1. Alankara Sarvasva Rajanaka Ruyyaka KM 35
Page 2
KÂVYAMÂLÂ. 35.
THE
ALANKÂRASARVASVA
OF
RÂJÂNAKA RUYYAKA
With the Commentary of Jayaratha.
EDITED BY
MAHÂMAHOPÂDHYÂYA PANDIT DURGÂPRASÂD
AND
KÂSÎNATH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKARAM JAVAJI
PROPRIETOR OF "JAVAJI DADAJI'S NIRNAYA-SAGARA" PREF
BOMBAY.
Price 11 Rupee.
Page 3
.
.
Page 4
काव्यमाला ३५.
राजानकरुय्यककृतम्
अलंकारसर्वखम्। जयरथप्रणीतया टीकया समेतम् ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, परबोपाह्वेन पाण्डुरङ्गतनूभुवा काशीनाथशर्मणा च संशोधितम् ।
तच सुम्बय्यां निर्णयसागराख्ययन्न्नालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् ।
१८९३
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयत्रालयाधि- पतेरेवाधिकार: ।)
मूल्यं १। रुप्यकः ।
Page 6
अलंकारसर्वस्वस्य सूचीपत्रम्।
उपोद्धातः ... १ परिकर: ... ... ९४ पौनरुक्त्यप्रकारा: १६ श्रेष: ... ९५ अर्थपौनरुक्त्यम् ... ... अप्रस्तुतप्रशंसा ... ... ... १०४ पुनरुक्तवदाभास: १७ अर्थान्तरन्यास: ... १०९ छेकानुप्रासः ... ... २० पर्यायोक्तम् ... ... ... ... १११ वृत्त्यनुप्रासः .. ... ५ व्याजस्तुति: ... ... ... ११२ यमकम् .. २१ आक्षेप: ... ११४ ... शब्दार्थपौनरुक्त्यम् ... .. . २२ विरोध: ... ... ... १२१ लाटानुप्रास: ... २३ विभावना ... ... १२४ ... ... चित्रम् विशेषोक्ति: ... ... १२६ ... २४ उपमा ... ... ... २५ अतिशयोक्तिभेदान्तरम् ... १२८ अनन्वय: असंगति: ... ३० ... ... ... १२९ ... उपमेयोपमा विषमम् ... ३१ ... ... १३० स्मरणम् ३२ समम् .. १३२ ... ... रूपकम् ... ३४ विचित्रम् ... ... ... १३३ परिणामः ४० अधिकम् १३४ ... ... ... ... संदेह :- ... ... .. . ४२ अन्योन्यम् १३५ ... ... ... ... भ्रान्तिमान् ४४ विशेष: १३६ ... ... उल्लेख: ... ४६ व्याघातः १३७ ... ... ... ... अपद्तिः कारणमाला ... ५० ... ... १४०
उत्प्रेक्षा ... ५५ १४१ ... एकावली अतिशयोक्ति: ... ६५ मालादीपकम् १४१ तुल्ययोगिता ... ... ७० उदारः (सारः) ... ... १४२ दीपकम् ... ७१ काव्यालङ्गम् १४३ प्रतिवस्तूपमा ... ७४ अनुमानम १४६ दष्टान्त: ... ७५ यथासंख्यम् १४८ ... निदर्शना पर्याय: ... ७६ ... १५० व्यतिरेक: ... ७९ परिवृत्ति: १५२ सहोक्ति: ... . परिसंख्या १५३ ... ८१ ... विनोक्ति: ... ... ... ८३ अर्थापत्ति: ... ... १५६ " .. समासोक्ति: ... ८४ विकल्प: ... ... १५८ ... ... ...
Page 7
२
समुचय: १५९/ वक्रोकि: १७५ ... 0 .. ... ... ... समाधि: १६३ स्वभावोक्ति: ... ... १७७ ... ... प्रत्यनीकम् १६४ ... भाविकम् ... ... १७८ ... प्रतीपम् १६५ 0 .. उदात्तम् ... ... ... १८३ मीलितम् १६७ रसवत्परेय उर्जस्विसमाहितानि ... १८५ सामान्यम् ... १६९ भावोदय: ... १९० तबुण: १७० ... अतहुण: भावर्संघि: ... १७० ... 0 ..
उत्तरम् १७२ भावशवलता ... 0 .. ...
सूक्ष्मम् संस्टि: ... ... ... ... १७३ १९२ ...
व्याजोफि: संकर: . ... .. १९७ ... ... ... १७४
Page 8
काव्यमाला।
अलंकारसर्वस्वम्। श्रीमद्राजानकजयरथप्रणीतयालंकार विमर्षिणीसमाख्यया व्याख्यया समेतम्।
400
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम्। निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥
मङ्गलकामनया ग्रन्थकृत्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्य चैकेनैव वाक्येन परामृशति-नमस्कृत्येति। परां वाङयाधिदेवतां पराख्यां शब्दत्रह्मणोSपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलसििषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्टितशरीरां नमस्कृत्य निर्विन्नचिकीर्षितग्रन्थसमाप्तये तां प्रति कायवाऊ- नोभि: प्रद्वीभूय निजालंकारसूत्राणां वृत्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना। त- था चात्रोक्तलक्षणार्थविस्तरः-'येयं विमर्शरूपैव परमार्थचमत्कृतिः। सैव सारं पदार्थानां परा वागभिधीयते। नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता। अनादिनिधना सैव सूक्ष्मा वागनपायिनी॥ अनादिनिधनं ब्रह्म शव्दत्त्त्वं यदक्षरम्। विवर्ततेऽर्थभावेन प्र- क्रिया जगतो यतः ॥ वैखरी शव्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा। द्योतिकार्थस्य प- श्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥' इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दव्रह्मणः शक्तर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम। तथा चो- क्तम्-'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वा- गनपायिनी ॥' इति। अस्यार्थ :- अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभा- गहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तः सूक्ष्मबीजादङ्डुरमिव बहिरुन्मि- षन्ती किंचिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते। ततः परं तु-'अन्तः संकल्परूपा या कमरूपानुपातिनी। प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ।I' एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता कमरूपानुपातिनी मानसिकवर्णोच्चारणक्रमेण द्वितीयो वि- वर्तो मध्यमारूपो जायते। मध्यमा किल द्वयोवाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये
Page 9
२ काव्यमाला।
वर्तनान्मध्यमेत्युच्यते। तदनन्तरं च, 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक्प्रयोक्तणां प्राणवृत्तिनिबन्धना।।' इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रो- त्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्दाव्यक्तगकारादिविलाससमुच्चयपदवाक्यात्मकत- तीयो विवर्तो वैखरीत्युच्यते। विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवा- युसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति। विखरे शरीरे भवा वैखरीति वा के- चित्। सिद्धो मङ्गलार्थः। तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्क- ष्टामू। देवीम् 'दिवु क्रीडाविजिगीषादुतिस्तुतिव्यवहारमोदमदकान्तिस्वप्रगतिषु' इति यथायथं धात्वर्थानामतुस्मरणात् शक्तिमतां कवीनां श्रोतणां च स्वभावात्स्वेच्छया स- मुच्छलन्तीं क्रीडन्तीम्। तथा देवीं विजिगीषुं शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम्। तथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वाद्गुनिसंज्ञाम्। तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्धाम्। तथा देवीं व्यवहरन्तीं सर्वत्र प्रचरितां न तु क्वापि सखलिताम्। तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम्। तथा देवीं मादन्तीं कवेः सहृदयस्य च यथायथं करणावबोधाभ्यां कमप्यहंकारं जनयन्तीम्। तथा देवीं कमनीयां सवैरभिलषणीयाम्। त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्ताम्। तथा हि 'गङ्गायां घोषः' इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा। गङ्गादि- शब्दानां शैत्यादयर्थस्यावाचकत्वात्। न तात्पर्यात्मा। तात्पर्यशक्त्या ह्वयाघाराधेयभा. वागमार्थ परस्परमन्वयमात्र एव क्षीणत्वात्। न लक्षणा। मुख्यार्थबाधादिहेतुत्रितया-
त्यादि सोऽयमेवाग्रे विमृष्यति विमर्िणीकारः । अथ च व्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा। एतादृशीं तां नम- स्कृत्य मङ्गलाचरणरूपत्वेन मनागुददिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरी- क्षाविस्तरेण निर्णीय निजालंकारसूत्राणां वृ्त्या तात्पर्यमुच्यत इति। अस्याभिप्राय :- तथा च ध्वनेर्मनागुद्देशमात्रमेव करोति 'इह हि भामह-' इत्यादिना। तदेतत्तावदा- स्ताम्। निजेति। परकीयाणां सूत्राणां तात्पर्यकथनानवबोघोऽपि स्यादिति भावः । तथा न कैश्चिदपि परैरीदंशि सूत्राणि कृतानीत्यपि ध्वनितम् । तात्पर्यमिति। संक्षिप्तार्थप्रकाशनमित्यर्थः । अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन पारं न या- यात्। ननु 'आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने। प्रतिपादयितु श्रोतप्रेवा- होत्साहसिद्धये ।l' इति नीत्या श्रोतप्रवृत्त्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधी- यते। तच्चेह नोक्तमिति कथमत्र श्रोतृणां प्रवृत्तिः स्यात्। मैवम्। अलंकारा ह्यत्राभि-
१. ख-पुस्तके टीकायां प्रारम्भात्प्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति. २.'प्रवरो- त्साह' ख. ३. 'श्रोतप्रवृत्तिः' ख.
Page 10
अलंकारसर्वस्वम्।
इह हि तावद्वामहोदद्टप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतयालंकारपक्षनिक्षिप्ं मन्यन्ते। तथाहि-पर्यायोक्ताप्रस्तु- तप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्' इति य- थायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः । घेयाः। तेषामत्र साक्षादेवाभिधानात्। तदभिधायकं चेदमलंकारसर्वस्वाख्यं प्रकरणमि- त्यभिधानाभिधेययोनियमगर्भीकारेणार्थाक्षिप्तो वाच्यवाचकभावलक्षणः संबन्धः । नह्येवं- विधमेतदभिधायकं प्रकरणान्तरमस्ति। तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपल- म्भात्। अत एवात्रान्यालंकारग्रन्थवैलक्षण्योद्धोषणाय 'तात्पर्यमुच्यते' इत्यादयुक्तम्। अभिधेयाश्चात्रालंकारा: काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पार- म्पर्येण 'काव्यं यशसेऽर्कृते व्यवहारविदे शिवेतरक्षतये। सदः परनिर्वृतये कान्तासंमि-
चतुर्वर्गावाप्तिः प्रयोजनम्। तयोश्र साध्यसाधनभावलक्षणः संबन्धः। इति स्थितमेवा- दिवाक्यस्य श्रोतश्रवणश्रद्धाविर्भावनिबन्धनत्वम्। नेनु यदीहालंकारा अभिधेयास्तहिं तदलंकार्योऽप्यभिधेयः। 'अलंकारा अलंकार्यापेक्षाः' इति नीत्या स एवैषां को नाम य दुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्कय तैदवतरणिकामेव वक्तुमुपक्रमते-इहे- त्यादिना। प्रभतिना दण्ड्यादयः । तावच्छब्दो विप्रतिप्त्यभावद्योतकः । चिरंतने- त्यादि। ध्वनिकारमतमेभिन दृष्टमिति भावः । प्रतीयमानमिति । वाच्यव्यतिरि- क्तत्वेन स्वसंवेदनसिद्धमपीत्यर्थः । अर्थमिति। विश्रान्तिस्थानतया परमोपादेयताल- क्षणम्। वाच्योपस्कारकतयेति। वाच्योपस्कारकत्वं ह्वलंकाराणामात्मभूतम्। अलंकारपक्षनिक्षिप्तमिति । समग्रालंकारान्तर्भूतं न पुनस्तद्व्यतिरिक्तमित्यर्थः । सन्यन्त इति। तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रे- णैव भावानामन्यथाभावो भवतीति भावः । एतदेव दर्शयति-तथाहीत्यादिना। तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः। वस्तुमात्रं न पुन- रलंकारा रसश्च। स्वसिद्धय इति। 'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तैरात्मनः प्रवेश- सिद्धयर्थ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तै्विना तेषां प्रवेशासिद्धेः । 'गङ्गायां घोषः' इत्यादौ तु गङ्गाशब्दः परत्र तटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति। स्वयं तस्य घोषाधिकरणत्वासंभवात्। यथायोगमिति।कचिद्धि वाच्योऽर्थःस्वसिद्धये परं प्रतीयमा- नमर्थमाक्षिपति। क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति। तेन यत्र यादृक्तत्र ताद्ृगेव योज्यमित्यर्थः। तत्र पर्यायोक्तं यथा-'अधाक्षीनो लङ्कामयमयमुदन्व- १. 'युक्त्या' क. २. 'ननु च' ख. ३. 'तदवतारणिकां' क. ४. 'वाच्यसंस्कार- कत्वेन' ख.
Page 11
४ काव्यमाला।
न्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात्। इति स्मार स्मारं त्वदरिवलभीचि- त्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति। तत्पलायनाद्यन्तरेण राक्षसवृत्ता- न्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा-'प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि। तस्यास्य स्मितमात्रकेण जनय- न्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ।' अत्र वेतालच- रितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति। समासोक्तिर्यथा-'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' अत्र बोधिसत्वे नायकव्यवहारो न संभवतीति स्वसिद्ध्यर्थ नायकत्वमाक्षिपति। आक्षेपो यथा-'कि भ- णिमो भण्णइ कित्ति अध किं वा इमेण भणिएण। भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसि ।' अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रा- न्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थान्तरमाक्षिपति । यत्वत्रान्यैः 'वाच्योऽर्थः स्वसि- द्धयेऽर्थान्तरमाक्षिपति' इत्युक्तं तदयुक्तमेव। तथात्वे हि निषेध एव पर्यवसितः स्यान निषेधाभास इत्याक्षेपालंकार एव न स्यात्। आमुखावभासमानो हि निषेध आक्षेपल- क्षणम्। न च विधिनिषेधयोरविरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुतिर्यथा-'इहि- णं पहुणो पहुणो पहुत्तणं किं चिरंतनपहूण। गुणदोसा दोसगुणा एहि कआ हु कआ तेहिं ।' अत्र चिरंतनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति। तद्तत्वेन वस्तुदर्शिताया निन्दाया असंभवात्। एवमद्यतनानामपि स्तुतिर्निन्दायामा- त्मानमर्पयति। तस्या अपि विपरीततया तद्गतत्वेनासंभवात्। यत्पुनरत्रान्यैः स्वसिद्धये, पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव। यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्र- तीयेत अद्यतनानां च निन्दाक्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्य- वसितः स्यादिति नैतद्युक्तमू। किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः । तथात्वे हि लक्षणायाः स्वरूपहानिः स्यात्। वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्या- र्थबाधाभावात्। न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम्। विप्रतिषिद्धं ह्येतत्। वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा। तस्या हि मुख्यार्थबाध एव जीवि- तम्। 'कुन्ताः प्रविशन्ति' इत्यादौ च कुन्तानां स्वयं प्रवेष्टमसंभवान्मुख्यार्थबाध ए.
१. 'किं भणामो भण्यते किमिति अथ किं वा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥' इति च्छाया. २. 'विधिरूपं' ख. ३. 'तदयुक्तमेव। अत्र सम्यड्डिषेधः न निषेधाभासः' ख. ४. 'अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम्। गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः।।' इति च्छाया.
Page 12
अलंकारसर्वस्वम्।
रुद्रटेन तु भावालंकारो द्विधैवोक्तः। रूपकदीपकापह्ुतितुत्ययोगिता-
वेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम्। अतश्च लक्षणायां बाधितः स- न्मुख्योऽर्थ: परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम्। ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिद्धयर्थ परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम्। इद प्रतिप- त्तव्यमू-अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं स- त्कार्य तदविनाभावात्परं कारणमाक्षिपतीत्याक्षपेणेवै सिद्धेस्तस्या अनुपयोगः । 'गौर- नुवन्ध्यः' इत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावा- द्वयक्तिराक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयोईेयम्। एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्यत्रापि लक्षणामूलत्वं नाशङ्क- नीयम्। ग्रन्थकृता पुनरेतच्चिरंतनमतानुवादपरतयोक्तम्। अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना। उपमेयोपमा यथा-'रजोभिः स्यन्दनोद्धतैर्गजैश्च घनसं- निभैः। भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥'अत्र दवयोः परस्परमुपमानोपमे- यत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमान्तरविरहलक्षणे परत्र वस्त्वन्तरे स्वं समर्पयति। अनन्वयो यथा-'भवानिव भवानेव भवेद्यदि परं भव। स्वशक्तिव्यूहसंव्यूढत्रैलोक्यार- म्भसंहृतिः ॥' अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति। आदिशब्दः प्रकारे। तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणम् । यथा-'भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्ुखः। तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीविते ।' अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धुमेवोपक्रान्तस्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वमर्पणेन निषेधमाक्षिपति। एवं द्विविधया भङ्गया गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम्। एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्य- तीत्याशङग्याह-रुद्रटेनेत्यादि। द्विधेति। गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवन्नप्रतिबद्धेन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ॥ आ्रमतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुनि- तरां मलिना मुखच्छाया॥ अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम्। अर्थान्तर- मवगमयति यद्वाक्यं सोऽपरो भावः । एकाकिनी यदबला तरुणी तथाहमस्मद्हे गृह- पतिः स गतो विदेशम्। कं याचसे तदिह वासमियं वराकी श्वश्ूर्ममान्धबघिरा ननु मूढ पान्थ ।' इति। यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम्। तेनादें स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थ स्वसमर्पणम्। यत्वत्रान्यैर्भावैनिर्वेदादिभिरु- पलक्षितो वाच्यप्रतीयमानत्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव। रुद्रटेन तथात्वेन तस्याप्रतिपादनात्। तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात्। तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन
Page 13
६ काव्यमाला।
दावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रती- यमाना कथिता। रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनो- क्तः। तदित्थं त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव।
प्रतिपादितम्। इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति- रूपकेत्यादिना। तत्र रूपकं यथा-'भीमभ्रूकुटिपन्नगीफणमणिः कामस्य चण्डं चि- ताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम्। घ्राणस्याटिकर्मल्लिकापरिचिते भा- लाग्रशालाजिरे दीप्रा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ।' अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते। तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा-पाउअबन्धं पढिउं बन्धेउं तह अ कुजकुसुमाइं। पोढमहिलं अ रमिउं विरल- च्चिअ के वि जाणेन्ति ।I' अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते। प्र- कृतस्य प्रौढमहिलारमणादे: सादृश्योपादानायैवोभयोरुपनिबन्धात्। अपहुतिर्यथा-'अ- वाप्तः प्रागल्म्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एवं। तुल्ययोगिता यथा-'द्विगुणितादुपधानभुजाच्छिरः पलकितादुरसः स्तनमण्डलम्। अधरमर्धसम- पितमाननाद्वयघटयन्त कथंचन योषितः ।'अत्र भुजादीनां सादृश्यावगमादुपमावाच्यो- पस्कारायावगम्यते। तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्रहणम्। उपमादीत्या- दिशव्दादुपमेयोपमादीनाम्। तत्तु यथा-'प्रवातनीलोत्पल निर्विशेषमधीर विप्रेक्षितमा- यताक्ष्याः । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥' अत्र वाच्या- या निदरशनाया उपस्कारकत्वेनोपमेयोपमा गम्यते। तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः । अतश्चात्रालंकारो गम्यमानः स्थितो न वस्तुमात्रम्। तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरतदुदाहृतं तदयुक्तमेव। तत्र वस्तुमात्रस्य वाच्योपस्कारक- त्वेन प्रतिपिपादयिषितत्वात्। वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम्। तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः । सा तु-'महिलासहस्सभरिए तुह हिअए सुहअ सा अमायन्ती। दिअहं अणण्णअम्मा अङ्गं तणुअं पि तणुएइ ।' इति। तदित्थमलंकारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः । अधुना रसस्यापि वाच्यो- पस्कारकत्वं दशयितुमाह-रसवदित्यादि। प्रभतिशब्दादूर्जस्व्यादयः । आदिश- व्दाच्च तदाभासादयः । तत्र रसवदलंकारो यथा-'कृच्छ्रेणोरुयुगं व्यतीत्य सुचि-
१. मल्लिका दीपाधारदण्डः. २. 'प्राकृतबन्धं पठितुं बद्धुं तथा च कुब्जकुसुमानि। प्रौढमहिलां च रन्तुं विरला एव केऽपि जानन्ति ॥' इति च्छाया. ३. 'महिलासहस्त्रभ- रिते तव हृदये सुभग सा अमान्ती। दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति ॥' इति च्छाया.
Page 14
अलंकारसर्वस्वम् । ७
वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्धनिभेदोऽलंकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीति: काव्यात्मकत्वेनोक्ता। उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषय- मात्रेण भेदप्रतिपादनात्। संघटनाधर्मत्वेन चेष्टेः। तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् ।
रं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता। मदृष्टि- स्तवितेव संप्रति शनैरारुह्य तुग्गौ स्तनौ साकाह् मुहुरीक्षते जललवप्रस्यन्दिनी लो- चने ।I' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानु- भावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः। तत्संवलितत्वेन वाच्यस्य स- चमत्कारं प्रतिपत्तेः। प्रेयोलंकारो यथा-'तिष्ठेत्कोपवशात्प्भावपिहिता दीर्घे न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः। तां हर्तु विबु- धद्विषोऽषि न चमे शक्ता: पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति को- डयं विधिः ॥' अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव। ऊर्जस्व्य- लंकारो यथा-'दग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनिःसंधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम्। प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौल- स्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ।' अत्र सीतां प्रति रवणस्य रतिरनौ- चित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम्। एतदेवोपसंह- रति-तदित्थमित्यादिना।त्रिविधमिति। पर्यायोक्तादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः। तदेवं चिरंतनैः प्रतीयमानस्यालंकारान्तर्भाव एवं तावदुक्तः । तदुप- स्कार्य: पुनरात्मा कैश्विदपि नाभ्युपगतः। वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिद- धतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि। तुशब्दः पूर्वेम्यो व्यतिरेकद्योतकः। आत्मनोऽपि प्रतिपादकत्वात्। व्रुवतेति। यदाह-'सादृश्याल्ल- क्षणा वक्रोक्तिः' इति। एतदेवोदाजहार च-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्' इति। कश्चिद्धनिभेद इति। अविवक्षितवाच्यादिः। केवल- सिति। यदि परमित्यर्थः । गुणेति । यदाह-'विशिष्टा पदरचना रीतिः' इति। काव्यात्मकत्वेनेति। यदाह-'रीतिरात्मा काव्यस्य' इति। तदेवं विशिष्टपदरचना- त्मिकाया: काव्यात्मत्वेनाभ्युपगताया रीतेः 'तदतिशयहेतवस्त्वलंकाराः' इत्यादयुक्त्यान्त- र्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम्। अन्यैः पुनरेतदपि प्रत्युक्तमित्याह- उद्भटादिभिरित्यादिना। प्रायश इति। बाहुल्येनेत्वर्थः । विषयमात्रेणेति। १. 'विभावादीनां पर्ययेन तत्संवलितत्वेन' ख. २. 'दायकः' क. ३. 'राघवस्य' ख.
Page 15
काव्यमाला। V
वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रो- क्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान्। व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे। अभिधानप्रकारविशेषा एव चालंकाराः। सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमृक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्गचार्थजी- वितमिति तदीयं दर्शनं व्यवस्थितम्। भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः। तथात्वे चालंकाराणामपि गुणोपस्का- रयत्वं प्रसज्यते। समानन्यायत्वात्। त्गुणालंकाराणां तुल्यत्ववादिन एवौद्भटाः । इत्थ- मनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्व- निन पुनस्तव्तिरिक्त: कश्चिद्धनिरनामेति चिरंतनानां मतमित्युक्तम्। इदानीं यदप्यन्यै- रस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह-वक्रोक्तीत्यादि। वैदग्ध्येत्यनेन वक्रोक्ते: स्वरूपमुक्तम्। यदाह-'वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते' इति। एव- कारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम्। तां विना काव्यमेव न स्यादित्यर्थः । यदाह-'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवित।- यते' इति। व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिर्वर्तित- त्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमे- वास्यात्र प्राधान्यं विवक्षितम्। अतश्च दवयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्गनीयम्। अलंकारा इति। तेनोक्ता इति शेष: । एवकारश्रिरंतनोक्तध्वनिप्रकार विशेषव्यव- च्छेदकः। सत्यपीति। सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभा- वेत्यर्थः । भणितिरित्युक्तिः। कवीति। तत्रैव कवि: संरब्ध इत्यर्थः । तत्सरम्भमन्त- रेण हि वक्रोक्तिरेव न स्यात्। ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्याह-उपचारेत्यादि। उपचारवकरतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः। यदाह-'यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यंते। लेशेनापि भवे- त्कर्तु किंचिदुद्रिक्तवृत्तिता ।I यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधा- नासौ वक्रता काचिदिष्यते ।।' इति। एतामेवोदाजहार च-'गेअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं। निरहंकारमिअङ्गो हरन्ति नीलाओँ अ णिसाओ ॥' अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम्। एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः । सनस्थित एव। यदि परं तस्य प्राधान्यमेव नास्तीत्याह-केवलमित्यादि। तदीयमिति। वक्रोक्तिजीवितकारसंबन्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्गुनेरेव तत्त्त्वं प्रतिपादितम्। कैश्चिदप्यस्य १. 'किंचित्कर्तु' क. २. 'गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि। निर- हंकारभृगाङ्का हरन्ति नीलाश्ष निशाः ॥' इति च्छाया.
Page 16
अलंकारसर्वस्वम्।
भट्टनायकेन तु व्यङ्गयव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं त्रु- वता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। तत्राप्य- भिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्या- पारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । ध्वनिकार: पुनरभिघातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन-
वागविषयत्वादलक्षणीयत्वमुक्तमित्याह-भट्टनायकेत्यादि। प्रौढोकत्येति। न पुनर्लक्षणकरणेन। अत एवोक्ते: प्रौढत्वं यल्लक्षयितुमशक्यं तस्याप्यभ्युपगमः काव्यां- शत्वमिति न पुनः काव्यत्मत्वम्। यदाह-'ध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जना- त्मकः । तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिता ॥' इति। व्यापारस्येति कवि- कर्मणः । अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योरऽर्थप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात्। यदुक्तम्-'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थ- तत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्।' इति। तत्रापीति। कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । 'अभिधा भा- वना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्र्यंशं तेनोक्तम्। तत्रापि 'अभिधा- धामतां याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शङ्गारादिगणो मतः ॥' इत्यंशद्ूयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः' इति ततीयों- Sश: सहृदयगतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्' इत्यु-, क्त्या परव्रह्मास्वादसविधवर्ती विश्रान्तिघामतयाभ्युपगतः । तदेवं यद्यपि 'तात्पर्यशक्ति- रभिधालक्षणानुमिती द्विधा। अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलंकृतिः ॥ रसस्य कार्यता भोगो व्यापारान्तरबाधनम्। द्वादशेत्थं ध्वनेरस्य स्थिता विप्रतिपत्तयः ॥' इति नीत्या बहवो विप्रतिपत्तिप्रकारा: संभवन्ति, तथापि 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये। केचिद्वाचां स्थितमविषये तत्व- मूचुस्तदीयं' इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् 1.एवमिदानी- मेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्या- दिना। समयापेक्षार्थावगनशक्तिरभिधा। सामान्यानां परस्परान्वितत्वेन विशेषार्थाव- बोधनशक्तिस्तात्पर्यम्। मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणा। एतव्या- पारत्रयादुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः । तथा च 'गङ्गायां घोषः' इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरुम्बे च संकेतितौ। सामान्य एवोद्यो-
१. 'आदृत्य' ख. २. 'इत्येतह्यस्य' ख. ३. ख-पुस्तके 'तेन ब्रूमः सहृदयमनः- प्रीतये तत्स्वरूपम्' इति तुरीयपादोऽपि गृहीतः. ४. 'समयादर्थावगमन' ख. ५. 'गतिः' ख. ६. 'पादन' क.
Page 17
१० काव्यमाला।
वाक्यार्थत्वाभावाद्वाक्यार्थस्थैव च व्यङ्गयरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान्।
गातू। विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात्। ततश्राभिधया जलप्र- वाहमात्रं गृहनिकुरुम्बमात्रं च प्रतीतमित्येका कक्ष्या। एतत्प्रतिपाद्यान्यप्रतिपादनाया- प्यभिधा न समर्था। 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इत्याद्युक्तयुक्त्या तस्या विरम्य व्यापारासंभवात्। 'सामान्यान्यन्यथासिद्वेविशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याघाराघेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरय- न्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया। जलप्रवाहस्य च घो- षाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सेन्गङ्गाशब्दस्तदधिकरणयोग्यतटं लक्षय- तीति तीया। तत्र तावत्, 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्। अन्यो्ऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता क्रिया ।' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति। तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला। यश्च सामीप्यादिसंबन्धः स च प्र. माणान्तरावगम्य एव। यत्पुनरिदं घोषस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते त- च्छन्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम्। न तावत्प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमासिद्धेः। शब्दार्थे च तस्याप्रवृत्तेः। नाप्यनुमानात्। सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वातू। न स्मृतिः। तदनुभवाभावात्। सत्यामपि वा तस्यां नियतस्मरणं न स्यात्। अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । त- स्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः। निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात्। स तावन्नाभिघात्मा। समयाभावात्। न तात्पर्यात्मा। तस्यान्वयप्रतीतावेव परिक्ष- यात्। न लक्षणात्मा। मुख्यार्थबाधाद्यभावात। तस्मादभिधातात्पर्यलक्षणाव्यक्तिरि-
न्तव्यः । अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापा- रमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तप- रिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसरणीयैवेत्युभयथापि सिद्ध एव व्यञ्ञनव्यापारः। ए० तच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम्। आदिशब्दात्प्रत्यायनावगमनादी- नामपि ग्रहणम्। अवश्येति। तेन विना व्यङ्यस्यार्थस्यासंग्रहणात्। व्यापार- स्येति। व्यञ्ञनात्मिकाया: क्रियाया इत्यर्थः। सा खलु साध्यमानत्वेन पूर्वापरीभताव- यवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदवीमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः । यद्वक्ष्यति-'व्यापारस्य विषयमुखेण स्व- रूपप्रतिलम्भात्तत्प्राधान्येन आ्रधान्यात्स्वरूपेण विचार्य (विदित)त्वाभावाद्विषयस्यैव १. 'प्रतीतमेवेत्येका' क. २. 'स च गङ्गाशब्दार्थादधिकरण' ख. ३. 'शाब्देऽर्थे' क.
Page 18
अलंकारसर्वस्वम्। ११
व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरू- पेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्। तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसा-
समग्रभरसहिष्णुत्वम्' इति। उपस्कर्तव्यत्वेनेति। तत्परतयावस्थानेनेत्यर्थः । यदु- क्तम्-'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम्। रसादिपरता यत्र स ध्वनेरविषयो मतः ॥' इति । अत एव विश्रान्तिधामत्वादित्युक्तम्। आत्मत्वमिति। सारभूतत्व- मित्यर्थः । अतश्च तेन विना काव्यमेव न स्यादिति तात्पर्यम्। नहि निर्जीवं शरीरं क्वाप्युपयुक्तम्। ननु यद्येवं तर्हि 'गङ्गायां घोषः' इत्यत्रापि व्यङ्गयस्य सद्भावात्काव्यत्वं प्रसज्यते। नैतत्। इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि कर- णादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वूदस्यापि विविधगुणालंकारौचित्य- चारुशव्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः। ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धमिह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्गयाह-व्या- पारस्येत्यादि। विषयमुखेनेति। यथा ह्योदनादेविक्कित्यादिमुखेन पाकादे: क्रि- यायाः स्वरूपोपलम्भः।तत्प्राधान्येनेति। विषयप्रधानत्वेनेत्यर्थः। तेन व्यापारस्य प्रा- धान्यमुपचरितमिति भावः । स्वरूपेणेति। स्वरूपं हि तस्य साध्यमानत्वाद्विचारयि- तुमशक्यम्। सिद्धस्य हि विचारो भवतीति भावः । एवकारो व्यञ्जनव्यापारव्यवच्छे- दकः। समग्रेति। समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदे- वोपसंहरति-तस्मादित्यादिना। यस्येति। व्यङ्गयनास्रो रसाद्यात्मनो विषयस्य। गुणालंकारकृतचारुत्वेति। गुणानां 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इत्यादिनीत्या साक्षादेव तद्धर्मत्वात्। अलं- काराणामपि 'उपकुर्वन्ति तं सन्तं येऽङद्वारेण धर्मिणम्। हारादिवदलंकारास्तेऽनुप्रासो- पमादयः ॥' इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात्।अलंकाराणां च रसादिरूपं व्यङ्गयमर्थमलंकुर्वतां मुख्यया वृ्त्यालंकारत्वम्। अलंकार्यसद्भावनिबन्ध- नत्वात्तस्य रसाद्यात्मन एव च व्यङ्गघस्यालंकार्यत्वेन प्रतिष्ठानात्। अत एव च यत्र स्फुटव्यङ्गयार्थरहितत्वं तत्र 'गुणवृत्या पुनस्तेषां वृत्ति: शब्दार्थयोर्मता' इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलंकारत्वम्। यदभि- प्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते। अत एवानुप्रासाद- योऽलंकाराश्चित्रमित्याद्यन्यैरुक्तम्। स. च प्रतीयमानोऽर्यों यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम्। अतश्च १. 'कृतं' क.
१. 'काव्यं काव्यमेव न भवतीति तात्पर्पम्' क.
Page 19
१२ काव्यमाला।
म्र्राज्यम्। रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः। अलंकाराणामु- पस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात्। तस्माद्यङ्गय एव वा- क्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामाव- र्जकः । व्यञ्जनव्यापारस्य सर्वैरनपह्ुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रति- छानात्। यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जन- स्थानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्य-
वस्त्वलंकारयोर्यंदलंकारपक्षनिक्षिप्त्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पु- नरलंकारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि। आदिग्रहणाद्भावतदाभा- सादीनां ग्रहणम्। न वाच्या इति। वक्तुमयुक्ता एवेत्यर्थः। अलंकार्यस्यालंकार- त्वानुपपत्तेः । तस्य चालंकारत्वकथनेऽलंकार्यान्तरं प्रसज्यते। तेन विनालंकाराणा- मनुपपत्तेः । एतदेवोपसंहरति-तस्मादित्यादिना। व्यङ्गय इति रसादिरूपः । त- स्यैवोपक्रान्तत्वात्। वाक्यार्थीभूत इति। अवाक्यार्थीभूतस्तु रसादिरलंकारो- Sपि-स्यात्। यदुक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्न- लंकारो रसादिरिति मे मतिः ॥' इति। एतच्च रसवदाद्यलंकारप्रस्ताव एव निर्णे- ष्यामः । इतिशब्दः प्रमेयपरिसमाप्तौ। एतदेव युक्तमित्याह-एष एवेत्यादि। सर्वैरिति। अवाक्यार्थविद्भिरसहृदय प्रायैरित्यर्थः । पक्षान्तरस्येति । तत्र तावद्वा - च्यवाचकमात्राश्रयिणामलंकाराणां मध्ये व्यङ्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वा- दस्यान्तर्भावो न युक्तः । यदुक्तम्-'व्यङ्गयव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः। वा- च्यवाचकचारुत्वहेत्वन्तःपतिता कुतः ॥' इति। लक्षणायामप्यस्यान्तर्भावो न युक्तः । तदसद्भावेऽस्य सद्भावत्तत्सद्भावे चास्यासद्भावात्। यदुक्तम्-'अतिव्याप्ेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति। नाप्यस्यालक्षणीयत्वं युक्तम्। 'यत्रार्थः शब्दो वा तमर्थमुपसर्ज- नीकृतस्वाथों। व्यङ्ः काव्यविशेषः सध्वनिरिति सूरिभिः कथितः॥' इति। तदित्थमेतद्विप्र- तिपत्तित्रयस्याप्रतिष्ठानमुपपादितम्। इदानीमन्योऽपि यः कश्रिद्विप्रतिप्रत्तिप्रकारः कैश्चि- दुक्त्तः सोऽपि नोपपद्यत इत्याह-यनत्वित्यादि।ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति। तन्मतमिह पश्चान्निर्दिष्टम्। यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिका- रानन्तरभाविनावेव। तथापि तौ चिरन्तरमतानुयायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम्। अनेन पुनरेतत्स्वोपज्ञमेवोक्तम्। अनुमानान्तर्भावमिति। अनुमानरूपत्वमेवरेत्यर्थः । आख्यदिति। यदाह-'वाच्यस्तदनुमितो वा यत्रार्थोऽर्थांन्तरं प्रकाशयति। संब- १. 'तन्भावे चास्य चासंभवात' क्र.
Page 20
अलंकारसर्वस्वम्। १३
भावादविचारिताभिधानम्। तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहन- मिति नेह प्रतन्यते। अस्ति तावद्यङ््यनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्गयस्य प्राधान्याप्रा- धान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ द्वौ काव्यभेदौ। व्यङ्गयस्यास्फुटत्वे-
न्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥' इति। अविचारिताभिधानमिति। इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते। तन्निश्चयेनैव च साध्यसिद्धिः। अन्यथा हि साध्यसिद्धिर्न स्याद्यभिचारात्। तत्र तादात्म्यं यथा कृतक- त्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः। वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः। तथाहि-'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो नेत्रे दूरमनअ्जने पुल- किता तन्वी तथेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्ना- तुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' इत्यत्र विधिना निषेधो निषधेन वा विधि: प्रतीयते। न तस्य वाच्येन सह तादात्म्यम्। विरुद्धत्वात्। नह्यभावो भावात्मा भवति भावोऽप्यभावात्मा। नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः। नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम्। तेषां स्नाना- दावपि सद्भावादनैकान्तिकत्वात्। एतच्च ध्वनिकारेणादूषितत्वाद्रन्थकृता स्वकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः। एतदिति। वाच्यस्य प्रतीय- मानेन तादात्म्यतदुत्पत्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वि -* तत्य निर्णीतमिति भावः । तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रति- ष्ानो ध्वनिरित्याह-अस्तीत्यादि। तावच्छन्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि। व्यङ्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः। प्राधान्या- प्राधान्येति। यदुक्तम्-'तत्परावेव शव्दार्थो यत्र व्यङ्यं प्रति स्थितौ। ध्वनेः स एव विषयो मन्तव्यः संकरोज्ितः ॥I' इति। तथा-'प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते। तत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ।' इति। अस्फुटत्व इति। व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्-'रसभावादिविषयविवक्षाविरहे सति। अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इति। तत्रेति त्रयनिधरिणे। त- स्येत्युत्तमस्य ध्वनेः । आद्य इत्यविवक्षितवाच्यः। न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभे- दोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्-'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ- तम्। अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विघा मतम् ॥'इति। द्वितीय इति विवक्षिता- न्यपरवाच्यः । यदुक्तम्-'असंलक्ष्यक्रमद्दियोतः क्रमेण द्योतितः परः । विवक्षिताभि- धेयस्य ध्वनेरात्मा द्विधा मतः ॥' इति। अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्श- १. 'निषेधेनैव वा विधिर्यः' ख.
Page 21
काव्यमाला।
Sलंकारवत्त्वेन चित्रार्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य
आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः । द्वि- तीयोSप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः । लक्षणमूलशब्दश- क्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्गयः । अर्थशक्तिमूलो वस्तु(रसादि)-
यितुमाह-लक्षणेत्यादि। लक्षणामूल इत्यविवक्षितवाच्यः। शव्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमूलेऽर्थशक्तिरप्यस्ति तथापि तन्र तस्या: सहका- रितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम्। एवमर्थशक्तिमूलत्वेऽपि ज्ञे- यम्। वस्तुध्वनिरिति। रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात्। तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-'स्त्िग्धश्यामलकान्तिलिप्तवियतो वेल्द्व- लाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेका: कलाः। कामं सन्तु दृढं कठो- रहृदयो रामोडस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति। अत्यन्ततिर- स्कृतवाच्योऽपि यथा-'रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः। निःश्वासान्ध इवाद- शंश्चन्द्रमा न प्रकाशते ॥I' अत्रान्धशब्दः स्वार्थ निमित्तीकृत्यादर्शनसाधारणविच्छाय- त्वादिधर्मजातं वस्तुरूपं व्यनक्ति। रसादीति। आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा-'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्। अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न स- हते संगमं नौ कृतान्तः ॥' अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः । भावध्वनिर्यथा-'जाने कोपपराङखी प्रियतमा रदप्रेऽद दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः। नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥' अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः। रसाभासध्वनिर्यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्नणमखमुखे यं मृगयसे। सुलगने को जातः शशि- मुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अ- त्रानेककामुकविषयोऽभिलाष इति रसाभासः। भावाभासध्वनिर्यथा-'राकासुधाक- रमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमास्या। ततिंक करोमि विदधे कथ- मत्र मैत्रीं तत्स्व्रीकृतिव्यतिकरे क इवाभ्युपायः ॥' अत्रानौचित्यप्रवृत्ता चिन्तेति भावा- भासः । भावप्रशमो यथा-'एकस्मिञ्शयने पराखुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम्। दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्भन्नो मानकलि: सहासरभसव्यावृत्तकण्ठग्रहः ॥' अन्नासूयायाः प्रशम इति भावप्रशम-
Page 22
अलंकारसर्वस्वम्। १५
ध्वनिः संलक्ष्यक्रमव्यङ्गयः । शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्व- निश्चेति। तत्र रसादिध्वनिरलंकारमञ्जर्या दर्शितः। काव्यस्य शृङ्गारप्र- धानत्वात्। शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्गचो वाच्या- ङत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । चित्रं तु शब्दार्थालंका- रस्वभावतया बहुतरप्रभेदम्। तथा हि-
ध्वनिः । वस्तुध्वनिरलंकारध्वनिश्चेति। तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा-'निर्वा- णवैरदहना: प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥'अत्र कौरवाणां क्षतशरीरा- दिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते। स एवार्थशक्तिमलो यथा-अरससिरोमणि धुत्ताणँ अग्गिमो पुत्ति घणसमिद्धिमओ। इइ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ।' अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते। स एवोभयशक्ति मूलो यथा-'पंन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गगामे। उग्गअपओहरं पेक्खिऊण जइ वससि ता वससु ॥' अत्र यदुपभोगक्षमोऽसि तदा आस्त्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम्। शब्दशक्तिमूलो- डलंकारध्वनिर्यथा-'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः। पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ।' अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते। प्रकृताप्रकृत- योश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाह्कीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थशक्तिमूलो यथा-'ता ताण सिरिसहोअररअणाहरणम्मि हिअअमेकरसम्। बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन II' अत्र कौस्तुभबिम्बाघरयोः केवलयैवा- र्थशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः। उभयशक्तिमूलो यथा-'जैण- हिअअविदारणए धारासलिललुलिए ण रमइ तहा। तव दिट्ठी चिउरभरे पिआण जह वैरिखग्गम्मि ॥' अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपम्यं गम्यते। इतिशब्द: प्रमेयपरि- समाप्तौ। एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्र्मप्राप्तं गुणीभूतव्यङ्यस्यान्यतो योजयति- गुणीभूतेत्यादिना। दर्शित इति ध्वनिकारेण। यदाह-'व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥' इति। एवं गुणी- १. 'अलसशिरोमणिरधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया. २. 'पथिक नात्र स्नस्तरमस्ति मनाक् प्रस्तर- स्थले ग्रामे। उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. ३. 'तत्तेषां श्री- सहोदररत्नाहरणे हृदयमेकरसम्। बिम्बाघरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. ४. 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा। तव दृष्टिश्चि- कुरभरे प्रियाणां यथा वैरिखङ्गे ।' इति च्छाया.
Page 23
१६ काव्यमाला।
इहार्थपौनरूक्सं शब्दपौनरुक्सं शब्दार्थपौनरुत्तयं चेति त्रयः पौनरुक्सप्रकाराः॥। आदौ पौनरुक्त्यप्रकारवचनं वैक्ष्यमाणालंकाराणां- कक्षाविभागघटना- र्थम्। अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देश- श्रिरंतनप्रसिद्द्या पुनरुक्तवदाभासस्य पूर्वै लक्षणार्थः । इहेति शाब्दप्रस्तावे। इतिशब्दः प्रकारे। त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धेः । तन्रार्थपौनरुक्सं प्रेरूढं दोष: । परूढाप्ररूढत्वेन द्वैविध्यम्। प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम्। तत्रेति त्रयनिर्धारणे। यथावभासनविश्रान्तिः प्ररोहः।
भूतव्यङ्गस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्र- सित्यादि। तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः। अत एव बहुतरप्रभेदमित्यु- क्तम्। शब्दार्थेत्येकशेषः। तेनोभयालंकाराणामपि ग्रहणम्। तदेव दर्शयितुमाह-तथाही- त्यादि। चित्राख्यकाव्यभेद निरूपणावसरे कि पौनरुक्तयप्रकारवचनेनेत्याशङ्गयाह-आ- दावित्यादि। वक्ष्यमाणालंकारा: पुनरुक्तवदाभासादयः पञ्च। शब्दप्रतीतिपुरःसरीका- रेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्गयाह-अ- थेंत्यादि। चिरंतनप्रसिच्ेति। न पुनर्युज्यमानतयेति भावः । 'पुनरुक्तवदाभासं छेकानुप्रास एव च' इति चिरंतनप्रसिद्धिः। अर्थालंकारत्वादर्थालंकारप्रकरणे पुनरस्य युज्यमानत्वम्। नन्वादौ शब्दगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किंचित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तम्। शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः । कि च 'वर्धमानोत्कर्षाणि शा- स्त्राणि प्रथन्ते' इति नीत्या परिमितचमत्काराणामर्थालंकाराणां पश्चाननिर्देशः कार्य इति सप्रयोजन एव क्रमः । चिरंतनमतानुल्लङ्कनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम्। अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिष्यत्येव। तेन वयं यच्चिरंतनमता- श्रयणं व्याख्यास्यामस्तदुक्तमेव। एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि । किम- लंकारप्रस्तावे दोषकथनेनेत्याशङ्गयाह-प्रथममित्यादि। उपादेय इत्यलंकारस्व- रूपे। यथेति। यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः । यथा-'हरिणनयनां सारङ्गाक्षी कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम्। विलुलितकचां चञ्चत्केशीं चलच्चिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम् ।I' अत्र सारङ्गाक्षीमि- १. 'लक्ष्यमाण' क. २. 'प्ररूढदोषः' ख. १. 'उक्तं पश्यामः' क. २. 'मतोह्ङ्गनेनैव' क.
Page 24
अलंकारसर्वस्वम्। १७
आमुखावभासनं पुनरुक्तवदाभासम् ॥ आमुखग्रहणं पर्यवसानेन्यथात्वप्रतिपत्त्यर्थम्। लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधर्म्येण काव्यालंकाराणामलंकार्यपारतन्न्यध्वन- नार्थः । अर्थपौनरुक्त्यादेवार्थाश्रितत्वादर्थालंकारत्वं ज्ञेयम्। प्रभेदास्तु त्यादिषु पुनर्वचनं प्ररूढम्। अप्ररूढं पुनरलंकारः। न चैतावतैव दोषाभावमात्रेणालंका- रत्वमस्याशङ्कयम्। वक्ष्यमाणनीत्यालंकारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात्। त- देवाह-आमुखेत्यादि। अन्यथात्वेति। यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवा- विश्रान्तिरित्यर्थः । अन्यथा ह्युक्तनीत्या दोषः स्यात्। ननु पुनरुक्तवदाभासशब्दस्यालंकार- शब्दसामानाधिकरण्यादुपमादिवदजहल्विङ्गत्वयोगाच्च पुंलिङ्गत्वे किमितीह नापुंसकः संस्कार: कृत इत्याशङ्याह-लक्ष्येत्यादि। लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनः श- ब्दापेक्षया निर्देशे वचन इत्यर्थः। अलंकार्यपारतन्त्र्येति। काव्यसामानाधिकरण्येन निर्देशात्। लौकिका हारादयः । एषा ह्यलंकार्येण सह संयोगः संबन्धः । अत एवैषां त- त्परतन्त्रतापि न स्यात्। काव्यालंकाराणां पुनरलंकार्येण सह समवायः संबन्धः । अत एवैषामयुतसिद्धत्वादलंकार्यपारतन्त्र्यमेवेति लौकिकालंकारवैधर्म्यमेव न्याय्यम्। आश्रया- श्रयिभावेनालंकार्यालंकरणभावोपपत्तेः किमाश्रयमस्यालंकारत्वमित्याशङ्गयाह-अर्थेत्या- दि। एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः। तेन शब्दस्यापौनरुक्त्यान्न शब्दालंकारो नाप्युभयालंकारोऽयमित्यर्थः । पर्यवसाने वस्तुतोऽर्थस्यासत्वात्। धर्म्यभावे च धर्मस्य नि- विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम्। आमुखेऽर्थस्यावभासमानत्वेन स- त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात्। आमुखावगतैव च प्रती- तिरलंकारबीजं न पार्यवसानिकी। तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात्। पर्यव- सानेऽप्यर्थस्य 'दारुणः काष्ठतो जातः' इत्यादाविन्धनार्थस्य स्त्वादनेकान्तिकत्वाभावाच्छ- शश्ृङ्गवदभावो न वाच्यः । पर्यवसानेऽप्यत्रेन्धनार्थः सन्नपि नालंकारत्वप्रयोजक इति अग्विधदेहशरीरः' इत्यादावप्यसता कार्यार्थेनाविशेषात्समानः । किं च इतो न पर्यवसा- नेऽर्थस्यासत्वम्। इह हि प्रतीतिमात्रसारत्वात्काव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्य- विवादः। तंद्वाघोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभातस्यार्थस्यावभास- मानत्वात्सत्वमेव। नहि शतशोऽपि कूरादयर्थोपलम्भे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति। घाघोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनुपपद्यमानत्वं भवति। नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः । अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसा- यिन्यस्य स्वरूपम्। एवमपि वस्तुतः कार्याद्यर्थाभावस्तदवस्थ इति चेत्, सत्यम् । कि तु यथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कंचन विशेषमाधातुं नोत्सहते तथे- हापि वस्तुवृत्तेन कायादेरर्थस्यासंभवेऽपि प्रतीतौ न कश्रिद्विशेष इति दिण्डिकाराग एव १. 'पर्यवसानान्यथात्व' ख. २. 'अथ' ख. ३
Page 25
१८ काव्यमाला।
वास्तवत्वान्वेषणम्। तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतिष्ठापकं प्रमाणम् न त्वव- भासमानत्वं प्रमातधर्म इति कथं तदाश्रयो धर्मः काव्यालंकार इति चेत्, असदेतत्। अवभासमानत्वस्यावभास्यनिष्ठतया प्रतीतेरर्थधर्मत्वात्। तथा हि केषांचन प्रतीतिवादिनां 'तथाहि वेद्यता नाम भावस्यैव निजं वपुः । चैत्रेण वैद्यं वेझ्मीति कि ह्यत्र प्रतिभासते ।।' इत्यादयुक्त्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मत्वमेवेष्टम्। इह च तदुप- कम एवेति न वस्तुवादसंस्पर्शो न्याय्यः । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्र- यत्वात् शब्दालंकारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात् शशश्ङ्गवद्धर्मधर्मिभावो दुष्टः स्यात्। सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यावकाशः । अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्म्। एवं च विरोधेऽपि वस्तुतो विरुद्धस्यार्थस्यासंभवाद्विरुद्धार्थस्य च शब्दधर्मत्वात् शब्दालंकारत्वं प्रसज्यते। अत्र विरुद्धस्यार्थस्यासंभवेऽपि कर्त्रादिभिर्वाच्यतयाध्यवसायः । इह तु पौनरु- क्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्, नैतत् । यतः 'दारुणः काष्टतो जातः' इ- त्यादौ तावत्पौनरुक्त्याश्रयस्य काष्ठादेरर्थस्य जातत्वादिना सहान्वितत्वावगमादस्त्येव मु- ख्यया वृ्त्या वाच्यत्वम्। 'अरिवधदेहशरीरः' इत्यादौ तु वस्तुतः कायादेरवाच्यत्वेऽप्य- वभातपौनरुक्त्याश्रयत्वादकृत्निमार्थशोभापर्यवसायित्वेन वाच्यतयास्त्येव विवक्षितत्वम्। अत्र ह्यकृत्रिमोऽर्थोलंकृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृन्न तथा ुस्कृततयोच्यमानः स्यात्। 'स्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्ति' इत्यादि दृशा च हारस्य कण्ठालंकारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोघरादावप्य- लंकारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारक- त्वमपि प्रतीयत एवेति नानुभवापह्नवः कार्यः । एवं च पौनरुत्तयाश्रयस्यार्थस्य यत्रैव वाच्यत्वेन विवक्षितत्वं तत्रैवास्यालंकारत्वं नान्यत्र। 'अकृष्णपक्षेन्दुमुखी बन्धुजीवाध- रद्युतिः । इयं विलासिनी कस्य न नेत्रोत्सवकारिणी ॥' अत्राकृष्णेत्यर्थपौनरुत्तयस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलंकारः। एवं वक्ष्यमाणानामप्यलंकाराणां कविविवक्षैव स्वरू- पप्रतिष्ठापकं प्रमाणं ज्ञेयम् । किं बहुना, सर्वेषामप्यलंकाराणामुपमितार्थत्वादेः शब्दधर्म- त्वाच्छब्दालंकारत्वं स्यात्। तदर्थालंकारत्वमस्य ज्यायः । यावता ह्यर्थस्यामुक्त एव पुनरु- क्ततयावभासोऽस्य जीवितम् । अत एव पुनरुक्तवदाभासमित्यन्वर्थसंज्ञा। अर्थस्य च पौ- नरुत्तयप्रतीतौ न कस्यचिद्विवादः । तामेवाश्रित्य शब्दालंकारस्य भवद्भिरुक्तत्वात् । एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालंकारत्वं युक्तम्। अन्यथा तुल्यार्थशब्दतापि वाक्यधर्म इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः। अथात्र शब्दस्वरूपवैशिष्टयनिबन्धनं चमत्कार- कारित्वमिति तदलंकारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टथम्। किं पौनरु- त्तयम्, उत पुनरुक्तार्थवाचित्वम्, उत सभङ्गाभङ्गपदेन ल्िष्टत्वम्। तत्र न तावदादय: पक्ष:। शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात्। नापि. द्वितीयः । वाच्यवाचकभावेनालं
१. 'दष्टं' ख. २. 'विरुद्धार्थत्वस्य शब्द' ख.
Page 26
अलंकारसर्वस्वम्। १९
विस्तरभयान्नोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा- 'अहीनभुजगाधीशवपुर्वलयकङ्कणम्। शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम्॥ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम्। ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥' 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः । रक्त्तशोणार्चिरुच्चण्ड: पातु वः पावकः शिखी ॥' एतच्च सुबन्तापेक्षया। तिङ्कन्तापेक्षया च यथा तत्रैव- 'भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः। जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥।' शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च। अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्य- मेव स्वरव्यञ्जनसमुदायपौनरुक्त्य च। कार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः। अत एव सर्वेषामेवार्थालंकाराणामुपमितार्था- दिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम्। नापि ततीयः । पुनरुक्तवदाभासमित्यन्व- र्थसंज्ञाश्रयणात्। पौनरुत्तया्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् क्रिष्टत्व- स्येहानौपयिकत्वात्। तत्पुनरत्रार्थपौनरुत्तयावगमे निमित्तमात्रम्। निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः। तस्मादर्थाश्रयत्वात्पौनरुत्तयस्य तदलंकारत्वमेवेति युक्तम्। एवं वक्रलंकारतापि निरस्ता। सर्वेषामपि वक्रतिशयरूपत्वात्तथात्वानुपपत्तेः । विस्तर- भयादिति। न तु चित्रत्वाभावात्। नोच्यन्त इति। वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-'तुहिनक्षितिभद्ुष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो वि- श्वत्र समागतः ख्यातिम् ॥' 'नदीप्रकरमुल्लिद्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचि वहन्तं सर्वत्र पूजनीयं च, सकुम्भं सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशन च, करटं कमपि बिभ्रतं कवाटविभ्रमममुश्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणि- काकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्' इत्यनङ्गलेखायां हस्तिवर्णने । 'बतहन्तासितः कालो गोविभावसुदी- धितीः । क्षिपास्य रक्षावसितश्वेतराजयशोभय ।' असमस्तपदं तु ग्रन्थकृतैवोदाहृतम्। केवलस्वरपौनरुक्त्यं ककिं न गणितमित्याशङ्गयाह-अलंकारेत्यादि। यथा-'इन्दीव- ९. 'तथात्वोपपत्तेः.' ख.
Page 27
२0 काव्यमाला।
संख्यानियमे पूर्व छेकानुप्रासः ॥ द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः । पूर्व व्यञ्जनसमुदायाश्रितं यथा- 'किं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव। एतानि केलिरसितानि सितच्छदाना- माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः । छेका विद्ग्धाः । अन्यथा तु वृत्त्यनुपास: ॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं तर्यादीनां च परस्पर- सादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह
रम्मि इन्दम्मि इन्दआलम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइण्णो सरिससंकप्पो।।' अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम्। अत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदाया- श्रितमलंकारद्वयं लक्षयति-संख्येत्यादिना। एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुव- चनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् । द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्ग्याह-अनेकधेति। यकारमात्रेत्यनेन द्वयो- रवे सादृश्यमस्य जीवितमिति ध्वनितम्। यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटम- तानुरोधादिह लक्षणं कृतम्-अन्यथेत्यादि। एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे- केवलेत्यादि । समुदायः पारिशेष्याद््यञ्जनद्वयरूपः । एकधेति चात्रैव संबद्धव्यम्। केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात्। एतच्च समस्तासमस्ताक्ष- रत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः । क्र्रमेण यथा-'यया यायाय्यया यूयं यो यो यं येययायया। ययुयायि ययेयाय ययेयायाय याययुक्॥' असमस्ताक्षरं तु ग्रन्थकृतैवोदाह- तम्। 'दीनादीनां ददौ दानं निननाद दिने दिने। निन्दिन्द नन्दनानन्दानदुनोदिननन्द- नम् ।।' 'रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः। अचिररुचिरुचिररुचिभि- श्चिराच्चिराभिश्रमत्कृतं चेतः ॥I' 'ततः सोमसिते मासि सततं संमतं सताम्। अतामसो-
१. 'संकम्मा' क. २. 'तत्र' ख. ३. 'पारिशेषात्' क. ४. 'अनेकधेति' क. ५. 'खूबानी' इति नाम्रा कश्मीरादिषु प्रसिद्धैः फलविशेषैः.
Page 28
अलंकारसर्वस्वम्। २१
वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा। तदुपलक्षितोऽयमनु- प्रासः। यथा- 'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलैन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम्। न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ।।' यथा वा- 'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः । न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकद्दशां मानानुविद्धा दशः ॥' स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥ अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम्। यथा- त्तममतिः सती सुतमसूत सा ।' 'कमलदृदशः कमलामलकोमलकमनीयकान्तिवपुरमलम्। कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः ॥' आदिशब्दाच्चतुरक्षरादेर्ग्रहणम्। यथा-'स ददातु वासवादिदेवतासंस्तवस्तुतः । सदा सद्वसति देवः सविता विततां स- ताम् ।।' वर्णरचनेह वृत्तिरिति। उपचारादिति भावः । त्रिधेति । यदुक्तम्-'शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता। परुषा नाम वृत्तिः स्याद्हह्वह्याद्ैश्र संयुता ॥सरूपसंयोगयुतां मूर्धवर्गान्त्ययोगिभि: । स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥' शेषवणैर्यथायोगं रचितां कोमलाख्यया। ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयः॥' यथा-'निरगलविनिर्गलद्गुल- गुलाकरालैर्गलैरमी तडिति ताडितोड्डमरडिण्डिमोड्डामराः । मदाचमनचश्रुरप्रचुरचश्चरीको - च्चया: पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥' अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम्। एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्ष- यति-स्वरेत्यादि। एकस्येत्याद्युपलक्षणपरम् । अतो बहूनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । 'क्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वं' इति तु पाठे प्रथ- ममेव भेदद्वयमुक्तं स्यान्न ततीयः प्रकारः । अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्या- यान्। संक्षेपत इति। एतच्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपश्चयितुं न यो- १. 'वल्गन्ती' ख. २. 'ह्येताः' ख. १. 'पूर्व' ख.
Page 29
२२ काव्यमाला।
'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते। तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ।।' इदं सार्थकत्वे। एवमन्यज्ज्ञेयम्। शब्दार्थपौनरुक्त्यं प्ररूढं दोष: ।। प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम्। यदाहु :- 'शब्दार्थयोः पुन- र्वचनं पुनरुक्तमन्यत्रानुवादात्।' इति।
ग्यमिति चिरंतनालंकारवन्न विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्य- दिति प्रकारद्यम्। तत्रानर्थकं यथा-'सरसमन्थरतामरसादरभ्रमरसज्लया नलिनी मधौ। जलधिदेवतया सदृशी श्रियं स्फुटतरागतरागरुचिर्दधौ ।' अत्र तरागेत्यनर्थकम्। अनर्थकत्वसार्थकत्वयोर्यथा-'साहारं साहारं साहारं मुणइ सजसाहारम्। सं ताणं सं- ताणं संताणं मोहसंताणम् ॥' अत्र सज्जसाहारमित्यनर्थकम्। अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति। यदुक्तम्-'पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्' इति। अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभि- धानमू। स च स्थाननियमो वैवक्षिको न वास्तवः । यथा-'मधुपराजिपराजित- मानिनीजनमन:सुमनःसुरभि श्रियम् । अभृत वारितवारिदविप्लवां स्फुटितताम्रतताम्र- वणं जगत् ।।' अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम्। यथा वा- 'छिन्दाद्भयार्ति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः । उत्खातदन्तो गणना- यकस्य स्वामी यदन्यो गणनाय कस्य ।।' अत्र चार्धद्ये यमकद्यमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च 'श्रुतरसिक तरसिकलितरुकलितरुजा- लहरिजालहरिणतमः (?)। हरिणतमश्च ततस्तव ततस्तवः स्यादशोराशिः ॥' इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोयं वृ्त्त्यनुप्रासः । प्ररूढ- मिति। यथाभासनं विश्रान्तेः । यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दि- लीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।' अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दो- र्द्वित्वान्नैतत्प्ररूढमिति न कार्यम्। कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्यन्नानुवादादिति। अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोपाय। अक्रियमाणं पुनर्दोषाय भवतीति भावः। यथा-'उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता॥' अत्र रक्त इति। 'शिरः शार्व स्वर्गात्पशुप- तिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्वापि जलधिम्। अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥' अत्र पौनरुक्त्येऽपि शब्दस्या- १. 'श्रुतरसिक तरसिकलितं तरुकलिततरुजालहरिणतमः' ख. २. 'भासमानं' ख.
Page 30
अलंकारसर्वेस्वम्। २३
तात्पर्यभेदवत्तु लाटानुमास: ।। तात्पर्यमन्यपरत्वम्। तदेव भिद्यते, न तु शब्दार्थयोः स्वरूपम्। यथा- 'ताला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति। रइकिरणाणुगाहिआइँ होन्ति कमलाइँ कमलाइँ।।' 'ब्रूमः कियन्नय कथंचन कालमल्प- मत्राब्जपत्रनयने नयने निमील्य। हेमाम्बुजं तरुणि तत्तरसापह्त्य देवद्विषोऽयमहमागत इत्यवैहि ॥' अत्राब्जपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि ब- हुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव। 'काशाः काशा इवाभान्ति(न्तः) सरांसीव सरांसि च। चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥' पुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः । तदेवाप्ररूडमलंकार इत्याह-तात्पर्येत्याददि । अन्यपरत्वमिति। एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्गये वार्थे वाच्यविश्रा- न्तिरित्यर्थः । भिद्यत इति पर्यवसाने। आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः । अत एवाह-न शब्दार्थस्वरूपमिति। एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलं- कारः। नहि दोषाभावमात्रमलंकारस्वरूपम्। एवं हि सत्यपशब्दाद्यभावस्याप्यलंकारत्वप्र- सङ्गः। यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते। इत्येव सामान्येन यद्यप्यन्यपरत्वमुच्यते तद्विरो- धादिवत् 'उदेति रक्तः सविता- इत्यादौ दोषाभावमात्रत्वेऽप्यलंकारत्वोचितस्यान्यपरत्वा- ख्यस्यातिशयस्यापि भावादलंकारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयः प्रतीयत इति य- थोक्तमेव युक्तम्। एक: कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः । ब्रूम: कियदिति।अत्राब्जशब्दस्याप्यपौनरुक्त्याल्लाटानुप्रासत्वमेवेति चिन्त्यम्। अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्तत्वादन्यपरत्वाभावान्नास्ति तात्प- र्यभेदः । स एव ह्यस्य जीवितम्। अन्यथा त्यनुप्रासमान्नत्वं स्यान्नालंकारत्वम् । अथापि केवलनयनशब्दस्य स्वार्थविश्रान्ति: संसर्गपदान्तर्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञि- नमभिदधतश्च स्वार्थत्यागात्परार्थे च वृत्तेरस्त्येव लक्ष्यनिष्ठत्वमिति चेत, नैतत्। लक्षणासा- मग्र्यभावात्। अत्र ह्वन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः । स्वार्थ एव विश्रान्तेः। न च गुणीभावमुख्यार्थबाधयोरेकत्वम्। सतो हि मुख्यार्थस्य कंचिदपेक्ष्य १. 'न शब्दार्थस्वरूपन्' इति टीकासंमतः पाठो भाति. २. क-पुस्तके 'काशाः काशा दवेत्यादौ' एतावदेवास्ति. १. 'प्रयोक्तुमेव ज्यायः' ख.
Page 31
२४ काव्यमाला।
इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेर्भिन्नविषयत्वात्। 'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम्। अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' तदेवं पौनरुक्त्ये पञ्चालंकारः। निगदव्याख्यातमेतत्। वर्णानां खङ्गाद्याकृतिहेतुले चित्रम् । पौनरुक्त्यप्रस्तावे स्थानविशेषन्िष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवे- गुणीभावः । बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान्भेदः । नाप्यत्र किंचित्प्रयोजनं न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम्। एवम्, 'सितकरकररुचिरविभा विभाकराकार ध- रणिधरकीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥I' इत्यादावपि ज्ञेयम् । चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः । नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवेत्याशङ्कयाह-अनन्वय इत्यादि। आनुषङ्गिक- मिति। न पुनः साक्षात्प्रयोजकमित्यर्थः । शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात्। अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः। तत्तु यथा-'यच्च- क्षुर्जगतां सहस्रकरवद्धान्नां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत्। आत्मा सर्वशरीरिणां सवितवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिनकृद्योन्यैरतु- ल्योपमः ॥' अन्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दै- क्याभावोSनौचित्यमावहति न पुनरनन्वयस्याभावात्। 'स्थैर्यान्द्रूर्व्यापकत्वाद्वियद खिलजग-
ज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वेSपि यस्य प्रभवतु भवतां सोऽष्मूर्तिः शिवाय॥' अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शव्दैक्याभावो नानौचित्यावहः । तुशब्दो व्यतिरेके। साक्षादिति। शव्दैक्यं विनास्यानुत्थानात्। एतदेवोपसंहरति-तदेवमित्यादि। पुनवक्तवदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः । लाटा- नुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः । यद्यप्युक्ते: शब्दार्थगतत्वेनो- चरणाभिधानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादे- कत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनम्। यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम्। प्रतीतावेकतयैवावभासात्। अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः। वर्णानामित्यादि। उच्चारणकाले स्थानविशेषल्रिष्टवर्णात्मकखङ्गादिसंनिवेश- स्याभावात्पौन रुक्त्यप्रतीतिर्नात्रेति किमाश्रयोSयमलंकार इत्याशङ्गयाह-यद्यपीत्यादि। १. 'निर्विवादं व्याख्यातम्' ख.
Page 32
अलंकारसर्वस्वम्। २५
तवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोडयम्। आदिग्र- हणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः। यथा- 'भासते प्रतिभासार रसाभासाहताविभा। भावितात्माशुभावादे देवाभा बत ते सभा ॥' एषोऽष्टदलपप्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्िष्टाक्षर- त्वम्। विदिग्दलेषु त्वन्यथा। कर्णिकाक्षरं तु श्लिष्टमेव। उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यखे उपमा । अर्थालंकारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनि- षेधार्थम्। साधर्म्ये त्रयः प्रकाराः। भेदप्राधान्यं व्यतिरेकादिवत्। अभे- दप्राधान्यं रूपकादिवत्। द्वयोस्तुत्यत्वं यथास्याम् । यदाहु :- 'यत्र किं-
लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्या औपचारिकोऽयं श- व्दालंकार इति तात्पर्यार्थः । आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति-आासते- त्यादि। खङ्गबन्धः पुनर्यथा-'स पात्रीभविता मोक्षक्षणलक्ष्म्या भवारसः । समस्तज- नतायाससमुद्राभिन्नताभिदः ॥'छ्व्ष्टमेवेति। अष्टदिक्कमपि निर्गमप्रवेशयोः । उपमा- नेत्यादि। अर्थेति। शब्दालंकारनिर्णयानन्तरमवसरप्राप्तमित्यर्थः । ननूपमानोपमेययो- रेव साधर्म्य संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्गयाह-उपमा- नेत्यादि। तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम्। यथा-'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनश्ृङ्गला इव। मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनपुरा इव ।' अत्र क्वणनादेधर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेSपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमा- त्तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादे- दुष्टत्वम् तथाप्युपमानवाक्यस्य साकाङ्कत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव। नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात्। केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वम्। तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम्। उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम् । यथा-'गौरः सुपीवराभोगो रण्डाया मुण्डितो भगः । मेरोरर्कहयोल्लीढशष्पहेमतटायते ॥ अत्र तन्वङ्गया रूपवर्णने भग- वर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम्। भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषय- विभागेण व्यवस्थिति दर्शयति-साधर्म्य इत्यादिना। एतैरेव च त्रिभिः प्रकारैःसाधर्म्याश्रयः १. 'धर्मस्योपमानैक्यतां' क. ४
Page 33
२६ काव्यमाला।
चित्सामान्यं कश्चिच् विशेषः स विषयः सदशतायाः' इति। उपमैवानेक- प्रकारवैचित्र्येणानेकालंकारबीजभूतेति प्रथमं निर्रिष्टा। अस्याश्च पूर्णालुंप्ता- त्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम्। तैत्रापि साधारणधर्मस्य क्वचिदनुगामित- समग्र एवालंकारवर्गः संगृहीतः । तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः। रूपकव- दित्यनेन परिणामोत्प्रेक्षादयः। किंतु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेSप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्यति-'आरोपादभेदेऽध्यवसायः प्रकृष्यते' इति । अतश्चाध्यवसायगर्भे- ष्वलंकारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः। तत्राप्यभेदप्राधान्यस्यैव भावात्। अनयाप्युपमेयोपमादयः संगृहीताः । सामान्यमित्यभेदहेतुकम्। विशेष इति भेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम्। ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्गयाह-उपमैवेत्यादि। अने- केऽलंकारा: साधर्म्याश्रयाः तत्रैवास्याजीव(बीज)तवात्। उक्तमिति । 'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा। श्रौत्यार्थी च भवेद्ाक्ये समासे तद्धिते तथा ॥' इत्यादिना। अतश्च किमस्माकं तदाविष्करणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किंचि- दिति सूचितम्। तन्रापीति। चिरंतनोक्त पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधा- रणधर्सस्येति। धर्मः पराश्रितः तस्य च तदतद्गामित्वात्साधारणत्वम् । तदेव चोप- मादुत्थाने निमित्तम् । स च 'चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाष्यप्रक्रियया जाति- गुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति। न चैतद्विरुध्यते। धर्मिधर्मभावस्याश्रया- श्रयिभावेन भावात् । अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् । जात्याद्यात्मनो धर्मि- णोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात्। एवं च तदतिरित्तं धर्ममात्रमपि साधारणं न किं चिद्वाच्यम्। चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्तत्वात् । 'सदयं बुभुजे महाभुजः सहसो- द्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥I' इत्यादावुपमा- नादौ क्रियारूपत्वादेयोजयतुं शक्यत्वात्तस्या एव च समग्रविषयावगाहनसहिष्णुत्वात्। ननु जाते: साधारणधर्मत्वे तज्नातीयत्वात्तत्वं न स्यान्न तत्सदृश्यत्वमिति कथमुपमाङ्गत्व- मस्या: स्यादिति चेत्, न। बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् । तत्र ह्यसकृनिर्दे- शाद्डयोहोरनिर्झरादिकयोर्जात्योः शैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात्। एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः । तत्र धर्मिणो जात्यादिरूपता यथा-घनोद्यानच्छायामिव मरुपथाद्दावदहनात्तुषाराम्भोवापीमिव विषविपाकादिव सु- धाम्। प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विरहाल्लभेय त्वद्भक्ति निरुपमरसां शंकर कदा ।।' अत्र च्छायावापीसुघाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम्। छाया- यास्तु जातिरूपत्वाङ्गुणत्वं नाशङ्कनीयम्। उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यम् । धर्माणां तु यथा-'वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम्। छायापथेनेव शरत्प्र- १. 'लुप्ताद्वयभेदात्' क. २. 'अत्रासाधारण' ख. १. 'धर्मत्वेऽपि' ख. २. 'न सदृशत्वं' क. ३. 'श्वैत्य' ख.
Page 34
अलंकारसर्वस्वम् । २७
यैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङगिर्देशः । पृथड्गिर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्। विम्बप्रतिबिम्बभावो वा दष्टान्तवत्। क्रमेणोदाहरणम्- 'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।।' 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या। दिग्ोऽमृतेन च विपेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ।' अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने। धर्म्यभिप्रायेण तु विम्बप्रति- विम्बत्वमेव। 'पाण्ड्योऽयमंसार्पितलम्बहारः कप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराज: ।l' सन्नमाकाशमाविष्कृततारतारम् ।।' अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्र- व्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगतत्वेनोपनि- बद्धम्। एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यद- न्यैरुक्तं तदयुक्तमेवेत्यलं बहुना। एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम्। एतच्च न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम्। ऐक्यरूप्येणेति। सकृत्। यद्वक्ष्यति- 'तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देश उपमा' इति। पृथङ्गिर्देश इति। अस- कृदित्यर्थः । यद्वक्ष्यति-'वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव' इति। साधारणधर्म- स्येत्यत्रापि संबन्धनीयम्। वस्तुप्रतिवस्तुभावेपि द्वैविध्यमित्याह-पृथडिर्देश इत्यादि। संबन्धिभेदमान्रमिति। न पुनः स्वरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्यति-असकृन्नि- देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा' इति। एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलंकाराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्रतत्रोदाहरिष्यामः । क्रमेणेति यथोद्देशम्। संबन्धिभेदादिति। संबन्धिनोः कंधरावृन्तयोर्भेदात्। न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः। ननु यदि व- लितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्वर्मी कंधरावृन्त- रूप: पुनः किरूपतयेत्याशङ्गयाह-धम्यभिप्रायेणेत्यादि। एवकारः शुद्धसामान्य- रूपत्वव्यवच्छेदकः। कंधरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्रापक्षया धर्मत्वमेव युक्तम्। आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात्। अत एवास्यावास्तवत्वं पूर्वमुक्तम्। १. 'तारतम्यम्' क. २. 'यदन्यैराश्रित्योत्त' क.
Page 35
२८ काव्यमाला।
अत्र हाराङ्गरागयोनिर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ। अतश्चाननशतपत्रापेक्षया इति न व्याख्येयम्। तयोरुपमानोपमेयभाववाचोयुक्तेरेव युक्त- त्वात्। एवं च सति कंधरावृन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिबि- म्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः 'पाण्ड्योऽयम्' इत्याघुदाहृतम्। हाराङ्गरागयोरिति। स्वरूपयोरिति शेषः । न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थगतामुपमामाशङ्य गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि सा- धारणधर्मनिबन्धनमुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तम्। अनिर्देशपक्षे चास्य न वैचित्रयं किंचिदिति न तदाश्रयं भेदजात- मुक्तम्। अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना। वाक्यार्थोपमागन्धोऽप्यत्र नास्ति। स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादशैरेव ध- मिभि: साम्ये भवति। यथा-'जनयित्र्याः कुलाल्याश्र रक्षित्र्या विदितोऽभवत्। रत्न- सूतेर्भुजंग्याश्र प्रच्छन्न इव शेवधिः ॥' अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपा- त्तानि। एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव। बिम्बप्रतिबिम्बभावः पुनर्धमि- विशेषप्रतिपादनोन्मुखानां धर्माणां भवति। यथात्रैव। अत्र हि हाराङगरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम्। इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विव- क्षितत्वातू। अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयता- याः । एवं पाण्ड्यस्याद्रिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा। तावन्मात्रेणैव सादृश्य- पैर्यवसानात्। तच् हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वादृष्टान्तन्यायस्यैतत्सूदाह- रणमेव। ननु हारनिर्झरयोस्तदतद्रामित्वाभावात्कथं साधारणधर्मतेति चेतु, उच्यते-अ- स्यास्तावद्धर्मस्य साधारण्यं जीवितम्। तच्च धर्मस्यैकत्वे भवति। न च वस्तुतोऽत्र धर्म- स्यैकत्वम्। नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ। तस्यान्वयासंभ- वात्। अपि तु तजातीयोSत्रान्योऽस्ति धर्मः । एवं धर्मयोभेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात्। अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनि- मित्तमन्यदन्वेष्यम्। तत्राप्यन्यदित्यनवस्था स्यात्। ततश्र धर्मयोर्वस्तुतो भेदेऽपि प्रती- तावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम्। अन्यथा ह्युपमाया उत्था- नमेव न स्यात्। एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भदेऽप्य- भेदविवक्षकत्वं ग्रह्यम् । अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपम्यसमुत्थाने निमित्तत्वमेव न स्यात्। न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम्। अत एवात्र बिम्बप्रतिबिम्ब- भावव्यपदेशः । लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं सं- कान्तमित्यभेदेनाभिमन्यते। अन्यथा हि प्रतिबिम्बदर्शने कृशोऽहं स्थूलोऽहमित्याद्यभि- मानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् । प्राच्यैरपि-'स मुनिर्ला- ञ्छितो मौआ्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागश्चिष्ट इवांशुमान् ।' १. 'पर्यवसानम्' क. २. 'विवक्षेत्येकत्वं' ख. ३. 'इति' क.
Page 36
अलंकारसर्वस्वम्। २९
इति। तथा-'स पीतवासाः प्रगहीतशार्ङ्गो मनोजभीमं वपुराप कृष्णः । शतहूदेन्द्रायुध- वान्निशायां संसज्यमान: शशिनेव मेघः ॥'इत्यत्र मौझ्जीतडितोः शङ्गशशिनोश्च वस्तुतो भेदे- Sप्यभेदविवक्षामेवाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम्। अत एवात्र पूर्व ग्रन्थकृता वस्तुप्रतिवस्तुभाववस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावद्ृष्टान्तवच्चेति तदुक्तमेव दृष्टान्तद्वयं दत्तम्। एवं चात्राभेदविवक्षैव जीवितम्। एषा च लक्ष्ये सुप्रचुरैव। यथा-'विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धग- म्भीरघोषम्। अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥' अत्र विद्युद्दनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम्। अत एव तैस्तैविशषैरित्युक्तम्। तेषां सकृन्निर्देशाभावान्नानुगामिता। एकार्थत्वाभावान्न शुद्धसामान्यरूपत्वमिति पारिशेष्याद्विम्बप्रतिबिम्बभाव एव। एतेषां चाभेदेनैव प्रतीतेः साधा- रणत्वम्। एवं हारादेरपि ज्ञेयम्। अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता। न चैतावतैवैषामुप- मानोपमेयत्वं वाच्यम्। तथात्वाविवक्षणात्। सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम्। एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् । करचिन्निमित्तान्तरेणाप्यभे- दप्रतीतिर्भवति। यथा-'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्। त्याज्यो दुष्टः प्रियोऽप्यासीदष्टोऽङष इवाहिना ॥' अत्रोत्तरार्धे दष्टदुष्टयोर्दोषकारित्वादिना एककार्यका- रित्वं भेदकारणमित्यलं बहुना। इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भ- वति। क्रमेण यथा-'सदयं वुभुजे महाभुजः' इत्यादि । अत्र वधूमेदिन्योरचिरोपनतत्वा- त्प्रकृतत्वेन सदयोपभोगे समुच्चितत्वम् । अप्रकृता यथा-'स्वरेण तस्याममृतस्तुतेव प्रज- ल्पितायामभिजातवाचि। अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ।।' अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशव्दत्वे समुचितत्वम्। इयमेकदे- शविवर्तिन्यपि। यथा-'कमलदलैरधरैरिव दशनैरिव केसरैविराजन्ते। अलिवलयैरलकै- रिव कमलैर्वदनैरिव नलिन्यः ॥' अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेश- विवर्तित्वम्। इयं च सादृश्यदार्व्यार्थ कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति। तच्च क्वचिंदुंपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः । यदुक्तम्-'उपमे- यस्य वैशिष्टयमुपमानस्य वा क्वचित्' इति । वैधर्म्येणापि साधर्म्यमिति ततीयः प्रकारः पुनरस्या न वाच्यः। अस्योपमायामेव संभवाद्दार्यप्रतिपादनाप्रतीतेश्र। क्रमेण यथा- "तं णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स। छप्पअछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विही ।।' अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम्। 'आवर्जिता किचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्। संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ।।' अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् । न चास्या: पृथग्लक्षणं वाच्यम्, १. 'एव चात्र' ख. 'साधारणघर्मत्वमुक्तम्' क. २. 'समुचिता' ख. ४. 'क्र- मेण' ख-पुस्तके नास्ति. ५. 'अप्रकृता यथा' ख-पुस्तके नास्ति. ६. 'तं नमत नामिनलिनं ह्रेर्गगनाङ्गनाभिरामस्य। षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः ॥' इति च्छाया.
Page 37
३० काव्यमाला।
वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयस- ब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति। यथा-
द्वयोरौपम्यप्रतीतेः । सामान्यलक्षणस्यात्राप्यनुगमात्। अथात्र कल्पनास्तीति चेतू, न । एवं हि प्रतिभेदं लक्षणकरणप्रसङ्ग: । समुच्चितत्वादेविशेषान्तरस्यापि भावात्। अथोपमानगु- णविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथ- गलंकारत्वमिति चेतू, न। अत्रोपमेयस्योपमानगुणविशिष्टतयैव प्रतीते: फलभेदाभावात्। तथा हि 'आवर्जिता' इत्यादौ भगवत्या लताया: सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसा- हीदिति तयोः साधर्म्यमेव द्रदयितुं कविना लताया: संचारिणीत्वं कल्पितम्। नन्वत्र भग- वत्या अन्यदुपमानं नास्तीति प्रतीयते। अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात्। मैवम्। एवमुपमेयस्यापि वैशिष्टयकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम्। समानन्याय- त्वात्। तद्यथा दढारोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिरा- धिक्यं वा कल्प्यते तथेहापि सामान्यदार्ढ्यायैव कल्पितत्वं ज्ञेयम्। अन्राप्यभेदालंकाराख्या- लंकारान्तरत्वं न वाच्यम्। रूपकेणैवास्या विच्छित्तेः संगहीतत्वात्। विषयविषयिणोरभेदो हि रूपकसतत्त्वम्। स एव चात्र दार्ढ्येन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः । अभेदमात्रप्रतीतौ रूपकम्, नियतधर्महानावन्यतः सर्वतोऽप्यभेदप्रतीतावभेद इति प्रती- तिभेदोऽप्यस्तीति चेत्, न। एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता। यस्तु विशेषः स पृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलंकारत्वे। नहि शावलेयता(?)मात्रेण गोत्वमश्वत्व- व्यपदेश्यं भवति। एवं च 'गृहीतविग्रहः कामो वसन्तः सार्वकालिकः। जहार हृदयं कामी नित्यपूर्ण: सुधाकरः ॥' इत्यादौ गृहीतविग्रहत्वादेनियतस्य धर्मस्याधिक्येऽप्यलंकारा- न्तरप्रसङ्ग: । इयं च मालात्वादिनान्तभेदेति तङ्रन्थविस्तरभयान प्रपश्चितम् । एकस्यैवे- त्यादि। ननु सादृश्याश्रयाणामलंकाराणां लक्षयितुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्गयाह-वाच्याभि- प्रायेणेत्यादि। पूर्वरूपेति। सादृश्याश्रयत्वस्येत्यर्थः । अस्त्येव ह्यत्र शाब्दी सादृश्य- प्रतीतिः । मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात्। अत एवाह-वाच्याभिप्रायेणेति। न पुनर्वस्त्वभिप्रायेणेत्यर्थः । वस्तुतो ह्येकस्यैव साध्य- सिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोध: स्यात्। इत्थं शाब्दमेव सादृश्यानुगम- माश्रित्येहास्य लक्षणम्। ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्कि वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्ग्याह-एकस्येत्यादि। एवं चास्य द्वितीयसव्रह्मचारिनिवृत्तिरे- वालंकारत्वप्रतिष्ठापकं प्रमाणम्। अन्यथा पुनर्नास्यालंकारत्वम्। यथा-'तस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितंकरिणी जरेयम्। यद्गर्भरूपमिव मामनुशास्ति सो- १. 'मैवम्' ख-पुस्तके नास्ति. २. 'प्रसङ्गात्' ख.
Page 38
अलंकारसर्वेस्वम्। ३१
'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपति कुरूणा- मुत्प्रासनार्थमिव जग्मतुरादरेण।I' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ डयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः ॥I' अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशा- स्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावान्नायमलंकारः । एकस्यैवावस्थाभेदेन च सिद्धसाध्यघर्मसंभवान्नोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः । अत एवेति। विरुद्धधर्मसंयोगात्। एकस्यैव सिद्धसाध्य रूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संबन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसव्रह्मचारि- निवृत्तिरत्र जीवितभूता प्रतीयत एव। अत एव कार्तवीर्यहिंसत्रसत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् । 'इंत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि । अणुहरइ णवरँ तिस्सा वामाद्वं दाहिणद्धस्स ।I' इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम्। अत्रान्या- धेनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य ह्युपमानान्तरनिषेधपर्यव- साय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपम्। न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम्। एवं ह्वलंकारध्वनेविष- यापहारः स्यात्। एवम् 'गन्धेन सिन्धुरधुरंधर वत्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षि- तास्ते। तत्त्वं कचत्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु गूथपतित्वमेषि ।।' इत्यत्राप्य- नन्वयो न वाच्यः । स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्न्धस्याप्यभावात्। यदि नाम चै- तत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम्। यथोक्तन्यायात्। एवं च तदेकदेशे- नावसितभेदेन वेत्यपास्य उपमानतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम्। 'ग्रसमानमिवौजांसि सदस्यैगौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्युमान्॥' इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम्। एकस्यैव विध्यनुवादभावे- नावस्थानादारोपाभावात्। द्वयोरित्यादि । द्वयोरित्युपमानोपमेययोः, न पुनर्द्विसंख्या- कयोः । तेन, 'कान्ताननस्य कमलस्य सुधाकरस्य पूर्व परस्परमभदुपमानभावः । सदो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः ॥' इत्यत्र त्रयाणामप्युपमानोपमे- यत्वं स्थितमस्या एवाङ्गम्। तच्छ्देनेति तस्मिन्नित्यनेन। यौगपद्याभाव इति क्रमरूप- तवात् । अत इति यौगपद्याभावात्। स च वाक्यभेदः शाब्द आर्थश्च। तत्र शाब्दो यथा-'रजोभिः स्यन्दनोद्ूतैर्गजैश्र घनसंनिभैः। सुवस्तलमिव व्योम कुर्वन्व्योमेव भू- १. 'एकस्यैव' ख-पुस्तके नास्ति. २. 'एतावन्मात्रे जगति सुन्दरमहिलासहस्त्रभरिते। अनुहरति केवलं तस्या वामार्ध दक्षिणार्धस्य ॥' इति च्छाया. ३. 'उपमाननिषेध' ख. ४. 'कथं' ख, ५. 'अपास्य तेनैवानन्वय इति सूत्रणीयम्' क. ६. 'स्यन्दनोत्कीणेः' क.
Page 39
३२ काव्यमाला।
तच्छन्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः। इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशेच द्विधा। आद्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव इंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि।।' द्वितीये यथा- सच्छायाम्भोजवदना सच्छायवदनाम्बुजा। वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः।' सदशानुभवाद्वस्त्वन्तरस्पृतिः स्मरणम् ॥ वस्त्वन्तरं सदशमेव। अविनाभावाभावान्नानुमानम्। यथा- तलम् ।।' अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्य- भेदः। आर्थो यथा-'भवत्पादाश्रयादेव गङ्गा भक्तिश्र शाश्वती। इतरेतरसादृश्यसुभगा- मेति वन्दताम् ।।' अत्र स्फुटेऽपि शा्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्र गङ्गावद्वन्धे- त्यस्त्येवार्थो वाक्यभेदः अस्याश्रोपमानान्तरतिरस्कार एव फलम्। अत एवोपमेयेनो- पमा इत्यस्या अन्वर्थाभिधानम्। यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नाय- मलंकारः । यथा-'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । या- मिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' न ह्वन्र विधुसवित्रादीनामुपमानान्त- रतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति। साधा- रण्य इति। एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनोक्तम्। तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनि- र्देशपक्षे तु वास्तवमेव साधारण्यम्। यदनुसारं खमिव जलमित्यादुदाहृतम्। धर्मस्यानु- गामित्वे तु यथा-'कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः। धरणीव ध्रृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ।।' अत्र विभातीति सकृन्निर्दिष्टम्। वस्तु- प्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा। तत्र बिम्बप्रतिबिम्बभावो अ्न्थकृतैवोदाहृतः । तत्र ह्यम्भोजदनयोर्बिम्बप्रतिबिम्बभावः । शु- द्धसामान्यरूपत्वं यथा-'उद्ूल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्े। प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।।' (अन्र) प्रस्पन्दमा- नप्रचलितत्वेन शुद्धसामान्यरूपत्वम् । तारक्रमरयोस्तु बिम्बप्रतिबिम्बभावः । उन्मेषाभि- प्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम्। सदृशेति । वस्त्वन्तरमिति स्मर्य- माणम्। सदशमेवेति। सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमाणेनानुभूयमानस्य, १. "यदभिहितं बौद्धैः-'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति । वस्त्वन्तरं" ख.
Page 40
अलंकारसर्वस्वम्। ३३
'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्। कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ।।' सादृश्यं विना तु स्मृतिर्नायमलंकारः। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः) ॥।' अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वमसमीची- नम्। प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।
अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलंकारः । यदुक्तम्-'यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा। स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी ॥' इति। त- त्राद्यः प्रकारो ग्रन्थकृदुदाहरणे। तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम्। द्वितीयस्तु यथा-'तस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैल: कनककदली- वेष्टनप्रेक्षणीयः । मद्रेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ।।' अत्रानुभूयमानेन मेधेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्प- नमू। एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्य- वसेयम्। ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्गयाह-अविनाभा- वेत्यादि। अविनाभावस्तादात्म्यान्नित्यसाहचर्याद्वा। अनुभूयमानस्मर्यमाणयोश्ष तद- भावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगा- मितया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति। तत्र शुद्धसामान्यरूपत्वेन यथा-'सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजसरं यमुना- प्रवाहसलीलराधास्मरणं मुरारेः ॥' अत्र सोल्लाससलीलत्वयोरेकत्वम् । बिम्बप्रतिबिम्बभा- वेनापि यथा-'पूर्णेन्दुना मेघलवाङ्गितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः । विवाहहोमा- नलघूमलेखामिलत्कपोलां भवतीं स्मरामि ॥' अत्र मेघलवघूमलेखादीनां बिम्बप्रतिबि- म्बभावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना। सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वम्। स्मर्तव्यदशाभावित्व इति। स्मर्त- व्यदशाभावित्वं वाच्यं सदनादृत्येत्यर्थः । अत एव वाच्यस्यावचनम्। स्मर्तदशाभावित्व- मित्यवाच्यस्य वचनम्। यद्यपि स्मर्तदशायामतीतत्वात्कर्तविशेषणानां मृगयानिवृत्तत्वादी- नामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस् स्मर्तुर्विशेषणभा- वेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम्। प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलंकारस्येत्यादिना। तुशब्द- १. 'स्मृतिगामिनी' ख. ५
Page 41
२४ काव्यमाला।
यथा-'अहो कोपेऽपि कान्तं मुखम्' इति। तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं' इत्यादि। 'यैर्द्ृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्ुतिपाटलीकृतपुरोभागः परान्पातयन्।
ज्वालालीभरभास्वरे स्मररिपावस्तं गतं कौतुकम् ॥' इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात्। मतान्तरे काव्यलिङ्गमे- तत्। तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेद- प्राधान्येन कथ्यन्ते- अभेदपराधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ।
श्चार्थे। सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम्। तत्रापीति। एवं स्थितेऽपि सती- त्यर्थः। विभावाद्यागरितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिविषय इति संबन्धः । तत्र विभावाद्यागरितत्वे स्मृति- र्यथा-'अहो कोपेऽपि कान्तं मुखम् इति। स्वशब्दमान्रप्रतिपाद्यत्वे यथोदाहृतम् 'अ- त्रानुगोदं-' इत्यादौ। अत्र च यथा प्रेयोलंकारो भावध्वनेश्र्ास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात्। क्वचिच्च सादृश्य-
वस्त्वत्र जयापीडदर्शनम् । वस्त्वन्तरं तु भगवल्लक्षणम्। अत्र त्वद्दर्शनममिलषतां जनानां न त्वद्दर्शनावाप्तिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्त्वन्तरकरणम्। विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालंकार इत्याशङ्गयाह-करणस्येत्यादि। एतच्च गम्यगमकभावमाश्रि- त्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि। एतदिति स्मरणम्। मतान्तर इत्यौद्भटे। यदुक्तम्-'श्रतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हे- तुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ।I' इति। इह पुनर्गम्यगमकभावादनुभूयमानस्मर्य- माणव्यवहारोSपि विशिष्यत इति पृथगलंकारतयैतदुक्तम्। एतदुपसंहरन्नन्यदवतारयति- तदेत इत्यादि। एत इत्युपमाद्याश्चत्वारोऽलंकाराः। संग्नतीति। भेदाभेदतुल्यत्वा- श्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति-अभेदप्राधान्य इत्यादि। वस्तुत इति। न तु प्रतीतितः।सद्भाव १. 'यथा' क-पुस्तके नास्ति.
Page 42
अलंकारसर्वस्वम्। ३५
अभेदस्य प्राधान्याद्ेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः। तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्ववेऽपह्ुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम्। साधम्यै त्वनुगतमेव। यदाहु :- 'उपमैव
इति। प्रधानाप्रधानयोः संबन्धिशब्दत्वात्।अन्यन्नान्यावाप आरोप इति। अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः। स च सामानाधिकरण्येन वैयधिकरण्येन च निर्देशे भवति। न तु सामानाधिकरण्येन निर्देश एव सः। एवं हि-'याताः कणादतां केचित्' इत्यादावारोपसद्भावेSपि न सामानाधिकरण्यमस्तीति व्याप्ति: स्यात्।आर्थ सामानाधिकरण्यम- स्तीति नाव्याप्तिरिति चेत्, न। भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम्। न च तदत्र निर्दिष्टम्। वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात्। अर्थावसायो निर्देशश्च नैकं रूपम्। विप्रतिषेधात्। नीलमुत्पलमित्यादावपि गुणजातिरूपत्वेन भिन्नयोर्नीलोत्पलयोः सामानाधिकर- ण्येन निर्देशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात्। न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि। इति न निरवद्यमेतदारोपलक्षणम्। यद्येवं तत्किंशब्दे श- व्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेड्रमः । तत्र न शब्दे शब्दान्तगगेपः। मुखश-
क्तत्वात्। किं त्वर्थेऽर्थान्तरारोपः।सच प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या। अत एव शुक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूप- लवातू। अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छादितत्वेन प्रतीतिः। इह पुनर्जानान एव कश्चिचन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति। अत एवोक्तमारो- पविषयानपह्नव इति। भवद्भिरप्यनेनैवाश्येन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरि- त्यादुक्तम्। तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः । ताभ्यामवष्टब्धत्वं युक्तम्। यदुक्तम्-'सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा' इति। अन्यथेति। अपह्नवे। एवमनेनापह्ुतिरूपकयोर्भेदोऽप्युक्तः। आहुरिति दण्ड्यादयः। अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम्। यथा-'कंदर्पद्विपकर्णक- म्बुमसितैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिकमलं गण्डोपधानं रतेः। व्योमा- नोकहपुष्पगुच्छमलिभि: संछादमानोदरं पश्यैतच्छशिन: सुधासहचरं बिम्बं कलङ्गाङ्गितम्॥' अत्र कलङ्गस्य दानाम्ब्वादिभि: प्रतिबिम्बनम्। लाञ्छितत्वाङ्गितत्वयोः शुद्धसामान्यरूप- त्वम्। सुधासहचरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम्। अनेन च सादृश्य- निमित्त एवारोपो रूपकमित्युक्तं भवति। केषांचिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्ग- मेवेति मतम्। यदाहालंकारभाष्यकार :- 'लक्षणापरमार्थ यावता रूपकस्वरूपं' इत्यूप- क्रम्य 'सारोपान्या च सादृश्याद्वा संबन्धान्तराद्वा इत्यादि। स तु यथा-'अमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापा तुषारघरट्टिका। मनसिजवृसी श- दारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टे: कृती मृगकेतनः ॥' अत्रेन्दुरूप कारणे
Page 43
३६ काव्यमाला।
तिरोभूतमेदा रूपकमिष्यते' इति। आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः। इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम्। आद्यं केवलं मालारूपकं चेति द्विधा। द्वितीयं समस्तवस्तुविष- यमेकदेशविवर्ति चेति द्विधैव। तृतीयं श्िष्टाश्िष्टशब्दनिबन्धनत्वेन द्वि- विधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम्। तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्त्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः। क्रमेण यथा-
कार्यरूपायाः श्रद्धाया आरोपः । ग्रन्थकृताप्यलंकारानुसारिण्यामत्र श्रद्धाहेतुत्वाच्छद्धेत्य- भिधाया विशेषेणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदघतायमेव पक्ष: कटाक्षितः। ननु चाध्यवसायगर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः कि- मिति लक्षिता इत्याशङ्ग्याह-आरोपादित्यादि। चशब्दोऽन्यालंकारापेक्षया भेद- समुच्चयार्थः । विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथो- क्तम्। सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम्। परम्परयैकस्य माहात्म्यादपरस्यारू- पणत्वमायातं यत्र तत्तथोक्तम्। आद्यमिति निरवयवम्। माला चैकस्यानेकस्य वानेकारो- पाद्भवति। एवं परम्परितत्वेन मालारूपकं ज्ञेयम्। द्वितीयमिति सावयवम्। समस्तमारो- प्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम्। एकदेश आरोपविषयाणामर्थात्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तम्। ततीय- मिति परम्परितम्। यद्यपि श्रेषनिबन्धनेSस्मिन्गुणत्रियात्मकघर्मनिबन्धनस्य सादृश्यस्या- संभव एव। तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादश्यं ग्राह्यम् । अन्य इति एत- द्ेदाष्टकव्यतिरिक्ताः । संभवन्तीति चिरंतनालंकारग्रन्थेष्वेव। न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां तत्त्वेSप्येतद्भेदाष्टककृतमेव वैचित्रयं प्रतीयते। तथा च-'पादः कूर्मोSत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्लं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्र- तापप्रदीपः ॥' इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम्। क्रमे- णेति यथोद्देशम्। द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालोचनयेन्दोः स्मरकार्मुक- त्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोश्र्वैकस्य बहव आ- रोपा इति मालारूपकम् । अनेकस्य तु यथा-'बाहू बालमृणालिके कुचतटी माणिक्यहर्म्ये रतेर्मुक्ताशैलशिला नितम्बफलकं हास: सुधानिर्रः। वाचः कोकिलकूजितानि चिकुरा- श्रेतोभुवश्चामरं तस्यास्रस्तकुरङ्गशावकदृदशः किं कि न लोकोत्तरम् ॥' अत्रानेकेषामनेका- रोपाद्रूपकमाला। इयं च श्लेषनिबन्धनापि दृश्यते। यथा-'नेत्रे पुष्करसोदरे मधुमती १. काश्मीरिकमहाकविजह्वणप्रणी तसोमपालविलासकाव्यटीकायामू.
Page 44
अलंकारसर्वख्म्। ३७
दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नासि दूये। उद्यत्कठोरपुलकाक्करकण्टकाग्रै- र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥।' 'पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता। द्विर्भाव: स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' 'विस्तारशालिनि नभस्तलपत्रपात्रे कुन्दोज्ज्वलप्रभमसंचयभूरिभक्तम् (?)। गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्ण ॥' 'आभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा। इन्दुद्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापः ॥' क्षितिभृत इत्यत्र श्िष्टपदं परम्परितम् । वाणी विपाशा मतिश्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः। चारित्रं ननु पापसू- दनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमितीवोष्णोदकं वल्गति ॥' अन्नाने- केषां ल्रिष्टा अनेक आरोपिता इति श्रिष्टार्थरूपकमाला। आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्नियते। यथा-'भवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समु- च्चिन्वन्नानाविषयवनराजीविकसिताम्। भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहन्तुं
'पीयूषस्याधरामृतेन श्रिष्टशब्दनिरूपणम्' इति लेखककल्पितोऽयमपपाठो ज्ञेयः । अधरामृ- तस्य हि पीयूषेण निरूपणमत्र स्थितम्। अतश्च 'अधरामृतस्य पीयूषेण श्िष्टशब्दनिरूपणम्' इति पाठो ग्राह्यः । अत्र च पीयूषवद्मृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहर- णान्तरमुदाहियते। यथा-'अलौकिकमहालोकप्रकाशितजगत्रय। स्तूयते देव सद्वंशमुक्ता- रत्नं न कैर्भवान् ।' अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति ल्रिष्टशब्दं १. 'प्रभवसंचय' क.
Page 45
३८ काव्यमाला।
कि पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्धतो दर्प: स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ।' अत्र वक्रेण रूपणमहेतुकम् पीयूषेणाघरामृतस्य श्िष्टशब्दं रूपणम्। 'विद्वन्मानसहंस वैरिकमलासंकोचदीपद्युते दुर्गामार्गणनीललोहित समित्स्ीकारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम्। 'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथम्। जन्मजरामरणार्णवतरणतरण्डं हराङ्गियुगम् ।।' 'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्घेस्तरङ्गो
सङ्गामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्ग: क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।' अत्र क्ष्मासौविदल इति परम्परितमप्येकदेशविवर्ति। एवमादयोऽन्येडपि भेदा लेशतः सूचिता एव। इदं वैधर्म्येणापि दृश्यते। यथा- केवलपरम्परितम्। विद्वदित्यादिहंसरूपणामाहात्म्यान्मानसरूपणेति परम्परितम्। एवमर्ण- वरूपणा तरण्डारोपस्य हेतुरिति परम्परितम्। पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति माला- परम्परितम्। अनेकस्य तु यथा-'श्रीः श्रीधरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिच्च गौरी। शक्राक्षिपझ्माकरराजहंसी शची च वो यच्छतु मङ्गलानि II' अत्र बहूनामनेकारो- पात्परम्परितमाला। एवमादय इति । परम्परितमप्येकदेशविवर्तीत्येवंप्रकाराः ।सू- चिता इति। एतच्च दर्शनादेव। ततश्र सावयवं द्विविधमपि ल्िष्टं दृश्यते। तत्र सम- स्तवस्तुविषयं यथा-'विहडन्तोद्ठदलउडं फुरन्तदन्ताकारबहलकेसरपअरम्। पहरिमच- १. 'विघटदोष्ठदलपुटं स्फुरद्दन्ताकारबहलकेसरप्रकरम्। .... चन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्गारम् ।।' इति च्छाया.
Page 46
अलंकारसर्वस्वम्। ३९
'सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा हि दुराशया कलियुगे राजावलि: सेव्यते तेषां शूलिनि भक्तिमात्रसुलमे सेवा कियत्कौशलम्।।' अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि क्वचित्स्वतोऽसंभवत्सं-
न्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम् ।I' अत्र कुमुदस्य श्रिष्टत्वम्। एकदेशविवर्ति यथा-'यत्तारामौक्तिकार्घप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्षिहस्तस्थितकर- कपयोधौतमाकाशलिङ्गम्। तोयाधारे प्रतीचि च्युतवति दिनकृद्विम्बनिर्माल्यपझ्मे तस्या- र्चापुण्डरीकं व्यधित हिमकरं सत्वरं मूर्धि कालः ॥' अत्र कालविषये पूजकादिरारोप्य- माणो न शाब्द इत्येकदेशविवर्तित्वम्। तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वा- चछुष्टत्वम्। क्वचिच्चाभेदमेव द्रदयितुं विषयिणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते। क्रमेण यथा-'कलि- प्रिया शश्वदपालिताज्ञावज्ञां गुरुज्ञातिषु द्शयन्ती। जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मे: ॥' अत्र कृत्या निषेधपूर्व जायायामारोपिता। तन्निषेधेन हि जा- याया कृत्यया दार्द्येन साम्यं प्रतीयते। कृत्या तथा न स्वकर्मणि व्याप्रियते। यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः । अत्र च यदन्ये विशेषालंकारमाहुस्तदभेदालंकारनिराकरणा- देव निराकृतमिति न पुनरायस्यते। हान्या यथा-'वनेचराणां वनितासखानां दरीगहोत्स- ङनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥' अन्रातैलपूरेण हानि- कल्पनम्। आधिक्येन यथा-'तुरीयो ह्वेष मेध्योऽनिराम्रायः पञ्चमोऽपि वा। अपिवा जंगमं तीर्थ धर्मो वा सूर्तिसंचरः ॥' अत्र तुरीयत्वादेर्धर्मस्याधिक्यम्। 'दृढतरनिबद्धमुष्टेः कोषनि- षण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' इत्यत्रापि दृढारोप- मेव रूपकं ज्ञेयम् । अत्र हि कृपणस्य कृपाणस्येति समुच्चीयमानत्वेन निर्देशाच्छाव्दस्यारो- पस्या प्रतीतेर प्याकारमात्रेण भेदस्योक्तेर्वा क्यार्थपर्यालोचनमाहात्म्यात्परिशिष्टसमस्तधर्मान्तर- सद्भावाभ्यनुज्ञानात्पर्यवसाने दार्ढ्ये न विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्व- मिति पूर्वमेवोक्तम्। अन्येऽपि भेदा: स्वयमेवाभ्यूह्योदाहार्याः । वैधर्म्येणापीति। न केवलं साधर्म्येणेत्यर्थः । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि। आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिण: स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्या- त्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम्। असंभवत्संख्यायोगस्येति। यद्यप्ये- कादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यव- र्तित्वाद्यभिप्रायेणैतदुक्तम्। प्रत्येकमारोपादिति अयमभ्निः कपिलोऽयमननिः कपिल इत्येवं- १. 'धत्सेः' ख. २. 'हान्या यथा' ख-पुस्तके नास्ति. ३. 'अप्रतीतत्वेऽपि' ख. ४. 'पूर्वोक्तमेवोक्तम्' क.
Page 47
४0 काव्यमाला।
ख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा-'कचिज्जटावल्क- लावलम्बिनः कपिलादावाग्नयः' इत्यादौ। न हि कपिलमुनेर्बहुत्वम्। 'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छी तमः शरीरसादम्। मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।।' इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे क्लेष एव। जलदभुजगजमिति रूपकसाधकमिति। पूर्व सिद्धत्वांभावान्न तन्निबन्धनम्। विषशब्दे श्िष्टशब्दं परम्परितमिति श्रेष एवात्रेत्याहुः। आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः । आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवले- नान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति। आगमानुगमविगमख्यात्यभावात्सां-
रूपात्। अतश्चारोप्यमाणस्य कपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वम्। श्िष्टतानिबन्धनस्य परम्परितस्य श्रेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति। प्रभावित इति। प्रथम- मेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्व सिद्धत्वाभावादिति। रूपकस्य श्रेषहेतुत्वात्। तन्निबन्धनमिति रूपकनिबन्धनम्। इतिशब्दो हेतौ। अतश्र श्रेष एवात्रालंकारो न पर- म्परितं रूपकमित्यत्र तात्पर्यम्। चिन्त्यं चैतत्। यतः श्रेषस्तावद्वाच्ययोर्द्योः प्रकृतयोरप्र- कृतयोः प्रकृताप्रकृतयोश्र भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात्। प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्रेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशत्तयुत्थितस्य ध्वनेरयं विषयो न श्लेषस्य। अतश् नात्र श्रेषालंकारः । नापि ध्वनिः । जलद्सुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गर- लार्थस्याभिधानात्। एवमत्र श्विष्टशव्दनिबन्धनं जलदभुजगजमिति। रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्विषयः स्यादित्युक्तम्। स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्रिष्टशब्दनिबन्धनं रूपकम्। अन्यथा हि जलदभुज- गजमिति रूपकं व्यर्थ स्यात। तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना। आरो- ज्यमाणस्येत्यादि। आरोप्यारोपविषयभावसाम्येSपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्या- चष्टे-आरोप्यमाणमित्यादिना। प्रकृतोपरञ्जकत्वेनेति। यदुक्तम्-विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति। प्रकृतात्मतयेति। प्रकृताङ्गतयेत्यर्थः । उपयोग इति। तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति। प्रकृतमप्रकृतव्यवहारवि- शिष्टतयावतिष्ठते। प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः । एवमत्र प्रकरणोपयो- १. 'रूपकमित्यनुचिन्त्यं चैतत्' क.
Page 48
अलंकारसर्वस्वम् । ४१
र्यीयपरिणामवैलक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्वैवि ध्यम्। आद्यो यथा- 'तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय। व्यामग्राह्यस्तनीभि: शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ।।' अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन प- रिणता। आतरस्य मैत्रीरूपतया प्रकृते उपयोगात्। तदत्र यथा समासो- गित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधा- रणत्वं दर्शितम्। असाधारणत्वस्य हि धर्मस्य तत्त्वव्यवस्थापकत्वाल्लक्षणत्वम्। अतश्र ना- स्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् । एवम्-'आशास्यमन्यत्पुनरुक्त्तभूतं श्रेयांसि स- र्वाण्यधिजग्मुषस्ते। पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।I' इत्यत्रोपमा- यामू। 'अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमाली' इ- त्यादावुत्प्रेक्षायाम् 'मन्दरमेहक्खोहिअससिकलहंसपरिअ(मु) कसलिलोच्छङ्गम्। मरगअ- सेवालोवरिणिसण्णतुह्निक्कमीणचक्काअजुअम्।।' इत्यत्र च रूपके तथान्यालंकारेष्वौचित्य मेव नोपयोगः । औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति। उपयोगः पनः सिद्धावेव प्रकृतार्थहेततां भजते इत्यनयोर्महान्भेदः । तथा हि-'अनन्वये च शब्दैक्य- मौचित्यादानुषङ्गिकम्। अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' इत्यत्रैकस्यैव शब्दै क्यस्यौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदमजानद्भिः सर्वत्रैव प्रकृतो- पयोगित्वमन्यैर्यदुक्तं तदयुक्तम्। तस्माद्रूपकादन्य एव परिणामः । इह पुनः प्रकृतार्थस्या- प्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितम् । 'दाहोऽम्भ: प्रस्टतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्ितदीप्रदीपलतिकाः पाण्डिम्रि मननं वपुः। किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहस- स्तस्याः स्थितिर्वर्तते ॥' अत्र हि च्छत्रारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम्। अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः। यद्येवं तर्हि सां- ख्यीयपरिणामादस्य को विशेष इत्याशङ्ग्याह-आरोपे(गसे)त्यादि। 'जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम्। तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥' इति सांख्यीयपरि- णामलक्षणम्। मैन्नीरूपतयेति। मैत्र्यात्मतयेत्यर्थः। उपयोगादिति। आतरमन्तरेण १. 'मन्दरमेघक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम्। मरकतशेवालोपरिनिषण्ण- तूष्णीकमीनचक्रवाकयुगम् ।।' इति च्छाया. २. 'प्रकृतोपयोगित्वे च' क. ३. 'ततश्र'ख. ४. 'परिणामः कस्मान्न भवतीत्याशङ्गयाह-आगमेत्यादि। यद्येवं तर्हि सांख्यीयपरिणाम- लक्षणम्' क.
Page 49
४२ काव्यमाला।
क्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्यवहारसमारोपः । एवमिहापि ज्ञेयम्। केवलं तत्र विषयस्यैव प्र- योगः। विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं तादात्म्यात्तयोः परिणामित्वम्। द्वितीयो यथा- 'अथ पक्किमतामुपेयिवद्भिः सरसैर्वऋपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' राजसंघटने तूपायनमुचितम्। तच्चात्र वचोरूपमिति वचसां व्यधिकर- णोपायनरूपत्वेन परिणामः । विषयस्य संदिह्यमानत्वे संदेहः। अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः । यद्भिित्तित्वेनाप्र- कृतः संदिह्यते। अप्रकृते संदेहे विषयोऽपि संदिह्यत एव। तेन प्रकृताप्र-
तरणायोगात्। अतश्च प्रकृते यत आतरस्योपयोगस्ततश्र प्रकृताया एव मैत्र्यास्तत्कार्य- कारित्वात्तद््यवहारारोपः । एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तद्न्रेत्यादिना। अन्रेति परिणामे। समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वम्। प्रकृतसिद्धयर्थमेवाप्रकृत- स्याक्षेपात्। आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह- तच्चेत्यादि। अत एवेति। आरोपविषयात्मकत्वादेव। तत्रेति समासोक्तौ। एतदेव प्रकृते योजयति-एवमित्यादि। यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्या- शङ्कयाह-केवलमित्यादि। तयोरित्यभिधीयमानयोर्द्योः । उचितमिति। उपयु- क्ततयेति शेषः । विषयस्येत्यादि। विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेविष यिणोSप्याक्षेपादत्र ग्रहणम्। तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्वं सूत्रार्थः । ननु विषयशव्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपेSपि विना वचनमाक्षेपमात्राद्विषयिण: कथं संदिह्यमानता लभ्यत इति चेतू, न। अनियतोभयाशावलम्बिविमर्शरूपत्वाद्विषयमात्रगत- त्वेनासंभवात्संदेहस्यान्यथानुपपत्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः । एतदेव विभज्य व्याचष्टे-विषय इत्यादिना। यद्भिततित्वेनेति । अ- न्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रस्तुताभिधानलक्षणो वा दोषः स्यादिति भावः । तेन विषयभित्तितया विषयिणामेव तथाभावो भवतीत्याशङ्गयाह-अप्रकृतेत्यादि। विष- योऽपीति। न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापीत्यपिशब्दार्थः । तेन कचिद्विषयिणामेव संदिह्यमानत्वं क्वचिच्च विषयविषयिणोरप्यलंकारो भवेत्। उभयत्रापि सामान्यलक्षणानुगमात्। अनियतोभयांशावलम्बी हि विमर्शः संशयः । स च विषयिणा- मेव भवति। विषयविषयिणोरेव संदिह्यमानत्वात्। अत एव च प्रकृताप्रकृतगतत्वेनेति
Page 50
अलंकारसर्वस्वम्। ४३
कृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः।स च त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्र । शुद्धो यस्य सशय एव पर्यवसानम्। यथा- 'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे:। उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥' निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च। स यथा- 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोSसाविति चिरा- त्समालोक्याजौ त्वां विद्धति विकल्पान्प्रतिभटाः ॥' निश्चयान्तो यत्र संशय उपकमो निश्चये पर्यवसानम्। यथा- 'इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते। यथा- 'रञ्चिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।।'
यथासंभवं योज्यम्। प्रतिभत्थापित इति न पुनः स्वरसोत्थापितः । स्थाणुर्वा पुरुषो वे- त्येवमादिरूप इत्यर्थः । एतदेव भेदत्रयं विवृण्वत्ुदाहरति-शुद्ध इत्यादि। अत्र प्रकृ- तायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः । विषयविषयि- णोर्यथा-'किं पङ्कजं किमु सुधाकरबिम्बमेतत्क वा मुखं क्रमहरं मदिरेक्षणायाः । यद- श्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ष्ण्यममुष्य मध्ये ॥l' अत्र क्कमहरत्वादिः स- मानो धर्मोऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति। यथा-'किमिद- मसितालिकलितं कमलं किं वा मुखं सुनीलकचम्। इति संशेते लोकस्त्वय सुतनु सरो- वतीर्णायाम् ।I' अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम्। अलिकचानां च बिम्ब- प्रतिबिम्बभावः। एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम्। सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः। विप्रतिप्त्यादिनिमित्तान्तरवच्चारुत्वाभा- १. 'यत्र' ख. २. 'तिरः' क. ३. 'इह' ख. ४. 'भिन्नविषयत्वेन' क.
Page 51
४४ काव्यमाला।
अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम्। केचि- त्वध्यवसायोश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्यो- तकसत्वादुत्प्ेक्षाप्रकारमिममाचक्षते-
असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान्। सादृश्यप्रयुक्ता च भ्रान्ति- रस्य विषयः । यथा- वाच्च। भिन्नाश्रयत्वेनेति वैयाधेकरण्येन। अत्रैव पक्षान्तरमाह-केचिदित्यादि। अ- नेन च संदेहस्याध्यवसायमूलत्वमाप ग्रन्थकृतैवोक्तम्। तेनाध्यवसायाश्रयोऽप्ययं स्वरूप- हेतुफलानां मंदिह्यमानत्वेन त्रिधा भवति। तत्र स्वरूपसंदेहो यथा-'रज्जिता इत्याघेव। यथा वा-'एतत्तर्कय कैरवक्कमहरे शङ्गारदीक्षागुरौ दिक्कान्तामुकुर चकोरसुहृदि प्रौढे तु- षारत्विषि। कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि यावापृथिव्योर्वपुः ।I' अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूल- त्वम् । हेतुसंदेहो यथा-'देवि त्वचरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः । किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः ॥' अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्ति- सांमुख्यं चेति हेतुद्वयमध्यवसितम्। फलसंदेहो यथा-नृत्तान्ते पारिजातं किमु विघट- यितुं प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यो किमु विदलयितुं श्वेतरक्ताव्जबुद्धा। लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियो्ं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः ॥' अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितम्। अत्रैवादिशब्दवन्नुश- व्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह-अन्य इत्यादि। अतश्च रज्जिता इवेत्यर्थः । पूर्वत्रार्थे तु नुशब्दो वितर्कमात्र एव व्याख्येयः । सादृश्यादित्यादि । अ- सम्यग्ज्ञानं त्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः । आरोपो हि विषयविषयिणोर्युगपदेकप्रमातविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति। शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात्। ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधानमित्याशङ्गयाह- भ्रान्तिरित्यादि। स इति भणितिप्रकारः । अतश्चालंकारे आ्रान्तिसद्भाव उपचरित इति भावः । सादृश्यप्रयुक्त्तेति। न तु 'कामशोकभयोन्मादचौरस्वप्नाद्यपप्रताः । अ- १. 'रागादेः' ख. २. 'श्रयणेन' क. ३. 'तस्य' ख. १. 'करणादि' क. २. 'अत्रैव चेवादिशब्दस्य संभावना' क. ३. 'इद' क. ४. 'भ्रा- न्तिमच्छब्दः' क.
Page 52
अलंकारसर्वस्वम्। ४५
'ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ। निष्पत्त्या सकृदुत्पलच्छदद्दशामात्तकमानां मरौ राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥'
भूतानपि पश्यन्ति पुरतोऽवस्थितानिव ।I' इत्याद्यभिहितावान्तरनिमित्तोत्थापितेत्यर्थः । अतश्च सादृश्यनिमित्तैव भ्रांन्तिरलंकारविषय इति तात्पर्यार्थः । एवं च 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ।।' इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादा- वनेकत्र युगपत्प्रतीतौ निमित्तमिति न भ्रान्तिमदलंकारः। स हि प्रासादादेरवल्लभारूपत्वेन प्रतीतौ स्यात्। अन्यस्यान्यरूपत्वेन सम्यगभिधानात्मानिश्चयो हि भ्रान्तिमल्लक्षणम्। न च प्रासादादिर्वल्लभात्वेन प्रतीयते इति स्फुट एवायं विशेषालंकारस्य विषयः । अथ प्रासा- दादावभूताया अपि वल्लभाया दर्शनान्भान्तिरिति चेतू, नैतत्। एवं ह्वत्र भ्रान्तिमात्रं स्याननालंकारः । गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि यु- वत्या: प्रतीतिसमुल्लासाः । कविप्रतिभानिर्वर्तित्वाभावात्। देवमपि हर्ष पितशोकविह्कली- कृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादिमन्यमानं' इत्यादावपि न भ्रान्तिमदलंकारः । तत्र हि विषयानवगम एव नि- मित्तसामर्थ्यात्स्वरसत एव विषयप्रतीतिरुल्लसेत्। शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् । इह पुनर्विषयरूपां श्रियमवगम्यापि श्री- हर्षेण पितशोकविह्वलीकृतत्वाच्छापत्वेन भाव्यत इति विषमालंकारो ज्यायान्। 'दातुं वा- ञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंगं च भुजोऽङ्दं घटयितुं वामेऽपि वा- मेतरः। इत्थं स्वं स्वमशिक्षितं भगवतोरर्ध वपुः पश्यतोः साधारस्मितलाञ्छितं दिशतु नो वक्रं मनोवाञ्छितम् ।' इत्यत्रापि संस्कार एवालंकारो न भ्रान्तिमान्। अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानु- रोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम्। अथात्र संस्कारप्रबोधं बिना तदभावादञ्ज- नदानसंस्कारहेतुका भगवदर्धस्य स्वार्धत्वेनाभिमानरूपा भगवत्या भ्रान्तिरवति चेतू, नै- तत्। प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादअ्नदानसंस्कारो न प्ररोहमुपागत इति कारणस्यैव स्खलद्गतित्वात्तत्कार्यस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवका- शः । प्ररूढ एव हि संस्कारो भ्रमः । स्वात्ममात्रावस्थितस्तु संस्कारालंकारः । अत एव
१. 'व्युत्पत्या' क.
१. 'भगवतोः' ख. २. 'नेत्राञ्जन' क. २. 'संस्कारप्ररोहमुपगतः' कर. ४. 'संस्कारः' क.
Page 53
४ ६ काव्यमाला।
गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालंकारस्य विषयः । यथा- 'दामोदरकराघातचूर्णिताशेषवक्षसा। दष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥' सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थ कविप्रतिभोत्थापितैव गृह्यते। यथोदाहृतं न स्वरसोत्थापिता शुक्तिकारजतवत्। एवं स्थाणुर्वा स्यात्पु- रुषो वा स्यादिति संशयेऽपि बोद्धव्यम्। एकस्यापि निमित्तवशादनेकधा ग्रहणसुल्लेख:। दातुं वाञ्छतीत्युक्तम्। एवं चात्र नेत्रद्वयाञ्जनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्न्धस्याप्यभावात्। अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम्। अवान्तर एवानयोर्विशेषोSलंकारभाष्य ए- वोक्त इति तत एवानुसर्तव्य इति। एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न नि- मित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम्। एवं सादृश्यनिमित्तकत्वादस्य सा- धारणधर्मस्यापि त्रयी गतिः। तत्रानुगामिता यथा-'नीलोत्पलमिति भ्रान्त्या विकाससितविलो- चनम्। अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतः॥' अत्र विकासीत्यनुगामित्वेन निर्दिष्टो धर्मः। शुद्धसामान्यरूपत्वं तु यथा-'अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः। जलनिधिमकरैरुदीक्ष्यते द्राङवरुधिरारुणमांसपिण्डलोभात् ।I' अत्र ताम्रत्वारुणत्वयोः शु- द्धसामान्यरूपत्वम्। बिम्बप्रतिबिम्बभावो यथा-'पुसिआ कण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा। माणिणिवअणम्मि सकज्लंसुसङ्काए दइएण ।I' अत्र सकज्लत्वेन्द्रनीलकि- रणाहृतत्वयोबिम्बप्रतिबिम्बभावः । सादृश्यनिमिंत्तत्वं चास्य द्रढयितुं प्रत्युदाहरति-गाढे- त्यादिना। सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुन- र्वास्तवीत्याह-सादृश्येत्यादि। उदाहृतमिति। ओष्ठे बिम्वफलाशयेत्यादि। एत- देव संदेहेऽपि योजयति-एवमित्यादि। संशय इति। अर्थादारोपगर्भ एव। त- त्रैव ह्यस्य सादृश्यं निमित्तम् । अध्यवसायमुले हि संदेहे सादृश्यात्संबन्धान्तराद्रा विषय- विषयिणोः संदिह्यमानत्वं स्यात्। यथोदाहृतं प्राक्। एवमारोपगर्भत्व एव सादृश्यं विना नायमलंकार इत्यवगन्तव्यम् । तस्मादविशेषेणैव साधर्म्य विहायापि निमित्तान्तरमवलम्ब्य नास्यालंकारत्वं वाच्यम्। सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वार- सिकस्येति। एकस्यापीति। अनेकधा ग्रहणमिति न पुनरनेकधा कल्पनम्। ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु स्वारसिक्यामेव । यदाहुः-'अतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा। जात्यादिविषयग्राहि सर्वे प्रत्यक्षमिष्यते ॥' इति। १. 'चक्षुषा' ख. २. 'प्रतिभैव' ख. १. 'प्रोञ्छिता: कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः । मानिनीवदने सकज्ला- श्रुशङ्गया दयितेन ॥' इति च्छाया. २. 'निमित्तकत्वमेव चास्य' ख. ३. 'गर्भ एव सादृश्येऽपि नायमेवालंकारः' क. ४. 'अशेषेणैव' क.
Page 54
अलंकारसर्वस्वम् । ४७
यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योललेखनादुल्लेखः । न चेदं नि- निमित्तमुलेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते। तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रेयोजिकाः । तदुक्तम्- 'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते। आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाघिते ॥' इति ॥ यथा-'यस्तपोवनमिति सुनिभिः कामायतनमिति वेश्याभिः संगीत- शालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने। अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्र प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते। नन्वे- तन्मध्ये 'वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वातिकैः' इत्यादौ रूप- कालंकारयोग इति कथमयमुल्लेखालंकारविषयः । सत्यम्। अस्ति तावत् 'तपोवनं' इत्यादौ रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्रूपतायाः कल्पनं पुनरुक्तायं प्रतिपत्त्येकगामीति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्या- पकत्वाद्यथासूत्रितमेव युक्तम्। रूपबाहुल्येति। अत एवामुखे वस्त्वन्तरप्रतीति- रस्त्येव। अन्यथा ह्वेकस्यानेकधाग्रहणमेव न स्यात्। अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणम्। एकस्य च न स्वातन्त्येणानेकधाग्रहणमपि तु तत्प्रयोजनवशादित्याह-न चे- दमित्यादि। एतदिति। अनेकधा ग्रहणमेकस्यैव नानाविधधर्मयोगिनः स्वातन्त्रयेण प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्गयाह-तत्रेत्यादि। तत्रेत्यनेकधाग्रहणे। स्वातन्त्र्येण विकल्पनं रुचिः । अर्थक्रियाभिलाषपरत्वमर्थित्वम्। वृ- द्वव्यवहारशरणता व्युत्पत्तिः । उक्तमिति श्रीप्रेत्यभिज्ञायाम्। तत्तद्गुणयोगादिति विवि- क्तत्वादिनानाविधधर्मसंबन्धात्। मुनीनां तपोवनविषयमर्ित्वम् वेश्यानां च कामायतन विषयमार्थत्वम्। एवं लासकानां तु संगीतशालाविषया व्युत्पत्तिरर्थित्वं च। प्रायश इत्य- नेन रुचिरत्र नास्तीति सूचितम्। ननु योडयं श्रीकण्ठाख्यजनपद्वर्णनग्रन्थखण्ड उदाह- रणत्वेनानीतस्तत्रालंकोरान्तरसंबन्धोSप्यस्तीति कथमेतद्विषय एवेत्याह-नन्वित्या दिना। एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यसित्यादिना। तावच्छब्दो रूपकाभा- वविप्रतिपत्तिद्योतनार्थम्। तद्रूपताया इति तपोवनादिरूपसायाः । अत्रापि यदन्यैरवयवा- वयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रपकालंकारमाशङ्कय विवित्तस्य चिन्त्यत्व- १. 'योगत्वात्' क., २. 'प्रजीविकाः' क. १. 'आखण्ड्येन' क. २. काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतायामीश्वरप्रत्यभिज्ञायाम् ३. 'अन्यत्रापि' ख. ४. 'वैचित्र्यस्य' क.
Page 55
काव्यमाला।
संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गि: संभाविनी तत्सं- करोडस्तु। न त्वेतावतास्याभावः शक्यते वक्तुम्। ततश्र न दोषः कश्चित्। एवं हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु। अतद्रूपस्य तद्रूपताप्रतीतिनिबन्ध- नत्वात्। नैतत्। अनेकधाग्रहणार्यस्यापूर्वस्यातिशयस्याभावात्। तद्धेतुकत्वा- च्चास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव। यद्येवम्, अभेदे भेद इत्येवंरू- पातिशयोक्तिरत्रासु। नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेक- धात्वोद्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा तस्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वा- 'णाराअणो त्ति परिणअवआहि सिरिवल्लहो त्ति तरुणीहिं। बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥' मुक्तं तदयुक्तम्। अवयवावयविभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात्। न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम्। किं तु तत्तदुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसा- रेणार्थित्वादिना मुनिप्रभृतीनामीदृगाभासः । अथापि यद्यस्त्यवयवावयविभावविवक्षा तल्- क्षणामात्रं न रूपकम्। तस्य लक्षणापरमार्थत्वेऽपि विषयिणा विषयस्य रूपवतः करणादलं- कारत्वम्। अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्या- रोपेणारोपविषयस्य नातिशयः कश्चित्। वस्तुत एव तद्रूपतायाः संभवात्। अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः । न केवलमन्यालंकारविविक्तोSयमेवास्य विषयो यावदय- त्रापि रूपकालंकारयोगोSस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यत्रेत्यादि। इय- मपि भङ्गिरिति एकस्यानेकधाग्रहणरूपा। एतावतेति रूपकप्रयोगमात्रेण। ततश्रेति रूप- कोल्लेखयोः संकरात्। ननु येत्र रूपकयोगो नास्ति तदलंकारान्तरयोग: संभवतीत्याह-ए- वं हीत्यादि। अतद्रूपस्येति। अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात्। अत- स्मिस्तद्रहो भ्रम इत्येतदेव हि भ्रमसतत्त्वम्। अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुक- त्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात्। यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि। यद्येवमिति। भ्रान्तिमतोऽस्य विशे- षस्तेन सहास्य संकरो वेत्यर्थः । एष इति अतिशयोक्तिसद्भावः। तस्येति ग्रहीतभेदाख्यस्य विभावस्य। विच्छित्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतुः। तदेवं तत्तच्छङ्कानिरासपू- र्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णाराअणो ्तीति। अत्र च नारायणत्वा- १. 'कर्तुम्' क. २. 'नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बा- लाभि: पुनः कौतूहलेन एवमेव सत्यापितः ॥' इति च्छाया. १. 'यद्यत्र रूपकप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह' क. २. 'विषयभा- वगम्यविच्छित्त्यन्तरत्वमेव' क. ३. 'तत्तदीयशङ्का' ख.
Page 56
अलंकारसर्वेस्वम्। ४९
एवम् 'पृथुरुरसि अर्जुनो यशसि' इत्यादाववसेयम्। इयांस्तु विशेष :- पूर्वत्र ग्रहीतभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन। नन्वनेकधात्वोल्े- खने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते। सत्यम्। अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः क्लेषोऽत्र स्यात्। न तु सर्वथा तदभावः । अतश्चालंकारान्तरम्। येदेवं- विधे विषये श्रलेषाभावेपि विच्छित्तिसद्धावः। तस्मादेवमादावुल्लेख एव श्रेयान्। एवमलंकारान्तरविच्छित्त्याश्रयेणाप्ययमलंकारो निदर्शनीयः । दुल्लेखने वृद्धाप्रभृतीनां यथाक्रमं व्युत्प्त्यर्थित्वरुचयः । एतदेवान्यत्रापि योजयति-एव- सित्यादि। विशेष इति पूर्वस्मात्। विषयभेदेनेति वचनादिभिन्नत्वेन। अनेकधात्वोल्लेखे गुर्वादिरूपतया श्रेष इति गुर्वादीनामुभयार्थवाचित्वात्। तत्प्रतिभोत्पत्तिहेतुरिति। श्लेषमन्तरेणात्रोल्लेखानिष्पत्तेः । तदभाव इत्युल्लेखाभावः । अतश्चेति। श्रेषाभावेऽप्येतद्रि- च्छित्तिसंभवात्। एवंविध इति विषयभेदरूपे। तत्तु यथा-'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेर्ष्या जहुसुतावलोक- नविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम्। तदयं द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालंका- राश्रयोऽपि संभवतीत्याह-एवमलंकारान्तरेत्यादि । तत्राद्यः प्रकारः संदेहाश्रयो यथा-'किं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः । कि पुष्पाकर एष पुष्पविशिखः किं वेति रामाजनः किं रामः किमु जामदश्य इति वा यं धन्विनो मन्वते ।I' अत्रैकस्यैव संदिह्यमानत्वेनानेकधात्वोल्लेखनम्। अतिशयोत्तयाश्रयश्वायमेव यथा-'वज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खङ्गं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिद्ृश्वा। पाशं पाणावपश्यन्ध्वजमपि बलवित्कोष- वेदी गदां च स्वाच्छन्दज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्ते ॥' अत्र त्वमेवेन्द्र इत्या- द्यतिशयोत्तया लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनम्। विषयभेदेन च रूपकाश्रयो यथा-'मूधर्यद्रर्धातुरागस्तरुषु किसलयं विद्मौघः समुद्रे दिआ्ातह्गोत्तमाङ्गेष्व- भिनवनिहित: सान्द्रसिन्दूररेणः । सीम्नि व्योम्नश्च हेम्रः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्रासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानः ॥' अत्नैकस्यैव विषयभेदेन रूपका- श्रयं नानात्वम्। 'कारकान्तर' इत्यपपाठः। प्रकृतकारकविच्छित्त्याश्रय स्यैवा नुक्त्त्वात् । अयं स्वरूपहेतुफलोल्लेखनरूपत्वा्रिधा। तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहतः । हेतूल्े- खस्तु यथा-'सर्गहेतोः सदा धर्मः स्थितिहेतोरपि प्रजाः । द्विषः संहारहेतोश्ष विदुस्त्वां
१. 'श्रेषोऽत्र ...... स्यात्' क. २. 'यद्येवं' क. ३. 'असद्भावः' क. १. 'जनाः' क-ख.
Page 57
५० काव्यमाला।
विषयस्यापह्ववेऽपहुतिः। वस्त्वन्तरप्रतीतिरित्येव। प्रेक्रान्तापह्वववैधर्म्येणेदमुच्यते। आरोपप्रस्ता- वादारोपविषयापहुतावारोप्यमाणप्रतीतावपहुत्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया-अपह्नवपूर्वक आरोपः। आरोपपूर्वकोऽपह्नवः । छलादिश- व्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृती- यभेदे त्वेकवाक्यम्। आद्यो यथा-
जातमात्मनः ॥' अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनन् । फलोल्लेखस्तु यथा- 'धर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषै- कदेशस्य ये। कामायैव कृतार्थतामुपगता नार्यश्र निश्चिन्वते मोक्षायैव च वेद जन्म भवतः कश्चिद्विपश्चिज्जनः ।I' अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम्। विषयस्ये- त्यादि। वस्त्वन्तरेति। भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकपु-
योक्त्यनन्तरमिति अ्रन्थं विपर्यासितवन्तः । न चैतत्। यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति-'एवमध्यवसायाश्रयेणालंकारद्वयमुक्का गम्यमानौप- म्याश्रया अलंकारा इदानीमुच्यन्ते। तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्येऽपि पदा- र्थगतमलंकारद्यं क्रमेणोच्यते' इति। तस्माद्वस्त्वन्तरप्रतीतेर्भावा्भान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम्। अत एव चोल्लेखेSपि तत्संभवाद्वस्त्वन्तरप्रतीते्निरन्तरमेवानु- वर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्हुल्ले- खापह्ुत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्गयाह-प्रक्रान्तेत्यादि । इदमित्यपद्दुतिलक्षणम् । तदेव व्याचष्टे-आरोपेत्यादिना। विषयस्यापह्ववे विषयिणोऽन्यस्य विधिरित्यर्थः । तेन 'न विषं विषमित्याहुर्बरह्मस्वं विषमुच्यते। विषमेकाकिनं हन्ति व्रह्मस्वं तु ससंततिम् ।I' इत्यत्र विषस्य निषेधपूर्व ब्रह्मस्व- विषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापहनुतिः। अपह्रुतेर्हिं निषेध्यविषय- भित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्ववि- घये आरोप्यमाणत्वाद्विधानम्। अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्व- विषस्य गौणस्य विधानिति चेत्, तत्र ब्रह्मस्वविषस्य गौणस्य विधानमिति भणितेः को- डर्थः । किं ब्रह्मस्वविषस्य विधानं किं वा द्वन्द्वपदार्थवद्रह्मस्वस्य च विषस्य च ब्रह्मस्वे वा विषस्येति। तत्र नायः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसं- 'विषयापह्नवे' क. २. 'प्रक्रान्तानपह्नव' क. १. 'नयविदः' ख. २. 'देव' ख. ३. 'अप्रतीतेः' ख. ४: 'तर्ह्रेवं यदि' ख. ५. 'पुत्रपौत्रकम्' ख. ६. 'ब्रह्मस्वं विषं' ख.
Page 58
अलंकारसर्वस्वम्। ५१
'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा। अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
अत्रैन्दवस्य शशस्यापह्नवे उपक्षिप्ते शशकंप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम्। तत्तु यथा- 'पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत्। मारस्योच्छिितमातपत्रमधुना पाण्ड प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥ द्वितीयो यथा-
न्यधिवसति सदा यः संयमाधःकृतानि। न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' तृतीयो यथा- 'उद्धान्तोज्झित गेहगूर्जरवधू कम्पाकुलोंच्चै ः कुच-
भवात्। तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्ति: स्यात्। नापि गौणता। स्वार्थ एव प्रवृत्तेः । अन्यदन्यत्र वर्तमानं गौणमित्युच्यते। न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात। एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तम्। नाप्यत्रोभयविधिः । ब्रह्मस्वविषये विषस्यैव विधीयमानत्वात्। ततीयेऽपि न गौणस्य सतो विषस्य विधानम्। ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधाद्रुणेषु वर्तनात् विहितस्य तस्य गौणत्वात्। एवं ब्रह्मस्वस्य दार्ढ्येन विषसाम्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्व विषमारोपितमिति दृढारोपमेव रूपकं युक्तम्। न ब्रह्मस्वं विषमिदमिति पुनरुच्यमानेऽपह्नुतिः स्यात्। तस्मान्मु- ख्यस्येवेत्यपास्य विषयस्यापह्नवेऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यम्। तस्येत्यपह्नुत्या- ख्यस्यालंकारस्य। वाक्यभेद इत्येकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्व- रूपनिर्देश: कृतः। न निरवद्यमिति । यथोक्तक्रमनिर्वाहाभावात्। अतएवोदाहरणा- न्तरमाह-पूर्णेन्दोरित्यादि। मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात्।
Page 59
१२ काव्यमाला।
सार्धे त्वद्रिपुभिस्त्वदीययशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः ।' अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्रवोत्प्रेक्षा इत्यपि स्थाप- यिष्यते 'अहं त्विन्दुं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते। एतस्मिन्नपि भेदेऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम्। तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम्। आरोपपूर्वके त्वपह्ववे यथा- 'ज्योत्स्नाभस्मच्छुरणघवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।I' क्कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि वपुःशब्दादिनिबन्धनं यथा- 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगदशः स्मरः शर्वप्ुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' इति। नोत्प्रेक्षेति। साध्यवसायाद्युत्प्रेक्षासामग्र्यभावात्। वक्ष्यत इत्युत्प्रेक्षायाम्। तथा चास्या इवादिशव्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशव्दप्रयोगो वि- तर्कमेव प्रतिपादयतीति। अतश्च 'अवाप्तः प्रागल्भ्यं-' इत्यादावपक्षुत्युदाहरणत्वमभिदधतः समानेऽपि न्याये 'नो मां प्रति तथा' इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादेतिशयोक्तिरेवेति मन्यन्ते। तेषां पूर्वापरविचारकुशलानां किमभिदध्मः । एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्रन्थविस्तरभयादस्मद्दर्शनदत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्राति- पद्येन न दूषितम्। एतस्मिन्निति छलादिशव्दप्रतिपादये। संभवमात्रं पुनर्दरशयितुमेत- दुदाहृतम्। वस्त्वन्तररूपताभिधायीति। वपुःशब्दस्य शरीरार्थाभिधायि- त्वात्। अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम्। त्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं १. 'पक्षतया' ख, २. 'अतिशयोक्तिं' क.
Page 60
अलंकारसर्वस्वम्। ५३
स्यात्। इह पुनः शर्वप्रुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एव प्रा- धान्यं विवक्षितमिति न परिणामो नापि रूपकम्। व्याजार्थपर्यवसायिवपुःशब्दबलादारो- पविषयापह्नुतावारोप्यमाणस्य प्रतीतेः । आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तम् । अथात्रापि भिन्नयोः सामानाधिकरण्यायोगादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च नि- षेधानुपपत्तेरारोपविषय स्यैव पर्यवसाने निषेधः प्रतीयत इति चेतू, नैतत्। अत्र हि मुखादौ चन्द्रादेर्वृ्त्यभावो बाधितः संश्रन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखा- देविषयस्य निषेध: प्रतीयते। मुखशब्दादेः स्वार्थ एव प्रवृत्तेः । पर्यवसाने ह्यत्र मुखादि चन्द्रादिगुणविशिष्टं प्रतीयते। न तु मुखादेर्बाधः। न मुखमित्येवमादेः प्रत्यवमशीभावात्। नापि निदर्शना। संबन्धविघटनाद्यभावात् । आदिशव्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्ते। यथा-मद्दाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरति- साहसं प्रियतमे दासस्तव प्राणिति। नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा दमा गृह्नन्तिं क्षुरिकामिवालिपटलव्याजेन पाशच्छिदे ।I' अत्र कुसुमैरिति ततीययापह्रवनिबन्धनम् । आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा। सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयीगतिः । तत्रानुगामिता यथा-'तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङकमिति त्रुवते। तदनृतमेव निर्दयविधुंतुददन्तपदत्रणविवरोपदशितमिदं हि वि- भाति नभः ॥' अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम्। शुद्धसामान्यरूपत्वं यथा- 'अयं सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः । न प्रापितोऽयं सुमनःप्रेवर्हः कश्मीरदेशोद्भवताभिमानम् ।I' अत्रोपनयनप्रापणयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रति- बिम्बभावो यथा-'न ज्योत्स्नाभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकरो न चेदममृतज्योतिष्मतो मण्डलम्। क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरः ॥' अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभम- यत्वं प्रतिबिम्बत्वेन निर्दिष्टम्। संबन्धान्तरादथा-'हेलोदश्चन्मलयपवनाडम्बरेणाकुलासु प्रेङ्माकेलिं कमपि भजतां चूतशाखालतासु। वाचालत्वं नयदुदभवत्कानने कोकिलानां मौनित्वं तंत्पथिकहरिणीलोचनानां ववल्ग ।।' अत्र कोकिलवाचालत्वस्य कारणस्य नि- षेधे पथिकस्त्रीमौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं सप्रपञ्चं दर्शिता अध्य- वसायगर्भा पुनर्दर्श्यते यथा-'न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादि- ज्येष्टत्वान्न मुकुटमणित्वाद्भगवतः । यैदेवं बालेन्दोदिशि विदिशि वन्धत्वमुदितं स्फुटत्वे तत्कान्तामुखकमलदास्यादुपनतम् ।।' अत्र वन्दत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितम्। यथा वा-'कलाभिस्तप्त्यर्थ सुरपितनृणां पञ्चदशभिः सुधासूतिदेवः प्रतिदिनमुदेतीत्यसदिदम्। परिभ्राम्यत्येष प्रतिफलनमासाद्य भवतीकपो- लान्तर्युत्त्या त्वदधरसुधासंग्रहपरः ॥' अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य
१. 'सामानाधिकरणयोः' ख. २. 'प्रतीतेः' ख. ३. 'मुखादिभिः' ख. ४. 'प्रत्ययस्या- भावार्थे नापि निदर्शना' क. ५. 'प्रवाहः' क. ६. 'सारम्' क. ७ 'तदेवं' ख.
Page 61
१४ काव्यमाला।
एवमभेदप्राधान्ये आरोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भीलक्ष- यति- तत्फलभूतं निमित्तान्तरमध्यवसितम्। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादि। आरोपगर्भानिति । अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारो- पगर्भस्य प्राधान्यादेवं व्यपदेशः । तत्र तावदुत्प्रेक्षां लक्षयति-अध्यवसाय इत्यादि। अध्यवसाय इति न पुनः संदेहैः । इह हि निश्चयानिश्चयरूपत्वेन प्रत्ययानां द्वैविध्यम्। नि- श्वयश्चार्थाव्यभिचारी सम्यक्, अन्यथा त्वसम्यगिति भेदो न प्राह्यः । प्रतीतिवृत्तिमात्रस्यै- वेह विचारयितुमुपक्रान्तत्वात्। तस्य च प्रामाण्यविचारे उपयोगात् । अनिश्चयश्च संशय- तर्करूपत्वेन द्विविधः । अतश्चानिश्चितं च संदिग्धमेवेति न वाच्यम्। तर्कात्मनः संभाव- नाप्रत्ययस्याप्यनिश्चयात्मकत्वे संदिग्धत्वाभावात्। उत्प्रेक्षा संभावनादिशव्दाभिधेयतर्कप्रती तिमूलेति नास्या: संदेहमूलत्वम्। तत्य भिन्नलक्षणत्वात्। अथानवधारणज्ञानसंशय इत्यनव- धारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नै- तत्। अनवधारणज्ञानत्वाविशेषेSपि संशयतर्कयोभिन्नरूपत्वात्। तथाहि-स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः। पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः। पुरुष एवायमिति पक्षान्तरसंस्पर्शेनैकतरपक्षनिर्णयो निश्चयः इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम्। बाढमस्त्येव प्रत्ययानां त्रैविध्यम्। किं त्वनवधारण- ज्ञानत्वाविशेषात्तत्सामान्यतर्कोऽपि संशयप्रकार इति चेत्, नैतत्। एवं ह्यसम्यग्ज्ञानत्वाविशे- षाद्द्रमोऽपि संशयप्रकार: स्यात्। अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयो्विशेष इति चेतू, इह पुनर्नास्त्यत्र किं प्रमाणम् । संशयो ह्यतिशयतोभयांशावलम्बित्वेनोदेति तर्कः पुनरंशान्तरबाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशान्तरावलम्बनेन चेत्यस्त्य- नयोविशेषः । देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः। साधकप्रमाणाभावेSप्यस्योपपत्तेः। नहि प्रतिपक्षबाधादेव निश्चयो भवति। साधकबाधक- प्रमाणसद्भावेन तदुत्पादात्। तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः संदेहः । एकतरपक्षावलम्बी तु तर्क इति। अथ कोऽस्य फलस्योपायविशेष इत्येकतरपक्षावल- म्बेनापि संदेहः संभवतीति चेत्, नैतत्। किमर्थेनानियतपक्षान्तरस्वीकारादेकतरपक्षाव- लम्बनस्याप्रतिष्ठानात। बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः रैमरणपथं समवतरन्ति न तथा स्थाणुविशेषा इस्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरस्ति भेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम्। तेन संवेहनिश्चयान्तरालवर्ती तद्विलक्षणः संभावनाप्रत्ययस्त्रिशङ्करिव लम्बमानोऽवश्याभ्यु- १. 'तत्तत्' क. २. 'संदेह इति' ख. ३. 'भेदेन' क. ४. 'अनवधारणताविशेषात्' ख. ५. 'विशेषात्संशयप्रकारस्तर्क इति' ख. ६. 'नास्तीति कि' क. ७. 'स्मरणं प्रथम- मवतरन्ति' ख. ८. 'विशेषास्मरण' ख.
Page 62
अलंकारसर्वस्वम्।
तंत्र। अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा।
पगन्तव्यः । एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम्। तस्य हि विषयनिगरणे विषयिनिश्चयश्च स्वरूपम्। न चात्रैकमपि संभवति। वि- षयोपादानान्निश्चयाभावाच्चेति। अत्रोच्यते-इह द्विधास्त्यध्यवसायः-स्वारसिक उ- त्पादितश्च। तत्र स्वारसिके विषयानवगम एव निमित्तसामर्थ्यात्स्वरसत एव विषयप्रती- तरुल्लासात्। नह्यवगतशुक्तिकास्वरूपस्य प्रमातु: कदाचिदपि रजतमिदमिति प्र- त्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यापि तदन्तःकारेण प्रतिपत्तौ स्वात्म- परतन्त्रविकल्पनाद्विषये प्रतिपत्तिमुत्पादयेत्। जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत्। तत्राद्यो भ्रान्तिमदादिविषयः । तत्र हि प्रमात्र- न्तरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वेकानूद्यते न तूत्पाद्यते। यदाहु :- 'प्रमान्रन्त- रधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते। स भ्रान्तिमान्' इति। स्वारसिकत्वं पुनरत्र कविप्रतिभा- निर्वर्तितमेवेष्टम् । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम्। इतरस्तूत्प्रेक्षाविषयः । स च द्विविध :- सिद्धः साध्यश्च। सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसित- प्राधान्यम्। साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्य- वसायक्रियाया एव प्राधान्यम् अत एवाह-व्यापारप्राधान्य इति । अत एव चात्र क्वचिद्विषयानुपादानम् । वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपक्रान्तत्वात्। क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम्। इवाछयुपादानान्निगीर्यमाणतायाः प्राधान्यात्संभावना- प्रत्ययस्यैवोद्रेकात् । अत एव चात्र विषयस्य निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यम। तत्र विषयस्य विषयितया प्रतीतः । इह पुनर्विषयस्य निगायेमाणत्वेन विषयिण एव प्र- तीतिः । ननु विषयनिगरणमध्यवसायस्य लक्षणम् इह पुनर्विषयस्य निगीर्यमाणतेति कथम- त्राध्यवसायतेति चेत्, नैतत् । 'विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका' इत्या- द्युक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम्। तच् विषयस्य निगरणेन नि- गीर्यमाणत्वेन वा भवतीति न कश्चिद्विशेषः । निगीर्यमाणमपि पूर्वोक्तनीत्या विषयस्योपात्तस्या- नुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः । एवं सिद्धेऽध्यवसायेऽध्यवसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम्। एतच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधार्यम्। यदेव चाध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम्। संभावना ह्येकतरपक्षशिथिलीकारेण प- क्षान्तरदार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम्। तस्वापि विषयशिथिला- कारेण विषयिदार्येन चोत्पत्तेः । अत एव विषयिणोऽपि शाब्देन वृत्तम सत्यत्वम्। विषय- दार्ढ्येनैव साध्यवसायस्वरूपप्रादुर्भावात्। यदुक्तं भवद्भिरेव 'संभावनायां च संभाव्यमानस्य १. 'अत्र' ख. २. 'तत्राध्यवसाये' ख. १. 'द्विविधस्त्वध्यव' क. २. 'विकल्पबलात्' ख. ३. 'मूलत्वम्' क, ४. 'साध्याध्य- वसाय' क.
Page 63
५६ काव्यमाला।
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविध :- साध्यः सिद्धश्च। साध्यो यत्र विषैयिणोऽसत्यतया प्रतीतिः। असत्यत्वं च विषेयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रैतीतेः। धर्मो गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तैत्रापरमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परेमार्थतया सत्यत्वम्। यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्र व्यापारप्रा- धान्यम्। सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । स-
दार्ढ्यादपरस्य च शैथिल्यात्' इति। इह संभाव्यमानस्य विषयिणो दार्ढ्यादत्र संशयाद्वैल- क्षण्यम्। तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणम्। संभावनाविषयस् च शैथिल्यान्निश्चयादपि भेदः । निश्चये हि बाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात्। अतिशयोक्तिश्र निश्चयात्मिकेति ततोऽस्या भेदः । यत्तु साध्यो यत्र विषयिणोSसत्यतया प्रतीतिः' इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभि- प्रायेणावगन्तव्यम्। तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसाय- मूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम्। तस्मात् 'इवादौ निश्चयाभा- वाद्विषयस्य परिग्रहात् । क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् ॥' इत्यादुक्तमयुक्तमे- वत्यलं बहुना। एतदेव व्याचष्टे-विषयेत्यादिना। अभेदप्रतिपत्तिरिति विषयान्तःक- रणात्। संभावनाप्रत्ययात्मकत्वेSपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्श- यितुमाह-साध्य इत्यादि। विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्य- यस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम्। इह पुनस्तत्र तस्य प्र- योजनपरतयाध्यवसीयमानत्वात्संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याह- असत्यतया प्रतीतिरिति । अत्रैव निमित्तमाह-असत्यत्वं चेत्यादि। वि- षय उपनिबन्ध इति। तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेन सप्रयोजनत्वमेवो- पोद्वलितम्। धर्म इति विषयिगतः । स एव चोत्प्रेक्षणे निमित्तम्। तस्येति धर्मस्य। संभावनाश्रयस्येति विषयिणः । तत्रेति संभावनाश्रये विषये। इतरस्येति असंभवाश्रयस्य विषेयस्य। यस्येति विषयिणः । अतश्चेति । अध्यवसायस्य साध्यमानत्वात्। असत्य- स्यापीति। वस्तुतो विषयिणस्तत्रासंभवातू। सत्यताप्रतीतिरिति। निश्चयस्वभा- वत्वादतिशयोक्तेः। असत्यत्वनिमित्तस्येति धर्मसंचारादेः। अतश्चेति धर्मसंचारान्निगीर्यमाण- १. 'विषयिणि सत्यतया' ख. २. 'विषयगतस्य' क. ३. 'प्रतीतः' क. ४. 'तत्र पर' ख. ५. 'अपरमार्थ' ख. ६. 'यस्य सत्यत्वं' ख. ७. 'सत्यतया' ख. १. 'असंभाव्यमानस्य' ख. २. 'विषयस्येति विषयिणः' ख,
Page 64
अलंकारसर्वस्वम्। १७
त्यत्वं च ( ........ ) पूर्वकस्यासत्यत्वनिमित्तस्याभावात्। अतश्चाध्यवसित- प्राधान्यम्। तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनम- भिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशन्दैरुच्यते। तदेवमप्रकृतगुणक्रियाभिसं- बन्धादप्रकृतेन प्रकृतस्य संभावनमुत्पेक्षा। सा च वाच्या इवादिशब्दैरु- च्यते। प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिगुणक्रियाद्रव्या- णामप्रकृतानामध्यवसेयत्वेन चतुर्घा। प्रकृतस्यैतद्वेदयोगेऽपि न वैचित्रय- मिति ते न गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्ट- विधत्वम्। भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वान्रिंशत्प्रकाराः। तेषु च हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः। एषा गतिर्वाच्योत्प्रे- क्षायाः। तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदा- स्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तो भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैन्यूनोडयं प्रकारः। इवाद्यनुपा- ताया: प्राधान्याभावात्। अध्यवसितप्राधान्यमिति। विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः। साध्यत्वसिद्धत्वयोश्र समनन्तरमेव स्वरूपमुपपादितमितीह न पुनरा- यस्तम्। तत्रेति द्वयनिर्धारणे। अध्यवसाय इत्यादिशव्दैरुच्यत इति संबन्ध: । एतदेवो- पसंहरति-तदेवमित्यादि। यदाहुः-'विषयित्वेन संभावनमुत्प्रेक्षा' इति। प्रतीय- मानायामिति। इवाद्यप्रयोगाच्छ्दानुक्तत्वादूह्यायां न व्यङ्गयायामलंकारप्रभेदानां प्रंतिपिपादयिषितत्वाव्द्यङ्गयभेदाभिधानस्याप्रस्तुतत्वात्। एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः। सा चेति। न वैचित्र्यमिति। तस्य निगीर्यमाणत्वे- नाप्राधान्यात् । प्रत्येकमिति जात्यादीनाम्। निमित्तस्येति धर्मस्य। तद्वशादेव हि प्रकृतग- तत्वेनाप्रकृतोपनिबन्धः । हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव वि- श्रान्तिधामतया पश्चादुदिष्टम्। जात्यादिभेदगणनं पुनरवैचित्रयावहमपि चिरंतनानुरोधा- त्कृतम् । अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् । अस्माभिश्र नोदाहरिष्यते। ए- षेति समनन्तरोक्ता। तन्नापीति सत्यामपि समनन्तरोदिष्टायां भेदगणनायाम्। प्रायः- शव्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति दर्शितम् । अत एवालंकारानुसारिण्यां ग्र- न्थकृतानयोरपि संभवो दर्शितः । तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी। अन्यथा त्वेतद्ेदषोडशकस्याभावादशीतिर्भेदाः । अस्याश्र वक्ष्यमाणनीत्या हे- तुफलयोनिमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति। एतावन्त इति षण्ण- १. 'अध्यवसायत्वेन' .ख. २. 'भेदयोरपि' ख. ३. 'एव तावन्तो' क-ख. V
Page 65
काव्यमाला।
दाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात्। प्रायश्च स्वरूपो- त्प्रेक्षात्र न संभवति। तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः। एषा चार्थाश्रयापि धर्मविषये ्िष्टशब्दहेतुका क्वचिदृश्यते। क्वचित्प-
दभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति। क्वचिच्च च्छलादिशब्द- अ्योगे सापह्ववोत्पेक्षा भवति। अतश्रोक्तवक्ष्यमाणप्रकारवैचित्येणानन्त्य- मस्याः। सांप्रतं त्वियं दि्मात्रेणोदाह्नियते। तत्र जात्युल्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यों मूर्धि ज्वलनकपिशे भाति निहितः। स्नवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्त: स्फटिकधवलेनाङ्कुर इव ॥' अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते। क्रियोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते। उत्तरार्घे तु असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।' इत्यत्रोपमैव नोत्प्रेक्षा। गुणोत्प्रेक्षा यथा- 'एषा स्थली यत्र विचन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।।'
वतिः। अयं प्रकार इति प्रतीयमानोत्प्रेक्षालक्षणः । प्राय इति। वाच्या यथा स्वरूपो- त्प्रेक्षा लक्ष्येषु प्रचुरा तथेयं न भवतीत्यर्थः । न पुनरत्यन्तमेवास्या अभावो व्याख्येयः । क्वचिदपि लक्ष्येऽस्या दृष्टेः। यथासंभवमिति। लक्ष्ये भेदनिर्देश इति कार्यः । त- स्याश्चाष्टचत्वारिंशद्भेदाः संभवन्ति। तदुक्तमलंकारानुसारिण्याम्-'प्रतीयमानोत्प्रेक्षाभेदा अष्टचत्वारिंशत्' इति। अर्थाश्रयापीति। अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वा- प्युपयुक्तं तथापि श्रिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः । उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः । आनन्त्यमिति बहुप्रकारत्वम्। सांप्रतमिति प्राप्तावसरम्। दि- झात्रेणेति। अनेन जात्यादिभेदानामनवक्कृप्तिर्ध्वनिता। तमोगतत्वेनेति। तमोग- तव्यापनादिधर्मनिगरणेनेत्यर्थः । अत्र हि तमसो धर्मिणोऽन्यधर्मधमित्वं निगीर्यान्यधर्म- १. 'भवति' क. २. 'वेलायां' ख. ३. 'उत्तरे त्वर्घे' क.
Page 66
अलंकारसर्वस्वम् । 10
अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा- 'पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन। इहाङ्गनाभि: स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥' अत्र चन्द्रस्यैकत्वाट्रव्यत्वम्। एतानि भावाभिमानेनोदाहरणानि। अभावाभिमानेन यथा- 'कपोलफलकावस्या: कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।।' अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावेप्यूह्यम्। गुणस्य निमित्तत्वं यथा-'नवबिसलताकोटिकुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य। क्रियाया यथा-'ईदृक्षां क्षामतां गतौ' इत्यत्र क्षामताग- मनस्य। निमित्तोपादानस्यैते उदाहरणे। अनुपादाने 'लिम्पतीव तमो- डङ्गानि' इत्यादयुदाहरणम्। हेतूत्प्रेक्षा यथा-'विश्लेषदुःखादिव बद्धमौ- नम्' इत्यादौ। स्वरूपोत्प्रेक्षा यथा- धर्मित्वमवस्थापितमित्यग्र एव वक्ष्यामः। द्रव्योत्प्रेक्षेति। द्रव्यस्य स्वरूपेणोत्प्रेक्षणम् । तस्यैव हि हेतूत्प्रेक्षा यथा-'जयति शिशिरतायाः कारणं सा हिमाद्रेस्त्रिपुरहरकिरीटादा- पतन्ती द्युसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इव हेतुः श्रैत्यशैत्यस्य यस्याः ॥' अत्रेन्दोर्द्रव्यस्य हेतुत्वेनोत्प्रेक्षणम्। फलोत्प्रेक्षा यथा-'मध्येसलिलमादित्य- संमुखं धूलिधूसराः । कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने दिने ॥' अत्र चन्द्रस्य द्रव्य- त्वम्। एषामेव भावाभिमानोदाहरणत्वमतिदिशति-एतानीत्यादिना। अभ्यूह्यमिति अभावाभिमानोदाहरणम्। निमित्तोपादानस्येति। कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात्। अनुपादान इति। तिरोधायकत्वादेनिमित्तस्य गम्यमानत्वात्। भेदान्तरेष्विति स्वरूपफलादिकेषु। ज्ञेयमिति प्रतीयमानत्वात्। तत्र स्वरूपोत्प्रेक्षा यथा- 'मलअसमीरसमागमसंतोसपणिच्चराभिसव्वत्तो। विव्याहइ चलकिसलअकराहि साहाहि महुलच्ी ॥I' अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रियास्वरू- पेणोत्प्रेक्षिता। तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम्। यत्पुनरुद्देशे प्रतीयमानो- त्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्या: स्वरूपोत्प्रेक्षणस्यासंभवो नि- मित्तम्। ग्रन्थकृतो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः। हेतुफलोत्प्रे- १. 'मन्तर्नयनो' ख. २. 'अभ्यूह्यम्' क. ३. 'उक्त' ख. १. 'अत्र द्रव्यस्य' ख. २. 'भस्म' क.
Page 67
६० काव्यमाला।
'कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्म्य। दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोसत्सर्ज ।।' फलोत्प्रेक्षा यथा- 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ।।' एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता। प्रतीयमानोत्प्रेक्षा यथा- 'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती। अणुदिणमणण्णअम्मा अङ्गं तणुअम्पि तणुएइ ।।' इति। अमाअन्ती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भे- दान्तरेष्वपि ज्ञेयम्। श्िष्टशब्दहेतुर्यथा -- 'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः । अभूदहंपूर्विकया गतानामतीव भूमि: स्मरमार्गणानाम् ।।' अत्र धर्मविषये मार्गणशब्द: ्िष्टः। उपमोपक्मोत्प्रेक्षा यथा- 'कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालवालमुकुलोत्तंसन्ति मौलावपि। या: कर्णे विकचोत्पलन्ति कुचयोरक्के च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।' क्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तम्। तेन प्रतीयमा- नापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति। तत्र निमित्तानुपादाने उदा- हता। उपादाने तु यथा-'प्रसारि सर्वतो विश्वं तिरो दधदिदं तमः । सर्वाङ्गं लिम्पति जनं सान्द्रैरमृतकूर्चकैः ॥'अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया स्वरूपेणो- त्प्रेक्षिता तिरोधायकत्वादि च निमित्तम्। 'तुरीयो ह्येष मेध्योऽनिराम्रायः पञ्चमोऽपि वा। अपि वा जङ्गमं तीर्थ धर्मो वा मूर्तिसंचरः ॥' इत्यादौ तु वामनमते विशेषोक्तिः । 'भूत- लकार्तिकेय.' इतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकम् । यद्वक्ष्यति-या त्वेकहानि- कल्पनायां साम्यदार्ढ्य विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मदर्शने रूपकभेद एवेति। अत एवात्र तत्सामग्र्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् । एवम् 'अपरः पाकशासनो राजा' इत्यत्रापि दृढारोपमेव रूपकम्। एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम्। फलोत्प्रेक्षा यथा-'गिजन्ते मङ्गलगाहिआहि वरगोत्तदत्तकण्णाए। सोतुं विणिग्गओ उअह होन्तबहुआहि रोमच्चो ॥' अत्र श्रोतुमिवेति फलमुत्प्रेक्षितमू। श्रिष्ट इत्यर्थिशरवाचकत्वात्।
Page 68
अलंकारसर्वस्वम्। ६१
अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप्' इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यंवसानम्। यथा वा विरहवर्णने 'केयूरायितमङ्गदैः' इत्यादौ। एषा च समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता (दृश्यते ।) इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता। सा- पह्नवोत्प्रेक्षा यथा- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनततिच्छलेन मुक्तादृहासेव विभाति सिप्रा ।।' अत्रेवशब्दमाहात्म्यात्संभावनं छलशन्दप्रयोगादपह्ववो गम्यते। एवं छ- झादिशब्दप्रयोगेऽपि ज्ञेयम्। 'अपर इव पाकशासनः' इत्यादावपरशब्दा- प्रयोगे उपमैवेयम्। तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावु- आमुख इति न पुनः पर्यवसाने। उपमाप्रतीतिरिति। तदर्थमेव क्विपः प्रतृत्तेः। अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यम्। नहि वाचकसंभवासंभवमात्रमेवालंकाराणां भावा- भावप्रयोजकम्। एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलंकार- त्वपर्यवसायिनी न स्यात्। तस्माद्वाक्यार्थ एव प्ररूढोSलंकाराणां स्त्ररूपप्रतिष्ठापकं प्रमाणम्। वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः। संभवौचित्यादिति। कस्तूरीति- लकादेविषयिणो भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेविषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीतिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञत्व्रम्। नह्यौचित्यमेव तस्य स्वरूपं किं तु यथोत्तं प्रकृतोपयोगित्वम्। औचित्यं च नोत्प्रेक्षायां विरुद्धम्। तस्य सर्वत्रैत्र भावात्। उत्प्रेक्षायां पर्यवसानमिति। कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेविषयिणो विषयनिगरणे- नाभेदप्रतिपत्तेः । सादृश्यावगमाभांवात्। सादृश्यं ह्युभयनिष्ठम् । न चात्र प्रकृताप्रकृतयोः संस्पधितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्य दर्शितम्। सेति (एषेति) समस्तो- पमाप्रतिपादकविषये दृश्यमाना। सा तु यथा-'स दण्डपादो भवदण्डपाद(त)मुत्खण्डयन्र- क्षतु चण्डिकायाः । यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुव्यत्तुलाकोटितुलामुपैति ॥'अत्र स- त्यपि तुला(कोटि)शब्दे चन्द्रलेखाया एव तुलाकोटिप्रतीतेरुत्प्रेक्षात्वम्। छद्मशब्द- प्रयोगेन यथा-'स्वेदोदचिन्दुसंदोहच्छझ्मना तव राजते। स्मरेणावैम्यनर्घापि दत्तार्घेव कुचस्थली ।I' अस्याश्र तत्तच्छब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं द- शयितुमाह-अपर इत्यादि। तत्प्रयोग इत्यपरशब्दप्रयोगे। इवशब्दस्य संभावनाद्यो- तकस्याप्रयोगात्सिद्धत्वम्। अत एव चात्र विषयस्यानुपादानमेव। तदुपादाने हि दढारोपं रूपकमिति समनन्तरमेवोक्तम्। अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम्। त
Page 69
६२ काव्यमाला।
त्प्रेक्षैवेयम्। इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः । अ- परशब्दस्याप्रयोगे तु रूपकम्। तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रे- क्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मो- Sध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते। स च वाच्य एव नि- यमेन भवति। अन्यथा कं प्रति स हेतुः स्यात्। यथा-'अपश्यन्तावि- वान्योन्यं' इत्यादौ। अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षाम- तागमनस्य हेतुरदर्शनमुत्प्रेक्षितम्। हेतुफलं च तत्र क्षामतागमनं निमित्तम्। एवं 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुर- गतस्य मौनित्वस्य हेतुर्दुःखित्वम्। तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम्। एवं सर्वत्र। स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिन्निर्दिश्यते। यथा-'स वः पायादिन्दुः' इत्यादौ। अत्र कुटिलत्वादि निर्दिष्टमेव । वेलेव रागसागरस्य' इत्यादौ संक्षोभकारि- दित्यं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवं स्वरूपं दर्शयति- तदेवमित्यादिना। स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते। अध्यवसायवशादिति भेदे- डप्यभेदाश्रयणात्। अभिन्न इत्यप्रकृतसंबरन्धिना धर्मेण। स इति निमित्तत्वेनाश्रितो धर्मः । नियमेनेति। अवाच्यः पुनर्न कदा चिद्धवतीत्यर्थः । अन्यथेति वाच्यत्वे। कं प्रति स हेतुरिति। तस्यैव फलरूपत्वात्। नहि यं प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैव वाच्यत्वं युक्तम्। साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः । यदि चास्य निमित्तमात्रत्वमेव स्यात्तद्वाच्यत्व- मवाच्यत्वं स्यात्। एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलं चेति सिद्धम्। एतदेव दर्शयति-अपश्यन्तावित्यादिना। तत्रेति। हेतूत्प्रेक्षणे निमित्तमिति। त- द्विनोत्प्रेक्षणस्यानिष्पत्तेः । द्विविधमत्र क्षामतागमनं तंपोजनितमदर्शनजनितं च। तयो- रध्यवसायवशादभिन्नत्वेनाश्रयणम्। अतश्र हेतोरेक एव धर्मो निमित्तं फलं च। वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् । अत एव नेतरेतराश्रयदोषः । दवयो- रपि भिन्नत्वात्। मौनित्वमेवेति। न पुनरन्यत्किंचिदित्यर्थः । अतश्च निश्चलत्वादिज- नितस्य दुःखजनितस्य च मौनित्वस्याभेदनाश्रयणम्। सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्वं हेतूत्प्रेक्षास्वरूपकथनस्योक्तम्। एवं हेतूत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्श्य स्वरूपोत्प्रे- क्षाया अपि दर्शयति-स्वरूपोत्प्रेक्षायामित्याढिना। यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रे- क्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निंमित्तोपादान- मेव संभवति तथात्रापि न संभाव्यमित्याशयेन पुनरिहैतदुक्तम्। यदा चात्र धर्मो धर्म्य- न्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रूपत्वं भवतीत्याशङ्गयाह-यत्रेत्यादि।
Page 70
अलंकारसर्वस्वम्। ६३
त्वादि गम्यमानम्। यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्त- स्योपादानानुपादानाभ्यां द्वैविध्यम्। उपादाने यथा- 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम्। चकम्पे वेपेमानान्ता भयविहवलितेव भूः ॥' अन्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपा- त्तम्। अनुपादाने यथा-'लिम्पतीव तमोडङ्गानि' इत्यादौ। अन्र तमो- गतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादिनिमित्तं गम्यमानम्। व्या- पनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात्। न च विषयस्य गम्यमानत्वं युक्तम्। तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात्। तस्माद्यथो- धर्म एवेति। न पुनर्धर्मी धर्मिगतत्वेनेति। धर्मिभित्तितयेत्यर्थः । अत्र हि ध- मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थाप्यते। अत एवात्र धर्मी भित्तिभूत- तया विषयः । धर्मिणं विना केवलस्यैव धर्मस्य स्थाप्यमानत्वे वा धर्मित्वमेव स्यात् । वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः । यन्नि- गरणेनाभेदप्रतिपत्तिविषयिणोऽवसीयते। स च निगीर्यमाणो धर्मः क्वचि- दुपात्तो भवति क्वचिच्चानुपात्तः । 'प्राप्याभिषेकं' इत्यादावन्ये हेतूत्प्रेक्षात्वं मन्यन्ते इत्युदाहरणान्तरेणोदाह्नियते-'नवरोसदलिअ घणनिरवलम्ब संघडिअ तडिकडप्पव्व (?)। नरहरिणो जअइ कडारकेसरे कंधराबन्धो ॥' अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम्। कडारत्वं च निमित्तमुपात्तम्। निगीर्यमाणश्च धर्मो धर्मित- गत्वेनोपात्तः । लेपनक्रियाकर्तत्वोत्प्रेक्षायामित्यर्थादाशङ्गितायाम्। एवं हि तमोलेपन- मिवेति प्रतीतिः स्यात। न चात्र तथेत्याशङ्ग्याह-व्यापनादावित्यादि। निमित्तमन्य- दिति तिरोधायकत्वादि। तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तत्व- रूपो धर्म उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मटः-'व्यापनादिलेपनादिरूपतया-संभावितम्' इति। यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्वि- षयरूपस्य धर्मिणः समनन्तरोक्तनीत्या गम्यमानत्वं न युज्यत इत्याह-न चेत्यादि। विषयस्येति। निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः। न तु निगी र्यमाणस्येति व्याख्येयम्। तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवो- क्तम्। तच्चोदाहृतम्। यथा वा-'यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरदयमिवोदि- तमेकनालम्। तत्पन्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्या ।।' अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वम्। तस्येति धर्मिरूपस्य विषयस्य। उत्प्रेक्षिताधारत्वेनेति। उत्प्रेक्षितस्य लेपनादेर्धर्मंस्य व्यापानादिधर्मनिगरणेनोत्प्रेक्षा- विषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः । धर्मिणमन्तरेण धर्मस्य विश्रान्तेः । प्रस्तुत- १. 'गम्यमानात्' क. २. 'लोक्यमानास्ता' ख. ३. 'भूतगतत्वेन' क-ख.
Page 71
६४ काव्यमाला।
क्तमेव साधु। फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम्। तस्या- नुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात्। तस्मात्तत्र तस्य निमित्तस्योपा- दानमेव न प्रकारान्तरम्। यथा- 'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।।' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । त- दसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वा- दिह न प्रपश्चितः । तस्याश्रेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कभेव प्रतिपादयति। यथोदाहृतं प्राक्। 'अहं त्विन्दुं मन्ये त्वदरिविरह' इत्यादि । स्येति। अवश्याभिधेयस्येत्यर्थः। एवं हेतुफलोत्प्रेक्षयोरपि धर्मिंगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते। अतश्च स धर्मी वाच्य एव भवति। यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धम एवोपादानानुपादानाभ्यां द्विधा। तत्तु यथा-एषा स्थलीत्यादि। अत्र नपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्य दुःखहेतु- कत्वमुत्प्रेक्षितम्। निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा -'मृणालसूत्रं निजवल्ल- भाया: समुत्सुकश्चाटुपु चकवाकः।अन्योन्यविश्रेषणभन्नसूत्रभ्रान्त्येव चञ्चुस्थितमाचकर्ष।' अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम्। निगीर्यमा- णश्च धर्म उपात्तः। अनुपात्तस्तु यथा-'कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन्। नलिन्या भर्तविरहान्म्लानिमानमिवेक्षितुम् ।' अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम्। निगीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुस्वरूपयोर्यथासंभवं स्व- रूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षायामित्यादिना। तस्येति फलस्य। एतच्च हेतूत्प्रेक्षाविचारग्रन्थविव्ृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायास्यते। तदेवं ग्रन्थकृदात्मनः श्राघां कटाक्षयन्नेतदुपसंहरति-तदसावित्यादि।अस्याश्र वाच- कव्यवस्थां दर्शयति-तस्याश्चेत्यादि। उत्प्रेक्षासामग्र्यभाव इति संभावनाप्रत्ययात्मक- त्वाभावात्। प्रागित्यपद्रतौ। एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति। यथा- 'वृत्तानुपूर्वे च न चातिदीर्घे जड्दे शुभे सष्टवतस्तदीये। शेषाङ्गनिर्माणविधौ विधातुर्ला- वण्य उत्पाद्य इवास यत्न: ॥' इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते। तत्र भेदेSमेदो यथा-पृथ्वीराजविजये-'गृह्नद्भिः परया भक्त्या बाणलिङ्गपरम्पराः। अनर्म- देव यत्सैन्यैनिरमीयत नर्मदा ॥' अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा- 'अद्वैतं तद्भवतु भवतां संविदद्वैतपुष्टयै क्ष्याभृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य। यत्रा- १. 'तत्क्षणात्' ख. २. 'मानम्लानिं' ख.
Page 72
अलंकारसर्वस्वम्। ६९
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति ल- क्षयति- अध्यवसितपाधान्ये त्वतिशयोक्तिः । अध्यवसाने त्रयं संभवति-स्वरूपं विषयो विषयी च। विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम्। तत्र साध्यत्वे स्वरू- पप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषयप्राधान्यमध्यव- साये नैव संभवति। अध्यवसितप्राधान्यैवातिशयोक्तिः। अस्याश्च पञ्च कार्ष्ण्य निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमा्षि॥' अत्र कार्ष्ण्यसंबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा-'क्षीरक्षालितचन्द्रेव नीलीधौ- ताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरजृम्भत ।।' अत्र क्षीरक्षालितत्वाद्यसंबन्धेऽपि संबन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा-'यशसेव सहोद्दूतः श्रियेव सह वर्धितः । तेजसेव सहोद्द्रूतस्त्यागेनेव सहोत्थितः ॥I' पौर्वापर्यविपर्यये यथा-'शराः पुरस्तादिव नि- ष्पतन्ति कोदण्डमारोपयतीव पश्चात्। अन्वक्प्रहारा इव संघटन्ते प्राणान्द्िषः पूर्वमिव त्यजन्ति ॥' कार्यकारणयोविपर्ययेऽपीयं दृश्यते यथा-'सेयं संततवर्तमानभगवद्वाणार्चनै- काग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी। यस्याः पाण्डुरपुण्डरीकपटलव्या- जेन तीरद्ये शश्चत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम् ।I' अत्र नर्मदातश्चन्द्रस्योत्प- त्तिप्रतीतेः कार्यकारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा-'अखर्वगर्वस्मितद- न्तुरेण विराजमानोSवरपल्लवेन। समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सदो द्विषतां य- शांसि ॥' अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्देशात्क्रमिकविपर्ययः। अत्रैव 'पिबन्निवोच्चैः' इति तु पाठे क्रमिकयोः समकालभावित्वम्। एतदुपसंहरन्नन्यदवता- रयति-एवमित्यादि। तामेव लक्षयितुमाह। एतदेव व्याख्यातुर्मेध्यवसायस्य ताव- दयथासंभवं स्वरूपं दर्शयति-अध्यवसितेत्यादि। परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्गयाह-विषयस्य हीत्यादि। विषयविषयिभ्यामन्तरेणा- ध्यवसाय एव न भवतीत्यर्थः एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना। त- त्रेति त्रयनिर्धारणे। स्वरूपप्राधान्यमित्यध्यवसायप्राधान्यम्। अध्यवसितप्राधान्यमिति वि- पयिप्राधान्यम्। साध्यत्वं सिद्धत्वं चोत्प्रेक्षायामेव निर्णीतम्। नैव संभवतीति। अ- ध्यवसायस्वरूपानुदयात्। तदेवं विषाययणः प्राधान्यविवक्षायामलंकारो भवतीत्याह-अ- ध्यवसितेत्यादि। उक्तं चान्यत्र-'अध्यवसायसाध्यत्वप्रतीतावियमिष्यते । तत्सिद्ध- ताप्रतीतौ तु भवेदतिशयोक्तिधी: ॥' इति। पश्चेति न्यूनाधिकसंख्यानिरासार्थम्। अत एव कार्यकारणपौर्वापर्यविध्वंसस्य चतुर्थभेदान्तर्भावो न वाच्यः । एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात्। अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात्। अथ भवत्वेतदिति १. 'अध्यवसितस्य' ख. २. 'विरुद्धत्वं' ख. ९
Page 73
६६ काव्यमाला।
प्रकाराः। भेदेडभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः। कार्यकारणपौर्वापर्यविध्वंसश्च। तत्र भेदोडमेदो यथा- 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारंसुभगेत्युत्पातपरम्परा केयम् ॥' चेतू। न। अत्र च यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैलैक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेन निर्देश: कृत इति भवद्भिरेवोक्तत्वात्। तत्समानन्यायत्वात्कथमस्यापि चतुर्थ- भेदान्तर्भावो न्याय्यः । अथ यदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानन्यायताद्यभावे- पि तथापनिबन्धे पश्चमोSन्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्न- देशत्वाभावेSपि तथोपनिबन्धे षष्ठोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत्। नैतत्। यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया वि- षयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयो- भिन्नदेशत्वमित्युभयत्राप्यस्ति तावननिर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वह्लभकर्तकस्य हृदयाधिष्ठानस्य कारणस्य स्मरकर्तकस्य च कार्यस्य पूर्वापरीभावं निगीर्य त्वदर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथा- त्वमध्यवसितमित्यतिशयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वमू। तत्र हि 'बबन्ध धम्मिल्लमधीरदृष्टे: क्ष्मानायकश्चम्पकमालिकाभिः । चित्तेषु मन्युः स्थिरतां जगाम विपक्ष- सारङ्गविलोचनानाम् II' इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयो- भिन्नदेशत्वम्। यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेविरुद्धत्वप्रत्यायकम्। विरो- धस्य चात्राभासमानत्वम्। धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतोSपि कार्यकारणभावसद्भावा- भावाख्यस्य बाधकप्रत्ययस्योल्लासात्। न च बाघोदयेऽपि विरोधाप्रतीतिः। द्विचन्द्रप्रतीतिव- दनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात्। न चातिशयोक्तौ स्खलद्गतित्वम्। निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात्। नहि कार्यकारणयोः पौर्वा- पर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतेरतिशयोक्तेश्र स्वरूपभेदोSपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिभिन्नदेशत्वेन चातिशयोक्तिरिति यथोक्तमेव युक्तमू। अत एव च 'पौर्वापर्यविपर्याससमकालसमुद्भवौ। कार्यकारणयोर्यौ तौ विरोधाभासपल्लवौ II' इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम्। केचि- च्च सर्वालंकाराणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते। तथा ह्युपमायाम- प्यस्त्येतन्द्ेदत्वम्। न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साम्येSतिशयानतिपाताद- तिशयं विना च गौरिव गवय इत्यादावनलंकारत्वात्। अतश्वातिशयस्यैव सर्वालंकारबीज- भतत्वात् 'एकैवातिशयोक्तिश्व काव्यस्यालंकृतिर्मता' इत्युक्तम्। नैतत्। इह ह्वतिशयंस्य
Page 74
अलंकारसर्वस्वम्। ६७
अत्र मुखादीनां कमलादयैर्मेदेडप्यमेदः। अभेदे भेदो यथा- 'अण्णं लडहत्तणअं अण्णा विहि कावि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह चि अ ण होइ ।।' अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः। यथा वा- 'णाराअणोत्तिपरिणअवयाहिँ सिरिवल्लहोत्ति तरुणीहिं। बालाहिं उण. कोदूहलेण एमेअ सच्चविओ ॥।' अन्ाभिन्नस्यापि विषयविभागेन भेदेनोपनिबन्धः । संबन्धेऽसंबन्धो यथा- 'लावण्यद्रविणव्ययो न गणितः केशो महान्स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्रेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ।' द्यी गतिः यदयं कविप्रतिभानिर्वर्तितः सामान्यात्मा भवति भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा। तत्राद्यः सवैरेवालंकारबीजतयाभ्युपगतः । अन्यथा हि गौरिव गवय इ- त्यादावलंकारत्वं स्यात्। तावता पुनरेतत्प्रभेदत्वं सर्वालंकाराणां न युक्तम्। तत्त्वे हि वि- शेषोक्त्युल्लेखादीनामपि तत्प्रसङ्ग:। सर्वालंकाराणामपि विशेषोक्त्युल्लेखरूपत्वात्। अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्ययुक्तम्। अस्या ह्यध्यवसितप्राधान्यं लक्षणम्। तच्चालंका- काराणां न संभवति। तथात्वानवगमात्। अतश्रैषामसंभवत्तत्सामान्यत्वात्कथं तद्विशेषत्व- मिति बहुप्रकारत्वमस्या निरस्तम्। मुखादीनामिति। न तु वास्तवस्य सौन्दर्यस्य। कम- लाधैरिति। न तु कविसमपितेन सौन्दर्येण। अत एव चात्रातिशयाख्यमित्यादिस्तद- भिप्रायेणैवाध्यवसितप्राधान्यमित्यन्तश्रोत्तरकालिको ग्रन्थः स्वमतिजाड्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः । अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिर्लिखित इत्यवगीता प्रसिद्धिः । ततश् तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्त- रादयमसमअ्जसप्रायो ग्रन्थखण्डो लिखित इति। न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यै्भेदे- डप्यभेद इत्युक्त्वापि न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीय इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनो ग्रन्थकारस्य संभाव्यम्। लटभत्वादीनामित्यादिशब्दा- द्विवर्तनेच्छाया एव त्रहणम्। तत्रैवाभेदेऽपि भेदविवक्षणात्। उत्तरार्धे हि संबन्धेऽप्यसं- बन्धः । 'लावण्यद्रविणव्ययो न गणितः' इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादना- र्थमिति। एतत्प्रयोजनदर्शनं सर्वोदाहरणोपलक्षणपरम्। तेनान्यत्र स्वयमेव प्रयोजनमभ्यू- १. 'तच्चालं कारान्तराणां' ख.
Page 75
६८ काव्यमाला।
अत्र लावण्यद्रविणस्य व्ययसंबन्धेSप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रति- पादनार्थ निबद्धः। यथा वा- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथ ने विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधि: ।' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे सं- वन्धो यथा- 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्। ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।' अत्र संभावनया संबन्धः । यथा वा- 'दाहोऽम्भः प्रसतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्गितदीप्रदीपकलिकाः पाण्डिम्नि मनं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥' श्यम्। संभावनयेति। न तु वस्तुतः । अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तर- माह-दाहोऽम्भ इत्यादि। वाशव्दः समुच्चयार्थः । अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोविध्वंसो विपर्ययस्तथ पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम्। एवं च का- र्यकारणविध्वंसस्यापि पञ्चप्रकाराः। अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीका- रेण पूर्व व्याख्यातम्। तत्र कार्यकारणयोविपर्ययो यथा-'एअत्तं अवअत्तं संकोअअरं मिअङ्क कान्तीइं। गहस्सप अरइन्दस्स कारणं भणइ सरस्स (?) ॥' अत्रेन्दुकान्तेः सं- कोचे विपर्ययेण शतप्रस्य कारणत्वमध्यवसितम्। अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिर्है- तुत्वेन स्थिता। उतरे त्वर्धे सैव ल्िष्टशब्दनिबन्धना हेतुः। तथाभावोपनिबन्धश्चात्र व- कस्य लावण्यप्रकर्षप्रतिपादनार्थम्। क्मविपर्ययो यथा-'कुपितस्य प्रथममन्धकारी भ- वति विद्या ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः । आरम्भे तपो गलति पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फुरत्यनन्तरमधर इति।' अत्र कोपकार्ये विद्याभ्रुकुट्यादीनामन्धकारीभवनादौ क्रमं निगार्य तद्विपर्ययोऽध्यवसितः। तस्यैव सह- भावो यथा-'रइभवणाहि परिअणो मसणं मणिमेहला णिअम्बाहिं। लजा हिअआहि १. 'व्ययस्य' क. २. 'स्वविषय' क. ३. 'मुनिः' ख.
Page 76
अलंकारसर्वस्वम्।
अत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा विपर्ययो यथा- 'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ।I' तुल्यकालत्वं यथा- 'अविरलविलोलजलद: कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥' ऐषु पञ्चसु भेदेषु भेदेडमेदादिवचनं लोकातिक्रान्तगोचरम्। अत्र चा- तिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि 'क- मलमनम्भसि' इत्यादौ वदनादीनां कमलादैर्मेदेऽपि वास्तवं सौन्दर्य कविस- मर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम्। तैत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम्। न तु वदनादीनां कमलादिभि- रभेदाध्यवसायो योजनीयः । अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि 'अण्णं लडहत्तणअं' इत्यादौ सातिशयं लटभात्वं निमित्तभूतमभेदेना- ध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालं- समो सरन्ति ...... ससिमुहीणम् ।' अत्र परिजनादीनामपसरणे क्रमिकत्वेऽपि सम- कालत्वमध्यवसितम्। एवमेषां सर्वेषामेव भेदानां लोकासंभवद्विषयत्वं दर्शयितुमाह- एष्वित्यादि। एष्विति विषयसप्तमी। एष चावयवनिर्देशः । लोकातिक्रान्तेति। कविप्रतिभानिरमितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः । अत्रेति भेदपञ्चके। चशव्दः प्रमे- यान्तरसमुच्चयार्थः । फलमिति । तस्यैव प्रतिपिपादयिषितत्वात्। तत्रेति। वास्तवस्य सौन्दर्यस्य कविसमपितेन सौन्दर्येणाभेदवचनेन। ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयते इति कथमेतदुक्तमित्याशङ्गयाह-न त्वित्यादि। कुतश्र तेष्वव्याप्तिरित्याश- ङ््याह-तत्र हीत्यादि। कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसा- ययोजनं क्रियते तत्तस्य धर्मिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्याप्तिः । अतश्र पूर्वत्र धर्मा- णामेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्ष: स्यादिति तात्पर्यार्थः । उपलक्ष्यं चैतत्। यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम्। तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्याप्ति: स्यात्। प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङगः १. 'पतता' क. २. 'एष्वेव' ख. ३. 'अतश्वात्र' ख. ४. 'अत्र च' ख.
Page 77
७० काव्यमाला।
कारप्रस्तावे प्रपञ्चार्थ लक्षयिष्यते। एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते। तत्रापि पदार्थवाक्यार्थग- तत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते- औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा स- मानधर्माभिसंबन्धे तुल्ययोगिता। इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम्। तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता। यथा- 'सैज्जातपत्रप्रकराञ्चितानि समुद्धहन्ति स्फुटपाटलत्वम्। विकस्वराण्यर्ककरप्रभावाद्दिनानि पझ्मानि च वृद्धिमीयुः ॥' अत्र ऋतुवर्णनस्य प्रक्रान्तत्वाद्दिनानां पझ्मानां च प्रेकृतत्वाद्वद्धिगमनं क्रिया। एवं गुणेऽपि। यथा- स्यात्। तत्रापि धर्माणामेव भेदेSभेदविवक्षणात्। एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्ति: प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन। अ्रपञ्चार्थमिति। न तु निर्णयार्थम्। इहैव तस्य निश्चितत्वात्। प्रपञ्चश्र तत्रैव दर्शयिष्यते। एतदुपसंहरन्नन्यद्वतारयति- एवमित्यादिना । गम्यमानौपम्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापेक्षया पदार्थप्रतीतेरन्तरङ्गत्वात्। तत्र प्रथमं तुल्ययोगितामाह-औपस्ये- त्यादि। एतदेव व्याचष्टे-इवेत्यादिना । तत्रेत्यौपम्यस्य गम्यत्वे सति। प्रा- करणिकानामिति दयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम्। अत एव च बेहनामौपम्यग्रहणायेति न वाच्यम् । वक्ष्यमाणोदाहरणेषु द्वयो- रौपम्यस्योद्भासमानत्वात्। एवं दीपकेऽपि ज्ञेयम्। अन्वितार्थेति। समानधर्मसंबन्धि- नामत्र भावात्। अनेनैव चास्या: प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्मयोगाद्वैविध्येन चतुष्प्रकारत्वमप्युक्तम्। न चास्यातिशयोक्तिरनुप्राणकतया वाच्या। तां विनापि वक्ष्य- माणोदाहरणेष्वस्याः संभवात्। औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वा- द्रन्थकृतोदाहृतम्। यत्र पुनरौपम्यं प्रतीयते तदुदाहियते यथा-'ईर्ष्याविकारावसरे तवो- चितमिदं प्रिये। स्खलद्गतित्वं वचसां लीलाचङ्गमणस्य च ।' अत्रोचितत्वं गुणः । अप्रकृ- तयोस्तु यथा-'भूभारोद्वहनव्यग्रे सुचिरं त्वयि तिष्ठति । देवाद्य फणिनामश्र्यः कूर्मश्र सुखिनौ परम् ।।' अत्र सुखित्वं गुणः । केचिच्च नायिकामिलितयोः प्राकरणिकत्वं मन्यन्त १. 'संजात' क-ख. 'सज्ज-आतपत्र' इति दिनपक्षे छेदः; 'सत्-जात-पत्र' इति च पझ्मपक्षे. २. 'प्रक्रान्तत्वम्' क. १. 'अ्रन्थदूषणोर्दीरणेन' क. २. 'निगीर्णत्वात्' क. ३. 'बहूनामेव' ख.
Page 78
अलंकारसर्वस्वम्। ७१
'योगपट्टो जटाजालं तारवीत्व्ृगाजिनम्। उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ।।' उचितत्वं गुणः । अप्राकरणिकानां यथा- 'धावत्त्वद्श्वपृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥' अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणो यथा- 'त्वदङ्गमोर्दवद्रष्टः कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ।।' कैठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता। प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमु- च्यते- प्रस्तुतापस्तुतानां तु दीपकम्। औपम्यस्य गम्यत्व इत्याद्यनुवर्तते। प्राकरणिकाप्राकरणिकयोर्मध्यादे-
इत्युदाहरणान्तरेणोदाहियते यथा-'शंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्धत्वमापादिता। युक्तायाः परतापदावविपदः कन्या पितृणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते। अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्रङ्गाचन्द्रकलयोरप्रकृतत्वम्। आपादनं च क्रिया। बिम्बप्रतिबिम्बभावेनापीयं भवति। यथा-'क्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता। कवी- न्द्रवक्रेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति ।।' अत्र वक्रपन्मयोर्बिम्बप्रतिबिम्ब- भावः। अनेनैव चाशयेनांत्रालंकारवार्तिके ग्रन्थकृता वैशिष्टयमस्या दर्शितम्। शुद्धसामान्य- रूपत्वेन यथा-'आस्तां बालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये। एका पयःप्रस्रविणी सर्वसंपत्प्रसूः परा ॥' अत्र प्रस्नवणस्य शुद्धसामान्यरूपत्वम्। एतदुपसंहरन्नन्यदवतार- यति-प्रस्तुताप्रस्तुतानामिति। एकत्रेति प्राकरणिकेSप्राकरणिके वा। अन्यत्रेति प्राकरणिकादौ। दीपकेति 'संज्ञायाम्' इत्यनेन कन्। सादृश्येन समुदायगम्यायाः संज्ञाया १. 'अप्राकरणिकत्वं' क. २. 'मार्दवं' क. ३. 'अत्र कठोरत्वं' ख.
Page 79
७२ काव्यमाला।
कत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीप- काख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव। पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैव- क्षिकः। अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमेयभावस्या- नेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः। वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोस्य भेदाः । क्रमेणोदाहरणम्- 'रेहेइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम्। अमएण धुणीधवलो तुमएण [अ] णाह भुवणमिणम् ।।' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्। प्रचकमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्र धेनुः ॥'
अभावात्। तत्रेति दीपके। वास्तव इति। प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात्। पूर्व- त्रेति तुल्ययोगितायाम्। इयानेव च दीपकतुल्ययोगितयोविशेषोSस्तीत्यप्यनेन दर्शितम्। न चैतावतैवानयोः पृथग्लक्षणं युक्तम्। औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात्। एवं च समुच्चितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम्। वैवक्षिक इति। यत्रैव वत्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादा- श्रयणीयमित्यर्थः । अतश्च 'प्रस्तुतस्य विनान्येन व्यभिचारस्य दर्शनात्' इति नीत्या प्रस्तु- ताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः । एवं 'प्रसिद्धेनाप- सिद्धस्य सादृश्यमुपमा मता' इत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोSप्युपमानोपमे- यभावो न वाच्यः । 'खमिव जलं जलमिव खं' इत्यादौ द्वयोरपि तुल्यत्वात् । प्रसिद्धगुण- त्वाद्यभावेऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शनात्। ननु चात्र साधर्म्य वाक्यार्थगत- त्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्गयाह-अनेकस्येत्यादि । एवं पूर्वत्रापि ज्ञेयम्। धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदा- ह्ियते-'धम्मजणेण काण वि काणवि अत्थज्णेण बोलेई। कामज्णेण काण वि काण वि एमेअ संसारो ॥' एकक्रियमित्यनेनैकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितम्। १. 'दीपकालंकारोद्दीपकः' ख. २. 'राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौ- वनम्। अमृतेन " त्वया च नाथ भुवनमिदम् ॥' इति च्छाया. ३ 'अजी- घवलो' ख. १. 'तु नान्येन' क. २. 'एकत्रियेत्यनेनैक' ख.
Page 80
अलंकारसर्वस्वम्। ७३
'किर्वणाणँ धणं णाआणँ फणमणी केसराइँ सीहाणम्। कुलवालिआणँ थणआ कुत्तो छेप्पन्ति अमुआणम् ॥' एवमेकक्रियं दीपकत्रयं निर्णीतम्। अत्र च यथानेककारकगतत्वेनै कक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम्। यथा- 'साधूनामुपकर्तु लक्ष्मीं धर्तु विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ।।'
तत्तु यथा-'फणासहस्रभृदधो दिवि नेत्रसहस्त्रभृत्। अद्वितीयः पृथिव्यां च भवान्नाम- सहस्रभृत् ।I' अद्वितीयत्वं गुणः । एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अन्रेत्यादि। अत्र चोच्छासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतृनवबोधयितुं कविकर्तकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् । तेषां च सा- मान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता। अतश्च नेदं का- रकदीपकस्योदाहरणम्। तत्तु यथा-'आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम्। त्वदभक्तिमददुतरसां हृदये च कर्तु मन्दादरं जनमहं प- शुमेव जाने ।।' अत्रालिङ्गनाद्यनेकक्रियाकर्तत्वेनैक एव जनो निर्दिष्टः। प्रस्तुताप्रस्तुतं स्फुटमेव। 'स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्। अन्तर्न- न्दति चुम्बितुमिच्छति नवपरिणीता(णया) वधू: शयने ॥' इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुचीयमानत्वाच्च समुच्चयालंकारो न तु कारकदीपकम् । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति। एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुच्चयस्यौपम्याभावादेव तुल्ययोगितातोऽपि भेदः । औपम्यसद्भावेऽपि तुल्ययोगितैव। यथा-'चकार दुर्बलानां यः क्षमामागस्विनामपि। जहे निरपराधानामपि यश्च बली- यसाम् ।I' अत्र करणहरणयोः प्रकृतत्वम् । द्वयोरपि राजगतत्वेन वर्णनीयत्वात्। इदं बिम्बप्रतिबिम्बभावेनापि भवति। यथा-'मणिः शाणोल्लीढः समरविजयी हेतिनिहतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना। मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥' अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्ब- भावः। शुद्धसामान्यरूपत्वं यथा-'फेंणरअणराइअङ्गो भुअंगणाहो धरं समुव्वहइ। णह- दप्पणोवसोहिअसिहो अ तुह णाह भुअदण्डो ।।' अत्र राजितत्वशोभितत्व्रयोः शुद्धसामा- न्यरूपत्वम्। नन्वेतदनन्तरमेव मालादीपकमन्यैरलक्षितं तदिहापि किं न लक्ष्यत इत्या- १. 'कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥' इति च्छाया. १. 'कीर्ति निधापयितुमर्थयितुं' ख. २. 'वल्गति' ख. ३. 'फणरत्नराजिताङ्गो भुजं- गनाथो धरां समुद्ूहृति। नखदर्पणोपशोभितशिख़श्च तव नाथ भुजदण्डः ॥' इति च्छाया. १०
Page 81
७४ काव्यमाला।
अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्ट मनो निर्दिष्टम्। छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते। वाक्यार्थगतत्वेन सामान्यस्य वाक्यदये पृथङ़िर्देशे प्रतिवस्तूपमा। पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकार- प्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा। वस्तुप्रतिव- स्तुभावेन सकृन्निर्देशेऽपि सैव। इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययो- गिते। असकृत्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा। आद्यः प्रकारः प्रतिवस्तूपमा। वस्तुतः शब्दस्य वाक्यार्थवाचित्वे प्रतिवा- क्यार्थमुपमा। साम्यमित्यन्वर्थाश्रयणात्। केवलं काव्यसमयात्पर्यायान्तरेण पृथड़िर्देशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते। तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा। यथा- 'चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि। आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥'
शङ्याह-छायेत्यादि। छायान्तरेणेति शङ्धलारूपेण। प्रस्तावान्तर इति शृङ्खला- बन्धोपचितरूपत्वात्। वाक्यार्थेत्यादि । एतदेव व्याख्यातुमलंकारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना । 'तया स पूतश्व विभूषितश्र' इत्यत्रोपमायां सकृ- न्निर्देशः । 'पाण्ड्योऽयमंसापितलम्बहारः' इत्यादावपि चासकृन्निर्देशः । तदेवमिवाद्यु- पादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति-इवादी- त्यादिना। यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति तथापि सकृन्निर्देशं बिना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम्। असकृन्निर्देशश्र द्विधा भवती- त्याह-असकृदित्यादि । आद्यः प्रकार इति शुद्धसामान्यरूपत्वम्। यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तत्कं पर्यायान्तरेण पृथडिर्देशः क्रियत इत्याशङ्गयाह- केवलमित्यादि। यदुक्तम्-'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति। बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः । एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति-तदेवमित्यादिना । औपस्याश्रयेणेति। एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताद्भेदो दर्शितः। यतोऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते। अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः । दृष्टान्ते पुनरेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्मा भूदिति प्रतीतिविषदीकरणार्थमर्थान्तरमुपादीयते। १. 'पान' ख. १. 'साम्यस्य' ख. २. 'विशेषानभिधित्सया' ख.
Page 82
अलंकारसर्वस्वम्। ७५
अत्र चतुरत्वं साधारणो धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधर्म्येण यावद्वैधर्म्येणापि। यथात्रैवोत्तरस्थाने 'विनावन्तीर्न निपुणाः सुदृशो रतनेर्मणि' इति पाठे। तस्यापि विम्बप्रतिबिम्बभावतया निर्देशे दष्टान्तः । तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्य- वमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा- 'अब्धिर्लङ्गित एव वानरभटैः किं त्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्िष्टो मुरारिः कविः ॥' अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौ-
अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तः प्रकृतार्थप्रतीतेरवि- स्पष्टतानिरासात्। केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः। तदसत्। यतः सरूपयोविशेषयोः समर्थ्यसमर्थकभावो न भवति। वस्त्वन्तरेण वस्त्वन्तरसिद्धयनु- पपत्तेः। नहि सामान्यविशेषयोरेव भवति। सामान्यस्य नियमेन विशेषनिष्ठत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात्। यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात्। समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात्। अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः।तदप्यसत्। एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वा- दुपमाभेदवदनयोः पृथगलंकारत्वानुपपत्तेः । तदेवं वाक्यनैरपेक्ष्येऽपि व्तप्रैतिवकोरेव विशेषादनयोर्भेदः सिद्धः । वैधर्म्येणापीति। भवतीति शेषः। तस्यापीति। उप- मानोपमेययोरिति । प्रकृताप्रकृतयोरधरमिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलंकारः । यदुक्तमन्यत्रापि-'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति। उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम्। अर्थान्तरस्य प्रकृतदार्ढ्यायोपादानात्सादृश्यस्याविवक्षणात्। आद्य इति साधर्म्येण। यथा वा-स्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति। आदाय शुक्तिषु बलाहक- विप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिः ॥' अत्र स्थानादीनां शुक्त्यादिभिः प्रति- १. 'उपमान' क. २. 'कर्मणि' क. १. 'प्रतिपत्तेः' क. २. 'प्रतिपत्त्योः' क.
Page 83
७६ काव्यमाला।
पम्यं विवक्षितम्। यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्गनादावस्त्येव दि- व्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा- 'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ।' अत्र निहत्वादेः स्थानादिना वैधर्भ्येण प्रतिबिम्बनम्।
निदर्शना। संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं
प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम्। तत्र क्वचित्संभवन्नेव वस्तुसं- बन्धः स्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति। क्वचित्पुनरन्वयबाघाद- संभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते। तत्र संभवद्वस्तुसंबन्धा यथा- 'चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेघिनः ॥'
बिम्बनम्। यन्निबन्धनं चेति। अर्थालंकारत्वं न पुनरौपम्यम्। तस्य च समनन्तरो- क्तयुक्त्यासंभवात्। संभवतेत्यादि । बिम्बप्रतिबिम्बभावमिति। उपमानोपमेयत्व- मित्यर्थः । धर्मधमिणोरभेदोपचारात्। एवं चात्र निदर्शनायां सादृश्याविनाभावः । तेन 'प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति। लिखन्तीनां पत्राङ्करमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयति ।' इत्यादौ संभव- त्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम्। अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्यमप्युक्तम्। तदेवोदाहरति-चूडामणीत्यादिना । तत्समर्थाचरणे प्रयोगादिति। 'कारीषोऽध्यापयति' इत्यादिवत्। अभ्यागतस्य रवेर्गिरिणा शिरसा धारणं तत्समर्थाचरणम्। अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयो- गान्मयेव भवद्भिरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यम्। एवं च प- र्वतस्य बोधनक्रियाकर्टत्वासंभवादेवाभिमन्तव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा। नापि स्मृत्यलंकारः ! गृहमेधिनां गृहकर्तकस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात्। तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति। नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तत्वम्। तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात्। नाप्यत्र रंविणातिथेरतिथिना वा रवेः साम्यं विवक्षितम्। अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति। अत एव नात्र वस्त्वन्तरकेरणात्मापि विशेषालंकारः । तेपनावगमेऽतिथ्यादेरसंभाव्यस्यावगमो १. 'चमत्कारं' क. २. 'करणादपि' ख.
Page 84
अलंकारसर्वस्वम्। १७७
चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाह्यतां राहुः॥ हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य। यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः॥ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्नेषि। किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ॥ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्गस्य। दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ।। इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवकोक्ति।
वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ।
इह वस्तुस्वभाववर्णनमात्रं नालंकारः। तत्त्वे सति सर्व काव्यमलंकारः स्यात्। न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थ सूक्ष्मग्र- हणम्। सूक्ष्म: कवित्वमात्रस्य गम्यः। अत एव तन्निर्मित एव यो वस्तुखव-
न्यायेन शब्दश्लिष्टत्वादस्य श्रेषवक्रोक्तावन्तर्भावः स्यात्। उभयमुखेनेति। सभ- ङ्गासभङ्गश्लेषद्वारेण। विजय इति श्रेषस्यासभङ्गत्वम्। मेदुरोदरेणेति सभङ्गत्वम्। 'स्मे- रोऽवताद्व: शिवः' तथा 'प्रयुक्तवक्रोक्ति' इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम्। ननु 'सैषा सर्वैव वक्रोक्ति: कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंकारवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्ग्याह-वक्रोक्तीत्यादि। इहेति। वाक्छलात्मकत्वेनोक्ते: कौटिल्यात्॥ सूक्ष्मेत्यादि। ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि। 'तदतिशय- हेतवस्त्वलंकाराः' इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यै- वालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्गयाह- सूक्ष्म इत्यादि। कवित्वमान्नस्येति। कुशाग्रीयधिषणत्वात्। एवं स्थूलमतीना- मकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए- १. 'सूक्ष्मम्' ख. १. 'सूक्ष्म मित्या दि' ख.
Page 85
७८ काव्यमाला।
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।' दूरीकृता: खलु गुणैरुद्यानलता वनलताभिः ॥' इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निदर्शनाप्राप्तेः। इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्योपमाने संभवादपि भवति। उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात्। तद्यथा- 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषु ।।' अत्र गण्डतलं प्रकृतम्। तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुषु सेंभवादौ- पम्यप्रतीतिः । एष च प्रकार: शृङ्खलान्यायेनापि भवति। यथा-
नेति। प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात्। अत- श्रान्यैर्वीक्यार्थयोः समानाधिकरण्यनिर्देशाच्छरौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्तामू, यत्पुन: प्रतिवस्तूपमोदाहरणत्वमुक्ततं तदयुक्तमेव। निरपेक्षयोर्वक्यार्थयो- र्धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा। न चात्रैकमपि संभवति। वाक्यार्थयोः सा- पेक्षत्वाच्छुद्धसामान्यरूपत्वाभावाच्च। अर्थापत्युदाहरणत्वमप्यत्रायुक्तम्। 'जाग्रतः क- मलाल्लक्ष्मीं यजग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥' इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः । अत्र हि वाक्यार्थयोः परस्परं साद- श्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः । एवंविधमेव चान्यत्र सर्वालंका- रोदाहरणेष्वासमअ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान् दर्शितम् । तथा च 'आज्ञाघरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य। स चापि सौन्दर्यविशेषबन्दी यत्रेन्दु- रिन्दीवरलोचनानाम् ।' इत्यत्र विषयविषयिणोर्द्वयोरप्युपादानात्स्फुटेSपि रूपकत्वेऽति- शयोक्त्युदाहरणत्वमुक्तं तत्न चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनि- दर्शनेनेत्यलं बहुना। असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव सं- भवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि । उभयत्रे- त्युपमेये उपमाने वा। वसन्तवर्णनस्य प्रक्रान्तत्वाह्योः प्रकृतत्वेऽपि गण्डतलस्योपमे- यत्वम्। तद्गतत्वेनैव पाण्डिम्र: सिसाधयिषितत्वात्। सिद्धसाध्यधर्मत्वमेव चोपमानोपमे- १. 'सामान्येनोपमानवृत्तस्योपमेयेऽसंभवात्' ख. २. 'संबन्धन' क. ३. 'अदृश्यत' ख. ४. 'असंभवात्' ख. १. 'असामान्य' ख. २. 'अन्यत्राप्युक्तम्' ख. ३. 'गतिः' ख. ४. 'पांपोत्यापीयः' ख. ५. 'उपचारात्' क. ६. 'निर्मूलनेन' ख.
Page 86
अलंकारसर्वस्वम्। 10
'आ मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि। जुगुप्सस्यात्मानं नागरिक विदग्धाशछल्यन्ते ।।' क्वचित्पुनर्निषेघसामर्थ्यादाक्षिप्ायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति। यथा- उेत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदशाम्। पद्धयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ।' अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्राप्तिरा- क्षिप्यते। सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्ध- निबन्धना निदर्शना। भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । अधुना भेदप्राधान्येनालंकारकथनम्। भेदो वैलक्षण्यम्। स च द्विधा भवति। उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात्। विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्-
यत्वम्। यथा वा-'त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः। कर्थं त्व- नेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति ।' अत्र चाटुघु नायिकायाः प्रस्तुतत्वाद्व- कमुपमेयम्। तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः। एष इत्यसंभवद्वस्तुसंबन्ध- निबन्धनो वा वाच्यः । आक्षिप्ाया इति। प्राप्तिपूर्वकत्वान्निषेधस्य। सेति प्राप्तिः । सादृश्यमिति। पादयोर्हसगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामि- तया। यथा-अव्यात्स व इत्यादि। अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा-'हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः। फणीन्द्रबद्धजूटस्य श्रियमाप स घूर्जटेः ॥ अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम्। बिम्बप्रतिबिम्बभावेन। यथा-'उह सरसदन्तमण्डलकपोलपडिमागओ मअच्छीइ। अन्ते सिन्दूरिअसङ्खवत्त- करणिं वहइ चन्दो ।' अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः । भेदप्राधान्य इत्यादि। अधुनेति प्राप्तावसरम्। भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः। १. इयं प्राकृतच्छाया क-पुस्तके वतते, प्राकृतं तु नास्ति. ख-पुस्तके तु 'मुंडभिदिवो- रफलवरोकरीवलो अर्थिरंधरिसि। विगुश्चावसि अप्पाणालिआ छेआ छलिंगाति ॥' इत्य- त्यशुद्धं प्राकृतमस्ति. २. 'यत्कोपे' ख. ३. 'असंभवत्संभवनिदर्शना' क.
Page 87
८० काव्यमाला।
'दिद्ृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते। वापीसु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षटूपदौघाः ॥' 'क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥' अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्त्रस्य पक्ष्मलताया अधिक- गुणत्वम्। चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम्। शशिवैलक्षण्येन त- स्यापुनरागमात्। सादृश्य एव पर्यवसानात् । अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः । यथा-'दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धम्। रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै ॥l' अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम्। स इति भेद:। तस्याधिक्यविपर्ययाभ्यां द्वैविध्याद्व्यतिरेकोऽपि द्विविधः । तदाश्रयत्वादस्य। चन्द्रापे- क्षयेति। शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणत्वम्। नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम्। उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्तत्वे चालंकारत्वानुपपत्तेः । यौवनस्य चात्रा- स्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम्। यदेतच्चन्द्रवद्यातं सन्न पुनराया- तीति। असदेतत्। यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छेत्तत्प्रियं प्रति चिर- मीर्ष्यानुबन्धो युज्येत। कालान्तरेSपि ह्यस्य तदवलोकनादिना सफलीकारः स्यात्। इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह स- फलयितव्यमिति धिगीर्ष्या त्यज प्रियं प्रति मन्युं कुरु प्रसादमित्यस्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवाक्षितमिति वाक्यार्थविद एव प्रमाणम्। नचैतद्वास्तवमुपमेयस्य न्यूनगुणत्वम्। तस्यैव सातिशयत्वेन प्रतिपाद्यत्वात् । प्रकृतार्थोपरञ्जकत्वे हिं सर्वथा कवेः संरम्भः । तच्चाधिकगुणमुखेन भवत्वितरथा वा को विशेषः । तस्मादयुक्तमेव विपर्यये वेति सूत्रितम्। प्रत्युत प्रतिकूलत्वं वेति सूत्रितमयुक्तम्। उपमानादुपमेयस्याधिक्ये इत्येतावतैव लक्षणेनास्य व्याप्तत्वात्। यतः 'स्वरेण तस्या अमृतस्त्रुतेव' इत्यादावन्यपुष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वा- दिना न्यूनत्वावगतेरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्तुतेवेत्यभिधानादानन्दा- तिशयदायित्वादेश्वाधिक्यमेवावगम्यत इत्यलं बहुना। अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः । तत्रानुगामिता यथा-'नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली- विशेषा: । लब्धापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥' अत्र परिणाहि- १. 'कोणापगमाय' क.
Page 88
अलंकारसर्वस्वम्।
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्ति:। भेदप्राधान्य इत्येव। गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम्। स- हार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम्। द्वयो- रपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्ष- त्वम्। तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच्च परिशि- षृटस्य प्रधानत्वादुपमेयत्वम्। शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु वि- पर्ययोऽपि स्यात्। तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यका- रणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च। अभेदाध्यवसायश्च श्रेष- भित्तिकोऽन्यथा वा। साहित्यं चात्र कर्त्रादिनानाभेदं ज्ञेयम्। तत्र च कार्य- कारणप्रतिनियमविपर्ययरूपा यथा-मेवदपराधैः सार्ध संतापो वर्धते तरा- मस्याः।' अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः ।
रूपत्वस्यानुगामित्वम्। वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम्-दिद्दक्षव इत्यादि। अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम्। पक्ष्मलताविलासविकस्वरयोश्च बिम्बप्र- तिबिम्बभावः । उपमानेत्यादि। किं हेतुकं चात्र भेदप्राधान्यमित्याशङ्कयाह-गुणे- त्यादि। गुणप्रधानभावोऽपि किं हेतुक इत्याह-सहार्थेत्यादि। एकस्य प्रधानभ- तविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवम् । उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तच्चात्र किं निमित्तकमित्याशङ्गयाह-स- हार्थेत्यादि। परिशिष्टस्येति प्रथमान्तस्य। शाब्द इति न पुनरार्थः । वस्तुतो विपर्य- यस्यापि संभवात्। एवं गुणप्रधानभावनिमित्तकं भेंदप्राधान्यमपि शाब्दमेवात्र ज्ञेयम्। वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयोस्तुत्यत्वेनैव प्रतीतिः । तस्माच्छाब्दमेव भेद- प्राधान्यमाश्रित्येहास्या वचनम्। विपर्यय इति। प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम्। नियमेनेति। अनेनातिशयोक्त्यनप्राणनमन्त- रेणालंकारत्वमेवास्या न भवतीति व्वनितम्। सेत्यतिशयोक्तिः । कार्यकारणयोः प्रति नि- यमस्य विपर्ययस्तुल्यकालत्वादिनोक्ते: । (अथ-च कार्यकारणवत्प्रतिनियमस्य क्रमस्य वि- पर्ययस्तुल्यकालत्वादिनोक्ते: 1) अन्यथेत्य्लेषरूपः । तदेवमस्या अतिशयोक्तिभेदचतु- ष्टयमनुप्राणकम्। कर्त्रादीति आदिशब्दात्कर्मादयः । तत्रेति निर्धारणे। अस्यामनुप्राण- १. 'संबन्धः' क. २. 'गुणभावात्' ख. ३. 'आश्चर्यपरिशिष्टस्य' ख. ४. पुस्तकद्वये- Sप्यस्योत्तरार्ध मूले लिखितम्. ११
Page 89
काव्यमाला।
शषभित्तिकाध्यवसायरूपा यथा-'अस्तं भासान्प्रयातः सह रिपु- भिरयं संह्ियन्तां वलानि।' अत्रास्तं गमनं ग्लिष्टम्। अस्तमित्यस्योभया- र्थत्वात्। तदन्यथारूपा यथा-'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथु- नानि।' अत्र विघटनं संबन्धिभेदान्भिन्नं न तु श्िष्टम्। एतद्विशेषणपरिहा- रेण सहोक्तिमात्रं नालंकारः। यथा-'अनेन सार्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादौ। एतान्येव कर्तृसाहित्ये उदाहरणानि। कर्म- साहित्ये यथा- 'द्युजनो मृत्युना सार्धै यस्याजौ तारकामये। चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ।।' अत्र करोतिक्रियापेक्षया घ्युजनस्य मृत्योश्र कर्मत्वम्। एषा च माल- यापि भवन्ती दश्यते। यथा- 'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्ध मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । कत्वेन स्थितेति शेषः । अत्रापगधानां शाव्दो गुणभावः । वस्तुतस्तु प्राधान्यं तेषामेव । प्रतिपाद्यत्वात्। एवमन्यत्र ज्ञेयम्। 'क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन' इत्यस्या- र्धम्। 'कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहमारानश्रुन्मिश्रं कथंचिद्ददतु जल- ममी बान्धवा बान्धवेभ्यः । मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कः' इत्यस्यादं पादत्रयम्। 'सह कमलैर्ललनानां मान: संकोचमायाति' इत्यस्यार्धम्। एतद्विशेषणपरिहा- रेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । 'द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः' इति द्वितीयमर्धम्। एतानीति समनन्तरोक्तानि। यमापेक्षया दुजनस्यानन्तरमाप्तमनोर- थत्वमित्यादि पश्चाद्ावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः। यथा वा-'भाग्यैः समं समु- त्पन्नं प्रजाभि: सह लालितम् । वधितं सुकृतैः सार्धमर्णोराजमसूत सा ॥' अत्र समुत्पत्त्य- नन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वम्। अस्याश्च शुद्धसामान्यरूपत्वं यथा-'मलआणिलेण सह सोरह वासिएण दइआणम्। वडन्ति बहलसोमालपरिमला सा- सणिउरम्बा ।।' अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावी यथा-'दिनअरअरणिउरम्बा कणआअलकडअरेणुविप्फुरिआ। विअसन्ति परिमलभरो- व्भडेहिँ कमलाकरेहिँ समम् II' अन्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभ- रोद्द्रटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम्। प्रतिभटभूतामिति प्रतिपक्षभताम्। अत एवै- १. 'सह' क. २. 'कणेराजं' ख.
Page 90
अलंकारसर्वस्वम्।
वैदेह्या मनसा सैमं च सहसाकृष्टं ततो भार्गव- प्रौढाहंकृतिकन्दलेन च समं तेद्दग्नमैशं धनुः ॥' सहोक्तिप्रतिभटभूतां विनोक्ति लक्षयति- विना कंचिदन्यस्य सदसच्वाभावो विनोक्ति: । सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम्। एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम्। ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा वि- नोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेना- भिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम्। एवं च तैदन्यनि- वृत्तौ विधिरेव प्रकाशितो भवति। आद्या यथा- 'विनयेन विना का श्रीः का निशा शशिना विना। रहिता सत्कवित्वेन कीदृशी वाग्विदग्घता ॥'
अत्र विनाशन्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीभवति। यथा सहोक्तौ सहार्थविवक्षा। एवं च तदनन्तरमेतल्लक्षणम्। तदेवाह-विना कंचिदित्यादि। एतदेव व्याचष्टे-सत्व- स्येत्यादिना। कस्यचिदिति यत्र यादशो विवक्षित[स्त]स्येति। ननु चात्र सत्त्वासत्त्वयो- विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याश- अयाह-अत्र चेत्यादि। तच्छव्देन सत्त्वासत्त्वयोः प्रत्यवमर्षः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं भवतीत्याशङ्गयाह-एवं चेत्यादि। अन्यस्य कस्यचिदनि- वृत्तौ सत्त्वमसत्त्वमेव्र वा भवतीत्यर्थः । आद्येति असत्त्वनिबन्धनोक्तिः । का श्रीर्न काचि- चछरीरिति श्रियो विरहोऽसद्भावः। विनयासद्भ्ावेSपि श्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रि- योऽसत्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तम्। एवं विनयस्यानिवृत्तौ श्रियः स्त्व एव विधि: प्रकाशितो भवतीति विनय एव भरबन्धः कार्यः । एवमन्यत्रापि ज्ञेयम्। अन्ये चात्र वास्तवत्वं मन्यमाना: 'तस्याः शैत्यं विना ज्योत्स्ना पुष्प्द्धिः सौरभं वि- ना। विनोष्ण्यत्वं च हुतभुंक्त्वां विना प्रतिभासते ।I' इत्यत्र विनोक्त्यलंकारत्वमाहुः । अत्र हि ज्योत्स्नादीनां शैत्यादिना नित्यमविनाभावेSपि विनाभाव उपनिबद्धः। यदा- हालंकारभाष्यकार :- "नित्यसंबद्धानामसंबन्धवचनं विनोक्तिः' इति विनोक्तिरुपसंख्या- स्यते" इति। ग्रन्थकृता पुनरियं चिरंतनलक्षितत्वाल्लक्षिता। यथाकथंचिदिति। यद्यपि
निवृत्तौ' कं. १. 'सह' क. २. 'भनं तदैशं' ख. २. 'दर्शयति' क. ४. 'किंचित्' क. ५. 'तद-
१. 'विरहसद्भावः' क.
Page 91
८४ काव्यमाला।
'निरर्थकं जन्म गतं नलिन्या यया न दष्टं तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ।।' इत्यादौ विनोक्तिरेव। तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्व- प्रतीतेः। इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत्। यथोदाहृते विषये। द्वितीया यथा- 'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्नगल्भः । अमृतद्युतिसुन्दराशयोडयं सुहृदा तेन विना नरेन्द्रसूनुः॥' अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः। सैषा द्विधा विनोक्ति: अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते। तत्रादौ विशेष- णसाम्यावष्टम्भेन समासोक्तिमाह- विशेषणानां सास्यादप्रस्तुतस्य गम्यत्वे समासोक्ति:। इह प्रस्तुताप्स्तुतानां क्वचिद्वाच्यत्वं क्वचिद्म्यत्वमिति द्वैविध्यम्। वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम्। एतद्विभेद- मपि श्लेषालंकारस्य विषयः। गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषेयः यथा सहशब्दं विनापि सहार्थे ततीयास्ति तथा विनाशव्दं विनापि द्वितीयादीनां विनार्थे सद्भा- वोऽस्ति। तथापि वाक्यार्थपर्यालोचनासामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः।सहशव्दं विनापि सहार्थविवक्षा यथा-'वितृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैःस्पृशन्त्या। विकस्वरे कस्य न कणिकारे घ्राणेन दृष्टेर्वतृधे विवादः॥'अत्र घ्राणेन सहेति तत्प्रयोगं विना तैत्प्रतीतावेव विश्रान्तेः। एवं चेति। यस्माद्विनाशव्द विनापि तदर्थविवक्षा भवतीत्यर्थः। यथोदाहृत इति निर- र्थकमित्यादौ। यथा वा-'हंसाण सरेहि" विणा सराण सोहा विणा ण हंसेहिं। अण्णोण्णं चिअ एए अप्पाणं णवरँ गरुएन्ति ।' द्वितीयेति शोभनत्वनिबन्धनोक्तिः । तत्रेत्यलंकार- द्वयमध्यात्। आदाविति प्रधानतया। अस्या हि विशेषणमात्रावष्टम्भात्परिकराद्विशेषणसा- म्यवैष्टम्भत्वेन विशिष्टत्वम्। विशेषणेत्यादि। अस्याश्रालंकारान्तरेभ्यो विभागं दशयि- तुमुपक्रमते-इहेत्यादिना। वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्ष भवति। गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति। ताद्रूप्येण वस्तुसद्भावाभावात्।श्ेषनिर्देशभङ्गयेति। प्रस्तुतयोरप्रस्तुतयोश्र। पृथ- १. 'द्वैधम्' क. २. 'विषयम्' क. १. 'बाह्यार्थ' ख. २. 'लोभ' क; 'रोष' ख. रोरशब्दो दारिद्रवाचकः. श्रीकण्ठच- रितस्थमिदं पद्यम्. ३. 'तत्प्रतीतेरविश्रान्तेः' ख. ४. 'वष्टम्भत्वे श्विष्टत्वम्' ख.
Page 92
अलंकारसर्वस्वम्।
अप्रस्तुतनिष्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यम्। विशेषस्यापि साम्ये श्लेषप्राप्तेः। विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रे- स्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वं च व्यवहारसमारोपो न रूप- समारोपः। रूपसमारोपे। त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वादेव रूप- कम्। ततश्र विशेषणसाम्यं श्िष्टतया साधारण्येनौपम्यगर्भत्वेन च भावा- त्रिधा भवति। तत्र श्िष्टतया यथा- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्। यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।' अत्र निशाशशिनोः छ्िष्टविशेषणमहिस्ना नायकव्यवहारप्रतिपत्तिः ।
गुपादानेनेति। प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्वैतदिति वाच्यम्। अत्र चाप्र- स्तुतस्य किंहेतुकं गम्यत्वमित्याशङ्गयाह-तत्र चेत्यादि। तत्रेत्यप्रस्तुतस्य गम्यत्वे। विशेषणानां चात्र बेहुत्वमेव विवक्षितमिति न वाच्यम्। 'श्वसनविषमा रात्रिर्ज्योत्स्ना त- रङ्गितविभ्रमा शशिमणिभुवो बाष्पायन्ते निमीलति पझ्मिनी। उपचिततमोमोहा भिर्व्य- नक्ति विवर्णतां तदिति गहने दर्श दर्श कथं सखि जीव्यते ।' इत्यत्र विशेषणबहुत्वाभा- वेऽपि समासोक्ते: सद्भावात्। अतश्ष विशेषणानां साम्यादिति न सूत्रणीयम्। अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्गयाह-विशेषणे- त्यादि। अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव। नह्यन्यधर्मिसंबन्धिनो धर्माः स्वधर्मि- णमन्तरेणान्यत्रावतिष्ठन्ते। नह्यनायके नायकधर्माणामन्वयो युज्यते। अन्यधर्माणामन्य- त्रन्वैयासंभवात्। अत एवान्यरोप्यमाणोऽन्यव्यवहारोऽन्यत्र न संभवतीति तदविनाभावा- तस्वव्यवहारिणमाक्षिपती त्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते न पुन- राच्छादते। तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमा- रोपः । अत एवाह-प्रस्तुतावच्छेदकत्वेनेति। अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् । एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टयलक्षणमवच्छेद- कत्वं विधीयते। रूपके तु रूपसमारोपाद्रपरूपितत्वाख्यमाच्छादकत्वमित्यनयोर्भेदः । तेन विशेषणानां साम्यादप्रस्तुतघर्मावच्छेद इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तु- तावच्छेदः समासोक्तिरित्येव सूत्रणीयम्। अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव। वि- षयस्योपादानाद्विषयिणश्चानुपादानात्। तदिति अप्रस्तुतस्य गम्यत्वे निमित्तम्। तत्रेति १. 'समासोक्तेर्गोचरम्' क. २. 'प्रस्तुतस्य' ख. ३. 'अवच्छेदकत्वाच्च' क. १. 'बाहुल्यमेव' ख. २. 'विशेषणासद्भावेऽपि' ख. ३. 'धर्माणां च' ख. ४. 'न्वया- सद्भावात्' ख. ५. 'संभवेदिति' क. ६. 'अच्छियते' ख. ७. 'एव प्रस्तुतस्य' क-ख.
Page 93
८६ काव्यमाला।
अपरित्यक्तस्वरूपयोर्निशाशेशिनोर्नायकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः। साधारण्येन यथा- 'तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी। विकासमेति सुभग भवद्दर्शनमात्रतः ॥ अन्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यघर्मसमारोपः कारणम्। अन्यथा विशेषणसाम्य- मात्रेण नियैतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उैपचारतो ज्ञेयः। एवं च कार्यसमारोपेडपि ज्ञेया। इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा। औपम्यगर्भत्वेन यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।।' अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन च कृते स- मासे पश्चाद्दन्तप्रभासदशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेष- णमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाघकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्वव-
निर्धारणे। नायकेति सरूपयोरेकशेषः। अपरित्यक्तस्वरूपयोरिति। रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात्। अत्रेति लताव्यवहारप्रतीतौ। ननु यदि लतैकगाम्येव विका- साख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्याह-विकास इत्यादि। एतदेवान्य- त्रापि योजयति-एवमित्यादिना। तदेवं साधारण्येन समासोक्तेविशेषणसाम्ये सत्य- प्यप्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्यवहारप्रतीतिन भवतीति सिद्धम्। सुवेषत्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम्। अतश्र तत्समाश्रयः । समासान्तराश्रय- णेनेति। यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तर- त्वमुक्तम्। पूर्वापेक्षयास्यान्यथात्वात्। अत्रैवेति दन्तप्रभेत्यादौ। उपमारूपकसाधक- बाधकाभावादिति। परीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वा- भाव: । तथा च न विगुणत्वमिति बाधकत्वाभावः । अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः १. 'अपरित्यक्तयोः' क. २. 'शशिनोर्नायकताख्यधर्म' क. ३. 'नियतस्य' ख. ४. 'उपचरितः' ख. ५. 'ज्ञेयम्' क. ६. 'संकराश्रयेण' क. १. 'तत्रेति' क.
Page 94
अलंकारसर्वस्वम्। ८७
त्समासान्तरमहिस्ना लताप्रतीतिर्ज्ञेया। रूपकगर्भत्वेन तु समासान्तराश्रय- णात्समानविशेषणत्वं भवदपि न समासोक्ते: प्रयोजकम्। एकदेशविव- रतिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात्। न च पूर्वदर्शितोपमासंकर- विषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात्। तच्चकदेश- विवर्तिरूपकमश्ेषेण क्षेषेण च भवतीति द्विविधम्। अश्लिष्टं यथा- 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह कि नु वान्तश्चन्द्रोडयमित्यार्ततरं ररास ॥' अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टपुरुषनिरू- पणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते। ्िषं यथा- 'मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चय- त्निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः । कुटिललिपिभि: कं कायस्थं न नाम विसूत्रय- र्न्व्यधित विरहिप्राणेष्वायवयावधिकं मधुः ॥'
संदहसंकरः । तस्य समाश्रय उभयसमासग्रहणम्। तच्चकस्मिननेव वाक्ये न संभवतीति कामचारेण तयोरग्रहणम्। संकरसमाश्रयेणाप्युपमासमासयोजने कृते यददयमेवालंकारस्त- द्ूद्रूपकसमासयोजनेSपि किमयमेव किमुतालंकारान्तरमित्याशङ्गयाह-रूपकेत्यादि। एतच्च साक्षादपि रूपकगभे समासे योज्यम्। समानन्यायत्वात्। यद्येवं तर्ह्युपमासमाश्र- येSप्येकदेश विवर्त्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्गयाह-न चेत्यादि। एष इति रूपकोक्तः । अभावादिति उद्भटमतेन। यदाहु :- 'न च रुद्रटस्येवोद्भटस्यैकदे- शविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तः ।' अतश्चैतत्तन्मताभिप्रायेणोक्तम् । ग्रन्थ- कृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः। ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्य- गर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति। तस्यैकदेशविवर्तिरूपकवदेकदे- - वदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः । किं त्वेतदन्यभेदसह्चरितमेवास्या निमित्ततां भजते न पुनः केवलम्। तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्राप्तिः । तत्र श्रिष्टत्वसहचरितमेतद्यथा-'परिपिञ्जरितासिताम्बरैनिबिडै: कं न हरन्ति १. 'वैयर्थ्यम्' ख. २. 'रूपकम्' ख. ३. 'किं कायस्थैः' ख. ४. 'व्यथित ख. १. 'ीत्या' ख. २. 'अन्यस्यापि' ख.३. 'आरोपस्य गर्भत्वे' ख.४. 'ल्रिष्टेन सह' ख.
Page 95
काव्यमाला।
अत्र हि पत्रलिपिकायस्थशव्देषु श्ेषगर्भ रूपक द्विरेफमषीलवैरित्ये- तद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धि: कार्या। तदेवं श्िष्टविशेषणसमुत्थापितैका। साधारणविशेषणसमुत्था- पिता धर्मकार्यसमारोपाभ्यां द्विमेदा। औपम्यगर्भविशेषणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा। रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।
हारिभिः। अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः ॥' अन्र 'स्फुटसं- ध्यातपकुङ्गमैः' इति पाठे संध्यातपकुङ्कमैरित्यौपम्यगर्भ विशेषणम्। साधारण्यसहचरितं यथा-'तन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी। विकासमेति सुभग भवदर्श- नमात्रतः ।' अत्र स्तबकस्तनीत्यौपम्यगर्भ विशेषणम्। शुद्धकार्यसमारोपसहचरितं यथा-'समारुरोहोपरिपादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे। लताप्रसूनांशुकमाचकर्ष क्रीडन्वने कि न चकार चैत्रः ॥' अत्र प्रसूनांशुकमित्यौपम्यगर्भ विशेषणम्। केव- लत्वं पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा-'बभौ लोलाधरदलस्फुरद्दशनकेसरम् । भ्रूविलासालिवलयं ललितं ललनामुखम् ।I' अत्र ललितत्वमुपमासाधकम् । समासान्त- राश्रयात्समानविशेषणत्वं भवदपि नात्र समासोक्ते: प्रयोजकम्। एकदेशविवर्त्युपमामुखेनै- वार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । एवं दन्तप्रभेत्यादावपि ज्ञेयम्। दन्तप्रभाः पुष्पाणीवे- त्येवसमासे कृते उपमानभूताया लताया: प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीते- व्यर्थत्वात्। अप्रकृतागूरणे हि कवे: संरम्भ: तच्चानयैव सिद्धमिति किं समासोक्ता। चिरंतनानुरोधात्पुनरत्र ग्रन्थकृता समासोक्तिरुक्ता। यत्तु 'यत्र समासोक्तावुपमायां समा- सान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्त्ता' इति वक्ष्यति तदपि चिरंतनानुरोधपरमेव। अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजायेतुं शक्यं तत्रापि समासोक्तिरिि किं नोक्तम्। यत्तु नोक्त तद्युक्तम्। रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरनन्तरं समासोक्तिमुखेना- प्रकृतप्रतीतेवैयर्थ्यात्। 'आह्रादिचन्द्रवदना स्फुरत्तारकमौक्तिका। घनान्धकारधम्मिल्ला राजते गगनस्थली II' इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः । तस्यालंका- रसारकारादिभिनिराकृतत्वात्। समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशङ्गयाह- अस्या इत्यादि। अस्याश्र यथोपपादितान्भेदान्संकलयति-तदेवमित्यादिना। भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा। न विषय इति। यथोक्तोपपत्ते रूपक एव १. 'शनैः' क. २. 'केवलत्वे पुनरेकदेशविवर्तिन्युपमा यथा' क. ३. 'वलितत्वं' क. ४. 'समासोक्तायां' क.
Page 96
अलंकारसर्वस्वम् ।
तदेवं पञ्चप्रकारा समासोक्तिः। इयं च शुद्धकार्यसमारोपेण विशेषणसा- म्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पश्चप्रकारं निर्णीतम्। सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्य- वहारसमारोपः। लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति। तदेवं बहुप्रकारा समासोक्तिः। तत्र शुद्धकार्यसमारोपेण यथा- 'विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम्। क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठान्नश्यन्तीनां तवारिमृगीद्शाम् ।।' अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्र- तीतिः । विशेषणसाम्येनोदाहृतम्। उभयमयत्वेन यथा- 'निर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽघरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाजकान्ते क्षतम्। यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरैसै: किं किं कण्टकिभि: कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम् ।।' अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम्। निर्लूनान्यलकानीत्या- दिश्व कार्यसमारोपः। व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं यथा- विश्रान्तेः। प्रथममिति। एतद्भेदत्रयमस्या मूलभूतमित्यर्थः। उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम्। विशेषणसाम्यस्यैतन्द्ेदत्वात्। यद्पि शुद्धकार्यसमारोपेऽपि विशेषणसाम्य- मेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्रिक्ततया प्रतीयत इति तस्य पृथग्भेदत्वमुक्तम्। सर्वत्रेति भेदसप्तके। बहुप्रकारेति। लौकिकादीनां व्यवहाराणामानन्त्यात्। उदाहृत- मिति उपोढरागेणेत्यादिना। क्रमेणेति यथोद्देशम्। मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता। १. 'इत्थं शुद्ध' क. २. 'कुचान्' ख. ३. 'नीरसे' ख, ४. 'साम्यात्' ख, ५. 'इ- त्यादिभिश्र' ख. १. 'बहुप्रपञ्चेति' ख. १२
Page 97
९० काव्यमाला।
'द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
त्कि किं चकार तरुणो न यदीक्षणागनिः ।।' लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम्। 'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम्। लोप: कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ।' अत्रागमशास्त्रप्रेसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमानं न यत्। अर्थादापतितं न यन्न च न यत्तत्कचिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्रमत्कारकृत् ।।' अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः। एवं तर्कायुर्वे- दज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः । 'स्वपक्षलीलालैलितैरुपोढहे तौ स्मरे दर्शयतो विशेषम्। मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्।।' अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः। पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः । 'मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ।।' अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । 'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते रैक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम्। १. 'तत्क्षणम्' ख. २. 'वृत्ते' ख. ३. 'लडितैः' क, ४. 'व्याख्येयः । तथा' ख, ५. 'राजा' ख.
Page 98
अलंकारसर्वस्वम् । ९१
पूर्वामत्यजतः स्थिति शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥' अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । 'प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत्। अपूर्वव्यापारो गुरुवरबुघैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ।।' अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते। यतो रसो न तात्पर्यशक्तिज्ञेयः । ना- प्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागो- चरः। किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्व- व्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्ता- त्पर्यैरित्यादिपदै रस एव प्रतीयते। एवमन्यदपि ज्ञेयम्। 'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिघासारसात्। चाटूचारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने ।।' अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः। लौकिकवस्तु- व्यवहारश्च रसादिभेदाद्वहुभेद इत्युक्तं प्राक्। तत्र शुद्धकार्यसमारोपे का- र्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रा- नुसारेण विहितं यथाकथंचिद्योज्यम्। इह तु तत्र हि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितम्। तव्वहारसमारोपोSत्र कृतः।न ता त्पर्येति। यदुक्तम्-'नाभिधैवं न तात्पर्य लक्षणानुमितिर्न वा। ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेः ॥' इति। अनुकार्यो रामादिः। अनुकर्ता नटादिः। तद्रोचरश्व न रसः प्रतीयते। यदुक्तम्-'नानुकार्येऽपि रामादौ नटादौ नानुकर्तरि। रसः सचेतसां किं तु' इति। अन्यदिति । अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् । तदित्यं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तु अ्रन्थक्रृदेतत्प्रतीति विभागेन लक्ष्ये योजयति-इह त्वित्यादिना। अविप्रतिपत्तिद्योतनार्थस्तावच्छ्दः । कुतस्त्येति। १. 'तब हृदयसंस्थो' क. २. 'बहुतर' ख.
Page 99
९२ काव्यमाला।
'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दघानार्द्रनखक्षताभम्। प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥' इत्यत्रास्ति तावद्रविशशिनोनायकत्वप्रतीतिः । न चात्र विशेषणसाम्य- मिति सा कुतस्त्या। प्रसादयन्ती सकलङ्गमिन्दुमिति विशेषणसाम्याच्छ- रदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेतू आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम्। न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात्। तत्कथ- मत्र व्यवस्था। उच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा। सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात्। अथात्र नोपमानत्वेन नायकः स्वरूपेण प्रतीयते तथाँपि रविशशिनोरेव नायकव्यवहारप्रतीतिः । तयोरत्र नायकत्वात्। तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्। इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः । यथा 'दभ्ना जुहोति' इत्यादौ दध्नि संचार्यते विधि: एवमियमुपमानुप्राणिता समासोक्तिरेव। इह तु पुनः नेत्रैरिवोत्पलैः पद्मैर्मुखै दैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' किमस्या निमित्तमिति भावः । तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात्। तयोरिति रविशशिनोः । कथमिति। प्रकृतार्थाननुगुणत्वात्साम्यायोगात्। कथमन्न व्यवस्थेति। विशेषणसाम्यायोगात्समासोक्तरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्त- त्वात्। सामान्यलक्षणेति । उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति। एवमेकदेशविवर्त्युपमासामर्थ्यादेवात्र नायकत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे। यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनो: समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्र- नखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्गयाह-तद्त्रेत्यादि। एतदेव शास्त्रान्तरप्रसिद्धद्दष्टान्तमुखेन हृदयंगमीकरोति-यथत्यादिना। अभिहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः तस्य च पुनविधानमदग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादुपपदे दध्नि संचार्यत इत्यर्थः । उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्थापितेत्यर्थः । समासोक्ति- १. 'तत्' क. २. 'यद्यप्यत्रोपमानत्वेन' ख. ३. 'अपि तु' क. ४. नायकत्वप्र- तीतिः' ख. ५. 'दधि' ख, १. 'अप्रकृतार्था' क.
Page 100
अलंकारसर्वस्वम्।
इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या। विशेषणसाम्या- भावात्। तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन ना- यिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या। गत्यन्तरासंभवात्। यैस्तु नोक्ता तेषामुपमाख्ययैव। यत्र तु 'केशपाशालिवृन्देन' इत्यादौ स- मासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौप- म्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोध: कश्चित्। सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकग- तत्वेन भवति। क्रमेण यथा- 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ।' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्सर्वै नो संध्यां भजते रवि: ।।' अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नार्यकव्यवहार- प्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्या- सेन समर्थ्यंते। सामान्यस्य चात्र श्लेषवशादुत्थानम्। शान्ततडित्कटाक्षे- त्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम्। असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोर्डर्थो लिङ्गविशेषनि- देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यव- हारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते। आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेषतयाम्बुराशेः । रेवेति। न पुनरेकदेशविवर्तिन्युपमा। गत्यन्तरमलंकारान्तरम् । यैरित्युद्गटादिभिः। यत्र त्वित्यादेर्अ्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः । सेत्युक्तप्रपश्चा। सामान्यस्येत्यङ्गनाशब्दस्य स्त्रांत्वमात्राभिधानात्। श्रेषवशादिति। पंयोधराणां हि ल्लिष्टत्वम्। लिङ्गविशे- षेति। रविसंध्ययो: पुंस्त्रीरूपेण कार्य भजनाख्यम्। एवमन्यालंकारसंमिश्रत्वमप्यस्या द- शयति-आकृष्टीत्यादिना। सेत्युत्प्रेक्षा। एक: काल इति। ज्ञपौ समासोक्ति १. 'उपसंख्ययैव' क. २. 'नायकनायिकाव्यवहारन्यासप्रतीतौ' ख. ३. 'नायक- नायिका' ख. ४. 'आकृष्ट' क. १. 'आकृष्टेत्यादि' कः
Page 101
९.४ काव्यमाला।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ।।' अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पाद- मूले वेष्टनं तच्चेरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते। तत्तथा- ध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बु- राशिमन्दाकिन्योः पँतिपत्नीव्यवहाराश्रयां समासोक्ति गर्भीकरोति। एवं चोत्प्रेक्षासमासोक्त्योरेक: कालः । एवं 'नखक्षतानीव वनस्थलीनाम्' इत्य- त्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव। एवमियं समासाक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या। विशेषणसाभिप्रायत्वं परिकरः । विशेषणवैचित्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः अत एव प्रसन्नगम्भीरपदत्वान्नायं व्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम। यथा- 'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्नतः प्रत्यक्षं कुरुवान्धवस्य मिषतः कर्णस्य शल्यस्य च। गर्भाकारेणैवोत्प्रेक्षाया उत्थानात्। एवमिति। यथोक्तगत्येत्यर्थः। विशेषणेत्यादि। इहेति समासोत्तयनन्तरम्। विशेषणानां चात्र बहुत्वमेव विवक्षितम्। अन्यथा ह्यपुष्टार्थस्य दोषत्वाभि- धानात्तननिराकरणेन स्व्रीकृतस्य पुष्टार्थस्यायं विषयः स्यात्। एवमेवंविधानेकविशेषणोपन्यास- द्वारेण वैचित्र्यातिशयः संभवतीत्यस्यालंकारत्वम्। प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्रा- धान्याभावाद्गर्भीकारस्तदन्तःकृतत्वम् । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात्। प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात्। गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात्। यत्र च प्रेतीयमानं प्रत्युपसर्जनीकृतस्वार्थयोः शब्दार्थयोरवस्थानं स ध्वने- विषय इति (ध्वॅनिविदः। यदाहुः-'तत्परावेव शब्दार्थौ यत्र व्यङ्गघप्रतिष्ठितौ । ध्वनेः स एव विषयः' इति। अत्र चन तथात्वमित्युक्तं नायं ध्वनेविषय इति ।) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि। सोत्प्राशपरत्वमिति। तथा च राजो जग- १. 'पादमूल' क. २. 'चरणमूल' क. ३. 'भर्तपत्नी' क. १. 'निराकारेण' ख. २. 'विशेषः' ख. ३. 'तस्य' ख. ४. प्रतीयमानमनुपसर्ज- नीकृत्वा शब्दार्थयोः' ख. ५. कोष्ठकान्तः स्थितः पाठः क-पुस्तके नास्ति. ६. 'पर मिति' क. ७. 'राज्ञा' क
Page 102
अलंकारसर्वस्वम्।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥।' अत्र राज्ञ इत्यादौ सोत्प्राशपैरत्वं प्रसन्नगम्भीरपदत्वम् । एवम् 'अ- ङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमाहुःशा- सनम्' इत्यादौ ज्ञेयम्। विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्रेषः। केवलविशेषणसाम्यं समासोक्तावुक्तं विशेष्ययुक्तविशेषणसाम्यं त्वधिकृ- त्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राक- रणिकयोर्वा श्िष्टपदोपनिबन्धे श्षेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्य- साम्य एव भवति। तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति। विशे- ष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगेतध्वनेर्विषयः स्यात्। द्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धरेन्यदेव नाममात्रेण राजत्वमित्युपहासपरत्वम्। एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् । आदिशब्देन 'यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतिरपि च शची चामरव्यग्रहस्ता। कन्या तस्ये- यमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्गमस्याः प्रविशति च नमस्तेजसे वै- ष्णवाय ।' इत्यादावपि विशेषणानां प्रसन्नगम्भीरत्वं ज्ञेयम्। विशेष(ष्य)स्यापी- त्यादि। इदमिति श्रेषलक्षणम् । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगत- त्वेन च। एवकारश्चात्र भिन्नक्रमो द्रेष्टव्यः । तेन प्रकारद्वयमेवेति व्याख्येयम्। अतश्च ततीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम्। अन्यथा हि प्रकारदवय- स्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्याप्ति: स्यात्। तद्यथा 'संचारपूतानि दिगन्तराणि' इत्यादि। अत्र प्रभाधेन्वोर्द्योः प्रकृतयोविशेष्ययोः साम्याभावः । 'आबाहूद्वतमण्डला- ग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदय प्रोन्माथिनः कर्कशाः।उत्सष्टाम्बर- दृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्र न दधुः क्षोभं स वोऽव्याज्जिनः॥' अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्य- साम्ये। एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्गयाह-विशेष्यसाम्ये त्वित्यादि। यथा-'लङ्कालआण पुत्तअ वसन्तमासम्मि लद्धपसराणम्। आपीअलोहिआणं वीहेइ जणो पलासाणम् ।I' अत्र पलाशानामिति विशेष्यस्यापि शिष्टत्वम्। प्रकरणवशाच्च वृ- क्षविशेषणामेव वाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्गयत्वम्। अत्र चोपमाया एव व्यङ्गयत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम्। ननु च १. 'परम्' क. २. 'गति' ख. १. 'वक्तव्यः' क. २. 'विशेष' ख. ३. 'देववधू' ख,
Page 103
९१ काव्यमाला।
आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम्। अत एवाह-'द्वयोर्वोंपा- दाने' इति तृतीयप्रकारविषयत्वेनोक्तम्। 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम्। क्रमेण यथा- 'येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो यश्चोद्दत्तभुजंगहारवलयो गङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।' 'नीतानामाकुलीभावं लुब्घैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥I' 'स्वेच्छोपजातविषयोपि न याति वक्तुं देहीति मार्गणशतैश्र ददाति दुःखम्। मोहात्समाक्षिपति जीवनमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥।' अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम्। पदमानां मृगाणां चोपैमान- त्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम्। एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्निविधः। तत्रोदात्तादिस्वरभेदात्प्रयत्न- भेदाच् शब्दान्यत्वे शब्दश्ेषः । यत्र प्रायेण पदभङ्गो भवति। अर्थन्े- धस्तु यत्र स्वरादिभेदो नास्ति। अत एव न तत्र सभङ्गपदत्वम् । संकल- नया तूभयश्ेषः । यथा- यथैवायं ध्वनेविषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्गयाह-आद्य इत्यादि। वाच्यत्वमिति । अत एव न ध्वनेविषयः । तस्य वाच्यातिरिक्तस्वरूपत्वात्। तती- यप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात्। एष इति त्रिविघोऽपि श्लेषः । तत्रेति त्रयनिर्धारणे । यत्रेति शव्दश्लेषे । अत एवेति स्वरादिभेदाभावात्। संकलनयेति संसभङ्गासभङ्गपदसंमेलनया। पृथगिति भेदेन। तत्र शब्दक्रेषो यथा-'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये १. 'विशेषत्वेन' ख. २. 'ल्रिष्ट' क. ३. 'प्राकरणिकत्वात्' क. १. 'यैरवायं' ख. २. 'सभङ्गासभङ्गपदभङ्गमेलनया' क. ३. 'सदा दृश्यते' ख. ४. 'तैश्वापि' ख़,
Page 104
अलंकारसर्वस्वम्। ९७
'रक्त्च्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुष्पेषु रुचिं समग्रां पझ्मा विरेजुः श्रमणा यथैव ।।' अत्र रक्तच्छदत्वमित्यादावर्थ-्लेषः । नालमित्यादौ शब्दश्लेषः। (डेभ- यघटनायामुभयश्ेषः ।) ग्रन्थगौरवभयात्तु पृथङ्गोदाहृतम् । एष चे नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्वाधकत्वेन तत्रतिभोत्पत्ति- हेतुरिति केचित्। 'येन ध्वस्तमनोभवेन वलिजित्कायः पुरा स्त्रीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यवाधकत्वमि- त्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यवाधकत्व(ध्यत्व)मित्यन्ये। तन्न पूर्वेषामयमभिप्रायः। इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचर-
दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ।' अ्र पदानां सभङ्गत्वं स्पष्टम्। अर्थक्लेषो यथा- 'इच्छन्तौ चिबुकाग्रचुम्बनमथो शैथिल्यशङ्गोज्झितौ नैबिड्येन परस्परस्य न मनाक्केनापि लव्घान्तरौ। धन्यौ तौ तरुणीस्तनाविव न यौ स्वप्नेऽपि विश्िष्यतो विश्लेषं विषमं विषह्य भवतो नाधोमुखौ जातु वा ।I' अत्र पदानामसभङ्गत्वं स्पष्टम्। संकलनया तु ग्रन्थकृतैवो- दाहृतम्। तदेवंरूपस्यास्य 'निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते' इति नीत्या नि- रवकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहरित्याह-एष चेत्यादि। केचिदित्युद्ध टादय:र। केचित्पुनर्विषयवैविक्त्यस्य संभवांन्निरवकाशत्वाभावान्नास्य सवालंकारापवादकत्वमभ्युपयन्ती- त्याह-येनेत्यादि। अन्या इति मादशाः। विविक्तोऽस् विषय इति तुल्ययोगिताया अत्रा- भावात्। सा हि द्वयोरपि प्रकृतयोरप्रकृतयोरवां विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति। इह तु तदभावः । विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात्। नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम्। एकेनैव शब्देन क्रिष्टतयार्थ- द्वयस्य प्रतिपिपादयिषितत्वात्। अत्र हि परस्परनैरपेक्ष्यात्तयो रुमाधववाक्यार्थपरामर्शवे- लायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामौपम्यस्यावसरः । तस्मादेव- मादावलंकारान्तरविविक्तविषयत्वाच्छिृष्टतायाश्रोदुरकंधरीभावेन प्रतीतेर्न निरवकाशः शेषः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः । बाध्यत्वसिति। ऋेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्वात्। एतच्च ग्रन्थकृदेवाग्रे दर्शयि- व्यतीति नेहायस्तम्। तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम्। अन्यालंकारवदेव बाध्यबाधकभावादिदर्शनात्। एतच्चालंकारसारकृता सप्रपश्चमुक्तमितीह ग्रन्थविस्तरभया-
१. 'इत्यत्र' क. २. कोष्ठकान्तर्गतः पाठः ख-पुस्तके नास्ति. ३. 'एषु' क. ४. च, प्राप्तेषु' ख. ५. 'बाधकत्वात्' क. ६. 'इह' क. ७. 'दुर्लभत्वा' क. १. 'दुलेभत्वात्' क. १३
Page 105
९८ काव्यमाला।
त्वेन तावत्प्रैतिष्ठितोऽयमलंकारः । तत्रादं प्रकारद्वयं तुल्ययोगिताया विषैयः । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये व्याह्या व्यवतिष्ठते। तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विवि- क्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्रतिभानमात्रेणाव- स्थानम्। 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययो- गितायाः प्रेंतिभानम्। अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनो- पपत्तेः। 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः । 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम्। यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वा- दत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः। अतश्च पूर्वत्रैकवृन्तगतफलद्वय- न्यायेनार्थद्वयस्य शब्दश्िष्टत्वम्। अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्ि- ष्टत्वम् । पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेतू,
त्तथा नोक्तम् । पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्तिद्योतकस्तावच्छ्दः । ्य ्येत सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात्। तत्पृष्ठ इति तुल्ययोगितादीपकोपरि। अलंकारान्तराणामित्युपमादीनाम्। उत्थापनमिति । तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात्। अत एवेति । तस्य विविक्तविषयत्वासंभवात्। प्रतिमानमित्याभास- मात्रम्। न पुनस्तत्रैव विश्रान्तिरित्यर्थः । एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना। ननु च यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्याद्युत्तयारक्तच्छदत्वमित्यादावपि शब्द- द्वयाश्रयाच्छन्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्याह-यद्यपीत्यादि । ए- कतावसायादिति। रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात्। अतश्चेति। अर्थद्वयस्य शब्दद्वयस्य च क्िष्टत्वात्। पूर्वत्रेति। रक्तच्छदत्वमित्यादौ शव्दस्य वृन्तस्थानीयत्वात्। अपरत्रेति नालमित्यादौ। जतुकाष्ठन्यायेनेति परस्परं संव- लितत्वात्। पूर्वत्रेति रक्तच्छदत्वमित्यादौ। अन्वयव्यतिरेकाभ्यामिति। रेक्त- च्छदत्वमित्येव श्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न ल्लेष इत्यत्रापि शब्दहेतुकत्वात्तद-
१. 'प्रतितिष्ठतो' क. २. 'एव विषयः' क. ३. 'उत्थानं' क. ४. 'प्रतिभासनम्' ख. ५. 'प्रतीतौ' क. ६. 'भेदात्म' क. १. 'उत्थानमिति' क. २. 'कृष्णच्छदत्वमित्येव' क.
Page 106
अलंकारसर्वस्वम्। ९९
न। आश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्यवस्थानात्। एवं च 'सकल- कलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादौ न गुणक्रियासाम्यव- च्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्वेष एवावसेयः । श्लेषगर्मे तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव वि- श्रान्तिरिति रूपकेण श्रलेषो बाध्यते। ्लिष्टविशेषणनिबन्धनायां च स- मासोक्तौ विशेष्यस्यापि गम्यत्वाच्छ्रेषस्य बाधिका समासोक्तिः। इह तु 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान्। मन्येऽस्तशैलात्पतितोऽत एव विवेश शुच्ै वडवाग्निमध्यम् ।।' अत्र श्ोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्प- तितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीग- मनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेष- मूलया अभेदेनाध्यवसिते। सोऽयमतत्क्ियायोगः । तद्धेतुका च मन्ये
लंकारत्वमेवेत्यर्थः । आश्रयाश्रयिभावेनेति।न पुनरन्वयव्यतिरेकाभ्याम्। ताभ्यां हि यस्य यद्धेतुकत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम्। लोकवदिति। लोके हि यथा कर्णाश्रितः कुण्डलादिः कर्णालंकार उच्यते न पुनः सुवर्णकारणहेतुकत्वात्तदलं- कारः। तदेवं स्वमतोपोद्वलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वाद्ा (भावान्नान्य)बा- ध्यत्वमिति यदुक्तं तदेव प्रपञ्चयितुमेतत्केर्तकं तावदन्यालंकारबाध्यत्वं दर्शयति-श्ेषे- त्यादिना। तृतीयकक्षायामिति। प्रथमकक्षायां हि रूपकप्रतीतिरेव। द्वितीयकक्षायां तु श्लेषप्रतीतिः । श्रेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौद्ध टैर्य द न्या लंक्त ार बा ध्य त्वमे त - स्योक्तं तत्सर्वजनविरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपकसमासोक्तिबाध्यत्वमेतस्य ग्रन्थकृतेह दर्शितम् । बाध्यत इति विद्वन्मानसहंसेत्यादौ। बाधिकेति उपोढरागेणेत्यादौ। एवं श्लेषस्यान्यालंकाराणां च परस्परं बाध्यबाधकभावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं द- र्शयति-इह त्वित्यादिना। वडवानिमध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्ग- विपरिणामाद्योज्यम्। ते द्वे इति वडवाभिमध्यप्रवेशपतितत्वे। पतितत्वाननिप्रवेशाभ्या- मिति ब्राह्मण्यपरिच्यावप्रायश्चित्तात्मकाभ्याम्। सोऽयमिति। यत्पतितत्वान्निप्रवेशयो- र्वस्तुतोऽन्यथास्थितयोरप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसायः । तद्धेतुकेति तच्छब्देन
१. 'इह तु' क-पुस्तके नास्ति. २. 'इति' क. ३. 'मूलतया' ख. १. 'तदलंकारवाध्यत्वमुच्यते' क. २. 'कर्मकं' क. ३. 'तद्वचन' क. ४. 'सि- द्वयोः' क.
Page 107
१०० काव्यमाला।
अत एव विशुच्ै इत्युत्परेक्षा(क्षया) अत्रात एवेति परामृष्टो विरोधालंका- रालंकृतोऽर्थो हेतुत्वेनोत्प्रेक्ष्यते। विशुच्धै इति च फलत्वेन। ततश्च हेतु- फलयोर्द्वयोरप्यत्रोत्ेक्षा। विरोधालंकारस्य च विरोधाभासत्वं लक्षणम्। अतो विरोधाभासनसमय एव हेतुफलोत्पेक्षयोरुत्थानम्। उत्तरकालं तु
तत्क्रियायोगपरामर्शः । फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः । ततश्रेति हेतुफलयोर्द्वं- योरुत्प्रेक्ष्यमाणत्वात्। ननु विरोधालंकारस्य विरोध एव रूपं तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशङ्गयाह-विरोधेत्यादि। यद्वक्ष्यति-'विरोधाभासत्वं विरोधः' इति। अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान्न प्ररोहो नापि बाधोत्पत्ता- वपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्व विरोधबोधेः पश्चाद्विरोधधीरिति वाक्यस्यावस्थाद्वयम् । ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेतू, स्खलद्गतित्वमिति ब्रूमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्तिष्विव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभास- स्वभावबाध्यविज्ञानसमुत्पुंसनेन बाघकत्वमुदेति। बाधोदयेSपि पैत्तिकज्वलत्स्तम्भतैमिरि- कचन्द्रद्वयावभासवद्विरुद्धप्रतिभासानिवृत्तेः : । केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलद्गतितैवावगम्यते। स्खलद्रतित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः स्वपित्तविकाराज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकादयर्थितया प्रव- तते। तिमिरदोषं वा जानानस्तैमिरिकोऽपि बहिश्चन्द्रद्वयास्तित्वव्यवहारं विधत्ते। एवं बाधोत्पत्तेरनुपपद्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोSपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षण- लक्षणव्यवहारनिमित्तभावमुपगन्तुमुत्सहते। यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्य- मानत्वेन च व्यवहारनिमित्तत्वभिति परस्परविरुद्धत्वादनुभवविरोधाच्च तयोः कथमेकत्र समावेशो घटते। अतश्चानेनैवाभिप्रायेणाह-अत इत्यादि। विरोधाभासनसमय एवेति। न तु बाधकोदयसमय इत्यर्थः । बाघोदयानन्तरं विरोधस्योत्प्रेक्षाहेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति बाघोदयात्प्रागेवान्यथानुपपत्ा निश्ची- यते। बाधस्य च स्वारसिकत्ववस्तुवृत्तेः पर्यालोचनालभ्यत्वेन द्विविधस्यापि सर्वत्रोत्तर- कालमेवोल्लासः संभवति। तस्य च बाध्यनिष्ठत्वाद्वाध्यस्य च पूर्वकालर्भावित्वात्। अ-
१. 'हेतुकत्वेन' क. २. 'एव' ख. ३. 'उत्थानं स्यात्' ख.
१. 'अतश्चेति' क. २. 'न रूपं' ख. ३. 'विरोधालंकाराकृतो' क. ४. 'बाध्योत्पत्तौ' ख. ५. 'बोधत्वाच्ात्र विरोधधीः' क. ६. 'बाध्यं' क. ७. 'प्रतिभानिवृत्तेः' क. ८. 'भावितत्वात्' क.
Page 108
अलंकारसर्वस्वम्। १०१
विरोधैसमाधिः। श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य ्लिष्टपदमहिम्रा वक्ष्य- माणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं क्ेष उतशब्दशक्तिमू लध्वनिरिति विचार्यते-तत्र न तावच्छेषः। अर्थद्वयस्यान्वितत्वेनाभिधेय तया वक्तुमनिष्टेः । नापि ध्वनिः। उपक्षेप्यस्यार्थस्यासंबद्धत्वाभावात्तेन स- होपमानोपमेयत्वस्याविवक्षणात्। न चान्या गंतिरस्ति तैदत्र किं कर्तव्यम्। उच्यते-शलेषस्योक्तनेयेनाप्रवृत्तेर्ध्वनेरेवायं विषय इति निश्चयः। तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संवन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् त- त्कोऽयमभिनिवेशस्तत्र। उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण तत्र स- मीचीन: स्यात्। अत एव न्यथा हि निर्विषयो बाघः स्यात्। अतश्रोत्तरकालं तु विरोधसमाधिरिति भणितेरर्थम- जानानेनायमर्थोऽन्वेषणीयः । यदि हि बाधः प्रागप्युत्प्रेक्षायाः स्वाधिकारवशेन स्वरसत एवोल्लसेत्तदुक्तनीत्या उत्प्रेक्षोत्थानमेव न स्यादित्यबाधित एव विरोध उत्प्रेक्षाया नि- मित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति । स च समाधिरत्र दिगाद्यर्थाघिगमादव- बुध्यत इति विरोधस्य श्रेषोऽङ्गम्। तद्वशादेवास्योत्थानात्। तथा चात्रानयोः संकीर्ण- त्वमात्रमेव न पुनः संकरालंकारः । स तु यथा-'सेज्जातपत्रप्रकराश्चितानि समुद्धहन्ति स्फुटपाटलत्वम्। विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र श्रे- पतुल्ययोगितयोरेकवाचकानुप्रवेशेन संकरः। प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः क्रे- षोऽयमित्याह-श्लेषस्येत्यादि। तेनादः पक्षः स्वाभिप्रायेण ग्रन्थकृतोक्तः। यद्वक्ष्य- त्येतच्छ्ोकविचार एव संकरालंकारे । अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्रेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकाराविति। तदेवं स्वमताभिप्रायेणास्यालंकारान्तरव- दन्यालंकारैः सह वाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दश्तयुद्धवाद्धनेविशेषं प्र- तिपादयति-यन्र त्वित्यादिना। असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीय- त्वात्। अन्येति श्रेषध्वनिव्यतिरिक्ता। उक्तनये नेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेरित्यनेन। संबन्धार्थमिति संगत्यर्थम्। यथा-अतन्द्रचन्द्राभरणा समुद्दीपित- मन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ।' अत्र प्रकृताप्रकृतयोरसं- १. 'विरोधि' क. २. 'उपेक्षैव परा' ख. २. 'तत्र' ख. ४. 'नयेनात्राप्रवृत्तेः' ख. ५. 'संबन्धत्वात्संबन्धेनार्थ' ख. १. 'स्वविकार' खं. २. पद्मपक्षे 'सत्-जात-पत्र' इति, दिनपक्षे 'सन-आतपत्र' इति च्छेद :.
Page 109
१०२ काव्यमाला।
'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते। प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्ध्वो द्विधा ।I' इति न्यायभेवनबन्धेन द्विधा शब्दशक्त्युद्धव उक्तः। एवं प्रकृतेऽपि यत्र सूचनाव्यापारोडस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः। यथा- 'सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्र रसा- त्यक्त्वा धूसरकान्तिवल्कलघरो राजास्तशैलं ययौ। तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः कन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥' इति। हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशात्प्रातः स्वराष्ट्र त्यक्त्वा वाराणसीं प्रति गैमनं सूचितं स्यात्। तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते। सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सूच-
बद्धार्थत्वं मा प्रसाङ्कीदिति नायिकाशशिनोरौपम्यं कल्पनीयम् । संबन्धान्तरेणेति यत्र यादृदशेन विवक्षितेन। तत्रेति शब्दशक्तिमूले ध्वनौ। अत एवेति। औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संबन्धस्योपपादयितुं शक्यत्वात्। उक्त इति काव्यप्रका- शकृता। चन्द्र इति वर्ण्यमान इति शेषः । सूचितमिति शब्दशत्तया। तामेव विभज्य दर्शयति-तथा चेत्यादिना। अतश्चेति। इत्येव शब्दशक्तेर्भावात्। अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्यस्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्द- शक्तिरत्र स्फुटा स्थितेति तन्मूलत्वमेव ग्रन्थकृतास्योक्तम्। शुद्धस्तु शब्द- शक्तिमूलो वस्तुध्वनिर्यथा-'न महानयं न च बिभर्ति गुणसमतया प्रधान- ताम्। स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत् ।' अत्र के- वलयैव शब्दशत्त्या सांख्यपुरुषरूपं वस्त्वभिव्यक्तम्। यत्तु काव्यप्रकाशसंकेते ग्रन्थकृता वस्तुध्वने: श्दशक्तिमूलत्वं चिन्त्यमुक्तं तदुदाहरणाभिप्रायेणैवोन्नेयम्। तत्र हि 'पन्थिअ ण इत्थ सत्थरं' इत्यादयुदाहरणमुभयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुध्वनेः श्रीमम्मटेनो- पात्तम्। इह तु यथासंभवमेव विचारितम्। एवं स्वमतेन श्रेषस्य यथोपपत्ति स्वरूपं प्रति- १. 'भर' ख. २. 'संपादितापद्धतिवशात्' क. ३. 'प्रस्थानं सूचितम्' ख. १. 'शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्तम्' क.
Page 110
अलंकारसर्वस्वम्। १०३
नीयार्थनैरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम्। अतश्च प्रकृतेन सूच- नीयस्य संबन्धाच्छन्दशक्तिमूलो वस्तुध्वनिरयम्। इह च 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लग्न: सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्ग:। बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे वाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ॥' इत्यलंकारान्तरविविक्तोऽयं श्रलेषस्य विषय इति नाशङ्कनीयम्। अपहुते- रत्र विद्यमानत्वात्। वस्तुतोऽपह्नवस्य सादृश्यार्थमत्रप्रवृत्तेनायमपहुत्यलंकार इति चेत्, न। उभयथाप्यपहुतिसंभवात्। सादृश्यपर्यवसायिना वापह्रवेना- पह्रवपर्यवसायिना वा सादृश्येन भूतार्थापह्नवस्योभयत्र विद्यमानत्वात्। 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपहुतिः। अपह्रवाय सादृश्यं यत्राप्येषाप्यपह्ुतिः।।' इति संक्षेपः। आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता। तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमिति। स्थितम्। प्रस्तुतार्दप्रस्तुतप्रतीतौ समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्- स्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते-
पाद्यापि प्राच्यानुरोधात्पुनरपि तदीयमेव मतं दर्शयितुमाह-इह चेत्यादि। भूतार्थों वास्तवः संक्षेप इति प्रमेयसंचयात्। आद्येत्यादि सादृश्यपर्यवसायापह्रवस्वरूपा। स्वप्र- स्ताव इत्यपद्ुतिलक्षणे। उदाहृतेति पूर्णेन्दोरित्यादिना। द्वितीयेति अपह्ुतिपर्यवसायि- सादृश्यरूपा। प्रदर्शितेति आकृष्यादावित्यादिना। अत्र च ग्रन्थकृता श्लेषः सर्वालंकारा- पवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्रवपर्यवसायिसादृश्यरूपोSपद्दुतिभे- दोऽपि तन्मतानुसारमेवोक्त । यद्वक्ष्यति-व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्यु- पक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति। अतश्चात्र ग्रन्थकृन्मते वक्ष्यमाणसादृश्या श्लेषमूला व्याजोक्ति: । तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तेः । उक्तेति सरमनन्तरम्। यत्तु समासोत्तयनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसाम्यादिना प्रसङ्गागतम् । तामे- वाह-अप्रस्तुतादित्यादि। नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि १. 'विश्रमणीयम्' ख. २. 'प्रकृतत्वेन' ख. ३. 'मात्र' ख. ४. 'अप्रस्तुतावगतौ'ख.
Page 111
१०४ काव्यमाला।
अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्र-
इह प्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात्। प्रस्तुतपरत्वे तु कदाचित्त- दुक्तं स्यात्। न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अतिप्रसङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वो- पपत्तेः। त्रिविधश्च संबन्ध :- सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति। सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतितौ द्वैविध्यम्। कार्यकारणभावेऽप्यनयैव भङ्ग्या द्विघात्वम्। सा- रूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः तत्रापि सारूप्यहेतुके भेदे सा- धर्म्यवैधम्याभ्यां द्वैविध्यम्। वाच्यस्य संभवासंभवोभयरूपताभिस्रयः प्रकाराः। P्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छेषाद्विशेषः । श्रेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा- "ता तत्थि किम्पि वइणो कम्पिअजणणित्ति अइगईणीव। अणवरदगमणमीलसकालअवरिअस्स पाहिज्जम् ।'
प्रस्तुतस्य प्रतीतिर्भवतीत्याशङ्गयाह-इहेत्यादि। तदित्यप्रस्तुतवर्णनम्। अतिप्रसङ्गा- दिति सर्वस्मात्सर्वप्रतिपत्त्यात्मनः । तस्यैवेति त्रिविधस्य संबन्धस्य। सामान्यस्य विशे- षाश्रयत्वाद्विशेषस्य च सामान्यनिष्ठत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः । एवं च कार्यस्य कारणपरतन्त्रत्वार्दन्त्यावस्थस्य कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः । इत्थमेतत्संबन्धद्वयं वास्तवम्। सारूप्यं पुनः प्रातीतिकमेव। प्रतीतावेव सदृशेन वस्त्वन्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धेः । वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्वन्त- रप्रतीतिर्न स्यात्। अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रतीतौ। तत्रापीति सत्यपि पञ्चप्रकारत्वे। श्व्िष्टशब्दप्रयोग इति। ल्रिष्टशब्दनिबन्धनाप्यप्रस्तुतप्रशंसा भवतीत्यनुवादाद्विधिः। अत एवास्य बहुप्रकारत्वमुक्तम्। प्रस्तुत इति। प्रहस्तवधवर्णन स्यैव प्रक्रान्तत्वात्। अत्र वाक्यान्तरोपात्ते विशेषात्मनि प्रस्तुते प्रहस्तवधे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्ियते। यथा-'दुर्ज-
१. 'इति' क. २. भवतीति' ख. ३. 'द्वैधम्' क. ४. 'अत्यस्फुटेयं गाथा. ख-पु- स्तके तु नास्ति.
१. 'अत्यावश्यकस्य' ख.
Page 112
अलंकारसर्वस्वम्। १०१
अत्र प्रहस्तवधे विशेषे प्रस्तुते सामान्यमभिहितम्। विशेषात्सामान्य- प्रतीतौ यथा- 'एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि। अङ्गुल्यग्रलघुक्ियाप्रविलयिन्यादीयमाने शनै- स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥' अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः । कारणात्कार्यप्रतीतौ यथा- 'पश्याम: किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिंचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥' अत्र धाराघिरूढो मान: कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिका- रणमभिहितम्। कार्यात्कारणप्रतीतौ यथा- 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा । कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्र हन्त शिखिनां बहाँ: सगर्हा इव ॥' अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लों- कोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते। ते- नेयमप्रस्तुतप्रशंसा। ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशंसायामिष्य- माणायाम्
नदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फत्कृत्य भ- क्षयति ।' अत्र केनापि दुर्जनेन विप्रलव्धस्य कस्यचित्सुजनविशेषे विस्त्रम्भो न जायते। तस्य सुजनस्येयं विशेषे प्रस्तुते सामान्योक्ति:। तेनेति। अप्रस्तुतात्कारणात्प्रस्तुतस्य कार्यस्य प्रतीतेः । यथा वा-'अनेन सार्ध सरयूवनान्ते कूजन्मयूरीमुखरे विहृत्य। वि- १. 'प्रतिपत्तिर्यथा' ख. २. 'गम्यमानायाम्' क १४
Page 113
१०६ काव्यमाला।
'येन लम्बालकः सास्त्रः कराघातारुणस्तनः । अकारि भग्नवलयो गजासुरवधूजनः ॥' इति। तथा- 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम्।।' इत्यादौ सुप्रसिद्धे पयायोक्तविषयेSप्रस्तुतप्रशंसाप्रयोगः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्र- तीयते। तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारण- रूपो गम्यते। एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम्। तस्मादप्रस्तुतप्रशं- साविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र का- र्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति दयी गतिः। यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः । तत्र हि कारणापेक्षया कार्यस्या- तिशयेन सौन्दर्यमिति तदेव वर्णितम्। यथोक्तोदाहरणद्ये। अत्र हि गेजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव। एवं राहुवधूवृ- त्तान्तेऽपि ज्ञेयम्। ततश्र नायमप्रस्तुतप्रशंसाविषयः । यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा-'इन्दुर्लिप्त इवाञ्जनेन' इत्यादौ। अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः । तत्प्र- तिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात्। तेनात्रेन्द्वादिगते नाञ्जन-
लासवातायनसेवनेन श्राध्यामयोध्यां नगरीं विधेहि ॥' अत्र स्वयंवराख्ये कार्ये प्रस्तुते का- रणस्याभिधानम्। ननु चात्र कार्यात्कारणस्य प्रतीतौ यद्यप्रस्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह-नन्वित्यादि। सुप्रसिद्ध इति सर्वालंकारकारा- भिमते। तत्रेति द्वयनिर्धारणे। तदेव वर्णितमिति कार्यमेवोक्तम्। कारणस्य गम्यमान- त्वात्। ततश्चेति। द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात्। स्पष्टैवेति । अप्रस्तुत- स्यैव कार्यस्य प्रशंसितत्वात्। अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोक्ततं प्रस्तुताप्रस्तुतत्वे त्वप्र-
१. 'अत्र प्रसिद्धे' क. २. 'गजासुरवध' क.
१. 'कारणे कार्यस्याभिधानम्' ख.
Page 114
अलंकारसर्वस्वम्। १०७
लिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाहा- दकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा। एवं च यत्र वाच्योडर्थोडर्थान्तरं तादृशमेव स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्। यत्र पुनः स्वा- त्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति नि र्णयः। ततश्चानया प्रक्रियया 'राजत्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुञ्जे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्ञरा- चित्रस्थानकलोक्य शून्यवलभावेकैकमाभाषते ॥।" इत्यत्र पर्यायोक्तमेव बोध्यम्। अन्ये तु दण्डयात्रोद्यत त्वां बुद्धा त्व- दरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोडर्थोऽप्र- स्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति स्वात्मानं समर्पय- तीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति। सर्वथा पर्यायोक्ताप्रस्तुतप्रशं- सयोविषयविभागस्तु निरूपित एवेति स्थितम्। एतानि साधर्म्योदाहर- णानि। वैधर्म्येण यथा- स्तुनप्रशंसेति विषयविभागः । अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्यकारणयोः प्रस्तुतत्वेऽपि कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेवैचित्र्याभावाच्च 'पर्यायत्वे कार्य- हेत्वोर्भेदसामान्ययोस्तथा। अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥' इत्यादयुक्तमयुक्तम्। यद्येवं तदत्र पर्यायोक्ताप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्य प्रस्तुतं कारणं कथमागू- रयतीत्याशङ्गयाह-एवं चेत्यादि । तादृशमेवेति वाच्यम्। स्वोपस्कारकत्वे- नेति। स्वसिद्धर्थ परस्याक्षेपात्। समर्पयतीति वाच्योऽर्थः । इत्थं. च 'स्वसिद्धये परा- क्षेपः परार्थ स्वसमर्पणम्। उपादानं लक्षणं च' इत्युक्त्या लक्षणादवयाश्रितत्वादनयोरवा- न्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्पर्यम्। ततश्चेति। अनयोभिन्नविषयत्वात्। अन्यः इति काव्यप्रकाशकारादयः । सर्वथेति। तत्र पर्यायोक्तमप्रस्तुतप्रशसा वास्त्वित्यभि- प्रायः। इह च सारूप्येण साधर्म्योदाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साध्म्योदाहरणानी- त्यनेनातिदेशवाक्येनेति निश्चिनुमः । अयं हि ग्रन्थो अन्थकृतः पश्चात्कैरपि पत्रिकाभिलिखि- त इति प्रसिद्धिः। तैश्चानवधाना उदाहररणपत्निका न लिखिता। अतिदेशवाक्यं च पत्रिका- १. 'इत्यप्रस्तुतप्रशंसादौ' ख. १. 'अत्र' क. २. 'साधर्म्येण सारूप्यो' ख. ३. 'कैश्रित्' ख.
Page 115
१०८ काव्यमाला।
'धन्याः खलु वने वाताः कह्वारस्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।।' अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थ: प्रतीयते। वाच्यस्य संभव उक्तान्येवोदाहरणानि। असंभवे यथा- 'कस्त्वं भो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥' अत्राचेतनेन सह प्रेक्षोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव। प्र- स्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत्। उभयरूपत्वे यथा- 'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गरा गुणाः ।।' अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्व- संभवीत्युभयरूपत्वम्। प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगत- मेवैतदिति नासमीचीनं किंचित्। एतदेव च श्लेषगर्भायामस्यामुदाह-
न्तराल्लिखितमिति ग्रन्थस्यासंगतत्वम्। बहूनि पुनरुदाहरणानि सारूप्यहेतुकस्य भेदस्य लक्ष्ये प्राचुर्यदर्शनार्थम्। एवं वाच्यस्य संभवे उक्तान्येवोदाहरणानीत्यत्राप्ययमेवाभिप्रायो योज्यः। अतश्च 'परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारो- डप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' तथा-'पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये। एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥'तथा-'पथि निपतितां शून्ये लब्ध्वा निरावरणाननां ननु दधि- घटीं गर्वोन्नद्धः समुद्धुरकंधरः। निजसमुचितास्तास्ताश्र्ेष्टा विकारशतारकुलो यदि न कुरुते काण: काकः कदा नु करिष्यति ।' इत्युदाहरणान्यत्र मध्ये लेखितव्यानि येन अ्रन्थस्य संगतत्वं स्यात्। अत्र च सारूप्यं साधर्म्ये वाच्यसंभवश्र स्फुट एव। तदध्यारोपेणेति प्र-
१. 'शाहोटकं' क. २. 'प्रश्नोत्तरता' ख. १. 'अवनिपतितां' ख. २. 'कुला' ख.
Page 116
अलंकारसर्वस्वम्। १०९
रणम्। तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदप- ञ्चकमुद्दिष्ट तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः । सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तु- तस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशंसेति निर्णयः । उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह- सामान्यविशेषभावकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनम- र्थान्तरन्यास: । निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा नि- रदिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोडर्था- न्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ। तैथा कार्य कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ भेदौ। तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वयेऽष्टौ भेदाः। हिशन्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च मे- दान्तरसंभवेऽपि न तद्गणना सहृदयदहयहारिणी। वैचित्र्यस्याभावात् । तस्मान्ेदाष्टकमेवेहोद्टड्कितम्। क्रमेण यथा-
स्तुतारोपेण। एतदित्यचेतनेन सह प्रश्नोत्तरकरणम्। एतच्च सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोविषयो भवति। अन्यथा पुनरस्या एवेति दर्शयितुमाह-तत्रे- त्यादि। सर्वथेत्यनेनैतल्लक्षणस्याव्यभिचार उक्तः । उक्तन्यायेनेति। अप्रस्तुतप्रशंसा- भेदानामेव वाच्यत्वकथनात्। आहेति सामान्येत्यादिना। समर्थनार्हस्येति।साकाङ्ग- त्वादुपपादनापेक्षत्वात्। उपपादनमित्येवमेव। एतदिति नैराकाङ्कयोत्पादनलक्षणम्। का- र्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङगत्वं ग्रन्थकृदेव वक्ष्यतीति सामान्यविशेषभावा- श्रयमेव भेददयमाश्रयणीयम्। विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यस्योपपाद- नापेक्षत्वं तत्रायमेवालंकारः। नहि विशेषात्मकागस्त्यवृत्तान्तोपादानं विना पुंसां कुलवैल- क्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्धेत। यत्रपुनः स्वतःसिद्धस्यैव प्रतीतिविशदीकरणार्थ तदेकदेशभतो विशेष उपादीयते तत्रोदाहरणालं-
१. 'समुद्दिष्टं' ख. २. 'सामान्यविशेषकार्यकारण' ख. ३. 'उपादानं' क. ४. एवं कार्यकारणभावे द्वौ भेदौ। तत्र' क.
१. 'उपमानापे' ख.
Page 117
११० काव्यमाला।
'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' 'लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्तमुदात्ततायाः । वातापितापनमुने: कलशात्प्रसूति- र्लीलायितं पुनरमुद्रसमुद्रपानम् ।' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्व- रणं कार्य साधर्म्येण समर्थकम्। तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम्। स- हसाविधानाभावविरुद्धाविवेककार्य वैधर्म्येण समर्थकम्। 'पृथ्वि स्थिरा भव भुजंगमा धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षी देवैः करोति हरकार्मुकमाततज्यम् ।' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थ- कत्वेनोक्तम्। वैधर्म्येण सामान्यविशेषभावो यथा-
कारः । गुणसंनिपाते दोषनिमज्नात्मनः सामान्यस्य नैराकाङ्येण सिद्धस्येन्दोः किरणेष्वि- वाङ्क इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविषदीकरणार्थमुपात्तः। अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थनमिति सूत्रणीयम्। अन्यथा ह्यव्याप्तिः स्यात्। तस्यैवेति सहसाविधानाभावस्य। एतत्कार्यविरुद्धमिति संपद्धरणकार्य- विरुद्धम्। विरुद्धं सामान्यरूपतयेत्यनेन वैधर्म्येण विशेषः सामान्येन समर्ित इत्युक्तम्। सामान्यं तु विशेषेण समर्थ्यते यथा-'गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते। असं- जातकिणस्कन्धः सुखं स्त्रपिति गौर्गडी ।I' अत्रापि समर्थ्यसमर्थकभावसमर्थनादुदाहरण- त्व्रं वाच्यम्। उदाहृतमिति 'सहसा विदधीत-' इत्यादिना। एतदुपसंहरन्नन्यददतारय- १. 'उदारतायाः' ख. २. 'वैधर्म्येणोदाहृतं समर्थकम्' क. ३. 'राम :- आनत- ज्यम् ख. १. 'संपत्करणकार्याविरुद्धम्' ख.
Page 118
अलंकारसर्वस्वम्। १११
'अहो हि मे बह्वपराधमायुषा यदप्रियं वाच्यमिदं मयेद्ृशम्। त एव धन्याः सुहृदां पराभवं जगत्यद्वष्ट्रैव हि ये क्षयं गताः ॥'
न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम्। कार्यकारणतायां वै- धर्म्येणोदाहृतम्। हिशब्दाभिहितत्वानभिहितत्वादिभेदाः स्वयमेव बो- द्धव्याः। चारुत्वातिशयाभावान्नेह प्रदर्शिताः । एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्या- योक्तमुच्यते- गम्यस्यापि भैङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्। यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम्। गम्यस्य सतः कथमभि- धानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात्। नहि तस्यैव तदैव तयैव विच्छित्त्या गैम्यत्वं वाच्यत्वं च संभवति। अतः कार्यमुखद्वा- रेणाभिधानम्। कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात्। अत एवाप्र- स्तुतप्रशंसातो भेदः । एतच्च वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम्। उदाहरणम्- ति-एवमित्यादिना। तदेवाह-गम्यस्यापीत्यादि। ननु कथमेकस्यैवैकस्मि- न्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह-गस्यस्यैवेत्यादि। प्रकारान्तरेणेति का- र्यादिद्वारेण। अत इति। एकस्यैवैकस्मिन्काले गम्यत्ववाच्यत्वासंभवात्। कार्यादिद्वारे णेत्यादिशब्दः प्रकारे। अभिधीयमानं हि कार्य तदविनाभावित्वात्स्वसिद्धये कारणमाक्षि- पतीति गम्यमपि तद्वाच्यायमानमिति यदेव गम्यते तस्यैव भङ्गयन्तरेणाभिधानम्। अतश्च 'स्वभ्यस्तदुर्नयजयस्तनयस्तदीयः क्ष्मामाररक्ष जयवाहननामधेयः । दुर्वारवैरिवरवीरविला- सिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः ।' इत्यादावलंकारप्रकारत्वं न वाच्यम्। बहुधा- जयत् इति हि क्रिकयमाणे 'गतोऽस्तमर्को भातीन्दुः' इत्यादिवदेतदकाव्यमेव स्थात्। न च दोषाभावमात्रमलंकारत्वमिति बहुशः प्रागुक्त यत्तु स्वप्ावशेषप्रियदर्शनात्मकं कार्यरूपेणा- रथेन स्वसिद्धयर्थ कारणरूपस्तदूध आक्षिप्यते तदितरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति नि- र्ीजैव पर्यायोक्तान्तरवाचोयुक्तिः । अत एवेति। द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात्। १. 'हिशव्दाभिहितानभिहितादि' क. २. 'पर्यायान्तरेण' ख. ३. 'वाच्यत्वं गम्यत्वं' ख. ४. 'कार्याभिमुखेन' क. ५. 'तथा-' क. १. 'गम्यस्य' क. २. 'इत्यादावेव तदलंकार' क. ३ 'मात्रत्वे' ख. ४. 'तदितरप्र- कारान्तः पातित्वात्पृथग्वत्तुं' क.
Page 119
११२ काव्यमाला।
'स्पष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥।' अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावातिशयप्रति- पादनं च। कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायो- क्तस्यायं विषयः ।
गम्यत्वविच्छित्तिप्रस्तावाद्याजस्तुतिमाह- स्तुतिनिन्दाभ्यां निन्दास्तुतोर्गम्यत्वे व्याजस्तुतिः। यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाघितस्वरूपा निन्दायां पर्य- वस्यति तत्रासत्यत्वाद्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववह्वाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा। स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा-
कार्यमुखेनेति। पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः। स्वर्गविजय इति कारणरूपः । वर्णनी- यमिति। प्रस्तुतमेवेत्यर्थः । आहेति स्तुतिनिन्दाभ्यामित्यादिना। प्रमाणान्तरादिति व- क्तृवाच्यप्रकरणादिपर्यालोचनात्मनः। बाधितस्वरूपेति। आमुख एव। प्रस्खलद्रूपे- त्यर्थः । अत एवास्या ध्वनेर्भेदः । स हि विश्रान्ते वाक्यार्थे वक्तवाच्यौचित्यपर्यालोचना- बलादवगम्यते। इह पुनः प्रमाणान्तराद्वाधितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र निन्दादौ स्वरं समर्पयति। तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः। एवम्-'अह सजणाण मग्गो सुहअ तए च्चेअ णवरँ णिव्वूढो। इहनिं अण्णं हिअए अण्णं वाआइ लोअस्स॥'इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषयत्वमेव युक्तम्। पूर्ववदिति प्रमाणान्तरात्। एका द्वितीया चेत्यभिद्धता द्वे एवात्र व्याजस्तुती न पुनरे- कैव द्विविधा व्याजस्तुतिरिति सूचितम् । प्रकारप्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति। असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात्। शब्दनिबन्धनं तु सामान्यमाश्रित्य द्व- योरत्राभिधानम्। एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्यो: प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम्। यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङयाह-स्तुतीत्यादि। तत्र
१. 'परनिन्दादौ' ख.
Page 120
अलंकारसर्वस्वम्। ११२
'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्घायशो- भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः । 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि- र्दिङ्गागानां मदजलमषीभाञ्जि गण्डस्थलानि। अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता- न्युद्धासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' अत्र धवलताहेतुयशोविषयानवक्मप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शे- षाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवर्जै समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते। 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्ति: ॥ इत्यत्र प्रकरान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम्।
हि सामान्यविशेषादीनां गम्यत्वमुक्तम्। विपरीतलक्षणयेति। सनिमित्तात्र वाच्यवै- परीत्यप्रतीतिरिति भावः । अन्यथा हि सर्वस्मात्सर्वप्रतिपत्तिः स्यात्। लक्षणा च मुख्यार्थ- बाधपूर्विकैव भवतीत्यभिधीयमानायाः स्तुतेर्बाधितस्वरूपत्वमुक्तम्। अस्याश्च निन्दास्तु- त्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाह- किं दृत्तान्तैरित्यादि। उन्सूलितेति। स्तुतिरेव वाच्यत्वेनोक्तेत्यर्थः । ल्िष्ट- सिति। अनुदाहरणमेवैतदिति तात्पर्यम्। अतश्चास्य लोचनकारेण यद्वयाजस्तुत्युदाहरणत्व-
१. 'लिप' ख. १. 'पूर्वस्मात्' ख. २. 'नान्यथेति' ख. ३. 'वाक्यार्थत्वेन' क. १५
Page 121
११४ काव्यमाला।
गम्यत्वमेव प्रकृतं. विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते- उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थ निषेधाभास आक्षेप:। इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य वि- धानार्हस्य निषेधः कर्तु न युज्यते। स कृतो बाधितस्वरूपत्वान्निषेधायत इति निषेधाभासः संपन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम्। अन्यथा गजस्नानर्तुल्यं स्यात्। स चाभासमानोऽपि निषेधस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात्। इत्याक्षेपस्य दयी गतिः। तैत्रोक्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः । वक्ष्यमाणविष- यत्वेनानयनरूपमागूरणमाक्षेपः। एवं चार्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति। तत्रोक्तविषये यस्यैवेष्टस्य निषेधस्तस्यैवाक्षेपः । वक्ष्यमाणविषये मुक्तं तदयुक्तमेवेति भावः। उररीकृत्येत्याश्रित्य। तमेवाह-उक्तवक्ष्यमाणयोरित्यादि। तथाविधस्येति वक्तुमिष्टस्य। अत एव विधानार्हस्येत्युक्तम् । स इति निषेधः । बाधित- स्वरूपत्वादिति। प्राकरणिके विधानार्हे तस्यासंभवात्। यद्येवं तर्ह्यसावकार्य एवेत्या- शङ्ग्याह-तस्येत्यादि। अन्यथेति। विशेषप्रतिपत्तिर्यदि न स्यात्। तस्य च वि- षयं दर्शयति-स चेत्यादिना। उत्तस्येति वस्तुतः कथनरूपस्य। आसूत्रिताभिधत्वे- नेति सामान्यमुखेनांशोक्तिमुखेन वा। अन्यथा हि सर्वत्र विवक्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः । कैमर्थक्येति। किमर्थमेतदिति पर्यनुयोगरूप इत्यर्थः । एवमिति । कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात्। वदन्तीति प्राच्याः। यदाह भामह :- 'वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधामतः । एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् ॥' इति। तेनास्माकमेतन्न मतमिति भावः । वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वा- त्किमर्थमेतत्कथ्यत इति कैमर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपरशब्दस्यार्थ इति भेदाभावाद्यावाक्षेपाविति न युक्तम्। तत्किमेक एवाक्षेपो भवन्मते युक्त इत्याशङ्गयाह- तत्रेत्यादि। आक्षेप इति विशेषः। कार्यकारणयोरभेदोपचारात्। इष्टस्येति विशेषां- त्मनः । अन्यस्येति विशेषात्। एवं निषेधविशेषयोर्भेदेनावस्थितेर्नात्र सामान्यलक्षणसंभवो- Sस्तीति तात्पर्यम्। ननु सर्वविशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर- १. 'इत्युच्यते' ख. २. 'तुल्यत्वं' क. ३. 'तत्र' क-पुस्तके नास्ति. ४. 'भिधत्वेन' क, ५. 'तत्र' क-पुस्तके नास्ति. १. 'शब्दस्यार्थ इति तस्यार्थभेदाभावात्' क. २. 'ननु सामान्ये सर्वविशेषाणां वि- शेषे च सामान्यानामनुप्राणितत्वात्' ख.
Page 122
अलंकारसर्वेस्वम्। ११५
त्विष्टस्य निषेधः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य विशेषः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम्। तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ। वक्ष्यमाण- विषये तु वस्तुकथनमेव निषिध्यते। तच्च सामान्यप्रतिज्ञायां क्कचिद्विशेष- निष्ठत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ। तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम्। क्र्मेण यथा- "बालअ णाहं दूई तीअ पिओसि त्ति ण मह वावारो। सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो ।।' 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोभिन्नविषयत्वमुक्तम्। सत्यम्। यद्- प्येवं तथाप्येतन्न शव्दार्थम्। अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्दमेवैतदाक्षेपाङं नार्थवशायातम्। तथात्वे हि रूपकादीनामप्युपमात्वं स्यात्। तेषामप्यार्थस्य सादृश्यस्या- भावात्। एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्चमुक्तमिति न तथास्माभिरावि- ष्कृतम्। तेनेति। निषेधविशेषयोरेव भिन्नविषयत्वादीक्षेपशव्दस्यार्थे भेदात्। यस्त्वत्र विशेष: स किं वाच्यः किमुत गम्य इत्याशङ्ग्याह-विशेषस्येत्यादि। कथनमे- वेति। न पुनः साक्षाद्वस्तु तदिति कथनम्। सामान्यप्रतिज्ञयेति । सामान्यमे- वाश्रित्येत्यर्थः । विशेषनिष्ठत्वेनेति । सामान्यस्य विशेषाविनाभावित्वात्। निषि- ध्यत इत्यत्रोत्तरत्र च संबन्धनीयम्। अंशान्तरगतत्वेनेति। सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः । अत्रापि ह्वपरांशोक्ति: सामान्यमुखेनैव निषिध्यते। विशेषस्य हि साक्षादत्र निषेधो न भवति। निषेधानन्तरं तत्प्रतीतेर्भाविनो निषेधासंभवात्। नहुक्तो निषेध: शैव्दासमपिते तत्कालमप्रतीयमाने च विषये संभवति। अस्येत्याक्षेपस्य। ननु दवयोराक्षें- पयोश्चत्वारो भेदा: संभवन्तीति कथमेकस्यैवोक्ता इत्याशङ्गयाह-शब्देत्यादि। प्रक- लपनमिति। न पुनर्वस्तुतः सद्भाव इत्यर्थः! वस्तुनो निषेधमुखेन विशेष इत्यनेन यस्यैव १. 'ततश्र' ख. २. 'क्वापि' क. ३. 'प्रकारप्रकारिकभावपरिकल्पनम्' ख. ४. 'बा- लक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः (१)। सा म्रियते तवायश एतं धर्माक्षरं भणामः ॥' इति च्छाया. १. 'सदर्थम्' क. २. 'नाक्षेपशब्दस्यार्थभेदात्' क. २. 'शब्दसम्पिते तत्कालप्र- तीयमाने च' क.
Page 123
११६ काव्यमाला।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेझि प्रियतमे।।' 'सुहअ विलम्बसु थोअं जाव इमं विरहकाअरं हिअअम्। संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ।।' 'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्वे दुरन्तभिदमद्य शिरीषमृद्वी सा नूनमा: किमथवा हतजल्पितेन ॥' आद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वास्तवत्वादि- विशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्त- नेनावश्यस्वीकार्यत्वं विशेषः । उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्र्कमं सामा- न्यद्वारेणेष्टस्यांशोक्तावप्यशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाण- विषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणितिसमिति प्रतिज्ञा तस्य सातिशयात्कोपजनकत्वादिर्विशेषः । तथा चांशोक्तावशान्तरस्य म्रियत निषेधस्तस्यैव विशेष इत्युक्तं निर्वाहितम् । 'दूरपवासे सँमुहो सि सुहअ आलिङ्गणं खणं कुरुसु। अहवा अला हि इमिणा गमणम्मि विलम्बआरेण ।I' इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधौ तात्पर्याभावान्न निषेधाभासतामिया दित्येतदुदाहरणं न वाच्यम्। यतोSत्र वि- लम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिरनुपपद्यमान- त्वादप्रस्थानलक्षणं निषेधं लक्षयति । अत्र च गमनस्यावश्यपरिहार्यत्वादिर्विशेषः प्रयो- जनम्। क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षित- वाक्यार्थविप्रलोप एव स्यात् । अतश्रोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधो- Sन्यत्र विशेषश्चेति न वाच्यम्। प्रसादस्येति वस्तुनो न व्रयामिति तत्कथनस्यैव निषेधः। सामान्यद्वारेणेति । भणिष्यामीति भणनसामान्यमाश्रित्येत्यर्थः । तच्च तत्तदपराधो- दीरणपरमेवेति तस्य विशेषागूरकत्वम्। इष्टस्येति काकाक्षिन्यायेन योज्यम्। अंशोक्ता- विति सर्वे दुरन्तमित्यादिना। अंशान्तरस्येति म्रियते इत्यादेः । किमथवा हतजल्पितेनेति १. 'सुभग विलम्बस्व स्तोकं यावदिदं विरहकान्तरं हृदयम्। संस्थापयित्वा भणि- ष्यामि अथवा ब्रज (?) किं भणामः ॥' इति छाया. २. 'वास्तवािन्नादिविशेषतया भण्यमानस्य ख. २. विधितात्पर्या' क.
Page 124
अलंकारसर्वस्वम्। ११७
इति प्रतिपाद्यस्याशक्यवचनीयत्वा दिर्विशेष:। एवं षिे षर्थस्तस्य नि षेघः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमु- पयुज्यते। तेन न निषेधविधि: न विहितनिषेधः । किं तु निषेधेन विधे- राक्षेपः। निषेधस्यासत्यत्वाद्विधिपर्यवसानात्। विघिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते। तथा च हर्षचरिते-'अनुरूपो देव्या इत्यात्मसंभा- वना-' इत्यादौ, तथा 'यामीति न स्नेहसदशं-' इत्यादावुक्तविषय
सामान्यरूपस्यैव निषेधः। एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति-एवं चेत्या- दिना। उपयुज्यत इति। एतच्चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाह- तेनेत्यादिना। निषेधविधिर्नाक्षप इति संबन्धः । एतदुत्तरत्रापि योज्यम्। यदाहु :- 'विहितस्य निषेधेन न निषेधविधौ भवेत्। निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ।' इति। तत्र निषेधविधिर्यथा-'एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्मं शीर्ष तदेतत्तदिदमनिमिषं नेत्रमझनेरगारम्। सैषा हालाहलश्रीर्वलयिततनवो नागराजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैरों नमस्ते ॥' अत्रालमिति निषेधस्यैव विधिः। अतश्र न तस्यासत्यत्वम्। तदभावाच्च न विधिपर्यवसानमित्याक्षेपोपयोगिन्या: सामग्र्या अभाव इति नायमत्रालंकारः । स हि चतुष्टयसंनिधावेव भवति। विहितनिषेधस्तु यथा-'ब्रह्मभ्यः शिवमस्तु वस्तु विततं किं चिद्वयं ब्रूमहे हे सन्तः शणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः। यद्ा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वय- मेव तत्सुमनसो याच्चा परं दैन्यभ: ॥' अत्र विहितानां विनयोक्तीनां निषेध इति विहित- निषेधः । पूर्ववच्चात्र नाक्षेपालंकारः। निषेधेन विधिस्तु ग्रन्थकृतैवोदाहृतः । अत्र च निषेध: स्वयमनुपपद्यमानत्वादविश्राम्यन्स्वात्मानं विध्यर्थे समर्पयतीति 'परार्थ स्वसमर्प- णम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम्। यदुक्तमन्यत्र-'यन्न स्वयमविश्रान्तेः परार्थ स्वसमर्पणम्। कुरुतेSसौ स आक्षेपो निषेधस्यैव भासनात् ।I' इति। निषेधविधौ विहित- निषेधे च पुनरभिधेयनिषेधः । न पुनः स्वसिद्धये पराक्षेप इत्येवं लक्षणामूलत्वमत्र वां- च्यम्। मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थबाघाद्यभावात्। अतश्रान्यैः स्वसिद्धये पराक्षेपः प्र- तिषेधस्य यत्र हि। आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भासनात् ।' इत्यादयुक्तमेवोक्तम्। यद्यपि लक्षणायां स्वसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदुक्तम्। ननु च यद्येवं निषेधस्यासत्यत्वाद्विधि- पर्यवसाने आक्षेप उक्तस्तद्वेदव विधेर्निषेधपर्यवसाने को नामालंकार इत्याशङ्गयाह- विधिनेत्यादिना। अस्येत्याक्षेपस्य। शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र १. 'य इषटार्थः' क. १. 'अत एव' क.
Page 125
११८ काव्यमाला।
आक्षेपः । 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भ- वद्दुजपञ्जरमेव रक्षास्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या। बालत्वादेरुक्तस्य निषेधत्वेनाविवक्षितत्वात्। प्रत्युतात्र बाल्यादिपरित्यागनिषेधकत्वेन प्र- तीयते। तेन नायमाक्षेपः। कस्तर्ह्ययं विच्छित्तिप्रकारोडलंकार इति चेतू, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते। 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम्। सौकर्येणान्यकृतये न निषेधकता पुनः ॥' इति पिण्डार्थः । इह तु- 'साहि त्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥ गृह्न्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥' इति। तथा- 'देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु। वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः॥ बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य। इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थ: ॥
प्रकारप्रकारिभावः कल्पितो न तु वास्तवः । विधिनिषेधयोर्निषेधविध्यागूरकत्वादनयोः सामान्यलक्षणायोगात्। ततश्चेति निषेधस्य विधिपर्यवसानात्। अस्य चालंकारान्तराश्रया- द्वैलक्षण्यं दर्शयति-केवलमित्यादिना । अत्र राज्यवर्धनोक्तौ बालत्वादेरुक्तत्वमू। श्रीहर्षदेवोक्तौ तु निषेधाविवक्षा। प्रत्युतेति। न केवलं बाल्याद्यत्र निषेध्यत्वेन विवक्षि- तम्। यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः । तेनेति। बालत्वादेर्निषेध्यत्वैनाविवक्षित- वात्। वक्ष्यत इति। सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना। एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदिष्टस्येत्यादिना । अन्यकृतय इति निषेधार्थम्। अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम्। एवं च निषेधकतै- वाक्षेपोक्तर्न निबन्धनमिति विहितनिषेधादावेतद्ध्रमो न विधेय इत्याह-इह त्वि- १. 'निषेधैकत्वेन' ख. १. 'विशेषार्थम्' ख,
Page 126
अलंकारसर्वस्वम्। ११९
यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ।' इति नाक्षेपबुद्धि: कार्या। विहितनिषेधो ह्ययम्। न चासावाक्षेपः । निषेधविधौ तस्य भावादित्युक्तत्वात्। चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धि: कार्या। अयं चाक्षेपो ध्वन्यमानोऽपि भवति। यथा- 'गणिकासु विधेयो न विश्वासो वल्लभ त्वया। किं किं न कुर्वतेनर्थमिमा धनपरायणाः ॥' अत्र हि गणिकाया उक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रती- यते। न चासौ निषेध एव। गणिकात्वेनावस्थित [त]तयैव गणिकात्वस्य निषेधनात्। सोडयं प्रस्खलद्रूपो निषेधाभासरूपो वत्रया गणिकायाः शुद्ध- स्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेप- ध्वनिरयम् । न तु- स वक्तुमखिलाव्शक्तो हयग्रीवाश्रितान्गुणान्। यो' डम्बुकुम्भैः परिच्छेदं केर्तु शक्तो महोदधेः॥' इत्याक्षेपध्वनावुदाहार्यम्। निषेधस्यैवात्र गम्यमानत्वात्। न निषेधा- भासस्य। गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम्। तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या। सर्वथेष्ट- निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् । त्यादि। तस्येत्याक्षेपस्य। तद्भावमान्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः । प्रतीयत इति गम्यते। नाहं गणिकेति निषेधस्य शव्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षिपालंकारो वाच्य एव । निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दशितम्। अ- न्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात्। तस्येहानुपक्रान्तत्वात्। इत्थं च नि- पेधाभासत्यैव गम्यत्वेऽयं ध्वन्यमानो भवति। न निषेधमात्रस्यैवेति दर्शयितुमाह-न त्वित्यादि। अतश्च ध्वनिकृता यदेतदाक्षेपध्वनावुदाहृतं तदयुक्तमेवेति भावः। एवं चास्य यथोपपादितं स्वरूपमुपसंहारभङ्ग्यापि प्रतिपादयति-सर्वथेत्यादिना। सर्वथे- १. 'योऽम्भ:कणैः' ख. २. 'ज्ञातुं' ख. १. 'भावस्यैव' क. २. 'आक्षेपादाबुदाहृतं' क.
Page 127
१२० काव्यमाला।
एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह-
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते। तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति। ततश्र विधेरु- पकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी। नि- षेधागूरणादाक्षेपो यथा- 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।I' अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन वि-
त्यनेन कुत्राप्यस्य व्यभिचारो नास्ताति दर्शितम्। एतदुपसंहरत्नन्यदवतारयति- एवमित्यादिना। समानन्यायत्वादिति । यथात्रेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेहाप्यनिष्टस्य विधिर्निषेधे इत्येवंरूपात् । एवमेतावन्मात्रमस्याद्यस्य चाक्षे- पस्य साजात्यम्, न पुनः सामान्यलक्षणसंभव इति भावः । तदेवाह-अनिष्टेत्यादि । एतदेव दृष्टान्तद्वारकं व्याचष्टे-यथेत्यादिना। तदिति विधानम्। प्रस्खलद्रूपत्वा- दिति स्वार्थबाधात्। पर्यवस्यतीति। स्वात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः । तत- श्रेति विधेनिषेधलक्षणात्। उपकरणीभूत इति । स्वार्थबाधादुपसर्जनीभूत इत्यर्थः । अनिष्टविशेषेत्यनेन प्रयोजनमन्रोक्तम्। अन्यथा हि गजस्नानतुल्यत्वं स्यात्। निषेधागूर णादिति निषेधस्यात्र लक्ष्यमाणत्वात्। सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते। तस्मात्तत्प्रतिपत्तेः। तच्चार्थान्तरागूरणं 'स्वसिद्धये पराक्षेपः' इत्येवं लक्षणाप्र- कारस्य पूर्व निरस्तत्वात्स्वात्मसमर्पणेनैव भवताति यथोक्तमेव युक्तम्। अत एवास्यान्व- र्थाभिधत्वम्। पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः । व्याजस्तुत्यादौ तु व्याजेन स्तुतेविवक्षितत्वात्तत्र तत्त्वमेव युक्तं नापेक्षत्वम्। 'इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमित्तम्। न तु प्रज्ञातिशय- वतां 'प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ' इति नीत्या नाम्रि विवादो युक्तः । तस्मात् आक्षिप्यतेऽत्र विधिना न यतो निषेधः स्वार्थ विधावपि न पर्यनुयोगबुद्धिः । तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव ।' इत्यादि न वा- च्यमू। निराकरणसुखेनेति। प्रवृत्तक्रियत्वात्कान्तस्यानुमोदनद्वारणेत्यर्थः। प्रैस्खल- १. 'सद्भाव' इत्यर्थः. २. 'च प्रतिज्ञाशय' ख. ३. 'अनुकरण' ख. ४. 'प्रलुठद्रूपत्वे- नेति' क.
Page 128
अलंकारसर्वेस्वम्। १२१
धीयते। न चास्य विधिर्युक्तः । अनिष्टत्वात्। सोडयं प्रस्खलद्रपत्वेन नि- षेधमागूरयति। फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्धनमत्य- न्तपरिहार्यत्वप्रतिपादनम्। एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानि- ष्टपर्यवसायिना व्यञ्जितम्। यथा वा- 'नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः पन्थानः कुशला भवन्तु भवतः को मादशामाग्रहः । किं त्वेतत्कथयामि संततरतकान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं येंदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् स्मर्तव्या इत्यनेन गमननिवृत्ति- रेवोपोद्वलिता। तस्माद्यमपि प्रकार आक्षेपस्य समानन्यायतयाभिनव- त्वेनोक्तः । आक्षेपे इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रविष्टम् । एतत्प्रस्तावेन विरोधगर्भोSलंकारवर्गः प्रक्रियते। तत्रापि विरोधालंकारस्ताव- लक्ष्यते- विरुद्धाभासत्वं विरोधः ।
द्रूपत्वेनेति स्वार्थबाधात्। आगूरयतीति स्वात्मसमर्पणेन। ननु विधिमुखेनास्य किमागू- रणं स्वयं निषेध एव क्रियतामित्याशङ्गयाह-फलमित्यादि। एतच्चेति विधेनिषेधागू- रकत्वम्। यथा वेत्यनेनास्य लक्ष्ये प्राचुर्य दर्शितम्। प्रमुख एवेति। न पुनः पर्यवसान इत्यर्थः। एतदेवोपसंहरति-तस्मादित्यादिना। अभिनवत्वेनेति दण्ड्यायपेक्षया। तेन ह्वसौ 'इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना। स्वावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते ।।' इत्युक्तेरसंभवतापि लक्षणेन लक्षितः । न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्व्याख्येयम्। 'विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः' इतीदगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृ- तम। इदानीं विरोधस्य लक्षणमुपक्रमते-आक्षेप इत्यादिना । एतत्प्रस्तावे- नेति। विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः । तन्रापीति । विरोधगर्भालंकारोपक्रमेऽपीत्यर्थः। तावदित्युपक्रमे। तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम्। तदेवाह-विरुद्धेत्यादि। १. 'प्रलुठदूप' क. २. 'निर्बन्धं' क. ३. 'शिथिलाः' ख. ४. 'यस्य मुखे एव' ख, ५. 'इष्टस्य' ख. ६. 'प्रतीयते' क. १६
Page 129
१२२ काव्यमाला।
इह जात्यादीनां चतुर्णी पदार्थानां प्रत्येकं तन्मध्य एव सजातीयवि- जातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभासमानत्वाद्विरोघाभासः । तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ। द्रव्यस्य द्रव्येण सहैकः। तदेवं दश विरोधभेदाः । तत्र दिव्मात्रेणोदाहरणं यथा- 'परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते ।।' अत्र जडीकरणपापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्य- वसानेन परिह्नियते। तथा- 'अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥'
तन्मध्य एवेति। जात्यादीनां गुणादय एव विजातीया गुणादीनामपि जात्यादय एव वि- जातीया ग्रांह्याः, न पुनरन्ये यद्च्छादय इत्यर्थः । ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्याशङ्गयाह-स चेत्यादि। समाधानमिति। वस्तुवृत्तप- र्यालोचनालभ्यो विरोधप्रतीत्यनन्तरभावी नैतदेवमिति प्रत्ययरूपो बाधः । प्रमुख एवेति न पुनः पर्यवसाने। तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति भावः । एतच्च श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम्। एवं च सत्यपि समाधाने दोषाभाव- मात्रमेवास्य स्वरूपं नाशङ्गनीयम्।अलंकारत्वपर्यवसायिनो विच्छित्तिविशेषस्यापि संभवात्। जातेर्गुणेन सह विरोधे उक्ते 'विरोधोऽन्योन्यबाधनम्' इति दृशा तेनैव गुणस्यापि जात्या सह विरोधः सिद्धः । अत एव गुणस्य जातिवर्ज त्रयोभेदाः । एवमन्यत्रापि ज्ञेयम्। दिङ्््ात्रेणेति। अनैनैषां लक्ष्ये तथा वैचित्र्याभावादनवक्कप्तिर्ध्वनिता। अत एवास्मा- १. 'तत्समाधाने तु' ख. १ 'प्ररोहतीति' ख. २. 'विच्छित्यविशेषस्यापि' क.
Page 130
अलंकारसर्वेख्वम्। १२२
अत्र जलनिधि: पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महाप्रभाव- त्वेन समाधीयते। एवमन्यदपि ज्ञेयम्। विविक्तविषयत्वेन चास्य दृष्टेः। श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम्। दर्शनान्तरे तु संकरालंकारः। यथा-'संनिहितवा- लान्धकारा भाखवन्मूर्तिश्र' इत्यादौ विरोधिनोर्द्वयोरपि श्लिष्टत्वे। एकस्य तु श्िष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ। एकविषयत्वे चायमि- ष्यते। विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते। एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते। तत्रापि कारण- भावमूलत्वे विभावनां तावदाह-
भिरप्येते नोदाहृताः । अन्यदिति। अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसर्तव्या इत्यपि सूचितम्। तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्वोपनिबन्धे वि- रोधो ज्ञेय इति। तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् । अभावयोस्तु यथा-'तं वीक्ष्य वेपथु- मती सरसाङ्गयष्टिनिक्षेप एव पदमुद्धृतमुद्दहन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ। अत्राभावरूपयोः क्रिययोरविरोधः । भावाभावयोस्तु यथानङ्गलेखायां राजवर्णने 'विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत्, पञ्चतां जनयन्नपि प च्चालस्य वैमुख्यमपुष्णात्, पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्य- धात्, चोलकान्ता अप्यचोलकान्ता: समपादयत्, कुन्तलालसानप्यकुन्तलालसांश्र निर्ममे शूरसेनानप्यशूरसेनानदर्शयत्।' इत्यादि। अस्यापि मतभेदेन श्रेषेण सह व्यवस्थितिं दर्श- यितुमाह-विविक्तेत्यादि। 'जडयति च तापं च कुरुते' इत्यत्रास्य विविक्तविषयत्वम्। दर्शनान्तर इति ग्रन्थकृदभिमते। संकरशव्दश्चात्र संकीर्णमात्रे वर्तते। तेनात्र संकरेण संकीर्णत्वेन च श्रेषमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम्। अलंकारशब्देन चात्र विरोधाभास एवाभिधीयते। तस्यैवेह प्रस्तुतत्वात्। अत्र हि श्रेषो विरोधोत्पत्तौ हेतुत्वं भजते। तेन विना तस्यानुत्यानात्। संकरश्र स्वहेतुबलाह्लब्घसत्ताकयोरलंकारयोर्भवति। तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः। यद्वक्ष्यति-'न च विरोधोत्प- त्तिहेतौ श्रेषस्य विरोधेन सहाङ्गाङ्गिसंकरः' इति। द्वयोरेकस्येत्यनेन श्लेषमिश्रत्वस्यापि वै- चित्र्यं दर्शितम्। अस्य च वक्ष्यमाणाद्विरोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति-एकेत्या- दिना। जडीकरणतापकरणयोविकारयोविकारिगतत्वेनास्यैकविषयत्वम्। विषयभेद इति। कार्यकारणादीनामेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात्। तावदिति प्र- थमम्। कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात्। आहेति। कारणाभाव इत्यादिना। १. 'एतन्नोदाहृतम्' क. २. 'अनुमन्तव्याः' ख. ३. 'क्रिष्ट' क.
Page 131
१२४ काव्यमाला।
कारणाभावे कार्यस्योत्पत्तिर्विभावना। इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अ- न्यथा विरोधो दुष्परिहरः स्यात्। यदि तु कयाचिद्ङ्गया तथाभाव उप- निवध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात्। सा च भङ्गिर्विशिष्टकारणाभावोपनिबन्धः। अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोर्पेक्रान्तत्वाद्वलवता कार्यमेव बाध्यमा- नत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरो- धालंकाराद्ेदः। एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्य-
तत्र तावत्कार्यस्य कारणपरतत्त्रतां दर्शयति-इहेत्यादिना। यदुक्तम्-'यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया। तदेव कारणं तस्य नान्यत्कारणमुच्यते ॥' इति। अन्यथेति। यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः । ननु यद्येवं त- त्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवतीत्याशङ््याह-यदि त्वित्यादि। तथाभाव इति कारणाभावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम्। सेति । यया भङ्गया कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम्। विरोधपरिहार इति । अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात्। ननु यद्येवं तत्कथमयं विरोध एव न भवतीत्याशङ्गयाह-कारणेत्यादि । तेनेति का- येण। यदुक्तम्-'कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥ अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः ।' इति । एतदेव प्रसङ्गाद्विशेषोक्तेरप्याह-एवमित्यादि। लेखककल्पितश्चायमपपाठः। तथा हि-'हरतापि तनुं यस्य' इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामग्रये कथं न बलं हृतमिति कार्याभावस्यैव बाध्यत्वेन प्रतीतिः । तस्मात् 'एवं विशेषोक्तौ कारणसत्तया कार्याभावस्यैव बाध्यमानत्वमुन्नेयम्' इति पाठो ग्राह्यः। एतदेव राजानकतिलकेनाप्युक्तम्-'कारणसामग्र्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन' इति। ग्रन्थकृच् प्रायस्तन्मतानुवर्त्येव। तदुक्तसमा-
१. 'यदा' क. २. 'भावात्' ख. ३. 'कारणाभावो भावकार्योपनिबन्धः' क. ४. 'चेह' ख.
१. 'विद्यते क्रिया' ख. २. 'संबन्धः' क ३. 'अत्र दूरे विरोधः स्याद्विभेदेन' क. ४. 'सत्तायाः' ख. ५. 'एतच्च' क.
Page 132
अलंकारसर्वस्वम् । १२५
मानत्वमुन्नेयम्। येन सापि विरोधाद्भिन्ना स्यात्। इह च लक्षणे यद्य- प्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम्। नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते। वैयाकरणैरेव तथाभ्युपगमात्। अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम्। यथा- 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥' अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यवसायादेक- त्वमतिशयोक्त्या। सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उेत्थानम्, अपि तु तद्नुप्राणितत्वेन। इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद्विघैव । तत्रोक्तनिमित्तोदाहता। अनुक्तनिमित्ता यथा- नन्यायोऽस्माभि: पाठो लक्षितः । येनेति। एकस्यैव बाध्यत्वेन प्रतीतेः। ननु च 'क्रि- याया: प्रतिषेधेऽपि यत्फलस्य विभावनम्। ज्ञेया विभावना-' इत्यादिनोद्भटादिभिरेतल- क्षणे क्रियाग्रहणं कृतमिति कथमिह तदुल्लद्दनेन कारणग्रहणं कृतमित्याशङ्गयाह-इहे- त्यादि। सर्वैरिति बौद्धादिभिः । अत इति। वैयाकरणैरव क्रियाफलस्य कार्यस्या- भ्युपगमात्। सामान्येनेति। सर्ववादिसाधारणतयेत्यर्थः । सर्ववादिसाधारणोऽयं ग्रन्थः। द्वितीय इति। अन्यपादयोर्न विभावनेत्यर्थः । यौवनहेतुकत्वेनेति। समाधाना- याप्रसिद्धं कारणमाश्रित्येत्यर्थः । अन्यथा हि विरोधपरिहारो न स्यात्। ननु चासवज- नितोऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं का- रणाभावे कार्यस्योत्पत्तिरित्याशङ्ग्याह-मदस्येत्यादि। द्वैविध्य इति क्षैव्यदर्परूपे। सेत्यतिशयोक्तिः। अव्यभिचारिणीति। अतिशयोक्तिं विनास्या अनुत्थानात्। अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् । तदेवाह-तदनुप्राणितत्वेनेति। यदुक्तमन्यत्रापि-'आश्रिष्टातिशयोक्तिश्च सर्वत्रैव विभावना' इति। 'निरुपादानसंभारमभि- त्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शलिने ॥' इत्यत्र तु जगत उपादा- नादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात्। एवम्-'ण अ रूवं ण अ ऋद्दी णावि कुलं ण अ गुणाण विण्णाणम्। एमे अ तह वि कस्स वि को वि अणो वल्लहो होइ ।' इत्यादावपि ज्ञेयम् । अतश्र क्वचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् । विशे- षोक्तिवदिति। विशेषोक्तौ प्राज्यैर्यथोक्तमित्यर्थः । अत्र चाद उदाहरणे द्वितीयपाद १. 'तदोदाहरणम्' ख. २. 'उत्थापनं' क. १. 'विभावना' क. २. 'इति भावः' ख. ३. 'ण अ' क.
Page 133
१२६ काव्यमाला।
'अङ्गलेखामकाइमीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ।।' अत्र सहजत्वं निमित्तं गम्यमानम्। असंभृतं मण्डनमिति, कामस्य पु- ष्पव्यतिरिक्तमस्त्रमिति च । अत्र विवदन्ते-इयमेव विभावनेति केचित्। संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वान्त(?)मेतत्। एकगु- णहानौ विशेषोक्तिरित्यन्ये। रूपकमेवाधिरोपितवैशिष्ट्यमिति त्वपरे। आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः । विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयति- कारणसामग्र्ये कार्यानुत्पत्तिरविशेषोक्तिः। इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम्। अ- न्यथा समग्रत्वस्यैवाभावप्रसङ्गात्। यत्तु सत्यपि सामय्ये न जनयन्ति काये सा कंचिद्विशेषमभिव्यङ्कुं प्रयु-
एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमित्यादि। केचिदिति वि- वदन्त इति संबरन्धः । अकारणत्वादिति। संभरणादीह मण्डनादे: स्वरूपम्। यद्येवं तर्ह्रत्रान्यः कोऽलंकार इत्याशङ्ग्याह-एकेत्यादि। अन्य इति वामनीयाः । अपर इत्यौद्भटाः। ततीयस्तु पक्षो न ग्राह्यः। लेखकपरिकल्पितत्वात्। तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्षणम्। आरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षि- तत्वात्। संभवोपयोगयोश्च नैकत्वम् । भिन्नत्वात्। ग्रन्थकृतापि साहित्यमीमांसायामेत- च्छोकविव्ृतौ पक्षद्वयमेवोक्तम्। लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः । तथा चात्रैवासंभृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः । एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः । त- द्विपर्ययेति। कारणसामपर्ये कार्यानुत्पादात्। तामेवाह-कारणेत्यादि। समग्रा- णीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः । अत एवाव्यभिचारायाह-नियमेनेति। अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति। एवं नैकं किंचन जनकं सामग्री वै जनिकेति नीत्या समग्राणां का- रणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषो- क्तिर्भवतीत्याह-यत्त्वित्यादि। अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः।
१. 'संबन्धादिमण्डनादेः' ख. २. 'नारोप्यमाणस्य' ख.
Page 134
अलंकारसर्वस्वम्। १२७
ज्यमाना विशेषोक्तिः। सा च द्विविधा-उक्त्तनिमित्तानुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव। अनुक्तस्य च चिन्त्याचिन्त्यत्वेन द्वै- विध्यात्। क्रमेण यथा- 'कर्पूर इव दग्घोऽपि शक्तिमान्यो जने जने। नमोऽस्त्ववारवीर्याय तस्मै कुसुमधन्वने ।।' 'आहतोऽपि सहायैरेमीत्युत्तवा विमुक्तनिद्रोऽपि। गन्तुमना अपि पथिक: संकोचं नैव शिथिलयति ॥' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ।।' अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु- त्पत्तिः शक्तिस्वरूपेणाविरुद्धेन धर्मेणोपनिबद्धा। अवार्यवीर्यत्वं चात्रोक्त- निमित्तम्। तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्सवपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम्। तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचि- न्त्यमेव। प्रतीत्यगोचरत्वात्। कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्त्या निबध्यते। एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्र- तिपाद्यते। तथा च सति, 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
तद्वेतुकमेवास्या भेदनिर्देशमाह-सा चेत्यादि। अचिन्त्येत्युत्तानाशयैः। वस्तुतस्तु संभवत्येव। अन्यथा ह्वस्या विरोधो दुष्परिहार्यः स्यात्। अविकल इति। समग्रे वि- रुद्धर्मत्वं शक्त्यशक्त्योविरोधात्। अस्याश्र कार्यानुत्पत्तेविच्छित्यन्तरेण बन्धं दर्शयितु- माह-कार्येत्यादि। यथा कर्पूर इवेत्यादौ। एवमिति। यथैवात्र कार्यानुत्पत्ति- रविरुद्धमुखेनोपनिबध्यत इत्यर्थः । तथा च सतीति। द्वयोरप्यनयोविरुद्धमुखेन कार्य- कारणभावोपनिबन्धे सतीत्यर्थः । उत्कण्ठायाः कारणं कौमारहरवरादसंनिधानम्। तस्य विरुद्धं तत्संनिधानम्। तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना। तथा कौमारहरवरादिसंनिधानरूपस्य कारणस्य कार्यमनुत्कण्ठा तस्याश्च विरुद्वोत्कण्ठा। तेन सत्यपि कौमारहरवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठा-
Page 135
१२८ काव्यमाला।
सा चैवास्म तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' इत्यत्र विभावनाविशेषोक्तयोः संदेहसंकरः। तथा ह्युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमार- हर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवलमस्पष्टत्वम्। सा- धकबाधकप्रमाणाभावाच्चात्र संदेहसंकरः । या तु 'एकगुणहानिकल्पनायां साम्यदार्ढ्यै विशेषोक्तिः' इति विशेषो- क्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ् वाच्या। अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेद: कार्यकारणभावप्रस्तावेने- होच्यते- कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। इह नियतपूर्वकालभाविकारणं नियतपश्चात्कालभावि कार्यमिति कार्य- कारणयोर्लक्षणं प्रसिद्धम्। यदा तु विशेषप्रतिपादनाय तयोरेतद्रपापगमः क्रियते तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालवि-
रूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति। कार्यकारणयोः साक्षान्निषेध्यत्वेना- प्रतीतेः । ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशङ्गयाह- साधकेत्यादि। ननु 'दूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा किं नोच्यत इत्याशङ्ग्याह-या त्वित्यादि। एवमनयैव दशा ए- कगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्य विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्द- शैने रूपकभेद एवेति न पृथग्वाच्यः । प्रस्तावेनानुगुण्येन। अत एवेयन्तः कार्यकारण- भावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपश्चमात्रं दर्शयितुं पुनरिहास्या वचनम्। एतच्च ग्रन्थकृतैवोक्तम्। प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारण ताश्रयालंकारप्रस्तावे प्रपञ्चार्थ लक्षयिष्यत इत्युच्यत इति न पुनर्निणीयते। पूर्वत्रैवास्य निर्णीतत्वात्। तामेवाह-कार्यकारणयोरित्यादि। उभयत्रापि नियतशब्द एतदव्य-
१. 'यस्तु' ख. १. पुनरिहास्य' ख.
Page 136
अलंकारसर्वस्वम्। १२९
पर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति। क्रमेण यथा-
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ।।' 'पथि पथि शुकचञ्चूचारुरम्भाङ्कराणां दिशि दिशि पवमानो वीरुधां लासकश्च। नरि नरि किरति द्राक्सायकान्पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्चा ।I' पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भि- न्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकि- रणकार्येति तैयोस्तुल्यत्वेनोपपन्नं पौर्वापर्य व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः। कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते। तयोस्तु भिन्नदेशत्वेऽसंगतिः । तयोरिति कार्यकारणयोः। यद्देशमेवं कारणं तद्देशमेव कार्य दृष्टम्। नहि महानसस्थो वहिः पर्वतदेशस्थं धूमं जनयति। यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिवध्यते तदोचितसंगतिनिवृत्तेर संगत्याख्यो- लंकारः। विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते। यथा- 'प्रायः पथ्यपराख्ुखा विषयिणो भूपा भवन्त्यात्मना निर्दोषान्सचिवान्भजत्यतिमहांल्ोकापवादज्वरः ।
भिचारदर्शनात्। एतद्रपापगम इति। कार्यकारणयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात्। मोढोक्तिनिर्मित इति। कीर्तिश्रियोर्वस्तुतो निर्गमनप्रवेशासंभवात्। प्रतिपाद्यत इति प्रयोजनत्वात्। तयोरित्यादि । एतदेव व्यतिरेकमुखेनापि दर्शयति-नहीत्या- दिना। उचितसंगतिनिवृत्तेरिति। एकदेशयोरपि कार्यकारणयोर्भिन्नदेशत्वेनोप- निबन्धनात्। अत एव च तयोर्भिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोघादस्य १. 'स्त्रिया' ख. २. 'तयोरुपपत्रं पौर्वापर्येण निर्दिष्टम्' क. ३. 'भावित्वाख्यो' क. १७
Page 137
१२० काव्यमाला।
वन्धाः श्राध्यगुणास्त एव. विपिने संतोषभाजः परं बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्न्रिणः ।।' अत्र पथ्यपराडुखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरित्यसं- गतिः। एवम्- 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्धुतम् ॥' (इत्यत्र ज्ञेयम् ।) अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च स्मरनि- मित्तकमित्यनयोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् । विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्। विरोधप्रस्तावेनेह लक्षणम्। तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम्। तथा कंचिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा-
भेदः। इह लक्ष्यत इति। अस्या अपि कारणयोर्भिन्नदेशत्वेन विरोधगर्भत्वात्। अ- भेदाध्यवसाय इति। अनेनातिशयोक्तिरस्या अप्यनुप्राणकत्वेन कटाक्षिता। अन्यथा हि विरोधो दुष्परिहरः स्यात्। एवं पथ्यज्वरशब्दयोरतिशयोक्तिबलात्प्रजापालनयुक्तिसं- तापवाचकत्वं द्रष्टव्यम्। अन्यत्रेति कातरत्वादौ। चिरूपेत्यादि। इहेति। अस्या अप्यननुरूपसंसर्गेण विरोधगर्भत्वात्। विरूपमिति। कारणापेक्षया विजातीयत्वेनात- द्ुणत्वात्। यद्यपि 'गोमयाद्वश्च्िकोत्पत्तिः' इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति तथापीह कविप्रतिभानिर्वर्तितमेव तद्राह्यम्। तेन 'द्राक्षाफलानि शिखरेषु शिलोच्चयानां पीयूषसाररसनिर्भरगर्भवन्ति। विष्वग्दषत्कठिनकायनिगूढशङ्गश्ङ्गाटकानि पुनरम्भसि सं- भवन्ति ॥' इत्यादौ विषमं न वाच्यम्। ईदृश एव कार्यकारणभावस्य वस्तुतः संभवात्। तस्येति साधयितुमिष्टस्य। अप्रतिलम्भ इति। असिद्धिरिति यावत्। अत्यन्तेति।
१. एवं च' ख. २. 'समाश्रयैः' क. ३. 'अत्र-ज्ञेयम्' ख-पुस्तके नास्ति.
१. 'विरूपतागर्भत्वात्' क. २. 'शङ्गं' कख, २. 'अप्रसिद्धि' क,
Page 138
अलंकारसर्वस्वम्। १३१
प्तिरपीति द्वितीयं विषमम्। अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघ- टनं तत्तृतीयं विषमम्। अननुरूपसंसर्गो हि विषमम्। क्र्मेण यथा- 'सदः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ।।' 'तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते। वाराणसि त्वयि तु मुक्तकलेवराणां लाभोडस्तु मूलमपि यात्यपुनर्भवाय ।।' 'अरण्यानी क्केयं धृतकनकसूत्रः क्व स मृगः क्व मुक्ताहारोडयं क्व च स पतगः क्केयमवाला। क्व तत्कन्यारत्नं ललितिमहिभर्तु: कर च वयं स्वमाकूतं घाता निभृतनिभृतं केन्दलयति ।।' अत्र कृष्णवर्णाच्छुक्कवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्त- रोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं सेंघटनं क्रमेण
न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूपत्वमित्यत्र तात्पर्यम्। एकमि- त्याद्यभिदधता ग्रन्थकृता विरषमाणां भिन्नत्वमुक्तम् न प्रकारप्रकारित्वम्। सामान्यलक्षण- स्यासंभवात्। एवमेव पुनरेषां कस्मादभिधानमित्याशङ्गयाह-अननुरूपेत्यादि। यत्किंचित्पुनरस्मद्दर्शनविरुद्धमन्यैरधिकमुक्तं तदिहास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्यान- निर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदेव सिद्धान्तीकार्यम्। तस्य पृथड़िरसि- ष्यमाणत्वात्। इह हि यथाशक्त्यस्माकमाग्रहप्रवृत्तपरकीयदूषणोद्धारमात्रमेव विवक्षितम्। यथोपयोगं पुनस्तन्निराकरणमपिकृतं करिष्यते च। अत्र शुक्ककृष्णवर्णत्वं कार्यकारणात्मक- विषयद्वयगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधा्ेदो ज्ञेयः। एवमन्यत्रापि ज्ञेयम्। अरण्यान्यादीनामननुरूपमन्योन्यघटनं वास्तवमित्युदाहरणान्तरेणोदाहियते। यथा- "शिरीषादपि मृद्वङ्गी क्ेयमायतलोचना। अयं क्व च कुकूलान्निकर्कशो मदनानलः ।'
१. 'अत्यर्थ' क. २. 'संघट्टनात्' ख. ३. अननुरूपेत्यादि ख-पुस्तके नास्ति, ४. 'पल्लवयति' ख. ५. 'घट्टनं' ख.
१. 'रूपत्वात्' ख. २. 'विषयानां' ख. ३. 'घटना' ख.
Page 139
.१३२ काव्यमाला।
मन्तव्यम्। केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरण- मंप्यूह्यम्। यथा- 'परहिअअं मग्गन्ती इआरिअं अत्तणोतए हिअअम्। अव्योल्लाहस्स कए मूलाओ विछेइआ जाआ ।।' इति तत्रोदाहार्यम्। तद्विपर्ययः समम् । विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि च्छन्देन संभवादन्त्यो भेदः परामृष्यते। पूर्वभेदद्वयविपर्ययस्यानलंकार- त्वात्। अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योडलंकारः । स चाभिरूपान- भिरूपविषयत्वेन द्विविधः । आद्यो यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति वा- मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ॥' अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम्। द्वितीयो यथा- 'चित्रं चित्रं बत वत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विघाता।
अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम्। अत्रेति तीर्थान्तरेष्वित्यादौ। शुद्धेति। यत्र विषममेव न स्यात्। तत्तु यथा-'यो हठं प्रतिनिषेद्धुमुदस्तः सुभ्रुवा प्रियतमस्य कटाक्षः । स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव ॥' अत्र कटाक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्ययेत्यादि। संभवादित्यलंकारत्वस्य। अनलंकारत्वादिति। कारणात्कार्यो- त्पत्तेर्वस्तुसाधनोद्तस्य तत्सिद्वेश्र वास्तवत्वात्। यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तेति तस्या अपि कथमलंकारत्वमित्याशङ्कयाह-अन्त्येत्यादि। चारुत्वादित्यलंकार- त्वपर्यवसायिनः । अभिमानरूपेति। शोभनाशोभनविषयत्वेनेत्यर्थः । आद्य इत्यभिरू- १. 'अभ्गूह्यम्' क.
Page 140
अलंकारसर्वेस्वम्। १३३
यन्निम्बानां परिणतफलस्फातिरास्वादनीय। यच्चैतस्याः कवलनकलाकोविदः काकलोकः॥' अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः । आनु- रूप्यात्समत्वव्यपदेशः । विरोधमूलं विचित्रं लक्षयति- स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । यस्य हेतोर्यत्फलं तैस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफलनि- ष्पत्त्यर्थ कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः । आश्चर्यप्रतीतिहेतु- त्वात्। न चायं प्रथमो विषमालंकारप्रकारः । स्वनिषेधमुखेन वैपरीत्य-A प्रतीते: । विपरीतप्रतीत्या तु स्वनिषेधस्तस्य विषयः। यथा-'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते' इत्यादि। इह त्वन्यथा प्र- तीतिः। यथा- 'घेत्तुं मुच्चइ अहरे अण्णन्तो वलइ पेक्खिउं दिट्टी। घडिदुं विहडन्ति भुआ रआअ सरअम्भि वीसामो ॥।' अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनर्रेमणानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि। यथा वा-
पविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौचित्यलक्षणात्। स्वविपरीते त्यादि। एतदेव व्याचष्टे-यस्येत्यादिना। यदिति प्रसिद्धम्। फलमिति कार्यम्। तस्येति हेतोः । तदिति कार्यम्। प्रयत्नस्य कार्यादिभेदेऽपि न वैचित्र्यमिति तदिह नो- क्तम्। एवं यस्य यत्कार्य तस्य तावत्तद्विपरीतं न भवति। यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थे च यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम्। ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशङ्गयाह-नचायमित्यादि। तस्येति विषमस्य। नीलयापि पाण्डु यशःप्रसूतमिति विर्षेरीतप्रतीतिबलादेतन्नोपपद्यत इति ह्यत्र प्रतीतिः । अन्यथेति निषेधबलाद्वैपरीत्यप्रयत्न इति। यैद्यपि. विषमे विरूपस्य कार्यस्य स्वयमेवोत्पत्तिरिह च
१. 'अनुरूपत्वात्' क-ख. २. 'तस्प' क-पुस्तके नास्ति. ३. 'तदा विचित्रालंकारः' क. ४. 'मरणानि' ख. १. 'यस्येति' क. २. 'विपरीतप्रतीतेः । यद्यपि विषमे विरूपस्य' ख. ३. 'यद्यपि-त- न्निष्पत्तये' इति क-पुस्तके नास्ति.
Page 141
१२४ काव्यमाला।
'उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्ठुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया। प्राणान्प्राणितुमेव मुञ्चति रणे क्विश्नाति भोगेच्छया सर्वे तद्विपरीतमेव कुरुते तृष्णान्घदक्सेवकः ।' अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः । आश्रयाश्रयिणोरानुरूप्यमधिकम् । विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात्। तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वा- श्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात्। क्रमेण यथा- 'दौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि- त्क्वाप्यत्रैव धरा धराधरजलाघारावधिर्वर्तते। स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ।।' 'दोर्दण्डाश्च्ित चन्दशेखरधनुर्दण्डावभङ्गोद्यत- ष्टांकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
तन्निष्पत्तये प्रयत्न इति स्थितोऽप्यनयो: स्फुटो भेदस्तथापि ग्रन्थकृता विशेषपरिपोषायैव सूक्ष्मेक्षिकागम्यो भेदोयमुक्तः। मोचनस्याग्रहणं स्वं फलम्। ग्रहणं पुनः कथं भवती- त्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः । अनन्तरं च तन्निमित्ता वैपरीत्यप्रतीतिः। अत एव विषमादस्य भेदः। सुज्ञान इति। पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम्। एतद्वि ग्रन्थकृतैवाभिनवत्वेनोक्तम्। आश्रयेत्यादि। इहेति विचित्रा- नन्तरम्। नन्वननुरूपयो: संघटने विषममुक्तमित्याश्रयाश्रयिणोस्तत्वे कथमलंकारान्तरत्वमु- च्यत इत्याशङ्कागर्भीकारेणैतद्व्याचष्टे-तञ्चेत्यादिना। आश्रयस्येत्याधारस्य। आश्रित- स्येत्याधेयस्य। अनेनैव चास्य भेदद्यमप्युक्तम्। एवं च परिमितत्वापरिमितत्वयोः सापे- क्षत्वात्तथाविधवस्तुद्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधययाः संघटनेनैवाननुरूपत्व- मवगम्यते। विषमे चानन्यापेक्षत्वेन स्वत एवाननुरूपयोः संघटनामत्यनयोर्मेंहान्भेद इत्यत्र पिण्डाथेः । इत्थम्-'आधाराधेययोर्यत्र संसर्गः स्वाद्विरूपयोः। स स्फुटो विषमो वाच्यमधि- कं नाधिकं ततः ॥' इति न वाच्यम्। तच्चाश्रयाश्रयिणोः कविप्रतिभाकल्पितमेव ग्राह्यस
१. 'सौमनस्याग्रहण: पुनः' ख.
Page 142
अलंकारसर्वस्वम्। १३६
द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्या- श्रयस्य स्तोकत्वम्। परस्परं क्रियाजननेऽन्योन्यम्। हहापि विरोधप्रस्ताव एव निर्देशकारणम्। परस्परजननस्य विरुद्धत्वात्। क्रियांद्वारकं यत्र पेरस्परोत्पादकत्वं न स्वरूपनिबन्धनं स्वरूपस्य तथा- त्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः। यथा- 'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकपालस्य च निस्तलस्य। अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ।।'
न पुनर्वास्तवम्। तेन चारुत्वाप्रतीतेः। तेन नभसो दुप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनुदाहरणमेतत्। तदुदाहरणान्तरमन्वेष्यम्। तत्तु यथा-'रणरण- अगुणिअमुज्नत्तणम्मि तणुई समुद्दगहिरम्मि। मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई ॥' अत्र हृदयस्य महत्त्वं तन्वाश्च तनुत्वमित्याधाराधेययोरननुरूप्यम्। परस्परमित्यादि। ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याशङ्याह-क्रियेत्यादि। क्रियाश्देनात्र धर्मो लक्ष्यते। अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुबिम्बयोः । उदियाय तदान्योन्यपटुत्वजननक्रमात् ।।' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजनने- Sप्यव्याप्ति: स्यात्। परस्परोत्पादकत्वमिति। परस्परनिष्पादकत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामान्यात्मककारणार्थत्वं दर्शितम्। तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रसरापसारणाय। अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवे- शयन्तम् II' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीते: पर्यवसानात्परस्परजे- ननस्याव्यापकत्वं न वाच्यम् । 'विपर्ययं पूर्वकथाद्ुतस्य चालुक्यभपालशरश्रकार। पपात यन्नष्टधृतिर्वराहस्तं विह्वलाङ़ं वसुधा बभार ।I' इत्यत्र पुनरादिवराहवृत्तान्तवै- लक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात्। एवमन्यत्रापि ज्ञेयम्। तथात्वोक्तिविरोधादिति । इतरेतराश्रयदोषलक्षणात्। यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्याढिति भावः । यथा-'धनेन जायते
१. 'विरुद्धश्रद्धत्वात्' क. २. 'परस्परोपपादकत्वं' ख.
१. 'यदा' क. २. 'जननस्य व्यापकत्वं' ख,
Page 143
१२६ काव्यमाला।
अत्र शोभाक्रियामुखकं परस्परजननम्। अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः । इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाघेय- स्योपनिबन्धः स एको विशेष: । यच्चैकं वस्तु परिमितं युगपदनेकधा- वर्तमानं क्ियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासंभाव्य- वस्त्वन्तरकरणं स तृतीयो विशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावा- दविहोक्तिः। क्रमेण यथा- 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्दाः ॥'
प्रज्ञा प्रज्ञया जायते धनम्। प्रज्ञार्थो जीवलोकेऽस्मिन्परस्परनिबन्धनम् ॥' अत्र प्रज्ञा- धनयोः स्वरूपस्य परस्परं जननम् देशकालभेदाद्विरोधसमाधिः । शोभाक्रियेति। सैव ह्यत्र परस्परनिमित्तम्। अनाधारमित्यादि। एतदेव व्याचष्टे-इहेत्यादिना। तत्परिहारेणेति। आधारव्यतिरेकेणेत्यर्थः । परिमितभित्यव्यापकम्। व्यापकस्य हि युगपदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम्। किंचिदिति यत्र यादृग्विव्षितम्। न केवलमार्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः । तच्च वस्त्वन्तरं चिकीर्षित भवत्यचिकीर्षितं वा। एवं च 'फलान्तरस्य निष्पत्तिश्चिकीर्षावि- रहेऽपि या। स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ॥' इत्यादयुक्तयुक्त्या प्रसङ्गादन्यार्थः । प्रसङ्ग इति। प्रसङ्गाख्यमलंकारत्वं न वाच्यम्। न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात्। यावता ह्वत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिविवक्षिता सा चात्र स्थितेति कि चिकीषितत्वाचिकीर्षितत्वकल्पनेन। तस्मात् 'अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्णालहारवलयादि च पान्थवध्वाः। योऽभूद्दिवा पतिवि- योगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ।' इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्यवस्त्वन्त- रकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः । लक्षणस्य भिन्नत्वात्। उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम्। गिरामत्र कविस्वभावादन्यत्र भावः। शंभोश्ष लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते। एतावतैव पुनरस्याभावो न वाच्याः । उदाहरणान्तरेष्वस्य संभवात्। तानि तु यथा-'अङ्गानि चन्द- नरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः। चालुक्यगोत्रतिलक क्व वसत्यसौ
१. 'प्रवृत्तिनिमित्तम्' ख. २. 'प्रसंख्यालंकारान्तरं' ख. ३. 'ह्यत्रासद्भावस्य' ख. ४. 'निष्पतिः' ख. ५. 'अङ्गानि-तथा च'इति ख-पुस्तके त्रुटितम्.
Page 144
अलंकारसर्वस्वम्। १३७
'प्रासादे सा पैथि पथि च सा पृष्ठतः सा पुरः सा पर्यक्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोडयमद्वैतवादः ।l' 'निमेषमपि यद्येकं क्षीणदोषे करिष्यसि। पदं चित्ते तदा शंभो किं न संपादयिष्यसि ।' अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरॅन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्, एकस्या एव योषितः प्रासा- दादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तर- वस्तुसंपादानं क्रमेण ज्ञेयम्। यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः। यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निप्पादितं तत्ततोऽन्येन केन-
ते दुर्घृत्तभूपपरितापगुरुः प्रतापः ॥' अत्राङ्गादीनामनर्हत्वेनाधारत्वाभावेऽप्याधेयस्य प्रता- पस्य स्थितिरिति विषेषालंकारत्वम्। तथा च-'चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि वुनमू। वच्चन्ती मुहजोह्राभरेहिँ तिमिरं पिण ण्णिहिसि ॥' अत्र न केवलं प्रियं हरिष्यसि. यावच्चिकीर्षाविहरेणासंभाव्यं तिमिरमपीति वस्त्वन्तरकरणात्मा विशेषः । यथा वा 'माघः शिशुपालवधं विदधत्कविमदवधं विदधे। रत्नाकरः स्वविजयं हरविजयं वर्णयन्व्यवृणोत् ।I' अत्र न केवलं माघः शिशुपालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकरणात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तु माघ- स्यात्र कर्तत्वम् । एवमुत्तरत्रापि ज्ञेयम् । अतः 'एकस्मिन्क्रियमाणे तज्ातीयस्य प्रसङ्गतः सिद्धिरनुषङ्ग:' इत्यनुषङ्गालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः । यथासा- घितस्येत्यादि। निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम्। तद्धि द्वितीयव्या- घातविषयः । तत इति निष्पादनकर्तुः । तत्प्रतिद्वन्द्विनेति। निष्पादितवस्तुव्याहृि- कारिखात्। तेनैवेत्यन्र भरः । अन्यथा हि वैचित्र्यातिशयो न स्यात्। अन्यथाक्रियत इति। तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः।अत एव नामाप्यस्य यौगिकमित्याह-निष्पादि- तेत्यादि। अतश्च यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिबध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाद्व्याघातायोगात्। निष्पन्नवस्तुव्याहतिरहिं व्याघातः । फलं चात्र व्याहति- १. 'दिशि दिशि' ख. २. 'पथि पथि' ख. ३. 'दोषं करिष्यति' ख. ४. 'संपाद- यिष्यति' ख. ५. 'अनन्यभावः' ख. ६. 'तथा' ख, ७. 'यं' क-पुस्तके नास्ति. १८
Page 145
१३८ काव्यमाला।
चित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादित- वस्तुव्याहतिहेतुत्वाद्रयाघातः । यथा- 'दशा दग्घं मनसिजं जीवयन्ति दशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ॥' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम्। मृगनयनाभि: पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते। तच्च दाहवि- षयत्वस्य प्रेतिपक्षभूतम्। तेन व्याघाताख्योऽयमलंकारः। सोऽपि व्यतिरेक- निमित्तत्वेनात्नोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ। जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह प्रकरणं लक्षणम्।
कारिणस्तद्वैलक्षण्यम् । अत एव 'उत्पत्तिविनाशयोरेकोपायत्वे व्याघातः' इति न सूत्रणी- यम्। एवं हि व्याघातत्वमेव न स्यात्। 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजब- लमलं स्फीता लक्ष्मी: प्रभुत्वमखण्डितम्। प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो ्र- जति सुतरां दर्प राजंस्त एव तवाङ्कशाः ॥'इत्यत्र च कुलादयो यथान्येषां दर्पहेतवो न तथा तव। प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषान्तरेभ्योऽस्य वैलक्षण्य- मात्रं विवक्षितम्। न तु कुलादिभिरुत्पादितोSपि दर्पस्तव व्याहत इति येन व्याघातालंकारो भवति। अथात्र दर्पकारिणोSपि कुलादेस्तद्विनाश इत्ययमलंकार इति चेतु, नैतत्। कु- लादीनां प्रकृतिभेदेन दर्पादर्पकारित्वस्य वास्तवत्वेनालंकारत्वात्। तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेनायमलंकारः । निष्पादितवस्तुव्याहतेरभावात्तन्निबन्धनत्वेन चास्योक्तत्वात्। 'विण्णाणेण मअविसं विणिवदटइ् भिण्णकारणुप्पण्णम्। विण्णाणकारणं जं तं पुण भण को णिवटे ।I' इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वस्तुसंभवहेतुर्मदो विज्ञा- नेन निवर्त्यते तद्धेतुक: पुनः केनेत्यलंकारभाष्यकारोक्तस्तन्निवृत्तिहेतुप्ररोहात्मकत्वा- द्वितर्कालंकारो न व्याघातः । विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात्। 'गाढकान्तदश- नक्षतव्यथासंकटादरिवधूजनस्य यः। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्।।' इत्यत्र चाधरव्यथानिर्मोचनात्मकविपरीतफलनिष्पत्त्यर्थ तन्निर्दशनात्मा प्रयत्न उपनिबद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः। तेनैवेति। दृष्टिलक्षणेनैव न पुनरन्येने- त्यर्थः। तेनेति निष्पन्नस्य वस्तुनस्तेनैवोपायेन व्याहतत्वात्। तदेव विभजति-विरुपाक्ष- स्येत्यादिना। अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम्। तथा हि येनकेनचिद्यत्किचित्साधितं तदप्यन्येनान्यथाक्रियते तदा तस्य ततोऽन्यथाकरणान्पपत्ा १. 'वाम' ख. २. 'प्रतिविरूपपक्षभूतम्' क. १. 'वस्तुसंभविन्यन्यहेतुर्मदो' ख. २. 'तद्वदन्येनान्यघी' ख,
Page 146
अलंकारसर्वस्वम्। १३९
प्रकारान्तरेणाप्ययं भवतीत्याह- सौकर्येण कार्यविरुद्धक्रिया च व्याघात इत्येव। किंचित्कार्य निष्पादयितुं संभाव्यमान: कारणविशेषस्तत्कार्यविरुद्धनि- ष्पादकत्वेन यत्समर्थ्यंते सोऽपि संभाव्यमानकार्यव्याहतिनिवन्धनत्वाद्या- घातः। कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा। तैस्य कारणस्यात्यन्तं तदानुगुण्यात्। नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात्। अत एवं द्वितीयाद्विषमान्वेदः। तत्र हि कार्यस्या- नुत्पत्तिरनर्थस्य चोदमनमू। इह तु कार्यमकार्यमेव न भवति। तद्विरुद्ध- स्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु- 'यदि बाल इति सुतरामपरित्याज्योऽस्म। रक्षणीय इति भवद्भुजपञ्ज- रमेव रक्षास्थानम्' इत्यादि। अत्र राज्यवर्धनेन श्रीहर्षाप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारण- त्वेन यत्संभावितं तत्प्रत्युत प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्य- वर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः । वैलक्षण्यमवश्याभ्युपगन्तव्यम्। अतश्रास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात्। पूर्व- वदित्यानुरूप्यपरिहारात्। स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्षणात्। प्रकारा- न्तरेणेति प्रतीतिभेदात्। अयमिति व्याघातः । तमेवाह-सौकर्येणेत्यादि। एतदेव व्याचष्टे-किंचिदित्यादिना। संभाव्यमान इति केनचिदन्येन। तत्कार्येति। तच्च तत्कार्य निष्पादयितुं प्रक्रान्तम् । अत एवास्य प्रथमाद्याघाताद्गेदः। तत्र हि येनकेनचि- दुपायेन निष्पादितं सद्वस्तु तथैवान्येनान्यथीक्रियंत इत्युक्तम्। इह तु किंचिन्निष्पादयितुं संभाव्यृमानस्य काग्णस्य तदरिरुद्धनिष्पादकत्वेन समर्थनम्। तद्विरुद्धनिष्पत्तेश्र सौकर्य किमुक्तमित्याशड्याह-कार्येत्यादि। तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात्। न त्विति। अपि तुदुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य प्रथमाद्व्याघाताद्भेदः सूचितः । इह हि किंचिन्निष्पादयितुं संभाव्यमान: कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते। तत्र रूपाय विशेषविवक्षापरिहारेण केर्तुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोप- निबन्धः । अत एवेति। द्वयोरपि कार्यत्वसंभवात्। अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः । संभावितमिति। (तथा।) समर्थितमिति। अनेन प्रथमव्याघा- १. 'परिनिष्पादकत्वेन' ख. २. 'तस्याकारणस्य' ख. ३. 'कार्य कार्यमेव' ख. ४. 'व्यादिष्टोऽलंकारः' क. १. तेनाप्यस्य' क. २. 'कर्तरोरेव' ख.
Page 147
१४० काव्यमाला।
एवं विरोधमूलानलंकारान्निर्णीय शृङ्कलाबन्धोपचिता अलंकारा लक्ष्य- न्ते। तत्र- पूर्वस्य पूर्वस्योत्तरो त्तरहेतुत्वे कारणमाला । यदा पूर्वै पूर्वे क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमाला- ख्योऽयमलंकारः। यथा- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपद: ।।' कार्यकारणकम एवात्र चारुत्वहेतुः । तोदाहरणत्वमस्य निरस्तम्। तत्र हि द्वयोरपि कार्ययो्निष्पत्तिविवक्षिता। बाल्यस्य तु कार्यद्वयजननेपि सामर्थ्य किं तु प्रस्थापनजनने सौकर्यम्। अत एवात्र संभाव्यमानस्य का- र्यस्य व्याहतत्वम्। यथा वा-'यत्सशव्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् ।' अत्र संभाव्यमानं कार्य परि- हारः। तस्य व्याहतिधारणम्। उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्या- घातोदाहरणत्वम्। यथा च नायमर्थो वक्रोक्तर्मेंदस्तथा वक्रोक्तावेव वक्ष्यामः । एपदुपसंहर- न्नन्यदवतारयति-एवमित्यादिना। अलंकार इति न पुनः शृङ्गलैवैकोऽलंकारः । एवं हि साधर्म्यमप्येक एवालंकारः स्यात्। न ह्यपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चि- द्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात्। एवं विरोधोऽप्येक एव वाच्यः । न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम्। एवं सप्ताष्टानामेवालंकाराणां लक्ष- णप्रणयनप्रसङ्गः। अथोपमादीनामपि साधर्म्यादार्ववान्तरोऽस्ति विशेष इति चेत्। तर्हि कारणमालादीनामपि शृङ्गलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशे-
क्तम्। एवं हि शृङ्गलायामवान्तरविच्छित्तिविशेषसंभवेSप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेतु, न। यद्यस्ति विच्छित्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं को दोषः । प्रत्युता- भासमानस्य विशेषस्यापङ्गवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । त- स्मादुत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वे विपर्यये वा शृद्गलेति न वाच्यम्। तत्र तावत्कारणमा लामाह-पूर्वेत्यादि। कारणमालाख्योऽयमिति मालान्यायेन बहुनां कारणमालानां यौग पद्येनावस्थानात्। अत एवाह-कार्यकारणक्रम एवेति। न पुनः केवलमेव शृद्ध- लात्वमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिघानम्। एवमन्येभ्यः शृद्गलाब न्घोपचित्रितेभ्योSलंकारेभ्योऽस्या विषयविभागः। न हि तेषु कार्यकारणक्रम एव चारुत्व- १. 'अत्र' क. २. 'प्रस्थान' ख. ३. 'साधर्म्येऽप्येक' ख. ४. 'अप्यन्तरोऽस्ति' ख. ५. 'पूर्वानुबन्धित्वम्' ख. ६. 'विपर्ययो वा' ख.
Page 148
अलंकारसर्वस्वम्। १४१
यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली। यत्र पूर्वै पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकाव- ल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वो। स्थापनेन यथा- 'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलास: कुसुमायुघस्य ॥' अत्र वराङ़गना: पुराणां विशेषणं स्थानीयत्वेन स्थितम्। एवं वराङ्ग- नानां रूपमित्यादि ज्ञेयम्। निवर्तनेन यथा- 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट्पदम्। न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम्। एवं पङ्क- जानां निलीनषट्पदत्वं ज्ञेयम्। पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्। उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली। पूर्वस्य पूर्वस्योत्तरो- त्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम्। मालात्वेन चारुत्वविशेषमाश्रित्य हेतुः । विशेषणविशेष्यभावादेवावान्तरस् विच्छित्तिविशेषस्य संभवात्। कवचिद्विपर्ययेणापि भवति। यथा-'माणो गुणेहि जाअइ गुणा वि जाअन्ते सुअणसेवाइ। विर्मलेण सुअअप्प- सरेण सुअणवइ उद्टाणम् II' अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम्। एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः ॥ यथापूर्वमित्यादि। परं परमिति। अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः । स्वरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिष्टयमवग- म्यते तद्विशेषणम्।यद्धक्ष्यति। उत्तरोत्तरस्य परवे पूव प्रत्युत्कर्षहेतुत्वे एकावलीति। एकाव- ल्यलंकार इतति। पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपङ्गिरूपत्वात्। पूर्वेत्यादि। अतश्चै- कावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि। उत्कर्षनिबन्धनत्व इत्यनेन कार णमालातोऽप्यस्य वैलक्षण्यमुक्तम्। तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम्। ननु चास्य प्राच्यैदीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्कयाह-मालात्वेने न्यादि। मालाशब्देनात्र शृङ्गला लक्ष्यते। तस्या एवोपक्रान्तत्वात्। न चात्र मालोप १. 'परस्परविशेषणतया' ख. २. 'द्विधा भवति' ख. ३. 'वराङ्गनारूपमित्यादि' ख. १. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्वार्धस्य च्छाया. २. उत्तराधे क-पुस्तके नास्ति.
Page 149
१४२ काव्यंमाला।
दीपकप्रस्तावोह्ङ्गनेनेह लक्षणं कृतम्। गुणावहत्वमुत्कर्षहेतुत्वम् । यथा- 'संग्रामाङ्गनसंगतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।।' अत्र कोदण्डादिभि: क्रमेण शरीरादीनामुत्कर्षो विहितः। समासादन- लक्षणत्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तरोम्भितत्वेन कृतम्। उैत्तरोत्तरमुत्कर्षणमुदार: ।
'जये धरित्र्याः पुरमेव सारं पुरे गृहं सझनि चैकदेशः। तत्रापि शय्या शयने वरस्त्री रत्नोज्जवला राज्यसुखस्य सारम् ॥'
मावन्मालाशब्दो ज्ञेयः। एकस्योपमेयस्य बहूपमानोपादानाभावात्। अत्र त्यौपम्यमेव नास्ति। कोदण्डशरादीनां तस्याविवक्षणात् । अत एवास्य दीपकभेदतं न वाच्यम्। औपम्यजीवितं हि तत्। प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम्। शृङ्गला- त्वेन तु विशिष्टमस्य चारुत्वमितीह लक्षणं युक्तम्। एतच्च दीपक एव ग्रन्थकृतोक्तम्। छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति। अत्रेत्यादि । उत्कर्षश्र शरादीनां कोदण्डादिसमासादनलक्षणः। दीपनविषयाणामिति। कोदण्डशरादीनाम्। अत एवास्य दीपकमित्यन्वर्थमभिधानम् ॥एउत्तरेत्यादि। एतदेव व्याचष्टे-पूर्वे- त्यादि। एतचचैकस्यैव वस्तुनो बहुनां वा स्यादित्यस्य द्वैधम्। तेन पूर्वत्र पूर्वपूर्वेत्युत्त- रस्येति चावस्थाविशेषाभिप्रायेण व्याख्येयम्। अन्यथा ह्वेकस्यैव पूर्वत्वमुत्तरत्वं च कथं स्यात्। एवमप्युत्तरोत्तरमुपचयः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुरविध्यम्। एवं प्र- कृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपादनं स्यादित्यलंकारबीजम्। यदुक्तम्। उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति। पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीप- कादस्य भेदोऽप्युक्तः । तत्र हि पूर्वस्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम्। अत एव चा- स्योत्तरोत्तरस्योत्कर्षोपनिबद्धादन्वर्थत्वम्। तत्रैकस्य स्वरूपेणोत्कर्षो यथा-'किं छत्रं १. 'हेतुकं' क. २. 'दीपनविषयाणाम्' ख. ३. 'उत्तरोत्तरमुत्कर्षः सारः' ख'. ४. 'निबन्घनं सारः' ख.
१. 'प्रस्तावान्तरेन' क. २. 'चार्ववस्था' क.
Page 150
अलंकारसर्वस्वम्। १४३
अत्र धरित्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्ये- त्यादि योजनीयम्। यथा- 'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।।' अत्र राज्यापेक्षया वसुंघरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम्। एवं शृङ्कलाविच्छित्त्यालंकाराः प्रतिपादिताः । अधुना तर्कन्याया- श्रयेणालंकारद्वयमुच्यते। तत्र- हेतोर्वाक्यपदार्थता काव्यलिङ्गम्। किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्व- लिद्वेषिदेहे। ऊर्ध्वे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमाणः क्रमेण ।' अत्रैकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणो- त्तरोत्तरमुत्कर्षः । धर्मेणापि यथा-'अतसीकुसुमप्रभं मुखे तदनु त्वत्कचमेचक द्युति । अथ बालतमालमांसलं प्रसटतं संप्रति सर्वतस्तमः ॥' अत्रैकस्यैव तमसो निबिडत्वाख्यधर्म- मुखेनोत्तरोत्तरमुत्कर्षः । अन्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्रभादिकस्या- वस्थानात्पर्यायत्वम्, तथापि तमसो नैबिड्यं यथायथमुत्कृष्टतया वाक्यार्थींभूतमिति यथो- क्तमेव युक्तम्। बहूनां स्वरूपेणोत्कर्षो यथा-'अत्युच्चास्तरवः स्फुरन्ति गिरयः स्वर्वा- सिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युन्नतम्। तस्मात्सर्वत एव साधु- हृदयान्युत्तुङ्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवीं चिन्तामणे तन्वते ॥।' अत्रानेकेषां पूर्वापेक्षया स्वरूपेणोत्तरोत्तरमुत्कर्षः । धर्मेण यथा-'कुक्षे: कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वगूढभरो बिभ्त तमपि प्रीतो भुजंगेश्वरः। श्रीकण्ठस्य स कण्ठसूत्रम- भवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरुषकथा श्रीकर्ण निर्नाशिता ।' अत्र कैटभारि- प्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । एवं 'जये धरित्र्याः' इत्यादौ सारत्वमुखेन बोद्धव्यम्। यदाहात्रेत्यादि। यथा वा-'त्रिलोक्यां रत्नसूः श्राध्या तस्यां धनपतेर्हरित्। तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् I।' अत्र बहूनां श्राध्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वन्यैरतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम्। तत्तेषां नाममात्रनवीकरणरसिकत्वम्। अ-
तस्मादस्मिंश्र वर्धमाने सारोपान्तर्भावमेति। न पुनरिदमन्तर्भूतं सारे परिमितविषये महा- विषयमित्याद्युक्तमेवोक्तम्। एतदुपसंहृत्यान्यदवतारयति-एवमित्यादिना । तत्रेति द्वयं निर्धारणे। हेतोरित्यादि। यत्रेति। हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धाद- १. 'प्रदर्शिताः' क. २. 'तत्कान्यायाश्रयेणा' ख. ३. 'तन्र' इति क-पुस्तके नास्ति. १. एतत्पर्यन्तं ख-पुस्तके नास्ति. २. 'यत्रेति' इति ख-पुस्तके नास्ति.
Page 151
१४४ काव्यमाला।
यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्धते तत्काव्यलिङ्गम्। तर्कवैलक्षण्यार्थ काव्यग्रहणम्। न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते। वाक्यार्थगत्या च निबद्धो- पनिबद्धस्य हेतुत्वम्। अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात्। क्रमेण यथा- 'यत्त्वन्नेत्रसमानकान्ति सलिले मयनं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥।'
स्यानेन सह भेदद्वयमप्युक्तम्। वाक्यार्थगत्येति। न तु पदार्थगत्या। तत्र ह्युपनि- बद्धस्यैव हेतुत्वात्। हेतुत्वेनैवेति । हेतुत्वस्यामुख एवोद्रिक्तत्वेन प्रतीतेः । अन्य- थेति। हेतुत्वेनोपनिबन्धो यदि न स्यात्। ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चि- द्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम्। न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरेकेणोपनिबन्धः स्यात्। न च यथासंभविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम्। कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोक्तत्वात्। न चैवमुपनिबन्धात्कश्रिदतिशय इति कथमस्यालंकारत्वत्। एवं हि दृक्त्वाभासैव नान्येन वैद्येत्यादावपि स्वाभासत्वस्य हेतोविशेषणद्वारेण पदार्थगत्या, तथा 'प्रत्यक्षाद्विरलकराङ्गु- लिप्रतीतिर्व्यापित्वादकुशलमिन्द्रियं न तस्याम्' इत्यादौ तमसि विरलाङ्गुलिप्रतीतौ व्या- पित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंकारत्वं स्यात्। स- त्यम्। यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते । तथापि ग्रन्थ- कृता प्राच्यैर्लक्षितत्वादेतदिह लक्षितम् । अथ यत्र व्यङ्गयाल्रिष्टो वाच्यार्थो वाच्यमेवार्थ प्रति हेतुतां भजते तन्रायमलंकारो युज्यत एवेति चेत्। ताहि व्यङ्गयाश्लेषवशेन तदुत्था- नाद्वाक्यार्थपदार्थतयोपनिबद्यमानस्य हेतोः स्वात्मनि न कश्चिदतिशय इति व्यङ्गयकृत एवातिशयोऽ़भ्युपगम्यते। न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात्। यदि च व्यङ्गयसाहचर्येणैव हेतुरलंकारतामियात् तच्छ्दस्यापि हेतोरलंकारत्वं प्रसज्यते। यदि तत्रापि व्यङ्याश्रेषः स्यात्। अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे नि- मित्तत्वं कथं न यायात्। अथ तत्र व्यङ्गयाल्ेषो न भवतीति चेतू, किं नामापराद्म्। येनात्र व्यङ्गयाक्लेषस्तन्र च नेति। तथात्वेन लक्ष्यादर्शनादिति चेत्, नैतत्। अवाग्दर्शिन एवं निश्रयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्गयाश्रेष उक्तस्तत्र स नास्तीति वक्तुं श- १. उपसंहारादय: क्रियावाक्यार्थगत्या' ख. १. 'हेतुत्वम्' ख.
Page 152
अलंकारसर्वेस्वम्। १४५
'मृग्यश्चं दर्भाङ्कुरनिर्व्यपेक्षास्तावागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥' पूर्वत्र पादत्रयार्थोडैनेकवाक्यार्थरूपः । चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेकः पदार्थो हे- तुत्वेनोक्तः । ऐवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाह्ियते। येथा- 'मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पत्रिणः ।।' 'यद्विस्मयस्तिमितमस्तमितान्यभाव-
तत्संनिधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव व्यथमानमास्ते ।।'
क्यते। तथाहि। 'वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य। श्रियोऽङ्गरा- गेण विभाव्यते या सौभाग्यहेम्रः कषपट्टिकेव ॥' इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जग- त्प्रसूतित्वं पदार्थो हेतुः। प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम् । अत एव गरु- डध्वजवक्ष:स्थल्या जगद्रक्षकत्वे कर्तत्वं युक्तम्। इयांश्राभिधेय एवार्थः । अत एव चात्र न हेतो: कश्चिदयङ्गयाश्रेषः । इत्थम् । 'संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा। सासू णवब्भदंसणकण्ठागअजीविअं सोह्नम् ।I' इत्यत्र कण्ठागतजीवितत्वस्य । अत्र च जगत्प्रसूतित्वस्य हेतोः पदार्थतयोपनिबन्धे न कश्चिदतिशयो विशेषः । एवम् । 'अयि प्र० मत्ते सिचयं गृहाणेत्युक्तेऽपि सख्या न विवेद काचित्। मग्ना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्ग: II' इत्यन्नापि ज्ञेयम्। यद्यपि चात्र रसशब्दस्य जलवाचित्वं न विवक्षितम्। तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ग्यम्। तथात्वे हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः। एवं हि । 'एकान्तजाड्यादूरुभ्यां करभोर्वाः प- राजिताः । कदल्यो यन्न तचित्रं जयः क्व न कलावताम् ॥' इत्यत्र जाड्यस्यातिशयोक्त्या- लिङ्ितत्वेन वैचित्र्यावहत्वाच्छाव्दस्यापि पदार्थस्य हेतोरलंकारत्वं स्यात्। एवमुदाहरणा- १. 'अनेकार्थवाक्यार्थरूपः' क. २. 'चतुर्थपादार्थे' क, ३. 'एवमेव' ख. ४. 'यथा' इति क-पुस्तके नास्ति. १. 'संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा। श्वश्रूर्नवात्रदर्शनकण्ठगतजीवितां स्त्रुषाम्' इति च्छाया. १९
Page 153
१४६ काव्यमाला।
पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिताः' इति वाक्यार्थरूपो हे- तुर्निर्दिष्टः । उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः । साध्यसाधननिर्देशोऽनुमानम्। यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानमलंकारः। विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः । अन्यथा तर्कानुमानात्कि वैलक्षण्यम्। उदाहरणम्- 'यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्न: पथिकतरुखण्डे स्मरदवः ॥' अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्विलिङ्गानि त्रिरूपत्वाद्दवशब्दप्र- तिपादितं वहिं गमयतीत्यनुमानम्। रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण
न्तरेष्ववसेयम्। एवं च यत्रापि व्यङ्गयाश्रेषः स्यात्तत्रापि हेतोर्वक्यार्थपदार्थतयोपनिबन्धे न कश्चिदतिशयः । अथ साध्यप्रतीतये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेतू। तर्ह्यनुमानमेवेदं स्यान्नालंकारान्तरम्। साध्यसाधनस्य तल्वक्षणत्वेन वक्ष्यमाणत्वात्। एवं हे- तोर्वाक्यपदार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम्। उक्तवक्ष्यमाणनी- त्यानुमान एवान्तर्भावोपपत्तेः । साध्येत्यादि। एतदेव व्याचष्टे-यत्रेत्यादिना । एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तर्कानुमानसमानकक्ष्यमेवास्य लक्षण- मिति भावः । यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्गयाह-विच्छित्तीत्यादि । त- चानुमानं द्विधा। स्वार्थ परार्थ च। तत्र स्वार्थ यत्र मयायमवगतोरऽर्थ इति स्वपरामर्षस्य निश्चयः स्यात्। परार्थ तु यत्र परेणानवगतस्य वस्तुतः प्रतिपादनात्परप्रत्यायकत्वं स्यात्। एवं च। स्वार्थपरार्थभेदेन द्विविधमनुमानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् । उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्यैवोपपत्तेः । तत्र स्वार्थानुमानं यथा अ्रन्थकृतैवोदाहृतम्। तत्र हि स्मरदवो लभ्न इति स्वपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमा- र्थिकम्। ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति ।I' अन्न दिवासं- चरणस्य कार्यस्य विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः। रूपकमूलत्वेनेति। रूपक- १. 'रूपकमूलमेवेति' क.
Page 154
अलंकारसर्वस्वम्। १४७
क्वचित्तु शुद्धमपि भवति। येथा- 'यत्रैता लहरी चलाचलदृशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति संततममी मर्मस्पृषो मार्गणाः ।
घावत्यग्रत एव शासनघरः सत्यं सदासां स्मरः ॥' अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वेसाध्येऽनलंकृत- मेव साधनमिति शुद्धमनुमानम्। प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च वि- च्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः। इहास्ति प्रत्याय्यप्र- त्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः । तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतप्रत्यायने तु सम- थर्यसमर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम्। समर्थ्यसमर्थक- भावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वचि कर्क-
मन्तरेणानुत्थानात्। ननु चास्यालंकारान्तरगर्भीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमि- त्तम्। उतान्यदपि किंचिदित्याशङ्गयाह-क्वचिदित्यादि। अनलंकृतमिति। शास- नधर्मादेः प्रौढोक्तया वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तरगर्भीकाराभावातू। अतश्चास्य कविकर्मैव वैलक्षण्यनिमित्तमिति भावः। तदाह-प्रौढोक्तीत्यादि। एवं च कविकर्माभावाद्यन्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-'यो यत्कथा- प्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः।सभवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु ।'अंत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वर्तितत्वाभा- वान्नायमलंकारः । यथा-'प्रजानां विनयादानाद्रक्षणाद्भरणादपि। स पिता पितरस्त्वासां केवलं जन्महेतवः ॥' अत्र विनयादानादिहेतूनां वास्तवत्वादनलंकारत्वम्।न पुनरत्र हेतोरार्थ- त्वाभावादनलंकारत्वमिति वाच्यम्। कविकर्मण एवालंकारनिबन्धनत्वेनोक्तत्वात्। अर्थत्वस्य तदप्रयोजकत्वात्। न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणालंकारत्वं स्यात्। तच्छा- व्देऽपि हेतौ क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्युपगमे न कश्चिद्दोषः । ग्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम्। तन्मतमेवाधिकृत्य ह्ययमत्रेत्यादिना विचारः प्रस्तुतः । तत्रेति द्वयनिर्धारणे। प्रतीतेति। बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः । १. 'शुद्धमेव' क. २. 'यथा' इति ख-पुस्तके नास्ति.
१. 'शासनधरादेः' क.
Page 155
१४८ काव्यमाला।
शत्वात्' इत्यत्र न कश्चिदलंकारः यत्र तूपात्तस्य हेतुत्वं यथोदाहृते वि- षये 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षाः' इत्यादौ तत्रैव काव्यलिङ्गम्। यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव। तटस्थत्वेनोपन्यस्तस्य हेतुत्वेनार्थान्तरन्यासः। एवं चास्यां प्रक्रियायां कार्य- कारणवाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थकवाक्यस्य सापे- क्षत्वात्। ताटस्थ्याभावात्। ततश्र सामान्यविशेषभावोऽर्थान्तरन्यासस्य वि- षयः। यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तल- क्षणकाव्यलिङ्गमनाश्रित्य। तद्विषयत्वेन लक्षणान्तरस्यौद्भटैरनाश्रितत्वात्। उक्तलक्षणौश्रयणे तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्गस्या- र्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासस्य पूर्व दर्शितमितीयती गमनिकाश्रयितव्या। एवं तर्कन्यायमूलमलंकारद्वयमुक्त्वा काव्यन्यायमूला अलंकारा उच्यन्ते- उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासंख्यम् । ऊर्ध्व निर्दिष्टा उद्दिष्टाः। पश्चान्निर्देशोऽनूद्देशः । स चार्थादर्थान्तर-
न कश्चिदलंकार इति। हेतुमात्ररूपत्वात्। हेतुत्ववाचकं विनापि तदधिगमे ह्वस्य चारुत्वातिशय इति भावः । यद्वक्ष्यति-हेतुत्वप्रतिपादकमन्तरेणेति। उपात्तस्येति। पा- रिशेष्यात्पदार्थस्य वाक्यार्थस्य हेतुत्वेनोपादानाभिधानात्। एकमिति पदार्थगतम्। हेतुत्व- प्रतिपादक इति शब्दादिः । तटस्थत्वेनेति। न तु हेतुत्वेनेत्यर्थः । अत एव चानयो- र्भेदः। ततश्रेति पारिशेष्यात्। ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्य- कारणगतत्वेन समर्थकत्वमुक्तमित्याशङ्ग्याह-यत्पुनरित्यादि। लक्षणान्तरस्येति। पदार्थगतत्वेनैवेष्टेः । यदाहु :- 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ।I' इति। यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इ- त्याशङ्गयाह-उक्तेत्यादि। विविक्तविषय इति। ताटस्थ्यव्यतिरेकेण वाक्या- र्थस्य हेतुत्वाथोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः। आश्रयितव्येति। न पुनर्वस्तुतः संभवतीत्यर्थः । एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना। उद्दिष्टानामि-
१. 'इत्यादाविव' ख. २. 'हेतुत्वप्रतिपादकं' ख. ३. 'आश्रयेण' क. १. 'अत्राप्रवृत्ते:' ख.
Page 156
अलंकारसर्वस्वम्। १४९
गतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते। ऊर्ध्व निर्दिष्टानामर्थानां पश्चान्निर्दि- ष्टैरर्थैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः। अन्ये त्विममलंकारं क्र- मसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थ च द्विधा। शाब्दं यत्रा- समस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्या- तिरोहितस्य प्रत्येयत्वात्। आर्थ तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रम- संबन्धः प्रतीयते। तथात्र यथासंख्यस्यार्थत्वम्। आद्यस्योदाहरणम्- 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेघसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्र- तीतेः। शाब्दं यथासंख्यं यथा- 'कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥' अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभि: संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानुगमानुसा- रेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम्।
त्यादि। अर्थादिति। उद्दिष्टानामेव ह्यनुनिर्देशे पौनरुक्तयं स्यात्। सामर्थ्या- दिति। वाक्यपर्यालोचनबलातु। अन्य इति । वामनादयः। यदाहुः-'उपमेयोपमानां क्रम्संबन्धतः क्रमः' इति। अनेनास्य प्राच्योक्तत्वं दर्शितम्। अव्यवहितत्वेनेति। समासाद्यभावात्। अवयवानामिति। हरिकज्जलादीनाम्। न.चास्यालंकारत्वं युक्तम् । दोषाभावमाननरूपत्वात्। उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्कियमाणेSपक्रमाख्यो दोषः प्रस- ज्यते। यदुक्तम्-'क्रमहीनार्थमपक्रमम्' इति । तच्च यथा-'कीरतिप्रतापौ भवतः सू- र्याचन्द्रमसाविव' इति। दोषाभावमात्रं च नालंकारत्वम्। तस्य कविप्रतिभात्मकविच्कि
१. 'यथासंख्यम्' ख.
१. 'अस्य' क.
Page 157
१५० काव्यमाला।
एकमनेकस्मिन्ननेकमेकस्मिन्क्रमेण पर्यायः । कमप्रस्तावादिदमुच्यते। एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एक: पर्यायः। नन्वेकमनेकगोचरमिति प्राक्त्तनेन लक्षणेन विशेषालंकारोऽत्रोक्त:। तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्-क्रमेणेति। इह च क्रमोपादानाद- र्थात्तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्तविषयत्वम्। तथा- एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः । नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थ क्र्मेणेति योज्यम्। अत एव 'गुणक्रियायौगपद्यं समुच्चयः' इति समुचचयलक्षणे यौगपद्यग्रहणम्। अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम्। विनिमयाभावात्परिवृत्तिवैलक्षण्यम्। तस्या हि विनिमयो लक्षणत्वेन
निविशेषत्वेनोक्तत्वात्। तत्त्वे चास्य 'यथासंख्यमनुदेशः समानाम्' इत्यादिसूत्रोदाहरणानां तूदीशलातुरवर्मतीकुचवाराड्क्छण्ढञ्यकः' इत्यादीनामप्यलंकारत्वप्रसङ्गः । एतच्च वक्रो- क्तिजीवितकृता सप्रपञ्चमुक्तमित्यस्माभिरिह नायस्तम्। ग्रन्थकृता पुनरेतदुद्भटमतानुयायि- तया लक्षितम् । एवमासत्तिविप्रकर्षवतां तदपेक्ष उपदेशाक्र्म इति लक्षितः । क्रमोऽप्य- नलंकार एव। दोषाभावमात्ररूपत्वात्। आदिपश्चान्निर्देश्यानामतथानिर्देशे ह्वपक्रमाख्य एव दोष: स्यात्। यथा-'तुरङ्गमथ मातङ्गं मे प्रयच्छ मदालसम्।' अत्र गजाश्वयोरादि- पश्चान्निर्देश्ययोरप्यतथानिर्देशादपक्रमत्व्म्। अनयोश्च स्वस्थाननिर्देशे दोषाभावमात्रत्वम्। न पुनरलंकारत्वम्। तस्मात्। 'अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम्। परिच्छद- सुहृद्धन्धुविषयेन्द्रियजीवितैः ॥' इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात्। न चात्र तादकश्रिद्विशेष उपलभ्यते। येनानलंकारत्वं स्यात्। एवम्-'आस्तामस्तमयोऽह- मित्यभिमतेर्देहादिमात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि। अस्माकं वसुवेश्मनिष्कुटनदीसीमानुकेदारिकादेशक्ष्मेशदिगादिकेष्वपि कथं सा हन्त नास्तं गता ।' इत्यत्रापि ज्ञेयम्। एकमित्यादि। इदमिति पर्यायलक्षणम्। तदेव व्याचष्टे-एकमि- त्यादिना। एक इति द्वितीयापेक्षया। अतश्च द्वौ पर्यायौ। न पुनरेक एव 1. सामान्य- लक्षणायोगात्। अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ। यदाह-'एक क्रमेणा- नेकस्मिन्पर्यायः' इति। 'अन्यस्ततोऽन्यथा' इति च। ग्रन्थकृता त्वनयोरत्रान्यस्या- न्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक्त इति दूषणोद्भावनयैवं लक्षणं कृतम्। एवं क्रमे- णैकमनेकत्रान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति-नन्वित्यादिना। किमर्थमिति। विशेषालंकारेणैव तत्प्रतीतिसिद्धेः। अर्थादिति। पारिशेष्यात्मका-
Page 158
अलंकारसर्वेखम्। १५१
वक्ष्यते। तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः । तच्च द्वैविध्यमांधा- राघेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि- 'नन्वाश्रयस्थितिरियं किल कालकूट केनोत्तरोत्तर विशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोडथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।' 'विसृष्टरागादघरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात्। कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥' 'निशासु भास्वत्कलनूपुराणां यः संचरोडभूदभिसारिकाणाम्। नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्घेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत्। तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ॥' अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम्। करश्चैकोऽनेकस्मिन्संहते क्रमवान्। अधरकन्दुकयोर्निवृत्त्युपादानतया सं- हृतत्वेन स्थितत्वात्। अभिसारिकाः शिवाश्चानेकस्वभावा असंहतरूपा त्सामर्थ्यादित्यर्थः । तेनेति। क्रमयौगपद्यरूपत्वेनेत्यर्थः । तत इति। विशेषात्। तथे- त्यादि। अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना। अत एवेति। विशेषसमुच्चययोर्योगपद्यसंभवात्। अन्वर्थमिति। 'परावनुपात्य इण' इत्यनेनानुपात्यये गम्यमाने घञो विहितत्वातू। अतश्चास्यैव क्रमार्थाभिघायित्वात्क्रमोऽपि पृथगलंकारतया न लक्षणीयः । अथात्रारोहावरोह्योरधिकयोः प्रतीतिरस्तीति युक्तमेवास्य पृथग्लक्षण मिति चत। एवं तर्ह्याधाराधंयानां परस्परं विलक्षत्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात्। तयोर- प्यधिकयो: पर्याये संभवात्। न चात्र तावत्कश्चिदतिशय उपलभ्यते। येन पृथगलंकारत्व- मपि स्यात्। एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्द्ेदत्वे निमित्तम् । न पुनः पृथगलंकारतायाम्। एकस्यानेकत्रान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्या- त्राप्यनुगमात्। एवं 'यदेकस्मान्निवृत्तोरऽर्य आधारान्तरमाश्रयेत्। स पर्यायो निवृत्तौ तु क्रमोडयं बहुधा स्थितः ॥I' इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् । निवृ्त्यनि- वृ्त्त्योर्विच्छित्तिविशेषत्वाभावात्। तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रणयनं नवन- वालंकारप्रदर्शन हेवाकमात्रमेवेत्यलं बहुना॥ ननु चैकानेकरूपस्य वस्तुनोऽन्यत्र प्राप्ते: प- रिवृत्तिरेवायं किं नेत्याशङ्गयाह-विनिमयेत्यादि। संहतरूप इति। संघातरूप १. 'आधाराधेयमिति' ख.
Page 159
१९२ काव्यमाला।
एकस्मिन्नाश्रये राजपथे क्र्मवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादि- वर्गः पेत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपोडनेकः क्रमवानुपनिबद्धः । समन्यूनाधिकानां समाधिकन्यूनैविनिमयः परिवृत्तिः। विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम्। समेन तुल्यगुणेन त्या- ज्यमानेन तादशस्यैवादानम्। तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्यो- त्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः। क्रमप्रतिभासंभवात्पर्या- यानन्तरमस्या लक्षणम्। समपरिवृत्तिर्यथा- 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत। हिरण्याक्षवघाह्येषु यशः साकं जयश्रिया ॥' अत्रोरोयशसोस्तुत्यगुणत्वम्। अधिकपरिवृत्तिर्यथा- 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ।।' अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरि- वृत्तिर्यथा- 'अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः। येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ।'
इत्यर्थः । अस्येति शव्दसामान्यमवलम्ब्योक्तम्। असंहते इति। आश्रयाणामनेक- त्वात्। क्रमेणेति। हृदयाद्यनुक्रमात्। एवमप्येकस्यैव कालकूटस्योत्तरोत्तराधिकस्थाना- सादनादारोहणप्रतीतिः । अवरोहो यथा-'शिरः शार्व स्वर्गात्' इत्यादि। अत्र गङ्गाया उत्तरोत्तरस्थानासादनम्। संहते इति। अधरकन्दुकादेरनेकस्याश्रयत्वात्। क्रमव- तिन्य इति। अभिसारिकाशिवानामतीतवर्तमानकालावच्छिन्नत्वात्। मुग्धत्वादीनां ब- हुत्वाद्वर्गत्वम्। समन्यूनेत्यादि। एतदेव व्याचष्टे-विनिमय इत्यादिना । ता- दृशस्येति। तुल्यगुणस्येत्यर्थः । अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्ग- म्यमानमौपम्यम्। एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम्। अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात्। अतश्चात्र शब्दोपात्तदधति (?) । क्वचित्सामर्थ्यलभ्यं तदिति १. 'पत्नीत्वादिवर्गश्र' ख. २. 'समानाधिकन्यूनैः' ख. १. 'अतः' इत्यारभ्य 'सामर्थ्यलभ्यम्' इत्यन्तं ख-पुस्तके नास्ति.
Page 160
अलंकारसर्वस्वम्। १५३
अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । 'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः। किं त्वपहरसि मनो यद्ददासि, रणरणकमेतदसत् ।।' अत्राद्ये समपरिवृत्तिः । द्वितीयार्धे न्यूनपरिवृत्तिः | एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या। एकानेकप्रस्तावादिह वचनम्। एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तैस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या। केस्यचित्प- रिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रश्न- पूर्विका तदन्यथा वेति प्रथमं द्विधा। प्रत्येकं च वैर्जनीयत्वेऽस्य शान्द- त्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः । क्रमेण यथा- 'किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । निर्यमस्य त्रिरूपत्वात्।क्र्मप्रतिभासेति। त्यागादानयोः पौर्वापर्येण करमिकत्वात्। तु- ल्यगुणत्वमिति। वैपुल्यादिना साधारणधर्मस्यानुगामितया पुनरत्र तुल्यगुणत्वं यथा- 'सुधावदातं पाण्डत्वं विनिधाय कपोलयोः । भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥' सुधावदातमित्यस्यानुगामित्वम्। बिम्बप्रतिबिम्बभावो यथा-'लतानामेतासामुदित कुसुमानां मरुदसौ मतं लास्यं दत्वा श्रयति भृशमामोदमसमम्। लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्ददत्याघिव्याधिभ्रमरुदितमोहव्यतिकरम् ।' अत्र मतासमत्वयोर्बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा-'मनोहरं स्वं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि। म- ध्वाददानो मधुपायिलोक: पद्माकराणामनृणीबभूव ।।' अत्र मनोहरत्वचित्तहारित्वयोः शु- द्वसामान्यरूपत्वम् । आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते। वल्कलस्य पुनर्वा- र्धकशोभीत्यनेन स्वयमेव न्यूनत्वमुक्तम्। एवं कलेवरयशसोरपि जजरोज्ज्वलत्वेन न्यूना- धिकत्वमुक्तम। ऐतच्चास्य प्राच्यैरप्युक्तमिति रुद्रटोदाहरणेऽपि समपरिवृत्त्यादि योजयति- दत्वेत्यादिना। एकानेकेति। पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात्। असं- भाव्य इति। कविप्रतिभानिर्वर्तितत्वाभावाल्लोकोत्तर इत्यर्थः । न पुनः प्राप्तिविषयत्वेना- संभाव्यत्वं व्याख्येयम । सर्वथाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या। अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम्। अपवर्जन इति। 'अप परीवर्जने' इति वचनात्। सेति। यथोक्तरूपा। एषेति। परिसंख्या। किं भूषणमिति १. 'तस्यासंभाव्य एकत्र' ख. २. 'परिवर्जने कस्यचिद्वंर्जने' ख. ३. 'वर्जनी- यत्वस्य' क. १. 'विनिमयस्य' ख. २. 'अतश्चास्याः' ख.
Page 161
१५४ काव्यमाला।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥' 'किमासेव्यं पुंसां सविधमनवद्यं द्ुसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥' 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिद्ृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाघरदलेषु रागस्ते। काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ॥' अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्य- वच्छेद्यं वेस्त्वन्तरशब्दमात्रं वेति नियमाभावः। अलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम्। यथा- 'विलङ्धयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि। विभर्ति यस्यामपि वक्किमाणमेको महाकालजटार्धचन्द्रः ॥।' यथा-'चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि' इत्यादि श्रे-
प्रश्नपूर्वकत्वम्। न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम्। न पुनरीश्वरादि सेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम्। अत्रेति। एषूदाहरणेषु। अलौकि- कमिति। कविप्रतिभानिर्वर्तितम्। गरह्यमाणमिति। विधीयमानतया। वस्त्वन्त- रव्यवच्छेद इति। अर्थान्तरनिषेधमात्रतात्पर्यात्। नियमाभाव इति। न ह्यन्र व्यवच्छेद्यस्य शाब्दत्वार्थत्वाभ्यां कश्चिल्लक्षणभेद इति भावः । अलौकिकत्वाभिप्राये- णेति। न हि 'पञ्च पञ्चनखा भक्ष्याः' इत्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः । क्वचि- दिति। कुत्राप्यप्रश्नपूर्वकत्वमपि भवेदिति भावः। श्लेषसंपृक्तत्वमिति। श्रेषशब्द-
१. 'लौकिकं' ख. २. 'वस्त्वन्तरं शाब्दमार्थ वेति' ख.
१. 'निवर्तितम्' क.
Page 162
अलंकारसर्वस्वम्।
पसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसंख्ययोर्वी- क्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सा- मानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।
तथा चारुत्वं भवतीति प्रयोजनम्। अत्यन्तेति। पूर्वोदाहरणेभ्यः । ननु नियमपरिसंख्य भिन्नलक्षणे प्रसिद्धे इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्गयाह-अत्रेत्यादि। वाक्यविदो मीमांसकाः । यदाहु :- 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चा- न्यत्र च प्राप्ते परिसंख्या निगद्यते ॥' इंते। अन्नायमथः। इह कस्यचिदथेस्य ननियमनाज्ञातस्य विधि: क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्यवस्यति तदां नियमविधिः। पुनरज्ञातज्ञापन- मात्रपर्यवसित एव भवति। तेन नियमे 'व्रीहीनवहन्ति' इत्यादाववघातमात्रपर्यवसायित्व- मेव। दलनादेरपि निषेध्यत्वेन पर्यवसानात्। नापि निषेधमात्र एव तात्पर्यम्। अवघाता- भावे विध्यनिष्पत्तेः । सर्वप्रकारप्ाप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधि: क्रियमाणोऽर्थान्त- रनिषेधमात्रार्थमेव यत्र पर्यवस्यति सा परिसंख्या। तेन 'पञ्च पञ्चनखा भक्ष्याः' इत्यादाव- न्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव। न पुनरेतत्पञ्चनखभक्षणकर्तव्यतापि। तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात्। नादरणीय- मिति। अनेनैव लक्षणेनोभयोः संग्रहात्। तथा हि नियमे 'समे देशे यजेत' इत्यादौ या- गस्य समविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम्। परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम्। नन्वत्र पश्चपञ्चनखान्तर- निषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्ये- तल्लक्षणमिति चेतू। सत्यम्। अस्ति तावदामुखे पञ्चपश्चनखविषये भक्षणे विधिः। यदा- स्थार्थान्तरनिषेधपर्यवसायित्वं तदेव जीवितभूतत्वेने हालंकारत्वप्रतिष्ठापकम्। तच्च नियम- परिसंख्ययो: समानम्। अथ नियमे विधिनिषेधयोर्वक्यार्यत्वं परिसंख्यायां च निषेधस्यैवे- त्यनयोर्महान्भेद इति चेत्। न। अस्ति तावद्विघेरर्थान्तरे निषेधपर्यवसायित्वं समानं यन्निबन्धनमनयोरलंकारत्वम् । यत्तु नियमे विधावपि तात्पर्य न तु परिसंख्यायाम्। तदनौ- पयिकत्वादिहानादरणीयम्। न हीह पञ्चानां पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामनयोरलंकारभेद: स्यात्। तथात्वे च सर्वालंकारभेदानां भेदहे-
च्यम्। तदाह-अत एवेत्यादि। स्वीक्रियत इति। भेदत्वेनेत्यर्थः । सा च यथा-'किमासेव्यं पुंसाम्' इत्यादौ। घुसरित्तटेश्वरयोः सेवाया, न युगपत्संभावनमिति नि- षेधपर्यवसायी घुसरित्तट एवैकन सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम्। १. 'भेदहेत्वतिशयांशसंभवात्' ख.
Page 163
१९६ काव्यमाला।
देण्डापूपिकयार्थान्तरापतनमर्थापत्तिः। दण्डापूपयोर्भावो दण्डापूपिका। 'दण्डमनोज्ञादिभ्यश्च' इति वुञ्। पृषोदरादित्वाच्च वृद्यभावः । यथा-अहमहमित्यादाविति केचित्। अन्ये तु दण्डपूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थीयष्टन्नित्याहुः । अपरे दण्डापूपाविव दण्डापूपिकेति ईवे प्रकृताविति कनं वर्णयन्ति। अत्र हि मूषककर्तृकेण दण्डभक्षणेन तैत्सहभाव्यपूपभक्षणमर्थात्सिद्धम्। एवं न्यायो दण्डापूपिकाशब्देनोच्यते। ततश्र यथा दण्डभक्षणादपूपभक्षणम- र्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणादर्थान्त- रमापतति सार्थापत्तिः ।
दण्डापूपिकयेत्यादि। शब्दयोजनां तावदाह-दण्डेत्यादि। द्वन्द्वसंज्ञकत्वादस्या- नेन वुञ्। शैष्योपाध्यायिकेतिवत्। ननु चास्य ज्णति चेति जित्वाद्वृद्धिः किं न भवतीत्या- शङ्गयाह-पृषोदरेत्यादि। यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभाजां शब्दानां व्याक- रणशास्त्रेण लोपागमवर्णविकारादि यदविहितं तद्भवति। लक्ष्यमूलत्वाद्याकरणस्य। तेना- त्राविहितोSपि वृद्धयभावोऽनेन सिद्धः । इतिशब्दो हेतौ । 'अत इनिठनौ' इति ठनू। एतच्च पक्षत्रयं सामान्येनैवाभिदधता ग्रन्थकृता स्वयमेवोपन्नः पक्ष आश्रयणीय इति सूचि- तम्। तेनात्राद एव पक्ष आश्रयणीयः । पक्षान्तरयोरनुपपत्तेः । तथा चात्र 'एकाक्षरात्कृतो जाते: सप्तम्या च न तौ स्मृतौ' इत्याद्युक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति। अथापि विषयनियमार्थस्येति करणस्यात्रापि संबन्धादिहापि भवतीति चेतू। न । एतद्धि नियतोदाहरणविषयम्। अन्यथा हि निषेधकस्याकरणप्रसङ्ग एव स्यात्। अहमहमिकाश- व्दस्य पुनरेतदत्यन्तमेवायुक्तम्। अदन्तात्प्रातिपदिकादनो विहितत्वात्। कनोऽप्यत्र न प्राप्तिः। तस्य प्रकृतौ गम्यमानायामिवार्थे, वर्तमानात्प्रातिपदिकादुक्तत्वात्। अदन्तात्प्रा- तिपदिकादुक्तत्वात्प्रकृत्यभावाच्च कन्न भवति। अन्यथा हि गौरिव गवय इत्यत्रापि कनः प्रसङ्ग: । तदित्थमाद्य एव पक्षो ज्यायान्। नन्वत्र किमर्थसिद्धया तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशङ्गयाह-अत्रेत्यादि। एतदेव प्रकृते योजयति-ततश्चेत्यादिना। सामान्यन्यायत्वलक्षणादिति। येनैव न्यायेनै- १. 'दण्डापूपिकायाम्' क; 'दण्डापूपिकायार्थापतनमर्थापत्तिः' ख. २. 'एवमहो शक्तो- Sहं शक्तोऽस्यामिति' क.३. 'मत्वर्थे' ख. ४. 'इव प्रकृताविति' ख. ५. 'तत्सहभाव्यपूपा- भक्षणं' ख. १, 'जातौ' ख, २. 'सप्तम्यांशयुतौ स्मृतौ' ख,
Page 164
अलंकारसर्वस्वम्। १५७
न चेदमनुमानम्। समन्याय्यस्य संबन्धरूपत्वाभावात्। असंबन्धे चानुमानानुत्थानात्। अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेने- हाभिघानम्। इयं च द्विधा। प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्प्राकरणिकस्यार्थापतनं द्वितीयः प्रकारः । आद्यो यथा- 'पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥' अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा- 'धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम्। रिपुसंज्ञकेषु गणना केव वराकेषु काकेषु॥' अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षिपति। क्वचिन्यायसाम्ये निमित्तं क्लेषेण गम्यते- 'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्को भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विधौ वक्रे मूर्धनि प्रभवति वयं के पुनरमी ॥' अत्र विधौ वक्रे इति श्लिष्टम्। अप्राकरणिकस्थाणुवृत्तान्तात्म्नाकर- णिकार्थापतनम्।
कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः । नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्ग्याह-न चेदमित्यादि। संबन्धरूपत्वाभावादिति। दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव दण्डभक्षणेSपि पृथक्प्रवेशावस्थाना- दिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात्। अनुमानं पुनर्नियतमेवार्थादर्थान्त- रस्यापतनमित्यस्याः पृथग्भावः । इहेति। वाक्यन्यायमूलालंकारप्रस्तावे। द्विविधेत्यनेना- पततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचिंत्र्यावहमिति सूचितम्। आपत- तः पुनररर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम्। तत्रोपादाने ग्रन्थकृतैवो- दाहृतम् । अनुपादाने यथा-'श्रीशारदापादरजःपवित्रैः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः । यत्रोह्मसन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः ॥' तत्र गर्भरूपेभ्योऽन्येषां का
Page 165
११८ काव्यमाला।.
तुल्यबलविरोधो विकल्प:। विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुत्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्ध- त्वादेव यौगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाच्चान्र चारुत्वम्। यथा- 'नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्िष्टत्वम्। सं- धिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे। प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात्। द्वौ चेमौ विरुद्धाविति तयोर्युगपत्प्रवृत्ति प्राप्तुतश्वात्र यु- गपत्प्रकारान्तरस्यानाशङ्कयत्वात् । ततश्र न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलंकारता। एवं कर्णपूरीक्रियन्तामि- त्यादौ योजनीयम्। औपम्यगर्भत्वाच्च क्वचिच्छेपावलम्बेनाप्ययं दृश्यते। यथा-
वार्तेत्यापतदर्थान्तरमनुपात्तम्। श्ेषेणेति । श्रेषमूलयातिशयोक्त्येत्यर्थः । तुल्ये- त्यादि। एतदेव व्याचष्टे-विरुद्धयोरित्यादिना । तुल्यबलत्वादेवैकस्यापि बाधाभावान्नैकतरग्रहणम्। तच्च द्वयोरपि युगपत्प्राप्तिः । न च विरुद्धयोरेतदुज्यते इत्यत्रै- कस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः । अत एव नियतोभयपक्षावलम्बी विकल्पः । ननु च 'यवैव्रोंहिभिर्वा यजेत' इति वास्तवत्वाद्वि- कल्पादस्य को विशेष इत्याशङ्गयाह-औपम्येत्यादि। औपम्यं साधारणधर्मनिबन्धन- मिति तस्याप्यत्र त्रैधम्। एवं च यत्रैवौपम्यगर्भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा-'निन्दन्तु नीतिनिपुणा अथ वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥' अत्रौपम्य- गर्भत्वाभावाद्विकल्पमात्रत्वम् । विकल्पवृत्तं चात्र दर्शयति-अत्रेत्यादिना । क्र- मेणेति। शिरोनमने संधिर्धनुर्नमने विग्रहश्रेति। स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम्। द्वौ चेमाविति। संधिविग्रहौ। अनयोविरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयोविरु- द्धत्वम्। तयोरिति। शिरोधनुर्नमनयोः । प्रकारान्तरस्येति ।यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत्। ततश्चेति । विरुद्धयोर्युंगपत्प्रवृत्त्यसंभवान्न्याय प्राप्तत्वेनास्या- नुन्मूल्यत्वमुक्तम्। अत एव चैतदभाववादिनामन्यायवादित्वमपि सूचितम्। अत्रौपम्यक- तमेवालंकारत्वमित्याह-नमनेत्यादि। तेनात्र नमनाख्यस्य समानधर्मस्यानुगामित- यैक्यरूपेण निर्देशः । वस्तुप्रतिवस्तुभावस्तु यथा-'सरष्टुं विधातुरुचितं मुखमेव चश्नद्कं नतभ्रु तव कान्तिविलोकितेषु। एणाङ्कबिम्बमथ वा विवलत्कलङ्गमेंकं न यद्विहित एप जगत्प्रकाश: ।' अत्र चश्चद्विवलत्वयोः शुद्धसामान्यरूपत्वं भ्रूकलङ्गयोबिम्बप्रतिबिम्बगवः।
Page 166
अलंकारसर्वेस्वम्। १५९
शयनी नीलोत्पलस्पर्धिनी ध्यानालम्बनता समाधिनिरतैरनीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्दशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥' अन नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणं श्िष्टत्वम् । न चात्र समुच्चये वाशब्दः। संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्र- योगाभावात्। ननु विरोधनिमित्तो विकल्पः कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव [न]कार्यम्। कृतं च त- त्स्पर्धिभावं गमयति। स्पर्धिभावश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात् । से चात्र श्लेषाच्छिुष्टः। लिङ्ग श्लेषस्य वचनश्लेषस्य चात्र दृष्टः । तस्मात्समुच्चयप्रतिपक्षभूतो विक- ल्पाख्योऽलकारः। पूर्वैरकृतविवेकोऽत्र दर्शित ईत्यवगन्तव्यम्। गुणक्रियायौगपद्यं समुच्यः। गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव क्रियाणां च समुच्चयो- Sलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः। क्रमेणं यथा- 'विदान तसकलारिकुलं तव बलमिदमाशु विमलं च । प्रखठमुखानि नराधिप मलिनानि च तानि जातानि ॥' उत्तमत्वादिति। दयोरपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात्। ननु च नेत्रे * तनुश्चेत्यत्र समुच्चय एव किं न भवतीत्याशङ्गयाह-न चात्रेत्यादि। गताविति। शब्दस्य समुच्चयार्थलक्षणायाम्। तथेति। समुच्चयार्थपरतयेत्यर्थः। न ह्यत्र समुच्चयार्थो विवक्षतः । एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह-न- न्वित्यादि।न कार्यमिति। तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात्। कृतमिति। पृथगभिधानम्। हपर्धिभावमिति। अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्ात्। स्पर्धिभावादित । तुल्यत्वात्। अ(सु)प्रत्येयत्वादिति । सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरास कृतः । स इति । विकल्पः । एतदेवोपसंहरति-तस्मादित्या- दिना। समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम्। अनेनास्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम्। गुणक्रियेत्यादि। तथैवेति। यौगपद्यावस्थानेनेत्यर्थः । स्य' ख. ३. 'स चात्र श्लेषः श्रिष्टः' ख. ४. 'इ-
Page 167
१६०
'अयमेकेपद तथापच1.Grihmimo Jmmmm नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥' एतद्विभिन्नविषयत्वेनोदाहरणम् । एकाधिकरणत्वेनाप्ययमलंकारो ह- ्यते। यथा- 'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम्। शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेङ्मत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' एवं गुणसमुच्चयेऽप्युदाहार्यम्। केचित्पुनर्न केवलं गुणक्रियाणां व्यस्त- त्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति। उदाहरणम्- 'न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम्। उच्ूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः सास्त्ु च वर्तते रसवसादेकैकमन्यक्रियम् ॥' अत्राकेकरादयो गुणशब्दा न्यन्चदित्यादयः क्रियाशब्दा डते सामस्त्येन गुणक्रियायौगपद्यम्। प्रसादिसप्रमेत्यादीनां समासकृत्तद्वितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्। तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुपयौगपद्यमिति अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम्। नैर्मल्यमालिन्योर्गुणयोरुपनम- नभवनयोश्च क्रिययोर्यौगपद्येनावस्थानम्। विभिन्नविषयत्वेनेति। गुणादीनां बलमु- खादिविषयगतत्वात् । अतश्च भिन्नाधिकरणोऽयं समुच्यः । एकेत्यादि । यद्यप्यत्र श- यनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवत्कालान्तरभाविवान्न यौगपद्येनाव- स्थानम्। तथापि तन्नैरन्तर्येण ज्ञेयम्। एवमिति। यथैवात्रैकविषयनन शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा-'सितं ज्योत्स्नाजालैररुणरुचि संध्याकरभरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च। नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतु- रमधुना चित्रितमदः ॥' अत्र सितादीनां गुणानामेकाधिकरणत्वे युगपदवस्थानम्। ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्ततसादीत्यादयः पुनः किं शब्दा इत्याशङ्क १. 'निरातपत्व
Page 168
अलंकारसर्वेस्म्। १६१
द्रष्टव्यम्। एवमयं त्रिघा मच्चयः। एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति- एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च। समुच्चय इत्येव यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्ान्त- स्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति। तत्र ह्येकस्य कार्य प्रति पूर्ण साधक- त्वम्। अन्यस्तु कार्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते। यत्र तु खले कपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्भे- दोऽनयोः । स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते। सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा- 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मी: प्रभुत्वमखण्डितम्। प्रकृतिसुभगा एते भावा अमीभिरयं जनो व्रजति नितरां दर्प राजँस्त एव तवाङ्कशाः ॥'
एवमित्यादिना। त्रिधेति। गुणानां क्रियाणां गुणक्रियाणां च यौगपद्येनावस्थानात्। भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपञ्च एवेतिन पृथगिहोपात्तः । लक्षय- तीति। एकस्येत्यादिना। ए[क:] कस्यचिदिति। यत्र यादृशो विवक्षितस्य। स्प- ्धयेति। प्रक्रान्तस्य हेतोः । तत्सिद्धिमिति। कार्यनिष्पत्तिम्। अपर इति। पूर्वसमुच्चयात्। भिन्नलक्षणत्वात्। ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशङ्म्याह-न चेति। पूर्णमिति। अन्यनिरपेक्षमित्यर्थः। आकस्मिकमा- पततो हि कारणान्तरस्य सौकर्येण मुखेन स्वरूपोपचयाधायित्वेन सुष्टुकार्यनिष्पत्तिः प्रयो- जनम्। समुच्चये पुनः स्पर्धयैव बहूनामेककार्यकारित्वम्। अत एवात्र खले कपोतिकयेति निदर्शनीयम्। एवं च-'सोबाणारुहणपरिस्समेण कीस्सविजे विनिस्सरिआ। तेस्वि अ- हरिदः सनवइअरेणस्सा साणवाच्छिण्णा: (I' इत्यादौ समुच्चय एव। सोपानारोहणपरिश्रम- स्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्वयवच्छेदनिषेधमुखेन श्वासकारित्वोपनिब- न्धात्। अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता कारणान्तरेण कार्य- सौकर्य लक्षणम्। न चात्रैतत्संभवति। न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणा- न्तरस्यापतनम्। तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात्। नापि तद्योगात्कार्यस्योपोद्व- १. पुस्तकद्वयेऽप्येषा गाथास्फुटैव. २१
Page 169
१६२ काव्यमाला।
अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः । एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम्। यथा- 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणाः कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥' अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां ताद्ृशैरेव प्रियतमादूरत्वा- दिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, त- थापि विरहविषयेनात्राशोभनत्वं ज्ञेयम्। सदसतः शोभनाशोभनस्य ताढ- शेन सदसता समुच्चीयमानेन योगो यथा- 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृति। प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥।' अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदस- तस्ताद्शैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः शोभनः । अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गनगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्ताद्ृशेना- सता योगः । नैतत् । 'नृपाङ्गनगतः खलः' इति प्रत्युत प्रक्रमभङ्गाह्दुष्टमेव। न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत्।
लनात्मकं सौकर्ये हरिदर्शनस्यापि सोपानारोहणपरिश्रमस्पर्धतया तत्कारित्वमात्रस्यैव वि- वक्षितत्वात्। अत एव 'णवोवाच्छिण्णा' इत्युक्तम्। शोभनैरिति। भद्रत्वादिति यो- गातू। ननु दूरनिर्वासितत्वादिना प्रियादीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपी- त्याशङ्ग्याह-नवेत्यादि। तादशैरेवेति। सदसद्भिः । कामिन्यादीनां स्वतः शो- भनानामपि गलितयौवनादेरशोभनत्वात्। अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याश- इयाह-नन्वित्यादि। तादृशेनेति । समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति। १. 'स्वाकृतेः' ख. २. 'इत्युत्प्रेक्ष्यमेवैतत्' क.
Page 170
अलंकारसर्वस्वम्। १६३
अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थदुष्ट एवेत्युक्तम् । प्रकृते तु नृ- पाङ्गनगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम्। एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तम्। विशेषणस्य त्वशोभनत्वमिह त्वन्यथेति न सर्वथा निरवद्यम्। ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः । नैतत्। इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा। तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोर्भेदः। अत एवैकत्रोपसंहृतं 'म- नसि सप्तशल्यानि' इति। सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात्। अपरत्र तु 'कथ सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण। तस्मादस्ति प्र- कारत्रयस्य विविक्तविषयत्वम्। कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः। केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्य सम्यगाधानात्स- माधिः। समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः। तद्वैलक्षण्यं तु प्राक्प्रतिपा- दितमेव। उदाहरणम्- 'मानमस्या निराकर्तु पादयोमे पतिष्यतः । उपकाराय दिष्ेदमुदीणे घनगर्जितम् ।।' माननिराकरणे कार्ये पादपतनं हेतु: । शोभनानामुपक्रमेऽप्यशोभनस्य निर्देशात्। अत एवेति। सौन्दर्यनिमित्तत्वाभावात्। अन्यैरिति। काव्यप्रकाशकारादिभिः। तत्तु यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्गिन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ।।' अत्र श्रुतिधृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेम्यो व्यसनमूर्खतयोर्निकृष्टयोभिन्नत्वम् । एवमपीति। सत्यामप्यस्यां समर्थनायाम्। न समर्थेति। अनेनापि मार्गेण क्रमभे- दोपपत्तेः। असद्योगसदसद्योगौ भेदयति-नन्वित्यादिना। इहेति। प्रकृते सदस- द्योगोदाहरणे। तत्रेति। असद्योगोदाहरणे। अत एवेति। शोभनस्य सतोऽशोभन- त्वेन विवक्षणात्। सोढव्य इत्युपसंहृतमित्यत्रापि संबन्धनीयम्। एतदेवोपसंहरति- तस्मादित्यादिना। प्रकारत्रयस्येति। प्रकारद्वयस्य ताव्वेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीयस्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम्। कारणेत्यादि । एतदेव व्याचष्टे-केनचिदित्यादिना। सौकर्यमिति। कार्यस्य सुखेनानायासमेव प्रकृतकारणवशेन निष्पन्नत्वेऽपि स्वरूपोपचयाधायकत्वेनाकृच्छार्थस्योपलक्षणपरत्वेन विव- क्षितत्वात्सुष्ठु वा करणमित्यर्थः। अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्ट वा का-
Page 171
१६४ काव्यमाला।
तत्सौकर्यार्थ घनगर्जितस्य कारणान्तरस्य प्रक्षेपः। सौकर्य चोपकारा- येति पदे प्रकाशितम्। एवं बाह्यन्यायाश्रयिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणोऽलं- कारा उच्यन्ते। तत्र- प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम्। यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकार: कर्तु न श- क्यते इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्य- नीकम्। अनीकस्य सैन्यस्य प्रतिनिधि: प्रत्यनीकमुच्यते। तत्तुल्यत्वादि- दमपि प्रत्यनीकमुच्यते। यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते । तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्ष- गतत्वेन बलवत्त्वख्यापनं प्रयोजनम्। यथा-
रणस्य भेददयमपि ज्ञेयम्। प्रागिति समुच्चये। हेतुरिति। प्रकृतः । तत्सौक- य्यार्थसिति। सुखेन कार्यनिष्पत्यर्थमित्यर्थः । यद्याकस्मिकघनगर्जितयोगो न स्यात्तन्नि- रासमाननिराकरणं न सिद्धेत्। एतच्च प्रथमप्रकारस्योदाहरणम्। द्वितीयस्य यथा-'स्त्रैणं लीलाभरणमभितस्त्रोटयित्वा श्रमाम्भ: शक्त्या पत्रावलिमृगमदव्यञ्जितरमश्रुदेहः । केलि- क्षोभ: कुवलयद्दशां मान्मथे कार्यभावे पुंवद्भावं घटितमभितः पारिपूर्ण्य निनाय ॥' अत्र स्वेदादिना घटितस्यापि पुंवद्भावस्य के लिक्षोभाख्येन कारणान्तरेण स्रैणाभरणत्रोटनादिना स्वरूपोपचयाधानात्समाधिः। एवमेवमादावव्यापकमेतल्लक्षणमिति यदन्यैरुक्तं तत्तेषामे- तल्लक्षणस्वरूपानवधारणमेवेत्यलं बहुना। एतदुपसंहरन्नन्यदवतारयति-एवमित्या- दिना। तत्रेति निर्धारणे। प्रतिपक्षेत्यादि। एतदेव व्याचष्टे-यत्रेत्यादिना। बलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः। तत्संबन्धिन इति।बलवत्प्रतिपक्षमत्कस्य। तत्संबन्धित्वं च सादृश्यादिसंबन्धमूलम्। दुर्बलस्येति। तस्यापि हि बलवत्वे दुर्बलेन प्रतिपक्षेन प्रतीकार: कर्तु न शक्यत इति भावः । तमिति। सबलं प्रतिपक्षम् । बाधितुमिति । अन्यथा हि निष्प्रयोजनस्तदीयतिरस्कार: स्यात्। क्रियत इति। दुर्बलेन प्रतिपक्षेण। नैतत्संज्ञामात्रमित्याशङ्गयाह-अनीकस्येत्यादि। तुल्यत्वमेव दर्शयति-यथेत्यादि । किं चात्र प्रयोजनमित्याशङ्ग्याह-प्रतिपक्षे- १. 'बाधयितुं' ख. १. 'मेघघनगर्जित' क. २. 'एवमादौ' ख. ३. 'कर्तु शक्यः' ख.
Page 172
अलंकारसर्वखवम्। १६५
'यस्य किंचिद्पकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवक्रसदशाकृति कृती राहुरिन्दुमधुनापि बाधते ।।' अत्र राहो: सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वक्रसादृश्य- मुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्गवतः प्रकर्षावगतिः । उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्। उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलो- चनं क्रियते तदेकं प्रतीपम्। उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादर- णार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम्। क्र्मेण यथा-
त्यादि। बलवत्त्वाख्यापनमिति। अप्रतीकार्यत्वात्। अत्रेत्यादि। वक्रसादृश्य- मुखेन तदीय इति संबन्धः । तत्तिरस्कारादिति। न पुनस्तत्स्वीकारात्। बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात्। अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम्। प्रकर्षोSप्रतीकार्यत्वम्। एतेन चास्य प्रयोजनं दर्शितम्। अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुनिन्दाद्वारेण बलवतः प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुति प्रतिपादने तात्पर्यम्। उपमानस्येत्यादि। कैमर्थक्येनेत्यादि। तक्वापारस्यो- पमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपसानान्तरेति। उपमानानां मध्ये। अनाद- रणार्थमिति। उपमानत्वेन नैतदयोग्यमिति यावत्। पूर्वोक्तगत्येति । उपमेयस्यो- पमानप्रतिकूलवर्तित्वात्। अनेनोभयत्रापि नैतत्संज्ञामात्रमित्युक्तम्। एकं द्वितीय मित्यभिद- धता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्यु- क्तम्। उपमाप्रकारत्वं चानयोन वाच्यम्। उपमानस्याक्षेपादुपमेयकल्पनाच। न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणध- र्माणामस्ति त्रैविध्यम्। एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम्। तेन 'णिद्श्रअ वन्दिज्जिअ किं किरऊ देवआहिं अण्णाहिं। जिइ पसाएण पिओ लघइ दूरे- वि णिवसन्तो ।I' इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम्। अत्र हि देवतान्तराणां तथा सा- मर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलन्धिदायिन्या निद्राया विरहिणीकर्तकं वास्तवमेव वन्धत्वम्। वस्तु च नालंकार इति निर्विवाद: । कुवलयदलदाम्नामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः । अन्यथा हि तदाक्षेपो निरर्थकः स्यात्। एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्विलासाः । किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥' इत्यन्नापि ज्ञेयम्। अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा कि- १. 'तिरस्कारकर्तुः' ख.
Page 173
१६६ काव्यमाला।
'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदल- माल्यानि' इत्यादि। यथा वा- 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेघसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुघैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम्। 'ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम्। तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण II' अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका। क्वचित्पुननिष्पन्नमेवौपम्यमनाद- रकारणम्। यैथा-
यते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः। तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम्। एवं 'खेलन्तीनां सुर- पतिपरीवारवाराङनानां यन्मञ्जीरध्वनितसुभगो रौति कोलाहलोऽयम्। तेनैवास्ते मदन- नृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥' इत्यत्रापि ज्ञे- यम्। यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्स्वरूपानभिज्ञत्वम्। लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा वा-'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः। किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्व- पूर्वो ग्रहः ॥' इत्यत्र सौम्यसुभगत्वादि सकृन्निर्दिष्टम्। असकृन्निर्देशस्तु यथा-'यद्यस्ति तस्या: स्मरशार्ङ्गभङ्गिविलासवेल्द्ु मुखं नताङ्गयाः। तदिन्दुना कि विहितं विघात्रा सृष्टेन व- ल्गन्मृगशावकेन।।'अत्र वेह्लद्वल्गत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिबिम्बभावः । निकर्षार्थमिति। अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यातू। प्रयोजिकेति । उत्कर्षप्रतिपादनात्। अत्रापि साधारणघर्मस्यानुगामितया यथा-'मुखेन सखि पीयूषपेल- वेन निशासु ते। उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ।I' अत्र पीयूषपेलवत्वमनुगा- मितयोपात्तम्। असकृन्निर्देशस्तु यथा-'पौलस्त्य विस्तृतविवेल्लदपूर्वबभ्नकूर्चच्छटाप्रकटितं १. 'अये एहि तावत्सुन्दरि कर्ण दत्वा शणुष्व वचनीयम्। तव मुखेन कृशोदरि चन्द्रे उपमीयते जनेन ॥I' इति च्छाया. २. 'निष्पन्नमौपम्यम्' ख. ३. 'यथा' ख-पुस्तके नास्ति.
Page 174
अलंकारसर्वस्वम्। १६७
'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम्। अनेन न्या- येनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्वकल्पितं प्रती- पमेव। यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।' अत्र हालाहलं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन नि- बद्धम्। वस्तुना वस्त्वन्तरनिगूहनं मीलितम्। सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगूह्यते तद-
सृजताद च त्वाम्। नीतोऽञ्जनाद्रिरुपमेयधुरां विधात्रा प्रोत्तुङ्गशृङ्गविवलत्पृथुदाववह्ि: ।' अत्र वेल्लद्विवलत्वयोः शुद्धसामान्यरूपत्वम्, कूर्चदावयोस्तु बिम्बप्रतिबिम्बभावः । अस्य हि विच्छित्यन्तरं दर्शयति-क्वचिदित्यादिना। निष्पन्नमिति। सिद्धत्वेनोक्तेः। उत्क- र्षभाज इति। अर्थान्नेत्रयुगलस्य । प्रादुर्भाव इति। उपमानस्याभतस्योत्पत्तिः । अत एव स्पर्धाबन्धभाजः परस्योत्पादाव्यक्कारः। अनेन न्यायेनेति। अत्र यथोपमा- नत्वप्रादुर्भावो न्यक्ारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विच्छित्तेरिदं विभजनं न पुनर्विच्छित्यन्तरमिति भावः । प्रतीपमिति । उपमानभावं यो न सहते तस्योपमानत्व- परिकल्पनेन प्रतिकूलवर्तित्वात्। यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यूनगुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । वैकुण्ठाय श्रियमेंभिनवां शीतभानुं भवाव प्रादादुचैःश्रवसमपि वा वज्िणे तत्क गण्यम् । तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्बोधिसत्त्वः ॥' इत्यत्र पुनरन्यमतेऽपि न प्रतीपम्। लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभा- वात्। अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम्। अत एवाम्बुधे: स्वदे- हृदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच्च वस्त्विति नालं- कार इत्यलमतिविस्तरेण। वस्तुनेति। लक्ष्मणेति। चिह्नरूपेण धर्मेणेत्यर्थः । तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्यनेनोक्तम्। ननु वस्त्वन्तरस्य १. 'तस्यैवोपमानभावकल्पने' खं. १. 'तस्योपमेयत्वपरिकल्पनेन' इति भाति. २. 'अभिनवं'ख.
Page 175
१६८ काव्यमाला।
न्वर्थाभिधानं मीलितम्। न चायं सामान्यालंकारः, तस्य हि साधारणगुण- योगाद्वेदानुपलक्षणं रूपम्। अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधान- मिति महाननयोर्विशेषः । सहजेन यथा- 'अपाङ्गतरले दशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गकैर्मृगद्दशां स्वतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥I'
वस्त्वन्तरेण निगूहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याश- ङ्गयाह-न चायमित्यादि। साधारणगुणयोगादिति। यदाहु :- 'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं बेध्यते योगात्तत्सामान्यमिति स्मृतम् ॥' इति । भेदानुपलक्षणमिति। प्रस्तुताप्रस्तुतात्मनः सदशस्य वस्तुद्वयस्यासामान्याकारतया
वद्भेदो न प्रातिष्टकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा-राजगआदौ शुक्तिकारजतयोः संनिकर्षेण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणादुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् । मीलिते पुनर्न्यून- गुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात्। अत एवात्र मदोदयकृतस्य ददक्तारल्यादेर्ना- वगममात्रं तस्य मदोदयात्पूर्वमपि तथैवावस्थानात्। बलवता स्वाभाविकेन दृक्तारल्या- दिनाच्छादितत्वात्। सामान्ये पुनः-'अभेदमूढस्तबकाभिरागता लताभिरीषल्ललितालि- पङ्गिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ।I' इत्यादौ निकु- अ्जमध्यगताया योषितः पृथग्देशावष्टम्भेन सामान्याकारतयावगमेSपि साधारणगुणयोगाल्ल- ताभ्यो भेदेनानध्यवसायः । अत एव 'न लक्ष्यते व्यक्तम्' इत्यायुक्तम्। अतश्च स्वरूपे- णावगतस्यापि भेदानध्यवसायः । सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलित- मिति स्थितम् । अत एवाह-महाननयोविशेष इति। एवं तहिं समानगुणत्वस्या- विशेषाद्वक्ष्यमाणोदाहरणादावभिसारिकादिवज्ज्योत्स्नादेरपि भेदानुपलक्षणं किं न स्यात्। ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चेति एव- मपि कथमिति चत्, कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य वा। एतचाप्रस्तुतत्वान्नेहा- स्माभिरुक्तम्। इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपलक्षणं विवक्षितम्। तद्गतत्वेनवाभ द्वारेण
१. 'भेद:' क.
१. 'बाध्यते' क. २. 'दक्तारतम्यादेः' क.
Page 176
अलंकारसर्वस्वम् । १६९
अत्र दक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दक्तारत्यादि तिरोधीयते। आगन्तुकेन यथा- 'ये कन्दरासु निवसन्ति सदा हिमाद्रे- स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते। अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुघोऽप्यभिज्ञ:॥' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्धावितावा- गन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ। तिरोधायकत्वादेव च मीलितव्यपदेशः । प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् । यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदानध्य- वसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम्। न चेयमपह्ुतिः। किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात्। यथा- 'मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥'
तत्सादृश्यस्य प्रतिपादयिषितत्वात्। न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्त- र्भावो वाच्यः । तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिलेक्षणम्। इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरित्यलं बहुना। न चास्य संज्ञामात्रमेतदित्याह-ति- रोधायकत्वादिति। अतश्च पूर्व तदन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम्।। प्रस्तुतस्येत्यादि । प्रस्तुतस्येत्युपमेयस्य। अप्रस्तुतेनेत्युपमानेन। साधारणगुणानां च त्रिरूपत्वमत्रार्थसिद्धम्। तेन साधारणगुणस्यानुगामितया यथा-'मध्ये जानपदस्त्रै- णमुखानाममलत्विषाम्। रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् ॥' अत्रामलकान्तित्वम- नुगामितया सकृन्निर्दिष्टम्। असकृन्निर्देशस्तु यथा-अभेदमित्यादौ। अत्र स्तबकस्तनयो- र्विम्बप्रतिबिम्बभावः । ललितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम्। ननु च प्रस्तुतस्याप्र- स्तुतेनापह्ववः क्रियत इति किमयमपद्रुतिरेव न भवतीत्याशङ्गयाह-न चेयमित्यादि। १. 'साधारणघर्माणो' ख. २. 'राहोरालक्ष्यतां' ख. ३. 'तुलितत्व' ख. २२
Page 177
१७० काव्यमाला।
अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यता गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तदुणः। यत्र परिमितगुणस्य वस्तुनः सेमीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा। न चेदं मीलितम्। तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते, इह त्वनपहुतस्वरू- पमेव प्रकृतम्। [यैत्र परिमितगुणं वस्तु तस्य समीपवर्तिप्रकृष्टवस्तुगुणस्वी- कारं कुरुते स तद्गुणः ॥] वस्त्वन्तररगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः। यथा- 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ॥' अत्र रविरथाश्वानामरुणवर्णस्वीकारः। तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम्। सति हेतौ तङ्गुणाननुहारोऽतद्रुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोडतद्गुण उच्यते। इह न्यूनगुणस्य विशिष्ट- गुणपदार्थघर्मस्वीकारः प्रत्यासत्या न्याय्यः । यदा पुनरुत्कृष्टगुणपदार्थस-
'अविभाव्यतां गताः' इत्यर्थादुक्त्तेः ॥ स्वगुणेत्यादि। परिमितेति। स्वरीक्रियमा- णस्य गुणस्याभावात्। तत्संभवादेव चान्यस्य प्रकृष्टगुणत्वम्। समीपवर्तीत्यनेन गुणग्र- हणे योग्यत्वमुक्तम्। अस्मिन्निति। परिमितगुणे प्रकृते। अतश्र नैतत्संज्ञामात्रम्। ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं कि न भवतीत्याशङ्गयाह-न चे- त्यादि। आच्छादितत्वेनेति । अपह्ुतिस्वरूपत्वेनेत्यर्थः । उपरक्त्ततयेति। विशि- ष्टत्वेनेत्यर्थः । तस्येति। अरुणवर्णस्य। अपिः समुचये। यथा वा-'इन्दूदयश्चन्दनमि- न्दुवका चैत्रस्तवेत्यादिसहायसंपत्। वपुश्च श्ङ्गारमयं स मन्ये संतापकस्त्वं हरवहियो- गात् ।।' अत्र हरवह्िगुणस्य संतापकत्वस्य स्वीकारः ॥ सतीत्यादि । तद्विपर्य- येति। अत्र हि प्रत्यासत्त्यान्यगुणग्रहणमुक्तम्। इह तु योग्यतायामपि न तद्रहणम्। प्रत्यासत्त्येति। विप्रकृष्टस्य ह्वन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन्न भवति तदाय-
१. 'तद्रुणम्'ख. २. 'समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वी- करणम्' क. ३. यत्रेत्यादि कोष्टान्तर्गतः पाठः ख-पुस्तके नास्ति. ४. 'गुणेऽपरक्त' ख.
Page 178
अलंकारसर्वस्वम्। १७१
न्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यनगुणेनाननु- वर्तनं भवति सोऽतद्रुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति। यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः। तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा। क्रमेण यथा- 'धैवलो सि जह वि सुन्दर तह वि तुए मज्झ रज्जिअं हिअअम्। राअभरिए वि हिअए सुहुअ णिहित्तो ण रत्तो सि ॥' 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ।।' पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव। कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।
मलंकार इत्याह-यदेत्यादि। उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचि- तम्। एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तदभावोऽयमलंकारः। यदुक्तम्-'तद्रपाननुहार- श्रेदस्य तत्स्यादतद्रुणः' इति। अस्मिन्निति। न्यूनगुणे। यद्वेति पक्षान्तरे। अप्रकृतस्येति । अननुदाहरणीयगुणस्यान्यस्य। तदेवं व्याख्यानद्वयेनास्य प्र० कारद्वयं दर्शितम्। अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्क- ष्टगुणत्वं हृदयस्य दर्शितम्। अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलो सीति। तत्तद्रुण एवेति अ्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव। पुस्त- कान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात्। नाप्यत्र तद्रुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम्। न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः। तस्य धवलत्वव्यभिचारात्। किं त्वत्र कारणाभा- वेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्या विषमालंकारः । तत्र हि कार्य- कारणयोर्विरूपत्वेSप्यबाध्यमानतया प्रतीतिः । इह त्वेकस्य बाध्यमानतयेति महाननयो- र्भैदः। नन्वत्र सत्यपि कारणसामययेऽन्यगुणानुदाहरणरूपस्य कार्यस्यानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्गयाह-कार्येत्यादि । अविवक्षणादिति। वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः ।
१. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्चितं हृदयम्। रागभरितेऽपि हृ- दये सुभग निहितो न रक्तोऽसि ॥' इति च्छाया.
Page 179
१७२ काव्यमाला।
उत्तरात्प्रश्नोन्नयनमसकृदसंभाव्यमुत्तरं चोत्तरम्। यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकसु- तरम्। न चेदमनुमानम्। पक्षधर्मतादेरनुद्देशात्। यत्र च प्रश्नपूर्वकम- संभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः। अतश्चासकृ- न्निबन्धे द्वितीयमुत्तरम्। न चेयं परिसंख्या। व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात्। क्रमेण यथा- 'एकाकिनी यदबला तरुणी तथाह- मस्मदृहे गृहपतिश्र गतो विदेशम्।
अ्रन्थकृता तु प्राच्यानुरोघालक्षितः।'विषमालंकार- इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्य- रायुक्तः। न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्यादेन तन्निषेधेन तस्यानव- काशः । तस्य हि विरूपस्य कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम्। उत्तरादित्यादि। उन्नीयत इति। प्रश्नरूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदम- नुमानं न भवतीत्याशङ्याह-न चेदमित्यादि। असंभावनीयमिति । कवि- प्रतिभानिवर्तितमित्यर्थः । तदिति। प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदेवोपनि- बन्धो न्याय्यः । अतश्चेति। सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वात्पूर्व- त्राप्यनुपनिबध्यमानप्रश्नागूरकमुत्तरं न सकृत्, तावन्मात्रेण चारुत्वाप्रतीतेरित्याश्रयणीयम्। ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशङ्गयाह-न चेयमित्यादि। एतच्चोत्तराख्यमलंकारद्वयम्। न पुनरेकः, सामान्यलक्षणायोगात्। एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम्। वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैता- वतालंकारसारकारादिभिरेतदलंकारद्वयमपास्तम्। न च तद्युक्तम्, लक्षणदोषाभावात्। उदाहरणान्तरेष्वस्य प्रतिष्ठानात्। तत्तु यथा-'मिक्षो कन्था श्रथा किं ननु शफरवध जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम्। हत्वा- रीन्किं करिष्ये कति तव रिपवः संधिभेत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कि- तवो येन भिक्षुर्नमस्ते ॥I' अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्यो- न्यनम्। एवमन्यदपि ज्ञेयम्। 'येन दासीसुतोऽस्मि' इति पुनः पाठो ग्राह्यः । दासीसुतत्वे कितवस्य निमित्तत्वाभावात्। प्रश्नोत्तरोन्नयनस्यासमाप्तेः साकाङ्कत्वाद्वाक्यार्थस्यावि- श्रान्ते: । द्वितीयो यथा-'पुंसः संबोधनं किं विदधति करिणं के रुचोऽनेभिषकिं का झून्या ते रिपूणां नरवर नरकं कोऽवधीत्क्ीडनं किम्। के वा वर्षासु न स्युस्तणमिव हरिणा किं नखाग्रैविभिन्नं विन्ध्याद्रौ पर्यटन्को विघटयति तनुर्नर्मदावारिपूरः ॥' 'नर्मदा-
Page 180
अलंकारसर्वेख्म् । १७३
कं याचसे तदिह वासमियं वराकी श्वश्ूर्ममान्धवधिरा ननु मूढ पान्थ ।।' 'का विसमा देवगई किं लद्धं जं जणो गुणग्गाही। किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ।।' पूर्वत्र मम वासो दीयतामिति प्रक्ष उत्तरादुन्नीयते। उत्तरत्र देवगत्या- दिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम्। इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम्- संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्। इह सूक्ष्म: स्थूलमतिभिरसंलक्ष्यो योऽर्थः स यदा कुशाग्रमतिभिरिङ्गि- ताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सू- क्षममलंकारः । तत्रेङ्गिताद्यथा- 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापदं निमीलितम् ।।' अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इङ्गितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आकारादथा-
वारिपूरः' इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम्। अत्र च यथोक्तमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति अ्न्थविस्तरभयान्नोक्तमिति । अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्र- मते-इत इत्यादि। एतदेव व्याचष्टे-इहेत्यादि। इङ्गिताकाराभ्यां सूक्ष्मार्थसंल- क्षणादस्य भेदद्वयमप्युक्तम्। एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम्। 'कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते। धर्मेण केनचिद्यत्र तत्सूक्ष्मं परि- दृश्यते ।I' किं च 'यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी। दृष्टा वधूः प्रियोपान्ते सखीभि: प्रतिमुच्यते ।' इत्येतङ्रन्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृता- सूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः-यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रका- शनमात्रं वाप्ययमेवालंकार इति। अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम्। कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम्। तदेवमादौ सूक्ष्मालंकार एव
१. 'न श्ृणोति कश्चित्' क. २. 'का विषमा दैवगतिः किं लब्धं यजनो गुणग्राही। किं सौख्यं सुकलत्रं कि दुःखं यत्खलो लोकः ॥' इति च्छाया.
Page 181
१७४ काव्यमाला।
'वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्टा भिन्नं कुङ्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख ।I'
पुरुषोचितखङ्गधारालिखनेन प्रकाशितम्। उद्विन्नवस्तुनिगूहनं व्याजोक्ति:। यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्वभिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तर- प्रक्षेपेण निगूह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचना- द्वयाजोक्तिः। यथा- 'शैलेन्द्र प्रतिपा द्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैरद्ष्टोऽवताद्वः शिवः ।।' अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यप- ह्ुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः । तथाप्यपलाप- मात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपह्ुतिग्रन्थे 'यथा सादृश्याय योऽप- ह्रवः सापहुतिः, तथापह्नवायापि यत्साद्ृश्यं साप्यपह्ुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते। स- त्यम्। उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम्। न हि तन्मते व्याजोक्त्याख्य-
वाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि । निगूढमिति । वस्तुतः । वस्त्वन्तरप्रक्षेपेणेति । निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति। स्थायी। अपह्नुतोऽपीति। व्याजोक्तेः प्ररोहात् । अपला- पमात्रचिन्तयेति। तावन्मात्रस्यैव तल्लक्षणत्वात्। अस्याश्चापद्दुतेर्भेदं दर्शयितुमुपक्र- मते-नन्वित्यादिना। स्थापितमिति। श्रेषग्रन्थे यदुक्तम्। 'सादृश्यव्यक्तये य- त्रापह्नवोऽसावपद्दुतिः' इति। एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम्। उत्तर: प्रकार इति। अपह्ववाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात्। कथमिति। निष्प्रयोजकत्वात्। एतदेवाप्युपगम्यं प्रतिविधत्ते-सत्यमित्यादिना। १. 'तत्तत्रोक्तम्' ख.
Page 182
अलंकारसर्वेस्वम्। १७१
मलंकरणमस्ति। इह तु तस्य संभवाद्वयतिरिक्तापह्ुतिरिति पृथगयमलंकारो निर्दिष्टः । अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्ति:। उक्तिव्यपदेशसाम्याद्वयाजोक्त्यनन्तरमस्या लक्षणम्। यद्वाक्यं केन- चिदन्यथाभिप्रायेणोक्तं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेन वान्य- थान्यार्थघटनया योज्यते तदुक्ति: सा वक्रोक्तिः। काकुप्रयोगेन यथा- 'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ।।' अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम्। तत्सख्या काकु- प्रयोगेण विधिपरतां प्रापितम्। काकुवशाद्विधिनिषेधयोविपरीतार्थसंक्रान्तिः।
तदित्यपह्रवाय सादृश्यम्। तत्रेति। श्रेषे। तन्मत इति। उद्भटमते। तस्येति । व्याजोक्त्याख्यस्यालंकारस्य। तद्व्यतिरिक्तेति।अपद्दुतौ हि प्रकृतमेवोत्कर्षयितुमप्रकृत- स्योपादानम्। इह तुद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगूह्यते इत्यनयोर्महान्भेदः । एवं 'आकृष्यादौ' इत्यादौ च लोकात्मवस्त्वन्तरप्रक्षेपेणोद्भिन्नप्रियनिगूहनस्यैव वाक्यार्थत्वा- द्व्याजोक्तिरेव न पुनरपहकतिः। अत एव च नात्र वक्रोक्तिः। तस्य हि यथायोजनमात्रं लक्ष- णम्।। अन्यथेत्यादि। एतदेव व्याचष्े-यद्वाक्यमिति। अन्याभिप्रायेणेति। विवक्षितार्थपरतयेत्यर्थः । काकु: ध्वनिविशेषः । यदुक्तम्-'वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते। भिन्नकण्ठध्वनिर्धारैः स काकुरिति कथ्यते ।I' अन्यार्थघटनयेति। प्र- कान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनयोल्लेखनेनेत्यर्थः। येनकेनचिद्वक्राभिप्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थ 'नवकम्बलकोऽयं माणव- कः' इत्यादिना वाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः । अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम्। तत्र हि 'बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्ुजपञ्जरं रक्षास्थानम्' इत्यादौ बालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्त- तया योजितम्। अतश्वात्रान्यथा योजनस्य प्रस्तुतवस्तुव्याहृतिनिबन्धनत्वेऽपि प्रस्थान- विधौ तात्पर्यम्। न तद्विघातमात्रेणास्य वक्रोक्तावन्तर्भाव इति चेतू, तर्हि साधर्म्याविशे- षादुपमेयोपमादीनामप्युपमायामन्तर्भावः किं न स्यात्। अथात्र फलभेदोऽस्तीति कथमे- तदिति चेत्, एवमिहापि फलभेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात्। तथा ह्यन्य- १. 'अन्याभिप्रायेण' र. १. 'श्रीकण्ठेन' ख.
Page 183
१७६ काव्यमाला।
तत्र श्रेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः। तैत्राभङ्गश्लेषसुखेन यथा- 'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् II' अत्र दारुणेति प्रथमान्तं प्रकान्तं श्लेषभङ्गया तृतीयान्ततया संपादि- तम्। सभङ्गश्लेषमुखेन यथा- 'त्वं हालाहलभृत्करोषि मनसो मूच्छी समालिङ्गितो हालां नैव विभर्मि नैव च हलं मुग्धे कथं हालिकः। सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः ॥।' उभयमुखेन यथा- 'विजये कुशलररयक्षो न क्रीडितुमहमनेन सह शक्ता। विजये कुशलोऽस्मि न तु तर्यक्षोऽक्षद्वयमिदं पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥ था योजनस्य क्वचिद्चनविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहतिनिबन्धनत्वेऽप्यर्था- न्तरे तात्पर्यम्। फलभेदश्वालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फलान्तरेष्वपि ज्ञेयम् । तस्मात् 'एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सदयस्तापं प्रजानां प्रशममुपनयन्नच्छधारा- च्छलेन। कुर्वन्दिक्चक्र्वालाक्र्कमणमुदयते देव को वारिवाहो मा मैवं मालवेन्दरो परिमल- कतरस्तर्हि राजन्नसिस्ते ।' इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खङ्गत्वेन योजनं तस्य तत्सादृश्यप्रतीत्यर्थ मित्यङ्गभूतोत्तरमार्थमौपम्यं वत्तुविवक्षितम्। वाक्छलमुपचारफलम्। तदविशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकं क्वचित्वौपचारिके प्रयोगे मु- ख्यार्थमापादानमिति भेदान्तरमप्यवसानवाच्यम्। यस्तु तदर्थान्तराभावादिति न्यायादा- गुपचारच्छलयोविशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम्। तथात्वे- नान्यथायोजनस्य वैचित्र्यान्तराभावात्। यद्वा मुख्यौपचारिकार्थद्वय स्यैकेवृन्तगतफलद्वय- १. 'अत्र' ख. २. 'आहो' ख. १. 'मुख्यार्थापादानं' ख्. २. 'भेदान्तरमप्यस्या न वाच्यं' ख. ३. 'एकवृन्तगतच्छल- त्वन्यायेन' क.
Page 184
अलंकारसर्वस्वम्। १७७
चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाह्यतां राहुः॥ हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य। यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः॥ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्नेषि। किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ॥ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्गस्य। दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ।। इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवकोक्ति।
वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ।
इह वस्तुस्वभाववर्णनमात्रं नालंकारः। तत्त्वे सति सर्व काव्यमलंकारः स्यात्। न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थ सूक्ष्मग्र- हणम्। सूक्ष्म: कवित्वमात्रस्य गम्यः। अत एव तन्निर्मित एव यो वस्तुखव-
न्यायेन शब्दश्लिष्टत्वादस्य श्रेषवक्रोक्तावन्तर्भावः स्यात्। उभयमुखेनेति। सभ- ङ्गासभङ्गश्लेषद्वारेण। विजय इति श्रेषस्यासभङ्गत्वम्। मेदुरोदरेणेति सभङ्गत्वम्। 'स्मे- रोऽवताद्व: शिवः' तथा 'प्रयुक्तवक्रोक्ति' इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम्। ननु 'सैषा सर्वैव वक्रोक्ति: कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंकारवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्ग्याह-वक्रोक्तीत्यादि। इहेति। वाक्छलात्मकत्वेनोक्ते: कौटिल्यात्॥ सूक्ष्मेत्यादि। ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि। 'तदतिशय- हेतवस्त्वलंकाराः' इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यै- वालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्गयाह- सूक्ष्म इत्यादि। कवित्वमान्नस्येति। कुशाग्रीयधिषणत्वात्। एवं स्थूलमतीना- मकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए- १. 'सूक्ष्मम्' ख. १. 'सूक्ष्म मित्या दि' ख.
Page 185
१७८ काव्यमाला।
भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्ति- वाचोयुक्तिप्रस्तावादिह लक्षणम्। भाविकरसवद्लंकाराभ्यामस्य भेदो भा- विकप्रसङ्गेन निर्णेष्यते। यथा- 'क्रेङ्कारो नखकोटिचश्रुपुटकव्याघट्टनोद्टङ्कित- स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ।' अतीतानागतयोः प्रेत्यक्षायमाणत्वं भाविकम् ।
हितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम्। कविगतो भाव आशयः श्रोतरि प्रतिविम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि
वेंति। कवित्वमात्रगम्यत्वात्। तन्निर्मित एवेति। अन्येषां तथात्वेन वक्तुमशक्य- त्वात्। तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादन- मात्रत्वात्तन्निर्मित एवेत्युक्तम्। अन्यूनानतिरिक्तत्वेनेति। यथा वस्तुनि संभवती- त्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच् किमयं रसवदलंकारो वा न भवतीत्याशङ्याह-भाविकेत्यादि। तत्र निर्णेष्यमाण- स्यैतन्द्ेदस्य 'वस्तुनश्चित्तवृत्तेश्र संवादः स्फुटता प्रथा। स्वभावोक्त रसवतो भाविकस्य च लक्षणम् ।I' इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि। एतदेव व्याचष्टे-अ- तीतेत्यादि। अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम्। व्यस्तेति। यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेविप्नमा- त्रफलम्। इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्ये- नैतदुक्तम्। एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सु- स्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम्। अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम्। इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्या- भावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः । केचिच्च सुभगा अपि दुर्भग- शब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम्। यदाहु :- 'प्र- त्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥' इति। वाशब्दः पक्षान्तरद्योतकः। ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा- १. 'प्रत्यक्षायमानत्वं' क.
Page 186
अलंकार सर्वस्वम्। १७९, निवेशनं सोऽनालीति। न चेयं भ्रान्तिः। भूतभाविनो भूतभावितयैव प्रकाशनात्। नापि रामोऽभूदितिवद्वसतुमात्रम्। भूतभाविगतस्य प्रत्यक्षत्वा- दिगतस्य घर्मत्य न्फुट्त्याधिकस प्रतिलम्भात्। नापीयमतिशायोक्तिः। अ- न्यस्यान्यतयाध्यवसायाभावात् । नहि नृतभाव्यभूतभावित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्वक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन। न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपतत्यपेक्षयैव वस्तुनि तथाभा- वात्। यदाहु :- 'तत्र यो ज्ञानप्तिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः' इति। केवलवस्तुप्नत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियत्वभावायोगिनामतीन्द्रियार्थदर्शने भावना- रूपा। काव्यार्थविदां च भावना स्वभावैव। सा च भावना वस्तुगत्यात्य- द्तत्वप्रयुक्ता। अत्यद्धुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाण- त्वात्। नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव ग्रतीतेरिवार्थगर्भींकारे-
द्द्रान्तिमानेवायं कि न भवतीत्याशङ्गयाह-न चेयमित्यादि। ननु यदि भूतभावित- चैव प्रतीयते तदेतद्वस्त्वेव कि नेत्याशङ्गयाह-नापीति। अधिकस्येति। वस्तुवृत्ते तत्वासंनवात्। अत एवास्य ततो व्यतिरेकः । नन्वस्यान्यतयावसायात्कि नायमतिश- वोक्तिरित्याशङ्ग्याह-नापीयमित्यादि । भूतभाविनो भूतभावितयैवास्फुटतयावग- मातू। नन्वत्राप्रत्यक्षमेवं प्रत्यक्षेण किं नाध्यवसितमित्याशङ्गयाह-नहीत्यादि। तच्चा- प्रस्तुतत्वानहनत्वाच नेह प्रपश्वितम्। ननु यद्येवं तत्प्रमातुः सदैव समस्तवाह्यवस्त्ववगमः कि न स्यादित्याशङ्गयाह-केवलमित्यादि। भावनारूपेति। तत्रेन्द्रियादीनाम- व्यापारणात्। एवं योगिनां भावनावलाद्दरूतभावितयैव प्रत्यक्षावभास इति भावः । य- दाहु :- 'अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते' इति। चः समुच्चये। तेन योगिनामती- न्द्रियार्यदेशने यथा भाविना निमित्तं तथैव काव्यार्थविदामपीत्यर्थः! तस्याश्च निमित्त- माह-सा चेत्यादि। वस्तुनोऽत्यद्ुतत्वमादरे निमित्तम्। आदरश् वस्तुनो हृदि सं- धारणम्। तच्च तदेकतानतया प्ररूढं सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिव नावनावलात्स्वकालावच्छेदेनैव भूतभाविवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्ष- तयाध्यवसायः। ननु यद्यपि योगविद्धतभाविनो भावाः स्वकालावच्छेदेनैव तचेतसः प्रत्यक्ष- तयेव तदभावभासनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशङ्गयाह-नापीत्यादि। १. 'किं नेत्याह' ख, २. 'एवाप्रत्यक्षेण' ख. ३. 'दर्शनेन' क.
Page 187
१७८ काव्यमाला।
भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः। उक्ति- वाचोयुक्तिप्रस्तावादिह लक्षणम्। भाविकरसवद्लंकाराभ्यामस्य मेदो भा- विकप्रसङ्गेन निर्णेष्यते। यथा-
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ।।' अतीतानागतयोः पंत्यक्षायमाणत्वं भाविकम् ।
हितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम्। कविगतो भाव आशयः श्रोतरि प्रतिविम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि
वेंति। कवित्वमात्रगम्यत्वात्। तन्निर्मित एवेति। अन्येषां तथात्वेन वक्तुमशक्य- त्वात्। तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादन- मात्रत्वात्तन्निर्मित एवेत्युक्तम्। अन्यूनानतिरिक्तत्वेनेति। यथा वस्तुनि संभवती- त्यर्थ: । अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्याशङ्याह-भाविकेत्यादि। तत्र निर्णेष्यमाण- स्यैतन्देदस्य 'वस्तुनश्चित्तवृत्तेश्र संवादः स्फुटता प्रथा। स्वभावोक्ते रसवतो भाविकस्य च लक्षणम् ।I' इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि। एतदेव व्याचष्टे-अ- तीतेत्यादि। अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम्। व्यस्तेति। यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेविन्नमा- त्रफलम्। इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्ये- नैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सु- स्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम्। अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम्। इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्या- भावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानाहाः। केचिच्च सुभगा अपि दुर्भग- शब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम्। यदाहुः-'प्र- त्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥' इति। वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा- १. 'प्रत्यक्षायमानत्वं' क.
Page 188
अलंकारसर्वेस्वम्। १७९
निवेशनं सोऽन्रास्तीति। न चेयं भ्रान्तिः । भूतभाविनो भूतभावितयैव प्रकाशनात्। नापि रामोऽभूदितिवद्वस्तुमात्रम्। भूतभाविगतस्य प्रत्यक्षत्वा- दिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात्। नापीयमतिशयोक्तिः। अ- न्यस्यान्यतयाध्यवसायाभावात्। नहि भूतभाव्यभूतभावित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन। न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्यपेक्षयैव वस्तुनि तथाभा- वात्। यदाहु :- 'तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः' इति। केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावायोगिनामतीन्द्रियार्थदर्शने भावना- रूपा। काव्यार्थविदां च भावना स्वभावैव। सा च भावना वस्तुगत्यात्य- द्धुतत्वप्रयुक्ता। अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाण- त्वात्। नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारे-
द्धान्तिमानेवायं कि न भवतीत्याशङ्गयाह-न चेयमित्यादि। ननु यदि भूतभावित- यैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याशङ्गयाह-नापीति। अधिकस्येति। वस्तुवृत्ते तस्यासंभवात्। अत एवास्य ततो व्यतिरेकः। नन्वस्यान्यतयावसायात्कं नायमतिश- योक्तिरित्याशङ्गयाह-नापीयमित्यादि । भूतभाविनो भूतभावितयैवास्फुटतयावग- मात्। नन्वत्राप्रत्यक्षमेव प्रत्यक्षेण किं नाध्यवसितमित्याशङ्गयाह-नहीत्यादि। तच्चा- प्रस्तुतत्वाद्गहनत्वाच्च नेह प्रपश्चितम्। ननु यद्येवं तत्प्रमातुः सदैव समस्तबाह्यवस्त्ववगमः किं न स्यादित्याशङ्ग्याह-केवलमित्यादि। भावनारूपेति। तत्रेन्द्रियादीनाम- व्यापारणात्। एवं योगिनां भावनाबलाद्भूतभावितयैव प्रत्यक्षावभास इति भावः । य- दाहु :- 'अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते' इति। चः समुच्चये। तेन योगिनामती- न्द्रियार्थदर्शने यथा भाविना निमित्तं तथैव काव्यार्थविदामपीत्यर्थः । तस्याश्व निमित्त- माह-सा चेत्यहदि। वस्तुनोऽत्यद्धुतत्वमादरे निमित्तम्। आदरश्च वस्तुनो हृदि सं- धारणम्। तच तदेकतानतया प्ररूढं सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिव भावनाबलात्स्वकालावच्छेदेनैव भतभाविवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्ष- तयाध्यवसायः। ननु यद्यपि योगविद्भतभाविनो भावाः स्वकालावच्छेदेनैव सचेतसः प्रत्यक्ष- तयेव तदभावभासनं युक्तमितवेतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशङग्याह-नापीत्यादि। १. 'किं नेत्याह' ख. २, 'एवाप्रत्यक्षेण' ख. ३. 'दर्शनेन' क,
Page 189
१८० काव्यमाला।
णायं प्रतीयमानोत्प्रेक्षा। तस्या अभिधानरूपाख्याध्यवसायस्वभावत्वात्। न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते। किं तर्हि काव्यार्थविद्धि: प्रत्यक्षत्वेन दृश्यते इति। नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः । तस्या अभि- मानरूपायाः प्रतिपत्तधर्मत्वात्। यदाहुः-'अभिमानेन सा योक्तिर्ज्ञानधर्म- सुखादिवत्' इति च। काव्यविषये च प्रयोक्तापि प्रतिपत्तैव। नाप्यद्भु- तदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम्। लिङ्गलिङ्गयभा- वेन प्रतीत्यभावात्। योगिवत्प्रत्यक्षतया प्रतीतेः । नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः । रत्या- दिचित्तवृत्तीनां तदनुषक्ततया विभादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात्। इह च ताटस्थ्येन भूतभाविनां र्फु- टत्वेन भिन्नसर्वज्ञवत्प्रतीतेः। स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकार: स्यात्। नापीयं सुन्द- रवस्तुस्वभाववर्णनात्स्वभावोक्तिः। तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने सा- धारण्येन हृदयसंवादसंभवात्।
किं तर्हीति। अध्यवसायो नास्त्येवेत्यर्थः। प्रतिपत्तैवेति। नह्यजानतः कवितुः प्रयो- क्तत्वं भवतीति भावः। नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्किं नेदमनुमानमि- त्याशङ्ग्याह-नापीत्यादि। एवं रसवदलंकारादस्य भेदं दर्शयति-नाप्ययमित्या- दिना। पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम्। परकीयायाश्चित्तवृत्तेरात्मीयचि- त्तवृत्त्यभेदेन परामर्शो हृदयसंवादः । तस्य च स्वपरविभागाभावाद्देशकालाभावाच्च व्यापक- त्वेन प्रतीते: साधारण्यम्। अत एव परमाद्वैतज्ञानतुल्यत्वम् । तस्य ह्वयमित्येव परामर्शः । तद्यतिरिक्तस्यान्यस्यासंभवात्। ताटस्थ्येनेति। इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विद्येश्वरादितुल्यत्वम्। ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलं- कारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशङ्गयाह-स्फुटेत्यादि । एवमत्रानयोरङ्गा- ङ्गितया समावेश इति तात्पर्यार्थः । तत्तु यथा-'वनान्तरादुपावृत्तैः स्कन्दासक्तसमित्कुशैः। अत्निप्रत्युद्रमात्पूतैः पूर्यमाणं तपस्विभिः ॥' अत्र तपस्विनां स्फुटत्वप्रतीतिः शान्ताख्य- रसोदयाङ्गमिति न तयोरैकात्म्यम्। एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षाय- मानत्वमस्य स्वरूपमिति तात्पर्यम्। ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशङ्गयाह- नापीयमित्यादि। ईदृगिदं वस्त्वित्यत्र हृदयसंवादः । स च यथा-'यत्र स्तनंधया- १. चित्तवृत्तिभेदेन' क. २. 'स्वभावोक्तिरेव नेत्याशङ्गयाह' ख.
Page 190
अलंकारसर्वस्वम्। १८१
इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतौ क्वचित्तु लौ- किकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात्। न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकारयोरभेदः। वस्तुसंवादरूप- त्वात्स्वभावोक्तेः। चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलंकारस्य। उभयसं- वाद्दर्शनेऽपि समावेशोऽपि घटते। यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव।
र्हस्ते रत्नदीपाञ्जिघृक्षतः । दृष्टरा हा हेति संभ्रान्ता धात्री चेटैविहस्यते ॥' अत्र धात्रीणा- मीदृगयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा-'यदास्वादं सीता वितरति तदग्रे स्वगटहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च। यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन स्वमशनम् ॥' अत्रेद्दगेव गृहिणीनां स्वभाव इति संवाद:। स्फुटतयेति। पुरःस्फुरद्रूपतया। सा च प्रतीतिर्यथा-'निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गली। यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥' यथा च- 'दर्भाङ्करेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि दत्वा। आसीद्विवृत्त- वदना च विभोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥!' अत्र पादयोः शकुन्तला- याश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्ग्याह-क्वचिदित्यादि। समांवेश इति । संसृष्टिरूपः संकररूपो वा। स तु यथा-'हेरम्भोऽत्र हरीश्वरे नखमुखैः कण्ड्यमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलायितात्। संमीलन्नयने विसंस्थुललसत्सास्त्रं नतोन्नामितग्रीवं निश्चलकर्णमीश्व- रबलीवर्द: सुखं मन्यते ॥।' अत्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः । स्वभावोक्तेरपि रसवदलंकारात्प्रसङ्गेन भेदं दर्शयति-न चेत्यादिना। हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तौ वस्तुसंवाद: प्रदर्शितः । चित्तवृत्तिसंवादस्तु यथा-'चन्द्रांशुस्मेरधम्मिल्लमल्लि- कानां प्रियं प्रति। सौधेषु नीतं रामाणां यत्रा लिभिरनूद्यते।' अत्र प्रियाभिलाषिणी नायि- काचित्तवृत्ति: सचेतसां स्वचित्तवृत्त्यभेदेन संवदतीति तत्संवादः । यत्र द्विविधोऽपि संवा- दस्तत्र किं प्रतिपत्तव्यमित्याशङ्गयाह-उभयेत्यादि। स च समावेशो यथा-'किंचि-
कूजन्ती विततैकपक्षतिपुटेनालिङ्गय लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं से- वते ।I' अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः । अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात्। अनेन च १. 'प्रतीते' ख. १. 'गत्वा' ख,
Page 191
१८२ काव्यमाला।
नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्प्रसादाख्यो गुणः। तस्य हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम्। अस्य झटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालंकारः। लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते। यथा- 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलुके दष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' यथा वा-हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने । तत्र हि प्रत्य- क्षमेव स्फुटत्वेन तदीयं रूपं दश्यते। एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्द- वर्णनादौ ज्ञेयम्। अयं तु तत्र विचारलेशः संभवति-इह क्वचिद्वूर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम्। क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम्। आद्यो यथोदाहृतं प्राक् । द्वितीयो यथा- 'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोऽप्येष सतेव वीज्यते विलासवालव्यजनेन कोऽप्ययम् ॥' इति।
भाविकरसवदलंकाराभ्यामस्या भेदो भाविकप्रसङ्के निर्णेष्यते इति यत्प्रागुक्त्तं तन्निर्वाहितम्। इदानीं च प्रकृतमेवाह-नाप्ययमित्यादि। झगित्यर्थसमर्पणं प्रसादः, झगिति सम- ्पितस्यार्थस्य स्फुटत्वेन प्रतीतिभाँविकमित्यनयोर्महान्भेदः । एतदेवोपसंहरति-तस्मा- दित्यादि। एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याह-लक्ष्य इत्यादि। त- त्रैवेति। हर्षचरिते। तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम्। पुलिन्दवर्णनं पुनरष्टमो- च्छासारम्भे स्थितमिति तत एव स्वयमवधार्यम्। इह तु ग्रन्थविस्तरभयान्न लिखितम्। अतीतानागतयो: सूत्रितेऽपि प्रत्यक्षायमाणत्वे देशादिविप्रकष्टानां प्रत्यक्षायमाणत्वमुदाह- रता ग्रन्थकृतातीतानागतत्वस्य विप्रकर्षमात्रसारत्वं सचितम। तच् देशकालस्वभाववि- प्रकृष्टानामविंशिष्टमित्येतदुदाहृतम्। तत्रागस्त्यमुनदंशांवेप्रकृष्टत्वम्। अनागतस्य तुयथा-
स्पर्शाद्वहनतुरगं प्रेरयन्म्लेच्छजाति जेष्यत्येष त्रिभुवनविभु: कर्किरूपेण विष्णुः ॥' एवं चिरंतनोक्तनीत्या विचार्य पुनरपि स्वोपज्ञं कंचिद्विचारमाह-अयमित्यादिना । संभवतीति। न पुनः केनापि दृष्ट इति भावः। यथोदाहृतमिति। मुनिर्जयतीत्या- १. 'यत्र' क. २. 'ध्वानभ्राम्यत' क,
Page 192
अलंकारसर्वेस्म्। १८३
तत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। कविसम- ्पितानां धर्माणां ह्यलंकारत्वात। न हिमांशुलावण्यादीनामिव वस्तुसन्निवे- शिनाम्। अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भाम- हीये, 'वाचामनाकलत्वेनापि भाविकम्' इति चौन्भटलक्षणे व्यस्तसंबन्धर- हितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात। तस्माद्वास्तवमेव मह- त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायमलंकारः । यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्व- भावोक्तिवदलंकारतया वर्ण्यंते तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव 'प्रत्यक्षा एव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्' इति, एवमन्यैर्भाविकलक्षणमकारि। स्वभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम्। समृद्धिमद्वस्तुवर्णनमुदात्तम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम्। तद्विपक्षत्वेनारोपितवस्त्वा-
दिना। प्रथमेति। यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम्। अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संबन्धः । न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः । अपि चेति । निपातसमुदायः समुच्चयार्थः । अत्रैव वाक्यगत्या हे- त्वन्तरस्य समुच्चीयमानत्वात्। कथमिति। वस्तुमात्रवर्णने शब्दानामाकुलताया अना- कुलतायाश्चाविशेषात्। उत्तरप्रकारेति। अनातपत्रोऽपीत्यादौ। अत्रापि प्रकारान्तरे- णालंकारत्वं योजयति-यदि त्वित्यादिना। सकलवक्तृगोचरीभूतमिति। कवित्वमात्रगम्यत्वात्। अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात्। सकल- वक्तगोचरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः। नातीवेति। न पुनः प्रकारव- त्सुश्िष्ट इति यावत्। अत एवेति। वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात्। एतावदेवेति न पुनः शव्दानाकुलत्वादिवस्तुनि तस्याविशेषात्। अन्यैरिति। काव्य- प्रकाशकारादिभिः । समृद्धिसृदित्यादि । तद्विपक्षत्वेनेति। वस्त्ववस्तुवर्णनयो-
१. 'उत्तरत्वप्रकारविषये' ख.
१. 'वस्तुसंनिवेशादलंकारत्वादिति संबन्धः' क.
Page 193
१८४ काव्यमाला।
त्मन उदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं क- विप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम्। यथा- 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङणसीम्नि मन्थरचलद्वालाङ्गिलाक्षारुणाः। दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वन्भ्वनेषु भोजनृपतेस्तत्त्यागलीलायितम् ।।' अङ्गभूतमहापुरुषचरितं च । उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गि- भूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम्। महापुरुषचरित- स्योदात्तत्वात्। यथा- 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्बाहुसहायश्चकारः रक्ष:क्षयं रामः ॥' अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम्।
विरुद्धत्वात्। तत्रेति। एवमवसरे सतीत्यर्थः । असंभाव्यमानेति। संभाव्यमानवि- भूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा-'प्रातश्चकासति गृहोदरकुट्विमाग्रवि- क्षिप्तरत्नकुसुमप्रकरावकीर्णाः। अभ्युद्गतारुणकराहतिपात्यमाननक्षत्रराशिशबला इव यत्र रथ्याः ॥' अत्र हि भगवन्नगर्या वस्तुत एव संभवति रत्नविक्षेपः । अत एवास्य कविप्र- तिभोत्थापितत्वमुक्तम् । एवं चास्य नामापि सार्थकम् । अलंकारसारकृता पुनरत्रातिश- योक्तिप्रकारत्वमुक्तम्। अङ्गभूतेत्यादि। एतदेव व्याचष्टे-सहापुरुषाणामित्या- दिना। अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादयिषयाङ्गतयोपनिबध्यमान- मेतदलंकाराङ्गम्। न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः । तच्च यथोदाहृतम् । 'कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्रक्रे जनकतनयास्ानपुण्योदकेषु स्न्रिग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥' अत्रा- द्विनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थमुत्कर्षप्रतिपिपादयिषया रामसीतादिचरित- मुपलक्षणपरं तत्र नायमलंकारः। यथा-'गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्यतामृष्यमूकः । कंकालाद्रौ पिहितगगने दुन्दुभेर्यत्र रामः पादाङ्गष्ठं निजमपि भवद्दैवतं निर्ममेऽस्तम् ॥I' अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपल- क्षणमात्रपरम्। न ह्यङ्गभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः । 'अत्रासीत्फणिफाशबन्धन- १. 'कृताः' क-ख.
Page 194
अलंकारसर्वस्वम्। १८५
रसभावतदाभासतत्पशमानां निबन्धनेन रसवत्प्रेय ऊर्जस्विरिस- माहितानि। उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभाव- त्वाच्च रसादीनामिह तदलंकाराणां प्रस्तावः । अत एव चत्वारोऽलंकारा युगपल्लक्षिताः । तेत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चि- त्तवृत्तिविशेषो रसः। भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिं- शद्देदाः । देवादिविषयश्च रत्यादिर्भावः । तदाभासो रसाभासो भावाभासश्च। आभासत्वमविषयप्रवृत्त्यानौचि- त्यम्। तत्प्रशम उक्त्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्र-
विधि: शक्त्या भवहेवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैलोकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥' इ- त्यत्र तु रामस्य सीतां प्रत्यक्तावुपलक्षणीभूतदेशविशेषं पाशबन्धनाद्येव साक्षाद्विवक्षित- मिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इति नायमलंकारः ॥ रसभावेति। अत एवेति। चतुर्णामपि चित्तवृत्तिविशेषस्वभावात्। तन्रेति। युगपल्लक्षणे स्थिते सतीत्यर्थः । विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि। अनुभावा: कटाक्ष- भुजक्षेपादयः कार्याः । व्यभिचारिणो निर्वेदादयः सहकारिणः । प्रकाशित इति। व्यञ्जितः । यदुक्तम्-'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति। रत्यादीत्यादि- शव्देन हासादीनां स्थायिनां ग्रहणम्। निरवेदादिरिति। यदुक्तम्-'निर्वेदग्लानिश- ङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च॥ सुप्ं विबोधोSमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च।। त्रासश्वैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्तरिंशदमी भावा: समाख्यातास्तु नामतः ॥' इति। देवतादिविषयाणामानन्त्यादनेकप्रकारत्वेऽप्येकप्रकार एव रत्यात्मभावः । अत एव रत्या- दिरित्यादिशब्दः प्रकारे। चः समुचये। यदुक्तम्-'रतिर्देवादिविषया व्यभिचारी तथा- श्वितः । भावः प्रोक्तः' इति। तथा 'तदाभासा अनौचित्यप्रवर्तिताः' इति। प्रशास्य- दवस्थेति। न तु ध्वंसरूपा प्रशान्तावस्थेत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृ- तत्वे सर्वेषामन्येषां प्रशान्तत्वादेवंभावः स्यात्। ननूक्तप्रकारत्वेन परामृष्टस्य रसस्यापि कथं प्रशाम्यदवस्था संगच्छत इत्याशङ्याह-तत्रापीत्यादि । परिशिष्टेति । १. 'निबन्धने' ख. २. 'अत्र' क. ३. 'देवतादिविषयश्च' क. २४
Page 195
१८६ काव्यमाला।
ष्टव्यः । एषामुपनिबन्धक्रमेण रसवदादयोऽलंकाराः । रसो विद्यते यत्र निबन्धे व्यापारात्मनि तद्रसवत्। प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम्। एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव। अनौचित्यप्रवृत्तत्वादत्र बलयोगः। समाहितं परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमा- परपर्यायः । तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकारः, तत्राङ्गभूतरसादिविषये रसवदाद्यलंकारः । द्वितीये उदात्तालंकारः । त- न्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकाराः । अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते। तद्विषयस्य रसवदादिना व्याप्तत्वम्। तत्र रसवत उदाहरणम्- भावतदाभासतत्प्रशमविषय एवेत्यर्थः । एषामिति। रसभावतदाभासतत्प्रशमानाम्। बलयोग इति । अनुचितेन बलात्कारेणैव प्रवृत्तिः । प्रकृतत्वादिति। तेनात्र वस्त्वन्तरं प्रकृतमिति भावः । ननु च परविश्रान्तिरूपस्य काव्यात्मनोSलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशङ्गयाह-तत्रेत्यादि। यस्मिन्दर्शन इति। ध्वन्य- भाववादिनां मत इत्यर्थः । द्वितीय इति। ऐश्वर्यलक्षणात्। अन्यस्येति। यत्र वाक्यार्थीभूतो रसः। एवं ध्वन्यभाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवदलं- कारयोरनेन विषयविभागः कृतः । अङ्गभूतस्य रसादेश्वालंकारत्वं युक्तम्। तथा च या- वतोपमादीनां सर्वालंकाराणां प्रकृतवस्तूपरञ्जकत्वमलंकारत्वे निबन्धनम् । अङ्गभूतेनापि रसेन तक्क्रियत एव। प्रकृतस्य रसादेस्तदुपस्कृतत्वेन भावात्। अतश्वोपमादीनामलं- कारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽर्थालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्यवसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्गयस्य रसादेरेव तदलंकार्यत्वम्। कि पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकाराः, अर्थ- मुखेन त्वर्थालंकाराः । तत्तदवयवगतैरपि हि कटकादिभिश्चेतन आत्मैव तत्तच्चित्तवृत्ति- विशेषौचित्यसूचनात्मना तयालंकरियते। तथा ह्यचेतनं शवशरीरादिकं कटकादुपेतमपि न भाति, अलंकार्यस्याभावात्। अतश्च देहद्वारेण सर्वत्रात्मैवालंकार्यः । एवमस्थापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम्। तेन रसभावादितात्पर्यमाश्रित्य विनिवेशनम्। 'अलंकृतीनां सर्वासामलंकारत्वसाधनम्' इति दृशा रसाद्याश्रयेणैवालंकाराणां विनिवे- शनं जीवितम् । अतश्रेहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्या- ङभावेन रसादेरलंकारत्वं युक्तम्। यदाहु :- 'प्रधानतां यत्र रसादयो गता रसो रसादि- ध्वनिगोचरो भवेत्। भवन्ति ते यत्र रसादिपोषका रसादयलंकारदशा हि सा पृथक् ॥' इति। ननु निर्वेदादीनां भावानां गर्भदासवत्कदाचिदपि स्वप्राधान्याभावात्सर्वदा रसाद- १. 'एषामुपनिबन्धे क्रमेण' ख.
Page 196
अलंकारसर्वख्म्। १८७
"किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥।'
दृत्व एव ध्वनिभेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशबलता- प्रशमात्मतया कथमलंकारत्वं वाच्यम्। तथात्वे ह्वभिधीयमाने ध्वनिभेदत्वमेषां न स्यात्। असदेतत्। इह हि निर्वेदादीनां त्रयी गतिः । तत्र 'व्यक्तः स तैविभावाद्यैः स्थायीभावो रसः स्मृतः' इति नीत्या विभावानुभावस्पर्घयैषां रसव्यञ्जकत्वमेका गतिः । तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्वात् 'फलवत्संधिनावफलं तदङ्गम्' इति नीत्या रसव्यज्कत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किं- चित्प्रयोजनान्तरम्। 'नायं कश्चुलिकाविमोक्षसमयः स्पृष्टो न काश्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना। न त्वत्कर्टकमर्थयामि निबिडं दो:कन्दलीबन्धनं तन्निष्कारणमेव बाललवलीवल्लीव किं वेपसे ।।' अत्रालम्बनविभावो लता, वेपनादिरनु- भावः, वितर्कश्र व्यभिचारिभावः। एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम्। व्यक्तश्र रसः सचेतसां दत्तफल इति नैषां किंचित्फलान्तरम्। अत एव रसाद्यङ्गभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम्। तथात्वे चाभिधीयमाने निर्वेदादे: प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः। अप्रधानस्य प्रधानत्वाभिधाने विरोधात्। एवं च गुणीभूतव्यङ्गयस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः । क्वचिदपि 'मुख्ये रसेऽपि तेऽदित्वं प्राप्नुवन्ति कदाचन' इति नीत्या राजानुगतविवाहप्रवृ- त्तभृत्यवद्विभावानुभावव्यञ्जितानां रसगुणीभावेनैषामेव प्राधान्यम्। यथा-'इतश्रारु- प्रेमप्रणयसुकुमारा वरवधूरितः स्वेच्छालभ्यानुपमफलमूला वनमही। इतो मौर्वीनादोन्मु- खनिखिलसैन्यो रणविधि: क्व नामायं सादक्तरलहृदयो रज्यतु जनः ॥' अत्र विभावा- नुभावाभ्यां व्यक्चितः शङ्गारादीनां रसानामप्ररुढत्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेर्ध्वनिभेदत्वम् । एवं चात्र चिन्तायाः शङ्गारादीन्प्रति तदङ्गत्वाभावान्न गुणीभावः। अत एव चात्र तत्प- रिपोषकत्वात्यागात्तदीयकार्याकरणाद्रसं प्रति गुणीभावात्स्वेनैव च निरतिशयप्रीतिकारि-
ख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादङ्गित्वम्। अत एव
१. 'तथा तत्वे ह्यमिधीयमाने' ख. २. 'अत्रालम्बनविभाव उषावेपनादिरनुभावः' क. ३. 'प्रधानस्य प्रधानत्वाभिधानविरोधात्' ख. ४. 'एवं गुणीभूत' क. ५. 'तत्परि- पोषकत्वत्यागात्' ख.
Page 197
१८८ काव्यमाला।
एतन्मतद्वयेऽप्युदाहरणम्। वाक्यार्थीभूतोऽत्र करुणो रसः । अङ्गभू- तस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम्। प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाह्ियते। प्रेयोलंकारो यथा-
च दष्टान्तदार्ष्टान्तिकयोर्न कश्चिद्विषम उपन्यासः । वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्ये- च्छाभावान्नैकतरपक्षाश्रयणमिति न कश्िप रसस्य प्रान्यम्। नाप्येषां परस्परविरो - धात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम्। एवं च निर्वेदादीनां गर्भदासवत्कदाचि- दपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम्। गर्भदासस्यापि कदाचिदन्ततो गर्भदासीं प्रत्यस्ति प्राधान्यम्। प्रधानाप्रधानभावस्यापेक्षिकत्वात्। 'क्वचिदप्यपरस्या- ङ्रम्' इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकारत्वम्। यथा-'कचकुचचिबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि। निबिडनिबिडनीवीग्रन्थिविस्तरंसने च्छोश्रतुर धिककराशा शार्ङ्िणो वः पुनातु ।I' अत्र शङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्य- विषयत्वेनोपनिबन्धमप्यौत्सुक्यं शार्ङ्गिविषयां रति प्रत्यङ्गमिति प्रेयोऽलंकारः। ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेतू, नैतत्। यस्मान्निमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गभतस्य वस्तुन उपस्काराघायकतयाङ्ग-
त्वात्। रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽङ्गतामुपयान्तीति तत्रैषां रसोपसर्जनी- भूतत्वात्तद्वयञ्जनमात्रमेव फलम् । अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम्, नाप्यलंकार- त्वम्। रसव्यक्तिव्यतिरेकिप्रयोजनान्तर निष्पादनत्वायोगात्। एवं निर्वेदादीनां रसव्यक्तौ सहकारित्वम्, अङ्गित्वे ध्वनित्वम्, अङ्गत्वे चालंकारत्वमिति विषयविभांगः। तस्मात् 'निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोSलंकारस्तदवयपेक्षो न वाच्यः। तस्मादेतेषां व्यङ्गयतायां ध्वनित्वं न प्राधान्यं क्वापि यस्माद्भजन्ते।। एतेन भावप्रशमादयोऽपि व्यङ्गयाः सदैव ध्वनितां प्रयान्ति। ध्वनित्वमिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादि: ॥' इत्यादि यदन्यैरुक्तं तदुपेक्ष्यम् । एतन्मतद्य इति। ध्वन्यभाववादिनां ध्वनिभाववादिनां च। तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः। शङ्गारापेक्षया तूदात्तम्। मतान्त- रेण तु करुणाभिप्रायेण रसध्वनिः । श्ृङ्गारापेक्षया त्वयमलंकारः । अन्र यद्यपि राजवि- षयाया रतेरद्गित्वात्करुणोSपि तदङ्गमेव, तथापि तस्य श्ङ्गारापेक्षयाद्गित्वमाश्रित्यैतदु- क्तम्। करुणश्र शरृङ्गारोपस्कृतः प्रतीयत इति तस्यालंकारत्वम्। एवमिति। यथा मतद्वयमपि संगच्छत ईत्यर्थः। तत्तु यथा-'का त्वं रक्तपटावगुण्ठितमुखी मुग्धे तवाहं सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम्। एतद्वक्रमुदञ्चयेति कथय- न्त्यालोक्य कूर्च ततः पत्युः स्मेरमुखाम्बुजस्य तरुणी जाता विलक्षस्मिता ।' अत्र वाक्यार्थीभूतः शङ्गारः, अङ्गभूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं १. 'निबद्धमप्यौत्सुक्यम्' ख. २. 'इत्युक्त:' क.
Page 198
अलंकारसर्वस्वम्। १८९
'गाढालिङ्ग नवामनीकृतकुच प्रोभ्भिन्नरो मोद्गमा सान्द्रसवेदरसातिरेकविगलच्छीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्ापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्।' अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः। यथा वा 'त्वद्वक्रामृतपानदुर्ललितया दृष्या क्व विश्रम्यतां त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः । एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः ।।' अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः। भा- वस्य चात्र स्थितिरूपतया वर्णनम्। शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा- 'दूराकर्षणमोहमन्र इव मे तन्नाम्नि जाते श्रु्ति चेतः कालकलामपि प्रकुरुते नावस्थिति या विना। एतैराकुलितस्य विक्षततरैरङ्वैरनङ्गातुरैः संपद्येत कदा तदाप्तिसुखमित्येतन्न वेझि स्फुटम् ।l' अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः। औत्सुक्यं च व्यभिचारि- भावः । अनौचित्येन प्रवृत्तौ समाहितं यथा- 'अक्ष्णोः स्फुटास्त्रु कलुषोऽरुणिमानिलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या।
व्याख्येयम्। यथा-'पार्वत्या रचितां कपालिवृषभारूढं विलासाङगदग्रन्थिकान्तमहाहिलो- चनलसज्जवालं पिनाकाङ्गितम्। कन्दर्पापितशासनां कविवलत्कंकालमर्घेन्दुमद्भस्माङ च पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः ॥' अत्र भगवद्विषयाया रतेर्नव रसा अङ्गम्। विशेषमिति। अङ्गाङ्गितवेन। तेन ध्वन्यभाववादिमतेनाङ्गाद्गित्वमेवैषामाश्रित्योदाह्ियत इति तात्पर्यम्। सावालंकार इति। निर्वेदादीनां भावानां स्थित्यात्मकतयोपनि- बध्यमानत्वात्। शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम्। अनेन चास्य समाहि-
१. 'प्रोद्दूत' क.
Page 199
१९० काव्यमाला।
भावान्तरस्य तव चण्डि गतोऽपि रोषो नो गाढवामनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम्। भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः । भावस्योक्तरूपस्योदय उद्गमावस्था, संधि: द्वयोर्विरुद्धयोः स्पर्धित्वेनोप-
तादिभ्यो वैलक्षण्यं द्योतितम्। तेन यत्र भावस्य स्थितिस्तत्रायमलंकारः, अन्यथा त्व- न्येऽलंकारा इति। एवमिति। यथैतदुदाहृतमित्यर्थः । अन्यत्रेति । ध्वनिवादमते एषामङ्गत्व इत्यर्थः । तत्र प्रेयोऽलंकारः 'कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयो- दाहृतः । देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः। नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ।' अत्र भवद्विषयाया रतेर्मरणविषया रतिरङ्गमिति प्रेयोऽलंकारः। ऊ- र्जस्वी यथा-'वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां क्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैद्शां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यथिभिः स्तूयसे ।I' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावङ्गम्। व्यभिचारिभावापेक्षया पुनरयं यथा- 'द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप। मुहुर्मुहुरूयश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः ॥' अत्र शबराणां परदारविषयमौत्सुक्यमनौचित्येन प्रवृत्त- मिति भावाभासो राजविषयां रति प्रत्यङ्गम्। समाहितं यथा-'अविरलकरवाल कम्प नै - भ्रुकुटीतर्जनगर्जनैर्मुहुः । दद्दशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् II' अत्र राजविषयाया रतेरङ्गभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युचाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बि- भ्रती किमपि न क्ान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र राजविषयाया रतेरङ्गभूतस्य भविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम्। अत एव च समाहितं यदन्यैर्न लक्षितं तद- त्यन्तमेवायुक्तम्। तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात्। व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभतीनामलंकारत्वं निरस्तम् । यदुक्तम्-'त- स्मावयभिचारापेक्षया प्रेय ऊर्जस्विसमाहितभावोदयसंधिशबलत्वानि न पृथगलंकाराणि वाच्यानि' इति। तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणीयत्वं युक्तम्। भावे- त्यादि। एतदेव व्याचष्टे-भावस्येत्यादि। उक्तरूपस्येति। व्यभिचारिदेवा- दिरतित्वेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति । उद्गमावस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रेयोSलंकार एव स्यात्। एते इति। भावोदय-
Page 200
अलंकारसर्वस्वम्। १९१
निबन्धः, शबलता च बहूनां पूर्वोपमर्देन निबन्धः । एते च पृथगरसवदा- दिभ्यो भिन्नालंकाराः । एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेनानिर्दिष्टत्वात्। अथ च संकरसंसृष्टिवैलक्षण्येन। एते च सर्वालंकाराः पृथक्वेवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम्। संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थिति- स्तद्वैलक्षण्यप्रतिपादनमेतत्। तत्र भावोदयो यथा- 'ए कस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा- न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।।' अत्रौत्सुक्यस्योदयः। भावसंधिर्यथा- 'वामेन नारीनयनास्रधारां कृपाणधारामथ दक्षिणेन। उत्पुंसयन्नेकतरः करेण कर्तव्यमूढ: सुभटो बभूव ॥'
भावसंधिभावशबलतास्त्रयोऽलंकाराः। ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तङ्रहणेनेत्याशङ्कयाह-एतदित्यादि । अथ चेति पक्षान्तरे। एत इति। पूर्वोददिष्टाः । सर्वालंकारा इति । पुनरुक्तवदाभासादिभावशबलान्ताः । केवलत्वे- नेति। तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात्। तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्यात्तात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः । अत एवात्र संसष्टसंकरव्यपदेशः । यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम्। त- देवाह-संसृष्टीत्यादि। यत्त पूर्वत्र कुत्रचिदुदाहरणेषु संकराधलंकारत्वमस्ति तत्तत्र संभवमात्रेण निदर्शनीकृतम्। न तु साक्षादलंकारत्वम्। तत्तत्र तथाविधस्योदाहरणस्य स्वयमेव लक्ष्यादभ्यूहः कार्यः । एतदुदाहरणत्रयं ध्वन्यभाववादिमतेन ग्रन्थकवृतोपात्तम्। ध्वनिवादिमतेन पुनरुदाहियते। तत्र भावोदयो यथा-'साकं कुरङ्गकदृशा मधुपानलीलां कर्तु सुहृद्भिरपि वैरिणि च प्रवृत्ते। अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ।I' अत्र राजविषयाया रतेरङ्गभूतस्य त्रासस्योदयः । भावसंधि- र्यथा-'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैल- दुहितुः। प्रमोदं वो देव्याः कपटबटुवेषापनयने त्वरातैथिल्याभ्यां युगपदभियुक्त: स्मर- हरः ॥' अत्र भगवद्विषयाया रतेरङ्गभूतयोरवेगधैर्ययोः संधिः। भावशबलता यथा-'प- १. 'शबलत्वेनेति' क. २. 'शाम्भमात्रेण' क. ३. 'दिश्यात्' ख.
Page 201
१९२ काव्यमाला।
अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः । भावशबलता यथा- 'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं सुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः सवप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽघरं पास्यति॥' अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता। तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः । अधुनैषां सर्वेषामलंकाराणां संश्क्लेषसमुत्थापितमलंकारद्वयमुच्यते। तत्र संश्लेष: संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्था- नम्। तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः, इतरत्र तु क्षीरनीरसाद- श्यम्। क्रमेणैतदुच्यते- एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किं पृथक्त्वेन
श्येत्काश्वचल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्फलकिशलयान्यादधाना- भिधत्ते ।I' अत्र राजविषयाया रतेः शङ्कासूयाधृतिस्मृत्यौत्सुक्यदैन्यौत्सुक्यानां पूर्वपूर्वापम- देनोपनिबद्धानामङ्गत्वम्। देवताविषयरत्यात्मभावापेक्षया पुनरुदाहरणत्रयं यथा-'त्रि- शङ्को: परिपूर्णानां पुण्यानामस्तलक्षणम्। यदकस्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा ।।' अत्र विश्वामित्रविषयाया रतेरुदयः । 'परिचुम्बनीयचलकाकपक्षकं तन ्थं वितरतु क्षिते: पतिः । अभिवन्दनीयतमपादपङ्कजं सहसा प्रतीपयतु वा कथं मुनिम् ॥' अत्र सुतमुनिविषययो रत्याख्यभावयोः संधिः । 'त्याज्यो नैष शिशुः सुतो रघुकुले याति प्र- तीपो गुरुस्ताम्यन्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः। यात्य्मिन्नवसादमेति हृदयं स्वार्थ: परार्थेन मे व्यामुह्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् ॥' अत्र पुत्रा- दिविषयाणां रतीनां पूर्वपूर्वोपमर्देनोपनिबद्धानां शबलत्वम् । अत्र च रते रामचरितं प्रत्य- दृत्वमित्यलंकारत्वम् । अलंकारान्तरलक्षणं कर्तु चोपकमते-अधुनेत्यादि। अधु- नेति प्राप्तावसरम्। एषामिति। पूर्वोद्दिष्टानाम्। तन्रेति। अलंकारदवये। तस्यै- वेति। भेदस्य। स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव। अत एव तिलतण्डुलन्यायः, क्षीरनीर- न्यायश्चेत्युक्तम्। एषामित्यादि। एतदेवोपपादयितुमुपक्रमते-उकेत्यादिना।
Page 202
अलंकारसर्वस्वम्। १९३
पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते-तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपल- भ्यते। तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्यवसानमिति निर्णयः । अलं-
तदेतत्पक्षद्वयमध्यादृष्टान्तोपदर्शनद्वारेणालंकारान्तरत्वमेव सिद्धान्तयितुमाह-तत्रेत्या- दिना। संघटनाकृतमिति। एकत्रैव द्वयोबहनां वालंकाराणां युगपद्विनिवेशनं सं- घटना, तथा कृतम्। तदुत्थापितमित्यर्थः। चारुत्वान्तरमिति। एकैकालंकारनिबन्ध- नात्प्रकृतत्वाच्चारुत्वादन्यत्सातिशयमिति यावत्। उपलभ्यते। स्वसंवित्सिद्धतया साक्षा- त्क्रियत इत्यर्थः । तेनेति। चारुत्वान्तरोपलम्भेन। नहि विषयभूतालंकारातिशयमन्तरे- णोपलम्भातिशयो भवितुमर्हतीति भावः। ननु शब्दार्थालंकाराणां संघटनामात्रेणैव कथ- मलंकारान्तरत्वमुक्तम्। भिन्नकक्ष्यत्वेनैषामेकबुद्धयुपारोहासंभवाच्चारुत्वान्तराभावात्। तेषां हि संघटितत्वेऽपि 'अलंकारेषु चारुत्वं तद्वूद्विदि विभिद्यते। यथैव साधु माधुर्यमिक्षुक्षीरगुणा- दिषु ।' इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भिन्नत्वमेव न्याय्यम्। नापि लौकिकालंकार- वदेतेषां संघटनाकृतं चारुत्वान्तरमुपलभ्यते। नहि मौक्तिकपझ्मरागेन्द्रनीलादिवत्सचेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते। शब्दार्थयोरभिन्नेन्द्रियग्राह्यत्वेन भिन्न- जातीयत्वात्। असदेतत्। तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डुला- दिषु न समताप्रत्ययः समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपालम्भातू, तथैव भिन्नकक्ष्याणामलंकाराणां संघटनाबलेन पूर्वापरैकीकारेणैकबुद्धधिरोहादुपलभ्यत एव कश्चन संसर्गो नाम यस्य संसृष्टिसंकरव्यपदेशार्हत्वम्। अपि च रूपभेदेऽप्यविच्छेदा- देकत्वम्। 'चित्रपत्रक' इत्यादिनीत्या चित्रास्तरणादौ यथा स्वरूपस्य रूपान्तराद्वयावृत्त- त्वेऽपि विच्छेदानवभासोदकघटक्षिष्टाकारप्रत्ययः । चित्ररूपमप्येकमेव वस्तुरूपं भासते। तथैव भिन्नकक्ष्याणामध्यलंकाराणां संघटमानत्वेन प्रतीतावेकतावसाय इति युक्तमेव सं- सटष्टाद्यलंकारान्तरत्वम्। इक्ष्वादीनां च माधुर्यस्य भेदेऽपि संमीलनायां पानकादिरसनि- ष्यत्तावुपलभ्यत एव कश्चिद्वैचित्र्यातिशयस्तद्वदेषामपीति युक्तमलंकारान्तरत्वम्। न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम्। एकत्रैवैकस्य द्वयोरबहूनां वालंकाराणामवगमे यथायथमतिशयोत्कर्षस्य स्वसंवित्साक्षिकत्वेन वेद्यमानत्वात्। संघटमानत्वेन च प्रतिपत्ति- रलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति। न तु कुलकादौ, विदूरतया तस्यास्ता- वत्या: प्ररोहासंभवात्। यदाहु :- 'वाक्यार्थभेदेऽप्येकश्रोकान्तर्गतत्वेनालंकारस्यालंकारा न्तरसाहित्यं प्रतिभात्येव। अविदूरत्वाद्विभिन्नश्लोकगतत्वेन वाक्यभेदे व्यवहितत्वान्न भ- वति संसृष्टिः।' इति। कुलकादावप्यलंकाराणां वाक्यैकवाक्यतया यद्यविच्छेदेन प्रतिपत्ति-
१. 'संघट्टमानत्वेन च' ख. २. 'संसृष्टाद्यलंकारत्वम्' क. २५
Page 203
१९४ काव्यमाला।
प्ररोहः स्यात्तदात्रापि संसष्टयाद्यभ्युगमे न कश्चिद्दोषः । ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुद्धयधिरूढादुपपद्यत एव सामगा- देरकस्य वस्तुनोऽवगमः । इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेक- बुद्धयधिरूढाभावात्तदलंकाराणां युगपत्प्रतीतिरेव नास्तीति कथमेकस्य संसर्गादेर्वस्तुनोऽव- भासो यस्यापि संसष्टयाद्यलंकारान्तरव्यपदेशार्हत्वं स्यात्। अत्रोच्यते। श्रोत्रकरणत्वाच्छ- व्दावगमस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावदविवादः। अत एव च तयोरे- कबुद्धयधिरोहादयुगपत्प्रतीतेः संसर्गावगमः । सति च संशये चारुतातिशयोपसर्जन इत्यत्र संसष्टाद्यलंकारत्वम् । एवमर्थावगमस्यापि शव्दकरणत्वात्समानजातीययोः संसष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम्। शव्दार्थयोः पुनरुपायभेदेऽपि तदलंकाराणां सुगन्धिब- न्धूकबोधन्यायेन मानसबोधन्यायेन मानसज्ञानविषयत्वादयुगपदवभासः सिद्धधतीति लौ- किकालंकारवदेव शब्दार्थोभयालंकाराणां संसर्गे लब्धपरभागतयावभासत एव चारुत्वा- न्तरमिति न्यायप्राप्तमेव संसृष्टयाद्यलंकारत्वम्। यत्पुनरन्यैः शब्दार्थयोभिन्नजातीयत्वे भि- न्नेन्द्रियग्राह्यत्वं निमित्तमुक्तं तदुपेक्ष्यमेव। शन्दार्थशरीरे काव्ये शव्दप्रतिपाद्यस्यैवार्थ- स्याङ्गत्वात्तचक्षुरिन्द्रियग्राह्यस्य बाह्यस्यानौपयिकत्वात्। यद्येवं पूर्वलक्षितानामनुप्रासोपमा- दीनामभावः स्यात्। असंकीणानामलंकाराणामसंभवात्सर्वत्र संसटष्टिसंकरयोरेव भावादेषां विषयापहारात्। नैतत्। असंकीर्णानामलंकाराणां सहस्रशो दर्शनात्। तथाहि-'यशो- वर्माणमुल्लद्म्य हिमाद्रिमिव जाह्वी। सुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ उत्तराः कुरवोऽविक्षुस्तद्द्याजन्मपादपान्। उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ जयार्जित- धनः सोथ प्रविवेश स्वमण्डलम्। भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् ॥ राजता- न्क्वापि सौवर्णान्क्कापि देवान्विनिर्ममे। पार्श्वेषु मुख्यदेवानां पार्थिवो धनदोपमः॥तुः खा- रश्चङ्कणश्चक्रे स्वनामाङ्कविहारकृत्। भूपचित्तोपमं स्तूपं जिनार्हसमयास्तथा ॥ ईशानदेव्या तत्पत्न्या खाताम्बु प्रतिपादितम्। सुधारसमिव स्वच्छमारोग्यादायि रोगिणाम् ॥ संजग्राह स देशेभ्यस्तांस्तांनन्तरविज्जनान्। विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ अभेद्य- सारे मयि तु व्यक्तमेवं विधीयते। प्रयासः कुण्ठतां यातो लोहे वज्रमणाविव।। निदेशेनैव संपश्य पयः सूतेऽय मेदिनी। रसितेनाम्बुवाहस्य रत्नं वैड्र्यभूरिव॥ इत्युक्त्वा सोऽम्बु निष्क्रषठं कुन्तेनोर्वीमदारयत्। उ्निहीर्षुर्वितस्ताम्भ: शूलेनेव त्रिलोचनः ॥ श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः । स्वप्नान्तर्हारिते पुत्रे प्रबुद्धोऽग्र इवेक्ष्यते ॥ अत्रस्थैः स- र्वदा रक्ष्यः स्वेदः प्रभविष्णुभिः । चार्वाकाणामिवैषां हि भयं न परलोकतः ॥' इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उपमायाः शुद्धमुदाहरणजातम्। एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम दर्शयितुमलम्। उप- मैव चानेकालंकारबीजभूतेति तन्निदर्शनमेव कृतम्। एवमन्यालंकाराणामपि सहस्रशश्रा- त्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम्। तस्मादेषां विषेयत्वं प्रविरलविषयत्वं १. 'अविक्षन्' इति राजतरङ्गिण्याम्. २. 'अविषयत्वं' ख.
Page 204
अलंकारसर्वस्वम्। १९१
कारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैघम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः। अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलत- ण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा। शब्दालंकारगतत्वेन, अर्थालंकारगत- त्वेन, उभयालंकारगतत्वेन च। तत्र शन्दालंकारसंसष्टियथा-
वेनितया विद्धे कलमेखलाकलकलोऽलकलोलदृशान्यया ।।' अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः । अत्रैव 'अलकलोलकलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः। अर्थालंका- रसंसृष्टिर्यथा- 'देवि क्षपा गलति चक्षुरमन्दतार- मुन्मीलयाशु नलिनीव सभृङ्गमनम् । एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्क: ॥' अत्र सजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः। 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥' च न वाच्यम्। प्रविरलविषयत्वेSप्युपमादीनां न संसष्टिसंकरयोरेव लक्षणीयतया प्राप्ति- स्तावन्मात्रविषयस्वीकारायाप्येषों पृथग्लक्षयितुमुचितत्वात्। एवं चन संसृष्टिः । पूर्व हाराच्ारुत्वाभावाच्चेत्यादयुक्तमयुक्तम्। अत एव च 'तस्मात्समस्तविषये प्रतिबन्धकारे सं- सटष्टिसंकथने चलिते विदूरम्। प्राधान्यतः स्वविषयं सुविशालमाप्य सर्वोऽप्यलकृंतिगणो रसतां चिराय I।' इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम्। नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टि: संकरो वास्तु, किं द्वाभ्यामित्याशङ्गयाह-[अलंकारान्तरत्वेऽपि चेति 1] श्रीभोजदेवेन पुनर्भेदस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्टयाख्य एक एवालंकार उक्तः । विजातीययोरिति । यमकानुप्रासयोभिन्नलक्षणत्वात्। अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङगं यमक- मिति संकरोदाहरणं न वाच्यम्। अत्र हि यमकसर्गस्योपकरान्तत्वात्तत्रैव कवितुः सं- १. 'वदनसौरभ' क. २. 'वलितया' क. १. 'एकलक्षणीयतया' क. २. 'एषा' क. ३. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते. ४. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्.
Page 205
१९६ काव्यमाला।
रम्भातिशयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमङ्गत्वं युक्तं न पुनविपर्ययः । सकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात्। नाप्यत्र परस्परमङ्गाङ्गिभावो युक्तः । इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विघाङ्गाङ्गिभावः । तत्राद्यो द्विधा। सार्वत्रिकः, प्रादेशिकश्चेति। तत्र सार्वत्रिको यथा विभावनातिश- योक्त्योः। 'आश्िष्टातिशयोक्तिस्तु सर्वत्रैव विभावना' इति दृशा विभावनायाः सर्वत्रै- वातिशयोक्त्यपेक्षात्। प्रादेशिको यथा श्रेषातिशयोक्त्योः । 'रजनीमुखम्' इत्यादों क्वचि- दिव श्लेषवशेनातिशयोक्तरुत्थानात् । 'कमलमनम्भसि' इत्यादौ श्रेषमन्तरेण तस्याः संभवात्। एतद्भेदद्वयं च न संकरस्य विषयः। तस्य स्वहेतुबलाल्लब्धसत्ताकानामलंका- राणां संसर्गे वक्ष्यमाणत्वात्। द्वितीयो यथा-'अङ्गलीभिरिव' इत्यादौ। अत्र हि स्व- हेतुबलेन लब्धसत्ताकानामुपमादीनां परस्परमुपकार्योपकारकत्वमात्रं येनाङ्गाङ्गिभावः। न ह्यत्रोपमयोः परस्परं स्वरूपनिष्पत्तावुपेक्षा काचित्। एकतराभावेऽप्येकस्याः स्वरूपो- त्थानात्। एवमुपमाद्वयपरिहारेण केवलाप्युत्प्रेक्षा स्यात्। स्थितानां पुनरेषामियं चिन्ता यच्चुम्बने केशग्रहणादेरुचितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनाङ्गाङ्गिभावंः । एवं च तेन प्रधानतायामुपमादीनां निजं निजं नाम। अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गि- भावेऽपीत्याद्यन्यैरयुक्तमेवोक्तम्। इह पुनर्यमकानुप्रासयोनिमित्तनिमित्तिभावः । सर्वत्रै- वानयो: स्वरूपनिष्पत्तावन्योन्यानपेक्षत्वात्। तत्त्वेऽपि समनन्तरोक्तयुक्त्या संकरायो- गात्। न च स्वहेतुभ्यो लब्धसत्ताकयोरप्यनयोः परस्परमङ्गाङ्गिभावः । शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वभावात्। अथ वर्णसावर्ण्येन वैचित्र्यातिशयाधायकत्वेनानयो- रुपकार्योपकारकभाव इति चेत्। न। इयमेव हि संसष्टिदयोर्बहूनां वालंकाराणां परस्पर- निरपेक्षाणामपि संसर्गे सति चारुतातिशयप्रतिपत्तिः । एवमर्थालंकारसंसष्टावपि संकरो- दाहरणत्वं न वाच्यम्। न हि तत्रोपमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्मा- ङ्गाङ्गिभावः। यद्ेवं दशदाडिमादिवाक्यवचनयोरसंबद्धत्वं स्यादिति चेत्, न। चक्षुरुन्मी- लनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात्। न च पाकलक्षणमेकमेवार्थमुररी- कृत्य व्यवस्थितानां स्थाल्यादीनामप्यन्यः कश्चित्संबन्धः । अथोपमालिङ्गितस्य चक्षुरु- न्मीलनस्योत्प्रेक्षाश्रिष्टः शशाङ्काम्बरत्यागः पारम्पर्येण हेतुत्वेनोपनिबद्ध इति स्वाश्रयभ्- तार्थवदनयोरप्यङ्गाङ्गिभावोऽस्तीति चेत्। नैतत्। उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मी- लनादेरहेतुहेतुमद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संबन्धाभावात्। नाप्यत्रोपमाया वाक्यार्थत्वम्। तस्या अप्युत्प्रेक्षादिवच्चक्षुरुन्मीलनाङ्गत्वेनावस्थानात्। अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम्। शशाङ्काम्बरत्यागोपपादितस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात्। एवं परं प्रत्युपसर्जनीभूतयोरवान्तरसंबन्धाभावेSप्युपमो- त्प्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति यथोक्तमेव संसष्टयुदाहरणत्वं युक्तम्। एवम् 'अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत्। अनन्वितत्वाद्दशदा- १. 'अपेक्षत्वात्' ख. २. 'श्रेषमन्तरेणापि' ख.
Page 206
अलंकारसर्वस्वम्। १९७
अत्रोपमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः। उभयसंसृष्टिर्यथा- 'आनन्दसुन्दरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु मे' विजयाय मञ्जु-
अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जि तयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादु- पमां प्रसादयति। तदेवं संसृष्टिस्त्रिधा निर्णीता। अधुना क्षीरनीरन्यायेन संकर उच्यते- क्षीरनीरन्यायेन तु संकरः। मिश्रत्व इत्येव। अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः । तच्च मि-
डिमादिवाक्यादिवदूषणमेव तहि ॥ अथान्वयोऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम्। तदा न संसृष्टिकथा गुणस्य पराङतायां खलु संकरः स्यात् ॥ एकत्र चेदङ्गिनि संगतं स्याद्यं तदन्योन्यसमीलनेन। न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियो- गात् ।I' इत्यादयुपेक्षणीयमेव। न चात्रायं चालंकार इत्यार्थोऽलंकारसमुच्चय इति वा- च्यम्। धर्मयौगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयौ- गपद्यस्य तल्लक्षणत्वाभावात्। तथात्वाभ्युपगमे चायं नाम्रि विवादः। एवं हि संसृष्टया किम- पराद्म्। 'अत्र चोदं करिष्यामि' इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्यशुद्धं प- ठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव। अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिरिति सर्वत्रैव सुस्पष्टः पाठः। उत्प्रेक्षयोरिति । प्रथमार्धगतयोः । यद्यपि चानयोद्वितीयार्धगतया- प्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रेक्षयोरुदाहृतत्वात्सजातीयाभि- प्रायेणैवमुक्तम्। नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम्। त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात्। उभयसंसृष्टिरिति। अनुप्रासोपमयोः श- व्दार्थालंकारत्वात्। व्यवस्थापकमिति। मञ्जीरशिञ्जितयोगस्य पादगतत्वेनौचि- त्यात्। प्रतिकूल इति। अम्बुजस्य मञ्जीरशिञ्जितायोगातू। पारिशेष्यादिति। उपमारूपकाभ्यामन्यस्याप्राप्तेः । एतदेवोपसंहरति-तदेवमित्यादि । त्रिधेति। यद्यपि सजातीयविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम्, तथापि तदुद्दिष्टस्यैवान्तर्भ- वतीति यथोक्त एवायमुपसंहारः ॥ इदानीं संकरमवतार्यति-अधुनेत्यादि। तदेवाह- क्षीरेत्यादि। तदिति। यथोक्तरूपम्। त्रिभेदमिति। अङ्गाङ्गिभावादिना। प्रसा- १. 'ते' क.
Page 207
१९८ काव्यमाला।
श्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च। त्रिधाभवत्संकरं त्रिभेदमुत्थापयति। क्र्मेण यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुब्जलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥।' अन्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसा- घिका। रजनीमुखमिति श्लेषमूलातिशयोक्तिः। प्रारम्भवदनाख्ययोर्मुख्य- योरभेदातिशयात्। अत एवं तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमा- सोक्तिः। उपमाश्ल्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षया 'चुम्बतीव' इति प्रकाशिताया अनुग्राहिका। तद्वलेन तस्याः समुत्थानात्। सा च समु- त्थापिता समुत्थापकानां चमत्कारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः । यथा वा- 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान्। मन्येऽस्तशैलात्पतितोऽत एव विवेश शुच्ै वडवाग्निमध्यम् ।।' अत्र प्रथमार्घे विरोधोत्पत्तिहेतु: श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्ेक्षा। अतश्राङ्गा- द्विभावः । तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः। यच्चात्र कार्य- मुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ। तेनात्राङ्गाङ्गिभावः सं- करः। न च विरोधोत्पत्तिहेतौ श्लेषे श्रलेषस्य विरोधेन सहाङ्गाङ्गिभावः सं- धिकेति। आनुगुण्यकारित्वेनाङ्गमित्यर्थः। श्लेषमूलेति। श्रेषहेतुकेत्यर्थः। अत्र च यथा- झाङ्ितया संकरस्तथा पूर्वमेवोक्तम्। अत एवोपमाद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इत्युपसंहारः। श्लेषानुगृहीतेति। श्रेषमन्तरेणास्या अनुत्थानात्। तद्वलेनेति। तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः। समुत्थानादिति। उपकार्यत्वेन। उदाहरणान्तरोपादानं दा- वाप्ति(?) प्रदर्शनपरम्। श्ेष इति। औद्भटानामिति शेषः।द्वावलंकाराविति। हेतुहेतु- मद्रूपावित्यर्थः। श्रेषमन्तरेण। विरोधस्यानुत्थानात्। तद्नुगृहीतेति। श्रेषमूलविरोधोप- कृतेत्यर्थः। अङ्गाद्गिभावमेव विभजति-तथा हीत्यादिना। कार्यमिति। पतित्वाननिप्र- वेशलक्षणम्। एतच्ोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम्। तेनेति। उत्प्रेक्षाविरोधोपकृतत्वेन। ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकरस्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्रेष- योश्च किं संकर उत नेत्याशङ्याह-न चेत्यादि। एतचोद्भटमतानुसारश्लषस्य प्राधा-
Page 208
अलंकारसर्वस्वम्। १९९
करः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात्। अतश्च निरवकाशत्वाद्वाधकत्वम्। न च मन्तव्यं विरो- धमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति। यतो न ब्रूमो विरोधमन्तरेण श्लेषो न भवतीति। किं तर्ह्यलंकारान्तरविविक्त्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाघः। तन्मध्ये च विरोधोऽनु- प्रविष्ट इति सोऽपि न बाध्यत इति न कश्रिद्दोषः। एवमर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहतो यथा- 'राजति तटीयमभिहतदानवरासातिपातिसारावनदा। गजता च यूथसविरतदानवरा सातिपाति सारा वनदा ॥' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गि- संकर इति। एतत्तु न सम्यगावर्जकम्। शब्दालंकारयोः शब्दवदुपका- र्योपकारकत्वाभावेनाङ्गाद्गिभावाभावात्। शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी। यथोदाहृतं पूर्वम्। यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दशितो द्वितीयः प्रकारस्ु संदेहसंकराख्यः । यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाघकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः । यथा-
न्याभिप्रायेणोक्तम्। स्वपक्षाभिप्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम्। अत्र च यथा न संकरालंकारस्तथा पूर्वमेवोपपादितम्। अत्र ह्युभयथाप्येक एवालंकारः। न चैकस्य संकरो युक्तः । तस्य द्विप्रभृतीनामलंकाराणां सिश्रत्वे संभवात्। अतश्चेति। विरोधगु- णीभावेन श्लेषस्यैव समुत्थानात्। यत्तु ग्रन्थकृता स्वताश्रयेणैतदपि नोक्तम्, तत्राय- माशयः । यावता हि यत्रालंकारान्तरस्वरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम्। तच्ैवमपि सिद्धयतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वा- भ्यनुज्ञानात्मप्रयोजनम्। तन्मध्य इति। श्लेषाद्वयतिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः । दोष इति। सावकाशत्वापत्तिरूपः। कैश्चिदिति। काव्यप्रकाशकारादिभिः। उदाहृतमिति। कुसुमसौरभेत्यादिना। यद्वेति। पक्षान्तरे। एकवाचकेति। य एव शब्दा यमकस्य वाचकास्त एव चित्रस्येति द्वितीय इत्यङ्गाङ्गिभावात्। साधकमिति। अनुकूलम्। न्यायप्राप्त इति। साधकबाधकप्रमाणाभावादेकस्यानिश्रयात्। संदेहमेवोपपा-
Page 209
२०० काव्यमाला।
'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः। सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।' अत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणाभावे उत्कण्ठाया उत्पत्तौ विभावना। स च कारणाभावो 'यः कौमारहरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः' इत्याद्युत्कण्ठाकारणसन्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः 'समुत्कण्ठते' इति विरोधोत्पत्तिमुखेनोक्ता। अत एव द्वयोरप्य- स्फुटत्वमन्यत्रोक्तम्। न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति संदेहसंकरोडयम्। यथा वा- 'यद्वक्रचन्द्रे नवयौवनेन रमश्रुच्छलादुल्लिखितश्चकास्ति। उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥।' अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति किं रूपक- मिति संशयः । उभयथापि समासस्य भावात् । 'उपमितं व्याघ्रादिभिः' इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात्। मयूरव्यंसकादित्वात्तु रूप- कसमासः। मयूरव्यंसकादीनामाकृतिगणत्वात्। न चात्र क्वचित्साधक- बाधकप्रमाणसद्भाव इति संदेहसंकरः ।
दयति-तथा हीत्यादिना।उत्कण्ठाकारणाभाव इति।कौमारहरवराद्यसंनिधा- नरूपस्य कारणस्याभाव इत्यर्थः। विरुद्धमुखेनेति। तत्संनिधानद्वारेणेत्यर्थः। अत एवे- ति। दयोरपि विरुद्धमुखेनोपनिबन्धात्। अन्यत्रेति। काव्यप्रकाशादौ। उभयथेति। उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्रणद्वयेनापि हि स्वीकृतत्वमिति भावः । क्वचिदिति। उपमायां रूपके वा। न चैतदलंकारसारकारादीनां मतम्, अलंकाराणां संदेहायोगात्। तथा हि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्येषामपि निश्चयोत्पादनात्। सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनमू। तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्र-
Page 210
अलंकारसर्वेख्म् । २०१
यत्र तु कस्यचित्परिग्रहे साधकं वाधकं वा प्रमाणं विद्यते तत्र नि- यतपरिग्रहः। तत्रानुकूत्यं साधकम्, प्रातिकूल्यं बाधकम्। तत्र सा- धकं यथा- 'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने। नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ।।' अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम्। तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात्। उपमायास्तु न बाधकम्। शंक- रेऽपि तस्योपचरितस्य संभवात्। यथा वा- 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि। संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥'
मातगतत्वात्। संदेहोऽपि पर्यवसानेऽवश्यमेकतरपक्षाश्रयणम्, उत्तरकालं बाधकप्रत्य- योहासात्। इह च संदेहेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकार: स्यात्, तस्यैव वाक्यार्थत्वेन प्ररोहात्। वाक्यार्थीभाव एव त्वलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम्। न चोभयोरपि वाक्यार्थीभावो विप्रतिषेधात्। संदिग्धश्च वाक्यार्थो दोष इत्यविवादः । न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः । विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि 'चेतः समुत्कण्ठते' इत्युत्कण्ठोदय- स्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात्। अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्त- र्बांध इति विभावनाया एव वाक्यार्थीभावः । उत्तरोदाहणे रूपकस्यैव निश्चयः । य- तोऽन्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्त उत्वाद्विप्रतिषेधः । ततश्र 'विप्रतिषेधे परं कार्यम्' इति परत्वाद्रपकसमासप्रवृत्तिः रूपकस्य साधनं प्र- माणमू। अत एवात्र यदन्यैः 'अबाधेन गतौ संभवन्त्यां बाधणातरप्रामाणिका' इति न्यायाल्लक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम्। तदयुक्तम् । भवन्मते च समासां प्रायशो लक्षणप- रत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्यवाधेन गतेरसंभवादुपमाया अपि नास्ति बा- धकप्रमाणसदभ्ाबः । अथोपमायां लक्षणा रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तु- ल्यत्वमिति चेत्, नैतत । एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात्। अयं हि बाघगतेरेव प्रतीयते तत्र तत्समास एव कार्य इत्याह-यत्र त्वित्यादि। एतदेव दर्शयति-तन्ने- त्यादिना। न बाधकमिति। न पुनःसाधकमपीत्यर्थः। बाधकत्वाभावमात्रेण साधक- त्वानुपपत्तेः। तथात्वे ह्यन्रापि संदेहसंकरः स्यादिति भावः। यथा वेति। पूर्वत्र संकरेSप्यु- पचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्योदाहरणस्य पुनरुपादानम् । २६
Page 211
२०२ काव्यमाला।
अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम्। बाधकं यथा- 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृतौ। विनिद्र जृम्भितह रिर्विन्ध्योदधिरजायत ।।' अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधा- रणं विशेषणं बाधकं प्रमाणम्। 'उपमितं व्याघ्रादिभिः सह सामान्याप्र- योगे' इति वचनात्। उपमासमासे प्रतिकूलत्वात्। अतश्च पारिशेष्या- द्रूपकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया। न ह्याशे- षेन पञ्चाशत्सिद्धिः। न ह्येकेनालंकारेणापक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा। नापि धर्मसूत्रकारवचनम्। नाप्येष न्यायः । उत्तरोत्तरसा- म्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात्। वि- पर्ययस्तु दुष्ट एव। यथा-'येनेन्दुर्दहनं विषं मलयजं हारः कुठारा- यते।' तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंस- केनाकृतिगणत्वाद्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम्। एवं 'भाष्याब्धिः क्कातिगम्भीरः' इत्यादौ द्रष्टव्यम्। साधकबाधकाभावे तु संदेहसंकरः । यथोदाहृतम्। तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः । यत्रैकस्मिन्वाचकेऽने- कालंकारानुप्रवेशः, न च संदेहः। यथा- साधारणमिति। सामान्यप्रयोगे हि विन्ध्य उदधिरेवेत्यसमास एव स्यात्। यथा-पुरु- षोडयं व्याघ्र इव शूर इति।अतश्चेति। उपमाया बाधकप्रमाणसंभवादप्रवृत्तेः। पारिशे- व्यादिति।न पुनः साधकप्रमाणसंभवादित्यर्थः। उचितत्वादिति। रूपकनिर्वाहेण सा- म्यस्याधिक्येन प्रवृत्तिः। विपर्यय इति।रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्यलाघवेन प्रतीतेः । 'स्वेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादता यत्कल्याणपराुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि बालं फलम् ॥' इति चास्य पादत्र- यी। एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्रकर्षालंकारैनिर्वा हो न कार्य इत्यप्यनेन सर्वालं- कारशेषत्वेनोक्तम्। प्रकृत इति। शरदीवेत्यादौ। द्रष्टव्यमिति। उपमाया बाधकत्वं प्रति गम्भीरत्वस्य सामान्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरि्रह एव युक्त: । उदाहृतमिति।'यः कौमारहरः' इत्यादिना। नच संदेह इति। संदेहसत्कारे यद्यप्ये- कवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोऽस्तीति ततोऽस्य वैलक्षण्यम्।
Page 212
अलंकारसर्वस्वम्। २०३
'मुरारिनिर्गता नूनं नरके परिपन्थिनी। तवापि मूर्धि गङ्गेव चक्र्धारा पतिष्यति ॥' अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकपरिपन्थि-
प्रविष्टौ, तस्योभयोपकारित्वात्। अत्र यथार्थश्र्ेषेण सहोपमायाः संकर- स्तथा शब्दश्लेषेणापि सह दृश्यते यथा-
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ।।' अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना। सत्पूरुषद्योतितरङ्ग इति शब्दश्रेषेण सहैकस्मिन्नेव शब्दे शब्दालंका- रयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतः । 'राजति तटीयम्' इत्यादिना। एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम्।
इह ह्येकानुप्रविष्टयोरलंकारयोनिश्चितत्वेन निबन्धनम्। एकवाचकानुप्रविष्टत्वेन चालं- कारयो: संसष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमतयोरिवेत्युक्त्या नास्याभावो वाच्यः । न हि यमकयोः संसृष्टत्वेनैवावभासोऽस्तीति यथोक्तमेव युक्तम्। अर्थश्षेषेणेति। नरकशब्दस्य दानवनिरयार्थकत्वात्। द्योतितरङ्गेति शब्दस्य सभङ्गत्वा- च्छव्दश्रेषः । न चास्योदाहरणद्वयमेतद्युक्तम्। उपमाप्रतिभोत्पत्तिहेतुकस्य श्रेषस्यैवात्रा- लंकारत्वातू। उपमा हि श्रेषस्य हेतुत्वेनैव गता। तां विना तस्या अनुत्थानात्। अतश्ष क्केष एवात्र प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवान्नालंकारस्य स्थितेः । तस्य च द्विप्रभृतीनां संसष्टतायामुक्तत्वात्। उदाहरणान्तरं यथा-'अङ्के न्यस्योत्तमाङ्गं प्र- वगबलपतेः पादमक्षस्य हर्दुः कृत्वोत्सक्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम्। बाणं रक्ष:कुलन्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनैवेक्षमाणस्त्वदनुजवदने दत्त- कर्णोऽयमास्ते ।I' अन्नेदृगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेश् प्रत्यक्षायमाण- वमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वयमनुप्रविष्टमित्ययं संकरः । अत्र च भा-
प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम्। अङ्गाङ्गिभावश्च भिन्नवाचकालंकारगतत्वेन लब्धा- वकाशोऽस्ति। अतो 'राजति तटीयम्' इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति
Page 213
२०४ काव्यमाला।
अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीययोर- प्यलंकारयोरेकवाचकानुप्रवेशे संभवात्। शब्दार्थवर्त्यलंकारसंकरस्तु भट्टो- द्द्टप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम्- एवमेते शब्दार्थोभयालंकारा: संक्षेपतः सुत्रिताः । एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रक्रान्तस्वरूपनिर्देशाः । सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः । तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभयालं- कारा लाटानुप्रासादयः। संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूपत्वात्।
ततोऽस्य पृथग्भावः । अत एवेति। शव्दालंकारयोरेकवाचकानुप्रवेशात्। अन्येति। अन्येः काव्यप्रकाशकारादिभिः । यटुक्तम्-'स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम्। व्यवस्थितं च' इति। अप्रयोजनकसिति। तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः । मुरारिनिर्गतेत्यादौ ह्यर्थालंकारत्वात्सजातीययोरुपमाश्रेपयोः पूर्वोक्तनीत्या भिन्नविषयत्वेना- स्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः । एवं शव्दाश्रयत्वादर्थाश्रयत्वाच्च तुल्यजातीयानामलं काराणामङ्गाङ्गिभावादिना संकर उत्तः । शब्दार्थवर्तिनामलंकाराणां पुनः संसर्गेणायमलं- कार इत्याह-शब्दार्थेत्यादि। न केवलं काव्यप्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः। तदुक्तम्-'शव्दार्थवत्यलंकारवाक्य एकत्र भासिनः । संकरः ।' इति। संसृष्टाविति। अनयोर्ह्याश्रयभेदात्तिलतण्डुलन्यायेन स्पष्ट एव भेदाव- गम इत्यत्रैवान्तर्भावो युक्तः। त्रिप्रकार इति। अङ्गाङ्गिभावसंशयैकवाचकानुप्रवेशेन। यदुक्तम्-'तेनासौ त्रिरुपः परिकीर्तितः' इति। एवं संदेहसंकरस्यानुपपत्तावपि चिरंत- नोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् । अधुनैतेषामलंकाराणामुपसंहारं कर्तु- मुपकमते-इदानीमित्यादिना। प्राप्तावसरेति। यथातत्त्त्वं सर्वेषामलंकाराणां निणींत- त्वात्। तदेवाह-एवमित्यादि। एतदेव व्याचष्टे-एवमित्यादिना। संक्षेपेणेति। अ्रन्थस्य। न पुनरर्थस्य। तस्य हि तथात्वकथने तेषां स्वरूपमेव कथितं न स्यात्। एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभवि स्वरूपमुक्तमिति प्राच्यालं- कारग्रन्थेभ्योऽस्य वैलक्षण्यमपि व्वनितम्। तत्र अ्रन्थविस्तरेणाप्येतत्स्वरूपस्यानभिधा- नातू। अत एव अ्न्थकारेण प्रयोजनमपि द्योतितम् । के ते शब्दार्थाभयालंकारा इत्या- शङ्गयाह-तत्रेत्यादि। आदिग्रहणादनुप्रासानन्वयल्लेषादीनां ग्रहणम्। ननु च लाटानु- प्रासक्लेषयोरेवोभयालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देशः कथं संग- च्छते इत्याशङ्ग्याह-संसृष्टीत्यादि। तन्र संसष्टेरुभयालंकारत्वं यथा-'आनन्दमन्थर-
Page 214
अलंकारसर्वस्वम्। २०५
लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् । अन्वयव्यतिरेकौ तु तत्कार्यत्वे प्रयोजकौ। न तदलंकारत्वे। तदलंकारप्रयोजकत्वे तु श्रौतो- पमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमता- नुसृतिरिति भद्रम् ॥ संपूर्णमिदमलंकारसर्वस्वम्। कृतिस्तत्रभवद्राजानकरुथ्य(च)कस्य।
इत्यादि। संकरस्य यथा-'मैवमेवास्व्सच्छायकर्णिकाचारुवर्णिता। अम्भोजिनीव चि- त्रस्था नेत्रमात्रसुखप्रदा ।' अत्र शव्दार्थालंकारसंसर्गादुभयालंकारत्वम्। संकरस्य चैत- दुभयालंकारत्वमौद्भटमत एवावसेयम्। ग्रन्थकृता ह्यस्य समनन्तरमेय संसष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः। श्रेषाणामेवोभयालंकारत्वम्। ननु तु- ल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शव्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्गयाह-लोकवदित्यादि। लोके हि योऽलंकारो यदा- श्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः । एवमिहापि शव्दाद्याश्रितस्तदलंकार इति सिद्ध एव विषयविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वय- व्यतिरेकौ तदलंकारनिबन्धनत्वेनोक्तौ तदयुक्तमेवेत्याह-अन्वयेत्यादि। एवं हि श्रौतो- पमायामिवादिश्दान्वयव्यतिरेकानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम्। तस्या- विशेषात्। अर्थस्य पुनरलंकृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटवि- वेके राजान[क]तिलकेन सप्रपश्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्मामिः प्रपश्चितम्। एत- देवोपसंहरति-तस्मादित्यादि। आश्रयाश्रयिभावेनेति। उपस्कार्योपस्कारकभा- वेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः । चिरंतनेति। अनेनास्माभि: सर्वत्रैव तन्मतानुसृतिरेव कृतेत्यात्मविषयमनौद्धत्यमपि ग्रन्थकृता प्रका- शितमिति शिवम् ॥ राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम्। तां सतीसरसि राजहंसतामातनोत्किल घनागमेऽपि यः ॥ शक्राधिकश्रियस्तस्य श्रीश्ृङ्गार इति श्रुतः । गुणातिकान्तधिषणो मन्ति्रिणामग्रणीरभूत् ॥। तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः । व्यधादिदमसामान्यं श्रवणाभरणं सताम् ।। यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम्। विद्वषेरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥ इति श्रीजवरथविरचितालंकारविमाशिनी संपूर्णा ।।
Page 216
अलंकारसर्वस्वस्य श्लोकानुक्रमणिका ।
40/
अक्ष्णोः स्फुटासु ... ... ... १८९ आनन्दसुन्दर ... १९७ अङ्गलेखा .. १२६ आभाति ते ... ... ३७
अङ्कुलीभिरिव १९८ आ मुण्डशिरसि ७९
आटोपेन ... २१ आरोपयसि ... १७७
अण्णं लडह ६७ आहूतोऽपि १२७
अतिशयित ३३ इति कृतपशु १७७
अत्रानुगोदं ३३ इन्दुः किंक्क ४३
अथ पत्रिमता ४२ इन्दुलिप्त १०५
अथोपगूढे ९३ इन्दोलेक्ष्म ११३
अनन्तरत्न ११० उत्कोपे त्वयि ७९
अनन्यसामान्य ६० उतक्षिप्तं सह अनातपत्रो १८२ उद्ध्रान्तोज्झित ५१
अन्तश्छिद्राणि 9०८ उन्नत्यै नमति १३४
अब्धिर्लेद्गित ७५ उपोढरागेण ८५
अपाङ्गतरले १६८ उरो दत्त्वा ... १५२
अमुष्मिल्लावण्या ५२ ए एहि दाव १६६ अयं मार्तण्डः किं ४३ एकस्मिञ्शयने १९१
अयं वारामे १२२ एकाकिनी १७२ अयमेकपदे १६० एतत्तस्य ... ... ... ... १०५
अरण्यानी १३१ एतान्यवन्ती ... २०१
अलंकारः शङ्का १५७ एषा स्थली यत्र ... ... ... ५८ अलंकारोऽथ १०२ ऐन्द्रं धनुः .. ... ९१ ... अविरल ... ओष्ठे बिम्बफ ... ६९ ... ४५ अव्यात्स वो ७७ कज्जलहिम ... ... १४९
असमाप्त ... कण्ठस्य तस्या: ... १३५ असंभृतं ... १२५ कपोलफलका ... ... ५९ अस्य हि प्रवय १५२ कमलमनम्भसि ... ... ६६ अस्या: सर्ग ६८ कर्पूर इव .. ... १२७ अहमेव गुरु: १६७ कस्तूरीतिल ... ... ६० अहीनभुजगा १९ कस्त्वं भो: ... ... १०८ अहो केनेदशी १७६ का विसमा ... ... १७३ अहो हि मे काशा:काशा ... १११ ... २३ आकृष्टिवेग ... ... क्काकार्ये शश ... ... ... १९२ आकृष्यादाव ... १०३ किमासेव्यं .. १५४ ... ...
Page 217
किमित्यपास्या ... १५२ णाराअणो त्ति ... ... S४८ किवणाणँ ७३ १६७ किं तारुण्यतरो ... ४३ तदिदमरण्यं १८४ किं नाम दर्दुर २० तन्वी मनोरमा ... ... ८६ किं पद्मस्य रुचिं ... ३८ त्वं हालाहल १७६ किं भूषणं १५३ त्वत्पादनख ... ७७ किं मे दुरोद १७६ त्वदङ्गमार्दव ७१ किं वृत्तान्तैः ११३ त्वद्वक्रामृत १८९ किं हास्येन न १८७ त्वमेवं सौन्दर्या ... १३२
कुबेरजुष्टां ६० ता तत्थि किम्पि ... १०४
कुलममलिनं १.६१ ताला जाअन्ति .. २३ ... कुसुमसौरभ १९५ तीर्थान्तरेषु १३१ ... कृतं च गर्वाभि ... ... ७६ तीर्त्वा भूतेश ४१
क्रेङ्कारो नख ... १७८ त्रयीमयोऽपि ९९
कौटिल्यं कच १५४ न्रयीमयोऽपि ... १९८ ... खमिव जलं ३२ दत्वा दर्शन ... १५३ ... गच्छ ग्छसि दन्तप्रभा ... ... १२० गणिकासु ११९ दामोदरकरा ४६
गण्डान्ते मद दारुण: काष्ठतो ९0 १९
गतासु तीरं दासे कृता ६१ ... ३७
गर्वमसंवाह्य १६७ दाहोडम्भः ६८ दिद्दक्षव :... ८० गाङ्गमम्बु १७१ दिवमप्युप ... गाढा लिङ्गन १८९ १३६ दुर्वाराः स्मर १६7 गरुपरतन्न्र १७५ दूराकर्षण ... १८९ गृह्णन्तु सर्वे ११८ घेत्तुं मुचचइ १३३ दृशा दग्घं ... १३८ देया शिलापद् ... ११८ चकोर्य एव ... ७४ देवि क्षपा १९५ चक्राभिघात १०६ दोर्दण्डाश्चित ... १३3 चन्द्रग्रहणेन १७७ घुजनो मृत्युना ८२ चित्रं चित्रं १३२ द्यामा लिलिङ्ग ... ... ९0 चूडामणिपदे ७६ दयौरत्र क्वचि ... ... .. १३४ चोलस्य यद्भीति .. ६० धवलो सि ... ... ... १७१ जये धरित्र्या: ... ... १४२ धन्या: खलु ... ... १०८ जितेन्द्रियत्वं ... .. १४० धावत््वदश्रव ... ... .. ७९ ज्योत्स्ना तमः ... ... ११६ धृतधनुषि ... १५७ ज्योत्साभस्म ... ५२/न तजलं ... ... ... १४१
Page 218
नन्वाश्रय भक्तिर्भवे .. ... ... १५१ ... ... १५४
निमेषमपि १३७ भासते प्रतिभा २५ ... .. ... ... ...
निरर्थकं ... ८४ भुजंगकुण्डली १९
निरीक्ष्य विध्ु ८७ भ्रमिमरति ... .. ... ... ४०
निर्लूनान्य मदनगणना 9 .. ... ... ... .. ८७
निशासु भास्व .. ... १५१ मनीषिता: १४५ ... ... ... ..
नीतानामा ९६ मन्द्मग्नि ... ... ९०
नेत्रैरिवोत्पलै: १६९ ... ९२ ... मलयजरजसा .. ...
नो किंचित्कथ महिलासहस्स ६० ... १२१ ... ... ...
... ... १६० मानमस्या ... ... ... १६३
पथि पाथे १२९ मुक्ता: केलि .. c ... ... ... ... १८४
परहिअअं ... १३२ मुनिजयति १८२ ... ...
परिच्छेदातीतः ... ... १२२ मुरारिनिर्गता ... ... २०३ ...
पर्यङ्को राज ३८ मृगलोचनया ... ... ... ... ८४
पशुपतिरपि ... ... १५७ मृग्यश्च दर्भा ... १४५ ... ... ...
पश्यत्सूद्गत ... ... १३९
पश्यन्ती त्रपयेव यः कौमारहरः S१२७ ... ... ... २०० ... ...
पश्याम: किमियं १०५ यत्वन्नत्रसमान ... ... ... १४४
पाण्ड्योडयमंसा ... यत्रैता लहरी ... ... २७ ... ... १४७
पातालमेत यत्रैव मुग्धेति 5 ... .. 8 ... १५१
पीयूषप्रस्टति यथा रन्ध्रं ... ३७ ... १४६ ... पृथ्वि स्थिरा ... ११० यदि नेच्छसि ... ... ... १७७
पुराणि यस्यां ... .. १४१ यदेतच्चन्द्रा ... ५१
पुष्पं प्रवालोप यद्कचन्द्र २०० ... ... ... ६८ ... ... ...
पूर्णेन्दोः परि ५१ यद्वा मृषा ११९ ... ... ... ... ... ...
प्रभामहत्या यद्विस्मयस्ति ... ... १४५ ... ... ... २७ ...
प्रसरद्विन्दु २०१ यस्य किंचिद १६५ ... ... ... ...
प्रसर्पत्तात्पर्ये यान्त्या मुहुवें ... ... २७ ...
पसीदेति ... ११५ यामि मनोवा ... ... ३८ ... ... ...
प्राप्याभिषेक ६३ युद्धेर्ऽर्जनो ... ... .. ... ... .. .
प्रायः पथ्य ... १२९ ये कन्दरासु ... ... ... ... १६९
प्रासादे सा ... १३७ येन ध्वस्तमनो ... ... ९६
बाणेन हत्वा ११८ येन लम्बालक: ... ... १०६ ... ... ...
बालअ णाहं यैरकरूप ... ११५/ ... ... ... ...
बिभ्राणा हृदये १६० 0 .. ३४ ... ... 0 ..
ब्म: कियन्नय २३ योगपट्टो ... ... ... ७१ ...
भक्तिप्रह्वविलो ... यो यः पश्यति ... ... १५९ २२
२७
Page 219
४
रज्जिता नु ... ... शरदीव २०२ ... ४३/ ... ... ... रक्तच्छदत्वं ९७ शशी दिवस ... ... ... ... १६२ ... स्थस्थितानां .. ... ... ६४ शुद्धान्तदुलेभ ... ७८
राजति तटीय शैलेन्द्रप्रतिपाद्य ... १७४ ... १९९
राजन्राजसुता ... १०७ स एकस्त्रीणि ... ... १२७
राजो मान ... ९४ संकेतकाल ... ... १७३ ... राज्ये सारं ... ... १४३ संग्रामाङ्गन १४२ ... रेहइ मिहि ... ७२ संचारपूतानि ७२ ... लावण्यद्रविण सच्छायाम्भोज ३२ .. ६७ ... ...
S सज्जातपत्र ७० लावण्यौकसि ६७ १४९ सत्पूरुषद्योति २०३
लिम्पतीव तमो S ५८ सदः करस्पर्श ... १३१ १९५ सदः कौशिक १०२
लोकोत्तरं ११० स वः पायदि ... ५८
वक्स्यन्दि १७४ स वक्तुमाख ११९ ... ... वसुहितेन १७७ सहसा विदधति ११०
वामेन नारी ... १९१ सह्या: पन्नग २१
विजये कुशल १७६ साधूनामुपकरतु ७३
विदलितसकला १५९ १३० ... सा बाला वय विद्वन्मानस ३८ साहित्यपाथो ११८ ... विनयेन विना ८३ सीमानं न जगाम ९० ... ... विभिन्नवर्णा १७० सुहअ विलम्बसु ... ११ ६ ... ...
वियोगे गौड ७८ सौजन्याम्बु ३९ ... .. c विलङ््यन्ति १५४ स्पृष्टास्ता नन्दने ... .. ११= ... ... विलसदमर ५१ स्वपक्षलीला ... ... ... ...
विलिखति स्वेच्छोपजात ... ८९ ... ... ...
विसष्टरागा १५१ हा राहौ शित ... ... ... ...
विस्तारशालिनि हृदयमधिष्ठित ... ... ३७ ..
वृषपुंगवल ... १९ हे हेलाजित .. ... .. ११: ...
Page 220
शुद्धिपत्रम्।
१ रुद्रटन ११६ ७ दुरन्तमिदमद्य २ प्रेयःप्रभृतौ ११७ १३ वप्यंशान्तरस्य २४ ९ खड्गादि ११६ १४ समितिप्रतिज्ञातस्य ३२ ४ हंस इव १२२ ११ तापकरणयोः ७ वदना: स १२३ ३ भोत्पत्तिहेतोः वदनाम्बुजा: १२८ १३ भावि कारणं २५ ह्यम्भोजवदनयो १३२ ८ तच्छब्दन ३८ ५ महेतुकम् । १३४ १४ चन्द्रशेखर ४१ ५ व्यामग्राह्य १३७ ८ माधारत्वम् ४३ ४ वारांनिध: १० संपादनम् ४८ ५ रत्रास्तु । १४१ ७ स्थापनीयत्वेन ५८ १७ विचिन्वता १४२ ७ शरादीना ६४ ९ वितर्कमेव १४५ १ क्षास्तवाग ६६ ३ भेदेडमेदो १४७ २ लहरीचला ७६ ५ निहतत्वादे: ३ ममृस्पृशो ८० २ वापीषु १५१ १५ हतत्वेन ८५ ४ रूपसमारोपे त्वा १५२ १० वधार्थषु(?) ८६ ३ पुष्यहासिनी १५६ ५ मत्वर्थीयष्टनि ८७ १४ व्ययावधिकं १६० १४ रसवशादे ९४ ५ उत्थापयति। सो १७ सपेमेत्यादीनां ९ समासोक्ति १६१ ८ खलेकपोतिकया १०१ २ महिस्रा १७८ ६ शरिष्यदवा ११० १२ भुजंगम १८४ १२ श्रकार ११२ १ स्पृष्टास्ता १८७ ४ बुद्धा