Books / Alankara Manihara Vol 2 MORI

1. Alankara Manihara Vol 2 MORI

Page 1

GOVERNMENT OF INDIA

DEPARTMENT OF ARCHAEOLOGY

CENTRAL ARCHAEOLOGICAL LIBRARY .

CALL No. Sa4A / Sri

D.G.A. 79.

Page 4

UNIVERSITY OF MYSORE

ORIENTAL LIBRARY PUBLICATIONS SANSKRIT SERIES No: 58

अल ङ्गरमणिहारः श्रीमद्दिः श्रीकृष्णब्रह्मतन्त्रपरकालसंयमीन्द्रैः प्रणीतः

द्वितीयो भाग:

THE

ALANKARA-MANIHARA

BY

Sri Krishna-Brahmatantra Parakala Swamin

PART II

EDITED BY

R. SHAMA SASTRY, B.A., M.R.A.S. Curator, Government Oriental Library, Mysore, Periodical Lecturer to the Pust-Graduates' classes of the Calcutta University, and B. B. R. A. S Campbell Memorial Medalist. Sa4A Syc

MYSORE PRINTED ATTHE GOVERNMENT BRANCH PRRSS

Page 5

CENTRAL ARCHAEOLOGIGAL LIBRARY, NEW DELHI. Acc. No ...... 9.4 .... Date ....... 4. 4.7 Call No .... S4tA

Page 6

विषयानुक्रमणिका.

विषया :. पुटसकथा, 26. परिकरालंकार: 1

विषयविचार: 4

  1. 5 ...

  2. श्ेषालंकार: 10 ... ... प्रकृतानेकविषयः श्लेष: 10-22

अप्रकृतानेकविषयः श्रेषः 22-25 ....

प्रस्तुताप्रस्तुतयो: श्षेष: 25 -- 114 ....

सभङ्गाभङ्गभेदेन श्रेषनिरूपणम् 114 .... वर्णश्ेष: .... 115 ....

पदश्ेष: .... 119

लिङ्गश्लेषः .... 120 ..

भाषाश्लेष: 127 .... ....

विभक्तिश्लेषः .... 129 प्रकृतिश्ेषः 143 ....

प्रत्ययश्लेष: .... 155 ..

वचनश्लेष: 1 ... 159

सभङ्गाभङ्गश्लेषयोरलंकारत्वसमर्थनम् 167

मतान्तरेण श्रेषनिरूपणम् ... 168

विचार: ... 176

  1. अप्रस्तुतप्रशंसालंकार: 183

अप्रस्तुतवर्णनेन प्रस्तुतावगती संबन्ध: 183

मतान्तरेणाप्रस्तुतप्रशंसा ... 222

Page 7

iv

: विषया :. पुटसहया. 30. प्रस्तुताङ्करालंकार: ... 226 ... :..

विचार: 229 ... ... 31. पर्यायोक्तालंकार: 234 ... द्वितीयपर्यायोक्तम् .... 242 ..

  1. व्याजस्तुत्यलंकार: 243 ...

अस्यालंकारान्तरसंकीर्णत्वम् 245 .. D

अस्यैव लक्षणान्तरम् 248 .... 33. व्याजनिन्दालंकार: .... 250 ...

  1. आक्षेपालंकार: 254 ...

आक्षेपप्रकारान्तरम् ... 262 ...

  1. विराधोलंकार: 268 ... विरोधभेदा: 268 ... जातेरजातिगुणक्रियाद्रव्यैविरोधः 269 .... गुणस्य गुणक्रियाद्रव्यैविरोध: 271 ... क्रियाया: क्रियाद्रव्याभ्यां विरोधः 274

द्रव्यस्य द्रव्येण विरोध: 276 ...

विरोधाभासोदाहरणानि 278 ....

विचार: 289 ... 36. विभावनालंकार: ... 291 ...

द्वितीया विभावना 294

तृतीया 295 .... ...

चतुर्थी 300 ... .. t.

पश्चमी 303 ... ...

  1. विशेषोक्तयलंकार: ... 311 38. असंभवालंकार: 320 .... 1 ..

Page 8

V

विषया :. पुटसइथा. 39. असंगत्यलंकार: .... 322 ... अन्नाक्षपस्य समाधानम् 329 द्वितीयासंगतिः 330 ...

तृतीयासंगतिः 334 विचार: 339 40. विषमालंकार: 340 ..

द्वितीयविषमम् 343

तृतीयविषमम् 353 ...

  1. समालंकार: 436 .... द्वितीयसमम् 453 ... ...

तृतीयसमम् ... 457 .. 42. विचित्रालंकार: 469 .... 43. अधिकालंकार: 472 .... ... ...

द्वितीयाधिकम् ... 475 ... 44. अल्पालंकार: 476 ...

  1. अन्योन्यालंकार: .... 479 ... 46. विशेषालंकार: 480 ...

द्वितीयविशेष: 482

तृतीयविशेषः 483 ... ...

  1. व्याघातालंकार: 486 ... ....

द्वितीयव्याघातः । ... 489 ....

  1. कारणमालालंकार: ... 491 ....

  2. एकावळ्यलंकार: ... 496 .... 50. मालादीपकालंकारः .... 499 .... ....

Page 10

अशुद्धशोधनम्

पुटे पर अशुद्धम् शुद्धम्

3 9 स्रभ्य: स्ुभ्यः 6 9 वाच्याप वाच्योप

g 1 घतनम: घनतम:

10 16 तस्मित् तस्मिन्

11 6 रंभ

12 16 भगत्पक्ष भगवत्पक्ष

13 5 भगहदिव्या भगवददिव्या 13 22 भगत्पाश्च भगवत्पास्

17 8 कम्मिता कम्पिता 19 5 भौमा भौमो 19 16 रदितः रहित: 20 4 ब्रह्मा ब्रह्मा 20 24 यीप्र यप्रि

21 24 त प्रिय ते प्रिय 21 25 बिधुर विधुर 25 16 मअ मअ 25 20 दक्ते: दक्ते: 25 23 घणी घृणी 26 1 दुक्त्ते दक्ते: 27 11 सजात संजात

'तद' 'तद्- ">

Page 11

viii

पुटे. पङ्कौ. अशुद्धम्. शुद्धम्. 28 11 माधगत मधिगत

30 7 बुद्गता दुद्गता 34 10 श्रित श्रित:

36 2 विद्य विझ्ः

36 4 णयुण णगुण 36 14 पर्युदस्तत्वा पर्युदस्तत्वात् 38 22 ब्रह्माणि ब्रह्मणि 38 18 बिद्या विद्या

41 9 जश्न जश्ने

42 16 शषेष श्षेष:

44 2 एवं विध एवंविध 44 11 बिभु विभु 46 5 प्रकृतया: प्रकृतयो: 47 16 डप उप

47 24 परेणभवता परेण भवता 49 5 त्यासर्वै त्या सर्वै 52 3 इश: ईश: 52 4 अस्मिस्पक्षे अस्मिन्पक्षे 52 8 सर्रे सर्वे

52 22 दखिल हेय दखिलहेय 54 10 "अन्तिबाढ "अन्तिकबाढ 54 19 "पत् "पद्द 56 3 भाष्यऽपि भाष्येऽपि 59 23 ब्रह्म ब्रह्म

Page 12

ix

पुटे. पड्नौ, अशुद्धम. शुद्धम्. 67 17 चेत चेतः 68 14 ल्यप रपप 69 8 रत्र रस

6.9 13 कल्पति कल्पेति

70 14 हस्व हस्व 70 18 चल चेल

72 4 शब्दा शब्दो

73 20 भवात भवति

76 19 निश्चय निश्चये

78 7 वेतुर्णां वेत्तणां 79 21

82 19 मुपलण मुपलक्षण 84 10 कुशा कुशो

86 17 प्रार्थनाप प्रार्थनोप

86 23 दैपु दैपू 87 10 वैलक्षण्य वैलक्षण्यं 125 15 कल्यण कल्याण

125 18 पुर्व पूर्व

136 23 पगुण प्रगुण

142 18 वश्चैति वश्चेति

144 21 ममूह समूह

148 13 तौदादिक तौदादिक:

I53 1 पुरा पुरा

183 1 सर: सर: (२९) ALANKARA B

Page 13

X

पुटे पङ्डौ. अशुद्धम्. शुद्धम् 194 22 रमणी सर रमणीसर

216 1 शुम्र: शुभ्र: 226 8 स्मित् स्मिन् 228 15 श्िष्टोवहसे श्लिष्टो वहसे 229 5 प्रस्तुत प्रत्यु- 229 11 प्रापृषि प्रावृषि 234 5 सर: सरः (३१) 241 12 गस्यत्वे।। गम्यत्वे

243 14 सर: सरः (३२) 244 11 रमेश। रमेश

255 7 स्वर स्वैर

277 22 सामान्यता सामान्यतो 305 18 दुर्लभ: दुर्बलः 310 15 प्रकारातू प्रकारात्

319 6 कौभार कौमार 328 18 संभवातू संभवात् 339 13 निन्धनात् निबन्धनात् 362 7 निस्सेजस्क निस्तेजस्क 364 13 पुंस्त्व पुंस्त्वं 367 7 त्वद्नति त्वद्धति 389 2 शलूकं शालूकं 462 12 त्वद्वहु त्वह्वाडु 465 22 लभे लेभे

Page 14

श्री: अलंकारमणिहारे द्वितीयभागप्रारम्भः

अथ परिकरालंकारसरः (२६)

साभिप्राये परिकरोऽलंकारस्स्याद्विशेषणे।

अत्रालंकार इत्युक्ति: दोषाभावेनैव चारितार्थ्यमिति शङ्कानि- रासाय। तञ्चाग्रे दर्शयिष्यते। साभिप्राये प्रकृतार्थोपपादकार्थवि- षयकाभिप्रायपूर्वके तथाभूतार्थव्यस्ञके इति यावत्। तथाच प्रकृ- तार्थोपपादकार्थव्यक्षकविशेषणत्वं लक्षणमिति ध्येयम्। ध्वनाव तिप्रसङ्गनिरासाय प्रकृतार्थोपपादकेति। हेत्वलंकारवारणाय बोध- कत्वमपहाय व्यक्षकत्वनिवेशः । वक्ष्यमाणपरिकराङ्करालंकार वारणाय विशेषणेति। तत्र तु विशेष्यं तथेति नातिप्रसङ्ग: ॥। यथा- धुतमपि तव चरणरुचा नतताश्रयणाद्रमे म- हारजनम्। एत्य महारजतत्वं विद्युद्वर्णे तवैति सा- वर्ण्यम्॥८०३॥ विद्युद्धर्णे! हे रमे! महारजनं कुसुम्भ: 'स्यान्महारजनं कीवं कुसुम्भ:' इत्यमरः । तव चरणरुचा धुतमपि नतताश्रयणात् नम्रतावलम्वनात्- ALANKARA II

Page 15

2 अलंकारमणिहारे

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः। जानन् विचरति प्राज्ञो न स याति पराभवम्॥ एवमेव यदा विद्वान्मन्यतेऽतिबलं रिपुम्। संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम्।। इति भारतायुक्तरीत्या वैतसवृत्त्याश्रयणादिति भावः । पक्षे- महारजनमितिपदं नतताश्रयणात् नकारस्य तकारत्वाश्रयणात् नकारमपनीय तत्र तकारपठनादिति भावः। महारजतत्वं सुवर्णत्वं 'महारजतकाश्चने' इत्यमरः । महारजतशब्दत्वमिति च। एत्य तव सावण्य एति। अत्र विद्युद्वर्णे इति विशेषणं महारजनस्य उपपादि- तप्रकारेण महारजततावाप्तिपूर्वकसावर्ण्यलाभार्हताभिप्रायगर्भम्। यथावा- आकालिकसुखदायास्तोकाने कार्तिवर्तनीकाय। लोकाय वराकाय श्रीकान्त ब्रह्मणोऽपि न स्पृहये॥ आकालिकं आशुविनाशि यत् सुखं तद्ददातीति तथो- क्ताय समानकालावाद्यन्तौ यस्येति विग्रहः 'आकालिकडा द्यन्तवचने' इत्याशुविनाशिन्यर्थे समानकालशब्दाड्ठक्। समान- कालशब्दस्याकालादेशः 'आकालाह्रंश्च' इति ठन्वा। अस्तोकाः अनेका आर्तिवर्तन्यः पीडामार्गा: यस्मिस्तथोक्ताय।अन्यत्सुगमम् अत्रानेकानि लोकस्य विशेषणान्यतिहेयताभिग्रायगर्भाणि। यथावा- अरिवर्गलुलितहृदयं दुरितच्छरितं दुरन्तविप- दुदयम्। करिवरद कृपासिन्धो त्वरितं मामुद्रेश. नतबन्धो ॥ ८०५॥

Page 16

परिकरालंकारसर: (२६) 3

अत्रानेकान्यहमर्थविशेषणान्यतिदीनलवेन दयनीयत्वाभिप्रा- यगर्भितानि। अनेकानि व भगवद्विशेषणान भक्तवत्सलतया

यथावा- नाचकर्थ रामकथां नाररचं भारतं च भूरित- रम्। नाचकलं भागवतं नाथ कर्थ तावकस्तव- स्येशे ।। ८ ० ६ ॥। कथरचकलास्त्रयो धातवश्चुराद्यन्तर्गणे कथादावदन्तेषु प- ठिताः । तेभ्यस्स्वार्थणिजन्तभ्यः कर्तरि लुड्ि 'णिश्रिद्रुस्नभ्यः कर्तरि चङ्' इति च्लेश्चडि णेरग्लोपित्वात् 'सन्वल्लघुनि च- डूरेडनग्लोपे' इत्यत्रानग्लोपे इति पर्युदासात्सन्वन्भावाभावेन अ- भ्यासस्य 'सन्यतः' इति विहित इकारः 'दीर्घो लधोः' इति दीर्घश्च न। ईशे इति ईशधातोर्लडुत्तमैकवचनम्। स्तवस्येत्य- त्र 'अधीगर्थद्येशाम्' इति कर्मणश्शेषत्वविवक्षया षष्ठी। अत्र नाचकथमित्यादीनि विश्ेषणानि स्वस्मिन् प्राचेतसपाराशर्यसूता- साधारणकार्यनिषेधमुखेन नाहं प्राचेतस इत्याद्याकृतगर्भितानि॥ यथावा- नोदायिषि ज्वलनतो नोदाहार्षीश्र मत्कृते गी- ताम्। कोडसाविति मम दयसे व्यासान्नाजनिषि चाहमब्जाक्ष ॥ ८० ७॥ अत्रज्वलनतो नोदायिषीत्यादीनि विशेषणानि स्वस्मिन् द्रौ- पदीधनञ्जयशुकासाधारणकार्यनिषेधमुखेन नाहं द्रौपदीत्याद्याभ- प्रायगर्भाणि। अत्राद्ये उदाहरणे एक विशेषणं, समनन्तरादाहर-

Page 17

4 अलंकारमणिहारे

णयोः प्रत्येकं बहूनि विशेषणानि पदार्थरूपाणि एकाभिप्राय- गर्भाणि, अन्तिमोदाहरणयोः वाक्यार्थरूपाणि मिन्नाभिप्रायगर्भाणि चेति भिदा। एतेषु व्यङ्चार्थसद्भावेऽपि न ध्वनिव्यपदेशः ।सु- वर्णस्य रमासावर्ण्यप्राप्तौ चतुर्मुखलोकस्यास्पृहणीयतायां भगव- त्तन्द्क्तयोरवश्योद्धर्तृतोद्धरणीयत्वयोः स्वस्मिन् दयाकरणकार- णाभावे च वाच्य एवोपस्कारकत्वात्। अतएव व्यङ्गयार्थस्य वाच्यपरिकरत्वात् परिकर इति नाम अस्यालंकारस्थ ॥ ननु-निष्प्रयोजनविशेषणोपादाने अपुष्टार्थदोषस्य सर्वसंप्र- तिपन्नतया सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववन्- वितुमर्हत न त्वलंकार इति। अत्र प्राञ्चः-एकधर्मिनिष्ठतया बहूनां साभिप्रायविशेषणानामुपादाने विच्छित्तिविशेषोऽनुभवा- रूढतया दुरपलप इत्यलंकारमध्ये परिगणित इति॥

अत्र दीक्षिता :- अनेकविशेषणोपन्यास एव परिकर इति न नियमः। श्ेषयमकादावपुष्टार्थस्य दोषत्वाभावात्तत्रैकस्य विशेषणस्य साभिप्रायत्वेऽप्यलंकारता दुर्निवारा। एवंच 'सुधां- शुकलितोत्तंस:' इत्यत्रापि तस्यात्मलाभो न निरुध्यते। अपिच- एकपदार्थहेतुकं काव्यलिङ्गमलंकार इति सर्वसम्मतं, तद्वदेक- स्यापि विशेषणस्य साभिप्रायस्यालंकारत्वं युक्तमेवेत्याहः॥ अन्ये तु-श्ेषाद्यतिरिक्तस्थले साभिप्रायविशेषणोपादानेन विच्छित्तिवविशेषस्वीकारे तस्यालंकारत्वं दुर्वारं, अन्यथा च श्षे. षादिस्थलेऽपि विच्छित्तिविशेषो नास्तीत्यपि वक्तुं शक्यम्। यदि च तत्रानुभवः प्रमाणमित्युच्यते तदाऽन्यत्रापि तत्तुल्यमिति न पृथ- गलकारतेति दीक्षितमतं दूषायेत्वा सुन्दरत्वे सत्युपस्कारकत्व- मलंकारत्वं, चमत्कारापकर्षकाभावमात्रत्वं दोषाभावत्वं, तयोश्च

Page 18

परिकराङ्करसरः (२७) 5

क्वचिदेकन्र समावेशेऽपि नैकेनैकस्यान्यथासिद्धि: उपधेयसंक- रेऽप्युपाधेरसंकरात्। यथा ब्राह्मणस्य मूर्खत्वं दोष: विद्या तु दोषाभावो भवाते गुणश्च तद्वदिहाप्युपपत्तिः। न च दोषाभाव- तया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम्। उभयात्मकत्वेन दोषान्तरवैलक्षण्यज्ञापनार्थतया तदुप- पत्तेः। यथा गुणीभूतव्यङ्गयभेदतया संग्ृहीताऽपि समासोक्तिर- लंकारगणनायां पुनर्गण्यते, यथा वा प्रासादवासिषु गणितोऽप्यु- भयवासी भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्वचिद्दोषः । अन्यथा काव्यलिङ्गमप्यलंकारो न स्यात्। निर्हेतुरूपदोषाभावा- त्मकत्वादिति प्राहुः॥ इत्यलंकारमणिहारे परिकरालंकारसर: पार्ड्डिश:

अथ परिकराङ्करसरः (२७)

विशेष्यं यदि साकूतं भवेत्परिकराङ्कुरः । विशेष्यस्य साभिप्रायत्वे परिकराङ्कुरालंकारः।। यथा- धनुषि त्रिनयनकरजुषि पत्रीभूय त्रिविक्रम पुरा त्वम्। त्रीणि पुराण्यसुराणां सुदुराधर्षाणि भ- स्मसादकृथा:॥८०८॥ त्रिनयनशब्द: क्षुभ्नादिगणे पठितः। 'क्षुम्नादिषु च' इति निषेधा1 'पूर्वपदात्संज्ञायामगः' इति णत्वंन। अत्र त्रयो वि-

Page 19

6 अलंकारमणिहारे

कमा यस्येति व्युत्पत्ता योगबलात्त्रिपुराभिभवपटीयस्त्वमभि- व्यक्षयत्निविकरमते विशेष्यं वाच्योपस्कारकतां प्रतिपद्यते।।

यथावा- बलिसुतबाहादशशतविदलनकृत्को विना स- हस्त्रारम्। जलरुहकुलदलदशइतविदलनकृत्को S- न्तरा सहस्रांशुम् ।।८०९॥ अत्र प्रधानवाक्यार्थो दष्टान्तालंकाररूपः । तत्र बिम्बप्रति-

दलसहस्रविदलनघुरीणतां व्यञ्ञयन्तौ वाच्योपस्कारकौ।।

यथावा- एष नवनीतचोरो मूषति नेत्रं मम स्वहन्म- ध्येडमुम्। सिनुयां बन्धं कथमिव धुनुयाद्दामोद रोऽयमीक्षेयाहम् ॥८

एष नवनीतचोर: नन्दनन्दनः मम नेत्रं नयनं सूषति 'रू- पौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् इत्युक्तरीत्याऽपहरति। 'सूष स्तेये' भौवादिकः । अंशुकमपहरतीत्यपि गम्यते। 'नेत्रं वस्त्रेऽक्ष्ण' इति रतमाला। अमुं एवं नेत्रहरं स्वहन्मध्ये स्वम- नोऽन्तरे सिनुयां ध्यायेयमिति यावत्। पक्षे स्वहतां परस्वा- पहारिणां मध्ये सिनुयां अस्यापि चोरत्वादिति भावः । अयं एवं बन्धनं प्रापितः दामोदरः बन्धं मम भवबन्धं कथमिव धुनुयात् अहं ईक्षेय मामकभवबन्धविमोचनक्रमममुष्य कीदृगिति परीक्षेयेति भावः। अथवा-स्वयमेव बद्ध: कथं मम बन्धमप

Page 20

परिकराङ्करसरः (२७) 7

नयेत् 'बद्धस्स्वयं किमु विमाचयिता बतान्यम्' इत्युक्तेशिति भावः। पक्षे-मत्कृतस्वहन्मध्यबन्धविश्लथनस्यायं नेशीतेति भावः। अत्र नवनीतचोर इति विशेष्यं चौर्यनिष्णातताकूतगर्भ सन्नेत्र- मूषणरूपवाच्यार्थोपस्कारकम्। दामोदर इति विशेष्यं बन्ध विश्लथनानीशताभिप्रायगर्भ सत्कथंकारं बन्धं घुनुयादिति वा- च्योपस्कारकतामश्तुते। अत्र विशेष्यद्वयं भिन्नाभिप्रायकम्॥ क्वचित्तु योगमनपेक्ष्य प्रसिद्धिबलादेव व्यञ्जकं भवति वि- शेष्यम्। यथोक्तमेकावळ्यां-'क्वचित्पुनः प्रसिद्धत्वाद्विशेष्यम- तथाभूतं प्रयुक्तमपि तथाभूतमभिप्रायमभिव्यनक्ति' इति॥ यथा- न त्रातुं सुत्रामा सत्रारिर्विधिरपीश्वरः खलु मामू। भवगहनगुहाशयितं नियतं मुचुकुन्दवरद एवेष्टे ॥८११॥ अत्र मुचुकुन्दवरद इति विशेष्यं गुहान्तरनिद्राणजनत्रा- णधुरीणतामभिव्यञ्जयति॥ यथा वा-

न्दो। दहरगुहाघनतम इह न हरसि किमिमां प्र- विश्य चक्रधर ॥ ८१२॥

हे चक्रधर! दूरीकृतं सतां ब्रह्मविदां दर्शनं येन तत्तथो- क्तम्। पक्षे सतां नक्षत्राणां दर्शनं येम तत् गुहान्तर्गतस्य घन- तमसो नक्षत्रनिर्वर्णनासंभवादिति भावः । ऊराकृतः मलिनिमा

Page 21

8 अलंकारमणिहारे

पाप्मा नैल्यं च येन तत्तथोक्तं, दहरगुहायाः घतनमः तत्र वि- द्यमानस्सान्द्रस्तमोगुण एव गाढतमिस्त्रं मेघावृतिप्रयुक्तं तिमिरं वा। इमां दहरगुहां प्रविश्य किं न हरसि, न हरसि किमिति वा योजना। केन हेतुना न हरसि वा न जानीम इति प्राथमिकयो- जनायामभिप्रायः, हरस्येवेति द्वितीययोजनायाम्। अत्र चक्र- धरेति विशेष्यं चक्रस्य भास्करकोटिभास्वरतया तद्धारिणो भ- गवतः हृदयगुहान्तर्गतघनतमोनिबर्हणसौकर्यमभिप्रैति॥

यथा वा- दूरोत्सारितदुस्सहदुरन्तदुर्वासनं विधायैव। व- नमालिन्नामोदय ननु मानसमानतस्य मम ॥८१३

अत्र वनमालिन्निति विशेष्यं दुर्वासनादूरोत्सारणपूर्धका

यथा वा- राम इति नाम यत्तव तामरसेक्षण सहस्रना- मसदृक्षम्। को महिमानं गदितुं नामास्य पटु- स्तमन्तरेणानन्तम् ॥८१४।।

अस्य महिमानं गदितुं को नाम पटुरिति योजना। 'पर्या- प्तिवचनेष्वलमर्थेषु' इति तुमुन्। अन्रानन्तमिति विशेष्यं सहस्र- शोर्षत्वमाभेप्रयत्सत् 'सहस्रनामतत्तुल्यं रामनाम' इति श्रीवि-

नमुख्यमुपैति।।

Page 22

परिकराङ्करसर: (२७) 9

यथा वा - तव नामसहस्रस्य स्तवनाय रमे स एक ए- वालम्। भुवनाधीश्वरि पुरुषः पवनाशनपरिषद- ग्रणीरथवा। स पुरुषः 'सहस्रशीर्षा पुरुषः' इति प्रथितः परमः पु- मान् एक एव तव स्तवनाय अलं समर्थः। अथवा पतरनाश- नपरिषद्ग्रणी: भुजगकुलधौरेयइशेष: अलमिति योजना। अत्र पुरुषः पवनाशनपरिषद्ग्रणरित विशेष्यद्वयं सहस्रशीर्पत्वाभि- प्रायगर्मितं सत् लक्ष्मसिहस्रनामस्तवनसमर्थतारूपवाच्पार्थपार करतां प्रतिपद्यते। पूर्वेपूदाहरणेषु चतुर्षु एकमेव विशेष्यं साभिप्रायं, इह तु विशेष्यद्वयं तदप्येकाभिप्रायकम्।। यथा वा- न हि तादृश्यभिमन्यौ विहिता भवताऽऽर्ति- भाजि शतमन्यौ। द्विरदे यादक्करुणा वरदेह वदा- मि किं भवन्तमहम् ॥८१६॥ अत्र अभिमन्यौ शतमन्यौ इति विशेष्यद्वयं भागिनेयत्वेन भ्रातृत्वेन तत्रापि योगमहिम्रा आतेवेलदैन्यवत्वेन चावश्यादर- णीयत्वं, द्विरदे इति विशेष्यं वन्यत्वेनाननुबन्धितया उपेक्षणी- यत्व, वरदेति विशेष्यं तु अविवेचितस्वपरवरदानेन सुग्धतम- त्वं चाभिव्यज्ञयतीति चत्वारि विशेष्याण भिन्नाभिप्रायगर्भा- णोति पूर्वस्मादद्विशेषः । अनुबन्ध्यपेक्षया अननुबन्धिन्येव त्वया परिपूर्णा कृपा व्यधीयतेति इह वदामि किं भवन्तमहमिति वा क्येनोपालम्भो द्योतितः।। ALANKARA II 2

Page 23

10 अलंकारमणिहारे अत्रेदं बोद्धव्यं-परिकराङ्करो नालंकारान्तरं भवितुमहतति साभिप्रायपद्विन्यास: परिकर इति तं लक्षयित्वा विशेषणवि- शेष्यपदत्वाश्यां तस्य द्वैविध्याभिवर्णनेऽस्य तदवान्तरभेदत्वसं- भवात्। विच्छित्तिवैलक्षण्याधीनं ह्लंकारवैलक्षण्यं, न ह्येकवा- क्यगतपदसाभिप्नायत्वनिबन्धने तदस्तीति। अयं चालंकार एका- वळीकारादिभिर्लक्षितः। प्राश्चस्तु प्रकाशकारादयो नालक्षयन्नमुम्।। इत्यलंकारमणिहारे परिकराङ्करसरस्सप्तविंशः

अथ श्लेषसरः (२८):

वर्ण्यावर्ण्योभयालम्बी श्र्ेषोडनेकार्थसंश्रयः । अनेकार्थशब्दविन्यासश्ल्लेषः। स च त्रिविध :- प्रकृतविषयः, अप्रकृतविषयः, प्रकृताप्रकृतविषयश्चेति । त्रिविधोष्ययं सभङ्गाभ- ङ्गमेदेन पुनस्त्रिविध इाते षड्डिधः । तत्राद्यः प्रकारो यथा- अहिगिरिपतिहृदयङ्गमवृत्तिरुदन्वत्सुताधिभूर्ज- गताम्। शुभकृदलं नः कुरुतां परितान्तानां श्रि- यं भवे चरताम् ॥ ८१७॥ अहिगिरिपतिः शेषनामाद्रिवरः तस्मित् हृदयंगमा हृद्या वृत्ति: स्थितिर्यस्य स तथोक्त इति भगवत्पक्षे। श्रीपक्षे तु अहिगिरिपते: वेंकटाद्रिनेतु: श्रीनिवासस्य हृदयंगमा वक्षोऽधिगता वृत्ति: वर्तनं यस्यास्सेति । जगतां शुभकृत्। उदन्वत्सुताया:

Page 24

शेषसरः (२८) 11

थ्रिय: अधिभू : नायकः, इदं भगवत्पक्षे विशेष्यम्। अन्यत्र शुभकृत् कल्याणकरी। जगतां अधिभूरिति योजना। भुव- नानामधाश्वरत्यर्थः। उदन्यत्सुता सिन्धुनन्दिनी श्रीः, इद वि- शेष्यम्। अन्यत्सुगमम् ॥ यथावा- मदीये रामेश्वरविजये रङ्वराजविलासे च चम्पूप्रबन्धे- हृदयेहिराजभासुरमश्चमुदारं सदा गिरां प्रा- पथै। कलयेहितं ददानं धाम पुराणं तुरङ्गरा- जाख्यम् ॥ ८१८॥ अहिराज एव भासुरमश्चो यस्य तं उदारं वदान्यं हित श्रेय: ददानं, उदारमित्येतत् हितविशेषणं वा, निश्श्रेयसमिति तदर्थः। रङ्गराजाख्यं पुराणं धाम तुशब्दोऽवधारणे 'स्युरेव तु पुनवै वेत्यवधारणवाचकाः' इत्यमरः। धामैवेत्यर्थः । सदा गिरां प्राप्तैय हृदये चित्ते कलये ध्यायामि। अन्यत्र हृदये इत्यत्र हत् अये इि च्छेदः। हीति भिन्नं पदं प्रसिद्धयर्थ- कम्। अये हृत् ! हे हृदय! राजभासुरं चन्द्रिम्बे प्रकाश- मान चन्द्रवद्विशदमिति वा। अञ्च मुदा अरं इति छेद:। कलया अल्पकालेनैव ईहितं ईप्सितं ददानं तुरङ्गराजाख्यं पु- राणं धाम श्रहियग्रविमित्यर्थः। सदा गिरां प्राप्तैय मुदा अञ्च इति योजना। आराधयेत्यर्थः । अ्चेर्लोष्मध्यमैकवचनम् । अ- नयोरुदा हरणयोस्स्तव्यत्वेन प्रकृतयोश्थश्रिनिवासयो: श्रीरङ्गराज- हृयग्रीवयोश्च श्रेषः।स च प्रथमे उदाहरणे अभङ्ग: द्वितीये सभङ्ग इति ध्येयम्। एवं वक्ष्यमाणोदाहरणेषु यथासंभवं द्र- ष्टव्यम्। वक्तव्यान्तरं तूपारष्टाद्वक्ष्यते।।

Page 25

12 अलंकार मणिहारे

यथावा- प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृद- ये। सारसनाभं कलये सुदर्शनं साधुचक्ररा- जं तम् ॥ ८ ११॥ अत्र भगवतः सुदर्शनस्य च प्रकृतयोरेव श्लेषः। तथाहि, भगबत्पक्षे-प्रथिस्ने पृथुत्वाय आश्रितप्रख्यापनायेति यावत्। हितं 'चतुर्थी तदर्थ' इत्यादिना समासः। प्रथम्ना प्रख्यातत्वेन हितमिति वा। सुदर्शनपक्षे प्रथिः नेमिः तेन महितं 'नेमि- स्स्त्री स्यात्प्रथिः पुमान्' इत्यमरः। प्रोद्यन् प्रावृडारम्भे विजृम्भ- माण: घनः मेघः तस्य मित्रं सुहृत् द्योतः प्रकाशो यस्य तं प्रावृषेण्यधनाघनश्यामलमित्यर्थः । पक्षे-प्रोद्यन् उदयमानः घन- स्सान्द्रः अविकलप्रकाश इति यावत्। यः मित्र: भातु: तस्य द्योत इव द्योतो यस्य तं उद्यन्भानुनिभप्रभमित्यर्थः । 'सुदर्शनं भास्करकोटितुल्यम्' इत्युक्तेः । महायुधं महान्ति आयुधानि चक्रादीनि यस्य तम्। पक्षे-महती युत् युद्धं यस्य तं 'स- मित्याजिसमिदुधः' इत्यमरः। यद्वा-भगत्पक्ष एव महती युत यस्येति। सुदर्शनपक्षे तु महान्ति आयुधानि 'शह्ं चक्रं स- चाप परशुमसिमिषुं शूलपाशाङ्गशाग्नीन् बिभ्राणं वज्रखेटं हल- मुसलगदाकुन्तम्' इत्युक्तरीत्या बह्वायुधधारिणमित्यर्थः। सारसं पझ्मं नाभौ यस्य तम्। गड्ढादेरकृतिगणत्वात्सप्तम्याः परनि- पातः। भगवत्पक्षे इदं विशेष्यम्। पक्षे-अरैः परितोऽर्पिताभि- इशलाकाभिस्सह वर्तत इति सार: 'स्फुरत्सहस्रारशिखातिती- व्रम्' इत्यायुक्ते: 'अरं शीघ्रे च चक्राङ़गे' इति मेदिनी। नाभ्या मध्यरन्ध्रेण सह वर्तत इति सनाभ: 'अच्प्रत्यन्वव' इत्यत्र

Page 26

श्लेषसरः (२८) 13

अजिति योगविभागादच् । उभयत्र सहपूर्वपदबहुव्रीहिः। सा- रश्चासौ सनाभश्चेति विशेषणोभयपदकर्मधारयः। तं तथोक्तम्। सुदर्शनं कल्याणालोकनम्। साधूनां सतां चक्रस्य वृन्दस्य राजा तं तथोक्तं सारसनाभं कलये इति भगवत्पक्षे योजना। सुदर्शनपक्षे तु-चक्रराजं चक्राणां राजानं सुदर्शन तन्नामानं भगद्दिव्यायुधं,इद- मेव विशेष्यम्। साधु यथा स्यात्तथा कलये इति योजना। सुद- शनशब्द: पुंस्यप्यनुशिष्टः 'सुदर्शनोऽस्त्रियां चक्र' इति नामाने- धाने। 'सुदर्शनो हरेश्चके मेरुजम्वूद्रुमे पुमान्, अथ सुदर्शनः। विष्णोश्चके' इति मेदिन्यभिधानचिन्तामण्योस्तु पुंस्येव। तेन 'नामलिङ्गानुशासने 'चक्रं सुदर्शनम्' इति कीबतया पाठस- न्व्ावेऽपि न विरोधः । वस्तुतस्तु तत्रापि पुंलिङ्गपाठ पवाद्द- तोऽमरसुधादौ । प्रयुक्तश्च माधेन-'बन्धुरेष जगतां सुदर्शनः' इति। यद्यप्यत्र प्रथिमहितमित्यादिविशेषणविशिष्टस्य सुदर्श- नमित्यस्य द्वितीयैकवचनान्ततया तत्र पुंनपुंसकयोरकरूप्यान्र पुंलिङ्गतोपपत्तिरपेक्षिता। तथाऽपि महायुधमिति विशेषणे म. हती युत् यस्येति विग्रहे तयोः रूपभेदोऽवश्यंभावीत्यपेक्षितैव सा प्रदर्शितेति विभावनीयम्॥

यथावा- हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनु- जदर्पः । पश्चजनाधारोऽव्याद्गगवान् राजन्महादरः कोऽपि ॥ ८२० ॥ अत्र भगत्पाञ्चजन्ययोः प्रस्तुतयोरेव श्लेषः। तथाहि-ह- रिमुखा इन्द्राद्याः ये मरुतः देवाः 'मरुतौ पवनामरौ' इत्य

Page 27

14 अलंकारमणिहारे

मरः । तेषां अभितः संस्तवात् समीचीनस्तुतेः भवः जातः यो निनद: तेन ध्वस्तः दनुतनुजदर्पः दानवगर्वः यस्य स तथोक्त। पक्षे-हरे: भगवतः मुखमरुंतः वदनानिलस्य अभि- संस्तव: अभितः परिचयः 'संस्तवस्स्यात्परिचयः' इत्यनुशा- सनात् । तन्भवेन निनदेन ध्वस्तदनुतनुजदर्पः । ऊक्तोऽर्थः। अनेन 'विष्णार्मुखात्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता' इत्येतत्प्रत्यभिज्ञाप्यते । पञ्चजनानां मनुजानां 'स्युः पुमासः पश्चजना:' इत्यमरः । पश्चभिर्भूतैर्जन्यन्त इति पञ्चजनाः 'जनी प्रादुर्भावे' घज्। 'जनिवध्योश्च' इति न वृद्धिः। आधार: आश्रयः। यद्वा-पश्चजनानां इन्द्रियाणां आधार: आश्रयः 'य- स्मिन् पश्च पञ्चजना आकाशश्च प्रतिष्ठितः इति श्रुतेः । पक्षे पञ्चजनो नाम दैत्य: स आधारो यस्य सः तदाधारत्वादेवा- स्य पाश्चजन्यशब्दवाच्यता। यथोक्तं श्रीमति भागवते-

नाहार्षे तमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचर: कृष्ण शहरूपधरोऽसुरः॥ इत्युपकरम्य, तद्ङ्गप्रभवं शङ्गमादाय रथमाविशत्।

इति। अत एव हि 'गम्भरिञ्जथः' इति सूत्रस्थात् 'बहि' रदेवपश्चजनेभ्यश्चेति वक्तव्यम्' इति वार्तिकात् भवार्थे जयेन निष्पादित: पाश्चजन्यशब्दो भाष्यकृता। राजन् प्रकाशमान: महान् आदरो यस्य सः। कोऽापे 'यतो वाचो निवर्तन्ते' इति श्रुतमहामहिमा। भगवान् अव्यात्। पक्षे-भगवानिति वि- शेषणम्। कोऽपि लोकविलक्षणः राजत् महः तेजः यस्य स 4 राजन्महाः दरः शङ्: अव्यात् इति॥

Page 28

श्लेषसरः (२८) 15

यथा वा- रुचिराङ्गदां भुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्- सिताम्। विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ८ २१॥ अत्र स्तोतव्यत्वेन प्रस्तुतयोर्लक्ष्मीगदयो: श्ेषः। तथाहि- भुजङ्गमपुङ्गवगिरिपते श्रीनिवासस्य करग्रहेण पाणिग्रहेण परि- णयेनेत्यर्थः । पक्षे हस्तादानेन उल्लसितां उल्लासशालिनीं भास- मानां च। विधोर्भावः विधुता तया चन्द्रतया लसन् अनु- जातः अनुजन्मा यस्यास्तां चन्द्रसोदरामित्यर्थः । पक्षे विघुताः निर्धूताः अत एव अलसाः मन्दाः दनुजाताः दानवाः यया तां तथोक्ताम्। रुचिरे अङ्गदे केयूरे यस्यास्तां श्रियं लक्ष्मीं साधु पुष्कलाङ्गं यथा स्यात्तथा शरणं उपायं- उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम्। वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥ इत्यहिर्बुभ्नयसंहितोक्तेः । आश्रये भगवच्चरणारविन्दशरणवरण- पुरुषकारत्वेन प्रपन्नोऽस्मीत्यर्थः । पक्षे-साधुश्रियमित्येतत्समस्तं गदाविशेषणम्। साध्वी श्रीर्यस्यास्तां रुचिरामिति व्यस्तं प- दम। रमणीयां गदां कौमोदकीं, अस्मिन् पक्षे 'वा पदान्तस्य' इत्यनुस्वारस्य वैकल्पिक: परसवर्णः । शरणं श्रये इति॥ यथा वा-

ङ्गम्। ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशया- कलितम् ॥ ८२२॥

Page 29

16 अलंकारमणिहारे

अत्र भगवन्नन्दकयोः प्रकृतयोश्श्लेषः। भगवत्पक्षे-सन्न- न्दकं असितोज्जवलं ओजः श्रीमत् सरूपधेयाङ्गं इति पश्चप- दानि। श्रीमत् लक्ष्मीनित्ययोगवत्। रूपमेव रूपधेयं 'भाग- रूपनामभ्यो धेयः' इति स्वार्थिको धेयप्रत्ययः। तेन सह व- तत इति सरूपधेयं दिव्यरूपमित्यर्थः । तादशं अङ्गं विग्रहः यस्य तत्तथोक्तम्। बले: तन्नाम्नः दैत्यस्य ध्वंसने ऐन्द्रपडा- अमंशने दक्षिणा दक्षा 'दक्षिणस्तु परच्छन्दानुवर्तिनि। दक्षेऽ पसव्ये सरळे' इत्यभिधानचिन्तामणिः। महती आशा तृष्णा तया कलितम्। असितं च तत् उज्ज्वलं च असितोज्ज्वलम्। सतां नन्दकं सन्नन्दकं आनन्ददमित्यर्थः । ओजः इद विशेष्यं 'तं देवा ज्योतिषां ज्योतिः' इति श्रुतं परं ब्रह्मेत्यर्थः। ध्या- याम इति। नन्दकपक्षे तु-सन्नन्दकं असितोज्जवलं ओजशश्री- मत् त्सरूपधेयाङ्गं इति पदचतुष्टयम्। ओजसः श्रीः संपत् अ स्यास्तीत्योजशश्रीमत्। त्सरौ मुष्टौ उपधेयं निधेयं अङ्गं यस्य तं तथोक्तम्। प्राथमिकपक्षे श्रीमत्सरु इत्यत्र तकारस्य 'अ- नचि च' इति द्वित्वम्। 'त्सरु: खड़ादिमुष्ौ स्यात्' इत्य- मर:। खड़स्य त्सर्वाधारकत्वात्तथोक्तिः। बलिनां दैत्यानां ध्वं. सनः ध्वंसकः भगवान् तस्य दक्षिण: वामेतरः यो महान् श. यः पाणिः तेन आकलितं दैत्यादिदक्षिणपाणिपरिगृहीतमित्यर्थः। असेर्भावः असिता तया उज्जवलम्। संश्चासी नन्दकश्च स- ननन्दक: तं, इदं विशेष्यम्। नन्दका्यं खड़ं ध्यायाम इति॥

यथा वा- समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि। वस्तु महाशाङ्ग चिरमस्तु मम श्रेयसे किमपि॥

Page 30

शलेषसरः (२८) 17

अत्र शार्ड्गिशार्ङ्गयो: प्रकृतयोरेव श्षेषः। तथाहि-समुप- नतेषु शरणागतेषु प्रवणं अधीनमिति यावत् । विधूनिता नि- रस्ता ज्यानि: ग्लानि: येन तत् इति व्यस्तं पदम्। प्रशमि- तनिखिललाकम्लानीत्यर्थः । घृष्टाः पिष्टाः परेषां अरीणां कोट- यो येन तत् ध्वंसितानन्तविपक्षमित्यर्थः । महत् शार्ङ्ग यस्य तत् इति भगवत्पक्षे। शार्ङ्गपक्षे तु-समुपनताः संहिता: इषवः सायका: य्मिस्तत्। तत्र हेतुः प्रवणमिति। नम्रमित्यर्थः । त- त्रापि हेतुमाह-विधूनितेति। विधूनिता कम्मिता या ज्या मौ- र्वी तया निधृष्ठा घटितेति यावत्। परा तदाश्रयकोस्यपेक्षया अन्या कोटि: अंग्रं यस्य तत्। महच्च तत् शार्ङ्ग च। किमपि वस्तु भगवद्रपं तञ्चापरूपं च वस्तु चिरंमम श्रेयसे अस्तु । इयं 'प्रथिमहितम्' इत्यादिपञ्चश्लोकी ममैव श्िष्टपञ्चायुधीयस्तुतौ निबद्धा॥

यथा वा- अधिरूढसुगुणकोटि क्षिप्म हाप त्रिभुवनविख्या तम्। अच्युतशुभकरधामप्रेङ्गच्छाङ़क महामहो जयतात् ॥ ८२४ ॥ अत्रापि शार्ङ्टिशार्ङ्गयोरेव प्रकृतयोश्श्लेपः। तथाहि -अधकं रूढा: प्रादुर्भूताः प्रकाशमाना इत्यर्थः। सुगुणानां कल्याणगुणानां कोटयो यस्य तत्तथोक्तम्। पक्षे-अधिरूढः आरूढः सुगुणः शोभना मौर्वी यस्यां सा तथोक्ता कोटि: अटनिः यस्य तदिति बडुव्रीहिगर्भबहुव्रीहिः। अधिज्याटनीत्यर्थः। क्षिप्ाः निरस्ताः महत्यः आपद: जगद्विपदः येन तत् क्षिप्तमहापत्। त्रिभुवने विख्यातम्। पक्षे-क्षिप्ताः प्रेरिताः महान्तः पत्रिणो बाणाः येन तत् क्षिप्त- ALANKARA II 3

Page 31

2 18 अलंकार मणिहारे महापत्रि। भुवनेषु विख्यातम्। अच्युतं शुभकरं च धाम तेजः प्रभावो वा यस्य तत्तथोक्तम्। प्रेङ्वत् प्रोच्चलत् शा्ङ्ग यस्य तत्त- थोक्तम्। महामहः दिव्यं तेजः 'अथ यदतः परो दिवो ज्योतिः' इति श्रुतं परं ब्रह्म । इदं विशेष्यम । पक्षे - अच्युतस्य भगवतः शुभ: कल्याण: यः कर: हस्तः स एव धाम स्थानं तस्मिन प्रेङ्वत् महत् महो यस्य तत्तथोक्तं शार्ङ्ग; इदं कर्तृ, जयतात्।

यथावा- स जयतु सरसिजनयनस्सनातनीं गां सुरा- रिणाऽपहताम्। उद्धर्तुमाविरासीन्महावराहस्त्वरा- न्वितो यः प्राकू ॥ ८२५॥ अत्र स्तव्यत्वेन प्रस्तुतयोमंहावराहश्रीहृयग्रीवयोः श्ेषः। तथाहि-सुरारिणा हिरण्याक्षेण। पक्षे मधुनान्ना कैटभद्विती- येन दैत्येन अपहतां सनातनीं गां भुवं श्रुतिरूपां वाचं च। उद्धर्तुं यः प्राक त्वरान्वितः ससंम्रमः महावराहस्सन् । पक्षे महावराहः तु अरान्वित इति छेदः । तुशब्दोऽवधारणे। उ- द्धर्तुमित्यत्रान्वेतव्यः। उद्धर्तुमेवेत्यर्थः । अरान्वितः रेफानन्वितः महावराह: महावाहः हयग्रोवस्सन्नित्यर्थः। महावराहशब्दे रेफ- रूपव्यञ्जनमात्रोत्सारणे अवशिष्टस्य आकारस्य वकारोत्तराका रस्य च सवर्णदीर्घे महावाह इति निष्पत्तेरेवि भावः । आ- विरासीत्। सः सरसिजनयनः जयतु। सरसिजनयन इत्यनेन 'महावराहस्फुटपझ्मलोचनः' इत्येतत्प्रत्यभिज्ञाप्यते॥ यथावा- वरमनघतरमधीशः पुराददे हन्त यस्सदामो-

Page 32

श्लेषसरः (२८) 19

दरतः । हृदयेद्वितीयवर्णो गुहाशयो वसतु मे स मुचुकुन्दोजयम् ॥ ८२६ ॥ अत्र प्रस्तुतयोर्मुचुकुन्दमुकुन्दयोश्श्लेषः। सः मान्धातृतन- यतया सैनापत्येन देवपरित्रातृतया व प्रथितः यः अधीशः अधिराजः सार्वभौमा मुचुकुन्द इत्यर्थः। पुरा कालयवनविद्रा- वणावसरे। दामोदरतः आद्यादित्वात्पञ्चम्यास्तसिः । भगवतः श्रीकृष्णात् अनघतरं वरं आददे स्वीकृतवान्। गुहाशयः गि- रिगह्रशायी द्वितीयो वर्णों यस्य सः द्वितीयवर्णः क्षत्रवर्ण- जन्मा सोयं मुचुकुन्दः। पक्ष-सदामोदरत इति समस्तं पदं प्रथमैकवचनान्तम्। सतां आमोदे प्रहर्षणे रतः आसक्तः यः भगवान्। पुरा अधशिः। अधाट्गिब्दोऽयं षष्ठेयकवचनान्तः । अधिराजस्य तस्यैव मुचुकुन्दस्येत्यर्थः। संबन्धसामान्ये षष्ठी। अनघतरं वर ददे इति छेदः। दत्तवान्। गुहाशयः सक- लचेतनहृदयगुहानिविष्टः 'गुहाहितं गह्यरेष्ठं' इत्यादिश्रुतेः । अद्वितीयवर्ण इति छेदः । सोडयं अद्वितीयवर्णः द्वितीयवर्ण- रदित: मुचुकुन्द: मुकुन्द इत्यर्थः१ शब्दार्थयोस्तादात्मयात्। मे मम हृदये वसतु ध्यानपथाध्वनीनो भवत्वित्यर्थः। मुचुकु- न्दस्याप्रकृतत्वाभिसन्धौ त्विदं प्रकृताप्रकृतश्लेषस्योदाहरणं भ- विष्यतीत्यनुसन्घेयम्॥ यथावा- प्राग्भवपावकविद्धं जहतो ब्रह्माणमप्यभद्रम- मी। गोविन्द नन्दनन्दनजयन्त्युपात्तव्रताः प्रिय- तमास्ते ॥ ८२७॥

Page 33

20 अलंकारमणिहारे

च प्रस्तुतानामेव श्षेषः । तथाहि-हे नन्दनंदन ! गोविन्द ! इदं वक्ष्यमाणार्थोपस्काराय। भवपावकेन संसारानलेन विद्धं बाधितं अत एव अभद्रं अमङ्गळं ब्रह्माणं चतुर्मुखमपि प्राक् पुरस्तात् जहतः ध्यानानुपकारकत्वात्त्यजन्तः । चतुर्मुखस्यैवादी त्यागे त- तेाऽप्यवरदैवतत्यागः किंपुनर्न्यायसिद्धः। यद्वा-प्राक्छन्दो भव- शब्दवशेषणतया समस्तः। प्राग्भवः अनादिसंसार: पावक इव तेन विद्धं, अन्यत्तुल्यम्। अत्र- आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः। प्राणिनः कर्मजनितसंसारवशवार्तिनः॥ अविद्यान्तर्गतास्सर्वें ते हि संसारगोचराः । यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः ॥ इति, 'आविरिश्नादमङ्गळम्' इत्यादिप्रमाणानि चानुसंहितानि। अमी उपात्तव्रताः उपात्त व्रतं- स त्वं प्रहर वा मा वा माये वज्रं पुरन्दर। नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥ इत्यादिकमम्बरीषोक्तप्रकारकं वतं यैस्ते 'नियमो व्रतमस्त्री त. च्चोपवासादिपुण्यकम्' इत्यमरः। उदाहृतप्रमाणाभिसंधिनैव मूले गोविन्देति संबोधनम्। इदमेव पीताम्बरसागराम्बरादि- वद्विशेष्यम्। सूत्रितं हि वामनेन-'विशेषणप्रयोगो विशेष्य- प्रतिपत्ती' इति। ते तव प्रियतमास्सन्तो जयन्ति। प्रियतमा इत्यनेन 'यमेवैष वृणुते' इति श्रुत्युक्तपरमात्मवरणीयताहोतू- क्तिः 'प्रियतम एव हि वरणायो भवति यस्यायं निरतिश- यीप्रयस्स पवास्य प्रियतमो भवति' इति हि लघुसिद्धान्ते

Page 34

श्लेषसर: (२८) 21

प्रकृतश्रुतिभाष्यम्। अन्यत्र ्रह्माणं रोहिणीनक्षत्रं 'रोहिणीनक्षत्रं प्रजापतिर्देवता' इति रोहिण्याः प्रजापतिदेवताकत्वश्रवणात्, 'विधाता रोहिणीश्वरः' इति स्मरणाच्च। अभद्रमपि भद्रा स- समी 'नन्दा भद्रा जया रिक्ता पूर्णा स्युस्तिथयः क्रमात्' इति प्रतिपदादीनां पञ्चपञ्चानां तिथीनां क्रमेण संज्ञाविधानात्। अविद्यमाना भद्रा यस्य तं सप्तम्यविद्धमपत्यिर्थः । इदमपरि- त्यागकारणम्। प्राग्भवपावकविद्ध प्राग्भवेन पूर्वस्थितेन पावकेन कृात्तका नक्षत्रेण 'कृत्तिकानक्षत्रमग्निर्देवता' इति तस्याग्निदेवता- कत्वश्रवणात्। 'आग्रेयी कृत्तिका प्रोक्ता' इत्युक्तेश्र। विद्धं वेधं प्रापितं, इदमग्राह्यताहेतुः।जहतः त्यजन्तः। जयन्ती द्विविधा प्रोक्ता शुद्धा विद्धेति संज्षिता। शुद्धा तु द्विविधा प्रोक्ता विद्धा चैव चतुर्विधा॥ तस्मात्सर्वप्रयतेन सप्तमीं कृत्तिकामपि। कलामात्रामपि त्यक्त्वा परतो व्रतमाचरेत्॥ इत्यादिवचनैः सप्तम्या अष्टमीरोहिण्योः कृत्तिकाया अष्टमीरो- हिण्योश्चेत्येवरूपचतुर्विधवेधस्य त्याज्यताया आकरेषु निर्णीत- त्वात्। अमी जयन्त्युपात्तव्रता इति समस्तं पदम् । जय- न्त्याम् श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप। रोहिणी यदि लभ्येत सा जयन्तीति कीर्तिता॥ प्राजापत्यं मुहर्तार्ध नवम्यां यदि वान वा। मृगेण केवलेनापि सा जयन्तीति कीर्तिता। इत्यादयुक्तलक्षणायां तिथी उपात्तं गृहतिं व्रतं उपवासादिनि- यमो यैस्ते तथोक्ताः जनाः त प्रियतमाः उपपादितचतुर्विधवे- धबिधुरजयन्तीव्रतविघातारस्तवातिवेलप्रिया भवन्तीत्यर्थः। अत्र-

Page 35

22 अलंकारमाणिहारे

शुद्धाष्टमीं विना वाऽपि शुद्धमृक्षमथापि वा। मृगेण च नवम्यां वा दशम्यां वाऽपि वैष्णवः।। पूर्वे तु सप्तमीयुक्ता त्वपरे कृत्तिका युता। दिनद्वयं परित्यज्य तदन्ये वासरे चरेत्। इत्यादिवचनसहस्रमनुसन्धेयम्। एवं केवलप्रकृतानेकविषयः श्े- ष उदाहत: ॥

अप्रकृतानेकविषयो यथा- सुमहाबिलविलसत्तमविशद्गुणा सन्ततोत्त- मस्फुरणा। तारावळी वृषाचलधौरेयनखाळिकृत- तिरस्करणा ॥ ८२८॥ सुमहाः शोभनदीप्तिः बिलेषु रन्ध्रेषु विलसत्तमः विशद: स्वच्छः गुण. तन्तुः यस्यास्सा। अन्यत्र सुष्ठु महाबिले व्यो- स्वि "मेधद्वारं महाबिलम्' इत्यमरशेषः। विलसत्तमः अति- मात्रं प्रकाशमान: विशद्गुण: धावळ्यं यस्यास्सा तथोक्ता। संतंत उत्तमं स्फुरणं चाकचक्यं यस्यास्सा तथोक्ता । इतर- त्र उत्कृष्टं तमसि स्फुरणं प्रकाशो यस्यास्सा। तमस्स्फुरणे- त्यत्र तमश्शब्दविसर्गस्य 'खर्परे शरि वा विसर्गलोपः' इति लोपे पक्षद्वयेSपि वर्णानुपूर्व्यास्साम्यं वेदितव्यम्। तारावळी मुक्ताहार: नक्षत्रपङ्गिश्च। तारोवानरभिन्मुक्ताविशुद्धौ शुद्धमौक्तिके। नानक्षत्रेऽरक्षिमध्ये च न नारूप्ये नपुंसकम् ॥ इत्युभयत्रापि मेदिनी। अन्यत्सुगमम्। अत्र भगवन्नखावळया उपमानत्वेनाप्रकृतयोर्मुक्ताहारतारकावळ्योश्श्लेषः ।।

Page 36

लेषसरः (२८) 23

यथा वा

च्चापम्। व्यजयत यः किल स पुमान्विजयाय मपास्तु भुजगगिरिनेता ।। ८२१।। दिवि व्योम्नि युक्तस्थिति युक्ता वर्षकरणकजगदानन्दना नुरूपा स्थिति: अवस्थानं यस्य तम्। तत्र हेतुमाह-उच्च्ेति। उञ्चा: निर्भरा: आपः यस्य तम्। 'ऋकपूरप' इत्यादिना स- मासान्तोऽप्रत्ययः । प्रावृषेण्यमिति भावः । मुदिरं जीमूतं 'घन- जीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरः। उज्जवलस्य विग्रहस्य दिव्यवपुष: धास्नैव तेजसव यः व्यजयत। पक्षे उच्चापं उद्ध तधन्वानम्। दिवियुक्तस्थिति दिना दिवर्णेन वियुक्ता विघटिता स्थितिः यस्य तं मुदिरं मुरमित्यर्थः। मुदिरशब्दे दिवर्णलोपे मुर इति निष्पत्तेः। शब्दार्थयोस्तादात्म्यमिह शरणम। विश्र- हधास्ना समरप्रभावेण व्यजयत तिरस्कुरुते स्म । इहाप्रकृत- योर्मुदिरमुरयो: श्ेष:।। यथावा- त्वदवेक्षणतोमर्त्यः प्रसाधितस्वस्थिरस्सुधा- न्यादः। अखिलाम्ब दानवारात्याख्यातो विन्दते बुधेड्यत्वम् ॥८३०। हे अखिलाम्ब! मर्त्यः मानवः । अमर्त्य इति च छेदः। देव इत्यर्थः । त्वदवेक्षणतः त्वत्कटाक्षात् प्रसावितस्वस्थिर: प्र- साधिते प्रकर्षेण वशीकृते स्वंधनं स्थिरा भूश्च येन स तथो. क्तः। अमर्त्यपक्षे-प्रसाधितस्वः प्रसाधितं अलंकृतं स्वः स्वर्गो

Page 37

24 अलंकारमणिहारै

येन स तथोक्तः। रेफान्ताव्ययोत्तरपदो बहुव्रीहिः। स्थिर: चिरका- लावस्थायी। शोभनानि च तानि धान्यनि च सुधान्यानि तान्य- त्तीति सुधान्याद: सुमृष्टव्रीहितण्डलाद्यन्नभोजीति यावत्। अन्यत्र सुधा अमृतं न्याद: आहार: यस्य स तथोक्तः 'नौणच' इत्य- देर्निपूर्वकात् णप्रत्ययः। 'जेमनं लेप आहारो निघसी न्याद इत्यपि' इत्यमरः। दानवारा दानोदकेन अत्याख्यातः अतिशयेन समन्तात्प्रथितः अत एव बुधेड्यत्वं विन्दते। महोदारसार्वभौ- मतया विद्वदभिनन्दनीयतां लभत इति भावः। इतरत्र दानवा- रातिः वृत्रमुखदैत्यध्वंसीति आख्यातः प्रसिद्धया, आद्यादित्वा- त्तृतीयायास्तसिः। आख्यात इति प्रथमान्तं वा पदम्। बुधैः देवैः ईं्चत्वं विन्दते देवाधिराजत्वं भजत इत्यर्थः । अत्र जग- जननीकटाक्षितयोर्मैर्त्या मर्त्ययोरप्रकृतयोश्श्लेषः॥ यथावा- कलितो भगवन् भवता मित्राणामधिभुवाञ्छि- तो विभवः। दानान्विता विरचिता वदान्यताSपि च पृदाकुशिखरिमणे॥८ ३१॥ हे भगवन्! भवता अधिभु ुवि विभक्तचर्थेऽ्व्ययीभावः। मित्राणां सुहृदां वाञ्छितः काड्ितः विभवः कलितः कृतः। दानेन वितरणेन अन्विता वदान्यता वल्गुवचनताऽपि च 'वदा- न्यो वल्गुवागपि' इत्यमरः। विरचिता 'दत्वा च मधुरं वदेत्' इति हि धर्मविदः। सुहृदस्त्वया विभववन्तस्तदनुगुणदानप्रियव- चनाश्च कृता इति निर्गळितोऽर्थः । पक्षे-अमित्राणामिति छेदः। वैरिणां अधिभुवां प्रभूणां 'अधिभूनायको नता' इत्यमरः । वि- भवः कलितः युद्धेन, आद्यादित्वात्तसिः।'संप्रहाराभिसंपातक-

Page 38

शलेषसरः (२८) 25

लिसंस्फोटसंयुगाः' इति युद्धपर्यायेष्वमरः। छितः छिन्नः छायते स्मेतिच्छितः 'छो छेदने' इति दैवादिकाद्ातोः कर्माण क्तः 'शाच्छोऽन्यतरस्थाम्' इति वैकल्पिकमित्वम्। 'कृतं दातं दितं छितं वृक्णम्' इत्यमरः। अपिच दानान्विता दा इति वर्णेन नान्विता अयुक्ता विरहितेत्यर्थः। नशव्देन समासः। वदान्यता वन्यतेत्यर्थः । विरचिता। वैरिणो न केवलमपचितविभवा एव कृता:, किंतु वन्यवृत्तयोऽपीत्यभिप्रायः । अत्र भगवद्यियोर्म- त्रामित्रयोरप्रस्तुतयोश्श्ेषः । द्वयोरपि प्रस्तुतत्वाभिसन्धौ प्रकृ- तानेकविषयश्लेपस्यैवोदाहरणं भवेत्। एवं पूर्वोदाहरणेऽपि द्रष्टव्यम्॥ प्रस्तुताप्रस्तुतयोर्यथा- यो वहति मशुलक्ष्माच्छायामसितां घृणिप्रती- तात्मा। वृषभागं तुङ्गमयन्नयं हरिः प्रथयते श्रियं हृद्याम्॥ ८३२।। अत्र भगवच्चन्द्रमसोः प्रस्तुताप्नस्तुतयोः श्षेपः। तथा- हि-मञ्ज मनोहर लक्ष्म श्रीवत्सचिह्नं असाधारणं शङ्चकरा- दिचिह्नं वा यस्य स तथोक्तः। अनेन परत्वं सूचचितम्। तमसः परमो धाता शहचकरगदाधरः। श्रीवत्सवक्षा नित्यश्रीरजय्यश्शाश्वतो ध्रुवः। इत्यायृक्तेः। असितां श्यामलां छायां कान्ति बहा। अयं हरि: भगवान् घृणिप्रतीतात्मा वणा अस्यास्तीति घृणी दयाघान्। व्रीह्यादित्वान्मत्वर्थीय इनिः। 'जुगुप्साकरुणे घ्ृणे' इत्यमरः । घणीति प्रतीतात्मा प्रख्यातस्वभावः । 'घणी सत्यपराक्रमः' ALANKARA II 4

Page 39

26 अलंकारमणिहारे

इत्याधुक्तेः । घृणिषु प्रतीतात्मेति वा परमकारुणिक इत्यर्थः । घृणाति विश्वासविषयस्वभाव इति वा। प्रतिपूर्वकस्य इणो विश्वासार्थकत्वात्। घृणी चासौ प्रततिात्मा चति विशेषणो- भयपदकर्मधारयो वा। अस्मिन् पक्षे प्रतीतो हृष्ट इत्यर्थः। 'ख्याते हृष्े प्रतीतः' इत्यमरः। महाद्याळुतया लीलाविभूति- स्थानुज्जीवयितुं प्रहष्टमना इति भावः। अनेन सौलभ्यहेतुभूतक्ृ- पाशालितोक्तिः। अत एव तुङ्गं वृषभागं वृषभाद्रिं अयन् प्राप्तु- वन् अनेन सौलभ्योक्तिः। श्रियं लक्ष्मीं हृद्यां वक्षस्स्था प्रथ- यते स्वस्य श्रीनिवासत्वं प्रदर्शयतीति भावः। अनेन सौल- क्येऽपि परत्वाप्रहाणं दर्शितम्। पक्षे-घृणिभिः किरणैः प्रती- तात्मा प्रख्यातस्वरूप: यः असितां नीलां मञ्जुलक्ष्माच्छायां क्ष्माया: भूमे: छाया मञ्जुला च सा क्ष्माच्छाया च तां, शशशब्दाभिलपनयिं भूप्रतिबिम्बमित्यर्थः । वहति 'लोकच्छा- यामयं लक्ष्म तवाड्गे शशसन्निभम्' इति हरिवंशोक्तेः 'तवाङ्के' इंत्यपि पाठः। 'भूच्छायमैच्छन्परे' इत्यर्वाचानाक्तेश्व। 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः। अयं हरिः च- न्द्रमा: 'हरिरयमार्काश्वाग्नीन्दुविष्ण्वन्द्रांशुशुकेषु ना' इति रत्न- माला। तुङ्गं उच्चं वृषभागं वृषस्य वृषभराशे: भागं तृतीयांश- मिति यावत्। तस्यैव तत्परमोच्चस्थानत्वार। यथोच्यते वरा- हमिहिराचार्येण- अजवृषभमृगाङ्गनाकुळीरा झषवणिजी च दिवाकरादितुङ्गा:।

नीचाः॥ इति। अयन् सन् हद्यां हृदय्रया श्रियं दीततिं प्रथयते दीप्ो भवतीत्यर्थः। यद्वा-स्वलग्नजन्मनां शुभसंपदं वितनोतीत्यर्थः।

Page 40

श्लेषसरः (२८) 27

'स्वोच्चे प्रदीप्तः' इति, 'दीप्तः पूर्ण विधत्ते शुभम्' इति च माधवीयोक्तेः॥

यथावा- गौरवितासश्रीरनवरतं हद्याहिता सुहल्लेखा। येन स वृषाचलाहितधामा देवाधिनायको जयति॥ अत्र प्रकृताप्रकृतयोर्भगवन्मघवतोइ्श्लेषः। तथाहि-येन भ- गवता हृदयं लिखतीति हल्लेखा शोभना हल्ेखा सुहल्लेखा अतिमा- त्रहृदयंगमेत्यर्थः। 'हृदयस्य हललख' इत्यादिना हृदयशब्दस्य हदा- देशः । 'हृदयग्राहि हृद्यं च हल्ेखं हृदयप्रियम्' इति रत्नकोशः। अत एव अनवरतं हृदि वक्षसि आहिता निहिता अत एव गौर- विता संजातगौरवा। तारकादिषु गौरवशब्दस्य पाठात् 'तद, स्य संजातम्' इत्यर्थे इतच्। यद्वा-गौरववती कृता गौरविता- ण्यन्ताद्गौरववच्छव्दात् निष्ठायां णाविष्ठवद्भावेन 'विन्मतोः' इति मतुपो लुक्। अत एव आस दिदीपे। 'अस दीतौ' इति धा- तोर्लिट्गथमैकवचनम्। पक्षेगौः अविता सश्रीः इति छ्वेदः। येन मघवता सश्रीः सलक्ष्मीका हृद्या हृदयप्रिया हिता पथ्या 'हित पथ्ये गते धृते' इति मेदिनी। सुहदो लेखा: देवाः यस्यां सा 'लेखा अदितिनन्दनाः' इत्यमरः । गौः घौः स्वर्ग इत्यर्थः । 'गौस्स्वर्गे च बलीवर्दे' इति मेदिनी। अनवरतं अिता रक्षिता। वृषाद्रौ अहितं न्यस्तं धाम स्थानं दिव्यमङ्गळवविग्रहो वा यस्य सः 'गृहदेहत्विट्भावा धामानि' इत्यमरः। सः देवाधिनायकः भगवान्। पक्षे-सः वृषा अचलाहितधामेति छेदः । अचलानां शैलानां आहेतं धाम तेजः प्रभावो वा यस्य सः गोत्रभिदि- त्यर्थः । देवानां अधिनायक: सः वृषा मघवा जयतीति॥

Page 41

28 अलंकारमणिहारे

यथावा-

सत्ताः । मुक्ताख्यास्सन्मणयो विलसच्छुक्तयाग- तादगानन्दाः।।८३४॥ अत्र प्रकृतानां ब्रह्मविदामप्रकृतानां मुक्ताफलानां च श्षेषः। तथाहि-कृष्णेन भगवता घनं सान्द्रं यथा स्यात्तथा अभिवितीर्ण: प्रदत्तः स्वस्मिन् स्वविषये यः अत्यमलः विजातीयरसासंवलित- तया स्वच्छः रसः अनुरागः स्नेहापरपर्यायः तत्पूर्वकानुध्यानं भक्तिरिि यावत् 'स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते' इति ह्यच्यते। तेनैव समधिगता सम्यकप्राप्ता सत्ता स्वरूपधारणं येषां ते रसैकसमाधगतसत्ता: 'ददामि वुद्धियोगं तं येन मामुप- यान्ति ते' इत्युक्तप्रक्रियया भगवद्दत्तेनोक्तविधानुध्यानेनैव स्वदे हधारणादिकं कुर्वन्त इति भावः । सन्मणयः ब्रह्मविद्ग्रेसराः मुक्ता: प्रकृतिबन्धवियुक्ताः इत्याख्या येषां त तथोक्तास्सन्तः विलसन् शुचः शोकस्य त्यागो येषां ते विलसच्छुक्तयागाः 'अपह- तपाप्मा' इति प्रजापतिवाक्ये 'विशोकः' इति श्रवणात्। तादक 'यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह' इति वाङ्गनसापरि- च्छेद्यतया श्रुतः आनन्दो येषां ते तादगानन्दाः विलसच्छुक्तया- गाश्च ते तादृगानन्दाश्चेति विशेषणोभयपदकर्मधारयः। शोकोपल- क्षितहेयगुणदवीयांसः परिपूर्णव्रह्मानुभवानन्दं विन्दन्त इत्यर्थः ॥ अन्यत्र-कृष्णघनेन नीलाम्बुदेन अभिवितीर्ण: यः स्वात्य- मलरस: स्वातीरविसंचारकालिकानिर्मलसलिलबिन्दुः- नद्यां तत्र स्वातिगेऽके शुक्तिस्था वृष्टिबिन्दवः। षाड्डिर्मासैर्घनीभूता जायन्ते शुद्धमौक्तिकाः॥

Page 42

श्लेषसरः (२८) 29

इत्युक्ते: । तेनैव समधिगता सत्ता स्वरूपस्थितिः येपां ते तथोक्ताः । अत एव मुक्ताख्या: मुक्ताभिधाना: सन्मणयः प्रश- स्तरतानि। विलसन्ती या शुक्ति: मुक्तास्फोट: तस्याः आगताः ततो जाता इत्यर्थः । हगानन्दा: हशां ईक्षितृजनलोचनानां आनन्दाः हर्षहेतवो भवन्तीति।। यथावा- मुख्यविभुसहजसङ्गावुदग्रभूमाश्रितौ च सुम- हान्तौ। हन्त विहङ्ग्भुजङ्गौ न क्वाप्यर्थे विरोधमु- पयातौ ॥८३५॥ अत्र गरुत्मदनन्तयोः प्रस्तुतयो: विहङ्गभुजङ्गशब्दयोरप्रस्तु तयोश्च श्ेषः । तथाहि-सुमहान्ती विहङ्गभुजङ्गौ गरुडानन्ता- वित्यर्थः । मुख्यविभुसहजसङ्गी मुख्ये न तु राजादिवद्गौणे विभौ स्वामिनि श्रीनिवासे सहज: स्वाभाविकः सङ्ग: शेपशेषिभाव- रूपस्संबन्धः ययोस्ती तथोक्तौ। अत एव उदग्रेण उच्छिितेन भूम्रा महहिस्ा आश्रितौ च। यद्वा-उदग्रा श्रेयसी भूः भूदेवी · यस्यास्सा तथोक्ता या मा श्रीः तां श्रितो 'द्वितीया श्रित' इत्या- दिना समासः 'विष्णुपतीं महीम्' इत्यादिश्रुती 'लक्ष्मीप्रियस- खीम्' इति भूदेव्या लक्ष्मीपियसखीत्वोक्तेरिह तद्वैशिष्टयमभि- हित श्रियः। यद्वा उदग्रे भूश्च मा चेत्येते भगवद्दिव्यमहिष्यौ श्रितावित्यर्थः। न केवलमेतौ भगवतरशेषभूतावेव अपितु तत्प्र- सादनतत्परयोस्तद्विव्यमाहैष्योरपीति भावः। क्काप्यर्थे कैंकर्यादि- रूपे कस्मिश्चिदपि प्रयोजने विरोधं नोपयातौ। कस्यचित् भगव- न्नित्येच्छाव्यवस्थितेषु तत्तत्कैंकर्यािष्वन्यस्यानुष्ठानाभिसन्धेरेनु- 4 द्यात् नित्यनिर्दोषभगवदाश्रयणप्रभावाच्चेति भावः।।

Page 43

30 अलंकारमणिहारे

पक्षे-मुख्यौ यथासंख्यं आद्यौ विश्च भुश्च विभू इत्याकारकौ वर्णौ ययोस्तौ मुख्यविभू हृश्च जश्च हजौ वर्णो ताभ्यां सह वर्तेते इति सहजौ च 'वोपसर्जनस्य' इति सहशब्दस्य सभावः। ङ्रेन ङकारगकारसंयोगेन सह वर्तेते इति सङ्गै च। पतेषां त्रयाणां विशेषणानां र्कमधारयः । मुख्यविभुसहजसङ्गौ। उदग्रभूमाश्रितौ उत् उत्कृष्टं यथा स्यात्तथा अग्रे भवतीत्यग्रभू: अवसाने विद्यमानः यः मः मकारः तेनाश्रिती। यद्वा अग्रादुद्गता उदग्रा भू: पर्यव- सानमित्यर्थः । तस्यां माश्रितौ मकाराश्रितावित्यर्थः । ईदृशौ वि- हङ्गभुजङ्गी विहङ्गभुजङ्गशब्दौ क्वापि क्वचिदपि लोके वेदे वेति भावः अर्थे अभिधेये विरोधं अन्यार्थत्वं नोपयातौ विहङ्गभुजङ्गशब्दा-

पवार्थस्याभिधानादिति भावः। अस्मिन्पक्षे सुमहान्तावित्यस्य सुमहाशब्दान्ते विद्यमानावित्यर्थोऽप्युपस्कार्यः। सुमहाविहङ्ग: सु. महाभुजङ्ग: इति शब्दावित्यर्थो निष्पद्यते। विहायसि गच्छतीति विग्रहे 'गमेस्सुपि वाच्यः' इति खचि 'विहायसो विह इति वाच्यम्' इति विहादेशे 'खच्च डिद्वा वाच्यः' इति खचो वैकल्पिके डित्वे डित्वसामर्थ्याट्टिलोपे 'अरुर्द्विषत्' इति मु मागमे विहङ्ग: विहङ्गमः इते रूपद्वयमभिन्नार्थकम्। एवं भुजै- गच्छतीति विग्रहे गमेः खचो वैकल्पिके डिच्वे टिलोपे मुमा- गमे च भुजङ्ग: भुजङ्गम इति रूपद्वयं च॥। यथावा- सामानाधिकरण्यादुत्तरपदतां गतेन ननु वि- ष्णो। महतस्त्वया समासे सत्याकारेऽस्तमेति तान्तत्वम्॥८ ३६॥

Page 44

लेषसरः (२८) 31

अत्र महनीयस्य ब्रह्मविदो महच्छन्दस्वरूपस्य च प्रकृता- प्रकृतयो: श्ेषः। तथाहि-ननु विष्णो! उत्तरं सर्वोत्तमं पदं 'तद्विष्णोः' इति श्रुत स्थानं यस्य स उत्तरपद: तस्य भावः तत्ता तां गतेन परमपदे निवसतेत्यर्थः। त्वया सामानाधिकरण्यात् एकाधिकरणकत्वात्, ल्यब्लोपे कर्मणि पञ्चमी। एकाधिकरण्यं प्राप्येत्यर्थः । समासे सम्यगवस्थाने सति संपूर्वकादासेर्घञ्। महतः महनीयस्य कस्यचिद्रह्मविदः सत्याकारे सत्य: अनारो- पितः स्वाभाविक इत्यर्थः । स चासावाकारः अपहृतपाप्मत्वादि- रूप: तस्मिन् सति प्रादुर्भवतीतति यावत्। तान्तत्वं अशनाया- पिपासादिग्लानिः अस्तं अदर्शन एति प्राप्रोति। तदतीतत्वश्र- वणात्तस्य। त्वदनुग्रहेण परमे व्योम्नि त्वया सह वसतः प्रा- दुर्भूतगुणाष्टकस्य चेतनस्याशनायादिग्लानिर्न कदाऽप्युन्मिषेदि- ति भावः। अन्यत्र हे-विष्णो! इति विष्णुशब्दस्यैव संबोधनम्। सामानाधिकरण्यात् प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वरूपात् । य- दाहु :- 'भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकास्मिन्नर्थे वृत्तिस्सा- मानाधिकरण्यम्' इति। उत्तरपदतां समासचरमावयवतां समा- नाधिकरणोत्तरपद्तामित्यर्थः । गतेन प्राप्तेन त्वया विष्णुशब्देन समासे सति महतः महच्छब्दस्य अलोऽन्त्यपरिभाषया अन्त्यस्य तकारस्येत्यर्थः । आकारे आत्वे सति भवाति सतीत्यर्थः । सत्या- कारे इत्यत्र सति आकारे इति छेदः। तान्तत्वं तकारान्तत्वं अस्तमेति न दृश्यते। आकारादेशेनापहृतत्वात् महाविष्णुरित्येव निष्पद्यते रूपं न तु महद्विष्णुरिति भावः । अत्र 'आन्महतस्स- मानाधिकरण' इति सूत्रार्थोऽनुसन्धेयः॥

Page 45

32 अलंकारमणिहारे

यथावा- त्वां विदितवान् सदासंबुद्धौ विष्णो महर्षि- विहितगुणम्। त्वयि सुप्रत्ययलोपाद्विसर्जनीयो हि भवति दूरेसः ॥८३७॥

अत्र भगवतो विष्णोः विष्णुशब्दस्य च श्रेषः । तथाहि- हे विष्णो! महांश्चासौ ऋषिर्वेद: पराशरादिर्मुनिश्च 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' इति मेदिनी। तेन विहिताः अनुशिष्टाः गुणाः सर्वकारणत्वसर्वज्ञत्वसर्वोत्तमत्वादयो यस्य तं तथोक्तम्। "स कारणं करणाधिपाधिपः । यस्सर्वज्ञस्सर्व- वित्। विष्णु: परमः,

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्। तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः। पर: पराणां सकला न यत्र केशादयस्सन्ति परावरेशे॥ समस्तकल्याणगुणात्मकोऽसौ .. n"

इत्यादिश्रुतिस्मृतिप्रख्यापितकल्याणगुणमित्यर्थः । सदा बुद्धौ मनसि विदिनवान् ज्ञातवान् आसं सन्भावभागभवम् । 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः। अ- नेवंभूतस्तु असत्त्वाद्दूरतस्त्याज्य इत्याह-त्वयीति। दूरेस इत्यत्र दूरे अस इति छेदः । स न भवतीत्यसः अतथाविधः उक्त- विधं त्वामविदितवानित्यर्थः। अत एव त्वाय विषये सुप्रत्य- यस्य शोभनस्य ज्ञानस्य महाविश्वासस्य वा लोपात् दूरे विसर्जनीयः त्याज्यो भवति। हीति प्रसिद्धौ। ईदृशस्सतां बहिष्कार्य एवेति प्रसिद्धमेवोते भावः । अन्यत्र-हे विष्णो!

Page 46

श्लेषसरः (२८) 33

विष्णुशब्द! त्वां, अस्मिन्पक्षे सदा संवुद्धौ इति छेदः । सं- वुद्धौ 'एकवचन संवुद्धिः' इति संकेतिते संवोधनप्रथमैकव- चने परत इति शेष: । महर्षणा पाणिनिना विहितः गुणः यस्य तें 'हस्वस्य गुणः' इति सूत्रेण संबुद्धी परतो गुणविधाना- दिति भावः। सदा विदितवान् आसम। त्वाय विष्णो इत्य- त्रेति भावः। सुप्रत्ययस्य सु इत्याकारकप्रत्ययस्य लोपात् 'एङ् हस्वात्सम्बुद्धेः' इते सूत्रेण संबुद्धिहलो लोपादित्यर्थः। सः सुप्प्रत्ययसकारस्य स इति षष्ठेचकवचनम्। विसर्जनीयः 'ससजुषोरुः' इति रुत्वानन्तरभावी 'खरवसानयोर्विसर्जनीयः' इति विहितो विसर्गः दूरे भवति हि। परमस्थानिनस्सकार- स्यैव लोपे कानाम तत्स्थानिकरुत्वावलम्विनी विसर्गकथेति भावः। यथावा- इह विष्वग्देवोSश्चतिपरोऽद्रिमग्रंघ श्रितो महा- देशम्। अप्रत्ययोऽपि धातुस्तदगश्चायं समन्त- तोदश्यः॥ ८३८॥ अत्र श्रीनिवासस्य प्रकृतस्य विष्वगदवशब्दयोरप्रकृतयोश्च श्ेषः । तथाहि-परो देव: वासुदेवः धातु: ब्रह्मणः अप्रत्ययो- पि अनधीनोपि। प्रत्ययः प्राथत्त्वेऽपि सनादिज्ञानयोरपि। आचारे शपथे रन्धे विश्वासाधीनहंतुषु॥ इति मेदिनी। ब्रह्मणा ध्यातुमशक्योपीत्यर्थः । धातुरप्यप्रत्यय इति वा योजना। अग्रयं श्रेषं अद्विं शेषाचलं तस्यैव प्रकृ- तत्वात् 'एष शेषाचलो नाम गिरीणामुत्तमो गिरि:' इत्यु- क्ेश्च। महादेशं पूज्यप्रदेशं शेषाचलं नाम दिव्यदेशमित्यर्थः । ALANKARA II 5

Page 47

  1. अलंकारमणिहारे

श्रितस्सन् इह अस्मिन्नद्रौ विष्वक समन्ततः अश्चति संचरति विहरतीति यावत्। तत् तस्मात् भगवद्विहरणाद्धेतोः अयं भगव- द्विहारस्थानभूतः अगश्च गिरिरपि समन्ततः परितः दृशयः द्र- षृव्यः, जनैरिति शेषः । न केवलं भगवानेव दर्शनीयः अपितु सर्वतोपि भगवत्संचरणात्पावनतमोऽयं गिरिरपि सर्वेस्सर्वतो दर्शनीय एवेत्यर्थः । पक्षे-विष्वक् विष्वगित्याकारक देवः देव इत्याकारकश्च शब्द: अश्चतिः अञ्चुधातुः परो यस् सः अश्चतिपरस्सन्। अञ्चतीति श्तिपा निर्देशः । अग्रयं अग्रे टिस्थाने भवं अदिं अद्रोत्याकारकं महान्तं अनेकाल्त्वाद्वहन्तं आदेशं श्रित प्राप्तः भवति। ननु अञ्चतिपरो विष्वक् देवश्च यद्यव्यादेशं प्राप्त- यात्तह विष्वगञ्चनं देवाञ्चनमित्यत्रापि विष्वग्देवयोरद्रयादे शस्स्यादित्यत आह-अप्रत्ययोपि धातुरिति । अस्मिन्पक्षे इहे- त्येतदत्रान्वेति। इह अञ्चतिपर इत्यत्र विद्यमान: धातुरपि अश्चु- धातुश्च अप्रत्ययः अविद्यमानः प्रत्ययो यस्मादित्यप्रत्ययः क्विबन्त इत्यर्थः । ककिपस्सर्वस्यापि लोपादविद्यमानत्वम्। यद्वा अविद्यमानः प्रत्ययः अप्रत्यय इति तत्पुरुष एव। तस्य धातुविशेषणत्वेन तदन्तलाभः अविद्यमानप्रत्ययान्तः क्विबन्त इत्यर्थः । अन्यथा वि- व्वगञ्चनमित्यादाविवाद्रयादेशानापत्तेरिति भावः। तत् तस्मात् विष्वग्देवयोष्टिस्थाने अद्रयादेशाद्धेतोः समन्ततः सम्यगन्ते वि- दयमानः अय प्रकृते विष्वकछब्दे देवशब्दे च स्थितः अग इंत्यत्र अक् अः इति छेदः। 'झलां जशोऽन्ते' इति ककारस्य जश्त्वेन गकार: यथासंख्यं विष्वक्छव्दस्थः अक् इत्याकारक- वर्णसमुदायः अश्च देवशब्दस्थः अकारश्चेत्यर्थः । अदृश्य इति छेद·। अध्ादेशेनापहृतत्वान्न दृश्यत इत्यर्थः । अत्र 'विष्वग्देव-

Page 48

शेषसरः (२८) 35

योश्च टेरद्रयश्चतावप्रत्यये' इति सूत्रार्थ उपपादितप्रकारेणानु- सन्धेयशशब्दविद्यानिष्णातैरित्यलम । यद्वा -समं ततः अदृश्य इति त्रिधा छेदः। ततः अद्यादेशादनन्तरं तत् तस्मात् अ- द्रयादेशादेव हेतोः अयं प्रकृतविष्वग्देवशद्दयोरविद्यमानः अक् अश्च उक्त पवार्थः। समं तुल्यं यथा स्यात्तथा अदृश्यः। द्यो- रप्यनयोश्शब्दयोष्टेरद्रयादेशेन अकः अस्य चापहाराददर्शनमन- योस्तुल्यमेवेति भावः। अथवा तत् उक्तादेव हेतोः ततः सार्व- विभक्तिकस्सप्तम्यास्तसिः। तयोः विष्वग्देवशब्दयोरित्यर्थः। अयं बुद्धिस्थः अक् अश्च समं तुल्यं अदृश्य इति॥ यथावा- लक्ष्म्यास्सख्यु: पत्युर्युक्तं प्रथतेघितागुणाभा- वः। इदमपि युक्तं विद्यो यद्गविताप्रत्ययस्य नाभावः ।८३१। अत्र प्रस्तुतस्य भगवतः अप्रस्तुतानां लक्ष्मीसखिपतिशब्दानां चश्षेषः । तथाहि-लक्ष्म्याः सख्यु: सुहृद्धतस्य अनेनानुराग- परिपूर्णता द्योतिता। पत्यु: भर्तुः श्रोनिवासस्य अय च श्रीपति- त्वेन निर्देश: अनुपदविवक्षिताया उभयलिङ्गतायास्तदेकाश्रयत्वं व्यञ्जयितुम् । अत एव हि 'श्रियःपतिर्निखिलह्यप्रत्यनीककल्या- णैकतानः' इत्यभाषि भगवन्भाष्यकारैः। अघमस्यास्तीत्यधी तस्य भाव: अधिता। सा चासौ गुणश्च अघितागुणः, तस्या- भावः प्रथते प्रसिद्धयतीति युक्तम् । 'स एष सर्वेभ्य पाप्मभ्य उदितः । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एका नारायण:' इत्यादिश्रवणात्। प्रत्ययस्य ज्ञानस्य उपलक्षणमिदं शक्तिबलैश्वर्यादीनामपि। न अभावः इति छेदः । अभावः न

Page 49

36 अलंकारमणिहारे भविता सत्तैव भविितेति यत्, नय्द्वयेन संभाव्यभावनिषेधो व्याव- र्तितः । इदमपि युक्ततं विझ्म. 'पराऽस्य शक्तविविधैव भ्ूयते स्वाभाविकी ज्ञानबलक्रिया च' इत्यादिश्रुतेः। ज्ञानोपलक्षितकल्या- णयुणवैघुर्यमस्य न कदाऽपि भवदिति भावः। आभ्यां पूर्वोत्तरार्था- भ्यां 'अपहृतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः' इति श्रुता अखिलहेयप्रत्यनीकता 'सत्यकामस्सत्यसंकल्पः' इति श्रुता अनन्तकल्याणगुणाकरता च क्रमेण दर्शिता ॥ अन्यत्र-लक्ष्म्या: लक्ष्मीशब्दस्य। अर्थगतस्य स्त्रीत्वस्य ..--. - . शब्दे आरोपः। सख्युः सखिशव्दस्य पत्युः पतिशब्दस्य च। घितागुणाभावः घता घिसंज्ञकत्वम्। तेन यो गुणः 'घेडिति' इति विहितो गुणः तस्य अभावः प्रथत इात युक्तम्। लक्ष्मो- शव्दस्य नदीसंज्ञकदीर्घेवर्णान्तत्वेन 'शेषो व्यसखि' इत्यनदी- - घिसंज्ञाविधायके सूत्रे अलखीति सखिशब्दस्य पर्युदस्तत्वा।। सखिशब्दस्य 'पततिस्समास एव' इति समास एव पतिशब्दस्य घिसंज्ञाया नियमतत्वेनासमस्तपतिश्दस्य च तदभावात् घिसं ज्ञाप्रयुक्तगुणाभाव: प्रसिद्ध इति युक्तम्। भविताप्रत्ययस्यत्यत्र भविता आप्रत्ययस्योते छेदः। आप्रत्ययस्य आङ्संज्ञस्य टाप्र त्ययस्य नाभावः 'आङो नास्त्रियाम' इति विहितस्य नादेश- स्याभावः भवितेति यत् इदमपि युक्तं विद्मः। लक्ष्मी-सखि-प- तिशब्दानामुक्तरा्या घिसंज्ञाया पवाभावान्न तत्कार्यनाभाव इति भावः। यद्वा आपेशब्दो गहायां, अपीदं युक्तं विद्म इति योजना। अ्मिन् पक्षे-आप्रत्ययस्य आङ: नाभावः नात्वं भवितेति यत् तत् युक्त विद्ः कि? तेषां शब्दानां घिसंज्ञाया एवाभावेन आडो नादेशो भवितेोति न युक्तं विद् इत्यर्थः ॥

Page 50

केषसरः (२८) 37

यथावा-

नीनश्च। भाति हितार्थसुखेनप्रथितोऽथात्मा प्रकृ- त्या च।८४०॥ अत्र भगवदुपासकस्य प्रकृतस्य त्वन्भोगीनादिशब्दस्याप्र- कृतस्य च श्ेषः । तथाहि हे स्वामिन्! त्वन्भोगीनः तवैव भो- गाय हितः न तु स्वस्थ, त्वन्भोगसंपादनकतानः त्वच्छेषतै- करस इति यावत्। 'परगतातिशयाधानेच्छया उपादेयत्वमेव यस्य स्वरूपं स शेष:' इति हि शेषलक्षणम्। अत एव वि- श्वजनीनः सर्वजनाय हितः आत्मनीनः आत्मने हितश्च स्वपर- हिताचरणैकवृत्तिरित्यर्थः। उक्तं च-'स्वपरहितपरं देशिकम्' इति। ईदशः आत्मा चेतनः हितार्थसुखेन हित भगवत्प्राप्त्यु- पायः अर्थः परमपुरुषार्थः हितार्थशब्द्रौ तद्ज्ञानपरी। इदं त- त्वज्ञानस्याप्युपलक्षकम। ताभ्यां यत्सुखं आनन्दः तेन प्रथि- तस्सन् भाति। अथ शरीरावसाने प्रकृत्या च आविर्भूतगु- णाष्ट्रकादिविशिष्टत्वरूपेण स्वस्वभावेन च भातीत्यनुषज्यते दी प्यते। त्वच्छेषतैकरसो विश्वजनाय स्वच्छात्रभूतायात्मने च

रावसाने चाविर्भूतस्वाभाविकापहृतपाप्मत्वादिव्राह्मगुणो नित्या- संकुचितज्ञानतया प्रकाशते मुक्तो भवतीति भावः॥ अन्यत्र-त्वन्भोगीन इति शब्द: विश्वजनीन इति शब्द: आत्मनीन इति शब्दश्च हितार्थसुखेनप्रथित इति समस्तं पदम्। हितार्थे हितरूपेऽर्थे 'तस्मै हितम्' इति सूत्रेण वि- हिते शोभनश्चासी खश्च सुखः 'आत्मन्विश्वजनभोगात्तरपदात्खः'

Page 51

38 अलंकारमणिहारे

इति विहितो यः खप्रत्ययः तस्य यः ईनः 'आयनेयीनीयियः' इत्यादिना विहित ईनादेश: तेन प्रथितस्सन् भातीति प्रत्येकं त्वन्भोगीन इत्यादिभिस्संबध्यते। त्वद्भोगीनादिशब्दत्रयस्योक्त- प्रक्रियानिष्पन्नत्वात्तथोक्तिः। अथात्मनीनशब्दे विशेषं च दर्श- यति-अथेत्यादिना। अथेति विशेषद्योतकम्। आत्मा आत्म- शब्द: प्रकृत्या च भाति 'आत्माध्वानौ खे' इति सूत्रविहितं प्रकृतिभावमापन्नः प्रकाशते। यथावस्थितस्वरूप एव भवति, न तु 'नस्तद्धिते' इति टिलोपं प्राप्नोति। खप्रत्ययश्शब्दत्रयेऽ व्यविशिष्ट एव, आत्मशब्दे तु प्रकृतिभावो विशेष इति भावः॥ यथावा- सक्तो भजति दधाति स्पष्ट हिततां फणीश- गिरिभवनः । स्वौजसि परेशताऽस्मिन्ननुमागम- तोविशेषभाग्भवति॥८४१॥ अत्र प्रस्तुतस्य भगवतः अप्रस्तुतस्य धाज्धातोः भजधातोश्च श्षेष:। तथाहि-फणीशगिरिः भवनं यस्य सः श्रीनिवासः भ- जति भक्ते जने सक्त: प्रीतिमान् 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इति गानात्। अत एव हिततां तस्मै भक्तिमते उपायोपेयभावेन हितकारितां दधाति बिभर्ति स्पषट नात्र वि- शयलेशोऽपीति भावः। स्वौजसि स्वा ओजसीतिच्छेदः ओजसि 'परं ज्योतिरुपसंपद्य' इति श्रुते दिव्यतेजोरुपे। यद्वा स्वा औजसीतिच्छेदः । आ समन्तात् ओजः प्रकाशो यस्य तस्मिन् सर्वव्यापिनिरतिशयतेजसि अस्मिन् परव्रह्माण श्रीनिवासे विद्य- माना । स्वा स्वतस्सिद्धा परश्चासावीशश्च परेशः तस्य भावः परेशता पारमैश्वर्य 'ईशस्सर्वस्य जगतः, एष सर्वेश्वरः' इत्या-

Page 52

श्लेषसरः (२८) 39

दिश्रुतेः । ननु मागमत इतिच्छेदः । मायाः श्रियः आगमतः संबन्धात् विशेषभाग्भवति ननु। भगवतश्श्रीनिवासस्य स्वाभा- विकमेवैश्वर्य परिमळादिव हेमारविन्दं श्रीसंबन्धादाम्रेडितवैभवं भवत्येवेत्यर्थः । ननुरवधारगे। उत्तरार्धेन परवं पूर्वार्धन सौ लक्यं च दशितम्। यद्ा उत्तरार्धस्यैवमर्थः-स्वं ओजः यस्य तस्मिन् स्वौजसि स्वप्रकाशस्वरूपे अस्मिन् श्रीनिवासे विद्यमाना ईशता ऐश्वर्यम्। अनुमागमत इति समस्तं पदम्। अनुमा अनु- मार्न स्मृतिः आगमः श्रुतिः तयोः अनुमागमतः 'आद्यादिभ्यः' इति सार्वविभक्तिकस्तासिः। परा दूरा 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतेः तदविषय इत्यर्थः। 'परं दूरान्यमुख्येषु परोऽरिपर- मात्मनोः' इति वैजयन्ती। यद्वा-अनुमागमतः श्रुतिस्मृतिभ्यां उक्तेत्यध्याहार: परेशता पारमैश्वर्य अविशेषभागितिच्छेदः । अविः शैल: 'अवयश्शैलमेषार्काः' इत्यमरः। स चासौ शेषश्च अवि. शेषः शैलाकारभाक् शेषः शंषाद्रिरित्यर्थः। तं भजतीति तथोक्ता भवति। परस्मिन् ब्रह्मणि विद्यमानं पारमैश्वर्य सर्वमपि शंषा- द्रावेव चकास्ति तस्यात्राविर्भावादिति भावः। अस्मिन् पक्षे उत्त- रार्धेनव क्रमेण परत्वसौलभ्योक्तिः। यद्वा-स्वीजसि स्वमहिम- प्रतिष्ठिते 'ओजो बले प्रभावे च' इत्यमरः। भूमबिद्यायां 'स- भगवः कस्मिन् प्रतिष्ठितः' इति प्रश्ने 'स्वे महिम्नि' इत्युत्तर- श्रवणात्- रुद्रं समाश्रिता देवा रुद्रो व्रह्माणमाश्रितः। ब्रह्मा मामाश्रितो राजन्नाहं कं चिदुपाश्रितः॥ ममाश्रयो न कश्चित्तु सर्वेषामाथ्रयो ह्यहम्॥ इति स्मृतेश्च। अस्मिन् भगवति अनुमागमतः श्रुतिस्मृतिभ्यां प्रतिपादितेत्यर्थः । परेशता उक्तोर्थः । शेपाः दासभूताश्चेतनाा्

Page 53

40 अलकारमणिहार

भजतीति शषेभाक् विशिष्य शेषभाक् विशेषभाक् सा न भवतीत्यविशेषभाक् भवति। परस्मिन् ब्रह्मणि तस्मिन् श्रुति- स्मृतिभ्यामुद्धोषितं सर्वशेषित्वं तच्छेषभूतेषु ब्रह्मरुद्रादिषु नित्यसि- द्धेष्वनन्तगरुडादिषु वा न संभवतीति भावः। यद्वा न नु मा आगमतः इतिच्छेदः। परा श्रेष्ठा ईशता ऐश्वर्य यस्यास्सा परे- शता। मा श्रीः। स्वौजसि उक्तोरऽर्थः । अस्मिन् भगवति आगमतः पञ्चरात्रागमोक्तरीत्या नित्यसंबन्धाद्वा विशेषभाक् भेदभाक् न भवति नु किंतु तादात्म्यापन्नैव भवतीति भावः । 'विशेषोऽवयवे व्यक्तौ तिलकेऽत्यन्तभेदके' इति रत्नमाला। नन्वित्येकमेव पदं वा। अविशेषभाग्भवतीत्येवच्छेदः । तादात्म्यापन्नैव भवतीत्यर्थः॥ अन्योन्येनाविनाभावादन्योन्येन समन्वयात्। तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥ इति लक्ष्मीतन्त्रोक्ते:, तदन्तर्भावात्वां न पृथगभिधत्ते श्रुतिरपि। इत्यभियुक्तोक्तेश्च। अथवा-परेशता मा स्वौजसि। अस्मिन् उक्त एवार्थः । आगमतः 'हीश्च ते लक्ष्मीश्च पत्नयौ, सुमज्ानये'। इत्यादिश्रुत्युक्तरीत्या विशेषभाक् विशेषो विशेषणत्वं व्यावर्त- कत्वं, विपूर्वकात् शिषर्भावे घञ। त भजतीति तथोक्ता भवति ननु। स्वरूपनिरूपकतया भगवति विशेषणत्वमुपेयुषी जगत्का- रणत्वेन शङ्कितेभ्यश्चतुराननादिभ्यस्तस्य व्यावृत्ति संपादयतीति भावः। यद्ा-स्वौजसि अस्मिन् सति परेषां चतुर्मुखादीनां ईशता आगमत शास्त्रात् विशेषभाक् उत्कर्षभाक् मा भवति नदु। जागरूके भगवतः पारमैश्वर्ये अन्येषामैश्वर्य शास्त्रद्ष्टया कथमु- त्कर्षमाप्नयादिनि भावः। माशब्दो निषेधार्थकः। 'माऽ्व्ययं प्रति पेधे स्यात्, मा निषेधेऽव्ययं मतम्' इति रत्नमालाविश्वौ॥

Page 54

ल्लेषसरः (२८) 41

धातुपक्षे-फणीशगिरि पतञ्जलिवाचति महाभाष्ये भवनः सत्तां लभमान: भवतेर्नन्द्यादित्वात्कर्तरि ल्युः वाहुलकालुडा कतारे। व्याकरणे पठित इति यावत्। दधातिस्पष्टमित्यत्र दधाति- रिति छेदः । 'शर्परे खरि वा विसर्गलोपः' इति पाक्षिको विसर्गलोपः। दधातिः धाय्धातु: शतिपा निर्देशोऽयम्। क्तेन क्तप्रत्ययेन सह वर्तत इति सक्तस्सन् स्पष हिततां हित इति रूपं भजति प्राप्नोति। धाञः क्तप्रत्यये 'दधातेहिः' इति ह्यादे- शविधानादिति भावः । अस्मिन् धाञधातावेव शता लटो विहितरशत्रादेशः स्वौजसि सुश्च औध्च जश्चत्येतेपां समा- हार: स्वौजस् तस्मिन् परे परतो विद्यमाने साते। न नुमाग- मत इति छेदः। तुमागमतः 'उगिदचां सर्वनामस्थानेऽधातोः इति विहितात्रुमागमात् विशेषभाक् नकारसाहित्येन वैलक्षण्यभाक् न भवति। 'नाभ्यस्ताच्छतुः' इति तस्य नुस्निषेधादिति भावः। यद्वा-फणीशगिरिभवेति संबुद्धचन्तं पदम्। न इत पृथ- कपदम्। फगीशगिरि पातञ्जलभाष्ये विषये जात ! 'गोषु प्रसू- त' इत्यादी गा एवानुभवितुं जातेतिवत् महाभाष्यमेवाध्येतुं प्रसुतेति कंचिच्छात्रं प्रते केनचिच्छाव्दिकेनाचार्येण कृतं सं बोधनम् । भजति भजच्छब्दे सक्त: संबद्धः शता शत्रादेशः स्वौजास परे सति नः नुमागमसंबन्धिनकारस्य हितता अ नुकूलतां दधाति धत्ते 'उगेदचाम्' इत्यादिना नुमागमविधा- नादिति भावः । उत्तरार्वे-न नुम् आगमत इति पदत्रयम्। अस्मिन् पूर्वोक्ते शतरि नुम् नुमागमः आगमतः आ इत्याका रकवर्णस्य आगमतः गमतो वा। यथासंभवं सुप्रत्यये परे 'अत्वसन्तस्य चाधातोः' इति विहितदोर्घसंबन्धादित्यर्थः । वि- शेषभाक् वैलक्षण्यभाक् न भवति। शत्रन्तस्य अदन्ततया ALANKARA II 6

Page 55

42 अलंकारमणिहारे

अत्वन्तत्वाभावादुक्तदीर्घाप्राप्तरिति भावः। अत एव हि भव- न्नित्यत्र 'शत्रन्तस्य तु अत्वन्तत्वाभावान्न दीर्घः' इति कौमु- दीग्रन्थः । यद्वा-न नु मागमत इति छेदः। अस्मिन् प्रकृते भजच्छब्दे विद्यमानः शतेत्यनुषज्यते । शता शतृप्रत्ययः मा- गमतः मुगागमसंबन्धिमकारागमतः विशेषभाक् न भवति नु। शानचि विहितस्य 'आने मुक्' इति मुगागमस्य शतर्यप्रस- क्तेस्तत्प्रयुक्तं वैलक्षण्यं न भजतीत्यर्थः । नन्वित्यवच्छेदे वा। मागमतः विशेषभाक् भवाति ननु। नन्विति प्रश्ने वा। न भवत्येवेति भावः। इतोऽपि प्राथमिकी व्याख्यैव स्वारसि- कीति सावधानैरिदमनुसन्धेयम्॥

यथावा- हन्तातोऽनुपसर्गे को भवति प्रत्ययोऽय सुख- दृश्ष। जाग्रत्यधिपे तस्मिन्नत्रातश्चोपसर्ग इति क- स्स्यात् ॥८४२॥। अत्र प्रकृतस्य भगवतः अप्रकृतस्य वक्ष्यमाणसूत्रद्वयस्य च श्ेष। हन्तेति वक्षमाणार्थार्यालोचनजामेतहर्षे। वाक्या- रम्भे वा। अनुपसरगे जगतामुपद्रवनिवर्तने विषये इति यावत्। 'उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च' इति हेमचन्द्रः। प्रत्यय: हेतुः 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः। सुखदश्च संपत्प्रयुक्तसौख्यदायकश्च। अतः अकारवाच्यान्ग- वतः, प्रस्तुतादस्माद्वा को भव्रिता जगतां विपदपाकरणे सु- खवितरणे च भगवतोऽस्मादन्यः को हेतुर्भवेदित्यर्थः। तस्मिन् अधिपे 'एष भूताधिपतिरेष भूतपालः' इति श्रुते सर्वजगन्ने- तरि सर्वजगदवितरि भगवति जाग्रति सति उपसर्गे विपदि

Page 56

श्लेषसरः (२८) 43

अत्रातः अरक्षित इति च क स्यात् सत भगवति रक्षितरि अपिनाम कश्विदरक्षित इति च विद्येतेति भावः । अत्र- न संपदां समाहारे विपदां विनिवर्तने। समर्थो दृश्यते कश्चित्तं विना पुरुषोत्तमम् ॥ इत्यादिप्रमाणार्थोऽनुसंहित: ॥

पक्षे-'आतोऽनुप्रसर्गे का, आतश्चोपसर्गे' इति सूत्रद्व- यार्थस्सोदाहरणो द्रष्टव्यः । तथाहि-आतः आकारान्ताद्धातोः अनुपसर्गे अनुपसर्गादिति पञ्चम्यन्ततया विपरिणामः कर्मणी- त्यन्ुवर्तते। कर्मण्युपपदे कः प्रत्ययः भवतीति सूत्रार्थः। उदा- हरणमाह-अथेति। अथ सुखदश्च भवति। सुखं ददातीति सुखद इति सुखशब्दे कर्मण्युपपदे अनुपसृष्टाद्दाधातोः कप्रत्य- येन निष्पन्नत्वात्तस्योत भावः। किंच तस्मिन् प्रसिद्धे अत्र अ- स्मिन् बुद्धिस्थे जाग्रति प्रकाशमाने अधिपे अधिपशब्दे 'आ- तश्चोपसर्गे' इति कस्स्यात्। आतः आकारान्ताद्वातोः उपसर्गे अधीत्याकारकोपसर्गे उपपदे कप्रत्ययस्स्यादिति तदर्थः । अत्र पद्ये 'आतोऽनुपसर्गे क, आतश्चापसगे' इति सूत्रानुपूर्व्येव घटितति ध्येयम् ॥

यथावा-

एष त्वच्चरणलिहश््शेषमहीध्रोगुणोत्तरो भाति। केनास्य गुणनिषिद्धिशश्रीनाथ कृता श्रुता दृष्टा॥ अत्र भगवच्चरणलिहस्य शपमहीध्रस्य प्रकृतस्य तद्वाचक- शब्दयोरप्रकृतयोश्च श्षेषः। तथाहि-हे श्रीनाथ! एषः शेष- महध्रि: त्वच्चरणौ लेढीति त्वच्चरणलिहः त्वत्पादपद्मस्पर्शीति

Page 57

44 अलंकारमणिहारे

यावत् । अत एव गुणैः पावनत्वरम्यत्वादिभिः उत्तर: श्रेष्ठ- स्सन् भाति दीप्यते। अस्य एवं विधस्य शेषाद्रेः गुणनिषिद्धि: पूर्वोक्तगुणनिषेधः। निपूर्वकात्सेधतेः किन्। केन पुंसा कृता क्लप्ता, केन श्रुता, केन दष्टा वा । अस्य पावनत्वादिगुण- • निषेधो न केनचित्कृतशश्रुतो दृष्टो वेत्यर्थः ॥

अन्यत्र त्वच्चरणलिहशब्द: शेषमहीध्रशब्दश्च, अगुणोत्तर इतिच्छेदः। अगुणं गुणरहितं उत्तरं लिहः ध्र इत्याकारक- मुत्तरपदं यस्य स तथोक्तः भाति। ननु अनयोश्शब्दयोः क्र- भेण कुतो लघूपधलक्षणः आर्धधातुकलक्षणश्च गुणो न प्रवर्तत इत्यत आह-केनति। अस्य ललिहशब्दस्य ध्रशब्दस्य च कृता कृत्संज्ञकेन केन 'इगुपधज्ञाप्रीकिरः क, कप्रकरणे मूलबिभुजा- दिश्य उपसंख्यानम्' इति च विहितन कप्रत्ययन हेतुभूतेन गुण- निषिद्धिः 'कङति च' इति विहितो गुणनिषेध इे भाव। श्रुता शास्त्रेषु निशमिता। दष्टा प्रयोगेषु दृष्टा च। लिहध्रश- व्दयोरुभयोरपि उक्तरीत्या कप्रत्ययान्ततया कित्वप्रयुक्तगुणनि- षेधः श्रुतो दष्टश्चेत्यर्थः। यद्वा-त्वच्चरणलिहः शेषमहीध्रश्च अगु- णोत्तरो भातीति केनचिदुक्त केनास्य गुणनिषिद्धि: कृता श्रुता दृष्टा चेति प्रश्नाभिन्नमुत्तरमिदमिति वक्ष्यमाणचित्रालङ्कारश्चेत्ययं विशेषोऽस्मिन्नर्थे॥

यथावा- कश्चित्वयि लुम्पति चेह्लुम्पतु सुपत्ययं परब्र- ह्न्। तव ननु यदाकदावा भविता कश्चिततो न- लोपो वा ॥ ८ ४४ ॥

Page 58

श्लेषसरः (२८) 45

अत्र परव्रह्मणशश्रीनिवासस्य परव्रह्मश्ञब्दस्य च प्रकृताप्रकृत- योः श्ेषः । तथाहि- हं परव्रह्मन् ! कश्चित् अस्थिरहृद्य इाते भावः । त्वाय विषये सुप्रत्ययं विजातीयप्रत्ययानन्तरिततया शोभनं अनवरतभावनात्मकं ज्ञानं उपासनमित्यर्थः । लुम्पति चेत् विच्छिनात्त चेत् कामं लुम्पतु विच्छिनत्तु अन्तरयात्वि त्यर्थः । ततः प्रत्ययलोपात् ननु भगवन्! तव यदाकदावा। नलोपोवेत्यत्र विद्यमानो वाशब्दो भिन्नक्रमः कश्चिदित्यत्रान्वे- ति : कश्चिद्वा लोपः हानिः न भविता। यदि यःकश्चित् त्वद्धया- 48

नस्य तत्कृता न काचिदपि हानिस्संभवत् प्रत्युत तस्यैव। 'यदा ह्वेवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भ वति। तत्त्वेव भयं विद्ुपोऽमन्वानस्य' यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया॥ इति श्रुतिस्मृतिदर्शित भयं भविष्यतीति भावः ॥ पक्षे -- हे परव्रह्मन्निति शब्दस्यैव संबोधनम्। कश्चित् श- ब्दविदिति भावः। त्वयि परव्रह्मशब्दे त्वयि सुप्रत्ययं परब्रह्म- न्निति संवोधनवशात्ससंबुद्धिसुप्रत्ययमित्यर्थः । लुम्पति चेत् 'स्वमोर्नपुंसकात्' इति सूत्रेणेति भावः। लुम्पतु कामं लुप्यात्। ततः लोपात् यदाकदावा यम्मिन्कस्मिन्नपिवा काले नलोप: नकारलोप: वा भविता विकल्पेनैव भविता।न तुराजन्नित्यादौ नान्तपुल्िङ्गशब्द इव सर्वथा न भवितैवेति भावः। 'संवुद्धौ नपुंसकानां नलोपो वा वक्तव्य:' इति नान्तनपुंसकलिङ्गशब्ड संबुद्धौ विकल्पेन नकारलोपानुशासनान्। अयं वक्ष्यमाणाव- ज्ञालङ्कारगार्मैत इति ध्येयम् ॥

Page 59

46 अलंकारमणिहार

यथावा- संज्ञाऽनुसंहिता तव संतनुतेऽभीप्सितं यथोद्दे- शम्। उचितार्थाध्याहारादूरीकृतकार्यकालपक्षा च॥८४५॥ अत्र भगवन्नासम्नश्शब्दशास्त्रीयसंज्ञायाश्च प्रकृताप्रकृतयाः शेषः। तथाहि-हे भगवन्निति प्रकरणालभ्यते। उचितः सम अ्ञसः अर्थाध्याहार: पुरुषार्थप्रदानं यस्यास्सा उचिताध्याहारा अभीप्सितसकलपुरुषार्थदायिनीत्यर्थः । 'धर्मार्थी प्रामयाद्धर्मम र्थार्थी चार्थमाप्नयात्' इत्यादिना नामसंकीर्तनफलोक्तेः। उचितं स्यान्मिते योग्ये ज्ञातेऽ्यस्ते समख्से' इति रत्नमाला। तव नंज्ञा नामधेयं 'संज्ञा स्याच्चेतना नाम' इत्यमरः। अनुसंहिता कीर्तिता सती यथोद्देशं उद्दशमनतिक्रम्य संकीतयितृणामभिस- न्ध्यनुरोधेनेत्यर्थः। अभीप्सित अभिलषितमर्थ संतनुते उदाहृत- ग्रमाणानुसारादिति भावः। न केवलमिष्टप्रापणमेव संतनुते अ- पित्वनिष्टनिवारणम्पीत्याह-दूराति। दूरीकृतं कार्य दुष्कतिन यातनाप्रापणरूपक्रिया येषां ते तथोक्ता: कालस्य कृतान्तस्य पक्षा: सहाया: भटा इति यावत्, यया सा तथोक्ता च भव- ति। पक्षो मासार्धके पार्श्वे' इत्यारश्य 'बले सखिसहाय- योः' इति मेदिनी। भगवन्नामाभिलपनमात्रेणैव तत्कर्तृणां सर्वा- .. " -. . शुभनिवृत्ती तत्र यमस्य तद्भ्टानां वा प्राभवमकिश्चित्करमिति भावः। यथोच्यते वैष्णवे- कमलनयन वासुदेव विष्णो धरणिवराच्युत शह्चक्रपाणे। भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान्॥ इति,

Page 60

श्लेषसरः (२८) 47

किंकरा: पाशदण्डाश्च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनस्सदा ।। इत्यादिकमप्यत्रैवानुकूलम्॥ पक्षे-अनुसंहिता शब्दशास्त्रेणोदिता संज्ञा अभ्यासारिसंज्ञा यथोदवेशं स्वप्रदेशमनतिक्रम्य स्थिता सती उचचितस्य अर्थस्य अध्याहारात् ऊहात् 'अध्याहारस्तर्क ऊहः' इत्यमरः। 'अध्या- हारो नाम न्यूनपूरणार्थाधिकपदपदार्थान्यतरोपादानम' इत्याहुः। ..

अभीप्सितं वाक्यार्थबोधनरूपमभीष्टं संतनुते। यथोद्देशपक्षे सं- ज्ञाया अर्थाध्याहारेण वाक्यैकवाक्यतया कार्यकारित्वस्य शाब्दि- कैस्सिद्धान्तितत्वादिति भावः। किंच-ऊरीकृतः कार्यकालपक्षो यया सा ऊरीकृतकार्यकालपक्षा च । अभीप्सितं संतनुते । सं- ज्ञायाः कार्यकालत्वेन पदैकवाक्यतयाऽपि वाक्यार्थबोधनस्य सि० द्धान्तितत्वादिति भावः। यथा परिभाष्यते-'यथोददशं संज्ञा- परिभाषं, कार्यकालं संज्ञापरिभाषम्' इति च। 'यथोद्देशं उद्दे- शमनतिक्रम्य यथोद्देशं, उद्देश उपदेशदेशः अधिकरणसाधन- ञ्चायं, यत्र देशे उपदिश्यते तद्देश एव वाक्यार्थबोधेन गृही- तशक्तया गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः' इति प्रथमपरिभाषार्थः। देशश्चोच्चारणकाल पवात्र शास्त्रे व्यवहियत इति संक्षेपः । द्वितीयपरिभाषार्थस्तु-'कार्येण काल्यते स्वसं- निधिं प्राप्यत इति कार्यकालं स्वसंस्काराय स्वतृत्तिलिङ्गचिद्नि तपरिभाषाणामाक्षेप इति यावत्' इति। यथोद्देशपक्षे संज्ञाया- स्स्वदेशीयत्वं, कार्यकालपक्षे विधिदेशीयत्वमिति विवेकः॥

यथावा- योव्रह्मायश्वशिवः परेणभवताऽखिलेश्वरसहो-

Page 61

48 अलंकारमणिहारे

क्ौ। येऽन्येतदादिमास्तेऽप्यन्ते भवदेकशेषतां द- धते ॥८४६॥

अत्र प्रकृतस्य ब्रह्मादिपदार्थस्य चतुर्मुखादे: अप्रकृतस्य ब्रह्मादिशब्दरूपार्थस्य च श्लेषः । तथाहि-हे अखिलेश्वर! परेण सर्वोत्तरेण भवता त्वया सह उक्ती 'स्थित्यादयो हरिविरिश्चि- हरेति लीलाः' इत्यादौ तुल्यताभ्रमास्पदतया सहपठितौ। यो ब्रह्मा चतुर्मुखः यश्च शिवः शम्भुरित्येतौ 'हिरण्यगर्भस्समवर्तताग्रे, न सन्न चासच्छिव एव केवलः' इति श्रवणात्कारणत्वशङ्काविषय- भूतौ यावित्यर्थः । तावेवादिमौ येषां ते तदादिमाः । य अन्ये देवा: 'नकिरिन्द्र त्वदुत्तरो न ज्यायानस्ति वृत्रहन्' इत्यादिना का- रणत्वशङ्कागोचरतयोक्ता इन्द्रादयः। तेऽपि अन्ते वाक्यार्थनिर्णया वसरे 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला। स्वरूपे वा। भवदेक्तशेषतां भवत एव शेषतां मयू- रव्यंसकादित्वात्समासोऽस्वपदविग्रह इति लक्ष्मोसहस्रत्नप्रका- शिकायां निरूपितमस्माभिः । सम्यग्विमर्शे ब्रह्मादयस्सर्वेऽपि भवदेकशेषस्वरूपा एवेति निश्चीयेरन् नतु कदाऽपि त्वामेव सर्वशेषिण इतीति भावः। यद्वा-अन्ते प्रळ्ये भवानेव शेषो येषां ते भवदेकशेषाः तत्तां दधते॥

ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे। आभूतसंपुवे प्राप्ते प्रलीने प्रकृतौ महान्। एकस्तिष्ठति विश्वात्मा स तु नारायण: प्रभु:॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु। व्यक्तेऽ्व्यक्तं कालवेगेन याते भवानेकश्शिष्यते शेषसंज्ञः॥

Page 62

श्लेषसरः (२८) 49

. इत्यायुक्तरीत्या भवदेकशेषत्वं दधते त्वय घ्रलीयन्त इत्यर्थः। अखि

अप्रकृतपक्षे तु - यो ब्रह्मा ब्रह्मशब्द: यश् शिवः शिवशब्द: परेण उत्कृष्टेन भवता सवच्छव्दन। उत्कर्षश्चास्य वक्ष्यमाणरी त्यासवैस्सहोक्तौ स्वैकशेषत्वकृत इति ध्येयम् । सहोक्तौ इका- रान्तसप्तम्येकवचनमिदम्। सहवचन सतीत्यर्थः। अन्ते विग्रहाव- साने भवदेकशेषतां भवच्छ्दैकशपता दधते धत्ते। 'दध

प्रत्येकमन्वेति। 'त्यदादीनि सवैर्नित्यम्' इत्यनुशासनात्। ब्रह्मा भवांश्चेति शिवो भवांश्चेति च विग्रहे भवच्छव्दस्यैव शिष्यमाण त्वादिति भावः । ये अन्ये तदादिमाः तद् यद् एतद् इत्यादयः तेऽपि शब्दा: परंण त्यदादिगण सर्वेभ्यः परत्र पठितेन भवता सहोक्तौ अन्ते विग्रहावसाने भवदेकशेषतां भवच्छन्द्मात्रशेषतां दधते बिभ्रति। 'डुधाञ् धारणपोषणयोः' इति जौहोत्यादिका- द्ातार्लेटूथमबहुवचनम्। त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छि ष्यते' इति। स च यश्च एष च भवांश्चेति विग्रहे भवन्त इति परभूतभवच्छव्द्स्यैव शेषणादिति भावः। यथावा- उपसर्गविरलभावो भ्वादौ जनितासदावली- डागमवान्। तान्तः पलायितस्स्याद्वातुर्भवतोहि- तोय एवानन्त ।।८४७।। अत्र भगवतशश्रीनिवासस्य प्रकृतस्य पतञ्जलेरप्रकृतस्य च श्ेषः । हे! अनन्त ! भगवन्! धातु: धारयितु: पोषुश्च "एष धाता विधाता च" इत्युक्तेः। धाञरशता। भवतः तव भ्वादौ भूलोकादिलोके जनिता उत्पन्नः । जनेस्तृच् । यः चेतनः ALANKARA II 7

Page 63

50 अलंकारमणिहारे

असदावलीडागमवान् असतां खलानां आवली पङ़ि: तस्था: ईशः प्रधानभूताः। ईट्छब्दोऽयम्। तेषां आगमस्संसर्ग: तद्वान् असत्संसर्गदूषित इत्यर्थः । यद्वा-असदावले: इडाः वाघः "भूगोवाचस्त्विडा इलाः" इत्यमरः । तदागमवान् नित्य- मसदालापशालीत्यर्थः। नित्ययोगे मतुप । अथवा असदावले: इडा: वाच: ताभिः आगमवान् शास्त्रवान्। ता एवागमश्शा- स्त्रं तद्वान्वा। असद्वाच एवास्यानुष्ठानविधायिन्य इति भावः । अत एव अहित एव स्या। दुरन्तदुष्कर्मवशंवदत्वनिबंधनास- त्संसर्गदूषितविवेकतया त्वाये विद्वेषवानेव भवेदित्यर्थः । भ्वादौ जनितः यः असदावलीडागमवान् सन् धातुर्भवतः अ हित एवेति योजना । अर्थस्तु तुल्य एव। य इत्यस्योत्तरवा- क्यगततया न पूर्ववाक्ये तद्वत्तोपादानावश्यंभावः।सः चेतनः उपसर्गविरलभावः उपसर्गैः उपप्रवैः 'उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च" इति हेमचन्द्रः । विरलः पेलवः अतिमात्रल- घुरित्यर्थः, भावः सत्ता स्वभावः अभिप्रायः चेष्टा जन्म वा य- स्य स तथोक्तस्सन्। "पेलवं विरलं तनु। भावस्सत्तास्वभा- वाभिप्रायचेष्टात्मजन्मस्वि" इति चामर.। अत, एव तान्तः ग्लान: पलायितश्च स्यात्। दीन: क्वाप्यवस्थितिमलभमानो यत्र क्वापि धावेदित्यर्थः । भगवद्विद्वेषिण: क्व नु श्रेयस्संपद्येतेति भावः। पक्षे - हे! अनन्तेति पतञ्जलित्वेनावतीर्णस्य शेषस्य संबोधनं। भवता ऊहितः अय इति च्छेदः। भवता त्वया ऊहितः विचा- रितः। भवतः हितः अय इति वा छेदः। भवतः हितः ज्ञातः पथ्य इति वा। 'हि गतौ' कर्मणि कः। ये गत्यर्थास्ते ज्ञानार्थाः।'हितं पथ्ये गते धृते' इति मेदिनी। भवत इति शेषे षष्ठी 'न लोक' इति निषेधस्तु कारकषष्ठीविषयः । यद्वा-'मतिबुद्धि'

Page 64

श्लेषसरः (२८) 51

इति सूत्रविहितः क्तः। 'क्तस्य च वर्तमाने' इति 'न लोक' इति निषेधापवादभूता षष्ठी। भ्वादौ भ्वादिगणे जनिता प्रादु- र्भूतः । स्थित इति यावत्। अयः अयधातुः। शपा निर्देशोऽयम्।उ- पसर्गे स्वसंबन्धिि विवाक्षिते परेत्याकारकोपसर्गे, पलायित इति वक्ष्यमाणत्वात्। विरलभावः विगमितो रः रेफः येनसः विरः लभाव: लवर्णस्थितिः विरः लभावो यस्य स तथोक्तः। यद्वा- रस्य रंफस्य लभावो लत्वं विशिष्टो रलभावो यस्य स तथोक्त:। वीत्यनेन लभावस्य नित्यत्वं द्योतितम्। सर्वथाऽपि रेफस्थानिक- लकारवानित्यर्थः । तान्तः तेत्युत्सृष्टानुबन्धस्य क्तस्य ग्रहणम्। क्तप्रत्ययान्त इत्यर्थः । सदावलीडागमवानित्यत्र सदा वलि इ- डागमवानिति पदत्रयमसमस्तम्। वलि आर्धधातुकक्तप्र- त्ययसंबन्धितकाररूपे वल्प्रत्याहारघटकवर्णे सदा नित्यं इ- डागमवान् सन् पलायितस्स्यात् 'अयपय' इत्यादिना भ्वा- दौ पठितस्य परोपसृष्टस्यायतेः क्तप्रत्यये 'उपसर्गस्यायतौ' इ- ति रेफस्य नित्यं लत्वे 'आर्धधातुकस्येडलादेः' इति नित्यमि- डागमे च पलायेत इति रूपं निष्पद्यत इति निर्गळितोऽर्थः ॥ यथावा- ईशः परोवरश्ववन्नास्येडयमेव हीश्वरो भवति।

अत्र भगवतः ईश्वरशब्दस्य च श्ेषः । पर: अन्यः चतु- र्मुखादि: अवरः निहीनः चित् चेततीति चित् चेतनः अस्य ईशः ईश्वरस्य भगवतः। 'ईशा वास्यम्' इत्यत्रेव ईंट्डुब्दोडयं। ईंट् स्वामी न भवत। भगवदपेक्षया निहीनत्वात्तस्येश्वरो न भवतीत्य- रथः। यद्वा-परः अन्यः चितु चेतनः। ईश इति पञ्चमी 'अनौ-

Page 65

52 अलंकारमणिहारे

पाधिकनिर्देशे ह्यसंकोचो मनीषिभिः । सिद्धे शब्दार्थसंबन्धे' इति न्यायेन शब्दशक्तेर संकोचात्सर्वेश्वरादस्मादित्यर्थः । अवरः न्यून एवेति वाक्यान्तरम्। यद्वा-अस्येत्येतत्पूर्वत्राप्यपक्कष्य अस्य इशः अवर इति योजना अस्मान्यून इत्येवार्थः । अस्मिर्पक्षे ईश इति शेषषष्ठी। अत एव अस्य भगवतः पर: इतर: चतुर्मुखादि: नेट् ईश्वरो न भवतीत्यर्थः। 'न तस्येशे कश्चन' इत्यादिश्रुतेः। अय- मेव एष श्रीनिवास एव ईश्वर: सर्वेषामीश्वरः भवति हि। हि- शब्द: 'एष सर्वेश्वरः। ईशानो भूतभव्यस्य। सर्रेश्वरंश्वरः कृष्णः' इत्यादिश्रुतिपुराणादिप्रसिद्धिं द्योतयति। यद्ा-हिहेंतौ। अस्यैव सर्वेश्वरत्वादिति भावः। हेत्वन्तरं चाह-विककृतिमिति। असौ भगवान् विकृति 'जायते अस्ति वर्धते' इत्यायुक्तान् षड्भा- वविकारान् नैव इयात्। 'जरां मृत्युमत्येति। अपक्षयविना- शाभ्याम्' इत्यदिप्रमणभ्य इति भावः । किंच-अस्य भग- वतः उपधा कैतवं, येन परा अतिसंधीयेरन् तादृशाश्चत्तविकार- विशेष: 'कपटोऽस्त्री व्याजदम्भोपधयशछद्नकैतवे' इत्यमरः, 'अमा त्यानुपधातीतान्' इतिप्रयोगश्च । लघुतागुणोऽपि रागद्वेषादि- कृतचित्तलाघवरूपगुणोऽपि। अथवा-उपधक्ष या लघुता ताहशः अगुणः अप्रशस्तगुण: हेयगुण इत्यर्थः । नञत्राप्राशस्त्ये । 'अप्राशस्त्यं विरोधश्च' इति नञ्रर्थेषु परिगणनात्। इदं हेयगु- णसामान्यस्योपलक्षकम् । सोऽपि दूरे अमुँ न स्पृशतीत्यर्थः । अपूर्णत्वादन्येषामीद्ृशहेयगुणसंबन्धस्स्यात्। अस्य तु निर- वधिकैश्वर्यनित्यपूर्णत्वादखिल हेयप्रत्यनीकत्वाच्च तत्संबन्धग- न्धोऽपि न संभवतीत्ययमेव सर्वेश्वर इति भावः । अत्र उप- धादूरत्वाक्त्या अस्याश्रितेषु करणत्रयवृत्त्यैकरूप्येण कौटिल्य- विघुरतया आर्जवं प्रदर्शितम्। यथा चायमेवाह-

Page 66

श्लेषसरः (२८) 53

द्यौः पतेत् पृथिवी शीर्येद्धिमवान्विचलेदपि। शुष्येत्तोयनिधि: कृष्णे न मे सोघं वचो भवेत्' ॥ इति। लघुतागुणदूरत्वोक्त्या आथ्रितापराधैः तत्प्रदर्शकैर्वाऽ्यक्षो भ्यत्वरूपं स्थैर्य दर्शितम्। यथाऽऽह स्वयमेव सुग्रीवादीन्प्रति- मित्रभावेन संप्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्'॥ इति। पक्षे-ईशः 'ईश ऐश्वर्ये' इति धातोः 'क्षियो दीर्घात्' इत्या- दाविव धातोरनुकरणम् । चित् चकारेन्कः परः 'स्थेशभास पिसकसो वरच्' इात विहितो वरच्प्रत्यय इत्यर्थः । परः 'प्रत्ययः, परश्च' इत्यधिकारात्परत्र विद्यमान इत्यर्थः । अस्य वरचः इट् इडागम: न-न भवति। 'नेडशिकृति' इति निषेधादित्यर्थ। अयमेव एवं वरज्विशिष्ट ईशधातुरेव ईश्वरो भवति ईश्वरशब्दो निष्पद्यते । असौ एवं निष्पन्न ईश्वरशब्द: विकृति नैव इयात् इडभावाद्विकारं न प्राप्तयादेव। धातुप्रत्यययोर्यथावस्थितयोरेव श्रवणादिति भावः। थदीडागमोऽभविष्यत्तदाऽस्य विकारस्सम- भविष्यत् । अस्य ईश्वरशब्दस्य उपधालघुतागुणः उपधायाः 4:4 'अलोऽन्त्यात्पूर्व उपधा' इत्युक्तलक्षणस्य उपान्त्यवर्णस्य लघु- तया 'हस्वं लघु' इत्युक्तलक्षणह्नस्वत्वेन यो गुणः 'पुगन्तल- घूपधस्य' इति विहितो गुणः सोऽपि दूरे । अस्य दीर्घोपध- त्वेन तदप्राप्तेः। इडागमप्रयुक्तविकारविरहेऽपि यदि गुणो वाऽभविष्यत्तदा विकारमलप्स्यतापि। सोऽपि नेति भावः॥

यथावा- वाताइगिरावाप्ः पदं बुधव्रजमहोदयशसा-

Page 67

54 अलंकारमणिहार

दौ। प्रथितोदन्तश्श्लाघ्यस्साधीयांस्ते हरे लसति पादः।।८४९॥

अत्र भगवच्चरणस्य प्रस्तुतस्य पादशब्दस्याप्रस्तुतस्य च क्षेषः । तथाहि-बुधव्रजमहोद! बुधव्रजस्थ देवनिवहस्य महः तेज: ददातीति तथोक्तः तस्य संबुद्धि:, हे हरे! भगवन्! आदौ त्रिविक्रमावतारसमये इत्यर्थः । प्रथितः प्रख्यातः उदन्तो वृत्ता- न्तो यस्य स तथोक्त: "इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्" इत्यादिश्रुतिप्रसिद्धसकललोकाक्रकमप्रभाव इति भावः। अत एव यशसा श्राध्यः साधीयान् अतिशयेन बाढ: अतिमात्रप्रशस्त इत्यर्थः । बाढशब्दादीयसुनि "अन्तिबाढयोर्नेदसाधौ" इति साधादेशः। ते भवतः पादः चरणः वाताशगिरौ शेषाद्रौ पदं स्थानं आप्तस्सन् लसतति। तत्र न्यस्तत्वात्तथोक्ति:॥ अन्यत्र बुधानां शाब्दिकानां महोदयः महाभ्युदयहेतुः तस्य संबुद्धि: हे हरे! पतञ्जलित्वेनावतीर्ण हे शेषेत्यर्थः। "व्याळः कुभ्भीनसो हरिः" इत्यमरः । विशेषणमहिस्ता सामान्यस्यापि हरिशब्दस्य विशेषपरत्वमवधेयम्।श्राध्यः अदन्तः। हस्वाकारा- न्तः प्रथितः अदन्ततया कोशादौ प्रसिद्धः पादः पादशब्द: शसादौ शसिति द्वितीयाबहुवचनस्य संज्ञा। तदादौ प्रत्यये परे सतीति यावत्। वाताशः ऋषिः पाणिनिरित्यर्थः। तस्य गिरा "पद- न्नोमास्" इत्यादिसूत्ररूपयेत्यर्थः । पद पदित्याकारकमादेशमिति यावत्। अवाप्तः प्राप्तः। प्रथितोदन्तश्ाध्य इत्यानुपूर्वीमावर्त्य प्रथितः दन्तश्लाध्य इति छिद्यते; दन्तः द् इत्याकारकवर्णः अन्ते यस्य स तथोक्तः। पदादेशे तथात्वसिद्धेः, दन्त इति श्राध्य: दन्तश्ाध्यः ते शब्दानुशासनमाष्यकृतस्तव। संबन्धसामान्ये षष्ठी। साधी-

Page 68

लेषसरः (२८) 55

यान् साघुशन्दादीयिसुन। अतिशयेन साधुरितति प्रथितस्सन् लसति। सूत्रकृता आदेशमात्रविधानेन साधु: कृतः। भाष्यकृता त्वया तु तदनुगुणस्थानिनोऽपि प्रदर्शनेन साधीयान्कृत इति भाव:॥। यथाचा- अर्हः परंशमातुं गण्यो धातुरवि वेदविदनिट् स्यात्। दान्तत्वमीयुषोSनिशमात्माऽस्य सकृद्दि- भातो हि ॥ ८५०॥ अत्र ब्रह्मिद: प्रकृतस्य विदधातोरप्रकृतस्य च श्ेष:। तथाहि-परं निरतिशयं शं सुखं परब्रह्मानुभवानन्दमित्यर्थः। आप्तुं अर्हः अत एव धातु ब्रह्मणोऽपि गण्य: श्राध्यः वेद- वित् ब्रह्मवेत्ता अनिट् निट् निशा तत्सदशमज्ञानमिति यावत् सा न विद्यते यस्य सतथोक्त: स्यात् । तत्र हेतु: दान्तत्व मित्यादि। हि यस्मात् अनिशं दान्तत्वं 'शान्तो दान्त उपरतः' इत्यायुक्तं गुणविशेषं ईयुष: अस्य ब्रह्मविदः आत्मा अन्तर्यामी सकृद्विभातः सर्वदा अनावृततया प्रदीप्तः। तस्मादस्य ब्रह्मविद: अज्ञानगन्धोऽपि नास्तीत्यर्थः। अत्र 'तस्माद्वा एतः सेतुंतीत्वा अपि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्वेष ब्रह्मलोकः' इति दहर

वर्णितः- 'परमात्मानं प्राप्तस्य नकं तमिस्रा रात्रिरपि दिवैव। तस्याज्ञानप्रसक्तेरभावात् अहस्सदृशी रात्रिः अहोरात्रयोर्न विशेषः । तत्र-हेतुः सकृद्विभातः सदाब्रह्मस्वरूपप्रकाशस्याना- वृततया भासमानत्वात्' इति॥ पक्षे-परं स्वस्मात्परं शं 'तुदादिभ्यइ्शः' इति विहितं शप्रत्ययं आप्तुं अर्हः। वेदेतिभिन्नं पदम् । विद् 'विद्लू लाभे'

Page 69

56 अलंकारमणिहारे

इति तुदादौ पाठेतः धातुरपि अनिट् अविद्यमानः इडागमो यस्य स तथोक्तः। गण्यः अनिट्सु गणनीय स्याददिति वेद वेि। 'विन्दतिश्चान्द्रदौरगादरिष्टो भाष्यऽपि दृश्यते' इत्यनि- द्वारिकासूक्तधातोरपि पाठात् 'एकाच उपदेशेऽनुदान्तात्' इति इण्निषेधादिति भावः । विद् धातुरपत्यिपिशव्देन इयन् श्रम् वि-

निष्प्रत्यूह इति ध्वनितम् । तावपि हि धातू 'विद्यतिर्विनद्' इत्यनिट्वारिकासु पठ्येते। अस्य विदेरनुदात्तत्वं द्रढयति-दान्त त्वमित्यादिना। हि यस्मात् अनिशं दान्तत्वं द इति वर्णोऽन्ते यस्य तत्त्वं ईयुष: देत्यत्र अकार उच्चारणार्थः । अस्य विदधातोः आत्मा स्वरूपं सकृत् एकवारमेव विभातः ववि इत्याकारक- वर्णेन भातः प्रकाशितः विदेरेवंविधस्वरूपत्वेनैकाच्त्वादुक्त इण्नि- षेधो युक्त एवेति भाव:॥ यथावा - ये कुशला अपि सन्तो न तद्वितप्रत्ययादयो दृष्टाः। इत एते लुप्यन्ते न तद्वितप्रत्ययादय- स्त्वेते ॥८५१॥ अत्र प्रकृतानां भगवद्भक्तभक्तानां 'लशक्वतद्विते, तस्य लोप.' इति सूत्रार्थस्य च श्षेषः । तथाहि-ये जनाः कुशलाः कृतिनस्सन्तोऽपि। यद्वा-ये सन्तः मनीषिणः कुशला अपीति योजना। ऋग्वेदाद्यपरविद्यानिष्णाता अपीत्यर्थः । तद्वितप्रत्यया- दयः तस्मै प्रकृताय भगवते हिताः प्रीत्याधायकाः प्रत्ययो ज्ञानं आदिर्येषां ते प्रत्ययादयः आदिशब्देन भक्तिवैराग्यादीनां ग्रहणम्। तद्धिता: प्रत्ययादयो येषां ते तथोक्ताः भगवदभिमतज्ञानभक्ति-

Page 70

ल्लेषसरः (२८) 57

वैराग्यादिगुणवन्तः न हष्टाः, ते जना: इतः अस्मात्तद्धितज्ञानादि मत्वादर्शनादेव हेतो लुप्यन्ते स्वयमेव नश्यन्ति अधःपतन्तीति यावत्। भगवद्भिमतज्ञानादिविरहे अखिलकलाकौशल्यमप्याकिं चित्करमिति भावः। तद्धितप्रत्ययादयस्तु भगवत्प्रीत्याधायकज्ञान- भक्तयादिमन्तस्तु एते सन्तो जनाः न लुप्यन्ते 'न मे भक्तः प्रणश्यति' इति गानादिति भावः ॥. पक्षे-सन्तोऽपि सूत्रोच्चारणवसरे श्रूयमाणा अप ये कुशलाः कवर्गशकारलकारा: अत्र 'लशकु' इति वक्ष्यमाणसूत्रोक्तवैपरी- त्येन कुशला इत्युक्तिर्विवक्षितश्लेषलाभाय। नतद्वितप्रत्ययादयः तद्धितभिन्नप्रत्ययाद्यवयवभूतास्सन्तः दृष्टाः ज्ञाताः ननद्धितेत्यत्र नशब्देन समासः । एते इमे इतः इत्संजञकाः 'लशक्कतद्िते' इति तद्धितवर्जप्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञाविधानादिति भावः। अत एव लुप्यन्ते लुप्ता भवन्ति। 'तस्य लोपः' इतीत्सं ज्ञकस्य वर्णस्य लोपविधानादिति भावः । लोपश्चादर्शनं 'अदर्शनं लोपः' इत्यनुशासनात्। अतद्धितेति पर्युदासफलितमाह-नेत्या- दिना। तद्धितप्रत्ययादयस्तु तद्धितसंज्ञकप्रत्ययाद्यवयवभूतास्तु एते कवर्गशकारलकारा: 'आकर्षादिभ्यः कन्, लोमादिभ्यइशः, प्राणिस्थादातो लजन्यतरस्याम्' इत्यादिताद्धताधिकारीयसूत्रवि- हितकादिप्रत्ययाद्यवयवभूता इत्यर्थः । न लुप्यन्ते। 'आतोऽनुपसर्गे क:, पजेः खश, पुंसि संज्ञायां घः प्रायेण, लटश्शतृशानचौ, ल्युट्ध' इत्यादिविहितातद्वितप्रत्ययादिभूताः कादय इव न लोपं प्राप्नवन्ति । किंतु आकर्षकः लोमशः जङ्गाल इत्यादिषु श्रूय- माणा एव भवन्तीति भावः ।

सिद्धयति मह एव महत्परादतिप्रत्ययाद्कुघेन्द्रा- यथावा-

ALANKARA II 8

Page 71

58 अलंकारमणिहारे

णाम। यत्रैव सर्वनामस्थाने सिद्धोनुमागमोऽपि परे ॥८५२॥ अत्र भगवतो महघातोश्च श्ेषः। तथाहि-बुधेन्द्राणां ब्रह्मविदग्रेसराणां परात् विजातीवप्रत्ययाव्यातेकोर्णतया श्रेष्ठातू अतिप्रत्ययात् अविच्छिन्नात् स्सृतिसन्ततिरूपात् ज्ञानादेव महत् पूज्यं महः 'तं देवा ज्योतिषां ज्योतिः, परमं यो महत्तेजः' इत्याद्यक्तं स्वप्रकाशरूपं परं ब्रह्म सिद्धयाते प्राप्तं भवति। तदेव महो विशिनष्टि-यत्रेति। सर्वनामस्थाने सर्वेषां नाम्नां पर्यव- सानभूमौ सर्वशब्दवाच्ये इत्यर्थः । देवादिनामरूपव्याकरणनि- दानभूते इति वा। यत्र यस्मिन् परे ब्रह्मण्येव मागमः मायाः श्रियः गमः संगमः संबन्धोऽपि सिद्धः निष्षन्नः मङ्गळकर इति वा 'षिधू शास्त्रे माङ्गल्ये च' अस्मात्कर्तरि क्तः। अपीत्यनेन निसर्गत एव मङ्गळस्यास्य मङ्गळदेवतायाश्श्रियस्संबन्धोऽव्यति- शयाधायक इति द्योतितम् । नु इतिच्छात्रानुनये 'नु वित- र्कापमानयो: । विकल्पेऽनुननयेतीते' इति मेदिनी। श्रीनिवास- भूतं परं महः ब्रह्मवेदिभिरुपासनेन प्राप्ं भवतीति परिनिष्पन्नोऽर्थः॥। पक्षे-बुधेन्द्राणां वैयाकरणानां महः 'मह पूजायाम्' इत्युक्तो महधातु: परात् स्वस्मात्परत्र विद्यमानात् अतिप्रत्य- यात् महत् सिद्धयति महदिति निष्पद्यत इत्यर्थः । यत्रैव यस्मि- नमहच्छब्द एव सर्वनामस्थाने 'शि सर्वनामस्थानम्, सुडन- पुंसकस्य' इति च सूत्रविहितसर्वनामस्थानसंज्ञके प्रत्यये परे सति। नुमागम इत्यत्र नुम् आगम इतिच्छेद: । तुम् वर्त- माने पृषन्महद्दहजगच्छतृवञ्च' इत्यततिप्रत्ययान्ततया निपातितस्य शतृवन्भावातिदेशेन उगित्वात् 'उगिदचां सर्वनामस्थानेऽधातोः'

Page 72

श्लेषसरः (२८) 59

इति विहितो नुमागमः आगमः आ इत्याकारकवर्णस्य गमः संबन्धः 'सान्तमहतः' इत्यनेन विहितो नकारोपधादीर्घ इति यावत्। सोऽपि सिद्ध इति॥

यथावा- इह बृंहति परभूमनि नोद्रवति प्रकृतिसङ्गतो नुमतः। ब्रह्मणि नरस्तथात्वेनोस्स्यान्नाप्यत्र व- शिकृतीडितता॥ ८५३ ॥

अत्र प्रकृतस्य ब्रह्मविद: अप्रकृतस्य ब्रह्मशब्दस्य च श्ेषः । तथाहि इह बृंहाते परभूमनि न उद्भवति प्रकृतिसंगतः नु मतः ब्रह्मण नरः तथात्वे नो स्यात् न अपि अत्र वशीकृ- तीडितता इति पदच्छेदः । नरः चेतनः परभूमनि निराे शयमहिमनि 'यत्र नान्यत्पश्यति नान्यच्छरणोति नान्यद्विजा- नाति स भूमा' इत्युक्तरीत्या निरतिशयवैपुल्यविशिष्टे इत्यर्थः। अत एव बृंहति वर्धमाने 'नैनमूर्थ्व न तिर्यश्चं न मध्ये परिजग्रभत्' इत्यायुक्तरीत्या सर्वव्यापिनीत्यर्थः । ब्रह्मणि वि- षये मतः मन्ता 'मतिवुद्धि' इत्यादिना कर्तरि क्ः। पर ब्रह्मस्वरूपमननशील इत्यर्थः । प्रकृतिसङ्गतः प्रकृतिसंसर्गात् इह अस्यां भूमौ आस्मिन् लोके इति वा। नोन्भवति नु भूयो न जायत इत्यर्थः । अर्चिरादिपथेन परव्रह्म प्रतिपद्य पुनर्नावर्तते।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गनाः । इति गानादिति भावः। तथात्वे एवमनावृत्तत्वे सति। अत्र अस्मिन् ब्रह्मविदि नरे वशिकृतीडितता वशी सर्वेश्वरः स्वा-

Page 73

60 अलंकारमणिहार

यत्तसकललोक इत्यर्थः । वशोऽस्यास्तीति वशी 'वश आय- त्ततायां स्याद्श इच्छाप्रभुत्वयोः' इति विश्वः। 'सर्वस्य व- शी सर्वस्येशानः' इति श्रुतेः । 'जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्' इति स्मृतेश्च। कृतमस्यास्तीति कृती 'न मे पा- र्थास्ति कर्तव्यम्' इत्युक्तरीत्या स्वार्थकर्तव्यशेषरहित इत्यर्थः। यद्वा-आश्रितरक्षणेन कृतकृत्यः 'अभिषिच्य च' इत्यारभ्य 'कृ- तकृत्यस्तदा राम:' इत्युक्तेः। अथवा कृतमुपकारोऽस्यास्तीति कृती भूस्ि मत्वर्थीयः। यत्किश्चिदुपकृतमपि बंहीयो जानातीत्यर्थः। यथोक्तं-'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति' इति । कृतने- त्यत्र 'आदिकर्मणे क्, कर्तुमुपकरान्तेन' इति व्याख्यातारः। गोविन्देति यदाक्रन्दत कृष्णा मां दूरवासिनम्। ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति॥ इति च। अत्र 'वशी वदान्यः' इति पद्ये श्रीयामुनमुनिभिरनु- गृहीतानि वाशत्वकृतित्वकृतज्ञत्वान्यनुसंहिताान । वशी चासौ कृती चेति विशेषणोभयपद्कर्मधारयः । स चासावीट् च। ईटू इश्वरो भगवान् तेन इतः प्राप्तः। वशिकृतीट इतः प्राप्तो येनेति वा। तस्य भावः वशशिकृतीडितता, परव्रह्मानुभव इत्य- थः। साऽपि नोस्स्यादिति न किं त्ववश्यं भाविन्येवेति भावः संभाव्यनिषेधनिवर्तकशब्दद्वयेन ईदृशस्य विदुषः परब्रह्माननु- भवसंभावना दूरतो निरस्यते। यथा सूत्रितं वामनेन-"सं- भाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति। नोस्स्यादित्यत्र सका- रस्य 'अनचि च' इति वैकल्पिकं द्वित्वमर्थान्तरानुगुण्याया- वश्यमेष्टव्यम्। यद्वा-वशिभिः स्वायत्तेन्द्रियैः कृतिभिः विद्वद्भिः इंडितता महाप्रभावोऽयं ब्रह्मविदिति स्तुतता नोस्स्यादिति न किंतु स्तुततैव स्यादिति भावः।

Page 74

श्लेषसर: (२८) 61

अन्यत्र - इह बृंहतिपरभूमनि नः अत् भवति प्रकृतिस- ङ्गतः नुमतः ब्रह्मणि न रः तथा अत्वेन उः स्यात् न अपि अत्र वशि कृति इडितता इति पदच्छेदः । बृंहतिपरभूमनि बृंहति: बृहिधातुः 'बृहि वृद्धौ" इति भ्वादौ पठितः। शितिपा निर्देशोऽयम्। तस्मात् परभूः परत्र विद्यमानः मन् मन्नित्याका- रकप्रत्ययो यस्य तस्मिन् बृंहतेर्मनिन्प्रत्ययेन निष्पन्ने इत्यर्थः । ब्रह्मणि ब्रह्मशब्दे प्रकृतिसंगतः प्रकृती मन्प्रत्ययप्रकृतिभूते बृंहे. ति धातौ संगतः संबद्ध: नुमतः अततीत्यतः अततेस्सातत्यगम- नार्थकान्भोवादिकात पचाद्यच्। नुमः अतः तुमतः वृहिधातो- रिदित्वात् 'इदितो नुम् धातोः' इते विहितनुमागमातप्राप्त इत्यर्थः। नः नकार: अत् भवति। बृहिधातोर्नुमो नकारः 'त- परस्तत्कालस्य' इति शाब्दिकसंकेतितो हस्वोऽकारो भवतीत्यर्थः। 'सर्वधातुभ्यो मन्' इत्यतो मन्नित्यस्यानुवृत्तौ 'बृंहेनोऽच्च' इत्यौणादिकसूत्रेण तुमो नकारस्य अत्वविधानादिति भावः । तथा एवमेव। अत्वेन नुमो नकारस्याकारादेशेन। उ: बका- रोत्तरवर्तिऋकारस्य। ऋशब्दात् इसि 'ऋत उत्' इत्येकादेशे उत्वे रपरत्वे 'रात्सस्य' इति सलोपे रेफस्य विसर्गः । रः रेफः न स्यादिति न इति योजना। स्यादेवेत्यर्थः। वृ अ इते स्थिते 'इको यगचि' इते ऋकारस्य यणादेशविधानादिति भावः। अत्र एवं निष्पन्ने ब्रह्मनशब्दे वशि वशप्रत्याहारघट- कमवर्णादी कृति कृत्प्रत्यये इडितताऽपि इडागमयुक्तताऽपि न स्यादिति पदद्वयमेवावर्त्यते। न स्यात् न भवेदित्यर्थः । 'ने- ड्वशिकृति' इतीण्निषेधात्। एवं सुदुष्करतमस्यास्य पद्यस्या- थौ ब्रह्ममीमांसाशब्दनयनिपुणतमैस्सहृद यैविपश्चित्समुदयैस्सदयै- स्सावधानं सूक्ष्मया दृशा विभावनीयः॥

Page 75

62 अलंकारमणिहारे

प्रददाति निरुपसर्गस्स्वजुषे विश आत्मने पदं यथावा-

देवः। स च तत्र निविशमानो भवति परस्मै पदा- य योऽभ्यर्हेत्॥ ८५४॥ अत्र प्रकृतस्य ब्रह्मजुषो मनुजस्य अप्रकृतस्य विशधातोञ्च श्ेषः । तथाहि-यः पुमान परस्मै पदाय परमं स्थानं प्राप्तुं 'क्रियार्थ' इत्यादिना चतुर्थी। अभ्यर्हेत् योग्यो भवेत्। तस्मै स्वजुषे आत्मानं सेवमानाय विशे मनुजशरीरकाय आत्मने चेतनाय। शरीरवाचकानां शब्दानां शरीरिपर्यन्तताया आकृत्य- धिकरणन्यायसिद्धतया विशे आत्मने इत्यनयोस्सामानाधिकर- ण्यम्। 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः। देवः भगवान् निरु- पसर्ग: इयत्पदमेतस्मै कथं देयमित्युद्वेगं दूरतः परिहरान्नति भावः। पदं तदर्ह दिव्यं स्थानं प्रददाति। स च स पुमानपि तत्र परस्मिन् पदे निविशमानो भवति। भगवदनुगृहीतनिरवधि- कनिशश्रेयससाम्राज्यस्तत्रैव तत्कैंकर्यैकरतिर्वसतीति भावः॥ पक्षे-यः 'विश प्रवेशने' इति पठितो धातुः परस्मैपदाय "लः परस्मैपदम्' इति विहिताय परस्मैपदसंज्ञकाय लादेशाय अभ्यर्हेत् योग्यस्स्यात् विशधातोः परस्मैपदिषु पठितत्वादिति भावः । तस्मै स्वजुषे स्वसमभिव्याहारभाज विशे विशधातवे देवः देवयति धात्वर्थ द्योतयतीति देव: दीव्यतेर्णिजन्तात्पचा- द्च् । उपसर्गाणां द्योतकत्वादेव इत्युक्तिः। निः नीत्याकारक: उपसर्गः 'उपसर्गा: क्रियायोगे' इत्यनुशिष्टो निपातविशेषः । आत्मनेपदं 'तडानावात्मनेपदम्' इति विहितं शानजाख्यमा- त्मनेपदसंज्ञकं प्रत्ययं प्रददाति 'नेविशः' इत्यनेन नीत्युपसर्गा-

Page 76

क्लषसरः (२८) 63

त्परीभूतस्य विशतेरात्मनेपदानुशासनात्तस्य तद्दत्तत्वोपचारः । स च नीत्युपसर्गविशिष्टो विशधातुरपि। तत्र तस्मिन्नात्मनेपदे परे सतीति शेषः । निविशमानो भवति तथा निष्पद्यते। निसर्गतः परस्मैपदी विशधातुर्नीत्युपसर्गात्परत्वे उक्तप्रकारेणा- त्मनेपदितां प्रपद्य निविशमान इति निष्पद्यत इति निर्गळि- तोरऽर्थः । अस्मिन्पक्षे आत्मनेपदं परस्मैपदायेत्यत्र 'वैयाकरणा- ख्यायां चतुर्थ्याः' इति 'परस्य च' इति सूत्राभ्यां चतुर्थ्या अलुगिति ध्येयम्॥

यथावा- नाथपदद्वयसेवी निर्सगतस्स्वैरमधिधरणिराजः। परमानमतं धन्ते चटुलस्स्थाने तथा सदादेशम्। अत्र भगवच्चरणसेविनो राजाधिराजस्य राजृधातोश्च प्रकृ- ताप्रकृतयोश्श्लेषः । तथाहि- निसर्गतः न तु परप्रेरणया। स्वैर स्वच्छन्दं यथा स्यात्तथा न तु संकुचितं, नाथस्य वेङ्गटनाथस्य पद्द्वयसेवी चरणयुगं सेवमान: अधिधरणराजः अधिको धरण- राज: राजाधिराज इत्यर्थः । चटुलः चटवः स्तुतयः अस्य स- न्तीति चटुलः। सिध्मादिपु चटुशब्दपाठात् 'सिध्मादिषु च' इति मत्वर्थीयो लच्प्रत्ययः । चटून् लाति आदत्त इति वा 'आतोऽनुपसर्गे' इति कप्रत्ययः । 'चदुश्चाटुश्च राजादिस्तुतौ पशुपिचण्डके' इति वैजयन्ती। श्ाध्यस्सन्नित्यर्थः । यद्वा-अच- टुल इतिच्छेदः। अचपलस्सान्नत्यर्थः । 'मदेन किंचिच्चटुलाल- सानाम्' इत्यत्र 'चटुलाश्चपला.' इते मल्लिनाथेन व्याख्या- तत्वात् । स्थाने राज्ये इत्यर्थः । स्थितस्सन्नित्यध्याहारः। देशं जनपदं परमानमतं परेण उत्कृष्टेन मानेन गौरवेण मतं संमतं

Page 77

64 अलकारमणिहार

यथा स्यात्तथा सदा सतत तथा अनिर्वचनीयं यथा स्यात्तथे- त्यर्थः । धत्ते पुष्णाति। यद्वा-सदादेशमिति समस्तं पदम्। परमानमतं परैक्शत्रुभिरपि मानेन गौरवेण मतं अभिमतं सन्तं यथाविधि प्रयुक्ततया प्रशस्तं आदेशं शासनं धत्ते पुष्णाति। अथवा-सतां आदेशं आज्ञां परमानमतं महता पूजनेन वि दितं यथा स्यात्तथा धत्ते सज्जनादिष्टेन पथा सबहुमानमाधि- राज्यं पुष्णातीति भावः। यद्वा स्थाने इति युक्तार्थकमेदन्त- मव्ययं पृथक्पदमन्ते योज्यम्। सदादेशं धत्ते स्थाने । भग- वञ्चरणयुगळसेविनः इदं युक्तमित्यभिप्रायः। अन्यत्समानमेव॥

पक्षे-हे नाथति संबुद्धिः। अधिधरणीति पृथक्पदम्। वि- भक्त्यर्थेऽ्व्ययीभावः, भुवीत्यर्थः। राजः 'राजू दीप्ौ' इत्युक्तो धातुः शपा निर्देशोऽयम्। निसर्गत एव न तु यगादिसम- भिव्याहारात् स्वैर यथेष्टं पददयसेवी उभयपदीत्यर्थः। स्वरि- तेत्वानुशासनेन क्रियाफलस्य कर्तृगामित्वविवक्षायामात्मनेपदं परगामित्वविवक्षायां परस्मैपदं च भजमान इति भावः। अत एव चटु श्ाध्यं यथा स्यात्तथा परं स्वस्मात्परतो विद्यमानं लस्थाने लटस्स्थाने । आनं अतं इतिच्छेदः। आनं अतमिति मुक्तानुबन्धयोश्शानचशत्रोर्ग्रहणम्। आनं आत्मनेपदित्वे शा- नचं अतं परस्मैपदित्वे शतारं च 'लटशशतृशानचौ' इति तयोरनुशासनादिति भावः। सदादेशं सत्संज्ञकमादेशं'तौ सत्' इति लादेशयोश्शतृशानचोस्सत्संज्ञाविधानादिति भावः। धत्ते दधाति। राजृधातुस्स्वरितत्वेनोभयपदितया स्वभावसि- द्धया यथेप्सितं लस्थानिकं शानचं शतारंच सत्संज्ञकमादेशं लभत इति संपिण्डितोऽर्थः ॥

Page 78

श्लेषसरः (२८) 65

यथावा-

भगवद्रूपं द्वंद्वं भजामहेऽनन्तगिरिकृतोत्कर्षम्।८५५

अत्र लक्ष्मीनारायणरूपदिव्यमिथुनस्य प्रकृतस्य द्वंद्वसमा- सस्याप्रकृतस्य च श्ेषः । तथाहि-इतरेतरयोगोजलं- तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ इत्यायुक्तरीत्या परस्परसंबन्धन परस्परं प्राप्तपरभागमित्यर्थः । यद्वा-अन्योन्यमविनाभावेन लब्धसत्ताकमित्यर्थः । यथोक्तं ल क्ष्मीतन्त्रे- अहन्ता ब्राह्मणस्तस्य साऽहमस्मि सनातनी। आत्मा स सर्वभूतानामहंभूतो हरि: स्मृतः। अहंता सर्वभूनानां साऽहमस्मि सनातनी । अहंतया समाक्रान्तो ह्यहमर्थः प्रसिद्धयति॥ अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता। अन्योन्येनाविनाभावादन्योन्येन समन्वयात्॥ तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥ इत्यादि। पक्षे 'चार्थे द्वंद्वः' इत्यनुशिष्टसमुच्चयान्वाचयेतरेतर योगसमाहाररूपचार्थचतुष्टयमध्ये इतरेतरयोगलक्षणार्थविशेषे उ- जलं सामर्थ्यसन्भावेन समस्ततया प्रकाशमानम्॥ इदमत्रावधेयं-ईश्वरं गुरुं च भजेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासः, एकार्थीभावरूपसामर्थ्य- विरहात्। तथाहि-बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वंद्व- ALANKARA II 9

Page 79

66 अलंकारमणिहारे

घंटकपदानां चार्थान्तर्भावेणैकार्थीभाव आवश्यकः, 'समर्थः प- दविधि:' इति परिभाषितत्वात् 'चार्थे द्वंद्वः' इत्युक्तेश्च। न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावस्संभवति, येन स. मुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम्। अतश्च इतरेत- रयोगे समाहारे च परस्परसाहित्यसत्वात्समासो भवति न तु समुच्चयान्वाचययोः। परं त्वितरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणमिति विवेक्तव्यम्। अनयोरापे साहित्यप्रधानकसमाहारापेक्षया वक्ष्य- माणरीत्या द्रव्यरूपोभयपदार्थप्रधानक इनरेतरयोगो ज्यायानित्या-

तरस्यानुषङ्गिकत्व अन्वाचयः । मिळितानामन्वय इतरेतरयोगः। समूहस्समाहार:' इत्याहुः। उभयपदार्थप्रधानतामधुरं उभौ च तौ पदार्थौ लक्ष्मीनारायणात्मकौ तयोः प्राधान्येन उभयविभू- तिशेषित्वव्यापित्वेश्वरत्वादौ समप्रधानतया रमणीयम्। अस्या मम च शेषं हि विभूतिरुभयात्मिका। यथा मया जगद्वयातं स्वरूपेण स्वभावतः । तया व्याप्तमिदं सर्वे नियन्त्री च तथेश्वरी॥ इत्यादीनि प्रमाणान्यत्रानुसंहितानि। पक्षे-क्रियान्वये वर्तिपदार्थयोरुअयोरपि प्राधान्येन मनोहरमि- त्यर्थः । 'उभयपदार्थप्रधानो द्वंद्वः' इति हि प्राचां प्रवाद:। भगवती च भगवांश्च भगवन्तौ ज्ञानादिषाङ्डण्यपूर्णौ भगवन्ता- विति रूपं यस्य तत् उभयोरप्युक्तगुणपरिपूर्तेस्तथोक्तिः । द्वंद्ं मिथुनम्। पक्षे-समासेषु प्रधानभूतभगवद्विभूतितया परिगणितं द्वंद्समासमित्यर्थः । 'द्वंद्वस्सामासिकस्य च' इति विभूतिवि-

Page 80

श्लेषसरः (२८) 67

स्तराध्याये गानादिति शवः। भगवद्विभूतित्वादेव द्वंद्वस्यात्र भगवद्रूपतोक्तिः: 'सामासिक: समाससमूहः। तस्य मध्ये द्ंद्व समासोऽहम्। स हि पूर्वोत्तरान्यपदार्थ प्रधानेभ्योञ्व्ययीभावत.

तामघुरमित्युक्तम्। द्वंद्वं पुनर्विशिनष्टि-अनन्तागेरिकृतात्कर्ष- मिति। शेषाचले लब्धोत्कर्षमित्यर्थः । पक्षे अनन्तगिरि पत- अ्जलिवाचि महाभाष्ये लब्घोत्कर्षस्। अत्र अनन्तस्य भगवतो वासुदेवस्य गिरि गीतारूपाय। वाचि कृतोत्कर्ष उदाहृतप्रमा- णानुसारेणोत्कर्षितं, अत एव भगवद्रूपमित्यप्यर्थोऽनुसन्घेयः। भजामहे॥। यथावा- ननु चेतस्तत्पुरुषेपूर्वे त्वां न्यस्तवान् समा- सेडहम्। पश्यामीह न तुल्यं परत्र तुल्यं पढ़े पर- मवैमि ॥८५६॥ अत्र कविना स्वचेतसः क्त्वाप्रत्ययस्य च श्रेषो वर्ण्यंते तथाहि-ननु चेत! हे हृदय! अहं त्वां पूर्ते आखिलजगत्कारणे। स चासौ पुरुषस्तत्पुरुषः तस्मिन् सर्वेश्वरत्वादिना सकलला- कविदिते परमपुरुषे न्यस्तवान् विन्यस्तात्मरक्षाभरस्सन्निति या- वत्। समासे सम्यगुपविशामि निर्भरतया सुखी संवृत्तोऽस्मी- त्यर्थः । संपूर्वकादासे: कतारे लड्डतमकवचनम्। अत एव इह अस्मिन् लोके तुल्यं मम समं जनं कमपि न पश्यामि। सत्कर्मनिरताइशुद्धास्सांख्ययोगविदस्तथा। नार्हन्ति शरणस्थस्य कलां कोटितमीमपि।

Page 81

68 अलंकारमणिहारे

इत्यादिप्रमाणादिति भावः । परत्र पदे परस्मिन् पदे तु परं 'ब्रह्मविदाप्नोति परम्' इते श्रुतं परमपुरुषमेव तुल्यं मम स- हशं अवैमि जानामि 'निरञ्जनः परमं साम्यमुपैति' इति श्रुत्या परमसास्यस्यावेदितत्वादिति भावः।।

पक्षे-नतु च इतः इति छेदः । इतः अस्मिन् बुद्धिस्थे सार्वविभक्तिकस्तसिः । अपूर्वे नज्पूर्वे इत्यर्थः । अकारेण लुप्त- नकारस्य नजो विवक्षा। तत्पुरुषे च तत्पुरुषसंज्ञके च स- मासे न तु यस्मिन्कस्मिश्चित्समासे, अहं त्वां त्वामित्युत्सृष्टा- नुबन्धस्य क्त्वाप्रत्ययस्य ग्रहणम्, 'आनेमुक्' इत्यादौ शान- जादेरिवेति भावः । क्त्वाप्रत्ययमित्यर्थः । न्यस्तवान् सन् इह अस्मिन क्त्वाप्रत्यये तत्स्थाने इत्यर्थ। न तु ल्यं इति पदत्र- यम्। ल्यं ल्यमित्युत्सृष्टानुबन्धस्य ल्यपो निर्देशः 'मतौ बह्वचः' इत्यादौ मतुबावेरिवेति भावः। न तु पश्यामि नैव पश्यामि 'समासेऽननपूर्ते क्त्वो ल्यप' इत्यनञपूर्वसमास एव क्त्वो ल्य्विधानात् अकृत्वेत्यादौ नजसमासे ल्यपोऽदर्शनादिति भावः। परत्र पदे नञ्तिरिक्तशब्दपूर्वकसमासस्थले तु ल्यं अवैभि "अलंकृत्य नमस्कृत्य' इत्यावी ल्यपो दर्शनादिति भावः॥

यथावा- कल्पान्तगतत्वेऽपि ह्रस्वान्तत्वं श्रियो न ल- क्ष्म्यास्स्यात्। भान्त्यपि वाडन्ते हरस्वा नियतं ब- ह्वीतरप्पसक्ता सा ।८५७॥

अत्र लक्ष्मीगताया: तत्कटाक्षलब्घाया वा संपद: प्रकृता- या: श्रीलक्ष्म्यादिशब्दानां चाप्रकृतानां श्षेषः। तथाहि - लक्ष्म्याः

Page 82

श्लेषसरः (२८) 69

श्रीसंबन्धिन्याः, लक्ष्मीकटाक्षलब्धाया था। अस्मिन्नर्थे लक्ष्म्या इति पश्चमी वा। लब्धोत शेषः। श्रियः संपदः । ्रियो लक्ष्म्या इति वा योजना। अर्थस्तु पूर्ववदेव। कल्पान्तगतत्वेऽपि सं- वर्तसमयभाकतवेऽपि। हस्वः अन्तः स्वरूपं यम्य तत्तथोक्तं, सामान्ये नपुंसकं, तस्य भाव: हस्वान्तत्वं नश्वरत्वमिि या वत्। 'अन्तस्स्वरूे निकटे प्रान्ते निश्चयनाशयोः' इति हेम- चन्द्रः। 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला च। न स्यात्। लक्ष्मीसंबान्धिनी तत्कटाक्षलब्धा वा संपत्ति: कल्पान्तेऽपि न नश्वरी स्यादित्यभिप्रायः। इतरप्प्र- सक्ता इतरासु देवतासु स्थिता इतराक्यो देवताश्यो लब्धा वा 'सर्वनाम्तो वृत्तिमात्रे' इतीतराशब्डस्य पुंवन्भावः इतर- पप्रसक्तेत्यत्र पकारस्य 'अनाच च' इति द्वित्तमर्थान्तरे शब्दावै- रू्यायावश्यकम्। यद्वा-कल्पति कल्पप इव तरेति तरप उ- त्सृष्ानुबन्धस्य ग्रहणे अर्थान्तरेऽप पकारस्य न द्वित्वावश्य- कतेति बोध्यम्। सा श्रीरित्यर्थः । वह्नी भान्त्यपिवा अविम- शातसरे अपरिच्छिन्नतया ासमानाऽपि वा अन्ते निर्णयावसरे हस्वा आशुविनाशिनीति यावत्। अवति नियतं नूनं भगव- लक्ष्म्यतिरिक्तदेवतासंबन्धिनी तत्प्रसादासादिता वा संपत् अ- विमर्शदशायामनन्ततया भासमानाऽपि तत्त्वनिष्कर्षसमये परि- मितैव ज्ञायत इति भावः॥। पक्षे-कल्पान्तगतत्वे कल्प: कल्पप्प्रत्ययः तस्थ अन्तगतत्वे स्वस्मात्परत्रावस्थाने सति। इदमुपलक्षणं तरवादिपरकत्वस्य। अपिशब्दो भिन्नक्रमः श्रिय इत्यत्र संवध्यते। लक्षम्या लक्ष्मी शब्दस्य, अर्थगतस्य स्त्रोत्वस्य शब्दे आरोप इत्यसकृदवोचा- म। एवमग्रेऽपि। श्रियोऽपि श्रीशब्दस्य च । ह्रस्वान्तत्वं न

Page 83

70 अलंकारमणिहारे

स्यात्। यतो घरूपकल्पवादिपरकत्वे 'नद्याइशेषस्यान्यतरस्या- म्' इत्यड्यन्तनद्या ङयन्तैकाचश्च विहितो हस्वविकल्पः 'करृ न्नद्या न' इति निषिध्यते। लक्ष्मोशनद्श्च कृन्नदन्तः 'लक्षे मु्च' इत्यौणादिकसूत्रेण लक्षधातोरीप्रत्ययविधानात्। तस्य च 'यूस्त्रयाख्यौ नदी' इति नदीसंज्ञकत्वात्। श्रीशब्द्स्तु 'नेय- ङुवङ्स्थानावस्त्री' इति निषेधेनानद्यन्तत्वात्तदविषय एव। एवंच लक्ष्मीकल्पा श्रीकल्पेति दीर्घघटितमेव रूपं भवति, न तु ल- क्ष्मिकल्पा श्रिकल्पेति हस्वघटितम्। विशेषान्तरमप्याह-भा- न्तीत्यादिना। अपीत्यस्य अपिचेत्थर्थः । भाल्ती भान्तीशब्दः तरप्प्रसक्ता। तरप् तरप्प्रत्ययः प्रसक्तो यस्यां सा तथोक्ता, तरप्प्रत्ययान्तेति यावत् । कल्पान्तगतत्वे च उक्त एवार्थः। अन्ते वाहस्वा विकल्पेन हस्वा स्यात् हस्वशब्दात् मत्वर्थीयः, अर्श आद्यचू ! हस्वान्ता भवेदित्यर्थः । 'उगितश्च' इति घ रूपकल्पादिपरकत्वे ह्नस्वस्य विकल्पेन विधानादिति भावः। उगिदन्तश्चायं भान्तीशब्दः । किंच सा भाषितपुंस्कत्वेन ङ्य- .

न्तत्वेनानेकाच्त्वेन व प्रसिद्धेति भावः । बह्नी बह्नीशब्दः त- रप्रसक्ता सती कल्पान्तगतत्वे वा अन्ते नियतं ह्रस्बा स्यात् नित्यं हस्वान्ता स्यादित्यर्थः । 'घरूपकल्पचलड्डवगोत्रमतहतेषु ङ्योनेकाचो ह्रस्वः' इत्यनेन सूत्रेण नित्यं हस्वविधानादिति भावः । 'भाषितपुंस्कात्परो यो डीप् तदन्तस्यानेकाचोऽङ्गस्य हस्वस्स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषूत्तरपदेषु च' इति सूत्रार्थः। धेति नरत्मपोस्संज्ञा 'तरप्तमपौ घः' इति संज्ञाविधानात् । एवंच भान्तीशव्द्वान्तरण्कल्पपोः परयो: हरस्व- विकल्पान्भान्तितरा भान्तिकल्पेति रूपं, हस्वाभावपक्षे-'तसि- लादिषु' इति पुंवन्भावेभात्तरा सात्कल्पेत्येवरूपं न तु भान्ती-

Page 84

श्लेषसर: (२८) 71

तरेत्यादि। बह्वीशब्दात्तयोः परयो्नित्यं हस्वे बह्नितरा बाह्ने

यम् ॥ यथावा- कदशनभुगसूपगतः प्राक्त्वत्पदविदथ भवति यो राजा। अन्नन्तस्यास्य पुनर्नसूपलुप्तं सदाऽपि भवति हरे॥८५८॥ हे हरे! प्राक् त्वच्चरणशरणागतेः पूर्व यः पुमान कद- शनं कुत्सितान्नं भुङ्क इति कदशनभुक् सन् असूपगतः असु- भिः प्राणैः उपगतः असवः उपगताः येनति वा। कदन्नाभ्य- वहारेणैव प्राणान् धारयितेति भावः । यद्ा -असूपगतः कदश- नभुगिति योंजना। सूप गतस्सूपगतः 'द्वितीया श्रित' इत्या दिना समासः । स न भवतीत्यसूपगतः कदशनभुक् कदन्न भोक्ता भवति व्यञ्जनादिदविष्ठयावनाळादिगर्ह्यान्नभोजी भवती- त्यर्थः । अथ त्वत्पदवित् तव पदे चरणे विन्दृति प्राप्नोतीति तथोक्तः । त्वच्चरणप्रपन्नस्सन्नित्यर्थः । राजा भवति। तस्यास्य आदौ कदशनभोक्तुः ततो भगवदनुग्रहाधिगतराजभावस्येत्यर्थः । अन्नं पुनः ओदनं तु सदापप न सूपलुप्तं लुपसूपं न भवति। सूपेत्युपलक्षणमुपसेचनान्तरस्यापि। मृष्टान्नभोक्तृत्वं भवतीत्यर्थः। अन्नन्तस्येत्यत्रानुस्वारस्य 'वा पदान्तस्य' इति वैकल्पिकः प रसवर्णः अर्थान्तरे शब्दैकरूप्ययति ध्येयम्॥ पक्षे-यः कदशनभुक्छब्दः प्राक्छब्द: त्वत्पदविच्छन्दश्च सुना सुप्रत्ययेन उपगतो न भवतीत्यसूपगतः भवतीति प्रत्येकं योज्यं 'हल्ड्याभ्यो दीर्घात्सुतिस्यपृक्त हल्' इत्यनेन लुपसुग्र-

Page 85

72 अलंकारमणिहारे

त्ययो भवतीत्यर्थः । अथ अथ च किंचेत्यर्थः । 'अथ समु- चचये। मङ्गळे संशयारम्भाधिकारानन्तरेषु च । अन्वादेश प्र- तिज्ञायां पश्चात्साकल्ययोरपि' इति हेमचन्द्रः। यो राजा भ- वति राजतिशब्दा विद्यत । अन्नन्तस्य अन्निति वर्णसमुदयोऽ- न्ते यस्य तथोक्तस्य अस्य पुनः राजनूशब्दस्य तु सदाऽप नित्यमपि नसूपलुततं न सु इत्यनयोर्वर्णयोः उपलुप्तं लोप इ- त्यर्थः। लुम्पतेर्भावे क्। भवति 'हल्ड्याभ्यः' इति सुलोपः 'नलोपः प्रातिपदिकान्तस्य' इति नलोपश्च भवतीत्यर्थः । यद्वा - अथेत्येतन्नसूपलुप्तमित्यत्रान्वेति । साकल्येन सुप्रत्ययनकारयो- लोपो भवतीत्यर्थः । अस्य पुनरित्यनेन कदशनभुगादिशब्दा- पेक्षया वैलक्षण्यं सूचितम्। तेषां सुप्रत्ययमात्रलोप: अस्य तु नकारस्यापि लोप इति वैलक्षण्यं बोध्यम्। अत्र भगवच्चरण- रविन्दप्रपन्नस्य प्रकृतस्य कदशनभुगादिशब्दस्याप्रकृतस्य च शेष:॥ यथावा- अप्प्रत्ययो भवति चेत्स्वयं भुवि रमेश भवति भव एव। कथमघवतोऽस्य भावो वृद्धिं प्राप्तो भवेत्साध्वीम् ॥।८५९।

अत्र भगवदप्रत्ययितस्य पुंसः प्रकृतस्य अप्प्रत्ययान्तस्य भूधातोरप्रकृतस्य च श्ेषः । तथाहि-हे रमेश! स्वयंभुवि कारणान्तररहिते सर्वकारणभूते इत्यर्थः । 'प्रभुर्मनीषी परिभू: स्वयंभूः' इति श्रुतेः। भवति त्वाय अप्प्रत्ययः अविश्वासश्चेत् भव एव भवति। त्वाये महाविश्वासोपलक्षितमात्मरक्षाभरम- नर्पयितुस्संसारो दुस्त्यज इति भावः। यद्वा-स्वयंभुवि भवति

Page 86

श्लेषसरः (२८) 73

अप्रत्ययः नञत्र विरोधे विरुद्धज्ञानं नानात्वधीरिति यावत्। भवति चेत्। भवतीत्युत्तरवाक्यादपकृष्यते। तत्य भव एव संसार एव भवति। यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति॥ इति श्रुत्युक्तरीत्या परमात्माने भेदद्रपुर्मृत्युशब्दितसंसारपात्ति- रेव भवतीत्यर्थः। "यदेव परमात्मतत्त्वमत्र लोकेऽहमित्यनुसं- धीयमानतयाऽऽत्मभूतं तदेव लोकान्तरस्थानामप्यात्मभूतं, तत- श्चात्मभेदो नास्तीत्यर्थः । इह परमात्मनि भेदमिघ यः पश्यति सः संसारात्संसारं प्राप्नोति" इति श्रुत्यर्थो वर्णित उपनिष- द्ाष्ये। अधवतः एवं विरुद्धज्ञानमूलभूतपाप्मवतः अस्य जन- स्य भावः स्थितिः स्वभावः अभिप्रायो वा 'भावस्स ततास्व- भावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः। साध्वी परव्रह्मध्यानैकता- नतया श्रेयसीं वृद्धिं प्राप्तः कथं भवेत्। यद्ा-अस्य साध्वीं वृद्धिं प्राप्तो भावः कथं भवेदिति योजना। साध्वीं वृद्धिं प्राप्तः अपरिच्छिन्न इति यावत्। भावः विभूतिः नित्यविभूति- रित्यर्थः । 'भावो बुधे विभूतौ च' इति शेषः । ईदृशस्योक्त- विधं भाग्यं दुर्लभमिति भावः॥ पक्षे-भुवि भूधाती अप्प्रत्ययः 'ऋदोरप्' इति विहितः अप इत्याकारक: प्रत्ययः भवति चेत् भवः स्वयमेव भवात भव इति हेत्वन्तरनिरपेक्षमेव निष्पद्यत इत्यर्थः । अस्य भूधातोः अधवतः घेत्युत्सृष्टानुबन्धस्य घतो ग्रहणम्। अविहितघजप्रत्य- यस्य सत इत्यर्थः । साध्वीं वृद्धिं 'अचो तिणति' इति शा- स्त्रविहितां जिन्निमित्तां वृद्धिं प्राप्तः भाव इि कथं भवेत्। घञ्भावे कथमेवं रूपं निष्पद्येतेत्यर्थः ॥ ALANKARA II 10

Page 87

74 अलंकारमणिहारे

यथावा- प्रायस्सत्वं चित्ते पर इह यद्येकदास्थितोऽव- सितौ। कृष्ण तदेव समस्तं प्रायश्चितं भवेन्न सं. देहः ॥८६०॥

अत्र प्रस्तुतभगवद्धचानरूपप्रायश्चित्तस्य अप्रस्तुतप्रायश्चि- त्तशब्दस्य च श्लेषः । तथाहि-पर इहेत्यत्र पर: इह इतते छेदः । हे कृष्ण! परः 'अक्षरात्परतः परः' इत्यायुक्तरीत्या स कलचेतनविलक्षणस्सर्वोत्तर: सः ॥

सकृत्स्मृतोऽप गोविन्दो नृणां वर्षशतैश्चितम्। पापराशि दहत्याशु तूलराशिमिवानलः ॥ इत्याद्युक्तरीत्या सकललोककलुषविध्वंसनपटीयस्तया प्रसिद्ध: त्वं इह अस्मिन् लोके चित्ते चेतसि अवसितौ शरीरावसाने ए. कदा जातुचिदपि वा न तु सर्वदेति भावः । प्रायः सान्त- मव्ययं भूम्नि 'प्रायो भूम्नि' इत्यव्ययेष्वमरः । बहुश इत्य- र्थः । यदि स्थितः स्मृतश्चेदित्यर्थः । तदेव तदवस्थानमेव समस्तं सर्वे प्रायश्चित्तं निष्कृतिः भवेत्। प्रायश्चित्तशब्दश्च रूढ्या योगेन च पापनिवर्तनक्षमं धर्ममचष्टे। प्रायश्चित्तशब्द: पापक्षयार्थे नैमित्तिककर्मविशेषे रूढ इत्याहुस्सांप्रदाययिका निब- न्धनकृतः । योगस्त्वङ्गिरसा दर्शित :- प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते। तपो निश्चयसंयुक्तं प्रायश्चित्तमिहोच्यते॥ इति। अनुष्ठितेन द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासयुक्तं वतानुष्ठानलक्षणं तपः प्रायश्चित्तमिति तदर्थः।

Page 88

क्लेषसरः (२८) 75

स्मृत्यन्तरेण चायं निरुक्त :- प्रायः पापमिति प्रोक्तं चित्तं तस्य विशोधनम्। इते। न संदेहः नात्र संशयः। पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः। प्रायश्चित्तान मैत्रेय जगुस्स्वायंभुवादयः ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥ इत्युक्तप्रक्रियया इदमेवाखिलप्रायश्चितं भवेदित्यत्र न संदेग्ध- व्यमिति भावः। एतत्प्रमाणप्रत्यभिज्ञापनायैव अत्र मूलश्षोके कृष्णेति संबोधनं कृतमित्यवगन्तव्यम्।।

पक्षे-एकदा समासविवक्षायामित्यर्थः। प्रायः प्रायशब्दः। अदन्तोऽयम्। अस्मिन् पक्षे पर इहेत्यत्र परे इहेति छेदः। चित्ते चित्तशब्दे परे परत्र विद्यमाने सति। अवसिती अवसाने विरामे अन्ते इत्यर्थः । एकदा आस्थित इति छेदः। सत्वं आस्थितो यादे समस्तं समासं प्राप्तं तदेव प्रायः चित्तमिति पदद्य- मेव प्रायश्चित्तं भवेत् प्रायश्चित्तमिति निष्पद्ेतेत्यर्थः । 'प्रा- यस्य चित्तिचित्तयोः' इति प्रायशब्दात्परस्य चित्तशब्दस्य सुडागमावधानात् । यद्यपि सुडागमश्चित्तशब्दाद्यवयवभूत एव, 'आद्यन्तौ टकितौ' इति परिभाधणात् । तथाँऽपि तस्य प्रा- यशब्दान्ते श्रवणात् प्रायशब्दोऽवसाने सत्वमास्थित इत्युक्तम्। आगमसकारस्य श्चुत्वेन शत्वम् । वस्तुतस्तु भाष्ये •प्रायस्य चित्तिचित्तयोस्सुडस्कारो वा' इति पठितत्वात्प्रायशब्दान्त्याव- यवभूतस्याकारस्य अस्कारे प्रायशब्द एवावसाने सत्वमास्थि- तो भवतीति न पूर्वोक्तक्केशोऽनुसर्तव्यः । अस्कार इति प्रती-

Page 89

76 अलकारमणिहार

कमादाय 'अस्य स्थाने अस्कारः अस्कार: शकन्ध्वादित्वात्प ररूपम्' इति कैयटेन विवृतम्। अस्य प्रायशब्दान्त्यस्य हस्वा- कारस्य अस्कार: असितिकरणं स एव अस्कारः ।अ अस्कार इत्यन्न सवर्णदीर्धमाशङ्कय शकन्ध्वादित्वात्पररूपमित्युक्तमिति कै- यटग्रन्थाभिप्रायः॥

यथावा -

चितं परं प्रपद्य प्रायश्चित्ती बुभूषति तरां यः। प्रायेणान्ते सयुजा पूर्व स्वन्तेन, तेन भवितव्यम्।।

अन्र भगवत्प्रपित्सुचेतनस्य प्रकृतस्य चित्तशब्दस्याप्रकृत- स्थ च श्षेषः । चित् तं इतिच्छेदः । थः चित् चेतनः तं 'अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि' इत्यादिना शरणागत जनसकलकलुषनिर्धूननकृतप्रतिज्ञतया प्रसिद्धम् । परं 'ब्रह्माव दाप्नोति परम्' इति ब्रह्मवित्प्राप्यतया श्रुतं परमात्मानं प्रपद्य शरणमुपत्य प्रायश्चित्ती बुभूषति तरां अतिशयेन प्रायश्चिनवान्भ वितुमिच्छति। 'अनादेर्निस्साम्नो दुरितजलधेर्यन्निरुपमं विदुः प्राय- ्चित्तं रघुयदुघुरीणाशयवदः' इति प्रपदनस्य निरुपमप्रायश्चित्त- त्वोक्तेरिति भावः । पूर्व आदौ स्वन्तन शोभनः अन्तो निश्चयो यस्य तथोक्तेन दृढनिश्चयेनेत्यर्थः। बृहस्पतिप्रमुखैरप्यकम्पनीय- महाविश्वासशालिनति भावः। 'अन्तोऽस्त्री निश्चय नाशे स्व रूपेऽग्रेऽन्तिकेन्तरे' इति रत्नमाला। तेन चेतनेन अन्ते दे- हावसाने सयुजा शरण्यसमानापहतपाप्मत्वादिगुणकेनेत्यर्थः । 'युज्यत इति युक्छब्दो गुणपरः। धर्मिणि हि गुणस्संबध्यते। समानगुणकस्सयुक्' इति महासिद्धान्ते व्यासार्याः । यद्वा-

Page 90

श्लेषसरः (२८) 77

एकस्मिन् सप्रकारकब्रह्मरूपभोग्ये भोक्तृत्वेन ब्रह्मणा सह यु- ज्यत इति सयुक् तेन तथोक्तेन प्रायेण भवितव्यम्। नात्र सन्देग्धव्यमिति भावः "सोऽशनुते सर्वान्कामान्सह। ब्रह्मणा विपश्चिता' इति श्रुत्यर्थोऽत्रानुसन्धेयः

नन्वेवं सायुज्यशब्दस्य सार्प्टिताशब्दस्य च 'एतासामेव देवतानाप सायुज्य सार्प्टिताम्' इत्यादिश्रुतिषु सहप्रयोगोऽनु- चितस्स्यात् अध्टिर्हशनं भोग इति समानार्थकत्वादुभयोरिति चे- दुच्यते। सायुज्यं नाम उभयोर्भोक्तव्ये विशेषाभावः। सार्प्टिस्तु भोगस्य तरतमभावाभावः । यथाऽनुगृहीतं परिपूर्णव्रह्मानुभवा- धिकारे श्रीमदाचार्यैः-

सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता। सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ॥ इति।

अन्यत्र-यः प्रायशब्द: परं परत्र विद्यमानं चित्तं चित्तशब्दं प्रपद्य प्राप्य प्रायश्चित्ती वुभूषति तरां समस्ततया प्रायश्चित्तशब्दो भवितुमिच्छाते तराम्। पूर्व स्वन्तेन सुशब्दर्सुवुपलक्षकः विग्रह- दशायां श्रूयमाणसुबन्तेनेति यावत्। तेन प्रार्यण प्रायशब्देन अन्ते सयुजा सवर्णयुक्तेन भवितव्यं न तु प्राय इत्यव्ययेन, तस्य 'अव्ययादाप्सुपः' इति सुब्लोपविधानेन सर्वदाऽप्यश्रूयमाणसु- ब्विभक्तिकत्वात्, स्वत एव सान्ततया अन्ते सयुजेतति विधा- नस्यानावश्यकत्वाञ्च। 'प्रायस्य चित्तिचित्तयोः' इति प्रायश- ब्दस्यैव ह्यस्कारो विधायते । स्वतस्सिद्धेपि प्रायशब्दस्य सु- बन्तत्वे स्वन्तेनेति विशेषणमुक्तविशेषार्थद्योतनायैवेति ध्येयम्। अन्यत्सर्वमव्यवहितपूर्वोदाहरणे निरूपितम्॥।

Page 91

78 अलंकारमणिहारे

यथावा- ज्ञेयस्स सत्पदविदामादेशो भवति पूर्वपरयो- र्यः । एको येनाश्रुतमपि सर्वे स्पष्टं श्रुतं भवति॥

अत्र सर्वप्रशासितु: परमात्मनः प्रकृतस्य शब्दशास्त्रीयैका- देशस्याप्रकृतस्य च श्ेषः । तथाहि-सः वक्ष्यमाणः अश्रुत- श्रुतत्वकारणभूत आदेशः सत्पदविदां 'सदेव सोम्येदम्' इति श्रुतसद्वस्तुवेतृणां पदं व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु' इत्यमरः। ज्ञेयः ज्ञातुं शक्यः। आदेशसच्छब्दयोरेकार्थकत्वा- दिति भावः। ज्ञेय इति ज्ञाधातुप्रयोगेण सद्विद्योपसंहारगतं 'तद्धास्य विजिज्ञौ' इत्येतत्प्रत्यभिज्ञाप्यते। सद्विद्यागतार्थप्रति- पादकत्वादस्य पद्यस्य। यद्वा-सत्पदविदां सतां ब्रह्मविदां पदं स्थानं पादं वा विन्दन्ति प्राप्तुवन्तीति तथोक्ताः तेषां, विन्दतेः किप। ब्रह्मविदाचार्योपसदनशालिनामेवेत्यर्थः। 'सर्व वाक्यं सावधारणम्' इति न्यायात्। सः पूर्वोक्तप्रकार आ- देशः ज्ञेयः न तु केवलापरविद्याविदामनूचानमानिनां स्तब्धा- नामिति भावः। इदं च श्र्वेतकेतुर्नामोद्दालकस्य पुत्रो द्वादश वर्षाणि गुरुकुले वसन्नधिगतसाङ्गवेदो महामना अनूचान- मानी स्तब्धोऽ्भ्येत्य ब्रह्मविदग्रेसरस्योद्दालकस्य निजपितुस्सं- निधिं तेन च 'यन्तु सोम्येदं महामना अनूचानमानी स्त- ब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति' इते पृ- प्टस्तदपरिज्ञानेन चिगळितचित्तसमुन्नतिस्तदुपसदनेनैव ताद्दश- मादेशं ज्ञातवान्न त्वन्यर्थत्येतदभिसंधायोक्तमित्यवगन्तव्यम्। आ देशमव विशिनष्टि-भव्तात्यादिना। य. पूर्वपरयोः पूर्वस्य चतु- र्मुखादे: परस्य अर्वाचीनस्यास्मदादेश्च एक: अद्वितीय: आदेशः

Page 92

क्लेषसरः (२८) 79

आदिश्यतेऽनेनेत्यादेशः आदेष्ा प्रशास्ता भवति। 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । अन्तः प्रविष्टश्शास्ता जनाना सर्वात्मा। एकशशास्ता न द्वितीयोऽस्ति शास्ता। शास्ता विष्णुरशषस्य । प्रशाससितारं सर्वेषाम्' इत्या- दिप्रमाणात्। आङ्पूर्वकाददिशे: करणे घज्, 'अकर्तरि च कारके संज्ञायाम्' इत्यनुशासनात्। न च विवाक्षतादेशकर्तृत्वरूपा- र्थविरोधश्शङ्कयः 'विवक्षातः कारकाणां प्रवृत्तिः' इतिशाब्दि- कोक्तनयात्कर्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोगोपपत्तेः। आदेशमेव विशिनष्टि-येनेति। येन श्रुते- नेति यावत्। अश्रुतमपि सर्वे स्पष्ट यथा स्यात्तथा श्रुतं भ- वति। इदमुपलक्षणं श्रुतेन मतेन विज्ञातेन अश्रुतममतमवि- ज्ञातं श्रुतं मतं विज्ञातं भवतीत्यस्य। अत्र 'उत तमादेशमप्रा- क्ष्यो येनाश्रुतं श्रुतम्' इते सद्विद्यावाक्यार्थस्सवोऽपि प्रत्यभि- ज्ञापितः । अत्र 'येनाश्रुतं श्रुतं भवति' इत्यत्र 'कस्मित्ु भ- गवो विज्ञाते सर्वमिद विज्ञातं भवति, आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वे विदितं भवति' इति मुण्डकबृह- दारण्यकवाक्यानुरोधेन येन श्रुतेनेत्याद्यर्थो वर्णितः । येनाश्रुतं श्रुतमित्यनेन उपादानत्वं प्रशासितृत्वार्थकादेशशब्देन चात्मस्व- रूपमुक्तम्। तथाचात्मभूतमुपादानं सद्विद्यावेद्यमिति निष्पन्नो थः। अन्यत्सर्वे सुगमं ब्रह्ममीमांसाविदामित्यलं प्रपश्चेन।।

पक्षे-सत्पदविदां साघुशब्दशास्त्रवेतृणां सः ज्ञेयः। यः पूर्व- परयो: एक: आदेशः भवति 'एक पूर्वपरयोः' इत्यधिकारविहितः 'आङ्गुणः । वृद्धिरेचि। अकस्सवर्णे दीर्घः' इति गुणवृद्धिसवर्ण- दीर्घादिरेकादेशो विद्यते। येन उक्तविधेनादेशेन अश्रुतमपि

Page 93

80 अलंकारमणिहारे

असंहितावस्थायां आदेशात्पूर्व अप्राप्तश्रवणसपि ओकारौकारा कारादि स्पष्ट श्रुतं भवति संहितायां विवक्षितायां प्राप्तश्रवणं भवति। यथा उप-इन्द्र इति स्थिते गुणादेशविधानात्प्रागश्रुत एकार: तदादेशविधानानन्तरं श्रूयते। यथाच कृष्ण एकत्व. मिति स्थिते अश्रूयमाण ऐकारो वृद्धयादेशविधानानन्तरं श्रू- यते। यथा चातैव पद्ये येन अश्रुतमित्यवस्थायामध्रुत आकार: आदेशविधानानन्तरं भ्रूयत इत्यादि द्रष्टव्यम् ॥ यथावा- इह तत्पुरुषेSजादावुत्तरपद एव सति सदाऽ- धिपतौ। अनुशासनेन भायात्कदधिपतिः कोः कदा देशे ॥ ८६३ ॥ अत्र परमपुरुषस्य श्रीनिवासस्य प्रकृतस्य कदधिपतिरू- पतत्पुरुषस्य चाप्रकृतस्य श्ेषः। तथाहि-अजादौ अजस्य स्त्र प्टतया प्रख्यातस्य ब्रह्मणोऽप्यादौ कारणभूते अधिपतौ 'एष भूताधिपतिः' इत्यादिश्रुते निरुपाधिकसर्वलोकेश्वरे। यद्वा- अजादौ अधिपतौ चतुर्मुखादेरीश्वरे 'स्वामीश्वराधिपति' इत्या- दिना आधिपतिशब्दयोगेन अजादावित्यत्र सप्तमी। स चासौ पुरुषश्च तत्पुरुषः । तस्मिन् 'योऽस्याध्यक्षः परमे व्योमन्' इति श्रुतपरमव्योमनिलयतया प्रसिद्धे 'पुरुष एवेद५ सर्वम्' इति सर्वजगच्छरीरकतया श्रुते श्रीनिवासे इह अस्मिन् शेषा- चलरूपे उत्तरपदे उत्तमे स्थाने सदा न तु यदाकदाचित् सत्येव विद्यमान एव को भुवः 'गोत्रा कुः पृथिवी' इत्य- मरः । देशे प्रदेशे कदधिपतिः कुत्सितोऽधिपतिः आकालि- कापेक्षिकैश्वर्यवत्तया कुत्सनविषय ईश्वरंमन्योऽन्य इति भावः

Page 94

लेषसरः (२८) 81

अनुशासनेन प्रशासितृत्वेन कदा भायात्। सर्वेश्वरेश्वरे सर्व- प्रशासितरि श्रीनिवासे शेषाद्रौ देदीव्यमानवैभवे सति भुवि मितंपचैश्वर्यः कोऽपि प्रशास्तृत्या न कदाऽपि भायादिति भावः॥ अन्यत्र-तत्पुरुषे, एवेत्येतदिहान्वेति। तत्पुरुषसमासे विवक्षित एव न तु बहुव्रीहाषिति भावः। तेन कूट्रो राजे- त्यादौ वक्ष्यमाणः कदादेशो न भवतीति ध्येयम्। अजादौ अज्वर्णादी अधिपतौ अधिपतिशब्दे। अजादाविति विशेषणं वस्तुस्वरूपकथनमात्रपरं अधिपतिशब्दस्याजादिताया: स्फुट- त्वात्। उत्तरपदे सात अनुशासनेन को: कादत्यादिपदैः प्र- त्यभिज्ञापितेन 'कोः कत्तत्पुरुषेऽचि' इति सूत्रेण। कोः कुश- ्दस्य उत्तरपदेन पूर्वपदस्याक्षपात्पूर्वपदभूतस्येत्यर्थः । कदा- देशे कदित्यादेशे सति सदा नित्यतयेत्यर्थः । कदधिपतिः भा- यात्। कदधिपतिरिति निष्पद्यतेत्यर्थः । उक्तसूत्रेण कदादे- शस्य नित्यतया विधानादिति भावः॥ यथावा- एको गोत्रे नियमादापत्यप्रत्ययः कृतशशौरौ। नोत्पद्येत तदानीमन्यप्रत्ययपरम्पराSनिष्टा ।८६४ अत्र भगवद्विषयध्यानस्य प्रकृतस्य गोत्रापत्यप्रत्ययस्याप्र- कृतस्य च श्लेषः । तथाहि-गाः त्रायत इति गोत्र: गोपाल: 'आतोऽनुपसरगे' इति कः । तस्मिन् शौरौ भगवति वासुदेवे आपत्य आदृत्येति यावत् । यदेति शेपः । आङ्पूर्वकात्पतेः कत्वो ल्यप। नियमात् एक: प्रत्ययः अविच्छिन्नस्मृतिसंततिः कृतः। तदानीं अनिष्टा भयहेतुतया हानिप्रदा अन्यप्रत्ययपरम्परा विजातीयप्रत्ययधारा नोत्पद्येत। विजातीयप्रत्ययानन्तरितत्व- ALANKARA II 11

Page 95

82 अलंकारमणिहारे

मेव हि स्मृतिसंततेरविच्छेदः । अनिष्टेत्यनेन 'यदा ह्येवैष एतस्मिनुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्वेव भयं विदुषोऽमन्वानस्य' इति श्रुत्यर्थस्सूच्यते। तथाहि तः- र्थ :- एष उपासक एतस्मिन् परमात्मनि व्यानस्य अन्तरं वि- च्छेदं अरं अल्पमपि यः कुरुते तस्य भयमुन्भवति, विदुषो ब्रह्मोपासननिष्ठस्य तदतिरिक्तविषयस्पृहया निरन्तरं मननमकु- र्वतः तदेव अमननं भयं, न हि तदपेक्षयाऽन्यन्भयमस्ति। उक्तं च महर्रिभि :-

यन्मुहूते क्षणं वाऽपि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया॥ इत्यादीति। 'हानि: इष्टहानिः, छिद्रं अनिष्टप्राप्तिरन्ध्रं, भ्रान्तिः तत्कृतचित्तस्खलनं, विक्रिया तेनाङ्गानामवशादयथायथव्यापारः' इति व्यासार्याः।

पक्षे-गोत्रे 'अपत्यं पौत्रप्रभृति गोत्रम्' इत्युक्ते अपत्य- त्वेन विवक्षिते पौत्रादिगोत्ररूपार्थे नियमात् 'एको गोत्रे' इति सूत्रेण कृतात् गोत्रे एक एव प्रत्ययस्स्यादिति नियमात् एक: आपत्यप्रत्ययः अपत्यार्थे विहितः प्रत्ययः यदोत्यध्याहारः। यादि कृत: कृतश्चेत् तदानीं शौरौ शौरिशब्दे, इदमुपलणमौपगवा- दीनां शब्दानाम्। अनिष्टा अन्यप्रत्ययपरंपरा नोत्पद्येत। अयं भाव :- शूरस्य गोत्रापत्यमित्यर्थे शूरशब्दात् 'बाह्वादिभ्यश्च' इत्यनेन 'ऋष्यन्धकवृष्णिकुरुम्यश्च' इति विहिताणपवादके इञ कृते पुनः 'तस्यापत्यम्' इत्यण्, ततः पुनस्तस्यापत्यमिति इञ, इत्याद्यनिष्टप्रत्ययपरंपरा नोत्पद्यते। एवं उपगोर्गोत्रापत्ये अणि औपगवः ततः 'अत इज्' इति इश् औपगविः, ततः 'यजि-

Page 96

लेषसरः (२८) 83

जोश्च' इति फक् औपगवायन इत्याद्यनिष्टप्रत्ययपरंपरा नोत्प- द्येत 'एको गोते' इति नियमादिति। अत्र- गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परंपरा। यद्वा स्वद्वचूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीतति च। मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम्। इते कारिकाऽर्थोनुसंधेयः । इति विश्रस्यते विस्तरभयात्॥ यथावा- यो देवेज्याशीलस्संमाष्टर्यखिलं ग्रहं पवित्रेण। स्वकरधृतेनासाविह विवक्षितानुग्रहैकतानो हि॥

प्रस्तुतस्य यायजूकस्याप्रकृतस्य च श्ेष: । तथाहि-इह अ स्मिन् लोके यः पुमान् देवेज्याशीलः देवस्य भगवतः इज्या जपस्तुत्यादिरूपमाराधनं 'वाग्यज्ञेनार्चितो देवः'- इति वाग्भि: प्रशस्ताभिर्गमिष्यन्पूजितस्तया। यन्द्रक्तया पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा। इत्यादिभिर्जपस्तुत्यादेराराधनरूपताभिधानात्। देवेज्या शीलं स्व- भावो यस्य स तथोक्तः। 'इज्या स्त्री यागदानार्चासंगेषु' इति रत्नमाला। असौ स्वकरधृतेन पवित्रेण कुशेन जात्येकवचनं, 'मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्म्यशान्तिकृत्' इत्युक्तेः। यद्वा- 'अशेषतीर्थोपहताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः' इत्युक्तरीत्या स्वहस्तविन्यस्तेन मन्त्रपूतेनाम्भसा। दधिकलशगोमयास्वुषु कुशताम्रब्रह्मसूत्रमन्रेषु। हेम्नयर्थे च पवित्रं त्रिषु पूते पुंसि शंभुपावकथोः ॥

Page 97

84 अलंकारमणिहारे

इति रत्नमाला। अखिलं सकलं ग्रहं डाकिनीपूतनादिभूतविशषं- ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे। सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥ इति मेदिनी। संमार्ष्टि निरस्यतीति धावत्॥

सदा कराळवदनो नारसिंहो महारव:। ग्रहानशेषान्निशशेषान् करोतु जगतो हितः॥ शान्तिरस्तु शिवं चास्तु प्रणंश्यत्वसुखं च यत्। वासुदेवशरीरोत्थैः कुशैस्संमार्जितो मथा॥ इत्याद्यपामार्जनाध्यायोक्तक्रमेण वाराहनारसिंहाद्वि महामन्त्राभिम- न्त्रित कुशादकमार्जनेनाखिलान् ग्रहान् प्रणुदतीति भावः । तत्र हेतुमाह-विवक्षितेति। हि यस्मात् असावित्येतदत्राप्यनुषज्यते। असौ देवेज्याशील: पुमान् विवक्षिताुग्रहैकतानः विवक्षितेषु वक्तुमिष्टेषु आदेशकारिषु विधेयेष्वित्यर्थः ।'विधेयो विनयग्राही वचनेस्थित आश्रवः' इति हि विधयपर्याया: पठ्यन्ते। न हि वक्तुमनिष्टेषु जनेषु विवक्षा कस्यचिदपि भवति। योऽनुग्रहः तस्मिन् एकनान: एकाग्रः 'एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि' इत्यमरः। विधेयजनानुग्रह एवोक्तरीत्या तदीयग्रहादिसर्वानिष्ट- निवारणे हेतुरिति भावः। अनेन-

अनाराधितगोविन्दा ये नरा दुःखभागिनः । तेषां दुःखाभितप्तानां यत्कर्तव्यं दयाळुभिः॥

इत्यपामार्जनोक्तप्रश्ने यद्दयाळुत्वमपामार्जनशान्तिकर गहेतुतयोक्तं तत्संगृहीतम्। पक्षे-हे देव! यः पुमान् इज्याशीलः यायजूकः असौ

Page 98

श्लेषसरः (२८) 85

स्वकरधृतेन पवित्रेण दशापवित्रेण अखिलं ग्रहं होमसाधन- पात्रविशेषं सर्वान्ग्रहानित्यर्थः । संमार्षटि संमार्जनन संस्क- रोति। ननु 'ग्रहं संमार्षटि' इति संमार्जनकर्मणो ग्रहस्यैकत्वे श्रूयमाणेऽपि कथं सर्वान् ग्रहान् संमार्टीत्युक्तमित्यत आह- इहेत्यादि। विवक्षिता नु ग्रहैकता नो हि इतिच्छेदः । हि यस्मात् इह 'ग्रहं संमार्ष्टि' इति वाक्ये ग्रहैकता ग्रहस्यैकत्वं ग्रहगतैक- त्वरूपा संख्या नो विवाक्षता। न विवक्षितेत्यर्थः । नु इत्येतदनुनये 'नु स्यात्प्रश्ने विकल्पर्थेऽप्यतीतानुनयार्थयोः' इति विश्वः । एकत्वस्याविवक्षितत्वात्सर्वान् ग्रहान् संमार्ष्टीति संमार्गाधिकर- णोक्तोरऽर्थोऽत्रानुसंधेयः। अय च संमार्गन्यायः जैमिनीयदर्शने तृ- तीयाध्याये मीमांसिनः । तथाहिज्योतिष्टोमे 'दशापवित्रेण ग्रहं संमारष्टि' इति श्रयते। तत्र संशयः किमेकस्य संमार्ग: किं वा सर्वेषामिति। तदर्थ चिन्ता-किमत्रोद्देश्यगता संख्या विवक्षिता उताविवक्षितति। यथा 'पशुना यजेत' इत्यत्र एकत्वश्ुतिबला- दुद्देश्यगताऽपि संख्या विवक्षिता, एवमत्राप्युद्देश्यगता संख्या विवक्षिता भवितुमर्हति। तस्मादेकस्यैव ग्रहस्य संमार्ग इति पूर्वपक्षं प्रापय्य पशोरनेनेव वचनेन यागसंबन्धावगमाद्यागं प्रति पशोर्गुणभूतत्वाद्यावद्गणं प्रधानावृत्त्यभावात्कियता पशु- नेति परिच्छेदकाकाइक्षायां तत्परिच्छेदकत्वेनैकत्वसंख्या संब- ध्यत इत्युपादेयगतायास्संख्याया विवक्षितत्वं युक्तम्। ग्रहाणां तु वाक्यान्तरेण यागसंबन्धावगमात् संमार्गवाक्ये द्वितीयाश्रुत्या संमार्ग प्रति ग्रहस्य प्राधान्यावगमात् यावत्प्रतिप्रधानं गुणस्य संमार्गस्यावर्तनीयत्वात् कियन्तो ग्रहास्समार्जनीया इत्याकाड्क्ष- या अनुदयादुद्देश्यग्रहगता संख्या न विवक्षिता। तस्मात्सर्वे ग्रहास्संमाजनीया इति सिद्धान्तितम्॥

Page 99

86 अलंकारमणिहारे

यथावा- यदि ननु निष्ठातोनो यदुपतिमहिळेभवत्प्रप- दि भवति। अग्रेभवदश्व तदा भवेत्प्रपन्नोऽयमत्र को विशयः ॥८६६॥ अत्र लक्ष्मीपदारविन्दप्रपन्नस्य प्रपन्नशब्दस्य च श्ेषः । तथाहि-ननु यदुपतिमहिळे! 'मामेकं शरणं व्रज' इत्यादि वदतो भगवतो वल्लभे! अनेन तम्या अपि ताद्वर्म्ये द्योति- तम्। 'नित्यं तद्धर्मधर्मिणीम्' इति ह्यच्यते। भवत्प्रपदि भ- वत्या: पादाग्रे 'सर्वनास्तो वृत्त्तिमात्रे' इात पुंवद्भावः। 'पा- दाग्रं प्रपदम्' इत्यमरः । निष्टातः, सार्वविभक्तिकस्तसिः । तदे कतत्परतया तच्छरणवरणैकव्रततया वा 'निष्ठा तु नाशे नि ष्पत्तावन्ते तात्पर्ययाच्चयोः' इति रत्नमाला। 'निष्ठोत्कर्षव्यव- स्थयोः । केशे निष्पत्ती नाशेऽन्ते निर्वाहे याचने व्रते' इति हेमचन्द्रः। अनिर्तात्यनः प्राणिता 'अन प्राणने' पचाद्यच्। 'प्रपन्नश्चातको यद्वत्, धर्म धारय चातकस्य कुशलिन्धाराध रैकान्तिनः' इत्याद्यक्तरीत्या त्वच्चरणशरणवरणैकान्तिकतैकधार- क इत्यर्थः। यद्वा निष्ठातः प्रार्थनया। कोशस्तूक्तः। प्रार्थनाप लक्षितानुकूल्यमुखाङ्गपश्चकेन अनः उज्जाववितेत्यर्थः। यदि भव- ति तदा अयं प्रपन्नः स्वतन्त्रप्रपत्तिनिष्ठः पुमान् अग्रे प्रपत्त्यु- त्तरं भवं जन्म गर्भप्रात्तिं वा द्यति अवखण्डयतीति भवद: 'दो अवखण्डने' अस्मात् 'आदेच उपदेशेाशति' इति कृता त्वात् 'आतोऽनुपसर्गे' इति क। यद्वा -अग्रे भवं दायतीत भवद: 'दैपु शोधने' शाधनार्थकादस्माद्वातोः पूर्वोक्तरीत्यव कः पुनर्जन्म शोधयति तत्संबन्धं निर्मार्ष्टीत्यर्थः । शोधयतेः 'सर्वपापविशुद्धात्मा' इत्यादौ क्षाळनार्थे प्रयोगदर्शनात्। त

Page 100

श्लेषसरः (२८) 87

च्छररिावसान एवास्य निशश्रेयसावात्तेनिरर्गळतया पुनर्भवप्रस- क्तेरनवकाशादिति भावः। अग्रे भवदश्चत चशब्देन स्वतन्त्र- प्रपदननिष्ठोऽयं 'प्रारब्धं परिभुज्य कर्मशकलम्' इत्युक्तरीत्याऽ- अ्युपगतप्रारब्धं तच्छरीरावधिकमेवानुभूय 'प्रक्षीणकर्मान्तरः' इत्युक्तप्रक्रियया अनभ्युपगतप्रारब्धखण्डफलभोगदशरीरान्तरसं- बन्धं धुनोति। 'न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्ते:, न त्वङ्गप्रपदननिष्ठ इव संपूर्णप्रारब्धकर्मफलभोगार्थ- विद्यारम्भोत्तरकालिकशरीरान्तराण्यव्यनुभवतीति सूचितम्। अग्रे भवद इत्यस्य अग्रे प्रपत्त्युत्तरक्षणमेव भवद इत्यर्थविवक्षायां प्रपन्नोऽसावार्तः, प्राथमिकार्थपक्षे इप्त इति वैलक्षण्य बोध्यम्। पक्षे-यदुपतिमहिळेऽभवत्प्रपदीत्यत्र अभवदितिच्छेदः । भवतीति संबुद्धयन्तं पदम्। ननु भवति ! पूज्ये ! यदुपतिमहिळे! प्रपदि प्रपूर्वकपदधातौ निष्ठातः निष्ठा क्तप्रत्ययः 'क्तक्तवतू नि- ष्ठा' इत्यनुशासनात् । तस्याः यः त् क्प्रत्ययसंबन्धितकार: तस्य। हलन्तोडयं शब्दः। अग्रेभवद्श्च क्तप्रत्ययापेक्षया पूर्वस्य धात्ववयवस्य दकारस्य च । अयमपि हलन्त एव। नः नादेशो यद्यभवत्, तदा अयं शब्द: प्रपन्नः भवेत् प्रपन्न इति निष्प- द्येत 'रदाश्यां निष्ठातो नः पूर्वस्य च दः' इति रेफदकाराभ्यां परस्य निष्ठातकारस्य तत्पूर्वस्यदकारस्य च नत्वानुशासना- दिति भाव। अत्र उक्त्ेऽर्ये को विशयः न कोऽपि संदेह इत्यर्थः ॥ यथावा- उपदिशतु हरिं स्तौत्विति न तुलोपो द्ृश्यते कदाऽप्यस्मिन्। निन्देति यदि प्रवदेदतोहिलोप: पुरा भवत्येव ॥ ८६७॥

Page 101

88 अलंकारमणिहारे

प्रकृतयो: स्तौतु निन्द इति तिङन्तशब्दयोः तुलोपाभावहिलो- पवतोरप्रकृतयाञ्च श्लेषः । तथाहि-हरिं स्तौतु इत्युपदिशतु जनानामिति शेष: । अस्मिन् उपदेष्टरि पुरुषे कदाऽपि लोप: श्रयोहानिः न तु दृश्यते नैव दृश्यते मूढान् भगवन्तुती प्र- वर्तयितुर्न कदाऽपि काचिदपि हानिर्भवति। प्रत्युत श्रेयोऽति- शय एव-

अज्ञानाय तु यो ज्ञानं दद्याद्वर्मोपदेशनम्। कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम्॥। इत्यायुक्क्ेः । निन्द हे जनेति शेषः। त्वं भगवन्तं निन्द निन्दते- र्लोण्मध्यमैकवचनम्। इति प्रवदेदयदि अतः अस्मादेव निन्दा- प्रवर्तनवचनात् लोप: हानि: पुरा भवेदेव निकटागाम्येव अव्य- वहितोत्तरलक्षणागा्येव भवति। 'निकटागामिके पुरा' इत्यमरः। अस्मिन्नर्थे 'शीघ्रं गच्छ पुरा देवो वर्षति' इति प्रयोगश्च । भगवन्निन्दनप्रवर्तायतुस्सद्य एव सर्वश्रेयोहानि: संपद्ते इति भाव:॥। यो निन्दत्कमलाकान्तं निन्दयेद्वा पृथग्जनैः। न विद्स्तं महाराज यस्तस्य निरयो भवेत्॥ इत्युक्ते:॥ पक्षे-हरिं स्तौतु इत्युपदिशतु। अस्मिन् स्तौतु इति पदे तुलोपः तुवर्णलोपः न दृश्यते। लोपविधायकशास्त्राभावात् श्रूयत एवेत्यर्थः। निन्देति प्रवदेद्यवि आस्मिन् निन्देतिशब्दे अ- तोहिलोपः 'अतो हेः' इति सूत्रविहितो हिलोपः पुरा भवत्येव अभवदेवेत्यर्थः । 'पुरि लुङ्चास्मे' इति पुराशब्दयोगे भूते लट्।

Page 102

ललेषसरः (२८) 89

लोण्मध्यमैकवचनस्य सिपः 'सेर्ह्यपिच्च' इत ह्यादेशे 'अतो हे:' इति अतः परस्य हेर्लुगनुशासनात्। हिलोपानन्तरमेव हि निन्देति रूपं श्रूयत इति भावः॥ यथावा- रघुवरदिव्यकथामृतलिडभूद्यदि भुवि तदा ब- भूवैवायम्। एकः पुरुषः प्रथमस्तथोत्तमो भवति मध्यमो नैवेह ॥ ८६८॥ अत्र भगवत्कथामृतास्वादिनः पुंसः प्रकृतस्य भूधातोर्वि- हितस्य लिटोऽप्रकृतस्य च श्षेषः । तथाहि भुवि भूमौ रघुवर- दिव्यकथामृतं लेढीति रघुवरदिव्यकथामृतालट्, लिहतेः ककिप्। अभूद्यदि अयं पुमान् बभूवैव सत्तामलभतैव 'भू सत्तायाम्' इति हि धातुः 'भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः' इत्यादी सत्तार्थकता च प्रसिद्धचति। सत्ता चात्मलाभः । भग- वद्दिव्यकथामृतास्वादेनैवास्य सत्तालाभो नान्यथोति भावः । अद्यत्वे ईद्शो दुर्लभ इति द्योतनाय परोक्षभूतनिर्देशः। तमेव विशिनष्टि-एक इति। अयमित्यनुषज्यते। अयमेकः पुरुषः एक एव पुमान् 'सर्वे वाक्यं सावधारणम्' इति न्यायात इह अस्मिन् लोके तथा उत्तमः अनिर्वचनीयतया उत्तमः । तथाशब्दोऽ्निर्व- चनीयवाची 'तथा गतां ताम्' इत्यादौ तथा दर्शनात्। अत एव प्रथम: सर्वेषामग्रणीः भवति मध्यमो नैव भवति कथमी- दशो मध्यमस्स्यादिति भावः॥ पक्षे-दिव्यं कथामृतं यस्य तस्य संवुद्धि: हे रघुवर! भुवि भूधातौ लिट् 'परोक्षे लिट्' इति विहितो लिट् अभू- दयदि परोक्षवृत्तेर्भूधातोलिड्यदाऽभूत् तदा अयं भूधातु: बभू- ALANKARA II 12

Page 103

90 अलंकारमणिहारे वैव। अभूदित्यनुषज्यते। बभूवेत्येव निष्पन्नोऽभूदित्यर्थः। उक्त- रूपनिष्पत्तर्निस्संदिग्धत्वद्योतनाय भूतनिर्देशः। किमखिललिट्यपि बभूवत्येव रूपं स्यादित्यत अह-एक इत्यादिना। इह अस्मिन् भूधातौ। अयमित्यनुषज्यते । अयं लिट् एक: एकत्वसंख्या- बोधकः प्रथमः पुरुषः प्रथमपुरुषैकवचनमिति भावः । भूधा- तोर्लिटस्तिपः 'परस्मैपदानां णल्' इत्यादिना णलादेशे बभू- वेति निष्पत्ते। लिट्प्रथमपुरुषैकवचनस्यैवेदं रूपमिति भावः न केवलमेतावदेव। तथा उत्तमः तद्वदेव एकत्वबोधक उत्त- मपुरुषश्च भवति। मिपो णल्यपि बभूवेत्येव रूपनिष्पत्तेः। नैव मध्यमो सवति मध्यमपुरुषैकवचनं तु न भवति। तत्र बभू- विथेत्येव हि रूपं न तु बभूवेति॥। यथावा- सर्वेषां वर्णानां प्रतिलोमानामुतानुलोमानाम्। तुल्यार्थदोऽखिलात्मन् सन्नयासो भवति हि स्वनि- ष्ठानाम् ॥८६९॥ अत्र प्रकृतस्य भगवति भरन्यासस्य अप्रकृतस्य सन्नया- सशब्दस्य च श्रेषः । तथाहि-हे अखिलात्मन्! भगवन्! भवति त्वय सन्नयासः प्रपदनं, निक्षेपापरपर्यायो न्यास: पश्चाङ्गसंयुतः। सन्नयासस्त्याग इत्युक्तरशरणागतिरित्यपि॥ इति सन्नयासशब्दस्य प्रपत्तिपर्यायतोक्तेः । स्वनिष्ठानां स्वश- ब्दस्सन्नयासपर: स्वस्मिन्निष्ठा येषां ते तथोक्ताः तेषां प्रपदनै- कान्त्यभाजामित्यर्थः । सर्वेषां वर्णानां ब्राह्मणादिवर्णचतुष्टयजा- नामिति यावत्। अनुलोमानां अनुलोमजानां उत प्रतिलो-

Page 104

श्लेषसर: (२८) 91

मानां प्रतिलोमजानां वा 'अच्प्रत्यन्ववपूर्वात्सामलोम्नः' इत्युभ- यत्रापि समासान्तोऽच् । 'नस्तद्विते' इति टिलोपः । उत्कृ- ष्टवर्णजात्पुंसोऽपकष्टवर्णजस्त्रियां जाता: अनुलोमजाः । अपकृ- ष्टवर्णजात्पुरुषादुत्कृष्टवर्णजस्त्रियां जाता: प्रतिलोमजाः । तथा च स्मर्यते याज्ञवल्क्येन- विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशस्स्त्रयाम्। अम्बष्ठश्शूद्रयां निषादो जात: पारशवोऽपि वा ॥ वैश्याशुद्रयोस्तु राजन्यान्माहिष्योग्रौ सुतौ स्सृतौ। शूद्रायां करणो वैश्याद्विन्नास्वेष विधिस्स्मृतः ॥ ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्स्मृतः। शूद्राजातस्तु चण्डालस्सर्वकर्मवहिष्कृतः॥ क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च। शूद्रादायोगवं वैश्या जनयामास वै सुतम्॥ माहिष्येण करण्यां तु रथकार: प्रजायते। असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः॥ इति। असन्तः प्रतिलोमजाः सन्तस्त्वनुलोमजा इति विज्ञेया इत्यर्थः । तुल्यार्थदः समानपुरुषार्थदाया वर्णाश्रमादिकक्ष्यावि- भागेन विनैव तत्तदभीप्सितसर्वविधपुरुषार्थप्रद इत्यर्थः॥ अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता। प्रपत्तौ सर्ववर्णानां सात्विकत्वादियोगिनः ॥ सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ इति भगवत्प्रपदनस्य सर्वाधिकारिकत्वसर्वपुरुषार्थप्रदत्वोक्ते: । एतदभिप्रायेणैव हि मूले भगवतोऽखिलात्मन्निति संबोधनम्॥ पक्षे-सन्नयासः सन्नयास इति शब्दः। अयं च समो मकारस्यानुस्वारे 'वा पदान्तस्य' इति वैकल्पिकपरसवर्णे स-

Page 105

92 अलंकरमणिहारे

न्नयास इति द्विनकारक एव ग्राह्यः । अन्यथा विवक्षितस्या- तुलोम प्रतिलोमपाठयोरानुपूर्वीतौल्यस्य दुर्लभत्वात्। स्वनिष्ठानां स्वस्मिन्विद्यमानानां सर्वेषां वर्णानां अक्षराणां अनुलोमानां प्रति- लोमानां वा सतां तुल्यार्थदः समानाभिधेयबाधको भवति। भवतीत्येतदास्मिन्पक्षे तिङन्तम्। स्वनिष्ठवर्णा आनुलोम्येन वा पठ्यन्तां प्रातिलोम्येन वा। उभयथाऽपि तुल्यानुपूर्वीकताया एव दर्शनादानुलोम्यप्रातिलोम्यानादरेणायं सन्न्यास इति श- ब्दस्तुल्यार्थबोधक एव भवतीति भावः॥ यथावा- यदिवाऽकरसहायो बलवानिह लोकपालकेन्द्र- गतः ।, सौम्योनुग्रह एको भविताSरिष्टस्य भङ्गद- स्सद:।।८७०।। अत्र भगवद्नुग्रहस्य प्रकृतस्य सौम्यग्रहस्याप्रकृतस्य च श्ेष:। तथाहि-अक्ररस्य अक्रराख्यस्य सहायः त्रातोति यावत्। बलवान् आश्रितोजीवनौपयिकसामर्थ्यवान् सौम्यः अनुग्रः। अनेन सुखनिषेवणीयत्वं द्योतितम्। लोकपालकादीनां इन्द्रादीनामपि इन्द्रः ईश्वर: भगवान् 'एष भूताधिपतिरेष लोकपालः' इत्य नौपाधिकलोकपालत्वश्रवणात् । तं गतः प्राप्तः तदीय इत्यर्थः । एक: सहायान्तरनैरपेक्ष्येणैव स्वकर्तव्यसर्वकार्यनिवाढा अनुग्रहः कृपा इह यदिवा भविता अक्रर इव मय्यप स्याञ्चेदिति भावः। अरिष्टस्य मदीयानादिकालप्रवृत्ताकृत्यकरणकृत्याकरणादिसर्ववि- धाशुभस्य भङ्गदः निर्मूलयिता सद एव भविता न तु विलम्बेन। तावदार्तििस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम्। यावन्नायाति शरणं त्वामशेषाघनाशनम्॥।

Page 106

श्लेषसरः (२८) 93

इत्युक्तन्यायेन त्वदनुग्रहावधिक एव ममाशुभस्पर्श इति भाव: ॥ पक्षे- बुधभार्गवजीवानामेकतमः केन्द्रमागतो बलवान्। करसहायो यद्यपि सद्योऽरिष्टस्य भङ्गाय॥ इति बालारिष्टभङ्गवादिपद्यार्थोऽनुसन्धेयः । तथाहि-हे लोकपा- लेति भगवतस्संबोधनम्। सौम्यः नु ग्रहः इतिच्छेदः। सौम्यः एको ग्रहः बुधभार्गवजीवानामन्यतम इति भावः। बलवान् स्थान- दिक्कालचेष्टादिबलाढ्यः केन्द्रगतः लग्नचतुर्थसप्तमदशमान्यतम- स्थानस्थितः क्ररसहायः कराः कुजादिदुष्टग्रहाः सहाया यस्य स तथोक: यादि वा स्यात् क्ररग्रहयुतोऽपि वा सद: अरि- षस्य बालारिष्टस्य भङ्गदः भविता । किमु तदयुक्त इति भाव:॥ यथावा भगवन्विधो तवैतैस्सौम्यैरस्तारिपरिभवस्थिति- भिः। अधियोगे ज्योतिर्भिर्जातास्सेनेशसचिवभू- पास्स्युः॥८७१॥ अन्र भगवच्चन्द्रमसोः प्रकृताप्रकृतयोश्श्लेषः । तथाहि- भगवन्! पूर्णषाङ्गण्य! हे विधो! हे विष्णो! 'विघुर्विष्णौ चन्द्र- मसि' इत्यमरः। सौम्यैः शुभैः अस्तारिपरिभवस्थितिभिः अस्ता निरस्ता अरिपरिभवस्य वैरिकर्तृकपराभवस्य स्थितिः यैस्तथोक्तैः निरस्तारिपरिभवा स्थितिर्येषां तैस्तथोक्तैरिति वा। परिहतबाह्या- न्तरवैरिवर्गैरित्यर्थः । एतैः तव ज्योतिर्भिः दृष्टिभिः कटाक्षैरि- त्यर्थः। ज्योतिर्मद्यातदृष्टिषु' इत्यमरः। 'ज्योतिरन्नौ दिवाकरे। पुमान्नपुंसकं दृष्टौ स्थान्नक्षत्रप्रकाशयोः' इति मेदिनी च। अ- धियोगे अधिकसंबन्धे सति जाताः जन्मवन्तो जनाः सेनेश-

Page 107

94 अलंकारमणिहारे

सचिवभूपा: चमूपतिमन्त्रिराजानः यथायोगं स्युः भगवत्कटा- क्षगोचराणां किं दुर्लभमिति भावः॥ पक्षे-हे भगवन्! हे श्रीमन्! हे विधो! हे इन्दो! तव यत्रक्ववा राशौ स्थितस्य तवेति भावः । अस्तारिपरिभ वस्थितिभिः अस्तं सप्मो राशिः अरिः षष्ठः परिभवोऽष्मः। 'षष्ठं क्षतार्याह्वयं जामित्रास्तकळत्रमन्मथमददयूनाभिधं सप्तमम्। रन्ध्रायुर्मरणं परार वमृतिस्थानं वदन्त्यष्टमम्' इति माधवीयो- केः । तेषु स्थानेषु स्थितिर्येषां तैः तथोक्तैः सौम्यैः शुभैः बुधगुरुशुकैः ज्योतिर्भिः ताराग्रहेः । कोशस्तूक्तः । अधियांगे सर्वैश्शुभग्रहैर्यत्रक्कवा स्थिताच्चन्द्रात् षष्ठसप्तमाष्टमराशिवर्तिभः अधियोगो नाम राजयोग: क्रियते। तस्मिन् राजयोगे जाताः जन्मवन्तः सेनेशसचिवभूपा: कमात्स्युः॥ सौम्यैस्स्मरारिनिधनेष्वधियोग इन्दोः। तस्मिंश्चमूपसचिवक्षितिपालजन्म।। इति वराहमिहिरोक्तेरिति भावः।।

पामरमपि पदलगनं लघु कृत्वा निर्ममन्तत- यथावा-

स्तमपि। परमात्मा कविवर्यो दर्शयति जनैस्सु- दुर्गमं पारम् ॥८७२॥ अत्र भगवान् प्रस्तुतः कतिवर्यस्त्वप्रस्तुतः। तयोः श्रेषः। तथाहि-कविवर्यः कविभिर्विद्वद्भिर्वरणीयः। यद्वा-कवीनां व- रेण्यः, पञ्चरात्रगीतादिप्रणेतृत्वात् । 'कविर्मनीषी' इति श्रुतेः। परमात्मा 'तस्थाश्शिखाया मध्ये परमात्मा' इति श्रुतस्सर्वा न्वरात्मा नारायण: पद्लगनं स्वचरणं शरणं गतं पामरमपि

Page 108

श्लेषसर: (२८) 95

प्राकृतमपि जनं लघु क्षिप्रमेव निर्ममं 'ममेति द्यक्षरो मृत्युः' इत्युक्तदेहादिममतारहितं, ममोत विभक्तिप्रतिरूपकमव्ययं, निर्गतं मम यस्येति विग्रहः । कृत्वा ततः निर्ममताहेतोः तमपि एवं कृतं जनमापि। निर्ममन्तत इत्यत्र 'वा पदान्तस्य' इति पर सवर्णः । जनैः पामरैः 'जनो लोके महर्लोकात्परलोकेऽपि पा- मरे' इति मेदिनी। सुदुर्गमं अतिवेलदुर्लभं पारं 'तमसः पारं दर्शयत भगवान्' इति श्रुतं संसारसंतमसचण्डभानूय- मानोपासनागाचरमात्मानं दर्शयति 'दशेश्च' इति द्विकर्मकता। निश्श्रेयसभाजं विदधातीति भावः ॥ पक्षे-परमः श्रेष्ठः आत्मा वुद्धिर्यस्य स तथोक्तः। कवि वर्यः काव्यकृदग्रणीः । पदलग्नं पदेषु सुप्तिङन्तात्मकेषु व्यव- हियमाणेषु शब्देषु लग्नं अन्यतमत्वेन संबद्ध पामरं पामर- शब्दमाप लघु यथातथा, निर्म अन्तत इतिच्छेद्द: । अन्ततः मध्ये 'अन्तोस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽनतरे' इति र. तमाला। निर्म निर्गतमकारं कृत्वा पामरशब्दे मध्यस्थमका- रमुत्सार्येत्यर्थः । जनैः सुदुर्गः गन्तुमशक्यः दुर्विज्ञान इत्यर्थः। तादृशो मः मकारो यस्य तं तथोक्तम्। मकारोत्सारणे पुन- र्मकारश्रवणं क्वत्यमिति भावः। पारं पारशब्दं दर्शयति, पाम- रशब्दमुत्सारितमकारं पारं सन्तं दर्शयतीत्यर्थः॥ यथावा- देवेशाधीशस्स्याद्विदितो जगदीशवल्लभेयमवेः। किमुत स देशाधीशो दष्टमदष्ट च वयमिहान्ूम। अत्र भगवत्या श्रियाऽभिरक्षितस्य पुंसः देवेशाधीशशब्द- स्य च श्षेषः । तथाहि-हे जगदीशवल्लभे! त्वं यं अवेः

Page 109

96 अलंकारमणिहारे

रक्षेः। अवतेर्लिअध्यमैकवचनम् । स पुमान् देवेशानां लोक- पालानामप्यधीशः विदितः प्रसिद्धः स्यात्। देशाधीशः दे- शानां ऐहलौकिकानां विषयाणां 'देशविषयौ' इत्यमरः । अधी- शः राजा स्यादिति किमुत किमु वक्तव्यम्। नैतदाश्चर्यमिति भावः । इह अस्मिस्त्वद्रक्षिते पुंसि विषये दष्टं ऐहिकं फलं देशाधीशतावाप्तिरूपं अदृष्टं देवेशाधोशतावाप्तिरूपमामुष्मिक फलं चेति वैपरीत्येन योज्यम्। वयं त्वत्प्रभावाभिज्ञा इति भावः। अब्रूम अवोचाम। पक्षे-जगदीशवल्लभेSयमित्यत्र अयमिति छेदः। देवेशाधी- शः देवेशाधीशशब्दः विदितस्स्यात् त्वया ज्ञात एव भवेत्। सोडयं उक्तो देवेशाधीशशब्द एव अवेः वेकाररहितस्सन् सेः सयौ सयः इतिवद्वेश्शब्द एदन्तः। देशाधीशस्स्यात् देशाधीश इति निष्पद्येत। इह अनयोः देवेशाधीशदेशा- धीशशब्दयोः वय वे इति वर्ण वे इति प्रातिपदिकादमि अ- यादेशे सयमितिवद्वितीयैकवचनं दृष्ट देवेशाधीशशब्दे श्रुतं अदृष्टं देशाधीशशब्दे अश्रुतं च यथाक्रमं अब्रूमेति । काव्या- र्थापत्तिसंकीर्णोऽयम्। एवं प्रागुपदर्शितेषूदाहरणेषु यथासंभव- मलकारान्तरसंकीर्णत्वं प्रतिभाशालिभिरुन्नेयम्॥

यथावा- श्रीरम्या सैकावळ्यभिख्यया भात्यलंकृतिशश्ला· घ्या। साधुकृतार्थश्रेणीगृहीतमुक्ताकृतिर्यस्याः॥ अत्र प्रस्तुताया: श्रियः अप्रस्तुतयोः मुक्तावळ्येकावळ्य- लंकारयोश्चेत्यर्थत्रयस्य श्ेष इति विशेषः। तथाहि, श्रीपक्षे- श्रीः रम्या सा एका वळ्यभिख्यया भाति अलं कृतिश्लाध्या

Page 110

शेषसरः (२८) 97

साधु कृतार्थश्रेणी गृहीतमुक्ताकृतिः यस्या: इति छेदः । वळ््य- भिख्यया चळीनां तिवळीनां अभिख्यया शोभया रम्या। एका अप्रतिद्वंद्वा सा श्रीः अलं पर्याप्तं यथा स्यात्तथा कृतिि: वि- दद्िः श्राध्या भानि। तामेव विशिनाष्ट-साध्विति। यस्था इति पश्चमी। यस्या: श्रियस्सकाशात् तदनुग्रहादिति यावत्। कृतार्थानां अनुष्ठितोपायतया कृतकृत्यानां श्रेणी पङ्गि: साधु यथा स्यात्तथा गृहीतमुक्ताकृतिः उपात्तमुक्तस्वरूपा भवतीति॥ मुक्तावळीपक्षे तु-श्रीरस्या सा एकावळ्यभिख्यया भाति अलंकृतिः श्राध्या साधु कृता अर्थश्रेणीगृहतिमुक्ता आकृतिः यस्या: इतिछेदः । श्रिया लावण्यलक्ष्म्या रम्या रमणीया श्ाध्या सा अलंकृति: आभरणं एकावळ्यभिख्यया एकावळो- नाम्ना 'एकावळ्येकयष्टका' इत्यमरः । भाति, यस्या: एकाव- ळ्याख्यालंकृतेः आकृतिः स्वरूपं अर्थश्रेण्या अनल्पेन धनेनेत्यर्थः। गृहीता: क्रीता: मुक्ता: मौक्तिकानि यस्यास्सा तथोक्ता। साधु यथा स्यात्तथा कृता निष्पादितेति॥ एकावळ्यलंकारपक्षे तु-पूर्वार्धे पूर्ववदेव छेदः । उत्तरार्धे तु-साधु कृता अर्थश्रेणी गृहीतमुक्ताकृतिः इति विशेषः। श्रिया काव्यलक्ष्म्या रम्या सा अलंकृतिः अलंकारः एकीवळ्यभिख्यया तन्नाम्ना श्राध्या सती भाति। यस्या अलंकृते: अर्थानां अभि- धेयानां श्रेणी पङ्गि: गृहीतमुक्ता आकृतिः यस्यास्सा तथोक्ता। साधु कृता रचिता 'गृहीतमुक्तरीत्याऽर्थश्रेणिरेंकावळी मता' इति तललक्षणादिति॥

यथावा-

ALANKARA II 13

Page 111

98 अलंकारमणिहारे

जाः । घुमणिर्नलिनदळेक्षण इह सुतरां शूरवि- ख्यातः ॥८७५॥ अत्र प्रकृतो भगवान् अप्रकृताविन्द्रादित्यौ त्रयाणामेषां श्ेष:। तथाहि, भगवत्पक्षे-स्वरूपासितभाः स्वरूपेण स्वभावेन असिता श्यामला भा: दीप्िर्यस्य स तथोक्तः 'नीलतोयदम- ध्यस्था, श्यामाच्छबलं प्रपद्ये' इत्यादिश्रवणात्। सदात्मनिबि डौजाः सतां ब्रह्मविदां आत्मनि मनसि। संश्चासावात्मा चेतति कर्मधारयो वा। उभयथाऽपि विशुद्धे मनसीत्यर्थः। निबिडौजा: अविरळप्रकाशः 'मनोमयः प्राणशरीरो भारूप' इति शाण्डि- ल्यविद्यायां विशुद्धमनोग्राह्यत्वभास्वररूपत्वयोश््शरवणात् अत्र- न चक्षुषा गरृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमान:॥ अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥ इत्यादिश्रुतयोप्यनुसन्धेयाः । 'आत्मा यतनो घृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । घ्रुमणिः दिवि परमे व्योस्नि मणि- रिव विद्योतमलिः 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति श्रुतेः । शूर इति विख्यातः 'शूरश्शौरिः' इति तन्नामसु पा- ठात्। यद्वा-शूरशब्दो यदुशब्दवत्तदपत्येषु लाक्षणिकः । शूरेषु यडुविशेषेषु विख्यातः येन स शौरिरित्यभिधीयते। घुमणिश- ब्देन परत्वं शूरविख्यातशब्देन सौलभ्यं च दर्शितम्। देवो- त्तम: चतुर्मुखादीनामप्युत्तमः 'यत्र देवानामधिदेव आस्ते' इ- त्यादिश्रुतेः । नलिनदळेक्षण: पुण्डरीकपलाशलोचनः भगवान् इह अस्मिन् लोके सुतरां भायात्॥।

Page 112

ललेषसर: (२८) 99

इन्द्रपक्षे-स्वरूपासितभाः स्वरुणा वज्रेण 'शतकोटि- स्स्वरु:' इत्यमरः । उपासिता स्वस्मितुपवेशिता तेन सेविता वा 'आस उपवेशने' अस्माण्णिजन्तात्कर्माण क्तः । भाः प्र भावो यस्य स तथोक्त: वज्रायुधोन्मिषितप्रभाव इत्यर्थः। 'भाः प्रभावे मथूखेऽस्त्री' इति मेदिनी।घुमणिः स्वर्लोकामरणभूतः 'दौः स्त्री स्वर्गे च गगने' इति मेदिनी। नलिनस्य सहस्र पत्रस्य दलानीव ईक्षणानि यस्य स तथोक्तः सहस्राक्ष इति भावः। शूर: विक्रान्तः स चासौ विख्यातश्च वृत्रादिमहासु- रवधप्रख्यातशौर्य इति भावः। देवोत्तमः निर्जरेषु श्रेष्ठः।सदा आत्मनि बिडौजा: इति छेदः। बिडीजा: इन्द्रः सुतरां आत्मनि बुद्धौ सदा भायात् इति॥ आदित्यपक्षे तु-स्वरूपे स्वाकारे आसिता उपवेशिता। यद्वा-स्वरूपेण स्वभावेनैव आ समन्तात् सिता बद्धा भाः दीप्ति: यस्मिन् स तथोक्तः। 'षिन् बन्धने' कर्मणि कः । 'मुह्दितं संदितं सितम्' इत्यमरः । स्वभावतो निश्चलदीप्तिरि- त्यर्थः । अथवा आसितं स्थितिः आसेर्भावे क्तः स्वरूपस्यासितं तेन भासत इति स्वरूपासितभाः, भासतेः क्विप, स्वरूपस्थि- त्यैव भासमान इत्यर्थः । सदात्मनिविडौजाः सन् स्वस्मिन्वि- दयमानः 'सत्ये साधौ विद्यमाने प्रशस्तेऽ्यर्हिते च सत्' इ- त्यमरः। यः आत्मा परमपुरुषः 'य एषोन्तरादित्ये हिरण्मयः पुरुषः' इति श्रुतेः। तेन निविडीजाः 'न तत्र सूर्यो भति' इत्यारभ्य 'तस्य भासा सर्वमिदं विभाति' इत्यादित्यादितेज- सां तदुपजीव्यत्वश्रवणात् । नलिनदळेक्षणः दलयतीति दलं 'दल विशरणे' अस्माद्धातोर्णिजन्तात्पचादयच्। 'णेरनिटि' इति णिलोप: । दलेर्घटादिषु भोजेन पठिततया 'घटादयो मितः'

Page 113

100 अलंकारमणिहारे

इति मित्वात् णिच्प्रयुक्तवृद्धयपवादको 'मितां हरस्वः' इति हस्वः। नलिनानां दलं नलिनदलं ईक्षणं दर्शनं यस्य स त- थोक्तः कमलविकासकदर्शन इत्यर्थः। सुतरांशुः रविख्यातः इति छेदः। 'रोरि' इति रेफलोपे 'ढरलोपे' इति पूर्वस्थाणो दीर्घस्सं- हितायाम् । सुतराः शोभनतराः अंशवः किरणीः यस्य स तथोक्तः। सुशव्दोऽत्र द्रव्यवाची। अतस्तस्माद्विहितस्य तरपो नामुप्रत्ययः, 'किमेत्तिङव्ययघादास्वद्रव्यप्रकर्षे' इति प्रतिषेधात्। रविरिति ख्यातः रविख्यातः । देवोत्तमः 'सुरोत्तमो धामनि- धिः' इति सूर्यपर्यायेषु पाठात्। ुमणः आदित्यः इह भाया दिति। अत्रार्थत्रयश्लेष: पूर्ववदेव, विशेषणविशेष्यव्यत्यासस्तु विशेष इति ध्येयम्॥ यथावा- कमलपदायावाण्यावशगो गौर्यास्सदाऽपि सा- धुरतेः। सुमनोभवहार्यज इह निजपदलग्नांस्त- नोति सत्कामान् ॥८७६।। अत्र भगवान् प्रस्तुतः ब्रह्मेशानस्मरा अप्रस्तुताः चतुर्णा- मेषां श्लेषः। तथाहि, भगवत्पक्षे-अजः न जायते स्मेत्यजः। भगवान् विष्णुः 'अजायमानः' इति श्रुतेः। 'अजशछागे हरि- ब्रह्मविधुस्मरनृपे हरे' इति मेदिनी। गौर्याः हिरण्यवत्पिशङ्गव- र्णायाः 'हिरण्यवर्णा, पिजळां हेममालिनीम्' इत्यादिश्रुतेः। 'गौरोऽरुणे सिते पीते' इत्यमरः। अनेन लावण्यसमृद्धिर्द्यौंतिता। 'षिद्रौरादिभ्यश्च' इति डीष्। सदाऽपि साध्वी प्रशस्ता रतिः भर्तृविषयकानुरागो यस्यास्सा तस्याः, अनेन प्रीत्यतिशय उक्तः। आभ्यं विशेषणाभ्यामनतिलङ्गनीयवचनत्वं सूचितम्।

Page 114

श्लेषसरः (२८) 101

कमलं पदं निवासस्थानं यस्यास्सा कमलपदा तस्या: पझमाल- याया: श्रियः । अनेन सौकुमार्यातिशयो व्यज्यते। तेन च तत्प्रार्थनाकरणे म्लानिशङ्कयाऽवश्योपादेयत्वं तद्वचसी ध्वन्यते। वाण्याः 'किमेवं निर्दोषः क इह जगति' इत्यायुक्तप्रकारायाः वाचः वशगः वश्यः । अत एव सुमनसां विदुर्षा भवं सं- सारं हरतीति सुमनोभवहारी सन् निजे स्वकीय पदे चरणे स्थाने वा लग्नान् तानेव सुमनस इति भावः। सत्कामान् सत्यकामान् आविर्भूतकल्याणगुणानित्यर्थः । तनोति। अनति- क्रमणीयश्रीवचनविभवविवशो भगवान्निश्शेषाविद्यानिवर्तनपूर्वकं स्वाशश्रितानाविर्भूतगुणाष्टकान्विदघातीति निर्गळितोऽर्थः॥ चतुर्मुखपक्षे-कमलपदायाः नलिनमृदुलचरणायाः गौर्याः 'या कुन्देन्दुतुषारहारधवळा' इत्युक्तरीत्या विशदवर्णायाः सदाऽ- पि साधुरतेः साधुषु सभ्येषु विद्वत्सु रतिः प्रीतिः यस्याः तथो- काया: वागदेवतात्वादिति भावः। 'साधुस्त्रिपूचिते चारी सभ्ये वार्धुषिके तु ना' इत रत्नमाला । वाण्या: सरस्वत्याः वश- गः । सुमनसि विसप्रसूने पझ्मे भवेन जन्मना 'जन्महरौ भवौ' इत्यमरः । हारी मनोहर: भगवन्नाभिनलिनजन्मेत्यर्थः । अजः चतुर्मुखः । निजपदलग्नान् सत्यलोकगतान् सत्कामान् रमणी- यभोग्यवस्तुशालिन: तनोतीति॥ ईशानपक्षे-कमलपढायाः पद्यत इति पदा पद्यतेः पचा द्यच्। कमलस्य कुरङ्गस्य पदा, कमलः कुरङ्गः पदं चिह्नं यस्यास्सेति वा तस्या: उभयथाऽपि कुरङ्गपाणेरित्यर्थः । 'स्या कुरङ्गेऽपि कमलः, पदं व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु' इति चामरः। यद्यपि कुरङ्गपाणित्वमीशानस्यैव प्रसिद्धयति। तथाऽ- प्युमायास्तदर्धाङगतया तडडुक्तिरिति ध्येयम्। अत एव 'दीप-

Page 115

102 अलंकारमणिहारे

कमृगायमाणनिजहरिणशाबकानुधाव्यमानपार्ष्णिभागौ' इति ह रिणस्योभयसाधारण्योक्तिस्संगच्छते। यद्वा कमलानि उत्तम- महिळात्वसूचकरेखाकारपद्मानि पदे यस्यास्सेति । साधुरतेः रमणियवल्लभप्रीतेः । गौर्याः पार्वत्या वाण्याः वाचः वशगः। मनोभवं सन्मर्थं हरतीति मनोभवहारी। सुष्ट मनोभवहारी सु- मनोभवहारी कन्दर्पवैरीत्यर्थः । अजः ईशानः निजपदलग्नान् स्वचरणसक्तान् सत्कामान् विद्यमानमदनानू तनोतीति विरोधः, फलितमनोरथांस्तनोतीति परिहारः ॥ स्मरपक्षे तु-कमलपदायाः अरुणाम्बुजचरणाया गौर्याः अरुणवर्णाया: पातिव्रत्येन विशुद्धाया वा। 'गौर: पीतेऽरुणे शवेते विशुद्ध चाभिधेयवत्' इति मेदिनी । रतेः रतिदेव्याः वाण्या: वाचः साधु यथा स्यात्तथा वशगः । तदाज्ञावशंवद इत्यर्थः । सुष्ठ मनास चित्ते भवेन जन्मना हारी रस्य: म० नसिज इत्यर्थः। अजः स्मरः। कोशस्तूदाहृत एव। निजपदेषु स्वकीयवस्तुषु आलम्बनगुणादुद्दीपनविभावेष्वित्यर्थः । लग्नान् अभिषक्तान जनान् सत्कामान् ऊर्जितप्रेयसीसंभोगाभिलाषान् तनोतीति॥ यथावा- पुष्कलसच्छ्ीलक्षणहृद्यो यो बहुविरोचना- भिख्यः । विद्युद्राजयतु हरिस्स वृत्रसंहननभिदुर- वरहेतिः।।८७७।। अत्र भगवान् प्रस्तुतः इन्द्रस्सूर्यश्चन्द्रो विद्यत्पकाशश्चा प्रस्तुताः। एतेषां पश्चानां श्रेष इति पूर्वोदाहरणाद्विशेषः। त थाहि, भगवत्पक्षे-यः हरि: पुष्कले अतिशोभने सती च सञ्च

Page 116

श्लेषसरः (२८) 103

सती 'नधुंसकमनपुंस केनैकवच्चास्यान्यतरस्याम्' इति नमुंसकै- कशेषः। सती अभ्य्हिते च। श्रीश्च लक्षणं च श्रीलक्षणे ल- क्ष्मीश्रीवत्सौ हृद्ये उरसिस्थित यस्य सः 'श्रीमान् श्रेष्ठः ुष्क- लस्स्यात्सत्तमश्चातिशोभने' इत्यमरः । 'सत्साधौ धीरशस्त योः। मान्ये सत्ये विद्यमाने तिपु साध्युमयो: स्त्रियाम्' इति मेदिनी। यद्वा पुष्कलान पूर्णानि 'पूर्णश्रेष्ठी तु घुष्कलौ' इति रत्नमाला। सन्ति प्रशस्तानि लक्षणानि सामु्िकोक्तमहापुरुप- त्वज्ञापकाङ्गचिह्वान्वितैः हद्ः मनोज्ञः। यथोच्यते श्रीरामायणादौ- त्रिस्थिरस्त्नरिप्रलम्वश्च त्रिसमस्त्रिपु चोन्नतः। इत्यादिना। यद्ा पुष्कला श्रीमती सती साध्वी च या श्री: लक्ष्मीः तस्याः लक्षणं नामैव हृद्यः तस्याः जगतो वा वशी- कारमन्त्रो यस्य स तथोक्तः, हृदयस्य बन्घनो हृच इत वि- ग्रहः। 'बन्धने चर्षो' इति हृदयशब्दात् षष्ठटयन्ताद्वन्घने य- त्प्रत्ययो वेदेषभिधेये। हदो वशीकरणमन्त्र इत्याहुः। 'नारा- यणस्य किल नित्यजपस्त्वदयिं नाम प्रगल्सतमम्' इत्युक्तरीत्या भगवतो लक्ष्मीनाम नित्यजपार्हमिि भावः। लक्षणं कार्पिके चिह्ने नास्ति मुद्राङसंपदोः। • हृद्यो वशिक्रियामन्त्रे हृदं धभ्नयतुलेपने॥ हृत्प्रिये हद्धिते हजे

इति च वैजयन्ती। अथवा घुष्करा सती श्रीरेव लक्षणं जग- दीश्वरत्वज्ञापकमुद्रा हृदं हृदयस्थं यस्य स तथोक्तः। बहु अ. धिकं विरोचनं प्रकाशो यस्यास्तथोक्ता अभिख्या कीर्तिर्यस्य सः बहुविरोचनाभिख्यः 'तस्य नाम महद्यशः' इति थ्रुतेः। 'अभिख्या त्विड्यशोनामसु' इति रत्नमाला। वृन्नसंहननभिदुर-

Page 117

104 अलंकारमणिहारे

वरहेतिः वृत्राइशत्रवः तेषां संहननानि वयूंषि 'गात्रं वपुस्सं- हननम्' इत्यमरः । भिन्दन्तीति भिदुराः'विदिभिदिच्छिदेः कुरच्' इति कुरच। वृत्रसंहननानां भिद्ुरा: रिपुवपु- र्भेदिन्य इत्यर्थः । वरा श्रेष्ठाः हेतयः सुदर्शनादीन्यायुधाने यस्य सः। 'ध्वान्तारिदानवा वृत्राः। वृत्रो मेधे रिपौ ध्वान्ते दानवे वासवे गिरौ' इत्यमरहमचन्द्रौ। 'हेतिर्ज्वालांऽशुरायुध- म्' इति वैजयन्ती। विद्युन्धाः विद्यत्तुल्यप्रकाशः 'सर्वे नि- मेषा जज्ञिरे विद्यतः पुरुषादधि' इति श्रुतेः। यद्वा वित् ज्ञानं 'व्यवहारविदे' इत्यादावित विदेस्संपदादित्वान्भावे ककिप। वि- दा यौतीति विद्युत्। युधातोर्मिश्रणार्थकात्कर्तरि किप्। 'हरस्व- स्य पिति कृति तुक्' इति तुगागमः। विद्युत् भाः तेजो यस्य सः विदयुद्धाः। ज्ञानान्विततेजस्संपन्न इत्यर्थः। अत्र- ज्ञानशक्तिवलैश्वर्यवीर्यतेजांस्यशेपतः।। इत्युक्तेषु गुणेषु प्रत्याहारन्यायेनाद्यन्तयार्ग्रहणं मध्यस्थानां श- क्तयादीनां चतुर्णामपि गुणानासुपलक्षकम्। तेन पूर्णषाङ्गण्यव- रवं दर्शितम्। सः हरि: जयत्विति॥ इन्द्रपक्षे-यः पुष्कले पुष्करे रलयोरभेदाश्रयणात् गगने सीदन्तीति पुष्करसद: दुसदः, सदेः कविप्। तेषां देवानां श्रीलक्षणानि साम्राज्यज्ञापकच्छत्रचामरादिचिह्नानि तैः° हृद्यः हृदयप्रिय: बहूनि सहस्रसंख्याकानि विरोचनानि विलोचनानि रलयोरभेदाश्रयणात् यस्य सः बहुविलोचन इत्यभिख्या प्रसिद्धि: यस्य स तथोक्त इति बहुव्रीहिगर्भो बहुव्रीहिः। वृत्रस्य असु- रविशेषस्य संहननं हननसाधनं हन्तेः करणे ल्युट्। यत भिदुरं कुलिशं 'भिदुरं पविः' इत्यमरः। तदेव वरहेतिः उत्त- मशस्त्रं यस्य स तथोक्तः। विदुद्धाः वित् व्याकरणविषयकं

Page 118

श्लेषसरः (२८) 105

ज्ञानं 'वाग्वै पराच्यव्याकृताऽवदत्तामिन्द्रा मध्यतोऽवक्रम्य व्या- करोत्' इति श्रुतेः। ब्रह्मविषयकं ज्ञानं वा 'स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये' इत्यादिना प्रतर्द- नाय स्वात्मशररिकब्रह्मोपदेष्टृत्वश्रवणात्। युत् पौलोमादियुद्धं ता्यां भासत इति विदद्धाः 'समित्याजिसमिदयधः' इत्यमरः। यद्वा विदि उद्धा: इतिच्छेदः। विदि पूर्वोक्तज्ञाने विषये उन्भा: उदश्चद्दीप्ति: अप्रतिहतज्ञान इत्यर्थः । सः हरि: इन्द्रः जयत्विति॥ सूर्यपक्षे-यः पुष्कराणां कमलानां सती या श्रीः संपत् शोभा वा तस्या: लक्षणं रक्षणं रलयोरभेदात्। हृद्यं हृदयहितं यस्य सः। बहु इति भिन्नं पदमग्रेऽन्वेति । विरोचनामिख्यः विरोचननांभा 'चन्द्राग्रथ्कां विरोचनाः' इत्यमरः। यद्वा रोच- नानां रक्तकह्वाराणां अभभिख्या शोभा। विशिष्टा रोचनाभिख्या यस्मात्सः। रक्तकह्वारसुषमावह इत्यर्थः। 'रोचना रक्तकह्वारे गवां पित्ते वरस्त्रियाम्' इति रत्नमालावैजयन्त्यौ। बहु यथा स्या- त्तथा। इदं भेदनक्रियाविशेषणम्। वृत्राणां पर्जन्यानां संहननं संघः 'अङ्गे संघे संहननम्' इति शेषः । तेषु भिदुराः वृष्टयर्थ मिळिता: वराः हेतयः किरणा: यस्य स तथोक्तः 'याभिरादि- त्यस्तपति रश्मिभिस्ताभि: पर्जन्यो वर्षति' इति श्रुतेः । विदयुद्भाः विद्युद्धर्णः सः हरि: सूर्यः जयत्विति॥ चन्द्रपक्षे-पुष्कलं पूर्ण सतां रोहिण्यादिनक्षत्राणां 'सत्क्ली- बमृक्षे' इति रत्नमाला। श्रियः संपद: रक्षणं हृद्यं हृद्यप्रियं यस्य सः। ताराधीशत्वात्तस्येति भावः। यद्ा बहु यथा तथा पुष्करेषु पद्मेषु सती या श्रीः शोभा तस्या: लक्षणं चिह्नं नाम वा हरतीति पुष्करसच्छ्रोलक्षणहत्, हरतेः क्विप। पद्म. शोभायाशिचिह्नं नामापि वा निश्शेषयितेत्यर्थः। अस्मिन्पक्षे यः ALANKARA II 14

Page 119

106 अलंकारमणिहारे

पुष्करसच्छ्रीलक्षणहृत् यः विरोचनाभिख्य इति यत्पदद्वयस्य योजना। विरोचनाभिख्यः विरोचनापरनामा। वृत्राणां ध्वान्तानां संहननस्य संघस्य भिदुराः भेदयित्रयः वराः हेतयः अंशवो यस्य सः। विद्यत् विशेषेण द्योतमाना भाः प्रभावो यस्य सः। हरि: चन्द्रमा: जयत्विति॥ विद्युत्प्रकाशपक्षे तु-लिङ्गविपरिणामेन विशेषणानि योज्यानि। पुष्करं नक्षत्रं तादिव सती रमणीया। यद्वा पुष्करं अहिविशेषः जलधारा वा तदिव सती विद्यमाना वकरतनुदीर्घोज्ज्वलरूपा ॥ पुष्करमम्बुनि खे भे युधि वाद्यमुखेमरेऽपि धारायाम्। द्वीपे भेषजभेदे सारसतीर्थाहिकरिकराग्रेषु ॥ इति रत्नमाला। श्रीरस्यास्तीति श्रीला। सिध्मादित्वान्मर्थीयो लच। 'लक्ष्मीवान् लक्ष्मणशश्रीलः' इत्यमरः। क्षणहृद्या अल्पका- लरमणीया अचिररुचित्वात्। त्रयाणामेषां कर्मधारयः । हररि: कपिलवर्णा। अत एव विरोचनाभिख्या। रोचना गोरोचना तस्या: अभिख्येवाभिख्या यस्यास्सा विशेषेण रोचनाभिख्या वि- रोचनाभिख्या। अथवा रोचनाः वरवर्णिन्यः तासां अभिख्येवा- रिख्या यस्यास्सा उत्तमललनामणितुल्यशोभेत्यर्थः । अत एव प्र- तीपालंकारः। बहु यथा तथा वृत्राणां जीमूतानां संहननं संघः तस्य भिदुराः वरा: हेतयः ज्वाला: यस्यास्सा अम्बुदकदम्बसम्भे- दनेनोन्मीलितत्वािति भावः । वविदुन्धाः तटित्प्रकाशः जयत्विति॥ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहहिकपिभेकेषु हाररना कपिले त्रिषु॥ इत्यमर: ॥ यथावा - राजा स लोकपालो जिष्णुस्समवर्तिताप्प्रथि-

Page 120

श्लेषसरः (२८) 107

तनामा। वर्षति तरां प्रचेताइश्रीदो ननु सर्वतोमु- खं कामम् ॥८७८॥

अत्रापि भगवानेव प्रस्तुतः। इन्द्रयमवरुणकुबेरचन्द्रा अप्र- स्तुताः । षण्णामेषां श्रषः । (१) भगवत्पक्षे-जिष्णुः जयशीलः। समवर्तिताप्रथितनामा। मया श्रिया सह वर्तते यस्मिन्कर्मणि तद्यथा स्यात्तथा समं समं वर्तत इति समवर्ती श्रीमत्तयैव वि- दयमान इत्यर्थः । यद्वा-'समोहं सर्वभूतेषु' इत्युक्तरीत्या सर्व- समं वर्तत इति तथोक्त। अथवा समेषु सर्वेषु चेतनाचेतन रूपवस्तुषु वर्तते अन्तः प्रविश्य नियन्तृतया विद्यत इति स- मवर्ती 'सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति मेदिनी। तस्य भावः समवर्तिता। तया प्रथितनामा प्रख्याताभिख्यः प्रकृष्टं चेतो यस्य स तथोक्तः महाशय इत्यर्थः । महोदार इति यावत्। महोदारता च पात्रलाघवं प्रदेयगौरवं चाना- दृत्य दायभागन्यायेन प्रत्युपकारनिरपेक्ष वितरणरासिकत्वं प्रा- ज्यं दत्वाऽप्यतृप्तत्वं च। अत एव श्रीदः आश्रितेभ्योऽखिलसं- पत्प्रदः राजा 'एक इद्राजा जगतः। एष ब्रह्मलोकस्सम्राट् । रा- जाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्' इत्यायुक्तरीत्या सक ललोकाधिराज: सः एवं प्रसिद्धप्रभाव: लोकपालः सर्वजगद्र- क्षको भगवान् 'एष लोकपालः' इति श्रुतेः। सर्वतोमुखं अप्र तिहतं कामं मनोरथं अस्माकमिति शेषः। वर्षतितरां ननु अ- तिशयेन ददात्येव। ननुरवधारणे। यद्वा न तु इति पदद्व- यम्। नुः पृच्छायां न वर्षतितरां नु । वर्षत्येवेति भावः॥ (२) इन्द्रपक्षे-समवर्तिताप्रथितं स्वरूपोचितवृत्तितया प्र. सिद्धं नाम यस्य स तथोक्तः । प्रचेता: महामना: श्रीदः आ-

Page 121

108 अलंकारमणिहारे

थ्रितलक्ष्मीप्रदः । राजा 'इन्द्रो राजा जगतः । इन्द्राय राजे' इत्यादिश्रवणाद्राजतया प्रसिद्धः । लोकपालः जिष्णुः इन्द्रः जिष्णुर्लेखर्षभः' इत्यमरः । सर्वतोमुखं सलिलं 'पुष्करं सर्व- तोमुखम्' इत्यमरः । कामं पर्यात्त यथा स्याततथा वर्षतितरां पर्जन्यवाहनतया वर्षस्य तदधीनत्वादिति॥

(३) यमपक्षे-जिष्णुः जयशील: प्रचेता श्रीदः उक्त प- वार्थः । राजा 'यमो राजा प्रसृणाभिः' इते श्रुतेरस्य राज- त्वम्। समवर्तिताप्रथितनामा समवर्तीति प्रसिद्धाभिधानः । लो- कपालः सर्वतोमुखं निरवधिकं कामं अभिलाषं वर्षतितराम्। स्वाश्रितानां प्रददातीत्यर्थः । 'ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व' इति नचिकेतसं प्रति स्वे- नैवोक्तत्वादिति भावः।।

(४) वरुणपक्षे-प्रचेता इति विशेष्यम्। समं वर्तत इति समवर्तिता वर्ततेस्तृच्। अर्थः पूर्ववदेव। अप्प्रथितनामेति भिन्नं पदम्। अ्भिः प्रथतं व्यपदिष्ट नाम यस्य सः 'वरुणोऽपा- मधिपतिः' इत्यादिश्रुतेस्तन्नाम्नोऽद्भिः प्रथितत्वम्। राजा 'राजा त्वा वरुणो नयतु । यासां राजा वकुण:' इत्यादिश्रुतेरस्यापि राजत्वम्। अन्यानि विशेषणानि यथोक्तार्थान्येव। सर्वतो- मुखं जलं कामं वर्षतितरां सलिलाधिपतित्वात्तस्य पर्जन्यद्वा- रा वर्षणमिति व्येयम्।

(५) कुबेरपक्षे-श्रीद इत्येतद्विशेष्यम् । अन्यानि विशेष- णानि यथोदितार्थान्येव । राजा 'कुबेराय वैश्रवणाय महारा- जाय नमः' इति श्रुतिप्रसिद्धेरस्यापि राजत्वम् । एवं चाष्टा- नामपि दिगधीशानां लोकपालत्वाविशेषेSपीन्द्रयमवरुणकुबेरा

Page 122

श्लेषसर: (२८) 109

णामेव महादिगधीशतया राजत्वं श्रुत्या ख्यापितम् । न तु विदिगधीशानामग्निनिऋतिमरुदीशानानां तेषां राजत्वाश्रवणादि- त्यवधेयम्। श्रीदः कुबेरः सर्वतोमुखं कामं वर्षति तरां 'स में कामान् कामकामाय महं, कामेश्वरो वैश्रवणो ददातु' इति श्रुतेः॥ (६) चन्द्रपक्षे तु-लोकपाल :- इन्द्रानिलयमार्काणामग्नेश् वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥ इत्युपक्रम्य 'अष्टाभिलोकपालाना मात्राभिनिर्मितो नृपः' इत्यु- क्तेश्चन्द्रस्यापि लोकपालत्वम् । अन्यानि विशेषणानि पूर्वोक्ता- र्थान्येव। राजा इदं विशेष्यं चन्द्र इत्यर्थः । 'सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति श्रवणादस्य राजत्वम्। सर्वतो- मुखं निरङ्कशं यथा तथा कामं वर्षतितरां मन्मथमुद्दीपयतीति यावत्॥ नन्वत्रोपपादितेषु सर्वेष्वप्यर्थेषु विशेषणानां विशेष्याणां चानियमात्कथमस्य श्रेषोदाहरणता 'सर्वदोमाधवः पायात्' इत्यादौ तन्नियमस्यैव दर्शनादिति चेत् उभयेषामपि श्िष्टत्व- नियमानतिक्रमादित्यवधेहि। विशेषणविशेष्योभयन्लिष्टत्वमेव हि श्ेषलक्षणम्। न हि विशेषणैर्विशेष्यैर्वा सर्वेष्वप्यर्थेष्वैकरूप्ये- णैव भाव्यमित्याग्रहः। तेषां ्िष्टतानियममात्रस्यैवापेक्षितत्वा दिति दिक्। एवं सर्वत्रापि द्रष्टव्यम्॥ यथावा-

वसुमत्ताविद्योता समुपाश्रयते परां काष्ठाम्।

Page 123

110 अलंकारमणिहार

अत्रापि थ्रिय:पतिरेव प्रकृतः, बृहस्पतिदिवस्पतिपशुपति- ग्रहपतिवसुमतीनरपतयोऽप्रकृताः । सप्ानामेतेषां श्ेष: ' तथाहि,

(१) श्रीपतिपक्षे-गोविसरोपात्तश्रीः गवां अपां विसरस्स- मूहः वाराशि: तस्मात् उपात्ता श्रीः लक्ष्मीः यया सा तथोक्ता गौः क्रतौ वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम्। द्वयोस्तु रश्मिद्दग्बाणस्वर्गवज्राम्बुलोमसु।

इति रत्नमाला। 'विसरः प्रसरे ब्रजे। श्रीर्वेषरचनाशोभाभार- तीसरळद्गुमे। लक्ष्म्यां त्रिवर्गसंपत्तिविधोपकरणादिषु। विभूतौ च गतौ च स्त्री' इति च सेदिनी। उदारं श्रेष्ठं सत्वं 'स्व- सत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्' इत्युक्तो गुणविशेषः यस्यास्सा 'यत्सत्वं स हरिर्देवः' इत्यायुक्तश्शुद्धसत्त्त्वमयाप्रा- कृतदिव्यमङ्गळविग्रहेत्यर्थः । 'उदारो दक्षिणे ख्याते दानशौ- ण्डे महत्यपि' इति, 'सत्वं गुणे पिशाचादी व्यवसायस्वभा- वयोः । गुणप्राणबलस्वान्तसत्तास्वस्त्री तु जन्तुषु' इति च र- तमाला। वसुमत्ताविद्योता वसवः देवविशेषा: प्रसिद्धाः म- त्ता: तृप्ताः यस्मात्स: वसुमत्तः । अविः आदित्यः तस्मिन् द्योतत इति द्योता 'असौ वा आदित्यो देवमधु' इत्युपक्रम्य 'तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं द्ष्टा तृप्यन्ति' इति मधुविद्यो- क्तप्रक्रियया वसुतृप्तिहेतावादित्ये 'यश्चासावादित्ये' इत्यायुक्त- रीत्या विद्योतमानेत्यर्थः॥

वसुर्ना देवभेदषु योक्त्राग्निधनदांशुु। मधुरे तु त्रिषु क्लीबे सालल धनरत्नयोः ॥ इति रत्माला। 'हृष्टो मत्तस्तृप्तः' इत्यमरः।

Page 124

श्लेषसर: (२८) 111

अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे। प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः॥ इति रत्नमाला। महती देवता 'महते दैवतायाज्यं, दैवता- नां च दैवतम्' इत्युक्तो भगवान् वासुदेवः परां काष्ठां स्थितिं श्रयते। सैव परमप्राप्येत्यर्थः । 'सा काष्ठा सा परा गतिः' इति हिश्रुतिः । 'काष्ठोत्कर्षे स्थिती दिशि' इत्यमरः । काषठ दारुण काष्ठा तु प्रकर्षे स्थानमात्रके। दिशि दारुहरिद्रायां कालमानप्रभिद्यापि। इति हेमचन्द्रः ।

(२) बृहस्पतिपक्षे-गोविसरेण वाक्प्रसरेण उपात्ता श्रीः देवाचार्यकविभूतिर्यया सा तथोक्ता। उदारं ख्यातं सतो भाव- स्सत्वं वैदुष्यं यस्यास्सा 'सन् सुधीः कोविदो दुधः' इत्य मरः। वसुमत्ता तजस्विता ब्रह्मवर्चसमिति यावत्। सा च विद्या ऋग्वेदादिविद्या च वसुमत्ताविद्ये पूर्वनिपातप्रकरणस्य 'लक्षण- हेत्वोः' इत्यादिसूत्रनिर्देशेनानित्यताया ज्ञापितत्वान्नेहाल्पाच्तरस्य विद्याशब्दस्य परनिपातविरोधः। वसुमत्ताविद्याभ्यां ऊता संत- तेति यावत्। 'ऊतं स्यूतम्' इत्यमरः। वेङः कर्मणि क्े संग्र- सारणम्। महती देवपूज्या देवता बृहस्पतिनामेति भावः। परां काष्ठां उत्कर्ष समुपाश्रयते।।

(३) दिवस्पतिपक्षे-गोविसरेण नयननिवहेन लोचनसहस्त्रे- णेत्यर्थः। उपात्ता श्रीइशोभा यया सा तथोक्ता। उदारसत्वा महाव्यवसाया। वसवो देवविशेषा: तेऽस्य सन्तीति वसुमत् तस्य भावः वसुमत्ता 'शरद: कृतार्थता' इत्यादाविव सा- मान्ये नपुंसकम्। तया आविद्योता समन्तात्प्रकाशमाना। अ-

Page 125

112 अलंकारमणिहारे

खिलदेवाधीशत्वात्सततमपि वसुसाहित्येन भासमानेत्यर्थः । म हती देवता 'यो वृत्रमवधीत्तन्महेन्द्रस्य महेन्द्रत्वम' इति श्रु- त्युक्तरीत्या प्राप्तमहत्त्वा। देवता इन्द्ररूपा देवता। अपरां परा पश्चिमा सा न भवतीत्यपरा पूर्वेत्यर्थः । तां काष्ठां दिशं स. मुपाश्रितेति॥ (४) पशुपतिपक्षे-गौः वृषभः विसरतीति विसरा, पचा- दच्। गवा विसरा गोविसरा। भिन्नं पदम्। वृषभचारिणी- त्यर्थः। उपात्ता पीता श्रीः विषं यया सा तथोक्ता- श्रीवेषरचनाशोभासंपत्सरलशाखिषु। वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि . ...... ll

इति रत्नमाला। अत एवायं श्रीकण्ठ इत्युच्यते। उदाराणि महान्ति सत्त्वानि भूतपिशाचादीनि यस्यास्सा तथोक्ता। भूते- शत्वादिति भावः। वसुराग्नः सोऽस्यास्तीति वसुमान् तस्य भावः वसुमत्ता फाललोचनागिमत्तेत्यर्थः । तया यः अविः भाः। उदाहृतः कोशो न विस्मर्तव्यः। तेन द्योता दुतिमती। यद्वा वसुः धनदः वसुमत्ता तद्वता तया अचौ शैले कैलास- नाम्नि। यद्वा वसुर्धनद: मत्तः हृष्टो यस्मिन् तस्मित् अवौ कैलासगिरौ द्योतत इति तथोक्ता द्वयोरपि तयोः कैलासनि लयत्वादिति भावः। महती देवता महादेवत्वेन प्रसिद्धा देवता परां 'दिक््वैशानी दिगुत्तमा' इति प्रशस्ततया स्मृतिप्रतिपा- दितां काष्ठां दिशं समुपाश्रयते।। (५) ग्रहपतिपक्षे-गवां दिशां विसरेण निवहेन उपात्ता श्रीः प्रकाशो यस्यास्सा सर्वदिक्प्रकाशिकेत्यर्थः । अराण्यस्य सन्तात्यरि चक्रं मत्वर्थीय इानः। तन्नामकत्वात्कोका अत्र वि-

Page 126

श्रेषसरः (२८) 113

वक्षिताः 'कोकश्चक्रश्चकवाको रथाङ्गाह्वयनामकः' इत्यमरः । अ- रिणां समूहः आरम्। सामूहिकं 'प्राणिरजतादिभ्योऽञ्' आर- स्य सत्त्वमन्तःकरणं आरसत्त्वं तदुल्ासितं ययेत्युदारसत्त्वा प्रादिभ्यो धातुजस्य' इति बहुव्रोही लासितशब्दलोपः। व- सवः किरणाः अस्य सन्तीति वसुमान् भूस्नि अतिशायने वा मतुप। तस्य भावः वसुमत्ता तया अविद्योता अविर्मेषराशि: तस्मिन् द्योतत इति तथोक्ता मेषराशेस्तदुच्चस्थानत्वात्तत्र द्यो- तत इत्युक्तम्। यथोच्यते कार्तान्तिकै :- 'स्वोच्चे प्रदीप्तः' इति। महती सर्वैस्त्रिसन्ध्यमभिवन्द्यमाना देवता सूर्याभिधानेत्यर्थः । परां 'दिशां प्राची' इत्युक्तरीत्या मुख्यां पूर्वा परां पश्चिमां च काष्ठां दिशं समुपाश्रयते उदयास्तमयार्थमिति भावः॥ (६) वसुमतीपक्षे-गावो धेनवः अवयः मेषाः सरांसि कासारा: आपः अन्यानि नद्यादिजलानि। सरसां आपः स- रोडपा इति वा। एतेषां समाहार: गोऽविसरोऽपं 'ऋकपूरप्' इत्यादिना समासान्तोऽप्रत्ययः । तेन आत्ता श्रीशशोभा यया तथोक्ता। उदारा: महान्तः सत्त्वा: जन्तवः यस्याँ सा। यद्वा - आर: अङ्गारक: 'आरा चर्मप्रभेदिन्यां पुंसि भौमे शनैश्चरे' इति मेदिनी। स एव सतत्वं गर्भो यस्यास्सा उत्कर्षेण आर- सत्त्वा उदारसत्वा। सतत्वशब्दो गर्भवाची। अत एव आपन्न- सस्वेति गर्भिणीपर्यायशब्दशश्रूयते। अङ्गारको हि वसुधागर्भो- दितः । स हि 'रोहिताङ्गो महीसुतः' इत्यभिधीयते। वसुमत्ता रत्नवत्ता निधिरूपधनवत्ता वा यत इयं वस्तुमतीत्याख्यायते अवयः गिरयः। वसुमत्ता च अवयश्च वसुमत्तावयः तैः द्यो- तत इति तथोक्ता। यद्वा-विगता द्योतो यस्यास्सा न भवती- त्यविद्योता। वसुमत्तया अविद्योता रत्नगर्भतया नित्यप्रकाशेत्य- ALANKARA II 15

Page 127

114 अलंकारमणिहारे

र्थः। महती विपुला देवता भूरूपा 'हन्ताहमिमास्निस्रो दे- वताः' इत्यन्नशब्दाभिलपनीयाया भुवो देवतात्वश्रवणात्। परां काष्ठां श्रयते सर्वा दिशो व्याप्नोतीत्यर्थः ॥

(७) नरपतिपक्षे-गोविसरात् तत्तद्ेशभूनिवहात् दृष्टिप्रस- रणात् बाणप्रयोगाद्वा उपात्ता सामन्तवर्गादुपाहृता श्रीः विभू- तिः यया सा तथोक्ता उदारं सत्त्वं बलं प्राणो वा यस्यास्सा वदान्याचित्ता वा। वसुभिः धनैः मत्ता तृप्ता । अविभिः प्रा. कारैः भवनैः भाभिर्वा सर्वैर्वा द्यातत इति तथोक्ता। उदा- हृतः कोशो न विस्मरणीयः। महती देवता भूपतिरूपा 'म- हती देवता ह्येषा नररूपेण तिष्ठति' इति स्मरणात्। परां काष्ठां उत्कृष्टां स्थिति आधिराज्यपदमिति यावत्। समुपा- श्रितेति।

एवमष्टानां नवानां दशानां ततोप्यधिकानां वार्डर्थानां श्े- षशशक्य: कर्तु, अथाऽपि भगवत्या भारत्या भूयान् स्यात्केश इति भिया विश्रम्यते॥

एवं प्रकृताप्रकृततदुभयगोचरतया श्षेषत्रैविध्यं प्रपश्चि- तम्। तत्र समङ्गाभङ्गरूपवैलक्षण्यं च सामान्यतः प्रदर्शितम्। इदानीं विशिष्य तन्जेदः प्रपश्चचते। अत्र कौस्तुभकार :- "श्े- षस्सभङ्गोऽभङ्गश्च। विभिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्त- रकत्वं सभङ्गत्वम्। समानानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्त- रकत्वमभङ्गत्वम्। द्विविधोप्ययं श्लेषोडर्थालङ्कार एव। अर्था- न्तरस्य वाक्यार्थानन्वये नानार्थकपदसन्भावेपि श्षेषव्यवहारवि- रहात्। आद्यश्चाष्टधा-वर्णपदलिङ्गभाषाविभक्तिप्रकृतिप्रत्ययवच- नभेदात्" इत्यभाणीत्। तथाहि-

Page 128

श्ेषसरः (२८) 115

आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः । प्रकृतिप्रत्ययाभ्यां च वचनैश्श्लेष ईरितः॥७७

तत्र च वर्णश्लेष :.

विभक्तयादिवशादत्र नानावर्णैकरूपता। श्रूयते स हि विद्वद्विर्वर्णश्लेष इतीर्यते ॥७८॥ यत्रानेकेषां वर्णानां विभक्तचादिबलादैकरूप्यं श्रूयते स वर्णश्लेष इत्यभिधीयते।। यथा- श्रेयोहेतौ शुभकरभूषणवेणौ समुल्लसज्ानौ। त्वयि भगवति विनिविशतां चिन्तं देवेश्वरे मम दयाळौ॥८८१॥

अत्र लक्ष्मीश्रीनिवासयोश्श्लेषः। तत्र लक्ष्मीिषये हे देवेश्वरे! देवानामीश्वरा ईशाना तस्यास्संबुद्धि: । 'स्थेशभास' इत्या- दिना वरजन्तत्वान्न डीपू। हे भगवति! श्रेयसां हेती कारणे 'श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादते संसृत्यक्षरवैष्णचा- ध्वसु नृणां संभाव्यते करिचित्' इत्युक्ते: । शुभकराणि भूष- णानि यस्यां सातथोक्ता वेणि: प्रवेणो यस्यास्सा तथोक्ता तस्याम। इदन्तोऽयं वेणिशब्दः। 'वेणृ निशामनवाादेतरादानगम- नज्ञानचिन्तासु' इति भौवादिकाद्धातोरौणादिक इन् प्रत्ययः।

Page 129

116 अलंकारमणिह्दारे

'वेणिप्रवेणी' इत्यमरः। 'करणश्रोणिवेणयः' इति स्त्रीकाण्डे नि- गमः 'देवस्स त्वामसूत द्विषदुपमृितस्वर्वधूवेणिबन्धा' इति मु- रारिमिश्रप्रयोगश्च। समुलसन्ती रत्नमुकुराकारतया दीप्यमाने जानुनी यस्या: तस्यां तथोक्तायाम्। दया आळिस्सखी यस्या: तस्यां तथोक्तायां दयापरवशायामिति यावत्। त्वाय मम चित्त विनिविशताम्। विनिपूर्वकाद्विशतेलोट 'नेर्विशः' इत्यात्मनंपदम्॥ श्रीनिवासपक्षे तु-देवेश्वरे इत्यत्र देवेति च्छेदः। हे देव! श्रेयस्यः प्रशस्यतराः हेतयः दिव्यायुधानि यस्य तस्मिस्तथोक्ते। शुभः करयोः हस्तयोः भूषणं अलंकारभूतः वेणुः यस्य तात्मिन् गानकृते पाणिगृहीतवेणावित्यर्थः । समुल्लसन्ती कल्याणदिव्यवि- ग्रहवत्तया प्रकाशमाना जाया यस्य त्मिन् समुल्लसज्ानौ 'जायाया निङ्' इति बहुव्रीहौ समासान्तो निङ् 'लोपो व्यो- वलि' इति यलोपः। 'सुमजानये विष्णवे' इति श्रुतिरत्र प्रत्य- भिज्ञाप्यते। दयाळौ कृपाशालिनि 'स्पहि गृहि पति दयि' इत्या- दिना कर्तर्याळुच्। ईश्वरे अनौपाधिकनिर्देशादसंकुचितैश्वर्यवति भगवति त्वय चित्तं निविशताम्। अत्र हेतौ वेणौ जानौ दयाळौ इत्यत्र हेति हेतु वेणि वेणु जानि जानु दयाळि दयाळु पदानां सप्तमीविभक्ताविकारोकारावेकोच्चारणविषयतया श्िलिष्टाविति व- र्णश्ेषोऽयम्। ईश्वरे भगवतत्यित्र संबुद्धिसप्तमीविभक्तचोर्वक्ष्य- माणरीत्या श्रेषश्चाभ्युच्चीयते।। यथावा- हृदयं सदाऽडशरारौ दुर्गतिवाराशितरणदिव्य- तरौ। कलशोदधिभवने मम कस्मिश्रिद्देवते चिरं लगतात् ॥८८२॥

Page 130

श्लेषसरः (२८) 117

अत्रापि श्रीश्रीनिवासयोरेव श्षेषः। अशरारौ आहिंस्त्रे अनु- ग्रहमयत्वेनाज्ञातनिग्रहे इत्यर्थः । पक्षे-आशरारावितिच्छेदः। आ- शराणां रक्षसां अरी विरोधिनि 'कव्यादोऽस्रप आशरः' इत्य- मरः। दुर्गतिर्दारिद्रयं वाराशिरिव दुर्गतिवाराशि. तस्य तरणे दिव्यतरौ कल्पशाखिनि 'दारिद्रयार्णवतारिणीम' इत्याद्यक्ते:। 'दुर्गतिर्नरके नैस्व्ये' इति मेदिनी । पक्षे-दुर्गतिः नरकः स एव वाराशिः तस्य तरणे दिव्या अद्भता तरिः नौः तस्यां दिव्यतरौ। कलशोदधौ दुग्धजलधौ भवनं जन्म निवासश्च यस्य तस्मिस्तथोक्ते कस्मिश्चिदैवते श्रीरूपे श्रीनिवासरूपे च मम हृदयं सदा लगतात्। अत्र सदाऽडशरारौ दिव्यतरौ इ- त्यत्र अशरारु आशरारि दिव्यतरु दिव्यतरिपदानां सप्तमी-

यथावा-

स्वात्मनि चोदयमानं त्वां सुधियोडब्जा क्ष स- र्वदातरणौ। एकं हन्त विदन्तो मुक्ता विन्दन्त्यम- न्दमानन्दम् ॥ ८८३।।

सर्वस्य दाता सर्वदाता तस्य संबुद्धि: सर्वदातः ! 'य आत्मदा बलदाः'। 'सकलफलप्रदो हि विष्णुः' इत्युक्तरीत्या आत्मपर्यन्तसर्वस्वदानशीलेत्यर्थः। हे अब्जाक्ष! अनेन "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणि" इति विवक्षितश्रुत्यर्थसस्मा- रितः। अणौ अणुपरिमाणे 'एषोऽणुरात्मा' इति श्रुतेः । स्वा- त्मनि 'स्वत्वमात्मन सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्' इत्यु- क्तरीत्या स्वामिनस्स्वस्य स्वभूते आत्मनि प्रत्यगात्मनि सुधिय:

Page 131

118 अलंकारमणिहारे

सुप्तानि ज्ञानेन्द्रियाणि चोदयमानं प्रेरयन्तमित्यर्थः । अनेन 'ि- यो यो नः प्रचोदयात्' इति श्रुति. प्रत्यभिज्ञाष्यते। यद्वा- 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः' इत्युक्तर्रात्याऽन्तर्यामितया स्थि- त्वा 'स नो देवश्शुभया स्मृत्या संयुनक्तु' इत्युक्तप्रकारेण स्वप्राप्तयौपयिकीधियः प्रेरयन्तमित्यर्थः । अत्र 'ददामे बुद्धि- योगं तं येन मामुपयान्ति ते' इत्येतत् स्मर्तव्यम्। नैतावदेव, स्वात्मनि स्वशरीरभूते 'यस्यादित्यश्शरीरम्' इति श्रुतेः । 'आत्मा यत्नो धृतिर्वुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । सर्वदा तरणौ च उद्यमानं इति छेदः। तरणौ चेत्यन्वयः, आदित्ये च सर्वदा उदयमानं प्रकाशमानं त्वां अनेन च सन्द- र्भेण 'स यश्चायं पुरुषे। यश्चासावादित्ये' इति श्रुतिख्ण्डः प्र- त्यभिज्ञाप्यते। एकं उभयत्र विद्यमानमभिन्नम्। अनेन उदाहृत- श्रुतिशेषस्थं 'स एकः' इत्येतत्प्रत्यभिज्ञाप्यते। विदन्तः जानन्तः । अनेन 'स य एवं वित्' इत्येतत्। सुधियः विपश्चितः मुक्ता- स्सन्तः, अनेन 'अस्माल्लोकात्प्रेत्य' इत्युक्तार्चिरादिमार्गगमनपू- रवकवितमःपदप्राप्तिरुक्ता। अमन्दमानन्दं विन्दन्ति। अनेन 'एत- मानन्दमयमात्मानमुपसङ्गामति' इति श्रुत्यर्थस्समगरृह्यत। उदा- हृतश्रुत्यर्थो व्यासायैरित्थमभिवर्णितः 'सर्वोऽपि विद्वानस्माल्लो- कात्प्रेत्यान्नमयादिसमष्टिव्यष्टिविभूततिकं निरतिशयानन्दं परमात्मा- नं भोग्यभूतं भोक्ता सन्ननुभवति' इति। हन्तेतीदशार्थपरिचि- न्तनजनितहषे। अत्र तरण्यणुशब्दयोस्सप्तमीविभक्तौ इकारोकार- योर्वर्णयोश्क्षेष: पूर्ववदेव। सर्वदातः अणौ सर्वदा तरणौ इति- च्छेदाद्वक्ष्यमाणपदश्लेषश्च। एषु श्रेयोहेतावित्यादिषु त्रिपूदाहर- णेषु हेतौ वेणौ इत्यादौ हेतुहेतिवेणुवेणीत्यादिविभिन्नानुपूर्वीक शन्दयोरेकोच्चारणगोचरतया प्रतिसन्धाननार्थद्वयस्य बोधितत्वा-

Page 132

श्लेषसरः (२८) 119

त्सभङ्गश्लेषसामान्यलक्षणानुगतिः । हेतौ इत्यादौ 'अञ्च घेः' इत्यदादेशोत्तरमानुपूर्वी भेदाभावेऽप्यादेशिनि भेददर्शनाद्विभिन्नानु- पूर्वीकत्वं द्रष्टव्यम। एवमन्यत्राप्यूह्यम्।

पदश्लेषः.

पदश्लेषस्स यशश्लेषः पदभेदनिबन्धनः॥ ७१॥

यथा वा- समुपनतवत्सलक्ष्मास्त्रिग्धमनास्सत्सुहृद्यनित्य- श्रीः । कलिकल्मषहृत्पझ्मा कल्याणगुणाम्बुधि- स्स्वभूरव्यात् ॥८८४॥ अत्र श्रीश्रीशयोः श्ेषः । श्रीपक्षे-समुपनतेषु शरणाग- तेषु वत्सला वात्सल्यशालिनी या क्षमा भूर्देवी तस्यां स्नि- ग्धं स्नेहशालि मनो यस्यास्सा। भुवः 'लक्ष्मीप्रियसखीं देवीम्' इति विशेषितत्वश्रवणात्। सत्सुहृद्यनित्यश्रीः सती साध्वी 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । सुहद्या अतिमात्रहृदयप्रिया सतां सुहद्या वा नित्या अनश्वरी श्रीः शोभा संपत्तिरवा यस्यास्सा तथोक्ता। कलिकल्मषहत् क लिकलुषहारिणी। कल्याणा: गुणा यस्यास्सा। स्वेन भवतीति स्वभू:, स्वेच्छायत्तजन्मा न तु कर्मकृतजनिः अम्बुधौ स्वभूः अम्बुधिस्वभूः । पद्मा श्रीः अव्यात् पायात्। इति॥ श्रीशपक्षे तु-वत्से-वक्षसि 'उरो वत्सं च' इत्यमरः। लक्ष्म श्रवित्साख्यं चिह्नं तत् समुपनतं प्राप्तं येन सः समुप-

Page 133

120 अलंकारमणिहारे

नतवत्सलक्ष्मा। सत्सु घ्रह्मवित्सु स्निग्धमनाः 'स च मम प्रियः' इति गानात्। हृद्या वक्षर्स्था नित्या 'नित्यैवैषा जग- न्माता' इत्युक्ते: श्रीः लक्ष्मीः यस्य स तथोक्तः । कलिक ल्मषहत्पत् मा इति च्छेदः। कलिकल्मषं हरत इति तथोक्तौ पदौ चरणौ यस्य स तथोक्तः 'पदङ्विश्चरणोऽस्त्रियाम्' इत्यमरः॥ यावत्स पादपद्माभ्यां पस्पर्शमां वसुन्धराम्। तावत्पृथ्वीपरिष्वङ्गे समर्थो नाभवत्कालिः। इत्येतदत्रानुसंहितम्। कल्याणगुणाम्बुधिः स्वभू: भगवन् 'के- शवो माधवस्स्वभूः' इत्यमरः। मा मां अव्यादिति योजना अनन्वादेशेऽपि वैकल्पिको मादेशो भवत्येव 'एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः' इत्युक्तेः। पझमा इत्यत्र संहितायामनुनासिकनकारादेशाभावः, 'यरोऽनुनासिकेऽनुनासि- को वा' इति तस्य वैकल्पिकत्वानुशासनात्। अत्र 'समुपन- तवत्सलक्ष्मा' इत्यादो पदभेदनिबन्धनः श्ेषः । अयमेव सभङ्ग- श्लेष इति काव्यदर्पणकृत्।

लिङ्गश्लेषः-

लिङ्गश्लेषस्स विज्ञेयो ह्रस्वदीर्घसमासतः। स्रीपुंनपुंसकानां चेच्छव्दानां तुल्यरूपता॥ हस्वैर्दीर्घैवा वर्णैः लघोरदीर्धत्वेन दीर्घस्य लघुत्वेन वा स- मासै्वा स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं वर्ण्यते चेत्स लिङ्गश्लेष इत्यर्थः ॥

Page 134

ललिषसरः (२८) 121

यथा- किमपि महस्स्वानस्मान् श्रयो नयता दघत्क- राग्रेऽब्जम्। मातृत्वभाक्त्रिजगतां नितरां जाग्र- न्नतेप्सितविधाने ॥८८५ ।। अत्रापि श्रीश्रशियोरेव श्लेषः। त्रिजगतां मातृत्वं जननी- त्वं पदत्रयेण मितिकर्तृत्वं च भजतीति मातृत्वभाक्। भजते- र्ण्विः। नितरां नतानां ईप्सितविधाने जाग्रत् जागरूक जागरू- कश्च। पक्षे-'नाभ्यस्ताच्छतुः' इति नुमभावः। कराग्रे अब्जं पझ शङ्ं च दधत् दधानं दधानश्च। किमपि महः तेजस्त्वे- नाध्यवसितं वस्तु विशेषणमहिस्ता श्रीरूपमिति लभ्यते। स्वान् स्वकीयान् अस्मान् श्रेयः कल्याणं नयताम्॥ पक्षे-महस्स्वानित्येकं पदम्। महस्स्वान् तेजस्वी विशे- षणमहिस्रा भगवानिति लभ्यते। अस्मान् किमपि श्रेयो नय- तामिति योजना। महस्वानित्यत्र 'तसौ मत्वर्थे' इति भसं- ज्ञायां न पदकार्यरुत्वादि। अस्मिन्पक्षे सकारस्य 'अनचि च' इति द्वित्वं बोध्यम्।।

यथावा-

शोभाक्। पायादेव महोज्ज्वलभ्षामामणिहारिह- त्सततमस्मान् ॥ ८८६ ॥

अत्रापि श्रीश्रीशयोरेव श्ेषः। श्रीपक्षे-प्रथमैकवचनान्तानि विशेषणानि। श्रीशपक्षे संबुद्धयन्तानीति द्रष्टव्यम्। पद्मेषु अ- ALANKARA 16

Page 135

122 अलंकारमणिहारे

नुरागिणी शुभा द्दक् यस्यास्सा कमलसुहृन्नयनत्यर्थः । शुकस्य कीरस्य वागिव वाक् यस्यास्सा शुकवाक्। अमृताब्धिजा दुग्धाम्बुधिजनिता। ततं विस्तृतं यशो भजत इति ततयशो- भाकू। महोज्जवला अत्युज्ज्वला भा: यस्यास्सा। मा मणिहा- रिहृत् इति छेद:। मणहारोऽस्मिन्नस्तीति तथोक्तं हृत् वक्षो यस्यास्सा। मा लक्ष्मी: सततं अस्मान् पायादेव रक्ष्यादेव नात्र संदेह इति भाव:। भगवत्पक्षे-पद्मायाँ लक्ष्मचां अनुरािणी शुभा दक् यस्य सः तस्य संबुद्धिः। शुकस्य शुकमहर्षेः वाक् श्रीभागवतरूपा सैव अमृताब्धिः तस्माजातमिति शुकवागमृताब्धिजं आततं च यद्यशः तन्भजतीति तथोक्तः तस्य संबुद्धि: श्रीभागवतप्रख्यात- विपुलकीते ! इत्यर्थः। महोज्जवलभामामणिहारिहृदित्येकं पदं सम- स्तम्। ज्वलतीति ज्वला पचाद्यच्। महसा ज्वला महोज्वला 'अनचि च' इति जकारस्य द्वित्वम्। या भामामणि: लक्ष्मी: तया हारि मनोहरं हृत् वक्षः यस्य तस्य संबुदद्धि । पाया: देवेतिच्छेदः। हे देव! भगवन् ! सततं अस्मान् पायाः अ- व्याः, पाधातोराशीर्लिडि मध्यमैकवचनम् । पूर्वत्र प्रथमैकवच- नम्। अनयोः पद्ययोः दधत् इत्यादीनां पुंनपुंसकलिङ्गानामेको-

झ्वारकौस्तुभकदुदाहरणानुरोधेन। वस्तुतस्तु तन्मतेन नेदमुदा- हरणं, तेन हि वर्णाद्यष्टविधश्लेषाणां सभङ्गत्वं प्रतिज्ञाय 'वि- भिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वं सभङ्गत्वम्' इति सभङ्गतां परिष्कृत्य- उन्निद्राब्जपरिष्कृतप्रवरदोः प्रह्लीभवद्दैवतः श्रेणीमौळितटाव घट्टितमणिज्योत्स्नासमुल्लासितात्।

Page 136

श्लेषसरः (२८) 123

उन्मीलद्धनसारसन्ततिस हक्फुल्लारविन्दाभह- ग्रूपं कैटभभेदिनो मदनजिद्वा चन्द्रिका वाऽवतु ॥ इत्युदाहृत्य 'अत्र दोरित्यादीनां रूपं क्ीबपुंस्त्रीलिङ्गेषु समानम्' इत्युक्तम्। एवं च तदुदाहरणे लिङ्गत्रयस्य दधदित्याद्यस्मदु- दाहरणे पुंनपुंसकलिङ्गयोश्चानुपूर्व्या एकाकारतया विभिन्नानुपू- र्वीकताया: कथमप्यदर्शनान्न भवतीदं सभङ्गविशेषलिङ्गश्लेषोदा- हरणं, अपितु हर्यादिशब्दवदभङ्गश्षेषोदाहरणमेव।। ननु हर्यादिशब्देषु लिङ्गभेदाभावादानुपूर्व्या अविभिन्नत्व- मस्तु प्रवरदोरित्यादौ दधदित्यादौ च तत्सन्भावाद्विभिन्नत्वमा- नुपूर्व्या इति चेन्न, लिङ्गभेदस्य तदप्रयोजकत्वात्। शब्देष्वा- नुपूर्वी नाम अव्यवहितोत्तरत्वसंबन्धन पूर्वपूर्ववर्णविशिष्टचरम- वर्णत्वरूपा। सा च प्रदर्शितस्थले आवेभिन्नैव दृश्यत इति क्वा- सति विभिन्नानुपूर्वीकता। न च पुंनपुंसकादिरूपार्थभेदात्त्े- दनिर्वाहः, अर्थमेदस्यापि तदप्रयोजकत्वात्। लिङ्गस्य शब्दवृ- त्तिताभ्युपगमेऽपि न लिङ्गमानुपूर्वीघटकं भविष्यति। लिङ्गं हि नाम स्त्रीत्वपुंस्त्वादिरूप उदात्तत्वानुदात्तत्वादिवत्कश्चन शब्द- वृत्तिधर्मः पृथगेवानुपूर्व्याः । अत एव 'तटादिश्देषु समाना- नुपूर्वीकेषु लिङ्गत्रयम्' इति वैयाकरणभूषणोक्तं संगच्छते । लिङ्गस्याप्यानुपूर्व्यन्तःपातित्वाभ्युपगमे 'अब्जेन त्वन्मुखं तुल्यं कमलानां त्वदीक्षणे' इत्यादावप्यब्जकमलपदयोर्लिङ्गभेदप्रयुक्ता- नुपूर्वीभेदेन सभङ्गश्लेषत्वापत्तिः। इष्टापत्तौ च तत्राभङ्गश्लेष इति सकलालङ्कारिकाभिमतिविरोधप्रसङ्ग:। तस्मान्न लिङ्गमानुपूर्वी- भवितुमर्हतीति विभिन्नानुपूर्वीकताया उपदर्शितोदाहरणगतप्रव-

न युज्यते 'बिभ्रन्नीलोत्पलरुचि हरिरव्यात्तदक्षि वा' इति का

Page 137

.124 अलंकारमणिहारे

व्यदर्पणकृतो लिङ्गश्लेषोदाहरणं तु तन्मते सम्यगेव। तस्या भङ्गतायामप्यविरोधात्। तेन ह्यष्टविधश्लेषान्तःपातिपदश्लेषमु दाहत्यायमेव सभङ्गश्ेष इत्युक्तम्। न तु भेदान्तरस्याभङ्गत्वं सभङ़गत्वं वा कण्ठतः । तस्मात् पदश्ेषातिरिक्तानां वर्णादि- श्लेषाणां यथायथ सभङ्गे अभङ्गे वा ग्लेषे अन्तर्भाव इति त- दाशय उन्नीयते। साहित्यदर्पणकारस्तु- "्विष्टैः पदैरनेकार्थाभिधाने श्ेष इष्यते। वर्णप्रत्ययलिङ्गानां प्रकृत्यो: पदयोरपि।

इत्यादिना अष्टविधान् श्रेषान्निरुप्य, पुनस्त्रेधा सभङ्गोथाभङ्गस्तदुभयात्मक: ॥ इति पुनस्त्रिधा विभज्य 'पतन्भेदन्नयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम्" इत्यभाणीत्। एवंच काव्यदर्पणादिमते 'बिभ्रन्नीलोत्प- लरुचिम्' इत्यादेः दधदित्यादेश्चाभङ्गश्लेषत्वेऽपि लिङ्गश्लेषोदाह- रणत्वं निरर्गळमेव। अलङ्कारकौस्तुभमते तूपपादितप्रकारेण त- दीयलक्षणासङ्गतेः 'प्रवरदोः' इत्यादितदीयलिङ्गश्लेषोदाहरणमस- मीचीनमेव। इदं तु तन्मतेऽ्युदाहरणं भविष्यति-

यथा- त्वमखिलजगदानन्दी त्वमशुभहारी त्वमेव शुभकारी। न्यस्य परमात्मनीने मनारमे त्वयि हरेऽत्र परमेनः ॥ ८८७।।

अत्रापि श्रीश्रीशयोरेव श्ेषः। भृशं आत्मने परमात्मने हिता आत्मनीना। तस्यास्संबुद्धि: हे आत्मनीने! 'आत्मन्विश्वजन'

Page 138

क्लेषसरः (२८) 125

इत्यादिना हितार्थे खप्रत्ययः । 'आत्माध्वानौ खे' इति प्रकृ- तिभावः! हे रमे! त्वं अखिलजगत् आनन्दयतीत्यखिलजगदानन्दी त्वं अशुभं हरतीत्यशुभहारी ल्वमेव शुभं करोतीति शुभकारी च। सर्वत्र कर्मण्यणि 'टिढ्ठाणञ्' इति डीप्। अत्र त्वाये अस्यां त्वाय मनो न्यस्य परं भरन्यासोत्तरकालिकं एनः अघं 'कलुषं तृजिनैनोऽघम्' इत्यमरः । हरे हरामि। पुर्वाघस्य वि- नष्टत्वादुत्तराघस्याश्ल्लेषादिति भावः। हजस्ताङ लटयुत्तमैकव- चनम्॥

भगवत्पक्षे- आत्मनि इने मनोरमे परमे नः इति छेदः। हे हरे! त्वं भृशं अखिलजगत आनन्दयतीति तथोक्तः त्वं अशुभहारी। त्वमेव शुभकारी च। आभ्यां विशेषणाभ्यां-

अशुभानि निराचष्टे तनोति शुभसंततिम्। स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मंगळं परम्।

इति प्रमाणार्थस्संगृहीतः । सर्वत्र 'सुप्यजातौ' इति णिनि- मनोरमे सौन्दर्यसौशील्यादिकल्यणगुणैश्चित्तापहारिणि इने सः वेश्वरं परमे आत्मनि सर्वान्तरात्मनि अत्र अस्मिन् त्वाय नः अस्मान् न्यस्य न्यस्याः। त्वाय न्यस्तभरान् कुर्या इत्यर्थः । निपुर्वकादस्यतैदैवादिकालोण्मध्यमैकवचनम्। अत्र जगदानन्दी- त्यादिविशेषणत्रये स्त्रीपुल्लिङ्गयोश्श्लेषः, तयोरैकरुप्येण श्रव- णात्। आनन्दत्यादेः ङयन्तत्वणिन्यन्तत्वकृता विभिन्नानुपूर्वीक- तेति ताइशशब्दप्रतिसन्धानबोध्यत्वादर्थद्वयस्य सामान्यलक्षण- संगतिः । न्यस्य हरे इत्यत्र सुप्तिड्प्रत्यययोश्श्लेषः । आत्मनीने मनोरमे परमेनः इत्यत्र पद्श्लेषश्चेत्यपि विभावनयिम्।

Page 139

126 अलंकारमणिहारे

यथावा- साधुजनपक्षपाता सकलपरित्यक्तवायसत्राता। सुरराडुहुमानेता सुमहाइश्रीस्स्फुरतु मम जगन्मा- ता ॥l८८८ ।। अत्रापि भगवतो लक्ष्म्याश्च श्षेषः। साधुजनपक्षस्य पाता रक्षिता। साधुजने पक्षपातो यस्यास्सा तथोक्ता च। सकल- परित्यक्तस्य 'स पित्रा च परित्यक्तः' इत्युक्तरीत्या सकललो कोपेक्षितस्य वायसस्य इन्द्रात्मजस्य काकस्य त्राता पालय ता। उक्तविधो वायसस्त्रातो यथा सा च। इदं च पाझोत्तरे प्रसिध्यति। जगतां माता पदत्रयेण मितिकर्ता जननी च। सुर- राट् देवानामधीशः। बहु इति भिन्नं पदमुत्तरान्वयि। माने- ता श्रीनायकः । पक्षे-सुरराडित्यादि समस्तं पदं, सुरराज इन्द्रस्य बहुमानेन अतिशययितेन पूजनेन इता युक्ता। इण: कः। तत्पूजितेत्यर्थः। प्रसिध्यतीदं वैष्णवे पुराणे। सुमहती अतिपूज्या श्रीः लक्ष्मीः संपत्तिर्वा यस्य स तथोक्तः। इदं माने- तेत्यस्यैव विशेषणम्। पक्षे-सुमहाः शोभनतेजाः । सुमहेत्या- दन्ततया वा छेदः । शोभनोत्सवेत्यर्थः । श्रीः लक्ष्मीः मम स्फुरतु प्रकाशताम्। अत्र पुंस्त्रीलिङ्गयोरेकोच्च्ारणविषयतया लिङ्गश्ेषः । साधुजनपक्षपातृत्वसाधुजनपक्षपातात्वादिरूपविभि-

Page 140

ल्लेषसरः (२८) 127

भाषाश्लेषः.

भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् ॥८१ भिन्नार्थकानां नानाभाषाणं श्रषणे भाषाश्ेषः। यथा- बाहासमं सहजसंपरिणाहिदयारसं सरल- भासम्। सुगळन्तमोहमीडे कमलावासंतमहिहरे- सन्तम् ॥ ८८९॥ अत्र सांस्कृती भाषा भगवत्परा, प्राकृती तु लक्ष्मीपरा। तथा हि, भगवत्पक्षे-बाहासमं वाहाभिः भुजाभि: असमं अस-

जसंपरिणाहिदयारसं सहजः निसर्गसिद्धः संपरिणाही अति- विपुलः दयारसः यस्य तं तथोक्तम्। सरलभासं सरला उदारा भाः यस्य तं तथोक्तम्। सुगळं शोभनः रेखात्रयलक्षणवत्तया कल्याण: गळः कण्ठो यस्य तं तमोहं तमः अज्ञानं हन्तीति तथोक्तम् 'अन्येष्वपि दृश्यते' इति हन्तेर्डः, सुगळशब्दान्त्यानु- स्वारस्य 'वा पदान्तस्य' इति वैकल्पिकः परसवर्णः । हरति संहरतीति हरः अहीनां हरः अहिहरः नागान्तकः तस्मिन् सन्तं स्थितं तार्क्ष्यवाहनमित्यर्थः। कमलावासं श्रीनिवास ईडे स्तौमि। लक्ष्मीपक्षे-बाहासमं बाधाशमां, समयतीति शमा, पचा- दचू। बाधायाः जगत्पीडायाः शमा तां तथोक्ताम्। "स्वघ- धथभां हः' इति सूत्रेण बाधाशब्दधकारस्य हकारः । 'शो-

Page 141

128 अलंकारमणिहार

स्सल्' इत्यनेन शमशब्दशकारस्य सकारः 'स्वरस्य बिन्दमि' इति समाशब्दाकारस्य हस्वः। एवमुत्तरत्रापि। सहजसं सह- यशसं यशसा सहितां 'तेन सहेति'। इत्यादिना समासे 'वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वात्सभावाभावः। 'आदेर्जः' इति यशइशब्दयकारस्य जः। 'अन्त्यहलोऽश्रदुदी" इत्यन्त्यस- कारलोप:। 'स्नमदामशिरोनभोनरि' इति यशश्शब्दस्य पुंस्त्वेऽ- पि बहुव्रीहौ स्त्रीत्वम्। हस्वः पूर्ववत्। परिणाहिदयारसं वि- पुलकरुणारसाम्। 'प्रायो लुक्कगचजतद्पयवाम्' इत्यत्र प्रायो- ग्रहणाइयाशब्दयकारस्थ नलुक्। 'समासे वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपीष्यते' इत्युक्तत्वात् सुदोह इत्यादाविव दयाश- श्ददकारस्य, न लुक। सरलभासं सरलभाषां उदारागरम- त्यर्थः । 'शोस्सल्' इति षकारस्य सकारः। भासमित्यस्य समासे पूर्ववद्भिन्नपदत्वेन भकारस्यादितया 'खघथधभा हः' इति न हकारादेशः, 'अखोः' इत्यनुवृत्तेः । ऐकपद्यविवक्षाया- मपि प्रायोग्रहणानुवृत्ते: 'पट्टणभवो' इत्यादाविव न हकार: हस्वः प्राग्वदेव । सुगळन्तमोहमिति समस्तं पदम । सुगळ- न्मोहां सुगळन्तेत्यत्र 'शतृशानचोः' इति सूत्रेण न्तादेशः। ततो मोहशव्देन सुष्ठ गळन्तो मोहो यस्या इति पश्चमीबहु- ब्रीहिः। सर्ववैचित्यनिवारयित्रीमित्यर्थः । हरस्वः अहिहरे आहि- धरे शेषाद्री स्थितामित्यध्याहारः। समासस्स्यैकपदत्वविवक्षया धकारस्यानादित्वलाभात् 'खघथध' इत्यादिना हादेशः। सन्तं शान्तां प्रसन्नामिति यावन्। तं तां कमलावासं पद्मावासां। ईडे। उड्डादेराकृततिगणत्वान्नंह लत्वम्। अत्र संस्कृतप्राकृतभाषयोरे- कोआ्चारणविषयतया भाषाश्लेषः। एवं शौरसेन्यादिभाषाश्ेषोऽ- प्यूह्यः॥

Page 142

श्लेषसरः (२८) 129

विभक्तिश्लेषः.

सुपां तिडां च श्लेषश्रेद्विभक्तिश्लेष ईरितः ।। केवलसुपां केवलतिडां मिळितानां वा सुप्िडां श्ेषश्चेत्स विभक्तिश्षेष इत्युच्यते।। यथा- उरुगायान्यथ च सदानन्दानि महामहांसि भूयांसि। फणिशिखरिशिखरसीमनि विलग- न्ति जगन्ति चावन्ति ॥८९०॥ अत्रापि भगवतो लक्ष्माश्च श्लेषः । तथाहि-उरु: विपुलः गायः कीर्तिः येषां तानि। अथ च सन् आनन्दो येषां तानि। भूयांसि अतिबहूनि। बहुत्वं चात्र वैपुल्यं न तु सङ्गयाविशेषः। बहुशब्दस्य 'बहुषु बहुवचनम्' इत्यादौ सङ्व्यायामिव 'अल्पं वा बहु वा यस्य' इत्यादावल्पत्वप्रतियोगिवैपुल्येऽपि प्रयोग- दर्शनात् 'बहु स्यात्र्यादिसह्व्यासु विपुलेऽप्यभिधेयवत्' इति मेदिनी। वैपुल्यं चात्र गुणतस्स्वरूपतश्च। तथाचानन्तकल्याण- गुणानि सर्वव्यापीनि चेत्यर्थ । महामहांसि तथात्वनाध्यस्तो भगवानित्यर्थः । फणिशिखरिशिखरसीमनि विलगन्ति अवति- ष्ठन्ते । तत्र हेतुमभिप्रयन्नाह-जगन्ति लोकान् अवन्ति रक्षन्ति च। लगतेरवतेश्च लटप्रथमबहुवचनम्॥ पक्षे फणिशिखरिशिखरसीमननि विलगन्ति विद्यमानानि जगन्ति अवन्ति त्रायमाणानि। भूयांसि उक्तोर्ऽर्थः । महामहां सि द्वितीयाबहुवचनम्। तत्त्वेनाध्यवसितां श्रियमित्यर्थः । उरु ALANKARA II 17

Page 143

130 अलंकार मणिहारे

अधिकं यथा स्याततथा गायानि गायेयं तद्यशःकीर्तनं करवा- णीत्यर्थेः । अथच गानानन्तरं च सदा सर्वदा नन्दानि नन्देयं प्रमोदेयेत्यर्थः। उभयत्र प्रार्थनायां लोडुत्तमैकवचनम्। अत्र वि- लगन्तीत्यादौ सुप्तिङ्विमक्तयोः श्ेषः। यथावा- चरणाम्बुजशरणगतं कंचिदपि त्वं पुरादपि न निरास्थः । अद्यत्वेऽच्युत मदवनविषयेऽपि तथैव को विशय: ॥८ ९१।। हे अच्युत! आश्रितरक्षणवरतान्नच्यवतात्यच्युत इति निरुक्ति: तस्य संबुद्धि: । इदं च प्रकृतविवक्षितार्थोपस्कारक, चरणा- म्ुज: रणगत कंचिदृपि जातिवृत्तादिनिहीनमपीति भावः। पु- राऽपि पूर्वमपि न निरास्थः न निराकार्षीः। निःपूर्वकादस्य- तेर्लुडि सिपि च्लेरडि 'अस्यतेस्थुक' इति थुक्। अद्यत्वे मद- वनािषये मद्रक्षणविषयेऽपि तथैव न निरास्थ एव निर- पेक्षो न किंतु सापेक्ष एवेति भावः । निर्गता आस्था यस्य निरास्थः न निरास्थः ननिरास्थः । 'आस्था त्वालम्बनास्था- नयत्ापेक्षासु योषिति' इति मेदिनी। अत्र तिङ्सुब्विभक्तयोः श्ेषः।l यथावा- सुमनोहत्सरसीरूहनिवासभागब्जलोचनाSनर्घ- श्रीः। शिशिरकृपासारस्स्याद्गयान्मयि सर्वदा च भवतस्तप्ते ॥८९२॥ अत्र श्रीश्रीपतिविषयकः प्रथमासंबुद्धिविभक्त्योः श्ेषः।

Page 144

श्लेषसरः (२८) 131 श्रीपिक्षे सुमनाहदिति व्यस्तं पदं, अतिमनोहारिणीत्यर्थः। स- मस्तं सरसीरुहविशेषणं वा। सरसीरुहे निवासभाक्। अन. वश्रो: दिव्यशोभा। सर्वे ददातीति सर्वेदा च। अखिलाभीष्ट- दात्रीत्यर्थः । एवंविधा अब्जलोचना श्रीरित्यर्थः 'पम्मदलाय- ताक्षि' इत्येतदत्र स्मर्तव्यम्। शिशिरकृपासारस्स्यात्। ल्यब्लोपे पञ्चमी। शीतलदयासरसतां प्राप्येत्यर्थः । द्वितीयसकारस्य 'अ- नचि च' इति द्वित्वमर्थान्तरानुरोधात्। भवतः संसारेण। सा- रवविभक्तिकस्तासः। तप्ते मयि भूयात् सन्निधत्तामित्यर्थः॥ श्रीपतिपक्षे तु-सुमनसां विदुषां हत्सरसीरुहे निवास-

णम । एवमग्रेऽपि। अनर्धा श्रीः लक्ष्मीर्यस्य तस्य संबुद्धिः। हे अब्जलोचन ! भगवन् ! पुण्डरीकाक्ष ! भवतः तव भूयानिात छेद: अतिबहुः शिशिर: कृपासारः तप्ते आध्यात्मिकादिता- पग्रस्ते मयि सर्वदा सदा स्यात् प्रसरतादिति यावत्। अत्र पदश्ेषोऽपि द्रष्टव्यः ॥

यथावा भक्तार्थदया सततं सुरेषु दत्ताभयाऽलमुदघि जया। ननु सर्वभूतधात्रयादरतस्तत्रेडखिलं भु- वनमेतत् ॥८९३॥ अत्र भूश्रीविषयकः प्रथमातृतीययोः श्ेषः। भक्तानां अर्थ अभष्टिं पुरुषार्थ ददातीति भक्तार्थदा तथोक्तया। पक्षे भक्तेश्य इयं भक्तार्था 'अर्थेन नित्यसमासो विशेष्यलिअता चति वक्त- व्यम्' इति समासो विशेष्यलिङ्गता च। ताइशी दया कृपा यस्यास्सा तथोक्ता सततं सुरेषु देवेभ्य इत्यर्थः । 'सममत्रा-

Page 145

132 अलंकार मणिहारे

ह्रणे दानम्' इत्यादाविव संप्रदानस्यैवाधिकरणत्वविवक्षया स- मी। अलं दत्ता आभा दीप्ति: यया सा तथोक्ता तया। पक्षे सुरेषु विषये दत्तं अभयं यया सा तथोक्ता। उद्धेः क्षीरो- दाजाता उदधिजा। तया तथोक्तया। पक्षे उत् उत्कृष्टः आध अधिक: जयः यस्थास्सा तथोक्ता। सर्वभूतानां धात्र्या सवि- डया लोकमात्रा। श्रियेत्यर्थः । अखिलं एतज्जुवनं दरतः सं- सारभयात् तत्रे त्रातम्। कर्मणि लिट्। 'भीत्रार्थानाम्' इति पश्चमी। पक्षे सर्वभूतधात्री आदरत इति छेदः। सर्वभूतधात्री भू: 'भूतधात्र्यब्धिमेखला' इत्यमरः। आदरतः आदरात् अखि- लं एतन्भवन तत्रे त्रायते स्म। त्रायतेः कर्तरि लिट। अत्र स- र्वभूतधात्र्यादरत इत्यत्र पदश्लेषोऽपि वेदितव्यः॥ यथावा- क्षेमकृतो दामभृतस्स्थेमपुषस्तकलदुरितना- ममुषः। सरसीरुहवासिन्यास्सदृशा ददतां श्रियं ममापाङ्गाः॥८९४।। अत्र सरसीरुहवासिन्यास्सदशा इति तदपाङगानां विशे- षितत्वात् क्षेमकृत इत्यादीनि पदानि तस्यास्तेषां चाविपरिणा- मनैव विशेषणानीति बोध्यम्। अत एव षष्ठाप्रथमयोर्विभकतयोः एकवचनबहुवचनयोश्च श्ेष इत्यवधेयम्॥

यथावा- नमद्वनास्वप्नतरावम्लानौ सर्वसंपदामवनौ। हृदयमनुविहरतां फणिगिरिधामनिविष्टपादौनः।। अत्र भगवत्पक्षे सप्तम्याः तत्पादपक्षे प्रथमायाश्च विभक्केः

Page 146

श्रषसरः (२८) 133

क्षेषः । तथाहि-नमतां नन्तृणां अघने प्रीणने विषये अस्व मतरुस्सुरद्गुमः तस्मिस्तथाभूते सर्वेप्सितदातरीति भावः । पक्षे नमदवने अतिशयेनास्वन्नौ अस्वप्नतरी अतिजागरूकावित्यर्थः । प्रथमाद्विवचनम् ! एवमग्रेऽपि । अम्लानौ अविद्यमाना म्लानि: हर्षक्षयो यस्य तथोक्ते। पक्षे न म्लानौ अम्लानी ग्लानिवि- हीनावित्यर्थः । सर्वसंपदां अवनौ भूमौ आधारभूत इत्यर्थः । पक्षे रक्षकावित्यर्थः । फणिगिरि: धाम स्थानं यस्य तस्मिन् फणिगिरिधामनि। विष्टपानां लोकानामादौ प्रथमे जगत्कारण- भूते परस्मिन् ब्रह्मणि नः अस्माकं हृदयं चित्तं अनुविहर- ताम्। लझं भवत्वित्यर्थः । अनुपूर्वकात हअस्तङि लोट्प्रथम- पुरुषैकवचनम्: पक्षे फणिगिरिधामनिविष्टपादौ इति समस्तं पदम्। फणिगिरिरिति यद्धाम स्थानं तस्मिन् निविष्टः स्थितः श्री- निवास इत्यर्थः । तस्य पादौ चरणौ। नः हृदय चित्तं अनु 'अनुर्लक्षण' इति कर्मप्रवचनीयसंज्ञायां 'कर्मप्रवचनीययुक्ते द्वि- तीया' इति हृदयशब्दाद्वितीया। विहरतां क्रीडनाम। हअः प. रस्मैपदिनो लाट्प्रथमपुरुषद्विवचनम् । 'तस्थस्थमिपां तांतं- तामः' इति तसस्तामादेशः। अत्रैकवचनद्विवचनयोः इकारो- कारयो: इकाराकारयोवर्णयोश्च श्ेष:।।

यथावा- द्राघीयोविख्यातावतिप्रशस्तौ नितान्तपरिपु- ष्टौ। चेतोहरौ सदाऽडस्तां दोषौदास्यं वितन्वतोS स्य मम ॥८ ९६॥ द्राघयिसी विख्यातिर्यस्य तस्मिन् तथोक्ते इति भगव- तपक्षे। द्राघीयो यथा स्यात्तथा विख्यातौ द्राघीयांसाविति वि-

Page 147

134 अलंकारमणिहारे

ख्याताविति वा तन्भुजपक्षे। एवमग्रेऽपि। अतिशयिता प्रशस्ति- र्यस्य सः अतिप्रशस्तिः तस्मिन्। पक्षे अतिशयेन प्रशस्तौ। नितान्ता परिपुष्टिर्यस्य तथोक्ते। पक्षे नितान्तं परिपुष्टौ पुष्टि- मन्तौ। हरौ उक्तविधे भगवति दोषौदास्यं दोषेषु औदास्यं उदासीनतां वितन्वतः अस्य मम चेतः कर्त सदा आस्तां ' उपविशतात् 'आस उपवेशने' लोट्प्रथमपुरुषैकवचनम्। पक्षे चेतोहराविति समस्तं पदम्। सदा स्तां दोषौ दास्यं इति छेदः। अस्य प्रस्तुतस्य भगवतः दोषौ बाहू 'भुजबाहू प्रवेष्टो दो:' इत्यमरः। दास्यं शेषत्वं वितन्वतः विस्तारयतः मम स- दा चेतोहरौ चित्तहारिणौ स्तां भवताम्। अस्तर्लोंट्प्रथमपुरुष- द्विवचनं, 'श्रसोरल्लोपः इत्यकारलोपः। अन्न सप्तमीप्रथमयोर्वि- भक्तयोः तदेकवचनद्विवचनयोश्च श्षेषः। सदास्तामित्यत्र पद- क्ेषः। तिड्विभक्तिवचन श्लेषश्च ॥ यथावा- आहृतसुमनस्सेवे शुभगुणमहिते सदाऽपि ल- क्ष्मपदे। घनरुचिभूम्नि यशास्विनि ननु मेधाव- ति मनोहरे भवति ॥८९७॥ अत्र श्रीश्रीनिवासयोर्विषये क्रमेण संबुद्धिसप्तम्योविभक्तयो - इश्लेषे:। तथाहि, श्रीपक्षे-आद्ृतसुमनः सेवे शुभगुणमहि ते स- दा अपि लक्ष्म पदे ननु मेधावति मनोहरे भवति इति छेद:। आदता: सुमनसो बुधाः यया सा आदतसुमनाः तस्यास्सं- बुद्धि: हे आद्तसुमनः ! शुभगुणानां महि! निवासभूमे! घनः सान्द्र: रुचिभूमा यस्यास्सा तस्यास्संबुद्धि: हे घनरुचिभूम्नि ! 'अन उपधालोपिनोऽन्यतरस्याम' इति वैकल्पिको डीप। यश-

Page 148

श्रेषसर: (२८) 135

स्विनि ! पूर्ववत्संबुद्धिः । मेधा अस्या अस्तीति मेधावती तस्या - स्संबुद्धिः। मनोहरे ! मनोज्षे! हे भवति ! पूज्ये मातरिति वा। हे लक्षमि! सदाऽपि ते तव पढे चरणे सेवे भजे इति॥ भगवत्पक्षे तु-आदृतसुमनस्सेवे शुभगुणमाहिते सदा अपि लक्ष्मिपद ननु मे धावति मनः हरे भवति इतिच्छेदः। ननु हरे! हे भगवन ! आदृता सुमनसां विवुधानां सेवा येन त- स्मिस्तथोक्ते। शुभगुणैः महितः तस्मिन्। लक्ष्मयाः पदं स्थानं लक्ष्मिपदं तस्मिस्तथोक्ते श्रीनिवासे इत्यर्थः । लक्ष्मीशब्दस्या- ड्यन्ततया समासे 'इको हस्वोऽड्यो गालवस्य' इति वैकल्पि- को हस्वः 'लक्ष्मणो लक्ष्मिसंपन्नः' इतिवत्। घनस्याम्बुदस्य रुचिभूमेव रुचिभूमा यस्य तस्मिन्। यशस्व्रिनि 'तस्य नाम महद्यशः' इत्युक्तरीत्या कीर्तिमति। भूम्नि प्रशंसायां वा म- त्वर्थाय इनिः। भवति त्वय मे मनः चित्त धावति प्रवर्तते। अत्र पदश्लेषादिकमपि द्रष्टव्यम्॥ यथावा- स्वामिनि जगतां लक्ष्मीकामिनि बरदे विभा- वतिमनोजे। भवतान्मनस्त्वयि शुभे भवरहिते पद्मजातहन्महिते ॥ ८९८॥ अत्रापि पूर्ववदेव संवुद्धिसप्तम्यो: श्षेषः। तथाहि, ल. क्ष्मीपक्षे-वरदेवि भावति मनोजे भवतात् मनः त्वाय शुभे भवरहिते इति छेदः । हे स्वामिनि ! एैश्वर्यशालिनि ! जगतां लक्ष्मीं कामयते इति लक्ष्मीकामिनी। तस्यास्संबुद्धिः। जगता- मैश्वर्यदानाभिलाषिणीत्यर्थः । भाः अस्या अस्तीति भावती त- स्यास्संबुद्धि । तेजस्विनीत्यर्थः । मनोज्ञे मनोहारिण। शुभे

Page 149

136 अलंकारमणिहारे

कल्याणि। भवरहिते कर्मकृतजन्मविधुरे । पद्मानां जातं वृन्दं 'जात जनसमूहयो;' इति विश्वः। तस्य हृि मध्यदेशे क- र्णिकायामित्यर्थः । महिते पूजिते 'पझे स्थितां, तां पद्मनेमिम्' इति च श्रुतेः। हे वरदेवि! वरा च सा देवी च वरदेवी तस्यास्संबुद्धि: देवद्िव्यमाहिषत्यर्थः । देवो कृताभिषेकायाम्' इत्यमरः । त्वाय मनः कर्तृ, ममोते शेषः। भबतात् वर्तताम्। भवतेर्लोद्प्रथमैकवचनम्। 'तुह्योस्तातङाशशिष्यन्यतरस्याम्' इत्या- शीरर्थे तोस्तातङ्। त्यय्येव लग्नं भवत्वित्यर्थः ॥ भगवत्पक्षे-वरदे विभौ अतिमनोज्े भवतात् मनः तु आये शुभेभवरहिते इति छेदः। जगतां स्वामी ईश्वर: तस्मिन् वरदे अभीष्टप्रदे। विभौ सर्वव्यापिनि। आतेमनोजञे। शुभः 'म ङळानां च मङ्गळम' इत्युक्तेः। स चासौ इभवराय गजेन्द्राय हितः शुभेभवरहितः गजेन्द्रहितकारीत्यर्थः। तथोक्ते। यद्वा- शुभ: निश्श्रेयसरूपकल्याणकरः इभस्य गजस्य वरः वरदानमिति यावत्। तस्मै हितः तस्मिन्। पझ्मजातो ब्रह्मा तस्य हदा मनसा महितः पूजितः तस्मिन् लक्ष्मीकामिनि श्रियःपत्यौ। अि मनः! हे हृदय! भवतात् भूयाः। तुशब्दोऽवधारणे। भगव- त्ेव सक्तं भूया इत्यर्थः । भवतेरेव लोण्मध्यमैकवचने हे: आ- शिषि तातङ्। अत्र स्त्रीपुंसलिङ्गयोश्श्लेषः । वरदेविभावतिमनोज्ञे इत्यादौ पदश्लेषः । भवतादित्यत्र पुरुषश्लेषश्चेति बोध्यम्।।

यथावा- कुवलयदळासितिम्नश्श्रिय आकाङ्काम्यपाङ्ग- रुचिभूम्नः । भगवत उच्चमहिम्रः पगुणतमैश्वर्य- दाननिस्सीम्न: ।८९९॥

Page 150

श्लेषसरः (२८) 137

अत्र लक्ष्मोकटाक्षविषये द्वितीयाया: भगवद्विषये पञ्चम्याश्च विभक्ते: श्षेषः। तद्वहुवचनैकवचनयोश्च श्रेषः । तथाहि- कुवलयदलस्य आसेतिमेवासितिमा येषां तान् कुवलयदळासि- तिम्नः। भगवतः श्रीनिवासादृपि उच्चमहिम्रः अतशायेतवैभवान्। अत एव प्रगुणतमं अतिमात्रऋजु यदै्वर्य तस्य दाने निस्सी- म्नः उद्वेलानित्यर्थः । 'ऋजावजिह्मप्रगुणौ' इत्यमरः। श्रियः ल- क्षमचाः अपाङ्गानां कटाक्षानां रुचिभूम्नः प्रकाशातिशयान् आ- कांक्षाममि। लक्ष्मीकटाक्षरुचयो मयि प्रसरन्त्वत्याशास इति भाव:।।

पक्षे-कुवलयदळासितिम्न इत्यादीनि भगवत इत्यस्य वि- शेषणानि पञ्चम्येकवचनान्तानि। नीलोत्फ्लदळश्यामलादित्यर्थः। अपाङ्गस्य अनङ्गस्य रुचिभूमेव रुचिभूमा यस्य तस्मात् क- न्दर्पतुल्यसौन्दर्यादित्यर्थः। उन्चमहिम्नः निरतिशयभूम्नः प्रगु णतमैश्वर्यदाननिस्सीम्नः उक्त पवार्थः । भगवतः उक्तविधात् श्रीनिवासात् श्रियः मुक्तैश्वर्यपर्यन्तास्संपदः आकांक्षामि अ- भिलष्यामीति। अत्र भगवत इत्यत्र पञ्चमीषष्ठथेकवचनयोः श्रिय इत्यत्र षष्ठचेकवचनद्वितीयाबह्डुवचनयोश्च श्ेषः।।

यथावा-

घनकरुणानुन्तानां भजेयशोभाभृतां सुबहुदा- नामू। सरसीरुहधामधृतां परंपरां माहशां श्रिय- मवित्रीमू ॥ १०० ॥

अत्र श्रीविषये तत्कटाक्षविषये च द्वितीयाषष्टयोर्विभ- क्तयोः श्ेषः। तथाहि - घनया करुणया अनुत्ताना न उत्ताना ALANKARA II 18

Page 151

i38 अलंकारमणिहारे

गम्भीरा तां तथोक्ताम्। 'निम्नं गभीरं गम्भरिमुत्तानं तद्विप- र्यथे' इत्यमरः। 'त्रिष्वागाधात्' इत्युक्तेरमेंद्यलिङ्गता। पक्षे -घन- करुणया नुत्तानां प्रेरितानामिति षष्ठीबहुवचनम्। एवमग्रेऽपि। 'नुत्तनुन्नास्तनिष्ठयूतविद्धक्षिप्ेरितास्समाः' इत्यमरः । नुदेरनि- ष्ठायां 'तुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम्' इति नत्वविकल्पा- नुशासनात् निष्ठातस्य पूर्वस्य दस्य चननत्वं, किंतु चर्त्वम्। भजे यशाभाभृताम् इति छैदः । यशश्च भा च यशोंभे ताभ्यां भृतां पूर्णाम्। अत्र भाशव्दस्य द्वन्द्वे अल्पाच्तरत्वनिमित्तक- पूर्वनिपाताभावो न दोषाय। 'समुद्राभ्राद्धः, लक्षणहेत्वोः क्रि- यायाः' इत्यादिनिवेशेन तस्य प्रकरणस्यानित्यताज्ञापनात्। यद्वा- यशसो भा प्रकाश: तया भृताममित विग्रहः। पक्षे-भजेयेति छेदः। शोभां बिभ्रतीति शोभाभृतः तासाम्। सुबहु दानं वितरणं यस्यास्ताम्। पक्षे सुबहु ददतीि सुबहुदाः तासां 'आतोऽनुपसगे' इति कः । सरसीरुहमेव धाम स्थानं तेन धृतां कमलालयामित्यर्थः। पक्षे-सरसीरुहाणां धाम त्विषं ध- रन्तीति तथोक्तानाम्। धृञः ककिप। परं अतिमात्रं परां उत्तमां मादशां मद्विधानां अवित्रीं पालयित्रीं श्रियं लस्मी भजे सेवे। लट्। पक्षे-श्रियं संपद अवित्रीं अवतेस्तृन्। 'न लोक' इात षष्ठीनिषेधात्कर्मणि द्वितीया। माया: श्रियः दशः कटाक्षाः तासां मादशां परंपरां रेखां भजेय सेवेय, लिङ्। अत्रोक्तयीविभक्त्यो- रेकवचनबहुवचनयोश्च श्ेषः। भजेयशाभेत्यत्र परंपरामित्यादौ

यथावा- दुरितभिदे सर्वविदे नतनिवहेष्टार्थकल्पभूमिरु-

Page 152

ल्ेषसरः (२८) 139

हे। कमलाप्रख्यातिभृते नमोस्तु मम दैवते स- दाऽब्जधृते ॥ ९०१॥

अत्र भगवद्विषये चतुर्थ्याः श्रीविषये सप्तम्याश्च विभक्त्तेः श्ेषः। तथाहि-दुरितानि भिनत्तीति दुरितभित् तस्मै डुरि- तभिदे। 'सत्सूद्विष' इत्यादिना ककिप। पक्षे-भिनत्तीति भिदं 'इगुपधज्ञा' इत्यादिना कः । तस्मिन्। एवमग्रेऽपि। सर्वविदे सर्व वेत्ति विन्दति वा सर्ववित् तस्मै 'यस्सर्ववित्' इति श्रुतेः। पक्षे-सर्वज्ञे इति, नतनिवहेष्टार्थानां कल्पभूरुट् कल्पतरुः तस्मै। अभीप्सितार्थप्रदायेत्यर्थः । पक्षे -कल्पभूमिरुहः तस्मिन्। कमलया श्रिया या प्रख्यातिः तां बिभर्तीति कमलाप्रख्यातिभृत् तस्मै श्रीनिरूपितस्वरूपायेत्यर्थः । 'ह्रीश्च ते लक्ष्मीश्च पत्नचौ, सुमज्जानये विष्णवे'।

यदपाङ्गाश्रितं सर्वे जगत् स्थावरजङ्गमम्। यस्य वक्षसि सा देवी प्रभाऽग्रेरिव तिष्ठति॥ स वै सर्वेश्वरशश्रीमान् कल्याणगुणसागर:।

इत्यादिश्रुतिपुराणवचनान्यत्रानुसन्धेयानि। पक्षे कमलोति प्रख्यात्या भृतं पूर्ण तस्मिन्। अब्जं शहं धरतीत्यब्जधृत तस्मै। पक्षे-पझ्मेन धृते इत्यर्थः । 'पझ्मे स्थिताम्' इत्यादिश्रुतेः। मम दैवते महालक्ष्मीरूपे दैवते। सदा नमः अस्तु। पक्षे-दैव ते इति पदद्यम्। हे मम दैव ! मन्भागधेयरूप! भगवन्। ते तुभ्यं नमः अस्तु। 'नमस्स्वस्ति' इत्यादिना चतुर्थी। अत्र पदश्लेषोऽपि द्रष्टव्य:॥

Page 153

140 अलंकारमणिहारे

यथावा- प्रभवेSखिलभुवनानां विभवे तत्तादशो स्वमा- त्मानम। सुरराजश्रीजीवनदयालवे ननु समर्पये महिते ॥ १०२॥ अत्रापि पूर्ववदेव श्षेषः। हे सुरराज! देवाधीश! हे श्रीजीवन! श्रियो लक्ष्म्या जीवनभूत । श्रीर्जीवनं यस्य तस्य संबुद्धिर्वा हे श्रीनिवासेत्यर्थ। अखिलभुवनानां प्रभवे अधी- शवराय। विभवे व्यापकाय च। तत्तादृशे अवाङ्मनसगोचर- स्वरूपस्वभावविभवायेति भावः। तत्ताइक्छब्दस्ताहक्छब्दस- मानार्थकः। यथा तत्तुल्यशब्दस्तुल्यशब्दसमानार्थकः। सः तादक यस्य स तथोक्त इति वा। असद्दशायेति तदर्थः । दयालचे कृपा- शालिने 'स्पृाहगृहि' इत्यादिना कर्तर्यालुचप्रत्ययः । ते तुभ्यं स्वं 'स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्' इत्यु- क्प्रकारेण स्वभूतं आत्मानं समर्पयेमहि। संपूर्वकादर्पयतेर्लि- दुत्तमबहुवचनम्॥ पक्षे-अखिलभुवनानां प्रभवो जगत्कारणभूत इत्यर्थः।त- स्मिस्तथोक्ते। सुरराजश्रीजीवनदयालवे इति समस्तमेंकं प- दम्। सुरराजश्रिय इन्द्रैश्वर्यस्य जीवनः जीवयिता दयाया ल- वो लेश: यस्य तस्मिन्, प्रसिद्धयतीदं वैष्णवे पुराणे। महिते पूज्ये तत्ताहशे विभवे विभूतौ भगवत्यां श्रीमहालक्ष्म्यामित्यर्थः । श्रीभागवते-'वक्षोनिवासमकरोत्परमं विभूतेः' इति लक्ष्मीि- भूतित्वेन हि व्यपदिश्यते। ननुरवधारणे । लक्ष्म्यामेवेत्यर्थः । स्वं आत्मानं समर्पये। संपूर्वकादर्पयतेर्लडत्तमैकवचनम्। अत्र शेषिदंपत्योरात्मनिक्षेप उक्तः ॥

Page 154

श्लेषसरः (२८) 141

यथावा- भवमयपाशलवित्रे भजमानानां विशालशुभ- नेत्रे। निखिलचराचरधात्रया निजमात्मानं निवे- दयेपत्ये ॥९०३ ॥

अत्रापि पूर्ववदेव श्लेषः। भगवत्पक्षे-भजमानानां भक्ताना भवमयस्संसाररूप: यः पाशः तस्य लविता छेत्ता तस्मै तथो- क्ताय, लूअस्तृच्। विशालं विपुलं शुभं निरश्रेयसरूपं क- ल्याणं तस्य नेता प्रापययिता तस्मै, ीञस्तृच् । निखिलचरा- चरधात्या: सकललोकजनन्या: श्रियः पत्ये भत्रे निजं आत्मान निवेदये अर्पये-

सर्वलोकशरण्याय राघवाय महात्मने। निवेद्यत मां क्षिप्रं विभीषणमुपस्थितम्।

इत्यत्रेव 'क्रियया यमभिप्रैति सोऽपि संप्रदानम्' इत्युक्तरीत्या संप्रदानसंज्ञायां पतिशब्दस्य चतुर्थी।। श्रीपक्षे-भजमानानां भवमयपाशस्य लवित्रं दात्रं तस्मिन्। 'अतिलूघूसूखनसहचर इत्रः' इति लूनातेरित्रच् 'दान्रं लवि- त्रम्' इत्यमरः । छेत्तरीत्यर्थः । विशाले शुभे नेत्रे यस्य त- स्मिन्। निखिलचराचरधात्रया: सकलभूतधात्रया: भुवः । य द्वा-निखिला: पूर्णाः चराचरा: जङ्गमस्थावराः यस्यां सा त- थाविधाया. धातया: भुवः 'विषुला गह्री धात्री' इत्यमरः। निवेदयेऽपत्ये इत्यत्र अलये इति छेदः । अपत्ये दुहितरि। 'सुतः पुत्र: स्त्रियां त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोस्समे, हत्यमरः । भगवत्यां जनकनन्दिन्यामित्यर्थः । निजं आत्मानं नि

Page 155

142 अलंकारमणिहारे

वेदये। 'निवेदयीत स्वात्मानं विष्णावमलतेजसि' इत्यत्रेव सं- प्रदानस्याधारत्वविवक्षया अपत्यशब्दात्सप्मी। अत्र पदलिङ्गश्षे- षावपि द्रष्टव्यौ।।

यथावा-

सुन्दर्यग्रण्यां परदैवतवामत्रुवामुदारधियाम्। अञ्जलयो निपतन्तस्सअ्जनयन्त्यखिलसंपदं ता-

साम् ॥९०४॥

अत्र षष्ठीसप्तस्योविभक्तयोः श्लेषः, तद्वहुवचनैकवचनयो- रपि। सुन्दरीणां अग्रण्यां अग्रगण्यायाम्। उदारधियां महाप्रज्ञा- यां वदान्यमनीषायां वा। परदैवतस्य भगवतः वामभ्रुवां ल- लनायां लक्ष्म्याम्। सर्वत्र 'डेराम्नदयाम्नी्यः' इति डेरामादे शः। निपतन्तः श्रीविषये अहमहमिकया समुदयन्त इत्यर्थः । तासां सुन्दर्यग्रण्यामित्यादिविशेषणविशिष्टानामित्यर्थः । तासामि- त्युक्त्या प्रदर्शितानां सप्तम्येकवचनान्तानां पदानां षष्ठीबहुव. चनान्तत्वं ज्ञापितम्। तथाहि-सुन्दरीणां अग्रण्यां अग्रगण्यानां, अनद्यन्तत्वादामो न तुट्। उदारधियां महामतीनाम्। पराणि च तानि दैवतानि चतुर्मुखादयो देवा: तेषां याः वामभ्रुवः महिलाः पराश्च ताः दैवतवामभ्रुवश्चैति वा तासां 'बृन्दारका दैवतानि' इत्यमरः। वाणीरुद्राणीन्द्राणीप्रभृतीनां सुरसुदतीना- मित्यर्थः। उभयत्र 'वाऽमि' इति नदीसंज्ञाया विकल्पितत्वेन तद्भावादामो न तुट्। अखिलसम्पदं जनयन्तीति योजना॥

Page 156

श्लेषसरः (२८) 143

प्रकृतिश्लेषः.

अश्लिष्टप्रत्ययकृता प्रकृत्योश्ववेत्सरूपता। स एष प्रकृतिश्लेषो द्विधा सुप्निङपेक्षया॥ नानारूपयो: प्रकृत्यो: अश्िष्टप्रत्ययकृतं चेत्सारूप्यं स प्र- कृतिश्ेषः । द्विवचनं बहूनामप्युपलक्षकम् । स च सुप्रत्यया- पेक्षस्तिङ्कत्ययापेक्षश्चेति द्विप्रकारकः । अश्व्िष्टेति प्रत्ययविशे- षणं प्रत्ययश्ष्ेषे अतिप्रसङ्गवारणाय। प्रत्ययाश्ष्टतायां स एव हि भविष्यति॥ तत्राद्यो यथा- चित्रं हरिकृपया यः कृपया यो देवतान्तर स्यापि। वृद्धिं भजेत स पुमान् सुकृतीशस्तोम- हाव्यसनरुत्स्यात् ॥१०५॥ यः हरिकृपया वृद्धिं भजेत स पुमान् सुकृती पुण्यवान् शस्त: समस्तलोकस्तुतः महान्ति व्यसनानि विपद: रुणद्धीति महाव्यसनरुत्। रुधेः क्विपि जशत्वचत्वें। विपल्लपविधुरस्स्यात्। विभीषणादिवादिति भावः । योऽपि देवतान्तरस्य कृपया बृद्धिं भजेत सोऽपि पुमान् उक्तविध एव भवेदिति चित्रम्। वस्तु- तस्तु सुकृतीशस्तोमहेतिच्छिनं समस्तमिदं पदम्। सुकृती- शाः पुण्यवद्ग्रगण्या: तेषां स्तोमं व्यूहं हन्तीति सुक्ृतीश- स्तोमहा 'अन्येभ्योऽपि दृशयते' इति हन्तेविच् । न तु क्विप 'ब्रह्मभ्रुणवृत्रेषु क्विप' इत्यत्र चतुर्विधनियमाश्रयणात्। एतेन 'मातृहा वै त्वमसि पितृहा वे, विश्रुतात्मा सुरारिहा, पुमान्

Page 157

144 अलंकार मणिहारे

भवाब्धि न तरेत्स आत्महा' इत्यादिप्रयोगा व्याख्याताः ।व्य- सनैः 'मृगयाऽक्षा दिवास्वप्न' इत्यायुक्ैः कामजैर्दशभि 'पैशुन्यं साहसं द्रोहः' इत्याद्यक्तैरष्टभिः क्रोधजैश्च दोषैः रोदिति अश्रु विमुश्चतीति तथोक्तः । रुदेरश्रुविमोचनार्थकात्किप्, चर्त्वभ्। उक्तविधव्यसनवर्गक्षुभितहृदयो भवेत्। रावणादिवदिति भावः । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः। अत्र रु- धिरुद्योः कविन्निमित्तकं सारूध्यमिति प्रकृतिश्लेषः। सुकृतीत्यादौ पदश्ेषोऽपि।। यथाव साधुसमित्यग्रेसरयुद्यो बहुशात्चविज्जयति श- त्रून। स हि विरचितशुभरक्षोवैरियशस्तुद्गवेन्म- हाधीरः ॥ १०६॥ अत्र भगवन्भक्तो विद्वान् प्रस्तुतः अप्रस्तुतस्तु शूरः तयोः श्ेषः। यः पुमान् साधूनां विदुषां समितौ सभायां ये अ- ग्रेसरा: तैर्यौतीत्यग्रेसरयुत् । 'यु मिश्रणे' इत्यस्मादादादिका- द्वातो: क्विपि तुक। सत्सङ्गशालत्यर्थः । अन्यत्र साधु यथा स्यात्तथा समितौ युद्धे 'समितिस्सांपराये स्यात्सभायां सङ्ग मेSपि च' इति मेदिनी। ये अग्रेसराः तैः युद्धयत इाते त- था। युद्धयतेः ककिप। जशत्वचत्वे । बहूनि शास्त्राणि वेत्तीति तथा। विदे: 'सत्सूद्विष' इत्यादिना किप्। चर्त्वम्। पक्षे श- स्त्राणां ममूहश्शास्त्रं बहु यच्छास्त्रं तेन विध्यतीति तथा। वि- व्यतेः क्विपि जश्त्वचर्त्वे। शत्रून कामादिनित्यवैरिणः, पक्षे अरातीन् जयति अभिभवति। सः महाधीर: महाविद्वान् अति- धैर्यवांश्च पुमान्। 'धीरस्स्या्रिषु पण्डिते। स्वच्छन्दे धैर्ययु-

Page 158

श्लेषसरः (२८) 145

के च' इति मेदिनी। विरचितं शुभं मङ्गळं येन तत्तथोक्तं यत् रक्षोवैरियशः दैत्यारिकोर्ति: तत् स्तौतीति तथोक्त: जग न्मङ्गळभगवद्दिव रयशोविषयकप्रबन्धप्रणेता पराशरव्यालादिवदि- ति भावः। स्तौतेः कविपे तुक्। पक्षे वविरचिता शुमानां क- ल्याणानां रक्षा शुभा वा रक्षा येन स तथोक्तः। विशिष्य जगत्क्षेमङ्कर इत्यर्थः । भिन्नं पदम्। वैरिणां यशः तुदतीति त- थोक्तः। तुदतेः क्किप। भवेत् । अत्र यौतियुध्यतोः वेत्तिवि ध्यत्या: यशशब्दोपपदकस्तौतितुदत्योश्च क्विपि सारूप्यमिती- दृदशप्रकृत्योस्सुप्प्रकृत्यपेक्षयोः श्षेषः। उत्तरार्धे पदश्लेषोऽपि।

यथावा-

त्वदभिमुखो भवमुक्स्यानतद्विमुखश्वापि पन्नग- नगेन्दो। उभयोरपि महती रुक्प्रभवत्यनयोरिती दमाश्र्र्यम॥१०७॥

त्वदभिमुखः त्वद्विमुखश्चापि भवमुक् सवं संसारं मुश्चतीति तथोक्तः । मुचे: क्विप् 'चोः कुः' इति कुत्वम्। पक्षे भवे सं- सारे भवेन वा मुह्यतीति तथोक्तः । मुहेः क्किपि 'वा द्रुह्मु- हष्णुहृष्णिहाम्' इति हस्य वैकल्पिकं घत्वं, जशत्वचर्त्वें। अ- नयोरुभयोरपि महती रुकू रुचि दीप्िः 'स्युः प्रभारुग्रुचिः' इत्यमरः। रुचेर्दीप्तचर्थकात्किकिप्। पक्षे रुकू रोगः "स्त्री रुग्रुजा च' इत्यमरः। रुजेः क्किप। उभयत्र जश्त्वचत्वे। अत्र भवश- ब्दोपपदकयोर्मुश्चतिमुह्यत्योः कवलयो रुचिरुज्योश्च क्विपि सारू- व्यमिति प्रकृतिश्चेषः ।। यथावा- ALANKARA II 19

Page 159

146 अलंकारमणिहारे

भवपाशबन्धमुडिति त्वां त्वन्तोऽन्यं च नाथ निगदामः। जानात्यनेकधातुप्रकृतिज्ञोऽन्ते बुध- स्तदाकृतम् ॥ १०८॥

हे नाथ ! त्वां त्वदन्यं चतुर्मुखादिकं च भवपाशबन्ध मुडिति निगदामः । विविधल्लेषवक्तारो वयमिति भावः। तदा कूतं उभयत्र ताहशशब्दप्रयोगाभिप्रायं तु अन्ते निर्णयावसरे अनेकधा बहुप्रकारेण निस्सन्दिग्धमितति भावः । प्रकृति जग- त्कारणभूतं पर ब्रह्म भवबन्धनिदानभूतां मूलप्रकृति च जाना- तीति प्रकृतिज्ञः 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावय्योः । योनौ लिङ्गे पौरवर्गे' इति मेदिनी। योनिः कारणम्। लिङ्गं चिह्नं 'प्रकृतिर्या मयाऽडख्याता' इत्यादौ मूलप्रकृताविव 'वा- सुदेव: परा प्रकृतिः, प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादौ प्रकृतिशब्दो हि जगत्कारणेSपि प्रयुक्त। यद्वा-प्रकृतिं तव त्वदन्यस्य च स्वभावं जानातीति तथोक्त:। भवपाश च्छेत्तृत्वं तव स्वभावः। भवपाशमुग्धत्वं त्वदन्यस्येति जान- न्निति भावः। अथवा अनेके बहवः ये घातवः धातारः तत्त- दण्डान्तर्वर्तिनश्चतुर्मुखाः तेषां प्रकृतिः कारणं 'यो ब्रह्माणं वि- दधाति पूर्वम्' इत्यादिश्रुतिश्यः। धातुशब्द्रो धाञ्धातोः 'सि- तनिगमिमसिसिच्यविधाजकशिभ्यस्तुन' इत्यौणादिकतुन्प्रत्ययेन निष्पन्नतया उदन्तः 'धातुप्रसादान्माहिमानमात्मनः' इत्यत्र व्या- सार्येरेवमेव निष्पादित: ॥

पक्षे-अन्ते भवपाशबन्धमुडित्यत्रावसाने विद्यमानाः अनेके ये घातवः 'मुट आक्षेपप्रमर्दनयोः, सुष स्तेये, मुह वैचित्ये'

Page 160

श्लेषसरः (२८) 147 इति धातवः क्रमेण तुदादौ क्रयादौ दिवादौ च पठिता।त- द्रपा: प्रकृतीः कक्विप्प्रत्ययप्रकृतीः जानातीति तथा । बुधः परा- वरतत्ववित् शाब्दिकश्च जानाति। भवपाशबन्धं मुटतीति वा मुष्णातीति वा विग्रहे ककिपि अयं शब्दो भगवद्विषयः भव- पाशबन्धेन मुह्यतीति विग्रहे क्विपि निष्पन्नो भगवदन्यविषयः तयारत्र श्ेष इति तदभिप्रायं वेत्तीत्यर्थः। अत्र मुटमुषमुहीनां क्विप्प्रत्यये सारूप्यम्। मुटिमुष्योर्जशत्वचत्वें। मुहेस्तु 'वा द्रुह- मुह' इति वैकल्पिकघत्व्ाभाव्रे 'हो ढः' इति ढत्वे जश्त्व- चर्त्वे इति बोध्यम्॥

यथावा-

त्वं विमृडसि स्वतोऽच्युत भक्तततेरागसा त- थाऽघानाम्। योगक्षेमाणामपि बहुधातुविशेष- वित्विदं विद्यात् ॥ १०९॥ हे अच्युत ! त्वं स्वतः स्वभावादेव विमृट् विशेषेण मृ- डतति सुख्यतीति तथोक्तः । अपरिच्छिन्नसुखस्वरूप इत्यर्थः । 'प्राणो ब्रह्म के ब्रह्म खं ब्रह्म यद्वाव के तदेव खं यदेव खं तदेव कम्' इत्यादौ तथा श्रवणात् । तथा भक्तततेः तत्सं- बन्धिनां इदमुत्तरत्राप्यन्वेति। आगसां अपराधानां विमृद् वि- शेषेण मृष्यति क्षमत इति विमृट्। महापराधसहिष्णुरित्यर्थः । किंच-अघानां तदायानां दुःखानां तिमट्। विशेषेण मार्षटि शोधय- तीति तथा। सकलव्यसननिश्शेषयितेत्यर्थः। अपपिच योगाः अ लभ्यलाभा: क्षेमाः लब्धपरिपालनानि तेषां विमृद् विमृशतीति विमृद् विचारितेत्यर्थः ।

Page 161

148 अलंकारमणिहारे

अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ इति गानात्। इदं तु उक्तं भगवतो गुणजातं सर्वमपि बहुधा 'बहुभ्यश्श्रोतव्यं बहुधा श्रोतव्यम्'। अणुभ्यश्च महन्भचश्च शास्त्रेभ्यो मतिमान्नरः। सर्वतस्सारमादद्यात्पुष्पेभ्य इव षट्पद: ॥ इत्युक्तप्रक्रियया बहुप्रकारेण। विशषवित्तु तुरवधारणे। शा- स्त्रार्थतत्त्ववेत्तैव विद्यात् जानीयात्। नान्यः यस्य नास्ति स्वयं प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थ दर्वी सूपरसानिव॥ इत्युक्तप्रकार: स्थूलमतिरिति भावः। बहवो ये धातुविशषाः तद्विदेव अमुमर्थ जानीयात्। नान्य: अशाब्दिक इत्यर्थोप्युप- स्कार्यः । अत्र क्रमेण 'मृड सुखने' तौदादिक, 'मृष तिति- क्षायाम्' दैवादिक:, 'मृजू शुद्धौ' आदादिकः, 'मृश आमर्शने। तौदादिक:। एषां चतुर्णो धातूनां विपूर्वकाणां क्विप्यैकरूप्यम्। पूर्वोदाहरणे त्रयाणामैकरूप्थमिति ध्येयम्। अत्र विपूर्वकात् मृडे: क्विपि चर्त्वे मृषे: जश्त्वेन डत्वे चर्त्वे च सृजिमृशिश्यां तु 'व्रश्च' इत्यादिना षत्वे जशत्वेन डत्वे च्त्वें विमृडिति तुल्यं रूपम् ॥ एवमाद्यस्सुप्प्रत्ययापक्ष: प्रकृतिश्लेषो निरूपितः । तिञ्प्रत्य- यापेक्षो द्वितीयः प्रकारो यथा- अवशादस्त्वां नाम्ना जुहाव यश्चाध्वरेषु नि- यमात्ते। फलमुभयोरप्यनयोर्जलजाक्ष निरङ्कशो बत ददासि ॥ ९१०॥

Page 162

वेषसरः (२८) 149

यः अजामिळाि: अवशात् हठात् त्वां नाम्ना नाराय- णाद्यभिधानेन जुहाव आहूतवान् 'ह्रेञ् स्पर्धायां शब्दे च' इति भौवादिकाद्धातोर्लिट् । 'अभ्यस्तस्य च' इत्यभ्यस्तीभ" विष्यतो ह्वेञस्संप्रसारणं, ततो द्वित्वम्। यश्च यजमानः उप- रिचरवसुप्रमृतिः नियमात्- ये तु वाकनिषन्निष्ठास्तत्तत्संस्कारसंस्कृताः। ते वै भागवताश्शुद्धा वासुदेवैकयाजिनः। इत्युक्तप्रक्रियया शुद्धयाजित्वरूपपारमैकान्त्यादित्यर्थः । अध्वरेषु ते तुभ्यं जुहावेति योजना। हुतवान् त्वामुद्दिश्य हविर्दत्तवा- नित्यर्थः । 'हु दानादनयोः' अस्माजाहोत्यादिकाद्धातोर्लिद्। दानं चेह प्रक्षेपः। स च वैधे आधारे हविषश्चेति स्वभा- वालभ्यत इत्याहुः। अत्र लिटि ह्वयतिजुहोत्योः प्रकृतेरैकरूप्य- मिति तिन्प्रत्ययापेक्षप्रकृतिश्लेषोऽयम्॥।

यथावा- तस्याः कियदिव भाग्यं या त्वां गर्भे जगन्नि- वासाधात्। यत्याश्र शिशुरिव भवान् स्तन्यं शौ- रे जगत्सविता ॥ ९५१॥

हे जगन्निवास! इदं च संबाधनं विवक्षितगर्भधारणार्ह- त्वस्याश्चयवहत्वं द्योतयितुम्। या देवकीति भावः। त्वां गर्भे अधात् दधार दधातेरलुंङ। तस्या: भाग्यं कियत् अपरिच्छि- न्नमित्यर्थः। इवशब्दो वाक्यालंकारे। जगतां सविता जनकः इदमपि विवक्षितस्तन्यपानाङ्मतत्वव्यञ्जनाय। शिशुरिव प्राकृ- तस्तनंधय इव यस्या: यशोदाया इति भावः। स्तन्यं अधात्

Page 163

150 अलंकारमणिहारे

पपा तस्याश्च भाग्यं कियदिवेति योजना। 'घेट् पाने' लुञ् 'विभाषा घ्राधेद्शाच्छासः' इति वैकल्पिकस्सिचो लुक। अत्र घाञधेटोः प्रकृतेरैकरूप्यम्॥ यथावा- वश्यति विनतानखिलानुरगधराधरकृपा यश- श्रैषाम्। क्षोदयति रिपनेषां तदीयसेनाश्र यदिह निश्शेषम् ॥९१२॥ उरगधराधरकृपा कत्री अखिलान् विनतान् वरान् श्रेष्ठान् करोति वरयति। वरशन्दाण्णिच्। एषां विनतानां यशः कीर्ति च उरुं विपुलं करोति वरयति। उरुशब्दाण्णाविष्ठवद्धावे 'प्रि- यस्थिर' इत्यादिना वरादेशः । तत्र हेतुमाह-क्षोदयतीत्यादिना। यत् यस्मात् एषा भगवत्कृपा एषां विनतानां रिपून श्षुद्रान् कृपणान् करोति क्षोदयति। क्षुद्धशब्दाण्णाविष्ठवद्धभावे 'स्थूल दूर' इत्यादिना तस्य यणादिपरलोपः पूर्वस्य गुणश्च। तदीयाः विनतरिपुसम्बन्धिनीः सेनाश्च निश्शेषं यथा स्यात् तथा क्षोदं करोति क्षोदयति। सोदशब्दाण्णिच्। चूर्णयर्नात्यर्थः । 'चूर्णे क्षोद:' इत्यमरः। अत्र वरोरुशब्दयोः क्षुद्रक्षोदशब्दयोश्च णि

यधावा- कलयति विषयं तव यं करुणारसमेदुरः क- टाक्षलवः । लोकेश्वरदयिते तं लोके वृन्दयति त- स्य विभवांश्र॥९१३॥

Page 164

श्लेषसरः (२८) 151

हे लोकेश्वरदयिते! करुणारसमेदुरः तव कटाक्षलवः यं पुमांसं विषयं कलयति गोचरयति तं पुमांसं लोके सर्वस्मिन् जने बन्दयति वृन्दारकं मुख्यं करोति। वृन्दारकशब्दाण्णावि- ष्ठवन्भावे 'प्रियस्थिर' इत्यादिना तस्य वृन्दादेशः सर्वोपजीव्यं करोतीत्यर्थः । 'वृन्दारकौ रूपिमुख्यौ' इत्यमरः। तस्य विभ- वांश्च वृन्दयति वृन्दानि करोति संपुञ्यति। तस्मिन्नेव समा- हारयतीत्यर्थः । वृन्दशब्दात् 'तत्करोति' इति णिचू। अत्र वृ-

योश्शुद्धधातुरूपप्रकृत्योरैकरूप्यम्। अनन्तरयोस्तु ण्यन्तनामधा- तुलक्षणप्रकृत्योरिति वैलक्षण्यं बोध्यम्।। यथावा .-

त्वङ्गुक्तशेषमनघं भक्त्याऽच्युत येन भक्ष्यते पुंसा। स ह्यातिवाहिकैरपि हुतवहमुख्यैरितीद- माश्वर्यम् ॥९१४॥ हे अच्युत! अनधं त्वन्धक्तशेषं येन भक्ष्यते अद्यते स पुमात् अर्चिरादिकैरातिवाहिकैरपि भक्ष्यते हि इत्येतदाश्चर्यम्॥ सेविष्यत इि तु तत्वम। भगवत्निवेदितशेषप्रसादास्वादनम- हिस्रा अर्चिरादिकैरातिवाहिकैरपि मान्यते पुमान् किमुतान्यै- रिति भाव:। निवेदितहविश्शेषं भुक्त्वा भगवतोऽनघम्। व्यपोह्य सर्वपापानि मोक्षमृच्छत्यसंशयम्॥। इति भगवच्छास्त्रीयप्रमाणार्थ इहानुसन्धेयः । अत्राद्येऽर्थे भक्ष- धातो: कर्मणि यकि लट्, द्वितीये भजधातोर्लटि स्यप्रत्यये

Page 165

152 अलंकार मणिहारे

'चोः कुः' इति कुत्वे 'इण्कोः' इति स्यावयवसस्य षत्वम्। अत्र भक्षेर्भजेश्च यक्स्यप्रत्ययकृतं सारुप्यम् । यद्यपि प्रत्यय- विधावुद्धेश्यत्वं प्रकृतित्वमिति भक्षिभज्योस्तिङ्निरूपितप्रकृति- स्वात्तयोर्नेकरूप्यं, तथाऽवि प्रत्ययनियतपूर्ववृत्तित्वं तदित्यभ््यु- पगमेन भक्ष्येत्यनयोस्तिङ्पूर्ववृत्तितया प्रकृतिभूतयोरैकरूप्यमिति निर्वोढव्यम्। यद्वा प्रकृतिश्षेष इत्यस्याङ्गश्लेष इत्यर्थः। तथा सतीदशोदाहरणस्यापि संग्रहो निरर्गळ एव, वक्ष्येत्यनयोस्तिङ्- निरूपिताङ्गत्वेन तयोश्चैकरूप्यात्। 'यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इति ह्यङ्गलक्षणम्॥

उक्तस्योभयविधप्रकृतिश्ेषस्य सङ्करोऽपि संभवाति। यथा- दृश्ये योगिवरैस्त्वयि निहितात्माऽहं त्वया द- यार्द्रहशा। त्वन्नाम वहन्नास्ये नरकाराते पुरा नरके ॥ ११५॥

योगिवरैः सूक्ष्मदर्शिभि: दृश्ये 'दृश्यते त्वग्रचया बुद्धया सूक्ष्मया सूक्ष्मदशिभिः' इत्युक्तप्रकारेण द्रषुं योग्ये दशेः 'ऋ दुपधात्' इति क्यप्। त्वयि निहितात्मा विन्यस्तात्मा अहं त्वया क्त्रा दयार्दरदृशा करणेन। यद्वा दयार्द्रद्टशेति बहुव्रीहिः त्वयेत्यस्यैव विशेषणम्।दृश्ये इति आवृत्या योजना। दष्टो भ- वामी त्यर्थः । दृशेः कर्मणि यकि लडुत्तमैकवचनम् । आस्ये मुखे त्वन्नाम बहन् त्वन्नामोच्च्ारयन्निति यावत्। नरके निरये पक्षे वहन्नास्ये इत्यत्र न आस्ये इति छेदः। पुरेति निश्चय- द्योतको निपातः। पुरा नास्ये इति योजना। निश्चयेन क्षिप्तो न भविष्यामीत्यर्थः । क्षेपणार्थकादस्यतेराङ्पूर्वकात्कर्मणि लड़्

Page 166

श्लेषसरः (२८) 153

त्तमैकवचनम्। अय च लट् पुराशव्दयोगान्भविष्यदर्थे। 'या- वत्पुरानिपातयोर्लट्' इति स्मरणात्। अत्र डि इट् इति सुप्ति- ड्प्रत्ययप्रकृत्योः क्रमेण क्यव्यगन्तयोः ण्यद्यगन्तयोः हशयेत्यन- यो: आस्येत्यनयोश्च प्रकृत्याः श्ेप इति तयोस्सङ्गीर्णता। उभ- यत्र धात्वैक्येऽपि प्रत्ययभेदकृतं भेदमादाय प्रकृतिश्ेपनिर्वाहः। 'अस्यन्ते वर्णाः येन अस्यते ग्रासो वाऽस्मिन्नित्यास्यम्। 'अ- सु क्षेपणे' 'कृत्यल्युटो बहुळमिति ण्यत्' इत्यमरसुधायाम्। आस्यन्दते आम्लादिना प्रस्नवतीत्यास्यम्। 'स्यन्दू प्रस्रवणे' 'अन्येभ्योपि दृश्यत इति डः' इत्याप तत्रैव व्युत्पादितम्। अस्मिन्पक्षे तु आस्ये इत्यत्र धातुभेदात्प्रकृतिभेद: स्पष्ट एवे- त्यलम। न केवलमत्र प्रकृतिमात्रश्ेष:, किन्तु प्रत्ययश्लेपोऽ पीति विच्छित्तिविशेषो ज्षेयः ॥ न केवलं सुप्तिङप्रत्ययापेक्ष एव प्रकृतिश्ेषः, किन्तु त- द्वितप्रकृत्यपेक्षोऽपि संभवति॥

यथा- त्वामाश्रितः प्रथीयांस्तद्विभवश्वापि नाथ तव घृणया। त्वत्प्रतिकूलस्तु भवेत्साधीयांस्तद्विपत्ति- निवहृश्र ॥ ९१६॥ हे नाथ! त्वामाश्रितः पुमान् तव घृणया कृपया प्रथी- यान् प्रथा नाम गुणवत्ताप्रख्यातिः साऽस्यास्तीति प्रथावान् अतिशयेन प्रथावान् प्रथीयान् भवेत्। प्रथाशब्दान्मतुबन्तादी- यसुनि 'विन्मतोः' इति मतुपो लुक्। तद्विभवः भगवदाश्रि- तस्य विभवोऽपि प्रथीयान् अतिशयेन पृथु: अतिविपुल इत्य- ALANKARA II 20

Page 167

154 अलंकारमणिहारे र्थः। पृथुशब्दादीयसुनि 'रऋतो हलादेर्लघोः' इति ऋकारस्य रेफादेशः । त्वत्प्नतिकूलस्तु तव घृणयेत्यतदत्रापि संबध्यते। घृणया जुगुप्सया 'जुगुप्साकरुणे घृणे' इत्यमरः। अनर्होऽय- मिति त्वत्कर्तृकजुगुप्सयेत्यर्थः । साधीयान् आधिना सह व- तत इति साधिः। अतिशयेन साधि: साधोयान् निरतिशय- मनोव्यथ इत्यर्थः । भवेत्। तस्य त्वत्प्रतिकूलस्य विपत्तिभिव होऽपि साधीयान् अतिशयेन बाढः अतिमात्रदृढ इत्यर्थः। बा- ढशब्दादीयसुनि 'अन्तिकबाढयोनेंदसाधौ' इति साधादेश । 'गाढबाढदृढानि च' इत्यमरः । अत्र प्रथावत्पृथुशब्दयोः साधि- बाढशब्दयोश्च प्रकृतेस्तद्धितप्रत्यये परे ऐकरूप्यम्।

असुलभमाशासै कथममृतं श्रीशादघी महान- न्दात। इत्यङ्ग मा त्रपिष्ठा इह कतिकति तेन नामृतं गमिताः ।।९१७। अघमस्यास्तीत्यघी। नित्ययोगे मत्वर्थीय इनिः । नित्य- दुःखीत्यर्थः। 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । महानन्दात् 'स एको ब्रह्मण आनन्दः' इत्युक्तनिरवधिकानन्दात्। इदमुभ- योरतिमात्रानानुरूप्यं द्योतयितुम्। श्रीशात् भगवतः असुलभं दुर्लभं अमृतं निश्श्रेयसं कथं आशासै अपेक्षिषीय। श्वेव दे- वभोग्यं पुरोडाशमिति भावः। 'एत ऐ' इति लोडुत्तमस्य प- कारस्य ऐआदेशः। इति एवं अङ्ग ! इदं कस्यचिद्वा स्वस्य वा संवोधनम्। मा त्रपिष्ठाः मा लज्जिष्ठाः 'त्रपूष लज्ायाम्' अ- स्माल्लुडि ऊदित्वाद्वैकल्पिक इट्। माड्योगादडभावः । ईदशोऽ-

Page 168

ल्लेषसरः (२८) 155

हं तादृशाशासने कथ न त्रपेयेत्यत्राह-इहेत्यादिना। इह अ- स्मिन् लोके तेन श्रशिेन कतिकति त्रपिष्ठा इति योजना । अतिशयेन तृप्राः त्रपिष्ठा जनाः । तृपं दुःखमिति माधवः। अयं चात्र तद्ति वर्तते। त्वत्तोप्यतिशयित दुःखा इत्यर्थः । तृप्रशब्दादतिशायनेऽथे इष्ठनि 'प्रियस्थिर' इत्यादिना त्रपीत्या- देशः। अमृतं न गमिता: भूयांस एव निश्श्रयेसं नीताः । त्वं कुतस्तदाशासनाय लजस इति भावः। अत्र त्रपधातोः तृप्र- शब्दस्य च प्रकृतेः क्रमेण इडाल्लिष्टथासि तिडि इष्ठनि त- द्विते चैकरूप्यम्। एवं प्रत्यययोरप्यैकरूप्यमिति ध्येयम् ॥

अथ प्रत्य यश्लेषः.

प्रकृतिप्रत्ययौघस्यनकस्य प्रत्ययैर्यदि। श्िष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥ यत्रानेकेषां प्रकृतिप्रत्ययसमुदायानां तद्धटकप्रत्ययश्लेषनि- मित्तकं सारूप्यं दृश्यते सोऽयं प्रत्ययश्लेषः । इमे च प्रकृ- तिप्रत्ययश्ेषलक्षणे रुद्रटानुरोधेन वर्णिते। वस्तुतस्तु- स एष प्रकृतिश्ल्लेषः प्रकृत्यो: श्िष्टता यदि। श्िष्टतायां प्रत्यययो: प्रत्ययश्लेष इष्यते।। इत्येतावती एव लक्षणे अलं, काव्यप्रकाशाद्यनुरोधित्वात्। 'विभक्तेवैचित्रचस्य विशेषहतुतया पृथगुपादानात्प्रत्ययपदं तद तिरिक्तपरम्' इति काव्यप्रदीपकारः ॥

Page 169

156 अलंकारमणिहारे

यथा- कमिता श्रियो मदागः क्षमिता यत्रावभासते वितता। अमिता ममतापाळिश्शमितानेनाप्स्यते तथाऽभिमता॥११८। श्रियः कमिता भगवान्। अनेन पुरुषकारसान्निध्यमुक्तम्। मदागः ममापराधं क्षमिता सोढा क्षमतेरहुंट्। ऊदित्वाद्वैकल्पि- क इट्। तत्र हेतुमाह-यत्रेति। यत्र यस्मिन् श्रीवल्लमे वितता विस्तृता क्षामतेति योजना। क्षमत इति क्षमी। क्षमेः 'श- मित्यष्टाभ्यो घनुण' इति घिनुण् प्रत्ययः। 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । तस्य भावः क्षमिता महापराधसहिष्णुता अवभासते। अथ तत्कार्यमाह-अमिता मम तापाळि: आध्या- त्मिकादितापपरंपरा शमिता शमिष्यति। शाम्यतेर्लुद्। भगव- ता मदागसि क्षान्ते मम तापत्रयव्यथा नङ्क्ष्यत्यवत्यर्थः । न केवलमतावदेव, तथा अनेन मयेत्यर्थः । अभिमता शास्त्रसम्मता शमिता शाम्यतीति शमी पूर्ववदेव घिनुण्, वृद्धयभावश्च। तस्य भावः शमिता 'शान्तो दान्तः' इति श्रुता शान्तता भगवदु- पासनौपयिकीति भावः। आप्स्यते लप्स्यते। अत्र क्षमिता श- मितेति प्रकृतिप्रत्ययसमुदायस्य तास्तल्प्रत्ययश्लेषनिमित्तकं सा- रूप्यमिति प्रत्ययश्लेषः ॥। यथावा- अग्राहि हदा भगवान् दुर्विषयस्येन्द्रियं च नि- खिलं मे। धन्येनाभावि मया मम भवकान्तार- चारदुःखमपि॥ ९१९॥

Page 170

श्लेषसर: (२८) 157

भगवान् हद्दा मनसा मयेति शेषः । अग्राहि अगृह्यत ध्यात इत्यर्थः । ग्रहेः कर्मणि लुडि चिण्। मे मम निखिलं इन्द्रियं चक्षुरादिकं च इदं कर्तृ, दुर्विषयस्य कर्मणि षष्ठी। अग्राहि अग्राहकं भवतीति शेषः । ग्रहे: कर्तरि 'नन्दिग्रहि' इति णिनिः। अत एव मया धन्येन कृतार्थेन अभावि। भ- वतेर्भावे लुडि चिण् अभूयत। पम भवकान्तारचारदुःखमपि अभावि न भावि अभावि । इतःपरं पुनर्न भविष्यतीत्यर्थः । 'भविष्यातिगम्यादयः' इति भविष्यत्यर्थे 'भुवश्च' इत्यीणादि- क इनिः। स च ित्। 'आङिणित्' इत्यतो णिदित्यनुवृत्तेः। ततो ननसमासः। अत्र अग्राहि अभावीत्युभयत्रापि चिणाण- न्योः प्रत्यययोरैकरूप्यम्।।

यथावा-

जगतामादिरभूस्त्वं तव महिमा त्बनिदमादि- वचसोडपि। अभवस्त्वं फणिशैले त्वामाश्रित्या- हमपि भवानि हरे ॥ १२० ॥ हे हरे ! त्वं जगतां आदिः 'यतो वा इमानि' इत्युक्त- रीत्या कारणं अभू: आसीः। भवतेर्लुङ् मध्यमैकवचनम्। तव महिमा तु अनिदमादिवचसोऽपि अभू: अविषयः 'यतो वाचो निवर्तन्ते' इति श्रुतेः। नञो भूशव्देन समासः । त्वं एवंज- गत्कारणभूत इति भावः। फणिशैले अभवः जगदवनार्थमर्चा- त्मना प्रादुरासीरित्यर्थः। भूधातोर्लङमध्यमैकवचनम्। त्वां आ- श्रित्य अहमपि विषयमरुमरीचिकाहरिणायमानहृदयोपीति भावः। अभवः पुनर्जन्मविधुरः भवानि प्रार्थनायां लोट्। भवितुमाशासे

Page 171

158 अलंकारमणिहारे

इत्यर्थः । अत्र अभू: अभवः इत्युभयत्रेऽपि सिप्सुप्रत्यय- योरैकरूप्यम्॥

यथावा- आचार्याणामभिमुखमतनोर्मी दूरतोऽस्य बा- धा मे। त्वरितं हरेर्ममाखिलदुरितं तस्याम्ब मां प्रियं तनुयाः ॥ ९२१ ॥ हे अम्ब! मां आचार्याणामभिमुखं अतनोः अकरोः। त- नोतेर्लडि मध्यमैकवचनम्। अस्य अतनोरित्यावर्त्यते। अतनोः कामस्य बाधा मे मम दूरतो भवति। आचार्याभिमुख्येन का- मादयो मां न स्पृशन्तीति भावः । मम अखिलं दुरितं पूर्व- मुत्तरं चाघं हरे: अपनुदेः। हञस्संभावनायां लिङ्मध्यमपुरुषै- कवचनम्। मां तस्य हररेत्यतदत्रावर्त्यते। हरे: भगवतः प्रियं 'सच मम प्रियः' इत्युक्तरीत्या प्रीतिविषयं तनुयाः कुर्याश्च। तनोतेस्संभावनायां लिङ्। आचार्याभिमुख्यदात्री त्वं उत्तरपू- रवाघश्ेषविनाशपूर्वक परमे व्योम्नि भगवन्नित्यकिंकरं कुर्या एवेति संभावये॥ यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः । शेषवृत्तिविधानाय स किं सुप्तोऽथवागतः।। इति न्यायादिति भावः। अत्र अतनोः हरे: इत्यत्र सिप्ङसो- रैकरूप्यम्॥।

यथावा- त्वामाश्रितस्य पालो न किंतु सोऽपि त्वया

Page 172

श्लैषसरः (२८) 159

दयाजलधे। त्वच्चरणौ मामेवं किमन्यदवशिष्यते- ऽर्थनीयं मे ॥९२२ ॥ हे दयाजलधे! त्वां आश्रितस्य पातः अधागतिः पतते- रभावे घज्। न भवति। किंतु, त्वया सोऽपि पातः रक्षितः पातेः कर्मणि क्ः। अनेनानिष्टनिवारणमिष्टप्राप्तिश्चोच्यते। 'पातस्तु र- क्षिते। पतने च' इति रत्नमाला। आश्रितस्यैवंविधातिशयला- भे तव किमायातमित्यत्राह-त्वदिति। त्वच्चरणौ मां, अहमपि न किं तवाश्रित इति भावः। एवं पातः रक्षतः । पातेर्लेट् प्रथमपुरुषद्विवचनम्। एवमिति साभिनयनर्देशः । आश्रितान्तरं त्वमेक एव रक्षसि। मां तु त्वच्चरणौ द्वौ रक्षत इति तद- पेक्षया ममैवातिशयलाभ इति भावः। अन्यत् अनिष्टनिवारणे- ष्टप्रापणरूयरक्षाणादन्यत् किं ममाशास्यं सर्वस्यापि प्रार्थनीयस्या- त्रैवान्तर्गतत्वादिति भावः। अत्र द्वितीयतृतीययोरर्थयोस्सुबन्त- कृत्प्रत्ययस्य क्तस्य तिङन्ततस्प्रत्ययस्य चैकरूप्यमिति प्रत्यय- श्षेष: प्राथमिकपदश्लेषेण संकीर्ण इति पूर्वेभ्यो विशेषः॥

अथ वचनश्रलेष:

स भवेद्चनश्लेषः श्विष्यन्ति वचनानि चेत् । सुब्विभक्तीनां तिण्विभक्तीनां वा वचनानि श्िष्टानि चे- द्वचनश्लेष इत्यर्थः । यथा-

Page 173

160 अलंकारमणिहारै

खलन्ती हरिहृदये तुदती विपदः प्रपुष्णती विभवान्। लक्ष्मीस्तच्चरणे वा रुन्धां मम चाप- लानि दीव्यन्ती॥ १२३॥ अत्र खेलन्ती दीव्यन्ती इत्यनयोः 'शप्छ्यनोर्नित्यम्' इति शीनद्योः परयोननित्यं नुम्। तुदती इत्यत्र तुन तुम्। 'आ- च्छीनद्योर्नुम्' इति विकल्पेन विहितत्वास्तस्य। रुन्धा निरुद्धानि करोतु कुरुतामिति चार्थः। 'रुधिर् आवरणे' अस्मादात्मनेपि- नो लोटि प्रथमपुरुषैकवचनम् । पक्षे तस्मादेव धातोः पर- स्मैपदिनो लोट्प्रथमपुरुषद्विवचनम्। अत्र खेलन्ती इत्याददि- सुबन्तेषु रुन्धामिति तिङन्ते चैकवचनद्विवचनयोः श्ेषः। लि- ङ्श्ेषोऽप्यत्र द्रष्टव्यः॥

यथावा- सुमहामहास्स्वयंभूकृतबहुधामान ऊर्जितार्चा- विभयः । सुश्रीकमनास्सततं सर्वात्मानः परश्रि- यं सन्दधताम् ॥ १२४॥

अत्र श्रीपरवासुदेवस्य श्रीवेंकटाचलादिदिव्यदेशस्थार्चाव- ताराणां च श्लेषः । प्रथमपक्षे-सुमहत् महः तेजो यस्य स तथोक्तः। स्वयंभुवा वेधसा कृतः बहुधा बहुप्रकार मानः पू- जा यस्य सः। ऊर्जितौ अर्चा श्रीवेङ्कटाचलादिगतोऽर्चावतारः, विभवः रामकष्णाद्यवतारश्च यस्य येन वा स तथोक्त। स- ततं शोभना श्रीः लक्ष्मीः यस्मिस्तत् सुश्रीकं मनो यस्य सः सुश्रीकमनाः । 'अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठि-

Page 174

श्लेषसरः (२८) 161 तम्' इत्युक्तरीत्याऽनवरतमपि लक्ष्मीलालसमानस इत्यर्थः । स- रवेषामात्मा अन्तः प्रविश्य नियन्ता पर: परवासुदेवः नः अ- स्माकं श्रियं सर्वप्रकारसमृद्धिं संदधतां संधत्ताम्। 'दूध धारणे' अस्मान्भौवादिकाल्लोटप्रथमपुरुषैकवचनम्।

द्वितीयपक्षे तु-इमानि विशेषणानि बहुवचनान्तानि, वि- भव इति विशेष्यानुराधात् । सुमहान् महः उत्सवः नित्यो- त्सवपक्षोत्सवादि: येषां ते। 'मह उद्धव उत्सवः' इत्यमरः । अदन्तोडयं महशब्दः। स्वयं आत्मना अनितरप्रेरणमित्यर्थः। भु- वि कृतानि आश्रितानि बहूनि धामानि वेंकटाचलादिस्थानानि यैस्ते तथोक्ताः । ऊर्जिता: ऊर्जस्वलाः अर्चाः पूजा प्रतिकृतयो वा येषां ते तथोक्ताः । 'अर्चा पूजाप्रतिमयोः' इति मेदिनी। श्रिया लक्ष्म्या: कमना: कामयितारः सुष्ट श्रीकमनाः सुश्री- कमनाः। सुष्ठ लक्ष्म्याः अभिरूपा वा 'कमनः कामुके कामेऽ- भिरूपेऽशोकपादपे' इति मेदिनी। सर्वेषां चेतनाचेतनानां आ- त्मान: विभवः प्रभवः जगदीश्वरा इत्यर्थः । तत्तद्विव्यदेशार्चा- बहुत्वप्रयुक्तं बहुवचनम्। सततं परश्रियं श्रेष्ठां संपदं संद- धताम्। दधातेजौहोत्यादिकाल्लोट्प्रथमबहुवचनम्। अत्र सुम- हामहा इत्यत्र सुबन्ते संदधतामित्यत्र तिङन्ते च प्रथमै- कवचनबहुवचनयोः श्रेषः। स्वयंभूकृतेत्यादौ तु पदश्ेष इति वेदितव्यम्। परश्रियमित्यत्र समस्ततायां शकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वम्।

यथावा-

सकृदपि वामित्रतया रघुनन्दन यस्त्वया पुर- ALANKARA II 21

Page 175

162 अलंकार मणिहारे

स्क्रियतेऽलम्। भोक्ताचतुरश्राणां रसाभृतां प्रा- णदं सविषयं वाडयम् ॥ ९२६॥। हे रघुनन्दन ! यः पुमान् मित्रतया सुह्त्वेन पक्षे अ- त्रतया असुहृ्त्त्वेन त्वया सकृदपि वा पुरस्क्र्क्यते पूज्यते आ- द्वियत इति यावत् । पक्षे अभियुज्यत इत्यर्थः । 'पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते' इत्यमरः। सः अयं उक्तविध एष पुमान्। चतस्रः अश्रय कोटयो येषां तेषां तथोक्तानां 'स्त्रियः पाळ्यश्रिकोटयः' इत्यमरः। 'सुप्रातसुश्व' इत्यादिना बहुव्रीहावजन्ततया निपातितोऽयम्। चतुर्दिगन्तविद्यमानानामिति यावत्। रसाभृतां भूपालानां प्राणदं शक्तिप्रदं विषयं देशं 'देशविषयौ' इत्यमरः। वाशब्दो भिन्नक्रमः। अलं भोक्ता वा भोक्ष्यत्येव पालयिष्यत्येवेत्यर्थः । 'भुज पालनाभ्यवहारयोः ' अ- स्मालुट्। 'वा स्याद्विकल्पोपमयोरेवार्थे च तद्व्ययम्' इति विश्वः ॥ अन्यत्र-सः अमित्रतया अभियुक्त: पुमान् भोक्ता अचतुर: श्राणां इति छेदः। अलं अचतुर: अकुशलः । नभृता अभृता रसेन अभृता रसाभृता तां नीरसामित्यर्थः। श्राणां यवागूं 'यवागूरुष्णिका श्राणा' इत्यमरः । भोक्ता अभ्यवहर्ता पाते- त्यर्थः । भुजेस्तृन्। अत एव 'न लोक' इति निषेधात् श्रा- णेत्यत्र न कर्मणि वष्ठी किंतु द्वितीयैव। प्राणं द्यतीति प्राणदं असूच्छेदकम्। देहान्तरानिले प्राणो जीवात्मपरमात्मनोः। आयुरिन्द्रियसत्वेषु प्रणवे काव्यममाण॥ इति रतमाला। अयं अविद्यमानयकारं विषयं विषमित्यर्थः ।

Page 176

श्लेषसरः (२८) 163 शब्दार्थयोस्तादात्मंय न प्रस्मर्तव्यम। तद्वा भोक्ता। त्वदाभ- युक्तो दुर्गतो यत्र क्ववा कदन्नाभ्यवहारेण जीवति। तथा जीवि- तुमनिच्छुर्गरळं वा पिबत। न तु त्वदग्रतः पराक्रमत इति भावः। अत्र चतुरश्राणां रसाभृतामित्यत्र षष्ठीबहुवचनद्वितीयै- कवचनयोश्श्लेष: पदश्लेषसंकीर्णः । भोक्तेत्यत्र सुबन्तकृत्त्तिडोः • श्लेषः। अयमित्यत्र पदश्लेषसंकीर्णः प्रथमाद्वितीययोविभक्तचो- इश्लेषश्च।। यथावा-

यान्। अप्रतिहतप्रभावान्महास्वभावान् दुरन्तदु रितनुदः ॥१२७॥ अत्र भगवतो भागवतानां च श्लेषः । तथाहि-वेत्तीति विद:, इगुपधलक्षणः कः। सर्वस्य विदः सर्वविदः सर्ववित् 'यस्सर्वज्ञस्सर्ववित्' इति श्रुतेः। सुगुणादिमान् सुगुणाः सत्य- कामत्वादय: कल्याणगुणा: आदयो येषां ते सुगुणाद्यः आ- दिशब्देन स्व्ररूपरूपादीनां ग्रहणम्। तेऽस्य सन्तीति तथोक्तः। नित्ययोगे अतिशायने वा मतुप्। अप्रतिहता च सा प्रभा च तद्वान्। 'न तत्र सूर्यो भाति' इत्याद्यक्तसूर्याद्यभिभावुकादेव्य प्रभाशाली। तत्र हेतुः महती च सा स्वभा च तद्वान् महा- स्वभावान् लोकोत्तरस्वयंप्रकाशस्वरूपः न ह्यस्य प्रकाशस्सू- र्यांदेरिवान्यार्धानः। यद्ा भाः प्रभावः 'भाः प्रभावे च दी- * सौ च' इति मेदिनी। महाप्रभावशालीत्यर्थः। नुदतीति नुदः, इगुपधलक्षण: कः । दुरन्तं यद्दुरितं तस्य नुदः पूर्वोत्तराघ- निर्धूनन इत्यर्थः । अतिशयेन उरुः वरीयान् उरुशब्दादीयसुनि

Page 177

164 अलंकारमणिहारे

'प्रियस्थिर' इत्यादिना वरादेशः । यदुषु वरीयान् यदुवरी- यान् यदुकुलोत्तंसो भगवान् नः चेतः भजतात् हृदि सं निध- त्तामित्यर्थः ॥ पक्षे-भज तान् नः इति छेदः ।नः अस्माकं चेतः! हे मनः! सर्व विदन्तीति सर्वविदः तान् विदेः कविपू। सर्व- ज्ञानित्यर्थः । शोभना: गुणाः 'अष्टावात्मगुणा दया सर्वभूतेषु . क्षान्तिरनसूया शौचमनायासो मङ्गळमकार्पण्यमस्पृहा' इत्यादि- गौतमाद्यक्ता महागुणा: येषां ते सुगुणा: तेषु आदिमाः अग्रि- मा: तांस्तथोक्तान् आदिशब्दान्भ्वार्थे 'अग्रादिपश्चाड्िमच्' इति डिमच्। अप्रतिहतप्रभावान् अकुण्ठितमहिमशालिनः । म- हान् स्वभावो येषां ते तथोक्तान् उत्तमशीलान् दुरन्तं दुरितं नुदन्तीति तथोक्तान, ुदे: किप्। तान् प्रसिद्धान् यदुवरस्य इमे यदुवरीयाः तान्। गहादेराकृतिगणत्वाच्छः। भागवतानि- त्यर्थः । भज सेवस्व। भजतेः परस्मैपदिनः लोण्मध्यमैकवच- नम्। पूर्वत्र लोट्प्रथमकवचनम्। अत्र सुगुणादिमानित्यादौ प- दश्षेषसङ्कीर्ण एकवचनबहुवचनयो: श्ेषः। एवं प्रथमाद्वितीय- योविभक्तयोरपि। यदुवरीयानित्यादौ तु वचनविभक्तिश्लेषः पू- र्ववदेव। इयांस्तु विशेष :- ईयसुन्छरूपतद्धितप्रत्ययान्तप्रकृत्यो: तत्रापि उरुवरशब्दरूपपरमप्रकृत्योश्च श्षेष इति॥ यथावा- व्रजजनतानां न्यरुणस्त्वं वर्षीयानुपप्ठवान् शौरे। अपिच गरीयान् दोषान् काळिन्याः का- ळियोद्दृतेर्व्यधुनोः ॥९२८॥ हे शौरे! वर्षीयान् ज्यायान् पुराणपुरुष इति भावः।

Page 178

श्लेषसरः (२८) 165

अतिशयेन वृद्ध इति विग्रहः । वृद्धशब्दादीयसुनि 'प्रियस्थिर' इत्यादिना वर्षादेशः । त्वं व्रजजनतानां नन्दव्रजजनसमूहानां वर्षीयान् अतिवृष्टिसंबन्धिनः गोवर्धनयागावसरक्रद्धवृद्धश्रवः- कलितानिति भावः। उपप्नवान् उपद्रवान् न्यरुणः न्यगृह्णाः । अपिच गरीयान् अतिशयेन गुरु: गुरूणामपि गुरु: प्रथमाचार्य इत्यर्थः। 'त्वमस्य पूज्यश्च गुरुर्गरीयान्' इत्युक्ते: । 'गुरुर्गुरु- तमः' इति नामसहस्रपाठाच्च। काळीयस्य तन्नाम्न आशीविषस्थ उद्धतेः उत्सारणात् काळिन्द्याः यमुनाया: गरीयान् गर: गरळं तत्संबन्धिनः । गहादित्वाच्छः । एवं वर्षीयानित्यत्रापि दोषान् व्यधुनोः निराकार्षीः । अत्र प्रथमैकवचनद्वितीयाबहुवचनयोः श्ेषः। अन्यत्सर्व यदुवरीयानित्यत्रेव बोध्यम्॥ यथावा- गाते तवाब्जतुलनां ग्रीवा नयने नखानि च मुरारे। व्यतिपाते जगदखिलं कृपा तव दशौ भुजाश्र चत्वारः॥ १२१। द्दे मुकुन्द! तव ग्रोवा अब्जतुलनां शङ्गतौल्य गाते ग- च्छति प्राप्नोतत्यर्थः। नयने आब्जतुलनां पद्मसाम्यं गाते ग- च्छतः । नखानि च अब्जतुलनां चन्द्रसाधर्स्य गाते गच्छन्ति। 'गाड् गतौ' अस्मान्भोवादिकात् क्रमेण लटप्रथमपुरुषैकवचन- द्विवचनबहुवचनानि। बहुवचने 'आत्मनेपदेष्वनतः' इति झस्य अद्। तव कृपा अखिलं जगत् व्यतिपाते कर्मव्यतिहारण र क्षति। कर्मव्यतिहारो नाम क्रियाविनिमयः। द्ृग्भुजयोग्यं पा- लनं करोतीत्यर्थः। तव दशौ अखिलं जगत् व्यतिपाते कृपा- भुजयोग्यं पालनं कुर्ाते। चत्वारो भुजाश्च व्यतिपाते कृपाद-

Page 179

166 अलंकारमणिहारे

ग्योग्यं पालनं कुर्वन्तीत्यर्थः। व्यतिपूर्वकात्पातेः 'कर्तरि कर्म- व्यतिहारे इत्यात्मनेपदे क्रमेण लट्प्रथमपुरुषैकद्विबह्ुवचनानि। अत्र गाते व्यातेपाते इति च वचनत्रयेऽपि तुल्यरूपमिति व- चनश्लेषः । अय शुद्धः न तु पूर्ववत्सक्कीर्णः इति विशेष:॥ अमीषामषानां श्लेषाणां मध्ये यस्थ यस्मिन्नन्तर्भावः प्र- तिभाति तत्र तद्भ्िन्नत्वं विवक्षणीयम्' इत्यलङ्कारकौस्तुभकारः। पते श्रेषभेदा: प्रागुपदर्शितेषु प्रकृताप्रकृतादिश्लेषोदाहरणेष्वपि यथायर्थ संभवन्तीति ध्येयम्। एवं अष्टविधस्समङ्गश्लेषो नि- रूपितः। अभङ्गग्लेषो यथा, मदीय एव नृसिंहविलासे- अमृतश्रियं प्रयच्छन् सतां प्रवर्धितहिरण्यगर्भो यः । मुग्घेन्दुबिम्बधामा मुखे हरिर्स्तान्मु- दे महान् स पुमान् ॥ १३०॥ अत्र श्रीहृयग्रीवनृसिंहयोरुभयोरपि स्तव्यत्वेन प्रस्तुतयो- रेव श्लेषः। यः सतां अमृतश्रियं त्रयीमित्यर्थः । 'ऋचस्सा मानि यजूगृंषि। सा हि श्रीरमृता सताम्' इत श्रुते । प्रय- च्छन् प्रदानेन हेतुना 'लक्षणहेत्वोः' इति शता । प्रवर्धितः समेधितः हिरण्यगर्भः ब्रह्मा येन सः मधुकैटमापहृतवेदाहरण- तत्म इनोज्ीवितचतुर्मुख इत्यर्थः। 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणाति तस्मै' इते श्रुतेः । अत्र मोक्षधर्म- गतह्यशिर उपाख्यानमनुसन्घेयम्। पक्षे-सतां ब्रह्मववदां अमृत- श्रियं मुक्तिसंपदं प्रयच्छन् प्रवर्धितः प्रकर्षेण छिन्नः हिरण्य- स्य हिरण्यकशिपोः गर्भः कुक्षि: येन स तथा। मुग्धेन्दुवि- वं धाम स्थानं यस्य, पक्षे मुग्धेन्दुबिम्बस्य धामेव धाम तेज: यस्य, स तथोक्तः। नृसिंहृदिव्यविग्रहस्य 'इन्दुधवळं लक्ष्मी-

Page 180

श्लेषसरः (२८) 167

नृसिंहं भजे' इति पाण्डुरत्वोक्तेः । मुखे हरि: तुरङ्गः सिंहश्च स महान् मुदे अस्तु। अत्रान्योन्यविलक्षणं पदभङ्गमनपेक्ष्य स- मानानुपूर्वीकशब्द प्रतिसन्धानबोध्यानेकार्थक्रोडीकरणादभङ्गश्लेषः।। अत्र केचित्-अनयोस्सभङ्गाभङ्गश्लेषयोः 'सर्वदोमाधवः' इत्यादौ सर्वदः सर्वदेति पददयस्य जतुकाष्ठन्यायेन संबन्धा- त्सभङ्गश्ेष३शब्दालङ्कारः, शब्दवृत्तित्वात्। अभङ्गश्लेषस्तु अ- बजकमलादिशब्देषु पदभेदाभावेन पद्दवयसंबन्धाभावाच्छव्दवृ- त्तितानुपपत्तेरेकस्मिन् शब्दे अर्थद्वयस्य वाच्यतया संवद्धत्वा- दयमेकवृन्तगतफलद्यन्यायेनार्थालङ्कार इत्याहुः॥ अन्ये तु-सभङ्गाभङ्गश्लेषौ द्वावपि शब्दालङ्कारावेव, शब्दा- न्वयव्यतिरेकानुविधायित्वात्। न तु सभङ्गश्लेषस्य शब्दाश्रित-

भ्यामेव व्यवस्थोपपत्तावतिरिक्तनियामकान्तरकल्पने गौरवात्। न चैवमभङ्गश्लेषस्यापि शब्दान्वयव्यतिरेकानुविधायितया श- व्दश्लेषत्वे अर्थश्ेषो निर्विषयस्स्यादिति वाच्यं, स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्। अहो सुसदृशी रीतिस्तुलाकोटे: खलस्य च।।

इत्यादौ यत्र स्वल्पेनोन्नतिमायातीत्यादिना शब्दपरिवर्तनेऽपि न श्लेषत्वभङ्ग:। तत्रैवार्थश्लेषपदवीसाम्राज्यादित्यवादिषुः ॥ कुवलयानन्द्कृतस्तु-उभयमप्यर्थालङ्कार इति। अय हि ते- षामाशय :- सभङ्गाभङ्गभेदेन द्विविधोऽप्ययं श्रेषोडर्थालङ्कार एव, - श्रयाश्रयिभावस्यैव लोकिकालङ्कारवत्तत्तदलङ्कारप्रयोजकत्वम्। लौ-

Page 181

168 अलंकारमणिहारे

किकालङ्कारो हि कङ्कणमञ्जीरादि: पाणिपादादिनिष्ठः पाणिपा- दाद्यलङ्कारतयैव व्यवहियते। इयमेव रीतिः काव्यगतालङ्गारे व्वपि। न च शब्दान्वयव्यतिरेकानुविधायित्वादस्य शब्दाल- झ्ारत्वमिति वाच्यम्। तथा सति सर्वेषामप्यलङ्काराणां तद न्वयव्यतिरेकानुविधायित्वेन शब्दालङ्कारताप्रसङ्गात्। न चाभ द्गश्लेषस्य एकवृन्तगतफलद्वयन्यायेन एकपदाश्रितार्थद्यनिष्ठत- यार्ऽर्थालङ्कारत्वं, सभङ्गस्य तु जतुकाष्ठन्यायेन शब्दद्वयसंश्षेषरू- पत्वाच्छव्दालङ्कारत्वमिति सर्वस्वकाराद्यक्तं युक्तं, 'अर्थभेदेन शब्दभेदः' इति मते 'अन्याय्यं चानेकार्थत्वम्' इत्युपपत्ति- कबळिते अभङ्गश्लेषेऽपि सभङ्ग इव शब्दभेदस्य दुर्निवारतया शब्दयोरेव श्ेवस्य सुवचत्वात्। अत उभयं शब्दालङ्कार इति वा सभङ्गस्य शब्दालङ्कारत्वमभङ्गस्यार्थालङ्कारत्वमिति वा मत- द्वयमप्ययुक्तम्। तस्मात् द्वयोरव्यर्थालङ्कारत्वमेव युक्तमिति। अन्ये तु-चमत्कारे अर्थमुखप्रेक्षित्वादुभयोरप्यर्थालंकारत्वं, अ- नुप्रासयमकादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषाय- र्थालंकारत्वं अपितु शब्दवैचित्र्याच्छन्दालंकारत्वमेवेत्यप्याडुः॥ काव्यप्रकाशानुयायी जगन्नाथस्तु-"श्रुत्यैकयाऽनेकार्थप्रति- पादनं श्ेष:। तञ्व द्वेधा-अनेकधर्मपुरस्कारेण एकधर्मपुरस्का- रेण च। आद्यं द्वेधा-अनेकशब्दप्रतिभानद्वारा एकशब्दप्रति- भानद्वारा चेति त्रिविधश्श्लेषः । तत्राद्यस्सभङ्ग: द्वितीयोऽभङ्ग इति वदन्ति। तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृत- मात्रप्रकृतमात्रप्रकृताप्नकृतोभयाश्रितत्वेन पुनस्त्रिविधः । तत्राद्ये भेदे द्वितीये च विशेष्यस्य श्विष्टतायां कामचारः । तृतीय- भेदे तु विशेषणवाचकस्यैव श्िलिष्टत्वं न विशेष्यवाचकस्य त- थात्वे शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात्। विशेषणमात्रश्ि-

Page 182

ल्लैषसरः (२८) 169

ष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्षेषः। प्रकृतध- मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्थं प्रकृत- मात्रविशेष्यकानेकार्थविशेषण यत्र स एक:। एवमप्रकृतेत्यादि

तीयः। एतद्न्यतमत्वं च लक्षणं पर्यवसितम्" इत्यभाणीत्। त- न्मतानुसारेण दिड्मात्रमुदाहियते- तत्राद्यः प्रकृतमात्रविषयस्सभङ्ग: श्रेषो यथा- जगदवति यस्य पाणिस्सुभव्यभावेत्रसत्तया दीव्यन्। शषाहार्यादरणो विष्वक्सेनस्स शमयता- छिघ्रान् ॥ ९३१॥ यस्य भगवतः पाणिः त्रसतो भावः त्रसत्ता न त्रसत्ता अत्रस- त्ता तया अनुद्विग्नतया सुभव्यस्य जगत्क्षेमस्य भावे प्राप्ती विषये 'भू प्राप्तावात्मनेपदी' इत्याधृषीयान्भ्वतेर्घञ्। दीव्यन् ज. गत् अवति। पक्षे यस्य भगवत्सेनाधिनाथस्थ विष्वक्सनस्य सुभव्या अतिरमणीया भा: दीप्तिर्यस्य सः पाणिः वेत्रस्य स- त्तया स्थित्या प्राशस्त्येन वा दीव्यन् जगदवति 'यद्वेत्रशि- खरस्पन्दे विश्वमेतद्वयवस्थितम्' इत्युक्तेः। शेषाहार्ये शेषाद्रौ आदरणं यस्य स तथोक्तः। पक्षे शेषे अनन्ते अहार्य इतरैर- नपनोदं आदरणं यस्य स तथा। स्वस्येव तस्यापि नित्य- सिद्धतया तस्मिन्नविच्छिन्नप्रीतिरिति भावः। सः विष्वक्सेनो भगवान् 'विष्वक्सेनश्चतुर्भुजः' इत्यमरः । पक्षे भगवत्सेनानीः विभ्नान् विद्यानिष्पत्तिविरोधिनोऽन्तरायान् ऐहिकश्रेयोन्तरायांश्र शमयतात्। 'शुकाम्बरधरं, यस्य द्विरद' इति पद्याभ्यामुभ- योरपि विग्नोपशमनार्थमुपास्यत्वाभिधानात्। अत्र भगवादविष्व ALANKARA II .22

Page 183

170 अलंकारमणिहारे

क्सेनयोरुभयोरपि प्रकृतत्वात् प्रकृतमात्राश्रितोऽयमेकया श्रुत्या प. दद्वय प्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्ग:।। विशेष्ययोरन्िष्टत्वेऽप्ययं संभवति, यथा- बहुधामरविद्रावणपरासुहृद्वाणभुजविततिलवि- ता। भृगुनेता रघुनेता यदुनेता वा ममाविता भविता ॥ ९३२॥ द्रावयतीति द्रावणः रवेः द्रावण रविद्रावणः। बहुना धा- स्ना तेजसा रविद्रावण: वहिनेव स्वर्णपिण्डं स्वतेजसा विला- पयतीत्यर्थः । महाप्रतापशालीति भावः। यथोच्यते मात्स्यादिषु पुराणेषु- योऽसौ बाहुसहस्त्रेण ज्याघातकठिनत्वचा। भाति रश्मिसहस्त्रेण शारदेनेव भास्करः॥ इति, सहस्रकरमत्येति सोऽयं करसहस्रवान्। तेजसा महता श्रीमान् कार्तवीर्योर्जुनो नृपः ॥ इति च । एवंविधो यः पर: विरोधी 'परोऽरिपरमात्मनोः' इति विश्वः। अर्थात्कार्तवार्य इत्यर्थः । तस्य असुहृतः रिपुप्राणाप- हारिण: बाणा: येषु ते असुहद्वाणाः। इदं च विशेषणं 'उ- त्ससर्जैकवेगेन पञ्चवाणशतानि यः' इत्येतदभिसंधायाक्तम् । असुहदां रिपूणां बाणप्राया इति वा। ये भुजाः सहस्रसंख्या- काः तेषां विततेः समूहस्य लविता छेत्ता। भृगुनेता भार्गवो रामः। पक्षे बहुधा अमरान्विध्यतातत्यमरवित्, विध्यतेः किप्। यो रावणः तस्य परेषां रिपूर्णां असुहृतः प्राणापहारिणो बा- णा: येषु ते तथोक्ताः भुजाः विंशतिसंख्याकाः तेषां विततेः

Page 184

श्लेषसरः (२८) 171

लविता रघुनेता भगवान् राघवः। अन्यत्र बहुधा अमराणं दे- वानां विद्रावणे दूरोत्सारणे परः आसक्तः असुहत् द्वेषी यो बाणः बालेसुतः तस्य भुजानां विततेः लविता यदुनेता भग- वान्वासुदेवो वा मम अविता रक्षिता भविता इति। अत्र त्रयाणां भगवदवताराणामपि प्रस्तुतत्वात्प्रकृतश्लेषस्सभङ्ग: अ- ्िष्टविशेष्यकः॥

अयमेवाभङ्गात्मको द्वितीयो यथा- दीव्यतु पुराणरत्नं दिव्यं मन्वन्तरप्रथितविभव- म्। वंश्यानुचरितगीतं सर्गप्रतिसर्गरचननिष्णा- तम् ॥ ९३३॥ मन्वन्तरेषु प्रथिता: विभवाः विभवावताराः 'मन्वन्तरा- वताराश्च विष्णार्ह्यशिरादयः' इति श्रीभागवताद्युक्ताः यस्य तत्। अन्यत्र मन्वन्तरानुवर्णनेन ख्यातवैभवम्। वंशे वेणौ भवं वंश्यं दिगादित्वाद्यत्। वंशनाळमित्यर्थः । तेन आचररित गीतं गानं येन तत्तथोक्तं वेणुगानरसिकमित्यर्थः। पक्षे वंश्यानां सू- र्यादिवंशजानां राजादीनां अनुचरितं चरित्रं गीतं उदारितं यस्मिस्तत् आहिताग्नयादेराकृतिगणत्वान्निष्ठायाः परनिपातः । सर्ग :-

भूतसूक्ष्मेन्द्रियार्थानां संभवस्सर्ग उच्यते॥ इति श्रीभागवतोक्तलक्षणा समष्टिसृष्टिः। प्रतिसर्ग :- पुरुषानुगृहातानामेतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्वीजं चराचरम्॥

Page 185

172 अलंकारमणिहारे

इत्युक्तलक्षणो महदादिसमाहाररूपचराचरादिव्याष्टसृष्टिर्विसर्गा- परपर्याया। तयोः रचने करणे निष्णातं कुशलम्। पक्षे स- रगप्रतिसर्गवर्णने कुशलं दिव्यं अप्राकृतं रमणोयं च पुराणं सनातनं रत्नं तत्त्वेनाध्यवसितं परं ब्रह्म। इतरत्र- सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च। वंश्यानुचरितं चेति लक्षणानां तु पञ्चकम् ॥ इत्युक्तपश्चलक्षणं पुराणश्रेष्ठं श्रीमद्वैष्णवं पुराणं तस्यैव 'निरमिमीत पुराणरत्नम्' इति पुराणरत्नत्वोक्तेः । दव्यतु दी-

रस्कारेणानेकार्थप्रतिपादनादभङ्गश्षः श्िष्टविशेष्यकः ॥ विशेष्ययोर्लिष्ठत्वे अभङ्गो यथा -- कमलाश्चितकरयुगळं कलशपयोराशिसंभव- स्थानम्। तनुतां श्रियममितां नस्तत्परमं ब्रह्म तत्कळत्रं वा ॥ १३४।। कमलैः अश्चितं पूजितं ततोऽपि श्राध्यं, कमलाश्यां अश्चितं युक्त च करयुगळं यस्य तत्तथा। कलशपयोराशि- संभवं तत्र विद्यमानं स्थानं निवासो यस्य कलशपयोराशि: संभवस्थानं जन्मगृहं यस्य च तत्तथोक्तम्। अत्र विशेष्ययोर- छ्लिष्टता ।। तृतीयश्शुद्धः प्रकृतमात्रविषयो यथा-

भाः। प्रेक्षामनघां वितरतु साक्षान्नारायणः पुरा- णमुनिः ॥९३५॥

Page 186

श्लेषसरः (२८) 173

धप्रतिपादनाच्छुद्धः। अयमेवार्थश्षेष इति वदन्ति। महाभार- लाख्यप्रबन्धविख्यातयशस्त्वं प्रावृषेण्यजलदनीलत्वं साक्षान्नारा- यणत्वमित्येतान्युभयत्राप्येकरूपाण्येव धर्माणि। 'कृष्णद्वैपायनं ज्यासं विद्धि नारायणं प्रभुम्' इति प्रमाणार्थोऽत्रानुसंहितः । अयं श्िष्टविशेष्यक्शुद्धः॥ अयमेव अश्विष्टविशेष्यको विशेषणमात्रन्लिष्टो यथा- कलशोदघिराजोदरकलितोदयमर्यमातिशायि- रुचि। हरिहृदयहारि रत्नं तच्च वघूरत्नमवतु मां प्रत्नम् ॥९३६॥ अर्यमातिशायिरुचीति लक्ष्मीविशेषणं तु :आदित्यवर्णे त- पसोऽधिजातः' इति श्रुतेः॥ एवमेते त्रयोऽपि भेदा: प्रकृतमात्रविषया: प्रदर्शिताः ॥ अम्रकृतविषया यथा-

तिः। जगदुल्लासिश्रीकृद्ढान्तध्वंसी तवौजसा भ- गवन् ॥ १३७॥ हे भगवन्! निरङ्कशं यथा स्यात्तथा ऊष्मणः अहः ऊ- ष्माहं ग्रीष्मर्तुदिनं 'राजाहः' इत्यादिना टच्। तस्मिन् वि- स्फुरन्त्य: प्रकाशमाना: हेतयः किरणा: येन यस्य वा स त- थोक्तः। 'स्फुरति स्फुलत्योनिर्निविभ्यः' इति षत्वस्य विक- ल्पेन विधानात् इह वीत्युपसर्गात्परस्य स्फुरतेस्सस्य न षत्वम्। 'ग्रीष्मोष्मवाष्पा ऊष्माणः, हेति्ज्वालायुधांशुषु' इति च रत्न-

Page 187

174 अलंकार मणिहारे

माला। अन्यत्र निरङ्गशोष्मेति भिन्नं पदं, अप्रतिहतौष्ण्य इत्य र्थः। हविषा आज्येन 'घृतमाज्यं हविः' इत्यमरः । र्फुरन्त्यः हेतयो ज्वाला; यस्य सः। जगत् उल्लासयति प्रकाशयति प्र- हर्षयति चेति जगदुल्लासिनी या श्रीः द्यतिः संपञ्च तां क- रोतीति तथोक्त। भानोर्जगत्प्रकाशकत्वं प्रत्यक्षसिद्धम्। वहने- स्संपत्प्रदत्वं च 'चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह, श्रियमिच्छेद्धताशनात्' इति श्रुतिस्मृतिप्रसिद्धम् । ध्वान्तध्वंसी इदमुभयत्र तुल्यार्थकम्। चित्रभानु: भास्कर: वहिश्च 'सूर्य- वहनी चित्रभानू' इत्यमरः । तव ओजसा निरधावि निर्धूतः। निःपूर्वकाद्धावतेः कर्मण लुडि चिण। अत्र पूर्वार्धे सभङ्ग: तृतीयपादे अभङ्ग ध्वान्तध्वंसीत्यत्र शुद्धश्च श्विष्टविशेष्यकोऽ- प्रकृतमात्रविषयक: श्रेषः ।

यथावा-

र्तिः। जगदाप्यायनवृष्टिस्तव श्रिया पर्यभावि प- र्जन्यः ॥। ९३८।। हे भगवन्! संपूर्णा अनूना भाः छविः यस्य स तथोक्त स्वः स्वकीयः यो दम्भोळिः वज्रायुधं तेन उज्ज्वलमूर्तिः । पक्षे संपूर्ण पूरित भास्वत् भासुरं यत् अम्भः पयः तेन अ- ळिः भ्रमर इव उज्ज्वलमूर्तिः तद्वच्छयामल इत्यर्थः । यद्वा संपूर्ण यथातथा भास्वत् अम्भो यस्य स तथा। अत एव अळ्युज्ज्वलभाः उक्तोऽर्थः । विशेषणोभयपदकर्मधारयः। मरुत्सु देवेषु महास्फूर्तिः अतिप्रकाशः, पक्षे मरुता वायुना महा- स्फूर्तिः अतिस्फुरणः अतिवेलचलन इत्यर्थः । 'स्फुर संचलने'

Page 188

श्लेषसरः (२८) 175

अस्मान्भावे किन्। जगदाप्यायनवृष्टिः इदं पक्षद्वयेऽपि तुल्यार्थ- कम्। 'निकामे निकामे नः पर्जन्यो वर्षतु, यदिन्द्रो वर्षते' इति द्वयोरपि वर्षप्रदत्वोक्तेः। पर्जन्य इन्द्रः ध्वनदम्वुद्श्च 'प- जन्यौ रसदब्देन्द्रौ' इत्यमरः। इदमपि तस्य पूर्वविशेषणवत् प्रावृषेण्यत्वसूचनाय। तव थरिया संपदा त्विषा च। पर्यभावि परिभूतः । अत्र विशेषणत्रये क्रमेण सभङ्गोऽभङ्गशशुद्धश्च श्षेष: केवलाप्रकृतविषयः श्लिष्टविशेष्यकः॥

परिभूतं हरिभासा कुवलयमम्भोदवलयमपि नी- लम् ॥ ९३९ ॥ ह्रादिन्या: नद्याः, पक्षे हादिन्या तटिता। अन्तः विलसन् 'तटिनी ह्रादिनी घुनी, ह्रादिन्यौ वज्रतटितौ' इति चामरः। अलं सारङ्गाणां भृङ्गाणां उल्लासदायी यो रसः मकरन्दः तं ददातीति सारङ्गोल्लासदायिरसदम्। पक्षे सारङ्गाणां चातकानां 'सारङ्गश्चातके भृङ्गे' इति शेषः। उल्लासदायि इदं भिन्नं प- दम्। रसत् अमलमिति छेदः। रसत् गर्जत् अमलं अकलुषं अतिस्त्निग्धमित्यर्थः। नीलं कुवलयं इन्दीवरं अम्भोदवलयं च हरिभासा परिभूतम् । अत्र प्रथमे पादे अभङ्गः द्वितीये सभङ्ग: नीलमित्यत्र शुद्धश्च श्वेषः अश्िष्टविशेष्यक: ॥ प्रकृताप्रकृतोभयविषयो यथा- हृद्यमहापद्मश्रीर्नीलरुचिः कुन्दसहजवरशङ्ग:। धनद इव कनति शौरिवियहुनीविमलवृषगिरी- शाप: ॥९४०॥

Page 189

176 अलंकारमणिहारे

हृद्या वक्षरस्था महापद्मा महती पूज्ये पझे करधृते य- स्यास्सा तथोक्ता श्रीः यस्य स तथोकः। पक्षे हृद्या हृदय- प्रिया महापद्मश्रीः महापद्माख्यनिधिसंपत् यस्य सतथा। नी- ला रुचिर्यस्य नोले नीलनास्ति निधौ रुचिः अभिलाषो य- स्येति च । कुन्दसहजः कुन्दकुसुमसददशः तद्वद्धवलः वरः श्रेष्ठः शङ्: पाञ्चजन्यो यस्य स तथोक्त, पक्षे कुन्दनिधेस्स- हजौ तत्सहावस्थायिनौ वरशङ्गौ तन्नामानौ निधी यस्य स तथा। वियद्धन्या आकाशगङ्गया विमलः विगमितजगत्कलुषो यो बृष इति गिरीश: अद्रिवरः तैन आप्ः प्राप्तः सः आप्तो येनेति वा। पक्षे वियद्धुनी गङ्गेव विमलो विशद: वृष: वृ- षभो यस्य स तथोक्त। गिरीशो रुद्रः आप्तः प्रत्ययितो यस्य सः तस्याप्त इति वा 'आप्प्रत्ययितौ समौ' इत्यमरः । 5प'- म्बकसख इत्यर्थः। भगवात् श्रीनिवासः धनदः कुबेर इव क नति दीप्यते। अत्र प्रकृताप्नकृतयोः भगवद्धनद्योरशव्िलिष्ठत्वा- द्विशेषणानां च श्िष्टत्वान्वति तृतीयो भेदः । परं त्वयमुप- मया संकीर्ण: । यदि च भगवान् धनदो विलसतीति पठित्वा अप्रकृतांशमपि श्ेषग्रस्त विधाय रूपक क्रियते तदाऽपि प्र. कृतविशेष्यस्य शौरेराश्रीलष्टत्वादखण्डित एव श्वेषः । न चात्र समासोक्तिरिति भ्रमितव्यं, अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात्। यत्र त्वप्रकृतव्यवहार एव शब्दशक्ति सहेतापि न त्वप्रकृत- धर्मी तत्र समासोक्तेरिष्टेः॥ अत्र विचार्यते-अय चालंकार: प्रायेणालंकारान्तरस्य वि- षयमिनिविशत। तत्र किमस्य बाधकत्वं स्यात् आहोस्वि- त्संकीर्णत्वं उताहो बाध्यत्वमिति। अत्राहुरुन्द्रटादयः-"थेन नाप्राप्ते य आरभ्यते स तस्य वाधकः" इति न्यायेनालंकारा-

Page 190

लैषसरः (२८) 177

नतरविषय। एवायमारभ्यमाणोडलंकारान्तरं बाधते न चास्य वि- विक्तः कश्चिदस्ति विषयः। यत्र लब्धावकाशो नेतरं बाधेत। तथाहि - अप्रकृतमात्रयोः प्रकृतमात्रयार्वा तावत्तुल्ययोगितैव जा- गर्ति प्रकृताप्नकृतयोस्तु दीपकम्। तदनुमोदिता उपमादयश्च। न च- देव त्वमेव पाताऽलमाशानां त्वं निबन्धनम्। त्वं चामरमरुद्दूमिरतो लोकत्रयात्मकः॥ इत्यादिकाव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यं, रूपक- स्यैवात्र स्फुटत्वात्। श्रेषोपस्थापितपातालाद्यर्थस्याभेदारोपम- न्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात्। कथं तर्हि 'नदीनां संपदं बिभ्रद्राजाऽयं सागरो यथा' इत्यादावुपमायाः प्रत्ययः। कथं वा तत्रैव यथाशब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः । अपर इति कृते च रूपकस्योति चन्न। अन्र हि उपमादीनां प्रतिभानमात्रं, न तु वास्तवी स्थितिः। न हि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति। तस्मादुपमादिप्रतिभोत्प- त्तिहेतुश्श्ेष एव स्वविषये सर्वत्रालंकार इति॥ एतच्चापरे न क्षमन्ते, तथाहि-यत्तावदुच्यते येननाप्राप्ते इत्यादि तत्र 'सर्वदोमाधवः पायात्स योऽगङ्गामदीधरत्' इत्या- दिपरकीयपद्ये, गारविताऽSसच्छ्रीरिह नित्यं हद्याहितासुहललेखा। येन स वृषाचलाहितधामा देवाधिनायको जयति ॥ इति प्रागुदाहतेऽस्मदीयपदये च श्रेपातिरिक्त: कोऽलंकार :? न तावत्तुल्ययोगिता, विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गस्यत्वाभावात्। सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशे- व्यया: पृथगुपादाने सादृश्यप्रत्ययनियमे च लब्धपदा भवति। ALANKARA II 23

Page 191

178 अलंकारमणिहारे

न हीह हरिहरयोर्भगवदिन्द्रयोर्वा सादृशयं प्रतिपिपादयिषितम्।

षयति। येनालंकारान्तरमभ्युपगच्छेम। एकश्रुत्याऽथदयोपादानं तु श्ेष एव। एवंच सावकाशत्वाच्छलेषस्य नालंकारान्तरा- पवादकत्वं युक्तम्। अत एव उपमादीनां प्रतिभानमात्रमिति यद्डुक्तं तदपि न संगत गुणक्रियादेरिव शब्दमात्रस्यापि स- मानधर्मत्वेनोपमार्या तावद्वाधकाभावात्। अत एव 'सकलकलं पुरमेतजातं संप्रति सुधांशुबिम्बमिव' इत्यत्र शब्दमात्रसास्येS- व्युपमेति सांप्रदायिकाः। तदुक्तं रुद्रटेन- स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किंतु। आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः। इति। एवमेवालंकारान्तरस्यापि श्रेषविषये पारमार्थिक्येव स- त्ता न प्रातिभासिकी। प्रत्युत श्ेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तं पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणा- क्रान्तत्वान्निरवकाशतयाऽस्य सावकाशस्य स्वविषये बाधौचि- त्यात्। 'समरार्चितोऽ्यमराचितः' इत्यादौ श्ेषस्य तैमिरिक- चन्द्रद्वयवत्प्रतिभानमात्रमेव। न त्वलंकारत्वं तज्जवातोर्द्विती- यार्थस्याप्रतिष्ठानात्। विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्षेषस्येति स्फुटमेव। तस्मादेधमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः। न तु विरोधप्रतिभयोत्पाद्यरश्ष्ेषः । एवं- सद्वंशमौक्तिकमणे विद्न्मानससारस। नाल्पः कविरिवास्वच्छश्षोको देव महान्, भवान्।। इत्यत्र पूर्वार्धे श्रेषप्रतिभयोत्पाद्यं रूपकमेव, न तु रूपकप्रति- भयोत्पाद्यशश्लेष:। उत्तरार्धे व्यतिरेकोऽप्येवम्। किंच प्रत्येकं तत्तदरूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्रेषविषये नाप्रा-

Page 192

लेषसर: (२८) 179

प्रत्वम्। अलंकारान्तरत्वपुरस्करेणोत चेत् एवं ताहै बाध्य- सामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्य बाधापत्तौ छ्विष्ट- परंपरितरूपकस्य श्िष्टसमासोक्तेश्रोच्छेद एव स्यात्। तस्मात् श्लेषस्य नापवादकत्वं संकीर्णत्वं तु स्यादिति॥ अन्ये तु -अलंकारा हि प्राधान्येन चमत्काराधायका: स्वां- स्वामाख्यां लभन्ते। त एव परोपकारकतया वर्तमानास्तां त्य- जन्ति। यथा-'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे ह रिणाङ्कबिम्बम्' इत्यत्र प्रकृताप्रकृतात्मनामेकधर्मसंबन्धो दीप- काख्थां लभते। त्यजति च 'राजते वदनं तन्व्या नभसीव निशाकर:' इत्यत्र। अत एवोच्यते 'प्राधान्येन व्यपदेशा भ- वन्ति' इति। एवंचालंकारान्तरोपस्कारकतया स्थितशश्ेषः क- थंकारं स्वगृहस्थ इव श्ेषालंकारव्यपदेशं वोदुमीष्टामिति बा यप्राय एवेत्यप्याङ्कः॥ अयं चोपमेव म्वतन्त्रोऽपि तत्रतत्र सर्वालंकारानुग्राहक- तया स्थितस्सरस्वत्या नवंनवं सौभाग्यमावहन्नानाविधेषु ल- क्ष्येषु सहृदयैर्विभावनीयः ॥ इदं चावधेयम्-यत्र प्रकृताप्नकृतयोविशेष्ययोरपि श्िष्ट- पदोपात्तत्वं स तुध्वनोर्वैषय इति प्राञ्चः। तथाहि-प्रकृताप्न- कृतश्लेषोदाहरणे 'असावुदयमारूढः' इत्यादौ न श्रेषोऽलंकार, अर्थद्वयस्याभिधाव्यापारण तुल्यवृत्तिकत्व एव तस्योन्मेषात्। अत एव प्रकृतश्लेषे अप्रकृतश्लेषे च प्रकरणादीनामभिधानिया मकानामभावादर्थद्वयेऽपि शब्दस्य तुल्यवृत्तित्वात् श्रेषालंकारः। इह तु प्रकृतार्थे प्रकरणादिना नियन्त्रितायास्तस्या अप्राकर- णिकेऽर्थे कुण्ठितप्रसरतया शब्दो व्यञ्ञनया वृत्त्या तमर्थमवगम- यतीति शब्दशक्तिमूलानुरणनतुल्यव्यङ्गयध्वनिः ॥

Page 193

180 अलंकारमणिहारे

भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्लुतगनेः परवारणस्य दानाम्बुसेकसुभगस्सततं करोऽभूत्॥ - अत्र नृपे कस्मिश्चिद्वर्ण्यमाने भद्रात्मन इत्यादिविशेषणैर्म- ङ्गळात्मकस्य विशालकुलोन्भ्वस्यानेकशरसंग्रहशालिन प्रत्यार्थ- निवारकस्य राज्ः पाणिरभूदिति प्रकृतवाक्यार्थे प्रकरणसनाथे- नाभिधाव्यापारेण शब्दतः प्रतीते पश्चाद्मद्वादिपदसामर्थ्यमहिस्ता

कर इत्यप्रकृतगज/दयर्थस्य प्रतीतिस्तावदनुभवसिद्वा। सा च नाभिधाव्यापारेण, प्रकरणादिना तस्य नियन्त्रणात्। अतो व्यञ्जकव्यापारेण तत्प्रतीतिरित्यप्राकरणिकार्थस्य व्यङ्गचतया शब्दशक्तिमू लानुरणनोपमाव्यङ्गचध्वनिरिति मम्मटोपाध्यायादयः। दीक्षितास्तु-प्रकरणादिना प्रकृतार्थाभिधानपर्यवसाने अ- प्रकृताभिधाने वाक्यस्यासंबद्धार्थकत्वं मा प्रसांक्षीदिति तेन प्रकृतार्थस्योपमा व्यज्यते इते शब्दशक्तिमूलानुरणनव्यङ्गया सेति तेषामाशय इत्यभिप्रयन्तः "यदत्र प्रकृताप्रकृतश्लेषोदाह- रणे शब्दशक्तिमूलध्वानेमिच्छन्ति प्राश्चः तत्प्रकृताप्रकृताभिधा- नमूलकस्योपमादेरलंकारस्य व्यङ्गचत्वाभिप्राया, न त्वप्रकृतार्थ स्यैव व्यङ्गयत्वाभिप्राया, अप्रकृतार्थस्यापि शब्दशक्तया प्रति- पादस्याभिधेयत्वावश्यंभावेन व्यक्त्यनपेक्षणात्। यद्यपि प्रकृतार्थे प्रकरणबलाज्झडिति बुद्धिस्थे सत्येव पश्चान्तृपतितद्गाह्यधनादि-

न्तरोन्मेषपूर्वकमप्रकृतार्थस्स्फुरेत्। नैतावता तस्य व्यङ्गयत्वम्। शक्त्या प्रतिपाद्यमाने सर्वधैव व्यक्त्यनपेक्षणात् पर्यवसिते प्र-

Page 194

श्लेषसरः (२८) 181

कृतार्थाभिधाने पश्चात् स्फुरतीति चेत् कामं गूढक्षेषो भवतु। अस्ति चानतापि गूढश्लेषः" इत्युक्त्वा 'अयमतिजरठाः' इ- त्यादिकं गूढश्ेपतयोदाहार्षुः ॥ अयं हि तेषामाशय :- प्रकरणेन प्रकृतार्थतात्पर्यग्रहेण त. द्रोचरशब्दबोधे जनिते पश्चादप्रकृतार्थस्य बोधोदयात्कुतो न व्यङ्गयत्वमिति न शङ्कनीयम्। पश्चात्तत्तदर्थगोचरशक्त्यन्तरो- न्मीलननाप्रकृतार्थस्य स्फुरणेऽपि न व्यङ्गयत्वम्। पश्चात्प्रती त्या हि गूढश्लेष इति भण्यत इति॥

त्वे द्वितीयस्मिन्नर्थे यत्र नाभिधा संक्रामति तत्रापि यदि सं- कामकशब्दसमभिव्याहारस्स्यात् तदा प्रकरणादेस्तेन कुण्ठन- शक्तौ प्रतिहतायां पूर्व वाधिताउप्यमिधाशक्ति: प्रतिप्रसूयत इति तथा अप्रकृतार्थस्फूर्तिरिति नासौ ध्वनोर्विषयः । यथा- इह पद्मिनी सुहसिता कामयते स्वप्रियं रमा- वासम्। इति निशमयन्नुपश्रुतिमिच्छुः पद्मावतीं हरिरमुमुदे॥ ९४१। इदं हि प्रत्यूबे प्रफुल्लां कमलिनीं विलोक्य केनचित्कंचि- त्प्रति कथितं पमिन्याख्यायामाकाशराजपुत्रयामनुरक्तस्य तत्स- मागम: कथं स्यादिति चिन्तयतो भगवतशश्रीनिवासस्योपश्रु- तिरूपं सदानन्दावहमासीदित्यतदर्थप्रतिपादकं वचनम्। अत्र सुहासता सम्यग्विकासता प्मिनी कमलिनीलता स्वस्य आ- त्मनः प्रियं अभाष्टं रमायाः श्रियः वासं स्थिति कामयते अभिलष्यतीत्यर्थे प्रकरणादिना यद्यप्येते नियमिताभिधाइसब्दाः, तैथाऽपि सा द्वितीयस्मिन्नर्थे विवरिष्यमाणे निरुद्धा सती उप-

Page 195

182 अलंकारमणिहारे

श्रुतिमित्यनेन शब्दन प्रत्युज्ीविता । इह सुहसिता समन्द- स्मिता पझमिनी आकाशराअतनया पझ्मावत्यपरनामा पझ्मिनी रमावासं भगवन्तं श्रीनिवासं स्वप्रियं स्ववल्लभं कामयते स्व- वल्लभो भूयादित्यभिलष्यतीति द्वितीयोऽर्थः प्रकरणादिना निरु- द्वाभिधाशक्तिकशब्दप्रतिपाद्यमानो ध्वनिपथगमनाय प्रस्थित उप- श्रुतिशब्देन सूचिततया ततो. गळहस्तितोऽभिधाव्यापारमासाद्य वाच्यतामापन्नश्श्लेषालंकारविषयः । अन्यत्र तु तादृशाभिधा- प्रत्युजीवनाभावे अर्थान्तरध्वनिपद्धतिमध्यास्ते" इति वदन्ति॥ अयमलंकारान्तरासंकीर्णतया श्लेषस्य विविक्तो विषयोऽपि भवति। न चात्राप्रस्तुतप्रशंसाशङ्का, कस्यचिद्वचने कमलनी- वृत्तान्तस्य प्रकृतत्वेनाप्रस्तुतेन प्रस्तुतस्य गम्यत्वाभावात्। न च तर्हि प्रस्तुतेनाप्रस्तुतस्थ गम्यत्वात्समासोक्तिरस्त्विति वाच्यं, प्मिनीति विशेष्यस्यापि श्िष्टत्वेन तदनवतारात्। नापि प्र कृताप्नकृतयोरेकधर्मसंबन्धाद्दीपकमस्त्विति वाच्यम, उदासीनस्य कस्यचिद्वक्तु: प्रकृताप्रकृतयोधमैक्यस्य विवक्षावैघुर्यात। प्र- कृताप्रकृतयोर्विशेष्ययोः पृथगनुपादानाञ्च। तत्तु तयोः पृथगु- पादान एबोन्मिषति। नापि गूढोक्तिः, अन्योद्देशेनान्यं प्रति कथनस्यात्राविवक्षणात्। तस्मादयं श्ेषस्यैव विविक्तो विषय इति दिक्। विस्तरस्तु प्राचां निबन्धेषु द्रष्टव्यः॥

इत्यलंकारमणिहारे श्लेषालंकारसरोऽष्टवंशः

Page 196

श्लेषसरः (२५) 183

अथाप्रस्तुतप्रशंसासरः.

प्रस्तुतविशेषणसाम्यमाश्रेत्य समासोक्तिर्निरूपिता। तत्प्र- सक्त्या विशेषणाश्रयपरिकरादिकं निरूपितम्। अधुना पुनस्तद्वै- परीत्येनाप्रस्तुतप्रशंसोच्यते- स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम्। अप्रस्तुतपशंसाख्या सैषाSलंकृतिरुच्यते॥८५॥ यत्राप्रस्तुतवृत्तान्तवर्णन प्रस्तुतवृत्तान्तमवगमयति सैषा अप्रस्तुतप्रंशसाच्यते। समासोक्तौ तु प्रस्तुतेनाप्रस्तुतप्रतीतिरिति विशेषः । प्रशंसनं चात्र वर्णनमात्रं न तु स्तुतिः 'अन्तरछि- द्राणि भूयांसि कण्टका बहवो बहिः' इत्यादावव्याप्त्यापत्तेः॥ कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः । समे समस्य चेत्येवं सैषा भवति पश्चधा ॥८६॥ अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगातश्च संबन्धे सति भव- ति। संबन्धश्च कार्यकारणभावः सामान्यविशेषभावः सारूप्यं वा संभवति। सप्तम्यन्तेषु पदेषु प्रस्तुते इत्येतदन्वोति। अ- न्यगी: तदन्योक्तिः। तथाच कार्ये प्रस्तुते कारणस्य, कारणे प्रस्तुते कार्यस्य, व्याप्यव्यापकशब्दौ विशषसामान्यपरौ। वि- शेषे प्रस्तुते सामान्यस्य, सामान्ये प्रस्तुते विशेषस्योक्तिरिति चत्वारो मेदाः। समे प्रकृते समस्येति पञ्चमः।यदाहु :- कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्यं तुल्यस्योति च पञ्चधा॥

Page 197

184 अलंकारमणिहारे

इति। तत्र कार्यें प्रस्तुते कारणस्योक्तिर्यथा- हृतसर्वस्वा सरसिजराजी मुरवैरिमुखकृते विधिना। तामरसतां दधानां तदाहुरेनामुदारतर- घिषणाः ।।१४२।।

तत् तस्मात् तामेनां सरसिजराजीम्। अरसतां नीरस- तां निस्सारतामिति यावत्। पक्षे तामरसतां तामरसत्वं द- धानां आहुः। स्फुटमन्यत्। अत्र कमलराजीगततया संभाव्य- मानेन श्रीनिवासदिव्यवदनारविन्दनिर्माणार्थ सारांशहरणेन त- त्कारणेन तत्कार्यरूपो वर्णनीयतया प्रस्तुतश्श्रीनिवासदिव्यवद- नारविन्दगतो लोकोत्तरसौन्दर्यसौगन्ध्यसौकुमार्यादिविशेषः प्र- तीयत इति कारणनिबन्धनाप्रस्तुतप्रशंसेयम्। श्रषातिशयोक्ति- संकीर्णा ।।

यथावा- सारहरणाय खाता वाताशनगिरिचिकीर्षुणा विधिना। देवेन निखिलशैलास्तन्ननमनन्तदेव- खातबिलाः ॥९४३।।

अत्राप्रस्तुतनिखिलशैलनिष्ठतया संभाव्यमानेन शेषाद्रिस- जनार्थसारांशहरणेन प्रस्तुतश्शेषाद्रिनिष्ठः कोऽपि निखिलकुला- चलातिशायिमहिमातिशयः प्रतीयते। अनन्तानि अपररिच्छिन्ना- नि देवेन देवैश्च खातानि बिलानि येषां ते 'देवखातबिले गुहा' इत्यमरः। देवखातबिलशब्दी व्यस्तौ गुहावाचिनाविति केचचित्। समस्त पवायं देवखातबिलशब्दस्तद्वाचीत्यन्ये।।

Page 198

अप्रस्तुतप्रशंसासरः (२८) 185

यथावा- द्युतिसर्वस्वं तटितामादय विधिस्तवाम्ब तनु- मतनोत्। क्षणरुचयो विद्युत इति ता एता जग- दिरे ततः कविभिः ॥ ९४४ ॥ क्षणरुचयः अत्यल्परोचिषः अनुपद्दमेव विगता दुत् द्यु- तिर्यासां तास्तथोक्ता: विशेषेण द्योतमाना इति वस्तुस्थितिः॥ एवम्- तव दिव्यवपुस्स्रष्टं हृतसारो वेधसाऽहिशैल- मणे। नूनं हरिमणिरखिलो विदिता सुतरामसार- ताऽस्य ततः ॥ १४५। इत्यत्रापि कारणनिबन्धनाSप्रस्तुतप्रशंसा द्रष्टव्या। सुतरां असारता निस्सारता। सुतरा अतिशोभना मसारता मसार- नामतेति वस्तुस्थितिः। 'मसार इन्द्रनीले स्यात्' इत्यवोचाम प्रागेव ।। कारणे प्रस्तुते कार्याभिधानं यथा- आदौ सुमुखा विबुधैरानीता तत्पुरस्सरत्वम- पि। पश्चाद्गीतौदार्यात्तवसुरभिरगाद्विसर्गमेवान्ते॥ हे भगवन्! सुरभि: कामगवी आदौ त्वन्महौदार्यनिशम- नात्पूर्व सुमुखा पृथग्जनवर्ण्यमाननिजवादान्यकोत्कर्षनिशमनज- नितहर्षमूलकसौमुख्यशालिनी। पक्षे सुरभिशब्दे स्ववाचके आ- दौ सुः सुवर्णः मुखं प्रधानं यस्यास्सा 'मुग्नं प्रधाने प्रारम्भे वक्रे निस्सरणेऽपि च' इति रक्षमाला। तत् सुमुखात्वादव ALANKARA II 24

Page 199

186 अलंकारमणिहारे

हेतोः विबुधैः गुणज्ञैः देवैः पुरस्सरत्वं वदान्याग्रेसरत्वं पुर- स्कारं वा आनीता प्रापिता। अन्यत्र तत्पुर इति समस्तं प. दम्। तस्य सुवर्णस्य पुरः अग्रतः अनन्तरमित्यर्थः । सरत्वं रेफसाहित्यं आनीता। पश्चात् तव श्रीनिवासस्य भवतः औ- दार्यात्। 'य आत्मदा बलदा' इत्यादिश्रुतिभिः 'तदन्यः को महोदारः' इत्यादिपुराणवचनैश्च जेगीयमानादिति भावः। भी- ता निजौदार्यप्रथाकुण्ठनसंभावनाञ्रस्ता। पक्षे पश्चात् रेफान- न्तरं औदार्यात् निरर्गळत्वादिति यावत्। भीता भिवर्णेन इता युक्ता। अत एव अन्ते भयदर्शनादनन्तरं विसर्ग एवं त्रस्ता नास्माभिस्संभावनीयेति विबुधकृतं विसर्जनं अगात् त्यक्ताS- भूदित्यर्थः। पक्षे अन्ते स्ववाचकशब्द्वान्ते विसर्ग विसर्जनीयं अगात। सुरभिरिति शब्दस्य तथान्वादेवमुक्तम्। अत्राप्रस्तु- तेन औचित्यात्संभाव्यमानेन सुरभिभयादिकार्येण तत्कारणभूतः श्रीनिवासमहौदार्यस्यानितरसाधारणो महिमा प्रत्याय्यत इतीयं कार्यनिबन्धनाप्रस्तुतप्रशंसा श्रेषातिशयोक्तिसंकार्णा।

यथावा-

विहरन्त्या दिवि भ्रवतः कीर्तिमराळया प्रसूत- मवदातम्। पेशीनिवहं मन्ये तारासमुदयमिमं मुराराते ॥ ९४७॥

पेशीनिवहं अण्डनिकरं 'पेशीकोशो द्विहीनेऽण्डम्' इत्य- मरः। अत्राप्रस्तुतस्य तारासमुदयस्य भगवत्कीर्तिहंसीप्रसूतपे- शीनिवहत्वोत्प्रेक्षणेन तत्कारणीभूतप्रस्तुतभगवत्कीर्तिधावळ्याति- शयो लोकोत्तर इति प्रतीयते।।

Page 200

अप्रस्तुतप्रशंसासरः (२८) 187

यथावा- अन्तर्वत्नया फणिगिरिशिरोमणे रोचिषां प्र- रोहेण। एते द्यवा प्रसूता: पोतास्स्फीता घनाघ- नव्राताः ॥ ९४८॥ भगवतो रोचिषां तेजसां प्ररोहेण अङ्करेण अन्तर्वलया गर्भिण्या द्यवा दिवा 'दयोदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः। स्प- ष्टमन्यत्। अत्राप्यप्रस्तुतानां घनाघनवरातानां भगवत्तनूरुचिप्र- रोहगार्भतद्योप्रसूतार्भकत्वेन संभावनात्तत्काराणीभूतभगवत्तनुरु- चिप्ररोहेऽत्युत्तमश्यामलिमभूमा प्रत्याय्यते। समासोक्तिसंकीर्णे- यम्। पूर्वा तु रूपकसंकीणा॥ यथावा- अब्धौ समुद्रवन्त्या श्रियः प्रसूमराः पदाब्ज- रुचिकणिकाः । अन्योन्यतरङ्गहतिपुञ्जीभूता: प्र- वाळतां याताः ॥ ९४९॥ अत्रावतारसमये जलधी प्रसृतानां श्रीमहालक्ष्मीचरणार- विन्दरुचिकणिकानामन्योन्यतरङ्गास्फालनवशेन सूक्ष्मतमसिकता- फनलवादिवत्पुञ्जीभूतानां परिणामतया संभाव्यमानाभि: प्रवा. ळलताभि: कार्यभूताभिस्तत्कारणभूतश्रीिरणारविन्दरुचेस्सर्वाति- शाय्यरुणिमभूमा प्रतीयते।। यथावा- शौरे भवत्प्रतापात्क्षोदिष्ठौ हौ स्फुलिङ्गकौ र्फु- टितौ। वियति रविस्तत्रैकः पयसि पयोधेः पर- स्तु बडबाग्निः॥१५०।।

Page 201

188 अलंकारमणिहारे

अत्राप्रस्तुतयो रविबडबानलयोर्भगवत्प्रतापकार्यभूतस्फुलिङ्ग- कत्वोत्प्रिक्षया प्रस्तुते तदुपादानकारणभूते भगवत्प्रतापे अनन्त- कोटिसहस्रांशुबडबानलातिशाय्यौज्ज्वल्यं गम्यते। अत्र प्रतापस्य महाभ्नित्वं गम्यते।।

यथावा ब्रह्माण्डभाण्डपूर्णे भगवन्भवदीयशुभयश्ञःपय- सि। विलसन्ति बुहुदा इव तारा राराष्टि फेनव- ज्ज्योत्स्ना ॥ १५१ ॥ अत्राप्रस्तुतानां ताराज्योत्सानां भगवद्यशोदुग्धकार्यभूतवु- द्वदफेनत्वसंभावनेन प्रस्तुतस्य भगवद्यशोदुग्धस्य निरतिशयो वैशधविशेषः प्रतीयते। यथावा- च्यावितवरवर्णस्त्वद्यगसा कथमप्यधश्शिरा निपतन्। विन्दति वृषशैलेन्दो विभावरीशइश- रीरभावित्वम् ॥ ९५२ ॥ हे वृषशैलोन्दो! अनेन प्रसिद्धन्द्वपेक्षयाऽस्य वैलक्षण्यं गम्यते। विभावरीशः चन्द्रमाः त्वदशसा च्यावितः च्युतिं प्रापितः वरः श्रेष्ठः वर्णः धवलिभा यस्य स तथोक्तः वैवर्ण्य प्रापित इत्यर्थः । यशसा च्यावितवर्णत्वकथनेन क्ीबपराभूतता- द्योतकेनातिमात्रदुस्सहदुःखत्वं द्योत्यते । अत एव अधश्शिरा: निपतन् सन् चन्द्रमसोऽस्ताचलाभिमुख्यावसरे विपर्यस्ततया वश्यमानत्वादधश्शिरोनिपतनोक्तिः। कथमपि दूरगमनादियत- गौरवेणेत्यर्थः । 'कथमादि तथाऽप्यन्तं यत्नगौरवबाढयोः' इत्यु-

Page 202

अप्रस्तुतप्रशंसासरः (२८) 189

त्पलमाला। शरीरभावित्वं शरीरसत्तां विन्दति। 'सतां माने म्लाने' इत्युक्तरीत्या शर्रीरत्यागावश्यंभावेऽपि तमकृत्वा 'अथवा दूरगमनम्' इति द्वितीयपक्षावलम्बनेन शरीरमधार्षीदित्यर्थः । पक्षे-विभावरीशशब्दः अधश्शिराः निपतन् प्रतिलोमतां प्रपद्य- मान इति यावत्। च्यावितः च्युति प्रापितः वः वकारः येन स तथोक्तः रवर्ण: रेफः यस्मिस्तथोक्त इति बहुर्वीहिगर्भों ब- हुव्रीहिः। वकारमुत्सार्य तत्रैव रेफः प्रापित इत्यर्थः। शरीर- भावित्वं शरीरभावीत्यानुपूर्वामत्त्वं विन्दाते। विभावरीशशब्द- स्योपपादितरीत्या तथा निषत्तेरिति व्येयम्। शब्दार्थयास्तादा- त्म्यं तु न विस्मर्तव्यम्। इह विभावरीशस्योपमानभूतस्याप्र स्तुतत्वम्। भगवद्यशासश्चोपमेयभूतस्य प्रस्तुतत्वम्। तथाच विभावरीशगतेन च्यावितवरवर्णत्वादिसंभावनावशोन्मिषितेना- प्रस्तुतेनातिमात्रनिस्तेजस्कतारूपकार्येण किमपि लोकोत्तरं यशो- गतमवदातत्वं प्रस्तुतमेव प्रतीयते। अत्र कार्यकारणभावः प्रयो- ज्यप्रयोजकरूपः। एवमुत्तरत्राप्यस्मिन् प्रकरणे यथायोगं द्रष्टव्य:।

यथावा- फणधरधराधरेश्वरकनदधररुचा प्रपद्य मुखभ- ङ्नम। विद्रुमनिवहो जलधौ विना मुखेनैव ली- यते सततम् ॥ १५३ ॥ मुखभङ्गं पराभवम्। मुखेन विनैवेति लोकोक्ति: । मुख दर्शायतुमक्षम पवेति भावः। पक्षे विना वि इत्याकारकवर्णेन मुखेन मुख्यभूतेन उपलक्षितः विद्रुमानवहः। वाच्यवाचकयो- स्तादात्म्यम्। अत्र भगवद्धररुचिप्राप्तमुखभङ्गप्रयोज्यतया सं- भाव्यमानमप्रस्तुतं विद्रुमनिवहस्य जलधिनिलयनरूपं कार्य त-

Page 203

190 अलंकारमणिहारे

त्कारणभूतप्रस्तुतश्रीनिवासाधरमणिशोणिमातिशय प्रत्यायकमिती- यमपि कार्यनिबन्धनाऽप्रस्तुतप्रशंसैव ॥

यथावा- प्रथमं मधुरिमभूम्ना प्रथिता मधुमथनविधुमु- खि मधूळी। त्वदधरसुधाविधूता धूळयभवत्प्रथम- भूमविधुरतया ॥ १५४ ॥ हे मधुमथनविधुमुखि! भगवद्वल्लभे! इद च मधूळीवि- धूननपाटवमदसीयाधरसुधाया अभिव्यनक्ति। प्रथमं अधरसु- धाकर्तृकविधूननात्पूर्व मधुरिमभूम्ना माघुर्यातिशयेन प्रथता म- धूळी मकरन्दः त्वदधरसुधाविधूता सती प्रथमः आदौ स्थितः यो भूमा माधुर्योत्कर्षः तेन विघुरतया विल्लिष्टतया धूळी पां- सुभूता अभवत् निस्साराऽभूदिति यावत्। पक्षे-प्रथमं भव- तीति प्रथमभू : आदौ विद्यमान: यो मः मवर्णः तेन विघुरतया धूळीति निष्पन्ना मधूळीशब्दो मकारोत्सारणे तथा निष्पद्यत इत्यर्थः । अत्र संभाव्यमानाप्रस्तुतमधूळीघूळीभवनरूपकार्येण त.

तिः। अत्रापि कार्यकारणभावः प्रयोज्यप्रयोजकभावरूप एव। श्लेषसंकीर्णत्वं पूर्ववदेव।

यथावा- त्वद्वतिलीला ऽवमतस्सेवित्वाSलं विषं जगज्ज- ननि। क्षीबोऽपि राजहंसः क्वीबत्वं प्रथयति स्म साध्वेव ॥ १५५ ॥

Page 204

अप्रस्तुतप्रशंसासर: (२८) 191

हे जगजननि! राजहंस क्षीवः मत्तोऽपि त्वद्गतिलीलाऽ- वमाननात्प्रागिति भावः ! त्वद्गतिलीलया अवमतः । अनेन स्त्रीपराजितत्वद्योतकेनातिमात्रदूनत्वं व्यज्यते। अत एव विषं गरळं जलं च अलं पर्यात्तं यथा स्यात्तथा सेवित्वा पीत्वा, पक्षे-विगळितषकारं यथातथा सेवित्वालमित्यत्र लंइतति च्छेदः । लं लकारं सेवित्वा प्राप्य साध्वेव न तु यथाकथंचित् कीबत्वं षण्डत्वं प्रथयति स्म। यःकश्चिद्वा पुरुषमानी परैः परास्तश्वेदा- श्वस्य पुनः प्रतिकर्तु पराक्रमत एव। न तु क्कीबतया विषी- दति। अयं तु स्त्रीपराजितो विषं पीतवान्कर्थ न कीवतां प्रथयेतेति भावः । पक्षे-क्षीबशब्दष्पकारापगमनेन तत्रैव लका- रसंश्लेषणे क्वीबतया स्त्ररूपं प्रकाशयतीत्यर्थः । अत्राप्रस्तुतेन राजहंसस्य श्रीगतिलीलाऽवमतत्वादिना संभाव्यमानेन कार्येण तत्कारणभूतप्रस्तुतश्रीगतिलीलारामणीयकातिशयप्रतीतिः॥ यथावा- तावकनयनश्रीलवचार्याच्चकिता जगजननि शकुलाः। व्यत्यासितमुखवर्णाः कुशला भूत्वैव जीवनभविन्दन् ॥ ९५६ ॥ हे जगज्ननि! शकुला: मीनाः तावकनयनश्रीलवस्य चौ- र्यात् चौर्य कृत्वेत्यर्थः । चकिताः भीताः अत एव व्यत्यासितः विपर्यासितः मुखस्य वदनस्य वर्णों यैस्ते तथाभूताः इङ्गाल- चूर्णभस्मादिलेपनेन परैरज्ातयथापूर्वमुखवर्णा इति भावः । अत एव कुशला भूत्वैव न तु प्रमत्ताः। आपदि ईद्दशोपाय- करणादपि किमन्यदस्ति कौशल्यमिति भावः । जीिनं प्राण- धारणं अविन्दन्। अन्यत्र-व्यत्यासितौ विपर्ययेण पठिती मु.

Page 205

192 अलंकारमणिहारे

खवणौं श कु इति वर्णो येषां ते तथोक्ताः। अर्थगतबहुत्वस्य शब्दे आरोपः। कुशला भूत्वा। शकुला इति शब्दः आद्य- योर्वर्णयोवैंपरति्ये कुशला इते निष्पन्न इत्यर्थः । जीवनं जलं अविन्दन्। तत्र मग्ना इति यावत्। अत्राप्रस्तुतशकुलगत- चौर्यादिकार्येण तत्कारणप्रस्तुतलक्ष्मीनयनलावण्यादिसमृद्धि: प्र- तीयते।।

यथावा- त्वन्नयनपराभूतो वातायुर्जननि दृश्यतापग- मात्। वायुसखो भूत्वाSडनीक्किं नुस वायुस्थि- तिर्न चज्जीवेत् ॥ ९५७ ॥ हे जननि! वातायु: हरिणः वातायुशब्दश्च त्वन्नयनपरा- भूतस्सन् अत एव दृश्यतापगमात् दर्शनीयतापायाद्वेतो: वायु- सखो भूत्वा वायुवद्दृश्यो भूत्वेति भावः । यद्वा-दश्यतापग. गमात् अदृश्यतां प्राप्य ल्यब्लोपे पश्चमी। वायुसखः भूत्वा वा- युतुल्यवेगः पलायितो भूत्वेति यावत्। अथवा-दृश्यः प्रत्यक्षः यस्तापः तस्य गमात् प्राप्तेः वायुसखः अग्निः भूत्वा अग्निव- त्तापमयो भूत्वेत्यर्थः । शब्दपक्षे दृश्य: यः ता इति वर्णः तस्य अपगमात् वायुसखः। वायु इत्याकारकवर्णाज्यामेव युक्त इत्यर्थः। भूत्वा आनीत् प्राणीत्। अन्यत्र सत्तामलभतेत्यर्थः । सः वा आयुस्स्थितिरिति छेदः। सः वातायुः वाशब्द एवशब्दार्थकः। 'स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । आयुर्स्थितिर्वा आयुश्शेष एव न चेत् जीवेर्तिकनु न जीवेदेव । आयुर्स्थि- तेर्दुरपनयत्वादेवेद्दशं पराभवं प्राप्तोऽप्यजीवदित्यर्थः। शब्दपक्षे तु-सः वातायुशब्दः वायुस्थितिः वा युः इत्याकारकवर्णस्थि-

Page 206

अप्रस्तुतप्रशंसासरः (२९) 193

तिर्न चेत किं नु जीवेत्। ताकारवत् वायु. इत्याकारकवर्ण- समुदायस्यापि लोपे शब्दस्वरूपस्थितिरेव दुर्लभेति भावः । अत्राप्रस्तुतन वातायुपराजयादिकार्येण संभाव्यमानेन तत्कारण- भूतप्रस्तुतजगजननीनयनसुषमाद्यतिशयः प्रतीयते॥ यथावा- आदाय चौर्यतस्तव वादान्यकसंपदं स्थितोऽ- पि दिवि। निर्जरपापस्समजन्यपि निर्जरपादपो हरेऽदान्तः ॥ ९५८॥ हे हरे! निर्जरपादपः देवतरुः दिवि स्वर्गे स्थितोऽपि स्वतस्सिद्धस्वर्लोकावस्थानोऽपि तव वादान्यकसंपदं चौर्यतः स्तेयेन आदाय त्वद्वादान्यकसंपच्चौर्याद्विना अस्य इयदपि वा औदार्य कुतो भवेदिति भावः। अदान्तः केनापि राज्ञा अप- राधानुगुणमदण्डितः 'वा दान्त' इत्यादिना दमे: कान्ततया निपातः। 'दान्तस्तु दमिते, साहसं तु दमो दण्डः 'इति चा- मरः। निर्जरं दुर्जरं पापं यस्य स तथाभूतः समजनि भुवि क्वापि जात इत्यर्थः । राजदण्डितत्वे :- राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तरसुकृतिनो कथा ॥ इति स्मरणाच्छोधितपापत्वं स्यात्। अतथाभूततया निर्जरपापः क्कापि जात इति भाषः। पक्षे निर्जरपादपशब्दः दः दकार: अन्ते मध्ये यस्य सः दान्तः स न भवतीत्यदान्तः । मध्ये दकारावेुरस्सन् निर्जरपाप इति निष्पन्न इत्यर्थः। अत्राप्रस्तुते निर्जरपादपस्य चौर्यप्रयुक्तनिर्जरपापतावाप्तिकार्येण संभाव्यमानेन तत्कारणभूतभगवद्वादान्यकमहिमातिशयः प्रस्तुत एवावगम्यते॥। ALANKARA II 25

Page 207

194 अलंकारमणिहारे

यथावा- त्वद्वादान्यकनिशमनविशमितमाना विमुश्चमा- ना शम्। भूत्वाऽथ विवर्णमुखा शबला कमला- लयेऽभवद्विबला ॥ ९५९॥ हे कमलालये! शबला कामगवी शबलाशब्दश्च। त्वद्वा- दान्यकस्य निशमनेन विशमितः मानः अहं महावदान्येति चि- त्तसमुन्नतिः यस्यास्सा तथोक्ता। अत एव शं स्वोत्कर्षज्ञान- जन्यं सुखं, पक्षे शकारं विमुञ्चमाना त्यजन्ती । मुश्चतिस्स्व- रितेत्। अत एव विवर्ण निस्तेजस्कं मुखं, पक्षे वि इत्याका- रकवर्ण एव मुखं आदिर्यस्यास्सा तथोक्ता सती विबला दु- बला अभवत्। भग्नोत्साहृतया निश्शक्तिरभूदित्यर्थः । न ह्यु- त्साहादन्यद्वलमस्ति। यथोच्यते-'नास्त्युत्साहात्परं बलम्' इति। पक्षे शबलाशब्दः शकारोत्सारणेन तत्रैव विकारन्यस- नेन च विबलेति निरपद्यतेत्यर्थः। अत्र भगवत्याश्श्रियो महौ- दार्ये वर्णनीयत्बेन प्रस्तुते सुपर्वधेनुगर्वशान्त्यादिकमप्रस्तुतमौ- चित्यात्संभाव्यमानं कार्य वर्णितम्। इदं च 'आदौ सुमुखा विबुधैः, विहरन्त्या दिवि भवतः' इत्यादिपूर्वोदाहरणेष्विव न वस्तुकार्य, किंतु 'तत्केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शि- थिलं चमर्यः' इत्यत्र तन्निरीक्षिणकार्यवदौदार्यनिशमनकार्यम्।। यथारवा- दुग्धरसो दुग्धरसो मोचा मोचा सुधा सुधा भवति। द्विरसनगिरिपतिरमणी सरसवचस्स्याद्य- दि श्रवणपथगम् ॥ १६०॥

Page 208

अप्रस्तुतप्रशंसासर: (२९) 195

दुग्घरसः क्षीररसः दुग्घः प्रपूरितो रेचितः रसः स्वा- दिमा यस्य स तथोक्त। मोचा कदळीफलम्। मोचा शाल्म- लीफलं तद्वन्नीरसेति भावः। उमयत्र 'फले लुक्' इति चैका- रिकाणो लुक्। मोचाया: फलं मोचेति विग्रहः । 'कदळ्यां शाल्मलौ मोचा' इति रतमाला। सुधा अमृतं सुधा लेपचूर्ण: स्तुहीक्षीरं वा तद्वत्कटुरिति भावः। 'सुधा लेपोऽमृत स्तुही' इत्यमरः। स्पष्टमन्यत् । अत्र दुग्धरसादीनां तिरस्काररूपका- र्येण तत्कारणभूतजगदश्विरावचसस्स्वादिमोत्कर्षो गम्यते। का- र्यकारणमावश्रेह ज्ञानयोः। तेन नीरसत्वादेर्दुग्धरसादिगतत्वेन ज्ञायमानस्य स्वरूपतस्तद्वचनरसाजन्यत्वेऽपि न क्षतिः। अर्थस्य कार्यत्व इव वुद्धे: कार्यत्वेऽपि कार्यनिबन्धनत्वं न होयत इतीहशान्यवि कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहता- नि चिरन्तनैरित्यस्माभिरण्युदाहार्यन्त। वस्तुतस्तु तदतिरेकेऽपि न दोषः। न ह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पश्चविध एव संबन्ध इति नियन्तुं शक्यते। संबन्धान्तरेष्वपि तद्दर्शनादिति दीक्षिता: ॥

यथा- त्वद्दिव्यकीर्तिमुक्ताफलस्य बिलशयकुलेशशै- लेन्दो। विपुलौ शुक्तिकपालौ द्यावाभूमी विभाव- यामि परमू ॥ ९६१ ॥

लकपालत्वोत्प्रेक्षणेन तदाधेयस्य प्रस्तुतस्य भगवत्कीर्तिमुक्ता- फलस्य महीयस्त्वादिकं प्रतीयते । न च शुक्तिमुक्ताफलयोः कार्यकारणभावादिसंबन्धोऽस्ति, किंत्वाधाराधेयभाव एव ।।

Page 209

196 अलंकारमणिहारे

एवं सहावस्थानादिकमपि संबन्धान्तरमाश्रयणीयमेव। यथा-

णाः। नभसि क्वचन समूढा नभस्वता भास्वदा- खयया भान्ति ॥ ९६२॥ कौस्तुभस्य कलङ्क: जलधिजननसमयलग्नपङ्कशैवलादिरूपः। समूढा: समूहीकृताः। अत्र कलङ्करेणूनां कौस्तुभस्य च सहा- वस्थितिस्संबन्धः। अत्र भास्वति भास्वत्वमपह्ृत्य तत्र नभस्व- त्संपुश्षितकलङ्करेणुकणत्वारोपेणाप्रस्तुतेन तत्सहावस्थितस्य प्रस्तु: तस्य कौस्तुभरत्स्यानन्तभास्करभासुरत्वं प्रत्याय्यते॥ यथावा-

राः। अभिषेकजलैर्जलधिं नीतास्सफीताश्र रत्नतां याता: ॥९६३॥

अत्र पूर्वार्धेन- उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ इत्युक्तोऽर्थः प्रत्यभिज्ञाप्यते। अभिषेकजलैः अवतारकालिक- मङ्गळाभिषेकसलिलैः। जलधिं नीताः गङ्गादिनदीद्वारेति भावः । स्फीता: जले निहिताश्चणकादय इवोच्छूना इते भावः। रप- ष्टमन्यत्। अत्रापि पूर्वोदाहरणवत्सहावस्थितिरेव सीतातनुभू- रेणूनां संबन्धः भूरेणुकणानां रत्नत्वेन संभावनात्तत्सहावस्थि- तसीतादिव्यमङ्गळविग्रहलावण्यप्रकर्षस्य निरवाधकत्वं प्रतोयते।

Page 210

अप्रस्तुतप्रशंसासरः (२९) 197

अस्यैव पद्यस्य 'लङ्कागतभूमिसुतातनुलग्नक्षाणिरेणुकणनिकराः' इति पाठान्तरं, तदा 'भूमिशय्या विवर्णाङ्गी' इत्युक्तरीत्या ल- ङावस्थानावसरे भगवत्यास्सीताया दिव्यमङ्गळविग्रहस्य भूरेणु- संबन्धः। अभिषेकजलैरित्यनेनं 'ततस्सीतां शिरस्स्नाताम्' इति रावणवधानन्तरभाविमङ्गळस्नानं च विवक्षितम्। अन्यत्तु तुल्यं पूर्वेण।। यथावा- अम्बुधिसुते सितद्युतिरम्ब त्वद्वदनशेषभूतोऽ- सौ। यत्सर्वदास्यलक्ष्मों संपूर्णतयैव वहति नेत- रथा ॥ १६४ ॥ अम्बुधिसुते! हे अम्ब! सितद्युतिः इन्दुः त्वद्वदनस्य शे- षभूतः 'शेषः परार्थत्वात्' इत्युक्तलक्षणशेषभावमापन्नः। यत् यस्मात् असौ सितदुतिः अस्येति शेषः। सर्वदास्यलक्ष्मीं सर्वे 'अहं सर्व करिष्यामि' इत्युक्तप्रकारं सर्वदेशकालावस्थोचितं दास्यं कैङ्र्य तस्य लक्ष्मीं संपदं संपूर्णतयैव अवैकल्येनैव व- हृति। नेतरथा न तु वैकल्येन। पक्षे यत् यस्मात् सर्वदा अस्य त्वद्वदनस्य लक्ष्मीं शोभां आस्यलक्ष्मीं मुखश्रयमिति वा संपूर्णतयैव वहति, इतरथा तु न। पूर्णस्यैवेन्दोस्तत्साम्यं न तु विकलस्येति भावः। अत्राप्रस्तुतेन सितद्युतेस्संभाव्यमा- नेन शेषत्वेन तच्छेषिण: प्रस्तुतस्य श्रीवदनस्य रामणीयकसा- म्राज्योत्कर्षः प्रतीयते। अत्र श्रीवदनचन्द्रमसोर्न कार्यकारणभा- वादिस्संबन्धः, किंतु शेषशेषिभावः॥ एवमुपमानोपमेयाववलस्व्य तत्र कविकल्पितकार्यकारणभा- वनिबन्धने अप्रस्तुतप्रशंसे दर्शिते। ततोऽन्यत्रापि दृश्यते-

Page 211

198 अलंकारमणिहारे

यथा- त्वत्पदविन्यस्तभरस्सदुत्तमो नान्तरेण भवदूनः। अथ तादृशो भवन्नपि सत्तम एवेति वर्ण्यते भगवन् ॥ १६५॥ हे भगवन् ! त्वत्पदविन्यस्तभरः सदुत्तमः प्रपन्नाग्रेसरः पुमान् अन्तरेण उपायानुष्ठानफलोपलम्भयोर्मध्े भवेन संसारेण दून: परितप्तः न भवति। तस्यात्यतिशयात्प्रारब्धदेहधारणस्या- व्यनिष्टत्वात् 'यस्तु प्रारब्घदेहेऽपि शोचत्यार्तस्स उच्यते' इति हि तल्क्षणम्। अथ दप्तप्रपन्नमभिप्रयन्नाह-अथेति। अथ अ- थवा तादृशः प्रपन्नो भूत्वा अन्तरेणाभ्युपगतप्रारब्धखण्डतया भवदूनो भवन्नपि सत्तम एव प्रपन्नाग्रगण्य एवेति वर्ण्यते। प्राज्वैरिति शेषः। न त्वप्रपन्न इत्यवधीर्यते 'यस्य देहान्तर- कृते शोको इप्स्स उच्यते' इति हि दप्तप्रपन्नलक्षणम्। यद्वा त्वत्पदविन्यस्तभरः सदुत्तमः ना पुमान् अन्तरेण ताद्थ्येन 'अन्तरमवकाशावधिपररिधानान्तर्धिभेदताद्थ्ये' इत्यमरमेदिन्यौ। 'ओदनान्तरस्तण्डुलः' इत्यादौ तादर्थ्येऽन्तरशब्दो दृश्यत इति टीकासर्वस्वकारादयः। भवतः त्वत्तः ऊनः भवति 'शेषः प- रार्थत्वात्' इत्युक्तपारार्थ्यलक्षणशेषतास्वाभाव्याच्छेषिण. परमा- त्मनस्त्वत्तो न्यूनो भवतीत्यर्थः । अथशब्दस्समुच्चये 'अथाथो संशये स्याताम्' इत्युक्रम्य 'कात्स्र्चारम्भसमुच्चये' इति मे- दिनी। तादृशः उक्तरोत्या भवदपकृष्टो भवन्नपि सत्तम पवेति वर्ण्यते न त्वपकृष्ट इति। स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा। आत्मदास्यं हरेस्स्याम्यं स्वभावं च सदा स्मर ॥

Page 212

अप्रस्तुतप्रशंसासर: (२९) 199

इति प्रत्यगात्मपरमात्मनो३शेषशषषिभावज्ञानस्यैव सत्ताहेतुतोक्ते- रिति भाव:॥ पक्षे-सदुत्तमशब्द: अन्तरेण मध्ये भवः विद्यमानः सु- प्सुपेति समासः। यः दुः दुवर्णः तेन ऊनः न्यूनः न भवति। तस्मिन् शब्दे दुवर्णश्रवणात्। अथ यदाकदाचिदिति भावः। ताइशः दुवर्णेन ऊनो भतन्नपि सत्तम एव सत्तमरब्द एवेति वर्ण्यत। सदुत्तमशब्दे दुवर्णोत्सारणे तथा निष्पत्तेः। अत्रा- प्रस्तुतेन प्रपन्नजनसंसारदुःखावधुरतादिवर्णनेन तत्कारणस्य भ- गवच्चरणारविन्दप्रपदनस्य महिमोत्कर्षः प्रत्याय्यते। नात्रोपमा- नोपमेयावलम्बी कविकल्पितः कार्यकारणभावः, किंतु स्वाभा- विक: ॥ यथावा -- लक्ष्मीक्षणभेदवशादीनेशोऽपि च दिनेश इव भायात्। अथ च दिनेशो भजते दीनेशत्वं कि- मत्र विशयेन ॥ ९६६ ॥ लक्ष्म्या: ईक्षणभेदवशात् कटाक्षान्वयवशात् दीनेशः पूर्व दरिद्रसार्वभौमोऽपि दिनंश इव सहस्रभानुरिव भायात्। अथच किंच दिनेशः भास्वानपि लक्ष्म्याः ईक्षणभेदवशात् कटाक्षव्य- तिरेकवशात् दीनेशत्वं भजते। अत्र विशयेन संशयेन किम्। पक्षे हे लक्षम! दीनेशोऽपि दीनेशशब्दोऽपि ईक्षणभेदवशात् ईवर्णस्य इवर्णत्वेन दर्शनवशात् दिनेश इव सायात्। दिनेश- शब्दतया प्रकाशेत। इवशब्द्रो वाक्यालंकारे। इवर्णस्य ईव- णत्वेनेक्षणे तु दिनेशशब्दो दीनेशशब्दतां भजत इत्यर्थः । अत्र

Page 213

200 अलंकारमणिहार

रणभूतयोर्लक्ष्मीकटाक्षान्वयव्यतिरेकयोः प्रभावो निरङ्कशः प्रस्तुत एवावगम्यते। अत्रापि पूर्वोदाहरणवदेव कार्यकारणभावः॥

यथावा- गोपालको भवन्नप्यपाकृतश्चेत्त्वया जगज्ननि। गोलक एव स भविता चातुर्वर्ण्योज्झितोऽत्र को विशायः ॥ ९६७॥ हे जगज्जननि! गोपालकः त्रिदिवरक्षक इन्द्रः अन्यो दि- क्पालो भूपालो वाक्पतिर्वा भवन्नपि पुमान् त्वया अपाकृतः तिरस्कृतश्चेत् चातुर्वर्ण्येन ब्राह्मणादिवर्णचतुष्टयेन, स्वार्थे ष्यञ्। उज्झितः बहिष्कृतः गोलकः 'मृते भर्तरि गोलकः' इत्युक्तल- क्षणो वैधवेय: भविता उत्पत्स्यते। अत्र को विशयस्संदेहः न कोऽपीत्यर्थः। पक्षे गोपालकशब्द अपाकृतः पावर्णरहितः कृ- तश्चेत् चत्वारो वर्णाः यस्य सः चतुर्वर्णः तस्य भावः चातु. रवणर्य तेन उज्झितः गोलक एव भविता। गोपालकशब्दो व. णंचतुष्टयात्मक: पावर्णोत्सारणे त्रिवर्ण एव भवितेर्त्यः। अत्रा-

भूतजगज्ननीनिग्रहनिरङ्कशप्रभावः प्रस्तुतः प्रतीयते ।

यथावा- काश्चनलक्ष्मीमश्चन्त्यकिश्चनानां घनानि भव- नानि। किमिदं स्यात्फणिशैलं याता एते दिदृक्ष- माणास्तम् ॥ ९६८॥ अत्र फणिशैलं प्रति गतानामकिश्चनानां भवनेषु कुचेल-

Page 214

अप्रस्तुतप्रशंसासरः (२८) 201

भवनेष्विव श्रीनिवासकटाक्षेणोन्मिषितां निरवधिकां संपदं वी क्ष्य तन्निमित्ते केनचिद्नुयुक्ते भगवत्प्रसादरूपं तन्निमित्तमनभि धाय दिद्क्षमाणा: फणिशैलं याता इति तत्कारणमभिहितमि- तीयमपि कारणनिबन्धनाSप्रस्तुतप्रशंसैवेत्यलं दूरधावनेन। प्र- कृतमनुसराम: ।

सामान्ये प्रस्तुते विशेषवचनं यथा- छायाफलमसृणस्तरुरायासं लोकतस्समाया- ति। शाकोटकं तु लोके काकोलूकादिकोडपि नाका- इेत् ॥ ९६१॥ अत्र श्रीनिवासं प्रति त्वादृशो महौदार्यादिगुणनिधिरेव स्वाभीप्सितफलप्रेप्सुभिरायास्यते। गुणलेशवन्ध्यस्तु दूरीक्रियत एव सर्वेरिति सामान्ये कथनीये तत्प्रत्यायनायाप्रस्तुतो विशे- षोडमिहित इतीयं विशेषनिबन्धना ॥

यथावा-

कल्पतरुं श्रयतां न ह्यल्पतराऽपीप्सितानवा- प्रिस्स्यात्। इति जानन्मतिमांश्रेत्क्षितिजानन्या- न्किमर्थमाश्रयताम् ॥१७०॥ अत्रापि श्रीनिवासतुल्यं महावदान्यमाश्रयतां न कदाचि दप्यभीष्टार्थानवापपतिरिति जानानो बुद्धिमांश्चेत्किमर्थमन्यान्मितं- पचानाश्रयतामिति सामान्ये वक्तव्ये तदवगमनार्थमप्रस्तुतो वि- शेषोऽभिहितः । क्षितिजान् तरून् भूमिष्ठान् मनुजांश्चेत्यर्थः॥ ALANKARA II 26

Page 215

202 अलंकारमणिहारे

यथावा- स्वाराज्यैश्वर्यमदान्नहुषः स्थितवानजागरो भू- त्वा। जातोऽहस्वाकारोऽजगरो जगदम्ब तव कृ- पामान्य्ये॥ १७१।। हे जगदम्ब! तव कृपामान्दे सति नहुषः स्वाराज्यैश्वर्य- मदात् त्रिदिवाधिराज्यवैभवप्रयुक्ताच्चित्तविकारात् अविद्यमाना जागरा जागर्या यस्य तथाविधो भूत्वा भविष्यदनर्थपरिहारे अजागरूको भूत्वेत्यर्थः । स्थितवान् अत एव अहस्वः अनल्पः आकार: आकृतिः यस्य स तथोक्तः । महाशरीर इत्यर्थः। 'त्रिषु हस्वोऽल्पखर्वयोः' इति रत्नमाला। अजगर: व्याळवि- शेषः जातः मुनिशापादिति भावः। जातः स्थितवानिति वा योजना। अत्र भारतीयं नाहुषमुपाख्यानमनुसंधेयम्। पक्षे अ- जागरशब्द: जातः जकारसंबन्धिन्याकारे। सार्वविभक्तिकस्त- सिः। हस्वः अकारो यस्य स तथोक्तः। आकारस्थाने अकारं प्रापितः अजगर: स्थितवान् अजगर इति निष्पन्न इत्यर्थोऽपि चमत्कारी। अत्र श्रियं प्रति त्वत्कृपाप्रसरमान्दे महतोऽपि दु- रवस्थाप्राप्तिर्भवतीति सामान्येऽभिधेये विशेषोऽभिहितः॥ यथावा- इनतनयस्तव राघव राज्यमदान्नाकरिष्यदाज्ञां चेत्। सनयोऽपि ननय एव ह्यक्षविष्यदितस्ततोऽ- पि विभ्रष्टः ॥ १७२ ॥ हे'राघव ! इनतनयः सुग्रीवः राज्यमदात् राज्यलाभप्रयु- क्चित्तसमुन्नतेः तव आज्ञां यथाप्रतिश्रुतं सीतान्वेषणादिविषयं

Page 216

अप्रस्तुतप्रशंसासरः (२८) 203

शासनं नाकरिष्यद्यदि सनयोपि नीतिमानमपि इतः राघवात् तत्सौहार्दादिति यावत्। ततः राज्यादपि विभ्रष्टस्सन् -ननयः नीतिविधुर एव अभविष्यत्। नशब्देन समासः । अनीतिमा नित्येव प्रासैत्स्यदिति भावः! यद्वा इतस्ततः अस्मादमुष्माञ्च लोकात् विभ्रष्ट इत्यर्थः । 'कृतं ह्मप्रतिकुर्वस्तु भ्रश्येल्लोकद्वया- दपि' इति स्मरणात्। अथवा अर्थधर्माभ्यां विभ्रष्ट इत्यर्थः। 'धर्मलोपो महांस्तात कृते ह्यप्रतिकुर्वतः। अर्थलोपश्च मित्रस्य' इति श्रीरामायणोक्तेः। यद्वा इतस्ततो विभ्रष्ट इति.लोकोक्ति:। अयुक्ताप्रशस्तप्रदेशेषु पतित इत्यर्थः। अभविष्यत्। हीत्यवधा- रणे। अपिर्भिन्नक्रमः गर्हायाम्। पक्षे सनयः नकाराश्यां यका रंण च युक्त: इनतनयः इनतनयशब्दः इतः इवर्णात् ततः त- वर्णाञ्च विभ्रष्टः विश्िष्टश्चेत ननय इति निष्पद्येतेत्यर्थः । अत्र महाकुलीनोऽपि यदि भगवच्छासनमतिवर्तेत तदा लोकळ्वयादपि भ्रश्येदिति सामान्ये कथनीये विशेषः कथितः। प्रदर्शितेपूदा- हरणेषु प्रायेण श्ेषसंकीर्गताऽस्त्येव। अलंकारान्तरसंकीर्णता तु तत्रतत्र यथासंभवं बुद्धिमद्भिरूहनीया॥

यथावा- प्राप्य नियन्तारं त्वामतिद्युपतिरर्जुनः कुरुर- णाग्रे। अपराजित एवाभूदतिद्युतिश्र्वापि कंसवि- ध्वंसिन् ॥ १७३ ॥ हे कंसविध्वंसिन्! अर्जुनः त्वां नियन्तारं सारथिं नेतारं च प्राप्य दुपतिमेन्द्रमतिकान्तोऽतिदुपतिः कुरुरणाग्रे अपराजि- तः परैरनभिभूत एव भवन् अत एव अतिद्ुतिः अतितेजस्वी चाप्यभूत्। पक्षे अतिद्युपतिशब्दः पेन पकारेण राजितः न भ-

Page 217

204 अलंकारमणिहारे

वतीत्यपराजित एव सन् अतिद्यतिरिति निष्पन्न इत्यर्थः । अत्र भगवन्तं नियन्तारं प्राप्तो जनस्सर्वत्र विजयी द्युतिमांश्च भव- तीति सामान्ये प्रस्तुतेऽभिधेये अप्रस्तुतविशेषाभिधानम्॥

यथावा- शूरकुलकमलतरणे भूरितरे पारिजातहरणर- णे। बलरिपुतुलितं भवता कुलिशं चालितमता- नि कुशमेव ॥ १७४ ॥ शूरो नाम यदुवंश्यो राजा तर कुलमेव कमलं तस्य तरणि: द्यमणिः तस्य संबुद्धि: हे भगवन् ! इदं च संबोधनं महातेजस्विताद्योतनाय। भूरितरे पारिजातहरणरणे। बलरिपु- णा मघवता तुलितं उद्धतं कुलिशं वज्रं चालितं अयथाव- स्थित कृतं निर्वीर्य कृतमित्यर्थः । 'कम्पने चलि.' इति निय- मात् शलिं चालयतीत्यादाविव मित्त्वाभावात्तन्निमित्तकहस्वा- भाव:। कुशमेव अतानि तृणप्रायमेव व्यधायीत्यर्थः । पक्षे च अलितं इतिच्छेदः। अविद्यमानो लि: लिवर्णः यस्मिस्तत् अलि अलि कृतं अलितं अलिशव्द्वात्तत्करोतीति ण्यन्तात्कमण क्तः। 'नि- ष्ठायां सेटि' इति िलोपः। यद्ा लिः संजातोऽस्य लितं न लितं अलितं लिवर्णविधुरमित्यर्थः । इतचि 'यस्येति च' इतीकारलोपः। कुशमेव अतानि। कुलिशपदं लिवर्णापसारणेन कुशमिति निष्पादितमित्यर्थः । अत्र भगवता अखिलप्रत्यनकि- ससंरम्भोद्यतानि महान्त्यव्यस्त्राणि तृणवन्निस्सारीक्रियन्त इति

भिंहित:॥

Page 218

अप्रस्तुतप्रशसासरः (२८) 205

यथावा- सारघमम्ब भवत्या वचनात्स्वमवरमवेत्य साघ- मभूत्। नेयाददि तु तथाऽयं सारं स्यादेव कोऽ- त्र संदिग्धाम् ॥ १७५। हे अम्ब! सरघाभि: कृतं सारघं मधु कर्तृ। तेन कृते इत्यर्थे 'संज्ञायाम्' इत्यण् 'सरघा मधुमक्षिका' इत्यमरः । स्वं आ- त्मानं भवत्या: वचनात् अवर निहीनं, पक्षे अवधूतः र: रेफो यस्मान्तत्तथाभूतं रेफविहीनमित्यर्थः । 'प्रादिभ्यो धातुजस्य' इति धूतशब्दलोपः। अवेत्य ज्ञात्वा अघेन तुःखेन सह वर्तत इति साघं अभूत्। श्रीवचनापेक्षया स्वस्य निहीनतां विज्ञाय दुःखितमभवदित्यर्थः । 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । पक्षे सारघमिति पदं रेफावधूननेन साघमिति निष्पन्नमित्यर्थः । यदि तु तथा उक्तप्रकारेण अघं नेयात् न प्राप्नयात् तहि सारं श्रेष्ठं रसवदित्यर्थः । स्यादेव। न नीरसं स्यादिति भावः। पक्षे घं इतिच्छेदः। तथा एवं घं घवर्ण नेयादयदि सारमेव स्यात् सारघपदं घवर्णापनयने सारमित्येव निष्पद्येतेति भावः । अत्र सर्वातिशाय श्रीवचनमाधुर्यमिति सामान्ये वक्तव्ये मधुनीरस- त्वरूपविशेषवचनम्॥ विशेष प्रस्तुते सामान्यवचनं यथा- कर्मज्ञानोपासनमर्मज्ञा ये स्वयं कृतार्थास्ते। आकिंचन्यैकधना बिना कृपां ते कथ भवन्ति जनाः ॥ १७६॥

Page 219

206 अलंकारमणिहारे

कथं कृतार्था भवन्तीति योजना । अत्र अकिचनोऽहमु- पायान्तरस्थाने स्थितेन त्वयैवोज्ीवयितव्य इति विशेषे प्रस्तुते आकिञ्चन्यैकधना इत्यादिना सामान्यमभिहितमिति सामान्यनि- बन्धनाऽप्रस्तुतप्रशंसा ॥

यथावा- श्रेयोऽर्थिनामुपेयो भूयो नृणां महापुरुष एव। किंचिदपि वाञ्छितं स्यादकिंचनैर्वश्चनापरैर्न परैः।। अत्र सकलपुरुषार्थप्रेप्सुभिरपि जनैश्श्रीनिवास एव सेव- नीयों न मितंपचानि देवतान्तराणीति विशेषे वक्तव्ये तत्प्र- त्यायनायाप्रस्तुतं सामान्यमुक्तमिति ध्येयम्॥

यथावा- कतिकति फणाभृदधिपतिगिरिपतिशेखर भव- त्पदनखेन्दुम्। सन्तशशेखरयन्तस्सर्वज्ञाश्व्वेश्वरा- श्शिवा नासन् ॥ १७८॥ अत्र भगवन्तं श्रीनिवासं प्रति त्वत्पदनखेन्दुशिरोधारणेन मम सार्वश्याहटिकं सेत्स्यतीति विशेषे वक्तव्ये सामान्याभिधानम्॥। यथावा शशिकरदत्तत्रपया कृपया भगवन् सुगीतल- स्त्वमसि। अत एव सुझीलोऽपि श्रितावनेऽशी- त एव सुतलश्ष ।। १७९ ।। हे भगवन्! त्वं शशिकराणां दत्ता त्रपा यथा सा तया ततोऽपि शिशिरयेत्यर्थः । कृपया स्वार्थनिरपेक्षपरदुःखनिराचि-

Page 220

अप्रस्तुतप्रशंसासरः (२८) 207 कीर्षालक्षणया दयया सुशतिलः अतिमात्रशिशिर: असि। अत एव अस्मादेव हेतोः सुशीलोऽपि। शोभनं शीलं यस्य त थोक्तोऽपि। अपिस्समुच्चये सौशील्यवांश्चेत्यर्थः। असि। सौ- शील्यं नाम महतो मन्दैस्सह नीरन्ध्रसंश्लेषस्वभावत्वम्। ए- तञ्च रामकृष्णाद्यवतारेषु गुहशबरीगोपालादिवृत्तान्तेषु प्रसि- द्धयति। दयाशिशिरतावैघुर्ये सौशील्यस्य क्व समुन्मेषो भवे- दिति तयोः कार्यकारणभावकथनम्। अत एव श्रितानां अवने रक्षणे विषषे अशीतः अनलस एव 'शीतं हिमगुणे कीबं शीतलालसयोस्त्रिषु' इति मेदिनी। यद्वा अपिर्विरोधे। एवं द- याशिशिरतया सुशीलोऽपि श्रितावने अशीतः अशिशिर: उष्ण इात विरोध: परिहारस्त्वनलस इत्येव । सुतलश्च सुष्ठ तलत प्रतिष्ठत इति सुतलः 'तल प्रतिष्ठायाम्' इति धातोः पचादच्। आश्रितरक्षणे जागरूक एव प्रतिष्ठित इत्यर्थः । यद्वा-शोभनं तलं यस्य सः सुतलः। कल्याणस्वरूपश्च असि। आश्रितप रित्राणजागरूकतयैव कल्याणस्वभावो भवसीति भावः। 'अध' स्स्वरूपयोरस्त्री तलम्' इत्यमरः। पक्षे सुशीतल इति शब्द: अत एव अविद्यमानतकारमात्रस्सन् सुशील इति निष्पद्यते। स एव अशीतः शी इति वर्णेन इतः शीतः न शीतः अशीत एव अविद्यमान शीवर्णमात्र: सुतल इति निष्पद्यत इत्यर्थः। अत्र मद्रक्षण एव जागरूकतया प्रतिष्ठितस्त्वमिति विशेषे व- क्तव्ये सामान्यकथनम्। तुल्ये प्रस्तुते तुल्याभिधानं यथा- वहमाने पवमाने घनाघने चाभिमुख्यवलमा- ने। चातकपोतकदवभवतापाटोपो न ते चिरं स्थाता ॥ ९८० ॥

Page 221

208 अलंकारमणिहारे

अत्र चातकपोतकवृत्तान्तकीर्तनं तत्सरूपे सानुग्रहमभिमुखे सदाचार्ये तदधीने च भगवत्याभिमुख्यमुपेयुषि भवतापस्तव न चिरं स्थास्यतीति प्रपन्नाश्वासनवृत्तान्ते पर्यवस्यतीति सा- रूप्यनिबन्धनाSप्रस्तुतप्रशंसेयम्। यथावा- मणिनामभृत: कतिकति फणिनाथगिरीश दि- शिदिशि न सन्ति। चिन्तारत्नत्वं ते किं तावदमी कदाऽवि विन्दन्ते ॥ ९८५ ॥ अत्र चिन्तारत्नेतररत्नेन्दा निन्दनोयत्वेन प्रस्तुतानां मि- तंपचफलवितरीतृणां भगवदितरदेवताभेदानां निन्दायां पर्यव- स्यतीतीयमपि सारूप्यनिबन्धनैव। श्िष्टविशेषणाSपीयं दृश्यते। यथा- अनुविद्ः पत्रिगणैरुच्छ्रितमानोSतिभीमस- त्वाठयः। संख्याग्रसरश्शूरस्सुप्रथनश्श्रीनिवासता- मयते ॥ ९८२ ॥ अत्र श्िष्टैर्विशेषणैरप्रस्तुतशूरपुरुषस्तुतिः स्तव्यत्वेन प्रस्तु- तस्य तत्सरूपस्य शेषाद्रे: स्तवे पर्यवस्यति। शूर इति वि- शेष्यमत्रा्िष्टम्। पत्रिणां शराणां खगानां च गणैरनुविद्ध: ताडितः अनुबद्धश्च। उच्छितः मानः चित्तसमुन्नतिः अन्यत्र मान: प्रमाणं यस्य स तथोक्तः 'मानश्चित्तोन्नतौ भ्रहे। कीब प्रमाणे प्रस्थादौ' इति मेदिनी। भीमं भीमसेनं रुद्रं वा अति- क्ान्तं अतिभीमं यत् सत्त्वं बलं यस्य सः। पक्षे अतिभीमाः अतिघोराः सत्वाः व्यांघ्रादिजन्तवः यस्मिन् स तथोक्तः ।

Page 222

अप्रस्तुतप्रशंसासर: (२९) 209

संख्ये युद्धे अग्रसरः। पक्षे-संख्यायां महागिरिगणनायां अग्र- सरः अग्रणीः । शूरः वीरः शोभनं च तत् प्रथनं च सुप्रथनं श्ाध्यं युद्धं तस्य श्रियः जयलक्ष्म्या निवासतां स्थानताम्। पक्षे-शोभनं प्रथनं प्रख्यातिः यस्य स तथोक्तः। श्रीनिवासः भगवान् यस्मिन् तस्य भावं अयते इत्यर्थः ॥

यथावा- पद्म कृती त्वं नूनं हरिप्रसादात्सदा मुखवि- कासम्। अभ्येषि रसं लब्ध्वाSSमोदमनन्तं च विन्दसे यस्मात् ॥ १८३ ॥ हे पद्म! 'वा पुंसि पग्नम्' इत्यनुशासनात्पुल्लिङ्गता। त्वं कृती धन्यः। यस्मात् हरे: भानोः भगवतश्च प्रसादात् प्रका- शात् अनुग्रहाञ्च सदा मुखविकासं अभ्येषि। रसं मरन्दं ल- ब्ध्वा अनन्तं अमितं आमोदं सौरभं विन्दसे। अन्यत्र 'रसो वै सः, रस५ ह्येवायं लब्ध्वाऽंडनन्दी भवति' इति श्रुत्युक्त- रीत्या आनन्दरूपं परं ब्रह्म प्राप्य शतगुणितोत्तरक्रमेणाभ्यस्य- मानमानन्दं विन्दस इत्यर्थः। अत्रापि श्िष्टैर्विशेषणैः पद्मस्या- प्रकृतस्य स्तवः प्रकृते ब्रह्मविदि तत्सरूपे पर्यवस्यति। पझ्मे- ति विशेष्यमश्लिष्टम्॥

यथावा-

माकन्द त्वं धन्यो माधवसक्तयैषि सुमत आ- मोदभरम्। अतिरागिणमपि पल्लवमचिराद्रचयसि च साधु हरितत्त्वविदम् ॥ ९८४।। ALANKARA II 27

Page 223

210 अलकारमणिहारे

हे माकन्द! रसालतरो! त्वं धन्यः। धन्यतामेवाह- माधवोति। माधवस्य वसन्तस्य सक्तया सुमतः सुमैः सार्व- विभक्तिकस्तसिः। पक्षे-माधवे भगवति सक्तया शोभनं मतं यस्य स तथोक्तः त्रय्यन्तनिष्णातसिद्धान्तानुयायीत्यर्थः। यद्वा- सुमत आमोदमित्यत्र सुसते इति छेद:। हे सुमते! महाप्रा- ज्ञेति माकन्दविशेषणम्। आमोदभरं आनन्दातिशयं एषि प्रा- प्नोषि। अतिरागिणमपि अतिरक्तिमशालिनमपि पल्लवं किसलयं अचिरात् हरितस्य भावः हरितत्वं हरिद्वर्णत्वं विन्दतीति त- थोकं विन्दतेः क्किप। रचयसि च। किसलयावस्थायां लोहहि- तत्वं पत्रावस्थायां हरिद्वर्णत्वं च दळस्य प्रसिद्धम्। नवदळं किसलयं युवदळं पत्रमिति विभाग: । अन्यत्र म केवलं स्व-

णमिति। अतिरागिणं विरक्तिशून्यं पल्लवं षिद्गमपि हरे: तत्त्वं याथात्म्यं हरिरूपं तत्वं प्रामाणिक वस्तु वा। हरिसंज्ञकं त- सवं परमात्मानं वा वेत्तीति तथोक्तम्। विदे: क्विप्। 'तत्त्वं स्व- रूपे परमात्मनि' इति मेदिनी। ब्रह्मविदमित्यर्थः। रचयसि च। अत्राप्रस्तुतमाकन्दतरुप्रशंसा प्रस्तुतस्वाश्रितोजीवातृव्रह्मवित्प्र- शंसायां पर्यवस्यति। अत्र विशेष्यभूतो माकन्दशब्दोऽश्लिष्टः । एवंजातीयकेषु पद्येषु श्विष्टविशेषणाऽप्यप्रस्तुतप्रशंसैव। न तु समासोक्तस्तदनुग्राहकत्वं, तस्या एतदलंकारप्रत्यनीकाकारत- याऽनुग्राहकत्वायोगात्। यत्तु काव्यप्रकाशे समासोक्तरेतदनु- ग्राहकत्वमभिहितं तन्न, प्रतीयमानवृत्तान्तस्य प्रस्तुतत्वे अनु- ग्राहिकायास्समासोक्तेरेवानुन्मेषात् ।प्रस्तुतस्य वाच्यतायामेव तद्भ्युपगमात्। अप्रस्तुतत्वे त्वनुग्राह्याया अप्रस्तुतप्रशंसाया एवाभावात्। अप्रस्तुतवृत्तान्तस्य वाच्यतायामेव तदङ्गीकारात्।

Page 224

अप्रस्तुतप्रशंसास्षर: (२९) 211

तस्मात् श्िष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभि- प्रायेण यथाकथंचित्तवुक्तिस्संगमनीया। इयं च साद्ृश्यमूलाड- प्रस्तुतप्रशंसोच्यते। अस्यां च वाच्यार्थः क्वचित्प्रतययिमानार्थ- ताटस्थ्येनैवावतिष्ठते। क्वचिञ्च स्वगतविशेषणान्वययोग्यतामासा- दयितुं प्रतीयमानाभेदमपेक्षते । क्वचिञ्च प्रतीयमानमपि क्वि- दंशे वाच्यतादात्म्यम् । वाच्यं च क्वचिदंशे प्रतीयमानतादा- त्म्यमपेक्षते ।।

तत्राद्या यथा- उच्छिरितभूधरशिखरं कुच्छ्रादाढौकितोऽपि मा- र्जारः । समुदग्रव्याघ्रतुलामाघ्रातुं वा कदाऽपि किं प्रभवेत् ॥ ९८५॥ अत्र प्रस्तुतो मार्जारवृत्तान्तः स्वल्पप्रज्ञैः प्राज्ञंमन्यैरिदमेव त्रयीशिरस्सु जगत्कारणतया प्रतिपादितं परं ब्रह्मेति हठाज- ल्पितमपि देवतान्तरं सर्वकारणत्वनिरुपाधिकसर्वेश्वरत्वादिना त्रयीशिरस्सहस्त्रसन्ततजोघुष्यमाणमहामहिमोन्नतेः श्रीपतेः परस्य ब्रह्मणस्साम्यगन्धस्यापि दविष्ठमेवरोति प्रस्तुतेऽर्थे पर्यवस्यति। अत्र वाच्यभूतानामर्थानां मार्जारे संभवादुपपादितप्रतीयमाना- र्थानध्यारोपेणैव वाच्यप्रतीति: ।

द्वितीया यथा- भ्रमर क्षमस्व कतिचन निमिषान्विसकुसुम- कोशबन्धमिमम्। जलरुहदलविदलयिता रवि- रिह हरिहरिति किरति किरणगणम् ॥ १८६ ॥

Page 225

212 अलंकारमणिहारे

अत्राप्रस्तुतेन कमलकोशान्तार्निरुद्धभ्रमराश्वासनवृत्तान्तेन त- त्सरूप: स्वल्पमेव कालं संसारबन्धमिमं सहस्व भगवत्कटा- क्षास्त्वयि प्रत्यासन्नप्रसरा इत प्रस्तुतो भगवच्चरणारविन्दप्रप न्नाश्वासनवृत्तान्तः प्रतीयते॥

यथावा-

रवितापशोषितापं पल्वलमभ्येत्य खल्वलं त- पसि। मीन त्वं दीनत्वं विमुश्च पुरतोऽयुदश्वति घनाळी ॥ १८७॥

टुम्बमध्यनिवासपरिततं दीनं प्रति मा शुचः प्रत्यासन्ना तव श्रीरिति समाश्वासनरूपोरऽर्थोऽवगम्यते ।

यथावा- मर्कटक वयास सततं तन्तुभिरहमपि च तन्तुवाय इति। देवारहीशुकवातुः का वा हानि- स्ततः कुविन्दृस्य ॥ ९८८॥ मर्कटक: ऊर्णानाभो नाम क्रिमिः 'लूता स्त्री तन्तुवायोर्णा- नाभमर्कटकास्समाः' इत्यमरः। वयासि वस्त्रं करोषि 'वेज् त- न्तुसन्ताने' इति हि धातुः। देवाहोशुकस्य वाता वयनकर्ता तस्य, वेञस्तृच्। शेषषष्ठयास्समासः। अत्राप्रस्तुतस्योर्णाना- भेरनिन्दनं कुविन्दस्य प्रशंसनं च निन्दनीयत्वेन प्रस्तुते तत्तु- ल्ये अक्षोदक्षमासंबद्धदुर्विषयकतिपयपद्यघटयितरि कुकवौ प्रशं- सनीयत्वेन प्रस्तुते भगवत्कल्याणगुणरमणीयभव्यकाव्यनिर्माणा-

Page 226

अप्रस्तुतप्रशंसासर: (२९) 213

लंकर्मीणे कविकुलसार्वभौमे च पर्यवस्यति। इयं च वक्ष्यमा णावज्ञालङ्कारसंकीर्णेति विच्छित्तिविशेषः ॥ यथावा- न विशुष्यसि तपनकरैर्न च हृष्यसि हिमकरां- शाभिरपि त्वम्। दुस्तरकाठिन्योऽसि प्रसतर तव चरितविस्तरेणालम् ॥ ९८९॥ अत्राप्रस्तुतेन प्रस्तरवृत्तान्तेन तत्सरूपस्य निन्दनीयतया प्रस्तुतस्य भूयोभिरपि भवतापैरनभितप्स्यासकृन्भगवत्कथामृत- श्रवणादिभिरद्रवच्चित्तस्य मूर्खमूर्धन्यस्य वृत्तान्तः प्रत्याय्यते॥

यथावा- पुष्कलकसीमगन्धा यूयं यत्रक्कवापि जाये- ध्वम्। पुष्कलसौरभ्यान्वः पुष्यति हृदये स पु- ष्कराक्षोऽपि ॥ ९९०॥ पुष्कलकस्य सीमा पुष्कलकसीमा । पुष्कलको गन्धमृग- विशेषः। यं गन्धमार्जार इत्याहुः। सीमा अण्डकोशः 'अथ पुष्कलको गन्धमृगे' इति 'सीमा घटस्थितिक्षेत्रेष्वण्डकोशेऽ पिच स्त्रियाम्' इति च मेदिनी। 'मनः' इति निषेधान्न ना न्तलक्षणो डीप। तस्या: गन्धाः तत्र भवो गन्धद्रव्यविशेषः तस्य संबुद्धि: । अर्थस्यैकत्वेऽप्ययं शब्दो दारा: गृहा इतिव- न्नित्यबहुवचनान्तः, 'गन्धो गन्धक आमोदे लेशे संबन्धगर्व- योः। स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः' इत्यनु- शासनात् । अत्र पुष्कलकसीमगन्धवृत्तान्तेनाप्रस्तुतेन निहीन-

Page 227

214 अलंकारमणिहारे

तना: श्री श्रीनिवासस्य भगवतः कृपाभाजनतया मणिवरवन्नि- त्यहद्या भवन्तीति तत्तुल्यः प्रस्तुतवृत्तान्तः प्रत्याय्यते॥

यथावा- माकन्दमुखास्तरवः स्तोकं ददते फलं किमे- तैर्नः। मन्दार महोदार त्वं दाता नूनमीप्सिताद- घिकम् ॥ ९९१ ॥ अत्राप्रस्तुतानां माकन्दादितरूणामनादर: मन्दारस्य प्रशंसा च अनादरणीयतया प्रस्तुतेषु देवतान्तरेषु प्रशंसनीयतया प्र- स्तुते तत्सरूपे भगवति श्रीनिवासे च पर्यवस्यति। अत्राद्येषु त्रिषूदाहरणेषु भ्रमरमीनितन्तुवायक्रिमीणां तिरश्चां अनन्तरेषु त्रिषूदाहरणेषु प्रस्तरगन्धद्रव्यमन्दाराणामचेतनानां च संबोध- नानर्हतया प्रतीयमानाध्यारोपेणैव वाच्यार्थप्रतीतेस्तत्तादात्म्यम- पेक्यते ॥

यथावा- मधुकर शृणु मम वचनं मा गाः खेदं त्वम- शुचिवर्ण इति। श्रीश्रीनिवासपद्माश्रयणेनोजी वितो यतोऽसि कृती ॥९९२॥ अशुचिवर्णः नीलवर्णः अशुद्धवर्णरशूद्रश्च। श्रीश्रियः श्री- महालक्ष्म्याः निवासभूतं यत्पदं कमलं तस्याश्रयणेन श्रीयुक्त: यः श्रीनिवास: भगवान् पझ्मा लक्ष्मीश्च तयोः आश्रयणेन च। अत्र मधुकरस्य खेदनिवारणकारणतया विशेषणमुपात्तं तञ्व

Page 228

अप्रस्तुतप्रशंसासर: (२९) 215

न संभवति न हि मधुकरे नीलवर्णत्वं दोषः अरविन्दाश्रय- णेनोजीवितत्वं गुणः येन तत्प्रशंसाखदनिरासाय कल्पेत । तस्मा- दवाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापे- क्षणायम्। पूर्वत्र अंशे इह तु साकल्येनेति विशेषः ॥

यथावा- ननु चातक सुमहांस्त्वं स्तोकक इति मा स्म गाः क्वचिद्दैन्यम्। अमृतार्थी हरिमेव श्रयसे त्व नोऽधिको द्विजः कोऽन्यः॥९९३॥ स्तोककः अत्यल्पः स्तोकशब्दादल्पार्थे कन्। पक्षे-स्तोकं कायति रौतीति स्तोककः चातकः 'स्तोककश्चातकस्समौ' इत्यमरः। अमृतार्थी सलिलार्थी तृषित इत्यर्थः । पक्षे-निश्श्रे- यसार्थी हारं मघवन्तं भगवन्तं च त्वत्तोऽधिकः द्विजः खगः विप्रश्च। कः अधिकः न कोऽपि। अत्र चातकस्य दैन्यनि- वारणकारणतयोपात्तं विशेषणं न संभवति। न हि चातके स्तोककत्वं दैन्यहेतुः न वा प्रथमोदबिन्दुकाड्क्षितया मघव- दाश्रयणमुत्कर्षहेतुः। येन तत्प्रशंसया वार्येत दैन्यं, अतो वा- च्यार्थस्योक्तरीत्या प्रतीयमानतादात्म्यं विशेष्यविशेषणांशयोरु- भयोरण्यपेक्ष्यते।।

यथावा- नित्यं मराळ शुचिरसि निपुणतरस्त्वं विषामृ- तविवेके। दक्षिणवामौ पक्षौ द्वौ श्रयसेऽधःकृतो- सि तद्विधिना। ९९४ ॥

Page 229

216 अलंकारमणिहारे

हे मराळ! हंस! नित्यं शुचिः शुम्रः। पक्षे-'योऽर्थे शु- चिर्हि स शुचिः' इत्युक्तरीत्या परस्वापहाराद्यभिसन्धिविधुर इत्यर्थः । असि। विषामृतयोः नीरक्षीरयोः 'विषं तु गरले तोये' इति, 'अमृतं यज्ञशेषे स्थात्पीयूषे सलिले घृते' इति च मेदिनी। विवेके पृथक्वरणे । पक्षे-विषासृतशब्दौ गौण्या वृत्त्या असदथसदर्थपरौ। तयोः विवेके सम्यग्विमर्शे निपुणतरः। दक्षिणवामौ अपसव्यसव्यौ सरळप्रतिकूलौच 'दक्षिणो दक्षिणो- द्ूतसरळच्छन्दवर्तिषु' इति मेदिनी । 'वामा वध्वां सव्य- रम्यप्रतीपष्वेषु वाच्यवत्" इति रत्नमाला। पक्षौ गरुतौ सि- द्वान्ती च संश्रयसे तत् तस्मात् विधिना ब्रह्मणा दैवेन च अधःकृतः वाहनतयाऽधरीकृतः। पक्षे-सर्वैन्यक्कृतः नरके पातितो वा असि। अत्राप्रस्तुतमराळवृत्तान्तेन भगवत्तदन्यपरसिद्धान्त- द्वयस्यापि तुल्यतया स्वीकर्तुः कस्यचिद्वहुशाखमतेः कोविदं- मन्यस्य गुणप्रख्यापनपूर्वकमुपालम्भो द्योत्यः । तत्राप्रस्तुते म- राळे शुचित्वादिना प्रशंसाया वा दक्षिणवामपक्षाश्रयणादिना निन्दाया वा असंभवादुपदर्शितप्रकारेण वाच्यार्थस्य द्योत्या- थतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्षणीयम्॥ यथावा -- अपि शाखिनो जटाला वटा इमे नीरसे फ- ले रक्ताः। तत्फलकामैरेव स्तोमैः पततां च बत निषेव्यन्ते ॥ ९९५॥ इमे वटाः न्यग्रोधतरवः वक्ष्यमाणरीत्या फलकामिन इति च व्यज्यते। शाखिनः शाखाशालिनः जटाला अपि शिफा- न्विताश्च सन्तः नीरसे रसविधुरे फले स्वकीयफले रक्ताइशो-

Page 230

अप्रस्तुतप्रशंसासरः (२९) 217 णवर्णा सवन्ति। प्रसिद्धयति हि ताद्विध्यं तत्फलानाम्। पक्षे- शाखिनः वेदभागाध्येतार: जटाला: जटान्वितास्तापसा अपत्यि- र्थः। 'शाखापान्तरे बाहौ वेदभागद्गुभागय' इति, 'जटा लग्नकचे सूले' इति च मेदिनी। नीरसे तुच्छानन्दे फले प- शुपुत्रस्वर्गादिप्रयोजने रक्ता: आसक्ता: भवन्ति। तत्फलकामैः तथाविधनीरसफलकामैरेव पतता पक्षिणां, अधःपातिनां जनानां च स्तोमैः वजैः निषेव्यन्ते च। बतेतति तदनौचित्यचिन्तनज- नितखेदे। अत्र न्यग्रोधानां श्राघनपूर्वकनिन्दनहेतुतयोपात्तं वि- शेषणमसंभवि। न हि शाखित्वं जटालत्वं च श्ाघनहेतुः, नापि शोणवर्णनीरसफलत्वं तादृशफलसक्तविहृगनिषेव्यत्वं च निन्दनहेतुः, येन तादृग्गुणश्लाघनपूर्वकं ते निन्धेरन्। अतो वाच्यार्थस्य उपपादितरी्या व्यज्यमानतादात्मंच विशेष्याविशे- षणांशयोरपेक्ष्यते पूर्ववत्। तृतीया यथा -- अनुकूलभूरिदाशानतिबलभावारिमुहुरुदितभ- ङ्गान्। मत्स्या: कथमगभीरांस्तुच्छानाश्रयथ ह- न्त कासारान् ॥ ९९६। कूले अनुकूलं तीरे भूरय: बहुला: दाशा: कैवर्ताः येषां तान्। पक्षे-अनुकूलानां स्वाश्रितानां भूरि बहुलं वस्तु सुवर्ण वा दाशन्तीति भूरिदाशा: तान् 'दाश दाने' कर्मण्यण्। अति- बलस्य समीरणस्य भासा प्रभावेन 'प्रकम्पनश्चातिबलः' इत्य- मरः। 'भाः प्रभावे मयूखे स्त्री' इति मेदिनी। वारिण स- लिले मुह्ुः शश्वत् उदिताः उत्सत्वराः भङ्गा: तरङ्गा: येषां ALANKARA II 28

Page 231

218 अलंकारमणिहारे

तान्। अन्यत्र बलस्य सामर्थ्यस्य भावः सत्ता अतिशयितः बलभावो येषां ते अतिबलभावाः ये अरयः वैरिणः दैत्यादयः तैः मुद्ः असकृत् उदितः भङ्ग: पराभवो येषां तान्। स्पष्ट- मन्यत्। अत्राप्रस्तुततुच्छकासारतदाश्रितमत्स्योपालम्भेन प्रस्तु- तभगवदितरक्षुद्रदेवतदुपासकोपलम्भः प्रत्याय्यः । तत्र यथा अगभीरत्वं तुच्छत्वं च वाच्यप्रतीयमानयोरुभयोरप्याश्रयणानौ. चित्ये निमित्तं, न तथा अनुकूलभूरिदाशत्वातिबलभावारिमुद्ठ रुदितभङ्गत्वे; यतोऽनुकूलभूरिदातृत्वं प्रतीयमानक्षुद्रदेवरूपार्थे न दोष: प्रत्युत गुण एवेति तदंशे वाच्यभूतकासारतादात्म्य- मपेक्ष्यते। कासारेषु च अतिबलभावारिमुहुरुदि भङ्गत्वांशे प्र. तीयमानक्षुद्रदेवतादात्म्यं, मारुतप्रभावहेतुकजलजननततरङ्गत्वस्य कासारत्यागाननुगुणत्वात् प्रत्युत तदाश्रयणानुगुणत्वात्॥

यथावा-

वाताशनानुयातामेतां सूनश्रियाSतिविख्या- ताम्। भ्रमर किमर्थ भजसे भ्रमन्नरण्येषु केत- कीं भ्रातः ।। ९१७।।

वाताशनैः व्याळैः मुनिभिश्च अनुयातां उपाश्रितां सूनानां प्रसूनानां श्रिया समृद्धया सूनया सुतरां ऊनया हीनया श्रिया संपदा अतिविख्यातां परदेवतापेक्षया अत्यल्पवैभवेति जगद्विदि- तामित्यर्थः। अत्र कस्यचित्पुरुषस्य परदेवतेतरक्षुद्रदेवताभजनं तव निष्फलमिति द्योत्यम्। तत्र वाच्यप्रतीयमानयोः केतकीक्षुद्र देवतयोरुभयोरपि भजनानौचित्ये हेतुतयोपात्तं विशेषणमसंभवि। यस्मात् सूनाश्रयाऽतिविख्यातत्वं केतक्यामदोषः। यावता गुण

Page 232

अप्रस्तुतप्रशंसासर: (२९) 219

एव, कुसुमसमृद्धिमत्ताया भजनानुगुणत्वात्। तदंशे क्षुद्रदेवता- तादात्म्यमपेक्ष्यं, कुद्रदेवतायां च केतकीतादात््यं, तापसाश्रित- त्वस्य तत्त्यागाननुगुणत्वात्। यावता तन्द्रजनानुगुणत्वात्। एवम- न्योन्यतादात्म्यावलम्बनेन वाक्यार्थस्सिद्धयतीति व्येयम्।। अयं तृतीयः प्रकारस्साद्ृश्यमूलाप्रस्तुतप्रशंसाया रसग. ङ्गाधरानुरोधेन द्शितः। काव्यप्रदपिदौ तु इयं सारुप्यनिब- न्धनाप्रस्तुतप्रशंसा त्रिधा। कवचिद्वाच्यार्थे प्रतीयमानार्थानध्या- रोपमात्रेण। क्वचित्प्रतयिमानाध्यारोपेण। क्वचित्तु अंशमेदेन तदध्यारोपानध्यारोपाञ्यामिति त्रैविध्यमभिहितम्। तत्राद्ये प्रका- रद्ये न वैलक्षण्यं, तृतीये तु प्रकारे किंचिदस्ति वैलक्षण्यम्। तत्रेदमुदाहरणम् ।

प्रथममनिद्रा स्वपदे सा द्राक्षा क्षान्तिमत्त्वमु- पयाता। प्राप्ताऽथ कृष्णरूपं फले रसघना च कियदिद भाग्यम् ॥ ९९८॥

सा प्रसिद्धा द्राक्षा मृद्वीका प्रथमं आदौ स्वपदे स्ववा- चकशब्दे अनिद्रा निर्गतो द्रा इति वर्णों यस्यास्सा न भवती- त्यनिद्रा 'निवातपझ्मास्तिमितेन' इत्यादाविव निशब्देन समासः। आदौ द्रावर्णसहहितेत्यर्थः । अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । क्षा इत्याकारकवर्णः अन्तिमो यस्य तदिति सामान्ये नपुंस- कम। तस्य भावः क्षान्तिमत्वं 'अनचि च' इति तकारस्य द्वित्वम्। उपयाता क्षाकारान्वितपश्चार्धेत्यर्थः। फले अथ का- त्स्नैचन कृष्णरूपं असितवर्णतां प्राप्ता फलपरिणामदशायां त- थाविधत्वात्तस्याः । रसघना रससान्द्रा च भवति। पक्षे स्व-

Page 233

220 अलंकारमणिहारें

पदे स्वत्राणे स्वव्यवसाये च 'पदं व्यवसितत्राणस्थानलक्ष्मा- द्विवस्तुषु' इत्यमरः । स्वोजजोवने तदर्थमुपायानुष्ठाने चेति भावः। अनिद्रा अप्रमत्ता अत एव क्षान्तिमतो भावः क्षान्तिमत्वं 'शान्तो दान्त उपरतस्तितिक्षुः' इत्युक्तरीत्या नितिक्षुत्वम्। इद. मुपलक्षणं समाहितत्वादेः। अनेनोपायानुष्ठानपूर्तिरुक्ता। अथ फ- ले फलदशायां कृष्णरूपं भगवत्सारुप्यं प्राप्ता उपायानुष्ठाना- नुरूपं फलं प्राप्तवतीत्यर्थः । रसघना परिपूर्णव्रह्मानुभवानन्दमे- दुरा च भवति। अस्या: भाग्यं इद भाग्यं कियत् वचसाम- गोचरमिति भावः। अत्र द्राक्षायां प्रथमं स्वपदे अनिद्रात्वं क्षान्तिमत्त्वं च प्रशंसाहेतुत्वेन वाच्ये। न च ते तद्धेतुभूते तदंशे प्रतीयमानव्रह्मविद्यक्तयध्यारोपापेक्षा। फले कृष्णरूपा- वाप्तिः रसघनात्वं च प्रशंसाहेतुरेवेति तदंशे नाध्यारोपः।

यथावा- आपातमधुरनीरसदुर्ग्रहकर्कशफलेन तालन। उद्विजमानेन मनाकुस्पर्शनतः कीर किमिव साध- यसे॥ ९९९ ॥

कीर! हे शुक! आपाततः आमुखतः मधुराणि अन्ततो नरिसानि अथापि दुर्ग्रहाणि असुलभानि गृहीतत्वेऽपि कर्कशानि कठोराणि अनुभवदशायां केशापादकानि च फलानि यस्मिन् तेन स्पर्शनतः मारुतात् मनाक् ईषदेव उदद्विजमानेन चलता कर्कशपत्रत्वादिति भावः। पक्षे मनाक्स्पर्शनतः अत्यल्पवितर- णादृपि उद्विजमानेन बिञ्यता अतिमात्रलुब्धेनेत्यर्थः। 'ओ विजी भयचलनयोः' इति तौदादिकाद्धातोश्शानच्। प्रायेणायं धातु-

Page 234

अप्रस्तुतप्रशंसासर: (२९) 221

रुत्पूर्वः । तालेन तालतरुणा किंतु साधयसे न किमप्यनेन तव प्रयोजनं सिद्धचेदिति भावः। अत्राप्रस्तुतश्शुकं प्रति हितोप- देशो भगवदनादरेण क्षुद्रदेवानां लुब्धनृपालानां वा सेवनाय प्रवर्तमाने कस्मिश्चित्पुरुषे विषये पर्यवस्थति। तत्र तालतरो- रापातमधुरत्वादिविशिष्टफलदातृत्वमुपालम्भहेतुरेवेति तदंशे द्यो- त्यमानक्षुद्रदेवतालुब्धनृपालाध्यारोपो नावश्यकः । मनाक्स्पर्श- नोद्विजमानत्वे तु तदध्यारोप आवश्यकः । मारुताद्यत्किश्चिच्च लनस्योपालम्साहेतुत्वादित्यंशे अध्यारोपः अंशे तदभावश्च।

यथांवा-

अतिवृत्तोऽपि सरन्ध्रोप्यग्रसरो यदसि परगुण- ग्रथने। श्रीनायकभाक्तदसावससि मणिगण हृद्य एव सुदृशां त्वम् ॥ १०००॥ हे मणिगण! त्वं अतितृत्तोऽपि अतिवर्तुलोऽपि सरन्ध्रो- डपि सुषिरोऽपि यत् यस्मात् श्रीयुक्तो नायकः श्रीनायक: हा- रमध्यमणि: तं भजतीति तथोक्तः । 'नायको नेतरि श्रेष्ठे हारः मध्यमणावपि' इति मेदिनी । पर: श्रेष्ठः यो गुणः तन्तु- स्वर्णमय इति भावः । तस्य ग्रथने संदर्भे तत्स्यूतत्वे सती- त्यर्थः । अग्र: श्रेष्ठः सरः हार भवसि। तत् तस्मादेव असौ त्वं सुदृशां ललनानां हृद्यः वक्षर्स्थः हृद्दयशब्दान्भवार्थे 'श- रीरावयवाच्च' इति यत्। असि। वर्तुलत्वेगप सुषिरत्वेऽपि नायकमणिघटित उत्तमतन्तुस्यूत एव हारतामापन्नो मृगाक्षी- णां हृदयमधिवससि नान्यथेति भावः । पक्षे-अतिक्रान्तो वृत्तं अतिवृत्तोऽपि दुराचारोऽपि अत एव सरन्ध्रोऽपि स

Page 235

222 अलंकारमणिहारे

दोषोऽपि 'रन्ध्रं तु दूषणे श्वभ्रे' इति मेदिनी। यत् यस्मात् श्रीनायक: श्रीनिवासः तं भजतीति तथोक्तः तन्भक्तिमानित्य। परस्य तस्यैव परमात्मनः गुणानां सार्वज्ञचसत्यसंकल्पत्वसौ- शील्यादीनां कल्याणगुणानां अ्थने तद्विषयकग्रन्थरचने अग्र. सरः प्राथमिक: भवसि। तत्तस्मात् असौ त्वं सुदृशां विदु- षां हृद्यः हृदयप्रिय एव असि 'हृदयस्य प्रियः' इति यत्। अत्र प्रथमेन पादेन 'अिचेत्सुदुराचारः' इत्यस्य, द्वितीयेन तृतीयेन च 'भजते मामनन्यभाक्' इत्यस्य, चतुर्थपादखण्डेन 'साधुरेव स मन्तव्यस्सम्यगव्यवसितो हि सः' इत्स्य च

मणिगणस्य न दोष: प्रत्युत? अतिवर्तुलत्वस्य रन्भ्रवैशिष्टय- स्य च हारघटनानुगुणत्वात्। तस्मात्तदंशे प्रतीयमानपुरुषाव शेषाध्यारोपोऽपेक्ष्यः। श्रीनायकभाक्त्वपर गुणग्रहणाग्रसरत्वसुद्ट- ग्जनहृद्यत्वेषु न तदध्यारोप इति ध्येयम्॥ एवं काव्यप्रकाशाद्यनुरोधेनाप्रस्तुतप्रशंसा निरूपिता। रस- गङ्गाधरकारस्तु-'अप्रस्तुतन व्यवहारेण सादृश्यादिवक्ष्यमाणप्र- कारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साऽप्रस्तुत प्रशंसा' इत्यप्रस्तुतप्रशंसां लक्षयित्वा 'इयं पञ्चधा, अप्रस्तुतेन स्वसदशं प्रस्तुतं गम्यते यस्थामित्येका' इत्यांदना तस्याः पञ्च प्रकारान् प्रदर्श्य तदुदाहरणानि च प्रपञच्य "एवं पञ्च- प्रकारेयमप्रस्तुतप्रशंसा प्राचामनुसारेण निरूपिता। वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति। यत्रा- त्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो गदितः । एवं यत्र स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः। यथा जलक्रीडाप्रकरणे भ्रमरक्मलिन्यािषु पुरस्स्थितेषु नायके च

Page 236

अप्रस्तुतप्रशसासर: (२९) 223

स्वनायिकायामनुरक्ते वार्श्ववर्तिनि नायिकासख्या: कस्याश्चि- दुक्तौ -- मलिनेSपि रागपूर्णो विकसितवदनामनल्पजल्पेऽपि। त्वय चपलेऽपि च सरसां भ्रमर करथं वा सरोजिनीं त्यजसि॥· इति पद्ये अथात्र कथमप्रस्तुतप्रशंसा? वाच्यार्थस्य प्रस्तुतत्वेन तल्लक्षणानालीढित्वादिति चेन्न, अप्रस्तुतशव्देन हि मुख्यतात्प- र्यविषयीभूतार्थातिरिक्तार्थो विवक्षितः । स च क्वचिदृत्यन्ताप्र- स्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्र- स्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम्। अत एव लक्षणे सा- दृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम्। पते- न द्वयो: प्रस्तुतत्वे प्रस्तुताङ्करनामाऽन्योऽलंकार इतति कुवल- यानन्दायुक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरता कल्पने वाग्भङ्गोनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदित त्वात् ॥ इदं तु बोध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां ता्मि- न्नपर्यवसितयाऽभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनि- त्वं न निर्बाधम्। द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव। एवं सादृश्यमूलप्रकारे द्वैतम्। कार्यकारणभावसामान्यविशेष- भावमूलाश्चत्वार: प्रकारा गुणीभूतव्यङ्गयस्यैव भेदाः । अभि- धादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनिप्रयोजकत्वात्॥। अथ आपेदिरेडम्बरभुवं परितः पतङ्गा- भृङ्गा रसालकुसुमानि समाश्रयन्ते। संकोचमश्चति सरस्त्वय दीनदीनो मीनो तु हन्त कतमां गतिमभ्युपैतु॥

Page 237

224 अलंकारमणिह्ारे

अत्र क्षीणराजादितदेकावलस्विपुरुषादिवृत्तान्ते प्रस्तुते अ- प्रस्तुतप्रशंसैवेति निर्विवादम्। यदा तु सरोवृत्तान्तो राजवृ- त्तान्तश्चेत्युभयं प्रस्तुतं तदाऽपि प्रागुक्तदिशा सैव । यदा तु सरो- वृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराजवृत्तान्तरूपव्यङ्गयेऽस्मिन्पद्ये कोऽलंकारः? न तावदप्रस्तुतप्रशंसा प्रस्तुतस्यैव प्रशंसनात्। नापि समासोक्ति: तज्जीवातोर्विशेषणसाम्यस्य सकलालंकारि- कसंमतस्यात्राभावात्। न च विशेषणसाम्यप्रकार इव शुद्ध सादृश्यमूलेऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीढत्व- मन्तरेणैकालंकारत्वं सर्वेषामेकालंकारत्वापत्तेः। व्यवस्थापकैस्त नद्ेदताया अनुक्तेश्च। अत एवालंकारसर्वस्त्रकारादिभिविशेषण- वाचिशब्दसाम्यं संरक्ष्यैव समासान्तराश्रयणेन सादृश्यमूलत्वं प्रदर्शितं, न तु तदुपेक्ष्यति चेत्-उच्यते। अप्रस्तुतप्रशंसैवा- त्रालंकारः। अप्रस्तुतस्य प्रशंसेति न तदर्थः। किंत्वप्रस्तुतेनेति। सा चार्थात्प्रस्तुतस्यैव। एवंच वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यङ्गचं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रश- स्यते साऽप्रस्तुतप्रशंसेति तत्राप्यप्रस्तुतप्रशंसेति। न तुचाच्ये नैव व्यङ््चमेव" इत्यभाणीत्। एवंच 'पुरा यत्र स्रोतः' इत्या- दावप्यप्रस्तुतेन व्यक्तेन विपर्यस्तधनसन्तानादिसमृद्धचसमृद्धि-

लभावविपर्यासवद्वनरूपप्रस्तुतार्थस्य प्रशंसेति तत्राप्यप्रस्तुतप्र शंसैवेति तदाशयः॥ अलंकारसर्वस्वकारस्तु-'यदत्र सामान्यविशेषत्वेन कार्य कारणत्वेन सारुप्येण च यद्नेदपश्चकमुददिएं तत्र दयोस्सामा- न्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्ऽर्था- न्तरन्यासाविर्भावः। सारूप्ययोस्तु वाच्यत्वे दष्टान्तः।अप्रस्तुतस्य

Page 238

अप्रस्तुतप्रशंसासर: (२९) 225

वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथा अप्रस्तुतप्रशंसेति निर्णयः' इत्यवादीत् ॥

पतन्मते तु 'पुरा यत्र स्नोतः' इत्यादौ प्रस्तुतस्यैव वा- च्यत्वेन अप्रस्तुतस्य गम्यत्वेन च समासोक्तिरेवेत्यलं पल्लवि- तेन। किंच 'वैधर्म्येणापीयं दश्यते'. इत्युक्त्वा 'धन्याः खलु वने वाताः' इत्युदाहार्षात्। तदनुरोधेन इदमुदाहरणम्- ते मान्यास्ते धन्याः येऽनन्याः पन्नगाद्रिमूर्ध- न्यान्। भूम्नः कांश्विविदवन्यां तरवोऽप्यर्चन्ति नि- जसुमैर्धन्याः॥ १००१ ॥ अत्र ते मान्यास्ते धन्या इत्याद्यप्रस्तुतात् श्रीनिवासमन- चन्तो मानवजन्मभाजोपि चेतना अमान्या अधन्या इति वैध- मर्येण प्रतीयते । मम्मटादयस्तु 'धन्याः खलु वने वाताः' इत्यत्र वातस्तुत्या स्वनिन्दाप्रतीते: व्याजस्तुतिरेव युक्तत्याङ्कः। तदा अस्मदुदाहतमिदमाप पद्यं व्याजस्तुतेरेवोदाहरणतामर्हतीति ध्येयम् ॥

इत्यलंकारमणिहारे अप्रस्तुतप्रशंसासर: एकोनत्रिंशः

ALANKARA 29

Page 239

226 अलंकारमणिहारे

अथ प्रस्तुताङ्करसरः.

प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥ यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्करनामाऽलंकारः । तथाच प्रधानभूतप्रस्तुतान्तराभिव्य- * अ्ञकं प्रस्तुतवर्णन प्रस्तुताङ्करालंकार इ्ृतति सिद्धम्। प्रस्तुत- स्याभिव्यञ्जकत्वादङ्कर इवाङ्कुर इति व्युत्पत्तेरन्वर्थनामाऽयम्॥

यथा- अयि गिरितटि समयेऽस्मित् घनमिममुद्दर्हि- बर्हमाश्लिष्य। न किमपि वेत्सि त्वय्यप्यतिचप- लोऽयं कियच्चिरं स्थाता ॥ १००२ ॥

इह प्रावृषि वनविहारावसरे श्रीकृष्णपरिरम्भसुखपारव- शयेन तृणीकृतान्यवनितां कांचिद्रोपललनां प्रति तेन पूर्व विप्र- लब्धाया: कस्याश्चिद्रोपिकाया वचने गिरितटीं संबोध्य एवमाहेति वाच्यार्थस्य प्रस्तुतत्वम्। न चानामन्त्रणीयामन्त्रणेन वाच्या- संभवादप्रस्तुतमेव वाच्यमिह सदृशप्रस्तुतद्योतनाय निर्दिष्टमिति वाच्यम्, 'कर्णिकार त्वया दषा, वयं तत्त्वान्वेषान्मधुकर हता- स्त्वं खलु कृती' इत्यादौ चित्तविक्षपादिभिरनामन्त्रणीयामन्त्र- णस्यापि दर्शनेन तस्यातिमात्रमसंभावितत्वस्य दुर्वचत्वात् । एवं प्रस्तुतेन गिरितटीकर्मकोपालम्भरूपवाच्यार्थेन वक्रयास्तस्थाः अतिचपलममुं नन्दनन्दनमुपगूह्य धन्यंमन्यतयाऽन्याः किमर्थम-

Page 240

प्रस्तुताङ्करसर: (३०) 227 वमन्यसे त्वय्यपि वाऽसौ कियन्तमवधिमनुरज्योदति तां प्र- त्युपालम्भ: प्रस्तुत एव द्योत्यते। अत्र प्रतीयमानार्थे घनामे- त्यस्य विपरीतलक्षणया अगभीरमित्यर्थः । उद्धर्हिबरहमिति वा- च्यार्थपक्षे उन्नीतानि विकासतानि वर्हिबर्हाणि येन स इति । प्रतयिमानपक्षे उत्तंसितमयूरपिञ्छमित्यर्थः । न किमपि वेत्सी- त्येतत् वाच्यगिरितटीपक्षे घनच्छन्नत्वेनौपचारिकम्। प्रतीयमान- नायिकापक्षे तु आनन्दपारवश्येन न किमपपि जानासीत्यभिप्राय- कम्। अतिवेला चपला विद्युत् यस्मित्निति वाच्यपक्षे। व्यङ्गच त्वतिचञ्चलप्रकृतिरिति॥

यथावा- उच्चैर्विभवस्थानं त्वत्पादसमाश्रयो हि शाखि- गणः । सानुगता भजति श्रीस्त्वामस्त्यहिशैल को महांस्त्वचः॥। १००३ ।। हे अहिशैल! तव पादाः प्रत्यन्तगिरयः पादौ चरणौ च आश्रयो यस्य सः। शाखिनां तरूणां शाखाध्येतृणां विप्राणां च गणः उच्चैः वीनां पक्षिणां भवस्थानं जन्मभू: तत्र कृतनी- डत्वात्तस्येति भावः । उन्नतस्य विभवस्य स्थानं च भवति। सानूनि प्रस्थान् गता प्राप्ता श्रीः शोभा । अन्यत्र सा जग- न्मातृत्वादिना प्रसिद्धा श्रीः लक्ष्मीः अनुगता 'छायेवानुगता तव' इत्युक्तरीत्या अनुव्रता सती भजति। त्वत्तः एवंविधात् भवतोऽपि को महान् पृथुलः । पक्षे महाविभूतेः श्रियः पत्युरन्यः को महनीय इत्यर्थः। अत्र प्रस्तुतेनाहिशैलवृन्तान्तेन प्रस्तुत- श्रीनिवासवृत्तान्त एव द्योत्यते। वाच्यव्यङ्गययोरुभयोरपि सेव-

Page 241

228 अलंकार मणिहारे

नीयतया प्रस्तुतत्वम्। न चात्र प्रकृताप्रकृतश्लेषशङ्का कार्या, वि शेष्यस्यापि श्िष्टत्व एव तदुन्मीलनात् अत्र च विशेष्यस्या-

यथावा-

  • स्पर्शन एष स्पृहयति घनमाच्छादितवृषाद्रि- मपनेतुम। पश्य सखीति प्रावृषि पतिगिरमाक- ण्य नम्रवदना श्रीः।१००४॥ स्पर्शन: मारुतः स्पर्शकर्तेत्यपि गम्यते । अत्र प्रस्तुतेन वर्षानिलकर्तृकघनापनयनस्पृहावृत्तान्तेन प्रस्तुत एव प्रावृषि श्रि- या विहरतो भगवतस्स्वप्रेयसीपयोधरकञ्चुकापसारणस्पृहारूप- वृत्तान्त: प्रत्याय्यते। सखि पश्य प्रावृषीति निर्देशाद्वाच्यार्थस्य प्रस्तुतत्वं स्फुटम्। प्रस्तुतान्तरद्योतनं च पतिगिरमाकर्ष्य नम्र- वदनेत्यनेन उत्तराधें कविनैवाविष्कृतम्।।

यथावा- घनचापलतां चपलाश्लिष्टोवहसेडम्बुद स्थिरा तव दूरे। नीरदलक्ष्यात् क्षितिरिति निगदन्ती शौ- रिणाडभिपरिरेभेऽलम् ॥१००५॥

हे अम्बुद! चपलया तटिता ्लिष्टः घनां चापलतां इ- न्द्रधनुर्लतां वहसे । स्थिरा भू: तव दूरे तव व्योम्नचवस्था- नादिति भावः। पक्षे-चपलया चञ्चलशीलया श्रियाऽडश्लिष्टः 'चपला कमलाविद्युत्पुंश्चलीपिण्पलीषु च' इति विश्वः । अत एव घनं चापलं यस्य स तथोक्तः । तत्तां वहसे तव एवं-

Page 242

प्रस्तुताङ्करसर: (३०) 229

विधस्य भवतः स्थिरा अचश्चलशीला भूर्देवी अहमिति भावः दूरा उपेक्षणीयपक्षे निक्षिप्ता। चपलोपगूढस्य चपलशीलस्य तव स्थिरानुराग: कथमिव संभवेदिति भावः । अत्र वर्षासु घनाघनं प्रति भूदेव्या वचनेन प्रस्तुतेन लक्ष्म्यामेव प्रेमभूमानं विदधानेन त्वयाऽहमुपैक्षिषीति प्रस्तुत एव श्रीनिवासं प्रस्तुत- पालम्भो द्योत्यते। अत्राम्बुदेति संबोधनन वाच्यार्थस्य प्रस्तु- तत्वं स्फुटमेव। प्रस्तुतान्तरद्योतन च उत्तरार्धे कविनैव स्फु- टीकृतम्।

यथावा- सविधगतेऽपि च दयिते नवनीरदमेव पश्यति मयूरी। इति गदिते प्रापृषि वनभुवि गोपी दश- मवाश्चिचत्कृष्णात् ॥१००६।।

इति गदिते कयाचिदिति शेषः । गोपी गोपवधू: कृष्णात् दशं स्वां दृष्टि अवाञ्चिचत् अवातीतरत्। अवपूर्वकात् ण्यन्ता- दश्चतेः कर्तरि लुडि चङ्। अत्र गोपानां वनविहारावसरे प्रावृषि मयूरीं निर्दिश्य कस्याश्चिदुक्त्या प्रस्तुतगोचरया स्व- दयितमप्यनाइृत्य नन्दनन्दनमेव सानुरागं विलोकमानाया गो- पललनाया वृत्तान्त: प्रस्तुत एव द्योत्यते। प्रावृषि वनभुवीति निर्देशो वाच्यार्थस्य प्रस्तुततामवगमया। प्रस्तुतान्तरद्योतनं च दृशमवाश्चिचत्कृष्णादिति कविनैवाविष्कृतम्। अत्र पूर्वोदाहरण- द्वयापेक्षया द्योतितस्य कविनाSSविष्करणं स्फुटतरम् ॥

अत्राद्योदाहरणयोर्लोचनकारमते अन्यापदेशध्वनिः।सहि- 'किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया। अन्यासु ता

Page 243

230 अलंकारमणिहारे

वदुपमर्दसहासु भृङ्ग लोलं विनोदय मनरसुमनोलतासु। बा- लामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमालि. कायाम्' इति प्रस्तुताङ्करोदाहरणयोरन्यापदेशध्वनिमाह। तथा- हि -'अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति त- त्राभिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः। इह तु वाच्यार्थस्य प्रस्तुतत्वेन तत्राभिधायां पर्यवसितायामर्थसौन्दर्य- बलेनाभिमतार्थव्यक्तिर्ध्वनिरेव' इति। अयं भावः-अप्रस्तुतप्र- शंसायां वाच्यार्थस्यावर्णनीयतया कविसंरम्भागोचरत्वात्कवि- संरम्भसीमावधि: प्रस्तुतवृत्तान्त पवेति तस्य व्यङ्गयस्य प्र- तीतावेव तात्पर्यपर्यवसाने अभिधाया अपर्यवसानान्न ध्वनिसं- भव इति। तत्राप्रस्तुतप्रशंसालंकारसंभवेऽपि उपदर्शितोदाहरण- योन तत्संभवः। वाच्यार्थस्य प्रस्तुततया कविसंरम्भस्य तत्र विश्रान्त्या अभिधायास्तत्रैव पर्यवसितत्वेन व्यङ्गचार्थस्य विष- यसौन्दर्यबलेन लब्धप्रसरस्य वाच्यकक्ष्यामतीत्य भासमानत्वात्। अतोऽन्रान्यापदेशध्वनिरेव युक्त इति॥ 'वस्तुतस्तु अयमलंकार एव न ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम्' इति कुवलयानन्दे दीक्षिताः। अयमभिप्रायः- समासोक्तौ तावद्वाच्यस्य वृत्तान्तस्य प्रस्तुततया कविसंरम्भ- गोचरत्वेनाभिधायां पर्यवसितायामपि विशेषणसाम्यबलेनाप्रस्तु- तवृत्तान्तावगतावपि प्रस्तुतधर्म्यध्यारोपेण वाच्यार्थसौन्दर्यावहत- या यथा न ध्वनित्वं, यथा वा अप्रस्तुतप्रशंसायामप्रस्तुतसा- मान्यविशेषभावादिसंबन्धेन प्रतीयमानस्य प्रस्तुतस्य वाच्योप- स्कारकत्वेन न ध्वन्यन्तर्भावः, तथेहापि भृङ्गोपालम्भे वाच्ये अभिधापर्यवसानेऽपि व्यङ्गचप्रियतमोपालम्भस्सारूप्येण प्रतीय- मानोऽपि कविसंरम्भगोचर पवेत्युभयोस्तुल्यतया प्राधान्यात्स-

Page 244

प्रस्तुताङ्करसरः (३) 231

मप्राधान्यरूपगुणीभूतव्यङ्गतैव युक्ता। किंच वाच्यस्याप्राधान्ये व्यङ्गचस्य प्राधान्यविवक्षायामेव ध्वनिरिति हि सिद्धान्तः । न चेह व्यङ्ग्यस्य प्राधान्यमस्ति तथात्वे तस्याविवक्षितत्वापत्या अस्य विवक्षितान्यपरवाच्यध्वन्यन्तर्भावोक्त्ययोगादिति। अत

तृतीयचतुर्थपञ्चमोदाहरणेषु तु अलंकारतायां न कस्यापि वि- प्रतिपत्तिः। उक्तं हि ध्वनिकारेण- शब्दार्थशक्त्याSSक्षिप्तोऽपि व्यङ्गचोऽर्थः कविना पुनः। यत्राविष्क्रियते स्वोक्त्या साऽन्यैवालंकृतिर्ध्वैनेः॥ इति। पतानि सादृश्यनिबन्धनान्युदाहरणानि। संबन्धान्तरनिब- न्धनान्यपि कथंचिद्वाच्यव्यङ्गचयोः प्रस्तुतत्वावलम्बनेनोदाहार्याणि तत्र दिङ्गात्रमुदाहियते- एकेन मुखेन त्वां स्तुवीत यः कविरुदारधीर्भ- गवन्। चत्वारि पञ्च षड्डा यात्वा वदनानि पूज्यते स सुरैः ॥१००७॥ अत्र विधित्वशिवत्वस्कन्दत्वानीव तदवयवतया उदाहत- वाक्यवाच्यानि चत्वारि पश्च षडानना यपि श्रीश्रीनिवासस्तुति- महिमप्रयुक्ततया वर्णनीयानीति तन्मुखेन कृत्सं विधित्वं शि- वत्वं स्कन्दत्वं च गम्यत इत्यवयवावयविभावनिबन्धनोऽयं प्रस्तुताङ्कुरः ॥ यथावा -

याः। भायासुस्ता मुक्ता भगवद्वदने ललाटिका- सक्ता: ।।१००८।।

Page 245

232 अलंकारमणिहारे

बुद्धुदनिभा: या: इतिच्छेद:। ललाटे भवोऽलंकारो ल- 4

लाटिका 'तत्र भवः' इत्यधिकारे 'कर्णललाटात्कनलंकारे' इति कन्। अत्र वर्णनीयत्वेन प्रस्तुतानां भगवल्ललाटिकामुक्ताफलानां वदनलावण्यसुधाम्बुधिवुद्धदतया संभावनात्तत्कारणीभूतवद्नला- वण्यसमृद्धिरनवधिका प्रतीयते। साऽपि वर्णनीयत्वेन प्रस्तु- तैव। अत्र वदनलावण्यसमृद्धे: तद्वद्वदत्वेन संभाव्यमानानां मौक्तिकानां च अवयवावयविभावः प्रकृतिविकृतिभावो वा संबन्ध: ।। यथावा- अतिवेलतया प्रवहन्नभितो हरिदिव्यविग्रहद्दी- पम्। श्रीतनुलावण्याम्बुधिपरिवाहः पीतमम्बरं नूनम् ॥१०० ९॥ अत्र वर्णनीयत्वेन प्रस्तुतस्य पीताम्बरस्य लक्ष्मीदिव्यवि ग्रहलावण्याम्बुधिपरीवाहत्वोत्प्रेक्षणेन निर्भरसलिलवुर्भरतटाकत- त्परिवाहनिमित्तभूता तद्दिव्यविग्रहे अमान्ती तल्लावण्यसमृद्धि- दयोत्यते। अत्रापि लावण्यसमृद्धेः तत्परिवाहतादात्म्यापन्नपीता- म्बरस्य च एकदेश्येकदेशभाव एव संबन्धः । यथावा ममैव प्रपन्नानन्दस्तवे- वदनरुचिहदविहरन्नयनमहामीनराजनिष्ठयू- तम्। नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः॥१०१०॥। अत्र वर्णनीयत्वेन प्रस्तुताया नासामौक्तिकमणेः प्रसवि- तृत्वौपयिकमीनतादात््यापन्नस्य श्रीदिव्यनयनस्य तदुचितलाव-

Page 246

प्रस्तुताङ्करसर: (३०) 233

ण्यादिसमृद्धिर्व्यज्यते। साऽपि वर्णनीयतया प्रस्तुतैव। अत्र जन्यजनकभावस्संबन्धः। एवं नयनमहामीराजविहारौपयिकतया हदतादात्म्यमापादिताया वदनरुचेस्समृद्धिरनवधिकेति द्योत्यते। साऽपि प्रस्तुतैव। अत्राधाराधेयभावः॥

यथावा- सर्वकषा मनीषा कीर्तिः कूलंकषा तथा ककु- भाम्। अभ्रंकषा गृहाळी तवद्गक्तानां मृगेन्द्रशै- लेन्दो ॥१०११॥

अत्र भगवतो लोकोत्तरत्वप्रकटनाय तन्महौदार्यवत्तत्का. र्याणि तन्भक्तजनसंपत्सारस्वतादीन्यपि वर्णनीयत्वेन विवक्षिता नीति तन्मुखेन तन्महौदार्यमवगम्यत इति कार्यकारणभावसं- बन्धनिबन्धनोऽयं प्रस्तुताङ्कर:॥ यत्र कार्यमुखेन कारणस्यावगतिरपि पद्ये निबध्यते न तत्रायमलंकारः । किंत्वनुमानमेव॥।

यथा- कण्ठे नृणां हारा उपकण्ठे सुरुचिरानना दाराः। सुकुमाराश्र कुमारा ब्रुवते लक्ष्मीद्दशो महोदाराः।

महोदारा इत्येतत् द्वितीयान्तस्य लक्ष्मीदृश इत्यस्य विशेष- णम्। इदं कर्म, हारा इत्यादयस्तु कर्तारः । अत्र मुक्ताहारा- दिसमृद्धिरूपकार्येण लक्ष्मीदृशां कारणत्वावगतिर्वद्तीत्यनेनावि- वक्षितवाच्येनोपनिबद्धेत्यनुमानालंकारः॥ ALANKARA II 30

Page 247

234 अलंकारमणिहारे

अयमलंकारो दीक्षितोपज्ञम्। प्राश्चस्सर्वेऽप्येनमप्रस्तुतप्रशं-

वोचाम ।। इत्यलंकारमणिहारे प्रस्तुताङ्करसरस्तरिंश:

अथ पर्यायोक्तसरः

पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम्।। येन रूपेण विवक्षितोऽर्थः तदतिरिक्तप्रकारोऽन्यभङ्गी भ- ङ्गयन्तरमित्यर्थः । रसगङ्गाधरेऽपि 'विवक्षितस्यार्थस्य भङ्गयन्त- रेण प्रतिपादनं पर्यायोक्तम्' इत्युक्तम्। केनचिद्रपेण व्यञ्जनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यदभिधया प्रतिपा- दनं तत्पर्यायोक्तमिति तदर्थः । न चैवं ध्वनेरेवायं विषय- स्स्यादिति वाच्यं, तत्र वाच्यव्यङ्गययोर्भेदात्। एवंच यद्वचङ्गथं वस्तु व्यङ्गयत्वाकारादपि चारुतरेणाकारान्तरेण शब्देनाभिधी- यते तत्पर्यायोक्तमिति पर्यवसानात् वाच्यरूपापेक्षया व्यङ्गयरू- पस्य चारुत्वाभावान्न ध्वनिविषयतोति दिक। पर्यायोक्ते वाच्यस्य प्राधान्यं, अप्रस्तुतप्रशंसायां तु गम्यस्येति विवेकः । पर्यायेण भङ्गचन्तरेणोक्तं व्यङ्ग्यं यत्रेति व्युत्पत्तेरन्वर्थनामधेयमिदम्।। यथा- यस्य विहाराहार्य: पाराहार्यस्य पाणिनेश्वापि। सूत्रस्य भाष्यमतनोत्स विनोदी मे मनो घिनोतु पुमान् ॥। १०१३।।

Page 248

पर्यायोक्तसर: (३१) 235

पाराशर्यो वेदव्यासः । तत्सूत्रस्य भाष्यकारो भगवान् रामानुजाचार्य:, पाणिनिसूत्रभाष्यकारो भगवान्पतञ्जलिश्च शेषा- वतारावित्यागमः । अत्र श्रीनिवासवविहाराचलस्य शेषत्वं व्यङ्गचं तदेव भङ्ग्यन्तरेणोक्तम्। शेषत्वप्रकारेण व्यङ्गयत्वम्। पाराश र्यपाणिनिसूत्रभाष्यकारत्वेन वाच्यत्वं भगवद्विहारगिरेरिति व्य- ङ्यापेक्षया वाच्यस्यैव चारुतरत्वमिति ध्येयम्। न च व्यङ्गय- स्यैवाभिधेयत्वं विरुद्धमिति वाच्यम्। नाहि वयं येन प्रकारेण शेषत्वाकारण व्यङ्गयता तेनाकारेणाभिधेयतां ब्रूमः । किंतु पारा- शर्यपाणिनिसूत्रभाष्यकारत्वरूपेणेति न विरोध:॥ यथावा- पवनं योऽभ्राति सदा तमपि च योऽ्भ्राति ता- वुभौ यस्य। शय्यावाहनभावं श्रयतो जगदशुभ- मपनयतु स पुमान ॥१०१४॥ तमपि च योऽश्षातीति तज्जातीयभुजगाशितृत्वमभिसंधायो- क्तम्। अत्र व्यङ्गयादनन्तगरुडत्वाकारादपि पवनं योऽश्रातीत्या- दिना चारुतरेण रूपेण भगवतश्शय्यावाहनयोरभिधानम्। यद्ा भगवान् स्वासाधारणाकारेण गम्य: पवनाशनशयनत्वादिना रूपा- न्तरेण स एवाभिहित:॥

यथावा- वाहनकेतनदक्षिणचक्षुस्स्थानान्यधीयमानानि। यस्य त्रीन् वर्णानपि पवित्रयन्त्येष मे परित्राता॥ अत्र भगवतो वाहनकेतनयोर्यद्वैनतेयरूपत्वरं दक्षिणाक्षिनि- वासस्थानयोर्यदादित्यरूपत्वं च व्यङ्ग्यं ततोऽपि चारुतरेणाकारे-

Page 249

236 अलंकारमणिहारे

णाधीयमानमिति वेदरूपतया भङ्गयन्तरेणाभिहितम्। वाहनादीनां चतुर्णामधीयमानत्वं च सुपरणोऽसिगरुत्मान्, सैषा त्रय्येव विद्या तपति' इत्याद्युक्तरीत्या त्रयीमयत्वादौपचारिकम्। यद्ा अत्रापि भगवानेव स्वासाधारणरूपेण गम्यः त्रयीमयवाहनत्वादिना भ- ङचन्तरेणाभिधीयत इति ध्येयम्॥ यथावा- दशशतभुजपरिरम्भक्षोभं व्यपनीय बलिसुत- वधूनाम्। कल्याणाशासनपदमासीत्तासां य एष वीरोऽव्यात् ॥१०१६॥ अत्र बाणासुरबाहासमुदयलवितृतया व्यङ्ग्यो भगवान्वा- सुदेव: ततोऽपि चारुतरेण दशशतभुजपरिरम्भनिष्पीडनापन-

ङ्यन्तरेणाभिहितः ॥ यथावा- नैकशतबाहुवहनश्रममपनयतिस्म कार्तवीर्य- स्य। यत्प्रहरणमेष कृतो येन हतौजास्स विज- यतां जगति ॥१०१७॥ अत्र कार्तवीर्यार्जुनभुजसहस्त्रच्छेत्तृत्वं विवक्षितोऽर्थः न ताद्रप्येणाभिहितः । अपितु तद्वाहुभारवहनश्रमापनेतृत्वेनाकारेण। यद्वा स्वासाधारणेनाकारेण गम्यो भगवान् दाशराथः कार्त-

भिहितः। न च कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वरूपव्यङ्गयमा- दायैव गदितुमह पर्यायोक्तं न तु विशेषणसामर्थ्यलभ्यदाशराथे-

Page 250

पर्यायोक्तसर: (३१) 237

त्वमादायोते वाच्यं, उक्तविधपरशुधरजेतृत्वरूपव्यङ्गयस्य वा- च्यसिद्धचङ्गत्वेन तेनापि विवक्षितं व्यङ्गचं प्रधानभूतं दाशराथ- त्वमिति तदादायैव तद्वर्णनस्य युक्तत्वात्। अस्यैव पद्यस्यान्ते स विजयतां जगतीत्यत्र जगतीति पदमपनीय राम इति पाठे 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र राहुशिरश्छेत्तृ - त्वमिव कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वमेव विवक्षितं व्यङ्गय- मिति युक्तं तदादायैव पर्यायोक्तमिति ध्येयम् । अत एव 'नम- स्तस्मै कृतौ येन मुधा राहुवधूकुचौ' इत्यत्र 'अत्र भगवान् वासुदेवस्स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारित्वेन रूपान्तरेणाभिहितः' इति कुवलयानन्दोक्तं संगच्छते। यत्तु तत्र भगवद्रपेणावगमनं विशेषणमर्यादालभ्यत्वेनासुन्दरं पर्या- योक्तस्य विषय इति, तदावचारितरमणीयम्। न हि पर्या- योक्ते व्यङ्गयसौन्दर्यकृता विच्छित्तविशेषः। येनासुन्दरता स्यात्। किंतु भङ्गयन्तराभिधानकृत एव। व्यङ्गयं तु भङ्गयन्तराभि- धानतोऽसुन्दरमेव प्रायेण दृश्यते । यथा इहागन्तव्यमिति विव- क्षिते व्यङ्गये अयं देशोऽलंकरणीयः साफल्यं नेय इत्यादौ। तस्मात्तदसुन्दरत्वोन्धावनमकिंचित्करमेवेत्यलं बहुना। एवं 'प- वनं योऽक्ाति' इति प्रागुपदशितेषूदाहरणेष्वपि द्रष्टव्यम् ॥ यथावा- यस्यकमक्षि भुवनं दिवा दिविष्ठं विभासयत्य- खिलम्। अन्यत्तु नक्तमङ्गुतमनिशं मम शं तनो- तु तत्तेजः ॥१०१८॥ अत्र भगवतस्सूर्यचन्द्रलोचनत्वं गम्य प्रकारान्तरेण सुन्दर तरेणाभिहितम्॥।

Page 251

238 अलंकारमणिहारे

यथावा- यत्र चरन्ति त्रिदशा दिवानिशं तञ्च यौ परि- षकुरुतः। यस्तौ ग्रसति च पर्वसु लूनशिरास्सोपि येन सोडव्यान्न:।१०१९॥

यत्र व्योस्नीति भावः । त्रिदशाः चरन्ति, नभश्चरत्वात्ते- षाम्। तत् व्योम च। दिवा च निशा च दिवानिशं अत्यन्तसंयोगे द्वितीया। यौ सूर्याचन्द्रमसाविति भावः । परिष्कुरुतः यथा- क्मं भूषयतः । तौ सूर्याचन्द्रमसौ च यः राहुरिति भावः। पर्वसु ग्रसति। सोऽपि येन लूनशिरा: सः भगवान नः अव्यात्। अत्रान्तरिक्षादिकं व्यङ्ग्यं रूपान्तरेणाभिहितम्। अवं च वक्ष्य- माणैकावळीसंकीर्णः ॥

  • यथावा- धत्ते या तामरसं हस्तेन विलोमतदभिधानार्थ- म्। हृदयेन यश्र धत्ते हृदये तो दंपती विहरतां नः।। विलोमतदभिधानार्थ व्यत्यस्ततामरसनामवाच्यं सरमता मित्यर्थः । अन्र व्यङ्ग्यं लक्ष्मीत्वं नारायणत्वं च भङ्गयन्तरेणा- भिहितम् ॥

यथावा- जलदसरसां यदीयां द्युतिमाहुर्देवताऽवतात्सा मामू। विपरीततदभिधेयं यद्रूपं साडपि देवताऽव- तु माम्॥१०२१॥

Page 252

पर्यायोक्तसर: (३१) 239

यस्या: द्यर्ति जलदसरसां तोयदश्यामलामिति यावत्। आहुः श्रुत्यादय इति शेषः । सा देवता मां अवतात्। यस्या: रूपं वर्ण 'रूपं स्वभावे शुकादौ' इति रत्नमाला । विपरीत- तदभिधेयं व्यत्यस्तेन जलदसरसामितिशब्देन वाच्यं सारसद- लजमित्यर्थः । पद्मदलजन्यं तत्तुल्यमिति यावत् 'पद्मवर्णाम्' इति श्रुतेः । अत एव पदार्थवृत्तिनिदर्शना। सा देवता च मां अवतु। अत्र भगवान् श्रीनिवास: भगवती श्रीश्च व्यङ्गचौ ज- लदसरसदीप्तित्वेन सारसदलजरूपत्वेन च भङ्ग्यन्तरेणाभिहितौ। यथावा- आद्यं भूतमनन्तरमपि पद्गयां वदनतस्तृतीय- मभूत् । प्राणानतुर्य नाभ्याः पश्चममपि यस्य भूत- कृत्सोऽव्यात् ॥१०२२।। अत्र पृथिव्यप्तेजोवाय्वाकाशानि व्यङ्रयानि प्रकारान्तरेणा- भिहितानि। गङ्गाSत्र द्वितीयभूतत्वेन विवक्षिता। अत्र 'पन्नयां भूमिः। विष्णुपादोन्भवा गङ्गा। मुखादिन्द्रश्चाम्निश्च। प्राणाद्वायु- रजायत। नाभ्या आसीदन्तरिक्षम्'। इतति प्रमाणान्यनुसन्घेया- नि। इदं च वक्ष्यमाणरतावळीकाव्यलिङ्गसंकीर्णम्।। यथावा- दीव्यतु कोऽपि स देवो भूषां योषां च यस्य जलधिरदात्। स्वयमेव यत्प्रियायास्सारसनमभू- त्स एष वसनं वा ॥ १०२३॥ स एषः पूर्वोक्तो जलधिरित्यर्थः । स्वयमव यस्य देवस्य प्रियाया: वल्लभायाः भुव इति भातः 'विष्णुपती महीं देवीं

Page 253

240 अलंकारमणिहारे

4 माधवीं माधवप्रियाम्' इति श्रुतेः। सारसनं मेखला। वसनं अंशुकं वा अभूत् । 'भूतधात्र्यब्धिमेखला। निधानगर्भामिव सागराम्बराम्' इत्युभयथाऽपि प्रसिद्धेरिति भावः । अत्र कौ- स्तुभाभरणत्वं श्रीपतित्वं भूवल्लभत्वं च व्यङ्गयम्। इदं तुल्य- योगितादिसंकीर्णम्।

अस्मिंश्चालंकारे व्यङ्ग्यं वाच्यपरं अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरम्। तेनायमलंकारो वाच्यसिद्धयङ्गगुणीभूतव्य- ङ्ग्यभेद इति ध्वनिकारानुयायिनः। अयं चालंकार: क्वचित्का- . - रणेन वाच्येन कार्यस्य गम्यत्वे क्वचित्कारणेन कार्यस्य क्कचि- दुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति त्रिविध इति जगन्नाथादयः॥

तत्र कारणेन वाच्येन कार्यस्य गम्यत्वे यथा- यैरर्प्यन्ते कुसुमान्यसमानि रमासख त्वदीय- पढ़े। तैरुप्यन्ते स्वपदे स्वैरं कल्याणबीजानि॥

त्वदीये तावके पदे चरणे त्वदीयानां भागवतानां चरणे वा। स्वपदे स्वस्थाने स्वव्यवसितेऽर्थे स्ववस्तुनि वा। अत्र बीजावापेन कारणेन अश्युदय: कार्यरूपो गम्यते।

कार्येण कारणस्य गम्यत्वे यथा- कामयते यान् लोकांस्तामरसविलोचन त्वदी- यजनः । सपदि समुत्तिष्ठन्ते संकल्पादेव देव त- स्यामी॥१०२५॥

Page 254

पर्यायोक्तसर: (३१) 241

अमी लोकाः अत्र 'स यदि पितृलोककामो भवति सं- कल्पादेवास्य पितरस्समुत्तिष्ठन्ते' इति श्रुतेरर्थोऽनुसंहितः। अत्र भगवद्भक्तानां यथेष्टलोकसृष्टिरूपेण कार्येण तत्कारणं 'स स्वराङ्गवति' इत्याद्यक्तं मुक्तैश्वर्य गम्यते।

विचरन्विपिनोद्देशे सहस्रनयनं सहस्रकिरणं यथावा-

च। शोकेनानन्देन च सासत्रं यो व्यधित सव्य एष पुमान्॥१०२६॥ अत्र सुन्राम्णोरऽर्यम्णश्च सास्र वरूपकार्येण वाच्येन सुता- त्ययरूपं सुताभ्युदयरूपं च कारणं गम्यते। अयं वक्ष्यमाण- यथासंख्यसंकीर्ण इति पूर्वस्माद्विशेष: । तडुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य गम्यत्वे।। यथा- उत्पलमहोत्पलव्रजविकासिनी वामदक्षिणे न- यने। शिशिराशिशिरे यस्य प्रशमयतु स ताप- मेष जडतां च ॥ १०२७॥ स एषः तापं आध्यात्मिकादिकं संज्वरं च। जडतां शैत्यं अज्तां च प्रशमयतु। अत्रोत्पलमहोत्पलविकासकारिशिशिरा- शिशिरवामदक्षिणविलोचनत्वेन वाच्येन न कार्येण नापि कार- णेन केवलं सहचरितेन चन्द्रसूर्यविलोचनत्वं गम्यते। अत्र हि वाच्यव्यङ्गययोः केवलं सहचारतत्वं संबन्धः न तु कार्यकारण- भावरूप: एवं प्रागुषदर्शितेषु 'यस्य विहाराहार्थः' इत्याययुदाहर- णेष्वपि यथायोगं संबन्धो द्रष्टव्यः । इद यथासंख्यपरिक- राश्यां संकीर्णम्॥। ALANKARA II 31

Page 255

242 अलंकारमणिहारे

केचित्तु प्रस्तुतेन कार्येण प्रस्तुतस्य कारणस्य गम्यत्वे पर्यायोक्तमाहुः । त एते प्रस्तुताङ्करस्य न पृथगलंकारतामभ्यु- पगच्छन्ति। दीक्षितादयस्तु एवंविधे विषये प्रस्तुताङ्कर एे- त्याहुः। स्पषट चैतत्कुवलयानन्दादौ।।

द्वितीयपर्यायोक्तम्.

व्याजेन रमणीयेन यदि स्वस्य परस्य वा। साध्यते 5भीप्सितं तञ्च पर्यायोक्तं विदुर्बुधाः ।। पर्यायेण व्याजरूपेणोक्त यत्रोत व्युत्पत्तेरिदमपि पर्यायो- क्तम्। अय च प्रकारो दीक्षितोपज्ञमेव। प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणमिति ध्येयम।। तत्नाद्यं यथा- गर्जति जलदो विद्युत् स्फूर्जति वर्जय बहिर्ग- तिं भीरू। इति झडिति वारयन्किल चतुरश्श्िष्यन् श्रियं जयतु शौरिः ॥ १०२८॥ अत्र जलदगर्जितादिभयप्रदर्शनव्याजेन भगवता लक्ष्मीसमा- श्षेषरूपस्वेष्टसाधनं निबद्धम्।

अलकाश्चलिता मरुता तिलको लुलितस्समी- यथावा-

करिष्यामि। तदिदमिति मुदितहृदयो वदनं चुम्बन् श्रियो हरिर्जयतात् ॥ १०२९ ॥

Page 256

व्याजस्तुतिसर: (३२) 243

अत्र लुलितालकादिसमीकरणापदेशेन पीताम्बरस्याम्बुधि- सुतावदनाम्बुजचुम्बनरूपस्वेष्टसाधनमेव दर्शितम्।। द्वितीयं यथा- कुसुमापचायलोभाद्विषमां कुञ्जस्थलीं प्रयाति रमा। सह याहि त्वं श्रान्ताऽस्म्यहमित्यहिमहि- भृदीशमाह सखी ॥ १०३०॥ अपचायेत्यत्र 'हस्तादाने चेरस्तेये' इति घन। महिशब्दो हस्वान्तोऽ्यस्ति, 'वीचिः पद्विर्महिः केळरित्याद्या हस्वदीर्घ योः' इति वाचस्पत्यनुशासनात। अत्र कुसुमापचायव्यग्राया कुञ्जस्थलीं प्रविष्टायाः श्रियस्साहायकविधानप्रेरणव्याजेन भगवत- स्तत्संभोगाभीप्सितं श्रान्तताव्याजेन पृथगवस्थितया सख्या साधितमिति परेष्टसाधनं निबद्धम्। इत्यलंकारमणिहारे पर्यायोक्तसर एकत्रिंश:

अथ व्याजस्तुतिसरः-

स्तुत्याभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यि। तत्र व्याजस्तुति नाम प्राज्ञा: प्राहुरलंकृतिम्। यत्र स्तुतिरभिधीयमानाऽपि प्रमाणान्तरेण बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्वयाजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दा शव्देन प्रतिपाद्यमाना पूर्ववद्वाघितरूपा स्तुतौ पर्यवस्यति सा द्वितीया व्याजस्तुतिः।

Page 257

244 अलंकारमणिहारे

व्याजेन निन्दामुखेन स्तुतेः । एवं च कर्मधारयतृतीयातत्पुरु- षाभ्यां योगार्थद्येन द्वयोरपि शब्दार्थत्वमिति वेदितव्यम्॥

आद्या यथा- सुतदारप्रीणनविधिकृतदाक्ष्यस्त्वं गृहे वससि धन्यः। न भजसि भुजङ्गभूधरविभुसेवायासवै- शसं जातु ॥ १० ३१॥ अत्र केवलसांसारिकस्य कस्यचिद्वयाजरूपा त्वं धन्य इति स्तुतिर्बाधिता सती तस्य श्रीनिवाससेवावैधुर्यप्रयुक्तनिन्दायां पर्यवस्थति॥ द्वितीया यथा- त्वनः को विजुगुप्सो मत्तः कोऽन्यो रमेश। निर्लज्नः। शश्वदघं कः क्षमतां शश्वत्क्षान्तेऽपि तत्र कः कुरुताम् ॥१०३२॥ तत्र तस्मिन् पुनःपुनः कृते अधे क्षान्तेऽपि शश्वत् मुह्- मुदुः अघमित्यनुषज्यते। अघं अपराधं क कुरुताम्। अतस्त्वं विजुगुप्स: अहं निर्लज इति भावः। अत्र को विज्ञुगुप्स इति निन्दा बािता सती रमासखस्य क्षमाभूमा निस्समान इति स्तुतौ पर्यवस्यति॥ अत्र चैक एवार्थ: केनचिदाकारेणादी स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिस्ता प्रकारान्तरेण निन्दाया: स्तुते- र्वा विषयो भवति, तत्र यावानंशो बाधितस्तावानेवान्यथा- त्वेन पर्यवस्यति। अंशान्तरं तु स्वभावेनैवावतिष्ठत इत्यवधेयम्।

Page 258

व्याजस्तुतिसरः (३२) 245

इयं चालंकारान्तरसंकीर्णा यथा हृद्यायामपि लक्ष्म्यामतुलां तुलसीं परां च वनमालाम्। आश्लिष्टकन्धरां त्वं तनुषे सर्वेश्व- रोडसि किं ब्रूम: ॥ १०३३॥ अतुलां शीलवयोवृत्तादिभिस्स्वस्याननुरूपां निस्समामिति तु वास्तवार्थः । परां परकीयां उत्कृष्टां च। सर्वेश्वरोऽसि 'प- थश्शुचेर्दशैयितार ईश्वरा मलीमसामाददते न पद्धतिम' इत्यु- करीत्या सर्वेश्वरस्य तव सत्पथप्रवर्तनमेवोचितं नासत्पथे स्वयं- प्रवर्तनमिति भावः। वस्तुस्थितिस्तु 'वक्षरस्थल्यां तुलसिकम- लाकौस्तुभैवैजयन्ती सर्वैश्वर्य कथयतितरां रङ्गधाम्नस्तदास्ताम्' इत्युक्तप्रक्रियया तुलसीवैजयन्तीलक्ष्मीभूषितवक्षस्स्थलतया अखि- लजगद्धाश्वरोऽसीति। अत्र भगवतस्समासोक्तया पल्लविक- घुरणणिव्यवहाराश्रयत्वप्रतीतिः तन्मूला निन्दा स्तुतौ पर्यवस्थति॥

यथावा- सदर: करस्तवैकस्साध्वसिताऽSढयः परस्तदपि शौरे। अभयप्रदपाणिं त्वामाहुस्सुलभा हि सुक- तिनां कीर्तिः ॥१०३४॥ सदर: सभय: सशङ्श्च। साध्वसमस्यास्तीति साध्वसी तस्य भाव: साध्वसिता। तया आळ्यः। अत्रार्थान्तरन्यास- परिपोषिता भगवतो निन्दा दुष्कृद्विनाशनकतानशङ्गनन्दकादिदि- व्यायुधपरिकरधारितया सकललोकाभयप्रदानधौरेय इति स्तुतौं पर्यवस्यति॥

Page 259

246 अलंकारमणिहारे

यथावा- भगवन्भार्गव कथमिव भवदायुघमाहुरप्रतिद्वं- द्वमू। त्वयि गृहति युधि परशुं द्विषता ह्यपरेण परशुनाऽभावि॥१०३५॥ त्वाये युधि परशुं गृह्नति सति द्विपता त्वदरिणा जा- त्येकवचनम्। हीत्यवधारणे। द्विषतैवेत्यर्थः । अपरेण अन्येन परशुना परश्वधेन अभावि अभूयत। तत्करथ भवदायुधमप्रति- द्वंद्वमाहुः। यतस्त्वदरिरेव परः परश्वधस्समजनीति भावः। पक्षे-द्विषता वैरिणा अपरेण अयगतरेफेण परशुना पशुनेत्यर्थः । अभावि। त्वाय परश्वधं गृहत्येव तव वैरी सर्वोप पशुर्भवति पशुवद्विशसनगोचरी भवतीति भावः । यद्वा-अपरेण अि- द्यमानपकाररेफोभयवर्णेन परशुना शुना शुनकेनेत्यर्थः। शुनक- वत्सुप्रहरेणाभूयतेति भावः। अत्र भगवतो भार्गवस्य परशो रप्रतिद्वंद्वताधिक्षेपरूपनिन्दा सुकरसकलरिपुकुलविदलन इति स्तुतौ पर्यवस्यति। श्लेषोत्तम्भितेयम्॥

यथावा - स्तन्यमदाने प्रीत्या धन्या काचिज्िघांसया त्व- न्या। तुल्यं तयो: फलमदाः कल्यः कस्ते विवेक- कथनाय ॥ १०३६॥

अत्र भगवतः प्रियाप्रियकक्ष्याविभागवैधुर्येण तुल्यफलदा- नाद्विवेकविधुरोऽसीति निन्दया बाधितया सर्वभूतात्मके तात जगन्नाथे जगन्मये।

Page 260

व्याजस्तुतिसर: (३२) 247

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः॥ समोऽहं सर्वभूतेषु सर्वस्य शरणं सुहृत्॥ इत्युक्तरीत्या सर्वसुहृत्त्वेन स्तुतिरवगम्यते। इयं प्रागुक्तहिता- हितवृत्तितौल्यलक्षणतुल्ययोगिताविशेषपरिपोषिता। एवं 'शपतां चैद्यादीनाम' इति तुल्ययोगिताप्रकरणोदाहृतपद्येऽपीयं व्याज- स्तुतिर्द्रष्टव्या॥ इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममु- पक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं स्थात्तदा भवति। अन्यस्य स्तुत्या निन्दया वा अन्यनिन्दास्तुत्योः पर्यवसाने न प्रसरेदिति प्राचामालंकारिकाणां समयः ॥

म्यत्वे द्वौ प्रकारौ। भिन्नवेषयतया गम्यत्वे च द्ौ प्रकारौ। अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तौ त्वेकः प्रकार इत्येवं पञ्चविधां व्याजस्तुतिमभिप्रयन्तस्तथैवादाजहिरे। अयमभिग्रायः-'व्यक्ति- ्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः' इति लक्षणे निन्दा- स्तुतिभ्यामित्यत्र स्तुतिनिन्दयोरित्यत्र च इतरेतरयोगो न विव- क्षितः । तथाच निन्दया स्तुतेः स्तुत्या निन्दायाः स्तुत्या स्तु- तेश्च व्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमो व्याजेन स्तुतिरिति, चरमयोर्व्याजरूपा स्तुतिरिति च व्युत्पत्तेः । अत एव व्याज- स्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्यक्तिर्व्याजनन्देत्यलं कारान्तरमुक्तम्। एवमाद्ये प्रकारदये स्तुतिनिन्दयोस्समानवि- षयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो मेदा:। अन्यस्तु भिन्नविषयस्तुतिक एक एवेति पञ्च मेदाः । लक्षणं तु व्याजनिन्दाभिन्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तुति निन्दान्यतरत्वं सर्वानुगतमिति ध्येयमिति॥

Page 261

248 अलंकारमणिहारे

तन्मते एवं लक्षणश्लोकः.

स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा। व्यङ्ग्या विभिन्नविषया स्तुत्या व्याजस्तुतिरस्तुतिः। स्तुत्या निन्दाया: निन्दया स्तुतेवां भिन्नविषयायास्समान- विषयाया वा व्यङ्ग्यतायां चत्वारः प्रकाराः । भिन्नविषयायाः स्तुत्या स्तुतेव्यङ्ग्यतायां त्वेकः प्रकार इति पञ्चधा व्याजस्तु- तिरित्यर्थः ॥ भिन्नविषयत्वे स्तुत्या निन्दाभिव्यक्तिर्यथा- धन्याः खगा मृगा अपि वन्या एते नगाश्र नागाश्च। मान्या ये माधवपदविन्यासपवित्रिते वसन्ति गिरौ ॥१०३७॥

अत्र मृगाधिराजनगावासिनां खगादीनां धन्यतास्तुत्या अतद्विधानामधन्यतारूपनिन्दा व्यज्यते।। इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी। यदाह- अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥

सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते। राजानुवर्तनक्केशनिरविण्णेन मनस्विना ॥ इति। वस्तुतस्तु-'अत्र व्याजस्तुतिरित्येवयुक्तं, स्तुत्या निन्दा- भिव्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्रचविशेषसद्भावात्। अन्यथा

Page 262

व्याजस्तुिसरः (३२) 249

प्रसिद्धव्याजस्तुत्युदाहरणेष्वप्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तु- ते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा स्यात्' इति दीक्षिताः॥ अन्ये तु-प्रसिद्धस्थले 'कस्स्वर्धुनि विवेकस्ते, साधु दूति पुनस्साधु' इत्यादौ स्तुतिनिन्दयारेकेधमर्तवादप्रस्तुतप्रशं- सायास्तन्रासंभवेन व्याजस्तुतेर्विविक्तविषयत्वसाम्राज्यान्न व्या- जस्तुतिमात्रमप्रस्तुतप्रशंसा भविष्यति। प्रस्तुतधर्मकेऽप्यप्रस्तुत- प्रशंसाऽश्युपगमे तु तस्मिन्नेव विषये ललितालंकारपार्थक्याभ्यु- पगमो व्याहतस्स्यादित्याहुः॥ भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा- अपदत्रयमितलोकैरवामपादाम्बुपूतजगतीकैः। अलमन्यसुरवराकैरनमृतदानक्षमैरलक्ष्मीकैः । अत्र देवतान्तरनिन्दया श्रीनिवासस्तुत्यभिव्याक्तिः ॥ स्तुत्या निन्दाया: निन्दया स्तुत्या वाऽभिव्यक्तौ समानवि- षयतायां प्रागेवोदाहरणानि प्रादर्शिषत॥ अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तिर्यथा- क्षेत्रे क्व नु कतिदिवसान्व्यधात्तपो वादपि कि- मभ्िधानमयम्। यदविरतं त्वत्पदसममरविन्दं विन्दतेऽच्युत मिळिन्दः ॥ १०३९ ॥ अत्र मिळिन्दस्तुत्या भगवत्पादारविन्दसौन्दर्यसौकुमार्यभो- ग्यतादिसौभाग्यातिशयस्तुतिव्यज्यते ।। इत्यलंकारमणिहारे व्याजस्तुतिसरो द्वात्रिंशः॥

ALANKARA II. 32

Page 263

250 अलंकारमणिहारे

(३३) अथ व्याजनिन्दासरः

व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि॥९१। यत्रान्यनिन्दया अन्यस्य निन्दाया अभिव्यक्तिस्सा व्याज- निन्दा। इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः॥

धिडमां जडमूर्धन्यं वाझानसदूरविपुलदौर्ज- यथा-

न्यम्। पयसिजलोचन योऽहं त्वयि विमुखानां मुखानि पश्यामि ॥ १०४० ॥ अत्र श्रीनिवासविमुखजनमुखावलोकितुस्स्वस्य निन्दया तादृशस्य परमपापिष्ठतया निन्दा व्यज्यते॥।

आमुखमधुरं परिणतिविरसं तिक्त्तं च वितरसि यथा वा-

फलं त्वम्। उच्चैर्भूतपलाशैस्सेव्योडसि न मादृ- शंस्य तालतरो ॥ १०४१॥ आमुखमधुरं आपातमधुरं 'तालफलरस इवापातमधुरः परिणामविरसस्तिक्तश्च' इत्येतदनुसंहितम् । उच्चैः भूतैः देव- योनिविशेषैः पलाशैः क्रव्यादैश्च । अन्यत्र उच्चैः ऊर्ध्वप्रदेशे भूतैः जातैः पलाशैः पत्रैः सेव्यः। मादृशस्य दिव्यफलार्थिन इति भावः। न सेव्य इति योजना। अत्र भगवत्प्रपन्नवचने

मप्यलंकारो दीक्षितोपज्ञमेव॥ ननु केनाप्यालंकारिकेणानुदीरिताया अस्या: व्याजनि- न्दाया: कथमलंकारतयाऽभ्युपगमः? उच्यते-अन्यस्तुत्याऽन्य-

Page 264

व्याजननिन्दासरः (३३) 251

स्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतेः तुल्ययुक्तया प्रति- द्वंद्विस्थानीयत्वादस्याः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्र शंसातो वैचित्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमा- भावादनन्तर्भावे पृथगलंकारताया औचित्यात्प्राचीनैरनुक्ताया अप्यभ्युपगन्तुमुचितत्वादिति॥ ननु यत्रान्यस्तुत्याऽन्य स्तुतिरन्यनिन्दयान्यनिन्दा च प्रतीयते तत्र व्याजस्तुतिव्याजनिन्दालंकाराभ्युपगमे स्तुतिनिन्दारूपाप्रस्तु- तप्रशंसोदाहरणेष्वप्रस्तुतप्रशंसा न वक्तव्या, तेषामपि व्याजस्तु- तिव्याजनिन्दाभ्भां क्रोडीकरणसंभवादिति चेदुच्यते-यत्राप्र- स्तुतवृत्तान्तात् स्तुतिनिन्दारूपात्तत्सरूप: प्रस्तुतबृत्तान्तः प्रती- यते 'अन्तश्छि्द्राणि भूयासि' इत्यादौ तत्र लब्धावकाशा सा- रूप्यनिबन्धनाप्रस्तुतप्रशंसाऽत्रापि प्रवर्तमाना न शक्यते वार- यितुम्। अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽपनिन्देत्येवं व्याजस्तु- तिव्याजनिन्दे अपि संभवतश्चेत्कामं ते आपे संभवेतां न त्वस्या: परित्याग: । यद्यपि 'आमुखमधुरं परिणतिविरसम्' इत्यनुप- दोदाहते पद्ये तालतरुनिन्दया निहीनफलदातृदेवतान्तरनिन्दा प्रतीयत इति तत्र सारूप्यनिबन्धनाSप्रस्तुतप्रशंसाप्यस्ति, तथा- -

ऽपि सैव व्याजनिन्दामूलेति प्रथमोपस्थिता साऽपि, तत्र दुर्वारा। एवंच व्याजनिन्दाऽनुप्राणितेयमप्रस्तुतप्रशंसेति चमक्तारातिशयः ॥

यथावा-

कर्दम दुर्दमगर्वो वल्ग त्वं कस्तवात्र दोषोऽ- स्ति। यस्त्वां कस्तूरीसममवैति निन्धस्स वै वि- पिनमहिषः ॥ १०४२॥

Page 265

252 अलंकारमणिहारे

अत्र वनमहिषनिन्दया तन्मूलककर्दमनिन्दया च मूढत- मस्य कस्यचित् तेन च महाब्रह्मवित्तुल्यतया ज्ञातस्य विद्वन्मा- निनः कस्यचिद्वैधेयस्य च निन्दा प्रतीयत इति सारूप्यनिब- न्धनाप्रस्तुतप्रशंसा व्याजनिन्दामूलकव्यजनिन्दारूपेयमिि पूर्व- स्माद्विच्छित्तिविशेषः ॥ एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपा- उव्यप्रस्तुतप्रशंसा दृश्यते।।

यथा- नन्दात्मजचडारह बर्है या तव ततान ननु बर्हिन। साडम्बुदमाला स्तुत्या नृत्यानन्देन किं तव स्तुत्या ॥ १०४३॥ ततान वितस्तार। स्तुत्या स्तवार्हा। आनन्देन नृत्य नर्तनं कुरु नृत्यतेर्लोण्मध्यमैकवचनम्। त्वं स्वैर नर्तनं विधेहि अस्मादशां स्तुत्या तव किं प्रयोजनमिति भावः। यद्ां तव स्तुत्या त्वत्कर्मकस्तवेन अस्माकं किं प्रयोजनं तवाप्यतिशया- धायिकायां जाग्रत्यां कादम्बिन्यामिति भावः । किं तव स्तुत्ये- न्युक्तिरपि हर्षातिशयकारितेति स्तुतिपर्यवसायिन्येव॥ अत्राप्र- स्तुताम्बुद्मालास्तुत्या तन्मूलकमयूरस्तुत्या च महावदान्यचू डामणेर्म हालक्ष्मचास्तत्कटाक्षाधिगतभगव दर्णपिक वैभवस्य त- द्वक्तस्य च स्तुतिर्गम्यत इतीयं सारूप्यनिबन्धनाप्रस्तुतप्रशंसा व्याजस्तुतिमूलकव्याजस्तुतिरूपा ॥

यथा वा- बहुधाडभिनन्दनीयस्स विधाता यश्चकोरशाब

Page 266

व्याजनिन्दासरः (३३) 253

त्वाम्। विदधेऽखिलद्विजेष्वपि विधुपादसुधारसैक- जीवातुम् ॥१०४४॥

अत्राप्रस्तुता विधातृप्रशंसा तन्मूलकचकोरस्तुतिश्च प्रस्तु- तस्य परमकारुणिकस्य महाभागवतस्याचार्यस्य तत्कपासमधि- गतभगवच्चरणरविन्द परिचरणानुभवरसैकजीवनस्यान्तेवा सिनश्व्व प्रशंसायां पर्यवस्यति॥

बुक्कपत्तनवेङ्कटाचार्यास्तु व्याजस्तुते: व्याजनिन्दायाश्च प्रत्येकं

स्तुत्या वा निन्दया वाऽपि स्तुतिर्यत्र प्रतीयते। समर्थयामहे तत्र व्याजस्तुतिमलंकृतिम्॥

अन्यस्तुत्याऽन्यस्तुतिः तन्निन्दया तत्स्तुतिः अन्यनिन्दयाS- न्यस्तुतिश्चेति व्याजस्तुतेस्त्रैविध्यम्।

स्तुत्या वा निन्दया वादपि यत्र निन्दा प्रती- यते। समर्थयामहे तत्र व्याजनिन्दामलंकृतिम् ॥

स्तुत्या निन्दा द्विविधा। तत्स्तुत्या तन्निन्दा अन्यस्तुत्या तन्निन्दा। निन्दया निन्दा त्वेकविधेति व्याजनिन्दायाश्च त्रै- विध्यं प्रदर्श्य, तथैवोदाहरणानि च प्रदाय 'यद्यपि कुवलया- नन्दे स्तुत्या निन्दाभिव्याक्तरपि व्याजस्तुतिरवेोति स्वीकृत्य व्या- जस्तुते: पञ्च प्रकारा इत्युक्तं, तथाऽपि निन्दाभिव्यक्तिस्थले व्याजनिन्दैव युक्तेति स्तुत्यभिव्यक्तौ व्याजस्तुतिमङ्गाकृत्य यत्र:

Page 267

254 अलंकारमणिहारे

प्रकारा इत्येवाश्रयितुं युक्तम्। समविषमादिन्यायेन परस्परप्रति-

इत्युपपादितम्।। इत्यलंकारमणिहारे व्याजनिन्दासरस्त्रयस्त्रिंशः॥

(३४) अथाक्षेपालंकारसरः

स आक्षेपो भवेत्स्वोक्तनिषेधो यो विमर्शतः । उक्तस्यार्थस्य पर्यालोचनपूर्वकः प्रतिषेध आक्षेपालंकारः॥ यथा- परिरक्ष मां प्रपन्नं पन्नगनगनाथ भवपथविप- न्नम्। धन्यस्त्वययहमथवा विन्यस्तभरः किमन्य- दाझासे ॥१०४५॥ अत्र प्रार्थितस्य स्वरक्षणस्य भगवति विन्यस्तसमस्तात्म- भरत्वेन वैयर्थचमालोच्याथवेत्यादिना प्रतिषधम्सूचितः॥

यथावा- त्वन्मुखरुचिधूतरुचेर्जीवितसंदेह एव सन्नेतुः। शिशिरमरीचेरथवा जैवाकृत एष कथमपि स जीवेत् ॥ १०४६ ।। जैवातृक: दीर्घायुः 'जैवातृक: पुमान् सोमे दीर्घायुःकृ- शयस्त्रिषु' इति मेदिनी। अत्र भगवन्मुखप्रभाविधूतरुचेशविश-

Page 268

आक्षेपालक्कारसरः (३४) 255

शिररुचेः सत्पतित्वात् 'सतां साने म्लाने मरणमथवा दूरग- मनम्' इत्युक्तरीत्या जीवितसंदहस्य संभावितस्य जैवातृकश ब्दगतार्थश्लेषमहिम्ना आयुष्मत्तां विचार्य प्रतिषेधो वर्णितः। इलेषसंकीर्णत्वं पूर्वस्माद्विच्छित्तिविशेषः ॥

यथावा- देव कथमुदवहस्तामुदधे: पिङ्गळतया श्रुतां कन्याम्। सा हि निषिद्वा शास्त्रैरथवा स्वरैस्य विधिनिषेधौ क्क । १०४७॥

हे देव! पिङ्गळायाः भावः पिङ्गळता तया 'त्वतलो- गुणवचनस्य' इति पुंवन्भावः । श्रुतां निशमितां ख्यातामिति यावत्। 'पिङ्गळां हेममालिनोम्' इि श्रुतिप्रसिद्धामिति हृदयम्। उदधे: कन्यां कथं उदवह: पर्यणैषीः । कुतोऽसावा- क्षेप इत्यत आह सा हीति॥ सा पिङ्गळवर्णा कन्या शास्त्रैः निषिद्धा,

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्। नालोमिकां नातिलोमां न वाचाटां न पिङ्गळाम्।

इत्यादिमन्वादिस्मृतिभिरुद्वाहे प्रतिषिद्धा। हीति हेतौ, प्रसिद्धौ वा । स्वयमेव समाधत्ते-अथवेति ।। अथवा स्वैरस्य निरवग्रद्दस्य पक्षे 'स्वातन्त्रथमश्वरमपर्यतुयोज्यमाहुः' इत्युक्तरी- त्या अपर्यनुयोज्यस्वातन्त्रयस्येत्यर्थः । विधिनिषेधी क्व एकत्र निरंकुशत्वात् । अन्यत्र अकर्मवश्यत्वादिति भावः । अत्र पि-

Page 269

256 अलंकारमणिहारे

त्वपरिचिन्तनया प्रतिषेधोऽर्थान्तरन्यासविधया, निबद्ध इति पूर्वस्मादपि वैलक्षण्यं बोध्यम्॥

यथाबा- अश्चामि त्वां किंचित्पश्चायुधरमणि चञ्चला मा भूः । अथवाऽदयन्तचला त्वं चलैव मध्येडश्चिताS- पि किं कथया। १०४८॥

हे पश्चायुधरमणि! त्वां अञ्चामि पूजयामि त्वां नमामी- तिवल्लोकोक्तिः । किश्चित् अल्पकालमित्यर्थः । चञ्चला मा भूः चाश्चल्यं विहाय स्थिरा भवेति भावः । अथवा आद्यन्तयोः चला आद्यन्तावभिव्याप्य आद्यन्तं चला वा। सर्वदा चपल- शीलेति भावः । त्वं मध्ये इदानीं मदीप्सितसाधनार्थमिति भावः । अश्विताऽप चञ्चला माभूरिति प्रार्थनापूर्वकमाराधि- ताऽपि चलैव चश्चलैव भवास। कथया व्यर्थवाक्यप्रबन्धेन किं न किमपि साध्यमित्यर्थः। स्वभावस्य दुरतिक्रमतया मत्प्ार्थनभकिंचित्करमेवेति भावः । पक्षे चश्चलाशब्दः अर्थ- गतं स्त्रीत्वं शब्दे आरोप्यते । आदयन्तौ चलौ च ला इति वर्णो यस्यास्सा तथोक्ता । मध्ये अश्चिता अविद्यमान: श्च इति वर्णसमुदायो यस्यास्सा तथोक्ता कृताऽपि अपिस्संभाव- नायां चलैव । च ला इति वर्णौ अस्या: स्त इति चला। अर्शआदित्वान्मत्वर्थीयोऽच्। चञ्चलेति शब्द: मध्यगतस्या श्चेतिवर्णसमुदयस्य लोपश्चेत् चलेत्येव निष्पन्नो भवतीति भावः। अत्र चञ्चला मा भूरिति प्रार्थितस्यार्थस्य तत्स्वभाव- विमर्शेन वैयर्थयमालोच्य निषेधः कृतः॥

Page 270

आक्षपालङ्कारसरः (३४) 257

यथावा- पाश्चाल्यास्त्वत्कृपया भगवन् प्रादुस्थितं दुकू- लमपि। अगमत्कुतः कुरूणां कुकूलतां तल्लिपि- स्तथा ह्यथवा॥ १०४९॥ हे भगवन्! त्वत्कृपया प्रादुस्थितं आविर्भूतं सत् स्थितं दुश्शासनकृतवसनापहारावसरे इति भावः। पाश्चाल्या: दुकूल- मपि कुरूणां दुर्योधनादीनां कुतो हेतो कुकूलतां शङ्कीर्णश्वभ्रतु- ल्यतां तुषानलतुल्यतां वा अगमत्। उद्वेलभगवत्कृपाजन्यमति मनोहारि दुकूलमपि तेषां निपातास्पदं दाहहेतुर्वा कथमासी- दाश्चर्यमेतदिति भावः । 'कुकूलं शङ्कभिः कीर्णे श्वभ्रे ना तु तुषानले' इत्यमरः । 'दुर्गसमीपे प्रतिपक्षसेनासंचारपरिहाराय कृते तीक्ष्णलोहादिशङ्कनिचिते महागर्ते नपुंसकलिङ्ग: कुकूलश- व्दः तुषाग्नौ तु पुल्िङ़गः' इति टीकासर्वस्वकारः ॥ अथवा तल्लिपिः तेषां कुरूणां ललाटलिपि: तथाहि तथैव। हिशब्दोऽ- वधारणे। जगदानन्दरनिदानस्यापि वस्तुनो नाशहेतुतया दर्शनं तत्कर्मानुगुणविधिलिखितललाटलिपिरेखानुसारीति नात्र विस्म- यनीयं किंचिदस्तीति भावः॥ पक्षे दुकूलं दुकूलपदं प्रादु अविद्यमानो दुः दुव्णो यस्य तत् अदु प्रकर्क्षेण अदु प्रादु स्थितं दुवर्णविधुरतया स्थितं कुतः कुवर्णात् दुवर्णस्थानवि- हितादिति भावः । 'न गिरा गिरति ब्रूयादैर कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरापदं यथा गिराप- दस्थान एव भवति तथेहापि दुवर्ण निषिध्य विधीयमानः कुवर्ण: तास्थान एव भवतीति ध्येयम्॥ अयमर्थः प्रागेवोक्तः। कुकूलतां कुकूलशव्दतां अगमत्। तल्लिपपि: दुकारापनयनपूर्व- ALANKARA II 33

Page 271

258 अलंकारमणिहारे

ककुवर्णविन्यासरूपा उक्तवविधानुपूर्वीबोधकलिपिः तथाहि तथा- विधा खलु ॥ अक्षरविन्यासभेदेन दुकूलशब्दः कुकूलशब्दोऽ- भूदिति भावः ॥ अत्र भगवत्कृपया आविर्भूतं दिव्यदुकूलं सुयो- धंनादिविषये कुतः कुकूलतामगमदिति संदेहविषयीकृतस्यार्थस्य तल्लिपितथात्वविमर्शेन प्रतिषेधः। श्रेषविरोधाभासपदार्थवृत्तिनि- दर्शनायुपस्कृतोऽयम्॥ यथावा- भवदीयाभाप्रसरे भान्वाभाप्रसर इह किमु स्याद्ा। अथवाऽडभीये कार्ये तदसिद्धं व्याकृतिः प्रमाणं चेतू ॥ १०५० ॥ हे भगवन्! इह जगति भवदीयानां भवत्संबन्धिनां भा- गवतानामित्यर्थः । आभायाः तेजसः प्रसरे भवत्संबन्धितेज.प्र- सरे वा सति भानो: आभायाः प्रसरः किमु स्याद्वा कां गति प्राम्याद्वा न विझ् इति भावः। अथवा आभाया: इदं अभीयं तस्मिन् 'वृद्धाच्छः' इति छप्रत्ययः। भागवततेजस्संबन्धिनि कार्ये प्रसरणरूपकार्ये तत् आभीयं भानुतेजंस्संबन्धि कार्य प्रस- ररूपकार्य असिद्धं अनिष्पन्नं अविद्यमानप्रायं स्यादित्यनुषज्यते। भागवततेजःप्रसरे भानुतेजःप्रसरो न मूर्धानमुन्नमयितुं शक्तु -· यादिति भावः। पक्षे आभीये 'आभात्' इत्यधिकारविहिते कार्ये शब्दनयप्रसिद्धे कार्ये समानाश्रये कर्तव्ये इति भावः। तत् आभीयं उक्ताधिकारविहितं कार्य असिद्धं स्यात् 'असि- द्धवद्त्राभात्' इति सूत्रितत्वात्। अयं भाव :- यथा एधोत्यत्र असधातोः 'हुझलभ्यो हेर्धिः' इति हर्धित्वरूपे आभीये कार्ये कर्तव्ये 'ध्वसोरेद्धावभ्यासलोपश्च' इत्यनेन कृतमाभीयं एत्व

Page 272

अक्षेपालंकारसरः (३४) 259

रूपं कार्यमसिद्धम्। यथाच आसीदित्यत्र 'आडजादीनाम्' इत्या भीये आटि कर्तव्ये 'अ्सोरल्लोपः' इत्यल्लोपोऽसिद्ध इति॥ समानाश्रयत्वं चैकत्र समानाधिकरणत्वं भागवतभानुतेजसोरु. भयोरप्यत्रैव जगति विद्यमनत्वात्। अन्यत्र असिद्धत्वाश्रयशास्त्र- संबन्धिनिमित्तसमुदायान्यूनातिरिक्ताश्रयकन्वमिति ध्येयम्।। अत्र भागवताभाप्रसरे भान्वाभाप्रसर: कां गर्ति प्राप्तुयाद्वेति शङ्कितस्या- र्थस्य आभीये कार्ये समानाश्रये कर्तव्ये आभीयकार्यस्यासिद्ध- वन्भावं शाब्दिकपरिभाषितं श्ेषभित्तिकाभेदाध्यवसायेनापजी- व्याथवेत्यादिना प्रतिषेधो वर्णितः ॥ प्रसाणालंकारसंकीर्णोऽयम्॥

अपचितविभवा रचिता विनता विमताश् यथावा-

नाथ बत भवता। सर्वविदः किमुचितमिदमथवा गीतं त्वया समोऽहमिति॥१०५१॥ अपचितः पूजितः विलूनश्च विभवो येषां ते। अपपूर्वका- च्िनोतेरुभयार्थकत्वात्। तथाच रत्नमाला-'स्त्रियामपचििः पूजा- निष्कृत्योस्संक्षये व्यये' इति। अन्रापचितविभवा इत्यादिना श्रेषा- वलम्बनेन शङ्गितस्य भगवद्विमर्शस्य 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः' इति तद्रचनमूलकसमत्वपरिचिन्तनेन प्रतिषेधः। अयं तुल्ययोगिताविशेषप्रमाणालंकारादिभि: परिपो- प्रितः ॥l

प्रतिकूलदर्शिनामप्यनुकूलद्दशामिव त्वयि स- यथावा-

मानार्थम्। कमलाललामक त्वं कलयस बत तेSक्षरस्स्वभावो वैवम् ॥१०५२॥

Page 273

260 अलंकारमणिहार:

कमला लक्ष्मीः ललामं भूषणं यस्य सः कमलाललामक: । 'शेषाद्विभाषा' इति कप। श्रीनिवास इत्यर्थः । तस्य संबुद्धि: हे कमलाललामक! त्वय विषये अनुकूलदशां आनुकूल्यैक- रसानां विदुराक्रूरादीनामिव प्रतिकूलदर्शिनां प्रातिकूल्यैकशी- लानां शिशुपालघण्टाकर्णादीनामपि त्वं समानार्थ तुल्यं पुरुषार्थ कलयसि ददासि। बलेतट्टशववितरणविचारजनिते खेदे विस्मये वा। पक्षे कमलाललामकेति तस्यैव शब्दस्य संबोधनम्। त्वं अनुलोमं पश्यतामिव प्रतिलोमं पश्यतामपि तुल्यमेवाभिधेयें प्र- काशयसीत्यर्थः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः। आतुलोम्यप्रातिलोम्ययोरभिन्नवर्णानुपूर्वीकत्वात् कमलाललामके- त्यस्य तुल्यार्थाभिधायित्वमिति भावः । बतेतीदृशशब्दस्वभाव. परिशीलनजनिते हर्षे वित्मये वा। वाशब्दः अथवेत्यर्थे। ते तव क्षरः अविनाशी इतरोपायैरचाल्य इति यावत् । स्वभावः निसर्ग एव। एवं 'तुल्यो मित्रारिपक्षयोः' इति त्वयैव गीत- त्वादिति भावः। पक्षे ते कमलाललामकोत पदस्य तव। अक्ष राणां स्वभावः अक्षरस्वभावः। सकारस्य 'अनचि च' इति द्वित्वम्। वर्णानां स्वरूपं एवं एवमेव। अनुलोमविलोमपाठयो- रानुपूर्व्या एकविधत्वात्तुल्यार्थप्रकाशकत्वं न विस्मयाधायकमिति. भावः। अत्र प्रतिकूलदृशामित्यादिनाSSक्षिप्तस्यार्थस्य ते अक्षर- स्वभाव एवमिति प्रतिषेधस्सूचितः। श्लेषतुल्ययोगिताविशेषोप- स्कृतोऽयम् ॥। यथावा- अपि घनवरशरधारावर्षी कथमिव विशोषि- ताब्धिरसि। अथवा दशरथनन्दन नन्वासीस्त्वं स्वयं महाधन्वा ॥ १०५३।

Page 274

आक्षपालंकार: (३४) 261

हे दशरथनन्दन! घनवराणं जलदश्रेष्ठानां शरधारा: जल- धाराः तासां वर्षे वृष्टिः तदस्यास्तीति तथोक्तीऽपि। मत्वर्थीय इनिः। पक्षे अविरळतरविशिखपरंपरावर्षी णिनिः। शोषोऽस्य संजात: शोषितः शुष्कः अब्धिः सरो यस्मिन् सः। पक्षे शोषं प्रापितः अब्धिस्सागरो येन सः शुषेर्ण्यन्तात्कर्मणि क्तः । 'अ- ब्धिना सिन्धौ सरस्यपि' इति मेदिनी। कथमासीः । इदमा- श्वर्यम् । यज्लदजलधारावर्षवतोऽपि शुष्कसरस्त्वमिति भावः। अथवा त्वं महांश्चासौ धन्वा च महाधन्वा महामरुप्रदेशः आसीः। नाश्चर्यमिदं यत्वयि जलदजलधारावर्षवत्यपि शुष्कसरस्त्वं तस्य मरुदेशस्वाभाव्यादिति भावः । महत् धनुः यस्य स तथोक्त: उद्दण्डकोदण्ड इति वस्तुस्थितिः । 'धनुषश्च' इति समासान्तोऽ- नद्। महत् धन्व यस्येति वा 'धन्वा तु मरुदेशे ना कीब चापे स्थलेऽपि च' इति मेदिनी। 'चापमानय सौमित्रे शरां- श्वाशीविषोपमान् । सागरं शोषयष्यामि' इत्यायुक्तरीत्या उद्य- तोच्चण्डकोदण्डदण्डस्य महावीरधौरेयस्य तव अविरळशरपरं- परावर्षेण सागरशोषणं न विस्मयावहामेति भावः। अत्र घनश-

भेदाध्यवसायोपजीवनेन जलदजलधारावर्षवत्वेऽरपि शुष्कसरसत्वं कथमित्याशङ्गितस्यार्थस्य महाधन्वशब्दप्रतिपाद्यमहामरुमहाचा- परूपार्थद्वय श्ेषभित्तिकाभेदाध्यवसायावलम्बनजनित महा म रुदेश- त्वलक्षणतत्स्वरूपविमर्शनेन प्रतिषेधः । विभावनाविशेषसंकी- र्णोऽयम् ॥

यथावा- अवनत्वं तव कथामव सुरभिशुभश्रीलताश्चि-

Page 275

262 अलंकारमणिहारे

तस्य हरे। यदि वा सकलपलाशिव्रजनाशयिता- डसि तदिह हेतुरस्यात् ॥१०५४॥ हे हरे! सुरभौ वसन्तसमये शुभा श्रीः कुसुमादिसमृद्धि: यासां तथोक्ता: या: लता: ताभि: अश्चितस्य युक्तस्य। पक्षे सु- रभि: मनोहारिणी शुभा च या श्रीलता श्रीरस्यास्तीति श्रीलः सिध्मादित्वान्मत्वर्थीयो लच् 'लक्ष्मीवान लक्ष्मणशश्रीलः' इत्य- मरः। तस्य भावः श्रीलता तया अश्चितः तथोक्तस्य लक्ष्मी- विशिष्टतया जगत्पूजितस्येत्यर्थः । तव न वनत्वं अवनत्वं विपि- नत्वाभावः कथामिव। समृद्धलतान्वितत्वे वनत्वस्यावरश्यंभावा- दिति भावः । अवतीत्यवनः तस्य भावः जगद्रक्षकत्वमिति तु वस्तुस्थितिः। यदि वा अथवा सकलाः ये पलाशिन: विटपिनः पलमश्नन्तीति पलाशिन: क्रव्यादाश्च तेषां व्रजस्य नाशयिता असि तत् पलाशिनाशनं इह तवावनत्वे हेतु: स्यात्। सक- लतरुनिर्मूलायतृत्वमेव वनत्वाभावे कारणं स्यादिति भावः । पक्षे- निखिलनिशिचरनिर्मूलायेतृत्वस्यैव जगदवने हेतुत्वमिति भावः। अन्रापि पूर्वोदाहरण इव श्लेषोपजीवनेनैवाक्षेपनिषेधौ॥। 197

आक्षेपप्रकारान्तरम्.

निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत्। वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः । यो निषेधो बाधितस्सन्नर्थान्तरपर्यवसितः कश्चिद्विशेषमा- क्षिपति सः निषेध इव निषेधः निषेधाभास इति यावत्।

Page 276

आक्षपालंकारसरः (३४) 263 सं आक्षेप इत्यलंकारसर्वस्वकारादय आहुः। अतएव 'निषे- धाभासमाक्षेपं बुधाः केचन मन्वते' इति कुवलयानन्दे लक्षि- तम्। सोडयं द्विंविधः बक्ष्यमाणविषयः उक्तविषयश्चेति। तत्र यदि सामान्यता वर्णनमुपक्षिप्य निषेधोऽभिधीयते तदा वक्ष्य- माणविषयः । अशक्यवक्तव्यत्वरूपविशेषप्रतीतिफलक उक्तवि- षय आक्षेपः अयमपि द्विविधः। क्वचिद्वस्तुमात्रनिषेधात् क्वाच- द्वस्तुकथननिषेधात्। वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव। व्युत्क्रमेणोदाहरणानि। यथा

शृणु मम निर्वेदकथामणुमात्रीं ते निवेदयि- ष्यामि। घृणयाऽनाघ्राते त्वयि भणितव्यं नाम नाथ किंवाडस्ति ॥ १०५५॥ अत्र भगवन्तं प्रति कस्यचिन्निर्विण्णस्य वचने शृणु मम निर्वेदकथामिति सामान्यत उपक्रम्य भणितव्यं नाम नाथ किं- वाऽस्तीति निषेधात्यन्तिकखेदोद्वेलनत्वेन दुर्वचतया अशक्यव- क्व्यताप्रतीतिफलको वक्ष्यमाणविषयोऽसावाक्षेपः वस्तुकथन- निषेधात्मकः॥ दव इव भव इह खिद्ये मृग इव मृगपतिन- गाग्रविद्युत्वन्। अलमलमनया कथयाऽप्यनाद- राणामवाकिनामग्रे॥ १०५६॥ वाचाऽप्यादरमकुर्वाणानामग्रे स्वदैन्यकथनं निष्प्रयोजनं त्व- मध्यवाक्यनादर इति हि श्रुत इत भावः। अत्र 'सर्वमिद

Page 277

264 अलंकारमणिहारे

मश्यात्तोऽवाक्यनादर:' इति शाण्डिल्यविद्याश्रुतिरतुसन्धेया। 'अनादर: अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहतः। अत एव अवाकी परिपूर्णैश्वर्यत्वाङ्ह्मादिस्तम्बपर्यन्तं निखिलं जग- त्तृणकित्य जोषमासीनः' इति श्रुतेरर्थः। वाको वचनं वचे- धजि 'चजोः कुधिण्ण्यतोः' इति कुत्वम्। सोऽस्य नास्तीत्य- वाकी। अत्र भगवन्तं प्रति कस्यचिदार्तस्योक्तौ दव इव भव इह मृग इव ।खदे इत्येकदेशमुक्ता अलमलमिति वक्तव्यशेषनि- षेधात्तत्कथनस्य वैयर्थ्य त्वत्स्वभावत एव सुव्यक्तमिति विशे- षाभिव्यक्तेरुक्तवविषयोऽयमाक्षेपः वस्तुकथननिषेधात्मकः । एवंचा- क्षेपे इष्टोऽर्थः तस्य च निषेधः निषेधस्यानुपपद्यमानत्वाद- सत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते। तेन न निषे- धविधिः। न वा विहितनिषेधः। किंतु निषेधेन विधेराक्षेपः।

क्वचिदुच्यमानस्यैव निषेधो दृशयत इति काव्यदर्पणकार। तदेदमुदाहरणम्-

पाहीति नियोक्तव्ये वक्तव्यं त्वयि नियोक्तररि न युक्तम। रक्षेस्त्वमेव दीनान्किं प्रार्थनयेति तदि- दमौदास्यम॥ १०५७॥

तत्कुरु यदिच्छासी त्वं मुश्चामि कथं भवन्त- मिति धौरत्यम। रक्षन्नपि जगदािलं कस्मान्मां नावसीत्यधिक्षेप: ।। १०५८॥।

Page 278

आक्षेपालङ्कारसरः (२४) 265

जरदिभ एव हि मन्तोप्यासीत्प्रेश्ठस्तवेत्युपा- लम्भः । इति दोषविचारजडाः किं नु ब्रूमस्तवा- ग्रतो भूमन् ॥ १०५१॥ हे भूमन्निति भगवतस्संबोधनम्॥ इद विशेषक द्वाभ्यां युग्ममिति प्रोक्तं त्रिमिश्श्ोकेर्विशेषकम्। कालापकं चतुर्मिस्स्यात्तदूर्ध्व कुळकं स्मृतम्।। इति लक्षणात् ।I अत्र पाहीत्यादेरुध्यमानस्यैव नियोक्तरि त्व- यि न युक्तमित्यादिना निषेधस्सर्वधाऽपि त्वय्यपितभरा मुग्ध- तरा वयं त्वया नोपेक्षितुमर्हा इति विशेषमाक्षिपति॥ उक्तविषयो वस्तुनिषेधात्मक अक्षेपो यथा- सर्वज्ञाहं न कविस्सर्वसुहत्त्वमास किं मयाSS- वेद्यम्।दीने वाउदीने वास्थाने विदधति भवादशाः करुणाम् ॥१०६०॥ सर्वज्ञेति भगवतस्सम्बोधनम्। अत्र स्तातरि कवौ नाहं कविरिति निषेधोऽनुपपद्यमान: अतिशयात्युक्तादिपूर्वकासंभा- वितार्थवर्णनपरिहारेण तथ्यवादित्वे विश्राम्यन् सर्वसुहदा सर्व- ज्ेन त्वया दीनोऽयं जनो नोपेक्षणीय इति सामान्यमुखेन वि- शेषमाक्षिपति। अत्र कविरूपवस्तुनिषेधः ॥ यथावा- नूनं न मानुषोऽसावानन्दं यो गुणैस्तव न वि- न्देत्। सत्यं स च न मनुष्यो योऽत्यन्तं तैरहरे स- दाऽडनन्देत् ॥ १०६१॥ ALANKARA II 34

Page 279

266 अलंकारमणिहारें अत्र भगवद्गुणैरनानन्दितरि तैरानन्दितरि च मानुषे ने मानुष इति निषेधोऽनुपपद्यमानस्तयोः क्रमेण पिशाचदेवतुल्य- तारूपविशेषमाक्षिपति॥

यथावा- न वदामि चाटु शौरे तव दासानां नृणां पु- रन्ध्रिगणाः । मणिसौधाग्रगता विधुलक्ष्म दशोर- अनार्थमाददते ॥ १०६२॥ अत्र स्तोतुः कवर्वचने प्रथमचरणे चाटुवादित्वनिषेधो बाधितो मृषावादित्वनिषेधात्मना पर्यवस्यन्नवशिष्टचरणत्रितयग- तस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति। सत्यत्वं चास्य कवि- प्रौढोक्तिसिद्धम्। 'चटु चाटु प्रिये वाक्ये' इति तत्वबोधिन्या- मव्ययेषु पाठात् चाटु इत्येतदव्ययम्। क्कीबं वा। 'अस्त्री चा- दुश्चटुः' इति कोशात्। यथावा- गोविन्द नन्दनन्दन सुन्दर न त्वां समुत्सहे द्रष्टुम्। पश्यन्तु स्वैरं तास्स्वै रन्ता या विनोद- यसि विहृतैः ॥१०६३॥ ताः ललनाः त्वां स्वैर यथेप्सितं पश्यन्तु। चतुर्थचरणे स्वैः रन्ता या: इति छेदः । रन्ता विलासी त्वं याः ललनाः स्वैः निजैः विहतैः विहारैः भावे क्तः विनोदयसि ताः पश्य- न्त्वित्यन्वयः। अत्र भगवन्तं नन्दनन्दनं पश्यन्त्याः कस्याश्चि- द्रोपमहिळाया उक्तौ आत्मनि तद्धर्शनोत्साहनिषेधोऽनुपपद्यमा-

Page 280

आक्षेपालङ्कारसरः (३४) 267

नस्सन् नायिकान्तरेष्विव मय्यननुरक्तोऽसि किं विधेयमिति दैन्यं द्योतयति। निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते।

तुल्यन्यायतया असत्येन विधिना निषेधस्याक्षेपे अपरोऽप्या- क्षेप इत्यर्थः। अत्र अनिष्टोऽर्थः तस्य विधि: तस्याप्याभासत्वं अर्थ- गतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यत इत्याह्कः॥ यथा- दैवात्सत्पथमुपगतमेवं मां चेदुपेक्षसे बाढम्। भूयोऽव्यपथगमेनं श्रेयसि योजयसि कथमिति बिभेमि॥ १०६४॥

इदानीं यादच्छिकादिसुकृतवशात्सन्मार्गसमीपगतं मां त्वमु- पक्षसे चेत् बाढं तथैवोपेक्षस्वेत्यर्थः । बाढमित्यङ्गीकारेऽव्ययम्। अत्र च कस्यचिन्द्गवन्भक्तस्य परमपुरुषं प्रत्युपेक्षाप्रार्थनं विधी- यमानमनुपपद्यमान तद्विध्याभसिंतया निषेधमेवावगमयाति। उपे- क्षस्वेति विधिर्व्यक्तः। मोपेक्षिष्ठा इति निषधस्तु भूयोऽपि कर्म- वशादपथप्रवृत्तमेनं मामुचिते श्रेयसि प्रवर्तयितुं तव महान् प्रयासस्स्यादिति भयप्रदर्शनेन तिरोहितः । अत एव "आक्षेपोऽन्यो विधौ व्यक्ते.प्रतिषेधे तिरोहिते"। इति कुवलयानन्दकारैरयं प्रकारो लक्षितः॥ इत्यलङ्कारमणिहारे आक्षेपसरश्चतुस्त्रिंशः ॥

Page 281

268 अलंकारमणिहारे

अथ विरोधमूला अलंकारा:

(३५) तत्र विरोधालंकारसरः. स विरोधोडविरोधेऽपि विरोधाभासता यदि। जात्यादीनां स्वस्वपरसंबन्धाद्दशघा भवेतू॥ परमार्थतो विरोधाभावेपि यत्रापाततो विरोधो भासते स विरोधालङ्कारः। विरोधश्च प्ररूढोऽप्ररूढश्चेति द्विविधः । प्ररोहश्च बाधबुद्धयनभिभूतत्वं, तद्वैपरीत्यमप्ररोहः। तत्राद्यो दोषस्य वि- षयः द्वितीयस्त्वलङ्कारस्य। अत एवेममाचक्षते विरोधाभासम्। आ ईषत् भासत इत्याभास: विरोधश्चासावाभासश्चेति। आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत्। तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो वि- रोधालंकार:। तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अय च जा- तिगुणक्रियाद्रव्याणां स्वेन स्वेतरेण च सह योगान्भ्वति। एवं च जातेजातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रि- याया: क्रियाद्रव्याश्यां, द्रव्यस्य द्रव्येणैवेति दश भेदा: पर्यत्र- सन्नाः। तथाचोक्तम्- जातिश्चतुर्भिर्जात्यादैर्विरुद्धा स्याद्गुणस्त्रिभिः। क्रिया द्वाश्यामथ द्रव्यं द्रव्येणैवेति ते दश॥ इति। गुणेन सह जातेर्विरोधस्तु पृथड्गोक्तः, जातेरगुणविरोध एव तदन्तर्भावात्। एवमुत्तरत्रापि बोध्यम्। क्रिया चात्र न वैया- करणानामिव शुद्धा भावना, नापि नैयायिकानामिव स्पन्दरू- पा। किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपेति ध्येयम्॥

Page 282

विरोधालङ्कारसरः (३५) 269

तत्र जातेर्जात्या विरोधो यथा- रम्याणि विमानान्यतिसौम्यानि सरांसि संस दश्वतथा। स्थानस्य तव परात्मन्नूनं नरका भव- न्ति नरकारे ॥ १०६५॥ अत्र विमानादिजातेर्नरकजात्या विरोध। अयं पुरस्स्फुर- न्नपि जात्योर्विरोधो वक्ष्यमाणवचनेन भगवत्स्थानापेक्षयाऽतिमा- त्रहेयतया नरकतुल्या भवन्तीति विमर्शेन निवर्तते। अत्र- रम्याणि कामचारीणि विमानानि सभास्तथा। आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः॥ एते वै निरयास्तात स्थानस्य परमात्मनः । इति महाभारतप्रमाणार्थीऽनुसंहितः ॥ जातर्गुणेन यथा- घनसारचन्दनाचलवनसारिमरुत्किशोरशाशि- किरणाः। त्वद्वयानशीिलहदां तिग्मकरादपि च नाथ तिग्मतराः ॥१०६६॥। अत्र घनसारादिजातेस्तिग्मतरत्वरूपगुणेन सह विरोधः ॥ जाते: क्रियया यथा- नीराजयमानो घनसाराखण्डप्रदीप एष त्वाम्। वेङ्टनाथ विलोचनपङ्करुहाण्याशु शिशिर्यति नृ- णाम् ॥ १०६७॥

अत्र दीपत्वजातेर्लोंचनशिशिरीकरणक्रियया सह विरोधः॥

Page 283

70 अलंकारमणिहारे

जाते: द्रव्येण यथा- दशरथतनयो धन्वी विशकलयन् दश दिशोऽ- पि विष्फारैः। दशमुखपुरसदनानां शाशवदना- नामभूद्युगान्ताग्नि: ।१०६८।। अत्राग्नित्वरूपजातेर्दशरथतनयलक्षणद्रव्येण सह विरोधः ॥ अथं श्रेषमूलकोऽपि भवति। तत्र जातेर्जातिगुणक्रियाद्रव्यै- र्विरोधो यथा - श्रीशस्य पृथुलसत्त्वः क्रीडाद्रिर्मृदुलताभिराम- तनुः। द्यामुत्पतति महिम्नाऽनन्ताखयोSयं महत्कि- लाश्ष्वर्यम् ॥१०६९॥ श्रीशस्य श्रीनिवासस्य क्रीडाद्रिविहाराचलः। अत्राद्वित्वजातेः पृथुलश्चासी सत्वः जन्तुरिति जात्या विरोधः। पृथुलास्सत्त्वा: प्राणिनो यस्मित्निति वा, पृथु लसतो भावः लसत्वं प्रकाशो यस्येति वा, परिहारः। मृदुलतया मृदुत्वेन अभिरामतनुरिति गुणेन विरोधः, मृदवश्च ताः लताश्च तामिरभिरामतनुरिति परि- हारः। महिस्ा महत्वेन गुरुत्वेन द्यामुत्पततीति क्रियया विरोधः, प्रभावेन दिवमप्यतिशेते इति परिहारः। अयमद्रि: अनन्तं अन्त- रिक्षमित्याख्या यस्य स तथोक्तः। आकाशत्वमेकव्यक्तिकत्वान्न जातिरिति द्रव्येण तेनाद्वित्वरूपजातेस्तदनधिकरणत्वरूपविरोधः। शेषाख्य इति तदभायः।।

तव वाहनं पतङ्गेऽप्याशुग उन्निद्रकुवलयामो- यथावा-

दः। उत्तम्भितोत्तमशश्रीर्भवति जगन्नाथ कुमुदसु- हृदेषः ॥। १०७०।।

Page 284

विरोधालङ्कारसर: (३५) 271

अत्र तव वाहनं पतङ्ग: भानुमानपीति जाते: आशुगः मारुत इति जात्या विरोधः विहङ्गः शीघ्रगामीति समाहितः। उन्निद्गः कुवलयानां आमोद: परिमळः येन स इति गुणेन विरोधः प्रका- शितपृथ्वमिण्डलप्रमाद इति समाहितः । उत्तम्भिता उन्नमिता तमसां श्रीर्येन स इति तमउत्तम्भनक्रियया विरोधः । अभि- वर्धितश्रेष्ठसंपदृति परिहतः । कुमुदसुहत् चन्द्रमा: कुमुदसु- हृ्त्वमेकव्यक्तिवृत्तित्वान्न जातिरिति द्रव्यशब्द्वोडयं तेन सूर्यत्व- जातेस्तत्समवेतत्वविरहरूपो विरोधः । सूर्यत्वस्य द्वादशसूर्य- व्यक्तिवृत्तितया जातित्वम्। कुत्सितमुदां हेयविषयाभिलाषवतां असुहृत् विरोधिति वा, कुत्सिता पापिनी मुत् येषां तेषां दैत्यदानवादानां असून् प्राणान् हरतीति तथोक्त इति वा समा- हितः। अत्र द्वयोरपि विरोधिनो: श्िष्टत्वं पूर्वत्रैकस्यैवेति विशेषः॥ एवं जातेर्जात्यादिभिश्चतुर्भिर्विरोध उक्तः ॥

अथ गुणस्य गुणेन विरोधो यथा- सम्मार्जनविधुरतया सधूळयो दुर्विधालयाळि- न्दाः। त्वयि पश्यति दानझरैर्वेङ्कटगिरिनाथ पङकि- ला जाता:।।१०७१॥ अत्र सधूळित्वगुणस्य पङ्किलत्वगुणेन विरोधः भगवत्क टाक्षप्रभावेन तत्संभवात्कालभेदेन परिहतः।।

वालिदशाननमुख निर्मूलनवाणं पुरो रघुधुरीण- यथावा-

म्। निध्यायतो मघवतो मानसमाविलमभूत्प्रस- ननं च ।१०७२।।

Page 285

272 अलंकारमणिहारे

निध्यायतः पश्यतः। अत्राविलत्वप्रसन्नत्वयोर्गुणयोर्विरोधः। स्वतनयवालिस्वविरोधिदशाननादिवधरूपनिमित्तभेदेन परिहतः। गुणस्य क्रियया विरोधो यथा- भवतः परितस्तपतां भवतश्चरितानि नाथ नि- शमयताम्। उद्यदमन्दानन्दान्यपि बत मन्दीभ- वन्ति चेतांि॥१०७३॥ अत्र उद्यद्मन्दानन्दत्वरूपगुणस्य मन्दीभवनक्रियया विरो- धः । विगळितवेद्यान्तराणि भवन्तीति परिहारः गुणस्य द्रव्येण यथा- त्वयि विन्यस्तस्वान्ता विजयन्तां ते चिरं भुवि महान्तः । अणुरपि येम्यो दत्तो गुणवद्रयोऽब्जाक्ष भवति मेरुगिरिः ॥ १०७४॥ अन्राणुत्वरूपगुणस्य मेरुगिरिरुप्रद्रव्येण विरोधः। अल्पोS- पि पदार्थो महाफलप्रद इति परिहारः॥

तभ्यो नमोऽस्तु सद्रयः परमं ये हृद़ि निधाय यथावा-

तड्रह्म। स्वगुणैर्निस्पन्दतमं रचयन्तो दृढतमैरणु- मकार्षुः ॥१०७५॥ अत्राणुत्वरूपगुणस्य निरतिशयबृहत्त्वयोगिपर ब्रह्मरूपद्रव्येण सह विरोधः 'ज्यायान् पृथिव्या ज्यायानन्तारिक्षात्' इत्यादिना सर्वस्माज्जयायस्त्वेन श्रुतस्य परस्य ब्रह्मण उपासनार्थ हृदया- यतनावच्छेदेनावस्थापितत्वादिदमणुत्वमिति परिहारः। तथाच

Page 286

विराधालङ्कारसरः (३६) 273

श्रूयते 'एष. म आत्माऽनतर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा श्या- माकाद्वा ्यामाकतण्डुलाद्ा' इति। पूर्वत्र गुणस्य द्रव्येण विरोधः अत्र तु द्रव्यस्य गुणेनेति विशेषः॥ दृढतमैः गुणैः रज्जुभि: उपासनौपयिकगुणैश् निस्रन्दं रचयन्तः बघ्नन्तः दढ- मवस्थापयन्तश्च सन्तः तङ्रह्म अणुमकार्षुरिि याजना ॥ निस्प- न्दृत्यत्र स्पदेरषोपदेशत्वान्न षत्वमू। तथाच वामनः 'निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात् इति। एतच्चास्माभिर्विस्त- रेण निरूपितं हंससंदेशरसास्वादिन्यां 'न्यस्तनिस्पन्ददृष्टिः' इत्यत्र॥ श्लेषमूलको गुणस्य गुणक्रियाया द्रव्यैर्विरोधो यथा- मृदुलाड्यद्रुतमूर्तिर्मुग्धापि जगद्वितानि वि- तनोषि। अतिचश्चलादपि घात्री विचित्रमेतद्रमे तव चरित्रम्॥१०७६॥।

हे रमे! त्वं मृदुला कोमलावयवेति गुणस्य अन्भता मूर्तिः काठिन्यं यस्या इति गुणेन विरोधः, दयामृदुहृदया साप- राधैरपि सहसाऽऽश्रयितुं शक्या लोकोत्तरदिव्यविग्रहति परि- हारः। 'मूर्तिः काठिन्यकाययोः' इत्यमरः। मुग्धा अज्ञाऽपीति गुणस्य जगद्धितानि वितनोषीति क्रियया विरोधः, अज्ञानां तत्करणानीश्वरत्वात्। सुग्धा सुन्दरीति परिहारः 'मुग्धरसुन्दर- मूढयोः' इति विश्वः। अतिचञ्चलापीति गुणस्य धात्री भूमिरिति द्रव्यण विरोधः। अचलात्वात्तस्याः। अतिक्रान्ता चञश्चलामतिच- खचला दीप्यतिशयपरास्तविद्यल्लता जगता मातेति परिहारः। 'धात्री जनन्यामलकीवसुमत्युपमातृषु' इति मेदिनी॥ ALANKARA II 35

Page 287

274 अलंकारमणिहारे

यथावा- पीतांशुकोऽपि भगवंश्चित्रं हरिताभिराम एवं त्वम्। विशदयसि च निजरुच्या जगदखिलं भवास चापि भूतेशः॥ १०७७॥ पीताः अंशवः किरणाः यस्य स पीतांशुक इति गुणस्य हरितेन हरिद्वर्णेन अभिराम इति गुणेन सह विरोधः। पीता- म्बर इति हरेर्भावो हरिता तया अभिराम इति परिहारः। अखिल जगत् निजया रुच्या दीप्त्या विशदयसि धवळसीति क्रियया विरोधः। निजरुच्या स्वविषयकप्रीत्या विशदयसि नि- मलयसांति परिहारः। भूतेशः रुद्र इति द्रव्येण विरोधः । तस्य पाण्हुरवर्णद्रव्यतया पीतवर्णत्वायोगात्। 'एष भूतेश्वर एष भूत- पालः' इति श्रुतेस्सर्वभूतेश्वर इत्यविरोधः। अत्रैकस्यैव पीतां- शुकत्वगुणस्य गुणक्रियाद्रव्यैर्विरोध उक्तः । पूर्वत्र तु मृदुलत्वा- दीनां भिन्नभिन्नानां गुणानां प्रत्येकं गुणादिभिर्विराध इति वैल- क्षण्यं बोध्यम्।। एवं गुणस्य गुणादिभिस्त्रिभिर्विरोधो दर्शितः॥

अथ क्रियाया: क्रियया यथा- आपततां युधि पुरतो द्विषतां महतां शिरांसि चक्रेण। छिन्दन्नमन्दमेषां मुकुन्द विदधासि पर- ममानन्दम् ॥१०७८॥ अत्र छेदनक्रियाया आनन्दनक्रियया विरोधः। मुक्तौ निरतिशयस्वानन्दानुभवं वितरसीति तदभावः॥

Page 288

विगेधालङ्कारसर: (३६) 275

यथावा- सकलेप्सितार्थदाता दुरधिगमो बहुतरैस्तपोभि- रपि। विनतान् सुखाकरोषि त्वं ननु दुःखाकरोषि चाब्जाक्ष ॥ १०७९॥ अत्र सुखाकरणदुःखाकरणक्रिययोविरोधः। यथासंख्यं पूर्वा- धोक्तावच्छेदकद्वयसन्भ्ावेन तदभावः। सुखाकरोषि दुःखाकरो- षीत्युभयत्रापे 'सुखप्रियादानुलोम्ये । दुःखात्प्रातिलोम्ये' इति डाचु । यथावा- सरभसकरसरसिजधृतसुदर्शनं दैवतैश्र्व दुर्दर्श- म्। भृशमन्वरङ्क भीष्मो जिघांसुमपि कंसहिंसनं वीक्ष्य।१०८०॥ सुदर्शनमित्यत्र सुष्टु द्ृश्यत इति विग्रहः। 'भाषायां शसि- युधिदृदशिधृषिसृषिभ्यो युज्वाच्यः' इते खलोऽपवादो युच्। दुर्दर्शमित्यत्र तु दर्शः दर्शनं दशेर्भावे घन्। दुष्करो दर्शों यस्य स इति विग्रहः।न तुदुःखेन दश्यत इति। तथा सति दुर्दर्शन इति स्यात् उदाहृतवार्तिकातू। न न्तर वासरूपविधिना खलपवादस्य युचो वैकल्पिकत्वान्निर्वाह, तन्निषेधस्य "क्तल्यु ट्तुमुन्खलयेषु वासरूपविधधिर्नास्ति' इति परिभाषितत्वात्। तस्मादुक्तरीत्या बहुव्रीहिणैव निर्वाहो युक्त। एवमेव 'तं दुर्दर्श, सुदुर्दर्शमिदं रूपं, दुर्दरशै शशिखण्डमण्डन' इत्यादिश्रुतिस्मृत्य- वाचीनप्रयोगा निर्वाह्याः। अत्र जिघांसुदर्शनानुरञ्जनक्रिययो- र्विरोधः। अन्वरङ्केत्यत्र अनुपूर्वकाद्रअेर्लेङ्।

Page 289

276 अलंकारमणिहारे

क्रियाया द्रव्येण विरोधो यथा-

वारितकलुषं द्विषतां भूरितरं मलिनिमानमात- नुते॥ १०८१ ॥

अत्र मलिनिमाधानक्रियाया: महस्त्वेनाध्यवसितभगवद्रप- द्रव्येण सह विरोध:।

यथावा-

फालाक्षोडवि चकम्पे पफाल च दौः पपात भुवि च ग्लौः ॥ १०८२ ॥

अत्र कम्पादिक्रियाणां फालाक्षादिद्रव्यैर्विरोधः । पुरहर- शरासनभञ्जनजनितनिर्घोषातिशयोक्तया परिहतः॥ एवं क्रियाया: क्रियाद्रव्याभ्यां विरोधो दर्शितः॥

द्रव्यस्य द्रव्येण विरोधी यथा- विततायां तव कीर्त्यी सततं जगदखिलमति- विशदयन्त्याम्। कनकगिरि: कैलासो व्यालाधि- पझौलशेखर बभूव ॥१०८३॥ अत्र कनकगिरिरुपद्रव्यस्य कैलासरूपद्रव्येण विरोधः। की- तिधवलिमातिशयप्रशंसया परिहियते॥ i

क्षेषेण क्रियाया: क्रियाद्रव्याभ्यां द्रव्यस्य द्रव्येण च वि-

Page 290

विरोधालक्कारसर: (३६) 277

रोधो यथा- दयमानस्सकलात्मसु विशन्नषि घृणां विमुश्च- सि गुणाब्ये। कामं सृजन्नपीशः कामं ब्रह्मासि तदपि बत भगवन्।१०८४॥ अत्र दयापूर्वकसर्वात्मान्तःप्रवेशक्रियायाः घृणां कपां मुञ्च- सीति क्रियया विरोधः। घृणां वात्सल्यातिशयात्कष्टभूतदेहा- न्तरवस्थानाज्जुगुप्सां मुश्चसि भोग्यमेव पश्यसीति परिहारः। कामं कंदर्प सृजन्नपीति क्रियाया: ईश इति शर्वरूपद्रव्येण विरोधः। आश्रितसर्वेप्सितार्थदाता भूतभव्येशान इति परिहारः। अत्र- अङ्गष्टमात्र: पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते । इति श्रुत्यर्थोऽनुसंहित: । तदपि एवं शर्वोडाप ब्रह्मा चतुर्मु- खोऽसीति द्रव्ययोरविरोधः। ब्रह्म स्वरूपण गुणैश्चानवधिकाति- शयबृहत् परं ब्रह्मेति परिहारः॥ एवं प्राचामनुरोधेन विरोधभेदा: प्रदर्श्शिताः। अत्र लक्षणे जात्यादीनामिति धर्ममात्रं विवक्षितं, उपलक्षणपरत्वात् । तेन 'यः किल बालकोऽपि पुराणपुरुषः विशुद्धमूर्तिरपि नीलाम्बु- दनिभः जगद्धितकृदपि जगदहितकृत् अगोद्धारकोऽपि नागो- द्वारकः' इत्यादौ सखण्डोपाधेरभावस्य च परिग्रह इत्याङ:। वस्तुतो जात्यादिभेदानामहद्यत्वात् शुद्धत्वश्रेपमूलत्वाश््यां द्वि- विध एवायम्। अत एव 'आभासत्वे विरोधस्य विरोधाभास इष्यते, इत्येतावदेव सामान्यता लक्षणममिहितं कुवलयानन्द। तेन प्दर्शायष्यमाणानि पद्यानि सर्वा्यि विरोधाभासोदाह- रणान्येव भविष्यन्ति॥

Page 291

278 अलंकारमणिहारे

यथा- भुवि कृतपदोदपि दिवि कृतपदो द्रमिडदेश- गोडेपि सकलिङ्गः । अपि शाशघरो विकासितश- तपत्रक एष शेषगिरिराजः ।। १०८५॥

भुवि भूमौ कृतपद: कुप्तावस्थानोऽपि दिवि नभसि कृत- पद इति विरोधः। दिविभिः चाषापरनामभिर्विहगैः कृतनीड ले

इते परिहतः । द्रमिडदेशगोऽपि सकालेङ्ग: कलिङ्गदेशसहित इति विरोधः। धूम्याटापरनामविहगसहित इति परिहतः । शश घरः चन्द्रोऽपि विकासिताननि शतपत्राणि कुशेशयानि येन स इति विरोधः। शशाख्यमृगविशेषावासभूतः उल्लासितदार्वाघाटा- ख्यखगविशेष इति परिहतः । "अथ चाषः किकी दिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः । दार्वाघाटः" इत्यमरः॥ यश्शिरसि फणादिभ्राटपुरुषं धारयति शेषगि- रिभूतः। अयमेव कुं विचित्रं मूर्धनि धत्तेहिराजि- सहचरितः ॥ १०८६॥ शेषस्य पतञ्जलितयाऽवतीर्णस्य गिरि वाचि महाभाष्ये भूतः स्थितः । यः फणादिभ्राट फणादौ फणधातुप्रभृतिधातु- गणे विद्यमान: भ्राद 'टुभ्राजृ दीप्तौ' इति धातुः। शिरसि अन्तिमवर्णे जकारे इति यावत्। पुरु भूयिष्ट 'पुरुभूः पुरु भूयि- ष्ठम्' इत्यमर। अनितरबाधितं यथा स्यात्तथा नित्यमेवेति यावत्। षं "व्श्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः" इति विहितं टकारपरमस्थानिभूतं षवर्ण धारयति धत्ते। राजिसहचरितः

Page 292

विरोधालङ्कारसर: (३६) 279

राजीति इका निर्देश: राजिना 'राजृ दीप्तौ' इति धातुना सहचारेतः अस्यापि फगादो पाठादिनि भावः। अयमेव 'टुभ्रा- ज दीप्तौ' इत्युक्तो धातुरेव। सूर्धाने अन्तिमवर्णे इति यावत्। कुं 'चाःकुः' इति विहितं कवर्गादेशम्। हिशब्दोऽवधारणे। तमेवेत्यर्थः। धत्ते इति विचित्रम। फणादेर्भ्राजेः कुत्वापवादेन षत्वविधानात् । 'एज भ्रेजृ भ्राजृ दीप्तौ' इत्युक्तभ्राजृधातु- त्कवगादिशवत्व विरुद्धमिि भावः । यथोच्यते कौमुदीग्रन्थे- 'वत्वविधौ राजृसाहच्र्यात् 'टुभ्राजृ दीप्तौ' इति फणादिरंव गृह्यते। यस्तु 'एजृ भ्रेजृ भ्राजृ दीप्तौ' इति तस्य कुत्वमेव" इति। परिहारस्तु-फणा: स्फटा: आदिशब्दाद्रस ना शिरोरत्ना - दीनां ग्रहणम् । फणाः आदयो येषां ते तैः भ्राजत इति फणादिभ्राट् फणादिशब्दोपपदकात् 'डुभ्राजृ दीप्तौ' इति धातोः क्विप। व्रश्चेति षत्वे जश्त्वेन डः । तस्य चर्त्वेन टः। यः फणिराज इति भावः। शेषगिरभूतः शेषाद्रितां प्राप्तस्सन् मूर्धनि स्वशिखरे पुरुषं परमपुरुषं श्रीनिवासं धारयति। अय- मेव असौ फणिराज एव अहिराजिसहचरित इति समस्तं पदम्। अहीनां फणिनां राज्या श्रेण्या सहचरितः पाताळे फणिश्रेणिमिळिितस्सन् तदधीश्वरत्वात्तस्य। मूधाने फणमण्डले कुं पृथिवों 'गोता कुः पृथिवी' इत्यमरः। धत्ते। यश्शेषा- चलरूपावलम्बी श्रीनिवासं स्वशिरास दधाति स एव फणि- राजस्सकलधरातलं शिरस्थले वहतीति निर्गळितोऽर्य:॥ तावकचरणाम्भोरुहसेवकवर्गः फणीन्द्रगिरिभा- स्वन्। संख्यातिगभद्रोSपि स्फुरति चतुर्भद्रभाग्वि- चित्रमिदम्॥ १०८७॥

Page 293

280 अलंकारमणिहारे

संख्यातिगा: असंख्याका: भद्राः गजजातिविशेषाः 'मन्दोभद्रो मृगश्चेति विज्ञेयास्त्रिविधा गजा:' इत्यनुशासनात्। यद्दा असं- ख्याकमङ्गळोऽपीत्यर्थः । चतुर्भद्रः चत्वार एव भद्राः भद्राणि वा यस्य स तथोक्त इत्यवधारणगर्भो बहुव्रीहिः 'अब्भक्षः' इाते- वत्। स्फुरतीतीदं ।चित्रम्। परिहारस्तु-चतुर्भद्रं बलवद्धर्मा- थंकाममोक्षरूपं चतुर्भद्रम्। यथोक्तममरसिंहेन "त्रिवर्गो धर्म- कामार्थैश्चतुर्वर्गस्समोक्षकैः। सबलैस्तैश्चतुर्भद्रम्" इति। चत्वारि भद्राणि श्रेष्ठान्यस्मिन्निति वा। चतुर्णा भद्राणां समाहार इति वा विग्रह इत्याहुः। अन्ये तु- वित्तं त्यागसमेतं ज्ञानमगर्वे क्षमान्वितं शौर्यम् । भोगस्सङ्गविहीनो दुर्लभमेतञ्चतुर्भद्रम्॥ इत्याहुः। इदं च भारतीयपोडशराजकप्रत्यध्यायश्रूयमाणस्य 'चतुर्भद्रतरस्त्वया' इत्यस्य व्याख्यायां स्पष्टम्। तन्द्रजतीि चतुर्भद्रभागिति। 'भद्रश्शिवे खञ्जरीटे वृषभे च कदम्बके । करि जातिप्रभेदे ना कीषं मङ्गळमुस्तयोः' इति मेदिनी॥ हन्त यदारोपयिता चापं रोपं तदैव चाप- यिता। हस्तेऽकरोः पुरा सद्वेषक्षितिजश्रियं रघुकु- लेन्दो॥१०८८॥ हे रघुकुलेन्दो! यदा त्वं चाप धतुः रोपयिता रोपं बाणं करोतीति तथोक्त इति विरोध: । रोपशब्दात् व्यन्तात्तृच्। 'पत्री रोप इषुर्द्धयो:' इत्यमरः । आरोपयितेति च्छेदः । अधिज्यं कर्तेति परिहारः । रुहेर्णणिचि 'रुहः पोऽन्यतरस्याम्' इति पादेशः। तदैव चापारोपणसमय पव रोपें बाणं चापयिता चाप धनुः करोतीति तथोक्त इति विरोधः । च आपयितेति छेद: ।

Page 294

विरोधालंकारसरः (३५) 281

तदैव आपयिता धतुः प्रापयता च वाणं धनुषि संदधत्स- न्नित्यर्थः । पुरा सन् प्रशस्तो वेषो यस्यास्सा क्षितिभू: भूमिजा श्रीः सीतात्बेनावतीणी लक्ष्मी: ताम्। पक्षे-द्वेषेण सहिता: सद्वेषा: वैरिणः तेषां क्षितौ तत्संबन्धिन्यां भूमौ जाता या श्रीः संपत् तां हस्तेऽकरोः पर्यणैषीः । पक्षे-वशेऽकार्षीरित्यर्थः ॥ त्वय्यभिमुखोऽनभिमुखो हिरण्यभाक्स्यादर- ण्यभाक्च श्रीः। भेदो यद्यप्यनयोर्भवत्यथापि ह्यभेद इति चित्रम्॥१०८९॥ हे श्रीः! त्वयि अभिमुखः हिरण्यभाक् सुवर्णोपलक्षितम- हाविभवभाक् स्यात्। अनभिमुखस्तु अरण्यभाक् स्यात् भ्रष्टैश्व- र्यों वनं प्रविशेदित्यर्थः। एवमनयोः भेद: उक्तरीत्या वैलक्षण्यं यद्यपि भवति भवत्येव 'यदपीत्यवधारणे' इति केशवः। त- थाऽपि अभेद एव भवति हीति विरोधः। ह्यमेद इति सम- स्तं पदम्। हिवर्णावर्णाभयामेव भेदो भवतीति परिहारः। हि- रण्यभाक् अरण्यभाक् इति शब्दयोः हि अइति वर्णाभ्यामेव भिदा अन्यानुपूरव्योस्तुल्यत्वादिति भावः। शब्दार्थतादात्म्यमू- लकोऽयं ऋ्लेषेण विरोधः॥ दामोदरहिततां यो न विन्दते ननु मुकु- न्दचन्द्रमुखखि। विस्माययति समस्तानेष सदा- मोदरहिततां विन्दन् ॥१०९०॥ ननु मुकुन्दचन्द्रमुखि! यः दामोदरस्य, हिततां न विन्दते सः दामोदरहिततामिति छेदः । स एषः दामोहरहिततां वि- न्दन् समस्तान् विस्माययतीति विरोधः। परिहारस्तु सदामो- ALANKARA II 36

Page 295

282 अलंकारमणहारे

देत्यादि समस्तं पदम् । सन् प्रशस्तः यः आमोद: आनन्दः भगवत्कल्याणगुणानुभवजनित इति भावः। तेन राहिततां विन्दन्निति॥ असुरमहोक्षोऽत्युच्वैस्स्वरोऽथ मोहश्रितः प. रमुपेत्य। मिषतां नृणामासीदसुमोक्षोडग्रेऽच्यु- तात्सुमोक्षश्र ॥१०९१॥ असुरश्चासौ महोक्षश्च असुरमहोक्षः। वृषभासुर इत्यर्थ:। महाराजदशरथ इतिवदयं निर्देशः। परं अतिमात्रं मोहं श्रितः 'द्वितीया श्रित' इति समासः। भगवन्नन्दनन्दनकर्मकजिघांसा स्वानर्थस्यैव हेतुरित्यजानान इति भावः। अत एव अथ अत्युञ्चैः स्वरो यस्य स तथोक्तस्सन् उपेत्य नृणां मिषतां सर्वेषु ज- नेषु पश्यत्स्वेव अच्युतान्गवतो वासुदेवात् स्ववधहेतुभूतात् असुमाक्ष: शोभनमोक्षरहितोऽपि अग्रे सुमोक्षश्चासीदिति विरो- धः। असून् प्राणान् मोक्षयते त्यजतीत्यसुमोक्षः शोभनो मोक्षो मुक्तिर्यस्य सः सुमोक्षश्चासीदिति परिहारः 'मोक्ष अवसाने' इति चौरादिकत्वेन धातुवृत्तिपठिताद्धातोः कर्मण्यण। अवसा- नं क्षेपः । 'मोक्षो निश्श्रेयसे वृक्षविशेषे मोचने मृतौ' इति हेमः॥ पक्षे -- अत्युञ्चैः बहुवर्णसमुदायरूपत्वादतिमहानिति यावत्। असुरमहोक्ष: असुरमहोक्षशब्दः स्वर: सुष्ट अरः रेफराहत. अथ अनन्तरं मः अहश्रत इति छेदः । मः इति पश्चम्येक- वचनम्। मकारात् परं अनन्तरं अहश्रितः अहो इति स्वर- व्यञ्जनाभ्यां अश्रितः रहितस्सन् मिषतां द्रष्टणां नणां असुमोक्ष: असीत् असुमोक्षशब्दतया द्ृश्योऽभूदिति भावः। अग्रे आदौ

Page 296

विरोधालङ्कारसरः (३६) 283

अच्युतात च्युतशब्दो भावे क्ान्त: अवर्णच्युतेरित्यर्थः। सु- माक्षश्च सुमोक्षशब्दश्चासीत् तथा दृश्योऽभूदिति भावः । असुर- महोक्षशब्दो रेफेण अहू इति स्वरव्यञ्जनरूपवर्णाभ्यां च विश्िष्ट- असुमोक्ष इति निष्पद्यमानः अनन्तरं प्राथमिकेन अवर्णेन विधु- रस्सन् सुमोक्ष इति दृश्यो भवतीति परिनिष्पन्नोरऽर्थः । प्रकृता-

श्वस्थितिभाग्यं प्राप्ताववेक्षितोपेक्षितौ त्वया म- नुजौ। अश्वस्थितिभाग्यजुषौ तथाऽपि चित्रं पृदा- कुशिखरीन्दो ॥ १०९२॥ श्वः स्थितिर्यस्य तत् श्वस्थिति श्वो विद्यमानं चिरका- लावस्थायीति यावत्। भाग्यं शुभकर्मपरिपाकभूतम्वर्य अन्यत्र शुनां स्थितिः मर्यादा अवस्थानं वा तद्रपं भाग्यं अशुभकर्म- परिपाकभूतं दारिद्रयमित्यर्थः । 'भाग्यं कर्म शुभाशुभम्' इत्य। मरः। तत् प्राप्ती। तथाऽपि अश्वस्थितिभाग्यजुषौ इति विरोधः। अश्वानां स्थिति: अवस्थानं तद्रूपं भाग्यं अश्वारोहणैश्वर्य वा उपलक्षणमिंदं गजान्तैश्वर्यस्य। पक्षे-शवस्थिति न भवतीत्यश्वः स्थिति अत्यल्पकालिकमित्यर्थः । भाग्यं जुषेते इति तथोक्तौ- त्वत्कटाक्षितश्चिरकालानुभाव्यं चतुरङ्गबलैश्वर्य लभते, त्वदुपे- क्षितस्तु शुनकादिनिहीनजन्तुसंश्रयणादिरूपदीरभाग्यं तदप्यत्यल्प- कालिकमेवानुभवतीति निर्गळितोऽर्थः ॥ प्रख्यातनीललोहितकपालिभावाददस्फुरदुद- ग्रम। अंग्रं फणिराजगिरेरुग्रत्वमुपैत्यनुग्रतां चा- हो॥१०९३॥

Page 297

284 अलंकारमणिहारे

उदय्रं उच्छितं अद: इद फणिराजगिरे: अंग्रं नीललोहि- तश्चासौ कपाली च तस्य भावः प्रख्यातश्चासी नीललोहित- कपालिभावश्च तस्माद्धेतोः, पक्षे प्रख्याताः नीलानां इन्द्रनील मणीनां लोहितकानां पझमरागाणां च पालय: पङ्गयः यस्मिस्तत् प्रख्यातनालिलोहितकपालि। तस्य भावात् तत्त्वात् 'लोहिना- न्मणौ' इति कन्। 'शोणरत्नं लोहितकः पदमरागः' इत्यमरः। स्फुरत् इति योजना। प्रकासनमानमित्यर्थः । अत एव उग्रत्वं रुद्रत्वं तत्तौल्यमिति यावत्। अनुग्रतां अरुद्रतां च उपैतीति विरोधः अनुग्रतां अरौद्रतां सौम्यतामुपैतीति परिहारः। पक्षे- अग्रं श्रेष्ठं उदग्रमिति पदं अदस्फुरदिति समस्तं पदं दकारे- णाप्रकाशमानं सत् उग्रत्वमुपैति उग्रशब्दो भवतीत्यर्थः । अथापि अनुग्रतां उग्र इति वर्णद्वयविरहिततामिति विरोधः। उग्रशब्दे उक्तवर्णसन्भ्ावात् । अनु पश्चात् ग्रें अ्र इति वर्णसमुदयो यस्य तत्तथोक्तं तस्य भावं तत्तामिति परिहारः ॥

पदलग्नं नाथ सदापदलग्नं संतनोषि मनुजं त्वम्। हन्त पदानाश्रितमपि सदापदाश्रितमुदा- रगुणजलघे ॥ १०९४॥

पदलयं स्वचरणाश्रितं अपदलअनं स्वचरणानाश्रितं संत- नोषति विरोधः । सदा आपदलअ्नमिति छेदः। विपदना- श्रितमिति परिहारः । किंच सदा पदानाश्रितं स्वचरणाना- सकतं पदाश्रितं स्वचरणातुरक्तं संतनोषाति विरोधः । सदा आपदाश्रितं विपयुक्तमिति परिहारः ॥

Page 298

विरोधालंकारसर: (३५) 285

अपिच विभासुररूपोऽप्यविभासुररूप एव भगवं- स्त्वम्॥९०९५॥ शेषाचलाधिनेता न भवसीति विरोधः अशेषायाः अच- लाया: भुवः अधिनेतेति व्युदस्तः । अविभासुररूप: विभासु- ररूपो न भवसीति विरोध: अविः भातु: स इव भासुररूप इति निरस्तः। अन्यत्सुगमम् ॥ मेरुनगभासुरोऽपिच नमेरुनगभासुरो मृगेन्द्र- गिरिः । अतिघनजपावनाढ्योऽप्यजपावन एव चित्रमिदम् ॥१०९६॥ नमेरुनगा: छायातरवः तैर्भासुरः। अजस्य ब्रह्मणोऽपि पावन इति च विरोधपरिहारः ॥ शिशिरो डप्यशीत कशशुचिरसित इश्रलक्ष्णोडप्य सूक्ष्म एवायम्। सुरभिरपि गन्धशून्यो द्विरसन-

शिशिर: शीतलोऽप्यशीतकः शीतरहित इति विरोधः अवि- द्यमानं शीत शीतगुणो यस्यति विग्रहः 'शेषाद्विभाषा' इति कप। दयाशीतलः अनलस इति परिहतः 'शीतोष्णाभ्यां कारिण' इति शीतशब्दात्करोतीत्यर्थे कन्। 'आलस्यश्शीत- कोऽलसोऽनुष्णः' इत्यमरः । शुचिरपि शुभ्रोऽपि असितः अशु- भ्र इति विरोधः । शुचिः अपहृतपाप्मा अत एव असितः अबद्ध: कर्मबन्धरहित इति समाहितः। सिनोतेर्बन्धनाथकात्क.

Page 299

286 अलंकारमणिहारे

र्मेणि क। शक्ष्णोऽपि कृशोऽपि असूक्ष्मः अकृश इति विरोध: श्क्ष्णः प्रियंवद: असूक्ष्मः अकैतवः महानिति वा परिहृतः । 'श्क्ष्णं दभ्रं कृशं तनु, श्वक्ष्णः प्रियंवदः' इति चामरः 'सूक्ष्म स्यात्कैतवेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी। सुर- भिरसुगन्धिरपि गन्धशून्यः सौरभहीन इति विरोधः। मनोहर: अनवलेपश्चेति समाहितः 'सुरभिञ्चम्पके' इत्यारश्य 'सुगन्धौ च मनोजञे च' इति, 'गन्धो गन्धक आमोदे लेशे संबन्ध- गर्वयोः' इति च विश्वः॥ अनिमिषराजोऽचपलः प्रबलोऽपि त्वं न बाध- से विबलान्। चित्रं सुधीवराणां लुनासि गुण- जालमखिलात्मन् ॥ १०९८॥ हे अखिलात्मन! त्वं अनिमिषराजः मत्स्यराजोऽपि अच- पलः अमत्स्य इति विरोधः। देवाधिराजः अचञ्चलशील इत्य- विरोधः 'सुरमत्स्यावनिमिषौ' इत्यमरः । 'चपलः पारदे मीने' इत्युपक्र्कम्य 'वाच्यवत्तरळे चले' इति मेदिनी। प्रबलोऽपि विबलान् दुर्बलान् शकुलार्भकानू न बाधसे इति विरोधः। प्रब- लेन दुर्बलस्य बाधो हि सत्स्यजातेस्स्वभावः । तदभावादिति भावः । सर्वेश्वरत्वेन सर्वस्मात्प्रबलस्त्वं स्वस्माद्वुर्बलान् चतु- मुखादीन् न बाधसे इति परिहार:। शोभनाः धीवराः सुधी- वराः तेषां ग्रौढानां कैवर्तानामित्यर्थः । गुणजालं सूत्रमयमा नायं लुनासीति विरोधः। सुधियां विदुषां वराः तेषां प्रकुति- बन्धं वियोजयसीति तदभावः॥ एधयसे नैधयसे पुरा विराधं भुजप्रतापाननौ। आशयसे नाझयसे क्व्याद: खरमुखांश्र रघुवीर॥

Page 300

विरोधालंकारसरः (३५) 287

हे रघुवीर! भुजप्रतापाऔ विराधं पुरा एधयसे एधं इष्मं करोषि स्म नैधयसे इति विरोधः 'पुरि लुड् चास्मे' इति भूते लट्। विराधं नैधयसे न वर्धयसे किंतु भुजप्रतापाऔ क्ोष- यसि स्मेति योजनाभेदेन परिहारः। खरमुखान् निशिचरान् ऋव्याद: मांसाशिन: कङ्कजम्बुकादीन् तैरित्यर्थः। आशयसे पुरे- त्येतदत्राप्यनुषज्यते। अभ्यवहारयसि स्म। नाशयसे नाभ्यव- हारयसि स्मेति विरोध: खरप्रमुखान खरदूषणादीन् नाशयसे ध्वंसयसि स्म। अथ ऋ्रव्याद्भिः आशयसे स्मेति परिहार: पूर्व- वत्। 'गतिबुद्धिप्रत्यवसान' इत्यादिना अश्नातेरणौ कर्तृणां क्रव्यादां णौ कर्मत्वं 'क्रव्याद्रक्षसि पुंसि स्यान्मांसादिन्यन्यलि- ङ्गकः' इति मेदिनी। अत्र श्िष्टाभ्यां तिङन्तशब्दाभ्यां विरो- धप्रदर्शनमिति विशेषः॥ रक्षसि न रक्षसि त्वं दयमानमना जगन्ति दाशरथे। स भवान् कृताभिषेको रराज नरराज *विस्मयायैतत् ॥११००॥ हे दाशरथे! त्वं दयमानमनास्सन् जगन्ति रक्षसि पाल- यसि न रक्षसीति विरोधः । परिहारस्तु रक्षसीति जात्यभि प्रायकमकेवचनम्। रक्षसजातौ न दयमानमना इति व्यवहितेन 1 नज़ा योजना 'कुर्वन्तमित्यतिभरेण न गानवाचः पुष्पैररिराम- मळिनां च न गानवाचः' इत्यत्र न विराममितिवत्। 'वायसे कृतवान्कूरां मतिम्' इत्युक्तरीत्या कौर्य भजन्नित्यर्थः । जगन्ति रक्षसीति। रक्षोजातौ तव दयमानमनस्कत्वे कथं जगद्रक्षणं स्यादिि भावः। स भवान् एवं राक्षसकुलक्षपयिता भवान्। कृताभिषेक: साकेते राज्याभिषेकं प्राप्तस्सन् रराज दिदीपे। न

Page 301

288 अलंकारमणिहारे

रराजेति विरोधः। नराणां राजा नरराजः तस्य संबुद्धि: हे नरेन्द्रेति परिहारः। तिङन्तसुबन्तशब्दल्लेषमूलको्डयं विरोध इति पूर्वस्माद्वैलक्षण्यम्॥। एवं श्रेषमूलको विरोधालंकार: प्रपश्चितः। अयमेव शुद्धो यथा" एजति तन्नैजति तन्तहूरे तद्वदन्तिके भवति। अन्तर्बहिश्र युगपज्जगतोऽस्य तदद्गुतं परं ब्रह्म । अत्र- तदेजति तन्नैजति तहूरे तद्वदन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ इति श्रुत्यर्थोऽनुसंहितः । तथाहि-तत् परं ब्रह्म। युगपदिति सर्वत्रान्वेति एजति कम्पते नैजत न कम्पते इति विरोधः। जवीय इव शायते वस्तुतो न कम्पते इति परिहारः। 'अनेज- देकं मनसो जवीयः' इति पूर्वमन्त्रैकार्थ्यात्। तत् ब्रह्म दूरे तद्वत् अन्तिके च भवतीति विरोधः। आसुरदैवप्रकृतिपुरुष- पेक्षोऽयं विभारेव दूरान्तिकवर्तित्वव्यपदेश इति परिहारः। आह च भगवान् शानक :- परास्ुखानां गोविन्दे विषयासक्तचेतसाम्। तेषां तत्परमं ब्रह्म दूरादूरतरे स्थितम्॥। तन्मयत्वेन गोविन्दे ये नरा न्वस्तचेतसः । विषयत्यागिनां तेषां विज्ञेयं च तदन्तिके॥। इते। तत् ब्रह्म अस्य जगतः अन्तः बाहेश्च युगपन्भवतीति विरोधः। लोके गृहान्तर्वर्तिनां जनानां तदानीमेव बहिस्स्थित्य- दर्शनात्। परिहारस्तु सर्वव्यापकतया तत्संभवादिति। तथा तैत्तिरीयके च श्रूयते-'अन्तर्बाह्श्च तत्सर्व व्याप्य नारायणः

Page 302

विरोधालक्कारसर: (३६) 289

स्थितः' इति! तद्गह्म अद्भुतं आश्चर्यरूपमित्यर्थः । अय श्ेष- गन्धविश्िष्टशशुद्धो विरोधाभासः। श्रुतिरेवेद्टशालंकारमार्गप्रद्- र्शयित्रीति ज्ञापयितुं श्रुत्युक्तार्थ एवात्र निबद्धः।

इदमत्र बोध्यम्-यत्रापिशब्दो विरोधद्योतकः तत्र विरो- धश्शाब्दः। अन्यत्र त्वार्थ इति तावत्प्ाचीनानां राद्ट्रान्तः। तत्र यद्यापि विरोधस्य शाब्दत्वं न शब्दजन्यज्ञानविषयत्वं, वि- शेष्यविशेषणसंसर्गातिरिक्तस्य शाब्दे क्वाप्यभानात्। न च 'त्रयोऽप्यत्रयः' इत्यादौ नजरुत्तरपदार्थयोरन्वये प्रतियोगित्वस्य संसर्गत्वात्तस्यैव विरोधपदार्थत्वात्संसर्गतयैव तन्भानमिति वा- च्यम् 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाऽप्यगतेः । न च तत्रापि लक्षणया सुपतत्वविरुद्धप्रबुद्धत्ववदभिन्नस्सुप्त इति बोध इति वाच्यम्, तथाऽननुभवादित्युक्तव्यवस्थानुपपत्तिरिति। अत्राहु :- 'सुप्तोऽपि प्रबुद्धः, त्रयोप्यत्रयः' इत्यादिषु विरोधोदाहरणेषु श- ब्दद्येन शयितत्वजागरितत्वादिधर्मदयस्यादावुपस्थितौ संबन्धि- ज्ञानात् अपिशब्दसाचिव्यात्तद्रतो विरोधोऽवि स्मर्यते । अन- नतरं च प्रतिबन्धकज्ञानसामग्रया बलवत्वाद्विरुद्धाविमौ धर्मा- विति मानसे वैयञ्जनिके वा बोधे जाते तेन प्रतिरोधाच्छयित- जागरितयोरभेदबुद्धेरनुदयाद्वितीयशक्त्या प्रादुर्भावितं द्वितीया- र्थमादायान्वयबोधः, नतु विरुद्धार्थम्। विरोधधीश्च शिथि- लमूला निवर्तमानाऽपि कविसंरम्भगोचरतया चमत्कारकारणम- ति प्राश्चः । नव्यास्तु-अर्थद्वयप्रादुर्भावं बिना विरोधाभास एव न संभवति। तत्रैको विरोधस्योल्लासकः । द्वितीयश्चान्वय- बोधविषय इाते। तत्सत्यम्। परंतु अन्वयबोधविपये द्वितीया- थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसाये- "ALANKARA II 37

Page 303

290 अलंकारमणिहारे

नाभिन्नतया भासते। एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निश्शेषतया निवृत्तर- भावान्मूर्ितशश्वसन्निव विरोधोऽपि मानसं बोधान्तरमाढौकते। अत एव चमतकारीत्युच्यते। न हि निश्शेषतया निवृत्तश्चम- त्कृतिमीष्टे जनयितुम्। न चान्तरेण चमत्कृतिजनकतामलंकारो भवति। तस्मात् विरोधधियो नातीव शिथिलमूलता । नापि- चात्यन्तिकी निवृत्तिरित्याहुः। ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाऽप्यसंगतम्। शाब्दिकनये निपातानां शक्तेरनभ्युपगमादिति चेत् न, निरूढलक्षणाया इव निरूढद्यातनाया अपि शक्तितुल्यकक्षत्वादिति॥

अथ जात्योर्द्रव्ययांश्च विरोधालंकारो नेष्टे भवितुम्॥ देवतरुस्तृणमासीददेव तवौदार्यवैभवाल्लासे। भाति च भवत्प्रतापे कैलासगिरिर्बभूव कनकगिरि: ॥ इत्यादौ मदीयपदये 'कुसुमानि शराश्चन्द्रो बाडबो दुःखित हृदि' इत्यादौ परकीयपदे च आरोपमूलस्य रूपकस्यैवोल्ला- सात्। यदि सत्यप्यारोपे विरोध एवोच्येत तहि 'मुख चन्द्रः' इत्यत्रापि स एव कुतो नोच्यताम्। न च रूपकविषयस्याखिल- स्यापि विरोधेनास्कन्दितत्वान्निर्विषयत्वापत्या स्वविषये रूपकं विरोधस्य गुणादौ लब्धावकाशस्यापवाद इति वाच्यम्, 'देव- तरुस्तृणं-कैलासगिरिरमेरुगिरि :- कुसुमानि शराः-मृणालवल- यानि दवदहनराशि :- चन्द्रो बाडब :- शंकरचूढापगा कालि- न्दी' इत्यादौ त्वदभीप्सितविरोधस्यासिद्धिप्रसङ्ग इति चेत्- सत्यम्। अत्र ह्यलंकारसमुदये यो यत्र सहृदयचमत्कृतिसराण- मध्यारोहति स एव तत्रालंकार इत्यविप्रतिपन्नमिदम्। एवं च

Page 304

विरोधालङ्कारसरः (३६) 291

रूपके 'मुखं चन्द्रः' इत्यादौ यद्यप्यस्ति विरोधः । तथाऽपि न स तत्र प्रतिपिपादयिषितः । अपितु चन्द्रनिष्ठाह्लादकारिता दयखिलगुणानां मुखे प्रतिपत्यर्थ चन्द्राभेद एवेति स एव चम- त्कारी न तु विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थान- नुगुणत्वादसत्कल्प इति नालंकार:। केवलसत्ताया अकिंचि- त्करत्वात्। 'देवतरुस्तृण, कुसुमानि शराः' इत्यादौ भगवदौदा- र्यांदे: विरहिण्यादीनामवस्थायाश्चात्यद्भुतताया विवक्षितत्वात् तदा- नुरूप्यायान्तर्गर्भितोऽप्यार्थो विरोधस्समुल्लसतीति स एवालंकार:। न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नाम भूदलं- कारः । विरोधस्थले 'देवतरुस्तृणं-कुसुमानि शराः' इत्यादौ तु विरोधोन्मेषणायाभेदस्यावश्यं विवक्षणीयत्वाद्रूपकापत्तिरिति वाच्यम्। विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्य- त्वात्। यद्वा अभेदस्यात्र विरोधोन्मेषणार्थमुपात्तस्याचमत्का- रित्वाद्रूपकालकारत्वमयुक्तं, चमत्कारित्वस्यैवालंकारजीवातुत्वा- दितिदिक। विस्तरस्त्वन्यत्र ॥। इत्यलंकारमणिहारे विरोधसरः पञ्चत्रिंशः

(३६) अथ विभावनालंकारसरः

कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना ॥९८॥ कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्प- न्तिर्विभावनेत्यर्थः। तदुक्त- "क्रियायाः प्रतिषेधेऽपिफलव्यक्तिरिभावना"।

Page 305

292 अलंकारमणिहारे

इति। क्रियाशब्देनात्रकारणं विवक्षितम्। अत्र कारणव्यतिरेक- सामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोध: प्रतिभासमनोऽपि तितरकारणकल्पनया निवर्तते॥ यथा -· जालं विनैव नितरां लोलं विषयेषु ननु मनो- जालम्। निध्यायतां जनानां बड्ूाSSकर्षसि बता- हिशैलमणे ॥११०३॥

अत्र हि बन्धनाकर्षणयोरजालं कारणं तद्भावेऽपि बन्धना- कर्षणे प्रतिपाद्यमाने आपाततो विरुद्धे अपि भगवा्दिव्यविग्रह- सौन्दर्यहेतुकतया पर्यवस्यतः ॥ 4 नन्वत्र यस्य कार्यस्योत्पत्ति: प्रतिपाद्यते न हि तदयिकारण- त्वेनावगतस्य व्यतिरेक: प्रतीयते। यदीयकारणव्यतिरेकश्च प्रती- यते न हितस्य कार्यस्योत्पत्तिः प्रतिपादिता। बन्धनाकर्षणे चेह निश्चलावस्थापनवशीकरणे विवक्षिते न तु संदानग्रहणे। जालं च न भगवत्कर्तृकमानसजालनिश्चलावस्थापनवशीकरणयोः कार- णं, अपितु मीनमृगादिबन्धनग्रहणयोरिि चेन्न । मुख्ये हि बन्ध- नाकर्षणे नहनग्रहणे। गौणे च निश्चलावस्थापनवशीकरणे। गौण- योमु्ख्ययोश्च तयोस्सादृश्यमूलेनाभेदाध्यवसायेन निष्पन्ने सति भे- दतिरोधाने मीनमृगादिबन्धनग्रहणकारणमपि जालं निश्चलावस्था- पनवशाकरणकारणं संपद्यते। तदभावे चात्र कार्याभिन्नतयाS- व्यवसितयोर्निश्चलावस्थापनवशीकरणयोः प्रतिपादनान्न दोषः। एवं चास्मिन्नलंकारे सर्वत्रापि कार्याशे प्रायेण अभेदाध्यवसान- रूपातिशयोक्तिरनुप्राणकतयाऽवस्थिता । तथा च पायसादिपि-

Page 306

:

विभावनाल्करसरः (३६) 293

वडवदेकीकृतस्य वस्तुतस्स्टशवस्तुद्वयस्य एकावयवसंबन्धिका- रणव्यतिरेकसामानाधिकर ण्येनापरावयवमादाय पर्यवसानं भव- ति। तत्र च कार्याशः कारणभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया, कार्याशस्य कल्पितत्वात्। कारणा- भावस्य च स्वभावसिद्धत्वात्। अत एव कार्योशो रूपान्तरेण पर्यवस्यति। अत एव च समबलविरोधिद्वयघाटताद्विरोधालं- कारादस्य वैलक्षण्यम् । तथाचोक्तम्- कारणस्य निषेधेन बाध्यमान: फलोदयः। विभावनायामाभाति विरोधेऽन्योन्यबाधनम्॥ इत्याहुः। अत्रैवोदाहरणपद्ये-'जालं विनैव नितरां लोलं ननु मानसानिमिषजालम्' इति पूर्वार्धे पठिते अस्मिन्नलंकारे रूपकमनुप्राणयितृत्वेनावतिष्ठते। अत एव 'विभावनायामाहा- याभेदबुद्धिमात्रमेवानुप्राणकम्। तञ्च क्वचिदतिशयोक्तया क्विच्च- रूपकेण इति रसगङ्गाधरग्रन्थश्च संगच्छते। अत एव चास्मा-

त्यस्मिन्नेव प्रस्तावे पूर्वमुक्तमिति ध्येयम्॥ इयं च विभावना उक्तनिमित्ता अनुक्तनिमित्ता चेति द्विधा। तत्राद्या यथा- इन्दीवररुचिरतनुं त्वां देव सदोपगूहमानायाः। अमृगमदलेपमासीदब्धिसुतायाः पयोधरे नैल्यम्॥ अत्र हि अब्धिसुतापयोधरनीलेम्नि मृगमदलेपो निमित्त, तद्भावऽपि नैल्यमुपनिबध्यमानमापाततो विरुद्धमपि भगवदु- पगूहनहेतुकतया पर्यवस्थति । भगवदुपगूहनं चोपात्तमित्युपा- न्तनिमिसेयम् ॥

Page 307

294 अलंकार मणिहारे द्वितीया तु जालं विनैवेत्युदाहतैव। मानसानिमिषजालाक- र्षणहेतोर्भैगवद्दिव्यविग्रह सौन्दर्यस्यानुपात्तत्वात्। यथावा- सन्ततमनञ्जनं त्वामञ्जनगिरिनेतरक्षिण निद- घाना। कमला निरञ्नाऽपि श्यामलकोमलवि- लोचना लसति ॥११०५॥ न अञ्जनं अनञ्ञनं अञ्जनभिन्नं, कर्मलेपविधुरमितिवस्तु- स्थितिः । 'निष्कलं निरञ्जनम्' इति श्रुतेः । निरञ्जना नयना- अनविधुरा कर्मलेपविधुरेति तु वस्तुस्थििः। अत्राञ्जनं विनाऽपि इयामललोचनात्वे 'तं चेयमसितक्षणा' इति स्वाभाविकत्वं नि- मित्तं, तञ्च नोपात्तमित्यनुपात्तनिमित्तेयं विभावना।। द्वितीया विभावना- कारणानामसामग्रये कार्यजन्म च सा मता॥

कारणानां हेतूनां असामग्रये हेतुतावच्छेदकधर्मस्य हेतु- तावच्छेदकसंबन्धस्य वा वैकल्ये सति कार्योत्पत्तिश्च विभा- वनेत्यर्थः॥ तत्र धर्मवैकल्ये यथा- कमलेक्षण! मम हृदयं कालायसगोळतोऽपि कठिनतरम्। कलशाब्घेरपि शिशिरैः कटाक्षवि- सरैर्विलाययसि चित्रम् ॥११०६॥। अत्र कठिनतरहृदयद्रवीकरणे साध्ये कटाक्षविसराणाम- सामग्रयं निशितत्वादिधर्मवैकल्यम्।

Page 308

विभावनालङ्कारसर: (६) 295

संबन्धवैकल्ये यथा- तव चरणनलिनरेणु: फणधरभूभृन्मणे शिरास विधृतः । भक्तानाममृशन्नपि बाष्पाययते विलो- चनानि बत॥॥११०७॥ बाष्पाययते बाष्पमुद्वमयति। अत्र बाष्पोद्वमनकारणस्य रेणोरसामग्रचं स्पर्शनरूपसंबन्धवैकल्यम्।। दण्डिमते त्वियं विशेषोक्तिः। यतः प्रथमोदाहरणे भगव- त्कटाक्षविसराणां द्वितीयोदाहरणे तत्पादरेणोश्च महामहिम- रूपो विशेष: प्रत्याय्यते, तथाच तदीयं लक्षणम्।। गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम्। विशेषदर्शनायव सा विशेषोक्तिरिष्यते॥ इति। विशेषस्य प्रस्तुतस्य यः प्रभावाद्यतिशयः तस्य दर्शनाय प्रतिपत्तय एव गुणजातिक्रियाणां आदिपदेन द्रव्याणां च यद्वैकल्यदर्शनं कार्यसिद्धावनुपयोगित्वप्रतिपादनं सा विशे- पोक्तिनामालंकार इति कारिकार्थः। दीक्षितानुसारिभिरस्माभि- स्तु निशितत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभा- वना प्रद्शिता॥ तृतीया विभावना- तृतीया प्रतिबन्धेऽपि कार्यात्पत्तिर्विभावना । प्रतिबध्यते अनेनेति प्रतिबन्धः प्रतिबन्धकः। प्रतिबन्धक- सन्भरावेऽपि कार्योत्पत्तिस्तृतीया विभावना॥ यथा- नासत्त्ववृत्तयो यत्त्वामुच्चादिं श्रितास्तदनिपा-

Page 309

296 अलंकारमणहांर

ताः। चित्रं त्वव्ययलक्ष्मीभाजस्सन्तो विभान्ति चक्रधर!॥ ११०८॥

हे चक्रधर! यत् यस्मात्कारणात् उच्चार्दिं उत्कृष्ट चार्दि चशब्दादिकं कंचिद्रणं श्रिता: कतिचन शब्दा इत्यध्याहार:। असत्त्ववृत्तयः अद्रव्यवाचिनः न न भवन्ति, किंतु द्रव्यवाचिन पवेति भावः । तत् तस्मात् अनिपाता: निपातसंज्ञाविधुराः। 'चादयोऽसच्वे' इत्यद्रव्यार्थकानामेव चादीनां निपातसंज्ञाविधानेन द्रव्यवाचिनां तदभावादिति भावः। इदं युक्तमेव। इवं तु चित्रम्-यत् अव्ययलक्ष्मीः अव्ययश्रीः अव्ययभाव इति यावत्, तां भजन्तीति तथोक्तास्सन्तः विभान्तीति । अव्ययत्वप्रयो- जकनिपातसंज्ञाया एवाभावे अव्ययत्वं भजन्त इत्येतद्द्भुतमेवेति भावः । 'स्वरादिनिपातमव्ययम्' इति हि निपातानामव्यय- संज्ञा विधीयते सूत्रकारैः । परिहारस्तु-उच्चादिं उञ्चेषु उन्न- तपदाधिरूढेषु चतुर्मुखादिषु आदिं, उच्चानामादिमिति वा। उत्कर्षेण चकारादिमिति च शब्दार्थतादात्मचवैभवाल्लभ्यते, चक्र- धरेत संबुद्धिबलात् । त्वां श्रिताः सन्तः ब्रह्मविदः सत्त्ववृ- त्तयः सात्विकाः ते न भवन्तीत्यसत्ववृत्तयः तादृशा न भवन्ति किंतु सत्ववृत्तय एव। प्रतिषेधद्वयेन संभाव्यासत्त्ववृत्तिता निव- त्यते। तदाह वामन :- 'संभाव्य निषेधनिवर्तन द्वौ प्रतिषेधौ इति,

महान् प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः ।

इत्युक्तरीत्या सत्त्वगुणप्रवर्तकं त्वां श्रितास्सात्विका एव भव- न्तीत्यर्थः । अत एव अनिपाताः राजसतामसवन्मध्याधोगतिरूप- निपातं न प्राप्ताः, किंतु 'ऊर्ध्व गच्छन्ति सत्वस्थाः' इत्युक्त-

Page 310

विभावनालंकारसरः (३६) 297

प्रकारेणोत्तमगतिभाज पवेति भावः। अत एव च अव्ययलक्ष्मी- भाज: शाश्वतैश्वर्य निश्श्रेयसरूपं भजन्तीति तथा। भान्ति नित्यासंकुचितज्ञानतया दीप्यन्ते। अत्र अनिपातत्वरूपप्रतिबन्ध- कतन्भ्रावेऽपि अव्ययत्वरूपकार्योत्पत्तिवर्णितति लक्षणसंगतिः ।

रोपस्कृतेयम्।। यथावा-

चन्द्रोपलसान्द्रालयजुषोऽपि तापा: पराभवन्ति नरान् ॥१9० ९ ॥ अत्र शिशिरतरचन्द्रोपलसान्द्रालयस्थितिरूपप्रतिबन्धकस- न्ावेऽपि तापकर्तृकाभिभवलक्षणकार्योत्पत्तिः। श्रेषसंकीर्णेयम्।। यथावा- विनतानन्दननामनि वैहायसराजि चरति शिरसि निजे। उन्नद्वशरा विन्दति पन्नगभूमि- भृदहो महोल्लासम् ॥ १११०॥ विनतानन्दन इति नाम वस्थ तस्मिस्तथोक्ते। पक्षे- प्रणतजनानन्ददायिनामधेये• विहायसां पक्षिणां समूहो वै- हायसं 'प्राणिरजतादिभ्योऽन्' इति सामूहिकोऽञप्रत्ययः। तस्य राट् तास्मिन् खगराजे गरुत्मतीत्यर्तः। अन्यत्र विहायास पर- मे व्योस्ति भवाः वैहायसा: अनन्तगरुडादयो नित्यमुक्ता: मुक्ता- श्च तेषां राठ् तस्मिन् सकलदेवाधिराजे वा भगवति श्रीनि- वासे निजे शिरास उपररिभागे इति यावत्। शिखरभागे च ALANKARA II 38

Page 311

298 अलंकारमणिहारे

चरति सति पन्नगभूमिभृत् श्रेष्ठः फणत्यिर्थः। शेषाद्विरिति वस्तुस्थितिः । उन्नद्धशिराः उत्तम्भितफण इत्यर्थः । पक्षे-उन्नत- शिखरः महोलासं अमितमानन्दं महैः उत्सवैः उल्लासं प्रकाशं

पि फणिवरेण्यस्य उन्नद्धफणतया महोल्लासभाकत्वरूपकार्योत्प- त्तिर्वर्णिता। श्ेषभित्तिकाभेदाध्यवसायः पूर्ववत्॥ यथावा-

ष्वङ्गे। भवदनभिमुखान् सुमहाशुचिभवदाहः पराभ्वति भगवन् ॥ ११११॥

हे भगवन् ! भवदनभिमुखान् जनान्। सः दाहारितमे इति छेदः। स इत्येतदुत्तरत्रान्वेति। दाहस्य अतिशयेन अरिः अरितम: तथोक्ते अतिवेलविरोधिनि प्रतिबन्धके इति यावत्। अतिमात्रं अत्यर्थ उदार: महान् यो मण: तस्य अभिष्वङ्गेऽ- पि संबन्धे सत्यपीत्यर्थः। सः तीक्ष्णतमत्वेन प्रसिद्धः सुमहान् यः शुचिभवः अग्निजन्यः दाहः पराभवति अभिभवति। हन्त। दाहोत्पत्तिरूपकार्योदयो विस्मयावह इति भावः ॥ परिहारस्तु-सदा सर्वदा हारि- तमे अतिमनोहारिण 'वल्गु वामं हारि शालि' इत्यमरः। अतिमा- त्रमुदा अतिवेलप्रीत्या रमणीनां ललनानां अभिष्वङ्गे परिष्वङ्गे सत्यपि सुमहाऽशुचिः अतिमात्रमपवित्र: यो भवः संसार: तस्य दाह: तापः पराभवतीति। रमणीयतमरमणोपरिष्वङ्गभाजो भव- दनभिमुखान् जनान् संसारतापोऽभिभवतीति भावः ।।

Page 312

विभावनालंकारसर: (३६) 299

यथावा-

वनभूमौ फणिभूभृति दृगग्रभागे स्थिते महा- भोगे। गहनभवजन्तुसाध्वसमहह सुघोरं नृणां द्रवति दूरम् ॥ १११२॥ वनभूमौ महाभोगे बृहत्फणशरीरे। पक्षे-महान् आभोगः पारपूर्णता यस्य तथोक्ते फणिभूभृति महाशीविषे शेषाद्राविति तु तत्त्वम्। दृगग्रभागे स्थिते सति समीपवर्तिन्येव दृष्टे स- तत्यिर्थः। नृणां श्रीनिवाससेवार्थ सुदूरादागतानां यात्रिकाण- मिति भावः। सुघोरं अतिरौद्रं गहनभवजन्तुसाध्वंसं गहने महारण्ये भवानां जातानां जन्तूनां हिंस्रसत्वानां साध्वसं तत्कृतं भयं दूरं द्रवति पलायते। अहह महाशरीरे महाफणे च महाशीविषे महारण्यभूमावग्रत एव दष्टे आरण्यहिंस्त्रसत्वभय दूरीभवंतीत्याश्चर्यमेतद्दर्शनस्यैव महाभयहेतुत्वादिति भावः । परिहारस्तु-गहनः दुःखकर यः भवः संसारः तस्मात् जातं गहनभवज तुशन्दोऽवधारणे उत्तरान्वयी। साध्वसं भयं दूरं तु द्रवति। यात्रिकाणां नृणां शेषाद्रिनिर्वर्णनमात्रात्संसारजनि- तभयमपास्तमेव भवतीति। 'गहनं वनदुःखयोः' इति रत्नमाला ! भवजन्तु इत्यत्र 'वा पदान्तस्य' इति अनुस्वारस्य वैकल्पिकः परसवर्णो नकार: अत्र महाव्याळदर्शनरूपप्रातिबन्धके स- त्यपि यात्रिकाणामारण्यक्रजन्तुभयदूरीभवनरूपकार्योत्पत्तिः श्े- षाभित्तिकाभदाध्यवसायानुप्राणणिता वर्णिता।

Page 313

300 अलंकारमणिद्दारे

चतुर्थी विभावना.

विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ।। अकारणात् कारणभिन्नात् कार्योत्पत्तिश्चतुर्थी विभावना॥ रक्षति न वेति संशयलक्षणतिमिरं निराकरि- ष्यन्मे। ज्योत्स्नां दशनावळ्या सरीसृपगिरीश्वर- स्सरीसर्ष्टि॥ १११३॥

तेति लक्षणानुगतिः। दशनकिरणमसृणितं स्मितं ज्योत्सात्वेना- ध्यवसितमिति परिहारः ॥ यथावा- द्रुतमुपगूहति भगवति पिदधाना कौस्तुभं क-

अत्र करतलपिहितकौस्तुभमणिप्रभाः अनुक्षणमङ्गलिबिल- विशकलविगलिततया क्षणप्रभात्वेनाध्यवसिता इति विद्युत्कार- णभिन्नात्कौस्तुभाद्वियुज्जन्म वर्णितम्॥ यथावा- कनकाहार्यादुदिता उदारकूटास्सहस्रशोSहां- र्याः । तेभ्यः खर्जूरनगास्ते च वरिष्ठं फलन्त्यति- विचित्रम् ॥ १११५॥

Page 314

विभावनालक्कारसरः (३६) 301 कनकाहार्यात् हेमाद्रे: शेषाद्रेरिि च शेषाद्रेरेव नामान्त- रमिदमित्यसकृदवोचाम। सहस्रशः उदारकूटाः उत्कृष्टः आर- कूटः पित्तलं येषां ते तथोक्ताः 'रीतिः स्त्रियामारकूटः' इत्य- मरः। अहार्याः गिरयः सहस्रशः उदिताः। पक्षे-अहार्या: केनापि हर्तुमशक्याः उदाराः महान्तः कूटाः शिखराणि उदिताः इति। तेभ्यः आरकूटाहायेभ्यः अहार्येभ्यः उदारश्ङ्गेश्यश्च खर्जू- रनगा: रजतशैलाः सहस्रशः उदिता: खर्जूरवृक्षा उदिता इति च 'खर्जूरं रूप्यखलयोः वृश्चिके ना द्रुमे द्योः' इति मेदिनी। 'शैलवृक्षी नगावगौ' इत्यमरः । ते खर्जूरनगाञ्च वरिष्ठं ताम्रं फलन्ति जनयन्तीत्यर्थः। फलतिस्सकर्मकोऽपि भवति 'फल्द्ि- रुष्णांशुकरावमर्शात्कार्शानवं धाम पतङ्गकान्तैः' इत्यादिग्रयो गात्। पक्षे-अतिशयेन उरु वरं वा वरिष्ठ यथा स्यात्तथा फलन्ति फलानि प्रदर्शयन्तीत्यर्थः । 'वरिष्ठं मरिचेऽपि च । ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु'। इति मेदिनी। अत्र कनका- चलापेन्तलाचलादिभ्यः पित्तलरजताचलाद्यकारणेभ्यस्तदुत्पत्तिरु- पकार्य वर्णितमितीयमपि विभावना। शरषसंकीर्णत्वं वक्ष्यमाण- मालादापकसंकीर्णत्वं मालारूयत्वं च पूर्वस्माद्विशेषः।।

यथावा- उच्चतरान्नागधरादुदुम्बरागा निरङ्कशमुदीताः। प्रायशशाखास्तेभ्यो जाता हारीतिफलमितोऽम्यु- दितम् ॥१११६॥

उञ्चतरात् नागधरात् सीसाद्रे: निरङ्कशं यथा स्यात्तथा उदुम्बरागा: ताम्रवृक्षाः उदीता इति विरोधः। उरगाचलात्

Page 315

302 अलंकारमणिहारे

जन्तुफलापरनामानः पादपा जाता इति परिहारः। 'नाग नपुं- सके रङ्गे सीसके करणान्तरे' इत्युपक्रम्य 'नागः पन्नगमातङ्ग- कूराचारिषु तोयदे' इति, 'उदुम्बरस्तु देहल्यां वृक्षभेदेऽपि षण्डके। कुष्ठभेदेऽपि च पुमास्ताम्र तु स्यान्नपुंसकम्' इति च मेदिनी। तेभ्यः ताम्रवृक्षेभ्य: अयसरशाखा अयश्शाखाः प्रकृष्टाश्च ताः अयश्शाखाश्च प्रायइशाखाः श्रेष्टलोहमयशाखा जाता इति वि- रोधः। प्रायः भूस्रा शाखा जाता इति परिहारः । इतः आभ्य- इशाखाभ्यः गीतिफलं पित्तलफलं अञ्युदितम् । हा इत्याश्चर्ये हारीति मनोहरप्रकारं मनाहरत्वेन प्रकाशमानं वा 'वल्गु वामं हारि शालि' इति, 'इति हेतुप्रकरणप्रकारादिसमाप्िषु' इति चामरः । 'इति हेती प्रकाशने' इति मोदेनी। फलं अभ्यु- .

दितमिति परिहारः। अन्रापि पूर्वोदाहरणवदेव सर्वम्। एकावळी- संकोर्णत्वं तु विशेषः ॥

यथावा-

इदमद्रुतमतिमात्रं यदिहारुणनलिनवनरुचिव- दान्यात्। पावयितुं जगदुदभूत्पादाद्देवस्य भास्वतो गङ्गा ।|१११७॥

अरुणनलिनवनरुचे: वदान्यात् दातुः। पक्षे-ततोऽपि महतः भास्वतः भानो: देवस्य। पक्ष-देवन्य भगवतः भास्वतः तेज- स्विनः पादात् किरणात् चरणाच्च गङ्गा जाता। अत्र गङ्गाया अकारणादपि भानुपादात्तज़न्मरूपकार्य वर्णितम्। वक्ष्यमाणहे. त्वलंकारसंकार्णत्वं पूर्वेभ्यो विशेषः॥

Page 316

विभावनालंकारसरः (३६) 303

पश्चमी विभावना

कार्योत्पत्तिर्विरुद्धाच्चेत् पश्चमी सा विभावना। यथावा- कुम्भीनसपतिभूधर कुम्भिन्युल्लासभारमुह्लल- यन्। निर्जरसिंह: कश्चन मार्जयति स्म द्विपस्य बत भीतिम् ॥१११८॥ निर्जर: युवा स चासौ सिंहश्च। पक्षे-देवश्रेष्ठः श्रीनिवा- स इत्यर्थः । कुम्भिन्या: करिण्या: भूमेश्च 'गौरिला कुम्भिनी क्षमा' इत्यमरः। उल्लासभारं प्रकाशातिशयं हर्षातिरेकं च । अंत्र कुम्भि- नीद्विपोल्लासनिवर्तकतया ताद्वरुद्वान्निर्जरासेंहात्तदुल्लासनतन्भीति- मार्जनरूपकार्योत्पात्तिरमिहितेति लक्षणानुगातः ।। यधावा- नागावनीभृदुच्चैरधिनोति केसरिकिशोरकनिका- यम्। सोऽपि करिणः प्रभिन्नान् स्वगर्जितैरेव हन्त संतनुते ॥१११९॥ नागावनीभृत् गजराजः। शेषाव्रिरिति तु वस्तुस्थितिः। केसरिकिशोरकनिकायं सिंदशावकनिकरं उच्चैः धिनोति। सोऽपे सिंहशाबकनिकरोऽपि स्वगर्जितैरेव करिणः गजान् प्रभिन्नान् मत्तान् 'प्रभिन्नो गर्जितो मत्तः' इति गजविशेषपर्यायेष्वमरः। विदारितानिति तु तत्त्वम्। अत्र केसरिकिशोरकप्रीणनावरुद्धात् गजराजात्ततप्रीणनरूपं कार्य गजमदशोषकतया तन्मत्ततासंपादन-

Page 317

304 अलंकारमणिहारें

र्णितमिति विभावनाद्वयं वक्ष्यमाणैकावळोसंकीरणमति विशेषः । क्केषनिर्व्यूढत्वं तु पूर्ववदेव । यथावा- अन्तार्हितसरलगुणो घनतरलोभान्वितोऽप्यलं कारः। मुकाहारोऽच्युत तव वसुविकिरणतोS- त्युदारतामेति ॥ ११२० ॥ अन्तर्हित: तिरोहितः क्वचिदप्यप्रकाश इति भावः। तथा- विधः सरलगुण: उदारगुणः यस्य स तथोक्तः। पक्षे-अन्तः स्वच्छिद्रान्तःप्रदेश हितः निहितः प्रोतः सरलः अग्रन्थिलतया ऋजु: गुणः सुवर्णादितन्तु: यस्य स तथोक्तः 'सरलः पद्म- काष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी। घनतरेण लोभेन अन्वितः। पक्षे-घनः तरलः हारमध्यगमणिः यस्य सः घनत- रल: 'तरलो हारमध्यगः' इत्यमरः। भान्वितः प्रभायुतः अत एव मुक्ताहार: त्यक्तभोजनः अतिकंदर्यतया स्वोदरपूरणमप्यकु- . र्वाण इति भावः। तथाहि स्मर्यते कदर्यलक्षणम्- आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत्। लोभाद्यः पितरौ भ्रातुन् स कदर्य इति स्मृतः॥ इति। पक्षे-मुक्ताहार: मौक्तिकग्रथेतहार इति प्रथितः अलङ्कारः आभरणं लुब्घः कश्चित्पुमानिति व्यज्यते। वसुविकिरणतः व सूनां धनानां विकिरणतः स्वैरविश्राणनात्। पक्षे-किरणप्रसा- रणात् अत्युदार: महावदान्यः अतिपूज्यश्च 'उदारो दातृम हतोः' इत्यमरः। तत्तां पति। अत्रौदार्यविरुद्धाल्लुब्धात्तत्कार्य- संपत्तिश्श्रेषभित्तिकाभदाध्यवसायेन वर्णिता। समासोक्तुयपस्कृ- तत्वं पूर्वस्माद्विशेष:।।

Page 318

विभावनालङ्कारसरः (३६) 305

यथावा- हरिभुक्तशेषमेव हि यो भुङ्के सोऽङ्ग मङ्गलं भुक्के। यो ह्यन्यदेव भुङ्के चित्रं सोडप्यङ्गमङ्गलं भुङ्ग ॥ इदं पद्यं कस्यचित्कंचित्प्रत्यनुशासनरूपम्॥ अङ्गेति संबो- धनार्थकमव्ययम्। 'स्युः प्याट् फाडङ्ग हे है भोः' इत्यनुशा- सनात्। अङ्ग हे साधो! यः हरिभुक्तशेषमेव भगवत्निवेदि- तहविश्शिष्टमेव भुङ्गे अभ्यवहरति स पुमान् मङ्गलं सर्वपा- पापनोदनपूर्वकनिशश्रेयसलाभपर्यन्तं कल्याणं भुङ्गे अनुभवति। ततस्तु भगवद्गुक्तं प्राश्नीयान्नियतस्स्वयम् । क्षयाय सर्वपापानां मोक्षसंसिद्धयेऽपि च। इति, त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः। उच्छिष्टभोजिनो दासास्तव मारया तरन्ति ते॥। इति च श्रीमत्पारमेश्वरसंहिताश्रीभागवतादयुक्तेरिति भाव :- यः पुमान् अन्यदेव भगवदनिवेदितमेव वा भगवदितरदेवनिवेदि- तमेव वा भुङ्के सोऽपि अङ्ग ! हे साधो! मङ्गलं भुङ्गे उक्त- रीत्या कल्याणभाग्भवतीति चित्रम् 'नानिवेदितभोगस्स्यात्' इति भगवद्निवेदितान्नादिभोगस्य भरद्वाजसंहितादौ निषेधात्। सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्लभः। निर्माल्यं शङ्करादीनां स चण्डालो भवेडूवम्॥ कल्पकोटिसहस्राणि पच्यते नरकागनिना। निर्माल्यभुग्धिजश्रेष्ठो रुद्रादानां दिवौकसाम्॥ इति॥ विष्णोर्निवेदितं शुद्ध मुनिभिर्भोज्यमुच्यते। अन्यनिवेदितं यत्तद्भुक्त्वा चान्द्रायणं चरत्।

ALANKARA II 39

Page 319

306 अलंकारमणिहारे

प्रत्यवायहेतुत्वस्यैव स्मरणाच्च तादशान्नभोजनस्य मंङ्गलप्रापक- त्वोक्तिर्विस्मयावहैवेति भावः ॥ परिहारस्तु-अङ्गमङ्गलमिति समस्तं पदम् । अविद्यमान: ङ् इत्याकारकवर्णसमुदयो यस्य तत्तथोक्तं मङ्गलं मलं पापमित्यर्थः । भुङ्गे इति। 'मलोऽस्त्री पापविट्टिट्वेषु' इत्यमरः । शब्दार्थयोस्तादात्मयं तुन प्रस्मर्त-

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः। इत्युक्तप्रक्रियया सर्वपापचिनिमोकपूर्वककल्याणभाग्भवति। तदितरस्तु 'केवलाघो भवति केवलादी"ते त्वघं भुख्जते पापा: ये पचन्त्यात्मकारणात्' इति श्रुतिस्मृत्युक्तप्रकारेण केवलपाप- भोक्तैव भवतीति निर्गलितोऽर्थः। अत्र मङ्गलभोक्तृत्वविरुद्धा-

न्वरं तु स्पष्टमेव।। अत्रेदमवधेयम्-लक्षणे विरुद्धादित्यस्य कार्यासहवृत्तेरित्य- र्थः । तथाचात्र. मङ्गलभोक्तृत्वरूपकार्यस्य भवगवदनिवेदिता- न्नादिभाजनरूपकारणस्थ चैकस्मिन् पुरुषरूपे देशे असहवृत्ति- त्वाहैशिको विरोध इति। एवं 'कुम्भीनसपतिभूधर' इत्यादिषु प्रागुपदर्शितेषु त्रिष्वप्युदाहरणेषु दैशिक एव विरोधो द्रष्टव्य:।। यधावा-

तेजाः। अतनुतरैरतनुत बत विमतान् जडताऽ तिवेपितान् सदयः ॥ ११२२॥। हरि: रविः भगवांश्च। स्वस्य करैः किरणैः कराभ्यां च

Page 320

विभावनालङ्कारसरः (३६) 307

व्यतिकरितैः संश्लेषितैः संहितैश्च अत एव निशितैः तीक्ष्णैः आशुगैः मारुतैः बाणैश्च जडतया शैत्येन अप्रतिपत्तिमूढमन- स्कतया च अतिवेपितान् अतिकम्पितान्। स्पष्टमन्यत्॥ अत्र

जडताप्रयुक्तकम्पनस्थ चैकस्मिन् काले असहवृत्तेः कालिको विरोध इति विशेष:। यथावा- कुवलयविकासइश्रीरमृतकरोऽपि स्वतस्सतां नाथः । आमोदयते पुष्करसदो महोष्णश्रिया ब तैष दिवा॥ ११२३।। एषः सतां नक्षत्राणां नाथः चन्द्रमाः स्वतः अमृतकरः शिशिरांशुरिति भावः। कुलवयविकासदश्रीरपि दिवा अहि महो- ष्णया अतितिग्मया श्रिया स्वभासा पुष्कराणां पद्मानां सदः सभां समूहमिति यावत् 'स्त्रीनपुंसकयोस्सदः' इत्यमरः । आ- मोदयते सुरभीकरोति। बत इदं चित्रमित्यर्थः ॥ वस्तुस्थि- तिस्तु स्वतः सतां ब्रह्मविदां अमृतकर: निइश्रेयसदाता। कुवल- यविकासदा भूवलयानन्ददायिनी श्रीः लक्ष्मी: शोभा संपद्वा यस्य स तथोक्त:। एषः नाथः जगतामधीश्वरी भगवान् महोष्णा अतिपट्ठ: श्रीः संपत् यस्यास्सा अतिमहोष्णश्रीः तथो- कया दिवा स्वर्गेण 'उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलि- ङ़कः' इति मेदिनी। 'दक्षे तु चतुरपेशलपटवस्सूत्थान उ- छणश्च' इत्यसरश्च । पुष्करे सीदन्तीति पुष्करसदः। सदेः क्किप् । तान् दुसदः देवान् 'पुष्करं खरऽम्वुपझ्मयोः' इति मेदिनी। आमोदयते प्रहर्षयते इति 'आमोदो गन्धहर्षयोः'

Page 321

308 अलंकारमणिहारे

इति मेदिनी। दिवः पटुतरसंपत्समृद्विमत्तामापाद् देवाना- नन्दयतत्यिर्थः। अत्र पुष्करपरिषदामोदनिवर्तकतया तद्विरुद्धा- च्चन्द्रमसः पुष्करपरिषदामोदनिवर्तनरूपकार्यसंपत्तिरुदीरिता॥ चन्द्रमसः पुष्करामादस्य चैकस्मिम् काले सहानवस्थानात्का- लिको विरोधः।। कारणस्योद्रवः कार्याद्यदि षष्ठी विभावना॥ कार्यािति पञ्चम्यर्थो हेतुत्वं न त्वानन्तर्यादिः। अन्य- = यथावा- सागस्यपि विनतजने दयापयोधिं श्रियास्स- मुद्रूतम्। वीक्ष्याहीन्द्रगिरीन्दोर्विस्मयजलधिर्वि- जायते चित्रम् ॥ ११२४ ॥ अत्र कार्यभूताभ्यां लक्ष्मीचन्द्राभ्यां कारणभूतजलधिजनि- र्वर्णितेत्येषा विभावना। दयापयोधिरिव विस्मयो जलाध- रिवेत्युपमितसमासाश्रयणेन महती दया महांश्र विस्मयो जा- यत इति विरोधपरिहारः॥ यथावा- मनसो जातो विधुरिति ननु सा प्राहानिदंप्र- थमवाणी। शुभवृषगिरीशमौळेर्विधोः प्रसन्नं म- नोऽजनि विचित्रम् ॥ ११२५।। अनिदंप्रथमवाण श्रुतिः 'चन्द्रमा मनसो जातः' इत्याह। शुभ: वृषः वृषमः यस्य तत्य गिरीशस्य शङ्करस्य मौले: शेखर- भूतात् विधोः चन्द्रमसः प्रसन्नं मनः अजनीति विरोधः।

Page 322

विभावनालङ्कारसरः (३६) 309

शुभश्चासी वृषगिरीशः शेषागिरि: तस्य मौळे: विधोभगवतः हेतुभूतात् मनः अस्य ममेत्यादिः। प्रसन्नं भगवद्दर्शनादिना वीतकलुषम्। अजनीति योजनाभेदेन तत्परिहारः। अत्रापि का- र्याच्चन्द्रमसो मनसः कारणस्योत्पत्तिर्वर्णिता श्रुतिप्रसिद्धक्रार्य- कारणभाववैपरीत्यवर्णनं पूर्वस्माद्विशेषः॥ यथावा- भानुरजायत भगवञ्चक्षुष इति वदति पौरुषं सूक्तम्। धामनिधेरजनि हरेई्टप्टिर्विशदा ममैत- तदाश्रर्यम्॥११२६॥ पौरुषं सूक्तं 'चक्षास्सूर्यो अजायत' इति वदति। वि- शदा प्रसन्ना हरे: भगवतः दृष्टिः चक्षुः धामनिधेः भानोः अ- जनि एतत् ममाश्चर्यम्। इति विराधः। धामनिधेः तेजोनिधे: हरे: भगवतः श्रीनिवासात् मम दृाष्टिः ज्ञानं 'दृष्टिर्ज्ञानेऽक्ष्ण दर्शने' इत्यमरः। विशदा निर्मला अजनीति योजनाभेदेन परि- हारः। अत्रापि कार्यान्ानो: कारणस्य भगवच्चक्षुष उदयो वर्णित:॥ यथावा- इन्द्रश्राम्निश्र मुखादजनिष्ठेति श्रुतं पुरुषसूक्ते। जिष्णोश्शुचेर्भगवतः प्रादुरभून्मुखमहो मम स- मक्षम् ॥ ११२७ ॥ 'मुखादिन्द्रश्चाप्निश्च' इति पुरुषसूक्ते श्रुतम्। भगवतः मुख जिष्णोः इन्द्रात् शुचे: अग्नेर्वा मम समक्षं प्रादुरभूत् अ- जायत अहो इति विरोधः। परिहारस्तु- जिष्णोः जयशीलस्य

Page 323

310 अलंकारमणिहारे

शुचे: अपहृतपाप्मनः भगवतः मुखं सम समक्षं प्रत्यक्षं प्रादु- रभूत् आचिर्भूतमभूत् । अत्रापि कार्यादिन्द्रादप्रेश्च कारणस्य भगवन्मुखस्य प्रादुर्भावोऽभिहितः। अन्यत्तु पूर्ववदेव।। यथावा- विष्णुपदान्नङ्गाडभूद्विमलेति न्यशमयाम शा- स्त्रेम्यः। चित्रमिदं गङ्गया विष्णुपदं विमलमा- विरभवदिति॥११२८॥ न्यशमयाम अशृणवाम गङ्गायास्सकाशात् विमलं विष्णु- पदं भगवञ्चरणं आविरभवत् अजायतेति विरोधः । गङ्गायाः हेतो: विष्णुपद अन्तरिक्षं विमलं सत् आविरभवत् प्रकाशमा- सीत् इति परिहारः। कार्यात्कारणजनिस्स्पष्टैव॥। इमे च षट् प्रकारा: कुवलयानन्दकारैलक्षिताः । प्राक्तनैस्तु अत्राद्य एव प्रकारो लक्षितः नान्ये पञ्च प्रकारा: एते च पञ्चप्रकारा दीक्षितोपज्ञान्येवेति ज्ञायन्ते। रसगङ्गाधरकृदादयस्तु-"प्रथमप्रकारातू द्वितीयप्रकारस्य वै- लक्षण्यं दुरुपपादमेव, कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कार- णतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताका- भावस्य विवक्षितत्वात्। प्रकारान्तरस्वीकारापेक्षया तादृशवि- वक्षाया एव लघुत्वात्। एवं प्रतिबन्धकमपि कारणाभाव एव। प्रतिबन्धकाभावस्य कारणत्वात्। इति तृतीयोऽपि भेदो न वि- लक्षणः। चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्वाद्वीणानि- नादोऽयम्' इत्युक्ते वीणां विनैवेि प्रत्ययादवैलक्षण्यम्। तस्मा- दादेन प्रकारेण प्रकारान्तराणामालढित्वात् षट्प्रकारा इत्यनु- पपन्नमेव। यदि तु यथाकथंचित्कुवलयानन्दोक्तिस्समर्थनीये-

Page 324

विशेषाक्तथलङ्कारसर: (३७) 311

त्याग्रहः तदा इत्थं समर्थनीयम्। तथाहि-विनाऽपि कारणं कार्यजन्मेि विभावनायास्सामान्यलक्षणम् । इयं च तावत् द्विविधा। शाब्दी आर्थी चेति। शाब्दी त्रिविधा। प्रतिबन्ध- कातिरिक्त कारणव्यक्तिप्रतियोगिताकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्वबैकल्यप्रयुक्त: कार्याभाव: तद्वैकल्यो- क्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छे दकसंबन्धश्च। प्रतिबन्धकोक्तिपूर्विका चेति। आर्थ्यपि त्रिविधा। प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात् प्रकृतविरुद्धका- र्यस्य कारणात् स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति। पतद- र्थकमेव हि 'अकारणात्कार्यजन्मत्यादि" इत्याहुः॥ इत्यलंकारमणिहारे विभावनासर: षट्त्रिश:

(३७) अथ विशेषोक्तिसरः.

विशेषोक्ति: पुष्कलेपि हेतौ कार्य न वेद्रवेत्। सत्यामपि कारणसामग्रयां कार्यस्यानुत्पत्तिर्विशेषोक्तिर्ना- मालंकारः। अस्यां च विरोधः प्रतिभासमानः प्रसिद्धकारण- न्तरवैकल्यबुद्धथा निवर्तते॥ यथा- स्नातं तीर्थेडधीतं स्फीतं शास्तरं कृतं सुकृतजा- तम्। एतन्ममाविनीतं चैतन्यं तदपि हन्त किं जातम् ॥९१२१॥ पेतनैव चैतन्यं बुद्धिरित्यर्थः। हन्त किं जातमिति नि- रवेदातिशयकथनम्। अत्र 'तमेतं वेदानुवचनेन ब्राह्मणा विविदि-

Page 325

312 अलंकारमणिहरि

षन्ति यज्ञेन दानेन तपसाऽनाशकेन' इत्यायुक्तरीत्या तीर्थस्ा- नादीनां ब्रह्मवेदननिदानभूतचित्तशुद्धिहेतूनां बहूनां समवधानेऽपि चित्तशुद्धिरूपकार्यानुद्यवर्णनाद्विशेषक्तिः । तत्र ईश्वरसौहार्द- यादच्छिकसुकृतपरिपाकाद्यभावरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्तनिमित्ता चित्तशुद्धचनुदयनिमित्तस्य प्रतिबन्धकस्यानु- पात्तत्वात्॥

सुबहुश्रुतोऽपि कश्वित्वां नारायण न वेत्ति यथावा-

परतत्त्वम्। अवगाढपायसोपि च तस्य रसं दा- रुहस्तक इवाहो॥११३०॥ अत्र बहुश्रुतत्वरूपकारणसन्भ्ावेऽपि 'तत्त्वं नारायण: परः' इति श्रूयमाणो नारायण एव परं तत्त्वमिति ज्ञानरूपकार्यस्या- नुदयो वर्णितः॥ विद्या राजन्न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमो वस्तो नाभिजानासि केशवम्॥ इत्युक्तरीत्या ब्रह्मविद्याविघुरत्वतमोध्वस्तत्वानिरूपं प्रतिबन्धकं प्रतीयत इतीयमप्यनुक्तनिमित्ता। उक्तविधपरतत्वाज्ञाननिमित्तस्य प्रतिबन्धकस्यानुपादानात्। अवगाढं चिलोडितं पायसं परमा- न्नं येन स तथोक्तोऽपि दारुहस्तक: पायससूपादिविलोडनप- रिवेषणसाधनभूतो दारुनिर्मितो हस्ताकार: कश्चिद्वस्तुविशेषः 'स्यान्तण्डूर्दारुहस्तकः' इत्यमरः। अत्र- यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः। न स जानाति शास्त्रार्थ दर्वी सूपरसानिव॥ इति श्रीमन्भारतवचनार्थः प्रत्यभभिज्ञाप्यते। उपमासंकीर्णत्वं तु पूर्वोदाहरणाद्विशेष:।।

Page 326

विशेषोफ्किसरः (३७) 313

उक्तनिमिना यथा- प्रायश्रीर्णान्यपि वा प्रायश्वितानि पापिनं म- नुजम्। न हि नारायणविमुखं पुनन्ति तीर्थानि मद्यभाण्डमिव॥ ११३१॥

रूपकार्यानुदयः। इयमुक्तनिमित्ता नारायणविमुखमित्यपूततानि- मित्तस्य प्रतिबन्धकस्योपात्तत्वात्: अनेन- प्रायश्वित्तानि चीर्णानि नारायणपराखुखम। न निष्पुनन्ति राजेन्द्र सुराभाण्डमिवापगाः ॥ इति श्रीभागवतश्लोकार्थः प्रत्यभिज्ञाप्यते॥ यथावा- हन्त विशुद्धे पूर्णेऽप्यन्तर्गगने विधौ विलस- माने। बुद्धिर्मुग्धतमानां तमस्विनी न विजहाति मालिन्यम् ॥ ११३२॥ विशुद्धे पूर्णे आभ्यां विशेषणाभ्यां 'पष आत्माऽपहतपा प्मा' इत्यादिदहरविद्योदीरितमखिलहेयप्रत्यनीकत्वमनन्तकल्याण- गुणाकरत्वं च संग्रहीतम्। अन्तः ब्रह्मपुररुपशरीरान्तर्वर्तिनि ह- दयपुण्डरीके विद्यमाने गगने 'दहरोऽस्मिन्नन्तर आकाशः, त- नपि दहं गगनम्' इति दहरविद्याप्रतिपादिते परस्मिन् ब्रह्म- णि विधौ विष्णौ नारायणे। अनेन लिङ्गभूयस्त्वाधिकरणसिद्धा- न्तप्रकारेण नारायणस्यैव सर्वपरविद्योपास्यत्वमित्ययमर्थस्सू- चितः। विलसमानेऽपि 'अनेन सकृद्विमातो ह्ववैष ब्रह्मलोकः' इति तद्विद्योक्त ब्रह्मस्वरूपप्रकाशस्यानावृततया भासमानत्वमु- ALANKARA II 40

Page 327

314 अलंकारमणिहारे

क्तम्। ताच्छील्यार्थकचानशा तस्य प्रकाशस्यानागन्तुकत्वं सूचि- तम्। मुग्धतमानां अविद्याच्छादितानां अनेन 'तद्यथा हिरण्य- निधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमा- स्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति तत्रत्यश्रुत्यर्थोऽनुसंहितः । प्रत्यूढाः प्रतीपं नीताः स्वभावान्तरं प्रापिता: आच्छादिता इति यावत् इति तदर्थ:। तमस्विनी तामसी बुद्धि: मालिन्यं सांसारिकदुःखम- लिनतां न जहातीति। अन्यत्र विशुद्धे विमले पूर्णे समग्रकले विधौ चन्द्रमसि गगने अन्तः अन्तरिक्षस्य मध्ये शौण्डादिगणे अन्तर्शव्दपाठाद्रगने इत्यवयविन आधारत्वविवक्षायां सपमी। विस्तरस्तु रसास्वादिन्यां कृतोऽस्माभिः । विलसमाने सत्यपि तमस्विनी तमःप्रचुरा बुद्धि: गुहेतत गम्यते। मालिन्यं तिमिर- प्रयुक्तमलीमसत्वं न विजहातीति। अत्र विधुवविलसनरूपकारणे विद्यमानेऽपि मालिन्यप्रहाणरूपकार्यानुदयो वर्णितः । इयमपि पूर्ववदुक्तनिमित्तैव, तमसस्विनीति मालिन्याप्रहाणनिमित्तस्य प्रति- बन्धकस्योपादानात्। पूर्वा शुद्धा उपमोपस्कृता। इयं तु श्ेषादिसंकीणैति भेद: ॥

यथावा- अपि हरिनखपरिभूतः क्षान्त्याद्यविभासुरः क्ष- पाध्यक्षः । स्वान्तेत्रपाध्यलीढो ह्यनूनवर्णो बभू- व स खलु जडः ॥ ११३३॥

हरे; भगवतः नखैः परिभूतोऽपि क्षपाध्यक्षः चन्द्रमाः। स्वान्ते मनसि त्रपा लज्जा आधि: व्यथा ताभ्यां आलोढ:

Page 328

  • विशेषोक्तिसर: (३७) 315

अव्याप्तः निस्त्रपो निर्व्यथश्चेत्यर्थः । अत एव क्षान्त्या ताहृश- परिभवसहनेन उपलक्षित: अत एव अविकलवर्णः पूर्णवर्ण एव हिशब्दोऽवधारणे। द्यवि अन्तरिक्षे 'दोदिवा द्वे' इत्यमरः। भा- सुरः बभूव। तत्र हेत्वन्तरमाह-सइति। सः चन्द्रमा: जड: खलु मूढ एव हि। मूढा: प्रायेण परेभ्यः प्राप्ेऽपि परिभवे न ग्लायन्ति किंतु विवेकविधुरा हृष्यन्त्यपीति भाव:॥। पक्षे-क्षपाध्यक्ष इति शब्द: क्षान्त्याद्यिभासुर इति समस्त- 'मेकं पदम्। क्षा्यां क्षकाराभ्यां अन्त्याद्ययोः चरमप्रथमभाग- यो: विभासुरः क्षरूपाभ्यां अन्त्याद्यवर्णाभ्यां विभासुर इति वा। अत्र अस्मिन् स्वान्ते स्वान्तरे क्षपाध्यक्षशब्दमध्ये इत्यर्थः। पाध्यलीढ: पाध्य इति वर्णसमुदयलीढ: अविकलवर्णः संपूर्णा- क्षर एव बभूव। एकस्यापि वर्णस्यानपायादिति भावः। अत्र हरिनखपारभूतत्वरूपकारणसत्त्वेऽपि त्रपाद्यनुदयो वर्णितः। जड इति त्रपाद्यनुद्यनिमित्तस्य प्रतिबन्धकस्योपात्तत्वादुक्तनमित्तैव।

यथावा-

सारससरसा हक्त्ते प्रतिकूलोक्तयाऽपि न विकृ- तिलवं वा। विन्दति मुकुन्दसुन्दरि तस्यास्ताह- ग्विधा हि परिपाटी॥ ११३४ ॥

हे मुकुन्दसुन्दरि! सारससरसा कमलरमणीया तव हक् प्रतिकूलोक्त्त्या स्वविप्रतीपवचसापि विककृतिलवं वा विकार- लेशमपि न विन्दृति। महोदारगभीरहृदयायास्तव निसर्गनित्य- रमणीया दृष्टि: क्षोभहेतुभूतक्षोदिष्टप्रतिकूलगिरा न कदाऽपि वि-

Page 329

316 अलंकारमणिहारे

कृतिमुपयाति। किंतु यथावस्थितैव भवताति भावः । तथाऽ वस्थाने हेतुमाह तस्या इति। हि यस्मात् तस्या: दृशः परिपा- टी रीति: ताहग्विधा तत्स्वभाव एव ताहक यत्क्षोभहेतौ स- त्यप्यविकृततयैवावस्थानम्। अत एव विशेषाक्तिः। इयमप्युक्त- विषया। तस्यास्तादग्विधा हि परिपाटीति विकारनुदयनिमि त्तस्य प्रतिबन्धकस्योपात्तत्वात्। अत्र सारससरसाशब्द: प्रति- लोमपाठेऽपि विकारलेशमपि न विन्दति। तस्याः सारससरसा- शब्दस्य अर्थगतं स्त्रीत्वं शब्दे आरोप्यते। परिपाटी आनुपूर्वी

शशालिनीति चमत्कारान्तरप्रदर्शनं विशेषः पूर्वोदाहरणात्॥ केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति। उदाहरन्ति च- स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरताऽपि तनुं यस्य शम्भुना न बलं हतम्॥ इति। अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रतीयते। इह तुन तथा । किंतु भविष्यति किंचि-

हि तेषामभिप्रायः। अन्ये तु 'नानुक्तनिमित्तायां चिन्त्यत्वं निमि- न्विशेषणं, भेदान्तरकल्पनागौरवप्रसङ्गात्। किंतु चिन्त्यत्वमचि- न्त्यत्वं चेति द्विप्रकारकमपि निमित्तं यत्र नोकतं साऽनुक्तनि- मित्ता तेन अचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्यांहु:॥ चिन्त्यनिमित्ता पूर्वमुदाहतैव।। अचिन्त्यनिमित्ता यथा- दुष्कृतिनिश्शेषीकृति कृतिनि त्वयि जाग्रति

Page 330

विशेषोक्तिसरः (३७) 317

प्रभाववति। त्वद्वैभ्वविद्वेषी खलः कुतोऽद्यापि शिष्यते भगवन् ॥ ११३५॥ अत्र दुष्कृद्विनाशनपटीयस्तरमहाप्रभावभगवजागरूकतारू- पकारणसामग्रीसमवधानेऽपि तद्वैभवविद्वेषिखलजनानेशशेषीकर- णरूंपकार्यानुदयवर्णनाद्विशेषोत्तिः। तत्परिशेषणे निमितं किंचि- द््विष्यतीत्यचिन्त्यमेव तत्, प्रतीत्यविषयत्वात्।।

यथावा- पन्नगनगधौरेयः प्रसन्नयाऽम्ब त्वयाऽनिशं सुहि- तः। चित्रं नमदर्खलितो न रागदुष्टाऽपि दष्टिरे- तस्य॥ ११३६॥।

हे अम्ब! त्वया प्रसन्नया सुरया स्वच्छया संतुष्टया वा सत्येति वस्तुस्थितिः । 'प्रसन्ना स्यात्सुरायां स्त्री स्वच्छ- संतुष्टयोस्त्रिषु' इति मेदिनी। 'गन्धोत्तमा प्रसन्नेरा' इति सुरा- पर्यायेष्वमरश्च । अनिशं सुहितः तृप्तः। पक्षे-सुतरां हित- रक्षणेन सकलभुवनहितकृदित्यर्थः ॥ लक्ष्म्या सह हृषोकेशो देव्या कारुण्यरूपया। रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते।। इति श्रीसाहित्येनैव जगद्रक्षणोक्तेः। मदेन चित्तविकारेण रख- लितः न भवति । पक्षे-नमदस्खलित इति समस्तमेकं पदम्। नमत्सु शरणागतेषु अस्खलितः आश्रितरक्षणव्रते च्युतिरहित इत्यर्थः। किंच एतस्य दृष्टिः रागेण शोणिस्ना मदकार्येण। अन्यत्र मात्सर्यादिदोषेण दुष्टा च न भवति। अत्र अनिशं

Page 331

318 अलङ्कारमणिहारे

प्रसन्नासुहि तत्व रूपकारणपौष्कल्यसन्भ्रावेऽपि मदस्खालित्यादिका- र्यानुद्यवर्णनाद्विशोषोक्तिः। तादृशकार्यानुदये निमित्त किं भवे- द्वेत्याचिन्त्यमेव तत्, प्रतीत्यगोचरत्वात्। इयं श्लेषोत्तम्भितेति पूर्वादाहरणाद्वैलक्षण्यम्।। यथावा- ननु वासराधिपस्तव सेवायै वानराधिपो जा- तः । रघुवीर रूपभेदेप्यनयोरग्राहि हन्त सन- भेदः॥ ११३७॥ ननु रघुवीर! वासराधिपः भानु: तव सेवायै कैंकर्य कर्तु वानराधिपो जात: सुग्रीवतयाऽडविरभूदित्यर्थः। 'आत्मा वै. पुत्रनामासि' इति श्रुतेः । अनयोः वासराधिपवानराधिपोः रूपभेदे सत्यपि सः भेद: नाग्राहि । जनैरिति शेषः । हन्ते- त्याश्चये। अत्र रूपभेद्ग्रहणसामग्रयां सत्यामपि तदग्रहणवर्णना- द्विशेषोक्तिरचिन्त्यनिमित्ता। अनयो: वासराधिपवानराधिपशब्द योः सनभेद: सकारनकाराभ्यमेव भेद: अग्राहि नान्यवर्णैरिति वस्तुस्थितिः । अयमेव विशेषः पूर्वोदाहरणात्॥ इदमत्रावधेयम्-यत्र कारणाभावकार्याभावयो: प्रतियोगिता. वच्छेदकविशिष्टवशिष्टयेन श्रुत्या प्रतिपादनं तत्र विभावनाविशे- षोक्तचोश्शाब्दत्वं अन्यत्रार्थत्वमिति॥

यथा- मधुरविधां चरितसुधां मधुमथन तवानिशं स- मापिबताम्। प्रतिकलमविकलरूपस्तर्षोत्कर्षोS- भिवर्धते चित्रम् ॥ ११३८॥

Page 332

विशेषी क्तयलंकार सर: (३७) 319

लोके ह्यसंनिकर्षस्तर्षहेतु: तदभावे संनिकर्षेSपि तर्षोत्कर्ष उपनिबद्धः। तथा सन्निकर्षस्तृप्तिहेतु: तत्सन्भ्ावेऽपि तृप्तयभावो बोधितः। परंतु कारणाभावकार्याभावयोन प्रागुपदर्शितप्रकारेण प्रतियोगितावच्छेदकविशिष्टवैशिष्टयेन श्रुत्या प्रतिपादनमित्यार्थ- त्वमेव विभावनाविशेषोक्तिसंकरस्य। अमुमेव चार्थ हृदि नि- धाय मम्मटभट्टेन "यः कौमारहर" इति पद्यमुदाहत्यात्र स्फुटो न कश्चिदलंकार इत्यभिहितम्॥ वामनस्तु-'एकगुणहानिकल्पनायां साम्यदाढ्य विशेषो- क्तिः' इति व्यवाहार्षीत। उदाहार्षीच्च 'धूतं हि नाम पुरुष- स्यासिंहासनं राज्यम्' इति। अत्र हि दयूते राज्यं तादात्म्ये- नाराप्यते। तत्र सिंहासनरहितं हि यूतं सिंहासनसहितराज्य- तादात्म्यं कथमवलम्वेतेत्यारोपोन्मूलयितयुक्तिनिराकरणायारोप्य माणे राज्येरपि सिंहासनराहित्यं कल्प्यते। तेन दढासोपं रूप- कमेवेदं न विशेषोक्तिः । एवंच 'अचतुर्वदनी ब्रह्मा' इत्यादि- पौराणिकपद्येऽपि रूपकविशेष एव। तथा गुणाधिक्यकल्पना- यामपि रूपकविशेष एव। यथा 'धर्मो वपुष्मान् भुवि कार्त- वीर्यः' इत्यादी। एवंच 'एकगुणहान्युपचयादिकल्पनायां साम्य- दारढ्य विशेषः' इति विशेषालङ्कारं लक्षयन्तोऽपि प्रत्युक्ताः॥ इत्यलङ्कारमणिहारे विशेषोक्तिसरस्सप्तत्रिंशः

Page 333

820 अलँकारमणिहारे

(३८)-अथासंभवसरोSष्टत्रिंश :-

असंभाव्यत्वकथनमर्थसिद्धेरसंभवः । कस्थचित्कार्यस्य निष्पत्तेरसंभावनीयत्ववर्णनमसंभवो ना- मालंकारः। यथा-

कुरुसदास द्रुपदसुता परिभूताऽभूद्यदा तथा धूर्तैः। तव करुणा तां भगवंस्तदाSभिरक्षेत्तथेति को वेद ॥११३९॥

यथावा -- चरणत्रयमितघरणीवरणकृतार्थेन वामनेन हरे। जगतां त्रितयं भवताSSक्रम्यत इति केन नाम विज्ञातम् ॥११४०॥

यथावा- सर्वद इति हृदयं त्वयि दर्वीकरगरिपते मया न्यस्तम्। अपहरसि तदेव त्वं देव त्वामीदृगिति न वेदाहम् ॥११४१॥

अत्रोदाहरणत्रये पाश्चालीरक्षणजगत्त्रयाक्रमणहृद्यापहरण- नां पदार्थानां निष्पत्तेरसंभावनीयत्वं को वेदेत्यादिभिराविष्क- तमिति लक्षणानुगतिः ।।

Page 334

असंभवसरः (३८) 321

यथावा- गोपकिशोरस्य वने तापो मा भूत्पिधेहि घन तपनम्। इत्याशासे विद्यात्का वा दावाग्निमेष पिबतीति॥११४२।। यशोदाया उक्तिरियम्। घनेति जलधरस्य संबोधनम्। अत्र गोपकिशोरस्य दावाग्निपानरूपपदार्थनिष्पत्तेरसंभाव्यत्वं का वा विद्यादित्यनेनाविष्कृतम्। यथावा- शुभभाविभवान्दद्या इति हि रमाधिप समा- श्रिता एते। शुभभाविभवानेवं हरे त्वमेषां हरे- रिति न विभ्यः॥११४३॥

शुभं कल्याणं भाः दीप्तिः विभवः ऐश्वर्य पतेषां दंद्व: शु. भभाविभवाः तानू। उत्तरार्धे विरोधपरिहारे हे शुभोते संबु- द्विः। भाविभवान् भविष्यज्जन्मानीत्यर्थः। अत्र शुभभाविभवहरण- रूपपदार्थनिष्पत्तेर संभावनीयता एवं हरेरिति न विभ्य इत्यनेन प्रकाशिता॥ रमाधिप हर इति संपत्प्रदानहरणसामर्थ्याभिग्राय-

पूर्वेभ्यो विशेष:॥ अयमलंकारो दीक्षितोपज्ञमेव। प्राचीनैस्तु न लक्षितः । तद्दर्शने तु प्रदार्शतेषु प्रथमेतरेषु 'चरणत्रयमितधरणी' इत्या- दिषु त्रिषूदाहरणेषु यद्यपि विरोधालंकारेण भाव्यम्। वामना- दीनां द्रव्याणां जगत्रयाक्मणादिक्रियाभिविराधस्य स्फुटत्वात्। ALANKARA II 41

Page 335

322 अलंकारमणिहारे 2 अत एव कुवलयानन्दीयासंभवोदाहरणभूतं 'अय वारामको निलय इति रत्नाकर इति' इति पद्यमलंकारसर्वस्वकारादयो द्रव्य- क्रियाविरोधोदाहरणतयोपाददिरे। अन्तिमे 'शुभभाविभवान्द- द्याः' इत्युदाहरणे तु वक्ष्यमाणविषमप्रकारभेदेन भवितव्यं,

र्णितत्वात्। तथाऽपि प्राथमिके 'कुरुसदास द्रुपदसुता' इति पद्ये ताद्ृशविरोधस्य वा अलंकारान्तरस्य वा असंभवादसंभवा- लंकार एवोक्तलक्षणलक्षितो विच्छित्तिविशेषशालितयाऽवश्या-

क्षणविच्छित्तिविशेषसद्भावस्य सहृदयहृदयैकसाक्षिकतया् स एवालंकार: प्रधानीभूत इति तेनैव व्यपदेशो युक्तः 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात्। अन्यस्तु तदङ्गत्वेनाप्रधानतयाऽ- वतिष्ठत इति सुधीभिराकलनीयम्॥ इत्यलंकारमणिहारे असंभवसरोऽष्टत्रिंश:

३९-अथासंगतिसरः

भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः । वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम्। विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोवैयधिकरण्यमसंग- तिर्नामालकार:॥ यावत्कटाक्षधारा भावत्की प्रसरणोन्मुखाकारा। तावन्तापा नमतां श्रीवत्साङ्क स्वयं लयमयन्ते॥ *

Page 336

असंगतिसर: (३९) 323

अत्र कटाक्षधाराप्रसरणौन्मुख्यलक्षणहेतोः तापलयरूपका- र्यस्य च वैयधिकरण्ये अतिप्रसङ्गवारणाय विरुद्धेत्यादि। इह च विभिन्नदेशस्थितस्यैव तस्य कार्यप्रयोजकतया विरोधानव- काशः ॥ यथा-

पवनाशनगिरिनायक नवजलदस्तव जहार रुचिविभवम्। जगतां निर्वर्णयतां भवता बत निगळितानि नयनानि ॥११४५॥ अत्र निगळितानीत्यत्राभेदाध्यवसायलक्षणेनातिशयेन स्तेय- रूपापराधहेतुकनिगळबन्धनतयाऽवस्थिते निश्चलीकरणे विषय्यं शुपादाय तंप्रति समानाधिकरणतया प्रतीतस्य स्तेयरूपस्य हेतोवैयधिकरण्यज्ञानात्पुर:प्रस्फुरन्विरोधो विषयांशवमरशोत्तरं त प्रति रुचिहरणाभिव्यज्यमानसुषमातिशयस्य भावनोपनीतस्य हे- तुताया: प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसायोऽनुपराणयिता वि- रोधश्चोत्कर्षािता ॥ इयं शुद्धा॥ यथावा -- स्पीतां हरेरमुष्णात्स्वातन्त्रयश्रियमकुण्ठितप्र- सराम्। मन्दस्मितमम्ब तवाविन्दृत बत मर्दनं स्तनद्वंदम् ॥ १५४६॥ अत्र मर्दनमित्यत्राभेदाध्यवसाननिवन्धनेनातिशयन मोषण- निमित्तकमर्दनरूपतयाऽवस्थिते निष्पीडनरूपे विषये विषय्यंश- मुपादाय तंप्रति सामानाधिकरण्येन प्रसिद्धस्य कारणस्य मो. षणरूपस्य वैयधिकरण्यज्ञानात्पुरतस्स्फूर्तिमान्विरोधो विषयांश-

Page 337

324 अलंकारमणिहारे

विचारादनन्तरं तंप्रति स्वातन्त्रयश्रीमोषणाभिव्यक्तस्य कामपा- रवश्यस्य कारणताया: प्रतिसंधानान्निवर्तत इत्यत्राप्यभेदाध्यव- सायविरोधयारनुप्राणकत्वोत्कर्षकत्वे प्राग्वदव। इयमपि शुद्धा।। यथावा- मुग्धा मुखसुषमा तव मुकुरस्य श्रियमचूचु- रत्सकलाम्। शुद्धे शशाङ्कबिम्बे कलङ्गमम्बेह बत विधिर्विदधे॥ ११४७॥ शुद्धे 'योड़यें शुचिर्हि स शुचिः' इत्युक्तरात्या स्तैन्यदोष- विधुरतया निरपराधे। अन्यत्र शुभ्रे। कलङ्कं चौर्यापवादं लक्ष्म च 'कलङ्गोऽङ्कापवादयोः' इत्यमरः। अत्र कलङ्कं विदधे इत्य- त्रामेदाध्यवसायलक्षणातिशयेन चौर्यहेतुकापवादारोपरूपतामा- पन्ने लाञ्छनविधाने विषय्यंशमुपालस्व्य तंप्रति सामानाधिकर- ण्यन विदितस्य हेतोश्चौर्यरूपस्य वैयधिकरण्यज्ञानात्पुरः प्रती- यमानो विरोधो विषयाशविमर्शोत्तरं तंप्रति मुकुरश्रीचार्याभि- व्यक्तलावण्यविशेषस्य हेतुतायाः प्रतिसंधानान्निवर्तत इत्यभेदा- व्यवसायानुप्राणितत्वं विरोधोत्कर्षितत्वं च पूर्ववदेव। श्लेषोप- तृंहितेयम ॥ यथावा- कमले विलोचनश्रीः कमलेनैव व्यमोषि तव विमला। इन्दोर्बत प्रतीपा कारा तेजोविवर्द्नी त्वजनि ॥११४८॥ तुशब्दो भिन्नक्रमः । प्रतीपा प्रतिकूला। स्वतेजोऽसहिष्णुना कमलेन कृतेऽपराधे स्वस्य दण्डप्रापेरसंभावितत्वादिति भावः ।

Page 338

असंगतिसरः (३९) 325

कारा तु अपराधियोग्यो बन्धनालयवासस्तु इन्दोः तेजोविव- धनी तेजसंः छेदयित्री अजनि। बतेति खेदे। पक्षे प्रतीपा प्रतिलोमवर्णा कारा राकेत्यर्थः । तेजोविवर्धनी कलाभिवृद्धिदा- यिनी अजनीत्यर्थः । राकायां तस्य पूर्णत्वादिति भावः । अत्रापि कार्यकारणयोः कारावासमोषणयोवैयधिकरण्यम्। अन्यत्सर्व पू- र्ववत् ॥

यथावा- विशदयितुं जगदखिलं दिशिदिशि जगदीश विदि- शिविदिश तथा। यशसि तव धावमाने शश- पादा हन्त भृशमखिद्यन्त॥११४९॥ अत्रापि पादखेद्घावनयोः कार्यकारणयोविरुद्धं वैयधिक- रण्यं वर्णितम्। शशिनः पादा: चरणाः अिद्यन्तेति विरोधः। परिहारस्तु किरणा: स्वकरणीयस्याखिलजगद्वैशद्यस्य यशसैव कृततया स्वनैष्फल्यचिन्तनेन दैन्यमलभन्तेति। इयमपि श्रलषोप- बृंहिता प्राग्वदेव॥। यथावा- कुचरूपमचलयुगलं विचचाल हृदि व्रजेन्दु- वदनायाः । चित्तहवदो विलुलितो दत्तदशस्तत्र नन्दृतनयस्य ॥ ११५०॥

अन्रापि कार्यकारणयोर्विलोडनाचलचलनयोर्विरुद्धा भिन्ना- धिरणकता द्रष्टव्या। रूपकोपस्कृतत्वं विशेषः ।

Page 339

326 अलंकार मणिहवारे

यथावा-

आपेदिरेऽरिललनास्तापाटोपं दिशस्तु विस्फो- टम् ॥१९५१॥

अत्र दाहस्य कारणस्य तापविस्फोटयोश्च कार्ययोस्सामा- नाधिकरण्येन हेतुहेतुमन्भावशालिनोस्तद्विपरीतं भिन्नाधिकर- णत्वं निबद्धम्। विस्फोटो नामाग्निदाहादिजन्यो बुद्धदाकार- स्त्वग्विकारविशषः पिटकापरनामा। 'विस्फोट: पिटकं त्रिषु' इत्यमरः । अन्यत्र विस्फोट विदलन 'विदल: स्फुटनं मिदा' इत्यमरः 'स्फुटिर् विशरणे' इति धातुः। पूर्ोदाहरणेषु कारण- मेकं कार्य चैक, अश्र तु कारणमेकं द्वे कार्ये ते अपि भिन्नाधि- करणे इति 1विशेष: ॥

यथावा- ज्यां कर्षति रघुवारे शरावळी न्यपतदाझरा- वळूयाम्। सममूर्छद्विष्फार: ककुभो निष्फालिता विचित्रमिदम् ॥१९५२॥। सममूर्छत् अमुह्यत्। उच्छ्रितोऽभूदिति वस्तुस्थितिः । 'मुर्छा मोहसमुच्छाययोः' इति धातोस्संपूर्चकाल्लङ्। 'सम्मू- र्छनमभिव्यातौ संमूर्छामोहयोरपि' इति विश्वः ! निष्फालिताः विशीर्णा: कृताः 'फल विशरणे' व्यन्तादस्मात्कर्मणि क्तः । यद्वा निष्फालो विशरणं। निष्पूर्वकात्फलेर्घज्। स आसां संजात इति निष्फालिताः। निष्फालवत्यः कृता इति वा । निष्फालव-

Page 340

असंगतिसरः (३९) 327

च्छब्दाण्णाविष्ठवद्भावे 'विन्मतोः' इति मतुपो लुक। अत्र शरा- वळीनिपतनस्य कारणस्य मूर्छानिष्फलनयोः कार्ययोश्च वैयध- करण्यम्। पूर्वोदाहरणवदन्रापि कारणमेकं कार्ये द्वे इति ध्येयम्॥

श्रुत्यश्चलपरिशीलनमासीन्मौर्व्या उपासनं तु यथावा-

हरे:। बाणानां मोक्षस्तु प्राणानां हन्त वैरि- वर्गस्य ॥११५३॥ हरेरिति आसीदिति च सर्वत्र संवध्यते। हरे: मौर्च्याः श्रुत्यश्चलपरिशीलनं वेदान्तविमर्शः कर्णान्तस्पशञ्च। आसीन्। उपासनं निदिध्यासनं, पक्षे प्रयोगः। तत्तु हरे: बाणानामा- सीतू। मोक्ष संसारबन्धमुक्ति: शरीरत्यागश्च, स तु वैरिष- रगस्प प्रामानां आसीत्। अत्र श्रुत्यञ्चलपरिशीलनरूपकारणस्य उपासनरूपकार्यस्य च एवं उपासनरूपकारणस्य मोक्षरूपका- र्यस्य च वैयधिकरण्यम्। अत्र कारणे द्वे कार्ये च दे। मा- लारूपता एकावळीरूपता चात्र ध्वन्यत इति विशेषः ।

कर्षणमविन्दत ज्या फलं कलम्बेष्वलं चका- यथावा-

न तव। तहुभुजे रिपुवर्गस्सौहित्यं तव बभूव बत भगवन् ॥ ११५४ ॥ हे भगवन् ! तव ज्या मौवी। भूरित्यपि गम्यते। कर्षण लाङ्गलविलेखनं आकर्षणं च अविन्दृत। कलम्बेषु बाणेषु फलं सस्यं धान्यबीजं वा। पक्षे आयसमग्रिमशल्यमित्यर्थः। फलमिष्वग्रे सस्ये फलके जातीफले धने फाले। भोगे बीजे लाभे हेतूत्पन्ने फली तु फलिनी स्यात्॥

Page 341

328 अलङ्कारमणिहारे

इति रत्नमाला। चकान दिदीपे 'कन दीपौ' लिट्। तत् फलं रिपुवर्गः बुभुजे अश्यवजहे। अन्यत्र त्वत्प्रयुक्तबाणाग्रम- नुबभूव। तद्विद्धोऽभवाेति यावत्। सौहित्यं भोजनजनिता तृप्तिस्तु। पक्षे शत्रुहननप्रयुक्ता तुष्टिः तव बभूब। अत्र कर्षण- फलयोः भोजनतृप्तयोश्च वैयधिकरण्यम्। इयं श्ेषोपस्कृता वक्ष्यमाणकावळीसंकीर्णा मालारूपा चेि द्रष्टव्यम्।।

अस्यां च विभावनायामिव कार्याशेऽतिशयोक्तयनुप्राण- नमावश्यकं, अन्यथा विरोधो दुष्परिहारस्स्यात् इत्यलंकारस- र्वस्वकारादीनां मतम्। तच्चोदाहृतेषु पद्येषु व्यभिचारादसंगतम्। न हि 'आपेदिरेऽरिललनास्तापाटोपं' इत्यादावरिललनातापा टोपाद्यवाप्तचंशे अतिशयोक्तिरस्ति, किंतु श्लेषभित्तिकाभेदाध्य- वसानमात्रम्। तस्मात् येनकेनापि प्रकारेण कार्याभेदाध्यव- सानमावश्यकमिति तु संगतम् । यद्यपि 'श्रुत्यञ्चलपरिशीलनम्' इत्यादौ कारणांशेऽपि श्रेवादिना अभेदाध्यवसानं संभवति। तथाऽपि नासौ तदंशे नियतः। 'वाराणसीमधाक्षीत्' इत्यादी दाहादंशे तदभावात्। 'सा बाला वयमप्रगल्भमनसस्सा स्त्री वय कातरास्सा पीनोष्नतिमत्पयोधरभरं घत्ते सखेदा वयम्' इति प्राचीनोदाहरणपद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेस्याप्य संभ वातू।।

कचिदसंगतिसमाधानेन चारुतातिशयो दश्यत इति कुव- लयानन्दकाराः । तत्र यथा- हारस्स्वोरससि निहितशश्ररिमया शौरिहृदयमुद- लासीत्। तादात्म्यौदार्यमिदं मोदाय न कस्य वा भवेदनयोः ॥१९५५॥

Page 342

असंगतिसरः (३९) 329

उदलासीत् प्रकाशते स्म। हृष्यति स्मेति परिहारः। अ- नयोः श्रीश्रीशयोः तादात्म्यौदार्य- अन्योन्येनाविनाभावादन्योन्येन समन्वयात्। तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥ इति लक्ष्मीतन्त्रोक्ततादात्म्यमहत्त्वं कस्य वा मोदाय न भधे- दिति योजना। अत्र हारनिधानं लक्ष्मीवक्षसि, उल्लासस्तु शौरिहृद्यस्येति हेतुकार्ययोवैयधिकरण्यं निबद्धम्। तत्समाधा- नाय भगवतो लक्ष्मीतादात्म्यं भगवच्छास्त्रप्रतिपादितमुपन्यस्तम्। सादात्म्यं चात्र लोकप्रसिद्धमभेदरूपं उदाहृतशास्त्रसिद्धाविना- भावरूपं च श्रेषेणाभिन्नतयाऽध्यवसितमिति ध्येयम्। तथाचात्रा मुखेप्रतीताऽप्य संगतिस्समाधानप्रतिपादनेना भासीभवतीति विरो- धवदसंगत्याभासोऽपि विच्छित्तिविशेषशालितया अलंकारो भ- वतीि द्रष्टव्यम्॥ नन्विह कार्यकारणवैयधिकरण्यप्रयुक्तो विरोधाभास इति विरोधालंकार एव किं न स्यादिति चेच्छयताम्-एषा हि विरो- धबोधिनी, न तु विरोध एव। तथाहि-असंगतौ कार्यकारणयोर्द्व- योर्भिन्नाधिकरणत्वप्रयुक्तो विरोधप्रतिभासः। विरोधस्तु जात्यादे- र्जात्यादिना सह पकाधिकरण एव प्रथमतो विरोधप्रतिभासः। न चैवं सति किमिति विरोधलक्षणे तथाऽनुक्तमिति शङ्कयम्। तत्रैकाधिकरण इत्यनुक्तावपि तथैव पर्यवसानात्। ततश्रासं- गतेर्विरोधोपजीव्यत्वेन विरोधापवादकतया अपवादभूतासंगति- विषयपरिहारेणैव विरोधसामान्यविषयतया उत्सर्गभूतस्य वि- रोधस्य व्यवस्थितिः। तथाच विरोधालंकारे ह्येकस्मिन्नधिक- रणे द्वयोस्संबन्धाद्विरोधमानं असंगती त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यमिति प्राञ्जः॥ ALANKARA II 42

Page 343

330 अलक्कारमणिहारे

नव्यास्तु-व्यधिकरणत्वेन प्रसिद्धयोस्समानाधिकरणत्वे- नोपनिबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयो- द्वयोवैयधिकरण्यनोपनिबन्धने असंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रपलक्षणम्। तेन- नेत्रं निरख्नं तस्याशशून्यास्तु वयमन्भतम्। इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पाद कभावलक्षणसंबन्धानन्त- भाविन शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिस्संगच्छते। यथाश्रुते तुसा न स्यात्। तथाच स्फुट एव विरोधालंकाराद- संगतर्भेंद इति वदन्ति॥

द्वितीयासंगति :-

कार्यमन्यत्र यत्तस्य ततोऽन्यत्र क्रियाऽपि सा।

एकस्मिन्नधिकरणे कर्तव्यस्य वस्तुनस्तद्भ्िन्नाधिकरणे करण- मण्संगतिरलंकार इत्यर्थः ॥ यथा- ग्रसता पुरा हिरण्यं प्रसभ नृहरे: प्रतापहव्य- भुजा। तत्सुतभीर्व्यद्राव्यत तत्सुदतीनां व्यला- व्यत च बृन्दम्॥११५६॥ हिरण्यं सुवर्ण, नामकदेशग्रहणाद्दिरण्यकशिपुं च । व्यद्रा- व्यत द्रवीकृता। पक्षे अधाव्यत। द्रवतेर्ण्यन्तात्कर्मणि यक्। 'द्रुतं शीघ्रविलीनयोः' इति हेमचन्द्रः। व्यलाप्यत द्रवीकृतं। विपूर्वकात् 'ली द्र्वीकरणे' इति धांतोर्ण्यन्तात्करमण यकि लङ।

Page 344

असंगतिसर: (३९) 331

'विभाषा लीयतेः' इत्येज्विषये आत्वे 'अर्तिह्री' इत्यादिना पुगा- गमः। पक्षे पर्यदेव्यत। 'विलापः परिदेवनम्' इत्यमरः । विपूर्व- कालपतेर्ष्यन्तात्कमण यकि लङ। अत्र, हिरण्यरूपेऽधिकरणे अग्निकर्तव्यस्य विद्रावणस्य विलापनस्य च तद्भिन्ने प्रह्लादत्रास- रूपे हिरण्यकशिपुसुदतीबृन्दरूपे चाधिकरणे करणं वर्णितम्।

यथावा- सूते कटाक्षलक्ष्मीस्सा ते साधुषु समस्तपुरु- षार्थान्। व्यातानस्त्विमरिष्ठं विश्वविभो तदितरेषु सुस्पष्टम् ॥ ११५७॥ अरिष्टं सूतिकागृहं अशुभ च 'अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे' इति रत्नमाला। तदितरेषु असाधुषु। अत्र कटाक्ष लक्ष्मीकर्तृकपुरुषार्थप्रसवाधिकरणेषु साधुषु कर्तव्यस्यारिष्टकर- णस्यासाधुषु करणम्। श्रेषसमासोक्तयुपबृंहितेयम्।।

यथावा- तमसा मलीमसा ये भूयांस्यागांसि ते वित- न्वन्ति। सतत्ववतां दममधिकं स त्व विदधासि तब नयोऽन्याढक् ॥११५८॥ चतुर्थपादे सः त्वं इति च्छे। दम दण्डं दान्ति च 'दमो दण्डे चेन्द्रियनिग्रहे' इति रत्नमाला। अत्राप्यपराधिषु कर्त- व्यस्य दमस्यानपराधिषु करणं निबद्धम्। श्वेषव्याजस्तुति- संकार्णेयम् ॥

Page 345

332 अलंकारमणिहारे

यथावा- ननु नाथ भवतिनिष्ठां भगवन्नियतं चिकीर्षुणा कविना। क्रियते काममदादिद्वििनिष्ठापरमपद- विदा चित्रम्॥११५९।। ननु नाथ! भगवन्! परमं श्रेष्ठं यत्पदं शब्दशास्तरं तद्े- न्तीति तथोक्ेन। पक्षे परमं पदं पदनीयं परब्रह्मस्वरूपं ताद्विदा। अनेन 'तस्यैवात्मा पद्वित्' इति श्रुतिः प्रत्यभिज्ञाप्यते। कविना विदुषा भवतिनिष्ठां भवतिः भूधातुः शितिपा निर्देशोऽयं, 'इकरितिपौ धातुनिर्देशे' इति स्मरणात्। तस्मात निष्ठां क्तं क्तवतुं वा प्रत्ययं "कक्तवतू निष्ठा" इत्यनुशासनात्। अन्यत्र भवति त्वय निष्ठां नैष्ठिकतां त्वदैकान्त्यमित्यर्थः । चिकीर्षता सता काम पर्याप्तं यथास्यात्तथा। अदादिद्विषिनिष्टति समस्तं पदम् । अदादि: 'अद भक्षणे' इत्युक्तो धातुः आदि: यस्य तथाभूते आदा- दिके इत्यर्थः । द्विषिः 'द्विष अप्रीतौ' इत्युक्तो धातुः। इका निर्देशोऽयं। तस्मिन् निष्ठा क्तः क्तवतुर्वा प्रत्ययः । अन्यत्र का- मदादिद्विषीति समस्तं पदम्। कामो मद्श्च आदिर्यस्य तस्मिन् द्विषि वैरिवर्गे जात्यभिप्रायकमेकवचनम्। निष्ठा नैष्ठि- कता क्रियते इति चित्रम्। कामस्य मदनस्य मदं हर्ष दर्प वा, आदिशव्देन कुतूहलादिर्गृह्यते, तं द्वेष्टीति तथोक्ते पशुपतौ निष्ठा क्रियत इत्यप्यर्थ उपस्क्रियते। काममदादिवैरिवर्गे निष्ठा नाश: क्रियत इति परिहारः। कामादिवैरिवर्गावधीरणमन्तरा 1 भगवत्निष्ठा दुस्साधेति भावः । 'निष्ठा निष्पत्तिनाशान्ताः' इत्य- मरः। अत्रान्यत्र करणीयाया निष्ठाया अन्यत्र कृतिरुपवर्णिता। वैलक्षण्यं तु पूर्वेभ्यस्स्पष्टमेव।।

Page 346

असंगतिसरः (३९) 333

यथावा- बहै स्वीये मूर्धनि दाशार्ह निधित्सुरेव पर्वे त्वम्। रिपुजनमूर्धनिवहै व्यदधाश्रातुर्यमद्धुतं भवतः ॥ ११६०॥

हे दाशार्ह भगयन्! स्वीये सूर्धनि शीर्ष बर्हे पिञ्छं निधि- तसुः निधातुमिच्छुः रिपुजनानां मूर्धनि बहै पिञ्छं व्यदधा इति विरोधः। रिपुजनमूर्ध्नी निबह निबर्हणं हिंसन व्यदधा इति परिहारः। 'बर्ह हिंसायाम्' इति धातोर्निपूर्वकाद्ञ्। 'प्रमाप- णं निवर्हणम्' इत्यमरः। अत्रान्यत्र न्यसनीयस्य बर्हस्यान्यत्र न्यसनं वर्णितम्। श्ेषांत्तम्भितव्याजस्तुतिसंकीणयामिति बि- शेषः ।l

यथावा- श्रितजनधामनि सततं धनमतिवेलं तितांस- ता भवता। अभ्ियातिधामनिधनं माधव सम- तानि सततमतिवेलस् ॥ ११६१॥

थ्वितजनानां धामनि गृहे धनं वित्तं तितांसता तनितुमिच्छता। तनोतेस्सन्नन्ताच्छता। भवता अभियातीनां रिपूणां धामनि गृहे धनं वित्तं समतानि व्यस्तारीति विरोधः। अभियातीनां धा- म्नां वेश्मनां तेजसां प्रभावानां वा निधनं नाश इति परिहारः॥

यथावा- संततमसुरव्यूहे संपदपूर्वी स्थिति विधित्सुस्त्व-

Page 347

334 अलंकारमणिहारे

म्। तामसुराणां व्यूहे तामरसविलोचन व्यधा- श्रित्रम् ॥११६२॥

संपदा श्रिया अपूर्वी आश्चर्यावहां स्थिति मर्यादां। पक्षे समित्याकारकपदं पूर्व यस्यास्तां स्थिरति संस्थिति निधनमत्य- र्थः। शब्द्ार्थयोस्तादात्म्यवैभवं न प्रस्मर्तव्यम्। अनयोरण्यु- दाहरणयोरन्यत्र करणयिस्यान्यत्र करणं द्रष्टव्यम्॥

तृतीयासंगतिः कर्तुमन्यत्प्रवुत्तस्य तद्विरुद्धक्रिया च सा ।।

. अन्यत्कार्य कर्तु प्रवृत्तस्य तद्विरुद्धकार्यकरणमसंगतेस्तृती- यः प्रकार: ॥

यथा- विनतामिमां विधित्सुर्जनतां भुव्युन्तमां रमा- नाथ। विदघास्यनुत्तमामिति विपुलं वितनोति विस्मयमिदं नः ॥ ११६३॥

अनुत्तमां निहीनां पक्षे अविद्यमाना उत्तमा यस्यास्सा इति पञ्चमीबहुव्रीहिः। सर्वोत्तमामित्यर्थः। 'कीबे प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः' इत्यमरः। यद्वा अनुत्ता अनिरस्ता मा लक्ष्मी र्यस्यास्तां केनापि कदाऽव्यनपनोदसंपदमित्यर्थः। नुत्तेत्यत्र तुदे: कः 'तुदविद' इत्यादिना निष्ठानत्वस्य विकल्पेन विधा

Page 348

असंगतिसरः (३९) 335

नान्न 'रदाश्यां निष्ठातो नः' इति नत्वं 'नुत्तनुन्नास्तनिषूय- तविद्ध्षिप्ेरितास्समाः' इत्यमरः। अत्र विनतजनतामुत्तमां चि- कीर्षता भगवता सा अनुत्तमैव कृतेत्यन्यत्कर्तु प्रवृत्तस्य तद्वि- रुद्धकार्यकरणं निबद्धमिति लक्षणसंगतिः। श्वेषदत्तहस्तेयम् ॥

यथावा -- माहाकुलतां प्रथयन्माहाकुलतां धुनोषि शौरे! त्वम्। काळिन्दीं मोदयसे काळिन्दीभेदनेऽनुष- क्ोऽपि ॥ ११६४॥ महाकुलस्यापत्यं पुमान् माहाकुलः 'तस्यापत्यम्' इत्यर्थे 'महाकुलादज्खञ' इत्यन्। 'माहाकुलकुलीनार्यस्यसजनसा- धवः' इत्यमरः । तस्य भावः माहाकुलता तां उत्तमकुलप्रसूततां सज्जनताममित्यर्थः । प्रथयन 'लक्षणहेत्वोः' इति शता। हेतुरिह फलं प्रथायतुमित्यर्थः । माहाकुलतां कुलीनतां धुनोषीति विरोधः माहानां गवां 'उस्ना माहा च शृङ्गिणी' इत्यमरः। आकुलता व्यग्रतां घुनोषीति परिहारः । काळिन्द्याः यमुनायाः भेदने भिदायां भिदरभावे ल्युट्, अनुषक्तोऽपि काळिन्दीं यमुनां मोद- यसे इति विरोधः। काळिन्दोभेदने बलभद्रे।भिदे: कर्तरि नन्दाि- त्वाल्यु:, अनुषक्तोऽपि काळि्दीं तन्नास्त्रीं दिव्यमाहषीं मोदयसे इति पारिहारः। अत्र माहाकुलताप्रख्यापनकाळिन्दीभेदनयो: प्रवृ- त्तस्य माहाकुलताधूननकाळिन्दी मोदनलक्षणविरुद्ध कार्यकरणं श्रे- षोत्तम्भितं निबद्धम्।।

यथावा- पुण्यजनान् संत्रातुं पुरुषोत्तम! भुवि कृतावता-

Page 349

336 अर्लकारमणिहारे

रोडपि। पुण्यजनान् ध्वंसयसे पुराचरित्रं तवैतद- तिचित्रम् ॥११६५॥ पुण्यजनान् धार्मिकान् संत्रातुं पुण्यजनान् ध्वंसयसे इति विरोधः। यातुधानानिति परिहारः। अत्र 'परित्राणाय सा- धूनाम्' इति गीतोऽर्थोऽनुसंहितः। अत्र पुण्यजनसंत्राणप्रतृत्त- स्य तह्ंसनरूपविरुद्धकार्यकरण श्षेवतो निवद्धम।।

यथावा-

खरभास्वन्!। द्रुतमप्सरस्सु यदिमान्निदधाथाद्गुत- मितोऽपि किं जगति ॥११६६॥ जीवन प्राणनं सलिलं च । अप्सररसु स्ववश्यासु अपां सरस्सु च। अत्र द्विषतां जीवनशोषणे प्रवृत्तस्य जलसरस्सु निधानरूपं विरुद्धकार्यमुपवर्णितम् i इयमपि श्ेषसंकीर्णेव।।

यथावा -

रभूः। प्रथयन् बहुमुखकीर्ति तामेव तनीयसीं बत व्यतनो: ॥११६७॥

माधुर्ये मधुररसवत्वं प्रचिकटायेषुस्सन् इक्ष्वाकुकुले कटु- तुम्बीनिवहे आविरभूरिति विरोधः सर्वलोकप्रियत्वं प्रकटायेतु- मिच्छुस्तदनुगुणे इक्ष्वाकुमहाराजान्ववाये आविरासीरिति परि- हारः । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः। 'इक्ष्वाकु कट्टुतु-

Page 350

असंगातसर: (३९) 337

म््यां स्त्री सूर्यवंश्यनृपे पुमान्' इति मेदिनी। बहुमुखकीति विश्व- तोमुखं यशः तामेव बहुमुखकीर्तिमेवेति विरोधः । दशानन- यश एवेति परिहति: ।। यथावा- रावणनिकारणान्ननु लङ्कामविभीषणां चिकी- र्षुस्त्वम्। सविभीषणामतानीरहो फणिगिरीन्द्र! कोसलेन्द्रत्वे ॥ ११६८।। निकारणात् निवर्हणात् 'प्रमापणं निबर्हणं निकारणम्' इत्यमरः ॥

यथावा- विश्वामित्रोल्लासं विधातुमिच्छन्महाहवे पूर्वम्। विश्वामित्रनिरासं व्यतनोरतनुप्रभाव दाझरथे! ॥

महाहवे महत्यध्वरे सङ्गरे च 'आहवौ यागसङ्गरौ' इति रत्नमाला। विश्वस्य मित्रं विश्वामित्रः कुशिकनन्दनः । 'मित्रे- चर्षौ' इति विश्वशब्दस्य दीर्घः । तस्य उल्लासं विधातुमिच्छन् विश्वामित्रनिरासं व्यतनोरिति विरोधः । विश्वेषाममित्राणं निर- सनमिति परिहारः ॥

यथावा- भीष्मद्रोणक्ष्वेडाकुलं पृथासुतबलं समाधि- त्सन्। कृष्णाशुगाळितोदनमतनोरतिमात्रमब्ज - नयन! त्वम् ॥ ११७० ॥ ALANKARA II 48

Page 351

338 अलंकारमणिहारे हे अब्जनयन! भीष्मा: भयानकाः ये द्रोणा: वृश्धिकाः तेषां क्वेड: गरळं तेन। पक्षे भीष्मद्रोणयोः क्वेडाः सिंहनादा: ताभि: आकुलं 'भीषणे त्रिषु भीष्मस्स्याद्गुद्रगाङ्गेययोस्तु ना। द्रोण: कृपीपतौ काके भेकवृश्चिकयोस्तु ना। श्वेडा वंशश- लाकायाँ सिंहनादेऽपिच स्त्रियाम् । क््वेडो ना पुंसि गरळे' इति च रत्नमाला। पृथासुतानां वलं समाधित्सन् औषधमन्त्रादिना अभयदानादिना च तत्प्रतीकारं विधित्सन्। कृष्णा: नीलवर्णाः आशुगा: शीघ्रगामिनः ये अळयो वृश्चिकविशेषाः 'अळिद्रोणी तु दश्चिके' इत्यमरः। पक्षे कृष्णस्य अर्जुनस्य आशुगानां वाणा- नां आळि: पङ्गि: तत्तोदनं तत्करणकव्यथनं अतनोः । अन्न वृश्चिककष्वेडाकुलतासमाधित्सोः तद्विरुद्धकृष्णवृश्चिककरणकव्य- थनमुपवर्णितम् ॥।

यथावा- कलुषं जगतां हर्तु जलजेक्षण! दिव्यरूपमेत- दघाः। ललनानां ब्रजजनुषां कलुषयसि बता- मुनैव हृदयानि॥ १९७१॥ कलुषं वृजिनम। अमुनैव दिव्यरूपेणैव कलुषयास तृजि- नवन्ति करोषि। कामाचिलनि करोषीति वस्तुस्थितिः । 'कलुषं क्ोवेंऽहस्याविले त्रिषु' इति रत्नमाला॥ यथावा- शकलयितुं लोकानां सकलमरिष्टं तवावतारोS- यम्। अमुनैव समेधयसे रमेश! तेषामरिष्टमिति चित्रम्॥ ११७२ ॥

Page 352

असंगतिसर: (३९) 339

अरिष्टं अशुभं। शकलयितुं ववंसयितुं। अमुनैव अवतारे- णैव। तेषां लोकानां अरिष्टं शुभं 'अरिष्टे तु शुभाशुभे' इत्य- मरः। अनयोरपि पद्ययोरुक्तदिशैवासंगतिस्संगमयितव्या। इदमन्तिममसंगतिप्रकारद्व्यं दीक्षितोपज्ञमेव- अन्यत्र करणीयस्य ततोऽत्यत्र कृतिश्च सा। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धक्ृतिस्तथा ॥ अपारिजातां वसुधां चिकीर्पन् द्यां तथाSकृथाः गोत्रोद्धारप्रवृत्तोपि गोत्रोन्न्ेदं पुराऽकराः॥ इति तैरेव लक्षणयोर्लक्ष्ययोश्च कुवलयानन्दे संदर्शितत्वात्। अत्र केचित्-'अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्व- यान्तरकथनमयुक्तं, अपारिजातामित्यत्र पारिजातराहित्यचिकी- रषया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवै- यधिकरण्योपनिन्धनात् 'विरुद्धं भिन्नदेशत्व कार्यहेत्वोरसंगिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यवि- षयतासंबन्धेन चिकीर्षायास्सामानाधिकरण्येन कार्यमात्रं प्रति- हेतुत्वस्य प्रसिद्धेः । एवं 'गोत्रोद्धारप्रवृत्तोऽपि' इत्यायुदाह- रणे 'विरुद्धात्कार्यसंपत्तिर्दष्टा काचिद्विभावना इत्युक्तविभावना- प्रकारेणैव गतार्थत्वादसंगतिभेदान्तरकल्पनाऽनुचिता' इत्याहुः॥ अत्र वदन्ति 'अपारिजाताम्' इत्यस्य न प्राथमिकासंगता- वन्तर्भावः। न हि'विषं जलधरै; पीतं मूर्छिता: पथिकाङ्गनाः' इत्यादाविव कार्यकारणवैयधिकरण्यप्रयुक्तोऽत्र विच्छित्तिविशे- पः, येन प्राथमिकासंगतावेवेयमन्तर्भव्येत। किंतु अन्यत्र कर- णीयस्य समानकर्तृकस्य कार्यस्यानत्र करणप्रयुक्त एव।। एवं 'गोत्रोद्धारप्रवृत्तोऽप' इत्यस्य विरुद्धात्कार्यसंपत्ति- रूपविभावनायां नान्तर्भावः। न ह्यत्र शीतांशुकिरणास्तन्वीं हन्त

Page 353

340 भ छंकारमणिह्वारे

सन्तापयन्ति ताम्' इत्यादाविव निवर्त्यनिवर्तकभावविरोश्च- मत्कारी, येनोक्तविभावनाविशेषेऽन्तर्भावश्शक्येत वक्तुम्। अ- पितु अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिरूप इति सहदयहृददय- मेवात्र प्रमाणमिति। विस्तरस्त्वन्यत्र। तस्मादुपदर्शितमसंगति- प्रकारद्वयान्तरमवश्यमेष्टव्यमित्यलं बहुना॥ एवं 'अन्यत्र स्थितस्यान्यत्रोपलम्भेऽ्यसंगतिर्द्वश्यते, इति काव्यदर्पणकारः। तदेदमुदाहरणम्- श्रुतिशिरसि विचिन्वन्तः प्रतिकलमपि देव- देव! धीमन्तः। व्यालाधीशेलाधरमौलावाश्चर्य- माप्नुवन्ति त्वाम् ॥११७३॥ इत्यलंकारमणिहारे असंगतिसर एकोनत्रिंशः

४०-अथ विषमालंकारसरः.

अनानुरूप्यभाजोर्यद्वटनं विषमं हि तत् ॥ यत्रानिमात्रवैधर्म्यादत्य:तमननुरूयोः द्वयोः पदार्थयोर्घ- टनं संबन्धो वर्ण्यते तत्र विषमालंकारः। संबन्धश्च संयोगादि- रुत्पाद्योत्पादकभावश्रेति सर्वप्रकारसाधारणमेतल्लक्षणमिति ध्येय म्। अत एव हि 'अननुरूपसंसर्गो हि विषमम्' इत्यलंकारसर्वस्व- कार: ॥

यथा - क्क नु लोकनायकस्त्वं क्व जरद्विरदोऽपि नक्र-

Page 354

चिषमालक्वारसर: (४०) 341

संक्रान्तः । अस्य विपत्त्यपनुत्यै त्रस्यन् द्रवसि स्म तव कृपा कियती॥ ११७४॥ अत्र सर्वलोकेश्वरत्वेन तिर्यग्जन्तुत्वेन चाननुरूपयोर्भगव- अरदरजयोर्घटनं वर्णितम्। अधिकरणशक्तिप्रधानाभ्यां क्वेत्यव्य याभ्यामनुचितघटनत्वमाविष्कृतम्। अत्र संबन्धस्संयोगरूपः ॥

यथावा- जडमूर्धन्यः क्वाहं जगदीश! तवानुभूतिभाग्यं क्व। जम्बुककिशोरकः क्व नु जम्भारिपुरीवि- भूत्यनुभवः क्व ॥ ११७५॥ अत्राज्ञमूर्धन्यत्वेन दुष्परापतममहापुरुषार्थत्वेन चाननुरूप-

शुद्धमिति भिदा॥ यथावा- केनाप्यकम्पनीया महीयसी श्रीश! तव वि- भूतिः क्व। फूत्कृतिमात्रविनेया लघीयसी पशुपतेः क्व च विभूतिः ॥ ११७६॥ है श्रीश! इदं संबोधनं विवक्षितविभूतेर्महीयस्त्वाद्यभि- प्रायगर्भम्। केनापि ब्रह्मणाऽपीति भावः । अकम्पनीया, तव 'महाविभूतेस्संपूर्णषाड्गुण्यवपुषः प्रभोः' शते महाविभूतित्वेन प्रसिद्धस्येति भाषः, महोयसी विभूतिः ऐश्वर्य कव, फृत्कृति-

Page 355

342 अलंकार माण घरे

मात्रेण केवलफूत्कारेणैवेति लोकोक्तिग्यम्। अल्पीयसा यत्ने- नैवेति भावः । विनेया उद्टङ्कनीया, पशुपतेः-इद विवक्षितत- द्विभूतिलघीयस्त्वाभिप्रायकम्, न तु तवेव श्रीपतेरिति भावः। लघीयसी विभूतिः एश्वर्य च, क्त। भस्मेति च गम्यते। तस्य फूत्कृतिमात्रोद्टङ्कनीयत्वप्रससिद्धेः। न ह्यनयोस्साधर्म्य कलयाऽपि घटेतेति भावः। अत्र श्रीपतिपशुपतिविभूत्योरनानुरुप्यभाजोर्घ- टनम्। व्यतिरेकपरिकराङ्करोपस्कृतामेदम्॥।

यथावा- नतपातन एवान्यो नतपावन एव नाथ! स भ- वांस्तु। नारायणगिरिनायक! दूरादिन्धे ततो हि तवभेदः ॥ ११७७॥

अन्यः त्वदितरो देव: नतपातन एव स्वाश्नितान् संसारे पातयत्येवेत्यर्थः। 'आब्रह्मस्तम्बपर्यन्ताः इत्यादिना 'ते हि सं- सारगोचराः' इत्युक्तरीत्या स्वयमेव संसारसागरे निमग्नस्स्वा- वलम्बिनो जनान् कथमुन्मजयेदिति भावः । सः 'तेषामहं स- मुद्धर्ता मृत्युसंसारसागरात्' इत्युक्तप्रकारेण प्रसिद्धः भवांस्तु नतपावन एव। 'पावनस्सवैभूतानां त्वमेव रघुनन्दन' इत्या- युक्तरात्या सर्वाधविध्वंसनपूर्वकमुद्वैर्गतिप्रदातेति भावः। अत एव नारायणगिरिनायक शेषाद्रीश्वर हे नाथ ! ततः नतपातनाद न्यस्माद्देवात्, तव नतपावनस्य तव भेद: भिदा दूरात् इन्धे अतिशायततया प्रकाशते। पक्षे-नतपातनः नतपावन इ- त्याभ्यां तौ शब्दावेव गृह्यते । तत इति षष्ठयास्सार्वविभक्ति- कस्तसिः । तयोः नतपातननतपावनशब्दयोरित्यर्थः । तवभेद:

Page 356

विषमालक्कारसर: (४०) 343

त व इति वर्णाभ्यां वैलक्षण्यं दूरादिन्धे। अन्नापि देवतान्तरश्री- निवासयोरननुरूपयोर्घटनम्॥

यथावा -- अशनायातीतोऽनघ! निस्सङ्ग: क्वाच्युतस्वरू- पस्त्वम्। आद्यूनोऽत्यासङ्ग: क्वादित्यस्स्वस्वरू- पविभ्रष्टः ॥ ११७८॥

हे अनध भगवन्! अशनायातीतः अशनायोपलक्षितोर्मिष- इप्रतिभटः 'अशनायापिपासे शोकं माहं जरां मृत्युमत्येति' इति श्रुतेः। निस्सङ्ग: कर्मसंबन्धगन्धशून्यः। कर्मफलाननुषक्तो वा. 'निरवद्यं निरजनम्' इति श्रुतेः 'न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' इति गानाश्च। अच्युतं अप्रच्युतं स्वरूपं स्व- भावो यस्य स तथोक्तः। रामकृष्णाद्यवतारदशास्वप्यजहृत्स्व- स्वभाव इत्यर्थः। अजोऽपि सम्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृति स्थामधिष्ठाय संभवाम्यात्ममायया। इति गानात्। प्रादुर्भावास्तु सेनेश मदंशत्वाद्विशेषतः। अजहत्स्वस्वभावा हि दिव्याप्राकृतविग्रहाः॥ दीपाहदीपा इवोत्पन्ना जगतो रक्षणाय ते।। इति विष्वकसेनसंहितावचनमप्यत्रैवानुकूलम्। ईडशः त्वं क्व । आठूनः औदरिकः 'आधुनस्स्यादौदरिकः' इत्यमरः। उदयमरणैकनिरतत्वात्सर्वाशीति भावः। अत्यासङ्गः अतिमात्र- कर्मसंबद्ध:कर्मफलस्पृदावान्वा। अत एव स्वस्वरूपविभ्रष्टः

Page 357

344 अलंकारमणिहारे

तिरोहितज्ञानानन्दादिस्वभाव इति यावत्। आदित्यः के युवयों- रौपम्यं दवीय इति भावः। वस्तुतस्तु आदित्यः आदित्यशब्द: आधून: आदि इति वर्णाश्यां विश्लिष्टः अत्यासङ्कः अविद्य- मान: त्य इत्याकारकवर्णसमुद्यसबन्धो यस्य स तथोक्तस्सन् स्वस्वरूपविभ्रष्टः आदित्येतिसर्ववर्णापाये निश्शेषितस्वप्रकृतिरिति यावत्। शब्दार्थयोस्तादात्मयं न विस्मर्तव्यम्। अत्रापि भगव-

ढम् i

यथावा- आदौ दुग्धं मध्ये भिदुरमथेन्दुस्तु दूषितः प- श्रात्। कनु तानि जगदधीश्वर! कदाऽप्यदूषितम- हो यशाः क तव ॥ ११७९॥

हे जगदघीश्वर! दुग्धं क्षीरं आदौ प्रथममेव दूषितमिति लिङ्गविपरिणामेन योज्यम् । अविशदमिति जनैः प्रत्याख्यात- मित्यर्थः । भिदुरं कुलिशं मध्ये मध्यकाले दूषितम्। अथ किंच इन्दुस्तु पश्चात् अन्ते दूषितः । तानि दुग्धादीनि 'नपुंसकमनपुं- सकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः, क्व। कदाS- पि आदिमध्यावसानसमयेषु जात्वपि अदूषितं तव यशः क्क। तेषामस्य च साधर्म्ये न कदाऽपि घटेतेति भावः। पक्षे- दुग्धभदुरेन्दुशब्दाः आदिमध्यावसानेषु क्रमेण दुवर्णघटिता इत्यर्थः । दुः उषितो यस्मिन् स इति विग्रहः, आहिताग्रथादेरा- कृतिगणत्वान्निष्ठायाः परनिपातः। यशस्तु यशश्शब्दस्तु कदाजुप्य- दूधितमेव दुवर्णसंबन्धस्येव तन्नाभावात्। अत्र दुग्घादानां भग-

Page 358

विषमालंकारसरः (४०) 345

वद्यशसश्चाननुरूपाणां घटनम् । पूर्वोदाहरणेषु वस्तुसद्वटनम्। तत्राप्याद्योदाहरणद्वय शुद्धं, अन्यानि श्लेषादिसंकीर्णानि। अत्र तु दुग्धादीनां यशसश्च तर्कितं घटनं, 'त्वंक्क तस्था मुखं क' इंतेवत्। श्लेषव्यतिरेकसंकीर्णत्वं च विशेषः॥

यथावा- धूतस्थितिमानादौ मध्यम एवान्ततोऽणिमहि- तश्च। क्व द्युमणि: क्वाधूर्तोऽच्युताश्रितोऽत्यु- ततमो महामहिमा॥ ११८० ॥ आदौ पूर्ववयस यूतसस्थितिमान् यूतानेरतः । अत एव मध्यम एव उत्तमत्वेनापरिगणित एव सन् अन्ततः चरमवय- स्यपि अणिमहितः अणिमा हितो यस्य स तथोक्तः केवलला- घवप्रसक्तः। दुमणिः भातु: क्व। पक्षे आदौ द्युना द्यु इति वर्णसमुदयेन ऊता स्यूता या स्थितिः तद्वान्। मध्यः मः मव- णो यस्य स तथोक्तः। अन्ततः अन्ते णिना णिवर्णेन महित: यु- मणिः द्रुमणिशब्दः । आदिमध्यावसानेषूक्तवर्णघटित इत्यर्थः। अधूर्तः अनक्षदेवी अत्युत्तमः महान् महिमा महत्त्वं यस्य स तथोक्त। अच्युताश्रितः भागवतः क्व। अनयोर्महदन्तरमित्यर्थः। अंत्रं भानुभागवतयोरनतुरूपयोर्घटनम्। श्रेषव्यतिरेकसंकोर्णता घटनस्य तर्कितता च तुल्या। भगवति हरिणि हिरण्मयि भवती क्व पुर- स्सुवर्णवद्धाना। इतरा च सुरी क्व नु वा पश्चार्घे रीतिवर्णमाप्तवती॥११८१॥ ALANKARA II 44

Page 359

346 अलंकारमणिहारे

हिरण्यस्थ विकारो हिरण्मयी तस्यास्संबुद्धि:। हे हारिणि सुवर्णप्रतिमे ! प्रचुराहरण्ये हरितवर्णे इति वस्तुस्थितिः। 'धर्णा- दनुदात्तात्तोपधाती नः' इति डीपू। तत्संनियोगेन नः। ततों णत्वं च 'हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमर:। हरिणारूपधारिणीति वा। 'श्रीर्धृत्वा हरिणीरूपमरण्ये विचचार ह' इति पुराणादिति विद्यारण्यभाष्यम्। अश्र 'हिरण्यवर्णी हरिणोम्, चन्द्रां हिरण्मयीम्' इति श्रुतिस्स्मर्तव्या। हे भग- वति! भवती ईदृशी त्वंक्व । पुरः पूर्वकाय एव नतु सर्व- स्मिन्विग्रहे सुवर्णवद्धाना सुवर्णवत् हेमतुल्यं न तु हेमत्वेनैव भानं प्रकाशो यस्यास्सा तथोक्ता, पश्चार्धे अपरभागे पृष्ठभागे इत्यर्थः। 'अपरस्यार्धे पश्चभावो वक्तव्यः इत्यपरशब्दस्य प- श्वभावः । रीतिवर्ण रीतिः पित्तलापरपर्यायमारकूटं 'रीतिस्सि. यामारकूटम्' इत्यमरः। तस्या: वर्ण आप्वती। न तु पित्तल- मयी वा। इतरा अन्या सुरी देवस्त्री सरस्वती पार्वती शच्या- . दिश्च क्व वा। तव तस्याश्च रूपलावण्यवैभवादौ महदन्तरमि- ति भाव:। वस्तुतस्तु-सुरी सुरीशन्दः पुरः आदौ सुवर्णम- स्यास्तीति सुवर्णवत् भानं प्रकाशो यस्यास्सा प्रथमं सुइत्या- कारकाक्षरघटितेति यावत्। पश्चार्धे अपरस्मिन्नर्धे। सुरीश- व्दस्य वर्णद्यात्मकत्वात्प्रथमस्य वर्णस्य पूर्वार्धत्वं द्वितीयस्यो- सरार्धत्वमिति ध्येयम्। रीतिवर्ण री हत्याकारकमक्षरं आप्तवती प्राप्तेत्यर्थः । अत्र भगवत्याश्श्रियः अन्यदेवललनायाश्चाननुरूप- यार्घेटनं । अन्यत्सर्व पूर्ववत्।

यथावा- एकोSपि न मम सुगुणा नाथ प्रत्युत गुणत्रि-

Page 360

बिममालंकारसर: (४०) 347

तयबद्धः । ईशीय वशायतुं कथमनन्तगुणवशि- तसकललोकं त्वाम् ॥ ११८२ ॥ हे नाथ! मम एकोऽपि सुगुणः बन्धनपूर्वकवशीकरणसा- धनभूता ढढीयसी रज्जुः। 'रज्जुस्त्रिषु वटीगुणे' इत्यमरः। न नास्ति। सत्यार्जवद्यादिरात्मगुणो नास्तीति वस्तुस्थितिः । नै- तावदेव, प्रत्युत उक्तवैपरीत्येन 'प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्याने। अहमेव गुणत्रितयेन रज्जुत्रयेण सत्त्वरजस्तमो- रूपेण च प्राकृतगुणत्रयेण बद्ध: अस्मीति शेष: । अनन्तैः असं- ख्याकैः गुणैः रज्जुभिः सौशील्यादीभः कल्याणगुणैश्च वशित- लोकं स्वायत्तीकृताखलभुवनं त्वां वशयितुं कथमीशीय। अत्र कविभगवतोरननुरूपयोर्घटनं क्वशव्दाभ्यां विनैव दर्शितमिति विशेष:। अन्यत्सर्वे प्राग्वदेव।। यथावा- सुहृदच्युत दुर्हद्वा परमपदज्ञैरुदश्चयते तुल्यम्। तेषु कथं द्वावपि तौ निपातयन् गण्यतां पदज्ञ- मुनिः ॥११८३॥ हे अच्युत! पद्यते प्राप्यत इति पदं, परमं च तत्पदं च परमपदं परव्रह्मस्वरूपं, सोऽध्वनः पारमाप्रोति तद्विष्णोः परमं पदम्। इति, समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्। इत्यादिप्रमाणात्। तत् जानन्तीति तथोक्ताः । तैः परत्र- झवेदिभिः। पक्षे परमाः श्रेष्ठाः पदश्ाः वैयाकरणाः तैः।सुहृत्

Page 361

348 अलंकारमणिहारे

बुदृद्वा अनुकूल: प्रतिकूलो वा उद्श्चयते संसारसागरादुद्धि- यते। 'तुल्यो मित्रारिपक्षयोः' इत्युक्कतलक्षणानां तेषां मित्रामित्र- विभागवैषम्यगन्धोऽपि न संभवत ति भावः । तेषु एवंप्रकारेषुं परमपदक्ञेषु तौ सुहद्दर्दौ द्वावपि निपातयन् भवाब्धौ निमः जयन्। पक्षे सुहद्दर्हच्छ्दौ निपातयन् 'सुहदुर्हदौ सित्रामित्र योः' इति सूत्रेण निपातयन्। निपातनं नाम लक्षणाभावे शब्द- साधुत्वाय स्वरूपेणोच्चारणम् । पदजः केवलं तत्तत्य्राकृतवस्तु- वेदी मुनिः। पक्षे केवलपदज्ञः न तु परमपदश: शब्दशास्त्रदर्शी- · मुनिः पाणिनिरित्यर्थः । क्व परब्रह्मवेत्तार: क्व चायं केवलशा ब्दिको मुनिरिति भावः । अत्र ब्रह्मविदां पाणिनेश्चाननुरूपा- णां घटनं क्वशब्दमन्तरेणैव दर्शितं पूर्ववदेव। तुल्ययोगिता- दिसंकीर्णत्वं विशेषः । अत्र केनापीत्यायुदाहरणेषु यथासंभवं गम्यमानं घटनाविशेषमादाय लक्षणानुगतिर्बोध्या।।

द्वितीयविषमम्. विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः॥ कारणरूपविजातीयरूपशालिकार्योत्पत्तिरपि विषममित्यर्थः ॥

यथा- दलितेन्दीवरसुन्दरललिततमा तावकावयवसु- षमा। मेधां मय प्रसूते वैधात्रवधूसुधांशुरुचि- विशदाम् ॥ ११८४॥ अत्र 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्यायवि-

Page 362

विषमालंकारखर: (४०) 349

रुद्धा श्यामाद्विशदोत्पत्तिवर्णिता। अत्रोत्पत्तिलक्षणसंसर्गस्यान- नुरूपता। अभेदाव्यवसानलक्षणेनातिशयेन समवायिकारणरूप- तया स्थिते निमित्तकारणे समवेतकार्यरूपतया स्थिते निमि- सकार्ये वा विषय्यंशमादाय स्फुरितो विरोधो विषयांशविमर्शो- सरं वििवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणथितृत्वं तदुन्त- म्भितविरोधाभासस्य च परिपोषकत्वम्। अयमेव चांशोऽत्र क- विप्रतिभोन्मेषितत्वादलंकारतावीजम्। तेन 'गोमयाद्ृश्विका जाय- न्ते' इत्यादौ कार्यकारणथोवैरूप्यसंभवेऽपि नालंकारत्वं, तस्य वा-

तानां पन्थाः। कार्यकारणयोिवर्त्यनिवर्तकभावे पश्चमी विभा- वना। विलक्षणगुणशालित्वे त्ायं विषमप्रभेद इति कुवलया- नन्दे स्थितम्॥

यथावा- शशिविशदात्क्षीरोदात्कठिनतरादा मदम्ब ध- रणितलात्। कथमाविरभूद्रवती कनकपिशङ्गी शिरीषमृदुलाङ्गी॥ ११८५॥

जातीयकार्योत्पत्तिः। इद वक्ष्यमाणयथासक्कयसंक्ीर्णमू।

यथावा- जाता जगदीश्वर ते चरणाजलजारुणाज्झरी हरिणा। स्वक्षीरपूरपातृन सूते कृष्णाकृतीनियं चित्रम् ॥ ११८६॥

Page 363

350 लंकारमणिहारे

हरिणा पाण्डुरवर्णा 'हरिणः पाण्डुरः' इत्यमरः। झरी -- .. -..-- - गङ्गा। क्षीरं जलं दुग्ध च। कृष्णाकृतीन् शयामलाकारान् प्रा- सभगवत्सारुप्यानिति तु वस्तुस्थििः। अत्रापि कारणगुणप्रक्रम- विरुद्धादरुणाद्धवळोत्पत्तिः धवळच्छयामलोत्पत्तिश्च वर्णिता। इंदं मालारूपवक्ष्यमाणिकावळीपरिष्कृतं ग्लेषोत्तम्भितं चेतिविशेष: ।I केचित्तु-कारणक्रियातो विरुद्धत्रियस्य कार्यस्योत्पत्ताव- पि विषमप्रभेदं मन्वानाः गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये। क्रमेण च विरुद्धें यत्स एष विषमो मतः ॥ इति लक्षयित्वा त्वमामोदयसे लोकांस्त्वत्तेजस्तापयत्यरीन्। इति द्वितीयप्रभेदमुदाहार्षुः। तन्मते इदमुदाहरणम्, यथा- अमृतं प्रसवितुरब्घेरमृतांशुमपि त्वमम्ब जनि- ताऽसि। परमाङ्गुतमेतन्नः प्रासूथाः कर्दमं कथं . . . त्वमिति ॥१९८७॥

हे अम्ब ! अमृतं अमृतांशुमपि प्रसूतवलोऽ्धेः त्वं जनि- ता असि। त्वं ईद्दशीति भावः। कर्दमं पङ्कं कथ प्रासूथा इति विरोधः, कर्दमाख्यं पुत्रमिति परिहारः। 'कर्दमेन प्रजा भूताः' इति श्रुतेः। अत्रामृतामृतांशुजननक्रियावतो जलधेः कारणात् कर्दम-

मिदम् ॥

यथावा- नरकनिराकरणचणप्रगुणश्रीरमणचरणजा ध-

Page 364

विषमालंकारसर: 351

रणिः। नरकं वक्रं च सुतं प्रासोष्ट न कस्य वि- समयायेदम् ॥ १९८८॥

नरकस्य निरयस्य निराकरणेन विसतौ निराकरणचणी 'तेन वित्तश्चश्चप्चणपौ' इति चणप्प्रत्ययः । प्रगुणौ अवक्रौ प्रकृष्टमार्दवादिगुणशालिनौ च 'ऋजावजिहप्रगुणौ' इत्यमरः। यो श्रीरमणचरणौ ताभ्यां जाता 'पन्धयां भूमिः' इति श्रुतेः। धरणि: नरकं निरयं वक्रं कुटिलं च सुंत प्रासाष्टेति विरोधः। नरकाख्यं दानवं अङ्गारकं च प्रासोष्टेति वस्तुस्थितिः। 'नरकः पुंसि निरयदेवारातिप्रभेदयोः, वक्रो भौमेऽनृजौ त्रिषु' इति मेदि- नीरतमाले। अत्र नरकनिराकरणक्रियावतः आर्जवगुणशालिनश्च भगवच्चरणात्कारणाज्जाताया धरण्या नरकरूपसुतजननक्रियावै- शिष्टयं वतरत्वरूपगुणविशिष्टसुतप्रसूतिश्च वर्णिते इति पूर्वस्माद्वि- च्छित्तिविशेषः। समाधानगर्भमपीदं विषमं दृश्यत इति विश्वेश्वरादयः। सत्रोदाहरणं यथा-

स्वाहारसमं सूते सुतं प्रसूरिति वचो हरे न मृषा। शिशिरापि त्वदृष्टिर्यदसौद्गवतापकबळना- त्तपनम् ॥११८९॥

हे हरे! प्रसूः माता स्वाहारसमं स्वाम्यवद्दतवस्त्वनुरू- पगुणं सुतं सूते इति वचः न सृषा सत्यमेव। यत् यस्मात् कारणात् त्वइृष्टिः टक् स्वयं शिशिराऽपि भवस्य संसृतिसं- स्बन्धिनां तापानां संतापानां आध्यात्मिकादनिगमिति तु तर्वं,

Page 365

852 अलंकारमणिहारे

कबळनात् ग्रसनात् अपनयनादिति तु तत्त्वम्। तपनं तापशा- लिनं आहारानुरूपमिति भावः। असौत् प्रासूत 'षु प्रसवैश्वर्य- योः' इति घातोर्लङ्। यद्यपि 'प्रसवोऽञ्यनुज्ञानम्' इत्युक्तं, तथाऽपि "मातः कद्रु यदि प्रसौति भवती भूयस्सुदानीदृशान्' इति मुरार्यादिप्रयोगदर्शनात् गर्भविमोचनार्थकसाऽप्यस्य प्रस्ति- ध्यतीत्यविरोधः॥

यथावा- तब नयने नतु भासवानुदारबृन्दारकं सुतं सूला- म्। कथमेष कपिमसावीदा विदितं कपिरिति

श्रुतो ह्येष: ।। १११० ।।

ननु भगवन्! तव नयनं नेत्रभूतः भास्वान् भानु: । अनेन तेजस्वित्वमुक्तम्। उदारश्वासी वृन्दारकश्च महारुपवन्तं उच्त- मं देवं वा। पक्षे वदान्यमुख्यं कर्णमित्यर्थः 'उदारो दातृमहतोः बृन्दारकौ रूपिमुख्यौ' इति चामरः। सुतं सूतां जनयतु। महा- तेजस्विनो भानोस्ताददशसुतप्रसूति रसुरूपैवेति भावः। एष: ईदश एव भास्वान् कर्षि तिर्यञ्चं जातिवृत्तरूपादिभिरतिनिहीनमिति भावः। सुग्रीवमिति वस्तुस्थितिः । कथं असावीत् प्रासूत। सौतेलुङ। अतिमात्रविसद्दशप्रसूतिविरुद्वेति प्रश्नः। समाधसे- .-- आ इति। आ इति स्मरणार्थकमव्ययं, 'आ प्रगृह्यः स्मृतौ' इत्यमरः ! विदितं इदानीं स्मृतमित्यर्थः । हि यस्मात् एष: भास्वानेव कपिरिति श्रुतः श्रुतिप्रतिपादितः। तस्मात्कपिमसा- वीदिति कार्यकारणसारूव्यपरिचिन्तनेन समाधानं 'कपिर्बभ- स्ति तेजनम्, इति श्रुतिर्भानुं कपिशब्दवाच्यं ज्रूते। के जलं

Page 366

विषमाळकारसर: (४०) 353

पिबतीति कपिरितिव्युत्पत्तेः। अत एव 'कप्यासम्' इति पद- विवरणावसरे 'कापेस्त्वादित्यः कं पिवति किरणैः' इति वर- दगुरवः। 'कपयोऽर्केभवानराः' इति रत्षमाला। अत्रोभयत्रापि समाधानगर्भ विषमम्। प्रथमे गुणविरोधस्य प्रयोजकान्तरा- धीनं समाधानं, द्वितीये क्रियाविरोधस्य कारणे कार्यधर्मकल्प- माधीनं समाधानमिति विशेषः।।

तृतीयविषमम्· इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम्।। अनिष्टावाप्तिरित्यत्र न इष्टावाप्तिरितीष्टावात्तिशब्देन नञ- समासः। इष्टानवाप्तिरित्यर्थः। अन्यश्च न इष्टमनिष्टमितीष्टशव्देन नञसमासः। अनिष्टस्थानर्थस्यावाप्तिरित्यर्थः। उक्तमर्थद्वयमप्या- सृत्तिलभ्यम्। ततश्चाभीष्टार्थमुद्दिश्य किंित्कार्यमारब्धवत इष्टा- नवाप्तयनिष्टावाती मिळिते एको भेद:, केवलेष्टनवापति: केवला- निष्टावापतिश्चेति प्रत्येकं भेददयमिति त्रयो भेदास्संगृहाता भव- न्ति। इष्टार्थश्च-स्वस्य किंचित्सुखसाधनार्थावाप्ति: दुःखसाध- नानर्थनिवृत्तिश्च, परस्य दुःखसावनानर्थप्रापणं सुखसाधनार्थनि- वृत्तिश्चेति चतुर्विधः। तेन इष्टानवाप्तिघटिते भेदद्वितयेऽपि चा- तुर्विध्यम्। अनिष्टश्च-स्वस्य दुःखसाधनानर्थप्राप्तिः, परस्य सुखसाधनार्थप्राप्तिः, दुःखसाधनानर्थनाशश्चेति त्रिविधः । स्वस्ये- ष्टप्राप्तिस्तु गणितेति नानिष्टे गण्यते। तेनानिष्ठावाप्तिघटिते भेद- द्वितयेऽपि त्रैविध्यम्।। उदाहरणानि-तत्र सवसुखसाधनार्थावाप्तिरुपेष्टार्थोद्यागादि- ष्टानवासी दुःखसाधनरूपानिष्टप्रतिलम्भे च यथा -- ALANKARA II 45

Page 367

354 अलंकारमणिहारे

रामं सलक्ष्मणं प्राक्पराप्ता रक्षस्स्वसा वृषस्य- न्ती। तन्मध्ये व्यग्राऽभूद्विग्रा नव्यं मुखे विकार- मिता ॥११९१॥

रक्षस्सवसा शूर्पणखा वृषस्यंती कामुकी सती 'अश्वक्षीर- वृषलवणानामात्मप्रोतौ क्यचि' 'अश्ववृषयोमैंथुनेच्छायाम्' इति वृषशब्दात्क्यच्यसुक् । 'वृषस्यन्ती तु कामुकी' इत्यमरः। सलक्ष्मणं रामं प्राप्ता। तयोः रामलक्ष्मणयोर्मध्ये व्यग्रा तत्प- रिहासवचनैराकुला। ततस्साहसप्रवृत्त्या विग्रा विगता नासिका यस्यास्सेति बहुव्रीहौ 'वेग्रो वक्तव्यः' इति विशब्दोत्तरस्य नासिकाशब्दस्य ग्रादेशः। 'वित्रो विगतनासिकः' इत्यमरः। लक्ष्मणेन च्छिन्ननासिकोति भावः। अत एव मुखे वदने नव्यं अपूर्व विकार विकृति इता प्राप्ता अभूत्। इणः कर्तरि क्ः। अत्र व्यग्रेतिशब्द: मुखे आदौ नव्यं नविद्यमानो व्य इति व- र्णसमुदयो यस्मिन् कर्मणि तद्यथास्यात्तथा। नशव्देन समासः। विकारं तत्रैव वि इत्याकारकं वर्ण इता सती विग्राऽभूदिति योजना। विग्रेति निष्पन्नेत्यर्थश्चमत्कारी। अत्र सलक्ष्मणं राम- मुपभोगसुखसाधनरूपस्वेष्टसिद्ध चर्थमुपसर्पन्त्याश्शूर्पणखाया न केवलं तदलाभ: अपितु नासिकाच्छेदरुपदुःखसाधनानर्थावाततिश्च निबद्धेति लक्षणंसगतिः। अन्रेष्टसाधनतया निश्चितात्कारण- दनिष्टकार्यावापया उत्पत्तिलक्षणसंसर्गस्यानानुरूप्यम्। एवमुत्त- रत्रापि। यथावा-

Page 368

... . विषमालङ्वारसर: (४०) 355

भिहता। भूत्वाऽसौ रमणीमणि कमले पशुक- ण्ठबन्धयोग्याऽSसीत् ॥११९२। हे रमणीमाण कमले! असौ तेजस्वितया प्रत्यक्षदृश्या सौदामनी विद्युत् सुदान्ना अद्रिणा एकदिगिति विग्रहे 'तेनै- कदिक्' इति प्राग्दीव्यतीये अणि 'अन्' इति नकारस्य प्रकृति- भावे 'टिड्ढाण्' इते डीप। त्वद्वज्रकण्ठिकायाः श्रियं तद्वद्दे- दीप्यमानतयाऽजसत्रं त्वत्कण्ठावस्थानसौभाग्यमिति भावः । ईप्सु: आपुमिच्छुस्सती अत एव मुखे वदने अभिहता प्रहृता भूत्वेति लोकोक्तिः। स्वस्वरूपदुर्लभोत्कर्षलिप्सुतया तया त्वद्वज्रकण्ठि- कया मुखोपरिकृतप्रहारेति भावः । पक्षे सौदामनीशब्दव्यक्ति: मुखे प्रथमभागे अभिहता। असौरमणीत्यत्र असौः रमणीति- च्छेदः। 'रोरि' इति रेफलोपः। अत एव असौः अविद्यमानः सौ इत्याकारकवर्णो यस्यास्सा तथोक्ता भूत्वा। सौकारापन- यने दामनीति निष्पन्नेति भावः। नौरितिवदयं शब्दः। पशुक- ण्ठबन्धनयोग्याऽडसीत 'पशुरज्जुस्तु दामनी' इत्यमरः। दामैव दामनी। स्वार्थिके अणि प्रकृतिभावङीपौ प्राग्वत्। अत्र सौ-

तद्लाभमात्रं कित्वतिनिहीनपशुकण्ठबन्धनाईरज्जुतावाप्तिलक्षणो- त्कटानिष्टलाभो वर्णितः ॥ यथावा- इष्टार्थलाभलोभादुपसर्पन्त्या व्रजेन्दुवदनायाः। सद्यस्तन लाभेप्सुर्नीवीमपि शौरिरकृत बत शिथि- लाम् ॥ ११९३॥

Page 369

356 अलंकार मणिहारे

शोरि इष्टः अर्थस्य धनस्य लाभः अधिकफलं 'लाभोऽ धिकं फलम्' इत्यमरः। तस्मिन् लोभात्। पक्षे अभीप्सितोप- भोगरूपप्रयोजनलामलोभादित्यर्थः । उपसर्पन्त्याः समीपमाया- न्त्याः व्रजेन्दुवदनायाः नीवीमपि परिपणमपि; पक्षे कटिवसन- बन्धमपि 'स्त्रीकटीवस्त्नबन्धेऽपि नीवी परिपणेऽपिच' इत्यमरः। परिपणं मूलधनं 'नीवी परिपणं मूलधनम्' इत्यनुशासनात्। शिथिलां नश्वरीं। पक्षे विस्नस्तां। अकृत। बनेति खेदे। तत्र हेतुः सद्यस्तनलाभेप्सुरिति। तादात्विकस्वलाभेप्सुरेवायं न त्वन्ययोगक्षेमचिन्तक इति भावः । तत्क्षणवक्षीजपरिरम्भेच्छु- रिति वास्तवार्थः । अत्राधिकधनलाभार्थिन्या व्रजविलासिन्या मा भूत्तदवाप्ति: किंतु स्वलाभमात्रेप्सुना शौरिणा तन्मूलधनमपि शिथिलितमित्यनिष्टप्रतिलम्भश्च वर्णितः । उपपादितार्थद्वयश्लेष- भित्तिकाभेदाध्यवसायजीवातुकोऽयं विषमोपन्यास इति ध्येयम्॥

यथावा- अहमपि विधुरिति मधुरिपुसधर्मतायै निबद्ध- विस्पर्धः । विधुतोऽमुनाऽन्ततोऽभूत ग्लौरलसत्ता- मवाप्य गौरेव ॥११९४॥

पूर्वार्ध स्पष्टार्थम। ग्लौः मृगाङ्ग: अमुना मधुरिपुणा विधुतः तिरस्कृतः अत एव अलसत्तां लसतो भावः लसत्ता न लसत्ता अलसत्ता तां अप्रकाशमानतां। यद्ा अलसः मन्दः स इवाचरतीत्यलसन् तस्य भावः अलसत्ता तां आलस्यमि- त्यर्थः । अषाप्य मन्दो भूत्वेत्यर्थः । भन्ततः पर्यवसाने गौः पशुरेव अभूत्। न तु भगवत्सधमेति भावः। पक्षे ग्लौशब्दः

Page 370

विषमालक्कारसरः (४०) 357

अम्ततः मध्ये 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला। गकारौकारयोरन्तराळे इति भावः। विधुतः उत्सारितवर्ण इति याषत्। अत एव अलसत्तां लस्य लवर्ण- स्य सत्ता स्थितिः न लसत्ता अलसत्ता लवर्णस्थित्यभावं प्राप्य गौरेव गौरिति शब्द एवाभूत्। उक्तरीत्या लकारोत्सा- रणे तथा निष्पत्तेरिति भावः। अत्रापीष्टानवाप्तयनिष्टप्ाप्ती पू- र्ववत्।। यथावा-

तद्विधुताः । मुखवर्णविपर्यासान्तिलका भूत्वा व- नान्तभुवमगमन् ॥११९५॥ हे जननि! अल्पाः लताः लतिकाः, अल्पार्थे विहितेन कना लतानामतिसौकुमार्य व्यञ्जितम्। त्वत्तनुलतातुलनाकुतु- कात् अभ्येत्य अभिमुखमागत्य तद्विघुताः त्वत्तन्वा न्यककृताः अत एव मुखवर्णस्य वदनशोभाया: विपर्यासात् पराभवल- क्षणवैधर्ण्यादित्यर्थः। पक्षे मुखवर्णयौः आदिमाक्षरयोः लति इत्येतयोः वैपरीत्यात् प्रातिलोम्यात् तिलकाः वृक्षविशेषाः भूत्वा 'तिलकः क्षुरकः' इत्यमरः । अनेन लतावस्थावस्थित- सौकुमार्यस्यापि हानिर्दयोत्यते। पक्षे उक्तरीत्या लतिकाशब्द- स्तिलका इति निष्पन्न इत्यभिप्रायः। वनान्तभुवं अगमन् कस्यापि वदनं दर्शयितुमनीशाना: क्वापि गहनान्तरे न्यलीयन्तेति भावः । सर्वे पूर्ववत्॥ यथावा- हरिनन्दकधुततेजास्स्वरुरविधून्वन् शिरस्स्व

Page 371

358 अळंकारमणिहारे

मथ रोषात्। अभवत्संमुख एत्य स्थितोऽपि पुनरप्यधः कृतस्तेन ॥ ११९६॥ स्वरु: दम्भोळः हरिनन्दकजिगीषुरिति भावः । हरे: भग- वतः नन्दकेन तन्नाम्ना खड्डेन धुततेजाः अत एव स्वं शिरो विधून्वन्निति क्रोधानुभावोक्तिः। अथ तत्क्षणमेव रोषात् समुखे अग्रभागे एत्य स्थितोऽपि द्वंद्वयुद्धार्थमिति भावः। तेन नन्दकेन पुनरपि अधःकृतः न्यक्कतः अभवत्। सर्वथाऽपि नाजौषीत् किंतु पराभूत एवासीदिति भावः । पक्षे स्वरु: स्वरुशब्द: शिर: अग्रभागावस्थितमिति यावत्। स्वं स्वेत्याकारकं वर्णसमुदयं विधून्वन्। त्यजन् सन् अभवत्संमुख इत्यत्र अभवत् त्संमुखे इति च्छेदः। अभवत् संमुख इतिच्छेदपक्षे तकारस्य 'अनचि च' इति द्वित्वम् । मुखे अग्रभागे त्सं त्सेत्याकारकवर्णसमुदयं एत्य स्थितोऽपि त्सरुर्भूत्वा स्थितोपि स्वरुशब्दे मुखगतस्ववर्ण- लोपे तत्रैव त्सवर्णन्यसने त्सरुरिति निष्पत्तेरिति भावः । तेन नन्दकेन अधःकृतः मुष्टेः खड्काधोभागावस्थानादिति भावः। 'त्स- रु: खङ्गादिमुष्टौ स्यात्' इत्यमरः । अत्र स्वरोर्नन्दकजयरूपेष्टा- लाभः अधःकृतत्वरूपोत्कटानिष्टप्रतिलम्भश्च श्रेषेण निबद्धः। शब्दार्थयोस्तादात्म्यवैभवमीदृशस्थलेषु न विस्मर्तव्यम्।। यथावा- लक्ष्म्या कुचकोकतुलाभरेप्सुरस्तबको बको ब- भूवास्तः। इष्टानवाप्यनिष्टप्राप्ती खलु सूनभागि- नो नियते॥१११७॥

लक्ष्म्या श्रिया कुचकोकस्य स्वकुचचक्रवाकस्य तुलां प्रे

Page 372

विषमालङ्कारसर: (४०) 359

पसुः स्तबक: प्रशस्तकुसुमगुच्छः अस्तः निरस्तस्सन् 'तुत्त- तुन्नास्तनिष्ठचूतविद्धाक्षिप्तेरितास्समाः' इत्यमरः । बकः बभूव कोकसाम्यप्रेप्सया यतमानो निरस्तः कह्ाख्यो निहीन: खगो- ज्भूत् न तूत्तमश्रीकुचकोकसदृश इति भावः। किंच बकः शिव- मल्ली बभूव लक्ष्या निरस्तः पाशुपताख्यपुष्पतरुविशेषो बभूवे- त्य्यर्थो गम्यते। 'शिवमल्ली पाशुपत एकाष्ठीलो बको वसुः। इत्यमरः । 'बकस्तु बकपुष्वे स्यात्कह्वे श्रीदे च रक्षसि' इति मेदिनी च । लक्ष्मीनिरस्तस्य पाशुपतमतप्रवेशो युक्त एवेति भावः। पक्षे स्तबकः स्तबकशब्दः अस्तः अविद्यमानस्तवर्णः बको बभूव। भागो भागधेयं 'भागो रूपार्थके प्रोक्तो भागधेयै- कदेशयोः' इति विश्वः 'भागिनं भजते सुखम' इति प्रयोगश्च। सून: सुष्ठ ऊनः भागः सोऽस्यास्तीति सूनभागी तस्य अति- मात्रनिहीनभाग्यस्येत्यर्थः। पक्ष भजतीति भागी 'संपृचानुरुध' इत्यादिना भजतेर्िनुण् 'चजोः कु घिण्यतोः' इति कुत्वम्। सूनानां कुसुमानां भागी तस्य पुष्पभाज इत्यर्थः । सुगममन्यत्। अत्रापीष्टानवाप्तचनिष्टप्रतिलम्भौ पूर्ववदेव। अर्थान्तरन्यासशिरस्क- श्लेषसंकीर्णता तु विशेष:॥ ईं- तव वर्णमुपजिहीर्षुर्माधव मध्ये स्ववर्णविभ्र- यथावा-

ष्टः। बकवृत्तिमेव लब्ध्वा बलाहको नाश्रयते : स्म वाचादपि॥ ११९८॥ हे माधव ! बलाहक: वारिवाहकः वलाहकशन्दूश्च तव वर्ण अपजिहीर्षुः अत एव मध्ये अन्तरैव स्ववर्णात् विभ्रष्टः। पक्षे मध्ये स्ववर्णाभ्यां ला ह इत्येताभ्यां विभ्रष्टः। लाहौ इत्येतौ वर्णो विभ्रष्टी यस्येति वा। बकवृत्तिमेव-

Page 373

360 अलंकारमणिहारे

शठो मिथ्याविनीतश्च स बकव्रतिको द्विजः॥ इत्युक्तप्रकारां बकवृत्तिमेव यद्वा स्वाभीप्सितालाभाद्व- कवत्तूष्णीं स्थितिमित्यर्थः। कह्वाख्यखगत्वमेव वा । पक्षे बक इति वर्णयोः स्थितिमेव लब्ध्वा वलाहकशब्दो लाहवर्णयोरपाये बकवर्णयोरेत स्थिरति भजत इति भावः। वाचाऽपि नाश्चयते स्म 'हैतुकान् बकवृत्तींश्च वाम्ात्रेणापि नचयत्' इत्युक्तरीत्या वाङ्मात्रेणाप्याचैतो नासीदित्यर्थः। यद्ा बकस्य तिर्यक्त्वान्मनुष्या- र्हवागवाप्तिर्नासदिवेति भावः। अत्र बलाहकस्य न भगवद्वर्णाप- हाररूपेष्टानवाप्तिमात्रं अपितु स्ववर्णभ्रंशायुत्तरोत्तरोत्कटानिष्टोप- लम्भश्च वर्णित: । यथावा- श्रीस्तनसाम्यं प्रेप्सुः कुलाचलो निश्चित: कु- लालोडभूत्। तत्सदृशा इति कलशानपि विद- धानः किमीप्सितं लब्धा ॥११९९॥

कुलाचलः निश्चितस्सन् कर्तरिक्तः कुलाल: कुम्भकार: अभूत्। पक्षे कुलाचलशब्दः निर्गतः चकारो यस्य सः निश्चः निश्चः कृतो निश्चितः कुलालः अभूत् । अत्रापि श्रीस्तनसाम्य- रूपेष्टानवाप्तिपूर्वकं कुलाचलस्य कुलालत्वरूपानिष्टप्रतिलम्भः ॥ यथावा- कलभस्तव गतिविभवं सुलभं मत्वा त्वया प्रतिस्पर्ी। अलभत कशाभिघाताच्छलभत्वं हन्त वृषभाशेखरिविभो ॥ १२०० ॥

Page 374

विषमालंकारसर: (४०) 361

कशायाः 'अश्वादेस्ताडनी कशा' इत्यमर, अभघातात्। पक्षे शेन शवर्णेन अभिघातः विलोपनं 'साधनं कृता' इति समासः। कस्य कवर्णस्य शाभिघातः तस्मात् ककारमपनीय शकारन्यस- नादिति यावत्। कलभः शलमत्वं पतङ्गत्वं कलभशब्दश्शलभ- शब्दत्वं च ।।

यथावा- फणिगिरिनायकभामिनि तावकतनुसौकुमार्य- हरणेच्छम्। कश्याहतेश्शिरीषं करीषभूतं जग- ज्जननि जातम् ॥१२०१॥

हरणे इच्छा यस्य तत् हरणेच्छं, शिरीषस्य विकार: पुष्पं शिरीषं 'द्विहीनं प्रसवे सर्वे' इति कीबता। कशामर्हतीति कश्या अर्हार्थे 'दण्डादिभ्यो यः' इति यः। कशाप्रहारानुगुणतैक्ष्ण्येति यावत्। तादृश्या आहतेः 'कश्यः कशाह' इत्यमरः। पक्षे कका- रेण शिवर्णस्थाहते: शिवर्णस्थाने ककारनिवेशादिति यावत्। करीषभूतं शुष्कगोमयवदतिपरुषभूतम्, पक्षे करीषमितिपदं जातं 'तद्धि शुष्कं कर्रीषोऽस्त्री' इत्यमरः। अत्र शिराषस्य श्रीतनु- सौकुमार्यलाभरूपेष्टप्रप्तिर्मा भूत, प्रत्युत नैसर्गिकस्वसौकुमार्य- प्रतीपकार्कश्यरूपानिष्टलाभश्च जात इति ध्येयम्॥।

यथावा- तपनस्य शरीरं त्वत्तपनीयविमानदीप्तिमा- दित्सु। अशकतयाSडदित एव हि करीरमासीत्स- रीसृपगिरीन्दो ॥ १२०२॥ ALANKARA II 46

Page 375

362 अलंकारमणिहारे

हे सरीसृपगिरीन्दो! तपनस्य भानोः शरीरं वपुः शरीर- पदं च। त्वत्तपनीयविमानदीततिं आदित्सु आदातुमिच्छामात्रं कृतवत् सत् आदितः प्रथमत एव अशकतया अशक्ततया । शक्रोतीति शकं पचाद्यच्। ततो नञ्समास: ततस्तल् । पक्षे- अशः अविद्यमानशवर्णः कः ककारो यस्मिस्तत् तस्य भावः तत्ता तया। शकारलोपेन तत्रैव ककारप्राप्त्येत्यर्थः। करीरं वंशाङ्कुर: आसीति तद्वन्नीलमासीत्। निस्सेजस्कमभूदिति भावः। पक्षे करीरमिति निष्पन्नमभूदित्यर्थः । 'वंशाङ्करे करीरोऽस्त्री' इत्यमरः। अत्र मानोशशरीरस्य श्रीनिवासकनकविमानदीप्त्युपा-

चक्रस्त्वत्कुचताप्तयै कमपि भजन्नन्तराप्यवै- यथावा-

लोम्यम्। ककचस्सन्परमुद्गवमेत्याग्रे भवति वक्रकच एव ॥ १२०३॥ हे श्रीरित्यध्याहृत्य संबोधनम् । चक्रः कोक: त्वत्कुचताप्यै तावकस्तनजन्मलब्धये अन्तः मनसि कंचिदवं खप्रीतिदं भानुं वा। मारुते वेधसि व्रन्ने पुंसि कः' इत्यमरः। भजन्नपीति योजना उपासीनोऽपीत्यर्थः । वैलोम्यं विलोमत्वं 'वृत्तौ चालोमशौ स्तनौ' इत्युक्तसुलक्षणस्तनत्वार्हमरोमशत्वं आप्य अपीत्येतदत्राप्यनुषज्य- ते। तावन्मात्रं प्राप्यापि ककचस्सन् करपत्रं भूत्वा अरोमशत्वेन करपत्रजन्म लब्धवानितिभावः। अग्रे अनन्तरं अन्यं उन्भवं जन्म 'जनिरुत्पत्तिरुदद्रवः' इत्यमरः पत्य अलोमशतया क्रकचजन्म- लब्ध्वाऽपि स्वेष्टार्थासिद्धर्जन्मान्तरं प्राप्यापीत्यर्थः । वक्रकच 'एव वक्रकेश एव भवति न तु स्तनजन्म लब्धवानिति भावः ।

Page 376

विषमालंकारसर: (४०) 363

वक्रश्चासी कचश्चेति विग्रहः। पक्षे चक्रशब्दः वैलोम्यं प्रति- लोमवर्णत्वं आप्य अन्तः मध्ये कमपि कवर्णमपि भजन् क्रकच इति निष्पन्नः । अथ अग्रे क्वर्णादप्यादौ परं अतिशयिंत यथा स्यात्तथा। उन्भवं उद्गता भा यस्य तं तथोक्तं उद्धूततया भासमान- मित्यर्थः। वं वकारं एत्य वक्रकच इति निष्पद्यत इत्यर्थः ॥ यथावा- विकलङ्ग: कोऽपि खगस्तव वाहत्वेप्सुरवि- रभूदग्रे। अनुकलमथ विकृतिवशात् खगेन्द्रवा- हन बभूव कलविङ्कः ॥ १२०४॥ हे खगेन्द्रवाहन ! भगवन् ! इदं प्रकृतविवक्षितार्थोपस्कार- कम्। विकलङ्कः हेतुगर्भैमिदं, विकलङ्कत्वाद्धेतोः कोऽपि खगः कशब्दबाच्यो भानुरपि। यद्वा क: खगो विकलक्कोऽपीति योजना। ईदृशस्यापि विवक्षितेष्टासिद्धिराश्चर्येति भावः। 'मारुते वेधसि व्रभ्ने पुंसि कः, इत्यमरः । कोऽपि खगः यःकश्चिदज्ञातनामा पक्षीत्यर्थोऽप्युपस्कार्यः । 'शरार्कविहगाः खगाः' इत्यमरः। तव वाहत्वं वाहनत्वं खगेन्द्रत्वमिति भावः। ईप्सु: आप्तुमिच्छः, इच्छा स्वायत्ता न तु फलप्राप्तिरित भावः।अग्रे आदौ अविः मेष: सूषको वा अभूत्। वस्तुतस्तु अविः अविशब्दवाच्यः तेजोरूपो वा तव भवनं वा अभूत। तन्मण्डलान्तर्स्थितत्वात्तवेति भावः। 'अवि- र्ना पर्वते सूर्ये मेषे सूषककम्बळे। प्राकारे भवने भासि स्त्रो तु पुष्पवतोभुवोः' इति रत्नमाला। 'मूषककम्बळे' इत्यत्र आखौ कम्बळे चेत्यर्थः इति 'अवयश्शैलमेषार्काः' इत्यमरश्लोकव्या- ख्यानावसरे दशटीकासर्वस्वकारादयः। पक्षे अग्रे आदौ अवि: विकारशून्यः त्यक्तविवर्ण इत्यर्थः। अभूत्। अथ अनन्तरं अनु-

Page 377

364 अलंकारमणेहारे

कलं प्रतिक्षणं विकृतिवशात् उत्तरोत्तरविलक्षणविकारावाप्तिव- शात्। पक्षे कलौ ककारलकारौ तयो: पश्चात् अनुकलं 'अ- व्ययं विभक्ति' इत्यादिना पश्चादर्थेऽव्ययीभावः । विकृातवशात् वेः वि इत्यकारकवर्णस्य कृतिः करणं न्यसनमिति यावत्। त- द्वशात् कलविङ्क: खगः चटकाख्यः पक्षी अभूत्। विकलङ्कशब्द उक्तरीत्या प्राथमिकवर्णोत्सारणेन ककारलकारानन्तरं विवर्णन्य सनेन च कलविङ्क इति निष्पन्न इति निर्गाळतोऽर्थः। अत्र वि- कलङ्कखगस्य न परमभीष्टभगवद्वाहनतानवापत: अितु मूषक-

काभेदाध्यवसायजीवातुक इति विभावनीयम्॥ यथावा- तव रुचिलिप्सु परास्तं ध्वस्तसुवर्ण कुसुम्भ- मम्ब ततः । क्वैव्यं विहाय पुंस्त्व भजतु तथाऽपि स्तनेन जीयेत ॥ १२०५॥ हे अम्ब ! कुसुम्भं महारजनं कनकं वा। पक्षे कुसुम्भमिति पदं 'कुसुम्भं हेमि महारजने ना कमण्डलौ' इति मेदिनी। ,महारजनं कुङ्कमकुसुममित्याह्कः। तव रुचि त्विषं लिप्सु अत- एव परास्तं त्वद्रुचा निरस्तं अत एव व्वस्तः सुवर्णः शोभ- नस्वकीयवर्णः सुइत्याकारकवर्णश्च यस्य तत्तथोक्तं सत्। ततः ईदृशावस्थावातयनन्तरं क्वैव्यं अधृष्टतां नपुंसकलिङ्गतां च वि हाय पुंस्त्वं पौरुषं भजतु कलशः करिकुम्भो वा जायताम्। पक्षे पोललङ्गत्वं भजतु। सु इति वर्णोत्सारणेन कुम्भ इति पुलिङ्गो निष्पद्यतामिति भाव:। कुम्भशब्दो हि 'कुम्भौ घटेभमूर्ध्ान' इति पुंस्त्वेनानुशिष्टः। तथाऽपि तवेत्येतदनुषज्यते। तव स्तनेन

Page 378

चिषमालंकारसर: (४०) 365

स्वतस्सिद्धपुंस्त्वेनेतति भावः । एकवचनस्थ एकेनैव सुकरे जये न द्वाश्यामपि सन्नद्धव्यमित्यभिप्रायः। जीयेत अभिभूयेत। ज- यतरत्राभिभवार्थकत्वात्सकर्मकता। तदुक्तं हरिणा- जयिर्जयामिभवयोराद्यर्थेऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थों द्वितीयेऽर्थे सकर्मकः ॥

इति। अत्र कुसुम्भस्य न स्वेप्सितालाभमात्रं अपितु रूपा- न्तरग्रहणेऽप्यवर्जनीयोऽनिष्टप्रतिलम्भश्च निबद्धः॥

यथावा-

एषः । क्षेत्रं परमपि विन्दन क्षपाकरः पाकरस- हितोऽम्ब प्राणीत् ॥ १२०६॥

हे अम्ब! एषः क्षपाकर: चन्द्रमाः क्षपाकरशब्दश्च। इष्टा स्वाभिलषिता या त्वद्वदनतुला तस्या: अनाप्या आद्यन्तावभि- व्याप्य आद्यन्तं आपादमस्तकं आजन्मनिधनं वा क्षरः क्षीण- स्सन् आद्यन्तयोः शुक्कप्रतिपदमावास्ययोः क्षरः क्षीण इति च। पक्षे आद्यन्तौ क्षरौ क्षकाररेफौ यस्य स तथोक्तः परं अन्यत् क्षेत्रं शरीरं उत्तमं सिद्धस्थानं वा 'क्षेत्रं शरीरे केदारे सिद्ध- स्थानकळत्रयोः' इति मेदिनो। कमपि भगवदभिव्यक्तिक्षेत्रमि- त्यर्थः। विन्दन्नपि। पक्षे क्षे त्रं इति भिन्नं पदं क्षे परं त्रमिति योज ना। क्षे परं क्षकारमात्रे त्रं विन्दन् क्षकारस्थाने त्रेतिवर्णसमु- दायं प्राप्नुवन्नित्यर्थः । त्रपाकर: लज्जाश्रित एव पाकरसेन हितः भोक्तृभ्यस्सौहित्यरूपहितकारी माहनसिकस्सन्निति भावः। प्रा- णीत् अजीवत् । पक्षे त्रपाकर इति निष्पन्नः पाकर इति वर्ण

Page 379

366 अरंकारमणिहारे

सहितः क्षकारमात्रे वर्णान्तरं प्राप्तोऽपि पाकर इति वर्णानुपू- वर्यामविकृत एव सत्तामलभतेत्यर्थः। अत्रापि पूर्ववदेव इष्ठानवा- पचनिष्टप्राप्ती।

यथावा- सुरमान्वितापि हरिमुखभवस्मितात्प्रेप्सुरुत्तमं वर्णम्। लोपितभूयोवर्णाडसुरमा भिल्लयेव सुरि- मल्लयासत ॥ १२०७ ॥

सुरभिमल्ली वसन्तसंबन्धिमल्लिकाकुसुमम्। सुरभिसंबन्धि- त्वकथनान्मल्लिकाया वर्णसौरभाद्यतिशयः प्रत्याय्यते । सुराः मनोज्ञा मल्ली मल्लानाम खुरळीखेलनपरा जातिविशेषा:, तजा- तिस्त्रीत्यप्यर्थोऽनुसन्धेयः । पक्षे सुरभिमल्लीशब्दश्च। तयोस्तादा- त्म्यम्। शोभना च सा रमा श्रीः तयाऽन्विताऽपि। सुराणां मा ल- क्ष्मी: तदन्विताऽपीति वा। अपिशब्देन तावता अपर्याप्तत्वं गम्यते। हरे: भगवतः मुखभवं यत् स्मितं तस्मादपि स्मितवर्णादपीति यावत्। स्मितस्य मुखभवेति विशेषणेन ब्राह्मणवर्णत्वं गम्यते। उत्तमं वर्ण प्रेप्सुः। तेनेति शेषः स्मितेनेत्यर्थः। लोपितः भूयान् वर्णों नैसर्गिको यस्यास्सा तथोक्ता। अत एव असुरमा सुष्ट रमत इति सुरमा पचाद्यच्। ततो नञ्तत्पुरुषः हर्षविरहितेति यावत्। भिल्ली किराती आसीत् मललजातेरपि निहिनजाति- रभूदिति भाव। मल्ली भिल्लीत्युभयत्रापि जातिलक्षणो डीष्। पक्षे लोपिता: भूयांसो वर्णाः अक्षराणि यस्यास्सा 'छिन्न- भायष्ठधूमा' इत्यादावल्पावशष्टधूमत्यादिवत् अल्पावशेषिता- क्षरेति भावः। लुप्तान्वर्णानेव दर्शयति-असुरमेति । सुर

Page 380

विषमालंकारसर: (४०) 367

मेति वर्णत्रितयविधुरा अतएव भिल्लीति आसीत्। सुरभिमल्ली- शब्दे सुरमेति वर्णावळीलोपे भिलीति वर्णद्वयस्यैव पारिशे- ष्यादिति भावः। अत्र सुरभिमल्लयाः भगवद्वदनस्मितादप्यधिक- वर्णलिप्सारूपेष्टालाभः स्ववर्णभ्रंशाद्निष्टप्रतिलम्भश्च शब्दार्थता-

यथावा- त्वद्वतिमीप्सुश्रौर्यादणकोऽच्युत वारणोऽन्तरा- सन्नः। वानरतामापापररूपाप्तया तदनु वान एवा- भृत् ॥ १२०८॥ हे अच्युत ! वारण: गजः वारणशब्दश्च चौर्यात् त्वद्गति ईप्सु: अत एव अणकः गर्ह्यः 'खेटगर्ह्याणकास्समाः' इत्यमरः। पक्षे अविद्यमानणकारस्सन् अन्तरा इच्छाचौर्ययोर्मेध्य एव सन्नः विशीर्ण: सदेर्विशरणार्थकात्कर्तरि कः । 'रदाश्यां' इति नि- ष्ातस्य पूर्वदकारस्य च नत्वम्। पक्षे अन्तरा णकारापगमानन्त- रमवशिष्टवार इति वर्णद्वितय मध्ये सन् विद्यमान: नः नकारो यस्य स तथोक्तस्सन् वानरतां प्वगतां वानरशब्दतां च आप प्राश्तवान्। तदनु अपररूपस्य ततोऽपि निहीनरूपस्य आपया। पक्षे अपरं अपगतरफं यद्रूपं तस्य आप्या। रेफोत्सारणेनेति यावत्। वान एव शुष्क एव अभूत्। 'वानश्शुष्कफले शुष्के सीवने गमने कटे' इति हेमचन्द्रः । पक्षे वानशब्दः अभूत्। अत्र वारणस्य भगवद्रतिस्तेयरूपेष्टानवाति: अणकत्वाद्यिष्टप्र- तिलम्भश् निबद्ध:। यथावा- नीलाम्बर भगवंस्तव चेलाकारं परं परिप्रेप्सुः।

Page 381

368 अलंकारमणिहारे

विनयन्नप्यात्मानं वनराशिः प्रान्ततो वराशिरभूत् ॥१२०९॥

हे नीलाम्बर बलभद्र भगवन् ! 'नीलाम्बरो रोहिणेयः' इत्यमरः। वनराशि: जलधिः वनराशिशब्दश्च। परं उत्कृष्टं तव चेलाकारं वसनस्य नीलरूपं तत्तुल्यतामित्यर्थः । परिप्रेप्सु: अत एव आत्मानं स्वं विनयन्नपि तद्रूपग्रहणयोग्यतार्थ शिक्षयन्नपि। पक्षे विनं कुर्वन्विनयन् विगतनकारं कुर्वन् सन् प्रान्ततः पर्य- वसाने वराशि: स्थूलपटः 'वराशिः स्थूलशाटकः' इत्यमरः । अभूत् अन्यत्र वराशिरिति निष्पन्न इत्यर्थः । अत्र भगवद्वलभङ्ग- दिव्यांशुकरूपलक्षणेष्टालाभ: स्थूलपटत्वरूपानिष्टप्रतिलम्भश्च वन. राशेवेणित: ।। यथावा- भुव इव तवाप्यनन्त प्राप्तुं यद्यंशुकत्वमुद्यु-

हे अनन्त! उल्लङ्वितत्रिविधपरिच्छेद भगवन्! वाराशि: ज- लधि: भुव इव परिच्छिन्नाया भूमेरिव तव्नापि अपरिच्छिन्नस्य भवतोऽरपि अंशुकत्वं सूक्ष्मांम्बरत्वं 'अंशुकं श्रक्ष्णवस्त्रे स्याद्वस्त्र- मात्रोत्तरीययोः' इति मेदिनी। प्राप्तुं यदि उयुङ्के तदा आ- द्याकारस्य प्राथमिकतस्वस्वरूपस्यापि हासात् संकोचात् वराशि: स्थूलपट एव स्यात् न तु सूक्ष्मश्चाध्यतमभवाद्दिव्यांशुकमिति भावः। वाराशिशब्दः प्राथमिकस्य आवर्णस्य हस्वत्वाद्वराशि- रिति निष्पन्न इति वस्तुस्थितिः । अत्रापि पूर्ववदेव विषमम् संभावनसकणित्वं विशेष:।

Page 382

विषमालक्कारसर: (४०) 369

यथावा- द्विजजनिभुवमच्युत तव वदनं द्विजराजताम- दात्पूर्णेन्दुः। वशयितुमिच्छुः क्रमशो मलिनात्मा- डविप्रभामुपाजीवदहो॥ १२११॥ हे अच्युत! पूर्णेन्दुः द्विजराजतामदात् अहं ब्रह्मणानां राजति गर्वात् 'सोम एव नो राजेत्याहुर्ब्राह्मणी: प्रजाः' इति श्रुतेः । द्विजजनिभुवं ब्राह्मणोत्पत्तिस्थानं 'ब्राह्मणोस्य मुखमा- सीत्' इति श्रुतेः। तव वदनमपि वशयितुं स्ववशे विधातुं इच्छन् सन् क्रमशः क्रमेण मलिनात्मा ईदशसंकल्पेन पापिष्ठ- स्सन्, असितपक्षे कलापचयेन निष्प्रभशरीर इति वस्तुस्थितिः। अविप्रस्य अब्राह्मणस्य शूद्रस्य भां वर्चः, स्वस्य ब्राह्मणराजताप्र- ख्यापनाय तज्जनिस्थानभूतभगवन्मुखवशीकरणप्रवृत्तस्स्वयमेवा- ब्राह्मणतामवापेत्यर्थः। पक्षे अवेः भानोः तेजः उपाजीवत् उपजीव्य- त्वेनाभ्युपैदित्यर्थः। दर्शे चन्द्रमसः रविसंबन्धस्य तद्दसतेजस्त्वस्य- च श्रुत्यादिप्रसिद्धत्वात्। आहुश्च ज्योतिर्विद :- 'सलिलमये श- शिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति' इति। अत्रापीष्टानवाप्यनिष्टप्राप्ती स्पष्टे॥ यथावा- यशसा मराळिका तब विजिताSमाळिर्भव- न्त्यथ कर्थचित्। राका सती स्मितरुचाऽन्ततोS- म्ब कारास्थिता ह्यवाङ्मूर्धा।।१२१२।। हे अम्ब ! मराळिका हंसी त्वघयशस्साम्यमभिलषन्तीति भावः। तव यशसा विजिता सती अत एव अमाळि: अमा- ALANKARA II 47

Page 383

370 अलंकारमणिहारे

वास्यायास्सखी भवन्ती सती 'आळिस्सखी' इत्यमरः । मलिना भवन्तीति यावत्। पक्षे अमा आळि: इति च्छेदः । मकार- ळिकाराभ्यां शून्या सतीत्यर्थः । अथ कथचित् महता प्रय- लेन। पक्षे मकारळिकारत्यागक्केशनेत्यर्थः । राका पूर्णनिशाकर- पूर्णिमा सती वैशदं संपादितवतीति यावत्। मराळिकेति शब्दव्यक्ति: त्यक्तमकारळिकारत्वेन राकेति निष्पन्नेत्यर्थः। तव विजितेत्येतत्पदद्वयमप्यनुषज्यते। तव स्मितरुचा तदवस्था- लोकनजनितमन्दहासत्विषा विजिता सती अन्ततः पर्यवसान- दशायां अवाङ्मूर्धा अधःकृाशिरास्सत्यपपि कारास्थिता बन्ध- नालयस्था। हीत्यवधारणे। अभूत् उक्तदुरवस्थामेवाप्नोत् न तु स्वाभाष्टमिति भावः। पक्षे अवशिष्टा राकेति शब्दव्याक्ति- र्विलोमत्वे कारेति निष्पन्नाऽभूदित्यर्थः । अत्र मराळििकायास्सर्व- धाऽपि श्रीयशास्स्मितरुचिसाम्यरूपेष्टालाभः मालिन्याद्यनिष्टावा- प्तिश्च शब्दार्थतादात्म्यमूलकश्ेषावलम्बिनी॥

यथावा- त्वत्कचकलापलक्ष्म्या स्वकलापच्युतिमुपेत्य वचनीयः । कनकगिरीशविलासिनि कपीशता- मश्रुते कलापीशः॥ १२१३॥

हे कनकगिरीशविलासिनि! कनकगिरि: वेङ्गटाद्रि:। क- लापीशः मयूरवरेण्यः त्वत्कचकलापलक्ष्मीप्रेप्सुरितिभावः। अत एव त्वत्कचकलापलक्ष्म्या हेतुभूतया स्वकलापस्य स्वबर्हस्य च्युर्ति हानि पत्य वचनीय: स्वकनीयस्त्वमविगणय्य महनीय- रमाकचकलापताल्यलिप्सुस्स्वकला पस्यैव हानिमवाप्य लोकैरगर्ह-

Page 384

विषमालङ्गारसरः (४०) 371

णीयस्सन्निति भावः । कपीशतां कीशोत्तमतां अश्नुते स्वाभी- ष्टालाभानिष्टाभ्यागमाभ्यां आकुलमना: कपिवद्तिमात्रचपलो भव- तीति भावः। अन्यत्र कलापीशशब्द: स्वकस्य स्वकीयस्थ लावर्णस्य अपच्युर्ति प्रच्यवनं एत्य वचनीय: वक्तुमर्हश्चेत् कपीश इति निष्पद्यत इत्यर्थः।

यथावा- त्वत्फालरुचा ध्वस्ता विकलाऽच्युत विधुकला कमपि वर्णम्। अप्राप्तागतपूर्वाकारा तत आवि- ला समजनिष्ट॥ १२१४ ॥

हे अच्युत! विधुकला चन्द्रकला त्वत्फालविडम्बनेच्छु- रिति भावः। त्वत्फालरुचा त्वदीयललाटसुषमया ध्वस्ता परा- भूता अत एव विकला अवयववैकल्यं प्राप्ता कमपि यं कंचि- दपि वर्ण रूपं अप्राप्ता नैतावदेव गतपूर्वाकारा ध्वस्तप्राचीन- स्ववर्णा सती ततः आविला अनच्छा समजनिष्ट 'कलुषोऽनच्छ आविलः' इत्यमरः। पक्षे विधुकलेति शब्दव्यक्तिः अर्थगतस्य स्त्रीत्वस्य शब्द आरोप इत्यसकृदवोचाम। ध्वस्ता घु: अस्तः निरस्तः यस्यास्सा तथोक्ता निरस्तधुवर्णा सतीत्यर्थः। विकला विकलेति निष्पन्ना सती कमप क इत्याकारकवर्णमपि अप्राप्ता विगतककारेति यावत्। आगतपूर्वाकारा आगतः अधिगतः पूर्वः सर्ववर्णेभ्यः प्रथम: आकारःआ इति वर्णः यस्यास्सा तथोक्ता सती आविला समजनिष्ट। विधुकलाशब्द्रो धुवर्णलोपे विकलोते निप्पन्नः ततः ककारलोपे आदावाकारप्रात्ी चाविलेति निष्पन्न इति निर्गळितोऽर्थः। अत्रापीष्टावाप्यनिष्टपाप्ती र्पष्टे॥

Page 385

372 अळंकारमणिहारे

यथावा- इक्षुरसोडम्ब त्वद्वाग्रसदूरधुतस्सदासतां बिश्र- त्। कमपि भजन्नन्तेऽभूदिक्षुरको नास मधुप- भोग्योऽपि॥१२१५॥ हे अम्ब! सः स्वादुत्वेन जगद्विदितः इक्षुरसः रसालासव इति यावत्। त्वद्वाग्रसादप्युत्कर्षेप्सुरिति भावः। त्वद्वाप्रसेन दूरधुतः अत एव दासतां किंकरतां बिभ्रद्पि अन्ते अन- 1

न्तरं कमपि भजन् व्रह्माणमुपासीनोऽपि इक्षुरकः क्षुद्रकण्टाक- वृक्षविशेष एवाभूत् नतु त्वद्वाग्रसादुत्कृष्टः। अत एव मधुपानां शीधुपातृणां मधुकराणामिति च। भोग्योऽपि नास नासीत्। आसेति तिङन्तप्रतिरूपकमव्ययम्। 'मधुव्रतो नेक्षुरकं हि वी- क्षते' इत्युक्तेरिति भावः। पक्षे इक्षुरसशब्द: सदा असतां अविद्यमानसकारतां बिभ्रत् ध्वस्ततकार इत्यर्थः । अन्ते अव- साने कं कवर्णमपि भजन् प्राप्तुवन् सन् इक्षुरक इति निष्पत्र इत्यर्थः । अत्रेक्षुरसस्य इष्टानवाप्िरनिष्टप्रतिलम्भश्च स्पष्ट एव ।। यथावा- स्वरतोऽम्ब वल्लकी तव धुता तुलयितुं वचांसि कीरीभावम्। यान्त्येव वल्लरीत्वं याता सुकुमार- तापराभूताऽभृत् ॥ १२१६॥ हे अम्ब! वल्लकी वीणा त्वत्स्वरतुलनेच्छुरिति भावः। तव स्वरतः कण्ठस्वरेण घुता सती तव वचासि तुलयितुं कीरीभावं शुकीभावं यान्तेव गच्छन्त्येव वल्लरीत्वं कुसुममञ्ज- रीत्वं याता। कीरीभावावाप्तयवसर एव वल्लरी बभूवेत्यर्थः।

Page 386

विषमालङ्गारसर: (४०) 373 अथ सुकुमारतया सौकुमार्येण पराभूता अभूत्। पक्षे वल्की- शब्द: कीरीभावं कीवर्णस्य रीवर्णत्वं कीवर्णापनयनेन रीव- र्णन्यसनमित्यर्थः। यान्त्येव सती वल्लरीति निष्पन्नेत्यर्थः। अत्र वल्लक्या ईप्सितालाभ: अनिष्टपरंपरावाप्तिश्च द्रष्टव्या॥

यथावा- नारायण तव कीर्तिभिरैरावत एव भग्नमुख- S .... वर्णः । वलतेत्रपावलीढः पारावततामवाप्य वन- सीम्नि॥ १२१७॥

भग्र: मुखवर्णः वदनतेजः आदिवर्णश्च यस्य स तथोक्तः। अत एव त्रपया लजया अवलढिः। पक्षे अत्र पावलीढः इति च्छेद: अत्र निरस्तमुखवर्णस्थाने पावलीढ: पावर्णेन युक्तः पा- रावततां कपोततां तद्वद्वू म्रवर्णतामिति यावत्। पक्षे पारावत- शब्दतामित्यर्थः। स्पष्टमन्यत् । अत्रापि भगवत्कीर्तिताल्येप्सो- रैरावतस्य इष्टालाभानिष्टप्राप्ती वर्णिते॥ यथावा-

रः। आपद्यासारत्वं श्परिबृद कूपमात्ररूपम- वाप ॥ १२१८॥

हे श्रीपरिवृद ! अकूपार: सिन्धुः त्वद्राम्भीर्येप्सुः अत एव धुतः त्वयेति शेषः। अत एव भ्रष्टः स्वस्य आद्यः प्राथमिकः आकारो रूपं गाम्भीर्यादिकं यस्य स तथोक्त: । भ्रष्टः स्वाद्यः' रुध्य: आकारो यस्येति च। अत एव असारत्वं विबलत्वं नी-

Page 387

374 अलंकारमणिहारे

रसत्वं च आपद्य प्राप्य कूपः प्रमाणमस्य कूपमात्रं तत्तुल्य- प्रमाणमित्यर्थः । तादशं च तत् रूपं अवाप । अगभीर आसी- दिति भावः। पक्षे अकूपारशब्द: भ्रष्टः स्वस्य आद्यः प्राथ- मिकः अकारः अइति वर्णो यस्य स तथोक्त। द्वितीयाकार- व्यावृत्त्यर्थमाद्याकार इत्युक्तम्। असारतां आश्च रश्च आरौ ताश्यां सह वर्तत इति सारःन सार: असारः तस्य भावः तत्ता तां आकाररेफरूपव्यञ्जनविहीनतामित्यर्थः। आपद्य कूपावेव कूपमात्रं तथोक्तं रूपं अवाप। आद्याकारस्य पकारोत्तराकार- रेफव्यञ्जनयोश्चापायेन कूप इति वर्णद्यमात्रावशषितं रूपमल- भतेत्यर्थः । अत्रापि पूर्ववदेव विषममनुसन्धेयम् ।। यथावा- कलभाधीशस्स्वकरे त्वदूरुभेप्सुस्त्वया कृतो विकलः । भाधशिोऽप्यस्तु ततश्रवरणेन नखेन वा समः किं स्यात् ॥ १२१९॥ हे भगवन्! कलभाधीशः गजराजः रवकरे त्वदूर्वोः भां ईप्सु: अत एव त्वया विकल: निस्तेजा: रलयोरभेदात् विकर: शुण्डाविधुर इति वा कृतः । ततः भाधीशः भानां आदन्तोऽयं भाशब्दः भासामित्यर्थः, अधीशः सहसांशुः भानां ताराणां अधीशः चन्द्रमाः अपिवा अरतु। तत इत्यावर्त्यते। ततः एवं भणनादपि चरणेन तवाद्िणा नखेन वा समः स्यात् किम्। भानुत्वेऽ्यारुण्य/च्चरणतुल्यः इन्दुत्वेऽपि विशदिमादिना नखतुल्यो वा न स्यादिति भावः । अन्यत्र कलभाधीशशब्दः ककारलकारविधुरितः भाधीश इति निष्पद्यत इत्यर्थ: । पूर्वव द्विषमम् ॥

Page 388

विषमालक्रसरः (४०) 375

यथावा- त्वद्वचनरसधुतत्वा्व्यपयातायाऽव सत्तिमत्स्वा- न्ता। सा मृद्दीका स्वामिनि कामं स्थान्मृत्तिकैव को विशयः ॥ १२२० ॥

हे स्वामिनि! या मृद्धीका द्राक्षा 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । त्वद्वचनरसलिप्सुरितति भावः । त्वद्वचनरसेन 'धुत- त्वात् व्यपयाता दूर क्वापि गता सती अवसत्ति: अवसाद: सोऽस्यास्तीति अवसत्तिमत् स्वान्तं हृदयं यस्यास्तथाभूता आभूदिति शेष: दीनमानसाऽभूदित्यर्थः । सा मृद्धीका काम मृ.त्तिकैव स्यात् मृदाकारतामेवापद्येत। तद्वन्नीरसा संपद्येतेति भावः। पक्षे धुतत्वाद्वंधपयातेत्यत्र धुतत्वात् द्वयपयातति च्छेदः। धुतत्वात् व्यपयातेति प्राथमिकच्छेदपक्षे दकारस्य 'अनचि च' इति द्वित्वं, याऽवसत्तिमत्स्वान्तत्यत्र या अवसत् त्तिमत्स्वान्तेति च्छेदः । या मृद्वीकेति शब्दव्यक्ति: द्वयपयाता द्ी इत्याकारक- वर्णादपगता। द्वी इत्याकारकवर्णः अपयातो यस्या इति वा। उत्सारितद्वीवर्णेत्यर्थः । त्तिः द्वित्वघटितस्तिकार: सोऽस्या- स्तीति तिमान् स्वान्तः स्व्रानतरं यस्यास्सा तथोक्ता सती अवसत् अवात्सीत्। अस्मिन् पक्षे अवसत्तिमदित्यत्र तकारत्रये 'झरो झरि सवर्णे' इति द्वितीयतकारस्य लोपे अर्थद्वयेऽपि द्वितकारत्वं द्रष्टव्यम्। 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽ- ग्रेऽन्तिकेऽन्तरे' इति रत्नमाला। मृत्तिकैव स्यात् उक्तरात्या मृत्तिकोत निष्पद्येतेत्यर्थः । अत्र मृद्वीकाया न परं श्रीवचनर- सालाभः अपितु मृत्तिकात्वरूपोत्कटानिष्टप्राप्तिः।

Page 389

376 अलंकार मणहारे

यथावा- दिवमेत्य अाचीपतिरिति नहुषोऽभिखयततिलि- प्स एवाथ। शप्तोऽभिख्याहीनः पाराङ्मुख्या- च्छियस्तिलिप्सोऽभूत् ॥ १२२१ ॥

नहुष: प्रसिद्ध: दिवं स्वर्ग एत्य ऐन्द्रं पदमासाद्येति यावत्। शचीपतिरिति अभिख्याती लिप्सा यस्य स तथाभूतस्सन्नेव । अथ ईदृशसंकल्पानुपदमेन श्रियः लक्ष्मयाः पाराङ्मुख्यात् शप्तः मुनिनेति शेष: । अभिख्याहीन: तेजोविधुरः तिलिप्सः अजगरः अभृत्। यद्यपि 'अथ गोनसे। तिलिप्सस्स्यात्' इत्यनुशासनात् गोनसाख्यमहाहिविशेषवाच्येव तिलिप्सशब्दः, न त्वजगरवाची 'अजगरे शयुर्वाहस इत्युभौ' इत्यनुशासनात्। तथाऽपि तयो-

विसमयासेद्ध इति ध्येयम् । तिलिप्सशब्दं तिलित्स इति केचि- त्पठन्ति। अस्माभिस्तु तिलिप्स इति प्रचुरपाठमनुसृत्यायं वि- च्छित्तिविशेषः प्रदर्शितः। 'तिल गतौ' तेलतीति तिलिः 'इक्क- व्यादिश्यः' इति इक् जङ्गमं वस्तु। तं प्साति भक्षयतीति तिलिप्सः । 'प्सा भक्षणे' आदादिकादस्मात् 'आतोऽनुपसर्गे' इति कः। यद्ा 'तिल स्नेहने' तुदादि: तिलनं तिलिः, तेन प्सातीति तथोक्तः। यथाकथंचिदर्थप्रदर्शनममिदम्।नात्रावयवार्थे विशेषतोऽभिनिवेष्टव्यं रूढशब्दत्वादस्य। अत्र नद्डुषस्य शची- पतित्व ख्यातिला मलक्षणेष्टानवाप्तिपूर्व काजगरत्वरूपाद्यनिष्टला ्भो - निबद्ध:। पक्षे अभिख्यातिलिप्सशब्दः अभिख्येति वर्णपड्क्ते- विरहे तिलिप्स इत्यवशिष्यत इत्यर्थः ॥

Page 390

विषमालक्कारसर: (४०) .377

यथावा- ननु मेचकीबुभू पुस्तव बहुधामापहरणतः कोड- पि खगः । पापस्सन्पेचकतामाप गतः कृष्ण हन्त विशदांशुकताम्॥ १२२२॥ ननु हे कृष्ण! इदं वक्ष्यमाणार्थोपस्कारकम्। विशदा स्फुटां शुकतां कीरत्वं गतः प्राप्तः कोऽपि खगः शुक इत्यर्थः । बहु यथास्यात्तथा मेचकीवुभूषुः स्वकीयहरितवर्णस्य नातीव- मेचकत्वादतिश्यामलीभवितुमिच्छुरित्यभिप्रायः। यद्ा विशदाः अंशवो यस्य स तथोक्त:, कप, पाण्डुरवर्ण इत्यर्थः । तत्तां गतः प्राप्तः कोपि खगः हंस इति भावः । मेचकीबुभूषुः असिती- भवितुमिच्छुः । अभूततद्भ्ाव च्वः। पक्षे मेचकाः चन्द्रका अत्य सन्तीति मेचकी मयूर: बुभूषुः 'मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तयुक्ते वाच्यवत् कीबं स्रोतोऽअ्जनान्धकारयोः' इति मेदिनी। 'मेचकश्चन्द्रके व्वान्ते नीले ना तद्रति त्रिषु' इति रत्नमाला च। तव धाम्: त्विषः नीलिम्न इत्यर्थः। अप- हरणतः अपहाराद्वेतोः पापः पातकी सन् 'अथ त्रिषु द्रव्ये पापपुण्यसुखादि च, इत्यमरः। पेचकतां उलूकतां आप हन्तेति विषादे। वस्तुतस्तु कोपि खगशब्दः बहुधा मेचकीबुभूषुः मे- चकशब्दो भवितुमिच्छुः, मः म् इति हल्मात्रस्य आपहरणतः ईष- दपहारात् पं प् इति व्यख्ञनं आप्नोतीति पापः तथाभूतस्सन् पेचकतां पेचकशब्दृतामाप मेचकशब्दो वुभूषुरुक्तरीत्या पेचक- शब्दोऽभूदित्यर्थः । अत्र शुकस्य हंसस्य वा मयूरतां प्राप्सोर्न केवलं तदलाभः अपितु पेचकत्वरूपोत्कटानिष्टप्रतिलम्भः । अय

निर्व्यूढः॥ ALANKARA II 48

Page 391

378 अलंकारमणिद्वारे

पषूदाहरणेषु प्रायेणोपमामूलकत्वं अप्रस्तुतप्रशंसागर्भत्वं श्षेषोत्तम्भितत्वं च द्रष्टव्यम्। एवमिष्टानवाप्तयनिष्टप्राप्तचुभयक- ता उत्पत्तिलक्षणसंसर्गस्याननुरूपता सामान्यतो दर्शिता। पूर्वो- क्तचतुर्विधमेदाया इष्टानवासे: पूर्वोक्तत्रिविधभदेनानिष्टेन संसष्टौ इयमेव द्वादशविधा भवति। तत्र स्वस्य सुखसाधनवस्त्वनवाप्ति- · दुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहतः ॥ स्वस्य दुःख-

तरळत्वं विजिहासुर्दुमणिस्तव हारमध्यरत्न- त्वम्। प्राप्यापि न तदहासीत्परंतु तत्रास बत वृषाद्रिमणे ॥१२२३॥ द्ुमणिः तरणि: स्वर्लोकरत्मित्यपि गम्यते। तरळत्वं स्व- स्य चापल्यं षिद्धत्वं वा भास्वरत्वमिति तुवस्तुस्थितिः । 'त- रळं चश्चले षिद्रे भास्वरेऽपि त्रिलिङ्गकम्' इति मेदिनी । वि जिहासुः तव हारमध्यरत्नत्वं प्राप्यापि तत् तरळत्वं नाहासी- त् नात्याक्षीत्। पुनरपि तरळत्वेमवापद्यतेत्यर्थः। हारमव्यग- त्वात्तरळसंज्ञो बभूवेति वस्तुस्थितिः । परंतु तत्रास त्रासाख्यं मणिदोषमवाप्सीत् बिभायेति वा अर्थः। 'तासो भीमणिदोषयोः' इति विश्वः। पक्षे तत्र आस इति च्छेदः। तत्र हारमध्ये। आस दिदीपे इत्यर्थः। 'अस दीप्ौ' लिट्। अत्र ुमणेस्तरलत्वरूपदुःख-

िश्च निबद्धा। इदमेवानर्थपरिहारार्थ रूपेष्टार्थसमुद्यमात्तदनवा- पिरनिष्टान्तरप्राप्तिश्चेति व्यवहियतेऽन्यत्र ॥ श्रेषभित्तिकाभेदाध्य- वसायोत्तम्भितामदम्।।

Page 392

विषमालक्कारसरः (४०) 379

हिंसितुमना भवन्तं कंसरिपो स्तन्यदानतः काचित्। हिंसामाप नृशंसा पुंसामवतंस बहु- तरां सैव ।। १२२४।। अत्र सैवेत्यनेन भगवदनिष्टप्रापणाभावो दर्शितः । यथावा- राघव तव प्रतापप्रदीपनिर्वापणाय कृतयतना:। निशिचरबलपतिशलभास्सुलभं निर्वापणं स्वय- मविन्दन् ॥१२२५॥ निर्वापणाय शमनाय। निर्वापणं शमनं निधनं च। 'नि- र्वोपणं संज्ञपनम्' इत्यमरः । अत्र निशिचरबलपतिशलभानां रघु- वरप्रतापप्रदीपनिर्वापणरूपेष्टार्थसमुद्योगात्तदनवाप्तः प्रत्युत स्वेषा- मेव तदनिष्टपाप्तिः। रूपकसंकीर्णमिदम्।। यथावा- बन्हुं जगतां बन्धुं नन्दवधूस्त्वां गुणैः प्रयस्य- न्ती। सन्दानिता गुणैस्ते नन्दात्मज सैव मन्द- विस्पन्दा ॥ १२२६॥ त्वां गुणैः रज्जुभि: बन्जुं नद्धुं 'बन्ध बन्धने' अस्मा- तुमुनू। नकारदकारधकारसंयोगः । ते तव गुणैः रज्जुभिः सौ- शील्यादिकल्याणगुणश्च। अत्र यशोदाया न केवलं स्वनन्दन- बन्धनप्रापणरूपेष्टानवापतिः। अपितु तद्गणैरात्मन एवं बन्धनरूपा- निष्टप्रतिलम्भः। अस्य बन्धस्यानिष्टत्वं च गुणश्दोपात्तार्थद-

Page 393

380 अलंकार मणिहार

यथावा- त्वद्रूपमभिवुभूषुं विभग्नवदनं विधाय जीमूत- म्। वेधा: कोधान्मुमुवे भग्नमुखोऽयं भवत्यतो मूतः ॥१२२७॥ वेधाः ब्रह्मा तव रूपं स्निनग्धश्यामलिमानं अभिभूषुं अभि- भवितुमिच्छुं। अभिभवः दु.खसाधनानुकूलव्यापार। जीमूतं क्रोधात् विभग्रवदनं विधाय मुखे गाढं प्रहृत्येति भावः। लोकोक्तिरियम्। मुमुवे बबन्ध। 'मूङ् बन्धने' लिट्। अत एव अयं जीमूतः भग्नमुखः पराहततया परेषां वदनं दर्शयितुम- नीश इति यावत्। मूतः बद्ध एव भवति। मूङ्धातोरेव क- रमणि क्ः। 'बद्धे संदानितं मूतम्' इत्यमरः । जीमूतशब्दो लुप्तमुख्यर्जावर्णः मूत इति भवतीति वस्तुस्थितिः। अत्र भग-

मूतस्य तदलाभ:, किंतु मुखभङ्गादिरूपदुससाधनावाततिश्च निबद्धेति लक्षणसंगतिः॥

यथावा- श्रीकुचजयसन्नद्वस्तदभिविलूनाग्रयगुणक एव ततः । कमपि भजन्नाकारं कोक: काको भवन्नरि- षोडभूत् ॥ १२२८॥ कोक: चक्रवाक: 'कुक आदाने' इत्यस्मादचि लघूपधल- क्षणो गुणः । श्रीकुचयोः जये अभिभवे । आभेभवो न्यूनी- करणं परसमवेतदुःखानुकूलव्यापारः । तस्मिन् सन्नद्ध: सजः। अत एव ताश्यां अभिविलूनः सर्वात्मना छिन्नः अग्रयः श्रेष्ठः

Page 394

विषमालक्वारसर: (४०) . 381

गुणः रम्यत्वादि: पराक्रमादिश्च यस्य स तथोक्तः । 'शेषा- द्विभाषा' इति कप। कृत्तपरार्थ्यमार्वीक इत्यपि गम्यते। एव- कारेण निरस्तस्य गुणस्य पुनर्दौर्ल्यं द्योतितम्। अत एव ततः कमपि अतिशोचनीयं आकार आकृति भजन् काको भवन् वायसो भवन् अरिष्टः अरिष्ट अशुभं मृत्युचिह्नं वा अस्यास्ती- त्यरिष्टः अर्श आदित्वादच्। अरिष्टशब्दवाच्योऽभूदिति तुत- त्वम् । 'अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे। मृत्युचिह्ने च ना त्वेष काके फेनिलनिम्बयो:' इति रत्नमाला। पक्षे कोकः कोकशब्द: अग्रयः अग्रे स्वान्तरं भवः गुणः गुणसंज्ञिक ओ- कार: यस्य स तथोक्तः अग्रयगुणः कः कवर्णः सः विलूनो यस्येति बहुव्रीहिगर्भो बहुव्रीहिः। निरस्तकोवर्ण एवेति भावः। ततः कं कवर्ण। आकारमपीति योजना आवर्ण च भजन् कोकारस्थाने कावर्ण प्रतिपद्यमान इत्यर्थः । अत एव काको- भवन् काक इति निष्पद्यमानस्सन् अरिष्टः वायसवाचक इति यावत्। अभूत। वाच्यावचकयोस्तादात्म्यं न विस्मर्तव्यम्। अत्र

न तदलाभमात्र प्रत्युत काकतावाप्तिपर्यन्तानिष्टप्ाप्तिरित्युभयं द- र्शिंतम् यथावा- त्वन्मुखतिलकं जेतुं चान्द्रमसो मदबलाद्यदि कलङ्गः। उद्वल्गेत्तद्विजितः कङे भविता मदम्बलं चोज्झन् ॥ १२२१ ॥ हे श्रीरिति सामर्थ्याल्लभ्यते। चान्द्रमसः कलङ्कः मदश्च बलं च मदबलं समाहारद्वंद्वैकवचनम्। श्यामलिमातिशयगर्वात्

Page 395

382 अलंकारमणिहारे

आश्रयबलाञ्च त्वन्मुखतिलकं जेतुं अभिभवितुं उद्धल्ेत् उत्पते- दयदि तेन तिलकेन विजितः मदं गर्व बलं शार्क्ति च उज्झन् कङ्को भविता गृध्रविशेषतुल्यो भविता। गृध्रो ह्यामिषगृध्नुस्त हैलिश्यसौलभ्ये अविमृश्य सहसाऽभिपत्य यथा बलीयोभिर्वि- हायोभिरिहतो दूर धावेत्तथाऽयमपि कलङ्क इति भावः । पक्षे मदम्ब लंच इति च्छेद: । हे मदम्ब मन्मातः! कलङ्ग: कल- ङशब्दः लं लकारं, चकारो भिन्नक्रमः कङ्क इत्यनेन संबध्यते। उज्झन् कङ्क्श्च भविता कक इति च निष्पत्स्यत इत्यर्थः । यद्ा चस्त्वर्थ: उज्झंश्चति संबध्यते। लं त्यजस्तु कङ्कइति भवि- तेत्यर्थः। अन्रापि कलङ्कस्य श्रीवदनतिलकाभिभवरूपेष्टार्थोद्योगा- त्तदनवाप्ति: कङ्कत्वरूपोत्कटानिष्टप्राप्तिश्च श्वेषमूलातिशयोपजी- विता वक्ष्यमाणसंभावनरूपेण निबद्धा। यथावा- नाथ मसारस्तव रुचिजयमीप्सुरुपेत्य सप्रथ- मभङ्गम्। लब्ध्वादपि विभवमग्रे विसारतां प्राप्त- वान् जितोऽक्षिम्याम् ॥ १२३०॥ हे नाथ सः प्रसिद्धः मसारः इन्द्रनील 'मसार इन्द्र- नीले स्यात्' इति 'मसारगल्वर्कमुखः' इत्यत्र भूषणे कोश उदाहतः। तव रुचे: जयं अभिभवं ईप्सुस्सन् प्रथमभङ्गं आदा- वेव पराभवम्। पक्षे मसारशब्दः, सप्रथमभङ्गमित्यत्र सप्रथ म- भङ्गमिति च्छेदः। हे सप्रथेतति संबुद्धचन्तं नाथेत्यस्य विशे- षणम्। प्रथया प्रख्यात्या सह वर्तत इति सप्रथः तस्य संबुद्धि:। मभङ्गं मकारलोपं उपेत्य अग्रे अनन्तरं आदिभागे च विभवं प्राभवं जयसाधनभूतमिति भावः। पक्षे वि इति वर्णस्य भवं

Page 396

विषमालङ्कारसर: (४०) 383

सत्तां लब्ध्वाऽपि। अपिना तद्विभवस्याकिचित्करता द्योत्यते। पक्षे अपिस्समुच्चये। न केवलं मकारलोपं किंतु तत्रैव विका- रस्थिति च प्राप्येत्यर्थः । विसारतां मीनतां 'विसारशशकुली च' इत्यमरः । निस्सारतां दौर्बल्यमिति च गम्यते। पक्षे विसार इति निष्पन्न इत्यर्थः । अक्षिश्यां तव नयनाभ्यां जितः। अत्रापि पूर्ववदेवोभयम् ॥

यथावा- दानेन त्वद्विजये धुरि शबलाशोज्झिता करथं- चिदथ। प्राप्ताऽपि कान्तिमत्वं नाथ बलाकैव भव- तिन तु जेत्री ॥ १२३१॥ हे नाथ! शबला कामगवी दानेन औदार्वेण करणेन त्वद्विजये त्वत्कर्मकाभिभवे विषये घुरि आदाचेव आशोज्झिता त्यक्तप्रत्याशेत्यर्थः। अथ कथचित् कान्तिमत्वं कान्तिरिच्छा तद्वत्तां जयविषयकस्पृहामित्यर्थः। 'कान्तिश्शाभेच्छयोः स्त्रियाम्' इति- मेदिनी। द्ुतिमत्तामित्यपि गम्यते। प्राप्ताऽपि बलाकैव बिसक- ण्ठिकैव भवति। न तु तव जेत्री तद्वत्काप्युड्डीयते न तु त्वामभिभवितुमीष्ट इत्यर्थः । पक्षे शबला शबलेति शब्दव्यक्ति: धुरि प्रथमभागे शोज्झिता शकारेण त्यक्ता अथ कान्तिमत्वं का इति वर्णः अन्तिमो यस्य तत् कान्तिमं तस्य भावं तकारस्य 'अनचि च' इति द्वित्वम् । 'शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम्। प्राप्ताऽपि अन्ते कावर्णघटिता सती बला- कैव भवति। न तु जंत्रीशब्द इत्यर्थः । अत्रापि पूर्ववदेव सर्वम्।

Page 397

384 अलंकारमाणिहरि

भगवन्बलभद्र त्वद्वसनश्रीविजयलिव्सुरथ म- यथावा-

ध्ये। व्यत्यस्तहलाकर्षणरभसेन बलाहको बको- वृत्तः ॥१२३२॥। हे भगवन् बलभद्र! नीलांम्बरत्वद्योतनायेदम्। बलाहक: वारिवाहक: नैल्यातिशयद्योतनायेदम् । त्वद्वसनश्रियः विजयं अभिभवं लिप्सुः अथ मध्ये अस्मिन्नवसर एव पर्यस्तं परितः क्षिप्तं यत् हलं लाङगलं तदाकर्षणरभसेन त्वत्कर्तृकेणेति भावः। बकः वृत्तः परानिष्टप्रापणालाभस्वानिष्टप्राप्तिमूलकमनःखदवशा- तस्वकीयनैसर्गिकश्यामलिमविधुरो बकवत्पाण्डुर पवाभूत् न तु त्वद्वसनश्रीविजयेन कमनीयश्यामलिमोत्कर्षमिति भावः। बक- वद्धयानपरोऽभवदिति वा। पक्षे बलाहकशब्दः मध्ये स्वान्त- राळे पर्यस्तौ व्यत्यस्तौ यौ ह ला इति वर्णो तयो: कर्षणर- भसेन उत्सारणेन, पर्यस्तं यथास्यात्तथा हला इति वर्णयोराक- र्षणरभसनेति वा। आदौ चरमहवर्णस्य अनन्तरं प्राथमिकलाव- णस्योत्सारणेनेत्यर्थः । बको वृत्तः बक इति निष्न्न इत्यर्थः॥

त्वन्नयनयुगजिगीषाकृतुकादभ्येत्य जननि त- यथावा --

दपास्तः । हरिण इहक्षतिमुपयन्नगादिरिणतां ख- गाद्रिपतिमहिळे ॥१२३३॥ हरिण: कुरङ्ग: हरिणशब्दश्च। इह लोके क्षति हानिम्। पक्षे इना इकारेण हक्षति हकारस्य भ्रंशं संबन्धसामान्यषष्ठयास्स- मासः । उपयन् हकारस्थाने इकारं प्राप्तवान् सन् इरिणतां शून्यतां स्वरूपहानिमित्यर्थः । पक्षे इरिणशब्दतां अगातू। 'अथ

Page 398

विषमालश्कारसर: (४०) 385

त्रिषु विषाणं स्यात' इत्युपक्रम्य 'इरिणं शून्यमूषरम्' इति णान्तनानार्थेष्वमरः । 'इरिणं तूषरे शून्ये' इति मेदिनी च॥ अत्र हरिणस्य परानिष्टप्रापणरूपेष्टानवाप्तयनिष्टप्राप्ती। यथावा- त्वां सर्वगन्धमच्युत सौरभतश्रन्दनो यदि जि- गीषुः । चक्रभिदां गन्तैव कन्दन एवाथ भवति मन्येऽहम् ॥ १२३४॥ सर्वगन्धं 'सर्वकर्मा सर्वकामस्सर्वगन्धः' इति श्रुतं 'अश- ब्दमस्पर्शम्' इत्यादिना प्राकृतगन्धादिनिषेधात् अप्राकृतास्स्वा- साधारणा: नित्यनिरवद्याः निरतिशयास्स्वभोग्यभूताः कल्या- णास्सर्वे गुणा अस्य सन्तीत्यर्थः। ईदशं त्वां चन्दनः प्राक्त- तपरिमितगन्धाश्रय इति भावः। सौरभतः जिगीषुर्यदि चक्रेण सुदर्शनेन भिदां भेदनं 'साधनं कृता' इति समासः। चका- रस्य क्ररेतिवर्णेन भिदां निरसनं च गन्तैव। अथ ईदृगवस्था- वाप्तयनन्तरं कन्दन एव रोदितैव, पक्षे क्रन्दनशब्द एव भवतीति मन्ये।। अत्र चन्दनस्येष्टालाभानिष्टलाभौ संभावनया निबद्धी।

यथावा- त्वत्कररुचिविजयाङ्गुवि सत्कृतिमीप्स्वभिस- माहतं ताभ्याम्। अग्रे बहुहान्युदितावर्णमथा- ब्जं जनन्यभून्न्युब्जम् ॥ १२३५॥ हे जननि ! अब्जं अग्रे आदौ बह्वी हानिर्यस्य तद्वहुददानि। उदितः अवर्ण पराभूतमित्यपवादो यस्य तत् उदितावर्ण 'अव- ALANKARA II 49

Page 399

386 अलंकारमणिहारे रणाक्षेपनिर्वादपरिवादापवादवत्' इत्यमरः। बहुहान्या उदिता- वर्णमिति वा। पक्षे बहु हा इति च्छेद:। अग्रे मुखभागे बहु यथा तथा न्युदितं न्युना न्यु इति वर्णसमुदायेन दितं छिन्नं निरस्तमिति यावत्। तादृशं अवर्ण अकारो यस्य तत् न्यु- दितावर्ण 'दितं छितं वृक्णम्' इत्यमरः । न्युब्जं रुजाभअं अभूत्। 'भुजन्युब्जौ पाण्युपतापयो' इति निपातनात्साधुः। 'न्युब्जो रुजाभुगे' इत्यमरः । अब्जपदं न्युब्जमिति निष्पन्न- मिति वस्तुस्थितिः। हा इति खेदे। शिषट स्पष्टम् ॥ यथावा- त्वच्चकमंशुमाली चिच्छादयिषुस्स्वरोचिषाऽ-, म्येत्य। कलितो निरंशुकस्तन्महसा माली भवन् हतस्तेन ॥ १२३६ ॥ तन्महसा चक्रतेजसा। निरंशुक: अपहृतवसनः निर्गाळ- तकिरण इति च। पक्षे अंशुशब्दविघटितश्च कलितः माली तन्नामा महादैत्य: भवन्, अंशुमालिशब्दः अंशुशब्दविघटिततया मालीत्यवाशष्ट इत्यर्थः । स्पष्टमन्यत्॥ यथावा- मालूरफलं श्रीकुचजयफलमभिलष्य तद्नु- लूनमरम्। माफलमित्यभिधावद्वाच्यं लिपितस्त- थाऽनुशिष्टमभूत् ॥ १२३७ ॥ माळूरस्य बिल्वस्य फलं श्रीकुचजयरूपं फलं प्रयोजनं अभिलष्य अपेक्ष्य अर द्रुतं तदनुलूनं ताभ्यां कुचाभ्यां अ-

Page 400

विषमालङ्कारसर: (४०) 387

नुलूंन अनन्तरमेव चिछन्नं न तु चिलम्बेन, पराजितमिति यावत्। माफलमिति मा भूत्स्वोहिष्प्रयोजनं 'जीवन्भद्राणिपश्यति' इत्युक्तनयेन कथमपि जीवेयमिति स्वाभिलषितसाधनानीश्वर- तया नैराश्यं दधानमति भावः। अभिधावत् प्रतिपक्षभिया अभितः पलायमानम। अंभिपूर्वकाद्धावतेर्लेटइशता। तथा लिपितः ताडशकर्मफलसूचकवरैधसललाटरेखावशात् अनुशिषं प्राणमा- त्रावशेषं सत् वाच्यं निर्वीर्यमिदमिि कुत्सनीयं 'वाच्यं तु कुत्सिते हीने वचनीये च वाध्यवत्' इति मेदिनी, अभूत्। पक्षे मालूरफलमितिपदं, शब्दार्थयोस्तादात्म्यम्, तदनु लक्ष्मी- कुचजयफलाभिलाषानन्तरं लूनं लूवर्णेन न्यूनं अरं अविद्यमा- नरफं च सत् लिपितः स्वघटकाक्षरः माफलमिति सुशिषं सम्यगवशिष्टं अभिधावत् अभिधा साक्षात्संकेतविषयज्ञानहेतु- भूतश्शब्दनिष्ठो मुख्यो व्यापार: 'व्यापारशशक्यधीहेतुर्मुख्य- इशब्दगतोऽभिधा' इति लक्षणांत्, साऽस्यास्तीति तथोक्तं सत्, मतुप। वाच्यं वक्तव्यं अभूत्। श्रीफलरूपार्थविषयकश- क्तिमत्तया व्यवहार्यमासीदिति भावः। यद्वा मालूरफलरूपार्थ एव लिपितः स्ववाचकशब्दस्थवर्णेः तथा उक्तरीत्या लूरवर्ण- त्यागेन सुशिष्टं सम्यगवशिष्टं सत्, माफलमिति अभिधा ना- मधेयं साऽस्यास्तीत्यभिधावन्, स्ववाचकमाफलरूपशब्दच- त्सत् वाच्यं वत्तुं योग्यं अभूत्, स्वाभिधेयार्थमजहदेव व्यव. हारार्हमासीदित्यर्थः। माफलं श्रीफलम्। बिल्वस्य माफलत्वं च 'वनस्पतिस्तव वृक्षोऽथ विल्वः' इाते श्रुतेः। 'बिल्वो लक्ष्म्याः करेऽभवत्' इति विद्यारण्यभाष्यधृतवामनपुराणात् 'तनुम- ध्या स्वहस्तोत्थं विल्वं तरुमुपाश्रिता' इति पृथ्वीधरभाष्यधृ- तभार्गवतन्त्रवचनाच्चेति ध्येयम्। फलति निष्पद्यत इति फलः

Page 401

388 अलंकारमणिहारे

पचाद्यच्। माया: फलः माफलः लक्ष्मीकरनिष्पन्नत्वात्माफल- शब्दो बिल्ववाची। तस्य विकार: फलं माफलम्। यद्वा माप्र- दानि श्रीप्रदानि फलानि यस्य स इति माफल: शाकपार्थिव इतिवन्मध्यमपदलोपि समासः। 'तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः' इत्यलक्ष्म्यपनोदकत्वश्रवणाच्छी- प्रदफल इत्यर्थः । ततः फलार्थे वैकारिकाणो लुक। माफलश- ब्दस्य 'बिल्वे शाण्डिल्यशैलूषी माळूरश्रीफलवपि, इति कोश" घटकश्रफिलशब्दवद्विल्वाभिधायित्व लक्ष्मीपत्यािशब्दानां 'श्री- पतिः पुरुषोत्तमः' इत्यादिकोशघटकश्रीपत्यादिशब्दानां पुरुषोत्त- माभिधायकत्वमिवेति ध्येयम्। अत्र मालूरफलस्य परानर्थप्रा- पणरूपेष्टानवाप्तचनिष्टप्राप्ती निबद्धे।।

यथावा- मालूरं हरिमहिळे संनद्ं तव कुचाभिभवने ता- म्याम्। एकादिमाभिघाताच्छातं श्रितनीरकं च शालूकमभूत् ॥ १२३८॥ हे हरिमहिळे! मालूरस्य विकार: फलं मालूरम। वैका- रिकाणो लुक्, क्कीबमिति भावः। तव कुचयोः अभिभवने न्यूनीकरणे सन्नद्धं अत एव ताभ्यां तव कुचाश्यां द्वाभ्यां पुम्भ्यामिति भावः । एकस्मात् आदिमात् आद्यात् अभिधा तात् प्रहारादेव छातं छिन्नं 'छो छेदने' अस्मात्कर्मणि क्ः । 'आदेचः' इत्यात्वम्। 'छिन्नं छातम्' इत्यमरः। शातमिति वा च्छेदः। शातं तनूकृतं कर्शितमित्यर्थः । 'शो तनूकरणे' अ- स्मात् कः, आत्वं च प्राग्वत्। अत एव श्रितनीरकं श्रितं

Page 402

विषमालड्कारसर: (४०) 389

नीरं येन तत्तथोक्तं च सत्। बहुव्रीहौ 'शेषाद्विभाषा' इति कप्। पुनः प्रहारभिया जले निमग्नमिति भावः। शलूकं 'सौ- गन्धिकं तु कह्ारम्' इत्युपक्रम्य 'शालूकमेषां कन्दस्स्यात्,' इत्यमरः। शल्यते शलति वा 'शल चलनसंवरणयोः' 'शलि- मण्डिभ्यामूकण्' इति ऊकणूप्रत्ययः। इदं च सुधायां स्पष्टम्। पक्षे मालूरमिति पदं एकस्य आदेः प्राथमिकस्य माकारस्य अभिघातात् ध्वंसनं प्राप्य शातं शां शाकारं अतति सततं गच्छतीति तथोकतं 'अत सातत्यगमने' कर्मण्यण्। श्रितनीरकं निर्गमितो रः रेफ: येन सः नीरः, नीर: कः ककारः श्रितो येन तत्तथोक्तं च सत्, माकारस्थाने शाकारं रेफस्थाने ककार च प्राप्तं शालूकमिति निष्पन्नमित्यर्थः । अत्र मालूरस्यश्रीकुचाभिभ- वनरूपेष्टानवाप्ति: अभिघातादिना शालूकत्वरूपानिष्टावापतिश्च।।

यथावा -- गतिगर्वादभियंस्त्वां मुखवात्याधूत उपरिगत एवाग्रे ! वारण उरणस्समजनि न पुरस्कुरुते रणं तदद्याप्येषः ।। १२३१।।

हे भगवन्! वारण: गतिगर्वात् गमनगाम्भीर्यप्रयुक्तादहं- कारात् अभियन् अभियोगार्थमभिमुखं गच्छन् सन् मुखवा- त्याधूतः । अस्य तवेत्यादिः । तव मुखवात्यया मुखनिश्वासफू- त्कारभूम्नैव धूतः। वातानां समूहो वात्या 'पाशादिभ्यो यः' इति सामूहिको यप्रत्ययः। 'तल् बृन्दे येनिकड्यच्त्राः' इत्य- नुशासनात् स्त्रीत्वम् । अनेन स्त्रीपराजितत्वं द्योत्यते। अत एव अग्रे अनन्तरं उपरेगत एव क्वापि गगने उट्टङ्गितस्सन्नि-

Page 403

390 अलंकारमणिहरि

त्यर्थः। उरण: मेषः अजनि। मेषजन्माभजदित्यर्थः। तद्वन्निर्वी- र्योऽभवदिति वा। गगने मेषराशितां गत इत्यापि गम्यते। अत एव एषः वारण: उरणो वा अद्यापि रण युद्ध न पुर- स्कुरूते नाद्रियते पराभवसयादिति भावः। पक्षे वारण इति शब्द: मुखभूतो यो वाकर: तस्मिन् अत्याधूतः निरस्तवाकार इत्यर्थः। अंग्रे आदौ अनन्तरं वा उपररिगतः उवर्णयुक्त: उरण इति निष्पन्नः रणं रेफणकाररूपवर्णसमुदयं अद्यापि न पुर- स्कुरुते पश्चादेव बिभर्तति। वारणोरणशब्दयोरादौ रणवर्णादर्श नात्पाश्चादेव तद्दर्शनाच्चति भावः। अत्र वारणस्य भगवद्गतिन्यूनी-

यधावा- अभिभवितुं तव वदनं कुतुकादेत्यान्तरालक- निरस्तः। स निशाकरो निशारो भवन्हिमानि- लनिवारणं विदधे ॥ १२४०॥ हे अम्ब! सः जगदाह्लाददायितया प्रसिद्धः निशाकर: तव वदनं अभिभवितुं कुतुकादेत्य अन्तरा मध्ये अलकैः चूर्ण- कुन्तलैरेव निरस्तः। ईदशस्य साक्षात्प्रतिपक्षत्वद्वदनाभिभवो दवीयानिति भावः। पक्षे निशाकरशब्दः अन्तराळे स्वघट- कवर्णमध्ये कनिरस्तः निरस्तककारस्सन्नित्यर्थः। निशारी भवन् हिमानिलनिवारणप्रावरणरूपो भवन् 'निशारस्स्यात्प्रा- वरणे हिमनिलनिवारणे' इत्यमरः। पक्षे निशारशब्दो भवन्नि- त्यर्थः। हिमानिलनिवारणं तव वा अन्यस्य वा किंकरीभूयेति भावः। विद्धे। अत्र निशाकरस्य श्रीवदनाभिभवानवाप्तिनि- शारत्व रूपानिष्टावातिश्च ।।

Page 404

विषमालङ्वारसर: (४०) .391

यथावा- तावककीर्तिविजित्यै संमुखमुपयन्नथान्तरा भ- गवन। शासनतश्च्युतवर्णस्सशङ्क एवाभवत्खलु शशाङ्ग: ॥१२४१॥ हे भगवन् ! शशाङ्क: तावककोर्तेः विजित्यै विजयं कर्तु कुतुकात् संमुख अभिमुखं उपयन्। पक्षे मुखं सर्ववर्णेभ्योप्या- दिमं सं सकारं प्राप्तुवन् सन्, अथ अविलम्बनैव अन्तरा आस्म- न्नेवावसर इत्यर्थः । पक्षे मध्यभागे। शासनतः तदतिक्रमानुरू- पात्वत्कृताच्छिक्षणात्। पक्षे शा इति वर्णस्य असनतः निरस- नात्। च्युतवर्णः गळिततेजा: निरस्ताक्षरश्च सन् सशङ्क एव सव्यध एव अभवत्। पक्षे शशाङ्गशब्द: आदौ सकारन्यसनेन मध्ये शावर्णभ्रंशनेन च सशङ्क इति निष्पन्न इत्यर्थः ॥ यथावा-

र्गमयन्। दूनो भूत्वा भगवन्निन्दुः केवलमिना- श्रितः प्राणीत् ॥ १२४२॥ हे भगवन्! इन्दुः त्वन्नखजिगीषुः अत एव तैः नखैः तलातलि तलैस्तलैः प्रहत्येदं प्रवृत्तं युद्धं तलातलि। तस्मिन् हतः प्रहृतः अन्ततः विसंर्ग अयन् प्राप्तुवन् दयया जीवेति दूरमुत्सृष्ट इात भावः। अत एव अतितरां दूनः परितत्ः भूत्वा केवलं इनाश्रितः अप्रसिद्धप्रसुसमाश्रितः प्राणीत्। यद्वा- इनाश्रित: कंचित्प्रभुमाश्रितः केवलं प्राणीदिति योजना। प्राण-

Page 405

392° अलंकारमणिहारे

धारणमात्रमकार्षीत् न तु तानभिभवितुं प्राभवादिति भावः । पक्षे इन्दुशब्द: अन्ततो विसर्ग विसर्जनीयं अयन् अनुज्जितवि- सर्गः केवलं दूनः दुवर्णन्यूनो भूत्वा इना इन् इति वर्णसमु- दयेन श्रितः प्राणीत् स्वरूपसत्तामलभतेत्यर्थः । अन्यत्सर्व प्राग्वत्।।

यथावा- नव्येन त्वन्महसा पराकृतो द्योच्युतर्स्वयं प्रतनः । प्रदयोतनः प्रहरणादवाक्शिरास्सन्नतोSभ-

वद्रगवन् ॥ १२४३॥

हे भगवन्! प्रद्योतनः भातु: त्वन्महोविजिगीषुरिति भावः। नव्येन नूतनेन यूनेति यावत् । स्तव्येनेति वस्तुस्थितिः । 'णु स्तुतौ' अचो यत्' इति यत्। तव महसा तेजसा पराकृतः तिरस्कृत: अत एव द्योच्युतः अन्तरिक्षात् स्वर्गाद्वा भ्रष्टः। तत्र हेतु: स्वयंप्रतन इति। प्रतनः पुराणः जीर्ण इति यावत्। 'नश्च पुराणे प्रात्' इति ट्यल्। 'पुराणप्रतनप्रत्नपुरातनचिर- न्तनाः' इत्यमरः। स्वयं स्थविरस्तरुणेन त्वन्महसा स्पर्धमानः कथं तेन नाभिभूयेतेति भावः। प्रहरणात् त्वत्तेजःकृतात्प्रहारात् अवाक्छिरा: अवाक्कृतशिरास्सन् नतः प्रणतः अभवत्, तत्प्र- हारभग्रो नमतशिराशशरणं गत इति भावः। पक्षे प्रदोतन- शब्द: द्योच्युतः द्यो इति वर्णश्च्युनो यस्मात्स तथोक्तस्सन् प्रतन: प्रतम इति निष्पन्नोऽभवत्। अथ प्रहरणात् प्र इतिवर्ण- समुदयलोपात् तं प्राप्येत्यर्थः । लयब्लोपे पश्चमी। अवाक्शिरा- स्सन् विलोमो भव्निति यावत्। नतः अभूत् नत इति निष्पन्नोऽ-

Page 406

64 विषमालङ्कारसर: (४०) 393

भूत्। प्रतनशब्द: प्रवर्णलोपानन्तरं अवशिष्टस्य त न इति वर्ण- द्वयस्य वैपरीत्येन नत इति निष्पन्न इाते निर्गळितोऽर्थः । अत्र प्रद्योतनस्य भगवन्महोभिभवेच्छा समभिव्याहारवशाद्रम्या, अनि- ष्टप्राप्तिस्तु स्फुटैव। गतमन्यत् ॥

यथावा- त्वद्वचनरसपरास्तं रसालखण्ड रसोनकाद्यम- भूत्। भूत्वाऽथ कालखण्डं क्रव्यादास्वाद्यमजनि जननि ततः ॥ १२४४ ॥

हे जननि! रसालखण्डं इक्षुखण्डं सहकारफलखण्डं वा। त्वद्चनरसस्पर्धीति भावः। त्वद्वचनरसेन परास्तं सत् रसो- नकादं रसोनकानां लशुनानां आादं अग्रयं। रसोनकं च तत् आद्यं चेत वा। रसोनकरूपभक्ष्यवस्तु अभूत्। 'लशुनं गृञ्ज- नारिष्टमहाकन्दरसोनकाः' इत्यमरः। प्रथमतस्सामान्येन मधुरत- या प्रतीतमधि स्वस्वरूपापरिचिन्तनेन मधुरतमश्रीवचनरसाभि- भवप्रवृत्ततया तत्तिरस्कृतं दुर्गन्धि समजनिष्टति भावः। नैता- वदेव, अथ अनन्तरं कालखण्डं यकदाख्यमांसखण्डं भूत्वा 'कालखण्डयकृती तु समे इमे' इत्यमरः । ऋव्यमदन्तीति कव्याद. आममांसाशिन: पक्ष्यादयो राक्षसा वा। 'क्रव्यान्मां- साशिरक्षसोः' इति रत्नमाला। तेषां आस्वाद्यं अजनि, न तु रससारविदामिति भावः। पक्षे रसालखण्डमिति पदं रसोनं रेफ- साकाराश्यां हीनं तद्रहितमित्यर्थः । कादं काकार पवाद्यो यस्य तत् प्रथमतः काकारघटितमित्यर्थः । रसोनं च तत् कादं चेति विशेषणभियपदसमासः । एवं भूत्वा कालखण्डमिति निष्षन्र- ALANKARA II 50

Page 407

394 अलंकारमणिहारे

मित्यर्थः। अत्र रसालखण्डस्य श्रीवचनरसपरिबुभूषोस्तदनवापि: रसोनकत्वाद्यनिष्टप्रतिलम्भश्च ॥

यथावा- वैश्वानरसत्वदोजस्स्पर्धी तेनाहतोऽथ वैभ्रष्टः। व्यूष्माहारं मुश्चन्वानरतामेत्य वान एवानीत् । १२४५॥

हे भगवन्! वैश्वानर: वहनिः वैश्वानरशव्दश्च। तयोस्ता- दात्म्यम्। तव ओजसा प्रतापेन स्पर्धत इति तथोक्तः । अत एव तेन आहृतः अभिहृतः अथ अनन्तरमेव भ्रष्टः। वैशब्दोऽ- चधारणे। 'स्युरवं तु पुनवैव' इत्यमरवचनस्य 'पुनर्वैच' इति सुभूतिना पठितत्वात्। एतञ्च सुधायां स्पष्टम । अधः पतित एवेत्यर्थः। शव्दपक्षे वैभ्रष्ट इति समस्तं पदम् । वैइत्याकार- कवर्णभ्रंशं प्राप्त इत्यर्थः । व्यूष्मा विगतौष्ण्यः शान्तप्रताप इति यावत्। पक्षे विगशकार इत्यर्थः । 'शषसहा ऊष्माणः' इति शकारस्योष्मसंज्ञाविधानात्। वानरतामेत्य अप्रतिपत्तिमूढहृदय- तया कपिवदतिचपलो भूत्वेति भावः। पक्षे वै इति सस्वर- व्यञ्जनस्य श् इति केवलव्यश्जनस्य चापगमे वानर इत्यवशिष्ट- इत्यर्थः। आहारं अभ्यवहारं मुश्चन् पराभवमूलकखेदेन प्रायोपवेशं कुर्वन्निति भावः। पक्षे हा इति च्छेदः । रं रेकं मुञ्चन् वानः शुष्क एव सन् आनीत् कथंचित्प्राणानघार्ीत्। 'वानरशुष्के शुष्कफले' इति रत्नमाला । 'वानशशुष्कफले शुष्के सीवने गमने कटे' इति हेमश्च। 'पैओ वै शोषणे' 'गत्यार्थकमें ६' इत्यादिना क:। 'ओदितश्च', इति तस्य नत्वम्। 'आदेच

Page 408

विषमालङ्कारसर: (४०) 395

उपदेशेऽशिति' इत्यात्वम्। पक्षे रेकस्यापि लोपे वन इत्य- वशिष्टस्सन् आनीत्। तावन्मात्रेण सत्तामलभतेति भावः। अत्र वैश्वानरस्य इष्टानवप्चनिष्टभाप्ती॥ यथावा आद्यन्तयोर्विकलितस्तव कुचयुगलेन कमल- मुकुलोडम्ब। आद्यन्तसारताप्तयाऽमलमुकुरोऽप्य- थ धुतः कपोलाभ्याम् ॥ १२४६॥ हे अम्ब! कमलमुकुलः पद्मकोशः मृदुरेकाकी चेति भावः। तच कुचयुगळेन कठिनतरेण इतरे रदत्तसाहेन द्वंद्वभूतेनेति भावः। आद्यन्तयोः आदावन्ते च सर्वथति भावः । विकलितः विकल: कृतः शक्त्यादिसाकल्यविधुरः कृतः स्वेन स्पर्धमानः परास्त इति भावः । अथ अनन्तरं आद्यन्तयोः सारः बलं यस्य तत्तथाक्तं, तस्य भावः आद्यन्तसारता, तस्याः आप्या प्राप्तया सर्वथा शक्त्यादिमस्तालाभेन त्वत्प्रतिचिकीर्षुरिति भावः। अमल- मुकुरस्सन्नपि निर्मलादर्शजन्म लब्धवानपीति भावः। तव कपो- लाभ्यां घुतः दूरं परास्तः सारवतोऽप्येकस्य सारवत्तराश्यं द्वाभ्यां स्पर्धमानस्य सर्वधा परिभव एव भवितेति भावः। अन्यत्र कमलमुकुलशब्दः आद्यन्तयोः विकालितः विभ्रंशिती कलौ यस्य स तथोक्त: कृतः । क्रमेणादौ ककारस्य अन्ते लका- रस्य च भ्रंशं प्रापित इति भावः। अथ आद्यन्तयोः सार- ताप्तया अश्च रश्च अरौ अराक्यां सह वर्तत इति सार, तस्य भाव: सारता तदाप्या। अदौ अकारस्य अन्ते रेफस्य च सम्बन्धेनेति भावः। अमलमुकुर: अमलमुकुरशब्दो भवन्नित्यर्थः। अत्र कमलमुकुलस्य न केवलं श्रीकुचयुगळानर्थप्रापणरूंपेष्टा-

Page 409

396 अलंकारमणिहारे

नवाप्ति: किंतु विकलितत्वाद्यनिष्टप्राप्तिश्च। एवं तस्यैवामलमु- कुगरूपजन्मान्तरेऽपि न केतलं श्रीकपोलपरिभवरूपेष्टालाभः किंतु ताभ्यां स्वस्य धूननरूपानिष्टप्रतिलम्भश्च। एवं सर्वत्रापि बोध्यम्।। यथावा- निजविजयेप्सु तवाधररुचा परास्तं स्ववर्णत- स्स्रस्तम्। घुणतां प्रपद्य घुसृणं लीनं काष्ठान्तरे क्वचित्मुषिरे ॥ १२४७॥ हे अम्ब ! घुसृणं काश्मीरजं कुंकुममित्यर्थः। निजविज- येप्सु स्वकर्तृकत्वदधरकर्मकाभिभवप्रेप्सु । अत एव तव अधर- रुचा परास्तं अवधीरितं अत एव स्ववर्णतः स्वकीयसुषमया अपीति यावत्। स्रस्त ध्वस्तं निस्तेजस्कमति भावः । पक्षे घुसृणमिति पदं स्ववर्णतः आद्यादित्वात्सप्तम्यास्तसिः। स्वघ- टकवर्णेष्वित्यर्थः । स्रस्तः स इति वर्णः अस्तः निरस्तः यस्य तृत्तथोक्तम्। सृ अस्त इति स्थिते यणादेशः। निस्सारित- सुकारं सदित्यर्थः। घुणतां कीटतां पक्षे घुणशब्दतां प्रपद्य काष्ठान्तरे स्वनिवासान्गएटं क्वापि दिगन्तर, तत्रापि क्वचित्सु- षिरे कापि कोणे। काष्ठान्तरे दार्वन्तरे तत्रापि क्वचिच्छिद्रे इति चोपस्कार्यम्। घुणानां दारुच्छिद्रान्तरावस्थानस्य प्रसिद्ध- त्वात्। लीनं लयं प्राप्तम्।। यथावा-

रन्मूर्रतिः । मध्यस्थगुरगुरुस्सन्नगुरगुरासीत्ततो ज- गज्जननि ॥ १२४८॥

Page 410

विषमालक्कारसर: (४०) 397

हे जगज्जननि! अगरुः राजाहाख्यगन्धद्रव्यविशेषः प्रसिद्धः। 'वंशकागरुराजार्हलोहक्रिमिजजोऽङ्गकम्' इत्यमरः। पुलिंक्गोऽप्य- यं, तथाच द्विरूपकोशे श्रीहर्ष :- 'अगरुश्चागुरुश्च' इति। हेम- चन्द्रोऽप्यभिधानचिन्तामणौ 'अगुरुस्त्वगरौ लघौ। शिंशुपायाम्' इति। वोपालितादयोऽप्येवम्। प्रयोगश्च 'शीतकृत्तेऽगुरोर्मदः' इति। श्रीपरिमळाभिबुभूषुरिति गम्यते। अगमध्यस्थोऽि तरूणां गिरीणां वा मध्ये स्थितोऽपि। अनेन- धन्वदुर्गे महीदुर्गमब्दुर्ग वार्क्षमेव वा। नृदुर्ग गिरिदुर्ग वा समाश्ित्य वसेत्पुरम्॥ सर्वेणापि प्रयत्नेन गिरिदुर्ग समाश्रयेत्। एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते।। इत्युक्तप्रकारेण अगदुर्गस्थितत्वं व्यज्यते। त्वत्परिमळेन त्वद- ङसौरभेण। अस्य वीरपुरुषत्वं गम्यते वक्ष्यमाणार्थानुगु- ण्यात्। विद्धः शस्त्राहिना क्षतः परास्त इति तत्वम्। अत एव अरुर्भिः व्रणैः स्फुरन्ती मूर्तिर्यस्य स तथोक्तः। 'व्रणोऽ- स्त्रियामीर्ममरुः' इत्यमरः।पक्षे अगरुः अगरुशब्द: गः गकारः मध्यस्थो यस्य सन भवतीत्यगमध्यस्थः। तथाऽपि अरुस्फुर- न्मूर्तिः अकाररुवर्णाभ्यां प्रकाशमानस्वरूपः गकारच्युतावपि अरु इति वर्णद्वयमात्रावशिष्ट इत्यर्थः । ततः मध्यस्थगुः मध्ये शररिमध्ये स्थगु उरोनिस्सृतोन्नतविकृतावयवविशेषो यस्य स तथोक्तः 'तवेदं स्गु यद्दीर्घम्' इत्यत्र श्रीरामायणभूषणे एव-

इति भावः । अत एव अगुरु: गौरवहीन इत्यर्थः। पक्षे मध्यस्थ: गुः गुवर्णो यस्य तथोक्तस्सन् । अवशिष्टः अरुशन्दः मध्ये गुवर्णन्यसनेन अगुरुरिति निष्पन्नस्सन्नित्यर्थः । अरुरगुरिति

Page 411

398 अलंकारभणिहारे

समस्तं पदम् । अरुर्भिः व्रणैः अविद्यमाना गौर्यस्य तथोक्तः आसीत् 'गोस्त्रियोः' इति ह्रस्वे एच इगादेशः । व्रणवेदना- संभ्रान्ततया 'दिशो मे विप्रणश्यन्ति' इत्युक्तरीत्या विनष्टदिग्वि- वेक: प्रणष्टवाग्वयवहारो वा प्रतिहतदृष्टिपसरो वाऽ्भवदित्यर्थः। 'स्वर्गेषुपशुवाग्वज्निदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्यमरः। नित्यपु्िद्गं परिमळशब्दं विभाषितपुंस्त्वं अगरु- शब्दं च प्रयुञ्चानस्य कवेरयमशयः-नित्यपारुषेण पुंसा कादा- चित्कपौरुषशाली कश्चित्पुमान् स्पर्धमानस्तेन वधीरित ईंदशीं दुरवस्थां प्राप्तुयादेवेति। पक्षे अरुः रुवर्णविधुरः अगुः अगु- रिति निष्पन्नोऽभूदित्यर्थः । प्रथमं अगुरिति स्थितः ततो गकार- लोपे अरुर्भूत्वा ततः अरवर्णयोरन्तरे गुवर्णन्यासे अगुरुरिति ततश्च रुवर्णलोपे अगुरिति निष्पन्नोऽभूदयं शब्द इति निर्गळि- तोर्ऽर्थः ॥

यथावा- कीरस्तव तनुरुचिजयमीप्सुर्विधुतस्तया श्रियः कान्त। व्यत्यासितस्वरव्यञ्जनः करी भवतु तद्गतिमियात्किम् ॥ १२४९॥

हे श्निय: कान्त! कीर: शुकः 'कीरशुकौ समौ' इत्यमरः। त्वत्तनुरुचिजयं ईप्सुः हरितश्यामलवर्णयोरैक्यस्य कविसमय- सिद्धत्वाच्छुकस्य भगवत्तनुरुचिजयेप्सुतोक्तिः। तथा चोक्तमलं- कारशेखरे-

कमलासंपदोः कृष्णहरितोर्नागसर्पयोः । दीतलोहितयोस्स्वर्णप रागाभ्मिशिखादिषु॥

Page 412

विषमालङ्कारसर: (४०) 399

चन्द्रे शशैणयो: कामध्वजे भकरमत्सचयोः। दानवासुरदैत्यानामैक्यमेवाभिसंहितम् । इति। अत एव 'शुकाङ्गनीलोपलनिर्मितानाम्' इत्याद्युपपातः। अत एव तया त्वत्तन्वा तद्डुचा वा विधुतस्सन्, स्त्रीपराभूतत्वं द्योत्यते। व्यत्यासिते स्वरव्यञ्जने स्वरः कण्ठजन्यध्वनिः व्यञ्जनं हरितवर्णत्वादिचिहनं चञ्चुपक्षाद्वयवो वा येन स तथोक्तस्सन्, स्वप्रतिपक्षभगवत्तनुरुचिज रेऽनेन रूपेण दुष्कर इति रूपान्तर- प्रेप्सया प्राक्तनरूप त्यजन्निति भावः। करी भवतु गज एव भवतु। अलास्वरूपकीरत्वं विहाय महावयवो गज एव भवतु। तावता- ऽपि तद्गति त्वत्तनुस्थिति स्वद्गचिस्थिरति वा। सा गातेस्तद्गतिः तां तथा। गभीरोदारं त्वद्गमन नत इयात्कि विन्देत्किं, न विन्देदेव।

भाव. । पक्षे कीर इति शब्द: व्यत्यासितस्वरव्यअ्जनः स्वरौ ईकार: अकारश्चेत्यज्वर्ण व्यत्यासितौ ययोस्ते। तादृशे ब्यञ्जने क् र् इति ककाररेफरूपे हल्वर्णे यस्य स तथोक्तः बहुव्रीहि गर्भबहुव्रीहिः। ईकाराकाररूपाज्वरणयेरिव व्यत्ययः न तु ककार- रफरूपहल्वर्णयोरिति भावः। तथा सति कीरशव्द: करीति निष्यद्यतामित्यभिप्रायः । अत्र कीरेति प्रकृतिमात्रस्यैव विवक्षा नतु सुप्रत्ययविशिष्टस्य । 'स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ' इति, 'व्यअ्ञन रमश्रुचिह्नयोः । तेमनेऽवयवे कादौ' इति च विश्वहेमचन्द्रौ। अत्र कीरस्य न केवलं भगवत्तनु- रुचिविजयालाभः, किंतु पूर्वसिद्धरुचिहानिरुपानिष्टलाभश्च ।। यथावा- कृतमुखतां राघव तव कृतहस्तत्वं च शिथि-

Page 413

400 अलंकारमणिहारे

लयितुमिच्छन। भग्नमुखः प्रथमरणे त्वया दशा- स्यस्स्वयं विहस्तोऽभूत् ॥ १२५० ॥ कृतमुखतां प्रशस्तवदनत्वमिति यावत्। कुशलत्वमिति वस्तुस्थितिः। 'वैज्ञानिकः कृतमुख कृती कुशल इत्यपि' इत्यमरः। कृतहस्ततां प्रशस्तपाणिमत्तामिति यावत्। शराभ्यासशिक्षित- हस्तत्वमिति तत्त्वम्। 'कृतहस्तरसुप्रयोगः' इत्यमरः। भग्नमु- खः मुखभङ्गं प्रापितः । पराभूत इति तु तत्वम्। विहस्तः हस्तविधुरित: व्याकुलश्च 'विहस्तव्याकुलौ समौ' इत्यमरः। स्पष्टमन्यत्। अत्र दशास्यस्य राघवकृतमुखत्वकृतहस्तत्वश- थिलीकरणलक्षणपरानिष्टप्रापणरूपेष्टानवाप्ति: स्वस्य ताद्दशानिष्ट- प्रापतिश्।

यथावा- मिथिलाधिनाथतनयां विरामयतुयुद्यतो भव- न्तमपि। रजनीचरपतिरजनि स्वयं विरामो दि- नेशवंशमणे॥ १२५१॥

मिथिलाधिनाथतनयां विरामयितुं रामविधुरां कर्तु भवन्तं रामाविरहहिंत कर्तु वियुक्तपत्नीकं विधातुम्। स्वयमेव विराम: रामविधुारतो गमाविधुरितश्च। वस्तुतस्तु स्वयं विरामो- वसानं यस्य सतथोकतः अजनि। स्पष्टामतरत्। अत्रापि पूर्वव- देव सर्वे द्रष्टव्यम्॥ यथावा- त्वत्कुचपरिभूतं तावभिभवितुं श्रीश्शम-

Page 414

विषमालङ्कारसरः (४०) 401

न्ततो धन्वत्। कलशमथ वैशसंगतमग्रे भूत्वाऽपि शकलमेवासीत्॥ १२५२ ॥ हे श्री :! कलशं कुम्भः 'कलशस्तु त्रिषु' इत्यमरः। कीब- मेकमिति भावः। त्वत्कुचाभ्यां द्वाभ्यां पुम्भयामिति भावः । परिभूतं अत एव श्मं शान्ति घून्वत्, कुद्धं सदिति यावत्। अन्यत्र कलशं कलशपदं अन्ततः अन्ते विद्यमान शं शकारं धून्वत् विसृजत् सत् अग्रे भूत्वा त्वत्कुचयो: पुरः स्थित्वाऽपि द्वंद्वयुद्धार्थमिति भावः। वैशसं विशसनं कुचकर्तृकं हिंसन गतं प्राप्तं सत्। इतरत्र अग्रे मुखभागे वै इति भिन्नं पद, शसंगतं शकारेण संबद्ध भूत्वा शकलमेव खण्डितमव। पक्षे शकलमि- त्यव निष्पन्नमासीदित्यर्थः॥ यथावा- अवगणितस्तव वचसा झुचिर्द्विजो हन्त चारु- वाकोडपि। भवति रमेऽलसदूनश्रावाकस्साधु विप्र- कृष्टोऽन्ते ॥१२५३॥ हे रमे ! शुचिः विशद: द्विजः खगः हंस इत्यर्थः । शुद्धो विप्र इति च गम्यते। चारु: वाको वचनं यस्य सः चारुवाकः । श्रवणसुभगवचनः शास्त्रीयतया मनोहारिवचनश्च। वाक इत्यत्र वचेर्भावे घाडे 'चजोः कु घिण्णयतोः' इति कुत्वम्। तथा- विधोऽपि तव वचसा वचनेन लक्ष्मीतन्त्रादिरूपशास्त्रेणेत्यपि ग- म्यते। अवगणितः तेन स्पर्धमानोऽवमत इत्यर्थः । महिळाला- पानां मराळालापसाधर्म्य च- आलापैस्तुलितरवाणि माधवोनां माधुर्यादमलपतत्रिणां कुलानि। ALANKARA II 51

Page 415

402 अलंकारमणिहारे

इत्यादौ प्रसिद्धयति। अत एव अलसः प्रतिकर्तुमपट्ट: दूनः परि- तप्तश्च अलसदूनः विशेषणोभयपदकर्मधारयः । अत एव अन्ते दूरतरप्रदेशे साधवो ये विप्रा: तैः कृष्टः निष्कासितः साधूनां सतां विप्रकृष्टः दूरस इति वा। 'स्याहूरं विप्रकृष्टकम्' इत्यमरः। बहिष्कृत इति भावः। साघु यथास्यात्तथा वीनां पक्षिणां प्रकृष्टः श्रेष्ठ इति वस्तुस्थितिः । चार्वाक: चार्वाकमतावलम्बी भवति। अनुपादेयवचनो भवतीति भावः । यथोच्यते चतुर्विशतिमते- अर्हच्चार्वाकवाकयानि बुद्धादिपठितानि च। विप्रलम्भकवाक्यानि तानि सर्वाणि वर्जयेत्॥ इति। पक्षे भवतीत संबुद्धयन्तम। हे भवति! पूज्ये इत्यर्थः। अलसदून इत्यत्र अलसत् ऊनः इति च्छेद: । चारुवाकशब्द: ऊनः उकारेण न्यूनः चार्वाक इति निष्पन्नस्सन् अलसदिति योजना। लसतेलेङ्। यद्वा अलसत् रलयोरभेदात् अरसत् जल- दवन्निरर्थकं शब्दमकरोत् अक्रन्ददिति यावत्। 'रस शब्दे' अ-

लाभ एव, परं तु तदवगणिततया अलसदूनत्वाद्यनिष्टप्रतिलम्भ-

भाग्यसमासादितोत्कर्ष इति ध्येयम्।। यथावा- अम्ब तवोरुस्पर्धिन्यासीद्वत कदलिकापदाS- भिहता। कलिका सत्यथ नखरैर्वृद्वा भूत्वाऽथ कालिका चिकुरैः ॥ १२५४॥ हे अम्ब ! कदलिका रम्भा। स्त्री एकाकिनीति भावः। पक्षे- कदलिकेति शब्दव्यक्ति: तव ऊरुभ्यां 'सक्थि कीबे पुमानूरु.'

Page 416

विषमालक्वारसर: (४०) 403

इत्यमर:, द्वाञ्यां पुम्भ्यामिति भावः, स्पर्धत इत्यूरुस्पर्धिनी सती, स्पर्धा संघर्षः सच पराभिभवेच्छा। अत एव पदा पादेन त्वयेति शेषः । अभिहता आसीत। पक्षे अपदेति च्छेद:। अभिहृता सती अपदा अपहृतदकारा आसीदित्यर्थः । अथ कलिका सती कोरकुरूपा सती रूपान्तर परिग्रहेण यर्तिकचित्व द्वस्तुनिरासतो वैर- शुद्धि चिकीर्षन्तीति भावः । पक्षे कदलिकाशव्दव्याक्तिः दका- रोत्सारणेन कलिकेति निष्पन्नेत्यर्थः। 'कलिका कोरकः पुमान्' इत्यमरः। तव नखरैः नखैः अभिहता पराजिता आसीत्। अथ वृद्धा अभिवृद्धा प्रौढा सती कालिका मेघसंहति: भूत्वा तज्न्म लब्ध्वेति भावः । तव चिकुरैः अभिहता आभेभूता आसीत्। कालिका दुर्गादेवी भूत्वाऽपीति गम्यते। 'कालिका योगिनीभिदि। स्वर्णादिदोषे मेघाळ्यां सुरागौर्योनवाम्बुदे' इति हेमः । पक्षे वृद्धा कलिकेति शब्दव्यक्ति: आदेरचो वृद्धि प्राप्य वृद्धसंज्ञा सती 'वृद्धिर्यस्थाचामादिस्तद्वद्धम्' इत्यनुशासनात् कालिकेति नि- निष्पद्यमानेत्यर्थः । अत्र कदलिकायास्सर्वधाऽपि लक्ष्म्या ऊर्वा- यभिभवरूपानर्थप्रापणरूपेष्टानवातिः पादाहननाद्यनिष्टपरंपरावा- पिश्च निबद्धा॥ यथावा- त्वत्तनुजयाय जहती प्रतिकूलाद्यन्तकाकरूप- त्वम्। क्रमतस्सविता भवतान्तदृपि रमे कदलिका विदलिता स्यात् ॥ १२५५॥ हे रमे! कदलिका रम्भा। तव 'हिरण्यवर्णी' 'आदित्य- वर्णे' इति श्रुतिप्रथितवर्णाया इति भावः। तनोः जयाय आभ- भवाय प्रतिकूलं स्वाभीप्सितादित्यवर्णश्रीतनुजयविरोधि यत्

Page 417

404 अलंकारमणिहारे

आद्यन्तं आद्यन्तावभिव्याप्य आपादमस्तकमिति यावत्, काक- रूपत्वं वायसतुल्यवर्णत्वं इङ्गालवदस्त्निग्धनीलवर्णत्वमिति भावः। पक्षे प्रतिकूलयो विपर्यस्तयोः अद्यन्तयोः आद्यन्तवर्णयोः काक- रूपत्वं अन्त्यवर्णे कारूपत्वं आद्यवर्णे करूपत्वं चेत्यर्थः । शब्दा- र्थतादात्म्यवैभवेन कदळिकाया: काकरूपतानिर्वाहः। जहती सती क्रमतः कालक्रमेण सविता भास्कर एव भवतात् भूयादि- त्याशीः उपहासार्था। पक्षे क्रमतः आदयन्तवर्णयोः न तु पूर्व- वद्विपर्ययेणान्त्याद्ययोः सावता वि ता इति वर्णाभ्यां सह वर्तत इति तथोक्ता। क्रमेणादौ विवर्णेन अन्ते तावर्णेन च सहिते- त्यर्थः । स्यात् तदपि तथाऽप विदालतैव विशीर्णैव स्यात्। स्वेप्सितासिद्धेरिति भावः। कदलिकेति शब्दव्यक्तिरुक्तरीत्या व- र्णविपर्यासेन विदळिितेति निष्पद्येतेत्यर्थः। अत्राप्युभयं स्पष्टम् ॥ यथावा- अवधीरणं विधातुं भवतो नक्तंचरेन्द्र उद्युक्तः। अवधीरणमुपयातं यतनादतनोस्तमेव बत भगवन्॥ हे भगवन् ! नक्तंचरेन्द्र: भवतः अवधीरणं अभिभवं वि- धातुं उदुक्तः । यतनात् यलात् तमेव नक्तंचरेन्द्रमेव अवधीरणं उपयातं प्राप्तवन्तं अतनोः अकरो । बतेत्याञ्चये। अन्यत्र अवधीः रणं इति च्छेदः। अतनो: अनल्पात्। 'तृतीयादिषु भाषितपुंस्कं पुंवद्गावलस्य' इति पुंवन्भावः। यतनात् यत्नात् यततेर्भावे ल्युट्, रणं युद्ध उपयातं तमेव अवधीः हतवानिति योजना। अत्र यद्यपि यथाश्चुतप्राथमिकार्थपक्षेऽपि विवक्षितेष्टानवाप्तयनिष्ट- प्राप्ती भवत एव। तथाऽपि द्वैतीयोकार्थप्रदर्शनं उत्कटानिष्टप्राप्ति- रूपचमत्कारातिशयायेति ध्येयम्॥

Page 418

विषमालक्कारसर: (४०) 405

यथावा- विजिगीषु हरेरनयनं भुजगगिरीन्दोः पदाहतं न- लिनम्। खञ्जमभदुच्चारणपाटवविधुरा वदन्ति त- त्कञ्रम् ॥ १२५७॥ पदाहतं चरणेन ताडितं जिंत च। खञ्जं प्रतिहृतगातकम्। 'खजि गतिवैक्कव्ये' इति हि धातुः । 'खत्ोडे खञ्जः' इत्यमरः। इदमपह्नुतिशिरस्कमिति वैलक्षण्यम्। वस्तुतस्त्विदमपह्नुतेरेवोदा- हरणमिति युक्तं, तस्या पवात्र प्राधान्येन चमत्कृतिजनकत्वात्। प्राधान्येन हि व्यपदेशा भवन्तीत्यसकृदवोचाम। एवमुदाहरणा- न्तरेऽपि यथायथमूह्यम्॥ यथावा- त्वद्ामाक्रमितुं ये बद्धास्थाः पौरुषाद्ृषाद्रिम- णे। त्वच्छेषैस्तेSपास्ता: पाषण्डाइश्रीपतेऽभवन् षण्डाः ॥ १२५८॥ हे वृषाद्रिमणे ! श्रीपते! ये पाषण्डाः येजन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः। नारायणाज्गन्नाथात्ते वै.पाषडिनस्स्मृताः॥ इत्यायुक्तलक्षणा:। 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । पौरुषात् पराक्रमात् अभिनिवेशादिति यावत् । 'पौरुष पुरुषस्थ स्या- न्भावे कर्मण तेजसि' इति मेदिनी। तव धाम वृषाद्विस्थ दि- व्यालयं तत्र सितं त्वदर्चादिव्यविग्रहं च 'गृद्ृदेह्दत्विट्प्रभावा धामानि' इत्यमरः। आक्रमितुं स्ववशे विधातुं बद्धास्था: कृत- पणबन्धा इति यावत्। अभूवन्। ते पाषण्डा: त्वच्छेषैः त्वदासैः

Page 419

406 अलंकारमणिहारे

भागवतैः शेषावतारैर्भगवद्रामानुजमुनिभिरिते हृदयम्। पूजायां बहुवचनम्। अपास्ता: निरस्तास्सन्तः षण्डा कीबकल्पाः नि- व्पौरुषा अभवन्। पक्षे पाषण्डाः पास्ता: निरस्तपावर्णाः षण्डा इति निष्पन्ना इत्यर्थोऽपि चमतकारी॥

अत्र विपक्षोपप्ठवविककबतया प्रार्थयमानाय भक्तिधनाय क- स्मैचिन्मही्षिते रक्षणार्थ वितीर्णशङ्कचक्रतया शून्यपाणि दिव्या- र्चारूपं भगवन्तं अय सुब्रह्मण्य पवेति स्ववशे विधातुं तं विव- दमाना: कतिचन पाषण्डाः स्वमहिस्ता शेषरूपतो भगवदालय सोमसूत्रान्तराळात्प्रविश्य तमर्चारूपं भगवन्तं ग्राहितशङ्कचतर विद्धानैशश्रीभाष्यकारैनिरस्ता इत्यैतिह्मनुसंहितम्। अत्र पाष-

निविवेदयिषुश्शौरेस्तददत्तां विश्वतोमुखाम्। कवितां हन्त नास्मार्षे बहूदाहृतिसाध्वसम्॥ एवं परस्य दुःखसाधनप्रापणरूपेष्टाप्राति: स्वस्य दुःखसा- धनरूपानिष्टप्राप्तिश्चेत्युभयं दशितम् । परस्य सुखसाधननिवृत्ति- रूपेष्टार्थोद्योगात्तदनिवृत्तिः, स्वस्य दुःखसाधनप्राप्तिश्चेत्युभयं यथा- दशवदनः किल पतिसुखविकलां विपुलात्म- जां विधातुमनाः। निजदयितामेव तथा व्यधि- त रघून्तमशराहतिव्यथितः॥१२५९॥ व्यधित विपूर्वकाद्दधातेरात्मनेपदिन: कर्तरि लुङ्, अका- र्षीदित्यर्थः। अत्र रावणेन चिकीर्षितं भगवत्या वैदेह्या: पतिसुख- वैकल्यं न कृतं, किंतु स्वदयिताया एव तत्संपादितम्। यद्पपि-

Page 420

विषमालङ्कारसर: (४०) 407

सुखसाधननिवृत्तेर्टुःखसाघनरूपत्वान्न पृथग्गणना युक्ता, तथाऽ- पि दुःखसाधननिवृतौ सुखस्येव सुखसाधननिवृत्तौ दुःखस्यापि प्रतिनियतकारणजन्यत्वेनानैयत्यात्पृथगुपादानमिति ध्येयम्॥।

यथावा- वैदेहीकबळनतो विदारयितुमुद्यता रघून्तंसम् । स्वयमेव यातुभगिनी नासाकर्णे विदारिता वि- कृता ॥ १२६०॥ विदारं कर्तु विदारयितुं विकळत्रं कर्तुमित्यर्थः। विदार- यितुं विदलयितुमिति च। नासाकर्णे इत्यत्र प्राण्यङ्गत्वादेकव- द्दावः। अत्र भगवतो दाशरथेस्सुखसाधनीभूतवैदेहीकबळनेन दुःखसाधनप्रापणोद्यतायाइशूर्पणखाया न परं तदलाभः, परंतु आत्मन एव कर्णनासविदारणरूपा नेष्टप्राप्तिः । इयं श्ेषोत्तम्भिता। पूर्वोद हरणं शुद्धम ॥

यथावा- प्रह्लादेन कृतायास्त्वद्रक्तेरनिरसनाय यतमानः । नृहरे हिरण्यकशिपुस्त्वत्तस्स्वयमेव निरसनमया- सीतू ॥ १२६१॥। निरसनाय प्रतिपक्षेपाय। निरसनं प्रतिक्षेप वध च। 'निर- सन वधे प्रतिक्षेपे' इति मेदिनी। अत्र हिरण्यकशिपुना विधि-

रसनं न विहिंत, किंतु स्वयमेव निरसनमासादितम्। इदमपि श्लेषगर्भमेव। परिसंख्यालंकारसंकीर्णत्वं तु सर्वत्र तुल्यमेव॥।

Page 421

408 अलकारमणिहारे

यथावा- तव सद्वतिं चरणयोरसहिष्णुस्तन्चुचोरयिषुरे- त्य। स्वगतिभ्रंशाद्वजपतिरलभत जपतोपि नात्म-

नस्सत्ताम् ॥ १२६२॥।

हे भगवन् ! गजपतिः तव चरणयोः पादयोः त्वदीययोः शाखाध्येत्रोर्विप्रयोरित्यपि गम्यते। 'चरणोऽस्त्री बहुचादी मूले- गोत्रे पदेऽपिच' इति मेदिनी। सद्गत प्रशस्तं ज्ञानं उत्तमलोका- वाप्तिसाधनभूतां विद्यामिति यावत् । 'गतिस्स्र्री मार्गदशयो- ्ाने यात्राञ्युपाययोः' इति मेदिनी। प्रशस्तं गमनमिति तु तत्वम्। असहिष्णुः। "न लोक" इत्यादिना षष्ठीनिषेधात्कर्मणि द्वितीया। अतएव तच्चचोरायेषुः त्वञ्चरणगतिजिहीर्षुः। एत्य त- दभिमुखो भूत्वा स्वगतैः स्वज्ञानस्य स्वगमनस्य च भ्रंशात् भ्रंशं च्युतिं एत्य। ल्यब्लोपे पश्चमी। जपतोऽपि स्तेयदोषनिरासि- वेदाध्ययनेनापि 'स्वाध्यायस्स्याज्पः' इत्यमरः। आत्मनस्सत्तां स्वस्वरूपस्थिति सत्तां अभ्यर्हिततां प्रशस्ततां वा। 'सत्ये साधौ विद्यमाने प्रशस्तेऽञ्यर्हिते च सत्' इत्यमरः । नालभत । पक्षे गजपतिशब्दः स्वगतिभ्रंशात् स्वनिष्ठयोः ग ति इति आद्यम्त- वर्णयोः भ्रंशं प्राप्य जपतः मध्येSवशिष्टेनापि वर्णदयेन आत्म- नस्सवां गजपतिरित्याकारकशब्दस्वरूपस्थिति नालभतेत्यर्थः। अत्र गजपतिना भगवञ्चरणयोरुत्तमसुखसाधनभूतसद्गतिनिवृत्ति- रूपेष्टार्थों नासादितः, अपितु स्वगतिभ्रंशरूपानिष्टार्थ एव सम- धिगतः। अयं च चरणादिशब्दप्रतिपाद्यार्थद्वयश्ेषभत्तिकाभेदा- व्यवसायजीवातुक इत्यवधेयम्॥

Page 422

.- - " विषमालङ्कारसरः (४०) 409

केवलेष्टानवाप्तिर्यथा- कैकेयीवर युगवशदशरथवचनाद्रवन्तमाप्तव- नम्। विनिवर्तयितुमनीशो न्यवृतद्रघुवंशदिनमणे भरतः ॥१२६३॥

मात्रं निबद्धम्।

यथावा- मूढगुणं व्यपवोदुं गाढं श्रीपरिभृढं ब्रजन शर- णम्। चेतनवर्गो बाढं समूढगुण एव भवति चित्र- मिदम् ॥१२६४॥

मूढगुणं मौढ्यमित्यर्थः । सः मूढगुण इति च्छेदः । सः शरणं व्रजन् पुमान् मूढगुण पवोति विरोध। समूढाः सपु- स्षिता: गुणा: 'अष्टा गुणा पुरुषं भूपयन्ति' इत्युक्ता: महागुणा: यस्य स तथोक्त इति परिहारः। महार्हगुणसंपन्नो भवतीत्यर्थः। 'समूढः पुञ्जिते भुझे' इते विश्वः । अत्र मूढगुणव्यपोहनप्रेप्सो- श्चेतनवर्गस्थ तदलाभमात्रेमव। न त्वनिष्टान्तरोपलम्भः । पूर्व शु. द्वं, इद श्ेषसङ्कीर्णमिति विशेषः।

यथावा- अवलम्व्य त्वत्पदमप्यप्राप्य त्वत्तनूपमामध्रम्। अमुखमभूत्किल विष्णो भ्रान्तस्येष्टं कर्थ भवेत्स- फलम् ॥ १२६५॥ ALANKARA II 52

Page 423

410 अलंकारमणिहारे

हे विष्णो! त्वत्पदं त्वच्चरणं तत्तदीप्सितानुगुणसकलफल- प्रदमिति भावः। पक्षे विष्णुपदं अन्तरिक्षमित्यर्थः। ईदृशार्थवि- वक्षयैव विष्णो इति संबोधनम्। अभ्रं वारिवाहः त्वत्तनूपमां त्वददिव्यविग्रहतुलां तव ततुं अल्पामप्युपमामिि च गम्यते! अलब्ध्वा अमुखमभूत। इय लोकोक्तिः । ईप्सितानवासेस्त्रपया कस्यचिदपि वदनमुन्नमय्य दर्शयितुं न प्राभवदिति भावः। अ- मुखं अकारमुखवर्णमिति वस्तुस्थितिः, अभ्रशब्दस्य तथात्वात्। तथाहि, भ्रान्तस्य अनवस्थितचेतसः तीव्रतमपवमानविक्षेपक्षु- भितस्य च विष्णुपदाश्रयणेऽपि इषट ईप्सितं कथ सफलं भ- वेत्। क्षिप्रविक्षिप्तभूमिगतस्य चित्तस्यैकाग्रचासिद्वेर्न योगस्यैव निष्पत्ति: कथं तत्साव्यं फलं सिध्येदिति भावः। अभ्रमपि भ्रा- न्तमेव शब्दार्थयोस्तादात्म्यात्। अत्राभ्रस्य भगवाद्दिव्यविग्रह- साम्यरूपेष्टानवाप्तिमात्रं श्रेषसक्कीर्णत्वं पूर्ववदेव। एवमुत्तरत्रापि।

द्विषसप्रभेदस्यैवेदमुदाहरणं भवितुमर्हतीत्यवधेयम्। यथावा- आदौ शतकतुमणिसत्वद्रुचिलाभाय तन्तुसंना- हम्। प्राप्तोडप्यशकनतोऽमुं मुक्त्वाSSसीन्नाथ झ. क्रमणिरेव ॥१२६६॥ हे नाथ! शतकतुमणः इन्द्रनीलरतं आदौ त्वदुचिलाभाय तां लब्धुं तन्तोः ग्रतिसरसूत्रस्य संव्नाहं बन्धं प्राशेऽपि तदर्थ बद्धकङ्कणोऽपीत्यर्थः । सुवर्णादिसूनग्रथनं प्राप्त इत तत्त्वम्। ते तवर्ण तुसंनाहं तुवर्णसंवद्धत्वं चं प्राप्त इति वस्तुस्थितिः। अश- कनतः विवक्षितेप्सितसाधनाशक्तत्वात् अमुं तन्तुसंन्नाहं प्रोत-

Page 424

विषमालङ्कारसर: (४०) 411

सरबन्धं मुक्त्वा विसृज्य तं तु संनाहमिति च्छदः। तुशब्दोऽ- वधारणे। तंतु तथाविधमेव संनाहं प्राप्तोऽपि अशक्ततया अमुं एवंविधं तं सन्नाहं प्रयत्नमेव मुक्त्वेत्यापे गम्यते। पक्षे तं त- कारं तुसनाहं तुवर्णसंबन्धं च त्यक्त्वा शक्रमणिरेव यथापूर्व- मिन्द्रनीलरत्नमेव आसीत्। न तु त्वद्रुचिमलभतेति भावः। पक्षे शतक्रतुमाणेशब्दः उपपादितरी्या तकारतुवर्णयोस्त्यागे श- क्रमणिरिति निरपद्यतेत्यर्थः। अत्र शतक्रतुमणेरेष्टालाभमात्रम्। वक्ष्यमाणपूर्वरूपसङ्गीर्णम्। यथावा- हरिसखि रसालसारस्त्वद्वचमसुधात्मनाऽवत- रणाय। अधरितशीर्षोपि न तद्विन्देत रसालसार एव स्यात् ॥१२६७॥ रसालसार: इक्षुरसः सहकारफलरसो वा रसालसार एव स्यात् न तु त्वद्वचनसुधात्मेनाऽवतरेदित्यर्थः। रसाल- सारशब्दो विलोमतया पठितोऽप तुल्यरूप एवेति तत्त्वम्। अ- न्यत्सुगमम्। अत्र रसालसारस्थ केवलमिष्टानवातिः। इदमपि वक्ष्यमाणपूर्वरूपोपस्कृतमेव॥ यथावा- विजिगीषु नारिकेलं द्वंद्वप्रथितौ तव स्तनौ तरुणौ। मध्येऽक्षरद्वयश्षयुन्नलिनेक्षणतरुणि ना- लमेवासीत ॥ १२६८॥ हे नलिनेक्षणतरुणि! इदं च वक्ष्यमाणस्तनतारुण्येपस्का- रकम। नारिकेलं नारिकलफलं कर्तृ क्ीबमेकमेवति भाव:।

Page 425

412 अलंकारमाणहारे

द्वंद्वप्रथितौ युद्धप्रखगाती। युग्मतया प्रसिद्धाविि वस्तुस्थि तिः। द्वंद्वमिति प्राथतावितिविग्रहः । 'द्ंद्वं कलह्युग्मयोः' इत्यमरः। तरुणौ वयस्थौ तव स्तनौ पुमासौ द्राविति भावः । विजिगीषु स्वपरबलाबलानालोचनेन जयेच्छामत्रं कृतवादेति भावः। मध्ये इष्टलाभेच्छयोरन्तरालं क्षरत् क्षयं प्राप्तुवत्। तत्र हेतुः वयश्च्युदिति। वासः यौवनरूपाद्वयसः च्यवत इति वयश्च्युत् 'क्यु च्यवने' अस्मान्भौवादित्क्वप तुक। स्थविरमित्यर्थः । नालमेव असमर्थमेव आसीत् अलं समर्थ- नासीदिति वा योजना। नालमात्रावशिष्टीमत्याप गम्यते स्व- यं षण्डो वृद्ध: क्षीण एकश्च द्वौ युद्धोद्धतौ वपस्थौ वयसस्थाश्रितौ च विजेतुं कथ शक्तुयादिति भावः। पक्षे नारिकेळं नारिकेळ- मिति पदं मध्ये अन्तराले अक्षरद्वयश्च्युदिति समस्तं पदम्। अक्षरद्वयं वर्णयुग्मं श्रयोततीति तथोक्तम्। 'श्च्युतिर् क्षर- णे' अस्मान्भौवादिकात्क्विय्। द्रवद्रव्यकर्तृक एवायमकर्मकः स्रवतिवत। अत्राद्रवद्रव्यकर्तृकत्वेन सकर्मत्वम्। अक्षरद्वयात् श्चचोततीति वा विग्रहः। वर्णद्वयच्युतमित्यर्थः । नालमित्येवा- सीत्। नारिकेलमिति पदं रि के इात वर्णद्वयविधुरं नालमि- त्येवावशिष्टमभूदित्यर्थः । अत्र नारिकेलस्यष्टालाभमात्रम्। इष्टस्य परानर्थ प्रापणरूपत्वावेवक्षायामिदं वक्षमाणप्रभेदस्यैवोदाहरणं भ विष्यतीति ध्येयम् ॥ यथावा- ये वैतरण्यतीतेस्तव जननि जना हरिं दिद्- क्षन्ते। तान्वैतरण्यतीतेर्दर्शयसि हरिं न जात्वि- ति विचित्रम् ॥ १२६९॥

Page 426

विषमालङ्कारसरः (४०) 413

हे जननि! ये तव जनाः त्वन्भक्ताः। वै इति प्रसिद्धौ। तरण्यतीते: सूर्यातिकरमं प्राप्य भानुमण्डलभेदनपूर्वकमिति भावः। हरिं वासुदेव दिद्क्षन्ते द्रषुमिच्छनति 'ज्ञाश्रुस्मृदृशां सनः' इति तङ्। तान् जनान् जात्वपि तरण्यतीतेः हरिं न दर्शय- सि वै। इदं विचित्रम्। वैतरण्यतीतेरिति समस्तं पदम्। वै- तरण्या: यमपुरद्वारतरङ्गिण्या: अतीते; हरि यमं न दर्शयसी- ति परिहारः। 'दशेश्च' इति द्दिकर्मकत्वम्। अत्र श्रीभक्तानामिष्टा- लाभमात्रं श्षेषेण दर्शितम्॥ यथावा -- आश्रित्यानन्तपदं तपत्वधश्शर्षमेव तदपि रमे।। भविता यथापुरं न तु तव पदरुचि जन्म भानुभा भजते ॥ १२७० ॥ भानुभा रविप्रभा। अनन्तपर्द भगवच्चरणं अन्तरिक्षस्थानं च आश्रित्य तप्तु तपश्चरतु तापं भजतु च। यथापुरमेव भ- विता भानुभैव भवेत्। न तु त्वच्चरणप्रभात्मना जन्म भजते। भानुभाशब्दो विलोमत्वेऽपि भानुभेत्येव सपद्यते न त्वन्यामानु- पूर्वी लभते। अत्र भानुभाया लक्ष्मीचरणप्रभात्मना जन्म प्रे- प्सोरधरशष भगवच्चरणे तपश्चर्ययाऽपि तदलाभमात्रं निब- द्धम्। श्रेषपूर्वरूपसंकीर्णम्।। यथावा -- ननु कालिकाऽखिलाम्ब त्वत्कबरीजन्म ल- ब्धुमिच्छन्ती। अथ यद्यधश्शिरास्स्यान्तदाडपि सा कालिकैव न तु कबरी ॥ १२७१ ॥

Page 427

414 अलंकारमणिहारे

कालिका कादम्बिनी। 'मेघजालेऽपि कालिक' इत्यमरः। अत्रापि कालिकाया इष्टानवाप्तिमात्रं पूर्वरूपसंभावनासंकीर्णम्।। केवलानिष्टप्रतिलम्भो यथा- पद्माकरपद्मस्थितियोग्यं स्यामिति विवल्गसि न वेत्सि। तेन परिभूतिमम्बुज जडजातत्वं तवैतदेव खलु ॥ १२७२ ॥ हे अम्बुज! पझ्मायाः लक्ष्म्याः करपझे पाणिपङ्गजे या स्थि- तिः अवस्थानं तस्या: योग्यं स्थामिति विवल्गसि उत्प्लवसे। तेन श्रीपाणिपद्मेन। तवेत्येतदुत्तरवाक्यादपकृष्यते। तव परि- भूर्ति न वेत्सि। 'उभयप्राप्तौ कर्मण' इति कर्मण्यव षष्ठी न तु कतरि। स्पष्टमन्यत्। यथावा- अधिरोहसि वृषभूमिभृदधित्यकां घन रमेशसे- वेच्छुः । स हि हरते तव लक्ष्मीं न हि जडहृद्वे- द भावनमनर्थम् ॥ १२७३॥ हे घन ! हे जीमूत ! वृषभूमिभृतः आधत्यकां ऊर्ध्वभूमिं 'भूमिरुर्ध्वमधित्यका' इत्यमरः। जडहृत् स्तब्धमनाः लडयोर भेदात् जलं हृदि अन्तःप्रदेशे यस्य स तथोक्त। समुद्राजलं हरतीति वा नथोक्तः। स्फुटार्थमन्यत्। अत्र उदाहरणद्ये

ससेवाभागधयरूपेष्टार्थलाभौ स्त एव। किंतु तत्कर्तृकपरिभूति- लक्षमाहरणरूपोत्कटा निष्टप्रतिलम्भावपीति केवलानिष्ट प्रतिलम्भरु- पविषमामदम्॥।

Page 428

बिषमालङ्कारसरः (४०) 415

यथावा- कमलं त्वन्नयनरुचा प्रमथितरोचिः प्रपद्य पुं- स्त्वमथ। वश्चयतुमुपेत्य त्वां त्वया पराहण्यते पुरा राम ॥ १२७४ ॥ हे राम ! इंद वक्ष्यमाणार्थस्य तदवतारकृतत्वद्यातनाय। कमलं नलिनं क्ीबमिति भावः । त्वन्नयनरुचा स्त्रियेति भावः। प्रमथितरोचिस्सत् अथ पुंस्त्वं पुरुषत्वं पुल्लिङ्गतां च प्रपद्य तत्प्रतीकारार्थ कमलो मायामृगो भूत्वेति भावः। 'स्यात्कुरङ्गेड- पि कमलः' इत्यमरः। पुरा पराहृण्यते पराहण्यतेत्यर्थः । 'पु- रि लुङ्चास्मे' इति पुराशब्दयोगे भूतेऽर्थे लट्। 'हन्तेरत्पू- र्वस्य' इति पत्वम्। स्पष्टमितरत्। अत्र कमलस्य श्रोरामव- श्वनरूपेष्टासिद्धिरस्त्येव। परंतु पराहतिरूपोत्कटानिष्टप्रतिलम्भ- श्चेतीदमपि केवलानिष्टप्रतिलम्भरूपमेव ॥ यथावा-

मध्यम्। भवसि च यथेप्सितश्ररिशनाभावः प- रंतु तेऽत्र स्यात् ॥ १२७५ ॥ अशनिनां अशनवतां, भूम्नि नित्ययोगे वा मत्वर्थीय इनिः। सहभूः सहजन्मा तैस्सह जातेत्यर्थः। तस्यास्संबुद्धि: हे अशनिसहभू :! पक्षे अशनेः वज्रस्य सहभू: विद्युदशन्यो- रेकत्रावस्थानात्तथोक्तिः। नन्विति सुकुमारामन्त्रणे। नतु चपले हे सौदामनि! चापल्यं सूचायतुमिदम। त्वं नित्याश्रयं अच- ञ्चलां लक्ष्मीं इप्सुस्सती श्रियः संपद: भगवत्या लक्ष्म्याश्च

Page 429

416 अलंकारमणिहारे

मध्यं अन्तरं अवलसं च श्रिता सती यथेप्सितश्रीश्च भवसि परंतु ते तव अत्र श्रोमध्ये अशनाभावः स्यात् आहारदौ- र्लभ्यं भवेत् अशनशालिसहभूस्त्वं तावन्मात्रेणापरितुष्यन्ती ततोऽतिशयितां श्रियमपेक्षमाणा तां लभस एव परंत्वशनाभाव- रूपमहानिष्टं च लप्स्यसे इति भावः। यथोच्यते- यावच्भ्रियेत जठरं तावत्कुयादुपार्जनम्। अधिकं योऽभिमन्येत स स्तेनो दण्डमहृति॥ इति। शनिसहभूरिति च लभ्यते। तदा शनिना सह स्थिता शनिपीडितेति यावत्। एवं शनिपीडिताया: कथचिदिष्टलाभेऽप्य निष्टलाभो दुष्परहार इति भावः। पक्षे यथेप्सितश्रीः रशना भाव इति च्छेदः। 'रो रि' इति रेफलोपः। ते तव रशना- भाव: मेखलात्वं स्यात्। नित्यश्रीमत्तया श्रियो मध्यभागेऽवस्था- नात्तव रशनात्वं भवेदेवेति भावः। 'सप्की रशना तथा' इ- त्यमरः। अत्रापि पूर्ववदेव केवलानिष्टलाभः ॥ यथावा- करिकरपीडां व्युदसितुमरविन्दं त्वत्करात्म- नाऽडविरभूत्। हरिकरपीडनमलभ्रत सरसिजनय- नप्रिये तदत्रापि ॥१२७६॥ हरे: सिंहस्य भगवतश्च करपीडनं हस्तापमर्द, पक्षे कर- पीडनं पाणिग्रहणमित्यर्थः। तत् अरविन्दम्। अत्रापि अरविन्द- जन्मन्यपि। अत्रारविन्दस्य करिकरपीडाव्युदसनरूपेष्टावाप्तिस- ्वावेऽपि हरकरपीडनरूपानिःप्रतिलम्भश्च भवतीतीदमपि के- वलानिष्टप्रतिलम्म एव। श्ेषमहिस्ना इष्टतमस्याप्यनष्टतासं- पादनमिति ध्येयम्।।

Page 430

विषमालङ्कारसरः (४०) 417

याथावा- इनसुहृदा राज्ञा तवं मया सदकस्या इतीच्छुर- खिलविभो। तव दग्गत एवाभूदिनान्वितो हन्त दू- त एवेन्दुः ॥ १२७७॥ हे अखिलविभो! इन्दुः इनसुहदा अनेकप्रभुमित्रेण, पक्षे भानुसहितेन राज्ञा नृपेण चन्द्रेण च। मया त्वं सदक् तुल्यः दग्भ्यां सहितश्च मयेत्यत्र तृतीयाया अमेदोरऽर्थः । तथाच सूर्य- सहितमदभिन्ननयनद्यवानिति भावः। स्याः। इति इच्छुः का- ङन् सन् 'विन्दुरिच्छुः' इति निपातनात्साघुः। तव अखलज- गद्राजाधिराजस्येतते भावः। दग्गतः दृष्टिपथगतमात्र एवेति भावः । इनान्वितः स्वसुहृदनेकप्रभुसहितस्सन् तव दूत एव संदेशहर एव अभूत्। त्वददर्शनावसरे आत्मानमेव महाराजं मन्यमनोखितिि- ललोकनाथमपि त्वां सवसद्दशं चिकार्षुसभ्येत्य त्वद्दर्शनमात्रेणैव त्यक्ताभिमानस्सपक्षीयप्रभुभिस्सह तव दूत्यमलभतोत भावः। इ- नान्वितः सूर्यसहितः तव दृग्गतः दृाष्टिस्थानं प्रपन्न एवाभूत्। चन्द्रसूर्ययोरुभयोरपि तन्नयतत्वश्रवणादिति भावः। नैतावदेव। दूत एवाभूत्। 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याच- न्द्रमसौ विधृतौ तिष्ठतः' इत्युक्तरीत्या तच्छासनानातिवर्त्यभूदते भावः। पक्षे इन्दुशब्दः इना इन्निति वर्णसमुदायेन अन्वितः दूतः दुना दुवर्णेन ऊतः स्यूतः युक्त एवेत्यर्थः। अभूत्। इन्दु- शब्दस्थ ताद्विध्यादिति भावः। अत्र सदकत्वप्रेप्सोरिन्दोस्सट-

वैभवेन ताइशेप्सितलाभोऽस्त्येव। तथाऽपि दूतत्वरूपानिष्टेप- लम्भोऽपि भवतीत्ययभपि केवलानिष्टप्रतिलम्भ एव ।। ALANKARA II 53

Page 431

418 अलंङ्कारमणिहारे

यथावा- क्काप्यप्रतिकलास्त्वत्कबरीसख्याय काळिका यतमानाः। प्राप्यान्तराळितामपि काका आसन्वि- पर्ययेऽपि तथैव ॥ १२७८। हे श्रीः! इति सामर्थ्याल्लभ्यते। काळिकाः कादम्बिन्यः 'सेघजालेऽपि काळिका' इत्यमरः। पक्षे काळिकाशब्दोऽपि। अर्थगते स्त्रीत्वबहुत्वे शब्दे आरोप्येते। क्वापि क्वचिदपि अप्र- तिकूलाः प्रातिकूल्यराहितास्सत्यः। न हि प्रातिकूल्ये सख्यं सि- ध्यताति भावः । पक्षे प्रतिलोमत्वेऽप्यवैरूप्यं भजमाना इत्यर्थः। त्वत्कबर्याः सख्याय मैत्याय तुलनायेति वस्तुस्थितिः। यतमाना- स्सत्यः आन्तराळिता अन्तरे भवा. आन्तर्यः ताश्च ताः आळ- यश्च आन्तराळयः । 'पुंवत्कर्मधारय' इति पुंवद्भावः। तासां भाव: तत्ता तां अन्तरङ्गसखीत्वमित्यर्थः। 'आळस्सखी वय- स्या च' इत्यमरः। प्राप्यापि काकाः वायसाः आसन्। विप- यये प्रळयेपीति यावत्। तथव काका एव आसन्। न तु युक्तरूपाः। पक्षे अन्तरा मध्य अळितां ळिवर्णशून्यतां प्राप्य काका अपीति योजना। काका इत्यप्यासन्। अथ विपर्यये वि- लोमत्वेऽपि काकां इत्येवासन् न त्वन्यानुपूर्वीकाः । अत्र काळि-

वसायमहिस्ा श्रीकबरीसख्यरूपेष्टलाभाक्षतावपि काकतारूपाति- ष्टान्तरावापतिश्च श्ेषमहिस्ना भवतीतीदमपि केवलानिष्टपरापिरूप- विषभम्।।

अत्रासा निवसामेत्यत्रास्ये तव रदात्मना जा-

Page 432

विषमालङ्कारसर: (४०) 419

ताः । मुक्ता भगवन्नभवन्नत्राप्येता महाभयाक- लिताः ॥ १२७९ ॥ मुक्ता: मौक्तिकाननि अत्रासाः निर्भयास्सत्यः अन्यत्र मण- दोषविधुरास्सत्यः 'त्रासो भीमणिदोषयोः' इति विश्वः। अत्र निवसामोते तव आस्ये रदात्मना दन्तरूपेण जातास्सत्यः अ- त्रापि त्वदास्येपि एताः मुक्ता: महाभयेन महता त्रासेन आ- कलिताः। महत्या अभया कलिता इति वस्तुस्थितिः॥ यथावा- विपदान्वितं भवं त्वं विनेष्यसीति श्रयेमहि भ- वन्तम्। विपुलयसि लदेव त्वं विचित्रमतदृषाच- लद्युमणे ॥ १२८० ॥ अत्राद्योदाहरणे केवलं भुक्तानां त्रासशब्दप्रतिपाद्यार्थद्वय-

दाहरणे दिपदा आपदा अन्वितं भवं संसारं, पक्षे वि इत्या- कारकपदेनान्वितं भवं विभविति शब्दार्थतादात्म्यमूलकश्लेष- महिम्रा अनिष्टपरिहाररूपेष्टानवाप्ति: प्रकाशिता।। यथावा- अरिदरगदाकरत्वं परिहर्तु त्वां भजन्ति ये म- नुजाः। अरिदरगदाकरत्वं सन्ततमेषां त्वमन्तत- स्तनुषे ॥ १२८१॥ अरयः कामादयः दरः भयं तत्प्रयुक्तम्। गदः तत्प्रयुक्तो व्याधिः। तेषामाकरत्वं आश्रयत्वं परिहर्तु। उत्तरार्धेऽप्येवम्।

Page 433

420 अलंङ्कारमणिहारे

वस्तुतस्तु अरिदरगदाकरत्वं चक्रशङ्गगदापाणित्वामित्यर्थः । भ- गवत्सारूप्यमिति भावः । अन्राि अरिदरगदाकरत्वलक्षणानर्थ-

यथावा- त्वद्वदनरुचिद्वेषाच्छवाद्यत्वं प्राप्य तद्वयपनुनुत्सुः। अधरितशिरा भवन्नपि स पुष्करे तज्जहौ न शु- भ्रांगु: ॥१२८२॥ हे भगवन् ! शुभ्रांशुः चन्द्रमाः त्वद्वदनरुचौ द्वेषात् श्वा- द्यत्वं शुनामादित्वं शुनकाग्रेसरत्वमित्यर्थः। श्वा आद्यः भक्ष्यो य- स्येति वा श्वपाकत्वमित्यर्थः। प्राप्य, देवं नारायणं विष्णुं यो द्वेष्टि जगतां प्रभुम्। श्वानयोनिसहस्त्रान्ते श्वपाकेषु स जायते।। इति स्मरणात्। भगवद्वद्षनारविन्दविद्वेषस्येदमल्पं फलमिति भावः। पक्षे शुवर्णः आद्यः प्राथमिको यस्य सः श्वाद्यः तत्त्वम्। वाच्यवाचकयोस्तादात्म्यात्। प्राप्य तत् श्वाद्यत्वं व्यपनुनुत्सुः व्यपनोदितुमिच्छुः पुष्करे तन्नाम्नि तोर्थविशषे अन्तरिक्षे च। अधरितशिरा: अवाक्छीषों भवन्नप तथा तपस्यन्नपीति भावः। अस्ताभिमुख्यदशायामन्तारक्षे चन्द्रविम्बस्य अवाक्छिरस्त्वेन द- शंनात्तथोक्तिः। पक्षे विलोमतया स्थितोऽपीत्यर्थः। तत् श्वा- द्वं न जहौ। यथापुरं शुनामग्रणी: श्वभक्षको वाडभूत्। न तु स्वाभीप्सितं लब्धवान्। भगवद्विद्वेषिणां पुण्यतीर्थनिषेवणमपि न शोधकमिति भाव:। ये द्विषन्ति महात्मानं न स्मरन्ति च केशवम्। न तेषां पुण्यतार्थेषु गतिस्संसर्ग्िणामपि।

Page 434

विषमालङ्गारसर: (४०) 421

इति महाभारतात्। पक्षे शुभ्रांशुशब्दो विलोमतया पठि- तोऽपि शुभ्रांशुरित्येव भवन् शुवर्णाद्यत्वं न जहावित्यर्थः। अत्र

यथावा- अभितश्शुनाऽभिमृष्टोऽस्म्यहमिति शुभ्रांशुर- तितरां भ्रान्तः। तदपनयायानन्ते पतन्नधश्शीर्ष- मपि तथैवाभूत् ॥१२८३॥ युभ्रांशु: अभितः सर्वतः उभयतश्च शुना शुनकेन शुव- णैन च अभिमृष्टः स्पृष्टः अस्मोति अतितरां भ्रान्तः भ्रान्तिमान्। पक्षे भ्रःभ्र इति वर्णसमुदयः अन्ते मध्ये यस्य स तथोक्तः। तद्पनयाय तस्य अभितश्शुना स्पृष्टत्वभ्रमस्यापनोदनाय अन- न्ते भगवति अन्तरिक्षे च अधश्शीर्ष पतन्नपि विलोमतया स्थि- तोऽपीति च तथैवाभूत भ्रान्त एवाभूत पक्षे शुभ्रांशुरित्येवा- भूत्। न त्वन्यधा। अत्र शुभ्रांशो: पूर्ववदेवेष्टानवापिः। यथावा- सुतरांशुमयोऽप्यादावन्ते च तवाननश्रियमल- ब्ध्वा। क्रान्तस्थितिमैन्न जहौ शुक्कांशुरधश्शिरः पतन्नपि ताम् ॥ १२८४॥ हे भगघन् ! शुक्कांशुः सितकरः आदौ मासादौ अन्ते मासान्ते च। इदं पूर्णिमाध्यन्तमासाभिप्रायोणोक्तम्। सुतराश्च ते अंशवश्च तन्मयोऽपि प्राचुर्ये मयद्। तव आननश्रियं अलब्ध्वा क्रान्तस्थिति ग्लानस्थिति ग्लानिमित्यर्थः। पेत् अगात्। अथ अध- शिशर: पतन्नपि तां न जहौ ग्लानिस्थिति नात्याक्षीत्। पक्षे .f ......

Page 435

422 अलंकारमणिहारे

शुकांशुशब्द: सुतरां अतितरां आदावन्ते च शुमयः शुवर्णप्रचुरः आद्यन्तयोः शुवर्णस्यैव जागरूकत्वादिति भावः। अधश्शिरः निपतितोऽपे व्यत्यस्ततया स्थितोऽपांति यावत्। का इति वर्ण समुदायस्य अन्तस्थिति मध्ये सत्तां न जहौ। तस्य वैपरीत्येऽपि तादवस्थ्यादिति भावः । अत्रापि पूर्ववदेव सर्वम्॥ यथावा- त्वां स्तोता सकलकविः स्तोतां तु परस्य विकलकविरेव। अधरितशीर्षोडपि भवन्विकलक- विस्स्यादयं न सकलकविः ॥ १२८५॥ सकलकविः संपूर्णकविः महाकविरित्यर्थः। विकलकावेः क्षुद्रकविः। अत्र विकलकवेस्स्वानर्थपरिहाररूपेष्ठालाभः॥ यथावा-

भाः । स्यादयदि पुनः प्रसव्या यथापुरं स्यान्न तु त्वदोजोभाः॥१२८६॥ हे भगवन् ! भानुभा: भास्वत्प्रभा। वत्तेजस्तौल्य लिप्सुरिति सामर्थ्यादवगस्यते। त्वत्तेजोऽभिहतौ सत्यां त्वत्प्रतापकतृकाम- हनने सति जानुभङ्गभाक् जानुनो: ऊरुपर्वणोः भङ्गं अवमर्द भजतीति तथोक्ता भग्नजानुस्सतीत्यर्थः। अत एव भाभाः नभा- सत इत्यभाः । भासतेः क्किप् । भया प्रभया अभाः भाभाः। नभातीति विग्रहे भाते: किप्। विश्वपाशब्दवदादन्तः । उमय- थाऽपि प्रभया अप्रकाशमानेत्यर्थः। यद्वा भं नक्षत्रमिव आ ईषत् भासत इति भातीति वा भाभा: आदौ महाप्रकाशा जानुभङ्गा-

Page 436

विषमालंकारसर: (४० ) 423

नन्तरमल्पतरप्रकाशत्यर्थः । पक्षे भानुभा इति शब्दव्यक्ति: त्वत्ते- जोऽभिहतौजा: नुभङ्गमिति छेदः । तव तेजसा अभिहतं ओजः बलं अवष्टम्भः प्रभावो वा यस्यास्सा तथोक्ता 'ओजो दीप्ता- ववष्टम्भे प्रभावबलयोरपि' इति मेदिनी । नुभङ्गभाक् नुवर्ण- भ्रंशं प्राप्ता अत एव भाभास्सती भाभा इति निष्पन्ना सती पुनः आदौ उक्तरीत्या परिभवे सत्यपीति भावः । प्रसव्या प्राप्तानिष्ट- परिहारपूर्वकें त्वत्तेजस्तौल्यलाभाय तस्य प्रतिकूल। अनुकूला वा यदि स्यात् 'प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी। तदाऽपि यथापुरमेव स्यात् भाभा एव स्यात् अप्रकाश- प्रभावा अत्यल्पप्रकाशा वा भवेत्। न तु वदोज इव भातीति त्वदाजोभा: स्यात् पक्षे भाभा इति निष्पन्ना भानुभाशब्दव्यकक्ति: प्रसव्या अनुलोमा प्रतिलोमा वा भाभा इत्येव स्यात् न तु त्वदोजोमा इत्यानुपूर्वीयुतेत्यर्थः। यदि पुनः प्रसव्या स्यादित्यनन भातुभास: पराहतेः पूर्वमपि प्रसव्यत्वेऽपि यथापूर्वावस्थावस्थि- तत्वमेवेति गम्यते। एवं शब्दरूपार्थपक्षेऽपि, भानुभाश्दस्यापि

णप्रागुक्ततद्विपमप्रभदेन दत्तहस्तमिति पूर्वापेक्षया विशेषः॥

यथावा- यत्त्वदमनं प्रैप्सत्तदगत्वा देवदेव गजराजः । प्राप्य जराजत्वमधश्शीर्षोडपि ततो जराजतां न जहौ ॥ १२८७॥

Page 437

424 अलङ्गारमणिहारे

हे देवदेव ! गजराजः यत् त्वद्रमनं त्वद्रमनतुल्यगमनमि- त्यर्थः। प्रैप्सत् प्राप्तुमैच्छत् नत् त्वद्रमनं अगत्वा अप्राप्य। यद्वा तदगत्वात् एव देवेति च्छेदः। हे देव न गच्छतीत्यगः। तस्य अगः तदगः तस्य भावः तद्गत्वं तस्मादेव त्वद्रमनाप्राप्तेरेवेत्यर्थ। जराजत्वं जरान्वितच्छागत्वं, यद्ा जीर्यतीति जर: पचाद्यच्। स चासावज: जीर्णच्छागः तत्वं गमनसौन्दर्यशक्तिवैकल्येन त- त्ताल्यमिति यावत्। प्राप्य, पक्षे गजराजशब्द: अगत्वात् गकारर- हितत्वात् जराजत्वं जराजशब्दत्वं प्राप्येत्यर्थः। ततः अधश्शी- र्षोऽपीति लोकोक्तिः। पक्षे वैपरीतं प्राप्तोऽपि जराजतां उभयथाS- पि जराजत्वं न जहौ। जराज इत्येवासीत् ।. न तु तां पर्यहार्षी- दिति भावः। अत्र गजराजस्य प्राप्तजराजत्वरूपानिष्टपरिहारलक्ष- णेष्टानवाप्तिमात्रं प्राधान्येन प्रतिपाद्यते। भगवद्रमनतील्य रूपेष्टान-

पूर्वोदाहरणवदेव सर्वम्॥ यथावा- त्वदशसा धुत इन्दुस्स्वसुहृदमिनमाप सोऽपि

वदयं च दुस्थितिमान् ॥ १२८८॥ हे भगवन्! इन्दुः त्वद्यशसा धुतस्सन् स्वसुहदं स्वमित्रं इनं कंचन राजानं आप। स्वानर्थपरिहारायोते भावः। पक्षे इनं भातुं तस्य तत्सुहृत्त्त्वं ज्योतिश्शास्त्रप्रसिद्धम्। आप। अप- चितकलस्तदुपचयाय दर्शे रावमण्डलमासादितवानित्यर्थः। सोऽ- पिस राजाऽपि स भानुरपि तव महसा 'दिवि सूर्यसहस्रस्य' इत्युक्तप्रकारेण तजसा विधुतः विशेषेण कम्पितः तमेनं स्व-

Page 438

विषमालङ्कारसर: (४०) 425

स्याप्यनिष्टहेतुभूतमिन्दुं औज्झोत् व्यस्राक्षीत्। शुक्कपक्षादौ र- विमण्डलादस्य विश्लेषः प्रसिद्ध एवेति भावः। इनोज्झितः इनेन तेन राजा भानुना च उज्झितः स्वानिष्टहेतुरयमिति विसृष्टः - अय इन्दुश्च दुस्थितिमान् दुरवस्थावान् अभूत्। वस्तुतस्तु इन्दुशब्द: इना इन् इति वर्णसमुदयेन उज्झितः दुस्थितिमान् दुरिति वर्णसमुदयस्थितिमान् अभूदित्यर्थः । अत्र न केवलमि- न्दोस्स्वानर्थपरिहाररूपेष्टानवाप्तिः, किन्तु स्वाश्रयस्याव्यनर्थप्रा- पिरिति विशेषः॥

यथावा -- अतिघोरं निस्सारं संसारं दूरमुज्झितुमपारम्। उदुञे पुरुषोत्तम कुरुषे करुणां कुतो न साद- रणाम् ॥ १२८९॥ उदुअे उयुक्तोऽस्मि। उत्पूर्वकायुजे: रौधादिकात्कर्तरि ल- डुत्तमपुरुषैकवचनम्। अत्रार्तस्य भगवत्प्रपन्नस्य संसाररूपान- र्थपरिहारलक्षणेष्टानवाप्तिमात्रम्। इदं शुद्धमुदाहरणम्। प्राची- नानि तुश्लेषादिसंकीर्णानीति विशेषः।

परानिष्टप्रापणरूपेष्टानवाप्तिर्यथा- भीष्मं त्वां धृतचक्रं भीष्मं हन्तुं द्रवन्तमत्य- न्तम्। पार्थस्सरभसमरुणत्सार्था संधां च वीक्ष्य स ननन्द ॥ १२१०॥

भीष्मं दारुणं यथास्यात्तथा भीष्मं शान्तनवं हन्तुं धृत- चक्रं अत्यन्तं द्रवन्तम्। स च भीष्मश्च संधां 'अशस्त्रग्रहणं ALANKARA II 54

Page 439

426 अलंकारमणिहारे

प्रतिश्रुतवन्तं भगवन्तं शस्त्रं ग्राहयिष्याम्येव' इति स्वकृतां प्रति- ज्ञां सार्था भगवत्कृतचक्रग्रहणेन सफलां वक्ष्यि ननन्द। अत्र 4 भगवतो भीष्महननरूपपरानिष्टप्रापणलक्षणेष्टानवातिर्निबद्धा। अ- त्रैव भीष्मस्य स्वप्रतिज्ञानिर्वहणरूपसुखसाधनार्थप्राप्ति: वधरूप- दुःखसाधनानर्थनाशः, भगवतश्च स्वप्रतिज्ञाभङ्गरूपदुःखसाधना- नर्थप्राप्तिश्च निबद्धेति सूक्ष्मया दृशाऽवधातव्यम्॥

यथावा- निशिचरवधूकदम्बं मदम्ब हन्तुमपि यतनवान् हनुमान्। करुणतमतावकवचस्सरणिगतिप्रतिह- ताभिलषितोऽभूत् ॥ १२९१॥ निशिचरवध्वः एकाक्ष्येककर्ण्यादिका: तासां कदम्बं हन्तुं रावणवधानन्तरं त्वत्समाश्वासनावसर इति भावः। यथोच्यते श्रीमति रामायणे हनूमता- इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्ज्िता पुरा॥ इत्यादि। करुणतमतावकवचसां- पापानां वा शुभानां वा वधार्हाणां प्रुवङ्गम। कार्य करुणमार्येण न कश्चिन्नापराध्यति॥ इत्यादिवचननाम्। स्पष्टमन्यत्। अन्रापि हनूमतो रक्षस्स्त्रहिननल क्षणपरानिष्टपापणरूपेष्टानवाति:।

यथावा-

तत्पदविपर्ययाय प्रभवेत्को वा कृतप्रयत्नोऽपि॥

Page 440

विषमालङ्कारसरः (४०) 427

हे भगवन्निति प्रकरणाल्लभ्यते। त्वदीयः त्वन्भक्तः श्रीदश्रीः धनदतुल्यविभवः धीरधीः महामतिः, आभ्यां संपत्सारस्वतो- भयसमृद्धिरुक्ता। अत एव प्रदीप्र: अतिमात्रद्युतिशाली च सन् यत्पदं पैहिकमामुष्मिकमापवर्गिक वा स्थानं इयात् प्राप्नुयात् तत्पदस्य तदार्जितस्य स्थानस्य विपर्ययाय प्रळयाय कृतप्रय- तोऽपि को वा प्रभवेत् न कोऽपीति भावः। यद्वा कः ब्रह्माऽपि IAASO-WIASUNALR प्रभवेद्वा इति योजना। सोऽपि न प्रभवेदेवेति भावः । पक्षे त्वदीयः यत्पदं श्रीदश्रीरित्यादिकं यत्पदं इयात तत्पदस्य विपर्य- याय वैलोम्याय कृतप्रयत्नोऽपि को वा प्रभवेत्। महता यतेन प्रातिलोम्येन पाठेऽपि पूर्वानुपूर्व्या एव विद्यमानत्वात्। अत्र भग-

थग्जनस्य वर्णितः। इदं श्ेषसंकीर्णम। पूर्वोदाहरणे तु शुद्धे।।

यंथावा- यद्यचिकीर्षिष्यत ते प्रतापमतिभीष्ममपगतो- ष्माणम्। निशिचरकुलमभविष्यत्स तदाऽप्यति- भीम एव दाझरथे ॥१२९३॥ हे दाशरथे! निशिचरकुलं कर्तृ अतिभीष्मं अतिदारुणं ते तव प्रतापं अपगतः ऊष्मा उष्णता दारुणत्वं यस्य त तथोक्तं अचिकीर्षिष्यत यदि कर्तुमैषिष्यच्चेत्। करोतेस्सन्नन्तात्क्रियाि- पत्तौ लृङ्। तदाऽपि सः तव प्रतापः अतिभीम एव अभवि- व्यत् अनपनोद्योष्मतया अतभीष्म एव समपत्स्यतेति भावः। पक्षे अतिभीष्मशब्दं षकाररूपोष्मवर्णविधुरं समपादयिष्यत चेत् अतिभीम इत्येव स निरपत्स्यतेत्यर्थोऽपि चमत्कारी । अत्र नि-

Page 441

428 अलकारमणिहारे

शिचरकुलस्य भगवत्प्रतापनिरुष्पताकरणलक्षणेष्टानवाप्तिस्संभा- वनारूपेण दर्शिता। एवं तृतीयविषमप्रभेदे अष्टाववान्तरप्रभेदा उपदार्शताः। मेदान्तराण्यप्येवमेवोदाहार्याणीति विस्तरातिभूमिं- भयाद्विरम्यते॥

यत्र केनचित्स्वेष्टसिद्ध चर्थ नियुक्तेनान्येन नियोक्तुरिष्टमनादृत्य स्वस्यैवेष्ट साध्यते तत्रापीष्टानवातिरुपमेव विषसमिति कुवल- यानन्दकारा। तद्यथा-

मम धीरियमिति दयितं समया प्रहिता मया ससंभ्रमया। सा नाम तत्र लीना किं तनवानी- त्यचिन्तयद्राधा ॥१२९४॥

इयं मदीयेति विस्रम्भेण मम धीः दयितं नन्दनन्दनं समया तं प्रतीति यावत्। 'अभितः परितस्समया' इत्यादिना द्वितीया। ससंभ्रमया अदूरदर्शिन्येति यावत। सया प्रहिता प्रेषिता। धीशब्दस्य स्त्रीलिङ्गतया तस्यां दूतीत्वसमाधिर्गम्यते। सा धी: तत्र दयित एव 'सर्वे वाक्यं सावधारणम्' इति न्यायात्, लीना नाम। इतरैः पृथग्दुर्ग्रहतया तत्रैव तदाश्ेषेणैक्यं प्राप्तति भावः। 'ली श्लेषणे' कर्तरि क्ः । पक्षे तदाकराकारितेति भावः। नामेति संभावनायाम्। निलीनेति मन्य इत्यर्थः । कुत्सने वा। धिक्तां दयितं प्रति अद्रोहिणीति प्रत्ययेन मया प्रहितां तत्रैव रम- माणामिति भावः । 'नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने' इत्य- मरः।किं तनवानि किं करवाणीति राधा अचिन्तयत्। अत्र नियोक्रया राधाया अभीष्टमनादृत्य घिया स्वेष्टमेव साधितम्। समासोकितिसंकीर्णमिदं विषमम्॥

Page 442

बिषमालङ्कारसरः (४०) 429

त्वद्विरिपरिसरगमने क्षणमात्रं तन्तटस्फटिक- भाभिः। मुषितकलङ्कस्त्वन्मुखसदृशो विधुरथ यथापुरं भवति ॥१२९५॥ अथ त्वदविरिपरिसरातिवर्तनानन्तरं यथापुरं भवति स्फ- टिकरुचीनां दवीयस्त्वाद्यथापूर्व मकटकलङ्क एव भवति। अत्र- चन्द्रमसो विकलङ्कवेंकटनाथवदनसादृश्यमभीप्सतो वेङ्कटगिरि- परिसरगमनावसरे क्षणमात्रमेव तल्लाभो न सार्वकालिक इति

क्वचिदिष्टानवाप्तावपि तद्वाप्तिभ्रमनिबन्धनवि्छित्तिवि- शेष: । यथा- नवनीतहदागत इति नवनीरदशिशुमवेक्ष्य नि- कटगतम्। तं भ्रमवती निबहुं संभ्रमतोऽयतत काऽपि गोपवधूः ॥ १२९६॥

तीक्षमाणायाः गोपवामेक्षणायाः कस्याश्चित्तदीप्सितालाभेऽपि त- लाभभ्रमो दर्शित:॥ यंत्र समग्रेष्टालाभेन तदेकदेशमात्रावाप्तिस्तत्रापि तदनवा- सिरेव। यथा-

स्फुरणम्। अमितश्रिया स्फुरन्नप्यळिन्द एवारवि- न्दनयनाभूत् ॥१२१७।।

Page 443

430 अलंकारमणिहारे

हे अरवन्दनयन! मििन्दः भ्रमरः त्वद्धामतां त्वदालयतां त्वस्तुल्यच्छवितामिति तत्त्वम्। अभीप्सुः अत एव स्वकं निजं मितस्फुरणं अल्पप्रकाशं. त्यजन्। पक्षे मिळिन्दशब्द: मितः मिव- वैन मिवर्णस्य वा स्फुरणम्। मित इत्यत्र सार्वविभक्तिकस्तासिः। विसर्गस्य 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति पाक्षिको लोपः। त्यजन्नपि मिवर्णसंबन्धं विसृजन्नित्यर्थः। अमितश्रिया प्रचुरत्विषा संपदा वा, शकारस्य 'अनचि च' इि द्वित्वम्। पक्षे अंइतः श्रिया इति छेदः। अं अवर्ण इतः प्राप्तः थरिया स्फु- रन्नपि अर्थवत्तारूपसंपदा प्रकाशमानोऽपि अळिन्द एव बहिर्द्वा- रप्रकोष्ठक एव अभूत्। न तु समग्रं त्वद्धामेति भावः। 'प्र- घाणप्रघणाळिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः।पक्षे मिकारस्थाने अकारं प्राप्तः अळिन्दशब्द एवाभूदित्यर्थः। अत्र 'न गिरा गि- रति ब्रयादिरां कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधी- यमानमिरापदं यथा गिरापदस्थान एव भवति तथाऽत्रापि मि- वर्ण प्रतिषिध्य विधीयमानमवर्ण मिकारस्थान एव भवति। अत एव 'कुषिरजयोः प्राचां श्यन्परस्मैपदं च' इत्यत्र यक प्रति- षिध्य विधीयमानशश्यन् तदीय एव सथाने भवतीति तत्त्वबो- धिन्यादावुक्तं संगच्छते। अत्र मिळिन्दस्य स्वाभीप्सितभगवत्प- रिपूर्णदिव्यालयत्वानवाप्त्या तदेकदेशभूताळिन्दत्वप्राप्तिरपीष्टान- वाप्तिरेवेति ध्येयम्॥ यत्रेष्टानवातिपूर्वकमनभीप्सितस्य यस्यकस्यचिदुदासीनस्य वार्ऽर्थस्यावाप्तिर्निबध्यते तत्रापि केवलेष्टानवापतिरेव। यथा- त्वत्पादसरिदभिख्यालाभायाघश्शरास्स घन- सारः। भूत्वा रसानघोऽपि श्रीश श्रीपादरेणुना- माडभूत् ॥ १२१८॥

Page 444

विषमालङ्कारसर: (४०) 431

हे श्रीश! सः शैत्यसौरभादिभिः प्रसिद्ध: घनसार: कर्पूरः 'अथ कर्पूरमस्त्रियाम्। घनसारः' इत्यमरः। तव पादस्य या सरित् गङ्गा तस्या: अभिख्या नाम शोभा च। 'अभिख्या नाम- शाभयोः' इत्यमरः । तस्याः लाभाय अधाश्शिराः तव पादे नम्रशिरा इत्यर्थः । रसेन जलेन अनघः भूत्वाऽपि। अनेन भग- वत्पादसरदभिख्यालाभौपयिकता दर्शिता। घनसारशब्दो वि- लोमतया पठितो रसानघ इति निष्पन्न इति वस्तुस्थितिः । शब्दा- र्थयोस्तादात्म्यं न विस्मर्तव्यम्। श्रीपादस्य लक्ष्मीचरणस्य रेणु: पांसुरिति नाम यस्य सतथोक्तः अभूत। भगवच्चरणसरिदभि- ख्यालाभाय पावनतथर्िरूपताया: कथंचित्संपादनेऽपि तल्लाभो नाभूच्चेन्माभूत्, श्रीपादसरदभिख्याऽपि वा नासीत्, प्रत्युत श्रीप।- दरेणुनामासीदिति निर्गळितोऽर्थः। श्रीवेङ्कटाद्रौ भगवद्दिव्यवि- ग्रहार्पितो घनसारश्रीपादरेणुरिति व्यवहतो भवतीति तत्त्वम्। अत्र घनसारस्य भगव पादसरिदभिख्यारुपेष्टालाभमात्रं, श्रीपा- दरेणुत्वं तु नोत्कटानिष्टं, येनैतत्पद्यं एतत्तृतीयविषमप्राथमिक- भेदस्योदाहरणं स्यात्, किन्त्वनभीप्सितमति ध्येयम्॥

यथावा- त्वल्लक्ष्म्या अप्यतसी श्रैष्ठयेप्सातच्चयुता तु- लाप्त्यैव। धन्या तुलसीभूयं गतैव तेSम्बुधिसुतेश

हे अम्बुधिसुतेश! अतसी क्षुमाकुसुमं 'अतसी स्यादुमा क्षुमा' त्यमरः । 'पुष्पमूलेषु बडुळम्' इति चैकारिकाणो लुप्। त्वलक्ष्स्या अपि त्वत्प्रभाया अपि। त्वदीयायाः श्रीदेव्या अपी- त्यर्थोऽप्युपस्कार्यः । श्रैष्ठये प्रशस्यतमत्वे ईप्सा यस्यास्सा त-

Page 445

432 अलंकारमणिहारे

थोका सती तच्युता तस्मादभीप्सितात् भ्रंशं प्रात्ता सती तुलाप्चैव त्वल्लक्ष्मीसाम्यलाभेनैव धन्या परमाभीप्सितालाभेऽपि तावतैव कृतकृत्येति भावः। तुलसीभूय तुलसीत्वं 'भुवो भावे' इति भावे क्यष्। गतैव ते तव हृदा हृदयस्था हृदयप्रिया च आसीत्। पक्षे अतसीति शब्दव्यक्ति: अतच्च्युता अताश्यां अकारतकाराभ्यां च्युता तद्रहितेत्यर्थः । तच्चयुतेत्यत्र 'अनचि च' इति पाक्षिकं चकारस्य द्वित्वमर्थान्तरानुगुण्यायैष्टव्यमित्य- सकृदवोचाम। तुलाप्तया अकारलकारस्थाने क्रमेण तुवर्णलव- र्जघटनया तुलसीभूयं गता तुलसीशब्दत्वं प्राप्ता सती हृद्या आसीत्। अत्र अतस्या: भगवल्लक्ष्म्या अपि श्रैष्ठयमीप्सोः तुल- सीत्वमनभीप्सितमात्रं न तूत्कटानिष्टमिति तदप्राप्तया केवले- ष्टानवाप्तिरेव ॥ यथावा- भावत्कचरणतटिनीभासर्वधुरीणतामभीप्स- नती। भारत्यवाक्छिरास्स्यादपि तस्यास्तीरभैव देव स्यात् ॥ १३०० ॥ हे देव! भारती सरस्वती भावत्कचरणतटिन्याः गङ्गायाः भा प्रभा तस्या: सर्वधुरीणतां सर्वधुरावोदृतां, सर्वधुरां वहति सर्वधुरीणं तस्य भावः तत्ता 'वहति' इत्यथे 'सस्सर्वधु- रात्' इति खः। अभीप्सन्ती सती अवाक्छिरास्स्यादपि तस्याः त्वच्चरणतटिन्या: तीरभैव स्यात्। महताऽपि प्रयासेन तत्तीर- सदृशप्रभैव स्यान्न तु तत्तुल्यप्रभेति भावः । पक्षे भारतीति शब्दव्यक्ति: विलोमा चेत्तदा तीरभेत्येव निष्पद्येतेत्यर्थः। अत्रापि

तः, न सूत्कटानिष्टरूप इति केवलेष्टानवात्िरेव।।

Page 446

विषमालंकारसर: (४०) 483

यथावा- तव केतकी कपोलश्रियमिच्छन्ती स्वमम्ब तं वर्णम्। जहती केकी भूत्वा चिकुरकलापश्रियं परमवाप्नोत्॥१३०१॥ स्वं स्वकीयं त लोकोत्तरतया प्रसिद्धं वर्ण गौरवर्णम्। पक्षे स्वं स्ववाचकपदघटकं तं तमित्याकारकं वर्ण अक्षरं जहती सती केकी मयूरो भूत्वा। पक्षे स्ववाचककेतकीशब्दः तकारापसा- रणात् केकीति निष्पन्न इत्यर्थः, वाच्यवाचकतादात्म्यवैभवात्। चिकुरकलापथ्रियं कचकलापलक्ष्मी, स्पष्टमन्यत्। अत्र केतक्याः

भीष्टलक्ष्मीकपोलयुत्यलाभमात्रमिति केवलेष्टानवापतिरिव । लक्षणे अनिष्टावाप्तिरित्यत्र इष्टपदेन समस्यमानस्य नञः 'असुरः अध- मे: अशुभ' इत्यादािव विरोधोऽर्यः, न तु 'अमानुषः अनश्वः' इत्यादाविव तन्द्िन्नत्वम्। तेन अनिष्टमनर्थरूपमिति सिद्धयति।तथा च तादशानिष्टप्रतिलम्भ एव विषमं, न त्विष्टभिन्नस्य यस्यकस्य- चिदुदासीनस्येति रहस्यम। तथैव प्राक्तनबहूदाहरणदर्शनात्। यत्रानिष्टप्राप्तिरिष्टानवाप्तिर्वा श्षेषमहहिसैव प्रतीयते न वस्तुतः तत्रापि विषमालंकारो भवत्येव। यथा- मा भूत्क्वापि पराभव इति ये जगतः प्रभुं भजन्ति त्वाम्। वत पुष्कराक्ष तेषां भवता क्रिय- ते पराभवप्राप्तिः॥१३०२॥ हे पुष्कराक्ष! क्वापि पराभवः मा भूदिति ये त्वां भज- मिति सेषां पराभव्रपराप्तिः भवता क्रियत इति विरोधः । परा ALANKARA II 55

Page 447

434 अलंक्कारमणिहारे

श्रेष्ठा, भवस्याभावोऽभवं अर्थाभावेऽ्व्ययीभावः, न भवः अभव इति तत्पुरुषो वा, तस्य प्राप्तिः निश्श्रेयसप्राप्तिरित्यर्थः। यद्वा हे परोति भगवतस्संबोधनम्। अभवप्रापतिः उक्त एवार्थः, इति परिहारः। अत्र विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥ इति श्रोकार्थोऽनुसंहितः। अत्र पराभवप्राप्तिरिति श्ेषेणैत्र अनिष्टप्राप्तिरिष्टाप्राप्तिर्वा निवद्धा, नतु वस्तुसिद्धा॥ यथावा- चक्रतुलेप्सुरवाग्रा भवतः कौमुदकी तदप्राप्तया। नाथ विमोदा कौकी भूत्वा तदभिधखगानुबन्धम- गातू ॥ १३०३॥ हे नाथ भगवन्! भवतः कौमोदकी गदा चक्रस्य सुद- र्शनस्य तुलां ईप्सु: अत एव अवाग्रा अवनता। 'अवाग्रेऽवन• तानतम्' इत्यमर:। तत्साम्यलाभार्थ नम्रतया कृततदुपसर्पणेति भावः। तदप्राप्तया विमोदा विगलितमोदा सती। यद्वा तदप्राप्तथा अवाश्रेति योजना। तदलाभप्रयुक्तसंकोचेन नम्रशिरा इत्यर्थः । व- तुस्तः कौमादक्या: भगवद्वामपाणिना अवाक्छिखरतयैव धृतत्वस्य दर्शनात्तथोक्तिः। कोकस्येयं कौकी 'तस्येदम्' इत्यणि 'टिट्ठ, इति डेप, भूत्वा। पक्षे कौमोदकीति शब्दव्यक्ति: मोदेति वर्णद्वयविगमे कौकोति सिद्धेत्यर्थः। तस्य चक्रस्य अभिधा.नाम यस्य सः तथोक्तः खगः पक्षी चक्रवाक इत्यर्थः । यथाऽनु- शिष्यते 'कोकश्चकश्चकवाको रथाङ्गाह्वयनामकः' इति। तस्य अ-

Page 448

विषमालङ्कारसर: (४०) 435

नुबन्धितां संबन्धं अगात्, कौकीत्वप्राप्तेरिति भावः। अत्र कौमोदक्याः कौकीत्वलक्षणानिष्टपाप्तिः श्ेषेणैव, न तु वस्तुतः॥ यथावा- प्राक्तनपङ्गमशेषं त्वं शोषयितुं हरेर्भजसि पा- दम्। तस्मात्कीर्तिरुदेष्यति नव्येति सखे पुनर्न जानीषे॥ २३०४॥ हे सखे! इति यंकंचित्सुहृदं प्रति संबोधनम्। अशेष निश्शेषं यथास्यात्तथा प्राक्तनपङ्गं पूर्वाधं प्राचीनकर्दमं च शोषयितुं निराकरतुं शुष्कं कर्तु च, हरे: भगवतः भानोश्च, पादं चरणं किरणं च भजस प्रीतिपूर्वकमनुध्यास्ति सेवसे च। तस्मात् तन्भ्ज- नात कीर्तिः 'यशोऽहं भवामि ब्राह्मणानाम्' इत्यादिश्रुत्युक्तप्रकारेण यशस्साधनभूतं परं ब्रह्म उदेष्यति दर्शनसमानाकारध्यानगोः चरतां प्रपत्स्यते। पुनः न व्येति व्ययं न प्राप्नोति न क्षरती- त्यर्थः। यद्वा कीर्तिः ब्रह्मतित्वप्रथा उदेष्यति जनिष्यत। पुन- न व्येति नापचीयत इत्यर्थः। पक्षे नव्या अभिनवा कीर्ति: कर्दमः पुनः उदेष्यति इति न जानीषे! अत्र प्राक्तनाशेषपङ्गशोषणाय हरिपादं भजमानस्य तल्लाभसन्भावेSपि अपूर्वकर्दमरूपानिष्टप्रा- पिश्च श्रेषेणैव निबद्धा॥

यथावा- नित्यभवभ्रमिखन्नोऽस्म्यभ्रान्तः क्वचन हरिपदे सततं स्याम् । इति कृतयतनोऽपि हरे प्रावृषि केवलमविन्दतेप्सितमिन्दुः ॥१३०५॥

Page 449

436 अलंङ्कारमणिहारे

हे हरे! नित्यं भवे संसारे भ्रमेण चङ्कमणेन देहात्मभ्न- मेण वा खिन्नोऽस्सीति निर्वेदोक्तिः। अतः अभ्रान्तः नित्यसंचा- रविधुरो देहात्मभ्रमविधुरो वा सन् हरिपदे भगवन्मन्दिरे क्वचन तन्नापि यत्रक्वचित् सततं संदा स्यां निवसेयम्। यक्तिंचिदपि कुर्वाणो विष्णोरायतने वसेत्। न किंचिदपि कुर्वाणो विष्णोरायतने वसेत्। इति भगवच्छास्त्रादिति भावः। इति कृतयतनोऽपि इन्दुः प्रा- वृषि केवलं वर्षासमयमात्रे ईप्सितं पूर्वोक्तमभीष्टं अविन्दत न त्वन्यदा। प्रावृष्येव चन्दरमा विष्णुपदे क्वचन अभ्रान्तस्थिति- मानभूत् न तु शरदादावित्यर्थः । वस्तुस्थििस्तु नित्यभवः सततं जात: यो भ्रमः मेरुप्रदक्षिणसंचारः तेन खिन्नः हरिपदे अन्तरिक्षे क्वचन अभ्रान्तः जलभृदन्तरे स्थितिमानिति। अत्रे- न्दार्थतिंकचित्कालिकेष्टावप्तिरेव, न सार्वकालिकेष्ट वाप्तिः श्ेषम- हिन्तरैव॥ एवं प्रागुपदर्शितेूदाहरणेषु प्रायण श्रेषमूलाभेदाध्यवसा- यवैभवेनानिष्टप्राप्तीष्टानवाप्ी प्रदर्शिते अपि व्युत्पित्सुबालबुद्धि- वैशद्याय पुनरिविच्य प्रदर्शिते॥ एवमेतेषु सर्वेषूत्प द्योत्पादकभावरूपसंसर्गगर्भेषु प्रभेदेषु का- र्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्यामावात् क्वचिञ्चे-

नुरूप्याभावात्सामान्यलक्षणानुगतिरिति ध्येयम् ।। इत्यलङ्कारमणिहारे विषमालंकारसरश्चत्वारिंशः ॥

Page 450

अथ समालंकारसरः. (४१)

यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः।। परस्परमनुरूपयोस्संसर्गस्य वर्णनं समालंकारः । अत्रापि संसर्गो विषम इव संयोगलक्षण उत्पत्यादिलक्षणश्चेतीई सर्व- प्रकारसाधारणं लक्षणम्। तत्र संयोगादिलक्षणस्य संसर्गस्या- नुरूपता च द्वेधा-स्तुतिपर्यवसायिनी निन्दापर्यवसायिनी चेति। इदं प्रथमविषमप्रतिद्वन्द्वि समम्॥ तत्राद्या यथा- स्थानं श्रीशैलस्तव नूनं त्वं श्रीनिवास एवा- सि। दानं श्रियश्श्रितेभ्यस्सानन्दं वितरसीति यु- क्तमिदम् ॥१३०६॥

यथावा- स्वालोकैर्वर्धयसे विवुधाग्रसरस्वतो हरे भु- वनम्। कैरवमता तव श्रीर्मन्ये त्वं विधुरसी- त्युचितमेव ॥१३०७॥ हे विबुधाग्रसर त्रिदशश्रेष्ठ! अग्रे सरतीत्यग्रसर इति वि- ग्रहः। 'पुरोऽप्रतोऽग्रेषु सर्तेः' इति टः। 'यूधं तदग्रसरगर्वि- तकृष्णसारम' इत्यादाविव बाहुलकादग्रशब्दस्य पदन्तत्वनिपा- तनाभावः। हे हरे ! आलोकैः कटाक्षैः 'तदैक्षत बहु स्थाम्'

Page 451

438 अलंकारमणिहारे

इत्युक्तसंकल्पविशेषैवा स्वतः स्वभावत एव भुवन लोकं, जा- त्यभिप्रायकमेकवचनं, वर्धयसे सृष्टिपूर्वकं समेधयसे। तव ईद- शस्य भवतः श्रीः संपत्तिः सर्वलोकेश्वरत्वरूपा कैः जनैः अ- वमता अवहेळिठिता, न कैरपीति भावः। पक्षे विबुधाग्र सरस्वतः इति च्छेद:। हे विबुधाग्र देवश्रेष्ठ! 'परार्थ्याग्रपाग्नसरपाग्रया ग्रचाग्रीयमग्रियम्' इत्यमर। आलोकैः प्रकाशैः स्वकिरणैरित्य- रथः। सरस्वतः सागरस्य भुवनं जलं अभिवर्धयसे उत्सेचयसे। तव श्रीः शोभा कैरवमता कैरवाणां कुमुदानां मता अभिमता। अतः त्वं विधु: चन्द्रः असीति उचितमेव मन्ये। विधुः भग- वानिति तु तत्त्वम्॥।

यथावा- भूयस्सु भूषणष्वपि कलयास कमलेश का- श्रिकां मध्ये। मध्यस्थतोचिताऽस्याः प्रतीपवचनेऽ- पि न विकृता यदियम् ॥ १३०८॥

यत् यस्मत् कारणात् इय काश्चिका प्रतीपवचनेऽरपि स्व- प्रतिकूलभाषणेऽपि न विकृता अविकृतस्वभावा न्यायैकदष्टितय। स्वाभीप्सतविरुद्धभाषणेऽपि चित्तविकारं नैतीति भावः । अस्या: एवंवि या: मध्यस्थता मध्ये न्याय्येजर्थे तिष्ठतीति मध्यस्थं तस्य भावः मध्यस्थता 'शरद: कृतार्थता' इत्यादाविव सामान्ये न- पुंसकमित्यसकृदवोचाम। न्याय्यमार्गवर्तित्वमित्यर्थः।'न्याय्येऽ- पि मध्यम्' इत्यमरः। 'अस्त्री मध्यं समे न्याय्येऽ्यवकाशा- वलग्नयोः' इति रत्नमाला च। पक्षे काश्चिकाशब्दः प्रतिकूल- तथा पाठेऽव्यविकृतानुपूर्वीको भवतीत्यर्थः । अस्या: काश्चिकायाः

Page 452

समालङ्कारसरः (४१) 439

मध्यस्थता अवलग्नलग्नता उचितेति वस्तुसस्थितिः। तस्याः मध्यै- कभूषणत्वादिति भावः ॥ यथावा- आद्यन्ततुल्यरूपं विभिन्नवर्णमपि मध्यतस्तव भगवन्। नयनं नलिनं च कदाSप्यप्रतिकलं तदुचि- तमनयोस्सख्यम् ॥ १३०१॥ हे भगवन्! तव नयनं नलिनं च आद्यन्तयोः मूलापा- ङ्यो: प्रथमचरमभागयोश्च तुल्यरूपं उभयोरप्यरुणवर्णत्वात्, तु- ल्याक्षरं च अनयोशब्दयोराद्यन्तयोर्नकारघाटेतत्वात्। मध्ये म- व्यभागे विभिन्नवर्ण परस्पराविलक्षणवर्णमपि नयनस्य मध्ये क- नीनिकया नैल्यात् नलिनस्य तु कर्णिक्या पिशङ्गत्वादिति भावः । पक्षे य लि इत्यन्योन्यविलक्षणमध्यमाक्षरमात्रमित्यर्थः। सदाऽपि अप्रतिकूलं अन्योन्यप्रातिकूल्यरहितं अविरुद्धभूयोधर्मवत्तया य- तिंकचिद्विरुद्धधर्मवत्ताया आकचित्करत्वादित्ि भावः। शव्दपक्षे सदाऽपि आनुलोम्य इव प्रातिलोम्येऽपीति भावः। अप्रतिकूलं अविकृतानुपूर्वीकमेव । तत् तस्मात् अनयोः नयननलिनयोः सख्यं उचितमेव यत्किंचिद्धर्मवैलक्षण्येऽपि तयोर्भूयोधर्मवत्ताया- स्सन्भावात्साम्यं युक्तमितति भावः। किंच अत्र तव नयनमित्यनेन भगवतो भानुरूपं नयनमेव चेद्विवक्ष्येत तदाऽप्यमूनि विशेष णान्युभयसाधारणान्येव। यथा आदयन्ततुल्यरूपत्वमनयोरुमयो- रप्यरुणवर्णत्वात्। मध्ये विभिन्नवर्णत्वं च भानोर्मध्येऽप्यरुणवर्ण- त्वात्, नलिनस्य उक्तरीत्या मध्ये पिशङ्गवर्णत्वाच्च। सदाऽप्य- प्रतिकूलत्वं तूभयारानुकूल्यस्य लोकवदावेश्रुतत्वात्। तस्मान्भानु- नलिनयोस्सख्यमुचितमेवेति। अन्यत्तुल्यम्।

Page 453

440 अलक्कारमणिहार

यथावा- अपि यत्प्रसव्यभाषे ननु घनसारो रसानघ- स्तद्यम्। घनसारस्याच्युत तव रसानघस्योचितं ललाममिति॥१३१०॥

ननु अच्युत! यत् वस्मात् घनसार: कर्पूरः प्रसव्यः प्र- तिकूलः भावः स्वभावो यस्य तस्मिन्नपि जने रसानघः रसेन प्रीत्या अनघः निर्दोषप्रीतिरिति भावः । रखः अनघः यस्येति वा विग्रहः। अपिशव्देन अनुकूलस्वभावे रसानघत्वं कैमुति- कन्यायसिद्धमिति द्योतितम्। वस्तुतस्तु घनसारशब्द: प्रति- कूलत्वे रसानघ इति निष्पद्यत इत्यर्थः । 'प्रसव्यं सव्य आ- यत्ते प्रतिकूलानुकूलयोः' इति रत्नमाला। तत् तस्मात् अर्थ ईदशो घनसार: घनस्सार: बलं यस्य तस्य घनसारस्य, प्रस- व्यभावेऽपीत्येतदत्राप्यनुषज्यते। अनुकूलस्वभावे पुंसीव प्रति- कूलस्वभावेऽपि विषये इति तदर्थः। रसानयः निर्दोषप्रीति- शाली, न हि महोदारस्यास्य प्रीतिविषये प्रतिकूलानुकूलक- क्ष्याविभागोऽस्तीति भावः। यद्रा रसः आनन्दोपलक्षितानन्त कल्याणगुणाकर: अनघः अखिलहेयप्रत्यनीक इत्यर्थः । च्ेतनः अनुकूलः प्रतिकूलोवाऽस्तु तदानुकूल्यप्रातिकूल्याभ्यां स्वाभा- विकस्यैतदुभयालिङ्गत्वस्य न कश्चिद्विशेषस्संभवतीति भावः। ईदृदशस्य तव ललामं दिव्यवदने पुण्ड्रं भवतीत्युचितं, उभयो- रपि घनसारत्वरसानघत्वाभ्यामानुरूप्याद्विति भावः। 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः। प्रसिद्धं हि श्रीनि- वासस्य भगवतः कर्पूरोर्ध्वपुण्ड्रशोभमानफालफलकरवंम् ।।

Page 454

समालङ्कारसरः (४१) 441

यथावा- कर्पूरं तव मुखमपि चन्द्राभिख्योज्ज्वलं त- था सुरभि। उरगाचलशिखरशशिन्रुचितं खलु तस्य तल्ललामत्वम्॥ १३११॥ चन्द्राभिख्यया चन्द्रनास्ना उज्जवलं 'घनसारश्रन्द्रसंज्ञः' इत्यनुशासनात्। पक्षे चन्द्रनिभशोभाविभासुरं। तथा तद्वत् सु- रभि सुगन्धि, पक्षे मनोजं 'सुगन्धौ च मनोशे च वाच्यवत्सु- रभिस्स्मृतः' इति विश्वः। तथासुरभीति समस्तं वा पदम्। लोकोत्तरसौरभशालीत्यर्थः। तस्य कर्पूरस्य तल्ललामत्वं त्वद्व दनस्य पुण्ड्रत्वं भूषणत्वं वा, कोशस्तूक्तः। अत्राद्य उदाहरणे परस्परमनुरूपयोः श्रीनिवासश्रीप्रदानयोः, द्वितीये स्वालोकक- रणकभुवनाभिवर्धनादिविधुत्वयोः, तृतीये काञ्चिकामव्यस्थत्वयोः तुरीये नयननलिनसख्ययोः, पश्चमषष्ठयोरुदाहरणयोर्धनसारश्री निवासमुखललामत्वयोस्संसर्गस्य वर्णनम्॥ यथावा- फणवृषभाचलभास्वन् शुभाश्रयं तव विभा- वयन्नन्तः। तत्क्तुनयादिहैव हि शुभाश्रयोऽभ- वमरेफसंसर्ग: ॥ १३१२ ॥ हे फणिवृषभाचलभास्वन ! तव शुभश्चासावाश्रयश्च ध्या- नालम्बनभूतो दिव्यमङ्गळविग्रहः तं अन्तः विभावयन् ध्या- यन् अहं तत्क्रतुनयात् 'यथाक्रतुरास्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति' इति श्रुतिप्रतिपादितयथाऋ्रतुन्यायात्। क्र- ALANKARA II 56

Page 455

-- 442 अलङ्गारमणिहारे तुरुपासनम्। इहैव न त्वितः प्रेत्य । इदमाश्चर्यमिति भावः । रेफस्य गर्हितस्य अधस्येत्यर्थः । 'निन्दितस्य च सेवनात्' इत्यादौ अघस्य निन्दितत्वोक्ते । संसर्गस्संबन्धः स नास्ति यस्य सः अरे- फसंसर्गस्सन् शुभाश्रयः मङ्गळविभ्रहः अभवम्। पक्षे शुभाश्र- यशब्द: अरेफसंसर्गः रवर्णसंबन्धरहितः शुभाशय इति निष्पन्न इत्यर्थः। शब्दार्थयोस्तादात्म्यम्। 'रवर्णे पुंसि रेफस्स्यात् कुत्सिते वाच्यलिङ्गकः' इत्यमरः। त्वद्दिव्यमङ्गळविग्रहानुध्यानेन निरस्तनिखिलाघः कल्याणाशयोऽभवमिति निर्गाळतोऽर्थः। 'आ- शयस्स्यादभिप्राये मानसाधारयोरपि' इति विश्वः। अत्र शुभा-

यथावा- विनतानन्दननिपुणौ द्वावपि विश्वंमराभिवह- नचणौ। तन्नभिदा काऽ्प्यनयोर्मैंत्रयुचिता पत- गपन्नगाधिपयोः ॥ ५३१३॥ द्वावपि पतगपन्नगाधिपावुभावपि विनतानन्दननिपुणौ वि. नतायाः विनतानां च आनन्दने निपुणौ। विश्वंभरस्य विश्वं- भरायाञ्च अभिवहनन वित्तौ अभिवहनचणौ । 'तेन वित्तः' इति चणप्प्रत्ययः । प्रथित इत्यर्थः । तत् तस्मात् अनयोः पत- गपन्नगाधिपयो: गरुत्मदनन्तयोः काऽपि भिदा वैलक्षण्यं ना्ति। अतोऽनयोः मैत्री उचिता, उभयोरपि तुल्यधर्मकत्वादिति भावः । पक्षे पतगाधिपपन्नगाधिपशब्दयोः, तन्नभिदेति समस्तं पदम्। तकारद्वित्वघटितनकाराभ्यामेव भेद:, पकारगकारादिवर्णानामुभ- यत्र तौल्यादिति भावः। अत्र पतगपन्नगाधिपयोरन्योन्यमैत्रचा आनुरूप्यम्॥

Page 456

समालङ्कारसर: (४१) 443

यथावा-

भगवन्। तादृक्षा एव हि तैस्सेव्यन्ते त्वत्पदाश्रता यतयः ॥ १३१४॥ हे भगवन् ! व्यत्ययसमये विपर्ययकालेऽपि अतिकृछदशाव- सरेऽपीति यावत्। यैः वैष्णवैः अविकृतभावैः यथाऽवस्थितभगव- च्छेषत्वादिस्वभावैरेव स्थितं, भावे क्ः । तैः वैष्णवैः तादृक्षाः व्यत्ययसमयेऽप्यविकृतस्वभावा एव त्वत्पदश्रिताः त्वञ्चरण शरणं गताः। यद्ा त्वत्पदं त्वच्चिह्नं त्रिदण्डमित्यर्थः। 'त्रिदण्डं वैष्णवं लिङ्गम' इति स्मरणात्। श्रिताः त्रिदण्डिन इत्यर्थः । यतयः संयमिन: सेव्यन्ते, न त्वतादृशा इति भावः । पक्षे वर्णविप- र्याससमयेऽ्यविकृतस्वभावैः वैष्णवैः, अस्य वैष्णवैरित्यानुपूर्वी- विशिष्टस्य पदस्य विपर्ययेण पठनेऽपि तथैवावस्थानादिति भावः । तादृक्षा: उक्तविधाः यतयः अस्यापि पदस्य वैपरीत्ये यथापूर्वमे- वावस्थितेरिति भावः। अर्थगतस्य बहुत्वस्य पदे आरोपः। अत्र वैष्णवानां त्रिदण्डिनां प्रपञ्नानां वा यतीनां चातुरूपस्संसर्ग:॥ यथावा- जगतामधिभूर्भगवान् श्रीरधिभूस्त्वमपि तदि- दमनुरूपम्। प्रायेण विभक्तावपि पौंस्ने सैणे यदै- करूप्यजुषौ ॥ १३१५॥ हे श्रीः! भगवान् जगतां अधिभू: अधीश्वरः 'एष सर्वे- श्वरः' 'पति विश्वस्य' इत्यादिश्रवणात्। 'अधिभूर्नायको नेता' इत्यमरः । त्वमपि जगतां अधिभू: अधीश्वरी 'ईशाना देवी भुव-

Page 457

444 अलङ्कारमणिहारे

नस्थाधिपत्नी, अस्येशाना जगतो विष्णुपती' इत्यादिश्रुतेः। तदिदं युवयोरधीश्वरत्वं अनुरूपम् । उभयोरधिभूत्वे हेतुमाह- प्रायेणेत्यादिना। यत् यस्मात् पौंसने पुंसमूहे स्त्रेणे स्त्रीसमूहे च विभक्तावपि- देवतिर्यक्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनान्नी लक्ष्मीर्मैंत्रेय नावयोर्विद्यते परम॥ यो यो भवति पुंभावस्स विष्णोरिति निश्चयः। यो यस्तु नारीभावस्स्यात्तत्र लक्ष्मीर्व्यवस्थिता॥। इति वैष्णवब्राह्मपुराणादयुक्तरी्या परस्परेच्छाविशेषेण कृतवि- भागावापि ऐकरूप्यजुषी जगद्वयातयादिलक्षणसवभावैक्यभाजौ, मया यथा जगद्वयासं स्वरूपेण स्वभावतः। तया व्याप्तमिंद सर्वे नियन्त्री च तथेश्वरी।। मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः। इति विष्वकसेनसंहितायुक्तेः। प्रायेणेत्युक्तया- मम तस्याश्च सेनेश वैलक्षण्यमिदं श्रुणु। मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम ॥ तस्याश्च जगतश्चाहमाश्वरो वेदविश्रुतः।

इत्यायुक्तं किंचिद्वैलक्षण्यमस्तीति सूचितम्। अतो युवयोर- धिभूत्वमनुरूपमेवेति। पक्षे अधिभूशब्दावुभावपि पौंस्ने पुंस्त्वे स्तरैणे स्त्रीत्वे च 'स्त्रीपुंसाभ्यां नञस्नञौ भवनात्' इत्यपत्यादिभवनाधि- कारपर्यन्तमुक्तेष्वर्थेषु नञ्रस्ननोर्विधानात्समूहार्थे भावार्थे च पुंश- व्दात् सन, स्त्रीशव्दान्नन च प्रत्ययः। विभक्तौ स्वादिविभक्तौ परत इति शब्दशास्त्रमर्यादालभ्यं, प्रायेण भून्ना ऐकरूप्यजुषौ तयोश्शव्द्रयोः पुल्लिङ्गस्त्रीलिङ्गयोरैकरूप्यस्य दर्शनादिति भावः।

Page 458

समालंकारसरः (४१.) 445

स्त्रीलिङ्गे डिति आमि च विभक्तौ रूपान्तरस्यापि विधांनात्प्ायेणेत्यु-

यद्यादिदेव सत्वं हृद्याविर्भावभाक्परं सुकतात्! यथावा-

विद्याम तदा सत्त्वं हृद्याविर्भावभागिति स्थाने।। हे आदिदेव! अखिलजगत्कारणभूत भगवन्! अनेन 'आ- दिदेवो महाबाहुर्हरिर्नारायण: प्रभुः' इत्येतत् स्मारितम्। सुक्ृ-

श्रेष्ठं सत्वं सत्वगुण: हृदि मनसि अविर्भावभाग्यदि आविर्भूतं चेतु आहारशुद्धिमूलकसत्वगुणलाभेन चित्तशुद्धिर्भवेश्वेदिति भाव:। तदा सः सकलजगत्कारणत्वनियन्तृत्वादिना प्रसिद्धः त्वं हृदि चित्ते अविर्भावभाक्। यद्वा हृद्ः हृदयस्य प्रियः यः अविर्भावः तं भजतीति तथोक्त। दर्शनसमानाकारध्रुवानुस्मृ- तिरूपध्यानगोचरो भवसीति स्थाने युक्तं विद्याम जानीयाम। विदेलिङुत्तमबहुवचनम्। अत्र 'आहारशुद्धौ सत्वश्रुद्धिस्सत्व- शुद्धौ ध्रुवा स्मृतिः' इति श्रुत्यर्थच्छायाऽनुस्मृता। अत्र सत्त्व- शुद्धिभगवदाविर्भाव योरतुरूपयोर्वर्णनम्।।

वृषगोत्रशेखरं त्वामुषसि स्मरतां हरेऽच्युता- यथावा-

त्मवताम्। भद्रत्वं चोक्षत्वं प्राप्यं यद्गवति तदि- दमनुरूपम् ॥ १३१७॥ हे हरे! इदं च संबोधन वक्ष्यमाणप्रत्यूषस्मरणानुगुण्याय। 'उत्तिष्ठश्चिन्तय हरिम्' इति स्मरणाम्। अनेनैवास्य वक्ष्य- माणभद्रत्वप्रापणानुकूलं मङ्गळत्वमपि द्योतितम्।

Page 459

446 अलंकारमणिहारे

नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गळम्। येषां हृदिस्थो भगवान् मङ्गळायतन हरि: ॥ इति स्मरणात्। हे अच्युत! अनेन वक्ष्यमाणचोक्षत्वसंपाद- नानुगुणं पावनत्वं व्यश्जितम्। यथाचोच्यते- अतिपापप्रसक्तोSपि ध्यायन्निमिषमच्युतम्। भूयस्तपस्वी भवति पङ्किपावनपावनः॥ इति। उषसि प्रत्यूषे वृषगोत्रशेखरं शेषाद्रिशेखरं त्वां स्मरतां आत्मवतां ज्ञानिनां यत् भद्रत्वं मङ्गळायतनत्वेनोक्तस्य हरेस्तव स्मरणेन यत्कल्याणत्वमिति भावः, प्राप्यं भवति तत् अनुरूपम्। यत् चोक्षत्वं शुद्धत्वं च प्राप्यं पावनतमत्वेनोक्तस्याच्युतस्य तव स्मरणेन यत्पवित्रत्वं लभ्यमिति भावः, तदिदमप्यनुरूपम्। 'चुक्ष संशुद्धौ' अस्मात्पचादयच्। 'भद्राश्शिवे खञ्जरीटे वृषभे च कद- मबके' इत्युपक्रम्य 'कीब मङ्गळमुस्तयोः' इति 'चोक्षो गीते शु- चौ दक्षे तथाऽभीक्ष्णमनोज्ञयोः' इति मेदिनी। पक्षे वृषगोत्र- शेखरं वृषभकुलावतंसं त्वां स्मरतां भद्रत्वं वृषभत्वं यत् प्राप्यं तदनुरूपम्। च उक्षत्वमिति छेदः । उक्षत्वं च प्राप्यमिति यत् तदिदमप्यनुरूपमित्यर्थः। वृषभकुलावतसस्मर्तृणामिदं फलमुचि- तमेवेति भावा। अत्र वृषगोत्रशेखरस्मरणस्य भद्गत्वावाप्त्यादे- श्चानुरुप्यम् ॥

यथावा- अच्युतशोभनभोगस्पर्शनतस्फातिमान् घनाघ- नराटू। अतिमात्रमुन्नतश्श्रीस्तनतात्युचितं पयो- घरो ह्येषः ॥ १३१८॥

Page 460

समालङ्कारसरः (४१) 447

अच्युता अप्रच्युता शोभा यस्य सः नभः गच्छतीतति नभोगश्च। विशेषणोमयपदकर्मधारयः। अच्युतशोभं यन्नभः त- द्रच्छतीति तथोक्त इति वा। स्पर्शनतः सारतात् स्फातिमान् वृद्धिमान्। स्पर्शनत इत्यत्र सकारस्य खर्परकत्वान्नभोगशब्दा- न्तिमवविसर्गलोप पष्टव्यः, अर्थान्तरेऽपि शब्दसारूप्याय। एवं श्रा्तिनतत्यित्रापि। पक्षे अच्युतस्य भगवतः शोभनो भोगो यस्य तत्तथोक्तं यत् स्पर्शन अवमर्शः तेन ततः, सार्वविभक्ति- कस्तासः। यद्ा शोभनो यो भोगस्संम्भोगः तस्मिन् तदव- सरे स्पर्शनतः संस्पर्शात् स्फातिमान् उच्छनइत्यर्थः। 'स्फा- तिर्वृद्धौ' इत्यमरः। अतिमात्रं उन्नता श्रीः यस्य स तथोक्तः। धनाघनराट् प्रावृषेण्यवारिवाहः स्तनति गर्जतीत्युचितम्। हि यस्मात् एष: पयोधरः पूर्णसलिलः । पक्षे अतिमात्रं उन्नतः श्री- स्तनति श्रीस्तन इवाचरतीत्युचितम्। हि यस्मात् एषः पयो घरः पूर्णक्षीर। अत्र घनाघनराजस्य स्तनतीतिशब्दप्रतिपाद्यग- रजनाभेदाध्यवसितस्तनवदाचरणस्य चानुरूप्यम्। उपमासंकीर्ण- मिदम् ॥ यथावा- सेवनकृच्छमलब्धा पावन तव पादपद्मयोर्म- नुजः । सेवनकृच्छूमलब्धा देवनकृच्छ्रेणिषूचितं ह्येतत् ॥१३१९॥ हे पावन! 'पावनस्सर्चभूतानां त्वमेव रघुनन्दन' इत्यु- करीत्या पवित्ररूप हे भगवन् ! तव पादपद्मयो: सेघनकृत् सेवा- विधाता। श्रमस्य लब्धा 'त्रिभुवनविधातुः' इत्यत्रेव शैषिक- षष्ठयास्तृजन्तेन समासः। भगवश्चरणारविन्दपरिचरणपरिश्रम-

Page 461

448 अलंकारमणिहारे शालीत्यर्थः । मनुजः देवनकृतां धूर्तानां श्रेणिषु विषये सेवन- कृत् श्रमलब्धा भवति एतदुचितमिति काक्का नोचितमिि वि- रोधः। परिहारस्तु-सेवनकछं अलब्धा इति छेदः।ेवन कृतां अक्षदेविनां धूर्तानां श्रेणिषु पङ्गिषु सेवनस्य स्यूतेः 'षि- वु तन्तुसन्ताने, ल्युट्। कच्छूं क्लेशं अलब्धा अप्राप्ता। लभे- स्तृन्। धूर्तश्रेणिमध्यघटनप्रयुक्त केशमननुभविता भवति। भगव- ञ्चरणारविन्दपरिचरणचणस्यं तादृशदोषानुन्मेषादिति भावः । अत्र भगवञ्चरणपरिचरणकृतो धूर्तजनासंसर्गोऽनुरूपः । विरो- धालङ्कारयमकसंकीर्णत्वं विशेष:। यथावा- अध्यक्षितमासीद्यैरध्यहिगिरि देव तावकं रूपम्। दधति सदाध्यक्षितमिह परत्र चामी तदे- तद्नुरूपम् ॥ १३२०॥ हे देव! यैः जनैः अध्यहिगिरि अहिगिरी तावक रूपं अ- व्यक्षितं साक्षात्कृतं आसीत् अमी ते जना: इह परत्र च अध्यक्षितं तत् त्वद्रूपं सदा दघति। एतत् अनुरूपं उपायफल- यरेविसंवादादिति भावः। वस्तुतस्तु इह अस्मिन् लोके सदा अध्यक्षितं अध्यक्षं कृतं अधिराजत्वेन निष्पादितं रूपं दधति राजानो भवन्तीत्यर्थः । 'अध्यक्षोऽधिकृते पुंसि स्यात्प्रत्यक्षेऽ्रभि- ेयवत्' इति मेदिनी। परत्र च परमपदेऽपि सदाध्यक्षितं रूपं सत् आध्यक्षित इति च्छेदः। सत् प्रशस्तं सत्यकामत्वादिशु- भगुणवत्। आधिना मनोव्यथया अशनायादिहेतुकया अक्षितं अक्षीणं 'क्षि क्षये' कर्मण क्ः। रूपं 'अपहतपाप्मा' इत्यायु- क स्वाभाविकं रूपं दधति॥

Page 462

समालङ्कारसर: (४१) 449

यथावा- रक्तं त्वयि सर्वसमे समतां चेतो विभर्ति सर्वत्र। भगवन् प्रतिकूलं तु प्रपद्यते तत्प्रतीपता- मेव ॥ १३२१॥ हे भगवन्! सर्वसमे 'सर्वस्य शरणं सुहृत्। समोऽहं स- र्वभूतेषु' इत्युक्तरीत्या सर्वसुहृददि त्वयि रक्तं अनुरागशालि चे- तः चेतनस्य हृदयं सर्वत्र समतां तुल्यदृष्टितां बिभर्ति। 'तुल्यो मित्रारिपक्षयोः' सर्वभूतश्शमश्शान्तः' इत्यायुक्तचेतनधर्मस्य चेतस्यारोपः । प्रतिकूलं सर्वसुहृदि त्वाये प्रातिकूल्यभाक् चेतस्तु तत्प्रतीपतां सर्वसमताप्रातिकूल्यमेव वैषम्यमेव प्रपद्यते। पक्षे तत्प्रतिकूलतां तस्य समतामिति शब्दस्य प्रतिलोमं तामसमि- ति शब्द: तस्य भावं तामसतां प्रपद्यत इत्यर्थोऽपि चमत्का- रातिशयं पुष्णाति। अत्र सर्वसमभगवद्विषयकानुरागसर्वसम- तावाप्योः तत्प्रतिकूलत्वतामसतावाप्तचोश्चानुरूपयोर्घटनम्। मा- लारूपत्वं पर्यायोक्तिगर्भत्वं च विशेषः ।। इमानि सर्वाण्युदाहरणानि ऋरषादिसंकीर्णानि। इदंतुशु- द्वमुदाहरणम। यथा- अज्ञं सर्वज्ञस्त्वं दयनीयं मां दयासुधाम्भोधे। दीनं च दीनबान्धव रक्षसि चेदुचितमम्बुजाक्ष तव ॥ १३२२॥ सर्वमिदं स्तुतिपर्यवसायि समम्॥ ALANKARA IT 57

Page 463

450 अलंकारमणिहारे

निन्दापर्यवसायि यथा- दुर्जनशिखामणेर्मे दुर्जरविषयानुधावनं यु- क्तम्। शुनकखरजम्बुकादिर्ननु कलयति नैव हेयवैमुख्यम्॥ १३२३ ॥ यथावा- ननु नाथ शीतलमहा जहार भवतस्स्मितश्रि- यं विशदाम्। हाशीलवर्जितोSसौ तमस्स्वभावं बभार तद्युक्तम् ॥ १३२४ ॥ ननु नाथ! हे भगवन्! शीतलमहाः चन्द्रमाः भवतः विशदां स्मितश्रियं उन्निद्रां संपदमिति च गम्पते, जहार। हा इति खेदे। शीलेन सद्वत्तेन वर्जितः असौ शीतलमहाः तम- स्स्वभावं तमोगुणस्वभावं बभार। तद्युक्तम, भवदीयस्मितश्री हर्तुस्सच्चरितवर्जितस्य तमःप्रकृतिकत्वं युक्तमेवेति भावः। तमसः तिमिरस्य सुष्ठ अभावः स्वभावः ते बभारेति वस्तु- स्थितिः। पक्षे हाशील इतिवर्णत्रयवर्जितइशीतलमहा इति शब्द: तम इति वर्णसमुदयेन स्वभावं स्वसत्तां बभार। हाशील इति वर्णसमुदयापसरणे तावन्मात्रमेव परिशिष्ट इति भावः।

र्यवसायि। अत्र परस्वापहरणादेस्तमस्स्वरूपभरणस्य चानुरूप्यं निन्दाप-

यथावा- कचजातरूपचौर्यान्तवाद्यवर्णच्युतो बत मि- ळिन्दः। अग्रजपुमाश्रितोऽपि प्राप पुळिन्दत्वमेष मधुपो हि॥ १३२५॥

Page 464

समालङ्कारसरः (४१) 451

हे श्रीरिति सामर्थ्याल्लक्यते। मििन्द: भ्रमरः मिळिन्द- शब्दञ्च, तयोस्तादात्म्यम्। तव कचानां शिरोरुहाणां यत् जातरूपं सुवर्ण तदाभरणभूतमिति भावः। यद्ा कचात दी- व्यत इति कृचं 'कच दीप्तौ' पचादच्। यत् जातरूपं दश- वर्णसुवर्णमित्यर्थः। कचजातं शिरोरुहजं यत् रूपं नीलरूपमिति तु वस्तुस्थितिः, तस्य चौर्यात्। आद्यवर्णात्. ब्राह्मणवर्णात् मि इत्याकारकप्रथमवर्णान्च व्युतस्सन् अग्रजाः ब्राह्मणा: ये पुमांस: तेषां आश्नितोऽपि, शेषषष्टयास्समासः, तानाश्रितोऽपी- त्यर्थः। वस्तुतस्तु अग्रजं आदं मिकारस्थानिकमिति भावः। पुं पुमित्याकारकवर्णसमुदयं आश्रितः। अपिस्समुच्चये। न केव- लमादौ मिवर्णच्युतः अपितु पुवर्णमप्याध्रित इत्यर्थः। पुळि- न्दत्वं म्लेच्छजातिविशेषत्वं 'मेदा: किरातशबरपुळिन्दा म्ले- चछजातयः' इत्यमरः। पक्षे पुळिन्दशब्दृत्वं च प्राप। अस्य पुळिन्दतावाप्ौ हेत्वन्तरं समुञ्ञिनोति-एष इति। हि यस्मात् एष: मिळिन्द: मधुपः मदपः, ईशस्य पुळिन्दत्वप्राप्तिरुचितै- वेति भावः। मकरन्दलिडिति तत्वम्। अत्र कचजातरूपचौर्य- प्रभृतेः पुळिन्दृत्वप्राप्तयादेश्चानुरूप्यं निन्दापर्यवसायि॥ यथाघा- मुखजमपि नाथ जलजं त्वत्पदविद्वेषतोऽन्त- राविलताम्। एत्य जघन्यजमासीदीद्ृक्षस्यान्त्य- जत्वमप्युचितम् ॥ १३२६॥ हे नाथ जलजं मुखजमपि स्वयं ब्रह्मवर्णमपि मुखभागे जकारसहितमितति वस्तुस्थितिः, शब्दार्थयोस्तादात्म्यास्। जलजं लडयोरभेदाअडजमित्यपि प्रतीयते। त्वत्पदीवेद्वषतः अन्तः मन-

Page 465

452 अलंकारमणिहारे

सि आविलतां कलुषतां, पक्षे अन्तरा अविलतां इति छेद:। विगतो लकारो यस्य तत् विलंन विलं अविलं तस्य भावः अविलता तां अविलतां, अन्तरा मध्ये अविलतां लकारसा- हित्यममित्यर्थः । एत्य जघन्यजं शूद्रवर्णजं 'वृषलाश्च जघन्यजाः' इत्यमरः । पक्षे जघन्यः अन्त्यः जः जकारो यस्य तत्तथोक्तं आसीत्। नैतावदेवास्य फलमित्याह-ईदृक्षस्येति। त्वत्पद्वि- द्वेषिण इत्यर्थः । अन्त्यजत्वं चण्डालत्वमपि उचितमेव। 'यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्' इत्युक्तेरिति भावः। पक्षे अस्य जलजपदस्य अन्त्यः अन्तिमः जः जकारो यस्य तत्तथोक्तं तस्य भावः अन्त्यजत्वमपीत्यर्थः । जघन्यजान्त्यज- शब्दयोरस्मिन् पक्षे तुल्यार्थकत्वादिति भावः । अत्र भगवत्प- दविद्वेषस्य जघन्यजत्वादेश्चानुरूपस्संसर्गो निन्दापर्यवसायी॥

यथावा- ऐरावणस्तवाग्रैरहितत्वमुपेत्य रघुवर यशोभिः। अलभत बत रावणतां तावकविद्वेषिणोऽस्य युक्त- मिदम् ॥१३२७॥

हे रघुवर! ऐरावणः ऐरावतः अग्रैः परार्थ्यैः तव यशो- भिस्सह अहितत्वं धावळयेन विरोधं उपेत्य प्राप्य रावणतां अलभत। पक्षे-परावणशब्दः अग्रैरहितत्वं इति समस्तं पदम्। अग्र: प्रथम: ऐ इतिवर्णः तद्रहितत्वं उपेत्य रावणतामलभत तथा निष्पन्न इत्यर्थः । तावकविद्वेषिणः त्वदीयवस्तुविषयकद्वेषशालिनः अस्य परावतस्य इदं युक्तम्। अत्र रघुवरयशोविद्वेषरावणता- वापत्ोरानुरुप्यम ।।

Page 466

समालङ्कारसर: (४१) 453

यथावा- निरयस्त्वद्विषये यो निरयस्तेनाप्यते Sहिशैल- मणे। नरको यो द्वेष्टि त्वां नरको नियतोऽस्य तदिदमनुरूपम् ॥ १३२८॥

यः त्वद्विषये निरयः अयात् निष्क्ान्तो निरयः 'अयश्शु- भावहो विधिः' इत्यमरः । 'निराद्यः क्रान्ताद्यर्थे पञ्चम्या' इति समासः। 'न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम्' इत्य- वश्यकर्तव्यतया विहितत्वदाराधनरूपशुभावहविधिविधुर इत्यर्थः। तेन निरयः नरकः आप्यते। यः नरकः कुत्सितो नरः 'कुत्सा- याम्' इति कन्। त्वां द्वेष्टा ताच्छील्ये तृन् 'न लोक' इति षष्ठीनिषेधः । अस्य पुंसः नरकः निरयः नियतः नियमेन भविता।

रूप्यम्। मालारूपमिदमिति विशेषः। निन्दापर्यवसायित्वं तु पूर्ववदेव। एषूदाहरणेष्वादिममुदाहरणं दृष्टान्तसंकीर्ण, अन्या- न्युदाहरणानि तु श्षेषादिसंकीर्णानीति विशेषः॥

द्वितीयसमम्.

समं तदपि कार्यस्य सारूप्यं कारणेन यत ॥

कार्यस्य कारणेन सारुप्यमपि समालंकारः। अत्रोत्पात्ति- लक्षणसंसर्गस्यानुरुप्यम्। तञ्च कारणात्स्वसमानगुणकार्योत्पत्या,

Page 467

454 अलंकारमणिहारे

यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्या व्वेति द्विविधम्। इदं द्वितीयविषमप्रतिद्वन्द्वि।

तत्राद्यं यथा - कृतसूर्यभवाश्लेषा गङ्गन चक्राब्जमत्स्यरेखा- ढ्या। इदमनुरूपं तस्या उदितायाः फणिगिरीश तव पदतः ॥ १३२१॥ कृतः सूर्यभवाया: काळिन्य्याः श्ेषः संसर्गो यया सा तथो- क्ेति गङ्गापक्षे, भगवच्चरणपक्षे तु कृतः सूरीणां विदुषां अम- वाश्ेषः संसारसंबन्धवैघुर्य येनेति योज्यम्। चक्राः चक्रवाका: अब्जानि पद्मानि मत्स्याश्च तेषां रेखया पङ्डचा आढ्या। अन्यत्न चक्रं सुदर्शन अब्जः शङ्: अब्जं पझम वा मत्स्यश्च तेषां रेखाि:

यथावा- अम्भोघिराजदुहिता गम्भीरा श्रीनिवास तव दयिता। करितुरगधेनुमणिमुखविभवं सुमनर्सु वितरति स्थाने ॥ १३३० ॥ करितुरगधेनुमणयः ऐरावतोच्चैशश्रवःकामगवीचिन्तामणयः। अन्यत्र गजादय एव । सुमनस्सु देवेषु विद्वत्सु च। अत्र उदाहरणद्वये कारणाश्यां भगवच्चरणाम्भोनिधिश्यां कार्ययोगंङ्गा- लक्ष्मयोस्सारुप्य श्रेषभित्तिकाभेदाव्यवसायेन निर्व्यूढम्। उभय- आ्रपि कारणात्स्वसमानगुणकार्योत्पस्या उत्पत्तिलक्षण संसर्गस्यानु- रूप्यमुक्त्तम्।।

Page 468

समालक्ुारसर: (४१) 455

यथावा- श्रीस्त्वां जलधिस्सुषुवे विषमपि संमूर्छितं ज- गद्याभ्याम्। सांप्रतमिदं विषमयो यदयं किल

हे श्रीः 'श्रीवेषरचनाशोभासंपत्सरळशाखिषु। वाणीलक्ष्मी- लवङ्रेषु विषे विल्वेऽपि' इति रत्नमाला । जलधि: त्वां विषा- परपर्यायश्रीशव्दृवाच्यामिति भावः । विषसपि गरळं च सुषुवे। याभ्यां त्वया विषेण च जगत् संमूर्छितं मोहित निश्चेतनीकृत- मित्यर्थः । श्रीपक्षे 'त्वया च विष्णुना चाम्व' इत्युक्तरीत्या अभिध्याप्तमिति वास्तवार्थः । संमूर्छनमभिव्याप्तावुच्छायमोह- योरपि' इति मेदिनी। इद अम्वुधेरीदृशवस्तुजननं सांप्रतं युक्तम्। यत् यस्मात् सः गरजातसंवृद्ध इति च्छेद: । सोऽयमिति योजना। पूर्वोक्तोऽसौ जलधि: गरजातेन गरळसमूहन संवर्धितः विषमयः प्रचुरगरळः। तस्मादस्य जलधेः विषापरनामश्रीशब्द- वाच्यवस्त्वादिप्रसूतिरुचितेति भावः। वस्तुतस्तु सगरेत्यभिन्नं पदम्। सगरजातैः सगरसुतैः अभिवर्धिनः विषमयः जलमय इत्यर्थः। अत्रापि कारणेन जलधिना कार्ययोश्श्रीविषयोस्सा- रूप्यं श्रेषासादितवैभवम्। पूर्वोदाहरणदयं प्रशंसापर्यवसायि। इदं तु निन्दापर्यवसायीति भेदः । एवंच प्रथमसमप्रभेद इव द्वितीयमस्मिन्नपि स्तुतिनिन्दापर्यवसायित्वलक्षणद्वैधी संभव- तीति ध्येयम्॥ द्वितीयसमप्रभेदे द्वितीयं यथा- घनसारचूर्णकल्पितललाम कमलामनोहर मु-

Page 469

456 अलंङ्कारमणहारे

खं ते। विधुनीते मम तापं विदधात्यामोदमिति यदुचितं तत् ॥ १३३२॥ कमलामनोहरेति संबुद्धिः। ललामशब्दो नान्तो नपुंसक- लिङ्ग: । 'ललांम च ललाम च' इत्यनुशासनात् ॥

विसृमरकौस्तुभमहसा मसृणं कमलाड्िजतुर- यथावा-

सात्यरुणम्। अञ्जनगिरिपतिहृदयं रञ्जयति मनो ममेत्युचितमेतत् ॥ १३३३॥ रक्षयति अरुणयति आनन्दयति च । अत्रादे उदाहरणे भगवन्मुखगतशिशिरसुरमिलघनसारतिल कसंसर्गानुरूप्यं तापवि- धूननामोदनरूपकार्ययोः। अनन्तरोदाहरणे मनोरअनरूपकार्थस्य

यथावा- हालाहलसहजन्मा व्यालावनिभृद्विभोश्ष हृद- यमगाः। यस्सेवते सदा त्वां सुधाब्धितनये स मुह्यतीत्युचितम् ॥ १३३४॥ व्यालावनिभृद्धिभोः भुजगराजाधिराजस्य हृदयं अन्तर शेषाचलनाथस्य वक्ष इति वस्तुस्थितिः । सेवते पिवति भजते . . " च। मुह्यति मूछति ऐश्वर्यमूलकचित्तविकारं प्राम्नोति च। स्पष्ट- मन्यत्। पूर्वोदाहरणद्वयं प्रशंसापर्यवसायि, इदंतु निन्दापर्य- वसायीति पूर्ववदेव भेदः। एवंच द्वितीयसमविशेषे प्राथमिक- प्रभेदोदाहरणत्रये कृतसूर्यभवाश्लेषत्यादौ कारणस्वभावानुरूप्यं

Page 470

समालङ्वारसरः (४१) 457

कार्यस्य द्वितीयप्रभेदोदाहरणत्रये घनसारचूर्णेत्यादौ अगन्तुक- घनसारादिसंसर्गानुरूप्यमिति निष्कर्षः ॥ तृतीयसमम.

यत्किश्चिदिष्टसिद्धयर्थ य उद्योगो वितन्यते। अनिष्टेन विना तस्य सिद्धिश्र सममुच्यते॥ यत्किश्चिदिष्टप्राप्त्यर्थनप्रयुक्तात्कारणादनिष्टं विना तत्प्ाप्त्या उत्पत्तिलक्षणसंसर्गस्यानुरूप्यं च समालंकार इत्यर्थः। उत्कटे- ष्टान्तरप्रास्ती तु प्रहर्षणं वक्ष्यते। इदं तृतीयं समं 'इष्टार्थों- द्योगतोऽनिष्टावा्तिश्च विषमं मतम्' इति संगृहीतसप्रकारत्रि- विधविषमस्यापि प्रतिद्वन्द्व, इष्टावाप्तेरनिष्टस्याप्रसङ्गान्च।।

यथा- अनिशमपि तं निषेवितुमसितं निश्युत्पलं नि- षेव्य विधुम्। त्वद्िव्यदगात्मत्वं प्राप्य रमे स्वेप्सि- तार्थमनुभवति॥१३३५॥ हे रमे! अनिशं निशाया अभावेऽपि। अर्थाभावेऽ्व्ययीभावः। तं बिधुं श्रीनिवासं चन्द्रमसमिति तु तत्वम्। निषेवितुं अित- मुत्पलं इन्दीवरं निशि विधुं निषेव्य निशाया योगाभ्याससमय- त्वात्तदा विधुमुपास्येत्यर्थः। त्वदिव्यदगात्मत्वं तव कमनीयनयन- रूपत्वं त्वद्विषयकासंकुचितज्ञानात्मत्वं परिशुद्ध स्वरूपमित्यपि गम्यते। ग्राप्य स्वेप्सितार्थ अनिशविधुनिषेवणरूपमभीष्टार्थ अनुभ- वति। अत्र निशाभावदशायामपि विधुनिषेवणलक्षणाभीप्टावाप्त्यर्थ ALANKARA II 58

Page 471

458 अलक्कारमणिहारे

प्रयुक्तान्निशाधिकरण कोपासनलक्षणात्कारणादिन्दीवरस्यानिष्टंवि

यथावा- सततमपि हरिकरग्रहवैभवमाकाङ्गदम्ब सर- सिरुहम्। अभिहरि सलिले तप्त्वाSलक्षत त्व- त्पाणिजन्मनि तदेव ॥ १३३६ ।। हरिकरग्रहवैभवं भगवत्पाणिग्रहणसंपद भानुकरसंपर्काति- शयं च। अभिहरि भगवद्भिमुखं भानुमदभिमुखं च। तदेव सततहरिकरग्रहवैभवमेव । अत्रापि सार्वकालिकहरिकरग्रहण- लक्षणाभीष्टलाभाय हर्यभिमुखं तपस्यतोऽम्बुजस्य जन्मान्तरेऽ- निषटं विना तत्सिद्धिर्दर्िता।॥ यथावा- दातुं विभवे भोगान्भोक्तुं स्वयमपि भवन् बहु- विधाशः। जननि सुधाकलशस्त्वत्कुचजन्मनि भ- वति सुकल इति युक्तम् ॥१३३७॥ हे जननि! सुधाकलशः अमृतकुम्भः सुधाकलशशब्दश्च विभवे सति ऐश्वर्यावसर इत्यर्थः । विभवे लोकनाथाय भगवते इति वस्तुस्थितिः। भोगान् दातुं स्वयं भोक्तमपि बहुविधा आशा आयततृष्णा यस्य स तथोक्त: भवन्। पक्षे बहु यथास्यात्तथा विधाशः विगतधाकारशकारइत्यर्थः । त्वत्कुचजन्मनि सुकलः मनोरथानुगुणं त्यागभोगभाग्भवन् सन् 'सुकलो दातृभोक्तरि' इत्यमरः! धाकारशकरापनयनेन सुकल इति निष्पन्न इति वस्तु- स्थितिः। अत्र सुधाकलशस्यानिष्टं विना खप्सितावाप्ति:॥

Page 472

समालङ्कारसर: (४१) 459

यथावा- कुचजन्म प्रेप्सुस्तव तपस्थितस्सोढशीतवातो- ष्णः। कुचतां कुलाचलोऽगात्तव कमलेलालयन् स्वमात्मानम् ॥ १३३८॥ हे कमले! कुलाचल: तव कुचजन्म प्रेप्सुः अतएव तप- स्थितः तपश्चरन्। पक्षे तपसि माघमासे शिशिरऋताविति भावः। तपे ग्रीष्मे च स्थितः निश्चलतया वर्तमानः आतपे स्थित इति वा। न हि कुलाचलः कालमेदेन चलाचलो भवात। अतएव सोढशीतवातोष्णः 'ग्रीष्मे पश्चतपा भूत्वा वर्षास्वासारषाण्मुनिः' इत्यायुक्तप्रक्रियया द्वंद्वसहिप्णुस्सन्। पक्षे निसर्गत एव शीतादे- स्सोढा। न ह्यचलशशीतेन वातेन वा वेपते उष्णेन वितपते। तपसः फलमाह कुचतामिति। स्वं स्वकायं आत्मानं अन्तरात्मानं भगवन्तं लालयन् विलासयन् 'लड विलासे' णिजन्तादस्मात. लक्षणहेत्वोः'इति शता। हेतुरिह फलम्। स्वान्तरात्मप्रीणना- येत्यर्थः तव कुचतां अगात् स्तनतयाऽवातारीत्यर्थः। पक्षे कुलाचलशब्दः कमले अलालयन्निति छेद:। स्वं आत्मानं स्वस्व- रूपं अलालयन् लाश्च लश्च लालौ अविद्यमानौ लालौ यस्य सः अलाल: तथोक्तं कुर्वन् अलालयन् लालेतिवर्णद्वयविधुरितं कुर्वन् कुचतां कुचशब्दतां अगातू। उत्तरीत्या लाकारलकारराहित्ये कुच इत्येवावशेषादिति भावः । अत्र कुलाचलस्य विनाऽनिष्टमभी- प्सितार्थसंसिद्धिः॥ यथावा-

लूरफलं शुद्धं माफलशेषं न मुश्चति स्वार्थम्॥

Page 473

460 अलंकारमणिहारे

मालूरस्य विल्वस्य फलं 'बिल्वशाण्डिल्यशैलूषमालूर- श्रफिला अपि' इत्यमरः। श्रियः कुचावेव फले त्योश्शेषत्वं तदतिशयाधित्सयोपादेयस्वरूपत्वं तस्य प्रेप्सया वल्लूरस्य शुष्क- मांसस्य 'उत्तपं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम' इत्यमरः' भोग: अभ्यवहार: भुजेर्भांवे घञि 'चजोः' इति कुत्वम्। 'भोगस्तु · राज्ये वेश्याभृतौ सुखे। धनेऽहिकाय फणयोः पालनाञ्यवहारयोः' इति हेमचन्द्रः। तस्य संत्याि वल्लूरोपलक्षितनिखिलनिषिद्धा-, हारत्यजनशालि। आहारशुद्धयभावे सत्त्वशुद्धचनुदयादिति भावः। अत एंव शुद्धं निदाषं पवित्रं वा। अतएव माफलशषं माया: श्रियः फले फलत्वेनाध्यवसितौ स्तनौ तयो: शष शेषभूतं अतिशयाधा- यकं च सत् स्वाभीप्सितशेषतां लब्घवदिति भावः। स्वार्थ स्वकीयं पुरुषार्थ न मुश्चति कदाऽपि न त्यजति। नित्यशेषमेव सत् तत्कैंकर्य समनुभवतीति भावः। पक्षे मालूरफलमिति पद, शब्दार्थयोस्ता- दात्म्यम्। श्रीकुचफल शेषत्वप्रेप्सावत् लूरभोगसंत्यागि इति छेदः। उक्तेच्छावििष्टं सत्। लूरयो: लूकाररेफयो: भोगः अनुभवः तस्य संत्यागि। उत्सारितलूकाररेफमित्यर्थः। अतएव शुद्धं केवलं यथातथा 'शुद्धं स्यात्त्रिषु केवले। निर्दोषे च' पवित्रे च्' इति मेदिनी। माफलशेषं मा फ ला इति त्रयो वर्णाः शेषाः शिष्टाः यस्य तथोक्तंअवशिष्टमाफलरूपवर्णत्रयमित्यर्थः। ईदशमपी- त्युपस्कार्यम्। स्वार्थ श्रीफलरूपं स्वाभिधेयं न मुञ्चति । मालू- रफलमिति पद्मविकलवर्ण यावन्तमर्थ बोधयति उक्तरत्या वर्णवैकल्येऽपि तावन्तमेवार्थ बोधयति। मालूरफलमाफलशब्द- योरेकार्थकत्वादिति भावः । माफलं श्रीफलम्। बिल्वस्य श्री- फलत्वं च 'वनस्पतिस्तव वृक्षोऽथ बिल्वः' इति श्रुतिसिद्धं उदाहतकोशसिद्धं च। शेषमित्यत्र शिष्यत इति शेतमिति

Page 474

समाल्कारसर: (४१) 461

कर्मणे घञ् अतएव भेघ्यलिङ्गता। भावे घञ एव पुछ्ि- ङत्वनियमः । अतएव 'संबन्धमनुवर्तते' इति भाष्यम् 'शेषं रामवत्' इत्यादिप्रयोगाः 'शेषस्संकर्षणे वधे' इत्युपक्रम्य 'उपयुक्तेतरे न स्त्री' इति मेदिन्यादिकोशाश्च संगच्छन्ते। अत्र मालूरफलस्यानिए्टं विना अभीष्टसिद्धि: ।। इमानि सर्वाण्यपि अनिष्ट विना केवलेष्रप्राप्तावुदाहरणानि।

त्वच्छीविद्वेषकृतां घनाघवत्तां घनाघनोधून्वन्। विष्णो पढ़े तव पतन्नधश्शिरा: कल्पते स्म न- घनाघ:॥। १३४०॥ हे विष्णो! वनाघनः प्रावृषेण्याम्बुवाहः तव श्रियः संपदः रुचेश्च विद्वेष: तेन कृतां तावकश्रीविषयकवैरहेतुकां घनाघवत्तां अविरळदुरितशालितां धून्वन् 'लक्षणहेत्वोः' इति शता। हेतु- रिह फलम्। घनाघवत्ताविधूननेन प्रयोजनेनेत्यर्थः। तव पदे चरणे विष्णो: पदे अन्तरिक्षे इति तत्त्वम्। अधश्शिरा: पतन् प्रणिपतन्नित्यर्थः। घनं च तत् अंधच घनाघं, न घनाघं यस्य स नघनाघ: नशव्देन बसुवीहिः। कल्पते स्म। निरस्तनिखिल कलुषोऽभूदित्यर्थः । प्रणम्य कृष्णं सहसा पांसुक्िष्टे महीतले। निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात्॥ हरिममरगणाचिताङ्गिपयं प्रणमति यः परमार्थतो मनुष्यः। तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथान्निमाज्यसिक्तम्।। इत्यादि प्रमणसहस्रं स्मर्तव्यम्। पक्षे घनाघनशब्द: घना- ववत्तां घनाधेति वर्णपङ्किमत्तां अधून्वन् इति छेद: अषिसृ-

Page 475

462 अलंकारमणिहारे

जन्नेवेत्यर्थः । अधश्शिराः पतन् विलोमतया स्थित इति यावत्। नघनाघ इति निष्पन्न इति। अत्र घनाघनस्यानिष्ं विना स्वा-

स्वजुषां सदा सुमनसां हर्तुमधः प्रसवबन्धना- यथावा-

त्पतनम्। त्वङ्गुजतामेत्य हरे कल्पतरुर्हरति तद्य- दुचितं तत् ॥ १३४१॥ हे हरे! कल्पतरुः सदा स्वजुषां आत्मानं सेवमानानां सुमनसां विदुषां कुसुमानां च। प्रसवबन्धनात् नानायोनिप्र- सूतिसंबन्धात् वृन्ताञ्च 'वृन्तं प्रसववन्धनम्' इत्यमरः। अधः- पतनं अधोलोके भ्रंशं अधःप्रदेशे गळनं च। हर्तु निरसितुं त्व- द्ुजतां त्वद्वहुरूपतां एत्य तत् सुमनसां प्रसवबन्धानदधःप- तनं हरतीति यत् तदुचितम्। अत्र सुमनसां प्रसवबन्धनाद-

त्सिद्धिः। सर्वाण्यप्येतान्युदाहरणानि श्रेषाभेदाध्यवसायसंकी- र्णांन्येव॥ किंच यत्रातर्कितोत्कटानिष्टसद्भ्ावेऽपि श्ेषवैभवेनेश्र्थत्व- प्रतिपत्तिस्तत्रापि समालंकारो न प्रतिहन्यते। यथा- श्रीवशगव्यामोहे भगवन्मा मुक्तमातनु त्व- मिति। त्वामासेवे त्वमपि च तथैव मामुक्तमाच रंस्तनुषे॥ १३४२ ॥ हे भगवन् ! श्रीवशगः लक्ष्मीवशंवद: व्यामः यस्य'व्या- मो बाह्लोस्सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः। यथासंभव- मश्रषार्थ स्वेस्वे पा्श्वे प्रसारितयोबाह्वारन्तरं लक्ष्मीवशवदं

Page 476

समालन्वारसरः (४१) 463

यस्य स तथोक्त इत्यर्थः । त्वं अनेन पुरुषाकारसान्निध्यबला- दवधीरितविनतजनतापराधतया रक्षणौन्मुख्यं द्योतितम्। मामां अनन्वादेशे वैकल्पिकत्वादत्र मादेशः । मुक्तं शिथिलितभव- बन्धं आतनु कुरु। यद्वा श्रीवशगः संपन्मूलकः यो व्यामोहः अतिमात्रवैचित्तयं तस्मिन् । अथवा श्रीवशगेति भगवत एव संबाधनम्। व्यामोहे पुत्रकळत्रसंपदादिप्रयुक्तसंमोहे आमुक्त बद्धं 'आमुक्तः प्रतिमुक्तश्च' इत्यमरः । मा तनु मा कुरु। माशब्दोऽयं न तु माङ्, येन लुङेव स्यात्। इति त्वां आ- सेवे त्वमपि मामुक्तं आचरन् सन् तथैव तनुषे यथाप्रार्थन- मेव कुरुषे इति स्तुतिः। श्रीवशगव्यामोहे मा मां आमुक्तं बद्धमेव तनुषे इत्युपालम्भः । इद मुक्तश्वर्यप्रेप्सया श्रीनिवासं सेवमानस्य आनुषङ्गिकीं तद्विश्राणितामैहिकीमामुष्मिकीं च संपद्मपि तत्परिपन्थिनी जानतः कस्यचित्प्रपन्नस्य तं प्रत्यु- पालम्भवचनम्। अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्य- क्तिविवक्षायां विषमालङ्कारः। न चैहिकामुष्पिकवभवस्यानिष्ट- त्वायोगान्न विषमालंकार इति वाच्यं, मुमुक्षुद्दष्टया तस्यानिष्ट- तायाः 'एते वै निरयास्तात स्थानस्य परमात्मनः' इत्युक्ते: अनेन वचनेनामुष्मिकसंपद एव निरयप्रायत्वस्य वर्णनादैहिक- संपदस्तथात्वं कैमुत्यन्यायसिद्धम्। तथाऽपि प्राथमिकस्तुतिरु- पवाच्यविघक्षायां समालंकारो न निवार्यते॥ यथावा- सुतरामुक्तिविदूरा संपत्स्यादिति समाश्रितोऽ- हं त्वाम्। सुतरामुक्तिविदूरा तथैव संपत्त्वयाऽ च्युत वितीर्णा ।। १३४३।।

Page 477

464 अलंकारमणिहारे

सुतरां उक्तिविदूरा 'यतो वाचो निवर्तन्ते' इत्युक्तरीत्या वाचामविषयभृता। संपत् मुक्तैश्वर्य स्यादति भवेदिति प्रत्याश- येत्यर्थः। त्वां अहं समाश्रितः तथैव सुतरामु्तिविदूरा संपदेव त्वयाऽपि वितीर्णेति स्तुतिः । सुतरा शोभनतरत्वेनाभासमाना मुक्तिविदूरा मोक्षदवीयसी संपदित्युपालम्भः । 'अर्थश्रयास चा- सक्तो न श्रेयो विन्दते परम्. इति महाभारतोक्तेरैहिकसंपदो मुक्तिविदूरत्वम्। अत्रापि पूर्वोदाहरणवदेव सर्वे द्रष्टव्यम्॥

अहमन्नाद इति सदा गातुं त्वां शरणमगमम- यथावा-

वजाक्ष। भवताऽपि तथाऽकारिषि सांप्रतमन्ना- ढ एव किल कृपया॥ १३४४॥ इदं निश्रेयसावात्तित्वरया प्रारब्धकर्मफलभोंगानुभवादृपि जुगुप्समानस्य कस्यचित्प्रपत्नस्य प्रपत्युत्तरमपि सांसारिकभोगा- नेव यथापुरमनुभावयन्तं भगवन्तं प्रति व्याजस्तुत्या उपालम्भवच- नम्। तथाहि - हे अब्जाक्ष ! अहमन्नाद इनि सदा गातुं 'एतत्साम गायन्नास्ते' इत्युपक्रम्य 'अहमन्नादोऽहमन्नादः' इति श्रुत्यु- क्तक्रमेण सामगानं विधातुं परिपूर्णपरव्रह्मानुभवानन्दरूपं सुक्त्यै श्वर्य लब्धुमिति भावः। 'अहमन्नादः' इति श्रुतिगतयोश्श- ब्दयोः अहं अस्मच्छररिकः परमात्मैव अन्नाद: सकलभोक्तृ- शर्ररिक इत्यर्थः। 'अहंशब्दः परमात्मपर्यन्तः भोग्यभोक्तृ वाच्यान्नान्नादिशब्दौ च तत्पर्यन्तौ' इति तन्भ्ाध्यम्। त्वां शर- णमगमं प्रपन्नोऽस्मि। भवताऽपि कृपया सांप्रतं इदानीं तथा अकारिषि यथाभ्यर्थनं अन्नाद एव कृतोऽस्मि। कृञ्ः कर्मण भूते लुङ््ुत्तमैकवचनम्। अकारिषि सांप्रतमिति वा योजना।

Page 478

समालङ्कारसर: (४१) 465 तदा सांप्रतं युक्तमित्यर्थः। 'सांग्रतं चाधुनार्थे स्यादुक्तार्थेऽपिच सांप्रतम्' इति विश्वः। किलेति संभावनायामनुनये वा। 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः' इति विश्वः। उप- पादितोऽर्थस्सरवोऽपि स्तुतिपरः। अन्नादः केवलं प्राकृतौदनभो- क्तैव अकारिषि न तु 'विजिधत्सः' इति श्रुत्युक्तजिघत्सादि- हेयगुणविधुर इत्युपालम्भः । अत्र मुमुक्षोः प्रपन्नस्थ प्राकृतभो-

तिपत्ति:॥

यथावा -- रजनिचरा रघुनन्दन निशारणं तव जयाय येडकाङ्कन। तवमपि तथैव निशारणमददास्तेषा- मुदारदाक्षिण्यः॥ १३४५॥ तव जयाय त्वत्कर्मकािभवाय निशारणं रात्र्यधिकर- णकं युद्धम्। तथैव यथेप्सितमेव निशारणं रात्रियुद्धम्। वस्तुनस्तु तव जयाय त्वत्कर्तृकविजयाय तेषां रजनिचराणां निशारणं निषूदनं अददा इत्यर्थः । 'प्रमापणं निवर्हणं निका- रणं निशारणम्' इत्यमरः। अत्र रजनिचराणं निबर्हणरूपानि- प्स्योत्कटस्य सत्वेऽपि श्रेषप्रभावेण निशायुद्ध रूपेप्सितलामः। यथावा- अितां कमनीयस्थितिमातुं ये त्वत्पराभवा- दैच्छन्। कमनीयस्थितिरेव ह्यमिता तैस्त्वत्परा- भवाल्ले ॥ १३४६ ॥ ALANKARA II. 59

Page 479

466 अलंङ्कारमणिहारे

हे भगवन् ! त्वत्पराभवात् त्वत्कर्मकपरिभवात्। अमितां अपरिच्छिन्नां कमनीयस्थिरति वैमववत्तया रमणीयमवस्थानम्। उत्तरार्धेऽप्येवमेव। तत्र परमार्थतस्तु त्वदिति भिन्नं पदम्। त्वत् त्वत्तः पराभवात् स्वकर्मकपरिभवात्। अमिता अविद्य- मानमकारा कृता कमनीयस्थितिः कनीयस्थििः शब्दार्थयोस्ता- दात्म्यात्। अतिमात्रनिकृष्टा स्थितिरवेत्यर्थः। कनीयसी चासौ स्थितिश्चेति विग्रहः। अल्पशब्दादयसुनि 'युवाल्पयोः कन- न्यतरस्याम्' इति कनादेशः। अत्र कनीयसि्स्थितिरूपोत्कटानिष्ट- सन्भावेऽपि श्ेषवैभवेन कमनीयस्थििरूपेष्टलाभः ॥

यथावा -- प्राप्ता सुरपतिपदमपि पातालमनन्तभोगिलो- कमपि। विन्देयमिति यजन बलिरकारि भवता त्रिविक्रम तथैव ॥ १३४७॥

हे त्रिविक्रम! इह एतत्पद्यप्रस्तुतार्थस्थ तदवतारासाधा- रणतां व्यञ्जयितुम्। सुरपतिपदं महेन्द्रस्थानं प्राप्ता। प्रपूर्वका- दामोतेस्तृन्। अपिश्चार्थकः । अलं पाताऽपि रक्षिता च । पाते- स्तृन्। बलि: दैत्येन्द्रः। अनन्तः यः भोगिनां उत्तमतत्तत्कर्म- फलभोक्तृणां लोक: ब्रह्मलोकपर्यन्तं विष्टपम्। यद्ा अनन्तेति भग- वतएव संबोधनम। भोगिलोकमपि उक्त एवार्थः। अथवा अन- न्तभोग: भगवदनुभवः सोऽस्मिन्नस्तीत्यनन्तभोगी स चासौ लोकश्च।अनन्तभोगिनां भगवद्नुभवशालिनां लोक इति वा। तमपि श्रीवैकुण्ठमपीत्यर्थः । विन्देयं प्रामतयामति यजन् यजञं कुर्वन् सन् भवता यज्ञाराध्येन तत्फलप्रदेन चेति भावः। य-

Page 480

समालङ्कारसरः (४१) 467

थामनोरथमेव फलं लम्भित इत्यर्थः । वस्तुतस्तु सुरपतिपदं प्राताऽ्पि बलिः अनन्तः भोगिलोकः भुजगसमुदयः यस्मिन् सः तं तथोकतं पातालं प्रापित इति। अजन्तेति भगवतस्संबोधन- विवयां पातालं तत्संज्ञकं भोगिलोकं नागलोकं प्रापित इति वा अर्थः। अत्रोत्कटानिष्टस्य पातालप्रापणस्य सन्भावेजापे अन-

स्यातर्कितत्वं स्फुटतरमिति ध्येयम्॥

स्तत्रापि समालंकारस्य न क्षतिः, अनिष्टप्रतीतेराभासरूपत्वे- नापर्यवसानात्।। यथा- गुरुणात्यादरगुरुणा कार्या देवेनभक्तिरित्युदितः। कुर्वैस्तथैव भक्तिं: गुर्वाज्ञां सर्वथाऽपि नात्यैषीत्॥ अत्र गुर्वाज्ञां सर्वथापपे नात्यैषीदित्यनन विरोधालंकारा- भिव्यञ्ञनाय देवेनभक्तिरित्यत्र पदत्रयविभागात्मकरूपान्तरस्यापि विवक्षायास्सत्वेऽपि देवानां इने स्वामिनि भगवति भक्ति: देवेन- भक्तिरित्येकपदेन वस्तुसदर्थान्तरपरं रूपान्तरमुपादाय समालं- कारोऽव्यस्त्येव॥ .

व्रतमेतर्हि जयन्त्याः कार्य नाशनमितीरितः यथावा-

पित्रा। बालस्तथैव विदधे वितथां विदधीत को नु पितुराज्ञाम् ॥ १३४९॥ अत्रापि वितथां विदधीत को नु पितुराज्ञामित्यनेन विरो- धालंकृतिमाभिव्यक्जयितुं नाशनमित्यत्र एकपदरूपान्तरस्यापि वि-

Page 481

468 अलंकारमणिहारे

वक्षायास्सन्भ्ावेपि न अशनमिति पददयविभागेन अशनं अभ्य- वहरणं न कार्य किंतूपवसनमेवेति वस्तुसदर्थान्तरमभिदधानं रूपान्तरमालम्व्य समालंकारोऽप्यक्षत एव। पूर्वस्मिन्दाहरणे पद- त्रयविभागेनासतोऽनिष्टार्थस्य प्रतीतिः, ऐकपद्येन वस्तुसत इष्टा- र्थस्य। इह तु पेकपद्येनासदनिटार्थप्रतीतिः पदद्यविभागेन वस्तुसदिष्टार्थस्येति भेदः ॥ श्रेषलब्धासदि प्टवाप्तिप्रतोतिम/त्रेणप समालंकारत्वं 'अनि- शमपि तं निषेवितुम्' इति प्रागुपदर्शितेपूदाहरणेषु द्रष्टव्यम्। मात्रपदेनानिष्टार्थप्रतातिर्व्यवच्छिद्यत। तत्र हि असितोत्पलादी- नां श्रेषबलादनिशविधुनिषेवणादाष्टावाप्तिमात्रम्, न त्वनिष्टप्रति- भासोऽपीति व्येयम्॥ यतु विरुपकार्यानर्थयोरु्पत्तिर्विरुपसंघटना च विषममि- ति विषमालकारं लक्षायेत्वा तद्विपर्ययस्सममिति समालंकारं लक्षयता तत्पदेनात्र विषमालंकारसवन्धी विरुपघटनारुपश्चरम एव मेदो गरृह्यते तद्विपर्ययस्यैव चारुत्वात्। न त्वाद्यभेदद्वयं, तद्विपर्ययस्य कारणादनुरूपकार्यात्यत्तिरुपस्य वाञ्छितार्थभाप्ति- रुपस्य व वस्तुसिद्धतया चारुताविरहात्। एवं चानुरूपसंघ- टनात्मक एव समालंकारः। न तु विषमालकार इव मेदत्रि तयात्मक इत्यलंकारसर्वस्वकृतोक्तम। तन्न, वस्तुतोऽननुरूपयो- रपि कार्यकारणयोः श्रेषादिना धर्मैक्यसंपादनद्वारा अनुरूप- त्ववर्णने व्तुतोऽनिष्टस्यापि तेनैवोपायेन इष्टैक्यसंपत्ताविष्टप्रा- प्रिवर्णनं च चारुतया अत्रैव दर्शितत्वात्। तस्मात्सममपि विषम- मिव त्रिविधमेवेति। इत्यलंकारमणिहारे समालंकारसर एकचत्वारिंश:

Page 482

विचित्रालङ्कारसरः (४२). 469

अथ विचित्रालंकारसरः (४२)

इष्टैषिणेष्टसिद्धयै तद्विपरीतं क्रियेत चेतू। प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः॥ कस्यचित्फलस्येच्छया तद्विपरीतः प्रयततः क्रियेत चेत् घि- चित्रालंकारः। इष्टविपरीताचरणमिति यावत्। विपरीतत्वं च प्रतिकूलत्वम्॥ यथावा -- भवजलधितलनिमम्रानुद्धतै तान सुगं सुपन्धा- नमू। प्रापयितुमपि हरे वत फणिधरशिखराग्रदुर्ग- मावससि ॥ १३५० ॥ सुखेन गच्छन्त्यत्रेति सुगः तं 'सुदुरोरधिकरणे' इति गमेर्डः। शोभनः पन्थाः सुपन्थाः तं सुपन्थानं 'न पूजनात्' इति समासान्तनिषेयः। दुःखेन गच्छन्त्यत्रेति दुर्गम्। अत्रा- तिमात्रनिस्न मवजलनिधितलनिमग्रजनोद्वरणं तेपां सुमार्गप्ापणं च

वस्थानरूपविपरीतप्रयत्नवर्णनम्। शेषाचलशिखराग्रावस्थितिमा- चरसीति तत्त्वम्॥ यथावा- निश्वधिमवधीरयितुं दुरभिभवं हेयभोगसंस- गभू। सन्तः कृष्ण भजन्ते हन्त त्वाहेयभोग- कृतनृत्तम् ।। १३५१ ।।

Page 483

470 अलंकारमणिहारे

हे कृष्ण! सन्तः हेयभोगसंसर्ग अवधीरयितुं हेयभोगेष्वेव कृतनृत्तं तत्रवाभिषक्त्तमिति यावत्। त्वा त्वां भजन्ते । हम्तेत्याश्चर्ये। वस्तुतस्तु आहेयेति छेद: आहेय: अहिभवः यो भोग: फणः तत्र कृतनृत्तं काळियफणिफणकृतनटनमित्यर्थः । आहेयेत्यत्र आहेश- ब्दात् भवार्थे 'द्तिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्' इति ढञ। अत्र हेयभोगसंसर्गावधीरणमुद्दिश्य तद्विपरीतहेयभोगकृतनटनभजनल - क्षणप्रयत्नो निबद्धः। प्रायेण श्षेषमूलाभेदाध्यवसायोSत्र जीवातुः॥

यथावा- वृजिनधराधरशिखरादवरोढुं श्रीनिवास ननु मनुजाः। जिह्मगधरणिधराश्चलमारोहन्तीति ना- द्रुतं कस्य ॥ १३५२॥

वृजिनं कुटिलं यत् धराधरशिखरं तस्मात् अवरोदुं। पक्षे वृजिनं दुरितमेव धराधरशिखरं तस्मादित्यर्थः । 'वृजिन कल्मषे कीबं केशे न कुटिले त्रिषु' इति मेदिनी। जिह्मगस्य कुटिल- गमनस्य धराधरस्य गिरे: अ्चलं अंग्रं शेषाचलशङ्गमिति वस्तु- स्थितिः। 'अराळं वृजिनं जिह्मम्' इत्यमरः। अत्र वृजिनधराधर- शिखरावरोहणलक्षणफलोद्देशेन तद्विपरीतः जिह्मगधरणीधराग्रा- रोहणरूपप्रयत्नः॥

यथावा- अतिपतितुं दुर्गाणि प्रतिपदमहिशिखरिशिख- रदुर्गगतम्। शरणं व्रजन्ति दैवं करणं विनियम्य सकलमपि मुनयः ॥१३५३॥

Page 484

विचित्रालंकारसरः (४२) 471

दुर्गाणि शैलादिदुर्गमस्थानानि। कृच्छ्राणि नरकांश्च 'दुर्गा तु गौर्या काळ्यां च दुर्ग तु नरके पुरे । शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे' इति रत्नमाला। 'दुर्ग तु नरके कृच्छे' इति कोशान्तरम्। 'सर्वस्तरतु दुर्गाणि, दुर्गाण्यतितरत्याशु' इत्यादय: प्रयोगाश्च। अत्र दुर्गातिपतनरूपफलमुद्दिश्य तद्विप्रतीपदुर्गगत- पुरुषशरणागतिलक्षणप्रयत्नवर्णनम्॥।

यथावा- पापशमनावलोकनलोपकृते त्वत्कृपाव्यपाश्र- यवान्। श्रीपरिबृढ साधुजनः पापशमनमेव क- लयति विचित्रम् ॥ १३५४॥

हे श्रीपरिवृद्ध ! त्वत्कृपाव्यपाश्रयवान् साधुजनः, पापः क्रर- इति यावत् यः शमनः यमः 'शमनं शान्तिवधयोः कीबे वैवसवते पुमान्' इति रतनमाला। तस्य अवलोकनं तस्य लोपकृते कदाचि- दपि यमदर्शनं मा भून्ममेत्येतदर्थमिति भावः । पापशमनमव क्ररं यममेव कलयति सेवते इदं विचित्रम्। दुरितशान्तिमातनुत इति तु तत्त्वम्। अत्रापि सर्व पूर्ववदेव। विचित्रमिति पदेन प्रकृता- लंकारनास्नोऽपि सूचनमिति वक्ष्यमाणमुद्रालंकारशिरस्कत्वं विशेष:॥

यथावा- अशिशिरकरकुलनायक निशिचरराज्यश्रियं स्वयं हर्तुमू। तामेव यामिनीचरकनीयसे नीति- मानहो त्वमदा: ॥१३५५॥

Page 485

472 अलङ्कारमणिहारे

हे अशिशिरकरकुलनायक! निशिचरराज्यस्य श्रियं संपदम्। पक्षे निशिचराणां राजे: पङ्गे: अन्रियं दशाननभुजाभिशुप्तत्व- प्रयुक्ताश्ीलतां हर्दु तामेव निशिचरराज्यभ्नियमेव यामिनीचर- कनीयसे विभीषणाय। शिष्टं स्पष्टम्। अत्र निशिचरराज्य- श्रीहरणलक्षणफलमुद्दिश्य तद्विपरीतस्तद्दानरूपप्रयत: ॥

त्वदनघपुनर्भवरुचिं पुनर्भवरुचिं विहातुमति- यथावा-

वेलम्। मनसि संदातनवैभव कनकािरीन्दो सदा तनवै ॥१३५६॥ सऱतन वैभवं यस्य स तथोक्त: तस्य सबुद्धि: नित्य- वैभवेत्यर्थः। हे कनकगिरीन्दो! पुनर्भवराच भूयोऽपि जन्म- .स्पृहां विहातुं त्वदिति छेदः। हे अनधेति भगवत एव संबु- द्वचन्तं विशेषणम्। त्वत् त्वत्तः पुनर्भवरुचि उक्त एवार्थ:। सदा मनास तनवै करवै, इति विरोधः । त्वदनधपुनर्भवरुच- मिति समस्तं पदम्। तव अनधाः ये पुनर्भवाः नखाः 'पुन- भवः कररुहः' इत्यमरः। तेषां रुचचि प्रभां मनासे तनवै ध्या- यानीति परिहारः। अत्र पुनर्भवरुचिप्रहाणफलसुद्दिश्य पुनर्भव- रुचिमनस्काररूपविपरीतप्रयत्नः । यमकसंकीर्णत्वं पूर्वेभ्यो विशेष:। क्षेषभित्तिकाभेदाध्यवसायस्तु सर्वत्र तुल्यः। इत्यलंकारमणहारे विचित्रसरो द्विचत्वारिंश:

अथाधिकालंकारसरः (४३)

यत्र महत आधारादाधेयस्याधिक्यवर्णन तन्र अधिक नामा- लंकारः॥

Page 486

अधिकालंकारसरः (४३) 473

यथा- अधिकुरुसमिति समस्तो लोको यत्र व्यलोकि लोकेन। कृष्णाविषदपहरणप्रवणा करुणाSत्र व पुषि तव न ममौ ॥ १३५७॥ कुरूणां समितिः सभा संगरो वा तस्यां अधिकुरुसमिति, विभक्तयर्थेऽ्व्ययीभावः । कुरूणां सभायां संगरे च भगवता विश्वरूपस्य प्रकाशनात्तदुभयसंग्रहाय समितिशब्दोपादानम्। "समितिस्सांपराये स्यात्सभायां संगरेऽपिच' इति मेदिनी। अत्र यत्र भगवदविव्यविग्रहे समस्तो लोको व्यलोकीत्याधार- स्यातिमहत्त्वमुपदर्श्य अत्र तव दिव्यविग्रहे करुणा न ममा- वित्याधेयस्याधिक्यं वर्णितम्॥। यथापा- विश्वात्मन्यपि च त्वयि विश्वंभर नैव मान्ति- सुगणगणाः। भवति किल महदमीषां भवत्स्वरू- पादपीदमानन्त्यम् ॥ १३५८। विश्वात्मन अखिलप्रपश्चशरीरके। अशपपि विश्वात्मनीत्या- धारस्यातिमहिमानं प्रदर्श्य तत्र कल्याणगुणा न मान्तीत्याधे- याधिक्यं दर्शितम्॥ यथावा- रघुवीर तावकयशोराकाचन्द्रमसि सान्द्रतरम- हसि। अभितो विजृम्भमाणे लभते दौल्छिनस्य संरम्भम् ॥१३५९॥ ALANKARA II 60

Page 487

474 अलंकारमणिहारे

यथावा- प्रसुमरभवदीययशःप्रकाशकलशाम्बुराशिजठ- रान्तः गगनाभोगो हरिसाख गरुडध्वजमूर्तिवि- भ्रमं धत्ते ॥ १३६०॥ यथावा- भवदीयकटाक्षश्रीभाजां भगवति यशास्त्रिपथ- गायाम्। सुरवर्त्मनाSखिलाम्ब स्फुटतरनीलाम्बु- जायितं क्वापि ॥ १३६१ ॥ यथावा- ब्रह्माण्डस्यान्तर्बहिरपि भाति भवज्जुषां यश :- प्रसरः। स्फाटिकसमुद्रकान्तस्स्फुटशिखदीपप्रका- श इव भगवन् ॥ १३६२॥ एषूदाहरणेषु चतुर्षु आद्ये द्वे उदाहरणे रूपकोपस्कृतनि- दर्शनासङ्कीणे। अन्तिमे द्वे उपमासंवलिते। सर्वत्र आधारापेक्षया आधेयाधिक्यवर्णनं तुल्यमेव। तत्रापि त्रिषूदाहरणेषु अधाराधेय- योर्गगनयशसोरेव प्रकारान्तरेणोपमाप्रदर्शनेन वर्णनं, अन्तिमे तु आधेयं यश एव, आधारो ब्रह्माण्डमित्यपि वैलक्षण्यं द्रष्टव्यम्॥ यथावा- भगवन्नगणितवैभव भवदीययशश्छले सुधाज- लधौ। ब्रह्माण्डमण्डलनिभाद्विभान्ति मुक्ताफ- लानि पृथुलानि ॥ १३६३॥

Page 488

अधिकालंकारसर: (४३) 475

अगणितवैभवेति भगवतो विशेषणम्। भवदीयं यश इति कर्मधारयः। भवदीयानां भागवतानां यश इति षष्ठीतत्पुरुषो वा। अथवा.अगणितवैभवेति भवदीयानां भवदीययशसो वा विशे- षणम्। ब्रह्माण्डानां मण्डलं बृन्दं तन्निभात् तद्वयाजात्। स्फुटम- भ्यत्॥ अत्राधारेश्यो ब्रह्माण्डमण्डलेश्योऽप्याधेयस्य भागवतयशस आधिक्यम्। अत्राप्याधेयं यश एव। आधारोऽपि ब्रह्मण्डमण्डल- मेव। कैतवामहतिगर्भितत्वं विशेषः॥ द्वितीयाधिकम् आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत्।। विपुलादाधेयादप्याधारस्याधिक्यवर्णनं च तत् अधिकमेवेत्यर्थः । कियदेतन्मम चेतः स्फीत वातंधयाचलनिके- यथा-

तम्। श्रीवासं सविकासं जगदावासं निवासय- त्यन्त: ।। १३६४॥ स्फीतं विपुलमिति यावत् ! सविकासं असंबाधं यथातथा। अत्राखिलजगदावासभूतश्रीनिवासरूपाधेयादन्याघारभूतस्य चेत- स आधिक्यं निबद्धम्।

प्रन्ये माधव संप्रति मनो ममालं महाङ्गुत- यद्वा-

विशालम्। सर्वेभ्यो ज्यायानपि लोकेभ्यो यत्र माति परमात्मा ॥ १३६५॥ मम मनः महाज्भुतविशालमिति मन्ये। तत्र हेतुमभिप्रयन्नाह- सर्वेभ्य इति। यत्र या्मिम्मनास अणुरूपे इति भावः। सर्वेभ्यो

Page 489

476 अलंकारमणिहारे

लोकेभ्यो ज्यायानपि 'एष म आत्माउन्तर्हृदये ज्यायान् पृथिव्याः' इत्यारभ्य 'ज्यायानेभ्यो लोकेभ्यः' इति शाण्डिल्य- विद्योक्तप्रकारेण सकललोकाधिकवैपुल्यमानपीति भावः। परमा- त्मा माति। इदं पूर्वोदाहरणादविलक्षणार्थम्। उदाहृतश्रुतिपत्य- भिज्ञापनं विशेषः। यथावा- अणुशत्मेति क्थ वा भणति श्रुतिरत्र संशयोS- स्माकम्। अगणितमहिमास्य यतो निगदति सैवान्तरं परं ब्रह्म ॥ १३६६॥ आत्मा प्रत्यगात्मा अणु: इति श्रुतिः 'एषोऽणुरात्मा ' इत्यादिश्रुतिः कथ वा भणति, यतः अगणितः गणनाया अगो- चर: महिमा महत्त्वं यस्थ तत् परं ब्रह्म स्वरूपतो गुणैश्च निरतिशयबृहादृिति भावः। अस्य प्रत्यगात्मनः अन्तरं अन्तःस्थितम्। सैव श्रुतिरेव 'य अत्मानमन्तरः' इत्यादिरिति भावः निगदति। यंद्यप्यत्रोदाहरणेषु चेतःप्रत्यगात्मनोरेवाधारभूतयोः प्रशंसा क्रियते, तथाऽपि तनुत्वेन सिद्धयोश्चेतःप्रत्यगात्मनोः सकल- जगन्निवासभूतात्सर्वलोकज्यायसो महामहिम्नः परब्रह्मणोऽप्यधि- कत्वेनाधिकरणतां कल्पयत्वैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुतपरव्रह्मप्रशंसायामेव पर्यवस्यतीति ध्येयम्॥ इत्यलङ्कारमणिहारे अधिकालङ्कारसरस्त्रयश्चत्वारिंशः.

अथाल्पालङ्गारसरः (४४) आधारसौक्ष्मयमाधेयात्सूक्ष्मादल्पं तदुच्यते।

Page 490

अल्पालंकारसर: (४४) 477

स्वापेक्षया सूक्ष्मादाधेयादाधारस्य सृक्ष्मत्वं यत् तदल्पं नामालङ्कार:। सूक्षमात् स्तोकात् सौक्ष्यं कारश्य।। यथा- अधिलङ्गं निवसन्त्या मिथिलेशभुवोऽतिविर- हतन्वङ्ग्याः । मौक्तिकवलयितनासामण्डनमधि- कण्ठमाप हारत्वम् ॥ १३६७॥ मौक्तिकवलयितनासामण्डनं मौक्तिकश्रोणग्रथितवलयाकार- सौवर्णनासाभरणविशेषः। अत्र उक्तविधं नासाभरणं सूक्ष्मम। तदपि वल्लभविश्ेषजनितवैचित्येन ग्रीवायामर्ितं विरहकशया भगवत्या जनकनन्दिन्या तत्र हारतां प्रापेत्युक्तया ततोऽपि .

ग्रीवायास्सौक्ष्म्य दर्शितमित्याधेयादाधारस्य सौक्ष्म्यमनुसन्धेयम्।। यथावा- त्वद्दर्शनसंभ्रमतस्त्वदयिताकर्णवेष्ठनं मध्ये। प्रतिमुञ्चति स्म तत्र व्यतिषकं नाथ तद्भवति काश्ची ॥ १३६८॥ अत्रापि कर्णवष्टनं तावदतिसूक्ष्मं, तदपि त्वदर्शनसंभ्रमव- शात्वदयितया श्रियाऽवलप्रे निबद्धं सत्तत्र काञ्चीतुल्यमभूदि- त्युक्तया अवलप्नस्यातितनुत्वं दर्शितम्। अत्र विभ्रमाख्यश्शङ्गार- चेषाविशेषः । 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः' इतिलक्षणात्। अयमलंकारो दीक्षितोपज्षं, प्राचीनैरलक्षितत्वात्। सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्गवेव।।

Page 491

478 अलंकारमणिहारे

आधारसौक्ष्मयादाधेयसौक्ष््यमप्यल्पालंकार एव भवेत् इद च प्रथमस्याधिकस्य प्रतिद्वन्द्वि, पूर्व तु द्वितीयस्येति ध्येयम्। यद्यप्ययं प्रभेद: कुवलयानन्दकारैरलक्षितः, तथाऽप्यधिक- प्रतिदन्द्वितयाऽवश्यमेष्टव्य इत्यस्माभिर्लक्षितः, द्वंद्विभूतस्याधिक- स्यापि द्विप्रकारत्वात्॥ यथा- तनुतरमुदरं देवकतनुआयाः परममावसङ्गह्म। सूक्ष्माच्च सूक्ष्मतरमिति साक्षाच्छुतिमतनुतान्व- र्थाम् ॥१३६९॥ 'सूक्ष्माञ्च तत्सूक्ष्मतरं विभाति' इति मुण्डकश्रुतिमित्यर्थः । अन्वर्था अनुगुणाभिधेयाम्। अत्राधारभूतस्य देवकीजठरस्याणी- यस्तया आधेयस्य तद्गर्भस्थस्य परव्रह्मणस्सौक्ष्म्यं निबद्धम्। यथावा- अणुमात्रे मम हृदये प्रणतस्य विलीन एष परमात्मा। स्थानेऽ्यमणीयानिति जाने ज्याय- स्त्वमर्थवादोऽस्य । १३७० ॥ अय परमात्मा अणीयानिति सथाने जाने 'एष मआत्माS- नतर्ददयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा शयामाक- तण्डुलाद्वा, इति श्रुतेरणुतर इते युक्तं मन्ये। तर्हि 'ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवः' इति श्रुतेः का गतिरिति चेत् अत्राह-ज्यायस्त्वमर्थवादोऽस्येति। अस्य परमात्मनो ज्याय- स्त्वमर्थवादः प्रशंसामात्रं न तुवास्तवमिति भावः । अत्र सूक्ष्मात् हृदयरूपादाधारादाधेयस्य परमात्मनस्सूक्ष्मतरत्वम्। इद परमात्म-

Page 492

अन्योन्यालंकारसर: (४६) 479

नस्सर्वज्यायस्त्वयोगेऽपि तदयोगकथनरूपातिशयोक्ति संकीर्णमिति विशेषः । इत्यलङ्कारमणिहारे अल्पालङ्कारसरश्चतुश्चत्वारिंशः

अथान्योन्यालंकारसरः (४५) विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः॥ द्वयोरन्योन्यनान्योन्यस्य विशेषाधानमन्यान्यं नामालङ्कारः।। विशेषश्च गुणक्रियादिरूप: ॥ यथा- करपझ्मरागभूम्नाऽत्यरुणतरा कटकपझ्मरागश्रीः

करपद्मयोः रागभूस्ना आरुण्यातिशयेन। तत्पभ्नरागाणों कर- कङ्कणकुरुविन्दानां धाम्ता महसा। अत्र करपम्मारुण्यातिशयकङ्कण-

यथावा- उरसोऽन्तरिक्षमहसो मणेश्र फणिशयन तुलि- तदिवसमणेः। अन्योन्यश्रीजननात्सामान्यं भूष्य- भूषणत्वमभूत् ॥१३७२।। भूष्यभूषणत्वं अलंकार्यालंकारत्वं सामान्यं उभयसाधारणं अभूत्।। अत्र भगवदुरसः कौस्तुभस्य च श्रीजननरूपाक्र्केययो- रन्योन्यं विशेषाधानम्। उपमोपस्कृतत्वं विशेषः। इत्यरं कारमणिहारे अन्योन्यसरः पश्चचत्वारिंशः

Page 493

480 अलंकारमणिहारे

अथ विशेषालंकारसरः (४६)

विशेषस्स्याद्विनाSSधारादाधेयं वर्ण्यते यदि। प्रख्याताधारमन्तरेणाधेयस्य विशिष्टावस्थितिवर्णनं विशेषा- लंकारः। अय च द्विविध :- आधारान्तरगतत्वेनाधेयस्य वर्ण- नं निराधारत्वेन च।।

तत्राद्या यथा- क्षीणेऽस्तगेऽपि चन्द्रे सान्द्रा शौरे तनोति त- ज्ज्योत्स्ना। तव वदने दीव्यन्तीवरहितमिन्दीवरा- मोदम ॥१३७३॥ वर हितं त इन्दीवराणां आमोदं सौरभम, पक्षे दीव्य- न्तीवरहितमित्यत्र दीव्यन्ती इवरहितामेति च्छेद: । इवरहितं इन्दविरामोदं इन्दिरामोदमित्यर्थः। इन्दीवरामोदमित्यत्र दका- रोत्तरव्तिन ईकारस्य हस्वे वर्णाद्वितयात्मकत्वेन उत्तरस्य इका- रस्य लोपेऽप पूर्वस्य इकारस्य सन्भावेन तथा निष्पत्तेः॥ यद्ा ईवराइतमित्येव च्छेद:, तथाच ईवरहितं इन्दीवरामोदं इन्द्रा- मोदमित्यर्थः। इन्दीवरामोदशब्दे दकारोत्तरवर्तिना ईकारेण सह वकारस्य लोपे अवशिष्टदकाररेफर्संयोगेन तथा निष्पत्तेरिति भावः।

राणादिषु प्रसिद्धम्। भगवद्वदनश्रियः तदीयास्मितश्रियो वा ज्योत्सनात्वेनाध्यवसानम्। अत्र चन्द्ररूपप्रसिद्धाधारस्याभावेऽपि तज्ज्योत्स्नारूपाधेयस्य भगवद्वदनलक्षणाधारान्तरगतत्वन विशि- ष्टावस्थिति: ।।

Page 494

विशेषालंकारसरः (४६) 481

यथावा लीनेडपि जलघिमध्ये भानौ निखिलं तदीय- रुचिजालम्। कमलोल्लासं कलयति कमलाक्षोर- स्स्थमणिगतं सततम् ॥१३७४ ॥।

कमलोल्लासं कमलानां विकासं कमलाया हर्ष च ॥ अत्रापि भानुरुचिजालस्य प्रसिद्धाधाराभावेऽपि वर्णनीये कौस्तुभे वि- शिष्टावस्थानमुक्तम् ॥

यद्यप्यत्रोदाहरणद्वयेऽपि ज्योत्स्नारविरुचिजालजातीये एव वर्णनीययोज्योत्स्नारुचिजाले वर्ण्येते न तु ते एव। तथाऽपि भेदेऽव्यभेद इत्यतिशयोक्तिबलादेकत्वाध्यवसायाददोषः। इन्दीव- रामोदकमलोल्लासयोस्तु श्ेषभित्तिकाभदाध्यव सायमूलकातिश- योक्तिबलादेकत्वाध्यवसायः । न चैवमतिशयोक्तिरेव स्यादिति वाच्यम्। तस्यास्सर्वालङ्कारप्राणप्रदतया अलङ्गारान्तरबाधनायो- गात्, अन्यथा श्लिष्टपरंपरिताद्यनेकालक्कारलोपप्रसङ्गात्। यथोक्तं भामहेन- सैषा सर्वत्र वक्रोक्तिरनयारऽर्थो विभाव्यते। यत्नोऽस्यां कविभि: कार्यः कोऽलङ्कारस्तया बिना॥ इति। वक्रोक्ति: अतिशयोक्तिरित्यर्थः ॥ द्वितीय: प्रकारो यथा- नयनरुचाऽवयवरुचाऽप्यगगनजलदा न न भ्र्र त टितश्र । दिशिदिश परिविकिरन्ती दिशति फणीशाद्रिमणिवधूरमृतम् ॥१३७५॥ ALANKARA II 61

Page 495

482 अलंकारमाणेहारे

अमृतं सलिलं निश्श्रेयसं च । अत्र गगन विना अभ्राणां अभ्राणि विना तटितां च निराधारतयैवावस्थानम्॥ यथावा -- सह रघुवीरेण गतं तदाश्रितं यच्चराचरं नि- खिलम् । तत्कीतेर्धाष्टियं कियदेका लोकान्निरा- श्रया चरति ॥१३७६॥। पूर्व रूपकसङ्कीणम्। इदं शुद्धं समासोक्तिसङ्कीर्ण वा॥

द्वितीयविशेषः यत्रैकमेव युगपदनेकाधारसंश्रयम् । आधेयं वर्ण्यते सोपि विशेषः परिकीर्तितः ॥ यत्रैकमाधेयं परिच्छिन्नयत्किचञ्चिदाधारस्थितमपि युगपद- नेकाधारगतत्वेन वर्ण्यत स द्वितीयो विशेषप्रकारः। वक्ष्यमाण- पर्यायव्यावृत्तये युगपदिति॥

शिरासे दिशां तत्त्वदशां मनसि मुनीनां च यथा-

वचसि सुकवीनाम्। त्वयि सन्त एव सुगुणाः पयसिजलोचन सदाऽपि विहरन्ते ॥ १३७७॥

श्रुतिमौळौ नतमौळौ प्रतिभाति च यद्षाद्रि- यथावा-

वरमौळौ। तत्पादपद्मयुगळं मत्पापततिं जगत्पते- र्हरताम्॥ १३७८॥

Page 496

विशेषालंकारसरः (४६) 483

अत्रादिमे पद्ये भगवतः कल्याणगुणानां द्वितीये पादपझ्मयु- गळस्य च युगपदनेकाधारस्थितिः ॥ यथावा- श्रितकनकविमानं यं वीक्षेहिगिरौ पुमांस- ममुमेव। वेध्मि विधाभेदाद्रविविम्बे श्रितकनक- घमानम् ॥ १३७९॥ यं अहिगिरौ श्रितकनकविमानं वीक्षे पश्यामि अमुमेव पुमांसं परमपुरुषं रविबिम्बे विधाभेदात् प्रकारभेदात् श्रितकनकघामानं 'य एषोऽन्तरादित्ये हिरण्मयः पुरुष' इति श्रुतहिरण्यवर्ण वेभि अयमेक एव परमपुरुष उभयत्र स्थित इति जानामि। शेषाद्रौ जलदनीलवर्णत्वं रविबिम्बे तु सुवर्णवर्णत्वमित्ययमेव विधामेदः। पक्षेश्रितकनकविमानशब्दमेव विधाभेदात् वि धा इति वर्णमात्रवै- . लक्षण्यात् श्रितकनकधामानं श्रितकनकधामशब्दं वेझीति चम- त्कार एव पूर्वतो विशेषः॥

तृतीयविशेषः किचित्कार्यारम्भमात्रादन्यत्कार्य सुदुष्करम्। कृतं निबध्यते यत्र विशेषस्सोऽपि सम्मतः ॥ किंचित्कार्यमारभमाणस्यासंभाविताशक्यकार्यान्तरानर्वर्तनं तृ- तीयो विशेषप्रकारः । पवंच एतदन्यतमत्वं विशेषालंकारसा- मान्यलक्षणमिति ध्येयम्॥ यथा- सोपानपथे दढ़ता गोपालेनापि पादमहिशैले।

Page 497

484 अलंकारमणिहारे

उदलड्डि साडर्चिरादिकपदवी सहसाऽत्र कोनु सं- दिग्धाम् ॥ १३८० ॥ अत्र शेषा्रिसोपानप्रथमपर्वणि पदन्यसनरूपकिंचित्कार्थार-

निबद्धम॥ यथावा- मरुदशनवरधराधरशिशे हरे त्वं वतसयसि सततम्। जगदखिलं शखरितं भगवन् भवतेति भवति चित्रमिदम्॥ १३८१ ॥ अत्र शेषगिरिमात्रावतंसनलक्षणकिंचित्कार्यारम्मेण दुष्क- रतमाखिलजगच्छेखरवत्तानिष्पादनम्।।

त्वामेकं विश्वम्भर विभ्राणो हृदि बिभर्मि वि- यथावा-

श्वमिदम्। ननु विश्वभरणनिपुणस्त्वं वाऽहं वा विमृश्य वद तावत् ॥ १३८२ ॥ *

अत्रैकभगवन्र किंचित्कार्यारम्भेण दुष्करतमविश्वभरण- कार्यान्तरकरणम्। विश्वंभरेति साभिप्रायविशेष्यविन्यासरूपप- रिकराङ्करोदश्वितवैभवमिति विशेषः॥

अतिसुरभिगन्धमादनमतिवेलं रत्नसानुमहिशै- यथावा-

लम्। सृजतेह चित्रकूटं बहवश्शैलाः कृताः क्षि- तौ विधिना॥ १३८३॥

Page 498

विशेषालंकारसरः (४६) 485

अत्यन्तं सुरभिणां चम्पककुसुमानां गन्धेन मादनं जन- मानसविकारोत्पादकम्। पक्षे अतिसुरमि अतिमात्रमनोजं गन्धमा- दनं तन्नामानं गिरिम । रतनानि सानुषु यस्येति तं रत्नसानुम्। पक्षे सुमेरुम। चित्राणि विस्मयावहान कूटानि शिखराणि यस्य तत्, चित्रकूटनामगिरिं च । ईंदशमहिशैलं सृजता विधिना क्षिती बहवश्शैलाः कृता: सृष्टाः ॥ यथावा -- सुखपवनसर्वतोमुखशुचिविपुलं फणघराचलं सृजता। अन्यानि षद्मजनुषा युगपद्रूतानि ससृ- जिरे पश्च ॥ १३८४॥ खं नभः, पवनः, सर्वतोमुखं सलिलं, शुचिः अग्निः, विपुला भूश्च एतेषां समाहारः, तत् शोभनं यस्य तत् सुखपवनसर्वतोमुख- शुचिविपुलम्। पक्षे सुखं पान्ति रक्षन्तीति सुखपानि सुखावहानि वनानि काननानि यस्मिन् सः, सर्वतोमुखः विश्वतश्शिखरवान्, शुचि: शुद्ध:, विपुलः विशालश्चति विशेषणानां कर्मधारयः ।ईदशं फणधराचलं सृजता। अन्यत्सुगमम् ॥ अत्र विलक्षणानां भूतामां युगपत्सृष्टेश्श्रौतः क्रमो न विवक्षितः ॥ यथावा- महितमहारम्भाढ्यां बहुशोभाभृत्कृतस्थलां सृ- जता। अहिशैलघरां धात्रा विहिताऽनेकाप्सर- स्सृष्टि: ।। १६८५।। महिता: महानां आरम्भा: तैः आढ्यां संपन्नाम् । पक्षे महिता पूजिता महती रम्भा तन्नामा अप्सराः तया आढ्याम्। बडुशः

Page 499

486 अलंकारमीणहारे

भाभृन्ति कृतानि स्थलानि यस्यास्ताम्। पक्षे बहुशोभां बिभर्तीति बहुशोभाभृत् कृतस्थला नामाप्सगः यस्यां सेति । अहिशैलधरां सृजता धात्रा अनेकासां अप्सरसां स्वर्वेश्यानां सृष्टिः, पक्षे अनेकेषां अप्सरसां जलाशयानां सृष्टिः विहितेति । अत्र 'अतिसुरभि- गन्धमादनम्' इत्यादुदाहरणत्रये शेषाद्विसृष्टिरूपकिंचित्कार्यार- म्भेण नानाविधशैलादिसर्जनरूपदुष्करतरकार्यान्तरनिष्पादनं श्रे- षोत्तम्भित निबद्धम॥ मध्यपद्ये रतनावळी चेति विशेषः।

इत्यलंकारमणिहारे विशेषालंकारसर: षट्चत्वारिंशः.

अथ व्याघातालंकारसरः. (४७)

तत्कार्यसाधनं वस्तु तद्विरुद्वस्य साधनम्। क्रियते चेन्तदाख्यातो व्याघातोSसावलंकृतिः॥ यद्वस्तु यत्कार्यसाधनतया जगति विज्ञातं तद्वस्तु केन- चित्तद्विरुद्धकार्यसाधनं क्रियते चेत् स निष्पादितकार्यविघातः कत्वाद्वयाघातो नामालंकारः ॥ यद्वा-यद्वस्तु यत्साधनतया केनचिदुपातं तद्वस्तु अन्येन तत्प्रतिस्पर्धिना तद्विरुद्धसाधनं क्रियते चेत् सोऽपि व्याघात इत द्विप्रकारोऽयम॥।

तत्राद्य: प्रकारो यथा- महतापत्प्रभवरजोविभवेनाक्षोभि येन ज-

Page 500

व्याघातालंकारसरः (४७) 487

गदेतत्। तेनैव वृषगिरीन्दो तस्मै प्रददास्यमन्द- मानन्दम् ॥ १३८६॥

महता येन आपदां प्रभवः जन्मस्थानं यो रजोविभवः रजोगुणभूमा तेन एतत् जगत् अक्षोभि, तेनैव उक्तरजोगुणवि- भवेनैवेत्यर्थः । पक्षे पत्प्रभवेति छेदः प्रभवतीति प्रभवं, पदः चरणात् प्रभवं यद्रजः तद्विभवेन स्वकीयचरणपरागमहिम्नेत्यर्थः । अमन्दमानन्दं प्रददासि॥ अत्र दुःखसाधनत्वेन प्रसिद्धस्याप- त्प्रभवरजोविभवस्य श्षेषमाहिम्ना चरणरजोविभवाभेदाध्यवसि- तस्य भगवता आनन्दसाधनताविधानाल्लक्षणसङ्गातेः ॥

यथावा- त्वदनभिमुखतायां प्रागमृताय्यन्ते स्म देव ये भोगाः। त्वदभिमुखतादशायां गरळाय्यन्ते त एव ननु मनुजैः ॥ १३८७॥

अत्र सुखसाधनत्वेन प्रसिद्धानां विषयोपभोगानां दुःख- साधनतानिबन्धनं पूर्वोक्तविपरीतमश्लिष्टमुपमासंकीर्ण चेति विशेषः।। द्वितीय: प्रकारो यथा- भोगिक्ष्माभृदधीश्वरनिषेवणैरयेरबुधा सुमुक्षन्ते। तैरेव सदाऽभ्यस्तैरवुधास्सर्वेडनिशं बुभुक्षन्ते॥८८॥

बुधाः तत्वविदः यैः भोगिक्ष्माभृदधश्वरस्य श्रीशेषाद्वि- नेतुः भगवतः निषेवणैः मुमुक्षन्ते संसारबन्धान्मोक्तुमिच्छन्ति,

Page 501

488 अलंकारमणिहारे

अबुधाः अतत्वविद: तैरेव भोगिक्ष्माभृदधीश्वरनिषेवणैरेव भो- गैकपरवणा ये क्ष्माभृवधीश्वरा: भूपालश्रेष्ठाः तेषां निषेवणैरेवति वस्तुस्थितिः । बुभुक्षन्ते सांसारिकभोगानतुभवितुमिच्छन्ति॥ अत्र मोक्षसाधनत्वेन बुधैरुपात्तानां भोगिक्ष्माभृदधीश्वरनिषेव- णानां तत्प्रतिस्पर्िभिरवुघैस्तद्विरुद्धभोगसाधनीकरणं भोगिक्ष्मा- भृदि त्यादिशब्दोपात्तार्थद्यश्लेषभित्तिका भेदाध्यव सायमूला त्तिश य - जीवातुकमित्यवधेयम्॥

यथावा- पद्माक्ष पुरमरीणां येनाधाक्षीस्सुदर्शनेन त्वम्। तेनैव पुरोडरीणां संपदमावहति तव सरो- जाक्षी॥ १३८९॥

हे पद्माक्ष! अरोणां पौण्डकादीनां वैरिणां पुरं वारणास्या- दिकं नगरं येन सुदर्शनेन चक्रेण त्वं अधाक्षी: दहास स्म, तेनैव सुदर्शनेनैव तव सरोजाक्षी लक्ष्मीः अरीणां वैररिणां पुरः पुरस्य संपद आवहतीति विरोधः। परिहारस्तु तेन सुदर्शने- नैव शोभनेनालोकनेनैव पुरः स्वदर्शनात्पूर्वमवेत्यतिशयोतति:। अश्रितानमिति शेषः । अरीणां अप्रस्नतां अक्षीणामिति यावत्। 'रिड् प्रस्नेवण' दैशादिकादस्मात्कर्तरि क्ः। अस्य स्वादित्वेन 'स्वादय ओदितः' इत्योदित्वे 'ओितश्च' इति निष्ठातस्य नत्वम्। 'स्यन्नं रीणं स्त्रतं स्नुतम्' इत्यमरः । संपदं श्रियं आवहतीति।। अत्र भगवता अरिपुरदहने साधनतया स्वकितस्य सुदर्शनस्य एतत्प्रतिद्वन्द्विन्या थ्रिया तद्विरुद्धसंपत्तिदानसावनीकरणं श्ेष- सूलातिशयेन निबद्धम्।।

Page 502

व्याघातालँकारमर: (४७) 489.

यथावा. असमविलोकनधाम्ना प्रदुम्नं पुष्यति स्म पुरवैरी। तनैव वृषाद्रिपतिः प्रद्युम्नं पुष्यतीह मु- रवैरी ॥१३९०॥ पुरवैरी रुद्र: असमस्य विषमस्य तृतीयस्थेत्यर्थः, विलो- कनस्य विलोचनस्य धाम्ना तेजसा अग्िनेति यावत्। प्रद्युम्न स्मरं घुष्यति स्म अधाक्षीत्। 'प्रुष दाहे' दैवादिकः। वृषाद्रि- पतिः तेनैव असमविलोचनधाम्नैव असमेन असद्दशन विलोचन- धाम्ना नयनत्विषा कटाक्षणेति यावत्, इति वस्तुस्थििः । प्रद्युम्नं रमरं प्रकृष्टं हिरण्यं विभवामेत्यर्थः । 'हिरण्यं द्रविणं दुम्नम्' इत्यमरः। पुष्यति पुष्णाति। 'पुष पुष्टौ' दैवादिकः। आश्रिता- नामिति शेषः॥ अत्र प्रद्युन्नक्लोषणे पुरवैरिणा साधनीकृतस्या- समावलोकनधाम्न एव तत्प्रतिद्वन्द्विना मुरवैरिणा तत्पोषणसा- धनीकरणम्। अन्यत्प्राग्वत् ॥

द्वितीयव्याघातः पराभिमतकार्यस्य विरुद्धा केन चित्क्रिया। सौकर्यतो निबद्धा चेद्याघातस्सोऽपि कथ्यते। कार्यविशेषनिष्पादकतया कनचित्संभाव्यमानादर्थादन्येन सुकरतया कार्यविरोधिनी क्रिया समर्थ्यते चेत्सोऽपि व्याघातः। कार्यविरोधिक्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम्।

मूढ इति यद्युपेक्षा तत एव हरेड़स्तु मय्यनु- यथा-

ALANKARA II 62

Page 503

490 अलकारमणिहारे

जिघृक्षा। हन्त स्त्रियोऽनुकम्प्या दीना मूढाश्र जन्तवो हि सताम् ॥ १३९१॥ हे हरे!। अत्र भगवता उपेक्षायां यन्मूढत्वं का रणत्वेन संभा- वित तत प्रत्युत तद्विरुद्धानुजिघृक्षाया एव कारणया 'स्त्रि- योऽनुकम्प्यास्साधूनां दाना मूढश्र जन्तवः' इति प्रमाणार्थमु- पन्थस्य तद्ुक्ततां स्थापयता कविना समर्थ्यत इत्ययं द्वितीयो व्याघानः॥ यथावा - मूर्ख इति यदि जहासि त्वं मामनुरुन्त्स्व नाथ तत एव । रक्षन्ति हि वशयन्तो मूर्ख छन्दा- नुरोधतः प्राज्ञाः ॥१३१२॥ अत्रापि पूर्ववदेव भगवता भक्तस्य परित्यागे यन्मूर्खत्वं कारणतया संभावितं तत् प्रत्युत तद्विरुद्धानुवर्तनस्यैव कारण- तया 'मूर्ख छन्दानुरोधेन' इति नीतिप्रदर्शनेन तदौचित्यं स्थापयता कविना समर्थ्यते॥ इत्यलङ्कारमणिहारे व्याघातालङ्कारसरस्सप्तचत्वारिंशः

एवं श्लेषतिशयोक्तयायुपायोन्मिषितेन किश्चिदंशाभेदाध्यव सानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदनुवर्तमानस्नन्मूलका विरोधामासादयो व्याघातान्ता निरूपिता अलङ्गाराः। ते च नानारूपं वैचित्यं भजन्तो विरो- धाभासस्यैव प्रभेदा:, न तु तनोऽतिरिक्ताः काञ्चनस्येव कङ्क- पादय इत्यके। रूपकदीपकादीना मौपम्यगर्भाणासुपमाभेदत्वापत्ते-

Page 504

कारणमालालंकारसरः (४८) 491

र्भूयसी स्याद्वैयग्रीति परस्परच्छायामात्रानुसारिणो भिन्नविच्छि तयो भिन्ना एवेत्यपरे॥ अथ गङुलालंकारा :.

यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता । अर्थेषु पड्डिबद्धेषु व्यत्ययो वाऽपि शृङ्ला।। पङ्गिरूपेण निबद्धष्वर्थेषु उत्तरोत्तरस्य पूर्वपूर्वस्मिन वा पूर्वपूर्वस्योत्तरोत्तरास्मिन् वा संसृषटत्व शृङला । तच्च कार्य- कारणत्वविशेषणवविशेष्यत्वादिनानारूपम्। इय च न स्त्रतन्त्रोS- लंकारः, वक्ष्यमाणप्रभदैर्गतार्थत्वात्। न ह्यनया विना तेषां विविक्तोऽस्ति विषयः। यथाहि रूपकादिष्वनुप्राणयतृतया वर्तमानोऽप्यभेदांशस्समानधर्माशो वा न पृथगलंकारः, एवं प्रकृतेऽपीत्याहुः। तदपरेन क्षमन्ते, सावयवादिभेदैः रूपकस्य, पूर्णालुप्तादिभदैरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात्। तस्माच्छूह्वलाया एव कारणमालादयो भेदा इति। मतयोर-

अथ कारणमालासर :. (४८)

गुम्भ: कारणमालैषा वैपरीत्येऽपि चेष्यते ॥ उत्तरांत्तरकारणभूतैः पूर्वपूर्वैः पूर्वपूर्वकारणभूतैरुत्तरोत्तरैवां वस्तुभिर्गुम्भने सैव शह्ललाकारणमालालंकारो भवत।

Page 505

492 अलंकारमणिहारे

पूर्व पूर्व कारणं परं परं कार्यमिति प्राथमिकी । पूर्व पूर्वै कार्य परं परं कारणामेति द्वैतीयीकी॥ तत्र प्राथामकी यथा - भक्तया त्वद्विरिगमनं त्व्विरिगमनेन तव तु निध्यानम्। त्वन्निध्यानेन विभो पूणानन्दार्णवा- न्तराप्लवनम् ॥ १३९३।। निध्यानं दर्शनम्। 'निर्वर्णनं तु निध्यानं दर्शनालोकने- क्षणम्' इत्यमरः ॥ अत्र. भक्तयादीनां पूर्वपूर्वेषां शेषाद्रिगमना- दुत्तरोत्तरं प्रति कारणत्वं निबद्धम्।। यथावा- अन्नात्खलु भूतानां प्राणाः प्राणैर्मनोय मन- सश्च। विज्ञानं विज्ञानादानन्दो ब्रह्म भानं दधते। अन्नात् भूतानां प्राणाः भासनं प्रकाशं दधते बिभ्रति। जौहोत्यादिकस्य धाजो लटथमपुरुषबहुवचनम्। प्राणैः मनः भासन दधते धत्ते। भौवादिकस्य दधतेर्लेट्प्रथमपुरुषैकवच- नम्। एवमग्रेऽपि। अत्राप्यन्नादीनां पूर्वपूर्वेषां प्राणादुत्तरोत्तरं प्रति कारणता गुम्भिता। इयं च 'अन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः' इति तैत्तिरीयकश्रुत्यर्थानुसारिणीति विशेषः । अलंकाराणां श्रुतिमूल- ताख्यापनायेदमुदाहरणम् ! अन्नात् प्राणाः इन्द्रियाणि प्राणा वा भवन्ति। श्रवणानुकूलेन्द्रियप्राणसाष्ठवं जायन इत्यर्थः । मनः मनन, विज्ञान दर्शनसमानाकारं ज्ञानं, आनन्दः आनन्दमयं ब्रह्म परब्रह्म भवति भासते। प्राणसौष्ठवमूलकश्रवणादिपरंपरयोत्प- नन्निदिध्यसनादानन्दरूपं परं ब्रह्म प्राप्यत इति श्रुतेरर्थः॥

Page 506

कारणमालालंकारसरः (४८) 493

यथावा- आहारस्य विशुद्धया शुद्धिस्सत्त्वस्य सत्त्वशु- द्वौ ते। भवति ध्रुवाऽच्युत स्मृतिरखिलग्रन्थिप्रमो- क्षणं तस्याः ।।१३९५॥

अत्र 'आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ त्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष' इति श्रुत्यनुविधानेन पूर्व- पूर्वस्याहारशुद्धयारुत्तरोत्तरसत्वशुद्धयादिकं प्रति कारणता निबद्धा पूर्ववदेव॥ आहारशुद्धौ सातत्विकाहारसेवायां सत्यां सत्वस्य अन्तःकरणस्य शुद्धिः। तस्यां च सत्यां ध्रुवा स्मृतिः दर्शनसमानाकारा स्मृतिर्भवति। तस्यां सत्यां सर्वग्रन्थीनां दुर्मोंचतया ग्रन्थिशब्दवाच्यानामविद्यारागादीनां विप्रमोक्षो भ- वति इति श्रुतेरर्थः ॥

यथावा- इन्द्रियविजयो मनसर्स्थेम्ना तस्माच्च कर्म- योगगतिः। ज्ञानं तस्मात्तस्माद्गक्तिर्भवति ततो भवेन्मुक्ति: ॥ १३९६॥ इयं कार्योपकमा। पूर्वास्तु कारणोपकमा इति विशेषः।

द्वितीया यथा- भवविपद्स्तव पदयुगनवपङ्गजशरणवरणवै- धुर्यात्। तदनेकादविवेकात्सोऽप्यच्युत सत्समाग- मालाभात् ॥ १३१७॥

Page 507

494 अलंकारमणिहारे

अत्र भवविपदादिपूर्वपूर्व प्रति उत्तरोत्तरशरणवरणवैधुर्या- दीनां कारणत्वं ग्रथितम।। यथावा- श्रेयोहेतुर्विभवो विभवस्य निबन्धनं रमापा- पाङ्ग: । तत्कारणं च भजनं भजननिदानं च पूर्वपुण्यश्रीः ॥ १३९८॥ पूर्वोदाहरणे विभक्तया कारणत्वबोधनं, इह तु हेत्वादि- शब्दैरेवेति विशेषः । यथावा- गुरुकृपया हरिचरणप्रपदनमेषा च सत्त्वगुण- पूर्त्या। सा च भगवत्कटाक्षात्स भवति यादृच्छि- कादिसुकृतवशात् ॥ १३९९॥ एषा गुरुकृपा॥ इहादौ कारणोपक्रमः पूर्वत्र कार्योपक्रम इति वैलक्षण्यम्। इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनः तत्कस्यचित्कारणं तदपि कस्यचिदिति, तस्य कारणं सस्यापि कारणमिति वा कारणमाला युक्ता। यदा तु कार्योक्ति- रादावुपक्रम्यते तदा तत्कस्यचित्कार्य तदपि कस्यचििति, नस्य कार्य तस्यापि कार्यमिति वा युक्ता। सर्वथैव यः कार्य- कारणत्वोपस्थापकश्शब्द आदौ प्रयुक्तस्स एव निर्वाह्यः। एवं- क्मेण निबन्धनमाकाङ्कानुरूपत्वाद्रमणीयम्। अन्यथा तु भग्नक्र- मं स्यादिति ध्येयम्। यथा प्राचीनानां पद्यं- जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणाधिके पुंसि जनोऽतुरज्यते जनानुरागप्रभवा हि संपद:॥

Page 508

कारणमालालंकारसर: (४८) 495 अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रिय- त्वस्यापि किं कारणमिति विनयः कस्य कारणमिति वा आ- काङ्रोदोत, कारणस्यैव स्मृतिवशात्पूर्वमुपस्थितेः। कारणं तु ज्ञातं कार्य पुनरस्य किमिति क्वचिदाकाड़ा तु कार्यत्वकारण-

यत्वोपस्थित्या संगमनीया, न त्वसौ सार्वत्रिकी, एवंच निनयः कस्य कारणमित्याकाङ्काया: गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति। तथाऽपि न साक्षादि- त्यहद्यङ्गममेव। तथा गुणप्रकर्षात्किमवाप्यत इत्याकाड्कायां गुणाधिक पुंसीति च। अत्र च कथितपदत्वं न दोषः, प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्य-

शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शष्द्रोऽपि विशेषणतया भासते। तथाचोक्तम्-

न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमाहते।

इति। तत्तच्छब्दस्य विशिष्टस्यार्थस्स्वरूपेणाभिन्नोऽपि विलक्षणः प्रतीयत इति न कथितपदत्वदोष इति वदन्ति। विस्तरस्त्व- न्यत्र द्रष्टव्यः ॥

इत्यलंकारमणिहार कारणमालासरोऽष्टचत्वारिंश:

Page 509

496 अल्लकार मणिहारे

अथैकावळीसरः. (४९) उत्तरस्योत्तरस्य स्यात्पूर्व पूर्व विशेषणम। विशेष्यं वा यदा प्राहुरिमामेकावळीं तदा।। उत्तरोत्तरस्य पूर्वपूर्व प्रति विशेषणतया विशेष्यतया वा गु- म्भने सैव शृङ्गलैकावळीत्युच्यते। इयमेव गृहीतमुक्तरी- त्याऽर्थश्रेणिरित्युच्यते। ग्रृहीतं च तन्मुक्तं च गृहीतमुक्त तस्य रीति: पङ्गि: तया गृहीतमुक्तरीत्या। अभेदे तृतीया। ततश्च

तत्राद्या यथा- भुजगगिरिर्हरिवसतिर्हरिरम्बुधिजाविहारमण- शिखरी। अम्बुधिजाऽडश्रितविभवानुदश्चयति ते वतंसयन्ति भुवम् ॥ १४०० ॥ अत्रोत्तरोत्तरस्य हर्यादेः पूर्वपूर्वभुजगगिर्यादिविशेषणभावः । इयं चोत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्विविधा। यदाहु :- स्थाप्यतेऽपोह्यते वाऽपि यथापूर्व परंपरम्। विशेषणतया यत्र वस्तु सैकावळी द्विधा। इति। यत्र यथापूर्व पूर्वपूर्वस्य परं परं उत्तरोत्तरं विशे- षणतया स्थाप्यते विधीयते अपोह्यते निषिध्यते वा तत्रैका- वळाति तदर्थः॥ यथा- स बुधो यस्तु विवेकी स विवेको यस्तु तत्त्व-

Page 510

एकावळ्यलंकारसर: (४९) 497

संमर्शः । तन्तत्वं यत्परमं तत्परमं ब्रह्म भाति यत्सरमम् ॥ १४०१॥

अत्रोत्तरोत्तरविवेकादिविशेषणानां पूर्वपूर्वबुधादिविशेष्य- स्थापकत्वम् ॥ न स मनुजो थोडविद्वान्न स विद्वान्यो न वेद तहूह्न। न ब्रह्म तड्टबाद्रौ यन्न परिरमेद्रमावशो- रस्कम् ॥ १४०२॥ अत्र पूर्वपूर्वस्य मनुजादेर्विशेष्यस्य उत्तरोत्तरमविद्वदादि- विशेषणमपोहकम। यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न विवेकी न स बुध इत्यादि, तथाऽपोहकेऽपि स्थापकत्वं यो विद्वान् स मनुज इत्यादि, तथाऽपि नोपात्तं तदित्यदोषः॥ पूर्वपूर्वस्य उत्तरोत्तरं प्रति विशेषणतया गुम्भनं द्वितीय प्रकार: ।4

स यथा- त्वद्विभवज्ञो भीष्मस्तजननी जगदिदं पवित्रय- ति। तद्दयिते त्वं शयितो गुणास्तवाच्युत नूणां प्रियंकरणाः ॥। १४०३.॥।

यथावा- लक्ष्म्या विभाति भगवांस्तनाहिगिरिश्र भवति शेखरितः। तेन द्रमिडा रम्यास्तैरेतद्रूषितं भरत- खण्डम् ॥'१४0४॥ ALANKARA II 63

Page 511

498 अलंकार मणिहारे

द्रमिडानां निवासो जनपद: द्रामेडाः। 'सोऽस्य निवासः' इत्यणो 'जनपदे लुप' इति लुपि युक्तवल्लिङ्गवचने ।। अत्राद्ये पूर्वपूर्वस्य भीष्मादेरुत्तरोत्तरगङ्गादिकं प्रति विशेषणभाव:। द्वितीये लक्ष्म्यादेर्भगवदादिक प्रतीति ध्येयम्॥ इत्यलंकारमणिहारे एकावळीत्र एकोनपश्चाशः

अत्रेदमवधेयम्-अस्मिश्ैकावळ्या द्वितीयभेदे पूर्वपूर्वैः परस्य परस्योपकार: क्रियमाणो यद्येकरूपस्स्यात् तदा अयमेव मालादीपकतया व्ययहियते शचीनैः। यथाच लक्षितं तैः मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्। इति। आद्यं दीपकामेत्यर्थः। तत्र मालाशब्देन शृह्लोच्यते। दीपकशब्देन दीप इवेति व्यत्पत्या एकदेशस्थं सर्वोपकारक- मुच्यते। तेनकदेशस्थसर्वोपकारकक्रियादिशालिनी शुङ्गलेति पदद्यार्थः। एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षण- द्ृपकविशेषोऽयमिति न भ्रमितव्यं, तस्य सादश्यगर्भनाया- स्सकलालकारिकसंपतिपन्नत्वात्। इह व शुङ्धलावयवानां पदा- नां सादृश्यमरेव नास्तीति कथंकारं दीपकतावाचोयुक्तिं श्रद्ध- धेमहि, तेषां प्रकृताप्रकृतात्मकत्वविरहाच्चेत्याहुः॥ वस्तुतन्तु- एकस्यै धर्मस्थ वाक्यान्तरेष्वप्यन्वयमात्रेण दीपकसादश्या- द्दपिकमित्यनुपद्मेव वक्ष्यमाणरीत्या विच्छित्तिविशेषसन्भावा- नमालादीपकस्य पृथगलंकारतैव युक्ता। अन्यथा शृङ्गलारूपा- लंकारभेदानां कारणमालादीनामपि यत्किंचतिद्विच्छित्ति विशेषशा- लितया पृथगलंकारताञ्युपगमोऽव्ययुक्त एव स्यादिति परे। अत एव सर्वस्वकृताऽप्यस्मिन्नेव प्रकरणे अयमलंकार: पृथग्ल- क्षितः 'पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालार्दापकम्' इति।

Page 512

मालादीप कालंकारसरः (५०) 499

यद्यपि प्राचीनैरेतहीपनमात्रानुगुण्याद्दीपकानन्तर लक्षितम् । शृङ्गलामूलत्वेन विशिष्टसस्य चारुत्वमित्यस्मिन्नेव प्रकरणे लक्षितं

अथ मालादीपकसरः (५०)

मालादीपकमेतत्स्यादीपकैकावळीयुतेः॥

युते: योगात्। एकधर्मान्वयस्य गृहीतमुक्तरीतेश्च मेळ- नात् मालादीपक नामालंकार। एकस्यैव धर्मस्य वाक्यान्त- रेष्वप्यन्वयमात्रेण दीपकसादृश्याद्दीपक, न तु आगुक्तदीपकालं कार:, प्रकृताप्रकृतानामौपस्यस्य गम्यतायामेव तदततारात्।

यथा- हारः कौस्तुभमणिना सोऽषि भवद्वक्षसा तद- पि लक्ष्म्या। साडि भवता भवानपि सौशी- ल्याद्ैर्गणैरुपस्क्रियते ॥ १४०५॥ उपस्क्रियते अलंक्रियते। उपपूर्वकात्कृञः कर्मणि लट्। 'उपात्म्रतियत्न' इत्यादिना प्रतियलार्थे कृञस्सुट्। प्रतियत्नो गुणाधानम् । अत्र उपस्क्रियत इत्येकमेव पदं हार: कौस्तुभ- मणिना उपस्क्रियते सोऽपि भवद्क्षसा उपस्क्रियत इत्येवं सर्व- वाक्यान्वयीति दीपकसादृश्याद्दीपकम्। गृहोतसुक्तरीतिसद्भा- वादेकावळीति दीपकैकावळीयोगः।।

Page 513

500 अलंकारमणिहारे

यथावा रुद्राश्रिता दिविषदो रुद्रो ब्रह्माणमाश्रितो भ- गवन्। ब्रह्मा त्वामाश्रित इह न त्वं श्रयसे क- दाचिदपि कमपि॥ १४०६॥

इदमावृत्ति दीपकैकावळीयोगलक्षणं मालादीपकमिति पूर्वो- दाहरणाद्विशेषः। अत्र-

रुद्रं समाथिता देवा रुद्रो ब्रह्माणमाश्रितः। ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः!।

इति महाभारतीयभगवद्चनार्थोऽनुसहितः॥

इत्यलंकारमणिहारे मालादपिकसर: पश्चाशः

Page 515

D.G.A. 80. CENTRAL ARCHAEOLOGIGAL LIBRARY NEW DELHI Borrowers record.

Call No .- Sa4A/Sri-8094

Author- Sri Arishna Brahmatantra Parakalaswamin

Tıtle- Alankara_Manihara. Pt.2.

Borrower's Name Date of Issue Date of Return

P.T.O.