1. Alankara Sarvasva Rajanaka Ruyyaka Commentary Jayaratha Girija Prasad Dvivedi KM 35 1939
Page 143
११८ काव्यमाला।
नेति प्रतीतेः । यथा 'दधा जुहोति' इत्यादौ दव्वि संचार्यते विधि: एवमियमुपमानुप्राणिता समासोक्तिरेव। इह तु पुनः नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या। विशेषणसाम्या- भावात्। तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेश विवर्तिन्युपमैवाभ्युपगम्या। गत्यन्तरासंभ- वात्। यैस्तु नोक्ता तेषामप्युपसंख्येयैव। यत्र तु 'केशपाशालि- वृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोध: कश्चित्। सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्सम- र्थकगतत्वेन च भवति। क्रमेण यथा- 'अथोपगूढे शरदा शशाक्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिनः । अनाक्रम्य जगत्सर्व नो संध्यां भजते रविः ।।'
एतदेव शास्त्रान्तरप्रसिद्धद्दष्टान्तमुखेन हृदयंगमीकरोति-यथेत्यादिना। अभनि- होत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः। तस्य च पुनर्विधानम- दग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादु- पपदे दव्नि संचार्यत इत्यर्थः । उपमानुप्राणितेति। औपम्यगर्भविशेषणोत्था- पितेत्यर्थः । समासोक्तिरेवेति। न पुनरेकदेशविवर्तिन्युपमा। गत्यन्तरमलं- कारान्तरम्। यैरित्युद्धटादिभिः। यत्र त्वित्यादेर्य्रन्थस्य पूर्वमेवास्माभिरभिप्राय १. 'दधि' ख.
Page 144
अलंकारसर्वस्वम्। ११९
अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोरना्यकव्यव- हारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणा- र्थान्तरन्यासेन समर्थ्यते। सामान्यस्य चात्र श्लेषवशादुत्थानम्। शान्त- तडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम्। अस- माप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिघानात्सामान्यरू- पोर्डर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समा सोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते। आकृष्टिवेगविगलद्ध जगेन्द्रभोग- निर्मोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ।।' अत्र निर्मोकपट्टापहवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चेरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसी- यते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्परेक्षामुत्थापयति। सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पैतिपत्नीव्यवहाराश्रयां समासोक्तिं
उक्तः। सेत्युक्तप्रपश्चा। सामान्यस्येत्यज्गनाशब्दस्य स्त्रीत्वमात्राभिधानात्। श्लेष- वशादिति। पयोधराणां हि श्लिष्टत्वम्। लिङ्गविशेषेति। रविसंध्ययोः पुंसत्रीरूपेण कार्य भजनाख्यम्। एवमन्यालंकारसंमिश्रत्वमप्यस्या दर्शयति- आकृष्टीत्यादिना। सेत्युत्प्रेक्षा। एक: काल इति। ज्ञत्ौ समासोकिगर्भी- १. 'नायकनायिकाव्यवहारन्यासप्रतीतौ' ख. २. 'नायकनायिका' ख. ३. 'आ- कृष्ट' क. ४. 'पादमूल' क. ५ 'चरणमूल' क. ६. 'भर्तृपत्नी' क. ७. 'आकृष्टेत्यादि' क.
Page 145
१२० काव्यमाला।
गर्भीकरोति। एवं चोत्पेक्षासमासोक्त्योरेक: कालः। एवं 'नखक्षता- नीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्त- रानुप्रविष्टसमासोक्तिमूल एव। एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या। विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्वि- षयः। एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम। यथा- 'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्घवस्य मिषतः कर्णस्य शल्यस्य च।
कारेणैवोत्प्रेक्षाया उत्थानात्। एवमिति। यथोक्तगत्येत्यर्थः । विशेषणे- त्यादि। इहेति समासोक्त्यनन्तरम्। विशेषणानां चात्र बहुत्वमेव विवक्षितम्। अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन सीकृतस्य पुष्टार्थस्यायं विषयः स्यात्। एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यस्यालं- कारत्वम्। प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गर्भीकारस्तदन्तःकृत- त्वम्। अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात्। प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात्। गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात्। यत्र च प्रैतीयमानं प्रत्युपसर्जनीकृतस्ार्थयोः शब्दार्थयोरवस्थानं स ध्वनेर्विषय इति (ध्वॅनिविदः। यदाहु :- 'तत्परावेव शब्दार्थौं यत्र व्यङ्ञयप्रतिष्ठितौ। ध्वनेः स एव विषयः' इति। अत्र च न तथात्वमित्युक्त नायं ध्वनेर्विषय इति ।) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि। सोत्माशपरत्वमिति। तथा च रौज्ञो जगद्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राज- १. 'निराकारेण' ख. २. 'विशेषः' ख. ३. 'तस्य' ख. ४. 'प्रतीयमानमनुपस- जनीकृत्वा शब्दार्थयोः' ख. ५. कोष्ठकान्तःस्थितः पाठः क. पुस्तके नास्ति. ६.'पर- मिति' क. ७. 'राज्ञा' क.
Page 146
अलंकार सर्वस्वम् । १२१
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ।।' ने अन्र राज्ञ इत्यादौ सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम्। एवम् 'अ- ज्वराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमाहु :- शासनम्' इत्यादौ ज्ञेयम्। विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्रलेषः । केवलविशेषणसाम्यं समासोक्तावुक्तम्। विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र दवयोः प्राकरणिकयोरप्राकरणिकयोः प्राकर-
त्वमित्युपहासपरत्वम्। एवमन्येषामपि स्वयमेवैतदवगन्तव्यम्। आदिशब्देन 'यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पति- रपि च शची चामरव्यग्रहस्ता। कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेजसे वैष्णवाय ॥' इत्यादावपि विशेष- णानां प्रसन्नगम्भीरत्वं ज्ञेयम् । विशेष्यस्यापीत्यादि। इदमिति श्लेषलक्ष- गम्। आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च। एवकारश्वात्र भिन्नक्रमो द्रष्ठव्यः । तेन प्रकारद्वयमेवेति व्याख्येयम्। अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम्। अन्यथा हि प्रकारद्वयस्यास्य विशेष्यैसाम्याभावेऽपि दर्शनादव्याप्तिः स्यात् । तद्यथा 'संचारपूतानि दिगन्तराणि' इत्यादि। अत्र प्रभाधेन्वोरद्योः प्रकृतयोर्विशेष्ययोः साम्याभावः । 'आबाहूद्गतम- ण्डलाग्ररुचयः संनद्धवक्ष:स्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्क- शाः। उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिन: ॥I' अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये। एतदपि विशेष्यसाम्ये किं न भवती- त्याशज्क्ाह-विशेष्यसाम्ये त्वित्यादि। यथा-'लंकालआण पुत्तअ वसं- १. 'परम्' क. २. 'वक्तव्यः' क. ३. 'विशेष' ख. ४, 'देववधू' ख.
Page 147
१२२ काव्यमाला।
णिकाप्राकरणिकयोर्वा क्रिष्टपदोपनिबन्धे श्लेषः। तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति। तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति। विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त- रगतध्वनेर्विषयः स्यात्। आद्ये तु प्रकारद्वयो द्वयोरप्यर्थयोर्वाच्यत्वम्। अत एवाह-'द्योवोंपादाने' इति तृतीयप्रकारविषेयत्वेनोक्तम्। 'वि- शेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम्। क्रमेण यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्कत्तभुजंगहारवलयो गङ्गां च योऽघारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।' 'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदशे वनवृद्धानां कमलानां तदीक्षणे ।।'
तमासम्मि लद्धपसराणं। आपीअलोहिआणं वीहेइ जणो पलासाणं ।I' अन्न पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम्। प्रकरणवशाच वृक्षविशेषणामेव वाच्यत्व- नियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ञयत्वम्। अत्र चोपमाया एव व्यङ्गयत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम्। ननु च यैथैवायं ध्वनेर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशड्क्याह-आद्य इत्यादि। वाच्यत्वमिति । अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तखवरूपत्वात् । तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादा- नसंभवात् । एष इति त्रिविधोऽपि श्रेषः। तत्रेति त्रयनिर्धारणे। यत्रेति शब्द श्लेषे। अत एवेति खरादिभेदाभावात्। संकलनयेति सेसभङ्गासभङ्गपदसंमेलनया। पृथ- गिति भेदेन। तत्र शब्दश्लेषो यथा-'ते गच्छन्ति महापदं भुवि पराभूतिः
१. 'गति' ख. २. 'विशेषत्वेन' ख. ३. 'छिष्ट' क. ४. 'यैरेवायं' ख. ५. 'सभङ्गासभङ्गपदभङ्गमेलनया' क.
Page 148
अलंकारसर्वस्वम्। १२३
'स्ेच्छोपजातविषयोऽपि न याति वकुं देहीति मार्गणशतैश्च ददाति दुःखम्। मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥' अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम्। पद्मानां मृगाणां चोपमा- नत्वादप्राकरणिकत्वम्। ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम्। एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः। तत्रोदात्तादिखरमे- दात्प्रयत्नभेदाच् शब्दान्यत्वे शब्दश्लेषः ।यत्र प्रायेण पदभङ्गो भवति। अर्थश्लेषस्तु यत्र खरादिभेदो नास्ति। अत एव न तत्र सभङ्गपदत्वम्। संकलनया तूभयश्लेषः। यथा- 'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादघानाः । निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैव ।।' अन्न रक्तच्छदत्वमित्यादावर्थक्लेषः। नालमित्यादौ शब्दश्लेषः । उभय- घटनायामुभय श्लेषः । अ्न्थगौरवभयान्तु पृथङ्ोदाहृतम्।
सैमुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेवें लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ।।' अत्र पदानां सभङ्गत्वं स्पष्टम्। अर्थश्लेषो यथा-'इच्छन्तौ चिवुकाग्रचुम्बनमथो शैथिल्यशङ्कोज्झितौ नैबिड्येन परस्परस्य न मनाक्केनापि लब्धान्तरौ। धन्यौ तौ तरुणीस्तनाविव न यौ खप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विषह्य भवतो नाधोमुखौ जातु वा ।I' अत्र पदानामसभङ्गत्वं स्पष्टम्। संकलनया तु अ्रन्थकृतैवोदाहृतम्।
१. 'प्राकरणिकत्वात्' क. २. 'इत्यत्र' क. ३. 'सदा दृश्यते' ख. ४. 'तैश्चापि' ख.
Page 149
१२४ काव्यमाला।
अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः । 'रक्त- च्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छन्दालंकारोऽयम्। यद्यप्यर्थभेदाच्छब्दमेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वा- दत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः। 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । अतश्च पूर्वत्रैकवृन्तगत- फलद्वयन्यायेनार्थद्वयस्य शब्दश्रिष्टत्वम्। अपरत्र जतुकाष्ठन्यायेन स्य- मेव क्रिष्टत्वम्। पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकार- त्वमिति चेत्, न। आश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्यवस्थानात्।
अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना। ननु च 'यावन्त एवमर्था: स्युः शब्दास्तावन्त एव हि' इत्याद्युत्त्यारक्तच्छदत्वमित्या- दावपि शब्दद्वयाश्रयाच्छ्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्क्याह- यद्यपीत्यादि। एकतावसायादिति। रक्तच्छदत्वादे: प्रयत्नादिभेद विना सादृश्येनार्थद्वयाभिधानात्। अतश्चेति। अर्थद्वयस्य शब्दद्वयस्य च श्िष्टत्वात्। पूर्वत्रेति। रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात्। अपरत्रेति नाल- मित्यादौ। जतुकाष्ठन्यायेनेति परस्परं संवलितत्वात्। पूर्वत्रेति रक्तच्छदत्वमित्यादौ। अन्वयव्यतिरेकाभ्यामिति। रक्तच्छदत्वमित्येव शब्दे स्थिते श्रलेषः शब्दप- रिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तदलंकारत्वमेवेत्यर्थः । आश्र- याश्रयिभावेनेति। न पुनरन्वयव्यतिरेकाभ्याम्। ताभ्यां हि यस्य यद्धेतु- कत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम्। लोकवदिति। लोके हि यथा कर्णाश्रितः कुण्डलादिः र्केर्णालंकार उच्यते न पुनः सुवर्णकारणहेतुकत्वात्तद- १. 'प्रतीतौ' क. २. 'मेदात्म' क. ३. 'कृष्णच्छदत्वमित्येव' क. ४. 'तद- लंकारबाध्यत्वमुच्यते' क.
Page 150
अलंकारसर्वस्वम्। १२५
ऐष चे नापराक्तेष्वलंकारान्तरेष्वारभ्यमाणस्तह्वँाघकत्वेन तत्प्रतिभो- त्पत्तिहेतुरिति केचित्। 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्य- बाघकत्वमित्यन्यैः सह संकरः। दुर्बलत्वाद्वा बाध्यत्वमित्यन्ये। तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोच- रत्वेन तावत्प्रतिष्ठितोऽयमलंकारः। तत्रादं प्रकारद्वयं तुल्ययोगिताया विषैयः। तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं
लंकारः। तदेवंरूपस्यास्य 'निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते' इति नीत्या निरवकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहुरित्याह-एष चे- त्यादि। केचिदित्युद्धटादयः । केचितपुनर्विषयवैविक्त्यस्य संभवान्निरवकाशत्वा- भावान्नास्य सर्वालंकारापवादकत्वमभ्युपयन्तीत्याह-येनेत्यादि। अन्या इति मादृशाः । विविक्तोऽस्य विषय इति तुल्ययोगिताया अन्नाभावात्। सा हि द्वयो- रपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति। इह तु तदभावः । विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात्। नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम्। एकेनैव शब्देन श्िष्ट- तयार्थद्वयस्य प्रतिपिपादयिषितत्वात्। अत्र हि परस्परनैरपेक्ष्यात्तयोरुमाधववा- क्यार्थपरामर्शवेलायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामौपम्यस्या-
प्रतीतेर्न निरवकाशः श्ेषः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः। बाध्यत्वमिति। श्रेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्त्वात्। एतच् ग्रन्थ- कृदेवाग्रे दर्शयिष्यतीति नेहायस्तम्। तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम्। अन्यालंकारवदेव बाध्यबाधकभावादिदर्शनात्। एतच्चालंकारसारकृता सप्रपश्चमु- कमितीह ग्रन्थविस्तरभयात्तथा नोक्तम्। पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्ति-
१. 'एषु' क. २. 'च, प्राप्तेषु' ख. ३ 'बाधकत्वात्' क. ४. 'इह' क. ५. 'दुर्लभत्वा' क. ६. 'प्रतितिष्ठतो' क. ७. 'एव विषयः' क. ८. 'दुर्लभत्वात्' क.
Page 151
१२६ काव्यमाला।
श्लेषविषयं व्याह्या व्यवतिष्ठते। तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्र- तिभानमात्रेणावस्थानम्। 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणि- कत्वादर्थद्वयस्य तुल्ययोगितायाः प्रेतिभानम् । एवं च 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादौ न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्ति- हेतु: श्रेष एवावसेयः। श्लेषगमे तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते। क्िष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छ्रे- षस्य बाधिका समासोक्तिः। इह तु
द्योतकस्तावच्छब्दः। व्यात्येति। सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात्। तत्पृष्ट इति तुल्ययोगितादीपकोपरि। अलंकारान्तराणामित्युपमादीनाम्। उत्था- पनमिति। तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात्। अत एवेति। तस्य विविक्तविषयत्वासंभवात्। प्रतिभानमित्याभासमात्रम्। न पुनस्तत्रैव विश्रा- न्तिरित्यर्थः । एतच यथा नोपपद्यते तथा समनन्तरमेवोक्तम्। तदेवं खमतो- पोद्वलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वादा (भावान्नान्य)बाध्यत्वमिति यदुक्तं तदेव प्रपश्चयितुमेतत्कर्तृकं तावदन्यालंकारबाध्यत्वं दर्शयति-छेषेत्या दिना। तृतीयकक्षायामिति। प्रथमकक्षायां हि रूपकप्रतीतिरेव। द्वितीय- कक्षायां तु श्लेषप्रतीतिः । श्लेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौद्धटैर्याद न्याल0ं -0 कारबाध्यत्वमेतस्योक्तं तत्सर्वजनविरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपक- समासोक्तिबा ध्यत्वमेतस्य ग्रन्थकृतेह दार्शतम्। बाध्यत इति विद्वन्मानसहंसेत्यादौ। बाधिकेति उपोढरागेणेत्यादौ। एवं श्लेषस्यान्यालंकाराणां च परस्परं बाध्यबाधक-
१. 'उत्थानं' क. २. 'प्रतिभासनम्' ख. ३. 'इह तु' क-पुस्तके नास्ति. ४. 'उत्थानमिति' क. ५. 'कर्मक' क. ६. 'तद्चन' क.
Page 152
अलंकारसर्वस्वम्। १२७
'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवखान्। मन्येडस्तशैलात्पतितोऽत एव विवेश शुच्धै वडवाभिमध्यम् ।।' अंत्र श्लोके विवखतो वस्तुवृत्तसंभवि अघःप्रदेशसंयोगलक्षणं यत्प- तितत्वं यच्च वडवाभिमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीग- मनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाभिप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते। सोऽयमेकक्रियायोगः । तद्धेतुका च मन्ये अत एव शुद्धै इत्युत्प्रेक्षा(क्षया)। अत्रात एवेति परामृष्टो विरो- घालंकारालंकृतोऽर्थो हेतुत्वेनोलपरेक्ष्यते। शुच्धै इति च फलत्वेन।
भावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं दर्शयति-इह त्वित्यादिना। वडवाग्निम- ध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्गविपरिणामाद्योज्यम्। ते द्वे इति वडवान्निमध्यप्रवेशपतितत्वे। पतितत्वाभ्निप्रवेशाभ्यामिति ब्राह्मण्यपरिच्यावप्राय- श्वित्तात्मकाभ्याम्। सोऽयमिति। यत्पतितत्वाम्निप्रवेशयोर्वस्तुतोऽन्यथास्थित- योरप्यन्यथाभूताभ्यां ताभ्याममेदेनाध्यवसायः । तद्धेतुकेति तच्छब्देन तत्किया- योगपरामर्शः। फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः। तैतश्रेति हेतुफलयोर्द्व- योरुत्प्रेक्ष्यमाणत्वात्। ननु विरोधालंकारस्य विरोध एव रूप तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोतप्रेक्षायां हेतुत्वं भजत इत्याशक्क्याह-विरोधेत्यादि। यद्वक्ष्यति-'विरोधाभासत्वं विरोधः' इति। अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान्न प्ररोहो नापि बाधोत्पत्तावपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र घूर्वं विरोधबोधेः पश्चाद्विरोधधीरिति वाक्यस्यावस्थाद्वयम्। ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत्, र्खलद्गतित्वमिति ब्रूमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्ति- ध्विव नात्र प्रथमप्रवृत्तविरुद्ध प्रतिभासखभावबाध्यविज्ञानसमुत्पुंसनेन बाधकत्वमु- १. 'इति' क. २. 'मूलतया' ख. ३. 'हेतुकत्वेन' क. ४. 'सिद्धयोः' क. ५. 'अतश्चेति' क. ६. 'न रूपं' ख. ७. 'विरोधालंकाराकृतो' क. ८. बाध्यो. त्पत्तौ' ख. ९. 'बोधत्वाच्ात्र विरोधधीः' क. १०. 'बाध्यं' क.
Page 153
१२८ काव्यमाला
ततश्च हेतुफलयोर्द्वयोरप्यत्रोत्पेक्षा। विरोधालंकारस्य चे विरोधाभासत्वं लक्षणम्। अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम्।
वृत्तेः। केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलद्गतितैवावगम्यते। स्खलद्र- तित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः खपित्तविकारा- ज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकादयर्थितया प्रवर्तते। तिमिरदोषं वा जानानस्तैमिरिकोडपि बहिश्वन्द्रद्वयास्तित्वव्यवहारं विधत्ते। एवं बाधोत्पत्तेरनुपप- द्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षणलक्षणव्य- वहारनिमित्तभावमुपगन्तुमुत्सहते। यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्यमा- नत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच्च तयोः कथमेकत्र समावेशो घटते। अतश्चानेनैवाभिप्रायेणाह-अत इत्यादि। विरोधाभासनस- मय एवेति। न तु बाधकोदयसमय इत्यर्थः। बाधोदयानन्तरं विरोधस्योत्प्रेक्षा- हेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति बाधोदयात्प्रागे- वान्यथानुपपत्त्या निश्चीयते। बाधस्य च खवारसिकत्ववस्तुवृत्तेः पर्यालोचनालभ्य- त्वेन द्विविधस्यापि सर्वत्रोत्तरकालमेवोल्लासः संभवति। तस्य च बाध्यनिष्ठत्वाद्वा- ध्यस्य च पूर्वकालभोवित्वात्। अन्यथा हि निर्विषयो बाधः स्यात्। अतश्रोत्तर- कालं तु विरोधसमाधिरिति भणितेरर्थमजानानेनायमर्थोऽन्वेषणीयः । यदि हि बाधः प्रागप्युत्प्रेक्षायाः साधिकारवशेन खरसत एवोलसेत्तदुक्तनीत्या उत्प्रेक्षो- त्थानमेव न स्यादित्यबाधित एव विरोध उत्प्रेक्षाया निमित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति। स च समाधिरत्र दिगाद्यर्थाधिगमादवबुध्यत इति विरोधस्य श्लेषोऽङ्गम्। तद्वशादेवास्योत्थानात्। तथा चात्रानयोः संकीर्णत्वमात्रमेव न पुनः संकरालंकार: ।स तु यथा-'सज्जातपत्रप्रकराश्चितानि समुद्दहन्ति स्फुटपाटल- त्वम्। विकखराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥'अत्र श्लेषतुल्य- योगितयोरेकवाचकानुप्रवेशेन संकरः । प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः
१. 'एव' ख. २. 'उत्थानं स्यात्' ख. ३. 'प्रतिभानिवृत्तेः' क. ४. 'भावि- तत्वात्' क. ५. 'स्वविकार' ख. ६. पझमपक्षे 'सत्-जात-पत्र' इति, दिनपक्षे 'सज्ज-आतपत्र' इति च्छेद :.
Page 154
अलंकारसर्वस्वम्। १२९
उत्तरकालं तु विरोधसमाधिः। श्र्लेषस्य च सर्वालंकारापवादत्वाद्विरोध- प्रतिभोत्पत्तिहेतुरयं क्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य छ्लिष्टपदमहित्रा वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तन्र किं शलेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छेषः । अर्थद्वयस्यानन्वितत्वेनाभिधेयतया वक्तुमनिष्टेः। नापि ध्वनिः। उपक्षे- प्यस्यार्थस्यसंबद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात्। न चान्या गतिरस्ति तैदत्र किं कर्तव्यम्। उच्यते-शेषस्योक्तनयेनाप्र- वृत्तेर्ध्वनेरेवायं विषय इति निश्चिनुमः । तथाहि शब्दशक्तिमूले ध्वना- वर्थान्तरस्योसंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते। स च संबन्धः प्रका- रान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्य: स्यात् तत्कोऽयम- मिनिवेशसन्र। उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण समीचीनः स्यात्। अत एव
शलेषोऽयमित्याह-श्ेषस्येत्यादि। तेनादः पक्षः खाभिप्रायेण अ्न्थकृतोक्तः । यद्वक्ष्यत्येतच्छ्रोकविचार एव संकरालंकारे। अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्ति- हेतुः श्लेषः। दर्शनान्तरे तु विरोधश्लषौ द्वावलंकाराविति। तदेवं खमताभिप्रायेणा- स्यालंकारान्तरवदन्यालंकारै: सह बाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दश- ्युद्धवाद्धनेर्विशेषं प्रतिपाद्यति-यत्र त्वित्यादिना। असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीयत्वात्। अन्येति श्लेषध्वनिव्यतिरिक्ता। उक्नयेनेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेरित्यनेन। संबन्धार्थमिति संगत्यर्थम्। यथा-'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ।I' अत्र प्रकृताप्रकृतयोरसंबद्धार्थत्वं मा प्रसाह्कीदिति नायिकाशशिनो- रौपम्यं कल्पनीयम्। संबन्धान्तरेणेति यत्र यादशेन विवक्षितेन। तत्रेति शब्द-
१. 'विरोधि' क. २. 'उपेक्षैव परा' ख. ३. 'तत्र' ख. ४. 'नयेनात्राप्रवृत्तेः' ख. ५. 'संबन्धत्वात्संबन्घेनार्थ' ख. ९ अ० स०
Page 155
१३० काव्यमाला।
'अलंकारोडथ वस्तवेव शब्दादयत्रावभासते। मलाल्य प्रधानत्वेन स ज्ञेय: शब्दशक्त्युद्धवो द्विघा ।।' इति न्यायभेवनबन्घेन द्विघा शब्दशक्त्युद्धव उक्तः । एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः। यथा-
त्यक्त्वा धूसरकान्तिवल्कलधरो राजास्तशैलं ययौ। तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभि: ऋन्दन्तं कुमुदाकर सुतमिव क्षिप्रं प्रतस्थे निशा ॥' इति। हरिश्चन्द्रचरितेSत्र प्रभातवर्णनानुगुण्येन राजशब्दामिधेयेऽस्तमुपे- युषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरि- श्रन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशात्प्रातः खराष्ट्र त्यक्त्वा वारा- णसीं प्रति गमनं सूचितं स्यात्। तथा च कौशिकशब्दः प्रकृते इन्द्रोळूकयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः ।
शक्तिमूले ध्वनौ। अत एवेति। औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संबन्धस्योपपादयितुं शक्यत्वात्। उक्त इति काव्यप्रकाशकृता। चन्द्र इति वर्ण्यमान इति शेषः। सूचितमिति शब्दशक्त्या। तामेव विभज्य दर्शयति-तथा चेत्यादि: ना। अतश्चेति। इत्येव शब्दशक्तेर्भावात्। अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्य- स्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्दशक्तिरत्र स्फुटा स्थितेति तन्मू- लत्वमेव ग्रन्थकृतास्योक्तम्। शुद्धस्तु शब्दशक्तिमूलो वस्तुध्वनिर्यथा-'न महानयं न च बिभर्ति गुणसमतया प्रधानताम्। खस्य कथयति चिराय पृथग्जनतां जग- त्यनभिमानतां दधत् II' अत्र केवलयैव शब्दशत्त्या सांख्यपुरुषरूपं वस्त्वभिव्य- क्तम्। यत्तु काव्यप्रकाशसंकेते अन्थकृता वस्तुध्वनेः शब्दशक्तिमूलत्वं चिन्त्मुक्तत तदुदाहरणाभिप्रायेणैवोन्नेयम् । तत्र हि 'पन्थिअ ण इत्थ सत्थर' इत्याद्युदाहरणमु· १. 'भर' ख. २ 'संपादितापद्धतिवशात्' क. ३. 'प्रस्थानं सूचितम्' ख. ४. शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्तम्' क.
Page 156
अलंकारसर्वस्वम्। १३१
वल्कलसुताभ्यां त्वौपम्यं सूचनीयार्थनैरपेक्ष्येण सादृश्यसभवमात्रेण संभवनीयम्। अतश्र प्रेकृतेन सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम्। इह च 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्र कण्ठे लमः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स ताद्क्प्रियो मे बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत्॥' इत्यलंकारान्तरविविक्तोऽयं श्ल्वेषस्य विषय इति नाशङ्कनीयम्। अप- ह्ुतेरत्र विद्यमानत्वात्। वस्तुतोऽपहवस्य सादृश्यार्थमत्र प्रवृत्तेर्नायमपहु- त्यलंकार इति चेत्, न। उभयथाप्यपह्ुतिसंभवात्। सादृश्यपर्यवसा- यिना वापह्ववेनापहवपर्यवसायिना वा सादश्येन भूतार्थापह्वस्योभयत्र विद्यमानत्वात्।
भयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुध्वनेः श्रीमम्मटेनोपात्तम्। इह तु यथासंभवमेव विचारितम्। एवं स्वमतेन श्ेषस्य यथोपपत्ति स्रूपं प्रतिपाद्यापि प्राच्यानुरोधा- त्पुनरपि तदीयमेव मतं दर्शयितुमाह-इह चेत्यादि। भूतार्थो वास्तवः संक्षेप इति प्रमेयसंचयात्। आद्येत्यादि सादृश्यपर्यवसायापह्ववसवरूपा। खप्रस्ताव इत्य- पहुतिलक्षणे। उदाहृतेति पूर्णेन्दोरित्यादिना। द्वितीयेति अपह्नुतिपर्यवसायिसाद- श्यरूपा। प्रदर्शितेति आकृष्यादावित्यादिना। अत्र च ग्रन्थकृता श्लेषः सर्वालं- कारापवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्नवपर्यवसायिसादृश्य- रूपोSपह्नुतिभेदोऽपि तन्मतानुसारमेवोक्तः। यद्वक्ष्यति-व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्युपक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति। अतश्वात्र अ्रन्थकृन्मते वक्ष्यमाणसादृश्या श्लेषमूला व्याजोक्तिः । तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तेः।
१. 'विश्रमणीयम्' ख. २. 'प्रकृतत्वेन' ख. ३. 'मात्र' ख.
Page 157
१३२ काव्यमाला।
'सादृश्यव्यक्तये यत्रापहवोऽसावपहुतिः। अपह्रवाय सादृश्यं यत्राप्येषाप्यपह्ुतिः ।।' इति संक्षेपः । आद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता। तेनालंकारान्तरविविक्तो नास्य विषयोSसतीति सर्वालंकारा- पवादोऽयमितिस्थितम्। प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्ता । अघुना तद्वैपरीत्येनाप्र- स्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते- अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा । इहाप्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात्। प्रस्तुतपरत्वे तु कदाचित्तदयुक्त स्यात्। न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अतिप्र- सङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवा- र्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः-सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति। सामान्यविशेषभावे सामान्याद्विशे- वस्य विशेषाद्वा सामान्यस्य प्रतीतौ द्वैविध्यम्। कार्यकारणभावेऽ-
उक्तेति समनन्तरम्। यत्तु समासोत्तयनन्तर परिकरश ्लषयोर्वचनं तद्विशेषणसा- म्यादिना प्रसङ्गागतम् । तामेवाह-अप्रस्तुतादित्यादि। नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि प्रस्तुतस्य प्रतीतिर्भवतीत्याशज्क्याह-इहे- त्यादि। तदित्यप्रस्तुतवर्णनम्। अतिप्रसन्गादिति सर्वस्मात्सर्वप्रतिपत्त्यात्मनः । तस्यैवेति त्रिविधस्य संबन्धस्य । सामान्यस्य विशेषाश्रयत्वाद्विशेषस्य च सामान्य- निष्ठत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः । एवं च कार्यस्य कारणपरत- न्त्रत्वादन्त्यावस्थस्य कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः। इत्थमेत- १. 'अप्रस्तुतावगतौ' ख. २. 'इति' क. ३, भवतीति' ख. ४. 'दवैवम्' क. ५. 'अत्यावश्यकस्य' खं.
Page 158
अलंकारसर्वस्वम्। १३३
प्यनयैव भङ्गया द्विघात्वम्। सारूप्ये त्वेको मेद इत्यस्याः पञ्च प्रकारा:, तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधर्म्याभ्यां द्वैविध्यम्। वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः। क्रिष्टशब्दप्रयोगे त्वर्थान्तर- स्यावाच्यत्वाच्ेषाद्विशेष:। श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा- "तण्णत्थि किंपि पहणो पकप्पिअं जं ण णिअइघरणीए। अणवर अगमणसीलस्स कालपहिअस्स पाहिज्जं II' अत्र प्रहस्तवधे विशेषे प्रस्तुते सामान्यमभिहितम्। विशेषात्सा- मान्यप्रतीतौ यथा- 'एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि। अङ्गुल्यग्रलघुक्तियाप्रविलयिन्यादीयमाने शनै- स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्त: शुचा ।।' अत्र जडानामस्थान एवोदम इति सामान्ये प्रस्तुते विशेषोडभि- हितः । कारणात्कार्यप्रतीतौ यथा-
त्संबन्धद्वयं वास्तवम्। सारूप्यं पुनः प्रातीतिकमेव। प्रतीतावेव सदृशेन वस्त्व- न्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धेः। वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्व- न्तरप्रतीतिर्न स्यात्। अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रतीतौ। तत्रापीति सत्यपि पञ्चप्रकारत्वे। ्िष्टशब्दप्रयोग इति। श्िष्टशब्दनिबन्ध- नाप्यप्रस्तुतप्रशंसा भवतीत्यनुवादाद्विधिः । अत एवास्य बहुप्रकारत्वमुक्तम्। प्रस्तुत इति। प्रहस्तवधवर्णनस्यैव प्रक्रान्तत्वात्। अत्र वाक्यान्तरोपात्ते विशे- षात्मनि प्रस्तुते प्रहस्तवधे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाहियते। यथा-'दुर्जनदूषितमनसां पुंसां सुजनेऽपि १. तत्रास्ति किमपि पत्युः प्रक्पितं यन्न नियतिगृहिण्या। अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ।I' इति कछाया.
Page 159
१३४ काव्यमाला।
'पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मामालपतीत्ययं खलु शठः कोपस्याप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया।' अत्र धाराघिरूढो मान: कथं निवृत्त इति कार्ये प्रस्तुते निवृत्ति- कारणमभिहितम्। कार्यात्कारणप्रतीतौ यथा- 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा। कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तु- तैलोंकोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रती- यते। तेनेयमप्रस्तुतप्रशंसा। ननु कार्यात्कारणे गम्यमानेSपस्तुतप्रशं- सायामिष्यमाणायाम् 'येन लम्बालकः सास्र: कराघातारुणसनः । अकारि भग्नवलयो गजासुरवधूजनः ।।' इति। तथा-
नास्ति विश्वासः । बाल: पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥I' अत्र केनापि डुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विस्रम्भो न जायते। तस्य सुजनस्येयं विशेषे प्रस्तुते सामान्योकिः । तेनेति। अप्रस्तुतात्कारणात्प्रस्तुतस्य कार्यस्य प्रतीतेः । यथा वा-'अनेन सार्ध सरयूवनान्ते कूजन्मयूरीमुखरे विहृत्य। १. 'प्रतिपत्तिर्यथा' ख. २. 'गम्यमानायाम्' क.
Page 160
अलंकारसर्वस्वम् । १३५
'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिञ्ज नोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम्।।' इत्यादौ सुप्रसिद्धे पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवघः प्रतीयते। तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेद: कारणरूपो गम्यते। एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम्। तस्माद- प्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः। इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्यं प्रस्तुतमप्रस्तुतं चेति दयी गतिः। यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः। तत्र हि कारणा- पेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम्। यथोक्तोदा- हरणद्दये। अत्र हि गेजासुरवधूवृत्तान्तोऽपि भगवत्प्भावजन्यत्वात्प्रस्तुत एव। एवं राहुवधूवृत्तान्तेऽपि ज्ञेयम् । ततश्च नायमप्रस्तुतप्रशंसावि- षयः । यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यंते तत्र स्पष्टै- वाप्रस्तुतप्रशंसा। यथा-'इन्दुर्लिप् इवाञ्जनेन' इत्यादौ। अत्र हि इन्द्रादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां
विलासवातायनसेवनेन शलाध्यामयोध्यां नगरीं विधेहि ॥' अत्र सयंवराख्ये कार्ये प्रस्तुते कारणस्याभिधानम्। ननु चात्र कार्यात्कारणस्य प्रतीतौ यद्यप्र- स्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह-नन्वि· त्यादि। सुप्रसिद्ध इति सर्वालंकारकाराभिमते। तत्रेति द्वयनिर्धारणे तदेव वर्णितमिति कार्यमेवोक्तम्। कारणस्य गम्यमानत्वात्। ततश्चेति द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात्। र्पष्टैवेति। अप्रस्तुतस्यैव कार्यस् १. 'अत्र प्रसिद्धे' क. २. 'गजासुरवष' क. ३. 'कारणे कार्यस्याभिधानम्' ख.
Page 161
१३६ काव्यमाला
प्राकरणिकत्वात्। तेनात्रेन्द्वादिगते नाञ्जनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाह्ादकारि गम्यते इत्यत्रा- प्रस्तुतप्रशंसा। एवं च यत्र वाच्योडर्थोडर्थान्तरं तादृशमेव खोपस्का- रकत्वेनागूरयति तत्र पर्यायोक्तम्। यत्र पुनः खात्मानमेवाप्रस्तुतत्वा- त्प्स्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः । ततश्रानया प्रक्रियया 'राजत्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुखे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते। इत्थ राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।' इत्यत्र पर्यायोक्तमेव बोध्यम्। अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्व- दूरय: पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽरथों- डप्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति खात्मानं
प्रशंसितत्वात्। अतश्र द्वयोरपि प्रस्तुतत्वे पर्यायोक्तं प्रस्तुताप्रस्तुतत्वे त्वप्न स्तुतप्रशंसेति विषयविभागः । अतश्र सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्य- कारणयोः प्रस्तुतत्वेऽपि कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेवैंचित्र्याभावाच्च 'पर्यायत्वे कार्यहेत्वोर्भेदसामान्ययोस्तथा। अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥।' इत्याद्युक्मयुक्तम्। यद्येवं तदत्र पर्यायोक्ाप्रस्तुतप्रशंसयो: प्रस्तुताप्रस्तुतरूप कार्य प्रस्तुतं कारणं कथमागूरयतीत्याशड्याह-एवं चेत्यादि। तादशमेवेति वाच्यम्। खवोपस्कारकत्वेनेति। खसिद्धयर्थ परस्याक्षेपात्। समर्पयतीति वाच्योर्थः । इत्थ च् 'स्सिद्धये पराक्षेपः परार्थ खसमर्पणम्। उपादानं लक्षणं च' इत्युत्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयमेदोऽस्तीत्यत्र तात्प- र्यम्। ततश्र्ेति। अनयोर्भिन्नविषयत्वात्। अन्य इति काव्यप्रकाशकारादयः। . १. 'इत्यप्रस्तुतप्रशंसादौ' खः
Page 162
अलंकारसर्वस्वम् । १३७
समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति। सर्वथा पर्यायोक्ता- प्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम्। एतानि साधर्म्योदाहरणानि। वैधर्म्येण यथा- 'घन्याः खलु वने वाताः कह्ारस्पर्शशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥।' अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमघन्य इति वैधर्म्येण प्रस्तु- तोऽर्थः प्रतीयते। वाच्यस्य संभव उक्तान्येवोदाहरणानि। असंभवे यथा- 'कस्तवं मो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥' अत्राचेतनेन सह प्रेश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव।
सवथेति। तत्र पर्यायोक्तमप्रस्तुतप्रशंसा वास्त्वित्यभिप्रायः। इह च सौरूप्येण साधर्म्योदाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साधर्म्योदाहरणानीत्यनेनातिदेश- वाक्येनेति निश्चिनुमः । अयं हि ग्रन्थो अन्थकृतः पश्चात्कैरैपि पत्रिकामिर्लिखित इति प्रसिद्धिः। तैश्वानवधानादुदाहरणपत्रिका न लिखिता। अतिदेशवाक्यं च पत्रिकान्तराल्लिखितमिति अ्रन्थस्यासंगतत्वम्। बहूनि पुनरुदाहरणानि सारूप्यहे- तुकस्य भेदस्य लक्ष्ये प्राचुर्यदर्शनार्थम्। एवं वाच्यस्य संभवे उक्तान्येवोदाहरणा- बीत्यत्राप्ययमेवाभिप्रायो योज्यः । अतश्च 'परार्ये यः पीडामनुमवति भङ्गेडफि मधुरो यदीय: सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स
१. 'शाहोटक' क. २. 'प्रश्नोत्तरता' स्र. ३. 'अत्र' क. ४. 'साघर्म्येंण सारूप्यो' स्र. ५. 'कैश्चित' ख.
Page 163
१३८ काव्यमाला।
प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत्। उभयरूपत्वे यथा- 'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।।' अत्र वाच्येऽर्थे कण्टकाना भङ्गरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम्। प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किंचित्। एतदेव च क्लेषगर्भायामस्या- मुदाहरणम्। तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्योः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशं- सेति निर्णयः ।
भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' तथा-'पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये। एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्घोऽवकाशः ॥I' तथा-'पैथि निपतितां शून्ये लब्ध्वा निरावरणाननां ननु दधिघटीं गर्वोन्नद्धः समुद्ुरकंधरः। निजसमुचितासवास्ताश्रेष्ट विकारशताकुँलो यदि न कुरुते काण: काकः कदा नु करिष्यति ॥' इत्युदाहरणान्यत्र मध्ये लेखि- तव्यानि येन ग्रन्थस्य संगतत्वं स्यात्। अत्र च सारूप्यं साधर्म्य वाच्यसंभवश्व स्फुट एव। तदध्यारोपेणेति प्रस्तुतारोपेण। एतदित्यचेतनेन सह प्रश्नोत्तर- करणम्। एतच्च सामान्यादिभेदपश्चकं वाच्यं सदर्थान्तरन्यासदष्टान्तयोर्विषयो १. 'समुदिषं' ख. २.'अवनिपतितां' ख. ३, 'कुला' ख.
Page 164
अलंकारसर्वस्वम्। १३९
उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह- सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनम- र्थान्तरन्यासः। निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽ- र्थान्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य सम- र्थक इति द्वौ मेदौ। तथा कार्य कारणस्य कारणं वा कार्यस्य सम- र्थकमित्यपि द्वौ भेदौ। तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भैदद्वयेऽष्टौ मैदाः । हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्या- सोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेपि न तद्गणना सहृदयहृदय- हारिणी। वैचित्यस्याभावात्। तस्माद्वेदाष्टकमेवेहोद्टक्कितम्। क्रमेण यथा-
भवति। अन्यथा पुनरस्या एवेति दर्शयितुमाह-तत्रेत्यादि। सर्वथेत्यनेनैतह्ल- क्षणस्याव्यभिचार उक्तः । उक्तन्यायेनेति। अप्रस्तुतप्रशंसाभेदानामेव वाच्य- त्वकथनात्। आहेति सामान्येत्यादिना। समर्थनार्हस्येति। साकाह्ृत्वादुपपा- दनापेक्षत्वात्। उपपादनमित्येवमेव। एतदिति नैराकाल्लयोत्पादनलक्षणम्। कार्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङ्गत्वं अन्थकृदेव वक्ष्यतीति सामान्य- विशेषभावाश्रयमेव भेदद्वयमाश्रयणीयम् । विशेषेणापि सामान्यसमर्थने यत्र सा० मान्यवाक्यस्योपपादनापेक्षत्वं तन्रायमेवालंकारः। नहि विशेषात्मकागस्त्यवृत्तान्तो- पादानं बिना पुंसां कुलवैलक्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्धयेत्। तत्र पुनः खतःसिद्धस्यैव प्रतीतिविशदीकरणार्थ तदेकदेश- भूतो विशेष उपादीयते तत्रोदाहरणालंकारः । गुणसंनिपाते दोषनिमज्जनात्मनः १. 'उपादानं' क. २. 'एवं कार्यकारणभावे दवौ भेदौ। तत्र' क. ३. 'उपमा० नापे' ख.
Page 165
१४० काव्यमाला।
'अनन्तरत्प्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।' 'लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्तमुदात्ततायाः। वातापितापनमुने: कलशात्प्रसूति- र्लीलायितं पुनरमुद्रसमुद्रपानम्।।' 'सहसा विदघीत न क्रियामविवेकः परमापदां पद्म्। V वृणते हि विमृष्यकारिणं गुणलुब्धाः खयमेव संपदः ॥' अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्वरणं कार्य साध्म्येण समर्थकम्। तस्यैवैतत्कार्यविरुद्धत्वमापत्पद- त्वम्। सहसाविघानाभावविरुद्धाविवेककार्य वैध्म्येण समर्थकम्। 'पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत ततितये दिधीर्षां देवः करोति हरकार्मुकमाततज्यम् ।।' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिपवर्तकत्वे कारणं सम- र्थंकत्वेनोक्तम्। वैधर्म्येण सामान्यविशेषभावो यथा-
सामान्यस्य नैराकाह्कयेण सिद्धस्येन्दो: किरणेष्विवाङ्क इति तदेकदेशभूतो विशेषस्तत्र अतीतिविशदीकरणार्थमुपात्तः । अतश्र विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थनमिति सूत्रणीयम्। अन्यथा ह्यव्याप्ति: स्यात्। तस्यैवेति सहसाविधानाभावस्य। एतत्कार्यविरुद्धमिति स्पेद्धरणकार्यवि- रुद्म् । विरुद्धं सामान्यरूपतयेत्यनेन वैधर्म्येण विशेष: सामान्येन समर्थित इत्यु- १. 'उदारतायाः' ख. २. 'वैधम्येंणोदाहृतं समर्थकम्' क. ३. 'राम :- आन- तज्यम्' ख. 'संपत्करणकार्याविरुद्धम्' ख.
Page 166
अलंकारसर्वख्वम्। १४१
'अहो हि मे बहपराधमायुषा यदप्रियं वाच्यमिदं मयेदशम्। त एव धन्याः सुहृदां पराभवं जगत्यद्दष्टैव हि ये क्षयं गताः।।'
न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम्। कार्यकारणतायां वैधम्येंणोदाहृतम्। हिशब्दामिहितत्वानमिहितत्वादिभेदाः खयमेव बोद्धव्याः। चारुत्वातिशयाभावान्नेह प्रदर्शिताः। एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं प- र्यायोक्तमुच्यते- गम्यस्यापि अङ्न्तरेणाभिधानं पर्यायोक्तम्। यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम्। गम्यस्य सतः कथ- मभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावाद्। नहि तस्यैव तदैव तयैव विच्छित्त्या गैम्यत्वं वाच्यत्वं च संभवति। अतः कार्यमुखद्वारेणाभिधानम्। कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णना-
कम्। सामान्यं तु विशेषेण समर्थ्यते यथा-'गुणानामेव दौरात्म्याबुरि धुर्यों नियुज्यते। असंजातकिणस्कन्धः सुखं खपिति गौर्गडी॥।' अत्रापि समर्थ्यसमर्थक- भावसमर्थनादुदाहरणत्वं वाच्यम्। उदाहृतमिति 'सहसा विदधीत-' इत्यादिना। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना । तदेवाह-गम्यस्यापी- त्यादि। ननु कथमेकस्यैवैकस्मिन्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह-गम्य- स्यैवेत्यादि। प्रकारान्तरेणेति कार्यादिद्वारेण। अत इति। ऐकस्यैवैकस्मि- न्काले गम्यत्ववाच्यत्वासंभवात्। कार्यादिद्वारेणेत्यादिशब्दः प्रकारे। अभिधी- यमानं हि कार्य तदविनाभावित्वात्खसिद्धये कारणमाक्षिपतीति गम्यमपि तद्वा- व्यायमानमिति यदेव गम्यते तस्यैव भङ्जयन्तरेणाभिधानम्। अतश्च 'खभ्य- खतदुर्नयजयस्तनयस्तदीयः क्ष्मामाररक्ष जयवाहननामघेयः। दुर्वारवैरिवरवीरवि- १. हिशब्दाभिहितानभिहितादि' क. २. 'पर्यायान्तरेण' ख. ३. 'वाच्यत्वं गम्यत्वं' ख. ४. 'कार्याभिमुखेन' क. ५. 'गम्यस्य' क.
Page 167
१४२ काव्यमाला।
हत्वात्। अत एवाप्रस्तुतप्रशंसातो मेदः । एतच्च वितत्याप्रस्तुतप्रशं- साप्रस्तावे निर्णीतमिति तत एवावघार्यम्। उदाहरणम्- 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥' अत्र हयग्रीवस्य कार्यमुखेन सवर्गविजयो वार्णेतः । प्रभावातिशय- प्रतिपादनं च कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्या- योक्तस्यायं विषयः । गम्यत्वविच्छित्तिप्रस्तावाव्याजस्तुतिमाह- स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाधितसवरूपा निन्दाया
लासिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः ॥' इत्यादावलंकारप्रकारत्वं न वाच्यम्। बहुधाजयत् इति हि क्रियमाणे 'गतोऽस्तमर्को भातीन्दुः' इत्यादिवदेतदकाव्य- मेव स्यात्। न च दोषाभावमान्नमलंकारत्वमिति बहुशः प्रागुक्त। यत्तु खप्नावशे- षप्रियदर्शनात्मकं कार्यरूपेणार्थेन खसिद्ध्यर्थ कारणरूपस्तद्वध आक्षिप्यते तैंदि- तरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति निर्बीजैव पर्यायोक्तान्तरवाचोयुक्तिः । अत एवेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात्। कार्यमुखेनेति। पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः । सवर्गविजय इति कारणरूपः । वर्णनीय- मिति । प्रस्तुतमेवेत्यर्थः । आहेति स्तुतिनिन्दाभ्यामित्यादिना। प्रमा- णान्तरादिति वक्तृवाच्यप्रकरणादिपर्यालोचनात्मनः । बाधितस्वरूपेति । आमुख एव। प्रस्खलद्रूपेत्यर्थः । अत एवास्या ध्वनेर्भेदः। स हि विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलादवगम्यते। इह पुनः प्रमाणान्तराट्वा- धितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र निन्दादौ खं समर्पयति। तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः । एवम्-'अह सज्जणाण मग्गो सुहअ तए चेअ १, 'तथा-' क. २. 'इत्यादावेव तदलंकार' क. ३. 'मात्रत्वे' ख. ४. 'तदितरप्रकारान्तःपातित्वात्पृथग्वक्तुं' क. ५. 'परनिन्दादौ' ख.
Page 168
अलंकारसर्वस्वम् । १४३
पर्यवस्यति तत्रासत्यत्वाद्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याज- स्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववद्वाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा। स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावा- दप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा- 'हे हेलाजितबोधिसत्त्व वचसां कि विस्तरैस्तोयधे नास्ति त्वत्सदशः परः परहिताघाने गृहीतत्रतः। तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्घायशो- भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः । 'इन्दोर्लक्ष्म त्रिपुरजयिन: कण्ठपीठी मुरारि- र्दिङ्गागानां मदजलमषीभाज्जि गण्डस्थलानि। अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता- न्युद्धासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥'
णवरँ णिव्वूढो। इण्हिं अण्णं हिअए अण्णं वाआइ लोअस्स II' इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषय- तवमेव युक्तम् । पूर्ववदिति प्रमाणान्तरात् । एका द्वितीया चेत्यभिदधता द्वे एवात्र व्याजस्तुती न पुनरेकैव द्विविधा व्याजस्तुतिरिति सूचितम्। प्रकार- प्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति। असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् । शब्दनिबन्धनं तु सामान्यमाश्रित्य द्वयोरत्राभिधानम्। एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्यो: प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम्। यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङ्काह-स्तुतीत्यादि। तत्र हि सामान्यविशेषादीनां गम्यत्वमुक्तम्। विपरीतलक्षणयेति। सनिमि-
Page 169
१४४ काव्यमाला।
अत्र धवलताहेतुयशोविषयानवक्कृंप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवर्ज समस्तवस्तुधवलताका- रित्वं नृपयशसः प्रतीयते। 'कि वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णी स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्ति:॥ इत्यत्र प्रकरान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति छ्िष्टमेतदुदाहरणम्। गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते- उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्यर्थ निषेधा- भास आक्षेप:। इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य
त्तात्र वाच्यवैपरीत्य प्रतीतिरिति भावः । अन्यथा हि सैर्वस्मात्सर्वप्रतिपत्तिः स्यात्। लक्षणा च मुख्यार्थबाधपूर्विकैव भवतीत्यभिधीयमानायाः स्तुतेर्बाधितसवरूपत्व- मुक्तम्। अस्याश्ष निन्दास्तुत्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाह-किं वृत्तान्तरित्यादि। उन्मूलि- तेति। स्तुतिरेव वौच्यत्वेनो क्तेत्यर्थः । श्िष्टमिति। अनुदाहरणमेवैतदिवि तात्पर्यम्। अतश्ास्य लोचनकारेण यद्वाजस्तुत्युदाहरणत्वमुक्त तदयुक्तमेवेति भाव:। उररीकृत्येत्याश्रित्य। तमेवाह-उक्तवक्ष्यमाणयोरित्यादि। तथा-
१. 'लिप्त' ख. २. 'इत्युच्यते' ख. ३. 'पूर्वस्मात्' ख. ४. 'नान्यथेति' ख. ५ 'वाक्यार्थत्वेन' क.
Page 170
अलंकारसर्वस्वम् । १४५
विधानार्हस्य निषेध: कर्तुं न युज्यते। स कृतोऽपि बाधितस्वरूपत्वान्निषेधा- यत इति निषेधाभासः संपन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेष- प्रतिपत्त्यर्थम्। अन्यथा गजस्रानतुल्यं स्यात्। स चाभासमानोSपि निषेघस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात्। इत्याक्षेपस्य दयी गतिः। तैत्रोक्तविषयत्वे न कैमर्थक्यपरमालो- चनमाक्षेपः। वक्ष्यमाण विषयत्वेनानयनरूपमागूरणमाक्षेपः। एवं चार्थ- भेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति। तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः । वक्ष्यमाणविषये त्विष्टस्य विशेषः। इष्टसंबन्धि-
विधस्येति वक्तुमिष्टस्य। अत एव विधानार्स्येत्युक्तम्। स इति निषेधः। बाधि- तस्वरूपत्वादिति। प्राकरणिके विधानार्हे तस्यासंभवात्। यद्येवं तर्ह्यसावकार्य एवेत्याशड्काह-तस्येत्यादि । अन्यथेति । विशेषप्रतिपत्तिर्न स्यात्। तस्य च विषयं दर्शयति-स चेत्यादिना। उक्तस्येति वस्तुतः कथनरूपस्य। आसूत्रिताभिधत्वेनेति सामान्यमुखेनांशोक्तिमुखेन वा। अन्यथा हि सर्वत्र विव- क्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः । कैमर्थक्येति। किमर्थमेतदिति पर्य- नुयोगरूप इत्यर्थः । एवमिति । कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात्। वदन्तीति प्राच्याः । यदाह भामहः-'वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विघा- मतः। एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् ।।' इति। तेनास्माकमेतन्न मत- मिति भावः। वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वात्किमर्थमेतत्कथ्यत इति कै- मर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपर्शैब्दस्यार्थ इति भेदाभावाद्ावाक्षेपा- विति न युक्तम्। तत्किमेक एवाक्षेपो भवन्मते युक्त इत्याशज्ञ्याह-तत्रेत्यादि। आक्षेप इति विशेषः। कार्यकारणयोरमेदोपचारात्। इष्टस्येति विशेषात्मनः। अन्य- स्येति विशेषात्। एवं निषेधविशेषयोर्भेदेनावस्थितेर्नान्न सामान्यलक्षणसंभवोSस्तीति तात्पर्यम्। ननु सर्वविशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर- १. 'तुल्यत्वं' क. २. 'तत्र' क-पुस्तके नास्ति. ३. 'भिधत्वेन' क. ४. 'तत्र' क-पुस्तके नास्ति. ५. 'शब्दस्यार्थ इति तस्यार्थभेदाभावात्' कः ६. 'ननु सामान्ये सर्वविशेषाणां विशेषे च सामान्यानामनुप्राणितत्वात्' ख. १० अ० स०
Page 171
१४६ काव्यमाला।
नस्त्वन्यस्य सामान्यरूपस्य निषेधः । तेनात्र लक्षणभेदः। विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम्। तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते कचिद्वस्तुकथनमिति द्वौ भेदौ। वक्ष्यमाणविषये तु वस्तु- कथनमेव निषिध्यते। तेच्च सामान्यप्रतिज्ञायां केचिद्विशेषनिष्ठत्वेन निषिध्यते कचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ। तदे- वमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमव- लम्ब्य चात्र प्रैकारिप्रकारभावप्रकल्पनम्। क्रमेण यथा-
परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोर्भिन्नविषयत्वमुक्तम्। सत्यम्। यद्यप्येवं तथाप्येतन्न शब्दार्थम्। अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्द- मेवैतदाक्षेपाङं नार्थवशायातम्। तथात्वे हि रूपकादीनामप्युपमात्वं स्यात्। तेषामप्यार्थस्य सादृश्यस्याभावात्। एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्च- मुक्तमिति न तथास्माभिराविष्कृतम्। तेनेति। निषेधविशेषयोरेव भिन्नविषय- त्वादाक्षपशब्दस्यार्थे मेदात्। यस्त्वत्र विशेषः स किं वाच्यः किमुत गम्य इत्या- शङ्याह-विशेषस्येत्यादि। कथनमेवेति। न पुनः साक्षाद्वस्तु। तदिति कथनम्। सामान्यप्रतिज्ञयेति। सामान्यमेवाश्रित्येत्यर्थः । विशेषनिष्ठत्वे- नेति। सामान्यस्य विशेषाविनाभावित्वात् निषिध्यत इत्यत्रोत्तरत्र च संबन्ध- नीयम्। अंशान्तरगतत्वेनेति। सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः । अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते। विशेषस्य हि साक्षादत्र निषेधो न भवति। निषेधानन्तरं तत्प्रतीतेर्भाविनो निषेधासंभवात्। नह्युक्तो निषेधः शब्दा- समर्पिते तत्कालमप्रतीयमाने च विषये संभवति। अस्येत्याक्षेपस्य। ननु द्वयो- राक्षेपयोश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशङ्कयाह-शब्दे- त्यादि। प्रकल्पनमिति। न पुनर्वस्तुतः सद्भाव इत्यर्थः । वस्तुनो निषेध-
१. 'ततश्च' ख. २. 'कापि' क. ३. 'प्रकारप्रकारिकभावपरिकल्पनम्' ख. ४. 'सदर्थम् क. ५. 'नाक्षेपशब्दस्यार्थभेदाव' क. ६. 'शब्दसमर्पिते तत्काल- अतीयमाने च' क.
Page 172
अलंकारसर्वस्वम्। १४७
"बालअ णाहं दूई तीए पिओ सि त्ति म्हवावारो। सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो ।।' 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः । न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेझि प्रियतमे।।' 'सुहअ विलंबसु थोअं जाव इमं विरहकाअरं हिअअं। संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ।।' 'ज्योत्सा तमः पिकवचः ऋकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः। सर्व दुरन्तमिदमद्य शिरीषमृद्दी सा नूनमा: किमथवा हतजल्पितेन ।I' आद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्त- विषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वा-
मुखेन विशेष इत्यनेन यस्यैव निषेधस्तस्यैव विशेष इत्युक्तं निर्वाहितम्। 'दूर- पवासे सँमुहो सि सुहअ आलिंगणं खणं कुरुसु। अहवा अला हि इमिणा गमणम्मि विलंबआरेण ।I' इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधौ तात्पर्या- भावान्न निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम्। यतोऽत्र विलम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिरनुपपद्यमानत्वादप्रस्थान- लक्षणं निषेधं लक्षयति। अत्र च गमनस्यावश्यापरिहार्यत्वादिर्विशेषः प्रयोजनम्।
१. 'बालक नाहं दूती तस्याः प्रियोऽसीति नास्मद् व्यापारः । सा ्रियते तवायश एतद् धर्माक्षरं भणामः ॥' इति च्छाया. २. 'सुभग विलम्बसव स्तोकं यावदिदं विरहकातरं हृदयम्। संस्थाप्य भणिष्याम्यथवापक्राम किं भणामः ॥' इति च्छाया. ३. 'वास्त- वाभिन्नादिविशेषतया भण्यमानस्य' ख. ४. विधितात्पर्या' क.
Page 173
१४८ काव्यमाला। स्तवत्वादिर्विशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपो- परागनिवर्तनेनावश्यस्वीकार्यत्वं विशेषः। उत्तरस्मिन्पुनरुदाहरणद्वये यथाकमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यंशान्तरस्य स्वरूपेण च भणि- तिनिषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणि- स्समितिप्रतिज्ञातस्य सातिशयात्कोपजनकत्वादिर्विशेषः । तथा चां- शोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च आक्षेपे ईष्टार्थस्तस्यैव निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते। तेन न निषेधविधिः न
क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षित- वाक्यार्थविप्रलोप एव स्यात्। अतश्रोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधोऽन्यत्र विशेषश्वेति न वाच्यम्। प्रसादस्येति वस्तुनो न ब्रूयामिति तत्क- थनस्यैव निषेधः । सामान्यद्वारेणेति। भणिष्यामीति भणनसामान्यमाश्रि- त्येत्यर्थः । तच्च तत्तदपराधोदीरणपरमेवेति तस्य विशेषागूरकत्वम्। इष्टस्येति काकाक्षिन्यायेन योज्यम्। अंशोक्ताविति सर्व दुरन्तमित्यादिना। अंशान्तरस्येति म्रियते इत्यादेः । किमथवा हतजल्पितेनेति सामान्यरूपस्यैव निषेधः। एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति-एवं चेत्यादिना। उपयुज्यत इति। एत- च्चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाह-तेनेत्यादिना। निषेध- विधिर्नाक्षेप इति संबन्धः । एतदुत्तरत्रापि योज्यम्। यदाहु :- 'विहितस्य निषै- धेन न निषेधविधौ भवेत्। निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ॥' इति। तत्र निषेधविधिर्यथा-'एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्मं शीर्ष तदेतत्तदिदमनिमिषं नेत्रमसनेरगारम्। सैषा हालाहलश्रीर्वलयिततनवो नाग- राजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैरों नमस्ते ॥I' अत्रालमिति निषेधस्यैव विधिः । अतश्च न तस्यासत्यत्वम् । तदभावाच न विधिपर्यवसान- मित्याक्षेपोपयोगिन्याः सामय्या अभाव इति नायमत्रालंकारः। स हि चतुष्टय-
१. 'य इष्टार्थः' क. २. 'अत एव'क.
Page 174
अलंकारसर्वस्वम्। १४९
विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्वि- धिपर्यवसानात्। विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते। तथा च हर्षचरिते-'अनुरूपो देव्या इत्यात्मसंभावना-' इत्यादौ, तथा यामीति न स्नेहसदशं- इत्यादावुक्तविषय आक्षेपः। 'केवलं बाल इति सुतरामपरित्याज्योडस्मि। रक्षणीय इति भवद्धुजपञ्जरमेव रक्षा- स्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या। बालत्वादेरुक्तस्य निषेध्यत्वेना-
संनिधावेव भवति। विहितनिषेधस्तु यथा-'ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे हे सन्तः शणुतावधत्त च धृतो युष्मासु सेवाजलिः। यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति खयमेव तत्सुमनसो यात्वा परं दैन्यभू: ॥' अत्र विहितानां विनयोक्तीनां निषेध इति विहितनिषेधः । पूर्व- वच्चात्र नाक्षेपालंकारः। निषेधेन विधिस्तु अ्रन्थकृतैवोदाहृतः । अत्र च निषेधः स्यमनुपपद्यमानत्वादविश्राम्यन्खात्मानं विध्यर्थे समर्पयतीति 'परार्थ स्वसमर्प- णम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् । यदुक्तमन्यत्र-'यत्र ख्यमविश्रान्तेः परार्थ स्वसमर्पणम्। कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् ।।' इति। निषेध- विधौ विहितनिषेधे च पुनरभिधेयः । न पुनः खसिद्धये पराक्षेप इत्येवं लक्षणा- मूलत्वमत्र वाच्यम्। मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थंबाधाद्यभावात्। अतश्वान्यैः सवसिद्धये पराक्षेपः प्रतिषेधस्य यत्र हि। आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भास- नात् II' इत्यादयुक्तमेवोक्तम् । यद्यपि लक्षणायां खसिद्धये पराक्षेपस्य प्रागभाव एव पागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदु- कम्। ननु च यद्येवं निषेधस्यासत्यत्वाद्विधिपर्यवसाने आक्षेप उक्तस्तद्वदेव विधे- र्निषेधपर्यवसाने को नामालंकार इत्याशङ्कयाह-विधिनेत्यादिना। अस्येत्या- क्षेपस्य। शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र प्रकारप्रकारिभाव: कल्पितो न तु वास्तवः । विधिनिषेधयोर्निषेधविध्यागूरकत्वादनयोः सामान्यल- क्षणायोगात्। ततश्रेति निषेधस्य विधिपर्यवसानात्। अस्य चालंकारान्तराश्रया- द्वैलक्षण्यं दर्शयति-केवलमिव्यादिना। अत्र राज्यवर्धनोक्तौ बालत्वादेरु-
Page 175
१५० काव्यमाला।
विवक्षितत्वात्। प्रत्युतात्र बाल्यादिःपरित्यागनिषेधकत्वेन प्रतीयते। तेन नायमाक्षेपः। कस्तहयं विच्छित्तिप्रकारोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो मेदो वक्ष्यते। 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम्। सौकर्येणान्यकृतये न निषेधकता पुनः ॥' इति पिण्डार्थः । इह तु- 'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥ गृह्न्तु सर्वें यदि वा यथेच्छं नार्ति क्षतिः कापि कवीश्वराणाम्। रत्ेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥' इति। तथा- देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु। वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥ बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य। इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः ॥
क्तत्वम्। श्रीहर्षदेवोक्तौ तु निषेधाविवक्षा। प्रत्युतेति। न केवलं बाल्यावत्र निषेध्यत्वेन विवक्षितम्। यावदेतदेवान्यनिषेधकत्वेनापीत्र्थः । तेनेति। बालत्वादेर्निषेध्यत्वेनाविवक्षितत्वात्। वक्ष्यत इति। सौकर्येण कार्यविरुद्धा करिया चेत्यादिना। एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदि- ष्टस्येत्यादिना। अन्यकृतय इति निषेधार्थम्। अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम्। एवं च निषेधकतैवाक्षेपोक्तेर्न निबन्ध- नमिति विहितनिषेधादावेत्र्रमो न विधेय इत्याह-इह त्वित्यादि। १. 'निषेैकत्वेन' ख. २. विशेषार्थम्' ख.
Page 176
अलंकारसर्वस्वम्। १५१
यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥।' इति नाक्षेपबुद्धिः कार्या। विहितनिषेधो ह्ययम्। न चासावाक्षेपः । निषेधविधौ तस्य भावादित्युक्तत्वात्। चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धि: कार्या। अयं चाक्षेपो ध्वन्यमानोऽपि भवति। यथा- 'गणिकासु विधेयो न विश्वासो वल्लभ त्वया। किं किं न कुर्वतेनर्थमिमा धनपरायणाः ।' अत्र हि गणिकाया उक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रती- यते। न चासौ निषेध एव। गणिकात्वेनावस्थिततयैव गणिकात्वस्य निषेघनात्। सोऽयं प्रस्खलद्रूपो निषेघाभासरूपो वक्त्र्या गणिकायाः शुद्धस्नेहनिबन्घनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम्। न तु- 'स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान्। योडम्बुकुम्मैः परिच्छेदं ज्ञातुं शक्तो महोदघेः ॥'
तस्येत्याक्षेपस्य । तद्भावमात्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः । प्रतीयत इति गम्यते। नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव। निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम्। अन्यथा ह्यस्य ध्वन्यमानोदराहरणत्वमयुक्तं स्यात्। तस्येहा- नुपकान्तत्वात्। इत्थं च निषेधाभासस्यैव गम्यत्वेडयं ध्वन्यमानो भवति न निषेधमात्रस्यैवेति दर्शयितुमाह-नत्वित्यादि। अतश्च ध्निकृता यदेतदाक्षे पध्वनावुदाहृतं तदयुक्तमेवेति भावः। एवं चास्य यथोपपादितं सरूपमुपसंहार १. 'योऽम्भ:कणैः' ख. २. 'भावस्यैव' क. ३. 'आक्षेपादावुदाहृतं' क.
Page 177
१५२ काव्यमाला।
इत्याक्षेपध्वनावुदाहार्यम्। निषेधस्यैवात्र गम्यमानत्वात्। न निषे- घाभासस्य। गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम्। तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या। सर्वथेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम्। एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह-
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव वि- धानं नोपपद्ते। तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति। ततश्र विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यव- सायी निषेधागूरणादाक्षेपः। यथा-
भङ्गयापि प्रतिपादयति-सर्वथेत्यादिना। सर्वथेत्यनेन कुत्राप्यस्य व्यभिचारो नास्तीति दर्शितम्। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना। समा- नन्यायत्वादिति। यथात्रेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेहाप्य- निष्टस्य विधिर्निषेधे इत्येवंरूपात्। एवमेतावन्मात्रमस्याद्यस्य चाक्षेपस्य साजात्यम्, न पुनः सामान्यलक्षणसंभव इति भावः। तदेवाह-अनिष्टेत्यादि। एतदेव दृष्टान्तद्वारकं व्याचष्टे-यथेत्यादिना। तदिति विधानम्। प्रस्खलद्रूपत्वादिति स्वार्थबाधात्। पर्यवस्यतीति। खात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः । तत- श्वेति विधेर्निषेधलक्षणात्। उपकरणीभूत इति। खार्थबाधादुपसर्जनीभूत इत्यर्थः । अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम्। अन्यथा हि गजस्नानतुल्यत्वं स्यात्। निषेधागूरणादिति निषेधस्यात्र लक्ष्यमाणत्वात्। सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते। तस्मात्तत्प्रतिपत्तेः। तच्चार्थान्तरागूरणं 'खसि- द्धये पराक्षेपः' इत्येवं लक्षणाप्रकारस्य पूर्व निरस्तत्वात्खात्मसमर्पणेनैव भवतीति यथोक्तमेव युक्तम्। अत एवास्यान्वर्थाभिधत्वम्। पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः। व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव १. 'सन्भ्ाव' इत्यर्थः.
Page 178
अलंकारसर्वस्वम्। १५३
'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।।' अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोSनिष्टमप्यनिराकरणमुखेन विधीयते। न चास्य विधिर्युक्तः। अनिष्टत्वात्। सोडयं प्रस्खलद्रूप- त्वेन निषेधमागूरयति। फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनि- बैन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । इदंच ममापि जन्म तन्रैवेत्या- शीःप्रतिपादनेनानिष्टपर्यवसायिना व्यक्षितम्। यथा वा- 'नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वाहशाः पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः । किं त्वेतत्कथयामि संततरतक्कान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यैदा प्रमुख एवाभ्युपगम्यमानं
युक्त नापेक्षत्वम्। 'इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमित्तम्। न तु प्रज्ञातिशयवतां 'प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ' इति नीत्या नाम्नि विवादो युक्तः । तस्मात् 'आक्षिप्यतेऽत्र विधिना न यतो निषेधः खार्थ विधावपि न पर्यनुयोग- बुद्धिः । तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव I' इत्यादि न वाच्यम्। निराकरणमुखेनेति। प्रवृत्तक्रियत्वात्कान्तस्यानुमोदन- द्वारेणेत्यर्थः । प्रस्खलद्रूपत्वेनेति खार्थबाधात्। आगूरयतीति खात्मसमर्पणेन। ननु विधिमुखेनास्य किमागूरणं स्वयं निषेध एव क्रियतामित्याशक्काह-फल- मित्यादि। एतच्चेति विधेर्निषेधागूरकत्वम्। यथा वेत्यनेनास्य लक्ष्ये प्राचुर्य दर्शितम्। प्रमुख एवेति। न पुनः पर्यवसान इत्यर्थः । एतदेवोपसंहरति- १. 'प्रलुठद्रूप' क. २. 'निर्बन्धं' क. ३. 'शिथिलाः' ख. ४. 'यस्य मुखे एव' ख. ५. 'च प्रतिज्ञाशय' ख. ६. 'अनुकरण' ख. ७. 'अलुठु्रूपत्वेनेति' क.
Page 179
१५४ काव्यमाला।
प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम्। स्र्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता। तस्मादयमपि प्रकार आक्षेपस्य समानन्या- यतयाभिनवत्वेनोक्तः । आक्षेपे इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रवि- ष्टम् । एतत्प्रस्तावेन विरोधगर्भोSलंकारवर्गः प्रेक्रियते। तत्रापि विरो- घालंकारस्तावल्लक्ष्यते- विरुद्धाभासत्वं विरोधः । इह जात्यादीनां चतुर्णां पदार्थानां प्रत्येकं तन्मध्य एव सजातीय- विजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाघाने प्रमुख एवाभासमानत्वाद्विरोघाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो मेदाः। गुणस्य गुणा-
तस्मादित्यादिना। अभिनवत्वेनेति दण्ड्याद्यपैक्षया। तेन ह्यसौ 'इत्या- शीर्वचनाक्षेपो यदाशीर्वादवर्त्मना। सावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते॥ इत्युक्तेरसंभवतापि लक्षणेन लक्षितः । न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्वाख्येयम्। 'विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः' इतीदगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृतम्। इदानीं विरोधस्य लक्षणमुपकमते-आक्षेप इत्यादिना। एतत्प्र- स्तावेनेति। विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः । तत्रापीति। विरोधगर्भालंका- रोपक्रमेSपीत्यर्थः । तावदित्युपक्रमे। तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम्। तदे- वाह-विरुद्धेत्यादि। तन्मध्य एवेति। जात्यादीनां गुणादय एव विजा- तीया गुणादीनामपि जात्यादय एव विजातीया ग्राह्याः, न पुनरन्ये यदच्छादय इत्यर्थः। ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्या- शङ्क्याह-स चेत्यादि। समाधानमिति। वस्तुवृत्तपर्यालोचनालभ्यो विरो- धप्रतीत्यनन्तरभावी नैतदेवमिति प्रत्ययरूपो बाधः । प्रमुख एवेति न पुनः १. 'दष्टस्य' ख, २. 'प्रतीयते' क. ३. 'तत्समाधाने तु' ख .. ,पत
Page 180
अलंकारसर्वस्वम् । १५५
दिभि: सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ। द्रव्यस्य द्रव्येण सहैकः। तदेवं दश विरोधमेदाः । तत्र दिब्लान्रे- णोदाहरणं यथा- 'परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।।' अत्र जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्ति- पर्यवसानेन परिह्ियते। तथा- 'अयं वारामेको निलय इति रतनाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥' अत्र जलनिधि: पीत इति द्रव्यत्रिययोर्विरोधो मुनिगतेन महा- प्रभावत्वेन समाधीयते। एवमन्यदपि ज्ञेयम्।
पर्यवसाने। तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति भावः। एतच् श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम्। एवं च सत्यपि समाधाने दोषाभावमात्रमेवास्य स्वरूपं नाशङ्कनीयम्। अलंकारत्वपर्यवसायिनो विच्छित्ति- विशेषस्यापि संभवात् जातेर्गुणेन सह विरोधे उक्ते 'विरोधोऽन्योन्यबाधनम्' इति दृशा तेनैव गुणस्यापि जात्या सह विरोधः सिद्धः। अत एव गुणस्य जातिवर्ज त्रयोभेदाः। एवमन्यत्रापिज्ञेयम्। दिव्ज्ात्रेणेति। अनेनैषां लक्ष्ये तथा वैचि- त्र्याभावादनवक्कप्तिर्ध्वनिता। अत एवास्माभिरप्येते नोदाहताः। अन्यदिति।
१. 'प्ररोहतीति' ख. २. 'विच्छित्त्यविशेषस्यापि' क. ३. 'एतन्नोदाहृतम्' क.
Page 181
१५६ काव्यमाला।
विविक्तविषयत्वेन चास्य दृष्टे: श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्रेष औद्धटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा-'संनिहि- तवालान्घकारा भाखन्मूर्तिश्र' इत्यादौ विरोधिनोरद्वयोरपि श्लिष्टत्वे। एकस्य तु क्रिष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ। एकविष- यत्वे चायमिष्यते। विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते।
अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसर्तव्या इत्यपि सूचि- तम्। तेन भावयोरभावयोर्भावाभावयोश्व विरुद्धत्वोपनिबन्धे विरोधो ज्ञेय इति। तत्र भावयोर्ग्रन्थकृतैवोदाहृतम्। अभावयोस्तु यथा-'तं वीक्ष्य वेपथुमती सर- साङ्गयष्टिर्निक्षेप एव पदमुद्गृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ। अत्राभावरूपयोः क्रिययोर्विरोधः। भावा- भावयोस्तु यथानङ्गलेखायां राजवर्णने 'विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत्, पश्चतां जनयन्नपि पश्चालस्य वैमुख्यमपुष्णात्, पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्यधात्, चोलकान्ता अप्यचोलकान्ताः समपादयत्, कुन्तलालसानप्यकुन्तलालसांश्र निर्ममे शूरसेनानप्यशूरसेनानदर्शयत्।' इत्यादि। अस्यापि मतमेदेन श्लेषेण सह व्यवस्थितिं दर्शयितुमाह-विविक्तेत्यादि। 'जडयति च तापं च कुरुते' इत्यत्रास्य विविक्विषयत्वम्। दर्शनान्तर इति ग्रन्थकृदभिमते। शब्दश्वात्र संकीर्णमात्रे वर्तते। तेनात्र संकरेण संकीर्णत्वेन च शलेषैमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम्। अलंकारशब्देन चात्र विरो- धाभास एवाभिधीयते। तस्यैवेह प्रस्तुतत्वात्। अत्र हि श्लेषो विरोधोत्पत्तौ हेतुत्वं भजते। तेन विना तस्यानुत्थानात्। संकरश्च खहेतुबलाल्लब्धसत्ताकयो- रलंकारयोर्भवति। तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः। यद्वक्ष्यति-'न च विरोधोत्पत्तिहेतौ श्लेषस्य विरोधेन सहाङ्गाद्गिसंकरः' इति। द्वयोरेकस्येत्यनेन श्लेषमिश्रत्वस्यापि वैचित्र्यं दर्शितम् । अस्य च वक्ष्यमाणाद्वि- रोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति-एकेत्यादिना। जडीकरणतापकरणयो- र्विकारयोर्विकारिगतत्वेनास्यैकविषयत्वम्। विषयभेद इति। कार्यकारणादीना-
१. 'अनुमन्तव्याः' ख. २. 'क्रिष्ट' क.
Page 182
अलंकारसर्वस्वम्। १५७
एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते। तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह- कारणाभावे कार्यस्योत्पत्तिर्विभावना। इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात्। यदि तु कयाचिद्भङ्ग्या तथा- भाव उपनिबध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात्। सा च भङिर्विशिष्टकारणाभावोपनिबद्धा। अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोर्षेक्रान्तत्वाद्वलवता
मेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात्। तावदिति प्रथमम्। कार- णाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात्। आहेति । कारणाभाव इत्यादिना। तत्र तावत्कार्यस्य कारणपरतन्न्रतां दर्शयति-इहेत्यादिना। यदुक्तम्-'यो हि येन विना नास्ति यस्मिंश्व सति विक्रिया। तदेव कारणं तस्य नान्यत्कारण- मुच्यते ।I' इति। अन्यथेति। यदि कारणं विनापि कार्यस्य संभव उपनिब- ध्यत इत्यर्थः । ननु यद्येवं तत्कर्थं कारणाभावे कार्योत्पत्तिरूपा विभावना भवती- त्याशङ्क्याह-यदि त्वित्यादि। तथाभाव इति कारणाभावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम्। सेति। यया भक्क्या कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम्। विरोधपरिद्वार इति। अप्र- सिद्धस्य कारणान्तरस्य प्रस्तुतत्वात्। ननु यद्येवं तत्कथमयं विरोध एव न भव- तीत्याशङ्कयाह-कारणेत्यादि। तेनेति कार्येण। यदुक्तम्-'कारणस्य निषे- धेन बाध्यमान: फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम्॥ अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः ।' इति । एतदेव प्रसङ्गाद्विशेषोक्तेर-
१. 'यदा' क. २. 'भावात्' ख. ३. 'कारणाभावो भावकार्योंपनिबन्धः' क. ४. 'चेह' ख. ५. 'विद्यते क्रिया' ख. ६. 'संबन्धः' क. ७. 'अत्र दूरे विरोध: स्याद्विमेदेन' क.
Page 183
१५८ काव्यमाला।
कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्य- बाधकत्वानुप्राणिताद्विरोधालंकाराद्वेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम्। येन सापि विरोधाद्धिन्ना स्यात्। इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम्। नहि स्वैः क्रिकियाफलमेव कार्यमभ्यु- पगम्यते। वैयाकरणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम्। यथा- 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।' अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि
प्याह-एवमित्यादि। लेखककल्पितश्वायमपपाठः । तथा हि-'हरतापि तनुं यस्य' इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामध्ये कथ न बलं हृतमिति कार्याभावस्यैव बाध्यत्वेन प्रतीतिः । तस्मात् 'एवं विशेषोक्तौ कारणसत्तया कार्याभावस्यैव बाध्यमानत्वमुन्ने- यम्' इति पाठो ग्राह्यः। एतदेव राजानकतिलकेनाप्युक्तम्-'कारणसामय्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन' इति। ग्रन्थकृच प्रायस्तन्म- तातुवर्त्येव। तदुक्तसमानन्यायोऽस्माभिः पाठो लक्षितः । येनेति। एकस्यैव बाध्यत्वेन प्रतीतेः । ननु च 'क्रियायाः प्रतिषेधेऽपि यत्फलस्य विभावनम्। ज्ञेया विभावना-' इत्यादिनोद्भटादिभिरेतल्लक्षणे करियाग्रहणं कृतमिति कथमिह तदुल्ङ्ग- नेन कारणग्रहणं कृतमित्याशड्वयाह-इहेत्यादि। सर्वैरिति बौद्धादिभिः। अत इति। वैयाकरणैरेव क्रियाफलस्य कार्यस्याभ्युपगमात्। सामान्येनेति। सर्ववादिसाधारणतयेत्यर्थः । सर्ववादिसाधारणोडयं ग्रन्थः । द्वितीय इति। १. 'तदोदाहरणम्' ख. २. 'सत्तायाः' ख. ३. 'एतच्' क. ४. 'विभा- वना' क.
Page 184
अलंकारसर्वस्वम्। १५९
यौवनहेतुकत्वेनोपनिबन्धः कृतः। मदस्य च द्वैविध्येऽप्यमेदाध्यवसा- यादेकत्वमतिशयोक्त्या। सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उत्थानम्, अपि तु तदनुप्राणितत्वेन। इयं च विशेषोक्तिवदुक्तानुक्त- निमित्तमेदाद्विघैव। तत्रोक्तनिमित्तोदाहता। अनुक्तनिमित्ता यथा- 'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ।।' अत्र सहजत्वं निमितं गम्यमानम्। असंभृतं मण्डनमिति, का- मस्य पुष्पव्यतिरिक्तमस्त्रमिति च। अत्र विवदन्ते-इयमेव विभाव- नेति केचित्। संभरणस्य पुष्पाणां च मण्डनमखत्रं प्रत्यकारणत्वाद्वाङ्मात्र
अन्यपादयोर्न विभावनेत्यर्थः । यौवनहेतुकत्वेनेति। समाधानाया प्रसिरद्ध कारणमाश्रित्येत्यर्थः । अन्यथा हि विरोधपरिहारो न स्यात्। ननु चासवजनितो- जन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथ कारणाभावे कार्यस्योत्पत्तिरित्याशड्याह-मदस्येत्यादि। द्वैविध्य इति क्षैव्य- दर्परूपे। सेत्यतिशयोक्तिः । अव्यभिचारिणीति । अतिशयोकिं विनास्या अनुत्थानात्। अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम्। तदेवाह- तद्नुप्राणितत्वेनेति । यदुक्तमन्यत्रापि-'आश्िष्ठातिशयोक्तिश्व सर्वत्रैव विभावना' इति। 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।।' इत्यत्र तु जगत उपादानादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात्। एवम्-'ण अ रूवं ण अ ऋद्धी गावि कुलं ण अ गुणाण विण्णाणं। एमे अ तह वि कस्स वि को वि अणो वल्लहो होइ ।l' इत्यादावपि ज्ञेयम्। अतश्च क्वचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम्। विशेषोक्तिवदिति। विशेषोक्तौ प्राच्यैर्यथोक्तमित्यर्थः । अत्र चाद उदाहरणे द्वितीयपाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमि- त्यादि। केचिदिति विवदन्त इति संबन्धः । अकारणत्वादिति। संभरणा- १. 'उत्थापनं' क. २. 'इति भावः' ख. ३. 'ण अ' क. ४. 'संबन्धादि- मण्डनादेः' ख.
Page 185
१६० काव्यमाला।
मेतत्। एकगुणहानौ विशेषोक्तिरित्यन्ये। रूपकमेवाधिरोपितवै- शिक्षमिति खवपरे। आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्य- दयतनाः । विभावनां लक्षयित्वा तद्विपर्ययसवरूपां विशेषोक्तिं लक्षयति- कारणसामग्रये कार्यानुत्पत्तिर्विशेषोक्तिः । इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम्। अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात्। यत्तु सत्यपि सामत्र्ये न जनयति कार्य सा कंचिद्विशेषममिव्यड्गुः
दिह मण्डनादेः स्वरूपम्। यधेवं तर्ह्यत्रान्यः कोऽलंकार इत्याशड्व्याह-एके- त्यादि। अन्य इति वामनीयाः । अपर इत्यौद्भटाः । तृतीयस्तु पक्षो न ग्राह्यः । लेखकपरिकल्पितत्वात्। तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्ष- णम्। औरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षितत्वात्। संभवोपयोगयोश्च नैकत्वम्। भिन्नत्वात्। ग्रन्थकृतापि साहित्यमीमांसायामेतच्छरोकविव्ृतौ पक्षद्वय- मेवोक्तम्। लेखकैश्वास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः । तथा चात्रैवासं- भृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः । एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः। तद्विपर्ययेति। कारणसामय्ये कार्यानुत्पादात्। तामेवाह-कारणेत्यादि। समग्राणीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः। अत एवाव्यभिचारायाह-नियमेनेति। अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति। एवं नैकं किंचन जनकं सामग्री वै जनिकेति नीत्या समग्राणां कारणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषोक्तिर्भवतीत्याह-यत्त्वित्यादि। अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः। तद्वेतुकमेवास्या भेदनिर्देश-
१. 'नारोप्यमाणस्य' ख.
Page 186
अलंकारसर्वख्वम्। १६१
प्रयुज्यमाना विशेषोक्तिः। सा च द्विविधा-उक्तनिमित्तानुक्तनिमिच्ता च । अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव। अनुक्तस्य च चिन्त्याचिन्त्य- त्वेन द्वैविध्यात्। क्रमेण यथा- 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने। नमोSस्त्ववारवीर्याय तस्मै कुसुमधन्वने।।' 'आहूतोऽपि सहायैरेमीत्युत्तवा विमुक्तनिद्रोऽपि। गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुघः । हरतापि तनुं यस्य शंभुना न हतं बलम् ।।' अत्र सत्यपि दाहलक्षणेडविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु- त्पत्तिः शक्तिखरूपेणाविरुद्धेन धर्मेणोपनिबद्धा। अवार्यवीर्यत्वं चात्रो- क्तनिमित्तम्। तथाहानादयः संकोचशिथिलीकारहेतव इति तेषु सत्सपि तस्यानुत्पत्तौ प्रियतमाखप्नसमागमाद्यनुक्तं सचचिन्त्यं निमित्तम्। तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनु- क्मप्यचिन्त्यमेव, प्रतीत्यगोचरत्वात्। कार्यानुत्पत्तिश्वात्र कचित्कार्य विरोधोत्पत्या निबध्यते। एवं विभावनायामपि कारणाभावः कारण- विरुद्धमुखेन क्वचित्प्रतिपादते। तथा च सति, 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
माह-सा चेत्यादि। अचिन्त्येत्युत्तानाशयैः। वस्तुतस्तु संभवत्येव। अन्यथा ह्यस्या विरोधो दुष्परिहार्यः स्यात्। अविकल इति। समग्रे विरुद्धधर्मत्वं शक्त्शक्त्ोर्विरोधात्। अस्याश्च कार्यानुत्पत्तेर्विच्छित्त्यन्तरेण बन्धं दर्शयितु- माह-कार्येत्यादि। यथा कर्पूर इवेत्यादौ। एवमिति। यथैवात्र कार्यानु- त्पत्तिर्विरुद्धमुखेनोपनिबध्यत इत्यर्थः । तथा च सतीति । द्वयोरप्यनयोर्विरुद्ध- ११ अ० स०
Page 187
१६२ काव्यमाला।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते॥' इत्यत्र विभावनाविशेषोत्तयोः संदेहसंकरः। तथा ह्युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्यु- त्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवल- मस्पष्टत्वम् । साधकबाधकप्रमाणाभावाच्चात्र संदेहसंकरः । या तु 'एकगुणहानिकल्पनायां साम्यदार्ढ्य विशेषोक्तिः' इति विशेषोक्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ् न वाच्या। अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्ता- वेनेहोच्यते-
मुखेन कार्यकारणभावोपनिबन्धे सतीत्यर्थः । उत्कण्ठायाः कारणं कौमारहरवरा- दसंनिधानम्। तस्य विरुद्धं तत्संनिधानम्। तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना। तथा कौमारहरवरादिसंनिधान- रूपस्य कारणस्य कार्यमनुत्कण्ठा, तस्याश्व विरुद्धोत्कण्ठा। तेन सत्यपि कौमारह- रवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठारूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति। कार्यकारणयोः साक्षान्निषेध्यत्वेनाप्रतीतेः । ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशक्क्याह-साधकेत्यादि। ननु 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा किं नोच्यत इत्याशङ्क्याह-या त्वित्यादि। एवमनयैव दृशा एकगुणहा- न्युपचयादिकल्पनायां साम्यदार्द्य विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्दर्शने रूपकमेद एवेति न पृथग्वाच्यः। प्रस्तावेनानुगुण्येन । अत एवेयन्तः कार्यकार- णभावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपश्चमात्रं दर्शयितुं पुनरिहास्या वच- नम्। एतच् अ्न्थकृतैवोक्तम्। प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकार: स कार्यकारणताश्रयालंकारप्रस्तावे प्रपश्चार्थ लक्षयिष्यत इत्युच्यत इति न पुन- १. 'यस्तु' ख. २. 'पुनरिहास्य' ख.
Page 188
अलंकारसर्वस्वम्। १६३
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्ति:। इह नियतपूर्वकालभावि कारणं नियतपश्चात्कालभावि च कार्य- मिति कार्यकारणयोर्लक्षणं प्रसिद्धम्। यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगम: क्रियते तदातिशयोक्तिः। एतद्रूपापगमश्च काल- साम्यनिबन्धनः कालविपर्यासनिबन्धनश्चेति द्विधाभवन्नतिशयोक्तिमपि द्वैधे स्थापयति। क्र्मेण यथा-
भूपालेषु तवात्र सूक्ष्मनिशिते निस्तिरिंशधाराध्वनि। कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम्।।' 'पथि पथि शुकचञ्रूचारुराभाङ्कराणां दिशि दिशि पवमानो वीरुधां लासकश्च। नरि नरि किरति द्राक्सायकान्पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्चा ।।' पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतु- रिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम्। उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तैयोस्तुल्यत्वेनोपपन्नं पौर्वापर्य व्यत्ययेन निर्दि- ष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते। तयोस्तु भिन्नदेशत्वेऽसंगतिः।
निर्णीयते। पूर्वत्रैवास्य निर्णीतत्वात् तामेवाह-कार्यकारणयोरित्यादि। उभयत्रापि नियतशब्द एतदव्यभिचारदर्शनात्। एतद्रूपापगम इति। कार्यकार- णयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात्। प्रौढोक्तिनिर्मित इति। कीर्ति- श्रियोर्वस्तुतो निर्गमनप्रवेशासंभवात् । प्रतिपाद्यत इति प्रयोजनत्वात्। तयो- · १. 'स्त्रिया' ख. २. 'तयोरुपपत्रं पौर्वापर्येंण निर्दिष्टम्' क. १. 'भावित्वाख्यो' क.
Page 189
१६४ काव्यमाला।
तयोरिति कार्यकारणयोः। यद्देशमेव कारणं तद्देशमेव कार्यं दष्टम्। नहि महानसस्थो वहिः पर्वतदेशस्थं धूमं जनयति। यदा र्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते, तदोचितसंगति- निवृत्तेर संगत्याख्योSलंकारः । स च विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते। यथा- 'प्रायः पथ्यपरास्तुखा विषयिणो भूपा भवन्त्यात्मना निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः । वन्धाः श्लाध्यगुणास्त एव विपिने संतोषभाजः परं बाह्योडयं वरमेव सेवकजनो धिक्सर्वथा मत्रिणः ।।' अत्र पथ्यपराड्मुखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशहेतुरित्य- संगतिः। एवम्- 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्। सा क्ान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यसेमाश्रितैरपटवो जाताः स्म इत्यद्दुतम् ।' इत्यत्र ज्ञेयम्। अत्र वाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च सनर- निमित्तकमित्यनयोरमेदाध्यवसायः । एवमन्यत्र ज्ञेयम्।
रित्यादि। एतदेव व्यतिरेकमुखेनापि दर्शयति-नहीत्यादिना। उचित- संगतिनिवृत्तेरिति । एकदेशयोरपि कार्यकारणयोर्भिन्नदेशत्वेनोपनिबन्ध- नातू। अत एव च तयोर्भिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोधादस्य मेद:। इह लक्ष्यत इति। अस्या अपि कारणयोर्भिन्नदेशत्वेन विरोधगर्भ- ल्ात्। अमेदाध्यवसाय इति । अनेनातिशयोक्तिरस्या अप्यनुप्राणकत्वेन १. 'एवं च' ख. २. 'समाश्रयैः' क. २. 'अत्र-वेयम्' ख-पुस्तके नास्ति,
Page 190
अलंकारसर्वखवम्। १६५
विरूपकार्याऽनर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्। विरोधप्रस्तावेनेह लक्षणम्। तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दश्यते तदेकं विषमम्। तथा कंचिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा- प्तिरपीति द्वितीयं विषमम्। अत्यन्ताननुरूपसंघटनयोर्विरूपयोश् संघ- टनं तृतीयं विषमम्। अननुरूपसंसर्गो हि विषमम्। क्रमेण यथा- 'सदः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ।I'
कटाक्षिता। अन्यथा हि विरोधो दुष्परिहरः स्यात्। एवं पथ्यज्वरशब्दयोरति- शयोक्तिब लात्प्रजापालनयुक्तिसंतापवाचकत्वं द्रष्टव्यम् । अन्यत्रेति कातरत्वादौ। विरूपेत्यादि। इहेति। अस्या अप्यननुरूपसंसर्गेण विरोधैगर्भत्वाद। विरू- पमिति। कारणापेक्षया विजातीयत्वेनातह्ुणत्वात्। यद्यपि 'गोमयाद्वश्चिको- त्पत्तिः' इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति, तथापीह कविप्रतिभानिर्व- र्तितमेव तद्राह्यम्। तेन 'द्राक्षाफलानि शिखरेषु शिलोचयानां पीयूषसाररसनिर्भ- रगर्भवन्ति। विष्वग्टृषत्कठिनकायनिगूढ*ङ्शज्गाटकानि पुनरम्भसि संभवन्ति ॥।' इत्यादौ विषमं न वाच्यम्। ईदश एव कार्यकारणभावस्य वस्तुतः संभवातू। तस्येति साधयितुमिष्टस्य। अप्रतिलम्भ इति । असिद्धिरिति यावत्। अत्य- न्तेति। न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूँपत्वमित्यत्र तात्पर्यम्। एकमित्याद्यभिदधता ग्रन्थकृता विर्षमाणां भिन्नत्वमुक्तम्, न प्रकार- प्रकारित्वम्। सामान्यलक्षणस्यासंभवात् । एवमेव पुनरेषां कस्मादभिधानमित्या- शङ्याह-अननुरूपेत्यादि। यत्किंचितपुनरस्मद्दर्शनविरुद्धमन्यैरधिकमुक्तं तदि- १. 'अत्यर्थ' क. २. 'संघट्टनात' ख. ३. 'अननुरूपेत्यादि' ख-पुस्तके नास्ति. ४. 'विरूपतागर्भत्वात्' क. ५. 'शजं' क-ख. ६, 'अप्रसिद्धि' क, ७. 'रूपत्वात' ख. ८. 'विषयानां ख. क्री
Page 191
१६६ काव्यमाला।
1 'तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनुस्तनुभृत: सहसा लभन्ते। वाराणसि त्वयि तु मुक्तकलेवराणां लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ।।' 'अरण्यानी क्ेयं धृतकनकसूत्र: क् स मृग: कस 1 क मुक्ताहारोडयं क च स पतगः क्ेयमबला। -- 1 क तत्कन्यारतं ललितमहिभर्तुः क्व च वयं खमाकूतं धाता निभृतनिभृतं केन्दलयति ।।' अत्र कृष्णवर्णाच्छुक्कवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्त- रोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यान्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम्। केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमप्यूद्यम् । यथा- छणि।'परहिअअं मग्गंती इआरिअं अत्तणोतए हिअअं। - अव्योल्लाहस्स कए मूलाओ विछेइआ जाआ ।' इति तत्रोदाहार्यम्।
न.तदेव सिद्धान्तीकार्यम्। तस्य पृथड्िरसिष्यमाणत्वात्। इह हि यथाशक्त- स्माकमाग्रहप्रवृत्तपरकीयदूषणोद्धारमात्रमेव विवक्षितम्। यथोपयोगं पुनस्तन्निरा- करणमपि कृतं करिष्यते च। अत्र शुक्ककृष्णवर्णत्वं कार्यकारणात्मकविषयद्व यगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेय: । एवमन्य- त्रापि ज्ञेयम्। अरण्यान्यादीनामननुरूपमन्योन्यर्घटनं वास्तवमित्युदाहरणान्तरे- णोदाहियते। यथा-'शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना। अयं क्व च कुकू- लागिकर्कशो मदनानलः ॥' अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम् । अत्रेति तीर्थान्तरेष्वित्यादौ । शुद्धेति। यत्र विषममेव नं स्यात्। तत्तु यथा- १. 'पलवयति' ख. २. 'घट्टनं' क. ३. 'अभ्यूह्यम्' क. ४. 'घटेना' ख.
Page 192
अलंकारसर्वस्वम्। १६७
। तद्विपर्ययः समम्। अगनाल समनी किमकशगाय विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य मैदत्रयमुक्तं तथापि तच्छन्देन संभवादन्त्यो भेद: परामृष्यते। पूर्वभेदद्वयविपर्ययस्यान- लंकारत्वात्। अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चाभिरूपानभिरूपविषयत्वेन द्विविधः । आद्यो यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । क! अयि द्वन्द्वं दिश्ा तदिह सुभगे संवदति वा- मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ।' अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम्। द्वितीयो यथा- 'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविघाता विधाता। यन्निम्बानां परिणतफलस्फीतिराखादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ।I'
'यो हठं प्रतिनिषेद्धुमुदस्तः सुभ्नुवा प्रियतमस्य कटाक्षः । स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव II' अन्र कटाक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्यये- त्यादि। संभवादित्यलंकारत्वस्य। अनलंकारत्वादिति। कारणात्कार्योत्पत्ते- र्वस्तुसाधनोद्यतस्य तत्सिद्धेश्व वास्तवत्वात्। यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तेति तस्या अपि कथमलंकारत्वमित्याशङ्क्याह-अन्त्येत्यादि। चारुत्वा- दित्यलंकारत्वपर्यवसायिनः । अभिमानरूपेति । शोभनाशोभनविषयत्वेनेः . त्यर्थः । आद्य इत्यभिरूपविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौ
Page 193
१६८ काव्यमाला।
अन्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः ।
विरोधमूलं विचित्रं लक्षयति- खविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्। यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफ- लनिष्पत्त्यर्थ कस्यचित्प्यत उत्साहो विचित्रालंकारः। आश्चर्यप्रती- तिहेतुत्वात्। न चायं प्रथमो विषमालंकारप्रकारः। खनिषेधमुखेन वैपरीत्यप्रतीतेः। विपरीतप्रतीत्या तु खनिषेधस्तस्य विषयः। यथा- 'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते' इत्यादि। इह त्वन्यथा प्रतीतिः। यथा- 'घेतुं मुच्चइ अहरो अण्णंतो वलइ पेक्खिउं दिट्ठी। घडिदुं विहडंति भुआ रआअ सुरअम्भि वीसामो ।।' अत्र मोचनवलनविघटनविश्रमाणां यथाक्मं अ्हणप्रेक्षणघटनरेम- णानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि। यथा वा-
चित्यलक्षणात्। स्वविपरीतेत्यादि। एतदेव व्याचष्ट-यस्येत्यादिना। यदिति प्रसिद्धम्। फलमिति कार्यम्। तस्येति हेतोः । तदिति कार्यम्। प्रय- त्स्य कार्यादिमेदेऽपि न वैचित्र्यमिति तदिह नोक्तम्। एवं यस्य यत्कार्य तस्य तावत्तद्विपरीतं न भवति। यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थ च यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम्। ननु चैतद्विरूपकार्योत्पत्तेः कि न विषममेव भवतीत्याशंड्क्याह-न चायमित्यादि। तस्येति विषमस्य। नीलयापि पाण्ड यश: प्रसूतमिति विपरीतप्रतीतिबलादेतन्नोपपद्यत इति ह्यत्र प्रतीतिः। अन्यथेति र. 'अनुरूपत्वात्' क-ख. २ 'तस्य' क-पुस्तके नास्ति. ३. 'तदा विचित्रालं कार:' क, ४ 'अ्रहीतुं सुच्यतेऽधरोऽन्यतो वलति प्रेक्षितुं दृष्टिः। घढितुं विघटेते भुजौ रताय सुरतेषु विश्रमः ॥' इति च्छाया. ५. 'मरणानि' ख. ६. 'यस्तेति' क. ७. 'विपरीतप्रतीते: । यद्यपि विषमे विरूपस' ख.
Page 194
अलंकारसर्वस्वम्। १६९
'उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रषुं बहिस्तिष्ठति खद्रव्यव्ययमातनोति जडघीरागामिवित्ताशया। प्राणान्प्राणितुमेव मुञ्चति रणे क्विश्नाति भोगेच्छया सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदक्सेवकः ॥।' अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः। आश्रयाश्रयिणोरानुरूप्यमधिकम् । विरोघप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात्। तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्दा- श्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात्। क्रमेण यथा- 'दौरत्र कचिदाश्रिता प्रविततं पातालमत्र कचि- त्काप्यत्रैव धराधराघरजलाधारावधिर्वर्तते। स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नासतं गतम् ।।'
निषेधबलाद्वैपरीत्यप्रयत्न इति। यद्यपि विषमे विरूपस्य कार्यस्य स्वयमेवोत्पत्ति रिह च तन्निष्पत्तये प्रयत्न इति स्थितोऽप्यनयो: स्फुटो मेदस्तथापि अ्रन्थकृता विशेषपरिपोषायैव सूक्ष्मेक्षिकागम्यो भेदोऽयमुक्तः। मोचनस्याग्रहणं खं फलम्। ग्रहणं पुनः कथं भवतीत्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः। अनन्तर च तन्निमित्ता वैपरीत्यप्रतीतिः । अत एव विषमादस्य भेदः । सुज्ञान इति। पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम्। एतद्धि ग्रन्थकृतै- वाभिनवत्वेनोक्तम्। आश्रयेत्यादि। इहेति विचित्रानन्तरम्। नन्वननुरूपयोः संघटने विषममुक्तमित्याश्रयाश्रयिणोस्तत्वे कथमलंकारान्तरत्वमुच्यत इत्याशड्का- गर्भीकारेणैतद्वाचष्टे-तच्चेत्यादिना। आश्रयसयेत्याधारस्य। आश्रितसेत्याधेय- स्य। अनेनैव चास्य भेदद्वयमप्युक्तम्। एवं च परिमितत्वापरिमितत्वयोः सापेक्षला- १. 'यच्यपि-तन्निष्पत्तये' इति क-पुस्तके नास्ति. २. 'सौमनस्याग्रहणः पुनः' ख.
Page 195
१७० काव्यमाला।
'दोर्दण्डाश्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यासकपालसंपुट मिलदू ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टंकारध्वनेराश्रितस्य महत्वेऽपि ब्रह्माण्डस्या- श्रयस्य स्तोकत्वम्। परस्परं क्रियाजननेऽन्योन्यम्। इहापि विरोधप्रस्ताव एव निर्देशकारणम्। परस्परजननस्य विरु- द्धत्वात्। क्रियाद्वारकं यत्र पैरस्परोत्पादकत्वं, न स्वरूपनिबन्धनं, ख-
त्तथाविधवस्तु द्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधैययो: संघटनेनैवाननुरू- पत्वमवगम्यते। विषमे चानन्यापेक्षत्वेन स्त एवाननुरूपयोः संघटनमित्यनयोर्म- हान्भेद इत्यत्र पिण्डार्थः । इत्थम्-'आधाराधेययोर्यत्र संसर्गः स्वादिरूपयोः ॥ स स्फुटो विषमो वाच्यमधिकं नाधिकं ततः ॥' इति न वाच्यम्। तच्चाश्रयाश्र- यिणोः कविप्रतिभाकल्पितमेव ग्राह्यम् न पुनर्वास्तवम् । तेन चारुत्वाप्रतीतेः। तेन नभसो द्युप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनु- दाहरणमेतत्। तदुदाहरणान्तरमन्वेष्यम्। तत्तु यथा-'रणरणअगुणिअमुज- त्तणम्मि तणुई समुद्दगहिरम्मि। मेरुअडवच्छस: तुज्झ हिअए कहं णु ठाई ।।' अत्र हृदयस्य महत्त्वं तन्व्याश्च तनुत्वमित्याधाराधेययोरननुरूप्यम्। परस्पर- मित्यादि। ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याश- क््याह-क्रियेत्यादि। करियाशब्देनात्र धर्मो लक्ष्यते। अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुबिम्बयोः । उदियाय तैदान्योन्यपटुत्वजननक्रमात् ।।' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिः स्यात्। परस्परोत्पाद- कत्वमिति। परस्परनिष्पादकत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामा- १, 'विरुद्धश्रद्धत्वात्' क. २. 'परस्परोपपादकत्वं' ख. ३. 'यदा' क
Page 196
अलंकारसर्वस्वम्। १७१
रूपस्य तथात्वोक्तिविरोघात् तत्रान्योन्याख्योऽलंकारः। यथा- कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य। 'अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ।।" अत्र शोभाक्रियामुखकं परस्परजननम्। अनाधारमाधेय मेकमनेकगोचरमशक्यवस्त्वन्तरकरणं वि- शेषः। इहाधारमन्तरेणाघेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधे- यस्योपनिबन्धः स एको विशेषः। यच्चैकं वस्तु परिमितं युगपदनेक- घावर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यास- भाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः। आनुरूप्यपरिहाररूपविरोध- प्रस्तावादिहोक्तिः । क्रमेण यथा-
न्यात्मककारणार्थत्वं दर्शितम्। तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रस- रापसारणाय। अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवेशय-' न्तम् II' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्पर- स्परजननस्याव्यापकत्वं न वाच्यम्। 'विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशर- श्रकार। पपात यन्नष्टधृतिर्वराहस्तं विह्वलाङ्गं वसुधा बभार II' इत्यत्र पुनरादि- वराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात्। एवमन्यत्रापि ज्ञेयम्। तथात्वोक्तिविरोधादिति। इतरेतराश्रयदोषलक्षणात्। यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः । यथा-'धनेन जायते प्रज्ञा प्रज्ञया जायते धनम्। प्रज्ञाथौं जीवलोकेSस्मिन्परस्परनिबन्धनम् II' अत्र प्रज्ञाधनयोः सरूपस्य परस्परं जन- नम्। देशकालमेदाद्विरोधसमाधिः । शोभाक्रियेति । सैव ह्यत्र पैरस्परनिमि- त्तम्। अनाधारमित्यादि। एतदेव व्याचष्टे-इहेत्यादिना । तत्परिहा- रेणेति। आधारव्यतिरेकेणेत्यर्थः। परिमितमित्यव्यापकम्। व्यापकस्य हि युग- पदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम्। किंचिदिति यत्र यादृग्विव- १. 'जननस्य व्यापकत्वं' ख. २. 'प्रवृत्तिनिमित्तम्' . ख. 3
Page 197
१७२ काव्यमाला।
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्धाः ॥' 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यक्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ।।' 'निमेषमपि यद्येकं क्षीणदोषे करिष्यसि। पदं चित्ते तदा शंभो किं न "संपादयिष्यसि ॥'
क्षितम्। न केवलमारब्धस्य वस्तुनो निष्पत्तियांवदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः। तच्च वस्त्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा। एवं च 'फलान्त- रस्य निष्पत्तिश्चिकीर्षाविरहेऽपि या। स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक्॥' इत्याद्युक्तयुक्त्या प्रसङ्गादन्यार्थः। प्रसङ्ग इति। प्रैसङ्गाख्यमलंकारत्वं न वाच्यम्। न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारा- न्तरत्वं स्यात्। यावता ह्यत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन। तस्मात् 'अङ्गेषु सान्द्रहरिचन्द- नपङ्कचर्चा मार्णालहारवलयादि च पान्थवध्वाः। योऽभूदिवा पतिवियोगविषाद- दम्भो ज्योत्स्ाभिसारपरिकर्म स नक्तमासीत् ।I' इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्य- वस्त्वन्तरकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः। लक्ष- णस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम्। गिरामत्र कविस्भावादन्यत्र भावः। शंभोश्र लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते। एतावतैव पुनरस्याभावो न वाच्यः। उदाहरणान्त- रेष्वस्य संभवात्। तानि तु यथा-'अज्गानि चन्दनरसादपि शीतलानि चन्द्रा- १. 'दिशि दिशि' ख. २. 'पथि पथि' खं. ३. 'दोषं करिष्यति' ख. ४. 'संपादयिष्यति' ख. ५. 'प्रसंख्यालंकारान्तरं' ख. ६. 'हत्रासन्भावस्य' ख. ७. 'निष्पतिः' ख. ८. 'अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्,
Page 198
अलंकारसर्वस्वम् । १७३
अत्र कवीनामाधाराणामभावेऽप्याघेयानां गिरामवस्थितिरन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्। एकस्या एव योषितः प्रासादादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण ज्ञेयम्। येथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः। यं कंचिदुपायविशेषमवलम्व्य केनचिद्यन्निष्पादितं वस्तु तत्ततो- डन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादितवस्तुव्याहतिहेतुत्वाद्वयाघातः। यथा- तपं वमति बाहुरयं यशोभिः। चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्वृत्तभूपपरि- तापगुरुः प्रताप: ॥I' अन्राज्गादीनामनर्हत्वेनाधारत्वाभावेऽप्याधेयस्य प्रतापस्य स्थितिरिति विशेषालंकारत्वम्। तथा च-'चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि बुज्ं। वच्चंती मुहजोण्हाभरेहि तिमिरं पिण ण्णिहिसि ।।' अत्र न केवलं प्रियं हरिष्यसि यावच्चिकीर्षाविरहेणासंभाव्यं तिमिरमपीति वस्त्वन्त- रकरणात्मा विशेषः । यथा वा-'माघः शिशुपालवधं विदधत्कविमदवधं विदधे। रत्नाकर: स्वविजयं हरविजयं वर्णयन्व्यवृणोत् ।I' अत्र न केवलं माघ: शिशु- पालवर्धं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकर- णात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तु माघस्यात्र कर्तृत्वम्। एवमुत्तर न्ापि ज्ञेयम्। अतः 'एकस्मिन्क्रियमाणे तज्जातीयस्य प्रसङ्गतः सिद्धिरनुषङ्ग:' इत्यनुषङ्वालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः । यथासाधित- स्येत्यादि। निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम्। तद्धि द्वितीय व्या- घातविषयः। तत इति निष्पादनकर्तुः। तत्प्रतिद्वन्द्विनेति। निष्पादितवस्तु- व्याहतिकारित्वात्। तेनैवेत्यत्र भरः। अन्यथा हि वैचित्र्यातिशयो न स्यात्। अन्यथाक्रियत इति। तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः । अत एव नामा- प्यस्य यौगिकमित्याह-निष्पादितेत्यादि। अतश्र यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिबध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाद्वयाघातायोगात्। निष्पन्नवस्तुव्याहतिर्हि व्याघातः। फलं चात्र व्याहतिकारिणस्तद्वैलक्षण्यम्। अत १. 'अनन्यभावः' ख. २. 'तथा' ख. ३. 'यं' क-पुस्तके नास्ति.
Page 199
१७४ । काव्यमाला।
'दृशा दग्धं मनसिज जीवयन्ति दृशैव याः ।जय विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥' : अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम्। मृगनयनाभि: पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते। तच्च दाह- विषयत्वस्य प्रतिपक्षभूतम्। तेन व्याघाताख्योऽयमलंकारः । सोऽपि
एव 'उत्पत्तिविनाशयोरेकोपायत्वे व्याघातः' इति न सूत्रणीयम्। एवं हि व्याघा- तत्वमेव न स्यात् । 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्। प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजंस्त एव तवाङ्कशाः ।' इत्यत्र च कुलादयो यथान्येषां दर्पहेतवो न तथा तव। प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषा- न्तरेभ्योडस्य वैलक्षण्यमात्रं विवक्षितम्। न तु कुलादिभिरुत्पादितोऽपि दर्पस्तव व्याहत इति येन व्याघातालंकारो भवति। अथात्र दर्पकारिणोऽपि कुलादेस्तद्वि- नाश इत्ययमलंकार इति चेत्, नैतत्। कुलादीनां प्रकृतिभेदेन दर्पादर्पकारित्वस्य वास्तवत्वेनालंकारत्वात्। तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेना- यमलंकारः । निष्पादितवस्तुव्याहतेरभावात्तन्निबन्धनत्वेन चास्योक्तत्वात् । 'विण्णाणेण मअविसं विणिवद्टइ भिण्णकारणुप्पण्णं। विण्णाणकारणं जं तं पुण भण को णिवदटेइ ।I' इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वैस्तुसंभवहेतुर्मदो विज्ञानेन निवर्त्यते तद्धेतुकः पुनः केनेत्यलंकारभाष्यकारोक्तस्तननिवृत्तिहेतुप्ररोहा- त्मकत्वाद्वितर्कालंकारो न व्याघातः । विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात्। 'गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्ठविद्ठमदलान्यमोचयन्नि- र्दशन्युधि रुषा निजाधरम् ।I' इत्यत्र चाधरव्यथानिर्मोचनात्मकविपरीतफलनि- व्पत्त्यर्थ तननिर्दशनात्मा प्रयत्न उपनिबद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः । तेनैवेति। दृष्टिलक्षणेनैव न पुनरन्येनेत्यर्थः । तेनेति निष्पन्नस्य वस्तुनस्तेनैवोपायेन व्याहतत्वात्। तदेव विभजति-विरूपाक्षस्येत्यादिना। अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम्। तथा हि येनकेनचिद्य- त्किंचित्साधितं तैदप्यन्येनान्यथाक्रियते तदा तस्य ततोऽन्यथाकरणानुपपत्या १. 'प्रतिविरूपपक्षभूतम्' क. २. 'वस्तुसंभवविन्यन्यहेतुर्मदो' ख. ३. 'तद्द- दन्येनान्यधी' ख.
Page 200
अलंकारसर्वस्वम्। १७५
व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्येति वामलोचना इति च व्य- तिप्रकरेकगर्भावेव वाचकौ। जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह रणं लक्षणम्। प्रकारान्तरेणाप्ययं भवतीत्याह- सौकर्येण कार्यविरुद्धक्रिया च व्याघातः। किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरु- द्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबन्ध- नत्वाद्याघातः। कार्यविरुद्धकार्यनिष्पत्तिश्र कार्यापेक्षया सुकरा। तस्य कारणस्यात्यन्तं तदानुगुण्यात्। नत्वत्र कार्याभिमतस्य कार्यत्वाभावः। तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात्। अत एव द्वितीयाद्विषमाद्वेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम्। इह तु कार्यमकार्यमेव न भवति। तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टुकार्यत्वात्। यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु-
वैलक्षण्यमवश्याभ्युपगन्तव्यम्। अतश्वास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात्। पूर्ववदित्यानुरूप्यपरिहारात्। स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्ष- णात्। प्रकारान्तरेणेति प्रतीतिभेदात्। अयमिति व्याघातः। तमेवाह-सौक- र्येणेत्यादि। एतदेव व्याचष्टे-किंचिदित्यादिना। संभाव्यमान इति केनचि- द्रन्येन। तत्कार्येति। तच्च तत्कार्य निष्पादयितुं प्रकान्तम्। अत एवास्य अथमाद्याघाताद्भेदः। तत्र हि येनकेनचिदुपायेन निष्पादितं सद्वस्तु तथैवान्येना- न्यथाक्रियत इत्युक्तम्। इह तु किंचिन्निष्पादयितुं संभाव्यमानस्य कारणस्य तद्वि- रुद्धनिष्पादकत्वेन समर्थनम्। तद्विरुद्धनिष्पत्तेश्र सौकर्य किमुक्तमित्याशक्कयाह- कार्येत्यादि। तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात्। न त्विति। अपि तु १. 'परिनिष्पादकत्वेन' ख. २, 'तस्याकारणस्य' ख. ३. 'कार्य कार्यमेव' ख.
Page 201
१७६ काव्यमाला।
'यदि बाल इति सुतरामपरित्याज्योऽस्मि। रक्षणीय इति भवड्कुज- पञ्जरमेव रक्षास्थानम्' इत्यादि। अत्र राज्यवर्धनेन श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कार- णत्वेन यत्संभावितं तत्प्रत्युता प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः । एवं विरोधमूलानलंकारान्निर्णीय शृङ्गलाबन्धोपचिता अलंकारा लक्ष्यन्ते। तत्र- पूर्वस्य पूर्वस्योत्तरोत्तर हेतुत्वे कारणमाला ।
डुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य प्रथमाद्वयाघाताद्भेदः सूचितः । इह हि किंचिन्निष्पादयितुं संभाव्यमान: कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते। तत्र रूपाय विशेषविवक्षापरिहारेण कर्तुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोपनिबन्धः । अत एवेति। द्वयोरपि कार्यत्वसंभवात्। अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः । संभावितमिति। तथा। समार्थेतमिति। अनेन प्रथमव्याघातोदाहरणत्वमस्य निरस्तम्। तैत्र हि द्वयोरपि कार्ययोर्निष्पत्ति- र्विवक्षिता। बाल्यस्य तु कार्यद्वयजननेऽपि सामर्थ्य किंतु प्रेस्थापनजनने सौकर्यम्। अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम्। यथा वा-'यत्सशब्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निज- कण्ठरुतानाम् II' अत्र संभाव्यमानं कार्य परिहारः। तस्य व्याहतिधारणम्। उपा- यस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम्। यथा च नाय- मर्थो वक्रोक्तेर्भेंदस्तथा वकोक्तावेव वक्ष्यामः। एतदुपसंहरन्नन्यदवतारयति-ए- वमित्यादिना। अलंकार इति न पुनः शङ्गलवकोऽलंकारः । एवं हि साधर्म्य- मप्येक एवालंकार: स्यात्। न ह्युपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्िद्विच्छि- त्तिविशेषसंभवः येनालंकारभेदः स्यात्। एवं विरोधोऽप्येक एव वाच्यः । न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेष: किमपरम् । एवं सप्ताष्टानामेवालंकाराणां १. 'व्यादिष्टोऽलंकारः' क. २. तेनाप्यस्य' क. ३. 'कर्त्रोंरेव' ख. ४. 'अत्र' क. ५. 'प्रस्थान' ख. ६. 'साधर्म्येडप्येक' ख.
Page 202
अलंकारसर्वस्वम्। १७७
यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमा- लाख्योऽयमलंकारः। यथा- णिरड्रान 1 शाककड 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।।' कार्यकारणकम एवात्र चारुत्वहेतुः । यथापूर्व पैरस्य विशेषणतया स्थापनापोहने एकावली।
लक्षणप्रणयनप्रसङ्गः। अथोपमादीनामपि साधर्म्यादाववान्तरोSसिति विशेष इति चेत्। तर्हि कारणमालादीनामपि शङलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेष्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोप- मादिवत्पृथगेवैषामलंकारत्वं युक्तम्। एवं हि शङ्गलायामवान्तरविच्छित्तिविशेषसं- भवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न। यद्यसि्ति विच्छित्त्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं, को दोषः। प्रत्युताभासमानस्य विशेषस्यापह्ववो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । तस्मादुत्तरोत्तरस्य पूर्वपूर्वा- नुबन्धित्वे विपैर्यये वा शङ्गलेति न वाच्यम्। तत्र तावत्कारणमालामाह-पूर्वे- त्यादि। कारणमालाख्योऽयमिति मालान्यायेन बहूनां कारणमालानां यौगपदये- नावस्थानात्। अत एवाह-कार्यकारणकम एवेति। न पुनः केवलमेव शङ्लात्वमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिधानम्। एवमन्येभ्यः शुङ्कलाबन्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः । न हि तेषु कार्यकार- णक्म एव चारुत्वहेतुः। विशेषणविशेष्यभावादेवान्तरस्य विच्छित्तिविशेषस्य संभ- वात्। क्वचिद्विपर्ययेणापि भवति। यथा-'माणो गुणेहि जाअइ गुणा वि जाअंते सुअणसेवाइ। विमलेण सुअअप्पसरेण सुअणवइ उद्टाणं II' अत्र हि पूर्वस्योत्त- रोत्तरं कारणतयोपनिबद्धम्। एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः ॥ यथापूर्वमि-
१. 'परस्परविशेषणतया' ख. २. 'अप्यन्तरोऽस्ति' ख. ३. 'पूर्वानुबन्धित्वम्' ख. ४. 'विपर्ययो वा' ख. ५. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्घार्धस्य च्छाया. ६. उत्तरार्घ क. पुस्तके नास्ति. १२ अ० स०
Page 203
१७८ काव्यमाला।
यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एका- वल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा- 'पुराणि यस्यां सवराङ्कनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्रं विलासाः कुसुमायुघस्य ।।' अत्र वराङ्गना: पुराणां विशेषणं स्थापनीयत्वेन स्थितम्। एवं वराङ्गनानां रूपमित्यादि ज्ञेयम्। निवर्तनेन यथा- 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदेलीनषट्पदम्। की3 'न षटपदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम्। एवं पङ्कजानामलीनषट्पदत्वं ज्ञेयम्। पूर्वस्य पूर्वस्थोत्तरोत्तरगुणावहत्वे मालादीपकम् । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्यो- त्तरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम्। मालात्वेन चारुत्वविशेषमा-
त्यादि। परं परमिति। अत एव पूर्वस्य पूर्वस्य यथाय्थं विशिष्टतयावगमः। स्वरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिध्यमवगम्यते तद्विशेषणम्। यद्वक्ष्यति। उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति। एकावल्य- लंकार इति। पूर्वोत्तरयो: परस्परानुषक्तत्वेनैकपङ्किरूपलात् । पूर्वेत्यादि। अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि। उत्कर्षनिबन्घनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम्। तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम्। ननु चास्य प्राच्यैर्दीपकानन्तर लक्षणं कृतमिह तु किं न तथे- त्याशड्याह-मालात्वेनेत्यादि। मालाशब्देनात्र शाङ्ला लक्ष्यते । तस्या एवोपकान्तत्वात्। न चात्र मालोपमावन्मालाशब्दो ज्ञेयः। एकस्योपमेयस्य बहूपमानोपादानाभावात्। अन्न ह्यौपम्यमेव नास्ति। कोदण्डशरादीनां तस्याविव- १. 'द्विधा भवति' ख. २. 'वराङ्गनारूपमित्यादि' ख.
Page 204
अलंकारसर्वस्वम्। १७९
श्रित्य दीपकप्रस्तावोल्लङ्कनेनेह लक्षणं कृतम्। गुणावहत्वमुत्कर्षहेतुत्वम्। यथा- 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्।।' अत्र कोदण्डादिभि: क्रमेण शरादीनामुत्कर्षो विहितः। समासादनल- क्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम्। उँत्तरोत्तरमुत्कर्षणमुदौरः। पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्ष निबेन्घनत्वमुदारा ख्यो लंका र : ।
क्षणात्। अत एवास्य दीपकभेदत्वं न वाच्यम्। औपम्यजीवितं हि तत्। प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम्। शङ्लात्वेन तु विशिष्टमस्य चारु- त्वमितीह लक्षणं युक्तम्। एतच्च दीपक एव ग्रन्थकृतोक्त्तम्। छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति। अत्रेत्यादि। उत्कर्षश्र शरादीनां कोदण्डादिसमासादनलक्षणः । दीपनविषयाणामिति। कोदण्डशरादीनाम्। अत एवास्य दीपकमित्यन्वर्थमभिधानम् ॥ उत्तरेत्यादि। एतदेव व्याचष्े- पूर्वेत्यादि। एतचैकस्यैव वस्तुनो बहूनां वा स्यादित्यस्य द्वैधम्। तेन पूर्वत्र पूर्वपूर्वेत्युत्तरस्येति चावस्थाविशेषाभिप्रायेण व्याख्येयम्। अन्यथा ह्येकस्यैव पूर्व- त्वमुत्तरत्वं च कथं स्यात्। एवमप्युत्तरोत्तरमुपचय: स्वरूपेण धर्मेण वा भवती- त्यस्य चातुर्विध्यम्। एवं प्रकृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपा- दनं स्यादित्यलंकारबीजम्। यदुक्तम्-उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति। पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीपकादस्य भेदोऽप्युक्तः। तत्र हि पूर्व- १. 'हेतुकं' क. २. 'दीपनविषयाणाम्' ख. ३. 'उत्तरोत्तरमुत्कर्षः सारः' ख. ४. अयमेव काव्यप्रकाशकारादिभिः 'सार' नाम्रा व्यवहृतः। वेदेऽप्ययमलंकारो दृश्यते। यथा-महतः परमव्यक्तमव्यक्तातपुरुषः परः। पुरुषान्न परं किंचित्सा काषा सा परा गतिः ॥' ५. 'निबन्धनं सारः' ख. ६. 'प्रस्तावान्तरेण' क. ७. 'चार्ववस्था' क.
Page 205
१८० काव्यमाला।
यथा- क्ानक 'जये धरित्याः पुरमेव सारं पुरे गृहं सदनि चैकदेशः । तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ।।' अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृह- स्येत्यादि योजनीयम्। यथा- 'राज्ये सारं वसुधा वसुंधरायां पुर पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वखम् ।।' अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदे- शस्य पुरस्येत्यादि योजनीयम्।
स्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम्। अत एव चास्योत्तरोत्तरस्योत्कर्षोपनिबद्धा- दन्वर्थत्वम्। तत्रकस्य स्वरूपेणोत्कर्षो यथा-'किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे। ऊर्ध्वे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्ट पायात्तद्वोऽर्कबिम्बं स च दनुज- रिपुर्वर्धमाण: क्रमेण।।' अत्रैकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तर- मुत्कर्षः । धर्मेणापि यथा-'अतसीकुसुमप्रभं मुखे तदनु त्वत्कचमेचकद्युति। अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥' अत्रैकस्यैव तमसो निबिडत्वाख्य- धर्ममुखेनोत्तरोत्तरमुत्कर्षः । अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्र - भादिकस्यावस्थानात्पर्यायत्वम्, तथापि तमसो नैबिड्यं यथायथमुत्कृष्टतया वा- क्यार्थीभूतमिति यथोक्तमेव युक्तम्। बहूनां सवरूपेणोत्कर्षो यथा-'अत्युच्चास्तरवः स्फुरन्ति गिरयः स्वर्वासिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युन्नतम्। तस्मात्सर्वत एव साधुहृदयान्युत्तुज्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवीं चिन्ता- मणे तन्वते ॥I' अत्रानेकेषां पूर्वापेक्षया स्रूपेणोत्तरोत्तरमुत्कर्षः । धर्मेण यथा- 'कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वयूढभरो बिभर्ति तमपि प्रीतो भुजंगेश्वरः। श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरु- षकथा श्रीकर्ण निर्नाशिता ।I' अत्र कैटभारिप्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरो-
Page 206
अलंकारसर्वस्वम्। १८१
एवं शृङ्धलाविच्छित्त्यालंकाराः प्रतिपादिताः। अधुना तर्कन्याया- श्रयेणालंकारद्वयमुच्यते। तैत्र- हेतोर्वाक्यपदार्थता काव्यलिङ्गम्। यत्र हेतु: कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थ- गत्या लिङ्गत्वेन निबच्ते तत्काव्यलिङ्गम्। तर्कवैलक्षण्यार्थ काव्यग्र- हणम्। न ह्यत्र व्याप्तिपक्षधर्मतोपैसंहारादयः क्रियन्ते। वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबद्धव्यः, नोपनिबद्धस्य हेतुत्वम्। अन्यथार्थान्तरन्यासान्नास्यमेद: स्यात्। क्रमेण यथा-
त्तरमुत्कर्षः । एवं 'जये धरित्र्याः' इत्यादौ सारत्वमुखेन बोद्धव्यम्। यदाहात्रे- त्यादि। यथा वा-'त्रिलोक्यां रत्नसूः श्लाध्या तस्यां धनपतेर्हरित्। तत्र गौरी- गुरुः शैलो यत्तस्मिन्नपि मण्डलम् II' अत्र बहूनां श्लाध्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वन्यैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम्। तत्तेषां नाममात्रनवीकरणरसिक- त्वम्। अस्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षोपनिबन्ध नात्मकत्वात्समग्रविषयावगाहन- सहिष्णुत्वात्। तस्मादस्मिंश्र वर्धमाने सारोपान्तर्भावमेति। न पुनरिदमन्तर्भूत सारे परिमितविषये महाविषयमित्याद्युक्तमेवोक्तम्। एतदुपसंहृत्यान्यदवतारयति -एवमित्यादिना। तत्रेति द्वयं निर्धारणे । हेतोरित्यादि। यत्रति। हेतोश्व वाक्यार्थपदार्थंगत्योपनिबन्धादस्यानेन सह भेदद्वयमप्युक्तम्। वाक्यार्थ- गत्येति। न तु पदार्थगत्या। तत्र ह्युपनिबद्धस्यैव हेतुँत्वात्। हेतुत्वेनैवेति। हेतुत्वस्यामुख एवोद्रिक्तत्वेन प्रतीतेः। अन्यथेति। हेतुत्वेनोपनिबन्धो यदि न स्यात्। ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चिद्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम्। न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरे- केणोपनिबन्धः स्यात्। न च यथासंभविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम्। कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोक्तत्वात्। न चैवमुपनिब- १. 'प्रदर्शिताः' क. २. 'तत्कान्यायाश्रयेणा' ख. ३. 'तत्र' इति क-पुस्तके नास्ति. ४. 'उपसंहारादयः क्रियावाक्यार्थगत्या' ख. ५. एतत्पर्यन्तं ख-पुस्तके नास्ति. ६. 'यत्रेति' इति ख-पुस्तके नास्ति. ७. 'हेतुत्वम्' ख.
Page 207
१८२ काव्यमाला।
'यत्त्वन्नेत्रसमानकान्ति सलिले ममं तदिन्दीवर मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।I' 'मृग्यश् दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि।' पूर्वत्र पादत्रयार्थोउनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुत्वेनोपन्यस्तः। उत्तरत्र तु संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेकः पदार्थों हेतुत्वेनोक्तः ।
न्धात्कश्चिदतिशय इति कथमस्यालंकारत्वम्। एवं हि दृक्त्वाभासैव न्यायेन वेदये- त्यादावपि खाभासत्वस्य हेतोर्विशेषणद्वारेण पदार्थगत्या, तथा 'प्रत्यक्षाद्विरलक- राङडुलिप्रतीतिर्व्यापित्वादकुशलमिन्द्रियं न तस्याम्' इत्यादौ तमसि विरलाङ्गुलिप्र- तीतौ व्यापित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंका- रत्वं स्यात्। सत्यम्। यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते। तथापि ग्रन्थकृता प्राच्यैलक्षितत्वादेतदिह लक्षितम् । अथ यत्र व्य- ड्वयाश्लिष्टो वाच्यार्थों वाच्यमेवार्थ प्रति हेतुतां भजते तत्रायमलंकारो युज्यत एवेति चेतू। तर्हि व्यक्रयाश्लेषवशेन तदुत्थानाद्वाक्यार्थपदार्थतयोपनिबद्ध्यमानस्य हेतोः खात्मनि न कश्चिदतिशय इति व्यङ्ञयकृत एवातिशयोऽभ्युपगम्यते। न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात्। यदि च व्यङ्ञयसाहचर्येणैव हेतुरलं- कारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते। यदि तत्रापि व्यज्ञ्याश्लेषः स्यात्। अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे निमित्तत्वं कर्थ न यायात्। अथ तत्र व्यङ्गयाश्रेषो न भवतीति चेत्, किं नामापराद्धम् । येनात्र व्यङ्गयाश्लेषस्तत्र च नेति। तथात्वेन लक्ष्यादर्शनादिति चेत्, नैतत्। अवा- ग्दार्शन एवं निश्चयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्ञ्याश्लेष उक्तस्तत्र स नास्तीति वक्तुं शक्यते। तथाहि। 'वक्षःस्थली रक्षतु सा जगन्ति' जगत्प्रसूतेर्ग- १. 'अनेकार्थवाक्यार्थरूपः' क. २. 'चतुर्थपादार्थे' क.
Page 208
अलंकारसर्वख्वम्। १८३
एंवमेकवाक्यार्थपदार्थगतत्वेन काव्यलिङ्गमुदाहियते। येथा- 'मनीषिताः सन्ति ग्रृहेषु देवतास्तपः क वत्से क च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।।' 'यद्विस्मयस्तिमितमस्तमितान्यभाव-
तत्संनिधौ तदघुना हृदयं मदीय- मङ्गारचुम्बितमिव व्यथमानमास्ते ।।' पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेघस्य 'मनीषिताः' इति वाक्यार्थरूपो हेतुनिर्दिष्टः । उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्ति- मितमिति विशेषणद्वारेण पदार्थः ।
रुडध्वजस्य। श्रियोऽङ्वरागेण विभाव्यते या सौभाग्यहेम्रः कषपट्टिकेव ॥I' इत्यत्र वक्ष:स्थल्या जगद्रक्षकत्वे जगत्प्रसूतित्वं पदार्थो हेतुः । प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम्। अत एव गरुडध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तृत्वं युक्तम्। इयांश्राभिधेय एवार्थः । अत एव चात्र न हेतोः कश्चिद्यङ्गयाश्लेषः । इत्थम् । 'संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा। सासू णवब्भदंसण- कंठागअजीविअं सोण्हं ।I' इत्यत्र कण्ठागतजीवितत्वस्य। अत्र च जगत्प्रसूति- त्वस्य हेतोः पदार्थंतयोपनिबन्धे न कश्चिदतिशयो विशेषः। एवम्। 'अयि प्रमत्ते सिचयं गृहाणेत्युक्तेऽपि सख्या न विवेद काचित्। मग्ना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्ग: I' इत्यत्रापि ज्ञेयम् । यद्यपि चात्र रसशब्दस्य जल- वाचित्वं न विवक्षितम्। तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ञयम्। तथात्वे हि हेतुहेतुमद्धावस्य न कश्चिदतिशयः । एवं हि। 'एकान्तजा- ड्यादूरुभ्यां करभोर्वाः पराजिताः। कदल्यो यन्न तच्चित्रं जयः क्व न कलावताम्॥' इत्यत्र जाड्यस्यातिशयोक्त्यालिङ्गितत्वेन वैचित्र्यावहत्वाच्छब्दस्यापि पदार्थस्य १. 'एवमेव' ख. २. 'यथा' इति क-पुस्तके नास्ति. ३. 'संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा। श्वश्रूर्नवाभ्रदर्शनकण्ठगतजीवितां सुषाम्' इति च्छाया.
Page 209
१८४ काव्यमाला।
साध्यसाधननिर्देशोऽनुमानम्। यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये नि- दिश्यते, सोऽनुमानालंकारः। विच्छित्तिविशेषश्चात्रार्थादाश्रयणीयः । अन्यथा तर्कानुमानात्कि वैलक्षण्यम्। उदाहरणम्- 'यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दघति च यथा कीटमणयः ।
स्तथा मन्ये लगः पथिकतरुखण्डे स्मरदवः ॥' अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वहिलिङ्गानि त्रिरूपत्वाद्दवशब्द-
हेतोरलंकारत्वं स्यात्। एवमुदाहरणान्तरेष्ववसेयम्। एवं च यत्रापि व्यङ्ग्याश्लेषः स्यात्तन्नापि हेतोर्वाक्यार्थपदार्थतयोपनिबन्धे न कश्चिदतिशयः। अथ साध्यप्रती- तये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेतू। तर्ह्यनुमानमेवेदं स्यान्ना- लंकारान्तरम्। साध्यसाधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात्। एवं हेतोर्वाक्यप- दार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम्। उक्तवक्ष्यमाणनी- त्यानुमान एवान्तर्भावोपपत्तेः । साध्येत्यादि। एतदेव व्याचष्टे-यत्रेत्या- दिना। एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तरकानुमानसमानक- क्ष्यमेवास्य लक्षणमिति भावः। यदेवं तत्ततोऽस्य को विशेष इत्याशङ्काह-वि- च्छित्तीत्यादि। तच्चानुमानं द्विधा। खार्थ परार्थ च। तत्र खार्थ यत्र मया. यमवगतोऽर्थ इति खपरामर्षस्य निश्चयः स्यात्। परार्थ तु यत्र परेणानवगतस्य वस्तुनः प्रतिपादनात्परप्रत्यायकत्वं स्यात्। एवं च। सार्थपरार्थभेदेन द्विविधमनु- मानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम्। उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्यैवोपपत्तेः। तत्र खार्थानुमानं, यथा ग्रन्थ- कृतैवोदाहतम् । तत्र हि स्मरदवो ल्न इति खवपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम्। ततः प्रिये संनिहितेSत्र वासरे कथं नु तत्संचरणं भविष्यति ।I' अत्र दिवासंचरणस्य कार्यस्य
Page 210
अलंकारसर्वस्वम्। १८५
प्रतिपादितं वहिं गमयन्तीत्यनुमानम्। रूपकमूलत्वेनालंकारान्तरभज्गी- कारेण विच्छित्त्याश्रयणात्तर्कानुमानवैलक्षण्यम्। कचित्तु शुंद्धमपि भवति। येथा- 'यत्रैता लहरीचलाचलदशो व्यापारयन्ति भ्रुव यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणा:।
घावत्यग्रत एव शासनघरः सत्य सदासां स्मरः ॥' अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलं- कृतमेव साधनमिति शुद्धमनुमानम्। प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम्। अयमत्र पिण्डार्थः-इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः ।
विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः । रूपकमूलत्वेनेति। रूपकमन्तरेणा- नुत्थानात्। ननु चास्यालंकारान्तरगर्भीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमि- त्तम्, उतान्यदपि किंचिदित्याशड्क्याह-क्वचिदित्यादि। अनलंकृतमिति। शौसनधर्मादेः प्रौढोक्त्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्ाद्यलंकारान्तर- गर्भीकाराभावात्। अतश्चास्थ कविकर्मैव वैलक्षण्यनिमित्तमिति भावः। तदाह- औढोक्तीत्यादि। एवं च कविकर्माभावाद्यन्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-'यो यत्कथाप्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः। स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु ।I' अत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वर्तितत्वाभावान्नायमलंकारः । यथा-'प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः II' अत्र विनयाधानादिहेतूनां वास्तवत्वादनलंकारत्वम्। न पुनरत्र हेतोरार्थत्वाभावादनलंकारत्वमिति वाच्यम्। कविकर्मण एवालंकारनिबन्धनत्वेनो- कत्वात् अर्थत्वस्य तदप्रयोजकत्वात्। न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणा- १. 'शुद्धमेव' क. २. 'यथा' इति ख-पुस्तके नास्ति. ३. 'रूपकमूलमेवेति' क. ४. 'शासनधरादेः' क.
Page 211
१८६ काव्यमाला।
तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः। प्रतीतप्रत्यायने तु सम- थ्यसमर्थकभावः । तत्र प्रत्याथ्यप्रत्यायकभावेऽनुमानम्। समर्थ्यसमर्थ- कभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वचि कर्कशत्वात्' इत्यत्र न कश्िविदलंकारः । यत्र तूपात्तस्य हेतुत्वं यथोदा- हते विषये 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षाः' इत्यादौ तत्रैव काव्यलिङ्गम्। यत्र तु वाक्याथों हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव। तटस्थत्वेनोपन्यस्तस्य तु हेतुत्वेऽर्थान्तरन्यासः। एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोहेंतुत्वे काव्यलिङ्गमेव पर्यव- स्यति। समर्थ्यवाक्यार्थस्य सापेक्षत्वात्। ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य तद्विषयत्वेन लक्षणान्तरस्यौद्धटैराश्रितत्वाद्।
लंकारत्वं स्यात्। तच्छान्देऽपि हेतौ क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्यु- पगमे न कश्चिद्दोषः । अ्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम्। तन्मतमेवा- धिकृत्य ह्ययमत्रेत्यादिना विचारः प्रस्तुतः । तत्रेति द्वयनिर्धारणे। प्रतीतेति। बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः । न कश्चिदलंकार इति। हेतुमात्ररूपत्वात्। हेतुत्ववाचकं विनापि तदधिगमे ह्यस्य चारुत्वातिशय इति भावः। यद्वक्ष्यति-हेतुत्वप्रतिपादकमन्तरेणेति। उपात्तस्येति। पारिशेष्या- त्पदार्थस्य हेतुत्वेनोपादानाभिधानात्। एकमिति पदार्थगतम्। हेतुत्वप्रतिपादक इति शब्दादिः । तटस्थत्वेनेति। न तु हेतुत्वेनेत्यर्थः । अत एव चानयोर्भेदः। ततश्चेति पारिशेष्यात्। ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्यका- रणगतत्वेन समर्थकत्वमुक्तमित्याशङ्कयाह-यत्पुनरित्यादि। लक्षणान्तर- स्येति। पदार्थगतत्वेनैवेष्टेः। यदाहु :- 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा।
१. 'इत्यादाविव' ख. २. 'हेतुत्वप्रतिपादकं' ख.
Page 212
अलंकारसर्वस्वम्। १८७
उक्तलक्षणाश्रयणे तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्ग स्यार्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तर- न्यासे पूर्व दर्शितमितीयं गमनिकाश्रयितव्या। एवं तर्कन्यायमूलमलंकारद्वयमिह प्रतिपादितम् । अधुना वाक्य- न्यायमूला अलंकारा उच्यन्ते- उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासंख्यम्। ल ऊर्ध्व निर्दिष्टा उद्दिष्टाः। पश्चान्निर्देशोनूद्देशः। स चार्थादर्थान्तरगतः संबन्घश्ात्र सामर्थ्यात्प्रतीयते। ऊर्ध्व निर्दिष्टानामर्थानां पश्चान्निर्दि- ष्टैरर्थैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलं- कारं क्मसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थं च द्विघा। शाब्दं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्मसंबन्धस्यातिरोहितस्य प्रत्येयत्वात्। आर्थ तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यालो- चनया त्ववयवगतः क्रमसंबन्धः प्रतीयते। तथात्र यथासंख्यार्थत्वम्।
हेतुतां प्रतिपद्येत काव्यलिङं तदुच्यते ।I' इति । यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इत्याशङ्कयाह-उक्ेत्यादि। विविक्तविषय इति। ताटस्थ्यव्यतिरेकेण वाक्यार्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः । आश्रयितव्येति। न पुनर्वस्तुतः संभवतीत्यर्थः। एतदुपसंहरत्नन्यदवतारयति- एवमित्यादिना। उद्दिष्टानामित्यादि।अर्थादिति। उद्दिष्टानामेव ह्यनुनि- देशे पौनरुक्त्यं स्यात्। सामर्थ्यादिति। वाक्यपर्यालोचनबलात्। अन्य इति। वामनादयः । यदाहु :- 'उपमेयोपमानां क्रमसंबन्धतः क्रमः' इति। अनेनास्य आाच्योक्तत्वं दर्शितम्। अव्यवहितत्वेनेति। समासाद्यभावात्। अवयवा- नामिति। हरिकज्जलादीनाम्। न चास्यालंकारत्वं युक्तम्। दोषाभावमात्ररूप- १. 'आश्रयेण' क. २. 'यथासंख्यम्' ख. ३. 'अत्राप्रवृत्तेः' ख.
Page 213
१८८ काव्यमाला।
आाद्यस्योदाहणम्-किं 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा। ा इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम्। यथा- 'कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥' अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते। अर्था- नुगमानुसारेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम्।
त्वात्। उद्दिष्टानां क्मेणानुनिर्देशे ह्यक्कियमाणेऽपक्रमाख्यो दोषः प्रसज्यते। यदु- क्तम्-'कमहीनार्थमपकमम्' इति। तच्च यथा-'कीर्तिप्रतापौ भवतः सूर्याच- न्द्रमसाविव' इति। दोषाभावमात्रं च नालंकारत्वम्। तैस्य कविप्रतिभात्मकविच्छि- त्तिविशेषत्वेनोक्तत्वात। तत्त्वे चास्य 'यथासंख्यमनुदेशः समानाम्' इत्यादिसूत्रोदा- हरणानां 'तूदीशलातुरवर्मतीकुचवाराड्ड क्छण्ढञ्यकः' इत्यादीनामप्यलंकारत्वप्रस- ङः। एतच्च वकरोक्तिजीवितकृता सप्रपश्चमुक्तमित्यस्माभिरिह नायस्तम्। ग्रन्थकृता पुनरेतदुद्ङ्टमतानुयायितया लक्षितम्। एवमासत्तिविप्रकर्षवतां तदपेक्ष उपदेशा- क्रम इति लक्षितः। कमोऽप्यनलंकार एव। दोषाभावमात्ररूपत्वात्। आदिपश्चा- न्निर्देश्यानामतथानिर्देशे ह्वपकमाख्य एव दोषः स्यात्। यथा-'तुरङ्गमथ मातङ्गं मे प्रयच्छ मदालसम्।' अत्र गजाश्वयोरादिपश्चान्निर्देश्ययोरप्यतथानिर्देशादपक्र- मत्वम्। अनयोश्र स्वस्थाननिर्देशे दोषाभावमात्रत्वम्। न पुनरलंकारत्वम्।
१. 'अस्य' क.
Page 214
अलंकारसर्वस्वम्। १८९
एकमनेकस्मिन्ननेकमेकसिमिन्क्रमेण पर्यायः। क्रमप्रस्तावादिदमुच्यते। एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एक: पर्यायः। नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालं कारोऽत्रोक्तः । तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्-क्रमेणेति। इह च क्रमोपादानादर्थात्तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्त- विषयत्वम्। तथा- एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः । नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थमपि क्रमेणेति योज्यम्। अत एव गुणक्रियायौगपद्ं समुच्चयः इति समुच्चयलक्षणे यौगपद्यग्रह- णम्। अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम्।
तस्मात्। 'अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम्। परिच्छद्सुहृद्वन्धुविष- येन्द्रियजीवितैः ॥' इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात्। न चात्र तादृक्कश्चिद्विशेष उपलभ्यते। येनानलंकारत्वं स्यात्। एवम्-'आस्तामस्तमयो- Sहमित्यभिमतेर्देहादिमात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि। अस्माकं वसुवेश्मनिष्कुटनदीसीमानुकेदारिकादेशक्ष्मेशदिगादिकेष्वपि कर्थ सा हन्त नासतं गता ।I' इत्यत्रापि ज्ञेयम्। एकमित्यादि । इदमिति पर्यायलक्षणम्। तदेव व्याचष्टे-एकमिस्यादिना। एक इति द्वितीयापेक्षया। अतश्च द्वो पर्यायौ। न पुनरेक एव। सामान्यलक्षणायोगात् । अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ। यदाह-'एक क्रमेणानेकस्मिन्पर्यायः' इति। 'अन्यस्ततोऽन्यथा' इति च। ग्रन्थकृता त्वनयोरत्रान्यस्यान्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक्त इति दूषणोद्ावनयैवं लक्षणं कृतम्। एवं क्रमेणैकमनेकत्रान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति-नन्वित्यादिना। किमर्थमिति। विशेषा- लंकारेणैव तत्प्रतीतिसिद्धेः । अर्थादिति। पारिशेष्यात्मकात्सामर्थ्यादित्यर्थः । तेनेति। क्रमयौगपद्यरूपत्वेनेत्यर्थः । तत इति। विशेषात् । तथेत्यादि। अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना। अत एवेति। विशेषसमुच्चययोरयौंगपद्यसंभवात्। अन्वर्थमिति। 'परावनुपात्य इण' इत्यने-
Page 215
१९० काव्यमाला।
विनिमयाभावात्परिवृत्तिवैलक्षण्यम्। तस्या हि विनिमयो लक्षण- त्वेन वक्ष्यते। तत्रानेकोऽसंहतरूप: संहतरूपश्रेति द्विविधः। तच्च द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य मेदाः। क्रमेणोदाहरणानि- 'नन्वाश्रयस्थितिरियं किल कालकूट केनोच्रोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेडघुना वससि वाचि पुनः खलानाम् ।।' 'विसृष्टरागादघरान्निवर्तितः सनाङ्करागारुणिताच कन्दुकात्। कुशाङ्करादानपरिक्षताङ्कुलिः कृतोऽक्षसूत्रपरणयी तया करः ॥'
नानुपात्यये गम्यमाने घजो विहितत्वात्। अतश्वास्यैव क्रमार्थाभिधायित्वात्क- मोऽपि पृथगलंकारतया न लक्षणीयः । अथात्रारोहावरोहयोरधिकयोः प्रतीतिर- स्तीति युक्तमेवास्य पृथग्लक्षणमिति चेत्। एवं तर्ह्याधाराधेयानां परस्परं विलक्ष- त्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात्। तयोरप्यधिकयोः पर्याये संभवात्। न चात्र तावत्कश्चिदतिशय उपलभ्यते। येन पृथगलंकारत्वमपि स्यात्। एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तम्, न पुनः पृथगलंकारतायाम्। एकस्यानेकत्रान्यथा वा कमेणावस्थानाख्यस्य सामान्यलक्षणस्यात्राप्यनुगमात्। एवं 'यदेकस्मान्निवृत्तोऽर्थ आधारान्तरमाश्रयेत्। स पर्यायो निवृत्तौ तु क्रमोडयं बहुधा स्थितः II' इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम्। निवृत्त्यनि- वृत्त्योर्विच्छित्तिविशेषत्वाभावात्। तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रण- यनं नवनवालंकारप्रदर्शनहेवाकमात्रमेवेत्यलं बहुना॥। ननु चैकानेकरूपस्य वस्तु- नोऽन्यत्र प्राप्ते: परिवृतिरेवायं किं नेत्याशक्याह-विनिमयेत्यादि। संहत- रूप इति। संघातरूप इत्यर्थः । अस्येति शब्दसामान्यमवलम्ब्योक्तम्। असं- हते इति। आश्रयाणामनेकत्वात्। क्रमेणेति। हृदयाद्यनुकमात्। एवमप्ये- कस्यैव कालकूटस्योत्तरोत्तराधिकस्थानासादनादारोहणप्रतीतिः। अवरोहो यथा- १. 'आधाराधेयमिति' ख.
Page 216
अलंकारसर्वस्वम्। १९१
'निशासु भाखत्कलनू पुराणां यः संचरोऽभूदभिसारिकाणाम्। नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभ्त्। तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ॥' अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमत्निबद्धम्। करश्रैकोऽनेकस्मिन्संहते क्रमवान्। अधरकन्दुकयोर्निवृत्युपादानतया संहतत्वेन स्थितत्वात्। अभिसारिकाः शिवाश्चानेकखवभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः। वचने चैकस्मिन्नाश्रये मुग्घत्वादि- वर्गः पेत्रीत्यादिवर्गश्र वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः । समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । विनिमयोऽत्र किंचित्त्यकत्वा कस्यचिदादानम्। समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम्। तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः। एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधि- कगुणस्योत्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः। क्रमप्रति- भाससंभवात्पर्यायानन्तरमस्या लक्षणम्। समपरिवृत्तिर्यथा-
'शिरः शार्व स्वर्गात्' इत्यादि। अत्र गङ्गाया उत्तरोत्तरस्थानासादनम्। संहते इति। अधरकन्दुकादेरनेकस्याश्रयत्वात्। क्रमवर्तिन्य इति। अभिसारिका- शिवानामतीतवर्तमानकालावच्छिन्नत्वात्। मुग्धत्वादीनां बहुत्वाद्वर्गत्वम्। सम- न्यूनेत्यादि। एतदेव व्याचष्टे-विनिमय इत्यादिना । तादशस्येति। तुल्यगुणस्येत्यर्थः । अतश्वात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्य- मानमौपम्यम्। एवं च तन्ञिमित्तस्य साधारणधर्मस्यापि त्रैविध्यम्। अधिकत्वं न्यूनत्वं चोत्कृष्ठत्वानुत्कृष्टत्वयोगात्। अतश्ात्र शब्दोपात्तदधति (१)। कचित्सा- मर्थ्यलभ्यं तदिति निर्यमस्य त्रिरूपत्वात्। क्रमप्रतिभासेति । त्यागादानयोः १. 'पत्ीत्वादिवर्गश्च' ख. २. 'समानाविकन्यूनैः' ख. ३. 'अतः' इत्यारभ्य 'सामर्थ्यलभ्यम्' इत्यन्तं ख-पुस्तके नास्ति. ४. 'विनिमयस्य' ख.
Page 217
१९२ काव्यमाला ।
'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत। छा' हिरण्याक्षवघाद्येषु यशः साकं जयश्रिया॥ अत्रोरोयशसोस्तुल्यगुणत्वम्। अधिकपरिवृत्तिर्यथा-
D 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते।।' अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः। न्यूनपरि- वृत्तिर्यथा- 'तस्य च प्रवयसो जटायुषः सवर्गिणः किमिव शोच्यते बुधैः। येन जर्जरकलेवरव्ययात्क्ीतमिन्दुकिरणोज्जवलं यशः ।।' अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः।
पौर्वापर्येण क्मिकत्वात्। तुल्यगुणत्वमिति। वैपुल्यादिना साधारणधर्मस्यानु- गामितया पुनरत्र तुल्यगुणत्वं यथा-'सुधावदातं पाण्डत्वं विनिधाय कपोलयोः। भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥' सुधावदातमित्यस्यानुगामित्वम्। बिम्बप्रतिबिम्बभावो यथा-'लतानामेतासामुदितकुसुमानां मरुदसौ मतं लास्यं दत्त्वा श्रयति मृशमामोदमसमम्। लतास्त्वध्वन्यानामहह दृशमादाय रभसादद- त्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् ।I' अत्र लतासमत्वयोर्बिम्बप्रतिबिम्बभावः। शुद्धसामान्यरूपत्वं यथा-'मनोहरं सवं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि। मध्वाददानो मधुपायिलोकः पद्माकराणामनृणीबभूव ।I' अत्र मनोहरत्वचित्तहारि- त्वयोः शुद्धसामान्यरूपत्वम्। आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते। वल्कलस्य पुनर्वार्धकशोभीत्यनेन खयमेव न्यूनत्वमुक्तम्। एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूनाधिकत्वमुक्तम्। एतच्चास्य प्राच्यैरप्युक्तमिति रुद्रटोदाह-
१. 'अतश्चास्याः' ख.
Page 218
अलंकार सर्वस्वम्। १९३
'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया कीताः। किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ।।' अत्रादे समपरिवृत्तिः । द्वितीयार्घे न्यूनपरिवृत्तिः । एकस्यानेकप्राप्ावेकत्र नियमनं परिसंख्या। एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभा- व्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या। कस्यचित्परिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा। प्रत्येक च वैर्जनीय- त्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः। क्रमेण यथा- 'किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृत न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ।' 'किमासेव्यं पुंसां सविधमनवदं घुसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः ।
रणेऽपि समपरिवृत्त्यादि योजयति-दत्वेत्यादिना। एकानेकेति। पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात्। असंभाव्य इति । कविप्रतिभानिर्वर्तित- त्वाभावाल्लोकोत्तर इत्यर्थः । न पुनः प्राप्तिविषयत्वेनासंभाव्यत्वं व्याख्येयम्। सर्व- थाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या । अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम्। अपवर्जन इति। 'अप परीवर्जने' इति वचनात्। सेति। यथोक्तरूपा। एषेति। परिसंख्या। किं भूषणमिति प्रश्नपूर्वकत्वम्। न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम्। न पुन- १. 'तस्यासंभाव्य एकत्र' ख. २. 'परिवर्जने कस्यचिद्वर्जने' ख. ३. 'वर्जनी- यत्वस्य' क. १३ अ० स०
Page 219
१९४ काव्यमाला।
किमाराध्यं पुण्यं किममिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति॥' 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागसते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥' अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वेस्त्वन्तरशब्दमात्रं वेति नियमाभावः। अलौकिकत्वाभि- प्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम्। यथा- 'विलङ्गयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि। बिभर्ति यस्यामपि वक्किमाणमेको महाकालजटार्धचन्द्रः ।।' यथा-'चित्रकर्मसु वर्णसंकरो, यतिषु दण्डग्रहणानि' इत्यादि श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसं-
रीश्वरादि सेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम्। अत्रेति। एषूदाह- रणेषु। अलौकिकमिति। कविप्रतिभानिर्वर्तितम्। ग्रृह्यमाणमिति। विधी- यमानतया। वस्त्वन्तरव्यवच्छेद इति। अर्थान्तरनिषेधमात्रतात्पर्यात्। नियमाभाव इति। नह्यत्र व्यवच्छेदस्य शाब्दत्वार्थत्वाभ्यां कश्चिल्लक्षणभेद इति भावः। अलौकिकत्वाभिप्रायेणेति। नहि 'पञ्च पश्चनखा भक्ष्याः' इ- त्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः। क्वचिदिति। कुत्राप्यप्रश्नपूर्वकत्वमपि भवे- दिति भावः। श्लेषसंपृक्तत्वमिति। शरेषशब्दश्वात्र श्लिष्टशब्दनिबन्धनाया मतिशयोक्तौ वर्तते। तथात्वोक्तेश्वातिशयोक्तिमात्रसंपृक्तत्वे न तथा चारुत्वं भवतीति प्रयोजनम्। अत्यन्तेति। पूर्वोदाहरणेभ्यः । ननु नियमपरिसंख्ये भिन्नलक्षणे प्रसिद्धे इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्कयाह-अत्रेत्यादि। वाक्यविदो मीमांसकाः । यदाहुः-'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके १. 'लौकिक' ख. २. 'वस्त्वन्तर शाब्दमार्थ वेति' ख. ३. 'निवतितम्' क.
Page 220
अलंकारसर्वस्वम्। १९५
ख्ययोर्वाक्यवित्पसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।
सति। तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते ।।' इति। अन्रायमर्थः । इह कस्यचिदर्थस्य नियमेनाज्ञातस्य विधि: क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्य- वस्यति तदा नियमविधिः। पुनरज्ञातज्ञापनमात्रपर्यवसित एव भवति। तेन नियमे 'व्रीहीनवहन्ति' इत्यादाववघातमात्रपर्यवसायित्वमेव। दलनादेरपि निषेध्यत्वेन पर्यवसानात्। नापि निषेधमात्र एव तात्पर्यम्। अवघाताभावे विध्यनिष्पत्तेः । सर्वप्रकार प्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्तरनिषेधमात्रा- र्थमेव यत्र पर्यवस्यति सा परिसंख्या। तेन 'पश्च पञ्चनखा भक्ष्याः' इत्यादा- वन्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव। न पुनरेतत्पश्चनखभक्षणकर्तव्यतापि। तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात्। नादरणीयमिति। अनेनैव लक्षणेनोभयोः संग्रहात्। तथाहि नियमे 'समे देशे यजेत' इत्यादौ यागस्य समविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम्। परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पश्चनखविषय एवैकत्र नियमनम्। नन्वत्र पञ्चपश्चनखान्तरनिषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्येतल्लक्षणमिति चेत्। सत्यम्। अस्ति तावदामुखे पश्चपञ्चनखविषये भक्षणे विधिः। यदास्यार्थान्तरनिषेधपर्यव- सायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम्। तच्च नियमपरिसंख्ययोः समानम्। अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवेत्य- नयोर्महान्भेद इति चेत्। न। अस्ति तावद्विधेरर्थान्तरे निषेधपर्यवसा- यित्वं समानं, यन्निबन्धनमनयोरलंकारत्वम्। यत्तु नियमे विधावपि तात्पर्य न तु परिसंख्यायाम्। तदनौपयिकत्वादिहानादरणीयम् । न हीह पञ्चानां पश्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामन- योरलंकारभेदः स्यात्। तथात्वे च सर्वालंकारभेदानां भेदहेत्वतिशयादिसं- भवाद्भिन्नलक्षणप्रसङ्गेडलंकारानन्त्यं स्यात्। अतश्चैतद्वेदत्वमेव नियमस्य वा- च्यम्। तदाह-अत एवेत्यादि। सवीक्रियत इति। भेदत्वेनेत्यर्थः । १. 'भेदहेत्वतिशयांशसंभवात्' ख.
Page 221
१९६ काव्यमाला।
देण्डापूपिकयार्थान्तरापतनमर्थापत्तिः। दण्डापूपयोर्भावो दण्डापूपिका। 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुज्। पृषोदरादित्वाच्च वृद्यभावः । यथा-अहमहमिकेत्यादाविति के- चित्। अन्ये तु दण्डापूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः। ऐवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेतिवन्मत्वर्थी- यष्ठन्नित्याहुः। अपरे दण्डापूपाविव दण्डापूपिकेति ईवे प्रतिकृताविति कनं वर्णयन्ति। अत्र हि मूषककर्तृकेण दण्डभक्षणेन तैत्सहभाव्यपू-
सा च यथा-'किमासेव्यं पुंसाम्' इत्यादौ । द्युसरित्तटेश्वरयोः सेवाया न युगप- त्संभावनमिति निषेधपर्यवसायी द्युसरित्तट एवैकत्र सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम्। दण्डापूपिकयेत्यादि। शब्दयोजनां ताव- दाह-दण्डेत्यादि। द्वन्द्वसंज्ञकत्वादस्यानेन वुञ्। शैष्योपाध्यायिकेतिवत्। ननु चास्य अचोऽष्णितीति जित्वाद्ृद्धिः किं न भवतीत्याशङ्कयाह-पृषोदरेत्यादि। यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभाजां शब्दानां व्याकरणशास्त्रेण लोपागमवर्ण- विकारादि यदविहितं तद्भवति। लक्ष्यमूलत्वाद्वयाकरणस्य। तेनात्राविहितोपि वृद््य- भावोऽनेन सिद्धः। इतिशब्दो हेतौ। 'अत इनिठनौ' इति ठन्। एतच्च पक्षत्रयं सामान्येनैवाभिदधता अ्रन्थकृता ख्वयमेवोपपन्नः पक्ष आश्रयणीय इति सूचितम्। तेनात्राद एव पक्ष आश्रयणीयः। पक्षान्तरयोरनुपपत्तेः। तथा चात्र 'एकाक्षरा- त्कृतो जाते: सैप्म्या च न तौ स्मृतौ' इत्याद्युक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति। अथापि विषयनियमार्थस्येति करणस्यात्रापि संबन्धादिहापि भवतीति चेतू। न। एतद्धि नियतोदाहरणविषयम्। अन्यथा हि निषेधकस्याक- रणप्रसङ्ग एव स्यात्। अहमहमिकाशब्दस्य पुनरेतदत्यन्तमेवायुक्तम्। अदन्ता- त्प्रातिपदिकादनो विहितत्वात्। कनोऽप्यत्र न प्राप्तिः। तस्य प्रकृतौ गम्यमाना- यामिवार्थे वर्तमानात्प्रातिपदिकादुक्तत्वात्। अदन्तात्प्रातिपदिकादुक्तत्वात्प्रकृत्य- १. 'दण्डापूपिकायाम्' क; 'दण्डापूपिकायार्थापतनमर्थापत्तिः' ख. २. 'एवमहो शक्तोऽह शक्तोऽस्यामिति' क. ३. 'मत्वथे' ख. ४. 'इव प्रकृताविति' ख. ५. 'तत्सहभाव्यपूपाभक्षणं' ख. ६. 'जातौ' ख. ७. 'सप्तम्यांशयुतौ स्मृतौ' ख.
Page 222
अलंकारसर्वस्म्। १९७
पभक्षणमर्थात्सिद्धम्। एष न्यायो दण्डापूपिकाशब्देनोच्यते। ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ साम- थ्यात्समानन्यायत्वलक्षणाद् यदर्थान्तरमापतति सार्थापतिः। न चेद्मनुमानम्। समन्यायस्य संबन्धरूपत्वाभावात्। असंबन्धे चानुमानानुत्थानात्। अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीय- त्वेनेहाभिधानम्। इयं च द्विधा। प्राकरणिकादप्राकरणिकस्यार्थापतन- मेक: प्रकारः। अप्राकरणिकात्प्राकरणिकस्यार्थापतनं द्वितीयः प्रकारः । आद्यो यथा- नि 'पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ।I' अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा- 'धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंज्ञकेषु गणना क इव वराकेषु काकेषु ।।'
भावाच् कन्न भवति। अन्यथा हि गौरिव गवय इत्यत्रापि कनः प्रसङ्गः। तदि- त्थमाद्य एव पक्षो ज्यायान्। नन्वत्र किमर्थसिद्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशक्क्ाह-अत्रेत्यादि। एतदेव प्रकृते योज- यति-ततश्चेत्यादिना। सामान्यन्यायत्वलक्षणादिति। येनैव न्यायेनै- कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः। नन्वर्थादर्थान्तरप्रतीतेः किमयमनु- मानमेव न भवतीत्याशङ्क्याह-न चेदमित्यादि। संबन्धरूपत्वाभावा- दिति। दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव। दण्ड- भक्षणेSपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भा- वात्। अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः। इहेति। वाक्यन्यायमूलालंकारप्रस्तावे। द्विविधेत्यनेनापततोऽर्थान्तरस्य साम्यादिना बहु- प्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम्। आपाततः पुनरर्थान्तरस्योपादाना-
Page 223
१९८ काव्यमाला।
अत्र शैलवृत्तान्तोऽप्राकरणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षि- पति। क्वचित्र्यायसाम्ये निमित्तं श्ेषेण गम्यते- 'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विंधौ वक्रे मूर्धि प्रभवति वयं के पुनरमी।।' अत्र विधौ वक्रे इति क्रिष्टम्। अप्राकरणिकस्थाणुवृत्तान्तात्प्राकर- णिकार्थापतनम्। तुल्यबलविरोधो विकल्पः । विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरु- द्धत्वादेव यौगपद्यासंभवे विकल्पः। औपम्यगर्भत्वाच्चात्र चारुत्वम्। यथा-'नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौव्यों वा"
नुपादानाभ्यां संभवत्यस्या वैचित्र्यम्। तत्रोपादाने ग्रन्थकृतैवोदाहृतम्। अनुपा- दाने यथा-'श्रीशारदापादरजःपवित्रः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः। यत्रोल्ल- सन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः ॥' तत्र गर्भरूपेभ्योऽन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम्। श्लेषेणेति। शेषमूलयातिशयोक्तेत्यर्थः । तुल्ये- त्यादि। एतदेव व्याचष्टे-विरुद्धयोरित्यादिना। तुल्यबलत्वादेवैकस्यापि बाधाभावान्नैकतरग्रहणम्। तच् द्वयोरपि युगपत्प्राप्तिः। न च विरुद्धयोरेतद्युज्यते इत्यत्रैकस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः। अव एव नियतोभयपक्षावलम्बी विकल्पः । ननु च 'यवैव्रीहिभिर्वा यजेत' इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशङ्क्याह-औपम्येत्यादि। औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम्। एवं च यत्रैवौपम्यग- र्भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा-'निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगा- न्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥' अन्नौपम्यगर्भत्वाभावाद्विक-
Page 224
अलंकारसर्वस्वम्। १९९
इत्यादि। अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्रि- ष्टत्वम्। संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे, प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वाद्। द्वौ चेमौ विरुद्धाविति नारिति तयोर्युगपत्प्रवृत्तिः । प्रास्नुवतश्चात्र युगपत्प्रकारान्तरस्यानाशङ्कयत्वात्। ततश्च न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलंकारता। एवं कर्णपूरीक्रियन्ता- मित्यादौ योजनीयम्। औपम्यगर्भत्वाच्चात्र चारुत्वम् कचिच्छ्ेषावलग्बे- नाप्ययं दश्यते। यथा- 'भक्तिप्रह्व विलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्टशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥' अत्र नेत्रे तनुर्वेति विकल्पः। उत्तमत्वाच्च तुल्यप्रमाणं क्रिष्ट-
ल्पमात्रत्वम्। विकल्पवृत्तं चात्र दर्शयति-अत्रेत्यादिना। क्रमेणेति। शिरोनमने संधिर्धनुर्नमने विग्रहश्चेति। स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम्। द्वौ चेमाविति। संधिविग्रहौ। अनयोर्विरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयो- र्विरुद्धत्वम्। तयोरिति। शिरोधनुर्नमनयोः । प्रकारान्तरस्येति । यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत्। ततश्चेति। विरुद्धयोर्युगपत्प्रवृत्त्य- संभवान्न्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम्। अत एव चैतदभाववादिनामन्यायवा- दित्वमपि सूचितम्। अत्रौपम्यकृतमेवालंकारत्वमित्याह-नमनेत्यादि। तेनात्र नमनाख्यस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः। वस्तुप्रतिवस्तुभावस्तु यथा-'सष्टं विधातुरुचितं मुखमेव चश्चभ्धूकं नतभ्रु तव कान्तिविलोकितेषु। एणाङ्कबिम्बमथ वा विवलत्कलङ्गमेकं न यद्विहित एव जगत्प्रकाशः ॥' अत्र च- ञ्चद्विवलवत्योः शुद्धसामान्यरूपत्वं अूकलङ्गयोर्बिम्बप्रतिबिम्बभावः। उत्तमत्वा- दिति। द्वयोरपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात्।
Page 225
२०० काव्यमाला।
त्वम्। न चात्र समुचये वाशब्दः। संभवन्त्यामपि गतौ महाकवि- व्यवहारे तथा प्रयोगाभावात्। ननु विरोधनिमित्तो विकल्पः । कर्थ चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभि- धानमेव न कार्यम्। कृतं च तत्स्पर्धिभावं गमयति। स्पर्धिभावश्च विरुद्धत्वम्। नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात्। स चात्र श्लेषाच्छिष्टः। लिङ्गश्लेषस्य वचनश्रेषस्य चात्र दृष्टेः। तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः पूर्वैरकृत- विवेकोऽत्र दर्शित ईत्यवगन्तव्यम्। गुणक्रियायौगपद्यं समुचयः। गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव। क्रियाणां च समुच्चयोऽलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः । क्र्मेण यथा-
ननु च नेत्रे च तनुश्चेत्यत्र समुचय एव किं न भवतीत्याशक्क्याह-न चात्रे- त्यादि। गताविति। वाशब्दस्य समुच्चयार्थलक्षणायाम्। तथेति। समुच- यार्थपरतयेत्यर्थः । न ह्यत्र समुचयार्थो विवक्षितः। एवमत्र विरोधाभावात्कर्थ विकल्पोऽपि न भवतीत्याह-नन्वित्यादि। न कार्यमिति। तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात्। कृतमिति। पृथगभिधानम्। स्पर्धिभावमिति। अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात्। स्पर्धिभावादिति। तुल्यत्वात्। असुप्रत्येयत्वादिति । सुष्ठुत्वेन विरुद्धस्य कष्टकल्पनानिरासः कृतः । स इति। विकल्पः । एतदेवोपसंहरति-तस्मादित्यादिना। समुचये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम्। अनेनास्य ग्रन्थकृदुपज्ञत्व- मेव दर्शितम्। गुणक्रियेत्यादि । तथैवेति । यौगपद्यावस्थानेनेत्यर्थः । अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम्। नैर्मल्यमालिन्ययोर्गु-
१. 'निमित्तको' ख. २. 'विकल्पस्य' ख. ३. 'स चात्र क्ेष: छिष्टः' ख. ४, 'इत्यवधातव्यम्' ख.
Page 226
अलंकारसर्वस्वम्। २०१
'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥' 'अयमेकपदे तया वियोग: प्रियया चोपनतोऽतिदुःसहो मे। नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥' एतद्विभिन्नविषयत्वेनोदाहरणद्वयम्। एकाधिकरणत्वेनाप्ययमलं- कारो दृश्यते। यथा- 'बिम्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम्। शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेद्वत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ।।' एवं गुणसमुच्चयेऽप्युदाहार्थम्। केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति। उदा- हरन्ति च- 'न्यश्चत्कुश्चितमुन्मुखं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् । उ्धूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः सासु च वर्तते रसवशादेकैकमन्यक्रियम् ।।'
णयोरुपनमनभवनयोश्व क्रिययोयौंगपद्येनावस्थानम्। विभिन्नविषयत्वेनेति। गुणादीनां बलमुखादिविषयगतत्वात्। अतश्र भिन्नाधिकरणोऽयं समुच्यः । एकेत्यादि। यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिव- त्कालान्तरभावित्वान्न यौगपद्येनावस्थानम्। तथापि तन्नैरन्तर्येण ज्ञेयम्। एव- मिति। यथैवात्रैकविषयत्वेन शयनाद्याः किया इत्यर्थः । तत्तु यथा-'सितं ज्योत्स्ाजालैररुणरुचि संध्याकरभरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च। नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रित-
Page 227
२०२ काव्यमाला।
अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सा- मस्त्येन गुणक्रियायौगपद्यम्। प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संब- न्घस्य वाच्यत्वात्। तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुण- यौगपद्यमिति द्रष्टव्यम्। एवमयं त्रिधा समुच्चयः । एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति- एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च। समुच्चय इत्येव। यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्त- स्तन्नान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः। न चायं समाध्यलंकारेऽन्तर्मवति। तत्र ह्येकस्य कार्य प्रति पूर्ण सा- धकत्वम्। अन्यस्तु कार्याय काकतालीयेनापतति, तत्र समाधिर्वक्ष्यते। यत्र तु खलेकपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्मेदोऽनयोः। स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते। सतः शोभनस्य सता शोभनेन समुच्चीय- मानेन योगे यथा-
मदः ॥' अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम्। ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः कि शब्दा इत्याशड्क्याह-प्रसादीत्यादि। तस्येति। संबन्धस्य। एतदुपसंहरति- एवमित्यादिना। त्रिधेति। गुणानां क्रियाणां गुणक्रियाणां च यौगपद्येनाव- स्थानात्। भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपक्च एवेतिन पृथगिहो- पात्तः। लक्षयतीति। एकस्येत्यादिना। एक: कस्यचिदिति। यत्र या- दृशो विवक्षितस्य। स्पर्धयेति। प्रक्रान्तस्य हेतोः । तत्सिद्धिमिति। का- र्यनिष्पत्तिम्। अपर इति। पूर्वसमुचचयात्। भिन्नलक्षणत्वात्। ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशक्क्याह-न चेति। पूर्णमिति।
Page 228
अलंकारसर्वस्वम् । २०३
'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्। प्रकृतिसुभगा एते भावा अमीभिरयं जनो व्रजति नितरां दर्प राजस्त एव तवाङ्कुशाः ॥' अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः । एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम्। असतोऽशोभनस्यासता समुच्चीयमानेन योगे यथा- 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणा: कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्काल: कृतान्तोऽक्षमो नो सख्यश्चतुराः क्थं नु विरहः सोढव्य इत्थं शठः ।' अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां ताद्शैरेव प्रियतमादूर- त्वादिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि खतः शोभनत्वम्,
अन्यनिरपेक्षमित्यर्थः । आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मु- खेन स्वरूपोपचयाधायित्वेन सुष्रुकार्यनिष्पत्तिः प्रयोजनम्। समुच्ये पुनः स्प- धयैव बहूनामेककार्यकारित्वम्। अत एवात्र खलेकपोतिकयेति निदर्शनीयम्। एवं च-'सोबाणारुहणपरिस्समेण कीस्सविजे विनिस्सरिआ। तेखि अहरिदः सनवइअरेणस्सा साणवाच्छिण्णा: II' इत्यादौ समुचय एव। सोपानारोहणपरि- श्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्वयवच्छेदनिषेधमुखेन श्वासका- रित्वोपनिबन्धात् । अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता का- रणान्तरेण कार्यसौकर्य लक्षणम्। न चात्रैतत्संभवति। न ह्यन्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम्। तदर्थमेव सोपानारोहणस्योपक्ान्तत्वात्। नापि तद्योगात्कार्यस्योपोद्वलनात्मकं सौकर्य, हरिदर्शनस्यापि सोपानारोहणपरिश्रम- स्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात्। अत एव 'णवोवाच्छिण्णा' इत्यु- कम्। शोभनैरिति। भद्रत्वादिति योगात्। ननु दूरनिर्वासितत्वादिना प्रिया- १. पुस्तकद्दयेऽप्येषा गाथारफुटैव.
Page 229
२०४ काव्यमाला।
तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम्। सदसतः शोभनाशोभनस्य तादशेन सदसता समुच्चीयमानेन योगो यथा- 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायण: सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥।' अत्र शशिनः खतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सद- सतस्तादशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीय- मानः शोभनः। अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये तु शोभना इति कथं समुचीयमा- नस्य सतस्तादृशेनासता योगः । नैतत्। 'नृपाङ्गणगतः खलः' इति प्रत्युत प्रकरमभङ्गाहुष्टमेव। न तु सौन्दर्यनिमित्तमितयुपेक्ष्यमेवैतत्। अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्ट एवेत्युक्तम्। प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम्। एव-
दीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपीत्याशङ्क्याह-नवेत्यादि। ता- दशैरेवेति। सदसद्भिः । कामिन्यादीनां खतः शोभनानामपि गलितयौवना- देरशोभनत्वात्। अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशक्व्याह-नन्वि- त्यादि। तादृशेनेति। समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति । शोभना- नामुपकमेऽप्यशोभनस्य निर्देशात्। अत एवेति। सौन्दर्यनिमित्तत्वाभावात्। अन्यैरिति। काव्यप्रकाशकारादिभिः । तत्तु यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंकि- यते नरेन्द्रता ।I' अत्र श्रुतिघृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खत- योर्निकृष्टयोर्भिन्नत्वम्। एवमपीति। सत्यामप्यस्यां समर्थनायाम्। न सम- १. 'इत्युत्प्रेक्ष्यमेवैतत्' क.
Page 230
अलंकारसर्वस्वम् । २०५
मपि विशेष्यस्य शोभनत्वं प्रकरान्तम्, विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यम्। ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तो- दाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभन- त्वमिति विवक्षा। तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयो- भेंदः। अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति। सुन्दरत्वे- नान्त:प्रविष्टानामपि व्यथाहेतुत्वात्। अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण। तस्मादसिति प्रकारत्रयस्य विविक्तविषयत्वम्। कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः। केनचिदारब्घस्य कार्यस्य कारणान्तरयोगात्सौकर्य यत्, स सम्य- गाधानात्समाधिः । समुच्चयसादृश्यात्तद नन्तरमुपक्षेपः। तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव। उदाहरणम्- 'मानमस्या निराकर्तु पादयोमें पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ।।' माननिराकरणे कार्ये पादपतनं हेतु: ।
रथेति। अनेनापि मार्गेण क्रमभेदोपपत्तेः । असद्योगसदसद्योगौ भेदयति-न- न्वित्यादिना। इहेति। प्रकृते सदसद्योगोदाहरणे। तत्रति। असद्योगोदा- हरणे। अत एवेति। शोभनस्य सतोऽशोभनत्वेन विवक्षणात्। सोढव्य इत्यु- पसंहृतमित्यत्रापि संबन्धनीयम् । एतदेवोपसंहरति-तस्मादित्यादिना। प्रकारत्रयस्येति । प्रकारद्वयस्य तावद्भेद उक्तसतद्वचनादेव पारिशेष्यात्तृतीय- स्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम्। कारणेत्यादि। एतदेव व्या- चष्टे-केनचिदित्यादिना। सौकर्यमिति। कार्यस्य सुखेनानायासमेव प्रकृ- तकारणवशेन निष्पन्नत्वेऽपि स्वरूपोपचयाधायकत्वेनाकृच्छ्रार्थस्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्टु वा करणमित्यर्थः । अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्टु वा कारणस्य भेदद्वयमपि ज्ञेयम्। प्रागिति समुचये। हेतुरिति। प्रकृतः।
Page 231
२०६ काव्यमाला।
तत्सौकर्यार्थ घनगर्जितस्य कारणान्तरस्य प्रक्षेपः । सौकर्य चोप- कारायेति पदे प्रकाशितम्। एवं वाक्यन्यायाश्रयिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयि- गोऽलंकारा उच्यन्ते। तत्र- प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कार: प्रत्यनीकम्। यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकार: कर्तु न शक्यत इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्यनीकम्। अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते। त- त्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते।
तत्सौकर्यार्थमिति। सुखेन कार्यनिष्पत्त्यर्थमित्यर्थः। यद्याकस्मिकघनगर्जित- योगोन स्यात्तदा निरासमानराकरणं न सिध्येत्। एतच्च प्रथमप्रकारस्योदाहरणम्। द्वितीयस्य यथा-'स्त्रैणं लीलाभरणमभितस्त्रोटयित्वा श्रमाम्भः शक्ता पत्रावलि- मृगमदव्यजितश्मश्रुदेहः। केलिक्षोभः कुवलयदृदशां मान्मथे कार्यभावे पुंवद्धावं घटितमभित: पारिपूर्ण्य निनाय II' अत्र सवेदादिना घटितस्यापि पुंवद्धावस्य के- लिक्षोभारूयेन कारणान्तरेण स्त्रैणाभरणत्रोटनादिना स्वरूपोपचयाधानात्समाधिः । एवमेवैमादावव्यापकमेतल्लक्षणमिति यदन्यैरुक्तं, तत्तेषामेतल्लक्षण खरूपानवधारण- मेवेत्यलं बहुना। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना। तत्रेति निर्धारणे। प्रतिपक्षेत्यादि। एतदेव व्याचष्टे-यत्रेत्यादिना। बलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः। तत्संबन्धिन इति। बलवत्प्रतिपक्षमत्कस्य। तत्संबन्धित्वं च सादृश्यादिसंबन्धमूलम्। दुर्ब- लस्येति। तस्यापि हि बलवत्वे दुर्बलेन प्रतिपक्षेन प्रतीकारः केर्तु न शक्यत इति भावः। तमिति। सबलं प्रतिपक्षम्। बाधितुमिति। अन्यथा हि नि० ष्प्रयोजनस्तदीयतिरस्कारः स्यात्। क्रियत इति। दुर्बलेन प्रतिपक्षेण। नैतत्सं- ज्ञामात्रमित्याशक्क्याह-अनीकस्येत्यादि। तुल्यत्वमेव दर्शयति-यथे- १. 'बाधयितुं' ख. २. 'मेघघनगर्जित' क. ३. 'एवमादौ'ख. ४. 'कर्तु शक्यः' ख.
Page 232
अलंकारसर्वस्वम् । २०७
यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियु- ज्यते, तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमि- त्यर्थः। प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम्। यथा- 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवक्रसदशाकृतिं कृती राहुरिन्दुमधुनापि बाघते ॥' अन्र राहो: सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वक्रसाह- श्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः । उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्। उपमेय स्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आ- लोचनं क्रियते, तदेकं प्रतीपम्। उपमानप्रतिकूलत्वादुपमेयस्य प्रतीप- मिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिष- यानादरणार्थमुपमेयत्वं कल्प्यते, तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम्। क्रमेण यथा-
त्यादि। किं चात्र प्रयोजनमित्याशश्याह-प्रतिपक्षेत्यादि। बलवत्वा- ख्यापनमिति। अप्रतीकार्यत्वात्। अन्रेत्यादि । वक्रसादृवश्यमुखेन तदीय इति संबन्धः । तत्तिरस्कारादिति। न पुनस्तत्खीकारात्। बाधत इत्युक्तेते- स्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात्। अत एव परैरपि तत्संबन्धितिरस्कार द्वारा तस्यैव बाधनादित्युक्तम्। प्रकर्षोऽप्रतीकार्यत्वम्। एतेन चास्य प्रयोजनं दर्शितम्। अत्र ह्यतिरस्कार्यतिरस्करणातिरेस्करणकर्तुर्निन्दाद्वारेण बलवतः प्रतिपक्षस्य प्रती- कार्यत्वात्स्तुतिप्रतिपादने तात्पर्यम्। उपमानस्येत्यादि। कैमर्थक्येनेत्यादि। तद्वयापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपमानान्तरेति । उपमा- नानां मध्ये। अनादरणार्थमिति। उपमानत्वेन नैतद्योग्यमिति यावत्। पूर्वोक्तगत्येति। उपमेयस्योपमानप्रतिकूलवर्तित्वात्। अनेनोभयत्रापि नैतत्सं- १. 'तिरस्कारकर्तुः' ख.
Page 233
२०८ काव्यमाला।
'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुव- लयदलमाल्यानि' इत्यादि। यथा वा- 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेघसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम्। 'ऐ एहि दाव सुंदरि कण्णं दाऊण सुणसु वअणिज्जं। तुज्झ मुहेण किसोअरि चंदो उअमिज्जइ जणेण ।I'
ज्ञामात्रमित्युक्तम्। एकं द्वितीयमित्यभिद्धता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम्। उपमाप्रकारत्वं चानयोर्न वाच्यम्। उपमानस्याक्षेपादुपमेयकल्पनाच्च। न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैवि- ध्यम्। एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम्। तेन 'णिद्दश्वअ वंदिज्जिअ किं किरऊ देवआहिं अण्णाहिं। जिइ पसाएण पिओ लघइ दूरेवि णिवसंतो ।I' इत्यन्नापि प्रतीपालंकारत्वं न वाच्यम् । अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण खप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणी- कर्तृकं वास्तवमेव वन्दत्वम्। वस्तु च नालंकार इति निर्विवादः। कुवलयदलदा- स्रामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः । अन्यथा हि तदाक्षेपो निरर्थक: स्यात्। एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्वि- लासा:। किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥' इत्य- त्रापि ज्ञेयम्। अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा क्रियते तथैव साधुवादा- दिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः । तस्य च सा- धुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम्। एवं 'खेलन्तीनां सुरपति- पुरीवारवाराङनानां यन्मज्जीरध्वनितसुभगो रौति कोलाहलोडयम्। तेनैवास्ते मद- १. 'अये एहि तावत्सुन्दरि कर्ण दत्वा श्रृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥' इति च्छाया.
Page 234
अलंकारसर्वखवम्। २०९
अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पि- तम्। वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका। कचित्पुनर्निष्पन्नमे- वौपम्यमनादरकारणम्। येथा- 'गर्वमसैवाह्यमिमं लोचनयुगलेन कि वहसि भद्रे। सन्तीदशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम्।
ननृपतेर्माज्नलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ।।' इल्- त्रापि ज्ञेयम्। यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्ख- रूपानभिज्ञत्वम्। लावण्यादिधर्मश्रात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः। यथा वा-'तस्याश्वेन्मुखमर्ति सौम्य सुभगं किं पार्चणेनेन्दुना सौन्दर्यस्य पदं दशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातु: पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥I' इत्यत्र सौम्यसुभगत्वादि सकृ- ननिर्दिष्टम्। असकृन्निर्देशस्तु यथा-'यद्यसि्ति तस्याः स्मरशार्जभत्जिविलासवेश्नद्र मुखं नताङ्याः। तदिन्दुना किं विहितं विधात्रा सृष्टेन वल्गन्मृगशावकेन ।I' अत्र वेह्द्वल्गत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिबिम्बभावः। निकर्षार्थमिति। अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात्। प्रयोजि- केति। उत्कर्षप्रतिपादनात्। अत्रापि साधारणधर्मस्यानुगामितया यथा-'मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ।।' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृन्निर्देशस्तु यथा-'पौलस्त्य वि- स्तृतविवेल्वदपूर्वबभ्रुकूर्चच्छटाप्रकटितं सृजताद च त्वाम्। नीतोऽजनाद्रिरुपमेय- धुरां विधात्रा प्रोत्तुज्राज्जविवलत्पृथुदाववहिः ॥I' अत्र वेल्लद्विवलत्वयोः शुद्धसामा- न्यरूपत्वम्, कूर्चदावयोस्तु बिम्बप्रतिबिम्बभावः। अस्य हि विच्छित्त्यन्तरं दर्श- यति-कचिदित्यादिना। निष्पन्नमिति। सिद्धत्वेनोक्तेः। उत्कर्षभाज इति। अर्थान्नेत्रयुगलस्य। प्रादुर्भाव इति। उपमानस्याभूतस्योत्पत्तिः । अत १. 'निष्पन्नमौपम्यम्' ख. २. 'यथा' ख-पुस्तके नास्ति. १४ अ० स०
Page 235
२१० काव्यमाला। अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्व- कल्पितं प्रतीपमेव। यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म हप्यः । ननु सन्ति भवादृशानि भूयो भुवनेस्मिन्वचनानि दुर्जनानाम्।।' अन्न हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम्। वस्तुना वस्त्वन्तरनिगूहनं भीलितम्। सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगूद्यते तदन्वर्थाभिधानं मीलितम्। न चायं सामान्यालंकारः, तस्य हि सा- एव स्पर्धाबन्धभाजः परस्योत्पादाच्यक्ारः। अनेन न्यायेनेति। अत्र यथो- पमानत्वप्रादुर्भावो न्यक्वारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विच्छित्तेरिदं विभजनं न पुनर्विच्छित्त्यन्तरमिति भावः। प्रतीपमिति। उपमानभाव यो न सहते, तैस्योपमानत्वपरिकल्पनेन प्रतिकूलवर्तित्वात्। यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यून- गुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । वैकुण्ठाय श्रियमभिनवां शीतभानुं भवाय प्रादादुचैःश्रवसमपि वा वज्रिणे तत्क् गण्यम्। तृष्णार्ताय खमपि मुनये यद्ददातिस्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्बोधिसत्त्वः ॥' इत्यत्र पुनर- न्यमतेऽपि.न प्रतीपम्। लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभा- वातू। अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम्। अत एवाम्बुघेः खदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच् व- स्त्विति नालंकार इत्यलमतिविस्तरेण। वस्तुनेति। लक्ष्मणेति। चिह्नरूपेण धर्मेणेत्यर्थः । तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्य- नेनोक्तम्। ननु वस्त्वन्तरस्य वस्त्वन्तरेण निगूहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याशड्क्याह-न चायमित्यादि। साधारण- १. 'तस्यैवोपमानभावकल्पने' ख. २. 'तस्योपमेयत्वपरिकल्पनेन' इति भाति. ३. 'अभिनवं' ख.र
Page 236
अलंकारसर्वस्वम्। २११
धारणगुणयोगाद्धेदानुपलक्षणं रूपम्। अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा- 'अपाङ्गतरले दशौ मधुरवंक्रवर्णा गिरो · विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्ककैर्मगदशां खतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥I' अत्र दृक्तारल्यादिना खाभाविकेन लक्ष्मणा मदोदयकृतं दक्तार- ल्यादि तिरोधीयते। आगन्तुकेन यथा-
गुणयोगादिति। यदाहु :- 'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं बैध्यते योगात्तत्सामान्यमिति स्मृतम् ।।' इति। भेदानुपलक्षणमिति। प्रस्तु- ताप्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरवि- शेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्वटपटवद्भेदो न प्राति- श्विकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा-राजगजजादौ शुक्तिकारजतयो: संनिकर्षेण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणा- दुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम्। मीलिते पुनर्न्यूनगुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यून गुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात् । अत एवात्र मदोदयकृतस्य वैक्तारल्यादेर्नावगममात्रं, तस्य मदोदयात्पूर्वमपि तथैवावस्थानात्। बलवता साभाविकेन दृक्तारल्यादिनाच्छादितत्वात्। सामान्ये पुनः-'अभेद- मूढस्तबकाभिरागता लताभिरीषल्ललितालिपङ्किभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ।I' इत्यादौ निकुज्जमध्यगताया योषितः पृथग्देशा- वष्टम्भेन सामान्याकारतयावगमेऽपि साधारणगुणयोगाल्ताभ्यो भेदेनानध्यव- सायः । अत एव 'न लक्ष्यते व्यक्तम्' इत्याद्युक्तम्। अतश्च स्वरूपेणावगतस्यापि भेदानध्यवसायः । सामान्यं बलवता तिरोहितत्वात्खरूपानवगमो मीलितमिति स्थितम्। अत एवाह-महाननयोर्विशेष इति। एवं तर्हि समानगुणत्वस्या- १. 'भेद:' क. २. 'बाध्यते' क. ३. 'दक्तारतम्यादेः' क. .१
Page 237
२१२ काव्यमाला।
आणप्रड 'ये कन्दरासु निवसन्ति सदा हिमाद्रे- स्त्वत्पातशङ्कितधियो विवशा द्विषसे। अप्यङ्गमुत्पुलकमुद्धहतां सकम्पं तेषामहो बत भियां न बुघोऽप्यभिज्ञ:॥' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्धावितावा- गन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोसितिरोघायकौ। तिरोधायकत्वा- देव च मीलितव्यपदेशः । प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् यत्र प्रस्तुतस्य वस्तुनोऽपस्तुतेन साधारणगुणयोगादैकात्म्यं भेदा-
विशेषाद्वक्ष्यमाणोदाहरणादावभिसारिकादिवज्योत्स्नादेरपि भेदानुपलक्षणं किं न स्यात्। ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशे- षाग्रहणाच्चेति एवमपि कथमिति चेत्, कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य बा। एतच्चाप्रस्तुतत्वान्नेहास्माभिरुक्तम्। इह च प्रस्तुतस्यैवाप्रस्तुता्भेदेनानुपल- क्षणं विवक्षितम्। तद्गतत्वेनैवाभेदद्वारेण तत्सादृश्यस्य प्रतिपादयिषितत्वात्। न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तर्भावो वाच्यः। तस्य हि प्रकृतव- स्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम्। इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रति- पत्तिरिल्यलं बहुना। न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति। अतश्च पूर्व तदन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् ।I प्रस्तुतस्येत्यादि। प्रस्तुतस्येत्युपमेयस्य। अप्रस्तुतेनेत्युपमानेन। साधारणगुणानां च त्रिरूपत्वमत्रा- रथ्रसिद्धम्। तेन साधारणगुणस्यानुगामितया यथा-'मध्ये जानपदस्त्रैणमुखाना- ममलत्विषाम्। राहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् ।I' अत्रामलकान्तित्वम- नुगामितया सकृन्निर्दिष्टम्। असकृत्निर्देशस्तु यथा-अमेदमित्यादौ। अत्र स्तब- कसतनयोर्षिम्बप्रतिबिम्बभावः। लैलितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम्। ननु च् प्रस्तुतस्याप्रस्तुतेनापह्ववः क्रियत इति किमयमपह्नुतिरेव न भवतीत्याशङ्क्याह- १. 'साधारणधर्माणो' ख. २. 'राहोरालक्ष्यतां' ख. ३. 'तुलितत्व' ख .:
Page 238
अलंकारसर्वखवम्। २१३
नध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम्। न चेयमपहुतिः। किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात्। यथा- 'मलयजरजसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः। शशभृति विततघान्नि धवलयति धरामविभाव्यतां गता: प्रियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।।' अन्र मलयजरजसविलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यमेदप्रतीतिर्दर्शिता। खगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तदुणः । यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य सवीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा। न चेदं मीलि- तम्। तत्र हि प्रकृत वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते। इह त्वनपह्ुतसवरूपमेव प्रकृतं। वस्तु वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेद: ।
न चेयमित्यादि। 'अविभाव्यतां गताः' इत्यर्थादुक्ते: ॥ सवगुणेत्यादि। परिमितेति। खीक्रियमाणस्य गुणस्याभावात्। तत्संभवादेव चान्यस्य प्रकृष्ट- गुणत्वम्। समीपवर्तीत्यनेन गुणग्रहणे योग्यत्वमुक्तम्। अस्मिन्निति । परिमि- तगुणे प्रकृते। अतश्च नैतत्संज्ञामात्रम् । ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशक्क्याह-न चेत्यादि। आच्छा- दितत्वेनेति। अपह्वुतिसवरूपत्वेनेत्यर्थः। उपरक्त्ततयेति । विशिष्टत्वेने- १. 'तद्गुणम्' ख. २. 'समीपवर्ततिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणस्' क. ३. 'गुणेडपरक्त' ख.
Page 239
२१४ काव्यमाला।
यथा-िष्प्रक 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य स्थ्याः परितः स्फुरन्त्या। रतैः पुनर्यत्र रुचं रुचा खामानिन्यिरे वंशकरीरनीलैः॥" अत्र रविरथाश्वानामरुणवर्णसवीकारः । तस्यापि गारुत्मतमणिप्रभा- खीकार इति तद्रुणत्वम्। सति हेतौ तद्रुणाननुहारोऽतदुणः। तद्गुण प्रस्तावात्तद्विपर्ययरूपोऽतद्रुण उच्यते। इह न्यूनगुणस्य वि- शिष्टगुणपदार्थधर्मसवीकारः प्रत्यासत्या न्याय्यः । यदा पुनरुत्कृष्टगु- णपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यून- गुणेनाननुवर्तनं भवति सोऽतद्रुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति। यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽ- तद्गुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा। क्रमेण यथा-
त्यर्थः । तस्येति । अरुणवर्णस्य । अपिः समुच्चये। यथा वा-'इन्दूदयश्चन्द- नमिन्दुवकरा चैत्रस्तवेत्यादिसहायसंपत्। वपुश्र श्ङ्गारमयं स मन्ये संतापकस्त्वं हरवह्वियोगात् II' अत्र हरवह्िगुणस्य संतापकत्वस्य खीकारः ॥ सतीत्यादि। तद्विपर्ययेति। अत्र हि प्रत्यासत्त्यान्यगुणग्रहणमुक्तम् । इह तु योग्यताया- मपि न तद्रहणम्। प्रत्यासत्त्येति । विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन्न भवति तदायमलंकार इत्याह-यदेत्यादि । उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचितम् । एवं च प्राप्तेऽप्यन्यगुणसीकारे तद- भावोऽयमलंकारः । यदुक्तम्-'तद्रूपाननुहारश्वेदस्य तत्स्यादतद्रुणः' इति। अस्मिन्निति। न्यूनगुणे। यद्वेति पक्षान्तरे। अप्रकृतस्येति। अननुदाहर- णीयगुणस्यान्यस्य। तदेवं व्याख्यानद्वयेनास्य प्रकारद्वयं दर्शितम् । अननुदाहर- णाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम्।
Page 240
अलंकारसर्वस्वम्। २१५
"धवलो सि जह वि सुन्दर तह वि तुए मज्झ रंजिअं हिअअं। राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ।' 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥' पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य घवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतह्डुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केडपि न तथा रूपत्वमित्ययमप्यतद्रुण एव। कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।
अयमपीति। समानगुणत्वेनापीत्यर्थः । धवलोसीति । तत्तदुण एवेति ग्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव। पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात्। नाप्यत्र तद्रुणः । तस्य हि खगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र खवगुण- त्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात्। किं त्वत्र कारणाभा- वेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः। तत्र हि कार्यकारणयोर्विरूपत्वेऽप्यबाध्यमानतया प्रतीतिः । इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः । नन्वत्र सत्यपि कारणसामय्येऽन्यगुणानुदाहरणरूपस्य कार्य- स्यानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्क्याह-कार्येत्यादि। अवि- वक्षणादिति। वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसार- कृता विशेषोक्त्यन्तर्भाव एवोक्तः । ग्रन्थकृता तु प्राच्यानुरोधाल्लक्षितः। 'विष- मालंकार-' इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यत्रायुक्तः । न हि कार्यकारण- भावविवक्षामात्रेणात्र तत्त्वं स्यादेन तन्निषेधेन तस्यानवकाशः। तस्य हि विरुपस्य 1 1 १. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रजितं हृदयम्। रागभरितेऽपि हृदये सुभग निहितो न रक्तोडसि ॥' इति च्छाया.
Page 241
२१६ काव्यमाला।
उत्तरात्प्रश्नोन्नयनमसकृंदसंभाव्यमुत्तरं चोत्तरम्। यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुच्तरादुन्नीयते, तदे- कमुत्तरम्। न चेदमनुमानम्। पक्षधर्मतादेरनुद्देशात्। यत्र च प्रश्षपू- र्वकमसंभावनीयमुत्तरं, तच्च न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेः। अतश्चासकृन्निबन्धे द्वितीयमुत्तरम् । न चेयं परिसंख्या। व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात्। क्रमेण यथा- 'एकाकिनी यदबला तरुणी तथाह- मस्मदहे गृहपतिश्व गतो विदेशम्।
कार्यस्यानर्थस्योत्पत्तिश्व लक्षणम्। उत्तरादित्यादि। उन्नीयत इति। प्रश्न- रूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भव- तीत्ाशङ्काह-न चेदमित्यादि। असंभावनीयमिति। कविप्रतिभानि- वर्तितमित्यर्थः । तदिति। प्रश्नपूर्वकमुत्तरम्। एवं प्रश्नस्याप्यसक्कदेवोपनिबन्धो न्याय्यः। अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः। एवं समानन्यायत्वात्पूर्व- त्राप्यनुपनिबध्यमानप्रश्नागूरकमुत्तरं न सकृत्, तावन्मात्रेण चारुत्वाप्रतीतेरित्या- श्रयणीयम्। ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशक्क्याह- न चेयमित्यादि। एतच्ोत्तराख्यमलंकारद्वयम्। न पुनरेकः, सामान्यलक्षणा- योगात्। एतच्चोदाहरणद्दयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम्। वस्तुतस्त्वन्र नास्त्येतदलंकारद्वयम्। अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्यम- पास्तम्। न च तद्युक्तम्, लक्षणदोषाभावात्। उदाहरणान्तरेष्वस्य प्रतिष्ठानात्। तत्तु यथा-'भिक्षो कन्था '्रथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मष्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम्। हत्वारीन्किं करिष्ये कति तव रिपवः संधिभेत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षु- रनमस्ते II' अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योन्नयनम्। एवमन्यदपि ज्ञेयम्। 'येन दासीसुतोडस्मि' इति पुनः पाठो ग्राह्यः। दासीसुतत्वे कितवस्य निमित्तत्वाभावातू। प्रश्नोत्तरोज्चय नस्यासमाप्ते: साकाह्कत्वाद्वाक्यार्थस्यावि
Page 242
अलंकारसर्वख्वम् । २१७
कं याचसे तदिह वासमियं वराकी श्वशूर्ममान्धवधिरा ननु मूढ पान्थ।।' 'का विसमा देवगई किं लद्धं जं जणो गुणग्गाही। किं सोक्खं सुकलतं किं दुक्खं जं खलो लोओ।।' पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते। उत्तरत्र दैव- गत्यादिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम्। इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम्- संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्। ेइह सूक्ष्म: स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा कुशाग्रमतिभि- रिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रका- शनं सूक्ष्ममलंकारः । तत्रेङ्गितादयथा-
श्रान्ते: । द्वितीयो यथा-'पुंसः संबोधनं किं विदधति करिणं के रुचोऽगेर्मि- षा्किं का शून्या ते रिपूणां नरवर नरकं कोऽवधीत्कीडनं किम्। के वा वर्षासु न स्युस्तृणमिव हरिणा किं नखाग्रैर्विभिन्नं विन्ध्याद्रौ पर्यटन्को विघटयति तनु- र्नर्मदावारिपूरः ॥' 'नर्मदावारिपूरः' इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम्। अत्र च यथोक्तमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति ग्रन्थविस्तरभयान्नोक्तमिति॥ अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्रमते-इत इत्यादि। एतदेव व्याचष्टे- इहेत्यादि। इद्विताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य भेदद्वयमप्युक्तम् । एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् । 'कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते। धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते ॥I' किं च 'यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी। दृष्ट्रा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ।I' इत्येतद्रन्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृता- सूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः-यत्सूक्ष्मस्यार्थस्य संलक्षणमात्र १. 'न शृणोति कश्चित्' क. २. 'का विषमा दैवगतिः किं लब्धं यज्जनो गुण- आही। किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः ॥' इति च्छाया.
Page 243
२१८ काव्यमाला।
'संकेतकालमनसं विटं ज्ञात्वा विदग्घया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।।' अत्र संकेतकालाभिप्रायो विटसंबन्घिना भ्रक्षेपादिना इङ्वितेन लक्षितः रजनिकालभाविना लीलापझ्मनिमीलनेन प्रकाशितः । आका- राधथा- 'वत्रस्यन्दिखेदबिन्दुप्रबन्धैर्दृष्टरा मिन्नं कुङ्कमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख ।I' अत्र खेदबिन्दुकृतकुङ्कमरूपभिन्नेनकारेण ंक्षिुरुषायित पाणौ पुरुषोचितखङ्गधारालिखनेन प्रकाशितम्। उद्धिन्नवस्तुनिगूहनं व्याजोक्तिः । यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्विन्नं प्रकटतां प्राप्तं सद्वस्त्व- न्तरप्रक्षेपेण निगूद्यते अपलप्यते, सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद््याजोक्तिः। यथा- 'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
प्रकाशनमात्रं वाप्ययमेवालंकार इति। अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम्। कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम्। तदेवमादौ सूक्ष्मालंकार एव वाच्यः। सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात्। उद्धिन्नेत्यादि । निगूढमिति । वस्तुतः। वस्त्वन्तरप्रक्षेपेणेति।
Page 244
अलंकारसर्वस्वम्। २१९
अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्- प्यपहुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्धिन्नत्वेन प्रकाशितः, तथा- प्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपहुतिग्रन्थे 'यथा साद- श्याय योऽपहवः सापह्नुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपहुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंका- रान्तरेण कथ्यते। सत्यम्। उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति । इह तु तस्य संभवाद्वयतिरि- क्तापहुतिरिति पृथगयमलंकारो निर्दिष्टः । अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः । उक्तिव्यपदेशसाम्याद्वयाजोक्त्यनन्तरमस्या लक्षणम्। यद्वाक्यं केन-
निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपहुतोऽपीति । व्याजोक्तेः प्ररोहात् । अपलापमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षण- त्वात्। अस्थाश्वापह्ुतेर्भेदं दर्शयितुमुपक्रमते-नन्वित्यादिना । स्थापित- मिति। श्लेषग्रन्थे यदुक्तम् । 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः' इति। एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम्। उत्तरः प्रकार इति। अपह्नवाय सादृश्यं तदिति। उत्तरेणैव प्रकारेण व्याप्तत्वात्। कथमिति। निष्पयोजकत्वात् । एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यमित्यादिना। तदित्यपह्नवाय सादृश्यम्। तत्रेति। शेषे। तन्मत इति। उद्भटमते। त- स्येति। व्याजोक्त्याख्यस्यालंकारस्य। तद्व्यतिरिक्तेति। अपह्ठुतौ हि प्रकृतमे- वोत्कर्षयितुमप्रकृतस्योपादानम्। इह तूद्िन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगूह्यते इत्यनयोर्महान्मेदः । एवं 'आकृष्यादौ' इत्यादौ च लोकात्मवस्त्वन्तर- प्रक्षेपेणोद्भिन्नप्रिय निगूहनस्यैव वाक्यार्थत्वाद्वयाजोक्तिरेव न पुनरपह्नतिः। अत एव च नात्र वकोक्तिः । तस्य हि यथायोजनमात्रं लक्षणम् ।I अन्यथेत्यादि। एतदेव व्याचष्टे-यद्वाक्यमिति। अन्याभिप्रायेणेति । विवक्षितार्थपर- १. 'तत्तत्रोक्तम्' ख.
Page 245
२२० काव्यमाला। चिदन्यथाभिप्रायेणोक्तं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेण वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः। काकुप्रयोगेण यथा- 'गुरुपरतव्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ।।' अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम्। तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम्। काकुवशाद्विधिनिषेधयोर्विपरी- तार्थसंक्रान्तिः । तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः। तत्राभङ्कश्लवेषमुखेन यथा-
तयेत्यर्थः । काकु: ध्वनिविशेषः । यदुक्तम्-'वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते। भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कथ्यते ॥' अन्यार्थघटनयेति। प्रक्ान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनयोल्लेखनेनेत्यर्थः। येनकेनचिद्वकाभि- प्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थ 'नवक- म्बलकोडयं माणवकः' इत्यादिनावाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः । अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम्। तत्र हि 'बाल इति सुतरामपरित्याज्योडस्मि, रक्षणीय इति भवद्ुजपज्जरं रक्षास्थानम्' इत्यादौ बालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्ततया योजितम्। अत- श्वात्रान्यथा योजनस्य प्रस्तुतवस्तुव्याहतिनिबन्धनत्वेऽपि प्रस्थानविधौ तात्पर्यम्। न तद्विघातमात्रेणास्य वक्रोक्तवन्तर्भाव इति चेत, तर्हि साधर्म्याविशेषादुपमेयो- ममादीनामप्युपमायामन्तर्भावः किं न स्यात्। अथात्र फलमेदोऽसतीति कथमे- तदिति चेतू, एवमिहापि फलमेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात्। तथा- १. 'अन्याभिप्रायेण' ख. २. 'अत्र' ख. ३. 'श्रीकण्ठेन' ख.
Page 246
अलंकारसर्वस्वम्। २२१
'अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्चित् ।।' अत्र दारुणेति प्रथमान्तं प्रकरान्तं श्लेषभङ्गया तृतीयान्ततया संपादि- तम्। सभङ्कल्लेषमुखेन यथा- 'ववं हालाहलभृत्करोषि मनसो मूर्च्छा समालिक्चितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः॥' उभयमुखेन यथा-
ह्यन्यथा योजनस्य क्वचिद्वचनविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहतिनिब- न्धनत्वेऽप्यर्थान्तरे तात्पर्यम्। फलमेदश्चालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फला- न्तरेष्वपि ज्ञेयम् । तस्मात् 'एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सदयस्तापं प्रजानां प्रशममुपनयन्नच्छधाराच्छलेन। कुर्वन्दिक्चक्वालाक्र्मणमुद- यते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तर्हि राजन्नसिस्ते॥' इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खज्जत्वेन योजनं, तस्य तत्सादृश्य- प्रतीत्यर्थमित्यङ्गभूतोत्तर मार्थमौपम्यं वक्तुर्विवक्षितम्। वाक्छलमुपचारफलम्। तद- विशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकम्। क्वचित्त्वौपचारिके प्रयोगे मुख्यार्थमुपादानमिति भेदान्तरमप्यवसानवाच्यम्। यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोर्विशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम्। तथात्वेनान्यथायोजनस्य वैचित्र्यान्तराभावात्। यद्वा मुख्यौपचारिकार्थद्वयस्यैक- वृन्तगतफलद्वूयन्यायेन शब्दश्िष्टत्वादस्य श्ेषवक्रोक्तावन्तर्भावः स्यात्। उभय- मुखेनेति। सभज्ञासभङ्गश्लेषद्वारेण। विजय इति श्लेषस्यासभङ्गत्वम्। मेदुरो- १. 'आहो' ख. २. 'मुख्यार्थापादानं' ख. ३. 'भेदान्तरमप्यस्या न वाच्यं' ख. ४. 'एकवृन्तगतच्छलत्वन्यायेन' क.
Page 247
२२२ काव्यमाला।
'विजये कुशलरुयक्षो न क्रीडितुमहमनेन सह शक्ता। विजये कुशलोऽस्मि न तु त्र्यक्षोऽक्षद्वयमिदं पाणौ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । कः प्रद्वेष्टि विनायकमहिलोकं किं न जानासि ॥ चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम्। देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः॥ हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य। यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहि: ॥ वसुरहितेन क्रीडा भवता सह कीदृशी न जिहेषि। किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः॥ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदक्कस्य। दिव्यं वर्षसहस््रं स्थित्वेति न युक्तमभिघातुम्।। इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्ोक्ति- ।
सूक्ष्मवस्तुखभावयथावद्वर्णनं खभावोक्ति:।
दरेणेति सभङ्गत्वम् । 'स्मेरोऽवताद्वः शिवः' तथा 'प्रयुक्तवकोकि' इत्यादिना चचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम्। ननु 'सैषा सवैंव वक्रोक्ति: कोडलंकारोडनया विना' इति नीत्या समग्र एवालंका- सवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशज्क्याह-वक्रोक्ती- त्यादि। इहेति। वाक्छलात्मकत्वेनोके: कौटिल्यात्॥ सूक्ष्मेत्यादि। ननु
Page 248
अलंकारसर्वस्वम् । २२३
·इह वस्तुखभाववर्णनमात्रं नालंकारः । तत्त्वे संति सर्वं काव्यमलं कारि स्यात्। न हि तत्काव्यमस्ति यत्र न वस्तुखभाववर्णनम्। तदर्थ सूक्ष्मग्रहणम्। सूक्ष्म: कवित्वमात्रस्य गम्यः । अत एव तन्निर्मित एव यो वस्तुखभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं खभावो- क्िरलंकारः। उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम्। भाविकरसवद- लंकाराभ्यामस्य भेदो भाविकप्रसङ्के निर्णेष्यते। यथा-
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत्।' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ।
कृथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि। 'तदतिशयहेतवस्त्वलंकाराः" इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः। ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्क्याह- सूक्ष्म इत्यादि। कवित्वमात्रस्येति। कुशाग्रीयधिषणत्वात्। एवं स्थूलम- तीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहो न भवेदिति भावः । अत एवेति। कवित्वमात्रगम्यत्वात्। तन्निर्मित एवेति । अन्येषां तथा- त्वेन वक्तुमशक्यत्वात्। तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादनमात्रत्वात्तननिर्मित एवेत्युक्तम्। अन्यूनानतिरिक्त- त्वेनेति। यथा वस्तुनि संभवतीत्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्म- सुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्या- शध्याह-भाविकेत्यादि। तत्र निर्णेष्यमाणस्यैतद्ेदस्य 'वस्तुनश्चित्तवृत्तेश्व संवाद: स्फुटता प्रथा। खभावोक्ते रसवतो भाविकस्य च लक्षणम् ।।' इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि। एतदेव व्याचष्टे-अतीतेत्यादि। १. 'सूक्ष्मम्' ख. २. 'प्रत्यक्षायमानत्वं' क. .३. 'सूक्ष्ममित्यादि' ख. .;
Page 249
२२४ काव्यमाला।
न्घरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम्। कवि- गतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि निवेशनं सोऽत्रास्तीति। न चेयं भ्रान्तिः । भूतभा- विनो भूतभावितयैव प्रकाशनात्। नापि रामोSभूदितिवद्वस्तुमात्रम्। भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिल- म्भात्। नापीयमतिशयोक्तिः। अन्यस्यान्यतयाध्यवसायाभावात्। नहि भूतभाव्यभूतभावित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन। न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः। प्रतिपत्त्यपेक्षयैव वस्तुनि तथा-
अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम्। व्यस्तेति । यद्यपि: वाचामाकुलत्वं सर्वत्रैव वर्जनीयं, तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीते- र्विघ्नमान्रफलम्। इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम्। एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीय- कमित्युक्तम् । अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम्। इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणश- करावत्सहृदयानामवज्ञास्पदतया नावधानाहाः । केच्विच्च सुभगा अपि दुर्मग- शब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम् । यदाहु :- 'प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः। अत्यद्भताः स्यात्तद्वाचा- मनाकुल्येन भाविकम् II' इति। वाशब्दः पक्षान्तरद्योतकः। ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धाङ्भान्तिमानेवायं किं न भवतीत्याशक्याह-न चेयमित्यादि। ननु यदि भूतभावितयैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याश- डयाह-नापीति। अधिकस्येति। वस्तुवृत्ते तस्यासंभवात्। अत एवास्य ततो व्यतिरेकः। नन्वस्यान्यतयावसायात्कि नायमतिशयोक्तिरित्याशड्क्याह-ना- पीयुमित्यादि। भूतभाविनो भूतभावितयैवास्फुटतयावगमात्। नन्वत्राप्रत्य- क्षमेवे प्रत्यक्षेण किं नाध्यवसितमित्याशड्काह-नहीत्यादि । तच्चाप्रस्तुतत्वा- १. 'कि नेत्याह' ख. २. 'एवाप्रत्यक्षेण' ख.
Page 250
अलंकारसर्वस्वम्। २२५
भावात्। यदाहु :- 'तत्र यो ज्ञानप्रतिभासनात्मनीSन्वयव्यतिरेकाव- नुकारयति स प्रत्यक्षः' इति। केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियखभावायोगिनामती- न्द्वियार्थदर्शने भावनारूपा। काव्यार्थविदां च भावना खभावैव। सा च भावना वस्तुगत्यात्यद्दुतत्वप्रयुक्ता। अत्यद्धतानां च वस्तूनामादर- प्रत्ययेन हृदि संघार्यमाणत्वात्। नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्ष- तयैव प्रतीतेरिवार्थगर्भीकारेणायं प्रतीयमानोत्पेक्षा। तस्या अभिधान रूपाख्याध्यवसायखभावत्वात्। न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते। किं तर्हि काव्यार्थविद्धि: प्रत्यक्षत्वेन दृश्यते इति। नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः । तस्या अभिमानरूपायाः प्रतिपत्तधर्मत्वात्। यदाहु :- 'अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्' इति च। काव्य- विषये च प्रयोक्तापि प्रतिपत्तैव। नाप्यद्भुतदर्शनादतीतानागतयोःप्रत्य-
द्रहनत्वाच्च नेह प्रपच्चितम्। ननु यद्येवं तत्प्रमातु: सदैव समस्तबाह्यवस्त्ववगमः किं न स्यादित्याशश्याह-केवलमित्यादि। भावनारूपेति। तत्रेन्द्रियादी- नामव्यापारणात् । एवं योगिनां भावनाबलाद्भूतभावितयैव प्रत्यक्षावभास इति भाव:। यदाहु :- 'अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते' इति। चः समुचये। तेन योगिनामतीन्द्रियार्थदेर्शने यथा भाविना निमित्तं तथैव काव्यार्थविदामपी- त्यर्थः । तस्याश्र निमित्तमाह-सा चेत्यादि। वस्तुनोऽत्यद्धुतत्वमादरे निमि- त्तम् । आदरश्र वस्तुनो हृदि संधारणम्। तच् तदेकतानतया प्ररूढं सद्भावना- त्वमुपयातीति काव्यार्थविदां योगिनामिव भावनाबलात्खकालावच्छेदैनैव भूतभा- विवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः । ननु यद्यपि योगविद्भूतभाविनो भावाः खवकालावच्छेदेनैव सचेतसः प्रत्यक्षतयैव तद्भावभा-
तहीति। अध्यवसायो नास्त्येवेत्यर्थः । प्रतिपत्तैवैति। नह्यजानतः कवितु: १. 'दर्शनेन' क. १५ अ० स०
Page 251
२२६ काव्यमाला।
क्षत्वप्रतीतेः काव्यलिङ्गमिदम्। लिङ्वलिङ्गयभावेन प्रतीत्यभावात्। योगिवत्प्रत्यक्षतया प्रतीतेः । नाप्ययं पुरः स्फुरद्रूपतया सचमत्कार प्रतीते रसवदलंकारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्पतीतौ तस्य भावात्। इह तु ताट- स्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवत्प्रतीतेः । स्फुटप्रतीत्युत्तर- कालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रस- वदलंकार: स्यात्। नापीयं सूक्ष्मवस्तुखभाववर्णनात्खभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात्।
प्रयोक्तृत्वं भवतीति भावः । नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्किं नेदमनुमानमित्याशड्याह-नापीत्यादि। एवं रसवदलंकारादस्य भेदं दर्श- यति-नाप्ययमित्यादिना। पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम्। परकीयायाश्चित्तवृत्तेरात्मीयचित्तवृत्त्यभेदेन परामर्शो हृदयसंवादः । तस्य च सवपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम्। अत एव परमाद्वैतज्ञानतुल्यत्वम्। तस्य ह्ययमित्येव परामर्शः। तद्यतिरिक्तस्यान्यस्यासंभ- वातू। ताटस्थ्येनेति। इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विद्येश्वरादितुल्यत्वम्। ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकार: प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशक्क्याह-स्फुटेत्यादि। एवमत्रानयोरज्गा- द्वितया समावेश इति तात्पर्यार्थः । तत्तु यथा-'वनान्तरादुपावृत्तैः स्कन्दास- क्तसमित्कुशैः । अग्निप्रत्युद्रमात्पूतैः पूर्यमाणं तपस्विभिः ॥' अत्र तपखिविनां स्फुट- त्वप्रतीति: शान्ताख्यरसोदयाङ्गमिति न तयोरैकात्म्यम् । एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य स्रूपमिति तात्पर्यम्। ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशक्व्याह-नापीयमित्यादि। ईदृगिदं वस्त्वित्यत्र हृदयसंवादः । स च यथा-'यत्र स्तनंधयार्हस्ते रत्नदीपाजजिघृक्षतः।
१. 'चित्तवृत्तिभेदेन' क. २. 'स्वभावोक्तिरेव नेत्याशङ्क्ाह' ख.
Page 252
अलंकारसर्वस्वम्। २२७
इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतेः। कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकखवभावोक्त्योः समावेसः स्यात्। न च हृदयसंवादमात्रेण खभावोक्तिरसवदलंकारयोरभेदः । वस्तुसंवादरूपत्वात्खभावोक्तः । चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलं- कारस्य। उभयसंवाददर्शनेऽपि समावेशोऽपि घटते। यत्र वस्तुगत-
दृष्ट्रा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥I' अत्र धात्रीणामीदृटगयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा-'यदाखादं सीता वितरति तदग्रे सवगहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च। यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन खमशनम् II' अन्रेद्ृगेव गृहिणीनां खभाव इति संवाद:। स्फुटतयेति। पुरःस्फुरद्रूपतया। सा च प्रतीतिर्यथा-'निमी- लितस्य पूर्णेन्दोः सुधायां पङ्किलाङुली। यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥' यथा च-'दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा। आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि हमाणाम् II' अत्र पादयोः शकुन्तलायाश्व शुद्धैव प्रत्यक्षत्वेन प्रतीतिः। ननु च यत्र सभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशड्क्याह-क्चिदित्यादि। समावेश इति। संसृष्टिरूप: संकररूपो वा। स तु यथा-'हेरम्भोऽत्र हरी- श्वरे नखमुखैः कण्ड्यमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलायि- तात्। संमीलन्नयने विसंस्थुललसत्सास्त्नं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्द: सुखं मन्यते ।I' अन्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन खभावोकिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः । सभावोक्तेरपि रसवदलंकारात्प्र- सज्वेन भेदं दर्शयति-न चेत्यादिना। हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र खवभावोक्तौ वस्तुसंवादः प्रदर्शतः। चित्तवृत्तिसंवादस्तु यथा- चन्द्रांशुस्मेर धम्मिल्लमल्लिकानां प्रियं प्रति। सौधेषु नीतं रामाणां यत्रालिभिर- नूदते ।।' अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां खचित्तवृत्त्यभेदेन संवदतीति तत्संवादः । यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशक्याह -उभयेत्यादि। स च समावेशो यथा-'किंचित्कुश्चितचशुचुम्बनमुखस्फा-
Page 253
२२८ काव्यमाला।
सूक्ष्मधर्मवर्णनं स्यात्तत्र खभावोक्ति:, अन्यत्र तु रसवदलंकार एव। : नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्पसादाख्यो गुणः। तस्य हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम्। अस्य तु झटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः। तस्ादयं सर्वोत्तीर्ण एवालंकारः। लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते। यथा- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके दष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।।' यथा वा-हर्षचरितप्रारम्मे ब्रह्मसदसि वेदखरूपवर्णने। तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दश्यते। एवं तत्रैव मुनिकोधवर्णने,
रीभवल्लोचना खप्ने मोदितचारुचाटुकरणैश्वेतोऽर्पयन्ती मुहुः। कूजन्ती विततैक- पक्षतिपुटेनालिङ्ग्य लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते ।।" अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन खभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः। अन्यत्रेति। यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात्। अनेन च भाविकरसवदलंकाराभ्यामस्या मेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुक्त्त तनि- र्बाहितम्। इदानीं च प्रकृतमेवाह-नाप्ययमित्यादि। झगित्यर्थसमर्पणं प्रसा- दः, झगिति समर्पितस्यार्थस्य स्फुटत्वेन प्रतीतिर्भाविकमित्यनयोर्महान्मेदः। एतदे- बोपसंहरति-तस्मादित्यादि। एतच नास्माभिरस्थान एवाभिनिविष्टमित्याह- लक्ष्य इत्यादि। तत्रैवेति । हर्षचरिते। तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम्। पुलिन्दवर्णनं पुनरष्टमोच्छ्ासारम्भे स्थितमिति तत एव खयमवधार्यम्। इह तु प्रन्थविस्तरभयान्न लिखितम्। अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमा- णरवे देशादिविप्रकृष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्र- कर्षमात्रसारत्वं सूचितम्। तच् देशकालखभावविप्रकृष्टानामविशिष्टमित्येतदुदा- हतम्। तैन्नागस्त्यमुनेर्देशविप्रकृष्टत्वम्। अनागतस्य तु यथा-'क्षिप्तोत्क्षिप्ताखि-
हनतुरगं प्रेरयन्म्लेच्छजातिं जेष्यत्येष त्रिभुवनविभु: कार्किरूपेण विष्णुः ।' एवं १. 'यत्र' क.२. 'ध्वानभ्राम्यत्' क.
Page 254
अलंकार सर्वस्वम्। २२९
पुलिन्दवर्णनादौ ज्ञेयम्। अयं त्वत्र विचारलेशः संभवति-इह क्कचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । कचित्प्रत्यक्षायमा- णस्यैव वर्णनम्। आद्यो यथोदाहतं प्राक्। मीह ज्री प्रजार द्वितीयो यथा- अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्।।' इति। अत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः । कवि- समर्पितानां घर्माणां हयलंकारत्वात्। न हिमांशुलावण्यादीनामिव वस्तु- सन्निवेशिनाम्। अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि भाविकम्' इति चौद्धटलक्षणे व्यस्तसंबन्घरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथ अयोजकीभवेत्, यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात्। तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वार्णितमिति नायमलंकारः ।
चिरंतनोक्तनीत्या विचार्य पुनरपि सोपज्ञं कंचिद्विचारमाह-अयसित्यादिना। संभवतीति। न पुनः केनापि दृष्ट इति भावः । यथोदाहृतमिति। मुनि- र्जयतीत्यादिना। प्रथमेति। यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् । अत एव कविसमर्पितधर्मत्वं न वैस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संबन्धः । न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः। अपि चेति। निपातसमुदायः समुचयार्थ: अत्रैव वाक्यगत्या हेत्वन्तरस्य समुच्चीयमानत्वात्। कथमिति। वस्तुमात्रवर्णने शब्दानामाकुलताया अनाकुलतायाश्चाविशेषात्। उत्तरप्रका- रेति। अनातपत्रोऽपीत्यादौ। अत्रापि प्रकारान्तरेणालंकारत्वं योजयति-
१. 'उत्तरत्वप्रकारविषये' ख. २. 'वस्तुसंनिवेशादलंकारत्वादिति संबन्धः' क.
Page 255
२३ काव्यमाला।
यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्ध कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं खभावोक्तिवदलंकारतया वर्ण्यते, तदायमपि प्रकारो नातीव दुःक्रिष्टः । अत एव 'प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्' इति, एवमन्यैर्भाविकलक्षणमकारि। खभा- वोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम्। समृद्धिमद्वस्तुवर्णनमुदात्तम् । खभावोक्तौ भाविके च यथावद्वस्तुवर्णनम्। तद्विपक्षत्वेनारोपित- वस्तुवर्णनात्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य व- स्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम्। यथा- 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीमिहताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्गिलाक्षारुणाः ।
यदि त्वित्यादिना। सकलवक्तृगोचरीभूतमिति । कवित्वमात्रगम्य- त्वात्। अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात्। सकलवक्तृगो- चरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः । नातीवेति। न पुनः प्रकारव- त्सु्िष्ट इति यावत्। अत एवेति । वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात्। एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात्। अन्यैरिति। काव्यप्रकाशकारादिभिः । समृद्धिमदित्यादि। तद्विपक्षत्वे- नेति। वस्त्ववस्तुवर्णनयोर्विरुद्धत्वात्। तत्रेति। एवमवसरे सतीत्यर्थः। अर्स- भाव्यमानेति । संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा-'प्रातश्चकासति गृहोदरकुट्विमाग्रविक्षिप्तरत्नकुसुमप्रकरावकीर्णाः। अभ्युद्र- तारुणकराहतिपात्यमाननक्षत्रराशिशबला इव यत्र रथ्याः ।l' अत्र हि भगवन्न- गर्या वस्तुत एव संभवति रत्नविक्षेपः । अत एवास्य कविप्रतिभोत्थापितत्वमु- कम्। एवं चास्य नामापि सार्थकम्। अलंकारसारकृता पुनरत्रातिशयोक्तिप्रका- १. 'कृताः' क-ख.
Page 256
अलंकारसर्वस्वम्। २३१
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्धवनेषु भोजनृपतेस्त त्त्यागलीलायितम् ।।' अङ्गभूतमहापुरुषचरितं च । उदाच्शब्दसाम्यादिहाभिधानम्। महापुरुषाणामुदात्तचरितानाम- द्विभूत वस्त्वन्तराञ्कभावेनोपनिबध्यमानं चरितं चोदात्तम्। महापुरुष- चरितस्योदात्तत्वात् । यथा- 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्बाहुसहायश्रकार रक्षःक्षयं रामः ॥I' अन्रारण्ये वर्णनीये रामचरितमञ्जत्वेन वर्णितम्।
रत्वमुक्तम्। अङ्गभूतेत्यादि । एतदेव व्याचष्टे-महापुरुषाणामित्या- दिना। अज्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादयिषयाङ्गतयोपनि- बध्यमानमेतदलंकाराङ्गम्। न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः 1 तच् यथोदाहृतम्। 'कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चके जनकतनयास्नानपुण्योदकेषु स्न्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।I' अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थ- मुत्कर्षप्रतिपिपादयिषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः । यथा-'गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्य- तामृष्यमूकः । कंकालाद्रौ पिहितगगने दुन्दुभेर्यत्र राम: पादाङ्गष्टं निजमपि भव- हैवतं निर्ममेऽस्तम् II' अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमा- त्रपरम्। न ह्यन्न्भूतेनाड्विनः कश्चिद्विशेषो विवक्षितः । 'अत्रासीत्फणिपाशबन्धन- विधि: शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यौ- रिन्द्रजिदत्र लक्ष्मणशरैरलोंकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ।।' इत्यत्र तु रामस्य सीतां प्रत्युक्तावुपलक्षणीभूतदेशविशेषं पाश- बन्धनाद्येव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यन्गभाव इति
Page 257
२३२ काव्यमाला।
रसभावतदाभासतत्प्रशमानां निबेन्धनेन रसवत्प्रेयऊर्ज- स्विसमाहितानि। उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाचित्तवृत्तिविशेषखभाव- त्वाच्च रसादीनामिह तद्वदलंकाराणां प्रस्तावः। अत एव चत्वारोऽलंकारा युगपल्लक्षिताः । तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादि- श्वित्तवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदा- दिस्नयस्त्रिंशद्वेदः । देवादिविषयश्च रत्यादिर्भावः । तदाभासो रसाभासो भावाभासश्च। आभासत्वम विषयप्रवृत्त्यानौ- चित्यम्। तत्प्रशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था।
नायमलंकारः ॥ रसभावेति । अत एवेति। चतुर्णामपि चित्तवृत्तिविशेष- सभावात्। तत्रेति। युगपल्लक्षणे स्थिते सतीत्यर्थः। विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि। अनुभावा: कटाक्षभुजक्षेपादयः कार्याः । व्यभिचा- रिणो निर्वेदादयः सहकारिणः। प्रकाशित इति । व्यजितः । यदुक्तम्- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति। रत्यादीत्यादिशब्देन हासा- दीनां स्थायिनां ग्रहणम्। निर्वेदादिरिति। यदुक्तम्-'निर्वेदग्लानिशङ्का- ख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।। सुप्तं विबोधोऽमर्षश्राप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ।। त्रासश्वैव वितर्कश्र विज्ञेया व्यभिचारिणः। त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥।' इति। देवतादिविषयाणामानन्त्यादनेकप्रकारत्वेऽप्ये- कप्रकार एव रत्यात्मभावः । अत एव रत्यादिरित्यादिशब्दः प्रकारे। चः समु- चये। यदुक्तम्-'रतिर्देवादिविषया व्यभिचारी तथाश्चितः । भावः प्रोक्तः' इति। तथा 'तदाभासा अनौचित्यप्रवर्तिताः' इति। प्रशाम्यदवस्थेति। न तु ध्वंसरूपा प्रशान्तावस्थेत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वे- षामन्येषां प्रशान्तत्वादेवंभावः स्यात्। ननूक्तप्रकारत्वेन परामृष्टस्य रसस्यापि १. 'निबन्धने' ख. २. 'अत्र' क. ३. 'देवतादिविषयश्च' क.
Page 258
अलंकारसर्वस्वम्। २३३
तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदवि- चयो द्रष्टव्यः । ऐषामुपनिबन्धक्रमेण रसवदादयोलंकाराः । रसो वि- दयते यत्र निबन्धने व्यापारात्मनि तद्रसवत्। प्रियतरं प्रेयो निबन्घन- मेव द्रष्टव्यम् । एवमूजों बलं विद्यते यत्र, तदपि निबन्घनमेव। अनौ- चित्यप्रवृत्तत्वादत्र बलयोगः । समाहितं परिहारः।स च प्रकृतत्वादुक्त- भेदविषयः प्रशमापरपर्यायः। तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्राङ्कभूतरसादिविषये द्वितीय उदात्तालंकारः । यन्मते त्वङ्रभूते रसादिविषये रसवदाद्यलंकारा: अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात्। तत्र रसवत उदाहरणम्-
कथं प्रशाम्यदवस्था संगच्छत इत्याशक्क्याह-तत्रापीत्यादि। परिशिष्टेति। भावतदाभासतत्प्रशमविषय एवेत्यर्थः । एषामिति । रसभावतदाभासतत्प्रश- मानाम्। बलयोग इति। अनुचितेन बलात्कारेणैव प्रवृत्तिः। प्रकृतत्वा दिति। तेनात्र वस्त्वन्तरं प्रकृतमिति भावः । ननु च परविश्रान्तिरूपस्य काव्यात्मनोSलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशड्क्याह-तत्र- त्यादि। यस्मिन्दर्शन इति । ध्वन्यभाववादिनां मत इत्यर्थः । द्वितीय इति। ऐश्वर्यलक्षणात् । अन्यस्येति। यत्र वाक्यार्थीभूतो रसः । एवं ध्वन्य- भाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवदलंकारयोरनेन विषयविभाग: कृतः । अङ्गभूतस्य रसादेश्वालंकारत्वं युक्तम्। तथा च यावतोपमादीनां सर्वालं- काराणां प्रकृतवस्तूपरञ्जकत्वमलंकारत्वे निबन्धनम्। अङ्गभूतेनापि रसेन तत्कि- यत एव। प्रकृतस्य रसादेसतदुपस्कृतत्वेन भावात् । अतश्रोपमादीनामलंकारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽथालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्यवसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्गयस्य
१. 'एषासुपनिबन्धे क्रमेण' ख.
Page 259
२३४ काव्यमाला।
'कि हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । सम्रान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ।।'
रसादेरेव तदलंकार्यत्वम्। किं पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकारा:, अर्थमुखेन त्वर्थालंकाराः। तत्तदवयवगतैरपि हि कटकादिभिश्वेतन आत्मैव त- त्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मना तयालंक्रियते। तथा ह्चेतनं शवशरीरादिकं कटकाद्युपेतमपि न भाति, अलंकार्यस्याभावात्। अतश्व देहद्वारेण सर्वत्रात्मै- वालंकार्यः । एवमस्यापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम्। तेन रसभावा दितात्पर्यमाश्रित्य विनिवेशनम्। 'अलंकृतीनां सर्वासामलंकारत्वसाधनम्' इवि दृशा रसाद्याश्रयेणैवालंकाराणां विनिवेशनं जीवितम् । अतश्रेहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्याज्गभावेन रसादेरलंकारत्वं युक्तम्। यदाहु :- 'प्रधानतां यत्र रसादयो गता रसो रसादिध्वनिगोचरो भवेत्। भवन्ति ते यत्र रसादिपोषका रसाद्यलंकारदशा हि सा पृथक् ॥' इति ननु निर्वेदादीना भावानां गर्भदासवत्कदाचिदपि खप्राधान्याभावात्सर्वदा रसाद्यज्गत्व एव ध्वनि- भेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशबलताप्रशमात्म- तया कथमलंकारत्वं वाच्यम्। तथात्वे ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् । असदेतत्। इह हि निर्वेदादीनां त्रयी गतिः । तत्र 'व्यक्त्तः स तैर्विभावादैः स्थायीभावो रसः स्मृतः' इति नीत्या विभावानुभावस्पर्धयैषां रसव्यञ्ञकत्वमेका गतिः। तत्र च रसस्यैव प्राधान्यात्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् 'फलव- त्संधिनावफलं तदङ्गम्' इति नीत्या रसव्यञ्जकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम्। 'नायं कञ्चुलिकाविमोक्षसमयः स्पृष्टो न काश्चीगुणः प्रकरान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना। न त्वत्कर्तृक- मर्थयामि निबिडं दो:कन्दलीबन्धनं तन्निष्कारणमेव बाललवलीवल्लीव कि वेपसे ॥2 अत्रालम्बनविभावो लता, वेपनादिरनुभावः, वितर्कश्र व्यभिचारिभावः । एषां चात्र समस्पर्धितया रसव्यज्जकत्वमात्रमेव प्रयोजनम् । व्यक्तश्र रसः सचेतसां १. 'तथा तत्वे ह्यमिधीयमाने' ख. २. 'अत्रालम्ब्रनविभाव उषावेपनादिरनुभावः'क.
Page 260
अलंकारसर्वस्वम्। २३५
दत्तफल इति नैषाँ किंचित्फलान्तरम्। अत एव रसादयज्भूतस्य व्यभिचारिण: स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् । तथात्वे चाभिधीयमाने निर्वे- दादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः। अप्रधानस्य प्रधानत्वाभि- धाने विरोधात्। एवं च गुणीभूतव्यङ्गयस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः। क्वचिदपि 'मुख्ये रसेऽपि तेऽङ्वित्वं प्राम्रुवन्ति कदाचन' इति नीत्या राजानुगत- विवाहप्रवृत्तभृत्यवद्विभावानुभावव्यज्जितानां रसगुणीभावेनैषामेव प्राधान्यम्। यथा-'इतश्ारुप्रेमप्रणयसुकुमारा वरवधूरितः सेच्छालभ्यानुपमफलमूला वन- मही। इतो मौर्वीनादोन्मुखनिखिलसैन्यो रणविधिः क्व नामायं तादृक्तरलहृदयो रज्यतु जनः ॥I' अत्र विभावानुभावाभ्यां व्यजितः शत्नारादीनां रसानामप्ररूढ- त्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेर्ध्वनिभेदत्वम्। एवं चात्र चिन्तायाः शद्गारा- दीन्प्रति तदङ्गत्वाभावान्न गुणीभावः । अत एव चात्र तैत्परिपोषकत्वात्यागात्त- दीयकार्याकरणाद्रसं प्रति गुणीभावात्खेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वान्निजप्रयोजनासंपादकत्वविर हाद्राजानुगत विवाहप्रवृत्तमृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादद्वित्वम्। अत एव च दृष्टान्तदार्ष्टान्तिकयोर्न कश्चिद्विषम उपन्यासः। वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्येच्छाभावान्नैकतरपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम्। नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम्। एवं च निर्वेदादीनां गर्भदासवत्कदाचिदपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम्। गर्भदास- स्यापि कदाचिदन्ततो गर्भदासीं प्रत्यस्ति प्राधान्यम्। प्रधानाप्रधानभावसयापे- क्षिकत्वात्। 'कचिदप्यपरस्याङ्गम्' इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकार- त्वम्। यथा-'कचकुचचिबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेSन- ङधान्नि। निबिडनिबिडनीवीग्रन्थिविस्त्रंसनेच्छोश्वतुरधिककराशा शार्ड्गिणो वः पुनातु ।।' अत्र शङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्यविषयत्वेनोपनि- बैन्धमप्यौत्सुक्यं शार्िविषयां रतिं प्रत्यङ्गमिति प्रेयोऽलंकारः । ननु च यद्यपि परस्याङ्वत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत्, नैतत्। यस्मान्निमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकत- १. 'प्रधानस्य प्रधानत्वाभिधानविरोधात्' ख. २. 'एवं गुणीभूत' क. ३. 'तत्परिपोषकत्वत्यागात्' ख. ४. 'निबद्धमप्यौत्सुक्यम्' ख.
Page 261
२३६ काव्यमाला।
एतन्मतद्वयेऽप्युदाहरणम्। वाक्यार्थीभूतोऽत्र करुणो रसः । अग्ग- भूतस्तु विप्रलम्भशृङ्कारः। एवं रसान्तरेष्वप्युदाहार्यम्। प्रेयोऽलंका- रादौ विशेषमनपेक्ष्योदाहियते। प्रेयोलंकारो यथा-
भावस्योक्तत्वात्। रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽङ्गतामुपयान्तीति तत्रैषां रसोपसर्जनीभूतत्वात्तव्वयज्ञनमात्रमेव फलम्। अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम्, नाप्यलंकारत्वम्। रसव्यक्तिव्यतिरेकिप्रयोजनान्तरविष्पादनत्वायोगाद। एवं निर्वेदादीनां रसव्यक्तौ सहकारित्वम, अद्वित्वे ध्वनित्वम्, अज्गत्वे चालंकार- त्वमिति विषयविभागः । तस्मात् 'निर्वेदादीनां सर्वदैवाज्गभावात्प्रेयोSलंकारस्तक्वा- पेक्षो न वाच्यः । तस्मादेतेषां व्यक्ञयतायां ध्वनित्वं न प्राधान्यं कापि यस्माद् जन्ते ।I एतेन भावप्रशमादयोऽपि व्यज्ञयाः सदैव ध्वनितां प्रयान्ति। ध्वनित्व- मिषं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादिः ।I' इत्यादि यदन्यैरुक्तं तदुपे- क्ष्यम् ।। एतन्मतद्य इति । ध्वन्यभाववादिनां ध्वनिभाववादिनां च। तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः । श्ङ्वारापेक्षया तूदात्तम्। मता- न्तरेण तु करुणाभिप्रायेण रसध्वनिः । शङ्गारापेक्षया त्वयमलंकारः। अत्र यद्यपि राजविषयाया रतेरज्वित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य शरद्गारापे- क्षयाद्वित्वमाश्रित्यैतदुक्तम्। करुणश्र श्र्गारोपस्कृतः प्रतीयत इति तस्यालंकार- खम्। एवमिति। यथा मतद्वयमपि संगच्छत ईत्यर्थः । तत्तु यथा-'का त्वं रक्तपटावगुण्ठितमुखी मुग्घे तवाहं सखी किं शून्यौकसि केवला विवससि त्वामागतान्वेषितुम् । एतद्वक्रमुदञ्चयेति कथयन्त्यालोक्य कूर्च ततः पत्युः स्मेर- मुखाम्बुजस्य तरुणी जाता विलक्षस्मिता II' अत्र वाक्यार्थीभूतः श्ृद्गारः, अङ्ग- भूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं व्याख्येयम् । यथा- 'पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिकान्तमहाहिलोचनलसज्ज्वाल पिनाकाङ्कितम्। कन्दरपार्पितशासनां कविवलत्कंकालमर्घेन्दुमद्भस्माङ्क च पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः ।l' अत्र भगवद्विषयाया रतेर्नव रसा अङ्गम्।
१. 'प्रोद्धूत' क. २. 'इत्युक्तः' क.
Page 262
अलंकारसर्वस्वम्। २३७
'गाढालिङ्गनवामनीकृत कुचप्रोद्विंन्नरोमोद्रमा सान्द्रस्नेहरसाति रेकविगलच्छ्ीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी । सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्।।' अत्र नायिकायां हर्षाख्यो व्यमिचारिभावः। यथा वा- । त्वद्व कामृतपानदुर्ललितया दष्टया क विश्रम्यतां त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः ।
1 एभिस्तत्परिरम्भनिर्भरभरैरङ्नैः कथं स्थीयतां कष्टं तद्विरहेण संप्रति वयं कृच्छामवस्थां गताः।' अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम्। शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जखी यथा- 'दूराकर्षणमोहमत्र इव मे तन्नाम्नि याते श्रुति चेतः कालकलामपि प्रकुरुते नावस्थितिं तां बिना। एतैराकुलितस्य विक्षततरैरङ्वैरनङ्गातुरैः संपद्येत कदा तदाप्तिसुखमित्येतन्न वेझि स्फुटम् ।।' अत्र रावणस्याभिलाषको विप्रलम्भशृक्कार औत्सुक्यं च व्यभि- चारिभावोऽनौचित्येन प्रवृत्तौ। समाहितं यथा- 'अक्ष्णो: स्फुटास्ुकलुषोऽरुणिमा निलीन: शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या।
दाहियत इति तात्पर्यम्। भावालंकार इति। निर्वेदादीनां भावानां स्थित्या- त्मकतयोपनिबध्यमानत्वात्। शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम्। अनेन चास्य समाहितादिभ्यो वैलक्षण्यं द्योतितम्। तेन यत्र भावस्य स्थितिस्तत्रा-
Page 263
२३८ काव्यमाला।
भावान्तरस्य तव चण्डि गतोऽपि रोषो नोद्गाढवासनतया प्रसर ददाति।।' अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् ।T भावोदयो भावसंधिर्भावशवलता च पृथगलंकार:।
यमलंकारः, अन्यथा त्वन्येऽलंकारा इति। एवमिति। यथैतदुदाहृतमित्यर्थः । अन्यत्रेति। ध्वनिवादिमते एषामङ्गत्व इत्यर्थः । तत्र प्रेयोऽलंकारः 'कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः । देवताविषयरत्यात्मभावोपनिबन्घे पुन- र्यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः। नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥' अत्र भवद्विषयाया रतेर्मरणविषया रतिरङ्गमिति प्रेयोऽलंकारः। ऊर्जसवी यथा-'वन्दी- कृत्य नृप द्विषां मृगदशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्रु- म्बन्ति ते सैनिकाः। अस्माकं सुकृतैद्शां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।I' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौं रसाभासभावाभासावज्गम् । व्यभिचारिभावापेक्षया पुनरयं यथा-'द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप। मुहुर्मुहु- रूयश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः ॥I' अत्र शबराणां परदारविष- यमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम्। समाहितं यथा-'अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः। दद्दशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ।' अत्र राजविषयाया रतेरभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्रान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि याव्भवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः II' अत्र राजविषयाया रतेरज्ञभूतस्य भूविष- यस्य रत्याख्यभावस्य प्रशाम्यत्वम्। अत एव च समाहितं यदन्यैर्न लक्षितं तद- त्यन्तमेवायुक्तम्। तन्मतेऽपि प्रेयोSलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्त- त्वात। व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलंकारत्वं निरस्तम्। यदुक्तम्-'तस्माव्वयभिचारापेक्षया प्रेय ऊर्जखिसमाहितभावोदयसंधिशबलत्वानि
Page 264
अलंकारसर्वस्वम्। २३९
भावस्योक्तरूपस्योदय उदमावस्था, संधि: द्वयोर्विरुद्धयोः स्पर्धित्वे- नोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्देनोपनिबन्धः । एते च पृथगरसवदादिभ्यो भिन्नालंकाराः। एतत्प्रतिपादनं चोद्धटादिभिरेषां पृथगलंकारत्वेननिर्दिष्टत्वाद्। अथ च संकरसंसृष्टिवैलक्षण्येनैते सर्वालंकाराः पृथक्ेवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम्। संसृष्टिसंकरयोर्हि संपृक्ततया लंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत्। तत्र भावोदयो यथा-
न पृथगलंकाराणि वाच्यानि' इति। तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणी- यत्वं युक्तम्। भावेत्यादि। एतदेव व्याचष्टे-भावस्येत्यादि। उक्तरूप- स्येति। व्यभिचारिदेवादिरतित्वेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति। उद्गमा- वस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रयोऽलंकार एव स्यात्। एते इति। भावोदयभावसंधिभावशबलतास्त्रयोऽलंकाराः । ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तद्रहणेनेत्याशङ्क्याह-एत- दित्यादि। अथ चेति पक्षान्तरे। सर्वालंकारा इति। पुनरुक्त- वदाभासादिभावशबलान्ताः । केवलत्वेनेति। तस्यैवैकस्य वाक्यार्थत्वेन प्रोहात् । तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्या- त्तात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः ।अत एवात्र संसृष्टसंकरव्यपदेशः। यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम्। तदेवाह-संसृष्टीत्यादि। यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्व- मस्ति, तत्तत्र संभवमात्रेण निदर्शनीकृतम्। न तु साक्षादलंकारत्वम्। तत्तत्र तथाविधस्योदाहरणस्य खयमेव लक्ष्यादभ्यूह: कार्यः। एतदुदाहरणत्रयं ध्वन्य- भाववादिमतेन ग्रन्थकृतोपात्तम्। ध्वनिवादिमतेन पुनरुदाहियते। तत्र भावोदयो यथा-'साकं कुरङ्कद्दशा मधुपानलीलां कर्तु सुहृद्धिरपि वैरिणि च प्रवृत्ते। अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ।।' अत्र राजविषयाया रतेरङ्गभूतस्य त्रासस्योदयः । भावसंधिर्यथा-'असोढा १. 'शबलत्वेनेति' क. २. 'शाम्भमात्रेण' क. कक जराशी :
Page 265
२४० काव्यसाला
एकस्मिञ्छयने विपक्षरमणीनामग्रहे सुग्धया F fp 1 सदः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा- ।क न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥' अत्रौत्सुक्यस्योदयः। भावसंधिर्यथा- 'वामेन नारीनयनास्त्ुधारां कृपाणधारामथ दक्षिणेन। उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ।।' अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः। भावशबलता यथा- 'काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः खम्नेऽपि सा दुर्लभा चेतः सास्थ्यमुपेहि कः खल युवा घन्योऽघरं पास्यति ॥' अन्न वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शब- लता। तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः ।
तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्मेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो देव्याः कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्त: स्मर- हरः ॥I' अत्र भगवद्विषयाया रतेरञ्भूतयोरावेगधैर्ययोः संधिः। भावशबलता यथा-'पश्येत्कश्चिचल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्यु- त्क्रम: क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तिः कन्या कंचित्फलकि- सलयान्यादधानाभिधत्ते।' अत्र राजविषयाया रतेः शङ्कासूयाधृतिस्मृत्यौत्सुक्यदै- म्यौत्सुक्यानां पूर्वपूर्वापमर्देनोपनिबद्धानामज्त्वम्। देवताविषयरत्यात्मभावा. पेक्षया पुनरुदाहरणत्रयं यथा-'त्रिशङ्कोः परिपूर्णानां पुण्यानामस्तलक्षणम् । यदकस्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा II' अत्र विश्वामित्रविषयाया रतेरुदयः । १. 'दिश्यात्' ख.
Page 266
अलंकारसर्वस्वम्। २४१
अधुनैषां सर्वेषामलंकाराणां संक्लेषसमुत्थापितमलंकारद्वयमुच्यते। तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः। संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेना- वस्थानम्। तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः। इतरत्र तु क्षीरनी- रसादृश्यम्। करमेणैतदुच्यते- एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते- तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतु- त्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते, तद्वत्प्रकृतालंकाराणामपि संयो- जने चारुत्वान्तरमुपलभ्यते। तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्य-
'परिचुम्बनीयचलकाकपक्षकं तनयं कथं वितरतु क्षितेः पतिः। अभिवन्दनीय- तमपादपङ्कजं सहसा प्रतीपयतु वा कथ मुनिम् II' अत्र सुतमुनिविषययो रत्या- ख्यभावयोः संधिः। 'त्याज्यो नैष शिशुः सुतो रघुकुले याति प्रतीपो गुरुस्ताम्य- न्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः। यात्यस्मिन्नवसादमेति हृदयं स्ार्थ: परार्थेन मे व्यामुत्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् ।' अत्र पुत्रा- दिविषयाणां रतीनां पूर्वपूर्वोपमर्देनोपनिबद्धानां शबलत्वम्। अत्र च रते राम- चरितं प्रत्यङ्गत्वमित्यलंकारत्वम्।। अलंकारान्तरलक्षणं कर्तु चोपक्मते-अधु- नेत्यादि। अधुनेति प्राप्तावसरम्। एषामिति । पूर्वोद्दिष्टानाम्। तत्रेति। अलंकारद्ये। तस्यैवेति। मेदस्य। स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव। अत एव तिलतण्डलन्यायः, क्षीरनीरन्यायश्रेत्युक्तम्। एषामित्यादि। एतदेवोप- पादयितुमुपक्रमते-उक्तेत्यादिना। तदेतत्पक्षद्वयमध्यादृटष्टान्तोपदर्शनद्वारेणा- लंकारान्तरत्वमेव सिद्धान्तयितुमाह-तत्रेत्यादिना। संघटनाकृतमिति। एकत्रैव द्वयोरबहूनां वालंकाराणां युगपद्विनिवेशनं संघटना, तया कृतम्। तदुत्था- पितमित्यर्थः । चारुत्वान्तरमिति । एकैकालंकारनिबन्धनात्प्रकृतत्वाच्चारुत्वा- १६ अ० स०
Page 267
२४२ काव्यमाला।
वसानमिति निर्णयः । अलंकारान्तरत्वेऽपि च संयोगन्यायेन
दन्यत्सातिशयमिति यावत् । उपलभ्यते। खसंवित्सिद्धतया साक्षात्क्रियत इत्यर्थः । तेनेति। चारुत्वान्तरोपलम्भेन। नहि विषयभूतालंकारातिशयमन्तरे- णोपलम्भातिशयो भवितुमर्हतीति भावः । ननु शब्दार्थालंकाराणां संघटनामात्रे- णैव कथमलंकारान्तरत्वमुक्तम्। भिन्नकक्ष्यत्वेनैषामेकबुद्धयुपारोहासंभवाच्चारुत्वा- न्तराभावात्। तेषां हि संघटितत्वेऽपि 'अलंकारेषु चारुत्वं तद्वद्विदि विभिद्यते। यथैव साधु माधुर्यमिक्षुक्षीरगुणादिषु ।' इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भि- न्त्वमेव न्याय्यम्। नापि लौकिकालंकारवदेतेषां संघटनाकृतं चारुत्वान्तरमुपल- भ्यते। नहि मौक्तिकपद्मरागेन्द्रनीलादिवत्सचेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते। शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीयत्वादस- देतत्। तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डलादिषु न स- मताप्रत्ययः । समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपाल- म्भात्, तथैव भिन्नकक्ष्याणामलंकाराणां संघटनाबलेन पूर्वापरैकीकारेणैकबुज्यधि- रोहादुपलभ्यत एव कश्चन संसर्गो नाम यस्य संसृष्टिसंकरव्यपदेशार्हत्वम्। अपि च रूपभेदेऽप्यविच्छेदादेकत्वम्। 'चित्रपत्रक' इत्यादिनीत्या चित्रास्तरणादौ यथा सरूपस्य रूपान्तराठ्यावृत्तत्वेऽपि विच्छेदानवभासोदकघटश्लिष्टाकारप्रत्ययः । चित्ररूपमप्येकमेव वस्तुरूपं भासते। तथैव भिन्नकक्ष्याणामप्यलंकाराणां संघट- मानत्वेन प्रतीतावेकतावसाय इति युक्तमेव संसष्टाद्यलंकारान्तरत्वम्। इक्ष्वादीनां च माधुर्यस्य भेदेऽपि संमीलनायां पानकादिरसनिष्पत्तावुपलभ्यत एव कश्चिद्वैचि- त्यातिशयस्तद्वदेषामपीति युक्तमलंकारान्तरत्वम् । न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम्। एकत्रैवैकस्य द्योर्बहूनां वालंकाराणामवगमे यथायथम- तिशयोत्कर्षस्य खवसंवित्साक्षिकत्वेन वेद्यमानत्वात्। संघटमानत्वेन च प्रतिपत्ति- रलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति। न तु कुलकादौ, विदूरतया तस्यास्तावत्याः प्ररोहासंभवात्। यदाहु :- 'वाक्यार्थभेदेऽप्येकश्लोकान्तर्गतत्वेना- लंकारस्यालंकारान्तरसाहित्यं प्रतिभात्येव। अविदूर त्वाद्विभिन्नश्रलोकगतत्वेन वा- क्यभेदे व्यवहितत्वान्न भवति संसृष्टिः ।' इति। कुलकादावप्यलंकाराणां वाक्यै-
१. 'संघट्टमानत्वेन च' ख. २. 'संसृष्टाद्यलंकारत्वम्' क.।िक
Page 268
अलंकारसर्वखम्। २४३
कवाक्यतया यद्यविच्छेदेन प्रतिपत्तिप्ररोहः स्यात्तदात्रापि संसष्याद्यभ्युगमे न क- श्विद्दोषः। ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुज्यधिरूढादुपपद्यत एव सामगादेरेकस्य वस्तुनोऽवगमः । इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेकबुज््यधिरूढाभावात्तदलं- काराणां युगपत्प्रतीतिरेव नास्तीति कथमेकस्य संसर्गादेर्वस्तुनोऽवभासो यस्यापि संसष्यादयलंकारान्तरव्यपदेशार्हत्वं स्यात् । अत्रोच्यते। श्रोत्रकरणत्वाच्छन्दावग- मस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावदविवादः। अत एव च तयो- रेकबुज्धधिरोहाद्युगपत्प्रतीतेः संसर्गावगमः । सति च संचये चारुतातिशयोपस- र्जन इत्यत्र संसृषटाद्यलंकारत्वम् । एवमर्थावगमस्यापि शब्दकरणत्वात्समानजाती- ययो: संसष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम्। शब्दार्थयोः पुनरुपायभेदे- डपि तदलंकाराणां सुगन्धिबन्धूकबोधन्यायेन मानसबोधन्यायेन मानसज्ञानविष- यत्वाद्युगपदवभासः सि्यतीति लौकिकालंकारवदेव शब्दार्थोभयालंकाराणां संसरगे लब्धपरभागतयावभासत एव चारुत्वान्तरमिति न्यायप्राप्तमेव संसष्ट्याद्यलंकार- त्वम्। यत्पुनरन्यैः शब्दार्थयोर्भिन्नजातीयत्वे भिन्नन्द्रियग्राह्यत्वं निमित्तमुक्त तदु- पेक्ष्यमेव। शब्दार्थशरीरे काव्ये शब्दप्रतिपाद्यस्यैवार्थस्यान्त्वात्तचक्षुरिन्द्रियग्रा- ह्यस्य बाह्यस्यानौपयिकत्वात्। यद्येवं पूर्वलक्षितानामनुप्रासोपमादीनामभावः स्यात्, असंकीर्णानामलंकाराणामसंभवात्सर्वत्र संसृष्टिसंकरयोरेव भावादेषां विषयापहारात्। नैतत्। असंकीर्णानामलंकाराणां सहस्रशो दर्शनात्। तथाहि- 'यशोवर्माणमुल्लद्वय हिमाद्रिमिव जाह्नवी। सुखेन प्राविशत्तस्य वाहिनी पूर्वसाग- रम्।। उत्तरा: कुरवोरऽविक्षुसतद्भयाजन्मपादपान्। उरगान्तकसंत्रासाद्विलानीव महोरगा: ॥ जयार्जितधनः सोऽथ प्रविवेश खमण्डलम्। भिन्नेभमौक्तिकापूर्ण- पाणिः सिंह इवाचलम् ॥। राजतान्क्वापि सौवर्णान्क्कापि देवान्विनिर्ममे। पार्श्वेषु मुख्यदेवानां पार्थिवो धनदोपमः ॥ तुः खारश्रङ्कणश्वक्रे खनामाङ्कविहारकृत्। भूपचित्तोपमं स्तूपं जिनार्हसमयास्तथा ॥ ईशानदेव्या तत्पन्या खाताम्बु प्रतिपा- दितम्। सुधारसमिव स्वच्छमारोग्यादायि रोगिणाम् ॥ संजग्राह स देशेभ्यस्तां- स्तानन्तरविज्जनान्। विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ अभेद्यसारे मयि तु व्यक्तमेवं विधीयते। प्रयासः कुण्ठतां यातो लोहे वज्रमणाविव॥ निदेशे- नैव संपश्य पयः सूतेऽय मेदिनी। रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ।। १. 'अविक्षन्' इति राजतरङ्गिण्याम्.
Page 269
२४४ काव्यमाला। स्फुटावगमो मेदः, समवायन्यायेन वास्फुटत्वावगम इति द्वैघम्। पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायः, क्षीर- नीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा। शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंका- रगतत्वेन च। तत्र शब्दालंकारसंसृष्टिर्यथा-
चेलितया विद्धे कलमेखलाकलकलोSलकलोलदशान्यया।।' इत्युक्त्वा सोऽम्बु निष्कष्ट कुन्तेनोवीमदारयत् । उज्जिहीर्षुर्वितस्ताम्भ: शूलेनेव त्रिलोचनः ॥ श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः। खप्नान्तर्हारिते पुत्रे प्र- बुद्धोऽग्र इवेक्ष्यते ॥। अत्रस्थैः सर्वदा रक्ष्यः खमेदः प्रभविष्णुभिः। चार्वाकाणा- मिवैषां हि भयं न परलोकतः ॥' इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उप- मायाः शुद्धमुदाहरणजातम् । एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम दर्शयितुमलम्। उपमैव चानेकालंकारबी- जभूतेति तन्निदर्शनमेव कृतम्। एवमन्यालंकाराणामपि सहस्रशश्वात्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम् । तस्मादेषां विषयत्वं प्रविरलविषयत्वं च न वाच्यम्। प्रविरलविषयत्वेSप्युपमादीनां न संसृष्टिसंकरयोरेव लक्षणीयतया प्राप्तिस्तावन्मात्रविषयसवीकारायाप्येषां पृथग्लक्षयितुमुचितत्वात्। एवं च न सं- सृष्टिः । पूर्वहाराच्ारुत्वाभावाचेत्याद्युक्तमयुक्तम् । अत एव च 'तस्मात्समस्तविषये प्रतिबन्धकारे संसृष्टिसंकथने चलिते विदूरम्। प्राधान्यतः खविषयं सुविशाल- माप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय ।I' इत्याशीर्वचनसूक्तमपि निष्प्रयोज- नम्। नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वा- भ्यामित्याशङ्क्याह-[अलंकारान्तरत्वेऽपि चेति ।] श्रीभोजदेवेन पुनर्मे- १. 'वलितया' क. २. 'अविषयत्वं' ख. ३. 'एकलक्षणीयतया' क. ४. 'एषा' क. ५. पुस्तकद्येडप्यत्र च्छन्दोभङ्गो दृश्यते. ६. पुस्तकद्दयेऽपि प्रतीकमेतन्न गृहीतम्.
Page 270
अलंकारसर्वस्वम्। २४५
अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः। अन्रैव 'अलकलोल- कलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः। अर्थालंकारसंसृष्टिर्यथा- 'देवि क्षपा गलति चक्षुरमन्दतार- मुन्मीलयाशु नलिनीव सभृङ्गमन्जम्। एष त्वदाननरुचेव विलुण्ठ्यमान: पश्याम्बरं त्यजति निष्प्रतिभ: शशाङ्कः ॥' अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः । 'लिम्पतीव तमोऽक्कानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दष्टिर्निष्फलतां गता।।'
दस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकर: संसृष्टिरिति संकीर्णमात्राभिप्रायेण सैंसध्याख्य एक एवालंकार उक्तः । विजातीययोरिति। यमकानुप्रासयोर्भि- ननलक्षणत्वात्। अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्गं यमकमिति संकरो- दाहरणं न वाच्यम्। अत्र हि यमकसर्गस्योपकान्तत्वात्तत्रैव कवितुः संरम्भाति- शयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमङ्गत्वं युक्त, न पुनर्विपर्ययः । संकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात्। नाप्यत्र परस्पर- मङ्गाज्िभावो युक्तः । इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विधाङ्गाद्विभावः। तत्राद्यो द्विधा। सार्वत्रिकः, प्रादेशिकश्चेति। तत्र सार्वत्रिको यथा विभावनातिशयोक्तयोः। 'आश्िष्टातिशयोक्तिस्तु सर्वत्रैव विभावना' इति दृशा विभावनायाः सर्वत्रैवातिशयोकैत्यपेक्षात् । प्रादेशिको यथा श्रलषातिशयोक्तोः । 'रजनीमुखम्' इत्यादौ क्वचिदिव श्लेषवशेनातिशयोक्तेरुत्थानात्। 'कमलमनम्भसि' इंत्यादौ श्लेषमन्तरेण तस्याः संभवात्। एतद्भेदद्वयं च न संकरस्य विषयः। तस्य सवहेतुबलाल्लन्धसत्ताकानामलंकाराणां संसर्गे वक्ष्यमाणत्वात् । द्वितीयो यथा- 'अङ्घलीभिरिव' इत्यादौ। अन्न हि खहेतुबलेन लब्धसत्ताकानामुपमादीनां परस्प-
- १. 'अपेक्षत्वात्' ख. २. 'श्रेषमन्तरेणापि' ख.
Page 271
२४६ काव्यमाला
रमुपकार्योपकारकत्वमात्रं येनाङ्गाज्ञिभावः। न ह्यत्रोपमयोः परस्परं स्रूपनिष्प- त्तावुपेक्षा काचित्। एकतराभावेऽप्येकस्याः सरूपोत्थानात्। एवमुपमाद्वयपरि- हारेण केवलाप्युत्प्रेक्षा स्यात्। स्थितानां पुनरेषामियं चिन्ता यच्चुम्बने केशग्रहणा- देरुचितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनान्ादिभावः। एवं च तेन प्रधा- नतायामुपमादीनां निजं निजं नाम। अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गिभावेऽपी- त्याद्यन्यैरयुक्तमेवोक्तम् । इह पुनर्यमकानुप्रासयोर्निमित्तनिमित्तिभावः । सर्वत्रैवा- नयोः स्वरूपनिष्पत्तावन्योन्यानपेक्षत्वात्। तत्त्वेपि समनन्तरोक्तयुक्त्या संकरा- योगात्। नच खहेतुभ्यो लब्धसत्ताकयोरप्यनयोः परस्परमङ्गाद्विभावः। शब्दा- लंकारयोः शब्दवदुपकार्योपकारकत्वभावात्। अथ वर्णसावर्ण्येन वैचित्र्यातिश- याधायकत्वेनानयोरुपकार्योपकारकभाव इति चेत्। न। इयमेव हि संसष्टिद्वयो- बहूनां वालंकाराणां परस्परनिरपेक्षाणामपि संसर्गे सति चारुतातिशयप्रति- पत्तिः । एवमर्थालंकारसंसष्टावपि संकरोदाहरणत्वं न वाच्यम्। न हि तत्रो- पमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्माङ्गाद्विभावः। यद्ेवं दशदाडिमा- दिवाक्यवचनयोरसंबद्धत्वं स्यादिति चेत्, न। चक्षुरुन्मीलनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात्। न च पाकलक्षणमेकमेवार्थमुररीकृत्य व्यवस्थि- तानां स्थाल्यादीनामप्यन्यः कश्चित्संबन्धः । अथोपमालिङ्वितस्य चक्षुरुन्मीलनस्यो- त्प्रेक्षाश्िष्टः शशाङ्काम्बरत्यागः पारम्पर्येण हेतुत्वेनोपनिबद्ध इति खाश्रयभूतार्थ- वदनयोरप्यङ्गाद्विभावोऽस्तीति चेत्। नैतत् । उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मी- लनादेर्हैतुहेतुमद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संबन्धाभा- वात्। नाप्यत्रोपमाया वाक्यार्थत्वम्। तस्या अप्युत्प्रेक्षादिवचक्षुरुन्मीलनाङ्गत्वेना- वस्थानात्। अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम्। शशाङ्काम्बरत्यागोपपादि- तस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात्। एवं परं प्रत्युपसर्जनीभूतयो- रवान्तरसंबन्धाभावेSप्युपमोत्प्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति य. थोक्तमेव संसृष्युदाहरणत्वं युक्तम्। एवम् 'अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत्। अनन्वितत्वाद्दशदाडिमादिवाक्यादिव द्वषणमेव तर्हि ॥ अथान्व- योऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम्। तदा न संसृष्टिकथा गुणस्य परा- ङ्तायां खलु संकर: स्यात् ॥ एकत्र चेदङ्विनि संगतं स्याद्यं तदन्योन्यसमील- नेन । न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् II' इत्याद्युपे- क्षणीयमेव। न चात्रायमालंकार इत्यार्थोडलंकारसमुच्चय इति वाच्यम्। धर्म-
Page 272
अलंकारसर्वख्वम्। २४७
अत्रोपमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः। उभयसंसृष्टिर्यथा- 'आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। नि पादाम्बुजं भवतु में विजयाय मञ्जु- मञ्जीरशिञ्चितमनोहरमम्बिकायाः ।।' अत्रोपमानुप्रासयोः संसृष्टिः। पादाम्बुजमित्यत्र ह्युपमाया म्जीर- शिञ्जितयोगो व्यवस्थापकं प्रमाणम्। स हि रूपके प्रतिकूलः पारिशे- ष्यादुपमां प्रसाधयति। तदेवं संसृष्टिस्त्रिधा निर्णीता। अधुना क्षीरनीरन्यायेन संकर उच्यते-
यौगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयौगपद्यस्य तल्लक्षणत्वाभावात्। तथात्वाभ्युपगमे चायं नाम्रि विवादः । एवं हि संसष्या कि- मपराद्धम्। 'अत्र चोदं करिष्यामि' इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्य- शुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव। अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संस- ष्टिरिति सर्वत्रैव सुस्पष्टः पाठः । उत्प्रेक्षयोरिति। प्रथमार्धगतयोः । यद्यपि चानयोर्द्वितीयार्धगतयाप्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रे- क्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम्। नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम्। त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात्। उभ- यसंसृष्टिरिति । अनुप्रासोपमयोः शब्दार्थालंकारत्वात्। व्यवस्थापक- मिति । मजजीरशिजजितयोगस्य पादगतत्वेनौचित्यात् । प्रतिकूल इति । अम्बुजस्य मजजीरशिजजितायोगात्। पारिशेष्यादिति । उपसारूपकाभ्यामन्य- स्याप्राप्तेः । एतदेवोपसंहरति-तदेवमित्यादि। त्रिधेति। यद्यपि सजाती- यविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम्, तथापि तदुद्दिष्टस्यैवान्तर्भव- तीति यथोक्त एवायमुपसंहारः ॥ इंदानीं संकरमवतारयति-अधुनेत्यादि।
१. 'ते' क.
Page 273
२४८ । काव्यमाला।
क्षीरनीरन्यायेन तु संकर:। मिश्रत्व इत्येव । अनुत्कटमेदत्वमुत्कटमेदत्वं च संकरः । तच्च मिश्रत्वमङ्गाङ्विभावेन संशयेन, एकवाचकानुप्रवेशेन च त्रिधाभव- त्संकरं त्रिभेदमुत्थापयति। क्रमेण यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिमिः । कुआलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।।' अत्राङ्गुलीभिरिवेत्युपमा। सैव सरोजलोचनमित्यस्या उपमायाः प्रसा- धिका। रजनीमुखमिति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्य- योर्मुख्ययोरभेदातिशयात्। अत एव तयोरङ्गाङ्विभावः । एवं च वाक्योक्तसमासोक्तिः । उपमाश्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षया 'चुम्बतीव' इति प्रकाशिताया अनुग्राहिका । तद्वलेन तस्याः समु- स्थानात्। सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्धन- मित्यस्त्यङ्गाङ्गिभावः । यथा वा- 'त्रयीमयोडपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवखान्। मन्येऽस्तशैलात्पतितोऽत एव विवेश शुच्धै वडवाभिमध्यम्।।'
तदेवाह-क्षीरेत्यादि। तदिति। यथोक्तरूपम्। त्रिभेदमिति। अज्गाद्वि- भावादिना। प्रसाधिकेति । आनुगुण्यकारित्वेनाङ्गमित्यर्थः । श्लेषमूलेति। श्लेषहेतुकेत्यर्थः । अत्र च यथाज्गाद्वितया संकरस्तथा पूर्वमेवोक्तम् । अत एवोप- माद्वयापेक्षयैव तयोरज्गाज्विभाव 'इत्युपसंहारः। श्लेषानुगृहीतेति। शेषमन्तरे- णास्या अनुत्थानात्। तद्वलेनेति। तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः । समुत्थानादिति। उपकार्यत्वेन। उदाहरणान्तरोपादानं दावाप्ति(१) प्रदर्शनप-
Page 274
अलंकारसर्वस्वम्। २४९
अत्र प्रथमार्घे विरोधोत्पत्तिहेतुः श्रेष:। दर्शनान्तरे तु विरोध- ऋेषौ द्वावलंकारौ। तदनुगृहीता द्वितीयेऽर्घे मन्येपदप्रकाशितोल्मेक्षा।
तथाह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधल्लेषानुप्रवेशः। यचात्र कार्यमुत्प्रेक्षानिमित्तं तन्न पतितत्वाभिप्रवेशौ वस्तुस्थित्या अन्यथास्थि- तावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ। तेनात्राङ्का- द्विभावः संकरः । न च विरोधोत्पत्तिहेतौ श्रेषे क्ेषस्य विरोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात्। अतश्च निरवकाशत्वाद्वाधक- त्वम्। न च मन्तव्यं विरोधमन्तरेणापि श्रेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति। यतो न ब्रूमो विरोधमन्तरेणापि श्रेषोन भवतीति। किं तर्ह्यलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वा-
रम्। श्ेष इति। औद्धटानामिति शेषः। द्वावलंकाराविति। हेतुहेतुमद्रू- पावित्यर्थः। श्लेषमन्तरेण विरोधस्यानुत्थानात्। तदनुगृहीतेति। श्लेषमूल- विरोधोपकृतेत्यर्थः । अङ्गाज्ञिभावमेव विभजति-तथा हीत्यादिना। कार्य- मिति । पतितत्वाननिप्रवेशलक्षणम्। एतच्चोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम्। तेनेति। उत्प्रेक्षाविरोधोपकृतत्वेन। ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्विभावेन संकर- स्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च किं संकर उत नेत्याशङ्कयाह- न चेत्यादि। एतच्चोद्भटमतानुसारश्लेषस्य प्राधान्याभिप्रायेणोक्तम्। खपक्षाभि- प्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम्। अत्र च यथा न संकरालंकारस्तथा पूर्व- मेवोपपादितम्। अत्र ह्युभयथाप्येक एवालंकारः । न चैकस्य संकरो युक्तः । तस्य द्विप्रभृतीनामलंकाराणां मिश्रत्वे संभवात्। अतश्चेति। विरोधगुणीभावेन श्लेष- स्यैव समुत्थानात्। यत्तु ग्रन्थकृता स्वमताश्रयेणैतदपि नोक्तम्, तत्रायमाशयः । यावता हि यत्रालंकारान्तरसरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम् । तच्चवमपि सिद्ध्यतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वा-
Page 275
२५० काव्यमाला।
तेषां बाधः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद्दोषः। एवमर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्रिदुदाहतो यथा- 'राजति तटीयमभिहतदानवरासातिपातिसारावनदा। गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ।।' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेना- झ्ाङ्रिसंकर इति। एतत्तु न सम्यगावर्जकम्। शब्दालंकारयो: शब्द- वदुपकार्योपकारकत्वाभावेनाङ्गाद्विभावाभावात्। शब्दालंकारसंसृष्टि- स्त्वत्र श्रेयसी। यथोदाहृतं पूर्वम्। यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः । यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः। यथा- 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोघसि वेतसीतरुतले चेतः समुत्कण्ठते।।'
भ्यनुज्ञानात्मप्रयोजनम् । तन्मध्य इति। श्लेषाद्वय तिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः । दोष इति। सावकाशत्वापत्तिरूपः । कैश्च्िदिति । काव्यप्र- काशकारादिभिः। उदाहृतमिति। कुसुमसौरमेत्यादिना। यद्वेति। पक्षा- न्तरे। एकवाचकेति। य एव शब्दा यमकस्य वाचकासत एव चित्रस्येति द्वि- तीय इत्यज्राज्विभावात्। साधकमिति । अनुकूलम्। न्यायप्राप्त इति।
Page 276
अलंकारसर्वस्वम्। २५१
अत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथाह्युत्कण्ठाकारणा- भावे उत्कण्ठाया उत्पत्तौ विभावना। स च कारणाभावो 'यः कौमा- रहरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः' इत्याद्यनुत्कण्ठाकारणसद्धावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः 'समुत्कण्ठते' इति विरोधोत्पत्तिमुखे- नोक्ता। अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम्। न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति संदेहसंकरोडयम्। यथा वा-ड 'यद्वक्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकासित। उद्दामरामादृढमानमुद्राविद्रावणो मत्र इव स्मरस्य ।।' अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूपकमिति संशयः । उभयथापि समासस्य भावात्। 'उपमितं व्याघ्रा- दिभिः' इत्युपमासमासः, व्याघ्रादीनामाकृतिगणत्वात्। मयूरव्यंस- कादित्वाद् रूपकसमास:, मयूरव्यंसकादीनामाकृतिगणत्वात्। न चात्र क्चित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकर :-
साधकबाधकप्रमाणाभावादेकस्यानिश्चयात्। संदेहमेवोपपादयति-तथाहीत्या- दिना। उत्कण्ठाकारणाभाव इति। कौमारहरवराद्यसंनिधानरूपस्य कारण- स्याभाव इत्यर्थः । विरुद्धमुखेनेति। तत्संनिधानद्वारेणेत्यर्थः । अत एवेति। द्वयोरपि विरुद्धमुखेनोपनिबन्धात्। अन्यत्रेति । काव्यप्रकाशादौ। उभय- थेति। उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्गणद्वयेनापि हि खीकृ- तत्वमिति भावः । क्वचिदिति । उपमायां रूपके वा। न चैतदलंकारसारकारा- दीनां मतम्, अलंकाराणां संदेहायोगात्। तथाहि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्ये- षामपि निश्चयोत्पादनात्। सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम्। तथात्वे च संदेहोडयुक्त:, तस्य नियतदेशकालप्रमातृगतत्वात्। संदेहोऽपि पर्यक
Page 277
२५२ काव्यमाला
यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरि्रहः । तत्रानुकूल्यं साधकम्, प्रातिकूल्यं बाघकम्। तत्र साधकं यथा- 'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने। नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ।।'। अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात्। उपमायास्तु न बाधकम्।
सानेऽवश्यमेकतरपक्षाश्रयणम्, उत्तरकालं बाधकप्रत्ययोल्लासात्। इह च संदे- हेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकार: स्यात्, तस्यैव वाक्यार्थ- त्वेन प्ररोहात्। वाक्यार्थीभाव एव त्वलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम्। न चोभयोरपि वाक्यार्थीभावो, विप्रतिषेधात्। संदिग्धश्च वाक्यार्थो दोष इत्यवि- वादः। न च लक्ष्येऽपि तथाभावः, तथा ह्यादोदाहरणे विभावनाया एव निश्चयः। विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि 'चेतः समुत्कण्ठते' इत्युत्क- षठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात्। अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेर्बाध इति विभावनाया एव वाक्यार्थीभावः। उत्तरोदाहरणे रूपकस्यैव निश्वयः। यतोSत्रान्यप्रयोजनयोद्योः समासयोरेकत्र युगपत्प्राप्तेस्तुल्यबलत्वाद्वि- प्रतिषेधः। ततश्र 'विप्रतिषेधे परं कार्यम्' इति परत्वाद्रूपकसमासप्रवृत्तिः। एत- देव रूपकस्य साधनं प्रमाणम्। अत एवात्र यदन्यैः 'अबाधेन गतौ संभवन्त्यां बाधगतिरप्रामाणिकी' इति न्यायाल्लक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम्। तदयुक्तम्। भवन्मते च समासां प्रायशो लक्षणपरत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्य- बाधेन गतेरसंभवादुपमाया अपि नासि्ति बाधकप्रमाणसद्भावः। अथोपमायां लक्षणा, रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तुल्यत्वमिति चेतू, नैतत्। एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात्। अयं हि बाधगतेरेव प्रतीयते, तत्र तत्समास एव कार्य इत्याह-यत्र त्वित्यादि। एतदेव दर्शयति-तत्रेत्या- दिना। न बाधकमिति। न पुनः साधकमपीत्यर्थः। बाधकत्वाभावमात्रेण
Page 278
अलंकारसर्वस्वम्। २५३
शंकरेऽपि तस्योपचरितस्य संभवात्। यथा वा- 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि। संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥' अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साघकं प्रमाणम्। बाधकं यथा- 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटंकृतौ। विनिद्रजुम्भितहरिर्विन्ध्योदधिरजायत ।।' अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं बाघकं प्रमाणम्। 'उपमितं व्यात्रादिभिः सामा- न्याप्रयोगे' इति वचनादुपमासमासे प्रतिकूलत्वात्। अतश्च पारिशे- ष्याद्रूपकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाघकत्वेन विज्ञेया। न ह्यौपम्येन कदाचिदर्थसिद्धिः। न द्यौपम्येलंकारेणोपक्ान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा। नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्यो- चितत्वात्। विपर्ययस्तु दुष्ट एव। यथा-'येनेन्दुर्दहनं विषं मल-
साधकत्वानुपपत्तेः । तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः । यथा वेति। पूर्वत्र संकरेऽप्युपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्यो- दाहरणस्य पुनरुपादानम्। साधारणमिति। सामान्यप्रयोगे हि विन्ध्य उद- धिरेवेत्यसमास एव स्यात्। यथा-पुरुषोऽयं व्याघ्र इव शूर इति। अत- श्रेति। उपमाया बाधकप्रमाणसंभवादप्रवृत्तेः । पारिशेष्यादिति। न पुनः साधकप्रमाणसंभवादित्यर्थः । उचितत्वादिति। रूपकनिर्वाहेण साम्यस्याधि- क्येन प्रवृत्तिः । विपर्यय इति। रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्य- लाघवेन प्रतीतेः । 'सेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादता यत्क- ल्याणपराझ्मुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि
Page 279
२५४ काव्यमाला।
यजं हारः कुठारायते।' इति। तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकादेराकृतिगणत्वाद्रपकसमाश्रयेण रूपकमेव बोद्धव्यम्। एवं 'भाष्याब्धिः क्वातिगम्भीरः' इत्यादौ द्रष्टव्यम्। साघकबाधकाभावे तु संदेहसंकरः । यथोदाहृतम् । तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचकेSने- कालंकारानुप्रवेशः, न च संदेहः । यथा- 'मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी। तवापि मूर्धनि गङ्गेव चक्रधारा पतिष्यति ।' अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकप्रतिप-
शब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात्। अत्र यथार्थक्लेषेण सहोप- मायाः संकरस्था शब्दक्लेषेणापि सह दश्यते। यथा-
बालं फलम् ।I' इति चास्य पादत्रयी। एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्र- कर्षालंकारैर्निर्वाहो न कार्य इत्यप्यनेन सर्वालंकारशेषत्वेनोक्तम् । प्रकृत इति। शरदीवेत्यादौ। द्रष्टव्यमिति । उपमाया बाधकत्वं प्रति गम्भीरत्वस्य सामा- न्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरिग्रह एव युक्तः। उदाहृत- मिति। 'यः कौमारहरः' इत्यादिना । न च संदेह इति । संदेहसत्कारे यद्यप्येकवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोSस्तीति ततोऽस्य चैलक्षण्यम्। इह ह्येकानुप्रविष्टयोरलंकारयोर्निश्चितत्वेन निबन्धनम्। एकवाच- कानुप्रविष्टत्वेन चालंकारयोः संसृष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमयोरिवेत्युक्त्या नास्याभावो वाच्यः। न हि यमकयोः संसष्टतवेनैवाव- भासोऽस्तीति यथोक्तमेव युक्तम्। अर्थश्ेषेणेति। नरकशब्दस्य दानवनिरया- र्थकत्वात् । द्योतितरज्वेति शब्दस्य सभङ्गत्वाच्छन्दश्लेषः । न चास्योदाहरणद्वय- मेतद्युक्तम् । उपमाप्रतिभोत्पत्तिहेतुकस्य श्लेषस्यैवात्रालंकारत्वात्। उपमा हि ऋेषस्य हेतुत्वेनैव गता। तां विना तस्या अनुत्थानात्। अतश्व श्रेष एवात्र ी १. पाणिनितत्रविरुद्धोड़प्य प्रयोगः कविसंप्रदायसिद्धः ।
Page 280
अलंकारसर्वस्वम्। R49
उद्यानवापीपयसीव यस्यामेणीद्शो नाट्यगृहे रमन्ते ।।' उ अत्र 'पयसीव नाट्यगृहे रमन्ते' इत्येतावतैव समुचितोपमा निष्पन्ना सत्पूरुषद्योतितरङ्क इति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे सक्कीर्णा। शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतो 'राजति तटीयम्' इत्यादिना। एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम्। अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम्। तुल्यजातीय- योरप्यलंकारयोरेकवाचकानुप्रवेशसंभवात्। शब्दार्थवर्त्यलंकारसंक-
प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवात्रालंकारस्य स्थितेः । तस्य च द्विप्र- भृतीनां संसृष्टतायामुक्तत्वात्। उदाहरणान्तरं यथा-'अङ्के न्यस्योत्तमाङ्गं ्वग- बलपते: पादमक्षस्य हर्तुः कृत्वोत्सड्के सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम्। बाणं रक्ष:कुलन्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनेवेक्षमाणस्त्वदनुजवदने दत्तकर्णोऽयमास्ते ।I' अन्नेद्दगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेश्र प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेSलंकारद्वयमनुप्रविष्टमित्ययं
कानुप्रवेशकृतो वैचित्र्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम्। अङ्गा- द्विभावश्व भिन्नवाचकालंकारगतत्वेन लब्धावकाशोऽस्ति। अतो 'राजति तटी- यम्' इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति ततोऽस्य पृथग्भावः। अत एवेति। शब्दालंकारयोरेकवाचकानुप्रवेशात्। अन्येति। अन्यैः काव्य- अ्काशकारादिभिः। यदुक्तम्-'स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम्। व्यव- स्थितं च' इति। अप्रयोजनकमिति। तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः। मुरारिनिर्गतेत्यादौ ह्यर्थालंकारत्वात्सजातीययोरुपमाश्लेषयोः पूर्वोक्तनीत्या भिन्न- विषयत्वेनास्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः । एवं शब्दाश्रयत्वादर्थाश्रयत्वाच्च तुल्यजातीयानामलंकाराणामङ्गाद्विभावादिना संकर उक्तः। शब्दार्थवर्तिनामलं- काराणां पुनः संसर्गेणायमलंकार इत्याह-शब्दार्थेत्यादि। न केवलं काव्य-
Page 281
२५६ काव्यमाला।
रस्तु भट्टोद्टप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम्- एवमेते शब्दार्थोभयालंकारा: संक्षेपतः सूत्रिताः। एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रकरान्तसवरूपनिर्देशः । सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः। तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभ- यालंकारा लाटानुप्रासादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूप- त्वात्। लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम्। अन्वयव्य- तिरेकौ तु तत्कार्यत्वे प्रयोजकौ। न तदलंकारत्वे। तदलंकारप्रयो-
प्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः । तदुक्तम्-'शब्दार्थवत्यलंकारवाक्य एकत्र भासिनः । संकरः ।' इति। संसू- ष्टाविति। अनयोर्ह्याश्रयभेदात्तिलतण्डुलन्यायेन स्पष्ट एव मेदावगम इत्यत्रैवान्त- र्भावो युक्तः। त्रिप्रकार इति। अङ्वाङ्विभावसंशयैकवाचकानुप्रवेशेन। यदु- कम्-'तेनासौ त्रिरूपः परिकीर्तितः' इति। एवं संदेहसंकरस्यानुपपत्तावपिं चिरंतनोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् । अधुनैतेषामलंकाराणासुप- संहारं कर्तुमुपक्मते-इदानीमित्यादिना। प्राप्तावसरेति। यथातत्त्वं सर्वे- षामलंकाराणां निर्णीतत्वात्। तदेवाह-एवमित्यादि। एतदेव व्याचषे- एवमित्यादिना। संक्षेपेणेति। ग्रन्थस्य। न पुनरर्थस्य। तस्य हि तथातक- थने तेषां स्वरूपमेव कथितं न स्यात्। एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभवि स्वरूपमुक्तमिति प्राच्यालंकारग्रन्थेभ्योऽस्य वैलक्षण्यमपि ध्वनितम्। तत्र ग्रन्थविस्तरेणाप्येतत्सरूपस्यानभिधानात्। अत एव ग्रन्थकारेण प्रयोजनमपि द्योतितम् । के ते शब्दार्थोभयालंकारा इत्याशङ्क्याह-तत्रेत्यादि। आदिग्रहणादनुप्रासानन्वयश्लेषादीनां ग्रहणम्। ननु च लाटानुप्रासश्लेषयोरेवोभ- यालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देश: कथं संगच्छते इत्या- शङ्काह-संसृष्ठीत्यादि। तत्र संसष्टरुभयालंकारत्वं यथा-'आनन्दमन्थर-' इत्यादि। संकरस्य यथा-'मैवमेवाखसच्छायकर्णिकाचारुवर्णिता। अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा ।।' अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम्। संक-
Page 282
अलंकारसर्वस्वम्। २५७
जकत्वे तु श्रीतोपमादेरपि शब्दालंकारत्वप्रसङ्गात्। तस्मादाश्रयाश्रयि- भावेनैव चिरंतनमतानुसृतिरिति भद्रम्। संपूर्ण मिदमलंकार सर्वसम्।
रस्य चैतदुभयालंकारत्वमौद्भटमत एवावसेयम् । ग्रन्थकृता ह्यस्य समनन्तरमेव संसृष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः। शलेषाणामेवो- भयालंकारत्वम्। ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्क्याह-लोकवदि- त्यादि। लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः। एवमिहापि शब्दाद्याश्रितस्तदलंकार इति सिद्ध एव विष- यविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वयव्यतिरेकौ तदलंकारनिबन्धनत्वेनोक्तौ तदयुक्तमेवेत्याह-अन्वयेत्यादि। एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरे- कानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम्। तस्याविशेषात्। अर्थस्य पुनरलं- कृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटविवेके राजानक- तिलकेन सप्रपश्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्माभि: प्रपश्चितम्। एतदेवोपसं- हरति-तस्मादित्यादि। आश्रयाश्रयिभावेनेति। उपस्कार्योपस्कारकभा- वेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः । चिरंत- नेति। अनेनास्माभिः सर्वत्रैव तन्मतानुसृतिरेव कृतेत्यात्मविषयमनौद्धत्यमपि अ्न्थकृता प्रकाशितमिति शिवम् ॥ राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम्। तां सतीसरसि राजहंसतामातनोत्किल घनागमेऽपि यः ॥ शक्राधिकश्रियस्तस्य श्रीश्ङ्गार इति श्रुतः । गुणातिकान्तधिषणो मन्त्रिणामग्रणीरभूत्।। तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः । व्यधादिदमसामान्यं श्रवणाभरणं सताम् ।। यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम्। विद्वेषरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥ इति श्रीजयरथविरचितालंकारविमर्शिनी संपूर्णा।।
१७ अ० स०
Page 284
पृo पृ०
अ. अंयं वारामेको ... ... १५५
अक्ष्णोः स्फुटासु ... ... २३७ अयमेकपदे ... ... २०१
अंङ्गलेखाम ... ... १५९ अरण्यरुदितं ... ... १००
२४८ अरण्यानी ... १६६ ... ...
अण्णं लडह .. ८५ अलंकारः शङ्का ... ... १९८
अतिशयित ४१ अविरल ... ... ८८
अंत्रानुगोदं .. ४१ अव्यात्सवो ९८ .. ...
अथ पक्रिमता ... ... ५३ असमाप्त ... ... ११८
अथोपगूढे ... ११८ अँसंभृतं ... ... १५८
अनन्तरत्न .. १४० अस्या: सर्ग 1 .. ८६
अनन्यसामान्य ... ... ७६ अहमेव गुरु: ... २१० अनातपत्रो २२९ अहीनभुजगा .. ... ... २३
अन्तश्छिद्राणि १३८ अहो केनेदशी ... ... २२१
अपाङ्गतरले ... २११ अहो हि मे ... ... १४१ र्अन्धिलङ्गित ... .. ९६ आ. अमुष्मिंललावण्या ... ... ६६ आकृष्टिवेग ... ... ११९
अयं मार्तण्डः किं ... ... ५४ ओकृष्यादाव ... ... १३१
१. उद्भटस्य प्रतीहारेन्दुराजवृत्तौ। २. कालिदासस्य कुमारसंभवे। ३. रघुवंशे। ४. पाणिनेर्जाम्बवतीविजये। ५. कालिदासस्य कुमारसंभवे। ६. पदमगुप्तस्य नवसा- हसाङ्कचरिते। ७. भलटशतके। ८. मुरारे: स्तुतिपरं मुक्तकम्। ९. सुभाषितावलौ रामस्य। १०. भलटशतके। ११. विक्रमोर्वश्याम् । १२. नवसाहसाङ्कचरिते। १३. रुद्रटस्य काव्यालंकारे। १४. नवसाहसाङ्कचरिते। १५. कल्हणस्य राजतरङ्गि- ण्याम्। १६. कालिदासस्य कुमारसंभवे। १७. विक्रमोर्वश्याम्। १८. रुय्यकस्य श्रीकण्ठस्तवे। १९. सुभाषितावलौ।
Page 285
२
पृ० पृ०
आटोपेन ऐकस्मिञ्शयने ... .. 8 २५ ... ... २४० आनन्दमन्थर ऐंकाकिनी ... ... २४७ ... ... २१६ आभाति ते ४७ ऐतेत्तस्य ... ... ... १३३ आ मुण्डशिरसि ... ... १०० ऐतान्यवन्ती ... ... २५३ आरोपयसि ऐषा स्थली 900 २२२ ... ७४ आहूतोऽपि ऐ. ... ... १६१
इ. १४ ... ... इति कृतपशु ऐन्द्रं धनुः ११७
... 1 .. २२२ ओ. इन्दुः किंक्क .. ... ५४ ओष्ठे बिम्बफल ... ५७
इन्दुर्लिप्त ... १३४ क. इन्दोर्लक्ष्म कैज्जलहिम १८८ ... ... १४३ ...
उ. कैण्ठस्य तस्या: ... १७१
उत्कोपे लयि १०१ १७ कपोलफलका .. ७५ ... ...
उत्क्षिप्तं सह कर्मलमनम्भसि ८४ ... १०५ ... .. उद्धान्तोज्झित कपूर इव ... ६५ ... ... .. 8 १६१
उन्नत्यै नमति १६९ ७६ ... ... कस्तूरीतिलक ... ... उँपोढरागेण १०९ करैत्वं भो १३७ .. 1 ..
उरो दत्त्वा १९२ का विसमा २१७ ... ... ...
ए. कोशा: काशाः ... ... २९
ए एहि दाव ... २०८ क्कीकार्य शश ... २४०
१. मङ्गकवेः श्रीकण्ठचरितकाव्ये। २. पञ्चस्तव्याम्। ३. सुभाषितावलौ मयू० रस्य ।४. मालवरुद्रस्य। ५. सुभाषितावलौ मयूरस्य। ६. राजशेखरस्य बालरामा- यणे । ७. पाणिनेः । ८. प्रतीहारेन्दुराजवृत्तौ। ९. अमरुशतके । १०. ध्वन्या- लोके। ११. भलटशतके। १२. नवसाहसाङ्कचरिते। १३. रघुवंशे। १४. पा. णिने: । १५. रुद्रटस्य काव्यालंकारे। १६. कुमारसंभवे। १७. प्रतीहारेन्दुराज- वृत्तौ। १८. सुभाषितावलौ शंकरगणस्य। १९. वालरामायणे। २०. ध्वन्यालोके। २१. प्रतीहारेन्दुराजवृत्तौ। २२. विक्रमोर्वश्याम्।
Page 286
३
पृo पृ० क्षीणः क्षीणोऽपि शशी ... १०२ ग. किमासेव्यं गणिकासु १५१ ... ... १९३ ...
किमित्यपास्या गण्डान्ते मद ११५ 1 .. .. १९२ किवणाण गैतासु तीरं ... ... .. ९३ गर्वमसंवाह्य १० ... ७७
किं तारुण्यतरो 3 ... २०९ ... ... ५४ किं नाम दर्दुर गाङ्गमम्बु ... ... २१५ ... ... २४ गाढालिङ्गन ... २३७ किं पद्मस्य रुचिं ... ... ४७ गुरुपरतन्त्र ... २२० किं भूषणं ... १९३ गृहन्तु सर्वे 1 .. ... १५० किं मे दुरोदरे ... २२२ घ किं वृत्तान्तैः घेत्तुं मुचइ ... १४४ १६८
किं हास्येन न ... ... २३४ च. कुबेरजुष्टां ७५ चकोर्य एव ... ९५ ... कुलममलिनं चैंकाभिघात ... ... १३५ ... २०३ क्रेद्वारो नख चन्द्रग्रहणेन २२३ ... ... २२२ ... कौटिल्यं कच चित्रं चित्रं ... ... १६७ ... १९४ चूडामणिपदे 0 .. ९७
ख. चोलस्य यद्भीति ७६ खमिव जलं ... ... ४० ज. गैच्छ गच्छसि जये धरित्र्या: ... ... १५३ १८०
१. रुद्रटस्य काव्यालंकारे। २. कुमारसंभवे । ३. सुभाषितावलौ बन्धोः । ४. बकस्य। ५. मयूरस्य । ६. ध्वन्यालोकलोचने। ७. रुद्रटस्य काव्यालंकारे। ८. दण्डिन: काव्यादर्शे। ९. नवसाहसाङ्कचरिते। १०. रुद्रटस्यकाव्यालंकारे। ११. अमरुशतके। १२. विक्रमाङ्कदेवचरिते। १३. राजशेखरस्य बालरामायणे। १४. ध्वन्यालोके। १५. सुभाषितावलौ मयूरस्य। १६. विक्रमाङ्कदेवचरिते। १७. वराहमिहिरस्य बृहत्संहितायाम्।
Page 287
४
पृ० पृo
जितेन्द्रियत्वं १७७ देन्तप्रभा ... ११० . ... ...
ज्योत्स्नातमः १४७ दामोदरकरा ... ... ५८ ... ज्योत्स्नाभस्म दारुण: काष्ठतो ... ... २३ ... ६६
ण. दासे कृता ... ... ४५
णाराअणोत्ति ... ... ६१ दाहोडम्भः 1 .. ८७
तण्णत्थि किंपि १३३ दिद्ृक्षव: ... ... १०२
तैदिदमरण्यं ११ ... ... २३१ ... १७२ तन्वी मनोरमा दिव्यमप्युप ...
... ... १०९ दुर्वाराः स्मर ... ... २०३ तस्य च प्रवयसो ... १९२ दूराकर्षण ... ... २३७ हैवं हालाहल .. २२१ त्वैत्पादनख देशा दग्धं ... ९८ .. १७४ ... देया शिलापट्ट १५ त्वैदङमार्दवं ९० ... १५० ... ... ..
त्वद्वक्रामृत २३७ देवि क्षपा २४५ .. ... त्वैमेवं सौन्दर्या १६७ १६० दोदेण्डाश्चित ... १७० ... .. ...
ताला जाअन्ति २८ यामालिलिन्ग 10. ... ११४ तीर्थान्तरेषु 1 .. १६६ ... द्युजनो मृत्युना ... १०५
तीत्वा भूतेश ... ५१ दयौरत्र क्वचि ... ... १६९
त्रयीमयोऽपि ... .. १२७ घ.
दू. धैवलोऽसि ... २१५
दत्वा दर्शन १९३ ... १३७ ... ... धन्या: खलु ...
१. रुद्रटस्य काव्यालंकारे। २. वक्रोक्तिपञ्चाशिकायाम्। ३. विक्रमाङ्कदेवचरिते। ४. प्रतीहारेन्दुराजवृत्तौ। ५. वामनस्य काव्यालंकारसूत्रवृत्तौ। ६. आनन्दवर्धनस्य विषमबाणलीलायाम्। ७. मुरारेरनर्घराघवे। ८. रुद्रटस्य काव्यालंकारे। ९. प्रती- हारेन्दुराजवृत्तौ। १०. विद्धशालभजजिकायाम्। ११. रुद्रटस्य काव्यालंकारे। १२. शार्ङधरपद्धतौ भट्टशङ्ककस्य। १३. ध्वन्यालोकलोचने। १४, राजशेखरस्यविद्ध- शालभज्जकायाम्। १५. विक्रमाङ्कदेवचरिते। १६. महावीरचरिते। १७. मङ्गस्य श्रीकण्ठचरिते। १८. गाथासप्तशत्याम् ।
Page 288
पृ० पृo धावत्त्वदश्व ... ९० पश्याम: किमियं ... १३४ धृतधनुषि १९७ पाण्ड्योऽयमंसा ... ... न. पातालमेत ३४
1 .. ७४ ने तज्जलं ... ... १७८ पीयूषप्रसति ... ... ४६ नेन्वाश्रय ... ... १९० पृथ्वि स्थिरा 1 .. १४० ... निमेषमपि १७२ पुराणि यस्यां ... .. ... १७८ निरर्थकं १०७ पुष्पं प्रवालोप ... ... ८६ निरीक्ष्य विद्यु १११ पूर्णेन्दोः परि ६४ .. १२ निर्लूनान्य प्रभामहत्या ३३ 100 ... ११४ निशासु भाख प्रसरद्विन्दु ... ... २५२ ... .. १९१ प्रसर्पत्तात्पयै ११५ नीतानामा नेत्रैरिवोत्पलै: १२२ प्रसीदेति ... ... १४७ 1 .. ... ११८ प्राप्याभिषेक ... ... ८० नो किंचित्कथ ... ... १५३ प्रायः पथ्यप १६४ न्यञ्चत् कुश्चित ... ... २०१ प्रीसादे सा ... १७२ प. ब. पथि पथि ... ... १६३ बाणेन हत्वा ... ... १५० परहिअअं १६६ ... ... बालअ णाहं .. ... १४७ पेरिच्छेदातीतः ... ... १५५ बिभ्राणा हृदये ... ... २०१ पर्यङ्को राज ... ... ४८ ब्रूम: कियन्नय ... 1 .. २८ पशुपतिरपि ... ... १९७ भ. पश्यत्सूदत ... ... १६३ भैक्तिप्रह्वविलो ... १९९ पश्यन्ती त्रपयेव ... ११६ भक्तिर्भवे .. ... १९४
१. भट्टिकाव्ये। २. भलटशतके। ३. विक्रमाङ्कदेवचरिते । ४. पाणिनेः । ५. भवभूतेर्मालतीमाधवे। ६. कुमारसंभवे। ७. रघुवंशे। ८. नवसाहसाङ्कचरिते। ९. वालरामायणे। १०. नवसाहसाङ्कचरिते। ११. कुमारसंभवे। १२. कुमारसं- भवे। १३. अमरुशतके। १४. विक्रमाङ्गदेवचरिते। १५. सुभाषितावलौ भाग- वतामृतवर्धनस्य ।
Page 289
६
पृ० पृ०
भासते प्रतिभा यत्रैव मुग्धेति १९१ ... ... ३०
भुजंगकुण्डली यथारन्ध्रं ... १८४ ... २३ ...
अ्रेमिमरति यदि नेच्छसि २२२ ... ५० ... o ..
म. यदेतचचन्द्रा ... ६४
मग्गिअलद्धमि ८५ यद्वकचन्द्रे .. २५१ ... ...
मेदनगणना १११ यंद्वा मृषा ... ... १५१ ... मैनीषिता: १८३ यद्विस्मयस्ति ... १८३ ... ... ११५ यैरय किंचिद मन्दममि 0 .. ... २०७ ... .. मेलयजरजस यान्त्या मुहुर्व ३३ ... २१३ ... ... महिलासहस्स ७६ यामि मनोवा ... ... ४८ ...
मानमस्या ... ... २०५ युद्धेऽर्जुनो ... ... ३८
मुक्ता: केलि ये कन्दरासु ... ... ... २३० २१२ ... १७ मुण्डसिरे ... .. १०० येन ध्वस्तमनो ... १२२
मुनिर्जयति ... २२८ येन लम्बालकः १३४ ... .. ...
मुरारिनिर्गता २५४ यैरेकरूप ... ... ११४
मृगलोचनया ... १०७ यैर्दृष्टोऽसि ... ४२ ... ...
मृंग्यश्च दर्भा १८२ योगपट्टो ... ९० ... थै: कौमारहरः १६१ यो यः पश्यति २६ ... ... यतेवन्नेत्रसमान ... ... १८२ र. २० यत्रैता लहरी ... ... १८५ रज्जिता नु ... ... ५५
१. रुय्यकस्य श्रीकण्ठस्तवे। २. ध्वन्यालोके। ३. मङ्गस्य श्रीकण्ठचरिते। ४. कुमारसंभवे । ५. वामनस्य काव्यालंकारसूत्रवृत्तौ। ६. गाथासप्तशत्याम्। ७. दण्डिन: काव्यादशें। ८. ध्वन्यालोके। ९. प्रतीहारेन्दुराजवृत्तौ। १०. कुमारसंभवे । ११. शीलाभट्टारिकायाः । १२. सुवृत्ततिलके कान्यकुब्जा- धिपतेर्यशोवर्मणः। १३. सुभाषितावलौ श्रीहर्षचौरयोः । १४. विक्रमाङ्कदेव- चरिते। १५. शिशुपालवधे। १६. भवभूतेर्मालतीमाधवे। १७. सुभाषितावलौ चन्द्र- कस्य। १८. प्रतीहारेन्दुराजवृत्तौ। १९. प्रतीहारेन्दुराजवृत्तौ। २०. किरातार्जुनीये।
Page 290
पृ० रक्तच्छदत्वं ... ... १२३ १२ विदलितसकला .. ... २०१ रंथस्थितानां ... ... ८१ विद्वन्मानस ... ... ४७ राजति तटीय ... ... २५० 23 विनयेन विना ... ... १०६ राजन्राजसुता ... रज्ञो मान १३६ ... १४ विभिन्नवर्णा ... ... २१४ ... ... १२० राज्ये सारं वियोगे गौड १८० ... ... १०० ... ... रेहइ मिहि ९२ चिलङ्गयन्ति ... .. १९४ ... ...
ल. विलसदमर ... ६५
लावण्यद्रविण विलिखति ... 1.0 ८६ .. ११३
लावण्यौकसि १८८ विर्स्टरागा ... ... १९० ... ... २०८ विस्तारशालिनि ... ... ४६
लिम्पतीव तमो ९२४५ वृषपुंगवल ... ... २३ .. ... ७४ श. लोकोत्तरं ... १४० शरदीव ... ... २५३ व शैशी दिवस ... ... २०४ वक्कस्यन्दि ... २१८ वदनसौरभ शुद्धान्तदुर्लभ ... २४४ वसुरहितेन शैलेन्द्रप्रतिपाद्य ... ... २१८ ... .. २२२ स. वामेन नारी ... ... २४० सें एकस्त्रीणि ... ... १६१ विजये कुशल २२२ संकेतेकाल ... ... 6 .. ... २१८
१. विक्रमाङ्कदेवचरिते । २. राजानकरताकरस्य हरविजये। ३. वेणीसंहारे । ४. रुद्रटस्य काव्यालंकारे। ५. औचित्यविचारचर्चायां बौद्धस्य धर्मकीतेंः । ६. ख- ण्डप्रशस्तौ। ७. भासकवेः चारुदत्तनाटके, मृच्छकटिकेऽपि। ८. वालरामायणे। ९. शिशुपालवधे। १०. सूर्यशतके मयूरस्य। ११. मयूरस्य। १२. रुद्रटस्य काव्यालंकारे। १३. मयूरस्य। १४. शिशुपालवधे। १५. नवसाहसाङ्कचरिते। १६. कुमारसंभवे। १७. नवसाहसाङ्कचरिते। १८. भर्तृहरेनीतिशतके। १९. अ- भिज्ञानशाकुन्तले। २०. ध्वन्यालोकलोचने। २१. ध्वन्यालोके।
Page 291
पृ० पृ०
संग्रोमाङ्गन १७९ सा बाला वय ... ... १६४ ... ...
संचारपूतानि साहित्यपाथो ... ... ... १५० ... ९२ ११५ सच्छायाम्भोज सीमानं न जगाम ... ... ४०
संजातपत्र सुहअ विलम्बसु ... १४७
... ... ८९ ७४
सेत्पूरुषद्योति २५५ सैषां स्थली ... ...
... ...
सैदयः करस्पर्श सौजन्याम्बु ... ४९
... ... १६५ स्टृष्टास्ता नन्दने ... ... १४२
सद्यः कौशिक ... १३० १२ स्वपक्षलीला ११५ ...
स वः पायादिन्दुः ... ... ७४ स्वेच्छोपजात ... ... १२३
से वक्तुमखि ... १५१ ह.
सँहसा विदधीत १४० ह। राहौ शित ... ... २२२ ...
सह्याः पन्नग २६ हैदैयमधिष्ठित ... ... ८८ ... १५ साधूनामुपकर्तु ९३ हे हेलाजित ... ... १४३ ... १. सदुक्तिकर्णामृते । २. रघुवंशे। ३. विक्रमाङ्कदेवचरिते । ४. नवसाह साङ्कचरिते। ५. नवसाहसाङ्कचरिते। ६. ध्वन्यालोके । ७. किरातार्जुनीये। ८. अमरुशतके; सुभाषितावलौ तु कल्याणदत्तस्य। ९. विक्रमाङ्कदेवचरिते । १०. रघुवंशे । ११. मेण्ठस्य हृयग्रीववधे। १२. मङ्कस्य श्रीकण्ठचरिते। १३. मयूरस्य। १४. कुट्टनीमते । १५. भर्तृहरेर्वाक्यपदीयटीकायां पुञ्जराजः ।
Page 292
पातञ्जलव्याकरणमहाभाष्यम्। (तृतीयाध्यायात्मकं विधिप्रकरणरूपं तृतीयखण्डम्) एतव्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपः, तद्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्योत इत्येतद्वयाख्याद्वयसमलङ्कतमेतत् खण्डं वाचकमहोदयेभ्यः संप्रति समुपहियते तच्चावश्यं संग्राह्यमित्यनु- नीयते च, येनाग्रिमांशस्य झटिति प्रकाशनेSतीव सौकर्य स्यात्। मूल्यम् रू. ३ प्रे. व्य. रू .. ।।.
योगरत्नाकरः। ग्रन्थोऽयं नात्यर्वाचीनोऽखिलभिषग्गणमान्योडप्यस्ति। अत्र सर्वेषां रोगाणां निदानपूर्विका चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा वि- विध-रसायन-कषायाSSसवा-Sरिष्टा-Sवलेह-गुटिका-पाकादीनां प्रक्रिया- प्रमाणाऽनुपानादिप्रपञ्चोऽपि कृतोऽस्तीत्ययं ग्रन्थ आयुर्वेदीयानामतीवो- पयोगीत्यवश्यं संग्राह्यः । मूल्यम् रू. २।. ग्रे. व्य. रू .. ।।.
द्रव्यगुणसंग्रहः। अत्र नानाविधौषधीनां गुणागुणविवेचनं सम्यककृतमस्ति। मूल्यम् १२ आणकाः। ग्रे. व्य. रू.
Page 293
२
अग्निवेशकृता चरकदृदढबलाभ्यां प्रतिसंस्कृता चरकसंहिता। चक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया समलङ्कता। मूल्यम् रू. ८ प्रे. व्य. रू. १।-
श्रीमहर्षिसुश्रुतप्रणीता सुश्रुतसंहिता। वैद्यवर-श्रीडल्हणाचार्यविरचितया निबन्धसङ्गहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासविरचितया न्यायचन्द्रिका- ख्यपञ्जिकाव्याख्यया च समुल्लसिता। अयं ग्रन्थो भगवतो धन्वन्तरेरुपदेशानुगुणं महर्षिश्रीसुश्रुतप्रणीतोऽ- खिलायुर्वेदनिबन्धेषु मूर्धन्यमणित्वेन वरीवर्ति। निबन्धकृद्धृद्यप्रकाशनाय वैद्यवर-डल्हणाचार्यरचिता व्याख्यापि सर्वाङ्गसुन्दरत्वेन विराजते। परं च संप्रति निदानस्थानस्य गयदासप्रणीतपञ्जिकाव्याख्यया च समलक्क- तोऽयं सर्वाङ्गसुन्दरो ग्रन्थः सर्वेषां सुखावबोधकः स्यात्। मूल्यम् रू. १० प्रे. व्य. रू. १।।-
प्राप्तिस्थानम्-पाण्डरङ्ग जावजी, निर्णयसागरमुद्रणालयाध्यक्षः, मुंबई नं. २