1. Alankara Manihara Vol 3 MORI
Page 1
GOVERNMENT OF INDIA
DEPARTMENT OF ARCHAEOLOGY
CENTRAL ARCHAEOLOGICAL LIBRARY
CALL No. Sa4A / srl
D.G.A. 79.
. ..
Page 4
University of mysore
Oriental Library Publications
SANSKRIT SERIES No. 62
अलङ्गर म णिहा रः
श्रीमद्रिः श्रीकृष्णब्रह्मतन्त्र परकालसंयमीन्द्रेः प्रणीतः तृतीयो भाग :.
THE
ALANKARA-MANIHARA
BY
Sri Krishna-Brahmatantra Parakala Swamin
PART III.
EDITED RY
Dn. R. SHAMA SASTRY, B.A., PI.D., M.R.A.S., Curator, Government Oriental Librory, Mysore, Direstor of Archo olagical Rescarches in Mysore, Peridieul Locirer do the Post mdxate, Clusses of the Caleutta Unirersity, and B.B. R.A. S. Campbell Mesewtet Medalid.
PRINTED AT THE GOVERA 1923.
Page 5
CENTRAL ARCHAEOLOGIGAD
Aco. No. LIBRARY, NEW JELHI.
Date. -
Page 6
विषयानुकमणिकाः
विषय पुटसंक्प 51 सारालङ्कारः
विचार: 5 ...
52 यथासंख्यालक्कार: 6 ..*
53 पर्यायालङ्कार: 11 .1 ..
मतान्तरनिरूपणम् 14 .... ...
पर्यार्यप्रकारान्तरम् 14 .... + ..
54 परिवतत्यलंकार: 17 ... .... ....
55 परिसंख्यालह्वार: 25 1 ... ... ..
अस्यवार्थीत्वशाब्दीत्वाम्यां द्वविध्यम् 34 ...
56 विकल्पालङ्कार: 30 ....
57 समुच्चयालक्कार: 41 ...
समुच्चय प्रभेदा: 41 .... :..
अस्यव तत्करालङ्कारत्वेन व्यवहार: प्राचाम् ... 43
58 कारकदीपकालङ्कार: 47 ... ... ....
अस्थैवालङ्कारान्तरेऽन्तर्भाव विचार: 47 ..
59 समाध्यलक्कार: 48 .... ...
60 प्रत्यनीकालक्कार: 49 .... ..
विचार: .... 57 1 ... ..*. ....
61 काव्यार्थापतत्यलंकार: ... 58 ...
58 ....
रसगन्नघररीत्या लक्षणम् ... 67 .... " ...
विषयविचार: 73 ... .... ....
Page 7
iv
विषय पुटसंख्या वैद्यनाथमतानुवाद: .... 74 .. +
62 काव्यलिंङ्कालङ्कार: ... 75 ... ...
वाक्यार्थहेतुक काव्यलिङ्गोदाहरणानि 75 ....
अस्यैव मालारूपत्वम् .... ... 88 ...:
पदार्थहेतुककाव्यलिङ्गोदाहरणानि 93 ...
क्वचित्पदार्थवाक्यार्थयोः परस्परसापेक्षयोर्हेतुत्वम् 101
दीक्षितन तानुसरेण परिकगदस्य काव्यलिङ्गस्य भेदप्रपश्चनम् 107
रसगङ्गाघरकृन्मतरी त्याऽस्यालङ्कारस्य लक्षणप्रदर्शनम् 107
अस्यैवालद्वारत्वाभावविचार: 112 ...
63 अर्थान्तरन्यासालङ्कारः ... 113 ...
अस्य भेदनिरूपणम् ... 113 ...
अस्यैवालङ्कारताप्रयोजकस्य प्रदर्शनम् ... ... 137
64 विकस्वरालङ्कार: 138 ... ... ...
65 ... 140 ... ...
रसगङ्गाधरमतरीत्या लक्षणान्तरम् 140 ... ...
66 संभावनालङ्कार: ... 142 ... ...
67 मिथ्याध्यवसित्यलक्कारः ... 152 ...
68 ललितालङ्कार: ... 154 .... ...
157 ....
69 प्रहर्षणालङ्कार: 159 ...
70 विषादनालङ्कारः ं .. 164 ...*
71 उल्लासालङ्कार: ... 166 ...
भेदप्रदर्शनपुरस्सरमुदाहरणानि 166 ...
अलङ्कारान्तरेणैवास्य चारितार्थ्यविचार: 185 ....
72 अवशालङ्कार ... ... 186
Page 8
V
विषय पुठसंखया
अत्र केषांचित्पक्षविचार: 190 ...
73 अनुज्ञालङ्कार: 191 ..
74 तिरस्क गलङ्गार: 194 ...
75 लेशालक्कारः 195 ....
76 मुद्रालङ्कार: 197 ...
कौस्तुभकृन्मतानुसारेण लक्षणम् 202 ...
प्रसङ्गादलंकरणमालिकास्तोत्रम् 205 ...
77 रत्नावळ्यलङ्गारः 211 .... ....
भेदप्रदर्शनपुरस्सरमुदाहरणानि 211 ...
78 तह्रुणालङ्कारः 244
79 पूर्वरूपालंकार: 245 ....
प्रकारान्तरेण लक्षणम् 246 ....
80 अतद्रुणालङ्कार: 252 ....
सर्वस्नकारमतनिरूपणम् 255 .... ....
81 अनुगुणालक्कार: 256 ...
82 मीलितालङ्कार: 257 .... ....
83 सामान्यालङ्कार: 259 ....
84 उन्मीलितालङ्कारः 263 .... ..
85 विशेषकालङ्कार: 264 .... ..:
अत्र प्राचां मतमू 265 ....
80 उत्तरालङ्कार: 266
266 ....
अस्यैव लक्षणान्तरम् 271 1 ...
S7 चित्रप्रश्नालङ्कार: 278 .... ...
विचार: .... ..!. 282
Page 9
vi
विषय पुटसंख्या
88 सूक्ष्मालङ्कार: 283 ... ...
89 पिहितालङ्कारः 284 *... ... ...
90 व्याजोक्त्यल्कार: 286
विचार: .... 288
91 गूढोक्त्यलङ्कार: 289 .. t
92 विवृतोक्त्यलङ्कार: 292
93 युक्त्यलङ्कारः 299 ...
विचार: ... 300 ....
94 लोकोक्त्यलङ्कार: 301 ....
95 छेकोक्त्यलङ्कार: 303
96 वक्रोक्त्यलङ्कारः 305 .... शब्दश्रंषमूलवक्रोक्त्युदाहरणानि 305
अर्थ श्रेषमूलव क्रो वत्युदाहरणानि 314 ...
97 स्वभावोत्क्यलङ्कारः 316 ...
98 भाविकालङ्वार: 318
99 उदात्तालक्कार: 321
100 अत्युक्त्यलङ्कारः 325
101 निरुक्त्यलङ्कार: 329
102 प्रतिषेधालङ्कारः 336 ...
103 338 ... ..
104 हेत्वलङ्का 341
प्रकारा तरेण लक्षणम 346
अभेदव्यपदेश।यालङ्गारत्वविचारः 348
Page 10
शु द्धि प त्र म् ,
पुटे. पड़ुो. अशुद्धम्. शुद्धम्.
2 7 भवति भजति
14 9 अन्य अन्ये
39 14 योगन योगेन
47 14 तैषि तैर्वि
50 10 आम आत्म
50 17 भूवा भूत्वा 50 18 शौर शौरे
66 12 व्यव व्यव
", व्यधा व्यवधा
77 7 स्युर्मी स्युर्भी 79 11 अेश्यन् ्द्रश्यन्
15 तानि: तानि In 80 5 अहिर्घु अहिर्बु
त्वच त्वच्च
6 मुपावं मुपाया
82 11 यमुना यामुना प्स्ममहि पस्महि
102 1 भर्ग र्भग
108 23 म्यन्यं म्यन्तं
114 18 न्यधा अन्यघा
115 5 काहळी त्व काहळीत्व
Page 11
viii
पुटे. अशुद्धम्. अशुद्ध.
115 13 कठिनन कठिनेन
119 4 मरु मरूप
126 13 सर्मयते स्मर्यते
2 132 2 महिळ महिळे
171 2 कृतिपक्षी कृांत पक्षी
188 7 उको उक्तो
194 12 त्वेन ष त्वेन प्र
18 संपद संपदम्
199 17 प्रषठ षछ
200 5 छोया ष्टोऽयं
न लघू नलघू
207 1 युल्लस त्युल्लस
216 8 क्रामिक क्रमिक
229 14 कृत्तिद्ध कृत्तद्धि
20 इत्यद इत्याद
233 16 सप्रदा संप्रदा
291 14 पात्येति पाल्यति
329 4 च्छौर्या च्छौंयों
Page 12
अलङ्गारमणिहारे तृतीयभागप्रारम्भः.
अथ सारालङ्गारसरः (५१)
सैवोत्तरोन्तरोत्कर्षे सार इत्युच्यते वुधैः ॥ सैव शह्कला पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षवर्णने सारा- लङ्कार इत्युच्यते। अयमेवोदारालङ्कार इति सर्वस्वकता व्यव- हियते। तथाच तदीयं लक्षण-"उत्तरोत्तरमुत्कर्षणमुदारः" इति। इमं चालङ्गारमेकानेकविषयत्वेन द्विविधमामनन्ति। एक- विषयतायामवस्थाभेदाश्रयणमावश्यकं, उत्कर्षस्य भेदनियतत्वात्। न ह्यवस्थादिकं भेदं विना किंचिदपि वस्तु स्व्रापेक्षया स्वयम- धिकं भवितुमीष्टे। तत्राप्युत्तरोत्तरमुत्कर्षः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यमिति विमर्शनीकारः॥' तत्र एकविषये स्वरूपेणोत्तरोत्त रोत्कर्षो यथा- सोऽव्यात्तिविक्रमोऽस्मान्यस्योडुततिः क्रमेण वृद्धिं भजतः। आदौ वज्जवतंसो मुक्ताहारस्ततोऽ- थ मणिकाश्चयासीत् ॥ १४०७॥ अत्र पकस्यैव भगवतस्तत्तदवस्थाविशिष्टतया स्वरूपेणो- तरोत्तरमुत्कर्षः ॥ ALANKARA -III.
Page 13
2 अलङ्कारमणिहारे
यथावा-
ककटकश्रीः । प्रौढश्रूडामणिना क्रीडां दुमणिस्त- नोति तव भगवन् ॥ १४०८ ।।
बालस्तव पदनखरुचिमथेन्दुरर्धस्समेति फाल- यथावा-
तुलाम्। संपूर्णो मुखलक्ष्मीं भवति हि शुचिरुत्त- रोत्तरोत्कर्षम् ॥।१४०१।। अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां सूर्याचन्द्रमोभ्यां उत्तरो- त्तरावस्थाविशिष्टयोरेवोत्कर्ष उक्त इत्येकविषयत्वम्। अयमर्था- न्तरन्यासशिरस्क इति विशेषः। वलियज्ञभुवं व्रजतस्स्थलकमलमिव व्यक्षा- तवोपेन्द्र पदम्। उत्क्षिप्तमथ छत्रं सुत्राम्णोSथ च महद्वितानं जगताम् ॥१४॥ अत्र भगवच्चरणस्य पूर्वावस्थायां स्थलकमलवदल्पपरिमा- णस्यैव सतः छत्रादिवदुत्तरोत्तरमहत्त्वावस्थाविशिष्टतया उत्क- र्ष उक्त इत्येकविषयत्वम् ।। धर्मेण यथा- दीप इवादौ दव इव ततोऽथ युगविगमरवि- रिवोज्लितः । ग्रसति स्म ते प्रतापो विराधमा- रीचदशमुखान्भगवन्।१४११॥
Page 14
सारालक्कारसरः (६१) 3
अत्रैकस्यैव भगवत्प्रतापस्य उज्ज्वलितत्वरूपधर्मपुरस्कारे- णोत्तरोत्तरोत्कर्षः । यथावा- अङ्करिता प्लविता कोरकिता कुसुमिता च मम भक्तिः। क्रमतस्त्वयि मधुसूदन महती भूत्वा प्रसौति फलमनघम् ॥ १४१२॥
अत्रैकस्या एव भक्ते: महत्वधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षों निबद्धः॥ यद्यत्रैकस्मिन्नाश्रये क्रमेणानेकाधेयस्थितिरूप: पर्यायालङ्का- रोऽत्र प्रतीयते, ताहै प्रतीयतां नाम। न हि तावता पूर्वपूर्वा- पेक्षया उत्तरोत्तरोत्कर्षरूपस्सारो गळहस्त्यते॥।
अनेकविषयस्स्त्ररूपेणोत्कर्षो यथा- रजताचलमूर्धनि यस्तन्मूर्धनि याऽस्ति साऽपि यत्पदजा। सोऽपिच यत्पदलाक्षालक्षितवक्षा ज. यत्यसौ लक्ष्मीः॥१४१३॥ अत्रानेकेषां स्वरूपेण पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षः॥ धर्मेण यथा- प्राणिषु मनुजाशश्रेष्ठा मनुजेषु ब्राह्मणा बुधा- स्तेषु। त्वच्चकला्छितास्तेष्वच्युत तेषु त्वदङ्ग दत्तभरा:।।१४१४॥।
Page 15
4 अलक्कारमणिहारे
यथावा- अज्ञाद्रन्थी श्रयांस्तस्मान्तद्वारणे कृती तस्मात्। ज्ञानी तस्माद्वयवसितमतिस्ततोऽ्यच्युत स्वरू- पज्ञः ।।१४१५॥ तद्धारणे कृती ग्रन्थधारणं कृतवानित्यर्थः । कृतशब्दात् 'इष्टादिभ्यश्च' इति कर्तरि इनिः। 'क्तस्येन्विषयस्य कर्मण्युप- सङ्यानम्' इति कर्मणस्तद्वारणशब्दात्सप्तमी। ग्रन्थिनः ग्रन्था- ध्ययनकृतः। अनयोरुदाहरणयोः मनुजप्रभृतीनां अ्रन्थिप्रभृतीनां च श्रैष्ठथरूपधर्ममुखेनोत्तरोत्तरोत्कर्षः । अनयोश्चाद्य उदहरण भूतानां प्राणिनशश्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराइश्रेष्ठा नरेषु ब्राह्मणास्स्मृताः ॥ इत्यादिमनुवचनच्छाया पुरस्कता। द्वितीये तु- अज्ञेभ्यो ग्रन्थिनशश्रेष्ठा ग्रन्थिश्यो धारिणो वराः। धारिभ्यो ज्ञानिनशश्रेष्ठा ज्ञानिभ्यो व्यवसायिन:। इति मनुवचनक्रम उक्त इति ध्येयम्। अयं सर्वोऽपि श्ाध्यधर्मो- त्कर्षः ॥ अश्ाध्यधर्मोत्कर्षो यथा- मलिनो महिषस्तस्माद्लिभुक्तस्माच्च तिमिर- निकुरुम्बम्। मम हृदयं तस्मादपि विमलयसि यदीदमीश्वरोऽसि त्वम् ॥१४१६॥ उभयरूपो यथा- अवनितलं विपुलतमं गगनं तस्मान्ततोSपि
Page 16
सारालङ्कारसरः (५१) 5
जगदण्डम्। तस्मादवर्ताम्बु ततोऽप्यघं मम हरे कथं हरेरेतत् ॥१४१७॥ हरे: हज लिङ् मध्यमैकवचनम्। अत्र गर्ताम्वुपर्यन्तेषु वि- पुलतमत्वं श्राध्यो धर्मः । प्रकृतार्थे त्वघे अश्लाध्यः॥ अत्रेदमवधेयम्-एकविषये शृहलाया अचारुतया तद- नुपाणितस्सारो न चारुतां लभते, तस्यास्स्वाभाविकमेदापे- क्षित्वेनावस्थादिकृतभेदे अनुल्लासात्। अतएवास्मित्विषये वर्ध- मानकनामालङ्कारोऽन्यैरभ्युपगतः । तल्लक्षणं च 'रूपधर्माभ्या- माधिक्ये वर्धमानकम्' इति कृतम्। तस्मात्कारणमालादिर्यथा शृङ्गलैकविषया, न तथा सारक्शक्यो वक्तुम, एकविषये अल- ङ्वारान्तराभ्युपगमप्रसङ्गाद्। 'सारो गुणस्वरूपाभ्यां वैशिष्टये पूर्व- पूर्वतः' इति तु लक्षणं सारस्ययुक्तम्। गुणस्वरूपाभ्यां पूर्व- पूर्ववैशिष्टये सार इति तदर्थः। स च क्वचिच्छृह्वलानुप्राणितः, क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम्। एवं
त्वात्पृथगलङ्कारत्वे सिद्धे शृद्धलाया विरोधाभेदसाधर्म्यादिवद- नुप्राणयितृतैवोचिता न पृथगलंकारता। तथात्वे अभेदादीना- मपि पृथगलंकारतापत्तेः। पूर्णालुप्तादी तु न विच्छित्तिवैलक्ष- णयं, अपितृपमाविच्छित्तिरवतिे संप्रदायः। ननु केयं विच्छित्तिः? उच्यते-अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चम- त्कारिता वा विच्छित्तिरिति गरह्यताम्।। इत्यलङ्कारमणिहार सारसर एकपश्चाश:
Page 17
6 अलक्कारमणिहारे
अथ यथासंख्यालङ्गारसरः. (५२)
उद्देशक्रमतोर्ऽर्थानां संबन्धो यत्र कथ्यते। प्राश्चस्तत्र यथासंख्यमपरे क्रममूचिरे॥
ययासंख्यमिति पदार्थानतिवृत्तिरुपे पथार्थेऽ्ययीभावः । संख्याया अनतिवृत्तिश्च आद्यस्याद्येनैव द्वितीयस्य द्वितीयेनैवे- त्यादिक्रमेण संम्बन्धो भवतीति योगार्थ एवं लक्षणम। अन्ये पनं यथासंख्यं क्मालङ्कार इति व्यवाहार्षुः। सच शब्द: आर्थश्चेति द्विविधः। तत्रासमस्तानामसमस्तैः क्रमेणान्वये शाब्दः, कमिकसम्बन्धस्यातिरोहितत्वात्। यत्र तु समुदायद्वयस्य स- मासेनाभिधाने सत प्रथममेकस्य समुदायस्यापरेण समुदा- येन सामान्यतस्समन्वये सति पश्चादर्थानुगमपर्यालोचनया तत्स- मुदायिनां क्रमेण संबन्धस्तत्रार्थः॥ यथा- विष्णो विनतजनानां तृष्णां हृदयं सुखं च दुःखं च। प्रुष्णासि प्लुष्णासि च पुष्णासि वृषा- द्रिनाथ मुष्णासि॥ १४१८॥ हे तृषादिनाथ विष्णो! विनतजनानां तृष्णां पुष्णासि पूर- यसि। हृदयं प्लुष्णासि सेवसे। तत्र वससीत्यर्थः। स्वस्मिन् स्नहयसीति वा। 'प्रृष प्लुष स्नेहनसेवनपूरणेषु' इति क्रैया- दिकाभ्यां धातुभ्यां लट्। सुखं पुष्णासि दुःखं मुष्णासि च
Page 18
7ं
'पुष पुष्टौ' 'मुष स्तेये' इमावपि क्रैयादिकावेव। अत्र प्रुष्णा- सीत्यादिक्रियाणं क्रमेण तृष्णादिष्वन्वयः। इह शाब्द:, अस-
यथावा-
नयनरुचा वदनरुचा कमलं विमलांशुबिम्ब- मपि कमले। नूनं जितं भवत्या जलं निविशते महाबिलं चापि।। १४१९ ॥
महाबिलं महत्सुषिरं अन्तरिक्षंच। 'मेघद्वार महाबिलम्' इत्यमरः। इदमपि शाब्दं उत्प्रेक्षागर्भ, पूर्व तु शुद्धमिति विवेकः॥। यथावा- यौ श्रीकाळीभ्षक्तौ सुरपोऽत्राद्यः परस्सुरापो भविता। भास्वत्तमोऽथ मत्तस्स्वभास्तदाकारविप्र- तीपो यदयम् ॥ १४२० ॥
यौ श्रीः लक्ष्मीः काळी दुर्गा तयो: भक्तौ उपासकौ, अत्र अनयोर्मध्ये, आद्यः श्रीभक्तः सुरान्पातीति सुरपः देवाधीशः तत्तुल्यो वा अत एव भास्वत्तमः अतिशयेन भास्वान् महाते- जश्शाली च भविता। परः काळीभक्तस्तु सुरापः सुराणां दे- वाना नपातीत्यप: देवारक्षक इत्यर्थः । सुरां पिबतीति तथोक्त: मद्यप इति तश्वम्। काळिकोपासकानां वामाचारस्य प्रसिद्ध- स्वादिति भावः । क्रमेण 'पा रक्षणे, पा पाने' इति घात्वोः 'आतोऽनुपसरगे' इति कः । अत एव मत्तः मदशाली। अवि-
Page 19
8 अलङ्कारमणिहारे
द्यमाना भाः यस्य अभाः सुष्टु अभाः स्वभाः अतिवेलतेजो- हीन इत्यर्थः। न हि सुरापस्य ब्रह्मतेजो भवेदिति भावः । मत्त- श्चासौ स्वमाश्च्ेति विशेषणोभयपदकर्मधारयः। कुतोऽनयोर्वैष न्यमित्यa अह-तदाकारेति। यत् यस्मात् अयं चरमनिर्िष्टः काळीभक्तः तदाकारविप्रतीप: तदाकारस्य प्रथमनिर्दिष्टश्रीभक्ता- कारस्य तदाचारस्येति यावत् विप्रतीपः प्रतिकूलः सदाचार- वामाचारयोरतिविप्रकर्षादिति भावः । पक्षे-अय सुराप इति शब्द: तदाकारविप्रतीप: तस्य सुरपशब्दस्य आकारेण आव- पैन मध्यस्थेनेति भावः। विभ्रतीपः विरुद्धरूपः । मध्ये आवर्ण- सन्भ्रावात्सुरपशब्दविरुद्धरूप इति भावः । एवं अय मत्तस्व- भारशब्दः तदाकारस्य भास्वत्तमशब्दस्वरूपस्य विप्रतीपः प्रति- लोमः। भास्वत्तम इति शब्द एव प्रातिलोम्येन दष्टो मत्त- स्वभा इति निष्पद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति। अत्रापि शाब्द एव। पूर्वस्माद्वैलक्षण्यं तु स्फुटमेच॥। यथावा- अम्ब त्वदाश्रितानामितरेषामपि शरीरिणां क्ष- वति। विपुलैश्वर्य विरलैश्व्य चात्रास्ति पुरत एव भिदा॥ १४२१ ॥ विपुलैश्वर्य सूमीश्वरत्वं विरलैश्वर्ष अल्पविभवः। अत्र अनयोः त्वदाश्रितेतराश्रितयोः तद्विभवयोवी। पुरतः अग्रत एव भिदा भेद: अस्ति। स्पष्टमेव प्रकाशत इत्यर्थः। पक्षे अत्र विपुलैश्वर्यविरलैश्वर्यशब्दयोः पुरत एव पुवर्णरवर्णाभ्यामेव भिद्े- त्यर्थोऽपि चमत्कारी। अन्रापि शाब्द एव ।।
Page 20
यथासह्वयाल क्वारसर: (६२) 9
अर्थ यथासंख्यं यथा- जलरुहजलनिधिवसती हृदयोजुलरत्नहारवन- मालौ। हृत्सौधे सध्रयश्ची प्राश्चौ जायापती विह- रतां नः॥ १४२२ ॥ अत्र जलरुहजलनिधिवसती इत्यादिसमुदायस्य प्रथमं जा- यापतिरूपसमुदायान्वय सति पश्चादर्थानुराधेन जलरुहादेर्जाया- यां जलनिध्यादेः पत्यौ च समन्वयधीरित्यार्थी यथासंख्यालंकारः। यथावा- तावकमतिविभवाभ्यां बृहस्पतिदिवस्पती समं विजितौ। बृहदिव वैलक्षण्यं प्रकाशयेते मिथस्त- दप्येतौ ॥ १४२३॥ बृहस्पतिदिवस्पती गुरुसुन्रामाणो। तावकानां भागवता- नां मतिविभवाश्यां समं तुल्यं विजितौ। तदपि विजितत्वतौ- ल्येऽपि एतौ बृहस्पतिदिवस्पती मिथः अन्यान्यं वैलक्षण्यं भेदं बृहदिव महदिव प्रकाशयेते विजितत्वरूपणावैलक्षण्येऽपि तत्- मददिव दर्शयेते इत्यर्थः । यद्वा इवशब्दो वाक्यालंकारे। गुरु शिष्यत्वरूपं महद्वैलक्षण्यं दर्शयेते इति हृदयम। पक्षे वृहस्पतिदि- वस्पतिशब्दौ बृह दव इति वर्णाभ्यामेव वैलक्षण्यं प्रकाशयेते। न त्वन्यवर्णत इत्यर्थः । अत्रापि पूर्ववदेव सर्व, शब्दपरार्थान्तरव- र्णनं तु विशेष: ।। यथावा- दशवदनविभाषणयोर्देव त्वत्प्रातिकूल्यसख्यजु- ALANKARA - IIL. 2
Page 21
10 अलंङ्कारमणिहारे
षोः। भवतस्सम शाषशषौ भगवंस्तत्प्रकृतिगुण- भिदावशतः ।। १४२४ ॥। हे देव भगवन्! त्वत्प्रातिकूल्यसख्यजुषोः दशवदनवि- भोषणयोः शोषशेषी भवतः स्म अभूताम्। रावणस्य शोषः विभीषणस्य शेष इति भावः। शुषशिषोर्भावे घञ्। तत्र हतु- माह-तदिति। तयोः दशवदनविभीषणयोः प्रकृतिगुणानां स्व- भावसिद्धगुणानां 'दम्भो दर्पोऽभिमानश्च' इति, 'अभयं सत्त्वसंशु- द्विर्ज्ञानयोगव्यवस्थितिः' इति च गीतानां आसुरसंपद्ठुणानां दैव- संपद्गुणानां च भिदावशात् भेदवशात् भवतः स्मेति योजना। भवतेः स्मयोगेन भूते लट्। आसुरसंपदभिजाततया भगवत्प्रा- तिकूल्यन दशाननस्य नाशः। दैवसंपदभिजाततया तत्सख्येन विभीषणस्यायुयादिश्रेंयस्वत्तया पारिशेष्यं चाभूतामित्यर्थः। पक्षे प्रकृती प्रत्ययविधावुद्देश्यभूते धातुरूपे। तयोः गुणौ वद्भिदाव- शतः घञ्निमित्तकतया 'पुगन्तलघूपधस्य' इति विहितगुण- योश्च भेदवशादित्यर्थः। शुष् शिष् इत प्रकृती भिन्न तयोर्गुणी ओकारैकारलक्षणौ च मिन्नौ तादृशभेदवशत् शौष इति शेष इति शब्दौ निष्पन्नाविति भावः। अन्यत्तुल्यं पूर्वेण। अन्नेद विवेचनीयं-इदं यथासंख्यमलकारसरणिमाढौंकितु- मीष्टे वा न वेति। न ह्यस्मिन् लोकसिद्धे कविप्रतिमानिर्मि-
व्यपदेशो मनागप सांप्रतं स्थात्। अतः अपक्रमत्वरपदोषा- भाव एव यथासंख्यम्। एवंचोद्टमतानुयायिनामुक्तय :कूकार्ष पणवदमनोहारिण्य एव। एतेन यथासंख्यमेव कमालंकारसंज्ञया व्यवहरतो वामनस्याप गिरो व्याख्याता इति नव्याः। इत्यलंकारमणिहारे यथासंख्यसरो द्विपश्चाश:
Page 22
पयायालङ्कारसरः (६३) 11
अथ पर्यायालंकारसरः (५३)
अधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥ यत्रैकमाधेयमनेकस्मिन्नाधारे क्रमात् स्वतो भवति कविना वा निबध्यत तत्र पर्यायालंकारः। अत्र 'अन्तर्बहिः पुरः पश्चा- तसर्वदिक्ष्वपि सैव मे' इति विशेषालंकारव्यावृत्तये क्रमेणेति। तत्र ह्याधेयस्य युगपदनेकाधारसंबन्ध इति नातिप्रसङ्गः। अत एव कमाश्रयणात्पर्याय इत्यन्वर्था संज्ञा। अस्य च प्रयोजकाभि- धानानभिधानाभ्यां द्वैधी॥ यथा- दुग्धोदन्वति पूर्व मुग्धेन्दौ तदनु विदधती वा- सम्। अधुन तु सुधा निवसति मधुनाशन ताव- कीनचरितेषु॥ १४२५ ॥ अतैकस्यास्सुधाया: क्रमेण दुग्धोदन्वदादयनकाधारसंश्रयणं
क्ता। वर्णनीयभगवच्चरितेषु तु कविना परं निबद्धा। यत्राधाराधेय- तत्संबन्धकमेषु क्वचिदृपि वा कविकल्पनापेक्षास्ति तत्रैवायम- लंकारः । यत्र तु सर्वशि लोकसिद्धत्वं न तत्र कश्चिदंलकार इति तु तत्त्वम्। यथावा-
Page 23
12 अलङ्कारमणिहारे
पदम्। वाताशनगिरिशिखरे जातावासो रमानि- वासात्मा॥ १४२६॥ अत्र प्रयोजकानीभधानं स्पष्टम्॥ तदभिधाने यथा- प्रवरा मौक्तिकमणयः प्रवाळमतिरुचिरममृत- सारश्र। वारिधिना स्वसुताया वदने वात्सल्यतो न्यघायिषत॥ १४२७॥ अत्र वारिधिना वात्सल्यत इति प्रयोजकनिर्देशः। अत्रो-
र्णवस्याधारता आर्धा। पूर्वोदाहरणेषु तुसा शाब्दी। इयं रद्-
चेति विशेषः। यथावा- विद्रुमगतमारुण्यं विधिना तव दशनवसन योन्यस्तम्। तदनु पदनलिनयुग्मे स्वप्रौढिपथन- कुतुकतोऽब्धिसुते॥ १४२८॥ अत्रापि विधिना स्वप्रौढिप्रथनकुतुकत इति प्रयोजकनि- र्देशः । अय सर्वोऽपि संकोचविकासास्पृष्टतया शुद्धपर्यायः। संकोचपर्यायो यया- जगदखिलं व्याप्य पुरा जरदिभमुख्येष्वथ क्वचिल्लग्ना। अगणितगुण तव करुणा निगळितच- रणा किलाद्य मय्येव ॥ १४२९ ॥
Page 24
पर्यायालङ्कारसरः (५३) 13
इदं स्वस्मिन्नेव भगवरतो भूयसी कृपेत्यभिमन्यमानस्य कवेर्वचनम्। अत्र करुणाया उत्तरोत्तरमाधारसङ्गोचात्सङ्गोचप- र्यायोऽयम्॥ यथावा- परमेष्ठिपदान्महतो गिरिशजटाजूटकोटरे ल- य्ना। अरविन्दवासिनि ततो लीना मन्दस्मितेS- म्ब तव गङ्गा ।। १४३० ।।
अत्र गङ्गाया उत्तरोत्तरमाधारसङ्गोचः। अतिशयोक्तचनु- प्राणितत्वमुभयत्र तुल्यम्। पूर्वमुदाहरणमुत्प्रेक्षाशरस्कं, इदं तु वक्ष्यमाणमीलितशिरस्कमिति भिद्षा॥
विकासपर्यायो यथा- अम्ब यदैश्वर्य त्वयि संबन्धात्तव तदम्बुजाक्षेऽ- पि। संबद्धं किं बहुना त्रयम्बकमुखसुरकदम्बकेS- पि ततः ॥ १४३१ ॥
अम्बुजाक्षे भगवत श्रीनिवासे। अत्रैश्वर्यस्य पूर्वपूर्वाधारा- परित्यागनैवाधारान्तरसंक्रमणम । विकासपर्यायोऽयम्।।
यथावा- वक्षस्येवैक्ष्यत ते कौस्तुभसौवस्तिके कठोर- त्वम्। एतर्हि पातकान्मम चेतस्यपि दैत्यशात- नोदीतम् ॥ १४३२॥
Page 25
14 अलङ्कारमणिहारे
हे दैत्यशातन दैत्यारे! इदं संसारभारनिविण्णस्य कवेर्भग- वन्तं प्रत्युपालम्भवचनम्। अत्रापि पूर्ववदव विकासपर्यायः। कठो- रत्वशब्दप्रतिपाद्य काठिन्यनैघृण्य रूपार्थद्रयल्लेषनिर्व्यूढत्वं विशेषः॥ अत्र रसगङ्गाधरकृत् -"एकसंबन्धनाशोत्तरमपरसबन्धे सत्येव लोके पर्यायपदप्रयोगदर्शनात् 'श्रोणीबन्धस्त्यजति तनुतां- सेवते मध्यभागः' इति प्रकाशोदाहते तथैव दष्टत्वाच्च। बिंम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृदश्यत। अधुना हृदयेऽप्येष मृगशाबाक्षि दृश्यते।। इत्यत्र पर्यायकथनमयुक्तम्" इत्यभाणीत। अन्य तु. प्रकाश एव 'बिम्बोष्ठे' इति पद्यस्योदाहरणेन पर्यायस्य समर्थनात् अल- द्वारशास्त्रपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकि- चित्करत्वाच्च तदुक्तमचतुरश्रमेवेति वदन्ति ॥ कमादाधार एकस्मित्राधेयानेकताSपि सः । एकस्मिन्नाधारे कमादनेकाधेयवर्णनं च पर्याय इत्यर्थः। वक्ष्यमाणसमुच्चयालङ्गारवारणाय क्रमादिति। तत्र हि गुण- क्रिययोर्योगपद्येनान्वयः। विनिमयाभावात्परिवृत्तिवैलक्षण्यम । तस्या: विनिमयो लक्षणत्वेनानुपदमेव वक्ष्यते॥
भवजलनिधिचिन्तनतो भयचकित: पूर्वमथ यथा-
सुनिर्विण्णः । त्वङ्गुणगणगणनादथ धीरो विन्दामि माधवानन्दम् ॥ १४३३॥ हे माधवेति संबुद्धि। अत्र प्रथमं भयचकितत्वं अथ निर्वेद: ततो धैर्य अनन्तरमानन्द इत्येकस्मिन्नेवाधारे क्रमादनेकाधेय- वर्णनम्॥
Page 26
पर्यायालंकारसर: (६३) 15
यथावा देहात्मभ्रमवान् प्रागथ स्वतन्त्रात्मधीस्ततो भगवन्। त्वदितरशेषभ्रमवानधुना मन्ये त्वदेक- शेषं माम् ॥१४३ ॥ स्वतन्त्रात्मधी स्वरतन्त्रात्मभ्रमवान्। त्वदन्येषां पित्रादीनां देवतान्तराणा वा शेष इति भ्रमवान्। अत्र देहात्मभ्रमस्वतन्त्रात्म-
स्मिन्नाधारे निबन्धनम्॥ यथावा- आदौ तभसा मलिनं गुरुकृपया विशदमथ च हरितत्वम्। अधिगम्य तत्र रक्तं हृदय मम चित्रमे- तदब्जाक्ष ॥ १४३५॥ अत्रादौ मालिन्यं अज्ञानं नैल्यं च। अथ वैशदं ज्ञानप्रकाशः धावल्यं च। अनन्तरं हरितत्वप्रात्ति: भगवद्याथात्म्यानष्कर्षः, हरि- द्वर्णत्वं च। अथ रक्तता भगवति प्रीतिः आरुण्यं चेत्येकस्मिन्ना- धारे क्मेणानेकाधेयवर्णनम्। चित्रं आश्चर्यमिदं शबलवर्ण चेत्य- प्युपस्कार्यम। पूर्वादाहरणं शुद्धम्। इदं तु श्रेासंकीर्ण तमसे त्यादिना उपात्तप्रयोजकं चंति विशष: ।।
हन्त परस्वस्तैन्यप्रवेशधीरो भवन्नरो भगवन्। यथवा --
दृष्टोऽवितस्वया चेत्परस्वसैन्यप्रवेशधीरस्स्यात्॥ त्वया दृष्टः कटाक्षितः । अवितः रक्षितश्च। पक्षे वित इति छेद:। विगततकार इत्यर्थ: । दष्टश्चेति योजना। परस्वस्तै-
Page 27
16 अलङ्गारमणिहारे
न्यप्रवेशधीरशब्दस्तकारविगमे परस्वसैन्यप्रवेशधीर इति निष्प- द्येतेत्यर्थः । पूर्व स्तेन एव सन् भवत्कटाक्षवीक्षितश्शूरो भवे- दिति भावः। 'शौर्य नाम असहायस्यापि भीमे परबले स्वबल इव निर्मयप्रवेशसामर्थयम्' इति गद्यभाष्ये आचार्याः । तदेतदुक्ततं परस्वस्तैन्येत्यादिना। परस्वस्य अन्यावेत्तस्य स्तैन्ये चौर्य प्रवेश: तत्मिन् धीर विद्वान, परेषां स्वेषां च सैन्ये प्रवेशः तस्मिन् धीर: धैर्यवानित्यर्थः। अत्रैकस्न्नेवाधारे चोरत्वधीर- त्वयोः पर्यायेण वर्णनम्। यथावा- त्वद्विश्लिष्टा सीता सुतरान्तरलत्वमेत्य दाझर- थे। अथ झुभगुणवाराशिस्थिरान्तरासीत्वया वि- शिष्टैव॥ १४३७॥ हे दाशरथे! शुभगुणवाराशिः सीता त्वद्विग्लिष्टा सती सुतरां तरलत्वं चश्चलचित्ततां पत्य अथ अनन्तरं त्वया विशिष्टैव त्वत्स. . शेषं प्राप्तैव स्थिरान्तरा स्थिरं अन्तरं मनो यस्यास्सा तथो- का आसीत। पक्षे विश्िष्टेति शब्दव्यक्ति: सुतरा अतिशोभना अन्तः मध्ये अ त्वं अविद्यमानलकारतां मत्य शुभा: गुणानां वारा: समूहा: यस्यास्सा तथोक्ता। इदं सीताविशेषणमेव। अन्तः मध्ये शिस्थिरा शिः शिवर्णः स्थिरो यस्यां सा तथाविधा सती विशिष्टैवासीत। विश्विष्टाशब्द: लकारोत्सारणे शिवर्णस्थैये च विशिष्टेतति भवतीत्यर्थोऽपि चमत्कारी। अन्रैकस्मिन्नेव सीतारू- . पाधारे तरळत्वस्थैर्यरूपाधेययो: क्रमेण निबन्धः।उदाहरणद्व- येपि विशेषस्स्पषट एव।। इत्यलंकारमणिहारे पर्यायसरास्त्रिपञ्चाशः
Page 28
परिवृत्त्यलङ्कारसरः (६४) 17
अथ परिवृत्त्यलंकारसरः (५४)
निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः॥ निमयः विनिमयः। 'परिदानं परीवर्तो नैमेयनिमयावपि' इत्यमरः। समैः पदार्थेः समानामर्थानां असमैरसमानां वा विनि- मयः उपादानं परिवृत्तिर्नामालक्कारः। तत्र समपरिवृत्तिर्द्विधा उत्तमरुत्तमानां न्यूनैन्यूनानां च। असमोऽधिको न्यूनश्च भव- तीत्यधिकेन न्यूनेस्योपादाने न्यूनेनाधिकस्योपादाने चासमपरि- वृत्तिर्द्विधेत्येवं चतुर्धा परिवृत्ति: ।। तत्राद्या यथा- स्तुतिममृतमयों भ्रुजगक्षितिघरचूडामणे त्वयि समर्प्य। प्रतिलभ्षते त्वत्तः पुनरतिवेलं मादृगमृ- तमेव कृती॥ १४३८॥ अत्रामृतरूपस्तुतेरमृतस्य चोत्तमत्वेन समयो: परिवत्तिः।
यथावा- आधाय कथमपि त्वयि मेधावी हृदयतरळमा- त्मानम्। प्रतिविन्दतेऽनघ त्वा श्रुतिसुदतीहृदय- तरळमात्मानम्॥ १४३१॥ मेधावी विद्वान् हृदयतरळं वक्षरस्थनायकर्माण हृदयेन ह- दये वा तरळं चपलमानसामिति तत्त्वम्। यद्दा- ALANKARA -III. 3
Page 29
18 अलङ्कारमणिहारे
आत्मानमस्य जगतो निर्लेपमजरामरम्। बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरि: ॥ इत्यस्त्रभूषणाध्यायोक्तक्रमेण कौस्तुभस्वरूपमिति। आत्मानं प्रत्यगात्मानं स्वम्। कथमपि अतिचञ्चलहृदयतया यत्नगौरवा- दित्यर्थः । त्वयि आधाय न्यस्य । श्रुतिसुदत्याः हृदये वक्षसि तरळं हारमध्यमणिवद्देद्रीप्यमानं श्रुतिप्रतिपाद्यमिति यावत्। आत्मानं परमात्मानं त्वां प्रतिविन्दते । 'तरळो हारमध्यस्थ- माणौ ना चपले त्रिषु' इति रत्नमाला। अत्र हृदयतरळभूत- योरात्मनोरुत्तमसमयो: परिवृत्तिश्श्लेषानुप्नाणिता। यथावा- दत्वा लवमात्रमपां पुष्पमपि श्रीपते भवो भ- वते। लवमात्रमपां पुष्पं समुपादत्तेऽन्यदस्य को लाभः ॥। १४४० ॥ भवः शम्भुः अपां लवमात्रं कणमात्रं 'लघलेशकणाणवः' इत्यमरः। पुष्पमपि एकं कुसुममपि भवते दत्वा 'पत्रं पुष्पं फलं तोयम्' इत्युक्तरीत्या समर्प्य अन्यत् अपां लवमात्रं पुष्पं च लभते। तत्तीर्थ तन्निर्माल्यकुसुमं च विन्दते इत्यर्थः। अस्य समवस्तुदानेन समवस्तूपाददानस्य को लाभः न कोड- पि लाभ इति भावः। लवमात्रं कलामात्रं अ्पा पुष्पं 'चन्द्रमा वा अपां पुष्पम्' इति श्रुतेः। समुपादत्ते इति वस्तुस्थितिः । भगवदर्चनमहिस्न्ाऽस्य चन्द्रशेखरत्वमिति भावः। अत्राप्युत्तम- त्वेन समयो: परिवृत्ति: श्ेषमूलाभेदाध्यवसायलब्धप्रसरा। यद्वा न्यूनतया समयो: परिवृत्तिरिति वक्ष्यमाणप्रभेदस्यैवदमुदाहरणं भविष्यति।।
Page 30
परिवृत्त्यलङ्कारसरः (६४) 19
द्वितीयपरिवृत्तिर्यथा- दत्वा नश्वरभौतिकतनुमीदशभूतदेहमाददताम्। वाराणसीजनानां नारायण को नु वा भवेल्लाभ:॥ नश्वरीं भौतिकीं पञ्चभूतात्मिकां तनुम्। ईदशं नश्वरं प- श्चभूतात्मकं च शरीरम्। वस्तुतस्तु 'पिशाचो गुह्यकस्सिद्धो भूतोऽमी देवयोनयः' इयुक्तभूतयोनिविशेषशरीरमित्यर्थः । पा- श्चभौतिकत्वं तस्याप्यस्त्येवेति प्रागुपदर्श्ितार्थस्वीकारेऽपि यद्या विवक्षितसिद्धिर्भवत्येव। तथाऽपि अनन्तरोक्तार्थः श्षेषेण चम- त्कारातिशयं पुष्णातीत्यवधेयम्। प्रसिध्यति हि वारणासीवा- सिनां शरीरन्यासानन्तरं भूतदेहप्राप्तयवश्यंभावः। अत्र न्यून- त्वेन समयोभौतिकशरीरयोः परिवृत्तिः। श्रेषाद्यनुप्राणितत्वं च पूर्ववदेव। वाराणसानिवासीनां त्वदभिव्यक्तिक्षेत्रपुरवासिना- मिवावसाने दिव्याप्राकृतदेहलाभो न भविष्यतीति भाव:॥ यथावा- भर्मान्तवर्ष्मदानात्तादशतनुमेव यद्विरिशभ- काः। आददते तद्भगर्वस्तुषवितरणतः फलीकरण- लाभ: ॥ १४४२॥ भस्म अन्तः अन्ते वा यस्य तत् भस्मान्तं वर्ष्म गात्रं तस्य दानात्। 'अथेदं भस्मान्त शरीरम्' इति श्रुतेः 'कळे- बरं विट्कृमिभस्मसंज्ञितम्' इति पुराणवचनाञ्च दाहे भस्म संज्ञितत्वं कळेबरस्येति बोध्यम्। भस्मस्वरूपमिति वा। ताद्- शतनुमेव भस्मान्तशरीरमेवेति न्यूनतया समयोः परिवृत्तिः भस्मना अन्त रम्यं भस्म अन्ते अन्तिके यस्योति वेति तु तत्वम्।
Page 31
20 अलङ्कारमणिहारे
'अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽपि मनोहरे' इति विश्वः। सर्वधा भस्मोद्धूळिितमिति भावः । भगवद्भक्तास्तु दिव्याप्राकृतं 'शंत माल्यहस्ताः' इत्यायुक्तप्रकारेण दिव्यमाल्यानुलेपनाभ- रणवसनादिब्रह्मालकारालंकृतं रूपमेव दधते। न तु गिरिशभक्ता इव भस्मोद्ूलितां पैशाचिकीं तनुमिति भावः॥ यथावा- अचलदरं प्रचुरगदं विसृज्य वपुरहिमहीभृति ततोऽन्यत्। तादृग्वपुराददतो जनस्य मौग्ध्येन को न विस्मयते ॥ १४४३॥
अचलः दरः भयं शङ्श्च यस्य तत् । प्रचुर: प्रचुरा च गदः रोग: गदा कौमोदकी च यस्य तत्तथोक्तम्। अत्रापि पूर्ववदेव न्यूनसमपरिवृत्तिः। शेषाद्रौ वपुर्विसृजतो जनस्य भगवत्सारूप्यं भवतीति भावः ।।
यथावा -- आदृदृति साघुकृत्यां ब्रह्मविदस्तत्र दत्तसौहा- र्दाः। विन्दन्ति पापकृत्यां न्यस्तद्वेषास्तु तस्य ननु मनुजा: ॥ १४४४ ॥ साधुश्चासौ कृत्या क्रिया 'कृत्या क्रियादेवतयोः' इत्यमरः। सुकृतमित्यर्थः। एवं पापकृत्यां दुष्कृतमित्यर्थः। तत्रेत्युत्तरार्ज्धे- Sप्यन्वेति। तत्र ब्रह्मावदि। न्यस्तद्वेषाः। तस्य ब्रह्मविदः। अत्र पूर्वार्धे उत्तमसमपरिवृत्तिः । उत्तरार्धे न्यूनसमपरिवृत्तिः। इयं शुद्धा 'तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्या द्विषन्तः
Page 32
परिवृत्यलङ्कारसरः (५४) 21
पापकृत्याम्' इति श्रुत्यर्थानुवादिनाति च पूर्वोदाहरणेभ्यो वैल- क्षण्यम् ॥ दीक्षितास्तु-इम समपरिवृत्ति नाद्रियन्ते, किंत्वसमपरिवृ- च्तिमेव। तथाच तदीयं परिवृत्तिलक्षणं-'परिवित्तिर्विनिमयो न्यूनाभ्याधकयोर्मिथः' इति॥ तृतीयपरिवृत्तिर्यथा- अष्टाङ्गयोगभूम्ना नाथ षडङ्गेन वा प्रपदनेन। त्वत्तोऽपवर्गदातुः केचित्क्रीणन्ति हन्त कैवल्यम्।। अत्राष्टाङ्गयोगषडङ्गप्रपदनाभ्यामधिकाभ्यां न्यूनस्य कैवल्य- स्य परिवत्तिः। कैवल्यं केवलात्मानुभवः॥ यथावा- दारागारापत्यश्रीराज्यादिं समर्प्य विभवं ते। वेंकटगिरिपरिबृढ तव कैंकर्य केडपि हन्त वि- न्दन्ति ॥१४४६॥ अत्राप्यधिकेन राज्यादिविभवेन न्यूनस्य कैंकर्यस्य परि- ढात्तिः । इदं 'सर्वे परवशं दुःखम्' इति लोकदष्टया कैंक- र्यस्य न्यूनतामभिसंधायोदाहतम्। वस्तुतत्सु दारागारादिविभ- वापेक्षया भगवत्कैकर्यस्य ज्यायस्तया न्यूनेनाधिकपरिवृत्तर्वक्ष्य- माणाया एवेदमुदाहरणं संमन्येरन् ब्रह्मवेदिन: ।। अणुतरमात्मानं त्वयि फणिगिरिनाथार्पयन्त इह सन्तः । महतोऽपि महान्तं त्वां विहितोपाया वितन्वते क्रीतम् ॥ १४४७॥
Page 33
22 अलङ्कारमणिहारे
'एषोडणुरात्मा। महतो महीयान्' इति श्रुतिरत्रानुसंधे- या। विहितः अनुष्ठितः उपाथः भक्तिप्रपत्त्यन्यतरसाधनं यैस्ते तथोकाः। क्रीत वितन्वते। 'भावक्रीतो जनार्दनः। भक्तिकीतो जनार्दन' इत्युक्तोरोते भावः॥ यथावा- धानापूर्ण सृतेर्दानात्वतो रमापतेSक्रीणात्। दीनावन मानातिगनानाविघलंपद कुचेलमुनिः।। धानापूर्णप्रसृतेर्दानादित्त्र विशेष्यभूताया: प्रसृतेर्दानायोगा स्प्रसृतिणूर्णधानाजानामिति विशेषणभूतधानासु दानस्यान्वयः। स्वर्गी ध्वस्त इत्ारिवित्। वदन्ति हि 'सावेशेषणे हि विधि- निषेधौ विशेष्ये वाधे विशेषणमुपसंक्रामतः' इति न्यायविदः । हे दीनावनेति संबुद्धचन्तं पदं रमापते इत्यस्य विशेषणम्॥ यथावा- पदसलिलमयीं कामपि दत्वा स्रोतस्विनों पयानिधये। तेजस्विनीमुपादास्तस्मात्कन्यामाणें भणिं च विभो॥ १४४९ ॥ विभो सगवन् ! पयोनिधये स्रोतस्विनीं दत्वेत्यनेन अनपे- क्षितदानमुलस्। स्त्रातस्विनी नदी। अन्नोदाहरणत्रयेऽपि न्यूने- नाधिक परिवृत्िसस्पष्टा। इमानि अष्टाङ्गयोगेत्यादीनि पश्चोदाह- रणानि शुद्धानि॥
व सुंधातनयास्तनयोस्समर्पयन् पञ्चशाखमति- यथावा-
कुतुकातू! ताभ्यां सहस्रशाखं प्रमोदमनुविन्दते- डरविन्दाक्ष:।४५0।1
Page 34
परिवृत्त्यलंकारसरः (६४) 23
वसुधाया: धरणीदेव्या: तनया पझ्मावती तस्या:। गश शाखाः यस्य तं कश्विद्वरतुविश्ञेपं, पाणिमिति तु तत्वम। सहस्रशाखं अनन्तशाखान्वित अतिविपुलमति तत्वमू। यथावा- यत्कींचिच्छदमच्युत भुवनलवं चापि तव पढ़े दत्वा। अधिपत्वं भुवनानामाददिरे बहुपरिच्छद कृतिनः ॥ १४५१ ॥ यत्किंचिच्छंदं तुलस्यादिदलं भुबनलव जलकण च तव पदे दत्वा 'पत्रं पुष्पन्' इत्युक्तरीत्या वहवः परितः छदाः दलानि यस्मिन्, पक्षे वहवः परिच्छदा: सचिवादिपारवारा: यस्थ तत्तथोक्तं भुवनानां उदकानां लोकानां च अधिपत्रवं वरुणत्वमि- न्द्रत्वं धातृत्वं वा आददिरे स्वीचककरिरे। क्तिग इति विशेष्यं
यगर्भम्। अत पवय श्रेपपरिकराहरोप्तेजितीत पूर्वसनाद्रिशेप: पूर्व तु श्ेषमात्रोपस्कृतम्।। यथावा- श्रुतियुवतीसी पन्तप्रतियत्नमनर्धमसितरुचिरत्र- म्। श्रक्ष्णप्रवाळदानाच्छशिवदना काऽपि गोपि- काडक्रीणात् ॥ १४५२ ॥ शक्ष्ण: अल्पः 'श्रक्षणं दभ्र कशं तनु' इतमरः। यः प्र- वाळ: विद्ुम: तस्य, पक्षे ऋ्क्ष्ण: स्तिनग्धः 'मसृणे शक्ष्णसोमाल- चिक्कणा:' इति वैजयन्ती। यः प्रवाळः तत्त्वंनाध्यवसितोऽधर: तस्य प्रदानात्। स्पष्टमन्यत् ॥।
Page 35
24 अलङ्कारमणिहारे
यथावा- आकाशराजतनया राकाशशिदास्यदास्यरुचि- निचया। जगदीश्वरमकैषत्प्रिगुणतमं कनककलश- कोशाभ्याम् ॥ १४५३ ॥ प्रगुणतमं अतिशयेन ऋजुस्वभावं "ऋजावजिह्मप्रगुणौ' इत्यमरः। अनेन परकृतातिसन्धानानभिज्ञत्वं व्यञ्जितम्। कनककल शकोशाभ्यामित्यनेन हेमकुम्भन्यस्तार्थनिवहाभ्यािति च गम्यते। अत्र श्रुतियुवतीत्युदाहरणे असितरत्नत्वेन भगवतः श्क्ष्णप्रवाळ त्वेनाधरस्य चाध्यवसानादवूपकातिशयोक्तिः । तदुत्तम्भिता न्यू· नाधिकपरिवृत्तिः। आकाशराजेत्युदाहरणे कनककलशकोशा- श्यामिति रूपकातिशयोक्तया उक्तरीत्या प्रगुणतममिति साभि- प्रायविशेषणरूपपरिकरालंकारेण चोपस्कृता सेति विशेष:। एषूदाहरणेषु दानादानव्यवहार: कविकल्पित एव। न तु वास्तवः। यत्र वास्तवस्तत्र नांलकार:॥ यथावा- अधिविपणिसरणि फणिगिरिरमणमनःप्रीण नाय सुमणिगणान्। क्रीणन्ति द्युमणिघृणीन्क- तिचन कृतिनस्सुतुल्यमूल्येन ॥ १४५४॥ दुमणे: घृणयो रश्मय इव घृणयो येषां तान्। अतितेज- स्विन इत्यर्थः। नात्र दानादाने कविप्रतिभाकल्पिते॥ इम्बधरमणिकदम्बैः क्रीणन्त्यखिलाम्ब जा- म्बवफलानि। कुरुविन्दकनिकुरुम्बैर्बिम्बानि च तावकीनगृहबाला:॥ १४५५॥
Page 36
परिसख्यालङ्गारसरः (६६) 25
बिम्बानि बिम्बीफलानि तावकीनानां त्वन्क्तानां गृहेषु स्थिता: बाला: मुग्घललनाः माणवका वा। यद्यप्यत्र समृदद्धिमद्ध- स्तुवर्णनात्मकोदात्तालंकारदत्तहस्ते दानादाने। अथापि न ते कविप्रतिभोन्मीलिते। क्रयस्य वास्तवत्वादिति नेदशान्युदाहरण- तामर्हन्ति॥ यदीदृशदानादानयोरपि कविप्रतिभोन्मीलितत्वमभ्युपगम्यते तदा इदमप्युदाहरणमेव, न तुअधिविपणीति पद्यवत्प्रत्युदाहरणम्।। इत्यंलकारमीणहार परिषृत्तिसरश्चतुःपश्चाश :.
अथ परिसंख्यालंकारसरः (५५)
एकस्यानेकसंप्रात्तौ यदेकत्र नियन्त्रणम्। परिसंख्येति तत्प्राहुरलंकाराध्वयायिनः॥ एकानेकप्रस्तावादिहास्यो्तिः । एकं वस्तु यदाऽनेकत्र युगपत्संभाव्यते तदा तस्यासंभाव्यतया द्वितीयपरिहारणैकत्र नियमनं परिसंख्या। कस्यचित्परिवर्जनन क्वचित्संख्यानं वर्ण- नीयत्वेन गणनं परिसंख्या। सा चैपा प्रथमं द्विधा शुद्धा प्रश्न- पूर्विका चेति। द्विविधा चैषा आर्थी शाब्दीति पुनर्द्विविधेत्य- स्याश्चत्वारः प्रभेदाः। यद्यपि पाक्षिकप्राप्तार्थनिवर्तको नियमः। युगपत्प्ाप्तविषयकान्यव्वाध्टत्तिफलकस्तु परिसंख्येति पूर्वतन्त्रम- र्यादा। तथाउप्यस्मिन दर्शन पाक्षिकप्रत्तिनित्यम्राप्तिरूपोऽवान्त रविशेषो न विवक्ष्यत, प्रयोजनाभावात्। अतएव 'पञ्च पञ्च- ALANKARA-III. 4
Page 37
26 अलङ्कारमणिहारे
नखा भक्ष्याः' इत्यत्र परिसंख्याया नियमपदेनोक्तिर्महाभाष्येSपि दृश्यते। क्मेणोदाहरणानि- यद्यस्ति तव दिदक्षा साक्षाल्लक्ष्मीविलासिनं पशयेः । इष्टा चेत्परिचर्या पर्याप्ं तं त्वमङ्ग परि- चर्याः।। १४५६।। अत्र यदिचेच्छब्दाभ्यां निवेदितस्य रागप्राप्तस्य दर्शनादेः कर्मताया: भगवति श्रीनिवासे विषयान्तरे च प्राप्तत्वेन लिडर्थघ- टितवाक्यार्थवैयर्थर्यप्रसंगाद्विषयान्तरं न पश्येरित्यादिरूपा विष- यान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्तिस्तात्पर्यविषयतया कल्प्यमान- त्वादार्थी शुद्धा चेथम्॥। को रोगो मवयोग: को वैद्यस्स खलु यः पुमानाद्यः। किं भैषज्यं प्राज्यं यत्तत्रामानुवाद- साम्राज्यम् ॥ १४५७ ॥ अत्र भवयोगादिकमेव रोगादिक नान्यदित्यर्थस्तात्पर्यमर्या- दया प्रतीयत इत्यार्थीय प्रश्नपूर्विका च।। क्षेत्रं फणिवरगोत्रं स्थाने जानेऽन्यदूषरक्षत्रम्। देवस्स वासुदेवस्सुतरामितरस्सविग्रहमृदेव ।। अत्र ऊषरक्षेत्रसविग्रहमृत्पदाभ्यां दिव्यक्षेत्रत्वदिव्यदेवत्व- व्यावृत्ति: प्रतीयत इतीयं शाब्दी शुद्धा।। यथावा- स्वान्तं मम मधुमथनेऽत्यन्तं विलगतु कदा- चिदपि न धने। रतिरस्तु तस्य चरणेSप्रतिमा न तु मे वृथा तपश्ररणे॥ १४५९॥
Page 38
परिसंख्यालङ्कारसरः (५६) 27
तप: कृछचान्द्रायणादिः। अत्रापि शाब्दी व्यावत्ति: पूर्ववदेव शुद्धा। साफल्यं क्वनु वचसां सारसनयनस्य वर्णने यशसाम्। न तु वितथनृपतिपाशप्रततिस्तोत्रे5ति- मात्रचित्रेऽपि ॥ १४६० ॥ अत्र शाब्दी व्यावृत्ति:, प्रश्नपूर्विका च।। इदं प्राचां मतम्। अन्ये तु व्यावृत्तेरार्थत्व एव परिसंख्या- लंकार:। अन्यधा तु शुद्धा परिसंखयैव। यथा हेतुत्वस्यार्थत्व एव हेत्वलंकार। अन्यधा हेतुमात्रम्। अतो भेददयमेवास्या इत्याहुः॥ अपरे तु-व्यावृत्तेरार्थत्वेऽपि नालंकारत्व, 'पञ्च पञ्चनसवा भक्ष्याः, समे यजेत, रात्सस्य, इत्यादावपि तदापत्तेः । किंतु कतिप्रतिभानिर्मिता या तादृशव्यावृत्तेरेवालंकारत्वम्। सा यथा- आसर्गमविरतानां दुरितानां शान्तये दुरन्ता- नाम्। भगवन्मम शेषतया भवतो निर्वेश एव निर्वेष: ॥ १४६१ ॥ हे भगवन्! आसर्ग आसृष्टेः अविरतानां दुरन्तानां दुरि- तानां शान्तये मम शेषतया शेषत्वेन भवतो निर्वेश एव त्वदेकशेषस्य मम शेषिणो भवतोऽनुसंधानमेव निर्वेषः प्राय- श्चित्तम्। न तु कुछचान्द्रायणादिरिति भावः। स्वोजीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि। अत्मदास्यं हरेस्स्वाम्यस्वभावं च सदा स्मर ॥
Page 39
28 अलङ्कारमणिहारे
यथाऽ्ग्निरुद्धतशिख: कक्षं दहति सानिलः। तथा चित्तस्थितो विष्णुर्योगिनामखििलाशुभम् । अय हि कृतनिर्वेषो जन्मकोट्यंहसामपि। यद्याजहार विचशो नाम स्वस्त्ययनं हरे:॥ इत्यादिप्रमाणान्यत्रानुसंधेयानि। शेषतयेत्यत्र शे षतयेति पद्दयम्। शे शकारे पतया षकारतया शकारस्थाने षकारन्या- सादिति यावत् । निर्वेश: निर्वेशशब्द: निर्वेषशब्दो भवतीति
यथावा- श्रीरजनिविधौ भगवति नीरजनयने विदोष- मवति भुवभ्। रजनिमुख एव नितरामजनि जनानां प्रदोषताख्यातिः ॥ १४६२।। श्रीः लक्ष्मीरेव रजनिः रात्रिः तस्या: विधौ चन्द्रमसीत्यर्थः यथावा- अवति हरे त्वयि भुवनं विपत्तिशब्दोऽपदाति- सैन्येडभूत्। अश्रावि कृछूशब्दः प्रायश्चित्तप्रसङ्ग एव जनैः ॥ १४६३॥ इत्यादौ। विपत्तिशब्दः विपद्वार्ता। विगताः पत्तयो यस्मि- स्तत् विपत्ति विपत्तितिशब्दः। कछं कष्टं पराकादिकछूं चेत्यर्थः । 'यस्मिन् शासति वसुमतीपाकशासने महानसेषु सन्तापः' इत्या- दिपरकीयप्रबन्घेषु च।। अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्दारा तत्प्रतियोगिव्यावृत्तिर्निर्मिता। एवश्च 'यदयस्ति तव दिद्ृक्षा'
Page 40
परिसंख्यालङ्गारसरः (६५) 29
इत्यत्र नान्यो द्रष्टव्य इत्यर्थस्थ प्रतीते: परिसङ्वयाऽस्तु, न तु परिसङ्वयालंकारः, व्यावृत्तवास्तिवत्वेन कविप्रतिभाया अनपेक्ष- णातू। व्यावृत्तिर्व्यवच्छेदः। 'को रोगो भवयोगः' इत्यत्र तु प्रश्न- पूर्वकं दढारोपरूपकम्। अन्यथा 'न विष विषमित्याहुर्ब्रह्मस्वं विषमुच्यते' इत्यत्रापि परिसङ््यापत्तेः। 'साफल्यं क तु वचसां' क्षेत्रं फणिवरगोत्रं'इत्यन्नापि परिसख्यैव शुद्धा, प्रागुक्ताद्धेतो- रनार्थत्वात्' तस्मात् 'महानसेषु सन्तापः' इत्यादिकमवास्या उदाहरणमितिं वदन्ति॥ वस्तुतस्तु व्यावृत्तेशशाब्दृत्वेऽपि कविप्रतिभोन्मीलितश्षेषा- दिना चमत्कारातिशयश्चेत्तत्रापि न निवार्यते परिसंख्यालंकृतिः॥ यथा- क्वचिदप्यनूनमम्ब स्वामित्वं ते त्वमेव तत्से- व्या। कि तेन शौरिणा नस्स यदूनां स्वामितां क्वचिदुदूहे ॥ १४६४॥ सः शौरि: यत् यस्मात् क्वचित् समये ऊनां न्यूनां स्वामितां ईश्वरतां उदूहे, क्विदवसरे यदूनामिति समस्तं पदं, यदु- वंश्यानां स्वामितामिति तु वस्तुस्थितिः । यदुशव्दस्तदपत्ये ला- क्षणिकः। अत्र कि तेन शौरिणेति व्याटत्तेश्शाव्दत्वेऽ तस्या:श्े
त्वेन चमत्कारातिशयस्य सहदयैर्दुरपह्नवत्वाद्ध्वत्येव परिसंख्या- लंकृतिः। एवञ्च ईदृशस्थले व्याउृत्तेश्शाब्दत्वेऽपि परिसंख्यालकृते- रवश्याश्रयणीयतया अन्यत्रापि तस्या आत्मलाभी नापलपनीयः। तथाच उदाहरिष्यमाणेषु पद्येप्वपि परिसंख्यालंकारस्सुप्रसर एव। अतएव कुवलयानन्दकारा: 'स्नेहक्षयः प्रदीपेषुन स्वान्तेषु नतभ्रवाम्' इत्युदाजहुः ॥
Page 41
30 अलङ्कारमणिहारे
यथावा- वित्तं वृत्तमिति द्वे भवदीयैर्वृत्तमेव रक्ष्यमिह। न तु वित्तमैति याति च तदेतयोर्विवृत एव ननु भेदः ॥१४६५॥ नन्विति भगवत आमन्त्रणे। तत् वित्तं पैति आयाति। याति गच्छति च। एतयोः वित्तवृत्तयो: भेद: विवृत एव। वृत्तमेव सदा रक्षेद्धित्तमायाति याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ इति स्मरन्भिर्मुनिभिर्वैलक्षण्यं व्याख्यातमेवेत्यर्थः । तयोः वित्तवृत्तशब्दयो: विवृत एव वि वृ इते वर्णाभ्यामेव, सार्वविभक्ति- कस्तसिः । भेद: तावदेव वैलक्षण्यं अन्यवर्णतौल्यादित्यर्थोऽपि चमत्कारी। अत्र न तु वित्तमिति व्यावत्तेश्शाब्दत्वेऽपि उपपादित- चमत्कारातिशयपोषिततया भवत्येव परिसंख्यालङ्ार: अत्रोदाह- रणे स्मृतिवचनगृहीतवृत्तवित्तशब्दयो: वैपरीत्येन ग्रहणं वितृत एव भेद इत्युपपादितचमत्कारानुरोधेनेति ध्येयम्॥ यथावा .- शरणागतमेनं मां यदि गमयसि नायकं स्व- मथ मधुमथनः । नायकमयमपि परमभ्निगमये- दव्यास्त्वमेव तत्किं तेन ॥ १४६६॥ हे श्रीः! शरणागतं एनं मां स्वं निजं नायकं वल्लभं भग- वन्तं गमयसि प्रापयसि यदि अथ अयं मघुमथनोऽपि परं स्वस्मा- दन्यं नायकं नाथं अभिगमयेत् स्वयं न रक्षेत किंतु विष्टिभा- रमिवान्यं प्रापयेदिति भावः। संभावनायां लिङू। तत् तस्मात्
Page 42
परिसंख्यालक्कारसरः (६५) 31
त्वमेव अव्या: रक्षेः। तेन एवं नायकान्तरं ग्रापयता भगवता कि न किमपि साध्यमस्तीति भावः। 'गम्यमानाSपि क्रिया कारकवि- भक्तौ प्रयोजिका' इति तृतीया। परमार्थतस्तु-शरणागतमेनं मां त्वद्वल्लभं प्रापयसि चेत् अथ अविलम्बेनैवेति भावः । मधु- मथनः अय नायकमिति योजना। अयं अपगतयकारं नायकं नाकमित्यर्थः । परं नाकं परमं व्योम दिव्यं स्थानमित्यर्थः । अभिगमयेत् त्वयि वाल्लभ्यभूम्ना पुरुषकारभूतया त्वया स्वसं- निधिं प्रापितमविलम्बेनैव निशश्रेयसेन योजयतीति भावः। तत् तस्मात् त्वमेव ईदृशविशेषलाभनिदानभूतेति भावः । अव्याः। किं तेनेत्येतत् लक्ष्मयां गौरवातिभूम्ना। न तु भगवत्युदासीनत- येति रहस्यम। अत्रापि पूर्ववदेव व्यावृत्तेश्शाब्दत्वादिकम- नुसंघेयम्॥
यथावा- निर्यातय भ्त्रे मामिति त्वयाऽभ्यर्थितोपि धरणिसुते। लङ्गमेव दशास्यो निर्यातयति स्म न तु जननि भवतीम् ॥ १४६७॥ भत्रे भगवते दाशरथये। निर्यातय समर्पय 'निर्यातनं वैर- शुद्धी दाने न्यासार्पणेSपिच' इत्यमरः। अनेन 'मां चास्मैप्र- यतो भूत्वा निर्यातायेतुम्हासि' इति भगवत्यास्सीताया वाक्यं प्रत्यभिज्ञापितम्। लक्कामेव निर्यातयति स्म दत्तवान् न तु भव- तीम्। वस्तुतस्तु निस्सारितानि निश्शेषितानि वा यातूनि रक्षांसि यस्यास्सा निर्यातुः तथोक्तां करोति रम निर्यातुशब्दात् णाविष्ठवद्धावे टिलोपः। अन्विष्यराक्षसां कृतवानित्यर्थः॥
Page 43
32 अलद्वार मणिहारे
यथावा -. स्थालीबिलीय तण्डुलराझेरेवास्ति निष्फलीक- रणम्। न तु सकलफलढ़ भगवंसत्वदीयपदविन- तकाडितार्थानाम्॥ १४६८॥ स्थालीबिलमर्हन्ति स्थालीविलीयाः। पाकयोग्या इत्यर्थः । क्ष
स्थालीविलात्' इत्यहारथि छः। ये तडुण्लाः तेषां राशावेव निष्फली- करणं फलीकरणस्याभावो निष्पलीकरणम्। निर्मक्षिकमितिवद- र्थाभावेऽ्व्ययीभावः । फलीकरणं नाम ब्रीह्यादिधान्यस्य सूक्ष्म- तुषः। अन्यत्र व्यर्थीकरणं नेतर्थः ॥ यथावा- अखिलाघहृतिनिदाने मम हृद्धि नारायणे समिन्धाने। दुरितमरितां भजेद्यदि भजतु दुतं स्यात्तदेव न मनो मे ॥१४६९॥ दुरितं मयि अरितां विद्वेषं भजेद्यदि भजतु मां कदर्थ- यितुमुदुजीत चेदुयुङ्कामिति भावः। तदेव दुरितमेव दुतं स्यात् परिततं स्यात् 'टुडु उपतापे' इति सौवादिकाद्धातोः क्तः। मे मनस्तु न दुतं स्यात्। मगवतो हरेस्तत्रैव निवासादिति भावः। पक्षे दुरितं दुरितमिति पदं अरितां अविद्यमानरिवर्णतां भजे- च्चेत् दुतमित्येव निष्पद्येतेत्यर्थश्च चमत्कुरुते॥ यथावा- संसाराकूपारेडपारे घोरेऽत्र विलुठतइशौरे। मम नासि पारदस्त्वं चपलतया पारदोऽहमेवा- सम् ॥ १४७०॥
Page 44
परिसंख्यालंकारसरः (६६) 33
त्वं - संसारसागरं घोरमनन्तककेशभाजनम्। त्वामेव शरणं प्राप्य निस्तरन्ति मनीाषण: ।। इत्युक्तमहाप्रभावोगपीति भावः। अपारे घोरे संसाराकूपार लुठतः मम पारदः परतीरप्रापकः नामि। औदास्याद्वा अशक्त- त्वाद्वा न जाने इत्युपालम्भो दयोलयते। किंतु चपलतया तावक- परतीरप्रापकताप्रतीक्षणाक्षमतयेत्यर्थः । अहमेव पारदः तव मम वा परतीरप्रापकः आसम्। परमार्थतस्तु-चपलतया चञ्चलस्व- भावतया पारदः रसः 'रसस्सृतश्च पारदः' इत्यमरः। आसं तत्तुल्योऽभूवम्। डयन्तं समयं प्रतीक्ष्यमाणोऽपि भवजलनि- धिपारमप्रापयिता त्वं कदा मां तारयेवैत्यवतसे नकुलस्थितमाश्र यामीति भावः॥। यथावा- दुर्मतिता क्रोधनता दुर्मुखिता वाऽपि भर्मशि- खरीन्दो। वत्सरविशेष एव त्वत्संत्रितसमुदये तु न कदाऽपि।। १४७१॥ प्रादिगण एव अगवन् दुर्गतिवार्ता च दुरुपस- र्गकथा। त्वच्चपनलिनशरणे विम्रादिगणे तु नोन्मिषति जातु ॥ १४७२ ॥ दुर्गतिवार्ता दारिद्यनरकादिवार्ता 'दुर्गतिर्नरके नैस्स्वये' इति मदेनी। दुरुपसर्गाणां दुष्टोत्पातानां अजन्ये क्रीवमुत्पात उपसर्गस्समं त्रयम्' इत्यमरः । पक्षे दुरित्यस्याव्ययस्य गति- वार्ता गतिसंक्ञति यावत। दुरित्यस्य उपसर्गस्य कथा कथनं ALANKARA-III. 5
Page 45
34 अलङ्कारमणिहारे
च प्रादिगण एव 'प्रादयः। गतिश्च' इति सूत्राभ्यां प्रादिग
पठितत्वादिति भावः । विप्रादिगणे प्रादिगणविरुद्धे इत्यप्यर्थ उपस्कार्यः॥ एषूदाहरणेषु व्यवच्छेदस्य शाब्दत्वेपि श्ेषमूलकाभेदाध्य- वसायसंभिन्नतया चामत्कारातिशयान्भ्रवत्येव परिसंख्यालंकारः। एवंच परिसंख्या लंकृतेरार्थीत्वशब्दात्वाभ्यां द्वैधी द्रष्टव्या। अस्याः प्रश्नपूर्वकत्वतदभावाभ्यां द्वैविध्यं प्राक्तनैरुदाहतमपि वि्छित्ति- विशेषविरहात्कुवलयानन्दकारैरुपेक्षितम्। अस्याश्च श्रेषानुप्राण तत्वे अतिमात्रचमत्कारिता यथा अनुपदमेवोदाहतेषु पद्येषु पार- दनिष्फलीकरणादिशददश्लेषेणात्यन्तचारुता प्रतीयत इत्यवधेयम्।। अस्याँ च परिसंख्यालंकृतौ व्यवच्छेदनियमनयोर्न पौर्वाप- यंनियमः। यथा शुद्धापहुतौ निह्ृवारोपयोः। तथाच व्यवच्छे- दपूर्वऋतायामपि नियमनपूर्वकतायामिव परिसंख्यालंकृतिरक्षतैव॥ न प्रकृतिवैपरीत्यादनर्थदो नन्दनन्दन भवे- स्त्वम। त्वत्तोऽन्यस्तु तथा स्याह्ूह्मा रुद्रोऽथवा न संदेहः॥ १४७३॥ हे नन्दनन्दन त्वं प्रकृतिवैपरीत्यात् 'यत्सत्वं स हरिर्देवः, महान्प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः' इत्यायुक्तसत्त्वस्वभाववि- परीतत्वात् अनर्थद: रजस्तम:प्राचुर्यप्रयुक्तं पुरुषार्थ दाता न भवेः। जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सार्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तक: ॥
Page 46
परिस्यालङ्कारसर: (६५) 35
इत्युक्तरीत्या सत्वोन्मेषणपूर्वकं निश्शेयसरूपपरमपुरुषार्थप्र- दाता त्वं कर्थ हेयपुरुषार्थ दद्या इति भावः। त्वत्तोऽन्यस्तु ब्रह्मा चतुर्मुखः रुद्रो वा तथा स्यात् प्रकृतिवैपरीत्यादनर्थदस्स्यात् नात्र संदेहः। पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः। रजसा तमसा चास्य मानसं समभिष्युतम्॥ इत्युक्तरात्या रजस्तम:प्रवर्तकतया हेयपुरुषार्थप्रदावेष स्यातां, न तु त्वमिव परमपुरुवार्थप्रदाविति भावः। पक्षे नन्दनन्दनोति शब्द: प्रकृतेः उक्तविधप्रकृतेः वैपरा्यात् प्रातिलोम्येन पाठात अनर्थद: यथोक्तार्थाप्रकाशकः न भवेः । नन्दनन्दनोति प्रकृतेर्वैलोम्येन पाठेऽपि स्वार्थाप्रहाणादिति भावः। त्वदन्यः ब्रह्मा ब्रह्मेतिशब्दः रुद्र: रुद्र इति शब्दो वा तथा स्यात् प्रकृतिवैलोम्ये पूर्वानुपू- र्विव्यत्ययात्कस्याप्यर्थस्य प्रकाशको न भवेदिति भावः। अत्र व्यवच्छदर्पूर्वकता, पूर्वेदाहरणेषु नियमपूर्वकतेति विभावनीयम्। एषूदाहरणेषु स्वभावतो वा श्रलपभित्तिका भेदाध्यवसायेन वा उभयत्र प्रसिद्धसंबन्धस्य वस्तुन एकत्र विधानेनान्यत्र निषेध: प्रतिपादितः। केचितु एकत्र प्रसिद्धसंबन्धस्यापि वस्तुनोऽन्यस्मिन् धर्मविधानेन तत्प्रसिद्धिशालिनि धर्म्यन्तरे तत्प्रतिषेधः प्रति- पादते॥ यथा- यस्तुभ्यमभ्यसूयति तेन विगीतेन दुर्विनीतेन। भूरतिभारवतीयं शैलैस्सालैश्र नाथ न विशालैः॥ शैलादीनामेवातिमात्रभूमारता प्रसिद्धा, न तु भगवदभ्य- सूयकस्य जनस्य। अत्रच पद्ये ताहशजने अतिमात्रभारत्वविधानं
Page 47
36 अलङ्कारम णहारे
शैलादौ तन्निषेधश्चेत्युक्तपरिसंख्थभेदो व्यक्त एव। अयं च तादृशजनस्य तादृशभारत्वासंबन्धेऽि तत्संबन्धकथनरूपातिश- योक्तिशबलितेति ध्येयम् ॥ इत्यलंकारमणिहारे परिसंख्यालंकारसर: पञ्चपश्चाश:
अथ विकल्पालंकारसरः (५६)
विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्वथोः ॥ एकस्मिन् धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोः अत एव तुल्य- वलयोर्विरुद्वयोविरुद्धत्वादेव युगपप्राप्तरेसंभवात्पाक्षिकयेव प्राप्तिः पर्यवस्यति 'अय च वक्ष्यमाणससुन्ययप्रतिद्वंद्वी व्यतिरेक इवोप- मायाः' इत्यलंकारसर्स्वस्वकृदनुयायी रसगङ्गाधरकृत् 'समुञ्चये हि द्वयोरपि युगपदवस्थान, इह त्वन्यधेति तत्प्रतिद्वंद्वित्वम्' इति विमर्शिनीकारः । दीक्षितास्तु-वक्ष्यमाणकारकदीपकमलंकारा- न्तर वर्णयन्तस्तस्य प्रथमसमुच्चयप्रतिद्वंद्वितां तदनन्तरभाविनस्स-
मरणं तरणं वा स्तान्महाम्बुधेरित्यशायि मत- भेदात्। जलधितटे बत भवता रघुवर भवजल- घितारकेणापि॥ १४७५॥ 'अद्य मे मरण वास्तु तरणं सागरस्य वा' इति श्रीरामायाणश्लोकोऽत्रानुसंहितः। मतभेदात् विकल्पा- दिति यावत्। ल्यब्लोप पञ्चमी। विकल्पमभिसंधायेत्यर्थः । मर-
Page 48
विकल्पालङ्कारसरः (६६) 37
त्कृतिविशेषायोपस्कार्यः ॥
प्रतियन्नखिलांहस्ततिमोचनवचनं व्रजामि झ- रणं त्वाम्। प्राप्तस्तस्यावसरः प्रतारणं वाडस्तु तारणं वा तत् ॥ १४७६ ॥
अखिलांहस्ततिमोचनवचन 'सर्वपापेभ्यो मोक्षयष्यामि' इति तव वचः प्रतियन् विश्वसन् त्वां शरण ब्रजामीति चरमश्ोका- र्थानुवादः। तस्य प्रतिज्ञातसर्वपापविभोचनस्य अवसर: प्राप्तः। सर्वपापशेवधिरूपमाद्ृशविषयलाभादिति भावः। तत् तव वचन प्रतारणं अतिसंधायकं वाडस्तु तारणं संसृतिनिस्तारकं वा अस्तु॥
भक्तयाऽथवा प्रपतत्या कृतापराधोऽपि नाथ विन्दे त्वाम्। मामेवं कृतयतनं गृहाण निगृहाण वा किमयशो मे ॥१४७७॥
एवं कृतयतन अनुष्ठितोपायं मां ग्रृहाण रक्षतया स्वीकुरु। निगृहण वा निगृह्धीष्व वा मे सम किमयशः का वाऽकी्तिः प्रत्युत प्रपन्ननिग्रहे तवैवाकीतिरिति भावः। अन मरणतरणयोः . प्रतारणतारणयोः ग्रहणनिग्रहयोख् औपम्यप्रतीत्यभावात्केवलं विकल्पः। यथा-जीवन मरण वाऽस्तु नैव धर्म त्यजाम्यहम् इत्यादी। अत्र जीवनमरणयोनीपम्यप्रतीतिरिति रसगङ्गाधर- कारादय: ॥
Page 49
38 अलङ्कारमणिहारे
उदाहरणं- निश्हाङ्कं शरणंगतमेष द्वेधाऽप्यरिं न बाधेत। राघवमाहवमथवा रजनिचरेश द्रुतं प्रपद्येथाः । इदं रावणं प्रत्यङ्गदवचन। एषः राघवः द्वेधाऽपि निश्शङ्कं शरणंगतं अरि न बाधेत निश्शङ्कं अय मां बाधेताते संशयरहितं यथास्यात्तथा शरणं गतं आरें न बाधेत, शरणागतपरित्राणधर्म- घुरीणमूर्धन्यत्वात्। पक्षे निश्शं निर्गतश्शकारो यस्मान्तं तथोक्तं शरणं रणमित्यर्थः । गंत युद्धार्थमभिमुखागतं कं अरिं न बाधेत सर्वमप्यभियातिनं बाधत एवेत्यर्थः । तस्मात् राघवं द्रुतं प्रप- देथा: शरणं व्रज। प्रपूर्वस्य पद्यतेस्ताद्दशार्थकत्वात्। अथवा आहवं युद्धं प्रपद्येथा: प्रामुहि। अत्र प्रपदने संधिविग्रहकर्तव्य- ताबोधकप्रमाणाश्यां कर्मतया राघवाहवयोयौगपद्यासंभवात्पर्या- येण प्राप्तिः । कर्मणो: क्रियाफलेन प्रपदनेनैव समानधर्मेणौपम्यम्। नन्वत्र यथा प्रपूर्वकपदिधात्वर्थफलभूतप्रपदनरूपधर्मेक्या- त्कर्मणोरौपम्य गम्यते तथा 'जीवनं मरणं वाडस्तु' इत्यादौ सत्तारूपधमैक्याजीवनमरणयोः कत्रोरपि औपम्यं गन्तुं युज्यत इति चेत् युज्यते न तु गम्यते। अथ तत्कुतो हेतोरिति चेत् कवितात्पर्यविरहादिति गृहाण। न ह्यत्र मरणं जीवनं च समा- नमिति कवेस्तात्पर्य, किंतु विषं भुङ्क्ष्व मा चास्य गेहे भुङ्था इतिवत् धर्माद्धतोर्मरणमपि ज्यायः न तु धर्मत्याग इति निषि- द्धगतद्वेषाधिक्ये। तदर्थ च मरणस्योपात्तत्वादविक्षिताधिकरण- तया औपम्यस्यानिष्पत्तिरेवेत्याहः। एवं मरणं वा तरणं वेति श्ाके गम्यमानप्रतिश्ञाहानरूपनिषिद्धमादाय तद्गतद्वेषाधिक्ये प्रति- यन्रिति श्रोके तु शरणव्रजनरूपविाहितगतादराधिक्ये कवे-
Page 50
विकल्पालङ्कारसरः (५६) 39
स्तात्पर्य, नतुमरणे वा प्रतारणे वा। एवं भक्त्येति श्ाके- 5पि बोध्यम्।। यथावा- शङ्गतङ्कविद्रैर्लङ्गद्वारं न्यरोधि हरिवीरैः । सीतां वितर स्फीतां युधमथवा कोसलाधि- नाथाय॥ १४७९॥ अत्र 'सीतां वाऽस्मै प्रयच्छ त्वं सुयुद्धं वा प्रदीयताम्' इति श्रीरामायणश्ोकानुसारिणि रावणं प्रति सारणवाक्ये रावणिषये संधिविग्रहप्रमाणप्राप्तयोरत एव तुल्यबलयोर्युगपद- संभवतोस्सीतायुद्धवितरणयोः पाक्षिकान्यतर प्राप्त्यनुपमर्देनान्य- तरप्रतिक्षेपलक्षणस्य विकल्पस्य वर्णनं कर्मणोस्सीतायुद्धयो: क्रिया- फलेन वितरणेनैव समानधर्मेणौपम्यम्॥ यथावा- नागेशगिरिमणे भययोगेन त्वां प्रपन्न एष जनः। भोगं वा योगं वा देहि कियान स्यान्तवैष भयभेदः ॥ १४८० ॥
नागेशगिरिमणे शेषाद्रिशिरोमणे एष जनः भययोगेन भीति- संबन्धेन त्वां प्रपन्नः। भोगं सांसारिकसुखं वा योगं भोगनि- वृत्तिकारणभूत भक्तियोगं वा त्वदनुभवं वा देहि निरङ्धुशस्व- तन्त्रतया यथेष्ं वितर। तव एष भयभेद: प्रपन्नभीतिनिराकरणं कियान् स्यात् न दुष्कर इत्यर्थः। भोगयोगशब्दयोर्भकारयका- राभ्यां भेद: कियान् अकिंचित्कर: वर्णान्तरकरूप्यादिति चामि-
Page 51
40 अलङ्कारमणिह्दारे
प्रायः। अत्र भोगयोगयोरन्योन्यविरुद्धयोयगपद्यायोगाद्विकल्पः। अत्रापि कर्मणोर्भोगयोगयो: क्रियाफलेन दानेनैव समानधर्मे- णौपम्यम्। यथावा- नतरक्षणकृतदीक्षस्त्वमिति त्वां नाथ शरण- मभिनाथे। आर्तिर्वा मम शाम्यतु कीतिर्वा तव नतावनैकान्ता॥ १४८१॥ त्वं रक्षसि चेन्ममार्तिशशाम्यति। तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम्। यावन्न याति शरण त्वामशेषाघनाशनम्॥ इत्युक्त्ेः। नचेत तव शरणागतपरित्राणपरायणत्वनिबन्धनकी- तिश्शाम्यति। विनष्टः पश्यतस्तस्य रक्षिणशशरणागतः। आदाय सुकृतं तस्य सर्वे गच्छेदरक्षितः। अस्वगर्च चायशस्यं च बलवीर्यविनाशनम्॥ इत्युक्तेः। अत्रोदाहततुल्यबलप्रमाणाभ्यामार्तिशान्तिकीर्तिशा-
आर्तिकीर्त्योक्शमनरूपसमा न धर्मेणापम्यं ज्ञेयम्।। क्कचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकार:॥ यथावा- किंचिद्दा भूयो वा पश्चायुधमश्च मुश्च जाड्य- मये! धात्रीमेतां भोक्ष्यसि वैघात्रीं प्राप्त्यसि श्रियं वाऽपि॥ १४८२ ॥
Page 52
समुचयालंकारसर: (६७) 41
अत्र धात्रीभोगवैधात्रसंपत्पाप्योः श्ाध्यत्वेनौपम्यं विव- क्षितम्। धात्वर्थयोरयं विकल्पः न तु धात्रीवैधाान्रसंपदोः, तथो: कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्व- ्थयोरकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततति वाच्यं, कर्तृरूपसाधारणधर्ममादाय औप्यस्यात्र सुन्दरस्यानिष्पतेः। अ- न्यथा 'हतो वा प्राप्स्यस स्वर्ग जित्वा वा भोक्ष्यले महीम्' इत्य- त्रेव 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्य- त्राप्यौपम्यप्रत्यंयापत्तेरित्याहुः। एवंचास्मिन्नलकारे विकल्प्यमान- योस्सुन्दरमौपम्यमलंकारतावीजं, तदादायैव चमत्कारोललासात्। अन्यथा तु विकल्पमात्रमांत रहस्यम्॥
इत्यलंकारमणिहारे विकल्पसरष्पट्पश्चाशः
अथ समुच्चयालंकारसर (५७)
यौगपद्यादिने यथासंख्यव्यावृत्त्वर्थ, न त्वेकक्षणप्रतिपतत्य- र्थम्। तेन शतपत्रपत्रशतमेदन्यायेन क्वचित्किंचित्कालभेदेऽपि न समुच्चयभ्रंशः। स तावादिविधः धर्मिभेदधर्मैक्याभ्याम्। धर्मे- क्ये5पि द्वैविध्यं कारणत्वातिरिक्तसबन्धेनकधर्म्र्यन्वये कारण- तया एकधर्म्यन्वय चेति। एवं त्रिविधेऽस्मिन् प्राथमिकयोर्भेदयो: गुणानां क्रियाणां गुणक्रियाणां च । तृतीयप्रभेदे शोभनानाम- ALANKARA-III. 6
Page 53
42 अलङ्काग्मणिहारे
शोभनानां शोभनाशोभनानां तथाविधैस्समन्वयः । अयं तृती- यप्रभेद एव। 'अहंग्रथमिकाभाजामेककार्यान्ययोऽपि सः' इति द्वितीयसमुच्चयत्वेन लक्षितो दीक्षितैः । अस्यैव तत्कर इति नामाहु: प्राञ्चः। तदुक्त 'तत्सिद्धिहेतोरेकस्मिन् यत्रान्यस्तत्करं भवेत' इति। विकल्पप्रतिक्षेपेणास्या स्थितिः । न चास्मिन्तृतीय- प्रभेदे वक्ष्यमाणसमाध्यलकारत्वमाशङ्कनीयं, यत्र ह्ेकेन कार्ये निर्वत्यमानेऽष्यन्येनाकस्मादापतता कारणेन सौकर्यादिरूपोSति- शयस्संपाद्यत स तस्य विषयः। अस्मिंस्तु तृतीयंसमुच्चये यत्रै- ककार्य निर्वर्तयितुं युगपदनेके खले कपोता इवाहंप्रथमिकया समापतन्ति कार्यस्य च न कोऽप्यतिशयः सोऽस्य विषयः ॥ तत्र भिन्नधर्म्यन्वयो यथा- शरदिन्दुकरैर्विशदं गगनं यमुनावनं तु हरि- धाम्ना। आनीलं रअररागादाताम्रं चापि गोपि- कानयनम् ॥ १४८३॥
स्त्रिह्यति नयनयुगं त्वयि मुह्यति संमोदपर- वशं चेतः। स्रवति प्रमोदबाष्पं द्रवति च तव सेवनाद्रयं भूमन् ॥ ५४८४ ॥ अत्राद्ये गुणानां द्वितीय क्रियाणां च यौगपद्येन भिन्नधर्म्य- न्वय: ॥ एकधर्स्यन्वयो यथा- मणिवरभासाऽरुणितं हाररुचा स्मेरमसितमा
Page 54
समुच्चयालङ्गारसरः (६७) 43
त्मरुचा। श्रीविहृतिकृते रचितं स्थलमिव चित्रं हरेरुरो भाति ॥ १४८५ ॥
अत्र आरुण्यादिगुणानां यौगपद्येनैकस्मिन् धर्मिण्युरोरुपे आधेयतासंबन्धेनान्वयः। एवमुत्तरत्रापि यथायथ द्रष्टव्य:। कल्याणगृणगणौघस्मरणात्तव नाथ भाग्यवा- न्मनुजः। विन्दति हर्ष तर्ष निन्दति नन्दति च तावकोत्कर्षम् ॥ १४८६॥ तर्ष विषयतृष्णां निन्दति। तावकोतकर्ष नन्दति अभिनन्द तीत्यर्थः॥ ननु वासुदेव यं क्षणमचिन्त्यवैभव न चिन्त्यते स भवान्। भ्राम्यति सुजनशश्राम्यति ताम्यति नितरां तदा न शाम्यति च ॥ १४८७ ॥
अत्र 'यन्मूहूते क्षणं वाऽपि वासुदेवो न चिन्त्यते' इत्यादि- प्रमाणार्थोऽनुक्रान्तः ।। रुष्यति सङ्रयो दुष्यति हृष्यति दुस्सङ्गतसत्त्व- दनभिज्ञः। तुष्यति विषयैशशुष्यति पुष्यति दुरितं विशिष्य मुरवैरिन॥ १४८८॥ अत्रोदाहरणत्रयेऽपि क्रियाणां युगपदेकधर्मण्यन्वयः॥ तत्रा- व्याद्ययोशम्लाध्ये धर्मिणि तृतीये त्वश्लाध्ये।
Page 55
44 अलङ्कारमणिहारे
गुणक्रियाणं यौगपद्येनान्वयो यथा- चलितम्रु ललितमधुरं लुलितालकचारु विव- लितापाङ्गमू। जगदीश्वरीमुखं फणिनगनाथमनो धिनोति सतंतमपि॥१४८९। अत्र ललितमधुरमिति गुणयो: चलितमु इत्यादिक्रियाणां च सामंस्त्येन युगपदेकधर्मिण्यन्वयः॥ एवं धर्मैक्यरूपे द्वितीयप्रमेदे कारणत्वातिरिक्तसंबन्धेनैकध- मर्यन्वयरूप: प्राथमिको भेद: प्रदर्शितः । कारणतया एकधर्स्थन्वय- रूपे प्रभेदे शोभनानां शोभनैस्ससुच्चयो यथा- ज्ञानबलैश्वर्याद्या गाम्भीर्यास्थैर्यधैर्यमुख्याश्र। कल्याणगुणाः प्रथयन्त्यनितरसाधारणास्तवौन्न- त्यम् ॥ ९४९०॥
नार्थ स्पर्धये वा पतन्तः शाभनाः ॥
यथावा- कमलाभं नयनयुगं कमलादयितानिलाशना- द्रिमणे। रूपं च नीलजलदसरूपं प्रथयति तवा- खिलेशत्वम् ॥ १४९१॥ अत्र 'तस्य यथा कप्यासं पुण्डरककिमेवमक्षिणी। हीश्र ते लक्ष्मीश्च पलयौ। नीलतोयदमध्यस्था' इत्यादिश्रुतिप्रसिद्धपुण्ड-
Page 56
समुचया लक्कारसर: (६७) 45
रीकाक्षत्वादिषु त्रिषु एकेनापि जगदीश्वरत्वप्रख्यापनसंभवे संघ र्षादिव त्रयोऽपि तदर्थमापतन्तश्शोभनास्समुच्चिताः। यथावा- प्रेमोदयः कुतूहलमामोदव्यतिकरक्ष रोमाश्चः। त्वामालोकयतो मम सीमां चित्तस्य लोलपति भूमन् ॥ १४१२।। अत्रापि प्रेमोदयादेस्ससुच्चयः पूर्ववद्रष्टव्यः। इदं सर्वे शोभनैश्शोभनानां समुचचये उदाहरणम्। अशाभैन- रशोभनानां समुच्चयो यथा- दुर्वाराः खलु विषया दुर्दान्तानीन्द्रियाणि मम नाथ। दुष्कर्म च निरवधिकं मर्म निकृन्तन्ति चिन्त्यमानानि॥ १४९३॥ अत्र दुर्वारत्वादिनाऽशोभनानां विषयाणां दुर्दान्तत्वादिभिर- शोभनैरिन्द्रियादिभिस्समुश्चयः। अत्र विषयदुर्वारत्वेनैकेनैव चि- न्त्यमानेन मर्मनिकन्तनसिद्धौ इन्द्रियदुर्दान्तत्वादिकमपि तदर्थमा- पतितं समुच्चीयते । शोमनाशोभनसमुच्चयो यथा- तव निर्वर्णनहीनं नयनं वर्णनविहीनमपि रस- नम्। आकर्णनहीनं च श्रवणं प्रवण मनः कर्थ त्वयि मे ॥१४९४ ॥ अत्र नयनादीनि स्वाभाव्याच्छोभनानीति न निन्दनीयानि विशेषणमाहात्म्याच्चाशोभनानि निनदागोचरतां प्रपदन्त इति
Page 57
-.....-- 46 अलङ्कारमणिहारे
शोभनाशोभनसमुच्चयः। शोभनाशोभनानामित्यत्र कमधारय आ- श्रितः । न द्वद्वः । सहचरभिन्नत्वदोषापत्तेः॥ एवमशोभनशोभनानामप्येककार्यजननार्थमापततां समुच्चय- स्संभवति॥। यथावा- काव्यं त्वच्चरितमयं भव्यभवत्रामकोमलं गी- तम्। तिर्यक्त्वमपि गिरौ तव पर्यातं श्रेयसे श्रियःकान्त ॥ १४९५॥
अत्र 'काव्यालापांश्च वर्जयेत्। न च रक्तो विरावयेत्' इत्यादिप्रमाणैः काव्यगीतादीनि स्वभावतोऽशोभनान्यपि विशेषण- बलाच्छभनानि समुच्चितानि। तव गिरौ तिर्यक्त्वं त्वद्गिर्यधि -- यरणकं तिर्यक्त्वमित्यर्थः॥
यथावा त्वन्निध्यानजमश्रु त्वद्वयानजमहिगिरीश य- ज्ाडयम्। त्वन्नामकथनजन्यं सगद्रदत्वं च सद्गते- स्सरणि: ।। १४९६।।
अत्राश्रुप्रभृतयो निसगंतोऽशोभना अपि भेदकमहिस्रा शोभनाः ॥ केचितु द्रव्यजात्योरपि समुच्चयं मेनिरे। सच विच्छित्ति- विशेषविरहादस्माभिरुपेक्ष्यते॥ इत्वलकारमणिहारे समुच्चयसरस्सप्रपञ्चाश:
Page 58
कारकदीपकालङ्कारसरः (६८) 47
अथ कारकदीपकसरः (५८)
क्रमिकाणां क्रियाणां चेदेककारकगामिनाम्। गुम्भनं क्रियते तत्तु भवेत्कारकंदीपकम्॥
एककारकगतानां क्रमिकाणां क्रियाणां गुम्भनं कारकदीप- कमित्यलङ्कारः। यद्यपि निवध्यमानानां क्रियाणां प्रस्तुतत्वेन सर्वोद्देशेनैव धर्मिणः कारकस्य प्रवृत्तिः। अतः किंचिदुद्देशेन प्रवृत्तस्थान्यत्र प्रासङ्गिकत्वलक्षणदीापकसादृड्यविरहान्न दीपक- व्यपदेशो युक्तः। तथाऽपि एकस्यानेकान्वयमात्रेण दीपकसाद- श्यमाश्रित्य तथा व्यपदेशः। दण्डिना तु कारकदीपकं दीपक पवान्तर्भाव्य तुल्ययोगिताऽपि तन्भ्ेदत्वेनैव प्रतिपादितेत्यवोचाम दीपकालकारनिरूपणावसर एव। वस्तुतस्तु मालादीपकवत्पृथ- गेवायमलंकारतामर्हति न दीपकेऽन्तर्भावं, तज्जीवातोरुपमाग- भताया इहामावात्। समुच्चयप्रतिद्वंद्वितया विच्छिन्तिविशषस- द्वावाच्चेत्ययं पूर्वैरकृतविवकोऽपि प्रदर्शितो दीक्षितैविकल्पालंकार इवालंकारसर्वस्वकृता ॥
उदाहरणं- अधिरोहति वृषशिखरिणमभिमज्जति नाथ तत्र सरसि कृती। त्वामश्चत्यथ मुश्चति मुदाऽश्रु तत्रैव वाञ्छति निवरतुम् ॥ १४७॥
Page 59
48 अलङ्कारमणिहारे
यथावा- पश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति। सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥ आलापः आभाषणं, सल्लापः मिथोभाषणम्। अन्नाद्ये कृति- रूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः। द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रि- यास्वन्वयः क्रमिक इति प्रथमसमुञ्चयप्रतिद्वंद्वोदम्।। इत्यलंकारमणिहारे कारकदीपकसरोSप्टापञ्चाशः
अथ समाध्यलंकारसरः (५९)
कारणान्तरसांनिध्यवशात्कार्यस्य कस्यचित्। सौकर्य वर्ण्यते यत्र समाधिस्तत्र गीयते।। एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधाना हितं यत्सीकर्य तस्य सम्यगाधानात्समाधिरलंकारः। तञ्ञ कार्य- स्यानायासेन सिद्धया साङ्गसिद्धया च । समुच्चयविशेषापेक्ष- याऽस्य वैलक्षण्यं त्वभिहितमेव प्राक्॥, य्थावा- यादृच्छिकसुकृतवशान्मादृवक्षं त्वं समुद्दिधीर्षु- रसि। तादशसाधुसमागम ईदशसमये हठादु- पनतो मे ॥१४९९ ॥
Page 60
प्रत्यनोकालंकागसरः (६०) 49
अत्र यादृ्छिकसुकृतादेव सिद्धधन्त्या भगवत्कर्तृकोदिी- र्ायास्साधुसमागमादनायासेन सिद्धिः॥ यथावा- काड्क्षन्त्या ब्रजसुदशशशैरे्दातुं स्वयंग्रहाश्ले- षम्। आननसौरभलोभादापतदळिंबृन्दमकृत सा- हाय्यम् ॥ १५००॥
अत्रोत्कण्ठिताया गोपललनाया आकस्मिकामळिन्दवृन्दा- पतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयंग्रहाश्लेषस्याना- यासेन सिद्धि:॥ शौरिनव चाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी।. शरलथमपि तदोपगूहनमकार्यकस्मात्पिकारवैस्सा- न्द्रम् ॥ १५०१॥
अत्र पिकनिनादैरुपगूहनस्य साङत्वसिद्धि: ॥ इत्यलंकारमणिहारे समाधिसर एकोनषष्टितम :.
अथ प्रत्यनीकालंकारसरः (६०)
बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः । तत्प्रतिद्वंद्विसाह्यं वा प्रत्यनीकमितीर्यते॥ ALANKARA-III. 7
Page 61
50 अलङ्कार मणिहारे
यत्र बलिनि प्रतिरक्षे दुर्बलेन साक्षात्तिरस्कारः तत्र प्रतिक रतुमनीशानेन दुर्बलेन तदीयस्य.तिरस्कार: स्वयमसमर्थस्य स्ववि- रोधिप्रतिद्वन्द्विनि साहायक वा प्रत्यनीकम्। अनोकस्य सदश प्रत्यनीकमू। सादश्यस्य यधार्थत्वेनैव सिद्धे 'अव्यय विभक्ति' इत्यादिसूत्रे पुनस्सादृश्यग्रहणाद्ुजीभूतेऽपि सादृश्येऽव्ययीभावः। लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यत। तदसामर्थ्ये तत्संबन्धिनः कस्यचित्तिरस्कार: क्रियते। तदभावे च प्रबल- स्वविरोविप्रतिकर्तुस्ताहं क्रियते। स चानीकसदृशतया प्रयुज्य- मानत्वात्प्रत्यनीकमित्याख्यायते। अन्र च प्रतिपक्षगतं प्रावल्यं आमगतं दौर्बल्यं च गम्मते॥ तत्राद्या यथा- महसा तव सादितभास्सहसा दिवसाधिपस्य किल बिम्बम्। अविलम्बं कौस्तुभतामवलम्व्या- क्रामति स्म तव हृदयम् ॥ १५०२॥
अत्र साक्षात्प्रतिपक्षतिरस्कारः प्रतिपादितः ॥ यथावा- त्वद्रुचिकृतपरिभवतस्तापिञ्छं भ्रंशितात्ममुख- वणर्म। पिञ्छं भू, वाडमर्षात्पदं न्यधात्तव शिरस्पदे शौरे ॥ ९५०३ ॥ तापिञ्छस्य तप्षालस्य विकार: पुष्पं तापिञ्छं "द्विहीनं. प्रसवे सर्वम्' इति कीवता। त्वद्रुचिकृतात् परिभवतः पराभवात् भ्रंशितः भ्रंशं प्रापितः अत्मनो मुखवर्णः वदनतेजः यस्य तथोक्तं प्रास्तमुखवैवर्ण्यमित्यर्थः। पिञ्छं वह भृत्वा तत्त्वेनाविर्भूयेत्यर्थः।
Page 62
प्रत्यनीकालङ्कारसरः (६०) 51
पक्षे तापिञ्छमिति पई प्रंशोऽस्यास्तीति भ्रंशि। ता इति आत्मा स्वरूपं यस्य सः तात्मा मुखवर्णः प्रथमाक्षरं यस्य तत्तथाभूतं सत् पिञ्छं भूत्वा तापिञछमितिपदं अद्यताकारोत्सारणन पिञ्छ- मिति निष्पद्येत्यर्थः ॥ सुगममन्यत्॥
यथावा- उरसापास्तं शौरेः कपाटमथ कटतया मदो- न्नद्दम्। ऊर्ध्च कमश्चयन्ननु तदुरश्छादयति कङ्कटा- त्माऽहो ॥ १५०४॥
कपाटं कवाटं 'कबाटमररं तुल्ये' इत्यत्र कपाटमिति पाठ- मेव मुख्यतयाऽम्युपेत्य के शिर: पाटयतीति विग्रहः प्रदर्शिन- स्सुधायाम्। पक्षे कपाटमिति पद च। अनयोस्तादात्म्यम्।शौरेः उरसा अपास्तं निरस्तं सन् 'कवाटवक्षा: परिणद्धकंधरः'इति कवाटस्योरस्सादृश्यो केस्तस्य तदपास्तत्वोक्तिः। पक्षे पास्तमिति भेद:। पा: पाकारः अस्तः निरस्तो यस्मिस्तत्तथोक्तं सदित्यर्थः। कटतया गजगण्डतया "गण्ड: कट' इत्यमरः। मदोन्नद्वं मदेन गर्वेण दानोदकेन च उन्नद्धं उद्दत्तं सत्। अतएव कं शिर: ऊर्ध्च अञ्चयत् उन्नमयदित्र्थः । पक्षे ऊर्ध्च अग्रभागे इति यावत्। कमश्च यत् इति च्छेद: । कमश्च कमित्याकारकं मान्तशव्दं च यत् प्राम्वत्सन् इणश्शतार 'इणो यण' इति यण । कङ्कट इत्या- त्मा स्वरूपं यस्य तत् कङटात्म कवचरूपं सत् 'उरशछदः कङ- टक:' इत्यमरः। तदुरः नगवद्धक्षः छाद्यति। पक्षे कङ्गटात्मा कङ्कट इति निष्पन्नस्वरूपमित्यर्थः। कटशब्दस्यादौ कम् इत्यस्य न्यासे अनुस्वारे परसवर्णे च कङ्कटत्वेन निष्पन्नमित्यर्थः॥
Page 63
52 अलङ्कारमणिहारे
यथावा- जेतुं त्मामपटीयान्मल्लश्तीभूयमेत्य मल्ली सन्। जयति शिरोSधिवसंस्तव ललना: किल नन्दत- नय तव जैत्रथः ॥ १५०५ ॥
हे नन्दतनय! इद विवक्षितमल्जयाद्यपस्काराय। मलः चाणूरादि: त्वां मल्लयुद्धविशारदं त्वं जेतुं अपटीयान् सन्। स्त्रीभूयं स्त्रीत्वं 'भुवो भावे' इति क्यप् । एत्य मल्ली सन् मलशव्दाजातिलक्षणे डीषि मल्लीति निष्पत्तेरिति हृदयम्। पक्षे मल्लीकुसुमतामाश्रित इत्यर्थः। मलोशब्दाद्वैकारिकेऽणि 'पुष्प- मूलेषु बहुळम' इति तस्य लुप् 'लुपि युक्तवद्वयक्तिवचने' इति युक्तवन्भावः। तव शिरः अधिवसन् सन् जयति त्वां पराभव- तीत्यर्थः। पक्षे शिरामाल्यतया उत्कर्ष प्राप्नोतीत्यर्थः। तथाहि- ललना: स्त्रियः तव जैत्रयः किल। तव गोपवधूवशंवदत्वादिति भावः। यथोक्तमाचार्यैः 'तदपि परमं तत्वं गोपजिनस्य वशं- वदम्' इात। किलेत्युपालम्भे। अतः पुंस्त्वेन दुस्साधं त्वजयं स्त्रत्विन साधितवानिति भावः। एषु त्रिषूदाहरणेष्वपि साक्षा-
वसायानुप्राणित इति विशेषो द्रष्टव्यः ॥ यथावा- निजरुचिमपहृत्य पयोधरलीनोल्लसति या कृ- तार्थेव। तां चपलां हारमिषां सपयोधरमम्ब नह्यसे कण्ठे। १५०६॥।
Page 64
प्रत्यनीकालङ्कारसरः (६०) 53
या चपला विद्युत् निजरुचि तव श्रियं अपहृत्य। चपलेत्य- नेनानवस्थितचित्ततया असमीक्ष्यकारिता द्योतिता। पयोधरे जलदे लीना सती कृतार्थेव नेतःपरं भम भयं किंचिदृपि संभ- वेदिति कृतकृतयेव। उल्लसति हृष्यतीत्यर्थः । प्रकाशत इति तत्वम्। हारमिषां वज्रमणिहारच्छलां तां चपलां सपयोधरं स्वरुचिप्रतिभटतटिलताश्रयभूतजलधरसहितं यथास्यात्तथा। पक्षे स्तनसहितं यथास्या्तथा कण्ठे नह्यसे 'कण्ठे बध्धा दशग्रीवम्' इत्यादिवद्रवियां बभ्नासीत्यर्थः। पक्षे कन्धरायां परिष्कारहेतोः प्रतिमुश्चसीत्यर्थः । अत्र साक्षात्प्रतिभटभूतायास्तटिल्लतायास्सा- श्रयायास्तिरस्कार: कैतवापह्ुति श्ेषमूलाभेदाध्यवसायाभ्यामुजी- वित इति पूर्वोदाहरणेभ्यो वेलक्षण्यम्॥। द्वितीयं यथा- तनुरुचिजितस्तवाच्युत मुखं विजेतुं विधुर्भ- वन्नेव। मकरो भूत्वा मधुकर इभमग्रसत त्वदेक- शरणमहो॥ १५०७॥
हे अच्युत! मधुकर भ्रमर. मधुकरशब्दश्च। तयो- स्तादात्म्म। तव. तनुरुच्या शरीरश्रिया अल्पयैव त्विषे- त्यपि गम्यते। जितस्सन् तव मुखं विजेतुं विधुर्मवस्नेव चन्द्र- मा भवन्नेव विगतघुवणो भवन्नेव च विधूभवनसमसमयमवेति भावः । मकरः ग्राहः भूत्वा पक्षे मधुकरशब्द: धुकारलोपे मकरो भूत्वेत्यर्थः। त्वदेकशरणं इभे गज अग्रसत अ्रस्तवान्। अत्र भगवत्तनुरुचिविजितस्य तत्प्रताकारानीशस्य मघुकरस्य रूपान्त- रपरिग्रहेण तदेकशरणे वारणे पराक्रम: प्रकटितः ॥ इदमुपदर्शिव-
Page 65
54 अलङ्गारमणिहारे
शब्बाथतादात्म्यमूलकविच्छात्तविशेषशालि। एवमग्रिमोदाहार. णयोरपि द्रष्टव्यम॥ यथावा- जेत्रीं तव गां भेतुं प्रथमं कोपाश्रितः किलो- पगतोऽम्ब। लोपगतोऽन्ते कोकिल इह कोल- स्सन् भिनन्ति गां तदभिख्याम्॥ १५०८॥ हे अम्ब कोकिल: जेत्रीं स्वावमन्त्रीं तव गां भेतुं विदा- रयितुं प्रथमं आदौ कोपश्रितः क्रोधान्वितस्सन् उपगतः किल त्वद्वचनसमपिं गतो ननु। अन्ते पर्यवसाने लपगतः स्वयमेव छदेनं प्राप्तस्सन् कोलस्सन् वराहो सवन् तदभिख्यां गोना- मधारिणीं गां भुवं भिनत्ति भूदारत्वप्रसिद्धेस्तस्योति भावः॥ पक्षे कोकिल: कोकिलशबद: प्रथ मं को इति वर्णेन अपाश्रितः आश्रतः किलोपं किवर्णभ्रंशं गतः 'द्वितीया श्रित' इति समासः।अन्ते अवसाने लोपगतः लवर्णेन युक्तः । लुप्तकिवर्णमात्रः कोकिठ- शब्द: कोल इति निष्पन्न इत्यर्थः॥
यथावा- इक्षुर्गवा तव जितो द्रुतमनितरददश्यमासमुख एव। अवलम्व्य तरक्षुत्वं हिनस्ति गास्तदभिधाः क्रुधा भगवन् ॥ १५०१ ॥ हे भगवन्! इक्षुः तव गवा वाचा जितः तिरस्कृतः अत एव द्रुतं अनितरदृश्यमानमुखः पराजितत्वप्रयुक्तावमानेनान्येषा- मदर्शितमुख इति भावः। पक्षे अविद्यमानः इः इत्याकारकवर्णः
Page 66
प्रत्यनीकालङ्गारसरः (६०) 55
यस्मिन् कर्मणि तद्यथास्यात्तथा अनि। तराभ्यां तकाररेफाभ्यां दृश््यमानं मुखं आदि: यस्य स तथोकतः। तरक्षुत्वं मृगादनत्वं 'तरक्षुस्तु मृगादनः' इत्यमरः। पक्षे इक्षुशब्द: इकारोत्सारणे तत्रैव तकाररेफयोन्यसने तरक्षुरिति निष्पन्न इत्वर्थः । तद. भिधा: गोशब्दाभिलप्यवागभिधाना: गाः हिनस्तीत्यर्थः॥
यथावा- फणिशिखरिविधो भवता तिरोहितं तत्प्रति- क्रियानीशम्। पर्वणि कदाचन विधुं त्वन्नामानं तमस्तिरस्कुरुते ॥ १५१० ॥
तम आश्रितनामज्ञानं राहुश्च। इदं कर्तृ, फणिशिसरिणि विद्यमाना विघुर्विष्णुः । तस्य संवुद्धि: भवता तिरोहितं नाशितं सत्।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥I इति गानात्। स्पष्टमन्यत्। अत्र भगवता तिरोहितन तमसा तस्मिन् प्रतिविधातुमक्षमेण तन्नामधरितया तदीयत्वेन कल्पि- तख्य विधोस्तिरस्कृतिः॥
यथावा -. तव तनुभासाऽधरितो नवजलदस्त्वन्निवासम- हिशैलम्। अधरीकृत्योद्वर्जति न घनो न्यक्वार- मात्मनस्सहते॥ १५११॥
Page 67
56 अलङ्काग्मणिहार
अत्र भगवत्तनुरुचा अधरीकुतस्य नवजलदस्य तत्प्रतिकर- णापटुतया तहीयशैलाघरीकरणम्। उदाहरणद्वयेऽपि अधर-
तदीयतिरस्कारस्तुल्य एव। अन्तिमे त्वर्थान्तरन्यासशेखरितत्वं विशेष इति ध्येयम्॥
नूनपयं स्वर्भानुर्लनशिराइश्रीनिकेतनेन पुरा। तद्रासमनुविभातो विभावसोर्मण्डलं क्वचिद्रसते॥ अनुविभात इति भाच्छव्दस्य षष्ठ्येकवचनं विभावसोरि- त्यस्य विशेषणं 'तमेव भान्तमनुभाति सर्वम्' इति श्रुतिच्छा- या त्रानुसंहिता। मण्डलं बिम्बं, राष्ट्रमित्यपि गम्यते। शिंष स्पष्टम्। अत्र भर्गवल्लनशीर्षेण तत्प्रतिकारानीश्वरेण स्वर्भानुना तदीयभासमनुविभासमानस्य भानोर्यमण्डल तस्य तिरस्कृति- रिति प्रतिपक्षसंबन्धिसंबन्धितिरस्कृतिः॥ यथावा- अवधीरितो मुखरुचा तव धवलांशुर्मदम्ब नयनसखम्। परिभूय नलिनमलिनस्तदाश्रितां- स्तत्र निगळयति रात्रौ॥। १५१३ ॥।
तवेत्येतत् मुखरुचा नयनसखं इत्युभयत्रापि संबध्यते। अत्र साक्षात्प्रतिपक्षभूतजगज्ननीवदनसंबन्धि नयनं, तत्सखतया तत्सं- बन्धि नलिन, तत्संबन्धिनोSळिनः, तत्तिरस्कृतिरभिहितेति पूर्व-
Page 68
प्रत्यनाकालक्कारसरः (६०) 57
तृतीयं यथा- हरिरुचिभरपरिभृतं कुवलयमखिलाम्व ताव- काक्षिवपुः। तद्रूपजितस्यागाच्छरतां मदनस्य तत्प्रतिचिकीर्पो: ।। १५१४ ॥
अत्र स्वविरोधिहरिपरिभवानीशन कुवलयंन लक्ष्मीनयनात्म- नाऽवतीर्य तद्रपविजिततया तत्पतिचिकीर्षोर्मदनस्य शरतया सा- हाय्यं विहितमिति तत्प्रतिद्वन्दि साह्यरूपं तृतीयः प्रत्यनीकप्रकारः॥ अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमंलकारान्तरं भवि- तुमहति। तत्र 'त्वद्ुचिकृतपरिभवतः' इत्युदाहरणे तावद्धेत्वं- शश्शाब्दः। उत्प्रेक्षांशमात्रमार्थ, अन्येषु तूदहरणेषु द्यमप्या- र्थम्। अस्मिन्नलंकारे हेतुत्वं निश्चीयमानं हेतृत्प्रेक्षायां तु संभा- वनमित्यस्ति विशेष इतिचेत् प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षा- त्वापत्तः। वाचकस्य इवादेरभावाद्धेतुत्वस्य निश्चीयमानताया- स्तत्रापि वक्तुं शक्यत्वात्। यस्य किंचिदपकर्तुमक्षमः कायनिग्रह गृहीतविग्रहः। कान्तवत्तृसदशाकृति कृती राहुरिन्दुमधुनार्ऽप बाधते।। इत्यलंकारसर्वस्वोदाहते प्राचीनपद्यऽपि भगवद्वरानुबन्धा- दिय भग बद्क्तसद्दशमिन्दुं राहुवधत इति प्रतीतेरुत्प्रेक्षेव गम्य- माना। 'मम रूपकीर्तिमहरद्भुधि यः' इति कुवलयानन्दोदारणे तु हेत्वंश उेत्प्रक्षांशेश्त्युभयमपि शाव्दम्। यद्यपि प्रतिपक्षगतबलव- त्वस्वात्मगतदुर्वलत्वयोः प्रतीतेहेनूत्प्रेक्षान्तरादस्य वैलक्षण्यम्। नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमष्टि, तद्विनाभावित्वात्। ALANKARA-I1I. 8
Page 69
58 अलङ्कारमणिहारे
किंतु तद्वान्तरविशषो भवितुम्। न हि पृथिव्यवान्तरमेदाद्ध- टात्पटो विलक्षण इति पृथिव्या वहिर्भवतीत्यपि वदन्ति । इत्यलंकारमणिहारे प्रत्यनीकसरष्पष्टितमः
अथ काव्यार्थापत्तिसरः- (६१)
दण्डापूपिकया यत्रार्थान्तरापतनं भवेत्। काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥ दण्डापूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः अहं शक्तोऽ शक्तोऽस्यां क्रियायामित्यहमहमिकेतिवन्मत्वर्थी यष्ठन्। दण्डापूपाविव दण्डापूपिका 'इते प्रतिकृतौ' इति कन्वा। अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहमाव्यपूपभक्षणमप्य- र्थसिद्धम्। एवं विधो न्यायो दण्डापूपिकाशव्देनोच्यते। यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामथर्यात्समानन्यायलक्षणादर्थान्तरमापतति साऽर्थापिः। ता- न्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्यपदम्। अयमेव कैमु- तिकन्थाय इत्यप्युच्यते। अत एव 'कैमुत्येनार्थसंसिद्धि: काव्या- र्थापत्तिरिष्यते' इति लक्षणं प्रणातं कुवलयानन्दे। नन्वेवमर्थाद- थान्तरप्रतीतेरतुमानमेवेदमिति चेन्न। समानन्यायस्य संबन्ध- रूपत्वाभात्। दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव। दण्डभक्षणेऽप पृथक्प्रदेशावस्थानादिना केनापि निमित्तेन अपूपानामभक्षणस्यापि सावात्। अनुमानं पुनर्निय- तमेवार्थादर्थान्तरस्यापतनमित्यस्यास्ततः पृथग्भावः॥
Page 70
काव्यार्थापतिसरः (६१) 59
तव तेजसि भाति विभो न रविर्न विघुर्न तथाहि-
भानि न च तटितः। भान्ति कुतोऽग्ेर्वार्ता भान्तं त्वामनुविभाति सर्वमिदम् ॥१५१५॥ अत्र 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वम्' इति श्रुतिप्रतिपा- दितप्रभावे भगवत्तेजसि सहस्रभानुप्रभृतीनामेव भानदौर्लभ्ये ततोऽप्यतिमात्रन्यूनस्य सलिलासेचनमात्रेणापि शाम्यतोऽगेर्भा- नदॉर्लभ्ये कैमुतिकन्यायेन प्रतिपाद्यते। यथावा- हारलता याकाचिन्नाथ तवोरसि पदं यदि निदध्यात्। त्वदयिता जलधिसुता कृतास्पदा- 5त्रेति नैतदाश्चर्यम् ॥ ५५१६॥ अत्र हारलताकर्तृकभगवद्वक्षोऽधिकरणकपदन्यासेन अप्रक्ृ- तेन भगवद्वक्षोऽधिकरणकश्रीपदन्यसनरूपस्य प्रकृतस्य सौकर्य दण्डापूपिकया प्रतिपादते। इयं च हारलतेति स्त्रीलिङ्गशब्देन नायिकात्वप्रतीतेस्समासोक्त्या संकीर्णा। एवमुत्तरत्रापि यथा- संभवमूह्यम्।। यथावा- दिनकरवितीर्णपूर्णद्युतिभरमब्जं जयेद्यदि पदं ते। वदनं तथेति सुधियो वदितुं के नाम नाथ संदिहताम् ॥ १५१७॥
Page 71
60 अलङ्कारमणणिहारे
पदं वदनं च कर्तृ। अब्जं कर्म। कमलं चन्द्रमसं चेत्यर्थः। दिनकरेत्यादिविशेषणमु नयोस्तुल्यस््। वदनं तथेति दिनकरावे- तीर्णपूर्णधुतिभरभव्जं जयतीति वदितुं के नाम सुधियस्संदिह- तामिति योजना ॥
यथावा- अर्थिजनार्दनचकितो भजसेऽच्युत चेखवमेव गिरिदुर्गम्। किं चित्रं श्रयते श्रीस्त्वदुरोदुर्ग निसर्गतो भीरुः ॥ १५१८॥
आथिजनानां अर्दनं पीडनं याचनं च । तम्मात् चकितः नेग चकित इति वा। भीत इत्यर्थः।
यथावा-
देवस्य लोकबन्धोः प्रसादतः कमलमपि मुखे कविताम्। समुपेत्य यदि चं विमलं भवति कविकुलं तथेति किं चित्रम् ॥ १५१९ ॥
कमलं लोकबन्धोर्देवस्य भानो: 'स नो बनर्जनिता' इत्यु- करीत्याा निव्याजलोकबान्धवस्य भगवतश्च। प्रसादात् प्रकाशात् अनुग्रहाञ्च। मुखे वदने अग्रभागे च। कवितां कवनं कस्य कवर्णस्य वितां विवर्णतवं समुपेत्य विमलं भवत्येव शुच्ति भवत्येव 'विप्रश्शुचिः कविः' इति श्रुतेः। विमलमिति शब्द रूपं निष्पद्यत इति तत्त्वम्॥।
Page 72
काव्यार्थापत्तिसर: (६१) 61
यथावा- समतायां चेद्यतते सुधा भवति नाथ तव- वाचा। अन्यत्तां तुलयेदिति वार्ता वातैव भुजग- शिखरीन्दो॥ १५२० ॥
हे नाथ! सुधा तव वाचा समतायां तुल्यतायां यततेचेत् मुधा भवति व्यर्थोद्यमा संपद्यते। निस्सारत्वान्न ततुल्या स्यादिति भावः । सुधा सुघति शब्दव्यक्ति: समतायां सस्य सकारस्य मतायां मवर्णतायां यततेचेत् मुधा भवति मुधेति निष्पद्यत इति चमत्कारातिशयः। अन्यत् वस्त्वन्तरं तां तुलये- दिति वार्ता संभावनाऽपि वार्तैव फल्गुरेव 'वार्त फल्गुन्यरोगे त्रिषु, इत्यमरः ॥
यथावा- पटुरुचिना येन जितः कल्याब्जव्यूह एव तस्यास्य। तव वदनस्य कियानिह भविता जड- राजमण्डलस्य जयः ॥ १५२१॥
अत्र वदनस्येति शंपे पष्ठी। राजभण्डलस्येत्यत्न तु कर्मण। तेन 'उभयप्रासी कर्मणि इति नियमस्य नायं विषय इति व्येयम्। कर्तृकर्मणोर्युगपत्कृतिप्राप्तावेव तव्नियमप्रृत्तेः । यद्वा 'शेंपे विभाष' इति वार्तिके विभाषाङ्गीकारात् शव्दानामनुशा- सनमाचार्येणाचार्यस्य वेतयादाविच उक्कतनियमाप्रात्तेः । कर्तृक- र्मणोरुमयोरपि षष्ठी निप्प्रत्यूहैव। कल्यः नीरोग: दक्षो वा
Page 73
62 अलङ्कारमणिहारे
सज्जो वा 'कल्यमहर्मुखे। कल्या कल्याणवाचि स्यान्निाषु नीरो- गदक्षयोः' इति रतमाला। 'कल्यौ सज्निरामयौ, इत्यमरः। तस्य तादृशस्य कस्यचिद्राज इति गम्यते। यः अब्जव्यूहः पझम- कारस्सेनाविन्यासविशेष: तस्थो वीरजन इति यावत्। वस्तु- तस्तु कल्यं प्रभातं तस्मिन् यः अब्जप्यूहः पद्मसमूह इत्यर्थः। जडः स्तवाः बुद्धिहीनो वा। 'जडस्स्तब्धे बुद्धिहीने हिंमग्रस्ते- डपि वाच्यवत्' इति रत्नमाला । तथाविधो यो राजा नृपतिः तस्य यत् मण्डलं राष्ट्रं तस्य। परमार्थतस्तु जडः शिशिर:यः राजा चन्द्रः तस्य मण्डलं बिम्वं तस्येत्यर्थः। अन्यत्तुगमम्। अत्र कल्याब्जव्यूहनिर्जेतुर्वदनस्य जडराजमण्डलजयः कैमुतिक न्यन्यसिद्धः। श्रेषसमासोक्त्युत्तम्भितेयम्।।
यथावा- सर्वज्ञश्लाध्ये तव वदनेन सता कलानिधो विजिते। स्वत एव भङ्गभाजो जडजातस्य तु जयेऽत्र को विशयः ॥ १५२२ ॥
सता विदुषा प्रशस्तेन च तव वदनेन सर्वज्ञश्ाध्ये विद्व- न्मणिश्षाघनीये धूर्जटिशिरोविधृते च । कलानिधौ सर्वविद्या निवासभूते विदुषि चन्द्रमनसि च। विजिते रति। स्वत एव भङ्गं पराभवं तरङ्ं च भजतीति तथोक्तस्य जडजातस्य स्तब्ध- जन्मनः । निसर्गत एव जडजन्मनः सर्वत्र पराभवजुषश्चोति मावः। ईद्दशस्य जये अभिभवे को विशय: कैस्संदेहः न कोऽपीति भावः। अ्रापि महाविद्वंजयनो वदनस्य निसर्गभङ्गशालिजडजातविजय- रूपार्थों दण्डापूपिकया निबद्धः।
Page 74
काव्यार्थापत्तिसरः (६१) 63
यथावा- करिकम्भविजययिनस्तब हरिमहिळे परमुरोज- युगळस्य। अचलविजयः कियान् स्याददसाव- विरेव विश्रुतो जगति ॥ १५२३ ॥
अबिरेव श्रुतः मेप इत्येव ख्यातः। अविशब्दो गिरिमे पोभयवाची। 'अवयशैलमेषार्काः' इत्यनुशासनात। करिकुम्भ- विजयिनो मेषजयः कियानिति भावः । अत्र यद्यपि न गिरिः करिकुम्भतो न्यूनः। येन तज्यः कैमुतिकन्यायेन न्यूनस्स्यात्। तथाऽपि अविशब्दप्रतिपाद्यमेपशैलरूपार्थद्यस्य श्ेषभित्तिका्म- दाध्यवसायेनैकीकरणान्नयृनत्वमिति ध्येयम्। एवं 'पट्ठुरुचिना येन जितः कल्यब्जव्यूह एव इति प्रागुदाहते पद्येऽपि द्रषटव्यम्।
यथावा- नाकोऽपि त्वद्धान्नो नारक एवान्ततो भवेदि- तरः । मध्ये लोपगतोऽच्युत नरलाको नरक इति किमाश्र्र्यम् । १५२४॥
हे अच्युत! नाक: स्वर्गोऽपि अन्ततः सम्यग्त्रमश सन तव धास्: दिव्यस्य स्थानस्य इतरः प्रसिद्धनरकेभ्यो विलक्षणः नारक: नरक एव भवेत्।
रम्यानि कामचारीण विमानानि सभास्तथा। आक्रीडा विविधा राजन प्मित्यश्चामलोदकाः ।। एते वै निरयस्तात स्थानस्य परमात्मनः ।
Page 75
61 अलङ्कारमणिहारे
इति भारतोक्तेरिति भावः। 'स्यान्नारकस्तु नरकः' इत्यमरः। मध्येलोपगतः। मध्या स्वर्गपातालयोर्मैध्यवर्त्िनी या इला भूरिति उपगतः अवगतः ज्ञात इत्यर्थः । नरलोकः मर्त्यलोकः नरको भवतीति किमाश्चर्यस्। महासुखत्वेन पुराणादिप्रतीतस्य स्वर्लो- कस्यैव नरकप्रायत्वे दुःखसहस्रनिरन्तरकबळितो मर्त्यलोको नर- कप्रायो भवतीति किमु वक्तव्यमिति भावः ॥ पक्षे-नाकोऽपि नाक इति शब्दोपि अन्ततः मध्ये इतरः पाप्तरेफ: इतः रः येन स इति विग्रहः। नारक एव नारकशब्द एव भवेत्। नरलोकः नरलोक इति शब्द: मध्ये अन्तराळे लोपगतः लो इति वर्णः अपगतो यस्मात्स तथोक्तः। आहिता- सेयादेराकृतिगणत्वान्निष्ठायाः परनिपातः। अपगतलोवर्णः नरक इति निष्पद्यत इति किमाश्चर्यम्॥
यथावा- इरवर्षैस्तव शमितो मुरोडग्निनिभ इति किम- द्रुतं शौरे। स पुरस्कुरुतामन्यं मुरमयमपि मुर्मु- रो भवञू शाम्येत् ॥ १५२५ ॥
हे शौरे! तव शरवर्षैः बाणवर्षः सलिलवर्षश्च। आभ्रि- निभः मुरः तन्नामा दैत्यः शमित इति किमद्भुतम्। सः मुरः अन्यं मुंर मुरासुरं पुरुस्कुरुतां त्वद्विजयय स्वापेक्षया प्रबलं मुरान्तरमेवाग्रे कुरुतां 'प्रैषातिसर्ग' इत्यादिना अतिसर्गारये लोटू। अतिसर्गः कामचारानुज्ञा। सोऽपि अन्यो मुंरोऽपि मुर्मुरः तुषाभ्निः भवन् शाम्येत् । 'मुर्मुरस्तु तुषानलः' इति विश्वः। पक्षे मुर इति शब्दः अन्यं स्वापेक्षया भिन्नं मुरं मुर्
Page 76
काव्यार्थापत्तिसर: (६१) 65
इत्याकारकं शब्दं पुरस्कुरुतां स्वमुखभागे कुरुताम्। अयमपि सुरशब्दोऽप मुर्मुरः मुर्मुर इति निष्पद्यमान इत्यर्थः । अत्र प्रव- लतरमुरान्तरस्यैव तुषाप्नितुल्यतया शान्तौ मुरासुरस्याभ्निनिभस्य शान्ति: कौमुतिकन्यायन सिद्धा।। यथावा- सकृदीक्षसेऽम्ब यं त्वं स एव कल्याणगुणग- णनिधिश्चेत्। तव नित्यनिवासोऽयं तादग्भवतीति विस्मयः कोऽत्र ॥ १५२६॥ अत्र- स श्रलाध्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान। स शूरस्स च विक्रान्नो पं त्वं देवि निशीक्षमे॥ इत्यस्यार्थोऽनुसंहित:॥ यथावा- इन्दीवरमेव हरे विन्देच्छुतिशिखरशेखरत्वं चेत्। त्वं तद्गजसीत्येतत्कस्य पुनर्विस्मयाय कल्पेत ॥ १५२७ ॥ इन्डीवरमेव भगवत्मवर्णमेवेत्यभिप्रायः। ध्रुनिशिखरशेखरत्वं कर्णवतसत्वं वेदान्तवेद्यत्व च।। व्यवधायको डव्ययश्रेद्वधायकस्स्यात क्षमो हिर- ण्यस्य। प्रहुादस्य विपतौ वरहिततां प्रप्य धाय- कश् भवेत् ॥ १५२८॥ ALANKARA-III. 9
Page 77
66 अलङ्कारमणिहारे
अव्यय: भगवान्। नाशरहितोऽपिति भावः 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु' इति मेदिनी। प्रह्लादस्य विपत्तौ आपदवसरे हिरण्यस्य हिरण्यकशिपोः वधाय वर्ध कर्तु व्यवधायकश्चेत् व्यवधानं चासंसक्ततयाऽतस्थान, औदा- सीन्यभाक्चेदिति यावत्। व्यवपूर्वकाहघातेः कतरे ण्वुल। कः क्षमः। कोऽन्यस्तद्वधसमर्थ इत्यर्थः । कित वरहिततां प्राप्य। प्रह्लादस्येति क इति चानुषज्यते। प्रह्लादस्य वरहिततां वर- दानेनानुकूल्यं प्राष्य। धायकश् पोषकोऽपि को भवेत् 'यत्रा- मृतः पुरुषस्सोऽ्ययात्मा। अव्यय: पुरुषस्साक्षी' इत्यव्ययतया प्रथितः परमपुरुष एव हिरण्यकशियुवघतन्नन्दनपोषणयोरुदा- सीनश्चत्कस्तत्सहार्योऽन्यः प्रभवेदिति भावः।
पक्षे व्यवधायक: व्यधायकशब्द: अव्ययः व्यंव्य इत्याका- रकवर्णसमुदयं यातीति व्ययः स न भवतीत्यव्ययः। व्यशव्दोप पदकाद्यातेः 'आतोनुपसेग कः' इति कप्रत्यपे 'आतो लोप इटि च' इत्यालोपः। व्यकाररहितश्चेदित्यर्थः। वधायकस्स्यात् वधायक इति निष्पद्येत। अवपूर्वकादधातेर्ण्वुलि 'वृष्टि भागु- रिसलोपमवाप्योरुपसर्गयोः' इति अवेत्युपसर्गावययाकारलीपः। ततः वरहिततां वकारविधुरतां प्राप्य घायकश्च धायक इति शब्दोऽपि भवेत्॥
यथावा- गोपायापायान्मां पापमपि द्विप इतीममपि भगवन्। पयसिजनयन कियदिदं द्विपावनं लोक- पावनस्य तव ॥ १५२१॥
Page 78
काव्याथार्पस्तिसरः (६१) 67
हे भगवन्! पायलपि दुष्कतिनमपि अन्ापिर्विरोधे। इम- मपि मामपीति भावः । अत्रापिस्समुच्चये। द्विप इति। द्विरद
थस्यापि द्विपत्वमिति हार्दोऽभिप्रायः। अपायात विपदः। गोपाय रक्ष। लोकपावनस्य सकललोक गालानां रक्षकस्य द्विपावन गजर- क्षणं कियत्। द्वौ पानीति द्विपः तस्य वस्तुद्यपालयितु: गोपनं कियादत्यप्यर्थो गम्यते। द्विपावनमित्यत्र शेषषष्ठचा कर्मीण षष्ठया वा समासः। लोकपावनस्य सकलभुवनपावायेतु: द्विपावनं द्वयोः गजस्य मम चेत्युभयाः पवित्रीकरणं इद कियदित्यप्यर्थः प्रतीयते। तदा पूर्वार्धे गोपनं पवित्रीकरणरूपमित्यनुसंघेयम्। इमानि सर्वाण्युदाहरणानि प्राचामनुरोधेन।। रसगङ्गाघररीत्या त्विंद लक्षणम्- अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेतू। अपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते॥
केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिः काव्यार्थाप- त्तिः। न्यायश्च कारणम्। सा च प्रकृतेन प्रकृतस्य, अप्रकृ- तेनाप्रकतस्य, प्रकृतेनाप्रकृतस्य, अग्रकृतेन प्रकृतस्येति तावञ्च- तुर्भेदा। प्रत्येकमर्थान्तरस्य साम्याधिक्यनूनत्वैर्द्वादशधा। ततो भावत्वाभावत्वास्यां चतुर्विशतिभेदा॥ प्रकृतेन प्रकृतस्यापादनं यथा- सहजश्रीत्वाद्यदि ते हृद्यत्वं कौस्तुभ: प्रप- द्येय। सहजश्रीको न कुतः प्रपद्यतां हृद्यतां मणिकिरीटः ॥१५३० ॥
Page 79
68 अलंङ्कारमाणहारै
हृद्यत्व च हृदयस्थितत्वं हृदयप्रियत्वं च। अत्र आपादका- त्प्रकृतादापाद्यमानस्य प्रकृतस्य साम्यम्। श्रेषोत्तम्भितमिद्म्।। नाथ सुमहा्छविद्युत्पुष्करपुष्कलविकासि तव भासा। असिताम्रं यदि विजितं जितमसिता- व्जमिति तत्समं स्थाने ॥ १५३१ ॥ ह नाथ! सुमहाच्छा अतिमात्रनिर्मला विद्युत् तटित् यस्मि- स्तत्। अन्यत्र सुमहती च्छवः दीप्तिः तया विद्योतत इति सुमहाच्छविद्यत्। द्योततेः किप। पुष्करे व्यास्ति सलिले च। पुष्कलं अतिशोमनं यथातथा विकासि विजम्भमाण उत्फुल्लं च। असिताभ्रं नीलजलदः तत्समं। असिताब्जं इन्दीवरं च। स्थाने युक्तम्। सुगममितरत्। अत्र द्वयोरपि पकृतत्वं साम्यं च।। मद्रक्षणोन्मुखा यदि रक्षोक्त्या सा रमैव तव दयिता। तर्हिं हरे तदधीना क्षमाऽपि भविता तथेति नाश्रर्यम् ॥ १५३२॥ हे हरे! रक्षोक्त्या रक्ष त्रायस्व इत्युक्तिमात्रेणैव सा जग- दीश्वरत्वेन दिव्यमहिषीत्वेन च प्रथिता तव दयिता रमैव मद्र- क्षणोन्मुखा यदि तहि तदीना रमाया वशवदा क्षमा भूदेव्यपि। यद्वा तदधीना उक्त एवार्थः। कमा भगवतः क्षान्तिरपि भग- वत्कर्तृकाश्रितापराधक्षमाया: लक्ष्मीपुरुषकारत्वनिष्पाद्यत्वादिति भावः । तथा मद्रक्षणोन्मुखा भवितति नाश्चर्यम्। 'नित्योन्नतों नृपतिरेव वशीकृतश्चक्ति कुर्वते परिजना इति कः प्रयत्नः' इति न्यायादिति भावः। पक्षे रमा रमेति शब्दव्याकि. रक्षोक्तथा
Page 80
काव्यार्थापत्तिरसर: (६१) 69
रेफस्य क्षकारोक्तया तदधाना क्षकारवश्या सती क्षमा भवि- तेति क्षमेति निष्पत्स्यत इति नाश्र्यमित्यप्यर्थश्चमात्कारमति- शाययति। अत्र त्वदयितरमारूपप्रकृतार्थापिक्षया प्रकृतायाः क्षमायाः तद्धीनत्वेन न्यूनत्वम्॥ यथावा- करुणामयि कृतमन्तुं त्वमेव मां यदि रमे परित्यजसि। क्रोधोष्मलोऽपराधिषु नाथोऽपि सुदूरमेव संत्यजति॥ १५३३॥ अत्रपि प्रस्तुतेनापाद्यमानस्य प्रस्तुतस्य न्यूनत्वम्। तञ्च करुणामयि करोधोष्मल इति विशेषणाभ्यामवगम्यते। अत एवेय परिकरोत्तेजिता। पूर्वा तु श्ेषसंकीणेति विशषः ॥ पुरुषोत्तम पाप्मानं मम यदि हन्तुं त्वमेव नाशक्रोः । किमिदं नु विस्मयपदं क्षमाऽपि तव नैव शक्ष्यति निहन्तुम् ॥ १५३४॥ तव क्षमा क्षान्तिः । अत्र पापस्य अतिमहत्तरत्वेन भगवता- 5पि दुरुच्छेदत्वं सिद्धवत्कुर्तुः कस्यीचदुक्ति: परमपुरुषापेक्षया क्षमायाः स्त्रीतवेन न्यूनत्वम्। त एव कि विस्मयपदमिदमित्यु- क्म्। अत्रापाद्यापादकयोर्द्वयोरपि प्रककतत्वम्।। अप्रकृतेन अप्रकृतस्यापादनं यथा- यदि कश्वित्तव तुलनां हृदि वाञ्छति जन्तुर- च्युत तदानीम्। भूमेर्धौरन्धर्य सौमेरवमेव वहति परमाणुः ॥१५३५॥
Page 81
70 अलङ्कारमणिहारे
अत्राप्यप्रकृतात् अपादकात् अप्रकृतस्यावाद्यमानस्याधिक्यम्।। प्रकृतेन अप्रकृतस्यापादनं यथा- सर्वज्ञ यदि तवाग्रे वर्वर्ति मदीयमेतदपि कव- नम्। सुरवैणिकवरसंसदि निरजीयत तर्हि मश- कगानेन ॥ १५३६॥ निरजीयत निर्जितम्। निः पूर्वकाज्जयतेर्भावे लङ्। अत्र वर्वतीति विद्यमानतारूपात्प्रकृतार्थात् निरजीयतेत्यापाद्यमा- नस्याप्रकृतार्थस्य सर्वोत्कृष्टतयाऽवस्थानरूपस्याधिक्यम्।। जाग्रति रमापते त्वयि जगदवनार्थे यतेत चेदन्यः। सुलभं विलसति ताक्ष्ये शलभस्य तदा शकुन्तसाम्राज्यम् ॥ १५३७॥ अत्र यतत इति यतनरूपात्प्रकृतार्थात् आपाद्यमानस्य साम्रा- ज्यलाभरूपस्याप्रकृतस्याधिक्यम्।। भूमोभिक्षावसरे भगवानेवातिखर्वमूर्तिश्वेत्। सर्वोऽप्यन्यः कृपणः खर्वीभ्षवतीति कि नु वक्त- व्यम् ॥ १५३८॥ भूमिभिक्षावसरे इत्येतवुत्तरार्धेऽप्यन्वेति॥ अर्थिनिवहेप्सितार्थास्त्वमेव चेन्ननु रमेश न .... ' ..... ददीाः। इतरो भिक्षाकः कि सकृत्तिको मृत्ति- कामपि ददीत ॥९५३९॥
Page 82
काव्यार्थापत्तसर: (६५) 71
अत्राभावेनाभावापादनम् । प्रकृतादप्रकृतस्यापाद्यमानस्य न्यूनत्वं च ॥। यथावा- क्षमयाऽ्यसमधिगम्ये रमया हरिहृदयसदनया साम्ये। इतरासां महिषीणां सुतरां वार्ताडपि तस्य दूरतरा॥ १५४० ॥ अत्राप्यभावेनाभावापादनम। प्रकृतादप्रकृतस्य न्यूनता च॥ अप्रकृतेन प्रकृतस्यापादनं यथा- अधिजलधि निमज्जन्तं मधुसूदन मन्दरं तमु- दधार्षीः । भवजलधौ प्रवमानं मामुद्दर्तु किया- न्प्रयासस्ते ॥ १५४१ ॥ अत्राप्रकृतात्तथाविधमज्जन्मन्दरोद्धरणवृत्तान्तात् प्रकृतस्या- पततो भवजलधिप्यवमानोद्धरणस्थ न्यूनता। किंच आपतनः पुन- रर्थान्तरस्यापादानानुपादानाभ्यां संभवत्यस्या वैचित्रचम्। तत्रा- पततोऽर्थस्योपदाने उदाहरणानि दर्शितानि॥ अनुपादाने यथा- वरुणालयघरणीगतमणयोऽपि क्वचन गण- यितुं शक्याः। फणिगिरिमणेस्तु सुगुणा गणयितु- ममुनैव नैव शक्यास्स्यु: ॥ १५४२॥ अमुनैव श्रीनिवासनैव। अत्र श्रीनिवासादन्येषां का कथे- त्यापतदर्थानतरमनुपात्तम्।।
Page 83
72 अलङ्कारमणिहारे.
यथावा- त्वन्महिमपरिज्ञाने सर्वज्ञोऽप्यज्ञ एव देव भवेत्। पूर्ण तं वर्णयितुं चतुरास्योऽप्यचतुरास्य एव हरे॥ १५४३॥ अत्रव्यन्येषां का वार्तेत्यापतदर्थान्तरमंतुपात्तम्। विरोधा- भाससंकीर्णत्वं तु विशेषः॥ यथावा- जाग्रति नाकीशे त्वयि भवेदकाधीनगो हि यो जन्तुः। स भवेह्ालिश एव स्यादपि नगबा- लिकाधीझ:॥ १५४४॥ हे भगवन्! अकं दुःखं पापं वा पषामस्तीत्यकिनः । ते न भवन्तीति नाकिन: तेषां देवानामिति तु हृदयम। अधीशे अधीश्वरे त्वय जाग्रत्यपि। 'षष्ठी चानादरे' इति सप्तमी। त्वामनादृत्येत्यर्थः। यो जन्तुः प्राणी अकाधीनगः अकस्य सां- सारिकदुःखस्य अधानान् गच्छतीति तथोक्त:। आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः। प्राणिनः कर्मजनितसंसारवशवर्तिनः॥ इत्यायुक्तरीत्या भवदुःखभाजो ब्रह्मादय: तान् श्रित इत्यर्थः। सः नगबालिकाधीशस्स्यादपि सर्वज्ञशशम्भुरेव भत्रन्नपीति भावः। बालिश एव वैधेय एव भवेत्। निरततिशयानन्ददायिनमानन्दमयं भगवन्तमुपेक्ष्य कर्मवशगचतुराननाद्याशयकारी सर्वज्ञोि मूर्ख एव स्यात्। किमुतान्ये इति भावः। पक्षे नगबालिकाधाशशब्द:
Page 84
काव्यार्थापत्तिसरः (६१) 73
अविद्यमाना: का धीनगाइति चत्वारो वर्णाः यस्य सः अका- धीनगश्चेत बालिश इति निष्पद्यत इत्यर्थः! अत्र लुप्यमानानां वर्णानां क्रमो न विवक्षितः। अत्र किमुतान्ये इत्यापतदर्थान्तर- मनुपात्तम् ॥ सावरणान्व्रह्माण्डान् कवळयतो युगपदमित- तरशक्तेः। नाकादयोत्र लोकारस्तोकाः केडमी तवाच्युत पुलाकाः ॥ १५४५॥ अत्र भगवतो युगपदनेकब्रह्माण्डकबळनेन तदन्तर्गतानां ना- कादिलोकानां कबळनस्यार्थिकत्वं कैुतिकन्यायेन प्रतिपाद्यते॥ यथावा- अखिलजगद्ुरितमुषो मद्ुरितमिदं जनार्दन कियत्ते। प्रलयाब्धिशोषणपटोः प्रचण्डकिरणस्य को नु वेझन्तः ॥ १५४६ ॥ को नु कः पदार्थ इत्यर्यः। अत्र प्रतिवस्तूपमा महावाक्यार्थः। दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च। तत्रोपमेयवाक्या- र्थगतायामर्थापत्तौ आपाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थी प्रकृ- तौ। उपमानवाक्यार्थगतायां त्वप्रकृतावितीदमेव पूर्वोदाहरणेभ्यो वैलक्षण्यम्। अनया दिशा अन्यदप्यूह्यम्॥ अत्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्ती निवि- शते, आपाइकस्यार्थस्यापतितमर्थ विना अनुपपत्तेरत्राभावात्। नापि यद्यर्थातिशयोक्ता, तस्या विपरीतार्थ एव द्वयोर्बिश्रान्तेः, न नेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वा- ALANKARAII1. 10
Page 85
74 अलक्कारमाणहारे
द्थाश्रुत एव द्वयोर्विश्रान्तेः। तस्माद्येन न्यायेनैकार्थस्सिद्दस्ते- नैव न्यायेनापरोप्यर्थस्सेड्ुमर्हतीत्यवंरूपेयमर्थापत्तिः । अस्यां चा- र्थान्तरं लोके अविद्यमानभपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तद Sलंकारत्वं, यथा 'सुरवैणिकवरसंसदि इत्यादौ। अन्यथा तु कैमुतिकन्यायतामात्रं यथा 'सावरणान् ब्रह्माण्डान्' इत्यादौ। प्राचीनरीत्या तदुदाहतमस्माभिः। अत एव तत्र कैसु- तिकन्यायेनेत्युक्तम्। यत्तु 'कैमुत्येनार्थसंसिद्धिः' इति कुवलया- नन्दकृद्भिर्लक्षणमुक्तं तन्नातीवहृदयङ्गमं, कैमुतिकन्यायस्य न्यूना-
त्वञ्चरणशरणगतमप्यभिभवति श्रीश यदि च भवतापः। पीयूषकिरणमप्यभिभविता शनकैर्नि- . दाघभवताप: । १५४७।। अत्र शनकैश्शब्दमहिस्तरा भगवत्प्रपन्नेषु भवतापाभिभवापे क्षया पीयूषकिरणे ग्रीष्मतापकर्तृकाभिभवो दुष्कर पवेति विित मपि न्यायसाम्यादापाद्यते। न तु कैमुतिकन्यायेन ॥ अत्र वैद्यनाथ :- "केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्या- पत्तिरर्थापत्तिः। न्यायश्वात्र कारणम्। इति रसगङ्गाधरोक्तल- क्षणमयुक्तं, का वार्ता सरसीरूहामिति कैमुत्यन्यायविषयार्था- पत्तावव्याप्तेः। कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्याय- त्वाभावादापादनाप्रतीतेश्च। न चात्र कैमुत्यन्यायतामात्र न त्वलं- कारत्वमिति युक्तं, अलंकारतत्वविदामभियुक्तानां प्राक्तनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात्। लाकव्य- 'वहारेऽपि कैसुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्याेन
Page 86
काव्यालज्सरः (६२) 75
तस्या अलंकारतासिद्धेश्च। इंत्थ च त्वदुक्तार्थापत्युदाहरणे वक्ष्यमाणस्संभावनालंकार: 'योऽन्यैर्यद्यर्थोक्ती च कल्पनम्' इति यदयर्थातिशयत्वनोक्त: यद्यर्थातिशयोकौ आपाद्यापाद कयोर्विपरी- तार्धविश्रान्तत्वम्। इह तु आपादकस्य सिद्धत्वं आपाद्यस्य संभाव्यमानत्वमिि वैचित्रयं तु तदवान्तरभेदतायोस्साधकम्। न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्काऽपीत्यलम्" इति॥ इत्यलंकारमणिक्रे काव्यार्थापत्तिसर एकषष्टितमः
अथ काव्यलिङ्गसरः. (६२).
यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम्। समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते॥
यथावा- भो दोषा युष्माभिर्वस्तुं स्थानान्तराणि मृग्य- न्ताम्। लभ्योSत्र नावकाशो मय्यघकूलंकषो वसति कश्चित् ॥ १५४८॥ अत्र दोषाणामवकाशालाभरूप: पूर्ववाक्यार्थः । तस्य व सकलदोषनिश्शेष हरणचणश्रीहरिसांनिध्यप्रदर्शनरूपोत्तरवाक्या- र्थेन समर्थनं काव्यलिङ्गम॥
Page 87
76 अलझ्ारमणिहारे
त्वामाश्रितवत्सल इति वदतां नाच्युत विवे- यथावा-
कलेशोऽपि। येन कृता रिपुसुहृदोर्विश्वाश्वगजा- वनीप्राप्ति:।। १५४९ ।। येन त्वया रिपुसुहदोः विश्वाश्वगजावनीप्राप्तिः कृता। रिपु- पक्षे-विश्वा विगतः श्व इत्याकारकवर्णः यस्पास्सा । अश्वगजाव- नीप्राप्ति: श्ववर्णापाये अगजावनीप्राप्तिरिति निष्पद्यते। शैलप्रदेशः गतभूम्यवाप्ति: तेशं सर्वस्वभ्रंशनाद्वनान्तरप्रापणं कृतमिति भावः। सुहृत्पक्षे-विश्वं समस्तं यत् अश्वगजं तस्य अवनी पालयित्री प्राप्ति: अभ्युदयः ऐश्वर्यमित्यर्थः । 'उदयेऽघिगमे प्राप्तिः' इत्य- मरः। कृता। यद्ा विश्वाश्वगजं च अवनी च तासां प्राप्तिः लाभ इति। अत्रात्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थन श्ेषोत्त म्भिततुल्ययोगिताविशेषपरिष्कृतमिति पूर्वापेक्षया विशेषः ॥
थर्स्य कथं प्रतीतिः? वाचकशब्दप्रयोगमन्तराऽर्थप्रतीतेरयो- गात्। विश्वाश्वगजावनीशब्दस्य तदर्थवाचकशब्दत्वाभावादिति चेत्सत्यम्। विगतश्ववर्णस्याश्वगजावनीशब्दस्येत्यर्थान्तरस्य श्े- षमहहिम्ना उपस्थितौ तादशशब्दस्यैवांत्र विवक्षितत्वात्। तादश- शब्दस्य प्रकृतोपयोगित्वं न स्वतः। किंतूक्तार्थेनाभेदाध्यवसाय- सहकारात्। अभेदाध्यवलायनिमितं च योरऽर्थस्स शब्द: इति तादात््यव्यवहारः। तादात्यं च मञ्जूषादी व्यक्तमित्युत्प्रेक्षालं- कारप्रकरणे 'विदुन्मुखे विकारम्' इथत्र स्फुटं न्यरूप्याम। यद्वा श्ेषमहिस्ता अगजावनीशव्द्रस्योपस्थितौ तदर्थस्थाप्युपस्थि- तिरित्यालंकारिकसमयः । अतो नार्थप्रतीत्यन्ुपपत्तिरिति॥
Page 88
काव्यलिङ्गसरः (६२) 77
पदवाक्यरल्नाकरे तु एकशव्दोपात्तयोर्वाच्यार्थयोरिव शब्द- रूपव्यङ्ग्यार्थस्यार्थरूपवाच्यार्थस्य चाभदाध्यवसाय इत्युक्तम। अयं हि तद्रन्थः "आलंकारिकास्तु व्यञ्जनया वत्त्या उपस्थि- तानां पदानामन्वयबुद्धी क्वचित्तादात््येन कचिद्वाच्यवाचकभा- वेन पदार्थानुप्रवेशः। तथाहि- "दया तितिक्षां सत्यं च युक्तं व्यक्त ननु त्वया। अपवर्गव्यञ्जनानि कथं स्युर्मिमभूमिप। इत्यत्र भीमाभिवाने राजननि प्रकृते भीमभूमिपपदस्य व्यञ्ञना लभ्यस्य तादात्म्यमारो्य तस्मिन्नपवर्गव्यञ्ञनानामासन्नसिद्धि- सूचकानां दयातितिक्षादीनां प्रस्तुतानां ध्वनिप्रतीतपवर्गेतरस्व- रान्यवर्णाभेदेनासंभवः कथं स्युरित्यनेन प्रतिपाद्यते" इत्यादि। अधिकं तु तत्रैवानुसंधेयम्। एवंच तादात्म्यं शाब्दिकानामि- वालकारिकाणामप्यभिमतमित्यत्र न कोऽपि संदेहः। अनया दिशा 'मूकीभावो विशिष्यते' इत्यायुदाहरणेप्वापे निर्वाहो द्रष्टव्यः॥ यथावा- स्याज्जातु नापयातो भवदाधारो हरे पयोनिधि- राटू। अपराजिततां प्राप्तो निरहिततां चापि यो- घिराड्भवति॥ १५५० ॥ हे. हरे! भवदाधारः भवान् आधार: आश्रयः यस्य स तथाभूतः, तत्वं तु भवतः अधारः अधिकरणमिति। भवतस्स मुद्रशायित्वादिति भावः। पयोनिधिराट् जलधिराजः जात्वपि अपयात रणे अपयानं प्राप्तः पराभूतः न स्यात्। भवदाश्रित- स्यापयानं न भवेदिति भावः। वस्तुतस्तु न आपयात इति
Page 89
78 अलक्कारमणिहारे
छेदः । अपां समूहः आपं आप यातं गत यस्मात्स तथोक्त: विगतसलिलनिवह इत्यर्थः। न स्यात् सदाडी सलिलपूर्णत्वा- दिति भावः। पक्षे न अपयातः पेन पकारण यातः पयातः न पयातः अपयातः न स्यात। पयोनिधिराद्वब्दस्य पका- रघटितत्वादित्यर्थः। शब्दार्थयोस्तादात्म्म् । य: पयोनिधिराद अपराजिततां अपराभूततां, निर्गता: अहिता: यस्य सः निरहितः तस्य भावः निरहितता। तां निस्सपत्नतां च प्राप्तस्सन् अधि- राट् राजाधिराजो भवति। स कथमिव अपयातः स्यादिति योजना। पक्षे पयोनिधिराद्व्दः अपराजिततां पवर्णभासुरत्वा- भावं निरहिततां निवर्णराहित्यं च प्राप्तः योधिराट् भवात योधि- राडिति निष्पद्यत इत्यर्थः। अत्राप्युत्तरार्धवाक्यार्थेन पूर्वार्धवा- क्यार्थस्य समर्थनम्। वक्ष्यमाणपदार्थहेतुकस्यापीदमुदाहरणं भविष्यति॥ यथावा- इन्द्राधिकस्त्वदीयस्तन्द्राधिक एव भवति पर- कीयः। कथमनयोरैक्यं स्यादभिदधति तयोरि- तस्ततो भेदम् ॥ १५५१॥ इन्द्राधिक: इन्द्रादप्यतिशयितश्रीः। तन्द्राधिक: अधिकतन्द्र: अलस इत्यर्थः। तयोः त्वदयिपरकीययोः इतस्ततः तत्रतत्र भेदं, पक्षे तयोः इन्द्रधिकतन्द्राधिकशब्दयोः इतः इकारेण ततः तकारेण च भेदं वैलक्षण्यं अभिदधति। जना इति शेषः। तयोस्तावानेव भेदो नान्य इति भावः । अत्र अभिदधतीत्या दिवाक्यार्थेन उत्तरेण पूर्ववाक्यार्थसमर्थनम्। भगवदीयान्यदी-
Page 90
काव्यालेन्गसरः (६२) 79
ययोस्साम्यं गदितारं प्रत्युक्तिरूपतामभिप्रत्योति व्येयम्। अन्यथा तु पदार्थेन वाक्यार्थस्य समर्थनम्॥
गथावा- सङ्गस्य सतां महिमा निरवधिको5व्जाक्ष- सेविनां येन। दुसदग्रणीर्ययातिर्युच्युतिमानपि सदग्रणीरासीत्॥। १५५२॥।
अव्जाक्षसेविनां सतां सङ्गस्य महिमा निरवधिकः। येन सत्सङ्गमहिस्ना दुसदां दिवौकसां अग्रणी: ययातिः द्रुच्युतिमा- नपि त्रिदिवात्कनचिन्निमित्तेन भ्रप्टोऽपि सदग्रणीः सन्तः स्वदो हित्रा: प्रतर्दनशिबिप्रभृतयः अंग्रं नयन्तीयग्रण्यः उत्तारका: यस्य स तथोक्त एवासति। त्रिदिवान्जेश्यन् यायातिस्सद्भिरस्वदौहि- त्रैस्तारित इत्यैतिहासीकी कथा॥ यथा यायातिस्सन्मध्ये पतितः पुनराप्वान्। स्व:पद तत्तथा सत्सु पतितो न विमुह्यति। इत्यादिप्रमाणान्यत्रानुसंहितानिः। पक्षे दुसदग्रणीरितिशब्दः द्य इति वर्णसमुदयच्युतौ सग्रीरिति निष्पन्न इत्यर्थान्तरम प्यत्र चमत्कारि। अत्राप्युत्तरवाक्याथेन पूर्ववाक्यार्थसमर्थनम्॥
यथावा- त्वच्चरणमेव शरणं त्वनोऽपि वरिष्ठमिति वृणे झरणम्। सुगति ददाति यदिदं जगतां सुगतिप्र- दृस्य भवतोऽपि॥ १५५३॥
Page 91
80 अलङ्गारमणिहारे
हे भगवन् ! त्वञ्चरणमेव त्वत्तोऽपि वरिष्ठं शरणं रक्षकं इति मत्वा शरणं वृणे उपायतया वृणोमि। 1
उपाये गृहरक्षित्रोश्शव्दश्शरणमित्ययम्। वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥ इत्यहिर्धुन्नयसंहितोक्तः। यदिदं त्वचरणं जगतां सुगर्ति शोभनमुपाबं गम्य स्थानं उत्तमदशां वा प्रददातीति तथोक्तः। तथाविधस्य भवतोऽपि सुगति ददाति, उक्त एवार्थः । रमणीयं गमनमिति तु वस्तुस्थितिः। 'गतिः स्त्री मार्गदशयोर्ज्ञाने यात्रा- भ्युपाययोः' इति मेदिनी ॥ अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य समर्थनम्॥ यथावा- मा गास्तामससमतां माधवसकं कदाऽपि मानस भोः। सा न निवर्तेत ततस्सहस्त्रकृत्वो- 5्यघश्शिर:पतने ॥ १५५४॥
भो मानस! त्वं माधवविमुखं सत् कदाऽपि तामससमता तामसप्रकृतिभिस्तुल्यतां मा गाः। वैपरीत्ये अनिष्टमापद्येतेत्याह- सेत्यादिना। ततः तामससमतावाप्त्यनन्तर सा तामससमता सहस्रकृत्व: अधरिशिरःपतनेऽपि न निवर्तेत इति लोकोक्तिः। अतो मा तामसं भूरिति भावः। पक्षे सा तामससमतेति शब्द- व्यक्तिः । अर्थगतं स्त्रीत्वं शब्दे आरोप्यत इत्यसकृदवोचाम। सहस्रकृत्वः अधशशिरःपतनेपि वैपरत्यिप्राप्तावपीति यावत्। न निवर्तेत निवृत्तिप्रयुक्तवैलक्षण्यं नाप्नयादिति यावत्। पूर्वानुपू- र्वीविशिष्टैव भवतीति भावः। अत्राप्युत्तराधवाक्यार्थेन पूर्वा-
Page 92
काव्यलिङ्गसरः (६२) 81
र्धवाक्यार्थसमर्थनम्। अत्र तामससमतावाप्तिप्रतिषेधस्य माध- वसङ्गरूपपदार्थेन समर्थनं वा॥
यथावा- कुरु दीर्घाकारां श्रीः कृपां विहितसंप्रसारणां सदये। न तव ख्यायेत कृपा सुतरामयि संप्र- सारणाकरणे॥ १५५५॥
हे सदये श्रीः! दीर्घः आकारः स्वरूपं यस्यास्तां तथोक्तां कृपां करुणां विहितं कृतं संप्रसाराणं सुदूरव्यापनं यया सां तथोक्तां कुरु। मय्यविच्छिन्नां कृपां प्रसारयेत्यर्थः । मयि त्वन्कृपावलम्वैकार्थिनीति भावः। संप्रसरणाकरणे तव सुतरा शोभनतरा कृपा न प्रख्यायेत न प्रथेत। त्वत्कृपैकशरणे दीने माय त्वं कृपां न प्रसारयसि चेत्तव कृपायाः ख्यातिरेव नो- न्मिषेदिति भावः॥
पक्षे दीर्घ: अकारः अवर्णोऽन्ते यस्यास्तां आकारान्तामित्यर्थः। कृपां कृपेति शब्दव्यक्ति विहिंत वक्ष्यमाणसूत्रेणानुशिष्टं संप्र- सारण रेफरूपयणस्थानिकसंप्रसारणसंज्ञकऋरवर्ण यस्यास्तां तथो- कां कुरु। सुतरां अय इति छेदः। अयि श्ीरिति योजना। संप्रसारणाकरणे 'करपेस्संप्रसारणं च' इति बिदादङ्संनि- योगशिष्टसंप्रसारणस्य अकरणे कृपा कपेति शब्दव्याक्तिरेव तव सुतरां न ख्यायेत। न सिध्येदिति यावत्। अत्र पूर्वार्धवाक्यार्थस्य कृपासंप्रसारणावश्यकतारूपस्य तद्करणे तदख्यात्यापादनरूपो- ALANKARA-III. 11
Page 93
82 अलङ्कारमणिहारे
त्तरार्धवाक्यार्थेन समर्थनम्। अत्रापि पूर्ववदेव सदयत्वरूपप- दार्थो वा हेतु:॥
यथावा- त्वच्चरणशरणवरणादकुतोभ्यतामलप्स्महीदा- नीम्। कीनाशमनादरणात्कीशमिवेक्षामहे महेश वयम् ॥ १५५६॥
हे महेश! भगवन् ! यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलनिस्य य: परस्स मेहश्वरः ॥
इति श्रुतेः। अतएव 'महेश हातुं तव पादपङ्कजम्' इति यमुनाचार्याश्चाहुः। अलप्सममहि अलभामहि। इदानां ईदशला- भानन्तरमित्यर्थः । कीनाश कृतान्तं श्षुद्रमित्यपि गस्यते। 'कृतान्ते पुंसि कीनाश: क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः। अनादरणात् निर्ल क्ष्यमित्यर्थः । कीशमिव कपिमिवेक्षामहे आंंचित्करं मन्यामहे इति भावः । 'मर्कटो वानरः कीशः' इत्यमरः । पक्षे कीनाश- शब्दं नः नाकारस्य आदरणं नादरणं ततो नञ्रसमास: अनादरणं तस्मात् नाकारत्यागादिति यावत्। कीशं कीशशब्द ईझामहे। कीनाशशब्द नाकारोत्सारणेन कीशशब्द विद्य इत्यर्थः। इवशब्दो वाक्यालङ्कारे। स्पष्टमन्यत्। अत्र भगवञ्चरणशरणवरणनिबन्ध- नाकुतोभयत्वपाप्तिरूपपूर्ववाक्वार्थेन इदानीमित्यादेः कीनाशकी- शतादरशनरूपोत्तरवाक्यार्थस्य समर्थनम्। अथमेव पूर्वोदाहर- पोश्यो विशेषः। पूर्वत्र उत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं हि कृतम्।।
Page 94
काव्यलिङ्गसरः (६२) 83
यथावा- अग्रीयं शमवन्त शरणं विन्दामहे शरण्य त्वाम्। पुर एवाशमयुक्तं पुनश्शरण्यान्तरं भजेम कुतः ॥ १५५७ ॥
शरणे साधुः शरण्यः । तस्य संबुद्धि: हे शरण्य ! भगवन् अग्रयिं परार्थ्य निरतिशयमित्यर्थः। शं सुखं अवन्तं प्रापुव तं अवतेरवाप्त्यर्थकत्वेनानुशिष्टाच्छता। 'कं ब्रह्म स्ं ब्रह्म' इति निरतिशयविपुलसुखरूपत्वश्रवणात् 'सुखविशिष्टाभिधानादेव च' इति सूत्रितत्वादिति भावः । त्वां, यद्ा अग्रीयं उक्तोऽर्थ: शमवन्तं शान्तं अशनायाययर्मिपट्क्प्रतिभटमित्यर्थः। 'यत्तच्छा- न्तमजरम्' इति श्रुतेः । इह अस्मिन् जन्मनि शरणं उपायं रक्षितारं च विन्दामहे। पुनः इतःपरमपीति यावत्। पुर एव आदावेव अशं सुखतिहनं अत एव अयुक्तं आश्रयणानहै च। यद्वा अशमयुक्त अशान्तमित्यर्थः । शरण्यान्तरं अन्यं शरण्यं तु कुतो भजेम। न भजमवेत्यर्थः। पक्षे हे शरण्य! रक्षण- साधो अग्रीयं आद्य शे शकारं अवन्तं प्राप्तवन्तं त्वां भवन्तं शरणं गृहं लब्धवा पुर एव आदवेव अशं शकाररहितं अयुक्त शकारस्थाने अकारयुक्तं शरण्यान्तरं अरण्यान्तरमित्यर्थः। अन्तरं मध्यं कुतो भजेम। रक्षणसातु गृहं लब्ध्वा असुखमयुक्त अर- ण्यान्तरं कुतो भजेमेत्यर्थश्च चमत्कारी। अत्र शरण्यत्वादिगुण- शालिभगवच्चरणलाभरूपपूर्ववाक्यार्थेन अतादृशशरण्यान्तरभज-
तचमत्कारान्तरपोषितं चेत्यववेयम्।
Page 95
84 अलङ्कारमाणेहारे
यथावा- जगतां जननि भवत्या क्रमादनालोकितौ यदि भवेतोम्। नाकेशो वा सत्यं लोकेशो वाऽपि केशभूतौ स्तः । १५५८ ॥ हे जगतां जननि ! नाकेश: इन्द्रो वा लोकेशः ब्रह्मा वा। 'हिरण्यगर्भो लोकेशः' इत्यमरः। कमात् यथापूर्वमनुग्रहात् अना- लोकितौ अकटाक्षितौ भवेतां यदि तका केशभूतौ केशप्रायौ स्तः अतिवेलनिस्सारौ भवत इति भावः। पक्षे नाकेशशब्द्ो लोकेशशब्द्श्च क्मात् अनालोकितौ अविद्यमानौ ना लो वर्णो ययोस्तौ अनालोकौ 'शेषाद्विभाषा' इति कप्। अनालोकी कृतौ अनालोकितौ भवेतां यदि क्रमेण नाकेशशब्दो नावर्णेन लोकेशशब्दो लोवर्णेन च विराितौ चेदित्यर्थः। केशभूतौ केश- शब्दतया निष्पन्नावित्यर्थः । अत्र विवक्षिते लक्ष्मीकटाक्षलक्षि- तत्वाभावप्रतिषेधे उत्तरवाक्यार्थस्य हेतुत्वम्॥। यथावा- यो भाति वासुदेवः प्रथते यश्षापि वामदेव इति। श्रौतस्सुमतो भदोडस्त्यनयोरभिदां वदन्न किं मूर्ख:॥ १५५९॥ अनयोः वासुदेववामदेवयोः भेद: श्रीतः सुमतः 'नारा- यणाद्रुद्रो जायते' इत्यादिश्रुतिप्रसिद्धतया सर्वसम्मत इत्यर्थः । अनयोरित्येतन्मध्यमणिन्यायेनोभयतोऽन्वेति। अनयोः एवं भिन्न- त्वेन श्रुतिप्रसिद्धयोः अभिदां अभेदं वदन् जनः मूर्खों न कि मूर्ख
Page 96
काव्यलिङ्गसरः (६२) 85
एवेत्यर्थः । किंच वासुदेववामदेवशब्दयो: सुमतः सुकारमकाराभ्यां सार्वविभक्तिकस्तसिः। भेद: श्रौतः कण्ठरवेणोक्तः। अनयो: एवं विधयो: शब्दयोः अभेदं वदन् मूर्ख एवेत्यर्थान्तरमपि चम- त्कारातिशयमाधत्ते। अत्र यो भातीत्यादिपूर्ववाक्यार्येन अनयो- रभिदामित्यादयुत्तरवाक्यार्थस्समर्थ्यते।।
यथावा- वशिनं नारायणमिह वदन्ति सन्ततमनन्त- निगमान्ताः। यदि नशिवं तं ब्रयाद्यःकश्ित्स प्रतीपहङ्नूनम् ॥ १५६० ॥
अनन्ताः निगमान्ताः 'सर्वस्य वशी। एको वशी' इत्यादयः उपनिषदः संततं नारायणं 'एको ह वै नारायण असीत्। अथ पुरुत्रो ह वै नारायणोऽकामयत प्रजास्सृजेय' इत्यादि- श्रुतिभिस्सर्वजगत्कारणत्वेन जोघुष्यमाणमिति भावः। वशिनं वशः प्रभुतं आयत्तत्वं वा। सोऽस्यास्तीति वशी। तं तथोक्तं वदन्ति "वशो जनिस्पृहायतेष्वायत्तत्वप्रभुत्वयोः' इति विश्वः । 'जगद्शे वर्ततेदम' इत्यादिकमपीह स्मर्तव्यम्। तं एवं वशिनं सर्वेश्वरं य:कश्चित् नशिवं नशब्देन समासः। अकल्याणगुणं ब्रूयाद्यददि स एव वक्ता प्रतीपट्टकू नून विरुद्धार्थद्रष्टैव। सर्वे- श्वरत्वौपयिककल्याणगुणगणपरिपूर्णमप्यशिवं बूयाच्चेत्. तस्य श्रुतिप्रतिकूलार्थदक्त्वे कस्संदेह इति भावः। यद्वा सर्वे जगददा- यत्तमिति व्रवीतिश्रु तिः तस्य सर्वनियन्तुः 'नारायणाद्रुद्रो जायते' इति शिवस्यापि कारणतया तथैव श्रुत्या प्रतिपादितस्य 'शिवश्च नारायण: इति कण्ठरवेणोक्तं कार्यकारणत्वनिबन्धनं नियाम्यनि-
Page 97
86 अलङ्कारमाणहारे
यामकभावनिबन्धनं शरीरात्मभावनिबन्धनं वा सामानाधिकर- ण्यमविदित्वा तं नशिवं वरूयाद्यदि तस्य प्रतीपदर्शित्वे को विशय इति भाव:। पक्षे वशिनमित्यानुपूर्वीमत्पदं नशितमिति वदेच्चेत् सः प्रतिलोमदृष्टिरेव। उक्तानुपूर्व्याः प्रातिलोम्येन तथा निष्प- त्तेरिति भावः। अत्रापि वशिनमित्यादिपूर्ववाक्यार्थेन स प्रती- पद्दगित्युत्तरंवाक्यार्थस्य समर्थनस्। पूर्यस्मिनुदाहरणे भगवतो रुद्रस्य च निष्कृष्टरूपनिबन्धनो भेद उक्तः । इह तु शरीर- वाचकशब्दानां शरीरिपर्यन्तत्वनिबन्धनं कार्यकरणभावादिनिब- न्धनं वा सामानाधिकरण्यमवलम्व्याभेद इति बोध्यम्॥ यथावा- पद्मेऽत्यरुणरुचा तव चरणेन स्पर्धते तरण-
हे पझमे! अरुणं भानुमतिक्रान्ता अत्यरुणा रुक् भाः यस्य तेन अतिमात्रारुणभासा वा तव चरणेन तरणि: भातु: स्पर्धते। अत एव तमेनं तर्राण भास्वरतरमपि अतिद्युतिशालिनमपि विसर्जनीयानां बहिष्कार्याणां अग्रगण्यं आहुः। सन्त इति शेषः। त्वच्चरणस्पर्धिनोऽप्यन्यः को नाम बहिष्कार्य इति भावः। वस्तु- तस्तु एनं तरणिरिति शब्द भास्वरी तरौ तकाररेफौ यस्मिंस्तं विसर्जनीयः विसर्गः अग्रगः चरमभागविद्यमानः यस्य सः ताइशो णिः णिवर्ण: अन्ते यस्य तं विसर्जनायाअ्रगण्यन्तमाटुः तरणिशब्दस्य तथाविधत्वादिति भावः। शब्दार्थयोन्तादात्म्यम्। अत्रापि पूर्वार्धवाक्यार्थेनात्तरार्धवाक्यार्थसमथनम्। अप्रस्तुतप्रशं- सासंकीर्णम्।
Page 98
काव्यलिङ्गसर: (६२) 87
यथावा-
आदौ सश्रीकमथ त्वत्पदवसुहारिविप्रतीपम- लमू। कमलं कलमत्वमयच्छितान्यलिङ्गं वना- न्तरेऽवात्सीत् ॥ १५६२॥
हे पझे! इति पूर्वपद्यादनुषज्यते। कमलं आदौ सश्नककिं सशोभं सवैभवं वा सत् अथ अनन्तरं त्वत्पदवसुहारि त्वञ्च- रणश्रीहरं त्वन्भवनरुचिहरं च सत् अत एव विप्रतीपः अप्रति- द्वंद्वः मलः पापं मालिन्यं च यस्य तत्तथोक्तम्। जगजननीप- दसंपदपहारादन्यत्किमतिशयितं दुरितं स्यादिति भावः। विगतः प्रतीप: प्रतिकूल: यस्य तदिति विग्रहः। कलमत्वं चोरत्वं व्रीहिस- स्यत्यं च अगात् प्राप्नोत् । ततः अनन्तरं थ्रितं अन्यलिङ्गं चिह्ना- न्तरं येन तत्तथोकं वेषान्तरप्रतिच्छन्नपूर्वरूपमिति यावत्। वने क्वापि विपिने जले चावात्सीत् वसति स्म। पक्षे कमलमिति पदं आदौ सभीः क यस्य तथोक्तं प्रकाशमानकवर्णमित्यर्थः। अथ विप्रतीपौ मलौ मकारलकारी यस्य तत्तथोक्तं व्यत्यासित- मकारलकारमित्यर्थः। अत एव कलमत्वं कलमशब्दृत्वं अगातू। श्रित अन्यलिङ्गं लिङ्गान्तरं येन तत्तथोक्तम्। कमलशब्दत्वाव- स्थायां स्थितं क्ीवत्वं त्यक्त्वा पुल्लिकतां प्राप्तमित्यर्थः । 'कलमो लेखनीचोरशालिकाक्षुर केषु च' इति। कलमः पुंसि मेदिन्यां शाली पाटचरेऽपिच्त' इति विश्वमोर्दनीकाशाभ्यां कलमशब्दस्य पुह्लिङ्गतानुशासनादीति भावः। अत्रापि पूर्वोदाहरणवदेव सर्वे द्ष्टव्यम॥
Page 99
88 अलङ्कारमणिहारे
यथावा- कलयसि कमलविलोचन काश्चन सुतरांह- तिं हिताहितयोः। सर्वसमस्त्वं न कथ दर्वीकर- शेखराद्रिनाथ भवेः॥१५६३॥
हिताहितयोः काश्चनसुतरांहींत कलयसि। त्वं सर्वसमः कथमिव न भवेः । हितस्य जनस्य सुतरा शोभनतरा अंहतिः विश्राणनं काञ्चनस्य सुवर्णोपलक्षितविभवस्य सुतरांहतिः, तां 'अपसर्जनमंहतिः' इति विश्राणनपर्यायेष्वमरः । हन्ति दुरि- तमनया अंहतिः 'हन्तेरंहश्च' इत्यौणादिके अतिप्रत्यये हन्तेरंहा- देशः । अहितस्य तु काश्चन अनिर्वचनीयां सुतरां अतिमात्र- हति हिंसाम्। हन्तेः किन्। 'अंहतिस्त्यागरोगयोः' इति हेम- चन्द्रकोशपर्यालोचनायां तु यद्यपि अहितपक्षेऽ्यंहतिशब्दमेवा- दाय अंहति रोगमिति व्याख्यानेऽपि विवक्षितसिद्धिर्भवत्येव। त-
यद्ा पुंवाक्येषु नानार्थकत्वस्य दोषाभावादर्थद्वयमप्यस्तु। शिष्टं स्पष्टम्। अत्र पूर्वारधवाक्यार्थेन सर्वसमत्वमित्याद्यत्तरवाक्यार्थस्थ समर्थनम्। इंद हित हिताउृत्तितौल्यलक्षणतुल्ययोगितया श्रषप्र- तिभोन्मीलितया दत्तहस्तमिति ध्येयम्॥ यथावा- एका कुवलयबन्धुर्जगतां बन्धुः परा तु द्ृग्य- स्य। अस्मादृपि को बन्धुर्नमतां संभाव्यतां दया- सिन्धुः ॥ १५६४॥
Page 100
काव्यलिङ्गसरः (६२) 89
अत्र पूर्वार्धवाक्यार्थेन जगद्वन्घुभूतलाचनद्वितयवत्वरूपणोत्त- रार्धगतस्य भगवतश्शरणागतबन्धुतानिर्णयरूवाक्यार्थस्य कैमु- त्येन समर्थनमिि विच्छित्तिविशेषः॥ यथावा- त्वदपाङ्गान्वयभाजस्तदभाजश्रापि भवति पर- भेदः। आद्यो विष्टपभत्स्यादन्त्यः फणिशैलनाथ विष्टरभृत् ॥ १५६५॥ परभेद: उत्कृष्टो भेद: महान् भेद इत्यर्थः। पकाररेफाभ्यां भेद इत्यर्थोऽप्युपस्कार्यः। आद्यः त्वदपाङ्गान्वयभाक विष्पभृत् भुवनभर्ता लोकपाल इत्यर्थः। अन्त्यः तदभाक् विष्टरभृत् परेषां पीठाद्यासनभृत् किंकर इति यावत्। दर्भमुष्टिधारी इत- रयाजनादिकर्तेति यावदिति वा । 'विष्टरो विटपी दर्भमुष्टि: पीठाद्यमासनम्' इत्यमरः। लोकपालान्यकिंकरयमहान् भेद इति भावः। विष्टपभृद्विष्टरभृच्छव्दयो: पकाररेफाभ्यामेव भेदः। अन्य- वर्णानुपूर्व्या उभयत्र तुल्यत्वादिति परभेद इत्युक्तम्। अत्र पूर्वी-
द्वाभ्यां समर्थनं व्यतिरेकगभमिति पूर्वेभ्यो वैलक्षण्यम्॥। यथावा- दूरेऽपसर तमस्त्वं चक्रधरो मम चकास्ति हृदि नित्यम्। यदि चेष्टसेऽल्पमपि वा तवावशि ष्येत नोत्तमाङ्गमपि॥१५६६॥ हे तम इति तमोगुणाभेदेनाव्यवसितस्य राहोस्संवुद्धिः। अत्र तमसो दूशपसर्पण अनपसर्पणेन यर्तिकाचिदृपि चेष्टसे पूर्ववहुत्त- ALANKARA-III. 12
Page 101
90 अलङ्कारमणिहारे
माङ्गावशेषणमपि दुर्लभमित्येतौ पूर्वोत्तरवाक्यार्थी। चक्रधरो मे चकास्ति हदीति स्वहृदयाधिकरणकराहुशिरश्छेत्तुसुदर्शनायु- धधरभगवत्प्रकाशरूपवाक्यार्थेन मध्यमणिकल्पेन समर्थितावित्ये- केन वाक्यार्थेन वाक्यार्थद्वयसमर्थनं पूर्वे्वो विच्छित्तिशालि।।
मालारूपमपीदं दृश्यते। यथा- त्वां य उदास्ते माधव मदवृत्तिस्स मनुजो- डपि दनुजस्स्यात। नित्यमुपास्ते यस्त्वां दमवृ- च्तिस्स दनुजोऽपि मनुजस्स्यात् ॥ १५६७॥
हे माधव! मदवत्ति: मदे गर्वे वृत्तिर्यस्य स तथोक्तः । स मनुजोऽपि मानवोऽपि मत्ततया उदासितृत्वाद्दनुज एव स्यात् आसुरस्वभाव एव भेवत्। पक्षे मनुजशब्द: मकारस्थाने दका- रन्यासे दनुज इति निष्पद्येतेत्यर्थः । यस्तु त्वां नित्यं दमे दान्तत्वे वृत्तिर्यस्य स तथोक्तः । दकारस्थाने मकारन्यासे इत्यर्थः। स दनुजोऽपि मनुजः दमशीलत्वान्मनुजतुल्य एव भवेत्। पक्षे दनुजशब्दो मनुज इति निष्पद्येतेत्यर्थः । अत्र विवक्षितयोरुदा- सनप्रतिषेधोपासनावश्यकतयो: पूर्ववाक्यार्थयोरुत्तरवाक्यार्थाभ्यां समर्थनमिति मलारूपत्वम्। एवमुत्तरत्रापि यथायर्थं द्रष्टव्यम्।।
यथावा- आलोकितात्स्वया ये भवन्ति ते लोकपालभृत एव। ते पुनरलोकिता यदि जननि भवेयुः कपा- लभृत एव ॥ १५६८॥
Page 102
का्व्यलिङ्गसरः (६२) 91
अलोकिता: अदष्टाः, अविद्यमानः लोवर्णो येषां ते अलोकाः 'शेषाद्विभाषा' इति कप। अलोकाः कृताः अलोकिताः । अत्रापि पूर्ववदेव मालारूपत्वम् ।
यथावा- शममभिवर्धय सततं मम शङ्गामत्र यदि तनोषि त्वम् । कामो भविता वृद्धः क्षेमो मे स्यान्ततः कथं ौरे ॥ ५५६९॥
हे शौरे! सततं मम शमं शान्ति अभिवर्धय। अत्र शान्त्य. भिवर्धनविषये त्वं शङ्कां विशयं तनोषि यदि कामः विषयाभि- लाष: वृद्ध: अभिवृद्धो भविता। ततः अनन्तरं मे क्षेमः संसा- रोत्तारादिकुशलं 'कुशलं क्षेममस्त्रियाम्' इत्यमरः। कथं स्यात् विषयलोलुपतायां न कथचिदपि श्रेयस्सुलभमिति भावः। अत्र शं कां इति पदद्वय 'वा पदान्तस्य' इति शमो मकारस्थानि- कानुस्वारस्य वैकल्पिक: परसवर्णः। शं शमशब्दे शकारं कां काकारं तनोषि चेत् शमशब्द: कामशब्दो भवन् वृद्धस्स्यात्।
स्तदृद्धम्' इति वृद्धसंज्ञािधानात् ततः शकारस्थाने काकार- न्यासानन्तरं क्षेमः कथ स्यात् काकारन्यासे काम इत्येव शब्द- स्स्यान्न तु क्षेम इतीत्यर्थान्तरमप्यनुसंधेयम्। अत्र शमाभिव- धनौदास्यरूपवाक्यार्थेन कामाभिवृद्धिभवनरूपवाक्यार्थस्य तेन च क्षेमभवनसदेहरूपवाक्यार्थस्य च पूर्वपूर्वेणोत्तरोत्तरस्य सम- र्थनमिति मालारूपत्वम्।
Page 103
92 अलङ्कारमणिहारे
यथावा- मम चेतना विचेयाकाराऽच्युत यातनामयी अवभयतः । याचेकृतावभीतेः क यातना ता्ह चेतनैव स्यात्सा॥ १५७० ॥
हे अच्युत! मम चेतना बुद्धि: भवभयतः संसृतिभीतेः यात- नामयी प्रचुरतीव्रवेदना सती। प्राचुर्यार्थे मयट्। विचेयाकारा विचेय: गवेषणीयः आकार: आकृतिः यस्यास्सा तथोक्ता भवति। संसारोद्वेगजनितवदनाप्रचुरतया विनष्टप्राया भवतीत्यर्थः । अतः अभीतेः अभयस्य कृतौ करणे विषये याचे। अभयप्रदाने त्वां प्रार्थये इत्यर्थः । ततः कि तव सेत्स्यतात्यत्राह-क्केति। तर्हि तदा त्वदभयशनानन्तरमित्यर्थः। यातना पूर्वोक्तवेदना क्व स्यात् न स्यादेव, किंतु सा चेतनैव पूर्वोक्ता बुद्धिरेव स्यात् सत्तां लभेतेत्यर्थः । त्वदभयवितरणानन्तरं मम बुद्धिरस्तीति व्यव- हार्या भवेदिति भावः। पक्षे चेतना चेतनोति शब्दव्यक्ति: विचेयाकारा विभ्रंशितः चे: चे इत्याकारकवर्णः येन स तथोक्त: विचे: याकार: यावर्णः यस्यास्सा तथोक्ता विभ्रंशितचेकारा तत्स्थानप्रापितयावर्णा सतो यातनामयी 'तत्प्रकृतवचने मयट्' इत्यत्र तदिति योगविभागात्स्वार्थिको मयद्। यातनेति रूपं प्राप्ता भवतीत्यर्थः । अमोतेः विद्यमानवर्णभ्रंशनतत्स्थान- वर्णान्तरन्यसनाभ्यां शब्दरूपं विपरीतं स्यादिति भयराहि- त्याहिति भावः। याचेकताविति समस्तं पदम। यावर्णस्थाने चेवर्णकरणे बातना क। उक्तरीत्या याकारत्थाने चेकारन्यासेन यातनति शब्दरूंप क्व स्यात्। तत्स्वरूपस्यैव गतत्वादिति भावः।
Page 104
काव्यलिङ्गसरः (६२) 93
प्रत्युत सा पूर्वोक्ता चेतनैव चेतनेति शब्दव्यक्तिरेव स्यात्। यातनात्वं प्राप्ता चेतनेति शब्दव्यक्तिश्चेतनेत्येव सत्तां प्रपद्येत। आगन्तुकयाकारस्थाने पुनश्चेकारन्यासादिति भावः। अत्र भव- भययातनामूलकबुद्धिभ्रंशरूपवाक्यार्थेन भगवद्भययाचनरूपवा- क्यार्थस्य तेन च यातनानिवृत्तिरूपवाक्यार्थस्य तेन च चेत- नास्वास्थ्यरूपवाक्यार्थस्य समर्थनमिति ध्ययम्॥
यथावा- भवदव वल्गससि कियदिव दूरं स्फारं हरे: कृपापरम्। मयि सृत्वरमतिसत्वरमभिपश्य तदा विनश्यति मदस्ते ॥ १५७१॥ अत्र कृपापूरदर्शनेन वाक्यार्थेन मदविनाशवाक्यार्थः तेन भवद्ववल्गनोपसंहाररूपवाक्यार्थस्ससर्थितः । अत्र मध्यगतपू- र्ववाक्यार्थहेनुकोत्तरवाक्यार्थन तत्पूर्ववाक्यार्थसमर्थनम्। पूर्वों- दाहरणेभ्यो विशिष्टमिदं मालारूपं रूपकलकीर्ण चेति। पदार्थहेतुक काव्यलिङ्गं यथा-
तुन्नः पन्नगगिरिणा कनकगिरिर्मेरुरित्यूचे।१५७२।।
कनकगिरि: पन्नगगिरिणा तुन्नस्सन् शृङ्गेण विद्धस्सभ्नि- त्यर्थ:। कर्मणि निष्ठानत्वं च। अत एव मे मम अरुः वणमजनाति ऊचे उक्तयान। बूञ्: कर्तरि लिट 'त्रुवो वाचेः' इति वच्या- देशः। पक्षे मेर सुमेरुरिति ऊचे उच्यने स्म जनैरिति शेपः। कर्मणि लिद्। अत्र मेरुरित्यूचे इति वाक्यार्थस्तुन्न इति पढ़ा-
Page 105
94 अलङ्कारमणिहारे
रुक्त्युत्तभित: । यथावा- राजासनहृदयङ्गमवृत्तिरपि त्वयि निरासहृदय इह। जायेत जगदघीश्वर जानङ्गमवृत्तिरेव जन्तु- रहो॥ १५७३ ॥ राजासनेन राजाईसिंहासनेन राजासने वा हृदयङ्गमा हृद्या वृत्ति: स्थितिः यस्य स तथाभूतोऽपि त्वाय विषये निरासे औदास्ये तिरस्कारे वा हृदयं चित्तं यस्य स तथोक्त। हे जगदधीश्वर! जन्तुः जनङ्गमः अन्त्यजः तस्येयं जानङ्गमी वृत्तिः जीविका यस्य स एव भविता। त्वदुदासिता महाराजोऽपि 'यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्' इत्युक्तरीत्या चण्डालवृत्तिरेव भवे- दित्यर्थः। जनङ्गम इत्यत्र 'गमश्च' इति सूत्रेण संज्ञायां खचूप्र- त्ययः 'अरुर्द्वषद्जन्तस्य' इति मुम्। 'चण्डालप्नुवमातङ्गदिवा- कीर्तिजनङ्गमा:' इत्यमरः । जनाद्रच्छति दूरमपसर्पतीति जन- ङ्गम इति विग्रहः। तस्येयं जानङ्गमी अण्णन्तलक्षणडीष तादृशी वृत्तिर्यस्य। पुंवद्धावः । पक्षे राजासनहृदयङ्गमवृत्तिशब्द: निगताः रासहृदय इत्याकारका वर्णाः यस्य स तथोक्तः। अत एव जान- ङमवृत्तिरित्याकारकवर्णानामेव पारिशेष्याज्ञानङ्गमवृत्तिरिति नि- ष्पद्यत इत्यर्थः। अत्र राजासनहृदयङ्गमस्यापि जानङ्गमवृत्तिता- वाप्तिरूपवाक्यार्थः त्वयि निरासहृदय इति पदााश्यां समर्थितः। चमत्कारविशेषस्तु व्यक्त एव ॥। यथावा- तव सुतराम्बरहिततां स्ववर्णतोSम्बानुविन्दती
Page 106
काव्यलिन्सर: (६२) 95
कबरी। मधुरिपुहत्पद्माकरविलोडने बत करी भवति ॥ १५७४ ॥
हे अम्ब! सुतरा अतिमात्रशोभना तव कबरी स्ववर्णतः स्वकीयश्यामलिम्ा। सार्वविभक्तिकस्तसिः । अम्बराय व्योस्ने हिततां मित्रतां अनुविन्दती सती व्योमतुलनां प्राप्तवती सती। मधुरिपुहदेव पद्माकर: पझ्मानामावासभूतस्तटाक: तस्य विलो- डने विक्षोभणे करी भवति गजस्संपद्यते। तततुल्यो भवाते पटूभवतीति यावत्। पक्षे कबरी कबरीति शब्दव्यक्ति: सुतरां अतिमात्रं स्ववर्णतः स्वस्मिन्विद्यमानेवु वर्णेषु पूर्ववत्सार्वविभक्ति- कस्तसिः। वरहिततां ववर्णविधुरतां अनुविन्दती सती करी भवति कबरीशब्दो बवर्णराहित्ये करीति निष्पद्यत इत्यर्थः । अत्र कबर्याः करीभवनमघटमानं सुतराम्बरहिततामित्याद्यनके पदारथस्समर्थ्यते। इदं च श्लेषपरंपरितरूपकाश्यां परिपोषितमिति द्रष्टव्यम्॥।
यथावा- ननु दुग्धसागरः प्राक्कौर्मे रूपे्गमथनतो भग- वन्। समतानि दुग्धसारो भवता कौस्तुभरमे समाददता॥ १५७५॥ हे भगवन्! अगमथनतः अगेन मन्दरेण मथनं 'साधनं कृता' इति समासः। तस्मात् अगमथनतः अगमथनं कृत्वेति ल्यब्लोपे कर्मणि पश्चम्यास्तसिः। कौस्तुभः रमा लक्ष्मीश्चेत्येते समाददता स्वीकुर्षता 'लक्षणहेत्वोः' इति सौत्रनिर्देशेन
Page 107
96 अलक्कारमणिहारे
भवता दुग्धसागर: दुग्धसारः दुग्धः विरेचितः सार: स्थिरांशः यस्थ स तथोक्त समतानि। सारतमश्रीकौस्तुभादानेन दुग्घ सागरस्याखिलस्सारोऽपि दुग्ध इति भावः। पक्षे दुग्घसा- गरशब्द: रूपेगमथनत इत्यत्र गथनत इति छेदे गस्य गकारस्य मथनथः विलोपनादिति यावत् दुग्धसार: दुग्धसारशब्दः सम- तानि। गकारोत्सारणेन तथा निष्पादित इत्यर्थोऽपि चमत्कारी। अत्रापि अगमथनपूर्वककौस्तुभरमासमादानरूपैर्बहुभिः पदार्थैः दुग्धसागरस्याप्रसिद्धं दुग्धसारत्वं समर्थ्यते॥ यथावा- सूर्यकरः क्वचनार्यो भूत्वाऽनुकसङ्गमम्ब जह- दासीत्। अपरित्यक्ताद्योत्तमवर्णस्सूरीभवंसत्वद- ङ्विरुचि:ः।। १५७६।। हे अम्ब! सूर्यकर: भानुकिरण: क्वचन आर्यः कुलीनः न्याय्य: साधुर्वा भूत्वा 'गौर्यामार्या त्रिषु त्वेष कुलीनन्याय्यंसाघुषु' इति रतमाला। अनुकानां कामुकानां अनुकामयत इत्यर्थे 'अनुकाभिक' इत्यादिना अनोः कन्निपात्यते 'कमुके कामिता- डनुक:' इत्यमरः । विषयरसलालसानामिति यायत्। सङ्ग संबन्धं जहत् त्यजन् 'नाभ्यस्तात्' इति दुम्निषेधः। अपरित्यक्तः अद्यः प्रथमभवः अत एव उत्तमः श्रेष्ठः वर्णों यस्य स तथोक्त: अनुपेक्षितव्राह्मणवर्णः आभ्यां प्रतिकूलवर्जनानुकूलावर्जन दर्शिते। ब्राह्मणवर्णोचिताचारशील इति यावत्। यद्ा क्वचनार्य इत्यत्र क्वचन अर्यइति छेदः। अर्यः वैश्यो भूत्वा 'अर्यस्स्वामिवैश्ययोः' इति निपातनात्साधुः 'स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः। अनु-
Page 108
काव्यलिङ्गसरः (६२) 97
कसङ्गति जहत् उक्त एवार्थः। अपरित्यक्ताद्यात्तमवर्णः अपरित्यक्तौ अनुसृताविति यावत्। तादशौ आद्यौ स्वापेक्षया पूर्वो उत्तमौ स्वस्माद्वरिष्ठौ वर्णी ब्रह्मक्षत्रवर्णी येन स तथोक्तः । ब्रह्मक्षत्र- वर्णमानयितेति यावत्। अत एव सूरीभवन् असूरिस्सूरिस्संप- दयमानो भवन् ब्रह्मविद्भवन् त्वदङ्गी रुचिरभिरतिर्यस्य स तथोक्त: आसीत्। पक्षे सूर्यकरशब्द: क्वचन अर्यः अविद्यमानर्यवर्णः भूत्वा अनुकसङ्गं अनु अनन्तरविद्यमानस्य कस्य कवर्णस्य सङ्ग जहत् र्यक इति वर्णसमुदयं त्यजन्नित्यर्थः। अपरित्यक्तौ आद्यः प्राथमिक: उत्तमः अन्तिमश्च आद्योत्तमी वर्णो सूर इत्याकारकौ वर्णी येन स तथोक्त: 'उत्तमौ प्रवरान्तिमौ 'इति रत्नमाला। 'उत्तमं च नैदाघम्' इत्यादयः प्रयोगाश्च। अत एव सूरीभवन् असूरसूर- स्संपद्यमानो भवन् सूर्यकरशब्द: र्यकवर्णत्यागे सूर इति निष्पन्र इत्यर्थः। त्वदङ्गे: रुचिरिव रुचिर्यस्य स तथोक्त इति वस्तु- स्थितिः। शब्दार्थयोस्तादात्म्येन सूरशब्दस्य श्रीचरणतुल्यत्वमित्य- वधेयम्। अत्र सूर्यकरस्य सूरीिवनमप्रसिद्धतया समर्थनसापे- क्षमनेकपूर्वपदार्थसमर्थितम्। श्लेपमूलाभेदातिशयोक्त्युत्तम्भित- त्वादिकश्चमत्कारस्तु व्यक्त एव।। यधावा- स्वर्ण स्वस्मादुत्तमवर्ण श्रीदेहमधमवर्ण स्वं च। अवयन्तमुत्तमर्ण विदधत्स्वस्याघमर्णमभवत्स- र्णमू ॥ १५७७॥
स्वर्ण कनकं कर्तृ। श्रियो देहं दिव्यविग्रहं स्वस्मात् उत्त- मधर्ण स्वं च आत्मानं च अधमवर्ण निकृष्टवर्ण अवयत् जान- ALANKARA-III, 13
Page 109
98 अलङ्कारमणिहारे
तसत्। अवपूर्वादिणश्शतरि 'इणो यण्' इति यणादेशः। तं श्रीि- व्यदेहं स्वस्य आत्मनः उत्तमर्ण वर्णरूपऋणप्रयोक्तारं विदधत् तन्वत्सत् 'लक्षणहेत्वो' इति शता। उत्तमर्णकरणेन हेतुने- त्यर्थः। अधमर्ण वर्णरूपऋणग्राहकं अत एव सर्ण ऋणसहित- मेवाभूत्। न तु त्वत्प्रत्यर्पणक्षममिति भावः। स्वर्णमिति नाम्ना स्वत पव ऋणवत्वं च प्रतीयते॥ पक्षे-स्वर्णमिति पदं कर्तृ उत्तमवर्णमिति पदं अवयत् अवि- द्यमानवकारं कुर्त् उत्तमर्णमिति कुर्वत्। अधमवर्णमिति पदं तथा कुर्वत् अधमर्ण आत्मानं स्वर्णमिति पदं तथा कुर्वत् सर्ण चाभूदित्यर्थान्तरं चमत्कारमतिशाययति। अत्र स्वर्णस्याघमर्ण- त्वादिकमलैककिकतया संमर्थनापक्षं स्वस्मावुत्तमवर्णमित्यादिप- दार्थैस्समर्थ्यते। तञ्थ लक्ष्मीदिव्य विग्रहस्वर्णयोरुत्तमर्णत्वाघमर्ण- त्वासबन्धेSपि तत्संबन्धवर्णनरूपातशयोक्तिप्रसादसमासादित- साम्राज्यमिति व्येयम्। 'उत्तमर्णाधमणौ द्वौ प्रयोक्तृग्राहकौ क्रमात्' इत्यमरः॥
यथावा- त्वद्वचनसुधाहरणात्स्वाद्यस्समजनि सुधाकरो भत्वा। स्वाद्यः कर्थन्वितरघा सोऽयं स्यात्कुमु- दबान्धवो वान्तः ॥ १५७८॥ हे भगवन्निति प्रकरणाल्लभ्यते। कुमुदबान्धवः चन्द्रमाः त्वनचनसुधाया: हरणालू अपहारादेव सुधाकर: सुधाया: आकरः स्थानं भूत्वा। पक्षे सुधाकरः अमृतकिरण इत्यर्थः । स्वाद्यः आस्वादनीय: सुकार: आद्यवर्णो यस्य स तथोक्त इति तत्त्वम्।
Page 110
काव्यलिङ्गसर: (६२) 99
शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम्। समजनि अजायत इत- रधा प्रकारान्तरेण उक्तवैपरीत्येनेत्यर्थः। वान्तः वमनकर्मीभूतः ऊद्धीर्ण इत्यर्थः । सोऽयं कुमुदबान्धवः चन्द्रमा: पक्षे कुसुदबा- न्धवशब्दश्च तस्यान्ते वकारश्रवणात् वान्तत्वं बोध्यम। कथं स्वाद्यस्स्यात्। वान्तस्य वस्तुनः कथमितरैरास्वाद्यत्वं स्थात् अन्तरा त्वद्वचनसुधाहरणहेतुकसुधाकरत्वप्राप्तिमिति भावः। पक्षे कुमुदबान्धवशब्दस्य वान्तत्वं संभवेत् न तु स्वाद्यत्वं, तस्य क्वादत्वादिति भावः। अत्र वान्तस्य कुमुदवान्धवस्य स्वाद्यत्वा- न्यधानुपपत्या भगवद्चनसुधाहरमहेमुकसुधाकरत्वं कल्प्यत इति वक्ष्यमाणार्थापत्तिरूपप्रमाणालंकारो महावाक्यार्थः। तत्रा- वान्तरवाक्यार्थद्वयं चन्द्रमसस्स्वाद्यत्वसमर्थने भगवद्चनसुधा- हरणहतुकसुधाकरत्वं स्वाद्यत्वाक्षेपसमर्थने वान्तत्वं चेति पदाथों हेतू इति काव्यलिङ्गद्वयरूपमिति विशेषः । श्रेपोत्तम्भितत्वेन चमत्कृतिविशेष: पूर्ववदेव। वस्तुतस्त्विदमर्थापत्तेरेव प्राधान्या- त्तदुदाहरणतार्हमेवेतिं युक्तम्।। यथावा- त्वद्वर्णोत्कर्ेप्सं साध्वस्तमथापि तत्र सङ्गमि- तम्। कासारजमखिलेश्वरि कासरजं को नु वा न जानीयात् ॥ १५७९ ॥ हे अखिलेश्वरि! कालारजं सरसिजं त्वद्वणादपि उत्कर्षे ईप्सा अप्तुमिच्छा यस्य तत्तथाकनू। तव वर्णोत्कर्षे ईप्सा- स्येति तथोकं था। जव एन सद्ध यथा तथा अस्तं त्वया निरस्तं पक्षे कासारजमिति यद साध्यस्तं ध्यस्तप्तावर्णमित्यर्थ:। अथापि एवमापि तत्र त्वद्वर्णोत्कर्षेप्सायां सङ्ग अभिपङ्ग इतं प्रार्प्त
Page 111
100 अलङ्कारमणिह्दारे
इण: कर्तरि कः। तत्र व्वस्तस्य साकारस्य स्थाने साधु यथा तथा सं हस्वसकारं गमितं प्रापितं कासरजं महिषजातं कास- रजशब्दं च कोनु वा न जानीयात्। अदौ दुर्लभवस्तुविशेषप्रे- दसया प्रवृत्तस्सम्यक्पराहृतश्च सन् महिषतुल्यमतिर्न चेत्कोवा तदर्थ पुनः प्रवर्तेतेति भावः। अत्र कासारजस्य कासरजत्वम- लौकिकतया समर्थनसापक्षमनेकैः पूर्वपदार्थैस्समर्थयते। चमत्का- रान्तंर तु स्फुटमेव॥
यथावा- संख्यावतां कुलं त्वय्यनुरक्तं स्वान्तरे शमुप- यातम्। निशश्रेयससाम्राज्यं साधयितुं कुशल- मेव भवति हरे॥ १५८० ॥
संख्यावतां विदुषां कुलं बृन्दं त्वययि अनुरक्तं अत एव . स्वान्तरे निजचित्ते शं सुखं आनन्दं उपयातं सत् निःश्रेयस- साम्राज्यं साधयितुं कुशलमेव भवति। पक्षे कुलमिति पंद स्वान्तरे वर्णद्वयात्मकस्य स्वस्य मध्ये शं शकारं उपयातं सत् कुशलमित्येव निष्पद्यत इत्यर्थ । अत्र संख्यावत्कुलस्य निशश्रेय- ससाम्राज्यसाधनकुशलत्वं त्वथ्यनुरक्तमित्यादिपदार्थहेतुकम्।
यथावा-
हृदयम्। अरिगणशरकिणदन्तुरमत्यन्तं मयि कठोरमित्युचितम् ॥ १५८१ ॥
Page 112
काव्यलिङ्गसरः (६२) 101
अत्र श्रीनिवासहृदयकठारत्वं प्रस्तरवरेत्यादि-अरिगणेत्यादि- पदार्थाभ्यां समर्थितम् । यथावा ममैव श्रीह्यवदनस्तुतौ- अमृतकरे वससि हरे क्षीररुचिस्त्वं निसर्गतो मधुरः। तव सैन्धव इति वादो भविता कण्ठोप- रीत्युचितमेव ॥ १५८२ ॥। हे हरे! श्रीह्यवदन! अमृतकरे सुधाविधायके पीयूषकिरणे इति तु तत्वम्। वससि। अनेनागन्तुकं माधुर्यमुक्तम्। निसर्गतः स्वभावत एव मधुर: मधुररसविशिष्टः जगतां प्रिय इति तु तत्वम्। 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । अत एव क्षीरस्य दुग्धस्य रुचि: स्वादिमेव रुचिः स्वादिमा यस्य स तथोकः। तव ईदशस्य सैन्धवः लवणमिति वाद: उ्तिः कण्ठोपरि कण्ठादूर्ध्व प्रतृत्तः अहृदय एव। न तु हृदयपूर्वक इत्युचितमेव। अतिमात्रमघुरस्य लवणमिति कथनं करथ मनःपूर्वकं भवेदिति भावः। परमार्थतस्तु- सैन्धवः अश्व इति वाद: कण्ठाडडुपरि तव हयास्यत्वादिति भावः। 'सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिपु' इति रत्नमाला। अत्र अमृतकरे वलस्तिति वाक्यार्थेन क्षीररुचि: निसर्गतो मधुर इति पदार्थाभ्यां च सैन्धवतावादस्य कण्ठा- दुपरि प्रवृत्तत्वौचित्यरूपस्य समर्थनमिति विशेष:। क्वचित्पदार्थवाक्यार्थी परस्परसापेक्षी हेतुभाव भजतः ।यथा- तज्जयतु कनकमकुटं यज्जगदीशो विभर्ति शिरसैव। कनकगिरिणाऽस्य तुलना सकलसुरै- रप्यधःकृतेन कथम् ॥ १५८३॥
Page 113
102 अलङ्कारमणिहारे
अत्र कनकगिरेभर्गवत्किरीटसाटश्याभावे यजगदीशो बिभर्ति शिरसैवेति वाक्यार्थः सकलसुरैरप्यधःकृतेनेति पदार्थश्चेत्युभयं संभूय हेतुतामश्नते। ननु सकलसुरैरप्यधःकृतेनेति पदार्थः कनक. गिरिनिष्ठत्वेन तन्निष्ठे भगवत्किरीटसादृश्याभावे हेतुभावं भजतां, यज्जगदीशो बिभर्तीति वाक्यार्थस्तु तदवृत्तितया कथ नाम तत्र हेतूभवितुमर्हतीतिचेत् साध्यकिरीटसादृश्याभावानुप्रविष्टकिरीट- गततयोपनिबध्यमानो वाक्यार्थस्तथाविधकिरीटघटितसाम्याभाव- प्रायोजकतया हेतुरित्युभयं संभूय हेतुतां भजत इति गृहाण॥ यथावा- निर्विद्येऽहमविद्ये विद्येत मया न ते सुखल- वोदपि। विजहीहि मामकिंचनमकिंचनजनाश्रयं श्रितं कंचित् ॥ १५८४ ॥
निर्विद्ये निर्विण्णोऽस्मि। अकिचनजनानां दरिद्राणां उपाया- न्तरविधुराणां च आश्रयं कंचित्पुरुषं भगवन्तमिति वस्तुसस्थिति: अन्राविद्याया: स्वपरित्यागे पूर्वार्धवाक्यार्थः, अकिंचनजनेत्या- दिपदार्थश्चेत्युभयं हेतुः। वाक्यार्थपदार्थयोस्सापेक्षताविरहेऽपि हेतुत्वमिति पूर्वस्माद्विशेषः। समासत्रोक्तिसंकीर्ण चेदमित्यपरो- पि विशेषः।। यथावा- वितरति बहुप्रसादो विपुलां विनताय संपर्द भगवान्। ननु कथमिव नित्यश्रीरसान्वितोऽयं बहुप्रदो न स्यात् ॥ १५८५ ॥
Page 114
काव्यलज्गसर: (६२) 103
भगवान् बहुप्रसादस्सन् विनताय विपुलां संपदं वितरति। नित्यश्रीः अयं रसान्वितः अनुग्रहान्वितश्चेत् कथमिव बहुप्रदो न स्यात् श्रीसमृद्धिमत्वे अनुग्रहशालित्वे च विनताय बहु- प्रदानं नाश्चर्यमिति भावः। पक्षे बहुप्रसादशब्दः नित्यश्रीः असा- न्वित इति छेदः। असान्वितः सा इत्याकारकवर्णहीनश्चेत् बहुप्रद इत्येव श्रयत इत्यर्थः । अत्र विनतोद्देश्यकविपुलसंपत्प्रदानरूप- वाक्यार्थो बहुप्रसाद इति पदार्थेन ननुकथमिवेत्युत्तरवाक्या- थेन च समर्थ्यत इति विशेषः । उत्तरवाक्यार्थेऽपि नित्यश्रीः रसान्वित इति पदार्थाभ्यां बहुप्रदृत्वं समर्थ्यत इत्यपरोऽपि विशेषः । चमत्कृतिविशेषस्तु स्फुट एव ।। क्कचित्समर्थनीयार्थसमथनार्थे वाक्यार्थे पदार्थो हेतु:। यथा- विषयचलः प्रागधुना त्वह्गुणविवशस्तवेश न स्मर्ता। आनन्दनिमग्रोऽग्रेऽप्यागस्करणं त्रिरस्य सह्यमिदम् ॥ १५८६॥ अत्र त्रिरागस्करणं समर्थनीयम्, अस्फुटहेतुकत्वात्। तत्स- मर्थन च भगवद्धिस्मरणरूपैवाक्यार्थनिवद्धम्। तत्र प्रतिवाक्यार्थ विषयचलत्वाद्यस्त्रयो हेतवः पदार्थरूपाः। तवेत्यत्र 'अधीगर्थ' इत्यादिना षष्ठी। न स्मर्तेत्यत्र अयमिति अहमिति वा सह्य- मित्यत्र त्वयेति चाध्याहार:।। यथावा- प्राह्लादिमबभ्रास्त्वं मुग्धोSतितराममूमुचः क-
Page 115
104 अलङ्कारमणहारे
ङम। स्वातंत्रयदौर्ललित्यं सोढा कोऽच्युत तवे- श्वरस्थापि ॥ १५८७॥
हे अच्युत ! अतितरां मुग्धः मूढ: सौम्यश्च त्वं 'मुग्धस्सौम्ये नवे मूढे' इति रत्नमाला। प्राह्लादिं प्रह्लादगोत्रापत्यं बलिं अबध्ञाः वरुणपाशैरिति शेषः । प्राह्लादिमित्यनेन अतिमात्रान्तरङ्गता द्योत्यते कङ्क जटायुं अमूमुचः अमोचयः मुक्तभवबन्धमकरोः।कङ्कमित्यनेन तिर्यक्तया अतिवेलोदासीनता द्योत्यते। किंच कमपि कमपीत्य- ज्ञातशी।लमतिवहिरङ्गमित्यर्थोऽपि व्यज्यते। अत्र भगवतः स्वात- तचदौर्ललित्यं समर्थनसापेक्षं, अव्यक्तहेतुकत्वात्। तत्समर्थनं
क्रियते। तत्र प्रतिवाक्यार्थ मुग्ध इति पदार्थों हेतुः॥ यथावा- भव्यगुणायत्तोSविदमीश्वरमात्मानमेव पूर्वम- हम। न्यस्तभरोऽपि तथैवेत्यच्युत मन्तुद्वय क्ष- मेथा मे ॥१५८८॥
पूर्व भरन्यसनात्प्राक् अहं भव्या: भवे साधवः 'तत्र साधुः इति यत्। संसारीपयिका इति यावत्। ये गुणाः रजःप्रभृतयः तेषु आयत्तः अधीनः । यदा भवी अगुणायत्त इति छेद: भवी संसारी अहं अगुणायत्त: अगुणा: अप्रशस्तगुणाः मात्स- र्यादयः नञत्रापाशस्त्ये। यद्ा भगवत्कटाक्षलाभौपयिकशान्त्या. दिगुणाः तेषामनधीनस्सन्नित्यर्थः । आत्मानं मामेव ईश्वरं त्वां अविदं अहमेव ब्रह्मेति स्वस्वरूपादभिन्नमविदम्। यद्ा 'ईश्वरो-
Page 116
काव्यलिज्सरः (६२) 105
Sहमहं भोगी' इत्युक्तरी्या स्वतन्त्रात्मभ्रमवानस्मीत्यर्थः। न्यस्त- भरोऽपि त्वय समर्पितात्मात्मीयरक्षाभरोऽपि तथैवाविदम। भव्य- गुणायत्तः आत्मानमेवेश्वरमश्ञाससिषमित्यर्थः । इति एवंप्रकार भरार्पणपूर्वोत्तरकालकृतं मे मम मन्तुद्वयं अपराधयुग्मं क्षमेथाः । वास्तवार्थस्तु-भरन्यसनोत्तरं भव्या: कल्याणाः ये गुणाः सौशी- ल्यादयस्तावका: शान्त्यादयो मामकाश्च तेष्वायत्तस्सन् आत्मा- नमेव ईश्वरमविदं परमात्मानं त्वामेव शेषिणमश्ञासिषम्। यद्वा आत्मानं प्रत्यगात्मशरीरकं ईश्वरमविदम्। ईश्वरशरीरभूतमा- त्मानमविदमिति भावः ।' अनेन स्वतन्त्रात्मभ्रमो निवर्त्यत। अत्र तावदपराधद्वयं समर्थनीयमस्फुटहेतुकत्वात्। तत्समर्थनं व भरार्पणपूर्वापरकालयोरैकरुप्येण श्वेषमूलकेन यत् आत्मन ईश्वरत्ववेदनं तद्रूपाभ्यां वाक्यार्थाभ्यां क्रियते। अत्र वाक्यद्वयेऽपि भव्यगुणायत्त इत्येष उक्तरीत्या एकपदार्थोऽनेकपदार्थो वा हेतुः क्षेषभित्तिकाभेदाध्यवसायानुप्राणितत्वं पूर्वता विशेषः।। क्वचित्समर्थनीययोरन्योन्यमविरुद्धयोरुभयो: क्रमाडुभौ हेतु- भावं भजेते।
यथा- यस्य रमां दयिततमां तनयं प्रतिलोमतद- भिधावाच्यम्। आहुस्तस्य तवाच्युत विभवं रूपं च को गदितुमीष्ठाम् ॥ १५८९ ॥
प्रतिलोमा व्यत्यस्ता तस्या रमायाः अभिधा आख्या तस्या: वाच्यं अभिधेयं मारमित्यर्थः। अन्र भगवद्विभवरूपयोर्निरतिश- ALANKARA-III. 14
Page 117
106 अलङ्कारमणिहारे
यत्व यस्य रमां दयिततमां तनयं प्रतिलोमतत्पदार्थ चेत्युभौ. हेतुतया निबददौ।। क्कचित्परस्परविरुद्धयोई्वयो: करमाडुमौ हेतुभावमश्नवाते।
यथावा- श्रुतनक्राक्रान्तद्विपदीननिनादो हरे भवानथ च। प्रविमृष्टतदैकान्त्यः खेदं मोदं घ युगपद- गातू॥ १५१०॥
हरे! इति संबोधनं गजेन्द्रमोक्षार्थगृहीतावतारत्वज्ञापनाय । ऐकान्त्यं भगवलेकस्मिन्नेव अन्तः शरण्यत्वेन निश्चयो यस्य स एकान्तः तस्य भाव: ऐकान्त्ं, एकश्रासावन्तश्च एकान्तः सोऽस्यास्तीत्येकान्ती तस्य भाव इति वा। तत् प्रविसृष्टं सम्य- ग्विचारितं थेन स तथोकः । अत्र भगवतः युगपत्खेदमोदयोः परस्परविरुद्धयो: कमात् नक्राक्रान्तगजेन्द्रार्तनिनादश्रवणं तदी- यैकान्त्यविमर्शनं चेत्युभौ पदार्थो हेतुतया निबद्धी।
यथावा- आकाड्डितावलोकं लोकाधीशं चिराद्विलोकि- तवान्। निर्वेदं खर्वेतरमविन्दमप्यहममन्दमान- न्दम् ॥ १५९१ ॥
अपेक्षितदर्शन सर्वलोकेश्वरं श्रीनिवासं चिराय पशयतो मम इयन्तमपि समयं वृथैव ईद्ृशदिव्यमङ्गळविग्रहनिर्वर्णनं नाघटतेति
Page 118
काव्यलिङ्गसरः (६२) 107
निर्वेद: तल्ाभेनानन्दः। अत्र निर्वेदानन्दयोई्वयोविरुद्धयोर्भगव- द्विलोकनमेकमेव हेतु:॥
अत्र दरक्षिता :- ननु साभिप्रायपदार्थवाकयार्थविन्यसनरूपा- त्परिकरादस्य काव्यलिङ्गस्य को भेद इतिचेत् शूयताम्। परिकर पदार्थवाक्यार्थबलात्प्रतीयमानावर्थौ वाक्योपसकारकतां भजतः। काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजत इति भेद:। तथाहि 'सुधांशुकलितोत्तंस' इत्यादौ विशेषणबलात्प्रतीयमानस्य तापनिवारकामृतकिरणसव्निधानस्य तापहरणरूपवाच्योपस्कार- कता, न तु पदार्थवाक्यार्थयोस्तत्रोपस्कारकता। अतस्तत्र काव्यलिङ्गासंभवात्परिकर एव युक्तः । काव्यलिङ्गे तु पदार्थ- वाक्यार्थयोरेव हेतुत्वं न तु प्रतीयमानार्थापेक्षा। 'सुखालोकोच्छे- दिनि। अग्रेऽव्यनतिमान्' इत्यादिपदार्थवाक्यार्थहेतुककाव्यलिङ्गो- दाहरणे च सुखालोकोच्छेदित्वोत्तरकालानमनरूपाभ्यां पदार्थवा- क्यार्थाभ्यासेव प्रतीयमानार्थनैरपेक्ष्येण वाच्यार्थस्य समर्थनावु- भयोर्विविक्तविषयतया भेद इति वदन्ति। एवं प्राचामनुरांधेन काव्यलिङ्गं प्रदशितम्॥
रसगङ्गाधरकारस्तु -- "अनुमितिकरणत्वेन सामान्यविशेष- भावाभ्यां चानालिक्गितः प्रकृतार्थोपपाठकत्वेन विवक्षितोऽर्थः का- व्यलिङ्गम्। उपपादकत्वं च तन्निश्वयजनकज्षानविषयत्वम्। अनु-
उपपादकत्वेनेत्यन्तम्। पश्चम्यादिशब्दप्रतिपादवितहेतुताकस्य हे- तोरेव वारणायोपपादकत्येन विवक्षित इति। न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम्। तेन 'भयानकत्वात्परिवर्ज- नीयो दयाश्रयत्वादसि देव संव्य:, इत्यादौ नायमलंकारः।
Page 119
108 अलङ्कारमणिद्दारे
गम्यमानहेतुताकस्यैव हेतोर्सुन्दरत्वेनालकारिकैः काव्यलिङ्ग- ताया अभ्युपगमात्। तञ्ञ सुबन्ततिङन्तार्थत्वाभ्यां तावद्विवि- धम्। आद्यमपि शब्दान्तरार्थविशेषितशरीरं शुद्धैकसुबन्तरूपं चेति द्वेधा। अत्राप्याद्यं साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति द्विभेदम्। तिङन्तार्थभूतमपि साक्षा- त्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति द्विप कारम्। शुद्धभेदस्तु तिङन्तार्थस्थ न संभवाति। क्रिियाया: कार- कविशेषितत्वावश्यंभावात् " इत्याह। तत्प्रकारेणोदाहरणानि-
अञ्जलिमात्रचिकीर्षोस्त्वं जगदधिकां श्रियं दृदद्गगवन्। जानन्नालं तदिदँ वदान्यमूर्धन्य इति नुतौ त्रपसे ॥ १५९२ ॥ अत्र ह्यनितरसाधारणत्वन वर्णितायाः भगवतःश्रीनिवासस्य वदान्यमूर्धन्यताप्रयोज्यलजाया आपाततोऽघटमानाया उपपाद- नाय अ्जलिचिकीर्षुमुक्त्यैश्वर्यदानसमानाधिकरणः पर्याप्त्यभा- वस्सुबन्तमात्रार्थविशेषितात्मा सुबन्तार्थो हेतुत्वेनोपनिबद्धः।। ननु 'लक्षणहेत्वोः' इति सूत्रविहितशत्रन्तेन जानत्नित्यनेन साक्षाद्वेतोरभिधानात्कथंकारं काव्यलिङ्गम्। तादृशहेतुवाचकप- देन हेतोरभिधाने तदनवतारस्य सर्वालकारिकसंप्रतिपन्नत्वादिति चेन्मैवम। तद्विहितरशता न हेतुवाचक: येनैवं शङ्कचेत। किंतु तद्योतकः। तथाच तत्सूत्रशेखरग्रन्थः। 'इह लक्षणादि द्योत्यं शत्राद्यर्थस्तु कर्त्रादिरेव' इति। एवं शानजन्तहेतुस्थलेSपि बोध्यम्। अतएव 'यदा पुनः पदार्थस्य हेतुत्वं तदा यदि तृतीयान्तं पश्चम्यन्यं वा पदमुगादीयते तदा हेतुमात्रं नालंकार:, यदा तु
Page 120
काव्यलिङ्गसरः (६२) 100
विशेषणद्वारा कारणोपनिबन्ध: तदा गदार्थवृत्ति काव्यंलिङ्गम्' इत्येकावळीकारेण तृतीयापश्चमीचिभक्त्यन्तयोरेवेहशस्थले देतु- त्वमसुन्दरमिति कण्ठत एव वर्णितम्। अतएव रसगङ्गाधरका- रस्य 'इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना- सर्वेषामघमथनदर्प दलयसि' इति काव्यलिङ्ोदाहरणं दर्शयतः पतित्रीकरणस्यान्याघदर्पदलनसम र्थकतोक्तिस्सगच्छते। अस्य चायमभिप्रायः-हेतोशशाब्दतायामेव न काव्यलिङ्गावतारः 'लक्ष- णहेत्वोः' इति विहितशतृशानजन्तस्थले हेतुहेतुमन्भावस्य संस- रगतया तृतोयापञ्चम्यन्तस्थल इव हेतोर्न शाब्दत्वमिति। यद्यपि पुनानेत्यत्र ताच्छील्यार्थे शक्त्यर्थे वा चानशा निर्वाहस्सुकर: तस्याहेत्वर्थकत्वात्। तथाऽपि 'नमन्मुक्तस्संप्रीत' इत्यादौ हेत्व- र्थविहितशत्रन्तस्य नमन्नित्यादिपदस्य मुक्तत्वं प्रति हेतुत्वव- र्णनात् शतुहेतुत्वमशाब्द्रमित्येवावसेयम्। न हि चानश इवास्य शतुस्ताच्छील्याद्यर्थकत्वेनान्यधासिद्धिश्शक्या कर्तु, तादशानु- शासनादर्शनात्। एवमुदाहतसूत्रविहितशानजन्तस्थलेऽपि द्रष्ट- व्यमित्यन्यत्र विस्तरः ॥ यथावा- उपगूहितादधी यन्नुदधिसुताकुचयुगात्कठरत्व- म्। तद्वारयन् हद़ी हरे दीनेषु भवेः कर्थ नु मृदुहृदयः ॥ १५९३॥ अत्र दुर्घटस्य भगवतो मृदुंहृद्यताभावस्योपपादनाय उद-
धारणरूपर्सुबन्तमात्रार्थविशोपितरसुबन्तार्थो हतुतयापात्तः। अ- धायन् धारयन्नित्यत्र 'इड्धार्योशशत्रकृच्छिणि इत्यकृच्छार्थे शता॥
Page 121
110 अलङ्कारमणिहारे
यथावा- अपि नाथ ब्रह्माण्डान्यधिजठरं धारयन्नखिन्न- स्त्वम्। न्यस्तो मयाऽवनभरः कियानपि स्या- चतो नु बिभिया: किम्॥१५१४॥ कियानपि स्यात् अल्पीयान्वा भवेन्महीयान्वा। अत्रानन्य- सामान्यतया प्रतिपादितस्य भगवत आत्मरक्षाभरवहनभयाभाव-
धारणसमानाधिकरण: खेदाभावस्सुबन्तमात्रार्थविशेषितस्सुबन्ता- र्थो हेतुतयोपनिबद्धः। धारयन्नित्यत्र पूर्ववदेवाकछार्थे शता। इमानि त्रीण्यप्युदाहरणानि तुल्यानि। पस्य स्मरणायापि त्रस्यन्ति चतुर्मुखादयो लेखाः। तहूह हृदि निबभ्रन्नलज्जयत्कोऽपि तान- सुरडिम्भः॥ १५९५॥ स्मरणाय त्रस्यन्ति स्मरणं कर्तुमपि बिभ्यति। कोऽपि असुरडिम्भः प्रहाद इत्यर्थः । तान् चतुर्मुखादीन् अलज्यत्। तद्धयानागोचरमपि व्रह्म स्वहादे निबसनन् तानू त्रपाविष्टानकरो- दिति भाव:। अत्र चतुर्सुखादिकर्मकलजाप्रयोजकत्वसिद्धये तथा- विधपरब्रह्मकर्मकहृदयाधिकरणकबन्धनं कविना निबद्धं, तञ्चेत- रसुकरत्वात्तादृशसिद्धयसमर्थ विशेषकान्तरमपेक्षत इति चतु- मुखादि कर्तृ कपरब्रह्मानुस्मरणत्रासरूपवाक्यार्थः परब्रह्मरूपकर्मद्वा- रा विशेषक उपासः, तद्विशिष्टं च ताहशहदयाधिकरणकबन्धनम- सुरडिम्भारूढं तादृशलज्ाप्रयोजकत्वरूपकार्योपपादनसमर्थमिति भवति हेतु:॥
Page 122
कांव्यालेङ्गसर: (६२) 111
श्रुतिशिस्रदुर्गमाद्गुतविभव हरे तावकान् गुणानखिलान्। भणितुं विजृम्भितवतो डिम्भ- स्यागस्त्वयैव सोढव्यम् ॥१५१६॥ अत्र डिम्भत्वं शुद्धैकसुबन्तार्थः अपराधसोढव्यत्वे हेतुः। तथा अद्भतविभवत्वमचिन्तनीयैश्वर्यत्वं सुबन्तार्थविशेषितसुबन्ता- र्थरूपं श्रुतिशिखरदुर्गमत्वे। एवं ताद्दशभगवद्गुणकर्मकवर्णनमा- गसि तादशवर्णने च उच्छृह्लतया विजम्मणमिति शुद्धसुबन्तार्थी- दाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम्। दयितोऽपि तव मयाडम्ब त्वदाश्रयमदादुदास- नमनायि। यदिमुश्चसीममधुना रक्षेति तमेव किमिति झरणमियाम् ॥ १५१७॥ हे अम्ब! त्वदाश्रयमदात् त्वदवलम्बगर्वात् तब दयितो भग वानपि उदासनं उपेक्षणं अनायि प्राप्यत। सर्वशरण्यं तमप्पु- पेक्षितवानिति भावः । अधुना त्वदुपेक्षावसरे अतुं सामिति भावः। मुश्चसि यदि। अधुनेत्यंतत् मध्यमणिन्यायादुभयतोऽ्वेति। अधुना तमेव पूर्व गर्वादुपोक्षितमेव तव दयितं किमिति शरणमियां, इय लोकोक्तिः। कृतापराधस्तदग्रतः किमानुकूल्यं मथाकृतमिति शरणं प्रापुयामिति भावः। अत्र इममित्यादिना अभिव्यक्ते वक्तृ- निष्ठानन्यशरणताहतुकाश्रयान्तरपाराङ्ाख्ये अत्मकर्तृकभगवत्कर्म- कोदासीनताप्ापणरूपसुबन्तार्थविशेषिततिङनतार्थ उपपादकः। द्रुह्यन्ति ये जगद्रयस्त्वद्दयितायापि हन्त तेभ्यो- डपि। वितरसि विविधं विभवं सुतरां मुग्धाऽसि दुग्धसिन्धुसुते॥१५९८॥
Page 123
112 अलङ्कारमाणहारे
अत्र भगवत्या जगजनन्या मौग्धयोपपादने तिङन्तार्थस्य वितरणस्य सुवन्तार्थविशेषितस्य तस्यैव विविधविभववितरणा.
वितरणं हेतुः। विशेषणत्वं च संत्रदाने विशेषणत्वात्परंपरया बोध्यमिति॥ इदं सर्वमपि प्राचीनालंकरिककल्पितपदार्थवाक्याथर्रूपप्र- भेदस्यैव प्रकारान्तरेण कथनं व्युत्पत्तिवेचित्रयप्रदर्शनायैवेति ध्येय- म्। अत्र रसगङ्गाधरकार :- "काव्यलिङ्गं नालंकारः, कविप्रतिभा- निर्मितत्वप्रयुक्तचमत्कार विशेषात्मकविच्छित्तिविरहात् हेतुहेतुम- न्वावस्य लोकसिद्धत्वात्, श्रेषादिसंमिथ्रणजन्यस्तु चमत्कार: श्लेषप्रयुक्त त्वात्त दंशस्यैवालंकारतां कल्पयति न तु काव्यलिङ्गस्य। तत्प्रयोज्यकचमत्कारान्तरविरहात्" इति। अत्र वदन्ति-नेद युक्तं, लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्काराधायकत्वात् 'इमं तं मामम्ब त्वमथ करुणाफ्रान्तहदये पुनाना सर्वेषामघमथ- नदर्प दलयसि' इत्येतदीयहेतुहेतुमन्भावस्य लोकसिद्धत्वाभावा- च्च। न हि सुखलोोछेिनि मो न महमो हे ' इ्य सुखालोकोच्छेदादीनां महामोहतादात्म्यादिहेतुत्वं क्वचित्सिद्धम्। किंच एवमप्युपमादेरप्यलकारता न स्यात्। सादृश्यस्य वास्त- वत्वेन कविप्रतिभाकल्तितत्वविरहात्। न च तत्राप्युपमाप्रयो- जकसाधारणधर्माभदांशे तत्कल्पितत्वमेवेति वाच्यं, रमणयित्वा. दिनिमित्तधर्मस्यापि लोकप्रसिद्धत्वात् चमत्कारस्य लौकिक- स्याप्यलंकारत्वे बाधकाभावात। अन्यथा सर्वालंकारोच्छेदाप- तेश्चोति॥ इत्यलकारमणिहारे काव्यलिङ्गसरो द्विषष्टितमः
Page 124
अर्यन्तरन्याससरः (६३) 113
अथार्थान्तरन्याससरः (६३)
समर्थनं विशेषस्य सामान्येनास्य तेन वा। आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा॥ विशेषस्य सामान्येन सामान्यस्य विशेषेण वा समर्थनम- र्थान्तरन्यासः। अर्थान्तरस्य विशेषस्य सामान्यस्य वा समर्थक- तया न्यास इत्यन्वर्थोडयम्। समर्थन च इदमेवमनेवं वा स्यादिति संदेहस्य प्रतिबन्धकमिदमित्थमेवेत्यवधारणं, निश्चय इति यावत्। तञ्च द्विविधमप साधर्म्येण वैधम्येण चेति पुनर्द्विविंधन।तत्र प्रकृ- तयोस्सामान्यावेशेषयोस्समर्थयत्वं अप्रकृतयोर्विशेष सामान्ययो- स्समर्थकत्वं प्रायशो दृश्यते।। यथा- स्यालो हरेरितीन्दुर्बालोऽपि जडोऽपि हन्त कुटिलोडपि। ध्रियते शिवेन शिरसा महदनु- बन्धो हि मान्यताहेतु:॥ १५९९॥ अत्र प्राथमिकचरणत्रितयेनोक्तो विशेषस्तुरीयचरणोक्तसा- मान्येनाप्रकृतेन साधर्म्येण समर्थ्यते॥ यथावा- घनसारस्तिलकर्स्तान्मृगनाभिस्तिलकितः कथं हरिणा। अथवा प्रभुस्स्वतन्त्रो यदिच्छति करोति तन्निरोद्वा क: ॥ १६००॥ ALANKARA-III. 15
Page 125
114 अलङ्गारमणहारे
घनसार: कर्पूरः तिलकः स्तात् भवतु। हरिणा प्रकृतेन भग- वता श्रीनिवासेन तस्यैव कपूरकस्तूरीतिलकितफालत्वप्रसिद्धेः । अत्र घनसारस्य नान्नैवाभ्पर्हणीयस्य तिलकीकरणमुचितमेव। भृगनाभे: नासनैव जुगुप्सनीयस्य तिलकीरणमनुचितमिताक्षिप्य अथवेत्यादिना सामान्येन समथ्थत इत्याक्षेपालंकारसंकीर्णत्वं पूर्व- स्मादविशेष: ॥
यथावा- उद्यामरामतेजोज्वलनैर्भ्रष्टो धरातलभ्रष्ट्रो। निः- श्रीकोडरिगणोऽभूद्रष्टस्य रमागमः कुतो वा स्यात् ॥ १६०९॥
उद्दामरामतेजांस्येव ज्वलना: अग्नयः तैः अरिगण: धरा- तलमेव भाषटं अम्बरीयं तस्मिन् 'कीबेऽम्बरीषं भ्राष्टो ना' इत्य- मरः। भ्रष्टः भर्जनं प्रापितस्सन् निश्श्रीकः अलक्ष्मीकः अभूत् भ्रष्टस्य भर्जितस्य 'भ्रस्ज पाके' इत्यस्मात्कर्मणि क्ः। भ्रंशं प्राप्तस्य च, भ्रंशधातोः कर्तरि कः। 'वश्च' इति षत्वे छुत्व्। रमागम: लक्ष्मीप्राप्तिः। पक्षे रमित्याकारक आगमः कुतो वा स्यात्। 'भ्रस्जोरोपधयोरमन्यतरस्याम्' इति रमागमस्य वैकल्पिकत्वेज भ्रष्टस्येत्यत्र तदभावः। -न्यथा भर्ष्टस्येति स्यादिति भावः। "भ्रस्जेः रेफस्य उपधायाश्च स्थाने रमागमो वा स्यादार्धंधातुके मित्त्वादन्त्यादचः पर: स्थानषष्टीनिर्देशाद्रोपघयोननिवृत्तिः" इति सूत्रार्थः । अत्रापि पूर्वपादत्रयप्रतिपादितस्य विशेषस्य चरम- पादप्रतिपाद्यसामान्येन समर्थनम्। रूपकश्ष्ेषोज्जीवितत्वादिकं विशेष: ।।
Page 126
अर्थानतरन्याससर: (६३) 115
यथावा- त्वजजङ्गादास्याप्तयाSहा जाता जननि काहळी काळी। श्रेयस्करीश्वराणां प्रायस्सेवा जडात्मनो- डपि स्यात् ॥ १६०२॥
काहळी त्वजङ्गयोः दास्यस्य आतया ईदशभाग्येनेति भावः। काळी गौरी जाता 'काळी हैमवतीश्वरी' इत्यमरः। हा इत्या- ख्चये। पक्षे काहळीति शब्द्व्यक्ति: अहा जातेति छेदः। अहा अविद्यमानहकारा सती काळी जाता काळीति निष्पन्नेति शउदा र्थतादात्म्यमूलकश्षेषदत्तहस्तो विशेषस्य सामान्येन सम- र्धनरूपोऽयम्॥।
यथावा- श्रस्तिनकलशयुगेन स्पर्धायै यदि भजेत मुखगतताम्। गुच्छस्तुच्छर्स्यािह कठिनेन मृदोर्हि भवति परिभूतिः ॥ १६०३॥ गुच्छः स्तबकः श्रीस्तनकलशयुगेन सह स्पर्धायै स्पर्धार्थ मुखगततां तत्संमुखीनतां भजेत यदि तदा तुच्छ एव स्यात् शौर्यरिक्त एव स्यात् 'शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः। पक्षे गुच्छः गुच्छशब्द: मुखे विद्यमानो यो गः तस्मिन् तता तकारत्वं भजेतचेत् तुच्छः स्थात्। गतेत्यम वर्णद्वयेऽप्यकारो मुखसुखाव्ारणार्थः । गकारमपनीय नत्र तकारन्यासे तुच्छ इति निष्पद्येतेत्यर्थः ॥
Page 127
116 अलङ्कारमणिहारे
यथावा- ग्लौस्त्वन्मुखमात्सर्याद्यदाविलत्वं परं गतो नु भवेत्। गौरेव तदाऽम्ब भवेन्मत्सरिणां स्वस्वरू- पहानिरस्यात् ॥ १६०४॥ हे अम्ब! ग्लौः चन्द्रः त्वन्मुखे मात्सर्यात् यदा परं अति- शयितं आविलत्वं कलुषत्वं गतः भवेत्ु । नुर्वितके। पक्षे- ग्लौ: ग्लौशब्दः यदा गतः गवर्णात् आद्यादित्वात्तसिः। परं अनन्तरं विलत्वं विगतलकारत्वं अनुभवेत् प्राप्तुयात् तदा गौरेव भवेत्। उत्कृष्टतमलक्ष्मोवदनमात्सर्येण कलुषितहृदयश्चेत्स पशुरवेति भावः । पक्षे ग्लौशन्द्रो लकारविरहे गौरित्येव हि निष्पद्येतेति भावः। मत्सरिणा परोत्कर्षासहिष्णूनां स्वस्वरूपहा- निस्स्यात् स्वगौरवक्षतिरेव स्यादिति भावः। पक्षे ग्लौशब्दस्य- गौरिति निष्पत्तौ स्वरूपव्यत्ययस्स्यादिति भावः॥ यथावा- त्वद्वतिभाग्यमवाप्तुं यतमानोऽपि च करी पराभूतः । मन्दा एव भवेयुस्तुङ्ग अपि देवि देचकारूढाः ॥ १६०५॥
त्वद्गतिभाग्यं त्वत्प्राप्तिभागधेय त्वद्गमनतौल्यं च अवाप्तुं यतमानोSपिच करी पराभूतः । कुत इत्यत आह-मन्दा इति तुङ्गा अपि महान्तोऽपि उन्नता अपिच। पेचकेन उलूकेन अन्यत्र पुच्छमूलोपान्तेन आरूढा: करिण इति यावत्। 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः । मन्दा एव भाग्यहीना
Page 128
अर्थान्तरन्याससरः (६३) 117
एव, पक्षे मन्दसंज्ञा एव 'मन्दोतीक्ष्णे च मूर्खे च स्वैरे चाभा- ग्यरोगिणोः। अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ' इति मेदिनी। उलूकारूढानामीप्सितसिद्धचर्थ यतमानानामपि कुतो महाभाग्यलाभ इति भावः। अमीषु श्रीस्तनेत्यादिषु त्रिषूदाहर- णेष्वपि श्ेषोत्तम्भितविषमालकारसंकीर्णतवं विशेष:।
यथावा- पुष्करमम्ब पदा तव निष्कासितमपि रमे त्वदाधारतया। पुरमासीत्तव महता तिरस्क- तोऽप्याश्रितोऽमुमयते हि शुभम् ॥ १६०६॥
हे अम्ब रमे! पुष्करं कमलं तव पदा पादेन निष्कासितं स्वविजिततया स्थानान्निस्सारितमपि त्वदाधारतया त्वदेकावल- म्बनतया त्वदधिष्ठानतया च तव पुरं गृहं आसीत् 'अगारे नगरे पुरम्' इत्यमरः। पक्षे पुष्करमिति पदं निष्कासितं निगतः एक इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथा भवति तथा आसितं उपवेशितं पुरमासीदित्यर्थः । स्पष्टमन्यत्। अत्रापि विशेषस्य सामान्येन साधर्म्येण समर्थनम्॥ यथा-
वन्। सुतरां प्रख्यातस्स्यात्वदादरो ह्यद्वितीयतां फलति ॥ १६०७॥ हे भगवन् ! त्वयेति शेषः । प्रत्याख्यातः अभिभूतोऽयि चेतनः कश्वित्माणी प्राह्मादिर्वलिरिवेति भावः। त्वाये अत्या-
Page 129
118 अलङ्कारमणिहारे
दरवान् अविश्लथभक्तिमांश्चेत सुतरां असदृशतयेति यावत्। प्रख्यातस्स्यात् त्वदाश्रयः अद्वितीयतां कीर्त्यादिभिरसदृशतां, पक्षे द्वितीय वर्णराहित्यं च फलाते हि। प्रत्याख्यातशब्दः अत्यादर- वान् त्या इत्याकारकवर्णे आदरवान्न चत् तद्विल्िष्टश्चेदितति यावत् प्रख्यातशब्दो भवतीत्यर्थान्तरम्॥ यथावा- तव तेजसि विद्वेषान्नाथ महारश्मयो रवेर्ल- बध्वा। अप्यश्मदशामभवन्महारयो वासना हि दुर्भोचा ॥ १६०८॥ महारश्मयः अश्मदशां प्रस्तरावस्थां लब्ध्वाSपि महारय एव महाविद्विष एव अभवन्। पक्षे महारशमय इति शब्द: अवि- द्यमानः रम इति वर्णसमुदयो यस्य स तथाभूतः अश्मः तस्य- दशां लब्धा, अभवत् महारय इति छेदः। महारय इति निष्प- न्नोऽभूदित्यर्थः । शिष्टं स्पष्टम्।। यथावा- समुपनतेऽपि नदीनस्तव गाम्भीर्यादुपर्युपरि भङ्ग। व्यक्रियत नान्तरीदडून विकृतिभाक्प्रक तिवैपरीत्येन ॥ १६०९॥
हे भगवन्निति लक्यते, तस्यैव प्रकृतत्वात्। नदीनः सरि- त्पत्तिः। अदीन इत्यप्युपस्कार्यम। तव गाम्भीर्यात हेतुभूतात् उपर्युपरि पदेपदे भङ्गे स्वस्य परिभवे, पक्षे उपर्युपरि ऊर्ध्बो्ध्व- भाग एव भङ्गे तरङ्गे जात्यभिप्रायकमेकवचनम । समुपनतेऽरपि
Page 130
अर्थान्तरन्याससरः (६३) 119
प्राप्तेऽपीत्यर्थः । अन्तः मनसि, पक्षे अन्तः प्रदेशे न व्यक्रियत न विकुरुते स्म। हृदयदौर्बल्यं न प्राचीकशदिति यावत्। कर्मकर्तरि यक्। यद्वा न व्यक्रियत नदनितां नात्याक्षीदित्यर्थः। पक्षे क्षुभितो नासावित्यर्थः। ईदक् गभीरस्वभावः प्रकृतिवैपरीत्येन गभीरिमरू- स्वस्वभावविपर्ययेण विकृतिभाक् लाघवरूपविकारभाक् न भवति। आपतत्स्वपि हृदयविक्षोमहेतुषु भूयस्सु न गभीरप्रकृतिस्स्वस्व- भावविरोधिलाववादिरूपविकारमाप्नोतीति भावः॥ पक्षे नदीनः नदीन इति शब्द: उपर्युपरि अग्रेऽग्रे भक्गे स्वादिविभक्तीनां परस्परं भेदे उपनतऽपि। 'भङ्गो जयविपर्यये। भेदरोगतरङ्गेषु' इति मेदिनी। अन्तः विभक्त्यपेक्षया पूर्वव- र्तिनि प्रातिपदिकरूपे अन्तर्भाग न व्यक्रियत। विभक्तीनाम- न्योन्यभेदसन्भ्ावेऽपि प्रकृतेरविकृततयैवावस्थामादिति भावः। न केवलं यथावस्थितप्रातिपदिकाविकृतत्वमेव, अपितु तद्वैपरीत्ये- Sव्यविकृतत्वमेवेत्याह-ईद्दगिति। ईदक् नदीनशब्द एवेति भावः। प्रकृतिवैपरीत्येन प्रातिपदिकरूपप्रकृतेर्व्यत्यस्ततया पाठे न विकृति- भाक पूर्वापेक्षया विभिन्नवर्णानुपूर्वीकः न भवति। किंतु यथापुरं नदीन इत्येवावतिष्ठत इति भावः। अत्र समुपनतेऽपीत्यादिना नान्तरित्यन्तेन प्रतिपादितस्य विशेषस्य ईंदगित्यादिसामान्येना- प्रस्तुतेन समर्थनृम्। समासोक्तिसंकीर्णत्वादिविच्छित्तिविशेषस्तु सुगम एव । यथावा- विकचसिताम्बुजमुद्रटगन्धं त्वन्नयनजितमथा- पचितम्। तव सर्वदाऽडस्यलक्ष्मीमलभत सूनस्य वृत्तिरियती हि॥ १६१० ॥
Page 131
120 अलंकारमाणैहारे
हे भगवन् ! विकचं व्याकाचं सिताम्बुजं पुण्डरीकं उद्भटः गन्धः यस्य तत्तथोक्तं अतिसौन्दर्यगर्वितमित्यर्थः। अतिसौरभ" शालीति तु तत्त्वम्। अथ त्वन्नयनजितं अत एव अपचितं अप- च्य प्राप्तं त्वन्नयनजितं अथ अपचितमिति वा योजना। पक्षे विक- चसिताम्वुजमिति पदं अपचितं अपगतचकारं कृतं सत् विकसि- ताम्बुजं भवदिति भावः । तव सर्वदास्यलक्ष्मीं सर्वविधकैंक- यंश्रियं, पक्षे सर्वदा आस्यलक्ष्मी मुखशोभां अलभत। तथाहि, सूनस्य सुष्टु ऊनस्य वैरशुद्धयौपयेकशौर्यधैर्यादिभिस्सर्वथाऽपि हीनिस्य प्रसूनस्येति तु तत्त्वम् । गतिः स्थितिः इयती एता- वती। यत्प्रताकाराक्षमतया स्वजैत्रोपसर्पणमिति भावः । अय- मपि सामान्येन विशेषस्य समर्थनरूप एव। त्वत्सौकुमार्यविजितं मत्वा निजसौकुमार्यम- खिलाम्ब।नवनीतमनस्थितिम द्वनीतमासीन्मृदोर्हि गतिरियती॥१६११॥ नवनीतं अनस्थितिमत् अनसि शकटे स्थितिमत् 'शपरे खरि वा विसर्गलोपः' इति विसर्गलोपे स्थितीत्यत्रैकसकारक- मेव रूपमर्थान्तरे शब्द्ावैरुप्यायेति ध्येयम्। देशान्तरप्रस्था- नाय शकटमारूढमिति भावः। वनततिं वनीं गते अथवा वनी इता प्राप्ता येनेति बहुव्रीहिः। अरण्यानीं प्रविष्टमित्यर्थः । पक्षे नवनीतमिति पदं नस्य नकारस्य स्थितिः साऽस्यास्तीति नस्थितिमत् तन्न भवतीत्यनस्थितिमत् नकारविघटीतं वनीतमा सीदित्यर्थः। तथाहि, मृदो: कोमलस्य अतीक्षुस्य च गतिः ईदक्। अन्यत्सर्व पूर्ववत् ॥
Page 132
अर्थान्तरन्याससरः (६३) 121
यथावा- त्वत्पदरुचिविद्वेषाद्विभङ्गमभ्येत्य विद्रुमशशौरे। द्रुम एव सर्वधाऽभूत्त्त्वद्वेषस्येद्टशो हि परिणामः ॥ विद्रुमः प्रवाळ: विद्ठुमशब्दश्च। विभङ्गं विशेषेण पराभवं सर्वतामुखं परिभवमिति यावत्। पक्षे वि इत्याकारकवर्णस्य नाशं अभ्येत्य। दुम एव तरुरेव पक्षे दुमशब्द एव अभूत् त्वयि त्वद्विषये द्वेषस्य परिणाम: परिपाक: ईदशो हि। स्थावरज- न्मप्रापणमेव हि। यथावा - फालेन तव परास्तो बालेन्दुर्भवति बहुळ- गळदोजा:। हालिकसंघर्षी मृदुरयते क्षयमेव देवि हरिदयिते ॥ १६१३॥ बालेन्दुः अभिवृद्धो भवन्नपि बहुलगलदोजा: अतिमात्रभ्र- श्यत्तेजा: भवति बहुले कृष्णपक्षे गलदोजा: भवतीति वस्तु स्थितिः । हलं प्रहरणमस्य हालिकः तेन संघर्षी मृतुः शरी- रतश्शार्यतश्च मृदुलः । पक्षे हा अलिकसंघर्पीति छेद: अलिकं ललाटं तेन संघर्षोत्यर्थः। शिष्टं स्पष्टम्॥
यथावा- परमपुरुषाश्रितो यः परवाक्छरवाधितोऽपि दृढभावात्। न पुरेव स परमरुषाश्रितो भवेन्न- हि तथाविधस्सीदेत् ॥ १६१४।। ALANKARAIII. 16
Page 133
122 अलंकारमणिहारे
यः पुमान परमपुरुषाश्चितः सः परेषां वैरिणां वाग्भिश्शरे- श्च। पक्षे शरतुल्याभिर्वाग्भि: बाधितोऽपि क्षतोऽपि दृढभावात् भग- वदनुग्नहजनितशरीरदाढर्यात्तन्मक्तिदाढर्याच्च पुरेव भगवदाश्रय- णात्पूर्वभिव परं अरुषा व्रणेन 'व्रणोऽस्त्रियामर्मिमरुः' इत्यमर:। श्रितो न भवेत्। प्रह्लादादेरिव तस्य भगवत्प्रसादात्परै प्रयु- काइशरा न व्यथालेशमरि विधातुमीशरित्निति भावः। पक्षे पर- मया रुषा कुधा थितो न भवेत् 'न करोधो न च मात्सर्यम्' इत्या- दुक्तरीत्या क्षोदिष्ठमर्मस्परशिवाग्मिस्तस्य क्रोधानुदयादिति भावः। तथाहि तथाविध: महदाश्रितः न सीदेत् नावसीदेदित्यर्थः॥ पक्षे परमपुरुषाश्नितशब्द: न विद्यते पुः पुवर्णः यस्य नपुः नशब्देन बहुव्रीहिः। पुवर्णरहित एव परमरुषाश्रित इति जायते। तथाविधः पुवर्णविधुरतां प्रात्ोऽपि परमपुरुपशब्द: न हि सीदेत् निरर्थकतया नावतिष्ठेत किंतु अर्थवत्तयैव जागृ- यादिति भाव:। यथावा- इन्दुः कन्दुरपि त्वन्मुखवसुहारी क्षयं कमपि यातः । यो दुश्थितिमान् स्वान्ते स भवत भावान्तरेऽपि दुस्थितिमान् ॥१६१५॥ हे भगवन् ! इन्दुः त्वन्मुखवसुहारी वदनप्रभाहरणशीलः स्वत्प्रभृतिधनहरणशलि इति च गम्धते । ताच्छील्ये णिनिः । अंतएव कमपि क्षयं तकलकलापचयरूप राजयक्ष्माणं यातस्सन् कन्दुरपि कन्दुर्भवन्नपि कनदुर्नाम अयोसय उत्तानो वर्तुलाकारो होळकाद्यपूपनिर्वर्तनोप करणभूतो वस्तुविशेष:। 'क्ञिबेऽम्बरीषं
Page 134
अर्थान्तरन्याससरः (६३) 123
भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इत्यमरः । कन्दुशब्द: वा ना वा पुंसीति कोशार्थः। स्वेदनीजन्म भजमानोऽपि तद्रन्निस्तजस्को भवन्नपीति तु हृदयम् । पक्षे हारी इक्षयमिति च्छेद:। इन्दुः इन्दुशब्द: इक्षयं इकारलोपं यातः नैतावदेव, कमपि यातः। अपिस्समुखये। इकारस्थाने ककारं च यातः कन्दुरिि निष्पन्र इत्यर्थः। एवं कनदुरूपं प्रपन्नोऽपि कमपि क्षयं यात इत्यावृत्त्या योजनीयम्। इन्दुत्वावस्थायामिव कन्दु- त्वावस्थायामपि राजयक्ष्माणं प्राप्त पवासीत न तु तमत्याक्षीदितति भावः। वस्तुतस्तु कमपि क्षयं गृहं महानसमिति भावः। तत्रैव कन्दोरवस्थानौचित्या 'क्षयो रोगान्तरे वेश्मकल्पान्ता- पचयेषु च' इति मेदिनी। यद्ा चुल्ीस्थित्यवसरलप्नधूममषी- व्यपनयार्थकृतसिकतादिघर्षणभूपस्तया अपचर्यं यात इतर्थः । कथमस्य जन्मान्तरेऽपि क्षतानुउ्टत्तिरित्यत आह-य इति। यः स्वान्ते मनसि 'स्वान्तं हन्मानसन्' इतयमरः । दुस्थितिमान् नित्यं परस्वापहारादिदुराशयवान्। नित्ययोगे मतुप। तदनुरू- पक्षयादुपतापी च सवति। सः भावान्तरेडषि 'भावस्सत्तास्व्र- भावाभिप्रायचेष्ठात्मजन्मतु' इत्यपरः । दुा्थितिमानेव भज्रतति। न हि नित्यमेव पापशीलानानकृततन्निष्क्वतीनां जन्मातरेऽपि तत्फ- लानुभवस्सुकरापनोद इति भाषः । वस्तुतस्तु यः इन्दुशब्द: स्वान्त स्वस्य चरमभागे दुस्थितिमान् इकारलोपेन तत्स्थाने ककारं प्राप्तोऽपि नित्यदुवर्णस्थितिमानिति भावः। सः इन्दुशब्द: भावा- न्तरेपि कन्दुरिति रूपान्तरे प्राप्तेऽपि दुस्थितिमानेव दुवणर्स्य पूर्वमप्यनपनतित्वात्तद्विशिष्ट एव भवति। इन्दुकन्दुशब्दयोरुम- योरप्यन्ते दुरितिवर्णसमुदयस्य तौल्यादिति भावः। शब्दार्थता-
Page 135
124 अलंकारमणिहारे
स्तुतेन विशेषसमर्थनरूप एवार्थान्तरन्यासः॥ विशेस्षय सामान्येन वैधर्स्येण समर्थनं यथा- संकल्पादेव जगद्वेङ्कटनाथस्सृजत्यवत्यत्ति । असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहा- य्यम् ॥ १६१६॥ अत्र पूर्वाधोंक्तस्य विशेषस्य प्रकृतस्य उत्तराधोक्तेन सामा- न्येनाप्रकृलेन वैधर्म्येण समर्थनम्॥ यथावा- नितरां जननि कराम्यां निजकरचरणेक्षण- प्रतिस्पर्धि। नलिनं बत लालयसे न पराभवि- ताडरिमपि मृदुप्रकृतिः॥ ५६१७॥ अत्र प्राथमिकचरणत्रितयप्रतिपादितस्य विशेषस्य चतुर्थच- रणोदिवसामान्येन वैधर्म्येण समर्थनम्॥ यथावा- लोकेशे नाकेशो काके कीशेऽपि तव कृपा सदृशी। न विशति हि महोदारो ननूत्तमाध- मविभागकार्पण्यम्॥ १६९८॥ अत्रापि पूर्वाधोक्तो विशेष: प्रकृत उत्तरार्धोंक्तेन सामान्येना- प्रकृतेन वैधर्म्येण समर्थ्यंते॥
Page 136
अर्थान्तरन्याससर: (६३) 125
यथावा- हुतवहमध्ये तप्त्वा द्रुतमुज्ज्वलितं भ्रवान्तरे क्षर्म। वर्म तवाच्युत समजनि कल्याणस्य स्वतः किमप्राप्यम् ॥१६१९॥
हि अच्युत ! भर्म स्वर्ण कर्तृ। हुतवहमध्ये पञ्चाग्निमध्ये अग्नि- मध्ये च तर्प्तवा तपः कृत्वा तप्तं भूत्वा च अतएव द्रुत रघरिं उज्ज्व- लितं प्रकाशितं पक्षे द्रुतं द्रवतां गतं विलीनमित्यर्थः। उज्ज्वलितं सुटपाकेन शोभितमित्यर्थः। भवान्तरे जन्मान्तरे रूपान्तरे च तव सर्म कवचं अजनि। पक्षे भर्म भर्मेति पदं भवान्तरे वेन वका- रेंण अन्तर अन्तर्धानं भस्य भकारस्य वान्तरं भवान्तरं तस्मिन् सति वकारस्य भकारेण तिरोधाने सति भकारस्थाने वकारो- धारणे सतीति यावत् 'अन्तरमवकाशावधिपरिधानान्तधिभेदता- दर्थ्ये' इत्यमर । वर्म अजनि। भर्मेति पदं वर्मेति निष्पन्नमित्यर्थः। स्वतः कल्याणस्य मङ्गळकतः सुवर्णस्य च किमप्राप्यं सर्वे प्राप्य- मेव 'न हि कल्याणकृत्कश्चिद्दुर्गति तात गच्छति' इति गानादिति भाव:। 'कल्याणं मङगले स्वर्णे' इति रक्षमाला। अत्रापि पूर्व- वदेव समर्थनम्। श्लेषादिसंकीर्णत्वं विशेष:॥
यथावा- भ्रमरोऽपि तव पदाब्जे लग्नोऽभ्रममेत्य भवति खल्वमरः । किंकिमलर्भ्यं त्वत्पदपङ्गजसक्तस्य वेङ्कटाद्रिमणे॥ १६२०॥
Page 137
126 अलंकारमणिहारे
भ्रमरोऽपि तिर्यग्जन्तुरपि कामुकोपीति वा 'भ्रमरः कामुके भृङ्ग' इति मेदिनी। तव पदाब्जे लग्नस्सन् अभ्रमं अन्यत्र भ्रमणं अभ्रान्ति वा पत्य अमरो भवत देवो भवति। खल्विति प्रसिद्धौ। पक्षे भ्रमरशब्दः अभ्रममित्यत्र अभ्रं अं इति च्छेद:। अविद्य- मानो भ्रः भ्रवर्णो यस्य तं भ्रंशितभ्रवणमिति यावत् अं अवर्ण पत्य- भ्रवर्णस्थाने अकारं प्राप्येत्यर्थः। अमरः अभूत् उक्तरीत्या भ्रमर- शब्द: अमरशब्द्ोऽभूदित्यर्थः । अत्रापि पूर्वदेव सर्वमनुसन्धेयम्॥ यथावा- अपि पामरस्तवाङ्गावुपजातरुचिस्त्वया कृतो- ड्पापः । लभतेऽमरत्वमच्युत न भजेक्कं वा त्वदाश्रितोऽमीष्टम् ॥ १६२१॥ हे अच्युत! इदं संबोधनं विवक्षितपापहरणसाभप्रायम्। यथा स्मेयते- अतिपापप्रसक्तोऽि व्यायन्निमिपमच्युतम्। भूयस्तपस्वी भवति पङ्गिपाचनपावनः ॥ इति। तव अङ्गौ उपजातरुचि: पामरः नोचोऽपि त्वया अपापः कृतः निर्धूताखिलपूर्वोत्तराघः कृतस्सन् अमरत्वं 'यत्र पूर्वे साध्यास्सन्ति देवा:' इत्युक्तप्रकारेण देवत्वं मुक्तत्वमिति यावत् लभते। पक्षे पामरशब्दः त्वया पं आप्नोतीति पापः। कर्मण्यण्। नपापः अपाप: पवरर्णरहित: कृत इति यावत्। अमरत्वं अमर शब्दत्वं लभते इत्यर्थः ॥ यथावा- आद्यन्तप्राप्तजयं मध्येऽपिच लेशतोऽप्यवि-
Page 138
अर्थान्तरन्याससरे: (६३) 127
ध्वस्तम्। जयति जलेशयमम्ब त्वदाश्रितानां कदा परिभवस्स्यात् ॥ १६२२॥ जलेशयं कमलं जलेशयमिति पदं च । आध्यन्तयोस्सम- थयोः अद्यन्तभागरयोश्च प्राप्तः जयः उत्कर्षः यस्य तत्तथोक्तं, प्राप्ती जयी जकारयकारी येन तदिति च । मध्येऽपिच मध्य- कालेऽपि लेशतोऽपि लवमात्रतोऽपि अविध्वस्त भ्रंश नप्राप्तं, पक्षे लेशतः ले श इंति वर्णाभ्यां अविध्वस्वं अध्वस्तलेशव- णमित्यर्थः। जयति सर्वोतकर्ष प्राम्तोति। शब्दपक्षे जलेशयशब्दः एवंविधो जयतीत्यर्थः॥
यथावा- नहुषस्स वासवस्सन्नवलेपात्स्वान्त एव हसि- तोडम्ब। वाहसक्षावमविन्दतत्वदपाङ्गविपर्यये कि- मिव न स्यात ॥ १६२३॥
हे अम्ब! सःप्रसिद्ध: नहुषः वासवस्सन् इन्द्रो भवन् सन् अवलेपात् तैलोक्यैश्वर्यमदात् स्वान्त एव मनस्येव 'स्वान्त हन्मा- नसं मनः' इत्यमरः । हसितः मतुल्यः कोऽन्योस्तीति हस- ्निति गर्वानुभावोक्तिः। कर्तरि क्ः। वाहसभावं अजगरत्वं'अज- गरश्शयुर्वाह्स इत्युभौ' इत्यमरः। अविन्दत्। पक्षे वासव- शब्द: वस्य वकारस्य लेप: संबन्धः न वलेपः अवलेपः तस्मात् वकारसंबन्धाभावं प्राप्थेति ल्यब्लोपे पञ्चमी। वकारलोपेन वास इति निष्पन्नः स्वान्त एव स्वस्य अन्ते मध्यभाग एव हसित: हेन हकारेण सितः बद्धस्सन् मध्ये हकारघटितस्सन्नित्यर्थः ।
Page 139
128 अलङ्गारमणिहारे
वाहसभावं वाहसशब्दत्वं अविन्दत् वा सइति वर्णयोर्मध्ये हका- रविन्यासे तथा निष्पत्तेरिति भावः। स्पष्टमन्यत् ॥
यथावा- त्वच्चरणरुचेस्तौल्ये किसलयमुद्युक्तमेव चेद- म्ब। मुखभङ्गात्सलयं स्यादीदृग्दर्शयति कि मुखं भग्नम ॥ १६२४॥
किसलयं मुखभङ्गात् पराभवादिति यावत्। लय: यत्र क्कापि वा लीनता तेन सह वर्तत इति सलयं स्यात्। केन- व्यदश्यमानतयाऽवस्थितं स्यादिति भावः। पक्षे मुस्रवर्णविच्युतेः सलयं स्यात् किसलयमिति शब्दरूपं मुखवर्णभ्रंशे सलयमिति निष्पद्येतेत्यर्थः । ईदक् एवं पराभूतो यःकोऽपि वा भग्न मुखं दर्शयति कि? जनानामिति शेषः। मुखभङ्ग प्राप्तवान्मानी कस्यचचि- दपि मुखं न दर्शयत्येवेति लोकाक्तिः। पक्षे ईदक् सलयमिति निष्पननं किसलयं किसलयपदं कर्तृ, मुखं आदिभागविस्थतामेति यावत् किं कि इत्याकारकं वर्ण भभ्नं दर्शयति च्युतं सूचमति। किसलयपद सलयमिति श्रयेतचेत् अस्थ मुखे वर्ण स्रस्तमिति सूचयताति भावः। शिष् स्पष्टम्। अत्र सामान्यमप्रस्तुंत सम- र्थंकम्॥ यथावा पुलिनमपुंभावं गतमम्ब भवत्या नितम्बतो विजितम्। कथमपि सदग्रभवनं पादधुतं किं प्रगल्भतां क्कीबम् ॥ १६२५॥
Page 140
अर्थान्तरन्याससरः (६३) 129
हे अम्ब! पुलिनं अपुंभभिवं गतं स्वरूपत एवापुंस्त्वमापन्नं 'तोयोत्थितं तत्पुलिनम्' इति क्कीवत्वानुशासनादिति भावः। पक्षे अपुं पुवर्णरहितं भावं स्थिति गतं लिनमित्यवशिष्टमित्यर्थः । अत एवं भवत्या: नितम्बतः पुंस्त्वभाज इति भावः 'पश्चान्नितम्बः' इति पुल्लिङ्गतानुशासनात्तस्य। विजित अथ कथमपि अग्रे नितम्बस्य समक्षं भवन स्थितः यस्य तथाभूतं सत्, पक्षे अग्रभवः आदिभागस्थितिः नः नकार: यस्य तत्तथोक्तं नलिनं सदिति यावत्। तदाऽपि कृषित्वमत्यजदेवेति भावः। पादेन पुंस्त्वभा- जेति भावः। घुत क्षिप्तम्। पुलिनभावे नितम्बेन नलिनभावे पादेन च तिरस्कृतमिति निर्गलितोऽर्थः। कुत एवमित्यत आह- किमिति। क्लीबं नपुंसकम्। किं प्रगल्मतां किमिति पुमानिव प्रागल्भ्य लभेतेति भावः॥ यथावा- गोत्रप्रवरे भवनं युवयोरेकत्र माधवतथा- डपि। आसीद्विवाहयोगस्स्वैराः क्व नु विधिनिषे- धवशगास्स्यु:॥१६२६॥। हे माधव! इंद लक्ष्मीपतित्वेन संबोधनं विवक्षितार्थोपष्ट- म्भाय। लक्ष्मीश्चि त्वं च युवां तयो: युवयोः "त्यदादीनि सर्वैनि- त्यम्, त्यदादितशशेषे पुन्नपुंसकतो लेङ्गवचनानि" इति पुल्लिङ्गयु- पच्छन्दैकशेषः । एकत्र एकस्मिन् गोत्रप्नवरे गोत्रं च प्रवरश्च अनयोस्समाहार: गोन्रप्रवर तस्मिन् स्मृतिप्रसिद्धे एकीस्मन्नेव गोत्रे प्रवरे चेत्यर्थः। पक्षे गोत्रप्रवरे गिरिश्रेष्ठे शेषाद्रावित्यर्थः। भवन जन्म गृहं च भवति। तथाऽपि युवयोः विवाहयोगः परिणयरूपसंबन्धः । तथाऽपीत्यनेन- ALANKARA-III. 17
Page 141
130 अलंकारमणिहारे
"समानप्रवरां कन्याभेकगोत्रामथापि वा। विवाहयति यो सूढस्तस्य वक्ष्यामि निष्क्ृतिम्"॥ "असगोत्रामसमानप्रवरां विन्देत" इत्यादिशातातपविष्णु- प्रभृतिवर्मशास्त्रवच नविरोधस्सूचितः । पक्षे वि: पक्षी गरुत्मान् स एव वाईः वाहनं तस्य योग: 'अजिताकर्षणी नीतिर्गरुडा गरुडासना' इति, 'वाहनं वेदात्मा विहगेश्वरः' इत्यादिभिर्लक्ष्म्या अपि तद्वाहनात्वोक्तेरिति भावः। कुत एवं शास्त्रनिषिद्धे प्रवृ- त्तिरत्यत्राह-स्वैरा इति। स्वैरा स्वेच्छाचारिण: क्कनु विधि- निषेधवशगा: स्युः न भवन्त्येवेति भावः 'अप्रमेयोऽनियोज्यश्च यत्र कामगभो वशी' इत्युक्तरीत्या भगवतस्स्वैरत्वमिति हृदयम्॥ यथावा- कचविजितोSवध्वस्तंइशैवल इह शैलतां प्रपद्य पुनः । कुचविजितोऽभूल्लक्ष्म्याश्श्रिया जितः क्वनु जयाय कल्पेत ॥ १६२७ ॥ शैवलः शैवालं अवध्वस्तः अवचूर्णितः 'अवध्वस्तोऽवचू र्ितः' हत्यमरः । पक्षे वकारेण ध्वस्त इति वा वकारो ध्वस्तो यस्मादिति वा वध्वस्तः । शैलतां गिरितां शैलशब्दतां च प्रपद्य। स्पष्टमन्यत्॥ यथावा- देवि प्रसूर्न हि त्वत्पुष्टा म्लायन्ति सुमनस- स्तापैः। म्लायन्ति तरुगतास्तु क्वनु न म्लानिः प्रसूनताभाजाम् ॥ १६२८॥
Page 142
अर्थान्तरन्याससरः (६३) 131
हे प्रसूः हे जननि! सुमनतः विपश्चितः कुसुमानि च। तापैः आध्यात्मिकादिभिः रविकरादिजन्यैश्च संतापैः। प्रसूनता प्रस्वा जनन्या ऊनता हीनत्वं पक्षे कुसुसत्वं तां भजन्तीति तथोक्ताः। सुगमामतरत्। यथावा- मकरन्दसस्वकदलने Sप्यनुज्झितस्वार्थ एव तव वच- सः। सख्यमुपैन्न हि मधुरा वैरायन्ते निजासुह- द्रयोऽपि ॥ १६२९॥ हे देवि! मकरन्दः पुष्परसः मकरन्दशब्दूश्च। तव वचसः हेतुभूताद्वचनात् स्वस्य कें स्वकं तस्य दळनेऽपि मस्तकफा- लनेऽपीति लोकोक्तिः । पक्षे स्वस्य कः कवर्णः तस्य दळने भ्रंशे सत्यपि अनुज्झितः स्वः निजः अर्थः प्रयोजनं येन स तथोक्तः। स्वप्रयोजनैकसाधनदृष्टिः। पक्षे अनुज्झितस्वार्थः अप- रित्यक्तस्वाभिधेय: सकरन्दशब्द: कवर्णभ्रंशेऽपि मरन्द इति निष्पन्नतया अपरित्यक्तस्वाभिधेय एव। मकरन्दमरन्दशब्दयो- स्तुल्यार्थकत्वादिति भावः। वचस इत्येतन्मध्यमणिन्यायेनोत्तर- त्राप्यन्वेति। तव वचसः वचनस्य सख्यं सौदार्द उपैत प्रापत्। स्वशिरोविद्लनहेतुभूतेऽपि कुत एष न प्रत्यकार्षीदित्यत्राह- मधुरा इति। मधुराः निसर्गत एव प्रियर्शलाः स्वादुशीलाश्च 'स्वादुप्रियौ तु मधुरौ' इत्यपरः। निजासुदृन्भ्योऽपि स्वप्रा- णहारिश्योऽपि न वैरायन्ते तानुद्दिश्य बैरं न कुर्वन्तीत्यर्थः। 'शब्दवैर' इत्याबिना क्यङ् 'तस्मै कः प्रथमाय मानिषु महा- वीराय वैरायते' इत्यश्रेव 'ऋधट्ठुह' इत्यादेना चतुर्थी॥
Page 143
132 अलङ्कारमणिहारे
यथावा- पातालं हरिमहिळSपारहितं सख्यमेत्य ताव- कनाभेः । स्तनसख्यमप्यगात्कनु सर्वगुरु स्थिति- मयत्सतां न सुहृत्स्यात् ॥ १६३०॥ हे हरिमहिळे ! पातालं कर्तृ। तब नाभेस्सख्यमेत्य तत्तुल्यं भूत्वेति हृदयम्। अपारं यथा स्यात्तथा हितं आपं सत् पक्षे पारहितसिति च्छंद: पावर्णविधुरं सत् स्तनयोस्सख्यमप्य- गात् तालं तालफलं सत् कुचतौल्यमप्यलभतेति भावः। शब्दा- र्थतादात्म्यं न विस्मर्तव्यम्। तथा हि-सर्वगुरु सर्वेषामपि पूज्यं सतां महतां स्थि्ति मर्यादां अयत् प्राप्ुवत् वस्तु क्वनु कस्मिन्वस्तुनि सुहत् न स्यात् ईदशं सर्वसुहृदेव भवेदिति भावः। पक्षे सर्वे वर्णाः गुरवः यस्मिन् तत्तथोक्तं सतां ताका- रसहितां स्थिति अवस्थानं प्राप्तं, पातालमिति पदं गुरुभूतस- र्ववर्ण ताकारसहितं चेति तथोक्ति:॥ एवं साधर्म्यवैधमर्थाभ्यां विशेषस्य सामान्येन समर्थने तयोः प्रस्तुतत्वाप्रस्तुतत्ववैलक्षण्यमनादृत्य समुदितान्येवोदाहरणानि य- दयपि प्रदर्शितानि। तथाऽपि अत्र प्रथमप्नभेदस्य 'स्यालो हरे- रितीन्दुः' इत्यादिषूदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामा- न्येन समर्थनं 'त्वय्यत्यादरवांश्चेत्। त्वत्पदरुचिविद्वेषात्' इत्यु- दाहरणयोः प्रस्तुतेन सामान्येनाप्रस्तुतस्थ विशेषस्थ समर्थनं द्वितीयप्रभेदस्य तु'संकल्पादेव जगत्' इत्यादुदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन 'भ्रमरोऽपि तव पदाब्जे, इत्या- दुदाहरणचतुष्टये 'कचिज्ञितोऽवध्वस्तः' इत्याद्युदाहंरणे च अप्र.
Page 144
अर्थान्तरन्याससर: (६३ 133
स्तुतविशेषस्यैव प्रस्तुतेन सामान्येन समर्थनमिति वैलक्षण्यं बोध्यम्।। सामान्यस्य विशेषेण साधर्म्येण समर्थनं यथा- त्वादशसदीश्वरजुषां स्वगुणाश्श्रीनाथ संप्रका- शेरन्। चन्द्राश्रितस्य सान्द्रशश्यामलिमा भाति कृष्णसारस्य ॥ १६३१॥
सन् प्रशस्तः ईश्वर: स्वामी। सतां नक्षत्राणां ईश्वर इति च तज्षाम। अत्र पूर्वार्धोक्तस्य सामान्यस्य प्रकृतस्याप्रकृते- नोत्तरारधोक्तेन विशेषेण साधर्म्येण समर्थनम्॥
यथावा- निरवधिका धनतृष्णा स्फुरति हि निरतिश- यसंपदामेव। नतजनधनमादत्ते विततं यस्माद्र- मानिवासोडपि॥ १६३२॥ अत्र पूर्वार्धप्रतिपादितस्य सामान्यस्य प्रकृतस्य उत्तरार्धप्र- तिपादितेन विशेषेण प्रकृंतेन साधर्म्येण समर्थनमिति पूर्वस्मा- द्विशेष: ॥ पथावा- नियतं जगदीिेन न्यक्कियते जिह्लगो धराभृ- दृपि। अधरीकृतस्सरीसृपगिरीशवरो यद्रमेश्वरेणा- यम् ॥ १६३३॥
Page 145
134 अलङ्कारमणिहारे
अन्रापि पूर्ववदेवाप्रकृतस्य सामान्यस्य प्रकृतेन विशेषेण समर्थनं, श्ेषसंकीर्णत्वं तु विशेष:॥ यथावा- ऋद्धिमतामेवाशा महती यन्नन्दमन्दिरे निव- सन्। पीताम्बरोऽषि भगवान् बत पाटचरदशा- मुपादत्त ॥ १६३४॥ पटश्चरस्येयं पाटच्चरी तां जीर्णवस्त्रसंबन्धिनीं दशा अञ्चलं, पक्षे पाटचरस्य चोरस्य दशा अवस्थां उपादत्त दधिनवनी- तादिचौर्यलीलाया द्शितत्वादिति भावः। 'पटचवरं जीर्णवस्त्रं ।
वस्थांशुकान्तेषु दशा' इति रत्नमाला ॥ सामान्यस्य विशेषेण वैधर्म्येण समर्थनं यथा- शरणगमीश भवाटक्करुणात्मा न त्यजेव्निही- नमपि। विनिधायोत्सङ्गे स्वे विधुः कुरङ्गं श्रितं हि लालयति॥ १६३५॥ अत्र पूर्वारधोद्धीरितस्य सामान्यस्य प्रकृतस्याप्रकृतेन विशेषेण वैधर्म्येण समर्थनम् ॥ यथावा- यो हि निसर्गाच्छ्रेयान् स जगति मूर्धन्यतां स्वयं भजते। कमिह पुरस्कुर्वस्त्वं मूर्घन्याकार- भाग्भवसि कृष्ण ॥ १६३६॥
Page 146
अर्थान्तरन्याससरः (६३) 135
हे कृष्ण! कं पुरस्कुर्वन् पूजयन् आश्रयन्नित्यर्थः। सूर्धन्यः सकलभुवनशिरोमान्य: यः आकार: स्वरूपं तं भजतीति तथोक्तो भवसि। न कस्यचिदपि पुरस्कारेण त्वं सूर्धन्याकारभाक् किंतु स्वभावत एवेति भावः। पक्षे हे कृष्णेति कृष्णशब्दस्यैव संबोध- नम्। त्वं कं कवर्ण पुरस्कुर्वन् सुखतः कुवन् मूर्धन्याः मूर्ध- स्थानकाः ऋकारषकारणकाराः 'क दुरषाणं सूर्धा' इत्यनुशास- नात। ते च अकारश्च मूर्धन्याकारा: तान् भजतीति तथोक्त: भवसि संबुद्धच्यन्तकृष्णशब्दस्य ककारऋकारषकारणकाराकार- भाक्त्वात्तथोक्तिः। अत्रापि पूर्ववदेव। श्ेषचमत्कारस्तु विशेषः ॥ समरथ्यसमर्थकयोरुभयोगि प्रकृतत्वेऽप्ययं दश्यते। यथा- दुर्लभमिह भविता श्रीवल्लभ् किमु मे त्वदनु- गृहीतस्य। त्वत्कृपया यद्र्वीकरोऽपि भूभृद्दरेण्य एवासीत् ॥ १६३७॥ दर्वीकर: शेष: सूदश्च। भूभृद्वरेण्य: गिरिराजः राजमुख्यश्च। अत्र समर्थ्यसमर्थकयोरद्वयोरपि प्रकृतत्वम्। एवमग्रेऽपि। यथावा- रक्षेरिति वरणकृतोऽच्युत विदधद्वशमेव मम मुख्यम। तें शरणकृतं रचयेर्न हीयते जात्वपि त्वदीयजनः ॥ १६३८॥ हे अच्युत ! रक्षेरिति गोपायिता भवेरिि वरणकृतः त्वां वृतवतः मम वंशं कुलमेव मुख्यं श्रेष्ठं विद्धत्सन् 'लक्षणहे-
Page 147
136 अलङ्कारमणिहारे
त्वोः' इति हेत्वर्थे शता। तं वंशं शरणकृतं भरन्यसनरूपो- पायानुष्ठातारं रचयेः कुर्या एव। मद्वंशस्यैव श्रैष्ठ्यविधाने प्रवृत्तस्त्वं तं प्रपन्नं कथं न रचयेरिति भावः । त्वदीयजनः त्वद्नुगृहीतो जनः जात्वपि न हीयते। 'कौन्तेय प्रति- जानीहि न मे भक्तः प्रणश्यति' इति गानादिति भावः। अत्रा- र्थान्तरं-वरणकृतः वरणकृच्छब्दस्य मुख्यं मुखे भवं वं वकारं शं शकारं विदधत्सन् ते वरणकृच्छब्दं शरणकृत शरणकृच्छन्दं रचयेः। वरणकृच्छब्दस्यादिमवकारस्थाने शकारविन्यासे शरण- कृदिति निष्पत्तेरिति। यथावा- तव कृपया राम पुरा वलीमुखोऽपि च चतु- र्मुखो भवति। पङ्मजपलाशलोचन किंकिं न करोति तव कृपा स्वैरा ॥ १६३९॥ हे राम ! वलीमुखः कपिरपि हनूमानिति भावः। तव कृप' या चतुमुखः पुरा भवति भविष्यति। पुराशन्दयोगेन 'यावत्पुरा। इति भविष्यत्यर्थे लट्। स्पष्टमन्यत्।। यथावा- त्वमिव श्रीवल्लभ ते श्रीवत्सशश्रीनिवासताम- यते। स श्रीसध्रचङ् भवति हि यस्तव हृद्यर्सु- लक्षणत्वमियात् ॥ १६४० ॥
हे श्रीवल्लभ!ते तव श्रीर्वैत्स: तन्नामा लाञ्छनविशेष: त्वमिव श्रीनिवासतां श्रीनिकेतनत्वं अयते 'श्रीदश्श्रशिश्श्रीनिवासः।
Page 148
अर्थान्तरन्याससरः (६३) 137
ब्रह्मणि श्रीनिवासे' इति भवत इव तस्यापि श्रीनिवासत्वप्रसि- द्वेः। तथाच तन्मन्त्रवर्णः 'श्रीवत्साय श्रीनिवालाय नमः' इति। लक्ष्मीनिवासस्थानत्वादेव हि तस्य श्रीनिवासत्वव्वहारः। यः पदार्थ: तव हृद्यः हृदयप्रियः वक्षसि सवश्। सुलक्षणत्वं शोभ- नानि लक्षणानि 'शङ्गचकरोर्ध्वपुण्ड्ादिचिहैः प्रियतमैहरे' इत्युक्तानि चिह्वानि यस्य स तथोक्त। पक्षे शोभनं च तल्लक्षणं च तत्वं इयात्। सः सहाश्चतीति सध्रयङ्। श्रियस्सध्रयज् श्रीसहचारी भवति। भगवन्सनःप्रियश्शुमलक्षणश्च चेतनरूप: पदार्थः अप-
पदार्थ: नित्यं थ्रिया सहैव वसतीति च निर्गळितोऽर्थः॥ तयोरप्रकृतयोरप्ययं दशयते। यथा- शुभकुच्छ्ेयो विन्देत्वहवच इव सरलसारत माप्तुम्। तप्त्वाऽघइशीर्ष यद्रसालरस एव सरल- सारोडभृत् ॥ १६४१ ॥ शुभकृत् शुभकारी अ्रय: विन्देत्। 'धुमकृच्छुममाप्नति' इत्युक्तेरिति भावः। रसालरस: इक्षुरसः माकन्दरसो वा। त्वदच इव सरलसारतां उदाररसतां आप्तुं अधरशीर्ष तप्त्वा सरलसार एव अभूम। रसालरसशब्दस्य विलोमतया पठने तथा निष्प- त्तरिति भावः। अत्र समर्थ्यसमर्थकयोई्वयोर्यप्रकृतत्वम्॥। अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थशशाब्दश्चालंकार- ताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमन्भाव इवार्थ एव। हि यत् यस्मान् इत्यादेः प्रतिपादकस्याभावे आर्थः। स च 'असमर्थो थः कार्येष्वपेक्षते स परमन्यसाहाय्यम' इत्यादौ। तत्सरवे शब्दः। सोऽपि 'न विशति हि महोदारः। ALANKARA_III. 18
Page 149
".' .
138 अलकारमणिहारे
त्वत्कृपया यद्दर्वीकर:' इत्यादौ दर्शितः। अत्र वक्तव्यमन्यत्सर्व- मुदाहरणा लंकारनिरूपणावसरे दर्शितमिति नात्र प्रतायते। अत हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्काक्रमप्राप्ं समर्थ्यसमर्थकवा- क्ययोः पौर्वापर्यमिति न मन्तव्यम्। न ह्यत्र समर्थकं समथ्या नुपपत्युन्मीलितायामाकाङ्कायां सत्यामेवाभिधीयत इत्यस्ति निय- मः। अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थ कविभिस्तस्याभिधानास्। एवं काव्यलिङ्गेऽपि। एवं च तयोवैंपरीत्येऽपि न दोषः ।। यथावा- सरिदधिपे शिखरिणि वा सदशं वर्षति धना- घनस्सलिलम्। अवधीरितनिन्नोन्नतविभागमच्युत भवादृशौदार्यम्॥ १६४२॥ अत्र पूर्वाधगत एव विशेष: उत्तरार्धगते सामान्बे प्रस्तुते समर्थक:॥ इत्यलंकारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः - -:: 4 ..
अथ विकस्वरालंकारसरः (६४)
सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते॥ कस्यचिद्विशेषस्य समर्थन सामान्येन विधाय तत्प्रसिद्धाप- परितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तर. न्यासविधया वा क्रियते स विकस्वरो नामालंकारः॥
Page 150
विकम्वरालंकारसर: (६४) 139
य्था- न्यस्तभरं त्वयि मामिह न स्तोकं वाऽपि कर्म बाधेत। किमपि विबाधितुमीष्टे न भाग्यवन्तं यथा रविं ध्वान्तम् ॥ १६४३ ॥ किमपि वस्तु, इद कर्तृ। ध्वान्तं तमः, इदमपि कर्तृ। इदमु- पमानरीत्या विशेषान्तरन्यसने उदाहरणम॥। अर्थान्तरन्यासविधया यथा- सत्स्वपि शिखरिषु बहुषु श्रीवास त्वं श्रितो- Sसि वृषशैलम्। न हि सर्वे भाग्यभृतो मिषत्सु विबुधष्ववाप हि श्रीस्त्वाम् ॥ १६४४॥ यथावा- कृपया राज्यं प्रादाः कपये महतां निरङ्कुशा हि कृपा। गोपस्याप्यच्युत तव जगदीशत्वं ददौ हि जलिसुता ॥ १६४५॥
जगन्नाथाद्यस्तु-प्रकृतविशेषस्य सामान्येन समर्थनादेकोर्डर्थान्त- रन्यास:। सामान्यस्य विशेषेण समर्थनादपर इति भेदद्वय- समावेशांत्मकताया: स्फुटत्वात्तत्संसृष्टचैव गतार्थत्वान्नालंकारा- न्तरस्वीकार उचित इतयाहु:॥ इत्यलंकारमणिहारे विकस्वरालंकारतरश्चतुष्षष्टितमः
Page 151
अथ प्रौढोक्तिसर: (६५)
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम्। मौढोक्तिरेषा कथिता जयदेवमुखैबुघैः॥ किंचिदुत्कर्षाहेतुभूते वस्तुनि तद्धेतुताकल्पनं प्रौढोक्तिरन्नामा- लंकारः ॥ यथा-
रणे सुभगंकरणे स्मरणे स्तां मे हरे: प्रियंक- रणे ॥ १६४६।।
स्वस्य तद्धेतुत्वकल्पनम्॥ यथावा-
मुदसिताः । मुरवैरियश:पूरा हरिता कर्पूरलेषमा- दधते ॥ १६४७॥
त्वादेरहेतुत्वकल्पनम्।। रसगङ्गाधरकारस्तु "कस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्र- तिपिपादयषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्ति:' इति अस्यालंकारस्य लक्षणमाह। तद्दमुदाहरणम्-
Page 152
प्रौढोक्तिसर: (६७) 141
जलनिधिकन्ये मन्ये जलरुहजन्माऽसृजत्तवापा- डगन् ॥ १६४८॥।
अश्नापाङ्गेषु न केवलं शैशिर्यादयो मलयानिलकिशोरमात्रगुणा एव कबे: प्रतिपिपादयिषिताः, किंतु सकलजगदुजीवयितृत्वा- दयोऽन्येऽपीति मलयानिलसारांशेषु चन्द्रकरसंसर्गो विशेषणत- याऽतिशयार्थमुपात्तः। उत्पाद्योत्पादकभावश्चात्र न लोकम्रसिद्धः। किंतु कविप्रतिभामात्रनिवद्धः। अन्न च धर्मिविशेषसंसगदति- शयो धर्म्यन्तरगतो यदि व्यञ्जनविषयः तदैवायमलंकारः । यदि वाच्यवृत्या तंत्तत्वयुक्तत्वेनाभिधीयते तदा समालंकारस्वैव विषयः। यथा- पझ्मे प्रादुरभू : किल पझ्मे पझ्मे विभार्षि पाणि- भ्याम्। आसे पद्मनाभहृदयावसतिस्त्वं पद्मग- न्विरिति युक्तम् ॥ १६४१ ॥
त इति सम एवालंकार:। एवं चास्य मते- 'एकांनविंशसंख्यकपुराणतः किंच षष्ठवेदेन। हेयगुणास्तव- भगवन् ख्या्यन्ते भाविमातृगर्भभवैः'॥ इत्यादावेकस्य मिथ्यात्वसिद्ध चर्थ मिथ्याभूतवस्त्वन्तरकलपनं मिथ्याध्यवसित्यलंक्रारान्तरमिति न वक्तव्यं, प्रौओोक्तचैव गतार्थ ल्ान्। 'कचाः कळिन्दजातरितमालस्तोममेचकाः' इत्यादौ
Page 153
142 अलङ्कारमणिहारे
प्राचीनकृतप्रौढोकत्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थ इयामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्धाव्यते तथा हेयगु- णेषु मिथ्यात्वातिशयसिद्ध वे मिथ्यात्वाधिकरणैकोनविंशसंख्याक- पुराणादिसंबन्ध इत्यस्यापि सुवचत्वात्। यदिच मिथ्याध्यबसि- तिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्या- पाद्यता रसगङ्गाधरकृता- हरिश्चन्द्रेण संजप्ा: प्रगीता धर्मसूतुना। खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव। इत्यायुदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते। एवं- मध्ये सुधासमुद्रस्य सितामयगृहोदरे। पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः॥ अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमान: कस्यालङ्कारस्य गोचर: स्यात्। अतोऽलंकारान्तरं स्यात्। मम तु प्रौढोक्तैयव गतार्थतेत्युक्तम्॥। इत्यलंकारमणिहारे प्रौढोक्तिसर: पश्चषष्टितम:
अथ संभावनासरः (६६)
संभावनं स्याद्यदेवं स्यादित्यूहोऽन्यसिद्वये।। यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम्।।
मम कोटिवदनता स्याददि पुरुषायुषमिदं च यथा-
कोटिगुणम। ईशीय हरे स्तोतुं कोटितमांशं त्वदेकगुणभूम्रः॥।१६५०॥
Page 154
संभावनासर: (६६) 143
यथावा- सितकिरणकिरणनिकरव्यतिकरतो द्रावित- स्तुषारगिरिः। घनसारसारमसृणो यदि तुलये- न्राथ तव कृपासारम् ॥ १६५१॥ अत्राद्े स्तोतु: कोटिवदनत्वादितर्कणं भगवदेकगुणमहिम- कोटितमांशतर्कणसाधनम्। द्वितीये तुषारगिरेश्चन्द्रकरद्रवीभूत- त्वादितर्कणं भगवत्कृपासारतुलनार्हतातर्केणसाधनम्।। यथावा- कर्मानुगुणफलप्रदभर्त्रनुरोधश्रमोSम्ब तव नो चेत्। धनिदीनविभागकथादूरमिदं श्रीमदेव भुवनं स्यात् ॥ १६५२ ॥ बथावा- अहमेव यदि विधाता जातु भवेयं हरे भव- त्कृपया। खलवदनगहननिपतनविसंस्थुलां न रचयेय ननु वाणीम ॥ १६५३॥ यथावा- यदि तादृशशेषत्वं सिध्येन्मम तर्हि कथमपी- शीय। लावण्यविभवमच्युत तव वक्तुं श्रोतुमीक्षितुं वादपि॥ १६५४ ॥ तादृशशेषत्वमिति। शेषत्वं तादृशेति विशिषतोऽयमभिप्रा- यः-यद्यप्यधुनाऽपि स्वाभाविक भगवद्नन्यार्हशेषत्वमस्ति तथा-
Page 155
144 अलंकारमणिहारे
पि भगवल्लावण्यवर्णनादिपठुतरं सहस्रवदनत्वरूपं शेषत्वं नास्तीति। वत्तुं द्विसहस्त्ररसनत्व दित्ति भावः । श्रोतुमीक्षितुं वाऽपि द्विसहस्त्रनयनत्वादिति भावः । स हि चक्षुशश्रवाः॥ यथावा- उज्झित्वा बकवृतति ननुशिष्टस्तत्वविद्धवन् स्तब- कः। साध्वग्रभवन एव स्पादयदि लक्ष्म्यास्तदा स्तनत्वमियात् ॥ १६५५ ।। स्तबक: गुच्छः स्तवकशब्दश्च। वकवृत्ति 'अधोद्ष्टिर्नैक- तिकस्स्वार्थस्साघनतत्परः, इत्यादुक्तां वकवृत्ति वकेत्यारकवर्णद्- यस्थिति च । उज्झित्वा त्यक्त्वा शिष्टः आचारशीलः तत्त्व- वित् तत्त्वज्ञश्च भवन्। पक्षे शिष्टः उर्वरितः यः स्तः स्त इत्याकारकवर्णसमुदयो यस्य तथाभूतस्स्न् ब क वर्णलोपे स्तका- रमात्रावशिष्ट इत्यर्थः । साधूनां सात्विकानां रम्यवस्तूनां वा अग्रे सवन स्थितिः यस्य स तथोक्त एव। पक्ष साधु यथा तथा अग्रभवः चरमश्रूयमाणः नः नकारः यस्य स तथोक्त एव स्याददि तदा लक्ष्म्या: स्तनत्वं इयात् रुतनजन्म प्राप्तया दित्यर्थः । स्तवकशब्द: बकवर्णलोपेन अघसाने नवर्णघटनेन च सतन इति निष्पद्यत इति भावः। अत्र स्तबकस्य वकवृत्तिप- रित्यागादिपूर्व कसाध्वग्र लवनत्वतर्कणं लक्ष्मीस्तनत्वप्राप्तितर्कणसा- धनम्। ऋ्रंपादिकं तु पूर्वेश्यो विशेषः । यथावा- जननि मम स्तुत्या त्वं तनुया यदि च दरम- न्तरामोदम्। सिद्धघेद्दामोदरपदमथ मम नास्त्य- त्र विशयलेशोडपि ॥१६५६॥
Page 156
संभा वनसरः (६६) 145
हे जननि! मम स्तुत्या मत्कर्तृकस्तवेन दरं अल्पमपि अन्तः मनसि आमोद प्रहर्ष तनुया यदि अथ तदैव मम दामोदरपद परम पद सिद्धेचत्। पक्षे दरं दश्च रश्च अनयोस्समाहार: दरं अन्तरा 'अन्तरान्तरेणयुक्ते' इति द्वितीया। दकरारेफयोर्मध्ये इत्यर्थः। आमोदं आमोदशब्दं तनुया यदि दामोदर इति पदं शब्द: सिध्येत् इत्यर्थः । अत्र स्तोतुर्यत्किश्चिच्छ्रीहृदयामोदोदयतर्कणं दामोदरपदासेद्धितर्कणस्य साधनं श्रेषसंकीर्णम्। एवमग्रेऽपि।। यथावा- त्वदुदारकरविधूतस्सुरागमो वीतराग एव भ- वन्। यदि सुमतया परिणमेन्तदा तु तेऽ्च्युत नखेन सदशस्स्यात् ॥ १६५७॥ हे अच्युत ! सुरागमः कल्पतरुः तव उदारेण करेण विधूतः अतएव वीतराग एव विधूननजनितदैन्यातिशयेन विरक्त एव भवन् तपस्वी भवन्निति यावत् । सुमतया शोभना मा लक्ष्मीः यस्य स तथोक्तः सुमः नस्य भावः सुमता तया शोभनल- क्षमीविशिष्टत्वेनेत्यर्थः । परिणमेद्यादि जायेतचेत्। पक्षे पुष्पतया परिणतो भवेदयदीत्यर्थः । तदा तु ते तव नखेन सद्ृशस्स्यात्। अत्र सुरागमशब्दः वीतरागः विगतरावर्णगवर्णश्चेत् सुमतयैव परि- णंस्यतीत्यर्थोऽपि चमत्कारी। अत्र सुरागमस्य सुमतापरिणति- तर्कणं नखसादृश्यतर्कणसाधनम ॥।
यदि जातु विजानीयाच्छ्रीजाने तावकीनमौ- यथावा-
दार्यम्। देवतरुस्स तदात्वे नासत्यं देवदारुतां या- यात् ॥ ५६५८॥ ALANKARA-III. 19
Page 157
146 अलङ्कारमणहारे
देवतरुः अचेतन इति भावः। जातु कदाचित् तावकनिं औदार्य जानीयाद्यदि। चेतनकार्यस्याचेतनेSसंभवाद्यदीति संभा- वना। सः देवतरुः तदात्वे तत्काल एव देवदारुतां भद्रदारु नामक्षुद्रतरुविशेषतां यायात् यत्रक्वाप्यरण्ये देवदारुतरुवदौदार्य- प्रथागन्धदवायस्तया संकुचितो वर्तेतेति भावः। पक्षे देवतरु देवतरुशब्दः तदात्वे तकारस्य दावर्णत्वे तकारमपनीय दाकारे पठिते इति यावत्। देवदारुतां यायात् देवदारुशब्दो भवे- दिति भावः। अत्र देवतरोभैगवदौदार्यज्ञानसंभावनं तद्देवदा- रुतासंभावनसाधनम् ॥ यथाचा- त्वां तत्त्वेन वृषाचलकान्त बिडौजा द्विषीत यदि जातु। स भवेदेव गतौजास्सालो भूत्वा- इन्ततो बिडालोडपि॥ १६५९॥ हे धृषाचलकान्त! बिडौजा: इन्द्रोऽपि भ्रातृत्वेन व्यपदे- इयोऽपि किमुतान्य इति भावः। जातु तत्त्वेन वस्तुतःन त्वारो पितकोपन त्वां द्विषीत यदि तदा तर्हि बिडौजा गतौजास्सन् भगवद्विद्वषमहिस्ता निस्तेजास्सन् साल: वृक्षो भूत्वा स्थावरजन्म लब्ध्वत्यर्थः । अन्ततः पर्यवसाने बिडालोपि भवेत्। स्थावरज- न्मना व्यपर्नीतकियत्पापस्तिर्यग्जन्माऽपि लभेतेति भावः। भगव- द्विद्वेषफलमद्टिगित्यभिप्राथः । पक्षे बिडौजा इति शब्द: गताः ओजा इत्याकारकवर्णौ यस्य स तथाक्तः। अन्ततः चरमभागे ओ जा इत्याकारकवर्णापगमे परिशिष्टस्य बिडेत्याकारकवर्णस्य चरमभागे इत्यर्थः । साल: आल इत्याकारकवर्णसमुदयसहित- सन् बडाल इात निष्पद्यत इत्यर्थः । अत्र बिडौजसो भगव-
Page 158
संभावनसर: (६६) 147
द्विद्रेषसंभावनं सालबिडालतासंभावनसाधनम्। विच्छित्तिविशे- षस्तु व्यक्त एव ।। यथावा- हंत्वाऽच्युत तव कान्ति क्वचन ग्रावणि निली- नमसिताभ्रम। दर्शयति कान्तिमत्वं यदि तर्हि बुघैः क्रियेत तद्रस्म ॥ १६६०॥ हे अच्युत! असिताभ्रं नीलजलद: तव कान्ति हत्वा क्वचन कस्मिचित् ग्रावणि शैले। पक्षे प्रस्तरे, 'आवाणौ शैलपाषाणौ' इत्यमरः। विलोनं सत् कान्तिमत्वं स्वस्य द्यतिमत्वं, पक्ष कः कवर्णः अन्तिमो यस्य तत्तथोक्तं तस्य भावस्तत्वम्। अस्मिन् पक्षे अन्तिमत्त्वमित्यत्र तकारस्य 'अनचि च' इति द्वित्वम्। दर्शयति यदि तर्हि वुधैः धर्मशास्त्रज्ञैः आयुर्वेदज्ञैश्च तत् अभ्रकं भस्म क्रियेत जगदोश्वरप्रशस्तवस्तुहरणदुरितापनोदनानुरूपभ- स्मान्तप्रायश्चित्तगोचरीक्रियेतेति भावः। पक्षे भसितं क्रियेत। कृष्णाभ्रकस्यैव भस्माविषये ज्यायस्त्वस्मरणाद़िति भावः। अत्रा- सिताभ्रस्य क्वचिद्रावण कान्तिमत्वप्रकाशनतर्क्णं भस्मीकरणत- र्कणं प्रति साधनम्। चमत्कारातिशयस्तु पूर्ववदेव।। यथावा- रघुवीर महादेवो महाहवो यदि भवेत्वयि कदाचित्। सत्यं स देहभिदया विकृतसस्यात्वं हि दलिततद्धन्वा ॥ १६६१॥ हे रघुवीर! महादेवः मृत्युंजय: त्वयि विषये कदाचत् महा- हवः प्रवर्तितप्रबलरणो यदि सः महादेवः देहस्य शरीरस्य भिदया
Page 159
148 अलंकारमणिहारे
त्वच्छरकृतविदारणेन विकृतः स्यात् सत्यं नात्र संशयः। तंत्र हेतुमाह हि यस्मात् त्वं दलितं तस्य शंभोः धनुः धन्व वा येन सतथोक्तः। तस्मात् त्वया कृतमहारणोऽपि महादेवो देहवि- दारणेन विकृतस्स्यादेवेति भावः । पक्षे देहभिदया देकारस्य हकारण भेदनेन विकृतस्स्यात्। महादेवशब्द: महाहवशब्दत- या विकृतस्स्यादित्यर्थः। अत्र महादेवस्य रघुवीरविषयकमहाहव- त्वसंभावनं तद्देहावेदळनप्रयोज्यविकारवत्त्वसंभाधनसाधनं हेतू- पष्टम्भेन निबद्धम्।। यथावा- भगवन्मुकुरः कुसृतेस्स्याच्चे=वद्गण्डमण्डलजि गीषुः । शकलीभवेत्स नूनं त्वं मुरदलन इति स किल नाज्ञासीत् ॥ १६६२॥ हे भगवन्! मुकुर: कुसृतेः शाठ्यात् कुत्सिता सृतिः कुसृतिः कुमार्गः 'कुसृतिर्ननिकृतिश्शास्यम्' दात कपटपर्यायेष्वमरः । पक्षे कु इति वर्णस्य सृतेः अपसरणात् 'सृ गतौ' इत्यस्मा- द्वातो: क्तिन्। मुकुरो मुर इति निष्पन्न इति भावः। शब्दार्थयो- स्तादात्म्यम्। त्वद्गण्डमण्डलजिगीषुस्स्याच्चेत् शकलीभवेतू। नूनं नात्र संदेग्धव्यमिति भावः। अथैवं मुरत्वं प्राप्तोऽपि मुकुरः मुरभिदस्तव विजिगीषायां कथ प्रवृत्त इत्यत आह-त्वमिति। सः मुकुर: त्वं मुरदलन इति नाशासीत्किल। नाजानादिति संभा- वये इति भाव:।। यथावा- अविकुलमप्यविकलमिह मुख्येनाशेषपालकेन
Page 160
संभावनसरः (६६) 149
यदा। दश्येत तदा सत्यं भवेत्कविकुलं विमृ- शयता सम्यक् ॥ १६६३॥ अविकुलं मेषवृन्दमपि अत्र अविशब्दः अविसदृशे लाक्षणिक.। अतिमात्रमूर्खाणां समूहोऽपीत्यर्थः । मुख्येन अगौणेन अशेषपाल- केन सर्वेश्वरेण भगवता अविकलं यथा स्यात्तथा यदा दश्येत कटाक्षविपयीक्रियते। तदा कविकुल काव्यकृद्विद्द्वन्दं भवे सत्यं नात्र संदेहः। यदि संदहः तर्हि सम्यग्विमृश्यताम्। भगव- त्प्रभावविमर्शे उक्तोरऽर्थस्सम्यज्ञायत पवेति भावः। पक्षे अवि- कुलमिति पदं अविकलं अकारेण विकलं सत् मुख्येनेति वक्ष्य- माणत्वादाद्येनाकारेणेति लभ्यते। हे अशेषपाल सर्वेश्वर भगवन् मुख्येन आद्येन केन कवर्णेन यदा दृश्यते च्याविताकरेण आद्य- कवर्णेन घटितं दृश्यतेचेत् तदा कविकुलमित्येव भवेदित्यर्थः। अत्राविकुलस्य भगवत्कटाक्षगोचरत्वतर्कणं कविकुलत्वतर्कणसा- धनमित्यादिकं द्रष्टव्यम्॥ यथावा -... तुलनायालं वचसस्स्वं तव यदि नाम कोकि लोडवेयात्। किं छ्विन्नमस्य जानन्कोलं तं जननि बुद्धिमान् ब्रूयात् ॥ १६६४॥ हे जननि ! कोकिल: तव वचसः तुलनाय साम्याय स्वं आत्मानं अल समर्थ यदिनाम अवेयात् जानीयात् 'नमस्स्वस्ति' इत्यादिना चतुर्थी। अस्य अतिश्राव्यतया प्रत्यक्षस्य तव वचसः कक छिन्नं किं न्यूनं भवेत्। कोकिलस्य स्वैरं तथा समर्थमन्यत्वे
Page 161
150 अलङ्कारमणिहारे
त्वद्वघसीSप्रतिद्वंद्विरामणीयकस्य का हानिर्भवेदिति विदन्निति भावः। कः बुद्धिमान् तं कोकिलं अलं त्वद्वचनतुलापर्यातं ब्रूयात्। किंच त कोलं सूकरं बयादित्यप्यर्थः। स्वपरगुणतारतम्य- विमर्शनाकुशलो यदि कश्विदपकृष्टं स्वमुत्कृष्टसधर्माणं जानी- यात् तं निपुणमतिस्स्थूलमति सूकरसदशमेव मन्येतेति भाव:॥ पक्षे अस्य कोकिलस्य कि कीतिवर्ण छिन्नं निरस्तं जान- न्नित्यर्थः। शब्दार्थयोस्तादात्म्यम्। बुद्धिमान् त कोकिलं कोलं व्रयात् कोकिलशब्दस्य किवर्णल पे कोल इति निष्पत्तेरिति भावः। अत्र यदिनामेत्यादहनं कोल तमिद्यायूहंप्रति साधनम्। चमत्का- रातिशयस्तु व्यक्त एव ॥ यथावा- तव चरणारुणलक्ष्मीं हत्वाऽपि यदार्यमेव मनुते स्वम्। सूर्यकरस्तर्हि भवेत्सूकर एवाम्ब तत्र को विशयः ॥ १६६५॥ आर्ये पूज्यमेव। पक्षे अर्य अविद्यमानर्यवर्णमित्यर्थः। अत्र चौर्यकर्तुरपि सूर्यकरस्यार्यताज्ञनसंभावनं तस्य सूकरतासंभावन- साधनमिति लक्षणानुगतिः॥ यथावा- यदि तव वाग्रसमीप्सेत्स्वादिमविधिरोSरसत्व भाङ्मकरन्दः। मालक्ष्योडग्रे माधव विन्दतु माक- न्दतामियात्सफलत्वम् ॥ १६६६॥ हे माधव! इदं वक्ष्यमाणार्थोपस्कारकम। स्वादिस्ा स्वादु- तया रहितः तत्र हतुः-अरसत्वभागिति। अविद्यमानः रसः
Page 162
संभावनसरः (६६) 151
मधुरायुत्तमरसः यस्य स तथोक्त। तस्य भावः तत्त्वं केनापि श्ाध्येन विधुरतया अभोग्य इति भावः ॥ रसस्स्वादे जले वीर्ये शृङ्गारादी विषे द्रवे। भोगे रोगे देहधातौ तिक्तादौ पारदेऽपिच॥ इति हेमः। मकरन्दः उक्तिविशेषणमहिस्रा क्षुद्रतमयतकचि- त्पुष्परस इति लभ्यते। त्वद्वाचः रसं आस्वादं ईप्सेदादि अग्रे उत्तरस्मिन् काले मालक्यः यादृच्छिकादिसुकृतपरिपाकवशेन लक्ष्मीकटाक्षविषयस्सन् माकन्दतां सहकारफलतां 'माकन्दससह- कारेऽपि' इति हेममेदिन्यौ। मां श्रियं कन्दति आह्वयति स्वर- क्षणार्थमिति माकन्दः। तत्तां लक्ष्मीशिशुतामिति व गम्यते। कदिधातोराह्वानार्थकात्कमण्यण्। विन्दतु। तदा सफलत्वं स्वा- भीप्सितत्वद्वाग्रसरूपफ उसहितत्वं तद्भाकत्वमित्यर्थः । इयात्। ईदशमाकन्दजन्मपरिग्रहे सत्येव माधवस्य तव वाग्रसं विन्देत। न तूक्तमकरन्दरूपेण स्वात्मनेति भावः । पक्षे स्वस्य आदि: आद्यः यः मः मकारः तद्विघुरः। सतो भावः सत्वं रस्य सत्त्वं रसत्वं तन्ज-, तीति रसत्वमाक्। सन भवतीत्यरसत्त्वभाक्। मकाररेफशून्य इति विशेषणद्याभिप्रायः । मकरन्दः मकरन्दशब्द: कन्द इति निष्पन्नस्सन्निति भावः। अग्रे आदौ माः मावर्णः तेन लक्ष्यः इश्य- स्सन्। माकन्द इति निष्पन्नः । सः फलत्वं इति छेद: । सः माकन्दशब्दः फलतां फलवाचकतामिति यावत्। इयात्। अत्र मकरन्दुस्य माकन्दृत्वसंभावनं भगवद्वाग्रसलाभरूपफलवत्तासं- भावनस्य साधनम्। शब्दार्थतादात्म्यभित्तिकश्ेषमूलकाभेदाध्य- वसायोजीवितमिति धे्ययम्॥ इत्यलंकारमणिहारे संभावनसर: पटष्टितमः
Page 163
अथ मिथ्याध्यवसितिसरः (६७)
मिथ्यार्थोऽन्यः कल्पतेच्ेत्किंिन्मिथ्यात्वसि दये। मिथ्याध्यवसितिर्नाम साSलंकृतिरुदा- हता ॥ कस्यचिदर्थस्य मिथ्यात्वसिद्धघर्थ मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवसितिर्नामालकारः। यथावा- गणनातिशायिघृणिना पयोजसुहृदा त्रयोद शेन शुचीनाम् । सन्तमसं हन्त हृदभ्यन्तरगं त्वज्ुषां निरासि मुरारे॥ १६६७॥ हे मुरारे! गणनाततिशायिनो घृणयः किरणाः यस्य तेन तथोक्तेन त्रयोदशेन पयोजसुहद़ा सहस्रमात्रसंख्याककिरणतया द्वात्दशात्मतया च प्रथितान्ास्वतोऽन्येन भास्करेणेत्यर्थः। त्वज़षा त्वाय प्रीतिरूपापन्नध्यानभाजां न्यासविद्यया त्वां सेवमानानां वा 'जुषी प्रीतिसेवनयोः' इत्यस्मात्किवप्। शुचीनां 'क्षेत्रज्ञस्येश्वर- जप्नाद्विशुद्धि: परमा मता' इत्यायुक्तसर्वप्रकारविशुद्धिभाजा- मित्यर्थः। अग्नीनामित्यप्युपस्कार्यम्। हृदभ्यन्तरगं अन्तरं संत- मसं तमोगुणरूपं महात्तिमिरं निरासि निरस्यत। अत्र भगवत्प्र- पन्नशुचिहृत्तमसोप्त्यन्तासंभावितस्य निष्पत्तये त्रयोदशभास्क- रकर्तकनिरासोऽत्यन्तासंभावितो निबद्धः । इद श्लेषसंकीर्णम्॥
Page 164
मिथ्याध्ववासितिसर: (६७) 153
यथावा- अतसी परिभूता तव रुच्या तप्त्वा वनेष्वध- इशीर्षमू। अन्ते संवेस्सीता स्याच्चेतवद्रुचिमिया- द्रधुकुलेन्दो ॥ १६६८ ॥ हे रघुकुलेन्दो! इद विवक्षितारथोपस्काराय। अतसी क्षुमा- कुसुमं 'पुष्फमूलेवु बहुळम्' इति लुक। तब रुच्या त्विषा परि- भूता सती वनेषु अघश्शीर्षे तप्त्वा। पक्षे वैपरीत्येन स्थित्वे- त्यर्थः। अन्ते पर्यवसाने संधे: वलवद्विरोधोऽनुचित इति संधि कृत्वेत्यर्थः । पक्षे संहितात्वविवक्षाया इति यावद्। सीता स्था- द्ेत् जानकीरवं प्राप्ाचेत् तहुचिं तब द्यात त्वय्यनुरागं च इयास्, अन्यथा तस्यास्त्वदुचिर्न सुलभेति भावः। पक्षे अतसी- शब्दव्यक्ति: वैपरीत्येनावस्थिताचेत् सीत अ इति स्थात्, तत-
स एव दुर्धटः 'अतो गुणे' इति पररूपलक्षणेकादेशे सवर्ण- दीर्घाप्रवृत्तेः। तथाच सोत हत्यदन्त एवायं शब्दो भवेत्। न तु सत्षेति दीर्धान्त इति भावः। अन्रातस्या: श्रीरघुनन्दनरु- चिप्रापेरतिवेलासंभावितस्य निवत्चर्य तस्यास्सीतात्वप्रात्तिरुपा- तिवेलासंभावितत्वकल्पनमू। श्ेषचमत्कारान्तरादिकं व्यक्तमेव।।
यथावा- अष्टमजलधौ जनितष्पष्ठो निर्जरतरुवृषाद्रि- मणे। त्वनोदवि वदान्य इति स्रष्टा पष्ठेन वदति वदनेन ॥ १६६९॥ ALANKARA_III. 20
Page 165
154 अलंकारमणिहारे
इदं शुद्धमुदाहरणम्। एवं प्रौढोक्त्यलंकारनिरूपणे प्रसङ्गा- दुपदर्शितं 'एकोनविंशसंख्यकपुराणतः' इति पद्यमपि शुद्धमे- वास्या उदाहरणम् ॥ चन्द्रालोके तृतीये काव्यलक्षणमयूखे काव्यलक्षणत्वेन यानि
युक्तिकार्याणि दश निरूपितानि; तानि कुवलयानन्दे चम- त्कारितयाऽलंकारपदे निवेशितानि दीक्षितैः। तेष्वेकतमेयं मि- थ्याध्यवसितिरिति ध्येयम। तत्रैतल्लक्षण लक्ष्यं चैवं दृश्यते- स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने। चन्द्रांशु सूत्रग्रथितां नभःपुष्पस्रजं वह।। इति। वक्तव्यान्तरं तत्तद्यसरे स्फुटीभविष्यति॥ इत्यलंकारमणिहारे मिथ्याध्यवसितिसरस्सप्पाष्टतमः
अथ ललितालंकारसरः (६८)
धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना। तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम्॥ प्रस्तुतधर्मिणि प्रस्तुतव्यवहारानुल्लेखेन तत्रैव निरुप्यमाण: प्रकृतव्यवहारसंबन्धो ललितालंकारः। 'दोर्भ्यामब्धि तितीर्षन्त- स्तुष्टुवुस्ते गुणार्णवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम्। अप्रस्तुतप्रशंसावारणाय प्रस्तुतधर्मिणीति॥
Page 166
ललितसरः (६८) 155
यथावा- क्वाहं भवमरुपान्थः क च तव सायुज्यनित्य- साम्राज्यम्। इत एवाच्युत सहसा सुमेरुश्रृङ्गाग्र- मभवमुत्पित्सुः ॥१६७० ॥ अत्र भवमरुपान्थ एव सन्नहं दुरासदत्वदीयनित्यसाम्राज्यप्रे- प्सुरस्मीति प्रस्तुतव्यवहार विषयं कण्ठरवेणाप्रतिपाद्ैव तत्प्ति- बिम्बभूतः दुरारोहं सुमेरुश्ञ्ञाग्रमित एकोत्पातेनैवाधिष्ठातुमि- चछामीति विषययुपनिवद्धः। विषयोपादाने तु निदर्शनैव।। यथावा- माटङूमितवचनः क्व त्वाटड्निगमागणेयसु- गुण: क। भूमिष्ठ एव कल्पकसुमनिचयं निखि- लमपचिचीषामि॥ १६७१ ॥ अत्रापि मितंपचमतिरहं निगमापरिच्छेद्यभगवदनन्तकल्या- णगुणविवक्षुरस्मीति विषयमकथयित्वैव भूमिष्ठ एव सकलकल्प- तरुकुसुमान्यपचिचीपामाति विषययेव निबद्धः। यथावा- यद्यपि नाहं पात्रं हृद्यतमाया हरे तव कृपा- याः । उन्मर्याद उदन्वानुत्सर्पति चेदमुं निरु- न्ध्यात्क: |१६७२।। अन्नापि त्वें नीचेऽपि मथि निरर्गळकपाप्रसरश्चेदपर्यतुयो- ज्यस्वातव्तचवैभवं त्वां को नाम निरोद्ुमीष्टामिति बिम्बभूतवा-
Page 167
156 अलङ्कारमणिह्ारे
क्यार्थानुलेखेन उन्मर्याद इत्यादिप्रतिबिम्बवाक्यार्थ एवोपन्यस्तः। यथावा- महतां सतां कुले मां विहितकृपस्त्वं व्यजी- जनइशौरे। निबुसीकार्य धान्यं निविडे वातेऽ- नुवात्येव ॥। १६७३।। निबिडे सान्द्रे वातेनुवात्येव अनुकूलतया बहमान एव धान्यं तुषाविविक्तमिति भावः । निवुसीकार्य निस्तुषीकार्य 'कडं- गरो बुसं क्ीबे धान्यत्वचि तुषः पुमान्' इत्यमरः। निगतं बुसं यस्य तन्निवुसम्। अत्र यादृच्छिकादिसुकृृतवशात्सत्कुलप्रस- वावसर एव परमपुरुषार्थस्साधनीय इति विषयवाक्यार्थमप्रति-
यथावा- श्रुतिपठिती वा भवतु स्मृतिपठिती वा हरिं न विन्देदः। न हि कुक्करस्य रटतो भेदस्स्यात्कु- क्ुटस्यापि। १६७४ ॥ यः हरिं न विन्देत् सः श्रुतिपठिती स्सृतिपठिती वा भवतु; उभयत्रापि पठितमननेति विग्रहे इष्टादिभ्यश्चेति क्तरि इनिः तद्योगे श्रुतिस्सृतिशब्दयोः 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' इति कर्मणि सप्तमी। ततस्सप्मीसमासः, तयीं धर्मशास्त्रं वा पठितवान् स्यादित्यर्थः । कुक्करस्य शुनः कुकुटस्य च रटतः श्रुतिकडु ध्वनतः भेदो न हि स्यात्। उभयोरपि नैरर्थक्यस्थ तौल्यादिति भावः। पक्षे कुक्कुर कुक्कटशब्दयोः, रटतो सेद इत्यत्र अभेद इति छेदः।
Page 168
ललितसर: (६८) 157
रटाश्यामभेंदो न किंतु मेद पवेत्यर्थः। अत्र भगवद्भजनहीनश्रुति स्सृतिपठनं निरर्थकमिति वर्ष्यमनुक्त्वा तत्प्रतिबिम्बमेव निबद्म्। यथावा- केऽपि भजन्ते त्वदितरमितरे त्वामेव देव सेव- न्ते। काका: काका एव ह्यधरितशिरसोऽपि किं नु हंसास्स्यु: ॥१६७५॥ काका: वायसाः अधरितशिरसोऽपि। पक्षे काका इति शब्द: विपरीतोऽपीत्यर्थः । अत्र देवतान्तरं रजतां महतापि प्रयासेन भगवद्भक्तजनसाधर्म्ये न घटत इति विषयवाक्यार्थ- मप्रदर्श्य तत्प्रतिबिम्बवाक्यार्थ एव वर्णितः चमत्कारान्तरं तूदा- हरणद्वयेऽ्रपि व्यक्तमेव।। न चात्र सर्वत्रापि मेदेऽव्यभेद इत्यतिशयोक्त्या चारिता- थचमिति वाच्यम्। तत्र हि पदार्थेन पदार्थस्यैवाभेदाव्यवसानम् 'कनकलतायां विराजते चन्द्रः' इत्यादी द्ृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः। नापि सादृश्यमूलया अप्रस्तुतप्रशंसया, धर्म्यशे प्रस्तुतत्वविरहात्। नापि निदर्शनया, एकधर्मिगतव्वयहारद्योपादान एव तस्या इऐः । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव। एवंच- क्व सूर्यप्रभवो वंशः कव चाल्पविषया मतिः। तितीर्षुर्दुस्तरं मोहादुड्डपेनास्मि सागरम् ॥ इत्यत्र काव्यप्रकाशिकाकारो यन्निदर्शनामुदाहार्षीत् तदसंग- तमेव, ललितस्यावश्याभ्युपगम्यत्वात्। निदर्शनाया अप्राप्ेश्च। तदेवं ललितस्यालंकारान्तरत्वमुररीकुर्वतामाशयः।
Page 169
158 अलंकारमणिहारे
अन्ये तु-ललितं नालंकारान्तरं, निदर्शनयैव गतार्थत्वात्। नन्ेकधर्मिगतप्रस्तुताप्स्तुतव्यवहारद्योपादानजीविता निदर्शना कथमप्रस्तुतव्यवहारमात्रोपादाने पदं निधत्तामिति चेत्, श्रूयता- मायुष्मता-इह तावदलंकारा: प्रायेण श्रौता आर्थाश्च संभवन्ति। तत्र श्रतेभ्य आर्था न पृथगलंकारतया संख्यायन्ते किंतु पृथग्भेदत- याँ। तदलंकारसामान्यलक्षणेन क्रोडीकरणात्। इदं पुनर्वाक्यार्था- निदर्शनास्वरूपम्-व्यवहारद्वय वद्धर्म्यभेदप्रतिपादनाक्षितो व्यव- हारद्वयाभदेः। तत्र व्यवहारद्वयवद्धर्मर्यभेदप्रतिपादनं श्रौतमेवापे- क्षितमिति न नियमः। किंतु प्रतिपादनमात्रम् । तेन 'पर- वित्तं हरन् मर्त्यों विषमेवात्त्यसंशयम्' इत्यत्र व्यवहारद्वयव- द्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव 'धिक्परस्वं तथाऽप्येष विषमत्ति स दुर्मतिः' इत्यत्र आर्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रक्ृ- तव्यहारवद्धर्मिणोरार्थाभिद्स्य प्रतिपादनेऽपि वाक्यार्थनिदर्शना- त्वमक्षतम् । एकत्र श्रीतीत्वं अपरत्रार्थीत्वमिति तु विशेषो न वार्यते। पदार्थनिदर्शनास्वरूप तूपमानोपमेयधर्मयोरभेदाध्य- वसायमूल उपमेयोपमानधर्मसंबन्ध इति पृथगेव। पतदुभया- न्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम्। यदि तु ललितं पृथगलंकारस्स्यात् लुप्तोपमादिरप्युपमादे: पृथक् स्यात्, त्वदुक्त- युक्त्तेस्तुल्यत्वात्। नन्वतिशयोक्तिरेवं सति रूपक एव विलीयेत। विषयविषयिणोरद्वयोरप्युपादाने श्रौतं रूपकं, विषयमायोपादाने त्वार्थमित्यस्यापि सुवचत्वात्, सत्यं, यत्र ह्यलकारशरीरमुभ. यत्राप्यविलक्षणं तत्रैवालंकारव्यपदेशो युक्तः। यथा सादृश्यं निष्पाद्यमानमुपमाशरीरं लुप्तोपमादिष्वचिलक्षणमेवेति तत्राप्युप- मयैव व्यपदेशो न्याय्यः । नालंकारान्तरेण। लुत्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्यावर्तमानोऽपि नोपमात्वव्याव-
Page 170
प्रहर्षणसरः (६९) 159
रतकः। तथाऽन्यत्रापीति स्थितिः । एवंच विषयतावच्छेदकरू- पेण भाते विषये विषयितावच्छेदकावच्छिन्नामेदस्य रूपकश- रीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्ति- स्वरूपाद्विलक्षणत्वेन द्योरेकालंकारत्वं न युक्तम्। निदर्शनाल- लितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमेवेत्येकालकारत्वमेवेत्याहु:॥ इत्यलंकारमणिहारे ललितालंकारसरोऽट्रषष्टितम:
अथ प्रहर्षणालंकारसरः (६९)
अभीष्टर्थस्य तदुपायसंपादनयलेन विना सिद्धि: प्रहर्षणं नामालंकार:।। यथावा- कृष्णाSSशलषरसायनमाध्यायन्ती गृहक्रियाव्य- ग्रा। त्वरिता र्खलिता च हठादुद्दरता तेन गोपि काडडश्लिष्टा । १६७६॥ आध्यायन्ती उत्कण्ठापूर्वकमाशासाना, गृहक्रियायां व्यग्रा अत एव त्वरिता शीध्रं संचरन्ती अत एव रखलिता स्खलितपदा च गोपिका हठात् अकस्मात् उद्धरता तेन कृष्णेन आश्लिष्टा। अत्र यत्नसामान्यशून्याया अपि गोपिकाया अभीष्टसिद्धि: । अक्षीप्सितार्थादधिकलाभक्षापि प्रहर्षणम्॥
Page 171
160 अलंकारमणिहारे
इच्छाविषयभूतादर्थादधिकार्थस्य तद्रोचरयतं विनैव सि- द्विर्द्वितीयं प्रहर्षणम्॥ यथा- दष्टा चेन्नन्दभुवा हृष्टा स्यामिति चिराद- भिलन्ती। लेभे गोपकिशोरी रहसि तदीया- इपाळिसर्वस्वम् ॥ १६७७॥ अन्र भगवत्कर्तृकात्मकर्मकदर्शनमात्रेण स्वहर्ष संभावयमा-
ज्यरूपाधिकार्थलाभः ॥ यथावा- संसारचारजनितां संसादयितुं विहस्ततां ये त्वाम्। श्रीनाथाकलयन्ते ते नाम कृतास्त्वया चतुर्हस्ताः ॥१६७८॥ विहस्ततां विक्कवतां 'विहस्तव्याकुली समौ' इत्यमरः । पक्षे विगती हस्तौ यस्य सः विहृस्तः तस्य भावम्। यथा- कर्थंचिद्धस्तवत्तासंपादनाय भगवन्तमुपासीनानां जनानां चतुर्ह- स्ततावाप्तिरूपाधिकार्थलासो विहस्तशब्दगतश्ेषनिर्व्यूढ इति पूर्य- स्माद्विशेष: ॥ यथावा- त्वदनुग्रहात्तनीयशश्रीर्वा स्यामित्युपेत्य शौरे त्वाम्। बत बहुतपनीयशश्रीरभृत्तव सखा तत- स्त्वयाऽपचितः ॥ १६७९॥।
Page 172
प्रहर्षणसरः (६९) 161
हे शोरे! तव सखाकुचेल इति भावः। त्वदनुग्रहात् तनीयश्श्रीर्वा स्याम् 'यावद्भ्ियेत जठरम्' इत्यायुक्तरीत्या अत्य- ल्पतरसंपद्वा स्यां न तु तदातशयलिप्सुरिति भावः। इति त्वामु- पेत्य ततः अनन्तरं त्वया अपचितः पूजितस्सन् 'पूजा नम- स्याऽपचितिः' इत्यमरः। बह्वी तपनायश्रीः सुवर्णसंपत् यस्य स तथोक्तः अभूत्। बतेति विस्मये हर्षे वा। किंच अल्पतरतेजा अपि वा भवेयमित्यभिलषमाणः बहुतपनीयशश्रीः अतिशयितभा-
ततः तकारादनन्तरमिति यावत्। पचित इति च्छेदः। पका- रेण चितः घटितस्सन्। बहु इति भिन्नं पदम्। बहु यथा स्यात्तथा
शब्दोऽभूत्। अत्र कुचेलस्यापेक्षितादधिकार्थलाभो वर्णितः॥ भूवासवत्त्वमीप्सोस्त्वद्विजयात्कोसलेन्द्र विद्वि- षतः। स्वर्वासवत्त्वमददा भवतः किं ब्रूमहे महौ- दार्यम् ॥ १६८० ॥ भूवासवत्त्वं भूदेवेन्द्रन्वं, स्वः स्वर्गे वासवत्वं महेन्द्रत्वं वासोऽस्यास्तीति वासवान् तस्य भावं च। अददा: सर्वान- रातीन् संहृतवानिति वस्तुस्थितिः। अत्रापि पूर्ववदेव॥ यथावा- जगतां जननि भवत्यास्तौल्यं प्रेप्सुः कच- श्रियामेकः । तप्त्वाऽ्वःकृतशीर्ष कथमपि लभते स्म मेचकः कचताम्॥ १६८१॥ ALANKARA-III. 21
Page 173
162
हे जगतां जननि! मेचकः चन्द्रकः अन्धकारो वा 'मेच- कशशयामले कृष्णे तिमिरे बीहचन्द्रके' इति हेमः! भवत्याः कचश्रियां केशभासां तौल्यं प्रेप्सु; अत एव एकस्स्न् अधःकृत- शीर्ष तप्त्वा 'एकस्तपांसि कुर्वीत' इत्युक्तेर्विविक्ते एक एव तपस्तप्त्वेति भावः। कथमपि भवत्याः कचतां लभते र्म। पक्षे मेचकशब्दः कचश्रिया अमेक इति छेदः । भवत्याः कच- श्रिया सह तौल्यं प्रेप्सुः; अविद्यमानो मे इति वर्णो यस्य स तथोक्तः, 'शेषाद्विभाषा' इति कप्। मेवर्णरहितः चक इत्यव- शिट इति भाव:। ततः विलोमतां प्रपन्नः कचशब्दतां लभते स्मेत्यर्थः। अत्र मेचकस्य वाञ्छितश्रीकचतौल्योपक्षया अधि- कस्य तत्कचत्वस्य लासो वर्णितः। श्ेषादिचमत्कृतिविशेषस्तु पूर्ववदेव ॥
4 यथावा- यावन्मगयति कामपि भरुपान्थइश्रान्तिशा- न्तये छायाम्। तावदकस्माव्वैष्मं पिदधे चण्डां- शुबिम्बमम्बुमुचा ॥ १६८२॥
मरुपान्थ इत्यनेन सर्वदा छायादौर्लभ्य सूच्यते। कामपि छायामित्यनेन शाकोटकाद्यतिक्षुद्रतरुप्रचिरळच्छायामित्युक्त ।
धरकर्तृकग्रैष्मचण्डांशुबिम्बपिधानप्रशंसा यावदेव भवपथगता- गतखेदशमनकृते यंकंचिच्छरणं पर्यालोचयति चेतनस्तावदेव
Page 174
प्रहर्षणसर: (६९) 163
पेडत्र वाक्यार्थे अभोप्सितार्थादघिकार्थलाभः स्पष्ट एवं। अय- मेव हि पूर्वेभ्यो विशेषो यदप्रस्तुतप्रशंसासंकीर्णत्वम्।। उपायसिद्धये यत्ने क्रियमाणे यहच्छया। साक्षात्फलस्य लाभोऽषि प्रहर्षणमितीरितम्॥।
फलानवाप्त्या तत्प्राप्तये तदुपायगोचरो यतो लोके प्रसिद्धः। तादशयतादतर्किततत्फलस्यैव लाभो यत् सोऽपि प्रह्षर्णमिर्त्यथः। अयं तृतीय: प्रकार: ॥ यथावा- त्वत्सेवनेन संपदमीप्सुस्त्वच्छिखरिसंमुखो म. नुजः। तावत्पश्यति सिन्धुरबन्धुरमीश स्वम- न्दिराळिन्दम् ॥ १६८३॥ हे ईशेति संबोधनम्। अत्र गजान्तैश्वर्यलाभोपायभूतभगवत्से- वनसिद्धचर्थाच्छेषाचलाभिमुखप्रस्थानात् स्वमन्दिराळिन्द एव तादृशश्वर्यलाभ इति तृतीयं म्रहर्षणः। इद च कार्यकारण-
यथावा- यमुनातीरनिकुअं कृष्णवशकिारमूलविचिची- षुः। प्राप्य हठात्तत्रागतमसुमेव वशीचकार गोप- वधू: ॥१६८४॥
मनात्तत्रैव भगवद्वशकारलाभः । एवंच साक्षान्तदुद्देश्यकयत्षमं-
Page 175
164 अलंकारमणिहारे
तरेणाप्यभीष्टार्थलासः प्रहर्षणमिति प्रहर्षणत्रितयसाधारणं सामा- न्यलक्षणमिति ध्येयम् ॥ चन्द्रालोके तु 'वाञ्छितार्थाधिकप्राप्तिरयलेन प्रहर्षणम्' इति द्वितीयप्रभेद एव लक्षितः । न तु प्रथमतृतीयौ। अन्ये तु-प्रथ- मप्रहर्षणोदाहरणे इष्टार्थानुकूलप्रयलाभावेSपीष्टप्राप्तिवर्णनेन न प्रह- र्षणालंकारोऽभ्युपेयः, प्रवलस्य कार्यमात्रं प्रति कारणतया इष्टा- र्थतदुपायगोचर प्रयत्नाभावेऽपीष्टार्थसिद्धया कारणं बिना कार्यो- त्पत्तिरूपविभावनाया एव विषयत्वात्। अतः प्रहर्षणस्य भेद- द्वयमेवेति। इयांस्तु विशेष :- यत्तत्र कारणाभावशशाब्द: इह त्वार्थ इत्याहु:॥ इत्यलंकारमणिहारे प्रहर्षणसर एकोनसप्ततितमः
अथ विषादनालंकारसरः (७०)
यदभीष्टविरुद्वार्थलाभस्तत्स्याद्विषादनम्।।
अस्य च अभीष्टार्थलाभार्थ कारणप्रयोगो यत्र न कृतः केव- लमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः; यत्र च इष्टार्थ प्रयु- केऽपि कारणे तस्मान्न विरुद्धार्थलाभः अपितु स्वकारणवशात् स च विविक्तो विषयः। यत्र तु इष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभः तत्र तादशकारणविरुद्धार्थयोरुत्पाद्योत्पादकभाच-
विषादनमिति संकीर्णतैब। एवं चास्य न विषमभेदैर्गतार्थतेति
Page 176
विषादनसर: (७०) 165
मन्तव्यम्। विषमासंस्पृष्टस्याप्यतद्विषयस्यानुपदमेध दर्शयिष्य- माणत्वात्।। यथावा - भात्येवमेव भानुर्भार्यासुखमेवमेव विन्देयम्। ध्यायत्येवं कोके सायं हन्ताम्बुधौ ममज्ज रविः ॥ अत्र हि नास्ति विषमप्रभेदस्य विषयः, इषटार्थ कारणप्रयो- गाभावात्, इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्य उत्पाद्योत्पादक- भावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम्। तस्माद्विषादन- मेवात्राप्रस्तुतप्रशंस,घटकतयाऽवस्थितम। अत्र ह्यपस्तुतश्चक्वा- कवृत्तान्तः अतिमात्रानित्यमैहिकविभवं नित्यतमं प्रत्येत्य शाश्व- ततमनिशश्रेयससाम्राज्यसाधनोपेक्षया समयमतिवाहयति तावदेव प्राप्ततादशविभवभ्रंशे कस्मिशिचिदधन्ये पर्यवस्यतीत्यप्रस्तुतप्रशंसा॥
यथावा- कृतमेतदिदं कार्य कृताकृतमिदं सुखाय भविता नः । इति विमृशन्नेव जनस्त्वद्विमुखो हन्त मृत्युना हियते ॥ १६८६॥ अत्राभीष्टसुखविरुद्धमृत्युहरणरूपार्थलाभः। अत्र- इदं कृतमिदं सज्जमिदमन्यत्कृताकृतम्। एवमीहासमायुक्त मृत्युरादाय गच्छति॥
द्वितीयप्रकारो यथा- उपगूहति नन्दसुते त्रपया पिहिताननाऽपि
Page 177
166 अलक्कारमणिहारे
गोपवधूः। श्रथबन्धकश्चुळीका हर्षोच्छूनस्तनद्व- यतयाऽडसीतू ॥ १६८७॥ अत्राभीष्टस्याननपिधानस्य विरुद्धोऽर्थः कञ्चळिकाबन्धरै- थिल्वं कारणभिूतत्रपाप्रत्यनीकत्वात्, तञ्च हर्षोच्छूनस्तनद्यतारूप- स्वकारणादेवोत्पन्नं न तु पिधानानुकूलयलात्। नापीष्टसाधन- त्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति, आननपिधानरूपस्येष्ट- स्योत्पनः। अतो विषादनमेवात्र, न विषमम्। अयमप्यलंकारो दीक्षितोपज्ञमेव॥ इत्यलंकारमणिहारे विषादनसरस्सप्ततितमः
अथोल्लासालंकारसरः (७१)
यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः । आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् । तञ्च गुणेन गुणस्य दोषेण दोषस्य गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा। कमेणोदाहरणानि- अपि मयि पतेदपाङ्ग: कृपया शिशिरोडम्बु- जाक्षभक्तिजुषाम्। अपि धन्यस्स्यामहमिति स पितामह एव वाञ्छति किमन्यः ॥ १६८८॥ अत्र श्रीनिवासभक्तिरूपभागवतगुणेन तदपाङ्गसङ्गात्पिताम- हादीनामपि धन्यत्वगुणाधानम्। आधानं च तद्वत्ताबुद्धि: ॥
Page 178
उल्लाससरः (७१) 167
यथावा- त्वत्कृपयाऽपरिभाव्यो लोकस्याग्रत उदारिता- कारः । सर्वस्योपरिभाव्यो वर्वर्ति त्वत्पदाश्रितो भगवन् ॥ १६८९॥ लोकस्य अपरिभाव्यः अतिरस्कार्यः अग्रतः उदारितः उदा- रीकृतः आकार: यस्य सः उवर्णेन दारितः भिन्नः अकारो यस्य सः तथोक्तः इति च। सर्वस्य लोकस्य उपरि भाव्यः श्रेष्ठतया माननायस्सन् वर्वर्ति। पक्षे अपरिभाव्यशब्दः आदौ अवर्णच्या- वनेन तत्रैव उवर्णन्यासेन च उपरिभाव्य इति निष्पद्यत इत्यर्थः। अत्र भगवत्कृपारूपगुणेन तत्पदाश्रितस्यापरिभाव्यादिगुणाधानम्। पूर्व शुद्धं, इदं तु श्वेषसंकोर्णमिति विशेषः॥ यथावा- जलजन्तुकुले जातस्त्वदृष्टश्रेद्यदच्छया जातु। हन्त कुलीरोऽपि नरो नेतस्स्यान्ननु कुलीन एव हरे॥ १६९० ॥ हे नेतः! सर्वेश्वर। जलजन्तूनां जडजन्तूनां च कुले जातः कुलीर: कर्कटकोऽपि जातु यदा कदा वा यदच्छया न त्वैंदपर्येण त्वया दृष्टश्चेत् याद्ृच्छिकादिसुक्ृतपरिणतिवशात् कटाक्षितश्चे- दित्यर्थः । कुलीनः सद्वश्य इत्यर्थः। 'महाकुलकुलीनार्यसश्यस- जनसाधवः' इत्यमरः। 'कुलात्खः' इति खः। नर एव मानुष एव स्यान्ननु भवेदेव। हन्तेति भगवत्कटाक्षप्रभावपरिचिन्तन- जनितहर्षे। पक्षे कुलीरशब्दः नरः रेफरहितस्सन् नेतः तत्रैव नकारेण इतः संयुतश्चेत् कुलीन इति निष्पद्ेतेत्यर्थोऽपि चम-
Page 179
168 अलङ्कारमणिहारे
तकारी। अन्रापि भगवत्कटाक्षप्रभावरूपगुणेन कुलीरस्थापि कुली- ननरत्वरूपगुणाधानम्। श्रेषसंकीर्णत्वं चमत्कारविशेषश्च पूर्वव- देव। संभावनागर्भितत्वं तु विशेषः॥
यथावा- त्वत्तो बहुपरसादस्सारहितत्वाइ्हुप्रदश् पुमान्। चातुर्वर्ण्यश्लाध्यो भवेत्स्वयं जननि दान्तिमत्त्व- मयन् ॥ १६९१॥
हे जननि! स्वयं दान्तिमतो भावः दान्तिमत्वं दान्ततां अयन् प्रामुवन्। पक्षे दकारः अन्तिमो यस्य तस्य भाव अयन् पुमान् पुरुषः इदं विशेषणं बहुप्रसाद इत्यस्य। त्वत्तः त्वदनु- ग्रहादिति यावत्। बहुप्रसाद: त्वत्कृपाकृतबहुप्रसादविषयस्स- न्नित्यर्थः । सारश्चासी हितश्च सारहितः तस्य भावं सार- हितत्वं तस्मात् अर्थिनामुत्तमहितत्वं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी। यद्वा त्वत्तः त्वत्कटाक्षादिति यावत्। बहुः प्रसाद: प्रसन्नता यस्य स तथोक्तः। अय हि 'यद्दातुस्सौम्यता सेयं पूर्णेन्दोरकलङ्कता' इत्युक्तो दातुमहान गुणः, अत एव सारहित- त्वात् उक्त एवार्थ: । बहुप्रदः स्थूललक्षो भूत्वा। पक्षे बहुप्र- सादशब्दः सारहितत्वं सावर्णराहित्यं प्राप्य बहुप्रद इति निष्प- द्यत इत्यर्थः। अतएव चातुर्वर्ण्येन ब्राह्मणादिवर्णेचतुष्टयेन श्राध्यो भवेत्। पक्षे पञ्चवर्णात्मको बहुप्रसादशब्दस्सावर्णराहित्ये चतु- वर्णत्वनैव श्राध्यो भवेदित्यर्थः । प्राथमिकार्थपक्षे चत्वारो वर्णा- श्चातुर्वर्ण्यमिति विग्रहः 'चतुवर्णादीनां स्वार्यै' इति स्वार्थे ध्यञ। द्वितीयस्मिन् पक्षे तु चत्वारो वर्णा यस्येति रहुव्रीहिः। ततः
Page 180
उल्लाससरः (७१) 161
'गुणवचनव्राह्मणादिभ्यश्च' इति भावे ष्यज्। अत्र भगवत्प्रसाद- प्रभावगुणेन तन्भ्क्तस्य सारहितत्वादिगुणाधानम्। भगवत्कटा- क्षप्रभावाद्वहुप्रसादत्वाद्याधानं वा॥ यथावा- दुर्गतिवशञात्पुमान्यो बहुप्रमादोऽपि तव दशां विषयः। मानिततां प्राप्य भवेहहुप्रदस्स खलु कलशजलघिसुते॥ १६९२ ॥ हे कलशजलधिसुते! दुर्गतिवशात् दारिद्रयवशात् बहु- प्रमाद: बहुविपदपि। पक्षे बहुप्रमादशब्दो यः पुमान् तव हशां कटाक्षाणां विषयः भवेत् स पुमान् पुरुषः पुल्लिङ्गो वहुप्रमाद- शब्दश्च मानिततां जगत्पूजिततां। पक्षे मावर्णेन अनितर्ता अयु- क्तां च प्राप्य बहुप्रदः दानशौण्डः भवेत्खलु। पक्षे बहुप्रद इति निष्पद्येतेत्यर्थः । अत्र लक्ष्मीकटाक्षप्रसरगुणेन दुर्गतेरषि महो- दारतादिगुणाधानम्। एकस्मिन्नाधारे बहुप्रमादत्वबहुप्रदत्वरूपा- नेकाधेयवर्णनरूपपर्यायालंकारगर्मितत्वं विशेष:। श्ेषादिसंकी- र्णत्वं तु पूर्ववदेव। यथावा- आदौ वैश्वानुगतोऽप्यग्रयनरो यस्स्वभावतः कश्चित्। दष्टः क्रमेण भवता वौश्वानर एव भवति को विशायः ॥ १६९३॥ हे भगवन्! अप्रयनर: अम्रजन्मा मनुजः ब्राह्मणः वैइति प्रसिद्धौ। आदौ श्वभिः अनुगतः श्वानुगतः "श्वकीडी श्येनजीवी ALANKARA_III 22
Page 181
170 अलंकारमणिहार
च' इत्यायुक्तनिषिद्धाचारवान् भवन्नपप यःकश्चित् भवता क्रमेण यादृच्छिकादिसुकृतपरिपाकक्रमेण तद्वशादिति यावत् ! दृष्टश्चेत् वैश्वानर: अग्निः तद्वच्छुचिस्तेजस्वी च भवति, पक्षे आदौ वैश्वा इति वणाभ्थामनुगतः अग्रथौ नरौ नकाररेफौ यस्य स तथोक्त्तः। यःकश्चिच्छन्दः क्रमेण उक्तवर्णानुपूर्व्येण दृष्टश्चेत् वैश्वानर एव भ ति नान्यशब्द इत्यर्थः । अत्रापि भगवन्महिमातिशयगुणेन तद्दृष्टिवशादशुचेरपि शुचित्वगुणाधानम्। एकस्मिन्नाधारे अशु- चित्वशुचित्व रूपानेकाधेयवर्णनात्मकपर्यारयेण संभावनेन च संकी- णत्वं विशेष:।।
यथावा- अजहत्स्वामिन् प्रकृतिं सझ्मान्तरस्थानभाग्यतो भवतः । अपि पक्षी पद्माक्षीभविष्यति ततः किमत्र वक्तव्यम् ॥ १६९४॥।
हे स्वामिन् ! प्रकृति स्वस्वभावं अजहदेव स्वप्नकृत्यनुगुणं चेष्टमान एव न तूपासनादि कुर्वन्निति भावः। भगवतः सझनः दिव्यालयस्य अन्तः स्थानं स्थितिः तद्रूपं यत् भाग्यं भागधयं तस्मात् सदान्तस्स्थानभाग्यतः सार्वविभक्तिकस्तसिः। पक्ष्यपि विहगोऽपि तिर्यग्जन्तुरपति भावः। पझमाक्षो भगवान् अपझाक्ष: पद्माक्षस्संपत्स्यते पद्माक्षीभविष्याति। चिवः । उपायाभिमुख्य- गन्धस्यापि दवीयान् पक्षिमात्रोऽपि भवद्दिव्यालयवासभाग्यव- शात् 'ब्रह्म वेद ब्रह्मैव भवति' इत्युक्तरीत्या ब्रह्मविदिव भगवत्सा- रूप्ययोग्यो भविष्यतीति भावः। ततः तदपेक्षया वक्तव्यं किमस्ति कथनयं तन्माहात्म्यं ततोऽपि नान्यदवशिष्यत इति भावः ॥
Page 182
उल्लाससरः (७१) 171
पक्षे स्वां इन्प्रकृतिं इति छेदः । स्वां स्वकीयां इन्प्रकृति मत्वर्थायन इन्प्रत्ययेन युक्तां प्रकृतिपक्षीति प्रकृति अजहदेव। इन्प्रत्ययान्तप्रकृतिकत्वात्तस्येति भावः। पक्षी पक्षीतिशब्दः सझा- न्तस्थानभाक् यत: इति छेदः। यतः यस्मात्कारणात् झाव- णैन सह वर्तत इति सझ अन्तरस्थानं मध्यभाग: तन्द्रजतीति तथाक्तः। ततः तस्मात्कारणात् पद्माक्षी भविष्यति। पद्माक्षीति निष्पत्स्यते। अत्र वक्तव्यं किं वक्तव्यप्रकरिया सर्वाप्डयुक्तैव नान्यत्किचिदवशिष्यत इति भावः। अत्र भगवन्मन्दिरमहिमगुणेन तन्निवासेन पक्षिणोऽि भगवत्सारूव्यगुणाधानम्। अन्यत्सर्व पूर्ववदेव॥
आद्यमरत्वं गतमप्यथ चातितरान्तकत्वमाप्त- यथावा-
मपि। हरितत्ववित्त्वभूम्ना तत्साधर्म्येण मरतकं भाति ॥१६९५॥ मरतकं गारुत्मतं मरतकपदं च, तयोस्तादात्म्यम्। आद्य- मरत्वं पूर्वदेवत्वं दैत्यत्वमित्यर्थः । गतमपि कर्मवशाद्वन्रादिव- दिति भावः। अथ च अनन्तरं च अतितरान्तकत्वं अतिवेलज- गन्नाशकत्वं दैतयत्वानुगुणमिति भावः। आप्तमपि। पक्षे आद्यौ प्राथमिकौ मरी मवर्णरेफौ यस्य तत् आद्यमरं तस्य भावः तत्त्वं गतं अथ च मरव्णीनन्तरं च अतितरां अतिवेलं तकों तकारक- कारौ यस्य तत् अतितरांतकं तस्य भाव आप्तमित्यर्थः। मर तकशब्दस्यैवं वर्णचतुष्टयात्मकत्वादित्यभिप्रायः। हरे भगवतः तत्वं याथात्म्यं वेत्तीति वा हरिरूपं परं तत्वं वेत्तीति वा हरितत्ववित् तस्य भाव: हरितत्ववितत्वं तस्य भूम्ना तत्साध- मर्येण भाति।
Page 183
172 अलंकारमणिहारे
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।। इत्युक्तरीत्या भगवत्साम्यं प्राप्य प्रकाशत इत्यर्थ: ॥ पक्षे-हरितत्वं हरिद्वर्णत्वं विन्दतीति हरितत्ववित्। विन्दतेः किय्। तन्दूम्ना तत्साधर्म्येण भाति। मरतकमणेर्हरितवर्णत्वन भग- वत्सावर्ण्यात्तथोक्तिः। नीलहरिद्वर्णयोर्भेद: कविसमयसिद्धः, अत्र मकाररफादिवर्णवत्त्वं मरतकशब्दगतं हरितत्वभाकत्वं तदर्थगत-
भगवन्निष्ठमहिमगुणेन तत्तत्वविदि मरतके तत्साधर्म्यगुणाधानम्।
न्धकसन्भवेषपे कार्योत्पत्तिलक्षणविभावनाविशेषेण पूर्वोक्तरीत्या पर्यायालंकारविशेषेण चोपस्कृतमित्यवधेयम्।।
यथावा- अचलामरस्थितिः प्राग्येनाप्ताऽन्ते प्रतीपवर्ण- गति। भूत्वाऽपि मरकतं तद्धरिरुच्या स्वार्थतो न विभ्रष्टम् ॥१६९६॥ येन मरकतेन गारुत्मतमणिना मरकतपदेन च प्राक् आदौ अचलामरस्थिति: अचलामरो भूदेवः तस्य स्थितिः मर्यादा आप्ता ब्राह्मण्यं लब्धमित्यर्थः। पक्षे अचला निश्चला मरस्थितिः मका- ररेकयोरवस्थानं आप्ता 'स्थितिस्स्त्रयामवस्थाने मर्यादायां च सीमनि, इति मेदिनी। तत् मरकतं तत्पदं च। अन्ते अवसानस- मये प्रतीपवर्णः व्राह्मण प्रतिकूत्वर्णः शूद्रवर्ण इति यावत्। गतिः संबन्धो यस्य तत्तथोक्तं । अजामिलादिवद्वषलसंसर्गदूितमितति
Page 184
उक्कससरः (७१) 173
भाव: भूत्वा; पक्षे अन्ते स्वचरमभागे प्रतीपा प्रतिलोमा वर्ण गतिः वर्णयोः ककारतकारयोः स्थितिः यस्थ तत्तथोक्तं भूत्वा- 5पि। मरकतमिति पदं मरतकं भूत्वाऽपात्यर्थः । हरौ भगवति रुच्या निरतिशयप्रीत्या 'यमेवैष वृणुते' इत्युक्तरीत्या भगवत्कृत- स्वविषयकप्रीत्या वा। पक्षे भगवत्तुल्यरुचा उपलक्षितमिति शेषः। स्वार्थतः स्वाभोप्सितनिइश्ेयसरूपनिरतिशयपुरुषार्थात् न विभ्रष्टं- न प्रचयुतं। किंतु साधितवदेवति भावः। पक्षे स्वाभिधेयाद्वारु- त्मतमणिलक्षणात् न विभ्रष्टं मरकतपदस्य याद्दशार्थप्रत्यायकता मरतकमित्यस्यापि पदस्य तादृशार्थप्रत्यायकताया एव प्रसिद्ध- त्वान्न स्वार्थविभ्रंश इति भावः। अत्रापि पूर्वोदाहरणवदेव सर्व- मनुसन्धेयम्॥ यथावा-
वर्णान्तरगोऽपि जहौ न स्वार्थ वारिवाहको भग- वन् ॥ १६९७॥ हे भगवन् ! वारिवाहकः अम्बुवाहः वारिवाहकशब्द्श्च आदौ भवं आदिमं यत् वर्णत्रितयं ब्राह्मणादिवर्णत्रयं। पक्षे वारिवा इति वर्णत्रयं तेन त्यक्तोऽपि; त्वङ्डुचे:त्वयि प्रीतिसद्भावाद्वेतोः त्वदनुग्रहसद्भावाद्वा। बलाढ्यतया विवेकादिसाधनसप्तकान्तर्गता- नवसाद लक्षणमनोबलवत्वेन ईदशवलासद्भावे विवक्षितपुरुपार्थला- भायोगात्। यच्छूयते 'नायमात्मा बलहीनेन लक्ष्यः' इतीति भावः। पक्षे। त्वङ्गचे: त्वतुल्यद्ुतिसन्भावादित्यर्थः। यद्ा। त्वदभिप्रा- यानुरोधादित्यर्थः। बलाढ्यतया बला इति वर्णद्वययुक्ततया त्वदिच्छानुसारात् 'न गिरा गिरा, इतति न्यायात् वारिवा
Page 185
174 अलङ्कारमणिहारे
इति वर्णत्रयनिषेधेन तत्स्थाने विधीयमानं यत् बला इति वर्ण- इय तादशवर्णवत्वेन वर्णान्तरगोऽपि अवरवर्ण प्राप्तोऽपि पक्षे वला
निष्पन्नोऽपीत्यभिप्रायः। पृषादरादिगणे वारिवाहकशब्द एव बला- हक इति पठितः। स्वार्थ स्वाभीष्टं परमपुरुषार्थ न जहौ। भगवत्प्रीतिसन्भावे पुरुषार्थसाधनविषये अवरवर्णसंबन्धोऽपि न प्रतिबन्धक इति भावः। पक्षे स्वाभिधेयं न जहौ वारिवाहक शब्दस्य बलाहकशब्दत्वेऽपि तुल्यार्थकत्वादिति भावः। अत्रापि भगवद्गणेन वलाहकस्थ गुणधानम्। अन्यत्प्राग्वत्॥ अन्यदोषेणान्यदोषाधानं यथा- बहुधाऽपि च यतमानास्तव धामगति कदा- डप्यलक्षमानाः । मशकतया वाडत स्वानसृष्ट- वन्तं विधिं विनिन्दन्ति ॥ १६९८॥
अत्र भगवद्भक्तानां श्रीनिवासनिवासगमनाभावदोषेण ताद्ि- व्यालये मशकतया वाऽपि स्वानसृष्टवतो विधेर्ननिन्दारूपदोषा- धानम्॥
यथावा- तुष्ट्षुस्तवं भगवन्ननन्तमद्भततमं च महिमा- नम्। एकामेव रसज्ञां निर्मितवन्तं विधि विनि- न्दामि ॥ १६९९॥
अत्र तुष्टेेषारकरसज्ञत्वदोषेण अनेकरसना अनिर्मितवतो विधे- र्निन्द्यत्व रूपदोषाधानम्॥
Page 186
उल्लाससरः (७१) 175
अच्युतपदनिगळितमप्यसारविषयेषु मदविदि- तमेव। धावददान्तं हन्मम धात्रा सृजता प्रता- रितोऽस्मि मुधा ॥ १७०० ॥ इदं भूयसाऽवि यलेन दुश्शकमनोनिग्रहतया निर्विद्यमानस्य कस्यचित्प्रपन्नस्य वचनम्। तथाहि-अच्युतस्य भगवतः पदे चरणे निगळितमपि निश्चलतया स्थापितमपि, पक्षे दुर्मोचका- रारुपस्थानविशेषश्ङ्ललितमपि मदविदितं मया अज्ञातमेव यथा स्यात्तथा असारेषु विषयेषु देशेषु च 'विषयो गोचरे देशे तथा जनपदेऽपि च' इति मेदिनी। धावत् रुचिमेदाद्विषयरसा- नेवास्वादयदिति भावः । पक्षे कारागृहाद्विश्ह्वलतया स्वैर देशा- द्देशं धावमानमिति भावः। अदान्तं स्वरूपतोऽशिक्षितं मम हत् चेतः सृजता घात्रा, अनेन स्वतः पोषकस्वभावेनापीति व्यज्यते। मुधा प्रतारितोऽस्मि व्यर्थमेव वश्चितोऽस्मि। ईदृगतिदुदान्तच- पलचेतस्सर्जनपूर्वकमद्वश्चनेन न किंचिदस्य प्रयोजनं विमृशन्नपि पश्यामीति भावः। अत्र प्रपन्नमनसश्चापल्यरूपदोषेण तत्स्ष्टु- र्धांतुः प्रतारकत्वरूपदोषाधानम्। प्रकृते प्रपन्नमनोउृत्तान्ते उच्छ-
मिदम्। पूर्वोदहारणे तु उभे अपि शुद्धे इति विवेक:॥
यथावा- अधिनाथो भवतु विधिर्ननु नाथ त्वयि मना- क्पराचाने। भगवन्ननाथ एव हि भ्विता कश्चित्र कोऽपि विशयोऽन्र ॥ १७०१ ॥
Page 187
176 अलंकारमणिहारे
ननु नाथ हे भगवन् ! कश्चित् अधिनाथः यःकश्चिदैश्वर्यशा- ली जनः विधिर्भवतु ब्रह्मैव भवत्विति लोकोक्तिः। किं तावतेति भावः। त्वय मनाक् पराचीने पराङ्मुखे सति अनाथ एव भवि- ता। त्वय्युदासीने कोऽन्यो नाथरस्यादिति भावः। पक्षे अधि- नाथशब्द: विधि:विगतधिवर्णश्चेत् अनाथ इति संपंद्येतेत्यर्थः।अत्र मनाग्भगवत्पाराङमुख्यदोषेणाधिनाथस्य विधेरपि कस्यचिदनाथ- त्वरूपदोषाधानम। उपदर्शितश्षेषचमत्कारस्तु पूर्वेश्यो विशेषः॥ अन्यगुणेनान्यस्य दोषाधानं यथा- अतिवेलसहनशीला विपुलेव तवान्तरङ्गरी तिरिति। वारंवारं मनुजास्स्वैर विधदति किलां- हसां भारम् ॥ १७०२॥ अत्र आत्यन्तिकभगवतक्षमागुणेन दुर्दान्तानां स्वैरदुरितभार- करणरूपदोषाधानम्॥
यथावा- आद्यन्ताक्षरवैरं त्वय्यखिलसुहृत्तमे रमेश वि- भो। वैश्वानरमप्यन्तशशवानं को नाम भुवि न जानाति ॥ १७०३ ॥ हे विभो रमेश! अखिलसुहृदि 'सर्वस्य शरणं सुहत्' इति श्रुत्युद्धोषितसर्वसौहार्दे त्वयि आद्यन्ताविव्याप्य आद्यन्तं यावच्छरिपातमित्यर्थः। अक्षरं अक्षय्यं वैरं विरोधः यस्य तं तथोक्तं वैश्वानरमाप वहितुल्यमपीति यावत्, अतिपवित्रमपीति भावः। श्वानं सारमेयसद्दशं अन्तः मनसि को नाम सुवि न
Page 188
उल्लाससरः (७१) 177
जानाति। दाक्षिण्येन प्रकाश शुनकतुल्यं चक्तुमनीशोगप चेतसि तथा जानीयादेवति भावः। पक्षे आदयन्ते प्रथमचरमे अक्षरे वर्णे वैररूपे यस्य त तथोक आदा वे इति वर्णन अन्ते र इति वर्णेन च युक्तमित्यर्थः । वैश्वानरं वैश्वानरशव्द अन्तइशवानमिति समस्त पदम्। अन्तः वैर इत्याकारकवर्णटयमध्ये श्वान इत्याकारकवर्णद्यं यस्य तं तथोक्तं को नाम जानाति : सर्वोऽि वैश्वानरशब्द: ईदृगिति जानात्येवति भावः। अत्र भगवतोऽखिलसुहत्त्वादिगुणेन तद्वैरस्य दोपत्वानुवर्णनम्॥ यथावा- त्वदपाङ्गविषर्यासान्नहुषो नाके महाइयोऽपि भवन्। अन्तेच्युत ऊर्जिततां प्राप्तोपि महाइ- युर्बभूवाम्ब ॥ १७०४॥ हे अम्ब! नहुषः नाके महाशयः महेच्छः भवन्नपि वैलोक्यै- श्वर्य भजन्नपीति यावत् 'महेच्छस्तु महाशयः' इत्यमरः। अग्नति हतेच्छो भवन्नपीत्यर्थः। ऊर्जिततां सर्वप्रकारबलवत्त्वं प्राप्तोऽपि त्वदपाङ्गविपर्यासात् अन्ते पर्यवसाने व्युत स्वर्गाद्भप्टस्सन् महां- श्चासौ शयुश्च महाशायु: अजगरी वभूय। 'अजगरे शयुर्वाह्स इत्युभी' इतमरः। अन्यन्न महाशयशब्दः अन्ते अच्युतः च्युता- कार: ऊर्जिततां उवा उकारेण ऊर्जितता माणिततां उककारघटि- ततामिति यावत्। प्रापोडप अपिस्समुख्चये। न केवलमन्ते अका- रच्युततामेव किंतु तत्रैव उकारसंबन्धतां च प्राप्त इत्यर्थः । महाश- युरिति निरपद्यनेति भावः। अत्र श्रीकटाक्षनिष्टमहोद्ारत्वादियु- णेन तद्विपर्यासहेतुकमहाशयुत्वदोषो नहुपस्य निबद्धः। अन्यदोषेणान्यगुणधानं यथा- ÁLANKARA-III, 23
Page 189
178 अलङ्गाग्मणिहारे
दण्डधरस्त्वमिति हरे चण्डकरादिस्स्वकृत्यम- धिकुर्वन्। भद्राय भवति जगतां निद्रात्यलसे प्रभौ जनस्स्वैरम् ॥ १७०५॥ प्रभौ अलसे सति जनः स्वैरं निद्रातीति योजना। अत्र भग- वतो दण्डधरत्वसृचितकौर्यदोषेण चण्डकरादेः स्वस्वाधिकारनि- वर्तनसूलकजगत्क्षेमनिष्पादनलक्षणगुणाधानम्। अय च व्यति- रेकमुखप्रउृत्तेन तुरीयपादगतार्थान्तरन्यासेन समर्थितः। अत्र 'भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः' इत्यादिश्रुत्यर्थोऽनुसंधेयः। इद भगवतो दण्डधरत्वं कौर्यमिति लोकदृष्ट्योक्तम्। वस्तुतस्तु तस्यापि गुणत्वमेवेत्यभाषि भगवद्भाष्यकारैः। एवं सत्यन्यगुणे- नान्यगुणधानस्यैवोदाहरणं भविष्यति॥। यथावा- चक्रेण व्यलुनास्त्वं चैद्यस्य शिरोधरां सरो जाक्ष। किं छिन्नमस्य तावत्वत्सायुज्यं परं त्वने- नाप्रमँ ॥। १७ ०६ ।। अत्र भगवतश्चक्रस्य वैद्यस्य शिरोधराच्छेदहेतुभूतक्रौर्यदो- षेण तस्य तत्सायुज्यलाभरूपगुणाधानम्। इद शुद्धम्॥ यथावा- त्वदनुग्रहस्य विषयश्शरीरभृद्दरणिभास्वरः प्र- भेवत्। त्वन्निग्रहस्य विषयो निस्सोऽच्युत धर- णिभार एव भवेत् ॥ १७०७ ॥
- 4-
Page 190
उल्लाससरः (७१) 179
धरण्या धरणी वा भास्वर: तेजस्वी सन् प्रभवेत् प्रसु- र्भवेत् निस्स्यः दुर्गतस्सन् धरणिभार: भुवो भारभूत एव भवेत् । न किंचिदषि प्रयोजनं तेन भवेदिति भावः। पक्षे धर्रणभास्वरशब्द: निस्स्वः स्ववर्णराहितस्सन् धरणभार इति निष्पन्नो भवेदित्यर्थश्चमत्कारी। अत्र भगवतोऽनुग्रहो गुणः तेन शरारभृती घरणिभास्वरप्रभुत्वरूपगुणाधानं पूर्वाधें। तन्निग्रहो दोषः तेन तस्य निस्स्वतावाप्तिपूर्वकभूभारत्वरूपदोषाधानमुत्त- रार्धे इत्युभावपि प्रकारौ दर्शिताविति पूर्वेभ्यो विच्छित्तिवि-
शर्वस्स्थाणुस्सन्नपि सर्वज्ञस्त्वत्कपावशादासी- त्। स्यादितरधा स पशुपः पतन्नधश्शीर्षमपि पशुप एव ॥ १७०८॥ अत्र भगत्कृपामहिमगुणेन स्थाणोरपि सर्वज्ञत्वरूपगुणः, तद्वैपरीत्येन दोषेण पशुपस्य पशुपत्वरूपदोपश्चाहित इत्युभयम्॥ यथावा कृपया त्वयेक्षितो यदि भवत्यसम्योऽपि खलु सभास्तारः। अत एव सभासारो विपरीतत्वे भवेद्रसाभासः ॥।१७०९॥ हे भगवन्! त्वया कृपया ईक्षितः दृष्टो यदि असभ्योऽपिं सभानर्हः अनार्योऽपि 'माहाकुलकुलीनार्यसभ्यसज्जनमाधवः' इत्यमरः। सभास्तार: सभ्यो भघाि सतु। अतः अस्मादेव कारणात् एपः सभासार: भवतीत्यनुपज्यते। समायां श्रेष्ठो
Page 191
180 अलङ्कारमणिहारे
भवनीत्यर्थः । 'साने बले स्थिरांशे च न्याय्ये क़ीब वरे त्रिषु' इत्यप्ररः। पक्षे एपः समासतार इति शब्द: अतः अविद्यमा- नतकारस्सन् समासार इति निष्पदयने विपरीतत्वे त्वत्कटाक्ष- वैपरीत्ये विलोसतया पठने व रसाभासो भवेतू। अविद्यमानः भाम: भासनं यस्य सःअभास: रसेन अभास: रसाभासः नीरस इत्यर्थः। यद्वा रसायां भुवि अमास: अप्रकाश इत्यर्थः। यद्वा अस्यते निरस्यत इत्यासः कर्मणि घन् रसश्च आभा च रसाभे ताञ्यं निरस्त इत्यर्थः। पक्षे सभासारशब्दः रसाभास इति परिणमतीत्यर्थः । अत्र भगवत्कटाक्षस्य कृपार्द्रतागुणेन असभ्य- स्थापि सभास्तारतादिगुणाधानं, तद्वैपरीत्येन सभासारस्यापि रसाभासत्वरूपदोषाधानं च।।
यथापा- सद्यस्त्वयक्षिताडये स बीश्बरोडि घ्यवीश्वरोS- म्व भवेत्। आदौ द्यवीश्वरोSपि ह्युपेक्षितो वीश्व- रोदस्स्यात ॥ १७१०॥
हे अम्ब! विगतः ईश्वरो यस्य सः वीश्वरः अनाथोऽ- पीत्यर्थः। त्वया अग्रे पुरस्तात् ईक्षितश्चेत् सः पुमान् सद्यः तत्- क्षणमेव द्यवि दिवि द्योश्षव्दस्य सतम्येकवचनम्। ईश्वरः अधि- नाथः मवेत् 'स्वामीश्वराधिपति' इत्यादिना ईश्वरशब्दयोगा- इयोशब्दस्य सप्तसी। इन्द्ो भवेदित्यर्थः। यद्वा सद इत्यत्र सत् यः इति छेदः। यः त्वया सत् प्रशस्तं यथा स्यातथा ईक्षितः इति योजना । अन्यत्तुल्यम्। अथवा द्यवि 'त्रिपादस्यामृतं दिवि' इति श्रुतेः परमे व्योम्मि ईश्वरः 'स स्वराड्गवति' इत्युक्तरीत्या
Page 192
उल्लाससर: (७१) 181
अकर्मवश्यः मुक्तचैश्वर्यभाक् भवेदित्यर्थ । किंच आदौ प्रथमं दवीश्वरोऽपि इन्द्रोभवन्नपि अद्य अधुना त्वया उपेक्षितश्चेत् वीश्वर: अनाथ एव स्यात्। त्वदीक्षणान्वयव्यतिरेकावेव ऐश्वर्यदारिद्रय- प्रयोजकाविनि भावः । स्यादित्यत्र सकारस्य 'अनच च' इति वैकल्पिकं द्वित्वम्। पक्षे वीश्वरशब्द: आदौ प्रथमवर्णात्पूर्व सद्य: द्यवर्णसहितश्चेत् द्यवीश्वर इने निष्पदते। न केवलमेतावदेव। आदौ द्यवीश्वरः द्यवोश्वरशब्दस्सन्नपि अद्यः द्वर्णरहितः वीश्वर इति भवतीत्यर्थोऽपि चमत्कारी। अत्र लक्ष्मीकटाक्षस्य सानुग्र- हत्वरूपगुणेन तदीक्षितस्य स्वाराजयैश्वर्यलक्षणगुगः। तदुपेक्ष- णलक्षणदोषप्रयुक्त: इन्द्रस्यापि अनाथत्वरूपदाषश्चेत्युभयम्। यथावा- व्यासविभीषणबलिवत्वदुपगतौ नाथ वर्धते पूर्णायुः : पूर्णायुरप्यपगतावूर्णायुरिवेह वध्यते बत मनुजः ॥ १७११॥ नाथ्यते आयुरारोग्यादिसर्वपुरुषार्थान् जनैरिति नाथः, तस्य संबुद्धि: ह नाथ! त्वदुपगती त्वच्छरणागती सत्यां व्यासवि- भीषणवलिवत् पूर्णायुस्सन् वर्धते। अ्वत्थामा वलिर्व्यासो हनुमांश्च विभीपणः । कुपः परशुरामश्च सनैते चिरजीवविनः। इत्युक्तं सषा चिरजीवित्वं भगवत्प्रपदनमहिस्नरवेति भावः। पूर्णायुरपि निमित्तां्तरेण पूर्णायुरपि अपगती त्वतो वैमुख्े सति ऊर्णायुः मेघ इव वध्यते हन्यते। दुर्गादिबलिग्ड्मोसार्िमिद- षिि्वा जनैरिति शेष: । त्वद्वैमुख्यं ब्रह्मणोऽप्यायुर्भङ्गहेतुरिति
Page 193
182 अलंकार मणिहारे
भावः 'आयुः क्षिणोत्युपचिनोति च सर्वदोषान्द्वेषा मुकुन्दवि- षयो विषयोगतुल्यः' इत्युक्तेः। भगवदुपगतः पूर्णायुर्वर्धते तद- पगतस्तु ऊर्णायुरिव वव्यत इति संपिण्डितोऽर्थः । पक्षे पूर्णा- युश्शव्द्रोऽपि पस्य पकारस्य गतिः प्राप्तिः न पगतिः अपगतिः तस्यां पकारराहित्ये इत्यर्थः। ऊणायुस्सत्वध्यते ववयारमेदात् बध्यते पदसमुदाये ग्रथ्यत इत्यर्थः । इवशब्दो वाक्यालंकारे। अत्र भगवतस्सकलफलप्रदत्वादिगुगेन तत्प्रपन्नस्य पूर्णायुष्टगुणा- धानं तदपगत्या तदन्यस्य ऊर्णायुयद्वध्यत्वरूषदोषाधानं च निव- द्धम। उपमासंकीर्णत्वं विशेष:।। यथावा- तव पदि लग्ना जनता पूर्णा लक्ष्येत सर्वथाऽ- पि हरे। पूर्णा दपि पञ्चयुता चदूर्णालक्ष्या भवेन्न सन्देहः ॥ १७१२॥ हे हरे! तत पदि लग्ना त्वच्चरणे सक्ता जनता सर्वधा सर्व- प्रकारेणापि पूर्णा सती लक्ष्यते जनैरिति शेष:। तव पञ्चयुता पदः चरणात् च्युता जनता स्वतः पूर्णाऽपि ऊर्णालक्ष्या ऊर्णेव मेषादिलोमेव अलक्ष्या अनादरणीया भवेत्। यद्ा ऊर्णा तत्प्ाया लक्ष्या दृश्या भवेत्। 'ऊर्णा मेषादिलोन्नि स्यात्' इत्यमरः । पक्षे पूर्णापि पूर्णेति शब्दव्यक्तिरपि पञ्चयुता पकारेण च्युता। पः पकार: च्युता यस्या इति वा' पकारविधुरा सती ऊर्णा ऊर्णेत्या- नुपूवीमती लक्ष्या द्ृश्या भवति। अत्र भगवतो माहात्म्यगुणेन तत्पदलग्नाया जननाया: पूर्णायुष्टलक्षणगुणाधानम्। तादृशमाहि- मवत्वं भगवतो गुणः। तेन तत्पादच्युतिहेतुकोर्णालक्ष्यत्वरूपो दोष इत्युभयं पूर्वेभ्यो विच्छित्तिशालि॥
Page 194
उल्लासमरः (७१) 183
यथावा- घनसारस्स्मितदास्यात्तवाघवान्प्राडूनसार एवां- म्ब । कथमप्यनोऽय सारो रसानधश्राल सकल- विपरीतः ॥ १७१३॥
हे अम्ब! घनसारकर्पूरः तव स्मितदास्यात् प्राक् मन्द- हसितदास्यलाभात्पूर्व अघवान् दास्यालामप्रयुक्तदुःखवान् 'अंहो- दुःखव्यसनेष्वघम्' इत्यमरः। अतएव नसार एव! असार एव नशव्देन नञर्थकेन समास:। कथमपि अतिप्रयाल्ेन अनितीत्यनः 'अन प्राणन' पचादच्। जीवन्नित्यर्थः। अथ स्मितदास्यलाभा- नन्तरं सलविपरीतः पूर्वोक्ताघवत्त्वादिसर्वगुणविपर्यासं गत- स्सन् रलानघः रसायां भुवि अनघः रसेन अनघश्च सन् सार: श्रेष्ठः वलवान्वा आस दिदीपे। अस्यतेः दैवादिकाद्दीस्चर्थका- लिट्। अधवत्वनसारत्वयोवैपरीत्येन सारो रसानघश्चेति सार- त्वरसानघत्वयोः प्रतिद्वंद्विनोर्ननिर्देशः। पक्षे घनसारशब्द: प्राक् प्रथम घवान्न भवतीत्यघवान् घवर्णविघुरस्सन् नसार एव नसार इीत संपद्यमानः अथ अनः नवर्णरहितः सार इति निष्पन्नः । एवं वर्णवैकल्यहतुकं शब्दस्वरूपमुक्तम्। अथ सर्ववर्णसाकल्येन वैप- रीत्य शब्दस्वरूपमाह-अथेति। अथ सकलविपरीतः वर्णवैक- ल्याभावेन विलोमपठितसर्ववर्णः रसानघ इति निष्पद्यत इत्यर्थः। अत्र श्रीस्मितगतधावळयतापहारित्वादिगुणेन घनसारस्य तदला-
त्युभयं पूर्वोदाहरणेभ्यो वैलक्षण्येन निबद्धम्। शब्दार्थतादात्मा- दिचमत्कृतिस्तु व्यक्तैव।।
Page 195
184 अलङ्कारमणेहारे
यथावा- अम्ब प्राकत्वदद्टष्टेरमरकदम्वमपि विष्ठपत्य- क्तम् : नष्टमधुना त्वनन्तोदयं तव दयादशा विप- त्यक्तम् श १७१४ ।।
हे अम्ब! ग्राक् पूर्व अमरकदम्बमपि किमुत मर्त्यकदम्ब- मिति भावः। त्वददृष्टेः त्वत्कटाक्षालाभाद्वेतोः विष्टपेन त्क्तं विष्टयं त्यक्तं येन तत्तथोक्तमिति। विसृष्टस्वस्वभुवनावस्थानमिति यावत्। नष्ं क्वाप्यदर्शनं प्राश्तं निलीनमित्यर्थः। अधुना तुतव दयादशा विपतत्यक्तं आपदा परित्यक्तम्। न केवलमनिष्टनिरास एव, कित्व- तिवेलमिष्टलाभश्चास्यत्याह-अनन्तोदयं अपरिच्छिन्नसर्वविधा- भ्युदयं च भवति। अत्र- त्वया देवि परित्यक्तं सकलं भुवनत्रयम्। विनष्टप्रायमभवत्त्वयेदानी समेघितम् ।। इति श्रीविष्णुपुराणानुसारिणा 'ईषत्वत्करुणानिरीक्षणसुधा- संघुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवन संप्रत्यनन्तोदयम्' इति श्रीयामुनार्यश्रीसूक्तिरनुसंहिता॥ पक्षे विष्टपत्यक्तमिति पदं नष्टं न विद्यते ष्ट इति वर्णः यस्य तत् नशब्दपूर्वको बहुव्रीहिः। भ्रषट्टवर्ण सत् विपत्यकं विपत्य- क्मिति पदं अनन्तात् शेपावतारात्पतसले: उदयः आविर्भावो यस्य तत्तथोक्तं भवति। सर्वेपामपि शब्दानां तम्निष्पादितत्वादिति भाव:। अत्र श्रीकटाक्षमहिमगुणेन तदविषयस्यामरकदम्बस्थ विष्टपत्यागादिदोष इत्येक उल्लासः, तत्कटाक्षमहिमगुणेन तद्वि- षयस्य तस्य विपत्तिपरित्यागादिगुण इत्यन्य उल्लास: पूर्ववदेव ॥
Page 196
उल्लाससर: (७१) 185
यथावा- वानरनिशिचरराजौ तयोरवरजौ च तव रवि- कुलेन्दो। कोपकपाभ्यां नृपतेराज्यादरमेत्य हन्त निर्ववतुः ॥ १७५५ ॥ हे रघुकुलेन्दो! वानरनिशिचरराजौ वालिदशाननौ नृप्ते - स्तव कोपात् आज्या: युद्धात् 'समित्याजिसमिदुधः' इत्यमरः। दर भयं एत्य निर्ववतुः निर्वाणं प्राप्ती अस्तं गतावित्यर्थः । तदव- रजौ सुग्रीवविभीषणौ, नृपते इति संबुद्धचन्तं पदं हे रघुकुले- न्दो इत्यस्य विशेषणम्। राज्यादरं राज्ये आदरं एत्य कुलक्र- मागतराज्यलाभात्तत्रातिमात्रादर प्राप्येति भावः। निर्ववतुः नि- र्वाणं सुखं प्राप्तावित्यर्थः। निःपूर्वकाद्वातेरुपपादितोभयार्थकताया दर्शनात्। तथाच मेदिनी 'निर्वाणमस्तंगमने निर्वृतौ गजम- जने। सङ्गमेऽप्यपवर्गे च' इति। अत्र श्रीरघुनन्दनगताश्यां कोपकृपाभ्यां दोषगुणाभ्यां वालिदशाननयोस्सुग्रीवविभीषणयोश्च आज्यादरस्य राज्यादरस्य च प्राप्तिपूर्वकं विनाशसुखलक्षणदोषगु- णयोराधानमित्युभयं यथासंख्यक्षेषतुल्ययोगितासंकीर्णमिति पूर्वे- भ्यो वैलक्षण्यम्॥ अत्र प्रथमचतुर्थयोरुल्लासोडत्वर्थः। मध्ययोश्छत्रिन्योयन लाक्षणिकः। काव्यलिङ्गेन चरितार्थोडयं नालंकारान्तरभूमिमाढौ- कत इत्येके। लौकिकार्थमयत्वादनलंकार एवेत्यपरे॥ इत्यलंकारम्रणिहारे उल्लाससर एकसप्ततितमः
ALANKARA.I11 24
Page 197
अथावज्ञालंकारसरः (७२)
न स्थातां यदि ते ताभ्यां साऽवज्ञालंकृति- र्भवेत ।। ताझ्यां अन्यगुणदोषास्या ते अन्यगुणदोपाधाने कस्यचिद्वु- णन कस्यचिद्गुणाधान दोषेण दोषाधानं वा न स्थाता चेत् अवज्ञा- लंकार:।
करुणाजलविरिति त्वां श्रितोडस्मि करुणा- यथावा-
लवोडपि मयि न कृतः। पाषी गच्छतु जलषिं पादतलं वाऽप्यमुष्य नार्द्रे स्यात् ॥१७१६॥
अत्र महावाक्यार्थो रष्टान्तरूप: विम्वन्नततिवविम्ववाकक्यार्थाक्यां अव- ज्ञारुपाभ्यां संकीण: ॥।
अमृतमये निवसन्नपि सुमनोनिवहे जनो यथावा-
भवद्विमुखः। विशदत्वं नैति हरे शशधरविम्बे चिरं कलङ इव ॥ १७९७॥
दुपमासंकोर्णाडयमिात पूर्वस्माद्विरोपः॥
Page 198
अवज्ञामर: (७२) 187
यथावा- गच्छतु गयां वितनुतां विलोमतन्नामवाच्य- मपि यदिवा। विन्देदरविन्देक्षण कर्थ तव पदं त्वया विवदमानः ॥ १७१८॥
यथावा- विलोमतन्नामवाच्यं प्रतिलोमगयाशब्दवाच्यं यागमित्यर्थः। गयागन्ता वा यष्टा वा भवतु। स पुमान् हे अरविन्देक्षण! त्वया विवदमानः 'त्वं मेऽहं ने' इत्युक्तरीत्या विवादकर्ता कथं तव पदं विन्देत। यमो वैवस्वतो राजा यस्तवैष हृ़ि स्थितः। तेन चेदविवादस्त मा गङ्गां मा कुरून् गमः ।।
इति तत्पदमरार्पणरूपाविवादवत एव निशश्रेयसप्राप्तयभिधा- नादिति भावः। अन् वक्तव्यांशस्सवोऽपि समासोक्तित्रकरणे सप्र- पञ्चं न्यरूप्यत। अन्र गयायागवोः पवित्रतादिगुणेन भगवत्पद- लाभगुणानाधानम्।। दोषेण दोषानाधानं यथा- का तव हानिभर्गवन् कन्विदभाग्य: पराङ्मुख- स्त्वयि चेत। नलिनसुहदो भवेत्क नयनरुजा चेन्निमीलितः कश्िवत् ॥ १७१९ ॥ नयनरुजत्युपलक्षणतृतीया। अत्र भाग्यद्षनिनयनरोगिणो: पराजाखत्वनिमीलितत्वाभ्या दोपाभ्यां भगवप्नलिनसुहदोर्हानि रूपदोषानाधानम्। इयमपि द्ष्टान्तसंकीर्णा आद्योदाहरणवत्॥
Page 199
188 अलंकारमणिहारे
यथावा- यइश्रीनिवास इति भुवि विदितो हिगिरौ च. कास्त्यसौ कैश्चित्। उक्तोऽपि विप्रतीपं कदाऽपि भविता स वा निश्रीः॥१७२० ॥ यः भगवान् श्रीनिवास इति सुवि विदितः अहिगिरी चका- स्ति। सः वा निश्रीः इति छेदः। सोऽसौ कैश्चित् भगवत्पारम्या- सहिष्णुभिश्शैवैः विप्रतीपं विरुद्धं यथा तथा उकोऽपि नायं श्रीनिवास: किंतु कुमार इत्युक्तोपीति भावः। कदाऽपि यदाकदा- चिद्वा निश्रीः श्रीविधुरः 'निवातपन्म' इत्यादाविव नीत्युपसर्गपू- वको बहुव्रीहिः। भविता वा इति योजना स्थात्किमित्यर्थः । श्रियो वक्षस्येवावस्थानात्कदाऽपि नित्यश्रीत्वं न जहातात्यर्थः । यथो- चयते श्रीमति रामायणे-'श्रीवत्सवक्षा नित्यश्रीः'। इति। पक्षे श्रीनिवासशब्द: कदाSपि यदाकदावा विप्रतीपमुक्त: प्ातिलोम्येन पठितः सवानिश्रीरिति भवितत्यर्थोऽपि चमत्कारी। अत्र नायं श्रीनिवास इति शैवोक्तिदाषेण भगवतो निश्रीत्वरूपदोषानाधानम्। चमत्कृतिविशेषस्तु व्यक्त एव ।। यथावा- सर्वेश्वरं हरे त्वां भूयश्श्रुत्यैककण्ठयतो विद्यः। पर्वतमात्रपति त्वां स्थविरगवी वदतु काऽपि का हानिः॥। १७२१।। भूयसीनां श्रुतीनमिककण्ठ्यात् एकार्थप्रतिपादनात्। स्थवि रगवी वृद्धप्रलपितम्। स्थविरेत्यनेन तस्य मतिभ्रंशो द्योत्यते। जरद्वी वा। वस्तुतस्तु स्थविरगवी 'विष्णुः पर्वतानामधिपतिः'
Page 200
अवज्ञासरः (७२) 189
इति श्रुतिः। काऽपीत्यनेन तस्याः श्रुत्यन्तरानैककण्ठ्यं द्योत्यते। अत्र उदाहृतश्रुत्या भगवतशश्रीनिवासस्य पर्वतमात्राधिपत्यप्रयु- क्तन्यूनतारूपदोषवर्णनेन हानिरुपदोषानाधानवर्णनम्। यथावा- अस्थिरजयोऽनवन इत्यभ्निधत्तां विप्रतीपमेव जनः। नवतोयजलोचन इह नचलोजयतोवनश्र न भवेत्किम् ॥ १७२२ ।।
जनः पामर इत्यर्थः । 'जनो लोके महलोंकात्परलोकेऽपि पामरे' इति विश्वमेदिन्यौ। अयं स्थिरः नित्यः जयो यस्य सः स्थिरजयः सन भवतीत्यस्थिरजयः। अनवनः अरक्षकः आभ्यां विशेषणाभ्यामनिष्टनिवारणेष्टप्रापणाक्षमत्वं सूचितम्। इति विप्र- तीपं भगवत्स्वभावविरुद्धमेव अभिधत्तां कथयतु इत्यनादरोक्ति:। नवतोयजलोचनः अभिनवनलिननयनो भगवान जयतः जयात् नचलः अचलः स्थिरजय इति यावत्। अवनः रक्षकश्च न भवे- त्किम्। आभ्यां पूर्वोक्तविशेषणाभ्यां पूर्वोक्तविशेषणप्रतिद्वंद्वि- भ्यामनिष्टनिराकरणेष्टप्रापणघुरीणत्वं सूचितम्। अयमस्थिरजयः अनवन इति कश्चित्पामरो ब्रूयाञ्चेत् तावतैवायं स्थिरजयो रक्ष- कश्च कथ न स्यादिति भावः। पक्षे नवतोयजलोचन इति शब्द: प्रतीपं कथितश्चेत् नचलोजयतोवनः कथ नस्यात् तथैव तन्नि- प्पत्तेरिति भावः। अत्र पामरजनकर्तृकविप्रतीपवर्णनदोषेण भग- वति तादशदोषानाधानमुपपादितचमत्कारोपस्कृतम्। यथावा- मूर्खस्त्वां निन्दति चेच्छातं किं तव हरे तदि-
Page 201
190 अलंकारमणिहारे
दमास्तास। तंत्वं नाद्रियसे चेच्छातं तस्यापि किमपि बत न भवेल् ॥ १७२३॥ किं छातं किं छिनं 'छो छेदने' कः। 'आदेचः' इत्यात्वम्। 'छिन्न छातं लूनम्' इत्यमरः। तं निन्दितारं मूर्ख त्वं नाद्रियसे चेत् तस्यापि न किमपि छातं छिन्नमित्याश्चर्यम् । परिहारस्तु चेतु शातं इति उत्तरार्धे छेदः। किमपि ज्ञातं सुखं न भवतीति। 'शर्मशातसुखानि च' इत्यमरः 'शो तनूकरणे' दैवादिकादस्मा- द्वाहुलकात्तन्। 'आदेचः' इत्यात्वम्। शयत्यशुभमिति विग्रहः। अत्र सूर्खकृतानन्दनप्रयुक्तस्य भगवन्नचूनतारूपदोषस्यानाघानम्। भगवत्कर्तृकानादरदोष प्रयोज्यमूर्खदोषानाधानमिति भवत्यवज्ञालं कारद्वयम्। अत्राद्यं शुद्धं, द्वितीयं तु श्ेषोज्तीवितमिति विचेकः॥ अत्र केचित् अवज्ञोदाहरणेषु 'स्वल्पमेवाम्तु लभते प्रस्थः प्राप्यापि सागरम्, मीलन्ति यदि पदमानि का हानिरमृतयुतेः' इत्यादिषु नावज्ञाख्यमलंकारान्तरमभ्युपेयं, तत्रान्यगुणदोषयोर- न्यगुणदाषिेजननसमर्थयांस्सतोरपि तदजननपर्णनेन विशेषोंक्तिरेव युक्तत्वाद्वक्तुम्। सागरसलिलसमृद्धिसत्त्वेऽवि प्रस्थे तत्तमृद्धय- भावस्य पझ्मसंकोचेऽपि चन्द्रगतदोषामवस्य च चर्णनेन तल्लक्ष- णस्याविकलत्वादिति वदन्ति। वस्तुतस्तु नात्र विशेषोक्तिस्सु- वचा। 'हाद स्रेहक्षयो नाभूत र्मरदीपे उवलत्यपि' इत्यादितदु
स्थगमनाम्बुसमृद्वयमाचयोः कर्र्यकारणभावस्य लोकांसद्धस्या- भावेनो क्तविशेषोक्तिलक्षण विर हादित्याहुः॥ इत्यलंकारमणिहारे अवज्ञासरी द्विसप्ततितमः
Page 202
अथानुज्ञासर: (७३) अनुज्ञा सा गुणौत्सुक्याद्दोषस्याप्यर्थना यदि। उत्कटगुणविशेषलालसया दोषत्वेन प्रख्यातस्यापि वस्तुनः प्रार्थनमनुझ्ालंकार:॥ यथावा- भवहर फणिशिखरीश्वर भवतात्तव विप्रकर्ष एव मम। स झादरस्य कारणमनादरस्यैव सन्नि- कर्षस्तु ॥ १७२४ ॥ अत्र श्रीवेंकटगिरिनाथविप्रकर्षो दोषः। तदभ्युपगमे हेतुरा- दरणकारणत्वं गुण। स च सामान्येन विशेषसमर्थनरूपेणार्था न्तरन्यासेन दर्शित: ॥
तावकशैलेऽच्युत मे स्थावरता जङ्गमत्वमपि यथावा-
वाडस्तु। किं मुक्तिदोऽसि न पुरा कोसलजनप- दचराचराणां त्वभ्॥ १७२५ ॥ अत्र तरुलताहिरुपस्थावरत्वेन वा भुजगविहगमृगादितिर्य- गजन्तुता वा जन्मनः प्रार्थनं दोष:। तदाशासने र दशरूपेण वेंकटाद्रयवस्थानस्यापि मुक्तिहेतुत्वं गुणः । स च ३सलजन- पदचराचरनिर्धेयसवितरणोदाहरणेन दईितः।।
मा भृत्त्वय्यनुरागो मम चैद्यादेरिवास्तु वैरं वा। यथावा-
येन त्वय्यच्छिन्ना स्मृतिसन्ततिरच्युतावतिष्ठेत।
Page 203
192 अरङ्कारमणिहरे
अत्र चैद्यादेरिव वक्तु: भगवद्विषयकवैररूपदोषाश्यर्थनम-
अत्र 'द्वेषाच्चैद्यादयो नृपाः' इत्येतदनुसंघेयम्॥
यत्र क्ववा निहाका तावकतीर्थे भवत्वसावा- यथावा-
त्मा। तावकयोगादच्युत का हानिस्स्यात्ततः प्रस- व्यगतेः ॥१७२७॥ हे अच्युत! असावात्मा अय चेतनः यत्रक्ववा तावके तीर्थे स्वामिपुष्करिण्यादौ निहाका गोधिकाख्यो जलजन्तुविशेषः 'नि- हाका गेधिका समे' इत्यमरः भवतु। ततः निहाकात्वप्राप्तावपि तावकयोगेन त्वदीयध्यानेन त्वदीयानां त्वदीयेन वा संबन्धेन वा तन्महिस्नेति यावत्। प्रसव्यगतेः अनुकूलसद्गतेः। 'प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी। आत्मन इति शेष:। का हानिस्स्यात् न काऽपि हानि: किंतु श्रेय एव भवेदिति भावः। त्वत्संबन्धप्रभाव ईदश इति तात्पर्यम्। पक्षे निहाकाशब्द: तावकेन योगेन उपायेन युक्त्ा वा प्रसव्या प्रति- कूला गतिः स्थितिः तस्या इति पञ्चमी। युक्त्ा उपायेन वा प्रातिलोम्येन पठनादिति यावत्। काहानि काहानीत्यानुपूर्वीमत् स्यात्। अस्मिन् पक्षे स्यादित्यत्र 'अनचि च' इति द्वित्वम। अत्राप्यनुज्ञालंकार: पूर्ववदेव ॥
संसारमेव दित्ससि कंसारे यदि तथैव भूया- यथावा-
न्न। अपि जातु स एव स्यात्सारो ननु देवसंप- दवियुक्त:॥ १७२८॥।
Page 204
अनुज्ञासर: (७३) 198
हे कंसारे! त्वं नः संसारमेव अनादिकालादनुभूतमेवेलि भावः। दित्ससि यादे इतःपरमपि दातुमिच्छसिचेत् तथैव भूयात्। अनतिलङ्गनीयं हि नियन्तुश्शासनं नियन्तव्यवर्गेणेति भावः। तदा- पपि न किंिदनिष्टमित्याह-अपि जात्विति। स एव संसार एवं देवसंपदा- "द्वी भूतसरगी लोकेऽस्मिन् दैव आसुर एव च। विष्णुभक्तिपरो देवो विपर्रीतस्तथाऽडसुरः॥ इत्युक्तप्रकारा दैवी संपत्। या हि 'अभयं सत्वसंशुद्धिः' इत्यादिना 'दैवी संपद्विमोस्षाय' इत्यगीयत। तया अवियुक्त: संयुक्त: अपि जातु सारस्स्यात् जातुसारस्स्यादपीति वा योजना। अपिस्संभावनायाम ॥
मङ्गलाचरितैदानैर्मतिर्नः कृष्ण ईश्वरे॥ इत्यादुक्तरीत्या यदाकदाया यत्रकत: ताहशवादच्किकाविसु- कृतपरणतिवशात्थयि मक्तिरुवियाववेति तस्यापि सारत्वं संभ- वेदेवेति भावः। स ह्यपवर्गतुल्यकक्ष्यतयोच्यत- त्वं चेत्पसीदसि तवास्मि समीपतश्चेत् त्वय्यस्ति भक्तिरनघा करिशैलनाथ। संसृज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन्नपवर्ग एव ।। इति। पक्षे हे देवेति संबोधनम्। स एव संसारशब्द एव सं- पद्वियुक्त: सं इत्याकारकपदेन विघटितः सारशब्द एव स्यादित्य- थॉऽपि चमत्कृतेरुपस्कुरुते। अत्र दोषरूपसंसाराभ्यर्थनं तत्र यदा ALANKARA __ III. 25
Page 205
194 अलंकारमणिहारे
कदावा दैवसंपदभिजातत्वादिगुणसंभवसंभाव नयेतत व्येथम्। इय-
इत्य लंकार मणिहारे अनुज्ञालंकारसरस्त्रिसप्तितमः
अथ तिरस्कारसरः (७४)
गुणस्य दोपसंवन्धाद्वेपश्रेत्सा तिरस्कृतिः॥ दोषविशेषानुबन्धाद्गुणत्वे प्रसिद्धस्यापि द्वेषश्चेत् स तिर- स्कारो नामालंकार:।
गथावा- मधुसूदन मम जात्ववि माहेन्द्रघस्संपदोऽपि मा भूवन्। यासु निमन्नो नर्छति यदच्छया वाडपि तावकसमरणम् ॥ १७२९ ॥
अत्र भगवद्विस्प्ररणदोपसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन ष- सिद्धास्वपि द्वेषः । अयमलकारः पण्डितराजोपज्ञम्। स हि- "दोषविशेषानुबन्धादित्यायुक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयत: कुवलायानन्दकृतो विस्म- रणमेव शरणं, अन्यथा-
भजम सवदन्तिक प्रकृतिमेत्य पैशाच्तिकीं ंकिमित्यमरसंपद प्रमथनाथ नाथामहे।
Page 206
लेशसरः (७६) 195
इति तदुदाहने पद्ये तिरस्कारस्य स्फुरणानापत्ते:" इत्य- भाणीत् ॥ इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितम.
अथ लेशालकारसरः (७५)
गुणो दोपतया दोषो गुणत्वेनाथवा यदि। वर्ण्यते तमलंकारं लेशभाहुमनीषिणः ।। यत्र गुणोऽनिष्टसाघनतया दोषत्वेन, दोपश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामांलकारः॥ यथा- भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरात- ङम्। हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरो डधिरोहन्ति ॥ १७३० ॥ अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरात- कोल्लासानुकूलतया गुणत्वं कल्पितम्। द्वितीयार्धे श्रीनिवासधार- णगुणस्य सर्वजनकर्तृकशिगेधिरोहणकारणतया दोषत्वं कलपि- तम्। अय च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयादार्यादिसुगुणशालिनो राज्: अर्थिजनकर्तृकसंमर्दादि-
Page 207
196 अलक्कार मणिहारे
निन्दाभिव्यक्तिरूपया निन्दया स्तुत्यभिव्यक्तिरूपया व्याजस्तुत्या च पूर्वोत्तरार्धगतया संकार्यते॥ असहनमेव ज्यायस्सहिष्णुतावैभ्वं धिगस्तु रमे। सुखिनोऽन्ये तव तु सखी सर्वैस्सवसहे- त्यधः क्रियते ॥१७३१॥ अत्रापि दोषगुणयोगुर्णदोषत्वेन वर्णनं, अर्थान्तरन्यासपरि ष्कृतत्वं तु विशेषः ।
यथावा- सर्वगुणानां निधिरिति गर्व मा गाः पयोनि- धेस्तनये। यैरेव स्वजनयितुस्स्वच्छतमस्यापि मथनहेतुरभू:॥१७३२॥ अत्र गुणस्य दोषत्वेन वर्णनं शुद्धम्। न चायमलंकार: व्याज- स्तुत्या उभयरूपया गतार्थ इति शङ्क्यं, सुखप्रतिपादितार्थवैपरी- त्येनात्र सर्वत्र पर्यवसानविरहात्। न हि 'सर्वगुणानां निधिः' इत्यस्मिन् पद्ये दारिद्रयात् खिन्नस्य कस्यचिललक्ष्मीगुणोपालमम- रूपे थियस्स्तुतौ तस्य तात्पर्यम्। अपितु स्वजनकमथनहेतुत्वेन निन्दायामेव। एवं 'असहनमेव ज्यायः' इति क्कोंके भूमीनरेया निन्दा न विवक्षिता किंतु सुखावस्थानं, सर्वसहाखेददर्शनदुः- खितस्य वाक्येSस्मिन् तदन्येषां निन्दाया अवक्तव्यत्वात्। प्रत्युत स्तुतेरेव वक्तुसुचितत्वात्। 'भूयस्तु समुल्लासिषु' इति ग्लोके- व्याजस्तुतिरस्तिचेदस्तु नाम, तस्यास्सावकाशत्वेन एतद्वाधना- योगात्।।
Page 208
मुद्रासर: (७६) 197
प्रियतम एव भवत्यास्त्रिभुवनभिक्षौ स्थिते कु चेलसखे। सर्वजगददुर्विधतानिर्वापणतोSम्ब गर्वि- ताऽसि कथम् ॥ १७३३॥ अत्र पर्यन्ते प्रतीयमानस्य भगवदतिरिक्तसकलजगद्दारिद्रय- निर्व पणरूपस्य गुणस्य दोषत्वेनावर्णनात् दोषत्वेन वर्ण्यमानस्य भगवतस्त्रैलोक्यभिक्षुत्व कुचेलस खत्वा निराकरणदोषस्य गुणत्वेना- कल्पनाहुणदोपयोर्भिन्नविषयतयाऽवस्थानेन लेशस्प शलेशरहिता व्याजस्तुततिरिति व्यक्तमेव सावकाशत्वम्। अतएव लेशोऽपि न व्याजस्तुतेबधिक इति प्रागुदाहते 'भूयस्सु समुल्लासितु' इति पद्े द्वयोरपि समावेश इत्यवधातव्यम्॥ इत्यलंकारमणिहारे लेशसर: पञ्चसप्ततितमः.
अथ मुद्रालंकारसरः (७६)
प्रकृतार्थपरैश्शव्दरमुद्रा सूच्यार्थसूचनम्। विवक्षितार्थ प्रतिपादनपरैश्शव्दैस्सूचनीयस्यार्थस्य सूचनं मु- द्रालंकारः। अयमपि दीक्षिनोपज्ञमेव। प्रकृतार्थपरेण पदेन तदे- कदेशेन वा पदसमुदायेन पदैकदेशसमुदायेन वा तडुभयसमुद्दा- येन वा याथाकथंचित् ज्ञापनीयार्थविशेपस्य ज्ञापनं मुद्रेति निर्ग- ळितोऽर्थः । पदैकदेशस्तु प्रकृते अर्थवान्वा निरर्थकोवाऽस्तु। सूच्यार्थश्च प्रकृतोऽप्रकृतोवाऽस्तु। न तत्राभिनिवेष्टव्यम्।
Page 209
198 अलकारमणिहारे
यथावा- भजमनसागोपेता नियतर्षिगणा: पदोर्भजन्ते याम्। भृगुजगणजां यतीड्यां विद्यामविषमजयां सुगीतिमिमाम्॥ १७३४॥ अत्र लक्ष्मीवर्णनपरे पद्ये गीतिवत्तपरतयाऽर्थान्तरमपि विव क्षेतम्। तत्र लक्ष्मीपरत्वे एवमर्थ :- नियतर्षिगणा: नियता: निय- मितेन्द्रिया एकाग्रमानसा इति यावत्। एकान्तिन इति वा। ये ऋविगणा: आगोऽपेताः आगसः अपराधात् अपेता: निरपराधा स्सन्त इत्यर्थः । 'अपेतापोढ़ इति पञ्चमीसमासः। यां श्रियं पदोः चरणयो: भजन्ते सेवन्ते। भृगुजगणजां भृगुजः भृगुनाम्न: ऋषे: जातः यो गणः धातृविधातृप्रभृतितत्पुत्रपौत्रप्रमुखस्संता न वर्गः तस्मिन् जातां प्रादुर्भूतां- देवौ धातृविधातारी भृगो: ख्यातिरसूयत। श्रियं च देवदेवस्य पत्नी नारायणस्य या॥
इति विष्णुपुराणोक्ते। यतीड्यां यतिभि: मस्करिमि: ईड्यां स्तव्यां अविषमजयां अविषमः न्याय्यः सर्वसंप्रतिपन्न इति यावत्। जयः उत्कर्षो यस्यास्तां अतएव सुगीति गीयत इति गीतिः गानं शोभना गोति: यस्यास्तां प्रशस्तकीर्तिमिति यावतू। इमां विद्यां आत्मविद्यां श्रियमित्यर्थः। 'आत्मविद्या च देवि त्वं विसुक्तिफलसाधनी। विद्यासहायवन्तं माम्' इत्यादिभिर्विद्याश- ब्देन श्रियेSभिधानात्। विद्येत्यत्र कार्यकारणयोरभेदोपचारः। मनसा भज उपास्वेति कस्यचिदगुरोः कचिदन्तेवासिनं प्रत्यनु- शासनम् ॥
Page 210
मुद्रासर: (७६) 199
गोतिवृत्तपक्षे तु-यां गीति गोपेता: गसंज्ञकेन गुरुणा उपेताः युक्ता: अस्य अन्ते इत्येतदादि: अवसाने गुरुणा उपेता इत्यर्थः । ते च अनियता: क्रमनियमरहिता: यथायथ प्रयुक्ता इत्यर्थः।
शेयास्सर्वादिमध्यान्तगुरवोऽत्र चतुष्कलाः। गणाश्चतुर्लघूपेता: पञ्चार्यादिषु संस्थिता: ॥ इति सर्वादिमध्यान्तगुरुणां चतुर्लघूपेतानां चतुर्लघुरूपगणा- न्तरसहिताना प्रनियमेनार्यावृत्तेषु प्रयोगस्यानुशासनात्। अत्र द्वि- गुरुक एको गणः । आदिमध्यान्तगुरवः भगणजगणसगणास्त्रयः चतुर्लंधुक एक इत्येवं पश्चगणा यथासंभवमार्यादिषु प्रयोज्या इति कारिकार्थः। ते च कतीयत्राह-कीति। ऋषिसंख्याका गणाः सप्तगणा इत्यर्थः । गोपेताश्च ते अनियतर्षिगणाश्चेति कर्मधा- रयः। ते च के इत्यत आह -भजमनसा इति। भकारादिसंज्ञकाः। क्व च ते प्रयोज्या इत्यत आह -- पोरिति। पदोः श्रोकचतुर्थाशयोः पूर्वात्तरार्धरूपयोर्ई्वर्यों: पादयरित्यर्थ:।पहन्' इति पादशब्दस्य पदादेशः। भजन्ते श्रयन्ते। अथ चतुष्कलानां गणानामनियमेन वथायर्थ प्रात्ती नियनयत-भृगुजति। भृगुजः परशुरामः सच मत्स्यादिभगवदवतारेषु षशतया गणितः। तेन प्रष्ठ इति लभ्यते। भृगुज: पष्ठः गणः जः जसंज्ञका यस्यास्तां भृगुजगणजां जग- णात्मकषष्ठगणामित्यर्थः । अनेन पष्ठेन जगणेन भाव्यमिति नियम उक्तः। अविषमजयां विषमे विषमांशे विषमगणस्थाने जं जगणं यातीति विषमजयाः यातेः किय। सा न सवतीतविषमजया तां तथोक्तां ग्रथमनृतीयादिविषमांशषु जगणशून्यामित्यर्थः । अनेन विषमस्थानेषु जगणो न प्रयोज्य इति नियम उक्ता । यति- भिः विच्छेद: विच्छेदो यतिसंज्ञकः' इत्यनुशासनात्। ईड्यां
Page 211
200 अलंकारमणिहारे
रमणयविच्छेदयुतामित्यर्थः । 'कृतयतिशोभाम्' इति तल्लक्षणे वक्ष्यमाणत्वात्। इमां सुगीति शोभनां गीति गीत्याख्यामार्यामि- त्यर्थः। विद्यां जानीयाम्। विदेर्लीदुत्तमैकवचनम् ! अत्र- लक्ष्मैतत्सप्तगणा गोपता भवनि नेह विषमे जः । षष्ठोयं न लघू वा प्रथमेऽधें नियतमार्यायाः॥ इत्युक्तार्याप्रथमार्धलक्षणस्यैव उत्तरार्धेडपि विद्यमानत्वात्। अर्थाप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयो: कृतयतिशोभां तां गीर्ति गीतवान् भुजङ्गेशः॥ इत्युक्तं गीतिलक्षणं सर्वमपि सुस्पष्टम् ।। अत्र श्रीलक्ष्मीवर्णनपरेण सुगीतिमिति पदेन अस्य वृत्तस्य गीतिनामताया: भजमनसा इत्यादिना तद्गणनियमादीनां च सूच्या- नामथानां सूचनमिति मुद्रालंकार: प्रकृताप्नकृतश्लेषोजीवितः । न चात प्रकरताप्रकृतश्ेष एव न मुद्रालंकार इति वाच्यं, श्ेष- सन्भावेऽपि सूच्यार्थसूचनस्यापि स्फुटतया मुदालंकारस्य निरर्ग- लत्वात्। नाप्यस्य मुदालंकारस्य श्रेषतो विविक्तविषयदौ- लैश्यभ्रमः कार्यः, अनुपद्मवे विविक्तस्य विषयस्य दर्शयिष्य- माणत्वात्। तस्मादत् श्ेपमुद्रालंकारयोस्संकर पवेति दिक्॥ यद्यप्यत्रालंकारग्रन्थे वृत्तनान्नोऽवश्यं नास्ति सूचनीयत्वं, तथाऽप्यस्य पद्स्य एवंविघलक्षणाभिन्नलक्ष्यघटितच्छनदइशास्त्म ध्यपाठे तस्य सूचनीयत्वं संभवतीति लक्षणानुगतिः कार्या। अत एव- सूच्यार्थसूचन मुद्ा प्रकृतार्थपरैः पदैः। नित्यम्बगुर्वी तरुणी दग्युग्मविपुला च सा।। अत्र नायिकावर्णनपरेण युग्मविपुलापदने अस्यानुष्टुमो युग्म विपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा। यद्यप्यत्र ग्रन्थे वृत्त-
Page 212
मुद्रासरः (७६) 201
नास्नो नास्ति सूचनीयत्वं, तथाऽप्यस्यात्तरार्धस्य लक्ष्यलक्षण- युक्तच्छन्दश्शास्त्रमध्यपातित्वे तस्य सूचनीयत्वमस्तीति तदाभ- प्रायेण लक्षणं योज्यम" इति कुवलयानन्दग्रन्थस्संगच्छेत। अत्र छन्दश्शास्त्रमध्यपातित्वेनेति तृत,यान्ततया केषुचिकोशेष्वर्वा- क्तनेषु दृश्यमान: पाठोऽस्वच्छः, भूयस्सु प्राचीनकोशेषु मध्य- पातित्वे इति सप्तस्यन्तपाठस्यैव दर्शनात् तथैव तद्वचाख्यायां रसिकरअ्न्यां व्याख्यातत्वाच्च। तथाच तद्गन्थ :- "नन्वत्र तरु. णीवृत्तान्तवर्णनप्रस्तावे वृत्तस्यालक्षणीयतया तन्नास्नस्सूचनीय- त्वाभावान्नेह मुद्रालंकार इत्याक्षिपति-यद्यपाति। सत्यं, नात्र वृत्तनाम सूचनीयं, तथाऽपि 'यस्यां लस्सप्मो युग्मे सा युग्म- विपुला मता' इति विपुलालक्षणोत्तरार्धे यदि 'नितम्बगुर्वी तरुणी' इत्युत्तरार्धमुदाहरणं भवेत् तदा तत्र छृत्तस्य सूचनो- यत्वमस्तीत्यभिप्रेत्यात्र मुद्रालंकारोदाहरणमिति परिहरति-तथा- 5्पीति"। पतेन छन्दशशास्त्रमध्यपातित्वेनेति तृतीयान्तपाठमेव बहुमन्यमाना: 'नितम्बगुर्वी' इत्यायुत्तरार्धस्य लक्ष्यलक्षणयुक्त- चछन्दशशास्त्रमध्यपातिन पवात्र लक्ष्यतयोदाहतत्वात्तादशस्यैव प्रस्तुतसूच्यार्थसूचिनो मुद्रालंकारत्वं न तु तदन्यकाव्यान्तगतस्या- प्रस्तुतसूच्यार्थसूचनस्यापीत्यागृह्वाना: केचित्परास्ताः। सति च तृतीयान्ततया पाठे उपद्शितरीत्या व्याख्यानव्याख्येययोरन्यो- न्यमुखानवलोकनापत्तेः। गेषां चन्द्रालोके दश्यन्ते लक्ष्यलक्षणश्ोकाः । प्रायस्त एव तेषामितरेषामभिनवा विरच्यन्ते।। इति जयदेवप्रणीतचन्द्रालोकाइश्यमानानामलंकाराणां कुव- लयानन्दकरिरेव लक्ष्यलक्षणयुक्तश्लोकप्रणयनस्य प्रतिज्ञाततया अत्र ALANKARA-III, 26
Page 213
202 अलङ्कारमाणेहारे
कच्छन्द्रोग्रन्थस्याप्रसिद्धेश्च। वस्तुतस्तु प्रकृतार्थस्यैव सूचनं मुद्रालंकार इति परमाग्रहः । प्रकृतस्य वा अप्रकृतस्य वा सूच्यस्यार्थस्य सूचन मुद्धालंकार इत्येव ग्राह्यम्। 'सूच्यार्थसू- चनं मुद्रा प्रकृतार्थपरैः पदैः' इति हि तच्छरीरम्। तथाच
तदतिरिक्तकाव्येषु यत्रयत्र 'कृत्वा हाटकताटकेयहरिणे शार्दू- लविकरीडितम्। पर्यायेण स्तनकलशयोरङगळीयं मदायम्' इत्यादौ अप्रकृतवृत्तालकारादिसूचनेऽप्यक्षत एवायमलंकारः। अन्यथा रामादिचरितं ग्रथयितृणां कविकुलाग्र्रयातृणां महता प्रयतेन यत्र-
कारकौस्तुभकृतो बुक्कपत्तनचेंकटार्यास्तु प्रकृतार्थपरैश्शब्दैः कविनाऽप्रकृतं यदि। सूच्यं सूच्येत जगदुस्तदा मुद्रामलंकृतिम्। इत्यप्रकृतसूच्यार्थसूचनप्रेवर मुद्ेत्यमुमलंकारं लक्षयन्त :- नीलश्रीरलकेषु शङ्गगरिमा कण्ठे कुचे माकरी रेखा कुन्दवरद्युतिस्स्मितसुधाकान्तेषु दन्तेषु च। पादौ कच्छपभूषिती करयुगं यस्यास्सपझ्मं महा. पझ्माSडनन्दमयी मुकुन्दरमणो सद्यः प्रसद्यान्मम।।
इत्युदाहत्य 'अत्र नीलादिशब्दैनिधिनवकसूचनम्' इत्यप्र- स्तुतं निधिनवकमेवासूसुचन। न हि लक्ष्मीवर्णनप्रस्तावे निधि- नवकसूचनं प्रस्तुनम्। अन्यत्सर्व प्रपश्चितं हंससदेशरसास्वादिन्यां 'पर्यायेण स्तनकलशयोः' इत्यत्रास्माभि: ॥
Page 214
मुद्ासर: (७६) 203 ..
यथावा- हारसमेतो भोगी राहो: कालो रविप्रवेकेषु। गगनचराणां वारेष्वास्तेऽन्तर एष सन्ततमरिष्टः।। हारेण वैजयन्तीरूपेण समेतः भोगी निरतिशयभोगवान् भूम्ि प्रशंसायामतिशयने वा मत्वर्थीयः। राहो: काल शत्रु: भगवान् रविप्रवेकेषु आदित्यादिषु गगनचराणां दिविषदा ग्रहाणां च वारेषु समूहेषु वासरेषु च। अन्तर: अन्तरिस्थितः 'य एषोऽन्तरादित्ये। य आदित्ये तिष्ठन्नादित्यादन्तरः । सर्वान्तरः' इत्यादिश्रुतेः । आस्ते। एषः सर्वान्तर्यामितयाऽवस्थितोऽषि संतत नित्यं रिषं अशुभं तन्नास्त्यस्येत्यरिष्टः अपंहतपाप्मेत्यर्थः। सर्वान्तर्यामित्वेऽपि तद्गतदाषेगन्धासस्पृष्ट इति भावः। अन्रादित्यादिवासरेषु राहुकाल- हारसमेतोभोगीति कचटादिवर्णज्ञाप्यसंख्याक्रमेणाटमद्वितीयाद्य- धयामपरिमाण आस्ते। तद्यथा रविवारे अष्टमोऽर्धयामो राङु कालः। इन्दुवारे द्वितीयोरऽर्धयामस्स इत्यादि द्रष्टव्यम्। स च संततमरिष्टः कार्येष्वशुभद इति ज्योतिश्शास्त्रमर्यादायास्सूच्याया- स्सूचनम् ॥ यथावा- नतसमनवनिर्निद्रां नलिनेक्षणहृदयवसतिम- क्षुंद्राम्। कामपि करुणामुद्रां पथ्यामार्या श्रये भद्राम्॥ १७३६॥ अत्र पथ्यामार्यामिति पदाभ्यामर्थवव्भयामस्य पद्यस्य- त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः।
Page 215
204 अलंकारमणिहारे
एवं 'कामपि करुणामुद्राम्' इत्यत्र मुद्रापदेनास्मिन् पद्ये प्रतिपादितस्यालंकारस्योक्तलक्षण मुद्रा नामत्वसूचनमर्थवत्पदैकदे शेनेत्य-याऽपि मुद्रा॥। यथावा- त्वद्दीप्तिघूतरोचिस्तटिल्लिता क्वापि हन्त जीमू- ते। लीनाऽपि भीतिभारात्पयोधिनन्दिन्यभूच्च- पला ॥१७३७॥ क्वापि जीमूते जलदे पर्वते च 'जीमूतौ मेघपवतौ' इत्यमरः। अत्र चपलेत्यर्थवता श्िष्टेन पदेन अस्य पद्यस्य- उभयार्धयार्जकारौ द्वितीयतुर्या गमध्यगी यस्या:। चपलेति नाम तस्या: प्रकीर्तित नागराजेन।I इति लक्षितगुरुद्यमध्यगजगणात्मकद्वितीयचतुर्थगणवदुभ- यार्थशालिचपलाख्यार्यानामतालक्षणसूच्यार्थसूचनम्। यथावा- यस्य न करुणालेशस्तस्यानन्तं वृषाचलेश सुखम। भजसि कृपाविवशस्त्वं परदुःखनिरा- चिकीर्षया क्वेशम् ॥ १७३८॥ अत्र करुणालेशवैदुर्यरूपदोषस्यानन्तसुखवत्त्वरूपगुणत्वक- लपनं कृपापारवश्यरूपगुणस्य परदुःखनिराचिकीर्शनिमित्तकक्केश- वत्तारूपदोषत्वकल्पनं चेत्यनुपदोक्तलक्षणलेशालंकारः । स च अनर्थकपढेकदेशरूपलेशशब्देन तन्नास्ो ज्ञापनीयस्य ज्ञापनम्॥
Page 216
मुद्राबर: (७६) 205
यथावा- नवनलिनाक्ष: फणिगिरिदुर्गनिवासे निसर्गतः कुतुकी। कृष्णघनजिष्णुरुचिराकृतिस्स लक्ष्मीप- तिश्चिरं जीयात् ॥ १७३९ ॥ अत्र पादचतुष्टयाद्यवर्णयुग्मरूपार्थवत्पदैर्मिलितै :- 'नवदुर्गकृष्णकृतिः' इति प्रब्धकर्तृनास्नस्सूचनीयस्य सूचनम्॥ अत्र नक्षत्रमालादिस्तुतिवत्केनाप्यक्षुण्णचरी काऽपि श्रीह्य- ग्रीवदेवदिव्यमहिषीविषया अलंकरणमालिकाख्या बवबालवादि करणनामसूचनी अस्माभिरेव प्रणीता स्तुतिरुदाहियते। तस्या इमे आद्ये पद्ये- कमलवनावलिभोग्यं कलझपयोराशिराजसौ- भाग्यस्। किमषि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥। १७४० ॥ हरणायाखिलविपदां करणान्येकादशापि वि नियम्य श्रोकैरेकादशभ्तिलोकशित्रीं स्तुवे प्रसी दतु सा । १७४१॥ पकादशसंख्याकानि करणानि इस्द्रियाणि। पक्षे बवबालवे- त्यादिचरस्थिरसंज्ञकानि करणानि तानपप्येकादशसंख्याकान्यवे। विनियम्य विषयेभ्यः प्रत्याहृत्य। पद्यानामेक्कदेशेषु ग्रथित्वा च। अत्र करणान्यकादशापि विनियम्येति पदैःश्लिषैरर्थचद्द्िः वक्ष्य- माणस्तुतिपद्येतु क्रमेण करणनास्नां सूचनं भविष्यतीति सूचितम्।।
Page 217
206 अलक्कारमणिहारे
अंब वधूमणि भवतीमम्बुरुहाक्षोSपि वक्षसि बिभर्ति। किं बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ १७४२॥ अत्र अंबवधू इतिपदैकदेशाश्यां अनर्थकाभ्यां बवकरणना- मरूपसूच्यार्थस्य प्रत्यायनम्॥
त्वाम्। तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये गरणम् ॥ १७४३॥ अत्र निकुरुम्बालवालेत्यनर्थक पदैकदेशाभ्यां बालवकरणनाम- सूचनम् ! झुभदायकौ लवणिमप्रभवौ ननु जननि तव विदितविभवौ। पादौ वितार्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ॥ १७४४॥ लवणिमा लावण्यं 'लवणिमगुणनाणयिस्तराम्भोधिवेणी' इति शृङ्गारतरङ्गिणीप्रयोगात्। अत्र दायकौ लवणिमेत्यनर्थकपदै- कदेशाभ्यां कौलवकरणनामसूचनम्॥ हरिदर्शनसविकसनं हारि ममामोदि षट्पदो- ल्वसनम्। हृदयाब्मुजं शरण्या हयमुखदयितैतु ललितलावण्या । १७४५ ॥ हरे: भगवतः भानोश्च दर्शनेन सविकसनं उन्निद्वं उल्लासिच। हारि मनोहरं अमोदि प्रमादवत् सुरभि च। उल्लसन्त्यस्मित्नि
Page 218
मुद्रासर: (७६) 207
युलसनम: पर्दस्य शरणागतिमन्त्रस्य षदुपढानां भ्रमराणां च उल्लसनम। अन्यततुगसम्। अन्र दायततु ललििनत्यर्थवन्निर्थकप- दैकदेशसमुदायेन तैतुलकरणनामस्चत्प्। शिशिरमयुखावरजं वशितहयग्रीवममृतसाग- रजम्। भजतां भवभरतापं नयतां नः किमपि धाम तल्लोपम् ॥ १७४६॥ शिशिरमयूख: अवरज वस्य त्, भवभरतापं लोपं नयता- मित्यन्वयः। अत्र सागरजमित्यनर्थकेन पदकदेशन गरजकरणना- म सूचितम्॥। कश्चित् वणिग्जन इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य। त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूति त्वत् ॥ १७४७ ॥ न्यासघनी मख्यासधनवान् न्यासरुपधनवांश्च। न्यासो नाम केनचित् रक्षणायान्यवशे उपनिहितं पस्तु 'पुमानुपनि- धिर्न्यासः इत्यमरः। न्यस्यत इति न्यास: कर्मणि घन्। मौग्ध्य सौन्दर्थ मौळ्यं च अशुतमं अणीयस्स्वरूपं अत्यल्पं च । स्वं आत्मानं धनं च। विक्रीय विनिमितं कृत्वा च महाविमूर्ति श्रीनि- वासं महतीं सम्पद च लभते। अत्र वणिग्जेत्यनर्थकन पदैक- देशेन वणिग्जकरणनामसूचचनम्॥ भुवनावननिर्निद्रा सचनाझननाथकृतनुतिक- पार्द्रा। घुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी भद्रा।। १७४८॥1
Page 219
208 अलङ्गारमणिहारे
अत्र भद्राशब्देनार्थर्घना भद्रकरणनामसूचनम! सुद्रेति मुद्रा- लंकारस्यापि सूचनमिति विशेन: ॥ शकुनिध्वजाविभाज्यं सकल तस्किमपि तस्य साम्राज्यम्। दत्तां विभवं प्राज्यं तत्तादशमखिल- विबुधपरिपूज्यम् ॥१७४९॥ अत्र शकुनीत्यर्थवत्पदैकदेशेन शकुनिकरणनास्नस्सूचनम्॥ सुचतुरमतिरपि यस्ते न चरणकमलद्दयं नमे- जातु । अचतुष्पात्खर एव स न च विशयोऽन्रा- स्ति वचननिचयैः किमू॥ १७५०॥ अत्र चतुष्पादिति पढ़ैकदेशेनार्थवता चतुष्पात्करणनामसूचनम्। नागवरभोगवाहौ रागवती भगवतीह वागी- हो। द्रागवतात्मचुरभवोद्देगवतोऽस्मान् कृपाझरी काडपि॥ १७५१ ॥ अत्र नागवरेति पदैकदेशभूतेम नागषेति वर्णत्रयेण नागवा- सयकरणनाम सूच नम् । । भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपा:। कमलापाङ्गा मानसकेकिंस्तु घ्रन्त्य- मून् घनस्मेराः ॥ १७५२ ॥ हे मानसकेकिन! चित्तमयूरोते संबुद्धिः। तेऽमी भषभर- तपर्तुतापा: ग्रीष्मागमोष्माणः चिरं साटोपा: सावष्टम्भाः न भवन्ति। कुत इत्यत आह-कमलेति। घनस्मेराः प्राधृषेण्यज- लद्षमनोहराः। इदं विशेषणं तापाटोपलोपनैपुण्याभिप्रायगर्भम्।
Page 220
मुद्रासर: (७६) 209
कमलायाः श्रियः अपाङ्गा: कटाक्षा: अमून तापान् प्रन्ति। तुशब्दोऽवधारणे 'स्युरेवंतुपुनरवैवेत्यवधारणवाचकाः' इत्यमरः । म्रन्त्येवेत्यर्थः। अतस्ते न चिरं स्थास्यन्तीति भावः। अत्र केकिंस्तु- म्नन्ती त्यानुपूर्व्या अर्थवन्निरर्थकपदैकदेशोभयसमुदायरूपया किस्तु- प्नेति करणनामसूचनम्॥ कल्याणगुणस्यूतां कान्त्याश्व्लेषेण सन्ततं स्फी- ताम्। तनुतां हद्यां जगतां माताSलंकरणमा- लिकामेताम्॥१७५३ ॥ जगतां माता थ्रीः कल्याणगुणैः सुवर्णतनतुभिः पक्षे मङ्गळैः श्रियः गुणैः सौशील्यवात्सल्यादिभिः स्यूतां कान्तेः आश्ेषेण पक्षे कान्त्या 'अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते इत्युक्तलक्षणेन श्ेषेण 'मिथर्सा्िष्टपद्ता क्षेष इत्यभिधीयते इत्युक्तलक्षणेन च काव्योत्कर्षहेतुभूतेन गुणेन स्पीतां एतां अलं- करणमालिकां भूपणमालात्वेनाध्यवसितां स्तुर्ति हद्यां वक्षसस्थां हृदयप्रियां च तनुताम्। अत्र अलंकरणमालिकामिति पदेन अस्या
अस्या: स्तुतेरयमन्तिम: श्रोक :- एषा महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः । उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरका- लातू ॥ १७५४ ॥
यथावा- संयोगोडये पादे भवतो वर्णस्य कस्यचिद्वा ALANKARA_III. 27
Page 221
210 अलँकारमणिहारे
यस्स्यात्। युक्तोऽयमहिगिरीश्वर क्रमोऽत्र पर. तस्तु गुरुरपि लघुश्र स्यात् ॥ १७५५ ॥
हे अहिगिरीश्वर! अग्रे परार्थ्ये 'पराथ्याग्रप्ाग्रहरप्राग्रया- ग्रचाग्रीयमग्रियम्' इत्यमरः। कस्यचिद्वा यस्यकस्यापि वर्णस्य ब्राह्मणादे: भवतः पाढे चरणे यः संयोगः प्रपत्तिकृतस्संबन्ध: स्यात्। अय अत्र अस्मिन् लोके युक्त: उचितः क्रमः श्राघ- नीया परिपाटिः 'शक्तौ चरणविक्षेपे परिपात्यामपि क्रमः' इति रत्नमाला। अयं क्रमः युक्त: इति वा योजना। परतस्तु त्वदि- तरस्मिन् देवे संवन्धस्तु गुरुरषि श्रमाधित्रयेन महानपि लघुः अल्पश्च स्यात्। चशब्दोऽवधारण। अश्लाध्य एव भवेदित्यर्थः । पक्षे पादे पद्यचतुर्थाशे अग्रे आदौ भवतः विद्यमानस्य कस्यचिद्वा यस्यकस्थापि वा वर्णस्य ककारादेरक्षरस्य यस्संयोगः 'हलोऽन- न्तरास्संयोग:' इत्युक्तलक्षणं संयुक्तत्वं स्यात् भवेत्। युक्त: संयुक्त: अयं संयोग: क्रमः क्रमसंझकः । अत्र अस्मिन, क्रम- संज्ञके वर्णे परतस्तु परत्र विद्यमाने तु गुरुरपि 'संयोगे गुरु' इत्युक्तलक्षण संयु कत वर्णपरकत्वहेतुकगुरुत्वशाली पूर्ववर्णोऽपि लघुश्च 'हरस्वं लघु' इत्युक्तलक्षणलाघवशाल्यपि स्थात्। लघु- श्चेत्यनेन क्वचिदेवेति ज्ञाप्यते। यथोक्तं-
पादादाबिह वर्णस्य संयोग: क्रमसंज्ञकः । परस्थितेन तेन स्थाल्लघुताऽपि क्विदुरोः॥
इति। यथा अत्रैव पद्ये चतुर्थपाद दिमवर्णे संयोगरूपे विद्य- मानेऽपि तत्पूर्ववर्णस्य लघुत्वमवश्यमष्टव्यम्। 'अल्पव्ययेन सु- नदरि आम्यजनो मृष्टमश्नाति' इतिवत्। अन्यधा छन्दोभङ्गादिति
Page 222
रत्नावळीसरः (७७) 211
द्रष्टव्यम्। अत्र क्रम इति पदेन चतुर्थपादादिमभूनेन स्वादि- भूतककाररेफ संयोगस्य एतत्पद्यप्रदर्शितलक्षणलक्षितस्य क्रम इति संज्ञति सूचनीयोऽर्थस्स्वानतिरिक्तोदाहरणेन ताइशसंज्ञाप्रयोज- नेन च संह सूचितः। इयं च प्रकृताप्नकृतगोचरश्ष्ेपेण प्रागु- कोलासेन च संकार्यत इति विशेष:। तुरीथपादादिमवर्णस्य लघुतरप्रयतनेनव्ञारणे पद्यस्य विसंपुलताऽपि न दृश्यत इति ध्येथम्। एवं नवरत्नमालाप्रबन्धे तत्तद्रतनामनिवेशनेन तत्तद्रत- जातिसूचनम्। नक्षत्रमालाप्रबन्धे अग्नयादिदेवतानामभिर्नक्षत्र- नामसूचनमित्यादावयमेवालंकार। एवं नाटकेषु वक्ष्यमाणार्थ- सूचनेष्वपीति दीक्षिताः ॥ इत्यलंकारमणिहारे मुद्रालंकारसरप्पटसप्ततितम:
अथ रत्नावळीसरः (७७)
प्रसिद्वसहपाठानामर्थानां न्यसनं यदि। रत्नावळी सा विख्याता सक्रमाक्रमताभिदा।।
लोकवेदादिप्रसिद्धसहपठानामर्थानां न्यसनं रतनावळीना- मालकार:। सा व सक्रमत्वाकमत्वाभ्यां द्विप्रकारा। सक्रमत्वं च प्रसिद्धसहपाठानामर्थानां क्रमेण न्यसनम्। अक्रमत्वं च प्रसि- द्धक्रमे केषांचिदर्थानां वैकल्येन कथनं वैपरी्येन कथनं सहपा- उसन्भावेऽपि क्रमप्रसिद्धिराहित्यं च। प्रकारद्वगेऽपि क्रमिकाणा- मर्थानां प्रकृतान्वयित्वतदभावाश्यां प्रत्येकं द्वैधो। प्रकृतान्वयित्वं
Page 223
212 अलक्कारमणिहारे
च क्रमेण तत्तन्नाम्नां यथाकर्थचित् श्ेषभङ्गया मुद्रालंकारवि- धया वा निवेशनेन भवति। सर्वमिदमुदाहरणेषु स्पष्टभिविष्यति इयमपि दीक्षितोपज्ञमेव।। तत्र प्रकृतान्वयवती सक्रमा यथा- विधिरिव सकलागमवान् हरिरिव पीताम्बरो विभाति तराम्। गिरिश इव शिरसि वहते सरसि- जनयनाङ्रिसरितमहिशैलः ॥ १७५६ ॥ सकला: अगमा तरवः आगमाः वेदाश्च तद्वान्। पीतं अम्बरं येन स तथोक्तः 'निसर्गोदग्रेण प्रसभमुरसा पीतगगनः' इतिवत् स्व्राभोगेनाक्रान्तगगन इत्यर्थः। सरसिजनयनः हरिः तदद्विजां सरितं आकाशगङ्गां गङ्गांच। स्पष्टमन्यत्। अत्र सृषष्टि- स्थितिलय कर्तृतया पुराणादौ प्रसिद्धसहपाठानां ब्रह्मचिष्णुमहेश्व- राणां त्रयाणामुपमानविधया प्रकृतान्वयिनां क्रमेण न्यसनम्।। यथावा- क्षितिरिव तितिक्षुरासीस्सलिलमिवाप्यायनो- डनल इव त्वम्। तेजस्वाननिल इव व्यापी विय- दिव विनिर्मलइशौरे॥ १७५७॥ अत्र उपमानरीत्या प्रकृतान्वयिनां 'क्षित्यप्ेजोमरुद्वयोम' इति पुराणादौ सहपठितानां पश्चानां महाभूतानां क्रमेण न्यास: ॥ सैव उपरख्जकतया प्रकृतान्वयिनी यथा- अङ्गरिता सुकृतवशात्पल्लविता देव तव गुण-
Page 224
रत्नावळीसरः (७७) 213
श्रवणात्। सुमिता च तदामननात्फलिता दष्टया च मामिका भक्तिः ॥ १७५८॥ सुमिता पुष्पिता। इष्टया दर्शनेन। अत्र भक्तौ लतात्वारोपः। अत्राङ्करितेत्यादिना अङ्कुरपल्लवकुसुमफलानां चतुर्णा लोकसिद्ध- क्माणामुपरजकतया विन्यास:॥ स्वामी त्वं श्रीसचिवस्सकलसुहृत्सर्वहृद्यको- इास्थः । चक्रधर तदपि तव पदमतिदुर्ग त्वत्प्र- सादबलविधुरैः ॥ १७५९ ॥ हे; चक्रधर! चक्रशब्देन राष्ट्रमपि गरृह्यते 'चक्रं राष्ट्रेपि' इत्यमरः। त्वं स्वामी सर्वेश्वरः 'एष सर्वेश्वरः इत्यादिश्रुतेः। अनेन परत्वमुक्तम्। पक्षे कश्विद्राजेत्यर्थ। श्रीःलक्ष्मीः सचिवा सहायो यस्य स तथोक्तः 'मन्त्री सहायसचिवौ' इत्यमरः। लक्ष्म्यास्सचिव इति वा। पक्षे श्रीयुक्तसचिवो मन्त्री यस्य स तथोक्तः। अनेन पुरुषकारसांनिध्येन परमद्याळुता सूचिता। सकलसुहत्। 'निवासश्शरणं सुहृद्धतिर्नारायणः' इति श्रुतेः। अनेन सौलभ्यमुक्तम। पक्षे सकलाः कलासहिता: राजनयनि- पुणा इत्यर्थः । तादशाः सुहदो मित्राणि यस्य स इत्यर्थः। सर्वेषां हृद्यः हृदयस्थितः काशः तस्मिन् तिष्ठतीति तथोक्तः 'पद्मकोशप्रतीकाशम्' इत्यारभ्य 'तस्मिन् सर्व प्रतिष्ठितम्' इति श्रुतेः। अनेन वात्सल्यं व्यञ्ितम् । स एष वात्सल्याख्यो गुणः कठवल्यामुक्त :- अङ्गष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते।।
Page 225
214 अलंकारमणिहारे
इति। अस्याशश्रुतेरर्थश्च उक्तविशेषणैः प्रत्याभज्ञाप्यते। वात्सल्यं नाम दोषतिरस्कारिणी प्रीतिः। पक्षे सकलजनहृदयंगम- हिरण्यादिकोशमध्यवर्तीत्यर्थः । एवं सकलचेतनहृदयस्थोऽपि त्वं दुर्दर्श इत्याह-तदपीत्यादि। तदपि तथाऽपि तव पदं स्वरूपं त्वत्प्रसादबलविधुरैः जनैः दुर्ग अधिगन्तुमशक्यं 'तं दुर्दर्श गूढम- नुप्रविष्टं, तद्यथा हिरण्यनिधि निहितमक्षेत्रज्ञा उपर्युपरि संच- रन्तो न विन्देयुः' इत्यादिश्रुतिभ्यः। पक्षे तत् प्रसिद्धं तव पदं स्थानमपि त्वत्प्रसादेन बलेन सैन्येन च विधुरैः दुर्गे गन्तुमश- क्यमित्यर्थ । अत्र 'स्वाम्यमात्यसुहत्कोशराष्ट्रदुर्गबलानि च'इति प्रसिद्धसहपाठानां स्वा्यादीनामुपरञ्जकतया प्रकृतान्वयिनां स- सानां क्रमिको न्यास:।
यथावा- हरिरेष शुचिर्धर्मश्श्रितरक्षइश्रीः पतिश्र भुव- नानाम्। परिपाति जगत्प्राण: पुण्यजनेड्यश्शि- वश्च मादक्षान ॥ १७६०॥
एष हरि: इन्द्रः भगवांश्च। शुचिः वहिः अपहतपाप्मा च। धर्मः यमः । पक्षे 'कृष्णं वर्म सनातनम्' इत्युक्तरीत्या धर्मस्व- रूपः। श्रिता रक्षसां श्रीः येन सःनैऋत इत्यर्थ। पक्षेश्रितान् रक्षतीति श्रितरक्षी। कर्मण्यणि 'टिड्ड' इति डेप। तादृशी श्रीः लक्ष्मीः यस्य स तथोक्तः। अनदीसंज्ञकत्वान्न कप्। यद्वा भग वत्पक्षे धर्मश्रितरक्षशश्रीरित्येकमेव पदम्। धर्म न्यासरूपं श्रितान् रक्षतीति धर्मश्रितरक्षी तादृशी श्रीः यस्य सः । अस्मिन् पक्षे धर्मश्ितेत्यत्र शकारस्य 'अनचि च' इति वैकल्पिक द्वित्वम्।
Page 226
रत्नावळीसर: (७७) 215
भुवनानां अपा पतिः वरुणः। पक्षे लोकानामधिनाथः। जग- त्प्राण: समीरण: जगदुज्ीवयिता च। न प्राणेन नापानेन मतर्चो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुभौ थ्रितौ॥ इति श्रुतेः। पुण्यजनेड्य: कुबेर: सुकृतिजनस्तुतश्च। शिवः शर्वः मङ्गळमूर्तिश्च 'शाश्वतं शिवमच्युतम्' इति श्रुतेः। अत्र प्रसिद्ध सहपाठानामष्टानामिन्द्रादिलोकपालानामुपरख्जकलया प्रकृ- तान्वयिनां क्रमेणन्यसनम। उपरख्जकता चारोप्यमाणता। तदुक्तं -- 'उपरक्षकतामेति विषयी रूपक तदा' इति। अत्र हि श्रीनिवा- सस्य इन्द्रादितया उपरञ्नम् ॥ यथावा- भास्वान् राजा पार्थिव एष बुधो वाक्पतिश्र्व काव्यप्रथितः । मैत्रयाख्यातश्रोत्तम उच्छितजय- केतुराश्रितस्त्वां भगवन् ॥ १७६१ ॥ पृथिव्यां विदित: पार्थिवः 'तत्र विदितः' इत्यधिकारे 'सर्व- भूमिपृथिवीभ्यामणजौ' इत्य्। पक्षे पृथिव्यां जातः पार्थिवः। भाम इत्यर्थः। काव्येन प्रथितः स्वविषयकप्रबन्धप्रख्यातकीर्तिरि- त्यर्थः । स्वप्रणीतेन काव्येन प्रख्यात इति वा पक्षे काव्य इति प्रथितः । मैत्रथा सर्वभूतसुहृन्या ख्यातः । अन्यत्र मित्रस्य भानो: अपत्यं मैत्रिः मैत्रिरिति आख्यातः रविसुतश्शनिरित्यर्थः । उत्तमः श्रेष्ठः। पक्षे उन्नत च तत् तमः राहुरित्यर्थः। 'तमस्तु राङुः' इत्यमरः। उच्छितः जयकेतुः जयध्वजो यस्य सः। पक्षे उच्छित- जयश्चासौ केतुश्च। शिष्ट स्पष्टम्। अत्र भास्वदादिपदैः वर्णनीयस्य
Page 227
216 अलंकारमणहारे
भगवदाशितस्य भास्वदाद्यात्मता प्रतीयत इति प्रसिद्धसहपाठानां भास्वदादीनां नवानां ग्रहाणां क्रमेण प्रकृतान्वयितया न्यास:॥ यथावा- जहि कामं क्रोधं जय जहीहि लोभं जहाहि मोहं च। जहिहि मदं मत्सरमपि विसृज हरेर्न- नु कटाक्षपात्रं स्या: ॥ १७६२ ॥ अत्र प्रसिद्धसहपाठानां कामादानां षण्णां समुच्चयालंकार- विधया प्रकृतान्वयिनां क्रामिकत्वम् ॥ प्रकृतान्वयशालिनी अक्रमा यथा- यममार्जय नियमं श्रय जितासनो विन्दसे सखे ब्रह्म। प्राणायामप्रत्याहारी ध्यायन् सधार- णसमाधि:॥१७६३ ।। अत्र 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध- योऽष्टावङ्गानि' इति पातञ्जलसूत्रोदितक्रमाणां यमादनिा समुच्चय- विधया प्रकृतान्वयिनां किंचित्क्रमविपर्यासेन न्यसनम्॥ पृथ्वी संपत्तेजो निरवधिकं सर्वतोमुखं च यशः। भाति शुभस्पर्शनता तव गुणजातं त्वन- न्तमेव हरे॥ १७६४ ॥ पृथ्वी महती 'ओतो गुणवचनात्' इति डीष्। पक्षे भूरित्यर्थः। तेजः प्रभावः, पक्षे अग्निः। सर्वतोमुखं विश्वतः प्रसृमरं पक्षे जलम। शुभस्पर्शनता शुभं स्पर्शनं दानं यस्य स तथोक्त। तस्य भावः। अन्यत्र शुभः यः स्पर्शनः वायुः
Page 228
रन्नावळीसर: (७७) 217
तस्य भावः। अनन्त अपरिच्छिष्षं, अन्यत्र आकाशः। अत्र पृथिव्यादिमहाभूतानां पक्षानां किंचित्कमव्यत्ययेन प्रतिपादनमु- परअकतया प्रकृतान्यायित्वं च॥ यथावा- धृष्टिं जयन्तमच्युत विजयं सिद्धार्थमर्थसाधक- तामू। गतमाहुरशोकं तव गिरा सुन्त्रं च मन्त्र- पालं च । १७६५।। हे अच्युत! धुिं धैर्ये जयन्तं अभिभवन्तं समरारम्मे स्वजनान् योद्ुमवस्थितानभिवीक्ष्य शोकेन त्यक्तधैर्यमित्यर्थः। इदं व 'सीदन्ति मम गात्राणि' इत्यादी स्पष्टम्। विजय अज्जुनं तव गिरा भीतारूपया 'न त्ेवाहं जातु नासं न त्वं नेमे ज- नाविपा' इत्यारभ्य 'सोक्षयष्यामि मा शुचः' इत्यन्तया अ- शोकं त्यक्तशोकम्। शोमनी मन्त्रः आलोचनं यस्य तथाभूंत मन्त्रं चरमश्चोकरूप पालयरीि तथोकतं 'निधिपायाप्रमादिने' इतयुक्तरीत्या मन्त्रं गोपायितारम्नः अर्थस्य शत्ुविजयरूपप्रयो- जनस्य साधकर्ता गंत प्रातं अत एव सिद्ध: अर्थः प्रयोजनं यस्य तं तथोक्तं आहु: जना इति शेष:। गीतोपदेशेन त्यक्त- मोहतया यथावन् क्षत्रधर्ममनुष्ठाय लब्धविजयमित्यर्थः। अत्र- धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्वर्थसाधकः। अशोकी मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत्॥ इति श्रीरामायणे प्रसिद्धसहपाठानां रघुकुलसचिवभूत- घृष्टयादीनामप्टानां वार्त्कचित्क्रमविपर्यासेन प्रकृतान्वयना वर्णन- मुपरञ्जकतयेति ध्यंयम्॥ ALANKARA-III. 28
Page 229
218 अलङ्कारमणिहारे
इन्द्र इव पालितस्वस्थेमा शमन इव दक्षिणा- नुगतः। धनद इव राजराजो भवदीयो वरुण इव घनरसेज्ञः ॥१७६६॥
पालित: स्वस्थेमा स्वर्गस्थैर्य सवस्य धनस्य स्पै्ये च। दक्षिणा दक्षिणदिक तया अनुगतः तदाश इति यावत्। दक्षिणैः उदारैर्जनेः अनुगतश्च। राजराजः राजराजनामा राजाधिराजश्च। धनरसस्य सलिलस्य ईशः। रसायाः ईशः भूपतिः घनश्चासी रसेशश्चेति विग्रहः। स्पष्टमन्यत्। अत्रेन्द्रादीनां चतुर्णो लोक- पालानां किंचित्क्मव्यत्ययेन कथनं उपमानविधया प्रकृतान्व- यित्वं च। इदमेवाष्टानां लोकपालानां मध्ये चतुर्णामेव निब- न्घनात् क्रमवैक्कल्यस्याप्युदाहरणम् ।। द्विरदमुखसत्त्वहृद्यो भुजगाह्वयभूषणो भुवि गिरीशः। वनमाली च विचित्रं भाति सरोजात- भाविताम्युदयः ॥ १७६७॥ द्विरदमुखैः गजप्रभृतिभिस्सत्वंः जन्तुभिः। अन्यत्र द्विरद- मुखः विघ्नराज: तस्य सत्वेन स्थित्या हृदयः। भुजग इति आह्रयः नाम भूषणं यस्य। अन्यत्र भुजगाह्वयानि फणिरूपाणि भूपणानि यस्य स तथोक्त:। गिरीशः शेलराजः शिवश्च। वनमाली कान- नपंङ्गिमांश्च भगवानपीति च। सरोजातेन कासारनिवहेन पक्षे सरोजाते पझ्े भावितः अभ्युदयः उच्छयः आविर्भावश्च यस्य स तथोक्तः। अत्र प्रसिद्धक्रमाणां ब्रह्मविष्णुशिवानां सर्वथा वपरीत्येन कथनम। उपरञ्ञनविधया पकतान्वयित्वं च।।
Page 230
रक्षावळीसर: (७७) 219
गारुत्मतकरसेव्यं मुक्तालम्वं प्रवाळसुकुमारम्। पश्येम पद्मरागं चरणं श्रोशस्य वज्तपाणिनुतम्॥ अत्र सहपाउसन्भ्रावेऽि क्रमप्रसिद्धिरहितानां गारुत्मता- दीनां पञ्चानां रत्ानां उपरअ्नादिविधया यथाकरथचित्प्रकृता न्वयिनां वर्णनमितीयमपि रत्नावळी अक्रमरुपैव। यथावा -.
वङ्गा:। प्रचुरमहाच्छविदर्भास्सुसंनिवेशा: फणी- शगिरिदेशाः ॥१७६९॥ घनानि शृङ्गाणि तैः। पक्षे घनं शुङ्ग प्राधान्यं तन संगत अङगं येषां ते। पक्षे घनशृङ्गसंगताः अङ्का: तन्नामानो देशा: येषां ते 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः। देशेषु मध्ये अङ्गस्य प्रथमपरिगणनात्प्राधान्यम्। चटुला: कलिद्गा: सगविशेषा: कलि- अदेशाश्च येपु ते पृथवः महान्तः लवङ्गा: लवङ्गतरवो येषु ते। पृथुलाः विशालाः वङ्गाः तम्नामानो देशविशेषाश्च येषु ते। स्पष्टमन्यन्। अत्राङ्गादिदेशतादात्म्यं फणिगिरिदेशानां प्रतीयत इति क्रमप्रसिद्धिरहितानामङ्गादिदेशानां न्यसनं प्रकृतान्वयि।। प्रकृतानन्वयवती सक्रमा रलावली यथा- घनघूणिमणिप्रभावति कामं तातुं जगन्ति तापेभ्यः। आविरभूर्हरिभूभृति यत्रोत्सा हस्तिव- रद़ भान्ति हिमाः ॥ १७७० ॥
Page 231
220 अलंकारमणिहारे
हे हस्तिवरद ! घना: सान्द्रा: घृणयः किरणा: येषां तेषां मणीनां प्रभा अस्मित्नस्तीति तथोके जलदच्छविरतमभावतीति वा हरिभूभृति घेंकटाद्रौ जगन्ति कामं तापेभ्यः त्रातुं आविरभू:। यत्र गिरौ हिमा: शिशिरा: उत्सा: प्रस्नवणानि 'उत्सः प्रस्नवणम्' इत्यमरः। भान्तीति तदविरौ भगवस आविर्भावस्य तापनिवर्तनौ- पयिकत्मुक्तम्। अन्न प्रभावमन्तरोत्साहाना त्रयाणां प्रसिद्धसह पाठानां मुद्रालंकारविधया प्रकृतानन्वयिनां क्रमेण न्यसनम्।
यथावा- नलिनाक्ष यः फणीश्वरशिखरिस्थानन्त ताव- कीनानाम। चरणाब्जरेणुविशमितकलुषो नीवृ- द्वि स खलु वासाहः॥ १७७१ ॥ नीवृत् जनपद:। मत्र क्षपस्थानवरद्धानां प्रागुक्तरात्या क्रमेण न्यास: ॥
आनर्चाब्जभवोऽयं विनयजुषा मानसेन सा- यथावा-
म्रायम्। सोडव्यादगादिरूपो भव्यात्मा दिव्यसै- न्धवो भगवान् ॥ १७७२ ॥ साम्नायं ससंप्रदायं 'अथान्नागद्संप्रदाये' इत्यमरः। ऋगा- दिरूपः 'ऋग्यजुस्सामरूपाय' इति तन्मन्घवर्णात्। दिव्यसैन्धवः श्रीह्यग्रीवः अत्र 'ऋचो यजूंि सामानि योऽधीते सक्कदअसा'
ऋगादिरूपपदेन उक्तविधक्रमनिबन्धीSत्र सूचनीयस्सूचित इति सुद्रालंकारशिरस्कता तु विशरेषः।।
Page 232
रत्नावळीसरः (७७) 221
यथावा- अरिदमनदक्षिणाहव नीयन्ते र्म द्विषोऽपि तव धाम परम्। अहमेव गार्हपत्ये भव इह कियद- वधि नाथ भवताऽडयास्ये ॥ १७७३ ॥। अरिदिमने दक्षिण: चतुरः आहवः युद्ध यस्य तस्य संबुद्धि: हे नाथ! द्विषोऽपि चैद्यादयोऽप भवता तव परं धाम नीयन्ते रम। अहमेव सर्वात्मना त्वां प्रपन्न एव। इह भवे संसारे गारह- पत्ये गृहस्थधर्मोपलक्षिते तत्तदाश्रमकर्मणि गृहपतेः कर्म गार्ह- पत्यमिाति विग्रहः। 'पत्यन्तपुरोहितादिभ्यो यक' इति कर्मरू पार्थे यक। कियद्वधि भवता आयास्य आयासितो सवाभि वा न जाने इति भावः। अत्र दक्षिणाहवनीयवाहपत्यानां क्रमिकत्वम ॥ यथावा- कृतमच्युत तीर्थगणैः कृतं च नस्त्रेतयाऽपि सेवितया। स्यादा परोऽत्र भवतो भवतोयधिता- रणे कलितडीक्ष: ॥ १७७४॥ कृतं अलपू। अत्र कृतादीनां युगाना चतुर्णी क्रमेण मुद्रा- लंकारर्रात्या प्रकृतानन्वयिनां न्यसनमिति विशेष:॥ यथाघा .. देवोभिरामलक्ष्मणवक्षा रक्षार्थमहिगिरौ जग- तामू। अवतीर्य कृपाभरतः स्फुरति हरिर्विनत- नित्यशत्ुप्नः ॥१७७५॥
Page 233
222 अलङ्गारमणिहारे
अभिरामं रमणीयं लक्ष्मीरस्मिन्नस्तीति लक्ष्मणं, पामादि- त्वान्मत्वर्थीये नप्रत्यये 'लक्ष्म्या अञ्च' इति लक्ष्मीशब्देकारस्य अत्वं ततो णत्वं च। ईदशं वक्षो यस्य स तथोक्तः। कृपा- भरतः दयाभारात्। सार्वविभक्तिकस्तसिः। विनतानां नित्य- शत्रवः कामादयः तान् हन्तीति विनतनित्यशत्रुम्नः मूलविभु- जादित्वाद्धन्तेः कप्रत्ययः । अत्र रामादीनां चतुर्णो श्रेषोत्त- म्भितमुद्रालंकाररीत्या प्रकृतानन्वयिनां क्रमेण न्यसनम् ॥
यथावा-
लसति हसितातसीता पवनोल्ललनोर्मिळाग्र- सरसीका। ब्रह्माण्डव्यापिशिरा विश्रुतकीतिर्वृषा- द्रिवरमूर्तिः ॥१७७६ ॥
अत्र प्रतीतपाठसाहित्यानां सीतोर्मिळामाण्डवीश्रुतकीर्तीनां पूर्ववदेव प्रथनम् ॥
यथाषा --
नित्यविभवासु देवासुरनरसंकर्षणोडहिगिरि- भूषु। प्रद्युम्नदो नतेभ्यो विहरत्यनिरुद्दशासन- इशौरिः॥१७७७॥
देवासुरनराणां संकर्षण: गुणभूआ्ा आकर्षकः नतेभ्यः प्रशुम्नद: प्रकृष्टविभवप्रदः अनिरुद्धशासनः अप्रतिहताजः शौरिः नित्यविभवासु अहिगिरिभूमिषु विहरति। अत्र वासुदेवसंकर्ष- णपरयुम्नानिरुद्धानां न्यसनम् ॥
Page 234
रक्षावळीसरः (७७) 223
यथावा- धन्यश्रातकधर्मा यस्तत्प्रीत्यर्थमेव कृतकर्मा। कामं तमम्बुजाक्षं व्यायति सानन्दवाष्पपरिमो- क्षम् ॥१७७८॥। चातकस्य धर्म इव धर्मः ऐकान्त्यरूपो यस्य स तथोक्तः । पुमान् चातकवृत्तिः प्रपन्न इत्यर्थः । 'प्रपन्नश्चातको यद्वत्' इति स्मरणात्। धन्यः। अन्यत्सुगमम्। अत्रापि चतुर्षु चरणेषु क्रमेण धर्मार्थकाममोक्षाणां चतुर्णा पुरुषार्थानां पूर्ववदेव प्रतिपादनम्। यथावा- सामजवरदो दानवभेदपटुर्दितिसुतेषु धृतद- ण्डः। भगवन्नुपायभूतो भव त्वमेवादरात्तव प्रात्तै।।। अत्रापि सामदानभेददण्डानां प्रकृतान्वयं विना क्रमेण न्यसनम्। उपायभूत इति प्रकृतार्थपरेण पदेनास्मिन् पद्ये उपदर्शितोपायनामानि निवद्धानीति सूच्यार्थस्यापि सूचानान्मु- द्रालंकारश्चेति तच्छेखरितेयं रत्नावळीति विशेष:॥ यथावा- ब्रह्मनुतो नलिनाक्ष त्रासहरस्फाटिकत्विषा वै श्येतः । आशूद्ावितदुरितश्वातुर्वण्य धराधरः प्रथ- यति ते ॥ १७८० ॥
हे नलिनाक्ष! ब्रह्मणा चतुर्मुखेन नुतः। त्रासहर: भयहारी। स्फाटिकत्विषा शयेतः श्वेतः । शुकृशुभ्रशुनिश्वेतविशदशयेत-
Page 235
224 अलक्कारमणिहारे
पाण्डुराः इत्यमरः। आशु उद्रावितं प्रद्रावितं 'प्रद्रावोद्दाव' सन्द्रावाः' इत्यमरः। दुरितं येन सः। वें पापमिति संग्रोक्तं कटस्तस्य तु दाहक:। पापानां दाहकत्वाद्वि वेंकटाद्रिरितीर्यते॥ इति तस्य पापहारित्वप्रसिद्धेः। ते भवतः घराधरः शेषाद्रि- रित्यर्थः । 'चातुर्वर्ण्य चतुरक्षरत्वं धराघरशब्दस्य तथाविधत्वा- दिति भावः । प्रथयति। अत्र ब्रह्मक्षत्रवैश्यशूद्राणां क्रमेण न्यसनम्। चातुर्वर्ण्यपदेन उपपादितब्रह्मक्षत्रादिसूचनान्मुद्राच पू- र्ववदेव।
यथावा- त्वद्दिव्यचरितवर्णी न्यासेन त्वां गृहीतवान्म- तिमान्। तद्रावनस्थितोऽयति परमं धामाश्रमा- न्वितो भगवन् ॥ १७८१॥।
हे भगवन् ! तहिव्यचरितं वर्णयतीति तथोक्तः। न्यासेन भरन्यसनेन त्वां गृहीतवान् वशीकृतवान् गृहीतवानित्यनेन उप याम गृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युआीत' इति न्यासकरणमन्त्रगतं गृहीतपदं प्रत्यभिज्ञाप्यते। तव भावने स्थितः मतिमान् अथमेण उपायान्तरानुष्ठानप्रयासराहित्येनैव परमं धाम अयति प्राप्नोति 'इटकिटकटि' इत्यत्र प्रश्लष्टस्य इधातोः लट्। अत्र ब्रह्मचारिगृहस्पवनस्यतीनामाश्रममिणां स्मृत्यादिषु सहपठितानां ऋमिको न्यासः। अयमेवाश्रमणेति पदेन सूच्यो- र्थस्सूचित इति पूर्ववदेव सर्वम्। वर्णिगृहिशन्दाभ्यां ब्रह्मचारि गृहस्थीं गृह्येते।।
Page 236
रल्नावळीसरः (७७) 225
यथावा- भूयांसमन्वयं त्वयि दघतं भवभाविरोधपरि- हत्यै। शुभसाधनफललिप्सुश्रतुरध्यायी अ्रये हरिं कमले ॥१७८२ ॥
हे कमले! त्वाय भूयांसं अन्वर्यं संबन्ध दधत हरि शु- भानां साधनं यत्फलं निश्श्रेयसरूपं प्रयोजन लिप्सुस्सन् अत- एव भवेन संसारेण जन्मना वा भावी यो रोध: निर्बन्ध- स्तय परिहत्यै शान्त्ये चतुरं निपुण यथातथा व्यायतीति चतु- रध्यायी सन् श्रये। अत्र समन्वयाविरोधसाधनफलानां ब्रह्ममी- मांसाचतुरध्यायीप्रतिपाद्यानां क्रमेण सूचनम्। चतुरध्यायीति सूच्यार्थसूचनान्मुद्रा च । तच्छिरस्का रतावलीयं पूर्ववदेव। किंच भूयांसमन्वयं त्वय दधतं हरिमित्यनेन प्राप्यस्य ब्रह्म- णस्स्वरूपं, श्रये इत्यनेन प्राप्तु: प्रत्यगात्मनस्स्वरूपं, चतुरध्यायी- ति प्राप्त्युपायः, शुभसाधनफलोते फलस्वरूपं, भवभाविरोध इत्यनेन स्वरूपोपायफलप्रामिविरोधस्वरूप च किंचित्क्रमवैपरी- त्येन वर्णितमिति विशेषश्चात्र विभावनीयः॥
सत्यं धर्मे विन्दृति स भीमसेनो रणे विजय शाली। व्रजति सुशोभनकलतां लक्ष्म्या सह दे- व सेवते यस्त्वाम् ॥ १७८३॥ अत्र क्षेषोपश्िष्टमुद्रालङ्काररत्या युधिष्ठिरादीनां पञ्चानां पाण्डवानां प्रसिद्धक्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो वि- च्छित्तिविशेष:॥ ALANKARA-III. 20
Page 237
226 अलङ्कारमणिहारे
यथावा - कामं दारादिमजुषमपारिजातं श्रित ससन्ता नसुखम्। सामोद कल्पयसे हश्चिन्दन दैवतरु- चिरश्रीदस्त्वम् ॥ १७८४॥ हे हरिचन्दन ! हरिरेव चन्दनः तस्य संवुद्धिः। त्वं दै- वतानामपि रुचिरा रमणीया तैरपि श्राध्येति यावत्। या श्रीः संपत् शोभा वा तां ददातीति तथोक्तस्सन्। हरिचन्दनेत्यनेन देवतरुविशेषोऽपि गरृह्यते। तदा दैवतानां रुचिरां श्रियं ददा- तीति तथोक्त इत्यप्युपस्कार्यम्। श्रितं स्वाश्रितं जन काम प- याप्ं यथातथा दारादिमान् जुषतीति ते नथोक्त आदिमशब्देन बन्ध्वादिग्ृह्यते। अपास्तं अरिजातं वैरिवृन्दं येन से अपारिजातं संतानसुखन सह वर्तत इति ससंतानसुखं अतएव सामोदं सानन्दं ससौरमं च। हरेश्चन्दनतया रूपितत्वादिति भावः। कल्पयसे रचयसि। स्वोपासितारं सर्वप्रकारविभवजुष तनोषीति भावः। अत्र मन्दारपारिजातादीनां पञ्चानां देवतरूणां क्रमेण न्यसनम्। दैवतरु इति पदैकदेशेन श्रोकघटितदेवतरुरूपसूच्यार्थ- स्यापि सूचन न्मुद्र/लङ्कारावतंसितेयमिति पूर्ववदेवानुसंधेयम्। यथावा- चरणारविन्दशरणगमशोकयन्नात्मचरमवचसा पार्थम्। कृतसहकारश्रीमल्लीलो नीलोत्पलोज्ज्व- लोऽवतु स पुमान् ॥ १७८५ ॥ चरणारविन्दशरणगं पार्थ आत्मचरमवचसा सर्वपापेश्यो मोक्षयिष्यामि मा शुचः इति वचनेन अशोकयन् कृतः सह-
Page 238
रक्षावळीसरः (७७) 227
कार: साचिव्यं यया सा तथोक्ता श्रमती लीला सारथ्यलीला यस्य स तथोक्त: नीलोत्पलोज्ज्वलः स पुमान् अवतु। मामिति शेषः। अत्र 'अरविन्द्मशोकं च' इत्यादिप्रसिद्धक्रमपश्चवाण- न्यसनम्॥ यथावा- प्राणयितारं स्वकथापानविधातृन्पिशङ्गसंव्या- नम्। कलयेय मुद्दाऽनन्तम् समानयन् हृदयपु- ण्डरीकं तमू ॥ १७८६॥ स्वकथापनविधातुन् जनान् प्राणयितारं। पिशङ्गसंव्यानं पीताम्बरोत्तरीयं 'संव्यानमुत्तरयिं स्यात्' इत्यमरः। तं सकल- लोकवेदप्रसिद्धं अनन्तं भगवन्तं हृदयपुण्डरीकं समानयन् प्राप- यन् सन् मुदा कलयेथ इति योजना। अत्र श्रुत्यादिप्रसिद्धानां प्राणापानव्यानोदानसमानानां क्रमिको न्यास:॥ यथावा- शव्दैकगम्यमुज्झितदोषस्पर्श निरूपणातिगसु- गुणम्। तामरसनयन तनुयां सुभगं धर्मेण चेत- सो विषयं त्वाम् ॥ १७८७॥
हे तामरसनयन! उज्झितदोषस्पर्श निरूपणातिगा: वाबबन- सावषयाः सुगुणा: यस्य तं 'यतो वाचो निवर्तन्ते' इति थतेः। अनेन पदत्रितयेन 'तस्य यथा कप्यामं पुण्डरीकमेवमक्षिणी स एष सर्वेक्यः पाप्मभ्य उदितः। स एप ये चास्मात्यगश्चो लोका स्तेषां चेष्टे देवकामानाम्' इत्यनतरादित्यविद्योक्तं दिव्यमङ्गळविग्र-
Page 239
228 अलंकारमणिहारे
होपलझ्षकं पुण्डरीकाक्षत्वं अपहृतपाप्मत्वं सर्वलोककामेशितृत्वा- दिगुणाकरत्वरं चोकतं भवति। अत्र 'अपहृतपाष्मा' इत्यादि 'सत्यसंकल्पः' इत्यन्ताः निरवद्यनिरञ्जनम। यस्सर्वज्ञः' इत्या- दिश्रुतयोऽप्यनुसंघेयोः। अतएव सुभरग शोभनःभगः- ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः। ज्ञानवैराग्योश्चैव षण्णां भग इतीरण ॥ इत्युक्तं षाड्गुण्यं यस्य तं तथोक्तं भगवच्छब्दवाच्यमिति यावत्। शब्दैकगन्यं 'त त्वपिनिषद पुरुषम्' इति श्रुतेः 'शास्त्र- योनित्वात्' इति सूत्राच्च। उपदर्शितमस्य रूपादिकं शास्त्रैकसम- विगम्पमिति भावः। इंछरां त्वां धर्मेग- सर्वेगामेव धर्माणासुत्तमो वैष्णवो विधि;। एष मे सर्तधर्माणां धर्मोऽधिकतमो मतः। यद्भकत्या पुण्डरीकाक्ष स्तवैरर्चेन्नरस्सदा॥ इत्युक्तेन अर्चनवन्दनस्तवनायुत्तमघर्मेण चेतस: विषयं तनुयां विशुद्धेन मनसा ग्रृह्नीयां 'मनसा तु विशुद्धेन' इति श्रुतेः। अत्र शब्दस्पर्शरूपरसगन्धानां लोकवेदप्रसिद्धानां पञ्चानां विषयाणां प्रकृतानन्त्ययिनां क्रमिक उपन्यासः। विषयमित्यनेन क्रमविन्यस्ता इमे विषया इति सूच्यस्यार्थस्य सूचनान्मुद्रालंकारश्च। तदुत्तंसि- तेयं रत्नावळीति ध्येयम्॥ यथावा- शुभकृत्तद्वितदायी समासहसतरं त्वदेकशेषं मामू। कल्याणवृत्तिमच्युत कलय सनाद्न्तधा- तुरूपस्त्वम् ॥ १७८८।।
Page 240
रक्षावळीसरः (७७) 229
हे अच्युत! शुभकृत् मङ्गळकारि तत् शास्त्रप्रसिरद्ध, यत् हितं उपायरूपं तत् ददातीति तथोक्तंः सकलकल्याणास्पदभ- क्तिप्रपत्तिरूपं त्वत्प्राप्त्युपायं वितरन्नित्यर्यः । 'ददाममि बुद्धियोगं तं येन मामुपयान्ति ते' इति गानात्। न विद्येते आदयन्तौ यस्य सः नादन्तः नशव्देन समासः। उत्पत्तिनाशविधुर: यः धातु: घाता 'सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन्' इत्यनेन औणादिकस्तुन्प्रत्ययः। उदन्तोऽयं शब्दः। एतञ्च 'धातुप्रसादान्म- हिमानम्' इति श्रुतिव्याख्यानावसरे श्रुतप्रकाशिकोपनिषद्धाप्ययो- वर्यक्तम्। तद्रपः जन्मनाशोपलक्षितभावविकारराहित्येत सर्वज- गतां धर्ता पोष्टा चेत्यर्थः। सः त्वं समानां वत्सराणां सहस्त्रं बहुतिथं कालमिति यावत्। त्वदेकशेष यावदात्मभावि तवैव शेषभूतमिति भावः। मां कल्याणी श्रेयस्करी वृत्ति: कैंकर्यरूपा यस्य तं तथोक्तं कलथ। अत्र स्वरूपोपायपुरुषार्थाः यथास्था- नमनुसन्धेयाः । अत्र 'कृत्तिद्धतसमासकशेषसनाद्यन्त ातुरुपाः पञ्च वृत्तयः 'इति शाब्दिकगोष्ठीप्रसिद्धानां पञ्चानां वृत्तीनां क्रमेण कथनम् कल्याणवृत्तिशब्देन उपासादितटत्तयोऽत्र निबद्धा इति सूच्यस्यार्थस्य सूचनं च पूर्ववदेव। अत्र सनादयन्तेत्यादेस्सात्रनिर्दे- शानुवादरूपत्वान्न ङमुडागमप्रसक्तिरित्य वधेयम्। अतपव "द्वाद शामी सनादयः। एतच्छास्त्रमुणादिषु। धातुसूत्रगणोणादिवाक्य- लिङ्गानुशासनम्' इत्यदयो ङमुडघटिता: प्रयोगास्संगच्छन्ते।।
यत्तु स्वार्थ द्रव्यं नालिङ्गति तव पदाब्जम- यथावा-
व्जाक्ष। संख्यातिगमपि नृणां तन्न स्यात्म्रीति- कारकं विदुषाम ॥ १७८९॥
Page 241
230 अलक्कारमणिहारे
हे अब्जाक्ष! नृणां यद्दव्यं स्वार्थमेव सत् तव पदान्जं नालिङ्ृति त्वच्चरणम्भोजार्पितं न भवतीत्यर्थः । तद्रव्यं संख्या- तिग अपरिमितमपि विदुषां ब्रह्मविदां पीतिकारकं न स्यात्। व्यर्थमेव तदिति भावः। अत्र स्वार्थद्रव्यलिङ्गसंख्याकारकाणां प्रातिपदिकार्थानां शाब्दिकगोष्ठीप्रसिद्धचनुसारतः क्रमिकत्वम्। यथावा- अविषयमविशयमागमवचसामपि पूर्वपक्षमिह तमसाम्। लोकोत्तरफलदं त्वां जगतामघिक- रणमाश्रये भगवत् ॥ १७९०॥
हे भगवन् ! आगमवचसामधि अविषयं अगोचरं तमसां अज्ञानानामेव तिमिराणां पूर्वपक्षं शुक्कपक्षं तन्निर्मूलयितारमिति भावः । लोकोत्तरं यत्फलं निश्श्रेयसरूपं तद्ददातीति तथोक्तं जगतां अधिकरणं आधारं त्वां अविशयं निस्संदेहं यथा तथा- SSश्रये। अत्र- विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम। प्रयोजनं च पञ्चैते प्राश्चोऽधिकरणं विदुः॥ इति पूर्वोत्तरमीमांसाप्रसिद्धाधिकरणाङ्गपञ्चकस्य क्रमेण न्यासः। अधिकरणमित्यनेन सूचनीयार्थसूचनं च॥ यथावा- कामं जितशक्ो धनविभवैस्सुकलो भयं क्षमो हर्तुम्। भानुमरदशुश्रीमत्सरोजलाचन भवेद्रव- दृषः ॥ १७९9 ॥
Page 242
रत्नावळांसर: (७७) 231
सुकलः दाता भोक्ता च 'सुलको दातृभोक्तरि' इत्यमरः। भयं स्वस्य स्वाश्रितानां च तासं हर्तु क्षमः शक्तः भीताभय- दातेत्यर्थः। भानुमदंशुभि: श्रीमत् उज्ज्वलं यत्सरसिजं तदिव लोचनं यस्य तस्य संवीद्धः। अत्र कामक्रोधलोभमोहमदमत्स- राणां षण्णां क्रमेण न्यास इति पूर्वो्यो विच्छित्तिशालिनीयम्॥
काममवक्रो धर्मैविमलो भगवन् भवेत्तमोहति- यथावा -
शीलः । श्रमदमन नमत्सरसिजभव तव भक्तो जितारिषडर्गश्र ॥ १७९२ ॥ श्रमदमनः सांसारिकखदविमोचनः तस्य संबुद्धिः। नमन् सरसिजभवः ब्रह्मा यस्य सः तस्य संवुद्धि: हे भगवन् ! तव भक्त: कामं अवक्रः अकुटिलशीलः। धर्मैः सामान्यैर्विशेषैश्च धर्मैः विमलः निर्मलः 'धर्मेण पापमपनुदति' इति श्रुतेः। अतएव तमसः तमोगुणस्य हतिः निरासः तस्यां शीलं यस्य स तथोक्तः। जितः अरिषडर्गः कामादि: येन स तथोक्तञ्च भवेत्। न क्राधो न च मात्सर्य न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे।। इत्युक्तेरिति भावः। अत्रापि प्रकारान्तरेण कामक्रोधादीना- मेव क्रमेण ग्रथनम्। ईदृशविशेषरूपसूच्यार्थस्य जितारिषचुर्ग इत्यनेन सूचनान्मुद्गा चत विशेषः। यथावा- सु्लिष्टसंधिविग्रहमिभपतियानं झरासनसना- थम्। राममभिवीक्ष्य तेन प्रेप्सन्तोडद्वैधमाश्र- यन्मुनयः ॥ १७९३॥
Page 243
232 अलङ्कारमाणेहारे
सुश्लिष्टाः संधयः संधिबन्धाः यस्य तादृशो विग्रहो यस्य तम्। अनेन वक्ष्यमाणमुनिजनमानसाकर्षकस्सौन्दर्यातिशयस्सृ चितः। यथोच्यते .- अङ्गप्रत्यङ्गकानां स्यात्संनिवेशो यथोचितम्। सुन्निग्ध सन्धिबन्धो यस्तत्सौन्दर्यमितीर्यते॥ इति। इभपतेः यानमिव यानं यस्य तम्। शरासनसनाथं रामं अभिवीक्ष्य सुनयः तेन रामेण सह अद्वैधं गाढालिङ्गनेनैकी- भाव प्रेप्सन्तस्सन्तः। ते आश्रयन् दण्डकारण्यं प्रविष्टस्य भगवतो दाशरथेस्सौन्दर्येण मोहिता: वनिता इव मुनयस्तमालिङ्गितुमु- रसुका बभूवुरिति पझ्मपुराणकथाऽत्रानुसंधेया। यद्वा तेन अद्वैघं अविवादं प्रेप्सन्तस्तमाश्रयन् 'अविवादस्तु तस्यैव पदयोरात्म- नोऽर्पणम्' इत्युक्तरीत्या तञ्चरणारविन्दे अत्मरक्षाभरार्णमभी- प्सन्त आश्रयन्नित्यर्थः। अत्र 'संधिर्ना विग्रहो यानमासनं द्वैध- माश्रयः' इति प्रसिद्धसहपाठानां संध्यादीनां क्रमेण षण्णां न्यसनभ् ॥ यथावा- सुरभीतिहरभुजोष्मा शरवर्षासारविशमिता- शरदावः । परमहिमानीको यो दिशिदिशि शिरसा नमामि तं दाझरथिम् ॥ १७९४॥ यः सुरभीतिहरः भुजोष्मा बाहुप्रतापः यस्य शरवर्षासार: बाणवर्षासार एव जलवर्षासार: तेन विशमितः आशराः निशि- चरा एव दावा यस्य परमहिमा अनीक: सैन्यं यस्य पक्षे परमा हिमानी हिमसंहतिः यस्य सः परमहिमानीकः । 'नदयतश्च' इनि कप। तं दाशरथिं दिशिदिशि शिरसा नमामि 'नमः
Page 244
रल्नावळीसरः (७७) 233
पुरस्ताद्थ पृष्ठतस्ते नमोनमस्सर्वत एव सर्व' इत्युक्तपन्तयया प्रतिदिशं प्रणमामीत्वर्थः। अन्र सुरभीत्यादिपदैकदेशैः ऊष्मेत्या- दिशब्दश्ेषेण च वसन्तार्दानां षण्णासृतूनां क्रमेण वर्णनम्॥ यथावा- सृष्टयादिकर्मकर्ता करणनियन्ता त्वया विना- ज्च्युत कोऽन्यः। सकलशुभसंप्रदानं कुरुते पा- दानताधिकरणहातिं च ॥ १७९५ ॥ हे अच्युत! सृष्टयादानां जगत्सर्जनादीनां कर्मणां कर्ता अनेन 'यो वै वालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म सवै वेदितव्यः' इति श्रुतिः प्रत्यमिज्ञाप्यते। करणानां इन्द्रि- याणां नियन्ता 'श्रोन्स्य श्रोत्रम्' इत्यादिश्रुतेः। पादानतानां चरणप्रणतानां आधि: मनोव्यथा तस्य करणा: कर्तारः कर- णानि साधनानि वा तेषां हति क्ष्ति, सकलशुभसंप्रदानं तेषा- मेव सर्वकल्वाणवितरणं च। आश्यामिनिष्टनिरासेष्टप्रापणे अभि- हिते। त्वया विना कोऽन्यः कुरुते इति योजना। अत्र- कर्म कर्ता च करणं सप्रदानं तथैव च। अपादानाधिकरणे इत्याहु: कारकाणि षट्।। इति शाब्दिकोक्तानां षण्णां कारकाणां क्रमेण न्यसनम् ॥। यथावा- लवणाशाली क्षुभितासुरेन्द्रराज्योदधीशभुज- दण्डः। नलिनाक्षीराजितहज्लजाक्षो जयतु सप्त- भुवननिघि: ॥ १७९६॥ ALANKARA_III. 30
Page 245
234 अलंकारमणिहारे
लवणाशब्द: स्वामाव्यात् स्न्नोिङ्: लावण्यवाची। 'लव- गैद लावण्यम' इति 'लावण्या्रिय इव शेषमङ्गनायाः' इत्यादौ मछिनाथादिभिस्तन्तत्र व्याख्यातत्वात्।'लवणो रसरक्षोऽन्धिमे- देषु लवणा त्विषि, इति विश्वः। तया शालत इति लवणा- शाली। भ्षुमित: असुरेन्द्राणां हिरण्यकशिपुनरकप्रभृतीनां राज्य- मेव उद्धीशः समुद्रराज: येन तादशो भुज एव दण्ड: मन्था- नदण्डो यस्य सः नलिनाक्ष्या थरिया राजितं हत वक्षः यस्य सः सप्तसंख्याकानां सुवननां भूरादिलोकानां निधि: जलजाक्ष: जयतु। अत्र 'लवणेक्षुसुरासपिर्दधिक्षीरजलार्णवाः' इति पुराणा- दिप्रसिद्धसहपाठानां सप्ानामुदन्वतां क्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विशेष:। सप्तभुवननिधिरित पदेन सूच्यसमुद्र- सूचनान्मुद्रा च। यथावा भूरिदयं जलधिभुवः प्रियं सुवणभमहरघि- पविम्वस्थम्। सुजनोग्रतपागम्यं व्याहतयो नोडभिदधतु सत्यं देवम् ॥ १७९७॥ नः अस्माकं व्याहृतयः व्याहारा: भूरिटयं निरवधिककृपं, तत्र हेतुः जलधिभुवः प्रियमिति। अत्र 'नित्यश्रीर्व्रभ्नविम्बे' इत्याचार्यश्रीसूक्तिस्स्मर्तव्या। अतएव सुवणामं अहरधिपबिम्व- स्थमिति तडुपस्कारकम्। अत्र 'य एषोऽन्तरादित्ये हिरण्मथः पुरुपः' इत्यन्तरादित्यविद्योक्तं दिव्यात्मविग्रहरूपमनुसंहितम्। सुजनानां सतां उग्रेण तीव्रेण तपसा गम्य प्राप्यं, सत्यं निरुपा- घिकसत्तायोगिनं 'सत्यं ज्ञानम्' इति श्रुतेः। मुक्तामुक्तनियन्तारं वा 'अथ यत्तत्सद्मृतं अथ यत्ति तन्मर्त्य अथ यदं तेनोभे यच्छति' इति दहरविद्याया श्रवणात्। देवं नारायणं अभिद्धतु वदन्तु
Page 246
रत्नावळीसर: (७७) 235
अस्मद्वचनानि संततं विव्यमङ्गळविग्रहं परं ब्रह्म पुरुषोत्तमं श्रीनि- वासमेव परिन्िन्वताम्। नद्विषयकप्बन्धानेव्र वणयन्तामिति भावः। अत्र श्रुतिप्रसिद्धसहपाठानां भूरादिसप्तव्याहतीनां करमेण विन्यास:। व्याइकतय इत्यनेन ताहशसूच्यारथसूचनं चति पूर्यवदेव मुद्राशिरस्कत्वम्॥ यथाा- अरुणाब्जवर्णमङ्गळसौम्याङ्गिरसावभासित नुह- सिते। असिताक्षि मातराहुलोके Sतुल्याऽनवग्र- हेति त्वाम् ॥१७९८॥ अरुणाब्जस्य वर्ग इव वर्णों यस्य तत् 'पत्मवर्णन् इति श्रुतेः। तथोक्त मङ्गळं सौम्यं सुंन्दरं 'सौम्यं तु सुन्दरे सोमदै- वते' इत्यमरः। ताहशं अङ्ग यस्यास्सा तथोक्ता तस्यास्संबुद्धि: 'अङ्गगात्र' इति डीष्। रसेन शङ्गाररसेन दयारसेन वा अव- भासि प्रकाशमानं न तृ 'स्मयन्निव नृगो हन्ति इतिवत्परा- तिसंधायकं, तनुहसितं मन्दहासो यस्यास्सा तथोक्ता। अनेन भगवत्मन्दहसितादप्यस्या मन्दहसितं गुणवत्तरमिति द्योतितम्। तद्धि 'हासो जनोनमाठकरी च माया इत्युक्तरीलया जनोन्मा दकारिमायारूपं तस्यास्सवुद्धि: रसावपसितबुहलिते। हे असि- ताक्षि!'तं चेयमसितेक्षणा इत्युकेः। हे मातः! त्वां अतु- ल्या असहक्षा अनवगहा अग्रतिबन्धा सर्वव्यापिनीतर्थः। 'अव- ग्रहो दृष्टिरोये प्रतिवन्धे गजालिके' इति मेदिनी। यद्वा अन- वग्रहा निरङ्कशस्वातन्त्रचा अपर्यनुयोज्यस्य भगवत्स्वातन्त्रय- स्यापि तदधीनत्वात्। यथोक्तं 'यस्या चीक्ष्य मुखं तदिङ्गितप- राधीनो विधत्तेऽखिलम् इत्यादि। इति वदन्ति सन्त इति शेष:।
Page 247
236 अलंकारमणिहारे
अत्र सूर्यादीनां नवानां ग्रहाणां प्रकृतान्वयं विना क्रमेण न्यास: । नवग्रहेत्यनेन सूच्यार्थसूचनान्मुद्रा च । प्रागुदाहतं 'भास्वान् राजा' इत्यादिपद्यं तु प्रकतान्वयि भगवद्विषयश्चेति वैलक्षण्यम्।।
भुजगाचलशृङ्गरो वीर: करुणाद्गुतो महास्य- यथावा-
रुचिः। स्वभया न कें नु वशयेद्वीभत्तितरौद्रिपु- रयं शान्त: ।। १७९।। करुणया अद्भतः विस्मयावहकृष इत्यर्थः । महती आस्य- रुचि मुखत्रभा यस्य बीभत्सिता: विकृता: कुताः रौद्रा: दारुणाः रिपवः येन सः। शान्तः ऊर्मिषट्ठप्रतिभटः स्वभया निजप्रभया कं नु न वशयेत् सर्वमपि स्वतेजसैव वशीकुर्यादित्यर्थः । अत्र-
बीमत्सरौद्रशान्ताश्चेतयेते नव रसाः स्मृताः॥ इति कनितानिद्वक्रमाणां नवानां रसानां क्रमेण न्यास: । कचितु- शद्ारहास्यकरुणा रौद्रवीरभयानकाः। बीभत्सान्धुतशान्ताश्च रसा: पूर्वैरुदाहता: ॥ इति क्रम: पठ्यते। तदनुसारे तु वक्ष्यमाणकमवैपरीत्यादेरु- दाहरणं भविष्यति॥
मधुहर माधव तनुयाशशुकशुचि ननु नभस्स- यथावा-
दामपि मान्यम्। भाद्राश्वयुजोर्जस्वलसहायतैषं समाघनतपस्यं त्वाम् ॥ १८००॥
Page 248
रत्नावळीसरः (७७) 237
इदं कस्यचिदैहिकापवर्गिकपुरुषार्थ प्रार्थयितुर्भक्तस्य वच- नम्। हे मधुहर मधुवैरिन् ननु माधव हे श्रीनिवास! सः त्वं घना तपश्चर्या यस्य तं मा मां भद्राणां गजविशेषाणां समूहो भाद्रं अश्वानां समूहः आश्वं उभयत्र सामूहिकोडण। ताभ्यां युज्यत इति भाद्राश्वयुजः इगुपधलक्षणः कः। ऊर्ज. स्वलः बलिष्ठश्च सहायः यस्य स तथोक्तः। तस्य भावः तत्ता तां इष्यते गच्छतीति भाद्राश्वयुजोर्जस्वलसहायतैषः ते 'इष- गता' दिवादिः तस्मात्कर्मण्यण्। चतुरङ्गसेनायुक्तमहासहाय शालिनमित्यर्थः । एतेन ऐहिकसमृद्धिरर्थिता। शुक्र: वह्नि 'शुकस्स्यान्भ्ार्गवे ज्येष्ठमासे वैश्वानरे पुमान्' इति मेदिनी! तमिव शुचि शुद्धं अनेनापवर्गसाधनसर्वप्रकारशुद्धिमत्ता सूचिता। 'शुचिशशुद्धेऽनुपहते शृङ्गाराषाढयोस्मिते' इति विश्वः । नभः स्सदां अचिरादिकानामातिवाहिकाना देवानां मान्य पर्यवसाने तैस्सव्यमपि तनुयाः। 'भुक्त्वा च भोगानखिलानन्ते हरिपद अ्रजेत्' इत्युकरा्या ऐहिकमाम्राज्याजुभवपूर्वकमन्ते निश्रेयस- साम्राज्यानुभवशालिनमपि कुर्वीथा इति भावः । अत्र 'मधुश्र माघवश्च शुकश्च शुचिश्च' इत्यादिश्रुतिस्मृत्यादिपठितानां मधु- माधवादीनां द्वादशानां मामानां क्रमो निबद्ध:।
स्यामेष वृषाद्रिस्थं मिथुनमकर्क्यङ्गजारिरम- यथावा-
णीड्यमहम्। अतुलाळिकं विचापलमसमकरं वीक्ष्य विनतसकलशमीनम्॥ १८०१॥ अत्र ज्यौतिषादिप्रसिद्धसहपाठानां मेषवृषादिमीनान्तानां द्वादाशानां राशीनां मुद्रालङ्कारविधया क्रमेण वर्णनम्। अङ्गजारि:
Page 249
238 अलङ्कारमणिहारे
कामवैरी तस्य रमणी गौरी तया ईड्यं स्तुत्यं अतुलं असदशं अ- ळिकं ललाटं यस्य तत् विचापलं अचञ्चलशीलं वीक्ष्येति क्रियाया विशेषणं वा। असमौ असदशौ करौ पाणी यस्य तत्। शम पष मस्तीति शमिनः तेषां इनाः प्रभवश्शान्ताग्रण्य इत्यर्थः । बिनताः सकला शमीना: यस्य यस्मित्वा तत्तथोक्तं वृषाद्रिस्थं मिथुनं श्रीश्रोनिवासरूपं स्त्रीपुंसात्मकं द्वंद्वं वीक्ष्य द्ष्टया व्यात्वा वा कर्के कल्कं रलयोरभेदात्पापं 'कल्कोऽस्त्री शमलैनसोः' इत्यमरः। तदस्यास्तीति कर्की स न भवतत्यिकर्की विनष्टाश्िष्टपूर्वोत्तराघ: एषः अहं स्यामिति योजना। भवेयममित्यर्थः ।
प्रकृतानन्वयवती अक्रमा यथा- मधुरामा यास्तासां दाता कांचिच्छुचं विजित- काशी। सदयो ध्यातोऽस्तु वहन हृदि नतसद्वार कामवन्तीं लक्ष्मीम् ॥ १८०२॥ या: मधोः तन्नाम्नोऽसुरस्य रामाः स्त्रियः तासां कांचित् शुचं वैधव्यप्रयुक्तं शोकं दाता। ददातेस्तृन्। मधुदैत्यसंहर्तेति भावः। विजितेन विजयेन भावे क्ः काशत इति विजितकाशी काशते- णिनिः 'वानरा जितकाशिनः' इतिवत्। नताः सतां बारा: निवहाः यस्यां सा नतसहारका तां अवन्ती सर्वलोकपालयित्री लक्ष्मी हृदि वहन अतपव सदय: पुमान् परमपुरुषः श्रीनिवास इति भाव:। ध्यातः अस्तु। मयेति शेषः। अत्र-
अयोध्या मधुरा माया कांशी काश्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः॥ इति प्रसिद्धक्रमपाठानां क्रमव्यतिक्रमेण न्यसनम्॥
Page 250
रक्नावळीसरः (७७) 239
यथावा- पुष्कलशाल्मलिजम्बूपृक्षः कौश्चकुशमेदुरः फणिशैलः : आक्रान्तमहाशाकस्सप्द्वीपाधिको जयत्ययमेकः ॥ १८०३॥ पुष्कला: अतिशोभनाः 'पुष्कलस्स्यात्सत्तमश्चातिशोभने' इत्यमरः। शाल्मलिजम्बूपक्षा: वक्षविशेषा: यस्मिन् सः। कौञ्चैः पक्षिविशेषैः कुशैः दभैः जलैर्वां मेदुरः आक्रान्ताः स्वाभोगेन व्याप्ता: महत्यः आशाः दिशः येन सतथोक्तः 'शेषाद्विभाषा' इति कप् 'के गः इति प्राप्तस्य हस्वस्य 'आपोऽन्यतरस्याम्' इति विकल्पितत्वादाशाशब्दस्य न हस्वः। अय फणिशैलः एक एव सप्तद्वीपाधिको जयति। अत्र 'जम्बूपक्षकुशकौञ्चशाकशा- ल्मलिपुष्कलाः इति पुराणादिपु सहपठितस्य द्वीपसप्तकस्य कमातिकरमेण न्यसनम्। सप्तद्वीपपदेन सूच्यार्थसूचनं च। यथावा- स्तुवताङ्गिरस्सदा मे मरीचिमत्रियुगसपुलह- र्षकरम्। विपुलस्त्यानकतुभुग्वसिष्ठसुखदं तवाम्ब नयनयुगम्॥ १८०४ ॥ हे अम्ब! मरीचिमत् अंशुमत् त्रियुगस्य भगवतः सपुलह- र्धकर सपुलकप्रमोदावहं 'पुलस्स्यात्पुलके पुंसि विपुले वाच्यलि- ङकः इति मेदिनी। विपुलं विशालं स्तानानां खतििग्धानां 'स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि इति मेदिनी। ऋतुभुजां वसिष्ठाः वसीयांस: श्रेष्ठाः तेषां लोकपालानामित्यर्थः। वसुशब्दः प्रशस्तवाची। तत आतिशायनिके इष्ठानि वसिष्ट इति रूपम्।
Page 251
240 अलकारमणिहारे
एतञ्च 'शवसो वसीयशश्रेयसः' इति सूत्रे कौसुदग्रिन्थे स्पष्टम्। सुखदं 'लोकेशेश विभूतीनां कारणं यन्निरीक्षणम् इत्युक्ते:। चिपुलं च तत् स्त्यानकतुभुग्वासष्ठसुखदं चेति विशेषणोभयपदकर्मधा- रयः। यद्वा विपुल अतिशयितं स्त्यानं आलस्यं दुर्वासश्शापज नितस्वाराज्यभ्रंशप्रयुक्तमपाटवं यस्य स तथोक्तः ऋतुभुग्वसिष्ठः इन्द्रः तस्य सुखदमिति तव नयनयुगं मे मम गिर: सदा स्तुवता स्तुत्न्तु। अत्र- मरीचिमत्रचड्गिरसौ पुलस्त्यं पुलहं कतुम्। वसिष्ठं च महातेजास्सोऽसृजत्सप्त मानसान् ॥ इति पुराणोक्तानां महर्षीणां किंचित्कमातिलङ्गमेन न्यसनम्॥ यथावा- यशसैष सार्वभौमेनैरावतकुमुदपुष्पदन्तरुचा ते। लोकोडअ्ननायक सुप्रतीक वामन सुपुण्ड- रीकाक्ष सितः ॥ १८०५॥
हे वामन! स्वेच्छागृहीतवामनावतार। हे सुप्रतीक 'आ प्रणखात्सर्व एव सुवर्णः इत्युक्तप्रकारदिव्यमङ्गळविग्रह! हे सुपु- ण्डरीकाक्ष ! शोभनं यत्पुण्डरीकं तदिव अक्षि यस्य तस्य संबुद्धि: ।
'तस्य यथा कप्यासम्' इति श्रुतिस्थकप्यासशब्दार्थस्सर्वोऽपि संग्रहीतः। अञ्जननायक अज्ञनाख्यगिरिनेतः ऐरावतः कुमुदपुष्पं दन्तः गजदन्तः तेषां रुगिव रुक प्रभा यस्य तथोक्तेन सार्वभौमेन सर्वभूमौ विदितेन ते यशसा जगत् सितं शुभ्रमिति योजना। अन्र पेरावतः पुण्डरीकः इत्युक्तानां दिग्गजानां क्रमातिलङ्गनम्।
Page 252
रत्नावळािर: (७७) 241
पलयसरस्वति वटदळशायितस्त्वमदीदशस्स्व- महिमानम्। मार्कण्डेयसुनेशश्रुतिसुभगङ्गेयं पुरा फणिगिरीन्दो॥ १८०६॥ इदमुपाख्यानमरण्यपर्वणि प्रसिद्धम। अत्र 'इमं मे गङ्गे यमुने सरस्वति' इति संबुद्धयन्ततया क्रमेण श्रुतौ पठितानां गङ्गा- यमुनासरस्वतीनां सर्वात्मना व्युत्करमेण न्यसन पूर्वोभ्यो विशेष:॥ यथावा- दुरितोपसंहृतिचणा रविनर्शचिकासिपद्रगर्भे- न्धे। तटगान्प्रति मुखरमुखम्रमरा सौस्ातिकी वृषाद्रिनदी ॥ १८०७ ॥ रवे: मर्शः स्पर्श: तत्करस्पर्श इति याबमू। तटगानू तीर- स्थान् प्रति सौस्ातिकी सुस्ानग्रश्टे 'पृच्छती सुख्नातादिभ्यः' इति ठक्। सुखातान् पृच्छतीति विग्रहः। अन्न "सुसं प्रतिमुसं गर्भस्तावमर्शोपसंहृतिः इति प्सिद्धकमपाठानां मुखादीनां पश्चा- नां नाटकसन्धीनां सर्वात्मना व्युत्कमेण न्यसलम्। गम्योत्प्रेक्षा- संकणिमिति च विशेष:॥ यमनियमासनदक्षप्राणायामा हरे भवत्पारि- षदाः। प्रत्याहृरन्ति यमभट्गृहीतमपि नामधा- रणादेव ॥। १८०८॥ हे हरे! अनेन- ब्रह्माणमिन्द्ं रुदं च यन वरुगमेपच। प्रसह्य हरते यस्मात्तरमाद्वरिरितायते॥ ALANKARA-III. 81
Page 253
. w. -
242 अलक्कारमणिहारे
इत्युक्तप्रकारेण यमोपसंहरणशक्तिमत्ता प्रकृतारथोपस्कारिणी द्योतिता। 'हरिर्हरति पापानि' इत्युक्तपापनिराकरणशक्तता चव । तव पारिषदा: सुनन्दनन्दप्रभृतयः पारिषद्याः। तान्विशिनष्टि- यमेत्यादिना। यमस्य समवर्तनः नियमः नियमनं 'पातकिनो मत्सकाशमानेयाः' इत्याज्ञा तस्य असने निरासे दक्ष: प्राणस्थ शक्तेः 'शक्ति: पराक्रमः प्राणः' इत्यमरः। आयाम: दैध्य येषां ते कृतान्तकृताज्ञानिराकरणघुरीणविपुलपराक्रमा इत्यर्थः ! अत एव यमभटैः गृहीतमपि नरं अजामिळतुल्यमिति भावः। तव नाम्न: धारणादेव ग्रहणादेव एवकारेण तदितरोपायलेशस्पर्शः तस्यापि बुद्धिपूर्वकत्वं च व्युदस्यते। प्रत्याहरन्ति यमभटहस्ता- दाच्छिद्य स्ववशं नयन्तीति भाषः। अन्र- अयं हि कुतनिर्वेषी जन्मकोट्यंहसामपि। यद्चाजहार विवशो नाम स्वस्त्ययनं हरे:॥ इत्यादिप्रमाणशतं स्मर्तव्यम्। अत्र योगशास्त्रप्नसिद्धसह- पाठानां यमनियमासनप्राणायामप्रत्याहारधारणानां व्यानसमाधि- चिकलानां क्रमेण न्यसनम्॥।
मधुरां गिरं रमायाइशृण्वन्कांचिदथ भवदवं यथावा-
तीव्रं तवमू। सुगुणमयो व्यातुर्मे शमय दशा नाथ कालिकाशीतलया॥ १८०९॥ मधुरां 'किसेव निर्दोष: क इह जगति' इलावक्तप्रकारत- याऽतिरमणीयां कांचित् यांकांचित् न तु भूयसीमिति भावः। तावतैवं तत्परन्त्रस्य तव चित्तप्रसादस्सुकर इति भाव: । रमाया: त्वद्वाप्तिपुरुषकारभूताया इति भावः। गिरं ऋण्वन् अथ श्रव-
Page 254
रत्नावळीसरः (७७) 243
णानन्तरमेव हे नाथ! सुगुणमयः कारुण्यवात्सल्यादिगुणप्रचुर: त्वं कालिका मेघरेखा सेव शीतला तया हशा ध्यातु: मे तीव्रं उग्रं भवदवं शयम। तीवं शयमेति वा योजना। अन्न 'अयोध्या मधुरा' इत्यादिप्नसिद्धस्य पुरीसप्कस्य किंचिद्वैकल्यन क्रमाति- क्रमेण च वर्णनम्॥
यथावा- शुभभा रतीशजननी जलधिभ्नवा नारजात-
वदा जयतात ॥ १८१०॥ अत्र पुराणादौ सहपठितानामपि भारतीभवानीशचीनां क्रम- प्रसिद्धिरहितानां न्यसनम्॥ यथावा- विधिवामदेववनिताविनुतौ सुभगौ तमोविज- यनिपुणौ। चरणौ मूर्त्रि निधनां ममाब्धिजा बालिका 5तिसुकुमारौ ॥ १८११ ॥ अन्न -- वसिष्ठी वामदेवश्च जावालिरथ काश्यप:। कात्यायनो गौतमक्च सुयज्षो विजयस्तथा॥ इति प्रसिद्धसहपाठानामपि क्रमप्रसिद्धिविधुराणां वामदेव- गौतमविजयजावालीनां चतुर्णा वर्णनम्। इत्यलंङ्कारमणिहारे रलावळीसर: सप्तसप्ततितमः
Page 255
-- - .. ' 244 अलङ्कारमाणेहारे
अथ तह्ुणसरः (७८)
स्वगुणस्य परित्यागात्तहुणोऽन्यगुणग्रहः। स्वगुणस्य परित्यागपूर्वकं स्वसन्निहितवस्त्वन्तरसंबन्धिगुण- ग्रहणं तद्ुणः। तस्य गुणोऽस्यास्तीत्यन्वर्थसंज्ञोऽयम्॥ यधावा- इन्दीवरसुषुमाभरमन्दीकृतिनिपुणतावकाङ्गरु- चा। रञ्ित इह वृषगिरिरयमअ्जननामानुरूपमु- ल्लसति ॥ १८१२॥ यथावा- मरकतनिभनिजरुचिविच्छुरितं गरुडं जना- स्समारुटम्। सकलं जगद्विजेतुं शुकमधिरूढं स्मरं हरिमजानन् ॥ १८१३॥ यथावा- अधररुचाडघो Sरुणतममसितमुपर्यक्षितारका- रुचिभिः। नासामौक्तिकमेतद्रासा गुआ्जायतेडम्ब भवदीयम् ॥ १८५४॥ यथावा- सरसि निविशमानायां सलिलविहारे हिरिण्यव- रणायाम्। त्वय्यापः प्रणयन्ति श्रुतिकथितं स्वं हिरण्यवर्णात्वम् ॥१८१५॥।
Page 256
पूर्वरूपसर: (७९) 245
'हिरण्यवर्णाश्शुचयः' इत्यादिश्चुत्युक्तं हिरण्यवर्णात्वमित्य- र्थः। एपूदाहर णेषु स्वगुणत्यागपूर्वकान्यगुणग्रहणं स्पष्टमेव। आद्ये समालंकारेण द्वितीये भ्रान्तिमता तृतीये उपमया तुरीये गम्यो- त्प्रेक्षया चायं परिष्कृत इति परस्परं वैलक्षण्यं बोध्यम्। इत्यलंकारमणिहारे तद्रुणसरोऽ्टसप्ततितमः.
अथ पूर्वरूपसरः (७९)
स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते। पूर्व स्वगुणत्यागेन गृहीतान्यगुणस्य पुननिजगुणप्रीप्तः पूर्व- रूपं नामालंकार:॥ यथाचा- जलधेरधिरूढाया हृदयं स्वरुचा श्रियोऽति- नैल्यजुषः । वैलक्ष्यं वीक्ष्य हरिव्यधाद्थापुरमिमां स्वमणिभासा ॥१८१६॥ वैलक्ष्यं हिरण्यवर्णाया अपि मम वल्लभहृदयपरिष्वङ्गसभ्रंमेण निरतिशयो नीलिमा समजनीति त्रपाविशेषः। स्वमणे: कौस्तुभस्य भासा इमां थ्रियं यथापुरं पूर्ववदेव हिरण्यचर्णा व्यधात्। न चात्र हिरण्यवर्णत्वेन श्रुतायाश्थियः पीतवर्णतया कौस्तुभभासोऽरुण- तया च विभिन्नत्वात्कथं पूर्वरूपप्राप्तिरिति वाच्यं, पीतारुणवर्ण- योरैक्यवर्णनस्य कविसमयसिद्धत्वाद्। तथाचोक्तमलंकारशेखरे
Page 257
246 अलंकारमणिहारे
कविसंप्रदायरते षोडशमरीचौ -- 'कमलासंपदोः' इत्युपक्रम्य 'नीललोहितयोस्स्वर्णपरागाग्निशिखादिषु' इत्युकत्वा 'ऐक्यमेवा- भिसंहितम' इत्यन्तेन॥ यथावा- नीलायितं निजरुचा व्यालाचलनाथ मौक्ति- काकल्पम्। उरस तव धवलयन्ती सरसिजन- यना स्मितैः क्रियात्कुशलम् ॥ १८१७॥ उदाहरणद्वयेऽपि पूर्व परित्यक्तस्य स्वगुणस्य पुनः प्राप्ति- स्स्पष्टैव॥ अयमेव तद्रुण इति केचिद्वयवाहार्षुः। तन्न चतुरश्रं,
तस्य प्रवृत्तिः। न चेह तत्संभवः थ्रियो मौक्तिकाकल्पस्य च प्रथमं स्वगुणत्यागेनान्यदीयगुणग्रहणसद्भावेऽपि पश्चात् स्वगुण- त्यागान्वदीयगुणग्रहणयोरभावात्। अतएव स्वगुणत्यागादिति तह्ुणलक्षणे स्वगुणेत्यत्र समासान्तितगुणगुणिलंबन्धमात्रमागन्तु- कानागन्तुकसाधारणं विवक्षितम्। ततश्च 'विभिन्नवर्णा गरुडाग्र- जेन' इत्यादी गृहीतस्यारुणवर्णस्यापि स्वमुणतया तत्परित्यागेना- न्यदीयगुणस्वीकारसन्भ्रावात्तह्ुण एवेसत निरस्तम्। तथाऽपि स्वकीयस्यैव गुणस्य आप्या अन्यदीयगुणालावेन तद्रुणस्य दुर्वच- त्वात्। किं च अयमेव तह्ुण इत्युक्ते 'पझमरागायते नासामौ- क्तिका तेऽधरत्विपा' इत्यादिप्सिद्धतन्रुणालंकारोदाहरणेषु तद्ु- णालंकारो न स्थात्। न चेष्टापत्ति:, अनुभवसिद्धायाश्चसत्कृते- निरवलम्वनतापत्तरिति दिक्।। यन्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम्। पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥
Page 258
पूर्वरूपसरः (७९) 247
पूर्वावस्थापेक्षया विजातीयतां प्राप्तेऽव्यर्थे पूर्वावस्थानुवृत्ति- रपि पूर्वरूपमलंकार:।। यथावा- चित्रमिदं त्वत्कृपया बन्धविमोक्षं गतोSपि पद्माक्ष। प्राप्नोति महाशुद्धप्रकृतिगुणामोचनं यदात्माडयम् ॥ १८१८॥। अयन्ात्मा जीव: त्वत्कृपया बन्धस्थ प्रकृतिसंबन्धस्य विमोक्षं गतोऽपि महाशुद्धा: अतिमात्राशुचयः ये प्रकृतेगुणाः तमःप्रभृतयः तेषां आमोचनं बन्धं प्राप्तोतीति चित्रम। तत्वं तु महाशुद्धाः अतिवेलनिर्मलाः ये प्रकृतिगुणा: स्वभावगुणाः अपहृतणप्मत्वादयः स्वाभाविका गुणा इत्यर्थः । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्व- भावयोः' इति मेदिनी। तैः अमोचन अविनाभावं आमोचनं संबन्धं वा प्राप्नोति आविर्भूतस्वाभाविकगुणाष्टको भवतीत्यर्थः। अत्र बन्ध- मोक्षेण पूर्वावस्थातो विलक्षणस्य प्रत्यगात्मनः श्रेषमहिस्ता महा-
यथावा- जगतां सवितस्तावकदिव्यालोकेन तमसि गळितेऽपि। भूयोऽवि सत्तमश्श्रीर्भजतामनुवर्तते विचित्रमिदम ॥ १८१९॥ हे जगतां सवितः जगज्नक! पक्षे जगतामित्येतत् भजता- मित्यस्य विशेष्यतया योज्यम्। हे सवितः भानो ! तावकेन दिव्येन आलोकेन दर्शनेन तेजसा च। तमसि अज्ञाने तद्गुपलक्षितप्रकृतौ वा। अन्यत्र तिमिरे विगळितेऽपि भूयोऽपि भजतां सत्तमसः अधि-
Page 259
248 अलङ्गारमणिहारे
काज्ञानस्य अतिशयिततिमिरस्य वश्रीः विभवः अन्यन्न सत्तमा अतिशोभना 'सत्तमश्चातिशोभने' इतमरः। श्रीः ज्ञानादिसंपत् मुक्तैश्वर्य वा अनुवरतते। अत्रापि श्ेषमहिन्ना तमसि गळितेऽपि तदनुवत्तिर्दर्शिता॥ यथावा- प्रागम्ब तव कटाक्षाद्ेषां कण्ठेषु सतरळा- हाराः। पश्वादपि हन्तासस्तेषां कण्ठेषु सतरळा हारा: ॥ १८२०॥ हे अम्ब! तव कटाक्षात्प्राक् कटाक्षपसरणात्पूर्व येषां जनानां कण्ठेषु गळविलेषु सतरळा: तरळपा यवाग्वा सहिता: आहारा: निहीनाभ्यवहारा इत्यर्थः। आसन् पश्चादपि त्वत्कटाक्षप्रसरेण संपदुत्कर्षलाभादनन्तरमपि तेषां कण्ठेषु सतरळाहारा: उक्ता- भ्यवहारा एव। पक्षे ग्रीवासु सतरळाः मध्यमणिसहिता: हारा: मुक्तावळ्यः आसन। हन्तेत्याश्चयें 'तरळं चञ्चले षिद्गे भास्वरे- 5पि त्रिलिङ्गकम्। हारमध्यमणौ पुंसि यवागूसुरयोस्स्त्रियाम्' इति मेदिनी। अत्रापि सतरळाहारा इति श्लेषेण पूर्वावस्था- नुवृत्िर्दर्शिंता।। यथावा- दशमुखशमनानिविवक्षोभे दशरथसुतेन मि- तेडपि। संकुलिता दौर्बत मदविशृङ्खलैरावणो- द्रटविलासैः ॥ १८२१॥ घौः स्वर्ग: मदेन विशृद्धलैः निरर्गळैः रावणस्व दाशाननस्य उद्भटविलासै: संकुलिता संवाधिता। पक्षे मदेन विशृंखलः विग-
Page 260
पूर्वरूपसरः (७९) 249
ळितनिगळः पेरावण: परावतः तस्य उद्भटविलासैः दशमुखाव- स्थानावसरे तह्दोरदण्डप्रतापशोषितमदतयाऽवस्थित ऐरावतस्त- स्मिन्नस्तमित प्ररूढमदतया निरर्गळप्रचारोऽजनीति भावः।अत्र दशमुसशमनेऽपि दिव: पूर्वावस्थानुवत्तिश्रेषोजीविता।। यथावा- असमाधिक एव भवन् पुरा मुरारेऽथ तव पं प्रेप्सुः। दधदपि समाधिमुच्चैरसमाधिक एव भवति बत मनुजः ॥ १८२२ ॥ असमः आधिर्यस्य सः अविद्यमानस्समाधिर्यस्य स इति च। असमाधिक एव असदृशाधियुक्त एव। समाधिरहित एव। निस्स- माभ्यधिक पवेति च। अत्रापि असमाधिकत्वरूपपूर्वावस्थानुन- त्तिश्ल्ेषगार्भिता। यथावा- प्रविसरति तव कटाक्षे विश्राणयतेSन्नमम्ब सुगुणो यः । अपि तस्मिन्विकले बत विश्राण- यतेऽन्रमेष सुगुणतया॥ १८२३ ॥ दे अम्ब! तव कटाक्षे प्रविसरति सति यः पुमान् सुगुण :- सश्ाध्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान्। स शूरस्स च घिक्रान्तो यं त्वं देवि निराक्षसे ॥ इत्युक्तरीत्या कल्याणगुणवान् सन् अन्नं विश्राणयते वितरति 'श्रण दाने' चौरादिकादस्मात्स्वार्थे ण्यान्तालुट्। एष पुमान तस्मिन् तव कटाक्षे विकलेऽपि स्वस्मिन् परावृत्तेऽपि सुगुणतया ALANKARA __ III. 32
Page 261
250 अलकारमणिहारे
अन्नं विश्राणयते। बतेत्याञ्चयें। पगिहारस्तु गुणस्य सूदस्य भावः गुणता सुध्टु गुणता सुगुणता। पाकशिक्षितसूदत्वामित्यर्थः तया 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये। त्यागशौर्यादिस- त्वादिसंध्याद्यावृत्तिरज्जुषु' इति मेदिनी। अन्नं विश्राणयति विस्राविता श्राणा यावागू: यस्य तत्तथोक्तं करोति परगृहे अन्नविस्रावयिता पाचको भवतीति भावः । 'यवागूरुष्णिका श्राणा' इत्यमरः। अत्रापि पूर्वावस्थाऽनुवृत्तिश्श्रेषेण वर्णिता॥ 1
यथावा- कश्िद्विजाग्रगण्यो मनुष्यधर्माधिकश्रियं शौरे। अवलम्व्य तव कटाक्षाद्रूयस्सुखगोडभवत्किल वि- चित्रमू ॥ १८२४॥ द्विजाग्रगण्य: विहगश्रेष्ठः विप्राग्रणी: कुचेल इति तत्वम्। मनुष्यधर्मैः मनुजधर्मैंः अधिकां कुबेरादप्यधिकामिति वस्तुस्थिति: भूय: पुनः सुखगः शोभनो चिहगः भूयः भूरि यत् सुखं तद्गच्छ- तीति तथोक्त इति वास्तवार्थः। अभवत्। किलेत्यैतिहे। स्पष्ट- मन्यत्। अत्रापि पूर्वावस्थाऽनुद्ृत्तिर्दर्शिता ।॥ यथावा-
लङ्का। अभिवृद्धबहुमुखश्रीरासीद्रघुवीर तेजसा भवरुः ॥ १८२५॥
अभिवृद्धा बहुमुखस्य दशाननस्य श्रीः यस्या: नानाविधा समृद्धिरस्या इति तु तत्त्वम। सर्वे प्राग्वत् ॥
Page 262
पूर्वरूपसरः (७९) 251
विपरीतदशायामपि विशिष्टवर्णा गिरां तव यथावा-
समानाः। सारसरसारसुधाम्बुधिसुते न जहति स्ववर्णपरिपाटीम् ॥ १८२६॥ हे सुधाम्बुधिसुते! इदं तद्वाचोमाघुर्यातिशयं द्योतयितुम्। विशिष्टः श्रेष्ठः वर्णः येषां ते ब्राह्मणवर्णा इत्यर्थः। प्रशस्ताक्षरा इति तु तत्वम्। अतए तव गिरां समाना: मानसहिता: त्वद्वाचा बहुमानिता इति यावत्। माधुर्येण त्वद्वाकुल्या इति तत्त्वम्। सारसरसाः पझ्मरसाः मकरन्दा, सारा: श्रेष्ठा: सरसाश्चेत्यप्युप- स्कार्यम्। अतएव विपरीतदशायां धर्मविपर्याससमयेऽपि स्वव- णपरिपाटीं ब्राह्मणवर्णोचितक्मं न जहति। यथापुरमेव वर्तन्त इति भाव:। वस्तुतस्तु प्रातिलोम्येन पठनावसरेऽषि स्ववर्णानां निजाक्षराणां परिपाटीं अनुक्रमें न जहति। सारसरसा इत्य- स्यानुलोमविलोमपठनयोस्तुल्यानुपूर्वीकत्वादिति भावः। अत्र
यथावा- निखिलजगच्छेषिण इह संप्रति शौरेर्भवन् सदादासः । नैक्यं भजेत्कदाऽपि प्रतीकमुक्तोऽपि तादृगेव स्यात् ॥ १८२७ ॥ नि.खलजगच्छेषिण: शौरे: संप्रति अधुना एतद्देहसंबन्धिता- दशायामिति यावत्। सदादासो भवन् जन :- दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम्॥
Page 263
252 अलंकारमणिहारे
इत्यादिप्रमाणादिति भावः । प्रतकिेन अवयवेन शरीरेणेति यावत्। मुक्तोऽपि प्रतीकान्मुक्तोऽपीति वा। पतद्ेहप्रहाणपूर्वकं निश्श्रेयसं प्राप्तोऽपीति यावत्। पेक्यं तस्य भगवतः अभेदं कदाचिदपि न भजेत् न प्राप्ुयात्। किंतु ताद्गेव तत्सदश एव स्यात्। 'निरञ्जनः परमं साम्यमुपैति' इति परमसाम्यश्रवणात्। अनेन- यथोदकं शुद्धे शुद्धमासिक्तं ताद्दगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम ।। इति श्रुत्यर्थो वर्णितः। अस्याशश्रुतेरयमर्थः-शुद्धे शुद्धं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि विसद्दशम्। एवं मनननिदिध्यासनशीलस्यात्माऽपि परमात्मसदश पवेति न त्व. भेदं प्राप्ोति, तादृक्छब्दश्रवणात्। तादक्छब्दस्तत्सदृशवाची। सादृश्यं च भेदघटितमेवेति। किंच ताद्गेव सदादास एव स्यात् न तु स्वयं सर्वशषीति भावः। पक्षे सदादासशब्द: प्रतीकं प्रति- प्रतिलोमं यथास्यात्तथा 'प्रतिकूले प्रतीकं स्यात्' इत्यमरः । उक्तोऽपि पठितोऽपि ताद्गेव सदादास एव स्यात् न तु विभिन्ना- नुपूर्वीक इति भावः। अन्रापि पूर्वावस्थानुवर्तनं पूर्ववदेव। इंद पूर्वरूपप्रकारद्वयमपि जयदेवोपज्ञम्॥ इत्यलंकारमणिहारे पूर्वरूपसर एकोनाशीतितमः
अथातह्ुणसरः (८०)
अतद्रुणं संगतान्यगुणानङ्गीकृतिं विदुः।
Page 264
अतद्रुणसरः (८०) 253
यथा- विदलितवलरिपुमणिवरकान्ते फणिशैलनाथ- हृदयान्ते। अपि सततकृतनिवासा नासादयसे- डम्ब किंचिदपि नैल्यम् ॥ १८२८॥ यथावा- झुचितरफणिवररुचिभरशोणफणामणिमरी- चिनिचयेन। निचुलितरुचिरपि नितरां फणिश- यन जहासि नासितत्वं स्वम् ॥ १८२९॥ यथावा- परिहितमप्यनवरतं पीताम्बरमम्बुजाक्ष भव- तेदम्। न जहाति पीततां स्वां परिदधदपि तद्ग- वानसिततां च ॥। १८३० ॥
अपि कमलानिलय हरे त्वद्गुचिकमलारुची यथावा-
मिथो मिळिते। प्रविविक्ते एव भृशं भातो यमु- नासरस्वतीतुल्ये।। १८३१।। अत्राद्योदाहरणे परगुणाग्रहणं शाब्दम्। स्वगुणत्यागाभाव अर्थः। अनन्तरयोरुदाहरणयोः स्वगुणत्यागाभावइशाब्दः। पर गुणाग्रहणं त्वार्थम्। अनयोरपि द्विंतीयोदाहरणे पीताम्बरभग- वतोः ते परस्परमिति विशेषः। तुरीयोदाहरणे तूभयमप्यार्थमि- त्यवधेयम् ॥
Page 265
254 अलङ्गारमणिहारे
न चान्यगुणेनान्यत्र गुणोदयानुद्यरूपाभ्यामुल्लासावज्ञालं- काराभ्यां तह्गुणातह्गुणयोरगतार्थतेति वाच्यम्। उल्लासावज्ञालक्षण घटको गुणशब्दो दोषप्रत्यनीकवाची। अन्यगुणेनान्यत्र गुणोद- यानुदयौ च न तस्यैव गुणस्य संक्रमासंक्रमौ। किंतु सदाचार्यो- पदेशेन सदसच्छात्रयोबोधोदयानुदयवत्तद्रुणजन्यतया संभावि- तयोर्गुणान्तरयारुदयानुदयौ। तद्रुणातह्रुणयास्तु गुणशब्दो रूप- रसगन्धादिवाची। तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिक- वसनमालिन्यादिन्यायेनान्यदीय गुणेनैवातुरञ्जनानुरञ्जने विवक्षिते तथैव च दर्शितान्युदाहरणानि। एवंच प्रदर्शयष्यमाणे उदाह- रणे नातह्ुणालंकारः। किंत्ववज्ञालंकार एव । शतकोटितोऽपि इतकोटयधिककठोरे फणी- न्द्रगिरिशिखरे। निवसन्नप्यविरतमिह नैधुर्य नाथ नाश्नषे क्वापि ॥ १८३२॥ अत्र कठोरतारूपगुणस्यानुपरअ्जकत्वात्तदनङ्गीकारो नातद्रुणः॥ यथावा- निहिताऽपि विधौ प्रसभं न हि तादृशशुद्दि- मेति चपला धीः। वृद्धापि समानतया न सैरिमी भजति सौरभीवृत्तिम् ॥ १८३३॥ विधौ भगवति चन्द्रे च। निहिताऽपि धीः तादृशीं तत्मा- प्रचनुगुणां विघुसदशीं च शुद्धिं नैर्मल्यं विजातीयप्रत्ययासंवलि- तत्वमिति यावत्। पक्षे धवलिमानं नैति हि। कुत इत्यत्राह- चपलेति। चपलत्वादेवेति भावः। समानतया वृद्धाऽपि सौर-
Page 266
अतद्गुणसरः (८०) 255
भीभिस्सहाभिवृद्धाऽपि सैरिभी महिषी। जातिलक्षणो डीष्। सौरभी सुरभि: गौः सुरधेतुर्वा 'सुरभिर्गवि च स्त्रियाम्' इत्य- मरः तस्या इयं सौरभी, अण्णन्तलक्षणो डीपू। तत्संबन्धिनी वत्सतरी तस्याः त्ति स्थिति न भजति। वत्सतर्या एव वृत्ति न भजति किंपुनस्साक्षात्सुरमिद्त्तिमिति भावः। पक्षे समान- तथा सौरभीशब्देन सह तुल्यतया वृद्धा वृद्धसंज्ञां प्राप्ताऽपि
हयनुशासनम् । सैरिभी सैरिभीति शब्दः। अर्थगतस्त्रीत्वस्य शब्दे आरोपः। सौरभीवृत्ति सौरभीशब्दस्य स्थिरति न भजति। उभयोरपि शब्दयोर्वृद्वत्वेऽि तयोरन्योन्यं विजातीयत्वादिति भावः। किंच सैरिभीशब्दः सौरभीशव्दस्य वृत्ति न भजति। सुरभेररियं सौरभीति तद्धितवृत्तिमत्वात्तस्य, स्वस्थ च केवल- रूढतया तादृशवृत्तिमत्त्वाभावादिति भावः। अत्र दष्टान्तरूपो महावाक्यार्थः, बिम्बप्रतिबिम्बभावापन्नत्वात्। तत्र दार्शान्ति-
भित्तिका भेदाव्यवसायानुप्राणितातद्गुणालंकाररूप एव। दष्टान्त. वाक्यार्थस्तु पूर्वोक्तरीत्याSवज्ञालंकाररूप इति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः। अत्र गुणग्राहकापेक्षया सन्निहितस्य गुणवत उत्कृष्ठत्वसम- त्वाश्यां द्वैविध्यमिति सर्वस्वकारः। तस्यायमाशयः-अपकृष्ट- संबन्धिगुणाग्रहणस्य स्वाभाविकत्वेन वैचित्रयानाधायकत्वादन- लकारतैचेत्यपकृष्टत्वेन तृतीयः प्रकारस्तु न संभवतीति। अन्ये अवान्तरचमत्कारविशेषविरहात् द्वैविध्यमापि नेति वदन्ति। यद्यपि
का रातद्रणयोस्मन्ट्रावादिमौ विशेषोकितो नातिरिच्येते 'कार्या-
Page 267
256 अलंकारमणिहारे
जनिर्विशेषोक्तिस्सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रा- न्तत्वात्। तथाऽपि उल्लासतद्रुणप्रतिद्वीद्विना विशेषाकारेणालंका- रान्तरतया परिगणितावित्याह्ः॥ इत्यलंकारमणिहारे तह्रुणसरोऽशतितमः
अथानुगुणसरः (८१)
स्वसजातीयगुणवदन्यसांनिध्यतो यदि। उत्कर्ष: पूर्वसिद्धस्य गुणस्यानुगुणं हि तत्।। स्वसमानगुणवदन्यसन्निधानात्प्राग्विद्यमानस्वकीय गुणोत्कर्ष- वर्णनमनुगुणालंकारः। अयं च जयदेवोपकमम्। यथावा- संसिद्धित इन्दीवरसंसद्वितरुचि ततोऽञ्जनेना- क्तम्। त्रिगुणाञ्जनमिव रमणावलोकने तद्रु- चाम्ब तव नयनम् ॥ १८३४॥ संसिद्धितः स्वभावतः 'संसिद्धिप्रकृती समे' इत्यमरः। इन्दीवराणां संसत् सभा समूहः तस्या: हितं तत्सदशमिति याव- त्। अत्र प्रकृत्यैव सिद्धस्य लक्ष्मीनयनश्यामलिम्नः अञ्जनादिना उत्कर्ष:॥
नवपद्मराग काश्चीछविमसृणितकनकवसन जनि- यथावा-
तरुचा। छुरितं तव जगदम्ब स्फुरति वपुर्दिव्य- मतिपिशङ्गतया ॥ १८३५॥ इत्यलंकारमणिहारे अनुगुणसर एकाशीतितमः
Page 268
मीलितंसरः (८२) 257
अथ मीलितसरः (८२)
न दृश्यते भेद एव सादश्याद्यदि मीलितम्। सदशयोर्वस्तुनोस्सादृश्यान्ेदानभिव्यक्तौ मीलितं नामालं- कार: ॥
यथा- काश्चन्यनुलेपनमिह काश्चनगौरे मुहुस्तव क- पोले। विदधानं तददर्शनखिन्नं स्वित्नं पतिं हससि पद्मे। ९८३६॥ हे पझे! काञ्चनी हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः । तच्चूर्णमिति यावत् । तस्या: अनुलेपनं परिणयो- त्सवादाविति भावः । काश्चनगौरे तव कपोले मुद्ठः विदधानं तस्यानुलेपनस्यादर्शनन सावण्याद्विविच्याग्रहणेन खिन्नं टथैव मम प्रयासोऽजनीति खेदशालिनं अतएव स्विन्नं प इससि। अत्र
वसाय:॥ यथावा- इ्यामलविकसितकुवलयकोम ल रूपे निसर्गसु- रमिणि ते। अलिके मुरहर मृगमदतिलकमिदं केन नाम जानीयाम्॥ १८३७॥ अत्र श्यामलिमसौरभाश्यां श्रीनिवासफालमृगम तिलकयो-
ALANKARA_III 33
Page 269
258 अलङ्कारमाणेहारे
प्राचां मते त्वेवं लक्षणम् - वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा । पि- धीयते वस्तुना चेन्मीलितं तदुदाहृतम्॥ यत्र प्रबलेन केनचिद्वस्तुना स्वाभाविकेनागन्तुकेन वा स्वनिगूह्यवस्त्वन्तरसाधारणेन स्वगतेन तुल्येन लिङ्गेन चिह्नन वस्त्वन्तरं पिधीयते निगूह्यते तत्रोभयत्रापि मीलितं नामा- लंकारः। वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्वलीयसा तद- न्यस्य स्वरूपतिरोधानं मीलितमिति निष्कर्षः । न चात्र 'ताटङ्क- वज्ररुचिमर' इत्यादिवक्ष्यमाणत्सामान्यान्न वैलक्षण्यमिति वाच्यं, यत्र वस्तुद्वयस्य लिङ्गसाम्ये सति तयोमंध्ये केनचिद्वलिना तद- न्यस्वरूपमेव तिरोधीयते तत्र मीलितं; यत्र तु स्वरूपप्रतीता- वपि गुणसाम्यान्रेदतिराधानं तत्र सामान्यमिति वैलक्षण्यात्॥ यथा- काकुत्स्थस्य निसर्गादरुणिमकान्ते विलोचन- युगान्ते। क्रोधोदयं नदीनां नाथो नाविददतश्विरं स्तब्घ:॥। १८३८ ॥ यथावा- लक्ष्म्या: कपोलफलके निसर्गगौरे हिरण्यव- र्णायाः । प्रणयाद्रोषो योऽजन्यथोक्षजेनापि स किल नाजायि॥ १८३९ ॥ यथावा- स्मितललितं तव वदनं स्वत एव विकासि-
Page 270
सामान्यसर: (८३) 259
तामरसनयनम्। कृतपदमप्यम्ब स्वयि कुत एव नतेष्वनुग्रहं विद्याम् ॥ १८४०॥ अतएव स्तब्य: स्वात्मानमप्रदर्शयन्नवस्थित इत्यर्थः। अत्राद्ये काकुत्स्थदगन्तेन स्वस्य नैसर्गिकेण स्वनिगूह्यकोधोदयसाधा रणेन चारुणिमरूपेण लिङ्गेन क्रोधोदय आगन्तुको निगूह्यते। द्वितीये तु श्रीकपोलफलकेन स्वस्य स्वतस्सिद्धेन स्वगोपनीयरो- षसाधारणेनारुण्येन लिङ्गेनागन्तुको रोषो निगूह्यते। तृतीये तु श्रियो वदनेन स्वस्य स्वाभाविकेन स्वनिगूहितव्यानुग्रहसाधार- णन स्मितललितत्वादिना लिङ्गेन स्वाभाविकोऽनुग्रहो निगूह्यत इति विशेष: ॥
धनुषि रवावुषसि हरिं वृषशिखरिण्यश्चतां यथावा-
सरोमाश्चम्। भक्ति: कृतास्पदाऽपि व्यक्तिं नोपै- ति हृदि सकम्पानाम्॥ १८४9॥ अत्रागन्तुक हेमन्तसमयजनितपुल ककम्पलक्षणनिगूहितव्य- साधारणधर्मरूपेण लिङ्गेन भक्ति: स्वरूपत एव तिरोधीयते। इत्यलंकारमणिहारे मीलितसरो द्वयशीतितमः
अथ सामान्यालंकारसरः (८३)
न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम्॥ अनेकस्य वस्तुनस्साम्येन यत् व्यावर्तकधमानुप लम्भः तत्सामान्यं नामालंकारः।।
Page 271
260 अलङ्कारमणिहारे
वर्षावनविहतौ घनवलये त्वां वृषगिरीश जल- यथावा-
धिसुता। तां च न काश्चनवर्णी विद्युत्सु भवा- न्विविच्य नागृह्लात् ॥ १८४२॥ मीलितालंकारे सर्वात्मना भेदस्यैव सामान्यधर्मनिबन्धनस्य तत्तद्वयक्तित्वादिविशेषनिबन्धनस्य चातुपलम्भः, सामान्ये तु व्यक्तीमां परस्परभेदावबोधेऽपि परस्परव्यावर्तकधर्मानुफलम्भ- मात्रं सादृश्यादुपनिबध्यत इति भिदा। मीलितालंकारोदाहरणे
नुलेपनगौरत्वादिकं न भासते। सामान्योदाहरणे तु भगवल्लक्ष््यो- रधनविद्युतोश्च व्यक्त्न्तरत्वेन भानमस्त्येव। किंतु अय भगवान् अयं घनः इय लक्ष्मी: इयं विद्युदिति विशेषस्तु नोपलक्ष्यते। अत- एव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तका-
यथावा- मधुमथन श्लथमलिके तवालकं तिलकमपि जनो भिन्नम्। अतिमात्रभिदायामपि सहसा बहु- वर्णसाम्यतो नावैत् ॥ १८४३ ॥। हे भगवन्! जनः तव अलिके ललाटे श्रथ: अलकं तिलकं मृगमदतिलकं च अतिमात्रभिदायां सत्यामपि अतिवेलभेदे सत्यपि पक्षे अवर्णतिवर्णांभ्यां भेदे सत्यपीत्यर्थः। बहु यत् वर्णस्य नीलव- र्णस्य साम्यं तस्मात् पक्षे बहूनां लकारादीनां वर्णानां साम्यात् भिन्नं विशेषवत् नावैत्। अत्रालकतिलकयोर्भिन्नयोरेव सतोर्वर्ण- साम्यान्न विशेषग्रहणम्। चमत्कारान्तरं तु पूर्वस्माद्विशेषः।
Page 272
सामान्यसर: (८३) 261
यथावा- नैल्यं घनेडस्ति माघव तौल्यं तस्यास्ति विग्रहे भवतः । नैतौ विशेषभाजौ ज्ञातौ तावन्ततस्स- दशवर्णो॥ १८४४ ॥
इयं घनागमे वने विहरन्तं भगवन्तं श्रीनिवासं प्रति क- स्यचिदुक्तिः । हे माधव! घने मेधे नैल्यं श्यामलिमा अस्ति अत एव तस्य घनस्य तौल्यं भवतः तव विग्रहे वपुषि अस्ति अत एव सदशवर्णौ तुल्यवर्णो तावेतौ घनभगवद्विग्रही अन्ततः दूरं पर्यालोचने इति यावत्। विशेषभाजौ वैलक्षण्यभाजौ न न भवतः द्वयोरपि नीलत्वादिति भावः । पक्षे तावेतौ नैल्यं तौल्यमिति शब्दौ तावेताविति पुल्लिङ्गनिर्देशो विशेष्यकटाक्षेण। अन्ततः अन्ते सहशः वर्णः ल्यमित्याकारकवर्णः ययोस्तौ। नै तौ इति वर्णाभ्यां विशेषभाजौ वैलक्षण्ययुजौ ज्ञातौ इत्यर्थः। नैल्य तौल्यशब्दयोस्ता्यामेव विशेषदर्शनादित्यर्थोऽपि चमत्कारी। अत्रापि पूर्ववदेव॥ प्राचां मते त्वेवं लक्षणम्- गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत्। ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम्॥ यत्र वस्तुतः प्रस्तुतात् भिन्नमस्य प्रस्तुतं गुणसाम्यविव- क्षया प्रस्तुतात्पृथगप्रतीयमानतया निबध्यते तत्र योगात् समा- नगुणसंबन्धरूपात् सामान्यं नामालंकारः । वस्तुद्वयस्य पृथक् स्वरूपप्रतीतावपि गुणसाम्यान्भ्ेदतिरोधानं सामान्यमिति तु नि- ष्कर्षः । अस्य च मीलिताद्वैलक्षण्यं तत्रैव निरूपितम्। तद्गणे
Page 273
262 अलक्कारमणिहारे
तु स्वगुणपरित्यागपूर्वकोऽन्यगुणपरिग्रहः । इह तु स्वगुणमपरि- त्यज्यैव तुल्यगुणादन्यस्मात् पृथगविभाव्यमानतेति ततो भिदा। यथा- केयूरयुगळखचिता मायूररुचिर्हरिन्मणीश्रेणी। हरिदिव्यविग्रहरुचा लब्धाद्वैता विविच्य ना- ग्राहि ॥ १८४५॥ यथाघा- ताटङ्कवज्जरुचिभरकबळितरूपा तवाम्ब रद- नाळी। निपुणनिरूपणकुशलैरपि नैव पृथक्तया जनैर्जज्ञे ॥ १८४६॥ अत्राद्येउ दाहरणे प्रस्तुतभगवद्दिव्यविग्रहरुच्यपेक्षया हरित गुणसाम्याद्प्रस्तुतगारुत्मतमणीश्रेण्याः पृथगविभाव्यमानतोक्ता। द्वितीये तु अप्रस्तुतान्ताटङ्कवज्ररुचिभरात् धवलगुणसाम्यात्प्रस्तु- ताया लक्ष्मीरदनावळ्याः पृथगप्रतीयमानता निबद्धेति भेदः । एवंच एतन्मते 'पझ्माकरप्रविष्टानां मुखं नालक्षि सुभ्नुवाम्' इत्यन्यदीये पद्ये 'वर्षावनविहतौ' इत्यास्माकीने पद्ये च मुख- पझ्मादीनां मेदावभासेऽप व्यावर्तकास्फुरणदलंकारान्तरेण भा- व्यम्। स्वरूपातिरोधानेन मीलितासंभवात् भेदातिरोधानेन सामान्यस्याप्यसंभवात् ! यद्वा गुणसाम्याद्विशेषाग्रह इति सा- मान्यालंकारसामान्यलक्षणम्। विशेषाग्रहश्च क्वचिन्भेदे गरृह्य- माणे क्चिच्चागृह्यमाणे इति कल्पयित्वा तदवान्तरभेदेन भा- व्यम्। प्राथमिके 'न दृश्यते भेद एव सादृश्याद्यदि मीलि- तम्' इति मते-
Page 274
उन्मीलितसरः (८४) 263
अपाङ्गतरळे दशौ तरळवक्रवर्णा गीरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते।। इति प्राचीनपद्ये तन्मीलितादाहरणे 'धनुषि रवाबुषसि हरिम्' इत्यास्माकीने पद्ये च स्वरूपतिरोधानस्थले स्वरूपतो ज्ञायमाने वस्तुद्वये सादृश्यान्रेदाग्रहणे मीलितमिति लक्षणे अञ््युपगम्यमाने अलंकारान्तरेण भाव्यम्। सादृश्यान्व्ेदाग्रहण- मित्येतावन्मात्रं मीलितमिति लक्षणाङ्गीकारे मीलितावान्तरमेदेन भाव्यमिति व्येयम्। सर्वमिदं कुवलयानन्दे स्पष्टम्।।
इत्यलंकारमणिहारे सामान्यसरस्त्रयशीतितमः
अथोन्मीलितसरः (८४)
स्फूता समानगुणयोर्भेदस्योन्मीलितं विदुः। गुणसाम्येन भेदानव्यवसाये प्राप्ते केनापि निमित्तेन भेद- स्फूर्तो मीलितप्रतिद्वंद्वि उन्मीलितम्॥
यथा- तीरे विहृतिजुषस्तव पूरे गात्रद्युतेस्सरति शौ- रेः। तन्मिलितां दुमणिसुतां शैशिर्येणैव जानते गोप्य:।। १८४७।।
Page 275
264 अलक्कारमणिहारे
अत्र नीलगुणसाम्येन भगवाद्दिव्यविग्रहरुचिपूर भेदानध्यव- साये प्राप्ते शैशिर्येण निमित्तेन यमुनायास्ततो भेदस्फूर्तेरुन्मी- लितम्। तङ्गुणरीत्या मेदानध्यवसायप्राप्तावपीदं दृश्यते। यथावा- शीतद्ुतिविद्योतैः श्वेतद्वीपति चराचरे निखि- ले। रासविलासे माधवमेणदशो वेणुनादतोऽन्व- बुधन् ॥ १८४८ ॥.
गुणग्रहणलक्षणतद्गुणालंकारप्रापितभेदानध्यवसायोपनतौ वेणुना- देन निमित्तेन भगवतस्ततो भेदस्फुरणम्। अन्वबुघत्नित्यत्र 'बुधिर् बोधने' इत्यस्मान्भरौवादिकाल्लङ्। इदित्वात् च्लेरङ्। प्रयोगश्च-'स च काकुत्स्थ नाबुघत्' इति ॥ इत्यलंकारमणिहारे उन्मीलितसरश्चतुरशीतितमः.
अथ विशेषकसरः (८५)
द्वयोत्वैधर्म्यसंस्फूर्तौ तुल्ययोस्स्याद्विशेषकः । भेदतिरोधानाभावेऽपि सादश्याद्विशेषास्फुरणे प्राप्ते केन- चिन्निमित्तेन विशेषस्फूर्तौ सामान्यप्रतिद्वंद्वी विशेषकः ॥ यथावा -- त्वत्कृपया मुक्तानां चतुर्भुजत्वादिलक्ष्मणि स- माने। वक्षस्स्थितया लक्ष्म्या त्वां किल निश्चिन्व- तेडभिनवमुक्ता:।।१८४९॥
Page 276
विशेषकसर: (८५) 265
अत्र मुक्तानां भगवतश्च मेदतिरोधानाभावेऽपि चतुर्भुजत्वेन सादृश्याद्विशेषास्फुरणे प्राप्ते लक्ष्मीस्फुरदुरस्कत्वेन भगवतो विशेषस्फूतेर्विशेषक: ॥
यथावा- सममसितासु स्वरुचा कमलादिषु नाभ दिव्य- महिलासु। सरसिजसौरभविभवाभावे पद्मा त्व- याऽपि दुरवगमा ॥ १८५० ॥ अत्र भगवत्या: पझ्मायाः स्वगुणत्यागपूर्वकभगवच्छयामलि-
मनि तद्धतकमलसौरभेण विशेषस्फूर्तिरिति पूर्वस्माद्विशेषः। इमौ द्वावप्यलंकारौ दीक्षितोपक्रमे एव।।
प्राश्चस्तु-"भेदवैषम्ययोः स्फूर्ती नालंकारद्वयं कल्प्यं किंतू- कालंकाराभावमात्रं, भेदवैजात्यस्फुरणयोः स्वतस्सिद्धतया कवि- प्रतिभागोचरतासूलकवैवित्यविरहात्। न च मीलितसामान्य- रीतिभ्यां भेदविशेषस्फूती तदपवादवर्णनकृतवैचित्रयसन्भावाद- लंकारान्तरकल्पनं युक्तमिति वाच्यं, तावता वैचित्र्याभावता- दवस्थ्यात्" इत्याहुः। पण्डितराजस्तु इमामनुमानेऽन्तर्भा- वयति स्म ॥
इत्यलंकारमणिहारे विशेषकसरः पश्चाशीततमः
ALANKARA_III. 34
Page 277
266 अलंक्कारमणिहारे
अथोत्तरालंकारसरः (८६)
उन्नीतप्रश्नमथवा निबद्धप्रश्नमुत्तरम्। साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम्॥ यत्र 'उत्तरात्साकृतान्निबध्यमानात्प्रश्न उन्नीयते तत्रेदमुत्त रम्। न चेदमनुमान, पक्षधर्मत्वादिनिर्देशविरहात्। असकृत्प्- अ्प्रतिपादनपूर्वकं साकूतमुत्तरं द्वितीयम्। इदमेव गूढोत्तर- मिति व्यवहियते। यथा लक्षितं कुवलयानन्दे-'किंचिदाकूत- सहित स्याद्रढोत्तरमुत्तरम्' इति। नेयं परिसंख्या, तद्वदत्र व्यव- च्छेद्यव्यवच्छेदकभावस्याविवक्षितत्वात्।। तत्राद्यं यथा- तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम्। काळिन्दीतटकुञ्जे कामं दी- व्यति हि तत्र सुलभैषा ॥ १८५१॥ इदं स्वयूधाच्चयुतां गां विचिन्वन्तं भगवन्तं नन्दनन्दनं प्रति तं कामयमानाया गोपकामिन्या उत्तरं कालिन्दीतीरनिकु- ञ्ेऽस्तु स्वाच्छन्दयमावयोरित्याकृतगभम। गोपप्रश्नोऽत्रोन्नीतः। गामपृष्टाया गवावस्थानकथनस्यायोगात्॥ द्वितीयं यथा- किं चिन्तयसे भद्रे किं त्वयि कथनेन शाम्यति ममैतत्। ब्रूहि तथाऽपिच शृणुयामविदन्निव कृष्ण पृच्छस विचित्रम् ॥ १८५२॥
Page 278
उत्तरसर: (८६) 267
किं चिन्तयसे भद्रे इति कांचिद्रोपललनां प्रति भगवतः कृष्णस्य प्रश्नः। किं त्वयीत्यादि तस्या उत्तरम्। अत्रादयस्य प्रश्नस्य चिन्ताहेतुं चेवदसि तदा प्रतिकरिष्यामीति व्यङ्गयम्। उत्तरस्य तु उपभोगेन विना केवलप्रश्नोत्तराश्यां क: प्रतीका- रस्स्यादिति। द्वितीयस्य तु प्रश्नस्य ज्ञात एव त्वदभिप्रायः। अथापि त्वद्वदनात्तं शुशूषेयेत्यभिसंध्युद्धाटनम्। उत्तरस्य तु ज्ञात एव त्वया मदभिप्रायः ककि पुनःपुनः प्रश्नकालयापनेनेति। उन्नीतप्रश्ने सकृदुत्तरस्य चारुत्वं, निबद्धप्रश्ने तु प्रश्नोत्तरयोरस- कृदुपन्यासे तत्। अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नो- त्तरयोरन्यतरस्योभयोरपि साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधेति प्रा्चः। तत्र प्राथमिके 'तत इतः' इति पद्ये उन्नीतः प्रश्नः किं गौस्त्वया मदाया दष्टेत्याकारक- श्चतुरसार्वभौमेण भगवता कृष्णेन वक्रा वैशिष्टयात्सभोगरुपे- णाभिप्रायेण गर्मितः। उत्तरमपि तेनैवाभिप्रायेण गर्मितम्। एवं निबद्धप्रश्ने 'किं चिन्तयसे' इति पद्येऽपि प्रश्नोत्तरयोरुभयोरपि साभिप्रायत्वम्। एवमन्यतरसाभिप्रायप्रभेदा अप्युदाहार्याः॥ प्रश्नोत्तरयोरुभयोरपि निरभिप्रायत्वे उन्नीतप्रश्नमुत्तरं यथा- इह वाऽमुष्मिन्वा त्वं बहुसुखमविगम्य वस्तु- मिच्छसचेत्। वृजिनपर्थं विजहदिमं भुजगगिरी- न्दुं भजस्व निश्शङ्कम् ॥१८५३ ॥ वृजिनपर्थं कुटिलमार्ग दुर्तिसरणि वा। अत्र कस्यचि- द्वितैषिणः पुरुषस्य कंचित्पुमांसं प्रत्युत्तरेण तत्कर्तृकस्वहिता- नुशासनप्रश्न उन्नीयते। तादृशप्रश्नमन्तरेण हितानुशासनायो-
Page 279
268 अलङ्कारमणिहारे
गात्। अत्र प्रश्नोत्तरयोरुभयोरपि निरभिप्रायता, यथाऽवस्थिता- र्थज्ञाननिवेदनपरत्वात्। यथावा- क्षगवद्रागवतार्चनहेतोस्तृणमपि न जातु वि- तरेयम्। इति यदि कृतः परः पण एष हि कपणः कदर्यपर्यायः ॥ १८५४॥ इति परः अतिशयितः पणः कृतो यदि येनैव प्रतिज्ञा कृतेत्यर्थः । एष हि अयमेव कृपणः इतोऽप्यन्यः कः कृपण इति भावः। अमुमेव विशिनष्टि-कदयेति। अर्यो वैश्यः 'अ- र्यस्स्वामिवैश्ययोः' इति निपातितोऽयम्। कुत्सितश्चासावर्यश्च कदर्यः 'को कत्तत्पुरुषेऽचि' इति को: कदादेशः । तस्य पर्यायः स पवायं रूपान्तरमापन्न इति भावः। वैश्य एव निसर्गतः कृपणः तत्रापि कुत्सितत्वे तस्य कार्पण्यं किमु वक्तव्यमिति भावः। पक्षे पणः पणशब्दः कृतः कृवर्णात् आद्याित्वात्पञ्च- म्यास्तसिः। परः अनन्तरभावी यदि एष एव कृपण: कृप- णश्द: कदर्यपर्यायः कदर्यशब्दपर्यायतया पठितः। 'कदयें कृप- णक्षुद्राकंपचानमितंपचाः' इति। अत्र का कृपण इति प्रश्न उन्नेयः। प्रश्नोत्तरयोरद्वयोरण्यनाकूतत्वं च पूर्ववदेव। उपदर्शित- चमत्कारस्तु विशेषः । तत्रैव निबद्धप्रश्नमुत्तरं यथा- गन्तव्यः कोडहिगिरिर्मन्तव्यं किं वृषाद्रिपति- चरितम्। नन्तव्यः कोऽव्जाक्षो रन्तव्यं क्वैतदभि- मते देशे ॥ १८५५॥
Page 280
उत्तरसर: (८६) 269
यथावा- ध्येयं किं ब्रह्म परं ज्ञेयं किं तत्स्वरूपरूपगु- णम्। गेयं किं तस्य यशः पेयं किं तदभिधान- निभममृतम् ॥ १८५६॥ स्वरूपरूपगुणमिति समाहार्द्वंद्वः । अभिधानमिति निभो व्याजो यस्य तत्। अत्र सर्वे प्रश्ना निबद्धाः । प्रश्नोत्तरयो- रुभयोरपि पूर्ववन्निरभिप्रायतैव।। का त्वं का वा किं तव गच्छस्येकाकिनीति पृ- च्छामि। त्वं किल बहुसाह्यकरः पृच्छास गोविन्द वेध्यि तव वचनम् ॥ १८५७॥ अन्न का त्वमिति कृष्णस्य प्रश्नस्स्वोधभोगार्हताभिप्रायगर्भः। का वा किं तवेति गोपकामिन्या उत्तरं कि वृथाप्रश्नमात्रेणेत्य- भिप्रायगर्भम्। गच्छस्येकाकिनीति पृच्छामीति पुनः कृष्णस्य प्रश्नस्तु स्वाच्छन्द्यसकर्याभिप्नायकः। त्वं किलेत्यादिसोपाल- म्भोत्तरं तु त्वं केवलवाद्त्रचपल: नतु स्वैरविहारसाहसिक इत्यभिप्रायगर्भम्। इदं च पद्यं चतुर्णामपि निबद्धप्रश्नभेदाना- मुदाहरणतामर्हति वक्तृवैदग्ध्यावैदृग्ध्यव्यवस्थयेति॥ अत्र जगन्नाथ :- अलंकारे ह्यस्मिन् प्रश्नोत्तरगतमसकदुप- निबद्धत्वं जीवातुः, तथैव चमत्कारोदयात्। तेन सकृत्प्रश्नस्य सकृदुत्तरं नालङ्कारभूमिः। न चोन्नीतप्रश्नोत्तरे अव्याप्तिः। उन्नी-
प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम्। किंतु प्रश्नो- त्तरपरंपरायां प्राचीनोत्तरश्रवणजन्यत्वमात्रमित्यभाणीत् ।।
Page 281
270 अलङ्कारमणेहारे
यथा- क्व गमिष्यस्यहिशैलं कि तत्रास्त्यद्धुतं परं त- त्वम्। तत्कीदक् सश्रीकं का श्रीर्यस्या विभूतिर- खिलमिदम्॥ १८५८॥
अत्रः कि तत्रास्तीति प्रश्नः अहिशैलमित्युत्तरश्रवणादुद्गत इत्युन्नीत उच्यते। आद्यः प्रश्नत्स्वनुन्नतोऽपि उत्तरोत्थापनार्थ निबद्ध इति। एवंचास्मितमते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्य- नुदाहरणान्येव। अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीत- त्वनिबद्धत्वास्यां, किंतूत्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम्। वस्तुतस्तु प्रश्नोत्तरयोराकूतगर्भत्वे तावतैव चमत्कारान्नासकृदुपादा ना पेक्षा । आकृतविरहे तु असकदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्ध- पश्ने। आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सह- दयाः तदा सकृदुपादानेऽप्यलंकारत्वमस्तु॥ तत्र निबद्धप्रश्ने प्रश्नस्य साकूतत्वे सकृदुपादनिऽपि चम- त्कारो यथा- सल्लपसि चेत्सुमुखि ते वदनात्किं मौक्तिकानि विगळन्ति। सल्लापं नागरकं वल्लव्यो वयामेमाः क्व विझ्योऽङ्ग ॥ १८५९॥
अत्र सल्लासि चेदित्यादिपश्नः भगवता नन्दनन्दनेन कृतस्सं- भोगाभिमुख्यसंपादनाकृतगर्भः । सल्लापं नागरकमित्यादिकमुत्तरं तु ऋजुबुद्धया वल्लव्या दत्ततया निराकूतमेव। वदनात्किं मौ- किकानि विगळन्तीति लोकोक्तिः॥
Page 282
उत्तरसषर: (८६) 271
तत्रैवोत्तरस्य साकूतत्वे सकदुपादाने न्रमत्कृतिर्थथा- लभ्येत किमङ्ग सुमं द्युमणितनूजातटद्रुकुज्जैषु। सुलभतमं तत्र सुमं भवादशां मृगद्शामपि न- ताङ्गि ॥ १८६०॥ अत्र लभ्येत किमङ्गेत्यादिप्रश्नः कयाचिद्गजललनया ऋजु- बुद्धया भगवन्तं यशोदानन्दनं प्रति कृतो निराकूतः। सुल. भतममित्यादि भगवत उत्तरं तु तत्र संभोगस्वाच्छन्द्याकूतग- रभम्। आकृतविरहे असकृदुपादानकृतश्चमत्कार: क्व गिष्य- सीत्यत्र गदित एव । प्रकारान्तरेणाप्यस्य भेदास्संभवन्ति। पद्यान्तर्वर्तित्वेन पद्यबाहिवर्तित्वेन तावद्वैविध्यम्। तत्नाद्यस्था-
रान्तरश्च बहुप्रमेदत्वमित्यालंकारिकशेखरो रसगङ्गाधरकारः । अयमेव प्रभेदश्चित्रोत्तरमिति दीक्षितैः पृथगुक्तः॥ चित्रोत्तरमलंकार: प्रश्नाभिन्नोत्तरं भवेत्। यञ्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते।। प्रश्नाभिन्नमुत्तरं उत्तरान्तराभिन्नमुत्तरं च चित्रोत्तरमित्यु- चयते।।
कङ्कमनैषीद्रगवान् संकल्पेनैव शाश्वतैश्वर्यम्। यथा-
इति पृच्छते तदेवोत्तरमिति कस्मैचिदाह कवि- रक: ॥१८६१॥ 1
Page 283
272 अलंकारमणिहारे
भगवान् संकल्पमात्रेणैव कङ्क चेतनं, विस्मये वीप्सा। तथाचोक्तं- प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च। भये च विस्मये चैव पौनःपुन्यमलंकृतिः॥ इति। शाश्वतैश्वर्यमनैषीदिति प्रश्नः कङ्ं गृध्रविशेष जटायुष- मनैषोदित्युत्तरं प्रश्नाभिन्नं निबद्धम् । कङ्कमित्यत्र 'वा पदा- न्तस्य' इति वैकल्पिक: परसवर्णः॥
यथावा- मृद्दी का परिभूता मृद्या स्वाद्या मुकुन्दवा- चेति। पृच्छामेवोत्तरतामनयत कस्यापि कोडपि कविराज: ॥ १८६२॥ अत्र मृद्धी मृदुः का परिभूतेति प्रश्नस्य मृद्धीका द्राक्षा परिभूतेति तदभिन्नमुत्तरम्॥ यथावा- कमलं करोति हस्ते कमला कमलालया प- रिष्कारम्। इत्यनुयुक्ता काचन सख्या चित्रोत्तरं तदेवाह ॥ १८६३॥ कमलालया पद्मगेहा कमला श्रीः हस्ते अलं कं परिष्कारं अलंकारं करोतीति प्रश्नः। कमलं पदमं करोतीति तदभिन्न- मुत्तरं पझमं परिष्कारं करोतीत्यर्थः । चित्रोत्तरमित्यलंकारस्य सूच्यस्य सूचननुद्रालंकारस्त्वत्र विशेषः॥
Page 284
उत्तरसर: (८द) 273
यथावा- पुरुष: फणधरशिखरिणि कस्तूरीकृतललाम- को भाति। ब्रूहि सखे किं ब्रूयामुत्तरमत्रानुयोग एव स्यात् ॥ १८६४॥ कः तु ऊरीकृतललामकः इति प्रश्नपक्षे छेदः। तुशब्दः प्रशंसायां भेदे वा। 'तु पादपूरणे भेदे समुचयेऽवधारणे। पक्षान्तरे वियोगे व प्रशंसार्या विनिग्रहे' इति मेदिनी। फ- णधराशखरिणि एतेषु पुरुषेषु कः पुरुषः पुनः ऊरीकृतलला- मकः प्रशस्ततया भातीति प्रश्नः। कस्तूर्या कृतललामका विर- चितविशेषकः पुरुषो भगवान् श्रीनिवास एव भातीत्युत्तरं तद- भिन्नं निबद्धम्। 'ललामं पुच्छपुण्ड्राश्वभूषाः प्राधान्यकेतुषु' इत्यमर: ॥ यथावा-
निजं वक्षः । इति यः प्रश्नस्तस्य स्वयमुत्तरतां स एव बत धत्ते ॥ १८६५॥ द्विरसनकुलपतिगिरिधाम्ना हरिणा निजं वक्षः का अनायीति प्रश्नः। नायिकाऽनायीत्युत्तरमभिन्नवाक्योद्गीर्णम्। नायिका दाय- ता श्रीः वक्षः अनायि प्राप्यतत्यर्थः ॥
सत्यं ब्रूयात्पुरुषस्त्रिभुवनजननाय कः प्रगल्भे यथावा-
त। किंनु ब्ूयां पुरुषस्त्रिभुवनजननायकः प्रग- ल्मेत ॥| १८६६ ॥ ALANKARA-III, 35
Page 285
274 अलंकारमणिहारे
त्रिभुवनजननाय त्रिलोकीसर्जनाय क: पुरुषः पुमान् प्रग- ल्भेतेति प्रश्नः। किं नु ब्रयामिि अजानत इवोत्तरंम्। त्रिभुवन- जनानां नायक: अधीशः पुरुषः 'अथ पुरुषो ह वै नाराय- णोडकामयत प्रजास्सृजेयेय' इति श्रुतः भगवान्नारायण: प्रगल्भे- तेत्युत्तरान्तरं च ।। यथावा- कान्ते प्रीतिं विदधात्वात्मन्ययमिति कृतां स्व- दयितेन। पृच्छामेवोत्तरयद्विडम्बयन्तीव सस्मितं लक्ष्मी: ॥१८६७॥
अय त्वद्वशवर्तीति साभिनयं स्वस्य निर्देशः। ते आत्म- नि मनसि कां पीति विदधात्विति प्रश्नार्थः। कान्ते वल्लभे आत्म- नि त्वाय विषये अयं त्वमिति भावः । प्रीति मम विदधातु इत्युत्तरार्थः । त्वद्विषयकप्रीत्या विना नान्या मम मनसि प्रीति- र पेक्षणीयेति भावः। अत्रापि प्रश्नोत्तरयोरभिन्नवाक्यनिबद्धत्वम्।। यथावा ममैव रङ्गराजिलासे- मोदं वह साख मे वद को दण्डधरो दशानन- कुलस्य। इति काचिच्चतुरा निजपतिना पृष्टोन्तरं तदेवाह॥ १८६८॥
दशाननकुलस्य दण्डघर: क इति प्रश्नः कोदण्डधर इत्यु- त्तरं चामिन्नवाक्यगतम्।। यथावा- सौमित्रिणा दशास्यस्वसुरमुखे ब्रूहि काडसिना
Page 286
उत्तरसरः (८६) 275
लूना। जानासि पठ विलोमं पृच्छायां कासिनेति वर्णास्त्वम् ॥ १८६९॥ अत्र कासिनेति प्रश्नो विलोमपठित उत्तरतां प्रपद्यत इति वैचित्रचं विशेष: । हदृदशान्युदाहरणानि ममैव श्रीनिवासविलास- नृसिंहविलासादिषु प्रबन्धेषु भूयांसि द्रष्टव्यानि॥ एवं प्रश्नाभिन्नोत्तररूपश्चित्रोस्तरालंकारो निरूपितः । उत्त - रान्तराभिन्नमुत्तरं यथा- स्वाराज्ये कीदक्षः पुनरस्थापि श्रिया सहस्रा- क्षः । अथ पर्यभवन्दैत्यांस्तद्विमुखान्का निगद्य- तां विपदः ॥ १८७०॥ अत्र प्रश्नद्वयस्यापि विपद इत्येकमेवोत्तरम्। विगतं पदं स्वाराज्यस्थानं यस्येत्येकवचनान्तविपदशब्देन प्रथमप्रश्ने इन्द्र- विशेषणतया योजितेनोत्तरम्। द्वितीये तु विपदः आपद: इति बहुवचनान्तेन विपच्छब्देनोत्तरमिति ध्येयम्॥। अनिलात्मंभरिवरगिरिनिलयस्य चकास्ति की- दशो विभवः। तत्तनुरुचिकालिम्रा नुत्तमदा: के निगद्यतामलयः ॥। १८७१॥ अत्र श्रीनिवासस्य विभवः कीडश इति तद्विग्रहश्याम- लिस्ना निरस्तमदाः के इति च प्रश्नद्वयस्यापि अलय इति उत्त- राभिन्नमुत्तरम्। आद्ये अलयः लयरहितः नित्य इत्यर्थः। द्वितीये अलयः भ्रमरा इत्यर्थः ॥
Page 287
276 अलंकारमणिहारे
यथावा- सिंहगिरिनाथवाहनरंहसि कीदृग्विभाति पव- मानः। तद्दोदण्डविधूता वेपन्ते के डभ्युदीर्यता- मरयः ॥ १८७२ ॥ अत्रापि प्रश्नद्वयस्योत्तरं अरय इत्यभिन्नमेव। अरयः वेग- हीन इति प्रथमस्योत्तरेऽर्थः । अरयः शत्रव इति द्वितीयस्येति ध्येयम् ॥ यथावा-
क्षाः। आर्तानां कि भविता ज्ञानी कीढक्ततो भवे- द्विभवः ॥ १८७३॥ अत्र प्रश्नन्रयस्यापि विभव इत्येकमेवोत्तरमिति पूर्वेभ्यो विशेषः । अर्थार्थिनः अपूर्वैश्वर्यकामाः विभवः प्रभवः भवेयु- रिति प्रथमस्य प्रश्नस्योत्तरम्। आर्तानां भ्रष्टैश्वर्यकामानां विभवः ऐश्वर्य भवितेति द्वितीयस्य। ज्ञानी भगवन्तमेव परमप्राप्यं प्रापकं च मत्वा उपासीन: विभवः विगतसंसृतिर्भवतीति तृती- यस्येति बोध्यम्॥
हरियशसा का विशदाः कीदृश्यस्तत्तनुत्विष- यथावा-
स्ताभि:। वृषशैलः कीदक्स्यात्कुतश्र निश्श्रेयसं भवेद्धरितः॥। १८७४।। अत्र प्रश्नचतुष्टयस्यापि हरित इत्येकमेवोत्तरमिि पूर्व- स्माट्रैलक्षण्यम्। हरियशसा का विशदा इति प्रथमस्य प्रश्नस्य
Page 288
उत्तरसर: (८६) 277
हरितः दिश इत्युत्तरम् । कीदृश्यः तत्तनुत्विषः हरिविग्रहरुच इति द्वितीयस्य हरितः हरिद्वर्णा इत्युत्तरम् । नीलहरिद्वर्णयोर- भेद: कविसमयसिद्ध इत्यवोचाम वक्ष्यामश्च। ताभिः हरि- तनुरुचिभि: वृषशैलः कीहक् स्थादिति तृतीयस्य हरितः हरित- वर्ण इत्युत्तरम्। 'पालाशो हरितो हरित्' इत्यमरः । कुतः कस्माच्च निश्शेयसं भवेदिति तुरीयस्य हरितः हरे: इति सार्व-
यथाघा- किं वितरति फणिगिरिपतिरङ्गद्युतिवैभवेन किं जयति कं ध्वनयति रिपुविजये कंधरया कं धु- नोति वद शंखम् ॥ १८७५॥ किं वितरति फणिगिरिपतिरिति प्रश्नत्य शं सुखं इत्युत्तरम्। अङ्गद्युतिवैभवेन किं जयतीत्यस्य खं गगनं इति, कं ध्वनयति रिपुविजये इत्यस्य कंधरया कें धुनोतीत्यस्य च शङ्गमिति चोत्त- रचतुष्टयं प्रश्नचतुष्टयादभिन्नम। अत्राद्ययोः पदभेदेन अन्त्ययोस्तु तदभेदेनेति पूर्वतो भेद: ॥ पद्यबहिवर्तिनो यथा- फणिशिखरिणि को निवसति को धूपो घ्राण- तर्पणस्तस्य। किमहारि रहसि हरिणा विद्वन्रुत्तर- मिहैकमेव वद ॥१८७६॥ अत्र प्रश्नत्रयस्याप्येकमेवोत्तरं श्रीवास इति पद्यबहिर्भूतम। आद्ये प्रश्ने श्रीवासः श्रीनिवासो भगवानित्यर्थः । द्वितीये श्रीवासः देवदार्वादनिर्यासविनिष्पादितो धूपविशेष इत्यर्थः। 'श्रीवासो
Page 289
278 अलंकारमणिहारे
षक्षधूपोSपि श्रीवेष्टसरळद्रवी' इत्यमरः । तृतीये श्रीवासः लक्ष्म्या अंशुकमित्यर्थः। एवंजातीयका अन्ये बहवः प्रभेदा बुद्धिमन्द्िरूहनीयाः । अयं पद्यबहिर्वर्त्युचररूपप्रथमप्रभेद उत्त- राभिन्नोत्तररूपप्रभेद एव संभवति। न तु प्रश्नाभिन्नोत्तररूपप्र- थमप्रभेदे, प्रश्नेनैवोत्तरस्यापि निबद्धतया पद्याद्वहिष्ठताया असं- भवात्॥ इत्यलंकारमणिहारे उत्तरसरष्षडशीतितमः
अथ चित्रप्रशनालंकारसरः (८७)
प्रश्नः प्रश्नान्तराभिन्नो यदिवाऽन्यार्थगर्मितः। निबध्यते तं कतिचिञ्चित्रप्रश्नाख्यमूचिरे ॥ प्रश्नस्य प्रश्नान्तराभिन्नत्वे वा अर्थान्तरगर्भत्वे वा चित्रप्रश्ना- ख्यमलंकारं कतिचिदाडुः। अय कौस्तुभकृदुपक्रमम्। यथावा- का कारुण्यनिधिर्नन काकोदरशैलपतिहृदय- वृत्तिः। शारदरविकरविकसितनीरजरुचिरा पदो- र्युगी चास्य।। १८७७। अत्र काकोदरशैलपतेः हृदयउत्तिः चित्तटत्तिरित्युत्तरस्य शारदेत्यायुत्तरस्य च काकारुण्यनिधिरिति प्रश्नान्तराभिन्न एक- एव प्रश्नः । का कारुण्यनिधिः दयानिधिरिति प्राथमिक्यप्रश्न- स्यार्थः। का का आरुण्यनिधिः शोणिमाश्रय इति द्वितीयस्य। काकेति प्रशंसायां वीप्सेत्यवोचाम कङ्कमिति पद्ये।।
Page 290
चित्रप्रश्नसरः (८७) 279
यथावा- तापत्रयातुराणां भवेन्नराणां भुवीह काराका। असतां संगतिरेका सारविदां संगतिस्सताम- न्या ॥। १८७८॥
अत्र उत्तरार्धप्रतिपाद्वितयोरुत्तरयो: काराकेतति प्रश्नान्तरा- भिन्न एक एव प्रश्नः। कारा बन्धनालयः तद्वदतिशयितदुःख- हेतुः केति प्रथमप्रश्नस्यार्थः। का राका पूर्णनिशाकरा पूर्णिमा तद्वत्तापह्त्री केति द्वितीयप्रश्नस्यार्थ:॥
यथावा -- कालीका वृषगिरिपतितनुरथ तद्विमुखवदनवी- क्षा च। काइङ्गा न्यक्चके तत्कीर्तिस्तत्परत्ववि- षया च । १८७९॥
अत्र पूर्वार्धे टषगिरिपतितनुः तद्विमुखवदनवीक्षा चेत्युत्तरद्व- यस्य कालीकेत्येक एव प्रश्नः। काळी श्यामला का इत्येकस्य प्रश्नस्यार्थः । का अलीका अप्रियेत्यन्यस्थ । उत्तरार्धे तु तत्कीर्ति: तत्परत्वविषया चेत्युत्तरद्वयस्य काशङ्का न्यक्चक्रे इत्येक एव प्रश्नः। काशं काशकुसुमं का न्यक्चक्रे इति प्रथमप्रश्नस्य। द्वितायस्य का शङ्का संशयः न्यक्चक्रे तिरस्कृता इत्यर्थः। भग- वत्कीर्तिः काशं न्यक्करोति स्म । भगवत्परत्वविषया शङ्का अवधीरिताऽस्माभिरित्युत्तरयोरभिप्रायः । चक्रे इति प्रथमे प्रश्रे कर्तरि लिट्। द्वितीये तु कर्मणि इति ध्येयम्। पूर्वत्र प्रश्नान्तरा- भिन्नः प्रश्न एकः। अत्र तुद्वौ प्रश्नावितिविशेषः॥
Page 291
280 अलङ्कारमाणहारे
अभ्यार्थगर्मितप्रश्नरूपो द्वितीयश्चित्रप्रश्नो यथा- भामामणि व्यपनयन् कामाकुलतां मुदं तव विदध्याम्। कामपि गोपीमेवं पृच्छन् साकूतमव- तु नन्दसुतः ॥१८८० ॥ अत्र आकुलतां व्यपनयन् तव कां मुदं विदध्यामिति प्रश्नः तव कामाकुलतां कन्दर्पव्याकुलत्वं व्यपनयन् मुदं विदध्यामि- त्यर्थान्तरगर्भ: । यथावा- सुतराङ्गविभोऽगं त्वं स्वामिन् कमितः परं व्र- जस्युच्चैः। ममहीति सभावं माधवमबरूत कांऽ- पि गोपवधू: ॥ १८८१ ॥ अत्र प्राथमिकार्थे-सुतराङ्ग सुतर अङ्ग इति वा विभो अग त्वं स्वामिन कं इतः परं व्रजसि उच्चैः मा मा इहि इति छेदः। सुतराङ्ग हे शोभनगात्र सुन्दरेत्यर्थः । अथवा सुनर कल्याणतर। अङ्गेत्यव्ययं संबोधने। विभो व्यापनशील स्वामिन्! इतःपरं अस्मात् शैलात् सुगमादिति भावः अन्यं उच्चैः उन्नतं दुरारोहमिति भावः। कं अंग शैलं व्रजास गच्छसि। मामा इहीति योजना। मा मा स्म गमः मा मेतिवीप्सा सर्वात्मना निषेधार्था।अर्थान्तरे तु सुतरां गवि भोगं त्वं स्वामिन् कमितः परं व्रजसि उश्चैः मां पाह इति छेद:। हे गवि स्वामिन् गवामधीश। गोपालोत्यर्थः। 'स्वा- मीश्वराधिपति' इत्यादिना स्वामिशब्दयोगात् गोशब्दस्य सप्षमी। हे कमितः हे कमन! कमेस्तृचि संबुद्धि आर्धधातुकत्वेन आयादे- शस्य वैकल्पिकत्वादिह तदभावः। सुतरां अत्यन्तं परं श्रेष्ठं उच्चैः
Page 292
चित्रप्रश्नसरः (८७) 281
निरवधिकं सुखं त्वं वजास। तत्र हेतुमाह-मां एवमभिलष- मार्णा माँ पहि म्राप्नहि। अन्राप्युपपादितरीत्या प्रश्नस्यार्थान्त- रगर्सता दष्टव्या। क्वचवित्प्रश्नोत्तरयोरुमयोरप्यर्थान्तरगर्भत्वे चा- रुतातिशय इति तैरेव कौस्तुभकारैः प्रत्यपादि। तस्येदमुदाह- रणम्- कान्तारमयेत्का मां तत्सरणं वद यया सुखं यायाम्। इति पृच्छति नन्दसुते सुगमेयमिहेति काऽपि गोप्याह ॥ १८८२॥ कान्तारं महावन प्रति का सरण: अयेत् गच्छेत् मां तत्सरणं तां पदवीं वद 'चिन्बूञ्शासुजि' इति द्विकर्मकता। यया सरण्या सुखं निर्बाधं यथा स्यात्तथा यायां गच्छेयं इति मार्गविषयकः प्रश्नः । का कान्ता मां रमयेत् तत्सरणि तस्था: प्राप्तचुपायं वद। यथा कान्तया उपायेन वा सुखं र- तिसुखं यायामित्यर्थान्तरगर्मः । इयं सरणः सुगमा सुखेन गम्येति मार्गप्रश्नस्योत्तरम् : अर्थान्तरस्य तु इय या त्वं मार्ग पृच्छास सेयं अहमित्यर्थः। इह अत्रैव सुगमा सुखेन गस्या सती रमयति निश्शलाकत्वादस्य प्रदेशस्येति॥ यथावा- कान्ते Sनवरतसंपदमभीप्सितां कोमलङ्गि तन- वानि। घनभाविरतं भाग्यं वितरसि मेडभीप्सितं यदि कुसार्था ॥ १८८३॥ अय श्रीकृष्णगोपिकयोः प्रश्नोत्तररूपः श्रोकः। अत्र हे कोमलद्गि! अभीप्सितां कां अनवरतसंपदं अविच्छिन्नां संप- ALANKARA_III. 36
Page 293
282 अलक्गारमणिहारे
त्तिं ते तव तनवानीति प्रश्नः, हे कान्ते! अभीप्सितां नवरत- संपव से तनवानीत्यर्थान्तरगर्मितः। हे घनभ! मेघाम अविरतं सततं मे अभीप्सितं भाग्यं यदि वितरसि तर्हि कृतार्थेत्युत्त- रम्। हे घन ! मे अभीप्सि चिरकालप्रार्थितं भावि भविष्यत् रतं सुरतरूपं भाग्यं यदि वितरसि तर्हि कृतार्था निर्वत्ताभी- प्सितप्रयोजनेत्यभिप्रायगर्भैम्॥ अंत्रेदमवधेयम्-प्राक्त नमतानुरोघेनारमदुपदर्शितोत्तरालंका- रपकारभेदेषु सतः्वपि बहुषु चित्रोत्तरगूढोत्तररूपौ तदलंकार- प्रकारप्रभेदौ द्वावेव कुवलयानन्दकारैरुपात्तौ। तन्मतातुरोधेना-
प्रश्नप्रकारद्वयमभिनवं परिकल्पितम्। तदिदमसमामिरपि प्रद- शिंतम् । यदित्वत्र अन्यार्थगर्भप्रश्नरूपो द्वितीयः प्रकारो निब- द,साभिप्रायनिरभिप्रायान्यतरोत्तरस्स्यात् तर्हि तत् प्रागृपदर्र्शिते प्राचां मते उत्तरालंकारोदाहरणमेव भवेत् । एवंच 'भामामणि ध्यपनयन, सुतराङ्गविभोऽगं त्वम्' इत्युपदर्शितयोः पद्ययो- रुत्तरानुपनिबन्धात्प्रश्नमात्रस्य सामिप्रायत्वाच्च चित्रप्रश्नोदाहर- णन्वमेव। अस्य प्राथमिकप्रमेदे प्रदर्शितेषु 'का कारुण्यनिधिः' इत्यादिपद्येषूत्तरोपनिबन्धमन्तरेण एकस्य प्रश्नस्य प्रश्नान्तरामि- न्नप्रश्नताया दुर्विज्ञानतया तदुपनिबन्धावश्यंभावेऽपि प्रश्नमात्र- स्यैव निराकूतत्वेऽपि श्वेषवशेन वैचित्रयप्रकाशनात्प्राचीनोपद- र्शितोत्त रालंकारव्याटत्तश्चित्रप्श्नालंकार एव। 'कान्तारनयेत्का- माम' इत्यादिपद्यद्वये तु साभिप्राययोः प्रश्नोत्तरयोरुमयोरपि- निबद्धत्वादुत्तरालंकारप्रभेद एव। प्रथमतरं प्राचानरीत्या प्रद- शितेषूदाहरणेषु साभिप्रायत्वं व्यङ्यमर्यादया, अनयोस्तु श्षेष- महिस्रेति चैलक्षण्यम्। अथ मतं-उत्तरालंकारे प्रश्नोत्तरयोरा-
Page 294
सूक्ष्मसरः (८८) 283
कूतं व्यञ्जनामूलमवेति, तर्हि तयोः श्ेषमूलकार्थान्तरगर्भत्वे चित्रप्रश्नविशेष एव नोत्तरालकार इत्येषटव्यं, विच्छित्िविशेष- सन्द्रावात्। इहाप्यत्तरनिबन्धस्तु उत्तरालंकारे प्रक्षनिबन्धवश्ा रुतातिशयहेतुरिि दिक्॥
इत्यलंकारमणिहारे चित्रप्रश्नसरस्सप्ताशीतितमः.
अथ सूक्ष्मालङ्गरसरः (८८)
अन्याशयज्ञसाकृतचेष्टितं सूक्ष्ममीर्यते ॥ अन्याभिप्रायमिङ्गितादिना झातवतोऽन्यस्य साकृतस्ताद्वि- षयको व्यापारस्सूक्ष्मं नामालंकार:।। यथा- पुरतो नन्दकिशोरे करकलितमनोज्ञकन्दुके मिषति। सुन्दरमौक्तिकरदना मन्दं हसति स्म गोपशशिवदना ॥ १८८४॥ अत्र गृहीतकन्दुकनन्दनन्दनसन्दर्शनलक्षणेनेङ्गितेन तदीय- पयोधरग्रहाभिसंकेतसमयानुयोगाभिप्रायं विद्तवत्या गोपसु- दत्या तदानुकूल्येन प्रसरन्त्यां चन्द्रिकायां सङ्गेतसमय इति तदुत्तर स्वहृद्यगतं व्यञ्ञयितुं मन्दहासव्यापारो व्यरवीति लक्षणानुगातः। .
Page 295
284 अलक्कारमणिहारे
यथाा- स्वकरधृतं लिखिति नखैर्लिकुचफलं नन्दन- न्दने पुरतः। वल्लवललना मौक्तिकवल्लीमामळ्लते स्म धम्मिल्ले ॥ ९८८५॥ इदमपि सगवतइश्रीकृष्णस्य स्वैरविहारसङ्गेतसमयातुयोग- भावं जानानायाः वजललनायाश्चेष्टितं तमासि तारकोल्लासे सङ्के- तसमय इत्याकूतगर्भम्। यथावा- व्यालाचलशैलेन्दौ नीलाकुचकलशयुगळलो- लदृशि। सा रमणी स्मेरमुखी श्रीरमणोरःप्रसा- रिनयनाऽSसीत्॥ १८८६॥ अत्र स्वकुचयुगलनिरीक्षणभगवश्चेष्टितेन स्वोपभोगौत्सुक्य- रूपं तदाकूतं जानानाया नीलाया: श्रीनिवासवक्षस्स्थलवीक्षण-
गर्भम्।
अथ पिहितालंकारसरः (८९)
परवृत्तज्ञसाकृतचेष्टितं पिहितं मतम्॥ परकीयव्यापारवेत्तुस्साकृतचेष्टितं पिहितं नामालंकार:।
Page 296
पिहितसर: (८९) 285
यथा- स्विन्नाननमायातं प्रातर्निजसद्म वीक्ष्य नन्द- सुतम्। लघुलयललितं व्यजनं करकिसलयतोS- ग्रहीइरतं राधा ॥ १८८७ ॥ लघुलयं लामजकम्। सर्वरात्रं नायिकान्तरसंभोगेन श्रा- न्तोऽसीति वीजयामीति लामज्कतालवृन्तग्रहणाकूतम्॥
यथावा- परतरुणीहारिद्रच्छुरितकपोलं निरीक्ष्य यदु- बालम्। पिहिताकारा भैष्मी पाणौ मणिदर्पणं ददौ तस्य ॥ १८८८॥ अत्र हरिकपोले हरिद्राचूर्णलेपनेनानुमितं रजन्यां तव सपतीसदने स्वैरविहारं जानाम्यहमित्याकूतगर्भ तत्करकमले रुक्मिण्या दर्पणदानरूपं चेष्टितं निबद्धम्। पिहिताकारेत्यनेन सू- चनीयालंकारनामसूचनरूपमुद्रालंकारोपस्कृतत्वं पूर्वस्माद्विशेषः।। इदं कुवलयानन्दानुरोधेन। सर्वरस्वकारादयस्तु-'संल- क्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्' इति स्थूलमतिभिरसंलक्षणीयः कुशाग्रमतिभिस्संलक्ष्यते यस्सूक्ष्मार्थः तस्य विदग्धं प्रकाशन- मिति सूक्ष्मार्थत्वेन पराशयवृत्तान्तयोः कोडीकारेण लक्षित्वा- संकेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीन्नेत्रार्पिताकूत कीलावदं निमीलितम्। वकरस्यन्दिस्वेदबिन्दुप्रबन्धैद्ध्टा मिन्न कुङ्कमं काऽपि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्यास्स्मित्वा पाणी खड्गले- खां लिलेख।।
Page 297
286 अलक्कारमणिहारे
इत्युदाहरणयोर्लक्षणसत्तामुपपादयम्तः पिहितनामानमलंकारान्तर नानुमेनिरे। युक्तं चतत्-अलंकारान्तरकल्पनावैचित्रयहेतास्सा- कूतचेष्टितविन्यसनस्य मेदाभावे आशयटत्तान्तरूपप्रकाश्यभेद- मात्रेण भेदानुपपत्तेरिति वदम्ति। अत्र 'यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाऽप्ययमेवालंकार:' इत्यलंकार- भाष्यकाराशयं वयवृणुत विमर्शिनीकारः। तदेदमुदाहरणम् - लीलासदनकवाटे लोलेडपाङ्गे पयोधिवाला- याः। वल्लभमात्रसहाया यथा रमा स्यात्तथाऽभ- वन् सख्य: ॥ १८८९॥ अत्र सखीमः श्रियो वल्लभोपभोगौत्सुक्यं संलक्षितं केळी गृहकयाटे कटाक्षविसारणेन प्रकाशितं चत्युभयार्थसहितत्वम्। तदेवमादौ सक्ष्मालंकार एव वाच्य:, सूक्ष्मस्यैवार्थस्य संलक्ष्य- माणत्वादिनाऽवस्थानात् । यद्यपप संलक्षितमात्रमपि लक्ष्म्या औत्सुक्यं सखीभिर्विविक्ततया बाहेरनिर्गमनेन चेष्टितेन प्रकाशि- तम्। तथाऽपि सखीनां तगौत्सुक्यसंलक्षणमात्रमवात्र चम-
इत्यलंकारमणिहारे पिहितसर एकोननवतितमः.
अथ व्याजोक्तयलङ्गारसरः (१०)
हेत्व तरोक्तया व्याजोक्तिर्यदाकारस्य गृहनम्॥ निगूढस्य वस्तुनः केनचित्प्रकटतां गतस्य हेत्वन्तराक्तथा यद्गोपनं तत् व्याजोक्तिरनामालकारः ॥
Page 298
व्याजोक्तिसर: (९०) 287
यथा- प्रतिवातविलुलितं मम धम्मिल्लमिमं समीकु- रुष्व साख। इति यमुनातटकुआ्जदेत्य सखीं काऽषि गोपिकाऽलापीत् ॥ १८९०॥ अत्र नन्दनन्दनकृतस्वैरोपभोगविलुलितस्य धम्मिल्स्य प्रति- वातविलुलितत्वव्याजोक्तया गोपनम् । "छेकापह्नुतेरस्याश्चायं विशेष :- तस्यां वचनस्यान्यधानयनेनापहनवः, अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति। लक्षणे लक्ष्यनाम्नि चोक्तिग्रहण- माकारस्य गोपनार्थ हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । ततश्च- आयान्तमालोक्य हरि प्रतोळ्यामाळ्या: पुरस्तादनुरागमेका। रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूहे प्रणमन्त्यथैनम्॥। इत्यत्रापि व्याजोक्तिरेव। अत्र ह्यनुरागकृतस्य रोमाश्चा- द्याकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम्" इति कुवलयानन्दे दीक्षिताः । ततश्च- यमुनातटकुञ्जाड्रूजमुपयान्ती केतकीस्तबकह- स्ता। न्ववपुषि शौरिनखक्षतमगूहत स्वैरकेळिजं गोपी॥ १८९१॥ इत्यत्रापि तन्मते व्याजोक्तिरेव। अत्र हि स्वैरकेळिप्राप्तस्य भगवन्नसवविलेखनरूपाकारस्य कण्टकप्रचुर केतकी निकुअ्जप्रवेशरूप- हेत्वन्तरप्रत्यायकेन तत्कुसुमस्तवकग्रहणेन गूहनं कृतम्। वस्तु- तस्तु अत्र युक्तयलंकार पवेति युक्तयलंकारनिरूपणावसरे वक्ष्यते। सूक्ष्मपिहितालंकरयोरपि चेष्टितग्रहणमु्तिसाधारण- व्यापारमात्रोपलक्षणम्। ततश्च-
Page 299
288 अलङ्गारमणिहारे
"नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः। इति मम संकेतभुवि झात्वा भावं तदाऽब्रवीदाळीम्" ॥ इति प्राचीनपद्य दव- पश्यात्र निश्वलतमा मराळमालाS्मलाब्ज- मालेव। इत्याळीं काऽप्यवदच्छौरेस्संकेतभाव- मधिगम्य ॥। १८९२॥। इत्यादिष्वस्मदीयपद्येष्वपि सूक्ष्मालंकार: प्रसरति। अत्र पद्ये तावत् आवयोः कि संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति भगवति नन्दनन्दने तदभिक्षया विदग्धया वज- सुन्दर्या सखीं प्रति साकूतमुक्तमिति भवति सूक्ष्मालंकारः। यतोऽत्र हंसमालाया निश्चलतमपुण्डरीकमालिकोपसया तस्या- स्तत्र निस्नन्दतया साश्वासत्वं तेन तस्य प्रदेशस्यातिमात्र- विविक्तत्वं तेन तदेवावयोस्संकेतस्थानमिति तं प्रति सूचन लक्ष्यते। न चात्र ध्वनिराशङ्कनीय: व्यङ्गचपरंपरया व्यज्यमान- स्यापि संकेतस्थानप्रश्नोत्तरस्य स्वोक्तयैवाविष्कृतत्वात्। एवं हि पिहितालंकारेऽप्युदाहार्यम्॥ इदं चान्यदत्रावधेयम्-"तत इत इह संभ्रमतः। किं चिन्तयसे भद्रे। का त्वं का वा कि तव। पुरतो नन्दकि- शोरे। स्वकरधृतं लिखिति नखैः" इत्यादिप्रागुपदर्शितगूढो- त्तरसूक्ष्माद्यलंकारोदाहरणेषु भावो न स्वोक्तयाऽSविष्कृतः। किंतु
तो नालंकारत्वं, ध्वनिभावास्पदत्वात्। प्राक्तनैस्स्वोक्तचाSSविष्क- रणे सत्यलंकारास्पदताऽस्तीत्युदाहतानि "यत्रासौ वेतसी पान्थ" इत्यादीनीति तदनुसारिभिरस्माभिरपि तथाविधान्युदाहतानि पद्यानि। शक्यं ह्वेषामुदाहरणानामुत्तरश्षोककल्पनया भावा- विष्करणम्॥।
Page 300
गूढोक्तिसर: (९१) 289
यथा- तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम्। काळिन्दीतटकुञे कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३॥ इति काचिदूजललना गां निजयूधच्युतां विचि- न्वानम्। पृच्छन्तं नन्दसुतं कामयमाना जगाद साकृतम् ॥ १८९४॥ इति। तस्नादस्माभि: प्रागुदाहतेषु 'परतरुरणाहारिद्रच्छु- रितकपोलम् इत्यादिषु येषु भावाविष्करणमस्ति तेष्घेव तत्त दलंकार इति॥
इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः
अथ गूढोक्तिसर: (९१)
गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥ यं प्रति किचिद्दितव्यं तन्माज्ञासिषुस्तटस्था इति तदि- तरं यंकंचित्प्रति यत् श्षेषणोच्यते तत् गूढोक्तिनामालंकारो दीक्षितोपक्रमम् ॥ ALANKARA_III 37
Page 301
290 अलङ्कारमणिहारे
यथावा- त्वं वत्सजातलालस आयातस्तज्जिघृक्षुरसि बाढम्। अविदूरे चरति प्रिय एव ततो गोपबाल किं त्वरसे ॥ १८९५॥ इदं वक्षोजग्रहणोत्सुकं भगवन्तं नन्दनन्दनं प्रति वक्तव्यं गोवत्सग्रहणौत्सुक्यशालिनं सविधभुवि सञ्चरन्तं वललवमाण- वकं कच्चिन्निर्दिश्य कयाचिद्गोपकामिन्या कथ्यते। हे गोपबाल वल्लचकुमार! पक्षे हे कृष्णेति संबुद्धिः । त्वं वत्से तर्णके जाता लालसा औतसुक्यं 'लालसे प्रार्थनौत्सुक्ये' इत्यमरः। आयातः । अन्यत्र त्वं वत्सजातयोंः वझ्ोजयोः 'वत्सः पुत्रादिवर्षयो। तर्णके नोरस क्कीवम्' इति मेदिनी । लालसः उत्सुकस्स- न्नित्यर्थः 'लोलुपो लोलुभो लोलो लम्पटो लालसश्च सः' इति .
त्रिकाण्डशेष:। आयात तज्जिघृक्षु: तर्णकग्रहेच्छुः वक्षोजग्रहेच्छुश्च। असि। तं जिघृक्षुः तौ जिघृक्षुरिति च विग्रहः 'न लोक' इति षष्ठीनिषेधेन कर्मणि द्वितीयायां 'गम्यादीनामुपसंख्यान- म्' इति समासः। बाढं साध्वेतदित्यङ्गीकारे। एष प्रिय: प्रीत्यास्पदभूनो वत्सः। पक्षे एष प्रियः मन्भर्ता अविदूरे उपकण्ठ एव चरने तृणं भक्षयतीत्र्थः । 'चरतिर्मक्षणेऽषि' इत्यनुशा- सनात्। पक्षे सञ्चरति। कुतस्संत्वरसे मोत्सुको भूरिति भावः । न :नन्दनन्दनं प्रति वक्तव्ये प्रस्तुते अप्रस्तुतान्यगोपमाणवक- वृत्तान्तवर्णनादप्रस्तुतप्रशंसैवेयमिि चेन्न, कार्यकारणसामान्य- विशेषसारूप्यैरनसिव्यज्यमानत्वात्। नापि प्रकृताप्रकृतश्लेषमात्रं, तत्र ह्यप्रस्तुतार्थस्य प्रस्तुतार्थोपमानमावेन विवक्षाऽस्ति। नेह तथा अप्रस्तुनार्थस्य विवक्षा। अत्राप्रस्तुतस्य केवलमन्याति :-
Page 302
गूढोकितिसरः (९१) 291
न्धानाय निर्दिष्टतया विच्छितत्तिविशेषसद्भावेन पारिशष्यादूढो- क्तिरित्यलङ्कारान्तरमेव युक्तमाश्रयतुम्। न चात्र तटस्थातिसं- धानरूपव्यङ्गयस्य स्वोक्ताऽविष्करणविरहाद्धनिरेवायं नालङ्कार इति वाच्यम, श्लेषतस्तस्यार्थस्याविष्करणेन ध्वनेरसम्भवादि- त्याहुः॥ यथावा- करुणारद्रचित्तभवतापाल्या परिदीनमानसा से- यम्। नान्यत्काङ्क्षति नाथ त्वदपाङ्गविलासला- भवैभवतः ॥१८९६॥ हे करुणाद्रचित्त हे नाथ जगदीश्वर! परिदीनमानसा सेयं तन्वी। त्वदपाङ्गविलासलाभवैभवतः त्वत्कटाक्षप्रसरण- वाप्तिविभवात् अन्यत न काङ्क्षति। अतः भवता त्वया पा- ल्या रक्षणीयेति भगवन्तं प्रति प्रार्थना। गूढार्थस्तु-हे करुणा- द्र से नाथ वल्लम! चित्तभवतापात्येति समस्तं पदम्। च्रि- त्तभवतापानां मनसिजतापानां आल्या पड्क्तचा कन्दर्पज्वरपरंपर- येत्यर्थः। परिदीनमानसा सेयं तन्वी। त्वदपाङ्गेत्यत्र त्वदिति मिन्नं पदं पश्चम्येकवचनान्तम्। त्वत् त्वत्तः अपाङ्ग: अनङ्गः तस्य विलासः रतिरित्यर्थः। तस्य लाभः प्राप्तिरेव वैभवं त- स्मात तत्तः। अन्यत् न काड्क्षति। अत्र नाथेति नन्दनन्दनं सम्बोध्य तस्माद्रतिमेव प्रार्थयमानाया: कस्याश्चिद्वजललनाया- सतटस्थवञ्चनाय भगवन्तं प्रत्यात्मनस्संसारतापदीनत्वेन कटाक्ष- मात्राशंसनस्य प्रत्यायनम ॥ इत्यलङ्कारमणिहारे गूढोक्तिसर एकनवतितमः ॥
. ..
Page 303
292 अलंकारमणिहारे
अथ विवृतोक्तिसरः (१२).
विवृतोक्तिशश्रेषगूढं विवृतं कविना यदि॥ श्ेषेण गुसोरऽर्थो यथाकथंचित्कविना स्वोक्त्या आविष्क्रि- यते चेत्सा विवृतोक्तिरित्यर्थः । इयमपि दीक्षितोपज्ञम् ॥
यथा- एषा चरति सुखेन हि सुरभी रविजाप्नतीर- जानुगता। पाल्या त्वयेत्यवादीदभिकृष्णं काऽपि गोपिका गोपम् ॥१८९७॥ एषा सुरभिः गौः 'सुरभिर्गवि च स्त्रियाम्। वसन्त- चैत्रयोः पुंसि त्रिषु सौम्यमनोज्योः' इति रत्नमाला। रवि- जाया: यमुनाया: प्रतीरजा: तरव इति यावत्। तेषु अनुगता सती सुखेन चरति तृणमिति शेष: । कबळयतीत्यर्थः। संचरतीति वा। त्वया पाल्या यथा अन्पत् न थायात्तथा प्रतिपालनीये- त्यर्थः । हार्दोऽर्थस्तु-सुरभिः सुगन्धिः। अनेनास्या: पझ्मिनीजा- तित्वं सूचितम्। सौम्या मनोज्ञा वा। कोशस्तूकः। एषा च अह- मपीति भावः । कामपारवश्येनात्मन एव पारोक्ष्येण निर्देशः। न केवलमितरा एत्र महिलाः । किंत्वमहपीति चशब्दाभि- प्रायः । रविजाप्रतीरि यमुनातटे जानुगता त्वद्रूपनिविष्टा सती। रतिसुखेन त्वया पाल्या प्रोणनीयेति यावत्। इति काऽपि गोपिका अभिकृष्णं कृष्णाभिसुखं अवादीत्। इदं पर- वञ्चनाय गुप्तस्याविष्करणम्। प्रतीयमानार्थान्तरेण कंचिद्रोपं
Page 304
विधृतोक्तिसरः (९२) 293
प्रत्यनुशासनरूपेण गुप्तस्य विवक्षितस्य श्रीकृष्णेन सहात्मनो
यथावा- गोपालसमुद्योगं त्वमेहि समया विलासयेमा गाः। पतिमिति वनमेष्यन्तं गोपी कृष्णाय ति- ष्मानाऽऽह ॥ १८९८॥
इय श्रीकृष्णेन सह रन्तुमुत्कण्ठितायाः कस्याश्चिद्वोपका मिन्यास्स्वमर्तारं प्रति वश्चनोक्तिः । तथाहि-हे गोपेति स्वभ- र्तुस्संबुद्धि: । त्वं अलसं मन्दं उद्योगं प्रयत्नं एहि। दूर- जिगमिषायां हि महानुद्योगः कार्यः न तु सविधजिगमिषाया- मिति भावः। तदेतदाविष्कुर्वाणाऽडह-इमाः गाः धेनूः समया समीप एव विलासय विहारय इति स्वभर्तारं प्रत्युक्तिः । गूढा- भिप्रायपक्षे तु-गोपाल समुत् योगं त्वं पहि सः मया विलासये मा गा: इति छेदः। हे गोपाल! सः त्वं इय- न्तमवधं मया प्रतीक्षितस्त्वमिति भावः : समुत् विविक्तविह- रणस्य प्रत्यासन्नत्वात्सानन्दस्सन् मया सह योगं संग्ति पहि रत्यर्थ मदुपान्तं प्राप्नहीति भावः। सहसा त्वदुपान्तोपसर्पणे त्वं मां विलासयेवा न वेत्याशङ्कां परिहर्तुमाह-विलासये इति। रतिसुखवितरणेनानन्दये इति भावः। विलासवन्तं करोमीति वा। मा गाः अतस्त्वमिदानीमन्यतो मा वाजीः। गच्छत्वेष पतिः पशुपालनाथ। आवां स्वैर रंस्यावहे इति भावः । इदमापे परवञ्चनाय गुप्तस्थाविष्करणम् । कृष्णाय तिष्ठमाना स्वाभि- प्रायं प्रकाशयन्तीत्यर्थः । तिष्ठतेः 'प्रकाशनस्थेयाख्ययोश्च' इति
Page 305
294 अलङ्कारमाणेहारे
तङ़। 'श्राघहुङस्थाशपां ज्ञीप्स्यमानः' इति सम्प्रदानसंज्ञायां
यथावा- शिथिलयति करेणाग्रिमभागेऽन्दुकबन्धमेष पु- न्नागः । हृष्येञ्च तद्वशाऽसाविति शौरिगिरा नता- नना गोपी ॥ १८९९॥ इयं गोपतरुणीप्योधरपरिष्वङ्गेच्छोर्भगवतश्शौरेः करेणुमु- द्दिश्योक्तिः। एषः पुन्नागः मतङ्गजपुङ्गवः अग्रिमभागे पुरःप्रदेशे करेण शुण्डाइण्डेन अन्दुकबन्धनं निगळबन्धं स्वस्य करिण्या- श्चेति भावः । 'अन्दुको निगळोऽस्त्री स्थात्' इत्यमरः। शिथि- लयति। तत् तस्मात् बन्धविस्त्रंसनाद्धेतोः असौ वशा करिणी च 'करिणी धेनुका वशा' इत्यमरः। हृष्येत् स्वैरवविहारलि- प्लया प्रमोदेत। गूढार्थस्तु-अग्रिमभाः गेन्दुकबन्धं इति छेदः । अग्रिमा श्रेष्ठा भा: दीप्तिः यस्य स तथोक्तः । एषः पुन्नागः पुरुषश्रेष्ठ इति स्वस्यैव साहसिकत्वप्रत्यायनायान्यत्वेन निर्देशः । करेण हस्तेन गेन्दुकयोः कन्दुकत्वेनाध्यवसितयोः पयोधरयो बन्धं कञ्चुळीबन्धनं शिथिलयति श्रथयतीति वर्त- मानसामीप्ये भविष्यति वर्तमानवन्निर्देशः। असौ त्वमिति वक्तव्ये परवञ्चनायादइशव्देन गोपिकाया निर्देशः। एवमनुपद- वक्ष्यमाणतच्छब्दप्रथमपुरुषयोरप्यूह्यम्। तद्वशा तस्य कश्चुळी- विस्त्रंसयितुर्ममेति भावः। वशा आयत्ता सती हष्येत्। तिसुखे- नानन्देदित्यर्थः । इति शौरिगिरा भगवद्वचनाकर्णनेनेति यावत्। गोपी नतानना अभूत् । इदूमपि परवश्चनाय गुप्ताविष्करणमेव।।
Page 306
विवृतोफ्तिसर: (९२) 295
ममैव रङ्गराजविलासे यथावा- माधवमभिवीक्ष्यामुं भुजङ्गशयमद्य हृदि कुरु- ष्वेति। नैजसखीं प्रत्युक्तं कथाचन निशम्य जो- षमास युवा॥ ११०० ॥ इदं भगवतो रङ्गराजस्योत्सवसमये महाजनसम्मर्दे स्वप- योधरदत्तहस्तमसमयजं कश्चित्कामिनं प्रति वक्तव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चिद्विदग्घायाः कामिन्या वचनम्। भुजङ्ग- शय शेषशायिनं अमुं माधवं श्रीवल्लमं श्रीरङ्गराजं अभिवी- क्ष्य अभितो दृष्टा प्रत्यवयवं विविच्य विलोक्येत्यभिप्रायः। हृदि कुरुष्व ध्याये। गूढार्थस्तु-मा धवं इति, भुजङ्ग शय इनि च पदद्वयम्। हे भुजङ्ग हे पल्विक ! अमुं विप्रकृष्टस्थित 'अदसस्तु विप्रकृष्टे' इत्यनुशासनात्। धव मन्दतारं वीक्ष्य हृदि मम वक्षसि शयं पाणिं मा कुरुष्व। मन्भर्ताऽयमदूरा- वस्थित एव मा मत्पयोधरौ स्प्राक्षीरिति भावः। इदमपि परा- तिसन्धानार्थगुप्ताविष्करणम्॥। ममैव नृसिंहविलासे यथावा- घनरत्नश्रीवत्साङ्गमनालोक्यापि वल्लभं कस्मा- त्। मां पश्यसीति गढ़िते सखीं प्रति कयाSपि निववृते विटरादू॥ १९०१ ॥ इयं भगवतो नृसिंहस्योत्सवसंमर्दे प्रत्यासन्नमपि भर्तारं रागान्धतयाSनालोक्यात्मानं पश्यन्तं कश्चित्कामुकं प्रति निग- दितव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चित्प्रौढ़ाया उक्तिः। वल्लभं
Page 307
296 अलक्कारमणिहारे
दयितं सर्वलोकेश्वरं वा 'त्रिष्वध्यक्षेऽपि वल्लभः' इत्यमरः । घनं रतनं कौस्तुमो यस्य स तथोक्तः। स चासौ श्रीवत्साङ्क: भगवान् तं अनालोक्यापि कस्माद्वेतो मां श्रियमेव पश्यसि। भगवन्तमपि पश्येति भावः। गूढार्थस्तु-हे कमन कामुक! वल्लभं मद्भर्तारं आलोक्यापि घना च सा रत्श्रीश्च सा वत्से वक्षसि यस्यास्तां घनरत्नश्रीयुक्तं वत्सं यस्या इति वा। मा कस्मात्पश्यसि। मन्भर्तुस्समक्ष मा द्राक्षीरिति भावः । इदमपि परवश्चनार्थगुप्ताविष्करणमेव। त्रपागुप्ताविष्करणं यथा- स्मरदीनामेनां त्वं सुभगोविन्दावतप्तहृदयां मामू। नाथ विमृशन्विविक्तामिति गोप्या शौरि- रिद्गि्तमबोधि ॥ १०२॥ स्मर दीनां एनां त्वं सुभग: विन्द अवतप्रहृदयां मां इति प्राथमिकार्थकक्ष्यायां पदच्छेद:। शोभनः भगः ऐश्वर्यादिषाड्गु- ण्यं यस्य सः सुभगः तस्य संबुद्धि: हे नाथ सर्वेश्वर! त्वं एनां मामिति भावः । दीनां स्मर। एषा कृपणेति जानीहीति भावः। अत एव अवतप्तहृदयां तापत्रयक्षुभितमानसां मां विन्द प्रा्नहि। रक्ष्यत्वेन स्वीकुरुष्वेतति यावत्। स्वपरिग्रहे हेत्वन्तरं चाभिप्रयन्ती प्राह विविक्तां पवित्रशीलां शरण्यान्तरचिन्तना- संवलिततया स्वच्छामिति भावः। 'विविक्तौ पूताविजनौ' इत्य- मरः। विमृशन् सम्यग्विचारयन् विन्देत्यन्वयः गूढाभिप्रायप- क्षे तु-स्मरदीनां पनां त्वं सुभ गोविन्द अव तप्तहृदयां मां इति छेदः। हे नाथ प्रिय! सर्वानपि पुरुषार्थान् त्वमेव या- चनीय इति भावः। हे गोविन्द! त्वं स्मरेण दीनां अत एव
Page 308
विवृतोक्तिसरः (९२) 297
तप्तहृदयां वि्हृतापशिथिलितमानसां एनां मां विविक्तां निश्शा- लाकस्थानावस्थितां विश्ृशन इयमिदानी रहस्थवस्थितेतति सम्य- ग्विजानन् अब प्रोणय। अवतेः प्रीणनार्थकालोण्मध्यमैकवच- नम्। अत्र स्फुटप्रतीयमानेन भगवदभ्यर्थनरूपेण त्रपया गुपस्य
नेन स्फुटीकरणम्। इदं शब्दशक्तिकरोडीकृतगुप्ताविष्करणम्। अर्थशक्तिमूलगुप्ताविष्करणं यथा - त्वं किल कृपानिधिर्मी प्रतीक्षमाणां दशाऽपि नागृहाः । इति साकूतं ब्रुवती परिरब्धा शौरिणा व्रजेन्दुमुखी॥ १९०३॥ त्वं किल कृपानिधिरिति विपरीतलक्षणा। कुत इत्यत्राह- प्रतीति। प्रतीक्षमाणं चिररात्राय हृदयविपरिवर्तमानत्वदुपभो गाशासनेन त्वां प्रतिपालयमानामिति भावः। इशाऽपि नागृहाः। उपभोगप्रत्याशा तावदासतां दूरे कटाक्षलेशप्रसारेण वा न मामाड्रियथा इति भावः। कृपानिधिरेव न चेदेवं कुतस्तनुया इत्युपालम्भः। अत्र एवंवरिधय वचनभङ्गया चिरोत्काण्ठतत्व- दुपभोगौपयिकसमयलाभेन त्वामहं प्रत्यैक्षिषि। स चन प्राप्त इत्यर्थशक्तिलभ्यं वस्तु साकूतमित्यनेन विदतम्। सर्वमिंद कवि-
कविगुप्ताविष्करणं यथा- प्रकृते प्रतीपदर्शिनि निजैर्गुणैमी विमोहयसि नित्यम्। किंचिद्दयस्व वामे त्वयाऽवियुक्तो ल- भेय नित्यसुखम् ॥ १९०४ ॥ ALANKARA_III. 38
Page 309
298 अलंकारमणिहारे
दयस्व वामे त्वया अवियुक्त: इति छेदः। प्रकृते प्रस्तुते समये हे प्रतीपदर्शिनि! हे वामे सुन्दरि! निजैः गुणैः वक्रि ममानादिभि: मा विमोहयास। किंचिद्दयस्त्र। मा स्मैवं मोमुह इति भावः। त्वया अवियुक्त: अविश्िष्टस्सन्। नित्यं अनारतं सुखं लभेय प्राप्तयाम्। पक्षे दयस्व वा मे त्वया वियुक्त इति छेदः। हे प्रकृते ! इति मूलप्रकृतेस्संबोधनम् । 'प्रधानं प्रकृति: स्त्रियाम्' इत्यमरः। हे प्रतीपदर्शिनि! 'मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं' इति गदितप्रकारेण सर्वे प्रतीपं प्रतिकूलं दर्शयतीति तथोक्ता। णिजन्ताइ्गशोर्णिनिः। तसयास्सं- बुद्धि: निजैः गुणैः सत्वादिभिः मां नित्यं विमोहयास विप- रीतदर्शिन करोषि। मे मम 'दैवीं गुणमयीं मायां दासभूत- इशरणागतोSस्मि तवास्मि दास इति वक्तारं मां तारय' इत्यु- करीत्या त्वां शरणं गतस्येति भावः। वाशब्दो भिन्नक्रमः । किंचिद्वा दयस्व। परिपूर्णदयाकरणाभिप्रायाभावे किंचिदपि वा दयां कुर्धीथा इत्यर्थः । तावता को लाभ इत्यत आह-त्वयेति। त्वया वियुक्त: वियोगं प्राप्तस्सन्। इदमेव तव दयाकार्य यथाऽहं मुच्येयेति भावः। ततश्च किं तवेत्यत आह-नित्येति। नित्य- सुखं मुक्तानन्दं लभेयेति। अत्र तावत् ईर्ष्याकलुषितनायिका- प्रसादनव्यापारविधि: प्रतीयते। प्रकृतिगुणकलुषितस्य प्रकृति प्रत्याकरोशो विवक्षितार्थः । स च सप्तम्यन्तस्य प्रकृते इति पदस्य प्रतीपदर्शिनीति संबुद्धयन्तपद्ान्तरसममिव्याहारपूर्वक- मुद्चारणेन संबुद्धचन्ततामवगमय्याविष्कृतः। कविनिबद्धवक्तृ- गुप्तं परवश्चनार्थ, कविगुप्तं तु स्त्रप्रौदविदर्शनार्थमिति भिदा॥ इत्यलङ्कारमणििहार विवृनोक्तिसरो द्विनवतितम
Page 310
युक्तिसर: (९३) 299
अथ युक्तिसरः (९३)
युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवश्चनम् ॥ केनचिद््यापारेण स्वाभिप्रायनिगूहनाय यत्परस्य वञ्चनं स युक्तिर्नामालंकार:। अयमपि दीक्षितोपश्ञम्। यद्यप्ययमलं- कारो जयदेवेन चन्द्रालाके अलंकारप्रकरणे न लक्षितः, तथाऽपि काव्यलक्षणनिरूपणपरे तृतीयमयूखे काव्यलक्षणेष्वेकतमत्वेन यु-
नवस्त्वं नीरदः कोऽपि स्वर्ण वर्षास यन्मुद्दुः॥ इति। दीक्षितैस्तु युक्तिरन्यधैव लक्षिता- "युक्तिः परातिसंधानं क्रियया मर्मगुप्तये"। इति ॥ यथा- गोष्ठे कृतसंकेता गोविन्दाश्लेषकुतुकिनी साय- म्। गोपी काऽपि स्वजनादुत्तस्थौ दामनीमुपा- दाय॥ ११०५॥ उत्तस्थावित्यत्र उत्पूर्वकत्वेऽपि तिष्ठतेरुर्ध्वकर्मत्वेन न तङ। दामनीं पशुरज्जुम्। अत्र दामन्यादानपूर्वकोत्थानक्रियया सायं गोवत्ससंदानार्थोत्थानभ्रमजननेन गोविन्दाक्षेषौत्सुक्यरूपमर्मगो- पनेन स्वजनवश्चनं विवक्षितम्। इदं वर्तिष्यमाणगोपनम्॥ वृत्तगोपनं यथा- काऽपि क्षतरदवसना गोपकुमारेण गोपबिम्बो
Page 311
300 अलंकारमणिहारे
ष्ठी । स्वैरमुपलालयन्ती कीरमुपागात्कलिन्दज- तीरात् ॥ १९०६॥ अत्र स्वैरकीरोपलालनक्रियया अधरबिम्बस्य तह्ंशनभ्रम- जननेन नन्दनन्दनरदनक्षतिरूपमर्मगोपनेन परवञ्चनम्। बिस्बो- ष्ठीति विशेष्यं विम्बीफलभ्रान्या शुकेन दष्टस्स्यादयमधर इति
अत्र व्याजोक्तावाकारगोपनस्, युक्तौ त्वारायगोपनमिति भेद:। यद्वा व्याजोक्तावुक्तया गोपनं, इह तु क्रियया गोपन- मिति भेदः। एवंच 'आयान्तमालोक्य हारं प्रतोळ्याम्' इति पद्येऽपि युक्तिरेवेति कुवलयानन्दे स्थितन्॥
युक्तं, व्याजोक्तिप्रकरणे दीक्षितरेव उक्तिशब्दस्य गोपनसाध- नान्तरप्रत्यायकव्यापारमात्रोपलक्षणताया: स्फुटतया प्रतिपादित- त्वात्। तथव तत्रैव "आयान्तमालोक्य" इत्युदाहरणे स्पष्टतया लक्षणस्याप्यनुगमितत्वाच्च। अतो विवक्षितस्य वस्तुनः केन चिद्ध्यापारेण परवश्चनार्थ यद्रोपनं तद्रथाजोक्तिरित्येव व्याजोक्ति लक्षणं प्राचां युक्तचलङ्कारं पृथगलक्षयतामभिमतं, सच व्याचार: क्वचिदुक्तिरूप:, क्वचित्तदन्यरूपः, गोपनीयश्च क्वचिदाकारः क्वचित्तदन्यदाशयादिकमिति विभागो युक्त इति न व्याजी क्तितोऽतिसच्यते युक्तिरिति। अतः 'आयान्तमालोक्य' इत्यत्र युक्तिरधोत पूर्वोत्तरनिराधेन लेखनं चित्त्यलेव। लाघवेन व्या जोक्तेरवांकरीत्या समवादित्याहुः। अस्मामिस्तु-व्याजोकावुक्तिग्रहणस्या का रगोपना र्थहत्वन्त- रप्रत्यायकव्यापारमात्रोपलणताया अस्वीकारेण उक्तिरूपव्यापारे-
Page 312
लोकोफ्किसर: (९४) 301
णाकारगोपने व्याजोक्तिः। तदन्यव्यापारेणाशयगोपने युक्तिरि- त्येव व्यवस्थामाश्रित्य पृथगिमावलङ्कारी लक्षितौ। दीक्षिताना- मपि व्याजोक्तिप्रकरणे 'आयान्तमालोक्य' इति पद्ये व्याजो- क्तिरवेति लेखनं मतान्तरानुरोधेन। युक्तयलङ्कारप्रस्ताने तस्मि- स्नेव पद्ये युक्तिरेवेति लेखनं तु तत्रैव स्वनैर्भर्व्य प्रकाशयतु- मिति न पूर्वोत्तरग्रन्थविरोध इति समाधेयम्। एवंच व्याजो- उदाहृते 'यमुनातटीनिकुञ्जाद्वजम्' इति पद्येऽपि युक्तयलंकार एवं न तु व्याजोक्तिरिति दिक्॥ इत्यलंकार्मणिहारे युक्तिसरस्त्रिनवतितमः
अथ लोकोक्तिसर: (९४)
लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि। लोकानां जनानां यः प्रकृष्टो बाद: उक्ति: प्रकर्षश्च तत्त- द्देशानुसारेण तत्तहेशीयजनपरंपरागतत्वम ताहशवादस्यानु- कृतिः उल्लेखः यः स लोकोक्तिरित्यर्थः। अथमप्यलंकारो दी- क्षितोपज्ञमेव॥ यथा -- तव वेषवहनतोऽभवदवहसनपढ स पौण्डूको भगवन्। क्रोष्टेव चित्रकायं दष्टा तप्तायसा लिख- न्कायम् ॥ १९०७॥ चित्रकायं व्याव्रं 'पुण्डरीकः पश्चनसश्चित्रकायसृगद्विषी' इत्यमरः। चित्रकायशब्दापादानं वक्ष्यमाणजम्बुककर्तृकस्वाङ्ग-
Page 313
302 अलंकारमणिहारे
चित्रीकरणाभिलाषपूर्व कतप्तायश्शला काकरणकस्वाङ्गलेखनकर्मा - त्तम्भनाभिप्रायेण। दृष्ट्रा तप्तायसा तप्तायश्शलाकयेति यावत्। कायं स्वाङ्गं लिखनू क्रोष्टा जम्बुक इव। स्पष्टमन्यत्। अन्नो- त्रार्धे कर्णाटान्ध्रदेशयभाषाप्रसिद्धलोकप्रवादानुकृतिः॥ यथावा- शिक्षितमपि कौटिल्यं त्यक्ष्पति नैवासुरप्रकृति हृदयम्। अपि वेणुदळाबद्धं श्वापुच्छं किमु ऋजू- भवेद्रगवन् ॥ १९०८ ॥ शुनः पुच्छं श्वापुच्छं 'शुनो दन्तदंष्ट्रा' इत्यादिना दीर्घः। अत्रान्ध्रदेशप्रसिद्ध लोकप्रवादानुकरणम्।।
शौरे त्वदन्यदैवं प्रत्येत्य भवाब्धितरणमाशं- यथावा-
सन्। विश्वस्य महाबुद्दुदमभिपतति प्रावृषेण्यस- रिति जनः ॥ १९०९ ॥
यथावा- महता योगेन त्वाममिह तावदुपास्य यो महो- दारम्। आलम्बेताल्पफलं शैलं खात्वाSडखुमेष गृहाति॥ १९१० ॥
सत्स्वपि सुदर्शनादिषु नखरैः प्रतिचस्करे त्व- यथावा-
या दैत्यः। ननु नरहरे किमर्था नखापनेये परश्व- थापेक्षा॥। १९११॥
Page 314
छकोक्तिसरः (९५) 303
यथावा- समितौ सतां निविशतां न तावता त्वत्कथां खलो गायेत्। लोकेश किंनु काक: पञ्जरनिहि- तोऽपि पञ्चमं ब्रूयात् ॥ १९१२॥ यथावा- त्वयि सर्वेऽप्युपचारा वन्ध्यास्स्युर्देवतान्तरास- ङ्गे। एकस्मिन् स्वैरत्वे नाथ सहस्त्रं व्रतानि न- श्यन्ति॥१९१३॥ यथावा- प्राकत्वद्नुग्रहहानादधुनाऽपि तवात्यनुग्रहविधा- नात्। अभजामाकिंघनतामेवंच पृथाभुवां न कि- ल राज्यम् ॥ १९१४ ॥ प्राक्त् अकिंचनतां दरिद्रतां अधुना अकिंचनतां उपाया- न्तरविधुरतां अभजाम। एवंच पेहिकश्रीरस्माकं दवीयसीति बिम्बमनादृत्य एवंचेत्यादिप्रतिबिम्बवर्णनात् ललितोजीवितेयम्। पूर्वोदाहरणेषूपमानिदर्शनाय्युज्जीवितत्वं द्रष्टव्यं बुद्धिमन्भिः। पषु सर्वेष्वपि पद्येषु तत्तंशीयलोकप्रवादानुकृतिः॥ इत्यलंकारमणिहारे लोकोक्तिसरश्चतुर्नवतितम:
अथ छेकोक्तिसरः (१५)
स्याच्चेलोकोक्तिरिन्स्थार्थगर्भा छेकोक्तिरिष्यते।
Page 315
304 अलङ्कारमाणेहारे
यथावा- त्वद्विमुखोडम्बुजलोचन मद्ंशे मा जनिष्ट कश्रिदषि। विकलरस्वयं पवङ्गस्सकलं वनमपि कदर्थयेन्नूनम् ॥ १९१५॥ अत्र 'मा जनिष्ट स नो वंशे' इत्युपक्रम्य 'आजन्मनि- धनं यस्य वासुदेवो न दैवतम्' इति वचनैकदेशार्थसंग्राहके प्रपन्नवचने विकलस्स्वयं प्रवङ्ग इत्यान्ध्रदेशप्रसिद्धलोकप्रवादोऽ नुकृतः । तत्र सर्वेश्वरेश्वरे त्वाय वैमुख्यमश्नुवानः अतिचपल- तया कपिप्राय एव। स हि अचिन्त्यान्गुताक्किष्टज्ञानवैराग्यभ- क्तिपारपूर्णतया महावनमिवातिगभीरतमं स्वकुलमपि स्वदौरा- त्म्येनाकुलयेदित्यर्थान्तरमपि गर्मितम्। यथावा- ननु कस्मिन् वल्मीके वृजिनगतिः कीदगस्ति- वेति वदन्। सङ्गत्स्जनस्यापि त्रस्यति भगवं- स्त्वदेकशरणो यः ॥ १९१६॥ वृजिनगतिः जिह्मगः। अत्रान्ध्रभाषाप्रसिद्धलोकप्रवादातु- कृतिः। प्राकृतो जनस्तमोमयतया दुर्जन्तुसंवलिततया चातिभ- यङ्करो वल्मीकप्राय एव तस्मिन् वृजिनगति: दुरितानुबन्धः की द्ग्वेत्यर्थान्तरगर्भता। अत्र- अप्येकपङ्गौ नाश्रीयाद्वाह्मणैस्स्वजनैरपि । को विजानाति कि कस्य प्रच्छन्नं पातकं भवेत् ॥ इति स्मृत्यर्थच्छायाऽनुसृता॥ इत्यलङ्कारमणिहारे छेकोक्तिसर: पञ्चनवतितम:
Page 316
वक्रोक्तिसर: (९६) 305
अथ वक्रोकिसर: (९६)
अन्याभिपायकान्योक्तमन्यथाडन्येन योज्यते। श्लेषेण यदि काका वा सा वक्रोक्तिरितीर्यते॥ यत्र अन्याभिप्नायकपुरुषान्तरोक्तस्यान्येनान्यथा यद्योजनं तदनुकूलोक्तिर्वक्रोक्तरित्यर्थः । सा वर द्विया, ग्ेषेण काक्का वा अन्यथा योजनात्॥।
तत्र श्षेषेण यथा- न क्ोध: कार्योडम्बुघिसुते त्वया नाहमम्बुधिः कस्मात्। नक्रमधः कुर्यामिति गिरा हरिं जय- ति मोहयन्ती श्रीः॥ १९२२॥ अत्र कोधो न कार्य इत्यभिप्रायेणोक्तस्य भगवद्वाक्यस्य नक्रः अधःकार्य इति भगवत्या श्रिया श्लेषेणार्थान्तरं कल्पितम्। यथाघा- नयनाव्जं न्यस्येर्मययि न नयाम्यव्जं स एष तब हस्ते। इति वचसा निजदयितं विमोहय- न्ती रमा तनोतु शुभम् ॥ १९२३॥ अत्र नथनाव्जं मायि न्यस्ये: कटाक्षं निक्षिपेरिति भगव- तोऽ्यर्थनवचनस्य नय न अब्जमिति पदच्छेदन न नयाम्यब्जं किन्तु स एप अब्जः शह्: तव हस्त ववास्त इत्यर्थान्तर- परिकल्पनम । ALANKARA_III. 39
Page 317
306 अलङ्कारमणिहारे
यथावा -- (युग्मं) किं चिश्यसि संलपितुं किंचिदुदश्चय कुतूहलं ललने। तैलिकहालिकनिकटे कुतूर्हलं चापि ल- भ्यते नात्र ॥ १९२४ ॥
कुप्यसि कस्माद्वनिते प्रसीद रूप्याकृते मयि प्रणते। कुप्येत्किं रूप्याकृतिरिति परिहसति रम दयितमब्धिसुता॥ १९२५ ॥
अत्राद्यक्षोके किश्चित्कुतू हलमाश्लेषादावुदश्चयेति भगवतो- क्स्य कुतू: कृत्तिस्नेहपात्रं हलं लाङ्गलं चेत्यनयोस्समाहार: कु- तूहलमित्यर्थान्तरं परिकल्पय यथाक्रमं तैलिकनिकटे कुतू: हालि- कनिकटे हलं च लभ्यते नात्रेत्युत्तरम्। द्वितीये तु हे रूप्या- कृते प्रशस्तरूपाकारे हे वनिते जनितात्यनुरागे 'वनिता जनि तात्यर्थानुरागायां च योषिति' इत्यमरः। प्रणते मयि कस्मात् कुप्यसि कोव विधत्से इति भगवतोदितस्य आहतं रूपमस्य रूप्य तस्येवाकृतिर्यस्या इत्याहतरूपहेमरूप्यान्यतरतुल्याकृतित्वरू- पार्थान्तरम् : कुप्यसीत्यस्य कुप्यं कृताकृतहेमरूप्यभिन्नं ताम्र- कांस्यादि तदिवाचरसत्यर्थ च कल्पयित्वा रूप्याकृतिः कथ कुप्येदित्युत्तरं भगवत्या जगज्जनन्या वितीर्णम्। रूप्यशब्द: 'रूपादाहृतपशंसयोर्यप' इति रूपशब्दादाहतप्रशंसयो (र्थयोर्यण्प्र- त्ययेन निष्पन्नः । 'स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते। ताभ्यां यदन्य त्तत्कुप्यं रूप्य तह्यमाहतन' इत्यमरः ॥
Page 318
वक्रक्तिसरः (९६) 307
यथावा- उत्सृज्य मानकाटवमुदधिभवे मधुरमस्तु तव हृदयम्। न दधिभवाऽहं किंतूदधिजाता मस्तु मम कर्थं हृदयम् ॥ १९२६॥ अत्र रोषकाटवमुत्सृज्य तव हृदयं प्रियं भवत्वित्यर्थकस्य उत्सृज्य मानकाटवं मधुरमस्विति वाक्यस्य उत्सृज्यमानं काटवं येन तत्तथाविधं मधुरं सस्तु दधिमण्डसित्यर्थान्तरं परिकल्प्य न दधिभवाऽहमित्यादिना उत्तरम्॥ यथावा- अत्र पुमासं परमं विद्धि स्थितमब्जदलविशा- लाक्षि। मांसं या त्रपु विद्यातां प्रत्युपदेश एष सफलस्स्यात् ॥ १९२७। अत्र त्वदग्रे स्थितं मां परमपुरुषं विद्धीतर्थकस्य अत्र पुमांसमित्यादिभगवद्वाक्यस्य या मुग्धा मांसं त्रपु विद्यात तां प्रति मांसं अत्रपु इत्युपदेशस्य साफल्यमित्यर्थान्तरकल्पनेन श्रिया उत्तरम ॥ यथावा- तव नायकेन तन्वि प्रतिहारे स्थीयतां किय- त्कालम्। ननु नायकेन हारे हारे स्थातव्यमेव सततमपि॥ १९२८॥ द्वारे तव प्रियेण कियदवधि स्थातव्यमित्यर्थकस्य तव नायकेनेत्यादिभगवद्वाक्यस्य नायकमणिना प्रतिमुक्ताहारमपि
Page 319
308 अलङ्गारमणिहारे
स्थेयमेवेत्यर्थान्तरविधानेन लक्ष्या उत्तरम। हारेहारे प्रति- हारे इत्यव्ययीभावः । 'तृतीयासतम्योर्बहुलम्' इत्यमूभावाभाचः॥
यथावा- सहजमरुदधिप एष त्वय्यतितृष्णस्सुधापयो- घिसुते। सहजं मरौ दधि विबन्नतितृष्ण इती- दमतितरां चित्रम् ॥ १९२९ । अत्र सहोदरो मघवा यस्य स उपेन्द्र: त्वय्यतिमात्रस्पृह इत्यर्थकस्य सहजमरुदधिप इति भगवद्वाक्यस्य सहज यथा स्यात्तथा मरुदेशे दधि पिवन् अतिवेलपिपास इत्यर्थान्तरक- रणेन श्रिय उत्तरम्। इमानि 'न कोधः कार्योऽम्बुधि' इत्यादीनि पद्यानि प्रणयकलहे श्रीश्रीवल्लभयोरुंक्तिप्त्युक्तिरुपाण। यथावा- व्रजसुमुखि न तिष्ठामि व्रजामि भो नन्दगोप- वंशमणे। व्रजसि यदि त्वं नन्देत्कथमयमिति शौरिरग्रहीद्रोपीम् ॥१९३० ॥ अत्र व्रजसुमुखीति गोपललनां प्रत्यभिमुखीकरणाय सम्वु- द्धयन्ततया भगवता प्रयुक्तस्य समस्तपदस्य समुखितया व्र. जसुमुख्या हे सुमुखि व्रज गच्छेति श्षेषेणार्थान्तरं परिकल्प्य न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे इति भगवन्तं प्रति वक्रोत्तरं व्यतारि। तेनापि तथा संबुद्धचन्ततया प्रयुक्तस्य नन्दगोपवंशमणे इत्यस्य समस्तस्य पदस्य हे गोपवंशमणे नन्द मोदस्व इति छेदेनार्थान्तरं प्रकल्ण्य त्वं व्रजास यदि एवं वदन्तं मामुपेक्ष्य गच्छसिचेत् अथ त्वत्पारष्वङ्गमभिलष-
Page 320
वक्रोक्तिसर: (९६) 309
माण: कथ नन्देदिति वक्रोक्तचैव स्वाभीप्सितं भगवता प्रका- शितमिति वक्रोक्तरुजीविता वक्रोक्तिरियम। यथावा- मन्ये त्वं च्युतधीर्यन्न संलपन्त्या मयाSडळि संलपस। अच्युतघियं वृथा मां च्युतघियमात्था- ळि सत्यमच्युतधी: ॥१९३१॥ इदं कयोश्चिद्वजसुभ्रुवोरुक्तिप्रत्युक्तिरूपं पद्यम्। अत्र मन्ये इत्यादि पूर्वार्ध किमपि ध्यायन्तीं कांचित्सखीं प्रति कस्या- श्वित्सख्या उक्तिरूपम् । क्युतधीः गळितमतिः निश्चेतनेत्यर्थः। उत्तरार्धे अच्युतधियमित्यादि आत्थेत्यन्तं अन्यस्यास्तां प्रत्युक्ति:। आळीत्याद्यवशष्टवाक्यं पुनस्तां प्रति वदन्तीं प्रत्याद्याया उक्तिः। अत्र ऋजुबुद्धया कमपि वृत्तान्तं प्रत्सुवत्या कयाचि- त्प्रतिवाचमददानां सखीं वीक्ष्य नूनं त्वं निश्चेतनाऽसीत्युक्तम्। तया च नाहं निश्चेतनेत्यभिप्रायेण अच्युतधियं मां वृथैव च्युतधियं व्रवीषीति प्रत्युक्तम। पुनस्तया सखि सत्यं त्वं अच्युतधीः कृष्णानुषक्तहृदयैवासि अन्यथा संलपन्ती मां कथं न संलपसीत्यर्थान्तरं कल्पितम्॥ यथावा- सारसनाभाश्लेषं साख घटय ममेति मुग्धया गदिते। घटयितुमेवोद्योगो ममेति सस्मितमुवाच सैरन्ध्री ॥ १९३२॥ अत्र मुग्धया कयाचिद्रोपबालिकया प्रसाधयित्रीं शिल्प- कारिकां प्रति ऋजुबुद्धचा सारसनस्य मेखलायाः आभायाः
Page 321
310 अलक्कारमिहारे
प्रभाया: आश्लेषं संबन्धं मम घटयेत्यभिप्रायेण प्रयुक्तस्य सारसना- भाश्लेषमित्यादिवाक्यस्य सारसनाभस्य पद्मनाभस्य श्रीकृष्णस्य आश्लेषं उपगूहनं घटयेति श्ेषेणार्थान्तरं प्रकल्व्य घटायतुमे- वायं परिष्कारोद्योग इत्युत्तरं प्रौढया सैरन्ध्रया दत्तम्॥ यथावा- गोपालिके विलोकय किंचिदितः किं विलोक- याम्यलिके। गोपेत्यामन्त्रयसे गोपीं मां मुग्ध गोप एव त्वम् ॥ १९३३॥ अत्रात्मानं प्रति कटाअप्रसारं प्रार्थयमानेन हे गोपालिके गोपि इतः किंचिद्विलोकयेति भगवता श्रीनन्दनन्दनेनोक्तस्य गोपालिके विलोकयेति वाक्यस्य हे गोप अलिके ललाटे किंचिद्विलोकयेति श्ेषेण प्रकल्प्यान्यमर्थ किं विलोकयाम्यलिके इत्यादुत्तरं वितीर्ण विदग्धया वजवराराहया। हे मुग्ध मूढ सुन्दरेत्याकूतं त्वमेव गोप इत्यन्वयः । नाहं गोप: किंतु गोपी। एवं स्त्रीपुंसभेदस्याप्यनवगमेन स्त्रियं पुंवाचकशब्देनामन्रयमा- णस्त्वमेव पशुपाल इति भावः । यद्वा यथाश्रुतमेवान्वयः । एवं वदन् त्वं गोप एव । यदि नागरक एव भवेः कथमेवं ब्रूया इति भावः। गोपालकस्य स्त्री गोपालिका। पुंयोगलक्षण- ङषः 'पालकान्तान्न' इति निषेधः । टापि 'प्रत्ययस्थात्' इतीत्वम् ।। यथावा- कबळयितुं खलु शक्यो मया शुनासीर एव किमुतान्यः। नेष्टे ग्रसितुं सीरं श्वेति मुरं प्रति वदन् हरिर्जयति ॥ १९३४॥
Page 322
वक्रोक्तिसरः (९६) 311
अत्र इन्द्रोऽपि मया ग्सितुं शक्य इत्यम्निप्रायेण मुरेणो- क्तस्य कबळयितुमित्यादे: शुना शुनकसदशेन त्वया सोर: अर्कः शुना शुनकेन हलं वा ग्रसितुं न शक्यमिति भगवता अर्था- नतरस्य कल्पनया प्रत्युत्तरं प्रतिपादितम्। 'सीरोऽर्कहलयोः पुंसि' इति मेदिनी। सर्वमिदमविकृतश्लेषवक्रोक्तेरुदाहरणम्॥ विकृतश्ेषवक्रोक्तिर्यथा - ऋ्ेषस्याविकृतत्वं च समभिव्याहृताक्षरापरित्यागनार्थवर्ण- नम्। विकृतत्वं च कस्यचिदवर्णस्यायापोदापास्यां भवति॥ असमस्सुशोभमानो जगदीशो वामदेव एवा- यम्। असमस्सुशोभितश्रेत्स एव जगदीश्वरो न संदेहः ॥ १९३५॥ इदं शैववैष्णवयोस्संवादरूपं पद्यम्। तत्र असमः अस- हशः सुशोभमानः देदीव्यमानः अय अस्मदुपास्यः वामदेवः विरूपाक्ष एव जगदीश इति शैवेनोक्तम् । वैष्णवेन तु-वासु- देव एव जगदीश इत्यभिप्रायेण समः मकारसहितः सन भव- तीत्यसमः सुशोभितः च्यावितमकारस्थानकेन सुकारेण शोभि- तश्चेत् स एव वामदेवो जगदीशो न संदेह इति। वामदेव- शब्दे मकारोद्वापं तत्रैव सुकारावाप च विधायार्थान्तरं श्लेषेण परिकल्पितम् ॥
यथावा- वाणासुरवरदायी काशीपुरवहनपटुरयं परमः। वेदं पठात्र परमः क इति तदा वेत्सि किंनु बहु- जल्पैः ॥ १९३६॥
Page 323
312 अलक्कारमणिहारे
अयमपि शैववैष्णवयोरेवोक्तिप्रत्युक्तिरूप: श्रोक:। काशी- पुरस्य वहनं उद्धरणं रक्षणमिति यावत्। तस्मिन् पट्ट: दीणासुरवरदायी काशीपुरवहनपट्ठः अय शिव एव परमः उत्कृष्ट इति शैवेनोक्तम। वेद पठ अत्र परमः क इति तदा वेत्सि 'तमीश्वराणां परम महेश्वरं तें दैवतानां पर्मच दैव- तम् । अग्निरवमो देवतानां विष्णुः परमः' इति श्रुतिपठने परमः को वा स्यादिति त्वमेव जानासीति प्रतिवदता वैष्णवेन अत्र त्वदुक्तयो: बाणासुरवरदायी काशीपुरवहनपटुरिति पदयो: वे वकारस्थाने दं दकारं पठेति वकारोद्वापनेन तत्रैव दकारा- वापनेन च बाणासुरदरदायी काशीपुरदहनपटुरयं श्रीवासुदेव एव परम इत्यर्थस्य परिकल्पनादिदमपि विककृतश्लेषवक्रोक्तयुदा- हरणमेव ॥। यथावा- मीनेक्षणे त्यज रुषं कमनं पुरतस्स्थितं निरी- क्षस्व। मन्दं जल्प शठात्रेत्यवनी श्रीशं तिरश्ष- कार रुषा ॥ ११३७॥ इयं मानकलुषिताया भूदेव्या: प्रसादनाय भगवदुक्तौ तद्व- क्रोक्तिः। मीनेक्षणे इत्यनेन निसर्गप्रसन्नलोचना त्वं नैवं जात्वपि रोषाविललोचनेति द्योतितम्। पुरतः स्थित प्रार्थनार्थमिति भावः। कमन त्वां कामयितारं वलभं मां न तूदासीनतयाऽवस्थित- मिति भावः । निरीक्षस्वेति भगवत्कर्तृकप्रसादनोक्तिः । मन्द जल्प शठात्रेति भूदेव्या: प्रत्युक्तिः। है शठ गूढविप्रियकारिन् अत्र मम संनिकर्षे मन्दं जल्प न तूञ्चैः, विधाय विप्रियमति- मात्रं निर्भरानुरागमेदुर इव स्वैर मा वादी: जाने त्वामिति भावः।
Page 324
वकोफ्तिसर: (९६) 313
अत्र त्वज्जल्पितयोः मीनेक्षणे कमनमिति पदयोः स्थितं में मकांर दं दकारं जल्प मकारं दकारतयोच्चारयेत्यर्थः । तदा दीनेक्षणे कदनमिति निष्पदयते। त्वया वश्चितां मां दीनेक्षणे इति संबोधय। कदनं मनोव्यथेति यावत्। पुरत एव स्थितं एवं वश्चयति त्वाय स्पष्टमेवाग्रे स्थित न तु मीमांसनीयमिति भावः। अत्र मकारच्यावनेन तत्रैव दकारविन्यसनेन च विक्वृतेन श्ेषेणार्थान्तरपरिकल्पनम्॥ यथावा- यशशुक्कभासितरुचिर्येन वलक्षश्रियोदधारि ग्लौः। स वृषाकपिस्तिजगतां नाथोडलं वद पुन- स्स एव भवेत् ॥ १९३८॥ अयमपि शैववैष्णवोक्तिप्रत्युक्तिरूप एव। यः शुक्ा शुभ्ा भासीती भसितसंवन्धिनी रच यस्य स तथोक्तः धवळभ- स्मोडूळित इति यावत्। वलक्षश्रिया स्वतः पाण्डुरमूर्तिना येन ग्लौः शशाङ्क: उदधारि उच्छतत्वेन धृतः शिरसा धृत इति यावत्। सः वृषाकपि: हरः त्रिजगतां नाथ इत्यमिप्राय- वती शैवोक्तिः। वैष्णवेन पुनः-अलं पुनर्वद पर्यात्तं पुनर्ब्रहि पर्यालोच्य व्रया इत्यर्थः। स एव त्वदुक्त एव त्रिजगतां नाथो भवेदित्यन्वारुह्य वद अलं लकाररहितं वदेत्यर्थान्तरगर्भीका- रात्वदुक्तवाक्ये लकारलोपेन यः शुकभासितरुचि: येन वक्ष- श्श्रिया उद्धारि गौरिति निष्पाद्य यः शुक इव भासिता रुन्ति- र्यस्य स तथोक्त: मरकतश्यामल दवति भावः । वक्षसि श्रीः यस्य वक्षशश्रीः तथोक्तेन येन गौ: भूः उदधारि उद्धता 'उद्ध- ALANKARA-III. 40
Page 325
814 अलङ्कारमणिहारे
ताऽसि वराहेण कृष्णेन शतबाहुना' इति श्रुतेः । सः टषाकपिः भगवान् विष्णुरेव 'हरविष्णू टषाकपी' इत्यमरः । त्रिजगतां नाथ इत्यभिमायपरतया योजिता। अत्र लकारस्योद्वापमात्र- मिति विशेष: । यथावा .- शिव एव हि लोकस्याधीश इति त्वं ्रवीषि ननु विद्वन्। वाचालोच्युत एव स इति बद तत्त्वं त्वमेव जानासि ॥ १९३९ ॥ वाचाल: वाचाट: त्वं शिव एव हि लोकस्याधीश इति ब्रवीषि ननु अच्युत एव सः लोकस्याधीश इति वद। सः शिवः अच्युत एव अच्युतात्मक एव। अच्युत एव स इति वा योजना। अच्युत एव शिवो मङ्गळमूर्तिः 'शाश्वतं शिव- मच्युतम्' इति श्रुतेः। अतएव लोकस्याधीश इति वद। पक्षे वाचेति भिन्नं पदम्। सः शिवः लोच्युत एव लोकारच्यवनं प्राप्त एव लोकस्याधशः कस्याधीशः न कस्थाप्यधीश इति वाचा वद। तत एव तत्वं जानासि सर्वेश्वरेश्वरे भगवति नारा- यणे जागति कस्यायमधपतिस्स्यादिति भावः । अत्रापि वक्रो- को वर्णोद्वापमात्रम्। सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम्। अर्थक्षेष- मूलाया यथा- गोपाल: क पशूनां पतिः क वा क्वाद तन्वि गौश्चरति। तद्वेद वृषभवाहन इति नर्मवचोऽवता दुमारमयोः ॥१९४० ॥
Page 326
वक्रोफ्तिसरः (९६) 315
अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्राय- गर्भ पशूनांपतिः क्व वेत्यादिना महेश्वरटत्तान्ताविष्करणाभिप्राय परतया श्रिया योजितम्॥ काक्का यथा- वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जा- ने Sहम्। न विजानासि नतभ्ररित्याश्लिष्यन् हरि- र्जयति गोपीम् ॥१९४१ ॥ अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेझीति ऋजुमतितयाऽनुयुञ्जानां वजललानां प्रति न विजाना- नासीति काक्का अर्थान्तरकल्पनम्॥। काकुविकृतश्लेषाश्यां मिळिताभ्यामरीयं भवति। यथा- प्रचुराजिपटीयांसं दाशरथे विप्रवर्णमुख्यं मामू। विद्धि प्रसन्नशस्तरं बहुमन्ये भृगुज साधु विप्रं त्वाम् ॥ १९४२॥ अयं भार्गवराघवयोस्संवादरूपश्श्लोकः। तत्र प्रचुरसमर- पटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्व- महीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य हे भृगुज! साधु विप्रं त्वां बहुमन्ये इति काक्का अहो तव ब्राह्मण्यमित्या- कूतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम्। अत्रैव हे भृ- गुज! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्ण मन्ये इति प्रवर्णोद्धारेणार्थानतरकल्पनं च। तथा सति चुराज़िपटी- यांसं विवर्णमुख्यं सन्नशस्त्रमिि च निष्पद्यते। चुरा चौर्य
Page 327
316 अलक्कारमणिहारे
तत्प्रचुरा आजि: युद्धं तत्र पटीयांसं 'तस्कराचरितो मार्गो नैष वीरनिषेवितः' इत्युक्तरात्या नौर्यसमरपटुतरं पामरमुख्यं 'विवर्ण: पामर' इत्यमरः। सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः॥ श्लेषकाकुभ्यां विना योजनाभेदेनार्थान्तर कल्पनेऽपीयं सभ- वति। यथा- न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे। वेदि न मय्यनुरक्तं त्वां नीलां रख्जयन्तमेव हरे॥ ५९४३॥ अत्र त्वय्यनुरक्तोऽहं नीलां नानुरअ्येयेति भगवता विव- क्षिताया योजनाया: यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पि- तमिति भवति वक्रोक्तिः। यद्यप्येवविधा वक्रोक्ति: प्राक्तनैर- वोक्तनैर्वा न विवेचिता। तथाऽपि तादृदशचमत्कृतिसद्भावाद्वक्रो-
इत्यलक्कारमाणेहारे वक्रोक्तिसरष्षण्णवतितमः
अथ स्वभावोक्तिसर: (१७)
जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते॥ जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽल- झारः। आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते। यथा- वत्सस्मरणप्रस्नुतसुपीवरो्रीं विलोलतरसा-
Page 328
स्वभाबोक्तिसर: (९७) 317
स्नाम्। हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥। १९४४ ॥
गव्यां गवां समूहं 'तस्य समूहः' इत्यधिकारे 'खलगो- रथात्' इति यन्। सुपीवराण ऊधासि आपीनानि यस्यास्तां तथोक्तां 'ऊधस्तु कीबमापीनम्' इत्यमरः। 'ऊधसोऽनङ' इत्य- नडि 'बहुब्राहरुधसो जीष्'। स्फुटार्थकमन्यत्। अत्र गोजाति- स्वभावस्य वर्णनम्॥ ख्जितहरिनीलमद मसजुलतापिञ्छपिञ्छसच्छा- यम्। अञ्जनयति मामकटशमअ्जनगिरिकुञ्जधाम- हरिधाम ॥ १९४५॥ अञ्जनगिरिकुञ्जधामा यो हरि: तस्य धाम रोचि: इद कर्तृ। मामकदशं अञ्जनयति अञ्जनवती करोति अञ्जनशब्दा- न्मतुबन्तात् णाविष्ठवद्भावेन 'विन्मतोः' इति मतुपो लुक्। अत्र गुणस्वभाववर्णनम् ॥ इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिग- तम्। अन्योन्यप्रािताहृतद्गन्तमाभातु दिव्यमि- थुनं तत् ॥ १९४६ ॥ अत्र क्रियास्वभाववर्णनम्॥ उरसि रमां निदधानं करयोश्चकं दर च विद- धानम्। कनकाम्बरं दधानं कनतान्मम मनसि फणिगिरिनिधानम्॥ १९४७।
Page 329
318 अलंकारमणिहारे
मितसितहसितविकम्वरकपोलफलकं कुरङ्गम- दतिलकम। वृषशिखरिनित्यभोग्यं वृणीमहे मन- सि किमपि सौभाग्यम ॥ १९४८॥ अनयो: पद्ययोर्द्रव्यस्वभाववर्णनम्। इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः
अथ भाविकसरः (९८)
वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी। प्रत्यक्षे इव दश्येते यत्र तद्राविकं मतम् ॥
माणत्वं भवति स भाविकालङ्कारः। न चातीतानागतयोः प्रत्य- क्षवदवभासो विरुद्धः, अत्यद्भतवस्तुवर्णनेन भाविकानां हदि भावनोदयात्। तथाच भावनायाः प्रकर्षण घटत एव प्रत्यक्षा- यमाणत्वं भूतभाविनोरण्यर्थयोः। यथा- वृक्षेट्क्षे च पश्यामि चीरकृप्णाजिनाम्बरम्। असीनस्संविशंस्तिष्ठन् भुञ्जान: पर्यटन् पिबनू। चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥ इत्यादी। न चेयं स्वभावोक्ति:, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता। इह तु अन्भुंतत्वेन। नापि रस- वदादयलङ्कार:, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा-
Page 330
भाविकसरः (९८) 319
व्यत्व न त्वद्भुतत्वेन। न चोत्प्रेक्षा, अतीतानागतयोः प्रत्यक्ष- त्वेन संभावनाभावात्। नापि भ्रान्तिमान्, भावानाया अभ्रान्ति- कृतत्वात्। तस्मात्सर्वोत्तीणो विलक्षण एवायमलंकार इति वदन्ति ॥ यथा- विकटोद्गटाट्टहासं विदलयतो दितिसुतेन्द्रहृद- यतटीम्। अद्यापि सिंहशिखरिणि नरसिंहस्या- र्भटी स्फुटीभवति॥१९४९॥ सिंहशिखरिणि शेषाद्रौ तदेकदेशभूते अहोबिले इति यावत्। अत्र हिरण्यकाशपुवक्षोऽतरविक्षोभणदक्षोल्वणसंरम्भस्य श्रीनृसिंहस्य भगवतः अत्यद्भतातीतमहार्भटीवर्णनेन तथाविध- भावनया तादृशप्रत्यक्षायमाणता। भीषणत्वोन्भावनमिदम्।।
यथावा- जनयन्ति मोदमक्ष्णोस्सनकसनन्दनसनत्कु- माराद्याः। अद्याप्यधिभुजगाचलमाद्या मुनयो हरिं भजन्तो नः ॥ १९५० ॥
स्थानमाहात्म्योन्भावनमिदम्॥। यथावा- पत्रीश्वरमधिरूढे यात्रोत्सवकौतुकादाहिगिरी- न्दौ। ग्राहगृहीतगजावनसंभ्रममद्याप्यमुष्य प- श्यामः॥१९५१॥
Page 331
320 अलङ्कारमणिहारे
यथावा- सम्मर्दकुपितबलपतिवेत्रहतित्रुटित कोटिकोटी- रान्। अद्यापि पद्मजाद्यांस्त्वद्वारीक्षामहे वृषाद्रि- मणे ॥ ११५२ ॥
यथावा- भवता वालिदशास्यौ भग्नौ रघुवीर दृष्टवन्तं पूर्वभ। अहहा इत्यधुनाऽपि च सहस्रनयनं सहा- स्ननयनं वीक्षे॥ १९५३ ॥ अहह आ इति छेदः। एतौ द्वावि निपातौ यथाक्रमं वालिस्मरणजनितखेदे रावणस्मरणान्भते च वर्तेते। आ इती- त्यत्र 'निपात एकाजनाङ्' इति प्रकृतिभावः। अडिदेवायं निपातः, स्मरणार्थकत्वात्। अनुशिष्यते हि 'वाक्यस्मरणयो- राङत' इति। अहह आ इति अय दुःखाश्चर्यद्योतको वागा- रम्भसंभवोऽनुभावः । अहह आ इति अद्यापि अस्त्रेण शोकान- न्दजन्येनास्रेण सह वर्तन्ते इति सहास्राणि 'वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वान्न सहशब्दस्य सभावः। तादृशानि नय- नानि यस्य तं तथाविध अद्यापि वालिवधजनितशोकाश्चुनयनं रावणवधजनितप्रमोदाश्रुनयनं च वीक्षे इति भावः। पक्षे सह- स्ननयनशब्दं अहहाः अविद्यमान: हः हकारो येन सः अहः अहः हाः हा इति वर्णः यस्य तथोक्तः हकारच्यावनेन तत्रैव हाकारेण घटित इत्यर्थः । इति हेतोः सहास्रनयनं वीक्षे उक्त- रीत्या सहस्रनयनशब्दस्य तथाभूतत्वादिति भावः। इदमपि भूत- विषयसाक्षात्कारवर्णनमेव। चमत्कारान्तरं तु पूर्वेभ्यो विशेषः॥
Page 332
उदात्तेसर: (९९) 321
सर्वमिद भूतविषयसाक्षात्कारवर्णनम्। भविष्यद्विषयसाक्षा- त्कारघर्णन यथा- अनुदिनमनुसंधानादचिर्मुख सरणिभाविसंमा- नाः। अदैव वसन्ति दशोः पद्यायां श्रीनिवास तव कृपया॥ १९५४ ॥
संमानानां भाविनां साक्षात्कारवर्णनम्। इत्यलङ्कारमणिहारे भाविकसरोऽष्टनवतितमः
अथोदात्तसरः (९९)
तदुदानं वस्तु यत्र वर्ण्यते सुसमृद्िमत्। अन्योपलक्षकं श्लाध्यचरित्रं वा निबध्यते॥ यत्र संपत्समृद्धिमद्स्तु वर्ण्यते, यत्र च महापुरुषसंब- न्धिश्लाध्यचरितं 'यत्रायं सारसस्स देवदत्तकेदारः' इतिवदु- पलक्षकतया वा निबध्यते तत्रोदात्तालङ्गारः। उपलक्षकं ज्ञाप- कम्। स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम्। तद्विपक्षत्वे- नारोपितवस्त्वात्मनः प्रथमोदात्तस्यावसरः। तत्रासंभाव्यमानवि- भूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमु- दात्त प्रथमम्। द्वितीयं तु महापुरुषाणामुदात्तचरितानामङ्गि- भूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितम्, महापुरुषचरित- स्योदात्तत्वात् ॥ ALANKARA_III. 41
Page 333
322 अलङ्कारमणिहारे
यथा-
विते। सह महिला विहरन्ते गृहनिवहे त्वत्कटा- क्षिताइशौरे ॥ १९५५॥ इदं समृद्धचुदाहरणम्। अत्रासंभाव्रयमानविभूतियुक्तानां भगवत्कटाक्षितानां वर्णनाल्लक्षणसंगतिः । संभाव्यमानविभूति- युक्तस्य वर्णने तु नायमलंकारः ॥ यथा- परिखचितवज्रेखास्फुरित महानीलजालचा- रुतमाः । सतटिज्लदभ्रमदा वृषशिखरिणि भा- न्ति ते विहारगृहाः ॥१९५६॥ अत्र हि महाविभूतेर्भगवतो विहारगृहाणां वस्तुत एव संभवतीदृशविशेषः। अत एवास्य कविप्रतिभोत्थापितत्वमु- क्म्। पवंचास्य नामापि सार्थकमिति विमर्शिनीकारः ॥ श्राध्यचरितंस्योपलक्षकत्वे यथा- जयतु स शैलो यत्र त्यक्तासत्रं केनचित्निमित्ते- न। श्रीवासमब्जचक्रे यतिराजो ग्राहयामास॥ यतिराज भगवद्रामानुजाचार्यः । केनचिन्निमित्तेन तोण्ड- मान्नृपारय रिपुविजयकृते वितीर्णयोश्शङ्गचक्र्रयोः पुनस्तद्वरदा-
निमित्तेन त्यक्तास्त्रं त्यक्तशङ्गचक्रं भगवन्तं श्रीनिवासं शङ्ग- चक्रे ग्राहयामास। 'अजग्रहत्तं जनको धनुस्तत्' इतिवाट्टिकर्म- कता। अत्र-
Page 334
उदात्तसर: (९९) 323
मा भैषी: पुत्र भद्रं ते शङ्चक्रौ ददामि ते। ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः॥ इत्युक्ता प्रददी तस्मै ताभ्यां सह जगाम सः। तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम्॥ आजग्मतुः क्षितिभृता साकं देवस्य संनिधिम्। राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः । वरं वरय भद्रेति देवो राजानमब्रवीत्। राजा-ममायुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ॥ अर्चाबिम्बे शिलाबिम्बे चक्रशङ्के न धारय। इति संप्रार्थितो देवो न दधार पुनश्च तौ। अदृश्यौ तिष्ठतश्चोभौ पार्श्वतश्शार्ङ्गधन्वनः ॥
रितश्रानिवासशङ्मचक्रपरिग्रहकथा चेहानुसंघेया। अत्र श्रा-
हापुरुषचरित्रस्य वर्णनीयं वेंकटाद्रिं प्रत्युपलक्षकत्वम्॥ यथावा- स शिलोच्चयो विजयतां यत्रामृतदोऽप्यशेष- विबुधानाम्। कंचन विबुधं तातेत्यामन्त्रयायाच- तामृतं जगज्जनकः ॥ ११५८॥ अनेकेषां विबुधानां देवानां विदुषा वा अमृतद: सुधाप्रद: निश्श्रेयसप्रदो वा जगजनकः श्रीनिवासः कंचन विबुधं श्रीशै- लपूर्णनामानं महात्मानं विपश्चितं तातेति आमन्त्रय संबोध्य अमृतं सुधां निश्श्रेयसं वा। वारीति तु तत्त्वम्। अयाचत दवीयस्तरात्तुम्बुरुतीर्थादनुदिनं स्वाराधनकृते तीर्थानयनकैंकर्य-
Page 335
324 अलंकारमणिहारे
मारचयत्यमुष्मिन् कृपया तादृशसार्वकालिकश्रमं तस्य परिजिही- पुंश्शबरवेषधरो भगवान् श्रीनिवासस्ताद्ृशभूमिकया श्रिया सह मध्येमार्गमश्येत्य तं तत्तीर्थ ययाचे। स चतं शबरमेव सत्वा न व्यतारीद्दगवरदर्हणायानीयमानं तीर्थम् । अददाने च तरंमि" स्तत्तीर्थ भगवांस्तदुत्तमाङ्गधृतं तदुदकुम्भं निर्भिद्य तन्प्रस्त्नतां वारिधिागमास्येनागृह्णात्सह जायया। भगवदर्दणार्थमानीयमानं तीर्थ शबरेण दूषितमिति तदवाशीष्टमखिलमपि तीर्थ तत्रैव परिहृत्य पुनस्तरां तद्ानयनाय तुम्बुरुतीर्थ प्रति प्रस्थिते च तस्मिन् भगवान् कृपया स्वमैश्वरं रूपं प्रदर्श्य नेतःपरमनुदिनं तुम्बुरुतीर्थाद्दवीयसो मदर्हणायाहरणीयं पानीयं, अलमेतावतैव कैंकर्येण तुष्टोऽस्मीत्यभिधाय- यस्तातेति मयाऽडहूतस्स तात इति-गीयते। इति वरं वितीर्यान्तरधात्। इत्यैतिधम्। अत्र 'तातेत्यामन्त्रय कंचिद्वनभुवि तृषितस्तोयबिम्दुं ययाचे' इति श्रोकपादार्थोऽनु- कूलः । अत्राप्युक्तप्रकारेण महापुरुषचरित शेषाचलाङ्गतया वर्णितम ॥ अङ्गिभूतस्य वस्तुन उत्कर्षप्रतिपिपादयिषया अद्वित्वेनोप- निबध्यमानं महापुरुषचरितमेव तदलंकाराङ्गम्। न तूपलक्षण-
नयनायनगोचरतामयते द्विसहस्त्रनयनगिरि- राजः। वित्रासिनीं रिपूणां यत्राऽवदत्ताद्गुतां गुह- इशक्तिम्॥ १९५१ । इत्यादौ नायमलंकारः। अत्र हि षाण्मातुरचरितमुपलक्ष- णमात्रं विवक्षितं न तु तेन गिरे: कोऽप्युत्कर्षो विचक्षितः॥
Page 336
अत्युक्किसरः (:००) 325
यथावा- कोऽपि स पुमान्विजयतां यद्ण्टा श्रुतिशिरो- गुरुर्भूत्वा। उदजीवयदुक्तय मृतैर्दुर्मतकथकविषमू- र्छितं भुवनम् ॥ १९६०॥ यस्य श्रीनिवासस्य घण्टा कत्री श्रुतिशिरागुरुर्भूत्वा- वित्रासिनी विबुधवैरिवरुथिनीनां पझ्मासनेन परिचारविधौ प्रयुक्ता। उत्प्रेक्ष्यते भुवि जनरूपपत्तिभूम्रा घण्टा हरेस्समज़निष्ट यदात्मनेति ॥ इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः। शिष्टं स्पष्टम्। अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादाय- षया तद्दण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्ग- तया निबद्धम।। इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितम:
अथात्युक्तिसरः (१००)
अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते। अन्भुतस्यासत्यस्य असंभावितस्य शौर्यादेवर्णनमत्युक्तिर्ना- मालङ्कारः। आदिशब्देनौदार्यकीर्त्यादेर्ग्रहणम्॥
बहिरन्तर्जुलता श्रीनाथ त्वत्तेजसादभ्गुततमेन। यथा-
ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिर- रचि॥ १९६१॥।
Page 337
326 अलंकारमणिहारे
हे श्रीनाथ! बहिः अन्तश्च ज्वलता अन्भततमेन सूषा- निहितकनकरजःकणादिविलापनमात्रकारिणः प्रसिद्धादग्नेरपप व- क्ष्यमाणरविकिरणद्रवीकरणघनीभावोभयकल्पकतया विलक्षणेनेति भावः। तव तेजसा प्रतापेनैव अग्निना। मूषैव सूषिका तैज- सद्रव्यविलापनी 'तैजसावर्तनी मूषा' इत्यमरः । तस्यां रवेः रुचि: जात्यभिप्रायकमेकवचनं, किरण्ण इत्यर्थः। आवर्त्य विलाप्य कनकगिरि: अरचि। आवर्तिताः प्रभाकरकरा एव घनीभाव- नया सुमेरुत्वेन निष्पादिता इति भाव:॥ यथावा- ब्रह्माण्डान्तरसृष्टयै परितो जूलता तव प्रतापे- न। जगदण्डमूषिकायामस्यामावर्त्यते सुवर्ण- गिरिः ॥ १९६२॥ ब्रह्माण्डान्तरस्य 'तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्' इत्युक्तप्रकारस्यान्यस्य ब्रह्माण्डस्थ सृष्टचै सृष्टि कर्तु 'क्रियार्थ' इत्यादिना चतुर्थी। परितः समन्ततः ज्वलता तव प्रतापेन अस्यां विद्यमानायां जगदण्डमेव मूषिका तस्यां सुवर्णगिरि: हेमाद्रि: आवर्त्यते विलाप्यते। ब्रह्माण्डमूषिकायां सुवर्णगिरिद्रवीकर- णोक्तया प्रतापे अग्नित्वं गम्यते॥। यथावा- परतस्त्रिपाद्विभूते: परितस्स्फुरता ककुत्स्थकु- लभानो। अत्यर्कानलदीप्तिर्नित्यं त्वद्योधतेजसाS- रचि सा ॥ १९६३॥
Page 338
अत्युक्तिंसर: (१००) 327
त्रिपाद्विभूतेः 'त्रिपादस्यामृतं दिवि' इति श्रुतायाः नित्य- विभूत: परतः परितः स्फुरता ज्वलता त्वद्योधानां सुग्रीव- हनुमदादीनां तेजसा प्रतापेन। सा त्रिपाद्विभूतिः अत्यर्कान- लदीप्ति: अतिकरन्तभानुवह्निज्योतिः व्यरचि । अत्र- ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते। देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं परम्॥ अत्यर्कानलदप्तिं तत् स्थानं विष्णोर्महात्मनः । इति प्रमाणमिहांतुसंघेयम् । इयं शौर्यात्युक्तिः ॥ औदार्यात्युक्तिर्यथा- स्वकटाक्षलब्धनिरवधिविभवानां दानमनवधि नराणाम्। वीक्ष्य स्वयमर्थितया तन्नृहमभ्येत्य चलति न ततइश्रीः ।१९६४। अत्र श्रीरपि स्वकटाक्षािगतविभवानां जनानां गृहमर्थि- त्वेनाश्येत्य ततो न चलतीत्यनेन तन्भ्क्तानामौदार्यात्युक्तिः । ततो न चलतीत्यनेन तद्भक्तसंपदोऽक्यत्वं व्यज्यते।। यथावा- अर्थितया प्रतिहारं त्वदुदश्चितसंपदां नृणाम- म्ब। गच्छतिचेद्गिक्षाको गच्छतु धनदोऽपि याति भिक्षायै ॥ १९६५॥
कुबेरोऽपि स्वत्कटाक्षसमधिगतसंपदा जनानां गृहद्वारं भिक्षार्थ गच्छतीत्यौदार्यात्युक्तिः । भिक्षाको महेश्वर इत्यर्था- न्तरमपि प्रतीयते॥
Page 339
328 अलंकारमणिहारे
त्वदुपाश्रितजनसमुदययश्ञःपयोराशिवीचिवि- क्षुभिताः। ब्रह्माण्डालाबुगणा निमज्जनोन्मज्नैः प्रविलुठन्ति ॥१९६६॥ इयं कीर्त्यत्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्रं, अत्युक्तौ तु अतथ्यस्यान्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि। अतएव दण्डिना- अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम्। कान्तं भवि सर्वस्य लोकयात्रानुवर्ततिनः॥ इति। स्तनयोरतिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषा- ख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवती- त्युच्ा- लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योर्ऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जना: ।। इत्यभिधाय- अल्पं निर्मितमाकाशमनालोच्यैव वेधसा। इदमेवंविधं भावि भवत्यास्स्तनमण्डलम् ।।
इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम्।। ननु च उदात्तालंकारादत्युक्ते: को भेद: 'वज्रशिलावाल' इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असं- भावितायास्समृद्धेर्वर्णनेन वैलक्षण्याभावादितिचेत् अत्रादु :- 'संप-
Page 340
निरुर्क्तिंसर: (१०१) 329
दुत्कर्षात्युक्तावुदान्तं, शौर्यात्युक्तावत्युक्तिः' इति। अन्ये तु "अ.
लंलकार लक्षयित्वा तस्यार्थस्य संपच्छौयौदार्यदिनानाप्रकारतया तथाविधसंपच्छौर्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावान्नात्युक्ति: पृथक् लक्षणीया" इत्याडुः। दीक्षितानां तु तथ्यत्वातथ्यत्वा- भ्यामनयोभेद इत्यभिप्रायमवर्णयद्वैद्यनाथः॥ इत्यलङ्कारमणहारे अत्युक्तिसरश्शततमः
अथ निरुक्तिसरः (१०१)
सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम्।
क्तिर्नामालङ्कारः। यद्यप्ययं प्राचीनैनालंकारतया लक्षितः, तथाऽपि जयद्ेवीये चन्द्रालोके तृतीयमयूखे- निरुक्तं स्यान्निर्वचनं नाम्नस्सत्यं तथाऽनृतम्। ईदशैश्चरितैर्जाने सत्यं दोषाकरो भवान्॥ इनि काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैल- क्षण्येन दीक्षितैरर्थालंकारतया पर्यगण्यतेति तदनुरोघेनास्माभि- रण्ययमलंकारो लक्षितः । नाम्न: प्रसिद्धयनुरोधेन कृतं निर्व- चनं सत्यं, अनृतं निर्वचनं त्वत्यथा कलिरतम्।
अर्दयसि जनानेतान्निर्दय इव भवदुरन्तका- यथा-
न्तारे। जगदीश तदिह सत्यं जनार्दनोडसीति कोऽत्रं सन्देहः ॥११६७॥ ALANKARA_III 42
Page 341
330
अत्र जनर्सर्वान् पुमर्थान् अर्द्यते याच्यत इति व्युत्पादि- सैस्य जनार्दननाम्न: उक्तरीत्या योगतोऽर्थान्तरकल्पनम्॥ यथावा- अतिविशदमधुरतावकवचोरसस्ते यतरसुधा- ब्विसते। तेनैव गुणेन सिता बभूव तच्छर्करा सि- प्ेति जगे ॥ १९६८ ॥ हे सुधाब्धिसुते! इदं तद्वाग्रसेऽपि विवक्षिततद्गुणानुवर्त- नाभिप्रायवम्। शर्करा तेनैव उक्तविशेषणतावकवचोरसेनैव कत्री गुणन करणभूतया रज्ज्वा सिता अपराधानुगुणशिक्षण- य सन्दानिता। परमाथतस्तु-तनैव गुणेन विशदिस्ना मधुरिम्णा च गुणेनैव सिता विशदा बद्धा च 'षित्र् बन्धने' कर्मणि क्तः संबद्धेत्यर्थः। उक्तविशेषणविशिष्टश्रीवाग्रसचौर्यादेवास्या वैशद्य- माधुर्यलाभशशर्कराया इति भावः। अतः एवं बद्धत्वादेव सि- तेति जगे अगीयत 'शर्करा सिता' इति नैघण्टुकैरिति भाव। अत्र सितेति शर्करानास्नो योगतोऽर्थान्तरकल्पनम्॥
पद्वीवशात्प्रविशतो यदभूच्चन्द्रस्य विश्रमस्था- यथावा-
नम्। त्वदुदवसितशीर्षगृहं तदुच्यते नाथ चन्द्र- शालेति ॥१९६९॥ अत्र चन्द्रशालेति नाम्नोऽर्थान्तरकल्पनं योगेन ।। यथावा- यदिश्वनामरूपव्याकरणपटीयसी तव प्रेक्षा। तत्वां शोषगिरीश्वरमवैौम सच्छव्दितं हरे स- त्यम् ॥ १९७० ॥
Page 342
निरुक्तसर: (१०१) 331
हे हरे यत् यस्मात् तव प्रेक्षा प्रज्ञा 'प्रेक्षोपलब्धिश्चि- तसंवित्' इत्यमरः। पक्षे प्रकृष्टा ईक्षा 'तदैक्षत बहु स्याम्' इत्या- दुक्तसंकल्पः नामानि प्रातिपदिकानि, उपलक्षणमेतदाख्याता- नाम्। तेषां रूपाणि स्वरूपाणि विश्वानि नामरूपाणि या्मि- स्तत्तथोक्तं यद्वयाकरणं शब्दनयः तस्मिन् पटीयसी। अन्यत्र विश्वस्य चिदचिदात्मकप्रपश्चस्य नामरूपव्याकरणे देवादिवि- चित्रसृष्टितन्नामधेयकरणे पटीयसी। तत् तस्मात् एवंविधव्या- करणनयपटुतरप्रज्ञत्वात्, पक्षे तव एवंविधसंकल्पवत्वात्। सच्छ- ब्दितं सन् विद्वान् इति शब्दितं उक्तं 'सन्सुधीः' इत्यमरः। पक्षे 'सदेव सोम्य' इति सच्छब्दाभिलपनीयं अत्र सच्छब्दो मानसंबन्धयोग्यत्वलक्षणं सत्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते। त्वां शेषस्य पतञ्जलितयाऽवतीर्णस्य भगवतोऽनन्तस्य गिरि वाचि महाभाष्ये इत्यर्थः। ईश्वरं समर्थ तदधीतिबोध- प्रचारपटीयांसमित्यर्थः। 'स्वामीश्वराधिपति' इत्यादिना सक्मी। सत्य निश्चितं यथा स्यात्तथा। इतरत्र शेषिरीश्वरं वेङ्कटाद्विनाथं त्वां सत्यं 'सत्यं ज्ञानम्' इत्युक्तं परं ब्रह्म अवैमीति योजना। अत्र उक्तरीत्या शेषगिरा्वरशब्दस्य योगेनार्थान्तरकल्पनम्।। यथावा- नलिनेक्षणललनामणि नयनरुचा तव निराकृ- तो मीनः। विगळितसारो मन्ये विसारमेनं वदन्ति तद्विबुधाः॥ १९७१॥ धवलोज्ज्वलासितरुचा तव लोचनसरसिजेन मीन इह। प्रविलोपितसारोडभूद्रुवि लोकैस्तद्ि- सार इत्यूचे॥ १९७२ ॥
Page 343
332 अलक्कारमणिहारे
इदमेकार्थकं पद्यदयमानुपूर्वीवैचितयप्रदर्शनमात्रसारम् 'वि- सारश्शकुली' चेति मीनपर्यायेष्वमरः। अत्र उक्तप्रकारेण विसार इति मीननाम्नो योगेनार्थान्तरकल्पनम्॥ यथावा- हरिणा स्वरुचिजिहीर्षुर्घनः कपोलेऽम्यहन्यत प्रायः। अस्य भ्रश्यन्ति रदाः करकमिषान्नीरदं तदाहुरमुम्॥ १७३॥ निर्गळिता: रदाः दन्ताः यस्य स इति नीरदशब्दस्य योग- प्रदर्शनेनार्थान्तरकल्पनम्॥। यथावा- तव यशसवाच्युत भवि पवित्रितायां स्वजन्म- वैफल्यम्। जानाना विबुधधुनी जाता मन्दाकि- नीति सार्थार्या॥ १९७४ ॥ मन्दा अमाग्या अलसा वा अकिनी दुःखिनी 'अकं दुःखे च पापे च' इति विश्वः । अत्र मन्दाकिनीति नाम्नो योगेनार्थान्तरकल्पनम्।। यथावा- स्वस्तरुरुदारमणिना त्वया परास्तस्ततस्स्वरु- र्भूत्वा। त्वां विजिगीषुस्त्वन्नखभिन्नोऽन्वर्थाभिधोS- भवब्रृहरे ॥ १९७५॥ स्वस्तरुः कल्पशाखी उदारमणिना त्वया परास्तः औदा- र्येण निरस्तः ततः वैरशुद्धिविधानाय स्वरु: दम्भोळि: भूत्वा
Page 344
निरुक्तिसर: (१०१) 333
'शतकोटिस्स्वरुश्शम्ब' इत्यमरः। त्वां विजिगीषुस्सन् त्वन्नखैः भिन्नः विदारितः अतपव अन्वर्थाभिधः सुष्ठ अरुः यस्य सः स्वरुः बलवङ्गण इति अन्वर्थसंज्ञकः अभवत् । 'व्रणोऽस्त्रिया- मीर्ममरुः' इत्यमरः । नृहरे इति दम्भोलिविभेदनक्षमनखशि- खातैक्ष्ण्यातिशयाभभिप्रायंगर्भम्। अत्र स्वस्तरुः स्वस्तरुशब्द: परास्तः पराकृतः स्तः स्त इति वर्णों यस्य स तथोक्तः। अतएव स्वरुर्भूत्वा उक्तरीत्या स्वरुशब्दो भूत्वेत्यर्थोऽि च- मत्कारातिशयाधायकः । अत्र स्वरुरिति नाम्नो योगेनार्थान्तर- परिकल्पनं विषमालंकारसंकीर्णम्। यथावा- श्रीरुचिभारकचाकचिदूरधुतं कनकमीषदार्तम- 1
रौतू। तदिदं कार्तस्वरमिति गदितं कविभिरिति विदितमस्मामिः ॥१९७६॥ अरौत् अक्रन्दत्। ईषदार्तः कार्तः स्वरो यस्य तत्तथोक्तं 'ईषदर्थे' इत्यनेन कोः का इत्यादेशः । अत्र कार्तस्वरमिति नाम्न: योगेनार्थान्तरकल्पनम् ।। यथावा- भ्रात्रा सह हरिहृदयं यान्त्या रत्नाकरो जनि- निकाय्यः। मुद्रित आसीद्रमया नूनं तदिमं जगु- स्समुद्र इति ॥१९७७॥ भ्रात्रा कौस्तुभेन सह निर्गमनं जन्मगहस्य रलाकरत्वं च मुद्रणावश्यकतां द्योतयतः। अत्र समुद्र इति नामधेयस्य योगे- नार्थान्तरकल्पनम्। समुद्रशब्द: संपूर्वकात् 'उन्दी क़ेदने'
Page 345
334 अलङ्कारमणिहारे
इत्यस्पाद्धातोः 'स्फायितञ्चि' इत्यादिना रकि सिद्धः। समी- चीना: उद्रा: जलजन्तुविशेषा अस्मित्निति कैश्चिन्निष्पादितः । तस्य योगेनान्यदर्थकल्पनम्॥। यथावा-
स्म करान्। शुचिकरतयैष विदितोऽवदातकरतां कुतो ऽन्यथा बिभृयात् ॥ १९७८॥ करान् हस्तान् किरणानिति तु तत्त्वम्। अवद्याति स्म कृणत्ति स्म 'दो अवखण्डने' अस्माद्वैवादिकात्कर्तरि लट्। अन्यथा एवं करच्छेदाभावे शुचिकरतया परस्वापहरणदोष- विरहेण शुद्धहस्ततया विशदकिरणतयोति वस्तुस्थितिः। विदितः एष: अवदातकरतां अवकृतपाणितां शुक्कांशुतामिति परमार्थ- स्थितिः । 'कृत्तं दातं दितं छितम्' इत्यमरः । द्यतेः कर्मणि क्ः । 'आदेचः' इत्यात्वम्। शिष्टं स्पष्टम्। अत्रावदातकर इति सितकक्किरणतारूपप्रटत्तिनिमित्तशालिनो नाम्न उक्तरीत्या योगे- नार्थान्तरवर्णनम्।। यथावा- निजमन्दहसितलक्ष्मीमुमुषिषयेन्दौ करान्प्र- सायति। तानसिनोत्सपदि हरिस्तेन स सितकर इति प्रथामयते ॥१९७९॥ असिनोत् अबभ्नात् 'षिञ् बन्धने' लङ्। सितकर: संदा- नितपाणिः। अत्र सितकर इति नाम्न उक्तरीत्या योगेनाथान्तर- प्रकुति: ।
Page 346
निरुक्तिसर: (१०१) 335
यथावा- प्रद्योतनशतसदशा विद्योतित दशदिशाऽम्ब त- व महसा। विध्वंसितद्युतितया विद्युदपद्यत यथा- र्थमभिधानम् ॥ १९८० ॥ विध्वंसिता द्ुत् संपदादित्वात्क्किप् । द्रुतिः यस्यास्सा विद्यत् निष्प्रभेत्यर्थः । पक्षे विशेषेण द्योतत इति विद्यत 'द्युत दीप्तौ' 'भ्राजभास' इत्यादिना कर्तरि ककिप् । 'विद्यत्तटिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे' इति मेदिनी। स्पष्ट मन्यत्। अत्र विद्युदिति नाम्नो योगेनार्थान्तरकल्पनम्॥ यथावा- आहूतोऽपि नियोहुं बाहुभ्यां तव निरस्तरा- हुम्याम्। नागाड्गुजगोऽच्युत तन्नागं तं प्राहुरर्थत- त्वज्ञा: ॥१९८9॥1 अत्र नाग इति नाम्न: नागच्छतीति नाग इति योगादर्था- न्तरं कल्पितम्॥ यथावा-
मुश्चन्। लोकान्तर्हित आसीदल्लोहितकस्तदेष शोणमणिः॥ १९८२। हे अम्ब! यत् यस्मात् त्वत्पदरुचिहरणाद्धेतोः शीर्षे त- त्प्रहृतः तन त्वत्पदेन अभिहृतः अतएव लोहितं रुधिरं मुञ्चन् शीर्षे उद्धमन् सन् लोकान्तर्हित: लोके अन्तर्धानं गतः आसीत्
Page 347
336 अलङ्कारमणिहारे
मुखं दर्शयितुमपत्रपिष्णुतया क्वापि निलीन इति भावः । तत् तस्मात् एष शोणमणि: पद्मरागः लोहितकः आसीदित्यनुषज्यते। लोहितकः लोहितं रुधिरं के शिरसि यस्य स तथोक्त: तन्नामा आसीत् । परमार्थतस्तु लोकयोः लोवर्णकवर्णयोः अन्तः मध्ये हितौ हिकारतकारौ यस्य स तथोक्त:। शब्दार्थयोस्तादात्म्यम्। लोहित एव लोहितकः तन्नामा 'लोहितान्मणौ' इति स्वा्थिक: कन्। 'शोणरत्नं लोहितकः' इत्यमरः । अत्र स्वार्थकना निष्प- स्नस्य लोहितक इति नाम्नो योगान्तरेणार्थान्तरकल्पनं चम- त्कारान्तरं स्फुटमेव।। इत्यलंकारमणिहारे निरुक्तिसर एकशततमः.
अथ प्रतिषेधसरः (१०२)
प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम्। यः प्रसिद्धो निषेधानुवादो ज्ञातत्वात् स्वतोनुऽपयुक्तोऽ- र्थान्तरगर्भीकारेण चारुतामाधत्ते स प्रतिषेधालंकारः ॥ यथा- न सुधांशुना न सुधया न मलयमरुता न चापि तुहिनभृता। निरुपमकरुणाशिशिरास्स्वेनैव कृता रमेश तब भक्ताः ॥१९८३॥ अत्र भगवद्भक्तानां सुधांशुप्रभृतिनिर्मितत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां सुधांशुप्रभृतिभ्योऽप्यतिशयिततया शैशिर्य-
Page 348
प्रतिषेधसरः (१०२) 337
मित्यमुमर्थ व्यक्तीकरोति। सच निरुपमकरुणाशिशिरा इत्य- नेन परिमितशैशिर्यवद्भयस्सुधांशुप्रभृतिभ्यस्तेषां विशेषमुपदर्श- यता विशेषणेनाविष्कृतः॥ यथावा- नैतान्यर्जुनरथ्या दुर्दान्तानीन्द्रियाणि मम शौरे। पश्याम नियच्छैतानीशो यदि विषथ एव धावन्ति ॥ १९८४ ॥
अर्जुनस्य रथ्या: रथवोढारोऽ्वाः। ईशो यदि समर्थो यदि विपथ एव धावन्ति एतानि इन्द्रियाणि नियच्छ निय- भय पश्याम इति योजना। अन्न वक्तुरिन्द्रियाणामर्जुनरथ्या- श्वत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां दुर्दान्ततया दुर्नि- यमनत्वं व्यनक्ति। तश्व दुर्गान्तानीत्यादिविशेषणमहिस्ना कवि- नैवाविष्कृतम॥ यथावा- न दशाननो न वाली सुदुराधर्षो ममैष दोष- गणः । तमनाविध्य त्वमिमं सम नाथ भवेः कथं
महाधन्वा ॥ १९८५॥ अन्रापि वक्तुर्दोषगणस्य दशाननत्वाद्यभावः प्रतीत एव परिकीर्त्यमानस्तस्य दुराधर्षतां व्यक्जयति। सा च सुधुराधर्ष इति विशेषणेन स्वोक्तचव प्रकाशितः ॥ नन्दसुतेदं न पयो न दधि न मण्डं नचापि ALANKARAIII. 43
Page 349
338 अलङ्कारमणिहारे
नवनीतम्। हन्त हरे: किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥१९८६॥ इदं किन्विति किंवस्त्विति हरेरिति योजना। मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्काथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः। अत्र वक्तुर्मनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरा- दिहरण एव तवादर: न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्नति। सच अतिकटु हेयमिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः॥ इत्यलङ्कारमणिहारे प्रतिषेधसरो द्वयधिकशततमः
अथ विधिसरः (१०३)
सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते। यन्निज्ञातविधानमनुपयुक्तिबाितं सदर्थान्तरगर्भिकारेण सु- न्दरतरं स विधिनामाऽलंकारः। यथाऽडहु :- ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम्। अभिप्रायान्तरं गर्भीकुर्वद्वि्छित्तिशालि चेत्।। विध्यलङ्कारमाहुस्तं साहित्यपरिशोलिनः । इति॥ यथावा- तत्वं ब्रवीमि भगवंस्त्वं त्वं जीवस्तु जीव एव *हरे। जगदीश्वरतद्दासौ जगदाते केन मतिमताऽ- नन्यौ ॥ १९८७॥
Page 350
विधिसरः (१०३) 339
अत्र परमात्मनः परमात्मत्वस्य प्रत्यगात्मनः प्रत्यगात्म- त्वस्य व विधानमनुपयोगबाधितं सत्तयोः सर्वशेषित्वतच्छेष-
तज्गदीश्वरेत्यादिना उत्तरार्धेनाविष्कृतम्।। यथावा- अद्यप्रभृति हि लोका यूयं यूय वयं तु वय- मेव। इन्द्रियवशगा यूयं वयं तु भगवद्दशंवदा एव॥ १९८८॥ अत्र यूयं वयमित्यनयोः यूय वयमिति विधानमनुपयुक्तं
लक्षणमर्थान्तरं गर्भीकरोति। तञ्चात्तरार्धेन प्रकटितम। अत्र- अद्यप्रभृति हे लोका यूयं यूयं वयं वयम्। नास्ति संगतिरस्माकं युष्माकं च परस्परम् ॥ अर्थकामपरा यूयं नारायणपरा वयम्। वयं तु किंकरा विष्णोर्यूयमिन्ट्रियकिंकराः॥ इत्येतदनुसंधेयम्। यथावा- पुण्यापुण्याभ्यां यन्नहनं जन्तोस्त्वया कृतं भ- गवन्। अनुकूलं तद्रवतु प्रतिकूलं वाऽपि नहन- मेव खलु॥१९८९॥ हे भगवन् ! जन्तोः प्राणिनः पुण्यापुण्याभ्यां सुकृतदुष्क- ताभ्यां कर्मश्यां यत् नहनं बन्धन त्वया कृतं तत् नहनं अनुकूलं पुण्यफलभूतैहिकामुष्मिकसुखकरं प्रतिकूलं पापफल-
Page 351
340 अलंकारमणिहारे
भूततापत्रयनरकादिदुःखकरं वा भवतु नहनमेव खलु यथा तथा वा बन्धनमेव भवति खलु न हि सुवर्णमयमपि निगळं न बन्धनायावकल्पते अयोमयमेव बन्धकमिति इष्ट श्रुंत वेति भावः। पक्षे नहनं नहनमित्याकारकं पदं अनुकूलं अनुलो- मतया पठितं प्रतिकूलं प्रतिलोमतया पठितं वा नहनमेव उभ- यथाऽपि नहनमित्येव निष्पद्यत इत्यर्थः । अत्र नहनस्य नह- नत्वविधानभनुपपद्यमान निशश्ेयसगतिप्रतिरोधितां गर्भीकरोति। सा च पुण्यापुण्यकरणकत्वविशेषणात्प्रकाशिता। 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्यादिश्रुतिभिः पुण्यापुण्यविभूननानन्तरमेव हि निश्श्रेयसगतिः प्रतिपाद्यते। यद्वा तन्नहनत्वविधानं भगवदितरतुर्मोचत्वं गर्भीकरोति। पशवः पाशिता: पूर्व परमेण समाधिना। तेनैध मोचनीयास्ते नान्यो मोचयितुंक्षमः ॥ इति प्रमाणात् 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादिकमप्यत्रानुकूलम्। एषु विधिप्रतिषेधोदाहरणेषु अर्थान्त- रसंक्रमितवाच्यलक्षणव्यङ्गचार्थसन्भ्ावेऽपि न ध्वनित्वव्यपदेशः, तेषां व्यङ्रचानां 'निरुपमकरुणाशिशिरा। जगदीश्वरतद्दासौ' इति स्वोत्क्यवाविष्करणात्। ननु चाक्षेपालङ्कारावान्तरभेदत्वेन विधिप्रतिषेधयोः पूर्वमुक्तेने पृथगलंकारतया परिगणनमुचित- मिति चेत् बाधितयोस्तयराक्षेपभेदत्वमभ्यधायि प्राक्। इह तु सिद्धयोरलंकारतेति गरृह्यताम्। इत्यलंकारमणिहारे विधिसरस्त्रचधिकशततमः
Page 352
हेतुसरः (१०४) 341
अथ हेतुसरः (१०४)
साकं हेतुमता हेतुरुक्तश्रेद्धेतुरीरितः । कार्यस्य कारणेन सह वर्णन हेत्वलंकार इत्यर्थः । अयं जयदेवेन चन्द्रालोके तृतीयमयूखे कार्यनास्ना काव्यलक्षणतया व्यवहतः । यथा -
कार्य फलोपलम्भश्चेद्वयापाराद्वस्तुतोऽथवा। असावुदति शीतांशुर्मानच्छेदाय सुभ्नुवाम्॥ इति। दीक्षितैस्तु अयमपि चमत्कारितयाऽलंकारेषु परिगणितः।। यथा- परिपालनाय जगतामवतारस्तव न चात्र संदे- हः। मत्पालनाय चिरयसि कस्मादिति मे रमेश संदेहः ॥ १९१०॥ अत्र जगत्परिपालनावतारयोः कार्यकारणयोस्सहवर्णनम्।।
यथावा मरकतकं फणिशिखरिणि किमपि तदमराद- तां प्रपद्य तराम्। भुवनमध:कृतपङ्क विरचायेतुं कतकतामहोधचे ॥ १९९१॥ फणिशिखरिणि किमपि तन् लोकोत्तरमिति यावत्। मर- कतकं गारुत्मतं अमराद्यतां देवोत्तमत्वं श्रीनिवासत्वमित्यर्थः। भुघन विष्टपं सलिलं व अधःकृतः अधोभागं नीतः तिरस्कृ-
Page 353
342 अलङ्कारमणहारे
तश्च पङ्क: कर्दमः कलुषं च यस्य तत्तथोक्तं विरचयितुं कत- कतां पड्किलाम्वुप्रसादकवृक्षविशेषफलतां धत्ते । अहो आश्चर्य- मेतत्। यद्गारुत्मतं श्रीनिवासतां प्राप्य कतकतां धत्त इति। मरकतकमिति पदं अमराद्यतां मश्च रश् मरौ आद्यौ वर्णो यस्य तत् मरादयं तन्न भवतीत्यमरादं तस्य भावः तत्ता तां प्रपद्य कतकतां धत्ते मरकतकशब्द: प्राथमिकमकाररेफयोरुद्वासने कत- कमिति निष्पद्यत इत्यर्थान्तरं च चमत्कारि । अत्र कतकता- धारणस्य हेतोः भुवनपङ्काध:करणेन हेतुमता सह वर्णनं श्ेष- मूलकविरोधोत्तम्भितम्॥। यथावा- प्राप्तशशुभवर्तित्वं सुश्रीराज्याभिषेकतो भग- वन्। सुमहानाकुलदीपस्तमोविधूत्यै विभाति भवदीयः॥११९२॥
हे भगवन् शुभे वर्तत इति शुभं वर्तयतीति वा शुभ- वर्ती तस्य भाव: शुभवर्तित्वम्। पक्षे शुभा वर्तिः दशा यस्य तत्त्वं 'वर्तिदीपदशागात्रलेपयोर्मणिरञ्जने' इति रत्नमाला। प्राप्तः राज्याभिषेकतः सुश्रीः । सुश्रीराज्येत्यन्न 'रो रि' इति रेफ- लोपे 'ढूलोपे' इति दीर्घः । पक्षे आज्याभिषेकतः सुश्री: सुमहाः ना कुलदीपः इति छेदः। शोभनं महः उत्सवः यस्य स तथोक्तः 'नित्योत्सवो भवेत्तेषाम्' इत्युक्तरीत्या निर- न्तरोत्सवशाली महातेजस्वीति वा। 'महस्तूत्सवतेजसोः' इति सान्तनानार्थेष्वमरः। कुलदीपः स्वान्वयप्रकाशक: भवदीयः ना पुमान। पक्षे भवदीयः सुमहांश्चासौ अनाकुलदपिश्च अनश्वरः
Page 354
हेतुसर: (१०४) 343
प्रदृषि इत्यर्थः । तमसः तमोगुणस्य तिमिरस्य च विधूत्यै तिर- स्काराय विभाति। अत्र प्रकृताप्रकृतगोचरश्ेपे भगवन्भक्तप्रका- शस्य तदीयमहाद्ीपप्रकाशस्य च हेतोः तमोविधूतेः फलस्य च सहवर्णनम्॥
यथावा- ख्यातो दिव्याञ्जनघरवर्तितया येन हशि विनि- हितस्त्वम्। स खलु सुदगब्जलोचन वेतु शक्रो- ति गूढमप्यर्थम् ॥१९९३॥
दिव्य: यः अञ्जनधरः अञ्जनाद्रि: तस्मिन्, वर्तत इति तथोक्तः। तस्य भावः तत्ता तया। पक्षे दिव्यं श्राध्यं यत् अञ्जनं तस्य धरा धारयित्री वार्तः नयनाञ्जनलेखा तस्या: भावः तत्ता तया 'व्तिर्भेषजनिर्माणनयनाञ्जनलेखयोः' इति विश्वमे- दिन्यौ। ख्यातः त्वं येन सुदृशा दाश लोचने विनिहित: हृष्ट इति यावत् ससुद्दकू ज्ञानी। पक्षे परोक्षवस्तुसाक्षात्कारक्षम- दृष्टिरित्यर्थः । गूढमपि अर्थ शास्त्रतत्वार्थ पक्षे निधिरूपं धनं वेत्तुं जञातुं शक्कोति खलु। अत्र श्रीनिवासदर्शनतत्त्वार्थवेदनयोः
णैनम् । यथावा- शुभजनकभूहरोऽवधि येन दशास्यस्स एव कोसलराटू। अवधीच्च हिरण्याक्षं तादृक्षमसश्शु- भाय किल जगताम् ॥१९९४॥
Page 355
344 अलक्कारमणिहारे
शुभा या जनकभू: सीता तस्या हरः दशास्यः येन कोसलराजा अवधि अहन्यत स एव कोसलराट् दाशरथि: असः सन भवतीत्यसः अकोसलराजरूप इति यावत्। 'एतत्तदोः' इति सूत्रे 'अनजसमासे' इति पर्युदासानन तच्छब्दस्य सुलोपः। पक्षे असः सवर्णरहितः कोसलराट् कोलराट्। पुरा वराहश्रेष्ठस्स- न्नित्यर्थः। तादृक्षं शुभजनकभूहरं शुभजनिका जगत्क्षेमप्रदा या भू: पृथ्वी तस्या: हरमित्यर्थः । हिरण्याक्ष जगतां शुभाय कल्याणाय अवधीत्। अत्र रावणहिरण्याक्षवघलक्षणहेतुना सह जगच्छुभलक्षणहेतुमतः प्रतिपादनम्॥
यस्त्वयि सम्राट् प्रत्ययमातनुते भावकर्मणो- यथावा-
रेकम्। सोऽर्हति साम्राज्यपदं लब्घुं वृद्धं समस्त- वर्णगुरु॥१९९५॥ हे सम्राट राजाधिराज हे भगवन्। 'मो राजि समः क्रौ' इति समो मकारस्य मकार एव। नानुस्वारः 'सम्राजोऽग्री- नद्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वर:' इति रत्नमाला। 'एष ब्रह्म- लोकस्सम्राडिति होवाच। राजाधिराजस्सर्वेषा विष्णुर्बरह्ममयो महान्' इत्यादिप्रमाणान्यत्रानुसंहितानि। यः पुमान् त्वाय विषये भावकर्मणोः मनःकर्मणोः। इदं वचसोऽप्युपलक्षणम्। एकं एकरूपं- 'वचस्येकं मनस्येकं कर्मण्येकं महात्मनाम्' इत्युक्तरीत्या अविसंवादीत्यर्थः। प्रत्ययं विश्वासं ध्यानं वा आतनुते। स पुमान् वृद्धं अभिवृद्धिमत् समस्तैः वर्णैः ब्रह्म- क्षत्रादिभि: गुरु भ्रेष्ठं साम्राज्यपदं आधिराज्यस्थानं लब्धुं अर्हति।
Page 356
हेतुसरः (१०४) 345
त्वय सम्राजि करणत्रयसारुप्येण भक्ति विदधानः तत्क्रतुन- यात्साम्राज्यवैमवमश्नुत इति भावः । अन्यत्र हे सम्राडिति सम्राट्छब्दस्यैव संबोधनम्। यः पुमान् त्वाये सम्राट्छन्दे इत्यर्थः। भावकर्मणोः भावे कर्मणि च एकं प्रत्ययं 'गुणवचनब्राह्मण- दिभ्यः कर्मणि च' इति विहितं व्यञप्रत्ययं आतनुते विधत्ते स पुमान् वृद्धं 'वृद्धिर्यस्याचामादिस्तद्वद्धम्' इति विहितवृद्ध- संज्ञकं सर्वे वर्णाः अक्षराणि गुरवो यस्य तत्तथोकतं साम्रा- ज्यपदं साम्राज्यशब्दं लब्धुमहति। यस्सम्राट्छन्दात् ध्यञं विधत्ते स पुमान् वृद्धं सर्ववर्णगुरु न्त साम्राज्यमिति पदं प्राप्नोती- त्यर्थः । साम्राज्यमिति पदस्य उक्तरीत्या निष्पन्नस्य वृद्धत्वा- तसर्ववर्णगुरुत्वाच्च तथोक्तिः । अत्र पक्षद्वयेऽपि सम्राजि प्रत्यय- विधानस्य हेतोस्साम्राज्यपदलाभरूपहेतुमता सह वर्णनम्॥ यथावा- सामोदसौम्यसुमनास्सत्तरुरिव सुफलदशशुभ- च्छायः । स्वपदोपनतं सुखयति भगवान् संसृति- गतागतश्रान्तम् ॥ १९९६॥ सामोदं च सौम्यं अनुग्रं च सुमनः शोभनं मनः यस्य सः। सामोदाः सौम्याः सुमनसो देवाः नित्यसूरयो वा यस्मात्स इति घा। पक्षे ससौरभसुकुमारकुसुम इत्यर्थः। सुफलद: निश्श्रे- यसपर्यन्तसकलफलप्रदः। अन्यत्र फलानि स्वपरिणतानि ददा- तीति तथोक्तः । अनघा सर्वदुःखनिवर्तिनी छाया दीप्तिः अना- तपश्च यस्य सः भगवान् सत्तरुरिव माकन्दादिशुभवृक्ष इव संसृतिगतागतेन संसारयातायातेन, अन्यत्र सम्यक् सृतौ मार्गे गतागतेन श्रान्तं स्वपदोपनतं स्वचरणशरणागतं स्वमूले विश्रः ALANKARA-III. 44
Page 357
346 अलंकारमणिहारे
मार्थमागतं च जनं सुखयति। अत्रापि हेतुफलयोर्भगवत्सुख- प्रापणयोस्साहित्येन वर्णनम्। पूर्वोदाहरणेषु फलं चतुर्थीतु- मुन्भ्यां साक्षान्निर्दिष्टम्। अत्र तु गम्यमानं तदिति विशेषः। ननु काव्यलिङ्गतोऽस्य को भेद इति चेत् उच्यते-काव्यलिङ्गे हेतुहेतुमतोरुपपादकोपपाद्यभावः, इह तु प्रयोजकप्रयोज्यभावो विच्छित्याधायकः। हेतोर्गम्यतायामेव चारुतातिशयादलंकारत्वं न तु साक्षान्तद्वाचकपदोपादाने इति तूभयोस्तुल्यमेव। अत्रो- दाहरणे उपमांसकीर्णत्वं च विशेषः। यथावा -- श्रीनिधिमुपेक्षमाणस्त्वां भवमेवोपधावति पु- मान्यः। फलमस्येदं भू्ति विन्दन् भ्राम्यति समं पिशाचर्यत् ॥१९१७॥ श्रीनिधिं सपत्निधानं श्रीनिवासं च त्वां उपेक्षमाण: पुमान् भवं संसारमेव पशुपतिमेव उपधावति सेवते तस्य इदमेव फलं-यदयं पुमान भूर्ति संपदं विन्दन 'लक्षणहेत्वोः' इति हेत्वर्थे शता। हेतुरिह फलम्। संपदं प्राप्तुमित्यर्थः। पक्षे भूति भस्म विन्दन् प्राम्ुवन् भस्मोद्ूळितस्सन्नित्यर्थः । पिशा- चैस्समं तुल्यं यथास्यात्तथा, अन्यत्र रुद्रपरिवारैः पिशाचर्दे- वयोनिविशषैः समं साक भ्राम्यतीति यत् पतदेव तस्य फल- मित्यर्थः। अन्रापि हेतुहेतुमतोर्भवाश्रयपरिभ्रमणयावर्णनं श्ेष- संकीर्णम्। केचिद्वेतुमतो हेताश्वैक्यं हेतुं बुधा जगुः। कार्यकारणयोरभेदवर्णनं हेत्वलंकार इति केचिप्राचीना स्रुवन्ति स्मेत्यर्थ:॥
Page 358
हेतुसरः (१०४) 347
यथा- त्रिदशाहितकुलशिक्षा त्रिदिववधूकर्णपत्रयुगर- क्षा। वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगद- वनदक्षा॥ १९१८ ॥ अत्र त्रिदशाहितकुलशिक्षादिहेतोर्भगवतस्तच्छिक्षादिहेतु- मतश्चैक्यं वर्णितम्॥ यथावा- ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृ- तिभिः। कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम ॥१९९९॥ अत्रापि ग्राहगृहीतमतङ्गजजीवितहेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम्॥ यथावा- स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लस- ततिलकम्। आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि ॥ २०००॥ स्फुरितं अदः इद तव आननं आनन्दमेव अवैमीति यो- जना। पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं अचैमि। उत्सारितदकारमानन्दशब्द आननमति निष्पन्नं जाना- मीत्यर्थः । अन्रापि आनन्दहेतोर्भेगवदाननस्यानन्देन हेतुमता सहैक्यम्। चमत्कारान्तरं पूर्वादाहरणतो विशेषः ॥
Page 359
348 अलङ्गारमणिहारे
नन्वभेदव्यपदेशस्याचमत्कारितया कथंकारमलंकारतेति चेन्न कार्यावश्यंभावतच्छैघ्रचाभ्यां सहकार्यन्तरनैरपेक्ष्येण कार्योत्पादन- प्रत्यायने तस्य चमत्कारिताया दुर्निवारतयाऽलंकारत्वस्य निष्प- स्यूहत्वात्। रूपके सादृश्यादभेदव्यपदेशः, इह तु कार्यकारण- भावादिति भिदा। रूपकातिशयाक्तिरस्य च वैलक्षण्थं तत्रैवा- वादिष्म।।
इत्यलङ्कारमणिहारे हेतुसरश्चतुरधिकशततमः
Page 361
D.G.A. 80. CENTRAL ARCHAEOLOGICAL LIBRARY NEW DELHI Borrowers record.
Call No .- Sa4A/Sri-8095
Author-Sri Krishna Branmatantra parakālaswamin.
Tıtle-Alankara-Manihara, Pt.3.
Borrower's Name Date of Issue Date of Return
--
P.T.O.
C/