रतियत्नो गुणाधानम् । अत्र भगवति वचस्सु चारोप- विषयविशेषणतया बिम्वभूतेषु घनसारस्य सुगन्धिवस्त्वन्तराणां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानी- भूतविशिष्टरूपकाङ्गम्। रूपके बिम्बप्रतिबिम्बभावासंभवान्नेदं रूप- कमिति वदतां वचनं त्वनादर्तव्यमेव। ययोरिवादिशब्दप्रयोगे उपमा तयोरकत्रान्यारोपे रूपकमिति नियमात्। यदाहु :- 'उपमैव तिरोभूतभेदा रूपकम्' इति। यद्यत्र नाभ्युपगच्छसि रूपकं मास्मैवाभ्युपगच्छः तर्हि तत्र इवयथादिशब्दप्रयोगे मा- भ्युपगा उपमामपि। एवं- त्वयि कोपो महीपाल सुधांशाविव पावकः। इत्यादौ।

Page 147

136 अलंकारमणिहारे

त्वयि निग्रहसंकल्पः पयसिजनिलये दयासुधा- जलधौ। शुक्कप्रतिपदुदश्चितचन्द्रकलायां कलङ्क इव भायात् ॥२३१॥ इत्यादौ च स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययाद्युपमां व्रवीषि ब्रूहि तावत्तर्हि तत्रैव इवस्यापसारणे। 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' 'शुकप्रतिपदुद- श्चितचन्द्रकलायां कलङ्कोऽयम्' इत्यादौ रूपकमपि। नन्वेवं रू- पके विम्बप्रतिबिम्बभावसंभवे- त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥

इत्यत्रापि रूपकमेव स्यात्। बिभ्बप्रतिबिम्बभावेन धर्मस्य सद्भ्ा- वादिति चेत् इष्टैवेयमापत्तिः । तर्ह्यस्य प्राचीनैर्निदर्शनोदाहरणती- क्तिर्विरुध्येतेति चेत्-काम विरुध्यतां निदर्शनोदाहरणत्वायोगा- दस्य। यद्यत्र 'मुखं चन्द्रः' इत्यादिरूपकान्तर इव सत्यापे श्रौता- रोपे नेदं रूपकं, किंतु निदर्शनैवेत्याग्रृह्यते तदा मुखचन्द्र इत्यपि निदर्शनेत्युच्यतां निरस्यतां च रूपकमुखावलोकनदाक्षिण्यम् । किंच-त्वत्पादेत्यादौ किं पदार्थनिदर्शना? आहोस्विद्वाक्यार्थ- निदर्शना? नाद्: बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टा- र्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दोक्तरीत्या धर्म्यन्तरे पदार्थे तद्वृत्तिधर्मस्य पदार्थस्याभेदेनारोपस्याभावाच्च। न द्वितीयः, वाक्यार्थरूपकोच्छेदापत्तेः । इषटापत्तौ वैपरीत्यस्यापि सुवच- त्वाच्च। अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाश्यां उद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूप-

Page 148

रूपकसरः (७) 137

कनिदर्शनयोरवैलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वा- क्यार्थरूपकमेव। न वाक्यार्थनिदर्शना। तस्याश्चैवमुदाहरणं निर्मातव्यं- त्वत्पादनखरत्नानि यो रक्षयति यावकैः। इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः॥ इति। अत्र कत्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्द- त्वात्तस्यैव समग्रभारसहिष्णुत्वान्निदर्शनैव । यदपि बिम्बप्रति- बिम्बभावो रूपके नास्तीत्युक्तं, तदयुक्तं, विमर्शिनीकारादिभिः 'कन्दपेद्विपकर्णकम्वुमलिनैः' इत्यादिना विम्बप्रतिबिम्बभावेन रूपकस्योदाहृतत्वात् । विस्तरस्तु रसगङ्गाधरे द्रष्टव्य: ॥ फणिपतिगिरिचूडामणिहरिसेवनजृम्भितो म- मानन्दः। उदयगिरिशिखरगतविधुविलोकलुलि- तो महाब्धिरुद्वेलः ॥२३१॥ इत्यादावपि विशिष्टरूपकं बोध्यम्। 'त्वयि निग्रहसंकल्पः' इत्यत्र विषयिणस्स्ववुद्धिपरिकल्पितत्वात्कलल्पितं विशिष्टरुपकम्। इह तु न तथेति वैलक्षण्यम्।। इदं रूपकं वैयधिकरण्येनापि दृश्यते, यथा वा- वसनरुचा पल्लवितं हारगमुक्तागणेन कोरकि- तम्। कौस्तुभमणिना फलितं श्रीविहृतिवनं हरे- रुरो ललितम् ॥२३२॥ वसनरुचा पीताम्बरत्विषा। हरेरुरः श्रीविहृतिवनमिति योजना। अत्र विषयाणं वसनरच्यादीनां विषयिणां पल्लवा- ALANKARA 18

Page 149

138 अलंकारमणिहारे

दीनां च विभक्तिभेदः । वसनरुचेति तृतीयाया अभेदोर्ऽर्थः । वसनरुगभिन्नपल्लववदिति बोधः। वसनरुगभेदे तु पल्लवेषु गरृह्यमाणे हरेरुरसि विहारवनत्वरूपक परिपोष्यते॥। साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्वि- म्वप्रतिबिम्बभावापन्नः क्वचिदुपचरितः क्वचिच्च श्ेषात्मा केव- लशब्दरूप: सोऽपि क्वचिच्छ्देनोपात्तः क्वचित्प्रतीयमानतया नो- पात्त: ।। तत्रोपात्तोऽनुगामी यथा दुर्विषहविषमविषनिभजन्मजरादिव्यधातुरा- न्लोकानू। पालयितुं विकिरसि फणिशैलपते ननु कटाक्षममृतं त्वम् ॥२३३॥ अत्र पालयितुमिति तुमुन्नन्तेन शब्देनोपात्त लोकपालनं अमृतभगवत्कटाक्षयोरनुगामी धर्मः ॥ अयमेवानुपात्तो यथा- परिपाटी तुहिनानां परिपाकश्शीतकिरणकिर- णानाम्। परिवर्तनममृतानां परंपरा श्रीपतेरपा- द्ानाम् ॥ २३४॥ अत्र तुहिनपरिपाटीप्रभृतीनां श्रीनिवासापाङ्गानां चानन्द- दानादिरनुपात्तः प्रतीयमानो धर्मः ॥ बिम्बप्रतिबिम्बभावापन्नस्तु विशिष्टरूपकप्रसङ्गे निरूपितः॥ उपचरितो यया- शिशिरतया तव करुणा शिशिरांशुमरीचिवी-

Page 150

रूपकसरः (७) 139

चिका नूनम्। हृदयं शिरीषकुसुमं पदयुगमहिशै लदीप पद्मयुगम् ॥२३५॥

अत्र शिशिरांशुमरीचिवीचिकारूपके विषये भगवत्करुणा- यामुपचरितश्शिशिरतारूपो धर्मश्शब्देनोपात्तः। शिरीषकुसुमा- दिरूपके च मार्दवसौकुमार्यादिरुपचरितो धर्मो नोपात्तः।।

केवलश्लेषात्मको यथा- अचलशिखावलमाना सुझोभिनी राधिकाऽ- म्वरग्राही। (राधिकाधरामृतदा)। शम्पावनी दधाना श्रियमपि हरिमूर्तिरम्बुधरमाला ॥२३६॥। अचलशिखायां शेषाद्रिशिखरे वलमाना संचरन्ती, अन्यत्र अचलः स्थिर: शिखावलानां केकिनां मानः चित्तसमुन्नतिर्य- स्यास्सेति पश्चमीबहुवीहिः। सुष्ट शोभत इति सुशोभिनी। राधिकाम्बरग्राही अभ्बरं गृह्गातीत्यम्बरग्राही 'कर्मण्यण' इत्यणि अण्णन्तलक्षणो डीप। राधिकाया: अम्बरग्राही सिचयग्राहिणी। भगवत्कर्तृकस्याम्बरग्रहणस्य तद्विग्रहे उपचारः । पक्षे सुशो- भि यत् नीरं जलं तेन अधिका। भिन्नं पदम्। अम्बरं अन्त- रिक्ष गृह्णाति स्वसंचारार्थमादत्त इत्यम्बरग्राही गगनचारिणीति यावत्। द्विर्तायार्धस्य 'सुशोभिनी राधिकाधरामृतदा' इति पाठान्तरम्। तदा सुशोभिनी उक्तोरऽर्थः। राधिकायाः अधरा- मृतं ददातीति तथोक्ता राधायै स्वाधरसुधां प्रयच्छन्तीत्यर्थः। अन्यत्र सुशोभिनीरेण अधिका अत एव धराया: भुवः अमृतदा सलिलवर्षिणीत्यर्थः। शं पावनीति मिन्ने पदे पावनी पचित्रा

Page 151

140 अलंकारमणिहारे

शं सुखं थ्रियं पद्मामपि दधाना अन्यत्र शंपायाः तटित अ- वनी पालनी 'शम्पा शतहदा हरादिन्यैरावत्यः' इत्यमरः । श्रियं इयामां शोभामिति यावत्। दधाना अपिशब्दः पूर्वोक्त- विशेषणसमुच्चायकः । हरिमूर्तिः श्रीनिवासतनुः अम्बुधरमाला कादम्बिन्येव। अत्र अचलशिखावलमानादिशब्द उपात्त एव प्रतीयते न तु लुपः ॥

यथा वा- भुजगेन्द्रभूभृति सदा सौरभसात्कृततथाविधा- भ्युदयः । हरिचन्दनतरुरिन्धे समुन्नतशश्रीलता मनोज्ञवपुः ॥२३७॥ भुजगेन्द्रभूभृति शेषाद्रौ। सदा असौ इति छेदः । रभ- सात् वर्षात् शरणागतपरित्राणत्वराविशेषाद्वा 'रभसो वेग- हर्षयो' इति विश्वः। कृतः तथाविधः आगोपालं साक्षात्कारा्ह: अभ्युदय: आविर्भावो येन स तथोक्त। मुदा सह वर्तन्त इति समुदः नता: शरणागताः यस्य सः समुन्नतः । श्रीर- स्मिन्नस्तीति श्रीलं श्रीशब्दस्य सिध्मादिषु पाठात् 'सिध्मादि भ्यश्च' इति मत्वर्थीयो लचू। 'लक्ष्मीवान् लक्ष्मणशश्रीलः' इत्य- मरः। श्रीलस्य भावः श्रीलता तया मनोजं वपुर्यस्य सतथोक्त: लक्ष्मीविशिष्टतया रमणीयदिव्यमङ्गळवविग्रह इत्यर्थः । हरिरेव हरिचन्दनतरु: सदा इन्धे इति भगवत्पक्षे।।

समस्तं पदम्। सदासौरभसात्कृतः परिमळव्याप्ः कृतः तथा- विधः अभ्युदय: प्रादुर्भावः उत्कर्षो वा यस्थ स तथोक्तः।

Page 152

रूपकसरः (७) 141

'अभिविधौ संपदा च' इति कृभ्वस्तियोगे वैकल्पिकतया वि- हितस्सातिप्रत्ययः । अभिविधिर्व्याप्तिः । समुन्नता समधिका श्रीः किसलयकुसुमादिशोभा यासां ताः लताः शाखाः 'समे शाखालते' इत्यमरः। ताभिः मनोजं अभिरामं वपुर्यस्य स त- तोक्त: हरिचन्दनतरुः भुजगेन्द्रभूभृति मलयगिराविति गम्यते। इन्धे इति योजना।।

अयमेव साधारणो यत्र युक्तिरूपणोपन्यस्यते तद्धेतुरूप- कम्॥ यथा- अम्बुरुहलोचनोडयं जम्बूतरुरेव शातकुम्भाद्रौ हरति कथमितरथा पृथुमधुरफलैश्छायया च जन- तापान् ॥ २३८। शातकुम्भाद्रो शेषाद्रौ। पृथुभिः विपुलैः मधुरैः आस्वादनी- यैः प्रियैश्च फलैः प्रासद्धैः, मुक्त्यैश्वर्यान्तैः प्रयोजनैश्च छायया अनातपेन दिव्यमङ्गळविग्रहलावण्येन च । जनानां तापान् आ- तपभवान् आध्यात्मिकादींश्च। अत्र श्षेषेण जम्बूतरोर्भगवति ताद्रूप्यप्रत्ययाद्धि रूपकम्। हेतुस्तु श्िष्ट एव। एवमन्येऽ- पि प्रकारा विज्ञेया: ॥ सरिदधिपयशोबृन्दं सरसीरुहनाभलाचनान- न्दम्। करयुगधृतारविन्दं शरणं तत्किमपि दैवत- मविन्दम् ॥ २३९॥ अत्र उपमेये उपमानस्य नारोपः अपितु कारणे कार्य- स्येति न रूपकं भवतीति प्राचीनाः। एतन्मतानुसारेणैवास्मा-

Page 153

142 अलंकारमणिहारे

भिरपि लक्षितम। उच्छूङ्वलाः पुनरारोपमात्रं रूपकमभिदधाना ईदृशस्थलेऽपि रूपकमेवाभिदघते। वस्तुतस्त्विह वक्ष्यमाणो हे- तुहेतुमदैक्यरूपो हेत्वलङ्कार एव ।।

ननु- हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः। शमदमवनदवदहनैरलं खलैरतिविभ्ृखलैदष्टैः॥ इत्यत्र इरिणहरिणद्वदहनैः खलानां किं साधर्म्य येन तेषा- मपि रूपकमुदीर्यत इति चेत्-हरिभक्तिबीजराज्योः शुभ- शीलबालतृणयोः शमदमवनयोश्च ताद्रूप्ये शब्दादुपस्थापितेऽ- नन्तरमुपस्थितं हरिभक्तरूपबीजराज्याद्यभाववत्त्वमेव तदिति गृ- हाण। एवमपि इरिणादीनां खलानां च तादूप्यसिद्धौ इरिणा- दिरूपखलावृत्तित्वेन हरिभक्तिबीजराज्यादानां ताद्रूप्यं सिध्येत् हरिभक्तिबीजराज्यादानां तादरूप्यसिद्धौ च हरिभक्तिरूपबीजरा- ज्यादिशून्यत्वेन इरिणादीनां खलानां च ताद्रूप्यमित्यन्यान्याश्र- यो न शंङ्कनीयः। सर्वसिद्धेः कल्पनामयत्वेन कल्पनायाश्च स्व- प्रतिभाकल्पलताधीनत्वात्। शिल्पवेदिभिरन्यान्यावष्टम्भमात्राय-

अत्रेदमवधेयम्-चमत्कारविशेषाधायकतया रूपकसंदोहा- त्मकमपि सावयवरूपकं रूपकालंकारभेदगणनायां गण्यते यथा वज्ररत्नालंकारभेदगणनायामेकं वज्रचूडारत्नमिव संदोहात्मकव- ज्रकटकाङ्गदादयोऽपि गण्यन्ते। अन्यथा मालारूपस्योपमादेस्त ्वेदगणनेऽगणनाप्रसङ्गात् । एतेन गवां संघातो गोभेदानां क- पिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्र- स्तुतौ न संघातात्मकं सावयवं गणनीयमिति परास्तम्। एव-

Page 154

रूपकसरः (७) 143

मस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेना- विशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महद्वैलक्षण्य मिति॥ विमर्शिनीकारस्तु रूपकनिरूपणावसरे 'क्कचिञ्चाभेदमेव द्र- ढयितुं विषयिणो निषेधपूर्वकमारोप्यमाणत्वेन तदीयस्य वाऽ- भेदहेतार्धर्मस्य हानिकल्पनेनाधिक्येन वा हृढारोपत्वेनापीद द. इयते' इत्यभाणीत्। तत्राद्स्योदाहरणं पर्यस्तापह्नतिनिरूपणा- वसरे दर्शयिष्यति। द्वितीयतृतीययोरुदाहरणे तु कुवलयानन्दकृन्म- तेन रूपकनिरूपणा वसरे दर्शिते न्यूनाधिकाभेदतादूप्यरूपकोदा हाहरणे एवेति ध्येयम् ॥

अथास्य ध्वनिः.

तत्र शब्दशक्तिमूलो यथा- विमतेषु त्वं जिष्णुईण्डधरश्रासि पुण्डरीकाक्ष। विनतेषु तु प्रचेता धनदोऽपि च भवसि कनकशि- खरिमणे ॥२४०॥ कनकशिखरी शेषाद्विरित्यवोचाम। प्रसन्नं चेतो यस्य सः प्रचेताः । 'प्रादिभ्यो धातुजस्य' इत्युत्तरपदलोपः । अत्र प्रकरणेन शक्तिनियन्त्रणेSपीन्द्रयमवरुणकुबेराद्यमेदा भगवति व्यज्यन्ते।। यथा वा- ऐशानीमाशां त्वं धत्से धृतपद्मको महोत्सेधः।। करपुष्करलुलिताब्जो देव त्वं सुप्रतीक एवासि॥

Page 155

144 अलंकारमणिहारे

हे देव त्वं ऐशानी शम्भुसंबन्धिनीं आशां मनोरथं दिशं च धत्से पुष्णासि बिभर्षि च । धृता पझ्मा श्रीः येन स धृतपझ्मकः 'शेषाद्विभाषा' इति कप । पक्षे-धृतं पझमकं बि- न्दुजालकं येन स तथोक्तः। महान् उत्सेधः उत्कर्ष औन्नत्यं च यस्य सः। करपुष्करेण पाणिपद्मेन शुण्डाग्रभागेन चल- लितं अब्जं शंखो येन सः लुलितानि अव्जानि कमलानि येन सः शोभनं प्रतीकं विग्रहो यस्य सः पक्षे दिग्गजविशेषश्च। अत्रापि प्रकरणवशाद्भगवति शक्तिनियन्त्रणेऽपि सुप्रतीकादिग्ग- जाेदो व्यज्यते॥।

अर्थशक्तिमूलो यथा- भगवन्भवत्प्रतापो हरितः परितः प्रकाशयति सततम्। विदलयति कमलवलयं शोकं लुम्पति च कोकलोकानाम् ॥ २४२॥ अत्र हरित्प्रकाशकत्वादिना भगवत्प्रतापस्तपनाभिन्न इति रूपकं ध्वन्यते॥।

इत्यलंकारमणिहारे रूपकसरस्सप्तम:

अथ परिणामसरः

विषयी स्वात्मना यत्र प्रकृतानुपयोगतः। विषयात्मत्वमभ्येति परिणामस्स ईरितः ।।

Page 156

परिणामसरः (८) 145

यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगितया निबध्यमा- नस्स्वातन्त्रयेण तस्य तदुपयोगित्वासंभवात्प्रकृतात्मतापरिणति मपेक्षते स परिणामः । अत एवान्वर्थसंज्ञोऽयम् । अत्र घ विषयाभेदो विषयिण्युपयुज्यते। रूपके तु नैवमिति भवति रूपकादस्य भिदा। अयं च परिणामो द्विविधस्सामानाधि- करण्यवैयधिकरण्याश्याम्। सामानाधिकरण्येऽपि समासगो वा- क्यगश्चेति द्विविधः । तत्राद्यो यथा॥ 1 द्विरदाधिपवरदानस्फुरदादरणस्य फणिगिरिनि- यन्तुः। सुरदानवनुतकीर्तेर्वरदायि कराब्जमवतु सुकुमारम् ॥ २४३॥ अत्र ह्यब्जस्य वरदानादिकं निबध्यत न तु करस्य । म- यूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात्। न च करः अ- ब्जमिवेत्युपमितसमासावलम्बनेन पूर्वपदार्थप्रधानतैव कुतो न स्यादिति वाच्यं, सामान्याप्रयोग एव तदनुशासनात्। इह च सुकुमारमिति सामान्यधर्मप्रयोगात् । अब्जस्य स्वतो वरदा- नादिकार्यानुपयोगितया प्रकृतभगवत्करात्मतापरिणत्यपेक्षणात्परि- णाम: ॥ यथा वा- तावकशुभगुणसौरभविसरैरधिवासितं सतां स्वान्तम्। दुर्दान्तदैवतान्तरदुर्गन्धं दूरतो जहा ति हरे ॥ २४४॥ अत्र सौरभस्य स्वातन्त्रयेण सत्पुरुषस्वान्ताधिवासनेऽनु पयोगान्भगवच्छुभगुणतया परिणामः ।। ALANKARA 19

Page 157

146 अलंकाग्मणिहारे

यथा वा- बुध्वा SSचार्यानुग्रहसिद्धाअ्जनतो Sअनाचलेन्दो त्वाम्। वशयन्विशदस्वान्तो भृशमभिनन्देयमु- पशमिततृष्णः ॥ २४५ ।। अत्र सिद्धाञ्जनस्याचार्यानुग्रहतयैव भगवज्ज्ञानतद्वशीकर- णक्षमत्वम् ॥

यथा वा- श्वीवेङ्कटाद्रिशखरकटाक्षमयकङ्कटावृतो यो- गी। चण्डकरमण्डलमपि प्रवेष्टमीष्टे सहस्रहेति- मयम् ॥ २४६॥

हेतयः शस्त्राणि अर्चीषि चेत्यर्थः। 'रवेरचिश् शस्त्रं च वन्हिज्वाला च हेतयः' इत्यमरः । कङ्कटः कवचः । अत्र क- ङटस्य भगवत्कटाक्षतया परिणामादेव चण्डकरमण्डलप्रवेशक्षम- तेति ध्येयम्॥ वाक्यगो यथा- किंनु तया संपत्त्या वैधात्र्या वाऽपि कर्मपरि- णत्या। त्वां प्रेप्सोर्वितर हरे भक्तिं धनमेव मे विरक्तिघनम् ॥ २४७॥ 'कर्मणां परिपाकत्वादा विरश्चादमङ्गळम्' इत्युक्तस्वरूप- या ब्राह्मयाऽपि संपदा त्वामेव प्रेप्सोर्में किं साध्यम्। भक्ति त्वन्क्तिरूपमेव धनं देहीत्यर्थः । अत्रारोप्यमाणं धनं भक्तिरु-

Page 158

परिणामसरः (८) 147

पापन्नमेव वितरणरूपकार्योपयोगि, न स्वात्मना। कवेर्भगव- त्प्राप्तिमात्रमपेक्षमाणस्य वैरिश्चिविभूतेरपि तृणीकरणेन केवल- धनार्थिताविरहात्॥ यथा वा- फणधरधरणिधरेन्दरा स्मरणं तव चरणयोः कतकरेणुः। संशयधूसरतां नस्संशमयति हंत सर्वतत्वार्थे ॥ २४८॥ अत्रारोप्यमाण: कतरेणुर्भगवत्स्मरणतापत्त्यैव संशयघूसर- तासंशमनलक्षणकार्ये उपयुज्यते न स्वातन्त्र्येणेति भवति पारे- णामः। उदाहरणबाहुल्यं बुद्धिवैशद्याय ।। व्यधिकरणो यथा- अधररुचा रागवती नलिनवती नयनपाणिच- रणेन। लक्ष्मीः प्रभातलक्ष्मीराधत्ते नः प्रबोधम- नवधिकम् ॥ २४९॥ अत्रानवधिकप्रबोधाधानं परिमितप्रबोधाधायिन्या: प्रभात- लक्ष्म्यास्स्वात्मना बाधितं लक्ष्मीरूपेण तु संगच्छत इति भवति परिणामः । स च परस्परासापेक्षबहुसंघातात्मकतया सावयवः। तत्र पूर्वार्धगतौ द्वाववयवौ व्यधिकरणौ उत्तरार्धगतश्चैकस्स- मानाधिकरणः। अनवधधिकं प्रबोध असंकुचितं ज्ञानं मुक्तचै- श्वर्यमिति यावत्। अत्रेदमवधातव्यम्-यत्र विषयस्य विषयिताद्रूप्यापत्या प्रकृतकार्योपयोगित्वं तत्र रूपकम्, यत्र तु विषयिणो विषय-

Page 159

148 अलंकारमणिहारे

ताद्रूप्यापत्त्था कार्योपयोगित्वं तत्र परिणाम इति। काव्यप्रका- शकारादिभिस्तु -- उभयत्राप्युत्तरपदार्थप्रधानमयूरव्यंसकादिसमा साविशेषादोद्दशं वैषम्यं नातीव चमत्कारायेति परिणामः पृथ- गनुपाच: ॥ केचित्तु-"क्वचित्केवलो विषयस्स्वात्मना न प्रकृतोपयो- गीत्ययमारोप्यमाणाभिन्नतयाऽवतिष्ठते तत्रारोप्यमाणपरिणामः, य- था-'वदनेनेन्दुना तन्वी शिशिरीकुरुते दशौ' अत्र वदनमिन्द्व- भिन्नतयाऽवतिष्ठते, केवलस्य वदनस्य इक्छिशिरीकारकत्वा- योगात्। क्वचिच्चारोप्यमाणस्स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयाSवतिष्ठते। तत्र विषयपरिणामः, यथा-'वदने- नेन्दुना तन्वी स्मरतापं विलुम्पति' अत्रेन्दुर्दनाभिन्नतयाऽव- तिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिद रूपकमेव भवितुमर्हति विषयतावच्छेद कविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषायविषया न्यतग्त्वस्य तल्लक्षणत्वात्। अत एवोक्तं 'तदूपकमभेदो य उममानोपमेययोः' इति। तस्मान्न रूपकात्परिणामोऽतिरिच्यते" इति वदन्ति। वस्तुतस्तूक्तरीत्या विच्छित्तिविशेषस्य सन्भावे अलंकारान्तरत्वमवश्याभ्युपेत्यम्। अन्यथा तुल्ययोगितादीपका- दीनामपि यतिकचिद्वैलक्षण्यसन्भावेन पृथगलंकारता न स्यादिति दिक्॥

Page 160

43 परिणामसरः (८) 149

अथ परिणामध्वनिः

तत्रार्थशक्तिमूलपरिणामध्वनिर्यथा- कल्पमहीरुह कल्पय निरतिशयां संपदं नि- तान्तं नः । यां सन्तोऽनुभवन्तो जन्मजरादिव्य थां न धावन्ति ॥ २५० ॥ अत्र वक्तु: परिच्छिन्नैश्वर्यविरक्ततया व्यज्यमानभगवद भिन्नतया कल्पतरुर्विर्वक्षितः, तेन रूपेणैव तस्योत्तरार्धविवक्षि-

निगरणात्मकातिशयोक्तिश्शक्या वक्तुम्। तस्यां ह्यारोप्यमाणा- भिन्नत्वेन विषयस्य प्रत्ययः । यथा-'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति। अत्र तु भगवतः कल्पमहोरुहाभिन्नत्वेन प्रत्यये पुननिरतिशय- संपत्संपादनलक्षणप्रकृतकार्यसिद्धिरिति कल्पकस्यारोप्यमाणस्य भगवद्रूपविषयाभिन्नत्वं मृग्यम्। तञ्च व्यङ्गयतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्ति: ॥ शब्दशक्तिमूलो यथा- कंजायताक्षि मुग्धे संज्वरमनुविंदसे सखि कि- मर्थम्। आशास्व घनं कृष्णं येन त्वं शान्तिमे- ष्यसि क्षिप्रम्॥ २५१ ।। इदं काश्चिद्वोपिकां प्रति कस्याश्चित्सख्या वचनम्। अत्र झगिति संज्वरशमनहेतुत्वेनोपस्थिते नीलाम्वुदे पश्चान्मुग्धारूप-

Page 161

150 अलंकारमणिहारे

बोद्धव्याविशेष्यकस्मरसंज्वरवत्तावैशिष्ट्यबुद्धौ सत्यां सहदयाया-

ते। अयं शब्दशक्तिमूलः॥ यथावा- अयि दूयसे किमर्थ साधो दूरं विधेहि जाड्य- भ्षयम्। प्रत्यासन्नं माधवमीक्षस्व य एतदुपशमं नेता ॥ २५२ ॥ इद शिशिरतौ वेङ्टाचलप्रान्ते निवसन्तं कंचन साधुं प्रति कस्यचिद्वचनम्। जाड्यं शैत्यं मान्दं च । माधवं वसन्तं भगवन्तं च । अत्राञ्जसा जाड्यशान्तिनिमित्ततयापस्थिते वसन्ते

त्ययमपि शब्दशक्तिमूल: परिणामध्वनः ।

इत्यलंकारमणिहारे परिणामसरोऽष्टमः

अथाल्लेखसरः

ग्रहीतृभिरनेकैर्यदेकस्यानेकधा ग्रहः । रूच्यादिकारणवशान्मुल्लेखं प्रचक्षते ॥ ४३ ॥

ग्रहणं स ऊल्लेखः। रुच्यदीत्यादिशब्देनार्थित्वभयादीनां संग्रद्दः।

Page 162

उल्लेखसर: (६) 151 रुचिः अभिरतिः । अथित्वं लिप्सा। भयं प्रसिद्धभेव। अनेक धोल्लेखे रुच्यादीनां यथार्ह प्रयोजकत्वम्।। कनकाचलेश्वरकरे कनन्तमब्जं सुधांगुरिति चक्रम्। दिनमणिरिति च विदित्वाऽहर्षि चकोरै- श्र चक्रवाकैश्॥ २५३ ॥ अत्र चकोरचक्रवाकैः पाश्चजन्यसुदर्शनयोस्सुधांशुत्वेन दिन- मणित्वेन च ग्रहणे भ्रान्तिरूपेSतिप्रसङ्गवारणायैकस्य वस्तुन इति !! वारिनिघेर्वात्सल्यं वारिजविपिनस्य विभवपौ- ष्कल्यम् । शौरेरमहिमौज्ल्यं नारीरत्नं स्मरेयम- नुकल्यम् ॥ २५४ ॥

क्षितबहुत्वं ग्रहणविशेषणम्॥ हरिमहिशिलोच्चयाग्रे विलोक्य मत्वा बलाह- कोऽयमिति। माद्यन्ति दन्तिनिवहा नृत्यन्ति क- लापिनामपि कुलानि॥ २५५ ॥ अत्र हरिरूपस्यैकस्य वस्तुनोऽनेकैर्दन्तिकलापिकुलैर्ग्रहीतृ- भिरेकेनैव बलाहकत्वरूपेण प्रकारणेन ग्रहणमिति तत्रातिप्रसंग वारणायानेकप्रकारकमिति। ग्रहणमिति ग्रहणसमुदायो विवक्षि- तः । एकत्वं जातौ, अनेकग्रहीतृकस्यैकस्य ग्रहणस्थाप्रसिद्धेः।

Page 163

152 अलंकारमणिहारे

अनेकैग्रहातृभिरनेकप्रकारकं ग्रहणमित्यनेन द्वाभ्यां द्विऽधाग्रहणेऽ- व्ययमलंकारोऽक्षत एव। अयं च द्विविधः। शुद्धोलंकारान्तर- संकीर्णश्चेति। तत्र शुद्धो यथा -- आर्तो लक्ष्मीपतिरित्यर्थार्थी त्वां महावदान्य इति: जिज्ञासुर्ज्ञानमिति ज्ञानी तु शरण्य इति भजति भगवन् ॥२५६॥

अत्र- चतुर्विधा भजन्ते मां जनास्सुकृतिनोर्ऽर्जुन। आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥

इतिश्ोकार्थोऽनुसंहितः । सुकृतिनः पुण्यकर्माणः मां शरणमुप- गम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुरविधाः। सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तराधिकतमा भवन्ति। आर्तः प्रतिष्ठाहीनो भ्रष्टैश्वर्यः पुनस्तत्प्राप्तिकामः लक्ष्मीपतिरिति भजति ऐश्वर्यदानसामर्थ्याभिप्रायकं लक्ष्मीपतिपदम्। एवमग्रेऽ- प्यू्यम् । अर्थार्थी अप्राप्तैश्वर्यतया अपूर्वैश्वर्यकामः । तयोर्मु- खभेदमात्रम्। ऐश्वर्यविषयतयैक्यादेक एवाधिकार: । महाव- दान्य इति भजति। जिज्ञासुः प्रकृतिवियुक्तव्रह्मात्मकात्मस्वरू- पावाप्तीच्छुः ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम्। ज्ञान- मिति भजति। ज्ञानस्वरूपजीवशरीरक इति भजति। ज्ञानी तु भगवच्छेषतैकरसात्मस्वरूपवित् प्रकृतिवियुक्तकेवलात्मन्यप- र्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तमेव परमप्राप्यं मन्वानः श- रण्य इति परमप्राप्य इति भजतीत्यर्थः । अत्र च लिप्सारु- चिश्यां निमित्ता्यामार्ताद्यनेकग्रहीतृकलक्ष्मीपतित्वाद्यनेकप्रकार-

Page 164

उल्लेखसरः (९) 153

कग्रहणसमुदायो भगवद्विषयरतिभावोपस्कारक: शुद्ध एवात्रा- यमुल्लेखालंकार:, रूपकादिभिरमिश्रितत्वात्॥ संकीर्णो यथा- तावकपदनखरेखां मत्वेन्दुकलां नमन्मृडो म- कुटम्। स्पृशति निजमहिगिरीश्वर वजं मत्वेक्षते स्वकरमिन्द्रः ॥२५७॥ अत्र मृडाद्येकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेख- स्संकीर्ण: ॥ वृषगिरिपतिं तमालं कतिचित्कतिचिद्वदन्तु ह- रिनीलम्। ब्रूमो वयमतिवेलं पुञ्जितलक्ष्मीकटा- क्षरुचिजालम् ॥२५८॥ अत्र भगवतस्तमालत्वादेः परमतत्वेन निषेध्यतयोपन्या- सादपहनुत्या संकीर्ण उल्लेखः । सन्देहसङ्गीणो यथा- तपनो वा ज्वलनो वेत्यरिललना वेत्ति तव करे चक्रम्। स्वीयं लक्ष्मीस्तु हरे केयूरं वाडथ नपुरं वेति ।।२५९।। अत्र द्वयोरग्रहणयो: प्रत्येकं संदेहत्वं समुदायस्य तूलखता। अवरोधसद्य पद्मा मनुते भूमिर्निवासभूमिं त्वाम्। नीला लीलाशालां नीलाचलमौलिलो- लनीलमणे ॥२६०॥ ALANKARA 20

Page 165

154 अलंकारमणिहारे

नीलाचल इति शेषाद्रेरेव नामान्तरम्। अत्र यद्यवरोध- सझत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकीर्ण उल्लेखः। यदि ताद्रूप्यानुभवगोचरतया तदा भ्रान्तिमत्संक्कीर्णः॥ अयं च स्वरूपहेतुफलोल्लेखनरूपत्वात्रिविधः । तत्र स्व- रूपोल्लेखस्समनन्तरमेवोदाहतः॥ हेतूल्लेखो यथा- दानात्कतिचन केचिद्रानान्नाम्नां विदुः प्रसदनं ते। ध्यानात्परे वयं तु श्रीनाथाकिंचनत्वविभवेन॥। अत्रैकस्यैव प्रसदनस्य हेतूनामनेकधात्वेनानेकैरुलेखनम्॥ फलोलेखो यथा- विपदपहृतये दीनाइश्रीदानायार्थलिप्सवो मनु- जाः । वृद्धास्स्वबन्धमुक्त्यै तद्ाम वृषाद्रिभुवि व- दन्त्युदितम् ॥२६२। अत्रैकस्यैव भगवदुदयस्य फलानामनेकधात्वेनोल्लेखनम्। तद्धाम तत्तेज: परं ब्रह्मेत्यर्थः॥

अथ द्वितीय उल्लेखः.

एकस्य विषयादीनामनेकत्वनिबन्धनम्। नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोपि संमतः ।। ४४ विषयादीनामित्यत्रादिशब्देनाश्रयादिग्रहणम्। यत्रासत्यपि

Page 166

उल्लेखसरः (९) 155

ग्रहीतृभेदे विषयाश्रयसंबन्धिनामन्यतमानेकत्वप्रयुक्तस्य वस्तु- नोऽनेकप्रकारत्वमयमन्य उल्लेखः । तत्र विषयसप्तमीनिर्दिष्टो वि- षय इत्युच्यते। अधिकरणसप्तमीनिर्दिष्टस्त्वाश्रयः। षष्टा निर्दिष्ट- स्संबन्धीति विवेकः । अयमपि शुद्धसङ्गीर्णभेदेन द्विविधः॥

तत्र शुद्धो यथा- स्निग्धाः कौस्तुभरत्ने दिग्धाः कृपयाऽत्र मयि हरौ मुग्धाः । दुग्धाम्बुराशशिदुहितुस्स्रग्धारा इव जयन्ति दग्धाराः ॥ २६३॥ कौस्तुभरते स्न्निग्धाः स्नेहयुक्ता: सहोदरत्वात्। अत्र अ- स्मिन् माय कृपया दिग्धाः दीनतमत्वात्। हरौ भगवति मु- ग्धाः व्यामोहशालिन्यः । वल्लभत्वादिति भावः । इह हग्धा- राणां विषयानेकत्वप्रयुक्त उल्ेख:॥

हसिते सितमसितं रुच्येतं पुरुषं तथाम्बरे पी- तम्। शोणमधरे पुराणं करचरणतलेऽरुणं श्रये शरणम् ॥ २६४॥ रुचीति सप्तम्यन्तम्। अत्रैकस्यैव भगवतः हसितादिषु विषयेष्वनेकेषु सितादिवर्णानेकत्वमेकेनैव ग्रहीत्रोल्लिखितमित्याश्र- यानेकत्वप्रयुक्तोऽयमुल्लेखः । एतं पुराणं पुरुषमिति योजना । एतं उक्तरीत्या नानावर्णत्वाच्छवलमित्यपि गम्यते। 'चित्रकिम्मीर- कल्माषशबलैताश्च कर्बुरे' इत्यमरः ॥

Page 167

156 अलंकारमणिहारे

संकी्णो यथा-

मृगमदतिलकति निटिले मृगपतिगिरिनेतुरु- रसि लाञ्छनति। भ्रमरति नाभीकमले कमलायाः प्रसृमरा कटाक्षरुचि: ॥ २६५॥

अत्रोपमया सङ्कीर्णः । यद्वा-तत्तदधिकरणौचित्यात्कस्तू- रीतिलकादितादात्म्यसम्भावनायामुपमार्थे विहितोऽपि क्विबुत्प्रे- क्षायां पर्यवस्यतीत्युपमोपक्रमोत्प्रेक्षा। एतद्विमर्शस्तूत्प्रेक्षानिरूप- णावसरे भविष्यति। अस्मिन् पक्षे उत्प्रेक्षया संकीर्णोऽयमाश्र- यानेकत्वप्रयुक्त उल्लेख: ।।

यथा वा- मौक्तिकसि दन्तपङ्गौ नीलसि वालेषु विद्रुम- स्यधरे। हीरसि नखेषु कमले सत्यं रत्नाकरात्म- जात्वमिति ॥२६६॥

अत्रोपमासङ्कीर्णः काव्यलिङ्गशिरस्कः॥

यथा वा-

ऊरुयुगे रम्भाऽसि श्रीर्नासायां तिलोत्तमाभि- खया। वैभवतो विश्वाची त्वमप्सरोज्यायसीति युक्तमिदम ॥ २६७॥

हे श्रीः उरुयुगे रम्भा कदळी तन्नामकाप्सराश्च। नासायां

Page 168

उल्लेखसर: (९) 157

तिलोत्तमस्य तिलकुसुमश्रेष्ठस्य अभिख्या शोभेव शोभा यस्या- स्सा, तिलोत्तमेत्यभिख्या नाम यस्यास्सा, तथोक्ता तन्नामा- प्सरा इति च। 'अभिख्या नामशोभयोः'इत्यमर । वैभवतः वैभवे सार्वविभक्तिकस्तसिः। विश्वमञ्चतीति विश्वाची सर्व- जगद्वयापिनी, तन्नामाप्सराश्च। तस्मात् त्वं अप्सरसां ज्यायसि श्रेष्ठा ततोऽप्यतिसुन्दरीत्यर्थः । पक्षे-अप्सरसो ज्यायस्यो ज्येष्ठाः यस्यास्सेति बहुब्रीहिः। 'नदृतश्च' इति प्राप्तस्य कपः 'ईय- सश्च'इति निषेधः। 'ईयसो बहुव्रीहेर्नेति वाच्यम्' इति निषे- धात् न 'गोस्त्रियोरुपसर्जनस्य' इति हस्वः । विष्णुपुराणादाव- प्सरसां श्रीलक्ष्म्यपेक्षया प्रागेवाविर्भावोऽभाणि। पुराणान्तरेषु यदि श्रियोऽनन्तरमेव तासामुत्पत्तिरुपलभ्येत तदा षष्ठीतत्पु- रुषोऽप्यस्तु। इतीदं युक्तमित्यन्वयः। अत्र श्वेषरूपकसंकीर्णः । काव्यलिङ्गसंकीर्णसमालंकारशिरस्क:॥

संबन्ध्यनेकत्वप्रयुक्तो यथा- भक्तानां मन्दारा भवतप्तानाममूस्सुधाधाराः । नारायणगिरिनेतुर्दाराणां सन्तु मयि दगासाराः। .2. अत्र कविना मन्दारत्वादिना रूपेण कटाक्षाणं रूपवतां करणाद्रपकेण भक्तादीनामेतेषु कटाक्षेष्वभीप्सितार्थदानादिना मन्दारत्वादिभ्रान्तिरपि संभवतीति भ्रान्तिमता, भक्तादिभिरनेकै- श्रहीतृ भिर्मन्दारत्वाद्यनेकधर्मेणो ल्लेखना त्प्रा गुक्तोले ख ंप्रकारेण च स ह संकीणोऽयं संबन्धिषष्ठचन्तपदभेदप्रयुक्तवर्ण्यानेकत्वप्रकार उल्लेखः।

देदमुदाहरणम्-

Page 169

158 अलंकारमणिहारे गोपेषु गोपरूपो भूपेषु विभासि धन्विमूर्धन्यः। तापसयूधे तापस एकोSनेकाकृतिस्त्वमव्जाक्ष।। अत्र गोपादिसहचरभेदप्रयुक्तं भगवतोऽनेकविधत्वम्। एव- मन्येषां सम्बन्धिनां भेदेऽप्यूद्यम्॥

अथोल्लेखध्वनिः.

यथा- ननु नाथ मोहभुग्ना व्यसनविविग्ना विरोधिभि- र्भग्नाः । उपतापैरपि रुग्णास्त्वां वीक्ष्यानन्दसंप्ठवे मग्नाः ॥२७०॥ अत्र चरणत्रयोदितानां चतुर्णा वीक्षणकर्तृणामानन्दसंप्ुव- मग्नत्वोक्त्या क्रमेण मोहव्यसनविरोध्युपतापनिरासकत्वप्रकार- काणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः॥ संकीर्णस्य यथा- अहिगिरिपरिसरधरणौ विहरति हरिनीलरुचि- ररुचि क्षवति। अनुगच्छन्ति करिण्यो ननु नृत्य- न्ति च रमेश बर्हिण्यः॥२७१।। अंत्र ध्वन्यमानया एकैकग्रहणरूपया द्विरदजलदभ्रान्त्या तदुभयसमुदायरूप उल्लेखस्संकीर्णः । न चात्र भ्रान्तिरेव चम-

Page 170

स्मृत्यलंकारसरः (१०) 159

त्कारिणीत्युल्लेखश्शक्योऽपह्नोतुम्। अनेककर्तृकानेकधाग्रहणस्या- लंकारान्तरविविक्तविषयस्य विच्छित्तिविशेषस्येहापि जागरूक- त्वात्। द्वितीयस्योलेखस्य ध्वनिर्यथा- गगने विसृत्वरी ते स्थगयति ककुभां मुखानि तनुसुषमा। धरणौ तु विबुधतटिनीं परिरिप्सुर्भ- वति फणिगिरिसुरद्रो ॥१७२॥ अत्राधिकरणभेदप्रयुक्तमेकस्यामेव श्रीनिवासविग्रहसुषमायां कादम्बिनीत्वयमुनात्वरूपानेकविधत्वं रूपकसंकीर्ण ध्वन्यते॥ इत्यलंकारमणिहारे उल्लेखसरो नवमः

अथ स्मृत्यलंकारसरः.

या सादृश्यपरिज्ञानोहुद्वसंस्कारतस्स्मृतिः। प्रयोज्या सा स्मृतिर्नामालंकृतिः कथ्यते बुधैः ॥ सादृश्यज्ञानोद्वुद्धसंस्कारप्रयोज्या स्मृतिः स्मृतिर्नामालंकारः। अयमेव स्मरणं स्मृतिमानित्ययि व्यवहियते॥

यथा- सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचि रुचिनिमग्रे। कमलेक्षणहृदि कौस्तुभकमले दु- ग्धाब्धिनिवसतिं स्मरतः ॥२७३॥

Page 171

160 अलंकारमणिहारै

कौस्तुभश्च कमला च कौस्तुभकमले मौक्तिकसरशुचिरु चिनिमझे सत्यौ दुग्धाब्धिनिवसति स्मरत इति योजना॥

यथा वा- अभयं दातुं सरभसमिभवरशिरसि स्वहस्त- माधातुः। चेतः फणिगिरिनेतुर्यातं कमलाकुचद्व- यं स्फीतम् ॥२७४।।

अत्राद्ये स्मृतिर्वाच्या, द्वितीये तु लक्ष्येति विशेषः।

यथा वा- लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रा- त्रीः । तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम् ॥२ ७५॥ शरत्फुद्लमल्लिकाः ताः रात्रीरित्येतैः पदैः 'भगवानपि ता रा- त्रीश्शरदोत्फुल्लमालिकाः' इति श्रीभागवतीयपद्यं प्रत्यभिज्ञाप्यते। अत्र शरद्रात्रिरासविलासयोस्स्रणं यद्यपि न तत्सादृश्यदर्श- नोद्धुद्धसंस्कारप्रयोज्यं, तथाऽपि लक्ष्मीकटाक्षगतलहरीसादृश्यो-

त्सादृश्यदर्शनोद्ुद्धसंस्कार प्रयोज्यम् । न हि सादृश्ये स्मर्यमाण- संबन्धित्वं विवक्षितम्। एवं वाच्ययोश्शरद्रात्रिरासविलास- स्मरणयो: एतत्कारणतयाऽSक्षिप्तस्य यमुनास्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपह्ाय प्रयोज्यत्वमुपात्तम्। केचित्तु सदशज्ञानोद्वद्धसंस्कारजन्यं सदशविषयकमेव स्मरणमलंकार इत्याङ्क:, तेषां शरद्रा्रिरासादिस्मृतिरनलंकार एव।।

Page 172

स्मृतिसर: (१०) 161

अधिभुजगराजशैलं यं घननीलं विलोलवन- मालम्। निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम् ॥२७६॥

मवगाहते। व्यङ्गयत्वविरहाच्च न भावपदवीम्।। एवं- कलिरिपुगुरुवरकरुणासुरतटिनीघूतमोहमा- म लिन्यः । शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेऽ- स्मार्षम् ॥२७७॥ कलिरिपुगुरुवरा: श्रीमत्परकालयतीन्द्रमहादेशिकाः। शेषि- त्वं स्वामित्वं शेषतां परगतातिशयाधानेच्छया उपादेयत्वस्व- रूपतां च अस्मार्षम।। स्वोजीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा। आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥ इत्युक्तरीत्या स्मृतवानित्यर्थः। इहापि स्मृतिर्नालंकारो नापि भावः। व्यङ्गचस्यैव व्यभचारिणो भावत्वात्॥। यथा- गम्भीरिमा शिशिरिमा गरिमा परमाद्रुतो म धुरिमा च। तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दष्टः ॥२७८।।

अयं ह्यालंकारिकाणां संप्रदाय :- यत्सादृश्यमूलकत्वे स्मृ- तिर्निदर्शनादिवदलंकारः, तद्विरहे व्यङ्ग्यतायां भावः । तयो- ALANKARA 21

Page 173

162 अलंकारमणिहारे

रभावे तु वस्तुमात्रमिति। यत्तु 'सदृशानुभवाद्वस्त्वन्तरस्सृतिः स्मरणम्' इति स्मरणालंकारलक्षणं तन्न चतुरश्रम्, सद्दशस्म- रणादुद्रुद्धेन संस्कारेण जनिते स्मरणे अव्याप्ते: ॥ यथा- भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बम- म्बुरुहम्। येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥२७९॥ अत्र भ्रमरदर्शनादेकसंबन्धिज्ञानाजनितेनापर संबन्धिनोऽम्बु- रुहस्य भगवन्नयनसदशस्य स्मरणेन जनितं भगवन्नयनस्मरणं भगवद्विषयकरतिभावाङ्गतयाऽलंकारः । यदि तु सदृशानुभवा- दित्येतदपहाय सदशज्ञानादिति लक्षणे निवेश्येत तदा भवत्य- स्यापि संग्रह इति दिक्॥

अत्रेदमवधेयम्-सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षा- दुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था। तथाहि- उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानस्साक्षान्नोपादेय एव। यथा-'शंखवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । 'शङ्गव- त्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वकेनैव धर्मेण सादृश्यमित्यस्य दुर्विज्ञानत्वात् सर्वत्रोपमानोपमेयसाधारणस्य श्िष्टशब्दात्मकस्यान्यस्य वा स्वाविवक्षितस्य साधारणधर्मस्यो- पमाप्रयोजकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिर्धमों वाच्यतां नी- यते। यथा वा-'अरविन्दमिव सुन्दरं मुखं' इत्यादौ सुन्दरत्वा- दिः।न नीयते च धर्मः क्वचिद्वाच्यतां वक्तुरन्यधर्मानुपस्थितेः प्रसिद्धे: प्रावल्यात्। यथा-'अरविन्दमिव मुखम्' इत्यादौ सु-

Page 174

स्मृतिसरः (१०) 163

न्दरत्वादिरेव। अप्रसिद्धस्तु धर्मोऽवश्यं साक्षादुपादेय एव। अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः। यथा-'घना इव महासारा जना यस्यां प्रतिष्ठिताः' इत्यादौ श्िष्टशशव्दात्मकः। तथाच कश्चित्साधारणो धर्मस्साक्षादनुपा- देय एव, कश्चिदुपादेयोऽनुपादेयश्च, कश्चिदुपादेय एवेति स- हृदयसम्मतस्समयः । एवमेवोपमाजीवातुकेऽस्मिन् स्मृत्यलंका- रेऽपीति । तत्रानुगामिनि धर्मे 'विलोचने स्मारिते वृषगिरी- न्दोः' इत्यनुपदोदाहते पद्ये निवेदितमेव स्मरणम्। तत्राम्बु-

नोऽनुगामी धर्मः ॥ बिम्बप्रतिबिम्बभावापन्ने त्विदमुदाहरणम्- शारदनीरदनिबिडितवृषगिरिशिखरावलोकनेन हरिः। शुचिकश्चुकमस्मार्षीत्पद्मावत्याः पयोघर- द्वंद्म् ॥२८० ॥ अत्र बिम्बप्रतिबिम्बभावापन्ने समानधर्मे स्मृतिः ॥ उपचरिते यथा- मधुरतरं तव चरितं मधुमथनाहं यदा निशम- यामि। अध्येमि तदा चेतोमध्ये मधुविधुसुधाम- धुरसानाम् ॥२८१॥ मधुरसा द्राक्षा 'मृद्ीका गोस्तनी द्राक्षा स्वाद्दी मधु- रसेति च' इत्यमरः। अध्येमि स्मरामि 'इक् स्मरणे' इत्यस्मा- द्वातोरधिपूर्वाल्लट् 'अधीगर्थ' इति षष्ठी । चेतोमव्ये हृदया- न्तरे ॥

Page 175

164 अलंकारमणिहारे

यथा वा- निबिरीस सौकुमार्य शिरीषकुसुमं निरीक्षमाण- स्य। स्मृतिसृतिमधिरोहति मम सरीसृपगिरीश- सहचरीहृदयम् ॥२८२॥ अत्र मधुरतरत्वादिर्धर्म उपचरितः । इयांस्तु विशेष :- यदेकत्रानुभूयमाने भगवञ्चरिते स्मर्यमाणस्य मधुप्रभृतेस्साद्ृश्य स्य सिद्धिः। अपरत्र स्मर्यमाणे भगवद्दयताहृदयेऽनुभूयमा- नस्य शिराषकुसुमस्य सादृश्यसिद्धिरिति, उभयाश्रयत्वात्साद- श्यस्य ॥। श्लेषात्मके यथा- विनिशाम्यते यदा तव विभासिनीहारभार- माश्िष्ठा। हृदयस्थली तदाऽ्च्युतहृदयं मे विश- ति हैमनसमृद्िः ॥२८३॥ विभासिनी हारभासा रमया च समान्िष्टा। पक्षे- विभासी चासौ नीहारभार: हिमातिशयः तं आ्लिष्टा। कर्तरि क्तः । हेमन्तस्येयं हैमनी सा चासौ समृद्धि: हेमन्तसंबंन्धि- लक्ष्मीरित्यर्थः । हेमन्तशव्दात् 'सर्वत्राण् च तलोपश्च' इत्यणि तलोपः। 'टिढ्ठू' इति डीप, पुंवद्भावश्च। यथा वा- मुद्दीकामितफलदा यदाऽक्षिपदवीं गता हरे: प्रमदा। उद्यानवनी हृद्या हृद्यारूढा तदा न कस्य भवेत् ॥२८४॥

Page 176

स्मृतिसरः (१०) 165

अत्राद्ये विभासिनी त्यादिशब्द: श्रीनिवासहृदयस्थलीहैमनस- मृद्धयोः साधारणो धर्मः । द्वितीये मृद्वीकामितफलदेतिशब्दो हरिप्रियोद्यानवत्योः। सृद्वी दयामृदुला कामितफलदा। पक्षे-मृ- द्वीकानां द्राक्षाणां अमितानि फलानि ददाति तथोक्ता। एव- मन्येऽपि मेदास्सुधीभिरुन्नेयाः॥

अथास्य ध्वनिः

i यथा- अयमेव मे सविद्युन्नियमेन घनो मनोविनोदी स्यात्। स्वयमेव यदि वृषाद्रौ न रमेत रमासखं परं ब्रह्म ॥२८५॥ अत्र सविद्युता घनेन सलक्ष्मीकस्य भगवतः स्मरणमलं- कार्यान्तराभावादनुपर्सजनम्। लक्ष्मीविद्युलक्षणस्य बिम्बप्रतिबि- म्बभावापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसाद श्यमूलकस्य स्वस्य शब्दवाच्यताविरहाद्वयङ्गयं च। यथा वा- मणिसारमयि मसारं व्यपसारय सारसाक्षि रभसात्त्वम्। मम गोकुलमौळिमणिर्मानसमतिवे- लमेव लोलयति॥ २८६॥ आये सारसाक्षि! मणिसारं रत्नश्रेष्ठ मसारं इन्द्रनीलं 'म- सार इन्द्रनीले स्यात्' इति शब्दार्णवे 'मसारगल्वर्कमुखः'

Page 177

166 अलंकारमणिहारे

इति श्रीरामायणे प्रयोगश्च। रभसात् व्यपसारयेति योजना। अस्मिन्भगवता नन्दनन्दनेन विश्िष्टायाः कस्याश्चिन्नायिकाया- स्सखीं प्रत्युक्तिरुपे पद्ेऽपि नीलमणिज्ञानाधीनतत्सददशनन्दन- न्दनस्मृतिः प्राधान्येन ध्वन्यते॥

इत्यलंकारमणिहारे स्मृतिसरो दशम:

अथ भ्रान्तिमदलंकारसरः

चमत्कृतिमती भ्रान्तिर्यस्मिंत्सादृश्यहेतुका। अनूदिता स्यात्सन्दर्भे तमाहुर्ध्रान्तिमानिति॥४६

प्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः। साच सुरनरतिर्यगादिगता यस्मिन् वचनसन्दर्भेडनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्र- मलंकार। भ्रान्तिमानिति व्यवहतिस्त्वौपचारिकी। यदाहु :-

प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते। स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिक: ॥

इति। लक्षणे मीलितसामान्यतद्गणवारणाय धर्मिग्रहणद्वयम्। रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा। संशयवारणाय निश्चय इति, इदं रजतमिति रङ्गविशेष्यकबो- धवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेलौंकिकतया न कविप्रतिभानिर्वर्तितत्वम्॥

Page 178

भ्रान्तिमत्सरः (११) 167

यथा- जलविहृतौ प्रतिवीचि प्रतिबिम्बान्यब्धिजाट- शोर्वीक्ष्य। पृथुशफरत्रमसकलाइशकुला दूरं द्रव- न्ति भयविकलाः ॥ २८७॥ पृथुशफराः महामीनाः इति भ्रमेण सकलाः संपूर्णाः 'समग्रसकलाखण्डपूर्णादीन्यप्यनूनके' इत्यमरः । शकुला: म- त्स्या: अर्भका इति भावः। अत्र शकुलभयावेगोपस्कारकतया तद्गता भ्रान्तिरलंकार:॥ यथा वा- कमलाकपोलफलके कलितः कनकाचलेश्वर-

दत्ताम्॥ २८८ ।।

अत्राविशेषोक्तेस्सुरनरादिसर्वगता भ्रान्तिरलंकारः । सादृ• शयनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोपस्थापिता॥

यथा- नानेह नास्ति किंचन जाने सर्वान्तरात्मभूतं त्वाम्। भ्राम्यति योऽस्मिन्नर्थे ्राम्यति स भवे चिरादहिगिरीन्दो॥२८९॥

हे अहिगिरीन्दो! इह त्वयीत्यर्थः । नाना भेदः नास्ति, परव्रह्मभूतस्त्वमेक एवेत्यर्थः । तत्र हेतुः जाने इत्यादिः। त्वां सर्वान्तरात्मभूतं सर्वदेशकालवर्तिनां पदार्थानां अन्तरात्मभूतं

Page 179

168 अलंकारमणिहारे

जाने । अस्मिन्नर्थे यो आ्राम्यति भ्रान्तो भवति सः भवे सं- सारे चिरात् भ्राम्यति भ्रमणं प्राप्नोति। अनेन- यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योस्स मृत्युमान्नोति य इह नानेव पश्यति॥ मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन। मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति॥

इति श्रुत्यर्थोऽनुसंहितः । अत्र भ्रान्तेरसादृश्यनिबन्धनत्वा- न्नालंकारत्वम् । सादृश्यहेतुकाअप भ्रान्तिर्विच्छित्त्यर्थ कविप्र- तिभोन्मेषितैव ग्रृह्यते । यथा अनुपदमेव 'जलविहतौ' इत्यु- दाहते पद्ये। न स्वरसोन्मेषिता शुक्तिरजतवत्। एवं साह- शयनिमित्तकत्वादनुगाम्यादयोस्य साधारणधर्मा यथासम्भवं भवन्ति॥ तत्रानुगामी धर्मों यथा- उपगूहितुमुपसर्पति चपलतया श्रीस्सरीसृप- गिरीन्दौ। द्ुमणिरिति कौस्तुभमणिं घृणिमन्तं संवृणोति पाणिभ्याम् ॥२१०॥ अत्र घृणिमन्तमित्यनुगामितया निर्दिष्टो धर्मः ॥ बिम्बप्रतिबिम्बभावापन्नो यथा- रोमाळिशिखरलगने कौस्तुभरत्ने सनाळनलिन- घिया। झगिति लगन्ति भ्रमरा: कमलाकर्णावतं- सकह्लारात् ॥ २११॥

झगिति झडितीत्यर्थः । एवमन्यदपूयह्यं बुद्धिमद्भि: ।।

Page 180

भ्रान्तिसरः (११) 169

क्वचिद्धान्तेरुत्तरोत्तरं पल्लवेन चमत्कार:, यथा- मरकतशिखामणिं शुकमथ मकुटं शोणमणि- मयं शौरेः । तन्निष्कुलाकृतं श्रीर्दाडिममवयन्ति तव विलासशुकाः ॥२१२॥ हे श्रीः तव विलासशुकाः शौरेः मरकतरूपं शिखामणि किरीटकोटिगतं शुकं अवयन्ति जानन्ति, अथ अनल्तरमेव शोणमणिमयं पमरागप्रचुरं तैः खचितमित्यर्थः । मकुटं तेन शुकेन निष्कुलाकृतं त्रोटीकोटीकुट्टनेन बहिराविष्कृतबीजराजिकं दाडिमफलमवयन्तीत्यनुषज्यते। निष्कुलाकृतमित्यत्र 'निष्कुला- न्निष्कोषणे' इति सूत्रेण निर्गतं कुलमन्तरवयवानां समूहो य- स्मादिति बहुव्रीहेर्डाच्।I क्वचित्परस्परविषयभ्रान्तिनिबन्धनेन विच्छित्तिविशेष:, यथा- विभ्यति वीक्ष्य मयूरान कादम्बा नूतनाम्बुद- भ्रान्त्या। तेऽपि निरीक्ष्य मराळान् शारदनीरद- धिया वृषाद्रिवने ॥ २९३॥

अथास्य ध्वनिः-

यथा- प्रणतमृडमकुटसरिति प्रतिवीचि त्वत्पदप्रति- च्छन्दान्। प्रणमन् विलोक्य गजमुखशिशुस्स्व- झुण्डां प्रसारयति शौरे ॥२९४॥ ALANKARA 22

Page 181

170 अलंकारमणिहारे

अत्र भगवच्चरणप्रतिबिम्बेषु पद्मभ्रान्तिर्ध्वन्यत।। इत्यलंकारमणिहारे भ्रान्तिसर एकादशः.

अथ सन्देहसरः

सादृश्यहेतुका बुद्धिस्सन्देहालंकृतिर्मता ॥४७॥ सादृश्यहेतुका संभावनानिश्चयान्यतरभिन्ना रमणीया धी- स्सन्देहालंकारः। उत्कटैककोटिकस्संशयस्संभावना । निश्च- यत्वं तु विरोधिकोस्यन्तराप्रकारकज्ञानत्वमात्रम् । न तु वि- रुद्धकोटिद्वयप्रफारकज्ञानभिन्नत्वम्। तथानिवेशे प्रयोजनाभावात्। संभावनेत्यादिविशेषणमुत्प्रेक्षारूपकादावतिप्रसङ्गवारणाय। स्था- णुर्वा पुरुषो वेति लौकिकसंशयवारणाय रमणीयेति, चमत्का- रिणीत्यर्थः । एतञ्च विशेषणमलंकारसामान्यलक्षणप्राप्तमेव। ए- वमुपस्कारकत्वमपीति ध्येयम्। अयं च संदेहालंकारस्त्रिविधः, शुद्धो निश्चयगर्भो निश्चयान्तश्च । तत्र शुद्धो यस्य संशय एव पर्यवसानम्॥

यथा- किंनु तुषारासारः किं घनसारः किममृतसारो वा। शमयति यदिदं क्कममिति समझायि जनैर्ह- रेर्द्शो विषयैः ॥२९५॥

Page 182

संदेहसरः (१२) 171

हश: कटाक्षस्य। इदमिति सामान्येन नपुंसकेन हरिक- टाक्षनिर्देशः । समशायि सन्दिदिहे॥

यथा वा-

तारासारांशो वा तटिल्लतौघस्फुटोल्लसच्छीर्वा। इति मुररिपुहृदयगतां वीक्ष्याब्धिसुतां जनेन सं. दिदिहे ॥ २९६॥

अयं च संदेहः क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिञ्च विषयविषयिणोरप्यलंकारो भवति। उभयत्रापि सामान्यलक्ष- णवगमात्। अनियतोभयांशावलम्बी हि विमर्शस्सन्देहः। उदा- हरणद्ये विषयिमात्रसंदेह उक्तः । अत्र हि प्रकृतयोर्भगवत्क- टाक्षलक्ष्म्योस्संदेह कोटित्वविरहाद्विषयिणां तुषारासारतारासारां शादीनामेव संदेहः ॥

विषयविषयिणोर्यथा-

किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम्। अरुणरुचि हरिकराब्जे निरुपम- मेतच्चकास्ति चक्रं वा ॥ २१७।

अत्र विषयिणो नखरुचिवलयादेरिव विषयस्य चक्रस्यापि संदेहकोटित्वम् ॥

यथा वा-

हरितोऽध्यैष्ट गिरिः किं गिरितो वा हरिरिदं

Page 183

172 अलंकारमणिहारे महौन्नत्यम्। सर्वोन्नतावुभावपि दर्वीकरशैलतद- धिपौ भवतः ॥ २९८।

निश्चयगर्भ :- यस्संशयोपक्रमो निश्चयमध्यस्संशयान्तश्च।स यथा- किमियं गङ्गा न हरेर्मुखे भवेत्साऽथवा किमु ज्योत्स्ना। सादपि तथैवेति जनाइश्रीपतिहसितं विलोक्य सन्दिहते ॥ २९९॥ साऽपि ज्योत्स्नाऽपि तथैव हरेरमुखे न भवेदेवेत्यर्थः । अत्रोपक्रमोपसंहारयोस्संशय एव ।। निश्चयान्त :- यत्र संशये उपक्रमः निश्चये पर्यवसानम्।

यथा- जलदभ्रमेण लग्ना तटिन्नु गगनभ्रमान्नु चन्द्र- कला। इति संशय्य हरिस्तां स्मयमानां हृदि वि- निश्चिनोति रमाम् ॥ ३०० ॥ लग्नेत्येतद्रगनभ्रमादित्यत्राप्यनुषज्यते॥ क्विदारोप्यमाणानां भिन्नाश्रयत्वेन संदेहो दृश्यते। यथा- सर्वे नगास्तमालीकृता: किमु खगाश्शिखी- कृता: किं नु। जलदीकृता नु ककुभो विसृत्वरेणा- च्युतद्युतिभरेण ॥ ३०१॥

Page 184

संदेहसरः (१२) 173

अत्रारोपविषये अच्युतदुतिभरे तमालत्वादिर्नगादिभिन्नाश्रय त्वेनारोपितः । नगाः तरवः। एपूदाहरणेषु संदेहस्यैव प्राधा- न्येनान्यानुपस्कारकत्वात्संपुटादिगतकङ्कणादिष्विव तद्योग्यतामा- त्रेण गौणोऽलंकारव्यपदेशः । एवंच-

भगवन्नहिनगवसते जगदीशत्वे तवापि ये स- न्दिहते। सत्त्वे तेषामेषां सत्वैकधना जना: परं सन्दिहते ॥३०२॥

इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलकत्वविरहान्न सन्देह- स्यालंकारता। तेषां सान्दिहानानां जनानां सत्त्वे ब्राह्मण्यादि- प्रयुक्तप्राशस्त्ये विषये सत्वैकधनाः सात्विका जना: परं अति- शयितं यथा स्यात्तथा सन्दिहते॥

विष्णुभक्तिविहीनो यस्सर्वशास्त्रार्थवेद्यापि। ब्राह्मण्यं तस्य न भवेत्तस्योत्पत्तिर्विचार्यताम्।।

इत्युक्तरीत्या संशेरते इत्यर्थः । एवमारोपमूलोऽयं संदेहालंकार: अध्यवसानाश्रयत्वेऽपि भवतीति सर्वस्वकारः। अयं च स्वरूपहे- तुफलानां सन्दिह्यमानत्वेन त्रिधा भवतीति विमर्र्शनीकारः॥ तत्र स्वरूपसंदेहो यथा- किं मरकतरुचिपूरैरपूरि किमलेपि हरिमणि- महोभिः। फणिशिखरिमन्दिरान्तरमिति संशयदं हरेर्जयति तेजः ॥। ३०३।।

Page 185

174 अलंकारमणिहारे

अयं च संदेहो हरितेजोविषयककविगतरतिपरिपोषकत्वेन ललनाकरधृतवलयादिरिव प्राधान्येनालंकारव्यपदेशभाग्भवति। अत्र च विवक्षिते विवेच्यमाने हरितेजसि मरकतरुचिपूरादि- कोटिकः पर्यवस्यति सन्देहः । स च न सारोपः, विषयवि- षयिणोस्तद्नुरूपविभक्त्यदर्शनात् । अतः मरकतरुचिपूरत्वा- दिना संदेहधर्मिहरितेजोऽध्यवसीयत इति॥

हेतुसन्देहो यथा- स्मयसे यदिदं स्वामिन् किं तन्मच्चरितचिन्त- नादथवा। ईदृवक्षरक्ष्यलाभात्किं वा मम दुर्लभे- प्सितोद्योगात्॥३०४।।

अत्र स्मयनहेतौ निरतिशयानन्दत्वे कविना स्वचरितचि- न्तनादिहेतुत्रयमध्यवसितम्।।

फलसन्देहो यथा-

सुखदमिदमेव पदमिति सूचयितुं किं न्विदं हि परमपदम्। इति कथयितुं नु पन्नगपतिगिरिपति ना करोऽवनमितोऽयम् ॥३०५॥

हरिणा श्रीनिवासेन वरदानार्थमवनमितः अय कर: दक्षि- णहस्त इति भावः। इदं पदं स्वचरणमेव सुखदं जनानामिति सूचयितुं किमवनमितः । इदमेव क्षेत्रं परमपदमिति कथयितुं व्यञ्जयितुमिति यावत् । अवनमितो तु इति योजना। अत्र हस्तावनमनफले वरदाने सूचनादिफलमध्यवसितम्।

Page 186

संदेहसरः (१२) 175

केचित्तु-ईदशस्थले इवादिशब्दवत् नु किं इत्यादिश- ब्दानां संभावनाद्योतकत्वादुत्प्रेक्षामाचक्षते । रसगङ्गाधरकारस्तु नेदशस्थलेऽध्यवसायस्सम्भवतीति मन्यते। तन्मतेनात्रेदं वि- चार्यते-'किं मरकतरुचिपूरैः' इति पद्ये तावत् मरकतरुचिपू रादिकरणकपरिपूरितत्वादिकोटिक फणिशिखरिगतभगवन्मन्दि- रान्तरधर्मिकस्सन्देहश्शब्दात्प्रतीयते। तस्मिंश्च सन्देहे किमिदं मरकतरुचिपूरस्स्यात् आहोस्वित् हरिमणिमहस्स्यादिति हरि- तेजोधर्मिकं सन्देहान्तरमानुगुण्यमाधत्ते, यथा-पुरोवर्तिनि तृ- षभे स्थाणुर्वा पुरुषो वेति संदेहो भूतलमिदं स्थाणुमत्पुरुष- वद्वेति संदेहे। एवंच हरितेजोधर्मिकस्संदेहो गुणीभूतो व्यञ्ष- नागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते। अ- पेक्षते च साक्षाच्छब्दवेद्यतायामिति क्वाध्यवसायमूलता संदेहस्ये- ति। एतेनाध्यवसानमूलतां संदेहस्य निरूपयतामुक्ति: परास्ता॥

एवं- नयनं किमअनाक्तं मृगमदपङ्गैः किमङ्गमालि- प्रम्। इति संशयं जनानां विदधानाऽच्युतरुचिर्धु- नात्वशुभम् ॥३०६॥ इत्यादिविभभिन्नाश्रयाध्यवसायमूलसंदेहेष्वपि द्रष्टव्यम्। अ- स्मिश्च संदेहे नानाकोटिषु क्वचिदेक एव समानधर्मः, क्वचि- त्पृथक्। सोपि क्वचिदनुगामी, क्रचित्केवलविम्वप्रतिबिम्वभावमा- पन्नः, क्वचिद्वस्तुप्रतिवस्तुभावकरम्भितं बिम्बप्रतिबिम्बभावमाप- न्न, कवचिदानर्दिष्टः, क्चिन्निर्दिष्टः । तत्र 'किमियं गङ्गा न हरे:' इति प्रागुदाहते पद्ये धावळ्यं धर्मिणो भगवत्मन्दहसि-

Page 187

176 अलंकारमणिहारे

तस्य कोस्योर्गङ्गाज्योत्स्याश्ैक एवानुगामी धर्मः, प्रतीयमानत्वा- दनिर्दिष्टः । एवं 'जलद्भ्रमेण लग्ना' इत्यादिपद्येऽपि। निर्दि- ष्टस्तु 'हरितोऽध्यैष्ट गिरिः किम्' इति प्रागुदाहृत एव श्ोके तत्र महत्त्वं साधारणो धर्मः । धर्मिणो भगवदौन्नत्यस्य कोट्य- न्तरस्य गिर्यान्नत्यस्य च साक्षान्निर्दिष्टः। धर्मस्य पृथद्गिर्देशोपि 'किं नखरुचिवलयं ज्वलत्' इति प्रागुदाहृतपद्य एव । तत्र हि नखरुचिवलयस्य ज्वलत्त्वं, दोस्तेजशि्शिखावलयस्यारुणरु- चित्वं च सह चक्रस्य पृथगनुगामी समानो धर्मः । अत्रैव ज्व- लत् अरुणरुचीति विशेषणद्वयानुपादाने स एवानिर्दिष्टः॥। बिम्बप्रतिबिम्बभावापन्नो यथा- प्रतिबिम्बितरविबिम्बं हरिमणिशिखरं सकौ- स्तुभं च हरिम्। मुनयोडभिवीक्ष्य फणधरगिरि- धरणौ नन्तुमेव सांशयिकाः ॥ ३०७॥ अत्र प्रतिबिम्बितरविंबिम्बत्वसकौस्तुभत्वरूपो धर्मः बिम्ब प्रतिबिम्बभावापन्न:।। यथावा- सहविद्युन्नु तटित्वान् सद्युमणिर्वा हरिन्मणी- शिखरः। सकमल इति सन्दिदिहे समणिकिरीट- स्सरीसृपगिरीन्दुः॥ ३०८॥ अत्र विद्युद्दचुमणी बिम्बभूतौ लक्ष्मीकिरीटयोः प्रतिबिम्ब- कोट्यो: पृथङ्गिर्दिष्टी। शिखरशब्द: पुछ्विङ्गोप्यस्ति 'शिखरं वा ना' इत्यमरानुशासनात् । 'अलगितवतो विन्ध्यशिखरान्' इति मुरारिप्रयोगश्च ।I

Page 188

संदेहसर: (१२) 177

आकाशराजनृपतेरालयगर्भ तदा निरीक्ष्य नरैः। जलधेर्जठरं किमिदं कनकाचलसानु वेति सन्दि- दिहे॥ ३० ९ ॥

अत्र तदेति प्रकरणसाह्यवशादाकाशराजगृहेण धर्मिणाSS- क्षिप्तायास्तत्कालावतीर्णायाः भगवत्याः पझ्मावत्या जलधिजठरा- दिसंशयकोटिद्वयाक्षिप्स्साधारणो मणिः प्रतिबिम्बभूतः । इमौ च बिम्बप्रतिबिम्बभावानिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोज- यतः। एतेनानुगाम्येव धर्मो लुप्स्सम्भवति न तु बिम्बित इति वदन्त: परस्ताः ॥ अयं च क्वचिदनाहार्य: क्वचिदाहार्यः, यत्र हि कविना परनिष्ठस्संदेहो निबध्यते तत्र प्रायेणानाहार्यः । यथा 'किंनु तुषारासार:' इत्यादिषु प्रागुदाहृतेषु पद्येषु।।

यथा-

किम घनलग्ना सौरी मरीचिरथवेन्द्रनीलमणि- खचिता। कुरुविन्दलतेति रमा हरिहृदयगता न केन वाडइङ्कि॥३१०॥ अत्राप्यनाहाय एव संदेहः। तत्र जनस्य संदिहानस्य ग्रा- ह्यानिर्णयात्। अत्र चलग्ना खचितेत्येतयोः गतेत्यस्य च वस्तु- प्रतिवस्तुभावः तत्करम्भितो घनेन्द्रनीलमण्योः हरिहृदयस्य च बिम्बप्रतिबिम्बभाव इति विशेषः। यत्र च स्वनिष्ठ एव संदेहो निबध्यते तत्राहार्यः। यथा 'हरितोऽध्यैष् गिरि किम्' इत्यादिप्रागुदाहृतपद्येषु।। ALANKARA 23

Page 189

178 अलंकारमणिहारे

यथा वा- मिहिर करमसृणनिजरुचिमरकतशिखरं नु फ णभृदचलेडस्मिन्। कमलारुचिरुचिरं किं ब्रह्म प- रं कृष्णपिङ्गळं यदिदम् ॥ ३११॥ यदिदं पुरस्तात् दृश्यमानं वस्तु कृष्णं च तत्पिङ्गळं श्या- मलपिशङ्गवर्ण 'वर्णो वर्णेन' इति समासः । 'पुरुषं कृष्णपि- ङळम्' इति श्रुतिरत्र स्मारिता। अत्र वक्तुः कवेस्तत्त्वज्ञतया संदेह आहार्य एव। अत्र मिहिरकरकमलारुच्योर्बिम्बप्रतिबि- म्बभावः, मसृणनिजरुचिरुचिरयोर्वस्तुप्रतिवस्तुभावः, कृष्णपिङ्ग- ळमित्यस्यानुगामिता च द्रष्टव्या।

श्रेषात्मकोऽपि धर्मस्संभवति यथा- सिंहलसदो त्राकरभवनोडयं किं महामहानीलः। उत भगवानिति कवयोऽप्यतिसांशयिका विलोक्य शौरे त्वाम् ॥ ३१२॥। सिंहलस्य सिंहलद्वीपस्य सती प्रशस्ता गोत्रा भू: तस्यां यः आकरः खनिः तत्र भवनं उत्पत्तिः यस्य स इति महा- नीलपक्षे। 'सिंहलस्याकरोन्भता महानीलास्तु ते स्मृताः' इत्य- गस्त्योक्तेः । भगवत्पक्षे-सिंह इति लसन् प्रकाशमानः गोत्र- इ्शैलः सिंहाद्रि: शेषगिरिरित्यर्थः ।स एवाकर आधारो यस्य तत्तथोक्तं भवनं दिव्यालयः सत्ता वा यस्य स तथोक्तः॥

विषयिणां विषयविवयिणोवा सादृश्यमूलकसंदेह पवाय- मलंकार:, न तु केवलसंदेहे। तेन-

Page 190

संदेहसरः (१२) 179

विधुभद्रश्रीव्यतिकरसुस्मेरमिदं स्पृशेयमिति शौरौ। वदति समशेत राधा स्पृशेन्मुखं वा रत- नद्यं वेति॥ ३१३॥ इत्यत्र नातिप्रसङ्ग: । अत्र हि मुखस्तनद्यकर्मकं स्पर्शन विषयवषयिभावानापन्नं संदिह्यते। विधो: चन्द्रमसः भद्रा क- ल्याणी या श्रीः तस्या: व्यतिकरस्संबन्धः तेन सुस्मेरं स्मय- मानं चन्द्रनिभमिति यावत्। अन्यत्र विधोः कर्पूरस्य भद्र- A श्रियः चन्दनस्य च व्यतिकरेण विलेपनेन सुस्मेरं 'विधुश्श- शाङ्के कर्पूरे' इति रत्नमाला। 'भद्रश्रीश्चन्दनोस्त्रियाम्' इत्य- मरः । स्पष्टमन्यत्॥

परम्परितोप्ययं संभवति, यथा- श्रुतिवनमदावलो वा लक्ष्मीवर्षाशिखावलो वाड्यम्। दर्वीकरगिरिमणिमिति निर्वर्णयता ज- नेन संदिदिहे॥ ३१४ ॥ अत्र संदेहस्य परंपरितत्वं च परंपरितरूपकपूर्वकत्वम्। न तु संदेहहेतुकसंदेहत्वम्। श्रुत्यादानां वनत्वादिसंदेहाविष- त्वादिति ध्येयम् ॥ क्वचित्परनिष्ठोपि कविना निबध्यमान आहारयो भवति, यथा 'जलदभ्रमेण लग्ना तटित्' इति प्रागुदाहते पद्ये। तन्र भगवतस्सर्वज्ञस्य संशय आहार्य एव। तत्र च जलदभ्र- मेण लग्ना तटिन्नु? गगनभ्रमाल्लस्ना चन्द्रकला नु? इति कोस्योः

Page 191

180 अलंकारमणिहारे

मारोष्यते। एवमादयोऽन्येडापे प्रकारा उन्नेयाः । उक्ेष्वेतेषूदा- हरणेषु सोऽयं संदेहालंकारस्स्वशब्दवेद्यत्वाद्वाच्यः॥

लक्ष्यो यथा- लीलाजलरुहमचलाबालायाः करमपीक्षमा- णस्य। दोलायते स्म हृदयं व्यालाद्रिपतेः कर- ग्रहावसरे ॥ ३१५॥ अचलाबालायाः धरणीगर्भसंभूतायाः पझ्मावत्याः करग्रहा- वसरे पाणिपीडनसमये। अत्र पर्यायेण कोटिद्वयालम्बितया दोलासादृश्यात्संदेहोSत्र दोलापदेन लक्ष्यते।।

व्यङ्गयो यथा- उत्सवगतस्स भगवानुदयन्तं भानुमन्तमभि-

राध्यक्ष: ॥३१६॥ अत्र भगवतस्सहसा वक्षस्स्थलस्पर्शेन तत्र स्थित एव कौ- स्तुभमणिस्ततश्चय्युतः किं पुरस्तात् दृश्यत इति संदेहो व्यङ्गयः ॥ यथा वा- तिलकितनिजमुखवीक्षणकुतुकवतशश्रीसख- स्य नयनयुगम्। यातायाताच्छान्तं मुकुरे कम- लाकपोलफलके च ॥ ३ १७॥ अत्र मुकुरधर्मिकोऽमेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रका- रक: मुकुरोऽयं वाऽयं वेति भगवन्नयनयुगगतस्संदेहो व्यङ्गयः।

Page 192

अपह्ुतिसरः (१३) 181

अत्र भगवद्रतस्य संदेहस्य तन्नयनयुगे उपचारः । न च मु- कुराभेदधियो नयनयुगप्रवृत्त्युपायत्वेनापेक्षणादिदंपदार्थाभेदधी- निष्प्रयोजनेति वाच्यम्। एकपदार्थधर्मिकापरपदार्थधियः अप- रपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकतया मुकुराभेदबोधसाम्रा- ज्यात् मुकुरत्वमेतद्वत्ति तद्वत्ति वेति संशयाकारः। सोऽयं संदेहध्वनिः ॥ द्रुतकनकप्रतिमावाSSवर्तितविद्युल्लताप्रतिकृति- र्वा। कुरुविन्दलेखिका वा मुकुन्दहृदयेऽरविन्द- निलया वा ॥ ३१८॥ यद्यपीहापि वाचकशव्दानुपादानात्संदेहो व्यङ्गय पवार्हति भवितुम्, तथाऽपि विषयनिरूपणेन स्पष्टतयोक्तत्वान्न ध्वनिव्य- पदेश्यताया हेतुः, अपि तु गुणीभूतव्यङ्गयप्रभेदव्यपदेश्यतायाः॥ इत्यलङ्कारमणिहारे सन्देहसरो द्वादश:

अथापह्नुतिसरः.

एतां सामान्यतः प्राहुरपह्नुतिमलंकृतिम् ॥

पहुत्यलंकारसामान्यलक्षणम् । निषेधश्च नञयुपादाने वाच्यः, क्वचित्तु तदभावात्कैतवच्छलादिपदैः परमतत्त्वोपन्यासादिभिश्च व्यङ्गयः, तथा क्वचिद्भेदप्रतिपत्तिसमानाधिकरण: क्वचित्तु त-

Page 193

182 अलंकारमणिहारे

द्वयधिकरण इति विवेक: । एवमभेद: क्वचिदारोप्यमाणः, क्क चित्तु स्वाभाविकः। एवं तत्प्रतिपत्तिरपि क्वचिद्यञ्ञनया प्रा- यशस्तु वाच्यवृत्त्यैवेति ध्येयम्। निषेधोऽपह्नतिरित्येतावदुक्तौ 'न द्यतमेतत्कितव क्रीडनं निशितैश्शरैः' इति प्रसिद्धनिषेधा जुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिः। अतोऽभेदप्रतिपत्तिनिरू- पितेत्यादिविशेषणम् । तत्र हि समरप्रवृत्तं कितवं प्रति समरे द्यतत्वाभावो निर्ज्ञातोऽपि कण्ठरवेणोच्यमानो छूत एव तव वै- दग्ध्यं न समरे इत्युपहासार्थों न तु युद्धाभेदप्रतिपत्त्यङ्गम्, तस्यास्तदुपन्यासं विनाऽपि सिद्धत्वात्। नाप्यङ्गी, निर्ज्ञातत्वे नैव तदुपायानपेक्षणात्। अभेदप्रतिपत्तिनिरूपिताङ्गित्वमात्रोक्तौ

तिपत्यर्थत्वेन तदङ्गतयाSङ्गित्वाभावात्। अभेदप्रतिपत्तिनिरुपपि- ताङ्गत्वमात्रोक्तौ भ्रान्तापह्नुतिच्छेकापह्नुत्योरव्याप्तिः तयोर्भ्रान्ति- शङ्गावारणरूपनिषेधस्य प्राधान्येनाभेदप्रतिपत्यङ्गत्वाभावात्। अ- तस्तदन्यतरत्वनिवेशः। यदाहु :-

साम्यायापह्नवो यत्र सा विज्ञेया त्वपह्नतिः। अपह्नवाय सादृश्यं यस्मिन्नेषाऽप्यपह्नतिः॥

इति। सर्वे चैतत्तवुदाहरणविवरणावसरे स्फुटीभविष्यति। 'न पश्चविशिखः कामः किंत्वतङ्मयशिलीमुखः' इत्यादावतिप्रसङ्ग- वारणाय प्रतिपत्तेरभेदविषयकत्ववविशेषणम् । अत्र हि नास- ङ्चशिलीमुखशब्दाभिलपनीयस्य कस्यचिदभेदसमारोपः क्रियते तथाविधस्य कस्यचिद्वस्तुनः क्वाप्यप्रसिद्धेः। नाप्यन्यत्राप्रसि द्धस्य 'अङ्गं केऽपि' इत्यादाविव इहैव कल्पितस्य वस्तुनस्त-

Page 194

अपह्ुतिसर: (१३) 183

थाविधस्याभेदेन समारोप इति शक्यं प्रतिपत्तुं, तथाकल्पना- यामिह कवेरसंरम्भात्। तस्मादसंख्यशिलीमुखशब्देनापि काम एव विवक्षित इति विषयभूते कामे पश्चविशिखत्वं प्रसिद्धं प्रतिषिध्यासंख्यशिलीमुखत्वं धर्म एव भेदेन समारोप्यत इत्य- ज्युपेत्यम्। तथाचेह विवक्षितायाः भेदसंसर्गकप्रतीतेरेवाङ्गं प्रतिषेधो नाभेदप्रतीतेरित्यतिप्रसङ्गवारणम्। नायं सुरधाशुः' इ- त्यादौ तु सर्वत्रापह्नवोदाहरणे व्योमगङ्गासरोरुहादेर्धर्मिण एव तत्तद्धर्मविशिष्टतयाऽन्यत्र प्रसद्धस्य कविकल्पितस्य वा विषये अभेदेन प्रतीतिर्विवक्षितेति लक्षणसंगतिः । 'अपह्नतिरपह्नत्य किंचिदन्यार्थरोपणम्' इति प्रतिपत्तेरभेदविषयकत्वमनादृत्य केव- लापह्नतिपूर्वकान्यार्थारोपस्यैवापह्नतित्वं लक्षयतो दण्डिनो मते तूदाहते 'न पञ्चविशिखः' इत्यत्रापि नैवातिप्रसंगः ॥

संग्रामाङ्गणसंमुखागतकियद्विश्वंभराधीश्वर- व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा। अङ्गारप्रखरैः करैः कबळयन् सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥

इत्यादौ विरहिजनवाक्ये नायं शशाङ्क: अपितु सच्छिद्र- मार्तण्ड इति प्रतीयमानेऽर्थे शशाङ्कनिषेधो मार्तण्डाभेदप्रतिपत्ते रेवाङ्गिति तत्रातिव्याप्तिवारणायाभेदप्रतिपत्तेराहार्येति विशेषणं, अत्र च मार्तण्डारोपस्य दोषविशेषजन्यतयाऽनाहार्यत्वात्। अत एव "अत्र छायामात्रमपह्नुतेः न त्वपहुत्यलंकारः तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात्, किंतु भ्रान्त्यलंकारएव' इति रसगङ्गाधरकृदुक्तिस्संगच्छते । अस्य च विरहिजनवचनतावि- रहेण केवलकविमतिविकासजन्यत्वे तु भवत्येवेदमपि शुद्धाप-

Page 195

184 अलंकारमणिहारे

ह्वतेरुदाहरणमिति रहस्यम् । अत एव 'नेन्दुस्तीवरो न निश्य- कस्सिन्धोरौर्वोडयमुत्थितः' इत्यस्य हेत्वपह्नतेरुदाहरणत्वं च सं- गच्छते । अन्यथाऽस्यापि विरहिजनवचनताभिसंधौ अलक्ष्य- तापातात्प्राक्तनैः कृतस्य तदुदाहरणस्यासंगतिः स्पष्टैव।।

न चैवमपि सामान्यलक्षणेSस्मिन्नाहार्यविशेषणोपादानं न युज्यते, भ्रान्तापह्नतावव्याप्तिप्रसंगात् । तत्र हि 'तापं करोति सोत्कम्पं ज्वर: किं न सखि स्मरः' इत्यादौ तात्विकस्मरा- भेदप्रतीतेराहार्यत्वविरहादिति वाच्य, आहार्यत्वस्यानाहार्यत्व- भ्रमत्वोभयाभावपर्यवसितस्यैव निवेशनोयतया सकलदोषनिवा- रणात्। भ्रान्तापह्नुतौ ह्यभेदप्रतिपत्तेरनाहार्यत्वेऽपि भ्रमत्वाभा- वेनैव एकसत्वे द्यं नास्तीति न्यायेन उभयाभावविशेषणम- हिम्रा लक्षणसंगतिः । इतरेष्वपह्नतिप्रभेदेषु तु अभेदप्रतिपत्ते- भ्रमत्वेऽप्यनाहार्यत्वविरहेणैवोभयाभावस्सूपपाद इति तत्रापपि स्या देव लक्षणसंगतिः। उपदर्शिते विरहिजनवाक्ये तु मार्तण्डाभेद- प्रतातेरनाहार्यतया दोषविशेषजन्यभ्रमरूपतया च तदुभय- स्यैव सन्भावेन तडुभयाभावो दुर्घट इति नोक्तातिप्रसङ्गशङ्का- वकाशः। तथाच- अनाहार्यत्वभ्रमत्वोभयाभाववती या अभेदग्र- तीतिः तद्विशिष्टप्रतीतिविषयत्वे सात प्रतिषेधत्वमपह्नवालंकारसा- मान्यलक्षणम्। प्रतीतौ तादृशप्रतीतिवैशिष्टयं च स्वनिष्ठाङ्गता-

ति ध्येयम्। चारुत्वविशेषणं त्वधिकारल-धमेवेति न विशि- व्यात्रोपादातव्यमित्यलं बडडुना।।

इत्थमपह्नतेस्सामान्यलक्षणमभिहितम् । अथ तन्भ्रेदान् लि- लक्षयिषुस्तत्रादौ शुद्धापह्नुति लक्षयति

Page 196

अपह्ुतिसरः (१३) 185 अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः । अलंकृतिरियं शुद्धापह्नतिर्नाम गद्यते ॥४९॥ प्रकृते वर्ण्ये वस्तुनि अप्रकृतधर्मारोपफलकस्तदीयधर्मनि- ह्ववश्शुद्धापह्नतिरलंकारः। तथाच उपमेये उपमानारोपफलक उपमेयधर्मत्वेनाभिमतस्य निषेधश्शुद्धापह्नतिरिति पर्यवस्यति ल- क्षणम्। अत्र चानुक्तनिमित्तत्वेन कैतवच्छलादिपदाव्यङ्गयत्वेन च निषेधो विशेषणीयः। तेन हेत्वपह्नुतिकैतवापह्नत्योर्नातिप्रसंगः। 'कान्तः किं न हि नूपुरः' इति छेकापहनतीउपमेयधर्मस्य कान्तत्वस्य निषेधसन्भावादतिप्रसङ्गस्स्यादिति तद्वारणाय प्राथ- मिकविशेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपफलकः अपि तु नू पुरारोप एव शङ्गितकान्तत्वनिषेधफलक इति तद्या- वृत्तिः । पर्यस्तापह्नतिवारणायोपमेयधर्मेत्युक्तम्। तत्रोपमानध- रमस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिशित। अत्र च नि- ह्रवारोपयोन पौर्वापर्यनियमः, लक्षणे धर्मनिह्नवस्यान्यारोपफल कत्वमात्रोक्ते:। न ह्यत्र-'निह्ृत्य विषये धर्ममन्यदारोप्यते यदि' इत्यस्माभिनिबद्धं लक्षणं, येन क्त्वाप्रत्ययावलम्बनं निह्न- वस्य पौर्वकालिकत्वमेवेति नियम्येत, तेन वक्ष्यमाणे आरो- पपूर्वकापह्रवे नाव्याप्ति:॥! दण्डी तु-'अपहनतिरपह्वत्य किंचिदन्यार्थरोपणम्' इत्यारो पस्थ सादृश्यमूलकत्वं प्रकृते वस्तुमि धर्मनिह्ववं चानादृत्य य-

तन्मते वक्ष्यमाणानि पद्यान्यप्यपह्नुतेरुदाहरणान्येव। अत्राप्- त्येति क्त्वाप्रत्ययार्थो निषेधस्य पूर्वकालता न विवक्षिता। तेन वक्ष्यमाणोदाहरणानि संगंस्यन्ते॥ ALANKARA 24

Page 197

186 अलंकारमणिहारे

यथा- एत्य रुचिं जेतुं तव घनस्सचापस्त्वया विलू- नज्यः । मूतस्तयैव शौरे ज्यामूतोऽयं ततो न जीमूतः ॥३२०॥ घनः तव रुचिं जेतुं सचाप एत्य त्वया विळूनज्यः छि- स्मौर्वीक: तयैव ज्ययैव मूतः बद्धः 'मूड् बन्धने' कर्मणि क्तः 'बद्धे संदानितं मूतम्' इत्यमरः । ततः तस्मात् अयं घनः ज्यामूतः ज्यामूत इति व्यवहर्तुमहः न तु जीमूत इतीत्यर्थः॥

यथा वा-

नाथ तव चरितसारं नानाप्तस्सादरो भवन्रादौ। यः प्रददे लोकानां न नारदस्सारदोऽयमिति यु- कम् ॥ ३२१॥

यः मुनिः अनाप्तो न भवतीति नानाप्तः 'संभाव्यनिषे- धनिवर्तने द्वौ प्रतिषेधो' इति वामनः । अत्याप्ततमः अनाप्त- तासंभावनाऽप्यस्य न संभवतीत्यर्थः । तदुक्तेः प्रामाणिकताद्यो- तनार्थमिदं विशेषणम्। सादरो भवन् भवपथगतागतपरिश्रा- न्ता एते लोका उज्जीव्यासुरिस्यादरवाब सन् आदौ पूर्व प्रा- चेतसादीनामपि भगवर्चारतसाराधिगमस्य तन्मूलकत्वादिति भाव: । हे नाथ ! तव चरितसारं लोकानां प्रददौ, अयं न नारद :- नारं पानीयमित्युक्तं तत्पितृभ्यस्सदा भवान्। ददाति तेन ते नाम जारदेति भविष्यति॥ इति,

Page 198

अपहुतिसरः (१३) 187 नारं नराणां संघातं कलहेनैव यो द्यति। तस्मान्नारदनामाऽसी लोके विख्यायते मुनिः॥ इति वा निरुक्तशब्दवाच्यो न, किंतु सारद इति युक्तम्। उपपादितरीत्या भगवञ्चरितसारदत्वादिति भावः। अत्र ना- रदशब्दः आदौ प्रथमं नानाप्तः ना इत्याकारकवर्णनाननुषक्त: त्यक्तनाकार इत्यर्थः, अथ सादर: तत्रैव सा इत्याकारकवर्णे आदरो यस्य स तथोक्तः । आदौ साकारघटित इतिं यावत्। एवंचेन्नारदशब्दस्सारद इति निष्पद्यत इति वैचित्रयं च गर्मितम्।। यथा वा- कृष्णायाः स्फीताम्बरदानात् स्फीताम्बरेति वक्तव्ये। अमहाप्राणोच्चारणपटवः पीताम्बरेति जगदुस्त्वाम् ॥ ३२२॥ अमहाप्राणोच्चारणपटवः महाप्राणव्णोश्चारणाशक्ता: केचित् पीताम्वरेति त्वां जगदुः। स्फीताम्बर पीताम्बरेति संबुद्धचन्ते पदे। स्फीताम्बरेत्यत्र संकारफकारौ हि महाप्राणौ अन्ये अ- लपप्राणाः । 'वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ य- रलवाश्चाल्पप्राण: अन्ये महाप्राणाः' इत्युक्तेः। एषु पद्येषु ज्यामूतत्वसारदत्वस्फीताम्बरत्वारोपफलकः जीमूतत्वनारदत्वपी- ताम्बरत्वनिह्नवो न सादृश्यमूलकः॥ एवं- रश्मिभिराबध्य रविं कौस्तुभवसुविभवभारचोर इति। चारयति प्रकटयितुं शौरिर्न तु कालमिह परिच्छेत्तुम् ॥३२३॥

Page 199

188 अलंकारमणिहारे

इत्यत्राप्यसादृश्यमूलकत्वमनुसंधेयम्। पूर्वोदाहरणषु धर्म- निह्नवोऽन्यधर्मारोपार्थ:, इह तु कालपरिच्छेदफलापह्नवश्चोरता- प्रकटनरूपफलारोपार्थ इति विशेष:। नियतं न कलङ्गेऽयं शशाङ्कबिम्बे यदेतदानी- लमू। त्वन्मुखरुचिविजिततया हन्मध्ये धृतमने- न भयशल्यम् ॥३२४॥ अत्राप्रकृत एव कलक्के भगवन्मुखरुचिविजितत्वनिबन्धन- हृदयधृतभयशल्यत्वारोपफलक: कलङ्कत्वनिह्वो निबद्धः।

एवम् इन्दोरेकः किरणः परत्वमिच्छुस्तव स्मितादम्ब। मध्ये Sभिहतो Sपरतां गतः किणोSभूत्तमाहुरङ्कइति।। इत्यत्राप्यप्रकृत एव कलक्के किरणत्वारोपफलक: कलङ्कत्व- निह्नवः । हे अम्ब ! इन्दोः एकः किरणः सारभूतो मध्यस्थित इति भावः । तव स्मितादपि परत्वमुत्कर्ष इच्छुः 'न लोक' इति कर्मणि षष्ठया निषेधः। अत एव मध्ये इच्छाफलावा प्रयोरन्तराळ एव अभिहतः तव स्मितेनेति भावः । अत एव अपरतां अनुत्कर्ष गतस्सन् किणः अभूत् । तं किणमेव अङ्क इत्याड्डुः । अयं किण एव नाङ्क इति भावः । अत्र किरण. किरणशब्द: मध्ये अभिहृतः अत एव अपरतां अपगतरेफतां गतस्सन् किणः अभूत् । किरणशब्दे रेफापनयने किण इति निष्पद्यत इत्यर्थोऽपि चमत्कारी॥

नेदं लक्ष्यम, अपि तु वक्ष्यमाणमेवेति ध्येयम्। अस्यां च न.

Page 200

अपह्ुतिसरः (१३) 189

आदिभिस्साक्षात्परमतत्वाद्युपन्यासैश्च किंचिद्वयवधानेन प्रकृतस्थ निषेधे बोध्यमाने पायेण वाक्यस्य भेद:। विषयासत्यत्वप्रति-

रूपवपुर्नामात्मभङ्गयादिशब्दैश्च निषेधे बोध्यमाने तु एकवाक्य- ता। क्वचिदपह्नवपूर्वकत्वं क्वचिच्चारोपपूर्वकत्वं क्वचिदप्रकृतता- द्रूप्यप्रकृतानषेधयोरंकस्थ शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोश्शा- बदत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेत्येवमनेके प्रकारा- स्संभवन्तोऽपि चमत्कृतिविशेषानाधायकतया न गणनीयाः। ए- वमपि दिखत्रमुदाहियते-

न मुखमिदं लावण्याम्बुधिरेष न चाघरःप्रवा- ळस्ते। नेमे दशना मुक्ता न नयनयुगमेतदीश मीनयुगम् ॥ ३२६॥ हे ईशेति संबुद्धि:। ते तव इदं सर्ववाक्यान्वयि। इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा। अत्रापह्नवपूर्वकत्वमुभयोश्शा्दत्वं विधेयत्वं वाक्यभेदश्च।।

यथा वा- यदिह त्वद्वदनेSसितमुदितमिदं ध्रयुगं वदन्त्व- ज्ञाः। नाथ वयं निगदामो नासावंशाङ्कराद्यदळ- युग्मम् ॥३२७॥ इयं निरवयवा। अत्र वक्तृगताज्ञत्वकथनेन तद्गतभ्रान्ति- प्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः। ताद्रूप्यं शान्दम् । विधेयत्ववाक्यभेदापह्नवपूर्वकत्वानि पूर्ववदेव।।

Page 201

190 अलंकारमणिहारे

यथा वा- हरिकरनिहितं शङ्गं कतिचन हंसं परे सिता- म्भोजम्। अभिदधतु व्रजमुषितं नवनीतं ब्रूमहेS- धुनाऽपि धृतम् ॥ ३२८॥ इयमपि निरवयवा। अन्राप्यपह्नवपूर्वक आरोपः । अपह्न- वस्तु परपक्षोपन्यासादार्थिकत्वेन व्यवहितः॥ यथा वा- मणिमकुटतरणितक्षणजनिता यमुनैव भाति तव वदने। मृगपतिगिरिवरशेखरमृगमदतिलकं वदन्त्यमूं मुग्धाः ॥३२१॥ यथा वा-

हरिचरणविमुखमनसां निलयं सन्तो विदुर्नि- रयमेव। रलयोरभिदाश्रयणाद्वदन्त्यनुद्वेजनाय नि- लय इति ॥३३०॥

अत्रोदाहरणद्येऽप्यपह्ुतिर्निरवयवैव। अपह्नवस्त्वारोपपूर्वक इति विशेषः। ताद्रप्यस्य शाब्दत्वं निषेधस्यार्थत्वं विधेयत्व वाक्यभेदौ पूर्ववदेव। हरिचरणविमुखमनर्सा निलयं सन्तो निरयमेव विदुः । तर्हि निरय इत्येव कुतो न व्यवहरन्ती- त्यत आह-रलयोरिति। रलयोरभेदमाश्रित्य निरयमेव निलयं वदन्तीत्यर्थः । तदपि कुत इत्यत आह-अनुद्वेजनायेति। निरय इत्युच्यमाने उद्विजेरत्निमे लोका इति निलय इति वदन्ति। 'ययाऽ-

Page 202

अपद्ुतिसर: (१३) 191

स्योद्विजते वाचा नालोक्यां तामुदीरयेत्' इति निषेधादिति भाव: । एवम्- स्वात्येवैषा जननि त्वन्मुखचन्द्रेण गाढमुपगू- ढा। अधररुचिरोहिणीयं नासामुक्तेति मुग्धजन- वाद: ॥३३१॥ इत्यत्राप्यारोपपूर्वकत्वादिकं द्रष्टव्यम्। स्वातीनक्षत्रस्य प- झरागवर्णतया तदारोपः । रोहिणी रोहिता। 'वर्णादनुदात्ता- त्तोपधात्तो नः' इति डोप, तत्सन्नियोगशिष्टं नत्वं, ततो ण- त्वम् ॥ आरोपगर्भत्वाच्चेयं साृश्याद्वा भवति संबन्धान्तराद्वेति विमर्शिनीकार:। सादृश्येऽ्यस्यास्साधारणधर्मा उपमायामिव द्रष्टव्याः । तत्रानुगामी धर्मः 'नियतं न कलङ्कोऽयं शशाङ्क- बिम्बे यदेतदानीलम्' इत्यादौ प्रागुदाहतपद्ये निर्दिष्टः॥ शुद्धसामान्यरूपं यथा- अधिवृषगिरिनाथाङ्गं यदिह पिशङ्ग न हेमव- सनं तत्। मुनिजनमानससरसिजनिवसनलग्रं सुपिङ्गळं हि रजः ॥ ३३२॥ अत्र पिशङ्गपिङ्गळत्वयोश्शुद्धसामान्यरूपत्वम्। अयमेव वस्तुप्रतिवस्तुभावः॥

घ यथा- तपनीयविमानान्तर्न परमपुरुषोऽयमहिगिरे-

Page 203

192 अलंकारमणिहारे

शिशिखरे। कनकसरोरुहजठरे कनति विलग्नो म- धु्रतवरेण्यः ॥ ३३३॥ अत्र तपनीयकनकयोः अन्तर्जठरयोश्च वस्तुप्रतिवस्तुभावः । तत्करम्भितो विमानस्य सरोरुहस्य च बिम्बप्रतिबिम्बभावः कनतीत्यस्यानुगामित्वं चेति द्रष्टव्यम्॥

संबन्धान्तराघथा-

न भगवदाविर्भावः फणिशिखरिणि यद्विभा- व्यते मुनिभिः। अपि तु जगतां विनमतामशुभ- पिशाचीतिरोभावः ॥ ३३४॥ अत्र भगवदाविर्भावस्य कारणस्य निषेधेन अशुभपिशा- चीतिरोभावस्य कार्यस्य विधिः। एवमारोपगर्भा सप्रपञ्चं प्रद. शिता। अध्यवसानसगर्भा पुनः प्रदर्श्यते, यथा- न निगममयबिम्बत्वान्न भास्वरत्वान्न लोकब- न्धुत्वात्। सन्ध्यासु वन्धतेऽर्कः किंतु वृषाद्रीश हृदयमणिदास्यात्॥ ३३५॥ वृषाद्रीशहृदयमणि: कौस्तुभः, तस्मिन् दास्यात् तदनु- वर्तितेजस्त्वादिति यावत्। अत्रार्कस्य वन्द्यत्वे 'उद्यन्तमस्तंय- न्तमादित्यमभिध्यायन्' इत्यादिप्रमाणावबोधितप्रभावहेतुकत्वं नि- गीर्य तत्र हेत्वन्तरमध्यवसितम्॥ यथा वा- नायं सुशीतलत्वान्न कोमलत्वान्न वा सचपल-

Page 204

अंपह्वतिसरः (१३) 193

त्वात्। अभिनन्दो लोकानामभिनवजलदो हरे तवौपम्यात् ॥ ३३६॥ अत्राभिनन्द्यत्वस्य जीवनदानादिहेतुकत्वं निगीर्य तत्र हेत्व- न्तरमध्यवसितम् ॥

यथा वा- हृदये कौस्तुभरत्नं न भूषणार्थ स्वभूरयं धत्ते। बहुमानयितुं कमलासहजन्मेत्यहिधुरंधराद्रीशः। ३३७॥ अत्र कौस्तुभरतहृदयधारणस्य- आत्मानमस्य जगतो निर्लेपमगुणामलम्। बिभार्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥ इत्युक्तं जीवतत्त्वाभिमानित्वप्रयुक्तसत्करणत्वं फलं निगोर्य फला- न्तराध्यवसाय: कृतः॥ सावयवारोपाऽपीयं दृश्यत इति रसगङ्गाधरकृत्॥

यथा- हृदयहदान् बुधानां प्रसादयन्ती रमास्यराके न्दुम। सुस्मेरं विदधाना शरदेषा न तु हरेरपाङ्ग- रुचि: ॥ ३३८॥ आरोपमात्रोपायत्वे परंपरिताऽप्येषा संभवतीति स पवाह।।

यथा- तदिदं तव नवपल्लवमदविदळनकृत्पदं वदन्त्व- ALANKARA . 25

Page 205

194 अलकारमणिहारे

धियः । तिग्मभवातपवारणनवातपत्रं ब्रवाण्यहं तु हरे ॥ ३३९ ।। एवं प्रागुदाहते 'माणमकुटतरण' इति पद्येऽपि परंपरि ताऽनुसंघेया॥ अस्याश्च ध्वनिर्यथा- एषा न वैजयन्ती पुरो लसन्ती महेन्द्रचापल- ता। नैषाऽपि जलधिदुहिता परं तु विद्युल्लता समु- न्मिषिता ॥३४० ॥ अत्र नैषा वैजयन्ती अपि तु इन्द्रधनुर्वल्ली, नाप्येषा लक्ष्मीः अपि तु विदयल्लतेति पूर्वोत्तराभ्यां द्े अपहवती तावत् स्पष्टमेव निर्दिष्टे। ताभ्यां च नायं भगवान् किं तु प्रावृषेण्यघनाघन इति तृतीयापह्नतिर्व्यञ्जनया प्राधान्येनावेद्यते तदीयवस्तुप्रतिषेधारो- पयोः तत्प्रतिषेधारोपावेदकताया न्यय्यत्वात्॥

अथ हेत्वपहुति:

स एवापह्नवो युक्तिपूर्वश्रेद्वेत्वपहुतिः ॥५०॥ यथा- नेयं श्रीरुरसि हरेर्न हि निवसेन्नित्यमत्र चप- ला सा। अपि तु हरिहृदयसौधस्थिरतरकुरुविन्द दीपरेखैव ॥ ३४१॥

Page 206

अपहुतिसर: (१३) 195

अत्र चपलत्वहेतुकनित्यनिवासासंभवसंभावनारूपयुक्तया ल- क्ष्म्यां लक्ष्मीत्वनिह्वः स्थिरतरकुरुविन्ददीपरेखात्वारोपार्थः॥

यथा वा- नाङ्कोऽयमुरसि शौरेर्निसर्गतोऽमुष्य निष्कल- इत्वात्। रतिखेदसुप्तकमलानयनाअ्जनविन्दुरिह न संदेहः ॥ ३४२ ॥ अत्र भगवतो निष्कलङ्कत्वरूपयुक्तचा अङ्के अङ्कत्वनिह्नवः

अथ पर्यस्तापहुतिः

पर्यस्तापहुतिर्यत्र क्वचित्तद्वर्मनिह्नवः॥ वर्णनीये तदारोपफलको वर्ण्यते यदि॥५१॥ यत्र क्वचिद्वस्तुनि तदीयधर्मापह्नवो वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थो वर्ण्यते चेत्सा पर्यस्तापह्नुतिः॥

यथा- यदिह परस्ताद्रजसस्स्थानं पदमामनन्ति पर- ममिति। परमं न पदं तत्स्यादपि तु फणाधरपति- क्षितिभृदेव ॥ ३४३ ॥

Page 207

196 अलंकारमणिहारे

यथा वा- सिंहळसंभूतमणिर्न महानीलो हरिर्महानीलः। नीलयति स हि स्वल्पं क्षीरं क्षीराब्धिमेव त- त्स्थोऽयम् ॥ ३४४॥ सः सिंहळसंभूतमणिः । अयं श्रीहरि: तत्स्थः क्षीरस्थः ' क्षीरान्धिमध्यस्थश्च। अत्र- सिंहळस्याकरोद्भता महानीलास्तु ते स्मृताः । क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत्॥ महानील इति ख्यातं रतनं तदतिदुर्लभम्।

यथा वा- इन्दुर्न सतां नेता सन्नेता पन्नगाद्रिपतिरेव।स- च्चक्रखेदमोदप्रदयोर्वद को भवेत्सतां नेता ॥३४५॥ सच्चकस्य सत्पुरुषनिवहस्य सतश्चक्रवाकस्य च। खेदप्रद इन्दुः मोदप्रदो भगवान्॥

यथा वा-

अरुणकिरणो न तरणिस्तरणिः फणिधरणि- धरशरण एव। कमतीतरत्स संसृतिजलनिधिमेष तु जगन्ति तारयति ॥३४६॥ तरणिः युमणिः नौश्च । 'तरणिर्घुमणौ पुंसि कुमारीनौ-

Page 208

अपह्रतिसर: (१३) 197

कयो: स्त्रियाम्' इति मेदिनी। अतीतरत् तारयति स्म।त- रतेर्ण्यन्तालडि चङ्। सः अरुणकिरणः। एषः वेङ्कटगिरिनिलयः।।

यथा वा- नापांनिधिर्नदीनो नदीन एष श्रितो हरे य- स्त्वाम्। क्षुभितस्स सर्वतो मुखभङ्गदेत्येष नैक- मपि भङ्गमू ॥३४७॥ नदीन इति नशब्देन समासः। अदीनः नेत्यन्वयः, किंतु दीन एवेत्यर्थः । नदीनां इन इति वस्तुस्थितिः । भग- वदाश्रित एव नदीनः अदीनः । सः अपां निधिः सर्वतोमुखभ- द्गात् विश्वतोमुखात्पराजयात्, पक्षे जलतरङ्गात, भङ्ग परा- जयं 'भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु' इति मेदिनी। अत्र 'यदिह परस्तात्' इति प्राथमिकोदाहरणे रजसः परस्मिन् स्थाने परमपदत्वनिह्नवो वर्णनीये शेषाद्रौ तदारोपार्थः । अन्येषु त्रिषु सिंहळेत्यादिषु महानोलमणित्वाद्यपह्नवः प्रस्तुते भगवति तदा- रोपार्थः प्रथमोदाहरणे निह्नवे हेतुर्नोक्त: द्वितीयादिषु हेतुरुक्तः तत्रापि सिंहळेतिद्वितीयपद्ये शुद्धः, तृतीयचतुर्थपद्ययोश्श्लेषसं- कीर्णः । पश्चमे 'नापांनिधिः' इतिपदये समुद्रे नदीनत्वनिह्न- वो भगवदाश्रितेषु प्रकृतेषु तत्समारोपार्थः । हेतूक्त्यादिकं तु पूर्ववदेव। ततश्च शुद्धापह्नतिवदत्रापि द्वैविध्यमनुसन्धेयम्। अयमपह्नुतिभेद: कुवलयानन्दानुरोधेनोक्त। रसगङ्गाधरे तु- "अन्यत्र तस्यारोपार्थः पर्यस्तापह्नतिश्च सः' इत्येतदुपादाय 'नाय- मपह्नुतेर्भेदो वक्तुं युक्त: अपहनतिसामान्यलक्षणानाक्रान्तत्वात्। तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहनतिः' उप-

Page 209

198 अलंकारमणिहारे

मेयमसत्यं कृत्वा उपमाने सत्यतया यत् स्थाप्यते साऽप- हतिः' इति काव्यप्रकाशोक्तलक्षणवहिर्भावस्तावत् स्फुट एव। एवं 'विषयापह्नवे वस्त्वन्तरप्रतीतावपह्नतिः' इत्यलंकारसर्वस्वो- क्तलक्षणमपि नात्र प्रवर्तते।। प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्। साम्यादपहनतिर्वाक्यभेदाभेदवती द्विधा॥ इति चित्रमीमांसागतं लक्षणमपि तथैव। तस्मात् 'नाय सुधां- शुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दढारोपं रूपक- मेव भवितुर्हृति नापहनुतिः। उपमेयतोपमानतावच्छेदंकयोस्सा- मानाधिकरण्यस्य निष्प्रत्यूहं भानात्। तदुक्तं विमर्शिन्याम्- 'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते' अत्र विषस्य निषे- धपूर्वकं ब्रह्मस्वे आरोप्यमाणत्वात् दृढारोपं रूपकमेव नापहनति- रिति" इति॥ तर्हि दीक्षितानां कथमिदं परस्परविप्रतिषिद्धवादित्वमिति चेच्छणु-चित्रमीमांसालक्षणं प्राचामनुरोधेन, इदं तु रताक- रादनुरोधेनेति न विरोधः।

अथ भ्रान्यपह्ुतिः

अन्यस्य भ्रान्तेर्निवारणे तत्त्वाख्याने सति भ्रान्त्यपहतिः। इमां भ्रान्तापहुतिरित्यप्याह्कः। तदा भ्रान्तमिति भावे कः। त- स्यापहनुतिः। एवं च तत्त्वकथनहेतुकभ्रान्तिविषयनिषेधो भ्रा- न्त्यपह्नुतिरिति लक्षणं बोध्यम्।।

Page 210

अपह्रुतिसरः (१ ३) 199

यथा- शिशिरयते मम हृदयं किं घनसारोऽय गन्ध- सारो वा। न हि न हि सपदि स्मृतिपथमहिगि- रिनेता सखे समानीतः ।। ३४८।

अत्र शिशिरयते मम हृदयमिति भगवद्दत्तान्ते गदिते तस्य

घनसारादिसाधारण्यात्केवलबाह्यविषयप्रवणेन केनचित्सख्या किं घनसारोऽथ गन्धसारो वेत्यनुयुक्ते नाहनहोत्यादिना भ्रान्तिवा- रणं कृतम्। इदं संभवन्भान्तिपूर्विकायां भ्रान्तापह्नतावुदाह- रणम्॥ कल्पितभ्रान्तिपूर्वा यथा- न घनततिः कबरीयं न विद्युदेषा चकास्ति सीमन्तः। शैलधृतौ संनह्यसि किं कृष्णेत्याह फ- णिगिरिपतिं श्रीः॥३४९॥

सीमन्तः केशवीधी 'सीमन्तमस्त्रियां स्त्रीणां केशमध्यस्थ पद्धतिः' इति वैजयन्ती। शैलधृतौ गोवर्धनधारणे, अत एव कृष्णेति संबोधनम्। शैलत्वेनाध्यवसितस्तनग्रहणे च । अत्र कल्पिता भ्रान्ति: न घनततिरित्यादिनिषेधमात्रोन्नेया पूर्ववत्प- श्रवैघुर्यात्। दण्डी तु ईद्दशस्थले तत्त्वाख्यानोपमेत्युपमाभेद- ममन्यत। यदाह-

न पदं मुखमेवेदं न भृङ्गौ चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता॥

Page 211

200 अलंकारमणिहारे

इति। वस्तुतस्त्वत्रोपमाबोधकस्य इवादेरभावादुपमाप्रभेदो न युक्तः। तदभावेऽप्युपमाभ्युपगमे रूपकस्याप्युपमात्वापत्तेः॥

यथा वा- न तटिदियं जलधिसुता न तटित्वानेष शेष- गिरिनेता। हंसानन्दविधायी किं सदिसि चित्त- हंस झंस मम ॥ ३५०॥

अत्रापि कल्पिता भ्रान्तिः निषेधमात्रोन्नेया प्रश्नविरहात्। न तटित्वानिति निषेधे हंसानन्दविधायीति हेतूक्ति: चित्तहं- सेति रूपकसंकीर्णत्वं च पूर्वस्माद्विशेष:।

छेकापह्ुतिः.

अन्यस्य शङ््या छेकापह्नुतिस्तथ्यनिहुतौ ॥५३॥ कस्यचित्कंचित्प्रति रहस्यकथने इतरेण श्रुते स्ववचनस्या- शयान्तरपरिकल्पनेन सत्यस्यापलापे छेकापहनुतिरित्यर्थः। छेकाः विदग्धाः 'छेको विदग्धे विश्वस्ते' इति हेमचन्द्रः । तत्कृता अ- पहनुतिः छेकापह्नतिरिति लक्ष्यनिर्देशः। वाक्यान्यथायोजनहतुकः शङ्किततातत्त्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्गयेत्यन्य- शङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेश: क्षुधान्नमत्तीतिवत्। अत्र च- कस्य वा न भवेद्रोषः प्रियायास्सव्रणेऽधरे। सभृङ्गं पद्ममाघासीर्वारिताऽपि मयाऽघुना।

Page 212

अपह्रुतिसरः (१३) 201

इति व्याजोक्तावतिप्रसङ्गवारणायाद्यं विशेषणम्। यद्वक्ष्यते- 'छेकापहुतेरस्याश्चायं विशेष :- यत्तत्र वचनस्यान्यथानयनेनाप- ह्रव: अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनम्' इति॥

उदाहरणम्- नीलरुचिर्मम चित्ते खेलति सततं किमअ्ना- द्रीशः। न हि न हि सुरवरमणिरिति चतुरा प- झावती सखीमाह॥ ३५१॥

अत्र पद्मावत्या नर्मसखीं प्रति नीलरुचिर्मम हृदये खेल- तीति स्वप्रियतमश्रीनिवासवृत्तान्ते निवेद्यमाने तन्निशमय्य कि- मञ्जनाद्रीश इति शङ्कितवतीमन्यां प्रति न हि न हि सुर- वरमणिरिति सत्यस्यैवापह्नवः ॥ यथा वा- अभिमुखमेत्याभिमृशन्रमृततुषारेण मां साख- करेण। अधिनिशमजीहषदलं श्रीवत्साङ्क: कि- माळि न मृगाङ्क: ॥ ३५२॥ अमृतेन अमृतमिव च तुषारश्शीतलः तेन करेण किर- णेन हस्तेन च अधिनिशं रात्रौ अजीहृपत् हर्षयति स्म । हृषेर्ण्यन्तात्कर्तरि लुडि चड्। अत्रापि कयाचिद्वजललनया क्री- डाससरीं प्रति अभिमुखमेत्येत्यादिना नन्दनन्दनीदन्ते निवेद्यमाने तदाकर्ष्य श्रीवत्साङ्कः किमिति शङ्कितवतीमन्यां प्रति न मृ- गाङ्क इति तथ्यस्यैवापह्ववः। इदमर्थयोजनया सत्यनिहुताबुदा- ALANKARA 26

Page 213

202 अलंकारमणिहारे

हरणद्वयम्। वस्तुतस्तु द्वितीयमुदाहरणं वक्ष्यमाणरीत्या शब्दा- र्थोभययोजनयाऽपहुतेरेवोदाहरणं भविष्यति॥ अर्थयोजनया निहृतिर्नाम विवक्षिताविवक्षितसाधारणस्या- र्थस्याविवक्षितार्थसंबन्धित्ववर्णनया तस्यापलापः। शब्दयोजनया सा तु शब्दश्लेषमात्रेण तत्संबन्धित्ववर्णनयाऽपलापः॥

यथा -- कमले विपुले नयने ध्यायामि तवाहमिति हठाद्वदिते। कुपितायां नीलायां तत्परतां तस्य वर्णयति शौरिः ॥ ३५३॥

अत्र कमले विपुले इत्यनयोरर्थभेदेऽपि शब्दश्लेषमात्रेणा- न्यथा योजनया तत्थ्यनिह्रवः । हे कमले! लक्ष्मि! विपुले वि- शाले तव नयने ध्यायामीति वा, हे विपुले! धरण! तव नयने कमलसदृशी ध्यायामीति वा प्रत्येकं संबध्यते। नीलाप- रत्वे तु हे नीले! इति संबुद्धिरर्थाल्लभ्यते। तदा तव नयने कमले विपुले च ध्यायामीति योजना। अत्र रमाभूमिसंबोध्य- कस्तन्नयनध्यानरूपो न वाक्यार्थः किंतु त्वत्संबोध्यकः कमल- रूपविपुलत्वन्नयनध्यानरूप इत्यपह्नवस्तत्परतां तस्य कल्पयति शोरिरित्यनेन प्रकाश्यते। तस्य उक्तवचनस्येत्यर्थः । न चात्र लक्ष्मीभूमीनीलासाधारण्यमर्थस्य, अि तु कमले विपुले इति लिङ्गवचनश्िष्टशब्दयोजनैवेति।

यथा वा- प्रियहृदये हारिणि निशि सुप्ा न विवेद कि-

Page 214

अपह्नतिसरः (१३) 203

मपि सुभगेऽहम्। किं शौरिहृदि न हीमां बहुधा संबोध्य शयनसुखमवदम् ॥ ३५४ ॥ हारिणि मुक्ताहारवति सुभने सुन्दरे प्रियस्य भगवतो न- न्दनन्दनस्य हृदये वक्षसि। पक्षे-हे हारिणि मनोहरे! हे प्रिय- हृदये! प्रियं हृदयं चित्तं यस्यास्सा मत्प्रियकारिणीति यावत्। हे सुभगे! सौभाग्यशालिनाति सख्यास्संबुद्धयः। किं शौरिरिति तटस्थायाः प्रश्नः। न हीत्यादिकं तथ्यनिह्नवोत्तरं नायिकायाः। अत्रापि प्रियहृदये इत्यादीनामर्थभेदेऽपि शब्दश्लेषमात्रेणान्यथा- योजनया तथ्यनिह्नवः । न विवेदेति सुखपारवश्यकतः परोक्ष- निर्देश: । 'बहु जगद' इत्यादिवत् ॥ एवम्- निशि तमसि निमीलन्तीं स्वकरेण हृदि स्पृ- शा समुन्निद्राम्। भृशमुदितस्समतानीत्किं शौरि- स्त्वां न कुमुदिनीमिन्दुः॥ ३५५ ॥ इत्यत्रापि शब्दयोजनया तथ्यनिह्नवो ज्ञेयः। निशि रात्रौ तमसि तिमिरे निमीलन्तीं सुप्तां निमीलितकुमुदां च । हृदि- स्पृशा वक्षसि स्पृशता, पक्षे-मनोहरेण विकासकनेति वा। 'हृद्ुभ्यां च' इति सप्तम्या अलुक्। स्वेन निजेन करेण हस्तेन किरणेन च। जातावेकवचनम् । भृशमुदितः अतिवेलप्रहष्टस्सन्, पक्षे-भृशं उदित इति छेद: उदयं प्राप्तस्सन्। भृशमित्येतत् उन्निद्रामित्यनेनान्वेति। उन्निद्रां निद्राया डद्गतां त्यक्तनिद्रामि- त्यर्थः । पक्षे-विकसितां 'तथा पुष्पितमुन्निद्रम्' इत्यमरः। सम- तानीदिति नर्मसखीं प्रति नायिकाया निशि स्वप्रियविरचित-

Page 215

204 अलंकारमणिहारे

विलासवृत्तान्तवर्णनम्। किं शौरिस्त्वामिति तटस्थायाः प्रश्नः। कुमुदिनीमिन्दुरिति नायिकायास्तथ्यनिह्वोत्तरम॥ शब्दार्थोभययोजनया यथा- व्रणयत्यधरं वपुषो वेपथुकन्मम विशेषतोS- धिनिशम्। आरादसौ हिमानी शौरिः किं न सखि हिमततिर्महती॥ ३५६॥ असौ हिमानीत्यत्र शब्दयोजनया निह्नवः अन्यत्रार्थयो- जनयेति ध्येयम्। तथ्यार्थे हि मानी इति पदच्छेद:, निह्नवपक्षे हिमानीत्येकं पदम्। असावित्येतत्पुंस्त्रीलिङ्गसाधारणम्। अत्रासौ हि मानीति शौरिपरतया पुंलिङ्गेन निर्दिष्टस्य शब्दस्यैव असौ हिमानति स्त्रीलिङ्गतया हिमानीपरतावर्णनाच्छब्दयोजनयाऽपह्नव इति। महद्धिमं हिमानी 'हिमारण्ययोर्महत्वे' इति 'इन्द्रवरुण' इति सूत्रप्राप्त आनुगागमसन्नियोगशिष्टो डीष् नियम्यते।। यथा वा- एहि सखि सत्यभामे रुक्मिणि दयिता त्वमि- ति हठादुक्ते। रुष्टां राधां तत्परमारचयंस्तत्प्रसा- दयति शौरिः॥ ३५७॥

राधापरत्वे हे सति! साध्वि! हे अभामे! अकोपने! हे रुक्मिणि! रुक्ममस्या अस्तीति तथोक्ते! सुवर्णाभरणवतीत्यर्थः। हे सखि! त्वमेव मे दयितेति योजना। तत् स्वोक्तं वचनं तत्परं राधापरं आरचयन्। सत्यभामे रुक्मिणीत्यत्र शब्दयो जनया सखि दयितेत्यत्रार्थयोजनयाऽपह्नव इति द्रष्टव्यम्॥

Page 216

अपह्नतिसरः (१३) 205

सर्वमिदं विषयान्तरयोजनायामुदाहरणम्। विषयैक्येऽप्यव- स्थाभेदेन योजनायां यथा- कृष्णो मम कमन इति त्रुवती भर्त्रे सखीभ्र- मादथ तम्। ज्ञात्वा सखि किं जगद स्वप्नादह- मित्यपूरि धूर्तैका ॥ ३५८॥ अत्र विवक्षितं श्रीकृष्णविषयकानुरागवृत्तान्तं निद्राजाग- र्याव्यतिकरजातात्सहशयाने भर्तरि सखीभ्रमादुदीरितवत्या क- याऽपि गोपिकया तावतैव जागरूकतया भर्तृज्ञानजनितभयसं- भ्रान्तया तद्दत्तान्ततत्परस्य वाक्यस्य स्वप्नावस्थागततद्दत्तान्तप- रत्वं सखि किं जगद स्वप्नादहमिति शेषपूरणेन तत्रापि जग- देति पारोक्ष्याभिधायिलिडुत्तमप्रयोगेण च स्फुटीकृतम्। अत्र नायिकाविवक्षितश्रीकृष्णानुरागवृत्तान्तस्य यथार्थभूतजागराव- स्थागतत्वनिह्नवोऽर्सिद्ध इति लक्षणानुगतिः कार्या। जगदे- त्यत्र 'णलुत्तमो वा' इति णित्त्वस्य वैकल्पिकत्वान्नोपधावृद्धि:। अपूरीत्यत्र कर्तरि लुडि 'दीपजनबुधपूरि' इत्यादिना वैकल्पि- कश्चिण। अपूरयदित्यर्थः ॥ यथा वा- स्वैरं व्यहरावाहं शौरिश्रेति प्रमादतो गदि- तम् । काऽपि वधुर्गुरुनिकटे बाल्यमयन्त्रणमिति स्म पूरयति॥ ३५९ ॥ कांऽपि वधू: गोपस्तषा अहं शौरिश्च स्वैर व्यहराव विह- तवन्तौ इति विपूर्वकाद्धरतेर्लङुत्तमद्विचनम् । गुरुनिकटे श्वश्रू-

Page 217

206 अलंकारमणिहारे

प्रभृतिगुरुजनसंनिधी प्रमादतः अनवधानात् गदितं आत्मनोक्तं वचनं बाल्यं बालकर्म बालै: क्रियमाणोऽनभिसंधिकव्यापार इत्य- र्थः। अयन्त्रणं यथेष्टं वालव्यापारे इदमेवंकर्तव्यामेदमेवं नेति निर्बन्धो न शक्यः कर्नुमिति भावः । इति पूरयति स्म।

कतानान्तरङ्गया कयाचिद्जललनया तेनैव संस्कारेण प्रमादव- शाहुरुजनसंनिधौ स्वैरं व्यहरावेति गदितस्य वृत्तान्तस्य बा-

मयन्त्रणमिति शेषपूरणेन स्फुटीकृतम्। पूर्वोदाहरणे स्वप्नावस्था- भेदेन योजना। अत्र तु बाल्यावस्थाभेदेनेति विशेषः॥

यथा वा- सरजस्कां स्नातामथ शौरिर्मामाह्वयत्समं भो- क्तुम्। इत्यवशादुक्त्वैका बाल्ये मैत्री ह्यकृत्रिमे- त्यगदीत् ॥ ३६०॥

अत्र ऋतुस्नातस्वकर्मकोपभोगफलकशौरिकृताह्वानरूपं वा- क्यार्थ तथ्यभूत गुरुजननिकटे प्रमादादुदीर्य तावतैव प्रबुद्धया बाल्ये मैत्री ह्यकृत्रिमेति वदत्त्या कयाचन विदग्धया नायिकया बाल्यनिर्वर्तितधूळी केळीधूसरितत्वनिमित्तकस्नानकर्तृस्वकर्मकसह- भोजनक्रियाफलकतादात्विकशौरिकृताह्वानरूपतया स एवान्यथा योजितः । अत्राप्यवस्थाभेदेन योजना पूर्ववदेव। श्रेषोपस्कृ- तत्वं तु विशेषः । तात्त्विकार्थपक्षे शौरि: रजसा आर्तवेन सह वर्तत इति सरजस्का तां, अन्यत्र सधूळिकाम्। अथ आर्तवा- नन्तरं धूळीलेपानन्तरं च। स्नातां मां समं परस्परानुरूपं

Page 218

अपहुतिसरः (१ ) 207

भोतुं उपभोक्तुं अन्यत्र सहभोजनाय, माणवकदशायां पुमांस: कन्याभिस्सह स्वैर भुख्जत इति प्रिद्धमवेदभ्। आह्वयत् आहू- तवान् इति अवशात् प्रमादात् उक्त्वा वाल्ये शैशवे मैत्री सख्यं अकृत्रिमा निर्व्याजेत्यगदीत् अवादीदित्यर्थः । बाल्ये मैत्रीत्या-

कैतवापहुतिः- छलच्छद्मनिभादैश्र वपुरात्मादिकैः पदैः। निहुतिश्वेदभिव्यङ्गया कैतवापह्ुतिर्हि सा ॥५४॥ अत्र छलादिशब्दा विषयासत्यत्वप्रतिपादकाः। वपुरादिश- ब्दास्तु विषयासत्यत्वपर्यवसायिन इति विवेक:। छलादीत्या- दिपदेन कपटकैतवव्याजमिषापदेशोपधिदम्भादिशब्दा गृह्यन्ते । वपुरात्मादीत्यादिपदेन रूपनामरीतिभङ्गयादिशब्दा इति ध्येयम्।। यथा- धरणीनिक्षरमणीमणिफणिशिखरिच्छलकुचा- ग्रविन्यस्तः । हरिकैतवमृगमद इह हरतां स्वगु- णेन जडतां नः ॥३६१॥ स्वगुणेन ज्ञानशक्तिवात्सल्यादिना अन्यत्र औष्ण्चेन जड- तां अज्ञतां शैत्यं च हरतां अपनयतात् ! प्रसिद्धं ह्यज्ञान- हारित्वं हरे: शैत्यहारित्वं मृगनाभेश्च। अत्र विषयासत्यत्वप्र- तिपादकनिभच्छलकैतवशब्दैनैयं धरणी किंतु रमणीत्यादिनिषे- धबोधनादेकवावयत्वं निषेधतादवप्ययोरार्थत्वं विधेयत्वं च, जड- ताहरणस्य विधेयत्वात्। सावयवा चेयं अनुग्राह्यानुग्राहकभा- वापन्नावयवकसंघातरूपत्वात्॥

Page 219

208 अलंकारमणिहारे

यथा वा- शितभानुरपि प्रथयति सितभानुरिव द्विजन्म- राजत्वम्। मणिनपुरयुगवपुषा फणिनायकशैल- नाथपदयुग्मे ॥३६२॥ अत्र नेदं मणिनूपुरयुगं अपितु द्विजन्मराजत्वं प्रकाशयं-

एकवाक्यत्वादिकं पूर्ववत् । निरवयवा चेयम। द्विजन्मराजत्वं द्विजराजत्वमित्यर्थः । 'सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति शुतेश्चन्द्रमसो द्विजराजत्वम्। राजत्वमित्यत्रार्थान्तरानुरू- व्याय 'अनचि च' इति तकारस्य द्वित्वम्। पक्षे-राजतो भावः राजत्वं द्विविधे जन्मनी द्विजन्मनी ताभ्यां राजत्वं प्रकाशमा- नत्वमित्यनयोरर्थयो: श्रेषेणाभेदाध्यवसायः॥ विमर्शिनीकारस्तु छलादीत्यादिशब्देन तृतीययाऽपि क्वचि- दसत्यत्वं प्रतिपाद्यत इत्यभाणीत्। तत्रेदमुदाहरणं- फणिगिरिमिषोदयाद्रौ मधुमथनच्छलसुधाक- राभ्युदये। तदुपत्यकावनच्छलजलधिः फेनायते स्म कुसुमौघैः ॥३६३॥ फेनमुद्मति फेनायते 'फेनाच्चेति वक्तव्यम्' इति वार्ति- केन उद्दमनार्थे क्यड्। अत्र कुसुमौघैरिति तृतीयया नायं कुसु- मौघः किंतु फेन एवेत्यपह्नवनिबन्धनम्। यद्यपीद्दशस्थले 'नद्या शेखरिणे' इत्यादाविव वैयधिकरण्येनारोपरूपं रूपकमेवेति यु- क्तम्, अथाप्यपह्मवोपक्रमानुरोधेनान्तेऽप्यपह्नवस्य तृतीयया प्र-

Page 220

अपह्रुतिसरः (१३) 209 तिपादितत्वं विमर्शिनीकारानुरोधेनोक्तम्। वस्तुतस्तु कैतवाप- हवत्यनुप्राणितं व्यधिकरणरूपकमेवेदं भविष्यति। अत एव विम र्शिनीकारानुरोधिनाऽपि रसगङ्गाधरकारेणायं पक्षोऽनाद्ृत इति ध्येयम्॥ इयं मालारूपाऽपि भवति। तन्रापि बहुन्निषिध्य एकस्या- रोपे एकं निषिध्य बहनामारोपे चेति द्विधेति कौस्तुभकारा- दयः ॥ तत्राद्या यथा- मणिसानुमिषाद्धरणौ फणिशय फणिमणिमि- षेण पाताळे। सुरसरणौ द्युमणिमिषात्प्रतापरा- शिः कृतावतारस्ते ॥३६४॥ मणिसानु: सुमेरुः। फणिशयेति भगवत्संबुद्धिः। अन्यत्सु- गमम् ॥ विद्रुममिषेण जलधौ कलधौताम्बुजमिषेण सुरसरिति। कुरुविन्दवृन्दमिषतो द्विषतां मौळिष्व- भात्प्रभावस्ते ॥ ३६५ ॥ कलधौतं हेम 'कलधौत रूप्यहेस्न्नोः' इत्यमरः । मन्दाकि- न्यां हेमारविन्दस्थितिः प्रासिद्धा। प्रभावः प्रतापः । 'स्ात्म्- ताप: प्रभावश्च' इत्यमरः । अत्र पीतवर्णतया प्रथितस्य कन- काचलादे: लोहिततया प्रसिद्धस्य विद्रुमादेश्च लोहिततयैव कवि- समयसिद्धं प्रतापं प्रत्युपमानतावर्णनं पीतलोहितयोर्वर्णयोरभे- दस्यापि कविसमयसिद्धत्वादित्यवधेयम् । तथाचोक्तमलंकारशे- खरे- ALANKARA 27

Page 221

210 अलंकारमणिहारे

कमलासंपदोः कृष्णहरितोर्नागसर्पयोः।

चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः । दानवासुरदैत्यानामैक्यमेवाभिसंहितम्। इति॥ शीतांशुरुचिमिषाद्दिवि शीताद्र्यनिमिषधुनी- मिषादवनौ। पाताले शेषमिषातयातानि यशांसि तव विभान्ति विभो॥ ३६६॥ शीताद्रि: हिमगिरि: । अनिमिषधुनी गङ्गा। तयोर्मिषात् व्याजात्। हे विभो भगवन् !॥ ऊर्ध्व नभस्तलनिभादधश्च वसुधातलच्छला- द्रगवन्। जलधिच्छलात्समन्ताद्विभा विभक्ता वि- भाति तव भूमन् ॥ ३६७॥ वसुधातलस्य नैल्यं 'यत्कृष्णं तदन्नस्य' इति श्रुत्यनुरो- घिना 'क्षमामण्डलं कुवलयाकरकोमलाभम्' इतिवर्णनेन सिद्ध- मिति ध्येयम् ॥ क्वचिदिह मरकतरूपं क्वचिदब्ध्रनिभं क्वचित्त- मालनिभम्। क्वचिदिन्दीवरदम्भं महोज़लं तव महो जगति भाति ॥ ३६८ ॥ निभशब्दोऽत्र व्याजवाची 'निभस्तु कथितो व्याजे' इति मे- दिनी। अत्र श्यामलत्वेन प्रसिद्धस्य भगवन्महसः हरिद्वर्णम- रकतोपमानकथनं अनुपदोदाहृतप्रमाणेन नीलहरिद्वर्णयारभेदप्र- तिपादनात्॥

Page 222

अपह्ुतिसरः (१३) 211

हीरमिषान्ताटङ्क हारमिषादम्ब कंधरायां ते। माल्यमिषाद्वम्मिल्ले स्मितरुचिशकला हरेर्विभा- न्त्यमला: ॥ ३६१।। एषूदाहरणेषु सुमेरुप्रभृतन्विहन्निषिध्य तत्र प्रतापादेरेक- स्यारोप: ।। द्वितीया यथा- वेदांस्तत्प्रतिपाद्यान्पुरुषार्थास्तत्कृते नृभिरुपा स्यान्। चतुरो भगवहूयहान्बाहाव्याजाद्विमर्षि जननि त्वम् ॥ ३७० ॥ चतुर इत्येतत् वेदपुरुषार्थभगवद्वचूहानां त्रयाणामपि विशेष- णम्। वेदा: ऋग्यजुस्सामाथर्वाख्याः पुरुषार्थाः धर्मार्थकाममो- क्षाख्याः। भगवद्वयूहा: वासुदेवसंकर्षणप्रदयुम्नानिरुद्धाख्याः। अत्र लक्ष्मीबाहानिषेधपूर्वकं तत्र वेदादानां बहूनामैक्यारोपः॥। भुवनत्रयीं त्रयों वा त्रिगुणां वा प्रकृतिमहि- गिरिद्युमणे। कुक्षौ निधायभगवनूक्षस्यविरळवळि- त्रयीव्याजात् ॥ ३७१॥ त्रयीं ऋगादिवेदत्रयं 'स्त्रियामृक्सामयजुषी इति वेदास्त्र- यस्त्रयी' इत्यमरः। त्रिगुणां सत्वरजस्तमोगुणात्मिकाम्। अत्रा- पि वळिित्रयीनिषेधपूर्वकं तस्यां भुवनत्रय्यादीनामनेकेषामैक्या- रोप: ॥ इत्यलंकारमणिहारे अपह्नवसरस्त्रयादशः

Page 223

212: अलंकारमणिहारे

अथोत्मेक्षासरः.

यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम्। सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना ॥ उक्तानुक्तास्पदत्वेन वस्तूत्प्रेक्षा द्विधा मता। हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः। अन्यस्य विषयिणो यो धर्मः तत्सम्बन्धरूपान्निमित्तात् अन्य- स्य अन्यवषयक अन्यत्वतर्कणं अन्यत्वेन संभावनं विषयिण- स्तादात्म्येन संभावनमित्यर्थः। अन्यस्येति षष्ठ्यर्थो विषयता- धर्मितारूपा, विषायण इति षष्ठ्यर्थस्तु विशेषणतारूपा विष- यता। अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय। तथाच विषायनिष्ठधर्मसंबन्धप्रयुक्त विषयधर्मिकं तादात्म्यसंस- र्गेण विषयिविधेयकमाहार्यसंभावनमुत्प्रक्षेति पर्यवसितम् । तन्नि- ष्टधर्मसंवन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरां- शस्तु अव्यावर्तकत्वेन स्वरूपकथनमात्रपरः। 'मुखं चन्द्रं मन्ये' इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्ादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्र- संभावनमाहार्यमस्तीति लक्षणानुगतिः । बाघाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादिसंभावना नोत्प्रेक्षेति तद्वारणायाहा- ! येति। पतेन- दुन्दुभिकाहलहलहलबन्धुरमखिलं दिगन्तरा- लमभूत । यत्तन्मन्ये फणिगिर्युन्तंसो भजति सप- दि जययात्राम् ॥३७२॥

Page 224

उत्प्रेक्षासरः (१४) 213

प्रवृत्तधर्मसंबन्धप्रयुक्तायां भगवाति तत्संभावनायामपि नातिव्या- पिः । तस्या अनाहार्यत्वात् । 'संभावनं यदात्थं स्यादित्यूहो- जन्यस्य सिद्धये' इति संभावनालंकारविषये- यदि जलधिर्विजलस्स्याद्यदि विसुवर्णस्सुवर्ण- भूभृत्स्यात्। जह्याद्रक्षादीक्षामह्यद्रिशिखामणिस्त- दा मन्ये ॥३७३।। इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम्। अत्र यदि जल- धिर्विजलस्स्यादित्यादिसंभावनस्य विषययनिष्ठधर्मसम्बन्धप्रयुक्त- त्वाभावात्॥ काकोदरगिरिमेनं लोकोत्तररामणीयकं मन्ये। पदमपि परमं विजहद्विहरति यदिह श्रिया सह मुकुन्दः ॥३७४॥ इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति संभाव्यमानवृत्तित्वं ध- मविशेषणम्। तत्र परमपदत्यागपूर्वकश्रीसहितविहरणरूपो धर्मो मुकुन्दवृत्तिः । न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग: । नदु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न। सर्वत्राभेदैनैवोत्प्े- क्षणमिति प्राचीनमतानुरोधेनैवमभिधानात्। एतत्सूचनायैव ल- क्षणे तादात्म्योपादानमिति ध्येयम्॥। सा चोत्प्रेक्षा वस्तुहेतुफलात्मतागोचरतया त्रिविधा, व- स्तुहेतुफलात्मता च वस्तुहेतुफलतादात्म्यम् । अत्र वस्तुनः क- स्यचिंद्वस्त्वन्तरतादात्म्यसंभावना प्रथमा वस्तूत्प्रेक्षेत्युच्यते।

Page 225

214 अलंकारमणिहारे

इयमेव स्वरूपोत्प्रेक्षा। अहेतोर्हेतुभावेन अफलस्य फलत्वेनो. त्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते। तत्राद्या स्वरूपोत्प्रेक्षा उ- कानुक्तास्पदत्वेन द्विविधा। आस्पदं विषयः। उक्तविषया अनुक्त- विषया चेति द्विविधेत्यर्थः । हेतूत्प्रेक्षाफलात्प्रेक्षे सिद्धविषया असिद्धविषया चेति प्रत्येकं द्विवविधे।। क्रमेणोदाहरणानि- हरिशेखरितादहिपतिधरणिधरादधिकतां परां लिप्सुः । हरिशिरसि भासमानस्सुरगिरिशिशुरिव महाकिरीटोऽवयात् ॥३७५॥

अत्र कनकमणिमयत्वादिना धर्मसंबन्धेन निमित्तेन महा- किरीटस्य सुमेरुशिशुतादात्म्यसंभावना स्वरूपोत्प्रक्षा महाकि- रीटस्य विषयस्योपादानादुक्तवषया॥

यथा वा- विसृमरनिजरुचिभरपरिवलयित तनुरहिगिरी- न्द्रपतिदयिता। प्रकटयतीव हिरण्यप्राकारात्वं स्व- मागमप्रोक्तम् ॥३७६॥

अत्र पिशङ्गत्वादिना गम्यमानेन निमित्तेन लक्ष्मीतनुरुचि- वलयस्य हिरण्यप्राकारतादात्म्यसंभावना। वस्तुनस्तु प्रकटन. क्रियोत्प्रेक्षाया एवात्र प्राधान्येन निर्दिष्टत्वाद्वक्ष्यमाणरीत्या क्रि- यास्वरूपोत्प्रेक्षाया एवेदमुदाहरणं भविष्यतीति ध्येयम् । अन्य- त्तु अग्रे निरूपयिष्यते । अत्र 'हिरण्यप्राकारामार्द्राम्' इति श्रु

Page 226

उत्प्रेक्षासरः (१४) 215

अनुक्तविषया वस्तूत्प्रेक्षा यथा- अभिषिश्चतीव मामयमहिराजधराधराधिपति- रमृतैः । दयनीयस्य ममालं नयने दिव्याअ्जनैरन- क्तीव॥३७७॥

अत्राप्यायकत्वादिना निमित्तेन गम्यमानेन भगवत्कर्तृका- नन्दनस्य तत्कर्तृकामृताभिषेकतादात्म्योत्प्रेक्षा दिव्याञ्जनाञ्जनता- दात्म्योप्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, आख्यातोपस्थिते कर्तरि भगवतस्तादात्म्येनान्वये कर्तुर्धात्वर्थे अभिषेचने अञ्जने चान्वयात् तस्य इवशब्दार्थे संभावने तस्य च विषयतया आनन्दने अन्व- यान्भ्गवत्कर्तृकाभिषेचनाअ्ञजनसंभावनाविषय आनन्दनमिति वा- क्यार्थबोधपर्यवसानात् उभयत्रापि विषयभूतस्यानन्दनस्य विष-

नन्वत्र अभिषिश्चत्यनक्तीति धात्वर्थयोरभिषेचनाञ्जनयोराख्या- तोपात्ते कर्तरि विशेषणत्वेनान्वयमभ्युपेत्य कर्तुरिवशब्दार्थे संभा- वनेऽन्वयेन अभिषेचनाअ्ञनकर्तृतादात्म्यमेवोत्प्रेक्ष्यताम् । ततश्च भगवतो विषयस्योपादानेन उक्तविषयतालाभात् भगवतः प्रथ- मान्तपदोपस्थापितस्य मुख्यविशेष्यतया प्रथमान्तविशेष्यकबो- धोऽपि तान्त्रिकसंप्रतिपन्न उपपादितो भवतीत्युत्प्रेक्षाद्वयमुक्तवष- यमेवास्तु। सकृदुच्चरिताभ्यामभिषिञ्चत्यनक्तिभ्यां शक्त्या अभि- षेकाजनयोः साध्यवसानलक्षणया साधारणधर्मपुरस्कारेणानन्द नस्य चोपस्थापनाया युगपद्टनतिद्वयविरोधेनासंभवादिते चेन्मैवं, 'लः र्कमणि च' इति सूत्रानुसारेणाख्यातस्य कर्त्रादिशक्ततया प्रक्ृ- ते अभिषिश्चत्यनक्तीत्याभ्यामाख्याता्यां कर्तुरुपस्थितावपि 'भा-

Page 227

216 अलंकारमणिहारे

वप्रधानमाख्यातम्' इति यास्कस्मरणात् भावो धात्वर्थः प्रधानं विशेष्यं यस्य तदाख्यातमित्यर्थकाद्धात्वर्थभूताभिषेचनाञ्जनक्रिय- योरेव विशेष्यतया तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षाविषय- तया इवादिशब्दार्थभूतसंभावनायामन्वयासंभवात्। एवमाख्या- तस्य क्रियोपर्सजनत्वादेव-

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । इतीदमपि भूयिष्ठमुत्प्रेक्षा लक्षणान्वितम्।। केषांचिदुपमाभ्रान्तिरिवश्रुत्येह जायते। नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम्। इत्यादिना उत्प्रेक्षास्थले 'लिम्पतीव' इत्यत्रोपमाभ्रान्ति केषांचि त्संभवन्तीं प्रतिक्षिपता दण्डिना- कर्ता यद्युपमानं स्यान्नयग्भूतोऽसौ क्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यद्वच्पेक्षितुम्।। इति कर्तुरुपमायामुपमानतयाऽन्वयोऽपि निराकृतः। तथाहि कारिकार्थः 'लिम्पतीव' इत्यत्र लेपनकतुरिवशब्दार्थे सादृश्ये उप- मानत्वेनान्वयसंभवादुपमैवात्र किं न स्यादित्याशङ्काया उत्तर- त्वेनायं श्ोकोऽवतारितः । कर्ता यद्युपमान स्यात्तदयं शङ्का युज्येत, न चेदं संभवति, तत्र हेतुः न्यग्भूत इत्यादिः । असौ कर्ता क्रियापदे तिङन्ते न्यग्भूतः क्रियोपसर्जनीभूत इत्यर्थः।

फलव्यापारयोर्धातुराश्रये तु तिङस्स्मताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।

इत्युक्त्ेः। न्यग्भूततामेवोत्तरार्धेनोपपादयति-स्वेति । स्व- क्रियाया: लेपनादिरूपायः साधने व्यग्र: व्यापृतः असौ कर्ता

Page 228

उत्प्रेक्षासरः (१४) 217

अन्यत् स्वसाध्यक्रियापेक्षया इतरत् व्यपेक्षितुं आकाङ्ितुं साध- यितुमिति यावत् नालं न समर्थः । यथा कस्यचिदधीनो नान्यस्य शक्नुयात्साधयितुं कार्य तथा एकस्या: क्रियाया वि- शेषणत्वेनाधीनः कर्ताऽन्यस्योपमानरूपस्य विशेषणतां नाप्तु- मोष्टे, इतरविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयायोगा- त् ।अतो नात्र कर्तुरुपमानत्वं संगच्छत इति। तथाच इवशब्द- र्थस्संभावनं सादृश्यं वाऽस्तु, उभयथाडप न तत्र कर्तुरन्वय इति नोपमा युक्तेति। तस्मात्तमस लेपनकर्तृत्वमुत्प्रेक्ष्यमिति मतमनुपादेयमेव। तस्यापि कर्तुर्विशेषणत्वात्। विवक्षितचिवे- केन लेपनस्यैवोत्प्रेक्षणीयत्वाच्च। एवंचोदाहृतपदे प्रधानभूता- भिषेचनाश्नक्रियागोचरा संभावनैव निगीर्णानन्दनविषयेति सिद्ध- म्। न च युगपद्टत्तिद्वयविरोधदोषता, तदनभ्युपगमात्। ये तु 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यत्र तमोनभसो

रूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वविध्यम्। तत्र त- मोनभसोः कर्तृत्वेन विषयत्वेन च द्विवारमन्वयककेशः। तथा ध- म्युत्प्रेक्षा साधर्म्यप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंबन्धप्र युक्तोति लक्षणाननुगमः । न च तन्निष्ठतत्समानाधिकरणान्यतर त्वेन धर्मनिवेशान्नाननुगम इति वाच्यम्। सर्वत्र सादृश्यान- मित्ताया एवोत्प्रेक्षायास्संभवेनान्यतरत्वादिनिवेशप्रयुक्तगौरवस्या नुपादेयत्वादिति वदन्ति॥ यथा वा- श्रुत्यञ्चलसंसक्ता मुक्ताशश्रुत्यन्तचपलमक्षियुग- म्। अवलोक्य भुवनमातस्तव देवि भृझं हस- 1 न्तीव ॥३७८।। ALANKARA 28

Page 229

218 अलंकारमणिहारे

अन्रापि कर्णाभरणमौक्तिकसंबन्धिप्रकाशस्य तत्कर्तृकहास तादात्म्योत्प्रेक्षा अनुक्तविषया। प्रकाशस्य विषयस्य निगीर्ण- त्वादिति बाध्यम्॥ सिद्धविषया हेतूत्प्रेक्षा यथा-

यनिचुले। अञ्जनाशिखरिणि सततासञ्जनतो नून- मसित एष हरिः ॥३७९॥ खञ्जयति गतिविकलं करोतीति खञ्जनः । खञ्जनरुचेः ख- अरीटाख्यखगत्विषः खञ्जनः ततोप्यतिशयितनीलिमेत्यर्थः। 'ख- अरीटस्तु खञ्जनः, खोडे खञ्जः' इति चामरः । बलभञ्जनमणयः इन्द्रनीलरतानि तेषां मञ्जरुचिनिचयः निचुळ निचोळ: यस्य तस्मिन् 'निचुळस्तु निचोलके' इति विश्वः । निचोलः प्रच्छ दपटः 'विनयनिचुलितैः' इति मुरारिप्रयोगश्च। अन्न भगवतो नैसर्गिके इ्यामलिम्नि वस्तुतोऽअ्जनगिरिसततासञ्जनं न हेतुरित्य- हेतोस्तस्य हेतुत्वसंभावना हेतूत्प्रेक्षा अञ्जनगिरिसततासञ्जनस्य सिद्धत्वात्सिद्धविषया अञ्जनशब्दश्लेषभित्तिकाभेदाध्यवसायसू ला। प्रसिद्धं ह्यश्जनस्थ नैल्यम्। असिद्धविषया हेतूत्प्रेक्षा यथा- श्रीवत्स इति हरे त्वं वात्सल्यादिव रमाश्रये हृदये। किंचन लाञ्छनमश्चसि कश्चुकिवरभूभृदश्च- लाक्षरण ॥ ३८०॥ श्रीवत्सः लक्ष्मीपुत्रः 'वत्सः पुत्रादिवर्षयोः' इति मेिनी। 'वत्सस्सुतादौ तर्णके त्रिषु "इति रत्नमाला च। पक्षे श्रीवत्स

Page 230

उत्प्रेक्षासरः (१४) 219

इति लाञ्छननाम । अञ्चसि पूजयसि आद्रियसे । पूजनं चा- त्र-'स च पूज्यो यथा ह्यहम्। पूज्या लालयतव्याश्च' इत्या दाविवादरणपरम्। पक्षे प्रामोषीत्यर्थः। अत्र श्रीवत्सनामलाञ्छ- नस्य रमाश्रयभूतहृद्यस्थलाधिकरणकाश्चने लक्ष्मीवत्सताप्रयुक्त वात्सल्यं न हेतुरित्यहेतोस्तस्यासिद्धस्य हेतुतासंभावना असि- द्धविषया हेतूत्प्रेक्षा श्ेषोज़ीविता॥

यथा वा- भजति भुजगेशनगपतियुवतिमणीरुचिकचा- कचिजितेव। विद्युन्मुखे विकारं तान्तत्वं च धु- मध्यलीनात्वम् ॥३८१॥

भुजगेशनगपतियुवतिमणी लक्ष्मीः तस्या: रुच्या प्रभया कचाकचिजितेव केशेषु केशेषु गृहोत्वा प्रवृत्तेन युद्धेन परास्ते- व विद्युत् मुखे वदने विकारं पराभूतत्वचिह्नं वैवर्ण्य तान्तत्वं ग्लानिं द्यमध्ये यत्रक्वापि गह्यराभ्यन्तरान्तरिक्षमध्ये लीनत्वं अद- श्यतयाऽवस्थानं च भजति। द्युमध्येत्यत्र वकारान्तस्य द्युशब्द- स्य 'दिव उत्' इत्युत्वम। यद्वा द्य इत्यव्ययं गगनवाचि। 'दु कीवमहि गगने च' इति मेदिन्यनुशासनात्॥

वास्तवार्थस्तु-मुखे आदौ विकारं वि इत्याकारकमक्षरं तान्तत्वं तकारान्तत्वं द्युः द्यु इति वर्णसमुदयः मध्ये वि त् इत्य- नयोवर्णयोरन्तराळे लीनः स्थितः यस्यास्सा तस्या भावः द्यमध्यलीनात्वम्। विद्यत्पदे मुखविकारवत्त्वतान्तत्वद्यमध्यलीना- त्वानि द्रष्टव्यानि। द्युमध्यलीनाशव्दस्य समस्तत्वेनागुणवचन- त्वात् 'त्वतलोर्गुणवच स्य' इति न पुंवद्धावः । अत्र संज्ञाजा-

Page 231

220 अलंकारमणिहारे

वचनशब्देनोच्यते। आकडारसूत्रभाष्यतस्तथैव लाभात्। अत एव 'एकतद्धिते च' इति सूत्र भाष्ये 'एकत्वमिति पुंवत्वात्सिद्ध- म्' इत्याशङ्क्य 'न सिध्यति उक्तमेतत् । त्वतलोर्गुणवचनस्य' इत्युक्तम्। एकशब्दे सर्वनामसंज्ञया गुणवचनसंज्ञाया बाध इति तदाशयः । इदं च 'त्वतलोः' इति सूत्रशेखरे स्पष्टम्। अत्र विद्यतो मुखविकारवत्वादिके नैसर्गिके लक्ष्मीरुचिपरास्तत्वं न हेतुरिति तद्धेतुत्वसंभावना हेतूत्प्रेक्षा। वस्तुतस्तत्परास्तताया अभावादसिद्धविषया ऋ्रषोत्तम्भिता। पूर्वोदाहरणे वात्सल्यादिति हेतुत्व तावत्पश्चम्यैव निर्रदिष्टम्, अत्र तु जितेति धर्मिविशेषण- तया जयस्य हेतुत्वमार्थम्। यथा 'पूजितस्तुष्यति' इत्यादौ पूजनादे:॥ ननु कथं विद्युच्छन्दगतं विप्रभृतिवर्णव्त्त्वं तद्वाच्ये वस्तुनि संभवेत्, येन उपपादितश्ेषमूलकाभेदकल्पनेन उक्तोर्ऽर्थो निरु- ह्येतेति चेत्। शब्दार्थतादात्म्यस्य साम्राज्याित्यवेहि। तथा

योरितरेतराध्यासरूप: स्मृत्यात्मको योऽयं शब्दस्सोरऽर्थो योर्ऽर्थ- स्स शब्द:' इति पातञ्ञलभाष्यमुदाहरन्तः पदपदार्थयोस्संव- न्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया। तङ्राहकं चेतरेत- राध्यासमूलं तादात्म्यं तदेव सम्बन्धः। उभयनिरूपिततादात्म्य- वानुभय इत्यर्थपदयोर्व्यवहारात्। तस्य च तादात्म्यस्य निरू- पकत्वेन विवक्षितोऽर्थशशक्यः, आश्रयत्वेन विवक्षितश्शब्द इशक्त। शब्दार्थयोस्तादात्म्यादेव श्रोकमशणोत् अर्थ वदतीति व्यवहार: 'ओमित्येकाक्षरं ब्रह्म, रामेति द्वयक्षरं नाम मान- भङ्ग: पिनाकिन:, वृद्धिरादैच्' इते शाक्तग्राह कश्रुतिस्मृतिविषये

Page 232

उत्प्रक्षासर: (१४) 221

सामानाधिकरण्येन प्रयोगश्च। तादात्म्यं च तन्िन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसमनियतम्। अभेदस्या- ध्यस्तत्वाच्च न तयोविरोधः" इति। विस्तरस्तु मज्जषादौ। तस्मा- च्छब्दार्थतादात्म्यावलम्बनेन विद्युच्छब्दगतमपि विप्रभृतिवर्णव- त्वं तदर्थेऽपि निरर्गळमेवेत्युपपादितोऽर्थो निरुह्यत इति न संकटं किंचित्। एवमेवान्यत्रापि बोद्धव्यं वुद्धिमद्भिः ।।

यथा वा-

आर्थिजनपीडनानामसासहिर्नूनमहिमहीध्रम- गाः। क्व वसन्तमर्थिनिवहा वदान्यमब्जाक्ष जी- वयन्त्येते ॥३८२॥

आर्थिजनपीडनांनां अप्तासहिनूनं असहिष्णुरिव 'सासहि वावहि' इत्यादिना यङन्तात्सहतेः किप्रत्ययान्ततया निपातना- त्साधुः। पीडनानामिति कर्माण षष्ठी। अहिमहीध्रं शेषाद्रिं आशीविषमयं गिरिमित्यपि गम्यते । अतिभयंकरत्वेनान्यदुर्गम- त्वमनेन द्योत्यते । अगाः प्राप्तवानभूः। हे अब्जाक्ष ! एते परसं कटं मनागप्यनालोचयन्तस्स्वार्थककृपणा इति भावः। अर्थिनि- वहा: वदान्यं प्रियवचनपुरस्सरदानशीलं क्व वसन्तं जीवयन्ती- ति लोकोक्तिः। न खलु सुदुर्गममपि प्रदेशमास्थितवन्तं न पीड- येरन्निति भावः। अत्र भगवतोऽहिमहीध्रप्राप्तयहेतोरव्य्थजनपी- डनासहिष्णुत्वस्य तद्धेतुत्वसंभावना असिद्धविषया, ताद्दशास- हनस्यासिद्धत्वात् । अत्रापि पूर्वोदाहरण इव हेतुरार्थः । पूर्वो- दाहरणद्वयं श्ेषसंकीर्णम्। इदं तु शुद्धमिति वैलक्षण्यम्।।

Page 233

222 अलंकारमणिहारे

सिद्धविषया फलोत्प्रेक्षा यथा- विनतानां जनतानां तमसामवसादनाय किल शौरे। शस्तघृणिं कौस्तुभमणिमरुणांशुसहस्त्रनि- भमुरसि वहासे॥३८३॥ अत्र कौस्तुभमणिधारणं प्रत्यफलस्यापि तमोऽवसादनस्य तत्फलत्वेन संभावना सिद्धविषया फलोत्प्रेक्षा। तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ इत्युक्तप्रकारेण भगवतस्तमोऽवसादनस्य स्वतस्सिद्धत्वात्॥

असिद्धविषया फलोत्प्रेक्षा यथा- सोदरसुधानिरन्तरसादरसहवासकुतुकपारिपू- त्यैं। काकोदरगिरिनाथः कमलायै स्मितसुधां व्यनक्ति किल ॥३८४॥

किलेत्युत्प्रेक्षाव्यञ्जकम् । अत्र भगवता लक्ष्मीं प्रति स्मि- तसुधाया व्यञ्जनस्य सोदरसुधानिरन्तरसादरसहवासकुतुकपरि- पूर्तिर्न फलमिति तस्या: गगनारविल्दायमानायास्तत्फलत्वेन सं- भावना असिद्धविषया फलोत्प्रेक्षा।।

यथा वा अहमपि विजितोऽस्म्यनया रमयेति व्यञ्ञना- य किल भगवन्। तन्निलये निजहृदये भान्तीं बभ्नासि वैजयन्तीं त्वम् ॥ ३८५ ।।

Page 234

उत्प्रेक्षसार: (१४) 223

वैजयन्तीं विजयपताकां वनमालां च। अत्र भगवता ल. क्षमीनिलयभूते निजहृदये वनमालाSभिन्नत्वेनाध्यवसिताया वैज- यन्तीशब्दवाच्याया जयपताकाया बन्धनं प्रति स्वस्थापि थ्रिया विजितत्वाभिव्यञ्जनं न फलमिति तस्य फलत्वेन संभावना उक्त- फलस्यासिद्धत्वादसिद्धविषया फलोत्प्रेक्षा। इयं रूपकश्ेषाभ्या- मुत्तम्भिता । पूर्वा तु रूपकसंकीर्णेति भिदा॥ यथा वा- लक्ष्मीजयकेतनतामात्मीयोरस्स्थलस्य विशाद- यितुम्। बभ्रासि वैजयन्तीं बहुवर्णा तत्र नूनम- ब्जाक्ष ॥ ३८६॥ हे अब्जाक्ष ! आत्मीयोरस्स्थलस्य लक्ष्म्या: जयकेतनतां वि जयध्वजयष्टितां केतनशब्दोऽत्र ध्वजयष्टिवाची। पक्षे विजयगृह- त्वम् । 'केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' इत्यजयः। विशदयितुं नूनं तत्र विजयकेतनभूते आत्मीयोरस्स्थले बहुवर्णा विचित्रां, पक्षे-'पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः' इत्युक्तवर्णा वैजयन्तीं पताकां वैजयन्तीशब्दोत्र ध्वजपटीवा- चकः। बन्नासि। यद्यपि 'पताका वैजयन्ती स्यात्केतनं ध्वज- मस्त्रियाम्' इति पताकादयश्चत्वारोऽपि शब्दा ध्वजपर्यायतया सुधादौ व्याख्याताः। तथाऽपि पताकावैजयन्तीशब्द्योर्ध्वजपटी- वाचित्वं केतनध्वजशब्द्योस्तद्यष्टिवाचित्वं चावश्याभ्युपेयं, तथैव प्रसिद्धेः। अन्यथा 'पताकाध्वजमालिनम्, चञ्च्वग्रद्ष्टचटुला- हिपताकयाऽन्ये स्वावासभागमुरगाशनकेतुयष्टया, प्रभावनीकेतन- वैजयन्तीः' इति श्रीरामायणमाघकाव्यादिपु भूयस्सु प्रदेशेषु पताकाध्वजादिशब्दानां सहप्रयोगो विरुध्येत। न हि घटकलशा-

Page 235

224 अलंकारमणिहार

दीनां पर्यायशब्दानां सहप्रयोगो दृष्ट इष्टश्र। किंच उदाहते माघकाव्यपदये चटुलाहिपताकयेत्यत्राहे: ध्वजपटीत्वेन रूपणस्यैव उरगाशनकेतुयष्टयेत्येतदनुरूपता। अत एव 'व्याकृत्तशीर्षकरको विमलास्थिदन्तो रक्तहदांशुकधरो रथकेतुदण्डः' इति चम्पुभा- रतपद्ये केतुयष्टेः यतिधार्यदण्डत्वेन रूपणं, 'असौ ते पूर्वेषां सु. चरितपताका यद्मरस्रवन्ती' इति मुरारिमिश्रपद्ये मन्दाकि- न्यास्सुचरितपताकात्वेन रूपणं च योयुज्यते। 'ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत्' इति ध्वजारोहणप्रकरणगतपाझ्मसं- हितावचनं चात्रैवातुकूलम्। अत्र विशदयतुमिति तुमुनोऽरथः फलम्। एवं वक्ष्यमाणोदाहरणेऽपि। पूर्वोदाहरणेषु चतुर्थ्यर्थः फलम्। अत्र भगवता निजोरस्स्थलस्य लक्ष्मीजयकेतनताभिव्य- अ्ञनं तत्र वैजयन्तीबन्धनं प्रत्यफलं तत्फलत्वेन संभाव्यत इति फलोत्प्रेक्षा तादृशव्यञ्जनस्थासिद्धत्वादसिद्धविषया केतनवैजय-

भेदाध्यवसायमूलातिशयोक्तयनुप्राणितिति विशेषः॥ यथा वा- अञ्जनभूधरविभुना व्यञ्जयितुं माधवत्वमिव नैजम्। हृद्यातिमृदुलताश्रीरामोदं प्रापितोपवन- मालम् ॥३८७॥ अ्जनभूधरपतिना नैजं माधवत्वं मधुमासत्वं श्रीपतित्वं च। 'माधवोडजे मधौ राधे' इति मेदिनी । व्यञ्जययितुिव उ- पवनमालं वनराजीसमीपे वैजयन्तीसमीपे च । हृद्या हृदयस्य प्रिया वक्षसि स्थिता च । अतिमृद्धचश्च ताः लताश्च तासां श्रीस्समृद्धिः, पक्षे अतिशययिता मृदुलता सुकुमारता यस्यास्सा

Page 236

उंत्प्रेक्षासर: (१४) 225

श्रीः लक्ष्मीः आमोदं सौरभं हर्ष च प्रापपता। अत्र भगवता स्वत एवातिमृदुलताश्रीरामोदं प्राप्यत न तु स्वें साधवत्वमभिव्यअ्ञ- यितुमित्यफलस्य तद्वयअ्ञनस्य फलत्वेन संभावनाफलोत्प्रेक्षा ता.

ता। पूर्वा त्वभङ्गन्लेषेणेति मिदा। यथावा- सरसहिततामवासुं विहाय तामरसतां स्वत- स्सिद्धाम्। उरगवरगिरिपते भवदुरसि सरसिजा- नि माल्यतां प्रापु:।३८८॥

सरसेश्यो रसिकेभ्यः हिततां सरसतां हिततां वा अ- वापं तां तथाविधां अरसतां अरसिकत्वं, पक्षे तामरसतामिति समस्तं पदम्। तामरसत्वमित्यर्थः । अत्र सरसहिततावाप्तेइश- शशङ्गायमानायास्सर सिजकर्तृकमाल्यतावाति प्रत्यफलस्यापि फ- लतया संभावना असिद्धविषया फलोत्प्रेक्षा इयमपि पूर्ववत्स- भङ्गश्ेषदन्तहस्तवेति व्येयम्॥।

यथावा- न्यसितुं पदमहिशिखरिण्यकृतकनगरात्वरा- न्वितोऽवतरन्। क्षुभितं वलग्नमच्युत संवाहयितुं किलात्र करमदधाः॥३८९॥

लग्नकर्मकसंवाहनस्य भगवत्कर्तृकस्य तन्कर्तृकस्वाभाविकनिजा- वलग्नाधिकरणकसव्यपाणिन्यसनं प्रत्यफलस्यापि फलत्वेन संभा- ALANKARA 29

Page 237

226 अलंकारमणिहारे

चना फलोत्प्रेक्षा संवाहनस्य विषयस्यासिद्धत्वादसिद्धविषया। इयं शुद्धा पूर्वास्तु संकीर्णा इति वैलक्षण्यम्॥ अत्रैवं बोधप्रकार :- वस्तूत्प्रेक्षोदाहरण 'सुरगिरिशिशुरिव महाकिरीट: इत्यन्र सुरागिरिशिशुत्वावच्छिन्नस्य इवार्थे संभा- वनायां प्रकारतयाऽन्वयः । संभावनायाञ्च विषयतासंबन्धेन म- हाकिरीटेऽन्वयः। तथाच सुरगिरिशिशुप्रकारकसंभावनाविषयो महाकरीट इति बोधः । महाकिरीटविषया सुरगिरिशिशुप्रका रिका च संभावना तादात्स्यसंसर्गेणैव, तथाऽनुभवात्, चमत्कृति- प्रयोजकस्य संसर्गान्तरस्याभावाच्च। न त्वेवं सुरगिरिशिशुत्व- प्रकारिका, तस्य सुरगिरिशिशूपसर्जनत्वात्। एवं ध्रुवं नून- मित्यादिशब्दसमभिव्याहारेऽपि बोध्यम्। 'मुखं चन्द्रं मन्ये' इत्यादौ तु चन्द्राभिन्नमुखविषया संभावनेति बोधः, नामार्थ- योरभेदान्वयव्युत्पत्तेः । एवं 'मुख चन्द्रं संभावये तर्कये' इत्यादावपीति ध्येयम्। अभिषिश्चतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु अभिविश्चातना साध्यवसानलक्षणया अभिषेचनानन्दोभयसा- धारणेनाप्यायकत्वादिना रूपेणोपस्थापिते आनन्दने अभिषेचनसं- भावनान्वयादाप्यायकं भगवत्कर्तृकस्वकर्मकासिषेचनप्रकारकसं- भावनाविषय इति बोधः । एवमनक्तीवेत्यादावपि ज्ञेयम्। "लि- म्पतीव तमोङ्गानि' इत्यत्न व्यञ्ञनयोपस्थापिते व्यापने तादृश- संभावनान्वयः" इति काव्यप्रदीपकारः ॥ हेतूत्प्रेक्षोदाहरणे 'अअ्जनशिखरिणि सततासञ्जनतो नूनम- सित एष हरि:' इत्यत्र पश्चमीस्थानिकतसेहैतुरर्थः। तत्र चा भेदेन प्रकृत्यर्थान्वयः हेतोश्च स्वप्रयोज्यतासंबन्धेनासितत्ववि- शिष्टेऽन्वयः। विशेषणस्य प्रयोज्यत्वे विशिष्टस्यापि तत्प्रयोज्य- त्वाव्याहतेः। यद्वा स्वप्रयोज्याश्रयत्वसंबन्धेनान्वयः। तस्य प्र-

Page 238

उत्प्रेक्षासर: (१४) 227

कारतासंबन्धेन संभावनायां तस्याश्च विषयतया हरावन्वयः ।

भावनाविषयो हरिरिति बोधः। न च तादात्म्यसंबन्धेन हेतु- विधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात्। किंतु तादात्म्येन तथा- विधासितस्वरूपोत्प्रेक्षैवेति वाच्यम्। विवक्षितविवेचनयाऽख्जन- गिरिसततासञ्ञने हेत्वभेदस्योत्प्रेक्षणीयतया सततासञ्ञनं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वाभ्युपगमात्। मुखचन्द्र इति रू- पक इवानुयोगित्वमुखस्याभेदस्य सततासञ्जनसंसर्गत्वाभ्युपग- मेन च सततासख्ञने हेत्वभेदभानसंभवात्। हेतुविशिष्टस्वरू- पोत्प्रेक्षाया मुखतः प्रतीयमानत्वेऽपि विवक्षावशेन हेतूत्प्रेक्षात्वे- नैव व्यपदेशः । यथा 'दभ्ना जुहोति' इत्यत्र मुखतो दधि- विशिष्टहोमप्रतीतावपि विवक्षितविवेचनया होमे दधिविधित्व- व्यपदेश इति ज्ञेयम्। न च स्वप्रयोज्यत्वसंबन्धेन स्वप्रयो- ज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव असितपदार्थे स्वी- क्रियतां किमेताद्ृशकल्पनायासेनेति वाच्यं, धर्मोत्प्रेक्षाभ्युपगमे दूषणस्य पूर्वमेवोदीरितत्वात् । अत एव 'हर्षालन्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहतवतः काव्यप्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमेव स्वा- भाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्तहर्षहेतुकलग्नतादात्म्यसंभावनमुचितं लगनस्य धर्म्युपसर्ज- नत्वेन संभावनायामन्वयायोगादिति दिक्। एवमुदाहृतासिद्ध - विषयहेतूत्प्रेक्षायामपि द्रष्टव्यं, विषयस्य सिद्धत्वासिद्धत्वाश्यां बोधे विशेषाभावादित्यलम्।।

विनतानां जनतानामिति फलोत्प्रेक्षोदाहरणे तमसामवसा- दनायति चतुर्थयर्थः फलम्। तत्र चाभेदेन प्रकृत्यर्थान्वयो

Page 239

228 अलंकारमणिहारे हेतूत्प्रेक्षावदेव। फलस्य च प्रयोजकतासंसर्गेण कौस्तुभधारणे स्वप्रयाजकाश्रयतासंबन्धेन तदाश्रये वाऽ्वयः। तत्तादात्म्यसं सर्गकसंभावनायाइशीरौ विषयतया। एवंच तमोऽवसादनाभि न्नफलककौस्तुभवहनाश्रयसंभावनाविषयश्शौरिरिति बोधः। एवं तुमुन्नन्तस्थले फलं तुमुनोऽर्थः बोधस्तु तुल्य एव। फलोत्प्रे क्षात्वं चोकतरीत्योपपादनीयमिति दिक्। एवं कुवलयानन्दानु- सारेण उत्प्रेक्षायाष्षडिघत्वं दार्शितम्॥ प्राचां मते तु-उत्प्रेक्षा तावह्विविधा, वाच्या प्रतीयमाना च। इव नूनं शङ्के संभावयामि मन्ये जाने तर्कये ऊहे उत्प्रे- क्षे अवैमि प्रत्येमि वेघि ध्रवं प्रायः किलेत्यादिभिः प्रतिपाद- कैशशब्दैस्सहिता यत्र संभावनासामग्री तत्रोत्प्रेक्षा वाच्या। यत्र च प्रतिपादकशब्दरहितं सामग्रीमात्रं तत्र प्रतीयमाना। यत्र तत्सामग्रीविधुरं प्रतिपादकशब्दमान्रं तत्र संभावनामात्रमेव नोत्प्रेक्षा। सापि प्रत्येकं त्रिधा-स्वरूपोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रे- क्षा चेति। तत्र जातिगुणक्रियाद्रव्यरूपाणा तद्भावरूपाणां च पदा- र्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकै- वर्येस्तस्समुच्चितैः उपात्तैरतुपात्तैः निष्पन्नैः निष्पाद्यैर्वा निमित्त- भूतैर्यथासंभवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेधूत्प्रेक्षणं स्व- रूपात्प्रेक्षा। तत्राभेदेन संसर्गेण धर्मिस्वरुपोत्परेक्षा, संसर्गा न्तरेण धर्मस्वरूपोत्प्रेक्षा चोच्यते। उक्तविधेषु पदार्थेषु प्रागुक्त- प्रकाराणां पदार्थानां तथाविधैरेव निभित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। एताश्च

ल्पास्संपद्यन्ते। तत्र दिङ्गात्रं प्रपर्श्यते ॥ तत्र उपात्तजातिनि- मित्तकजातिभावस्वरूपोत्प्रेक्षा यथा-

Page 240

उत्प्रेक्षासर: (१४) 229

वृषशैलेशकटाक्षश्रियोऽनवरतं निवाससरसि- रुहम्। अम्ब मुखं तव मन्ये भ्रमरकनिकरेण भृशमुपरि चलता॥ ३१० ॥ कटाक्षस्य श्रीश्शोभैव श्रीः लक्ष्मीः तस्याः। भ्रमरकाः द्वि- रेफा: ललाटगतचूर्णकुन्तलाश्च, तेषां निकरेण। अत्र मुखत्वजात्य- वच्छिन्ने सरसिरुहत्वजात्यवच्छिन्नं तादात्म्येन संभाव्यते। तत्र

उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा-

नू। गळशङ्कजान्विजाने विशदान्मौक्तिकमणींस्त- वाम्ब रदान् ॥ ३९१॥ निश्वसनेन निश्वासमारुतेन प्रौत्तिप्तान् ऊर्ध्च प्रणुन्नान् अध- रोष्ठयो: निरोधेन पङ्डिभावं श्रेणीभूयावस्थानं गतान् प्राप्तान्. 'द्विताया श्रित' इत्यादिना समासः। यथा मारुतोत्कृतानि धान्याननि यत्किश्चिद्वयवधायकवस्तुपातघातेन श्रेणीभूयावतिष्ठन्ते तथेति भावः। अत्र दन्तत्वजात्यवच्छिन्नेषु मौक्तिकत्वजात्यव- चिछन्नास्तादात््येनोत्प्रेक्ष्यन्ते,तत्र विशदत्वगुणो निमित्तमुपात्तम्।। यथावा- लावण्यजलनिधौ तव वदनेडहिगिरीश भाति गङ्गेव। मृगनाभितिलकयमुनामिळिता मौक्तिक- ललाटिका धवला ॥ ३९२॥

Page 241

230 अलंकारमणिहारे

ललाटे भवा ललाटिका 'कर्णललाटात्कनलङ्कारे' इति कन्। ललाटे लम्बतया निबद्धः पत्रपाश्याख्याभरणविशेष: 'पत्रपाश्या ललाटिका' इत्यमरः। अत्र मौक्तिकललाटिकात्वजा- त्यवच्छिन्ने गङ्गात्वजात्यवच्छिन्नं तादात्म्येनोत्प्रेक्ष्यते। तत्र धव लेति गुणो निमित्तमुपात्तम्।। यथावा- तपनात्मभवाडभूवं तुहिनांशोरपि सुता भवेय- मिति। असिता वदनेन्दौ तव जनिता यमुनेव तिलकरेखैषा ॥ ३९३॥ अत्र यमुनेवेति जात्युत्प्रेक्षायां असितेति गुणो निमित्तमु- पात्तम्। गङ्गायमुनयोर्द्रव्यत्वेन विवक्षायां द्रव्योत्प्रेक्षाया पवे- दमुदाहरणद्वयं भविष्यतीति ध्येयम्॥ उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा- वृषगिरिपतिहृदि सौधे नायकमणिना दृढोप- गूढायाः। मुक्ताहारलतायाः पुलका इव भान्त्यु- दित्वराः किरणाः ॥ ३९४॥ अत्र किरणरूपजातौ पुलकत्वरूपजात्यवच्छिन्नानां तादा- त्म्येन संभावनम् । तत्रोपगूहनक्रियाया निमित्तता।। उपात्तद्रव्यनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा-

वद्वदनम्। संभावयामहे ननु लक्ष्म्याऽनारतमिहैव 1 विहुरन्त्या ॥३९५॥

Page 242

उत्प्रेक्षासरः (१४) 231

इहैव वदन एव विहरन्त्या लक्ष्म्या सुषमया श्रिया च भवद्वदनं विकस्वराम्भोरुहं संभावयामहे निरन्तरलक्ष्मीविहारा- श्रयत्वात्प्रफुल्लकमलत्वेनोत्प्रेक्षामहे इत्यर्थः । अत्र मुखत्वजात्य- वच्छिन्न अम्भोरुहत्वजात्यवच्छिन्नतादात्म्योत्प्रेक्षणम्। तत्र श्े- षसंपादितसुषमाभेदरमारूपद्रव्यं निमित्तमुपात्तम्। अत्र लक्ष्मी- शब्दस्यैकव्यक्तिवाचित्वात् द्रव्यत्वम्। एतेनोत्प्रेक्षायां जातिद्रव्य- योनिमित्तत्वमपरिगणयन्त उपेक्षणीयाः । उक्तं च चित्रमीमां- सायाम्-

उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि। तेनापि विकलां विझ्यो निमित्तगणनामिमाम्। इति। इमां निमित्तगणनां प्राचीनोक्तामित्यर्थः । उदाहृतं च तत्र जातिद्रव्यनिमित्तकोत्प्रेक्षाद्वयम्॥

अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा- भ्रयुगळधनुर्लस्तकसंहित नासाकरीरसंलग्रम् । मधुरिपुमृगमदतिलकं ननु भुवनजिगीपुमदनशर- फलकम् ॥३१६॥ अत्र मृगमदतिलकत्वजात्यवच्छिन्ने मदनशरफलकत्वजात्यव-

त्तम्। वस्तुतस्तु प्रथमार्धप्रतिपादितो धर्मः वक्ष्यमाणरीत्या रूपकेण विषयविषयिसाधारणीकृत इत्युपात्त एव। असितत्वा- दिरेवानुपात्तः तस्मादिदं पद्यमुपात्तानुपात्तनिमित्तकजातिभाव- स्वरूपोत्प्रेक्षाया एव वक्ष्यमाणरीत्या उदाहरणं भवितुमर्हति। न तु केवलानुपात्तनिमित्तायाः॥

Page 243

232 अलंकारमणिहारे

शुद्धानुपात्तनिमित्ता यथा- हरफालनयनवितनुं स्मरममुनैवोपजीवयितु- मनसा। हरिणा स्वफालकलितं नयनमिवोर्ध्वाश्च लं जयति तिलकम् ॥ ३१७॥ हरस्य फालनयनेन वितनुं विगतशरीरं स्मरं अमुनैव फालनयनेनैव उपजीवयितुमनसा हरिणा श्रीनिवासेन स्वस्य फाले ललाटे कलितं सृषटं 'कवीनां कलिः कामधेनुः इत्याहुः। ऊर्ध्वे अञ्चलं अग्रं यस्य तत्तथोक्तं नयनमिव तिलकं कस्तू- रीचित्रकं जयति लोके नयनयोवर्तुलमूलत्वकुश्चितसूक्ष्माग्रत्वद- र्शनेन तिलकस्य तत्संभावनालाभाय ऊर्ध्वाश्चलं नयनमित्यभि- हितम्। न हि नयनस्योर्ध्वाश्चलत्वमन्तरेण वर्तुलमूलाकुश्चित- सूक्ष्माग्रकस्तूरीतिलकतादात्म्यसंभावनं संभवति। अत्र हरहरि- शब्दाभ्यां हरणरूपप्रवृत्तिनिमित्तकाभ्यामुभयोस्तौल्यनिमित्तकस्प- र्धा दयोत्यते। सा चोपपादिताया उत्प्रेक्षाया उपस्कुरुत इत्य- वधेयम्। अत्र नयनत्वजात्यवच्छिन्नतादात्म्यसंभावनायां नैल्या- दिनिमित्तमनुपात्तम्॥

यथावा-

वासगिरेः । फणिभूभृत्त्वं प्रथयितुमुन्मिषिता ल- सति नयनमालेव ।३९८॥ फणिभूभृत्वं भुजगराजत्वं शेषाद्रित्वं च । अत्र चन्द्रक- मालायां जातौ नयनमालाजात्यवच्छिननं संभाव्यते। इयामारु- णत्वादिनिमित्तमनुपात्तम्।।

Page 244

उत्प्रक्षासर: (१४) 233

एवं शुद्धा उपात्तनिमित्तका अनुपात्तनिमित्तका अपि जा- तिभावस्वरूपोत्प्रेक्षा: प्रदर्शिताः॥ अथ मिश्रास्ता उदाहियन्ते- हृदयास्पदया रमया प्रसारिता नाभिकमलगं स्वसुतम्। उद्दोढुं भुजयुगळी किल शौरेर्भाति य- षटिरालम्बा ॥ ३१९॥

यष्टिर्नाम- एकावळी नाम यथेष्टसंख्या हस्तप्रमाणा मणिभि: प्रयुक्ता। सयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता। इति वराहमिहिरोक्तलक्षण एकावळ्यपरनामधेयो मुक्ता- हारविशेषः । आलम्बत इत्यालम्बा लम्बमानेत्यर्थः । अत्र भग- वतो हारयष्टयां जातौ तद्वक्षस्स्थलावस्थितलक्ष्मीसंबन्धिभुज- त्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते। तत्र च हारयष्टिगतानां लावण्यप्रसारितत्वलम्बत्वानां धर्माणां निमित्ततानिष्पत्तये चिष- यिलक्ष्मीभुजयुगळीगतत्वमवश्यं संपादनीयम् । तेगं च मध्ये अनुपात्तस्य लावण्यस्य जक्ष्मीदिव्यविग्रहसंबन्धित्वादेव भुज- युगळीगतत्वं संपन्नम्। इतरयोरपि संपाद्नाय भगवन्नाभीकमल- गतस्वसुतचतुराननसमुद्धहन फलमुत्प्रेक्षितम्। तत्साघनताज्ञा- नस्य प्रसारितत्वलम्बत्वानुकूलयलजनकत्वात्। एवं च विषय- गततादशोद्वहनफलकप्रसारितत्वलम्बत्वाआयां विषयगतयोस्स्वा-

रण्यसंपत्तौ सत्यां निमित्तता भवति। न चात्र फलस्याप्युत्प्रे- क्षणात्फलोत्प्रेक्षेति युक्तं वक्तुम्। उत्प्रेक्ष्यमाणफलनिष्पादितनि- AĻANKARA 30

Page 245

234 अलंकारमणिहारे मित्तोत्तम्भितायां स्वरूपोत्प्रेक्षायामेव विधेयत्वेन चमत्कृतेर्विश्र- मात् उत्प्रेक्षाप्रतिपादकस्य किलशब्दस्य फलेनानन्वयाच्च तयैवा- त्र व्यपदेशो युक्त। अनिगीर्णविषया चेयमुपात्तानुपात्तक्रिया- गुणात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा तादात्स्योत्प्रेक्षा। लक्ष्मी- भुजयुगळ्यास्स्वतस्सिद्धत्वेऽपि प्रसारितत्वविशिष्टायास्तस्या: क- विनैव निष्पादितत्वात्। यथा वा- सोदरकमलालालनमोदगळत्कौस्तुभाश्रुभरबि- न्दून। धाराकारान् शौरे्हारानानाभिलम्बिनो मन्ये ॥ ४००॥ अत्र शौरिहारे जातौ तद्वक्षस्स्थलावस्थितकास्तुभानन्दवा- उपबिन्दुत्वजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षणम्। तत्र च धारा- कारत्वानाभिलम्बित्वथाळथळयानां धर्माणां निमित्तत्वनिष्पत्यै विषयिकौस्तुभानन्दबाष्पबिन्दुगतत्वसंपादनमावश्यकम्। तेषां च मध्ये अनुपात्तस्य थाळथळ्यस्यानन्दवाष्पसंबन्धितयैव तद्वि- न्दुगतत्वं संपन्नम्। अन्ययोर्धाराकारत्वलम्बित्वयोरि संपाद- नाय सोदरकमलालालनमोदगळत्त्वं हेतुत्वेन संभावितम्। एवं

कत्या सत्यां साधारण्यसंपत्यां स्यान्निमित्तता। उक्तविषया चे- यमुपात्तानुपात्तक्रियागुणनिमित्ता निष्पाद्यविशिष्टशरोरा जात्युत्प्रे क्षा, कौस्तुभाश्रुबिन्दूनां कविनैव निष्पादितत्वात्।। यथा वा- नाथ तव नाभिसरसीमग्ननिजस्वसरमाहदुद्द-

Page 246

उत्प्रेक्षमार: (१४) 235

तये। हृदयगकौस्तुमलम्बीकृता भुजयुगीव भा- ति हारलता ॥ ४०॥ अत्रापि हारलतायां जाती भुजयुगीत्वजात्यवच्छिन्नं ता- दात्म्येन संभाव्यते। तत्र च लम्बत्वप्रकाशवत्वयोर्धर्मयोर्नि- मित्ततानिर्वृत्तये विरषायभूतकौस्तुभसुजयुनोगतत्वमवश्यसंयाद्यम्। तयोर्मध्ये अनुपात्तस्य प्रकाशवत्वस्य कौस्तुभानुबन्धित्वेनैव भुजयुगोगतत्वं संपन्नम्। लस्वत्वस्यापि तद्गतत्वसंपादनाय भ- गवन्नाभीसरसीनिमअननिजस्वसर मामानसोद्धरणं फलत्वेनोत्प्रेक्षि- तम्। एवंच विषयिगततादशोद्धरणफलकलम्बत्वेन विषयगत-

धारण्ये संपन्ने निमित्तत्वं निष्पदते। अन्यत्सर्व पूर्वतरोदाहर- णवदेव। इयमप्युपात्तानुपात्तक्रियागुणात्मकनिमित्ता निष्पाद्य- विशिष्टशरीरा जात्युत्प्रेक्षेव, कौस्तुभसुजयुगस्य कविनैव नि- ष्यादितत्वादिति॥ यथा वा- निरवधिपरिमळलोमान्नासाचम्पकनिभालन- भयाच्च। मृगमदतिलको माधववदनाब्जे निश्चलः किल भ्रमरः ॥४०२॥ निभालनं दर्शनम्। अध्रापि नैश्चल्यविशिष्टे श्रीनिवास- कस्तूरीतिलके जातौ विपये नैश्चल्यविशिष्टभ्रमरजात्यवच्छिन्नस्य तादात्येनोत्प्रेक्षणम्। तत्र तिलकगतस्य नैश्चल्यस्य भ्रमरग- तत्वमन्तरेण तिलकभ्रमरयोरमेदस्य दुरुपपादतया तत्सिद्धचर्थ तस्य विषयगतत्वं साध्यमू। तत्र नैल्यस्यानुपात्तस्य उत्प्रेक्ष्य

Page 247

236 अलंकारमणिहारे

माणे विषयणि सिद्धत्वान्निश्चलत्वस्य निष्पादनाय निरवधि- परिमळलोभः नासाचम्पकनिभालनभयं चेत्येतदुभयं हेतुत्वेनो- त्प्रेक्षितम् । इहापि पूर्ववत्स्वाभाविककल्पितयोरभेदाध्यवसाना- त्साधारण्यम्। पूर्व हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रे- क्षा तथेहापि हेतोरुत्प्रक्षणे न हेतूत्प्रेक्षेति ध्येयम्।। यथा वा- चिबुके विसृत्वरास्तव हारलताघृणिशिखा जननि भान्ति। हरीनमितमुखोन्नमनप्रसारिता इव तदीयकरशाखाः ॥४०३॥ अत्र हारलताकिरणशिखारूपजातौ अङ्गुळििरूपजात्यवच्छि- न्नतादात्म्यसंभावना। तत्र च अनुपात्तस्यौज्ज्वल्यस्य धर्मस्य उपात्तयोः विसृत्वरत्वप्रसारितत्वयोर्धर्मयोर्वस्तुप्रतिवस्तुभावापन्न- योरभेदाच्च विषयविषयिसाधारण्यम्। अन्यत्सर्वे पूर्ववदेव। एवमन्यत्राप्यूह्यम्॥। एवं जातिभावस्वरूपोत्पेक्षा दिगुदाहृता॥ तादात्म्येन गुणभावस्वरूपोत्प्रेक्षा यथा- नीलगुणेनाक्ान्ते सुवर्णवर्णस्य तव वपुषि शौरे। बहिरुद्रतं विजाने पीतं गुणमुज्नलं कनक- वसनम्॥४०४॥ हे शौरे! तव कनकवसन सुवर्णवर्णस्य 'आप्रणखात्सर्व एव सुवर्णः । रुक्माभं स्वप्नधीगम्यम्' इत्यादिश्रुतिस्मृतिभि- र्सुवर्णवर्णत्वेनोक्तस्य तव वपुषि नीलगुणन आक्रान्ते सति

Page 248

उत्प्रैक्षासरः (१४) 237

बहिरुद्रतं तत्रानवकाशाद्वहिरुत्सृत्वरमित्यर्थः। पीतं गुणं विजाने उत्प्रेक्षे। अन्र कनकवसने जातौ पीतगुणस्तादात्म्येनोत्प्रेक्ष्यते। तत्र उज्जवलत्वं गुण उपात्त इत्युपात्तगुणनिमित्तकगुणभावस्व- रूपोत्प्रेक्षेयम्॥।

यथा वा- मधुरतमां सर्वेषां महागसां मज्जनाय सुनिषे- व्याम्। जाने तव करुणां श्रीजाने स्वामिंस्त्वदी- यपुष्करिणीम् ॥४०५॥ मधुरतमां अतिप्रियां अतिस्वाद्वी च 'स्वादुप्रियौ तु म- घुरौ' इत्यमरः । महत् आगः पापं येषां ते तथोक्तानां 'पा- पापराधयोरागः' इत्यमरः । सर्वेषां सर्वैर्जनैरित्यर्थः । 'कृत्या- नां कर्तरि वा' इति कर्तरि षष्ठी। मजनाय स्नानार्थ सुनि- षेव्याम। अन्यत्र महता आगसां अपराधानां मजनाय अद- र्शनायेति यावत् । सर्वेषां अखिलैरपराधिजनैरित्यर्थः । सुनि- षेव्यां सुखेन सेवनीयाम् ! अत्र स्वामिपुष्करिणीरूपद्रव्ये क रुणारूपगुणतादात्म्यसंभावनायां श्ेषोत्तम्भितो माधुर्यगुण: से- व्यत्वरूपक्रिया च निमित्ते उपात्ते इति विशेष:। एवं जात्यादिनिमित्तकगुणभावस्वरूपोत्प्रेक्षा अप्युदाहार्या: अनुपात्तनिमित्तकगुणभावस्वरूपोत्प्रेक्षा यथा- ऊर्ध्वप्रसरनिरोधकसरोजबान्धवविलोकनक्रो- धात्। आरुण्यमिवोद्भिन्नं फणिशिखरिशिखासु मणिकुलं कनति ॥ ४०६॥।

Page 249

238 अलंकारमणिहारे

मणयोऽत पदमरागा विवक्षिताः। अत्र पझ्मरागकुले जा- तौ आरुण्यगुणस्तादात्म्येन संभावितः । औज्ज्वल्यादिकं निमि- त्तमनुपान्तम्॥ यथा वा- रसनारुण्याक्रमणाइदशनाळ्यां स्थातुमन्तरम- लब्ध्वा। तत उद्धतं प्रतीमस्सितगुणमखिलाम्ब तव मितं हसितम् ॥४०७॥ अत्र स्मिते जातौ सितगुणस्य तादात्म्येन संभावनं, तत्र निमित्तं किमप्यनुपात्तम्। यथा वा- अन्तरमानादुच्चैरुद्वान्तं हस्तयोरिवारुण्यम् । तत्रोल्लसदब्जयुगं चित्ते करवाणि भुवनजननि तव ॥४०८ ॥ अत्र पद्मे जातौ आरुण्यगुणोत्प्रेक्षा अनुपात्तनिमित्ता।। यथा वा- मन्ये कौस्तुभरत्नं प्रतियत्नं श्रीशवक्षसोऽनूतम्। श्रीतनुसर्जनश्ेषं घात्रा लावण्यराशिमुपनिहितम्।। अत्र कौस्तुभरत्नस्य लावण्यराशिरूपगुणभावस्वरूपोत्प्रे-

एवम्- मूर्तिमदिव सौशील्यं स्फूर्तिमदिव भावयामि

Page 250

उत्प्रेक्षासरः (१४) 239

वात्सल्यम्। धाम किमप्यतिनैल्यं श्रीमत्फणिशि- खरिशिखरगमतुल्यमू॥४१०॥ इत्यादावपि गुणभावस्वरूपोत्प्रेक्षा अनुपात्तनिमित्ता बो- ध्या। महतो मन्दैस्सह नीरन्ध्रसंश्लेषणस्वभावत्वं सौशील्यत्वम्। दोषतिरस्कारिप्रीतित्वं वात्सल्यत्वम्। अतिनैल्यमिति बहुव्रीहिः॥ एवं गुणभावस्वरूपोत्प्रेक्षा दिक्प्रदर्शिता ।, अथ क्रिया- भावस्वरूपोत्प्रेक्षा।।

तत्र उपात्तजातिनिमित्तकक्रियाभावस्वरूपोत्मेक्षा यथा- शृङ्गाग्रपातिनि जझरशी कर निकरैर्मरुत्प्रस र नु - न्नैः। अर्पयति वियद्ङ्गा पुष्पाञ्जलिमिव फणीश- गिरिपतये ॥४११॥

यतीत्यत्राञ्जलावर्पणस्य वाधात्तद्विशेषणेषु पुष्पेष्वन्वयः । स्वर्गी ध्वस्त इत्यादिवत् । अञ्जलिस्थपुष्पाणि विकिरतीत्यर्थः । 'स- विशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंकामतः' इति हि न्यायविदः। अत एव 'सीतां रेतर्जयन्तीस्ता राक्षसी रशणोत्कपिः' इत्यादिप्रयोगास्संगच्छन्ते। वक्तव्यान्तरं तु ल- क्ष्मीसहस्त्रपादुर्भावस्तवकरत्नप्रकाशिकायां निरूपितमस्माभि:॥

उपासगुणनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा- पटुतरशशघरविशदस्फटिकशिलाप्रचुरशिख-

Page 251

240 अलंकारमणिहारे

रधवलिम्ना। स्फुटमपहसति महीध्रान् स्फटाध- रगिरिर्हरिं वहन्नन्यान् ॥४१२॥

अत्रापहसनक्रियाभावस्वरूपोत्प्रेक्षायां स्फटिकशिलाशिखर- धावळ्यरूपगुणो निमित्तमुपात्तम्।। उपात्तक्रियानिमित्तकभावस्वरूपोत्प्रेक्षा यथा-

स्वस्मिन्मुकुन्दवासानन्दाद्वाष्पायते किल वृषाद्रि:।। वाष्पमुद्धमति बाष्पायते 'बाष्पोष्मभ्यामुद्धमने' इति क्यङ्। अत्र बाष्पोद्वमनरूपक्रियाभावस्वरूपोत्परेक्षायां निर्झरोद्विरणक्रिया- निमित्तमुपात्तम्॥ एवसुपात्तद्रव्यनिमित्ताऽप्युदाहार्या।

यथा वा- करपद्मेन द्वेषान्मध्ये भित्वा प्रकोष्ठके प्रोतम्। क्रन्दति सितकरबिम्बं शिञ्जन्मणिवलयमम्ब तव मन्ये ॥४१४॥

अत्र प्रथमान्तविशेष्यकशाब्दबोधवादिनामभेदसंसर्गेण शि- अद्विशिष्टे मौक्तिकवलये करपद्मकर्तृकद्वेषहेतुकमध्यच्छिद्राकरण·

त्योत्प्रेक्षणपूर्वकं ऋन्दनकर्तृत्वं धर्म उत्प्रक्ष्यते। तत्र तादा- त््योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणो- त्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्र विषयगतो नि- मित्तमिति स्थिते प्रस्तुते क्रन्दनकर्तृत्वरूपधर्मोतप्रेक्षायां तत्स-

Page 252

उत्प्रेक्षासरः (१४) 241

मानाधिकरणप्रवयनकर्मत्वरूपधर्मस्य विषयगतन्वसिद्धये अनु. वाद्यतया मौक्तिकवलयतादात्म्यमनुपात्तधावळ्यनिमित्तकमुत्प्रे- क्ष्यते। तत्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणनामा- र्थमौपम्यं एवमत्रापि विषयभूतमौक्तिकवलयववशेषणस्थ प्रवय- नस्य मूलोत्प्रेक्षाविषयिभूतसितकरबिम्बविशेषणेन प्रवयनेनाभेद आर्थः । ततश्च सितकरबिम्बकर्मकप्रवयने सिद्धे मुख्योत्प्रेक्षा निर्व्यूढा भवति। ऋन्दनशिञ्जनयोरपि बिम्बप्रतिबिम्बभावेना- भेदः । तेन प्रकोष्ठकप्रोतशिअ्जदभिन्नो मौक्तिकवलयः प्रकोष्ठक- प्रोतंसितकरबिम्बाभिन्नः क्रन्दनक्रियानुकूलव्यापारवानिति बोध- प्रकार:। आख्याते भावनाप्राधान्ये तु अभेदेन क्रोशनक्रि- योत्प्रेक्षा। तत्र शाब्दवृत्तौ वलयविशेषणतया प्रतीयमानमपि शिक्षनं संभावनाविषयतयाऽवतिष्ठते अध्यवसानवशात्। क्रन्द- नक्रियायां व तादृशवलयो विशेषणम्। तादृशवलये चाभेदेन तादशसितकरबिम्बम्। न तु सितकरबिम्बमेव साक्षात्क्रिया- याम्। तथा सति वलयस्यानन्वयापत्तेः । विषयिविषयविशे- षणयोः प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिरिति॥ एवं क्रियाभावस्वरूपोत्प्रेक्षामार्गः प्रदर्शित: ॥

तन्तादृशि फणिशिखरिणि क्प्ावसथस्य क- स्यचिद्वाम्नः। स्मरणं तदीयमूर्तेश्चित्ते मम वज्- लेपमिव दत्ते ॥४१५॥

अत्र वज्रलेपनदानक्रियोत्प्रेक्षायां अविश्लेषेण संनिधापनं निमित्तं नोपात्तम्।। ALANKARA 31

Page 253

242 अलंकारमणिहारे

अथ द्रव्यभावोत्प्रेक्षा- तत्र उपात्तजांतिनिमिन्तकद्रव्यभावोत्प्रेक्षा यथा- भगवति मधुरिपुमहिळे भवतीमुखमस्य सं- मुखीनेन। द्रवता विधुकान्तेन स्वान्ते संतर्कयेत को नेन्दुम् ॥४१६॥

अस्य मुखस्य सम्मुखीनेन अभिमुखावस्थायिना द्रवता दयार्द्रेण रागद्रुतहृदयेन वा पक्षे जलस्राविणा। विधुकान्तेन विधुर्भगवानेव कान्तः वल्लभः तेन। पक्षे- अमृतांशुकरस्पर्शाद्यत्क्षरत्यमृतं क्षणात्। चन्द्रकान्तं तदाख्यातं दुर्लभं स्यात्कलौ युगे।। इति स्कान्दोक्तलक्षणश्चन्द्रकान्तमणिः तेन। अत्र मुखरूपजातौ इन्तुरूपद्रव्यतादात्म्योत्प्रेक्षणे श्रेषकल्पिताभेदश्चन्द्रकान्तमणिरूप- जातिर्निमित्तमुपात्तम्॥ उपात्तगुणनिमित्तकद्रव्यभावोत्प्रेक्षा यया- करचरणाद्यवयववत् स्फुरदाकाश विनीलम- हिशैले। उदितं ब्रह्म विजाने यदिदमनन्तं वदन्ति निगमान्ताः ॥४१७।।

अत्र श्रीनिवासे परब्रह्मणि द्रव्ये नीलत्वानन्तत्वगुणनिमि- त्तकमाकाशरूपद्रव्यतादात्म्योत्प्रेक्षणम्। आकाशस्य एकत्वादिदं द्रव्यम् । निगमान्ताः 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्या उपनि- षदः। अनन्तं त्रिविधपरिच्छेदरहितं ब्रह्म । पक्षे अन्तरिक्षें

Page 254

उत्प्रेक्षासरः (१४) 243

'अनन्तं गगने क्रीबे पुमान्केशवशेषयोः' इति रत्नमाला। अत्र नीलत्वादिर्गुण उपात्तः।। उपात्तक्रियानिमित्तकद्रव्यभावोत्प्रेक्षा यथा- स्वात्युज्तलत्वहेतो: प्रमोदवर्ष ददात्यलं यदयम्। त्वन्नासामणिमेनं शुक्रं मन्ये ततोऽम्बुनिधिकन्ये। यत् यस्मात् अयं त्वन्नासामणिः नासिकाभरणमौक्तिकं 'रत्नं मणिर्द्योरशमजाती मुक्तादिकेऽपि च' इत्यमरः । स्वात्यां स्वातीनक्षत्रे उज्जलत्वं अनस्तगत्वेन प्रकाशमानत्वं तस्माद्धेतोः। पक्षे स्वस्य आत्मनः अत्युज्जलत्वहेतोः औज्जल्यसन्भावाद्धेतोः अलं पर्यापं प्रदत्तो मोदो येन तत् प्रमोदं 'प्रादिभ्यो धातु जस्य वाच्यो वा चोत्तरपदलोपः' इति दत्तशब्दस्य लोपः । वर्ष वृष्टिं ददाति। वरुणस्य दिशि स्वात्यां चरन्कविरनस्तगः । संपूर्णो तनुते वृष्टिं जगदानन्ददायिनीम्॥ इत्युक्तरिति भावः । पक्षे प्रमोदवर्ष अविच्छिन्नमानन्दमित्य- र्थः। ददाति। ततः कारणात् त्वन्नासामणि शुक्ं भार्गवं मन्ये। अत्र नासामणी जातौ शुको द्रव्यं तादात््येन संभा-

प्रमोदवर्षदानलक्षणक्रियारूपं निमित्तमुपात्तम्।। उपात्तद्रव्यनिमित्तकद्रव्यभावस्वरूपोत्पेक्षा यथा- शाङ्क यदेतदहिगिरिशृङ्गविहारिन्विभाति तव भूमन्। संभावयाम्यनन्तं तदेतदधिरूढया ज्यया शिरसि॥४१९॥

Page 255

244 अलंकारमणिहारे

तदेतत् शार्ङ्ग शिरसि मूर्ि अग्रे च 'शिरः प्रधाने से- नाग्रे द्रुमाद्यग्रेषु मूर्ध्नि च' इति रत्नमाला। अधिरूढया ज्यया भूम्या मौर्व्या च। 'ज्या मौर्वीभूमिमातृषु' इति रत्नमाला। अनन्तं, शेषं संभावयामि उत्प्रेक्षे। अत्र शा्ङ्गे द्रव्ये शेषो द्रव्यं तादात्म्येन संभाव्यते। तत्र च ज्याशब्दप्रतिपाद्यमीर्वीभूमिरू- पार्थद्वयाभेदाध्यवसायेन शिरोधिरूढभूमिरूपद्रव्यं निमित्तमुपात्तम् अनुपात्तनिमित्तद्रव्यभावोत्प्रेक्षा यथा- भित्वा द्वेषाद्ानोबिम्बं मध्ये ततो विनिर्गच्छन् राहुरिव बाहुरच्युत तव मणिकेयूरवेष्टितो भाति॥ अत्र भगवतः केयूरवेष्टिते बाहौ मध्यभेदनपूर्वकभातुम- ण्डलविंनिर्गतो राहुर्द्रव्यं तादात्म्येन संभाव्यते। तत्र न किंचि- दपि निमित्तमुपात्तम्।। एवं जात्यादिभावस्वरूपोत्प्रेक्षादिक्प्रदाशता। अथाभावा- भिमानवत्यस्स्वरूपोत्प्रेक्षाः दिख्यात्रमुदाहियन्ते।। तत्र जात्यभावस्वरूपोत्प्रेक्षा यथा- नीलैर्निजरुचि जा लैर्दिन करशून्यामिवाचरन्व- न्याम्। फणिपतिशिखरिणि तस्यां रमयति रा- त्रिंदिवं रमां शौरिः ॥ ४२१॥

तस्यां वन्यायामित्यर्थः । अत्रदिनकरशून्यामिति जात्यभाव उत्प्रेक्ष्यते। तत्र नीलरुचिरूपगुणो निमित्तम्।। यथा वा- कश्चुकिगिरिमहिमभरैः कश्चुकितं वसुमतीतलं

Page 256

उत्प्रेक्षासरः (१४) 245

निखिलम्। दश्येSपि गिरिसहस्त्रे निश्शैलमिवा- तिवेलमाभाति ॥४२२॥ अत्र निश्शैलमिति जात्यभावोत्प्रेक्षायां शेषाद्रिमद्दिमव्या- पत्वलक्षणक्रिंयारूपं निमित्तमुपात्तम्। एवं उपात्तजातिद्रव्यनि- मित्तके जात्यभावस्वरूपोत्प्रेक्षे अप्युदाहाये॥ यथा वा-

स्य। सकलमपि दैवतान्तरविकलं किल भुवन- माचरन्कोऽपि ॥४२३॥ अत्र दैवतान्तरविकलमिति जात्यभावोत्प्रेक्षायां निमित्तम- चुपात्तम् ॥। गुणाभावस्वरूपोत्प्रेक्षा यथा-

चयपिशङ्गम्। फणिगिरिमस्तकरत्नं प्रत्यस्तमिता- त्मनीलिमेवासीत्॥ ४२४॥ अत्र नीलगुणाभावोत्प्रेक्षायां कमलारुचिनिचय परिचयपिश- ङत्वगुणो निमित्तमुपात्तम्॥। एवमुपात्तजातिक्रियाद्रव्यनिमित्तकाः अनुपात्तनिमित्तंका च गुणाभावस्वरूपोत्प्रेक्षा उदाहार्याः । क्रियाभावस्वरूपोत्प्रेक्षा यथा- कन्दर्पकोटिकोटिप्रयुतायुत दिव्यरूपलावण्यम्। निर्वर्ण्य वृषाद्रीन्दुं निस्पन्द इवाभवन्निखिललोकः॥

Page 257

246 अलकारमणिहार

: "अत्र निस्पन्द इति क्रियाऽभावोत्प्रेक्षाया निर्वर्णनरूपक्रि- यात्मकं निमित्तमुपात्तम्। निस्पन्द इत्यत्र सस्य न षत्वम्। अ- षोपदेशत्वेन तदप्राप्तेः । तथाच वामनः-'निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात्' इति। लक्षणं शास्त्रमिति। हंससन्देश- रसास्वादिन्यां 'दत्तनिस्पन्ददृष्टिः' इत्यस्य व्याख्यानावसरे नि- रूपितमस्माभि: । एवमुपात्तजातिगुणद्रव्यरूपनिमित्ता: अनुपात्तनिमित्ताश्च क्रियाऽभावस्वरूपोत्प्रेक्षा अप्युदाहार्याः ॥ द्रव्याभावस्वरूपोत्प्रेक्षा यथा- विशदयताऽखिलभुवनं यशसा भुजगेशशि- खरिशेखर ते। अशशाङ्गमिवाकाशं न कलङ्गी भाति भात्यपकलङ्गे ॥ ४२६॥ अपकलङ्के निष्कलङ्के भाति सति कलङ्की न भातीति यो- जना। अत्राशशाङ्कमिति द्रव्याभावोत्प्रेक्षायां यशसेति जातिर्नि- मित्तमुपात्तम्। यशसो गुणत्वविवक्षायां इयमुपात्तगुणनिमित्तेति ध्येयम् ॥

यथा वा- सत्यज्ञानानन्दे नित्यं वृषशैलशिखरतोऽस्पन्दे। परिरमति रमावासे परमपदं भवति नूनमब्रह्म॥।

अत्र परमपदे अब्रह्मत्वमुत्प्रेक्ष्यत इति द्रव्याभावस्वरूपो-

पासनिमित्ता। ब्रह्म द्रव्यं एकत्वात्। वृषशैलशिखरतः अस्प-

Page 258

उत्प्रेक्षासर: (१४) 247

न्दे अकृतकिश्चिच्चलने परिरमति परितो विहरति सति। 'व्या- ङरिभ्यो रमः' इति परस्मैपदम्॥ यथा वा- तावकमहसेवनभिळदन वधिजन चरण हतिजरे णुनिभात्। धरयोर्ध्व विसृमरया विगगनमिव ख- गगिरीश जगदासीत्॥४२८॥ महः उत्सवः 'मह उद्धव उत्सवः' इत्यमरः । अदन्तोऽ यम। रेणुनिभात् परागव्याजात्। खगगिरिरिति शेषाद्रेरेव ना- मान्तरम्। अत्र विगगनमिति द्रव्याभावोत्प्रेक्षायां रेणुव्याजेनो- त्खत्वरी भूमिर्द्रव्यं निमित्तमुपात्तम्॥ एषा मालारूपाऽपि संभवति, यथा- मरकतमणिरिव विचरन् करचरणमनोहरोऽ- म्बुराशिरिव। स्फुरदङ्ग इवानङ्गने व्रजभुवि विजहार यदुकुलकुमारः ॥ ४२१॥ अत्र भगवद्गतानां संचारित्वादीनां मरकतादितादात््यवि- 3 रोधिनां विरोधोपशमाय विषयिषु मरकतादिष्वारोपेण सा- धारणीकरणम्। न चेहपिमा शक्या निरुपयितुम्, विचरत्वा दीनामुक्तनैष्फल्यापत्तेः । न चोपमानिष्पादकं तेषां साधारपयं तदभावेऽपि नैल्यादिभिर्धर्मैः प्रतीयमानैस्तस्या निष्पत्तेरचारुत्वा- दुपमानिष्पादकत्वेन कवेरविवक्षितत्वाच्च। न ह्यत्र विचरत्वा- दिभिधमैर्मरकतादिसादृश्यं भगवतः कविसंरम्भविषयः । एवं J. विचरत्वादीनां मरकतादिप्वारोपोऽपि सत्यामुपमायां निष्प्रयो

Page 259

248 अलंकारमणिहारे

जन एव भवेत्। अभेदप्रतिपत्ती तु अविचरता अकरचरणे- नानङ्गेन च तेन तेन कथमस्याभेदस्संभवेदिति प्रतिकूलमति- मपनेतुं विषयगतानां विचरत्वाद्यारोपाणामस्त्येवोपयोगः । अ- तरैव इवशब्दस्याभावे दढारोपं रूपकम्। विषयिगतविशेषणा- नामभावे उपमा। इवशब्दविशेषणयोरेकतरस्याप्यभावे शुद्ध- रूपकमिति विवेक: ॥ एवं जात्यादिभावाभावस्वरूपोत्प्रेक्षा: दिङ्ुमात्रेणोदाहताः। अथ हेतूत्प्रेक्षा। तत्र जातिभावे हेतूत्प्रेक्षा यथा-

ता। विस्मारिता निवासं मकरन्दपरागपङ्गिले क-

मले ॥ ४३०॥ अत्र सौधेनेति जाति: कमलानिवासविस्मरणं प्रति हेतुत्वे- नोत्प्रेक्ष्यते तदेवोत्प्ेक्ष्यमाणहेतोरनिमित्तमित्युपात्तगुणीनमित्ता जा- निभावहेतूतप्रेक्षा। हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादान- मेव, न त्वनुपादानम्। तथाहि साध्ये अनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति तथा साधने अनुपात्ते साध्यत्वेन निर्देशोऽपि। तयोरितरेतरसापेक्षत्वात् हेतूत्प्रेक्षायां हि निमित्तं फलम्। तस्यानुपादाने कं प्रति हेतुता संगच्छताम्। फलोत्प्रे- क्षायां हि साधनं निमित्तम्, तस्मिन्ननुपात्ते क प्रति फलत्वं संघटताम। एवं च निमित्तनैमितिकयोरन्यतरोपादानेऽन्वयपार पोषविरहादुभयोपादाननियमे निमित्तोपादानं नियतमेवेत्यवधे- यम्। तथाच उदाहतेऽस्मिन्पद्ये उत्प्रेक्षाया निमित्तस्य कमल- निवासविस्मारणस्यानुपादाने सौधेनेति हेतूत्प्रेक्षा न शोभते।

Page 260

उत्प्रेक्षासरः (१४) 249

एवं वक्ष्यमाणफलोत्प्रेक्षायामप्यूह्यम्। तस्मात् स्वरूपोत्प्रेक्षाया- मेव निमित्तस्योपादानानुपादाने। न तु हेतुफलोत्प्रेक्षयोरिति द्रष्टव्यम्॥ गुणहेतूत्प्रेक्षा यथा- अच्छाच्छरुचिरयं मम सच्छात्र इति प्रमोदतो नूनम् । स्वाभिमुखे देवेऽनुप्रविशति कौस्तुभमणिं सहस्रांशु:॥४३१॥ अच्छाच्छरुचिः अतिस्वच्छद्युतित्वात् अकुटिलप्रीतित्वाञ्चे- त्यर्थः । हेतुगर्भविशेषणम् । अयं कौस्तुभमणिः मम सच्छात्रः इति प्रमोदतो नूनं देवे श्रीनिवासे स्वाभिमुखे सति सहस्रां- शुः कौस्तुभमणि अनुप्रविशति योगक्षेमादौ तदैकरस्यं भज- तीति भावः । तत्र प्रतिबिम्बितो भवतीति वास्तवार्थः । भग- वत आभिमुख्ये सत्येव तद्वक्षस्स्थिते कौस्तुभे सहस्रांशुप्रति- फलनसंभवात्स्वाभिमुखे इत्युक्तिः । अत्र सच्छात्रताहेतुकप्रमो दो गुणः कौस्तुभानुप्रवेशं प्रति हेतुत्वेनोत्प्रेक्ष्यते। स एवा- नुप्रवेशो निमित्तमुपात्तम्॥। क्रियाहेतूत्प्रेक्षा यथा- हरिमुखराकाचन्द्रालोकानिशसेवनादिव रमा- याः। नयनेन्दीवरयुगळं नित्योत्फुल्लं निमीलना- ज्ञमभूत् ॥४३२॥ अत्र सवनादिति क्रिया नित्योत्फुल्लतां प्रति हेतुतयोत्प्रे- क्ष्यते सैवोत्फुल्लता निमित्तम्॥ ALANKARA 32

Page 261

250 अलंकारमणिहारे

यथावा-

दिव नितान्तम्। जीवनभङ्गविलोला कमलाळी वहति किं नु साडरसताम् ॥ ४३३॥

हे स्वामिन्! त्वन्मुखमेव हिमरुचि: आत्मप्रत्यनीकश्चन्द्र मा: कमलाळोध्वंसनोपकरणवत्त्वद्योतनाय हिमरुचिशब्दः। तस्य धाम्ना तेजसा प्रभावेण च 'गृहदेहत्विट्प्रभावा धामानि' इ- त्यमरः। कृतात् परिभवादिव साऽरसतामित्यत्र सा अरसता- मिति छेद:, सा अतिरमणीयतया प्रसिद्धा कमलाळी पद्म- पङ्कि:। जीवनस्य जीवितस्य भङ्गे विलोला विशेषेण सक्ता 'सता म्लाने मने' इत्यायुक्तरीत्या जीवितपरित्यजनकृतसं- कल्पेत्यर्थः । पक्षे जीवनस्य सलिलस्य भङ्गैस्तरङ्गैः विलो- ला चञ्चला 'लोलश्चलसतृष्णयोः' इत्यमरः । अरसतां सर्व- विषयनैरस्यं वहति। परपरिभवदूनानां जीवितत्यजनदत्तदष्टो- नां सर्वत्रानास्थैव भवतीति भावः। अन्यत्र सारसतामिति समस्तं पदम् । सरोजतामिति वास्तवार्थः । अत्र परिभव- रूपा क्रिया अरसतावहनं प्ति हेतुत्वेन संभाव्यते। तदेव तत्र निमित्तम्। इयं श्ेषसंकोर्णा।

द्रव्यहेतूत्प्रेक्षा यथा- बलवानपि बहुपादोऽप्यलमहिभूभन्महागता- ढ्योपि। नेष्टे पदमपि चलितुं स्वस्मिन्विश्वंभरेण किल वसता ॥४३४॥

Page 262

उत्प्रेक्षासरः (१४) 251

बलवान् सामर्य्यवानपि। पक्षे स्थौल्यवानपि 'स्थौल्य- सामर्थ्यसन्येषु बलम्' इत्यमरः। बलसत्त्वेऽपि करणविरहे कथ गमनसंभव इत्यत आह-बह्निति। बहुपादोऽि बहुचरणोपि। पक्षे बहुप्रत्यन्तपर्वतोपि। अत एव महत् श्राध्यं गतं गमनं, भावे क्ः । तेन आढ्योपि। पक्षे महान्तः अगाः तरवः य- स्मिस्तथोक्तः तस्य भावः महागता तया आढ्योपि। आह- भूभृत् शेषाद्रि: शेष इत्यपि गम्यते । स्वस्मिन् वसता वि- श्वंभरेणेव पदमपि चलितुं नेष्टे न शक्कोति। अत्र स्वस्मि- न्नवस्थितो विश्वंभरो द्रव्यं अहिभूभृतो निश्चलतां प्रति हेतु- त्वेनोत्प्रेक्ष्यते । सा निश्चलतैव निमित्तमुपात्तम्॥ यथावा - निर्मलदृष्टिप्रसरणनिरोध निर्माणनिपुणनिजम- हिमा। चन्द्रादपरस्मादिव सान्द्रा शौरेस्तमस्त- तिर्गळति॥४३५॥ निर्मला भ्रमविप्रलम्भादिसंभावनादवीयसी । पक्षे विशदा या दृषष्टि: ज्ञानं, पक्षे हक् 'दृष्टिर्जानेऽक्ष्ण दर्शने' इत्यमरः । तस्याः प्रसरणस्य निरोधनिर्माणे निपुणः निजः महिमा महत्त्वं यस्यास्सा। तमस्ततिः अज्ञानसंततिः । व्वान्तसंहतिश्च। अत्र त- मस्ततिगळनं प्रति चन्द्रो द्रव्यं हेतुतयोत्प्रेक्ष्यते। तमस्ततिगळ- नमेव निमित्तम्। श्ेषोत्तम्भितेयम्। पतेन द्रव्यस्य हेतुत्वेनोत्पे- क्षणं न संभवतीति वदन्तः प्रत्युक्ताः॥ यथावा- कलधौतगिरिं भवता सुश्रीकैलासमृद्दमघिव- सता। अपरेणेव मुरारे श्रीदेनालंकतोत्तराशा सा।

Page 263

252 अलंकारमणिहारे

हे मुरारे ! सुश्रीका: एला: एलालता: ताभि: समृद्धं, अन्यत्र ऋद्वं समृद्धं सुश्रीश्चासौ कैलासश्च तं तन्नामानं कलधौतगिरिं कनकाचलं शेषाद्रेरेव नामान्तरमिदमित्यवोचामासकृत्। पक्षे र- जतगिरिम्। 'कलधौतं रूप्यहेम्नोः' इत्यमरः। अधिवसता श्रीदेन भवता अपरेण श्रीदेन कुबेरेणेव सा उत्तरा श्रेष्ठा आशा पुरु- षार्थविषयकतृष्णा, आशासानानामिति शेषः। अलं पर्याप्ता कृता परिपूरितेत्यर्थः । पक्षे उत्तराशा उदीची दिक् अलंकता भूषिता। 'भूषणेडलम्' इति गतिसंज्ञायां 'कुगतति' इति समासः । तद- धीशत्वात्तस्येति भावः। अत्र श्रीदेनेति द्रव्यस्य उत्तराशालङ्करण- हेतुत्वेन संभावनं श्रेषोत्तम्भितम्। अन्रापरशब्दाप्रयोगे प्राचां मते शब्दमात्रसाधर्म्यात श्रेष एव स्यात्। नवीनपक्षे अर्थ- साधर्म्यें तु श्रीदस्य सिद्धतया उपमैव। तत्प्रयोगे तु प्रकृतो भगवानेवापरश्रीदत्वेनाध्यवसीयते, तस्य इवशब्देन साध्यत्वप्र- तीतेरुत्प्रेक्षैव। इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयो- क्तिः। इवापरशब्दयोरुभयोरव्यप्रयोगे रूपकमित्यादयो विशेषा यथासंभवमूह्याः।। इदमुदाहरणद्वयं विद्यानाथानुरोधेन। तेन हि- प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम्। समुन्मूलितमामूलादपरेणेव वजिणा॥ इति द्रव्यहेतूत्प्रेक्षा उदाहियत । यद्यपीदं पद्यं द्रव्यस्वरू- पोत्प्रेक्षाया एवोदाहरणं भवतुमर्हति । अत्र हि इवशब्दापनयने प्रतापरुद्रे विषये अपरवज्रयभेदरूपकमेवेति तावदविवादम्। त- थाच सति तत्र इवशब्दयोजने प्रतापरुद्रे अपरवज्िरूपद्रव्य- स्वरूपोत्प्रेक्षैव इवशब्देन प्रत्याय्येत। यत्र असतीवशब्दे यत्प- दार्थे यत्पडार्थरूपकं तत्रैव सतीवशब्दे तत्पदार्थे तत्पदार्थस्व

Page 264

उत्प्रेक्षासरः (१४) 253

रूपोत्प्रेक्षेति नियमदर्शनात्। तथाऽपि यदीह प्रतारुद्रदेवेन समु- न्मूलितं अपरवज्रिणेवेत्यन्वयविवक्षया प्रतापरुद्रहेतुके क्ष्माभृत्प- क्षविजृम्भितसमुन्मूलने अपरवज्रिहेतुकत्वसंभावनविषयत्वं प्रति- पिपादयेषितं तदा भवतीदं द्रव्यहेतूत्प्रेक्षाया अपि कथचिदु- दाहरणमिति तदाशय उन्नीयते। चित्रमीमांसारसगङ्गाधरकारी तु इीदृशद्रव्यस्वरूपोत्प्रेक्षागन्धदविष्ठमेव पद्यं द्रव्यहेतूत्प्रेक्षाया- मुदाहरेताम्। तदनुरोधेन निस्संदिग्धमुदाहरणं तु 'बलवानपि बहुपादोपि' इति प्रागेवोपदर्शितमस्माभिरित्यलं बहुना ॥

अथाभावाभिमानवत्य :- तत्र जात्यभावहेतूत्प्रेक्षा यथा- गगनतले स्वप्रभया स्थगिते भानोरभावतो नू- नम्। घनरुचिरुरसा कौस्तुभमिनकोटिरुचं वह- त्यहिगिरीझः।४३७।। अत्र भानोर्जातेरभावः कौस्तुभधारणहेतुत्वेनोत्प्रेक्ष्यत इत्यु- पात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षेयम्।।

यथावा- शौरेर्जययात्रोत्थैर्भूरेणुभरैर्मुहुः कबलितायाम्। द्युसरिति सलिलाभावान्मरूतां स्वपदे ध्रुवं मरु- त्वमभूत् ॥४३८॥ स्वपदे स्वस्थाने स्ववाचकपदे च मरुत्वं मरुभूमित्वं म- रुच्छन्दृत्वं च । आद्यपक्षे तकारस्य 'अनचि च' इति द्वि- त्वम्। 'मरुतौ पवनामरौ, समानौ मरुधन्वानौ' इति चामरः।

Page 265

254 अलंकारमणिहार

अत्र मरुत्वप्राप्ति प्रति सलिलरूपजात्यभावो हेतुतयोत्प्रेक्ष्यते ।

गुणाभावहेतूत्प्रेक्षा यथा - विहरति मयि सानन्दं सह रमया स हरिरेव किं मेऽन्यत्। आशास्यमित्यनाकुलभावात्प्रायेण निश्व्वलोडहिगिरिः ॥ ४३९॥ प्रायेणेत्येतदुत्प्रेक्षाव्यञ्जकम्। अत्र अनाकुलभावादिति गु. णभावो नैश्चल्यं प्रति हेतुत्वेनोत्प्रेक्ष्यते। इय चलनरूपक्रिया- भावनिमित्ता गुणाभावहेतूत्प्रेक्षा। एवं जात्यादिनिमिन्ता अ- प्यूह्या:।। क्रियाभावहेतूत्प्रेक्षा यथा- मध्यमतां त्यक्तुं तव मध्यममर्वाक्छिरः प्रत- व्यापि। तदलाभात्कशिमानं नूनं प्रापाहिशैलप- तिदयिते ॥४४०॥ तव मध्यमं मध्यमतां उत्कर्षापकर्षशून्यतां, पक्षे अवल- गनतां त्यक्तुं अर्वाक्छिर: प्रतप्यापि अधश्शिरस्तपस्तप्तवाऽपि

लाभात् मध्यमतात्यागाप्राप्तेः मध्यममिति वर्णावळेर्विलोमत्वेऽपि मध्यममित्येवावस्थांनाच्छब्दार्थयोस्तादात्म्यभुपजीव्य तद्लाभा- दित्युक्तम् । क्रशिमानं प्राप । अत्र लाभक्रियाभावः क्रशिम- प्रात्तिं प्रति हेतुत्वेनोत्परेक्ष्यत इति क्रियानिमित्तक्रियाभावहेतूत्पे- क्षेयं श्ेषातिशयोकत्युत्तम्भिता। एवं जात्यादिनिमित्तक्रिया- भावोत्पेक्षा अप्यूह्याः।

Page 266

उत्प्रेक्षसार: (१४) 255

द्रव्याभावहेतूत्प्रेक्षा यथा -

मेचकिते। काळी गौरी समजनि शर्वाभावादिवा- त्यर्थम् ॥४४१॥ काळी निसर्गतो नीलवर्णा हरार्धशरीरस्था पार्वती 'जान- पद' इत्यादिना डीषू। अहिगिरिगा भगवत्सेवार्थ शेषाद्रिगता सतीति भावः । हरिरुचचिभिः श्यामलाभिरिति भावः । स्वद- क्षिणार्धाङ्गकेपि भर्तृरूपे स्वदक्षिणार्धीवयवेपि अर्धनारीश्वरस्य पार्वतीदक्षिणार्धशरीरस्थत्वात् ।. मेचकिते श्यामलिते सति। अपिशब्दस्स्वशरीरश्यामलिमानं समुच्चिनोति। शर्वाभावादिव स्ववल्लभाभावादिव शरीरदक्षिणवामार्धयोरुभयोरप्यविशेषेण नि- ष्पद्यमाने कालिम्नि पत्यर्धशरीरेऽपि स्वशरीरार्धान्तरसंभावनया पत्युरभावमाशङ्कय निर्वेदमश्नुवानेति भावः । अत्यर्थ गौरी ब- भूव पाण्डुराऽडसीत्। अन्यथा स्वतः कालवर्णाया अस्या: कथ गौरवर्णता स्यादिति भावः । एकस्या एव पार्वत्या: कालव- णैत्वगौरवर्णत्वविरोधो जन्ममेदेन परिहार्यः । अत्र शर्वरूपद्र- व्याभावः काळ्या: निर्वेदपूर्वकगौरतां प्रति हेतुत्वेन संभावित इति गुणनिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा । 'अन्यार्धाभ्यामिवात्प- न्नमर्धनारीश्वरान्तरम्' इति द्रव्योत्प्रेक्षोदाहरणे 'वस्तुतोऽर्ध- नारीश्वरस्यैकत्वात् द्रव्योत्प्रेक्षा' इत्युक्तं चित्रमीमांसायाम्। अतोर्ऽर्धनारीश्वरस्य द्रव्यत्वमव्याहतम्॥ यथावा- चिन्तामणेरभावाद्वरणौ चिन्तामणिक्षितिधरे- न्द्रम् । सर्वमनोरथवितरणधूर्वहमसृजज्जगत्स्ष्टा।।

Page 267

256 अलकारमणिहारे

अत्र धरण्यधिकरणकचिन्तामण्यभावश्चिन्तामणिगिरिसर्जनं प्रति हेतुतया संभावितः । क्रियानिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा। चिन्तामणिगिरिरिति शेषाद्ररेव नामान्तरमित्यवोचाम, तन्न वि- स्मर्तव्यम् । इति हेतूत्प्रेक्षादिक्॥ अथ फलोत्प्रेक्षा-तत्र जातिफलोत्प्रेक्षा यथा- रमया सह वृषशिखरिणि समये विजिहीर्षतो मुरारातेः । पटमण्डपाय नूनं जुम्भन्तेऽम्भोधरा- स्ससंरम्भा: ॥४४३॥ अत्र पटमण्डपत्वरूपजात्यवच्छिन्नः अम्भोधरजम्भणस्य फ- लतयोत्प्रेक्ष्यत इति क्रियानिमित्तजातिफलोत्प्रेक्षा। न चात्र संपादनक्रियामन्तरा शुद्धाया जातेरफलत्वात्क्रियाया एव फल- त्वमिति वाच्यम्। संपादनस्य संसर्गतया तह्ारेणैव जात्यादे: फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः। अत एव 'यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्, ब्राह्मण्याय तपस्तेपे विश्वामित्रस्सुदारुणम्' इत्यादयः प्रयोगा उपपद्यन्ते। एवं जात्यादिनिमित्ता अपि जातिफलोत्प्रेक्षा उदाहार्याः।

गुणफलोत्प्रेक्षा यथा- असितघनरुचिर इति मत्सद्ृशाख्यो हरिरशं- सि निगमान्तैः । इति तादशनीलिन्ने विधुः कल- ङं दधाति किं स्वाङ्गे ॥ ४॥ अत्र हरिविघुशब्दौ भगवच्चन्द्रोभयवाचिनौ । असितघन- रुचिरः नीअम्बुदमनोहर इति। निगमान्तैः 'नीलतोयदमध्यस्था'

Page 268

उत्प्रेक्षासरः (१४) 257

इयामाच्छबलं प्रपद्ये शबलाच्छ्यामम्' इत्यादिभिः अशंसि प्रा- शस्यत। अत्र नीलिमा गुणः फलत्वेनोत्प्रेक्ष्यते कलङ्कधारणं निमित्तमिति क्रियानिमित्तगुणफलोत्प्रेक्षा। एवं जात्यादिनिमि- त्ता अपि गुणफलोत्प्रेक्षा ऊहनीयाः॥ क्रियाफलोत्प्रेक्षा यथा-

त्रैविक्रममिव विक्रममभ्यस्यन्तः परं तटित्व- न्तः। उद्दामान: प्रावृष्युज्तृम्भन्तेSहिगिरिमुपर्युपरि॥ अभ्यस्यन्त इव अभ्यसितुमिवेत्यर्थः । 'लक्षणहेत्वोः' इति शता। अर्जयन्वसतोत्यादाविव हेतुरिह फलम्। अहिगिरि- मुपर्युपरि अहिगिरेस्समीपोपरिप्रदेश इत्यर्थः । 'उपर्यध्यधस- स्सामीप्ये' इति द्विर्भावः 'धिगुपर्यादिषु त्रिषु' इति तद्योगे द्वितीया। अन्राभ्यस्यन्त इति क्रिया फलत्वेनोत्प्रेक्ष्यते। उज्ज- म्भणक्रिया निमित्तमिति क्रियानिमित्ता क्रियाफलोत्प्रेक्षा। जा- त्यादिनिमित्ता अप्यमुयैव दिशा प्रतिपत्तव्याः॥

द्रव्यफलोत्प्रेक्षा यथा- सुरभिलवनमालामिलदलिकुलतो नाभिकम- लपरिलग्नान्। दघदलिनो मधुदलनो धात्रेऽनन्ताय किं नु संनद्ः ॥ ४४६॥ वनमालामिलदलिकुलात् नाभिकमले संलग्नान् संबद्धानि- त्यर्थः। अनेन अळिनां तदारुण्यसंक्रान्तिर्द्योत्यते। मधुदलनः म- धुमथन इत्यर्थः । अनन्ताय धात्रे अनेकांश्चतुर्मुखान्निर्मातुमिति यावत्। अत्र धाता द्रव्यं फलतयोत्प्रेक्ष्यते। अळिधारणक्रिया ALANKARA 33

Page 269

258 अलंकारमणिहारे

निमित्तमिति क्रियानिमित्तद्रव्यफलोत्प्रेक्षा। एवं जात्यादिनिमित्ता अपि द्रव्यफलोत्प्रेक्षा उदाहार्याः। अथाभावाभिमानवत्यः फलोत्प्रेक्षा :- तत्र जात्यभावफलो- त्प्रेक्षा यथा --

लोच्य। मन्ये वसन्त्यहिगिरावन्ये तरवोप्यभूरुह- त्वाय ॥ ४४७॥ अत्राभूरुहत्वायेति जात्यभावः फलत्वेन संभाव्यते। विमु- क्त्यालोचनक्रिया निमित्तमिति क्रियानिमित्तजात्यभावफलोत्प्रेक्षा। एवं जात्यादिनिमित्ता अप्यूह्याः। अभूरुहत्वाय अतरुत्वाय भुवि जनन/भावाय च, निश्श्रेयसायेति यावत्। गुणाभावफलोन्प्रेक्षा यथा- तैक्षण्यमिह लोकबन्धोरनुचितमिति कौस्तुभो भवन्भास्वान्। नूनमतैक्ष्ण्याय हरेर्हदयं श्रयते कृपाझरीशिशिरम् ॥ ४४८॥ अत्रातैक्ष्ण्यायति गुणभाव फलत्वेनोत्प्रेक्ष्यते। कृपाझरी- शिशिरहरिहृदयाश्रयणक्रिया निमित्तम्। एवं जात्यादिनिमित्ता अपि ज्ञेयाः॥ क्रियाभावफलात्प्रेक्षा यथा- सर्वेषां स्वदयिततमहृदयस्थित्यनवलोकनाये- व। विद्युत्प्रभानिभाभिस्स्वभाभिराच्छादयति द- शो लक्ष्मीः ॥ ४४९॥

Page 270

उत्प्रेक्षासरः (९४) 259

सर्वेषामित्येतत् दृश इत्यत्रान्वंति। अत्रावलोकनक्रियाया अभावः फलत्वेनोत्प्रेक्ष्यते। आच्छादनक्रिया निमित्तम् । एवं जा- तिगुणद्रव्यनिमित्ता अपि विभावनीयाः।

द्रव्याभावफलोत्प्रेक्षा यथा- हिमशिखरित्रिदशसरित्कलशोदधिगिरिशश- शिविलोपाय। इङ्केहिशैलशेखरयशोविलासो दिशो विशो (भ)धयते ॥४५० ॥ अत्र हिमाशिखरिमुखद्रव्याभावः फलत्वेन संभाव्यते विशो (भ) धनक्रिया निमित्तम्। एवमेवान्यदप्यूह्यम। इह जात्यादयो हि भेदा: प्राचामनुरोधादुदाहताः । व- स्तुतस्तु नैतेषामस्ति चमत्कृतौ वैलक्षण्यमित्यनुदाहरणीया ए- वैते। चमत्कृतिवैलक्षण्यं स्वरूपहेतुफलात्मकानां त्रयाणां प्रका- राणामेवेति ध्येयम्॥

एवं-मन्ये शङ्के ध्रुव प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोपि ताहशः। इत्युक्तप्रकारवाचकशब्दघटिताः वाच्योत्प्रेक्षाः पदर्शिताः । तदप्रयोगे गम्योत्प्रेक्षा भवति।

तत्र वस्तूत्पेक्षा यथा-

ईप्सितसरा निकामं तव सरहिततां मदम्ब ग- च्छन्ती। प्राप्यातान्तोन्मुखतां सरोजयुग्यलमभू- दुरोजयुगी॥ ४५१ ॥

Page 271

260 अलंकारमणिहारे

सरोजयुगी निकामं ईप्सिता: सरा मुक्ताहाराः यया सा ईप्सितसरा। पक्षे-ईप्सितं सरः कासारो यस्यास्सा ईप्सि- तसराः। सान्तोऽयं शब्दः। तव सरहिततां हारहितत्वं अन्यत्र सवर्णरहितत्वं गच्छन्ती 'लक्षणहेत्वोः' इति शता। देतुरिह फलम्। गन्तुमित्यर्थः । अन्यत्र हेत्वर्थे। अत एव अलं अ- तान्ता अम्लाना सती उन्मुखतां औत्सुक्यं, पक्षे अतान्तोन्मु- खतामिति समस्तं पदम्। अतान्तः तवर्णरहितचरमभागः उत् उवर्ण इत्यर्थः । उदित्यत्र तकारोत्सादने उ इत्येवावशेषात्। सः मुखे प्रारम्भे यस्यास्सा तस्याः भावः अतान्तोन्मुखता तां 'शरद: कृतार्थता' इत्यााविव सामान्ये नपुंसकं ततस्तल्। प्राप्य तव उरोजयुगी स्तनद्वयी अभवत् तत्वेन जातेत्यर्थः । पक्षे उक्तरीत्या सरोजयुगीशब्दः उरोजयुगीशब्द्ो निष्पन्न इत्य- र्थः। अत्र उरोजयुग्यास्सरोजयुगीतादात्म्योत्प्रेक्षायां वाचकंशश- ब्दो नोपात्त इति प्रतीयमानेयम्॥

तत्रैव हेतूत्प्रेक्षा थथा- नीलानयनेन्दीवरविसृमररुचिनिचयसततपरि- चयतः। चक्षुश्श्रुतिगिरिशिखरे साक्षाड्वह्मात्तमेच- किम भाति ॥ ४५२॥

अत्र परिचयत इति हेतूत्प्रेक्षायां वाचकइशब्दोऽनुपात्त इतीयमपि प्रतीयमाना अर्थसामर्थ्यावसेयत्वात्। तत्रैव फलोत्प्रेक्षा यथा- नन्वम्ब कर्णतां स्वामन्वर्थयितुं तव श्रवणयु-

Page 272

उत्प्रेक्षासरः (१४) 261

ग्मम्। सहजोज्ज्वलमणिकुण्डल संस्पर्शनत ःा प्र - तीततामेति ॥४५३॥

नन्वम्ब तव श्रवणयुग्मं कर्तृ स्वां कर्णतां कर्णशब्दवाच्यतां 'श्रोतराधेययोः कर्णः' इति रत्नमाला। अन्वर्थयितुं सहजं स्वज- न्मसमये सहैव जातं उज्जवलं च, पक्षे निसर्गत एव देदीप्य- मानं यन्मणिकुण्डलं सहजेनोउ्ज्वलमिति समासः । तस्य सं- स्पर्शनतः वितरणात्, पक्षे अवमर्शात्।'सहजस्तु निसरगे ना सहोत्थे पुनरन्यवत्, स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुं- सकम' इति च मेदिनी। प्रतीतितां हृष्टतां एति शरीरेण सह जातमपि मणिकुण्डलमुत्कृत्य याचते द्विजवेषभाजे सुरराजे दत्वा- डपि नान्वतव्यत अपितु हृष्ट पवासीदिति तदौदार्यातिशयप्र- शंसनम् ॥

यद्वा-स्पर्शनतः दाने विषये, सप्तम्या आद्यादित्वात्तसिः। प्रतीततां सादरतामित्यर्थ ..

याचतो मोदमादत्ते वाञ्छितादधिकप्रदः। अनुव्रज्य प्रियं ब्रते तस्मात्कर्णस्तवाधिक: ॥

इत्युक्तेरिति भावः। पक्षे प्रतीततां उक्तविधमणिकुण्डलस्प- शनेन भूषिततामित्यर्थः । 'प्रतीतस्सादरे ज्ञाते हृष्टप्रख्यातयो- स्त्रिषु, प्रतीत: प्रथिते हृष्टे परिज्ञाते विभूषिते' इति मेदिनी- रत्नमाले। एति प्राप्नोति। अत एव कर्णशब्दान्वर्थनमिति भावः। महाभारते दानाय सहजकवचकुण्डलयोः कर्तनादेव हि राधे- यस्थ कृन्ततीति कर्ण इति नाम व्युत्पादितम्। अत्र कर्णताम- न्वर्थयितुमिि फलोत्प्रेक्षायां वाचकमनुपात्तम्। एवं प्रागुदाहृते-

Page 273

262 अलंकारमणिहारे

ष्वेव पद्येषु वाचकपरित्यागे तास्सर्वा अपि प्रतीयमाना भव- न्तीति नात्र तद्विशेषा: प्रतायन्ते॥ धर्मस्वरूपोत्प्रेक्षा यथा- मन्ये भवत्कृपाया मोहमपारं फणीन्द्रशिखरि- विधो। पापीयसोपि जन्तोः परमं श्रेयो ददाति याऽकस्मातू ॥४५४॥ पापीयसोपि जन्तोः गृधादेरिति भावः। अत्र पूर्वाधोसपेक्षि- तमोहरूपधर्मसिद्धये द्वितीयार्धे आकस्मिकनिरतिशयश्रेयोदानमु- पात्तम्॥ इदमत्रावधेयम्-उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतयाऽवभासते तदीयोत्प्रेक्षयैव व्यपदेशः प्राधान्यात् । तेन 'अच्छाच्छरुचिः' इति श्रोके सहस्रांशुगततया प्रमोदस्योत्प्रे- क्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनातु- वाद्यत्वात् किंतु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव नूनंशब्दवेद्यत्वेन विधेयत्वात्। तथा 'त्रैविक्रममिव विक्रमम्' इति पद्ये त्रैविक्र- मविक्रमाभ्यसनोत्प्रेक्षयाऽपि व्यपदेशो न युक्तः किंतु शत्रर्थफ- लोस्प्रेक्षया। एवं 'हृदयास्पदया' इति 'नाथ तव नाभिसरास' इत्यादिपद्येषु न फलोत्प्रेक्षया व्यपदेशो युज्यते। नापि 'करपद्मेन' इति पद्ये सितकरबिम्बतादात्म्योत्प्रेक्षया तदुन्मीलितया करप-

त्प्रेक्षया वा, पूर्वोक्तादेव हेतोः । एवमेव सर्वत्रापि 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायात्प्रधानभूतोत्प्रेक्षयैव व्यपदेश इति। धर्मोपि तावदत्र द्विविध :- स्वत एव साधारणः, साधारणीकर- णोपायेनासाधारणोपि साधारणीकृतश्च। स चोपायः क्वचिद्रूपकं

Page 274

उत्प्रेक्षासर: (१४) 263

क्वचिच्छलेषः क्वचिदपह्नतिः क्वचिद्विम्बप्रतिबिम्बभावः क्वचित्त- त्करम्भितवस्तुप्रतिवस्तुभावः क्वचिदुपचार: क्वचिदभेदाध्यवसा- यरूपोऽतिशयः । तत्र स्वत एव साधारणो धर्मः प्रागुदाहते 'नीलगुणेनाक्रान्ते' इति पद्ये विषयविषयिणो: कनकवसनपीत- गुणयोरौज्ज्वल्यम्। साधारणीकृतस्तु प्रागुदाहृत एव 'भ्रयुगळ- धनुर्लस्तकसंहितनासाकरीरसंलग्रम्' इति पद्ये प्रथमार्धगतो धर्मः रूपकेण विषयविषयिसाधारणीकृतः॥

श्ेषेण साधारणीकृतो यथा- सुरभिस्वैरस्पर्शनलीलाप्यायितसमस्तलोक- स्त्वम्। यन्माधवोसि तत्त्वां वसन्तमहिशैलनाथ जानीमः ॥ ४५५॥ सुरभे: कामधेनोः स्वैरस्पर्शन स्वच्छन्दवितरणं तस्य ली- लया कामगवीवादान्यकतुल्यवादान्यकेनेत्यर्थः । अन्यत्र सुरभिः घ्राणतर्पणस्सुगन्धिरित्यर्थः। सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्षे च वाच्यवत्सुरभिस्स्सृतः ॥

इति विश्वः । स्वैरः 'मन्दस्वच्छन्दयोस्स्वैरः' इत्यमरः । यः स्पर्शनो मलयमारुत इत्यर्थः । 'स्पर्शनी मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी। तस्य लीलया विलासेन प्रसर- णनेति यावत्। आप्यायितसमस्तलोक: उभयत्र तुल्योऽर्थः । माधवः श्रीनिवास माधवाख्य ऋतुश्च यत् यस्मात् असि, तत् त्वां वसन्तं जानीमः । अयमुपात्त एव भवति नानुपात्तः अप्र- सिद्धत्वात्। श्रेषेतरस्तु अनुपात्तश्चापि भवतति यथा 'मरकत-

Page 275

264 अलंकारमीणिहारे

मणिरिव विचरन्' इत्यादौ नैल्यादिः। न चात्र विचरत्वादि रूप उपात्त एव साधारणो धर्मः साधारण्यार्थमेव हि विष- यिण्यारोप इति वाच्यम्। तस्यारोपेण कृतेऽपि साधारण्ये अ- सुन्दरत्वेनोत्प्रेक्षोन्मेषकत्ववैधुर्यात्। साधारणीकरणं तु प्रतिबन्ध- निरासार्थमित्यवोचामैव॥ यथा- सत्पझ्मशङ्गकच्छपमकरं घननील तव मुकुन्द पदम्। वरकुन्दनखं मन्ये सुमहापदमं ततो निधि- मयं त्वाम् ॥ ४५६॥ हे घननील! मेघश्यामल! पक्षे घनः नीलो निधिविशेषो यस्य स तथोक्तः तस्य संबुद्धिः । हे मुकुन्द! मुक्तिदायिन्! पृषादरादित्वात्साधुः। पक्षे हे मुकुन्दनिधे! तव पदं चरणं स- न्तः पझमशङ्गकच्छपमकरा: यस्मिस्तत् पद्माद्याकाररेखासंपन्न- मित्यर्थः। पक्षे पद्मादिनामनिधिविशेषवदित्यर्थः । वराणि कु- न्दानि कुन्दकुसुमानीव नखानि, पक्षे वरकुन्दौ निधिविशेषौ नखेषु यस्य तत्तथोक्तम्। ततः तस्मात् महती पद्मा श्रीर्यस्य तं, पक्षे महापद्मनिधि च। त्वां निधिमयं 'महापम्मश्च पममश्व' इत्युक्तनिधिमयं मन्ये । अत्रोत्प्रेक्ष्यमाणस्य निधिमयस्य धर्मेषु पझमादिनिध्याश्रितचरणत्वादिकेषु विशेषणीभूतैस्तत्तन्निधिभिर्वि- षयस्य भगवतो धर्मेषु कमलशङ्गादिरेखाश्रितपदत्वादिषु विशे- षणानां पझ्मादीनां श्रेषेण तादात्म्यसंपादनद्वारा तथाविधधर्मा- णां साधारण्यसंपत्तिः ॥ यथा वा- इह भार्गवीसमृद्दिस्सरस्वती भात्युपत्यका दु-

Page 276

उत्प्रेक्षापरः (१४) 265

र्गा। अच्युतधात्रीशयितस्त्रिमूर्तिमय इव वृषाद्रि- रयमिन्धे ॥ ४५७॥ इह अद्रौ भार्गवी प्रपातसंबन्धिनी 'प्रपातस्तु तटो भृगुः' इत्यमरः। समृद्धिस्संपत् भाति! पक्षे संतता ऋद्धिर्यस्यास्सा समृद्धि: महाविभूतिरित्यर्थः। भार्गवो लक्ष्मीः भाति। उपत्यका आसन्नभूमिः । सरांस्यस्यां सन्तीति सरस्वती। भूम्नि मतुप्। 'तसौ मत्वर्थे' इति भसंज्ञाविधानान्न पदकार्यरुत्वोत्वे। पक्षे भारतीत्यर्थः । गन्तुमशक्या दुर्गा च। पक्षे गौरी च भाति। अच्युतं यथा स्यात्तथा धात्र्यां भूम्यां शयितः स्थित इति या- वत्। शीङ: कर्तरि कः। पक्षे अच्युतो भगवान् धाता ब्रह्मा ईट् ईशानश्च अच्युतधात्रीशः । इदं द्वितीयाबहुवचनम् । इतः प्राप्तः। इणः क्तरि क्ः । यद्वा-इतः अस्मिन्गिरौ सप्म्या- स्सार्वविभक्तिकस्तसिः । अच्युतधावीश इति प्रथमाबहुवचनं अर्थस्तूक्त एव । भान्तीति वचनविपरिणामेनान्वयः । धात्री शयित इत्यत्र धात्रीशस् इत इति स्थिते रुत्वयत्वयोः कृ- तयो: 'लोपशशाकल्यस्य' इति यलोपस्य चैकल्पिकत्वान्नेह य- कारलोपः । अत एव अयं वृषाद्रिः त्रिमूर्तिमय इव हरिवि- रिश्चिहरमय इव इन्धे दोप्यते। अत्र उत्प्रेक्ष्यमाणस्य त्रिमूर्ति- मयस्य धर्मेषु समृद्धिभार्गव्याद्यधिकरणत्वादिषु विशेषणीभूता- भिर्भार्गव्यादिभिरविषयस्य वृषाद्रेर्धर्मेंषु भृगुसंबन्धिसमृद्धिमत्वा- दिषु विशेषणीभूतानां भृगुसंबन्धिसमृद्धयादीनां श्ेषेण तादा- त्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्ति:। यथा वा- शुभपुष्यरागरुचिजुषि सुमहानीले विदूरभव- ALANKARA 34

Page 277

266 अलंकारमणिहारे

कलिते। अच्युत रत्नमयत्वं त्वयि नियतमवैमि पद्मरागपदे॥४५८॥

शुभं पुष्णातीति शुभपुट् तस्मिस्तथोक्ते अरागेषु विर- क्तेषु रुचिज्जुषि प्रीतिभाजि । पक्षे शुभा: पुष्यरागाः रत्नवि- शेषा: तै रुचिजुषि परभागभाजीति यावत्। सुमहानीले अ- तिमात्रश्यामले। पक्षे मणिविशेषे। विदूर: दवीयान् भवस्सं- सारो येषां तैः अस्पृष्टसंसारगन्धैर्नित्यमुक्तादिभिः कलिते से- विते। पक्षे विदूरभवैः वैदूयैः कलिते पद्मस्य राग इव रागो ययोस्त पदे चरणे यस्य तस्मिन् । पक्षे पझमरागाणां मणीनां पदे आश्रये अत एव हे अच्युत! त्वयि उक्तरूपे त्वयि रत्षमयत्वं अवैमि संभावये। अत्रोत्प्रेक्ष्यमाणस्य रत्नमयस्य धर्मेषु शुभपुष्यरागरुचिभाकत्वादिकेषु विशेषणीभूतैस्तत्तद्रतैः विषयस्य भगवतो धर्मेषु शुभपोषकत्वादिषु विशेषणीभूतानां शुभपोषण- दीनां श्ेषेण तादात्म्यसंपादनम्॥ पूर्वोदाहरणयोरादे 'सत्पद्म' इति पद्ये अभङ्गश्लेषेण द्वि- तीये 'इह भार्गवी' इति पद्ये सभङ्गाभङ्गश्लेेषाभ्यां साधारणी- करणं वक्ष्यमाणरत्नावळ्या रूपकेण च संकीर्णता च। अस्मिन् 'शुभपुष्यराग' इति पद्ये तूभयविधश्ेषेण साधारणीकृतिमात्र- मिति विशेष:।

यथावा- स्वायत्तहेमकूटः प्रायस्संपूज्यते महेन्द्रेण। प्र- स्त्रवणसेवितोसावेते दासा: किमस्य शेषगिरेः ॥ अत्र हेमकूटमहेन्द्रप्रस्न्नवणशब्दा गिरिविशेषवाचिनः । अ-

Page 278

उत्प्रेक्षासरः (१४) 267 र्थान्तरं तु स्पष्टमेव। 'उत्सः प्रस्न्नवणम्' इत्यमरः । एते गिरय इत्यर्थः । अत्र हेमकूटादिशैलेषु विषये शेषाद्रिदासता- दात्म्योत्प्रेक्षायां तदायत्तत्वादिलक्षणो विषयिधर्मः श्रेषेण वि- षयाणां तदाश्रितानां च कनकशिखरवृत्रारिनिर्झराणामभेदसं- पादनद्वारा विषयसाधारणीकृतः ॥ अपह्नुत्या साधारणीकरणं यथा- हृदयास्पदा तव दया वदनात् स्मितभानिभा- दुदश्चन्ती। भुवि फणिगिरिमणिरमणि स्वविषय- मखिलं समीक्षते मन्ये ॥४६०॥ यथा अवरोधगता महाराज्ी विलासवशादुच्चैस्सौधान्त- रादुदेत्य निखिलं निजदेशं पश्यति तथा तव हृदयगा दया उच्चैर्वदनमधिरुह्य स्वगोचरमखिलं जनं समीक्षत इवेति भावः। अत्र स्वविषयविलोकनस्य दयायामुत्प्रेक्षणे तदर्थमान्तरप्रदेशा- द्वहिरुद्रमनमपेक्षितं, तच्व बहिःप्रदेशसम्बन्धरूप स्मितप्रभामात्रवृ- त्ति दयायां न संभवतीति स्मितप्रभापह्रवेन दयागतं क्रियते॥ यथावा- मकुटादिमणिव्याजात्परितो नानात्वमेत्य भ- वतो नयने। पश्यत इवेश विष्वकप्रकाशनायैष विश्वतश्रक्षुरिति ॥४६१॥ हे ईश! सर्वेश्वर! भवतो नयने कर्तृणी एषः सर्वेश्वरो भगवान् विश्वतश्चक्षुः सर्वतोमुखलोचनवानिति प्रकाशनाय प- शयत इवेति योजना। अत्र 'विश्वतश्चक्षुरुत विश्वतोमुखः'

Page 279

268 अलंकारमणिहारे

इति श्रुत्यर्थोऽनुसंधेयः । इह युगपत् विष्वग्दर्शनस्य नयन- योरुत्प्रेक्षायां तन्निमित्तं तयोर्विष्वग्वृत्तित्वमपेक्षितं, तञ्च मकु- टादिगतमणिवृत्ति न तु नयनवृत्ति भवतीति मण्यपह्नत्या नयन- गतं वितन्यते॥

यथावा- तावकचरित्ररूपं देव श्रवणान्तरात्म्रविश्यान्तः। सिद्धाअ्जनं किमपि नश्शुद्ामन्तर्दशं व्यनक्तीव।। हे देव! तावकचरत्ररूपं किमपि सिद्धाअ्जनं श्रवणयोर- न्तराद्विवरात् अन्तः प्रविश्य नः अन्तः दशं दष्टिं ज्ञानं च शुद्धां निर्दोषां सती सर्ववस्तुसाक्षात्करणक्षमामिति यावत् । व्यनक्ति प्रकाशयति। अत्रान्तर्दृष्टिशोधनस्य सिद्धाञ्जने उत्प्रेक्षायां तन्नि- मित्तं घहिःप्रदेशादन्तःप्रदेशोऽपेक्षितः। स चान्तःप्रदेशसम्बन्धरूपो भगवच्चरित्रमात्रवृतिस्सिद्धाअ्जने न संभवतीति भगवच्चरित्रापह्न- वेन सिद्धाञ्जननिष्ठ क्रियते।। बिम्बप्रतिबिम्बभावेन साधारणीकरणं तु 'करपझ्मेन द्वेषात्' इत्यत्र निरूपितम्।।

यथावा- उपरिहरिनीलमणिरुचिकवचितहारमणि भ- गवतो हृदयम्। बीजाकृतमिव विलसति बहुफ लद़ानाय तेन केदारम् ॥४६३॥ उपरि हरिनीलमणिरच्या कवचिता: आच्छादिता: हारस्य मणयो मौक्तिकानि यस्य तत्तथोक्तम्। नीलमणिप्रभान्तःप्रकाश- मानमक्तिकमिति भावः। भगवता हृदयं तेन भगवता जनानामिति

Page 280

उत्प्रेक्षसारः (१४) 269

शेषः। बहूनि फलानि धान्यरूपाणि, पक्षे ऐहिकामुष्मिकापवर्गिका- खिलप्रयोजनानि। तेषां दानाय बीजाकृतं यावनाळादिबीजेन सह- कृष्टं उप्तकृष्ट आदौ बीजान्युप्त्वा उपरि हलविशेषकर्षणेन स- मीकृतकृष्णमृदित्ति भावः। 'कृञो द्वितीयतृतीयशम्बबीजात्कृषौ' इति बीजशब्दात्कृञो योगे कृषिरूपार्थे डाच्। 'बीजाकृतं तू- प्रकृष्टम्' इत्यमरः । केदारं क्षेत्रमिव भाति। अत्र हरिवक्षसः केदारतादात्म्यसंभावनायां उपरिहरिनीलमणिरुचिकवचितहारम-

ण्यसंपादनम् ॥ एवं 'भित्वा भानो:' इत्यादावपि॥

विम्बप्रतिविम्बभावकरम्भितवस्तुप्रतिवस्तुभावेन यथा- कमलारुचिपरिवीतः कौस्तुभमणिरेष शोभते सुतराम्। स्वसृपतिविडम्बनाय स्वयमपि पीता- म्वरेण किं छन्नः ॥४६४॥ स्वसृपतेः निजभगिनीजानेर्भगवतः विडम्बनाय परिहासा- र्थानुकरणाय। अत्र कमलारुचिपीताम्वरयोर्विम्बप्रतिबिस्बभावः। तत्करम्भितश्च परिवीतच्छन्नयोर्वस्तुप्रतिवस्तुभाव इति तेन सा- धारण्यम्॥

उपचारेण यथा- मधुरामतिगम्भीरां विशदां शिशिरां विगाह- मानानाम्। गरुडगिरिशिखरमण्डन गङ्गां मन्या- महे कथां भवतः।४६५।

Page 281

270 अलंकारमणिहारे

अत्र भगवत्कथायां माघुर्यगाम्भीर्यवैशदयशैशिर्यविगाहनाना

ख्यानामुपचारेण मुख्येस्साधारणीकरणम् 1 लक्षणया शक्या- भेदेन लक्ष्यबोधनात्। अभेदाध्यवसायमात्रेण यथा- सरिदधिपसुतासझ्मन्युरसि हरेर्नः कृतो निवास इति। हर्षादिव कृतहासा हारा नारायणाद्रिशे- खर ते ॥ ४६६ ॥

अत्र प्रकाशप्रकटनहासकरणयोरभेदाध्यवसाय एव हर्ष- हेतूत्प्रेक्षानिमित्ततयोपात्तस्य हासकरणस्य प्रकटितप्रकाशकृतहा- सोभयसाधारण्ये बीजम्। एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वा उत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो नि- मित्तमित्यवोचामासकृत् ॥ एवं क्वचिदुपात्तो धर्मो विषयविषयिसाधारण्यविरहाद- चारुत्वाद्वा स्वयमुत्प्रेक्षां साक्षादुत्तम्भयितुमनीशोऽपि तदुत्तम्भ- नपटुधर्मान्तरोत्तम्भनेनाकूल्य संपादनादुपयुज्यते॥। यथा- मधुभेदनजययात्रादुन्दुभिनिनदैस्तथा दिशो व्याप्ताः। श्रोत्रेन्द्रियसृष्टिकथादूरमिवासीद्यथाऽखि- लं भ्ुवनम् ॥४६७॥ अत्र दिशां दुन्दुभिनिनदव्याप्तिरूपो धर्म उपात्तो भुवन- स्य श्रोत्रेन्द्रियसृष्टिकथादूरत्वसंभावनायां वैयधिकरण्येनाप्रयो-

Page 282

उत्प्रेक्षासरः (१४) 271

जकोपि स्वप्रयोज्यश्रवणविवरातिमात्रपरिपूरणप्रयुक्तश्रावणज्ञान- सामान्यशून्यत्वस्य तथाविधसंभावनानिमित्तस्योत्तम्भनेनानुकू- ल्यसंपादनादुपयुज्यते।। विषयोप्युपात्तः पूर्वोदाहरणेषु प्रतिपादित एव । क्वचि- द्विषयोऽपहुतोपि भवति। यथा- मत्सुहृदिन्दुसगोत्रं मुखमिदमित्युत्पलेन नीले- न। सत्कर्तुमर्पितं तद्दळमेकं हरिमुखे नु तिलक- निभात् ॥४६८॥ अत्र तिलकरूपविषयापह्नवो नीलोत्पलैकदळतादात्म्यसं- भावनादार्व्यायेति ध्येयम्॥ इयमेव सापह्नवोत्प्रेक्षेति प्रतिपाद्यताऽलंकारसर्वस्वकृता स्व- रूपोत्प्रेक्षामात्रमुदाजहे। कुवलयानन्दचित्रमीमांसयोस्तु हेतुफ- लोत्प्रेक्षे अपि सापह्ववे दर्शिते। तत्र स्वरूपोत्प्रेक्षा अनुपदमेवो- दाहता। यथावा- कनति किल रत्नगर्भास्तन इव पवनोदरंभरि- गिरीन्द्रः। चूचुकमिव हरिकपटान्मेचकममृतं ददा- ति निजमुखतः ॥४६९।। अमृतं पयः निश्श्रेयसं च निजमुखतः स्वाग्रभागात्। पक्षे स्वेनैवोपायेन। उपायस्थाननिविष्टेनेति भावः । 'मुखं निस्सरणे वक्रे प्रारम्भोपाययोरपि' इति मेदिनी। 'उपायस्सवप्रासेरुपनिष- दर्धीतस्स भगवान्' इति ह्यन्वगृह्यताचार्यः । यत्र हरित्वम- पहुतं तत्रैव चूचुकसंभावनाच्छुद्धापह्नतिगर्भत्वम् । इवशब्दम- हिस्ना संभावनं कपटशब्दप्रयोगादपह्नवो गम्यते।।

Page 283

272 अलंकारमणिहारे

यथावा- वदनेन्दावमृतरसास्वादात्काटवजिहासया लगने। निम्बदळे एते नन्वम्ब भ्रयुगमिषेण तव मन्ये। अत्र भ्रयुगळनिह्नवेन निम्बदळयुगळस्वरूपोत्प्रेक्षेयम् । य- द्यांपे अमृतरसास्वादनिमित्तककाटवजिहासाहेतुकत्वमपि निम्ब-

रूपोत्प्रेक्षाया अङ्गतया निबद्धेति न प्राधान्यमस्याः। यत्र ह्य. त्प्रेक्षाद्वयमङ्गाङ्गिभावेन निबध्यते तत्र प्रधानभूतयैवोत्प्रेक्षया व्य- पदेशो न्याय्य इत्यवोचाम, तन्न प्रस्मर्तव्यम्॥। यथावा- स्वयमपि मुक्ताभिख्यां लब्धुं रदनावळिच्छ- लाद्जाः। जाने मुखरुचिजलधौ जाता मातस्त- वास्यशुक्तिपुटे ॥४७१। मुक्ता इत्यभिख्यां अभिधानं शोभां च। अत्र रदनाव- ळिनिह्नवेन वज्रतादात्म्योत्प्रेक्षायाः सुक्ताभिख्यां लव्घुमिति फ- लोत्प्रेक्षा मुखरुचिजलधावित्यादिरूपकं चाङ्गतया निबद्धे।।

यथावा- ब्रह्मादिपावयित्रयाः पादजता नोचिता ममेति तव। वढ़ने स्मितमिषतोऽभून्मन्ये गङ्गा भुजङ्ग- शिखरीन्दो॥ ४७२॥ ब्रह्मादेः ब्राह्मणादिवर्णस्य चतुर्मुखादिकस्य च । पावाये- क्रयाः मम पादजता शुद्रता चरणजन्यता च नोचितेति गङ्गा

Page 284

उत्प्रेक्षासरः (१४) 273

स्मितमिषतः. तव वदने अभूत् अजनि। भगवन्मुखजन्यत्वे ब्राह्मण्यसिद्धया पादजताप्रयुक्तसंकोचोऽपयातीति भावः॥

यथावा- अनुकूलनगभिदोऽमी कनकाद्रौ सर्वतो विस- र्पन्तः। तारकजयिशरजाता न निर्झराः किंतु नि- र्जरा नूनम् ॥४७३॥ अनुकूलं कूले। विभक्तचर्थेऽव्ययीभावः । ये नगाः तरवः तान् भिन्दन्ति उन्मूलयन्तीति तथोक्ताः । पक्षे अनुकूलः नग- भित् वज्री येषां ते तथोक्ताः। कनकाद्रौ शेषशैले सुमेरौ च। सर्वतः विसर्पन्तः प्रवहन्तः संचरन्तश्च। तारकाण्युडूनि जय- न्तीति तथोक्तानि शराणां काशकुसुमानां जाताननि वृन्दानि येषु ते तथोक्ताः । पक्षे तारकमसुरविशेषं जयतीति तथोक्तः शर- जात: षण्मुखः येषां ते तथोक्ताः अमी दृश्यमाना: वस्तुविशेषाः निर्झराः वारिप्रवाहाः न किंतु निर्जरा एव नूनम्। इयं श्रेष- संपादितसाधारण्या शुद्धापह्नुतिगर्भा जातिस्वरूपोत्प्रेक्षा।। यथावा- अश्रीनिवासनिलयानसर्वतीर्थाश्रयानवेदम- यान। अन्यानचलानहिगिरिरवधीरयतीव हरिनि- नादमिषात्॥४७४॥ हरीणां सिंहानां निनादमिपात्। इयं सापह्ववक्रियास्वरूपो- : त्प्रेक्षा। इयं पर्यस्तापह्नतिगर्भाऽपि संभवतीति दीक्षिताः ॥ ALANKARA 35

Page 285

274 अलंकारमणिहारे

यथा- स्थानेSयमेव विष्णुजनडाखिलभुवनवर्धनादि- न्दुः। इन्दोस्तु स्फुटमस्मादधरत्वं स हि पदेऽस्य परिचरति ॥४७५॥ अखिलस्य भुवनस्य सलिलस्य न तु जलधिसलिलमात्र- स्येति भावः । पक्षे जगतः वर्धनात् उत्सेचनात् समेधनाञ्च अयं विष्णुरेव इन्दुरिति स्थाने युक्त जाने इन्दोस्तु अस्मात् विष्णोः अधरत्वं निहीनत्वं स्फुटम् । हि यस्मात् सः इन्दु: अस्य विष्णोः पदे चरणे सप्म्येकवचनं, तेन अकारे परतः प्रकृतिभावशङ्काया नावकाशः । परिचरति शुभूषते। तस्मादध- रत्वं व्यक्तमित्यर्थः । पक्षे अस्मात् वक्ष्यमाणादेतस्माद्वेतोरित्यर्थः। अधरत्वं धरासंबन्धवैधुर्य स्फुटम् । कुत इत्यत्राह-स इति। हि यस्मात् सः इन्दुः अस्य पदे विष्णोः पदे व्योम्नीत्यर्थः। परिचरति परितस्संचरतीति। अत्र प्रसिद्धेन्दौ इन्दुत्वापह्नवेन सकलभुवनाभिवर्धनान्निमित्तान्भगवति तत्संभावनेतीयं पर्यस्ता- पहनुतिगर्भा॥ यथावा- विबुधैकाधार्श्रीवृषगिरिरच्युत न मेरुरिति म- न्ये। यदि विबुधैकाधारो मेरुस्स्यात्स हि न कर्बु- रमयस्स्यात् ॥४७६॥। विवुधानां देवानामेकेषामेवाधार: शिवभागवतवत्समासः। पक्षे विवुधानां मुख्याधारः। मेरु: विबुधैकाधारो यदि स्यात् तदा सः कर्बुरमयः रक्षोमयः न स्यात् सुवर्णमय इति तु

Page 286

उत्प्रेक्षासरः (१४) 275

वस्तुस्थितिः । 'कर्बुरं सलिले हेम्निरि कर्बुरः पापरक्षसोः' इति मेदिनी। अत्र मेरौ विबुधैकाधारत्वनिह्ववेन श्रीवृषगिरौ तदु- त्प्रेक्षा पर्यस्तापह्ृतिगर्भा उत्तरार्धोक्ततर्करूपयुक्तिपूर्वा ।। यथावा- इन्दुर्न द्िजराजो द्विजराजो वाह एव तव नू- नम्। स हिनस्ति विप्रयोगिन एष तु कमलाक्ष विप्रमोदकरः ॥४७७॥

हे कमलाक्ष! इन्दुः द्विजराजः 'तस्मात्सोमराजानो ब्राह्म- णा:' इति श्रुत्युक्तरीत्या ब्राह्मणानां राजा न, किंतु तव वाह एव गरुत्मानेव द्विजराजः उक्तोऽर्थः । नूनम् । अत्र हेतुः स इत्यादिः । सः इन्दुः विप्राश्च ते योगिनश्च तानेव हिनस्ति अतः कथं स द्विजराजो भवेदिति भावः । विरहिणो हिन- स्तीति वास्तवार्थः । एषः तव वाहस्तु विप्राणं मोदकर, पक्षे वानां पक्षिणां प्रमोदकर: तस्य तदीश्वरत्वात्। अतोऽयमेव द्विजराज इति भावः । अत्रेन्दौ द्विजराजत्वापह्नवेन गरुत्मति तदुत्प्रेक्षा सहेतुकपर्यस्तापह्नतिगर्भा॥ यथावा- न सहस्त्रांशुर्द्युमणिः कौस्तुभमणिमेव तर्कये द्ुमणिम्। स परिष्कुरुतेSनन्तं दिवैव नक्तंदिव- मयं तु ॥४७८॥ सः सहस्रांशुः अनन्तं अन्तरिक्षं दिवैव परिष्कुरुते। अयं कौस्तुभमणिस्तु अनन्तं अन्तरिक्षं भगवन्तमिति तु वास्तवार्थः

Page 287

276 अलंकारमणिहारे नक्तंदिवं रात्रिंदिवं परिष्कुरुत इति हेतूक्तिः । अत्र सहस्रां- शौ घुमणित्वापह्नवेन कौस्तुभमणौ तदुत्प्रेक्षा पूर्ववदेव सहेतु- कपर्यस्तापह्नतिगर्भा । सर्वेष्वप्युदाहरणेषु श्लेषसंकीर्णत्वम्।। हेतूत्प्रेक्षायां सापह्नवत्वं यथा- कमलास्तनसुहृदयमिति नूनं झृङ्गारिशेखरोऽ- हिगिरौ। वसति सदा नित्ययुवा मृषैव जगदुद्दि- धीर्षयेति वचः ॥४७९॥ अत्र भगवतश्शेषाद्रिनित्यनिवासे जगदुद्दिधीर्षाया हेतुत्व-

तिगर्भा हेतूत्प्रेक्षा।। फलोत्प्रेक्षायां सापह्नवत्वं यथा- श्रितकामधेनुतां त्वं श्रीवेंकटनाथ सूचयितुमेव। अधिवत्सं श्रीवत्सं धत्से नूनं न तत्परिष्कर्तुम्। श्रवित्सं श्रीयुक्तं तर्णकम्। पक्षे तन्नाम लाञ्छनम्। अधि- वत्सं वक्षसि। 'उरो वत्सं च' इत्यमरः । अत्र श्रीवत्सधा- रणं प्रति फले वक्ष:परिष्कारे फलत्वनिह्नवपूर्वकमाश्रितकामधे- नुत्वसूचनरूपफलोत्प्रेक्षा पर्यस्तापह्नतिगर्भेत्यलं दूरधावनेन॥ अलंकारसर्वस्वकारादयस्तु 'क्वचित्पदार्थान्वयवेलायां साद- श्याभिधानादुपक्रान्ताऽप्युपमा वाक्यार्थतात्पर्यसामर्थ्यादुत्प्रेक्षायां पर्यवस्यति' इत्याहुः। तदनुसृत्य प्रागुलेखालंकारप्रकरणे 'मृग- मदतिलकति' इति पद्ये उपकान्ताऽप्युपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्यवांचाम।

Page 288

उत्प्रेक्षासर: (१४) 277

यथावा- जङ्गे तव जलजेक्षण जगतीविजिगीषुमनसि- जनिषङ्गौ। वपुरुपवनप्रसारिततरुणिमलावण्यक- रिकरायेते ॥४८१॥

हे जलजेक्षण! तव जङ्े वपुरेव उपवनं तस्मिन् प्रसारितौ तरुणिमलावण्ये एव करिणौ तयोः करौ ताविवाचरत इत्यर्थः। अत्र करिकरायेते इत्यत्र उपमानात्कर्तुर्सुबन्तादाचारे विहितेन क्यडा आमुखे उपमाप्रतीतावपि वपुरुपवनेत्यादिविशेषणनैरर्थ- क्यादौचित्येनोत्प्रेक्षायामेव पर्यवसानम्।। एवमुपमावाचकानां निभादिशब्दानां कल्पवादिप्रत्ययानां च प्रयोगेऽपि सामग्रया औचित्यादुत्प्रेक्षायामेव पर्यवसानं बोध्यम्।।

यथा- नरहरिभुजाशखरशिखानखांशवो दितिजहृद- यगा व्यरुचन्। तदसुमरुदशनसत्वरविसृमरफणि-

वाङ्गाघुर्याध्ययनोपसन्नपीयूषवीचिदेश्यमिदम्।

सितम् ॥४८३॥ नाभीहदकृतमजनमदनगजोदस्तहस्तदेशीया।

Page 289

278 अलंकारमणिहारे

रसगङ्गाघरकारस्तु क्यडचारक्किबादीनामप्युत्प्रेक्षाप्रतिपाद- कत्वमेवाभाणीत्। तस्यापि पर्यवसाने उत्प्रेक्षाप्रतिपादकत्व एव तात्पर्यम् । यद्ा उत्प्रेक्षावाचका एव ते स्युः । यथोक्तं क- ल्पतरौ-

कल्पदेशीयदेश्याद्याः स्पर्धिप्रतिभटादयः । निभवद्वादयश्चापि क्वचित्संभावनापरा:॥ इति। विस्तरस्तु हंससंदेशरसास्वादिन्यां 'विष्णोर्वासात्' इति पद्यव्याख्यावसरे कृतोस्माभिः । एवं रूपकादिप्रतीतिस्थलेष्व- प्युत्प्रेक्षायां पर्यवसानं संभवतीति चित्रमीमांसायां प्रतिपादि- तम्। तदुदाहरणानि विस्तरभयान्नेह प्रदर्श्यन्ते इत्यलम्॥ ननु गम्योत्प्रेक्षाया अलंकारताकथनमनुचितं, तस्या अलं- कारध्वनित्वादिति चेछयताम्-यत्र विषयविषयिनिमित्तेषूपान्तेषु

स्फुटतया वाच्यायमानत्वादलंकारतामेवाश्तुते। यथोदाहियत 'ईप्सितसरा निकामं' इत्यादि। यत्र चोत्प्रेक्षणयिस्य विषयिणो- व्यनुपादानं निबद्धेन वस्तुना अलंकारेण वा उत्प्रेक्षाऽवगम्यते

यथा- उपगूढां हरिणीं श्रियमुरसा कृष्णेन वीक्ष्य वृ- बशौले। अभिवीक्षन्ते शश्वत्कृष्णं निजवल्लभं वन- हरिण्यः ॥।४८५॥

कृष्णेन भगवता उरसा उपगूढां हरिणीं 'हिरण्यवर्णी ह- रिणीम्' इति हरितवर्णतया श्रुतां हरितशब्दात् 'वर्णादनुदा-

Page 290

उत्प्रेक्षासरः (१४) 279

त्तात्' इत्यादिना डीप्सन्नियोगाशिष्टस्तकारस्य नकारादेशः, णत्वं च 'हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । श्रियं लक्ष्मीं वीक्ष्य वनहरिण्यः विपिनकुरङ्गयः । कृष्णं कृष्णसाराम त्यर्थः। 'विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपः' इति भीमसेनादि- शब्दवदुत्तरपद्भूतसारशब्दस्य लोपः। अत एव 'कृष्णाजिनेन संवृण्वन्' इत्यादयः प्रयोगा निर्विचिकित्साः। निजवल्लभं ईक्षन्ते। श्रीरिव वयमपि हरिणीशब्दवाच्या: भगवानिवास्मद्वल्लभोपि कु- ष्णशब्दाभिलपनीय इति पश्यन्तीति भावः। अन्र हरिणीकर्तृक- कृष्णसारकर्मकवीक्षणेन वस्तुना श्रीकृष्णवक्षस्समालिङ्गिता हरि णीशब्दाभिलाप्या श्रीरिव स्वयमपि तथा वुभूषव इवेत्युत्प्रेक्षा ध्वन्यते ॥।

यथावा - प्रणिनंसया सुमनसा मौळिषु नमितेषु सुमन- सस्तत्स्थाः । पुर एव ततोप्यपतन्नुरगधराधरशि- रोमणेश्वरणे ॥४८६॥

सुमनसां देवानाम्। तत्स्था: मौळिस्थाः सुमनसः कु- सुमानि। अत्र सुमनःपतनेन वस्तुना नामसाम्यप्रयुक्तस्पर्धया त्रिदशमौळिभ्योप्यग्रे स्वयमेव प्रणिनंसव इवेत्युत्प्रेक्षा ध्वन्यते। निर्वेलभवदवानलखर्वेतरतापविलुलिता मनु- जाः। त्वद्वदनसुधाजलनिधिमुद्दीक्षन्ते मुहुर्मुरा- राते ॥४८७॥

अत्र रूपकेण निमङ्गुमिवेत्युत्प्रेक्षा ध्वन्यते॥

Page 291

280 अलंकारमणिहारे

यथावा- अतिवेले भवजलधावरिविजयायावितीर्यमा- णपथे। रघुकुलवीर तटस्थं वीक्षन्ते वानरा इव नरास्त्वाम् ॥ ४८८ ॥ अतिवेले भवजलधौ पूर्व जलधाविवेति भावः । अरीणां कामादीनां द्विषां दशाननादीनामिवेति भावः। विजयाय अ- वितीर्यमाण: अदीयमान: पन्थाः मार्गः उपायश्च येन तथोक्ते सति, तटस्थं तीरस्थं उदासीनं च त्वां वानरा इव नराः पश्यन्ति कुतोऽयममुं भवजलधिमपि शरैश्शोषयितुं सेतुना बन्द्ुं वा नोदुङ्क इति वीक्षन्त इति भावः। अत एव रघुकुलवी- रेति संबोधनम्। अत्र रूपकोजीवितया उपमया जलधिमिव भवजलधिमपि शुशोष इषव इवेति वा बिबन्धययषव इवेति वा उत्प्रेक्षा ध्वन्यते।। यथावा- उद्देलतरं सुतरामुत्सिक्ते तव यशःपयोराशौ। उरगधराधरभास्वन्नुडुपं क्षणमपि न मुश्चति ज्यो- त्स्ा ॥४८९ ॥ ज्योत्सा कौमुदी उडडपं इन्दुमेव पवं न मुश्चति स्त्रियो हि नितरां भीरव इति भावः। अत्रापि रूपकेण निमजनभ- येनेचेत्युत्प्रेक्षाया ध्वनिः।। ननु अध्यवसायमूलताया अतिशयोक्त्युत्प्रेक्षयोस्तुल्यत्वा- त्कथमनयोर्भेद इति चेत् शृणु-अध्यवसायो नामाभिन्नत्वेन प्रतिभासनम्। स च द्विविधः सिद्धस्साध्यश्चेति। यत्र

Page 292

आतशयोक्तिसर: (१५) 281

लक्ष्यमाणगुणसंबन्धाद्विषयिणो विषयगतत्वेनारोष्यमाणतया भि- न्नस्यापि विषयिणो विषयक्ोडीकारेण प्रवृत्तत्वादभिन्नतया प्र- तीतिः तत्राध्यवसायस्सिद्धः । पतदाश्रयेणातिशयोक्ते: प्रथमः प्रकारोऽनुपदमेव प्रदर्शयिष्यते। यत्र पुनरुपात्तविषयत्वाद्विष- यिणो भिन्नत्वेन प्रतिभानं तत्र व्यञ्ञनव्यापारेणाभिन्नत्वप्रतीते- स्साध्यमानत्वात्साध्यः । एतदवलम्बनेन प्रवृत्तिस्संभावनमूहो वि- तर्क इत्याद्यपरपर्यायाया उत्प्रेक्षाया इत्यनयोर्भेंद इति। इत्यलंकारमणिहारे उत्प्रेक्षासरश्चतुर्दशः

अथातिशयोक्तिसर :.

निगीर्य विषयं यत्र विषय्येवाध्यवस्यते। रूपकातिशयोक्तिं तामलंकारविदो विदुः॥ आरोपविषयस्य मुखादेविशिष्य तद्वाचकपदोपादानेन वि- नाऽपि विषयिवाचकैश्चन्द्रादिपदैरेव ग्रहणं विषयनिगरणम्। त- त्पूर्वकं विषयस्य विषाययरूपतयाऽध्यवसानं यत्र तत्र रूपका- तिशयोक्तिः। विषायरूपतयेत्यत्र रूपं च अभेदताद्रप्यान्यतरत्। एवं च अनुपात्तविषयधर्मिकाहार्यनिश्चयविषयीभूतं विषय्यभे- दताद्रप्यान्यतरद्रूपकातिशयोक्तिरिति लक्षणं बोध्यम्। रूपक- वारणायानुपान्तेति। तत्र हि विषयो मुखादिरुपात्तः। अयमेव हि रूपकादस्यां विशेषोऽतिशय उच्यते। भ्रान्तिमद्वारणायाहा- र्येति। उत्प्रेक्षावारणाय निश्चयेति। अत्र च विषयविषयिणोरे- कपदोपान्तत्वान्नोद्देश्यविधेयभावस्संभवति। विभिन्नपदोपात्तयो- रेव तद्वतारात्।। ALANKARĄ 36

Page 293

282 अलंकारमिहारे

यथा- तिमिरनिरासपटीयान्कमलानामावहन्महामो- दम्। कर्दममर्दयतितमां दुर्दममम्भोजबान्धवो द्युतिमान् ॥ ४८९॥ अत्र हि अम्भोजबान्धवत्वेन कौस्तुभस्य निगरणे तिमि- रनिरासेत्यादिपादद्वयगते द्वे विशेषणे तदनुग्रहार्थ विषयविष- यिणोस्साधारणधर्मतया साक्षादुपात्ते। तृतीयमपि तृतीयचरण- गतमशाब्दिकानां नये। शाब्दिकानां तूपात्तया अम्भोजबान्ध- वाभिन्नकर्तृकया कर्दममर्दनक्रिययोन्नीतं तादृशकर्तृत्वं साधारण- धर्मत्वेन तयोर्विषयविषयिणोस्स्थितम् । प्रथमे चरणे अज्ञानस्य तिमिरत्वेन, द्वितीये जननयनानां कमलतया, तृतीये दुरितस्य कर्दमत्वेन च निगरणं तस्मिन्नेवानुग्राहकतया। एवंच सावय- वेयमतिशयोक्ति:॥ यथा वा- तिमिराधःकृतमिन्दुं कमलयुगं तत्र सततसं- फुल्लम्। कलयन्ती भाति घने माया देवस्य काऽ- प्यविज्ञेया॥ ४९०॥

भगवच्छ्रियो विषया निगीर्णाः । अत्र 'जनकस्य कुले जाता देवमायेव निर्मिता' इत्येतदनुसन्धेयम्। माया नाम विचित्र- कार्यकरी शक्तिः। यत्र ह्यनुग्राहकं न निगरणान्तरं किंतु शुद्धं साधारण- धर्मादि सा निरवयवा॥

Page 294

अतिशयोक्तिसार: (१५) 283

यथा- मधुरान सुधाप्रवाहान्विघुशिशिरानबुधजनदुर- वगाहान्। प्रमुषिततापव्यूहान प्रविगाह्य जहामि सकलसंमोहान् ॥ ४९१॥ अबुधजनैः अज्ञजनैः देवेतरैश्च दुरवगाहान्, अत्र श्रीनिवास- दयाविभवा निगीर्णाः। प्रथमोदाहरणे अम्भोजबान्धवपदन साध्य- वसानलक्षणया शक्यलक्ष्योभयानुगततिमिरनिरासपटीयस्त्वाद्युपा- त्तधर्मपुरस्कारेणोपस्थिते कौस्तुभे शक्तचुपस्थितस्थाम्भोजबान्धव- त्वविशिष्टस्याभेदसंसर्गेणान्वयः। शक्तचुपस्थितयोः कृतीष्टसाधन-

दन्वयाश्युपगमे बाधकविरहात्। एवं च अम्भोजबान्धवाभिन्नः ति- मिरनिरासपटीयस्त्वादिमानिति बोधादियमभेदातिशयोक्तिरित्यु- च्यते। एवमनन्तरोदाहरणयोरपि। नन्वेवं सति किमस्य रू- पकाद्वैलक्षण्यमिति चेन्मैवम्। रूपके विषयिभेदव्याप्यस्य वि- षयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्पष्टत्वात्। यदा तु नाभेदभाने तात्पर्य किंतु भेदभाने तदा ताद्रूप्यस्यैव वोधा- त्तादूप्यातिशयोक्तिर्वक्ष्यते। अत्र लक्षणे विषयं निगीर्य विष- य्येवाध्यवस्यत इति सामान्यत एवोक्तेश्शुद्धसाध्यवंसानलक्ष-

तत्र धर्मे धर्म्यभेदाध्यवसायो यथा- सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम्। अस्मादशां शरण्यं विस्मयनीयं विभा- तु लावण्यम् ॥४१२॥

Page 295

284 अलंकारमणिहारे

अत्र लावण्याश्रये भगवत्यां लक्ष्म्यां लावण्यारोपः । च.

यत्वादिसंबन्धस्य निमित्तत्वे तु शुद्धत्वमिति विवेकः। 'भेदा- विमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च वि- ज्ञेयौ' इति काव्यप्रकाशोक्तेः । इमौ भेदौ सारोपसाध्यवसा- नरूपभेदावित्यर्थः। तस्मात्सादृश्यातिरिक्तसंबन्धेन यत्रान्यस्मि- न्नन्यतादात्म्यारोप: सा शुद्धसाध्यवसानेति ध्येयम्॥। कार्ये कारणाभेदाध्यवसानं यथा- वचनरसधुतमरन्दं वपुरसितिम्नाऽवधीरितमि- ळिन्दम्। वन्दारुदेवबृन्दं विनतानन्दं कमप्यहम- विन्दम् ॥ ४९३॥ अत्र विनतानन्दरूपकार्ये तत्कारणभगवदमेदाध्यवसायः। 'हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते' इत्युक्तलक्षणहेत्वलंकार- विशेषस्य तु शुद्धसारोपलक्षणामूलकत्वेनोपात्तविषयकं 'लक्ष्मी. विलासा विदुषां कटाक्षा वेङ्कटप्रभोः' इत्यादिकं विषय इति नानेनैव कार्यकारणाभेदरूपशुद्धसाध्यवसानलक्षणामूलकेन गता- र्थंता। सारोपा तत्र यत्रोक्तौ विषयी विषयस्तथा। सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः ॥ सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते। शुद्धा तद्न्यसंबन्धरूपा सा तु निगद्यते॥। मुखेन्दुर्नयनानन्दस्तन्व्या विजयते तराम्। निगीर्य विषयं यत्र विषय्येव निबध्यते।।

Page 296

अतिशयोक्तिसरः (१५) 285

तत्र साध्यवसाना स्याद्गौणी शुद्धेति सा द्विधा। सरोजकाहळीरम्भासैकताकाशभूधरैः ॥ शङ्गेन्दुतिमिरैस्सृष्टा वल्ली कामिजनोत्सवः ।। इति काव्यदर्पणे सोदाहरणे सारोपसाध्यवसानलक्षणे प्रदर्शिते। अनुपदपद्योदाहृतकाव्यप्रकाशकारिकार्थस्फुटप्रतिपत्तये काव्यदर्प- णलक्षणोदाहरणम् । पतेन 'प्रत्यासत्तिरसौ रसस्य जयति त्र- स्यत्कुरङ्गक्षणा' इत्यलंकारकौस्तुभकृतो विश्वेश्वरस्य कार्यकार- णाभेदाध्यवसानलक्षणातिशयोक्तरुदाहरणमचतुरश्रं वेदितव्यम्। तत्र त्रस्यत्कुरङ्गेक्षणेति विषयस्योपादानेनातिशयोक्तेर्विषयनिगर- णप्रधानाया अविषयत्वादुक्तरीत्या हेत्वलंकारपार्थक्यावश्यंभावेन तदुदाहरणताया एवास्य युक्ततया उदाहरणान्तरप्रदर्शनस्यैवो- चितत्वात् । 'अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह' इति साहि- त्यदर्पणोक्तहेत्वलंकारलक्षणं च 'हेतुहेतुमतोरैक्यं हेतुम्' इति प्रदर्शितचन्द्रावलोकलक्षणाविसंवाद्येव अभेदेन अभेदारोपेण अ- भिधा उत्तिरिति तदर्थात्। यत्पुन :- तारुण्यस्य विलासस्समधिकलावण्यसंपदो हास:। धरणितलस्याभरणं युवजनमनसो वशीकरणम्॥ इति तदीयमुदाहरणं, तत्तु 'लक्ष्मीविलासा विदुषाम्' इत्या- दिसंप्रतिपन्नोदाहरणविसंवादितयाSनादर्तव्यम्। अत्र वशीकरणहे- तुर्नायिकावशीकरणत्वेनोक्तेति विवृततया साध्यवसानलक्षणामू- लकातिशयोक्त्युदाहरणार्हत्वात्तस्य। कौस्तुभकारस्तु-"अभेदे- नाभिधाहेतुः' इति साहित्यदर्पणोक्तहेत्वलंकारस्यातिशयोक्तावे- वान्तर्भावः" इत्यभाणीत्॥ साहित्यदर्पणोक्तेति हेत्वलंकारं विशिषतोऽस्यायं भाव :- 'युवजनमनसो वशीकरणम्' इति तदीयोदाहरणे साध्यवसा-

Page 297

286 अलंकारमणिहारे

नलक्षणामूलकहेतुहेतुमदभेददर्शनेन तल्लक्षणस्य तथाविधहेतुहेतु-

न तु सारोपलक्षणामूलकहेतुहेतुमदभेदस्यापीति॥ उल्लेखादी- नामप्यत्रैवातिशयोक्तौ क्तौस्तुभकृताऽन्तर्भावनं तुनातीव रमणी- यमिति स्वयमेव विदां कुर्वन्तु सहृदया इति विरम्यते विस्तर- भयात्।।

मालारूपाऽपीयं दृश्यते यथा-

सौराज्यं जगतीनां सौमङ्गल्यं सुपर्वसुदतीनाम। सौभाग्यमहिगिरिपतेस्सौलम्यं हन्त नयनयोर्भ- जते ॥ ४९४॥

अत्र सौराज्यादिरूपकार्येषु तत्कारणभगवदभेदाध्यवसायः॥ अत्रातिशयोक्तौ रूपकविशेषणं रूपके प्रदर्शिता: प्रकारा अन्रापि संभवन्तीति सादृश्येन प्रदर्शनार्थम्। मुख्यरूपकाभेद- स्यातिशयोक्तावसंभवाद्रूपकपदं 'मासमग्निहोत्रं जुहोति' इत्य- त्राग्निहोत्रपदव्तद्धर्मातिदेशेन तत्सदृशपरम्। तेनात्राप्यभेदाति- शयोक्तिस्ताद्रूप्यातिशयोक्तिरिति विधाद्यं तत्राप्याधिक्यन्यूनता- नुभयविभागश्चेत्येतत्सर्व विभावनीयम्॥ तत्राधिकाभेदरूपकातिशयोक्तिर्यथा-

जातु। सज्जितमिह लोचनयोर्व्यञ्जयति सदा स्वमेव निधिम् ॥४९५॥

Page 298

अतिशयोक्तिसर: (१५) 287

द्वाञ्जनादञ्जनाभेदाध्यवसितस्य कदाचिल्लोचनगोचरीकृतस्य भग. वतस्सततमपि स्वाभिन्ननिधिव्यञ्जकतोक्तराधिक्यं द्रष्टव्यम्।।

यथा वा- जाम्बूनदाद्रिशृङ्गे जम्बूरद्गुततमेयमुद्गूता। न फलप्रत्ययलोपो यस्याः परिदृश्यते कदाचिदपि। जाम्बूनदाद्रे: शेषागरे: शङ्गे अद्भततमा इयं जम्बू: जम्बू- त्वेनाध्यवसितो भगवानिति भावः। उद्भूता अवतीर्णा। अद्भुत- तमत्वमेवाह-नेत्यादि। यस्या: जम्ब्वाः फलैः प्रत्ययः प्रथितत्वं तस्थ लोप: फलवत्ताप्रसिद्धयभाव इत्यर्थः ॥

प्रत्ययः प्रथितत्वेऽपि सनादिज्ञानयोरपि। आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु॥ इति मेदिनी। भगवत्पक्षे तु-फलप्रत्ययस्य तत्तदभीप्सित- प्रयोजनसिद्धिविषयकविश्वासस्येत्यर्थः । लोपः कदाचिदृपि न परिदृश्यते। प्रसिद्धजम्ब्वाः कदाचित्फलप्रसिद्धिलोपस्संभवेदपि अस्यास्तु न तथा। एतदाश्रितानामीप्सितं फलं सिध्यति वा न वेति विशयेन विश्वासलोप: कदाचिदपि न भवेदिति भावः। पक्षे जम्बू: जम्बूशब्दः अर्थगतस्य स्त्रीत्वस्य शब्दे आरोप:। अन्भततमा। तदेवाह-नेति। यस्याः पश्चम्येकवचनमिदम। फ- लप्रत्ययलोप: कदािद्पि न परिदृश्यते। जम्बूशब्दात्फलरू- पेऽर्थे वैकारिके अणि 'जम्ब्वा वा' इति वैकल्पिके लुप्यन्तु- शिष्टेऽपि अस्या: जम्बूशब्दव्यक्ते: कदाचिदपि फलप्रत्ययलोपः फलार्थविहिताणप्रत्ययलोपः न दृश्यत इत्यद्भुतत्वमिति भावः।

Page 299

288 अलंकारमणिहारे

वास्तवार्थस्तूक्त एव। अत्र प्रसिद्धजम््वपेक्षया प्रसिद्ध जम्बूशब्दा- पेक्षया च जम्बूत्वेनाध्यवसितस्य भगवत उक्तरीत्याऽडिक्यं श्षेष- मूलकं द्रष्टव्यम्। शब्दपरार्थान्तरं चमत्कारातिशयाय॥

न्यूनाभेदरूपकातिशयोक्तिर्यथा- सौशील्यमुख्यशुभगुणराशीन्भवतो हरे श्रुति- शतोक्तान्। अविदन्तः पशवोऽमी विनदन्त्यचतु- ष्पदा वृथा दिक्षु । ४१७॥ अत्र पश्वभेदेनाध्यवसितानामचतुष्पदत्वोक्तेर्न्यूनता।। अनु- भयाभेदरूपकातिशयोक्तिस्तु 'तिमिरनिरासपटीयान्, मधुरान्सु- धाप्रवाहान्' इति प्रागुदाहृतपद्यद्वये द्रष्टन्या।

अधिकताद्रप्यरूपकातिशयोक्तिर्यथा- नीरन्ध्रगुणप्रोतं स्फारं विशदयति निजरुचि- भिरमृतम्। अन्यदिदमसितरत्नं धन्यं मां विदध- दहिशिखरिखनिजम् ॥ ४९८॥ नीरन्धैः सान्द्रैः गुणैः सर्वज्ञत्वादिभिः प्रोतं संवलितम्। अन्यत्र नीरन्ध्रं सुषिरविरहितं तथाऽपि गुणेन तन्तुना प्रोतं स्थूतं चेति विशेषणोभयपदकर्मधारयः। अहिशिखरिखनिजं न तु सिंहलाकरजं अन्यत् लोकविलक्षणं इदं असितरतं महा- नीलरत्नं तत्त्वेनाध्यवसितशश्रीनिवास इति यावत्। मां धन्यं कृतार्थ ध्न लब्धारं च विदधत्सत् निजरुचििः स्वविषयक- प्रीतिविशेषैः अन्यत्र स्वप्रभाभिः। अमृतं स्वानुभवरूपं मुक्त्यै- श्वर्य विशद्यति विवृणुते। पक्षे अमृतं क्षीरं विशद्यति पाण्डुरं

Page 300

अतिशयोक्तिपरः (१५) 289

करोति, न तुनीलम् । अत्र 'यमेवैष वृणुते तेन लक््यस्तयैष आत्मा विवृणुते तनूं म्वाम्' इति श्रुत्यर्थोऽनुसंधेयः । तथाहि 'एष परमात्मा यं साधकं प्राथेयते तेन लभ्यः। प्रार्थनीयेन पुंसा लभ्य इत्यर्थः। तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः। तत्प्रियतमत्वं च तत्प्रीतिमत एव। ततश्च भगवाद्वषयिणी उपा- सकस्य प्रीतिः भगवत उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवति। तस्योपासकस्य एष आत्मा परमात्मा स्वां तनुं स्वरूपं विवृ- गुते प्रकाशयति स्वानुभवं प्रयच्छतति' इत्यभाषि । वृणुत इति पाठेऽपि स एवार्थः । अत्र अन्यदित्यनेन निर्जातनीलरन्नाद्वैलक्ष- ण्यं नीरन्ध्रेत्यादिना नीरन्ध्रगुणप्रोतत्वाहिशिखरिखनिजत्वामृत- त्रिशदीकरणैस्सरन्ध्रगुणप्रोतात्सिहलाकरजात् क्षीरनीलतानिष्पा- दकात्तस्मादाधिक्य च दशितम्।। एवम्- कानपिभजे विलासान्कण्ठीरवभूधरेन्द्रकृतवा- सान्। लक्ष्मीकटाक्षदासानू ललितशरञ्चन्द्रचन्द्रि- काहासान् ॥४९९॥

न्यूनताद्रूप्यरूपकातिशयोक्तिर्यथा- पन्नगसन्नगनेतुस्सन्नयविन्नैरुदीरितं नाम । वा- चाऽपि नाभिदघतो नीचा: केडमी पिशाचका ह श्याः।।५०0/

सन्नयो वेदान्तशास्त्रं विन्नः विचारितो यैः तथोक्तैः 'रदा- श्याम्' इति निष्ठातस्य पूर्वस्य दस्य चनत्वं 'विन्नवित्ती वि- ALANKARA 37

Page 301

290 अलंकारमणिहारे

चारिते' इत्यमरः। आहिताग्नयादेराकृतिगणत्वान्निष्ठायाः परनि- पातः। नामापि वाचेत्यन्वयः। अत्र केऽमी पिशाचका इत्यनिर्जा- तत्वप्रकाशनान्निर्ज्ञातपिशाचकेभ्यो वैलक्षण्यं, दश्या इत्यनेनादृश्ये- भ्यस्तेभ्यो न्यूनता च दर्शिते॥ अनुभयताद्रूप्यरूपकातिशयोक्तिर्यथा-

विभवम्। कमपि घनं फणिशिखरिणि कलयामि घनागमान्तसंलक्ष्यम् ।।५०१। शितिकण्ठेन महादेवेन मयूरैश्च कृतनिषेवणं अविकुण्ठं निरर्गळं स्पर्शनं वितरणं तेन, पक्षे अप्रतिहृतेन भारुतेन 'स्प- शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी। प्रथि- तविभवं, घनाः ये आगमान्ताः उपनिषदः तैः संलक्ष्यं ज्ञेयं तेषु प्रतिपाद्ं वा। 'तं त्वौपनिषदम्' इति श्रुतेः । पक्षे घनागमस्य प्रावृष: अन्ते मध्ये संलक्ष्यं दृश्यम्। कमपि घनं कलयामि॥

यथावा- सुमन:कदम्बतान्ते३शमनं तपनोद्गवोष्मभयद- मनम्। कमपि घनाघनमेनं कलयन्नुज्ीवनं लभे नूनम्॥५०२॥ सुमनसां मालतीनां कदम्बानां नीपानां च पक्षे देवनि- वहानां 'सुमनाः पुष्पमालत्योः, 'कदम्बं निकुरुम्बे स्यान्नीपसि- द्धार्थयो: पुमान्' इति च मेदिनी । तान्ते. ग्लाने: शमनम्। तपनात् भानो: उद्भ्वतीत्युद्भवः पचादयच्। य ऊष्मा तस्मात्

Page 302

अतिशयोक्तिसरः (१५) 291

भयं तस्य दमनं श्रीष्मातपोष्मप्रशमयितारमित्यर्थः । पक्षे त- पनो नरकविशेषः 'तपना ग्रीष्मभल्लातनरकान्तरभास्कराः' इत रत्माला। तस्मात् उन्भवो य ऊष्मा ताप: तन्भयस्य शमनम्। यद्वा-तप्यते अनेनेति तपनः तापहेतुः उद्धतश्चासौ भवस्संसार: तस्मिन् ये ऊष्माणः आध्यात्मिकादयस्तापाः तन्यशमन- मित्यर्थः । कमपि घनाघनं श्रीनिवासमिति यावत्। कलयन् सेवमान: उज्जीवनं उत्कृष्टं सलिलं, पक्षे उत्तरणमिति यावत्। लभेय नूनमिति संभावनायाम् । अत्र 'स्वोजीवनेच्छा यदि ते' इत्यादिकं स्मर्तव्यम। उदाहरणद्वयेऽपि कमपीत्यनेन लो. कसिद्धघनाद्वैलक्षण्यं प्रदर्शितं न त्वाधिक्यं न्यूनता वेत्यनुभ-

इदं सर्वे कुवलयानन्दाद्यनुरोधेन। जगन्नाथस्तु 'विष- यिवाचकपदस्य विषये साध्यवसानलक्षणायाइशक्यतावच्छेदक- मात्रप्रकारकलक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम्। एवंच निगरणे सर्वत्र विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानं न विषय्यभिन्नत्वेनेति स्थिते अभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्ति रिति द्वैविध्यमयुक्तम्' इत्यभाणीत्। अत्र वैद्यनाथ :- 'इदं प्रौ- ढिविलसितं, शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतोतत्वेन ताद्वि- शिष्टतया लक्षणाया असंभवात्। यद्धर्मेविशिष्टे शक्यसंबन्धग्रह- स्तद्धर्मप्रकारकलक्ष्योपस्थितेस्समानप्रकारकशाब्दवोधे हेतुत्वात्, लक्षणापरिहार्याया अनुपपत्तेस्तदवस्थत्वाञ्च। एवमपि तात्प- रयंवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्याभेदप्रकारकबोधेऽप बाधकाभावान्मात्रपदेन विषयतावच्छदकस्यव व्यावर्तनात्' इत्यवादीत्ं।

Page 303

292 अलंकाग्मणिहार

ननु 'अञ्जनगिरिशिखरोल्लसत्' इत्यादुक्तोदाहरणेषु इद- मिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेच्छूयताम्-इदं त्वस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिः। विषयवि- शेषणत्वविवक्षायां तु रूपकमेव। एवं गौरयमित्यादावपि। अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्ति- स्संगच्छते । अत एव च प्रकाशकृता 'नयनानन्ददायीन्दो- बिम्वमेतत्प्रसीदति' इत्यतिशयोक्तिरूपकसंकरस्योदाहरणं च यो- युज्यत इति दिक्॥

उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता॥ सैव रूपकातिशयोक्तिरेव अपह्नुतिगर्भिता चेत्सापह्नवाति- शयोक्तिरुक्ता भवति। तथाच सापह्ववत्वनिरपह्नवत्वभेदेनाति- शयोक्तिर्द्विविधेति व्येयम्॥

यथा- अधिफणिधरणिधराग्रं निधिरक्षय्योडखिलोप. जीव्योस्ति।धनदावसथे निधिरिति मनुते सर्वोड- पि कियदिंदं मौग्ध्यम् ॥५०३॥

अत्र अधिफणिधरणिधरात्रं निधिरित्यतिशयोक्ति: धनदा- वसथस्थो न निधिरित्यपह्नुतिगर्भा। निह्नवोऽत्र मौग्ध्योपन्यासा- दर्थसिद्धः॥ यथावा- मृगपतिनगशिखरलगज्जगदान्ध्यं हरति खलु

Page 304

अतिशयोक्तिसर: (१५) 293

जगच्चक्षुः । अन्धान्कतिचन रचयत्निन्धां न रवि-

जगतामान्व्यमज्ञ/नमिति यावत् । कतिचन दिवान्धादीन्। इन्धां दीप्यताम्। "ि इन्धी दीपौ"। कर्तरि लोटप्रथमैकवचनम्। अत्र मृगपतिनगशिखरलगजगच्चक्षुरित्यततिशयोक्ति: न रविर्जग- च्क्षुरिति पर्यस्तापह्नतिगर्भा ॥ यथावा- गारुत्मतमिदमेव हि गारुत्मतशैलशिरसि य- द्रत्नम्। अज्ञास्तद्वारुत्मतमाहुः प्रथते यदश्मगर्भ इति ॥५०५॥

गरुत्मतोऽयं गारुत्मतः सचासौ शैलः शेषाद्रिरेव 'वेदा- द्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात्। तस्य शिरसि शिखरे यद्रतं भगवानिति यावत्। गारुत्मतगिरिशिखरभवत्वादिदमेव गारुत्मतरतनं, अज्ञास्तु अश्मा गर्भो जन्मस्थानं यस्य सः अश्म- गर्भः केवलप्रस्तरजन्य इति यद्रतं प्रथते तद्गारुत्मतमाङ्डुः। के- वलाइमजन्यस्य गारुत्मतरत्तामभिदधाना मूढा एवेत्यर्थः । अत्र गारुत्मते तद्धर्मनिह्ववेन भगवति तदध्यवसानादपह्नतिगर्भाSति- शयोक्तिः । अज्ञा आहुरित्यनेन निह्नवस्थार्थकत्व्रम्। अत्राद्ये उदाहरणे केवलापह्नुतिगर्भत्वं, इतरयोस्तु जगच्चक्षुष्टगारुत्मत- त्वनिह्नवे युक्तिप्रदर्शनात्सहेतुकपर्यस्तापह्नुतिगर्भत्वमिति ध्येयम्। एवंच सापह्नवातिशयोक्तावपि द्वैविध्यमभ्युपगन्तव्यम्।।

Page 305

294 अलंकारमणिहारे

प्रस्तुतस्यान्यत्वं अभेदेऽपि भेद: स यत्र लोकोत्तरत्वप्रति- पत्तचर्थो वर्ण्यते सा भेदकातिशयोक्तिरित्यर्थः । अभेदे भेदव- णनं चाहार्य ज्ञेयम्। एवमुत्तरत्रापि। तेन भ्रान्ती नातिप्रसङ्ग: ।।

यथा- अन्यदिदं तव मौग्ध्यं कन्येऽब्धेरन्यदेव वैद- ग्ध्यम्। येन जगज्निहेतुरनूनं क्रीतः फणीन्द्रगिरि- केतुः ॥५०६॥ मौग्ध्य सौन्दर्य 'उदयदौवना मुग्धा लज्जाविजितमन्मथा' इत्युक्तलक्षणावस्थाविशेषो वा, वैदग्ध्यं चातुर्यम्। यथावा- अमृतमयी काचिदियं सृष्टिर्यस्त्वद्रुणान्गृणांति जनः । न प्राकृतजनगन्धं सहते जात्वपि यहच्छ- याऽप्येषः ॥५०७॥

यः जनः त्वद्गुणान् गृणाति स्तौति, इयं अमृतमयी नि- इश्रेयसमयी काचितसृष्टिः । इयमिति विधेयसृष्टिशब्दानुराधिनी स्त्रीलिङ्गता। अत एव एष त्वद्गणस्तोता जनः जात्वपि य- इच्छयाऽपि प्राकृताः प्रकृतिपरिणामभूताः पक्षे पामराः ये जनाः 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तेषां गन्धं संबन्धं न सहते । इयं प्राकृती चेत्सृष्टिः कथं प्राकृ तजनगन्धं न सहेत अतो मन्ये नैषा प्राकृती सृष्टिः किंत्व- न्यैवामृतमयीति भावः । अत्र प्रसिद्धप्राकृतसृष्ट्यन्तर्गतस्यापि भगवदुपश्ोकितृजनस्य तन्देदो वर्णितः।

Page 306

अतिशयाक्तिसरः (१५) 295

यथावा- अन्या मनसो वृत्तिर्मान्यानां देव तावकीना- नामू। आहंकारिकतां यत् क्वचिदपि नोपाभ्रुते कर्थं- चिदषि॥५०८॥ आहंकारिकतां सात्विकाहंकारपरिणामतां, पक्षे अहंकार- मर्हतीत्याहंकारिकं तस्य भावं 'तदर्हति' इति ठक्। अहंयु- त्वमित्यर्थः । अत्राहंकारिकस्यापि भागवतमनसस्तन्भेदो वर्णि- तः। आद्या शुद्धा। अन्ये श्ेषसंकीर्णे॥ असंबन्धेऽपि संबन्धो वर्णोत्कृष्टयै यदीर्यते। संबन्धातिशयोक्तिं तामलंकारविदो जगुः ॥ संबन्धश्चामेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयोक्त्यादिप्रभेदेषु नातिप्रसङ्ग:।। यथा- रुचिरतरनिजतनूरुचिनिचय प्राचुर्यमेचकितभु- वनम्। चलदलकविलसदलिकं कलयाम्यनिला- इनाद्रिपतितिलकम् ।५०९॥ अत्राखििलभुवनस्य श्रीनिवासदिव्यविग्रहरुच्िमेचकितत्वासं बन्धेSपि तत्संबन्धोक्ति: ॥ यथावा- वयमपि कतिपयदिवसैः पयसिजनयनाङ्गिघू- ळिधुतजडिमाः । स्त्रीत्वं स्फुटयेम स्वकमित्यहि- गिरिपतिशिला: प्रमोदन्ते ॥५१०॥

Page 307

296 अलंकारमणिहारे

जडिमा अचेतनत्वमित्यर्थः । घुतजाडमा इत्यत्र 'डाबुभा- भ्याम्' इति डाप्। स्त्रीत्वं स्फुटयेम सांप्रतं स्ववाचके शब्दे शास्त्रमात्रसमधिगम्यमास्ति स्त्रीत्वं, इतःपरं भगवच्चरणरणुव्यति करविनिर्धूतप्रस्तरभावाः 'स्तनकेशवती नारी' इत्युक्तलक्षणं लौ- किकस्त्रीत्वं चार्थगतं क्रमेण प्रकाशयेम गौतमशापाद्गावभावभा गहल्येवेति भावः। अत्राहिगिरिशिलानामुक्तविधप्रमोदासंबन्धेऽपि तत्संबन्धकल्पनं वर्ण्योत्कर्षार्थम्।।

यथा वा- रविनिभकौस्तुभतेजसि विसरति परितस्तवा- न्तिके नमताम्। दुसदां किरीटमणयो हरे परा: कीटमणय एवासन् ॥ ५११॥ हे हरे! परा: श्रेष्ठाः किरीटमणयः कीटमणयः खद्योता पवासन् रविनिभकास्तुभतेजसि खद्योतवत्तिरोहितरुचोऽभवन्नि- त्यर्थः। 'खद्योते स्यात्कीटमणिज्योतिर्मीली तमोमणिः' इत्यभि- धानचिन्तामणिपरिशिष्टे तिर्यक्काण्डे। पक्षे अपरा इति छेद: अपगतरफा: किरीटमणय: कीटमणयः इति निष्पन्ना इत्यर्थः।रेफो- त्तरमकारोच्चारणं मुखसुखार्थ, रेफरूपव्यञ्ञनमात्रापसारणे ककारो त्तरवर्तिन इकारस्य रेफोत्तरश्रुतस्य ईकारस्य च सवर्णदीर्घे त- थात्वस्य दर्शनादिति भावः। अत्र किरीटमणीनां कीटमणि- त्वासंबन्धेऽपि तत्संबन्धकल्पनम् । अर्थान्तरं तु चमत्काराति- शयाय।

संबन्धेऽप्यसंबन्धकल्पनमसंबन्धातिशयोक्तिरित्यर्थः ।

Page 308

अतिशयोक्तिसर: (१५) 297

यथा- दर्वीकरगिरिशेखरसर्वेश्वरसेवनेन धन्यतमाः अपुनर्भवाय केचिन्निपुणाः स्पृहयन्ति नो कदा- चिदपि॥ ५१२॥ अपुनर्भवाय निश्श्रेयसाय। अत्र मोक्षस्पृहासंबन्धेऽपि तद- संबन्धवर्णनम्। यथा वा- सारोहश्रममहिगिरिपारोदितमेनमर्चयन्तु न- राः । अवरोहश्रमवर्जितमवरोघैस्सममिहार्चय- न्त्यमरा: ॥५१३॥। अत्रावरोहश्रमसंबन्धेऽपि तदसंबन्धवर्णनम् ॥। हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका॥ कार्यकारणयोस्तुल्यकालत्वे सेयमतिशयोक्तिरक्रमशब्दपूर्वि- का अक्रमातिशयोक्तिस्स्यात्॥ यथा- संदधति चापमाराद्विषतां नयनानि संदधति चापम्। अञ्जनगिरिपतिपाणौ गां जहति च तेऽपि गां जहति॥५१४॥ अअ्जनगिरिपतिपाणी चापं कार्मुकं संदधति अधिज्यं कु- वति सति द्विषतां नयनानि चाप धनुस्संदधति। पक्षे च आ- पमिति छेदः। नयनानि च आप अपा समूहं संदधति। अ- ALANKARA 38

Page 309

298 अलंकारमणिहारे

त्याहितेन बाष्पं मुश्चन्तीत्यर्थः। तस्मिन् भगवत्पाणौ गां बाणं जहति सति ते द्विषन्तोऽपि गां बाणं, पक्षे भुवं च जहाते त्यजन्तीत्यर्थः । संदधति जहतीत्यत्र संपूर्वकाद्दधातेर्जहातेश्च लट्प्रथमपुरुषबहुवचनम् । 'स्वर्गेषुपशुवाग्वज्रदिङ्गेवघृणिभूजले। लक्ष्यदष्टया स्त्रियां पुंसि गौः' इत्यमरः । अत्र यदा धनुषस्स- जीकरणं तदैव द्विषतां बाष्पमोचनं, यदा बाणत्यागस्तदा क्षो- णीत्याग इति हेतुकार्ययोस्सहत्वं वर्णितम्॥।

यथा वा- संभ्रमतश्रलति पुरस्संभ्रमतश्रलति भवति रि- पुनिवहः। चक्रं त्यजति च चक्रं त्यजति मृगेन्द्रा- चलेन्द्रमौळिमणे ॥५१५॥ भवति त्वय संभ्रमतः रिपुनिरासे त्वरया अत्यादरेण वा पुरः अग्रतः चलति सति रिपुनिवहोऽपि संभ्रमतः उक्तोऽर्थः, पक्षे आवेगान्भयाद्वा 'संभ्रमस्त्वरा' इत्यमरः, 'संभ्रमोऽत्यादरे भीतावावेगे' इति रतमाला च। पुरः अग्रतः स्वनगराज् चलति। त्वाय चक्रं सुदर्शन त्यजति प्रयुञ्जाने सति रिपुनिवहोपि चक्रं सुदर्शनं राष्ट्रं च त्यजति मुश्चति लोकान्तरं गच्छतीति भावः। 'चक्रं चये जलावर्तें रथाङ्गे राष्ट्रसैन्ययोः' इति रक्माला। अत्र यदा भगवतो रिपुनिग्रहार्थ पुरश्चलनं तदैव रिपूणां नग. रत्यजनं, यदा सुदर्शनप्रयोगस्तदा राष्ट्रत्याग इति कार्यकारण- योयौगपद्यमभिहितम्॥

यथावा- कङ्टकं विशति त्वयि वेङ्कटगिरिनाथ वैरिवि-

Page 310

अतिशयोक्तिसर: (१५) 299

जयाय। कं कटकं प्रविशाम स्वयमिति रिपवोS- पि संभ्रमन्तितराम् ॥५१६॥ हे वेङ्कटगिरिनाथ! त्वयि कङ्कटकं कवचं 'उरश्छदः क ङटकः' इत्यमरः । विशति सति रिपवोपि कङ्कटकं पक्षे कं कटकं गिरिनितम्बं प्रविशेमेति संभ्रमन्तितराम् । 'कटकोस्त्री नितम्बोऽद्रे:' इत्यमरः । अत्रापि कवचप्रवेशगिरिनितम्बप्रवेश- योर्यौगपद्यं दर्शितम्॥। हेतुप्रसक्तिमात्रेण कार्य चेद्विनिबध्यते। चपलातिशयोक्तिस्सा निपुणैविनिगद्यते।। हेत्वभावेऽपि हेतुप्रसक्तिमात्रेण कार्यवर्णनं चपलातिशयो क्तिरित्यर्थः । प्रसक्तिर्ज्ञानम् ।

काश्चन सपझ्माला लीला विहरन्ति पद्मवन- यथा

लोलाः। आवासेषु तदैषां श्रीवाससिषेविषा यदा येषाम् ।५१७ अत्र श्रीनिवाससेवाभावेऽपि तदिच्छामात्रेण भक्तजनावा- सेषु श्रीविहाररूपकार्य वर्णितम्। अत्र श्रीर्लीलात्वेनाध्यवस्यते॥

त्वयि जागरं विविक्षति जातु रणेनोत्सुके मु- यथावा-

राराते। जागरमाविशति सदा रणरणकेन स्वयं द्विषन्निवहः ॥५१८॥

Page 311

300 अलंकारमाणिहारे

हे मुराराते ! त्वं जातु कदाचित् रणेनोसुके समरे उदुक्ते 'प्रसितोत्सुकाभ्यां तृताया च' इति रणशब्दात्तृतीया। अत एव जागरं कवचं 'जागरः कवचोस्त्रियाम्' इत्यमरः । विवि- क्षति प्रवेष्ठुमिच्छति न तु प्रविष्टे सति द्विषन्निवहः रणरण- केन भयसंभ्रमेण सदा न तु कदाचित् जागरं कवचं निद्रा- क्षयं च विशति प्राप्नोति। अत्र कवचसन्नद्धत्वरूपहेत्वभावेऽपि तदिच्छामात्रेण रिपूर्णां निद्राक्षयरूपकार्य वर्णितम्।। अत्रोदाहरणद्वयेऽपि प्रसिद्धश्रीनिवाससेवनयुद्धसन्नद्धत्वा- दिकारणविरहऽपि सिषेविषुगृहाधिकरणकश्रीविहरणद्विषत्कर्तृक जागरण प्राप्तिरूपकार्योदय वर्णनाद्विभावनालंकारेणैव चमत्कृतेर्न च- पलातिशयोक्तिरित्यलंकारान्तरमभ्युपेयम्, 'अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्रयम्' इति लाक्षारसासेचनरूपकारणविरहेऽपि रक्तिमलक्षणकार्योदयवर्णनलक्षणविभावनातो वैलक्षण्याभावात्। अत एव नैनां व्यवजहिरे प्राश्चः। दीक्षितास्तु-विभावनायां कारणाभावो वाच्यः, अत्र कारणप्रलक्तिकथनेन कारणाभावो गम्य इत्येतावन्मात्रेण विच्छित्तिविशेषसद्भावमनुसंधायालंकारा- न्तरमाहु: ॥ हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः । अत्यन्तातिशयोकिं तामाहुः काव्यविचक्षणाः।

यथा- एनांसि दवीयांसि श्रेयांसि च पुरत एव भू- यांसि। पश्चान्नृणां रसज्ञा वेङ्कटनाथाभिधामृतर- सज्ञा ॥५१९॥

Page 312

अतशयोक्तिसर: (१५) 301

यथावा- उद्रिक्तरजास्तापस्सर्वपथीनः प्रशाम्यति पुरैव। वर्षति कामं पश्चाद्धनस्स कृष्णो वृषाद्रिशिख- रस्थ: ॥५२०॥ सर्वपथान्व्याप्नोति सर्वपथीनः 'तत्सर्वांदेः पथि' इत्या- दिना व्याप्नोतीत्यर्थे खः । सर्वतोमुख इत्यर्थः । उद्रिक्तं रजः गुणविशेषः पांसुश्च यस्मिन् सः तथाभूतः तापः आध्यात्मि- कादि: ग्रैष्मश्च पुरैव शाम्यति । पश्चात् वृषाद्रिशिखरस्थः घनः सकलकल्याणगुणसान्द्र: कृष्णो भगवान् पक्षे कृष्ण: श्यामलः घनः मेघः कामं वर्षति ईप्सितार्थ प्रदत्ते। पक्षे पयाप्त यथा स्यात्तथा वर्षति सिश्चतीत्यर्थः॥ यथावा- प्रथमतरमेव तमसां वलयं विलयं प्रयाति विनतानाम्। पश्चात्तेषु प्रसरति परिस्फुरन्प्मिनी- सखालोक: ॥५२१॥। तमसां अज्ञानानां तिमिराणां च। पझमिनी श्रीः कमलिनी च तस्यास्सखा भगवान् भानुश्च तस्य आलोक: कदाक्ष: प्रकाशश्च। 'पझमिनी करिणीस्त्रीथ्रीसरोऽब्जनळिनीषु च' इति रतमाला। उदाहरणत्रये भगवन्नामोच्च्ारणवर्षणपभ्मिनीसखा लो कत प्र स र ण न ा कारणानां पश्चाद्ध्ावः एनोदूरीभवनतापशमनतमोविलयनानां का - र्याणां प्राथम्थं च वर्णितमिति लक्षणानुगतिः । आद्या शुद्धा, द्वितीयतृतीये तु श्लेषसंकी्णे इति विशेषः । एतास्तिस्रोऽप्यतिश- योक्तयः कार्यशैघ्रयप्रत्यायनार्थाः॥

Page 313

302 अलंकारमणिहारे

अथोक्तेषु प्रभेदेषु अनुगतप्रवृत्तिनिमित्तविरहात्कथमतिश- योक्तिपदवाच्यत्वमिति चेदत्राहुः-तावत्प्रभेदान्यतमत्वमेव सर्वा- नुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमि- ति प्राश्चः । अन्ये तु-संबन्धे असंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्ति: ईदृशातिशयस्य रूपकदीपकोपमा- पह्नत्यादिषु स्वभावोक्तिभिन्नेषु प्रायेण सर्वेष्वलंकारेषु सन्ा- वात्। न हि यथाऽवस्थितवस्तुकथनेऽस्ति काचिद्विच्छित्तिः, कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरता- नापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य तस्यै- वान्यत्वं यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनं कार्यकारणपौर्वा-

उपमानेनोपमेयस्य निगीर्याध्यवसानमेवातिशयोक्तिः । प्रकारान्तरे त्वतिरिक्तालंकारान्तरकल्पनमेवोचितम्। न ह्येतच्चतुष्टयासाधा- रणातिशयोक्तिलक्षणं संभवि, येनैकधर्मावच्छिन्नत्वेनैकालंकार तच्येत। न चैतदन्यतमत्वमेव सर्वानुगतमस्तीति वाच्यम्। विच्छित्तिवैलक्षण्य सद्भावेऽन्यतमत्वस्याप्रयजकत्वात्। अन्यथा उपमानरूपकादिकतिपयान्यतमत्वं सकलान्यमत्वं वाऽतिशयोक्ति लक्षणं विधाय उपमादीनामप्येतन्द्रेदापादनस्य सुवचत्वात्।न चातिरिक्तालंकारकल्पने गौरवमिति वाच्यं, प्रधानोत्कर्षकत्वरूप- स्यालंकारत्वस्य त्वयाऽप्यङ्गीकारात। पदार्थान्तरस्य च मयाS- व्यकल्पनात्। अलंकारविभाजकोपाधिपरिगणनस्य च पौरुषेय- त्वादिति वदन्ति॥

निश्चयविषयत्वमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति। उत्प्रेक्षानिरासाय निश्चयेति।

Page 314

भतिशयोक्तिसरः (१५) 303

रूपकातिशयोक्तावभेदस्य द्वितीये प्रभेदेऽन्यत्वस्य तृतीये संब न्धस्य चतुर्थे असंबन्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्ति- जन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथाविधारोपविषयत्वस्य स. द्वावात्सर्वत्र लक्षणानुगतिः । न चैवंविधारोपस्य रूपकस्वभा- वोक्तिव्यतिरिक्तेष्वलंकारेषु प्रायशस्सत््वादतिप्रसङ्ग इति वाच्यं इष्टापत्तेः । चमत्कृती प्रधानभूतस्यालंकारान्तरस्याङ्गतयाSतिश- योक्तेरवस्थानेऽपि तथा व्यपदेष्ुमनर्हत्वात्। प्रधानभूतालंका- रस्यैव व्यपदेशार्हत्वाच्च। अत एव काव्यप्रकाशकृता विशे- षालंकारप्रस्तावे "सर्वत्रैवंतिधे विषयेऽतिशयोक्तिरेव प्राणत्वे- नावतिष्ठते, तां विना प्रायेणालंकारत्वाभावात्। अत एवोक्तं- सैषा सर्वत्र वक्रोक्तिरनयार्ऽर्थो विभाव्यते। यत्नोस्यां कविभि: कार्यः कोऽलंकारोऽनया विना॥" इति ॥ दण्डिनाऽप्युक्तम्- अलंकारान्तराणामप्येकमाहुः परायणम्। वागीशमहितामुक्तिमिमामतिशयाह्याम् ॥! इति॥ इत्यभिहितमित्यपि वदन्ति॥

इत्यलंकारमणिहारेऽतिशयोक्तिसर: पश्चदशः.

अथ तुल्ययोगितासर :- वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः । अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ।

वाशब्दो व्यवस्थितविकल्पार्थः । तथाच प्रकृतानामेव वा अप्रकृतानामेव वा यत्रैकधर्मान्वयित्वं सा तुल्ययोगिता, तुल्यानां

Page 315

304 अलंकारमणिहारे

कधर्मान्वयित्वं यत्रेति व्युत्पत्तेः । वर्ण्यानामित्यादौ बहुत्वं दयोरप्यु पलक्षणम्। धर्मश्चात्र चमत्कारीति ज्ञेयम्। एवंच अनेकप्र- स्तुतमात्रसंबद्दै कचमत्कारिधर्मानेका प्रस्तु तमा ्रा संबदधैक धर्मान्यत - रत्वं लक्षणं बोध्यम्। 'मुखं विकसितस्मितं' इत्यादावतिप्र सङ्गवारणायानकेति। तत्र च मुखप्रेक्षितादिरूपानेकवर्ण्यसंबद्धो नैको धर्म इति तन्निरासः । दीपकवारणाय मात्रेति । प्रस्तु- ताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्वनिवेशः । धर्मश्चात्र प्रायशो गुणक्रियारूप एव संभवतीति प्रस्तुतानामप्रस्तुतानां वा गुण क्रियारूपकधर्मान्वयस्तुल्ययोगितत्युक्तं कुवलयानन्दे। तदेत- दुपलक्षणं धर्ममात्रस्य। एतच्चोदाहरणावसरे स्फुटीभविष्यति। औपम्यं चात्र गम्यं, तत्प्रयोजकस्य समानधर्मस्योपादानादवाच- काभावाच्च। अत एवालंकारिकाणासपि सादश्यं पदार्थान्तरं, न तु साधारणधर्मरूपमिति विज्ञायते। अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः। केचित्तु-सादृश्यभाव एवातिरिक्त: । सा- दृश्यं तु तत्तत्साधारणधर्मात्मकमेव। स चेवादिपदानां शक्य- तावच्छेदकः तत्तत्साधारणधर्मवाचकैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण ·बोधनेऽपि सादृश्यभावरुपेण बोधो व्यञ्ञनसाध्य एवेत्यपि वदन्ति॥ यथा- अश्रूद्श्चति चक्षुषि वपुषि च पुलकोऽथ संभ्र- मो मनसि। अञ्जनभूधरधामन्नञ्जलिरपि मस्तके तव स्मरताम् ॥५२२॥ अत्र भागवतानां वर्ण्यत्वात्तदीयत्वेन प्रकृतानां कर्तृणामश्रु- प्रभृतीनामुदश्चनक्रिया समानधर्मत्वेनोपात्ता। चक्षुरादीनामधिक-

Page 316

तुल्ययोगितासर: (१६) 305

रणानां च । कारकाणां सर्वेषां क्रियान्वयित्वस्य तुल्यत्वात्। एवमष्टानां क्रियारूपधर्मैक्येऽपि इयोई्योरेवौपम्यं प्रतीयते, न परस्परमप्टानाम्। तदधिकरणत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात्। तव स्मरतामित्यत्र 'अधीगर्थ' इति षष्टी॥ चरणेSम्वुजमदहरणे सोढनतैनसि मदम्ब तव मनसि। वचने च मधुररचने मृदुता लोकोत्तरा विभातितराम् ॥५२३॥ अत्र मृदुतेति गुणः तदन्वितत्वं चरणादीनां, विभानक्रि-

यथावा- येनाश्रितो धवलिमा विपरीतोऽकारि धवलिमा येन। तस्मिन् शङ्गेचक्रेऽप्यहिशैलपतेर्म हो ज्वलति किमपि ॥५२४॥ येन शङ्गेन धवलिमा पाण्डुरिमा आश्रितः येन चक्रेण ध- वलिमा विपरीतः व्यत्यस्तः अकारि धवलिमा परास्त इति यावत् । इत्यापाततो विरोधः । धवलिमा इत्यानुपूर्व्या वैपरीत्ये मालिवध इति निष्पद्यते। प्रकृतिमात्रस्यापि मालिवधेत्यस्य सु- बन्तता कल्पनीया। 'न केवला प्रकृतिः प्रयोक्तव्या' इति नि- षेधोऽपि क्वचिच्चित्रकाव्ये न दोषाय। यथोक्तं काव्यार्थचिन्ता- मणौ -- प्रातिलोम्यादिचित्रेषु प्रकृतेरेव हि क्वचित् । प्रयोगोऽपि न दोषाय नदी दीनो यथोच्यते।। इति। येन चक्रेण मालिनास्ना राक्षसस्य वधः अकारीति तु ALANKARA 39

Page 317

306 अलंकारमणिहार

वास्तवार्थः। शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम्। अहिशैलपतेः शङ्के चक्रेऽपि मह इति योजना। अत्र मह इति गुणरूपैकध- मान्वयित्व शङ्चक्रयोः । यदिच 'ते पाश्चजन्यचके दीपयत- शशेषशैलनाथकरौ' इत्युत्तरार्ध पठ्यते तदा क्रियारूपो धर्मः । यदिच-'ते पाञ्चजन्यचक्रे दीह्तं धत्तोऽद्ुतां वृषाद्रिपतेः' इत्यु च्यते तदा गुणविशिष्टा क्रिया, केवलगुणेन साक्षात्संबन्धाभा- वात्। केवलक्रियायाश्चाहृद्यत्वात् । अत्र द्वयोरेव धर्मान्वयः ॥ वदनं नयनयुगं वा हृदयं वा नाप्रसन्नमम्ब तव। करयुगळमधरविम्बं चरणयुगं वाडपि भ- वति नानरुणम् ॥ ५२५॥ अत्र नाप्रसन्नं नानरुणमित्यभावरूपे धर्मे प्रस्तुतानां वद- नादीनां करयुगळादीनां चान्वयः। अत एव लक्षणे सामान्य- तो धर्म इत्येव निवेशितं न तु गुणक्रियारूपविशेषिततया। इदं च रसगङ्गाधरकृदनुरोधेन। स हि 'प्रस्तुतानामप्रस्तु- तानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता' इति सर्वस्व कु- वलयानन्दरोक्तिं दूषयन् 'गुणक्रियारूपेत्युक्तिरापाततः- शासति त्वाय हे राजन्नखण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमिन्रयोः ॥ इत्यत्राभावरूपस्यैव धर्मस्यान्वयात्' इत्यमाणीत् ।अन्ये तु 'शास- ति इति पद्े निश्चिन्ते नेति निश्चिन्तमेदशशत्रुममित्रमण्डलध- रमतयोपात्ता गुणस्वरूप एव, चिन्ताभावचन्देदस्य चिन्तानतिरि- कत्वात्। अन्यथा चिन्ताभावाभावस्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापीष्टापत्तावपि अभावस्य कर्थगुणवहिर्भावः, जातिक्रिया- द्रव्यातिरिक्तस्यैव 'चतुष्टयी शब्दानां प्रवृत्तिः' इति वदद्भिक्शा-

Page 318

तुल्ययोगितासर: (१६) 307

अत एव जातिगुणयोर्विरोधे प्रकाशकृता 'गिरयोव्यनुन्नतियु- जः' इति, विद्यानाथेनापि 'अमदस्सार्वभौमोपि' इति चोदा- हृतं संगच्छते। अनुन्नतीत्यादेरभावस्यागुणत्वे तदुदाहरणासंगतिः स्पष्टैव। तस्मादभावस्यापि गुणत्वाद्धर्मस्य गुणक्रियारूपतोक्ता- वप्यदाष एव। एवंच-अस्मित्नुदाहरणेऽपि नाप्रसन्नमित्यादौ गुणरूप एव धर्म इति ध्येयम्। वस्तुतस्तु लक्षणे तेन रूपेण धर्मो निवेशितोऽस्माभिरिति न कोपि दोष।। अधिफणिगिरिमणिनीरदमचश्चलासीद्रमा च विभुता च। क्षमयाविपुलासीत्तन्मानसवृत्तिश्च त- स्य करुणा च ॥५२६।। फणिगि्मणिर्भगवान् नीरद इव तस्मिन् अधिफणिगिरि- मणिनारदं, विभक्त्यर्थेऽ्व्ययीभावः । रमा अचश्चलासीत् चश्च- लेवाचारीत्, विद्युदिवाभादित्यर्थः । चञ्चलाशब्दादाचारक्विपि लुड, अडागमः । विभुता ऐश्वर्य च अचञ्चला निश्चला आसीत् अभवत्। 'अस भुवि' इत्यस्माल्लङ्। 'अस्तिसिचोऽ- पृक्त्ते' इतीट, 'श्वसोः' इत्यल्ोपस्याभीयत्वनासिद्धत्वादाट। तस्य भगवतो मानसवृत्ति: क्षमया क्षान्त्या अपुलासीत् विषुलेवाचारीत् भूतुल्याऽडसीदित्यर्थः। विपुलाशब्दादाचारक्वि- पि लुङ् पूर्वत्रत् । पक्षे विपुलेति छेदः । तस्य करुणा च विपुला महती आसीत्। श्रीश्रीनिवासस्यैश्वर्यक्षमाकृपाः श्रील- क्षमीनिवासनिबन्धना इति भावः। अत्रोभयसाधारणयोर्गुणक्र- शेपमूलेनामेदाव्यवसानेव संपिण्डि- तोरऽर्थों वा धर्मः ॥

Page 319

308 अलंकारमणिहारे

यथा वा दन्ताळी ग्रीवाडयि च मुक्ताळ्या नासिता तव मुरारे। ना1मदं जासुचिदपि वक्षश्रतश्व वारिजा- क्ष तव ॥ ५२७॥ हे मुरारे ! तव दन्ताळी मुक्ताळ्या इति छेद:, मुक्ताहा रापेक्षया नासिता नशव्देन समासः असिता न भवति किंतु सिता धवळैवेत्यर्थः। ग्रीवाऽपि च मुक्ताळ्येति तृतीयैकवचनं, मुक्ताहारण असिता असदानिता न भवति किंतु संदानितैव 'बद्धे संदानितं मूतं मुद्दितं सदित सितम्' इत्यमरः। हे वा रिजाक्ष ! तव वक्ष: चेतश्च अप्रमदं अविद्यमानमानिनीकं अविद्य- मानलक्ष्मीकमित्यर्थः, अविद्यमानप्रहर्ष चन, किंतु सलक्ष्मीकमेव सहर्षमवति भावः। अत्र सितत्वसप्रमदत्वनिषेधसंभावनाSपि नज्द्वयेन व्युदस्यते। यथोक्तं वामनेन-'संभाव्यनिवेधानेवर्तने द्वौ प्रतिषेधौ' इति। अत्रापि पूर्वोदाहरणवदेव धर्मः, तस्याभाव- रूपत्वं तु विशेष: ॥ क्वचिदध्याहृतोपि धर्मवाचकशशब्दस्तुल्ययोगितां प्रयोजय- ति। यथा - दिव्यतमँ रूपं तव भव्यतमा श्रीरियं च वन- माला। स्तव्यतमो मणिरच्युत भाव्यं विशयेन कि तव परत्वे ॥ ५२८॥ तव परत्वे विशयेन संशयेन भाव्यं किं संदेहो न भ- वत्येवेत्यर्थः। अत्र परत्वसंशयक्षेपकारणतया प्रस्तुतानां दिव्य रूपादानामस्तीति क्रियायामन्वयः । 'अस्तिर्मवन्तिपरोप्रयुज्य-

Page 320

तुल्ययोगितासरः (१६) 309

मानोप्या्ति' इत्यनुशासनात्। भवन्तिरिति लटस्संज्ञा । 'भुवो झिचू' इत्यौणादिको भवतेर्झिच्प्रत्ययः । 'झोऽन्तः' इति झस्यान्तादेशः । आस्तिक्रियाया अप्रयोगेऽपि तदाक्षेपश्शीघ्रोप- स्थितिकत्वात्। तार्ह प्रतिवाक्यमपि कुतो नाध्याहियतामिति चेन्न। लाघवादकत्राध्याहृतस्यैवान्यतरानुषञ्ञनीयताया न्याय्यत्वात्। वि- श्रेश्वरीयालंकारकौस्तुभे ईदृशमुदाहरणं प्रदर्शितम्॥ अप्रकृतानमेव यथा- मानववर्गो निखिलो दानववर्गश्र नमति न- न्तव्यम्। अहिराजगिरिखिशामणिमत्र कर्थ न- मदभेदवार्ता स्यात् ॥ ५२९॥ नन्तव्यं 'नन्तव्य: परमश्शेषी' इत्युक्तरीत्या सर्वशेषितया नमकर्मीकरणाह अहिराजगिरिशिखामणि निखिलो मानववर्गो दानववर्गश्च नमति। अत्र नमतां मानवानां दानवानां च वर्गे अभेदवार्ता कथं स्थात्, नमने अवैलक्षण्येपि मानवानां दान- वानां च परस्परं वैलक्षण्यादिति भावः। यद्ा-अत्र नन्तव्ये भगवति अभेदवार्ता नमद्व्िस्सहाभेदकथा कथ स्यात्। नन्तृ- नन्तव्ययोश्शिय शीषणरभढायो गत भा अथवा अत्र नम- तोमानवदानववर्गयो: मदभेदवार्ता मदो नाम कुलशीलादभि- मानेनान्यावधीरणहेतुश्चित्तविकारविशेप: यो ह्यरिषडगे गणितः । नस्य भेदवार्ता विदारणवृत्तान्तः कर्थं न स्यात् भगवत्प्रणन्तृ- णां कामादिनिखिलदोपदूरीभावादिति मावः। पक्षे-अत्र मा- नवदानववर्गशब्दयो: मदभेदवार्ता मकारदकारयोवैलक्षण्यकथा कथं न स्यात्। तावन्मात्रभेदस्य दश्यमानत्वादिति भावः ।

Page 321

310 अलंकारमणिहारे

यथा वा-

यत्साधुमनीषायां पररूपं स्फुरति तद्दि मार्त- ण्डेडपि। आह सदाकृतिगण्यं परमेकं श्रुतिरवै- मि शाब्दोक्तिश्र ॥ ५३०।। यत् परस्य ब्रह्मणो रूपं साधूनां योगिनां मनीषायां बुद्धौ स्फुरति, एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्रथया बुद्धया सूक्ष्मया सूक्ष्मदर्शिमिः॥ इति श्रुत्युक्तरति्या अन्तर्यामिविग्रहविशिष्ट स्वरूपं सूक्ष्म- दर्शिभिस्सूक्ष्मया बुद्धया ऐकाग्रयसंपन्नया दृश्यत इत्यभिप्रायः। तद्धि तदेव 'हि हेताववधारणे' इत्यमरः। पररूपं परस्य ब्रह्म- णो रूपं 'य एषोऽन्तराित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादि श्रुतं दिव्यमङ्गळविग्रहविशिष्ट स्वरूपं मार्तण्डे आदित्येऽपि स्फु- रति दीप्यते। कथमनयारक्यं त्वया विदितमित्यत्राह-आहेति। श्रुतिः 'स यश्चायं पुरुषे। यश्चासावादित्ये । स एकः'इति श्रुतिः सदाकृतिगण्यं सत्या आकृत्या विग्रहेण गण्यं प्रशस्यमिति यावत्। दिव्यमङ्गळविग्रहविशिष्टमित्यर्थः। परं परमात्मस्वरूपं उभयत्र विद्यमानमिति भावः। एकं अभिन्नं आह अवैमि त- स्माजाने, वाक्यार्थ: कर्म। शाब्डोक्तिश्चेममेवार्थमाह-तथाहि, पक्षे-यत् साधु सभ्यगनुशिष्टं पररूप पूर्ववर्णस्य परवर्णताप त्तिरूप एकादेश इत्यर्थः। मनोषायां मनीषाशब्दे स्फुरति प्रकाशते। तत्र मनस ईषेति विग्रहे नकारानन्तरभाविनः अस् इत्यस्य ईकाररूपपरवर्णरूपसंपत्ते: स्फुटत्वादिति भावः । तद्धि

Page 322

तुल्ययोगितासरः (१६) 311 तदेव पररूपं मार्तण्डे मार्तण्डशव्देऽपि स्फुरति। मृते अण्डे जातो मार्तण्ड इत्यत्र तद्धितप्रकृतिभूतमृतण्डशब्दे तकारेत्तर- वर्त्यकारस्य तत्परभूताकाररूपैकादेशदर्शनादिति भावः । परं अनयाइशब्दयोर्मध्ये परत्र पठितं मार्तण्डशब्दं एकं एकमेव। न तु मनीषाशब्दमपि, तस्य वक्ष्यमाणगणे पाउदर्शनादिति भाव:। सर्वदा आकृतिगण्यं आकृत्या पररूपवत्त्वाकारेण गण्यं शकन्ध्वादिगणं लब्धारं 'धनगणं लब्घा' इति यत्। लब्धेति तृन्नन्तेन लाभताच्छील्यं द्योतितम्। उक्तगणे पठितुमर्हमिति यावत्। शाब्द्रोक्ति: शब्दशास्त्रीयं 'शकन्ध्वादिषु पररुपं वा- च्यम्' इति वार्तिकमित्यर्थः। आह वदतीति अवैमि संभाव- ये। मनीषाशब्द्वन्मार्तण्डशब्दस्य गणे पाठाभावादुक्तपर रूपवत्त्वा कारेणायं शकन्ध्वादिगणे पठनीय इति संभावये। अन्यधा पररूपविधायकशास्त्रान्तरादर्शनादयमसाधुतामश्ुवीतेति भावः। अत एव-शकन्ध्वादिगणपाठान्ते 'आकृतिगणोऽयं मार्तण्डः' इत्युक्तिश्च संगच्छते। शकन्ध्वादिशब्दरूपनिष्पतत्यनुगुणं तेषु शब्देषु टे: पररूपं वाच्यमिति वार्तिकार्थः। अत्राप्रकृतयोः श्रुतिशाब्दोक्तयोराहेति क्रियायामन्वयः। श्ेषोपस्कृतेयम्॥ यथा वा- सुरवरमाणिक्यं ननु सुरवरगाणिक्यमपि वृ- षाद्रिमणे। सेवाते तव लक्ष्मीं मागाभिन्ने इमे खल समाने ॥५३१॥ ननु वृषाद्रिमणे ! सुरवरमाणिक्यं इन्द्रनीलरत्नं सुरवराणां देवोत्तमानां गाणिक्यं गणिकासमूहोपि 'गणिकाया यजिति वक्तव्यम्' इति गणिकाशव्दात्सभूहार्थे यज्। 'गणिकादेस्तु गा-

Page 323

312 अलंकाग्मणिहार

णिक्यम्' इत्यमरः। तव लक्ष्मी शोर्भा पक्षे श्रियमित्यर्थः । तव लक्ष्मीमित्यनेन 'विष्णोन्श्रीरनपायिनी' इत्यादिप्रसिद्धं नि- त्यव्यवस्थितपतिपारार्थ्य व्यज्जितम्। 'तवैवोचितया तव श्रिया' इत्येतदत्रानुसंहितम्। सवाते भजेते। इन्द्रनीलप्रभाया अपे तव दिव्यविग्रहशोभा सुतरामतिशेते इति भावः। पक्षे रम्भा- द्यप्सरोनिवहः किंकरीभूय तव दिव्यमहिषीं वरिवस्यतीति भावः। इमे सुरवरमाणिक्यसुरवरगाणिकये भिन्ने परस्परविलक्षणे मा गा: मा ज्ञासीः 'ये गत्यर्थास्ते ज्ञानार्थकाः'। कुतः? इमे स- माने तावकलक्ष्मीसेवनरूधर्मवत्तया अन्योन्यं तुल्ये खलु। पक्षे इमे सुरवरमाणिक्यसुरवरगाणिक्यरूपे पदे मागाभिन्ने इति समस्तं पदं, मागावर्णाभ्यामेव भेरवती परस्परविलक्षणे इत्य- र्थः। समाने अन्यवर्णानुपूर्व्या तुल्ये खलु। अन्राप्यप्रकृतयोस्सु- रवरमाणिक्यसुरवरगाणिक्ययोर्भैगवल्लक्ष्मी कर्मकसेवनक्रियायाम- न्वयः पूर्ववत्॥ हरिरुचिकृतपरिभवभरचिन्तादन्तुरनिजान्तर- दणाम्। निश्चेतनताऽडविरभूदिन्दीवरजलधरेन्द्र- नीलानाम् ॥५३२॥

'चिन्तादन्तुरनिजान्तरङ्गाणि। सुतरां पर्यम्लासिषुः' इति द्वि- तीयतृतीयपादयोः 'इन्दीवरजलधरेन्द्रनीलानि' इति तुर्यपादस्य च कल्पने क्रिया। 'दधते निश्चेतनताम्' इति तृतीयपादे कृते गुणविशिष्टा क्रिया। एवमुत्तरत्र यथासंभवमूद्यम्। महसा तवासुराणां मलीमसे मानसे च वदने च।

Page 324

तुल्ययोगितासर: (१६) 313

यदुवीर निर्मलानि त्रिदशमृगदशां दिशां च वदनानि ॥५३३॥ अत्र मलीमसत्वं गुण: पूर्वार्धे। उत्तरार्धें निर्मलानीति मा- लिन्याभावरूपो धर्मः केषांचिन्मते। वस्तुतस्तु सोपि गुण एव ॥ यथा वा- भूषयति वृषगिरिं त्वयि सुरासुराः किन्नरा न- रा वापि। नाभक्तिजुषो भगवन्नाप्ाप्तमनोरथाश्र जातु स्युः ॥५३४॥ अत्रापि पूर्वोदाहरणवद्गण एव॥ यथा वा- आदौ विरुद्धवर्णे परस्परमथेक्षणेन ते प्रायः। भवतो रमे सवर्णे स चश्चरीकश्र पुण्डरीकं च॥। हे रमे! सः नीलवर्णत्वेन प्रसिद्ध: चञ्चरीक: भ्रमरः पुण्ड- रीकं सिताम्भोजं च। आदौ त्वत्कटाक्षसान्निध्यात्पूर्व परस्परं विरुद्धे वर्णे ययोस्ते तथोक्ते असितसितवर्णत्वादन्योन्यविरुद्ध- वर्णे इत्यर्थः। 'नपुंसकमनपुंसकेन' इत्यादिना नपुंसकलिङ्गशेषः। अथ अनन्तरं कदाचिदितति यावत्। ते तव ईक्षणेन कटाक्षवी- क्षणेन सवर्णे समानो वर्णो ययोस्ते तथोक्ते भवतः तुल्यवर्णे सं- पद्येते। कटाक्षस्य काळिस्ना धवळिम्ा वा असितवर्णे सितवर्णे वा भवत इति भावः। 'कटाक्षाः काळिन्दीकुवलयकचग्राहिरु- चयः, विधुकिरणधारासहचरो कटाक्षाणां रेखा' इत्यादौ कटा क्षाणां द्वैवर्ण्यस्य कविसमयसद्धत्वात्। प्राय इति संभावना- ALANKARA 10

Page 325

314 अलंकारमणिहारे

याम्। पक्षे-चश्चरीकपुण्डरीकपदे आदौ चतुर्वर्णात्मकथोस्स्वयोः प्रथमभागे परस्परं विरुद्धौ वर्णो अक्षरे ययोस्ते तथाभूते भवतः। आदिभागस्थयोः चञ्च पुण्ड इत्यनयोरन्योन्यविरुद्धाकारत्वादिति भावः । अथ वर्णद्वयानन्तरं ईक्षणे न इति छेदः। नेत्येतदु- त्तरान्वयि। ईक्षणे दर्शने सति सम्यग्विमर्शे सतीत्यर्थः । रमे असवर्णे इति छेदः । अस्मिन्पक्षे ते इत्येतत्प्रथमाद्विवचनम् । ते चश्चरोकपुण्डरीके प्रायः भूम्ना न तु सर्वात्मना, अन्ते विसर्ग- बिन्दुश्यामसावर्ण्यदर्शनादिति भावः। असवर्णे न भवतः, किंतु सवर्णे एव। यद्वा-ईक्षणेनेति तृतीयान्तमभिन्नपदमेवास्तु।रमे सवर्णे इत्येवास्तु, तथाच दर्शनेन विचारेण प्रायः सवर्णे एव तुल्यचर्णानुपूर्वीके एव भवत इत्यर्थः । रीकेति वर्णानुपूर्व्यास्तु- ल्यत्वादुभयत्रेति भावः। अत्रापि गुण एव, भवनक्रियायास्सा- क्षाद्धर्मिभ्यामनन्वयात् अप्रकृतयोश्चश्चरीकपुण्डरीकयोरुक्तेन गुणे- नान्वयः। इयं च वक्ष्यमाणतद्गुणालंकारसंकीर्णा शब्दपरार्थवर्ण- नरूपचमत्कारविशेषोपस्कृतेति विशेषः॥

यथावा- भुवनं दधदप्युदरे भुवनान्तर्विशदपीह नित्यज- डम्। भगवंस्तवोपमायामव्य्रं चेन्दीवरं च बाह्य-

मभूत् ॥५३६॥

अ्रापि पूर्वोदाहरण इव गुण एव। उदराधिकरणकभुवन- धारणभुवनान्तःप्रवेशाभ्यां यथाक्रममन्भ्रेन्दीवरयोर्भगवत्साम्यसं- भावनेऽरपि नित्यजडत्वाप्तत्साम्ये तयोर्बहिष्कातरिति भावः । इयं

Page 326

तुल्ययोगितासरः (१६) 315

अवतो जगन्ति भगवन्भवतो महसा फणीन्द्र- गिरिभास्वन्। द्विषतां तन्महसामपि निकुरुम्बं नि- जगृहेऽप्यभासि खलु ॥५३७॥

भवतो महसा तेजसा द्विषतां निकुरुम्बं निजगृहे निगृ हीतं, निपूर्वकाद्गहे: कर्मणि लिट्। अत एव अभासि द्विष- न्निग्रहीतृत्वादेव तेन व्यरोचीति भावः । भासतर्भावे लुङि चिण। अपिस्समुच्चये । तन्महसां द्विषत्तेजसां निकुरुम्बमपि निजगृहेऽपि स्वभवनेऽ्रपि भासो भासनं प्रकाशः, भासतेर्घञ। सोऽस्यास्तीति भासि तन्न भवतीत्यभासि। स्वगेहेऽप्यप्रकाशं किमुतान्यत्रेति भावः। खल्विति प्रसिद्धी। अत्राप्रकृतयोर्द्वि- षत्तत्तेजसोस्साधारणगुणक्रियाभावाच्छन्दमात्रं श्ेषमूलकामेदा- ध्यवसानसंपिण्डितोरऽर्थो वा धर्मः ॥ यथावा- विन्दन्परमघवत्त्वं त्वयेक्षितो जन उपेक्षितश्रा- म्ब। शाम्यति महामरावत्युदीर्णतृष्णोडम्युदूढले- खश्च ॥५३८॥

हे अम्ब! त्वया ईक्षितः जनः परं श्रेष्ठं च तन्मघवत्वं इन्द्रत्वं, पक्षे परमिति व्यस्तं पदम् । अत्यन्तमिति तदर्थः। अधवत्वं दुःखित्वं पापित्वं व्यसनिस्वं वा 'अंहो दुःखव्यस- नेष्वघम्' इत्यमरः । विन्दन्, अभ्युदूढाः सर्वाप्मयस्समुद्द- ताः लेखा: देवा: येन स तथोक्तः। पक्षे अभ्युदूढा: वहन- कर्मीकृता: लेखा: राजकीयपत्राणि थेन स तथोक्तः । लेख-

Page 327

816 अलंकार मणिहारे

वाहक इत्यर्थः । 'लेखो लेख्ये सुरे' इति मेदिनी। महती च सा अमरावती च तस्यां उदीर्णा तृष्णा उत्तरोत्तराभिव- र्धनस्पृहा यस्य स तथोक्तः । पक्षे महति मरौ धन्वभूमौ 'समानौ मरुधन्वानौ' इत्यमरः । अत्युदीर्णा अतिमात्रप्रवृद्धा तृष्णा पिपासा यस्य स तथोक्तः । 'तृष्णे स्पृहापिपासे द्वे' इत्यमरः । श्राम्यति एकत्र देवोद्धरणादिव्यापारैः अन्यत्र ले- ख्यवहनादिभिरिति भावः । अत्रापि पूर्ववदेव धर्मो ज्ञेयः॥ इयं बिम्बप्रतिबिम्वभावेनापि दश्यते, यथा 'अश्रूदश्चति चक्षुषि वपुषि च पुलकः' इत्यादिप्रागुदाहतपदये चक्षुर्वपुरादी- नां बिम्बप्रतिबिम्वभावः । एवमन्यत्रापि द्रष्टव्यम्॥ केचित्तु रशनारूपाऽपीयं दृश्यत इति वदन्ति॥

सा यथा- मीनचकोर कुरद्गास्संगाहन्ते वनं त्वदक्षिजिताः। विद्रुमपल्लवबिम्बान्यप्यम्ब त्वदधरावधूतानि॥ वनमित्यत्र यथार्हमरण्यमुदकं चेत्यर्थो ग्राह्यः। विद्रुमा- णामब्धिजन्यत्वाद्वनस्थितिः । मीन इव चकोरश्चकोर इव कु- रङ्ग इति प्रतीते: रशनारूपतेति ध्येयम् । वस्तुतस्त्वियं बहू- नामप्रस्तुतानामेकधर्मान्वयरूपैव तुल्ययोगिता। लक्षणे वर्ण्या- नामन्येषां वेति बहुवचननिर्देशात्॥ यत्र च प्रकृतानामेव वा अप्रकृतानामेव वा क्रियाणां एककारकान्वयस्साकारकतुल्ययोगितेति जगन्नाथादयः ॥ सा यथा- भर्तु जगन्ति भुवमुद्र्तु हर्ते प्रपन्नजनविपदम्।

Page 328

तुल्ययोगितासर: (१६) 317

कर्तु श्रेयो निरवधि काकोदरगिरिपतेः क ईष्टेऽन्यः।

मतान्तरे त्वत्र वक्ष्यमाणस्समुच्चयालंकार एव ।।

इयं व्यङ्ग्या यथा- नक्तंदिवं मुरारे ज्वलतस्तव तेजस: कथा य- त्र। तत्र कदाचिद्दीव्यन्को वा भानु: कृशानुरपि॥

अत्र को वेत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य भा- नुकृशानुभ्यामप्रकृताभ्यामन्वयो व्यज्यते।।

द्वितीयतुल्ययोगिता- हितेऽहिते च यद्दृत्तेस्तौल्यं सा त्वपरा मता।

हिताहितविषये व्यवहारतौल्यमन्या तुल्ययोगितेत्यर्थः॥

यथा- शपतां चैद्यादीनां जपतामपि योगिनां भव- न्नाम। अददाः पदं समानं वद दाक्ष्यं यदुकुमार किमिदं ते।।४४२॥

अत्र यदुवंश्यत्वेन भगवतस्संबोधनं विवक्षितार्थस्य तद- वतारीयत्वज्ञापनाय। तत्रापि कुमारेत्युक्तिरहिताहितविभागमुग्ध- ताभिप्रायेण।

यथावा- कलशाब्धिसुताकमितस्सुहृदसुहच्च त्वया कृत-

Page 329

318 अलंकारमणिहारे

इशमितः। वदतोऽस्ति न मे द्वेष्यो न प्रिय इति ते न चैतदाश्चर्यम्॥५४३॥ सुहत् अर्जुनादि: शं सुखं इतः प्राप्तः कृतः। एवमसु- हृदपि। पक्षे शमितः विनाशित इत्यर्थः ॥ यथा वा - त्वच्चरणसम्मुखीनं तत्र पराचीनमप्यहिगिरी- न्दो।त्वं वैभवसंमूर्छनभाजं वितनोषि का नु ते प्रौढिः।।५४४॥ वैभवस्य विभुत्वस्य संमूर्छनमभिव्याप्तिः 'मुर्छा मोहस- मुच्छाययोः' इति धातोर्ल्युट्। तद्भाजमिति सम्मुखीन पक्षे। पराचीनविषये तु वै इति प्रसिद्धचर्थकमव्ययम् । भवे सं- सारे संमूर्छनभाजं मोहभाजं वितनोषीत्यर्थः ॥ यथावा- क्रियते हि सदास्थावरजन्मा जनताऽच्युत त्वया विनता। विमताऽपि तथाऽतितरां मम ताव- द्विस्मयो महानेषः।।५४५।। हे अच्युत! त्वया विनता बिमता च जनता सदास्था- वरजन्मा क्रियते, विनतपक्षे-सत्सु ब्रह्मवित्सु आस्था श्रद्धा यस्यास्सा सती प्रशस्ता आस्था यस्यास्सेति वा। वरं श्रेष्ठं जन्म यस्यास्सा तथोक्ता च क्रियते। मन्नन्तत्वान्न डीप्। अन्यत्र-सदा सन्ततं स्थावरजन्मा वृक्षादिरूपजन्मभाक् क्रियते हिः प्रसिद्धौ। स्पष्टमन्यत्॥।

Page 330

तुल्ययोगितासर: (१६) 319

यथा वा- परिपुष्टधेनुकानां बालाना सवयसां च ताला- नाम्। कृष्ण फलाभ्यवहारं कल्पयसि स्माविमृ- शय बतभेदम् ॥ ५४६ ॥ हे कृष्ण ! इयं च संवुद्धिस्तदवतारासाधारणचरितमत्र श्ोके विवक्षितमिति झापनाय। परिपुष्टाः धेनवो गावो यैस्ते परिपुष्टधनुकाः 'शेषाद्विभाषा' इति कप। पक्षे-परिपुष्टः धेनुकः तन्नामा गर्दभरूपोऽसुरो येषु ते तेषां सवयसां वय- स्यानां 'स्निग्धो वयस्यस्सवयाः' इत्यमरः । पक्षे-सपक्षिणा- मित्यर्थः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । आदौ स- मानं वयो येषामिति विग्रहे 'ज्योतिर्जनपद, इत्यादिना समा- नशब्दृश्य संभावः। द्वितीये वयोभिस्सह वर्तत इति सहपूर्व- पदबहुव्राही 'वोपसर्जनस्य' इति सहशब्दस्य सभावः। बालानां गोपालबालकानां, तालानां तृणराजतरूणां च, भेदं तारतम्यं अविमृश्य फलानां फलैर्वां अभ्यवहारं अहारम्, पक्षे-फलानां अश्यवहारं अधःपातनं कल्पयसि स्म। बतेत्याश्चये।अत्र श्री- भागवतीया धेतुकासुरवधकथाऽसुसंघेया । बालतालशब्दयोः बतभेदं बकारतकाराभ्यां वैलक्षण्यं अविमृश्य अनाद्ृत्येत्यर्थोड- पि चमत्कारातिशयं पुष्णाति । अत्र तालानामहितत्वं चाहि- तधेनुकासुराश्रयतयेति ध्येयम्।। यथा वा- सद्गेष रुचिरमार्ग प्रवणो Sरिष्ठान्वितोSतिरिक्ता- त्मा। अहितो हितश्र भवता क्रियते फणिशैल- झेखर विचित्रम्॥५४७॥

Page 331

320 अलंकारमणिहार

अहितः सतां द्वेषे रुचिर्यस्य तथोक्तः अमार्गे शास्त्रवि- रुद्धे पथ प्रवण: अरिष्टेन अशुभेन अन्वितः अत्यन्तं रिक्तः तुच्छः आत्मा बुद्धिर्यस्य स तथोक्तः 'वशिकं तुच्छरिक्तके' इत्यमर: । बुद्धिहीन इत्यर्थः । क्रियते । हितश्वं क्रिियते। पक्षे सन् प्रशस्तः वेषः रुचिरश्शास्त्रीयतया रमणीयः यो मार्ग: पन्थाञ्च तयोः प्रवणः । 'वयसः कर्मणोऽर्थस्य' इन्युक्तरीत्या वयःकर्माद्यनुरूपवेषादिक इति भावः । अरिष्टेन शुभेन अ- न्वितः 'अरिष्टे तु शुभाशुभे' इत्यमरः । अतिरिक्तः समधि- कः आत्मा स्वभावो यस्य स तथोक्तः। लोकोत्तरस्वभाव इत्यर्थः । 'अतिरिक्तस्समधिकः' इत्यमरः। क्रियते विचित्रम्॥ यथावा- स्फुटमणिकान्तिकमच्युत विदधानं प्राग्रयभा- श्रितं राष्ट्रम् । हन्त कुलालंकृत्यायोग्यं हितमहि- तमपि तनोषि जनम् ॥५४८॥ हे अच्युत! हितं जनं स्फुटा व्यक्ता मणीनां कान्तिश्शोभा यस्य तं तथोक्तं 'शेषाद्विभाषा' इति कप। राष्ट्र प्राग्रचया परार्थ्यया भया प्रभया आश्रितं विदधानं सर्वराष्ट्रसमृद्धिदा- यिनमिति यावत् । कुलस्य अन्वयस्य अलंकृत्या: अलंकारस्य योग्यं तनोषि। अहितमप्येवमेव तनोषीत्याश्चर्यम् । वस्तुतस्तु- अहितं जनमपि स्फुटा: मणिका मृद्विकारा: अन्तिके यस्य तं तथोक्तं 'अलञ्जरस्स्यान्मणिकः' इत्यमरः। राष्ट्रं प्राग्रथेण अग्रि. मेण भा भू इति वर्णेन भा इत्येतत्तृतीयैकवचनम्। श्रितं विद्धानं भ्राष्ट्रं विनिर्मिमाणमित्यर्थः । राष्ट्रशब्दस्यादौ व्यजनमात्रभकार-

Page 332

तुल्ययोगितासरः (१६) 321

संश्ेषणे भ्राष्ट्रमिति निष्पत्तेः । अत एव कुलालं कुम्भकारं अत एव कृत्यानां सत्कर्मणां कृत्येषु वा अयोग्यं अनर्ह रजकश्चर्मकारश्च नटो वुरुड एव च। कैवर्तमेदभिल्ाश्च स्वर्णकारस्तु सौचिकः॥ तक्षकस्तिलयन्त्री च सूनश्चक्री तथा ध्वजी। नापितः कारुकश्चैव षोडशैते जनङ्गमाः ॥। इति पराशरोक्तेस्तस्य ग्रामचण्डालेष्वन्तर्भावादिति भाव: ॥ यथावा- पौरहिततां प्रपन्नं पुलोमजातेश्वरत्वमधिधरणि। प्राप्तं कलयत्यच्युत मित्रममित्रं च हन्ततव शक्ति:। हे अचुचत ! तव शक्ति: पराक्रमः मित्रं सखायं युधिष्ठि- रादिकं, पौरेभ्यो नागरेभ्यः हिततां अनुकूलतां प्रपन्नं प्राप्तं 'चतुर्थी तदर्थ' इत्यादिना समासः । अधिधरणि धरणौ पुलो- मजातेश्वरत्वं शचीपतित्वं भूमीन्द्रत्वं सार्वभौमत्वमिति यावत्। प्राप्तं कलयति। अमित्रं चैवमेव कलयति! हन्तेत्याश्चर्ये। वस्तुत- स्त्वमित्रपक्षे-पौ पुवर्णे रहिततां विश्िलिष्टतां प्रपन्नं पुलोमजाते- श्वरत्वं लोमजातेश्वरत्वमित्यर्थः। तत्र पुवर्णोत्सारणे तथानिष्पत्तेः। मेषादिलोमक्रयविकयिकमत्यर्थानहीनमिति भावः॥।

यथावा- हन्त त्वयि प्रपन्नो विप्रतिपन्नश्र यस्तयोर्जननि। अविकृतमेव विधत्से भुवनेश्वरि विश्वभोग्यमैश्व- र्यम् ॥५५०॥ ALANKARA 41

Page 333

322 अलंकारमाणहारे

हे भुवनेश्वरि ! भुवनेश्वरस्य भगवतर्स्त्रो। तस्यास्संबुद्धिः। यद्वा-भुवनानामीश्वर्रात्येव विग्रहः 'अश्नोतेराशुकर्मण वरङ्ग' इत्य- श्रोतेर्वरटि टित्वलक्षणो डीप्। लोकानामाशुवरदात्रीत्यर्थः। 'आ- शुकर्मवरदानादि' इति हि व्याख्यातम्। प्रपश्चितं चैतल्लक्ष्मीस- हस्रत्नप्रकाशिकायां प्रादुर्भावस्तबके 'अखिलेश्वरींत्वाम्' इत्ये- तद्विवरणावसरे। त्वाय प्रपन्नो यः विप्रतिपन्नश्च यः तयोरुभ- योरप्यविकृतमेव विश्वभोग्यमैश्वर्य विधत्स । हन्त। एकत्र अवि- कृतं अविकार्येव विश्वेषां भोग्यं भोगार्ह सकलजगदुपकारक- मित्यर्थः । ऐश्वर्य विधत्से। अपरत्र-अविद्यमानः विः विवर्णो यस्य तत् अवि, तथाविधं कृतं विश्वभोग्यं श्वभोग्यमित्यर्थः । अतितुच्छमिति भावः। शब्दार्थयोस्तादात्म्यम्। ऐश्वर्य विधत्से॥

यथावा-

देवानां दैत्यानामपि तव चरणद्वयं प्रभासनद- म्। तेषा मुभयेषामपि सामान्यं तद्वि दैवतं भग- वन् ॥५५१॥

हे भगवन्! तव चरणद्वयं देवानां दैत्यानामपि प्रभासन- दम्। कथमिदं हिताहितयोस्तुव्यफलप्रदानमुचितमित्याशङ्कय स- माधत्ते-तेषामिति। तेषामुभयेषामपि तत् तव चरणद्वयं सा- मान्यं दैवतं हि। उभयसाधारणदैवतत्वादुभयेषां तुल्यफलप्र- दानं युक्तमेवेति भावः। हीत्येतत् 'देवानां दानवानां च सामा- न्यमधिदैवतम्। सर्वदा चरणद्वन्द्वम्' इति प्रमाणप्रसिद्धिं द्योत- यति। प्रभासन प्रकाशं दददातीति तथोक्तं देवपक्षे। अन्यत्र प्रभाया: असनं निरासं ददातीति तथोक्तम्। एषूदाहरणेष्वाद्यं

Page 334

तुल्ययोगितासर: (१६) 323

शुद्धम्। अन्यानि श्रेषसंकाणानि यथायथमलंकारान्तरसंकी- र्णांनि च। भगवद्वर्णनौत्सुक्यपारवश्येन दर्शितम्। बहूदाहरणं तत्र न कार्या दोषधीर्युघैः॥ इयं सरस्वतीकण्ठाभरणोक्ता तुल्ययोगिता। अत्र केचित्- "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमर्हति, 'वर्ण्याना- मितरेषां वा' इति लक्षणाक्रान्तत्वात्। 'प्रदयिते परा भूतिः' इत्यत्र एकानुपूर्वीबोधितवस्तुकर्मकदानपात्रत्वस्य परंपरया ता- दशशब्दस्य वा धर्मस्यैक्यात्। 'यश्च निम्बम्' इत्यत्रापि क- 1

टुत्ववशिष्टनिम्बस्यैव परंपरया छेदकसेचकपूजकधर्मत्वसं- भवात्" इत्याहुः। अन्येतु-"तदेतदपेशलं, तथाहि यत्रानेका- न्वयित्वेन ज्ञातो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्त- त्र पूर्वोक्तः प्रकारः। यत्र तु हिताहितोभयविषयकशुभाशुभरूपै- कव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्क- तिजनकत्व तत्रापर इति भेदात्। न ह्यत्र पराभूतिशब्दस्य तदर्थकर्मदानस्य वा परंपरया शत्रुमित्रगतत्वेन भानं, अपितु श्लेषबलादेकत्वेनाध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तत्वम् । एतेन 'यश्च निम्वम्' इत्यत्र क दुत्वविशिष्टस्य निम्बस्यैव परंपरया छेदकसचकपूजकधर्मत्व- मिति निरस्तम्। वस्तुगत्या तद्धर्मस्यालंकारतासंपादकत्वाभा- वात्। अन्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुल्ययो- गितापत्तेः। किंत्वनेकगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगि- ताप्रयोजकत्वमिति तदभावे तदन्तर्गतिकथनमसमञ्जसमेव" इ-

. त्याहुः॥ तृतायतुल्ययोगिता -

Page 335

324 अलंकारमणिहारे

यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥ उत्कृष्टगुणैस्साम्यविवक्षया साधारणधर्मकथनसपरा तुल्य- योगिता। धर्मस्य वर्ष्यावर्ष्यगतत्वादुक्तवलक्षणेयम्। 'यत्प्रायं श्रूयते यञ्च तत्तादृगवगम्यते' इति वाक्यवदाभेमतन्यायानुरो- धेन प्रसिद्धगुणोत्कृष्टसाम्यस्य वर्णनीये प्रतीतेस्तुल्ययोगिताश- व्दान्वर्थताऽप्यस्तीति बोध्यम्।।

यथा-

मणिराजो वनमाला श्रीवत्सो दौग्धसैन्धवी बाला। मृन्मयसुममालाSपिच तव भूषणताम- वाप किल शौरे ॥ ५५२॥ अत्र वर्णनीया मृन्मयसुममाला अप्रकृतैः कौस्तुभादिभि- रभूषणत्वेन समीकृत्योक्ता। मृन्मयसुममालाया एव वर्णनीयत्वेन विवक्षणाल्लक्षणसंगतिः। किलेत्यैतिह्े। 'केनचिद्भक्तिमताऽर्पितां मृन्मयीं सुममालां कदाचित्फणिगिरौ भगवान्मूर्ध्नचधार्षीत्' इति पौराणिकी कथाऽत्रानुसंघेया। यैवोच्यते 'दत्तां केनापि सूनावळिमधधिमकुटं मृन्मयीमव दधरे' इति। अत्र कौस्तुभादी- नां भगवदीयत्वन प्रस्तुतत्वामिसंधौ प्राथमिकतुल्ययोगितैवैषोति नेदं शुद्धमुदाहरणम्। इदं तु शुद्धम्- कल्पद्रुः कामगवी चिन्तारत्नं त्वदाश्रितश्रापि। औदार्याजगतोऽच्युत खेदान्वयाधूय कल्पयतिमो- दान् ॥ ५५३ ॥

Page 336

तुल्ययोगितासर: (१६) 325

यथावा- कमठपतिः काकोदरकदम्वनेता हरित्करिस्तो- मः। उवीं वेङ्गटगिरिरषि सर्वामेतां विभर्तितराम्।। अनयोरुदाहरणयोः प्रकृतयोरभगवदाश्रितवेङ्गटशैलयोरप्रकृत- गुणांत्कृष्टकल्पद्रुकमठपतिप्रभृतिभिस्समीकृत्य साधारणधर्मवर्ण- नम् ॥

एवम्- त्वत्प्रतिपादितमहसो भानुस्सितभानुरपि बृह- द्रानुः। त्वदनुगतो मनुजोऽपिच भगवन् जगतां तमांसि धून्वन्ति ॥ ५५५॥ इत्यादावपि द्रष्टव्यम्॥ यथावा- त्वद्विमुखचित्तवृत्तिर्धवळेतरपक्षचरमरात्रिश्र । हर्यालोकविहानात्पर्यातं तामसी भवत्यम्ब।। हे अम्ब ! हरेरभैगवतः । पक्षे-हयोः सूर्याचन्द्रमसोः आलो- कस्य कटाक्षस्य दीत्ेश्च विहानात् अभावात् पर्यात्तं यथा स्या- त्तथा तामसी संपद्ते। पक्षे तमिस्रवती भवति॥ यथावा-

अध्याता तव विद्यानत्राता नरपतिश्ष दीनाना- मू। धनवात्नरोप्यदाता धरणेर्भारायते वृषाद्रिमणे।।

Page 337

326 अलंकारमणिहारे

पूर्वत्रोदाहरणत्रये स्तुतिः अन्तिमोदाहरणद्ये निन्दा। ए- वंचोत्कृष्टगुणैरिति लक्षणे उत्कृष्टपदमपकृष्टस्याप्युपलक्षकं, तुल्य- त्वावगतिहेतोः प्रायपाठस्यात्राप्यविशेषात्। इयं काव्यादर्शे द- र्शिता। इमां तुल्ययोगितां केचित्सिद्धिरिति व्यवाहार्षुः। तथाच जयदेव: काव्यलक्षणप्रतिपादके तृतीये मयूखे- सिद्धि: ख्यातेषु चेन्नाम कीर्तते तुल्यतोक्तये। युवामेव हि विख्यातौ त्वं बलैर्जलधिर्जलैः।। इति। सर्वस्वकारादिमतान्तरष्वत्र समुदितयोर्वर्ण्यावर्णचयो- रभगवाद्विमुख चित्तवृत्तिदर्शरात्रयास्तामसी भवतीत्येकधर्मान्वयाद्व - क्ष्यमाणं दीपकमेव॥ इत्यलङ्कारमणिहारे तुल्ययोगितासरष्षोडशः

अथ दीपकालंकारसरः,

तद्दीिकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥

प्रकृताप्रकृतयारेकसाधारणधर्मान्वयो दीपकम्। अत्र द्विव- चनमविवक्षितम् 'सणिश्शाणोल्ीढः' इत्यादौ बहूनामप्येकसाधा- रणधर्मान्वये दीपकदर्शनात्। तुल्ययोगितायामिवात्राप्यौपम्यं गम्यम्। प्रस्तुतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दोपयति प्रकाशयति सुन्दरीकरोतीति दिकम् । यद्वा-दीप इव दपि- कं 'इवे प्रतिकृतौ' इत्यधिकारस्थेन 'संज्ञायां च' इत्यनेन कन्। दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेनेति ध्येयम् ।।

Page 338

दपिकालंकारसर: (१७) 327

यथा- आचार्यकृपाछुतता वाचा मधुमधुरकवनगम्भी- रा। सा चाच्युताङ्किभक्ति: प्राचां परिपाक एव सु- कृतानाम् ॥५५८॥ वाचेति टावन्तशशब्दः। अत्र प्रस्तुताया अच्युताङ्गिभक्तेः अप्रस्तुताया आचार्यकृपापुततादेश्च प्राचीनसुकृतपरिपाकलक्ष- णगुणरूपैकधर्मान्वयः। अत्र कस्यचिदेव प्रस्तुतत्वे दीपकं, अ- न्यथा तुल्ययोगितैव॥। यथा- रक्तिविहीना वनिता शक्तिविहीना न शोभते नृपता। युक्तिविहीना कविता भक्तिविहीना मति- स्त्वयि च शौरे ॥ ५५९॥ अत्राभावस्साधारणो धर्मः, मतान्तरे त्वभावोऽपि गुण एवेति तुल्ययोगितानिरूपणावसरेऽवोचाम। अत्रापि कस्यचि- देव प्रकृततायां दीपक सर्वेषां प्रकृतत्वे अप्रकृतत्वे वा तुल्य- योगितेत्यनुसंधेयम्। यत्र तुक्रिया साधारणो धर्मः तत्र यावतां कर्त्रादिकारकार्णा सन्निधानं तेषां सवसजातीयेनान्येन सह तुल्य- योगिता दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात्॥।

यथा- लावण्यं ललनामणिमारुण्यं विद्रुमं वृषाद्रि-

Page 339

328 अलंकारमणिहारे

मणे। नैपुण्यं नरनार्थ कारुण्यं त्वां च संप्रसाध- यति ॥५६०॥

अन्र कर्तृकर्मणोः ॥

यथावा-

तपनीयकुण्डलं यद्रुचिरं तपनीयमण्डलं यद-

रुचिरं सुन्दर यत् तपनीयकुण्डलं स्वर्णकर्णवष्टनं यदपि तपनस्य भानोरिदं तपनीयं 'वा नामधेयस्य' इति वृद्धसंज्ञा- यां 'तस्येदम' इत्यर्थे 'वृद्धाच्छः' इति छप्रत्ययः। मण्डलं बिम्बं कुङ्गमस्य काश्मरिजन्मनः वर्णविशेष इव वर्णविशषोय- स्य तत्तथोक्तं अरुणवर्णमित्यर्थः। तद्वयमपि अनन्तं भगवन्त मपि। पक्षे-गगनमपि तमालश्यामलमपीति भावः। अभिरज्जयति अरुणयतीत्यर्थः। किंच-तपनीयकुण्डलं यत् यदपि तपनायम ण्डलं कु म इत्याकारफवर्णावेव विशेषो वैलक्षण्यं यस्य त- त्तथोक्त, तद्यमपि कुंभुवं अनन्तमन्तरिक्षमपि अभिरञ्जयतति । स्वचर्णव्यापनेन लोहितीकरोतीत्यर्थः । कुमिति पृथकपदपक्षे 'वा पदान्तस्य' इति परसवर्ण इति ध्येयम्। अत्रापि कर्तृक- र्मणोः। श्ेषसंकीर्णत्वं विशेष:॥

औदार्य कल्पतरोर्गाम्भीर्य श्रीनिवास सललिल- निधेः। शैशिर्य तुहिनगिरेरैश्वर्य तव च भासते सहजम् ॥ ५६२॥

Page 340

दीपकसरः (१७) 329:

अत्र केवलकर्तु:॥ सत्यविहीनं वचनं वित्तविहीनं कुटुम्विनां भव- नम्। वृत्तविहीनं जननं चिन्तं हरिभक्तिहीनमपि- शोच्यम् ॥५६३॥ अत्र कर्मणः । इन्दिरया तव वक्षश्वन्दिरकलयाऽन्तरिक्षम- बजाक्ष। सुन्दरतामनवरतं विन्दत्यरविन्दरेखया च सरः ॥५६४॥ अत्र कर्तृकरणयोः ॥ कविना वचसा सहृदयहृदयं सुदृशा दशा म- नो यूनाम। भवता सौशील्येन क्रीतं भुवनं सम- ग्रमपि भूमन् ॥५६५॥ अत्र कर्तृकरणकर्मणामिति विशेषः। सौशील्यं महतो म- न्दैस्सह नीरन्ध्रेण संश्लेषस्वभावः ।। जलदस्स चातकेभ्यस्सुधामयूखश्रकोरनिकरे- भ्यः। अहिगिरिपतिर्नतेभ्योऽप्यमृतं निरपेक्षमेव संदन्ते॥५६६।। अत्र कर्तृसम्प्रदानयोः । अमृतं सलिलं पीयूषं निश्शेयसं च यथाक्रममर्थः। अमृतशब्दस्यावृत्त्या कर्मणोऽपीति बोध्यम्। निरपेक्षमेव प्रत्युपकाराभिसन्धिविधुरमेवेत्यर्थः॥ ALANKARA 42 -

Page 341

330 अलंकारमणिहारे

अरविन्दान्मकरन्दं माकन्दान्मधुरवृत्ति फलबृ- न्दम। कुन्दाद्विन्देद्रन्धं मुक्तयानन्दं जनो मुकु- न्दाच ॥५६७॥ अत्रापादानकर्मणोः। मधुरा वृत्तिः स्थितिर्यस्य तत् मधु- रवृत्ति स्वभावमधुरमित्यर्थः ॥

यथावा-

अरुणात्त्रासस्तमसां हरिणाधीशान्मदावलकु- लानाम्। हरिणाङ्गात्तापानां शरणागतितस्तवाम्ब पापानाम् ॥५६८॥ अत्रापादानकत्रोः । कर्ता चात्र 'कर्तृकर्मणोः कृति' इति कृद्योगलक्षणषष्ठीबोध्यः॥ घृणिनिवहोऽम्बुजबन्धौ मणिनिवहो भासते महासिन्धौ। गुणनिवहोऽखिलबन्धौ फणिशिख- रीन्दौ च नन्दयन्विश्वम् ॥५६९॥ अत्र कत्रधिकरणयोः ॥

कारकदीपकमपि दीपक एवान्तर्भावितं दण्डिप्रभूतिभिः । अत्र केचित्-दीपकमपि तुल्ययोगितायामेवान्तर्भवति, धर्म- स्य सकृद्वत्तिमूलकविच्छित्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वा- दिविशेषस्य चावान्तरभेदसाधकत्वेऽप्यलंकारान्तरतायामसाधक- त्वात्। अन्यथा तुल्ययोगितायां धर्रिणां केवलप्रकृतत्वस्य के-

Page 342

दीपकसर: (१७) 331

वलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्ते श्रेषे . व्येवं द्वैविध्यापत्तेः, सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्ष- ण्यापत्तेश्च। तस्मात्प्रकृतानामेव अप्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्ययोगिताया एव त्रयः प्रभेदा वक्तुमु- चिता इति दीपकस्य तुल्ययोगितातः पृथगलंकारतामाचक्षा- णानां प्राचां दुराग्रह एवेति वदन्ति। अन्ये तु- नानाधिकरणस्थानां शब्दानां संप्रदीपकः । एकवाक्येन संयोगो यस्तद्दीपकमुच्यते।।

यथा- सरांसि हंसैः कुसुमैश्र वृक्षा मत्तद्विरेफेश्च सरोरुहाण। गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानति सदा क्रियन्ते।। इति भरतमुनिना दण्डिनाऽपि दीपकमात्रस्याभ्युपगमात्तत्रैव तुल्ययोगितान्तर्भावनस्य औचित्यात्तुल्ययोगितायां दीपकान्तर्भा- वनं मन्वतेऽनुचितम्। अमुमलंकारं धर्मस्य गुणत्रिकयाद्यात्मक स्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति रुद्रटादयः। तन्मते यथा-अत्रोदाहृतेष्वेव पद्येषु-'अरुणाञ्रासस्तमसाम्' इत्यत्रादौ, 'रक्तिविहीना वनिता' इत्यत्र मध्ये 'लावण्यं ललनामरणि' इ- त्यादाववसाने च धर्मो निर्दिष्टः । वस्तुतस्तु-तत्र धर्मस्या- दिमध्यावसानगतत्वेऽपि विच्छित्तिविशेषविरहात् त्रैविध्योक्ति- रापातमात्रात् । अन्यथा धर्मस्योपादुपमध्योपान्तगतत्व ततोपि किंचिन्नयूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात्। अनुपदप्रद- र्शितेषूदाहरणेषु केवलानुगामिस्ताधारणधर्मतायां दर्शितं दीपि- कम् । 'रक्तिविहीना वनिता' इत्यादौ बिम्बप्रतिबिम्बभावेना- प्येतददर्रि॥

Page 343

332 अलंकारमणिहारे

यथावा- नयशाली विबुधेन्द्रो जयशाली भाति सांयु- गीनेन्द्रः। रयशाली खगराडुच्छूयशाली चापि वे ङटगिरीन्द्रः ॥५७०॥ एवं तुल्ययोगितायामपि संभवतीत्युदाहार्ष्म । अत्र बिम्ब- प्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारका- रणम्। किंतूदाहतरीत्या नयादिप्रतिबिम्बभावकरम्भतम् । इयां- स्तु विशेष :- यत्केवलाबिम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः। यथा-प्रागुपमायामुदाहते 'कमलाभुजयुगळाश्चित' इत्यादी। प्रकृते तु न तथा, अनुगामिनं बिना धर्मस्वरूपस्यैवा- निष्पत्तेः। न हि बिम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वत्तिस्संभवति।

यथा- ननु नाथ शब्दविद्याविदः परब्रह्मवेदिनक्षापि। शेषगिरीश्वर नियतं भवति हि गतिरच्छगत्यर्थे। शब्दविद्याविद: व्याकरणवेत्तुः परव्रह्मवेदिनः परब्रह्मवेत्तु- श्र अच्छगत्यर्थे गतिर्भवति नियतम् । तत्राद्यपक्षे-अच्छ अच्छे- त्यव्ययं गत्यर्थे गत्यर्थकधातुयोगे गतिः गतिसंज्ञको भवति। 'गतिश्च' इत्यनुवर्तमाने 'अच्छ गत्यर्थवदेषु'। इति सूत्रेणा- च्छेत्यव्ययस्य गत्यर्थकधातुयोगे गतिसंज्ञाविधानादिति भावः। द्वितीयपक्षे-अच्छा प्रकृतिसंवन्धविमोचयित्री या गतिः अर्चि- रादिमार्गेण गमनं तस्यै तदर्थ 'अर्थे कृते च शब्दौ द्वौ ताद- थ्येऽव्ययसंजञितौ'। गतिः ज्ञानं भवति निष्पद्यत इत्यर्थः । अत्रा-

Page 344

दीपकसरः (१७) 333

प्रकृतस्य शब्दविद्याविदः प्रकृतस्य परव्रह्मविदश्च अच्छगत्यर्थे गतिर्भवतीति श्षेषेण समानधर्मता॥ अन्रेदमवधेयं, यद्यपि- दुर्दमदारिद्रयतमोनिर्दलनचणावुभौ समिन्धाते। चिन्तामणिशिखरिमणिश्चिन्तामणिरिति च यस्सु- पर्वमणिः ॥५७२।। इत्यत्र प्रस्तुताप्रस्तुतयोर्युगपद्धर्मान्वयः प्रतिभाति । 'रक्ति- विहीना वनिता' इत्यादिषु प्रागुदाहृतेषु पद्येषु अप्रस्तुतस्यैव प्रथमं धर्मान्वयः, तथाऽपि-तस्य प्रासङ्गिकत्वं न हीयते। वस्तुग- त्या प्रस्तुतोद्देशेन प्रवृत्तस्यैव वर्णनस्य प्रस्तुतेऽ्यन्वयात्। न हि दीपस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामातर्थ श्रपितस्य सूपस्यातिथिक्यः प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते। तु- ल्ययोगितायां त्वेकं प्रस्तुतमत्यदप्रस्तुतमिति विशेषाग्रहणात्स- वौद्देशेनैव धर्मोक्तिरिति विशेषः। अयं चानयोरपरो विशेष :- उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽपि अत्राप्रस्तुतमुप- मानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावः, तत्र तु विशेषाग्रहणादैच्छिकरस इति। इद सर्वे कुवलयानन्दे र्प- ष्टम्। कैश्चित्तु-मालादीपकमप्यत्रैवान्तर्भावितम, तदयुक्तम्। 'स्मरेण हृदये तस्यास्तेन त्वाय कृता स्थितिः' इत्यादौ सा- ददयसंपर्काभावादिति। एतच्च मालादीपकनिरूपणावसरे प्रप- श्चयिष्यते॥ इत्यलंकारमणिहारे दीपकसरस्सप्तदशः

Page 345

334 अलंकारमणिहारे

अथावृन्तिदीपकसरः.

समस्तयो्व्यस्तयोर्वाऽवृत्तौ पढतदर्थयोः । आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ।

नीययोरावृत्तौ त्रिविधमावृत्तिदीपकमित्यर्थः। पदतदर्थयोरुभ- योरावृत्तावेक: प्रकार:, पदस्यैव अर्थस्यैव चावृत्तौ द्वौ प्रका- राविति त्रयोऽस्य प्रकाराः। एकक्रियाया अनेककारकान्वयवदने-

यथाक्रममुदाहरणानि- हरिभूभृदुदयभाजो हरेर्महस्फूर्तिपरिचये नृ- णाम्। विकसति दगब्जवृन्दं विकसति हृदया- ब्जवृन्दं च ।५७३।। हरिभूभृत् वेंकटगिरि: स एव उदयः तं भजतीति त- थोक्तः। तस्य हरे: भगवत एव भानुमतः महस्फूर्तिरुत्सवस्फूर्ति- रेव तेजस्स्फूर्तिः तस्थाः परिचये सति । अत्र विकसनक्रि-

यथा वा- कर्षति दगेकतो मां श्रुतिरेषाऽन्यत्र कर्षति मु- रारे। रसना परत्र कर्षति साध्वी भक्तिः किमत्र कुर्वीत ॥५७४॥

Page 346

आवृत्तिदपिकसर: (१८) 335

मां त्वां द्रषुं त्वत्कथां श्रोतुं त्वन्नाम वक्तुं चाभीप्सन्त मिति भावः । दक् चक्षुरिन्द्रियं एकतः स्वविषये इत्यर्थः। एवमुत्तरत्रापि। शिष्टं स्पष्टम्। अत्र कर्षणक्रियातद्वाचकप- दयोरुमयोरप्यावृत्तिः। इदं धूर्तबहुसपत्रीकदर्थितसाध्वीदयित- वृत्तान्तसमारोपरूपसमासोक्त्या संकीर्ण, पूर्व तु रूपकेण। यथावा- प्रसजेद्यदि पापं नः प्रसजेद्दातुं हरिः फलं तस्य। प्रसजेत्कृपाऽपि लक्ष्म्याः प्रसजेत्सा स्वद- यितं प्रसादयितुम् ॥५७५॥ यथावा- करिवरनिनदो मूर्छति हरिवरनिनदोऽपि मूर्छति समन्तात्। मूर्छति च तत्प्रतिस्त्रुह्ुहागृहाम्यन्तरेषु शेषगिरे:॥५७६॥ यथावा- कूजन्ति चक्रवाकाः कूजन्ति शुकाः पिकाश्र कूजन्ति। कूजन्ति सारसा अपि कर्णानन्दप्रदाः पृदाकुगिरौ ॥५७७॥ इदमुदाहरणत्रितयं शुद्धम्। अत्राप्याद्ययोरुदाहरणयोः कार- णमाला ध्वन्यते । अन्तिमं तूदाहरणं शुद्धतमम्॥ पदावृत्तिदीपकं यथा- व्यालोत्तमाचलेन्दोरालोकादूरतस्तमो द्रवति।

Page 347

336 अलंकारमणिहारे

शरणगतानामन्तःकरणसुधाकिरणदृपदपि द्रवति।।. ..... अत्र द्रवतीति पदस्थैवावृत्ति: न तु तदर्थस्य, आद्यस्य धावतीति अन्त्यस्यार्द्रा भवतीत्यर्थयोमेदात्।। यथावा- स्वैरं यशो विसृमरं स्मेरं भवतो विधूयते शौरे। स्फारं यशञोप्यसुहृदां दूरंदूरं विधूयते दिक्षु॥। अत्रापि विधूयते इत्यनयोः विधुरिवाचरतीति प्रकम्प्यत इति चार्थभेदादिदमपि पदावृत्तिदीपकम्॥ यथावा- बहुशो धयति स्वामिन्नहिशैले धन्य एव तव तीर्थम्। बहु शोधयति च तमिमं कलशोदधिजा- धिनाथ तत्तीर्थम् ॥५८०॥ हे स्वामिन्! अहिशैले धन्यः पुण्यवानेव तव तीर्थ त्वद भिषेकतीर्थमित्यर्थः, बहुशः बहु धयति पिबति। 'धेट् पाने' तमिमं तीर्थधातारं जनं तत्तीर्थ कर्तृ बहु यथा स्यात्तथा शो- धयति शुद्धं करोति अपास्तसमस्तांहस्त्ति तनोतीत्यर्थः। अ- त्रापि पद्मात्रावृत्तिः ॥ यथावा- चेतो मम बहु धावति वातंधयगिरिजमद्भुतं किमपि। बहुधाऽवति च महाम्भोवहधाम तदद्गुतं स्मरन्तं माम ॥५८१॥

Page 348

आवृत्तिदीपकरुरः (१८) 337

मम चेतः कर्तृ। वातधयगिरिजातं किमप्यद्भतं सर्वाश्च- यनिधिं श्रीनिवासमित्यर्थः । धावति स्मरतीति यावत्। म- हाम्भोवहधाम महावारिवाहनीलमित्यर्थः । तदद्भतें भगवानि- त्यर्थः । स्मरन्तं मां बहुधा अवति घ्रीणयति रक्षति च। अ- नापि पद्मात्रावृत्तिः। आद्योदाहरणद्ये अभङ्गश्लेषेण अनन्त- रोदाहत्योस्सभङ्गग्लेषण निर्व्यूढमिदम्।। यथावा- योऽन्तर्धन्ते कमलाकान्तं काकोदराद्विभास्व- न्तम्। अन्तर्धत्ते तस्य च संतमसं भवमयं स हि नितान्तम् ॥५८२॥ यः पुमान् अन्तः मनसि धत्ते ध्यायतीत्यर्थः । तस्य पुंसः भवमयं संतमसं सः भगवान् अन्तर्धत्ते पिदधाति विनिवर्त- यतीति यावत् । अन्रापि पदस्थैवावृत्ति: । अर्थावृत्तिपिकं यथा- क्षालयति वेङ्कटाचलपालयितुरघानि सपदि नामसुधा। मार्जयति कुजनसन्नुत्यार्जितमूर्जित- मपीह दौर्जन्यम् ॥५८३॥ अत्र क्रियापदभेदेऽपि तदर्थस्य शोधनस्याभेदादर्थावृत्ति- दीपकमिदम्॥ यथावा- यत्रेन्धे वनमाला चकास्ति कौस्तुममणिर्लस- तिच श्रीः। कियदिव तद्राग्यं स्यात्पङ्क्जमालाS- पि तत्र ढीव्यति चेतू ।५८४॥ ALANKARA 43

Page 349

338 अलंकारमणिहारे

अत्रापि इन्धे इत्यादिक्रियावाचिपदभेदेऽपि तदर्थस्य प्र- काशस्याभेद इति ध्येयम्। इदं च उत्कृष्टव्यक्तिसमुचितोत्त-

व्यवहारसमारोपरूपसमासोक्तिसंकीरणमिति विभावनीयम्॥ यथावा- प्राप्नोति जयं लभते श्रियं ह्रियं विन्दते नयं भजते। प्रियमयतेSपिच नियतं श्रियःपते त्वां श्रयन्नयं लोकः ॥५८५॥

हियं अकार्येभ्यो लज्जां विन्दते। अयं महान्गुणः। यथो- च्यते तत्रतत्र 'ह्रीनिषेवी' इति। आद्योदाहरणद्वये कर्तृणामा वृत्तक्रियान्वयः, इह तु जयमित्यादिकर्मणामिति विशेषः॥ नन्वत्र धर्मनिर्देशस्य प्रस्तुताप्रस्तुतोभयविषयत्वाभावात्कथं दीपकशब्दव्यपदेश इति चेन्न, अनेकोपकारकत्वसाम्येन तटु- पपत्तेः । अत एव कुवलयानन्दे-'आवृत्तीनां प्रस्तुताप्रस्तुतो- भयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः' इन्युक्तम्। अत्र मात्रपदं प्रयुञ्जानैर्दीक्षितैः पृथगेवायमलंकारो न तु दीपकप्रभेद इति सूचितम्। अत एवोक्त दण्डिना- अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि। दीपकस्थानमेवेष्टमलंकारत्रयं यथा॥।

इति। त्रिप्रकारोऽयमलंकारो दीपकसदृश इति तदर्थः॥

इत्यलंकारमणिहारे आवृत्तिदीपकसरोSष्टादशः

Page 350

प्रतिवस्तूपमासरः (१९) 339

अथ प्रतिवस्तूपमासरः. पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वा- क्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्य इधायुपादाने सकृन्निरदेशे उपमा। वस्तुप्रतिवस्तुभावेन सकन्निरदेशेऽपि सैव। इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते। असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा। आद्यः प्रकार: प्रतिवस्तूपमा। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते। तदेव- मौपम्याश्रयेणैव प्रतिवस्तूपमा । तथाच तल्लक्षणम्- सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः । द्विरुपानो भवेत्सा तु प्रतिवस्तूपमोच्यते ॥

क्ययोर्गुणक्रियारूप एक एव धर्मो वस्तुप्रतिवस्तुभावापन्नतया शब्दान्तरेण पृथड्गिरदिश्यते चेत्सा प्रतिवस्तूपमा । प्रतिवस्तु उपमानोपमेयभावदिशि उपमा तत्प्रयोजकसाधारणधर्मोऽस्यामि- ति व्युत्पत्तेरित्यर्थः । अर्थान्तरन्यासवारणाय सादृश्येति। तत्र तु समर्थ्यसमर्थकभावमात्रं विवक्षितं न तु सादृश्यम्। बिम्ब- प्रतिबिम्बभावेन दृष्टान्तेऽपि धर्मोपादानात्तत्रातिप्रसङ्गवारणायैक इति। तत्र हि भिन्न एव धर्म उपादीयत इति न दोषः॥

यथा- नारायणगिरिरेव स्फारां कीर्ति बिभर्ति खलु गिरिषु ऐरावत एव परं स्मेरां दीत्तिं दधाति दिक्करिषु ॥५८६॥

Page 351

340 अलंकारमणिहारे

अत्र बिसर्ति द्धातीत्येक एव धर्म उपमेयोपमानवाक्य- यो: पृथग्भिन्नपदाभ्यां निर्दिष्टः । अयमेव हि वस्तुप्रतिवस्तु- भाव इत्युच्यते॥। यथावा- भजतां कथं नु महता भवताऽल्पा देवता हरे समताम्। काचमणिर्नीचघुणिर्ही रेण सद्क्किम- त्युदारेण ॥५८७।। भजतामिति लोट्॥ यथावा- अहरहर पि गच्छन्तो मूढास्त्वां ब्रह्म नाप्नुवन्ति हरे। विन्दन्त्यक्षेत्रज्ञा उपर्युपरि न हि निधिं चर न्तोपि ॥ ५८८ ॥

अत्र 'तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सं चरन्तोपि न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनुतेन हि प्रत्यूढाः' इते दहराविद्यागत श्रुत्यर्थोऽनुसंहितः । अस्यार्थ :- यथा अधस्तान्निक्षितं हिरण्य- निर्धिं निधिमत्क्षेत्रस्वभावज्ञानहीना निधेरुपर्युपरि संचरन्तोपि न लभन्ते, एवमेवेमास्सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छ- न्त्यः सुषुप्ती 'सति संपद्य न विदुः' इत्युक्तरीत्या अविभागं गच्छन्त्यः एतं दहराकाशाख्यं ब्रह्मरूप लोक न विन्दन्ति न लभन्त न जानन्तीत्यर्थः । ब्रह्मलोकशब्दौ निषादस्थपतिन्या- येन समानाधिकरण। तत्र हेतुमाह-अनृतेन हि प्रत्यूढा इति। अनृतेन कर्मणा प्रतापं नीता: स्वभावान्तर प्रापिताः। आच्छादिता

Page 352

प्रतिवस्तूपमासगः (१९) 341

इति यावत्। यद्वा-अहरहर्गच्छन्त्य इति न सुषुप्तिकालिकं गम- नमुच्यते, अपितु अन्तरात्मत्वेन सदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परमपुरुषार्थभूतस्य उपर्युपरि अहरहर्गच्छन्त्यः स- वस्मिन्काले वर्तमानास्तमजानत्यस्तं न विन्दन्ति न लभन्त इत्यर्थः। उदाहरणे मूढा इत्यस्यानृतेन प्रत्यूढा इत्यर्थः । अत्र वाक्य-

ननु 'क्षाळयाते वेङ्गटाचल' इत्युदाहृतार्थातृत्तिदीपकाद- स्था: किं चैलक्षण्यमिति चेन्न, प्रस्तुतानेकधार्मगतैकधर्मनिर्देशः अप्रस्तुतानेकगततथाविधधर्मनिर्देशो वा अर्थावृत्तिः । इय तुप्र- स्तुताप्रस्तुतोभयनिष्ठतथाविधधर्मनिर्देशरूपेत्यस्यास्ततो वैलक्षण्प. सद्भावात्। किंच-अर्थावृत्तिदीपकं वाक्ययोरर्थस्यावृत्तावेव भ- वति, सा च साधर्म्य एव न वैधम्ये। इयं तु वैधर्म्येणापि भवतीीत ततोप्यस्या भेदः। तदेतदुक्तं कुवलयानन्दरे-"अर्था- वृत्ति रपकं प्रस्तुतानामप्रस्तुतानां वा भवति: प्रतितस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । अयं चापरो विशेष :- आवृत्ति- दोपकं वैधर्म्येण न सम्मत्रति प्रतिवस्तूपमा तु वैधर्म्येणापि द इयते" इति । यथा- फणिगिरिपतिगुणपरिमळमभिजानन्ति हि त- देकनिष्णाताः। मृगनदपरिमळभरमिह विदन्ति न ग्रामसूकरा जातु ॥५८९ ॥ यथावा- मज्जति भवत्क्षमायां नाथामन्दं मदागसां वृ-

Page 353

342 अलंकागमणिहारे

न्दमू। नोन्मजति खलु पङ्कं गङ्गायां विमलतर- तरङ्गायाम् ॥ ५०॥

यथावा- उदधिसुते त्वामन्तर्निदधानं मम विभाति ह- दयाव्जम्। निष्कासि मुक्तामणिशुक्तिपुटं नैव जात्वपि समिन्धे ॥ ५११॥

नन्विदं व्याहतं यद्वैधर्म्येणोपमेति। साधर्म्यरूपत्वात्तस्या इति चेत्सत्यं, वैधर्म्येणोपन्यस्तेन सृगमदपारिमळभरमित्यादिवा- क्यार्थेनाक्षितस्य आपेतु ज्ञातार एव जानन्तीति वाक्यार्थस्यो- पमानत्वेन विवसणात्। आमुखे वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसानान्न दोषः। वैधर्म्येणेत्यस्य वैधर्म्यद्वारेत्यर्थः॥ अत्र साधारणधर्मस्य वस्तुप्रतिवस्तुभावकथनेन तदितर- पदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवाक्षे- तम। अन्यथा- खलास्तुकुशलास्स्वीयाहतप्रत्यूहकर्मणि । निपुणाः फणिनः प्राणानपहर्तु निरागसाम्। इत्यत्रासंष्ठुलवाक्यार्थेऽपि प्रतिवस्तूपमा स्यात्। अत्र हि खलफणिनो: प्राणहितयोश्च सत्यपि विम्बप्रतिबिम्बभावे हरण

बिम्बभावः। यद्वा-अस्त्वत्र प्रतिवस्तूपमा, परंतु पूर्ववाक्यार्थ- घटकानां हहितप्रत्यूहकर्मणाति नामार्थविभक्त्यर्थादनिामुत्तरवा- क्यार्थघटके प्राणानपहर्तुमित्यत्राभावेनासंष्ठुलतालक्षणस्य वाक्या- थैसामान्यदोषस्य जागरूकत्वादचमत्कारिण्येव, दुष्टोपमादिवत्।

Page 354

प्रतिवस्तूपमासरः (१९) 343

वाक्यार्थो हि निर्भरतरव्युत्पत्तिनिशातितान्तःकरणैः वरिविधप- दार्थसंदर्भपरिवरर्तननिपुणरेत्र महाकतरिभिर्विरवितः किमपि घु- ष्णाति कामनीयकं, नेतरः। तस्मादेवंजातीयकेष्वलंकारेषु पूर्व- वाक्यार्थघटकनामार्थानुरूपैर्नामार्थैः तद्टकविभक्त्यनुरूपाभिर्वि भक्तिभि: तदन्वयानुरूपेण चान्वयेनोत्तरवाक्यार्थे भाव्यमिति सहृद्यहृदयमेव प्रष्टव्यमिति वदन्ति॥ अलंकारकौस्तुभकारो विश्वेश्वरस्तु इयमलंकारान्तरविष- येऽपि दृश्यत इत्याह। तत्राप्रस्तुतप्रशंसाविषये यथा- नीरसमिव सारसमषि सान्द्रतमा इव स चन्द्र- मा जननि। सलयमिव किसलयं ननु विद्ुत इव विद्रुमस्तव पुरस्तात् ॥ ५९२॥। तव आतेमात्ररमणीयनयनवदनकराधराया इति भावः । अत्र सारसादीनामपकर्षरून एको धर्मः प्रातेवाक्यं भिन्नेन नी- रसत्वादिना प्रतिपादितः। उत्प्रेक्षया चेयं संकीर्णेत्यवधेयम् । मालारूपेणापीय दृश्यते। यथा- सहकार: फलमतुलं वहते स हरः कलानिधिं धत्ते। सम्राण्बिभर्ति मकुटं सरीसृपगिरिर्दरीधरी- ति हरिम ॥५९३॥ यथावा- इन्धे कविः प्रतिभया भाति प्रभया सरोजीनी- बन्धुः। राज्यश्रियाऽवनीन्द्रो राजति नित्यश्रिया हरिर्लसति ॥५९४॥

Page 355

344 अलंकारमणिहारे

अत्राद्ये पद्ये वहनधानभरणधारणानां द्वितीये इन्धनभान- राजनलसनानां च वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा॥ इत्यलङ्कारमणिहारे प्रतिवस्तूपमासर एकोनविंश:

अथ दष्टान्तसरः

विम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं इयोः । वाक्यार्थयोश्वदौपम्यमार्थ दृष्ठान्त ईर्षते॥

विम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थ- मौपम्यं दृष्टान्त इत्यर्थः। तदुक्तम्-'दष्टान्तः पुनरतषां सर्वेषां प्रतिबिम्बनम्' इति। सर्वेषां उपमादनिाम्। दष्टः अन्तः निश्च- यो यत्रेति यथार्थाभिधानोऽयं, दार्श्टान्तिके सन्दिग्धस्यार्थस्यात्र निश्चयदर्शनात्॥

यथा- गुणहीनाऽपि च कविता फणिगिरिपतिनामम- सृणिता श्ाध्या। योषा स्पृहणीया खल भूषाही- नाऽपि पूर्णलावण्या ॥ ५९५॥

अत्र कवितायोषयोरुपमेयोपमानयो: श्राध्यत्वस्पृहणीयत्व- योर्धर्मयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालकारस्य प्रति- वस्तूपमाया भेदकमेतदेव-यत्तस्यां धर्मो न प्रतिबिम्बितः किंतु शुद्धसामान्यात्मेनैव स्थितः, इह तुप्रतिबिम्बित इति॥

Page 356

दृष्टान्तसरः (२०) 345

यथावा- श्रेयस्विनी त्रिलोकी भूय: कृपयैव भुजगशि- खरीन्दोः । ओजस्विनी दिनश्रीस्तेजस्फूर्त्यैव ता- मरसबन्धोः ॥५९६॥

यथावा- शुद्धिमतीयं जगती श्रीशैलेशाङ्किजन्मना स- रिता। ऋद्विमती त्रिदिव श्रीर्मन्दारभुवा महावदा- न्यतया ॥ ५१७॥

यथावा- गिरिशादिस्त्वदपाङ्गात्वं तु स्वत एव हीशिता भगवन्। काचमणिराचकास्ति द्युमणिकरादेष तु स्वभासैव ॥ ५९८॥

यथावा- निस्स्वोपि त्वयि भक्तः पूज्यो नान्यो महास- मृद्दिरपि। अभिरूपोऽनङ्गोपि श्ाध्यो नानीदशो महाङ्गोदपि ॥ ५९९॥ अनङ्ग: अल्पाङ्ग: नञोऽत्रानुदरा कन्येत्यादाविवाल्पत्वमर्थः। कृशतनुरपीत्यभिप्रायः। काम इत्यप्युपस्कार्यम्। महाङ्ग: पीव- रावयवोपि। पक्षे उष्ट इत्यर्थः । 'उष्ट्रे क्रमेळकमयमहाङ्गाः' इत्यमर: ॥ ALANKARA 44

Page 357

346 अलंकारमणिहारे

वैधर्म्येण यथा- मरुदात्मंभरिगिरपतिवरदानादेव देहिनो वि- भवः। इरदागमं विना कः करदायी स्यादविघुम्- सादस्य ॥। ६०० ।।

तरीता।। विधुप्रसादस्य इन्दुप्रसन्नतायाः। करदायी हस्तालम्ववि-

यथा वा- तावद्भवः प्रभविता यावद्गगवन्न नेत्रपात्रमसि। सौपर्णमन्त्रवर्णे कर्णोद्गीर्णे न पन्नगन्नास:।६०१ अत्राद्योदाहरणे प्रस्तुतवाक्यार्थगतयोर्वरदानविभवयोः, द्वि- तीयोदाहरणे भवप्रभवितृत्वभगवत्कटाक्षपात्रताभावयोश्च वैध- क्येण शरदागमविधुप्रसाददानाभावौ पन्नगन्नासाभावसौपर्णम- न्त्रकर्णगोचरत्वे च यथाक्रममुत्तरवाक्ये प्रतिबिम्बतया निरदे शिषाताम् ॥

यथा वा- भजतां ददाति जगतां भवती लोकोत्तरं फलं सकलम्। अहिशैलमणिवधूमणि न हि मल्लीसु- ममसौरभं सूते ॥ ६०२ ॥ इत्यत्रापि वैधर्म्येण दृष्टान्तो द्रष्टव्यः । 'अत्र दृष्टान्तालं- कारमहिस्नैव बिम्बप्रतिबिम्बभावेन प्रतीयमानमुपमानोपमेयभाव- मनादृत्य दृष्टान्तोदाहरणनिदर्शनादिशब्दाः कविना न प्रयोक्त- व्या: पौनरुक्त्यापत्तेः' इत्येकावळािारः। अत एव-

Page 358

निदर्शनसरः (२१) 347

तृप्तियोग: परेणापि न महहिम्रा महीयसाम्। पूर्णश्चन्द्रोदयाकाड्डी द्ष्टान्तोऽत्र महार्णवः ॥ इति माघपद्यव्याख्यानावसरे 'नायं दष्टान्तालंकारः बिम्बप्र- तिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु द्ृष्टान्त- शब्देन तुल्यार्थाभिधानादुपमालंकरारः' इत्युक्त्वा उपदर्शितै- कावळीग्रन्थमुदाहार्षीन्मलिनाथः । वस्तुतस्तु द्दष्टान्तोदाहरणा- दिशब्दघटितेष्वीदशस्थलेषु पूर्व व्युत्पादित उदारणालंकार ए- वेत्युत्पश्यामः। सच सम्यगेव पूर्व न्यरूष्यतेति नेह प्रतायते॥ इत्यलंकारमणिहारे द्ृष्टान्तसरो विंश :.

अथ निदर्शनालंकारसरः,

उपात्तयोरर्थयोश्व्वेदार्थाभेदः प्रकीर्त्यते। औपम्यपर्यवसितो भवेत्सेयं निदर्शना॥ उपात्तयो: अर्थयोः आर्थोडमेद औपम्यपर्यवसायी निदर्श- नेत्यर्थः। अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति वाच्यरूपकवारणायार्थ इति। आर्थत्वं च प्राथ- मिकान्वयबोधाविषयत्वम्। यदि च विषिष्टोपमायां विशेषणयो- रभेद: प्रतीयत इत्युच्यते, तदा बिम्बप्रतिबिम्बभावानापन्नप्र. धाननिरूपितगुणीभाववतोरिति विशेषणमर्थयोरुपादेयम्। विशि- ष्टोपमार्या प्रधानभूतयोरुपमानोपमेययोर्विम्बप्रतिबिम्बभावापन्नत- या तन्निरूपितगुणभाववतोर्विशेषणयोरार्थाभेदभानेऽपि नाति-

Page 359

348 अलंकारमणिहारे

प्रसङ्ग:। निदर्शनायां तु वक्ष्यमाणोदाहरणेषु अभिजानन् वेत्ती-

निरूपितप्रधानभाववतोः कत्रोर्विम्बप्रतिबिम्बभावानापन्नतया ता दृशकर्तृनिरूपितगुणभाववत्योरभिज्ञानवेदनादि क्रिययोराथाभेदप्र- तीतेर्भविष्यति लक्षणानुगमः। इदंच श्रौत्या निदर्शनाया लक्षणम्। आर्थीसाधारणं तु लक्षणं ललितालंकारप्रकरणे प्रदर्शयिष्यते॥ यथा- नित्यं परमात्मानं प्रत्यगभिन्नं भवन्तमभिजा- नन्। सत्यं फणिशैलपते भृत्याभेदेन वेत्ति स- म्राजम् ॥ ६०३॥ अत्र परमात्मनः प्रत्यगात्माभेदेन ज्ञानं सम्राजो भृत्याभे- देन ज्ञानं चाभिन्नमिति तत्सादृश्यमूला धीः॥६०३ ॥ यथावा- तव महिमानमनन्तं वेदितुमिच्छन् हृदा परि- च्छिद्य। कक्षेऽन्तरिक्षमखिलं काइृति परिवेष्टय हन्त निक्षेत्रुम् ॥ ६०४॥ अत्र-यदा चर्मदवाकाश वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तं निगच्छात॥ इति श्रुतिच्छाया गृहीता। अत्रानन्तस्य भगवन्महिस्तो मन- सा परिच्छिद्य वेदनेच्छा अन्तरिक्षस्य कटादिवत्परिवेष्टय कक्ष निक्षेपणेच्छा चाभिन्ने॥ ६०४ ॥ यथावा- त्वामविगणय्य योऽन्यत्तामरसविलोचनाश्रयेद्दै-

Page 360

निदर्शनसरः (२१) 349

वम्। स शिरोमणिं विधून्वन्पिशुनश्शिरसा बि- भर्त्ययःपिण्डम् । ६०५॥ यथावा- निरवधिदिव्यविभूतेर्भवतो विभवं समर्पयेद्योऽ- न्यम्। कनकाचलस्य सीसाकलिताक्रणं रमेश स हि दत्ते ॥ ६०६॥ यथावा- अपलिलपिषति मुरारे भूमानं यस्तवातिसी मानम्। चिच्छादयिषति कामं पाणितलेनाखिलं स गगनतलम् ॥ ६०७॥ यथावा- अन्यां विवक्षति कथां मान्यां यस्तावकीं क- थां हित्वा। शेषगिरीश जिघत्सत्यूषररेणुं सितां विहायैषः ॥ ६०८॥ यथावा- फणिगिरिपतिसममन्यं भणति सुरं यस्तु प- ण्डितंमन्यः । मणिसदृशं लोष्टं खरघृणिसदृशं तिमिरमपि भ्षणति सोयम् ॥ ६०९॥ अत्र सप्तसूदाहरणेषु आद्ययरभेद एकवाक्यगतः। अ- न्तिमेषु तु भिन्नवाक्यगतः। तत्रापि 'त्वामविगणय्य' इत्यादिषु

Page 361

350 अलंकारमणिहारे

चतुर्षु वस्तुमात्रयोरौपम्यमूलोऽमेदः । अन्तिमे 'फणिगिरि' इति पद्ये त्वौप्ययोरौपम्यमूलस्स इात विशेषः॥ यथावा- कलशेन जलधिसलिलं सकलं शक्रोति यो हि परिमातुम्। अखिलं भवतो विभवं मनसा स भवेत्क्षमः परिच्छेत्तुम् ॥ ६५०॥ अत्रोपमानोपमेयवाक्यार्थयोः प्रातिलोम्येनाभेद: मित्थ्या- ध्यवसितिसंकीर्णत्वं च पूर्वोदाहरणेभ्यो विशेषः ।। यथावा- वृषगिरिमलंकरिष्णोर्विष्णोर्वीर्याणि स हि वदि- तुमीष्टे। प्रभविष्णुः परिमातुं रजांसि यः पार्थिवा- नि निखिलानि॥ ६११॥ अत्र 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि वि- ममे रजांग्सि' इति श्रुत्यर्थानुधावनं विशेषः। अन्यत्सर्व पूर्व- वदेव। श्रुतावपद्दिशालङ्कारसन्भावं ज्ञापयितुमिदम्। एवं 'तव महिमानं' इति प्रागुदाहृतपद्येऽपि बोध्यम्। एषा वाक्यार्थनि- दर्शनेत्युच्यते। विशिष्टार्थयोः प्रकृतैकधर्मगतयोरार्थाभेदे निद- शनाया इष्टेः। अस्यां च घटकपदार्थानां बिम्बप्रतिबिम्बभावो- वश्यंभावी॥ मालारूपाऽपीय द्ृश्यते। यथा- विकिरति स सुधां परितः क्षिपति शरच्चन्द्रच- न्द्रिकाधाराम्। वितरति चन्दनचर्ची सुचारु यो हरिकथां प्रचारयति ॥६१२॥

Page 362

निदर्शनसरः (२१) 351

इदं चापरं बोध्यं- वातात्मंभरिगिरिविरनेता चेतो ममैष यदया- सीतू। वेलातीतं दुरितं शूलाकार्षीन्तदेतदिति मन्ये।। शूलाकार्षीत् शूलेनापाक्षीदित्यर्थः। 'शूलात्पाके' इति शू- लशब्दाड्डाचू । अत्र 'भावप्रधानमाख्यातम्' इति यास्कोक्त- रीत्यां क्रियाविशेष्यकबोधवादिनां मते शाब्द एवाभेदारोप: क्रिययोरिति मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमा- न्तविशेष्यकबोधवादिनां त्वार्थस्स इति निदर्शनेति भेद: ॥ पदार्थनिदर्शना यथा- दिनविगमसमयविकसन्नवकुवलयवलयविल- सदसितरुचिम्। जयतु चिराय दधानो दयितः कलशाम्बुराशिकन्यायाः ॥६१४॥ अत्र कुवलयद्ळभगवद्रुच्योराश्रयभेदाद्विन्नयोरपि सादृश्य- मूलस्ताद्रप्याभिमानः आरोपो वा भगवति कुवलयरुचेः॥ यथावा- भवदवपरितप्तोडयं भवदीयकृपासुधाप्टुतोऽदय हरे। तुङ्गातपसङ्गार्दितगङ्गाह्वदमग्नगजसुखं धत्ते॥ अत्र 'एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव ह्रदम्' इति प्रमाणच्छायानुसंहिता। अत्र तुङ्गातपसङ्गार्दितत्वगङ्गाह्ृदनिम- पत्वाभ्यां भवद्वपरितप्तत्वभगवत्कृपासुधाप्ुतत्वयोः प्रतिबिम्ब- नमिति पूर्वस्मादुदाहरणान्जेदः रूपकसंकीर्णत्वं च । आश्रयभे- दभिदुरयोस्सुखयोस्सादृश्यहेतुकस्ताद्गुप्याभिमानस्तु तुल्य एव।।

Page 363

352 अलंकारमणिहारे

यथावा- चलदलकाननचन्दिरविलोलमखिलाम्ब नय- नयुगलं ते। विस्तृतजालजलाशयविचलन्मीनद्व- यश्रियं वहते ॥६१६॥ अत्रापि चलदलकत्वविस्तृतजालत्वयोः आननचन्दिरजला- शययोश्च बिम्बप्रतिबिम्बभावः विलोलनयनयुगलचलन्मीनद्य- योस्तु वस्तुप्रतिवस्तुभावकरम्भितस्स इति विशेषः । अन्य- त्तुल्यम्॥ अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः। अतः पदार्थनिदर्शनेत्युच्यते । अत्र च पदार्थनिदर्शनायां बिम्बप्रति- बिम्बभावस्तूपमानोपमेययोस्सविशेषणत्वे भवति, यथा अव्य- वहितोदाहरणयोः । अन्यथा तु नेति विवेकः। ननु वाक्या- र्थनिदर्शनायां विशिष्टवाचकशव्दाभ्यां विशेषणयोरप्युपादानाद- स्तुनामोपात्तयोरार्थाभेदः। पदार्थनिदर्शनायां तूपमानभूतरुच्या- देरन्यतरस्यैवोपात्तत्व न द्योरिति चेत्, रुचिशब्देन रुचित्वेन द्वयोरप्युपात्तत्वात्। न ह्यपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं, येनाव्याप्तिस्स्यात्। यद्वा प्रागुक्तलक्षणं वाक्यार्थ- निदर्शनाया एव, न पदार्थनिदर्शनायाः। अस्यास्त्वेवमस्तु लक्षणं- पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः । यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते। उपमानोपमेययोरन्यतरधर्मस्यान्यत्रारोपः पदार्थनिदर्शनेत्य- रथेः। नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना पदार्थनि- दर्शनायां च निगीर्याध्यवसानरूपयाSतिशयोक्तया गतार्थतेति

Page 364

निदर्शनासरः (२१) 353 चेन्न। वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्धनित्वा- योगात्। अन्यथा गुणीभूतोपमया रूपकस्यााप चारितार्थ्यापत्तेः। किंच, अस्याइशरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम्। रूपकस्य तूपमेयगत उपमानाभेद:, अतिशयोक्तेश्व निगरणानिगरणाश्यां तयोविशेष इत्यन्यदेतत्। एवंच स्फुटमेवा. स्या रूपकातिशयोक्तिस्यां वैलक्षण्यम्। अत एव 'कलशेन जल- धिसलिलं सकलं, वृषगिरिमलंकरिष्णोः' इति प्रागुदाहृतपद्ययो- रर्थयोः पौर्वापर्येऽपि न चारुताहानिः । एवं 'तव महिमानमनन्तं' इत्यादिपद्येष्वपि कांक्षतीत्यादौ कांक्षन्नित्याद्यनूद्य इच्छन्नित्यादौ इच्छेदित्यादिविधानेऽपीति बोध्यम्। अत्र व्यङ्गचरूपकादौ तूच्य- माने व्यङ्गयकक्ष्योद्देश्यविधेयभावस्यापि वाच्यकक्ष्योद्देश्यविधेय- भावानुरोधितया 'कलशेन जलधिसलिलं सकलं शक्कोति यो हि परिमातुम्' इत्यादौ कलशकरणकसकलजलधिसलिलकर्मक- परिमाणशक्तिमदादिरूपे उपमाने मनःकरणकाखिलभगवद्विभव- कर्मकपरिच्छेदक्षमरूपोपमेयाभेदस्यैव प्रत्येतव्यतया रूपकासा-

एवं पदार्थनिदर्शनाया लक्षणवैलक्षण्येऽप्युदाहरणानि प्रा- क्प्रदर्शितान्येव समन्वयप्रकारभेदेन योजनीयानि। सोपि वक्ष्यमा- णरीत्या बुद्धिमद्भिरूहनीयः॥ यथावा- त्वामस्तुत्वा भगवन्यो भवति स्तवनकारकोऽ- न्येषाम्। सद्भिः कृतो निरस्तस्सत्यं वनकाकतां वहत्येष: ॥६१७।। सद्भिः ब्रह्मविद्भिः निरस्तः प्रत्यादिष्टः कृतस्सन् वनका- ALANKARA 45

Page 365

354 अलंकारमणिहारे

कतां अरण्यवायसतां, अतिनिकर्षद्योतनाय वनेतिविशेषणम् । वहति।पक्षे-स्तवनकारकशब्दः निरस्तः निर्गतौ रेफस्तकारौ यस्य स तथोक्तस्सन् वनकाक इति निष्पद्यत इत्यर्थः । अन्यत्सुग- मम्। अत्र वनकाकत्वस्योपमानधर्मस्य उपमेये स्तवनकारके आरोप:। स चौपम्ये पर्यवस्यति। वनकाकवाशितवन्द्गवद- न्यस्तवनमनर्थकममनोज्ञमश्राव्यं चेति भावः। अत्र शब्दपरार्था- न्तरवर्णनं चमत्कारातिशयाय॥

यथावा- सत्यपि तवाभिधाने मुदां निधाने मुघैव यो मुखरः । सत्यं स हि मुन्न्यूनस्संप्रथयति सारसा- क्ष खरभावम् ॥ ६१८॥

हे सारसाक्ष मुदां आनन्दानां निधाने निधिभूते मुक्त्यै- शवर्थपर्यन्तसर्वविधानन्दप्रदानधुरंधरे इति भावः। तव अभि- धाने नामनि सत्यपि त्वदभिधानमनादृत्येत्यर्थः । यः मुधैव निरर्थकमेव मुखरः वाचाटः भवति सः पुमान् मुदा न्यून- रुसन् आनन्दनिधानभूतनामाभिलापवैधुर्यादिति भावः। पक्षे मु- वर्णेन न्यून: विश्िष्टस्सन्। अस्मिन्पक्षे न्यू इत्यत्र नकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वं पक्षान्तरार्थानुरुप्यायेति बोध्यम्। खरस्य रासभस्य भावं स्वभावं चेष्टां वा 'भावस्स- त्ताखभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः। संप्रथयति। उक्त-

स्समयं क्षिपव्रासभतुल्य एवेति भावः। पक्षे-मुखरशब्दो मु- वर्णच्यावने खरत्वं प्रकाशयतत्यिर्थः। अत्रापि भगवन्नामाभिला

Page 366

निदर्शनसार: (२१) 355

पविधुरटथालापविधायिन्युयमेये उपमानभूतखरधर्मारोपः। चम- त्कारान्तरं च पूर्ववदेव।। यथावा- सुमनोरमोहिमान्यामलमूर्तिरसौ शिवाम्युद- यहेतुः । भुजगाधिराजशैलो भजते हिमवन्मही- भृतरशैलीम् ॥६१९॥ सुमनोरमः अतिमनोज्ञ। रमयतीति रमः पचाद्यच्। सु- मनसां विवुधानां रम इति वा शेपाद्रिपक्षे। हिपवत्पक्षे तु शोभना मनोरमा तदभिधा जाया यस्य स तथोकः, पुरा मनोरमा नाम सुमेरोरभवत्सुता। गृहमेधी तयैवासीच्चक्रवर्ती धराभृताम्॥ इत्युक्तेः । अहिभिः मान्या अमला मूर्तिर्यस्य स तथोक्त: तस्य भुजगाधिराजरूपत्वाददिति भावः । यद्वा-हीति भिन्नं पदं प्रसिद्धचर्थकम्। मान्या अमला मूर्तिर्यस्य स तथोक्त: । पक्षे हिमान्या हिमसहत्या अमला विशदा सूर्तिर्यस्येति। शिवानां कल्याणानां शिवायाः उमायाश्च अभ्युदयस्य उपचयस्य ज- न्मनश्च हेतुः। अत्राप्युपमानधर्मस्योपमेये आरोपः पूर्ववदेव श्ेषोत्तम्भितत्वं च।।

यथावा- तरुणतमालवियत्तलमरकतजलनिधिवलाहि- तशिलासु। सुषमासितिमा भवतो वृषगिरिमा- णिक्य विहरति स्वैरम् ॥ ६२०॥

Page 367

356 अलंकारमणिहारे

हे वृषगिरिमाणिक्येति संबोधनम्। सुषमायाः असितिमा नैल्यम्॥ यथावा- इदमच्युतसुदतीमणिपदमिति वदति श्रुतिर्ज- लजमुचितम्। मृदुलस्मेरमनोजे पदलक्ष्मीर्यदिह दृश्यते तस्याः ॥ ६२१॥ अच्युतसुदतीमणे: श्रियः पदं चरणं स्थानं च। पदलक्ष्मीः चरणशोभा ।I यथावा- सिंहळखनिजनितमणीसंहतिषु दशास्यपुरनि- शाचर्यः। संहननरुचं तव रघुसिंह समीक्ष्याधु- नाऽपि मुह्यन्ति ॥ ६२२॥ अत्राद्येषु 'दिनविगमसमय' इत्यादावुदाहरणानां षट्के उपमेये उपमानधर्मारापः। तत्रापि पूर्वत्रिके शुद्धः, अन्तिमे त्रिके त्वामस्तुत्वा' इत्यादौ श्ेषसंकीर्णः। अनन्तरं 'तरुणतमाल' इत्यादौ उदाहरणत्रये उपमाने उपमेयधर्मारोपः। तत्राप्यन्तिमे 'सिंहळखनि' इतिपद्े निदर्शनया भ्रान्तिमदलंकारो व्यज्यत इति वैलक्षण्यं बोध्यम्। उभयत्राप्यन्यधर्मस्यान्यत्रासंभवेन त. त्सदशधर्माक्षेपादौपम्ये पर्यवसानं तु तुल्यमेव। इमां पदार्थवृ- त्तिनिदर्शनां ललितोपमेति व्यवाहार्षीजयदेवः॥ अलंकारसर्वस्वकारस्तु- त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः॥

Page 368

निदर्शनासर: (२१) 357

इति पद्यं वाक्यार्थनिदर्शनायामुदाजदार। आह च-यत्र तु प्रकृतवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्यैन तत्र सम्बन्धानुपपात्तमूला निदर्शनैव युक्तेति। तन्न, वाक्यार्थरूपक- स्य दत्तजलाअ्जलित्वापत्तेः । न चेष्टापत्तिः, वाक्यार्थनिदर्शनैव निर्वास्यतां स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्याप तुल्यत्वात्। युक्तं चैतत्, पदार्थरूपके मुख चन्द्र इत्यादौ कृ- सस्य श्रौतस्याभेदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात् 'इन्दुशोभां वहत्यास्यम्' इत्यादिपदार्थनिदर्शनायामभेदारोप- स्याभावात्तजीवातुत्वायोगाच्च। रूपके बिम्बनं नास्तीति तु शप- थमात्रं युक्तयभावात्, अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनाया- स्सावकाशत्वाच्च। यत्तु तेनैव लक्षणं निर्मितं 'सम्भवताऽस- म्भवता वा वस्तुसम्बन्धेन गम्यमानमौपम्यं निदर्शना, इति तदपि न, रूपकातिशयोक्तयादिष्वतिव्यापनात्। यदि तु-

त्वत्पादनखरत्नानि यो रक्षयति यावकैः। इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः॥ इति निर्मायते पद्य तदा निदर्शना युक्ता। न चास्मदुक्ता वाच्या निदर्शना, इय तु प्रतीयमानेति वाच्यम्। मुखं चन्द्र इवे- ति वाच्योपमा। मुखं चन्द्र इति प्रतीयमाना, न त्वलङ्कारा- न्तरमित्यस्थापि सुवचत्वात्। एवंचारोपाध्यवसानमार्गबाहर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् ।स च कत्राद्यभेदप्रतिपाद- नद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम्। परे तु 'त्वत्पाद- नखरतानाम्' इत्यत्र दृष्टान्तालङ्कारमाहुः। नदप्यसत्, बिम्ब- प्रतिबिम्बभावापन्नपदार्थघार्टतस्य निरपेक्षवाक्यार्थद्वयस्यैव दष्टा- न्तत्वात्। तस्मात् 'त्वत्पादनख' इत्यत्र वाक्यार्थरूपकमेव न

Page 369

358 अलंकारमणिहारे

निदर्शनोति स्थितमिति विमर्शिन्यनुरोधिनि रसगङ्गाधरे प्रत्य- पादि। एवमसम्भवद्वस्तुसंबन्धनिबन्धना वाक्यार्थपदार्थवृत्तिनि- दर्शना दर्शिता॥ सदर्थनिदर्शना- सदसद्वोधनं स्यान्चत्क्रिययाऽन्या निदर्शना॥ कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रति सतोऽ- सतो वार्ऽर्थस्य बोधनं यन्निबध्यते साऽन्या सम्भवद्वस्तुसम्ब- न्धनिबन्धना निदर्शनेत्यर्थः॥ यथा- सरसिजनयनो मान्यश्शिरसा सततं महत्वम- भिलषता। इति सुमहानहिशैलो विबोधयंस्तं शिखामणीकुरुते ॥६२३॥ महत्त्वं पूज्यत्वम्। सुमहान् अतिपूज्यः अतेपृथुलश्च। अत्र कारीषोऽग्निरध्यापयति भिक्षा वासयतीतिवदानुकूल्ये णिचः प्र योगादहिशैलस्य च भगवच्छिखामणीकरणरूपस्य महत्त्वाभि-

संभवान्मयेवान्येनापि भगवान् शिरसा मान्य इत्यौपम्यसन्भावाच्च संभवद्वस्तुसंबन्धमूलाऽपि निदर्शना संभवति।न च विबोधय- न्निति गम्योत्प्रेक्षैव स्यादिति वाच्यं, वस्तुतो विबोधनसंभवा- देव तस्या प्रसक्तयमावात्। एवमेव हि- चूडामणिपदे धत्ते यो देवं रविमागतम। सतां कार्याऽपतिथेयीति बोधयन्गृहमेधिनः॥ इत्यत्राङ्ुः। इद च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतष्यते' इत्युक्तेन पथा धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते

Page 370

निदर्शनासर: (२१) .359

संगच्छते। यदि तु यत्ार्थकात्कृञस्तृचि सविषयार्थकधातूत्तरक- र्तृप्रत्ययस्याश्रयत्वे निरूढलक्षणया यत्ाश्रयः कर्तृपदार्थः। स एव च कर्तृप्रत्ययानां मुख्यार्थः अचेतनस्तु भाक्त इति न्यायेन पर्यालोच्यते तदा बोधयन्नित्यत्र गस्योत्प्रेक्षा संभवत्येवेत्यप्याहुः। तद्वदत्राप्युत्प्रेक्षा संभवतीति ध्येयम्॥ यथावा- संसिद्धयैव श्रीमान्भवति महीभृच्छिरोभिपूज्य पदः। इति दर्शयितुं फणभृत्पतिगिरिशिखरे पदं न्यधाच्छौरिः ॥६२४॥ संसिद्धचा प्रकृत्यैव 'संसिद्धिप्रकृती इमे' इत्यमर। पदं चरणं स्थानं वा। अत्र भगवान् स्वकीयया फणिगिरिशिखरा- धिकरणकचरणाधानक्रियया परान्प्रति निसर्गत एव श्रीमान्म हीभृच्छिरोऽ्भिपूज्यपदो भवतीति सदर्थ बोधयन्निबद्ध इति भ- वतीयं सदर्थनिदर्शना। एवमुत्तरत्रापि। यथावा- वनमालामाश्रितमपि लक्ष्मीर्न जहाति पुरुष- मतिपुण्यम् । इति वृषशिखरिणि लक्ष्मीर्वनमा- लिन उरसि सततमपि वसति ॥६२५॥ अतिशयितं पुण्यं यस्य तं अतिमात्रसुकृतशालिनमित्यर्थः । भगवत्पक्षे अतिक्रान्तः पुण्यं अतिपुण्यः तं तथोक्तं 'न सुकृतं न दु. ष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते, तस्योदिति नाम स एष सर्वेभ्यः पाप्मक्य उदितः' इत्यादिश्रुतिभ्यः । पाप्मशब्दोत्र पुण्यपापरू- पोभयविधकर्मपर इति स्थापितमाकरेषु। शिष्ट स्पष्टम् ॥।

Page 371

360 अलंकाग्मणिहारे

आद्ये उदाहरणे विबोधयन्निति शत्रा द्वितीये दर्शथितु- मिति तुमुन्नन्तेन शब्देन बोधनम्। इह तुगम्यमानं तत्। आद्यं शुद्धं अन्ये तु श्लेषसंकीर्णे इति च विशेषः॥ असदर्थनिदर्शना यथा- सद्वोत्रप्रवरोऽपि प्रभुणा बहुवश्चको ह्यथ:क्रिय- ते। इति दर्शयते हरिणा फणिगिरिरधरीकृतो ब- हुकोष्टा ॥ ६२६॥ गोत्रं प्रवरश्च गोत्रप्रवरौ, सन्तौ गोत्रप्रवरौ यस्य स त- थोक्तोपि सत्कुलप्रसूतोपीत्यर्थः । पक्षे उत्तमशैलश्रेष्ठोऽपि । बहूनां वश्चकः अतिसंधाता। पक्षे बहवो वश्चकाः सृगालाः यस्मिस्त थोक्त: अधःक्रियते न्यक्क्रियते अधरीक्रियते च । अत्र फणि- गिरिर्भगवत्कर्तृकस्वकर्मकाधःकरणक्रियया स्वकीयया दष्टान्तभू- तया अन्योऽप्येवं सद्गोत्रप्रवरोऽपि बहुवञ्चकश्चेत्प्रभुणाऽधःक्रियत इत्यसदर्थ बोधयन्निबद्ध इति भवतीयमसदर्थनिदर्शना। यथावा- भगवन्मुखप्रसादासहनानां गतिरियं भवित्री- ति। संदर्शयन् जनानामिन्दुरुपैद्रौरवानुबन्धमलम्॥ इन्दोर्भगवन्मुखप्रसादासहनत्वं च तदौपम्ये पर्यवस्यतीति रहस्यम्। रौरवस्य तन्नाम्नो नरकस्य अनुबन्धं संबन्धं अलं उपैत्। वस्तुस्थितिस्तु रुरोः मृगस्यायं रौरवः। अण्। स चासावनुबन्धश्च तेन मलं कलङ्कमिति। अत्र रौरवानुबन्धं भजन्नन्दुरात्मवन्भगवन्मुखप्रसादा सहिष्णूनां रौरवंप्राप्तिर्भविष्यती- त्यसदर्थ बोधयनिबद्धः॥

Page 372

निदर्शनासरः (२२) 361

यथावा- वैश्वानरो मुरारे त्वत्तजस्स्पर्धिनां गति प्रथयन्। वैमुख्यभाकू स्ववर्णे श्वामध्य उपैदथान्त्यजनर- त्वम् ॥६२८॥

वैश्वानरः त्वत्तेजसा सह स्पर्धमानानां गतिः एवं भवि- त्रीति प्रथयन् सन् स्ववर्णे रवकीयवर्णे स्ववाचकाक्षरसमुदाये च । जात्यभिप्रायकमेकवचनम् । वैमुख्यं विमुखतां भजतीति तथोक्त: स्ववर्णाङ्भष्ट इति यावत् । पक्षे वै इत्याकारकं मुख्यं मुखे भवं वर्ण अक्षरं भजतीति तथोक्त इत्यर्थः । अत एव मध्ये एतस्मिन्नन्तरे श्वा शुनकस्सन् । पक्षे श्वा इति वर्णो मध्ये यस्य सः श्वामध्य इत्यर्थः । अथ अनन्तरं अन्त्यजन- रत्वं चण्डालतां उपैत् लब्धवान् 'श्वानयोनिशतं प्राप्य च- ण्डालेष्वभिजायते' इत्युक्तरीत्येति भावः । पक्षे अन्त्ये अन्सि- मभागे जाती नरौ नकाररेफौ यस्य स तथोक्तः तस्य भावं उपैत्। अत्र वैमुख्यादिभाग्वैश्वानरः भगवत्तेजस्स्पर्धिनां गति- रीदृशत्यिसदर्थ बोधयन्निबद्धः॥

यथावा- त्वद्गुचिहीनोहन्ताममतास्पदतां मसार एत्या- दौ। भूत्वाऽसारः प्रथयत्यनर्थकारणमहंममग्रा- हम् ॥ ६२१॥

मसार: इन्द्रनीलः 'मसार इन्द्रनीले स्यात्' इत्युक्तेः 'म- सारगल्वर्कमुखः' इति श्रीरामायणे प्रयोगश्च। त्वद्रुचिहीनः ALANKARA 46

Page 373

362 अलंकार मणिहारे

त्वयि रुच्या प्रीत्या हीनः। पक्षे त्वद्रुच्यपेक्षया हीनः न्यूनरुचि- रिति यावत्। आदौ प्रथमं अहन्ताममतयोः अहंकारममका- रयोः। अहंममेत्युभयमपि विभक्तिप्रतिरूपकमव्ययं, ताभ्यां तल। आस्पदतां आश्रयतां एत्य अत एव असार: निस्सार: भूत्वा अहंममग्राहं अहंममाभिमानं अनर्थकारणं प्रथयति।

अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः। अविद्यातरुसंभूतिबीजमेतद्विधा स्थितम्॥

बोधयतीत्यभिप्रायः। पक्षे-मसारशब्दः त्वद्गचिहीनः मसा-

अमं अतास्पदतामिति च्छेदः । आदौ प्रथमभागे अमं मकाररहित यथास्यात्तथां अतास्पदतां अतायाः अवर्णत्वस्य आस्पदं आश्रयः अवर्ण इत्यर्थः । तस्य भावं अत्वं एत्य म- कारलोपेन तत्रैवाकारतां प्राप्येत्यर्थः। 'न गिरा गिरेति ब्रूया- दैरं कृत्वोद्ायेत' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरा- पदं यथा गिरापदस्थान एव भवति, एवमिहापि मवर्ण प्रति- षिध्य विधीयमान: अवर्णोपि तदीय एव स्थाने भवतीति ध्ये- यम्। एवं सर्वत्रेदृशस्थलेषु द्रष्टव्यम् । अत एव असार: भूत्वा उक्तरीत्या मकारोत्सारणेन अकारन्यसनेन च असार इति निष्पन्न इत्यभिप्रायः । स्फुटमन्यत्। अत्र अहंताममतास्पदी- भूततया भगवत्यरुचिं भजमानोऽसारोभवन्मसार: अहंममग्राहं उक्तविधानर्थकारणमित्यसदर्थ प्रथयन्निबद्धः। शब्दार्थतादात््या

र्वेोदाहरणेऽपि द्रष्टव्यम्॥।

Page 374

व्यतिरेकालंकारसर: (२२) 363

यथावा- अप्युच्चैर्जन्मजुषो जडजन्त्वनुगा: पतन्त्यधोऽ- ध इति। मरुदात्मम्भरिपरिबृढगिरिगिखरान्निर्झराः प्रणिपतन्ति ॥६३०॥ अत्राधोऽधः पतन्तीति बाधयन्त इति वक्तव्ये बोधयन्त इत्यस्य गम्यमानत्वादप्रयोगः। ततश्च उच्चैः उन्नतप्रदेशे जन्म- जुषोपि जडजन्त्वनुगामितया स्वयंपतनक्रियाविशिष्टा निर्झरा: स्वकीयया पतनकक्रियया दष्ठान्तभूतया अन्येऽ्येवंविधा अधोऽधः पतन्तीत्यनिष्टपर्यवसाययिनमर्थ बोधयन्त एव पतन्तीत्येवंविधार्थ- निबन्धनादसदर्थनिदर्शना श्ेषोत्तम्भितेति ध्येयम् ॥ इत्यलंकारमणिहारे निदर्शनासर एकविंशः

अथ व्यतिरेकालंकारसरः

तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः ॥। अधुना भेदप्रधानालंकारवर्णनम्। तत्र उपमानोपमेययोर्य- थाकथंचिद्भेदवर्णनं व्यतिरेकः। तेन उपमेयोत्कर्षे उपमानोत्कर्षे उभयोत्कर्षापकर्षाप्रतीतावपि यत्किचिद्वैधर्म्यमात्रेऽप्ययं भवतीति ध्येयम्॥

Page 375

364 अलंकारमणिहारे

तत्रोपमयोत्कर्षे यथा- उरगाचलपतिमानसमुदधेर्मध्यमिव भाति ग- म्भीरम्। मन्दरसंक्षुभितमभूच्चरमं प्रथमं तुनो कदाचिदपि॥ ६३१ ॥ मन्दरेण संक्षुभितं, पक्षे-मन्दो रसः यस्य तत् क्षुभितं व्याकुलितं च। स्पष्टमन्यत्॥ यथावा- अञ्जनगिरिनायकतनुरसितिमरुचचिरा चकास्ति यमुनेव। तपनं दूरीकुरुते प्रथमा चरमा तु तप- नतनुजाता ॥ ६३२॥ तपनं नरकविशेषम्। तपनस्य भानो: तनुजाता तनया 'तपनो दुष्करेऽपि स्यान्ास्करे निरयान्तरे' इति मेदिनी॥ यथावा- किरणस्फुटारविन्दः प्रभावितानेमितस्फुरन्मू- र्तिः। रविरिवि हरिहेतीशस्स हि दुर्दर्शस्सुदर्शनोS यं तु ॥ ६३३॥ हरर्भंगवतः हेतीशः चक्रराजः रविरिव किरणैः स्फुटानि विकचानि अरविन्दानि यस्य स तथोक्तः। अन्यत्र-किरणैः स्फुटा: प्रव्यक्ताः ये अराः परितो नाभ्यपरितशलाकाः 'अरं शीघ्रे च चक्राङ़गे' इति मेदिनी। तान्विन्दतीति तथोक्तः। क र्मण्यण्। प्रभाविताने तेजोमण्डले। यद्वा प्रकृष्टा भाः येषां ते

Page 376

व्यतिरेकसंरः (२२) 365

प्रभास: अग्नयादयस्तजास्विनः तेषां विताने समुदये अमितं अ- परिच्छिन्नं यथायथा स्फुरन्ती मूर्तिर्यस्य स तथोक्तः । अ- न्यत्र प्रभाया: अिता रक्षकः प्राप्ता वा। अवतेः रक्षणार्थका- दवाप्त्यर्थकाद्वा ताच्छील्ये तन्। नेमितः नेम्या परितस्थितेन वलयेन स्फुरन्मूर्तिः 'चक्रं रथाङ्गं तस्यान्ते नेमिस्स्त्री' इत्यम- र! सः रविः दुर्दर्शः अयं हेतीशः सुदर्शनः शोभनं दर्शनं यस्य स तथोक्त। सुदर्शनशब्दः पुंस्त्वे्यनुशिष्टः । तथाच मेदिनी 'सुदर्शनो हरेश्चके मेरुजम्बूद्ुमे पुमान्' इति 'सुद- शनोस्त्रियां चक्रे' इति नामनिधानं च । माघश्च 'बन्धुरेष जगताँ सुदर्शनः' इति प्रायुङ्क॥

यथावा- निश्वसनविचलदलकं लसदलिकं नलिनमिव भवद्वदनम्। जननि परं त्वत्रान्त्यं कनति तराम- बजकरशुभालोकैः ॥ ६३४ ॥ निश्वसनेन विचलन्तः अलकाः चूर्णकुन्तलाः यस्य तत्त- थोक्तम्। पक्षे-नितरां श्वसनेन मरुता विचलन्तीति विचला नि, पचादयच्। दलानि पत्राणि यस्य तत्तथोक्तं 'शेषाद्विभाषा' इति कपू। लसत् अलिकं ललाटं यस्य तथोक्तं 'ललाटमलि- कं' इत्यमरः । पक्षे-लसन्तः अलयो भ्रमराः यस्मिस्तत्तथोक्तं, पूर्ववत्कप्। परंतु अन्त्यं भवद्वदनं अब्जस्य चन्द्रमसः कराणां किरणानां शुभैः आलोकैः प्रकाशैः, पक्षे-अब्जः शङ्ग: करे यस्य स तथोक्तः भगवानित्यर्थः। तस्य शुभैः कल्याणः आ- लोकैः कटाक्षैः कनतितराम्।

Page 377

366 अलंकारमणिहारे

यथावा- परकीयः पक्कणराइटणराङ्गवति तावकीनस्तु ह- रे। सिध्यति नृणामनयोरुत्कटसंयोगमात्रतो रूप- भिदा ॥६३५॥।

• हे हरे परकीयः त्वदितरोपासकः पक्कणराट् शबरनिवासभू- तकुग्राममात्रप्रकाशवान् भवति। पक्कणे राजत इति विग्रहे ककिप् 'पक्कणइशबरालयः' इत्यमरः। तावकीनः त्वामुपासीनस्तु पट्टण- राट् राजधान्या: राजा भवति 'राजि राट्' इत्यमरः। 'पट्टणं पुटभेदनम्' इति पठन्तो वाचस्पातेप्रभृतयः तवर्ग्यमध्यान्त्यप-

एव 'अट्टशूलाः कतिपये पट्टगेऽस्मिन्प्रतिष्ठिताः' इति प्रयोगश्च प्रासबद्धस्संगच्छते। रूढश्चायं शब्दो नात्र विप्रतिपत्तव्यम्। अनयोः पक्कणपट्टणराजोः उत्कटोऽतिमात्र: यस्संयोगस्संसर्ग: त- नमात्रेण तावतैव नृणां संसर्गिणां नराणां रूपाभेदा सिध्यति 'संसर्गजा दोषगुणा भवन्ति' इाते न्यायात् पक्कणराट्ससर्गेण महतामपि निहीनत्वं पट्टणराट्संसर्गेण निहीनानामपि महत्त्वं चे- त्येवंरूपभेदस्सिध्यतीति भावः । उत्कृष्टः कटयोर्वर्णयोः यस्संयोग: 'हलोऽनन्तरास्संयोग:, इत्युक्तलक्षणः औचित्यात् ककारस्य क कारेण टकारस्य टकारेणैव संयोगोऽत्र विवक्षितः । उत्कटसंयोग एव उत्कटसंयोगमात्रं तस्मात् ततः रूपभिदा सिध्यति । सं- युक्त कका रटकारा/भ्यामेव पक्कणराट्पटटणराट्छब्दयोर्वैलक्षण्यं नान्य- वर्णेष्विति भावः । अत्राद्ये उदाहरणचतुष्टये व्यतिरेकमूलभूता उपमा शाब्दी। अत्र तु उपासनादिप्रयुक्ता गम्येति भिदा॥।

Page 378

व्यतिरेकसर: (२२) 367

यथावा- करिभयकारी गिरिशः करिभयवारी फणाधर- गिरीशः । वर्णे धवळासितयोरनयोः कावा भिदा- डस्ति हरहर्योः ॥६३६॥

गिरिश: घूर्जटि: करिणः गजासुरस्य भयकारी, फणाध- रगिरीशस्तु करिभयवारी गजेन्द्रभयनिवारायेता। वर्णे वर्णवि- षये धवळासितयोः यथासंख्यं सितनलियोः अनयोः हरहर्योः का वा अभिदा अस्ति न काऽप्यभिदा, किंतु भेद एव स्पष्ट इत्यर्थः। पक्षे-वर्णे अक्षरे विषये कावाभिदा कावाशयमेव- भेद: करिभयकारिकरिभयवाररिशब्दयोः कावावर्णाभ्यामेव भेदो न वर्णान्तरेष्वित्यर्थः। किंच-हरहर्योः कावा काऽपि अभिदा अकारे- णैव भिदा हरशब्दे द्वावकारौ हरिशब्देत्वेक एव स इति भेद इत्यर्थः। अत्र भयकार्यपेक्षया भयवारिण उत्कर्षस्सर्वलोकसाक्षि कः, भयाभयप्रद्योरभयप्रदस्यैव श्रेयस्त्वात् । अत्र हरिशब्दस्य 'द्वंद्रे घि, अभ्यहितं पूर्वम्' इति पूर्वप्रयोगावश्यंभावेऽपि 'लक्ष- णहेत्वोः' इति सूत्रनिर्देशात्तस्य प्रकरणस्यानित्यत्वमनुसृतं वि- वक्षितचमत्कारानुरोधादिति ध्येयम् । इहापि पूर्वोदाहरणवदी- श्वरशब्दवाच्यत्वादिप्रयुक्तमौपम्यं गस्यम्॥

यथावा- सारसनाभिख्याढ्या दशनाळिस्तव मदम्ब रश नाळिश्र। मुख्याऽडद्या मध्यस्था परात्नयोर्भवति देवि दरमात्रभिदा ॥६३७॥

Page 379

368 अलंकारमणिहारे

हे देवि मदम्ब सा प्रसिद्धा तव दशनाळि: रसनायाः रसज्ञाया: अभिख्यया शोभया आढ्या परिपक्कदाडिमबीजराजि- वत्पाटलवर्णतया भासमानेत्यर्थः। रशनाळिः मेखलापङ्गिश्च। यद्वा रशना आळिस्सेतुरिव रशनाळि: 'सेतुराळौ स्त्रियां पुमान्' इत्यमरः । स्त्रियां विद्यमानायामाळौ सेतुः पुमानिति कोशार्थः। सारसनमित्यभिख्यया नाम्ना आढ्या 'सप्तकी रशना तथा। कीबे सारसनं च, अभिख्यानामशोभयोः' इति चामरः । अनयोर्मध्ये आद्या दशनाळि: मुख्या श्रेष्ठा मुखे भवा च, अपरा रशनाळि: मध्यस्था मध्यमा अवलग्नस्था च। अनयोः दरमात्री अल्पपरि- माणा भिदा भेद:। दरमात्री च सा भिदा चेति विग्रहः । मुख्य- त्वमध्यस्थत्वे एव भेदो नान्य इत्यर्थः । पक्षे दराभ्यां दकाररे- फाभ्यामेव भेद: दशनाळिरशनाळिशब्दयोस्तावतैव भेद: तुल्य- त्वादन्यवर्णानुपूर्व्या इति भावः। यथावा _- तव कृपया मुक्तेन्द्रावाविर्भूतस्वरूपसंपन्नौ। ए- कस्स्वरादुरस्तु स्वाराडास्फूर्तिमांस्तयोर्भेदः ॥ हे भगवन्निति प्रकरणाल्भ्यते। तव कृपया मुक्तः प्रकृति- बन्धविनिर्मुक्त: पुमान् इन्द्रश्शकश्च मुक्तेन्द्रौ आविर्भूतस्वरूपसं- पन्नौ। मुक्तपक्षे आविर्भूतं यत्स्वरूपं अपहतपाप्मत्वादिव्राह्मगुण- विशिष्टं स्वरूपं तेन संपन्नः, पूर्व कर्मारब्धशरिसंबन्धवत्तया तिरोहितापहृतपाप्मत्वादि: पश्चात् 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इत्युक्तरीत्याSडविर्भूतस्वस्वरूप इत्यर्थः । अत्र संपद्याविर्भावाधिकरणार्थोऽनुसंघेयः। इन्द्रपक्षे आविर्भूतः प्रादु- रभूतः प्रकाशमान इति यावत् । यः स्वरुः शतकोटिः 'शतको-

Page 380

व्यतिग्कसर: (२२) 369

टिस्स्वरुइशम्बः' इत्यमरः। तेन उपसंपन्नः इन्द्रस्य वज्रायुधला- भोऽपि भगवत्कृपायत्त एवेति भावः। एक: अनयोर्मध्ये प्रथम- निर्दिष्टो मुक्तः स्वराट् स्वेन राजत इति स्वराट् अकर्मवश्य इत्यर्थः। 'स स्वराट् भवति' इति श्रुतेः। सूत्रितं च 'अत एव चानन्याधिपतिः' इति। 'अपहतपाप्मा सत्यसङ्कल्पः' इति श्रव- णादेवाकर्मवश्य इति सूत्रार्थः । परः अनन्तरनिर्दिष्ट इन्द्रस्तु स्वाराट् स्वेन न राजत इति स्वाराट् कर्मपरतन्त्र इत्यर्थः । पक्षे-स्वः स्वर्गस्य राट् राजा। स्वरिति रेफान्तमव्ययम्।'रोरि' इति रेफलोपे 'ढरलोपे पूर्वस्य' इति दीर्घः 'स्वाराण्णमुचिसू- दनः' इत्यमरः। तयो: मुक्तमहेन्द्रयोः भेदः आस्फूर्तिमान् ईषत्सफु- रणवान्। आडीषदर्थे। अत्यल्प एव भेद इत्यर्थः । यद्वा -आ सम- न्तात्, आङभिविधौ। स्फूर्तिमान् अकर्मवश्यकर्मपरतन्त्रयोर्महानू भेद इति भावः। 'आङीषदर्थेऽभिव्यातौ' इत्यमरः। यद्ा-उक्त- रीत्या अनयोस्तौल्येऽपि ेदोपि कश्चित्संभवेद्वा न वेति मीमांस- मानस्स्मरन्नाह-आ: स्फूर्तिमानिति। तयोः मुक्तमहेन्द्रयोः भेदः एकस्स्वराट् अन्यस्स्वाराडिति वैलक्षण्यं स्फूर्तिमान् इदानी स्मृ- त इत्यर्थः । आ इति स्मरणार्थकं प्रगृह्यसंज्ञकमव्ययम्। 'आ प्रगृ- ह्यस्स्मृतौ' इत्यमरः। पक्षे-आस्फूर्तिमान् हस्वाकारदीरघाकाराभ्यां स्फुरणवान्।स्वराट्स्वाराट्छब्दयास्तावतैव भेददर्शनादिति भावः॥

यथावा- कमलाननो हरे त्वं कमलासन एव तव सुतो जज्ञे। नसभेदो गणनीयो लोकेशाविति युवां यतो विदितौ ॥६३९॥ ALANKARA 47

Page 381

370 अलंकारमणिहारे

हे हरे!त्वं कमलाननः कमलायाः श्रियः अननः प्राणयिता। अन्यते अनेनेत्यननः, कमलवद्नश्च। तव सुतः ब्रह्मा कमलासनः श्रीनिरासक: अस्यते अनेनेत्यसनः, कमलायाः असन इति वि- ग्रहः। पद्मोपविष्ट इति च।सः उक्तप्रकार: भेद: वैलक्षण्यं न गणनीयः उपेक्षणीयः अत्यल्पभेदस्याकिंचित्करत्वादितति भावः। यतो हेतोः युवांस च त्वं च युवां 'त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते' इत्यनुशासनात्परभूतयुष्मच्छ्द्ैकशेषः। लो- केशाविति विदितौ। लोकेशत्वेन विदितयोर्युवयो: कियानयं भेद इति भावः। प्रसिद्धयति हि चतुराननस्यापि लोकेशत्वं 'हिर- ण्यगर्भो लाकशः' इत्युक्तेः। पक्षे नसाभ्यां नसवर्णास्यां भेद्ः गण नीयः। कमलाननकमलासनयोस्तावतैव भेददर्शनादिति भावः। अत्र 'सारसनाभिख्याढ्या' इत्यायुवहरणत्रये सारसनेत्यादिश्े- षप्रतिभोन्मीलिततुल्ययोगितानुप्राणितो व्यतिरेक इति विशेषः ॥

यथावा- पत्रिण्यासीच्छेयनी फणिगिरिनाथ त्वदीयकी- रतिश्व। प्रथमा शशादनीति प्रथिताऽन्त्याSSतमौ- जसा शशिनमत्ति ॥ ६४०॥ हे फणिगिरिनाथ ! पत्रिणी तदाख्या काचिद्विहगी शयेनी श्येनाख्या आसीत् 'अथ शशादनः । पत्री इयेनः' इत्यमरः 'इयेने पत्रिशशादनौ' इत्यमरमाला। 'शयेनाख्यो विहगः पत्री पत्रिणौ शरपक्षिणी' इति शाश्वतश्च। पत्रिशब्दात् नान्तलक्षणो डनप्। जातिलक्षणो डीष वा। त्वदीयकीर्तिश्च इयेनी आसीत् उक्तोऽर्थः। पक्षे-श्वेतवर्णा अभूत् 'विशदश्येतपाण्डुराः' इत्य मरः। शयेतशब्दात् स्त्रीत्वविवक्षारयां 'वर्णादनुदात्तात्तोपधात्तो

Page 382

व्यतिरेकसरः (२१) 371

नः' इति डीप्संनियोगशिष्टस्तकारस्य नकारः। 'इयेनः पक्षि- णि पाण्डुरे' इति मेदिनीकोशात्तु पुंस्यपि नोपधश्शेचनशब्दो- स्तीति ज्ञायते। तस्मात् पिप्पल्यादेराकृतिगणत्वात् डीष् बोध्य: प्रथमा तयोरादा पत्रिणी शशमत्तीति शशादनी प्रथिता त- न्नाम्ना प्रसिद्धा। अन्त्या त्वदीयकीर्तिस्तु आत्मौजसा निजते- जसा शशिनं शशवन्तं, इन्दुमिति वास्तवार्थः। अत्ति कबळ- यति आच्छादयतीति यावत्॥ यथावा - काको रराद हृदयं पिकस्तु तव वचनदास्य- तो हृद्यः। द्विजयोरपि जननि तयोः काऽपि भि- दा व्यञ्जने स्वरेऽप्यस्ति ॥ ६४१॥ हे जननि! काक: वायसः ऐन्द्रिरिति भावः। तव हृदयं वक्षः रराद विलिलेख 'रद विलेखने' लिट्। यद्वा-काकः साधारणो वायस: हृदयं शृण्वतां चित्तं रराद स्वरकार्कश्येन उद्वेजयामासेति यावत्। पिकः कोकिलस्तु तव वचने दास्यतः दासभावात् 'त्वदास्यदास्येऽपि गतोऽधिकारितां न शारद:' इत्यादाविवास्य आपस्ये पर्यवसानम्। हृद्यः तव हृदयप्रियो भूत्। पक्षे-शृण्वतां स्वरमाघुर्येण मनोहरोऽभूदित्यर्थः । तयोः काकपिकयोः द्विजयोः विप्रयोस्सतोरपि पक्षिणोस्सतोऽरपीति वस्तुस्थितिः। काऽपि अनिर्वचनीया भिदा भेद: व्यज्ने चञ्च- पक्षादिचिह्ने स्वरे ध्वनौ च अस्ति 'व्यञ्जनं लाञ्छनशमश्रुनि- ष्ठानावयवेष्वपि' इत्यमरः । पक्षे-काकपिकशब्दयोः का पि इति वर्णयोविद्यमाना भिदा व्यञ्ञने ककारपकाररूपे हल्वर्णे स्वरे आकारकाररूपे अज्वर्णेऽपि अ्ति हलज्वर्णयोरुभयोरप्य-

Page 383

372 अलंकारमणिहारे

स्ति न त्वन्तिमककारयोः, तत्रोभयोर्यैकरूप्यदर्शनादिति भा- वः। उदाहरणद्वयेऽस्मिन् श्ेषप्रतिभोत्तम्भितदीप कानुप्राणितो व्यतिरेक इति विशेषः । स च 'उरगाचलपतिमानसम् ' इत्याद्येतदन्तेष्वेकादशसु पद्येषूपमेयोत्कर्षपर्यवसायीति व्येयम्।

उपमानोत्कर्षे यथा- आकाशगङ्गयाढ्यौ मेरु: फणिभूधरश्ष तत्रा- द्यः। विश्वंभरामधरयत्यन्यो विश्वंभराधरीभूतः॥

विश्वंभरां भुवं अधरयति अधस्तात्करोति। विश्वंभरायाः भुचः। पक्षे-विश्वंभरस्य भगवतः अधरीभूतः ॥ यथावा- त्वमिवानन्ताश्रयभागहमप्यम्भोद नौ भिदा त्वियती। ऊष्मागमभवतापं त्वं तिरयस्यहमिमं वहे मू्ढः ॥६४३॥ अनन्तस्य अन्तरिक्षस्य भगवतश्च। ऊष्मागमभवः ग्री- षमजन्यः तापः संज्वर; तम् । पक्षे-ऊष्मा तीक्ष्णः आगमः प्राप्तिरस्य स तथाभूतः भवस्संसारः तस्मात्तापं आध्यात्मि कादिकम् । अन्यत्सुगमम् ॥

यथावा - त्वदपाङ्गच्छीलाभो दिशांपतीनां विशांपतीनां च। तुल्यो दिवि स्थितौ पुनरस्ति भिदा फणिगि- रीन्द्रमणिदयिते॥६४४॥

Page 384

व्यतिरेकसरः (२१) 373

दिवि स्वर्गे स्थितौ पुनः अवस्थाने तु भिदा भेद: अ- स्ति। दिशापतीनां स्वर्गस्थितिर्ति, विशांपतीनां तु सा नास्तीति मिदा। पक्षे-दिशांपतीनां विशांपतीनामित्यत्र दि वि इति वर्णयोः स्थितावेव भिदा अन्यवर्णानां तौल्यात्। अन्य- द्वयक्तमेव । अस्मिन्नुदाहरणत्रयेऽपि उपमानोत्कर्षः । अन्यत्स- र्वे पूर्ववदेव॥

उभयोन्कर्षापकर्षाप्रतीतौ यथा- घनसारशितिश्श्रुतिशतविदिता मूर्तिस्तवेश कीर्तिश्र। एते स्तोतुमशक्ये मूकीभावो विशिष्य- तेऽत्र परम् ॥ ६४५॥ हे ईश! श्रीनिवास! तव मूर्तिः कीर्तिश्च घनसार: जल- दवरः 'सारो बले स्थिरांशे च न्याय्ये कीबं वरे त्रिषु' इ- त्यमरः । स इव शितिः नीला। पक्षे-घनसार: कर्पूरः 'अथ कर्पूरमस्त्रियां । घनसार:' इत्यमरः । स इव शितिः धवला 'शिती धवलमेचकौ' इत्यमरः । श्रुतिशते विदिता 'नीलतो यद्मध्यस्था, श्यामाच्छबलं प्रपद्ये शबलाच्छयामम्' इत्यादि- श्रुतिषु नीलतोयदश्यामलतया प्रथिता । कीर्तिपक्षे श्रुतिशतैः श्रोतृजनश्रोत्रसहस्त्रैः विदिता ज्ञाता । यद्वा-धवलतया प्रथि- तेत्यर्थः। यद्ा-मूर्तिरप्राकृतत्वादिभि: प्रथिता। कीर्तिस्तु-'तस्य नाम महद्यशः' इत्युक्तरीत्या महत्त्वेन प्रथितेत्यर्थः । एते मू- र्तिकीर्ती स्तोतुमशक्ये श्रुतिशतप्रथिते ते वर्णयितुं कस्य मि- तंपचवचसश्शक्तिरिति भावः । अत्र अनयोरमूर्तिकीत्योंः मूकी- भाव: मू की इत्याकारवर्णसत्तैव विशिष्यते तुल्यत्वाद्वर्णान्त-

Page 385

374 अलंकारमणिहारे

रस्यायमेव विशेषो नान्य इति भावः । धाच्यवाचकयोस्ता- दात्म्यसिह शरणम्। अन्यथा विवक्षितव्यतिरेकस्यार्थगतत्वा- ---- संभवात्। किंच अत्र एतत्स्तुतिविषये मूकीभावो विशिष्यते। अस्मादृशां मौनेनावस्थानमेव श्रेय इत्यर्थः । अत्र श्ेषानुप्रा- णित उत्कर्षापकर्षयोरविभावनादनुभयव्यतिरेकः। एवमुत्तरोदा- हरणेष्वपि द्रष्टव्यम्। यथावा- त्वं खल जगतीमाता जगतीत्राताSब्धिपुत्रि तव दयितः । सर्वैर्गुणैस्सदशयोर्मात्राभेदः परं भ- वति युवयोः ॥६४६॥

मात्रया लेशतः भेद: अनिर्वचनीयं यत्किंचिदेव वैलक्षण्यं न तु सर्वात्मनेति भावः 'स्त्रियां मात्रा त्रुटिः पुंसि लवले- शकणाणवः' इत्यमरः । पक्षे-मावर्णत्रावर्णाभ्यामेव भेद इत्यर्थः॥

यथावा- कामोSत्र बाधते मां यमः परत्रानयोस्स्वत- स्समयोः। भेदस्तु कायमात्रादाधत्स्व कृपां ततो मयि मुकुन्द ॥६४७॥ स्वतः स्वभावत एव समयोः बाधितृत्वेन तुल्ययोः। प- क्षे-मवर्णसहितयोः अनयोः कामयमयोः भेदस्तु कायमात्रात् शरीरत एव भेदो न तु गुणत इते भाव: । यद्वा-कामस्य कायो नास्ति यमस्य तु सोऽस्तीति तन्मात्राद्द्वेद इत्यर्थः। काकारयकाराभ्यामेव भेद इत्यप्यथाऽनुसंधेयः॥

Page 386

व्यतिरेकसरः (२१) 375

यथावा- पूर्व नरकानुगुणावाशुगचक्रेण लूनमूर्धानौ। भवता सदूषणौ यौ मुखमात्रभिदा तयोहिं मुर- खरयोः ॥६४८॥

नरकस्य नरकासुरस्य निरयस्य च अनुगुणौ अनुरूपौ एकत्र तन्मित्रत्वात् अपरत्र पापकारित्वादिति भावः। दूषणेन दोषेण दूषणनाम्ना रक्षसा च सह वर्तेते इति सदूषणौ। यौ पूर्व भवता आशुगेन चक्रेण सुदर्शनेन आशुगानां विशिखानां चक्रेण जालेन विलूनमूर्धानो अभूतामिति शेषः । तयोः मुर- खरयोः तन्नाम्नोदैत्यरक्षसोः मुखमात्रेण भिदा मुरस्य त्रिशीर्ष- त्वेन त्रिमुखता खरस्य एकशीर्षतया एकमुखतैवेतीयानेव भेद: उक्तगुणानां तौल्यात्। मुवर्णखवर्णाभ्यामेव भेद इत्यर्थान्तरं च।।

यथा वा- ये निन्दन्त्यखिलगुरुं गोविन्द त्वाममन्ददुरित- वशाः। भाषणमेषां भषणं केवलमाकारतोऽन- योर्भेदः ॥६४९॥

भाषणं उक्ति:, भाषतेर्ल्युद। भषणं श्वरवः 'भष भर्त्सने' 'इह भर्त्सनं श्वरवः' इत्युक्तेः । अस्माल्यट् । अनयोः भा- षणभषणयोः आकारमात्रतः मनुजशुनकमुखोद्गीर्णत्वरूपस्वरूप- मात्रे भेद: अन्यत्र अकारदीर्घाकाराज्यामेव भेद: । अन्य- वर्णानुपूर्वी तु तुल्यैव।।

Page 387

376 अलंकारमणिहार

यथा वा- परबलहरहरिकलितौ श्वेतो द्वीपो द्विपश्च खलु तुल्यौ। कियती भिदाऽनयोस्स्यात्सवर्णयोरेव स- र्वथाऽपि सतोः ॥६५० ॥ श्र्वेतो द्वीप: श्वेतो द्विपः ऐरावतश्च। परेषां द्विषां बलं सामर्थ्य सैन्यं वा तस्य हर: हर्ता हरिर्भगवान् तेन कलित इति श्वेतद्वीपपक्षे। ऐरावतपक्षे तु-पर: वैरी बलः बलासुरः तस्य हर: हरिरिन्द्रः तेन कलितः। तयोरेकशेषः । अत एव तु- ल्यौ। सर्वथाऽप सर्वप्रकारेणापि सवर्णयोः तुल्यवर्णयोरेव स- तोः द्वयोरपि श्वेतत्वादिति भावः । पक्षे समानानुपूर्वीकाक्ष- रयोरेव सतोः अनयोः श्वेतद्वीपश्वेतद्विपयोः भिदा कियती 1 स्यात् सर्वथा तुल्ययोरनयोरनिर्वचनीययतिकंचिद्वैलक्षण्यसन्भा- वोऽ्यकिंचित्कर इत्यर्थः। पक्षे कियती ईभिदा इति च्छेद:। ईभिदा दीर्घेकारहस्वेकाराभ्यां भेद: कियती अत्यल्पेत्यर्थः । यत्किचिद्वर्णमेदस्सन्नपि न गणनीय इति भाव:। यथा वा त्वद्वचनशिक्षितध्वनिमाधुर्यो द्वाविमौ समौ म- न्ये। अत्र सदापिशुभेदश्चित्ते क्रियतां मदम्ब पिकशुकयोः ॥६५१॥ हे मदम्ब! त्वद्वचनेन शिक्षित ध्वनिमाघुर्य ययोस्तौ त- थोकतौ द्वौ इमौ पिकशुकौ समौ मन्ये। अत्र अनयोः पिकशु- कयोः पिशुभेदः पि शु इति वर्णाभ्यामेव वैलक्षण्यं नान्यव- णयोरिति भावः। चित्ते क्रियतां अवधार्यताम्। शब्दगतोS

Page 388

व्यतिरेकालंकारसर: (२२) 377

व्यथं पिशुवर्णभेद: अर्थे शब्दतादात्म्याभिमानकृत इत्यवधेयम्। अर्थान्तरं च-हे शुभे! इति संवुद्धिः । अद इति छेदः । अत्र अनयो: पिकशुकयोः अदः परस्परसाहश्यं सदा चित्ते क्रिय- तां अनयोस्त्वद्वचनशिक्षितध्वनिमाघुर्यत्वेन तौल्यमस्तीति त्वया परिचिन्त्यतामिति॥

यथा वा- अमृतेप्सुविवुधसेव्यौ स वासुदेवश्र वासुकि- श्व्वापि। तुल्यौ वैलक्षण्यं त्वनयोर्ननु देवकीति मात्रैव ॥ ६५२॥ सः प्रसिद्धः वासुदेवश्च वासुकिश्चापि अमृतं ईप्सवो ये विवुधा: ब्रह्मविद: देवाश्च तैः सेव्यौ अत एव तुल्यौ। अन- योः वैलक्षण्यं तु देवकीति मात्रैव देवकीति प्रसिद्धया जन- न्यैव ननु। वासुदेवस्य देवकीति मात्रा प्रसिद्धा वासुकेस्तु तादृशी माता नेत्येतावदेव वैलक्षण्यम्। अमृतेप्सुविवुधसेव्यत्वं तु तुल्यमवेति भावः । पक्षे-वासुदेववासुकिशब्दयोः देवकी इति मात्रैव अल्पमेव वैलक्षण्यम्। आद्ये देवेति वर्णो अन्त्ये कीति वर्ण इत्येतावानेव भेद: आदिमवर्णद्वयस्योभयत्राप्यैकरू- प्यादिति भावः 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यल्पपर्यायेष्वमरः । मात्रा कर्णविभूषायां वित्तमाने परिच्छदे। अक्षरावयवे स्वल्पे कीबं कान्स्र्चेऽवधारणे।।

इति मेदिनी च॥ ALANKARA 48

Page 389

378 अलंकारमणिहारे

यथा वा- यस्यास सहजदेयं राज्यं यस्यापि सहजहेयं तत्। देहे भिदैव नान्या भिदाडनयोर्भवति राम- लक्ष्मणयोः ॥६५३॥

यस्य रामस्य राज्य सहजदेयं सहजे भ्रातरि भरते देयं आस बभूव। आसेति तिङन्तप्रतिरूपकमव्ययम् । 'इदमास चिह्नम्' इतिवत्। न त्वस्तेर्लिट तिङन्तत्वे 'अस्तेर्भूः' इति लिटि स्वादेशापत्तेः। यद्वा-'अस दोतौ' इत्यस्मालिडेव। दी- यत इति देयं कर्मणि 'अचो यत्' इत यत्। राज्यं सहज- देयं दिदीपे इत्यर्थः।

अहं हहि सीतां राज्यं च प्राणानिष्ठान्धनानि च। हेष्टा भ्रात्रे प्रदास्यामि भरतायाप्रचोदितः॥

इति तदुक्तेः । यद्ा-सहजेन भरतेन देयं दातुं योग्यमा- सीदित्यर्थः । 'तद्ददामि पुनस्तुस्यं यथा त्वमददा मम' इति भरतोक्तेः। यस्य लक्ष्मणस्यापि तत् राज्यं सहजे भ्रातरि स- हजेन भ्रात्रा वा हेय देयं आस। 'ओ हाक् त्यागे' 'अचो यत्' इति यत् 'त्यागो विहापितं दानम्' इत्यमरः । वस्तु- तस्तु सहजेन निसर्गेणैव हेयं त्याज्यमित्यर्थः। 'सहजस्तु नि- सर्गे ना सहोत्थे पुनरन्यवत्' इति मेदिनी। 'सर्वात्मना पर्यनु- नीयमानो यदा न सौमित्रिरुपैति योगम्' इत्यादिकमिहानुस- न्धेयम। कैङ्गयेकरतित्वात्तस्य राज्य परिहार्थमासीदिति भाव। अनयो: सहजदेयसहजहेयराज्ययोः रामलक्ष्मणयोः देह विग्रहे एव

Page 390

..

व्यतिरेकसरः (२२) 379

भिदा भेद: नान्या, स्वरूपे उक्तगुणे वा भेदो नास्तीत्यर्थः ।

ततः पझ्मपलाशाक्ष: कृत्वाऽडत्मानं चतुर्विधम्। पितरं रोचयामास तदा दशरथं नृपम्॥

इत्युक्तेः । अत्रात्मशब्दो देहवाची। पक्ष सहजदेयराज्यस हजहेयराज्यशब्दयोः दे हे इति वर्णाभ्यामेव भिदा न तु वर्णान्त- रैरित्यर्थः । एषु 'घनसारशितिः' इत्यादिषु नवसूदाहरणेषूत्कर्षा- पकर्षयोरविभावनादनुभयव्यतिरेको द्रष्टव्यः ॥

एवं ॐवलयानन्दानुरोधेन व्यतिरको दर्शितः। अथ का- व्यप्रकाशरसगङ्गाधराद्यनुरोधेन प्रदर्शयिष्यते.

प्राचीनरीत्या व्यतिरेक :-

उपमेयस्योपमानाद्यदा गुणविशेषतः। उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः।

उपमानादुपमेयस्य गुणविशेषवत्त्व्रेनोत्कर्षो व्यतिरेक: प्र- तीपादिवारणाय तृतीयान्तं वैधर्स्यपरम्। तत्र चोपमेयस्योप- मानतामात्रकृत एवोत्कर्षः न वैधर्म्यकृतः, साधर्म्यस्यैव प्रत्य- यात्। अधिकगुणत्वमात्रं उपमानगतापकर्षमात्रं वा न व्यति- रकस्वरूपं, तयोरुपमेयोत्कर्पाक्षपमन्तरेणासुन्दरत्वात्। अत एव न सादृश्याभावमात्रं तत्, उपमानादुपमेयस्यापकर्षेऽयि तत्सं- भवात् तस्य च हीनगुणस्थोपमेयताया वास्तवत्वरेनासुन्दरत्वात्। उपमेयोत्कर्षविशिष्ठत्वेन सादृश्याभावस्य विशेषितत्वे च तस्यो- पमेयोत्कर्षस्यैवालंकारतौचित्येनाधिकस्य निष्प्रयोजनत्वात्॥

Page 391

380 अलकारमणिहारे

यथा- अम्लानश्रीकमिद सदाऽपि वदनं सरोजसद- नायाः। म्लानश्रियोपमां क्वचिदैन्दवविम्बेन कि- मवलम्बेत ।६५४।। म्लाना न भवतीत्यम्लाना निर्मलेति वस्तुस्थितिः 'अ- म्लानस्त्वमले झण्टीभेदे' इति हेमचन्द्रः । तादृशी श्रीर्यस्य तत्तथोक्त 'शेषाद्विभाषा' इति कप्। क्वचित् म्लानश्रियेत्यन्वयः

पादानाश्यामेकतरानुपादाने च तावच्चतुर्धा। सोप्युपमायाः श्रौ-

चतुर्विशतिप्रकार इति प्राश्चः।। यथा- जल्पन्तु यथाकामं जल्पाका देव तावकः पा- णिः। कल्पद्गुरिव किमेषोऽनल्पां दत्ते श्रियं स तु स्वल्पाम् ॥६५५॥ तावक: पाणि: कल्पद्रुरिव किं? स इव न स्यादिति भाव: । कुत इत्यत आह-एष इति। एषः तावकः पाणिः अन्यत्सुगमम्। अत्रोभयोरुपादानं, उपमा च श्रौती। अत्रैव- 'कल्पद्गुम इव कथमयमल्पां दत्ते श्रियं न जात्वपि थः' इ- त्युत्तरार्धे रचिते 'कल्पद्रुरिव किमेष स्वल्पां श्रियमेव यस्सदा दत्ते' इति वा रचिते एकतरानुपादानम्। श्रौती चोपमा। 'कल्पद्गुरिवेति वचः कल्पेत वुधस्य कस्य तोषाय' इति कृते हतुसामान्यानुपादानं सा श्रौती च । हेतुद्वये हि यस्यैवानु-

Page 392

व्यतिरेकसरः (२२) 381

पादानं तस्याक्षेपेणावगतिः। उभयोर्यनुपादाने तथैव, न त्वनवगति: व्यतिरंकस्योत्कर्षापकर्षरूपत्वात्। तयोश्च प्रयोज- कज्ञानमन्तरेणानवबोधात्। एवम्- सततमनाविलभावां काले क्वचिदाविलत्वमु- पयान्ती। बरहिर्मुखस्त्रवन्ती सारडर्हति कि तव कृ- पां समां कर्तुम् ॥६५६।। अत्रोभयोपादानं, उपमा त्वार्थी। 'बाले सुधापयोधेः काले क्वचिदाविलत्वमुपयान्ती' इति पठिते पूर्वार्धे, अस्यैव 'काले क्वचिदप्यनाविलत्वजुषम् । वरहिर्मुसत्स्रवन्ती' इति द्वितीयतृती- यचरणयोश्च कल्पितथोरेकतरानुपादानं, आर्थी चोपमा। 'व्याले- शगिरीशहृदयकृतशाले' इति, 'बाले सुधापयोधेः' इत्यस्य द्वि- तीयचरणे निर्मिते उभयानुपादानं सा च।। निरवधिकानन्ददुघा द्विरसनगिरिनाथसंनिधौ वसतिः । अधरयति मितानन्दां विधिमुखलोकेषु निवसतिं नृणाम् ॥६५७॥ अत्र इवादेस्सादृश्यमात्रशक्तस्य सदशादेश्च तद्विशिष्टश- कस्य शब्दस्याभावाच्छुत्यर्थपथात्यासादिनी अधरीकरणेनाक्षिसै- वोपमा। अत्रैव 'निरवधिकसुकृतसुलभ' इत्याद्यचरणनिर्मितौ, 'अधरयति विधिनिधीश्वरविघुशखरलोकनिवसति नृणाम' इत्यु- त्तरार्धनिर्माणे वा एकतरानुपादानम्। आक्षिप्ता चोपमा। अस्यैव 'फणधरधराधराधिपमधुमथनपदाव्जसंनिधौ वसतिः' इति पू- र्वार्धे निर्मिते उभयानुपादानं, सा च।

Page 393

382 अलंकारमणिहारे

एवं निश्श्लेषव्यतिरेकदिक् प्रद्र्शिता। अथ सश्षेषव्यतिरे- कदिक्प्रदर्श्यते। यथा- ननु निश्श्रीकमलिन्या: करावमर्शेन विदधदा- मोदम्। भास्वानिव किं भगवानपह्तपाप्मा य- तो ह्येष: ॥६५८।। निश्श्रीकायाः अनाप्लुततया म्लानप्रभायाः 'शंषाद्विभाषा' इति कप्। मलिन्याः पुष्पवत्याः 'मलिनी पुष्पवत्यपि' इत्यमरः । पक्षे-निश्श्रियः अविकसिततया लक्ष्मीनिवासविधुरायाः कम- लिन्या: पझ्मिन्याः करावमर्शेन हस्तसंस्पर्शेन किरणसंपर्केण च आमोदं प्रमोदं सौरभं च विदधत् भारवान् भानुरि किं भग- वानू स्थात्। कुतो न स्यादित्यत आह-यत इति। यतः यस्मात्. एषः अपहृतपाप्मा 'न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निव- रतन्ते अपहृतपाप्मा ह्येष ब्रह्मलोकः' इति श्रुतेः। अत्रोभयोपादानं, श्रीती चोपमा। श्लेषस्तु स्पष्ट एव।। यथावा- कनकाचलमिव कथयतु कथमिव काकोदराच- लं लोकः । स सुरालय इति विदितः कलुषहरं तीर्थमेष वासयति ॥६५१॥ कलुषहरं तीर्थ पापविनाशनमिति प्रसिद्धं तीर्थम्। तञ्च शेषाद्रौ स्थितम्। अत्राप्युभयोपादान, श्रौलेवोपमा श्रेषश्च।। त्वं खलु न तटित्वानिव यन्न विहितसाघुघन- रसत्यागः। संकलिततपस्स्फूर्तिरवेकटनाथासि वि- मलहंसगतिः ॥६६०॥

Page 394

व्यतिरेकसरः (२२) 383

हे वेंकटनाथ! त्वं तटित्वानिव न खल। कुत इत्यत आह- यदिति। यस्मात् साधुषु सत्सु घनस्सान्द्र: यो रसः अनुराग: तस्य त्यागः सन विहितो येन स तथोक्तः । यदा साधुः श्राध्यः घनस्संपूर्ण: यो रसः आनन्दः तस्य त्यागो न विहितो येन निर- तिशयानन्द इत्यर्थः । पक्षे अिहितनिर्मलसलिलत्याग इत्यर्थः । संकलिता तपसः तपस्य ग्रीष्मस्य च स्फूर्तिर्येन स तथोक्तः। विमलानां अकलुषाणां विशदानां च। हंसानां ज्ञानिनां मराळानां च।गतिः गम्यत इति गतिः, कर्माण क्तिन्। प्राप्य इत्यर्थः। अत्रोपमानापकर्षकानुपादानं, श्रीती चोपमा श्ेषश्च।। आदावेव कुवर्ण प्राप्तं मध्येऽवमानितमथान्ते। लयमुपयातं कुवलयमवयन्ति कर्थं तवाम्ब नय- नमिव ॥६६१।। कुवलयं आदावेव प्रथममेव कुवर्ण कुत्सितं वर्ण कु इत्या- कारकमक्षरं च प्राप्तं, कर्तरि कः। मध्ये मध्यकाले अवमानितं अवज्ञातं त्वन्नयननेनेति भावः । पक्षे-मध्ये स्ववाचकशब्दमध्ये वमानितं वकारेण युक्कतमिति यावत्। अत एव अन्ते पर्यवसाने लयं क्वापि लीनतां उपयातं, कर्तरि कः 1 पक्षे-लयेति वर्णद्व- यमुपगतमित्यर्थः। अत्रोपमयोत्कर्षकानुपादानं, उपमा श्रौती श्ेषश्ञ।। आर्थे साम्ये यथा- वहदपि सुवर्णमन्तर्मुखे कुवर्ण सदा दधतकुसु- मम्। श्रीस्सुमुखि हरिण्यास्तव पश्चात्सममस्तु न तु पुरो वपुषः ॥६६२।।

Page 395

384 अलंकारमणिहारै

हे सुमुखि! हे श्रीः! अन्तः मध्ये प्रच्छन्नं यथा स्यात्तथेति वा। सुवर्ण कनकम्। पक्षे-अन्तः स्वताचकशब्दमध्ये सुबर्णे सु इत्याकारकमक्षरं वहदपि दधानमपि मुखे वक्रे आदौ च कु- वर्ण कुत्सितवर्णे कु इत्याकारकमक्षरं च, सदा दधत् कुसुमं प्रसूनं कुसुमपदं च । हरिण्याः सुवर्णप्रतिमाया, अनेनास्याः अप्रच्छन्नसर्वाङ्गसुवर्णत्वं दर्शितम्। हरितवर्णायाश्च 'हिरण्यव- र्णो हरिणीम्' इति श्रुतेः। 'हरिणी स्यान्मृगी हेमप्रतिमा ह- रिता च या' इत्यमरः । तव वपुषः पश्चात् परोक्षमिति या- वत्। समं सममन्यमिति यावत् अस्तु। पुरः समक्ष तु न, नसमं स्यादित्यर्थः । परोक्षं सममिति विकत्थतां नाम प्रत्यक्षं तु कथं सममिति ब्रयादिति भावः। यद्ा - वपुषः पश्चात् च- रमाङ्गे सममस्तु पुरः अग्रभागे तु न सममेवेत्यर्थः । अथवा- पश्चात् भाविनि काले यदाकदा वा समं अस्तु सदशं भवेच्चे- दवत्वित्यनादरे। पुरः प्रथममेव तु न समं स्यात्। कालत्र- येऽपि समं न भवत्येवेति हृदयम्। पक्षे-कु सु इति वर्णद्व- यादनन्तरं समं मकारसहितमित्यर्थः, कुसुमशब्दस्य तथैव द- शनात्। पुरतः आदौ तु न, मकारसहितं न भवतीत्यर्थः। उ- क्तशब्दस्यातथात्वादिति भावः। अत्रोभयोपादानं, उपमा चार्थी, सदशशब्देन तत्कथनात्। श्रेषश्च।।

यथावा- श्रीमन्कनकगिरीन्द्रो व्योम सरूपं वदन्तु तव मुग्धाः। व्योकारमाश्रितं तत्सुजातरूपस्य तव कर्थं सदशम् ॥ ६६३॥

Page 396

व्यतिरेकसरः (२२) 385

श्रीमन्! हे कनकगिरीन्दो! मुग्धाः अतत्वविद: व्योम गगनं तव समानं रूपं यस्य तत् सरूपं वदन्तु कथयन्तु तत्त्वविदस्तु न वदन्तीति भावः। कुत इत्यत आह-व्योकारमिति। तत् व्योम कर्तृ व्योकारं अयस्कारं आश्रितम्। कर्तरि क्तः। 'व्यो- कारो लोहकारकः' इत्यमरः। 'व्योकारोऽयस्करोऽयस्कारो लो- हकारस्स्यात्' इति रत्नकोशः । 'व्योकार कर्मारो लोहकारः' इति हेमचन्द्रश्च। व्यो करोतीति विग्रहः। कर्मण्यण् 'अङ्गा- रीयदारुसंग्रहैर्व्योकारैः' इति हर्षचीरत प्रयोगश्च। वास्तवा- र्थस्तु व्यो इति वर्णमाश्रितमिति। 'वर्णात्कारे' इति कारप्र- त्ययः सुजातरूपस्य शोभनसुवर्णस्य। पक्षे-रमणीयरूपस्येत्यर्थः । तव कथं सद्दशः, तुल्यो न भवत्येव। अयस्काराश्रितसुजा- तरूपयोस्साम्यायोगादिति भावः। अत्रापि पूर्ववदेव सर्वम्। उ- पमेयोत्कर्षकोपमानापकर्षकहेतुस्त्वत्रैकः, पूर्वत्र द्वाविति विशेषः।। यथावा- मुखवर्णमिताऽतिरुचा ऽग्रेसरका देवदेव पाव- नया। तन्वा तव किं तुल्या मिळिन्दजाभा कळि- न्दजाभा वा ॥६६४॥ हे देवदेव! अतिरुचा सर्वतोमुखदीप्तिमत्या तव तन्वा मुख- वर्णमिता मुखस्य वर्णो रूपं दीप्िर्वा मितोऽल्पो यस्यास्सा त- थोक्ता । वर्णो द्विजादिशुकादियशोगुणकथासु च। स्तुतौ नाना स्त्रियां भेदरूपाक्षरविलेपने।। इति मेदिनी। मिळिन्दाजाता मिळिन्दजा भ्रमरगतेत्यर्थ। आभा प्रभा। कर्मधारयः। सद्दशो किन सदृशीत्यर्थः, अतिदी- ALANKARA 19

Page 397

386 अलंकारमणिहारे

पतिमित दीप्िम तोस्साम्यायोगात्। पक्षे-मुखवर्णे आदिमाक्षरे मिता- मिवर्णत्वं यस्यास्सा तथोका। मिळिन्दजाभाशब्दस्य तथात्वात्। तथा पावनया तव तन्वैव अग्रे पुरः सरकः मद्पानं तत्पात्रं इक्षुमद्यं वा यस्यास्सा तथोक्ता अतिमात्रमपवित्रेति भावः। 'चषकोऽस्त्री पानपात्रं सरकोऽि' इत्यमरः। 'सरकाऽस्त्री शीघुपा- ने शीघुपात्रेक्षुमद्ययोः' इति मेदिनी च। अग्रे इत्येदन्तमव्ययम्। पक्षे-अग्रेसरः कः कवर्णो यस्यास्सेति तु तत्त्वम्। कळिन्दजा- भाशब्दस्य तथात्वात्। शब्दार्थतादात्म्यं न विस्मर्तव्यम्। कळि- न्दजाया: यमुनायाः आभा वा सदशी किं। न सदृशीत्यर्थः । पावनापावनयोस्तौल्यायोगात। अत्राप्युपमानापकर्षकोपमेयोत्क- र्षकयोरुभयोरुपादानं आर्थी चोपमा श्लेषश्चेति सर्व तुल्यम्। द्वे उपमाने यथासंख्यसंकीर्णे इति तु विशेषः॥

घननिर्घोषत्रस्तः किं सदशो मानसैकजन्य- यथावा-

स्स्यात्। हंसश्शङ्गेन हरे: पटुनिर्घोषेण पाश्चज- न्येन ॥६६५॥। घननिर्घोष: गंभीरध्वनिः यस्यकस्यचिदति भावः। तस्मात् त्रस्तः एकमेव जन्यं युद्धं 'युद्धमायोधनं जन्यं' इत्यमरः। त- दपि मानसं मनस्संकल्पितमेव न तु क्रियया निर्वर्तितं यस्य स तथोक्तः। मानससरोजन्मेति वास्तवार्थः। पटुनिर्घोषेण पाञ्चजन्येन पञ्च जन्यानि युद्धानि सोढान्यस्य पाश्चजन्यः। 'त- दस्य सोढम्' इत्यर्थे प्राग्दीव्यतीयोऽण। पश्चसंख्याकयुद्धजेतेति यावत्। पक्षे-पाश्चजन्यनाम्ना शङ्ेनेत्यर्थः। अत्राप्युभयोपादानं आर्थी चोपमा श्ेषश्च। अत्रोपमेयस्यापि श्विष्टत्वं प्राथमिको- दाहरणाद्विशेषः॥

Page 398

व्यातर कालकंरिसर: (३२) 387

यथावा- सन्तान उदारस्स्तान्नन्ता सस्स्यात्परं प्रतीपो- पगमे। किं तादृशेन कैटभहन्ता तुल्योस्तु कस्य- चिदनन्ताऽसौ ॥६६६॥

सन्तान: देवतरुविशेषः उदार: अनुपाधिकनिर्देशेन सर्व- महान् स्तात्। सर्वमहान् भवतु चेन्भ्वतादित्यनादरे । दातेति तु वस्तुस्थितिः । 'उदारो दातृमहतोः' इत्यमरः । परं परंतु प्रतीपानां प्रत्यर्थथिनां उपगमे समीपगमने सः सन्तानः अत्रा- नुस्वारस्य 'वा पदान्तस्य' इति वैकल्पिकः परसवर्णो बोध्यः अर्यान्तरे शब्दातुरूप्याय। नन्ता नमनकर्ता स्यात्। साध्व- सेन प्रणमेदित्यर्थः । तस्मादनुदार एवेति भावः। पक्षे-प्रती- पोपगमे वैपरीत्येन गतौ नन्तास: सन्तानशब्दो नन्तास इति स्थादित्यर्थः । प्राथमिकार्थे सस्स्यादित्यत्र द्वितीयसकारस्य 'अ- नचि च' इति वा द्वित्वम्। अन्यथा तच्छब्दप्रथमैकवचना न्तस्य स इत्यस्य 'एतत्तदोस्सुलोपः' इत्यादिना सुलोपेन से- कारस्य तस्य द्वित्वायोगात्। ताद्ृशेन प्रतीपनमनकर्त्रा कस्य- चिदपि अनन्ता अनमनकर्ता, नमेस्तृच। 'नन्तव्यः परमश्शेषी' इत्युक्तरीत्या सर्वलोकनन्तव्यस्य तस्य नन्तव्यान्तरासंभवादिति भावः । अत्र 'वृक्ष इव स्त्धः' इति श्रुत्यर्थोऽनुसन्धेयः। असौ कैटभहन्ता तुल्योऽस्तु किं तुल्यो न भवेदेवेत्यर्थः। अत्र नन्तृत्वमुपमानापकर्षहेतुः। अनन्तृत्वमुपमेयोत्कर्षहेतुश्चेति द्वय- मप्युपा्तम्। उपमा च तुल्यशब्द्रोपादानादार्थी। श्रेषस्तूप- मानापकर्षमात्रे इति विशेष:।

Page 399

388 अलंकारमणिहारे

तीव्रक्षार नदीन त्वं न समो माधवस्य सवि- शेषम्। अधरितशीरषोडवि भवन्न दीनरक्षाव्रती भ- वेर्यस्मात् ॥६५७॥

तीव्रक्षार! अतिमात्रकटो! निर्दयेति यावत्। अतिमात्रलवणेति वस्तुस्थितिः । 'तीव्रं कटूष्णात्यर्थेषु' इति, 'क्षारः काचे रसे गुडे । भस्मनि लवणे घूर्ते' इति च हेमचन्द्रः । हे अति- धूर्तेति वा अर्थः। वस्तुस्थितिस्तु पूर्ववदेव। हे नंदोन! स रित्पते! त्वं माधवस्य श्रीनिवासस्य भगवतः न समः । यद्- पि नदीिस्त्वं तथाऽपि तीव्रक्षारत्वान्न तुल्य इति भावः। तत्र हेत्वन्तरं चाह-यस्मात् त्वं सविशेषं सातिशयं यथा तथा अधरितशीर्ष: अधःकृतशिरा: भवन्नपि दीनानां रक्षैव व्रतं त- दस्यास्तीति दीनरक्षाव्रती न भवेः। निर्धणस्यातिघूर्तस्य वा दीनरक्षणैकता न संभवेदिति भावः। पक्षे-नदनिशब्द: विशे- ष्यते भेद्यते अनेनेति विशेष, करणे घञ् । विशेषणमित्यर्थः । सविशेषं तीव्रक्ञारोते विशेषणसाहितं यथा स्यात्तथा अधरित- शीर्षः प्रतिलोम्येन पठ्यमान इति यावत्। नदीनरक्षाव्रतीत्या- नुपूर्वीवान्भवतीत्यर्थः । अत्रोपमानापकर्षहेतुस्ति व्रिक्षारत्वं नदीनर- क्षाव्रतित्वं चोपात्तं, उपमेयोकर्षकत्वं तु निरवधिदयानिधित्वं सकृत्प्रपन्नजनतासरक्षणैकव्रतित्वं च नोपात्तम् । उपमा चार्थी श्रेषश्च । 3

यथावा- आदौ महितो विजितस्त्वदधरसुधया ततः

Page 400

व्यतिरेकसरः (२२) 389

करौ धून्वन्। मन्दो बभूव भार्गवि मकरन्दस्स तु समः कर्थं तस्या: ॥ ६५८॥ हे भार्गवि! मकरन्दः आदौ त्वदघरसुधासमभिव्याहारा- भावदशायां महितः स्वादुतया पूजितः। अनन्तरं त्वदधरसु धया विजितः अत एव करौ हस्तौ धून्वन् कम्पयन्नित्यवमा- नानुभावकथनम्। मन्दः स्वादिमभाग्यविधुरः 'सूढाल्पापटुनि- र्भाग्या मन्दाः' इत्यमरः । पक्षे-आदौ महितः मः मकारः हितः निहित: यस्य स तथोक्त। मकारविशिष्ट इत्यर्थः। ततः करौ ककाररेफौ धून्वन् विसृजन्निति यावत्। मकरन्दः मकरन्दशब्द: मन्दः बभूव उक्तशब्दरो मध्यस्थकरवर्णविसर्जने मन्द इति नि- ष्पद्यत इत्यर्थः। सुगममन्यत्। अत्रापि पूर्ववदुषमानापकर्षक धर्ममात्रोपादानं, आर्थी चोपमा श्ेषश्च॥ कल्याणकोटिनयनो वज्तसहस्रातिदीप्तिकरम्- रतिः। कथमिन्द्रेण समस्स्यात्प्रथमः पुरुषः पृदाकु- गिरिनाथः ॥ ६६९॥ कल्याणानि शुमानि कोटिसंख्याकानि नयनानि लोचना नि यस्य स तथोक्तः। पक्षे -कल्याणकोटीनां मङ्गळकोटीनां न- यनः प्रापकः नीयते अनेनेति नयनः लोकानामिति शेषः। वज्राणां दम्भोळीनां सहस्रैः अतिशयिता दीप्तिर्यस्य तथाभूतः करो हस्तो यस्यां सा तथोक्ता मूर्तिः यस्य सः। अन्यत्र वज्र- सहस्राणां हीरसहस्राणां दीततिं करोतीतति दीत्षिकरी मूर्तिर्यस्य स तथोक्तः। मूर्ते: श्यामलतया वञ्रसहस्त्राणमाभरणन्युप्तानां परभागलाभाद्दीप्प्िकरत्वमिति भाव। अत्रोपमेयोत्कर्षकधर्ममा- त्रोपादानं, आर्थी चोपमा श्लेषश्च।।

Page 401

390 अलंकारमणिहारे

आक्षिप्ते औपम्ये यथा- विषहरणेन पिनाकिनमुज्जीवयता त्वयाऽच्यु- तानन्त। पीत्वा विषं विमुश्चन जीवनमम्भोधरः पराभूतः ॥६७९॥ अच्युतानन्तेति संबुद्धिद्वयं विषहरणेन शिवोजीवयितृत्व- सामर्थ्याभिप्रायगर्भम्॥ अच्युतानन्तगोविन्दमन्तमानुष्टुभं परम्। ओं नमस्संपुटीकृत्य जपन्विषधरो हर: ॥ इति नामत्रयविधानोक्तेः । विषं पीत्वा जीवनं विमुश्चन्निति योजना। अत्र इवादेस्सदशादेश्च पदस्याभावात्पराभूतपद्रेनाक्षि सैवोपमा। विषहरणेनोजीवनमुपमेयोत्कर्षकं विषपानेन जीवन- विमोचनमुपमानापकर्षकं चेत्युभयमुपात्तं श्ेषश्च स्फुटः॥ यथावा- अभियातिविपद्ुग्नः फणिराट्क्कचिदात्तभोगसं- कोचः। धुतविपदा नित्योच्छ्रितमोगेन भुजेन स तव निर्धूतः ॥ ६७१ ॥ हे भगवत्निति प्रकरणाल्लभ्यते। फणिराट् वासुकिः 'वासु- किस्तु सर्पराज:' इत्यमरः । अभियातिनः विपक्षात् या विपत् विपत्ति: तया सुग्र: रुग्णः 'रुग्णभुझ्ने' इत्यमरः। अत एव क्व- चित् आत्तः स्वीकृतः भोगस्य सुखस्य संकोचो येन स तथो- क्ः। पक्षे-अभियातीति भिन्नं पदं तिङन्तम्। क्वचित् आत्त: भोगस्य फणस्य संकोचो येन स तथोक्तः। फणस्य सर्वदाऽ- व्यविस्तृतत्वादिति भावः । 'भोगर्सुखे स्त्रयादिभृतावहेश्च फण-

Page 402

व्यतिरेकसरः (२२) 391

काययोः' इत्यमरः । विपत् पद्भिर्विहीनः गूढपात्वात्तथोक्ति: 'पदाङ्गि:' इत्यमरः । भुग्न: कुटिलः। 'आविद्धं कुटिलं भुझ्नं वे- छ्वितं वक्रमित्यपि' इत्यमरः । अभियाति अभितो गच्छति प्रसि- द्वं हि तस्य जिंहगत्वम्। स्पष्टमन्यत् । अत्र विवन्भुप्नत्वक्कचिदा त्तभोगत्वे उपमानापकर्षके। धुतविपत्वनित्योच्छ्रितभोगत्वे उप- मेयोत्कर्षके च द्वेद्वे अभिहिते। श्लेषस्सभङ्गोऽ्भङ्गश्चेति विशेषः पूर्वस्मात्। आक्षिता उपमा तु तुल्यैव। यथावा- निरवधिवैभवभूम्ना धनाधिपोऽधःकृतस्त्वया त- दृपि। नाधिगतं पान्तममुं नाधिपमेवाखिलेश्वर प्राहुः॥६७२॥ हे अखिलेश्वर! निरवधिर्वैभवभूमा प्राभवातिशयो यस्य तेन तथोक्तेन त्वया। धनाधिपः वैश्रवणः केवलधनिक इति भावः। अधःकृतः तिरस्कृतः। धकारविघुरश्च कृतः । शब्दार्थयो- स्तादात्म्यम् ! तदपि तथाऽपि आधिं मनोव्यथां गतः प्राप्ता न भवतीति नाधिगतः तं तथोक्तं नशब्देन समासः । अत एव पान्तं धनं रक्षन्तमित्यर्थः। नाधिपमेव अनधिपमेव अधनाधिपमेव अनी- श्वरमेव वा आहुः । अवधीरितत्वेऽपि भगवता निरपत्रपतया अविगणय्य मनोव्यथामपि यथापुरमेव स्वधनाधिपताप्रख्याप- नाय रक्षन्तमपि धनं जनास्तन्ममाभिज्ञा अनधिपमेवाहुरिति भावः। पक्षे-नाधिगतं नाधी नाकारं धिकारं च गतं 'द्वितीया श्रित' इत्यादिना समासः । पान्तं पकार: अन्ते यस्य तं तथोक्तं अमुं धनाधिपं नाधिपमेवाहुः। धनाधिपशब्दस्य धकारलोपे नाधीति वर्णद्यसाहित्ये पकारान्तत्वे च नाधिप इत्येव निष्पत्तेः । अत्र

Page 403

392 अलंकारमणिहारे

अस्विलेश्वरत्वनिरवधिवैभवभूमत्वे उपमेयोत्कर्षहेतू धनाधिपत्व- नाधिपत्वे उपमानापकर्षहेतू पूर्ववदेवोपात्ते। अधःकृत इत्यनेनो. पमाक्षेपः श्रेषोपि पूर्ववदेव। उपमाक्षेपके अधःकृत इति शब्देऽपि श्ेष इति तु विशेषः।

यथावा- त्वद्रुक्तशेषभोक्तुर्विशुद्धजननस्य तावकीनस्य हरे। सकलाद इति प्रथितस्सख्यायार्हः किमग्नि- रिन्दुर्वाडपि॥६७३॥ हे हरे! त्वद्भुक्तशेषभोक्तुः त्वन्निवेदितशेषमेव भोक्तुः वि. शुद्धजननस्य पवित्रगोत्रस्य पवित्रजन्मन इति वा । तावकस्य त्वन्भक्तस्य सकलमत्तीति सकलादः। कर्मण्यण्। सर्वान्नीन इत्य- र्थः। वस्तुतस्तु 'यैः कृतस्सर्वभक्षोऽग्रिः' 'वह्नेस्सर्वभुजो यथा' इत्याधुक्तेस्सर्वभक्षक इत्यर्थः । अग्नि: वहनिः, सः कलादः रुक्म- कारक इत्यर्थः । 'कलादो रुक्मकारकः' इत्यमरः । वास्तवार्थ- स्तु-कलाः आदत्ते भानोस्सकाशादिि कलादः । यद्वा-'प्र- थमां पिबते वहिः' इत्यादुक्त्े: कृष्णपक्षे वह्नयादिभ्यः कलाः दत्त इति कलादः। इन्दुश्चन्द्रो वाऽपि सख्यायाहः किम्, नार्ह इत्य- रथेः । अत्र भगवन्निवेदितकभोजित्वस्य विशुद्धजननत्वस्य चोप- मेयोत्कर्षकस्य उपमाभूतयोरस्रीन्द्वोर्यथासङ्वयं सर्वान्नीनत्वस्वर्ण- कारत्वयोरपकर्षकयोश्च श्ेषेणोपादानमिति विशेषः । उपमाक्षे- पस्तु तुल्य एव ॥

यथाचा- योऽधश्शिराः पतन्नपि रसालपाक: कपाल-

Page 404

व्यतिरेकसर: (२२) 393

सारस्स्यात्। स तु सकलाधिकमधुरिम परिचरि- तुं वाऽम्ब तव वचो नेष्टे ॥ ६७४॥ हे अम्ब! रसालपाक: रसाल इक्षुविशेषः तत्पाक: गुड- इशर्करा वा। अधश्शिरा: पतन्नपि त्वद्वचनसाम्यलाभायेति भावः। कपालस्य शशिरोऽस्थ्र: घटशकलस्य वा सार इव सा- रो यस्य स तथोक्तः। तद्रसतुल्यरस एव स्यात्। अत्र सार- शब्दो विपरीतलक्षणया असारपर:। अनर्थकमनायुष्यं गोविषाणस्य भक्षणम्। दन्ता अपि प्रमृज्यन्ते रसश्चापि न लभ्यते ॥ इति श्रीभारतोक्तन्यायेन नीरस एव भवेदिति भावः । 'कपालः कुष्ठरुग्भेदे घटादिशकले गणे । शिरोऽस्थननि' इति, 'सारो मजास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्या- य्यवारिषु' इति च हेमः । पक्षे-रसालपाकशब्दो विलोमपाठे कपालसार इति निष्पद्यत इत्यर्थ। स्पष्टमन्यत्। अत्र कपाल- सारत्वमुपमानापकर्षहेतुः सकलाधिकमधुरिमत्वमुपमेयोत्कर्षहेतु- श्रोपात्तः। उपमाक्षेपश्च तुल्य एव । श्ेषस्तु विलोमपठितशब्दा- र्थतादात्म्यसंपादित इति विशेषः ॥

उत्पलभुजो निकामं सत्पथभाजोऽपि किल- मृगाङ्कस्य। मित्रं कथं नु भविता वक्त्रं भवतः पतत्रिवरकेतो ॥ ६७५ ॥ उत्पलभुजः उद्भूतामिषभोक्तुः। पक्षे उत्पलानि कुवलयानि भुनक्ति पालयतीति तथोक्तस्य। स्पष्टमन्यत् । अत्रोत्पलमोक्तृ- ALANKARA 50

Page 405

394 अलंकारमणिहारे

त्वमुपमानापकर्षकारणमात्रमुपात्तं, न तु सकललोकपावनत्वमुप- मेयोत्कर्षकारणम्। मित्रशब्दोपादानादाक्षिप्तैवोपमा। श्ेषस्तु व्यक्त एव।। यथावा- अप्युल्लसन्तमन्तः पादं कथितं जनेन वान्त- तया। स्वजयार्थिनमब्धिसुते पल्लवमिह तव कर- स्तिरस्कुरुते ॥ ६७६ ॥ हे अब्धिसुते! अन्तः उल्लसन्तं प्रकाशमानमपि न तु बहि- रिति भावः। पक्षे-अन्तः मध्ये उत्कृष्टं यथा स्यात्तथा लेन ल- कारसंयुक्तलकारेण सन्तं प्रशस्तम्। उच्छब्दतकारस्य 'तोर्लि' इति लकारादेशे लकारत्रयश्रवणेन यद्यपि भाव्यम्, तथाऽपि 'हलो यमां यमि लोपः' इति द्वितीयलकारस्य वैकल्पिकलो- पाश्रयणेन लकारद्वयस्यव श्रवणं, अर्थान्तरे द्विलकारकश- व्दैकरूप्यायेत्यवधेयम्। पादं पादार्थ पादसाद्ृश्यार्हमेवेति या- वत्। न तु करसादृश्यार्हमिति भावः। 'पादार्घाभ्यां च' इति तादर्थ्ये यत्। पक्षे-पकारः आद्यो यस्य तं तथोक्तम्। जनेन पामरेणापि 'जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति मेदिनी। वान्ततया उद्गीर्णतया कथितं सकललोकबहिष्कृतमि- ति यावत्। पक्षे-वकारान्ततया कथितमित्यर्थः। पल्लवं किस- लयं, पक्षे पल्लवशब्दम्। अन्यत्सुगमम्। अत्राप्युपमानापकर्ष- कमात्रोपादानम्। सा च श्लेषश्च। तस्य शब्दार्थतादात्म्यमू- लकत्वं विशेषः॥ पङ्कविलोपनपटुनो वेङ्कटगिरिराजनाथनयनस्य।

Page 406

व्यतिगेकसर: (२२) 395

किङ्गरतामपि कमलं संकलयितुमर्हतीति को ब्रूयात् ॥ ६७७॥ अत्रोपमेयोत्कर्षकं पङ्कविलोपनपटुत्वमेवोपातं, उपमानाप- कर्षकं पङ्किग्धत्वं तु नोपात्तम्। किंकरतामित्यादिना उपमा आ- ्षित्तैव। श्ेषश्च।। यथावा- अत्युज्जलतां विन्दसि या त्वं श्रीर्हरिकरावम- र्शैन। तस्यास्तेऽम्ब हरिद्रा छात्रत्वं छाययाऽपि किं भजताम् ॥ ६७८॥ हे अम्ब! श्रीः! या त्वं हरे: भानोः भगवतश्च कराणां कि- रणानां पाणीनां च अवमर्शेन अत्युज्ज्वलतां अतिदीप्तत्वं अ- तिमात्रशृङ्गाररसवत्वं च । विन्दसि 'उज्जवलस्तु विकासिनि। शृङ्गारे विशदे दीस्ते' इति हेमः । तस्याः ते हरिद्रा छाययाऽपपि वर्णेनापि न तु गुणान्तरेणेति भावः। लेशतोऽपीत्यपि गम्यते। छात्रत्वं अन्तेवासित्वं भजतां किं, न भजेदेवेत्यर्थः । यद्वा-छा- यया छात्रत्वमपि भजतां किमिति योजना। तदप भक्तुमनरह किमुत साम्यमिति भावः । अत्र हरिकरावमर्शहेतुकात्युज्ज्वलता- भाक्तमुपमेयोत्कर्षकमात्रमुपात्तं, न तु हरिकरावमर्शहेतुकविच्छा- यत्वमुपमानापकर्षकम्। सा च श्रेषश्च ।। यथावा- लोकालोकातीतं नाविख्यातं न चामृतविशो- षि। ब्रह्म ज्योतिस्तदिदं ब्रभ्नो निध्यातुमपि किमी- शीत ॥ ६७९॥

Page 407

396 अलंकागमणिहारे

ज्योतिः 'अथ यदतःपरो दिवो ज्योतिः' इति श्रुतनिरतिशय- दीप्तियुक्तं ब्रह्म परं ब्रह्म लोकालोकं चक्रवाळाचलं अतीतं 'द्वि- तीया श्रित' इत्यादिना समासः। सर्वव्यापीति भावः। यद्वा- लोकानां जनानां आलोकं दर्शनं अतीतं अचक्षुर्ग्राह्यमित्यर्थः । 'न चक्षुषा गृह्यते। न तत्र चक्षुर्गच्छति। यत्तदद्रेश्यं। अद्- श्येऽनात्म्ये' इत्यादिश्रुतेः। विख्यातं न भवतीत्यविख्यातं न, सकलजगत्कारणत्वादिना सर्ववेदान्तप्रथितमित्यर्थः । संभा- व्यविख्यात्यभावप्रतिषेधाय नजद्वयम्। अमृतं निश्श्रेयसं विशो- षयतीत्यमृतविशोषि च न न भवति 'अमृतस्यैष सेतुः' इति नि- इश्रेयसप्रापकत्वश्रवणात् 'एतदमृतम्' इत्यादिभिरमृतत्वश्रवण- च्च। पक्षे-अविरिति ख्यातं जलविशोषि च नेत्यर्थः 'अवय श्शैलमेषार्काः, अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इत्य- मरमेदिन्यौ। तदिदं ज्योतीरूपं ब्रह्म व्रभ्नो भानु: निध्यातुं द्र. घुमपि ईशीत किं नेशीतैवेति भावः । अत्र लोकालोकातीत- त्वादिका उपमेयोत्कर्षहेतव एवोपात्ताः, न तु लोकालोकान- तीतत्वाविख्यातत्वामृतविशोषित्वान्युपमानापकर्षहेतवः । श्रेषो- पमाक्षेपौ च स्पष्टौ॥

इद्मन्रावधेयं-इह श्वेषावलम्बिव्यतिरेकप्रभेदे उभयानुपा- दानेन उपमायाइश्रौतीत्वार्थीत्वाक्षितत्वप्रयुक्तभेदत्रितयं दुरुपपाद- म्। वैधर्म्यानुक्तौ किमवलम्बश्श्ेष उन्मिषेत् । न च यत्र द्वि-

स्वशब्दोपात्त एव श्ेषो व्यतिरेकोन्मेषकस्तत्रैव तदुदाहरणं सूपपादमिति वाच्यं, तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभ- वात्। एवंच चतुर्विशतिर्भेदा इति प्राचामुक्तिर्भूयिष्ठोदाहरण-

Page 408

व्यतिरेकसर: (२२) 397

दर्शिभिर्यथाकथंचिदुपपादनीया। किंचात्रोपमाभेदास्सर्व एव सम्भवन्तीत्यलं चतुर्विशतिभेदपरिगणनया ॥ नन्वस्यालंकारस्य वैधर्म्यमूलकस्योपमाप्रतिकूलत्वमेवोचितं न तूपमागर्भत्वम, तस्यास्साधर्म्यमूलकत्वात्। अस्थ च तन्नि- षेधरूपेणैव प्रवृत्तेः, न चेष्ापत्तिः, सिद्धान्तसङ्गप्रसङ्गादिति चेत्-सत्यम, यह्गुणपुरस्कारेण यस्य यत्सादृश्यनिषेध उत्कर्षप- र्यवसायी तस्य तद्रुणपुरस्कारेण तत्सादृश्याप्रतिष्ठानेऽपि गुणा- न्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात्। यदि च तत्सादृश्यसा- मान्यनिषेधो विवक्षितस्स्यात्तर्हि गुणविशेषपुरस्कारो निरर्थक स्स्यात्। कुलेनायमस्मादधिक इत्युक्ते रूपेण वयसा विद्यया धनेन च सम इति सार्वलौकिकप्रत्ययात्। एवंच प्रतीयमा- नमपि सादश्यं गुणान्तरकृतनिषेधोन्मिषितेनोत्कर्षेण निरस्तप्र- भमिव निगळितमिव च प्रभवति न चमत्कृतिमाधातुमिति प्राचामाशयः ॥

अत्रालंकारे क्वचिच्छाब्दसादृश्यनिषेधाक्षिप्ावुपमेयोत्कर्षोप- मानापकर्षौ। क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्ावुपमानापकर्ष-

भावौ चमत्कृतिजनकौ तथा। तत्राद्यः प्रकार: प्राचीनरीत्या सभेद उदाहृतः। द्वितीयतृतीयावपि प्रायशस्तावन्ेदावेव। तत्र दिख्ात्रमुदाहियते-

नित्यं प्रसन्नहृदयस्स त्वं श्रेयान्विधोर्मलिन- हृदयात्। योगिध्येयात्वत्तो न्यूनस्स विधो वियो- गितापकरः ॥६८० ॥

Page 409

398 अलंकारमणिहारे

हे विधो! हे विष्णो! इति संबुद्धिः । अत्र पूर्वारधे उपमे- योत्कर्षश्शाब्दः । उपमानापकर्षसादश्याभावावाक्षितौ। द्विती- यार्धे उपमानापकर्षश्शाब्दः। उपमयोत्कर्षसादृश्याभावावाक्षितौ। एवं क्वचित् द्वयोस्त्रयाणां वा शाब्दत्वं संभवद्पि नातीव रमणी- यमिति नोदाहियत।।

विपुलेडस्मिन् भुवनतले व्यदधाद्रत्नाकरान्वि- धिस्सप्त। अवधिर्द्शोरसंख्यांस्तवाम्ब रत्नाकरान् सृजति लोकान् ॥६८१।। दृशोरवधिः कटाक्ष इत्यर्थः । विधि: भुवनतले सप्तैव रत्नाकरान् सिन्धून् व्यदधात् असृजत् । हे अम्ब! तव कटा- क्षस्तु असंख्याकान लोकानेव रलनाकरान् सिन्धून् सृजति उ- त्तमवस्तूनामाधारान् सृजतीति तु तत्त्वम्। सर्वविधसमृद्धि - मतः कल्पयतीति भावः॥ यथावा- गम्भीरोऽनुन्नतिभागम्बुधिरगभीर उन्नतो मेरुः। गम्भीरोन्नत एक: कुम्भीनसकुम्भिनीभृदवतंसः ॥ भास्वान्भानुरशिशिरः प्रसन्न इन्दुस्सदाऽप्यनु- ष्ण इह। श्रीमान्सदा प्रसन्नस्स्वामी शिशिरोष्ण एक एव त्वम् ॥ ६८३॥ शिशिर: शीतल: दयार्द्रश्च। उष्णः तीक्ष्णः दक्षश्च 'उ- ष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी। यद्ा-

Page 410

व्यतिरेकसरः (१२) 399

'तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः' इत्युक्तरीत्या ना- तिमृदुर्नाततितीक्ष्णः । किंतु निग्रहानुग्रहशाल इत्यर्थः । अन्यथा 'तीक्ष्णादुद्विजते लोको मृदुहि परिभूयते' इति केवलतक्ष्ण्य- मार्दवयोर्दोषस्मरणादिति भावः । स्पष्टमन्यत्॥ यथावा- अन्तर्बहिरप्यमलस्त्वं चन्द्रो ऽन्तर्मलीमसइशौरे। त्वं ननु परमोदारस्स तुं लुब्धशिरोमणिस्सरो- जाक्ष ॥ ६८४॥ निर्गर्जनममलीमसवदनः प्रददासि सदमृतं स्वामिन्। गर्जन्मलीमसमुखः पर्जन्यो वितरती- ह विषमेव ॥६८५॥ परिपक्कबन्धसुमनःपरंपरां स्पर्शनेन पातयति। माधव एकोऽन्यस्तां प्रापयति स्वपदमेव ते- नोचैः ॥ ६८६॥ परिपक्का: परिणताः विनाशोन्मुखाश्च बन्धाः वृन्तानि भ- वबन्धाश्च यस्यास्तां तथोक्तां सुमनसां कुसुमानां विदुषां च परंपरां स्पर्शनेन मख्ता अभयादिवितरणेन च 'स्पर्शनो मा- रुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी। एको माधवः वसन्तः पातयि अधो नयाति। अन्यः माधवः भगवान् तां परिपक्कबन्धसुमनःपरंपरामित्यर्थः । तेन स्पर्शनेन उच्चैः उन्नतं पूज्यं च 'महत्युच्चैः' इत्यमरः। स्वपद्मेव स्वावस्थानतरुशा- खास्थानमेव। पक्षे-परमं पदमेव प्रापयति।

Page 411

400 अलंकारमणिहारे

जननि जनस्तावकजनसङ्गात्कुकुराघिनाथपद-

थपदम् ॥ ६८७॥

हे जननि! तावकजनसङ्गात् भागवतसंसर्गादित्यर्थः। जनः पामरोऽपीति भावः । कुकुराधिनाथस्य यदुकुलसार्वभौमस्य भगवतः पद चरणं अयते प्रपन्नो भवतीत्यर्थः। यद्वा-भगव- तर्स्थानं प्राप्नोतीत्यर्थ। अन्यः तावकजनातिरिक्तः जनः पामर: जनो लोके महर्लोकात्परलोकेऽपि पामरे' इात मेदिनी। अ- न्तरे अन्तरङ्गे अणकानां गर्ह्याणां संयोगात् । 'खेटगर्ह्याणका- स्समाः' इत्यमर । कुक्कुराण शुनां 'कुक्कुरो मृगदंशकः' इत्य- मरः। अधिनाथः श्वकरीडी कश्चजनः यो हि-'शवक्ीडी इ्येनजीवी चः' इत्यादिस्मृतिभिर्हव्यकव्यानर्हतया निन्दते। तस्य पदं स्थानं चरणं वा अश्नुते प्राप्नोति गर्हितस्थानसेवी भव- तीति भावः । पक्षे-अन्तरेणेति छेद: मध्ये इत्यर्थः । 'अ- थान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः' इत्यमरः । कसंयो- गात् कवर्णयोस्संयोगात् अज्भिरव्यवहिततयाऽवस्थानात्। कु- क्कुराधिनाथपदं अश्नुते। कुकुराधिनाथपदस्यैव उक्तरीत्या म- ध्यगतककारस्य ककारान्तरेण संयुक्तत्वे कुक्कुराधिनाथपदता- निष्पत्तरिति भावः। अत्र अन्तरेणेत्येतत्कुक्कुरशब्दमात्रकटाक्षेण, तथा सत्येव ककारसंयोगस्य मध्यस्थतासंभवात्। यद्वा-कुक्कु- राधिनाथपदशब्दाभिप्रायेणैवास्तु, तस्मिंश्च शब्दे आद्यन्तवर्ण- योर्मध्यवर्तितायाः रेफादीनामिव ककारस्यापि दुरपलपत्वादिति ध्येयम्॥

Page 412

व्यतिरेकसरः (२२) 401

इह क्रिद्विजराजः पुरुषोत्तममन्तरे दधद्विम - लः। मलिनोऽन्यो द्विजराजस्संततमप्यन्तरेणकं बिभ्रत् ॥ ६८८॥

कश्चित् द्विजराज: अग्रजन्मनामग्रगण्यः । अन्तरे मनसि पुरुषोत्तमं दधत् व्यायान्नति यावत्। विमलः निर्मलः। अन्यः द्विजराजः चन्द्रमाः अन्तरे अणकं गर्ह्य यं कंचित् बिभ्रत् ध्यायन् मलिनः। अन्यत्र अन्तः स्वबिम्बमध्ये एणकं कुरङ्गं बिभ्रदित्यर्थः। एषूदाहरणेषूपमानतद्विशेषणोपादानसामर्थ्यादाक्षिप् एव व्यतिरेक, न तुव्यङ्गय इति जात्वपि भ्रमितव्यम् । सत्य- नुपपत्तिलेशे व्यञ्ञनाया अनुन्मेपात्। इह च भगवद्विशेषणानां यथाकथंचित्प्रशंसार्थत्वेऽप्युपमानतद्विशेषणोपादास्य भगवदुत्क- रषमन्तरेणानुपपत्तेरजागरूकत्वात्। यत्र तूपमानतद्विशेषणोपादा- नमन्तरेणैवोपमेयविशेषणैस्सुन्दरो देवदत्त इत्यादाविव वस्तुस्थि- तिप्रकाशनेन चरितार्थैरप्यभिप्रायविशेषेण स्वविलक्षणविशेषण- विशिष्टधर्म्यन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनावि- षय: ॥

यथा - जगतां जीवनदाने शरदां इतकेऽपि नैषि नी- रसताम्। न च पाण्डिमानमयसे कामपि धत्से श्रियं सदोपचिताम् ॥६८९।।

शरदां शरदतूनां वत्सराणां च। अयं वारिदान्भगवतो व्यतिरेकध्वनिरर्थशक्तिमूलः॥ ALANKARA 51

Page 413

402 अलंकारमणिहारे

अत्र रसगङ्गाधरकृत्-"यत्तूपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेक:, वैलक्षण्यमात्रस्यैव व्यतिरेकत्वादित्यलंकारसर्वस्वका रोक्तमनुसरता कुवलयानन्दकृता न्यूनतायामुदाहतं- रक्तस्त्वं नवपल्लवैरहमपि श्राध्यैः प्रियाया गुणैः त्वामायान्ति शिलीमुखास्स्मरधनुर्मुक्तास्तथा मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥ अत्र सशोकत्वेनाशोकापेक्षयाऽपकर्षः पर्यवस्यतीति, तदपि

शोभाविशेषाय भवति, एवं प्रकृते उपमालंकाराद्रीकरणमात्र. मेव रसानुगुणतया रभणीयम, न व्यतिरेकः । अत एवा- समालंकारं प्राश्चो न बहुमन्वते। अन्यथा तवालंकारान्तरत. या तत्स्वीकारापत्तेः । यथा- भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुधैश्च दानवैः। न भविष्यति नास्ति नाभवनृप यस्ते भजते तुलापदम्।। इति। अत एव ध्वनिकृता सहृदयघुरन्धरेण 'सुकविस्तु रसा नुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात् इत्युक्त्वा 'रक्तस्त्वं' इते पद्यं सादृश्यदूरीकरणे उदाजहे'। अत एव च मस्मटभट्टैः 'आधिक्यमात्रं व्यतिरेकः' इत्युक्तम्, निर- स्तं च न्यूनत्वं व्यतिरेके। तस्मादुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकार: नापकर्ष इति स्थितम्। यदि तु न्यूनत्व- मपि व्यतिरेक इत्याग्रहः तदेदमुदाहार्यम्- जगत्त्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन्। कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः।।

Page 414

व्यतिरेकसरः (२२) 403

अत्र धर्मद्येनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीति- कृतविच्छित्तिविशेषादलंकारता। एवंच लक्षणे अपकर्षोऽप्येवं- जातीयो देयः॥ यदपि कुवलयानन्दकृताऽनुभवपर्यवसायिनो व्यतिरेकस्यो- दाहरणमुक्तम्- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ॥ इति, तन्निपुणं न नीरीक्षितमायुष्मता। तथाहि-किमत्रोपमा- नादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी? आहोस्वित्सर्वस्व- कारायुक्तदिशा अपकर्षरूप :? नाद्यः-उत्कर्षप्रयोजकधर्मस्यात्रा- नुपस्थितेः न च श्ेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वा- च्यम्, तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात्। अर्थान्तरेणा- कृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च। अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । सुधांशुबिम्बमिव नगर सकलकलमित्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वै- धर्म्यरूपत्वात्। न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भर: प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम्। यद्य- त्रोपमाविघटनरूपो व्यतिरेको निर्भरसहस्स्यात् आकारशब्दश्े- षोऽनर्थकस्स्यात्। कृपणस्य कृपाणस्य च भेदो दीर्घाक्षरादे- वेत्येव ब्रयात्। न ह्यत्र व्यतिरेके श्रेषोऽनुकूलः । प्रत्युत प्र- तिकूल एव। उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षर- रूपवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमे- ययोरपि सत्त्वात । एवं हि कवेराशय :- 'कृपणकृपाणयो- स्तुल्यतव, दृढतरेत्यादिविशेषणसाम्यात्। अक्षरभेदस्त्वाकार- भेदत्वादविरुद्ध एव' इति सहदयैराकलनीयम् । न द्वितीय :- तस्योक्तिमात्रेणाप्यसंगतेः, अहृद्यत्वाच्च। तस्मादत्र गम्योपमैव

Page 415

404 अलंकारमणिहारे

सुप्रतिष्ठितेत्यास्तां तावत्कूटकार्षापगोद्वाटनम्। प्रकृतमनुसरामः" इत्यभाणीत् । एवंचैतन्मते प्रागस्मत्प्रदर्शितान्यनुभयव्यतिरेको- दाहरणानि यथायोगमनेनैव पथा नेयानि। न्यूनव्यतिरेकोदाहरणं त्वेवम्- अखिलजगच्छेषित्वं तस्य तवैकोनसर्वशेषि- त्वम्। आरोहसि तेन तुलां जगत्सवित्रा जगत्स- वित्रि कथम् ॥ ६९०॥ इदं तु चिन्तनीयम्-उपमेयाधिक्यपर्यवसायी तन्नचूनत्व- पर्यवसायी अनुभयपर्यवसायी चेति व्यतिरेकस्त्रेधा विभक्तः कुवलयानन्दे। तत्र अनुभवपर्यवसायीति पाठस्तु लेखकस्ख- लनकृतः । अनुभयताद्रू ्यरूपकादिवदनुभयपर्यवसायित्वेनैव व्य- तिरेकतृतीयप्रभेदस्य कर्तुमुचितत्वात्। उदाहरणेऽपि 'दृढतर निबद्धमुष्टेः' इत्यत्र उपमेयाधिक्यतन्नयूनत्वोभयपर्यवसानराहित्य- स्यैव स्परष्ट दर्शनात्। रसगङ्गाघरकारस्तु अनुभवपर्यवसायीत्येव कुवलयानन्दपाठं मन्वानः व्यतिरेकस्योत्कर्षापकर्षान्यतररूपता- मध्यवस्यन् कुवलयानन्दप्रदर्शितं तृतीयप्रभेदोदाहरणमदूदुषत्। उपदर्शिते अनुभयपर्यवसायीति पाठे तु सर्वमिदं तदुक्तदूषण- मलग्नकमेव। किंच-व्यतिरेकस्योत्कर्षापकर्षान्यतररूपतया कु- वलयानन्दकृद्विवक्षितत्वे तस्य उपमेयोत्कर्षपर्यवसायित्वेन तन्नचू नत्वपर्यवसायित्वेन च विभजनमेव नोपपद्येत। उत्कर्षरूपस्य व्यतिरेकस्य उत्कर्षपर्यवसायित्ववाचोयुक्तेरयुक्तत्वात्। तस्मा- द्वैधर्म्यमात्रमेव व्यातरेकः । स च उपमेयोत्कर्षपर्यवसायी त- न्नचूनत्वपर्यवसायी उपमेयोत्कर्षतन्नचूनत्वोभयपर्यवसानरहितश्चेति त्रिविध इत्येव हि कुवलयानन्दकृदाशयः। एतत्सर्वमभिप्रेत्यैव

Page 416

व्यतिरेकसरः (६२) 405

चन्द्रिकायां वैद्यनाथ :- 'किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमा- नयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम्। वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिञ्च तदपकर्षे पर्यवसन्नम्। क्वाचत्तु तदन्यतरपर्यवसानविरहेऽपि स्वचैचित्रचमात्रविश्ान्तमिति ् बो ध्यम्। पतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरम- णीयमिव भासमानं प्रत्युक्तमिति वेदितव्यम्। अत्यन्तासारत- या तु नानुवादमर्हतीत्युपरम्यते' इत्यवादीत्॥ अलंकारान्तरोत्तम्भितोऽप्ययं संभवति। यथा- वृक्षं परिष्वजते सयुजौ सुहदौ समं सुपर्णो दौ। एकस्स्वाद्वत्यनयोः पिप्पलमन्योऽभिचाक- शीत्यनदन् ॥६११।। इदं पद्यं- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्थः पिप्पलं स्वाद्वत्यनश्षन्नन्यो अभिचाकशीति॥

इति श्रुत्यर्थानुवादि। 'युज्यत इति युक्। युक्छब्दो गुणपर: समानगुणकस्सयुगिति व्यासायेविवृतत्वात्। सयुजौ समानगुणकौ अपहृतपाप्मत्वादिगुणैः परस्परसमानौ । सखायौ सहचरौ द्वौ सुपर्णौ पक्षिसदशी। समानं एकं वृक्षं वृक्षव- च्छेदनारहे शरीरं समाशितावित्यर्थः। तयोर्मध्ये अन्यतरो जीवः स्वादु परिपक्क पिप्पलं कर्मफलं सुङ्के। अन्यस्तु परमात्मा अभुसान एव प्रकाशते' इति रङ्गरामानुजमुनयः। अयं रूप- कातिशयोक्त्युत्तम्भितः। एवं यथायोगमलंकारान्तरसंकीर्णता द्रष्टव्या।।

Page 417

406 अलंकारमणिहारे

अस्य चालंकारस्य सादृश्यगर्भत्वात्सादृश्यस्य च त्रिवि- धधर्मोन्मीलितत्वादत्रापि तत्प्रकारानुगमोऽनुसन्धेयः॥ तत्रानुगामिनि धर्मे यथा- आशंसनीयमखिलैरास्वाद्यं चामृतं जडध्युदि- तम्। अजडध्युदिंतं ललितं चरितं भवतो हरे पराकुरुते ॥६१२।। जडधीभिः मन्दमतिभिः उदितं उक्तम्। जलधावुत्पन्नमिति वस्तुस्थितिः । अजडधीभिः सूक्ष्ममतिभिः उदितं उक्तं जल- धावनुन्भूतं च । अत्राशंसनीयत्वास्वाद्यत्वलललितत्वा न्य नु गामि नो धर्माः। श्रलेषोपात्ते जडध्यजडध्युदितत्वे अपकर्षोत्कर्षहेतू॥ बिम्बप्रतिबिम्बभावापन्ने यथा- परिचितमुक्ताहार: कण्ठः कण्ठीरवाद्रिपतिद- यिते। परिगतपयःपयोनिधितरङ्गमपहसति कम्बु- मम्ब तव ॥६९३।। अत्र मुक्ताहदारदुग्धोदतरङ्गयोरबिम्बप्रतिबिम्बभावः परिचि- तपरिगतयोश्शुद्धसामान्यता ।। एवं सादश्यालीढो व्यतिरेको निरूपितः। अभेदालीढोऽ- व्येष संभवति। यथा- निर्धूतपलाशकुलो नाथ विशालेक्षणो विधुत- कलिकः। भजसि सदानन्दनतां मन्दारस्त्वमिति कथमिव वदेम ॥६९४।।

Page 418

सहोक्तिसर: (२२) 407

निर्धूतं पलाशानां पत्राणां क्रव्यादानां च कुलं येन स तथोक्तः। शालानां शाखानां ईक्षणं दर्शनं तद्विगतं यस्य स विशालेक्षणः । शाखावलोकनमण्यस्य नास्ति किमुत तत्परि- ष्कृतत्वमिति भावः । 'शाखाशाले' इत्यमरः । अन्यत्र विपु- लनयनः । विधुताः कलिकाः कोरकाः येन । पक्षे विघुतः कलियेन स तथोक्त, परास्तकलिदोष इति यावत्। 'कलि- मलसंहतिकालनोऽखिलेशः' इत्यादुक्तेः । 'शेषाद्विभाषा' इति कप! सदा अनन्दनतां नन्दनवनसंबन्धवैघुर्य, पक्षे आनन्द- यतत्यानन्दनः सतामानन्दनः सदानन्दनः तस्य भावं भजसि। एवं सति कथं त्वां मन्दार इति वदेम।।

इत्यलंकारमणिहारे व्यतिरेकसरो द्वाविंशः.

अथ सहोक्त्यलंकारसर :- गुणप्रधानताभाजोरर्थयोरुभयोर्यदा। वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः ॥ गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थसंबन्धस्सहोकतिः। इयमपि भेदप्राधान्य एव । गुणप्रधानभावनिबन्धनमत्र भेद- प्राधान्यम्। सहार्थप्रयुक्तश्च गुणप्रधानभावः 'सहयुक्तेऽप्रधाने' इत्यनुशासनात् । उपमानोपमेयत्वं चात्र वैवक्षिकम । द्योर- पि प्राकरणिकत्वादप्राकरणिकत्वाद्वा। सहार्थबलाद्धि तयोस्तु- ल्यकक्ष्यत्वं, अतुल्यकक्ष्ययोरुपमानोपमेयभावायोगात् । तत्र च तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम्। अर्थात्परिशिष्टस्यो- पमेयत्वम्। गुणप्रधानभावोऽप्यत्र शाब्द एव, न त्वार्थः व- स्तुतो विपर्ययस्यापि संभवात्। साहित्यं चात्र कर्त्रादिनाना-

Page 419

408 अलंकारमणिहारै

भेदमिति व्येयम्। हृद्यत्वं चालंकारसामान्यलक्षणागतं सर्वालंकार- साधारणमेव। तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्ेष भित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चा- तिशयोक्त्याऽनुप्राणने भवतीति वदन्ति॥ यांसत्वं पश्यसि तेषां विकसन्ति समं मुखानि च सुखानि। अरयो निश्याश्र समं सरयं दूरीभ- वन्ति मुरवैरिन् ।६९५।। इति तुल्ययोगितादावतिप्रसङ्गचारणायावच्छिन्नयोरित्यन्तम्। तत्र हि द्वयोरपि प्रधानयोरेव सहार्थसंबन्धः । इह तु सह-

स्सहार्थसंबन्ध इति नातिप्रसङ्ग: ।।

यथा- दशवदनादिम कदनैविशकलितं सकललोकम- विविषता। भूमेर्भरिण समं भवता भगवन् ज- वादवातारि ॥६१६।। अविविषता अवितुमिच्छता। अत्र भगवदवतारकार्यस्य भूभारावतरणस्य पौर्वापर्यविपर्ययानुप्राणितस्सहभावः ॥ यथावा -- पावनतावकपदयुगसेवनसंस्फीतकौतुका लो- काः । सिंहाचलेन साकं सिंहासनमच्युताधिरो- हन्ति ॥६९७॥

Page 420

सहोक्तिसरः (२३) 409

पूर्व कर्तुस्सहोक्तिः । इह तु कर्मणः । सिंहाचलश्शेषा- दिः। अत्रापि सिंहाचलारोहणकार्यस्य सिंहासनारोहणस्य पौ- र्वापर्यविपर्ययेणानुप्राणितस्सहभावः । कारणं हि नियतपूर्वका- लवृत्ति कार्य त्वपरकालवृत्ति तयोस्तुल्यकालत्वेनोक्तिरपि त- द्विपर्यय एवेत्यवधेयम्॥। त्वत्पाश्चजन्यनिनदे ननु देव विसृत्वरे यथाऽ- भीष्टम्। अमरीवदनाव्जैस्सममसुरीवदनाम्बुजानि विदळन्ति ॥६९८॥ अमरीवदनाब्जानि विदळन्ति विकसन्ति। असुरीवदना- म्बुजानि तु विदळन्ति विगतानि दळानि येषां तानीवाचरन्ति निर्दळकमलानीव शोभाविकलानीति भावः। अत्र विदळन्तीति

कृतिनां तव चरितांनि श्रुतिसृतिजङ्घालतां प्र- यथावा-

पन्नानि। दुरितैस्सह हृदयान्यपि परितश्श्रीनाथ धावयन्ति तराम् ॥६९९॥ अत्र द्रावणशोधनयोर्धावयन्तीति शब्दगतश्लेषेणाभेदाध्यव सितिः । पूर्वा कर्तृसहोक्तिः । इयं तु कर्मसहोक्ति:॥ यथावा- आर्तेभरवश्रवणे नक्रेण समं त्वयोद्दृतं चक्रम्। तेनैव सह स मुक्तस्त्वत्तः प्रकतौ हि न च भिदा- डस्त्यनयोः ॥७०0॥ ALANKARA 52

Page 421

410 अलंकारमणिहारे

उद्धृतं उत्क्षिप्तं उन्मूलितश्चेति लिङ्गविपरिणामेन योज्यम्। तेनैव चक्रेणैव सह नक्रः त्वत्तः त्वत्सकाशात् मुक्त: त्यक्त: 'अपेतापोढमुक्त' इति समासविधानात् ज्ञापकात्पञ्चमी। पक्षे- देवलशापान्मुक्त इत्यर्थः । 'मुक्तो देवलशापेन हूहर्गन्धर्वसत्तमः' इति श्रीभागवतोक्तेः। नक्रचक्रयोस्तुल्यतयोद्धरणमोचने कथ- मित्यत आह-प्रकृतावित्यादि । हि यस्मात् अनयोः नक्रच- क्रयो: प्रकृतौ स्वभावे न च भिदा नैव भेदोऽस्ति तस्मादु- द्धग्णमोचनतील्यमनयोर्युक्तमिति भावः। पक्षे-अनयोः नक्रच- क्रशब्दयोः प्रकृती नक्रचक्रेत्याकारके प्रत्ययविधावुद्देश्यभूते श- ब्दरूपे नचभिदा नकारचकाराभ्यामेव भेद: क्रेत्याकारकवर्णस्यो- भयत्र तुल्यत्वात्। स्वादौ प्रत्यये पुंनपुंसकलिङ्गयोरनयोश्शन्दयोः विसर्गानुस्वारादिकृतवैलक्षण्यसन्भ्ावेऽ प्रकृतिमात्रे नकारच- कारमात्रकृतं वैलक्षण्यमिति भावः । इयमपि कर्मसहोक्ति: श्रे-

यलक्षणातिशयोक्तिसन्भ्ावेऽपि श्लेषमूलका भेाध्यवसितेरेव चम- त्कारातिशयाघायकत्वम्। अत्र पूर्वार्धे नक्रचक्रयोर्गुणप्रधानभा- वः। उत्तरार्धे चक्रनक्रयोस्स इति वैपरीत्यं च विशेषः॥

निरवधिकरुणानिधिना भवता भवतापतो न- तानवता। इष्टेन सहानिष्टं निरस्तमारचि समस्त- मपि भगवन्॥ ७०१ ॥ दष्टेन अभीप्सितार्थेन सह अनिष्टमशुभं निरस्तमारचि। इष्टपक्षे निर्गतं अस्तं अदर्शनं यस्य तत् निरस्तम्। अस्त- मिति मान्तमव्ययं, तेन सह बहुवोहिः। 'अस्तमदर्शने' इत्य

Page 422

सहोफ्तिसरः (२३) 411

व्ययेष्वमरः। अनस्तंगत प्रकाशमानमेवाकारीत्यर्थः । अनिष्ट- पक्षे निरस्तं प्रक्षिप्तं नाशितमित्यर्थः । अत्र निरस्तमिति श्े- षेणैव मेदाध्यवसायः, न त्वन्यप्रकारेण। अत्रापि कर्मसाहित्यमेव।। न्यपतन् शिरांस्यरीणां मुरारिवाणैस्सहारिना- रीणाम्। अश्रुझरैस्सातङ्गैस्ताटङ्गैस्सुरसुमैश्र वि- जयाङ्ग: ।। ७०२।।

विजयाङ्कैः विजयचिह्नभूतैरित्यर्थः । अत्र निपतनस्य बा- णाद्याश्रयभेदेन भिदुरस्यापि च्युतत्वरूपैकोपाध्यवाच्छन्नतया अ- भिदुरीकृतस्योपादानमित्यस्यैकक्रियासंबन्धः। अत एव न श्ेष: तस्य प्रतिपाद्यतावच्छेदकभेद एवाञ्युपगमात्। एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः। प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति। सहादिशन्दप्र- योगेण चिनाऽपीयं संभवति 'वृद्धो यूना' इति निर्देशेन तृ- तीयाया निष्परत्यूहप्रसरत्वात् । परंत्विवादिशब्दप्रयोगविधुरो- त्प्रेक्षावद्गम्या। अप्रधानभावस्तु शाब्द एव । यद्यपि प्रकृत- त्वाप्रकृतत्वे प्रायेणोपमेयोपमानतयोर्निर्णायके। तथाऽपीह न ताभ्यां तयोनिर्णयः, प्रकृतयोरपि साहित्यसंभवात्। किंतु प्रा- धान्याप्राधान्याभ्यामेव । हृद्यत्वं चास्या अतिशयोक्तिकृतमि- त्यवोचाम। यत्र तु सा नास्ति तत्र 'पुत्रेण सहागतः पिता'- नाकं परेण भान्तं लोकं परमं विहाय दिव्यं तम्। लोकंपृणस्स भगवान् साकं लक्ष्म्यैव विह- रति वृषाद्रौ॥ ७० ३॥

Page 423

412 अलंकारमणिहारे

इत्यादौ न सहोक्तिरलंकारः । लोकं पृणाते प्रोणयताति लोकंपृणः । पृणतिः प्रोणनार्थकः। अस्मान्मूलविभुजादित्वात्कः। 'लोकस्य पृणे' इति मुमागमः ॥ अत्र विचार्यते-'दशवदनादिमकदनैः' इत्यादौ पौर्वापर्य- विपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिश- योक्तेरेवात्र चमत्कारावहत्वेन सहोक्तेस्संज्ञामात्रत्वात् । 'तव कोपोऽरिनाशश्च जायते युगपन्तृप' इत्यस्मादतिशयोक्त्यलंका- रात् 'तव कोपोऽरिनाशेन सहैव नृप जायते' इत्यत्र गु. णभावमात्रप्रयुक्ते सत्यपि वैजात्ये विच्छित्तिविशेषस्यादर्शनात्त स्यैव चालंकारविभाजकत्वात्। न च सादृश्यानुप्राणितस्य रूपकादेरण्यपार्थक्यापत्तिः, 'नवनीरदसशोऽसौ, एष नवीना- म्बुदस्साक्षात्' इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात्। अन्यथा सादृश्यप्रयुक्तस्य व्यातेरेकस्यानुत्थानापत्तः । अपिच सा- दृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणभावाच्चमत्कारविश्रान्तिभू मिभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभा- वोक्त्युन्मीलितायाः कार्यकारणपौर्षापर्यविपर्ययात्मिकाया अति- शयोक्तेस्सका शादस्यास्स होक्तेर पार्थक्यमेवोचितम्। नन्वेवं सति निर्विषयतैव स्यात्सहोक्तेः, सहोक्त्यन्तरस्याप्यभेदाध्यवसान- रूपातिशयेन कबळीकारादिति चेन्न-अमेदाध्यवसानमूलायां हि सहोक्तौ अभेदाध्यवसानेनोपस्क्रियते सहाक्तिरिति 'न गु- णेन तिरस्कार: प्रधानस्य अपितु प्रधानेन गुणस्य' इत्युक्तदि- शा लब्धावकाशैव सहोक्ति: 1 गुणप्रधानभावश्चानाग्रहैस्सूक्ष्म या दशाऽवधातव्यः । किंच परस्पराभेदाध्यवसानमात्रमतिशय एव। नातिशयोक्तिः, तस्य श्ेषादावपि सत्त्वात्। सा तू- पमानेन विषयस्य निगरणम्। एवंच 'विद्ळन्ति, न्यपतन्'

Page 424

सहोफ्तिसर: (२३) 413

इत्यादावेकेनापरस्य निगरणाभावान्नातिशयोक्तिगन्धोSपि। अति- शयमात्रं तु प्रायेण साधारणधर्माश भूयसामुपस्करोत्यलंकारा- णाम्। न हि 'शोभते पझ्मवन्मुखम्' इत्यादौ पद्ममुखशोभ- योर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा प्रकाशते। तस्मा- त्कार्यकारणपौर्वापर्यविपर्ययमूलस्सहोक्तेरेक: प्रकार इति सर्व- स्वकारादीनामुक्तिराग्रहमूलैव। अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तेविषयः । यदि तु दीपके तुल्ययोगितायां चोपमानोपमेययोः प्राधान्येन क्रियादिरूपधर्मान्वयः, इह तु गुणप्रधानभावेनैवेति विशेषस्सन्नपि विच्छित्तिविशेषानाधायक- तया नालंकारान्तरत्वप्रयोजकः अपितु तदवान्तरभेदताया इति विभाव्यते, अपास्यते च जरदालंकारिकवदनावलोकनदाक्षिण्यं, तदा निविशतामियमपि क्लप्तालंकारेष्वेव। किंचिद्वैलक्षण्यमा- त्रेणैवालंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्यप्रसङ्गादिति। सत्यं,-गुणप्रधानभावालिङ्गितस्य सहभावस्यालंकारान्तराद्विच्छि- त्तिविशेषमनुभवन्तः प्राचीना एव सहोक्त: पृथगलंकारतायां प्रमाणं, अन्यथा एवंजातीयोपप्रवेन भूयसी स्याद्वैयाकुली। नैव प्रमाणी कुर्महे वयं मृषानिमीलितलोचनान्प्राचीनान्, निवेश्यतां चेयमलंकारान्तरान्तःपुरकारागृहं वराकीति तु प्रभुतैव, न तु सहृदयतेत्यलं दूरधावनेन ।। एवं क्रियायास्साधारणधर्मतायामुदाहरणानि दशिंतानि। गुणस्य तथात्वे यथा- भुवनाधिप तब नाभ्या सह मानसमप्युपैति गाम्भीर्यम्। अंसैस्सह महिमादपि च कंसरिपो मांसलैर्महौन्नत्यम् ॥७०४॥

Page 425

414 अलंकारमणिहारे

अत्र यद्यपि क्रियाऽपि गुणेन सह समानधर्मतामश्नुते। तथाऽपि तस्या: नान्तरीयकत्वेनासुन्दरत्वात्पर्यवसाने गुणस्यैव समग्रभारसहिष्णुत्वम्। अत्र गाम्भीर्योन्नत्ययोराश्रयभेदभिन्नयो- रभेदाध्यवसानेन सहभावः । एवं श्ेषेऽपि बोध्यम्। यत्र चैक- मेवोपमेयं परस्परविलक्षणसहोक्तयालर्बनं सा मालातुल्यतया मालासहोक्ति: 'न्यपतन् शिरांस्यरीणाम्' इत्यत्र मुरारिबाणैस्सह अरिनारीणामथ्रुझरैस्सह ताटड्रैस्सह सुरसुमैस्सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि निपतनैक्यात्सहोक्तेरभेदः । सति वा यथा- कथचिन्ेदे नास्ति वैलक्षण्यम्, धर्मैक्यात्। धर्मोपमानोभयकृत- &

वैलक्षण्यस्य चात्र विवक्षितत्वात्॥ मथनोच्चलकलशाम्बुधिकणैस्सहामरसुमैश्र वि- सरन्तः। पद्माक्षे निपतन्तः पान्तु कटाक्षा: पयो घिकन्यायाः॥७०५॥

घटकोपमानभूतानां कलशाम्बुधिकणामरसुमानामेव निपतनधर्मो- त्तम्भितायाभपि सहोक्ती घटकत्वान्न मालारूपता। अत्र पयोधि- कन्याया इति विशेष्यं कटाक्षाणां क्षीरोदन्वदवतारकालिकत्वं ध्वनयितुम्। इदं तूदाहरणम्- भाग्यैस्सममुन्मिषितं जगतां सार्ध विजुम्भितं विभवैः । सह विस्मयैरमान्तं धन्याः फणिगिरिप- तेर्महं यान्ति॥७०६॥ अत्रोन्मिषितत्वादिधर्माणां भाग्यादयुपमानानां च वैलक्षण्यादु- पमेयस्य श्रीनिवासोत्सवस्यैकत्वाच्च सहोक्तेमालारूपतेति ध्येयम्॥।

Page 426

सहोक्तिसर: (२३) 415

शोणोरुषा व्यरचि ट्क्काणेन समं दशास्यका- यश्र। बाणेन सहामुष्य प्राणोऽप्युदधारि रघुपते भवता॥ ७०७॥ हे रघुपते! भवता दक्कोणेन समं दशास्यकायश्च रुषा शोणो व्यरचि। पक्षे-अरुषेति छेदः । दृक्कोणः रुषा शोणः दशास्यकाय: अरुषा वणेन शोण: लोहित: व्यरचीत्यर्थः।'व्रणो Sस्त्रियामीर्ममरुः' इत्यमरः। बाणेन सह अमुष्य दशास्यस्य प्राणः पश्चवृत्तिर्मुख्यप्राणोपि उद्धारि बाण उत्क्षिप्तः प्राग उन्मूलित इत्यर्थः । उत्पूर्वकस्य धरतेरुपपादितोभयार्थशक्तत्वात्। स्यादुद्व रणमुन्नये। भुक्तोज्झितोन्मूलनयोः' इति हेमचन्द्रः ।अत्र द्वयो-

मपि रसगङ्गाधरादौ मालासहोक्तेरुदाहरणात्। पूर्वार्धे गुणसा- हित्यं उत्तरार्धे क्रियासाहित्यं श्ेषमूलातिशयोक्तया पोर्वापर्य- विपर्ययात्मकातिशयोक्तया चानुप्राणितम् । पूर्वोदाहरणे तु अनु- गामिधर्मोत्तम्भितं साहित्यमित्यादि वैलक्षण्यं द्रष्टव्यम्॥ यथावा- आर्ति सार्ध मौर्व्या निशिचरततिरध्यरोपि र- घुपतिना। खेदेन समं सातिर्मोदस्यातानि तेन सवनभुजाम्॥ ७०८॥ रघुपतिना मौर्व्या शिञ्जिन्या सार्ध निशिचराणं ततिः आर्ति अध्यरोपि। मौर्वी धनुष्कोटिं निशिचरततिः पीडां च अध्यरोपीत्यर्थः । 'आर्तिः पीडाधनुष्कोट्योः' इत्यमरः ।तेन आ- त्यध्यारोपणेन। रघुपतिना वा सवनभुजां देवानां खेदेन समं

.

Page 427

416 अलंकारमणिहारे

मोदस्य सातिः अतानि। खेदस्यावसानं मोदस्य दानं च कृत- मित्यर्थः । 'सातिर्दानावसानयोः' इत्यमरः । अत्राप पूर्वोदाहरण- वन्मालारूपतादिकं यथायोगमनुसन्धेयम् ।।

गुरुभिस्सह शुश्रूषा चरिते तव लसति ताव- यथावा-

कीनानाम्। कीर्तिर्दानोन्मिषिता गृहाङ्गणेऽच्युत दिशांगणेन समम् ॥७०९॥ हे अच्युत! तावकीनानां त्वद्भक्तानां गुरुभि: आचार्यैस्सह तव चरिते शुश्रूषा लसति गुरुषु विषये शुश्रूषा परिचर्या त्वञ्च- रिते विषये श्रवणेच्छा प्रकाशत इत्यर्थः । 'अथ शुश्रूषोपास- नाश्रवणेच्छयोः' इति हेमचन्द्रः। दिशां ककुभां गणेन समम्। यद्वा-दिशाशब्दष्टाबन्तः दिशानामङ्गणेन सममित्यर्थ.। गृहाङ्गणे तेषामेव भवनाजिरे दानोन्मिषिता कीर्तिः लसतीत्यनुषज्यते। दि- शाङ्गणे दानेन वितरणेन उन्मिषिता उदश्चिता कीर्ति: यशः लसति गृहाङ्गणे दानेन द्विरदमदसलिलेन उन्मिषिता जनिता कीर्ति: कर्मः विस्तृतिवां लसतीत्यर्थः। 'दानं गजमदे त्यागे, कीर्तिः प्रसादे यश- सि, कर्दमे विस्तृतावपि' इति च रत्नमाला। अन्नापि यथासंभवं मालारूपतादिकं द्रष्टव्यम्। अधिकरणसाहित्यं तु विशेषः । पूर्वार्धे चरिते इति वैषयिकमाधकरणं, उत्तरार्धे गृहाङ्गणे इति तु औपश्ले- षिकमभिव्यापकं वा तदितिभिदा।अभिव्याप्तिश्चात्रापेक्षिकी बोध्या। बिम्बप्रतिबिम्बभावाद्यापन्नधर्मताऽप्यत्र संभवति। यथा- फणमणिघृणिपरिवीतं ज्वालामालावृतेन च- क्रेण। सह मुश्चन्नहिमश्चं सहसा स हरिः पुनातु करिवरदः॥७१०॥ ...........

Page 428

सहोक्तिसर: (२३) 417

वीतत्वावृतत्वयोस्तु वस्तुप्रतिवस्तुभावः। चक्रमश्चमोचनयोः पौ- रवोपर्यवविपर्ययः तन्मूलातिशयोक्त्याऽनुप्राणिता सहोक्ति:॥

अलंकारान्तरसंकीर्णाऽपीयं संभवति। यथा- मनसा समं विलीनं घनसारस्येव शकलमन- लज्वालात्। द्विरसनगिरिशेखरतः दुरितं मप विततमेकपद एव बत॥ ७११॥ अनलज्वालात् घनसारस्थ कर्पूरस्य शकलमेव जात्यभिप्राय- कमेकवचनम्। द्विरसनगिरिशखरतः शेषाचलोत्तंसाच्छोनिवा- सात् विततं विस्तृतं मम दुरित, पूर्ववदेकवचनम्। एकपद एव एक- चरणन्यासमात्र एव अतिक्षिप्रमेवेत्यर्थः। अथवा-एकपदे इत्येदन्त- मव्ययमकस्मादित्यर्थे चादिषु पठ्यते । अतार्कतमेवेत्यर्थः । अतिस- त्वरमेवेति यावत्। मनसा समं विलीनम्। कर्पूरपक्षे-विलीनं वि- द्रुतमित्यर्थः । 'विलाने विद्रुतद्रुतौ' इत्यमरः । दुरितपक्षे-दर्शना- विषयमासीदित्यर्थः। मनःपक्षे तु-द्विरसनगिरेशेखरतः श्रीनि- वासात् पञ्चम्यास्सार्वविभक्तिकस्तासः । मम मनः एकपद एव एकस्मिन्व्यवसाय एव तत्पाप्तयेकव्यवसाय एव लीनं लग्न- मित्यर्थः। 'ददामि बुद्धियोगं त येन मामुपयान्ति ते' इत्यु- करीत्या तत्प्राप्तचेकव्यवसायस्य तदधीनत्वादिति भावः। यद्वा- सप्तम्यास्तासिः। श्रीनिवासे एकस्मिन्पदे वस्तुन्येव लीनमित्यर्थः। अथवा षष्ठयास्तसिः। श्रीनिवासस्य एकस्मिन्पदे चरणे लग्नमि- त्यर्थः । 'परद व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु' इत्यमरः ।

ALANKARA 53

Page 429

418 अलंकार मणिहारे

यथावा- विबुधाभयदः कथमस्यसुरकदम्बेन सह सुरक- दम्बम्। भवता वृषशैलमणे सुसाध्वसं यद्वयता- न्यतिप्रसभम् ॥ ७१२॥ हे बृषशैलमणे? त्वंकथं विवुधाभयदः असि। कुतो नास्मीत्यत आह-असुरेत्यादि। भवता असुरकदब्मेन सह सुरकदम्बं अति- प्रसभं सुसाध्वसं व्यतानि असुरकदम्बं अतिप्रसह्य अतित्रस्तमता- नीत्यर्थः । सुष्ट साध्वसं यस्य तत्सुसाध्वसमति समासः। सु- रकदम्बपक्षे-सुसाधु असं इतिच्छेद:। सुसाधु असं अतिप्रसभ- मतानीति वैपरीत्येन योजना। सुसाधु अतिसम्यक् असं अवि- द्यमानसकारं अतिप्रसभ अिप्रभमित्यर्थः । शब्दार्थयोस्तादा- म्त्यं न विस्मर्तव्यम्। अतानि अतितेजस्विि किरिचितमित्याभिप्रायः। इयं हिताहितवृत्तितौल्यलक्षणतुल्ययोगितया श्ेषेण निन्दया स्तु- त्यभिव्यक्तिलक्षणव्याजस्तुत्या चातुप्राणिता सहोक्तिरिति ध्येयम्॥ यथावा- औदार्यमद्ुतं तव साकं विद्वेषिभिः प्रियेभ्यो- पि। प्रददासि सत्वरं त्वं नारकमतिदुःखमहिगिरि- सुरद्रो ॥७१३॥ हे अहिगिरिसुरद्रो? एतच्च महोदारताभिप्रायगर्भम्। तव औ- दार्य अन्भतं लोकविलक्षणम्। तदेवोपपादयति-साकमिति। वि- द्वेषिभिस्साकं प्रियेभ्योपि 'सच मम प्रियः' इत्युक्तदिशा प्रीतिपा- त्रेभ्यो ज्ञानिभ्योपि सत्वरं हिताहितविवेचनव्यवधानविधुरमेव अ- तिदु:खं नारकं प्रददासीत्युपालभ्मः । विद्वेषिभ्यः अतिमात्रव्यथा

Page 430

सहोक्तिसरः (२३) 419

करं नारकं नरकं 'स्यान्नारकस्तु नरकः' इत्यमरः । प्रददासि 'ये माँ द्विषन्ति संसूढा नारके पातयामि तान् 'इत्युक्तरीत्या दुर्गति वितरसीत्यर्थ। प्रियेश्यस्तु सत्वरमित्यत्र सः तुअरं इति छेद:। सः त्वमिति योजना । अतिकरान्तो दुःखमतिदुःखः तं तथोक्तम्। 'अत्यादय: क्रान्ताद्यर्थे द्वितीयया' इति समासः। 'यन्न दुःखेन सं- भिन्नं' इत्युक्तादेशा दुःखासंभिन्नमित्यर्थः। अर रेफविधुरं नारकं नाकमित्यर्थः 'ते ह नाक महिमानः' इत्यादाचिव नाकशद्वोत्र परमव्योमपरः। प्रददासि 'नयामि परमां गतिम्' इत्यादिना स्वेनैवोक्तत्वादिति भावः । अत्रापि पूर्वोदाहरणवदेव तुल्ययो गिताश्ष्लेषव्याजस्तुत्यनुप्राणितत्वम्। वैलक्षण्यं तु आहेगिरिसुरद्रो

नुप्राणितत्वं संप्रदानसाहित्यं चेत्यवधेयम्।। एवं 'गुरुभिस्सह शुभ्रूषा' इते पूर्वदर्शितमालासहोक्तयु- दाहरणेऽपि शुश्रूादेर्लसनरूपैकधर्मान्वय लक्षणतुल्ययोगितानुप्रा- णितत्वमनुसन्घेयम्। सर्वाण्येतान्युदाहरणानि सहार्थकशब्दघटितान्येव सहोक्तेः प्रदर्शितानि ॥ तदघटितत्वेन गम्या यथा- पुरविमथनोत्तमाङ्गं धरणितलेन त्रिविक्रम श्रीमन्। अस्ति स्तिमितं त्वत्पदकमलेन कृतं पुरा बलेस्सवने ॥७१४॥ हे त्रिविक्रम! इदं विवक्षितार्थस्य तदवतारासाधारणतां द्योत- यितुम्। बले: वैरोचनेः सवने यागे। धरणितलेन भूतलेन सहे- त्यर्थः । विनाऽपि सहशब्दयोगं तृताया भवतीत्यवोचाम । पुरवि- मथनस्य शिवस्य उत्तमाङ्ग मस्तकं त्वत्पदस्य त्वच्चरणस्य कम-

Page 431

420 अलंकारमणिहारे

लेन सलिलेन गङ्गारूपेणेत्यर्थः । स्तिमितं क्विन्नं कृतं रचितं पुरा- अस्ति आसीदित्यर्थः । 'पुरि लुश्चासमे' इति भूतानद्यतने लट्। धरणितलपक्षे तु-त्वत्पदकमलेन त्वच्चरणारविन्देन 'कमलं सलिले ताम्रे जलजे' इति मेदिनी। अविद्यमानः स्तिः स्तीति वर्णस- मुदायो यस्मिस्तत्तथाभूतं स्तिितं मितं मानकर्मीकृतमित्यर्थः॥ एवं प्रागुपदर्शितोदाहरणेषु सर्वेष्वपि सहार्थकशब्दापनयने तान्यपि गम्यसहोक्तचुदाहरणानि भवन्तीति ध्येयम्॥ । इत्यलंकारमणिहारे सहोक्तिसरस्त्रयोविंशः॥

अथ विनोक्तिसरः

किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा। निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥ वर्ण्यस्य किंचिदभावप्रयुक्तं रमणीयत्वारमणीयत्वान्यतरव- र्णनं विनोक्तिरलंकारः॥ यथा- फणिरमणतु शब्दनये कणचरणतु वाऽपि- कोपि तर्कनये। गणनां नार्हति मनुजः फणि- नाथगिरीश्वरे विना भक्तिम् ॥७१५॥

यथावा- सकलामचलामटतु त्रुटतु च शतघा तपोवि-

Page 432

विनोक्तिसर: (२४) 421 धानायैः। तव दर्शनाद्विनाऽच्युत भविता जनता कृतार्थतां न गता ॥७१६॥ अत्र भगवद्दर्शनेन विनाकृतस्यारम्यता।। यथावा- तालन विना गानं शीलेन विना न शोभते ज्ञानम्। बालेन विना गृहिणी पालेन बिना हरे त्वया धरणी ॥७१७॥ अत्रापि तालादिविनाकृतस्यारम्यता- रम्यतायां यथा- मोहेन विनाऽच्युतभाग्दाहेन विना दवस्य भा- ति वनम्। ग्राहेण बिना जलधिः स्ेहेन विना खलेषु सुजनश्र ॥।७१८॥ अच्युतं भजतीत्यच्युतभाक् भगवन्भक्त इत्यर्थः। 'भजो णिः' इति णिः। जलधिः सरः जलानि धीयन्तेऽस्मिन्निति वि- ग्रहः 'अब्धी सरस्सरस्वन्तौ' इति रत्नमाला । अत्र मोहा- दिना विनाकृतस्य रम्यता। आद्ये केवले, इतरे तु दीपकानु- कूले।। मिश्रिता यथा - काश्येन विना विभवस्तव देवि विभाति जा- तु न तु मध्यम्। चाश्चल्येन विना हृद्विभासते न तु विलोचनद्वन्दम् । ७१९।।

Page 433

422 अलंका रमणिहारे

अत्र काश्यचाश्चल्याविनाकृतयोर्वस्तुनोः रम्यताऽरम्यते इति भवतीयं मिशश्रिता। प्रतिवस्तूपमानुकूला परिसंख्यानुकूला च।। फणिराजगिरिशिरोमणिगुणराजी भजति र. म्यतां सम्यक्। दोषं विना मनागपि विना कल- ङ्गं इशाङ्करखेव ॥७२०॥

नित्यं फणिगिरिनाथे प्रत्यङ्गात्माऽडत्मभरसम- र्पणतः। हृल्लेखो मणिरिव भात्युल्लेखनतो विना मलीमसताम् ॥ ७२१॥ प्रत्यङ् आत्मा जीव: इत्यर्थः । 'ङमो ह्स्वादचि ङमु- ण्णित्यम्' इति ङकारात्परस्याचो नित्यं ङमुडागमस्संहितायाम्। मणिः उल्लेखनात् शाणोद्वर्षणादिव प्रत्यगात्मा भगवति भर- समर्पणात् मलीमसतां मृदादिसंसर्गकृतां मलिनतां विना हलेखः हृद्यः भाति। हृदय लिखतातति हल्ेख हृदयशब्दोपपदकात् लिखेः कर्मण्यण्। 'हृदयस्य हल्लखयद्ण्लासेषु' इति हहयशब्दस्य हदा- देशः। पक्षे-अविद्याकृतमज्ञानमालिन्यं विना 'मणणिवर इव शौरे नित्यहृद्यः' इत्यादुक्तरीत्या भगवतो हृदयंगमस्सन् भाति नित्या- संकुचितज्ञानो दीप्यत इत्यर्थः । अनयोराद्या शुद्धोपमानुकूला इतरा तु श्ेषमूलोपमानुकूला॥ मूलं विना डपि वोरुद्विलसेत्कूलं विनाडपि शैव- लिनी। नालं व्यालेन्द्राचलपालं देवं विना क्वचि- त्कमला ॥ ७२२॥

Page 434

विनोफ्तिसर: (२४) 423

इयं दीपकपरिसंख्यानुकूला।। रागं विना यथा स्त्री वेगं पयसो विना यथा तटिनी। त्यागं विना यथा श्रीर्योंगं शौरेर्विना त- थैव मतिः॥७२३॥ पूर्व क्रियागुणादिसंबन्ध आवश्यकः। इह तूपमामहिस्ैवा- वगम्यते स इति न तथा॥ इयं च न केवलं विनाशव्दसन्भाव एव भवति अपितु विनाशन्दार्थवाचकसन्भावेऽपि । तेन नञ, निर्, वि ,अन्तरेण, ऋते, विकल, वियुक्त, रहित, दूरित, विधुर इत्यादिप्रयोगसन्भावे 5पि। यथ- फलमन्तरेण शाखी जलिर्जलमन्तरेण यदि भायात्। बलमन्तरेण राजाऽ्प्यलमहिगिरिम- न्तरेण भूर्भायात् ॥७२४॥ बलमन्तरेण राजाऽपि यदि भायादित्यन्वयः । अत्रान्तरेण- शब्द: विनार्थकः प्रयुक्तः । मिथ्याध्यवसितिदीपकानुकूलेयम्। अम्बरमभानुबिम्वं बिम्बं भानारनम्बुरुहनय- नम्। अम्बुजनयनोऽनम्बुधिसुतस्सुतेजस्तया वि- भायात्किम् ॥७२५॥ अत्र विनार्थको नञ् प्रयुक्तः। अनम्बुरुहनयनं 'तस्य यथा कप्यासं पुणरीकमेवमक्षिण' इति श्रुतिप्रथितपुणरीकाक्षरहित- मित्यर्थः। अनम्बुधिसुतः श्रीविल्िष्ट इत्यर्थः । सुतेजस्तया सुवर्ण- वर्णतयेति भावः । विभायातत्किम् । श्रीविश्िष्टत्वे ताद्विध्यस्य

Page 435

424 अलंकारमणिहारे

दुर्लभत्वादिति भावः । अत एव ह्यधिकरणसारावळ्यां 'नित्य- श्रीर्बरध्बिम्बे' इति विश्येषितमाचार्यैः 'आप्रणखात्सर्व एव सु वर्णः' इति श्रुतिरत्रानुसन्धेया। इयं वक्ष्यमाणमालादपिकानुकूला।। शेषाचलाभिमुखता येषां प्रोदश्चिता न किंचि- दपि। ेष्यचलाभिमुखत्वं नैष्यन्त्यते जनुस्सह- स्त्रेडपि ॥७२६।।

शषिणः सर्वेश्वरस्य भगवतः अचलं निश्चलं यत् अभि- मुखत्वं तत्कटाक्षगोचरत्वमिति यावत्। नैष्यन्ति न प्राम्वान्ति शेषाचलाभिमुख्यरूपोपायाभावे भगवदाभिमुख्यरूपफलं दुर्लभ- मिति भावः। अत्रापि विनाशव्दार्थवाचको नङ् प्रयुक्तः। इयमे- कगुणेनान्यदोषोदयरूपोल्लासालंकारानुकूला॥ त्रासस्पर्शविमुक्ता मुक्ता इव दोषगन्धसंत्य- क्ाः। औज्ुल्यमुखास्सुगुणा जाजृल्यन्ते फणाभृ- दचलमणेः।७२७॥

अत्र संत्यक्तशब्दः। उपमानुकूला चेयम्॥ ज्ञानानन्दत्वाद्याः श्रीनाथगुणास्सुदूरितावद्याः। सरकरा इव हृद्या वारिततमसशुभास्सदास्वा- दयाः॥७२८॥

अत्र सुदूरितशब्दः। इयमप्युपमानुकूलैव॥ अलकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनो- क्तिः' इत्याह। तस्य मते तु नैतान्युदाहरणानि॥

Page 436

विनोक्तिसरः (२४) 425

इदं तूदाहरणम्- निवहेन सुररिपणां भवत्प्रतापोष्णिमानमनुभ- वताम्। मधुमथन चित्रभानुद्वितयं दृष्टं विनो- ष्णतया ॥७२१॥

चित्रभान्वोस्सर्यवह्नयोः द्वितयं 'सूर्यवह्नी चित्रभान्' इत्य- मरः। अत्र सूर्यवह्वयोरौष्णयस्याविनाभावेऽपि विनाभावो दर्शितः॥

यथावा- निरतिशयविशदिमाढ्ये परितससफुरतीह जग- ति तव यशसि। माधव विना धवलतां विधुवि- धिवनितादयो विलोक्यन्ते ॥७३०॥

विधिवनिता सरखवनी। अन्र धावळ्याविनाभावेऽपि तद्वि- नाभावो दर्शितः। अलंकारान्तरपारिरम्भसंभूतमेवास्या रमणीय- त्वम्, न तु सतः। तेनालंकारान्तरत्वमप शिथिलमेवेति वद- न्ति। परे तु-किंचिद्यतिरेकप्रयुक्तरम्यत्वारम्यत्वज्ञानादेव चम. त्कारोदयस्य निष्प्रत्यू हत्वेनांलकारान्तरानालिङ्गितस्यास्य रमणी-

मेवेत्याहुः॥

अथास्या ध्वान :- किं तेन जन्मना स्यात्स्वान्ते यस्मिन्न चिन्ति- तोडनन्तः । किं तेन कर्मणा वाज्नन्ते यन्नार्पितं -..- भवत्यन्ते ॥७३१॥ ALANKARA 54

Page 437

426 अलंकारमणिहारे

अत्र भगवच्चिन्तनं विना स्वान्तस्य भगवदर्पण विना कर्मण- श्चारमणीयत्वं किमिति क्षेपेण फलप्रश्नेन वा व्यज्यते। तस्य च

इत्यलंकारमणिहारे विनोक्तिसरश्चतुर्विशः

अथ समासोक्तिसर:

साम्याद्वेदकमात्रस्य गम्यमप्रस्तुतं यदि । स- मासोक्तिमिमां प्राहुः प्राश्चोलंकारवेदिनः।। भेदकं विशेषणम्। विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्ता समासोक्ति: समासन संक्षेपेण प्रकष्तुताप्रस्तुत वृत्तान्तयोर्वच- नात्। असावुदयमारूढ: कान्तिमात्रक्तमण्डलः। राजा हरति लोकानां हृदय मृदुभि: करैः॥ इति प्रकृताप्रकृतश्लषे चाप्रकृतनृपवृत्तान्तस्य विशेष्य- वाचिना श्िष्टेन राजपदेनाप्यवगमान्न तत्रातिव्याप्ति: ॥

यथा-

आलिङ्गति फणधरगिरिमौलिं भक्त्युन्मुखा मदी- यमतिः।७३२।।

Page 438

समासोक्तिसर: (२५) 427

अत्र भक्त्युन्मुखस्वमतिवृत्तान्ते वर्ण्यमाने सामोदेत्यादिक्रि-

यते।।

स्फुटकुचमुखवर्णषा वत्तातुलनाभितोSतिग- म्भीरा। कविवाणी ललितपदाश्लेषेण हरेमुदं ददा- ति पराम् ॥७३३॥

कु: कुवर्ण: कवर्गों वा चः चवर्णश्च मुखं येषां तानि वर्णानि अक्षराण स्फुटानि यस्यास्सा तथोक्ता । अन्यत्र स्फुटाः कुचमुखवर्णाः स्तनवदनवर्णाः यस्यास्सा तथोक्ता। अविद्य- माना तुलना साम्यं यस्यास्सा तथोक्ता । वृत्तैः मात्रावर्णभे- दभिदुरघ्छन्दोनिष्पन्नैःश्ोकैः वूत्तेन भगवञ्चरित्रेण वा अतुलना असदागेत्यर्थः । लोकोत्तरवृत्तघटिततयाSतिश्राध्येति भावः।'वृर्त पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । अभितः समन्ततः अतिगभ्मोरा 'ध्वनिमत्ता तु गाभ्मीर्यम्' इत्युक्तगा्म्भार्यगुणशा- लिनोत्यर्थः । पक्षे-वृत्ता आवर्तवद्वर्तुला अतुला असदृशी या नाभि: तया नाभितः सार्वबिभक्तिकस्तसिः । अतिगभ्मीरा अति- गभीरवर्तुलासदृशनाभिरित्यर्थः । ललितानि पदानि सुप्िङन्ता- त्मकानि यस्यां सा, ललिते पदे चरणे यस्यास्सा तथोक्ता च कविवाणी श्ेषेण पक्षे-आश्लेषेणात छेदः । आलिङ्गनेनेत्यर्थः । अत्र कविभारतीवृत्तान्ते प्रस्तुते स्फुटकुचमुखत्यादिविशेषणसाम्या- त् वाणीशब्दगतस्त्रीलिङ्गमहिस्ना चाप्रस्तुतोत्कण्ठितनायिकावृत्तान्तः प्रतीयते। पूर्वत्र विशेषणानि साधारणानि। इह तुश्लिष्टानीति विशे- षः। साधारणत्वं च श्ेषेण विनैव प्रकृताप्रकृतवृत्तान्तानुगतत्वम्।।

Page 439

428 अलंकारमणिहारे

यथावा~ आदौ मदमलिनोऽच्युत जला (डा) शयानुप्र- वेशितपदोऽथ। विषमतमास्राहग्रस्तोऽद्य विरौ- म्युदस्तहस्तोऽहम् ॥७३४॥ हे अच्युत! आदौ मदेन गर्वेण दानोदकेन च मलिन:, अथ जलाशयेषु जडधीषु जलाधारेषु च अनुप्रवेशितं पदं व्यवसायः चरणं च येन स तथोक्तः । अत एव विषमतमेन असता ग्राहेण दुराग्रहेण। पक्षे-जलजन्तुविशेषेण अवहारापरपर्यायेण ग्रस्तस्सन् 'ग्राहो ग्रहेऽवहारे च' इति मेदिनी। उदस्तः उत्क्षिप्तः हस्तः कर: शुण्डा च येन स तथोक्तस्सन् अद्य कर्मपरिपाकदशयां, विरौमि रोदिमि।अत्र संसारनिर्विण्णजनवृत्तान्ते प्रस्तुते श्ि- ष्टविशेषणसाम्यात् ग्राहग्रस्तजरद्रजवृत्तान्तः प्रतीयते॥ सारुप्यादपीयं दृश्यते यथा- जन्म सरस्वति फणिपतिगिरिपतिलसदुरसि भवति तव वसतिः । कौस्तुभ विभासि धन्यो नि- स्तुलविभवो भवादशः कोऽन्यः।।७३५।। सरस्वति सागरे। अत्र श्रीनिवासकौस्तुभवर्णने प्रस्तुते यत्र क्ववा जन्म लब्ध्वाऽतिमात्रविदेशे श्राघनीयतमेऽधिगतसा- म्राज्यसंपदो भाग्यशालिनः पुरुषस्य वा महाविदुषो वा वृत्तान्तः प्रतीयत इति सारूप्यनिबन्धनेयम्॥ यथावा- फणिगिरिपतिहृदि कौस्तुभमणिवरसंदर्शनेन

Page 440

समासोक्तिसर: (२५) 429

नयनयुगम् । हृष्यति हृदयं विकसति गळति तमो मिळति मजुलच्छाया॥ ७३६॥ अत्र प्रस्तुतेन कौस्तुभदर्शनवृत्तान्तनाप्रस्तुतोदयमानभानु- दर्शनवृत्तान्त. प्रतीयते । अत्र नयनयुग हृष्यति, हृदयं विक- सतीत्यत्र सारूप्याच्चकरवाकमिथुनहर्षकमलविकासी प्रतीयेते। ग- ळति तमः, मिळति मञ्जुलच्छायेत्यत्र श्ेषेणान्धकारनिरासका- न्तिलाभाविति पूर्वोदाहरणाद्वैलक्षण्यम्॥ अत्र कुवलयानन्दकृत :- "प्रस्तुताप्रस्तुतसाधारणविशेषणब- लात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत् प्रस्तुते विशेष्ये समारोपार्थ, सर्वथैव प्रस्तुतानन्वायनः कविसंरम्भगोचरत्वायो- गात्। ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहतुः। न तु रूपक इव प्रस्तुते अप्रस्तुतरूपसमारोपोऽस्ति / मुखचन्द्र इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवत् 'रक्तश्च- म्बति चन्द्रमाः' इत्यादिसमासोक्तयदाहरणे चन्द्रादौ जारत्वाद्यारो- पहेतोस्तद्वाचकपद्समभिव्याहारस्याभावात् 'निरीक्ष्य विद्युन्नयनैः' इत्याद्येकदेशविव.रतेरूपकोदाहरण इव प्रस्तुते अप्रस्तुतरूपसमा- रोपगमकस्याप्यभावात्। तत्र हि विद्युन्नयनैरित्यत्र निरीक्षणानु-

रपदार्थभूतनयनान्वयानुरोधात्पयोदेऽनुक्तमपि द्रष्टपुरुषत्वरूपणं गम्यमवगम्यते। न चेह तथा निरीक्षणवत् 'त्वय्यागते किमिति वेपत एष सिन्धुः' इति श्रोके सेतुकृत्त्वादिवच्चाप्रस्तुतासाधारण- वृत्तान्त उपात्तोस्ति। नापि श्िष्टसाधारणादिविशेषणसमार्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्यन्नयनवत्प्राधान्य- मस्ति। येन तदनुरोधात् 'त्वं सेतुमन्थकृत्' इत्यत्रेव प्रस्तुतेऽ-

Page 441

430 अलंकारमणिहार

नुक्तमप्यप्रस्तुतरूपसमारोपमभ्युपगच्छेम । तस्माद्विशेषणसमार्पि- ताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतु । यद्यप प्रस्तु- ताप्रस्तुतवृत्तान्तयोररिह श्िष्टसाधारणावेशेषणसमर्पितयोर्भिन्नप- दोपात्तविशेषणयोरव विशष्येणव साक्षादन्वयादस्ति समप्राधा- न्यम्। तथाऽप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुते अप्रस्तुतरूप- समारोपोऽङ्गीकार्यः ।तथाहि यथा प्रस्तुतावशेष्ये नास्त्यप्रस्तु- तटत्तान्तस्यान्वययोग्यता, तथैवाप्रस्तुतेऽपि नास्ति प्रस्तुतवृत्ता- न्तस्यान्वययोग्यता। एवं च समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्त योरन्यतरस्यारोपेवश्यमभ्युपगन्तव्ये श्रुत एव प्रस्तुते अप्रस्तुत- स्यारोपश्चारुताहेतुरिति युक्तम्" इत्याहुः॥

रसगङ्गाधरकारस्तु समासोक्तेरेवं लक्षणादिकमभाणीत्। तथाहि-"यत्र प्रस्तुतधर्मको व्यवहारस्साधारणविशेषणमात्रोप- स्थापिताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः।

त्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दश- क्तिमूलध्वनिवारणाय मात्रेति,तत्र विशेष्यस्यापि श्िष्टतया प्रकृते- तरधर्म्युपस्थापनद्वारा तादृशधार्मिकव्यवहरोपस्थापकत्वात्.। एवमपि- आबध्नास्यलकान्निरस्यसति तमां चोलं रसाकांक्षया- लङ्काया वशतां तनोषि कुरुषे जङ्गाललाटक्षतम्। प्रत्यङ्गं परिमर्दनिर्दयमहो चेतस्समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्म्यमत्यद्भुतम्।

इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्ेषेडतिव्याप्ते र्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषेणतयोपात्त। व्यवहार-

Page 442

समासोक्तिसरः (२५) 431

विशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युप- स्थापिताप्रकृतशङ्गारवृत्तान्ताभिन्नत्वेन स्थित एवात् प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चांत्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्वतयोर्द्वयोरपि वृतान्तयोः प्रस्तुतत्वमिति कथमति प्रसङ्ग इति वाच्यं, न स्यादतिप्रसङ्ग: यदि वर्णनमात्रं प्रस्तुतं स्यात्, तत्संग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्र- सङ्ग: ॥। मलिनेSपि रागपूर्णी विकसितवदनामनल्पजल्पेऽपि। त्वाय चपलेऽपिच सरसां भ्रमर कथ वा सरोजिनीं त्यजसि॥

व्युपस्थापित एवेति न तत्रातिव्याप्तिः । यदि तु जल- क्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्तिः॥ तत्र तावत्- विबोधयन् करस्पर्शैः पग्मिनीं मुद्रिताननाम्। परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः॥

पारवदभिन्नो भास्करो जयतीति वाक्यार्थशशक्तचैव ताव- त्प्रतीयते। हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयनानुकूल- व्यापारवदभिन्न इत्यादिश्चापरोऽर्थ उभयत्रानुषक्ततया तयैव श- क्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सह- दय एव प्रमाणम्। एवं च द्राविमौ वाक्यार्थी स्नव्येतरगोवि षाणवदत्यन्तासंस्पृष्टी यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात्। द्विप्रधानत्वेन वाक्यभेदश्चापद्येत। यदि चापरोऽर्थ: प्र- कृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता

Page 443

432 अलंकारमणिहारे

च सूर्य इत्येकत्र द्यमिति विषयताशाली बोधस्स्यात्। न तु

मलिन्यादानां नायिकात्वादिप्रत्यय उपपाद्यते तदाऽप्यश्िष्टपदो- पस्थितो भगवान्नायकत्वानाव्रात एव। पझ्मिनीशब्दस्थाने नलि- नीशब्दोपादाने साऽपि नायिकात्वेन कथ नाम प्रतीतिविषयत्व- मियात्। तस्माद्विशेषणसाम्यमहिस्ना प्रतीतोऽप्रकृतवाक्यार्थ स्स्वानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविंशिष्टशरीर: प्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतदवयवोऽमेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी। स्वात्मना च रसायुपयोगी। अत्र चाप्रकृतार्थस्य पृथक्छन्दानुपादानाद्रूपका- द्वाक्यार्थसंबन्धिनो वैलक्षण्यम्। पदार्थरूपकात्तु स्फुटमेव। आ- क्षिप्तार्थघटितत्वाञ्च वाक्यार्थश्ेषात्। एवं चात्र शक्त्याक्षेपा- भ्यां सवार्थनिर्वाह इति भामहोन्भटप्रभृतीनां चिरन्तनानामाश- यः। 'निशामुखं चुम्बति चन्द्र एषः' इत्यादो निशाचन्द्रश- म्दयोरश्िष्टत्वान्मुखचुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथं तावंत्नियतनायकाक्षेपकत्वम्, कथं वा आक्षिप्तस्यापि नायका- देर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ । तथात्वे- च तयोर्नायकताताटस्थ्ये रसानुद्वोधापत्तेः । तस्मात् 'निशा- मुखं चुम्बति चन्द्रिकैषा, अहर्मुखं चुम्बति चण्डभानुः' इत्या- दावप्रतयमान नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्र कृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते।

व्यापारेणैवाप्रकृतार्थबोधनम्, शक्तेः प्रकरणादिना नियन्त्रणात्। तदित्थं व्यजनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवा- क्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्गयभेदश्चायमिति तु रभणीयः

Page 444

समासोक्तिसर: (२५) 433

पन्थाः" इति। अन्यत्सर्व तत्रैव द्रष्टव्य विस्तराभिलाषिभिरि- त्यलमतिभूमिस्वैरविसर्पणेन।। अथास्या: केवलभेदाः प्रतिपाद्न्ते। विशेषणसाम्यं श्रे- षेण भवति शुद्धसाधारण्येन वा। तदपि धर्मान्तरपुरस्कारेण कार्यपुरस्कारण वेति प्रत्येकं द्विविधम्। तत्र श्िष्टधर्मान्तरपुर- स्कारेण विशेषणसाम्यं यथा- विलिखितविचित्रपत्रा सुच्छाया भास्वदतनु- तापहरा। उरगगिरितटवनी परिचरणाच्छ्रीवल्लभ- स्य सोलासा ॥ ७३७॥ विलिखितानि विशेषेण रचितानि, विभिः पक्षिभिः लि- खितानि चञ्चुपुटैदळिताननि च। चित्राणि मकरिकाद्याकारवर् या नानारूपाणि पत्राणि पत्राकाररेखान्यसनानि। पक्षे-नानाद- रणांनि पलाशानि यस्यास्सा तथोक्ता। सुच्छाया शोभनानातपा मनोहरकान्तिश्च । भास्वतः भानोः अतनुः अकृशः यस्तापः तस्य हरा। अन्यन्न-भास्वान् उदीर्ण: अतनोर्मदनस्य तापस्सं- ज्वर: तस्य हरा। श्रीवल्लमस्य परिचरणात् परितस्संचारात् शुश्रूषणाच्च सोल्लासा सप्रकाशा सहर्षा च। अत्र दक्षिणनाय- कलब्धोपचारोस्तममहिळावृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः सुच्छायत्वसोल्लासत्वादिधर्मपुरस्कारेण श्ेषेण विशेषणसाम्यम्। एवं 'स्फुटकुचमुख' इति प्रागुदाहते पद्येऽि द्रष्टव्यम्। श्िष्टकार्यपुरस्कारण विशेषणसाम्यं यथा- पूंर्व निपात्य विग्रहकाले शौरे समानमध्यम- वीरान्। पश्चादनिपात्यैकं पदमपि लोके सुशब्द- तां प्रकटयसे ॥७३८॥ ALANKARA 55

Page 445

434 अलंकारमणिहारे

हे शौरे! विग्रहकाले आयोधनसमये एकं पदमपि पश्चा- दनिपात्य एकचरणापसर्पणमप्यकृत्वेत्यर्थः । समानाः तुल्याः उत्तमा इति यावत्। मध्यमा: स्वापेक्षयाऽपकृष्टाः ये वीराइशू- राः तान्। यद्ा-असमानिति छेदः। असमान् शौर्यव्ीर्या- दिभिरसदृशान् । अत एव अमध्यमान् उत्कृष्टान् वीरान् पूर्व आदावेव न तु विलम्बेन निपात्य पातायत्वा निहत्येत्यर्थः । अनेनास्य परनिरास ईषत्कर इति द्योतितम्। शोभनः शब्दः यशः यस्य तस्य भावं सुशब्दतां यशस्वितामित्यर्थः । प्रकट- यसे। 'शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला। पक्षे-विग्रहकाले समासार्थ विग्रहप्रदर्शनावसरे समानमध्यम- वीरान् उक्तविधान् शब्दान् पूर्व निपात्य तेषां शब्दानां 'पूर्वा- परप्रथमचरमजघन्यसमानमध्यमध्यमवोराश्च' इति सूत्रेण पू- र्वनिपातस्य नियमितत्वात् पूर्वमेव प्रयुज्येत्यर्थः। एकं पदमपि एकमित्याकारकं शब्दमपि। पश्चादनिपात्य पूर्वमेव प्रयुज्येत्यर्थः। तस्य 'पूर्वकालैक' इति सूत्रेण पूर्वनिपातानेयमात। सुशब्दतां शब्दशास्त्रप्रावीण्यं प्रकटयसे प्रथयसे इत्यर्थः । अत्र वैयाक- रणवृत्ताताभेदेन स्थितः प्रस्तुतवृत्तान्तः। निपात्येत्यादिश्िष्टका- र्यपुरस्कारेण विशेषणसाम्यम्। एवं कार्यातिरिक्तधर्मप्रतिपादकश्िष्टविशषणसाम्येन का- र्यरूपधर्मप्रतिपादकतत्साम्येन च समासोक्तिद्वैधी दर्शिता॥ शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा- स्खलितमिमं संसारे ललिततमा टक्तवात्र कंसारे। निरवधिवात्सल्या मां सरभसमुद्दर्तुमु-

Page 446

समासोक्तिसरः (२५) 435

उत्सुका आपततीति छेदः । आपतति आयातीत्यर्थः । अत्र बालकजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । निरव- धिवात्सल्येत्यादिशुद्धसाधारण्येन धर्मान्तरपुरस्कार: ॥ शुद्धसाधारण्येन कार्यपुरस्कारेण यथा- स्तोतुं त्रपामहे त्वां यस्य तवोच्छइ्वलो वृषा- द्रिमणे। विष्फारो ननु समितावम्बरमाधूय दश दिशो भुझ्के ॥ ७४० ॥ समितौ सभायाम्। अम्बरं वसनम्। त्वद्विष्फारस्य नि र्लजतया सभायामेवाम्बरव्याधूननपूर्वकं दशदिगुपभोगकारि- त्वात्वां स्तोतुं वयमेव लज्जामह इति भावः। वस्तुस्थितिस्तु - युधि तावकधनुर्विष्फारस्सकलगगनदशदिग्व्यापी ईदृश महा- विक्रान्तचूडामणि त्वां स्तोतुं मिंतपचवचसो वयं लजामह इति।

त्तान्ताभेदेनावतिष्ठते। भुङ्गे इति कार्यपुरस्कारेण विशेषण- साम्यम्। भोगश्च प्रकृते औपचारिकः। एवं प्रागुदाहते 'सा- मोदबाष्पगद्रद' इति पद्येऽपि द्रष्टव्यम्॥ कार्यधर्मान्तरयोस्संकरेण साधारण्यं यथा- शुभविभवसंप्रसारणमाकलयन्पूर्वरूपमपि भ- गवन्। रचयसि मघोनि गुणमपि सुभेऽत्र दृढपा- णिनिहितशास्त्रस्त्वम् ।। ७४१।। हे भगवन्! हढ पाणौ निहितं शास्त्रं सुदर्शनादिशस्त्र- समुदयो यस्य स तथोक्तः। आश्रितानिष्टानवारणेष्टप्रापणार्थ मात्तपश्चायुध इति भावः । त्वं मघोनि इन्द्रे शुभविभवसंप्र-

Page 447

436 अलंकारमणिहारे

सारणं शुभस्य मङ्गळकरस्य विभवस्य त्रैलोक्यसाम्राज्यस्य संप्रसारणं संप्रदानमिति यावत्। आकलयन् सन् अत एव पूर्वरूपं दुर्वासशशापात्पूर्वमवस्थितमूर्जितत्वादिरूपं च । आक- लयन्निति संबध्यते । प्रवर्तयन्नित्यर्थः । अत एव सुभे शोभ- ना भा दीप्तिर्यस्य तस्मिस्तथोक्ते उज्ज्वलतेजसीत्यर्थः। अत्र अस्मि- न्निन्द्रे गुणमपि नयविनयसमृद्धयादिसुगुणमपि रचयसि। परि- पूर्णज्ञानशक्तिब लैश्वर्यवीर्यतेजसस्तवानुग्रहादेवेन्द्रस्येद्ृशसमृद्धया दिलाभ इति भावः। अनेनैवाभिप्रायेण भगवन्निति संबोध- नम्। पक्षे-हढं स्वभ्यस्तं पाणिनये हितं यच्छास्त्रं व्याकरणं यस्य स तथोक्तस्त्वम्। अस्मिन् पक्षे शुभविभवसंप्रसारण- मित्यत्र शुभविभेतिच्छेदः । शुभा विभा प्रभा यस्य तथोक्त:। तस्य संबुद्धि: हे शुभविभ! हे भगवन्! सुभे सुष्टुभे 'यचि भम्' इत्युक्ताजादिविभक्तिपरकत्वलक्षणां भसंज्ञां प्राप्ते मधोनि मघवशब्दे। वसंप्रसारणं वस्य वकारस्य संप्रसारणं 'इग्य- णस्संप्रसारणम्' इत्युक्तलक्षणं यणस्थानिकमिकं उकारमित्यर्थ:। 'श्वयुवमघोनामतद्धिते' इति भसंज्ञकमघवशब्दस्थवकारस्थ सं- प्रसारणविधानादिति भावः । पूर्वरूपमपि 'संप्रसारणाच्च' इति सूत्रेण संप्रसारणादचि परे पूर्वरूपमेकादेशं च आकलयन् नि- ष्पादयन् अत्र अस्मिन्मघवशब्दे गुणमपि 'आद्गुणः' इत्यनेन गुणसंज्ञिकमेकादेशं च रचयसि । तथाच मघवशब्दे भसंज्ञा- यां वकारस्य संप्रसारणं पूर्वरूपं गुणं च विधाय सघोनीत्या- दिरूपं निष्पादयसीति निर्गळतोऽर्थः। अत्र प्रस्तुते महेन्द्रवैभ- वादिप्रदातृभगवद्दत्तान्ते अप्रस्तुतवैयाकरणवृत्तान्तोऽमेदेन स्थितः। अत्र दृढपाणिनिहितशास्त्रत्वेन धर्मेण शुभविभवसंप्रसारणाकल- नादिकं कार्य संकीर्णम्।।

Page 448

समासोक्तिसरः (२६) 437

समासोक्तौ व्यज्यमानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम्। तदुपस्कृतवाच्यस्यैव प्राधान्यमित्युक्तम्। तत्र यदि व्यङ्गयस्यैव प्राधान्यं स्यात् न वाच्यस्य, तदा 'स्तोतुं त्रपामहे त्वां' इते प्रागुदाहते पद्ये निन्दाव्याजेन स्तुतौ पर्यवसानं न स्यात्। स्तुतिनिन्द्योः प्रकृताप्नकृतव्यवहाराश्रयत्वादिति ध्येयम्।

अलंकारसर्वस्वकारेण तु "औप्यगर्भत्वेनापि विशेषणसा- म्यं संभवति। यथा-

दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिबृन्देन सुवेषा हरिणेक्षणा॥

अत्र हरिणेक्षणामात्रवृत्तेस्सुवेषत्वस्य विशेषणस्य महिस्ा दन्त- प्रभासदृशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभाः पुष्पा- णीवेत्यायुपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ स- त्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुजजीवने पुष्पप- ल्लवालिवृन्दरुपमेयैः आक्षिप्ताया लतायाः प्रत्ययात्तद्वयवहारारोप:। एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्र- माणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पू- रवौक्तरीत्या लताप्रतीतेस्समासोक्तिरेव। समासभेदेनार्थमेदेऽपि शब्दैकमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम्। आदा- वन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेन एकदेशविवर्तिरूपके-

तन्न विचारसहं-दन्तप्रभा: पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्तलतोपमानिकया एकदेशविव- र्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थक्यादत्राप्रसक्ते: । न

Page 449

438 अलंकारमिहारे

चोन्भटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीकारात्तथोक्तमिति वाच्यम्। अनुपदमेव स्वयं तत्स्वीकारात्॥ हालाहलसमो मन्युरनुकम्पा सुधोपमा। कीर्तिस्ते चन्द्रसदशी भटास्तु मकरोन्टाः।। इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशविवर्त्युपमाया एव स्वीक- तत्वाञ्च। अवश्यक्लप्ेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्। त-

यत्र ्िलिष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौप- म्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिः ।तथाऽपि नासा- वौपम्थगर्भविशेषणोत्थापितस्तृतीयः प्रमेदो भवितुमीष्टे। स्वत- न्तविषयत्वाभावात्। यथा- निर्मलाम्बररम्यश्री: किंचिदर्शिततारका। हंसावलीहारयुता शरद्विजयते तराम् ॥ अत्र पूर्वार्धगतश्िलिष्टविशेषणोत्थापितैव समास्ोक्तिः उत्त- रार्धगतेनौपस्यगर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते। एवं 'दत्तानन्दा समस्तानां प्रफुल्लोत्पलमा- लिनी' इति पूर्वार्धे कृते शुद्धसाधारणविशेषणोत्थापितैव। परिफुल्लाव्जनयना चन्द्रिकाचारुहासिनी। हंसावलीहारयुता शरद्विजयते तराम्।। इत्यत्रोपमारूपकयोस्साधकस्य बाधकस्थ चाभावात्सकरालंका- रस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव। तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविव- तिन्युपमा। विशेषणसमासस्फूर्ती तथाविधमेव रूप कमिति प्रथ- मयोजनयैवाप्रकृतार्थावगतेः द्वितीययोजनायाः परिफुलाब्जानीव

Page 450

समासोफ्तिसर: (२५) 439

नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु-'शरद्वर्षा- सखी वभौ' इति चतुर्थचरणं निर्सीयते तंदा तु शरन्मात्रवृत्ते-

स्यावश्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्रकामिनीरूपो- पमानिकया अत एवैकदेशविवर्तिन्या उपमयैव निर्वाह इति वे दितमपि सहृदयप्रीतये पुननिवेदितमिति हि रसगङ्गाधरे स्थि- तम्। सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्य लौकिके शास्त्रीयस्य शास्त्रीये लौकिकस्य वा स- मारोप इति चतुर्धा भवति। तत्राद्या प्रागुदाहृताऽपि पुनरुदा- हियते बालबुद्धिवैशद्याय।।

यथा- प्रदरक्षोभादस्त्रं प्रमुश्चमाना तव द्विषां सेना। दूनाऽभूद्वीमत्सा म्लाना च रघूद्हातिविचिकित्सा।। हे रघूद्वह! तव द्विषां सेना प्रदरेण विदारणेन वाणेन भङ्गेन वा यः क्षोभः तस्मात्। पक्षे-प्रदरेण शोणितस्राविणा स्त्रीरोगविशेषेण यः क्षोभः तस्मात् 'प्रदर भङ्गनारीरुग्बाणाः' इत्यमरः । 'प्रदरो रोगभेदे स्याद्विदारे शरभङ्गयोः' इति मेदिनी च। अस्रं अश्रु केशं वा जात्येकचचनम्। अन्यत्र रुधिरं 'अस्र: कोणे कचे पुंसि क्वीबमश्रुणि शोणिते' इति मेदिनी। प्रमुश्च- माना विसृजन्ती । मुश्चतिः स्वरितेत् ततइशानच् । एकत्र वि- दारणबाणभङ्गान्यतमजनितवैकल्येन वाष्पायमाणा विकीर्णकेशा वेत्यर्थः। अन्यत्र व्याधिविशेषेण रुधिरस्राविणीत्यर्थः। दूना परि- तप्ा बीभत्सा विकृता बीभत्सरसालम्वनभूता च 'बीभत्सं वि- कृतं त्रिष्विदं द्वयम्' इत्यमरः। अतिविचिकित्सा अतिमात्रसंश-

Page 451

440 अलंकारमणिहारे

यग्रस्ता प्राणसंशयमापन्नेत्यर्थः । पक्षे-विगता चिकित्सा रुक्प्र- तिक्रिया यस्यास्सा तथोक्ता अतिमात्रं विचिकित्सा अतिवि- चिकित्सा अतिवेलरोगप्रतीकारविधुरेत्यर्थः । म्लाना क्षीणहर्षा च अभूत। अत्र प्रस्तुते लौकिके भगवत्पराहतरिपुसेनाव्यवहारे लौकिकव्याधितवनिताव्यवहारारोप: ॥ शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपेण यथा- श्रुतविधिना मन्त्राऽडपत्रा नानामूलार्थवादसं- घात्रा। स भवानवेदि निश्चितमच्युत विदुषा सना- तनो धर्मः॥७४३॥ हे अच्युत! शुतविधिना श्रुतः निशमितः विधिः 'द्रष्टव्यो निदिध्यासितव्यः' इत्यास्नातो विधि: येन तथोक्तेन। अत एव मन्त्रा मननशीलेन। मननं नाम श्रुतस्यार्थस्थ प्रतिष्ठापनाय युक्ति- भिरेवमेवेति चिन्तनम्। नानामूलार्थवादसंघात्रा नाना वक्ष्यमाण- रीत्या बहुप्रकारा: मूलार्थः 'कारणं तु ध्येयः' इति ध्येयत- योक्तजगत्कारणरूपवस्तु मूलं चासावर्थश्चेति विग्रहः तद्विषये ये वादा: तेषां संधात्रा शेषषष्टया समासः 'मूलमाद्े शिफा- भयोः, अर्थोऽभिधेयरैवस्तुप्रयोजनिवृत्तिषु' इति चामरः । "सन्मूलास्सोम्येमाः, अदोमूला: क्रियास्सर्वाः, मूलमूलोते खिन्ने" इत्यादौ मूलशब्द: कारणवाचितया प्रयुक्तः । अयं भाव :- 'स- देव सोम्येदमग्र असीत्, ब्रह्म वा इदमेकमेवाग्र आसीत्, आत्मा वा इदमेक एवाग्र आसीत्, हिरण्यगर्भस्समवर्तताग्रे, न सन्न चासच्छिव एव केवल:' इत्यादीनां नानाविधानां कारणवाक्या- नामेकविषयत्वावश्यंभावे 'छागो वा मन्त्रवर्णात्' इत्युक्तन्यायेन सद्गह्मात्माहरण्यगर्भशिवादिसामान्यशब्दान् 'एको ह वै नारायण

Page 452

समासोफ्तिसर: (२५) 44i

आसीत् इति श्रुते नारायणरूपविशेषे पर्यवसाययतेति। आप्त्रा प्राप्त्रा। अनेन 'ब्रह्मविदाप्नोति' इत्यत्रोक्तं परप्राप्तृत्वं प्रकटीकृतम्। विदुषा 'द्वे विद्ये वेदितव्ये परा चैवापरा च'॥ तत्प्राप्तिहेतुर्ज्ानं च कर्म चोक्तं महामुने। आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते। शब्दब्रह्मागममयं परं ब्रह्म विवेकजम्॥ इत्यत्रोक्तागमोत्थज्ञानवतेत्यर्थः, विवेकादिसाधनसप्कानुगृहीतोपा- सनात्मकज्ञानस्यावेदीति पृथग्वक्ष्यमाणत्वात् । सनातनः नित्यः धर्मः सिद्धधर्मरूपः । अलौकिकश्रेयस्साधनं हि धर्मः ।स च सिद्धसाध्यभेदेन द्विविधः सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगोऽपि महाभारते दृश्यते। यथा- ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम्॥ इति सिद्धोपायभूत इत्यर्थः । स भवान् प्राप्यरूपस्त्वम्। निश्चितं युक्त्यन्तरैरचाल्यं यथा स्यात्तथा अवेदि उपास्यत । आवृत्त्य- धिकरणे विद्युपास्योरेकार्थ्यस्य भाषितत्वात्। उपासनं नाम विजातिायप्रत्ययानन्तरितं अहरहरभ्यासाधेयातिशयं प्रीतिरूपापन्नं दर्शनसमानाकार ध्यानम् । अनेन 'द्रष्टव्यो निदिध्यासितव्यः' इत्यसावर्थोऽनुसृतः॥ पक्षे-श्रुताः विधयः अपूर्वनियमपरिसंख्याभेदभिदुराः वि- धयः येन स तथोक्तः। तेन ईदृशविधिस्वरूपपरिज्ञात्रोत या- वत् । तत्र यो विधिरत्यन्ताप्राप्तमर्थ प्रापयति सोऽपूर्वविधि: यथोक्तं 'विधिरत्यन्तमप्राप्तौ' इति। यथा दर्शपौर्णमासप्रकर- णे 'व्रीहीन् प्रोक्षति' इति। एतद्विध्यभावे दर्शपौर्णमासीयव्री- ALANKARA 56

Page 453

442 अलंकारमणिहारे

हिषु प्रोक्षणं कथमपि न प्राप्नोति। एतद्विधिसन्भ्ाव तु तदीय-

धिः। यो विधि: पक्षे प्राप्तमर्थ नियमयति स नियमविधिः। यथो- च्यते-'नियमः पाक्षिके सति' इति। यथा तत्रैव 'ब्रीहीनवहन्ति' इति। एतद्विध्यभावे दार्शपौर्णमासिकेषु व्रीहिषूत्पत्तिवाक्यावग-

त्कदाचिन्नखविदलनमपि प्राप्नुयादिति। तस्मिन्पक्षेSवहननस्य प्राप्त्यभावात्कार्यान्यथानुपपत्तेरवहननस्य पाक्षिका प्राप्तिस्स्यात्। सति चास्मिन्विधौ अवहननेनैव वैतुष्यं संपादनीयमिति नियमे सति विदलनमर्थान्निवर्तत इति नियमविधिरयम् । द्वयोस्स- मुच्चित्य प्राप्तावितरनिवृत्तिफलको विधि: परिसंख्याविधि: । य- थोच्यते-'तन्न चान्यत्र च प्रात्तौ परिसंख्येति गीयते' इति।

त्ते' इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रश- नाग्रहणप्रकाशको मन्त्रो रशनादानप्रकाशनसामर्थ्यरूपाल्लिङ्गाद- शवरशनादान इव गर्ईभरशनादानेऽपि नियमेन प्राप्नुयात्। साते चास्मिन्विधौ अनेन मन्त्रेणाश्वरशनामेवादर्दीत।न तु गर्दभर- शनां, सा तु तूष्णीमेव ग्राह्यति गर्दभरशनातो मन्त्रनिवृत्ति- र्भवतीति द्योस्समुच्चित्य प्राप्तावितरनिवृत्तिफलकत्वादयं परि- संख्याविधिरिति संक्षेपः । प्रकृतमनुसराम :- मन्त्राप्त्रा। मन्त्रा- णामाप्ता प्राप्ता तेन अधिगतमन्त्रेणेत्यर्थः । पूर्ववदेव समासः ।प्रयो- गसमवेतार्थस्मारका मन्त्राः । तेषां च तादृशार्थस्मारकत्वेनैवा- र्थवत्वम्, न तु तदुच्चारणमद्दष्टार्थ, संभवति हष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात्। नच दष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि संभवान्मन्त्राम्नानं व्यर्थमिति वाच्यम्। मन्त्रै-

Page 454

समासोक्तिसरः (२५) 443

रेव स्मर्तव्यमिति नियमविध्याश्रयणात्। नानामूलार्थवादसंधात्रा नानामूलानां बहुकारणकानां अर्थवादानां अर्थवादवाक्यानां सं- धात्रा अर्थवादवाक्यानि विर्धिवाक्यैकवाक्यतया संयोज्य प्र. माणीकुर्वतेति यावत्। अर्थवादो नाम प्राशस्त्यनिन्दान्यतरपरं वाक्यम्। तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम्। तथा. हि-अर्थवादवाक्यं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेय- निषेध्ययोः प्राशस्त्यनिन्दितत्वे लक्षणया प्रतिपाद्यति। स्वा- र्थमात्रपरत्वे आनर्थक्यप्रसङ्गात्। आम्नायस्य च क्रियार्थत्वात्। न चेष्टापनिः 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिना सकलवे- दाध्ययनस्य कर्तव्यतां प्रतिपादयता सर्वस्यापि वेदस्य प्रयो- जनवदर्थपर्यवसानं सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः । स च द्विविधः-विधिशेषो निषेधशेषश्च। तन्र 'वायव्यं श्वेतमालभेत मूंतिकामः' इत्यादिविधिशेषस्य 'वायुर्वै क्षपिष्ठा देवता' इत्यादे- र्विधेयार्थप्राशस्त्यबोधकतयार्ऽर्थवत्त्वम्। 'बार्हृषि रजत न देयम्' इत्यादिनिषेधशेषस्य 'सोऽरोदीददरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्या- देर्निषेध्यस्य निन्दितत्ववोधकतयार्ऽर्थवत्त्वम्। नच प्राशस्त्या- दिबोधनस्य निष्प्रयोजनत्वेन नार्थवादस्थार्थवत्त्वमिति वाच्यम्। आलस्यादिवशादप्रवर्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेन तद्वो- धस्योपयोगात्। स पुनस्त्रेधा। तदुक्तम्- विरोधे गुणवादस्स्यादनुवादोऽवधारिते।

अयमर्थः-प्रमाणन्तरविरोधे सत्यर्थवादो गुणवादः। यथा 'आ- दित्यो यूप:' इत्यादि। यूपे आदित्याभेदस्य प्रत्यक्षबाधिततयाSS- दित्यवदुज्जवलत्वगुणोऽनेन लक्षणया प्रतिपाद्यते। प्रमाणान्तरा-

Page 455

444 अलंकारमणिहारे

वगतार्थबोधकोऽनुवादः । यथा-'अग्निर्हिमस्य भेषजम्' इति। अत्र हिमविरोधित्वस्यान्नौ प्रत्यक्षावगतत्वात् । प्रमाणान्तरविरो धतत्प्राप्तिरहितार्थबोधको वादो भूतार्थवादः । यथा-'इन्द्रो वृ- त्राय वज्रमुदयच्छत्' इत्यादिः। इत्यलं प्रसक्तानुप्रसक्तिका- चापलेन। विदुषा उक्तरीत्या विधिमन्त्रार्थवादवेत्रा पुरुषेण विप- श्चिता। सनातनः 'एष धर्मस्सनातनः' इत्युक्तरीत्या श्रुतिस्म- त्यादिपरंपरागतः । धर्मः साध्यरूपो धर्मः निश्चितं मीमांसा- न्यायैर्निस्संदिग्धं यथा स्यात्तथा स भवानवेदि ज्ञातः ।धर्मो नाम वेदप्रतिपाद्यः प्रयोजनवदर्थः । स च यागादिरेव। प्रयोजनेऽ- तिव्याप्तिवारणाय प्रयोजनवदिति। भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति। अनर्थफलकत्वादनर्थभूते श्येनादावतिव्या- प्िवारणायार्थ इति। नच 'चोदनालक्षणोरऽर्थों धर्मः' इति सौत्रतल्लक्षणविरोधः। चोदनापदस्य विधिरूपवेदैकदेशपरत्वा- दिति वाच्यम्। तन्नापि चोदनाशब्दस्य वेदमात्रपरत्वात्। वे- दस्य सर्वस्य धर्मतात्पर्यवत्वेन धर्मप्रतिपादकत्वादित्यलं विस्त रेण। अत्र ब्रह्ममीमांसाशास्त्रीये प्रस्तुते व्यवहारे अप्रस्तुतक- र्ममीमांसाशास्त्रीयव्यवहारारोप:।

यथा वा- अप्प्राते पूर्व त्वयि बहवोपि गुणाः परं विधी- यन्ते। अन्यत्र तु न विधातुं शक्योडनेको गुणो भगवन्॥। ७४४॥

हे भगवन्। इदं वक्ष्यमाणगुणपौष्कल्यवत्ताभिप्रायगर्भम्। पूर्व सृष्टेः प्राक्। अपः प्राप्तः अप्प्राप्तः । तस्मिस्तथोक्ते 'द्विती-

Page 456

समासोक्तिसरः (२५) 445

याश्रित' इत्यादिना समासः । महार्णवजले शयान इति यावत्। 'यमन्तस्समुद्रे क्रवयोऽवयन्ति, महार्णवे शयानोऽप्सु' इत्यादि- प्रमाणात्। अनेन- आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्थायनं पूर्व तेन नारायणस्स्मृतः ॥ इति स्मृत्युक्तनारायणशब्दनिर्वचनं दर्शितम् । तेन 'एको हवै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी' इति श्रुतं कारणत्वमप्याक्षिप्ं भवति। त्वयय परं त्वय्येव। बहवोऽसं- ख्याता अपि गुणाः कारणत्वीपयिकाः सर्वज्ञत्वसर्वशक्तित्वा- दय: कल्याणगुणा: विधीयन्ते 'यस्सर्वज्ञस्सर्ववित्' इत्यादिशु- तिभिरिति भावः । अन्यत्र त्वदतिरिक्ते देवे तु अनेकोणुणः विधातुं न शक्यः । एकोऽपि गुणो न शक्यो विधातुं कि- मुतानेकः। तवेवान्येषां दैवतानामेकयाऽपि श्रुत्या उक्तविध- कल्याणकगुणस्यैकस्याप्यनुक्तेरिति भावः। एतेन कारणवाक्य- घटितानां हिरण्यगभैशिवादिशब्दानामैन्द्रीन्यायेन कयाचिदवय- वशक्त्या रूढ्या अपर्यवसानवृत्त्या वा नारायणपरत्वमेवेति पू- र्वश्लोकोक्त एवार्थः स्थूणानिखनन्यायेन स्थिरोकृत इत्यवधेयम्॥ अन्यत्र- प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्रास्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति मीमांसककारिकाया: पूर्वोत्तराधयोरर्थः एतत्पद्योत्तरपूर्वार्धा भ्यां वैपरीत्येन वर्णितः । तथाहि-पूर्व गुणविधानात्पूर्व अप्प्रास्ते शास्त्रान्तरेणाविहिते कर्मणि अत्र "अनचि च' इति रेफघटितप- कारस्य वैकल्पिकं द्वित्वम्। बहवोऽपि गुणाः अप्रधानभूता अर्थाः परं एकयत्ननैवेति यावत्। विधीयन्ते विहिता भवन्ति।

Page 457

446 अलंकारमणिहारे

तथाच सूत्रम्-'तद्गणास्तु विधीयेरन्न विभागाद्विधानार्थेन चेद- न्येन शिष्टाः' इति। अन्यत्र प्राप्ते कर्मणि तु अनेको गुणो न विधातुं शक्यः । अत एव 'दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्ट प्राजापत्यम् इति प्रकृत्य 'चित्रया यजेत पशुकामः' इति मानान्तरप्राप्तकर्मानुवादेन चित्रत्वस्त्री- ववगुणद्वयविधाने वाक्यभेद इति चित्रापदस्य नामधेयत्वमेव 'यदाग्रेयोऽष्टाकपालो भवत्यमावास्यायां च पौर्णमास्यां चाच्यु- तो भवति' इत्यत्र मानान्तराप्राप्ते कर्मणि एकदेवताष्टाकपालपु- रोडाशामावास्यापौर्णमास्याद्यनेकगुणविशिष्टो द्रव्यदेवतासंबन्धे- नानुमितो यागो विधीयत इति विशिष्टकर्मविधानान्न वाक्यभेद इति व्यवस्थापितमाकरे। एवमन्यत्रापि द्रष्टव्यमिति संक्षेपः। अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोप:॥ यथा वा- ब्रह्म जयतादपूर्व करणादिकमपि यदन्वयादे- व। प्राप्नोति शक्तिमत्त्वं प्रभाकराद्याश्र यदनुगा विबुधाः ॥७४५॥ अपूर्व 'न चास्य कश्चिज्निता' इत्युक्तरीत्या कारणान्तर- रहितं, कार्याणां कारणं पूर्वम्' इत्युक्तरीत्या सकलजत्कारण- भूतमित्यर्थः। ब्रह्म भगवान् जयतात् । यस्य ब्रह्मणः अन्व- यात् प्रेरणादेवेति यावत्। करणादिकं इन्द्रियादिकमपि आदि- शब्दन प्राणादिकं गृह्यते। शक्तिम्त्वं स्वस्वविषयकार्यक्षमत्वं प्रा- mihcwoccmsaptAb ोति- केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुरश्रोत्रं क उदेवो युनक्ति।

Page 458

समासोक्तिसर: (२५) 447

श्रोतस्य श्रोत्रं मनसो मनो यद्ाचो ह वाच स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीरा: प्रेत्यास्मालोकादमृता भवन्ति॥ इत्युत्तररूपा श्रुतिरत्रानुसंहिता। प्रभाकराद्याः सूर्यप्रमुखाः वि- बुधाः देवाः यदनुगाः यच्छासनानतिवर्तिन इति यावत्। 'एतस्य ना अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, भीषास्माद्वातः पवते भीषोदेति सूर्यः' इत्यादिश्रुतिभ्यः॥ पक्षे-अपूर्व मीमांसकाभ्युपगतं किंचिद्स्तु। विहितनिषषि- द्धकर्मणां तत्तद्वाक्यैस्तत्तत्फलसाधनत्वेऽवगते आशुविनाशिनां कर्मणां कालान्तरभाविफलसाधनत्वस्योपपत्यर्थमन्त्रा पुण्यपाप- रूपमद्दष्टापरपर्यायमपूर्व नाम किंचित्तैर्हि कल्पितम्। तच्चोत्पत्य- पूर्व फलापूर्वमित्याद्यनेकावधम्। करणादिकं 'साधकतमं कर- णम्' इत्यायृक्तं कारकवाचि पदजातमपि। येन अपूर्वेण अ- न्वयात् अन्वितंत्वादेव शक्तिमत्त्वं मुख्यार्थवत्त्वं प्राप्नोति। ते .

हि पदानामन्विताभिधायित्वेन कारकपदानामपूर्वकार्यान्विताभि- धायिनां तदन्वित एव मुख्यार्थः, तदन्वयपरित्यागे लक्षणैवेति वदन्ति। प्रभाकराद्याः प्रभाकरो नाम तान्त्रिकाग्रणीः स ए- वाद्यो येषां ते विबुधा: विपश्चितः यदनुगाः यत् अपूर्व अनु- गच्छन्तीति तथोक्ताः अपूर्वप्रतिपादनपरा इत्यर्थः । अत्रापि पूर्व- वदेव व्यवहारारोप:॥ यथा वा- विविध पदनामरूपव्याकरणकृता त्वयैव ननु भगवन्। मृत्युंजयस्य सुतरामुमागमश्रीर्व्यधीय- तार्धाङ्गे ॥ ७४६॥

Page 459

448 अलंकारमणिहारै

हे भगवन् ! विविधानां पदानां वस्तूनां नामरूपयोः दे- वादिनामधेयविचित्रसृष्टयाः व्याकरणं विभागः तत्करोतीति त- थोक्त: तेन। 'अनेन जीवेनात्मनाऽनुप्रावश्य नामरूपे व्याकर- वाणि' इति श्रुतेः । त्वयैव मृत्युंजयस्य पिनाकिनः अर्धाङ्गे अर्धशरीरे सुतरां अतिसुष्ठ उमागमश्रीः उमायाः गौर्याः आग- मश्री: संबन्धसंपत् । व्यधीयत अक्रियत । विविधप्रपश्चनाम- रूपव्याकर्तारं त्वामन्तरण पुरारातेरधाङ्गनाङ्गत्वं को नु नामा- न्यो विद्धीतेति भावः॥ अन्यत्र-विविधानां पदानां सुप्िङ्कन्तात्मकानां नाम्नां कृ- दन्तादिप्रातिपदिकानामपि यानि रूपाणि तेषां व्याकरणं प्रकृ- तिप्रत्ययाद्यन्वाख्यानं करोतीति तथोक्तेन। मृत्युंजयस्य मृत्युं- जयशब्दस्य अर्धाङ्गे तस्य शब्दस्य वर्णचतुष्टयात्कतया वर्ण- द्वयस्यार्धाङ्गत्वं, तत्र आद्यवर्णद्वयचरमभागे इति यावत्। सु- तरा अतिवेलरमणीया उच्चारणे कोमलतासंपादनादिति भाव:। मु- मागमस्य मुमित्याकारकागमस्य श्रीः "संज्ञायां भृतुवृजि' इत्या- दिना खचि 'अरुद्विषदजन्तस्य मुम' इत्यनेन मुमागम इत्यर्थः। व्यधीयत विहिता। अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्र- स्तुतशब्दशास्त्रीयव्यवहारारोप:॥ यथा वा- साधुक्रियाप्रधानकमाख्यातं येन विश्वमनुशि- ष्टम्। नामानि तस्य सत्त्वप्रधानतां दधति तव विभान्ति विभो॥ ७४७॥ हे विभो! येन त्वया 'सत्त्वस्यैष प्रवर्तकः' इति सत्त्व- प्रवर्तकतया श्रुतेन भवता । विश्वं कृत्सं जगत् .साधुक्रिया

Page 460

समासोक्तिसरः (२५) 449

प्रशस्तकर्म प्रधानं अनुष्ठेयतया मुख्यं यस्य तत् साधुक्रिया- प्रधानकं सत् अनुशिष्टं लक्षतं उज्जीवितमिति यावत्। यद्वा- साधुक्रियाप्रधानकं यथा तथा अनुशिष्टमिति योज्यम्। आख्यातं उक्तरीत्या प्रतिपादितं 'एष ह्येव साधु कर्म कारयति तं यमे- भ्यो लोकेश्य उन्निनीषति' इत्यादिश्रुतिभिरिति भावः ।वि शवमेवेदं पुरुषस्तद्विश्वमुपजीवति। पति विश्वस्य' इत्यादिश्रुत- योऽप्यत्रानुसन्धेयाः । तस्य उक्तरीत्या विश्वानुशासितुः तव ना- मानि अभिधानानि सत्त्वप्रधानतां सत्त्वगुणप्राधान्यं सत्वप्रटत्ति- निमित्तकतामिति यावत्। 'सत्त्ववान्सात्विकः' इति नामसह- स्त्रपाठादिति भावः। यद्वा-सतो भावस्सत्व तत्प्राधान्यं दधात दधानानि 'सदसत्क्षरमक्षरम्' इति तत्रैव पाठात्। 'ओं तत्स- दिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः' इत्युक्तेश्चेति भावः । दधती- त्यत्र 'वा नपुंसकस्य' इति तुमो वैकल्पिकत्वात्तदभावः । वि भान्ति। अथवा-उक्तरीत्या सकलभुवनानुशासितुस्तव दिव्यना मानि कर्तृणि कीर्तयतां जनानां सात्त्विकतां पुष्णन्ति प्रकाशन्त इत्यर्थः ॥ पक्षे-येन यास्केनेति प्रतीयते। विश्वं सर्व आख्यातं तिङ् क्रियाप्रधानकं साधु यथा स्यात्तथा अनुशिष्टं देवदत्तस्तण्डुलं प- चतीत्यादौ शाब्दबोधे देवदत्तकर्तृकस्तण्डुलकर्मकः पाक इत्या- ख्यातस्य क्रियाप्राधान्यं 'भावप्रधानमाख्यातम्' इति तेनानुशि- ष्टमिति भावः। भावः क्रिया। आहुश्च- फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः। फले प्रधान व्यापारस्तिङर्थस्तु विशेषणम्॥ इति। तस्य यास्कस्येति प्रतीयते। नामानि कृदन्तादिप्रातिपदि- कानि सत्वप्रधानानि द्रव्यप्रधानानि सन्ति विभान्ति। पाचक ALANKARA 57

Page 461

450 अलंकारमणिहारे

इत्यादौ नास्नि बोधे पाकाश्रय इत्यादेर्द्रव्यप्राधान्यस्य 'सत्त्व- प्रधानानि नामानि' इति तेनानुशिष्टत्वादिति भावः । अत्रापि प्रस्तुते वेदान्तशास्त्रोयव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहा- रारोप: ।। यथावा- अपि पापकारिणमहो सुभजन्तं साधुकारिवज्जा- नन्। अस्वपदविग्रहमथ स्वनिभं च तनोषि नाथ सुमनास्तम् ॥७४८॥ हे नाथ! त्वं पापकारिणमपि पापंकरोतीति पापकारी तथो- क्मपि 'सुप्यजातौ' इते ताच्छील्ये णिनिः। सुभजन्तं आत्मानं सम्यगनन्यभाक्त्वेन भजमानं जनं साधु करोतीति साघुकारी साधुकर्मकृत्। पूर्ववदेव णिनिः। तेन तुल्यं तद्वत् जानन् साधु- कारिपापकारिपदाभ्यां "साधुकारी साधुर्भवति पापकारी पापो भवति" इति श्रुतिः प्रत्यभिज्ञाप्यते। आदौ दुष्कृतकारिणमप्या- त्मानं सम्यग्भजमान पुमांसं साधुकारिवज्ानन्। अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यस्सम्यगव्यवसितो हि सः॥ इति स्वेनैव गीतत्वादिति भावः। तं पुमांसं अस्वपदवि- ग्रहं स्वपदाभ्यां स्वचरणाभ्यां विग्रहः कलहः विवाद इति यावत् सनविद्यत यस्य तं तथोक्तं तनुषे। यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गझं मा कुरून्गम: । इत्युक्तरीत्या सर्वान्तर्यामिणा सर्वस्वामिना स्वेनाविवदमानं विधत्स इत्यर्थः । अत्र 'त्वं मेऽहं मे' इत्युक्तरीत्या भगवता सह प्र-

Page 462

समासोक्तिसरः (२६) 451

रणानुग्रह इत्यादिवत्। उदाहृतेऽस्मिन्वचने यमवैवस्वतराज- शब्दा: भगवत्पराः। अविवादशब्दस्तु तत्पद्योरात्मरक्षाभरस- मर्पणपर इति ध्येयम् । यथैतद्विवृतं वरदगुरुभि :- दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः। अन्तःप्रविष्टश्शास्ता यो जनानां यमयत्यपि। अत्मानमन्तरस्तस्य मृत्युमृत्योर्ह्ृदि स्थितः । तेन सर्वाधिराजेन विवस्वद्विम्बवर्तिना।। अविवादस्तु तस्यैव पदयोरात्मनोऽर्पणम्। इति। स्वचरणारविन्दसमार्पितात्मरक्षाभरं विदधासीति भावः। अथ एवमात्मरक्षाभरार्पणानन्तरं आर्त्याधिक्ये तत्क्षणमेव । दपतत्वे तच्छरीरावसाने इति भावः।तं प्रपन्नं स्वनिभं स्वेन तुल्यं च तनोषि 'निरञ्जनः परमं साम्यमुपैति' इत्यादुक्तरीत्या परमसाम्या- पन्नं विद्धासीत्यर्थः । उक्तेऽर्थे हेतुमभिप्रयन्नाह-सुमना इति। दयमानमहोदारमानस इत्यर्थः॥ पक्षे-सुमनाः विद्वानित्यर्थः । पापकारिणं सुभजन्तं च शब्दं साधुकारिवत् साधुकारिश्दतुल्यं जानन् अस्वपदविग्रहं स्वघटकयावत्पद्विग्रहविरहिणं तनोषि। पापकारिसाधुकारि- शब्दयोः 'उपपद्मतिङ्' इत्यनेन सुभजच्छन्दस्य 'कुगतिप्रादयः' इत्यनेन च सूत्रेण समासविधानात्। तयोश्च 'नित्यं क्रीडा' इत्यतो नित्यमित्यनुवृत्त्या तद्विहितसमासस्य नित्यत्वात्। अत- एव ह्यस्वपद्विग्रहः 'अविग्रहो नित्यसमासः अस्वपदविग्रहो वा' इत्युक्तेः । विग्रहो नाम समस्यमानानां पदानां व्यस्त- तया प्रदर्शनं, 'विभज्य गरृह्यते यस्स विग्रहः परिकीर्तितः' इ-

Page 463

452 अलंकारमणिहारे त्युक्ते:, 'विग्रहस्समरे देहे विस्तरेऽपि' इति रत्नमाला। अथ स्वनिभं स्वनिभशब्दं च अस्वपद्विग्रहं तनुषे इति योजना। तस्यापि नित्यसमासत्वादिति भावः 'स्युरुत्तरपदे त्वमी'। 'निभ- संकाशनीकाशप्रतीकाशोपमादयः' इत्युत्तरपदभूतस्यैव निभश- ब्दस्य तुल्यार्थकत्वानुशासनात्। उत्तरपदशब्दश्च समासचर मावयवे रूढः। अत्रापि पूर्ववदेव व्यवहारारोपः॥ यथावा- शास्त्रप्रसिद्धिसुभगे निरन्तरं भात्यतो गुणे प- रतः। अपदान्तस्थितिभाजस्तस्यास्य बुधस्य भव- ति पररुपम् ॥ ७४९॥ शास्त्रे औपनिषद्दहरविद्यादौ प्रसिद्धि: ख्यातिः तया सु भगे रमणीये गुणे 'अपहृतपाम्पा विजरो विमृत्युः, विज्ञानघन एव' इत्यादिश्रुते गुणे। जात्यभिप्रायकमेकवचनम् । परतः पर- स्मात् अतः अकारवाच्यान्नारायणात् 'अ इति भगवतो नारा- यणस्य प्रथमाभिधानम्' इत्यायुक्तेः। परव्रह्मणस्सकाशात् तदनुग्न- हादिति यावत्। निरन्तरं निश्शेषाविद्यानिवृत्त्या निरर्गळं यथा स्यात्तथा भाति सति। यद्वा अतःपरत इति षष्ठयर्थे। सार्व- विभक्तिकस्तसिः। परतः अतः परस्य ब्रह्मणः गुणे इति यो- जना। अपहृतपाप्मत्वादी ब्राह्मे गुणे इत्यर्थः । निरन्तरं भाति नित्यं प्रकाशमाने सतीत्यर्थः । अपदान्तस्थितिभाजः अस्य अ- कारवाच्यस्य नारायणस्य पदं 'तद्विष्णोः परमं पदम्' इत्या- स्नातं स्थानं तस्मिन् तस्य वा अन्तः मध्ये। रेफान्तमधिकर- णशक्तिप्रधानमव्ययम्। स्थितिभाजः तस्यास्य परब्रह्मप्रसादावि- भूतब्राह्मगुणस्यास्य बुधस्य ब्रह्मविदः पररूपं परस्य ब्रह्मणो रूपं

Page 464

समासोक्तिसर: (२५) 453

'निरञ्जनः परमं साम्यमुपैति' इति श्रुतं परमसाम्यमिति या वत्। भवति निष्पद्यते। अत्र फलाध्यायस्थव्राह्माधिकरणार्थोऽनु- सन्धेयः । तत्र हि 'स्वेन रूपेणािनिष्पद्यते' इत्यत्र अभिनि ष्पाद्यतयोक्तं किमपहतपाप्मत्वादिकमेव उत ज्ञानमात्रमेव आ- होस्विदुभयमपीति विशये-मुक्तमधिकृत्यापहृतपाप्मत्वादुपन्या- सात्तेन रूपेणैवाविर्भवताति 'ब्राह्मेण जैमिनिरुपन्यासादिभ्यः' इति सूत्रेण जैमनिमतमनूद 'विज्ञानघन एव' इत्यादिषु ज्ञान- मात्रमवास्य स्वरूपमित्यवगमात्, अपहृतपाप्मादिशब्दानां शोका- द्यभावपरत्वाच्च ज्ञानमात्रस्वरूपेणाविर्भवतीति तितितन्मात्रेण तदात्मकत्वाादत्यौडुलोमि:' इत्यौडुलोमिमतमुपन्यस्य पक्षद्वयेऽ- व्यन्यतरश्रुतिबाधात् "विज्ञानघन एव' इत्यवधारणस्य एकदे- राजडत्वशङ्गाव्युदासपरत्वेन गुणान्तरप्रतिक्षेपकत्वाभावाडुभयरू- पेणाविर्भवति" इति 'एवमप्युन्यासात्पूर्वभावादविरोधं बादरा- यणः' इति सूत्रेण मतदयमपि प्रतिक्षिप्रम्। पक्षे-अतः हस्वाकारात् परतः परत्र विद्यमाने शास्त्रप्र- सिद्धया शब्दविद्याप्सिद्धया सुभगे गुणे गुणसंज्ञके अकारादौ वर्णे निरन्तरं भाति संहितायां अव्यवधानेन भासमाने सति पदं सुप्िङन्तात्मकं तस्य अन्तः चरमभाग: पदान्तः स न भवतीत्यपदान्तः तस्मिन् पदान्तभिन्ने स्थितिभाजः तस्य गुणा- वधित्वेन पूर्वमुक्तस्थ अस्य ह्स्वाकारस्य पररूपं परस्य गुणसं- ज्ञकवर्णस्य रूपं तद्रूप एकादेश इत्यर्थः । भवतीति 'अतो गुणे' इति सौत्रोक्तपक्रिययाऽथोऽनुसन्घेयः । अत्रापि पूर्ववदे- वारोप: ।। यथा वा- अचिदिह योऽनड्कानिव सन्मार्गस्रदपि तव दशो

Page 465

454 अलंकारमणिहारे

विषयः। तं स्वपदान्ते दमितं विद्वांसमघध्वसं च विदधासि ॥ ७५० ॥ यः पुमान् अनड्वान् वृषभ इव अचित् ज्ञानह्ीनः 'चि तसंवित्प्रतिपद्ज्ञप्तिचेतनाः' इत्यमरः। 'ज्ञानेन हीनः पशुभिस्स मा।:' इत्युक्तेः। सन्मार्गात्स्ंसत इति सन्मार्गस्दपि तव दशः कटाक्षस्य विषयः याद्छिकादिसुकृतवशादिति भावः । भवे दिति शेष: । तं पुमांसं दमितं दान्तं 'दमु उपशमे' णिज- न्तादस्मात् क्तः 'वा दान्त' इति निपातनस्य चैकल्पिकतया पक्षे इटू। 'दान्तस्तु दमिते' इत्यमरः । 'शान्तो दान्तः' इत्यु- क्तरीत्या साधनसंपन्नमित्यर्थः। अथ विद्वांसं ब्रह्मविद अत एव अधे उत्तरपूर्वे पुण्यपापरूपे ध्वंसयत इत्यघध्वत् तथोक्तं अधध्वसं च 'तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदे- शात्' इत्युक्तप्रक्रियया अश्िष्टविनष्टोत्तरपूर्वाघं सन्तमिति भावः । ध्वंसेर्णिजन्तात् क्विपि 'णेरनिटि' इति णिलोपः। विद्वांसमघध्व- समित्याभ्यां 'तदा विद्वान् पुण्यपापे विधूय' इत्यस्याश्श्रुतेरर्थ उक्तः । स्वपदान्ते परमपद्मध्ये स्वचरणसन्निधौ वा विदधासि स्थापयसीत्यर्थः ॥ पक्षे-यः अचित् अचिदित्याकारकशशब्दः 'चिती संज्ञाने' संपदादित्वात्किप्। तान्तोऽयं चिच्छन्दः । ततो नञ्समासः । यः अनड्वानव अनडुच्छब्द इच विद्यमानः सन्मार्गस्त्रच्छब्दश्च तव दशो ज्ञानस्य विषयो गोचरो भवति तं अचिच्छब्दं अ- नडुच्छब्दतुल्यं सन्मार्गस्त्रच्छन्दं विद्वांसं विद्वच्छदं अघध्वसं अधध्वच्छ्दं च स्वपदान्ते स्वस्वरूपं यत्पदं 'स्वादिष्वसर्व- नामस्थाने' इति विहितपदसंज्ञाशालि प्रातिपादकं तस्य अन्ते

Page 466

समासोक्तिसरः (२५) 455

अन्तिमवर्णे तकारहकारसकाररूपे दं दकारं इतं प्राप्तं तका- रादिस्थानिकदकारवन्तं विदधासि अचिच्छन्दस्य तकारान्तस्य- पदान्ते 'झलां जशोऽन्ते' इति जश्त्वेन दकारविधानात् अनडु- दादिशव्दानां 'वसुस्त्रंसुध्वंस्वनडुहां दः' इति सूत्रेण पदान्ते द- त्वविधानाच्चति भावः । अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोप:॥ यथा वा- ननु सर्वनामतां हरिरयते स्वयमन्तरो बहि- र्योगात्। पूर्वः परश्र विदितोऽसंज्ञायां धीमतां व्यवस्थायाम् ॥ ७५१॥ अयं हरि: स्वयं अन्तरः 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः' इत्यादुक्तरी्या अन्तर्यामितयाऽन्तर्व्यापनशील: बहिर्यो- गात् बहिर्व्याप्तेः सर्वनामतां सर्वनामधेयतां 'अन्तर्बहिश्च त- त्सर्वम्' इत्युक्तरीत्या सर्वव्यापितया सर्वशब्दवाच्यतामित्यर्थः। अयते प्राप्नोति 'अन्तर्वहिश्च नारायणः, नारायण एवेदर सर्वम्, पुरुष एवेद सर्वम्, यद्भूतं यञ्च भव्यम्, सर्व खल्विदं ब्रह्म, सर्वत एव सर्वः' इत्यादीनि प्रमाणान्यत्र स्मर्तव्यानि। अत एव 'सर्वशशर्वः' इति तन्नामसु पठ्यते। किंच असंज्ञायां संज्ञा नाम संकेतः संकेतमात्रेणानिर्वृत्तायां किंतु शास्त्रीयेणैव पथा निष्पादितायामित्यर्थः। धीमता ब्रह्मविदां व्यवस्थायां सिद्धान्त- स्थित्यामिति यावत्। पूर्वः 'एष पूर्वस्य देवस्य लोककर्तुस्स- नातनः' इत्यायुक्तरीत्या सकलजगत्कारणभूतः परः सर्वोत्तर इति च 'परः पराणां, तमीश्वराणां परमं महेश्वरम्' इत्या- दिश्रवणात्। विदितः ज्ञात इत्यर्थः । यद्वा-'ब्रह्मैवेदममृतं पुर-

Page 467

456 अलंकारमणिहारे

स्ताङ्गह्म पश्चाद्मह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्व त प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इत्यायुक्तरीत्या पूर्वपरादिदिग्दृश्य- मानस्सर्वः पदार्थोऽप्ययमेवेति ज्ञात इत्यर्थः । अत्र मूले पूर्व- परशब्दौ श्रुतिगतदक्षिणोत्तरादिशब्दानामुपलक्षकावविति ध्येयम्॥। पक्षे-अयं अन्तरः अन्तरशब्द: बहिर्योगात् बाह्यरूपार्थव- त्वात् सर्वनामतां सर्वनामसंज्ञां अयते। असंज्ञायां संज्ञाभिन्ने व्यवस्थायां स्वाभिधेयापेक्षावधिनियमरूपार्थे धीमतां विदुषां विदितः । मतिबुद्धीत्यादिना वर्तमाने क्ः 'क्तस्य च वर्तमाने' इि तद्योगे षष्टी। पूर्वः पूर्वशब्द: परः परशब्दश्च सर्वनाम- तामयत इति योजना। अत्रार्थेऽपि पूर्वपरशब्दौ वक्ष्यमाणसूत्र- स्थावरदक्षिणादिशब्दानामुपलक्षकाविति ध्येयम्। अन्तरशब्दस्य 'अन्तरं बाहर्योगोपसंव्यानयोः' इति बाह्यरूपार्थे पूर्वपरशब्दयोः 'पूर्वपरावर' इति सूत्रेणासंज्ञायां व्यवस्थायां च सर्वनामता- नुशासनादिति भावः। अत्रापि पूर्ववदेव समारोपः । यथा वा- त्वय्यच्युतान्तरङ्गे सकलं बहिरङ्गमप्यसिद्वं नः। नाजानन्तर्ये तव बहिष्ट्रक्लप्तिः पुनः कदाऽपि भवेत् ॥ ७५२ ॥ हे अच्युत! त्वय विषये नः अन्तरङ्गे मनसि सति त्वां ध्यायति सतीति यावत्। सकलं बहिरङ्गं करचरणाद्यवयवजा- तमपि असिद्धं बाह्यविषयकप्रत्ययवैघुर्यात्सकलावयवानामविद्य- मानवन्भानादिति भावः। अनेन ध्यानस्यैकाग्रयं दर्शितम्। तत्र हेतुमाह-नेति। न, अज, आनन्तर्ये, इतिच्छेद: । हे अज ! भगबन्! 'अजशशम्भौ विष्णुधात्रोः' इति रत्नमाला। तव आनन्त

Page 468

समासोक्तिसरः (२५) 457

ये अनन्तरस्य भावः आनन्तर्य तास्मिन् अविनाभावे सतीत्यर्थः। अन्तरङ्गस्येत्यर्थाल्लभ्यते। पुनः बहिष्ट्रक्लप्तिः बहिर्भावकल्पनं पुन- विश्लेष इति यावत्। कदाऽपि न भवेत्। अतो वहिरङ्गमखिलं न ज्ञानविषयतां प्रपद्यत इत्यर्थः । याद त्वयि लग्नं मनो ब. हिर्मुखं भवेत्तर्ि बहिरङ्गमसिद्धवन्न स्यादिति भावः । अनेनै- वाभिप्रायेणाच्युतेति भगवत्संबोधनम्। 'यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः' इति हि निरुच्यने। भगवति लग्नस्य यस्यकस्या- पि वस्तुनस्तस्माच्चचुतिर्न भवतीत्यभप्रायः ॥ पक्षे-पूर्वार्धेन 'असिद्ध बहिरङ्गमन्तरक्के' इति परिभाषा, उत्तरार्धेन तदपवादभूता 'नाजानन्तर्ये बंहिष्ट्प्रयलतिः' इति परिभाषा च दर्शिता। अन्तरङ्ग कार्ये कर्तव्ये बहिरङ्गमंसिद्धं स्यादित्यन्तरङ्गपरिभाषाया अर्थः। अचोऽन्यानन्तर्यनिमित्तकेS- न्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्रपरक्लप्तिः बहिष्पदेन बहिरङ्गं ग्रृह्यते तस्य भावो वहिष्टं बहिरङ्गत्वं तत्प्रयुक्तासिद्धत्व- स्य न प्रक्लृप्तिः न प्राप्तिरिति नाजानन्तर्यपरिभाषाया अर्थः। विस्तरस्त्वन्यत्र । अत्रापि पूर्ववदेवारोपः॥ यथा वा- व्याप्त्या प्रथितमवाधं निष्प्रतिपक्षं च साधुपक्ष- स्थम्। सद्वेतुमीश जगतां त्वां प्राप्येष्ठानि साध- यन्ति बुधाः॥७५३॥ हे ईश! भगवन् ! बुधाः सुधियः व्याप्त्या 'अन्तर्बहिश्च तत्सर्वम्' इत्यादिश्रुत्युक्तव्यापनेन प्रथितं अविद्यमाना बाधा दुःखं यस्य तं 'पीडा बाधा व्यथा दुःखम्' इत्यमरः। 'न जरा ALANKARA 58

Page 469

458 अलंकारमणिहारे

न शोको न मृत्युः' इत्यादिशुतिरिहानुसन्धेया। निष्प्रतिपक्षं 'तेन कोऽर्हति स्पर्धितुम्' इति श्रुतेः । साधूनां ज्ञानिनां पक्षे तिष्ठतीति साधुपक्षस्थः तं 'ज्ञानी त्वात्मैव मे मतं, स च मम प्रियः' इति गानात् । सद्धेतुं 'सदेव सोम्य' इत्यायुक्तरीत्या सकलजगत्का- रणमित्यर्थ। त्वां प्राप्य उपास्य इष्टानि मुक्तै्वर्यादीनि साधयन्ति॥ अन्यत्र-साधु पक्षस्थमिति पदद्यम्। जगतामीशेति संबो- धनम्। व्याप्तया यत्र घूमस्तत्राप्निरित्यादिसाहचर्यनियमेन प्रथितं बाधो नाम साध्याभाववत्पक्षः ।स नास्ति यस्य तं अबाधम्। प्रतिपक्षो नाम स्वसाध्यविरुद्धसाध्याभावसाधकप्रतिहेतुमत्पक्ष: स निगतो यस्य तं निष्प्रतिपक्षम्। पक्षे संदिग्धसाध्यवति पर्वतादौ तिष्ठतीति पक्षस्थः तम्। अत एव सद्धेतुं घूमादिं प्राप्य ज्ञात्वा इष्टानि वह्नयादनि साधयन्तीत्यर्थः। अत्र वेदान्तशास्त्रीयव्यवहारे प्रस्तुते अप्रस्तुतन्यायशास्त्रीयव्यवहारारोपः पूर्वेभ्यो विशेषः॥

यथा वा- यत्र त्वं तत्र श्रीरिति युवयोस्साहचर्यनियमोऽ- स्ति। व्याप्तिश्रवैषाऽच्युत तत्साध्या सत्पक्षवर्तिन- स्त्वच्छीः॥ ७५४॥ हे अच्युत! यत्र यस्मिन् देशे त्वं भवसि, तत्र श्रीर्ल- क्ष्मीरपि भवति। इति युवयो: तव श्रियश्च 'त्यदादीनि सर्वैर्नि त्यम्' इति युष्मच्छद्दैकशेषः साहचर्यनियमः अस्ति- देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी। विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम्॥ इत्युक्तप्रक्रियया नियतसाहचर्यमस्तीति भावः। 'नित्यवैषा जग-

Page 470

समासोकिकिसर: (२५) 459

न्माता विष्णोशश्रीरनपायिनी' इत्यािकमपि भाव्यम्। एषा व्याप्तिश्च-

यथा मया जगद्वयापं स्वरूपेण स्वभावतः। तथा व्याप्तमिदं सर्व नियन्तरी च तथेश्वरी। मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः॥

इति लक्ष्मीतन्रोक्ता व्याप्तिरपि अस्तीति संबध्यते। तत् तस्मात् सत्पक्षवातन: ब्रह्मवित्पक्षपातिनः - चतुर्विधा मम जना भक्ता एव हि ते मताः। तेषामेकान्तिनशश्रेष्ठास्ते चैवानन्यदैवताः॥ इति स्वेवैवोक्तत्वादिति भावः।साधुजनपक्षपातिन इति वा। 'मम- प्राणा हि पाण्डवाः' इति तदुक्तेरिति भावः । त्वत् नित्यानपा- यिलक्ष्मीकान्भवतः । श्रीः साध्यते- चन्द्रां हिरण्मयीं लक्ष्मीं जातबेदो ममावह। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। • यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥ इत्यादुक्तरीत्या महाविभूतेस्त्वत्त एव ऐहिकामुष्मिकापवार्गिकस- वविधसमृद्धिस्साध्यत इति भावः । जातवेदइशब्दो भगवत्पर- तया व्याख्यातशश्रीसूक्तभाष्ये । 'सकलफलप्रदो हि विष्णुः। किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्यादिप्रमाणान्यत्रानु- संधेयानि। पक्षे-युवयोः यत्र त्वं तत्र श्रीरिति यत्र धूमस्तत्राग्निरित्या- दिवत्साहचर्यनियम: अस्ति व्याप्तिश्च व्याप्तिरपि एषा इयमेव। सर्व हि वाक्यं सावधारणम्। साहचर्यनियम पचेत्यर्थः। 'सा-

Page 471

460 अलंकारमणिहारे

हचर्यनियमो व्याप्तिः' इति हि तल्लक्षणम् ! इयमिति विधेयव्या- प्िशब्दगतलिङ्गकटाक्षेण । ततः उक्तविधव्याप्तिसद्भावादेव पक्ष- वर्तिनः, पक्षे 'सन्दिग्धसाध्यवान्पक्षः इत्युक्तलक्षणे पर्वतादौ वर्तत इति तथोक्तः । तस्मात् त्वत्तः सद्धेतुभूतान्भ्वतः श्रीः लक्ष्मीः साध्यते वह्नयादिरिवेति भावः । अत्रापि पूर्वोदाहरण इवारोपोऽनुसन्घेयः ।

यथा वा- यस्मिन्निश्चितमच्युत साध्यं निश्श्रेयसं वसत्य- न्तः। त्वद्गक्तो न्यायविदां स सपक्षस्स्यात्फणाध- रगिरीन्दो॥७५५॥

हे फणाधरगिरीन्दो! अच्युत! यस्मिन् पुंसि अन्तः मनसि निःश्रेयसं मुक्ति: निश्चितं यथा स्यात्तथा साध्यं साधनीयं सत् वसति। साध्यं निश्चितमिति वा योजना, साध्यत्वेन निश्चि- तं सद्वसतीत्यर्थः । 'सविशेषणे हि' इति न्यायेन साध्यत्वेन निशश्रेयसविषयकनिश्चयो मनस्वस्तीति यावत्। यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्राह नस्तत्। योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥ इत्युक्तरीत्या नचिकेतसो मनसीवेति भावः। अन्तर्निशश्रेयसं वसतीत्ययं निर्देश: 'कर्तु वा कञ्चिदन्तर्वसति वसुमतीदक्षिणस्स- प्रतन्तुः' इतिवदिति ध्येयम् । सः त्वन्भक्तः न्यायविदां ब्रह्म- मीमांसानयविदां गौतमयिन्यायवेत्तणां च । सपक्षः सदशः पक्षोऽस्य सपक्ष: स्ववर्गीण इत्यर्थः । स्यात् 'त्वाइड्ो भूयान्नचि-

Page 472

समासोक्तिसर: (२५) 461

केतः प्रष्टा' इत्युक्तरीत्या छात्रत्वेन स्वीकार्यो भवेदिति भावः अत्रापि वेदान्तशास्त्रीये प्रस्तुते व्यवहारे 'निश्चितसाध्यवान्सपक्षः' इति न्यायशास्त्रीयस्याप्रस्तुतव्यवहारस्यारोपः । निश्चितं यत्सा- ध्यं वह्नयादि तद्वान्महानसादि: सपक्षः सपक्षसंज्ञक इति तदर्थः॥ यथा वा- स प्रकृतिविकृतिभावं भजते साक्षी भवान्वर- द पुरुषः। अविकृतिराद्यप्रकृतिर्महतोऽप्यन्यस्य स भवितैव खलु ॥७५६॥ हे वरद! अविकृतिः निर्विकारा आद्यप्रकृतिः अखिलभुव- नानां प्रथमोपादानकारणभूतः । प्रकृतिशब्दो नित्यस्त्रीलिङ्ग: 'वा- सुदेव: परा प्रकृतिः, प्रकृतिश्च प्रतिज्ञाद्दष्टान्तानुपरोधात्' इत्या- दिकमिहानुसन्धेयम् । अविकृतिरिति विशेषणेन 'अचेतना प- रा्था च नित्या सततविक्रिया' इत्युक्तरीत्या मूलप्रकृतेरिवा- स्या: प्रकृतेस्स्वरूपान्यथाभावराहहित्यमुक्तम् । चिदचिच्छरीरक- तया परस्य ब्रह्मण उपादानकारणत्वेऽपि विकाराणां शरीरग- तत्वस्य श्रीभाष्यादी निरूपितत्वात् 'निष्कलं निष्क्रियं, अविका- राय शुद्धाय' इत्यादिप्रमाणप्रतिपादितनिर्विकारभावे तस्मिन्न त- त्प्रसक्तिरिति भाव। अत एव पुरुषः 'पूर्वमेवाहमिहासमिति। तत्पुरुषस्य पुरुषत्वम्' इति निर्वचनविषयः परमः पुमान् साक्षी सर्वदा सर्वद्रष्टा 'साक्षी चेता केवलो निर्गुणश्च' इत्यादिश्रुतेः भवान् प्रकृतिविकृतिभावं प्रकृतेः स्वभावस्य या विकृतिः वि- कारः तस्या: भाव स्थिरति ज्ञानत्वानन्दत्वादिस्वभावान्यथाभा- वमित्यर्थः । न भजते। तस्य कर्मकृतत्वेन तव तत्संस्पर्शा- भावादिति भावः । 'प्रकृतिगुणसाम्ये स्यादमात्यादिस्वभावयोः।

Page 473

462 अलंकारमणिहारे

योनौ लिङ्गे च' इति मेदिनी। कोशे योनिशब्दः प्रकृतिवाची। अन्यस्य त्वदितरस्य चतुर्मुखादे: प्रत्यगात्मनस्तु महतोऽपि त्व- दितरापेक्षया पूज्यस्यापि। सः प्रकृतिविकृतिभावः भवितैव। तस्य सर्वस्यापि- आव्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः। प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ इति कर्मपरतन्त्रताप्रतिपादनेन स्वभावान्यथाभावस्यावश्यंभावा दिति भावः । खल्विति शास्त्रप्रसिद्धिं द्योतयति॥ अन्यत्र तु- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्। बोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः॥ इति सांख्यतन्त्रप्रक्रिया निबद्धा। तथााह तदर्थः-मूलप्रकृति- र्नाम सत्वरजस्तमसां साम्यरूपा प्रकृतिः । तथाच कापिलं सूत्रम्-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः' इति। सेयमेका स्वयमचेतना अनेकचेतनभोगापवर्गार्था नित्या सर्वगता सतत- विक्रिया न कस्यचिद्विकृतिः। तथाच सूत्रम्-'मूले मूलाभावा- दमूलं मूदम्' इति। अपि तु परमकारणमेव। महदाद्याः सप्त। महानहंकारशशब्दतन्मात्रादितन्मात्रपश्चकं चेति सप्त। प्रकृ- तिविकृतयः स्वस्वकार्यनिरूपितप्रकृतित्वं स्वस्वकारणनिरूपि- तविकृतित्वं च तेषामस्तीति भावः । यथा महतः प्रकृतिनि- रूपितविकृतित्वं अहंकारनिरूपितप्रकृतित्वं च । एवमन्यत्रापि द्रष्टव्यम् । यथाच पूर्वोदाहृतसूत्रखण्डः 'प्रकृतेर्महान् महतोऽ- हंकार: अहंकारात्यञ्च तन्मात्राणि' इति। आकाशादिभूतपश्चकं श्रोत्रादिज्ञानेन्द्रियपश्चकं वागादिकर्मेन्द्रियपश्चकं मनश्चैकमिति षो ढश केवलं विकाराः। न तु कस्य चित्प्रकृतयः । सूत्रख-

Page 474

समासोक्तिसर: (२५) 463

णडश्च 'उभयमिन्द्रियं तन्मात्रेभ्यस्स्थूलभूतानि' इति । पुरुषः 'शरीरादिव्यतिरिक्तः पुमान्' इति सूत्रोक्तः पुमास्तु निष्परिणा- मत्वेन न कस्य चित्प्रकृतिः न कस्यचिद्विकृतिरिति। उदाहर- णपद्यार्थस्तु पुरुषः साक्षी केवलं साक्षिमूतः॥

पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थ प्रवृत्तेश्च। तस्माच्च विपर्यासात्सिद्ध साक्षित्वमस्य पुरुषस्य। केवल्यं माध्यस्थ्यं द्रष्टत्वमकर्तृभावश्च। इति हि तदीयप्रक्रिया। प्रकृतिविककृतिभावं उक्तरीत्या कस्य- चित्प्रकृतित्वं विकृतित्वं वा न भजते। आद्यप्रकृतिः मूलप्रक तिः अविकृतिः निर्विकारा महतः महत्तत्वस्य अपिशब्दो भिन्नक्रमः। अन्यस्यापि अहंकारादितन्मात्रपर्यन्तस्य तत्त्वष टस्या पि सः प्रकृतिविककृतिभावः उक्तरीत्या प्रकृतित्वं विकृतित्वं च भवितैव खलु। इदमुपलक्षणं, षोडशकञ्च विकार इत्यस्यापीति संक्षेपः। अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतकापिलत- न्त्रसिद्धव्यवहारारोप इति पूर्वेश्यो विशेषः॥

यथा वा - विदधासि वसुनि दैर्ध्य विश्वस्य तथा परेडपि पदराजि। न विकल्पमत्र तनुषे ननु रघुनन्दन समस्तपद्वित्त्वम् ॥७५७॥

ननु रघुनन्दन ! शक्तोऽपि रक्षणे लोभान्भयाद्वा शरणागतम्। यस्त्यजेत्पुरुषो लोके ब्रह्महत्यां स विन्दति॥

Page 475

464 अलंकारमणिहारे

इत्यादिना राक्षसं प्रति व्यतिरेकमुखेन शरणागतपारत्रा- णस्य धर्ममूर्धन्यत्वसुपदिशतो रघोरव्यानन्ददेत्यर्थः । अनेन च संबुद्ध चन्तपदेन शरणागतपरित्रागादिधर्मप्रवर्तनाय तदनुगुणेऽभि- जनेऽवतीर्णत्वं तादृशेषु शरण्येषु च शीर्षण्यत्वं द्योतितम् । समस्तपद्वित् समस्तस्य आखललोकस्य पदं शरणवरणवष- यकं व्यवसायं वेत्तीति तथोक्तः, सर्ववस्तुवेत्ता सर्वज्ञ इति वा। सर्वेषां पद त्राण वेत्तोति वा। सर्वभूतानाममयप्रदानेन रक्षि- तेति यावत्।

य एवमाह- सकृदेव प्रपन्नाय तवास्मोति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद्गतं मम ॥ इति। 'पदं व्यवसितत्राणस्थानलक्ष्माद्गिवस्तुषु' इत्यमरः । त्वं- विभीषणो वा सुग्रीव यदि वा रावणस्सयम्। आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥

इति वादीति भावः। परेषपि शत्रुपक्षीयतया सुग्रोवादिभि- इशाङ्गितेऽपि विभीषण इति भावः । यद्वा-परे रावणादावपि किमुत विभीषण इति भावः। अपिशब्दोSत्र व्संभावने। संभावन नामात्र दानशौण्डताविष्करणमित्युक्तिः । पदराजि पदयोश्चरण- यो: राजत इति तथोक्त तस्मिन्। 'त्यक्त्वा दारांश्च पुत्रांश्च राघवं शरणं गतः' इत्युक्तरीत्या सर्वस्वपरित्यागेन चरणारविन्दश- रणवरणविधातरीति भावः । अयमर्थो राजीत्यनेन ध्वन्यते। तथा विश्वस्य तथाशब्दोऽत्रानिर्वचनीयताद्योतकः । 'तथागतां ताम्' इत्यादिवत्। अनिर्वचनीयं यथा स्यात्तथा विश्वस्य वि- स्नभ्येत्यर्थः । विपूर्वकात् श्वसेः क्त्वो ल्यप्। वसुनि धनोप-

Page 476

समासोक्तिसर: (२५) 465 लक्षिते ऐश्वर्ये विषये दैरध्य आकल्पान्तकालावस्थायित्वं अप- रिच्छिन्नत्वं वा विद्धासि करोषि । अत्र ईदृशैश्वर्यविश्रा- णनविषये विकल्पं विविधं कल्पं देयं वा न वेत्यादिसंदेहं न तनुषे निर्विचिकित्समेव दत्से इत्यर्थः । पक्षे-समस्तपदवित् समग्रशब्दशास्त्रवेत्तेत्यर्थः । यद्वा- समस्तानि समासं प्राप्तानि यानि पदानि तानि वेत्तीति त- थोक्तः। सर्वसमासाश्रयविधिज्ञ इति यावत्। त्वं वसुनि वसुशब्दे तथा एवं पदराजि पदसंज्ञाभाजि राट्छब्दे परे सति विश्वस्य विश्वशब्दस्य दैर्ध्य दीर्घ, स्वार्थे ष्यत् : विदधासि 'वि- श्वस्य वसुराटोः' इति सूत्रेण विधत्से इत्यर्थः । विश्वशब्दस्य दी- र्घस्स्याद्सौ राट्छ दे च परे इति सूत्रार्थः। 'राडिति पदान्तो पलक्षणार्थ चर्त्वमविवक्षितम्' इत्याहुः। अनेनैवाभिप्रायेण पद- राजीति राट्छब्दः पदशब्देन वविशेषित इति ध्येयम्। अत्र अस्मिन् दीर्घविधौ विकल्पं विभाषां न तनुषे। तस्य नित्य- तया विधानादिति भावः । अत्रैतिहासिके भगवद्दत्तान्ते शब्द- शास्त्रीयव्यवहारारोप इति पूर्वस्मादुदाहरणगणाद्विशेषः। यथा वा- गहनायमानमप्यहिगिरिनाथ हरे समस्तमपि दितिजम्। अस्वपदविग्रहं त्वं पुरा विरचयन् सु- धां च साधयसे॥७५८॥

हे अहिगिरिनाथ! हरे! गहनायमानं पापं चिकीर्षन्तमपि देवविषये द्रोहं चिकीर्षन्तमपीत्यर्थः। 'न परः पापमाइत्ते परेषां पापकर्मणाम्' इत्यादौ पापशब्दो द्रोहार्थको दष्टः। 'सत्रकक्षकष्ट- ALANKARA 59

Page 477

466 अलंकारमणिहारे

कृछगह नेभ्यः कण्वाचकीर्षायामिति वक्तव्यम्' इत्यनेन वृत्तिविषये पापार्थकाद्वितीयान्ताद्गहनशब्दाच्चिकीर्षायां क्यङ्। पापं चिकीर्ष- तीत्यस्वपद्विग्रह इत्याहुः। समस्तं सर्वमपि दितिजं दैत्यं अस्व पदावेग्रहं अस्वपन्तः अस्वप्ना देवा: तैः तेषु वा अविग्रहं त्य- क्तकलहं 'कलहविग्रहौ' इत्यमरः। रचयन् सुरासुराणां सिन्धु- मन्थनविषये सन्धि विदधान इति भावः। सुधां अमृतं च पुरा साधयसे कूर्मा वतारे साधितवान् 'पुरि लुङ्गास्मे' इत्य- नेन पुराशब्दयोगे भूतानद्यतने वैकल्पिको लट्। अत्र श्रीभाग- वतीयं कूर्मावतारचरितमनुसन्धेयम् ॥ अन्यत्र गहनायमानं गहनायमानशब्दं समस्तं समासं प्राप्तं दितिजशब्दं च अस्वपद्विग्रहं स्वपदरहितवृत्त्यर्थावबो- धकवाक्यमित्यर्थः । रचयन् गहनाथमानशब्दस्य प्रागुपदर्शित- रीत्या अस्वपद्विग्रहः। दितिअशब्दस्य तु दित्यं जाता इति। 'सप्तम्यां जनेर्डः' इति डप्रत्ययः । अस्योपपदसमासत्वान्नित्य- समासत्वेनास्वपदविग्रह इति विभावनीयम्। सुधां च सुधाशब्दं च अस्वपद्विग्रहं रचयन्निति संबध्यते। साधितवान् निष्पा- दितवान् । सुष्ट धीयत इति सुधा। सुपूर्वकात् 'धट् पाने' इत्यस्माद्धातोः 'आतश्चोपसर्गे' इति कर्मण्यङ्।'आतश्चोपसर्गे' इति कप्रत्यय उचचित इत्यमरसुधायाम्। अयमपि प्रागुक्तरीत्या नित्यसमासत्वादस्वरपदविग्रह एव। अत्न प्रस्तुते पौराणिकव्यव- हारे अप्रस्तुतशब्दशास्त्रीयव्यहारारोप इति प्राचीनोदाहरणे- भ्यो वैलक्षण्यमिति ध्येयम्॥

यथावा- भूस्त्वत्सात्कृतिभाग्यत उपेन्द्रभावे गुणादगा-

Page 478

समासोक्तिसरः (२६) 467

द्रव्यत्वम्। तत्कृत्यान्तनिपातोऽयुक्त: क्ष्मादानक- तरि बलिध्वंसिन्॥७५९॥ हे बलिध्वंसिन्! इद च वामनावतारासाधारणचरितमत्र वितक्षितमिति द्योतायतुम्। उपेन्द्रभावे वामनत्वे यतः यस्मिन् यज्ञियदानकृत्ये। सार्वविभक्तिकस्तसिः । त्वत्सात्कृतिभाक त्वत्सा- त्कृतिः देयस्य वस्तुनः त्वदधीनीकरणं, तां भजतीति तथोक्ता 'विभाषा साति कात्स्नर्ये' इत्यतस्सातीत्यस्मिन्ननुवर्तमाने 'देये त्रा च' इत्यनेन वैकल्पिकस्सातिप्रत्ययः कृञो योगे। बलिना तुभ्यं दत्तेति भावः। भू: भूमिः गुणात् दातृप्रतिग्रहीत्रादिगुणात्। य- थोक्तं देवलेन- दाता प्रतिग्रहीता च श्रद्धा देये च धर्मयुक्। देशकालौ च दानानामङ्गान्येतानि षड्डिडुः ॥ अपापरोगी धर्मात्मा दित्सुखव्याजतरशुचिः। अनिन्द्यजीवकर्मा च षिर्दाता प्रशस्यते॥ त्रिशुक्करशुकवृत्तिश्च घृणाुस्संयतन्द्रियः। विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते॥ त्रिशुक्क: त्रिभिर्मातापित्राचार्यैश्शिक्षितत्वेन शुद्धः। शौचं शुद्धिर्महाप्रीतिरर्थिनां दर्शने तथा॥ सत्कृतिश्चानसूया च दाने श्रद्धेत्युदाहता। आचाराबाधमकेशं स्वयलेनार्जितं धनम्॥ स्वल्पं वा विपुलं वाऽपि देयमित्यभिधीयते। यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेSपि वा पुनः॥ दानाहौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा। अवस्था देशकालानां पात्रदान्रोश्च संपदा।

Page 479

468 अलंकारमणिहारे

हीनं चापि भवेच्छेष्ठं श्रेष्ठ वाऽप्यन्यथा भवेत्। इति। भव्यत्वं शुभत्वं योग्यत्वं वा 'भव्यं शुभे च योग्ये च सत्ये च' इति मेदिनी। श्रेयस्करत्वमिति यावत्। अगात् अलभत। क्ष्मादानकर्तार भूवितरणविधातररि बलिदानवेन्द्र इत्यर्थः । तत्कृ- त्यान्तनिपातः तस्य कृत्यस्थ पूर्वोक्तदानकार्यस्य अन्ते अवसान एव। न तुकालान्तरे वा। निपातः अधोभुवनपातनम् । निपातो- डयुक्त इत्यत्र अयुक्त इति छेदः । अयुक्तः अनुचितः । येन यस्य यास्मिन् दानकृत्ये दत्तं वस्तु पात्रादिगुणभूम्ना 'युक्ताङ्गैस्सक- लैष्षड्डिर्दानं स्याद्विपुलोदयम्' इत्युक्तरीत्या महाफलं संपद्येत, तस्यैव दानकर्तुस्तत्कार्यान्त एव प्रतिग्रहीत्रा निपातनमनुचितमिति निर्गाळतोऽर्थः । अयं चार्थ :- यत्पादयोरचलधीस्सलिलं प्रदाय। दूर्वाङ्गुरैरैपि विधाय सतीं सपर्याम्।। अप्युत्तमां गतिमसौ लभते त्रिलोकीं। दाश्वानविक्कबमना: कथमार्तिमृच्छेत्॥ इति बलिनिग्रहावसरे भगवन्तं प्रति ब्रह्मणा लोकदष्टयोक्तमर्थ- मभिसंधाय वर्णित इति ध्येयम्॥ पक्षे-क्मादानकर्तरत्यित्र क्ष्मादानेति उपेन्द्रभावे इत्यत्र उपे- न्द्रति च भिन्ने पदे संबुद्धयन्ते न तु समस्ते। आदत्ते स्वीकरोती- त्यादान:, नन्दादित्वात्कर्तरि ल्युः।क्ष्मायाः आदानःक्ष्मादानः, तस्य संवुद्धिः।यद्ा क्षमां दत्तवान् क्ष्मादान इति 'कृत्यल्युटो बहुळम्' इति बहुळग्रहणात् भूते कर्तर ल्युडेव 'तत्कृतार्थेन गुणवचनेन' इत्यादौ 'गुणमुक्तवान् गुणवचनः' इति तत्त्वबोधिन्यादौ व्या- ख्यानात् । अथवा-क्ष्मा दीयते अस्मिनिति 'करणाधिकरणयोश्च' इत्यनेन अधिकरणे ल्युडेव 'तदस्मिन्वृद्धचायलाभशुल्कापदा दी-

Page 480

समासोक्तिसरः (२५) 469

यते, सममब्राह्मणे दानम्' इत्यादाविव संप्रदानस्यैवाधिकरणत्व विवक्षया सप्मी। भूदानक्रियासंप्रदानभूतेत्यर्थः । हे उपेन्द्र! इन्द्रा- वरज! हे बलिध्वंसिन्! त्वत्सात्कृतिः त्वदधीनता त्वद्वाग्विधेयते- ति यावत्। तां भजतीति तथोक्त: । 'तदधीनवचने च' इति सातिप्रत्ययः । भू: भूधातुरित्यर्थः । भावे भावार्थे 'तयोरेव कृ- त्यक्तखलर्थाः' इत्यनुशासनात्। तयोरेव भावकर्मणोरेवेत्यर्थः । यतः 'अचो यत्' इते विहिताद्यत्प्रत्ययात् यत्प्रत्ययं प्राप्येत्यर्थः । ल्यब्लोपे कर्मशि पश्चमी । गुणात् 'सार्वधातुकार्धधातुकयोः' इत्यनेन विहितादार्धधातुकत्वलक्षणाद्गणात् । भव्यत्वं भव्यमिति रूपं अगात् प्राप्नोत्। भूधातोरकर्मकतया भावे यति गुणे च भव्यमिति निष्पत्तेरिति भावः। कर्तरि कत्रर्थे तत्कृत्यान्तनि- पातः तस्य भूधातोरेव कृत्यान्तनिपातः 'भव्यगेय' इत्यादिना कृत्यप्रत्ययान्तत्वेन निपातनमित्यर्थः । निपातो नाम लक्षणाभावे साधुत्वाय सूत्रकृता स्वरूपेण शब्दानामुच्चारणम्। युक्त इति छेदः । उचित इत्यर्थः । 'कृत्याः' इत्यीधकारे भूधातोः 'अचो यत्' इति कृत्यप्रत्ययस्सिद्धः । 'भव्यगेय' इत्यादिना कर्तरि स निपातित इति विवेकः । अत्रापि पूर्ववदेवारोपः॥।

यथा वा- हन्त त्वद्निर्युदकं जातुस्वपरैकिन्दुसंसर्गात्। नाथोदेत्यादेशात्प्रथयति साधुं समस्तमात्मानम् ।। हे नाथ! त्वदविरि: वेंकटाद्रि: तस्य उदकं आ देशात् सर्व- देशमभित्याप्य 'आङ्कर्यादावचने' इति। कर्मप्रवचनीयसंज्ञायां 'पश्चम्यपाङ्' इत्यादिना पश्चमी 'आङ्कर्यादामिविध्याः' इत्यस्य महाविभाषाधिकारस्थत्वात्समासाभावः। उदेत्य आकाशगङ्गा-

Page 481

470 अलंकारमणिहारे

कल्यादिनदीरूपेणाद्वत्य जातु कदाचित् स्वपरैकबिन्दुसंसर्गात् स्वस्य पर: श्रेष्ठः एक: यो बिन्दुः शीकरः तस्य ,संसर्गात् संपर्कमात्रादिति यावत्। समस्तं स्वसंसर्गिण सर्व आत्मान चेतनं साधुं निधूतपाप्मानं सन्तं प्रथयाते प्रख्यापयति । वेंकटार्द्रेनिस्सृतो निर्झरस्स्वकोयैकशीकरसंस्पर्शमात्रेणाप्यिल- चेतनजातं पावयतीति संपिण्डितोऽर्थः ॥ यद्वा-त्वद्गिरयुदकं उदेत्य आदेशात् आत्मानं जातु स्वप- रैकबिन्दुसंमर्गात् साधुं प्रथयतीति नोजना। उदेत्य उदयं प्राप्य स्वामितीर्थादिनाम्ना उत्कर्षमेत्येत्यर्थः । 'उदयस्तु पुमान् पूर्वपर्व- ते च समुन्नतौ' इति मोदनी। अन्यत्सर्वमुक्तार्थकमेव। अ- न्यत्र त्वद्विरि त्वद्वाचि स्थितं त्वयोच्चारितमिति यावत्। उदकं उदकपदं जातु समासविवक्षायामिति यावत्। र्वपरैकबिन्दु- संसर्गात् स्वस्मात उदकपदात् स्वस्मात् परः परत्र विद्य. मान: एक: केवलः पदान्तराव्यवहित इति यावत् । यो बि. न्दुः बिन्दुशब्दः तस्य संसर्गात संबन्धात्। उदेत्यादेशात् उद इत्याकारकमादेशं प्राप्येत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमो॥ यद्वा-जातु इत्येतदत्र संवध्यते। जातु उदेत्याकारकमादेशं प्राप्येत्यर्थः । अनेनायमुदादेशः अनन्तरोदाहरिष्यमाणसूत्रविहितो वैकल्पिक इत्युक्तं भवति। समस्तं समासं प्राप्तं आत्मानं स्वंसाधुं प्रथयति। उदकशब्दः पदान्तराव्यवहितविन्दुशब्देन समस्त-

च' इत्यनेन उदादेशं प्राप्तस्त्वस्य साधुतां प्रकाशयतीति प- रिनिष्पन्नोरऽर्थः। अत्रापि पौराणिके व्यवहारे पूर्ववदारोपः। प्र- सिद्धयति हि वेंकटाद्रिजन्मनां सरितां तीर्थानां च महिमा। यधाहि स्कान्दे वेकटगिरिमाहात्म्ये-

Page 482

समासोक्तिसरः (२५) 471

तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते। वियद्धङ्गेति नाम्ना वै तीर्थमस्ति महत्तरम् ॥ -

इति। तत्रैवान्यत्र वृषभाचलसंभूता तीर्थराजिविराजिता। नदी मुत्तमा कल्या कलुषौघविनाशिनी॥ इति। वामनपुराणे च- तीर्थान्येतानि संभूय वर्तन्ते पर्वतोत्तमे। नद्यस्समस्ताः पापम्नयस्तासां संख्या न विद्यते॥ इति च। स्वामितीर्थ महापुण्यं सर्वपापप्रणाशनम्। यस्य तीरे जगन्नाथो रमते रमया सह॥ विश्ुतं त्रिषु लोकेषु विशेषेण नृपात्मज।। इति॥ स्वामित्वात्सर्वतीर्थांनां स्वामितीर्थमितीरितम् ॥ इत्यादि चेत्यलं दूरधावनेन।। यथा वा - तद्वितकृदन्तमच्युत तव नाम यदस्ति ननु समस्तमपि। प्रातिपदिकं हि तदिदं प्रभाति स- त्सुप्रयोज्यमितरत्न ॥ ७६१॥ ननु अच्युत! तत् सकलपुराणादिप्रसिद्धं हितकृदन्तं हि- तकृत् श्रेयस्कारि अन्तः पर्यवसानं यस्य तत् अन्ततशश्रेय :- प्रदमित्यर्थः । यद्वा-हितकृत् अन्तः स्वरूपं यस्य तत् स्वभा- वत एव श्रेयस्करमित्यर्थः। 'अन्तोऽस्त्री निश्चये नाशे स्वरू- पेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला। अत्र। 1

Page 483

472 अलंकारमणिहारे

यथाकथंचिद्रोविन्दे कीर्तिते वा श्रुतेऽपि वा। पापिनोऽपि विशुद्धास्स्युश्शुद्धा मोक्षमवाप्तुयुः॥ सकृत्स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम्। पापराशिं दहत्याशु तूलराशिमिवानलः ॥ बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति। सकृदुच्चारितं येन हरिरित्यक्षरद्यम्॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सदयस्सिहत्रस्तैर्मृगैरिव॥ हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

इत्यादिप्रमाणसहस्रमनुन्धेयम्। समस्तं नििलमपि तव नाम अभिधानं यदस्ति, तदिदं तदेतत्तव नाम। पदेपदे प्रति- पदं, यथार्थेऽव्ययीभावः। प्रतिपद भवं प्रातिपदिकं, अध्यात्मा- देराकृतिगणत्वान्भवार्थे ठञ्। पौनःपुनिकं यथा स्यात्तथा। सत्सु प्रयोज्यं सद्भिः ब्रह्मविद्धिः सुष्ठ प्रयोक्तव्यं संकीर्तनीयमित्यर्थः । यद्वा-'तन्नामकरणं चेति दास्यमेतच्चतुष्टयम्' इत्युक्तरीत्या दास्यसूचकत्वेन पुत्रशिष्यादौ सुष्ट न्यसनीयमित्यर्थः। प्रभाति प्रकाशते। अथवा प्रातिपदिकमिति नाम्न एव विशेषणं प्राति- पदिकं तदिदं सत्सु प्रयोज्यमिति योजना। प्रतिपत् ज्ञानं 'चि- त्संवित्प्रतिपद्ज्ञनिचेतना.' इत्यमरः। प्रतिपत् ज्ञानं प्रयोजनमस्य प्रातिपदकं 'प्रयोजनम्' इत्यनेन प्राग्वहतीयष्ठक्। ज्ञानफलक- मित्यर्थः। ज्ञानं चात्र- - .... .- संजञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम। संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानम् ..

Page 484

समासोक्तिसर: (२५) 473

इत्युक्तं निश्शेयसोपायभूतमुपासनात्मकमिति वेद्यम् । प्रति- पच्छन्दस्य प्रतिपूर्वकपदधातुनिष्पन्नतया दकारान्तत्वेन नात्र 'इसुसुक्तान्तात्कः' इति तान्तलक्षणकादेश इति ध्येयम्। इत- रत् भगवदितरनामधेयं तु न । सत्सु प्रयोज्यं न भवति। तेषामनन्यशेषत्वादिति भावः। यथोच्यते भरद्वाजसंहितायां- तामसान् राजसांश्चैव व्यपदेशान्विवर्जयेत्। ध्रुव व्यपैति भक्तोऽपि व्यपदेशैरसात्विकैः॥ व्यपदेशैः नामभिः। सातत्विकं नाम शुद्धानामशुद्धानां तु राजसम्॥ बाह्यादितन्त्रसिद्धानां दैवतानां तु तामसम्॥

इति। शुद्धानां अनन्यथाजिनाम् । अशुद्धानामन्ययाजिनामि- त्यर्थः । यद्वा पूर्वार्धेऽपि समस्तमपि तव नाम यदस्ति तत् हितकृदन्तमिति योजना। अर्थस्तूक्त एव। हितकृदन्तमित्येतत् विधेयमस्मिन्पक्षे इति विशेषः।

अन्यत्र-तद्धितकृदन्तं तद्धितान्तं कृदन्तं च यत् शब्द- रूपम्। समस्तमपि समासरूपमपि यत् । कर्मणि भावे वाक्त:। नाम नामतवेन संकेतितं तद्धि तदेव 'हि हेताववधारणे' इत्यमरः। प्रातिपदिकं प्रातिपदिकसंज्ञकम्। नामप्रातिपदिकशब्दयोरेकार्थ- त्वात्। 'कृन्तद्वितसमासाश्च' इति नाम्नां प्रातिपदिकसंज्ञावि- धानात्। इदं पूर्वोक्त प्रातिपदिकं सुप्प्रयोज्यं सुप्परत्याहारघटक- विभक्तिभिः प्रयोज्यं प्रयोगार्ह सुब्वैशिष्टथनैव हि तेषां प्रयोगो लाके दृश्यते। सत् साधु 'सत्ये साधी विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः। प्रभाति । इतरत् असुष्प्रयोज्यं सुबविशिष्ट मित्यर्थः ।न साधुन प्रभाति 'न केवला प्रकृतिः प्रयोक्तव्या' ALANKARA 60

Page 485

474 अलंकारमणिहारे

इति भाषणादिति भावः। अत्रापि पुराणप्रसिद्धे प्रस्तुतव्यबहारे अप्रस्तुतशव्दशास्त्रीयव्यवहारारोपः॥ यथावा- परमं पदमध्यवसत्सरमं यड्रह्म तत्त्वमसि भ- गवन्। इह फणिशिखरिणि लग्नस्तद्गागत्यागल- क्षणाश्रयणात् ॥ ७६२॥ हे भगवन्! श्रीनिवास! यङ्रह्म परमं पदं 'तद्विष्णोः' इत्यादिश्रुतिप्रथितं दिव्यं स्थानं सरमं सश्रीकं सत् अध्यव- सत् भक्तानुग्रहार्थपरिगृहीतदिव्यमङ्गळविग्रहविशिष्टतया अध्य- तिष्ठत्। इह अस्मिन् भूलोके फणिशिखरिणि लग्नः त्वं तङ्गह्म असीति योजना। अर्थस्तु स्फुट एवं। श्रीनिवासोऽपि शेषाद्रौ ततस्स्वामिसरस्तटे। इत्युपक्रम्य, पुराणपुरुषो धाता पुरुषस्तमसः परः। वैकुण्ठं पूर्ववसति त्यक्त्वेदानीं हि तिष्ठति॥ इि पाझवेंकटाद्रिमाहात्म्योक्तिः, 'मायावी परमानन्दम्' इत्या- दुक्तिश्चेहानुसंहिता । अत एव तन्भ्ा तस्य परमपदस्य भा। आदन्तोऽयं शब्द:। ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते। देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं पदम्। अत्यर्कानलदीसं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः॥ इति महाभारतादयुक्ता दिव्या दी्तिः । आगत्य परमपदान्ुव- मेत्य। अगलक्षाश्रयणात् अगलक्षणं उक्तफणिगिरिरुपं यत्

Page 486

समासोक्तिसर: (२५) 475

आश्रयणं आधार: तं अतति सततं गच्छतीत्यगलक्षणाश्रयणात् 'अत सातत्यगमने' अस्मात् ककिप। भवति। परस्मिन् ब्रह्मणि परमव्योम्ननः फणिगिराववतीर्णे परमव्योमदिव्यदीप्तिरपि फणि- गिरिमेव सततमाश्रितेत्यर्थः । पक्षे-तत् त्वमिति पद्द्वयं भागत्यागलक्षणायाः जहदजह- लक्षणाया: आश्रयणात् अर्थबाधकं भवतीति भावः। परस्य व्र- ह्मणो दिव्यमङ्गळविग्रहविशिष्टस्य यद्देशकालवैशिष्टथं पूर्वमासीत् तद्देशकालवैशिष्टयमधुना नास्तीति तत्त्वमित्यत्र तत्तांशे स्वार्थत्याग: त्वत्तांशे तु तदत्याग इतीयं भवति जहदजहल्लक्षणेति ध्येयम्॥ अंशभेदमुपादाय जहाति न जहाति च। शब्दस्स्वार्थ यदि जहदजहत्स्वार्थलक्षणा ॥ इति तल्क्षणम्। अत्र प्रस्तुते पौराणिकव्यवहारे अप्रस्तुतस्यालं- कारशास्त्रीयव्यवहारस्यारोप:। यद्वा-अत्र तत्त्वमसीति पदैः 'तत्त्वमसि श्वेतकेतो' इति श्रुतिवाक्यप्रत्यभिज्ञापनात् तत्र जीवब्रह्माभेदमुपपादयतामद्वैतिनां व्यवहारोऽप्रस्तुतः प्रतीयमान: प्रस्तुते पौराणिकव्यवहारे समारो- व्यत इति। ते हि 'तत्त्वमसि' इत्यत्र तत्त्वंपदार्थयोस्सर्वज्ञत्व- किंचिद् ज्ञत्व रूपविरुद्धांशपरित्यागेन अविरुद्धचिन्मात्रोपादानेन चो- भयोपलक्षितमेकमखण्डं वस्तु भागत्यागलक्षणया प्रतिपाद्यत इति वर्णयन्ति। अनयोरियानेव भेदः । तथाहि-आलंकारिकास्तावत् 'सोऽयं देवदत्तः' इत्यादौ तत्तांशस्येदानीमसंभवात्तस्यैव हानं इदंतांशस्य त्विदानीं संभवादहानमिति जहदजहत्स्वार्थी लक्ष-

'सोडयं देवदत्तः' इत्यत्रापि तत्तेदंतांशयोः परस्परविरुद्धयो- रुभयो: परित्यागेन अविरुद्धस्वरूपमात्रापरित्यागेन द्वयोपलक्षितं

Page 487

476 अलंकारमणिहारे

स्वरूपमात्रं लक्ष्यत इति जहदजहत्स्वार्थी व्युत्पाद्य 'तत्त्वमसि' इत्यादिमहावाक्येऽपि तत्वंपदार्थगतविरुद्धांशत्यागेन चिन्मात्रो- पादानेन चोभयोपलक्षितमखण्डमेकमेव वस्तूक्तलक्षणया प्रति- पाद्यत इति। यदाहु :- स्वार्थैकांशत्यागादंशान्तरमेव लक्ष्यते यत्र। सा जहदजहत्स्वार्था तत्त्वमसीत्यादिविषयद्दश्येयम् ॥ इतीत्यलमतिदूरोत्सर्पणेन ।।

सुविदितशक्तिं स्वामिन् कृतलक्षणमञ्जनाच- यथावा-

लोल्लासम्। साहित्यमेत्यभान्तं श्रिया श्रये त्वाम- नन्त सुश्लोकम्॥७६३॥ अनन्तः देशकालवस्तुभिरपरिच्छिन्नः 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः। तस्य संबुद्धि: हे अनन्त! हे स्वामिन्! सर्व- शेषिन्! सुविदिता सकलश्रुतिसुप्रसिद्धा शक्ति: यस्य तम्। शक्तिर्नाम स्वेतरसर्वसामर्थ्यनिर्वाहकः 'जगत्प्रकृतिभावो मे यस्सा शक्तिरितीर्यते' इत्यादिषूक्तस्सर्वोपादानत्वात्मको गुणविशेषः। यदन्यैरशक्यत्वादघटितामेव भवति तद्वटनसामर्थ्यरूपो वा। अत्र 'पराऽस्य शक्तिर्विविधैव श्रूयते' इति श्रुतिरप्यनुसन्धेया। कृतलक्षणं 'समस्तकल्याणगुणात्मकोSसौ' इत्यायुक्तरीत्या क- ल्याणगुणैः प्रतीतं 'गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ' इत्य- मरः। अञ्जनाचले उल्लासो हर्षः प्रकाशो वा यस्य तम् । अज- नाचलेन उल्लास्यत इति वा तथोक्तम् । श्रिया लक्ष्म्या साहित्यं --- वैशिष्टयं पत्य प्राप्य भान्तं श्रीवैशिष्ट्यादेव हि तव भानमिति भावः। अत्र 'स्वामिपुष्करिणीतीरे रमया सह मोदते' इत्येत-

Page 488

समासोक्तिसर: (२५) 477

दप्यनुसन्धेयम् । अत एव सुश्लोकं शोभनकीर्ति 'हरीश्च ते ल- क्षमीश्चि पत्रयौ' इति लक्ष्मीपतित्वेन श्रुतस्यैव हि तव 'तस्य नाम महद्यशः' इात यशस्विता श्रूयते 'स आपः प्रदुघे उभे इमे' इति 'जगत्कारणत्वेन प्रस्तुतस्य निखिलजगज्ननािलीलत्वस- र्वरक्षकत्वकीर्तिस्तस्यैव नान्यस्येत्यर्थः । नामेति प्रसिद्धौ' इत्यु- पनिषद्धाष्यम्। त्वां श्रये। नारायणीये प्रथमानुवाके 'अन्भयस्सं- भूतो हिरण्यगर्भ इत्यष्टौ' इति पाठात् तस्मिंश्चानुवाके 'हीश्च ते लक्ष्मीश्च पत्नयौ' इति श्रवणात् लक्ष्मीपतेरेव 'तस्य नाम' इति तदनुवाकोक्तं यशस्वित्वं नान्यस्थेत्यवधेयम्।

पक्षे-शक्ति: अभिधापरपर्यायः साक्षात्संकेतविषयविषयक- धीहेतुर्मुख्यशशब्दनिष्ठो व्यापारः 'व्यापारशक्यधीहेतुर्मुख्यइश- ब्दगतोऽभिधा' इति लक्षणात्। सा सुष्ठुविदिता येन तम् । कृता विचारिता लक्षणा येन तं तथोक्तम् । लक्षणा नाम - तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः। शक्तिभिन्नार्थधीहेतुर्व्यापारो लक्षणोच्यते। इत्युक्तलक्षणशब्दव्यापारः । कृञो व्यापारसामान्यार्थकत्वेन कृ तेत्यस्य विचारणार्थकत्वमवसेयम्। अत एव कृतहस्तः कृतधी- रित्यादौ कअश्शिक्षाद्यर्थकत्वं दृश्यते । अञ्जनं 'वाच्यलक्ष्यविभि- न्नार्थधीकृद्वयापृतिरञ्जनम्' इत्युक्तलक्षणो व्यञ्ञनापरपर्यायश्शब्द- व्यापारविशेषः । तस्मिन् अचलः स्थिर: उल्लासः हर्षः यस्य तम्। एतैर्विशेषणैः अभिधालक्षणव्यञ्जनारूपशब्दव्यापारत्रित- थकूलंकषप्रतिभोन्मेषतया वाचकलक्षकव्यञ्जकपदप्रयोगनिरङ्कश- कौशलं द्योत्यते। साहहित्यं सहितानि सर्वशास्त्राण्येव साहित्यम्। स्वार्थे व्यञ्। यथोक्तं भावप्रकाशे-

Page 489

478 अलंकारमणिहारे

तर्कव्याकृतिमीमांसाज्योतिश्शास्त्राद्यपेक्षया। साहित्यात्साहिती प्रोक्ता स्वार्थे ष्यञ् कीर्त्यते बुधैः॥इति, समष्टिस्सर्वशास्त्राणां साहित्यमिति कथ्यते। इत्येतदप्युक्तार्थेऽनुकूलम्। एत्य ज्ञात्वेत्यर्थः । श्रिया उपदर्शितोप- करणज्ञानानुरूपकाव्यग्रथनौपयिकवाग्विभवेनेत्यर्थः । 'श्रीर्लक्ष्म्यां सरळद्गुमे। वेषोपकरणे वेषरचनायां मतौ गिरि। शोभान्रिवर्ग- संपत्योः' इति हेमचन्द्रः । अत एव अनन्ताः अपरिच्छिन्नाः सुश्लोकाः अदोषसगुणसालंकारशब्दार्थरूपकाव्यलक्षणपरिपूर्णानि पद्यानि यस्य वश्यवाक्त्वेन भूयिष्ठसत्काव्यनिर्माणप्रवीणमिति भावः। अत्र वेदान्तपुराणप्रतिपादितेऽर्थे पूर्ववदारोपः॥ यथावा- दारिद्रयदवं शमयत्याख्यैकाउब्जाक्षभागधेयस्य। सारोपासाध्यवसितिरिह गौणी साधुलक्षणा शुद्धा। इह लोके सारा उपासायाः उपासनायाः अध्यवसितिः निश्चयः यस्यास्सा तथोक्ता यद्विषयक उपासनाध्यवसायः अ- वश्यंभाविफलतया श्रेयान् सा सारोपासाध्यवसितिरित्यर्थः। आख्याया उपासनं च 'ओं नमो नारायणायति मन्त्रोपासकः' इत्यादाविव जप एवेति ध्येयम । गौौणी 'यानि नामानि गौ- णानि' इत्युक्तरीत्या गुणत आगता- एणाति निखिलान्दाषान् श्रीणाणिच गुणैर्जगत्। श्रीयते चािलैनित्यं श्रयते च परं-पदम् ॥। श्रयन्तीं श्रीयमाणां च शृण्वती शृणतीमपि॥ इत्यादिनिरुक्तोरीते भावः। अत एव साधु लक्षणं प्रवृत्ति- निमित्तं यस्यास्सा तथोक्ता। यद्दा-लक्ष्यन्त इति लक्षणा: 'कृ-

Page 490

समासोक्तिसर: (१५) 479

त्यल्युटो बहुळम्' इति बहुळग्रहणात्कर्मण ल्युट्। साधवो ल- क्षणाः यस्यास्सा यदाख्याधारणेन साधवस्सजना इति लक्ष्य- न्ते ज्ञाप्यन्ते सा साधुलक्षणेत्यर्थः । 'साधुर्वार्धुषिके चारौ स- जने चाभिधेयवत्' इति मेदिनी । शुद्धा पावनी 'शुद्धं स्या- त्रिषु केवले। निर्दोषे च पवित्रे च' इति मेदिनी। अब्जा- क्षस्य श्रीनिवासस्य भागधयं तस्य भागधेयत्वेनाध्यवसिताया- शिश्रिय इत्यर्थः। एका आख्या श्रीरित्यादिकमेकमेवामिधेयं दा- रिद्रयमेव दव वनहुताशनं शमयति। 'सर्वदारिद्रयनाशिनी' इति तन्नामसु पाठादिति भावः। पक्षे-इह दारिद्रचदवमत पढ़े सारोपा गौणी लक्षणा अब्जाक्षभागधेयस्येत्यत्र तु साध्यवसिति: शुद्धा लक्षणेति पाठ- क्रमेण यथासंख्यमन्वयः। साधु साध्वीत्यर्थः। सामान्ये नपुंसकं 'शक्यमरविन्दसुरभः' इत्यादिवत्। यद्वा-साधुत्वेन लक्षणैव विशेष्यते। अथवा भवतीत्यध्याहृतक्रियाविशेषणमिति बोध्यम्। अय भावः दारिद्रयद्वमित्यत्र विषयविषयिवाचकयोर्दारिद्रय- दवपद्योस्सामानाधिकरण्यनिर्देशात्सारोपा लक्षणा। सा च दव- शब्दस्य तापकारित्वाददिगुणसादृश्येन वृत्तेगौणी॥ सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः। सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते॥ शुद्धा तदन्यसंबन्धरूपा सा तु निगद्यते। इति लक्षणात्। अब्जाक्षभागधेयस्येत्यत्र तु आरोपविषयं श्रियं निर्गार्य तस्य विषयिणो भागधेयस्यैव निबन्धनात्साध्यवसाना लक्षणा। भागधेयश्रियोः कार्यकारणभावसंबन्धं पुरस्कृत्य विष- यिपदमात्रोपादानेन शुद्धत विवेकः। तथाच तलक्षणम्-

Page 491

480 अलंकारमणिहारे

निगीर्य विषयं यत्र विषय्येव निबध्यते। तत्र साध्यवसाना स्याद्गौणी शुद्धेति भेदतः ॥ इति। अध्यवसायो नाम एकांशे उत्कट ज्ञानं, ज्ञानस्योत्कट- त्वं च तत्तत्कोटिसहचरितानेकधर्मवद्धर्मिविषयत्वादिकम् । सादृश्यसंबन्धपुरस्कारेण प्रवृत्ता गौणी। तदन्यसंबन्धपुरस्का- रेण प्रवृत्ता शुद्धेति सारोपलक्षणायामिवास्यामपि भेदो द्रष्ट- व्यः । अत्रापि पौराणिके श्रीलक्ष्मीनामवैभवे व्यबहारे प्रस्तुते अलंकरशास्त्रीयव्यवहारस्याप्रस्तुतस्यारोप:॥ यथा वा- तामेव यान्ति वृत्ति धाम्नि परे गौणलक्षणा- भिज्ञाः ! काव्योचिता न चान्यां गौणीं भक्तः प्रभाकराधेषु॥ ७६५॥ काव्या बुद्धि: उचिता समख्जसा येषां ते काव्योचिताः 'दृश्यते त्वग्रथया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः' इत्युक्तप्र- कारसूक्ष्मधिय इति यावत् । 'काव्या स्यात्पूतनाधियोः' इति विश्वमेदिनीहेमचन्द्राः । 'उचित स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते स- मञ्जसे' इति रत्नमाला। परे धाम्नि औज्ज्वल्यरामणीयकतमोहा- रित्वादिगुणसादृश्यवत्तया तेजस्त्वेनाध्यवसिते भगवति श्रीनि- वासे भक्ताः भक्तिमन्त. पुमांसः अगौणेति छेदः । अगौणं मुख्यं यत् लक्षणं शङ्गचकलक्ष्म तेन अभिज्ञा: भागवतत्वेन ज्ञाय- मानास्सन्तः अभिपूर्वकात् ज्ञाधातोः 'आतश्चोपसगे' इति कर्म- ण्यङ्। उपज्ञादिवत्। स्वभावतोडयं स्त्रीलिङ्ग:। पश्चायुधाङ्कनादपि शङ्गचक्राभ्यामेवाङ्कनस्य मुख्यत्वादगौणलक्षणाभिज्ञा इत्युक्तम्। तथाच श्रुति :-

Page 492

समासोक्तिसरः (२५) 481

प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधि तर्तवे चर्षणीन्द्राः । मूले बाह्नोर्दधते ये पुराणा: लिङ्गान्यन्ये तावकान्यर्पयन्ति॥ इति। भगवच्छास्त्रे भरद्वाजश्र- अभ्नीषोमौ हि चक्राब्जौ सर्व एव तदात्मकाः । ऊनो वा मानयन्नेकं पूर्णो हि फलमश्तुते॥ शहचकप्रधानं हि सर्वमन्यद्गदादिकम्। अङ्गितश्शह्वचक्राभ्यां सर्वैर्कित एव वा ॥ इति। यद्ा- नारायणैकनिष्ठा ये सातत्विकांस्तान्निबोधत॥ इत्युपकरम्य- मुनयस्सत्वनिष्ठानां लक्षणानि निबोधत। विष्णोर्दास्यैकफलता तदेकोपायतास्थितिः॥ तदाजाकरणे प्रीतिस्तत्कर्मगुणकीर्तनम्। तच्चिह्नाङ्कितदेहत्वं तदीयाराधने रतिः।

आचार्याधीनवृत्तित्वमाचार्यार्थात्मवृत्तिता ॥ क्रोधलोभमदालस्यमानमोहविहीनता। सत्यशौचदयाधैर्यक्षमासंतोषयुक्तता॥। इत्येतैर्लक्षणैर्युक्ता वैष्णवा वीतकल्मषाः। सभाज्या दर्शनेनैव नावश्ञेया: कदाचन ॥ इति भरद्वाजपरिशिष्टोक्ता मुख्यभागवतलक्षणज्ञा इत्यर्थः । अभि- पूर्वकाज्ानाते: कर्तरि 'आतश्चोपसर्गे' इति कप्रत्ययः। अत एव तामेव तदनुगुणां मुख्यामेव वृत्तिं अनन्यरतित्वादिवक्ष्यमाणल- ALANKARA 61

Page 493

482 अलंकारमणिहारे

क्षणां वृत्ति यान्ति श्रयान्त। यथा हि भगवच्छास्त्रीयभरद्वाजसं- हितायाम्- यथा प्रपत्तिर्विहिता भगवच्चरणाब्जयोः । तथैव तत्र वृत्तिश्च कार्या गुरुनिदेशतः ॥ वृत्तिश्च विहिताचार: प्रतिषिद्धविवर्जनम्। दृष्टिर्भक्तिस्तथा लक्ष्म सतां सेवेति षडडिधा॥ इति वृत्तेष्षाड्डिध्यं प्रदर्श्य- अनन्यगतिरत्यन्तं विहितानि समाचरन्। वर्जयन् प्रतिषिद्धानि वेदवेदान्ततत्ववित् ॥ अर्चादिष्वर्चयन्त्रिष्णुमद्कितो हरिलाञ्छनैः । सेवेत यङ्गुरूम्भक्तया सेयं वृत्ति: परा मता ॥ इति पूर्वोक्तश्लोका र्थो विवृतः। अत्र परोते विशेषणेनास्या एव वृत्तेर्मुख्यत्वमुक्तम्। तामेवेत्यवधारणेन व्यक्जितमितरव्यवच्छेदं कण्ठतो दर्शयाते-न चान्यामित्यादिना। प्रभाकराद्येषु भास्क- रादिषु भक्तास्सन्तः अन्यां गौणीं वृत्ति च न यान्ति नाश्र- यन्ते। चशब्दस्त्वर्थकः। अथ वृत्तिमिमां शश्वत्कुर्वाणो विगतव्यथः । विसृज्य देहं प्राप्नोति तद्विष्णोः परमं पदम् ॥ इत्यविलम्बितनिइश्रेयसनिदानतया भरद्वाजसंहितोक्तभागवतवृत्ति- मपेक्ष्य- वर्णाश्रमाचारपरस्सप्न जन्मानि यो द्विजः । एकान्तसूर्यभक्तस्स्यात्स विप्रस्सप्तजन्मसु॥ ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्याति। तथैव सप्जन्मानि शिवभक्तिपरायणः । महता तेन पुण्येन वैष्णवत्वं लभेत सः ॥

Page 494

समासोक्तिसर: (२५) 483

विष्णुभक्तिपरस्तद्वत्सप्तजन्मानि मानवः। एकान्तभगवद्याजी विप्रो भागवतान्वये। ततस्स लभते मुक्तिं देवैरत्यन्तदुर्लभाम्। इति वाराहे, त्रिभिः प्रजापतेर्भैक्तः पञ्चभिश्शंकरस्य तु।

इत्यादिभरद्वाजसंहितायां च बहुजन्मव्यवधानेन मुक्तिसाधनतया उक्तषु भास्करादिष्वनन्यरतित्वादिकां जघन्यां वृत्ति नाद्रियन्त इति भावः॥ पक्षे-काव्योचिता: अभ्यस्तकाव्याः आलंकारिका इति या- वत्। गौणी च सा लक्षणा च तस्या; अभिज्ञाः 'अग्निर्माण- वकः, अग्निरधीते' इत्यादौ। सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते। इत्युक्तलक्षणां गौणी लक्षणां जानानाः, अत एव परे धाम्ि धाम्नीत्याकारके पदेऽपि तामेव वृत्ति उक्तोदाहरण इव गौण लक्षणाख्यामेव शब्दव्यापृति यान्ति मन्यन्ते। यदाहु :- अभिधेयाविनाभूता प्रतीतिर्लक्षणोच्यते।

इति। अविनाभावश्चात्र संबन्धमात्रं न तु नान्तरीयकत्वं तथा सति मश्चमञ्चस्थयोदैशिकस्य कालिकस्य वाSविनाभावस्याभा- वात् 'मञ्चाः क्रोशन्ति' इत्यत्र लक्षणाभावप्रसङ्गात। वृत्तेः लक्षणाख्यव्यापृते: गौणता गुणप्रयुक्तता लक्ष्यमाणगुणैर्योंगात् इष्टा भवतीति तदर्थः । तामेवेत्यवधारणेन व्यवच्छेद्यं दर्श यति-न चान्यामित्यादिना । प्रभाकरस्तान्त्रिकाग्रणीः स आ-

Page 495

484 अलंकारमणिहारे

दिर्येषां ते भट्टादयः । तेषु भक्तास्तन्मतानुयायिनस्सन्तः अ- न्यां लक्षणापेक्षया विलक्षणां गौणीं गुणत आगतां वृत्तिं सं- बन्धव्यापृति न यान्ति न मन्यन्त इत्यर्थः । ते हि 'अग्नि- र्माणवकः इत्यादौ समानाधिकरणपदप्रयोगादेव पैङ्गळ्यादिगु- णविशिष्टे अग्निपदस्य तात्पर्यम् । 'गङ्गायां घोषः' इत्यादौ लक्षणायां तु तीरपदप्रयोगेण विनैव तत्संबन्धिनि तीरे गङ्गा- पदस्य तात्पर्यमिति पदप्रयोगतदप्रयोगप्रयुक्तविशिष्टाविशिष्टता- त्पर्याभ्यां गौणीलक्षणयोर्मेदः। यत्रापि पदप्रयोगो नास्ति 'अ- स्निरधीते' इत्यादौ तत्रापि सादृश्यविशिष्ट एव पदतात्पर्यम् । पदप्रयोगसहिते स्थले तथैव तात्पर्यावधारणात्। यथा-'ज्यो- तिष्टोमेन स्वर्गकामो यजेत' इत्यादौ काम्ये कामिनियोज्यान्व- यबलादपूर्वे लिङ्गादेस्तात्पर्यमिति 'अहरहस्सन्धयामुपासीत' इत्यादिनित्यस्थलेऽप तथेति वर्णयन्ति। अयं भाव :- आलं- कारिकास्तावत्- अभिधेयेन संबन्धात्सादृश्यात्समवायतः। वैपरीत्यात्क्रियायोगाल्लक्षणा पञश्चधा मता॥ इति सादृश्यस्यापि संबन्धत्वेनाभ्युपगमात् 'अभ्निर्माणवकः, अ- भनिरधीते' इत्यादावपि तथाविधसंबन्धस्य सामानाधिकरण्या- द्यन्नुपपनेः, अभेदप्रतीतिरूपप्रयोजनस्य च लक्षणाबीजस्य जाग- रूकतया गौणीं तृत्तिमपि लक्षणायामेवान्तर्भावयन्ति न तु पृ. थग्वृत्तित्वनाभ्युपयन्तीति । अत्रापि भगवच्छास्त्रीयव्यवहारा- रोप:।। *

यथावा- पिप्रीषयैव तेऽच्युत कनकमुखर्या मखैर्यजति 1

Page 496

समासोक्तिसर: (२६) 485

हि त्वाम्। बुधततिरेषा कथामह न स्यात्सल्लक्ष- णा जहत्स्वार्था ॥ ७६६॥ हे अच्युत! बुधततिः विद्वत्संहतिः ते तव पिप्रीषयैव प्रीणनेच्छयैव न तु प्रयोजनान्तरापेक्षया। कनकमुखर्या सुवर्ण- मुखर्याख्यायां तरङ्गिण्यां तत्तीरे वेङ्कटाद्राविति यावत् । मखैः ऋतुभिः त्वां। अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। इति सर्वयज्ञभोक्तृत्वेन च स्वेनैव गीतमिति भावः । यजति आराधयति। सर्वभूतान्तरात्मानमीशमाराध्यमच्युतम्। बुध्वा चरन्ति सुधियो धर्मास्तत्प्रीतये परम्॥ इति भरद्वाजपरिशिष्टोक्तप्रकारेण केवलं त्वत्प्रीणनायैव यागादि- कर्माण्यनुतिष्ठतीत्यर्थः। सल्लक्षणा सतां लक्षणानि चिह्नानि तान्य- स्यास्सन्तीति तथोक्ता। अर्श आदेराकृतिगणत्वान्मत्वर्थीयोऽचू। अत्र सतां सललक्षणानां च लक्षणं- पत्युर्ज्ञानमयी वृत्तिर्विष्णो: प्रियमिहोच्यते। ये सन्ति तत्र निरतास्ते सन्त इति कीर्तिताः॥ इति, प्रतप्तैर्भगवद्दिव्यायुधैर्गानेषु लाञ्छनम्।

इत्युपक्र्य, विष्णोस्तत्संश्रयाणां वा चेतनाचेतनात्मनाम्। आख्यया व्यपदेशश्च लक्षणानि संतां विटुः॥

Page 497

486 अलंकारमणिहारे

इत्यन्तेन भरद्वाजपरिशिष्टोक्तं द्रष्टव्यम। एषा त्वत्प्रीणनार्थमेव त्वां यजन्ती बुधततिः इह यजनकर्मणि कथामव जहत्स्वार्था जहात् स्वार्थों यां सा तथोक्ता न स्यात् जहत्स्वार्थैव स्यादित्यर्थः। माय सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा . ... lf इति त्वद्गानानुरोधेन सर्वाणि कर्माणि केवलं त्वदाराधनरूप- तया त्वत्प्रीणनानीति मत्वाऽनुतिष्ठन्त्या अस्या बुधततेरन्यद- र्थाशंसा कथमपि नोदियादेवेति भावः। अनेन अफलाकाड्रिभिर्यज्ञो विधिट्ृष्टा य इज्यते। यष्टव्यमेवेति मनस्समाधाय स सान्विक: ॥ इत्युक्तरीत्या तदनुष्ठितानां मखानां सातत्विकत्वं द्योत्यते। अने- नैव जहत्स्वार्थेति विशेषणेन तस्या: पारमैकान्त्यं दर्शितम्। परमैकान्तिनो हि भगवद्दास्यैकरतित्वान्न तत्प्रीणनमन्तरा मना- गपि स्वप्रयोजनमभिलष्यन्ति यथोच्यते भरद्वाजसंहितायाम्- स एकान्त्यन्यविमुखो हरं सर्वेश्वरं परम्। यस्समाश्रयते किंचित्फलमश्यर्थयन्नरः॥ न्यस्ताशेषभरश्श्रीशे यस्तु दास्यैकजीवितः । स एष परमैकान्ती द्वावेतौ वैष्णवौ स्मृतौ। इति। पक्षे-पूर्वार्धमनतिरिक्तार्थकमेव। उत्तरार्धे तु-इह कनक- मुखर्या यजतीत्यत्र जहत्स्वार्था सती च सा लक्षणा सल्लक्षणा लक्षणाख्या शब्दपृतिः कर्थं न स्यात्। गङ्गायां घोषः' इत्य- त्रेवात्रापि स्वार्थत्यागेन लक्षणा स्यादेवेति भावः॥ स्याजहल्लक्षणा यत्र स्वार्थ त्यक्त्वाऽन्यवृत्तिता। इति लक्षणात्। यत्र स्वार्थत्यागेन परार्थवृत्तिता तत्र जहल्-

Page 498

समासोक्तिसर: (२५) 487

क्षणेति तदर्थः। अत्र च कनकमुखर्यामित्यत्र वाच्यस्य प्रवाहस्य

ज्य स्वार्थसंबन्धिनि तीरे वर्तत इति जहत्स्वार्था लक्षणैषोत ध्येयम्। अत्र गीताभगवच्छास्त्रादिसिद्धे प्रस्तुतव्यवहारे अप्रस्तुत. न्यायादिशास्त्रीयव्यवहारारोप:॥ यथावा- परमपुरुषार्थमाप्तुं फणाधरगिरिं प्रपत्तिरध्युषि- ता। मध्यमवृत्तिरविजहत्स्वार्था भवतीह को नु सं- दिग्धाम् ॥७६७॥

मध्यमवृत्ति: मध्यमा वृत्ति: वक्ष्यमाणलक्षणा यस्यास्सा तथोक्ता प्रपत्तिः, प्रपत्तिविशिष्टाः पुरुषा इति यावत्। 'कुन्ताः प्रविशन्ति' इत्यत्र कुन्तविशिष्टाः पुरुषा इतिवत्। परमपुरुषार्थ निश्श्रेयसरूपमुत्तमपुरुषार्थ आप्तुं लब्धुं फणाधरगिरिं अध्युषिता सती अविजहत् स्वार्थः परमपुरुषार्थो यां सा तथोक्ता भवति। उपायापायसंत्यागी मध्यमां वृत्तिमाश्रितः । रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचर:। वुध्येत देवदेव तं गोपारं पुरुषोत्तमम् ॥। इति लक्ष्मीतन्त्रोक्तमार्गेण उपायापायमध्यस्थां वृत्तिमास्थितो भग- वन्तं प्रपन्नो जन :- यत्र नारायणो देवः परमात्मा सनातनः । तत्पुण्यं परमं ब्रह्म तत्तीर्थ तत्तपोवनम्॥। तत्र देवर्षयस्सिद्धास्सर्वे चैव तपो धनाः। इति भारताय्युक्तरीत्या प्रपन्ननिवासार्हे वेङटमहीभृति कृतवस-

Page 499

488 अलंकार मणिहारै

तिस्स्वविवक्षितं परमपुरुषार्थ साधयतीति निर्गळितोऽर्थः। इह अस्मिन्विषये को तु संदिग्धां क: पुमान् संदेग्धु, ईद्दशस्य परमपुरुषार्थाधिगमे पामरोऽपि न संशयीतेति भावः । संपू र्वात् 'दिह उपचये' इत्यस्माद्धातोः कर्तरि लोट्प्रथमपुरुषैक- वचनम्। उपायापायादिस्वरूपं च तत्रैव लक्ष्मीतन्त्रे- उपायापाययोर्मध्ये कीदशी स्थितिरम्बिके। उपायापायतामेव क्रिया सर्वाऽनलमबते॥ स्वीकारे व्यतिरेके वा निषेधविधिशास्त्रयोः । दृश्यते कर्मणो व्यक्तमुपायापायरूपता॥ इति पृच्छते शक्राय- त्रिविधां पश्य देवेश कर्मणो गहनां गतिम्। निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे।। अनर्थसाधक किंचित्किंचिच्चाप्यर्थसाधकम्। अनर्थपरिहाराय किंचित्कर्मोपदिश्यते॥ त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा। अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत्॥ तृतीयो द्विविधो राशिरनर्थपरिहारकः। प्रायश्चित्तात्मकं कश्चिदुत्पन्नानर्थनाशनः॥ तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत्। क्रियमाणं न कस्मैचिदयदर्थाय प्रकल्पते। अ्रियावदनर्थाय तत्तु कर्म समाचरेत्। एषा सा वैदिकी निष्ठा ह्युपायापाथमध्यमा॥ अस्यां स्थितो जगन्नार्थ प्रपद्येत जनार्दनम्॥ इति भगवत्या श्रीलक्ष्म्या स्वयमेवोक्तम् । विवृतं चैतद्वात्स्य- वरदगुरुभि :-

Page 500

समासोक्तिसरः (२५) 489

एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत्। अनर्थसाधनं कर्म काम्यं त्वर्यस्य साधनम्॥ चैत्यादिकं तथा कर्म सांख्ययोगादिकं तथा। उपायं कर्म सांख्यादि प्रायश्चित्तादिकं तथा॥ चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन। भाव्यनर्थस्य यत्कर्म परिहाराय कीर्तितम्॥ सन्ध्याऽर्चापञ्चयज्ञादि तन्मुमुश्चुमिरादतम्। नैमित्तिकं चाग्रयणं सीमन्तोन्नयनादिकम्॥। अग्नचाधानादिकं कार्यमधिकारे सति द्विजैः। निषिद्ध काम्योपायाख्यकर्माण्यन्यानि नाचरेत् ॥ प्रायश्चित्तं प्रपन्नस्य विशेषेण यदुच्यते। लक्ष्मीतन्त्रे कमलया निमित्ते तत्तदाचरेत्। इत्यादिना। पक्षे-इह प्रपत्तिरिति पद अविजहत्स्वार्था अज- हत्स्वार्थाख्या मध्यमवृत्ति: अभिधा लक्षणा व्यञ्ञनेति क्रमेण परिगणितासु वृत्तिषु मध्यमा लक्षणाख्या वृत्ति: शब्दव्यापृतिः भवति । प्रपत्तिरध्युषितित्यत्र प्रपत्तिपदं स्ववाच्यायाः प्रपत्तेः फणाधरगिर्यधिकरणकनिवासनिष्पत्तये प्रपत्तिमत्पुरुषे वर्तते। अत्र प्रपत्तेरपि पुरुषसाहित्येन क्रियान्वयादजहल्लक्षणा-

स्वसिद्धये पराक्षेपे त्वजहल्लक्षणोच्यते ॥ इति लक्षणात्। यत्र स्ववाच्यस्यान्वयसिद्धयर्थ स्ववाच्यसं- बन्धी लक्ष्यते तत्राजहल्लक्षणेति तदर्थः । अत्र भगवच्छास्त्रीय- व्यवहारे शास्त्रान्तरीयव्यवहारारोपः पूर्ववदेव।। अत्रेदमवधेयम्-'परमं पद्मध्यवसत्' इत्यादीनि पद्यानि 'सुविदितशक्ति स्वामिन्' इति पद्यवर्जितानि अप्रस्तुतव्यवहा ALANKARA 62

Page 501

490 अलंकारमणिहारे

रात्मन आलंकारिकाद्यभिमततत्तत्पदगततत्तदर्थबोधौपयिकलक्ष- णाख्यवृत्तिविशेषस्य स्फूर्तिसन्भावमात्रमवलस्व्य समासोक्त्यु- दाहरणतां नीतानि। यदा तु प्रकृताप्रकृतधर्मिद्यसाधारण- विशेषणोपादानमूलिका अप्रकृतधर्मिव्यवहारस्फूर्तिर्हि समासो- क्तिमूर्तिः सा च न प्रकृतपद्येषु सुप्रसरा। तत्त्वंपदादिरूप- स्थाप्रकृतधर्मिणस्तदादिपदैरवोपादानात् । प्रकृतस्य फणिशिख- रिलग्रभगवदादिरूपस्य अप्रकृतस्य तत्त्वंपदादिरूपस्य च धर्मि णोस्साधारणस्य कस्यचिदपि विशेषणस्यानुपादानाच्च। यद्यपि तन्भागत्यागलक्षणाश्रयणादिति तुरीयचरणार्थौ परमपदावधिका- गमनपूर्वकफणिशिखर्याश्रयणकर्तृपरमपदाधिवासिभगवत्प्रभा भा- गत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्वंपदद्यं चेत्येतौ श्ेष- तोऽमेदेनाध्यवसीयेताम्, एवमन्येष्वपि पदेषु तौ तावर्थौ। तथाऽपि नैतौ कस्यचिद्विशेषणतया प्रतीयेते, न तरां च प्रकृ- ताप्रकृतयोरिति तत्वं सुसूक्ष्ममोक्ष्यते, तदा पुनशश्लेषस्य प्र- कृताप्रकृतगोचर स्यैवैतान्युदाहरणानि भविष्यन्तीति॥ यद्वा-तन्भ्रागत्यागलक्षणाश्रयणादित्यतः परमपदावधिकाग- मनपूर्वकफाणीशखर्याश्रयणर्कतृस्वकीयप्रभाकत्वेन प्रकृतभगवद्वि- शेषणतयारऽर्थात्प्रतीयमाने प्रकृतव्यवहारे अप्रकृतालंकारिकादि गतस्य स्वाभ्युपगतभागत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्वं पदद्वयकत्वस्याप्रकृतव्यवहारस्य प्रतीतिरित्यभिप्रायेणह परमं पद- मिति पद्यं समासोक्त्युदाहरणतां प्रापितम्। समासोक्तिशरीरेप्र- विष्टस्य विशेषणविशेष्यभावस्य शाब्द्तानियमाभ्युपगमे तूक्तरीत्या श्लेषस्यैवेदमुदाहरणं भविष्यति। एवं पद्यान्तरेष्वप्यूह्यमिति। .--- यथावा- जगदानन्दकृतस्तव नाम्नो ग्रहणे फणाधरगि-

Page 502

समासोक्तिसर: (२५) 491

रीन्दो। पुंसोऽनघगतिकारकपूर्वस्यापि स्वयं भवे- ड्रहणम् ॥ ७६८॥ हे अनघगतिकारक! दिव्यगतिदायिन्! फणाधरगिरी- नदो! जगदानन्दकृत: सकललोकामोददायिनः तव नाम्नः नारा- यणवासुदेवविष्णहरिप्रभृतिनामधेयस्य ग्रहणे उच्चारणे सतीति यावत्। पूर्वस्य 'पूर्वेषामपि पूर्वजः' इत्युक्तरीत्या अखिलजग. त्कारणभूतस्य पुसः पुरुषस्य तवेत्येतदत्राप्यनुषज्यते । तवापि योगिभिरपि दुर्ग्रहस्यापीति भावः। स्वयं प्रयत्नान्तरनिरपेक्षमेव ग्रहणं 'उपयाम गृहीतासि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत' इत्युक्तरत्या आत्महविस्समर्पणाद्दश्यत्वेन वशीकरणं भवेत्॥ ओमित्येकाक्षरं साक्षाद्वासुदेवस्य वाचकम्। ओमित्युच्चारणेनैव वाच्यमानीयते परम्॥ द्वादशाक्षरयोगेन दूरस्थं तादेहान्तिके। स्मृतमात्रे महामन्त्रे सुसूक्ष्मे द्वादशाक्षरे॥ चित्तदर्पणसंकरान्तर्सुसुखं लक्ष्यते हरिः। अतश्च द्वादशार्णेन स्वाध्यायेन जनार्दनः । आसन्नतां व्रजत्याशु ब्रह्मण्यर्पितचेतसाम्। इति, हरिरित्यवशनापि कीर्तयेन्नाम यो नरः । किमन्यैस्साधनैः कार्य तस्य वश्यो भवेद्रि:॥ इति च शाण्डिल्यपरमधर्मशास्त्रभगवच्छास्त्रोक्तेरित भावः। पक्षे-जगदानन्दकृत इत्यत्र जगदानन्देति, अनघगतीत्यत्र अनघेति च छेदः । हे जगदानन्द ! लोकानन्दकारण! हे अनघ!

Page 503

492 अलंकारमणिहारे

अपहृतपाप्मन्! कृतः कृत्प्रत्ययस्य ग्रहण गतिकारकपूर्वस्यापि ग्रहणं भवेदित 'कृुङ्महणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषार्थो दर्शितः । तन 'कर्तृकरण कृता बहुळम्' इति समासविधायके शास्त्रे कुद्गहणने नखैरभिन्नो नखभिन्न इत्यत्रेव नखैः निरर्मिन्नः हरिणा नखनिर्भिन्नः इत्यादौ गतिकारकपूर्वेणाि कृदन्तेन समासो भवतीति वेदितव्यम्। गतिरत्र प्रादिगणपठित उपसगापरपर्यायशशब्दः 'उपसर्गा: क्रियायोगे, गतिश्च' इत्यनु शासनात्। कारकाणि च कर्मकरणादीनि सुप्रसिद्धानि। अत्र भगवच्छास्त्रीये व्यवहारे शब्दशास्त्रयव्यवहारारोपः॥ यथावा- शिरसः परतो न्यस्ते पदेसमस्ते विसर्जनी- योडप्यन्ते। सत्त्वं भजते भगवन्नयोगवाहेषु हन्त गणितो मनुजः ॥ ७६९ ॥ हे भगवन्! योगं वहन्तीति योगवाहाः, कर्मण्यन्। ते न भवन्तीत्ययोगवाहाः त्वद्धचानविधुरा इत्यर्थः। तेषु गगितो- पि अन्ते विसर्जनीयः साधुजनगोष्ठया बाहिष्कार्योऽपि मनुजः पुमान्, समस्ते इत्यत्र समः ते इति छेदः। ते तव पदे चरणे शिरसः परतः शीर्षादूर्ध्व शीर्षे इत्यर्थः। वृक्षाग्रे श्येन इत्यस्मिन्नर्थे वृक्षाग्रात्परतश्शयेन इत्यपि प्रयोगदर्शनात् । न्यस्ते निक्षिप्ते सति समः साधुस्सन् 'सर्वसाघुसमानेषु समं स्याद- भिधेयवत्' इति मेदिनी। 'तुल्यो मित्रारिपक्षयोः' इत्युक्तदि- शा सर्वसमस्सन्निति वा। यद्रा-असम इति छेदः। असद्ृश- स्सन्नित्यर्थः । सत्वं भजते ।। महान्प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तक: ।

Page 504

समासोक्तिसर: (२५) 493

इति श्रुत्युक्तरात्या सत्वप्रवर्तकभगवच्चरणारविन्दशिरोनिधानम- हिस्ना बलिदानवेन्द्र इव सात्विकतां सतो भावं वा प्रति- पद्यत इत्यर्थः । पक्षे-शिरसः शिरःपदात् परतः परत्र न्यस्ते प्रयुक्ते पदे पदशब्दे समस्ते समासं प्राप्ते सति । अन्यथा वक्ष्यमाणं सत्वं न स्यात् 'नित्यं समासेऽनुत्तरपद- स्थस्य' इत्यधिकारात्। अयोगवाहाः अनुस्वारविसर्गजिह्वामूली- योपध्मानीयाः तेषां भगवता पतञ्जलिना तथा संज्ञाया विधानात्। तेषु गणित। अन्ते शिरशशब्दान्ते विद्यमानः विसर्जनीयोपि वसर्गोपि सत्वं सकारत्वं भजते 'विसर्जनीयस्य सः' इति खर्परकत्वलक्षणसत्वापवादतया 'कुप्वोः कःपौ च' इति प्रा- पस्य विसर्जनीयस्य 'अधशरसी पदे' इत्यनेन सत्वविधाना- दिति भावः। अत्रापि- शिरसा प्रतिगृह्णानो देवदेवस्य पादुकाम्। पापोपि सात्विको भूत्वा याति तद्वैष्णवं पदम्।। इति भगवच्छास्त्रप्रतिपािते वस्तुनि शब्दशास्त्रीयव्यवहार आरोप्यते।।

यथावा- कमला वैशम्यायनकथनी योदारभागवतगीता। भयमुपशमयति भविनां प्रियशान्त्यनुशासनाहि- तोदयोगा॥ ७७०॥ वै इति भिन्नं पदम्। शम्पानां शतहदानां अयने मार्गे कथनीया 'आदित्यवर्णे, हिरण्यवर्णाम्' इत्यादिश्रुतिप्रथितवर्ण- तथा विद्युत्तुल्येति वर्णनयिति यावत्। यद्वा-शम्पा दम्भोळिः

Page 505

494 अलंकारमणिहारे

तस्या: अयनः प्राप्ता । शम्पया ईयत इति वा। सर्वधाऽपि वज्री इन्द्र इत्यर्थः । 'शम्पा विद्युत्पविशशम्पा' इत्यनेकार्थध्व- निकोशः। तेन कथनीया, नमस्ते सिन्धुसंभूते नमस्ते पद्मसम्भवे।

इति, नमस्सरोरुहावासे नारायणकुटुम्बिनि।

नमामि सर्वलोकानां जननीमब्धिसंभवाम्। इत्यादिना च लक्ष्मीतन्त्रविष्णुपुराणादौ देवराजेन स्तुतेत्यर्थः । यद्वा -- शम्पायने इन्द्रे कथनीयं उपदेष्टव्यं लक्ष्मीतन्त्रादि य- स्यास्सा तथोक्ता। लक्ष्मीतन्त्रस्य लक्ष्म्या इन्द्रायोपदिष्टत्वादि- ति भावः। पक्षे-वैशम्पायनेत्येकं पदम्। वैशम्पायनेन परमर्षिणा कथ्यत इति कथनीया 'तयोरव' इति कर्मण्यनीयर्। जनमे जयायोपदिष्टेत्यर्थः। उदारभागवतगीता उदारा: 'उदारास्सर्व एवैते' इति भगवतैव प्रशस्ताः वदान्या ये भागवताः भगव द्क्ताः 'चतुर्विधा भजन्ते मां जनास्सुकृतिनोर्ऽर्जुन' इत्यादि- नोक्ता आर्तजिज्ञास्वर्थार्थिज्ञानिनः । ते हि भगवतो य्त्कचिदपि गृह्णन्ति तस्मै तु सर्वस्वदायन इत्युदारता तेषाम्। तैर्गीता। पक्षे-भगवत इय भागवती गतिा भगवद्गीतोपनिषदित्यर्थः। सा उदारा यस्यां सा तथोक्ता। उदारत्वं चास्या: पठतां शृण्वतां च परमपुरुषार्थदातृत्वम्। महाभारतान्तर्विद्यमानाख्या- नेषु मह्त्वं वा। 'उदारो दातृमहतोः' इत्यमरः । प्रियस्य स्ववल्लभस्य भगवतः शान्तिः आश्रितापराधनिर्वर्णनोदीर्णको- धावेगप्रशमनं तस्याः यदनुशासनं वाल्लभ्यातिशयेनाज्ञापनं त- स्मिन् आहितः उद्योगः यया सा तथोक्ता॥

Page 506

समासोक्तिसर: (२५) 495

पितेव त्वत्प्रेयान् जनान परिपूर्णागास जने हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः । किमेवं निर्दोष: क इह जगतीति त्वमुचितैः उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ इत्यायुक्तरीत्या भगवन्मानसप्रसादनैकव्यापारेति भावः।। अत्र- अपराधैकसक्तानामनर्हाणां चिरं नृणाम्। भर्तुराश्रयणे पूर्व स्वयं पुरुषकारताम् ॥ वाल्लभ्येनानुतिष्ठन्ती वात्सल्याद्युपबृंहणीम्। उपायसमये भतुर्ज्ञानशक्त्यादिवर्धनीम्॥ इत्यादिकं च स्मर्तव्यम्। पक्षे-प्रिये शृण्वतां प्रीतिजनके शा- न्तिश्चानुशासनं चेति पर्वणी यस्यां सा तथोक्ता। हितः श्रे- यःप्रदः उद्योग इति पर्व यस्यां सा तथोक्ता च। कमला श्रीः भविनां संसारिणां भवभयं शमयति। अत्र पञ्चरात्रादिशास्त्रीये व्यवहारे प्रस्तुते भारतसंहिताव्यवहारस्यारोप इति विशेषः।

यथावा- सुप्रथतेजसि जगतां प्रथमे दिव्यस्वभा वशी भावः । त्वयि मात्यच्युत सुतरामसर्वसाधारणे- नित्यः।७७१॥

दिव्या रमणीया स्वभाः 'न तत्र सूर्यो भाति' इत्या- दिना 'तस्य भासा सर्वमिदं विभाति' इत्युक्तप्रकारा दीप्षि: यस्य तस्य संबुद्धि: हे दिव्यस्वभाः! हे अच्युत! शोभना प्रथा यस्य तत्तथोक्तं तेजः यस्य तस्मिन् सुग्रथतेजासि । तेजो

Page 507

496 अलंकार मणिहारे

नाम अस्वाधनिसहकार्यनपेक्षत्वम् । तदुक्तं 'तेजस्त्वनन्यापेक्षता' इति। सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या। तेजष्वष्टं गुणं प्राहुरतमिमं तत्त्ववेदिनः । इति च, यद्ा-

ज्योतींष्यादित्यवद्राजन्कुरून् प्रच्छादयन् श्रिया। इति निदर्शितं पराभिभवसामर्थ्य, पराभिभवसामर्थ्य तेजः केचित्प्रचक्षते।

इत्युक्ते। जगतां प्रथम कारणे इत्यर्थः । एतैर्विशेषणैः 'महाश- क्तिर्महादयुतिः, महातेजा महोरगः, ओजस्तेजोद्युतिधरः, सिद्धि- स्सर्वादिरच्युतः' इत्यादीनि स्मारितानि । अत एव असर्वसा- धारणे सकललोकविलक्षणे त्वाय नित्यः शाश्वतः वशी वशः प्रभुत्वमस्यास्तीति वशी भावस्सत्ता प्रभुत्ववैशिष्टचेन स्थिति- रित्यर्थः । भाति 'सर्वस्य वशी' इत्येतदत्राभिसंहितम्। यद्वा- वशी प्राभववान् भावः क्रिया विभूतिर्वा। अथवा-वशो जन्म तदस्यास्तीति वशी अवशिनः वशिनस्संपद्यमानस्य भावः वशी- भाव:, अभूततन्भ्ावे च्वः। अनित्य इति छेदः। अनित्यः अकर्म- वश्यत्वेनेच्छापरिगृहीततया कादाचित्क इति भावः । यद्वा-भावः वशीति योजना। भावः जन्म। वशोऽस्यास्तीति वशी। वश इच्छा एच्छिक इत्यर्थः । अभिप्रायस्तु पूर्ववदेव । अत्र 'इच्छागृहीता- भिमतोरुदेहः' इत्यादिकमनुसंघेयम्। अत एव अनित्यः उक्तोऽर्थः। यद्वा-जगतामित्येतदत्रैव संबध्यते। जगतां वशीभावः आयत्तत्वं 'वशो जन्मस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः' इति हेमचन्द्रः । सुतरां भाति प्रकाशते। अस्मिन्पक्षे प्रथमेत्यस्यैव सर्वजगदादिकारणेत्यर्थः।।

Page 508

समासोक्तिसर: (२६) 497

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्। इत्येतदत्र स्मर्तव्यम्।

क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु॥ इति मेदिनी। उक्तप्रकारे त्वय्यधीनमखिलं जगदित्यभिप्रायः।

पक्षे-सुप्रथते इति दिव्यस्वभावेति च छेद: । हे दिव्य- स्वभाव! हे अच्युत! भाति प्रकाशमाने प्रथमे प्रथमशब्दे अस- र्वसाधारणे सर्वशब्दतुल्यत्वेनाविद्यमानेऽपि साधारणस्समा- नश्च' इति तुल्यपर्यायेष्वमरः । आपेशब्दः 'न द्वन्द्वदुःखमिह किंचित्' इत्यत्रेव सामर्थ्याल्लभ्यते। सर्वादिगणापठितेपीति या- वत्। जसि प्रथमाबहुवचने शीभावः शी इत्याकारकादेशः अनित्य इति छेदः । अनित्यः विकल्पितः जगतां सुतरां प्रथते सुष्टु प्र- सिद्धयात 'प्रथमचरमतय' इति सूत्रेणासर्वनास्नोपि प्रथमशब्द- स्य जस्येव शीभावस्य वैकल्पिकतयाऽनुशासनादिति भावः। अत्र सहस्रनामाध्यायादिप्रसिद्धव्यवहारे शब्दशास्त्रसिद्धव्यवहा- रारोप: ।।

यथावा- बहुधामासव्रजभूर्मलिम्लुचो जातु यो निषि- द्वोपि। कारयतु स मां शौरिस्स्वस्मिन्नावश्यकं शुभं कर्म ॥७७२॥ बहुधामा अमिततेजा: यः शौरि: जातु कदाचित् व्रजभूः नन्दव्रजजन्मा सन् निषिद्धोपि यशोदादिभिर्वारितोपि मलिम्लुचः दुग्धदधिनवनीतादिस्तेन: आस अभूत् । तिङन्तप्रतिरूपकमव्य- ALANKARA 63

Page 509

498 अलंकारमणिहारे

यम् । सः शौरि: स्व्मिन् स्वविषये आवश्यकं अवश्यकर्तव्यं शुभं कर्म- न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । इत्यायुक्तमाराधनादिकं मां कारयतु 'हक्रोरन्यतरस्याम्' इति द्विकर्मकत्वम। पक्षे-बहुधा बहुवारमेति यावत्। यद्वा-बहुप्रका- रेण चैत्राद्याश्विनान्तमासेष्वनियमेनेत्यर्थः । तेष्वेव मासेष्वधिक- माससंभवात् । मासानां चान्द्रमासानां व्रजो निवहः 'गोष्ठाध्व- निवहा व्रजाः' इत्यमरः । तस्मिन् भवतीति मासव्रजभूः।

घटिकानां चतुष्केण भवत्यधिकमासक: ॥ इति स्मरणात्। य: मलिम्लुच :- एष षष्टिदिनो मास: पूर्वार्धस्तु मलिम्लुचः। इत्युक्तलक्षण: अधिमास इत्यर्थः । मलिम्लुचत्वं चास्य- वत्सरान्तर्गतः पापो यज्ञानां फलनाशकृत्। नैरततैर्यातुधानैश्च समाक्रान्तो विनाशकैः॥

मलिम्लुचं तं जानीयाद्गर्हितं सर्वकर्मसु॥ इति शातातपोक्तरीत्या तस्करैर्यातुधानैराक्रान्तत्वादिति ध्येयम्। मलिम्लुचो मासभेदे चोरज्वलनयोः पुमान्। इति मेदिनी। सः निषिद्धोपि- मलिम्लुचस्तु यो मासस्स मास: पापसंज्ञितः । त्यक्त्वा तमुत्तरे कुर्यात्पितृदवादिकाः क्रियाः॥ वर्जितः पितृदेवाभ्यां स मासः पापसंजञितः।

Page 510

समासोक्तसरी: (२५) 499

इति स्मरणात्। जातु कदाचित् सति संभव इति भावः । स्वस्मिन् आवश्यकं सीमन्तोन्नयनादिकं प्रतिनियतकालमचश्य- कर्तव्यं शुभं मङ्गळं कर्म मां कारयतु। मासप्रोक्तेषु कार्येषु न मौढयं गुरुशुकयोः। अधिमासादिदोषाश्च न स्युः कालविधेर्वलात्।। इति स्मरणात्। अत्र पुराणवृत्तान्ते प्रस्तुते अप्रस्तुतधर्मशास्त्री- यव्यवहारारोप इति पूर्वेभ्यो विशेष:॥ यथावा- त्वयि सकलशुभगणास्मयमाताभानसजरा लगन्तीश। त्वच्छन्दस्थितिभाजां भाति शुभं श्री- प्रभादिवृत्तं च।। ७७३ ॥। अत्र श्रुतीतिहासपुराणादिशास्त्रीये व्यवहारे छन्दशशास्त्री- यव्यवहारारोपः। तथाहि-सकलशुभगणा अस्मयेति छेदः । अंविद्यमान: स्मयः गर्वः यस्य स तथोक्तः अस्प्रयः 'स्मयो नाऽद्ुतगर्वयोः, स्मयो गर्वेऽद्भते' इति मेदिनीविश्वौ। 'न इतो न च मत्सरी। अनुद्धतमना विद्वान्' इति श्रीरामायणाक्त्ते:। तस्य संबुद्धिः, अविद्यमानः स्मयो विस्मयो यस्येति वा 'वीर्य- बान्न च वीर्येण महता स्वेन विस्मितः' इति तत्रैवोक्तः । यद्वा-अविद्यमानः स्मयः आश्चर्यकरः पदार्थः यस्मात्स इति अनुत्तमादिवत्पञ्चमीबहुव्रीहिः। यत्राद्ुतानि सर्वाणि भूमौ वियति वा जले। तं त्वा नु पश्यतो ब्रह्मन्कि मे दष्टमहाद्ुतन्॥ इत्यक्ररोक्तप्रकारेण सवार्श्चर्यनिधे इत्यर्थः । स्मय इत्येव छि- त्वा हे स्मयेति संबोधनं वा। अर्थस्तूक्त एव 'अनेकान्भतदर्श-

Page 511

500 अलंकारमणिहारे

नम्' इत्याद्यप्यत्रानुसंधेयम् । हे ईश! सर्वेश्वर! 'क्षरात्मा- नावीशते देव एक:, व्यक्ताव्यक्तं भरते विश्वमीशः, एष सर्वेश्वरः इत्यादिश्रुतेः। त्वय लगन्ती व्यतिषजन्ती शुभानां कल्याणानां गणा: निवहाः सकलास्समग्रा: शुभगणा यस्यास्सा तथोक्ता । माता अस्य जगतामित्यादिः । यद्ा -अनौपाधिकनिर्देशेन शब्द- शक्तेरसंकोचान्मातेत्यस्यैवाखिलजगजननीत्यर्थः। आभा इति छेदः। आ समन्तात् भातीत्याभाः । भाते: कर्तरि क्किप। वि- श्वव्यापिनीत्यर्थः ॥ यथा मया जगद्यापं स्वरूपेण स्वभावतः । तया व्याप्तमिदं सर्वे नियन्त्री च तयेश्वरी। इति विष्वक्सनसंहितोक्त: । यद्वा-आ समन्तात् भाः प्रभा यस्यास्सा। विश्वतोमुखद्यतिरित्यर्थः । 'चन्द्रां प्रभासां, ज्वलन्तीं तृप्ताम्' इत्यादिश्रुतेः । जरया सह वर्तत इति सजरा सा न भवतोति नसजरा। नशव्देन सुप्सुपेति समासः 'ज- रां मृत्युमत्येति, विजरो विमृत्युः' इत्यादिश्रुत्युक्तरीत्या भगवत इवास्या अपि जरातीतत्वाद्यखिलहेयप्रत्यनीकताया अव्याहत- त्वात्। अत एवोक्तं लक्ष्मोतन्त्रे- कान्तस्य देवदेवस्य विष्णास्सद्गुणशालिनः । दयिताऽहं सदा देवी ज्ञानानन्दमयी परा॥ अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी। इति, नित्यनिर्दोषनिस्सीमकल्याणगुणशालिनी। अहं नारायणी नाम सा सत्ता वैष्णवी परा॥ इत्यादि च। यद्वा माता अभा न सजरा इति छेदः। ने लयेतन्म- व्यमणिन्यायेनोभयतोऽन्वाय। अभा निष्प्रभा न, किंतु सप्रभैव।

Page 512

समासोक्तिसर: (२५) 501

प्रतिषधद्वयेन कादाचित्कनिष्प्रभात्वसंभावनाSपे व्युदस्यते। 'सं- भाव्यनिषधनिवर्तने द्वौ प्रतिषेधौ' इत वामनः । सजरा चन। उक्त एवार्थः । भवतीति शेषः। अस्तेर्भवन्तिपरस्थाप्रयुज्यमा- नस्याप्यस्तित्वभाषणात्। अव्याहृतमहाविभूतिविशिष्टस्त्वमिति . तात्पर्यार्थः । अत एव त्वच्छन्दस्थितिभाजां तव छन्दः अ- भिप्रायः 'अभिप्रायवशौ छन्दौ' इत्यमरः । तस्मिन् स्थिति- भाजां 'त्वदीयगम्भीरमनोऽनुसारिणः' इतिवत्त्वदभिप्रायानतिल- द्विनामित्यर्थः । यद्वा-त्वदधीनतास्थितिशालिनामित्यर्थः । त्व च्छेषभूतानां नृणामिति भावः । शुभं कल्याणं। श्रीः संपत्, प्रभा तेजः ते आदी यस्य तत्। आदेशब्देन यशआदोनां ग्रहणम्। वृत्तं तदनुरूपं चरित्रं च भाति प्रकाशते 'किम- लक्ष्यं भगवति प्रसन्ने श्रीनिकेतनें, सक फलप्रदो हि विष्णुः

इति भाव:॥ पक्षे-सकलशुभगणा: स्म यमाताभानसजराः इति छेदः । हे ईश! त्वय यमाताभानसजरा: अत्र मादिवर्णेषु दीर्घोऽपि यादिवर्णेष्वकार इवोच्चारणसौकर्यार्थ एव। यमतभ- नसजरा: यादिसंज्ञका: सकलाश्शुभाश्च गणा :-

सर्वगुर्मो मुखान्तलौं यरावन्तगलौ सतौ। मध्यादयौ ज्भौ त्रिलौ नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥

इति छन्दशशास्त्रप्रसिद्धा गणाः वर्णत्रयात्मका: लगन्ति स्म लग्ना भवान्त स्म। त्वद्धुद्धिस्था अभवन्निति यावत् । अस्या- मानुपूर्व्यी यकारादिवर्णत्रितये यथा आदिलघुर्यगणो निष्पद्यते। एवं एकैकवर्णापायेन मा इत्यादौ वर्णत्रितयत्रितये सर्वगुरुर्मगण

Page 513

502 अलंकारमणिहारे

अन्त्यलघुस्तगण: आदिगुरुर्भगण: सर्वलघुर्नगण: अन्त्यगुरुस्स- गण: मध्यगुरुर्जगण: मध्यलघू रगणश्चेत्यष्टी गणा ननिष्पद्यन्ते। ते चादिमवर्णैस्तत्तत्संज्ञका इति ज्ञाप्यन्ते। एवं लगन्तीत्यत्र लघुर्गुरुश्च ज्ञाप्येते इत्यवहितहृदयैर्द्रष्टव्यम्। त्वच्छन्दस्थितिभाजां तव छन्दांसि उक्तात्युक्तादीनि छन्दासि तेषु स्थितिभाजां तद्विषयकज्ञानवतामित्यर्थः। शुभं स्वनास्नैव मङ्गळं श्रीप्रभा- दिवृत्तं, श्रीः उक्तायां 'गश्रीः' इत्युक्तलक्षणं, प्रभा जगत्यां 'स्वर- शरविरतिर्ननौ रौ प्रभा' इत्युक्तलक्षणं च वृत्तं ते आदी यस्य तत्। वृत्तं पद्यं जात्येकवचनं भाति। चकार: पूर्वोक्तसमु- च्चयार्थकः ॥ यथावा- सर्वगुरुचरणमाप्त्वाSडद्यगुरुपदाधस्सखे लघु- न्यासात्वम्। शेषमुपरीव दर्शय गुरुमूने शश्वद- खिललघु तद्गवति॥७७४॥ हे सखे! सर्वेषां गुरूणां स्वाचार्यप्रभूतिभगवद्वधिका- नामाचार्याणां चरणं जात्येकवचनम्। आप्त्वा प्रपद्य आद्यगु रुपदाधः आद्यस्य गुरोः भगवतः 'कमप्यादं गुरुं वन्द' इ- त्युक्त:। पदयो: अधः 'त्वत्पादमूलं शरणं' इत्यायुक्तरीत्या च- रणमूले इत्यर्थः। लघु क्षिप्रं यथा स्यात्तथा न्यासात् आत्म- रक्षाभरसमर्पणात् नास्मिन्नर्थे विलम्बितव्यम् ॥. महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया। प्राप्तुं दुखाम्बुधेः पारं त्वर यावन्न भदयते॥ इत्युक्तेरिति भावः। यद्वा-लघुन्यासात् भक्त्यपेक्षया लघूपा- यरूपात्प्रपदनात् प्रपदनं कृत्वत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी।

Page 514

समासोक्तिसर: (२५) 503

एवं पूर्वस्मिन्नर्थेऽपीति ध्येयम् । अत्र 'गुरुमुखाच्छीशं प्रपद्य' इत्युक्तोर्ऽर्थोऽनुसंहितः । उपरीव आदौ प्रदर्शिते गुरुचरण इव प्रथमगुरोश्चरणेऽपीति भावः । स्वमिति शेषः । आत्मानामत्यर्थः। शेषं शेषभूतं परगतातिशयाधानेच्छया उपादेयस्वरूपं दर्शय। यद्वा-उपरि सकललोकोपरि विद्यमाने अखखिलजगदीश्वरे भग वतीत्यर्थः। तस्मिन्निव सर्वगुरुचरणेऽपीति भावः । शषं दर्शयति योज्यम्। अथवा उपरी्यस्य सकललोकशिरोधार्ये भगवच्चरण इवत्यर्थः । अन्यत्तुल्यम्। यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ॥ इत्यादिश्रुतेः। ऊने उपायानुष्ठानसमयभाव्यङ्गादिवैगुण्ये संभाविते सति । शश्वत् गुरुं स्वाचार्य दर्शयेत्येतन्मध्यमणिन्यायेनात्रापि संबध्यते। पितामहं नाथमुनिं विलाक्य प्रसीद मद्ठत्तमचिन्तयित्वा। इत्यायुक्तरीत्या भगवत्प्रसादनायाचार्य दर्शयेति भावः।तत् त- स्मात् उक्तप्रकारेणानुष्ठानात् अखिलं च तत् लघु च अखिल-

लघुः' इत्यमरः । इष्टेडर्थे- दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः । इति प्रयोगश्च। लघुना इष्टेनेति विवृतम्। यदा। कृष्णागुरुणि शीघ्रे च लघु कीबेऽगुरौ त्रिषु। निस्सारे च मनोज्ञे च पृक्कायां च लघु स्त्रियाम्॥ इत्यादिरभसादिकोशैकरस्थायेष्टशब्दोऽमरकोशगतो मनोज्ञवाची- त्याश्रोयते, तदा अखिललघु इत्यस्य सर्वमनोज्ञमित्यर्थः । तदिदं

Page 515

504 अलंकारमणिहारे

लमपि न्यासविद्यानिष्णातानां सर्वेषां मनोहरं भवतीति भावः। पक्षे-छन्दश्शास्त्रीयप्रस्तारक्रमो दर्शितः । तथाहि-हे सखे! त्वं सर्वे गुरव: गुरुवर्णज्ञापकवक्ररेखविशेषाः यस्मिस्तत्सर्व- गुरु। चरणं पद्यचतुर्थाशं आप्त्वा उक्तविधरेखाभिर्लिखित्वेति यावत्। आद्यगुरुपदाधः आद्यं प्रथमं गुरुपदं गुरुवर्णचिह्नं त- ज्ज्ञापकवक्ररेखाविशेष इत्यर्थः । 'पदं व्यवसितत्राणस्थानलक्ष्मा- ङ्विवस्तुषु' इत्यमरः । तस्य अधः अधस्ता लघोः लघुवर्ण- ज्ञापककजुरेखाविशेषस्य न्यासात् तलेखनं कृत्वा। पूर्ववत्पश्चमी। शेषं अवशिष्टं उपरीव उपरितनपङ्गाविव। दर्शय लिखेति यावत्। ऊने उपरिगुरुवर्णज्ञापकरेखाहीने लघुवर्णसूचकरेखासन्भावे इति भावः। गुरुं गुरुवर्णसूचकवक्ररेखाविशेषं दर्शयेत्यत्राप्यन्वेति। एवं शश्वत् पुनःपुनः दर्शय। एवं सति तत् चरणं अखिललघु अखिलाः लघवः लघुवर्णज्ञापकरेखाविशेषा: यस्य तत्तथोक्तं भवति इति, पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरध.। यथोपरि तथा शेषं भूय: कुर्यादमुं विधिम्।। ऊने दद्याद्ररूनेव यावत्सर्वलघुर्भवेत्। प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः॥ इति श्रोकार्थस्सर्वोष्यनुसन्धेयः । तथाहि तदर्थ :- सर्वेषां छ- न्दसामादं वृत्तं सर्वगुरु अन्त्यं सर्वलघु अतः पादोपि तादृश एव एवं सति सर्वगुरौ पादे छन्दोनुरूपतया अर्धचन्द्राकृति वक्ररेखाभिलिखिते सतीति यावत्। आदे: गुरो: अधः आद्य- वकररेखाया अधस्तात् द्वितीयपङ्गो लघुं ऋजुरेखां न्यस्य लिखित्वा यथोपरि लघुरेखायाः परत्र स्थाने दक्षिणपार्श्वे उपरिपङ्गौ यद्वत्

Page 516

समासोक्तिसर (२५) 505

गुरुलघुज्ञापकरेखास्सन्ति तथा तेन प्रकारणैव शेषं अवशिष्टगु- रुलघुरेखा: पूर्वपङ्गयवसानपर्यन्तं न्यस्य भूयः पुनरपि तद्धः तृतीयपङ्गयादौ अमुं विधिं आदेर्गुरोरध इत्यादिकं कुर्यात् लिखेत् द्वितीयपङ्गौ आदौ गुर्वभावाद्वितीयस्थानगत एवाद्यो गुरुर्भवति। एवं तृतीयादी तृतीयादिस्थानगत एवाद्य इति व्येयम्। ऊने क्रमप्राप्तलेखनहीने लघुरेखायाः पूर्वत्र स्थाने वामभागे गुरूनेव वक्ररेखा एव दद्यात् लिखेत्। एवं कियन्तमवधि लिखेदि- त्यत आह- यावदिति। यावता सर्वलघुः पादो भवेत् तावदयं विधिरिति भावः। एवंचास्मिन्नदाहरणपद्े अत्युक्ताच्छन्दःप्रस्तार- स्सर्वोपि प्रदर्शित इत्यवधेयम्। तत्र हि प्रथमं वृत्तं द्विगुरु द्वितीयं लघुगुर्वात्मकं तृतीयं गुरुलध्वात्मकं चतुर्थ सर्वलघु इति चत्वारि वृत्तानि भवन्तीति । अत्रापि पूर्ववदेवारोप: ॥ यथावा- अविसर्जनीयसत्त्वं स्वान्तस्तव दर्शनेन यो विन्देत। वाचस्पतिस्स भगवंश्छन्दसि साधुः प्र- योगतो लोकेडपि॥७७५॥ हे भगवन्! तव दर्शनेन अवलोकनेन यः पुमान् स्वस्थ अन्तः मनसि अविसर्जनीयं अपरित्याज्यं नैसर्गिकमित्यर्थः । स्त्त्वं सत्वगुणं विन्देत- जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सातत्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥ इति मोक्षधर्मोक्तेरिति भावः । स पुमान् वाचस्पतिः वाग्मी सन् 'वागीशो वाक्पतिस्समौ' इत्यमरः। बृहस्पतितुल्य इति वा- 'जीव आङ्गिरसो वाचस्पतिः' इत्यमरः । छन्दसि अभिलाषे ALANKARA 64

Page 517

506 अलंकारमणिहारे

साधु: साध्वभिलाष इत्यर्थः । क्षोदिष्ठप्रयोजनानभिलाषुक इति भाव:। यद्वा-छन्दसि वेदे साधुः अधीतसाङ्गशिरस्कवेदतया पूज्य इति भावः । 'साधुनितुणाभ्यामर्चायां सप्तम्यप्रतेः' इति साधुशब्दयोगे छन्दश्शब्दात्सप्तमी॥ छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः । इति मेदिनी। प्रयोगतः प्रकृष्टो विजातीयप्रत्ययासंवलिततया श्रेष्ठः योग: ध्यानं तस्मात् लोकेSपि साघुस्सभ्यः मोक्षाथाचन्तक- तया उपासनीय इति यावत्। भवति। स वेदैतत्परं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं ये ह्यकामास्ते शुकमेतदतिवर्तन्ति धोराः॥ इति ब्रह्मविदुपासकानां जन्मवैषुर्यश्रवणादिति भावः। 'साधु- स्त्रिषूचिते चारी सभ्ये वार्घुषिकेऽपि ना इति रत्नमाला। पक्षे-तव दर्शनेन शास्त्रेण व्याकरणेनेयर्थः 'दर्शनं दर्प- णस्वप्रबुद्धिशात्ताक्षिदृष्टिषु' इति रत्नमाला । यः वाचस्पति- शब्द: स्त्रान्तः स्वमध्ये अविसर्जनीयः विसर्गशून्यः विसर्ग- स्थानिक इतति यावत्। सः सकारो गस्य स तथोक्त: तस्य भावं अविस्जनीयसत्वं विन्देत । 'षष्ठयाः पतिपुत्रपारपदप- यस्पोषेषु' इति षष्ठीविसर्गस्य सकारादेशविधानादिति भावः। स वाचस्पतिः वाचस्पतिशब्दः छन्दसि वेदे साधुः प्रयोगा- हः। उदाहृतसूत्रेण सकारस्य छन्दस्येव विधानात्। लो- केऽपि प्रयोगतः 'वक्ता वाचस्पतिर्यथा' इयादिप्रामाणिकप्रयो- गभूम्रा साधुर्भवाते, यथा छन्दोमात्रविषयोपि परिपन्थ्यादिशब्द इति भावः। अत्र श्रुतीतिहासादिशास्त्रीयव्यवहारे शब्दंशा- स्त्रीयव्यवहारारोप:॥।

Page 518

समासोक्तिसरः (२५) 507

यथावा- बहुधात्वात्मा विन्देन्नाथेषद्दुरितसूपपदतां चेतू। न खलु न खलाश्रितस्स्यात्प्रत्ययितस्सोपि दर्श- नेन तव ।७७६॥ हे नाथ ! आत्मा प्रत्यगात्मा। ईषत् अल्पं दुरितेन वृजि- नेन सूपपदतां सुखेन उपपद्यत इति सूपपदः। वक्ष्यमाण: खल्प्र- त्ययः। तस्य भावं इयाच्चेत् यत्किश्चिद्दष्क्ृतोपपन्नश्चेदित्यर्थः । बहुधा बहुप्रकारेण प्रायेणेति यावत्। खलाश्रितः दुर्जनसंसृष्टः न स्यादिति तु न खलु। स्यादेवेति भावः। तुशब्दोऽवधा- रणे, खल्विति जिज्ञासायां वाक्यालङ्कारे वा। 'निषेधवाक्या- लङ्कारजिज्ञासानुनये खल' इत्यमरः। दुरितमूलको हि खल- संसर्ग: । यथोच्यते- अहो नु खलसंसर्ग: पापानां महतां फलम्। इति। सोपि एवं खलसंसर्गविदूषितोपि तव दर्शनेन याद्दच्छिका- दिसुकृतपरिपाकसुलभेन तवावलोकनेन प्रत्ययितः संजातप्रत्ययः ज्ञानवानित्यर्थः । इतच् । स्यादित्येतदत्रापि संबध्यते। अज्ञानं नश्यति ज्ञानमुदेति हरिदर्शनात्। इत्युक्तेरिति भाव:। पक्षे-बहुः बहुप्रकार: धातूनां भ्वादीनां आत्मा स्वरूपं ईष- दुर्श्या शब्दाभ्यां इतः सुः सुइत्याकारकश्शब्दः उपपदं उपो- च्चारितं पदं 'तत्रोपपदं सप्तमोस्थम्' इति संकेतितं यस्य सः तथोक्तः । तस्य भावः ईषहुस्सूपपद्तेत्यर्थः। त्ाम्। यद्रा-ईष- हुर्श्यो उपपदभूताभ्यामिति भावः । इतः युक्त: सुः उपपदं यस्य सः सूपपद: ईषहरितश्चासौ सूपपदश्चेति विशेषगोभय-

Page 519

508 अलंकारमणिहारे

पदकर्मधारयः। ततस्तल् । तत्तां इयाच्चेत्। सोपीत्यत्र श्रुतः अपिशब्दो भिन्नक्रमः । प्रत्ययित इत्यनेन संबध्यते । संजात- प्रत्ययोपि। चेदित्येतदत्राप्यनुषज्यते। प्रत्ययान्तोऽपि भवेद्य- दीत्यर्थः । खला खल्प्रत्ययेन श्रितो न स्यादिति न । यदि यः कश्वचिदपि वा धातुरीषद्दुस्सूपपदतया विहितप्रत्ययस्स्यात्तर्हि 'ईषद्दस्सुषु कच्छ्राकृच्छार्थेषु खल्' इतीषदायुपपद्काद्धातो : खल्वि - धानादीषत्कर: दुष्करः सुकर इतिवत् खल्प्रत्ययान्तो भवेदे- वेति भावः। उदाहरणमपि सूपपदतामित्यत्रेव दिव्यात्रतया प्रद. शिंतमिति वेदितव्यम् । अत्रांपि पूर्ववदेवारोपोऽनुसन्धेयः ॥ यथा- संकुचितोऽञ्जलिश्यमिति न गृहाण कदाऽपि ननु फणिनगेन्दो। द्ष्टाऽसामर्थ्यमिह ग्राह्योऽञ्- लिरेष हि स्फुटोहोमे ॥७७७॥ -*- 2- ननु फणिनगेन्दो! अयं मया कृतः अञ्जलि संकुचितः सं- . - क्षिप्तः यथाशास्त्रमकृतत्वादपूर्ण इति न गृहाण । मा ज्ञासीः। मोपेक्षिष्ठा इति भावः । इह मे मम असामर्थ्य यथावदस- लिकरणाशक्ततां द्ृष्ट्ा स्फुटः अयथावदनुष्टिततया व्यक्तः एषः यथातथात्राऽपपि कृत इति भावः । अञ्जलिः-'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इत्युक्तस्त्वत्प्रसादनाशुकारिमुद्राविशेषः अन्योन्याभिमुखमिळिितप्रसृतिद्वितयलक्षणः 'पाणिर्निकुब्ज: प्रसृ- तिस्तौ युतावञ्जलि: पुमान्' इत्यमरः । एकवचनेन सकृत्कृतोप्ययं

कसार्वभौमेण एतावद्याजलाभमपि महत्तरलाभं मन्वानेन त्वया- डनुदासितव्य इति द्योत्यते। ग्रह्यः, हीत्यवधारणे, सादरं त्वया

Page 520

समासोक्तिसर: (३५) 509 स्वीकार्य एव। अहो स्वाशक्तता-भगवत्परमकारुणिकतानुचचिन्त- नजनिते हर्षे आश्चर्ये वा। अयं चाञ्जलिः प्रयोजनान्तरपरस्य तत्तत्प्रयोजननिष्पादकः । अनन्यप्रयोजनस्थ तु निश्श्रेयसपर्यन्तपर- मपुरुषार्थप्रद इति द्रष्टव्यम्। अत्र- त्वदङ्विमुद्दिश्य कदाऽपि केनचित् यथातथावाऽपि सकृत्कृतोऽअ्जलिः। तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते॥। हस्तीशदुःखविषदिग्धफलानुबन्धि- न्याब्रह्मकीटमपराहतसंप्रयोगे। दुष्कर्मसंचयवशाहुरतिकरमे नः प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे॥

पक्षे स्फुटोहोमे इत्यत्र स्फुटः होमे इति छेद: । होमे 'अञ्जलिना जुहुयात्' इति वक्ष्यमाणाञ्जलिकरणकहोमे अथं अञ्ज- लि: विहितोऽञ्जलि: संकुचितः मुकुळित इति न गृहाणेति कंचि- द्रुभुत्सुं प्रत्युपदेशः । किंतु इह होमे सामर्थ्य दृष्ट्रा पर्यालोच्य एष: विहितः अञ्जलि: स्फुट: व्याकोच इति ग्राह्यः 'स्फुटो व्यक्तप्रफुल्- योः' इति मेदिनी। अत्र पूर्वमीमांसाप्रथमाध्यायान्तिमसामर्थ्याधि- करणार्थ उदपादितः । तत्र हि-'अञ्जलिना सक्तून्प्रदाव्ये जु- हुयात्' इत्यत्र किं देवताप्रसादप्रार्थनायामिव हस्तसंयोगमात्र मञ्जलिहोंमे ग्राह्यः, यथासामर्थ्य व्याकोच एव वा। इति संश यय, तत्र विशेषाश्रवणात् अनियम इति पूर्वपक्षं प्रापय्य, अ- शक्यार्थविध्यसंभवादवश्यंविधायकस्य शक्तिस्सहकारिण्यङ्गीका येति शक्तिसहायो विधिरेव यथासामर्थ्य विधेयं व्यवस्थाप-

Page 521

510 अलंकारमणिहारे

यति। तस्माद्वयाकोचस्य सक्तुष्वर्थापत्तिवशाद्वयवस्थेति सि द्धान्तितम्। सामर्थ्य नाम कारणत्वम- सामर्थ्य स्थात्कारणत्वं मत्तोऽयं मधुना पिकः। इति सोदाहरणलक्षणात्। यथा कोकिलमदकारणत्वरूपसामर्थ्ये न मकरन्दादिसाधारणस्य मधुशब्दस्य वसन्तैकदेशे चैत्रमासेS- भिधा नियस्यते, तथाऽत्रापि होमसाधनतारूपसामर्थ्येन संकु-

यम्यत इत्यवधेयम्। अत्र पश्चरात्रागमादिव्यवहारे कर्ममीमां- साव्यवहारारोप:।।

यथावा- सेव्यातिथिवारार्चासुभगाSनघयोगकरणनिपु- णात्मा। भक्तततिस्त्वामश्चति पश्चाङ्गप्रपदनेन प- रमात्मन्॥ ७७८॥ हे परमात्मन् ! सेव्या: सेव्याशश्रेयोरऽर्थिमिस्सन्तः पुण्यतीर्थफलोपमाः। क्षणोपासनयोगोपि न तेषां निष्फलो भवेत्॥ इति च्यवननह्ुषसंवादोक्त प्रकारगुणवत्तया सेवनीयाः ये अथि- थयः तेषां वारा: व्यूहा: तेषां अर्चया पूजया सुभगा शो- भनश्रीः शोभनकीर्तिर्वा। दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम्। अतिथिं तं विजानीयान्नातिथि: पूर्वमागतः॥। एकग्रामीणमतिर्थिं न गृहीत कदाचन। अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते॥

Page 522

समासोफ्तिसर: (२५) 511

अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना।

पक्षे-सेव्येति भिन्नं पदम्। जातकादिफलजिज्ञासुभिस्से- वनीया। तिथयः प्रतिपदाद्याः वाराः भानुचन्द्रादिवासराः । अर्चतीत्यर्चा पचादच्। तिथिवाराणामर्चा पूजयत्रीत्यर्थः। इद- मपि भिन्नं पढं 'वारस्सूर्यादििवसे बृन्दावसरयारपि' इति रत्नमाला। सुष्ठु भानि अश्विन्यादीन्युडनि गच्छति जानातीति सुभगा। अनघः भगवदेकविषयतया निरवद्य: योगः ध्यानं तस्य करणे निपुणात्मा कुशलमतिः। अन्यत्र हे अनघेति भगवतो विशेषणम्। योगा: विष्कम्भाइयः । करणानि बवबालवादानि तेषु निपुणात्मा तत्स्वरूपगुणादिपरिकलनशिक्षितधीरित्यर्थः। योगोऽपूर्वार्थसंप्रात्ती संगतिध्यानयुक्तिषु। वपुस्स्थैयें प्रयोगे च विष्कम्भादिषु भेषजे॥ इति, करणमिह बवादौ कारणे क्षेत्रमुख्ये वपुषि च रथबन्धे कर्मगीतेन्द्रियेषु। इति च मेदिनीरत्नमाले। अनेन विशेषणत्रयेण तिथिवारतार- योगकरणनिरूपणलक्षणपश्चाङ्गकरणनैपुणी सूचिता। ईदशी भक्त- ततिः भक्तशब्देनात्र साधनभक्तिनिष्ठाः फलभक्तिनिष्ठा वा विव- क्षिताः 'फलसाधनभक्तिभ्यां भक्तावपि, च दर्शिताः' इत्युभ- योरपि भक्तशब्दव्यपदेश्यत्वस्याचार्येरतुगृहीतत्वात्। पञ्च अङ्गा- नि 'अनुकूल्यस्य संकल्पः' इत्युक्तानि आनुकूल्यसंकल्पप्राति- कूव्यवर्जनमहाविश्वासगोप्तृत्ववरणकार्पण्याख्यानि यस्य तत् प्रपदन अङ्गरूप स्वतन्त्ररूपं वा भरन्यसनं तेन उपायभूतन त्वां अश्चति आराधयति-

Page 523

512 अलंकारमणिहार

निक्षपापरपर्यायो न्यास: पञ्चाङ्गसंयुतः । प्रपात्ति तां प्रयुश्जीत स्वाङ्गैः पश्चभिरावृताम्।।

आनुकूल्यस्थ संकल्पः प्रातिकूल्यस्य वर्जनम्। रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा॥ आत्मनिक्षेपकार्पण्ये षडिधा शरणागतिः।

तमुपायं च' इत्यादौ पडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्य- था 'पश्चाङ्गसंयुतः' इत्यनुपदोपदर्शितप्रमाणविरोधप्रसङ्गात्। अङ्गिनश्चात्र भरन्यासरूपत्वं 'आत्मात्मीयभरन्यासो ह्यात्मानिक्षे- प उच्यते' इति निर्धारितमिति व्यवस्थापितमाचार्यैः । पक्षे- पश्चाङ्गस्य तिथ्यादिस्वरूपप्रकाशकस्थ तिथिपत्रापरपर्यायस्य प्र- पदनेन प्राप्तया उपलक्षितः त्वामश्चति प्राप्नोति पूजयति वा। अत्र भगवच्छास्त्रीयाददिव्यवहारे प्रकृतेऽप्रकृतज्योतिश्शास्त्रीयव्य- वहारारोप इति विशेष:। यथावा- प्रमदां हरे: पुरस्तात्प्रपद्य विन्देत यदि च सा- धुतुलाम्। मन्दोप्युच्चगतिस्स्यान्मनुजो न तु जा- तु तर्हि नीचगतिः॥ ७७९॥ मन्दोपि अल्पोपि वा। भक्त्यादावपटुर्वा 'मूढाल्पापटु- निर्भाग्यामन्दाः' इत्यमरः । अनेन 'भक्त्यादौ शक्त्यभावः इत्यायृक्ताधिकारसंपत्तिः पुरुषकारप्रपदनावश्यंभावश्च सूचितः । पुरस्तात् भगवत्प्रपदनात्पूर्वे. हरे: प्रमदां भगवद्वल्लभां श्रियं

Page 524

समासोक्तिसर: (१५) 513

प्रपद्य शरणं प्राप्य साधूनां प्रपन्नानां तुलां समतां च यदि विन्देत तर्हि उच्चे ततो लक्ष्मया अप्युच्चे भगवति गतिः प्रपत्ति: यस्य स तथोक्तस्स्यात्। आदौ श्रियं प्रपद्य 'अस्तु ते तयैव सर्व संपत्स्यते' इति श्रियाऽनुगृहीतो भगवन्तं प्रपद्यत इत्यर्थः। यद्ा-उच्चा ऊर्ध्वलोकनेत्री गतिः अर्चिरादिसरणिगतिः यस्य स तथोक्तः स्यात् । जातु कदाचिदपि नीचगिः अधोगतिः न तु स्यात् नैव स्यात्। अर्चिरादिना पथा परमं व्योम प्रपन्नस्य श्रीवल्लभचरण।रविन्दशरणागतस्य कथं पुनस्सं- सृतिव्यतिकरस्संपद्येत 'एष देवपथो ब्रह्मपथ एतेन प्रतिपद्य- माना इमं मानवमावर्त नावर्तन्ते' इति श्रवणादिति भावः ।

पक्षे-हरे: सिंहराशे: पुरस्तात् अग्रतः अनन्तरमित्यर्थः । प्र- मदां कन्याराशि प्रपद्य प्राप्य साधु अवक्रं यथा स्यात्तथा तुलां तुलाराशिं यदि विन्देत। तर्हि मन्दः शनैश्चरः 'शनिमन्दौ' इत्यमरः। उच्चगतिरपि स्यात्। तुलायास्तदुच्चस्थानत्वात् न केवलं मित्रराशिगतः अपितूच्चगतिरित्यपिशब्दाभिप्रायः । एवं तुलाराशिगश्शनिः जात्वाप नचिगतिः न तु स्यात नैव भवेत्। मेषराशेस्तन्नीचस्थानत्वस्मरणात्तुलास्थितस्य तस्य न तत्प्रसक्तिशित भावः । अत्रापि भगवच्छास्त्रीयादिव्यवहारे ज्यो- तिश्शास्त्रीयव्यवहारारोप: पूर्ववदेव।।

यथावा- संपश्येन्मधुमथनस्सौम्यो जीवं यदा तदा सं- जातम्। श्रयश्विन्तकमाहुस्तं सत्त्ववतां शिरस्पदै- मन्यिं च ॥ ७८० ॥ ALANKARA 65

Page 525

514 अलंकारमणिहार

सौम्यः शुद्धसत्त्वमयतया नित्यप्रसन्नः । बुध इत्यपि ग- म्यते। 'सौम्यो जञे ना त्रिष्वनुग्रे मनोजे सोमदैवते' इति मेदिनी। मधुमथनः भगवान्। अनेन तमोगुणनिरसनपटीयस्त्वं दयोत्यते। मधुर्नाम दैत्यो हि मूर्ततमोगुणरूपत्वेन भारतादौ प्रसिद्धयति। यदा यस्मिन् काले जीवं प्रत्यगात्मानं वाक्पतिं च। 'जीवः प्राणिनि तृत्तौ च वृक्षभेदे बृहस्पतौ' इति मेदिनी । संपश्येत् सम्यगवलोकेत। तदा तास्मिन् काले संजातं तं जीव श्रेयश्चिन्तकं मोक्षार्थचिन्तकम्। पक्षे-तदा बुधस्य वाक्पति- विलोकनावसर जातं पुमासं श्रेयश्चिन्तकं सर्वेषां कल्याणानु- ध्यातारां धर्मचिन्तयितारं वा 'श्रयो मुक्तौ शुभे धर्मेऽतिप्र- शस्ते च वाच्यवत्' इति मेदिनी। अत एव सत्त्ववतां सा- च्विकानाम्, अन्यत्र बलवतां व्यवसायवतां द्रव्यवतां वा राज्ञामिति यावत्। सत्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वे व्यवसायासुचित्तेष्वस्त्री तु जन्तुषु॥ इति मेदिनी। शिरस्पदैः शीर्षस्थानैः मान्यं च आहुः । 'अ- धश्शिरसी पदे' इति शिरशशब्दविसर्गस्य सत्वम्। सत्त्ववता शिरस्पदैर्मान्यं श्रेयश्चिन्तकं चाहुरिति वा योजना। अस्यां योजनायां अनुपदोदाहरिष्यमाणवचनार्थातिमात्रानुरुप्यं भवति। अत्र- जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थाचन्तकः ॥ इति महाभारतीयव्यवहारे प्रस्तुते, युज्यते वीक्ष्यते वाऽपि चन्द्रजेन बृहस्पतिः । शिरसा शासनं तस्य वहन्ति वसुधाधिपाः॥

Page 526

समासोक्तसरी: (२५) 515

प्रास्यावैद्यान्गुरुणा दत्त वैदेन लोकनाथरस- यथावा-

म्। पुरुषो निषेवमाणः पुण्यात्मा भवति विग- तसर्वरुजः ॥ ७८१॥ अवैद्यान् प्राकृतान् जनान् प्रास्य परित्यज्य- अवैद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते। अवैद्येन न केनापि वैद्यः किंचित्समाचरेत्॥ इति भगवच्छास्त्रोक्तेरिति भावः । वैद्येन 'सा विद्या या वि- मुक्तये' इत्युक्तब्रह्मविद्याविदा। विद्याशव्द्वात् तद्वेदेत्यर्थे प्राग्दी- व्यतीयोऽण्। गुरुणा आचार्येण। 'आभ्यां पदाभ्यां तद्विज्ञानार्थम्' इति श्रुत्युक्तश्रोत्रियव्रह्मनिष्ठगुरुशब्दार्थारस्मारिताः। दत्तं अनुगृ- हीतं लोकनाथरसं भगवदनुभवानन्दं निषेवमाणः पुरुषः विगताः सर्वरुजा: यस्य स तथोक्तः 'स्त्री रुग्रुजा चोपतापरोगव्याधि- गदामयाः' इत्यमरः । गळिितसकलोपताप इत्यर्थः । पुण्यात्मा धन्यस्वभावः भवति 'पुण्यवान्धन्यः' इत्यमरः। अत्र- न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्। सर्वे ह पश्यः पश्यति सर्वमाप्नोति सर्वशः॥ इति भूमविद्यागतश्रुत्यर्थरस्मारितः । पक्षे-अवैद्यान् अभिषजः प्रास्य परिहृत्य गुरुणा श्रेष्ठेन वैदयेन भिषजा दत्तं लोकनाथरसं तन्नामानमौषधविशेषं निषे- वमाणः पुरुषः रोगीति भावः । विगतसर्वरुजः शान्तसकलरोग- स्सन् वैद्यचिन्तामणी लोकनाथरसस्वरूपं प्रपञ्चय- इत्ययं लोकनाथस्य रसस्सर्वरुजो जयेत्।

Page 527

516 अलंकारमणिहारे

इत्युक्तेरिति भावः। अत एव पुण्यात्मा नीरोगतया चारुशरीरो भवति। 'पुण्यं तु चार्वपि' इति, 'आत्मा यतनो धृतिर्बुद्धिस्स्व- भावो ब्रह्म वर्ष्म च' इति चामरः। अत्र पश्चरात्रवेदान्तशास्त्रीय- व्यवहारे वैद्यशास्त्रीयव्यवहारारोप इति पूर्वेभ्यो वैलक्षण्यम्॥

यथावा- बहुधा कषायिताऽपि च वैष्णवरसमेळनात्तप- रभागा। मानसवृत्तिर्विष्णुक्रान्तैषामज्ज्वरादिकं शमयेत् ॥७८२ ॥

एषा मदीयेति भाव। मानसवृत्तिः मनसिस्थितिः बहुधा कषायिताऽपि च रागादिकलुषिताऽपि वैष्णवानां भागवतानां रसः अनुरागः तस्य मेळनेन तदनुग्रहव्यतिकरेणेत्यर्थः। आत्तः उपात्तः परभाग: परस्य परमात्मनः भागो भजनं भक्तिः । भजेर्भावे घङ्, उपधावृद्धि: 'चजोः कुघिण्यतोः' इति कुत्वम्। यया सा तथोक्ता। यादच्छिकादिसुकृतपरिणतिसुलभभागवता- भिमानविषयतासंपादितपरब्रह्मभक्तिरित्यर्थः । अत एव विष्णु- क्रान्ता भगवदाकान्ता सती तदाकाराकारिता सतीति यावत्। मज्ज्वरादिकं मदीयभवतापादिकं शमयेत्। मनोवृत्तेर्भागवत- प्रवणत्वे भगवद्धिष्ठितत्वे च सकलसांसारिकाभितापनर्वापणं संभावितमेवेति भावः।

पक्षे-एषा विष्णुक्रान्ता प्रसिद्धा। उपलक्षणमिदं भूनिम्बा- दीनाम्। बहुधा कषायिता क्कथता। नैतावदेव, अपिच किंच वैष्णवरसस्य औषधविशषस्य मेळनेन योजनेन आत्तपरभागा स्वीकृतगुणोत्कर्षा 'परभागो गुणोत्कर्षे' इति यादवः। विष्णुक्ान्ता

Page 528

समासोक्तिसर: (२५) 517

स्वयमेव ज्वरहारिणी ज्वरहरवैष्णवरसमेळने तद्रुणोत्कर्षः किंपु- ननर्यायसिद्ध: इते भावः। आमज्वरादिकं आमज्वरो नाम- ज्वरोपद्रवतीक्ष्णत्वमग्लानिबहुमूत्रता। न प्रवृत्तिर्न विड्डीर्णा न क्षुत्साSSमज्वराकृतिः ॥ इति बाहटोक्तलक्षणः स अदिर्यस्य तम्। ज्वरोपद्रवाश्च दशवि- घाः। यथोक्तं तेनैव- श्वासमूर्छारुचिच्छार्दतृष्णातीसारनिद्रिताः । हिक्काकासाङ्गभेदाश्च ज्वरस्योपद्रवा दश॥ इति। आदिशब्देन- ज्वरवेगोऽधिकं तृष्णा प्रलापश्शवसनं भ्रमः । मलप्रवृत्तिरुत्केशः पच्यमानस्य लक्षणम् ॥ इत्यादितदुक्तपच्यमानज्वरादिकं गृह्यते । शमयेत्। तथाचे।क्तं वैद्यचिन्तामणौ- भूनिम्बश्चित्रकं चव्यं शरपुङ्गी गुडचिका। विष्णुकान्ता शृङ्गिबेरं क्वाथस्सर्वज्वरापहः ॥ इति, शृङ्गिवेरमित्येषां क्वाथ इत्यध्याहारेण योज्यम्- द्वंद्वज्वरं सन्निपातं पुराणं विषमज्वरम्। नाशयेदखिलं घोरं नाम्रऽयं वैष्णवो रसः॥ इति च । वैष्णवरसलक्षणादिकं तत्रैव द्रष्टव्यम् । अत्रापि श्रुति- स्मृतिपुराणागमादिव्यवहारे वैद्यशास्त्रीयव्यवहारारोप:॥ यथा वा- शान्तो मम पाप्मा श्रीकान्तनिषेवणत एष धुततान्तिः । दीप्तारचिस्सत्करणश्रीसुभगोSन्नादते - च्छुरस्मि यतः ॥७८३।

Page 529

518 अलंकारमणिहारे

इदं कस्यचित्प्रपित्सोर्वचनम्। तथाहि -श्रीकान्तस्य श्री- निवासस्य निषेवणतः प्रपदनात मम पाप्मा विद्याधिगमादुत्तरं पूर्वे चाघं शान्तः अल्लिष्टो विनष्टश्च 'आशंसायां भूतवञ्च' इत्याशंसायां भूते कः। न श्लिष्यति विनश्यतीत्याशंसाविषय- भूत इत्यर्थः । तत्र हेतुमाह-एष इत्यादिना। यतः यस्मात्का- रणात्। एषः अहं घुता विनष्टा तान्तिः अशनायापिपासादि- प्रानिः यस्य सः। दीप्षा या अर्चिस्सत्करणश्रीः अरचिरादि- सत्कारसंपत् तया सुभगः दोप्यमानार्चिराद्यातिवाहिकपुरस्क- रणसौभाग्यवान सन् अन्नादतेच्छुः अन्नादतां 'अहमन्नादोऽह मन्नादः' इति श्रुतिप्रथितपरिपूर्णव्रह्मानुभवानन्दं इच्छुः अभि- लाषुकः अस्मि। यतोऽइमशनायादिग्लान्यतीतोऽचिरादिपथेन परमं. पदं प्रपन्नः परिपूर्णपरव्रह्मानुबुभूषुर्भवामि तदाशंसे म- मोत्तरपूर्वाधाश्लेषविनाशौ संपद्येते इतीति भावः।

पक्षे-श्रीयुक्तं च तत् कान्तं च श्रीकान्तं कान्तभस्म 'विनाऽ- पि प्रत्ययं पूर्वोत्तरपदयोरलोंपः' इति भस्मशब्दस्य लोपः। कान्तं तु शीतं मधुरं कषायमायुष्करं धातुविवर्धनं च। इति योगरत्नाकरे कान्तभस्मनः कान्तमिति व्यपदेशदर्शनात्। तस्य निषेवणतः उपयोगात् मम पाप्मा ज्वरः। ज्वरो रोगपतिः पाप्मा मृत्युरोजोऽशनोऽन्तकः । इति बाहटेन पाप्मशब्दस्य नन्नामसु पाठात्। इदमुपल- क्षणं पाण्डुरोगादीनाम्। शान्तः गत एवेत्यर्थः। यतः यस्मात् एष जनः अहमित्यर्थः । विधुततान्तिः विगळितग्लानिः दीप्तार्चि: प्रज्वलजाठराग्निः सती प्रश्स्ता या करणश्रीः इन्द्रियसौष्ठवं तया सुभगः अन्नादतायां ओदनाशने इच्छुश्चास्मि। इदमुपल-

Page 530

समासोक्तिसर: (२६) 519

क्षणमव्यथत्वादीनाम्। अत्र श्रुतीतिहासादिव्यवहारे प्रकृते अ- प्रकृतस्य। देहो लघुर्व्यपगतक्कममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्। स्वेद: क्षवः प्रकृतियोगिमदोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥

इति वाहटोपदर्शितविगतज्वरपुरुव्यवहारस्यारोपः । कान्तस्य ज्वराददिशमायेतृत्वं योगरत्नाकरे- ये गुणा मृतरूप्यस्य ते गुणा: कान्तभस्मनः । इति रूप्यमस्मगुणातिदेशालभ्यते। तथाच तत्रैव रजतभस्मगुणा निरूप्यन्ते -

तारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं स्निग्धं दीपनमक्षिकुक्षिगदजिद्दाहं विषार्ति हरेत्। मेदोज्जेदिमदात्ययात्ययकरं कान्त्यायुराराग्यकृत्

एवमारोप्यारोपविषय योश्शास्त्रीयव्यवहारयोरविजातीयत्वे द- शितान्युदाहरणानि। तयोस्सजातीयत्वेऽपीय संभवति। यथा-

सहकार्येऽहंकारे महति विलीने तवेक्षणाद्रग- वन्। प्रकृतिस्थोऽयमियं धीर्विलीयते त्वयि ततः परे देवे।। ७८४॥

हे भगवन्! तव ईक्षणात कटाक्षात् सहकार्ये कार्येण वक्ष्य- मणन सह वर्तत इति तथोक्ते महति अपरिच्छेद्ये अहंकारे।

Page 531

520 अलंकारमणिहार

अविद्यायामन्तरे वर्तमानास्स्वयं धीर ; पण्डितंमन्यमाना । जङ्गन्यमाना: परियन्ति सूढा अन्धेनेव नीयमाना यथाऽन्धाः॥ इत्याुक्ते स्वतन्त्रात्मभ्रमसूलके गर्वापरनामन्यभिमाने। येन जरा- रोगाद्यनेकानर्थव्रातैर्भृशं हन्यमाना मूढास्संसारे भ्रमन्ति प्राणिनः । विलीने सति। अयं अहमित्यर्थः । स्वस्यैव विनयातिशयेन अन्य- तया निर्देशः। प्रकृतिस्थः प्रकृतिः स्वाभाविकशेषता तस्यां तिष्ठ- तीति तथोक्त :- दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः। इत्यायुक्तस्वाभाविकशेषत्वानुसंधातेत्यर्थः। आसमिति शेषः । ततः इयं धीः मदीयां एषा मतिः परे देवे त्वाये विलीयते त्वदाकारा कारिता भवतीत्यर्थः। अहंकारादिमलराहित्येन शुद्धान्तःकरणतया स्वाभाविकशेषतानुसंधातुर्मम सर्वग्रन्थिविप्रमोक्षहेतुभूता ध्रुवा. ऽनुस्मृतिर्भवतीति भावः। अन्र- लीयते ब्रह्मणि मतिर्निर्ममस्यानहंकृतेः । इति, मामनुस्मरतश्चित्तं मय्येव प्रविलीयते॥ इत्यादिकं च स्मार्यते। पक्षे-तव ईक्षणात् संकल्पात् सहकार्ये एकादशेन्द्रियश- बदादितन्मात्राकाशादिभूतपश्चकात्मककार्यैस्सहिते अहंकारे सा- स्विकादयहंकाराख्ये तत्वे महति महत्तत्वे स्वकारणभूते विलीने सति अयं महान् महत्तत्वमित्यर्थः । प्रकृतिस्थः मूलप्रकृती विलीन इत्यर्थः। इयं प्रकृतिः अव्यक्तादपरपर्याया ततः अनन्तरं परे देवे परस्मिन् ब्रह्मणि त्वाय लीयते। क्रमादक्षरत्वतमस्त्वावस्थापन्ना सती एकीभवतीत्यर्थः । अत्र वेदान्तशास्त्रीयभगवद्भक्तिव्यवहारे प्रस्तुते अप्रस्तुतस्य तच्छास्त्रीयस्यैव 'अहंकारो महाते चिलीयते

Page 532

समासोफ्िसर (२५) 521

महानव्यक्ते लीथते अव्यक्तमक्षरे लीयते अक्षरं तमास लीयते तमः परे देव एकोभवति' इति श्रुत्युक्तपलयव्यवहारस्यारोग:॥

लौकिके व्यवहारे शास्त्रीयव्यवहारारोपो यथा- हारास्तव प्रतीकालम्बनभाजो यथोचितगुणा- ढयाः। मुश्चन्त्यर्चिस्सरणिं दूरान्नारायणाचलसुधां- शो ॥७८५॥ हे नारायणाचलसुघांशो! नारायणाचल इति शेषाद्रेरवना- मान्तरमित्यवोचाम । तव प्रतीक: वक्षोरूपोऽवयवः तस्य आल- म्वनमाश्रयणं प्रतीकरूप आश्रयो वा तन्भजन्तीति तथोक्ताः । यथोचिताः यथार्हाः ये गुणाः सुवर्णादितन्तवस्तैः अढ्याः अभि- रूपा इति यावत्। हारा: मुक्तादिरत्नमयाः सरा अर्चिस्सराणं रोचि:परंपरां 'सरणिः पङ्किवर्त्मनोः' इति रत्नमाला। दूरात् मुश्चन्ति प्रसारयन्तीति यावत्। पक्षे-प्रतीकालम्बनभाजः नामादिप्रतीकोपासकाः अत एव यथोचितगुणाढ्याः यथाऋतुनयेन उपासनानुगुणयत्किंचिद्गुणसं

णा इति भावः । अचिस्सरणि अर्चिरादिमार्ग दूरात् मुञ्चन्ति 'अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषा त्तत्क्र - तुश्च' इति सूत्रेण भगवता बादरायणेनाप्रतीकालम्बनानामेवा- र्चिरादिगतेनिर्णीतत्वेन प्रतीकोपासकानां तस्या असंभवादिति भावः।प्रतीकोपासनं नाम अव्रह्माणि नामादौ ब्रह्मद्दष्टिः यद्विधीयते 'नाम ब्रह्मेत्युपासीत' इत्यादिभूमविद्यादौ। अत्र लौकिके भगवन्मु- क्ताहारव्यवहारे प्रस्तुते अप्रस्तुतवेदान्तशास्त्रीयव्यवहारारोप:। ALANKARA 66

Page 533

522 अलंकार मणिहारे

यथावा- देवच्छन्दानुगुणास्तमुपासीनाश्श्रितोजुलनसृ- तयः । मुक्ताख्यां लभमाना मणयोऽभ्रुवते हरे: परं धाम ॥७८६॥ देवच्छदस्य शतयष्टिकमुक्ताहारस्य 'देवच्छन्दोऽसौ शत- यष्टिकः' इत्यमरः । अनुगुणाः अनुरूपाः तद्वटनार्हा इत्यर्थः। अत एव तं देवच्छन्दं उपासीना आश्रिता इत्यर्थः । श्रितो- ज्ज्वलनसृतयः । श्रिता प्राप्ता उज्जलनस्य उत्कृष्टप्रकाशस्य सृतिः सरण प्रसर: यैस्ते तथोक्ताः मुक्ता इत्याख्यां लभमानाः म- णयः माक्तिकानीत्यर्थः । हरे: श्रीनिवासस्य परं धाम दिव्य- विग्रहं 'गृहदेहत्विट्प्रभावा धामानि' इत्यमरः। अश्नवते प्राप्त- वन्ति तत्र प्रकाशन्त इति भावः। अन्यत्र देवस्य परमात्मनः 'अध्यात्मयोगाधिगमेन देवम्' इयादौ देवशब्दस्य परमात्मनि प्रयोगात् । छन्दः अनिप्रायः वशो वा 'अभिप्रायवशौ छन्दौ' दत्यमरः। तस्यानुगुणाः भगवद्धी नस्वरूपस्थितिप्रवृत्तय इति यावत् । तं देवमेत्र 'सर्वे वाक्यं सावधारणम' इत न्य.यात्। न तु तत्प्रतीकं नामादिकमिति भावः । उपासीनाः । अत एव श्रितोज्ज्वलनसृतयः प्राप्तोत्तमा- चिरादिमार्गास्सन्तः 'पदवी सृतिः' इत्यमरः । मुक्ताः प्रकृतिबन्ध- विसृष्टा इति भाव:। हरे: परं धाम अश्नवते 'तद्विष्णोः परमं पंदंम्' इत्युक्तमप्राकृतं देशविशेषं विन्दन्तीत्यर्थः। अत्रापि पूर्ववदेव लौकिके व्यवहारे शास्त्रीयव्यवहारारोप:॥

मुक्ता: कतिचन मणयोतनवशश्रीनाथ मूर्ति- यधाव,-

Page 534

समासोक्तिसरः (२५) 523

भाजश्र। स्वैर दिव्यालोकान सृजन्ति हृद्यास्तव स्वराजश्र ॥७८७॥ हे श्रीनाथ! तब हृद्या: हृदयस्थाः 'शरीरावयवाञ्च' इति भवार्थे यत् 'हृदयस्य हलेख' इत्यादिना हृदयशब्दस्य हद्दा- देशः। स्वेन राजन्त इति स्वराजः अनन्याधीनप्रकाशा इत्य- तिशयोक्तिः । अतनवः स्थूलाः । मूर्तिभाजः काठिन्यभाजश्च। 'मूर्तिः काठिन्यकाययोः' इत्यमरः। कतिचन मुक्ता इति मणयः स्वैरं यथेष्टं दिव्याश्च ते आलोकाश्च दिव्यालोका: तानू रम- णीयान् प्रकाशानित्यर्थः । 'दिव्यं वल्गुलवङ्गयोः' इति हेम- चन्द्रः 'आलोको दर्शने द्योतौ' इत्यमरः । सृजन्ति प्रसारय- न्तीति यावत्।। पक्षे-तव हृद्याः हृदयप्रियाः 'सच मम प्रियः' इति गानात्। 'हृदयस्य प्रियः' इति यत्। अत एव मुक्ताः प्रकृतिबन्धवियुक्ताः कतिचन चेतना इति गम्यते। स्वैरमित्येतदत्राप्यपकृष्यते। स्वैरं यथेष्टं अतनवः अशरीरा: मूर्तिभाजः शरीरभाजश्च । दिव्याः दिवि परमपदे भवा: दिव्यास्सन्तः, दिगादित्वाद्यत्। स्वैर यथेष्टं लोकान् 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठ- न्ते' इत्यादुक्तप्रकारान् लोकान् सृजन्ति। अत एव स्वराजश्च अनन्याधिपतयश्च भवन्तीति शेषः। अत्र पूर्वार्धेन अभावाधिक- रणससिद्धान्तार्थः, उत्तरार्धेन संकल्पाधिकरणार्थश्च संगृहीतः। तत्र हि-अभावाधिकरणे शरीरस्य दुःखहेतुत्वान्मुक्तस्य शरीरं नेति 'अभावं बादरिराह ह्येवम्' इति सूत्रेण बादरिमतमनू- द्य स एकधा भवति इत्यादिना मुक्तस्यानेकधा भावश्रवणाद- च्छेद्यस्य निरवयवस्य शरीरण विनाऽनेकीभावानुपपत्तेः कर्मक-

Page 535

6

524 अलंकारमणिहारे

तशरीरस्यैव दुःखहेतुत्वाच्च सशरीर एवायमिति 'भावं जैमि- निर्विकल्पामननात्' इति जैमिनिमतेन प्रतिक्षिप्य सत्यसंकल्प- त्वश्रुत्या इच्छानुरोधेन कदाचित्सशरीर: अशरीरश्च कदाचि-' दिति स्वमतमुपन्यस्तम्। 'द्वादशाहवदुभयविधं बादरायणोऽतः' इति सूत्रेण भगवता वादरायणेन। संकल्पाधिकरणे तु सत्यसं- कल्पत्वेन व्यवहियमाणानां राज्ञां कार्यनिष्पादने प्रयत्नसापेक्ष- त्वदर्शनान्मुक्तस्यापि प्रयत्नसापेक्षैव पित्रादिसृप्टिरित्याशङ्गय 'सं- कल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इत्यवधारणात् प्रयत्नापेक्षत्वे प्रमाणाभावाच् संकल्पमात्रादेव सृष्िरिति 'संकल्पादेव तच्छू- तेः' इति सूत्रेण निर्णीय 'अत एव चानन्याधिपतिः' इति स- त्यसंकल्पत्वमेव 'स स्वराङ्कवति' इति श्रुत्युदाहरणेन स्था- पितं शारीरकभाष्ये। तदेतत्सर्व मूले यथास्थानं प्रत्यभिज्ञापितं तैस्तैः पदैरिति सावधानं द्रष्टव्यम। अत्रापि लौकिके शास्त्री यारोप: ।। यथावा- न क्षित्तं न च मूढं न च विक्षित्तं श्रयेत्त्वदीय जनः । त्वय्येकाग्रनिरुद्धस्थितिर्भ वेद्देव सार्वभौ- मोऽयम् ॥ ७८८॥ अत्र लौकिके व्यवहारे प्रस्तुते अप्रस्तुतयोगशास्त्रीयव्य- वहारारोपः । तथाहि-हे देव! त्वदीयजनः क्षिप्तं अन्यैरधि- क्षिप्तं पुमासं न श्रयेत्। मूढं अज्ञं च न श्रयेत्। विक्षिप्तं अ- नवस्थितात्मानं च न श्रयेत्। संभावनायां लिङ्। किंतु अयं त्वदीयजनः त्वयि एकाग्रं अव्यग्रं यथा स्यात्तथा निरुद्धस्थिति: निरुद्धचित्तवृत्तिरिति यावत्। सार्वभौमः सर्वभूमेरीश्वरः सर्व

Page 536

समासोक्तिसरः (२५) 525

भूमिविदितश्च भवेत्। न च पुंवाक्येष्वनेकार्थत्वं दोषमावहति। अत एव शिशुपालवधे-'क्रियासमभिहारेण' इत्यत्र 'भृशं पौ नःपुन्येन चेत्यर्थः' इति मलिनाथः । 'तस्येश्वरः, तत्र विदित इति न' इत्यधिकारे 'सर्वभूमिपृथिवीभ्यामणजौ' इत्यण। अ-

गश्चित्तवृत्तिनिरोधः' इति पातञ्ञलं सूत्रम्। चित्तस्य रजस्त- मोवृत्तीनां निरोधो योग इति तदर्थः । 'सच सार्वभौमः' इति तन्भ्ाष्यम्। चित्तस्य पश्च भूमयो भवन्ति-क्षिप्तं मूढं विक्षिसं एकाग्रं निरुद्धमिति। तासु सर्वासु भूमिषु विदित इति तदर्थः यदाह भाजराजः -'स व निरोधस्सर्वासां चित्तत्तीनां सर्व- प्राणिनां च धर्मः कदाचित्कस्यांचिद्वद्धिभूमावाविर्भवति' इति। अयमाशय :- यदा चित्तस्य या बुद्धिवृत्तिरुदेति तदा तस्या- मन्यस्या वृत्तेर्निरोधो दृश्यते। यथा क्षिप्तावस्थायां मूढावस्था- निरोध इति तस्मादयं निरोधस्सर्वास्वपि चित्तभूमिषूक्तप्रका- रेण विदित इति। वाचस्पतिमिश्रस्तु -- 'एकाग्रस्य चित्तस्य तिस्रो भूमयः मधुमती मधुप्रतीका विशोकेति। निरुद्धस्य तु संस्कारशषतैकैवेति। सर्वासु च तासु चतसृषु भूमिषु अन्या- सां प्रमाणादिवृत्तीनां निरोधो विदितः' इति तदर्थमाह। युक्तं चैतत् क्षिप्तादिषु पश्चसु भूमिषु क्षितं सदैव रजसा तेषु तेषु। विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम्। मूढं तु तमस्समुद्रेकान्नि- द्रादिमत्। क्षिपाद्विशिष्टं विक्षिप्तम्। विशेषश्चास्थेमबहुलस्य का- दाचित्कस्थेमा। तत्र क्षिप्मूढयोस्सत्यप परस्परापेक्षया वृत्ति- निराधे पारंपर्येणापि निश्श्रेयसहेतुताविरहात्तदुपधातुकत्वाच्च स- माधिशङ्गैव नास्त। विक्षिप्ते तु चेतसि कादाचित्कस्समाधिर्न

Page 537

526 अलंकारमणिहारे

योगपक्षे वर्तते। किंतु तीव्रपवनविक्षिप्तप्रदीपवत्स्वयमेव नश्य- ति। एकाग्रं त्वेकविषयकधारावाहिकवृत्तिसमर्थ सत्वोद्रकेण तमोगुणकृततन्द्रादिविलयादेकाकारा वृत्तिः। सा च रजोगुण-

चित्तमेकाग्रम्। अस्यां च भूमौ संप्रज्ञातः अत्र ध्येयाकारावृ- त्तिरपि भासते। तस्या अपि निरोधे निरुद्धं चित्तमसंप्रज्ञात- समाधिभूमिर्भवतीति क्रमः। तस्मात् क्षितमूढविक्षिप्ेषु समाधे- रसंभवादवशिष्टयोरेकाग्रनिरुद्धयोरेव समाधिभूमितया तदवान्त- रभूतमधुमतीप्रभृतिभूमिचतुष्टयमादाय सार्वभौमत्वं योगस्य नि- वर्यूढं वाचस्पतिमिश्रेणेति। अयमेब हि पक्षोऽस्मिन्नुदाहरणपद्ये विवक्षितः। क्षिप्तमूढविक्षिप्तभूमित्रयाश्रयणं प्रतिषिध्य एकाग्रि- रुद्धाख्यभूमिद्वयस्थित्यैव योगस्य सार्वभौमताया दर्शितत्वादि- त्यलम्॥

यथा वा- अविसन्निधिसातङ्कस्तव सेनारेणुरुल्ललन शौरे। मन्येऽभ्रसरित्सलिलोपस्पर्शात्सकलमपि खम- स्प्राक्षीत् ॥ ७८९॥ हे शौरे! तव सेनारेणुः अवेः भानो: स्त्रीधर्मण्याश्च। अविर्ना पर्वते सूर्ये मेषे सूषककम्बळे। प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः॥

इति रत्माला। सन्निधेः सन्निकर्षात् सातङ्ग: तापान्वितः उपहतिशङ्गान्वितश्च 'रुक्तापशङ्कास्वातङ्ग:' इत्यमरः। उल्ललन् ऊध्व गच्छन्। पक्षे उत्पवमान इत्याचारशीलानुभावोक्तिः। अ-

Page 538

समासौफ्तिसर: (३५) 527

भ्रसरितः सलिलस्य उपस्पर्शात् अवमर्शाद्धतोः । पक्षे स्नाना- दाचमनाच्च तत्कृत्वेत्यर्थः। पुंवाक्येष्वनेकार्थत्वमदोषायेत्यनन्तर- पूर्वश्ोकव्याख्यायामवोचाम। ल्यब्लोपे पश्चमी 'उपस्पर्शस्स्पर्श- मात्रे स्नानाचमनयोरपि'इति मेदिनी। सकलं खं अन्तारिक्षं अस्प्राक्षीत्। अस्पृशदेवेति मन्ये अनुमिनोमि अन्यथा मन्दा- किनीस्पर्शासंभवादिति भावः। पक्षे सकरले सं चक्षुरादीन्द्रियं अस्प्राक्षति उपास्पृशदित्यर्थः । चण्डालसूतिकोदक्यापतितान् दूरतस्त्यजेत्। अतस्सन्निधिमात्रेण सचेलं स्नानमाचरेत्॥ इति, स्नात्वा पीत्वा च भुक्त्वा च सुप्त्वा क्षुत्वा द्विजोत्तमः । अनेन विधिना सम्यगाचान्तरशुचितामियात्॥ इति च संवर्तस्मृतेः, अन्भिस्तु प्रकृतिस्थाभिर्हीनाभि: फेनवुद्धदैः। त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिस्समुपस्पृशेत्॥ इति याज्ञवल्क्येन आचमनानन्तरं चक्षुरादीन्द्रियस्पर्शस्मरणाञ्च। 'इन्द्रियेऽपि खम्' इत्यमरः । अत्र लौकिके भगवत्सनारेणुव्य- वहारे धर्मशास्त्रीयव्यवहारारोप:॥ यथा वा- हृद्धतमुक्तावळिकश्शिति कण्ठीयातिवेलरुचि-

वान् हरिजयति ॥७९०॥ हृद्धता वक्षर्स्था मनरस्था च मुक्तावळि: मुक्ताहार: न्या- यग्रन्थविशेषश्च वस्य स तथोकत। 'शेषाद्विभाषा' इति कप्। शितिकण्ठीया मयूरसंबन्धिनी अतिवेला रुचि: त्विट् तया सु-

Page 539

A 528 अलंकारमणहारे

भगः। पक्षे शितिकण्ठीयमिति न्यायग्रन्थविशेषः । तस्मिन्नति- वेला रुचि: आस्था तया सुभगः। प्रौढः शिरोमणि: चूडारतं तस्य दाधितेः प्रभाया:, पक्षे शिरोमणिदीधितिः न्यायग्रन्थवि- शेषः तस्य परिचयतः संपर्कात् व्यासङ्गाच्च परभागवान् गु. णोत्कर्षवान् 'परभागो गुणोत्कर्षे' इति कोशः। अत्र लौकिके श्रीनिवासदिव्यविग्रहव्यवहार न्यायशास्त्रीयव्यवहारारोपः। अ- त्राप्रकृतव्यवहारस्यापि लौकिकत्वाभिसन्धौ प्राथमिकप्रभेदस्यैवेदं स्यादुदाहरणम् ॥ यथावा- हस्तेनन्तोच्चे तव लग्नं धनुरुदितमुच्छितं ननु राज्ये। सौम्यमिनं च दधानं सुश्रीकं स्वकलितो- दयं त्वातनुते ॥ ७९१ ॥ ननु अनल्त! हे भगवन! उच्चे उत्कृष्टे उच्छ्रिते वा तव हस्ते पाणौ लसं अत एव उदितं उत्कर्ष प्राप्तं धनुः चापं कर्तृ उच्छतं उत्कर्षेणाश्रितं जनं विभोषणादिकमिवेति भावः। राज्ये आंधिराज्यस्थान सौम्यं अनुग्रशासनं इनं राजानं च 'सौम्यो जञे ना त्रिष्वनुग्रे' इति, 'इनः पत्यौ नृपार्कयोः' इति च मेदिनी। दधानं पुष्णत् राज्ये निराबाधं निवेशयदित्यर्थः । सुश्रीकं शोभनतेजसं स्वकलितोदयं स्वेन धनेन 'स्वोऽस्त्रियां धने' इत्यमरः। कलितः उदयः प्राभवं यस्य तं तथोक्तम्। तु- शब्दोऽवधारणे। उक्तविधमेवेत्यर्थः। नात्र संदेग्धव्यमिति भावः। आतनुते इति॥ इतरत्र-ननु इति कस्यचित्संबोधनम् । हस्ते हस्त्क्षे अनन्तोच्चे अनन्ते अन्तरिक्षे उच्चे सति द्रष्टर्भ्रमध्यतुल्यभागस्थे

Page 540

समासोक्तिसर: (२५) 529

सति उदितं उदयं प्राप्तं धतुः धनुराख्यं तव लझनं त्वज्न्म- लग्नं, तथाचोकतं ज्यौतिषोपकरणे- अवाच्यभिमुखो भूत्वा निशि कालं खमध्यम। स्वभ्नमध्यगतां योगतारां दष्ट्रा वदेत्सुधीः॥ अक्षराणां कटपयादीनां संख्याक्रमाश्रयात्। तत्तन्नक्षत्र उच्चस्थे लग्नानां गतिरुच्यते॥ इत्युपकम्य 'हस्तो धनुर्गृहे बाला' इति। हस्तनक्षत्रमुच्चस्थं चेनू धनुर्लग्ने तिस्रो नाडिका: त्रयो नाडिकाष्टांशाश्च गता इति तदर्थः। प्रतिवाक्यं पठ्यमानवर्णयुग्मादिमाक्षरम्। लग्नेऽवबोधयेन्नाडीं तदष्टांशं पराक्षरम्॥

इति तत्रैवोक्तेः। राज्ये दशमे कन्याराशौ उच्छितं उच्चस्थ- मित्यर्थः। इदं सौम्यामेत्यनेनैवान्वेति, तस्यैव कन्याया उच्च- स्थानत्वात्। न त्विनमित्यनेन। तस्य हि मेषो राशिरुच्चस्था- नम्। सौम्यं वुध इनं भातुं च दधानं सत् स्वकलितोदयं स्वस्मिन् धनुर्लग्रे कलितोदयं प्राप्तजन्मानं त्वा त्वां सुश्रोकं शोभनैश्वर्य तनुते। भाग्याधिपस्थ भानोरुच्चगतेन राज्याधिपेन बुधेन सह राज्यस्थानेऽवस्थानादिति भावः। धनुर्लग्रस्य सिं- हकन्ये भाग्यराज्यस्थाने। 'भाग्यं धर्मश्च नवमं, कर्म राज्यं च दशमम' इति नवमदशमराश्योर्भाग्यराज्यस्थानत्वाभिधा- नात्। अत्र लौकिके भगवद्धनुर्व्यवहारे - भाग्यराज्याधिपौ स्यातां भाग्ये राज्येऽपि वा यदि। तयोरेकोऽप्युञ्चगश्चेन्महद्राज्यं प्रयच्छति॥ इति ज्यौतिषव्यवहारारोप:॥ ALANKAIA 67

Page 541

530 अलंकार मणिहारे

यथावा- फणिशिखरिणीश्वर त्वं निवसन्कोणे क्ववाSपि सुरपूज्यः । भविता यदुदयदवष्टिर्धीमान् श्रीमान् भवेत्स च वपुष्मान्॥ ७९२। फणिशिखरिणि शेषाद्रौ। ईश्वर! स्वामिन्! 'स्वामीश्वरा- धिपति' इत्यादिना सप्तमी। सुरपूज्यः देवाराधनीयः । पक्षे बृहस्पतिरित्यर्थः । त्वं क्ववाऽपि कोणे फणिशिखरिणीत्येतदत्रा- नुषज्यते। शेषाद्रौ कस्मिश्चित्प्रदेशे इत्यर्थः । पक्षे लग्नात्पश्चमे नवमे वा त्रिकोणाख्यस्थाने निवसन् सन् यस्य पुंसः उदये अभ्युदये। पक्षे-उदयशब्द: स्वद्रष्टव्यस्थानोपलक्षकः उदये ज- नमलग्न तद्ुपलक्षिते त्रिकोणान्तर च । दृष्टिः अभिप्रायः दक्क यस्य स तथोक्तो भविता।स पुमान् धीमान् श्रीमान् वपु- ष्मांश्च भवति। त्वत्कटाक्षितस्य किं दुर्लभमिति भाव.। द्विती यपक्ष यज्जन्मलग्नात्पश्चमे नवमे वा कोणे विद्यमानो गुरुलैस्रं त्रिकोणदष्टया पश्यति स धीमान् श्रीमान् वपुष्मांश्च भवाि। पश्चमस्य बुद्धिस्थानत्वात्तत्र गुरुस्थितौ धीमान् तस्मात्पश्चम कोणदृष्टया नवमस्थानदर्शने श्रीमान् नवमकोणदृष्टया वपुसस्था नस्य लग्नस्य वीक्षणे वपुप्मांश्च भवति। एवं नवमस्य भाग्य- स्थानत्वात्तत्र तदवस्थाने श्रीमान् तस्मात्पञ्चमकोणहष्टया लग्ना- वलोकने पूर्ववद्वपुष्मान् नवमक णद्दष्टया पश्चमस्थानावलोकने धीमांश्च भवेदिति विवेकः। अत्र लौकिके भगवत्कटाक्षितजन- व्यवहारे, पश्यन्ति सप्तमान् सर्वे शनिजीवकुजा: पुनः । विशेषतस्तु त्रिदशत्रिकोणचतुरश्रकानू।

Page 542

समासोक्तिसरः (२५) 531

योयो भावस्स्वामिद्ृष्टो युतो वा। सौम्यैर्वा स्यान्तस्यतस्याभिवृद्धि: ॥ इत्यादिज्योतिश्शास्त्रीयव्यवहारारोप:॥ यथावा- न नमय शिरो यतस्त्वयि ननु वृत्ते काऽपि मालिनी भवति कृतिन्। साध्वन्वयगुणरुचिरा

इदं पद्यं कंचित्कृतिनं प्रति कस्यचिद्वचनम्। हे कृतिन्! शिरः मूर्धानं न नमय न प्रह्मय। यतः यस्मात्कारणात् त्वयि वृत्ते चरित्र विषये काऽपि मालिनी मालिन्यं 'गुणवचन' इति भावे व्यजि षित्वलक्षणो डीष्। न भवति नु। नु इत्येतद- व्ययमनुनये। 'नु वितर्कापमानयोः। विकल्पानुनयातीते प्रश्ने हेत्वपदेशयाः' इति मेदिनी । यदि चारित्रे यत्किचिद्पि सं- भवेन्मालिन्यं तहि शिरो नमयितव्यं, तद्धि शिरोनमनकारणं, न हि त्वाय तद्दश्यत इति भावः। तन्र हेतुमाह-साध्विति। हे अनध ! हि यस्मात् साध्वन्वयगुणरुचिरा साधुः अन्वय- स्संबन्धः येषां ते नित्यसंबद्धा इत्यर्थः । तथाविधा ये गुणा: सत्यत्वज्ञानत्वानन्दत्वादयः अपहृतपाप्मत्वादयश्च कल्याणगुणा: तैः रुचिरा रमणीया। अतिशक्करी दुरितनिग्रहाश्चितानुग्रहयोर- तिमात्रशक्ता। शक्रोते: 'अन्येभ्योपि दृश्यते' इति क्वनिप्। स्त्री- त्वचिवक्षायां 'वनो र च' इति डीप, रश्रान्तादेशः । ईदशी लक्ष्मीः श्रीः अन्तः तव हृदये उज्ज्वला दीप्ता त्वया व्यातेति यावत्। उक्तप्रकारलक्ष्मीनिवासभूतहृदयतया तव मालिन्यस्पर्शो न भवत्येवेति भावः॥।

Page 543

532 अलंकारमणिहारे

अन्यत्र- त्वाय इत्यत्र तुआय इति छेदः । अयि कृतिन्! ननमयशिरोयतः ननमयाः क्रमेग नगणद्यमगणयगणा: शिरसि आदौ यस्य सतथोक्तः। यः यगणः तस्मात् ननमयशिरोयतः। सार्वावभक्तिकस्तसिः । वृत्ते, जात्येकवच म् । वृत्तेषु मध्ये काऽपि इयमप्येकेत्यर्थः । मालिनो भवति मालिनीनाम वृत्तं भवति। 'ननमयययुतेयं मालनी भोगिलोक्तैः' इति तल्लक्षणात्। तामेव विशिनाष्टि-साध्विति। अन्वयः अविद्यमानः उवर्णो यस्य सः अनुः। नञ्पूर्वपदबहुव्रीहौ नञो नलापे 'तस्मानुडचि' इति नुट्। स चासौ अयश्च अं यातीत्ययः । याधातोः 'आतोऽनुपसर्गे कः' इति कः। उकारस्थानिकाकारवानित्यर्थः । गुणः गण इत्यर्थः। गुणशब्दे उक्तरीत्या उकारोत्सारणे तत्रैव अकारन्यासे गण इति निष्पत्तेः । साधु वक्ष्यमाणरीत्या शुभप्रदः यः अन्वयगुणः, जा- त्यकवचनम्। यद्ा-साधवः अन्वयगुणा इति बहुवचनान्तशब्दा- भ्यामेव विग्रहः। अन्वयगुणाः पूर्वोक्ताः ननमययगणा इत्यर्थः । तैः रुचिरा। अतिशक्करी तन्नामपश्चदशं छन्दः । 'उक्ताऽत्युक्ता' इत्यारभ्य 'शक्करी साडतिपूर्वा स्यात्' इति तस्याः पश्चदश- त्वेन गणनात् तस्यां अन्तः मध्ये उज्ज्वला दीप्यमाना अनघा: निर्दोषा: लक्ष्म्य: संपदो यस्यास्सेति पश्चमीबहुव्रीहिः। हीत्यध- धारणे। अस्याः प्रबन्धादी प्रयोगे कृतिनेतुस्तत्प्रणेतुश्च संपद- स्सिद्धचन्त्येवेति भावः। यथोक्तमलंकारशिरोभूषणे- नगणस्त्रिलघुर्ददात्यजसत्रं सकलार्थानपि देवताऽस्य यज्वा। हरितालनिभो ग्रहेण हानस्तदभुष्यारिगणो न कश्चिदस्ति॥ मगणस्त्रिगुरुश्श्रियं विधत्ते वुधभूमिग्रहदवतस्तटिछ्छ्रीः। तनुते सगणान्वितोऽथ लक्ष्मीं भवति क्ररयुतस्त्वशोभनोऽसौ। यगणो जलदेवतोऽतिशुभ्रो धनदाय्यादिलघुः कविग्रहश्च।

Page 544

समासोक्तिसर: (२५) 533

तगणेन युतोऽशुभं प्रदत्ते विषमिश्रौदनवत्कवेश्च नेतुः॥ यस्य यस्य तु शुभाऽधिदेवता तस्य तस्य तुगणस्य सौम्यता। यस्य यस्य भवतीह साऽन्यथा क्ूरता भवति तस्य तस्य हि॥ इति। एवंच नगणोपक्रमेऽस्मिन्वृत्ते नगणस्य ग्रहावधुरतया सर्व- गणयोगेऽपि शुभप्रदत्वात् बुधादिदेवताकस्य मगणादेरिव रिपु-

न्निसर्गत एव शुभयोर्मगणयगणयोर्योगाज्च लक्ष्मीप्रदत्वमिति ध्ये- यम्। अत्रेदं बोध्यम्-'नयुतश्च' इति काप सिद्धे उरःप्रभृ- तिषु लक्ष्मोशब्दपाठस्य एकवचनान्तलक्ष्मीशब्दावयवकबहुब्रीहे- रेव नित्यं कप, अन्यत्र 'शेषाद्वमाषा' इति विकल्प एवेति नियमार्थताया उक्तत्वादिह च बहुवचनान्तलक्ष्मीशब्देन विग्र- हस्य प्रदर्शितत्वान्न नित्यकप्प्रसक्तिः। 'शेषाद्विभाषा' इति क- पश्च वैकल्पिकतयाऽत्र तस्यानिवक्षणम्। नाप्युपसर्जनहस्वः 'गो स्त्रियोः' इत्यनेन स्त्रीप्रत्ययान्तस्यैव हस्वावधानात्। लक्ष्मीश- ब्दस्य च स्त्रीप्रत्ययान्तत्वाभावादिति। अत्र लौकिके प्रस्तुत- व्यवहारे अप्रस्तुतच्छन्दइशास्त्रीयव्यवहारारोप:॥ यथावा- रमणीयसन्धिबन्धं हृद्याङक सर्वतोडभिनन्घर- सम्। रूपं तवाभिरूपं विलोक्य सभ्या मुकुन्द यान्ति मुदम ॥७९४॥ रमणीयस्सन्धिबन्धो यस्य तत्। अनेन- अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम्॥ सुस्निग्भसंधिबन्धं यत्तत्सौन्दर्यमितीर्यते। इत्युक्तलक्षणसौन्दर्यवत्त्वं द्योतितम्। पक्षे रमणीयाः सन्धीनां।

Page 545

534 अलंकारमणिहारे

'मुखं प्रतिमुखं गर्भस्सावमर्शोपसंहृतिः' इत्युक्ता: ये पञ्च सन्धयस्तेषां बन्धः यस्मिस्तत्। हृद्यः हृदये भवः अङ्गः श्री- वत्सचिह्नं यस्य तत्। पक्षे हृदयप्रिया: अङ्काः ॥ प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रय:॥ इत्युक्तलक्षणा: विच्छेदविशेषा: यस्मिस्तत्। सर्वतः अभिनन्द्या रसा भू: येन तत् अभिनन्दनीयशङ्गारादिरसमिति च । तव अभिरूपं मनोज रूपं दिव्यविग्रहं विलोक्य सभ्याः साधवः सामाजिकाश्च मुदं यान्ति। अत्र लौकिकव्यवहारे नाटकीयव्य- वहारारोप: ॥ शास्त्रीये लौकिकव्यवहारारोपो यथा- विजरो विमृत्युरपहतपाप्मा त्वं सत्यकाम इ- ति मगवन्। त्वयि तत्परा प्रसूते श्रुतिरनघा काङ्वितार्थमखिलमपि ॥७९५॥

अत्र वेदान्तशास्त्रीये व्यवहारे लौकिकवल्लभानुरक्तसुप्रजः कुट्ुम्बिनीव्यवहारारोपः । 'अपहतपाप्मा विजरः' इति श्रुत्य- र्थोऽत्रानुसंदितः। पक्षे-सत्यकामः स्वनायिकानुरक्त इति यावत्। काद्ितार्थ अपेक्षितं आभिधेयं प्रयोजनं च।। यंथावा- प्रविहाय भुक्तभोगामचितं प्रकृतिं स्वलाभसो- त्कण्ठम्। तावकमच्युत धन्यं कुशलतरा संप्रती- क्षते मुक्तिः ॥७९६॥

Page 546

समासोक्तिसर: (२६) 535

भुक्तभोगां अनुभूतसुखां विरक्ते: प्रागेव भोगा भुक्ता: न तूपरिष्टान्द्ोक्ष्यन्त इति भावः । अचितं अचेतनरूपां अज्ञां च प्रकृति प्रविहाय 'जहात्येनां भुक्तभोगामजोऽन्यः' इति श्रुतिर- त्रातुसंहिता। स्वलाभे अपहृतपाप्मत्वादिविशिष्टस्वस्वरूपप्रात्ती सोत्कण्ठम्। पक्षे स्वलाभे आत्मप्राप्तौ सोत्कण्ठं- सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ इत्युक्तेच्छाविशेषसहितम्। हं अच्युत! तावकं त्वन्भक्तं धन्यं कृतकृत्यं धनं लब्धारं च पुमांसं कुशलतरा अतिमात्रक्षेमंकरा चतुरतरा च 'पर्यात्ी सुकते क्षेमे कुशलं निपुणे त्रिषु' इति रत्न- माला। मुक्ति: प्रतीक्षते प्रतिपालयति । अत्र वेदान्तशास्त्रीये प्रकृते व्यवहारे भुक्तभोगमूढवनितापरित्यजनपूर्वकस्वाभिलाषि- नायकप्रतिपालयितृवासकसज्जिकाव्यवहारारोप:॥

यथावा- सा देवता विजयतेतरां परव्यूहविभवभेदेन। साध्वर्चा भुवनेऽन्तर्यामितया चापि विखयात्या॥ सा देवता 'सयं देवतैक्षत' इत्युक्तापरब्रह्मरूपा देवता। परव्यूहविभवभेदेन परः परवासुदेवः व्यूहाः वासुदेवसंकर्ष- णाद्याः विभवा: रामकृष्णाद्यवताररूपाः तद्रूपण भेदेन विजय- तेतराम्। किंच भुवने अस्मिन् जगति साध्वर्चा श्रीरङ्गवेंकटाच- लादिदिव्यक्षेत्रनिवासरमणीयार्चारूपा। साध्वी अर्चा यस्यास्से- ति बहुव्रीहिः। साध्वी च सा अर्चेति तत्पुरुषो वा। 'प्रति- कृतिरर्चा' इत्यमरः। अन्तर्यामितया अन्तर्यामिरूपण, हेतौ तृ- तीया। विख्यात्या चापि अन्तर्यामित्वप्रयुक्तकीर्त्या चापीत्यर्थः।

Page 547

536 अलंकारमणिहारे

यद्वा-विशिष्टा ख्यातिर्यस्यास्सा तथोक्ता, अन्तर्यामितया चापीति योज्यम्। विजयतेतरामित्यनुपज्यते। परब्रह्मरूपा देवता परव्यू- हाविभवार्चान्तर्यामिरूपैर्जगति विजयतेतरामिति निर्गळितोऽर्थः। पक्षे-उत्तरार्धे भुवने अन्तः या अमितया इतिच्छेदः । भुव- नेऽन्तः लोकस्य मध्ये इत्यर्थः। 'सक्षमी शौण्डैः' इति सप्त- मीसमासविधायकसूत्रस्थशौण्डादिगणे अन्तश्शब्दपाठात् ज्ञाप- कात् तद्योग अवयविन आधारत्वविवक्षया सप्मी वृक्षे शाखे- तिवदिति ध्येयम्। या देवता परषां वैरिणां व्यूहाः बलवि- न्यासा: तेषां विभवस्य भेदेन विदारणेन अमितया अपरि- च्छिन्नया विख्यात्या कीर्त्या चापि साध्वी अर्चा यस्यास्सा तथोक्ता पूज्या भवतीत्यर्थः। सा देवता विजयतेतरामित्यन्वयः। अत्र प्रस्तुते पञ्चरात्रागमसिद्धे व्यवहारे महती देवता ह्वेषा नररूपेण तिष्ठति। इत्युक्तप्रभावप्रतापयशस्सुभगमहाराजव्यवहारो लौकिक आरो- प्यते॥ यथावा- ननु नित्यदस्युवर्गत्रस्तोऽहं क्वापि रक्षणमवि- न्दन। विश्वस्य त्वयि नाथ न्यस्तस्वो धन्य एव न क्थ स्याम् ॥ ७९८॥ ननु नाथ ! नित्याः अनपायिनः ये दस्यवः कामादयशशत्रवः तेषां वर्गात् वर्गस्य वा त्रस्तः भीतः। पक्षे-नित्यं दस्युवर्गात् चोरनिवहात् त्रस्तः उद्विग्रः 'दस्युश्चोरे पुंसि रिपौ' इत्यु- भयन्रापि मेदिनी । क्वापि रक्षणमविन्दन् शरणमलभमानस्सन् .. w

विश्वस्य रक्षिष्यतीति प्रतीत्य त्वय न्यस्तं अपतं स्वं आत्मा धन च येन स तथोक्तः 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये

Page 548

समासोफ्तिसरः (२५) 537

स्वोऽस्त्रियां धने इत्युभयत्राप्यमरः । धन्यः कृतार्थ एव कथ न स्याम्। भगवति न्यस्तात्मरक्षाभरस्य कृतार्थता स्यादेवेति भावः। पक्षे-धनं लब्धा धन्यः प्रत्ययिते सुजनसार्वभौमे न्यस्त- धनस्य कथं पुनस्तद्धनलाभो न स्यादिति भावः । अत्र भगवच्छ- स्त्रीये व्यवहारे लौकिकव्यवहारारोप:। यथावा- प्रोल्लसदमलाब्जकरः प्रकाशविभवैः प्रसाधि- ताशान्तः । प्रथते फणाधरगिरिप्रभोरपघनो घना- गमस्यान्ते ॥७९९॥ प्रोल्लसन् अमलः अब्जशशङ्ग: करे यस्य सः, प्रोल्लसन्तः अमला: अब्जकरा: चन्द्रकिरणा: यस्मिन् स इति च। प्रकाशविभचैः प्रभातिशयैः प्रकृष्टैः काशकुसुमविभवैश्च प्रसाधिताशान्तः। फणा- घरगिीरप्रभो: अपघनः दिव्यविग्रहः घनस्य गम्भीरार्थस्य आगमस्य वेदस्य अन्ते उपननिषदीत्यर्थः । पक्षे-घनागमस्य प्रावृट् मयस्य अन्ते अवसाने इत्यर्थः । प्रथते। अत्रापि शास्त्रीये व्यवहारे लौ- किकशरत्समयव्यवहारारोप॥

उदाहरणभूयस्त्वं सोढव्यं चापलात्कृतम्॥। इयं चालंकारान्तरेषु भूयस्स्वानुगुण्येन वर्तते। यथा- कटकश्षरणे व्यलसच्छिरो हरेरधिरुरोह मणिम- कुटी। दन्तेऽन्तरे वधूटी स्वल्पेऽपि विशृखुलप्रवृत्ति- स्स्यात् ॥ ८०० ॥ अत्र समर्थ्यत्वेन वर्तमाना समासोक्तिरर्थान्तरन्यासानुगु ण्यमाधत्ते।। ALANKARA 68

Page 549

538 अलंकारर्माणहारे

यथावा- गृह्णाति को नु हृदयान्यबलानां भुवि निसर्ग- चपलानाम्। दरमनभिमुखे भगवति चिरपरिचि- तमपि नरं त्यजति संपत् ॥८०१॥

अत्र समर्थकत्वेन वर्तते॥ प्रसृमरघृणयो मणयो हारगताइशौरिहत्पदग- ताय। प्राभृतमर्पयितुं मणिवराय मन्ये प्रसारय- न्ति करान् ॥ ८०२॥

च्छिन्नजनपदाधिपनरपतिसमुदयव्यवहारमूला करप्रसारणोत्प्रेक्षा। अनेनैव पथा अचेतनव्यवहारे प्रस्तुते चेतनव्यवहारसंबन्धिस्व- रूपहेतुफलोत्प्रेक्षायां, चेतनव्यवहारे प्रस्तुते चाचेतनव्यवहारसं. बन्धिस्वरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम्। सारूप्या- दपीयं समासोक्तिर्भवतीति दीक्षितरभ्यधायि। न क्षमते तां स- मासोक्तिजीवातोर्विशेषणसाम्यस्य 'पुरा यत्र स्रोतः' इत्यत्राभा- वेन समासोक्तिताया एवानुपपत्तेरिति वदत्रसगङ्गाघरकृत्।त- न्मते-'पुरा यत्र स्रोतः' इत्यादावप्रस्तुतप्रशंसैध, तथैव तेन- व्यवस्थापनात्। तत्सर्वमप्युपरिष्टादप्रस्तुतप्रशंसालंकारनिरूपण- वसरे दर्शयिष्याम:॥

इत्यलंकारमणिहारे समासोक्तिसर: पञ्चविंशः पूर्वभागस्समाप्त:

Page 550

अशुद्धसंशुद्धि:

72 18 प्रक्षावत प्रेक्षावत

184 21 लधमेवेति लब्धमेवेति

22 पादातव्य दाहर्तव्य

198 9 भविदुर्हति भवितुमर्हति 328 14 इत्याकारफ इत्याकारक

Page 551

D.G.A. 80. CENTRAL ARCHAEOLOGICAL LIBRARY NEW DELHI Borrowers record.

Call No .- Sa4A/Sri-8090

Author-Sri Krishna Brahmatantra Parakālaswami

Title-Alankara-Manihara. Pt.i.

Borrower's Name Date of Issue Date of Return

P.T.O.