1. Alankara Sutra- Ruyyuka TSS 40
Page 1
Birla Central Librarp PILANI (Jaipur State)
Class No :- S go . & Book No : R996T Accession No :- /6537
REQUESI IT IS EARNESTLY DESIRED THAT THE BOOK BE HANDLED WITH CARE AND BE NOT MARKEC. UNDEHLINED OR DISFIGUR- ED IN ANY CTHER WAY. CTHERWISE IT WILL HAVE TO BE REPLACED OR PAID FOR BY THF BORROWER IN THE INTEREST OF THE LIBARY. LIBRARIAN
Page 2
2
Page 3
3
Page 4
TRIVANDRUM SANSKRIT SERIES. No. XL.
THE
ALANKÂRASÛTRA OF
RÂJÂNAKA SRÎ RUYYAKA
WITH
The Vritti, Alankarasarvasva of Sri Mankhuka
ANI
Commentary by Samudrabandha.
ON THE LATTER
EDITED BY
T. GANAPATI SÂSTRÎ
Curator of the Department for the publication ef Sanskrit manuseripls. Tricandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM : PRINTED AT THE TRAVANCORE GOVERN
4
Page 5
5
Page 6
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: ४०.
राजानकश्रीरुय्यकप्रणीतम अलङ्कारसूत्रं श्रीमङ्खुकप्रणीतया
अलङ्कारसर्वस्वाख्यया वृत्त्या
समुद्रबन्धकृतव्याख्यासनाथया समेतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
तच्
अनन्तशयने महिमश्रीमूलकरामवर्मेकुलशेखरमहाराज राजकीयसुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम् ।
6
Page 7
7
Page 8
INTRODUCTION.
The present edition of this work comprises (1) Alankarasutra, (2) a Vrittì (commentary on the Sûtra) and (3) a commentary on the Vritti. The Vritti published in the Kâvyamala Series has the following introductory line, "निजालङ्गारसूत्राणां वृत्त्या तात्पर्यमुच्यते." From this, it has to be inferred that both the Sutra and the Vritti were written by one and the same author. And from the closing line therein, "सम्पूर्णमिदम् अलङ्कारसर्वस्वम्" both the Sutra and the Vritti have come to be known as Alankarasarvasva. The colophon in the same edition, "कृतिस्तत्रभवद्राजानकरुव्यकस्य" ascribes the authorship to Rayyaka.
But in our ancient palm-leaf manuscripts of the work, the above introductory line runs thus, "गुर्वलङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते", where the reading 6 instead of fas gives rise to the surmiso that the author of the Sutra might be a preceptor of the author of the Vritti. And the couplet, at the end of our manuscripts,
"इति * मड्खुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुसालङ्गारं तदिदमलङ्गारसर्वस्वम् ।"
makes it clear that the author of Alankarasarvasva is Mankhuka. The commentator Samudrabandha calls the Vritti, the subject of his commentary, as Alankarasarvasva and its author, as Mankhuka, and adopts the reading गुरु in "गुर्वलङ्कारसूत्राणाम्".
Thus it is evident that a belief in the authorship of Alankâra- sarvasva had long ago been current in two ways. This belief could not have arisen unless both Ruyyaka and Mankhuka had some connection with the work. Hence it may be arguod that one of them should have written the Sutra, and the other, the Vritti. Of these,
- Here, the proper name should be Has, which probably has be- come corrupted as #435, just as the name arq is pronounced as अप्पथ्य with double य.
8
Page 9
ii
the author of the Sutra, being the preceptor of the author of the Vritti as shown by the reading गुर्वलङ्गारसूत्राणाम् should be Ruyyaka himself, and the author of the Vritti should be Mankhuka. For, Mankhuka, in his Srikanthacharita refers to Ruyyaka as his preceptor thus :-
"तं श्रीसुय्यकमालोक्य स प्रियं गुरुमग्रहीत्। सौहार्दप्रश्रयरसस्नोतस्सम्भेदमज्जनम् ॥" (25-30)
The *author of Alankârasarvasva has been described in the intro- duction of Vyaktiviveka as a writer of many treatises such as unaer- मीमांसा, नाटकमीमांसा etc., and as a critic of Mabimabhatta, the author of Vyktiviveka. He flourished in the first half of the 12th century A. D.
It is well known that, in the elucidation of Arthâlankâras, Alankarasarvasva surpasses the Kavyaprakasa of Mammata and also criticises some of the views of the latter. The commentary, which is now published, is well suited to the dignified nature of Alankâra- sarvasva and is superior, in every respect to Jayaratha's commentary published in the Kavyamala Series. Samudrabandha, the author of the commentary adorned the court of Ravi Varma Bhûpa alias Sang- ramadhira, the king of Kolamba (Quilon) in Travancore. It was observed in the introduction of Pradyumnabhyudaya (Trivandrum Sanskrit Series No. 8) that this king, who was born in 1265 A. D. and conquered the countries as far as Conjeevaram might probably be an ancestor of His Highness the Maharaja of Travancore, and that the commentator, Samudrabandha, might be the father of Simharaja, who wrote the Prakrita-Rupavatara.
The edition is based on the following palm-leaf manuscripts written in Malayalam character.
. and a. Alankârasarvasva, belonging to the Palace Library, about 4 centuries old. Do. lent by Mr. Kailasapuram Go- vinda Pisharodi, about 4 cen- turies old.
- It was stated, in the introduction of Vyaktiviveka that Alankarasarvasva was written by Ruyyaka; but, now we have to take it to have been written by Mankhuka
9
Page 10
iii
F. The commentary of Alankarasarvasva, belonging to the Palace Library' 3 centuries old. ख. Do. lent by Mr. Kailasapuram Go- vinda Pisharodi, 3 centuries old.
ग. Do. lent by Mr. Chakran Krishna Varyar, about a contury old.
TRIVANDRUM. T. GANAPATI SASTRÎ.
10
Page 11
11
Page 12
उपोद्वातः ।
अलक्कारसूत्रं, तस्य वृत्तिः, वृत्तर्व्याख्यानमित्येतव्रितयमस्मिन् पुस्तके निवेोशतम्। तत्र काव्यमालाप्रकाशितपुस्तके "निजालक्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते"
इति चिकीर्षितप्रतिज्ञावाक्ये दृष्टस्य निजशब्दपाठस्यानुसारात् सूत्रवृत्त्योरेक: प्रणेतेति, तत्र 'सम्पूर्णमिदम् अलङ्कारसर्वस्वम्' इति सामान्येन कथनात् सूत्र- वृत्त्योः समुदायः अलङ्गारसर्वस्वम् इति च प्रसिद्धिः । तत्पुस्तकान्ते 'कृति- स्तत्रभवद्राजानकरुव्यकस्य' इति पाठादू अलङ्कारसर्वस्वस्य प्रणेता रुय्यकः प्रतीतः ।
किन्तु अतिस्थविरेष्वस्मदीयादर्शअ्रन्थेषु चिकीर्षित प्रतिज्ञावाक्ये "गुर्वलक्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते"
इति निजशब्दस्थाने गुरुशब्दपाठस्यैव दर्शनाद् वृत्तिकारस्य गुरु: सूत्रकार इति गम्यते। अ्रन्थान्ते च
"इति +मङ््खुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः। सुकविमुखालङ्कारं तदिदमलङ्गारसर्वस्वम् ॥।" इत्यार्यया पठितया मङ्खुकोऽलङ्गारसर्वस्वस्य कर्ता प्रख्यायते। व्याख्याता च समुद्रबन्ध: स्वव्याख्याविषयभूतं वृत्तिग्रन्थम् अलङ्कारसवस्वं व्यपदिशति, मङ्खुकप्रणीतमाचष्टे, गुरुशब्दपाठमेव चोपादत्ते।
- मङ्खक इति न्याय्ये संज्ञाशब्दे मङ्खुक इत्युकारो व्यवहारवशादुपजातो नूनम् अप्पय्यादिसंज्ञाशब्देषु थकारद्वित्वादिवदिति मङ्खक एवेह मङ्खुको व्यपदिष्टो वेदितव्यः। १. २. पष्ठे दषव्ये।
12
Page 13
तदेवम् अलङ्गारसर्वस्वं प्रति कर्तृप्रथोभयथा प्रवृत्तेत्यवगम्यते। सोडयं रुय्यकमङ्खुकयोरलङ्कारसर्वस्वकर्तृत्वव्यवहारः विना अ्रन्थसम्बन्धं न सम्भव- तीति तयोरेकः सूत्रस्य कर्ता, अन्यो वृत्तेरित्यवश्यमङ्गीकर्तव्यम्। तत्र यः सूत्रकारः स 'गुर्वलक्वारसूत्राणाम्' इत्युक्तवृत्तिपाठानुसारेण वृत्तिकारस्य गुरुर्भेवन् रुय्यक एव भवितुमर्हति ; रुथ्यकं हि मङ्खुकः श्रीकण्ठचरितस्य पञ्चविंशे सर्गे गुरु- मात्मन आह-
"तं श्रीरुय्यकमालोक्य स प्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतस्सम्भेदमज्जनम्।" (२५.३०)
इति। * अलङ्गारसर्वस्वकारोडयं क्रैस्ताब्दीयद्वादशशतकपूर्वार्धस्थितः साहि- त्यमीमांसा-नाटकमीमांसादिबहुग्रन्थकर्ता व्यक्तिविवेककारशिक्षकश्रेति व्य- क्तिविवेकोपोद्धातेऽवोचाम ।
इदम् अलङ्गारसर्वस्वम् अर्थालक्कारव्युत्पादने काव्यप्रकाशाद् गुणवत्तरं क्कचित् क्चित् तस्य शिक्षकं चेति विदुरेव कोविदाः। एतेन सह यदत्र संक्केषितं व्याख्यानं, तदेतस्य प्रौढतायाः सर्वाकारानुरूपं जयरथव्याख्यानाद् बहुगुणं च । व्याख्यानस्य प्रणेता तत्रभवान् समुद्रबन्धः काश्चीपुरावधिकदेशविजायनः को- ळम्वाधिपतेर्वश्चिमण्डलमहाराजपूर्वपुरुषस्य १२६५ तमकैस्ताब्दजीविनः स- इग्रामधीरापरनामघेयस्य श्रीरविवर्ममहीपालस्य सभाया आभरणमासीत् ; अयं प्राकृतरूपावतारकर्तुः सिंहराजस्य पिता सम्भाव्यते इत्यादि प्रद्युन्नाभ्युद- यस्य (अनन्तशयनसंस्कृतग्रन्थावल्यष्टमाङ्कस्य) उपोद्धाते प्रपश्चितमस्माभिः ।
एतत्पुस्तकसंशोधनाधारभूता आदर्शअ्रन्थास्तावदेते- क. अलक्कारसर्वस्वं राजकीयग्रन्थशालीयं, चतुरशतवर्षवृद्धदेश्यम्। ख. तथा तथा तथा।
- अयमिदानीं मड्खुको बोद्धव्यः, यो व्यक्तिविवेकोपोद्वाते रुय्यक: कथितः ।
13
Page 14
३
ग. तथा कैलासपुरगोविन्दपि- षारोटिसम्बन्धि तथा।
क. अलङ्कारसवेस्वव्याख्या राजकीयग्रन्थशालीया, त्रिशतवर्षवृद्धा।
ख. तथा कैलासपुरगोविन्दपि- षारोटिसम्बन्धिनी तथा।
ग. तथा चुनक्करकृष्णवार्यसम्ब- न्घिनी उपशतवर्षवृद्धा।
सर्व एते तालपत्रात्मकाः केरलीयग्रन्थलिपयश्च ।
अनन्तशयनम्. त. गणपतिशास्त्री.
14
Page 15
15
Page 16
॥। श्री: ।।
अलङ्कगारसूत्रं
श्रीमङ्खुकप्रणीतया
अलङ्कारसर्वस्वाख्यया वृत्या
समुद्रबन्धविरचितव्याख्यासनाथया
समेतम्।
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम्। गुर्वलङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते।।
प्रपन्नमानसाम्भोजप्रबोधनपर: क्रियात्। विन्नान्धकारविध्वंसं विनायकविभाकरः ॥ केरलेष्वस्ति नगरी कोलम्ब इति विश्रुता। अधिश्रिया ययावाची हरिदप्यलकावती ॥। अयोध्यामपि यां सन्तो राघवान्वयवर्जिताम् । अगोचरं भुजङ्गानामाहुर्भोगवतीमपि । प्राप्तकल्पद्ुमच्छायैः सुमनोभि: कृतास्पदा । अवतीर्णेव मेदिन्यां या चकास्त्यमरावती।
९. 'निजाल' क. ख. पाठः. २. कृता दिगल' ग. पाटः.
16
Page 17
अलङ्कारसूत्रं [उ पोद्धात-
विभूषयन् पुरीमेनां यदुवंशविभूषणंम्। रविवर्मेति विख्यातो राजा शास्ति वसुन्धराम् ।। यस्मादन्येः पदं नास्ति कलावद्राजशब्दयोः । तदन्ववायकूटस्थमन्तरेण निशाकरम् ॥ विवर्णारिवधूवक्त्रव्याख्यातभुजविक्रमे। पत्यौ यस्मिन्नभूदु्वी वीरपल्ीपदास्पदम् ।। वीरेण वाग्मिना येन वदान्येन वसुन्धरा। वासवं वचसामीशं पारिजातं च लम्भिता ।। न परं धन्वना शून्याः पाणयः पृथिवीभुजाम् । अपि कृत्सा मही यस्मिन्नवत्यतुलविक्रमे ।। विद्यास्थानैः समं तस्य विष्टपानि चतुर्दश। प्रसाधितवतः पार्श सुधियो जातु नात्यजन्।। कदाचिन्मडखुकोपज्ञं काव्यालह्कारलक्षणम्। प्रदर्श्य रविवर्माणं ्ार्थयन्त विपश्चितः । गम्भीरं नस्तितीर्पूणां मङ्खुकग्रन्थसागरम् । नौरस्तु भवतः प्रज्ञा स्थेयसी यदुनन्दन!॥ व्याचक्ष्व तमिमं ग्रन्थं व्यावृत्तवचनक्रमः । शास्त्रसाहित्यपाथोविपारावारीणया घिया॥ इति तैः प्राथिंतः प्राज्ञैः पार्थिवस्तानभापत।
मयासाध्यमभीष्ं वो ग्रन्थः पुनरयं महान्। व्याख्यातुं शक्यमासाद्य भवतां यद्यनुग्रहम् । व्यास्येयं माननीया स्यात् सद्भिराद्रियते यदि। शम्भो: परिग्रहादेव ल्लाध्या चान्द्रमसी कला ॥
५. 'णः' ख. पाठः. २. 'न्यास्पदं' ख. पाठः. ३. 'दि' ग. पाठ :.
17
Page 18
प्रकरणम् ] सव्यारूयाल क्कार सर्वस्वोपेत म्। ३
इत्युक्त्वैष मनीपावैभवपरिभूतवासवाचार्यः । बुधपरिषदलक्वारो व्याख्यदलक्कारसर्वस्वम् ॥ अवधृत्यै यदुपतिना विवृतस्य गरीयसस्तदर्थस्य। काश्चद् व्यधित विपश्चिच्छब्दनिबन्धं समुद्रबन्धाख्यः । औरिप्सितस्य अंन्थस्याविन्नपरिसमाप्त्यर्थ सदाचारानुमितस्मृतिमूलभू- तश्रुत्यवगतया कर्तव्यतया कृतं प्रकृताभिमतदेवतानमस्कारं शिष्यप्रबोधनाय ग्रन्थे निवेशयन् श्रोतृप्रवृत्त्यर्थ विपयसम्बन्धप्रयोजनान्याह-नमस्कृत्येत्या- दिना। नमस्कृत्येत्यत्र गतिसमासत्वाल्ल्यवादेशः । 'नमस्पुरसोर्गत्योः' (८. ३. ४०) इति सकारः । परां सूक्ष्माम्। सा हि शब्दव्रह्मणश्चतसृष्ववस्थास्व-
"स्वरूपं ज्योतिरेवान्तः सूक्ष्मा वागनपायिनी" इति । विग्रहशब्देन पश्य- न्त्यादयस्तिस्रोऽवस्था अवच्छेदकत्वसाधर्म्यादुपचारादुच्यन्ते। तासां च स्व- रूपमुक्तम् -- "अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। केवलं बुद्धुपादाना क्रमरूपानुकारिणी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक प्रवर्तते। स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा ॥ वैखरी वाक् प्रयोक्तणां प्राणवृत्तिनिबन्धना।"
इति। गुर्वित्यनेन विवक्षितस्य तात्पर्यस्यावश्यवक्तव्यतां दर्शयति। अलङ्कार- सूत्रेत्यनेनालङ्काराणां यथावद्वबोधः प्रयोजनं, स चालक्वारशब्दस्य काव्य- गतशोभातिशय हेतुभूतधर्मवाचकतपा तादृशधर्मविशिष्टकाव्यनिर्माणज्ञानौपयि- कतया यशःप्रभृतिप्रसावक इत्याह। वृत्या अनवगतपदार्थविवरणेन। एवं काव्यगताः पुनरुक्तवदाभासादयोडलक्वारा विपयः, तज्ज्ञानं च प्रयोजनं, प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इत्युक्तं भवति। अत्र सूक्ष्माया वाचः परा-
१. 'प्रा' ग. पाठ :.
18
Page 19
४ अलक्कारसूत्रं [उपाद्धात-
प्रतीयमानमर्थ वाच्योपस्कारितयालङ्कारपक्षनिक्षिप्तं मन्यन्ते । तथाहि - पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्यु- पमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन
शव्देनोत्कर्षवाचिना प्रतियोगिविशेषाग्रहणसहकृतेन सर्वप्रतियोगिक उत्कर्षः प्रकाश्यते। तेन च विक्नप्रोत्सारणसामर्थ्यातिशययोगादस्या एव प्रथमनमस्का र्यत्वमिति देवतान्तरेभ्यो व्यतिरेक इति पूर्वार्धेन वाग्विषयरतिलक्षणं भावं सर्वोत्कर्पलक्षणं वस्तु व्यतिरेकालङ्वारं च दर्शयंस्त्रिविधस्यापि ध्वनेः स्वाभिम- तत्वं सूचयित्वालकारसूत्रविवरणं पुनस्तेषामतिगहनार्थतया क्रियत इत्युत्तरा- र्घेन सूचयति।
इत्थं सूचितमर्थमिहेत्यादिना प्रकरणेन वितत्य प्रतिपादयति। इह विशिष्टौ शब्दार्थी काव्यम्। तयोश्च वैशिष्टयं धर्ममुखेन व्यापारमुखेन व्यङ्ञयमुखेन वेति त्रयेः पक्षाः । आद्येप्यलङ्गारतो गुणतो वेति द्वैवि- ध्यम्। द्वितीयेऽपि भणितिवैचित्येण भोगकृत्वेन वेति द्वैधैम्। इति पञ्चसु पक्षेष्वाद्य उद्धटादिभिरक्ञीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवित- कारेण, चतुर्थो भट्टनायकेन, पञ्चम आनन्दवर्धनेन । व्यक्तिविवेककाराभिमत- स्त्वनुमानपक्षः सिद्धान्तप्रदर्शनसमनन्तरं विचारासहत्वेन दूषितत्वाद् मङ्खुक- स्य पूर्वपक्षत्वेनाप्यनभिमत इत्याहुः। एवु प्रस्थानेषु स्वाभिमत प्रस्थानं तस्य सर्वैरङ्गीकरणीयतां च दर्शयितुमेषामुपन्यासः। इह काव्यविषये। हिशब्दचिर- न्तनशब्दाभ्यामस्यार्थस्यानादिप्रसिद्ध्वत्वं दर्शयति। तावच्छब्द उपक्रमे। वा- च्योपस्कारितयेति। वाच्यस्योपस्कारो नाम सौन्दर्याधानम् अनुपपत्तिनिरासो वा। अनुपपत्तिनिरासश्चोपपादनेन वा उपपन्ने स्वस्मिस्तात्पर्यापादनेन वा।
१. 'हि भा', २. 'सस्तावच्चिर' क. ख. पाठः. ३. 'र' क. पाठः. ४. 'बोतयं', ५. 'यः प्रायः प' स. ग. पाठ :. ६. 'त' क. पाठः, ७. 'ध्योप' ख. पाठः.
19
Page 20
प्रकरणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ५
"स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्" इति यथायोगं द्वि- विधया भङ्ग्या प्रतिपादितं तैः । रुद्रटेनापि भावालङ्कारो द्विधैवोक्त:। रूपकदीपकापह-
मन्यन्त इत्यनेनाभिमानिक एवालक्कारपक्षे निक्षेपः, न तु वास्तवः, सर्वस्यापि प्रतीयमानस्य निक्षेप्तुमशक्यत्वादिति दर्शयति। यथायोगमिति। यत्र वाच्यं वर्णनीयतया विवक्षितं सदन्यथानुपपद्यमानमुपपादकतया स्वस्य शोभातिशय- जनकतया वा परमाक्षिपति, तत्र पर्यायोक्तसमासोत्तयुपमेयोपमासु स्वसिद्धये पराक्षेपः। यत्र पुनरप्राकरणिकत्वादविवक्षितं सत् प्राकरणिकाय परस्मै स्वात्मा- नमर्पयति, तत्राप्रस्तुतप्रशंसाक्षेपव्याजस्तुत्यनन्वयेषु परार्थ स्वसमर्पणम्। तथा- हि-पर्यायोक्ते तावत् 'स्पष्टास्ता नन्दने शच्या' इत्यादौ सैनिककर्तृकं मञ्जरीस्पर्शनं हयग्रीवप्रभावातिशयप्रतिपादकतया वर्णनीयं स्वसिद्धये तत्कर्तृ- कस्वर्गविजयलक्षणं कारणमाक्षिपति, समासोक्तौ 'उपोढरागेणे'त्यादौ प्राक- रणिको निशाशशिवृत्तान्तः स्वशोभाजनकतया नायकवृत्तान्तम्, उपमेयोपमायां 'खमिव जलं जलमिव खमि'त्यादौ खादीनां जलादीनां चाभिधीयमानमन्यो- न्यसादृश्यं पुनरुक्ततयानुपपद्यमानमुपपादकतयोपमानान्तरव्युदासम्। अग्र- स्तुतप्रशंसायां 'तण्णत्थी'त्यादौ सर्वेषां कालवशंवदत्वमप्रस्तुततयाविवक्षितं प्रहस्तवधात्मने प्रस्तुताय स्वात्मानमर्पयति। आक्षेपे 'चाळअ णाहं दूई' इ- त्यादौ दूत्या: सत्या दूतीत्वनिषेधो बाधितस्वरूपत्वादविवक्षितो विवक्षितस- त्यवादित्वादिकं विशेषं गमयति। व्याजस्तुतौ 'हे हेलाजिते 'त्यादौ जलधेर- नुपजीव्यतयोद्विग्रेन तत्स्तुतिः क्रियमाणा पूर्ववदेवाविवक्षितत्वाद् विपरीतल- क्षणया विवक्षितां निन्दामभिव्यनक्ति। अनन्वये 'युद्वेऽ्जुनोऽर्जुन इवे'त्या दावेकस्यैवोपमानत्वमुपमेयत्वं च विरुद्धत्वादविवक्षितं सदर्जुनादेरूपमानवैधु- र्यलक्षणमुत्कर्ष प्रत्याययति। आदिग्रहणाद् विशेषोक्तौ 'आहूतोऽपी' त्यादा- वाह्वानादिषु सक्कोचशिथिलीकारहेतुषु समग्रेध्वपि तदनुत्पत्तिरनुपपद्यमानोपपा- दकतया प्रियतमास्वप्नसमागसादिकारणमाक्षिपति। रुद्रटेनाप्यलक्कारतया प्रतीयमानं वस्तु स्वीकृतमिति दर्शयति-रुद्र-
20
Page 21
६ अलङ्कारसूत्रं [उपोद्धात-
तितुल्ययोगितादावुपमालङ्कारो वाच्योपस्कारित्वेनोक्त:। रसवत्प्रे- यऊर्जस्विप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । उत्प्रेक्षा
टेनेत्यादिना। भावो नाम वास्तवालङ्कारेपु कश्चिद् विशेषः । तस्य च द्विधा लक्षणं तेन प्रणीतं- "यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन। गमयति तमभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ।I" "अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः।" इति। आद्यस्योदाहरणं - "ग्रामतरुणं तरुण्या नववञ्जुलमअरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ।"
अत्र हि तरुण्या मुखच्छायामालिन्यमुत्पद्यमानं स्वनिमित्ततया सङ्केतभ्रंशज- नितं विषादलक्षणं वस्त्वाक्षिपति। तच्च स्वप्रतीत्या विना वाच्यस्य विश्रान्त्य- भावात् तत्सिद्यङ्गतया वाच्यं प्रति गुणीभवति। यद्वा प्रतीयमानमसुन्दरतया- नुरागव्यअकतया सौन्दर्यशालि वाच्यं प्रति गुणीभवति। द्वितीयस्योदाहर- णम् -- "एकाकिनी यदबला तरुणी तथाहमस्मिन् गृहे गृहपतिश्च गतो विदेशम्। कं याचसे त्वमिह वासमियं वराकी शश्रूर्ममान्धवधिरा ननु मूढ पान्थ!॥" अत्र वाच्यो वासनिषेधस्तरुणीलक्षणवक्तृवैशिष्रयवशात् प्रधानतया प्रतीय- मानाय गृहपतिविदेशगमनादिना निर्यन्त्रणलमयरतिसुखवासाभ्यनुज्ञालक्षणाय वस्तुने स्वात्मानमर्पयति। अत्र च स्वमनपेक्ष्यैव विश्रान्तिजुषा स्वं प्रत्युपस- र्जनीभवता च वाच्येन व्यञ्जितत्वाद् व्यङ्गयं प्रधानम्। रूपकेत्यादि। आ- दिशब्देन परिणामसहोक्त्यादयो गृह्यन्ते। रसवदित्यादि। प्रभृतिशब्देन
१. 'रकत्वे' ग. पाठ :.
21
Page 22
प्रकरणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ७
तु स्वयमेव प्रतीयमाना कथिता। तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतयां प्रख्यापितमेव। वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोत्त्य- लङ्कारत्वं ब्रुवता कश्रिद् ध्वनिभेदोऽलङ्कारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता। उद्टा- दिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् । विषय- मात्रेण भेदप्रतिपादनात्। संघटनाधर्मवेन शब्दार्थधर्मलेन चेष्टे: । तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम्। वक्रोक्तिजीवितकार्रेस्तु वैदग्ध्यभङ्गीभणितिस्वभावां बहु-
समाहितादयः। रसभावादिरिति। आदिशब्देन तदाभासतत्प्रशमादयो गृह्य- न्ते। उत्पेक्षा त्विति। इवादिप्रयोगशून्ये 'महिळासहस्सभरिए' इत्यादौ। स्वयमेव अलङ्गारान्तरनिरपेक्षम्। त्रिविधमपीति वस्त्वलङ्गाररसादिलक्षणम् । वामनेन त्वित्यादि। 'सादृश्याल्लक्षणा वक्रोक्तिरि'ति वक्रोक्तिं लक्षयित्वा "उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्ताद्" इत्युदाहृत्य अत्र नेत्रधर्मावुन्मील(न)निमीलने सादश्याद् विकाससङ्गोचौ लक्षयत इत्युक्तम्। सादृश्यं च तत्रावयवविश्लेषसंश्लेषलक्षणम्। कश्रिदिति। अविवक्षितवाच्या- ख्यः। केवलमित्यादिना वामनस्योद्भटादिभिः प्रतीयमानस्यालङ्गारतया कथ- नादि सर्व समानम्, इयांस्तु विशेप इति दर्शयति। काव्यात्मत्वेनेति। 'रीतिरात्मा काव्यस्य, विशिष्टी पदरचना रीतिः, विशेषो गुणात्मा' इति वदता गुणप्राधान्यमुक्तं भवति। संघटना रचना। अलङ्कारा एवेत्येवकारेण व्यापारादि व्यवच्छिनत्ति। गुणालङ्कारयोः शोभाहेतुत्वाविशेषाद् भेदाविव-
१. 'दवं त्रि', २. 'या ह्या', ३. 'णा', क. ख्. पाठः. ४. 'रः पुनः वै' ग. पाठ :. ५. '2' ख. पाटः.
22
Page 23
अलक्कारसूत्रं [उपाद्धात-
विधां वक्रोक्तिमेव प्राधान्यात काव्यजीवैमुक्तवान्। व्यापारप्रा- धान्यं च काव्यस्य प्रतिपेदे। अभिधाप्रकारविशेषा एवोलङ्गाराः । सत्यपि च त्रिवि- धे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः। उप- चारवक्तादिभिः समस्तो ध्वनिप्रपश्चः स्वीकृत एव। केवल- मुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्गयार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् ।
क्षया वामनमप्यन्तर्भाव्य प्राच्यानामित्युक्तम्। वैदग्व्यभङ्गीत्यादि। तदु- क्तम् - "उभावेतावलङ्कार्यौ तयोः पुनरलङकृतिः । वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ।।" इति। उभौ शब्दार्थौ। वैदग्ध्यं विदग्धभावः कविकर्मकौशलं, तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिः। अयमर्थः-शब्दार्थी पृथगवस्थितौ न केनाप्य(व्य?) तिरिक्तेनालक्कारेण योज्येते, किन्तु वक्रतया वैचित्र्ययोगितयाभिधानमात्रमेवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वा- दिति। व्यापारपाधान्यमिति। तदुक्तं- "शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाहादकारिणि ।।"
इति। वक्रकविव्यापारो नाम शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकिवर्णवि- न्यासवंदपूर्वार्थप्रत्ययवाक्यप्रकरणग्रबन्धात्मकः षड्विधविषयवक्रताविशिष्टः क्र- मः। अभिधेति। तथोक्त-
१. 'वितमु', २. 'व चाल' ग. पाठ: ३. 'तमेव' क. ख. पाठः. ४. 'त्म' ग., 'थमि' ख. पाठः.
23
Page 24
प्रकरणम् ] सव्याख्यालक्कार सर्वस्वोपेतम्। भट्टनायकेने तु व्यञ्जनव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्ये सतत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपैस्य व्यापारस्यैव प्राधान्यमुक्तम्। तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीणो
"वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा।
इति। उपचारवक्रतादिभिरिति। आदिशब्देन विशेषणवक्रतादयः परिगृह्य- न्ते। उपचारवकत्वं नाम यत्रामूर्तस्य वस्तुनः मूर्तद्रव्याभिधायिना शब्देना- भिधानं 'निकारकणिका', 'हस्तापचेयं यश' इति। कणिकाशन्दो मूर्तव- स्तुस्तोकाभिधायी स्तोकत्वसामान्येनोपचारादमूर्तस्यापि निकारस्य स्तोकाभि- धानपरत्वेन प्रयुक्तस्तद्विदाह्लादकौरित्वाद् वक्रतां पुष्णाति। हस्तापचेयमित्यत्र मूर्तपुष्पादिसम्भवि संहतत्वसामान्यादुपचारादमूर्तस्यापि यशसो हस्तापचेय- मित्यभिधानं वक्रतामावहति । एतदुभयमपि लक्षणामूलस्य ध्वनेर्विषयः । "सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम्" इत्यत्र परिमीलिताक्षमिति क्रियाविशेषणेन स्मरणसमयभाविसुखानुभवाति- शयः प्रतीयते । अत्र पदद्योत्योऽर्थशक्तिमूलो ध्वनिः । "अद्यापि मे वरतनोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति" इत्यत्र किमपीति संवृतिवकरतैया तदाकर्णनजनितायाश्चित्तवृत्तेरनुभवैकगोचर- त्वलक्षणमव्यपदेश्यत्वं प्रकाश्यते । अत्रापि पूर्ववद् ध्वनिः । भट्टनायकेनेत्यादि । ्रौढोक्त्याभ्युपगतस्येति । ग्रौढोक्तिरिति सं- ज्ञया निर्दिष्टस्येत्यर्थः। सत्त्वं स्ावः। तत्रापीत्यादिना व्यापारप्रा धान्येऽपि न सर्वेषां शब्दव्यापाराणां प्राधान्यम् । अपि तु कस्यचि- देवेति दर्शयति। तन्मते हि काव्यात्मनः शब्दस्य त्रयो व्यापाराः, अिधा- भावकत्वभोगकृत्वलक्षणाः। तत्राभिधाशब्देन शास्त्रकाव्यसाधारणो मुखयल- क्षणादिर्व्यापारोऽभिधीयते। भावकत्वभोगकृत्वे काव्यस्य नियते। तयोर्भा-
१. 'न व्या', २. 'पव्या' क. ख. पाठः ३. 'करत्वा' रा. ग. पाठः. ४. 'ताया- स्तदा ख. पाठः. ५. 'ढयो' क. पाउ .. ६. 'त्वाख्यल' ग. पाठः. 4. 2
24
Page 25
१० अलङ्कारसूत्रं [उपोद्धात-
रसचर्वणात्मैव भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्ति- स्थानतयाङ्गीकृतः । ध्वनिकारः पुनरभिधालक्षणातात्पर्याख्यव्या- पारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापा- रस्यावश्याभ्युपगन्तव्यत्वाद् व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव व्यङ्गयरूपस्य गुणालङ्गारोपस्कर्तव्यत्वेन प्राधान्याद् विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् । व्यापारस्ये विषय- मुखेन स्वरूपप्रतिलम्भात् तत्प्राधान्येन प्राधान्यात् स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वात्। तस्माद् विषय एव व्यङ्गयनामा जीवितत्वेन वक्तव्यः, यस्य गुणाल-
वकत्वं नाम विभावादिसाधारणीकारणम्। भोगकृत्वं तु ताभ्यामभिधाभाव- कत्वाभ्यामुत्तीणो रसचर्वणात्मकत्वविशिष्टः काव्यव्यापारः । वक्रोक्तिजीवि- तकारभट्टनायकयोई्वयोरपि व्यापारप्राधान्येऽविशिष्टेऽपि पूर्वत्र विशिष्टाया अ- भिधाया एव प्राधान्यम्, उत्तरत्र रसविषयस्य भोगकृत्वापरपर्यायस्य व्यञ्ञ- नस्य। ध्वनिकारः पुनरिति। पुनरशव्देनोद्भटादिमतव्यावर्तकेन ध्वनि- कारमतस्य युक्तत्वं द्योतयति। अवश्याभ्युगन्तव्यत्वादिति। व्यञ्ज- नव्यापारानम्युपगमेऽ्थीन्तरगम्यत्वोपलक्षितानां पर्यायोक्तादीनामनुत्थानात्। इयता व्यञ्जनव्यापारस्यान्तित्वं प्रतिपाद्य व्यङ्गचस्य प्राधान्यमुपपादय- ति-व्यापारस्य चेत्यादिना। गुणालक्कारोपस्कर्तव्यत्वेनेतयनेन गुणाल- ङ्वारयोरप्राधान्यमाह। उपस्कारकं हयुपस्कार्य प्रति गुणीभवति। व्यापारस्य विषयमुखेनेत्यादिना व्यञ्जनव्यापारस्याप्राधान्यमुपपाद्य व्यङ्गयप्राधान्यमुपसं हरति- तस्मादिति। व्यापारस्याप्राधान्यायोपन्यस्तं विषयैकनियतं समग्र- भरसहिष्णुत्वं विवृणोति- यस्य गुणेति। रसादयस्त्विति । अङ्गिभूता
१. 'स्व्री', २. 'म्यत्वा' क. ख. पाठः. ३. 'स्थानत्व्रा', ४. 'स्य च वि' गं. पाठः. . '(मत्व' ख. ग. पाठ :. ६ 'त्र वि' ग. पाठः. ७. 'कमुप' ख. पाठः.
25
Page 26
प्रकरणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ११ कारकृतचारुत्वपरिग्रहसाम्राज्यम्। रसादयस्तु जीवितभूता ना- लङ्कारत्वेन वाच्याः। अलङ्काराणोमुपकारकत्वौद् रसादीनां च प्राधान्येनोपस्कार्यत्वात्। तस्माद् व्यङ्ग्य एव वाक्यार्थींभूतः काव्यजीवितमिति। एष एव च.पक्षो वाक्यार्थविदां सहृदयानामा- वर्जकः। व्यञ्जनव्यापारस्य सर्वैरनपहनतत्वात्, तदोश्रयणे च प- क्षान्तरस्याप्रतिष्ठानात्। यत्तु व्यक्तिविवेककारो वाच्यस्य प्रती- यमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्, तद् वाच्यस्य प्रतीयमानेने सह तादात्म्यतदुत्पत्त्यभावादविचारिता-
इति शेषः । अथवा जीवितभूता इत्यस्यैवायमर्थः । तदा त्वेकवाक्यता। रसा- दिवदन्यस्यापि व्यङ्गयस्य विशिष्टस्यैव ग्राधान्यमिति दर्शयन्तुपसंहरति - तस्माद् व्यङ्गय एवेति। इतिः समाप्तौ। अस्य ध्वनिकारपक्षस्योपपत्तिमत्त्वेन स्वाभिमतत्वं दर्शयति- एप एव चेतादिना। अस्तु व्यञ्जनव्यापारस्या- नपह्वः । ततः किमायातं व्यङ्गयप्राधान्यस्येत्यत आह-तदाश्रयण इति। पक्षान्तरस्य व्यापारादिप्राधान्यवतः। अप्रतिष्ठानं च 'व्यापारस्य विषयमुखेने'- त्यादिना पूर्वमेव प्रतिपादितम्। तदनाश्रण इति पाठे व्यञ्जनव्यापारानङ्गी-
पह्वततत्वोपपादनमेवार्थः । ननु महिमनि जीवति व्यञ्जनव्यापारस्य कथ- मनपह्नतत्वमित्याशङ्कय परिहरति - यतत्वित्यादिना । तुशव्देनं शब्दवि- शेषात्मनः काव्यस्य शब्दव्यतिरिक्तप्रमाणव्यापारगोचरेणार्थन चनत्कारका- रित्वकथनमत्यन्तमसमीचीनमिति दर्शयति। तादात्म्यतदुत्पत्यभावादिति। 'भम धम्मिअ' इत्यादौ वाच्यस्य गृहभ्रमणविध्यादेः प्रतीयमानस्य गोदाव- रीतीरभ्रमणनिषेधादेश्च शिंशपावृक्षयोरिव न तादात्म्यम्। नापि धूमाग्न्योरिव
१. 'इकृतिचा', २. 'हं सा', ३. 'णां समु', ४. 'त्वेन र', ५. 'दना श्र)पणे, ६. 'न ता' क, ख, पाठ :. ७. 'न वि' ग. पाठः.
26
Page 27
१.२ अलङ्कारसूत्र [उपोद्धात
भिधानम्। तदेतत् कुशाग्रीयधिषणक्षोदेनीयमतिगहनमिति ने- ह प्रतन्यते। अस्ति तावद् व्यङ्ग्यनिष्ठो व्यञ्ञनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ हौ काव्यमेदौ। व्यङ्गयस्यास्फुटत्वैन गुणालङ्कारवत्त्वे तु चित्राख्य- स्तृतीयः काव्यभेदः । तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामू- लत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ। आ-
तदुत्पत्तिलक्षणः कार्यकारणभावः । कुशाग्रीयं कुशाग्रसदृशम् । 'कुशाग्राच्छः' (५. ३. १०५) इति छः । व्यङ्गयनिष्ठ इति। व्यङ्गयपर्यवसितः । व्यङ्गयं ्रत्युपसर्जनीभूत इत्यर्थः । प्राधान्यापाधान्याभ्यामिति। वाच्यापेक्षया। तत्रोत्तमो ध्वनिरिति । ध्वनिलक्षणः काव्यभेद उत्तमः । यद्यपि 'तस्य लक्ष- णे'त्यादिना ध्वनेरेव प्रकारभेदो दर्शितः, तथाप्यस्यार्थान्तरे सङ्गमितादिप्रकार- वैचित्र्यस्य गुणीभूतव्यङ्गयेऽपि साधारणत्वादुपलक्षणमेतत्। कालिदासादि- प्रबन्धेषु शाकुन्तलवेणीसंहारादिषु। प्रबन्धग्रहणं चैकस्मिन् वाक्येऽपेक्षितस- कलविभावानुभावव्यभिचार्युपादानस्याशक्यत्वात् कतिपयोपादाने चेतरेषामु- न्नेयत्वेन तत्तदवस्थाविशेषविशिष्टानां रसादीनां स्फुटतयानभिव्यक्तेः। अल- क्ारध्वनिर्यथा- अर्जुनगुणानुरागी रक्षितगोमण्डलो बलज्येष्ठः । यदुपतिरभिमतसत्यः शरदयुतं जयति विबुधहितनिरतः ॥
अन्न वर्णनीये रविवर्मणि अभिधाया नियन्त्रणात् शब्दशक्तिमूलानुरणनव्य- ङ्चेन कृष्णेन सहोपमानोपमेयभावप्रतीतेरुपमालङ्कारो व्यङ्गयः। वस्तुध्वनि- र्यथा-
१. 'भ', २. 'त्वेडल', ३. 'पक्षे तु' क. ख. पाठः. ४ 'पि तस्या' ख, पाठः. ५. 'न वि' ग. पाठः.
27
Page 28
प्रकरणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १३
द्वितीयोऽप्यसंलक्ष्यक्रमेसंलक्ष्यक्रमव्यङ्गयतया द्विविधः। लक्षणा- मूल: शब्दशक्तिमूलो वस्तुध्वनिः। असंलक्ष्यक्रमव्यङ्ग्योऽर्थश- क्तिमूलो रसादिध्वनिः । संलक्ष्यक्रमव्यङ्गयः शब्दार्थोभयशक्ति- मूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति। तत्र रसादिध्वनिः कालि- दासादिप्रबन्धेषुं। गुणीभूतव्यङ्गयं वाच्याङ्गत्वादिभेदैर्यथासम्भवं समासोक्त्यादौ प्रदर्शितम्। चित्रं तु शब्दार्थोभयालङ्कारस्वभा- वतया बहुतरँप्रभेदम्। तथाहि- इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौ- नरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ।।१।। आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणालङ्गाराणां कक्ष्या
कथयामि वः क्षितीशाः! रविवर्मणि भजत वैतसीं वृत्तिम् । अस्य हि रोषो रोषः प्रसाद एव प्रसादश्च॥ अत्र कथयामि वः क्षितीशा इति वाक्यरूपेणोपदेशपर्यव सायिनार्थान्तरसङ्ग- मितवाच्येन वक्तुर्नैभृत्यं व्यज्यते। उत्तरार्धे रोषो रोषः प्रसाद एव प्रसाद इत्यत्र पदावृत्तिभ्यां साफल्यपर्यवसायि(नी)भ्यामर्थान्तरसङ्गमितवाच्याभ्यां वर्णनीयस्यावश्यभजनीयत्वलक्षणं वस्तु व्यज्यते। एवं तावदू ध्वनिकारमत- स्यैवानवद्यतां दर्शयित्वा तेनैव ध्वनिगुणीभूतव्यङ्गययोः प्रपश्चितत्वात् संक्षे- पेण तत्प्रकारानुद्दिश्य चित्रकाव्यप्रभेदान् दर्शयितुमुपक्रमते-चित्रं त्वित्या- दिना। तुशब्देन अन्यत्राप्रपश्चितत्वाद् बहुवक्तव्यत्वाच्च स्वसंरम्भगोचरतां द्योतयति। शब्दार्थेत्यादि। शब्दार्थोभयालङ्कारभेदादवान्तरभेदाच। ननु 'गुर्वलङ्गारसूत्राणामि'त्यनेन सूत्राणामलङ्कारस्वरूपनिरूपणपरत्वं दर्शि- तम्। तच्च प्रथमसूत्रे न दश्यते। अत आह-आदावित्यादि। कक्ष्याविभागेति।
१. 'मव्यङ्गयसं' क. पाठः. २. 'ले', ३. 'स्तुरूपोऽलङ्गाररूपो रसरूपश्च। अ', ४. 'षु। चि', ५. 'त्रस्तु', ६. 'थाल', ७. 'रभे' क, ख. पाठः. ८. 'क्यवृत्तिरु' क. पाठः
28
Page 29
१४ अलङ्कारसूत्रं [पुनरुक्तवदाभास-
विभागघटनार्थम्। अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतनिर्देशश्चिरन्तनप्रसिद्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहे शाब्दे प्रस्थाने। इतिशब्दः प्रकारे। त्रिशब्दा-
तत्रार्थपौनरुक्त्यं प्ररुढं दोषः ।।२।। प्ररूढाप्ररूढत्वेन द्वैविध्यम्। प्रथमें हेयवचनमुपादेये विश्रान्त्यर्थम्। तत्रेति त्रयनिर्धारणे। यथावभासनं विश्रान्तिः प्ररोहः॥। आमुखावभासनं पुनरुक्तवदाभासम्॥३॥
आमुखग्रहणं पर्यवसानान्यथात्वप्रतिपत्त्यर्थम् । लक्ष्य-
अर्थपौनरुत्तये पुनरुक्तवदाभासः, शब्दपौनरुत्तये छेकानुप्रासादिः, उभयपौन- रुत्तये लाटानुप्रासः इत्येवंरूपः कक्ष्याविभागः । अर्थापेक्षयेत्यादि। प्रथमप्र- तिपन्नस्वरूपेण शब्देनार्थप्रत्ययादन्तरङ्गत्वम् । चिरन्तनपसिद्धयेति। उद्ध- टादिि: प्रथममलङ्कारेपु पुनरुक्तवदाभासो लक्षितः। शब्द इति। शब्देना- र्थव्यवहारलक्षणे। "इतिर्हे तुप्रकरणप्रकारादिसमाप्तिपु" इति समाप्त्यर्थत्वेन पठितस्यापीतिशब्दस्य नात्र तदर्थत्वमित्याह-इतिश- ब्दः प्रकार इति। त्रिशब्दादेवेति। त्रिशब्दस्य न्यूनाधिकसक्कयाव्यवच्छेद- परत्वात्।। अलङ्कारप्रस्तावादप्रस्तुतत्वेऽपि दोषरूपपौनरुत्तयस्वरूपकथनमन्यार्थ- म्मित्याह-प्रथममित्यादि। यथावभासनमित्यादि। आपातवत् पर्यवसान- वेलायामप्यैकार्थ्यप्रतीतिरित्यर्थः ॥
१. 'हति शा', २. 'ममुपा', ३. 'य' क. ख. पाठः. ४. 'भिर्ह्रि प्र. क. पाठ :-
29
Page 30
निरूपणम् ] सव्याख्यालङ्कारसर्चम्वोपेतम् । १५
निर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्म्येण काव्यालङ्का- राणामलङ्कार्यपारतन्त्र्यध्वननार्थः । अर्थपौनरुत्त्यादेवार्थाश्रित- त्वादर्थालङ्कारोऽयम्। प्रभेदास्तु विस्तरभयान्नोच्यन्ते। उदाहरणं मङ्कीये श्रीकण्ठस्तवे- "अहीनभुजगाधीशवपुर्वलयकङ्गणम्। शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् । वृषपुङ्गचलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसेखमीश्वरम्।" इत्यादि। एतच्च सुबन्तापेक्षयों। तिङन्तापेक्षया यथा तत्रैव-
नापुंसक इति। सोरमादेशलक्षणः । यथा लौकिका: कटकमुकुटाद- योऽलद्वारा अलक्कार्येभ्यः करादिभ्यः पृथग्भूय स्वातन्त्र्येणाप्युपलभ्यन्ते, नैवं काव्यालङ्काराः, अलङ्कारयों शब्दार्थावन्तरेण पृथगनुपलब्धेः। अतश्चैषां तत्पारतन्त्र्यम् । तच् स्वलिङ्गपरिहारेण स्वाश्रयस्य काव्यस्य लिङ्ेन निर्दे- शादवगम्यते, यथा शुक्कं वस्त्रमिति शौक्ल्यस्य। तदेवमलक्कार्यपारतन्त्र्य- स्यात्र सूचितत्वात् छेकानुप्रासादिषु तदनादरः। अस्यं पुनरुक्तवदाभासस्या- न्यैः शब्दालङ्कारत्वमुक्तम्। तदयुक्तमित्याह -अर्थपीनरुक्त्यादेवेत्यादि।
त्यक्षमत्वादयः । अहीनेत्यादि। हीनादन्यः, अहीनामिनश्र। वलयं सन्निवे- शविशेषः, करभूषणं च। शैलादिं नन्दयितुं शीलवत्, शैलादिर्नन्दी चेति श्रीनन्दिकेश्वरस्य नामनी। दर्पशब्दात् समासान्ते कपि दर्पक इति रूपं, का- मपर्यायश्च। पुङ्गवः श्रेष्ठः, पुंस्त्वविशि(ष!षो) गौश्च। शिखी प्रशस्तशिखः,
१. 'रत्वं ज्ञेयम्', २. 'मरमेश्र', ३. 'ति। ए', ४. 'य। । य' ख. पाठः. ५ 'त्' क. पाठः ६. 'कश' ख. पाठः ७ 'नी च । द' क. पाठ:
30
Page 31
१६ अलक्कारसूत्र [पुनरुक्तवदाभास-
"भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशेखरः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।" इत्यादि। शब्दपौनरुत्तयं तु व्यञ्जनमान्नपौनरुत्त्यं स्वरव्यञ्जन- समुदायपौनरुत्तयं च । अलङ्कारप्रस्तावे केवलस्वरपौनरुत्त्यम- चारुत्वान्न गण्यत इति द्वैविध्यमुक्तम्।।
अमनिश्च।ससर्वमङ्गलं सर्वमङ्गलैः सहितं, सर्वमङ्गलया सहितं च। कुण्डली कुण्ड- लवान्, सर्पश्च। व्यक्ता: शशिनः शुभ्रा अंशवः शेखरं यस्य, शशी शुभ्रांशुश्चेति चन्द्रनामनी च। व्यक्तशिशुशुभ्रांशुशीतगुरिति पाठे व्यक्तशिशुधवलांशुत्ववि- शिष्टः शीतगुः चन्द्रः शेखरत्वेन यस्यास्ति इत्यर्थः, शुभ्रांशुः शीतगुरिति चन्द्रनामनी च । सदापायात् सततमपायतः, सततं पायाच। चेतोहरो मनोहरः, हरः शिव इति शिवनामनी च। भुजङ्गकुण्डलीत्यादौ सुबन्तपौन- रुत्तये सत्यपि सदा पायाद् अव्याद् इति तिङन्तपौनरुत्त्यप्रतिभासात् तिङ- न्तापेक्षयेत्युक्तम् । अत्रोदाहरणद्वये सर्वत्रैकपदपर्यायपरिवृत्त्यक्षमत्वं, सुबन्त- विषये सार्थकपदनिष्ठत्वं, तिङन्तविषये सार्थकनिरर्थकपदनिष्ठत्वं, कन्दर्पद- पंकेत्यत्र भङ्गनिष्ठत्वं च। पदद्वयपर्यायपरिवृत्त्यक्षमत्वादौ यथा- वितरणसमरहितं त्वामरिचक्रविमर्दविहितहेवाकम्। लब्ध्वा नायकमनघं विभाति यदुवीर! मेदिनीवलयम् । अत्र रणसमरेत्यरिचक्रेति च पदद्वयपर्यायपरिवृत्त्यक्षमत्वम्। आद्ये द्वयोरपि नैरर्थक्यं, द्वितीये सार्थकत्वम्। व्यञ्जनमा(त्रमि?त्रे)ति मात्रशब्देन स्वरसा- म्यनियमो व्यावर्त्यते, न तु तदभावः प्रतिपादते। अतः सायसायमित्यादौ स्वरसाम्यं न दोषाय। स्वरसाम्यपौनरुत्त्यावचने नासम्भवो हेतुः, किन्त्वन- लङ्कारत्वमेवेत्याह-अलङ्गारपस्ताव इति।
१. 'तयं व्य' ग. पाठः. २. 'स्त' ख. पाठः. ३. 'थप' क. पाठः. ४. 'त्वम्। प' स. पाठ :.
31
Page 32
निरूपणम्] १७
सङ्खयानियमे पूर्व छेकानुप्रासः ॥४॥ द्वयोर्व्यञ्जनसमुदाययो: परस्परमनेकधा सादशयं सङ्खया- नियम: । पूर्व व्यञ्जनमात्राश्रितम। यैथा- "किं नाम दर्दुर दुरध्यवसाय! सायं कायं निपीड्य निनदं कुरुपे रुपेव। एतानि केलिरसितानि सितच्छदाना- माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥"
अत्र सायंशब्देऽस्यालक्कारस्य यकारमात्रसादश्यापेक्षया वृत्यन- प्रासेन सहैकाभिधानानुप्रवेशलक्षणः सङ्करः । छेका विदग्धाः ।
व्यञ्जनमात्राश्रितमित्यनेन सूतस्थस्य पूर्वशब्दस्यार्थमाह। किं नामेत्यादि। मधुरवचसां मध्ये कटुभाषिणं कश्चिदप्रस्तुतसरूपस्तुत्या प्रतिक्षिपति। अत्र दुरदु- रेति द्वौ व्यञ्जनसमुदायौ मिथः सदशौ। एवं सायसाय रुषेरुपे सितसित कर्णक- र्णेत्यत्र। इत्यनेकैधात्वम्। वृत्युनुभासनेत्यादि। केवलव्यञ्जनसादश्यलक्षणप्र- कारविशिष्टेन। एकाभिधानेति। सायसायमित्यत्र दुरदुरेतिवच्छेकानुप्रासः । सायं कायमित्यत्र 'आटोपेन पटीयसे त्यादिवद् वृत्त्यनुप्रासः। ताबुभावप्येकं सायंशब्दमाश्रयतः। अप्रस्तुतत्वेऽपि सक्करप्रदर्शनं तस्य तस्यललिक्कारस्यालक्वारा- न्तरासंस्पृष्टोदाहरणदौर्लभ्यं प्रधानेन व्यपदेशं च ख्यापयितुम्। छेका विदग्धा इति। न त्वालयवर्तिनो मृगपक्षिणः। अनेनच्छेकानामनुमतत्वेन सम्बन्धी अनुप्रास इति अस्य निरुक्ति दर्शयति। पूर्वत्रापुनरुक्तस्यापि पुन- रुक्तवदाभासः प्रतिभास इत्यस्यार्थस्य स्फुटत्वादू न निरुक्ति: कृता ॥
१. 'माध्रि', २. 'उदाहरणं-कि' स. पाठ :. ३. 'कप्रकारत्व', ४. 'स्याल- द्वारा' क. ख. पाठः. 21. 3
32
Page 33
१८ अलङ्कारसूत्रं [यमक्र-
अन्यथा तु वृत्त्यनुप्रासः ॥५॥ केवलव्यञ्जनसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमन्यथाभावः। वृत्तिस्तु रसविषयो व्यापारः। तद्वती पुनर्वर्णरचनेह वृत्तिः । सा च परुषकोमलमध्येमवर्णार- ब्धत्वात् त्रिधा। तदुपलक्षितोऽयमनुप्रासः । यथा मदीये श्री- कण्ठस्तवे-
"आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनम्। न स्यादयावदमन्दसुन्दररसालङ्गारझङ्कारितः स प्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥"
स्वरव्यञ्जनसमुदायपौनरुकत्यं यमकम् ॥६॥ अत्र कचिद् भिल्नार्थत्वं, क्कचिदनर्थकत्वं, कचिदेकस्या- नर्थकत्वमैपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम्। यथा-
केवलव्यज्ञनसादश्यमित्यनेन व्यञ्जनसमुदाययोरित्यस्यान्यथाभावो द- र्शितः, एकधेत्यनेनानेकवेत्यस्य, ्यादीनामित्यनेन इ्वयोरित्यस्य। आटोपेने- त्यादि। पूर्वार्धे केवलव्यञ्जनसादृश्यम्। अलक्वारझंकारित इत्यत्र व्यञ्जन- समुदाययोरकधा सादृश्यम्। रसायनेत्यादौ रेफसकारात्मनां त्र्यादीनां व्यञ्जनसमुदायानां सादृश्यम्।। संक्षेपत इति। अत्रैव पादपादैकदेशीदिवृत्तीनां सकलभेदानामन्तर्भाव इति भावः। यो य इत्यादि। वनजे तामरसे इवायते रुचिरे इति नेत्रयोर्वि-
९. 'ध्यव' ख. पाठः. २. 'चरिते-आ', ३. 'गुणाल', ४. 'न्द', ५. 'थत्वं', ६. 'मित र' क. ख. पाठ: ७ 'त्मकानां', ८. 'शत्रु' ख. पाठः.
33
Page 34
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १९
"यो यः पश्यति तन्नेत्रे रुचिरे वनजायते। तस्य तस्यान्यनेत्रेपु रुचिरेव न जायते ।" इंदं च सार्थकत्वे। एवमन्येत्तु ज्ञेयम् ॥
शब्दार्थपौनरुकत्यं प्ररुढं दोष: ।।७।।
प्ररूढग्रहणं वक्ष्यमाणौलङ्वारपौनरुत्त्यवैलक्षण्यार्थम् । यदाहु :- "शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादाद्" इति ॥
शेषणे। अन्यनेत्रेप्वित्यंत्र 'सर्वनाम्नो वृत्तिमात्र' इति पुंवद्धावः । रुचिरि- च्छैव न जायते। एवमन्यच्विति। उभयानर्थकत्वे यथा- दददनर्थित एव मनोरथादधिकमथिजनाय यदूद्रहः। कथमिवास्तु पुरन्दरशाखिना समधुरो मधुरोक्तिविचक्षणः । पूर्वभागानर्थक्ये यथा- इतरपार्थिववद् यदुभूपतेः स्तुतिविधी क इव क्षमते कविः । जयति कर्णमदृष्टचरेण यो वितरणेन रणेन च फल्गुनम्॥
उत्तरभागानर्थक्ये यथा- अभिजनश्रुतिविक्रमसम्पदः समवयन्ति यदुक्षितिप! त्वयि। तदपि नैव तवास्ति वपुःश्रिया विजितदर्पक! दर्पकलङ्किता ।।
वक्ष्यमाणेति अलङ्कारभूतलाटानुप्रासलक्षणशब्दार्थपौनरूत्त्यव्यावृत्त्य- र्थम्। प्ररूढं दोष इत्यत्र वृद्धसम्मतिमाह-शब्दार्थयोरित्यादि।।
१. 'दमसा' क. पाठ :. २. 'न्यज्ज्ञे' ग. पाठः. ३. 'णपौनरुक्तप्रभेदवै' क. स. पाठ :. ४. 'तिस', ५. 'त्रे पुं', ६. 'दि' ख. पाठ :.
34
Page 35
२० अलक्कारसूत्रं [लाटानुप्रास-
तात्पर्यभेदवत् तु लाटानुप्रासः ॥८॥ तात्पर्यमन्यपरत्वम्। तदेव भिद्यते यत्र, न तु शब्दार्थ- स्वरूपम् । यथा- "ताला जाअन्ति गुणा जाला दे सहिअएहि घेप्पन्ति। रइकिरणाणुग्गहहिआइ होन्ति कमलाइ कमलाइ।" "अत्राब्जपत्रनयने! नयने निमील्य" इत्यादौ विभक्त्यादेरेपौनरुः क्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव। "काशा-
तात्पर्यभेदवचवित्यादि। शब्दार्थपौनरुत्तयमित्यनुवर्तते। शब्दार्थपौ- नरुत्तयरूपत्वादेवानुप्रासप्रस्तावोलङ्गनेनेह लक्षितः। अन्यपरत्वम् उद्देश्यवि- घेयत्वादिभेदादन्वयभेद:। ताला इत्यादि। तदा जायन्ते गुणा यदा ते सहृदयैर्गह्यन्ते। रविकिरणानुगहीतानि भवन्ति कमलानि कमलानि ॥ अत्र ग्रथमस्य कमलशब्दस्य रविकिरणानुगृहीतानीत्यनेनान्वितस्योद्देश्या- र्थवृत्तित्वं, द्वितीयस्य तु भवन्तीत्यनेनान्वितस्य विधेयार्थनिष्ठत्वम् । यद्यप्यस्य शोभावत्त्वादिलक्षणेऽर्थान्तरे सक्कमितत्वादर्थभेदः, तथापि सक्के- तितार्थापेक्षया पौनरुत्तयं द्रष्टव्यम् । 'अत्राब्जपत्रनयने' इत्यादौ नयने नयने इत्यत्र यद्यपि शब्दस्वरूपं न भिद्यते, तथापि पूर्वत्रैकत्वविि- ष्टायाः सम्बोधनमेवार्थः, उत्तरत्र द्वित्वविशिष्टयोर्द्शोः कर्मत्वमित्यर्थभेदात् कथं लाटानुप्रासत्वमित्याशङ्य परिहरति-विभक्त्यादेरित्यादि। आदि- शब्देन वचनं गरृह्यते। वर्णमात्रविभत्त्याद्यपेक्षया बहुतरस्य नयनेति प्रातिपदिकस्यार्थपौनरुत्तयान्न दोप इत्यर्थः । अत्र पूर्वो नयनशब्दोऽब्ज- पत्रसादृश्यविशिष्टार्थवृत्तिः सम्बोधनीयामुपलक्षयति । उत्तरस्तु निमीलनक्रिया- कर्माभिधायी निमील्येत्यनेनान्वयं भजते। काशा इत्यादि। सङ्करः एक- वाचकानुप्रवेशलक्षणः । ननु लाठानुप्रासादविविक्तविषयत्वात् तस्य बहुविष-
१. 'रर्थपी' क. ख. पाठः. २. 'यो: क', ३. 'यात्' ख. ग. पाठः.
35
Page 36
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २१
काशा इवे"त्यादावनन्वयेन सहास्य सङ्करः। अन्योन्यापेक्षशब्दा- र्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषयत्वात। अनन्वये च शब्दैक्यमौचित्यादानुषड्रिकम् । अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥ तदेवं पौनरुक्त्ये पश्चालङ्गाराः ।।९। निगदव्याख्यानमेतत्।। वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् ॥१०॥ पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मक- चित्रवचनम्। यद्यपि लिप्यक्षराणां खड्गादिसन्निवेशविशिष्ट- त्वं, तथापि श्रोताकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकालङ्कारोऽयम्। आदिग्रहणाद् यथाव्युत्पत्तिसम्भवं
यत्वाच्चानन्वयः पृथगलक्कारत्वेन न लक्षणीय एव, कुतः सङ्कर इत्याशङ्कयान- न्वयस्य विविक्तोदाहरणत्वाभावेऽप्यलक्कार्यात्मन आश्रयस्य भेदाद् भेद इत्या- ह-अन्योन्यापेक्षेति। शब्दावर्थाभेदमपेक्षेते, अर्थो च शब्दाभेदमित्यर्थः । ननु यद्यर्थाश्रयोऽनन्वयः, तत् किमैकशब्द्यनिवन्धेनेत्यत आह-अनन्वय इत्यादि। औचित्यादिति। अन्यथा शब्दभेदेनार्थान्तरतया प्रतिभासादुपमा- नोपमेययोरेकत्वप्रतीतिविलम्बः स्यात् । वर्णानामित्यादि। लक्ष्यलक्षणयोवैयधिकरण्येन निर्देश उद्भटेनापि कृत :- 'छेकानुप्रासस्तु द्वयोई्योः सुसदशाकृतावि'ति। स्थानविशेषश्ि- ष्टेति। कर्णिकादिस्थानविशेषन्यस्त एकस्मिन् वर्णेडनेकवर्णोपलम्भादनेकव-
१. 'षृपी', २. 'क' क. ख, पाठः. ३. 'नल' ख. ग. पाठः. ४. 'थौं श' क, पाठ :.
36
Page 37
२२ अलक्कारसूत्रं [उपमा-
पद्मबन्धादिपारग्रहः । यथा- "भासते प्रतिभासार! रसाभाता हताविभा। भावितात्मा शुभा वादे देवाभा बत ते सभा॥"
एषोऽष्टदले: पझ्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां छ्िष्टा- क्षरत्वम्। विदिग्दलेष्वन्यथा। कर्णिकाक्षरं तु श्लिष्टमेव ।। उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ ११॥
र्णस्य सङ्गतत्वाद् वा। अस्य च स्थानविशेपश्चिष्टपौनरुत्तयात्मकत्वस्य प्रकरणसङ्गतौ हेतुगर्भविशेषणता। श्रवणेन्द्रियग्राह्यस्य शब्दत्वात् खड्गा- दिसन्निवेशविशेषभाजां लिप्यक्षराणां चक्षुग्राह्यत्वादशब्दत्वात् चित्रस्य शब्दालङ्कारत्वं न घटते इत्याशङ्कय परिहरति-यद्यपीत्यादिना । अर्थवत एव शब्दस्यालक्कारत्वाद् वाचकालक्वार इत्युक्तम्। चित्रश- व्दस्य नपुंसकत्वेऽप्यलक्कारापेक्षयायमिति पुलिङ्गनिर्देशः। यथाव्युत्पत्तिस- म्भवं व्युत्पत्तिसम्भवावनतिक्रम्य। पम्मबन्धादीति। आदिशब्देन चक्रमुरज- बन्धादिपरिग्रहः । भासत इत्यादि। प्रतिभासार! ते तव सभा रसाभाता रसेन आ समन्ताद् दीप्ा। हताविया हता अविभा अज्ञा यस्याः सा, अविभा अज्ञानं वा यस्या: सा। भावितः भावनया विपयीकृत आत्मा यया सा भावितात्मा। वादे कथाविशेषे शुभा। देवाभा देवसदशी। सभासभासदोरभेदो- पचारादेवमुक्तम्। दिग्दलेध्विति। सते सार तावि वादे इति चतुर्णामक्षर- युग्मानां कर्णिकातो निर्गमप्रवेशयोरानुलोम्येन ग्रातिलोभ्येन च श्विष्टाक्षरत्वम्। विदिग्दलेप्विति। प्रति ताह त्माशु बत इत्येपामक्षरयुग्मानां सकृदेव पाठादन्य- थात्वमश्िष्टाक्षरता। कर्णिकाक्षरं तु श्िष्टमेवेति । भा इत्येतस्याष्टकृत्वः पाठात्। सूत्रे प्रतिपदोक्तं खड्गमपहायादिशब्दोपात्तस्य पद्मबन्धस्योदाहरण-
१. 'ल' क. ख. पाठः. २. 'न्ध इत्यादी', ३. 'तयेतेषा' क, पाठः
37
Page 38
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । २३
अर्थालङ्कारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोप- मानोपमेयनिषेधार्थम्। साधर्म्ये त्रयः प्रकाराः। भेदप्राधान्यं व्य- तिरेकवत्। अभेदप्राधान्यं रूपकवत्। द्वयोस्तुत्यत्वं यथास्याम्।
प्रदर्शनं खड्गस्य बहुभिरदर्शितत्वादतिक्किष्टत्वाच्चेत्याहुः। खड्गस्य दिह- क्षितत्वे पुनरिदमुदाहरणं-
सानन्दवन्दिजनगीतविचित्रभूमा मातङ्गमन्थरगतिर्महनीयभासा। सारोत्तरेण वपुपा परिपन्थिहिंसासातत्यसङ्ग ! यदुनाथ! जयाङ्गजश्रीः ।। सादितशत्रुदेहगलितरुधिरतटिनी नीतविवृद्धकीर्तिजलविभरितनभसा। साहसवर्जितेन यदुवर! गुरुतरसा सारवतीभयात! धरणिरजनि भवता॥ अनयोश्चायं प्रस्तारः द्राढिकान्तरे सेति शब्द न्यस्य ग्रथमं पादमधोधः क्रमेण न्यस्य तदन्तगतं माशब्दं नीशब्दं वा शिखायां न्यस्य तदेवारभ्योर्ध्व- कमेण द्वितीयं पादं यावत् साशब्दं न्यस्येत्। तस्यैव साशब्दस्य दक्षिणो- त्तरपार्श्वयोस्तृतीयपादस्याद्यर्व साशव्दादि मन्त्यार््च तदन्तं न्यस्येत् ।ा एष। द्राढिका। ततस्तमेव साशब्दमारभ्योध्वक्रमेण वर्णत्रयं तदुपरि गकारो भकारो वा। तत्पार्श्रे पूर्ववत् त्रींस्रीश्चतुरश्चतुरो वर्णान् न्यस्येत्। एतत्फलकम्। ततस्तदुपरि वर्णद्वयम्। एतन्मस्तकम् ॥
म्ये रुद्रटस्याभिमतं शब्दालक्वारत्वमर्थ क्रेपादेश् काव्यप्रकाशकारोक्तं शब्दालक्का- रत्वं च निरस्यति। ननु साधम्य समानधर्मसम्बन्धः। स चोपमानोपमेययोरेव स- म्भवति,न कार्यकारणादिकयोरिति साधर्म्य इत्यनेनैव गतार्थत्वादुपमानोपमेययो- रिति न निर्देष्टव्यमत आह-उपमानोपमेययोरित्यप्तीतेति। "कुमुदमिव मुखं तस्या" इत्यादौ। अत एवोपमानोपमेयग्रहणादनन्वयस्योपमेयोपमायाश्च व्यावृ- त्तिः। लोके हि भिन्नयोरुपमानोपमेयत्वे व्यवस्थितत्वेन प्रतीयेते। तत्रानन्वये भेदा-
१. 'थः।' क. ख. पाठः.
38
Page 39
२४ अलङ्कारसूत्रं [उपमा-
यदाहु :- "यत्र किश्चित् सामान्यं कश्चिच्च विशेषः स विषयः सद- शतायाः"इति। उपमैवे च प्रकारवैचित्र्येणानेकालङ्गारबीजभूतेति प्रथमं निर्दिष्टा। अस्याश्र पूर्णालुप्तादित्वभेदाद् बहुविधत्वं चिर-
भावः । उपमेयोपमायां व्यवस्थाया अन्यथाभावः । भेदाभेदतुल्यत्व इत्यनेन रूपकादेर्व्यतिरेकादेश्च व्यावृत्तिः । साधर्म्य इत्यनेनासदृक्षोपमादेः। व्यति- रेकवदिति। यथा व्यतिरेक इत्यर्थः । यत्र किन्चिदित्यादि। किश्चित्सा- मान्यमित्यनेनाभेदो दर्शितः, कश्चिच्च विशेष इत्यनेन भेदः । पूर्णेत्यादि । उपमानोपमेयसाधारणधर्मोपमाद्योतकानामुपादाने पूर्णा। सा च षोढा कथिता- "श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा" इति। तत्रैवाद्युपादाने श्रौती। तुल्यादिशब्दोपादाने आर्थी। यथा-
वाचं वाचां यथेशः प्रथयसि निधिरस्यंशुमालीव वाम्नां रक्ताङ्गो भौमवत् त्वं तव भृगुसुतवत् काव्यशब्देन रूढिः । कान्त्या तुल्यस्त्वमिन्दोर्बुधशनिसमता युज्यते ते कलाव- न्मित्रानन्दैकहेतोस्तदसि यदुनृप ! ज्योतिषां सञ्चयस्त्वम् ॥ एकस्य द्वयोस्त्रयाणां वा लोपे लुसा। तत्र धर्मलोपे पञ्चविधत्वमुक्तं- "तद्वदू धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः" इति। यथा - कृतान्त इव विद्विषां प्रणयिनां यथा स्व्द्गमो विहारगिरिसन्निभो यदुनरेन्द्र! वीरश्रियः । समश्च कुसुमेषुणा त्वमसि कामिनीनामतः पुनस्तव महीक्षितो दिवसदीपकल्पाः परे॥
१. 'श्रिद् वि', २. 'व प्र', ३. 'प्रात्व्र' क, ख. पाठः. ४. 'त्व' ख. पाठः.
39
Page 40
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। २५
द्योतकलोपे षड्डिधत्वमुक्तं- "वादेलोंपे समासे सा कर्माधारक्यचि क्यडि। कर्मकत्रोर्णमुलि" इति। यथा- कुन्दश्वेतं यशस्ते तुहिनकरकरीयन्ति नित्यं चकोराः कोशागारे स्ववेश्मीयति बुधनिवहस्तावके यादवेन्द्र!। मध्याहार्कप्रतापं प्रतपति च भवानन्धकारायमाणान् विद्राव्याजौ द्विषस्तत्कथमितरजनस्तावमेते स्तुमस्त्वाम् । उपमानस्यानुपादाने धर्मद्योतकयोर्धर्मोपमानयोश्च लोपे प्रत्येकं द्वैविध्यम्। तदुक्तम्- "उपमानानुपादाने वाक्यगाथ समासगा" "एतद्विलोपे क्विप्समासगा। धर्मोपमानयोलोंपे वृत्तौ वाक्ये च दृश्यते।" द्योतकोपमेययोलोंपे द्योतकोपमेयधर्माणां लोपे चैकधा। तदुक्तं- 'क्यचि वाद्युपमेयासे' इति, 'त्रिलोपे च समासगे'ति च । अन्ये तु द्योतकोपमान- धर्माणां लोपात् त्रिलोपमाहुः। एवमुपमानादिलोपेऽष्टविधत्वम् । यथा- फणधरभुजस्याजौ यस्य प्रतापविभावसौ शलभति रिपुस्तोमस्तुल्यो न यस्य दयाविधौ। वसु च वितरन्नर्थिभ्यो यः सहस्रकरीयति त्रिजगति भवेत् को नामास्योपमा रविवर्मणः ।। अत्र फणधरभुजस्येति प्रतापविभावसाविति च बहुव्रीहौ तत्पुरुषे च समासे शलभतीति क्विपि च धर्मदयोतकयोलोपः । तुल्यो न यस्य दयाविधाविति को नामेत्यादौ चोपमानस्य धर्मोपमानयोश्च लोपः। सहस्रकरीयतीत्यत्रात्मा नं सहस्रकरमिवाचरतीत्यर्थप्रतीतेः क्यचि द्योतकोपमेययोरलोप इति पञ्चभेद। दर्शिताः। इतरस्य भेदत्रयस्योदाहरणं- यदुनाथसमो नास्तीत्याहुः स्थाने मृगीदृशः । नहि संवननं तासां क्वचित् सदूपसन्निभम्।। 4. 1
40
Page 41
२६ अलक्कारसूत्रं [उपमा-
न्तनैरुक्तम्। तत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः । कचिद् वस्तुप्रतिवस्तुभावेन पृथङ् निर्देशः । पृथङ् निर्देशे च सम्बन्धिभेदमात्रं प्रतिवस्तूपमावत्। बिम्बप्रतिबिम्बभा- वो वा दष्टान्तवत्। क्रमेणोदाहरणोनि- "प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्र विभूषितश्र ।।"
अत्र यदुनाथसमो नास्तीति नहि संवननं तासामित्यादौ चे वृत्तौ च धर्मो- पमानयोरुपमानस्य च लोपः । मृगीदृश इत्यत्र त्रिलोप इति पञ्चविंशति- रुपमाभेदाः । आदिशव्देन मालारशनोपमयोर्ग्रहणम्। लुपापूर्णात्वभेदादिति पाठे मालारशनोपमे अत्रैवान्तर्भूते इति न पृथगुपात्ते। पुंवद्धावाभावश्च पूर्णालुपाशब्दयोः संज्ञात्वेन गुणवचनत्वाभावात्। तयोश्चान्तर्भूतत्वेऽप्यन्यैः पृथगुपादानादस्माभिरुदाहरणं प्रद्श्यते। तत्र मालोपमायास्तु बहूपमानोपा- दानलक्षणायाः 'प्रभामहत्ये'त्येतदेवोदाहरणम्। उत्तरोत्तरग्रथनात्मिका रशनो- पमा यथा- वपुरिव मधुरं वचः प्रसन्नं वच इव कृपकभूपते! मनस्ते। मन इव चरितं विशुद्धमैन्यांश्ररितमिव क्षितिपान् यशोऽतिशेते।। एपु च प्रभेदेपु यथासम्भवं प्रकारत्रैविध्यमन्यैरप्रदर्शितं दर्शयति- तत्रापी- त्यादिना। साधारणधर्मस्य धर्मरूपस्य वा परावच्छेदकतयारोपितधर्मत्वस्य धर्मिरूपस्य वा। तत्रैकरूप्येण निर्देशो धर्मरूपस्यैव। सम्बन्धिभेदमात्र- मिति। उपमानोपमेयलक्षणधर्मिभेदादेव भेदो न स्वरूपतः । अयमपि प्र- कारो धर्मरूपस्यैव । बिम्बप्रतिबिम्बभावो मिथः सादृश्यम्, अयं तु धर्मधर्मिणोरुभयोरपि भवति। प्रभामहत्येत्यादि। अत्र दीपादीनामुपमानानां हिमवत उपमेयस्य च पूतत्वविभूषितत्वे अनुगामितयैकरूप्येण निर्दिष्टे।
१. 'णं प्र' ग. पाठः. २. 'च व' क, पाठः. ३. 'मादांथ्र' ख. पाठ:
41
Page 42
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। २७
"यान्त्या मुहुर्बलितकन्धरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ।!" अत्र वलितत्वावृत्तत्वे सम्बन्धिभेदाद् भिन्ने। धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव। "पाण्ड्योऽयमंसार्पितलम्बहारः क्लपताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ।।" अत्र हाराङ्गरागयोर्निर्झरबालातपो प्रतिबिम्बत्वेन निर्दिष्टौ।
सम्बन्धिभेदादिति । सम्बन्धिनोः कन्धरावृन्तयोर्भेदादू, न स्वरूपतः । अन- योश्रोपमानोपमेयभावः स्वसम्बन्धिनोर्मुखशतपत्रयोरभिधानसामर्थ्यादवसीय- ते। धर्म्यभिप्रायेणेति । धर्मिणोः समानधर्मत्वेऽभिप्रेते बिम्बप्रतिबिम्बभाव एव भवति, न सम्बन्धिभेदमात्रम् । धर्मयोस्तूभयमपि भवति। तत्र सम्ब- न्धिभेदमात्र उदाहृतम्। बिम्बप्रतिबिम्बभावे यथा- अनिशं निशम्यमाने रविवर्मनरेन्द्र! भाषिते भवतः । अमृत इव पीयमाने निर्वृतिमुपयाति सुमनसां वर्गः ॥ अत्र वचनामृतयोरुपमेयोपमानयोः निशम्यमानपीयमानत्वे घर्मौं बिम्चप्र- तिबिम्बत्वेन निर्दिष्टौ। अन्ये तु बिम्बप्रतिबिम्नभावस्यापि विद्यमानत्वात् तम- प्यत्रैव दर्शयितुमाह- धर्म्यभिप्रायेणेति। धर्मिणोः कन्धरावृन्तयोर्मुखशतप- त्रापेक्षया साधारणधर्मत्वाभिप्रायेण बिम्बप्रतिबिम्बभाव एव, वलितत्वादिना तयो: सदशत्वादित्याहुः। पाण्ड्योऽयमित्यादि। प्रथमपक्षऽदर्शितत्वादुदाहर- णम्। द्वितीये तु विविक्तत्वेन प्रदर्शनाय।।
१. 'तः । अनयोश्वोपमानोपमेयभावाय' ग. पाठः.
42
Page 43
२८ अलक्कारसूत्रं [अनन्वय-
एकस्यैवोपमानोपमेयत्वेऽनन्वयः ।१२।।
वाच्याभिप्रायेणात्र पूर्वरूपानुगमः । एकस्य तु विरुद्ध- धर्मसंसर्गो द्वितीयसब्रह्मचारिनिवृत्यर्थः । अत एवानन्वय इति योगोऽप्यत्र सम्भवति। यथा-
"युद्धेऽर्जुनोरऽर्जुन इव प्रथितप्ररभोवो भीमोऽपि भीम इव वैरिषु भीमकर्मा। न्यग्रोधवर्तिनमथाधिपति कुरूणा-
एकस्यैवेत्यादि। ननु साधर्म्यादिकस्य भिन्नवस्तुनिष्ठत्वादत्र कथं सम्भवः, अत आह-वाच्याभिप्रायेणेति । एक एवार्थः शब्देन द्विर- भिहितो भिन्नवदवभासते। तस्माद अर्जुनोऽर्जुन इवेत्यादौ एकस्यैवार्जु- नस्य शब्दवाच्याकारपर्यालोचनेन भेदावभासात् पूर्वनिर्दिष्टस्य साधर्म्या- दिरूपस्यानुगमः सम्बन्धो वेदितव्यः । अन्ये तु पूर्वमुपमानोपमेययोरे- कतरप्रतिपादनायोपात्तस्य शब्दरूपस्य पर्यायव्यवच्छेदेन द्वितीयेऽप्यनुगमो- जनुवृत्ति: वाच्याभिप्रायेण वाच्यस्यार्जुनादेः शब्दभेदोपाधिकभेदप्रतिभासा- पनयनेन वास्तवस्यैकत्वस्य स्फुटप्रतिपत्तिमभिप्रेत्य क्रियत इति द्रष्टव्यम् । एतच्च लाटानुप्रासनिरूपणसमय उक्तमप्यत्रानुस्मारयतीत्याहुः। विरुद्धध-
त्वाप्रसिद्धत्वलक्षणविरुद्धधर्मसंसर्गः । द्वितीयेति। प्रकृतापेक्षया द्विती- यस्य सब्रह्मचारिणो निवृत्त्यर्थः । सदृशव्युदासार्थ इति यावत्। अत एवेति। सदृशान्वयाभावात् ॥
१. 'द्धसं', २. 'ति। यु', ३. 'हि', ४. 'तापो भी', ५. 'धि' क. ख. पाठ :.
43
Page 44
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । २९ द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥१३॥
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्या- भावः । अत एवात्र वाक्यभेदः । इयं चे धर्मस्य साधारण्ये व- स्तुप्रतिवस्तुनिर्देशे च द्विधा। आद्या यथा- "खभिव जलं जलभिव खं हंसश्रन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि।" द्वितीया यथा- "सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गना: ॥"
यौगपद्याभावः, न तु शब्दान्तरमेकार्थम् । अत एवेति। पर्या- यवृत्तित्वात् । खमित्रेत्यादि । अत्र विमलत्वादिधर्मः साधारण्येन प्रतीयते। सच्छायेत्यादि। अत्र सच्छायाम्भोजवदनत्वमेक एव धर्मो वाप्यङ्गना- लक्षणसम्बन्धिभेदमात्रभिन्नो वस्तुप्रतिवस्तुभावेन निर्दिश्यते। नन्वत्र वापीपक्षे वदनमिवाम्भोजमित्यर्थः प्रतीयते, अङ्गनापक्षेऽम्भोजतुल्यं वद- नमित्युत्तरत्रे विपर्ययेण। तत् कथमर्थभेदे सति धर्मस्यैकरूप्यम्। सत्यम् । अभेदाध्यवसायमूलयातिशयोत्त्या धर्मस्यैकरूप्यमध्यवसातव्यम्। अथवा वदनाम्भोजौपम्यलक्षणपरस्परसदशाभिधायित्वादत्र बिम्बप्रतिबिम्बभावरूपो वस्तुप्रतिवस्तुनिर्देशोऽवगन्तव्यः । यद्वा, परस्परोपमानोपमेयभूताम्भोजवदन- लक्षणसंबन्धिभेदादसकृन्निर्दिष्टस्य सच्छायत्वस्य भेद:। तादृशवाप्यङ्गनापेक्ष या धर्मभूतयोर्मिथः सादृश्यविशिष्टयोरम्भोजवदनयोर्धर्मिणोर्बिम्बप्रतिबिम्ब- भावः । अन्ये तु द्वयोरपि वाक्ययोः समानधर्मस्य सकृदुपादाने धर्मस्य सा-
१. 'तु' क. ख. पाठ :. २. 'त्रापि पर्याये' ख. पाठ;
44
Page 45
३० अलक्कारसूत्रं [स्मरण-
सदशानुभवाढ वस्त्वन्तरस्मृतिः स्मरणम् ॥१४॥
वस्त्वन्तरं सदशमेव। अविनाभावाभावान्नानुमानम् । यथा- "अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्। कुशिकसुतभखद्विपां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥"
सादृश्यं विना तु स्सृतिर्नायमलङ्गारः । यथा- "अत्रानुगोदं मृगयानिव्ृत्तस्तरङ्गवातेन विनीतखेदः। रहस्त्वदुत्सङ्गनिपण्णमूर्धा स्मगमि वानीरगृहेपु सुप्तिम् ।।" अत्र च कतेविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तदशाभावि- त्वमसमीचीनम्। प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तो-
धारण्यम् असकृदुपादाने वस्नुप्रतिवस्तुनिदेशं चाहुः। तदानीं सच्छायाम्भो- जवदना वाप्योज्ङ्गना इब, सच्छायवदनाम्बृजाअङ्गना वाप्य इवेत्यन्वयः ॥ सदृशानुभवादित्यादि। येनकेनचित् सदशस्य दर्शनाद् यस्य कस्यचित् स्मृतेरलक्कारत्वेऽतिप्रसङ्गः । अन आह - वस्त्वन्तरमिति । अनुभूयमानेनेति शेपः। सदृशशव्दस्य सम्बन्धिशब्दत्वात। अविनाभावाभावादित्यादि। नहि सदृशानुभवस्य वस्त्वन्तरस्मृतेश्व व्याप्तिरस्ति। नायमलङ्गार इति । अनलङ्गा- रोऽलङ्कारान्तरं वा। अनुगोदमिन्यादावनलक़ार:। 'अहो' इत्यादावलङ्कारान्त- रम्। अत्रानुगोदमित्यादि। अत्र स्वापस्य स्मृतिः सहचरितदेशदर्शनात्। स्मर्तव्यदशा स्वापावस्था। स्मर्तृदशेतद्वचनप्रयोगसमयः । असमीचीनम् इदा- नीमविद्यमानत्वात्। प्रेयोलक्वारशव्देनाजितस्मृत्याख्यो व्यभिचार्यपरं प्रत्यङ्ग-
१. 'थ' क. ख. पाठः. २. 'त्र च स्वा' ख. पाठः.
45
Page 46
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ३१
त्थापिता स्मृतिर्विषयः । यथा-'अहो कोपेऽपि कान्तं मुख- मि'ति। तैत्रापि विभावाद्यागूरितत्वे, ने स्वशब्दमात्रप्रतिपादि- तत्वे। यथा-'अत्रानुगोदमि'लादी।
"यैर्द्ृष्टोऽसि तदा ललाटपतितपरासप्रहारो युधि स्फीतासृक्स्त्ुतिपाटलीकृतपुरोभागः परान् दारयन्।
ज्वालालीभरभासुरे स्मररिपावस्तं गतं कौतुकम् ॥" इत्यादौ सदशानुभवेऽप्यशक्यवस्त्वन्तरकरणात्मा विशेषालङ्का- रः। करणस्य क्रियासामान्यात्मनो दर्शनेपि सम्भवात। मता- न्तरे काव्यलिङ्गमेततू।। तदेते सादृश्याश्र्यणेन भदाभेदतुल्यत्वेऽलङ्कारा नि- र्णीताः । सम्प्रत्यभेदप्राधान्ये कथ्यन्ते-
भूत उच्यते। आगूरितत्वे आक्षितत्वे। विभावादिभिर्व्यज्षितत्व इति यावत्। न स्वशब्देति। व्यभिचारिणां स्वशब्दवाच्यत्वस्य दुष्त्वात् । अत्र स्मृतेः मु- खमालम्बनविभावः, कोपेऽपि कान्तत्वमुद्दीपनविभावः, अहो इत्यादिवचनं वागारम्भानुभावः। यैरित्यादि। ललाटपतितम्रासप्रहारत्वेन ज्वलदलिकवि- लोचनत्वप्रतियोगिकविम्बप्रतिविम्वभाववता सदशस्य वर्णनीयस्यानुभवेन ज- न्यस्य कौतुकास्तगमनेन स्वनिमित्ततयाक्षिपस्वेश्वरज्ञानस्य साक्षात्कारत्वेन विवक्षितत्वान्न स्मृत्यलक्वारः, अपि तु वक्ष्यमाणस्तृतीयो विशेषप्रकार इत्याह-सदृशानुभवेऽपीत्यादिना। मतान्तर इति। उद्धटादिमते। एवं- विधवर्णनीयदर्शनस्येश्वरानुभवहेतुत्वात् काव्यलिङ्गत्वम्। तदुक्तं-
१. 'अ' क. ख. पाठः. २. 'न तु स्व' ग. 'न तु श', : 'शवसत्वन्तरानु', ४. 'तू ।। सा', ५. 'येण मे' क. ख. पाठः. ६. 'गिधि' ख. पाठः
46
Page 47
३२ अलङ्कारसूत्रं [रूपक-
अभेदप्राधान्य आरोप आरोपविषयानपह्मवे रूपकम् ॥१५।।
अभेदेस्य प्राधान्याद् भेदस्य वस्तुतः सन्भावः । आरोपो- ऽन्यत्रान्यावापः। विषयस्य विषय्यवष्टब्धत्वाद् विषयापह्नवेऽपह्ठ- तिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद् रूप- कम्। साधर्म्य त्वनुगतमेव। यदाहु :- "उपमैव तिरोभूतभेदा रूपकमिष्यत" इति। आरोपादभेदेनाध्यवसायः प्रक्ृष्यत इति पश्चात् तन्मूलालङ्कारविभागः। इदं च निरवयवं सावयवं परम्प- रितें चेति प्रथमं त्रिविधम् । आद्यं केवलं मालारूपकं चेति
"श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ।।" इति।। अभेदप्राधान्य इत्यनेनोपमादेर्व्यावृत्तिः, आरोप इत्युत्प्रेक्षादेः, विष- यानपह्नव इत्यपहुतेः । आगेप इत्यादि। अन्यत्र मुखादावन्यस्य चन्द्रादेरा- वापः निक्षेपः । विपय्यवष्टब्धत्वादिति । अवष्टब्धत्वमाक्र्कान्तत्वम् । असत्य- त्वापादनमिति यावत् । विषयिणा कमलादिना। विषयस्य मुखादेः। रूपव- तः करणादिति। स्वीयकमलादिरूपशालित्वेन करणादित्यर्थः । अनेनैव रू- पवन्तं करोतीति रूपवच्छब्दाण्णिचि ण्वुलि च रूपयतीति रूपकमिति निरु- क्तिरपि दर्शिता। साधर्म्य त्वनुगतमेवेति। एकयोगनिर्दिष्टस्य भेदाभेदतुल्य- त्व इत्यस्य निवृत्तावपीति शेपः । प्रकृष्यत इति। सादृश्यातिशयप्रतीतेः । निरवयवमवयवेभ्यो निष्कान्तम्। अवयवरूपणरहितमिति यावत् । सावय- वमवयवरूपणयुक्तम् । परम्परितं रूपकपरम्परायुक्तम् । केवलमेकधैव रूपि- तम्। यत्रैकस्मिन् बहव आरोप्यन्ते तन्मालारूपकम्। समस्तानि रूप्यत्वे-
१. 'दप्रा', २. 'कृत', ३. 'ति त' ४. 'तमिति' क. ख. पाठ :.
47
Page 48
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ३३
द्विधा। द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव। तृतीयं तु श्िष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सेत प्रत्येकं केवलेमालारूपैत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः सम्भवन्ति। तेऽन्यतो द्रष्टव्याः । क्रमेण यथा- "दासे कृतागसि भवँत्युचितः प्रभूणां पादप्रहार इति सुन्दरि! नास्मि दूये। उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै- र्यद् भिद्यते तव पदं ननु सा व्यथा मे ॥" "पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता। दविर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ।।"
नाभिमतानि वस्तूनि स्वशब्दोपात्तानि विषयो यस्य तत् समस्तवस्तुविषयम् । एकदेशे स्वशब्दोपादानाद् विशेषेण वर्तत इत्येकदेशविवर्ति। श्विष्टाश्रिष्टेति। विषयविषयणोरेकशब्देन शब्दभेदेन चोपादानात्। यत्र विषयविषयिणोर्व्य- स्तत्वं तत्र वाक्योक्तं, यत्र पुनस्तयोः समस्तत्वं तत्र समासोक्तम्। आदिश- ब्देनोभयात्मकादयो गृह्यन्ते। अन्यतः भोजादिग्रन्थे। "समस्तं व्यस्तमुभयं सविशेषणमित्यपि" इत्यादिना निर्दिष्टाः। दास इत्यादि। अत्रैकस्यैव पुलकाङ्कुरस्यैकेनैव कण्टकेन
१. 'त', २. 'लं', ३. 'पकं च द्विविध', ४. 'दिप्रभे', · 'न्ति। अन्य', ६. 'णोदाहरणं-दा', ७. 'वेदुचि' क. ख. पाठ :. ८. 'वो' ग. पाठः. A. 5
48
Page 49
३४ अलक्कारसूत्रं रूपक-
"विस्तारशालिनि नभस्तलपत्रपात्रे
जग्धं मया नरपते! कलिकालकर्ण! ॥" "आभाति ते क्षितिभृतः क्षणदानिभेयं निस्त्रिंशमांसलतमालवनान्तलेखा। इन्दुत्विषो युधि हठेन तवारिकीर्ती- रादाय यत्र रमते तरुणः प्रतापः ।।" क्षितिभृत इत्यैंत्र श्लिष्टशब्दपरम्परितम् । "किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥"
रूपणाद् निरवयवत्वं केवलत्वं च । पुलकाङ्कुरेत्यत्र तु पुलकोद्मस्याङ्कुरत्वे- नाध्यवसायादतिशयोक्तिः। पीयूपेत्यादि। अत्रैकस्या एव प्रालेयभानुतनोः पीयू- षप्रसृत्यादिभिर्वहुभिः सह रूपितत्वान्निरवयवत्वमालात्वे। विस्तारेत्यादि। अत्र भसञ्चयस्यावयविनो भक्तत्वेन नभस्तलगङ्गातरङ्गयोर्गुणभावादवयवभूतयोश्च पत्रपात्रत्वेन माहिपदुग्धत्वेन च रूपितत्वादिदं समस्तवस्तुविषयं सावयवम्। आभातीत्यादि। अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन, प्रतापस्य तरुणत्वेन (च) रूपणं शाब्दम्। कीर्त्तीनां नायिकात्वेन रूपणमार्थम्। अत इदमेकदेशविव- र्ति। अत्रैव केवलं श्िष्टशब्दपरम्परितं दर्शयति-क्षितिभृत इति। अत्र निख्तिं-
९. 'तप' क. ख. पाठः. २. 'रे' मूलपाठ :. ३. 'नी', ४. 'ति श्लिष्टप', ५. 'वा' क. ख. पाठ :.
49
Page 50
निरुपणम्] सव्याखयालक्कारसर्वस्वोपेतम् । ३५
अत्र वक्रेन्दुरूपणहेतुकं पीयूषस्याधरामृतेन श्लिष्टशब्देन रूपणम्।
"विद्वन्मानसहंस! वैरिकमलासङ्गोचदीप्द्युते! दुर्गामार्गणनीललोहित! समित्सीकारवैश्वानर!। सत्यप्रीतिविधानदृक्ष! विजयप्राग्भावभीम! प्रभो! साम्राज्यं वरवीर! वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥"
अत्र त्वमेव हंस इत्याद्यारोपणपूर्वको मानसमेव मानसमित्या- द्यारोप इति श्लिष्टशब्दमालापरम्परितम् । "यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ!। जन्मजरामरणार्णवतरणतैरण्डं तवाङ्घियुगम् ।।"
शस्य तमालवनान्तलेखात्वेन रूपणनिमित्तं वर्णनीयस्य राज्ञः पर्व(ते? तत्वे)न क्रिष्टशब्देन रूपणम्। श्रिष्टशब्देनेति। अमृतशब्दस्योत्कृष्टरससुधारसलक्ष- णोभयार्थवृत्तित्वात्। त्वमेवेत्यादि। ज्ञप्त्यपेक्षया हंसत्वारोपं मानसत्वारोपे निमित्तं ब्रुवतो मङ्खुकस्य उत्पत्त्यपेक्षया मानसत्वाद्यारोपं हंसत्वाद्यारोपे निमि- त्तं वदतः काव्यप्रकाशकारस्य च न विरोधः। श्रिलष्टशब्दमालापरम्परितमिति। मानसशब्दो मनस्सरोविशेषयोर्व्तते, कमलासक्कोचशब्दो लक्ष्म्याः सङ्कोचे क- मलानामसङ्कोचे च, दुर्गामार्गणशब्दो दुर्गाणाममार्गणे दुर्गाया मार्गणे च, स- मित्स्वीकारशब्दः समिधां समितां च स्वीकारे, सत्यप्रीतिशब्दः सत्ये प्रीतौ सत्यां देव्यामप्रीतौ च, विजयशब्दः शत्रुपराभवेडर्जुने चेति श्विष्टत्वम्। दीप्- दयुतिदक्षभीमशब्दानां संज्ञाव्यतिरेकेणार्थान्तरमनाश्रयणीयम्। उभयोरपि रू- पकयोः क्विष्टत्वे कस्य किं निमित्तं स्यात्, प्रक्रमभेदप्रसङगश्च। एकस्यैव वर्ण- नीयस्य बहुभिहेसादिभि: सह रूपितत्वान्मालात्वम्। यामीत्यादि। अत्रा-
१. 'बदरु', २. 'षटत्वं श' क. ख. पाठः. ३. 'थम्' क. पाठ :. ४. 'क' क. ख. पाठ :. ५. 'स्य वच', ६ 'माश्र' ख. पाठ :.
50
Page 51
३६ अलक्कारसूत्रं रूपक-
"पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्घेस्तरङ्गो
सङ्गामत्रस्तुताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्ग: क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।" अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति। एवमादयो- डपि भेदा: लेशतः सूचिता एव। इदं च वैधर्म्येणापि दृश्यते। यथा-
अधियुगस्य तरण्डत्वारोपे हेतुर्जन्मादेरर्णवत्वारोपः। अङ्घ्रियुगस्यैकवारमेव रूपितत्वाच्च केवलत्वम्। पर्यङ्क इत्यादि। भन्नप्रत्यर्थिवंशत्वादुल्बणो विजय एव करी तस्य स्त्यानदानाम्बुपट्टः। अत्र क्ष्मासौविदल इत्यादि। एतद् राजलक्ष्म्या: पर्यङ्ग इत्यत्राप्युपलक्षणम्। एवमादयोऽपीति। यथा सावयवं समस्तवस्तुविषयैकदेशविवर्तित्वाभ्यां भिद्यते, तथा परम्परितमपि। तत्रैकदेश- विवर्ति दर्शितम् । पौरुषाब्धेस्तरङ्गः खड्ग इत्यादौ समस्तवस्तुविषयम् । श्रिष्टशब्दनिबन्धने त्वेकदेशविवर्तित्वमेव। तदुक्तं- "यद्वैकदेशवर्ति स्यात् पररूपेण रूपणात्" इति। वैधर्म्येणापीति। पौरुषाब्वेस्तरङ्गः खड्ग इत्यादौ श्यामत्वादिना मिथः सदृशखड्गतरङ्गसम्बन्धेन पौरुषाब्ध्योः, महत्त्वादिना मिथः सदशपौरुषाब्धि- सम्बन्धेन खड्गतरङ्गयोश्च साधर्म्यम्। सौजन्याम्बुमरुस्थली राजावलीत्यत्र हेयत्वेनोपादेयत्वेन च मिथः सदृशयोः मरुस्थलीराजावल्योः सौजन्याम्बुनोश्र परस्परसम्बन्धाभावेन वैधर्म्यम्। एवं सुचरितालेर्येत्यादौ च। रूपकस्य वाक्योक्तादित्वे यथा-
१. 'त्रासता', २. 'यो मे', ३. 'पहे' ख. पाठः. ४. 'ख्यादौ' ख. पाठः.
51
Page 52
निरूपणम् ] सव्याख्यालक्कारसर्वेस्वोपेतम्। ३७
"सौजन्याम्बुमरुस्थली सुचरितालेख्य दयुभित्तिर्गुण- ज्योत्स्ाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा। यैरेषा चे दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ।" अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसङ्ख्यत्वेऽपि क्वचित् स्वतोऽसम्भर्वेत्सङ्ख्यायोगस्य विषयसङ्ख्यत्वं प्रत्येकमारोपात्। यथा-"क्चिद् जटावल्कलावलम्बिनः कपिला दावा्रय" इत्यादौ। नहि कपिलमुनेर्बहुत्वम्।
यद्याकाङ्गसि वीक्षितुं गुणरुचे! चेतः समस्तान् गुणान् कोलम्बाख्यमुपेहि दक्षिणदिशासीमन्तरत्नं पुरम्। आस्ते यत्र भुजेन कीर्त्तिशशिन: पूर्वाचलेनोद्वह- न्नुर्वीमर्णवमेखलां यदुपतिः कल्पद्रुमो जङ्गमः ।
अत्र सीमन्तरत्नं पुरमिति वाक्योक्तम्। अर्णवमेखलामिति समासोक्तम्। की- र्त्तिशशिन: पूर्वाचलेने भुजेनेत्युभयात्मकम् । कल्पद्रुमो जङ्गम इति विशिष्टम्। आरोप्यमाणस्थ धर्मित्वादित्यादि। धर्मस्यारोपे निमीलितानि कुसुमानीत्यादौ विषयनिन्नत्वं भवत्येव। स्वतोऽसम्भवर्त्सङ्कचायोगस्य आरोपमन्तरेणासम्भवाद विषयगतसङ्ख्याविशेषयोगस्य। अयमर्थः-यद्यपि रूपके विषयिणो लिङ्ग- नियमवत् सङ्कयानियमोऽपि प्राप्तः, तथापि प्रतिविषयमारोपितत्वेन भेदाव- सायादेकस्यैव विषयिणोऽनेकत्वं युज्यते। कपिला दावामय इत्यत्र श्लेषदर्श- नात् श्लेषविषयमेतदिति न मन्तव्यम्। त्वत्पादनखचन्द्राणामित्यादावक्लेषेऽपि दर्शनात्। समुदायारोपविवक्षायां तु विषयबहुत्वेऽपि विषयिण एकत्वमेव। यथा-'प्राणास्तृणमि'ति। नहि कपिलमुनेरिति । स्वत इति शेषः ।
१ 'पि', २. 'सेवा शू', ३. 'तेषां कि', ४. 'वा' क. ख. पाठः. ५. 'नेत्यु' ख. ग. पाठः. ६. 'स' ख. पाठः.
52
Page 53
३८ अलक्कारसूत्रं [परिणाम-
"भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छी तमः शररिसादम्। मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।" इत्यत्र नियतसङ्ख्याककार्यविशेषोत्थापितगरलार्थप्रभावितो वि- षशब्दे श्रेष एव जलदभुजगजमिति रूपकसाधक इति पूर्व- सिद्धत्वाभावाद न तन्निबन्धनं विषशब्दे श््लिष्टशब्दपरम्परित- मिति श्लेष एवात्रेत्याहुः ॥ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ॥१६॥ आरोष्यमाणं रूपके प्रकृतोपयोगित्वाभावात् प्रकृतोपर- अ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतया- रोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति।
भ्रमिमित्यादि। जलदभुजगजं विषमित्यैत्र ्विष्टशब्दपरम्परितशङ्काव्युदासाय क्लेषस्य रूपकनैरपेक्ष्यं रूपकस्य श्लेषसापेक्षत्वं चाह-नियतसङ्ख्याकेति। गरलवर्तिभ्रम्यादिकार्यविशेषाष्टकेनैव विषशब्दस्य सलिलगरललक्षणोभयार्था- भिधायित्वप्रतीतिः, न तु जलदस्य भुजगत्वरूपणेनेति श्लेषस्य रूपकनैरपेक्ष्यं द (र्शयितुं? शितम् ।) रूपकसाधक इति। अन्यथोपमारूपकयोः सन्देहल- क्षण: सङ्करः स्यात्। पूर्वसिद्धत्वाभावादिति। श्लेषप्रतीतिमन्तरेण सन्दिग्ध- त्वात्। तन्निबन्धनमिति । रूपकनिबन्धनम् ।। मकृतोपयोगित्व इति। प्रस्तुतकार्योपयोगित्वे । प्रकृतोपरञ्जकत्वेनेति। प्रकृते मुखादौ स्वगतकान्त्यादिसमर्पणेन। केवलेनेत्यनेन तादात्म्यं व्यवच्छिनत्ति। उपयोग इति प्रस्तुतकार्ये तरणादौ। परिणमतीति। अन्यथा प्रस्तुतकार्यानिष्प-
१. 'रवे. सि' ग. पाठः. २, 'षप', ३. 'वेत्या' क. ख. पाठः. ४. 'करणोप' मूलपाठ :. ५. 'त्याक्ल ख. पाठ :.
53
Page 54
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ३९
आगमानुगमविगमख्यात्यसंभवात् साङ्यीयपरिणामवैलक्षण्यम्। तस्य च सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम्। आदो यथा-
"तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय। व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्ष क्रृच्छ्रादन्वीयमानस्त्रितमथ गिरिं चित्रकूटं प्रतस्थे ॥"
अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणातररूप-
तेः। घटरूपेण परिणताया मृद उदकाहरणक्षमता। आगमेत्यादि। यथा मृत्परि- णामे घटे तस्य मृत्सकाशादागतत्वं घटावस्थायामपि मृद्रपानुगमः कालान्तरे मृदि विलयश्च प्रतीयते, नैवं मैत्रीपरिणाम आतरे। सामानाधिकरण्येति। विषय- विषयिणोरेकविभक्तित्वेन सामानाधिकरण्यं, भिन्नविभक्तित्वे वैयधिकरण्यम् । अत्र सौमित्रिमैत्रीत्यादि। वर्णनीयत्वेन प्रस्तुता सौमित्रिमैत्री। प्रकृते उप- योगादिति। नौसाधने नदीिरणेऽपेक्षितत्वात् । अत्र चोदाहरणे मैत्रीमयमि- त्यत्र मयटः प्रयोग आरोपस्य दुर्घटत्वादयममिति विच्छिद्यायमसावित्यन्वयमि- च्छन्ति केचित्। एवंविधश्च निर्देशः प्रायेणाव्यवहित एव दृश्यत इतीदं सर्व- था न निरवद्यम्। तत् तु यथा - प्रतिभटविजयाय प्रस्थितस्याग्रयायी प्रलयदहनरूक्षो यादवेन्द्र! प्रतापः । समजनि भुजशौर्य वर्म खड्गः सहायः समिति विहरतस्ते साक्षिणी वीरलक्ष्मीः ॥ अत्र प्रतापभुजशौर्यादयः समानाधिकरणाग्रयायिवर्मादिरूपेण परिणमन्तः शत्रुविजयहेतौ समरकार्य उपयुज्यन्ते। रूपकात् परिणामस्य व्यावृत्ति दर्श-
54
Page 55
४० अलङ्कारसूत्रं [सन्देह-
लेन परिणता। आतरस्य मैत्रीरूपतया प्रकृत उपयोगात्। तंत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्म- तयाँ स्थितम्। अत एव तत्र व्यवहारसमारोपः, न तु रूपसमा- रोपः । एवमिहापि ज्ञेयम्। केवलं तत्र विषयस्यैव प्रयोगः । वि- षयिणो गम्यमानत्वात्। इहं तु द्वयोरप्यभिधानं, तादात्म्यात् तु तयो: परिणामित्वम्। द्वितीयो यथा - "अथ पत्रिमतामुपेयिवद्विः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमायैः॥"
अत्र राजसङ्गटने उपायनमुचितम्। तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।।
विषयस्य सन्दिह्यमानत्वे सन्देहः ॥१७॥
यितुं सम्प्रतिपन्नरूपकव्यावृत्त्या समासोत्त्या किश्चित् साम्यमाह-तत्र यथेत्यादिना। तत्र आरोपमारगे। आरोप्यमाणम् उपोढरागेणेत्यादौ नायकादि। प्रकृतोपयोगीति। मुखग्रहणादौ नायकादेरेवौचित्यात्। आरोपविषयात्मतया निशाशश्याद्यात्मतया। अत एव तादात्म्यादेव। तत्र समासोक्तौ। एवमि- हापीति। यथा समासोक्तौ विषयविषयितादात्म्येन रूपकाद् भेद:, एवमिह परिणामेऽपि रूपकादू भेदो ज्ञातव्य इत्यर्थः । तर्हि समासोक्तिपरिणामयोः को भेद इत्यत्राह-केवलमिति। पक्रिमतां पचेलिमत्वम्। राजसङ्खटन- इत्यादिना प्रकृतोपयोगित्वं दर्शयति ॥
१. 'तदत्र', २. 'या तत्र स्थि', ३. 'पः, ए' क. ख. पाठः. ४. 'ह द्व', ६. घैः ॥ रा', ७. 'तः स' क. ख. पाठ :. ५. 'म',
55
Page 56
निरूपणम् ] सव्याख्यालक्वारसर्वस्वोपेतम्। ४१
अभेदप्राधान्ये आरोप इत्येव। विषयः प्रकृतोऽर्थः, यन्भि- त्तितवेनाप्रकृतोऽर्थः सन्दिह्यते। अप्रकृतसन्देहे प्रकृतोऽपि सन्दिह्यत एव। तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते सन्देहे सन्देहालङ्कारः । से च त्रिविधः । शुद्धो निश्चयगर्भो निश्चया- न्तश्र। शुद्धो यत्र संशय एव पर्यवसानम्। यथा-
"किं तारुण्यतरोरियं रैसभरोद्विन्ना नवा मञ्जरी वेलाप्रोच्चलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः॥"
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तः।यथा-
"अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानु: किं सर्वाः प्रसरति दिशो नैष नियतम् ।
इत्यवेति। अनुवर्तत इत्यर्थः । विषयस्येत्यनेनारोपस्य विषयो निर्दिश्यते, न सन्देहस्येत्याह - विषयः प्रकृतोरऽर्थ इति। यद्भित्तित्वेन यदाश्रयत्वेन। अप्रकृत इन्द्वादिर्विषयी। प्रकृतोऽपीति। सन्देहस्य कोटिद्वियाधिष्ठानत्वात् । फलितं दर्शयति - तेनेति। प्रतिभोत्थापित इत्यनेन स्थाणुर्वा पुरुषो वेति स्वरसप्रवृत्तस्य सन्देहस्यालङ्गारत्वं नि- राकरोति। संशय एवेत्येवकारेण निश्चयगन्धमपि निवर्तयति। अयमित्यादि। अयं मार्तण्डः किमिति संशयः । स खलु तुरगैः सप्तभिरित इत्येकतर-
१. 'तः स', २. 'स त्रि', ३. 'सरभसोद्वि' क. ख. पाठः. ४. 'चछ' ग. पाठः. A. 6
56
Page 57
४२ अलङ्कारसूत्रं [भ्रान्तिमद्-
कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुरः समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥"
निश्चयान्तो यत्र संशयोपक्रमो निश्चये पर्यवसानम्। यथा-
"इन्दुः किं क् कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम्। ललितसविलासवचनैर्मुखमिति हरिणाक्षि! निश्चितं परतः॥" क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेऽपि दृश्यते। यथा-
"रज्चिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।।" अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्तु अध्यवसायात्मकत्वेनेमं सन्देहप्रकारमाहुः । अन्ये तु नुशब्दस्य सम्भावनाद्योतकत्वं मत्वोत्प्रेक्षाप्रकारमिममाचक्षते ।।
कोटिभेदकधर्मिनिर्देशाद् यद्यपि भेदः समुन्मिषति, तथापि वर्णनीयस्यासा- धारणधर्मानिर्देशादयमसावेवेत्येप्रतिपत्तेश्रान्ते सन्देह एवावतिष्ठते। एतच्च वि- कल्पान् विदधतीत्यनेन कविनैव दर्शितम्। इन्दुः किमित्यादि। पूर्वार्धे स- न्देहः। उत्तरार्धे निर्णयः । रागादि रअनादि । आदिशब्देन नमनस्थगनपूर- णसंहरणानि गृह्यन्ते, तर्वादीत्यादिशब्देन गगनधरित्रीककुभः । अत्र व्यो- प्नुवत् तिमिरं विषयः । रअनादिर्धर्मो विपयी। केचित्वित्यादि। अत्र तिमिरकर्तृकस्य तरुशैलादिव्यापनस्य विषयत्वमङ्गीकृत्य तस्य च रअ्जनादिना विषयिणा निगीर्णत्वादत्राध्यवसायता । तिमिरस्य विपयत्वे तूभयोरप्युक्तेरारो-
१. 'श्रयत्वेन स', २. त्वादुत्प्रे' क. ख. पाठः. ३. 'मे' क. पाठः. ४. 'त्यपि प्र', ५. 'प्रा' ख. पाठः. ६. 'ता । विषयस्य तिमिरत्वे' क. पाठः
57
Page 58
निरूपणम् ] सव्याख्यालक्कार सर्वस्वोपेतम् । ४ ३
सादृश्याद वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥१८॥
असम्यग्ज्ञानत्वसाधर्म्याते सन्देहानन्तरमस्य लक्षणम्। भ्रान्तिश्चित्तधर्मो विद्यते यस्मिन् भणितिप्रकारे स भ्रान्तिमान्। सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा-
"ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालङ्कतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ। निष्पत्यासकृदुत्पलच्छद्द्दशामात्तक्कमानां मरौ राजन् ! गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम्।"
गाढमर्मप्रहारादिकृता तु भ्रान्तिर्नास्यालङ्कारस्य विषयः। यथा-
"दामोदरकराघातचूर्णिताशेषवक्षसा। दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥"
सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थ कविप्रतिभोत्थापितैव गृह्यते।
पत्वम्। अन्ये त्विति। तिमिरं विषयः रञ्जनादिक्रिया विषयी व्यापनं क्रिया- रूपं निमित्तं गम्यते। अतो गम्यमानक्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षेयम्।।
वस्त्वन्तरप्रतीतिरिति । वस्त्वन्तरानुभवः । अनेन स्मरणव्यावृत्तिः । चित्तधर्म इति। सकलवृत्तिज्ञानानां चित्तवृत्तिधर्मविशेषत्वात्। सादृश्यप्रयुक्ता च भ्रान्तिरिति भ्रान्तेर्विशेषणस्य व्यावर्त्य दर्शयतिगाढमर्मेत्यादिना। वि- च्छित्त्यर्थमिति। अलङ्गारजन्या शोभा विच्छित्तिः । पूर्व 'कविप्रतिभोत्थापिते
१. 'य', २. 'ता भ्रा' क. ख. पाठः.
58
Page 59
अलाक्कारसूत्रं [उल्लेख-
यथोदाहता। न स्वरसोत्थापिता शुक्तिकारजतवत्। एवं स्था- णुर्वा स्यात् पुरुषो वेति संशयेऽपि बोद्धव्यम् ।।
एकस्याँपि निमित्तवशादनेकर्धा ग्रहण उल्लेखः ॥१९॥
यत्रैकं वरत्वनेकधा गृह्यते से रूपबाहुल्योल्लेखनादुल्लेखः। न चानिमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्य- निमित्तवशादेतत् क्रियते। तत्र च रुच्यर्थित्वव्युत्पत्तयो सथासं- म्भंवं प्रयोजिकाः । तैदुक्तं-
"यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥"
इति। उदाहरणं-
सन्देह' इति सूचितमर्थ प्रसङ्गेन विशदयति-एवमित्यादिना ॥
एकस्येत्यादि। अनेकधा अनेकप्रकारम्। तच्च प्रकारानेकत्वं रूपना- नात्वेन विषयनानात्वेन च भवति। रूपनानात्वं च सर्वत्रैकरूपम्। विषय- नानात्वं कारकवैचित्र्येण विचित्रम्। रूपबाहुल्योल्लेखनादित्यनेनोलेखं निर्वक्ति। न चानिमित्तमित्यादिना सूत्रस्थं निमित्तवशादित्येतत् पदं व्याचष्टे। रुच्य- र्थित्वेति। रुचि: सार्वकालिकीच्छा। अर्थित्वं तात्कालिक्यपेक्षा। यथासम्भ- वमित्यनेन रुच्यादीनां यौगपद्यानियमं दर्शयति। यथारुचीत्यादि। एक- स्मिन्नप्यर्थ आभासो ज्ञानमनुसन्धानसाधितः सन् रुच्यादिवशाद् भिद्यत
५. 'यो' १. 'त्थापितं न' ग. पाठः. २. 'तं' क. पाठः. ३. 'वत्। स्था', ४. 'वा स्यादिति', ६. .व्यः', ७. 'स्य नि' क. ख. पाठः. ८. 'धात्वग्र' ग. पाठः ९. 'स्व', १०. 'योगं प्र', ११. 'य' क. ख. पाठः.
59
Page 60
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ४५
"यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गीतशालेति लासकैः" इत्यादि श्रीकण्ठाख्यजनपदवर्णने। अत्र ह्येक एव श्रीकण्ठेजनपदस्तत्तङ्गुणयोगात् तपोव- नादनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्रात्र प्रायशः समस्ता व्यस्ता वा योजयितुं शक्यन्ते। नन्वेतन्मध्ये "वज्रप- अरमिति शरणागतैरसुरविवरमिति वादिकैः" इत्यादौ रूपकानु- प्रवेशात् कथमयमुल्लेखालङ्गारविषयः । सत्यम् । अस्ति तावत् "तपोवनम्" इत्यादौ रूपकेविविक्तोऽस्य विषयः । यत्र वस्तुत- स्तद्रूपतायाः सम्भवः, यत्र तु रूपकं स्थितं, तत्र चेदियमपि भङ्गि: सम्भविनी, तत् सङ्करोऽस्तु। नैतावतास्याभावः शक्यते
इत्यर्थः। अनुसन्धानं नाम बहूनां विशेषाणां गुणप्रधानतया व्यामिश्रणेन विमर्शनम्। तत्तद्गुणयोगादिति। तपोवनादिनिष्ठविविक्तत्वरमणीयत्वादि- गुणयोगात् । समस्ता व्यस्ता वेति। तपोवनादौ प्रत्येकं मुनिप्रभृतीनां रु- च्यादित्रयमपि सम्भवतीति समस्तत्वम् । मुनीनां रुचिर्वेश्यानामर्ित्वं लास- कानां व्युत्पत्तिरिति व्यवस्थया व्यस्तत्वम् । यत्र वस्तुत इति। ननु यदि श्रीकण्ठस्य तपोवनादिरूपं वास्तवं, तर्हि कथमुलेखस्यारोपगर्भत्वम्। उच्य- ते। मुनिप्रभृतिभिरन्ययोगव्यवच्छेदेन श्रीकण्ठस्तपोवनादिरूपतया प्रतीयते। तच्च रूपान्तरस्यापि विद्यमानत्वादारोपणीयमेव। अथवा तपोवनादीनां निय- तदेशवर्तित्वेऽपि भूयस्त्वविवक्षया सकल एव श्रीकण्ठस्तपोवनादितया व्यप- दिश्यत इत्यारोपो द्रष्टव्यः । सङ्करोऽस्त्विति । एकवाचकानुप्रवेशलक्षणः ।
१. 'णठज', २. 'णठस्त', ३. 'योऽत्र', ४. 'दिरूपकालक्कारयोग इति क', ५. कालङ्कारवि', ६. 'च' क. ख. पाठः. ७. 'र्थः । तस्', ८. 'क्तर' ख. ग. पाठ :.
60
Page 61
४ ६ अलक्कारसूत्रं [उल्लेख-
वक्तुम्। ततश्र न दोषः कश्चित्। एवं तर्हि तत्र विषये भ्रा- न्तिमदलङ्कारोऽस्तु । अतद्रपस्य तद्रूपताप्रतीतिनिबन्धनत्वात्। नैतत्। अनेकधाग्रहणाख्यस्यातिशयस्यापूर्वस्ये भावात्। तद्टे- तुकत्वाच्चास्यालङ्कारस्य। सङ्करप्रतीतिस्त्वङ्गीकृतैव। यद्येवम- भेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु। नैष दोषः । ग्रहीतभेदा- ख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्, तैस्य च विच्छित्यन्त- ररूपत्वात् सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः। यथा र्वो -
तत्र विषय इति। उल्लेखविषये तपोवनमित्यादौ। अतद्रूपस्येत्यादि। अत- देकरूपस्य तदेकरूपतया, अवयवधर्मस्य तपोवनत्वादेः समुदायधर्मतया वा प्रतीतेः प्रवर्तमानत्वात्। सङ्गरप्तीतिस्त्विति । 'तपोवनमिति मुनिभिरि'- त्यादीनामेकैकशो निरूपणे भ्रान्तिमतः प्रादुर्भावः संहत्य निरूपणे पुनरेक- स्यानेकधात्वोललेखनादुलेखस्येति पूर्ववत् सकरप्रतीत्यङ्गीकारः। यद्येव्रमभेद इत्यादि। यथा-'मग्गिअळद्धम्मि' इत्यादावेकस्याधररसस्य 'अण्णण्णा' इत्यनेकधात्वस्फुरणादतिशयोक्तित्वम् । ग्रहीतृभेदारुयेनेति। ननु न खलु ग्रहीतृभेद: प्रयोजकः, 'गुरुर्वचसी'त्यादावदर्शनात्। अतो विषयभेदमात्रं प्रयोजकत्वेनोदाहरणीयम्। तच् मार्गितलब्धत्वादिरूपमतिशयोक्त्युदाहरणे- डपि विद्यते। तत्र ग्रन्थकृतैवोक्तं-'विषयविभागाद् भेदोपनिबन्ध' इति। तत् कथमेतत। अत्र केचिदाहु :- तत्रान्येऽन्य इति रसस्य भेदमात्रं निर्दिष्टं, न तु तत्तदूपोपादानेन। इह तु तपोवनादिरूपविशेषोपादानेनेत्यदोष. इति। अन्ये तु रसभेदविषयभूतानां मार्गितलब्धत्वादीनामेकस्यैवाधररसस्य
१. 'द्विष' क. ख पाठ :. २. 'स्या' ग. पाठः. ३. 'ग्रहीतृभेदस्य', ४. 'था-णा' क. ख. पाठ :. ५ 'णद्येऽपि' ख. पाठः.
61
Page 62
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । ४७
"णाराअणो त्ति परिणअवहूहिं सिरिवकळहो त्ति तरुणीहिं। बाळाहिं उण कोऊहळेण ऐअमे अ सच्चविओ॥"
एवं "गुरुर्वचसि पृथुरुरसि विशालो मनस्यर्जुनो यशसि" इ- त्यादाववसेयम्। इयांस्तु विशेष :- पूर्वत्र ग्रहीतृभेदेनानेकधा- त्वोल्लेखः, इह तु विषयभेदेन। नन्वयं श्रलेषालङ्कारविषय इति कथमलङ्कारान्तरमत्र स्थाप्यते। सत्यम्। अनेकधात्व- निमित्तं तु विच्छित्त्यन्तरमत्र दश्यत इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽप्यत्र स्याद्, न तु सर्वथा तदभावः । अतश्चालङ्कारान्तरं,
विशेषणतयोपसर्जनीकृतत्वात् तत्र विषयभेदो न स्फुट इत्याहुः। नारायणे त्यादि। नारायण इति परिणतवधूभि: श्रीवल्लभ इति तरुणीभिः। बालाभिः पुनः कौतूहलेनैवमेव दृष्टः ॥ अत्र परिणतवधूनां रुचिः, तरुणीनां 'स्त्रियः कामितकामिन्य' इति न्याये- नार्थित्वं, वालानां तावन्मात्रस्यैव ज्ञानार्द् व्युत्पत्तिः । अत्र नामान्तरव्यव- च्छेदपरतयारोपगर्भत्वम्। रूपभेदवद् नामभेदेनाप्युलेखो भवतीति प्रद- शनायोदाहरणान्तरोपन्यास :- गुरुर्वचसीत्यादि । अत्र गुर्वादिशब्दप्रतिपा- दितानां गौरवादीनां बृहस्पतित्वादीनां च क्लेषमूलयातिशयोक्त्याभेदाध्यव सायेन वास्तवत्वमारोपितत्वं च द्रष्टव्यम्। विपयभेदेनेति। ग्रहीतृव्यतिरिक्ता- धिकरणरूपविषयभेदेनेत्यर्थः । तत्प्रतिभा उल्लेखप्रतिभा। एवं च यद्यपि श्लेष स्यैवोन्मजनप्रसङ्ग:, तथापि "कुपतिमपि कलत्रवल्लभमि"त्यादौ विरोधे- वदर्स्याप्यङ्गीकरणीयत्वमिति भावः । अतश्चेति । वक्ष्यमाणादपि हेतोः ।
१. 'एमे', २. 'ष इ', ३. 'रं स्था' क. ख. पाठः. ४. 'द्ुत्प' ख. ग. पाठः. ५. 'धस्या' ख. पाठ :. ६. 'स्याङ्गी' क, पाठ :.
62
Page 63
अलक्कारसूत्र [उल्लेख-
यदेवंविधे विषये श्र्लेषाभावेऽपि विच्छित्त्यन्तरसम्भवः । यथा- 'युधिष्ठिरः सत्यवचसि' इत्यादि। तस्मादेवमादावुल्लेख एव श्रेयान्। एवं कारकान्तरविच्छित्त्याश्रयणेनायमलङ्कारो नि- दर्शनीयः ।।
युधिष्ठिरः सत्यवचसीत्यादि। ननु कथमत्रोललेखता, युधिष्ठिरत्वादेर्वास्तवत्वा- भावात्। अत्र केचिदाहुः-यदेवंविधे विषय इत्यादिग्रन्थकृतो गुरुर्वचसी- त्यादिवचनभङ्गीषु श्लेषव्यतिरेकेणालङ्गा्रीन्त(रं तत्स? रस) द्वावप्रदर्शन एव तात्पर्यम्। ततश्र यथा युधिष्ठिरः सत्यवचसीत्यादौ रूपकेलक्षणविच्छित्त्यन्तर- स्वीकारः, एवं गुरुर्वचसीत्यादावुल्लेखोऽपि स्वीकरणीय इति। एवं कारका- न्तरविच्छित्येति। अत्र कारकग्रहणं विभक्तिमात्रस्योपलक्षणम् । अकारकवि- भक्तिष्वपि विषयभेदेनानेकधात्वोललेखस्य सम्भवात्। तत्र सप्तम्यामुदाह- तम्। षष्ठचां यथा - परदाराणामन्धो यदुनृप! शुद्धान्तयोषितां सुभगः । त्वं सहृदयः कवीनामप्राज्ञो दोषदर्शिनां चासि।। पञ्चम्यां यथा- सङ्गामधीरनृपतिर्भीरुरधर्मादभीरुराहवतः । शुश्रूषुर्निगमविदस्तद्वाह्यविदो भवत्यशुश्रूषुः ॥ चतुर्थ्या यथा- प्रतिपन्नाय नृशंसः कारुणिकस्तिष्ठते विपन्नाय। अभ्यर्थिने वदान्यो वाग्मी विदुषे च रविवर्मा । तृतीयायां यथा-
१. 'ततिस', २. 'वमलङ्गारान्त', ३. 'येणाय' क. ख. पाठः. ४. 'राणां सद्भा', ५. 'कवि' ख. पाठः
63
Page 64
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ४९
वस्त्वन्तरप्रतीतिरित्येव। प्रक्रान्तानपह्नववैधर्म्येणेदमुच्यते।
डलङ्कारः। तस्य च त्रयी बन्धच्छाया-अपह्ववपूर्वक आरोपः ।
र्देशः । पूर्वकभेदद्दये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यत्वम्।
कुवलयविकासविधिना राजा यदुनाथ! तेजसा भास्वान्। त्वं विक्रमेण बलिजित् सर्वज्ञतया गिरीशश्च ।। द्वितीयायां यथा- बालिशमविशेषज्ञो नन्दयति विपश्चितं विशेषज्ञः । अपकारिणं कृतन्नो यद्ुपतिरुपकारिणं कृतज्ञश्र ।। प्रथमायां यथा- सख्या यदुपते! सन्तो गुरवः प्रश्रितेन च । नीतास्त्वया परां तृप्तिमास्तिकेन च देवताः ॥ विषयापह्रव इति। विषयग्रहणेन निश्चयगर्भनिश्चयान्तयोः विषय्यपह्न- ववतोः सन्देहयोर्व्यावृत्तिः । अपह्रवोऽपलापः। विषयापह्ववसन्भावमात्रे नाय- मलङ्कार इत्याह-वस्त्वन्तरप्रतीतिरिति। भ्रान्तिमत्सूत्रादनुवर्तत इति भाव:। प्रकान्तेति। रूपकमारभ्य यावदुलेखं प्रक्रान्तविपयानपहववैधर्म्येण विरोधसम्बन्धादस्येह प्रस्तावः । इदमपह्नत्यलङ्करणम् । यद्यपि विषय इति वस्त्वन्तरेति च सामान्येन निर्दिष्टं, तथापि प्रकरणाद् विशेषलाभ इत्याह- आरोपप्रस्तावादित्यादि। त्रयीति। त्र्यवयवा त्रिप्रकारेत्यर्थः । वाक्यभेद इति। एकस्मिन् वाक्ये आरोपस्यापह्ववस्य च द्वयोर्विधातुमशक्यत्वात्।
१. 'क्यार्थत्व' क. ख. पाठः. x1. 7
64
Page 65
५० : अलक्कारसूत्रं [अपह्नति
आद्यो.यथा-
"यदेतचन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शश इति न तन्मां प्रति तथा। अहं त्विन्दुं मन्ये त्वदरिविरहक्कान्ततरुणी-
अत्र त्वैन्दवस्य शशस्यापह्नव उपक्षिप्ते शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यत्वम् । त्तु यथा-
"पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत्। मारस्योच्छितमातपत्रमधुना पाण्ड प्रदोषश्रिया मानोन्नद्वजनाभिमानदलनोद्योगैकहेवाकिनः॥"
द्वितीयो यथा-
तृतीयभेदे छलादिशब्दप्रयोगवति। तत्रापह्नवमनूद्यारोपस्य विधानादेकवाक्य- ता। यदेतदित्यादि। अत्र शशलक्षणस्य विषयस्यापह्नवं न तन्मां प्रति तथेति प्रथमं विधाय पश्चात् किणस्य वस्त्वन्तरस्यारोपो विधायते। शशकपतिव- स्त्विति। शशसदशस्य किणस्यैवारोपो युक्त इति भावः । तच्विति । अपहनूयमा- नारोप्यमाणयोः सादैश्येन निरवद्यम् । पूर्णेन्दोरित्यादि। अत्र प्रथमं चन्द्रम-
१. 'प्रकुरुते', २. 'न्दोरतिपो' क. ख. पाठ :. ३. 'रुप्येण नि' क. पाठः
65
Page 66
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ५१
"विकेसदमर नारीनेत्र नीलाब्जषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु लैलितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥" तृतीयो यथा- "उन्डान्तोज्झित गेहगूर्जरवधूकम्पाकुलोच्चैःकुच-
सार्ध त्वद्विपुभिस्लदीययशसां शून्ये मरौ धावतां भ्रष्ं राजमृगाङ्ग! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः॥" अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा स्था- पयिष्यते। "अहं लिन्दुम" इत्यादौ वाक्यभेदे सामग्रयभावे
ण्डलं नेदमित्यपह्नत्य पश्चात् तत्समानधर्मणः कामातपत्रस्यैवारोपः । विकस- दिति। अत्राप्सरोनेत्रनीलोत्पलनिकरलक्षणं वस्त्वन्तरं विधाय पश्चात् ल- लितकलापस्य मयूरस्यापह्वः। उद्धान्तेत्यादि। अत्रासत्यत्वप्रतिपादकेनच्छ- अश्देन (द्रव्यव ? गूर्ज)रवधूहारमुक्ताफलापहवमनूद्य वर्णनीयर्यशःसम्बन्धिनां श्रमाम्भ:कणानामारोपो विधीयते। स्थापयिष्यत इति। उत्प्रेक्षाभेदनिरूपणा- वसरे 'क्चिच्छलादिप्रयोग' इत्यादौ। मन्येशब्दप्रयोगात् सम्भावनं, छद्शब्द- प्रयोगाच्चापह्नवः । अत्र मुक्ताफलानि विषयः, श्रमाम्भ:कणाः विषयिणः, कुन्दमुकुलस्थूलत्वं गुणो निमित्तम् । अत इयं निमित्तोपादानवती जातिस्वरू- पोत्प्रेक्षा। पूर्वमसामअस्येन दूषिते 'यदेतदि'त्यादौ मन्येशब्द प्रयोगमात्रेणोत्प्रे- क्षाभ्रमो न कर्तर्व्य इत्याह-अहं त्विन्दुमित्यादौ वाक्यभेद इति। उत्प्रे-
- 'ल', २. 'रुचिरक' ग. पाठः. ३. 'न्दुं मन्य इ' मूलपाठः. ४. 'ति वा' क. ख. पाठ :. ५. 'नैतदित्य' ग. पाठः. ६ 'शूरसम्ब' ख. पाठ :. ७. 'क्षा न' ख. ग. पाठ :. ८. 'व्येत्या' ख. पाठः.
66
Page 67
५२ अलक्कारसूत्रं [अपहुति- मन्येशब्दप्रयोगेऽपि नोत्प्ेक्षेत्यपि वक्ष्यते। एतस्मिन्नपि भेदेऽप- ह्ववारोपयोः पौर्वापर्यप्रयोगपर्यायभेदद्वयं सम्भवदपि न पूर्वव- च्चित्रतामावहतीति न भेदत्वेन गणितम्। तत्रापह्नवपूर्वक आ- रोपे पूर्वमुदाहृतम्। आरोपपूर्वके त्वपह्नवे यथा-
"ज्योत्साभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाअ्जनपरिमलं लाञ्छनस्यच्छलेने ।।"
इति। क्कचित् पुनरसत्यत्वं वरत्वन्तररूपताभिधायिशब्दनिब- न्धनम् । यथा -
"अमुष्मिल्लाँवण्यामृतसरसि नूनं मृगहशः स्मरः शर्वप्रुष्टः पृथुजघनभागे निपतितः ।
क्षायां हि विषयविषयिणोरेकस्मिन्नेव वाक्ये निर्देशो भवतीति भावः। वक्ष्यत इति। उत्प्रेक्षाद्योतकनिरूपणसमये 'किन्तूत्प्रेक्षे'त्यादौ। अस्मिंस्तृतीये भेद एकवाक्यत्वलक्षणे वाक्यभेदविषयवद् भदानिर्देशो वैचित्र्यविशेषाभावात्, न तु लक्ष्यादर्शनादित्याह- ए(कीत)स्मिन्नपीत्यादिना । ज्योत्स्ेत्यादि। अत्र न्यस्तं सिद्धाअनपरिमलमिति पूर्व विषयी निर्दिष्टः। पश्रालाञ्छनस्यच्छ- लेनेति विषयोऽपह्वतः । कचित् पुनरिति। अत्र पुनश्शब्देनैतद् दर्शयति- अपह्ृवो नामासत्यत्वप्रतिपादनम् । तच् क्वचित् साक्षान्नजा निर्दिश्यते, क्वचि- च्छूलादिशब्देन पारमार्थ्यप्रतिक्षेपकेण प्रत्याय्यते, क्वचिद् वस्त्वन्तररूपताभि-
१. 'निरन्तरमु', २. 'न ॥ क्र' क. ख. पाठः. ३. 'पाभि' ख. ग. पाठः.
67
Page 68
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥" इति॥। एवमभेदप्राधान्ये आरोपगर्भानलङ्गाराल्लँक्षयित्वाध्यवसा- यगरभाल्लँक्षयाति। तत्र
अध्यवसाये व्यापारप्नाधान्ये उत्प्रेक्षा। २१।। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविधः-साध्यः सिद्धश्र। साध्यो यत्र विषयिणोऽस- त्यतया प्रतीतिः। असत्यत्वं च विषयिगतस्य धर्मस्य विषय उ- पनिबन्धे विषयिसम्भवित्वेन विषयासम्भवित्वेन च प्रतीतेः ।
त्यादौ रोमावलिवपुर्धूमशिखेत्यत्र रोमावलीलक्षणस्य विषयस्यापह्वो वपुश्शब्द- निबन्धनः ।
हुवचनम् । अध्यवसाय इत्यादि । अध्यवसाय इत्यनेन रूपकादेर्व्यावृत्तिः, व्यापारप्राधान्य इत्यनेनातिशयोक्ते । विषयनिगरणेनेत्यादि। विषयस्य निगरणं स्वरूपतः प्रतीतितो वा । तत्र स्वरूपनिगरणमतिशयोक्तौ। उत्प्रेक्षायां प्रतीतिनिगरणम्। साध्यो यत्रेत्यादि। असत्यत्वेन विषयिणः प्रतीतौ विषयस्य विषयितयावभासनात्मनोऽध्यवसायस्यानिष्पन्नकल्पत्वात् साध्यत्वम्। असत्यत्वं चेत्यादि । विषयिगतस्य धर्मस्येत्यनेन व्यपदेश- हेतवो जात्यादयो निर्दिश्यन्ते। तत्र संज्ञाया विषयिगतत्वं धर्मत्वं च संज्ञिनि वक्रो यदच्छया सन्निवेशितत्वादवसेयम्। यद्यपि जात्युत्प्रेक्षेत्यादिना
१. 'पुः ॥ ए', २. 'भानलङ्काराल्लें', ३, 'ति। अ' क. ख. पाठः, ४ 'का स' ख, पाठः.
68
Page 69
५४ अलङ्कारसूत्रं [उत्प्रेक्षा- धर्मो गुणक्रियारूपः। तस्य सम्भवासम्भवप्रतीतौ सम्भवाश्रयस्य तत्रापरमार्थतयासत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया स- त्यत्वम्। यस्यासत्यत्वं, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः। अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्य- स्यापि सत्यतया प्रतीतिः । सत्यत्वं च पूर्वकस्यासत्यत्वनिमित्त- स्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ
जात्यादीनामेव विषयित्वं प्रतीयते, तथापि गुणक्रियाभिसम्बन्धस्य निमित्तस्य जात्यादारवेघटमानत्वात् तदाश्रयस्यैव विषयित्वं पर्यवस्यति। ननु यत्र जात्यादयो धर्मा धर्मिपरतन्त्रतया निर्दिश्यन्ते, तत्रैवं भवतु । यत्र पुनः 'विश्लेषदुःखादि'त्यादौ धर्ममात्रं निष्कृष्य विषयित्वेन निर्दिश्यते, तत्र कथम्। उच्यते। तत्रापि गुणस्य गुण्यविनाभूतत्वाद् निमित्तस्य मौनेबन्धादेर्गुणमात्रे दुःखादावसम्भवाच्च दुःख्योदिसामान्यमेव विषयित्वेन पर्यवतिष्ठते। गुणक्रि- यारूप इति । गुणो दुःखादिः । क्रिया लेपनादिः। गुणक्रियाग्रहणं चोपलक्षणम् 'अङ्कर इव' 'चन्द्रमयीवे'त्यादो जातिसंज्ञयोः। अथवा गुण इति सिद्धो धर्मो निर्दिश्यते, क्रियेति साध्यः। सम्भवासम्भवप्तीताविति। विषयिविषयनिष्ठतया। तत्र सम्भवासम्भवयोर्मध्ये। सम्भवाश्रयस्य विषयि- णोडडूकुरादेः। इतरस्यासम्भवाश्रयस्य चन्द्रादेर्विषयस्य। यस्यासत्यत्वमि- त्यादि। यत्तच्छब्दाभ्यां विषयी निर्दिश्यते। अतश्चेति। साध्यत्वाद् व्यापा- रस्याध्यवसितिक्रियात्मनः प्राधान्यम् । यथा ओदनं पचतीत्यादौ पाकादि- क्रियायाः। पूर्वकस्यासत्यत्वनिमित्तस्येति। 'विषयिसम्भवित्वेने'त्यादिना पूर्वनिर्दिष्टस्य। नह्यतिशयोक्तौ 'कमलमनम्भसी त्यादौ विपयिगतस्य कमल- त्वादेर्मुखादावसम्भवित्वं प्रतीयते। अतश्चेति । अनिष्पन्नत्वहेतोर्विषय्यसत्य- त्वप्रतीतेरभावात्। साध्यत्वाभावेनाध्यवसितेरप्राधान्ये तदुपसर्जनस्य विषयिण
१. 'स्य जा', २. 'वविघ', ३. 'नि' ख. पाठः., 'नादे' ग. पाठः. ४. 'खा' क. ग. पाठ :.
69
Page 70
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ५५
व्यापारप्राधान्येऽध्यवसायः सम्भावनमभिमानस्तर्क ऊह उत्प्रेक्षे- त्यादिशब्दैरुच्यते। तदेवमप्रकृतगतगुणक्रियाभिसम्बन्धादप्रकृ- तत्वेन प्रकृतस्य सम्भावनमुत्प्रेक्षा। सा च वाच्या इवादिभिः प्रदर्श्यत। प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रि-
एव प्राधान्यम् । यथा पक्क ओदन इत्यादावोदनादेः। एतदुक्ततं भवति- उत्प्रेक्षायामतिशयोक्तौ च द्वयोरपि विपयस्य विपयित्वं प्रतिपिपादयिषितम् । तत्रोत्प्रेक्षायां प्रतिपाद्यमानमपि तदसत्यमेव प्रतीयत इति तत्र विषयविषयिणोः पारमार्थिकात्यन्ताभेदावभासनपर्यन्तस्याध्यवसायस्यानिर्वृत्तेः साध्यत्वम्। इत. रत्र विपर्ययेण सिद्धत्वम्। अन्ये तु असत्यत्वं चेत्यारभ्याध्यवसितप्राधान्य- मित्येवमन्तं ग्रन्थमेवं व्याचक्षते। विषयिगतस्येति। विषयगतत्वे सति विषयिगतस्य, न तु विपयिमात्रनियतस्य, विषयविषयिसाधारणस्येति या- वत्। धर्मस्य कौटिल्यादेः। विपयिसम्भवित्वेन विपयासम्भवित्वेन च पतीतेरिति। ईदशं कौटिल्यमङ्कुरादावेव सम्भवति, न चन्द्रादावित्येवंरू- पायाः। अयमर्थः-विषये विषय्यध्यवसायनिमित्तभूतस्योपात्तस्य वानुपा- त्तस्य वा कौटिल्यादेविपयिण्येव संभवः प्रतीयते, न तु विषये। अतो नि- मित्ताभावान्निमित्तिनोपि विषयिणस्तत्रासत्यत्वं प्रतीयत इति। धर्मो गुण- क्रियारूप इति। कौटिल्यादिक्षामतागमनादि यन्निमित्तं निर्दिश्यते, तद्रूपः । तस्य सम्भवासम्भवेत्यादि पूर्ववत्। असत्यत्वनिमित्तस्याभावादिति । तदभावश्च मुखादिगतत्वेन कमलाद्यध्यवसाये कस्यचिन्निमित्तत्वेनाविवक्षणाद्, विवक्षितत्वेऽप्यसम्भवप्रतीत्यभावाद्वा। अत्चेत्यादि पूर्ववत्। तत्रेति। साध्य- त्वसिद्धत्वयोर्मध्ये। फलितं दर्शयति-तदेवमित्यादिना। अङ्कुराद्यपश्यदा- दिगतकुटिलत्वादिगुणक्षामतागमनादिक्रियाभिसम्बन्धाद ङकुरादित्वेनापश्यदा- दित्वेन वा चन्द्रादेः कपोलादेश्व सम्भावनमुत्प्रेक्षेत्यर्थः । इवादिभिरिति।
१. 'तगु' क. ख. पाठ :. २. 'य' ख. पाठ :.
70
Page 71
५६ अलक्कारसूत्रं [उत्प्रेक्षा- यागुणद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्धा। प्रकृतस्यैतञ्े- दयोगेऽपि न वैचित्र्यमिति न ते गणिताः । प्रत्येकं च भावा- भावाभिमानरूपतया द्वैविध्येऽ्ष्टविधत्वम्। भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वे षोडशभेदाः। तेषां च प्रत्येकं निमि- त्तस्योपादानानुपादानाभ्यां दात्रिंशत् पभेदाः । तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः। एषा गतिर्वाच्यो- त्प्रेक्षायाः। तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफ- लोत्प्रेक्षाभेदास्ततः पातनीयाः। प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तो भेदाः, तथापि निमित्तस्यानुपादानं तस्यां न सम्भव- तीति तैर्मेदैरन्यूनोऽयं प्रकारः । इवादयनुपादाने निमित्तस्य चा- कीर्तने उत्प्रेक्षणस्यँ निष्प्रमाणत्वात्। प्रायश्र स्वरूपोत्प्रेक्षात्र ने सम्भवति। तदेवं प्रतीयमानोत्प्रेक्षाया यथासम्भवं भेदनिर्देशः।
आदिशब्देन मन्ये शङ्के ध्रुवमित्यादयो गृह्यन्ते। एतद्भेदयोगेऽपीति। जाति- क्रियागुणद्रव्यलक्षणभेदयोगेऽपि। हेतुफलोत्प्रेक्षाभेदास्ततः पातनीया इति। उपलक्षणमेतत्। हेतुफलोत्प्रेक्षयोर्निमित्तानुपादानभेदानां पातनीयत्वस्य हेतू- त्प्रेक्षायां 'यस्य प्रकृतिसम्बन्धिन' इत्यादिना फलोत्प्रेक्षायां 'यदेव तस्ये'- त्यादिना च सूचयिष्यमाणत्वात्। तदेवं वाच्योत्प्रेक्षायाः षद्पञ्चाशद्द्ेदा व्य- वतिष्ठन्ते। तथाहि-जातेस्तावत् स्वरूपोत्प्रेक्षायां भावाभावाभिमानत्वेन गुणक्रियानिमित्तत्वेन तदुपादानानुपादानाभ्यां चाष्टौ भेदाः। हेतुफलोत्प्रेक्षयो- र्निभित्तानुपादानस्याभावात् प्रत्येकं चत्वारो भेदा इति संहत्य षोडशभेदाः । एवं गुणक्रिययोरपि। द्रव्यस्य तु हेतुफलोत्प्रेक्षाभावादष्टभेदत्वमेवावशिष्यते। एवं पट्पञ्चाशद्व्ेदत्वं वाच्योत्प्रेक्षायाः । यथासम्भवमिति । प्रतीयमानो-
१. 'प्रकारा: । ते', २. 'ध्रु प्र', ३. 'पकत्वे थ', ४. 'श्र', ५. 'प्युपदश', ६. 'नं न', ७. 'स्य च नि', ८. 'न भव' क. ख. पाठः.
71
Page 72
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। १७
[एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद् दृश्यते।]
त्प्रेक्षायां द्रव्योत्प्रेक्षा तावन्न सम्भवति। तत्र स्वरूपोत्प्रेक्षाया एव विद्यमान- त्वात्। इह च तदभावस्य 'स्वरूपोत्प्रेक्षाप्यत्र न सम्भवती'त्युक्तत्वात्। जा- तिगुणक्रियाणां च स्वरूपोत्प्रेक्षाभावेन प्रत्येकमष्टविधत्वे चतुर्विशतिधा प्रती- यमानोत्प्रेक्षा। यथासम्भवं भेदनिर्देश इत्यस्यानन्तरं क्चित् पठ्यते-एषा चार्थाश्रयापि धर्मविषये श्रिष्टशब्दहेतुका क्वचिद् दृश्यत इति। उदाहियते च - "प्रस्थे स्थितां हिमवतोऽपि न वाधते या- मूध्वेक्षणानलभयादिव जाड्यमुद्रा। गोष्ठीषु वः सततसन्निहितास्तु देवी सा शारदा नवसुभाषितकामधेनुः ।।" इति। तत्र धर्मविषय इत्यत्र धर्मशब्देन निमित्तभूतो गुणक्रियारूपो धर्मो निर्दिश्यते विषयिभूतो वा। उभयथाप्युदाहरणं न घटते। जाड्यमुद्रेत्यत्र खलु शैत्याप्रतिपत्तिलक्षणार्थद्वयावभासात् श्ेषसम्भवः । सा च जाड्यमुद्रा न तावद् निमित्तं, हेतुत्वेनोत्प्रेक्ष्यमाणं भयं प्रति फलस्यैव वाधाभावस्य नि- मित्तत्वयोगात्। नापि विषयी, भयस्यैव विषयित्वात् । विषयत्वं तु घटते। धर्मस्य तु विषयत्वं ग्रन्थकारस्याभिमतमनभिमतं वेति चिन्त्यं, 'धर्मी धर्म्य- न्तरगतत्वेने'त्यादिना 'धर्म एव धर्म्यन्तरगतत्वेने'त्यादिना च विषयिण एव धर्मिधर्मत्वप्रतीतेः, विषयस्य धार्मित्वमात्रप्रतीतेश्च। व्यतिरिक्तेषु चोदाहरणेषु न कचिदपि धर्मस्य विषयत्वं दृश्यते। यद्यपि 'प्रकृतस्यैत्द्वेदयोगेऽपी'त्यादिना जात्यादेरपि धर्मस्य विषयत्वमुक्तं, तथापि धार्मपरतन्त्र एव जात्यादिर्विषयो भवितुमर्हति, यथा तमःप्रभृतिः, न स्वतन्त्रः । नहि धर्ममात्रस्य निमित्त- भूतेन धर्मेण सम्बन्धः सम्भवति। जाड्यमुद्रायास्तु चेतनत्वारोपमन्तरेण भयं बाधकर्तृत्वं निषेध्यतवं च तर्हि न सम्भवतीति धर्मित्वविवक्षैव युक्ता । तद्वि- वक्षायां च धर्मविषय इत्याद्युक्तिर्न घटते। केचित्तु जाड्यमुद्राबाधाभावं
१. 'ध', २. 'त्यजाड्यप्र' ख, पाठः. ३. 'त्वेन' ख. ग. पाठः. A S.
72
Page 73
५८ अलक्कारसूत्रं [उत्प्रेक्षा-
क्वचित् पदार्थान्वयवेलायां सादृश्याभिधानादुपकान्ताप्युपमा वा-
वस्यति। क्वचिच्छलादिशब्दप्रयोगे सापह्ववोत्प्रेक्षा भवति। अ- तश्रोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । साम्प्रतं तु दि- ड्मात्रेणेयमुदाहियते तत्र। जात्युत्प्रेक्षा यथा-
भयोत्प्रेक्षानिमित्तत्वेनोत्तवा तत्र च जाड्यमुद्राशब्दस्य श्लिष्टत्वाद् धर्मविषय इत्यत्र धर्मशब्देन निमित्तभूतो धर्मो निर्दिश्यत इत्याहुः। एतच् न समीची- नम्। विषयस्यानुपलम्भात् । यदि बाधकर्मत्वाभावविशिष्टा शारदा विषयः, तदा निमित्तनिमित्तिनो: फलहेत्वोर्वैयधिकरण्यं स्यात्। अथ बाधकर्तृत्वाभा- वविशिष्टा जाड्यमुद्रा विषयः, तदा तस्या निमित्तानुप्रवेशो न घटेत। अथवा शारदास्वभावप्रयुक्तो वाधाभावो भयहेतुत्वेनाध्यवसीयत इति तत्स्वभावस्य विषयत्वं, तदानीं विषयस्य स्वकण्ठेनानुपादानाद् 'न च विषयस्य गम्यत्वं युक्तमि'त्यनेन विरोध इति सर्वथास्य पाठस्य निरवद्यत्वं चिन्त्यम्ं। निरवद्य- त्वेऽपि वोदाहरणान्तरं दर्शयितव्यम्। यथा- पझ्मोलासकरः कुर्वन्नपास्ततमसो दिशः। रविवर्मन् ! अतापस्ते भाति भास्वानिवापरः ॥ अत्र निमित्तभूतः पद्मोलासकरत्वादिर्धर्मः क्लेषेण निर्दिष्टः। सादृश्याभिधाना- दिति। उपमानोपमेययोः सादृश्यद्योतकस्येवादेः सदशधरमाभिधायिनः क्किवा- देर्वा प्रयोगात्। उपक्रान्तापीति। आमुखे स्फुरितापि। वाक्यार्थतात्पर्यसा- मर्थ्य नाम विषयविशेषोपादानवशेनोपमानस्य प्रकृते सम्भवौचित्यप्रतीतिः । अभिमन्तृव्यापारः उत्प्रेक्षापरपर्यायोऽभिमानः। अपहुतौ वक्ष्यमाणत्वेन सृचितमिह वक्ति-कचिदित्यादिना। उक्तवक्ष्यमाणेति। उक्ताः प्रकारा जात्युत्प्रेक्षादयः । वक्ष्यमाणाः 'तस्याश्रेवादिशब्दवन्मन्येशब्दरोऽपी'त्यादिना
१. 'तं दि' क. ख. पाठ :.
73
Page 74
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। "स वः पायादिन्दुर्नवबिसलताकोटिकुंटिलः स्मररर्यो मूर्भि जवलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्या: प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्त: स्फटिकधवलेनाङ्कुर इव ।।" अत्राङ्कुरशब्दस्य जातिशब्दत्वाद् जातिरुत्प्रेक्ष्यते। क्रियोत्प्रेक्षा यथा- "लिम्पतीव तमोऽ्ङ्गानि वर्षतीवाञ्जनं नभः ।" अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते। उत्तरे त्वर्धे- "असत्पुरुषसेवेव दष्टिर्निष्फलतां गता।" इत्यत्रोपभैव, नोत्प्रेक्षा। गुणोत्प्रेक्षा यथा- "सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।" अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा - "पातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृँगलाञ्छनेन।
वक्ष्यमाणेन द्योतकभेदेन भिन्नाः। जातिरुत्प्रेक्ष्यत इति । चन्द्रो विषयः । अङ्कुरजातिस्वरूपं विपयी। कुटिलत्वाख्यो गुणो निमित्तमुपात्तम् । लेपने- त्यादि। तमोनभसी विषयौ। लेपनवर्पणक्रियास्वरूपे विपयिणौ। व्यापना- दिक्रिया निमित्तं गम्यते। उपमैवेति। अत्र हि असत्पुरुषसेवादृ्ष्टयोः साध- र्म्यमात्रं प्रतीयते, न त्वभेदाध्यवसायः । सैषेत्यादि। अत्र नूपुरं विषयः । दुःखाख्यगुणलक्षणो हेतुर्विषयी। मौनित्वं गुणो निमित्तमुपात्तम्। पाताल- मित्यादि। मुखानि विषयः। चन्द्रस्वरूपं विषयी। कान्त्यादिगुणलक्षणं नि-
१. 'शशला क. ख. पाठः.
74
Page 75
६० अलक्कारसूत्रं [उत्प्रेक्षा-
इहाङ्गनाभि: स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः॥" अत्र चन्द्रस्यैकत्वाद् द्रव्यत्वम्। एतानि भावाभिमाने उदाहर- णानि। अभावाभिमाने यथा -- "कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षा क्षामतां गतौ॥"
अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादाव- प्यूह्यम् । गुणस्य निमित्तत्वं यथा-"नवबिसलताकोटिकुटिलः" इत्यत्रोदाहते कुटिलत्वस्य। क्रियाया यथा-"ईदृक्षां क्षामतां गतौ" इत्यत्र क्षामतागमनस्य। एते निमित्तोपादानस्योदाहरणे। अनुपादाने "लिम्पतीव तमोऽ्ङ्गानि" इत्यादयुदाहरणम्। हेतूत्प्रे- क्षा यथा-"विश्लेषदुःखादिव बद्धमौनम्" इत्योदौ। स्वरूपो- त्प्रेक्षा यथा-
"कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्गय। दिगू दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्चासमिवोत्ससर्ज।"
मित्तं गम्यते। इयं च सापह्वोत्प्रेक्षा। कपोलेत्यादि। अत्र कपोलौ विषयः। दर्शनक्रियाभावलक्षणो हेतुर्विपयी। क्षामतागमनक्रिया निमित्तम्। गुणस्य निमित्तत्वमित्यादि। तथा च तत्रैव दर्शितम् । कुबेरेत्यादि। अत्र गन्धवहो विषयः। निःश्वासजातिस्वरूपं विषयी। समयलङ्गनानन्तरभवनात्मकक्रियाल- क्षणनिमित्तं गम्यते। 'स वः पायादि'त्यादौ जात्युत्प्रेक्षाया अयं भेद :- तत्रा-
१. 'त्युदा', २. 'ने यथा-लिरि', ३. 'त्युदा', ४. 'ति। स्व', ५. 'नाथां दि' क. ख. पाठ :.
75
Page 76
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ६१
कलोत्प्रेक्षा यथा- "चोलस्य यद्ीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन् द्रष्टुमिवाक्षराणि॥" एवं वाच्योत्प्रेक्षाया उदाहरणेदिग् दत्ता। प्रतीयमानोत्प्रेक्षा यथा- "महिळासहस्सभरिए तुह हिअए सुहअ! सा अमाअन्ती। अणुदिणमणण्णअम्मा अङ्गं तणुअं पि तणुएइ ।।"
इति। अमाअन्ती इत्यतावर्तमानेवेति तनूकरणे हेतुत्वेनोत्प्रेक्षि- तम्। एवं मेदान्तरप्वपि ज्ञेयम्। श्लिष्शब्दहेतुर्कों यथा-
लङ्कारान्तरनिरपेक्षमेवोत्प्रेक्षोत्थानम्। इह तूष्णररमौ दिशोश्ष नायकव्यवहा- रसमारोपलक्षणसमासोक्तिसापेक्षत्वम्। तत्र च कपालाङ्कुरलक्षणस्य विष- यिणोऽत्यन्तासत्त्वम्। इह तु नैवम्। यद्वा निमित्तोपादानानुपादानवशाद् भेदः । चोलस्येत्यादि। वनान्ता विपयः । दर्शनक्रियात्मकं फलं विषयी। विपाटनक्रिया निमित्तम्। महिळेत्यादि। महिलासहस्रभरिते तव हृदये सुभग! सा अमान्ती। अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥
अत्र विरहिणी विषयः। अमान्तीति क्रियाया अभावो हेतुविषयी। तनूकरणक्रि-
१. 'णानि दत्तानि। प्र', २. 'त्यत्र अ', ३. 'रे ज्ञे', ४. 'कोत्प्रेक्षा यथा- प्रस्थे स्थितां हिमवतोऽपि न बाधते यां मूर्धक्षणानलभयादिव जाड्यमुद्रा। गोष्ठीषु वः सततसन्निहितास्तु देवी सा शारदा नवसुभाषितकामधेनुः ॥ उपमोत्प्रे' क. ख. पाठः.
एतदुदाहरणपाठभेदावनाकलितौ व्याख्यात्रा।
76
Page 77
६२ अलक्कारसूतं [उत्परेक्षा-
"अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले सः। अभूदहंपूर्विकयागतानामतीव भूमि: स्मरमार्गणानाम्।।" अत्र धर्मविषये मार्गणशब्दः श्िलष्टः।उपमोपक्रमोत्प्रेक्षा यथा- "कस्तूरीतिलकन्ति फालफलके देव्या मुखाम्भोरुहे लोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति। या: कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रदिशन्तु तास्तव शिवं श्रीकष्ठकण्ठत्विषः ।"
अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विबित्येके' (वा० ३.१.११) इत्युपमानात किब्विधावामुखे उपमाप्रतीतिः । तथाप्युपमानस्य प्रकृते सम्भवौचित्यात् सम्भावनोत्थान उत्प्रेक्षायां पर्यवसानम्। यथावा विरहवर्णने "केयूरायितमङ्गलीयकैः" इत्यादौ। एषापि समस्तोपमाप्रतिपादकविषयेऽपि दृश्यते। हर्षचरितवार्तिके सा- हित्यमामांसायां च तेषु तेषु प्रदशेषु उदाहृतेति इह तु ग्रन्थ- विस्तरभयाद् न प्रपश्चिता। सापह्नवोत्पेक्षा यथा-
यात्मकं कार्य निमित्तम्। उपमानात् किब्विधाविति। क्किप 'उपमानादाचारे' (३.१.१०) इति प्रकरणे विहितत्वाद् उपमानस्य कस्तूरीतिलकादे: प्रकृते सम्भ- वौचित्यं च फालफलकादिविषयविशेषनिबन्धनादवसेयम्। अत्र श्रीकण्ठकण्ठ- त्विषो विषयः। कस्तूरीतिल कादिलक्षणजातिस्वरूपं विषय।। फालादिस्थानवि- शेषसम्बन्धित्वे सति नैल्यं निमित्तम्। केयूरायितमित्यादि। अत्रापि क्यडामुखे
१. 'थयन्तु' क. स्र., २. 'ये। ह', ३. 'भदेषु', ४. 'ति थ्र', ५. 'चथते। सा' क. ख. पाठ :.
77
Page 78
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । ६३
"गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनततिच्छलेन मुक्ताटृहासेव विभाति सिप्रा ॥"
अत्रेवशब्दमाहात्म्यात् सम्भावनं छलशब्दप्रयोगाच्ापह्नवोऽव- गम्यते। एवं छझ्मादिशब्दप्रयोगेऽपि ज्ञेयम्। "अपर इव पाक- शासनः" इत्यादावपरशब्दाप्रयोगे तूपभैवेयम्। तत्प्रयोगे तु प्रकृ- तस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसम्भवादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम्। इवशब्दाप्रयोगे सिद्धत्वादध्य- वसायस्यातिशयोक्तिः । ईवापरशब्दयोरप्रयोगे तु रूपकम्।
उपमाप्रतीतौ सत्यामपि पूर्ववदु त्प्रेक्षात्वम्। गतास्वित्यादि । अत्र फेनतति- र्विषयः । अट्टहासजातिस्वरूपं विपयी। श्रैत्यादिगुणो निमित्तं गम्यते। अन्न
यितुमाह-अपर इवेत्यादि। अपरशब्दापयोग इति। पाकशासन इव राजेत्यादौ, उपमानस्य सिद्धत्वात्। पऊतस्येत्यादि। स्वर्गवर्तिपाकशासना- पेक्षयापरः पाकशासनोऽयमित्येवंरूपायाम्। इवशब्द्ेनेति। अपरमार्थरय पर- मार्थतयैव प्रतीतेः । उत्प्रेक्षैवेयमिति। द्रव्योत्प्रेक्षा। सम्पदादिलक्षणो गुणो निमित्तं गम्यते। इवशब्दापयोगे सिद्धत्वादिति। अपरमार्थप्रतीत्यभावात्। अतिशयोक्तिरिति। अभेदे भेदलक्षणा। रूपकमिति। आरोपमात्रस्य प्रती- तेः। सामान्येनाभिहिते अपि निमित्तस्योपादानानुपादाने विषयविशेषेण व्यव-
१. 'ग उप', २. 'तावुत्प्रे' क. ख. पाठ :. ३. 'गे तु सि' मूलपाठ :. ४. 'अप', ५. 'स्याप्र' क. ख पाठ :. ६. 'त्वं' ख. पाठः. ७. 'रं च' क. पाठः. ८. 'प्रतीयते' ख. पाठ:,
78
Page 79
६४ अलक्कारसूत्रं [उत्प्रेक्षा- तदेवं प्रकारवैचित्रयेणावस्थितायामुत्प्रेक्षायां हेतूत्प्रेक्षायां यस्य प्रकृतसम्बन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मोऽध्यवसायवशा- दभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति हेतुः स्यात्। यथा- "अपश्यन्ताविवान्योन्यम्" इत्यादौ । अत्र कपोलयोः प्रकृतयोः सम्बन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च क्षामतागमनं तत्र निमित्तम्। एवम् "अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्" इत्येत्र नूपुरगतस्य मौनित्वस्य यो हेतुर्दुःखित्वं, तदुत्प्रेक्षणे मौ- नित्वमेव निभित्तं ज्ञेयम्। एवं सर्वत्र। स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते, तत्रापि निमित्तभूतो धर्मः कचि- ननिंर्दिश्यते। यथा "स वः पायादिन्दः" इत्यादौ। अत्र कुटिलता निर्दिष्टैव। "वेलेव रागसागरस्ये"त्यादौ तु संक्षोभकारित्वादि गम्यमानम्। यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते, तत्रापि निमित्तस्योपादानानुपादानाम्यां द्वैविध्यम्। उपादाने यथा- "प्राप्याभिषेकमेतस्मिन् प्रतितिष्ठासति द्विषाम्। चकम्पे लोप्यमानाज्ञा भयविह्वलितेव भूः॥"
स्थापयति-तदेवमित्यादिना। अध्यवसायवशादभिन्न इति । विरहासञ्चा- रप्रयुक्ते क्षामतागमनमौनित्वे अन्ये। अन्ये चादर्शनदुःखप्रयुक्ते । एवमप्यध्य- वसायवशादभिन्नयोस्तयोर्विषयविषयिनिष्ठत्वेन निमित्तत्वम्। वेलेवेत्यादि।
१. 'यां थ', २. 'क्षानि', ३. 'ति स हे', ४. 'दि', ८. 'त्यादावत्र', ६. 'त्वं', ७. 'दौ सं', ८. 'त्र ध' क. ख. पाठः.
79
Page 80
निरूपण़म्] सव्याख्यालक्कारसर्वस्वोपेतम्। ६५
अत्र भूगतत्वेन विह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादि निमित्त- सुपात्तम् । अनुपादाने यथा- "लिम्पतीव तमोऽ़ङ्गानी"- त्यादि। अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापना- दि निमित्तं गम्यमानम्। व्यापनादौ तूत्प्रेक्षाविषये निमित्तम- न्यदन्वेष्यं स्यात्। न चे विषयस्य गम्यमानत्वं युक्तम्। तस्यो- त्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात्। तस्माद् यथो- क्तमेव साधु। फलोत्प्रेक्षायां यदेव तस्य कारणं, तदेव निमित्तम्। तस्यानुपादाने कस्य तत् फलत्वेनोक्तं स्यात्। तस्मात् तत्र निमित्तस्योपादानमेव। न प्रकारान्तरम्। यथा-
"रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्।"
अत्राश्वपरिवर्तनफलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम्। तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरस्थितोऽपि लक्ष्ये दुरवधा- रत्वादिह न प्रपश्चितः । तस्याश्रेवादिशब्दवद् मन्येशब्दोऽपि
असिद्धत्वेन रागसागरवेलाया अनुपमानत्वम् । रथेत्यादि । अत्र रविर्विषयः । परिवर्तनं विषयी। उत्तरदिग्गमनक्रिया निमित्तम्। अश्वपरिवर्तनफलस्य अश्र- परिवर्तनात्मनः फलस्येत्यर्थः। उदाहरणान्तरोपन्यासे तु निमित्तं वैचित्र्यमेव, तुमुन्वञ्चतुर्थ्यपि फलत्वं द्योतयतीति दर्शयितुं वा। उत्प्रेक्षासामग्री विष-
१. 'तवि', २. 'च गम्यमानर्वि', ३. 'नस्य फ' क. ख पाठ: 4. 9
80
Page 81
६६ अलक्कारसूत्रं [अलिशयोक्ति- प्रतिपादकः । किन्तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्क- मेव प्रतिपाद्यति । यथोदाहृतं प्राग् "अहं त्विन्दुं मन्यं" इत्यादि॥ एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वे- डतिशयोक्ति लक्षयति -
अध्यवसितप्राधान्ये त्वतिशयोक्ति: ॥ २२ ॥
अध्यवसाये त्रयं भवति स्वरूपं विषयो विषयी च। विषयस्ये हि विषयिणा निगीर्णत्वेऽध्यवसायस्वरूपोत्थानम्। तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितप्राधा- न्यम्। विषयप्राधान्यमध्यवसाये नैव सम्भवति । अध्यवसित- प्राधान्ये चातिशयोक्तिः । अस्याश्च पञ्च प्रकारा :- भेदेऽभेदः, अभेदे भेद:, सम्बन्धेऽसम्बन्धः, असम्बन्धे सम्बन्धः, कार्यका- रणपौर्वापर्यविध्वंसेश्च। तत्र भेदेऽभेदो यथा-
यिणोऽसत्यत्वप्रतीत्यादिः । वितर्कमेवेति। आख्यातत्वात् ॥ अथोत्प्रेक्षानन्तरमतिशयोक्तेर्लक्षणीयत्वे सङ्गतिमाह-एवमित्यादिना। अध्यवसितमाधान्ये त्विति। तुशब्देन व्यापारप्राधान्यं व्यवच्छिनत्ति। यद्यपि विषयविषयिणोरुभयोरप्यध्यवसायस्य कर्मत्वं, तथाप्यध्यवसितशब्देन विषय्येवोच्यते विषयप्राधान्यासम्भवादित्याह-अध्यवसाय इत्यादि ।
१. 'न्ये त्वदरिविरह इ', २. 'स्य वि', ३. 'त्वेऽथ्य', ४. 'त', ५. 'सकश्र' क. ख. पाठ :.
81
Page 82
निरूपणम् ] सव्याख्याळक्कारसर्वस्वोपेतम्। ६७
"कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥" अत्र मुखादीनां कमलायैर्भेदेंडभेदः। अभेदे भेदो यथा -
"अण्णं लडहत्तणअं अण्णावि अ कावि वत्तणच्छाआ। सामा सामण्णपआवइणो रेहच्चिअ ण होइ ।।"
अत्र लडेहत्वादीनामभेदेऽप्यन्यत्वेन भेद:। यथा वा-
"मग्गिअळ्धम्मि बळामोडिअचुम्बिए अप्पणा अ उवणमिए। एक्कम्मि पिआहरए अण्णोण्णा होन्ति रसभेआ।।"
अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदोपनिबन्धः। सम्बन्धेऽसम्बन्धो यथा-
अण्णं इत्यादि। अन्यत् सौन्दर्यमन्यापि च कापि वर्तनच्छाया। श्यामा सामान्यप्रजापते रेखैव न भवति।
अन्यत्वेन भेद इति। अन्यत्वाभिधानमुखेनैव स्वरूपभेदः प्रत्याय्यते । मग्गिअळद्धेत्यादि। मार्गितलब्धे बलात्कारचुम्बिते आत्मना चोपनीते। एकरिमन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाः ॥ विषयविभागेनत्यादि। मार्गितलब्धत्वादिविषयविशेषद्वारा। अतश्रोदाहरणा-
१. 'देऽप्यभे', २. 'ट' क. ख. पाठः.
82
Page 83
६८ अलक्कारसूत्रं [अतिशयोक्ति-
"लावण्यद्रविणव्ययो न गणितः केशो महान् स्वीकृतः स्च्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः। एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता कोऽर्थश्रेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ।"
अत्र लावण्यद्रविणस्य सम्बन्धेऽप्यसम्बन्धस्तन्वीलावण्यप्रकर्ष- प्रदर्शनार्थ निबद्धः। यथा वा-
"अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजड: कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः।"
अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्ध उक्तः । असम्ब- न्धे सम्बन्धो यथा-
"पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा रफुटविद्गुमस्थम्। ततोऽनुकुर्याद् विशदस्य तस्याँस्ताम्रोष्ठपर्यस्तरुचः स्मितस्य॥"
अत्र सम्भावर्नया सम्बन्धः । यथा वा-
न्तरमुपन्यस्तमिति भावः। अस्या: सर्गविधावित्यादौ चन्द्राद्यपेक्षयासम्बन्धे स- स्घन्धस्योदाहरणत्वं नाशङ्कितव्यमित्याह-अत्र पुराणेति। कविसंरम्भादिति
१. 'कि तच्चेत', २. 'तं तस्यास्त', ३. 'णव्ययस्य', ४. 'न्घोला', ५. 'तिपा- दनार्थ:। य', ६. 'तिस', ७. 'स्य ताम्रो', ८. 'नायां स' क. ख. पाठः. ९. 'ति । ए' ख, पाठः.
83
Page 84
निरूपणम्] सव्याख्याल क्वारसर्वस्वोपेतम्। ६९
"वाहोऽम्भःप्रसृतिंपचः प्रचेयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्ितदीप्रदीपकलिकाः पाण्डिस्नि मभं वपुः । कि चान्यत् कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्वचन्द्रमहसस्तस्याः स्थितिर्वर्तते॥"
अत्र दाहादीनामम्भःप्रसत्याद्यैरसम्बन्धेऽपि सम्बन्धः सिद्धत्वे- नोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात् तुल्य- कालत्वाद् वा । पौर्वापर्यविपर्ययो यथा-
"हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लभ! लोचनविषयं त्वया भजता ।"
तुल्यकालत्वं यथा - "अविरलविलोलजलद: कुटजार्जुननीपसुरभिवनवातः। अयमागतश्र कालो हन्त हताः पथिकगेहिन्यः ॥"
भावः। एतदर्थमेवोदाहरणान्तरोपन्यासः। 'पुष्पमि'त्यादेः 'दाहोऽम्भेःप्रसृतिम्' इत्यादेश्रोदाहरणयोर्भेदं दर्शयितुम् 'अत्र सम्भावनये'ति 'सिद्धत्वेने'ति चोक्तम्। हृदयमित्यादि। अत्र मालतीहृदयस्य वल्लभकर्तृकमधिष्ठानं कारणं मदनबा- णकर्तृकाधिष्ठानलक्षणाते कार्यात् चरमभावित्वेन निर्दिष्टम्। अविरलविलो- लेत्यादि। अत्र वर्षाकालागमनलक्षर्णस्य कारणस्य पथिकगेहिनीहननलक्षणस्य च कार्यस्य तुल्यकालत्वं स्पष्टम्। ननु विषयविषयिणोरभेदप्रतिपत्तिरध्यवसा- यः । स च प्रथम एव प्रकारे सम्भवति, न त्वभेदे भेद इत्यादिप्रकारचतु-
१. 'ल'. २. 'वा वि', ३. 'ये' क. ख. पाठ :. ४. 'म्भ इ' क. पाठ .. ५. ६. 'जका' ख. पाठ :.
84
Page 85
७० अलक्कारसूत्रं [अतिशयोक्ति-
एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम्। अत्र चातिशयाख्यं यत् फलं प्रयोजकत्वाद निमित्तं तत्रामे- दाध्यवसायः । तथाहि-"कमलमनम्भसी"त्यादौ वदनादीनां वास्तवं सौन्दर्य कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदे- डभेदवचनस्य निमित्तम्। तत्र च सिद्धोऽध्यवसाय इत्यध्यव- सितप्राधान्यम्। न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः। अभेदे भेद इत्यादिप्रकारेष्वव्याप्तेः । तैत्र हि "अ- ण्णं ळडअत्तणअं" इत्यादौ सातिशयं लडहत्वं निमित्तभूतमभे- देनाध्यवसितम्। एवमन्यत्रापि ज्ञेयम्। तदभिप्रायेणैवाध्यव-
ष्टये। अत आह-एषु पश्चस्वित्यादि । लोकातिक्रान्तो गोचरो विषयो य- स्य तत् लोकातिकरान्तगोचरम्। अत्र चेत्यादि। फलं भेदेजभेदादिवचना- नाम्। प्रयोजकत्वात् सर्वप्रकारवर्तित्वेनानुव्ृत्तत्वात् फलत्वेन प्रवर्तकत्वाद्वा निमित्तम्। तत्रेत्यादि। लौकिकस्य लोकोत्तीर्णेन सहाभेदाध्यवसायविषयत्वेन विवक्षित इत्यर्थः । ग्रथमप्रकारेऽप्यध्यवसायस्य न मुखकमले विषयविषयिणौ, अपि तर्हीमे इत्याह-तथाहीत्यादि। मुखादिकमलाद्योर्विषय विषयित्वेऽनिष्ट- माह-न तु वदनादीनामित्यादिनों। निमित्तभूतमिति। अभेदे भेदवच- नस्य। अभेदेनाध्यवसितमिति । वास्तवलडहत्वेन । एवमन्यत्रापीति। 'मग्गिअ' इत्यादौ सातिशयो रसः, 'लावण्ये'त्यादौ लावण्यप्रकर्षः, 'अस्या' इत्यादौ रूपोत्कर्पः, 'पुप्पमि'त्यादावधरस्मितकान्तिः, 'दाह' इत्यादौ दाहा- दिप्रकर्पः, 'हृदयमधिष्ठितमि' त्यादौ 'अविरलविलोले' त्यादौ च कार्यकारणत्वे तारतम्यवत् शैध्रयं च वास्तवै रसादिभिरभेदेनाध्यवसितानि। तदभिप्ायेण
१. 'रध्य', २. 'अ', ३. 'णाध्य' क. ख. पाठः ४. 'ना। अधरस्मितकान्ति- रित्यत्र कान्तिशब्देन शोभाप्रकर्ष उच्यते। यदुक्तं-'शोभैव कान्तिराख्याता मन्मथाप्यायनो- ज्ज्वला' इसि। नि' क. पाठः ५. 'षः पु'ख. पाठः. ६. 'करत्वे' ख. ग. पाठः.
85
Page 86
निरूपणम् ] सव्याख्यालक्वारसर्वस्वोपेतम्। ७१
सितप्राधान्यम्। प्रकारपञ्चकमध्यात् कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपरञ्चनार्थ लक्षय- ष्यते।। एवमध्यवसायाश्रयेणालङ्कारद्दयमुक्त्वा गम्यमानौपम्या- श्रया अलङ्गारा इदानीमुच्यन्ते। तत्रापि पदार्थवाक्यार्थगत- त्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्दयं क्रमेणोच्यते-
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुताना- मप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगि- ता ॥। २३ ।। इवाद्यप्रयोगे औपम्यस्य गम्यत्वम्। तत्र प्राकरणिका- नामेप्राकरणिकानां वार्थानां समानगुणक्रिर्याभिसम्बन्धेऽन्विता- र्था तुल्ययोगिता। यथा-
सातिशयलटहत्वाद्यभिप्रायेण। लक्षयिष्यत इति। इह तु वचनमन्यैरतिश- योक्तिभेदेत्वेन लक्षितत्वात्।।
औपम्यस्य गम्यत्व इत्यादि। वैवक्षिकस्य वास्तवस्य वोपमानोप- मेयभावस्यारोपाध्यवसायावन्तरेण गम्यत्व इत्यर्थः । तत्रेह वैवक्षिकत्वम्। उत्तरत्र वास्तवत्वम् । प्रस्तुतानामप्रस्तुतानां वेति बहुवचनमविवक्षितं, द्वयो- रपि दर्शनात्। एवं दीपकेऽपि प्रस्तुताप्रस्तुतयो: प्रस्तुताप्रस्तुतानां वेति द्रष्ट- व्यम्। धर्मशब्दार्थमाह-गुणक्रियाभिसम्बन्ध इति। अन्वितार्थेति। तुल्य-
१. 'ध्ार्थ', २. 'मर्थानामप्रा', ३. 'षा स' क. ख. पाठः. ५. 'देन', ६. 'अ' ख. पाठः. ४. 'यास',
86
Page 87
७२ अलक्कारसूत्रं [तुल्ययोगिता-
"सज्जातपत्रप्रकराश्चतानि समुद्हन्ति रफुटपाटलत्वम्। विकस्वराण्यर्ककरप्रभावाद् दिनानि पद्मानि च वृद्धिमीयुः ॥" अत्र ऋतुवर्णनस्य प्रकरान्तत्वाद् दिनानां पद्मानां च प्रकृतत्वम्। वृद्धिगमनं क्रिया। एवं गुणेऽपि।
"योगपट्टी जटाजालं तारवी त्वड् मृगाजिनम्। उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ।।"
अत्रोचितत्वं गुणः । अप्राकरणिकानां यथा -
"धावत्वद्श्पृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥"
अत्र गूर्जरेनपं प्रति नायिकासिलतयोरप्राकरणिकत्वम् । प्रमा- र्जनं क्रिया। गुणो यथा- "त्वदङ्गमार्दवं द्रष्ुः कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ।।"
धर्मयोगत्वात्। सज्जातेत्यादि। दिनपक्षे सजानामातपत्राणां प्रकरैरश्चिवतानि, अन्यत्र सतां शोभनानां जातानां पत्राणां निकरैः । यद्यमूनीति। 'नपुंसकम-
१. 'कान्तत्व', २. 'णो', ३. 'ह', ४. 'सं', ५. 'ं प्र', ६. 'वे स्पृष्टे क' क. ख. पाठः.
87
Page 88
निरूपणम्] स्व्याख्यालक्कारसर्वस्वोपेतम्। .m
अत्र कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता ॥
प्रस्तुताप्स्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्त- त्वे दीपकमुच्यते-
प्रस्तुरतानामप्रस्तुतानां च दीपकम् ॥ २४॥। औपम्यस्य गम्यत्व इत्याद्यनुवर्तते। प्राकरणिकाप्राकरणि- कवर्गस्य मध्यादेकत्र निविष्टःसमानो धर्मः प्रसङ्गेनान्यत्रोपकाराद् दीपनाख्याद् दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः । तत्रेवा- द्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र तु शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः, - अनेकस्यैकक्रियाभिसम्बन्धादौचित्यात् पदार्थगतत्वोक्तिः। वस्तु-
नपुंसकेन-'(१. २. ६९) इत्यादिना नपुंसकत्वम् । चतुर्विधेति। गुणक्रि- याविषयत्वेन प्रकृताप्रकृतनिष्ठत्वेन च।। औपम्यस्य गम्यत्व इत्याद्यनुवर्तत इति । आदिशब्देन पदार्थगतत्वे- नेति समानधर्माभिसम्बन्ध इति च गृह्यते। एकत्रेति। प्राकरणिकेऽप्राकरणि- के वा। दीपनाख्याद् दीपसादृश्येनेति। अनेन दीपयतीति ण्वुलि वा दीप इवे- ति 'संज्ञायां कन्' (५.३.७५) इति वा दीपकमिति निरुक्तिर्दर्शिता। घटार्थमादी- पितो हि दीप: पंटादनपि प्रकाशयति। पूर्वत्र तुल्ययोगितायाम्। अनेकस्येत्या- दि। 'रहइ' इत्यादौ मिहिरादेर्नभःप्रभृतेश्रैकस्यां राजनक्रियायां हेतुत्वेन कर्तृत्वेन
१. 'ताप्र', २.'पक सा', ३. 'त्र शु', ४. 'त्वेपि वा', ५. 'त्वभावित्वा' क. ख. पाठ :. ६. 'ति कनि वा' क. पाठः. ७. 'घ', ८. 'स्यामक्ष्यरा' ख. पाठः. .. 10
88
Page 89
७४ अलक्कारसूत्रं [दीपक- तस्तु वाक्यार्थगतत्वेम्। तत्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य प्र- वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः। क्रमेणोदाहरणं-
"रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम्। अमएण धुणीधवओ तुमए णरणाह! भुवणमिणेम् ॥।"
यथा वा-
"सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्र धेनुः ॥"
च सम्बन्धात् । औचित्यादिति। क्रियाया एकत्वेनौचित्यम्। वस्तुतस्त्विति। क्रियाया आवृत्त्यान्वयेन मिहिरहेतुकनभरशोभनादिभिः वर्णनीयहेतुकभुवन- शोभनसादृश्यस्य गम्यमानत्वात् । रेहईत्यादि ।
शोभते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम्। अमृतेन धुनीधवः (समुद्रः१) त्वया नरनाथ! भुवनमिदम्॥
अत्र राज्ञः प्रस्तुतत्वम्। मिहिरादीनामंप्रस्तुतत्वम् । सञ्चारपूतानीत्यादि । आदिमध्यान्तवाक्यगतत्वेनेत्यादिवचनात् समानधर्मस्यादिवाक्यादिवर्तित्व- मेवादिदीपकत्वादौ प्रयोजकम्। उद्भटादिभिश्र तथैवाङ्गीकृतम्। अत्र चोदाहरणे प्रचक्रम इत्यस्य श्लोकमध्यगतत्वेऽपि आदिवाक्यगतत्वादादिदीप- कत्वमेव। उदाहरणान्तरोपन्यासश्र सूत्रगतबहुवचनप्राप्तस्य प्रस्तुताप्रस्तुतनि-
'त्वेनादि', २. 'स्य वृ', ३. 'णानि-रे', ४. 'लो', ५. 'णम् ॥ स', ६. 'नुः ॥ यथा वा-वि' क. ख. पाठः.
89
Page 90
मिरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । ७५
"विसमअओ चिअ काणवि काणवि बोळेइ अमअणिम्माओ। काणवि विसामअमओ काणवि अविसामअम(अ)ओ काळो॥" "किवणाण धण णाआण फणामणी केसराइ सीहाणं। कुळवाळिआण अ थणा केत्तो घैप्पन्ति अमुआणं ।।" एवमेकक्रियोमयं दीपक निर्णीतम्। अत्रें च यथानेककारकग- तत्येनैका क्रिया दीपकं, तथानेकक्रियागतत्वेनैकं कारकम्। यथा-
छस्य बहुत्वस्यानियमप्रदर्शनार्थः। यथा वा विसमअओ चिअ इत्यादौ। यथा वेत्येतत् सञ्चारपूतानीत्यतः पूर्व पठनीयम्। विसमअ(ओ) इत्यादि। विषमय एव केषामपि केषामप्यपक्रामत्यमृतैनिर्माणः । केषामपि विषामृतमयः केषामप्यविषामृतमयः कालः॥
अत्र दुःखिनि वक्तरि विषमयकालापक्रमणस्य प्रस्तुतत्वम्। इतरेषामप्रस्तु- तत्वम्। अत्र बोळेईत्यस्य मध्यवाक्यवृत्तित्वाद् मध्यदीपकम् । किवणाण इत्यादि। कृपणानां धनं नीगानां फणामणयः केसराणि सिंहानाम्। कुलपालिकानां च स्तना: कुतो गृह्यन्तेऽमृतानाम् । अत्र गृह्यन्त इत्यस्यौन्तवाक्यवर्तित्वादन्तद्पिकेत्वम्। अत्र चेत्यादि। एका क्रिया यथा नभःप्रभृत्यनेककारकगतत्वेन दीपकं भवतीत्यर्थः । एकं कार-
१. 'अमुआण घेप्पन्ति ॥', २. 'या दी', ३. 'कत्रयं नि', ४. 'त्र य', ५. 'क' क. ख. पाठ :. ६. 'थम्। य' ख. पाठः. ७. 'तमयनि' ख. ग. पाठः. ८. 'तः का' क. पाठः. ९. 'चो' ख. पाठः. १०. 'भुजगा' क. पाठः. ११. 'णि च सिं' ख. पाठः. १२. 'तः स्पृश्यन्ते' क. पाठ :. १३. 'स्यावान्तरवा', १४. 'पत्व' ख, पाठः.
90
Page 91
७६ अलङ्कारसूत्रं [दीपक-
"साधूनामुपकर्तु लक्ष्मी द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ।।"
अत्रोपकरणाद्यनेकक्रियाकर्तत्वेन कुतूहलविशिष्टमेकं मनो निर्दि- ष्टम्। छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षायष्यते ।
कमिति। दीपकमित्यनुषङ्गः । साधूनामित्यादि। 'न कुतूहलि कस्य मनः' इत्यस्य पूर्वेण सम्बन्धे मध्यदीपकत्वम्, उत्तरेण त्वन्तदीपकतवम् । उपकर- णादीत्यादिशव्देन लक्ष्मीदर्शनादयो गृह्यन्ते। अत्र च महात्मचरितश्रवणस्यैव कविसंरम्भगोचरत्वात् प्रस्तुतत्वमभिसन्धाय सामान्यलक्षणं योजयितव्यम्। अथवेदं स्पष्टमुदाहरणं --
सङ्गामधीरेण सहेतरेषां महीक्षितां क: स्तुतिमारभेत। स्मरेदनु स्वर्दधममन्यवृक्षान् मन्येत शैलान्तरवच्च मेरुम् ॥
अन्नादिवाक्ये क इति कर्तृकारकं निर्दिष्टम्। मध्ये यथा -
पदान्तरिक्षं परिमातुमिच्छेद् दोर्भ्यां समुद्रं क इवोत्तितीर्षेत। सङ्गामधीरस्य गुणांश्र वर्णैः पञ्चाशता वर्णयितुं यतेत ।। अन्ते यथा-
सेवितुमिह यदुनाथं पार्श्वे पत्युर्दिवौकसां स्थातुम्। अपरोक्षयितुमधीशं वचसामपि क: कुतूहली न पुमान्॥
छायान्तरेणेति। उत्तरोत्तरगुणावहत्वेन। पस्तावान्तर इति। शृङ्गलान्या- यालङ्कारप्रस्तावे।।
१. 'दि । कु' ख. पाठ :.
91
Page 92
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ७७
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ् निर्देशे प्रतिवस्तूपमा ॥ २५ ॥ पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा। वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा। आद्यः प्रकारः प्रतिवस्तूपमा, वस्तुशब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थ- मुपमा साम्यमित्यन्वर्थाश्रयणात्। केवलं काव्यसमयात् पर्या- यान्तरेण पृथङ् निर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वैक्ष्यते। तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा। यथा- "चकोर्य एव चतुराश्रन्द्रिकाचामकर्मणि। आवन्त्य एव निपुणाः सुदृशो रतनर्मणि॥"
वाक्यार्थगतत्वेनेत्यादि । सैव उपमैव। असकृन्निर्देशे त्विति । इवाद्यनुपादाने चेति शेषः । अत्र चौपम्यस्य गम्यत्व इत्येतदनुवृत्तेरिवादेरनु- पादानम् । शुद्धेत्यनेन 'तस्यापि बिम्बप्रतिबिम्बकतया निर्देश' इति दृष्टान्ते वक्ष्यमाणत्वादत्र तद्रहितं सामान्यं गृह्यत इत्याह । प्रतिवाक्यार्थमिति। उपमानवाक्ये उपमेयवाक्ये च साधारणधर्मस्य निर्देशात्। काव्यसमया- दिति। "नैकं पदं द्विः प्रयोज्यं प्रायेणे"ति वचनात् कथितपदस्य दुष्टताभि- धानाच्च। प्रथमोपात्तस्यापि पर्यायत्वात् तदपेक्षया द्वितीयपदस्य पर्यायान्त- रत्वम्। द्वितीयेति। बिम्बप्रतिबिम्बाश्रयेण। निपुणपदेनेत्यनेन पर्यायान्तरत्वं
१. 'समानध', २ 'शे सै', ३. 'ल', '४ 'ण य' क. ख. पाठः. ५. 'म्बत' ख. पाठ :. ६. 'त्यादि। उ' क. पाठ :.
92
Page 93
७८ अलक्कारसूत्रं [रसान्स-
अत्र चतुरत्वं साधारणो धर्म उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः। न केवलमियं साधर्म्येण, यावद् वै- धर्म्येणापि दृश्यते। यथात्रैवोत्तरार्धस्थाने "विनावन्तीर्न निपुणाः सुदृशो रतनर्मणि" इति पाठे।। तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दष्ठान्तः ॥ २६॥ तस्यापि, न केवलमुपमानोपमेययोः । तच्छब्देन सा- मान्यलक्षेणो धर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा- "अब्धिलङ्ङित एव वानरभटैः किन्त्वस्य गम्भीरता- मापातालनिमअपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारखतं जानीते नितरामसौ गुरुकुलक्िष्टो मुरारिः कविः॥" अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टः, तथापि नैतन्निब- न्धनमौपम्यं विवक्षितम्। यन्निबन्धनं च विवक्षितं, तत्राब्धि-
दर्शयति। यावद् वैधर्म्येणेति। आवन्तीव्यतिरिक्तसुदृशां नैपुणाभावेन चकोर्यपेक्षया वैधर्म्यम्।। प्रत्यवमृष्ट इति । पूर्वसूत्रे निर्दिष्टः । अयमपीति। न केवलं प्रति- वस्तूपमेत्यपेरर्थः । अत्र यद्यपीत्यादिना प्रतिवस्तूपमात्वमाशङ्कय परिहरति।
१. 'ण। य', २. 'क्षितो ध', ३. 'म्। किन्तु य' क. ख. पाठः.
93
Page 94
निरूपणम् ] सव्याख्यालक्कारर्सवस्वोपेतम्। ७९
लङ्खनादावसत्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्विती- यो यथा-
"कृतं च गर्वाभिमुखं मनसत्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।"
अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् ॥
सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्य- मानं प्रतिविम्बकरणं निदर्शना ॥ २७॥
प्रतिबिम्बप्रस्तावेनास्या लक्षणम्। अत्र क्वचित् सम्भवन्नेव व- स्तुसम्बन्धः स्वसामर्थ्याद् बिम्बप्रतिबिम्बभावं कल्पयति। क्कचित
अन्धिलङ्गनादावित्यादिशब्देन पातालनिमअ्तनुत्वं गृह्यते, दिव्यवागुपासना- दीत्यादिशब्देन गुरुकुलक्किष्टत्वम्। निहतत्वादेरित्यादिशब्देन मनःकर्मकं गर्वा- भिमुखीकरणं, स्थानादीत्यादिशब्देनोदयाद्रिमौलिताप्राप्त्यभावश्च गृह्यते ।। सम्भवतेत्यादि। निदर्शनाया गम्यमानप्रतिबिम्बेनत्वं सामान्यलक्ष- णम्। सम्भवतेत्यादिना तस्या भेदनिर्देशः । वस्तुशब्देन पदार्थो वाक्यार्थ- श्रोच्यते । गम्यमानमित्यनेन दृष्टान्ताद् व्यावृत्तिः । तत्र हि प्रकृताप्रकृतरू- पयोरवाक्यार्थयोर्विम्बप्रतिबिम्बभावरूप एव सम्बन्धः । इह तु प्रकारान्तरेण
१. 'पादनम्', २. 'म्बसा', ३. 'व ए' ख. पाठः.
94
Page 95
८० अलक्कारसूत्रं [निदर्शना-
पुनरन्वयबाधादसम्भवता वस्तुसम्बन्धेन प्रतिबिम्बनमाक्षिप्य- ते। सम्भवद्दस्तुसम्बन्धी यथा-
"चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन् गृहमेधिनः॥"
अत्र बोधयन्निति तत्समर्थाचरणे प्रयोगात् सम्भवति वसतुस- म्बन्धः । असम्भवद्दस्तुसम्बन्धा यथा -
"अव्यात् स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम्। जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः।।"
निर्दिष्टः सम्बन्धस्तदवगमयति। प्रतिबिम्बनमाक्षिप्यत इति । उपपादकत- येति शेषः। ननु चूडामणीत्यादौ बोधप्रयोजकत्वस्य चेतनधर्मत्वात् पर्व- तस्य चाचेतन(धर्म?)त्वात् कुतः सम्भवद्वस्तुसम्बन्धवत्त्वम्। अत आह- अत्र बोधयन्नितीति। प्रयोगादिति। णिच इति शेपः। क्कचित् तु णिच इति पठ्यत एव । अयमर्थः-णिचस्तावत् प्रयोज्यविषया प्रवर्तना अर्थः । सा च प्रेषणाध्येषणतत्समर्थाचरणरूपेण त्रिधा। तत्र प्रेषणमाज्ञा। अध्येषणं प्रार्थना। तत्समर्थाचरणं चतुर्धा-अनुमतिरुपदेशोऽनुग्रह आनुकूल्याचरणं चेति। तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्तते, तस्य राजादेरनुमत्या प्रयोजकत्वं, गुरुवैद्यादेस्तूपदेशेनेष्टसाधनत्वज्ञापनापरनाम्ना। यत्र पुनः केनचिद् जिघासितं पलायमानं कश्रिद् निरुणद्धि, निरुद्धश्र हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं
१. 'न्धो', २. 'णे णिचः प्र' ग. पाठः. ३. 'न्धो' क. ख. पाठः. ४. 'नधत्वम्'। अ' ख. पाठ :. ५. 'व' ग. पाठः.
95
Page 96
निरूपणम्] सव्याखयालक्कारसर्वस्वोपेतम् । ८१
अत्रे च स्मरचापसम्बन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्प- र्शनमसम्भवत् लीलासदशी लीलामवगमयतीत्यदूरविप्रकर्षाद् बिम्बप्रतिबिम्बनमुक्तम्। एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्वि- धा। पदार्थवृत्तिः समनन्तरमुदाहता। वाक्यार्थवृत्तिर्यथा-
करोतीत्यनुग्रहेण तस्य प्रवर्तकत्वं, कारीषोऽमिरध्यापयतीत्यादौ कारीपोऽमि- र्निवात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् अस- त्यामपि प्रयोज्यव्यापारोद्देशेन प्रवृत्तावध्ययन आनुकूल्याचरणेन प्रवर्तको भवति। तत्र पर्वतकर्तृकमागतस्य रवेः शिरसा धारणं गृहमेधिनां सद्विषयाति- थेयीकर्तव्यतावबोधेऽनुकूलमिति पर्वतस्यानुकूल्याचरणेन प्रवर्तकत्वमिति। अत्र शैलस्य गृहमेधिषु रवेः सत्सु शिरसा धारणस्यातिथेय्या: करणे च प्रति- बिम्बनम्। अत्र च स्मरचापेत्यादिना वस्तुसम्बन्धस्यासम्भवं दर्शयति। लीलासदृशीमित्यनेन प्रतिबिम्बनम्। ननु स्मरचापेन्दुसम्बन्धिन्योलीलयोरे- कजातीयत्वेनात्यन्तभेदाभावात् कथं बिम्बप्रतिबिम्बभावः । अत आह-अ- दूरविप्रकर्षादिति। सत्यम्। धर्मिभेदोपाधिकं धर्मभेदमाश्रित्य विम्बप्रति- बिम्बभाव इत्यदोषः । अथवा विशिष्टयोरिन्टुस्मरचापयोरेव बिम्बप्रतिबिम्ब- भावोऽवगम्यते। स कथ लीलानिष्ठत्वेनेत्याशङ्कयाह-अदूरविप्रकर्षात्। धर्मधर्मिणोरभेदोपचाराद् धर्मिगतो बिम्वप्रतिबिम्बभावो धर्मगतत्वेनोक्त इत्य- दोषः। यद्ा उपात्तयोरेव बिम्बप्रतिबिम्बभावः।अत्र चानुपात्तया इन्दुलीलया कथं बिम्बप्रतिबिम्बभाव इत्यत आह। सत्यम्। अनुपादानेऽपि गम्यमानत्वाद- दोषः । एषापीति। गम्यमानौपम्यालङ्कारवद् गम्यमानप्रतिबिम्बनैषापी- त्यर्थः । समनन्तरमिति। अव्यादित्यादाविन्दुस्मरचापलीलयोः पदार्थत्वात्।
१. 'त्र स्म' मूलपाठ :. २. 'रं', , ३. 'म्बकल्पन' क. ख. पाठ: 4. 11
96
Page 97
अलक्कारसूत्रं [निदर्शना-
"त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥" केचित् तु दृष्टान्तालक्कारोऽयमित्यूचुः। तदसत्। निरपेक्षयोर्वा- क्यार्थयोर्हि बिम्बप्रतिबिम्बभावे दृष्टान्तः । यत्र तु प्रकृतवा क्यार्थे वाक्यार्थान्तरमध्यारोप्यते सामानाधिकरण्येन, तत्र सम्ब- न्धानुपपत्तिमूला निदर्शनैव युक्ता, ने दष्टान्तः । एवं च
"शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥" इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निदर्शनाप्राप्तेः । इयं चोपमेय उपमानवृत्तस्यासम्भवात् प्रतिपादिता पूर्वैः । वस्तुत- स्तूपमेयवृत्तस्योपमानेऽसम्भवादपि सम्भवति। उभयत्रापि सम्ब- न्धविघटनस्य विद्यमानत्वात्। तद्यथा-
निरपेक्षयोरिति। अत्र च सापेक्षत्वं यदिदमोरुपादानात् स्फुटमेव। प्रकृतवा- क्यार्थे अलक्तककरणके पादनखरत्नकर्मके मार्जने। वाक्यार्थान्तर श्रीखण्डलेप- करणकं विधुकर्मकं पाण्डरीकरणम्। अध्यारोप्यत इति, यदिदमोरेकविषयत्वेन सामानाधिकरण्यप्रतीतेः । अन्यैश्च दृष्टान्तत्वेन दर्शितस्योदाहरणस्य निदर्श- नात्वमेवाह-एवं चेति। उक्तन्यायेनेति। वाक्यार्थे वाक्यार्थान्तराध्या- रोपरूपत्वेन निरपेक्षत्वाभावात् । पूर्वैः उद्भटादिभिः । उपमेये इन्द्वादौ। उपमानवृत्तस्य स्मरचापलीलादेरसम्भवात् । अत्र गण्डतलमित्यादिना प्रस्तुत-
१ 'योर्वि', २. 'वे हि ह', ३. 'त्र प्र', ४. 'न तु द', ५. 'नेऽप्यस', ६. 'वातू स' क. ख. पाठ :.
97
Page 98
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ८.३
"वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषु।" अत्र गण्डतलं प्रकृतम्। तद्र्मस्य पाण्डिम्नः खर्जूरीरेणुष्वस- म्भवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्लान्यायेनापि सम्भ- वति। यथा-
"मुण्डसिरे बोरफळं बोरोवरि बोरअं थिरं धरसि। विग्गुच्छाअइ अप्पा णाळिअछेआ छळिज्जन्ति॥"
इयमपि क्वचिन्मालयापि भवन्ती दृश्यते। यथा-
"अरण्यरुदितं कृतं शवशरीरमुद्दर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्। श्वपुच्छमवनामितं बधिरकर्णजल्पः कृतः कृतान्धमुखमण्डना यद्बुधो जनः सेवितः ॥"
मर्थमुदाहरणे योजयति। शृङ्कलान्यायेन रशनाक्र्कमेण। मुण्डेत्यादि। मुण्डशिरसि बदरफलं बदरस्योपरि बदरं स्थिरं धारयसि। विडम्ब्यत आत्मा धूर्तच्छेकाश्छल्यन्ते ॥ काक्का न छल्यन्त इत्यर्थः । अत्र छेकच्छलनं मुण्डशिरसि बदरफलधा- रणवद् बदरस्योपरि बदरान्तरधारणवच्चाशक्यमित्यर्थः । मालयापी- ति। एकस्मिन् वाक्यार्थे बहूनां वाक्यार्थानामध्यारोपात्। अर- ण्यरुदितमित्यादि। अत्राबुधजनसेवालक्षणे वाक्यार्थेऽरण्यरुदितकरणादयो बहवो वाक्यार्था आरोपिताः। न केवलं प्रतिबिम्बनस्यैव गम्यत्वं,
१. 'ष प्र' क. ख. पाठः. २. 'रधा' ख. पाठः.
98
Page 99
८४ अलक्कारसूत्रं [व्यत्तिरेक- क्वचित् पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः सम्बन्ध पत्यापि निदर्शना भवति। यथा-
"उत्कोपे त्वयि किञ्चिदेव चलति द्राग् गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां योवत् तदेणीद्शाम्। पञ्नयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां कुम्भस्थलीविभ्रमः ॥" अत्र मुक्तेति निषेधपदम्। तदन्यथानुपपत्त्या पादयोर्हेसगति- प्राप्तिराक्षिप्यते। सा च तयोरनुपपन्ना सती सादृश्यैमवगमयती- त्यसम्भवद्वस्तुसम्बन्धनिबन्धना निदर्शना।। भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २८॥ अधुना भेदप्राधान्येनालङ्गारकथनम्।भेदो वैलक्षण्यम्।
गमकस्यापि सम्बन्धविघटन(स्यापी? स्ये)ति दर्शयति-कचित् पुनरि- त्यादिना । निषेधसामर्थ्यादिति । अप्रसक्तस्य प्रतिषेधायोगात्। उ- त्कोप इत्यादौ नञ्राद्यप्रयोगान्निषेधप्रतीतिः कुतस्त्येत्यत आह-मुक्ेतीति। तदन्यथानुपपत्येति। अनुपात्तस्य मोक्षासम्भवात्। सा चेति। हंसगतिप्रा- सिः । तयोः शत्रुस्त्रीपादयोः । अनुपपन्ना सतीति। हंसपदयोरेव युक्तत्वात्। सादृश्यमिति। हंसगतिसदशी मन्दा गतिर्मुक्तत्यर्थः । एवं शशिकान्त्यादावपि द्रष्टव्यम् ॥ भेदो वैलक्षण्यमिति। न त्वन्योन्याभावः। आधिक्यविपर्ययौ गुणद्वा-
९. 'पि भ', २. 'ता', ३. 'श्यं ग' क. ख. पाठः
99
Page 100
निरूपणम् ] सव्याख्यालक्कार सर्वस्वोपेतम्। ८५
स च द्विधा भवति। उपमानादुपमेयस्याधिकगुणत्वे न्यून- गुणत्वे वो भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदा- हरणं-
"दिद्ृक्षः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते। वापीषु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः॥" "क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम्। विरम प्रसीद सुन्दरि! यौवनमनिवर्ति यातं तु॥।"
अत्र विकस्वरनीलोत्पलिन्यपेक्षयाक्षिसहस्रस्य पक्ष्मलताया वैल- क्षण्यमधिकगुणत्वम्। चन्द्रापेक्षयां च यौवनस्य न्यूनगुणत्वम्। शशिवैलक्षण्येन गतस्यापुनरागमेनात् । उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्ति: ॥ २९ ॥ भेदप्राधान्य इत्येव। गुणप्रधानभावनिमित्तकमत्र भेद- प्राधान्यम्। सहार्थप्रयुक्तश्र गुणप्रधानभावः । उपमानोपमेर्यत्वं
रेत्याह-अधिकगुणत्व इत्यादिना। अधिकगुणत्वमिति । तच्च षट्पदाना- मनन्दनेन द्योतितम्। यौवनस्य न्यूनगुणत्वमिति। अत्राप्यस्थैर्यापेक्षया चन्द्रादू यौवनस्याधिक्यमिति लक्षणे विपर्ययग्रहणं न कर्तव्यमित्यन्ये। व्य- तिरेके उत्कर्षापकर्षप्रतीतेर्भेदप्राधान्यं स्फुटम् ॥ सहोक्तौ तु कथमित्याह-गुणपधानभावेति । गुणप्रधानभावश्च क्रि-
१. 'वा वि', २. 'णे', ३. 'तयाधि', ४. 'या यौ', ५. 'मातू ॥', ६. 'यभा- वत्वं' क. ख. पाठः.
100
Page 101
८६ अलङ्कारसूत्रं [सहोक्ति- चात्र वैवक्षिकम्। द्वयोरपि प्राकरणिकत्वात्। प्राकरणिकाप्राकर- णिकभावित्वादुपमानोपमेयभावस्य। सहार्थसामर्थ्यादुभयोस्तुल्य- कक्ष्यत्वम् । तत्र तृतीयान्तस्य नियमेन गुणभावादुपमानत्वम् । अर्थार्च्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम्। शाब्दश्रात्र गुणप्र- धानभावः । वस्तुतस्तु विपर्ययौऽपि स्यात्। तत्रापि नियमेना- तिशयोक्तिमूलत्वमस्याः । सा तु कार्यकारणप्रतिनियमविपर्यय- रूपा अभेदाध्यवसायरूपा च। अभेदाध्यवसायश्रे श्लेषभित्ति- कोऽन्यथा वा। साहित्यं चात्र कर्तरादीनां भेदाद् ज्ञेयम्। तत्र कार्यकारणप्रतिनियमविपेर्ययरूपा यथा-
"भवदपराधैः सार्ध सन्तापो वर्धतेतरां तस्याः"
अत्रापराधानां सन्तापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनि- बन्धः। श्लेषभित्तिकाभेदाध्यवसायरूपा यथा -
याभिसम्बन्धस्य शाब्दत्वार्थत्वाभ्यामवगन्तव्यः । द्वयोरपीत्यादि । वास्तव- स्यौपम्यस्य प्रकृताप्रकृतनिष्ठत्वेन सम्भवात्। वैवक्षिकस्यौपम्यस्य सद्भावे हेतु- माह-सहार्थेति। यत्र खलु द्वयोर्गुणप्रधानभूतयोः समकालमेवैकक्ियाद्यनु- प्रवेशः, तत्र सहार्थोन्मजनम् । वस्तुतस्त्विति । यथा-'अस्तं भास्वानि'- त्यादौ। अत्रास्तगमने रिपूणामेव प्राधान्यमभिहितं, तदस्तगमनस्यैव बलसं- हरणे प्रधानकारणत्वात्। सा त्विति। अतिशयोक्तिः। कार्यकारणेत्यनेना- तिशयोक्ते: पञ्चमप्रकारो निर्दिश्यते, अभेदाध्यवसायेति प्रथमः । श्लेषभित्तिकः
१. 'द्धि तयो', २. 'तु', ३. 'ये', ४. 'श्रात्र शले', ५. 'निमय' क. ख. पाठ :.
101
Page 102
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। ८७
"अस्तं भास्वान् प्रयातः सह रिपुभिरयं संहियन्तां बलानि" अत्रास्तगमनं श्लिष्टम्, अस्तमित्यस्योभयार्थत्वात्। तदन्यथा- रूपा यथा -
"कुमुददलैः सह सम्प्रति विघटन्ते चक्रवाकमिथुनानि"
अत्र विघटनं सम्बन्धिमेदाद् भिन्नं, न तु श्लिष्टम्। एतद्विशे- षपरिहारेण सहोक्तिमात्रं नालङ्कारः । यथा- "अनेन सार्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेपु। द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्विः ।।" इत्यादौ। एतान्येव कर्तृसाहित्ये उदाहरणानि। कर्मसाहित्ये यथा -
श्लेषाश्रयः । कर्त्रादीत्यादिशब्देन कर्मादिपरिग्रहः । अस्तगमनमिति। अस्त- शब्दस्य शैलविशेषनाशयोर्वाचकत्वात् । तदन्यथारूपा अश्लेषभित्तिका(अ?) भेदाध्यवसायमूला। कुमुददलैरित्यादि। अत्र श्लेषाभावमभेदाध्यवसायार्थ भेदं च दर्शयति-विघटनं सम्बन्धीत्यादिना। एतद्विशेषेति। प्रथमनिर्दि- ष्टमतिशयोक्ते: प्रकारद्वयं प्रत्यवमृश्यते। एतानीत्यादि। अपराधसन्तापादीनां वर्धनादौ कर्तृत्वात् । एवं कर्तृकर्मणोः साहित्यमुदाहृतम् । करणसाहित्ये यथा- अमोघैरिषुभिः सार्धमुपायै: फलशालिभिः । सङ्गामधीरः सर्वेपां भिनत्ति हृदयं द्विषाम्। सम्प्रदानसाहित्ये यथा- मदभरमन्थरसिन्धुरगमनाभि: सह सुपर्वतरुणीभिः । सङ्गामधीर! भवतः पृतनाभ्यस्तिष्ठते द्विषां वर्गः ।
102
Page 103
अलङ्कारसूत्रं [सहोक्ति-
"दुजनो मृत्युना सार्ध यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ।।"
अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम्। इयं च मालयापि भवन्ती दश्यते। यथा-
"उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्ध मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम्। वैदेह्यां मनसा समं च सहसाकृष्टं ततो भार्गव- प्रौढाहंकृतिकन्दलेन च समं भमं तदैशं धनुः ।"
अपादानसाहित्ये यथा- अधिसमरमाततज्ये रविवर्मन् ! कार्मुके त्वयाकृष्टे। आस्त्रं द्विषामुरस्तस्तरुणीनां लोचनैः समं पतति ॥ समरगतो यदुनाथः सह दुष्प्रसहेन वैरिवर्गेण। सुभर्गानवात्तिजनुषः सुरसुदृशां निप्रहन्ति दुःखस्य । अत्र निप्रहन्त्यपेक्षया कर्मत्वेऽपि शेषत्वेन विवक्षितयोर्दुःखवैरिवर्गयोः सा- हित्यम्। अधिकरणसाहित्ये यथा-
शास्त्रेषु रमते सार्ध शस्त्रैर्विमतभेदिभिः । रविवर्ममहीपाल! को नाम भवता विना।
उत्क्षिप्तमित्यादि । अत्रैकस्यैव धनुष उत्क्षेपणादिषु कौशिकपुलकादिभि: सहा- र्थसम्बन्धान्मालात्वम् ।
१. 'कं', २. ३. 'ही' क. ख. पाठः. ४. 'टा' ग. पाठ :.
103
Page 104
निरूपणम् ] सव्याख्यालक्कारसर्वम्वोपेतम्। सहोक्तिप्रतिभटभूतां विनोकिं लक्षयति -
विना किश्चिदन्यस्य सदसत््वाभावो बिनोक्ति:॥३०॥
सत्वस्य शोभनत्वस्याभावोऽशोभनत्वम्। एवमसत्वस्या- शोभनत्वस्याभावः शोभनत्वम्।ते दे सत्त्वासच्वे यत्र कस्यचि- दसन्निधानान्निबध्येते, सा द्विधा विनोक्तिः। अत्राशोभनेशोभ- नत्वसत्तार्योमेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्र- युक्ता तन्निवृत्तिरिति ख्यापनार्थम्। एवं चान्यानिवृत्ती विधि- रव प्रकाशितो भवति। आर्द्यो यथा-
"विनयेन बिना का श्रीः का निशा शशिना बिना। रहिता सत्कवित्वेन कीदशी वाग्विदग्धता ।।"
मुक्तम्। यथा वा-
सत्त्वासत्त्वशब्दौ न भावाभाववचनौ, अपि तहि योभनत्वाशोभनत्ववचना- वित्याह-सत्वस्य शोभनत्वस्येत्यादिना। सा द्विघेति। अभावप्रतियोगि- नोः शोभनत्वाशोभनत्वयोरभेदात्। अन्यनिततीत्यादि। अन्यथा शोभन त्वाशोभनत्वयोः स्वतस्सिद्धत्वं तदभावस्य चौपाधिकत्वं न प्रतीयेत। श्रीवि- रहेति। अत्र विरहशब्देन श्रियः स्थैर्यलक्षणस्य शोभनत्वस्याभावः प्रतिपाद्यते, यदविनीतं श्रीर्विरह्यति। अतो ह्वस्या अस्थिरत्वप्रसिद्धिः । उद्भटेन च का- व्यालङ्गारविवृतौ सत्कवि(त्व)विरहिताया विदग्धनाया अस्थैर्यस्याशोभनस्य
१. 'त्र च शोभ', २. 'नत्वाशो' ग. पाठः. ३. 'यां वक्त', ४. 'घो' क. ख. पाठ :. ५. 'प' क. पाठः 4. 12
104
Page 105
९० अलक्कारसूत्रं [विनोक्ति-
"प्रत्यक्ता मधुनेव काननमही मौर्वीव चापच्युता शुक्तिर्मौक्तिकवर्जितेव कविता माधुर्यहीनेव च। येनैकेन विना तदा न शुशुभे चालुक्यराज्यस्थितिः सामर्थ्य शुभजन्मनां कथायेतुं कस्यास्ति वाग्विस्तरः॥" अत्र च विनाशब्दप्रयोगमन्तरेण विनार्थविवक्षा यथाकथञ्चि- दपि निमित्तीभवति। यर्था सहोक्तौ सहार्थविवक्षा। एवं च- "निरर्थकं जन्म गतं नलिन्या यया न दष्टं तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव दष्टा विबुद्धा नलिनी न येन ॥" इत्यादौ विनोक्तिरेव। तुहिनांशुदर्शनं बिना नलिनीजन्मनो- Sशोभनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्ग्या चमत्काराति- शयकृत् । यथोदाहते विषये। द्वितीया यथा-
च प्रतिपादनाय निदर्शनद्वयमिति वदता का श्रीरित्यस्य श्रीरस्थिरेत्यर्थोऽभि- हितः । प्रत्यक्तेति। पूर्वत्र प्रतिक्षेपार्थेन किंशब्देन शोभनत्वाभावः ग्रतीयते। इह न शुशुभे इति साक्षान्निर्दिश््यते। विनाशब्दप्रयोगमिति। अत्र विनाशब्दग्रहणं निवृत्तिवाचिनो रहितादिशव्दस्याप्युपलक्षणम्। यथा सहोक्ताविति। अनुवाद- मुखेन सहशब्दाप्रयोगेऽपि सहार्थविवक्षायां सहोत्त्यलङ्कारत्वं दर्शयति। एवं च विनाशब्दाप्रयोगेऽषि विनार्थविवक्षाया निमित्तत्वे। विनोक्तिरेवेति। विना- शब्दाद्यभावेऽपीति शेपः । यद्वा अप्रस्तुतसरूपस्तुतौ संत्यामपि विनोक्तावेव कवेः संरम्भादिति भावः । अशोभनत्वप्रतीतेः शोभनत्वाभावप्रतीतेरित्यर्थः । इयं चेति। विनाशव्दाप्रयोगेऽपि विनार्थविवक्षारूपा। द्वितीया अशोभनत्वां-
१. 'पोज्झिता' ख. पाठः. २. 'त्र वि', ३. 'णापि वि',४. 'था हि स', ५. 'नद्वा न' क. ख. पाठः. ६. 'त्वविवक्षारु' ख. पाठः.
105
Page 106
निरूपणम् ] सव्यार्यालक्कारसर्वस्वोपेतम् । ११
"मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन बिना नरेन्द्रसूनुः ॥"
अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः । सैषा द्विधा विनोक्ति: ।। अधुना विशेषणविच्छित्याश्रयेणालङ्कारद्दयमुच्यते। त- तादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह-
विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः॥३१॥ इह प्रस्तुताप्रस्तुतानां क्वचिद् वाच्यत्वं कचिद् गम्यत्व- मिति द्वैतम। वाच्यत्वं च श्रेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैतम्। एतद् द्विभेदमपि श्लेषालङ्कारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयेः । अप्रस्तुतनिषं तु समासोक्ते-
भावरूपा। मृगलोचनयेत्यादि। नन्वत्र शोभनत्वमेव प्रतीयते, न त्वशोभ- नत्वस्याभाव इत्यत आह-अत्रेत्यादि। अशोभनत्वस्य कातर्यदुर्हृदयत्व- लक्षणस्याभावः । शोभनश्र पदार्थः प्रागल्म्यसुन्दराशयत्वलक्षणः । सैपा द्विधेत्युपसंहारेण विनाशव्दाभावेऽपि विनार्थविवक्षादीनामनयोरेवान्तर्भावाद् भेदान्तरत्वं निरस्यति ॥ अलङ्गारदयमिति। समासोक्तिपरिकररूपम् । विशेषणविच्छित्तिश्र क- चित् साम्यवशात् क्वचित् साभिप्रायत्ववशात्। विशेषणसाम्यादित्यादि। अप्र- स्तुतस्य गम्यत्व इत्यनन सारूप्यनिमित्तमप्रस्तुनप्रशंसाभेदं व्यवच्छिनत्ति। इहे- त्यादिना श्लेषाप्रस्तुतप्रशंसासमासोक्तीनां विपयविभागं दर्शयति। इह विशेषणसा
१. वयद्रयत्व', २. ३. 'ध', ४. 'यम्।' क. ख पाठ :. ५. 'तेत्य' क., 'तप' संसत्य' ग. पाठ :-
106
Page 107
१२ अलक्कारसूत्रं [समासोक्ति-
र्गोचरः । तत्रे च निमित्तं विशेषणसाम्यम् । विशेष्यस्यापि साम्ये ऋषप्राप्तेः । विशेषणसाम्यवर्शौद्धि प्रतीयमानमप्रस्तुतं प्र- स्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वाच्च व्यवहारसमारोपो न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्ूपरुपित्वांद् रूपकमेव। तच् विशेषणसाम्यं श्लिष्टतया सा- धारण्येनौपम्यगर्भलवेन च त्रिधा भवति। तत्र श्िष्टतया यथा-
"उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
म्यविपये। एतद् द्विभेदमिति। प्रकारद्वयविशिष्टं वाच्यत्वम्।तत्र चेति। अप्रस्तु- तस्य गम्यत्वे।शेपभातेरिति। एतत् समासोक्तिव्यतिरिक्तपाप्तिमात्रोपलक्षणम्। प्रस्तुताप्रस्तुतनिष्ठत्व विशेषणविशेष्योभयसाम्ये शब्दशक्तिमूलध्वनिताप्राप्तेः । एतच्च वक्ष्यति 'विशष्यस्थापि साम्ये त्वर्थप्रकरणादी'त्यादिना। अथवोपादानकृतं साम्यमिह विवक्षितम्। प्रस्तुतवदप्रस्तुतस्यापि पृथगुपादान इत्यर्थः । प्रस्तु- तावच्छेदकत्वेन प्रस्तुतविशपंकलवेन। अवच्छेदकत्वाच्चेत्यादि। तथा उपोढ- रागणेत्यादो मुखग्रहणादिलक्षण नायकव्यवहारमात्रं समारोप्यते, न तु नाय- करूपम्। अवच्छादितत्वेन उपरक्तत्वंन । प्रकृतस्य मुखादेः। तद्रपेरूपित्वाद् अप्रकृतरूपेण रूपवत्वात्। तर्चेतति निमित्तभूतम्। श्रिष्टनयेति। अर्थभेदे- डपि शब्दस्वरूपस्यानुगतत्वात्। साधारण्येनेति। अर्थस्वरूपस्यैव उभय- त्रानुवृत्तत्वात। औपध्यगभतवनेति । प्रस्तुताप्रस्तुतसम्बन्धिनोः पदार्थयोः परस्पगुपमानोपमेयभाववशेनोभयविशेषणत्वम्। उपोढरागेणेत्यादि। रागो लोहित्यमनुरागश्च। तस्य वहनीयत्वेन गुरुतमत्वं सूच्यते। विलोलतारकं
'न नि', : 'श्ञावू प' क स. पाठ:, ३. 'षत्वे', ४. 'ति।', ५. 'पेण ख. पाठः ६. 'रुत्वं' ख. ग. पाटः.
107
Page 108
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। ९३
यथा समस्तं तिमिरांशुकं तया पुरोडपि रागाद् गलितं न लक्षितम् ।।" अत्र निशाशशिनोः श्िष्ेविशेषणमहिस्ना नायकव्यवहारप्र-
ष्टयोः प्रतीतेः । साधारण्येन यथा-
"तन्वी मनोरमा बाला लोलाक्षी पुप्पहासिनी। विकासमेति सुभग! भवदर्शनमात्रतः ।।"
विलोलनक्षत्रं विलोलकनीनिकं च। तथेति। झटिति कामसूत्रोक्तचुम्बनादि- प्रकारातिशयेन च, तादृशस्यैव चुम्बनादेस्तारकातरलतादि हेतुत्वात्। गृहीतम् आक्रान्तं चुम्बितं च । मुखमारम्भो वक्रं च। समस्तं सकलं मिश्रितं च। तिमिरांशुकं तिमिरमंशवश्च रविसम्वन्धिनः, तिमिरसदशं श्रौढाङ्गनोचितं नीलवसनं च। तया निशया हेतुभूतया, लक्षणक्रियां प्रति कर्तृभूतया नाय- कया च। पुरोऽपीति। प्राच्यामग्रतश्च। रागात् सन्ध्यारुणिय्नः । अनन्तर- मिति शेषः। अनुरागादित्येव। गलितं प्रशान्तं भ्रष्टं च। लक्षितं, न केनचि- दित्यर्थात्। प्रभातसन्ध्यानन्तरं प्राच्यां गलितमपि तिमिरमिश्रं सूर्याशुजाल- मुदयरक्तेन्दुकरसम्पृक्तनेशतमोयुक्तत्वाद् रात्रिमुखस्य गलितत्वेन न लक्षितम- द्यापि स्थितमिवाभूदित्यर्थः । नायिकापक्षे गलितमपि न तावत् प्रत्यक्षेणानव- गतमेव, अपितून्नीतमपि नेत्यर्थः । ननु कथमत्र नायकव्यवहारप्रतीतिः, न तु नायकत्वारोप इत्यत आह-अपरित्यक्तेति। रूपके हि मुखादीनां स्वरूपपरित्यागेन कमलादिरूपमेव प्राधान्येन प्रतीयते। तन्व्रीत्यादि। पुष्प- हासिनीत्यत्र यद्यपि पुष्पवद्धसितशीला पुष्पहासवतीति चार्थद्वयप्रतीतिः,
१. 'ध्ृत्ववि' क. ख, पाठः. २. 'तनी' ख. पाठ :. ३. 'र ग' ख. ग. पाठ .. ४. 'प्यवस्थि' ग. पाठः.
108
Page 109
९४ अलाङ्कारसूत्रं [समासोक्ति-
अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । अत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम्। अ- न्यथा विशेषणसाम्यमात्रेण नियतस्य लताव्यवहारस्याप्रतीतेः। विकास: प्रकृते तूपचरितो ज्ञेयः। एवं कार्यसमारोपेऽपि ज्ञेयम्। इयं चै पूर्वापेक्षयास्फुटा। औपम्यगर्भत्वैन यथा-
"दन्तप्रभाुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा।।" अत्र दन्तप्रभा: पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्राद् दन्तप्रभासदशैः पुष्पैः चितेति समासान्तराश्रयेण
हरिणेक्षणा इति पाठे उपमारूपकसाधकबाघकाभावात् सङ्गर-
तथापि पुप्पशब्दस्य हसतेश्रार्थद्वयासम्भवात् साधारण्यम्। पकते तूपचरित इति। शोभाजनकत्वसाम्यालोलाक्ष्या हर्षो विकास उच्यते। एवं कार्ये- त्यादि। कार्यसमारोपसहकारिणि विशेषणसाधारण्य इत्यर्थः । इयं च पूर्वा- पेक्षयास्फुटेति। तत्र विशेषणानामर्थद्वयवाचकतयाप्रकृतसाधारणानां बहूनां धर्माणां निर्देशादप्रकृतस्य स्फुटा प्रतीतिः, इह पुनरन्यथेत्यस्फुटत्वम् । अन्ये तु पूर्वापेक्षया तन्वीत्यादिविशेषणसाधारण्यमात्रस्य निमित्तत्वेनापेक्षया अस्फु- टेति धर्मसमारोपाद्यनङ्गीकारेनिष्टं दर्शितमित्याहुः। दन्तप्भाः पुप्पाणी- वेति। व्याप्रादेराकृतिगणत्वात् समासः। सुवेपत्ववशादित्यनेनोपमापरिग्रहे साधकमाह। सुवेषत्वं प्रति दन्तप्रभापाणिकेशपाशानामेव साधकत्वात् ! दन्त- मभासदशैः पुष्पैरिति। शाकपार्थिवादित्वात् समास इत्याहुः । सङ्कर-
१. 'सस्तु प्र', २. 'त उप' ग. पाठः. ३. 'च समासनेकिति: पू' मूलपाठः. ४. 'वे य' क, ख. पाठः. ५. 'भावा' क. ग. पाठः.
109
Page 110
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ९१
समासाश्रयेण कृते योजने पश्रात् पूर्ववत् समासान्तरमहिम्ना लताप्रतीतिर्ज्ञेया। रूपकगर्भत्वेने तु समासान्तराश्रयेणात् समा- नविशेषणत्वं भवदपि न समासोक्ते: प्रयोजकम्। एकदेशवि- वर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात्।न च प्राडनि- दर्शितोपमासङ्करविषय एष न्यायः । उपमासङ्करयोरेकदेशवि- वर्तिनेरभावात्। तच्चैकदेशविवर्तिरपकमश्लेषेण श्रलेषेण च भवतीति द्विविधम्। अश्लिष्टं यथा-
"निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातः सह किन्नु वान्तश्रन्द्रो मयेत्यार्ततरं ररास ॥"
अत्र निरीक्षणानुगुण्याद् विद्युन्नयनैरिति रूपके सिद्धे पयोदस्य
समासाश्रयेणेति। दन्तप्रभाः पुष्पाणीवेति दन्तप्रभा एव पुष्पाणीत्यनिय- मेन। पूर्ववदिति। दन्तप्रभासदशैरित्य(र्थः?र्थे)। ननु विशेपणसाम्यस्यौप- म्यगर्भत्ववद् रूपकगर्भत्वमपि निमित्तं किं न स्यादित्यत आह-रूपकगर्भ- त्वेनेत्यादिना। समासान्तराश्रयणादिति। सदशादिमध्यमपदलोपवत्समासापे- क्षया रूपकसमासस्य समासान्तरत्वम् । तस्याः समासोक्तेः। तुल्यन्यायतयौ- पम्यगर्भाया अपि समासोक्ते: प्रतिक्षेपो नाशक्कनीय इत्याह-न चेत्यादिना। एकदेशविवर्तिरूपकस्यैव समासोक्तिबुद्धिं व्यावर्तयितुमवान्तरभेदप्रदर्शनपूर्व- कमुदाहरणं प्रदर्शयति - तच्चैकदेशेत्यादिना। निरीक्षणानुगुण्यादित्यनेन रूपकपरिग्रहे साधकमुक्तम्। अत्र चावयवयोर्विय्युन्नयनयो रूपणस्य शाब्द-
१. 'न स', २. 'यणे स' क. ख., 'यात्' ग. पाठः. ३. 'पूर्वद' क. ख. पाठ: ४. 'दि ।' क. पाठः.
110
Page 111
९१ अलक्कारसूत्रं [समासोकि-
द्रष्टटपुरुषरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्ततां भजते। श्लिष्ं यथा-
"मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् - कुटिललिपिभि: कं कायस्थं न नाम विसूत्रयन् व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुः ॥"
त्वादवयविनोः पयोदद्रष्टपुरुषयोश्चार्थत्वादेकदेशविवर्तित्वम्। आर्ततरं रर- सेत्यत्रेत्यादि। यद्यपि रसितमात्रं पयोदस्य सिद्धं, तथापि चन्द्रवमनशङ्का- निमित्तकार्तिविशिष्टस्य तस्यासिद्धत्वादुत्प्रेक्ष्यत्वम् । आर्तेश्र चेतनधर्मत्वात् पयोदमात्रेऽसम्भवाद् द्रष्टपुरुषत्वारोपः । अत्र चारोपितपुरुपत्वः पयोदो विषयः । विशिष्टं रसितं विषयी। चन्द्रसदृशाभिसारिकामुखदर्शनं हेतु- र्निमित्तम् । यद्वा वारानिपातैरित्यादिबुद्धिरूपो हेतुर्विपयी । पूर्वक एव विपयः । विशिष्ठरेंसितलक्षणं कार्य निमित्तम् । मदनगणनेत्यादि। अत्र मधुः पिशुनत्वेन रूप्यते। स यथा कस्यचिद् राज्ञो गणनास्थानं गत्वा लेख्यप्र- पञ्चमुत्क्षिप्य तद्गतैरेवाक्षरैरितरकायस्थवर्गमशेषं व्याकुलीकृत्य राजसम्बन्धि- द्रव्याणामायव्यययोः स्वयमधिकारितामासादयति, एवं मधुरपि मलिकापत्र- स्थैद्विरेफः सकलान कायस्थान् शरीरस्थान् प्राणिनो व्याकुलीकुर्वन् विरहि- प्राणेषु मूर्छागमेऽपहारलक्षणमायं तदपगमे तत्प्रत्यर्पणलक्षणं व्ययं च विहित- वान्। अन्वयस्तु मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् मधुः विचकिल- वृहत्पत्रन्यस्तद्विरेफमपीलवैः कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन्नधिकं विरहिप्राणेप्वायव्ययौ व्यधित। अन्ये तु विरहिप्राणेषु कं कायस्थं विसूत्र- यन् आयव्ययावधिकमायव्ययाववधी यस्य तं न नाम व्यधितेत्यन्वयं कुर्वन्तः सकलान् विरहिप्राणाञ्छिथिलीकुर्वन् मूछीगमतदपगमक्षणिकत्ववशेनायंव्य-
१. 'त्रे त्वस' ख. ग. पाठः. २. 'त्रारो' ग. पाठः. ३. 'विषयल' ख. पाठः.
111
Page 112
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम्। ९७
अत्र हि पत्नलिपिकायस्थशब्देषु श्लेषगर्भ रूपकं द्विरेफमषील- वैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति नात्र समासोक्तिबुद्धि: कार्या। तदेवं श्िष्टविशेषणसमुत्थापितैका। साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा। औपम्यगर्भविशेषणससुत्थापितोपमासङ्करसमासाभ्यां द्विमेदा। रूपकसमासाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्च- प्रकार समासोक्ति:। इत्थं च शुद्धकार्यसमारोपेण विशेषण- साम्येनोभयमयत्वेन च प्रथमं त्रिधा समासोक्तिः । विशेषण-
यावधिकान् गमागमावधिकानिति प्रकृतमर्थ, सकलकायस्थान् विसूत्रयन् अवरोपयन् आयव्ययावधिकं विहितवानित्यप्रकृतं चाहुः । अत्र द्विरेफादे- र्मषीलवाद्यारोपस्य शाब्दत्वाद् मधोः पिशुनत्वारोपस्य चार्थत्वादेकदेशविव- र्नित्वम्। पत्रलिपीत्यादि। पत्रादयः शब्दा दलमात्रतालीपत्ररेखामात्रलिखि- ताक्षरसंस्थानशरीरस्थगणकलक्षणोभयार्थवाचिनः । रूपकनिमित्तमिति। न्य- स्तत्वादिसाधकवशादवगतं द्विरेफमपीलवैंरिति रूपकं निमित्तं यस्येति बहु- व्रीहिः, न तत्पुरुषः, पत्रादिशब्दानामर्थद्वयावभासने निमित्तान्तराभावेन लेपस्य पूर्वसिद्धत्वाभावाद्, 'भ्रमिमि'त्यादावुक्तन्यायेन ललेपस्यैव प्राप्तेश्र, अस्यैकदेशविवर्तिनः समासोक्तिव्यतिरिक्तेऽपि विषये दर्शनात। साधारणे- त्यादि। तत्र धर्मसमारोप उदाहृतः । कार्यसमारोपे यथा- सर्वानवद्य प्रतिजानते त्वां सन्तः कथं नाम यदुप्रवीर!। करे गृहीता भवता कृपाणी कण्ठग्रहं यत् तनुते परेषाम्॥ अत्र कृपाण्या दुष्टनायिकात्वप्रतीतिः । करे गृहीतेति साधारणं विशेषणम्। कण्ठग्रहैणलक्षणकार्यसमारोपश्च द्रष्टव्यः। उभयमयत्वेनेति। कार्यसमारोप-
१. 'तथं शु' क ख्र. पाठः. ३. 'वचना: । रू' ख. ग. पाठ :. ४. 'हल' ख. पाठ :. 1. 13
112
Page 113
९८ अलक्कारसूत्रं [समासोकि-
साम्यं पञ्चप्रकारं निर्णीतम्। सर्वत्रे चात्र व्यवहारसमारोपे एत जीवितम्। स च लौकिके वस्तुनि लौकिकवस्तुव्यवहार- समारोप:, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवरतुव्यवहारसमारोप:, शास्त्रीये वा लौकिक- वरतुव्यवहारसमारोप इति चतुर्धा भवति। तदेवं बहुप्रकारा समासोक्तिः । तत्र शुद्धकार्यसमारोपेण यथा-
"विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्रे पत्ावलीमसमअ्जसाम्। क्षितिप! खदिरः श्रोणीबिम्बाद् विकर्षति चांशुकं मरुभुवि हठात् त्रस्यन्तीनां तवारिमृगीदशाम्।।" अत्र पत्ावलीविलेखनादिशुद्धकार्यसमारोपात् खदिरस्य हठका- मुकव्यवहारप्रतीतिः। विशेषणसाम्येनोदाहता। उभयमय- त्वेन यथा- "निर्लूनान्यलकानि पाटितमुरः कृत्स्ोऽधरः खण्डितः कर्णे रुगू जनिता कृतं च नयने नीलाब्जकान्ते क्षतम्। यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसै: किं किं कण्टकिि: कृतं न तरुभिरत्वद्वैरिवामभ्रुवाम्।"
अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम्। निर्लूनान्यल-
विशेषणसाम्यमयत्वंन। विशेषणसाधारण्यभेदे सतोऽपि कार्यसमारोपस्य सह- कारितया विवक्षितत्वेनाप्राधान्यादुभयमयत्वाभावः। नीरसैः कण्टकिभि- १. 'त्रैव चा', २. 'पो जी' क. ख. पाठ :.
113
Page 114
निरूपणम्]
कानीत्यादिषु कार्यसमारोप:। व्यवहारसमारोपप्रकारचतुष्टये कमेणोदाहरणम्। यथा-
"द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्ाम्बरेः शशिकलामलिखत् कराग्रैः।
किं किं चकार तरुणो न यदीक्षणामिः ।।"
लौकिकं च वस्तु रसादिभेदाद् नानारूपं स्वयमुत्प्रेक्ष्यम्।
"थैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्िरव्ययमसङ्ख्यतया प्रवृत्तम्। लोप: कृतः खलु परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥"
अमिशास्त्रप्रसिद्धे वस्तुनि व्याकरणशास्त्रप्रसिद्धवरतुसमा- रोपः ।
रिति विशेषणसाम्यमिति। श्विष्टत्वलक्षणम् । व्यवहारसमारोपप्रकारे- त्यादि। यद्यपीतः पूर्वे दत्तेष्वखिलेष्वप्युदाहरणेषु लौकिके वम्तुनि लौकि कवस्तुव्यवहारसमारोपः, तथापि स्वतन्त्रतयोपन्यासाय द्यामालिलिङ्गेत्याध्यु- पन्यासः। अत्रेश्वरेक्षणाग्न्यादीनां कामुकादीनां च लौकिकत्वम्। आलिङ्ग- नादे: कार्यस्य समारोपाद् अन्तर्निमसेत्यादिविशेपणस्य साधारणत्वाच्चोभय- मयत्वम्। लौकिकेत्यादि। अत्र च रौद्रे शृङ्गारव्यवहारः । यैरित्यादि । वृत्ति: चित्तवृत्ति: परार्थाभिधानं च। अव्ययं व्ययरहितं पदभेदं च। सह्या-
१.( '' २. 'पातात्, ३. 'भरद स्व्र', ४. 'किल प'. ". 'णप्र' क, ख, पाठ:
114
Page 115
१०० अलङ्कारसूजं [समासोक्ति-
"सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं न स्पृष्टं वचसा कदाचिदपि यद् दष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत् तत् किश्चिदेणीद्टशो लावण्यं जयति प्रमाणरहितं चेतश्रमत्कारकम् ॥"
अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपेः। एवं तर्कायुर्वेदज्योतिश्शास्त्रादिप्रसिद्धवस्तुसमारोपो बोद्धव्यः । यथा-
स्त्रपक्षकक्ष्यां वीरोऽयं दूरमारोपयिष्यति ।"
तिगत्वादसत्त्ववाचितयां वासङ्कयत्वम । परत्वजुपो विभक्ते: अन्यत्वजुषो विभागस्य परदेशवर्तिनः स्वादेश्च। लक्षणं साक्षात्करणं व्यावर्तर्कधर्म-्ध्च । अत्र क्लेपवशेनँ विशेषणसाम्यं निमित्तम्। मीमांसाशास्त्रेति। भादृदर्ड सि- द्वस्य प्रमाणपट्कस्य निषेध्यत्वात्। तत्र सीमानमित्यादिना प्रत्यक्षस्य निषेधः, नान्येनेत्यनुमानस्य, न स्पृष्टमित्यागमस्य, दृष्टोपमानमित्युपमानस्य, अर्थादापतितमित्यर्थापत्तेः, न च न यदित्यभावस्य। अथवा मीमांसाशास्त्र- - सीमानं न जगामेत्यादिना सर्वत्र कार्यसमारोपः । न स्पृष्टमित्यादौ विशेषण- साधारण्यं वा। दशवक्रेत्यादि। उत्खातखरदूषणः निहतखरदूषणाख्यराक्षसः निरम्तदुरुत्तरासिद्धविरुद्धादिश्च। स्वपक्ष: स्वबन्धुः स्वसिद्धान्तश्र। अत्र रामे प्रतिवादुक्तदूपणनिरासस्वपक्षस्थापनलक्षणवादिव्यवहारः समारोप्यते।
९. 'पो वोद्धव्यः । ए', २. 'वं च त', ३. 'सौ' क. ख. पाठः ४. 'दिकत्वा' क. पाट: ५. यास'. ६. 'कश्र', . 'न सा' ८. 'भ', उ., 'स्प', १ .. /'प: : द' ख. पाठ :.
115
Page 116
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १०१
"स्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम्। मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्।"
अत्र लौकिके वस्तुनि तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डि- त्यशब्दः प्रकृते लक्षणया व्याख्येयः । तथा-
"मन्दमिमधुरर्यमोपला दर्शितश्यथु चाभवत् तमः । दृष्ट्यस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ।"
अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
"गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वै धृते रक्षामाददतः कुधा विद्धतो लाटेषु यात्रोत्सवम्।
स्वपक्षेत्यादि। मानमभिसानं प्रमाणं च । अत्र कोकिले वावदूकव्यवहारस- मारोपः। यथा वावदूक इतरतार्किकप्रमाणनिराकरणाय निर्दिष्टसाधने वाक्ये स्वपक्षानुकूलैवक्येः साध्यसिद्धिलक्षणं विशेषं दर्शयन् अखण्डितपाण्डित्यो भवति, एवं कोकिलोऽप्यात्मगरुलीलाभिः प्प्तमधुमासलक्षणस्वोदयहेतौ (कारणे?) अधिगतशस्त्रे वा स्मरे उत्कर्ष दर्शयन् यूनामभिमानं निराचकार। अत्र श्िष्टविशेषणत्वम्। लक्षणयेति । प्रस्तुतार्थनिर्वहणसामर्थ्य लक्ष्यते। उदाहरणद्वयप्रदर्शनं जल्पवितण्डालक्षणकथाभेदोपाधिकतर्कभेदप्रदर्शनार्थम् । तत्र पूर्वत्र जल्पः, उत्तरत्र वितण्डेत्याहुः। मन्दमित्यादि। अमिं सूर्यतेजस्स- म्पर्कादुत्थितम्। तस्य च मान्द्यमादित्यस्य स्फुटमनुदितत्वात्। अन्यत्र वैश्वानरो- डभिः। श्वयथुः वृद्धिः शोफाख्यो व्याधिश्च। तिमिरं तमः काचस्य पूर्वाव- स्था च। ओषधिपतिश्चन्द्रः सन्निहितौपधिको भिपक् च। अत्र मन्दममिम- धुरिति कार्यसमारोपः। दर्शितश्वयथ्वित्यादी लिष्विशेषणत्वम्। गण्डान्त इत्यादि। गण्डान्ते कपोलान्ते नक्षत्रविशेपसन्धौ च। क्ष्मामण्डले वैधते। वै-
116
Page 117
१०२ अलङ्कारसूत्रं [समासोक्ति-
पूर्वामाश्रयतो गतिं शुभकरीमासेवमानस्य ते वर्धन्ते विजयश्रियः किमि न श्रेयस्विनां मङ्गलम्॥"
अत्र ज्योतिःशास्त्रप्रसिद्धत्रस्तुसमारोपः ।
"प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो नो यः परिमितगतित्वं परिजहत् । अपूर्वव्यापारो गुरुबर! बुधैरध्यवसितो न वाच्यो नो लक्ष्यस्तव स हृदयस्थो गुणगणः।।"
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः। तथाहि-अत्र गुणग- णगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते। यतो रसो न तात्प- र्यशक्तिज्ञेय:, नाप्यनुमानविषयः, न शब्दैरभिधाव्यापारेण वा- च्यीकृतः, न लक्षणागोचरः, किन्तु विगलितवेद्यान्तरत्वेन परि- हृतपारिमित्यो व्यञ्ञनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुक- र्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्तात्पयैरित्यादिपदै रस एव प्रतीयते। एवमन्यदपि ज्ञेयम्।
शब्द: प्रसिद्धौ। धृते भूमण्डले राशिमण्डलान्तर्वर्तिनि वैधृतनाम्नि योगे च। लाटेषु देशविशेषे व्यतीपातमेदेवु च। पूर्वा प्राचीं दिशं पूर्वफल्गुन्याख्यं न- क्षत्रं च । पूर्वामाश्रित्य जयलक्षणशुभकरीं गतिमासेवमानस्येत्यन्वयः। अत्र क्रिष्टविशेषणत्वम्। प्रसर्पत्तात्पयरित्यादि। अत्र सर्वत्रापि विशेषणसाधार- ण्यम्। अपूर्वव्यापारो लक्ष्य इत्यादौ व्यापारादिशब्दानामुत्साहार्थप्रतिपादन-
१. 'ते । र', २. 'युक्तिज्ञेयः' क. ख. पाठः. ३ 'णंवा', ४. 'वा प' ग. पाठ :.
117
Page 118
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। १०३
"पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरी यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिगासारसात्। चाटूचारणचापलं वितनुतां वाक् तत्र बाह्या कथं देव्या ते परया प्रभो! सह रहःक्रीडादृढालिङ्गने ।।"
अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकि- कवरतुव्यवहारश्र रसादिभेदाद् बहुभेद इत्युक्तं प्राक्। तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशे- षणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथ- ञ्विद् योज्येम्। इह तु -
वर! तव स हृदयस्थो बुधैरपूर्वव्यापारः गुणान्तरव्यापारातिशायिव्यापार इत्य- ध्यवसितः । पश्यन्तीत्यादि । प्रथमोदितत्वात् पश्यन्त्या आभ्यन्तरत्वम्। मध्यमा वक्तृबुद्धिसंस्था वागवस्था। बाह्या वैखरी। परया सूक्ष्मया। अत्रा- गमपसिद्धेत्यादि। यथा कस्मिंश्चिद् राजनि वलभतमया देव्या सह क्रीडति अन्तरङ्गभूता योपित् लज्या न प्रकाशीभवति, मध्यमा तूष्णीमास्ते, बाह्यायाः का कथा, एवं परे ब्रह्मणि सूक्ष्मामात्रगोचरीभूते पश्यन्त्यादयस्तद्विषये स्व- स्वकार्य नारभन्ते। अत्र तिरयतीत्यादी कार्यसमारोपः। आभ्यन्तरीत्यादौ विशेषणसाधारण्यम्। ननु "विलिखति कुचावि"त्यादौ विशेषणसाम्याभावात् कथ समासोक्तित्वम्। अत आह-तत्र शुद्धकार्येति । औपचारिकमिति। उपचारस्य निमित्तमत्र वर्तमानत्वम्। पूर्वशास्त्रेति। उद्भर्टोदिमतानुसारेण। क्वचिलक्ष्ये आक्षेपपूर्वकं समासोक्तित्वं स्थापयतिइह त्वित्यादिना। विशेषण- साम्यपूर्वकं दूपणीयत्वेन नातिसुकरत्वाच्छरदो नायिकात्वप्रतीति पश्चाद् दूषाये- ष्यन् विशेषणसाम्यस्पर्शविरहादतिसुकरत्वेन रविशशिनोर्नायकत्वप्रतीति सूची-
१. 'हा', २. 'ज्यम । ऐ' क. ख. पाठः. ३. मा वु' ४. 'टम' क. पाठः
118
Page 119
१०४ अलङ्कारसूत्रं [समासोक्ति-
"ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम्। प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।"
अस्ति तावद् रविशशिनोनयकत्वप्रतीतिः । न चात्र विशेष- णसाम्यमिति सा कुतस्त्या। प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात् तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेद्, आर्द्नखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम्। न चैकदेश- विर्वीतन्युपमोक्ता, यत्सामर्थ्यान्नार्यकत्वप्रतीतिः स्यात्। तत्कर्थेमत्र व्यवस्था। अत्रोच्यते। एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता, तत् सा केन प्रतिषिद्धा। सामान्यलक्षणद्वारे- णायातायास्तस्या अन्रापि सम्भवात् । अथात्र नोपमानत्वेन
कटाहन्यायेन प्रतिक्षिपति-अस्ति तावदित्यादिना। समासोक्तिं हेतुत्वेना- शङ्कते-प्रसादयन्तीत्यादि। प्रसादस्य विशदीकरणानुनयलक्षणोभयार्थ- त्वात्। आर्द्रनखक्षताभमित्यादि। यद्यपि प्रसादयन्तीति विशेपणं समानं, तथापि विशेपणान्तरस्यासमानत्वात् तन्मूलभूतापि शरदो नायिकात्वप्रतीतिर्ना- स्तीत्यर्थः । इन्द्रधनुर्नखक्षतयोरौपम्यस्य शाब्दत्वात शरदो नायिकायाश्चार्थ- त्वादेकदेशविवर्त्युपमाशङ्का न कार्येत्याह-न चेत्यादि। उपमांप्रभेदत्वेन तस्या अलक्षितत्वादित्यर्थः । एवं समासोक्तिमेकदेशविवर्तिनीमुपमां च दूष- यित्वैकदेशिमतेनैकदेशविवर्तिनीं स्थापयतिअत्रोच्यत इत्यादिना। प्रति- पदं स्वकण्ठेन। सामान्येत्यादि। उपमासामान्यलक्षणस्य साधर्म्यस्य भेदा- भेदतुल्यत्वस्य च विद्यमानत्वादित्यर्थः। अथ स्वमतमाह -- अथात्रेत्यादि ।
१. 'इत्यत्रास्ति', २. 'च वि', ३. 'ति विशे', ४. 'यिकात्व', ५. 'थं तत्र', ६. 'व' क, ख. पाठः. ७. 'माभे' क. पाठः. ८. 'थेः । अथा' ख. ग. पाठ :.
119
Page 120
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १०५
नायकत्वं प्रतीयते, अपितु रविशशिनोरेव नायकत्वैव्यवहार- प्रतीतिः । तयोरत्र नायकत्वात्। तदार्द्रनखक्षताभमित्यत्र स्थि- तमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनयैन्द्रे धनुषि सञ्चारगीयम्। इन्द्रचापाभमार्द्नखक्षतं दधानेति प्रतीतेः । यथा 'दध्ना जु- होति' इत्यादौ दप्नि सञ्चार्यते विधिः। एवमियमुपमानुप्रा- णिता समासोक्तिरेव। इह पुनः- "नत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पढे पढे विभान्ति स्म चक्रवाकैः स्तनैरिवें ॥" इति सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषण- साम्याभावात्। तस्माद् नायिकात्रोपमानत्वेन प्रतीयते। न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येक देशविवर्तिन्युपमैवोपा- स्या, गत्यन्तराभावात्। यैस्तु नोक्ता, तेषामप्युपसङ्गययैव।
यस्य विशेषणस्यासमानत्वेन पूर्व समासोक्ति: प्रतिक्षिता, तस्यापि विशेप ण)स्य साम्यमापादयितुमाह-तदार्द्रेत्यादि। श्रुत्येति । शब्दवृत्या । सश्चार- णीयमिति। नायिकापक्ष इति शेपः । अन्यत्रं श्रुतस्याप्यर्थस्यान्यत्र सच्चारणे शास्त्रीयं दष्टान्तमाह-यथा दश्नेत्यादि। होमस्य शास्त्रान्तर(त्व)सिद्धत्वाद् दधनि विधेः सञ्चारणम्। उपमानुपाणितेति। निमितभूनय विशेगण- साम्यस्य निप्पादनात्। अत्र नायकव्यवहारप्रतीतेरेक देशविवर्त्युपमानक्गीकारः, न तु सर्वथा तदभा इत्याह-इह पुनरित्यादि। उपसङ्कयेगेति। उप- सङ्गयानं नाम मूलकारेणानुक्तस्यापेक्षितस्यार्थस्य विवरणकारेण तद्वाक्यसमीपे वचनम्। ननु कथम् 'उपमासक्करयोरेकदेशविवर्तिनोरभावाद्' इति पूर्वमुक्तम्।
१. 'त्वप्र', २. 'नव', ३. 'ति। य', ४. 'व !! स', ५. 'मुप' क. ख, पाठः, s'भ', ७. 'स्य' स. पाठः. 4. 14
120
Page 121
१०६ अलक्कारसूत्रं [समासोक्ति-
यत्र तु 'केशपाशालिवृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं, तत्रौपम्यगर्भ- विशेषणप्रभाविता समासोक्तिरेव युक्तेति न विरोधः कश्रित् । सा च समासोक्तिरर्थान्तरन्यासे क्वचित् समर्थ्यगतत्वेन क्वचित् समर्थकगतत्वेने च भवति। क्रमेणोदाहरणं यथा-
"अथोपगूढे शरदा शशाङ्के प्रावृड् ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽ्ङ्गनानां नष्टः परिभ्रष्टपयोधराणाम्॥"
"असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत् कृत्सं नो सन्ध्यां भजते रविः।"
अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोः प्रावृ- षश्च नायर्केव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेष- रूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्ये
अत आह-यत्र तु केशेत्यादि। अभाववादश्च प्रतिपदमुद्भटादिभिरलक्षि- तत्वात्। अस्याश्र समासोक्तेरलङ्गारान्तरापेक्षयाङ्गभावं दर्शयितुमाह- सा चेत्यादि। अत्रोपगूढेत्यादि। शशाङ्कशरत्रहणं प्रावृषोऽप्युपलक्षणम् । क्कचितु प्रावृपश्चेति पठ्यत एव। नायकव्यवहारेत्यत्र नायकशब्देन नायको नायिका प्रतिनायिका च गृह्यते । उपगूढत्वेनोपगूहनकर्मकर्तृभूतयोः शशाङ्क- शरदोनीयकत्वं नायिकात्वं च प्रतीयते, शान्ततटित्कटाक्षत्वेन प्रावृषः प्रति-
१. 'न भ', २. 'ण य' ३. 'दो: ना', ४. 'कप्र', ५. 'स्य शे' क. ख. पाठः ६. 'त्र के' ख. पाठः. ७. 'ते । शा' ग. पाठः.
121
Page 122
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । १०७
चात्र श्रलेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भ वि- शेषणं समासान्तराश्रयेणात्र समानम्। 'असमाप्ते'त्यादौ तु स्त्री- शब्दस्ये सामान्येन स्त्रीत्वमात्राभिधानात् सामान्यरूपोऽर्थो लि- ङ्विशेषनिर्देशगर्भेण कार्योपनिबन्धेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसन्ध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते।
निर्मोकपट्टपरिवेषतयाम्बुराशेः। मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥।"
अत्र निर्मोकपट्टापह्ववेन समारोपिताया मन्दाकिन्या यद् वस्तु-
नायिकात्वम्। श्रेषवशादिति। पयोधरशब्दस्य स्तनमेघवाचित्वात्। औप- म्यगर्भमिति। शरदागमेन शान्तत्वमेव तटित्कटाक्षयोरौपम्यसाधकम् । समासान्तरेति। नायिकापक्षे शान्ततटित्सदृशकटाक्षेत्याश्रयणात्। अत्र विशेषणसाम्यनिमित्तो लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, अना- क्रम्येत्यादौ च। तत्र शुद्धकार्यसमारोपो निमित्तम्। आक्रष्टीत्यादि। यस्येति मन्दरो निर्दिश्यते। मथनाकर्षणवेगगलितनिर्मोकपट्टपरिवेष्टितपर्यन्तपर्वतो मन्दरोऽम्बुराशेर्मन्थव्यथाशमनाय तत्पलीभूतया मन्दाकिन्या वेप्टितपादमूल इवेति फलितोऽर्थः । अत्र पच्चालङ्काराः सम्भवन्ति-अपहुतिः शेषोऽति- शयोक्तिरुत्प्रेक्षा समासोक्तिश्च। तत्र न निर्मोकपट्टः पादमूलेऽवेष्टत, अपितु मन्दाकिनीत्यपह्ुतिः । अत्र च विषयस्यासत्यत्वं वस्त्वन्तररूपताभिधायिश-
१. 'स्य स्त्रीसा', २. 'ष्टनया' क ख. पाठः. ३. 'राभि' ख. ग. पाठः,
122
Page 123
१०८ अलङ्कारसूत्रं [समासोक्ति-
वृत्तेन पादमूलवेष्टनं, तच्चरणमूलवेष्टनत्वेन श्लेषमूलयातिशयो- क्तयाध्यवसीयते। तत् तथाध्यवसितं मन्थव्यथाव्युपशमार्थमि- वेत्युत्मेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योर्भ- रवृपलीव्यवहारश्रयां समासोक्तिं गर्भीकरोति। एवञ्चोत्प्रेक्षा- समासोक्त्योरेक: कालः। एवं 'नखक्षतानीव वनस्थलीनामू' इत्यत्रापि वनस्थलीनां नायिकात्वव्यवहार उत्प्रेक्षानुप्रविष्टसमा- सोक्तिमूल एव। एवैमियं समासोक्तिरनन्तप्रपश्चेत्यनया दिशा
व्दनिबन्धनम्। पादमूल इत्यत्र क्लेपः । पर्यन्तपर्वतवेष्टनचरणवेष्टनयोर्भेदेऽप्य- भेदाध्यवसायादतिशयोक्ति:। मन्थव्यथाव्युपशमार्थमिवावेष्टतेति फलोत्प्रेक्षा। मन्थ्यथात्युपशमार्थत्वेन सम्भावितपादमूलवेष्टनलक्षणशुद्धकार्यसमारोपनिमि- सेनाम्तुराशिमन्दाकिन्योर्भैर्तृपलीव्यवहारसमारोपेण समासोक्तिः। तत्रापह्नतिः केपानुगृतानिशयोक्तिश्रोत्प्रेक्षासमासोक्त्योरङ्गभूते। उत्प्रेक्षासमासोक्त्यो- स्त्वेककालत्वेन पौवापर्याभावादङ्गाङ्विभावाभावेनैकवाचकानुप्रवेशलक्षणः स- दरः। गरमीकरोतीति। अन्यथैवंविधफलोददेशेन पादमूलवेष्टनस्य मन्दाकि- न्यामाचितन्येनासम्भवात्। एक: काल इति। उभयोर्निमित्तभूतस्य विशि- षटस्य वेष्टनस्यैकत्वात्। एवं नखक्षतानीत्यादि। अत्रापि नखक्षतानां वनस्थलीमात्रेऽसम्भवाद् नखक्षतसम्बन्धाभावेन वनस्थलीनां नायिकाव्यवहा- रसमारोपस्य चाघटमानत्वात् स्वरूपोत्प्रेक्षासमासोत्त्योस्तुल्यकालता। अन- न्तपपञ्चेति । असङ्करविपये सङ्करविषये च भेदानामानन्त्यात् ॥।
१. 'त्वे श्ले', २. 'रस', ३. 'वं स', ४. समु' क. ख. पाठः. ५. 'चै' क. ख. पाटः.
123
Page 124
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १०९
विशेषणसाभिप्रायत्वं परिकरः ॥ ३२॥। विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नगम्भीर- पदार्थत्वाद् नायं ध्वनेर्विषेयः । एवञ्च प्रतीयमानांशस्य वा- च्योन्मुखत्वात् परिकर इति सार्थकं नाम। यथा-
"राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्नतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च। पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः ।।" अत्र राज्ञ इत्यादौ सोत्प्रासेत्वपरं प्रसन्नगम्भीरपदत्वम् । एवम् 'अङ्गराज! सेनापते! राजवल्लभ! द्रोणापहासिन्! कर्ण! रक्षैनं भीमाद् दुश्शासनम्' इत्यादौ ज्ञेयम् ॥
प्रसन्नगम्भीरपदार्थत्वादिति । वाच्यस्यैव पदार्थस्य प्रसन्नगम्भीरत्वा- दित्यर्थः । एतेन ध्वनित्वनिरासकं व्यङ्ञ्यस्यासौन्दर्यमुक्तम्। अत एव व्य- ङ्वयेऽविश्रंम्य वाच्य एव पर्यवसानं द्योतयितुं प्रतीयमानार्थगर्भीकार इत्यु- क्तम्। गुणीभूतव्यङ्गयत्वप्रसङ्गस्त्वलङ्कारत्वस्य न वाधकः समासोत्त्यादिवत्। राज्ञ इत्यादि। भ्रातुर्दुशशासनस्यारक्षणाद् राजत्वं कार्मुकं चाकिश्चित्करम् । तद्धन्तुरनभियोगाद् मानधनत्वमपि विपर्यस्तम्। आपदि पृथग्जनवदव- स्थानात् कुरुान्धवत्वमपि वृथैव । पाण्डववधूकेशेत्यादिनाविमृश्यकारिणो- डस्यैवंविधश्चित्रवध उचित इति व्यज्यते। अङ्गराजेत्यादि। एतावन्तं कालं
१. 'शेषः । ए', २. 'सपरत्वं प्र' क. ख. पाठः. ३. 'ता' क पाठः. ४. 'र्य- त्वमु', ". 'श्रा' ख. पाउ ..
124
Page 125
११० अलङ्कारसूत्रं [क्रेष-
विशेष्यस्यापि साम्ये द्योवोपादाने शर्ेषः ।। ३३ ।।
केवलविशेषणसाम्यं समासोक्तावुक्तम्। विशेष्येयुक्तं विशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोः अप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्रादयं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति। विशेष्यस्यापि साम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरावगतिर्ध्वनिवि- षयः स्यात् । आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एव द्वयोर्वोपादान इति तृतीयप्रकारविषयत्वेनोक्तम् ।
दुर्योधनं विप्रलभ्य वृथैवाङ्गदेशो भुक्तः, कातरस्य भवतः सैनापत्यमप्यनुचितं, राज्ञश्र त्वद्विषयातिस्रेहो वृथैव, शूरंमन्यतया सकलाचार्यभूतस्य द्रोणस्याप- हासोऽपि जडचेष्टितमभूदिति च व्यज्यते ।।
विशेष्यस्यापीति। विशेष्ययुक्तत्वे सति विशेषणसाम्यं सामान्यल- क्षणम्। तत्र विशेष्ययोग: श्लेषनिर्देशेन वा पृथगुपादानेन वेति द्वेधा। आदयं प्रकारद्वयमिति। प्राकरणिकमात्रविषयमप्राकरणिकमात्रविषयं च । तृतीय उभयविषयः । ध्वनिविषय इति। शब्दशक्तिमूलध्वनिविषयः । तदुक्तम्- "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगादयैरवाच्यार्थधीकृद् व्यापृतिरअ्ञनम् ।।" इति। वाच्यत्वमिति। नियामकस्य प्रकरणादेरभावात्। अत एवेति। विशेष्य-
१. 'षण' क. स्त्र. पाठः. २. 'नेरेव वि' ग. पाठः. ३. 'वाच्यस्य' ख. पाठः.
125
Page 126
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १११
विशेष्यस्यापि साम्य इति त्ववशिष्टप्रकारद्वयविषयम्। क्रमेण यथा-
"येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्दृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।" "नीतानामाकुलीभावं लुब्धैर्भूरिशिलीसुखैः। सदृशे वनवृद्धानां कमलानां तदीक्षणे ।।"
"स्वेच्छोपजातविषयोऽपि न याति बक्तुं देहीति मार्गणशतैश्र ददाति दुःखम्।
स्यापि साम्ये ध्वनित्वापत्तिरेतदा परामृश्यते। अवशिष्टेत्यादं प्रकारद्वयमु- च्यते। येनेत्यादि। ध्वस्तमनोभवेन वलिजितो विष्णोः कायः पुरा त्रिपुरदाहे- ऽस्त्रीकृतः । अभवेन येन अनो ध्वस्तं शकटासुरो भग्नः । बलिजित्वेन महत्त्वं लक्ष्यते। महान् कायः स्त्रीकृतोऽमृतप्रदानसमये। उद्वृत्तभुजङ्ग एव हारो वलयं च यस्य, उद्वृत्तस्य भुजङ्गस्य हारवो हाशब्दो लयो यस्य च । यश्च गङ्गामधारयत् । यः अग गोवर्धनं गां भूमिं चाधारयत्। यस्य शिरः शशि- मचन्द्रवदाहुः हर इति नाम स्तुत्यं चाहुरमराः। शशिमथो राहोः शिरोहर इति स्तुत्यं नामाहुः। अन्धकासुरनाशकरः, अन्धकानां यादवानां वासकरश्र। सर्वदा सदा उमाधवः उमापतिः, सर्वप्रदो माधवश्च। लुब्धा व्याधा आशा- वन्तश्र। भूरिशिलीमुखा भूरिशरवन्तः भूरयो भृङ्गाश्च । वनम् अरण्यं जलं च। न याति वक्तुं देहीति । शरीरीति दत्स्वेति च वक्तुमयोग्य इत्यर्थः ।
१. 'यश्च य', २. 'वदो' ख. पाठः.
126
Page 127
११२ अलङ्कारसूत्रं [श्ेष-
मोहात समाक्षिपति जीवितमप्यकाण्डे कष्टो मनोभव इवेश्वरदुर्विदग्धः ॥"
अत्रे हरिहरयोः प्राकरणिकत्वम्। पैझ्मानां मृगाणां चोपमान- त्वादप्राकरणिकत्वम्। ईश्वरमनोभवयोः प्राकरणिकाप्राकरणि- कत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात् त्रिविधः । तत्रोदात्तादिस्वरभेदात् प्रयत्नभेदाच्चै शब्दान्यत्वे शब्दश्ेषः, यत्र प्रायेण पदभङ्गो भवति। अर्थश्लेषस्तु यत्रें सवरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । सङ्कलनया तूभय- श्ेषः । यथा-
मार्गणशतैः (बाणशतैः) प्रार्थनाशतैश्च। अस्य श्लेषस्य शब्दार्थनिष्ठत्वे वैमत्या- दुद्भटमतस्य स्वाभिमनत्वं दर्शयितुमाह-एप चेत्यादि। उदात्तादीत्यादि- शब्देनानुदात्तम्वरितौ गृह्येते। प्रयत्नभेदादू गौरवलाघवंरूपात्। यत्र प्रायेणे- ति। प्येणेत्यनेन यत्र समासभदेनान्यथों वा स्वरमेदों भवति, तत्र 'मुक्ता- श्रीरि'त्यादौ 'अपारिजातवार्तापी' त्यादौ चैकपद्येऽपि शब्दक्लेपत्वमिति दर्श- यति। तथाहि-मुक्ताश्रीरित्यत्र परित्यक्ताशोभेत्यस्मिन्नर्थे बहुव्रीहित्वात् पूर्व- पदप्रकृतिस्वरत्वम् । मुक्तायाः श्रीरिति पष्ठीतत्पुरुषत्वे समासान्तोदात्तत्वम् । अपारिजातवार्तेत्यत्रापगता अरिजातवार्तेति बहुत्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अविद्यमानपरिजातवार्तेति बहुव्रीहो 'नजसुभ्याम्' (६. २.१७२) इत्यन्तोदा- त्तत्वमिति स्वरमेदः । स्वरादीत्यादिशब्देन प्रयत्नो गृह्यते। सक्कलनया शब्दा-
- 'त्र हि ह', २. 'महोत्पलहरिणयोरुप', ३. 'घ शब्दाचच श',. 'त्र प्रायेण रघ' क. ख. पाठ :. 'वात्', ६. 'था स्व' ख. पाठ :.
127
Page 128
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। ११३
"रक्तच्छदत्वं विकचा वहन्तो नालं जलैः सङ्गतमादधानाः । निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैव॥" अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । उभयघटनायामुभयश्लेषः । ग्रन्थगौरवभर्यात् तु पृथङ् नोदाह- तम्। अलङ्गार्यालङ्कारभावर्स्य च लोकवदेवाश्रयाश्रयिभावेनो-
र्थक्लेषयोः संसर्गात्। रक्तच्छदत्वं रक्तपत्रत्वं रक्तवासस्त्वं च । विकचा विक- सिताः विकेशाश्र। नालं मृणालं न अलं च। श्रमणपक्षे जलैः संगतं सङ्गम् अलं पर्यासं नादधाना इत्यन्वयः । पुष्पेषु रुचिम् इतरपुप्पनिष्ठां शोभां काम- रुचिं च । रक्तच्छदत्वमित्यादावित्यादिशब्देन विकचा इत्येतद् गृह्यते । रक्तच्छदत्वमित्यत्रोभयत्रापि प्रत्ययस्वरेणोदात्तत्वं प्रयत्नभेदाभावश्र। वि- कचा इत्यत्रापि अव्ययत्वाद् बहुव्रीहित्वाच्च पूर्वपदप्रकृतिस्वरत्वम् । नालमित्या(दावित्या)दिशव्देन पुप्पेषु रुचिमित्येतद् गृह्यो। उभयत्राप्यै- कपद्य एकोदात्तत्वम्। भिन्नपदत्वे आद्युदात्तत्वमिति स्वरमेदः । अविरम्य विरम्य पाठात् प्रयत्नलाघवगौरवे च। ग्रन्थगौरवभयादित्यादि । पृथगु- दाहरणापेक्षायां रक्तच्छदत्वमित्याद्युभयश्लेषस्योदाहरणम्। शब्दश्लेषस्य यथा- क्षितिरवाप्य सुवर्णगिरिस्थितं यदुनरेश्वरमाश्रितनन्दनम्। अमरपादपदत्तपरिष्क्रियामनुकरोति पुरीममरावतीम् ।। सुवर्णगिरिस्थितमित्यत्र पदभेदाभेदाभ्यां पूर्ववत् स्वरभेद: प्रयत्नभेदश्र। आ- श्रितनन्दनमित्यत्र तत्पुरुषे कृद्ुत्तरपदप्रकृतिस्वरत्वं समासान्तोदात्तत्वं वा,
१. 'नया तूभ', २. 'यात् पृ', ३. 'स्य लो' क. ख. पाठः. ४.'ध संश्ले', ५. 'त्वेऽप्युदा', ६. 'दाभ्यां' ख. पाठः A. 15
128
Page 129
११४ अलङ्कारसूत्रं [श्रेष -
नालमित्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालङ्कारोऽयैम्। यद्य- पि 'अर्थभेदे शब्दभेद' इति दर्शने रक्तच्छदत्वमित्यादावपि श- व्दद्वयाश्रितोऽयं, तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रतीता- वेकतैयाध्यवसायान्नारित शब्दभेदः । नालमित्यादौ तु प्रयत्ना- दिभेदात् प्रातीतिक एव शब्दभेदः । अतश्र पूर्वत्रैकवृन्तगतफ- लद्वयन्यायेनार्थद्यस्य शब्दे श्िष्टत्वम्। अपरत्र तु जतुकाष्ठ- न्यायेन स्वयमेव शब्दयोः श्िष्टत्वम्। पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालङ्गार इति चेद्, न। आश्रयाश्रयिभावे- नालङ्कार्यालङ्कारभावस्य लोकवद् व्यवस्थानात् । एष च नाप्रा-
बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अर्थश्लेपस्य यथा- प्राप्ता रूढिं सुधर्मेति सुमनःस्तोमसेविता। परिषद् यदुनाथस्य पत्युश्च त्रिदिवौकसाम् ॥ अत्र सुधर्मेति सुमनःस्तोमसेवितेत्यत्र च पदभेदाभावात् समासभेदा- भावाच्च स्वरभेदाद्यभावः। रक्तच्छदत्वमित्यादावर्थक्लेपविषयेऽपि शब्द- लेपत्वमाशङ्य परिहरति-यद्यपीत्यादिना। औपपत्तिकत्वादिति । अ- न्यायश्रानेकार्थत्वमिति न्यायात् । जतुकाष्ठन्यायेनेति । यथा काष्ठं जतुना संक्लेपकान्तरनिरपेक्षं श्विष्यति, एवं नालमित्यादावेकपदात्मके शब्दान्तर उच्चार्यमाणेऽनुच्चारितस्यापि पदद्वयात्मकस्य शब्दान्तरस्य सादृश्यवशेन प्रतीतेः श्िष्टत्वम्। मतान्तरेऽर्थश्लेपविपये रक्तच्छदत्वमित्यादावपि शब्दश्ेष-
श्रयिभावस्यैव ग्रयोजकत्वमङ्गीकुर्वन्नर्थक्लेपत्वमेव स्थापयति-पूर्वत्रेत्यादिना। लोकवदिति । यथा हस्तालङ्वार: कटकादि: पैदालङ्कारश्र नूपुरादिरुच्यते
१. 'यमुदाहतः य', २. 'ताध्य', ३. 'न्यत्न' क. ख. पाठः. ४. 'न' ख. पाठः, ५. 'पा' क. पाठः.
129
Page 130
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। ११५
सेष्वलङ्कारान्तरेष्वारभ्यमाणस्तद्वाधकत्वात् तत्प्रतिभोत्पत्तिहेतु- रिति केचित्। 'येन ध्वस्तमनोभवेने'त्यादिविविक्तोऽस्य विषये इति निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह सङ्करो दुर्ब- लत्वौद्वा बाध्यत्वभित्यन्ये। तत्र पूर्वेषामभिप्रायोऽयम्-इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत् प्रतिष्ठि- तोऽयमलङ्कारः । तत्रादं प्रकारद्वयं तुल्ययोगिताया विषयः । तृतीये तु प्रकारे दीपकं प्रभवतीति तावदलङ्कारद्यमिदं श्लेप- विषयं व्याप्यावतिष्ठते। तन्निष्ठलेनँ चालङ्कारान्तराणाभुत्थान- मिति नास्य विविक्तोऽस्ति विषयः । अत एवं चालङ्गारान्तराणां बाधितत्वेन प्रतिभामात्रेणावस्थानम्।'येन ध्वस्तमनोभवेत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम्। एवञ्च
तदाश्रयत्वाद्, न त्वन्वयव्यतिरेकाम्याम्। तथा सति केवले कटकादौ हस्ता- लक्कारादिव्यपदेशो न स्यात्, स्याच्च हस्तादिस्थे नूपुरादौ। एवं रक्तच्छद- त्वमित्यादेस्त्रिविधश्लेपोदाहरणत्वमुपपाद्य मतान्तरेण प्राप्तस्योपमोदाहरणत्वस्य निरसनेन क्लेपोदाहरणत्वमेव स्थापयितुं वैमत्यं तावद् दर्शयति-एम चे- त्यादि। नाप्राप्तेपु प्रप्तेष्वेवेत्यर्थः । तद्गाधकत्वादिति। 'येन नाप्राप्ते यस्या- रम्भः स तस्य बाधको भवती'ति न्यायात्। दुर्वलत्वादिति। अनवकाशत्वा- भावादलङ्कारान्तराणामङ्गभूतसाध्म्यादिप्रतिपादन उपक्षीणत्वाच्च दौर्वत्यम्। श्लेषस्य सावकाशत्वं निराकर्तुमाह-तत्र पूर्वेपामित्यादि। तन्निष्ठत्वेन प्रा- करणिकाप्राकरणिकनिष्ठत्वेन। अलक्कारान्तराणामुपमादीनाम् । एवञ्चेति।
१. 'यः । नि', २. 'त्वादू वा', ३. 'तावि', ४. 'कं भ', ५. 'ये', . ्रि- तत्वे', ७. 'नाल' ८. 'वाल', ९. त्वान् प्र' क. ख. पाठः. १०. 'राणा' क. पाठ :.
130
Page 131
११६ अलक्कारसूत्रं [क्ेष-
"सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव" इत्यादौ न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकम् । अपि- तु, उपमाप्रतिभोत्पत्तिहेतुः श्ेष एवावसेयः। श्रलेषगर्भे तु रूपके रूपकहेतुकस्य श्र्लेषस्य तृतीयकक्ष्यायां रूपक एव विश्रान्तिरिति
शलेषस्यालङ्गारान्तरप्रतिभोत्पत्तिहेतुत्वे सतत्यर्थः। सकलकलं कलकलसहितं स- म्पूर्णकलं च। अयमर्थ :- अर्थालङ्कारभूताया उपमाया गुणक्रियारूपार्थसाम्य एव सम्भवः, नतु शब्दसाम्य इति तस्या बाध एव युक्त इत्यर्थः । एवमुद्भ- टमतानुसारेण श्लेपस्य शब्दार्थविषयत्वमलङ्कारान्तरप्रतिभोत्पत्तिहेतुत्वं च दर्शि- तम्। एवं हयुद्भटेन श्लेषो लक्षितः- "एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम्। स्वरितादिगुणैः छ्रिष्टैर्वन्धः क्रिष्टमिहोच्यते।। अलङ्कारान्तरगतां प्रतिभां जनयन् पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत् प्रतीयताम् ।।" अस्यार्थ :- अर्थभेदेन तावच्छब्दा भिद्यन्ते। भिद्यमानाश्र शब्दाः केचित् स्वरप्रयत्नसाम्यात् तन्त्रेण प्रयोक्तुं शक्याः, केचित् तद्भेदान्न शक्याः,।तत्रैक- प्रयत्नोच्चार्याणां बन्धः अर्थोक्तिविशिष्टं छ्िएं प्रतीयताम् । अर्थश्लेष इत्यर्थः । इतरेषां तच्छायामेकप्रयत्नोच्चार्यसादृश्यं बिभ्रतां भिन्नैः खवरितादिगुणैरुपलक्षि- तानां बन्धः शब्दोक्तिविशिष्ट छिएं प्रतीयताम्। शब्दक्लेष इति यावत्। द्विविधमप्येतदलक्कारान्तराणां प्रतिभामात्रं जनयति। न तु तेषां तत्र स्वतन्त्र- तयावस्थानमित्यर्थः । एवं सर्वत्रालङ्कारान्तरबाधकत्वे प्राप्ते क्वचिदपवादमाह- शलेषगर्भे त्वित्यादि । यथा 'विद्वन्मानसहंसे'त्यादौ त्वमेव हंस इति प्रथमं रूपकस्य प्रतीतिः । पश्चात् तद्धेतुका मानसशब्दे श्लेषस्य। ततो मानसमेव मानसमिति रूपकस्य । अतो रूपकमेव विश्रान्तिधामत्वात् प्रबलम् ।
१ 'या गु', २. 'तिस्तद्वे' ख. पाठः.
131
Page 132
निरूपणम्] सव्याख्याल्कारसर्वस्वोपेतम्। ११७
रूपकेण श्रलेषो बाध्यते। श्िलिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यसैयैव गम्यतवात् श्ेषबाधिका समासोक्तिः। इह तु-
"त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद् विवस्वान्। मन्येऽस्तशैलात् पतितोऽत एव विवेश शुन्धै बडवाभिमध्यम्।" अेत्र श्रोके विवस्वतो वस्तुवृत्तेसम्भव्यधःप्रदेशसंयोगलक्षणं यत् पतितत्वं, यश्च बडर्वािमध्यप्रवेशः, ते द्वे अपि त्रयीमयसम्ब- न्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वामनिप्रवेशा- भ्यामतिशयोक्त्या श्र्ेषमूलयाभेदेनाध्यवसीयेते। सोऽयमेकक्रि- यायोगः । तद्टेतुका च मन्येऽत एवँ शुच्धै इत्युत्प्रेक्षा। अत्रात एवेति परामृष्टो विरोधालङ्कारालङ्कृतोर्ऽर्थो हेतुत्वेनोत्प्रेक्ष्यते, शुध्धै इति च फलत्वेन। ततश्र हेतुफलयोर्द्वयोरप्युत्प्रेक्षा। वि-
छ्रिष्टविशेषणेत्यादि। उपोढरागेणेत्यादौ । विशेष्यस्यैवेति । अप्रस्तुतस्येति शेषः । समासोक्तेर्विशेष्यस्य गम्यत्व एव संरम्भात् तदवगतिनिमित्तत्वादङ्ग- भूतो विशेषणविषये श्लेप इति समासोक्तेरेव प्राधान्यम्। इह त्वित्यादिना ऋ्लेषस्य कस्यचिदलङ्कारान्तरस्याङ्गभावं कस्यचिद् बाधकत्वं च दर्शयति । तत्र विवस्वतो वस्तुवृत्तेत्यादिना श्लेषस्योत्प्रेक्षां प्रत्यङ्गत्वं दर्शयति। सोऽय- मित्यादि। अतिशयोत्त्याभेदेनाध्यवसितः पतितत्वागिप्रवेशलक्षणः साधारणः क्रियायोगः । तद्धेतुका एवंभूतक्रियानिमित्ता । विरोधालङ्कारेति । त्रयीम- यत्वेऽपि वारुणीगमनलक्षणः पूर्व निर्दिष्टः । हेतुत्वेनेति । पतितत्वामिप्रवे- शलक्षणायाः क्रियायाः । फलत्वेनेति। तस्या एव। एकैवैषा क्रिया हेतूत्प्रे- क्षायाः कार्यत्वेन निमित्तं, हेतुत्वेन च फलोत्प्रेक्षायाः । विरोधालङ्कारस्य
१. 'स्य ग', २. 'इति श्रो', ३. 'ति', ४. 'वाम', ५. 'सिते', ६. 'यो' ७. 'व विवेश शु', ८. 'प्यत्रोत्प्रे' क. ख. पाठः.
132
Page 133
११८ अलङ्कारसूत्रं [क्रेष- रोधालङ्कारस्य च विरुद्धाभासत्वं लक्षणम् । अतो विरोधाभास- नसमय एव हेतुफलोत्प्रेक्षोत्थानम् । उत्तरकालं तु विरोधसमा- धिः। शेषर्स्ये च सर्वालङ्कारापवादत्वाद् विरोधप्रतिभोत्पत्तिहे- तुरयं श्लेषः । यत्रे तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टप- दमहिम्ना वक्ष्यमाणेनिष्ठमुपक्षेपापराभिधानं सूचकत्वं, तत्र किं श्लेषः, उत शब्दशक्तिमूलो ध्वनिरिति विचार्यते। तत्र न तावच्छेषः । अर्थद्वयस्यानन्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षेप्यस्यार्थस्य सम्बन्धाभावात् तेन सहोपमा- नोपमेयभौवस्याविवक्षणात्। न चान्या गतिरस्ति। तदत्र किं कर्तव्यम्। उच्यते। श्लेषस्योक्तनयेनात्राप्रवृत्तेर्ध्वनेरेवायं विषय
चेत्यादिना श्लेषस्य विरोधं प्रति वाधकत्वमाह। नन्वेवं पतितत्वासिप्रवेशलक्ष- णत्रियायोग आभासमूलत्वात् कथमुत्प्रेक्षाया निमित्तं स्यादत आह- विरोधाभासनसमय एवेति। उत्तरकालमिति। उत्प्रेक्षोदयोत्तरकालम् । समाधिरिति। वारुणीभित्यत्र दिगर्थव्यतिरिक्तस्यार्थस्याप्ररोहात्। सर्वाल- ङ्वारापवादत्वादिति। अनवकाशत्वेन पूर्वमुपपादितत्वात् । पुनश्च श्ेपस्य
ष्टपदमहिम्ना अनेकार्थशब्दमहिम्नेत्यर्थः । अर्थद्वयस्येत्यादि । द्वयोरप्यर्थयो- रभिधागोचरॅतया प्रतिपादयितुमनि(मेपःःऐ्ः) । कुत इत्याह-अनन्वितत्वे- नेति। पूर्वापरानन्वयाद्। एक एव हर्थः पूर्वापराभ्यामन्वयमृच्छति, न द्विती- योऽपि। श्लेषे तु द्वयोरप्यभिधागोचरत्वम् । सम्बन्धाभावः कुत इत्याह- तेन सहेति। तेनोपक्षेप्येण। उक्तनयेन अर्थद्वयस्येत्याद्युक्तन्यायेन। प्रकारा-
१. 'स्य वि', २. 'स्य् स', ३. 'दकत्वा', ४. 'त्र प्र', ५. 'णाथनि', ६ 'परत्वस्या' क. ख. पाठः. 'स्याप्ररी', ८. 'दकत्वा', ९. 'रत्वं संप्र' ख. पाठः.
133
Page 134
निरूपणम् ] ११०. इति निश्चिनुमः । तथाहि-शब्दशक्तिमूलध्वनावर्थान्तरस्या- सम्बद्धत्वात् सम्बन्धार्थमौपम्यं कल्प्यते। स च सम्बन्धः प्रका- रान्तरेणौपम्यपरिहारेण यद्युपपादयितुं शक्यः स्यात, तत् को- डभिनिवेशस्तत्रोपमाध्वनौ। वस्तुध्वनिरपि सम्बन्धान्तरेण तत्र समीचीन: स्यात् । अत एव-
"अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते । प्रधानत्वेन स ज्ञयः शब्दशक्त्युद्धवो द्विधा।" इति न्यायभरनिबन्धेन द्विधा शब्दशत्त्युद्भव उक्तः । एवं प्रकृ- ३
तेऽपि यत्र सूचनाव्यापारोडस्ति, तत्र शब्दशक्तिमूलो वस्तुध्वनि- र्बोद्धव्यः । यथा-
"सदः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं जर्वात् त्यक्त्वा घूसरकान्तिवल्कलधरो राजास्तशैलं ययौ। तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः कन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा॥"
न्तरेण औपम्यव्यतिरिक्तेन। वस्तुध्वनिरपीति। निरलङ्कारवस्तुमात्रध्वनिरपी- त्यर्थः । शब्दशक्तिध्वनावौपम्यकल्पनस्य न नियम इत्यत्र काव्यप्रकाशकार- वचनं संवादकत्वेनाह-अलङ्गारोऽथेत्यादि। वस्त्ववेत्येवकारेण सालङ्का- रत्वं व्यवच्छिद्यते। प्रधानत्वेनेति गुणीभूतव्यङ्गचनिरासार्थम् । द्विधेति। वस्तुध्वनिरलङ्कारध्वनिश्च। सद्यः कौशिकेत्यादौ चन्द्रवृत्तान्ते अभिधौया
१. 'निधि', •. 'तो व', ३. 'त्युक्तम्। ग', ४. 'या' क. ख. पाठः. ५. 'धे' ख. पाठ :.
134
Page 135
१२० अलक्कारसूत्रं [क्ेष- इति हरिश्रन्द्रचरिते। अत्र प्रभातवर्णनानुगुण्येन राजशब्दा- भिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया औशीनर्या वध्वा युक्तस्य हरिश्रन्द्रस्य राज्ञो विश्वामित्रसम्पादितोपद्रवव- शात् प्रातः स्वराष्टरं त्यक्त्वा वाराणसीं प्रति प्रस्थानं सूचितम् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते। सूचनीयार्थ- विषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सूच- नीयार्थनैरपेक्ष्येण सादृश्यसम्भवमात्रेणैव विश्रामणीयम्। अतः प्रकृतेन सूचनीयस्य सम्बन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम्। इह च- "आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्ज्य वक्रे कण्ठे लग्नः सुकण्ठः प्रभवति कुचयार्दत्तगाढाङ्गसङ्ग:। बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स ताहक् प्रियो मे बाले! लज्जा निरस्ता नहि नहि सरले! चोलकः किं त्रपाकृत्॥"
नियत्रणस्य हेतु: प्रकरणमित्याह-पभातवर्णनेत्यादि। कौशिकशब्द इति। कौशिकदिग्विजृम्भणमित्यनेन वासवदिशः प्राच्या अरुणोदयेनापोढतमस्क- त्वादू विकास उच्यते, उलूकमर्यादाया जम्भणाभावो वा। वल्कलसुताभ्या- मित्यादिना सूच्याभिमतस्याप्यर्थस्य वाच्यत्वेन ध्वनित्वापवादशङ्का न कार्ये- त्याह। अत्र वल्कलसुतग्रहणं राष्ट्रस्याप्युपलक्षणम् । अत इत्यादि । अत्राप्यु- दाहरणे ध्वनिरवस्थित इति श्लेषस्य निरवकाशत्वं स्थितमेवेत्यर्थः । अथावका- शान्तरप्रदर्शनेन श्लेषदौर्बल्यवादिनः प्रत्यवस्थानमाशङ्कते-इह चेत्यादिना।
१. 'था कौ', २. 'श्र' क. ख. पाठः.
135
Page 136
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १२१
इत्यलङ्कारोन्तरविविक्तोयं श्लेषस्य विषय इति नाशङ्कनीयम्। अपह्नुतेरत्र विद्यमानत्वात्। वस्तुतोऽपह्नवस्य सादृश्यार्थप्रवृत्ते- र्नायमपहत्यलङ्कार इति चेतु। न। उभयथाप्यपह्नुतेः सम्भवात्। सादृश्यपर्यवसायिना वापह्ववेन अपह्ववपर्यवसायिना वा साह- श्येन भूतार्थापह्नवस्योभयथापि विद्यमानत्वात्। सादृश्यव्यक्तये यत्रापह्नवोऽसावपहनुतिः । अपह्नवाय सादशयं यत्रे सैषाप्यपहतिः ।।
इति संक्षेपः । आद्या स्वप्रस्ताव एवोदाहता। द्वितीया तु सम्प्र- ति प्रदर्शिता। तेनालङ्गारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालङ्कारापवादोऽयमिति स्थितेम् ॥
इदमप्युदाहरणमलङ्कारान्तरस्यैव विषय इत्याह-अपह्गतेरत्रेत्यादि। वस्तु- तोऽपहवस्येत्यादि। नह्यत्र प्रियतमचोलकयोः सादश्यं विवक्षितम् । अनु- रागवशादवशतः कीर्तितः प्रियो मुग्धया तत्सधर्मणा चोलकेनापह्यते। उभ- यथापीत्यादिनोक्तमेवार्थ सुखग्रहणाय लोकेन नितभ्ञाति-सादृश्यव्यक्तय इति। स्वप्रस्तावे अपह्नत्यलङ्कारप्रस्तावे। उदाहृतेति। 'यदेतच्चन्द्रान्तरि'त्यादि- रूपेण। तेनेत्यादि। न च, देव! त्वमेव पातालमाशानां त्वं निवन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः । इत्येष शलेषस्य विविक्तोऽस्ति विषय इति वाच्यम्। अत्रापि वर्णनीयपातालल- क्षणद्रव्यविरोधस्य सद्भावात्। नापि,
१. 'रवि', २. 'द्वर्मप्र', ३. 'वा सादृश्ये भु', ४. 'त्राप्येषा', ५. 'तिः ।' क. ख. पाठ :. 4. 16
136
Page 137
१२२ अलक्कारसून [अपर्छुतपवांसा-
प्रस्तुतादप्रस्तुतावगतौ समासोक्तिरुक्ता । अधुमा तह्ै- पर्रात्येनाप्रस्तुतात् प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते- अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभा- वे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा । ३४॥
इहाप्रस्तुतस्य वर्णनमेवायुक्तम्, अप्रस्तुतत्वात्। प्रस्तुत- परत्वे तु कदाचित् तद् युक्तं स्यात्। न चाप्रस्तुतादसम्बन्धे प्रस्तुतप्रतीतिः, अतिप्रसङ्गात् । सम्बन्धे तु भवन्ती त्रिविधं सम्बन्धें नातिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिवि- धश्च संबन्धः सामान्यविशेषभावः कार्यकारणभावः सारूप्यं
ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते तेषां तैः समलङ्कृतं निजकुलं तैरव लब्धा क्षितिः। तेषां द्वारि नदन्ति दन्तिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥ इत्यत्र ललषस्य विविक्तत्वेनावस्थितिरिति युक्तं वक्तुम् । इहापि रोषतोषलक्ष- णोपाधिभेदेन द्रष्टुर्वा तादशद्रष्टृद्टष्टत्वे(न) दश्यानां वा भेदे सति वाशब्दस्य समुचयार्थत्वेन प्राकरणिकविषयायास्तुल्ययोगिताया विकल्पार्थत्वेन 'भक्तिप्र- ह्वे'त्यादिवद् विकल्पस्य वा सुवचत्वात् ॥ प्रस्तुतादप्रस्तुतावगतावित्यादिनाप्रस्तुतप्रशंसायाः सङ्गति दर्शयति। मध्ये परिकरश्लेषयोर्लक्षणं समासोक्तिनिमित्तभूतविशेषणसाम्यान्वयेन प्रासजि- कम्। अपस्तुतेत्यादि । अप्रस्तुतात् प्रस्तुतप्रतीतावप्रस्तुतप्रशंसेति सामाम्यल-
१. 'न्ती न त्रि', २. 'न्धमति' क. स. पाठ :.
137
Page 138
निरूपणम् ] १२३ चेति। सामान्यविशेषभावे सामान्याद् विशेषस्य विशेषाद् वा सामान्यस्य प्रतीतौ द्वैतम्। कार्यकारणभावेऽप्यनयैव भङ्गया द्विधात्वम्। सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः । तत्रा- पि सारूप्यहेतुके भेदे साधर्म्यवैधर्म्याभ्यां द्वैविध्यम्। वाच्यस्य सम्भवासम्भवोभयरूपताभिश्र त्रयः प्रकाराः । श्रिलिष्टशब्दप्र- योगे त्वर्थान्तरस्यावाच्यत्वात् श्र्लेषाद् विशेषः । श्लेषे ह्यनेके- स्यार्थस्य वाच्यत्वमित्युक्तम्। तत्र सामान्याद् विशेषप्रतीतौ यथा- "तण्णत्थि किंपि पइणो पकप्पिअं जं ण णिअइ्घरणीए। अणवरअगमणसीळस्स काळपहिअस्स पाहिज्जम् ॥"
अत्र प्रहस्तवधे विशेषे प्रस्तुते सामान्यमभिहितम्। विशे- षात् सामान्यप्रतीतौ यथा-
क्षणम्। अनयैव भङ्गचेति। कारणात् कार्यस्य कार्याद् वा कारणस्य प्रतीतौ। सारूप्ये त्वेक इत्यादि। सारूग्यसम्बन्धस्य सामान्यविशेषकार्यकारणभाव- वत् सम्बन्धिस्वरूपभेदोल्लेखेनाप्रवृत्तेरेकभेदत्वमुक्तम्। प्रकारान्तरेण तु भेद- माह-तत्रापीत्यादि। वाच्यस्येत्यादि। प्रस्तुतारोपमन्तरेण घटमानत्वम- घटमानत्वं च संभवासंभवौ। इदमपि प्रकारत्रयं सारूप्य एव। क्लेषेण सर्वा- लङ्कारापवादकत्वादस्याश्च बाध्यत्वं नाशङ्कनीयमित्याह -श्विष्टशब्दपयोग इति। उक्तमिति। समासोत्त्युपक्रमे। तण्णत्थीत्यादि । तन्नास्ति किमपि पत्युः (सु?प्र)कल्पितं यन्न नियतिगृहिण्या। अनवरतगमनशीलस्य कालपथिकस्य पाथेयम्। पत्युः कालपथिकस्येत्यन्वयः । अत्र पहस्तेत्यादि। प्रहस्तस्य कालवशंवदत्वे
१. 'तौ मे', २. 'तादिभि', ३. 'कार्थ' क. ख. पाठः, ४. 'सं' ख. पाठः,
138
Page 139
१२४ अलक्कार सूत्रं [अप्रस्तुतप्रशंसा-
"एतत् तस्य मुखात् कियत् कमलिनीपत्े कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि। अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै- स्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।।" अत्र जडानामस्थान एवाभिनिवेश इति सामान्ये प्रस्तुते विशे- षोडभिहितः । कारणात् कार्यप्रतिपत्तौ यथा- "पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥" अत्र तैथाधिरूडी मानः कथं निर्वृत्त इति कार्ये प्रस्तुते निवृ- त्तिकारणमभिहितम्। कार्यात् कारणप्रतीतौ यथा- "इन्दुर्लिप्त इवाअ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रमर्दलं श्यामेव हेमप्रभा । कार्कशयं कलयापि कोकिलवधूकण्ठेष्वव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥"
वक्तव्ये सर्वेषां कालवशंवदत्वमुक्तम्। एतत् तस्येत्यादि । मुखादारम्भतः । तस्येति वक्ष्यमाणो जडः परामृश्यते। स जड इत्यस्य निद्रातीत्यनेनान्वयः। मध्ये वाक्यं शण्वन्यदस्मादपीति। अस्मात कमलिनीपत्रवारिकणविषयमुक्ता- भ्रमादप्यन्यञ्जाल्यं गृण्वित्वर्थः । पश्याम इति। अयं खलु शठः किं मां नाल-
१. 'तीतौ य', , १. 'यथा धाराधि', ३. 'ढोऽपि मा', ४. 'वर्तित इ', ५. 'लता श्या' क. ख. पाठ :.
139
Page 140
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १२५ अत्र सम्भाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्र- स्तुतैलोकोत्तरवदनादिगतः सौन्दर्यविशेषः कारणरूपः प्रस्तुतः प्रतीयते। तेनेयमप्रस्तुतप्रशंसा। ननु कार्यात् कारणे गम्यमा- ने Sप्रस्तुतप्रशंसायामिष्यमाणयां-
"येन लम्बालकः सास्रः कराघातारुणस्तनः । अकारि भमवलयो गजासुरवधूजनः ।"
"चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्।।"
इत्यादौ सुप्रसिद्धे पर्यायोक्तविषयेऽप्यप्रस्तुतप्रशंसाप्रसङ्ग: । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो ग- जासुरवधः प्रतीयते। तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपोऽवगम्यते । एवमन्यत्रापि पर्यायोक्त- विषये ज्ञेयम्। तस्मादप्रस्तुतप्रशंसाविषयत्वात् पर्यायोक्तस्य नि-
पतीत्यन्वयः । सम्भाव्यमानैरित्यादि। मुखाद्यपेक्षया कान्त्यादिवैधुर्यलक्षण- निमित्तवशादुत्प्रेक्ष्यमाणैः। तेनेयमित्युपसंहारेण कार्यात् कारणप्रतीतिरूपाया अप्रस्तुतप्रशंसायाः पर्यायोक्तविविक्तविषयत्वं सूचयति। अस्यैवोदाहरणस्या- प्रस्तुतप्रशंसाविषयत्वं समर्थयितुं पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागं चोधपू- र्वकं दर्शयति- नन्वित्यादिना। सुप्रसिद्ध इति। उद्भटादिभिरुदाहृतत्वात्। एवमन्यत्रापीति। 'स्पृष्टास्ता' इत्यादौ। अप्रस्तुतपशंसाविषयत्वादिति।
१. 'रो', २. 'द' क० ख. पाठ :.
140
Page 141
१२१ [अप्रस्सुतप्रस्षला- र्विषयेप्रसङ्ग इति। नैष दोषः । उभयत्र कार्यात् कारणं प्रती- यते। कार्यमप्रस्तुतं प्रस्तुतं चेति दयी गतिः। यत्र प्रस्तुतत्वं कार्यस्य कारणवत् तस्यापि वर्णनीयत्वात्, तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोङ्कालङ्गारः । तत्र हि कारणा- पेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम्। यथो- क्तोदाहरणद्दये। अत्र हि गजासुरवधवद् गंजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात् प्रस्तुत एव। एवं राहुवधूवृत्तान्तोऽपि ज्ञेयः । ततश्र नायमप्रस्तुतप्रशंसाया विषयः । यत्र पुनः कार- णस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते, तत्र स्पष्टैवाप्रस्तुतप्रशंसा। यथा 'इन्दुर्लिप्त इये' त्यादौ। अत्र हीन्दादयः स्फुटमेवाप्राकरणि- काः। तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात्। ते- नात्रेन्द्ादिगतेनाअ्जनलिप्तत्वादिनाप्रस्तुतेन प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयहृदयाह्लादि गम्यत इत्यप्रस्तुतप्रशंसैवासौ । एवञ्च यत्र वाच्योऽर्थोऽर्थान्तरं तादशमेव स्वोपसकारकत्वेना- गूरयति, तघ्र पर्यायोक्तम् । यत्र पुनः स्वात्मानमेवाप्रस्तुतत्वात् प्रस्तुतमर्थान्तरं प्रति समर्पयति, तत्राप्रस्तुतप्रशंसेति निर्णय:। ततश्रानया प्रक्रियया,
उदाहरणानामिति शेषः। तत्प्रतिच्छन्दभूतानाम् इन्द्वायुपमेयभूतानाम्। तादश- मेवेति। वाच्यवद् वर्णनीयमेव। (उ?स्वो)पस्कारकत्वेन स्वसाधकत्वेन। आ- गूरयति आक्षिपति। यत्र पुनरिति। वाच्योर्ऽर्य इत्यनुवर्तते। एतदेव ग्रन्था-
१. 'यत्वप्र' २. 'ते तत्र का', ३. 'र्णनीयम्।', ४. 'येन । अ', ५. 'तद्वधू', ६. 'सावि' क. ख. पाठः. ७. 'त' ख. पाठः.
141
Page 142
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । १२७
"राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे! भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्ञरा- चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।।"
इत्यत्र पर्यायोक्तमेवेति बोद्धव्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुड्डा त्वदरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात् कार्यरूपोऽर्थोऽप्रस्तुत एव। राजशुकवृत्तान्तस्याप्र- स्तुतत्वात् प्रस्तुतार्थ स्वात्मानमर्पयतीत्यप्रस्तुतप्रशंसैवान्न न्या- य्येति वर्णयन्ति। सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोविषयविभागः सुनिरूपित एवेति स्थितम्। सारूप्ये यथा। एतानि साधर्म्यो- दाहरणानि। वैधर्म्येण यथा-
रम्भे 'स्वसिद्धय' इत्यादिना सूचितम् । ततश्रेति। एवं विविक्तविषयत्वात्। अन्ये त्विति । काव्यप्रकाशकारादयः । तन्मतं दूषयति - सर्वथेति। सुनिरूपित इति। कार्यस्य वर्णनार्हनर्हत्वाभ्याम्। अत्र च शत्रुपलायनवत् तद्भवनगतशुकवृत्तान्तोऽपि वर्णनीयशौर्यातिशयजन्यत्वात् प्रस्तुत एवेति पर्या- योक्तत्वमेव युक्तमिति भावः । सारूप्ये यथेत्यस्यानन्तरम् एतानि साधर्म्यो- दाहरणानीत्यस्मात् पूर्व ग्रन्थकारदर्शितान्युदाहरणानि भ्रष्टत्वान्न दृश्यन्ते । अतो ग्रन्थान्तरदर्शितनयेन तानि दर्शयामः। सा च सारूप्यनिमित्ता त्रिधा श्लेषवती समासोक्तिमती तुल्यसंविधानवती चेति। तत्र श्लेषवती यथा- सत्याबुरक्तो नरकस्य जेता यदूद्वहो विक्रमनिर्जितेन्द्रः । आविष्कृतस्वर्गतरुर्धस्त्र्यामंशो हरेर्वाग्विषयः कथं स्यात्।।
१. 'व बो', २. 'प', क. ख. पाठः. ३. 'र्हभ्या' ख. पाठः.
142
Page 143
१२८ अलक्कारसूत्रं [अप्रस्तुतप्रशंसा-
"धन्याः खलु वने वाताः कल्हारस्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।"
अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमधन्येति वैधर्म्येण प्रस्तु- तोर्ऽर्थः प्रतीयते । वाच्यसंभव उक्तान्येवोदाहरणानि। अस- म्भवे यथा-
नात्र समासोक्तिः । विशेप्यस्यापि यदूद्वह इति साम्येन निर्दिष्टत्वात्। नापि श्लेषालङ्कारः, अर्थद्वयस्याप्यवाच्यत्वात्। नापि शब्दशक्तिमूलो ध्वनिः, वा- च्यस्याप्रस्तुतत्वात् । न चात्र वर्णनीयत्वेन प्रस्तुत एव राजा वाच्योऽस्त्विति युक्तं वक्तुं, स्वर्गतर्वाविष्करणादीनां मुख्यया वृत्त्यासम्भवात्। आक्षिप्यमा- णस्य तु गुणवत्त्या तद्वर्णनमविरुद्धम्। समासोक्तिमती यथा- सेवितं द्विजगणेन विस्तृतच्छायमाश्रितफलप्रदायिनम् । पादपं कमपि कूपकक्षितौ रूढमाश्रितवतां कुतः श्रमः ॥ अत्र द्विजगणसेवितत्वादिविशेषणसाम्यात् पादपमित्यस्य विशेष्यस्य साम्या- भावाच्च समासोक्तिव्यपदेशमात्रं, न तु मुख्या समासोक्तिः। वाच्यस्याप्रस्तुत- त्वात्। तुल्यसंविधानवती यथा- दक्षिणसमुद्रपारे केचिन्मृदिता: स्थितेन केसरिणा। अपरे दूरं गमिता (इभा)स्तथान्ये वनान्तरं गमिताः । अत्र शब्दानामप्रस्तुतैकार्थनिष्ठत्वेऽपि संविधानतुल्यत्वबलेन वर्णनीयेन राज्ञा केषाञ्चिदरीणां वधः अन्येषां दूरमपसारणम् अपरेषां च स्वराज्याद् भ्रंशयित्वा द्वीिान्तरप्रापणं च कृतमिति प्रतीयते। वैधर्म्येणेति। रामस्पर्शतदभावप्रयुक्त- योर्धन्यत्वाधन्यत्वयोर्मिथो विरुद्धत्वात्। उक्तानीति। भ्रष्टत्वाददृष्टानि क्लेषादि-
१. 'मिति', २. 'टयस्य सं' क. पाठः.
143
Page 144
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १२९
"करत्वं भो :! कथयामि दैवहतकं मां विद्वि शाकोटकं निर्वेदादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते नच्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥"
अत्राचेतनेन सह प्रश्नोत्तरिकानुपपन्नेति वाच्यस्यासम्भव एव। प्रस्तुतं प्रति तात्पर्यात् प्रमुख एव तदध्यारोपप्रतीतेर्युज्यत एवै- तत्। उभयरूपत्वे यथा -
"अन्तरिछद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ।।" अत्र वाच्येऽर्थे कण्टकानां गुणभङ्गुरीकरणे हेतुत्वमसंभवि, छि- द्राणां तु संभवि इत्युभयरूपत्वम् । प्रस्तुततात्पर्येण प्रतीतेस्त- दध्यारोपात् संगतमेवैतदिति नासमीचीनं किश्चित्। एतदेव च श्लेषगर्भायामस्यामुदाहरणम् । तदत्र सामान्यविशेषत्वेन कार्य- कारणत्वेन सारूप्येण च यद् भेदपञ्चकमुदिष्टं, तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति, तदा-
मन्ति निर्दिश्यन्ते। असम्भविनोऽपि वाच्यस्य कथमभिधानमित्यत आह- पस्तुतं पतीति। सम्भवत्प्रश्नोत्तरिकप्रस्तुताध्यारोपेण। शेषगर्भायामिति। छिद्र- कण्टकगुणशब्दानामुभयार्थत्वेन श्रिष्टत्वम् । अनन्तरमर्थान्तरन्यासस्य लक्ष- णार्थमप्रस्तुतप्रशंसया सह तस्य प्रसङ्गाद् दृष्टान्तस्य चांशेन साम्यमंशेन वैष- म्यं च दर्शयति-तदत्रेत्यादिना। तत्र सामान्यविशेषभावादिसम्बन्धनिब-
१. 'वैराग्यादि', २. 'पेण प्र' ग. पाठः. .l. 17
144
Page 145
१३० अलक्कारसूत्रं [अर्थान्तरन्यास-
र्थान्तरन्यासाविर्भावः । सरूपयोस्तु वाच्यत्वे दष्टान्तः । अप्र- स्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वत्राप्रस्तुतप्रशंसेति नि- र्णयः ।। उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह- सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्ट- प्रकृतसमर्थनमर्थान्तरन्यासः ॥३५॥
निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्ये समर्थकात् पूर्व पश्चाद् वा निर्दिष्टस्य यत् समर्थनमुपपादनं, न त्वपूर्वत्वेन प्रतीतिः । अतो नानुमानरूपोऽसावर्थान्तरन्यासः । तत्र सामान्यं विशेषस्य, विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ।
न्धनत्वेन साम्यम्, अन्यतरोभयवाच्यत्वाभ्यां वैषम्यम् ।। यदर्थमयं विषयविभाग: कृतः, तदाह- उक्तन्यायेनेत्यादि। सा- मान्येति। निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यास इति सामान्यलक्षणम्। सामा- न्यविशेषेति भेदनिर्देशः । तत्र निर्दिष्टग्रहणेनाप्रम्तुतप्रशंसाव्यावृत्तिः । तस्यां हि 'तण्णत्थी' त्यादौ सर्वस्य कालवशंवदत्वेन प्रहस्तकालवशंवदत्वं समर्थ्यते। तथा च भट्टेन्दुराजेन 'प्रीणितप्रणयी' त्यादावप्रस्तुतप्रशंसोदाहरणे समर्थ्यसम- र्थकभावस्य विद्यमानत्वात् तद्यावृत्त्यर्थ भट्टोद्भटग्रन्थे प्रकृतार्थसमर्थनमित्यत्र प्रकृतशब्दः स्वशब्दोपात्तप्रकृतार्थनिष्ठो द्रष्टव्य इति व्याख्यातम्। दृष्टान्तव्य- वच्छेदाय सूत्रे स्वकण्ठेनानुपात्तमपि समर्थनपदसामर्थ्यलब्धं विशेषणं दर्शय- ति-समर्थनार्हस्येति। दृष्टान्ते हि विम्बप्रतििम्बत्वमेव विवक्ष्यते, न तु
१. 'स्यासमथनीत् पृ', २. 'पोऽ्थी' क. ख. पाठः ३. 'व्ध' ख, पाठः
145
Page 146
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। १३१
तथा कार्य कारणस्य, कारणं वा कार्यस्य समर्थकमिति हो भेदौ। तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वयेऽष्टी भेदाः । हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरो- पन्यासाभ्यां च भेदान्तरसम्भवेऽपि न तद्गणना, सहृदयहृदय- हारिणो वैचित्र्यस्याभावात्। तस्माद् भेदाष्टकमेवेहोट्टङ्गितम्। क्रमेण यथा-
"अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेप्विवाङ्क:।"
"लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं न हि निमित्तमुदात्ततायाः। वातापितापनमुनेः कलशात् प्रसूति- र्लीलायितं पुनरमुप्य समुद्रपानम् ।"
"सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥"
समर्थ्यसमर्थकभावः। हिशब्दाभिधानेत्यादिनोद्भटोक्ं भेदप्रकारं दूपयति। उद्टङ्गितं निर्णीतम्। अनन्तेत्यादि । अत्र हिमलक्षणदोपविशेपस्य रत्नरूपगुण- विशेषसमुदायशालिनि सौभाग्यविलोपिभावलक्षणार्थकार्यकरत्वरूपो(?)विशेषो दोषमात्रस्य गुणसन्निपातसद्भावे सति निमज्जनलक्षणेनाकिश्चित्करत्वेन सामा- न्यरूपेण समर्थ्यते। सहसा विदधीतेत्यत्रैकमेव कारणं प्रति किश्चित् कार्य
१. 'त्यपि द्रौ', २. 'स्यासंभवा' क. स्र. पाठः. ३. 'पि वा भाविप्रयुक्तभा' ख, पाठ:
146
Page 147
१२२ अलङ्कारसूत्रं [अर्थान्तरन्यास-
अत्र सहसाविधानाभावस्य विमृश्यकारित्वरूपस्य सम्पहरणं कार्य साधर्म्येण समर्थकम्। तस्यैवैतत्कार्यविरुद्धमापत्पदत्वं सहसाविधानाभावविरुद्धाविवेककार्य वैधर्म्येण समर्थकम्। "पृथ्वि! स्थिरीभव भुजङ्गम! धारयैनां त्वं कूर्मराज! तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः! कुरुत तत्रितये दिधीर्षा देवः करोति हरकार्मुकमाततज्यम् ।" अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं स- मर्थकत्वेनोक्तम्। वैधर्म्येण सामान्यविशेषभावे यथा- "अहो हि मे बह्पराद्मायुषा यदप्रियं वाच्यमिदं मयेद्ृशम्। त एव धन्याः सुहृदां पराभवं जगत्यदृष्टैव हिये क्षयं गताः॥"
धन्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यका-
साधर्म्येण समर्थकं किञ्चिद् वैधर्म्येणेत्याह- अत्र सहसाविधानेत्यादि- ना। विमृश्यकारिणमित्यनेन पूर्वार्धनिर्दिष्टसहसाविधानाभावलक्षणं कारणमे- वानूद्यत इत्याह-निमृश्यकारित्वरूपस्येति। साधर्म्येणेति। तत्कार्यत्वात्। एतत्कार्यविरुद्धमिति। संपद्वरणविरुद्धम् । वैधर्म्येणेति। विरुद्धकारणजन्य- त्वात्। प्वर्तकत्व इति। पृथ्वि! स्थिरीभवेत्यादिवचनस्य प्रवर्तनारूपत्वात्। आयु:कर्तकेति। अजीवद्भिरप्रियं वक्तुमशक्यमित्यायुष एवाप्रियवचने प्रयो- जकत्वमिति तग्यापराधकर्तृत्वम् । अत्र समर्थनीयो विशेषो न निर्दिष्ट इति शङ्का न कार्येत्याह-आक्षिप्तस्येति। आयुपोऽपराधश्चाधन्यत्वापादनमेवे- त्यर्थः । विरुद्धमिति। धन्यत्वाधन्यत्वयोरविरुद्धस्वरूपत्वाद् विरुद्धप्रयोजक-
१. 'मिमं द्वि' क. ख. पाठः. २. 'षनि', ३. 'ता' ख. पाठः
147
Page 148
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १३३
रणतायों तु वैधर्म्येणोदाहतम्। हिशब्दाभिहितत्वादिभेदाः स्व- यमेव बोद्धव्याः । चारुत्वातिशयाभावन्नह प्रपच्चिताः ॥ एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरन्यासमुक्त्वा गम्य- प्रस्तावागतं पर्यायोक्तमुच्यते- गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् ॥ ३६॥
त्वाच। उदाहृतमिति। 'अविवेक: परमापदां पदमि'ति। एवं सामान्यस्य कार्यस्य च वैधर्म्येण समर्थकत्वमुदाहृतम्। विशेपस्य कारणस्य च क्र्मेण यथा- भूमौ त एव निवसन्ति सुखं भजन्तो ये सन्नतास्त्रिविधवीररंसाश्रयं त्वाम् । सङ्गामधीर! भुवनान्तर एव वृत्तिः स्पर्धावतस्त्वयि सलु त्रिदशद्ुमस्य । अत्र वर्णनीयविषयसन्नतिजुपां भूमौ सुखनिवासलक्षणस्य सामान्यस्य तद्वि- रुद्धस्य स्पर्धाभाजः सुरशाखिनो लोकान्तरे वृत्तिर्विशेपरूपा वैधर्म्येण सम- र्थिका। प्रणिपतत निर्विशङ्कं भूपा! रविवर्मणः पदाम्भोजे। अवरोपयति हि राज्यादवलिप्तानेप रोषताम्राक्षः ।। अत्र प्रणिपातप्रवर्तकत्वे तत्कारणभूतराज्यस्थापनविरुद्धं वर्णनीयकर्तृकं राज्या- पहारलक्षणं कारणं वैधर्म्येण निर्दिष्टम्। स्वयमेव वोद्धव्या इंति। उदाहृते- ष्विति शेषः । नेह प्रपश्चिता इति। स्वतन्त्रतयेति शेषः ॥ पर्यायोक्तस्याप्रस्तुतप्रशंसाया अनन्तरं वक्तव्यत्वेऽपि मध्येऽर्थान्तर- न्यासलक्षणं प्रासङ्गिकमित्याह-एवमपस्तुतेति। गम्यस्यापीति। भङ्गय-
१. 'यां वै', २. 'वात्तु नेह' क. ख. पाठः. ३. 'दशिताः' मूलपाठः. ४. 'यत- स्िद' ख. पाठ :. ५. 'ण', ६. 'षः ॥ पर्या' ख. ग. पाठः.
148
Page 149
१३४ अलक्कारसूत्रं [पर्यायोक्त- अत्र यदेव गम्यते, तस्यैवाभिधानं पर्यायोक्तम्। गम्य- स्यैव सतः कथमभिधानमिति चेद्, न। गम्यापेक्षया प्रकारा- न्तरेणाभिधानस्य सम्भवात्। न हि तस्यैव तदैव तयैव वि- च्छित्त्या गम्यत्वं वाच्यत्वं च सम्भवति । अतः कार्यादिद्वारे- णाभिधानम्। कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात्। अत एवाप्रस्तुतप्रशंसातो भेदः । एतच्च वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम्। उदाहरणं-
"स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥"
अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावाति- शयप्रतिपादनं च कारणादिव कार्यादपि भवतीति कार्यमपि वर्णनीयमेवेति पर्यायोक्तस्यायं विषयः ॥
गम्यत्वविच्छित्तिप्रस्तावाद् व्याजस्तुतिमाह-
न्तरेण प्रकारान्तरेण। अनेन भङ्ग्यन्तरग्रहणेन सूत्रे सूचितं गम्यत्वाभिधेय- त्वयोरविरोधं चोद्यपूर्वकमुपपादयति-गम्यस्यवेत्यादिना। तत्रेत्यादि । पर्यायोक्तविपये। एतच्चेति। पर्यायोक्ताप्रस्तुतप्रशंसयोर्भेदकं गमकस्य कार्यादे: प्रस्तुतत्वाप्रस्तुतत्वाभ्यां वर्णनार्हत्वानर्हत्वम्। कार्यमुखेनेति। सैनिकेकर्तृक- सावज्ञपारिजातमअ्रीस्पर्शनलक्षणस्य कार्यस्य स्वर्गविजयलक्षणकारणमन्तरेणा- नुपपत्तेः । अप्रस्तुतप्रशंसोदाहरणा 'दिन्दुर्लिप्त इवे'त्यादेरस्योदाहरणस्य वैधर्म्य दर्शयति-प्रभावातिशयेत्यादिना।।
१. 'कसा' ख. ग. पाठः.
149
Page 150
निरूपणम् ] सव्याख्यालक्कार सर्वस्वोपेतम्। १३५
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः।३७।
यत्र स्तुतिरभिधीयमानापि प्रमाणान्तरेण बाधितेस्वरूपों निन्दायां पर्यवस्यति, तत्रासत्यत्वाद् व्याजरूपा स्तुतिरित्यर्था- नुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रति- पाद्यमाना पूर्ववद् बाधितस्वरूपा स्तुतिपर्यवसिता भवति, सा द्वितीया व्याजस्तुतिः, व्याजेन निन्दारूपेण स्तुतिरिति कृत्वा। स्तुतिनिन्दारूपस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेद: । क्रमेण यथा-
"हे हेलाजितबोधिसत्त्व! वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो- भारप्रोद्वहने करोपि कृपया साहायकं यन्मरोः ॥"
अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः ।
प्रमाणान्तरेणेति । प्रत्यक्षादिना। असत्यत्वादिति। स्तुतेरिति शेषः । पूर्ववदिति । प्रमाणान्तरेण। नन्वत्र स्तुतिनिन्दयोः प्रस्तुतयोरप्रस्तुतनिन्दा- स्तुत्यभिधानादप्रस्तुतप्रशंसात्वं कि न स्यादित्यत आह-स्तुतिनिन्दारूप- स्येति। विपरीतलक्षणयेति। हे हेलाजितेत्यादिभिः परमकारुणिकत्वप्रतिपा-
१. 'रबा', २. 'तर', ३. 'पायां नि', ४. 'मुखेन स्तु' क. ख. पाठः.
150
Page 151
१३६ अलङ्कारसूत्रं [व्याजस्तुति-
"इन्दोर्लक्ष्म त्रिपुरजायनः कण्ठमूलं मुरारि- र्दिङनागानां मदजलमषीभाज्जि गण्डस्थलानि। अेद्याप्युर्वीवलयतिलक! श्यामलिम्नानुलिप्ता- न्युन्वासन्ते वद धवलितं किं यशोभिस्त्वदीयैः॥"
अत्र धवलताहेतुयशोविषयानवकप्तिप्रतिपादनेन 'विशेषप्रति- षेधे शेषाभ्यनुज्ञानम्' इति न्यायात् कतिपयपदार्थवर्ज समस्त- वस्तुधवलताकारित्वं नृपयशसः प्रतीयते। "किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिपु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः॥" इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्ततिरित्यनेन
दकैःपदैर्वाच्यविपरीतनृशंसत्वादि लक्ष्यते। अत्र धवलतेत्यादि। धवलताहेतुना यशसा विषयाणां धवलीकर्तव्यानामनवक्लप्तिरव्याप्तिः, तत्प्रतिपादनमुखेन।अ- व्याप्तिश्चेन्दुलक्ष्मादीनां श्यामलिम्नानुलिप्तत्वेनावगतादधवलीकरणात् प्रतीयते। विशेषप्रतिषेध इत्यादिना निन्दायाः स्तुतिपर्यवसायित्वं दर्शयति। कतिपय- पदार्थवर्जमिति। एतच्छ्रोकनिर्दिष्टेन्दुलक्ष्मादिवर्जम्। पूर्वत्रोदाहरणे वैरस्यांदनु- पभोग्यत्वेन परानुपकारित्वस्य प्रत्यक्षतः सिद्धेः परहिताधाने गृहीतव्रत इत्या- दिस्तुतेर्बाधः । उत्तरत्र सर्वपदार्थधवलीकारगोचरेण प्रत्यक्षेण धवलितं किमि-
१. 'राजनद्याप्युदय', २. 'शोन' क. ख. पाठ: ३. 'ति भ', ४. 'तत्वाद', ५. 'ण' ख. ग. पाठः. ६, 'स्यानु' क. पाठः.
151
Page 152
निरुपणम्] १३७
भणितिप्रकारेणोन्मूलितेव न प्ररोहं गमितेति क्विष्टमेतदुदाह- रणम् ।
उच्यते- गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालङ्कार
उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रति- पत्त्यर्थ निषेधाभास आक्षेप: ।।३८।।
इह प्राकरणिकोरऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते। त- थाविधस्य विधानार्हस्य निषेधः कर्तु न युज्यते। स कृतोऽपि बा- धितस्वरूपत्वान्निषेधायत इति निषेधाभासः सम्पन्नः । तस्यैतस्य
त्यादिना बौधिता निन्दा बाध्यते। उन्मूलितेवेत्यादि। हन्तशब्दस्य विषाद- द्योतकत्वान्निन्दापर्यवसायित्वस्यैव प्ररोहः, न स्तुतिपर्यवसाययित्वस्य। अथवा हन्तशब्दस्य हर्षप्रतिपादकतयोपक्म एव निन्दाया उन्मूलितत्वेन प्रतीटेर्न तन्मुखेन स्तुतेरभिव्यक्तिः । अतः क्विष्टतेत्यर्थः । एतत्प्रतिपादनार्थमेवोदाहरणा- न्तरोपन्यास: ।। विशेषविषयत्वेनोरराक्रित्येति । विशेषस्य गम्यत्वमङ्गाकृत्य। उक्तव- क्ष्यमाणयोरित्यादि। विशेषप्रतिपत्त्यर्थ प्राकरणिकनिषेधाभास आक्षेप इति सामान्यलक्षणम्। उक्तवक्ष्यमाणयोरिति प्रकारनिर्देशः। निषेध्यनिष्ठविशेषप्र- तीतिप्रयोजनो वाध्यत्वेनाभासरूप उक्तवक्ष्यमाणयोर्निषेधाभास आक्षेप इति सूत्रार्थः। सूत्रे प्राकरणिकयोरिति विशेषणं निषेधस्याभासताप्रतिपादनहेतुत्वेनो- क्तमित्याह-इह प्राकरणिकोरडर्थ इत्यादिना। निषेधायत इति। निषेधव-
- 'त्योन्मू' क. पाठः. २. 'बा', ३. 'निनिन्दाप', ४. 'नावभा' स. पाठ: A 17.
152
Page 153
१३८ अलक्कारसूत्रं [आक्षेप-
करणं प्रकृतगतत्वेन विशेषप्रतिपत्यर्थम्। अन्यथा गजस्ान- तुल्यं स्यात्। स चाभासमानो निषेध उक्तस्य वा स्यादासूत्रि- ताभिघेयत्वेन वक्ष्यमाणस्य वा स्यादित्याक्षेपस्य दयी गतिः । उक्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः । वक्ष्यमाणविषय- लेनानयनरूपमागूरणमाक्षेपः। एवञ्च अर्थभेदादाक्षेपशब्दस्य द्ा- वाक्षेपाविति वदन्ति। तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवा- क्षेपः । वक्ष्यमाणविषये त्विष्टस्य विशेषः इष्टसम्बन्धिनोऽन्यस्य सामान्यरूपस्य निषेधः । तेनात्र लक्षणभेदः । विशेषस्य चात्र
दाचरति। न तु निषेध एवेत्यर्थः । अन्यथेति। यथा गजस्य स्नानं मदान्ध- त्वप्रयुक्तेन पुनरपि पांसुप्रक्षेपेण निष्फलमेव, एवं निषेधोऽप्याभासरूपत्वाद- स्वप्रतीतिप्रयोजनः सन् उक्तवक्ष्यमाणलक्षणप्रकृतगतत्वेन विशेषस्याप्यप्रत्या- यने निष्फल एवेत्यर्थः । ननु यदि निषेधः क्रियते, वक्ष्यमाणस्य वक्ष्यमा- णत्वं कथं ज्ञायत इत्यत आह-आसृत्रितेति। सामान्योत्त्यांशोत्त्या वा व- क्ष्यमाणस्याप्यभिधेयत्वस्य सूचनाददोष इत्यर्थः । कैमर्थक्यपरमित्यादि।यथा 'आक्षेप उपमानस्ये'त्यादौ। आनयनरूपमित्यनेनागूरणशब्दस्यार्थः कथ्यते। यथा 'श्रुत्यर्थाभ्यामथाक्षिप्' इत्यत्राक्षिप्शब्दस्यार्थानीतोऽर्थः, एवं वक्ष्यमा- णविषयेऽप्याक्षेपशब्दस्यानयनमर्थ इत्यर्थः । एवं चेत्यादिना लक्ष्यवाचिन आक्षेपशब्दस्य प्रकारद्वये निरुक्तिभेदेन भेदं दर्शयित्वा लक्षणभेदमपि दर्श- यितुमाह-तत्रोक्तविषय इत्यादिना। यस्यैवेष्ठस्य विशेष इति। प्रतिपि- पादयिपित इति शेपः । एवमिष्टस्य विशेष इत्यत्रापि व्याख्येयम्। यस्यैवेत्ये- वकारेण गम्यस्य विशेपस्य गमकस्याक्षेपस्य चैकाश्रयत्वं द्योतयन् वक्ष्यमा- णाक्षेपादुक्ताक्षेपस्य भेदं दर्शयति। तत्र हि तयोर्भिन्नाश्रयत्वम्। तदाह- वक्ष्यमाणेति। तेनात्र लक्षणभेद इति । अत्रानयोः प्रकारयोः क्वचित् प्रति-
- 'ण ्वि', २. 'लमू । ए' क. ख. पाठः
153
Page 154
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १३९
शब्दानुपात्तत्वाद् गम्यत्वम्। तत्रोक्तविषये आक्षेपे कचिद् वस्तु निषिध्यते कचिद् वस्तुकथनं निषिध्यत इति द्वौ भेदौ। व- क्ष्यमाणविषये तु कथनमेव निषिध्यते। तच्च सामान्यप्रतिज्ञा- यां क्वापि विशेषनिष्ठत्वेन क्वचित् पुनरंशोक्तावंशान्तरगतत्वेने- त्यत्रापि द्वौ भेदौ। तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनि- बन्धनें सामान्यविशेषैभावमवलम्ब्य चात्र प्रकारप्रकारिभावपरि- कल्पनम् । क्रमेण यथा-
"बाळअ! णाहं दूई तीए पिओ सि त्ति णह्मवावारो। सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो ।"
"प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
पिपादयिषितविशेषाश्रयस्य निपिध्यमानत्वं, क्वचित् तत्सम्बन्धिनस्त्वन्यस्येति लक्षणभेदः। तदेवमस्येति। नन्वर्थभेदादन्य उक्तविषय आक्षेपः । वक्ष्यमा- णस्य विषयोऽप्यन्य इति स्थितम्। तत् कथं चतुष्प्रकारतेत्यत आह-शब्द- साम्येति। सत्यप्यर्थभेदादाक्षेपस्य भेदे स्वरूपसाम्यादेकत्वेनावभासमानः सामान्यरूप आक्षेपः प्रकारी। उक्तविषयादयः प्रकारा इत्युपचारेण कथनमि- त्यर्थः । बाळअ इत्यादि ।
बालक! नाहं दूती तस्या: प्रियोऽसीति नास्मद्यापारः । सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥
१. 'नमिति । व' क. ख. पाठः. २. 'नं शब्दे सा' क. पाठ :. ३. 'षा' क. ख. पाठ :.
154
Page 155
१४० अलक्कारसूत्रं [आक्षेप- न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेझ्यि प्रियतमे!॥"
"सुहअ! विलम्बसु थोअं जाव इमं विरहकाअरं हिअअं। संठविऊण भणिस्सं अहवा बोळेसु किं भणिमो ॥।"
"ज्योत्स्ा तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्दी सा नूनमा: किमथवा हतजैल्पितेन ।"
आद्ये उदाहणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दृतीत्वस्य वस्तुनो निषेधमुखेन सत्यवादित्वादिर्विशेषः । तथा भण्यमानस्य प्रसा- दस्य निषेधमुखेनैव कोपोपरागनिवर्तनेनावश्यस्वीकार्यत्वं वि-
सुहअ इत्यादि। सुभग! विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम्। संस्थाप्य भणिष्याम्यथवापक्राम किं भणामः ।।
यथाकममिति। आद्ये उदाहरणे 'णाहं दूई' इति दूतीत्वलक्षणस्यासत्यवादि- त्वाद्यविनाभूतस्य वस्तुनः कैमर्थक्यमालोच्यते, द्वितीये तु प्रसीदेत्यादिरूपाया
१. 'जीविते' क. स. पाठः.
155
Page 156
निरूपणम् ] १४१
शेषः । उत्तरस्मिन् पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणे- ष्टस्यांशोक्तावंशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाण- विषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणिस्सं इति प्र- तिज्ञातस्य सातिशयो मरणशङ्कोपजनकत्वादिर्विशेषः । तथैव ज्योत्सेत्यादावंशोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्य- वचनीयत्वादिर्विशेषः। एवञ्च आक्षेपे इष्टोऽर्थः, तस्यैव निषेधः, निषेधस्यानुपपद्यमानत्वादसत्यत्वं, विशेषप्रतिपादनं चेति चतु- ष्टयमुपयुज्यते । तेन न निषेधविधिः, नापि विहितनिषेधः । किन्तु निषेधेन विधेराक्षेपः। निपेधस्यासत्यत्वाद् विधिपर्यत्र- सानाते। विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते। ततश्र हर्षचरिते-अनुरूपो देव्या इत्यात्मसंभावनेत्यादौ, तथा
त्वेन वैयर्थ्याच्च। सामान्यद्वारेणेति। 'सुहअ विळम्बसु' इत्यादौ भणिस्सं इति भणनमात्रमुक्तं, न तु प्रकारविशेपविशिष्टम्। तत्र सामान्योक्तिसहायेन। किं भणिमो इति निपेधेन त्वद्विरहो ममात्यन्तदुर्विपह इत्यादिर्मरणशक्कावहः प्रकारविशेष आक्षिप्यते। अंशोक्तावित्यादि। अद्य शिरीपमृद्वी सा नूनमा त्रियेतेत्यस्य सा नूनमा इत्यायंशोक्तिसहायेन किमित्यादिनिषेधेनाशक्यवच- नीयत्वादिविशेपविशिष्टमंशान्तरमाक्षिप्यते। तस्यैवेत्येवकारेण निषेधानुपपद्य- मानताहेतुमिष्टस्यानिषेध्यत्वं द्योतयति। न निषेधविधिरिति। अत्र चे निषे- धे तात्पर्याभावो हेतुः । विधेराक्षेप इत्यत्र हेतुमाह-निषेधस्येत्यादि । वक्ष्यत इति । 'अनिष्टविध्याभासश्चे'त्यत्र। ततश्रेति। एवमाक्षेपस्य विभ-
१. 'पः । ज्यो', २. 'स्र्रादौ तथांशो', ३. 'त्वं विशेषः वि', ४. 'त्। किञ्च वि' क. ख. पाठ :. ५. 'नापि न विहितनि' ख़. पाठः.
156
Page 157
१४२ अलङ्कारसूत्र [आक्षेप-
'यामीति न स्नेहसदशं मन्यत' इत्यादावुक्तविषय आक्षेपः । 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि। रक्षणीय इति भवज्जुजपञ्जरं रक्षास्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या। बाल- त्वादेरुक्तस्य निषेध्यत्वेनाविवक्षितत्वात्। प्रत्युतात्र बाल्यादि: परित्यागनिषेधकत्वेन प्रतीयते। तेन नायमाक्षेपः । कस्तर्ह्ययं विच्छित्तिप्रकारोऽलङ्कार इति चेद्, व्याघार्ताख्यस्यालङ्कार- स्यायं द्वितीयो भेद इति वक्ष्यते।
तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । सौकर्येणान्यकृतये न निषेधकता पुनः ॥
क्तविषयत्वात्। उक्तविषय इति। प्रसीदेति व्रयामितिवत्। अत्र चानुरूपो देव्या इत्यादिरूपस्य वस्तुकथनम्य नैभृत्यादिविशेपप्रतिपादनाय निषेध: क्रियते। स च निषेध्यस्येष्टत्वादाभासः । प्रत्युतेति। न केवलमुपक्रान्तस्य बाल्यम्य निपेध्यत्वाभावः, यावन्निषेधकत्वमपीत्यर्थः । कस्तहीत्यादि। अयं विच्छित्तिप्रकारः कोऽलक्कार इत्यन्वयः । द्वितीयो भेद इति। 'सौकर्येण का- र्यविरुद्धा क्रिया चे'ति लक्षितः । उक्तमर्थ सुखप्रतिपत्तये ल्ोकेन संगृ- ह्वाति-तदिष्टस्येति। निषेध्यत्वं निपेधविषयत्वम्। आक्षेपोक्तराक्षपालक्कार- व्यपदेश्य। सौकर्येणेत्यादि। यद् यत्कार्यसाधकत्वेन सम्भावितं, तम्य तत्कार्यापेक्षया सुकरतमत्वादन्यस्य तद्विरुद्धग्य कार्यग्य निष्पादनाय सि- साधयिषितकार्यस्य निषेधकता नाक्षपोक्तेर्निबन्धनमित्यर्थः । एवं विहितनि-
१. 'नाक्षे', २. 'तस्या' क. ख. पाठः. ३. 'ध' क. पाठः.
157
Page 158
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । १४३
इति पिण्डार्थः । इह तु- "साहित्य पाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः!। यत् तस्य दैत्या इव लुण्टनाय काव्यार्थचोरा: प्रगुणीभवन्ति ॥"
"गृह्लन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥" इति। तथा- "बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य। इत्यर्थनीयः शबराधिराजः श्रीकण्ठपृथ्वीधरकन्दरस्थः ॥ यद्दा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि श्रमग्लानिमपाकरोति ॥" इत्यत्रे नाक्षेपभ्रमः कार्यः । विहितनिषेधो ह्ययम्। न चासा- वाक्षेपः। निषेधेन विधौ तस्य भावादित्युक्तत्वात्। चमत्का- रोऽप्यत्र निषेधहेतुक एवेति ने तत्सव्वावमात्रेणाक्षेपधीः कार्या। अयं चाक्षेपो ध्वन्यमानोऽपि भवति। यथा-
षेधेऽप्याक्षेपभ्रमो न कार्य इत्याह-इह त्वित्यादिना। विहितनिषेधो ह्यय- मिति। साहित्येति बाणेनेति च प्रथमाभ्यां श्लोकाभ्यां विहिते रक्षणाभ्यर्थने उत्तराभ्यां गृह्नन्तु सर्वे इति यद्वा मृषा इति च क्लोकाभ्यां निषिध्येते । निपेधेन विधाविति। आक्षिप्त इति शेषः । चमत्कारोऽप्यत्रेत्यादिना आक्षेपत्वनिबन्धनं निषेधश्याभासत्वं नास्तीत्याह। तत्सद्भावः निषेधस- द्वावः । न परमाक्षेपस्य वाच्यत्वम्, उत्प्रेक्षावद् गम्यत्वमपीत्याह-अयं
१. 'त्र च ना', २. 'न तु तद्भा', ३, 'नो भ' क. ख. पाठ :.
158
Page 159
१४४ अलङ्कारसूत्रं [आक्षेप-
"गणिकासु विधेयो न विश्वासो वल्लभ! त्वया। किं किं न कुर्वतेऽत्यर्थमिमा धनपरायणाः ।।" अत्र हि गणिकायो एवोक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते। न चासौ निषेध एव, गणिकात्वेनावस्थितयैव ग- णिकात्वस्य निषेधनात। सोडयं प्रस्खलद्रूपो निषेधो निषेधा- भासरूपो वक्तुर्गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुख- त्वादौ विशेषे पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम्। न तु "स वक्तुमखिलाज् शक्तो हृयग्रीवाश्रितान् गुणान्। योऽम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातुं महोदधेः ॥" इत्याक्षेपध्वनावुदाहार्यम्।निषेधस्यैवात्र गम्यमानत्वात्। न नि- षेधाभासस्य। महोदघेरम्भःकुम्भपरिच्छेदशक्तिनिदर्शनेन हय- ग्रीवगुणानां वक्तुमशक्यत्व एवात्र तात्पर्यभ। तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षपध्वनिधीरत्र कार्या। सर्वथेष्टानिष्टस्य निषेधाभासस्य विध्युन्मुखस्याक्षेपत्व- मिति स्थितम् ।
चेत्यादि। उक्तविषय इति। 'बाळअ! णाहं दूई'त्यादिवत् । वस्तुनिषे- वस्तत्र वाच्यः, इह पुनर्गम्यः । न त्वित्यस्योदाहार्यमित्यनेन संबन्धः । निपेधस्यैवेति। हृयग्रीवगुणवक्तृलक्षणवस्तुनिपेधो गम्यमानस्तात्पर्यचमत्कार- विषयत्वादनाभासरूप इति नान्नाक्षेपध्वनिभ्रमः कार्य इत्यर्थः । सर्वथेति । वाच्यो वा भवतु गम्यो वेत्यर्थः।
१. 'या उक्तौं', २. 'धाभासौ व' क. ख. पाठः. ३. 'च्यो भ' क. ग. पाठः
159
Page 160
निरूपणम्] सत्याख्यालक्कारसर्वस्वोपेतम्। १४९
इत्थमिष्टनिषेधेनाक्षपमुक्ता समानन्यायत्वादनिष्टविधि- नाक्षेपमाह-
अनिष्टविध्याभासश्च ॥ ३९॥
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिट्ट्स्यानिष्ट- त्वादेव विधानं नोपपद्यते। तत क्रियमाणं प्रस्खलद्रूपत्वाद् विध्याभासे पर्यवस्यति। ततश्र विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी निषेधागूरणात्माक्षेपः । यथा-
"गच्छ गच्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्।"
समानन्यायत्वादिति। अविषयनिष्ठत्वेनाभासरूपत्वादितराक्षेपकत्वं समानन्यायता। अनिष्टविध्याभासश्चेत्यत्र चकारेणाक्षेप इत्यस्यानुकर्षः । सङ्गत्यर्थमुपक्षिप्तं समानन्यायत्वमेव दर्शयति- यथेत्यादिना। पस्खलद्रूप- त्वादिति। अनिष्टविषयत्वेन बाधितस्वरूपत्वात्। उपकरणीभूत इति। अनभिमतविषयत्वादनुपपद्यमानेन विधिना स्वोपपादकतयानुपपत्तिनिरासाया- क्षिप्तत्वाद् विधिं प्रत्युपकरण: शेपः सम्पन्न इति केचिद् व्याचक्षते। अन्ये तु निषेधस्यैव तात्पर्यगोचरत्वाद् विवेविपर्ययादनुपपद्यमा(ने?नत्वे)न मत्व- र्थीयान्तादुपकरणशब्दाच्च्विप्रत्यय इति व्याचक्षाणाः स्वाक्षेपेकतयोपकरण- भूतेन विधिनोपकरणवान् भूतो निषेध इत्याहुः। अनिष्टविशेपपर्यवसायी- ति। यद् विधातुमनिष्टमपि विहितं, तत् तन्निष्ठविशपावगमनहेतुः । ननु गच्छ गच्छसीत्यत्र गमनस्य विधिर्न प्रतीयते। अपितु कामचाराभ्यनुज्ञामा-
१. 'स्याप्यनि' क. ख. पाठः. २. 'पन्नः शे' ख. ग. पाठः. ३. 'पत' ख. पाठ :. l. 19
160
Page 161
१४६ अलक्कारसूत्रं [आक्षेप-
अत्र कयाचित् कान्तप्रस्थानमनिष्टमप्यनिराकरणमुखेन वि- धीयते। न चास्य विधिर्युक्त:, अनिष्टत्वात्। सोऽयं प्रस्खलद्रूप- त्वेन निषेधमागूरयति। फलं चात्रानिष्टस्य कान्तप्रस्थानस्या- संविज्ञातपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । इदं च म- मापि जन्म तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यक्जि- तम्। यथा वा-
"नो किञ्चित् कथनीयमस्ति सुभग! प्रौढाः परं त्वादशाः पन्थानः कुशला भवन्तु भवतः को मादशामाग्रहः। किन्त्वेतत कथयामि सन्ततरतिक्कान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिथिलाः सहंसरुचयो गोदावरीवीचयः ॥"
अत्रानभिप्रेतमेव कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं
त्रम्। तत् कथमम्य विधिरित्यत आह- अनिराकरणमुखेनेति। कान्त- प्रस्थानस्यानिष्टत्वेन निराकर्तव्यस्याप्यनिराकरणेन विधिरवसीयत इत्यर्थः । अस्य प्रस्थानस्य। फलं चात्रेत्यादि । अत्र विधिमुखेनानिष्टस्य निषेधाक्षेपे। प्रस्थानस्येत्यस्यात्यन्तपरिहार्यत्वेत्यनेनान्वयः । असंविज्ञातपदनिवन्धनमिति। संविज्ञातं पदं वाचकश्च शब्दो यस्य न स्तः, तदसंविज्ञातपदम्। वाख्यन- सागोचर इति यावत्। तथाविधमतिशयितदुःखावहम् । तद् निबन्धनं हेतु- र्यस्यात्यन्तपरिहार्यत्वप्रतिपादनस्य तत् तथा। अनिष्टपर्यवसायिनेति । प्रियतमस्यानभिमते मरणे पर्यवस्यता। प्रमुख एवेति। न प्ररोहे। अभ्युपगम्यमानं प्रतीयत इति। पन्थानः कुशला भवन्त्वित्यादिभणिति- भङ्गया। ननूत्तरार्वे किं त्वेतदित्यादिवचोभङ्गया प्रस्थानमभ्युपेत्यैव कस्यचित्
५. 'स्य ग्र', २. 'एतच् म' क. ख. पाठ :.
161
Page 162
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १४७
प्रतीयते, तदायमनिष्टविधिराभासमाने आक्षेपाङ्गम्। स्मर्तव्या इत्यनेने च गमननिवृत्तिरेवोपोह्दलिता। तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतैया विधानबलेनोक्त: ।। आक्षेप इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद् विरु- द्धत्वमनुप्रविष्टम्। एतत्प्रस्तावेन विरोधगरभडलङ्कारवर्गः प्रक्रि- यते। तत्रापि विरोधालङ्कारस्तावल्लक्ष्यते-
विरुद्धाभासत्वं विरोधः ॥४० ॥।
इह जात्यादीनां चतुर्णा पदार्थानां प्रत्येकं तन्मध्य एव
कार्यस्याभ्यर्थितत्वप्रतीते: प्ररोहेऽपि कान्तप्रस्थानस्याभ्युपगमः प्रतीयते । तत् कथं प्रमुख एवेत्युक्तमत आह-स्मर्तव्या इत्यनेनेति। अयमर्थः- एवंविधा गोदावरीवीचयस्त्वद्विरहे मम सातिशयतापहेतवो भवेयुः । ताश्र प्रस्थितेन त्वया यदि स्मर्गेरन्, तदवश्यं गमनोद्यमो निवर्तेतेति गमननि- वृत्तिहेतुतयैव स्मरणस्य प्रस्तावः, नतु कर्तव्यतयेति। अतः प्रस्थानस्य प्ररोहेऽनभ्युपगतिरेवेति विध्याभासत्वादिदमप्युदाहरणं युक्तमेवेति। एतत्प्रति- पादनार्थमेवोदाहृतेऽप्युदाहरणोपन्यासः ।। एतत्प्रस्तावेन विरुद्धत्वप्रस्तावेन। विरोधग(मे?भ इ)ति। विरोधा- लङ्कारेऽपि विरोधमात्रस्य नालक्कारत्वम्, अपितु समाधिमत एवेति विरोधग- र्भत्वं द्रष्टव्यम् । प्रक्रियत इति। सप्रकारं प्रदर्श्यंत इत्यर्थः । विरुद्धाभास- त्वमिति। अविरुद्वत्वेऽपि विरुद्धवदवभासमानो विरुद्धाभासः । तस्य भाव- स्तत्त्वम्। जात्यादीनामिति। जातिगुणक्रियाद्रव्याणाम् । तन्मव्ये जात्यादि-
१. 'नश्चाक्ष', २. 'अमित्य', ३. 'न ग', उ. 'तानुवि' क. ख. पाठः,
162
Page 163
१४८ अलङ्कारसूत्रं विरोध-
सजातीयविजातीयाभ्यां विरोधिभ्यां सम्बन्धे विरोधः । सच समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभा- समानत्वाद् विरोधाभासः । तत्रेच जातिविरोधस्य जात्यादिभिः सह चत्वारो विरोधाः। गुणस्य गुणादिभिः सह त्रयः। क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ। द्रव्यस्य द्रव्येण सहैकः। तदेवं दश विरोधमेदाः । तत्रोदाहरणं दिव्ात्रेण यथा-
"परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।।"
अत्र जडीकरणतापकरणयोरविरोधो वस्तुसौन्दर्येणाप्राप्तिपर्यव- सायिना परिहनियते। तथा- "अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
मध्ये। सजातीयविजातीयाभ्यामिति। जातेर्जात्यन्तरं सजातीयः पदार्थः । गुणादित्रयं विजातीयः । एवं गुणादिष्वपि द्रष्टव्यम् । स च समाधानमि- त्यादि। यथा निदाघो मेघदुर्दिन इत्यादौ। जात्यादिभिरिति । सजातीय- या जात्या विजातीयैर्गुणक्रियाद्रव्यैश्। एवं गुणादिभिरित्यादावपि। जडी- करणतापकरणयोर्विरोध इति। विकारलक्षणैककर्तृनिष्ठतया निबद्धत्वात्।
"भ्यां सं, २. 'वावभा' ३. 'त्र जा', ४. 'भदा: । गु', ५. 'त्रे य', ६. या: किययोवि' क. ख. पाठ:
163
Page 164
निरूपणम्] सव्याख्यालङ्कारसर्वम्वोपेतम् । १४९
क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमेकरमापास्यति मुनिः ॥"
अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महा- प्रभावत्वेन समाधीयते। एवमन्यदपि ज्ञेयम् । विविक्तविषय-
समाधानं दर्शयति -- वस्तुसौन्दर्येणेत्यादिना। द्रव्यक्रिययोरिति । ननु जलैनिधीनां बहुत्वात् कैथं द्रव्यत्वं । किञ्च अब्योऽप्यगम्भीरा इति जाति- गुणविरोधमुदाहरता काव्यप्रकाशकारेणब्धेर्जातित्वमङ्गीकृतम् । उच्यते । एनमिति पुरोवर्तित्वेन निर्दिष्टस्य जलनिधेरेकत्वेन द्रव्यत्वमित्यदोषः । अथवा जलनिधि: पीत इत्यनेन जलनिधिपानलक्षणक्रियामात्रं निर्दिश्यते। तस्याग- स्त्यमुनिलक्षणेन द्रव्येण विरोधो द्रष्टव्यः । एवमन्यदपीति। विरोधभेदाष्ट- कम्। तत्र चतुर्विधो जातिविरोधो यथा - वेशन्तास्तव मानसेन महता पाथोधयः कल्पिताः कोलम्बाधिपते! यशोभिरमलैर्मुक्तारुच: श्यामलाः । तापार्त्तिप्रशमावहाः प्रतपता शत्रून् प्रतापोप्मणा कल्पार्काः परमाणुरुन्नतिजुपा दोष्णा च हेमाचलः ॥ अत्र पाथोधिमुक्तारुचिकल्पार्कपरमाणुत्वानां जातीनां यथाक्रमं वेशन्तत्वश्या-
नःप्रभृतीनां महत्त्वाद्यतिशयस्य विवक्षितत्वात्। त्रिविधो गुणविरोधो यथा- रूक्षा खलेषु भवतो मधुरापि वाणी विश्वं गुणाश्च विशदा अपि रञ्जयन्ति। अश्रान्तदायिनमवेक्ष्य यद्द्वह! त्वां कर्ण व्यवस्यति मनीषिजनः कदर्यम् ॥
१. 'नि' क. ख. पाठः. २. 'लवी', ३. 'कं द' ख. पाठः.
164
Page 165
१५० अलाक्कारसूत्रं [विरोध-
त्वेन चास्ये दृष्टे: श्ेषगमें विरोधप्रतिभोत्पत्तिहेतुः श्लेष औज्टानाम्। दर्शनान्तरे तु सङ्करालङ्कारः । यथा-'स- न्निहितबालान्धकारा भाखवन्मूर्ततिश्चेत्यादौ विरोधिनोई्वयोरपि
अत्र माधुर्यवैशद्यकदर्यत्वानां गुणानां रौक्ष्यरअ्ञनकर्णलक्षणैर्गुणक्रियाद्रव्यैः क्रमेण विरोधः। समाधिश्च खलदुश्शीलतानुरञ्जनलक्षणार्थान्तरवर्णनीयगतौ- दार्यातिशयानां विवक्षितत्वात्। द्विविधः क्रियाविरोधो द्रव्यविरोधश्र यथा - भजन्ति रिपवः क्षयं जहति च त्वयि करुध्यति स्थलीभवति चाम्बरं तव बलोद्धतैः पांसुभिः । अभूच्च विजयोर्जितैर्लवणसागरस्तावकै- र्यशोभिरतिनिर्मलैर्यदुनरेन्द्र! दुग्धार्णवः । अत्र क्षयप्राप्तिस्थलीभवनयोः क्षयत्यागाम्बराभ्यां क्रियाद्रव्याभ्यां लवण- सागरस्य द्रव्यस्य दुग्धार्णवेन द्रव्येण च विरोधः । समाधिश्रें क्षय- शब्दस्य नाशनिवासलक्षणार्थद्वयप्रतीतेर्वलरजोभूयस्त्वस्य यशोवैमल्याति- शयस्य च विवक्षितत्वात् । विविक्तविषयत्वेन ल्लेषशून्यविषयत्वेन। अनेन च विरोधस्य दौर्वल्यहेतुसावकाशत्वं दर्शितम् । अस्य दृष्टेः विरोधस्य दर्श- नात्। औद्भटानाम् उद्धटमतानुसारिणाम्। तन्मते हि श्लेपालङ्कारस्यालङ्कारा- न्तरप्रतिभोत्पत्तिहेतुत्वं निरटक्कि। दर्शनान्तर इति। श्लेषप्रतिभोत्पत्तिहेतु- रलङ्कारान्तरमित्येवंरूपे काव्यप्रकाशकारादिमते। सङ्गरालङ्कार इति। उभ- योरप्यत्र लब्धावकाशत्वेनाङ्गाङ्गिभावलक्षणॅः सङ्करः । तत्र प्रमुखभानस्य समाधेश्च विरोधपरिहारयोरर्थद्वयप्रतीतिमन्तरेणासम्भवात् क्ेपस्याङ्गत्वं विरो-
१. 'यं'. २. 'भत्वे वि' क ख. पाठः ३. 'रद्र' ख. पाठ .. ४. 'श् ना. ५ 'तुकसा', ६ 'अङ्गा' ७. 'णः । त', ८. 'खाभासन', २ .. 'क' ख. ग. पाठः.
165
Page 166
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १५१
श्िलष्टत्वे। एकस्य तु श्िलिष्टत्वे 'कुपतिमपि कलत्रवल्लभमि'त्या- दौ। एकविषयत्वे चायमिष्यते। विषयभेदे त्वसङ्गतिप्रभृति- र्वक्ष्यते ।।
एवं विरोधमुक्त्वा विरोधमूलान्यलैंङ्कारान्तराण्युच्यन्ते
तत्रापि कार्यकारणभावमूलत्वेन विभावनां तावदाह-
धस्याङ्गित्वम्। चमत्कारकारित्वे तु विपर्ययः । द्रयोरपि छ्विष्टत्व इति। बालशब्दस्य बवयोरैक्येन केशवाल्यविशिष्टलक्षणार्थद्वूयवृत्तित्वात् । भास्वच्छ- ब्दस्य दीप्तिमदर्कवृत्तेश्र। एकस्थ त्विति। कुपतिशब्दस्यैव भूपतिकुत्सितप- तिलक्षणार्थद्वयाभिधानात् । अस्य विरोधालङ्कारस्य वक्ष्यमाणानामसङ्गत्या- दीनां चाभासमानविरोधत्वे तुल्येऽपि विशेपप्रकारमाह - एकवि- पयत्व इति। अत्र विपयशब्देनाश्रय उच्यते । यत्र द्वयोर्विपयैक्येन विरोधप्रादुर्भावः, तत्र विरोधालङ्कारः । यत्र तु भिन्नविपयत्वेन, तत्रासङ्गतिः । प्रभृतिग्रहणेन विषमादयः परिगह्यन्ते। तत्र च कचिद्विपयभेद एव विरो- धस्य निमित्तम्। यथासङ्गतौ। क्रचित् स्वतो विरुद्वयोर्भिन्नविपयत्वम्। यथा विरूपकार्योत्पत्तिलक्षणे विषमालङ्वारे। इह तु नैसर्गिकस्यापि विरोधस्य विषयैक्य एव स्वरूपप्रतिलम्भः । विपयभेदे त्वनुदय एव ।।
विरोधमूलानीति। विरोधाभासमूलानीत्यर्थः । अनेन पूर्वमुक्तं विरो- धगर्भत्वमेपां दर्शयति। तत्रापीति। तेप्वलङ्गरणेष्वपि। सूत्रे कारणाभाव
१. 'लेषत्वे, २. 'वमुत्वा वि', ३. 'ध चि', ४. लङ्करण(न्युच्य', ५. 'त्वे वि' क. ख. पाठः. ६. 'त्वे वि' ख. ग. पाठः.
166
Page 167
११२ अलक्कारसूत्रं [विभावना-
कारणाभावे कार्यस्योत्पत्तिर्विभावना ॥ ४१॥
इह कारणोन्वयव्यतिरेकानुविधानात् कार्यस्य कारण- मन्तरेणासम्भवः । अन्यथा विरोधो दुष्परिहरः स्यात्। यदा तु कयाचिद् भङ्ग्या तथाभाव उपनिबध्यते, तदा विभावना- ख्योऽलङ्कारः । विशिष्टतया कार्यस्य भावनात्। सा च भद्गि रविशिष्टकारणाभावोपनिबद्धा। अप्रसिद्धं तु कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चेहोपक्रान्तत्वाद् बलवता का- र्यमेव बाध्यमानत्वेन प्रतीयते, ने तु तेन तत्र कारणाभावः। इत्यन्योन्यबाधकत्वानुप्राणिताद् विरोधालङ्गाराद् भेद: । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम्।
इत्यत्र कारणमात्रस्याभावो न विवक्षितः, किन्तु विशिष्टस्य कारणस्येति दर्शयितुमाह-इहेति। अन्यथा कारणमन्तरेण सम्भवे। विशिष्टतयेति। वैशिष्यं चेतर्रेकार्यसाधारणकारणाप्रस्तुतत्वम् । ननु यद्यत्र समाधिमत्त्वादा- मुखावभासी विरोधाभासोऽस्ति, तत् किमर्थ विरोधालङ्कारभेदत्वेनानुत्तवा पृथगेषा लक्षिता। अत आह-कारणाभावेन चेति। उपक्रान्तत्वाद् बल- वतेति। असआतविरोध्यवस्थायां लब्धस्वरूपत्वाद् वलवत्त्वम्। न तु तेनेति। वाध्यमानत्वेन। प्रतीयत इत्यनुपज्यते। अन्योन्यवाधकत्वेति। यथा जडी- करणतापकरणयोरन्यतरस्य पूर्वसिद्धत्वाभावेन तुल्यवलत्वादन्योन्यवाध्यबाध- कभावः, नैवमत्रेति तस्मादस्या भेद इत्यर्थः । एवमित्यादि। पूर्वसिद्धत्वेन बलवता कार्याभावेन कारणपौष्कल्यस्यैव बाधः । न तु कारणपौष्कल्येन
१. 'णान्तरान्व', २. 'न का', ३. 'त्वं नेय' क. ख. पाठः. ४. 'रसा' ख. पाट :.
167
Page 168
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १५३
येन सापि विरोधाद् भिन्ना स्यात। इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं, तथापीह कारणपदमेव वि- हितम्। नहि सवैः क्रियाफलमेव कार्यमभ्युपगम्यते। वैया- करणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम। यथा- "असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात परं साथ वयः प्रपेदे॥" अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं, तदभा- वेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य द्वैविध्येऽप्य-
कार्याभावस्य। अन्यैः उद्भटादिभिः कारणेभ्यः क्रियामुखेन कार्योत्पत्तेः प्राती- तिकेन रूपेण परिदृश्यमानत्वात् क्रियैवाव्यवहितं कारणमिति मत्वा "क्रियायाः प्रतिषेधे या तत्फलम्यं विभावना" इति लक्षयद्भिः। कारणपदमेवरेति। कार्य जनयतां कारणानामवान्तरव्यापार: क्रिया, न तु कार्य प्रति हेतुः, द्रव्यादय एव हेतव इति भावः । द्वितीये पाद इति। अनासवाख्यं करणं मदम्येत्यत्र। प्रसिद्धमित्यनेन विशिष्टकारणा- भावोपनिवन्धो निदर्शितः। यौवनहेतुकत्वेनेत्यनेन विरोधपरिहारः। ननु यौवनजन्यो मदः आसवजन्यान्मदात् पृथगेव। तत् कथमासवप्रतिषेधेन कारणाभावः कथ्यत इत्याशङ्कय परिहरति-मदस्य द्वैविध्येऽपीति। अति- शयोत्त्या भेदे अभेदरूपया। अव्यभभिचारिणीति। न परमत्रैवोदाहरणे।
१. 'ह ल' ख. पाठः. २. 'णे च य' क पाठः ३. 'णमे', ४. 'उदाहरणम्- अ', ". 'तुत्वे', ६. 'क्या अव्य' क. ख. पाठ: 3. 'वेडपि या' स. पाठः ८ 'स्य व्यक्तिर्विभा' ख. ग. पाठः. 1.20
168
Page 169
१५४ अलक्कारसूत्रं [विभावना-
ति न तद्वाधेनास्या उत्थानम्, अपितु तदनुप्राणितत्वेन। असम्भृतं मण्डनमिति कामस्य युष्पव्यतिरिक्तमस्त्रमित्यंत्र च विवदन्ते इयमेव विभावनेति केचित्। सम्भरणस्य पुष्पाणां चे मण्डनमस्त्रं च प्रत्यकारणत्वाद् वाङमात्रमेतत् । एकगुणहानौ विशेषोक्तिरित्यन्ये। रूपकमेवाधिरोपितवैशिष्ट्यमिति त्वपरे । आरोप्यमाणस्य प्रकृते सम्भवात् परिणाम इति त्वद्यतनाः ।
इत्यादिष्वपि, कुङ्कुमजन्यस्य स्वाभाविकस्य च पिज्जरत्वादेरभेदाध्यवसाय- स्यातिशयोक्तिमूलत्वात्। एवं तर्हि येननाप्राप्तिन्यायेन विभावनया अति- शयोक्तेबधः स्यादित्यादिशक्का न कार्येत्याहतद्वाधेनेति। तदनुप्राणि- तत्वेन अतिशयोत्त्यनुग्रहीतत्वंन। अनुग्रहश् विभावनालक्षणापेक्षितायाः कारणाभाववतः कार्यस्यानुत्पत्तावप्युत्पत्तेरुत्पद्यमानकार्याभेदाध्यवसायेन प्रत्या यनम्। इयमव्रेति। क्रियाकारणाभावे कार्योत्पत्तिरिति लक्षिता। अनासवा- ख्यमित्यादावुदाहता च सेपैव, न त्वनन्तरवक्ष्यमाणविशेपोक्तिवलक्षणान्त- रवतीत्यर्थः । एकगुणहानावित्यादिना वामनलक्षिता विशेपोक्तिरुच्यते। तेन ह्येकगुणहानिकल्पनायां साम्यदार्ढ्यापादनं विशेषोक्तिरिति लक्षणं तस्या विहितम्। अत्र च सम्भरणपुष्पत्वलक्षणकगुणहानिकल्पनायां मण्डनास्त्राम्यां सह गौवनस्य वामनविशेपोक्तिसम्भावना । पकते सम्भवादिति। आरोप्यमाणस्य मण्डनादे: प्रकृते देवीशरीरयष्टावुप- योगित्वादित्यर्थः । उद्धटादिभिः- "दरशितेन निमित्तेन निमितादर्शनेन च। तस्या वन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥" इत्युक्तनिमित्तत्वादिरूपेण विशेपोक्तावेव यद् भेदकथनं, तदस्यां विभावना-
१. 'ति चात्र', . 'च प्र'. ३. 'वार्तामा', 6. 'त्यय' क. ख. पाठः. ५. 'ना' ख. पाटः. ६. 'कर्वा वा' क. पाठः
169
Page 170
निरूपणम्] सव्याख्थालक्कारसर्वस्वोपेतम् । १५५
इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तमेदाद् द्विधैव। तत्रोक्तनि- मित्तोदाहता। अनुक्तनिमित्ता यथा- "अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोउ्ठमुद्रां च बिभ्रती ॥"
अत्र सहजत्वं निमित्तं गम्यमानम् । इयं च मालयापि भव- न्ती दश्यते। यथा- "अनिद्रो दुःस्वप्नः प्रपतनमनद्विद्गुमतटं जराहीन: कम्पस्तिमिरगहितस्त्राससमयः । अनाघातं दुःखं विगतनिगला बन्धनधृतिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः ।।"
विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशषोक्ति ल- क्षयति- कारणसामयये कार्यानुत्पत्तिर्विशेषोक्ति: ॥ ४२ ॥
इह सभग्राणि कारणानि नियमेन कार्यमुत्पादय- न्तीति प्रसिद्धम्। अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात्। या तु
यामपि द्रष्टव्यमित्याह-इयं चेति। उदाहृतति । अनासवाख्यमित्यत्र । अनिद्र इत्यादि। अत्रैकस्यैवावनीशाश्रयरसस्य दुःस्वप्नाद्यारोपणद्वारा कार्यभूतस्य निद्रादिवहुकारणाभावोपनिवन्धान्मालात्वम् । सजीवमित्यत्र जीवाभावलक्षण- स्य हेतोरभावः सजीवत्वविरोधिमुखेनोपनिवद्धः । दुःस्वप्नादेः कार्यस्यारोपित- त्वाद् विरोधसमाधिः ॥
१. 'ति सि' ग. पाठ :.
170
Page 171
१५६ अलङ्कारसूत्रं [विशेषोक्ति-
सत्यपि सामग्री न जनयति कार्य, सा केश्चिद् विशेषम- भिव्यङक्तुं प्रयुज्यमाना विशेषोक्तिः । सा च द्विधा-उक्तनि- मित्ता अनुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव। अनुक्तस्य चिन्त्याचिन्त्यत्वेन द्विविधत्वात्। क्रमेणोदाहरणं- "कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मैकरकेतवे।" "आहृतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि। गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥" "स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥" अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्या- नुत्पत्तिः शक्तिमत्वैस्वरूपेण विरुद्वेन धर्मणोपनिबद्धा। अवार्य- वीर्यत्वं चात्रोक्तं निमित्तम्। तथा आहतत्वादयः सङ्कोचशिथिली- कारहेतव इति तेषु सत्सपि तस्यानुत्पत्तौ प्रियतमासप्नसमा- गमाद्यनुक्तं संचिचिन्त्यं निमित्तेंम्। तथा तनुहरणे कारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमचिन्त्यमेव, प्रतीत्य- गोचरत्वात्। कार्यानुत्पत्तिश्रात्र क्रचित् कार्यविरुद्धोत्पच्या सत्यपि विद्यमानापि। विशेषमित्यादिना विशेषायोक्तिर्विशेषोक्तिरिति निरुक्तिर्दर्शिता। काव्यप्रकाशकारेणाचिन्त्यनिमित्तेत्युक्तं तृतीयभेदमन्तर्भाव- यति-अचिन्त्यनिमित्ता त्वित्यादिना। कार्यानुत्पत्तिश्चेत्यादि। यथा शक्ति-
१. 'कि', २. 'ण यथा -क', ३. 'कुसुमधन्वन ॥', ४. 'ते', ५. 'त्वरु', ६. 'ण तृप', ७. 'त्तम। आह्वानाद', ८. 'चिन्त्ननि', ९ 'त्तम् । तनु' क. खत्र पाठ:
171
Page 172
निरूपणम्] १५७
निबध्यते। एवं विभावनायामपि कारणाभावः कारणविरुद्ध- मुखेन क्वचित प्रतिपाद्यते। तथाच सति-
"यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः म्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुवृते चेतः समुत्कण्ठते ।" इत्यत्र विभावनाविशेषोक्त्योः सन्देहसङ्करः। तथा हि-उत्कण्ठा- कारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः स- मुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखे- नोपनिबद्धत्वात केवलमस्पष्टत्वम् । साधकबाधकप्रमाणाभावा- चात्र सन्देहसङ्करः । या तु "एकगुणहानिकल्पनायां साम्य- दार्ढ्य विशेषोक्ति:" इति विशेषोक्तिर्लक्षिता, सास्मदर्शने रू- पकभेद एवेति न पृथग् वाच्या।।
मानित्यादौ। तथा च सतीति। कारणाभावकार्यानुत्पत्त्योर्विरोधमुखेनोपनि बन्धे सति उत्कण्ठाकारणस्याभिनवत्वस्याभावः स एवेत्यादिना यातयामत्व- लक्षणविरोधिमुखेनोपनिबद्धः। यातयामत्वलक्षणस्य कारणस्य यत् कार्यमुपेक्षणं तस्याभावः उत्कण्ठात्मकविरोधिमुखेनीपनिवद्धः । विरुद्धमुखेनोपनिवद्धत्वा- दिति । उभयोः कारणाभावकार्याभावयोरिति शेपः । अन्यथैकतरोपनिव- न्धेऽप्यस्पष्टत्वे 'कर्पूर इव दग्धोऽपी' त्यादाविप्यस्पष्टत्वप्रसङ्गः। रूपकभेद एवेति । अधिरोपितवैशिष्ठयं रूपकमित्यर्थः ।।
१. 'परित्र', २. 'त्युत्कण्टास्यं', ३. 'मपाप्' क. ख. पाठः. ४. 'स्याभा' ख. ग. पाठ :. ५. 'वस्प' क. पाठः.
172
Page 173
१५८ अलक्कारसूत्रं [अतिशयाक्ति-
अतिशयोक्तौ लक्षितायामपि कश्रिद् भेदः कार्यकारण- प्रस्तावेनेहोच्यते -
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चा- तिशयोक्ति: ॥४३॥
इह नियतपूर्वकालभावि कारणं नियतपश्रात्कालभावि च कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम्। यदा तु विशेषप्रतिपा- दनाय तयोरेतद्रूपापगमः क्रियते, तदातिशयोक्तिः । एतद्रूपाप- गमश्र कालसाम्यनिबन्धनः कालविपर्यासनिबन्धनश्रेति द्विधा- भवन्नतिशयोक्तिमपि द्वैविध्येऽवस्थापयति। क्रमेणोदाहरणं-
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि। कीर्त्या च द्विषतों श्रिया च युगपद् राजन्यचूडामणे! हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ।।"
कश्चिद् भेद इति। अतिशयोक्तिनिरूपणे प्रपञ्चार्थ लक्षयिष्यत इति निर्दिष्टः । कार्यकारणयोरित्यादि। कार्यकारणयोरव्यभिचारित्वाशुकारित्वल- क्षणस्यातिशयस्योक्तिरतिशयोक्तिरिति सामान्यलक्षणम्। समकालत्व इत्या- दिना भेदनिर्देशः । विशषेति। अव्यभिचारित्वादिरूपो विशेषः। मौढोक्ति-
१. 'तकालपूर्वभा', . 'द्रावि का', ३. 'धे स्था', ४. 'ण यथा-प', ५. 'तः' क. ख. पाठः.
173
Page 174
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १५९
"पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्र । नरि नरि किरति द्राक् सायकान् पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्चा ।।" पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतु- रिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम्। उत्तरत्र तु माननि- वृत्ति: स्मरशरप्रकिरणकार्यति तयोरुपपन्नं पौर्वापर्य व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रति- पादते।। तयोर्विभिन्नदेशत्वेऽसङ्गतिः ।।४४।। तयोरिति कार्यकारणयोः । यदेशमेव कारणं, तद्देशमेव कार्य दृष्टम्। न तु महानसदेशस्थो वह्निः पर्वतदेशस्थं धूमं
निर्मित इति। निस्त्रिंशधारायाः कीर्तिनिर्गमस्य द्विषलक्ष्मीप्रवेशस्य च वहि- रसम्भवित्वात् कवेः कविनिबन्धस्य वा प्रौढोत्त्या निर्मिते। व्यत्ययेनेति। कार्यभूताया माननिवृत्तेर्भूतकालविषयया निष्ठया पूर्वकालत्वस्य, कारणभूतस्य स्मरशरकिरणस्य वर्तमानकालविपयेण लटा साध्यमानत्वस्फुरणात् पश्चात्का- लत्वस्य च प्रतीतेश्र। एषा चातिशयोक्ति: कारणस्य वास्तवं कार्यजनकत्वं कविसमर्पितेनाशुभावाव्यभिचारविशिष्टेन कार्यजनकत्वेन भेदेऽप्यभेदेनाध्यव- सितमित्यतिशयोक्तिभेदत्वेन पूर्व निरूपिता। सम्प्रति कार्यकारणनिष्ठत्वेनास्याः कार्यकारणविच्छित्त्याश्रयेणालङ्कारमध्ये प्रस्ताव: ॥
६. 'हि' क. पाठ :. १. 'न', २. 'स्याश', ३. 'यः। त', ४. योर्भि', ५. 'शि' क. ख. पाठः
174
Page 175
१६० अलक्कारसूत्रं [असङ्गति-
जनयति। यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनि- बध्यते, तदोचितसङ्गतिनिवृत्तेरसङ्गत्याखयोऽलङ्कारः । स च विरोधिकार्यकारणभावप्रस्तावादिहै लक्ष्यते। यथा- "प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना निर्दोषान् सचिवान् भजत्यतिमहाल्लोकापवादज्वरः । धन्याः श्ाध्यगुणास्त एव विपिने सन्तोषभाजः परं बाह्योऽयं वरमेव सेवकजनो धिक सर्वथा मन्त्रिणः ॥" अत्र पथ्यपराङ्मुखत्वमुपालम्भवविषर्यत्वस्य भिन्नदेशँहेतुरित्यस- ङ्तिः । एवं- "सा बाला वयमप्रगल्भबचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्। सा कान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यह्जुतम् ।"
उचितसङ्गतीति। सङ्गतेश्रौचित्यमेकदेशवर्तित्वम्। विरोधिकार्यका- रणभावेति। विरोधश्च कार्येण कारणस्यान्वयव्यतिरेकयोरननुविधानेंम्। विशेषोक्तावन्वयस्य, अतिशयोक्तावपि कारणसत्तामनपेक्ष्य तुल्यकालं पूर्वमेव वा कार्यस्योत्पत्तेर्व्यतिरेकाननुविधानकम्। स्वदेशे कारणेऽसत्यपि कार्यस्योत्पा- दादसङ्गतावपि तदेव। सा वालेत्यादि। ननु बाल्यनिमित्ताप्रगल्भवचस्त्वं बाल्येन हेतुना सह बालायामेव वर्तते, वालालम्बनस्मरजनितं तु स्मरेण सह कान्त एव वर्तत इति कथं कार्यकारणयोर्भिन्नदेशत्वमित्याशङ्कय
१. 'य नि', २. 'रः । वि', ३. 'णप्र', ४. 'होच्यत', " 'तमास्त', ६. 'य- स्य', ७. 'शो हे', ८. 'अयैर' क. ख. पाठ :. २. 'नम् । स्व' ग. पाठ :. १०. 'दना- द' ख. पाठः. ११. 'तकप्र' क पाठः १२. 'कार्यत्व' ख. पाठः.
175
Page 176
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। १६१
इत्यत्रे ज्ञेयम्। अत्र च बाल्यनिमित्तमप्रगल्भवचनेमन्यदन्यच्च स्मरनिमित्तैमिति तयोरभेदाध्यवसायः। एवमन्यत्र ज्ञेयम् ॥
विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसङ्गटना च विष- मम् ॥४५॥
विरोधप्रस्तावेनेह लक्षणम्। तत्र कारणगुणप्रक्रमेण का- र्यमुत्पद्यत इति प्रसिद्धौ यद् विरूपं कार्यमुत्पद्यमानं दृश्यते, तदेकं विषर्मेंम्। तथा कञ्चिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भः, यावदनर्थप्राप्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूपसङ्गटनयोर्विरूपयोश्र सङ्गटना तृतीयं विष- मम्। अननुरूपसंसर्गो हि विषमम् । क्रमेण यथा-
भेदेऽमेदलक्षणयातिशयोक्त्यैकत्वे भिन्नदेशत्वमिति परिहरति-बाल्यनिमि- त्तमित्यादिना। एवमन्यत्रेति। कातर्यादौ। एवमप्यसङ्गतिर्भवतीति दर्श- नायोदाहरणान्तरोपन्यासः ।।
विरूपकार्येत्यादि। अस्य विषमस्य सामान्यलक्षणं स्वयमेव वक्ष्य- ति-'अननुरूपसंसर्गो हि विषममि'ति । अत्र विरूपकार्ये कारणेगुणवि- रुद्ेन गुणेन कार्यसंसर्गादननुरूपसंसर्गः, द्वितीये इष्टसिद्धयर्थस्य व्यापार- स्यानिष्टफलयोगात् । तृतीये पुनः स्फुट एव सः । विरोधप्स्तावेनेति। विरोधश्चात्र प्रसिद्धेरन्यथाभावः । स चादे कार्येण कारणगुणाननुविधानाद्, द्वितीये अर्थसाधनतया प्रसिद्धस्यानर्थोत्पादनात्, तृतीये अघटमानत्वेन प्रसि- द्धयोर्घटनात्। यावदनर्थपाप्तिरपीति। अत एव विशेषोक्तेर्भेदः । विरूपयोरि-
१. 'त्र । बा', २. 'नत्वमन्यादृगन्यच्च' क. ख. पाठः. ३. 'तकाम' क. पाठः. ४. 'मम् । क' क. ख. पाठः. ५. 'णवि' ख. पाठः. 4. 21
176
Page 177
१६२ अलङ्कारसूत्रं [विषम-
"सदः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्ड यशस्त्रिलोकाभरणं प्रसूते ॥"
"तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते। वाराणसि! त्वयि तु मुक्तकलेबराणां लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ।।" "अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः क मुक्ताहारोऽयं क च स पतगः क्केयमबला। क्क तत् कन्यारत्नं ललितमहिभर्तुः क् च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति॥"
अत्र कृष्णवर्णाच्छुक्कवर्णोत्पत्तिः, कलेबरात्यन्तापहारलक्षणानर्थो- त्पत्तिः, अत्यन्ताननुरूपाणाञ्चारण्यान्यादीनां परस्परसङ्गटनं क्र- मेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायि- नीति शुद्धोदाहरणमेभ्यूह्यम् ।।
त्यस्य व्याख्या-अत्यन्ताननुरूपसङ्वटनयोरिति। व्याजस्तुतीति। निन्दा- मुखेन गङ्गाया: स्तुतिप्रतीतेः । शुद्धोदाहरणमिति । अलङ्कारान्तरासङ्कीर्णम्। यथा - करमात्रमनिच्छवः प्रदातुं कृतवन्तः सह ये त्वया विरोधम्। त इमे यदुनाथ ! पार्थिवास्ते निखिलां प्रादिपत स्वराज्यलक्ष्मीम् ।। अत्र विरोधक्रियया न परमभिमतस्य कराप्रदानस्यानवापतः, यावदनभिमतस्य सकलराज्यप्रदानस्यावाप्तिरपि ।।
१. 'द्धवलव', २. 'मूह्यम् ।' क. ख. पाठ :.
177
Page 178
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १६३
तद्विपर्ययः समम् ॥ ४६॥
विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रय- मुक्तं, तथापि तच्छब्देन सम्भवादन्त्यो भेदः परामृश्यते। पूर्वकभेदद्दर्यविपर्ययस्यानलङ्गारत्वात्। अन्त्यभेदे विपर्ययस्तु चारुत्वात् समाख्योऽलङ्कारः । स चाभिरूपानभिरूपविषयल्वेन द्विविधः । आद्यो यथा-
"तमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः । अयि द्न्द्ं दिष्ट्या तदिह सुभगे! संवदति वा- मतः शेषं चेत् स्याज्जितमेथ तदानीं गुणितया।"
अत्राभिरूपस्यैव •नायकयुगलस्योचितं सङ्गटनमाशंसितम् । द्वितीयो यथा-
सूत्रे तद्विपर्यय इति तच्छब्देन भेदत्रितयविशिष्टं विपमं यद्यपि पराम- र्शनयं, तथापि विरूपसङ्गटनालक्षणान्त्यभेदविशिष्टमेव परामृश्यत इत्याह- तथापीति। सम्भवाद् अलक्कारत्वसम्भवात्। पूर्वकभेदद्वयविपर्ययस्य सरूप- कार्यार्थोत्पत्तिलक्षणस्य। अनलङ्गारत्वादिति। स्वतः प्राप्तत्वेन वैचित्र्याभा- वात्। चारुत्वादिति। तद्विपर्ययस्य सरूपसङ्वटनस्य क्वाचित्कत्वेनासुलभ- त्वात्। आशंसितमिति। अतः शेषं चेत् स्यादित्यनेन । अत्यन्तानभिरूप-
१. 'ते । न पू', २. 'यमपि तद्विप' ग. पाट: ३. 'स्याल' ख. पाठः. ४. 'द', ५. 'मिह त' क, ख. पाठ :.
178
Page 179
१६४ अलङ्कारसूत्रं [विचित्र-
"चित्रं चित्रं बत बत महच्चित्रमेतद् विचित्रं जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कबलनकलाकोविदः काकलोकः ।।"
अत्रानभिरूपाणां निम्बानां काकानां च समागमः प्रशंसितः । आनुरूप्यात् समत्वव्यपदेशः ॥
विरोधमूलं विचित्रं लक्षयति-
स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् ॥४७।। यस्य हेतोर्यत् फलं, तस्य यदा तद्विपरीतं भवति, तदा त- द्विपरीतफलनिष्पत्यर्थ कस्यचित् प्रयत्न उत्साहो विचित्रालङ्कारः। आश्चर्यप्रतीतिहेतुत्वात्। न चायं प्रथमो विषमालङ्कारप्रकारः । स्वनिषेधमुखेन वैपरीत्यप्रतीतेः । विपरीतप्रतीत्या तु स्वनिषेध-
निम्बकार्केलोकसमुचितसङ्वटनजनितविस्मयाक्षिप्तचित्तत्वेन वक्तुश्चित्रं चित्र- मित्यादौ न पौनरुक्त्यं दोषाय।।
विरोधमूलमिति। विरोधगर्भालङ्गारमध्येऽतादशमपि समं विषमप्रस- ङ्रेन लक्षयित्वा पुनर्विरोधमूलत्वेन प्रकरणसङ्गतं विचित्रं लक्षयतीत्यर्थः । स्व- विपरीतेति। सूत्रे स्वशब्देन स्वीयमुच्यते। तच्च फलसेन्निध्युपस्थापितहेतुस- म्बन्धि गृह्यत इत्याह- यस्य हेतोरित्यादिना । तस्य हेतोः ।तद्विपरीतं फलविपरीतम्। प्रथमः विरूपकार्योत्पत्तिलक्षणः । स्वनिषेधेति। स्वशब्देन
१. 'कसमु', २. 'सिद्धयुप' ख. पाठ :.
179
Page 180
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १६५
स्तस्य विषयः । यथा- 'तमालनीला शरदिन्दुपाण्डु' इत्या- दौ। इह त्वन्यथा प्रतीतिः । यथा-
"घेत्तुं मुञ्चइ अहरो अण्णत्तो वळइ पेक्खिउं दिट्ठी। घडिदुं विहडन्ति भुआ रआअ सुरअम्मि वीसामो ॥" अत्र मोचनवलनविघटनविश्रमाणों यथाकमं ग्रहणप्रेक्षणघटन- रमणानि विपरीतानि फलानि प्रयत्नविषयत्वेन निबद्धानि। यथा वा-
"उन्नत्यै नमति प्रभुं प्रभुगहान् द्रष्टं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया।
हेतुः परामृश्यते। यदि ग्रहीतुमिच्छति, तत् किमिति मुञ्चतीति मोचनस्य हेतोर्निषेधमुखेन ग्रहणस्य कार्यस्य वैपरीत्यं प्रतीयते । विपरीतप्रतीत्येति। यदि कृपाणी नीला तत् कथं धवलं यशो जनयतीति कार्यस्य धवलत्वलक्षण- वैपरीत्यप्रतीत्या कारणगतस्य नीलत्वस्य प्रतिषेधस्तस्य विषमालङ्कारस्य विष- यः। किञ्चात्र विचित्रे कस्यचिद् यत्नाद् विपरीतोत्पत्तिः, विषमे स्वत एवेत्यपि भेदो द्रष्टव्यः । घेत्तुमित्यादि।
ग्रहीतुं मुच्यतेऽधरोऽन्यतो वलति प्रेक्षितुं दृष्टिः । घटितुं विघटेते भुजौ रताय सुरतेषु विश्रमः ॥ अत्र मोचनेति। मोचनादीनां हेतूनामग्रहणादिफलविपरीतानि ग्रहणादीनि कान्तप्रयत्नविषयत्वेनोपनिबद्धानि। उन्नत्यै इत्यादि । पूर्वत्र वैपरीत्यमुन्नेयम्,
१. 'ण्दु यशस्त्रिलोकाभरणं प्रसूते इत्यत्र । इह' ख. पाठः. २. 'णां ग्र', ३. 'तफ' क. ख. पाठः.
180
Page 181
१६६ अलङ्कारसूत्रं [अधिक-
प्राणान् प्राणितुमेव मुञ्चति रणे क्विश्नाति भोगेच्छया सर्व तद् विपरीतमेव कुरुते तृष्णान्धदक् सेवकः ॥"
अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः ॥
आश्रयाश्रयिणोरनानुरूप्यमधिकम् ॥४८॥ विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधो- त्थापकल्वात्। तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परि- मितत्वाद् वा आश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद् वा स्यात। क्रमेण यथा-
अत्र तु विपरीतमेव कुरुत इति शब्दोपात्तम्। तदेवाह-अत्र विपरीतेति। क्चिद् विपरीतफलनिष्पत्त्यर्थ यत्न आरोपितो भवति। यथा- सन्नद्धे त्वाय सम्प्रहारविधये संवर्तवैश्वानर- ज्वालाचण्डिमदर्पभअ्जनकलादक्षप्रतापोष्माणे। आरोहन्त्यवरोडमेव तुरगान् हातुं च गृद्न्त्यसी- नागच्छन्त्यपयातुमाहवमहीं सङ्गामधीर! द्विपः ॥ अत्र तुरगारोहणादीनि तुरगावस्थानादिफलानि विपरीतावरोहणादिफल- त्वेनोपनिबद्धानि। तत्र च यत्नाभावेऽपि तत्फलदर्शनादू यत्न: शत्रुष्वारो- पितः । क्वचिच्छ्ेषावष्टम्भेनापि दृश्यते। प्रतिभटगण: पुरस्ते तिष्ठति सरुषः पुर स्थितिं हातुम्। अधिकबलेन यदूद्वह! विग्रहमुत्त्यै त्वया विगृह्वाति।। आश्रयाश्रयिणोरन्यूनानतिरिक्तत्वमानुरूप्यम्। तदभावोऽनानुरूप्यम्। तत्र प्रथमे भेदे आश्रयस्यातिरिक्तत्वमाश्रयिणो न्यूनत्वं, द्वितीये त्वन्यथा।
१. 'स्यात् । य' क. ख. पाठ :.
181
Page 182
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १६७
"दौरत्र कचिदाश्रिता प्रविततं पातालमत्र क्वचित् क्वाप्यत्रैव धराधराधरजलाधारावलिर्वर्तते। स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्॥" "दोर्दण्डाश्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥"
पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारि- मित्यं चारुत्वहेतुः । उत्तरत्र तु टङ्कारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम्।।
दयौरिति। अत्रेत्यादि। इहात्रेति शब्दैस्त्रिभिर्नभः परामृश्यते। स्वर्गादीनामे- कदेशवृत्तित्वादवगतेन नभसः स्कीत्यतिशयेनोपजनितमहो इति वाचिकानु- भावसूचितं विस्मयं कियदिदमित्यादिना क्षिपति। यस्य नभस इत्थमवस्थितैः एवंविधैर्महृद्धिरपि स्वर्गादिभि: पूरणं दूरे अस्तु मा भवत्वित्यर्थः । यच्छून्यामिति नाम, तदपि नास्तं गतमित्यन्वयः। अयमर्थः-एवं महान्तः स्वर्गादयो नभसो वैपुल्यातिशयात् पूरणं मा कृषत । एतदभ्युपगच्छामः । एष्वन्तर्वर्तिष्वप्यद्यास- स्विवान्तर्गतपदार्थराहित्यलक्षणं शून्यत्वं यस्यानुवर्तते, तस्य नभस एषां क्वाचित्कत्वेन स्फीत्यतिशयवर्णनं कीदृािति।
१. 'दनव' क. पाठ :. २. 'ण' ख. पाठः.
182
Page 183
१६८: अलक्कारसूत्र [विशेष-
परस्परं क्रियाजननेऽन्योन्यम् ॥४९॥
इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परजन- नस्य विरुद्धत्वात् । क्रियाद्वारक यत्र परस्परोत्पादकत्वं, न स्वरूपनिबन्धनं, सवरूपस्य तथात्वोक्तिविरोधात, तत्रान्योन्या- ख्योऽलङ्कारः । यथा- "कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य। अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः।।"
अत्र शोभाख्यक्रियामुखकं परस्परजननम् ॥
अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्त- रकरणं च विशेषः ॥। ५०।।
विरोधप्स्ताव एवेति। एकस्यैकां क्रियां प्रति कर्मकर्तृत्वयोर्विरोधात्। क्रियाद्वारकमित्यादिना विरोधसमाधि दर्शयति। एकस्यैव जन्यत्वे जनकत्वे च विरोधः, इह तु भूषणादिक्रियाया जन्यत्वं कण्ठमुक्ताकलापयोर्जनकत्व- मिति न विरोधः । क्रियागतजन्यत्वं कण्ठहारनिष्ठत्वेन प्रतीयत इत्यामुखे विरोधस्फुरणम्। तथात्वोक्तिविरोधादिति। एकस्य कार्यत्वकारणत्वयोर्विरो- धस्य दुष्परिहरत्वात्। असम्भविनः सम्भवित्वेन निबन्धो विशेष इति सामान्यलक्षणं भेदद- रशनवशादुन्नेतुं शक्यमित्यभिसन्धाय भेदानेव दर्शयति-अनाधारमित्या- दिना। नभ:प्रभृतेर्विभुद्रव्यस्य युगपदनेकत्रोपलम्भे सत्यपि न वैचित्र्यमि-
१. 'कु' क. पाठः.
183
Page 184
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १६९ इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्त- त्परिहारेणाधेयस्योपनिबन्धः, स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकत्र वर्तमानं क्रियते, स द्वितीयो विशेषः । यच्च किश्चिदारभमाणस्यासम्भाव्यवरत्वन्तरकरणं, स तृतीयो विशेषः। आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा- "दिवम प्युपयातानामाकल्पेमनत्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथममिव कवयो न ते वन्याः॥" "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्गे सा दिशि दिशि च सा तद्वियोगाकुलस्य। हंहो चेतःप्रमितिरेपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽ्यमद्वैतवादः ॥।" "निमेषमपि यद्येकं क्षीणदोषे करिप्यसि । पदं चित्ते तदा शम्भो! किंन सम्पादयिष्यास ।"
अत्र कबीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरनन्यत्र-
त्यत आह-परिमितमिति।इह अधिकादिप्रस्तावे। आनुरूप्येति। आधेयस्य सत आधारमन्तरेणावस्थानात्, परिमितस्यानेकदेशव्यापित्वात्, कार्यान्तरप्रवृ- त्तेन कार्यान्तरस्यापि करणादाँनुरूप्यस्य परिहारः । कबीनामाधाराणामिति।
१. 'त' ग. पाठः. २. 'ल्पं गु', ३. 'णाश्रया ये', ४. रितरा', ५. 'भावः ।I', ६. 'म्भावयि' क. ख. पाठः. ७. 'द', ८. 'प' क. पाठः.
- 'इहानुरप्यपरिहाररूपविरोधप्रस्तावादुक्तिः' इति मूलपाठं मन्यते व्याख्या। 1. 22
184
Page 185
१७० अलक्कारसूत्र [व्याघात-
भावो विषयार्थ इति विषयत्वेने तेषामाधारत्वात् । एकस्या एव योषितः प्रासादादी युगपदवस्थानं, चित्तविषये पदकरणे प्रस्तु- तेऽपि भावि लोकोत्तरवस्तुसम्पादनं क्रमेण ज्ञेयम् ॥
यथा साधितस्य तथेवान्येनान्यर्थाकरणं व्याघातः।।५१।।
कञ्चिदुपायविशेषमवलम्व्य केनचिद् यन्निष्पादितं वस्तु, तत् तैतोऽन्येन केनचित तत्प्रतिदन्दिवना तेनैवोपायविशेषेण यदन्यथां क्रियते, स निप्पादितवस्तुव्याहतिहेतुत्वाद् व्याघातः । यथा- "हृशा दृग्धं मनसिजं जीवयन्ति दशैव याः । विरूपाक्षस्य जयिनीस्ता: स्तुवे चारुलोचनाः ॥"
अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निप्पादि- तम्। मृगनयनाभि: पुनस्तेनैवापायेन तस्य जीवनविषयत्वं
यद्यप्याकाशाधारा गिरस्तथापि ताः ग्रति कवीनां वैपयिकाधारत्वमस्त्येवे- त्याह-अनन्यन्नभाव इति। यथा गगने विहगश्चरतीत्यत्र विहगचरण- स्यानन्यत्रभावाद गगनं वैपयिकमधिकरणं, तथा कविभ्योऽन्यत्राभावाढ गिरोऽपि तद्विपयत्वेन तदावारा इत्युच्यन्ते। भावीत्यादि। लृदप्रयोगान्निर्वा- णप्राप्तिलक्षणलोकोत्तरवस्तुसम्पादनं भावि।। सूत्रे यथातथोपादानादवगतमुपायैक्यमन्येनेत्यनेनावसितं साधयित्रो- भेदमन्यथेत्यनेन लब्चं तयोविरोधं च दर्शयति-कंश्चिदित्यादिना । सोऽ-
१. 'नै', २. 'श्ी', ३. 'तेनान्ये', ८. 'चित. प्र', ५. 'थी' क. ख. पाठः. ६. 'मः' क. पाउः, ७. 'न ्जी' क, ख, पाठ. ८. 'णं', ९, 'रस' स. पाठः. १०. 'कि' व्याख्यापाठः,
185
Page 186
निरूपणम् ] १ ७१
क्रियते। तच्च दाहविषयत्वस्य प्रतिपक्षभृतम् । तेन व्याघाता- ख्योऽयमलङ्कारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरू- पाक्षस्येति चारुलोचना इति च व्यतिरेकगर्भवेव वाचकौ। जयिनीरिति व्यतिरेकोक्तिः । पूर्ववदिह प्रकरणे लक्षणम् ॥ प्रकारान्तरेणाप्ययं भवतीत्याह- सौकर्येण कार्यविरुद्धक्रिया च ॥ ५२ ॥ व्याघात इत्येब। किश्चित् कार्य निष्पादयितुं सम्भाव्य- मानः कारणविशेषस्तत्कार्यविरुद्धेनिप्पादकत्वेन यत् समर्थ्यंत, सोडपि सम्भाव्यमानकार्यव्याहतिनिबन्धनत्वाद् व्याघातः । कार्यविरुद्कार्यनिप्पत्तिश्र कार्यापेक्षया सुकरा। तस्य कारण- स्यात्यन्तं तदानुगुण्यात।न त्वत्र कार्याभिमतस्य कार्यत्वाभावः।
पीति। सः व्याघातः। व्यनिरेकनिमित्तत्वेनेति। हरादुपमानादुपमेयानां चारुलोचनानामाधिक्यलक्षणस्य व्यतिरेकस्यानुग्राहकत्वेन। व्यतिरेकगर्भा-
वित्यर्थः । पूर्ववदिति। विशेषवढ- विरोधप्रम्तावादित्यर्थः ॥ मकारान्तरणेति। पूर्वत्र निम्पन्नस्य कार्यस्य तद्विरुद्धजननादन्यथाक रणम्। इह तु कार्यविशपनिष्पादकतया सम्भावितस्य कारणस्य तद्विरुद्धकार्यनि पादकत्वेन समर्थनादन्यथाकरणमित्यस्य प्रकारान्तरता। अत एव तद्जेदकत्वेना- वचनम् । नामसाम्यं तु व्याहतिहेतुत्वलक्षणस्य निर्वचनस्य साधारण्यात्। सौकर्येणेत्यादि। समर्थ्यमानेति शेपः । कार्यत्वेन सम्भावितस्य विरुद्वं यत् कार्य, तस्य सौकर्येण हेतुना निप्पत्तिसमर्थनमिति सूवार्थः। चशब्देन व्याघा- त इत्येतदनुकृष्यत इत्याह-व्याघात इत्यवेति। अत्यन्तं तदानुगुण्यादिति ।
१. 'द्वपरिनि' क. ख. पाठः. २ 'पयप्र' ख. पाठः.
186
Page 187
१७२ अलक्कारसूत्रं [व्याघात-
तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात। अत एव द्वितीयाद् वि- षमाद् भेदः । तत्र हि कार्यस्यानुत्पत्तिरनर्थस्ये चोद्रमनम् । इह तु कार्य सुखकार्य न भवति। तद्विरुद्धस्यानर्थव्यतिरेकि- णोडप्यंत्र सुष्टुकार्यत्वाते। उदाहरणं-हर्षचरिते राज्यवर्धनं प्रति श्रीहर्पोक्तिणु-"यदि बाल इति, सुतरामपरित्याज्योऽस्मि। रक्षणीय इति, भवह्ुजपञ्जरॅमेव रक्षास्थानम्" इत्यादि। अत्र राज्यवर्धनस्य श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारण- त्वेन यत् सम्भावितं, तत् प्रत्युताप्रस्थापनलक्षणस्य विरुद्ध- स्य कार्रणत्वेन सुकरतया समर्थितमिति व्याघातोऽलङ्कारः॥
एवं विरोधमूलानलङ्कारान् निर्णीय शृङ्धलाबन्धेन वि- चित्रिता अलङ्कागा लक्ष्यन्ते। तत्र-
सम्भाव्यमानकार्यापेक्षया विरुद्धकार्य ग्रति निप्पादकत्वस्य स्फुटतया प्रतिभा- सादित्यर्थः । नन्वेवं विरुद्वकार्योत्पत्तिरविशिष्टेत्यनर्थोत्पत्तिलक्षणाद् विपमभे- दादस्य को भेद इत्याशङ्गयाह-अन एवेत्यादि। अत्रातरशब्देन न त्वत्रेत्या- दिना प्रतिपादितः अस्मिन् व्याघाते कार्याभिमतस्यापीति कार्यत्वं तद्विरुद्ध- स्यापि, विरुद्धेषु पुनः सौकर्यमतिशच्यत इत्येतावदित्येवंरूपोऽर्थः परामृ- श्यते। भेदमेवोपपादयति-तत्रेति। विपमे कारणस्याभिमतकार्यानुत्पादक- त्वमुत्पाद्यमानस्यानर्थत्वं च नियमेनापेक्षितम् । व्याघाते द्वे अपि कार्ये उत्पाद्ये। उत्तरकार्यस्थानर्थत्वं च न विवक्षितम् । सौकर्यमेव विवक्षितमि- त्यर्थः । तत् प्रत्युतेति । (तद्) बाल्यरक्षणीयत्वादि।।
१. 'यांनु', २. 'स्यागम', ३. 'ये का', 'पि सु', ५. 'त् । यथा-ह', ६. 'ज्यः । र', ७ 'रं र', ८. 'यंस्य सु' ख. पाठः. ९. 'त्राल' क. ख. पाठः. १०. 'तु सौ' ख. पाठः. ११. 'त्र हीति' क, ख्र पाठः. १२. 'मुपपाद्य' क. पाठः
187
Page 188
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् १७३
पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ॥ ५३ ॥ यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते, तदा कारणमालाख्योऽयमलङ्कारः। यथा- "जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥" कार्यकारणक्रम एवात्र चारुत्वहेतु: ।।
यथापूर्व परस्य विशेषणतया स्थापनेSपोहने वैकावली॥ यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति, स एकावल्यलङ्कारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा-
"गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासा: कुसुमायुधस्य ॥"
शृङ्कलाबन्धो नाम शृङ्गलावदुत्तरोत्तरग्रथितत्वेन निबन्धः। कारणमाले- ति। मालावद् बहूनां कारणानां अ्रथितत्वात्। इन्द्रिय(स्यः) जयस्य विनयादी- नशेषान् प्रति कारणत्वं विवक्षितम् । तच्च तथा निर्दिष्टं न चारुतामावहतीति क्रमस्य स्वीकारः ॥ सूत्रे यथापूर्वमित्यत्र वीप्साया दर्शितत्वात् परस्येत्यत्रापि सा द्रष्टव्ये- त्याह-परं परमिति। स्थापनेन निवर्तनेन वेति। विधिमुखेन निषेधमु- खेन वेत्यर्थः ॥
१. 'ख्योडल', २. 'ना', ३. 'ए' क. ख. पाठः.
188
Page 189
१७४ अलङ्कारसूत्रं [मालादीपक-
अत्र वराङ्गना गृहाणां विशेषणं स्थापनीयत्वेन स्थितम्। एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा - "न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम्। न षट्पदोऽसौ न जुगुञ् यः कलं न गुजितं तन्न जहार यन्मनः ॥" अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन निबद्धम्। एवं पङ्कजादीनामलीनषट्पदत्वादि ज्ञेयम् ॥ पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् ॥५५॥ उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली। पूर्व- पूर्वस्य तूत्तरोत्तरं प्रत्युत्कर्षनिबन्धनत्वे मालादीपकम्। मालात्वेन चारुत्वैविशेषमाश्रित्य दीपकप्रस्तावोछ्लङ्गनेनेह लक्षणं कृतम्। गुणावहत्वमुत्कर्षहेतुत्वम् । यथा- "सङ्गामाङ्कणसङ्गतेन भवता चापे समारोपिते संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादिताः। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं नृपते! त्वया सितयशस्तेनापि लोकत्रयम् ।।" अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षोऽभिहितः। समासा-
एकावल्या वैपरीत्यलक्षणः सम्बन्धो मालादीपकस्य तदनन्तरलक्षणे हेतुरित्याह-उत्तरोत्तरस्येत्यादि। कोदण्डादीत्यादिशब्देन शरादयो गरृह्य-
१. 'र्वस्य पृ', २. 'स्योत्त', ३. 'त्वमा' क. ख. पाठः ४. 'तम्' क. पाठ :.
189
Page 190
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १७५
दनक्रियालक्षणनिबन्धनं च दीपकं दीपनविषयाणासुत्तरोत्तरा- भिमतत्वेन कृतम् ॥
उत्तरोत्तरमुत्कर्षः सारः ॥ ५६॥
"राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम्। सौधे तल्पं तत्पे वराङ्गनानङ्गसर्वस्वम् ।"
न्ते, शरादीत्यादिशब्देनाशिशरःप्रभृतयः । कोदण्डादिहेतुकः शरादीनां कोदण्डादिकर्तृकासादनकर्मत्वलक्षण उत्कर्ष: कविनाभिहित इत्यर्थः । उत्कृष्टं हि लोके आसादनीयं भवति। यद्वा, अरिशिरःप्राप्त्यादिलक्षणः शरादीना- मुत्कर्षः । तस्य च कोदण्डाद्यासादितत्वमन्तरेणाभावात् कोदण्डादिहेतुत्वम्। विहित इति पाठे कोदण्डादिभिरिति कर्तरि तृतीया। समासादनेक्रियालक्षण- निवन्धनमिति। समासादनक्रियारूपं निबन्धनं समानधर्मो यस्य तत्तथा। दीपनविषयाणां शरादीनां कर्मणाम्। उत्तरोत्तराभिमतत्व्रेनेति। यथोत्तरमु- त्कृष्टत्वेन। तद्यथा कोदण्डकर्तृकात् शरसमासादनात् शरकर्तृकमरिशिरःसमा- सादनमुत्कृप्टं, ततोऽप्यरिशिरःकर्तृकं भूमण्डलेसमासादनम्, एवमन्यत्रापि । अथवा, उत्तरोत्तरम्य शरारिशिरःप्रभृतेररिशिरोभूमण्डलादिप्राप्तिहेतुत्वेन पूर्व- पूर्वकोदण्डशरादिकर्तृकं समासादनमभिमतमपेक्षितमित्यर्थः ।।
पूर्वपूर्वापक्षयेति। पूर्वपूर्वमवधीकृत्येत्यर्थः । गृहस्येत्यनेन सौधं निर्दि-
१. 'त्कर्षनि' क. ख. पाठः. २ 'नल', ३. 'रासा', ४. 'लासा' ख. पाठः
190
Page 191
१७६ अलक्कारसूत्रं [काव्यलिङ्-
अत्र राज्यापेक्षया वसुधायाः सारत्वं, वसुधापेक्षया पुरस्य। एवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् ॥
एवं शृङ्मलावृत्त्यालङ्गाराः प्रतिपादिताः । अधुना तर्क- न्यायाश्रयेणालङ्कारद्दयमुच्यते। तत्र-
हेतोर्वक्यपदार्थत्वे काव्यलिङ्गम् ॥ ५७॥
यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबध्यते, तत् काव्यलिङ्गम्। तर्कवैल- क्षण्यार्थ काव्यग्रहणम्। नह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते। वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबन्द्व्यः,
श्यते। योजनीयमिति। सौधापेक्षया तदेकदेशवर्ति तल्पं, तल्पापेक्षया तदे कदेशवर्तिन्यनङ्गसर्वस्वभूता वराङ्गना च सारमित्यर्थः ।
तर्कन्यायाश्रयेणेति। केनचिद्धेतुना कस्यचिदर्थस्य प्रतीतिस्तर्कन्यायः। तत्र प्रत्यायकस्य साधनत्वमर्थसामर्थ्यलभ्यं शब्दप्रतिपन्नं चेति दयी गतिः । तत्राद्ये प्रकारे काव्यलिङ्गं, द्वितीये त्वनुमानम्। कारणरूप इत्यादि। वाक्या- र्थगत्या वाक्यार्थवृत्तित्वेने प्रतिपन्नो वाक्यार्थो वाक्यार्थान्तरं प्रति लिङ्गत्वेन निबद्ध इत्यर्थः । विशेषणद्वारेण वेति। विशेषणभूतपदार्थवृत्तित्वेन साध्यं प्रति विशेषणतया आर्थहेतुतया लिङ्गभूतः पदार्थो निवध्यते, न तु तृतीया- पञ्चम्यन्ततया शाब्दहेतुतया। तर्कवैलक्षण्यमुपपादयति-नह्यत्रेति। क्रिय- न्त इति। शब्देन न प्रतिपाद्यन्ते, अर्थसामर्थ्यादवसीयन्त इत्यर्थः । हेतुत्वेनै- वेति। यथा उपक्रम एव साध्यसाकाङ्वतया प्रतीयमानो हेतुत्वेनैव प्रतीयते,
१. 'ते। हे', •. 'मोप' क, ख, पाठः. ३. 'न कारणरूपत्वेन प्र' क, पाठ:,
191
Page 192
निरूपणम् ] १७७
नोपनिबद्धस्य हेतुत्वम्। अन्यथार्थान्तरन्यासान्नास्य भेदः स्यात्। क्रमेणोदाहरणं-
"यत्त्वन्नेत्रसमानकान्ति सलिले ममं तदिन्दीवरं मेधैरन्तरितः प्रिये ! तव मुखच्छायानुकारः शशी। येऽपि त्वद्गमनानुर्सोरिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥"
"मृग्यश्च दर्भाङ्गरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥"
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थ हेतुत्वेनोपन्य- स्तः । उत्तरत्रँ तु सम्बोधने व्यापारयन्त्य इति मृगीविशेषणत्वे-
तथोपनिबन्धनीयः । नोपनिवद्धस्येति। यथा आमुखे नैराकाङ्मयप्रति- भासादप्रतीतं पश्चात् पर्यालोचनया प्रतीयते, न तथा कर्तव्यमित्यर्थः । पूर्वत्रेति। यत्त्वन्नेत्रेत्यादौ। अत्र दैवे धर्मिण्यस्मदर्थसंबन्धिप्रियतमासादृश्य- विनोदाक्षमत्वं वर्मः साध्यः, तत्र प्रियतमावयवसदृशानामिन्दीवरादीनां मज्जनादिक्रिया हेतुः । सा च क्रिया दैवे धर्मिणि कर्तृभूतेवतिष्ठत इति पक्षधर्मता। यः सदृशद्रव्याणि तिरस्करोति, स सादृश्यविनोदाक्षमः । यथा कश्चिद् द्वेष्यजनस्येति व्याप्तिप्रदर्शनम्। दैवं च सदृशानीन्दीवरादीनि तिर- स्करोतीत्युपसंहारः। तस्मात् सादृश्यविनोदाक्षममिति निगमनमित्येतत्सर्व-
१. 'दो भवेत् । क', २. 'ण यथा -- य'. ३. 'री', ४. 'का', 'यशसस्ते', ६. 'थ', ७. 'त्र स' क. ख. पाठः. ८. 'अ' ख. पाठ :. .. 23
192
Page 193
१७८ अलक्कारसूत्रं [काव्यळिङ्ग-
नानेकपदार्थो हेतुरुक्तः । एवमेकवाक्यार्थपदार्थगतत्वेन काव्य- लिङ्गमुदाह्नियते। यथा-
"मनीषिता: सन्ति गृहेषु देवता- स्तप: क्व वत्से ! क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।।"
"यद्विस्मयस्तिमितमस्तमितान्यभाव-
तत्सन्निधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव क्कथमानमास्ते ॥"
पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेध मनीषिता इति वाक्यार्थभूतो
मर्थसामर्थ्यादवसीयते, न तु शब्दत इति तर्कवैलक्षण्यम्। अनेकपदार्थ इति। व्यापारयन्त्यो दिशीत्यादिपदपश्चकप्रतिपादितं मृगीलक्षणधर्मिगतत्वेन संबोधनप्रयोजकत्वं साध्यं, तत्र हेतुर्विशिष्टलोचनव्यापारणं, तस्य च कर्तृभू- तासु मृगीपु वृत्तेः पक्षधर्मत्वमस्त्येव । संबोधनविलोचनव्यापरणयोः साध्य- साधनयोर्व्याप्तिरदेशिकसंवोधयितरि देशिके सुग्रहैवेति व्याप्त्यादयः पूर्ववदार्थाः, न तु शाब्दा इति तर्कवैलक्षण्यम् । पूर्वत्रेत्यादि । तपः क वत्से! क च तावकं वपुरिति प्रतिपादितस्य पार्वतीलक्षणधर्मिगतस्य तपोनिषेधविषयत्वा- त्मनः साध्यस्य निजगहसन्निहिताभिमतदेवताकत्वं मनीषिताः सन्ति गृहेषु
३. 'थंग', २. 'रूपो दे' क. ख पाठ:
193
Page 194
निरूपणम् ] सव्याखयालक्कारसर्वस्वोपेतम्। १७९
हेतुर्निर्दिष्टः । उत्तरत्र पुनरस्तमितान्यभावमित्यत्र विस्मयस्तिमि- तमिति विशेषणद्दारेण पदार्थः ॥।
साध्यसाधननिर्देशोऽनुमानम् ॥५८॥
यत्र शब्दवृत्तेन पक्षधर्मतान्वयव्यतिरेकवत् साधनं सा- ध्यप्रतीतये निर्दिश्यते, सोऽनुमानालङ्कारः । विच्छित्तिविशेष- श्वात्रार्थादाश्रयणीयः । अन्यथा तर्कानुमानात् किं वैलक्षण्येम्। उदाहरणं- "यथा रन्ध्रं व्योम्नश्चलजलद्धूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्र ककुभ- स्तथा मन्ये लभः पथिकतरुषण्डे स्मरदंवः ॥"
अत्र धूमसफुलिङ्गकपिलदिक्तवानि वह्निलिङ्गानि त्रिरूपत्वाद् द- वशब्दप्रतिपादितं वहिं गमथन्तात्यनुमानम्। रूपकमूलत्वेनाल-
देवता इत्येकवाक्यार्थात्मकं साधनम्। तयोश्ष व्याप्त्यादयः पूर्ववद् द्रष्टव्याः ॥
पक्षधर्मतेत्यादि। पक्षधर्मता च सिसाधयिपितधर्मविशिष्ट धर्मिणि वृत्तिः। अन्वयः स्वान्वये साध्यान्वयः । व्यतिरेकः साध्यव्यतिरेके स्वव्यतिरेकः । एतत्रितयवत्। अर्थादिति। काव्यशोभाकरत्वेनालङ्कारत्वसंभवात् । अन्यथा विच्छित्तिविशेषानाश्रयणे। त्रिरूपत्वादिति । पक्षधर्मत्वं, सपक्षे सत्त्वं,
१. 'णपदद्वा', २. 'ण्यम्। यथा-ग्र' क. ख. पाठ:,
194
Page 195
१८० अलङ्कारसूत्रं [अनुमान-
क्ारान्तरगर्भीकारेण विच्छित्त्याश्रयणात् तर्कानुमानवैलक्षण्यम्। क्कचित्तु शुद्धमपि भवति। यथा-
"यत्रैता लहरीचलां चलदशो व्यापारयन्ति भ्रुवं यत् तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः । तच्क्री कृतचापमेंश्चिचितशरप्रेङ्वत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सेदासां स्मरः ॥"
अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्ये- Sनलङ्कृतमेव साधनमिति शुद्धमनुमानम्। प्रौढोक्तिमात्रनि- प्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम्। अयमत्र पिण्डार्थः-इहास्ति प्रत्याय्यप्रत्यायकभावः। अस्ति च समर्थ्य- समर्थकभावः । तत्राप्तीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्र-
विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि। जलद्धूम इत्यादिरूपकवशादुत्थित- त्वेनानुमानस्य तन्मूलत्वम्। शुद्धम् अलङ्गारान्तरासङ्गीर्णम्। स्मरपुरोगामित्वे इति। योपितां पुरः स्मरगमन इत्यर्थः । ननु यद्यत्रालङ्कारान्तरस्यानवतरः, तत् कथं तर्कानुमानवैलक्षण्यमत आह-परौढोक्तीति। योषिद्भ्रूव्यापारविषयी- कृतस्य रागो वर्धत इत्येतावदेव लोके सम्भवति, न तु स्मरमार्गणपतनम्, अदृष्टत्वात्। एवमेव कुण्डलितकोदण्डस्य स्मरस्य धावनमप्यसम्भवि। अतः साध्यसाधनयोरुभयोरपि कविनिवद्धस्य प्रतिभामात्रनिर्वृत्तत्वात् प्राढोक्तिमात्र- निष्पन्नत्वम्। अर्थान्तरन्यासकाव्यलिङ्गानुमानानां हेतुहेतुमद्भावावलम्वनेन प्रवृत्तावविशिष्टायामपि विशेपं दर्शयितुमाह-अयमत्रेति। प्रत्याय्यप्रत्यायक-
१. 'संहित', २. 'त', ३. 'न वि' क. ख. पाठः
195
Page 196
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १८१
तीतसमर्थने तु समर्थ्यसमर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभा- वेऽनुमानम्। समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हे- तुत्वेनोपादाने "नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः"
इत्यादाविव न कश्रिदलङ्गारः । यत्र तूपात्तस्य हेतुत्वं यथोदा- हते विषये 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षाः' इत्यादौ, तत्रैव का- व्यलिङ्गम्। यत्र तु वाक्यार्थस्य हेतुत्वं, तत्र हेतुत्वप्रतिपादकम- न्तरेण हेतुतवेनोपन्यासे काव्यलिङ्गमेव। तटस्थत्वेनोपन्यस्तस्ये तु हेतुत्वेऽर्थान्तरन्यासः । एवञ्चास्यां प्रक्रियायां कार्यकारणैयो- र्वाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थ्यवाक्यार्थस्य सापेक्षत्वात् ताटस्थ्याभावात् । ततश्र सामान्यविशेषभाव एवा- र्थान्तरन्यासस्य विषयः । यत् पुनरर्भ्रान्तिरन्यासस्य कार्यकारण-
समर्थ्यसमर्थकभावयोः प्रत्याय्यं सम्थ्य च हेतुमत्, प्रत्यायकः समर्थकश्च हेतुः। अप्रतीतप्रतीतविषयत्वेन प्रत्यायनसमर्थनयोरभेदात् प्रत्याय्यप्रत्यायकसमर्थ्य- समर्थकभाघयोर्भेदः । उपात्तस्य विशेपणद्वारा मृग्यश्चेत्यादौ व्यापारयन्त्य इत्यस्य। तत्रैवेत्येवकारेण हेतुत्वेनोपादानं व्यवच्छिनत्ति। हेतुत्वेनोपन्यासे सापेक्षत्वेन निर्देशे। तटस्थत्वेन निरपेक्षत्वेन। एवश्चेति। काव्यलिङ्गार्था- न्तरन्यासयोर्व्यवस्थितविषयत्वे। कार्यकारणेति। 'सहसा विदधीते'त्यादौ
१ 'तयोप', २. 'स्य हे', ३. 'णवाक्या' क. ख. पाठः. ४. 'योर्भेदः ॥' ख. ग. पाठ :.
196
Page 197
१८२ अलक्कारसूत्रं [यथासङ्गय-
गतत्वेन समर्थकत्वमुक्तं, तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तरस्यौङ्टैराश्रितत्वात्। उक्तलक्षणाश्रयणे तु 'यत्वन्नेत्रे'ति विविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयं गमनिकाश्रयितव्या॥
एवं तर्कन्यायमूलमलङ्कारद्वरयमिह प्रतिपादितम्। अधु- ना वाक्यन्यायमूला अलङ्कारा उच्यन्ते। तत्र- उद्दिष्टानामर्थानां क्रमेणानुनिर्देशो यथासंख्यम्॥ ५९॥
ऊर्ध्व निर्दिष्टा उद्दिष्टाः । पश्रान्निर्देशोऽनुनिर्देशः। स चार्थादर्थान्तरगतः । सम्बन्धश्रात्र सामथ्यात प्रतीयते। ऊर्ध्व
'पृथ्वि! स्थिरीभवे'त्यादौ च। उर्क्त्लक्षणं हेतोवक्यिपदार्थत्वे इत्येवंरूपम् । तद्विषयत्वेन काव्यलिङ्गविषयत्वेन। लक्षणान्तरम्य प्रत्याय्यप्रत्यायकभावविपय- हेतुत्वात्मनः । यदुक्तं- "श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥।" इति। विविक्तो विषय इति। कार्यकारणभावप्रतीतिशून्यो ज्ञाप्यज्ञापकभाव- मात्रोपलक्षितः॥ वाक्यन्यायो मीमांसान्यायः । ऊर्ध्व निर्दिष्टाः प्रथमं निर्दिष्टा इत्यर्थः । अर्थादिति। प्रथमनिर्दिष्टानामेव पश्चान्निर्देशे पौनरुत्त्यप्रसङ्गात् । अनुनिर्देशो नामैकैकस्मिन् पदार्थे एकैकसंसर्गख्यापनम्। सम्बन्धश्चेति। प्रथमनिर्दिष्टानां पश्चादर्थान्तरनिर्देश इतीयत्युच्यमाने वाक्यस्यासंबद्धार्थताप्रसङ्गात्, अत्र प्र-
१. 'गणीया ।', २. 'यं प्र', ३. 'नां क' क. ख. पाठः. ४. 'तरल' क. पाठ :.
197
Page 198
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १८३
निर्दिष्टानामर्थानां पश्रान्निर्दिष्टैरर्थैः क्रमेण सम्बन्धे यथासङ्य- मिति वाक्यार्थः । अन्ये त्विममलङ्गारं क्रमसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थ चेति द्विधा। शाब्दं यत्रासमस्तानों पदानामसमस्तैरेव पदैरर्थद्वारकः सम्बन्धः, तत्र, क्रमसंबन्धस्या- तिरोहितस्य प्रत्येयत्वात्। आर्थ तु यत्र समासः क्रियते, तत्र, समुदायस्य समुदायेन सह सम्बन्धस्य शाब्दत्वाद्, अर्थानुगुण्य- पर्यालोचननें त्ववयवगतः क्रमसम्बन्धः प्रतयिते। तेतोऽत्र यथा- संख्यस्यार्थत्वम्। आद्यस्योदाहरणं-
"लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव! त्वय्यवनीभरक्षमभुजे निप्पादिते वेधसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥" अत्र लावण्यौकँस्त्वप्रभृतीनामिन्द्वादिभिः क्रमसम्बन्धस्याव्यव-
थमनिर्दिष्टसम्बन्ध्यन्तरनिर्देश इति प्रतीतेः । वाक्यार्थ इति। सूत्रस्येति शेपः। संख्योपलक्षितक्रमानतिक्रमेण पदार्थान्वयप्रतीतिरस्य यथासंख्यत्वम्। पदांना- मर्थ प्रति गुणभावेन मिथः सम्बन्धाभावादर्थद्वारक इत्युक्तम् । अतिरोहितस्ये- ति। समुदायेसम्बन्धप्रतीतावनुपक्षीणैः शब्दैरैव प्रत्याय्यत्वादित्यर्थः । अर्थानु- गु(ण्यमि? ण्ये)ति । अवयवसबन्धमन्तरेण समुदायसम्बन्धानुपपत्तेः । क्रम- सम्बन्धस्याव्यवहितत्वेनेति । क्रमपूर्वकस्याक्षेप्याक्षेपकभावलक्षणस्य सम्ब-
१. 'नधो', २. नामेव प', ३. 'गमप', ४. 'नाव', ५. 'तेनात्र', ६. 'दं यथा-ला', ७. 'कः प्र' क. ख. पाठः. ८. 'दार्थाना' ख. पाठः. ९. 'यप्र', ख. ग. पाठ :.
198
Page 199
१८४ अलक्कारसूत्रं [पर्याय-
हितत्वेन प्रतीते: शाब्दं यथासंख्यम् । द्वितीयस्य यथा-
"कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शंवैः। जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ।!" अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सं-
न्धस्य सम्बन्धान्तरंप्रतीत्यव्यवधानेन प्रतीतेः। सूत्रे उद्दिष्टानामिति बहुवचन- निर्देशात् क्रमविषयाणां बहुत्वं विवक्षितम् । तच्च बहुत्वं बहूनां बहुभिः सहैकवारं द्वयोरद्वाभ्यां द्वित्रगुणत्वादिरूपेणासकृद् वा क्रमोपनिबन्धे भवति। तदुक्तं- "तदू द्विगुणं त्रिगुणं वा बहुपूद्दिष्टेषु जायते रम्यम् । यत् तेषु येथैव तयोद्योस्तु बहुशो निबध्नीयात् ।।" इति। अत्र रम्यमित्यनेन शोभातिशयहेतुत्वं द्विगुणत्वादावुच्यंत, न त्वेक-
"मृणालहंसपझमानि बाहुचङ्रमणाननैः । निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ।" इत्यस्यानलङ्कारत्वप्रसङ्गात्। तत्र लावण्यौकसीत्यादौ बहूनामेकवा(र)मुपनि- बन्धः। द्वयोर्वहुशः क्रमसम्बन्धो यथा- प्रणयिसुभटश्लाध्ये दानाम्बुशात्रवशोणित- स्नपितककुभौ दूरावज्ञातकर्णधनञजये। विहितजनतायोगक्षेमे परां यदुभूपते! भवति भजतः काष्ठामौदार्यविक्रमसंपदौ ।। कज्जलेत्यादावुभयमप्यस्तीत्याह-अत्र कज्जलादीनामित्यादि। कज्जला- दीनां त्रयाणां सुपर्णादिभिरेकः क्रमसम्बन्धः, जलनिध्यादिभिर्द्वितीयः, हरि-
१. 'रव्य' ख. ग. पाठः. २. 'यं य' क. ख. पाठः. ३. 'णादा', ४. 'था वा ला' ण. पाठ:
199
Page 200
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १८५
बन्धे हरिप्रभृतिभिः संबन्धः श्रृत्या समुदायनिष्ठः प्रतीयते। अ- र्थानुगमानुसेरणेन त्ववयवानां क्रमसम्बन्धावगतिरित्यार्थ यथा- संख्यम् ।
एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्यायः॥ ६०॥
क्रमप्रस्तावादिदमुच्यते। एकमाधेयमनेकस्मिन्नाधारे यते तिष्ठति, स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्रागुक्तेन लक्षणेन विशेषालङ्कारोऽत्रोक्त: । तत् किमर्थमिदमुच्यते इत्या- शङ्गयोक्तं-क्रमेणेति। इह च क्रमप्रतिपादनाद् अर्थात् तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्तविषयत्वम्। तथा
प्रभृतिभिस्तृतीय इति त्रिगु(ण)त्वम् । श्रुत्या शब्दवृत्तेन। समुदायनिष्ठ इति। कज्जलहिमकनकरुक्त्वलक्षणस्य धर्मसमुदायस्य हरिहरचतुराननरूपेण धर्मिसमुदायेनँ सम्बन्धोऽव्यवहितः प्रतीयते। अर्थानुगमेति। समुदायसम्बन्ध- स्य समुदायिसम्बन्धमन्तरेणाघटनात् कज्जलरुक्त्वादीनां सर्वेषां धर्माणां मिथो विरुद्धत्वेन सर्वेपु हरिप्रभृतितु धर्मिष्वसम्भवाच्चैकैकस्यैकैकेन सम्बन्धे कर्तव्ये संख्याक्मानतिकमेण प्रथमस्य प्रथमनेत्यादिः सम्बन्धः ग्रतीयत इत्यार्थत्वम् ।। एकमित्यादि। एकस्य क्रमवाननेकसम्बन्धः पर्यायस्य सामान्यल- क्षणम् । यथासंख्यानन्तरं पर्यायस्य लक्षणे क्रमप्रस्तावादिति हेतुनिर्देशः । विशेषालङ्कार इति द्वितीयो भेदो निर्दिश्यते। विशेपे कमस्य को निवारक इत्याशङ्कयाह-इह चेति । अस्य पर्यायस्य । ततः विशेषात्। एतदर्थ- मेव द्वितीयविशेषोदाहरणस्य 'प्रासादे से त्यादेव्यखि्याने युगपदवस्थानमि-
१. 'सारण त्व', २. 'त्स' क. र. पाठः ३. 'न सङ्गटनस' ख. पाठः. .1. 21
200
Page 201
१८६ अलङ्कारसूत्रं [पर्याय-
एकस्मिन्नाधारेनेकमाधेयं यते तिष्ठति, स द्वितीयः पर्यायः । नन्वत्र समुच्चयालङ्कारो वक्ष्यत इत्येतदर्थमपि क्रमेणेति योज्यम्। अत एव 'गुणक्रियायागपदयं समुच्चय' इति समुच्चय- लक्षणे यौगपद्यग्रहणम् । अत एव क्रमाश्रयणात् पर्याय इत्य- न्वर्थमभिधानम । विनिमयाभावात परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते। तत्रानेकोऽसंहतरूप: संहतरूपश्रेति द्विविधः। तत्र डेविध्यमाधाराधेयगतमिति चत्वा- रोडस्य मेदाः । कमेणोदाहरणं-
"नन्वाश्रयस्थितिग्यिं तब कालकृट!
त्युक्तम्। एतदर्थमपीति। अपिशव्देन द्वितीयपर्यायेऽपि क्रमेणेत्येतलक्षणानुप्र- वेशित्वेन घटनीयमित्याह। अत एव पर्यायध्यावृत्तिहेतोरच। अन्वर्थमिति। यौगपद्याभावलक्षणस्यार्थस्यानुगमान। नन्वन् कस्यचिदपगमे कस्यचिदुप- गमो भवति। परिवृत्तावपि 'किमित्यपास्ये' यादावाभरणस्य वल्कलादीनामने- केषामाेयानां पार्वतीलक्षण एकस्मिन्ावरे क्रणेण वृत्तिर्दश्यते। तदस्य तस्याः को भेद इत्याशक्याह-विनिकयामावदिति। विनिमयो नाम कस्यचित् परित्यागेन कस्यचित स्वीकार। तत्र च 'निशाम्वि'त्यादावभि- सारिकादिपरित्यागेन शिवादिस्वीकार इत्येवंरूपस्यार्थस्याविवक्षितत्वाद् वि- निमयाभावः । अनेकः आधागवेयलक्षणः । एपां चासंहतसंहतत्वे उपात्तद्र-
राधेयगतमिति। प्रथमे पर्याये आधारगतं द्विताये आधेयगतम्। आश्रयस्थि- तिराश्रयमर्यादा। उत्तरोत्तरविशिष्टपदा यथोत्तरविशिष्टस्थाना । अत्र हृदयक-
१. 'त्स', २. 'रो में', ३. 'ण यथा - न' क. ख. पाठः ४ 'णानेको' ख. पाठः.
201
Page 202
निरूपणम् ] सव्याख्याल्कारसर्वम्वोपेतम् । १८७
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वसससि वाचि पुनः ख़लानाम्।।" "निसृष्टरागादधरान्निवरतितः स्तनाङ्गरागारुणिताच्च कन्दुकातू।
कृतोऽक्षसूत्रप्रणयी तथा करः ॥" "निशासु भास्व्रत्कलनपुराणां
नदन्मुखोल्काविचितामिपाभि: स वाह्यते राजपथः शिवाभिः ।।" "यत्रैव मुग्धति कशोदरीति प्रियेति कान्तेि महोत्सवोडभूत । तत्रैव दैवादू वदन सदीये पनीति आार्यति गिरश्वरन्न।।" अत्र कालकूटमेकमनेकत्मित्सहते आश्रये क्रमेण स्थितिमन्नि-
णठवाचामुपर्युपरि वृत्तित्वादुत्तरोतसवत्िष््यम। निसशठरागाठित्यादि । एतत् प- रिवृत्त्युदाहरणत्वेन दर्शयतो भामहोळटस्यास्य च विनिमयविवक्षाविवक्ष प्रयो- जिके। असंहत इति। कालकूटाधारत्व्वतिरेकेणैकोपाविक्रोडीकाराभावाड- दयकण्ठवाचामसंहतत्वम्। क्रमण स्धितिमदिति। प्रागथाधुनाशब्दैःक्रमस्याव-
१. 'णानंको' क. पाठः.
202
Page 203
१८८ अलङ्कारसूत्र [परिवृत्ि-
बद्धम्। करश्रैकोऽनेकरिमन् संहते क्रमवान्। अधरक. न्दुकयोनिवृत्त्यपादानतया संहतत्वेन स्थितत्वात् । अभिसा- रिकाः शिवाश्चानेकस्वभावा असंहतरूपा एकस्मिन्नाश्रये राज- पथे क्रमवर्तिन्यः । वदने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नी- त्वादिवर्गश्र वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः । समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः प- रिवृत्तिः ॥ ६१।। विनिमयोऽत्र किश्चित् त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम्। तथाधिकेनोत्कृ- ष्टगुणेन दीयमानेन न्यूनस्य हीनगुणस्य परिग्रहणम्। एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधिकस्योत्कृष्टगुणस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः। क्रमप्रतिभाससंभवात् पर्यायानन्त- रमस्या लक्षणम्। समपरिवृत्तिर्यथा-
गमितत्वात्। निवृत्त्येंपादानतयेति। कराधारत्वमन्तरेणापि निवृत्त्यंपादानत्वल- क्षणैकोपाध्यवच्छिन्नत्वात्। एकस्य च करस्य युगपदधरकन्दुकयोरवस्थानासंभ- वात् क्रमस्थितिः। अनेकस्वभावा इत्यसंहतरूपत्वे हेतुकथनम्। शिवानामभि- सारिकाणां चाधेयानां राजपथाधारत्वमन्तरेणैकोपाध्यवच्छेदाभावादसंहतत्वम्। वर्गत्वादेवेति। वर्गत्वं चानुरागविरागप्रयुक्तत्वात्॥ समेत्यादि। विनिमयः परिवृत्तिरिति सामान्यलक्षणम्। समेत्यादिना भेदनिर्देशः। संख्याप्रयुक्तं साम्यादि नेह विवक्षितम्, अपितु गुणप्रयुक्तमिति दर्शयितुं समाधिकन्यूनशब्दानां तुल्यगुणेत्यादिना व्याख्यानम्। क्रमप्रति-
१. 'यो यत्र', २. 'स्यांपादा', ३. 'ः । ए' क. ख. पाठः, ४, ५. 'यु'क. पाठः.
203
Page 204
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १८९
"उरो दत्वामरारीणां येन युद्धेष्वगृह्यत। हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया ॥" अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा - "किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषेषु विकीर्णतारका विभावरी यद्यरुणाय कल्पते॥" अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनप- २
रिवृत्तिर्यथा- "तस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽबुना। येन जर्जरकलेबरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः॥" अत्र कलेबरेण न्यूनगुणेन यशस उत्कृष्टगुणस्य विनिमयः ।
भाससम्भवादिति। एतच्च विनिमयाभावादित्यस्य व्याख्यानावसरे दर्शितम्। उरो दच्वेत्यादि। अत्र यद्यप्युरोदानेनोत्साहो लक्ष्यते। स चोत्साहो यशो- धिगम उपायः। तथाप्यभिधेयपक्षोपादानापेक्षया परिवृत्तिर्द्रष्टव्या। उरोयश- सोश्र जयश्रीसाधकत्वेतत्साधकत्वाभ्यां (?) तुल्यगुणत्वम् । किमितीत्यादि । यौवन इत्यनेनाभरणानामानुगुण्यादुत्कृष्टगुणत्वं, वार्धकशोभीत्यनेन वल्कलस्य यौवनानौचित्यद्वारा न्यूनगुणत्वं च व्यज्यते। तस्य हीत्यादि। अत्र जर्जरे-
१. 'पे विनिका', २. 'णेन न्यून', ३. 'ते बुधैः ।' क. ख. पाठः. ४. 'त्वसाध' ग. पाठ :.
204
Page 205
१९० अलङ्गारसूत्रं [परिसङ्खया-
"दच्वा दर्शनमेते मत्पाणा वरतनु! त्वया क्रीताः । किं तपहरसि मनो यद्दासि रणरणकमेतदसत् ।"
अत्र पूर्वार्धे समपरिवृत्तिः । उत्तरार्धे न्यूनपरिवृत्तिः ॥
एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसङ्कया ॥६२॥
एकानेकप्रस्तावादिह वचनम्। एकं वस्तु यदानेकत्र युगपत् सम्भाव्यते, तदा तस्यैकत्र द्ितीयादिपरिहारेण निय- मनं परिसङ्ख्या। परि वर्जनेन कुत्रचित् सङ्ख्यानं वर्णनीय- त्वेन गणनं परिसङ्ख्या। सा चैषा प्रश्नपूर्विका तदन्यथा चेति प्रथमं द्विधा। प्रत्येकं च परिवर्जनीयस्य शाब्दत्वार्थत्वाभ्यां है- विध्यमिति चतुष्प्रभेदा परिसड्ख्या। क्रमेण यथा- "किं भूषणं सुदृटमत्र यैशो न रनं किं कार्यमार्यचरितं मकृतं न दोपाः।
त्यनेन कलेबरस्य इन्दुकिरणोज्ज्वलमित्यनेन यशसक्ष न्यूनाधिकगुणत्वे व्य- ज्येते। समपरिव्ृतिरिति। दर्शनन्य ग्राणानां च कामिनस्तुल्यत्वेनाभिमत- त्वात् तुल्यगुणत्वंम्। न्यनपरिवृत्िरिति । रणरणकेन मनसः परिवृत्तेः ॥ प्राप्ताविति। रागादिना प्रमाणान्तरेण वा। एकानेकप्रस्तावादिति।प- याये एकमनेकस्मिन्निति निर्देशात। वस्तु गुणादिरूपम्। द्वितीयादिपरिहारेण द्वितीयादिवर्जनेन। परि वर्ज(न इ?नने)ति। 'अपपरी वर्जन' (१.४.८८) इत्यु- क्तत्वात्। संख्यानमिति संख्याशब्दार्थमाह। सम्पूर्वात् ख्यातेर्भावेऽडि संख्येति रूपं, न त्वेकत्वादिवाचिवत् करण इत्यर्थः । किं भूपणमित्यादि। अत्र प्रश्नपू
१. 'तोऽस्य', 'कं व' ३. 'गुणा न' क. ख पाठः. ४. 'वान्यू' ख. पाठः.
205
Page 206
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। १९१
किं चक्षरप्रतिहतं धिपणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥"
"किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते सेव्यं चरणयुगलं कौस्तुभभृतः । किमापाद्यं पुण्यं किमनिलपणीयं च करुणा यदासक्त्या चेतो निरवधिविमुक्तै प्रभवति॥"
"भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुपि प्रायः परिदृश्यते महताम् ॥"
"कौटित्यं कचनिचये करचरणाधरदलेपु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥"
र्विका शाब्दवर्जनीया परिसंख्या। अत्र यशप्रभृतौ रव्नादी चानेकत्र युगपत् प्राप्तं सुदृढत्वादिविशिष्टभूपणत्वादि यशःप्रभृती नियम्यते। यशोधिषणयोर्भू- षणचक्षुद्रे उपचरिते विज्ञेये। किगापेव्यमित्यादि। इयं प्रश्नपूर्विकैवार्थ(प- रि?) वर्जनीया परिसंख्या। आर्थानि च वर्जनीयानि नगरादिन्त्र्यादिविषयो धनादिरामणीयकादिश्च, अथवा पुराणादिप्रमाणान्तरेण सेव्यादित्वेन प्रस- क्तानि वैशिष्टयातिशयलिङ्गगङ्गासमीपपेक्षया निक्कष्ठानि पुण्यदेशान्तरादीनि। भक्तिर्भव इत्यादि। डयमप्रश्नपूविका शाब्दवर्जनीया। कौटिल्येत्यादि। इयमप्रश्नपूर्विकैवार्थवर्जनीया मनशात्ार्थ वर्जनीयम्। अत्र च कचादिगत- स्य कौटिल्यस्य मनोगतस्य च भेदेऽप्यमेदाध्यवसायादेकत्वम्। ननु व्यव- च्छेद्ये शब्देनानिर्दिष् उपात्तस्य स्वरूपकथनमात्रपरता प्रतीयेत, न त्वित-
१. 'येयं च' क. ख. पाठः. २. 'यते न' ख. ग. पाठः.
206
Page 207
१९२ अलक्कारसूत्रं [परिसह्या- अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यती- ति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थ चेति नियमाभावः। अलौ- किकत्वाभिप्रायेणैव क्चित् प्रश्नपूर्वकं ग्रहणम् । "विलङ्गयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि। विभर्ति यस्यामपि वक्िमाण- मेको महाकालजटार्धचन्द्रः।।" तथा 'चित्रकर्मसु वर्णसङ्करो यतिषु दण्डग्रहणानि' इत्यादौ श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम्। अत्र च नियमप-
रव्यवच्छेदः । अत आह - अत्र चेति। तद्वर्मयोगित्वेन लोक- प्रसिद्धेषु वस्तुषु सत्स्वप्यप्रसिद्धवस्तूपादानं प्रसिद्धस्य वस्तुनस्तद्धर्मयोगित्व- व्युदासे पर्यवस्यतीति व्यवच्छेद्यं वस्तु शब्देनावश्यं निर्देष्टव्यमिति न नियम इत्यर्थः । अलौकिकेति। रत्नानां भूषणत्वेन सकलजगत्प्रसिद्धत्वेऽपि किं भूषणमिति प्रष्ठुरलौकिकं भूषणं किमित्यभिप्रायः । तद्वशाच क्वचित् परिसं- ख्याविशेषे प्रश्नपूर्वकत्वम्। अथवा यदि व्यवच्छेद्यमर्थसामर्थ्यादवसीयते, तदा गतार्थत्वाच्छब्देनानुपादेयमिति शाब्दत्वं विरुध्यते। अथ शब्देनोपादेयं, तदार्थत्वं न घटत इत्याशङ्कयाह-अत्र चेति। तद्धर्मयोगित्वेन लोकसिद्धेषु वस्तुषु सत्स्वप्यलौकिकवस्तुग्रहणालौकिकवस्तुव्यवच्छेदः पर्यवसानवृत्त्या लभ्यते, न तु साक्षादिति व्यवच्छेद्यस्य साक्षादवगत्यपेक्षायां शाब्दत्वं, यथा- कथञ्विदप्यवगत्यपेक्षायामार्थत्वमिति शाब्दार्थत्वयोर्न नियम इत्यर्थः । श्रेष- सम्पृक्तत्वमिति। श्रुतिवर्त्मादिशब्दानां कर्णमार्गादिवेदमर्यादादिलक्षणार्थद्वय-
१. 'स्तत्तद्व', २. 'श्य' ख. पाठः. ३. 'कतेति', ४. 'लादीनां', ५. 'द्वेऽपि' क, पाठ :. ६. 'कव्य' ख. पाठः.
207
Page 208
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १९३
रिसंख्ययोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः । अत एवात्र पाक्षिकेप्राप्तिरपि स्व्रीक्रियत इति युगपत् सम्भावनं प्रायिकम्। दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः ॥६३॥
दण्डापूपयोर्भावो दण्डापूपिका। 'इन्दमनोज्ञादिभ्यश्च' (५.१.१३३) इति वुज्। पुषोदरादित्वाद् वृन्भारः । यथा अहमहमिकेत्यादाविति केचित। अन्ये तु दण्डापूपी विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं शक्तोऽहं श- क्तोऽस्यामित्यहमहमिकेति मत्वथीयष्ठनित्याहः । अपरे तु दण्डा- पूपाविव दण्डापूपिकेति 'इवे प्रतिकृती' (५. ३. ९६) इति कनं
वाचित्वात्। एतानि चोदाहरणान्यप्रश्नपूर्वाण्यार्थवर्जनीयानि च। आर्थश्र वर्जनीयो नगरवासी जनः । वाक्यविन्मसिद्धमिति।'नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ती परिसंख्ये त्येवंरूपम् । अत एवात्रेति। नियमपरिसं- ख्ययोमेदस्याविवक्षितत्वात्। अन् परिसंख्यायाम । प्रायिकमिति। 'किमा- सेव्यमि'त्यादौ नगरादिसेवादौ छुसरित्सविधसेवादरप्राप्तत्वात पक्षप्राप्तत्वेन युगपत् प्राप्त्यभावेऽपि 'किं भूपणमि त्यादिवहुतरविषयगतत्वेन हष्टत्वात् पूर्व युगपत् सम्भावनमुक्तमित्यर्थः ॥ पृषोदरादित्वादिति । आदिशब्दस्य प्रकारवाचित्वाद् दण्डापूपि- काशब्दस्य पृपोदरादित्वे सति वुञो जित्त्वात् प्राप्ताया वृद्वेरभावः । द- णडापूपावित्यादि। अर्थान्तरनिष्पत्ती न्यायसाम्यादर्थान्तरापतनलक्षणायां यस्यां नीतौ दण्डापूपौ निदर्शनत्वेन विदयेते। मत्वर्थीयष्ठनिति। 'अत इनिठनौ' (५. २. ११५) इति विहितः । 'इवे प्रतिकृतावि' त्येतदधिकार-
१. 'ण्योकि: i, २. 'क्य', ३. 'रे द' क. ख. पाठः. ४. 'दो य' ख. ग. पाठः. .1 23
208
Page 209
१९४ अलक्कारसूत्रं [अर्थापत्ति- वर्णयन्ति। अत्र हि मूषिककर्तृकेण दण्डभक्षणेन तत्सहभाव्य- पूपभक्षणमर्थात् सिद्धम् । एष न्यायो दण्डापूपिकाशब्देनोच्यते। ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थादापतितं, तद्दत् कस्य- चिदर्थस्य निष्पत्तौ सामर्थ्यात् समानन्यायत्वलक्षणांद् यदर्था- न्तरमापतति, सार्थापत्तिः । न चेदमनुमानं, समानन्यायस्य सम्बन्धरूपत्वाभावात् । असम्बन्धे चानुमानानुत्थानम्। अ- र्थापत्तिश्र वाक्यविदां न्याय इति तन्नयेनेहाभिधानम् । इयं च द्विविधा। प्राकरणिकादैप्राकरणिकस्यार्थस्यापतने एकः प्रकारः। अप्राकरणिकात प्राकरणिकस्यार्थादापतने द्वितीयः । आद्यो यथा- "पशुपतिरपि तान्यहानि कृच्छ्रा- दगमयद्द्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः ।।"
प्रदर्शनपरम्, अप्रतिकृतित्वादनेन प्राप्त्यभावात् । दण्डापूपिकाशब्दः कस्य- चिद् दण्डापूपसदृशस्य नीतिविशेषस्य संज्ञत्युत्तरसूत्रेण 'संज्ञायां कन्' (५. ३.७५) इत्यनेन कनो विधिरभिप्रेतः । अर्थादापतितमिति। मूषिर्ककर्तृत्व- लक्षणात्ँ। समानन्यायत्वलक्षणात् समानन्यायत्वरूपात् । यदर्थान्तरमित्यत्र यच्छब्देनार्थान्तरापतनलक्षणो वाक्यार्थः परामृश्यते । असम्बन्धे चेति ।
१. 'णाद', २. 'द्विधा', ३. 'दर्थादप्रा', ४. 'स्याप', ". 'यु: प्रभु' क. ख. पाठ :. ६. 'कगन्निधिवर्तित्व', ७. 'तू समर्थान् । स' क. पाठ:
209
Page 210
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । १९५
अत्र विभुवृत्तान्तः प्राकरणिक इतरजनवृत्तान्तमप्राकरणिकम- र्थादाक्षिपति। द्वितीयो यथा- "धतधनुषि बाहुशालिनि शैला न नमन्ति यत् तदाश्चर्यम्। रिपुसंज्ञकेपु गणना कैव वराकेषु काकेषु ॥" अत्र शैलवृत्तान्तोऽप्राकरणिको रिपुवृत्तान्तं प्राकरणिकमर्थादागू- रयति। क्वचिच्च न्यायसाम्यस्य निमित्तं श्रेषेण निर्दिश्यते। ३
यथा - "अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भुङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वके मूर्ि स्थितवति वयं के पुनरमी ॥" अत्र विधौ वक्र इति श्लिष्टम्। अप्राकरणिकाच्च स्थाणुवृत्ता- न्तात् प्राकरणिकार्थापतनम् ॥ तुल्यबलविरोधौ विकल्पः ।। ६४॥
न्यायमूलालङ्कारमध्ये। विभुवृत्तान्तः पशुपतिवृत्तान्तः । आगूरयति, आक्षिप- तीत्यर्थः । विधौ वक्र इति श्िष्टमिति। विधौशब्दस्य वर्णश्लेषवशेन वक्र- भावलक्षणविशिष्टविधिचन्द्रमोलक्षणार्थद्वितयवाचित्वाद्, वक्रशब्दस्य प्राति- कूल्यानार्जवरूपँद्यर्थवृत्तित्वाच्च ।। तुल्यवलेति। न खलु विरोधसद्भावमात्रे देवदत्तो गच्छत यज्ञ-
१. 'प्र', २. 'शौर्यशा', ३. 'चिन्न्याय', ४. 'धे' क. ख पाठः ५. 'न भा' ख. पाठ :. ६. 'पवद्धर्थ' क, पाठ:
210
Page 211
१९६ अलक्कारसूत्रं [विकल्प-
विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात तुल्यबलयोरेकत्र यु- गपत् प्राप्तौ विरुद्धत्वादेव यौगपद्योसंभवे विकल्पः । औपम्य- गर्भत्वाच्चात्र चारुत्वम् । यथा - 'नमयन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौत्यो वा' इत्यादि। अत्र प्रतिरा- जकार्य नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम्। सन्धिविग्रहौ चात्र क्रमेण तुल्ये प्रमाणे, प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यत्वात्। द्ी चेमौ विरुद्धाविति नास्ति तयोर्युगपत् प्रवृत्तिः । प्राप्नुवतश्र युगपत् प्रवृत्ति प्रकारान्तर- स्यात्रानाशङ्गयत्व्रात्। ततश्र न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलङ्कारता। एवं कर्णपूरीक्रियन्तामित्यादौ
दत्तो न गच्छतीत्यादौ गमनागमनयोवैयधिकरण्ये विकल्पः, नापि स्ना- याद् भुजीत चेति स्नानभोजनयोरविरुद्वयो: सामानाधिकरण्येपि, नापि च (न) हिंस्यात् सर्वा भूतानीति, अम्पामीयं पशुमालभेतेति हिंसानिषे- धविध्योरेकविषयत्वे विरोधे च सत्यपि सामान्यविशेपविषयत्वेन दुर्बलप्रब-
वैवक्षिकमौपम्यं विवक्षितम् शिरप्रभृतीनां च धनुरादीनां च प्राकर- णिकाप्राकरणिकत्वाभावात्। आपम्यगर्भत्वं चालह्ारप्रस्तावादर्थलब्धमि- त्याह-चारुत्वमिति। न ह्योपम्याभावे ग्ुज्नाति न गृहातीत्यादौ विक- ल्पे सत्यप्यलक्वारता, चारुत्वाभावात्। नमन इति। नतिं प्रति प्रयोजक- व्यापारे। ग्रमाणयोस्तुल्यत्वमुपपादयति पतिराजविपयत्वेनेति । प्रका- रान्तरस्य सन्विविग्रहव्यतिरिक्तव्य। एवं कर्णत्यादि। प्रतिराजकार्ये कर्ण- पूरीकरणे आज्ञानां मौर्वीणां च सन्धिविग्रहलक्षणतुल्यप्रमाणविशिष्टत्वाद्यति-
१. 'द्याभाव', २. 'द' ३. 'हावत्र' क. ख पाठ: ४. 'त्यल', ५. 'मानुषीणां' ग. पाठः,
21
Page 212
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। १९७
योजनीयम्। औपम्यगर्भत्वाच्चात्र चारुत्वम् । कचिच्छ्रेषाव- ष्टम्भेनाप्ययं दृश्यते। यथा-
"भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्दशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥"
अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणविशिष्ट- त्वम्। न चात्र समुच्चये वाशब्दः । सम्भवन्त्यामपि गतौ महा- कविव्यवहारे प्रयोगाभावात। ननु विरोधनिभित्तको विकल्पः । कथं चात्र विरोधः। नैतत्। तनुमध्ये नेत्रयोः प्रविष्टत्वात् तयोः पृथगभिधानमेव न कार्यम्। कृतं च सत् स्पर्धिभावं गमयति। स्पर्धिभावाच्त विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमि-
दिशति। भक्तिप्रद्वेत्यादि। अत्र विशेषणानां शीनद्योस्तुल्यरूपत्वान्नपुंसकत्व स्त्रीत्वद्वित्वैकत्वविशिष्टार्थद्वयवाचित्वाच्च लिङ्गश्लेपो वचनश्लेषश्र। हितप्राप्तये नीते, ईहितप्राप्तये नीता च। नेत्रपक्षे महानिधी इति पदच्छेदः । तनुपक्षे महानिधिरिति। कुरुतामिति नेत्रपक्षे परस्मैपदं, तनुपक्ष आत्मनेपदम्। वाश- ब्दस्य समुच्चयद्योतकत्वेऽसत्यपि हेत्वभावादत्र विकल्पो न युज्यत इति समु- च्चयवादी प्रत्यवतिष्ठते- नन्विति। क्थं चेति। यथैकं प्रति प्रणिपतन- धनुराकर्षणयोः समावेशो न घटते, न तथा नेत्रतन्वोरिति भावः । न कार्यमिति। पौनरुत्त्यप्रसङ्गात् । कृतं च सदिति। अपौनरुत्त्याय तत्तुल्य-
१. 'त्वात् तु', २. 'रे तथा प्र' क. ख. पाठः.
212
Page 213
१९८ अलक्कारसूत्रं [समुच्चय-
त्यर्थावगमे विकल्पस्य सुप्रत्ययत्वात्। स चात्र श्लेषाश्लिष्टो लि- इशश्लेषस्य वचनश्लेषस्य चात्र दष्टेः । तस्मात् समुच्चयप्रतिपक्ष- भूतो विकल्पाख्योऽलङ्कारः पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवधा- तव्यम्।
गुणक्रियायौगपद्यं. समुच्चयः ॥ ६५॥
गुणोनां वैमल्यादीनां यौगपद्येनावस्थानेन तथैव च क्रियाणां समुच्चयालङ्गारः। विकल्पप्रातिपक्ष्येण चास्य स्थितिः । क्रमेण यथा-
"विदलितसकलारिकुलं तव बलमिदमभवर्देद्य विमलं च। प्रखलमुखानि नराधिप! मलिनानि च तानि जातानि ॥" "अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे। नववारिधरोदयादहोभिर्भवितव्यं च निरातपार्धरम्यैः ॥"
पदार्थान्तरप्रतीतिजनकद्वारा। सुपत्ययत्वादिति । विकल्पस्य सुज्ञानत्वात्। स चेत्यादि। स विकल्पः । दृष्ट: दर्शनात् । अत्रेहितहितशब्दयोः स्वरूप- भेद एव, न त्वभिमतलक्षणोरडर्थो भिद्यते ।। सूत्रे गुणक्रियाशब्दयो: कृतैकशेषयोर्द्वन्द्वं कृत्वा यौगपद्यशब्देन तत्पु- रुषो विधेय इत्याह- गुणानामित्यादि। बहुवचनमविवक्षितम् । वैम- ल्यादीनामिति। न तु धर्ममात्रस्य । विकल्पेत्यादि। अस्य समुच्चयस्य ।
१. 'मे सु', २. 'णादीनां', ३. 'न त', ४. 'दाशु वि', ५. 'तः सुदुः' क. ख. पाठ :.
213
Page 214
निरूपणम्] १९९
एतद् भिन्नविषयत्वेनोदाहरणद्दयम्। एकाधिकरणत्वेनाप्ययम- लङ्कारो दृश्यते। यथा-
"बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद् विदधाति सा विधुरिता साधो! तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति भ्राम्यत्युल्लुठति प्रणश्यति दलत्युन्मूर्छति त्रैस्यति॥"
एवं गुणसमुच्चयेऽप्युदाहार्यम्। केचित पुनर्न केवलं गुणक्रि- याणां व्यस्तत्वेन समुच्चयो यावत् समस्तत्वेनापि भवतीति वर्णयन्ति। उदाहरन्ति च-
"न्यञ्चत् कुञ्चितमुन्मुखं हसितवत् साकूतमाकेकरं व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् ।
अतश्च विकल्पादनन्तरं लक्षित इति भावः । भिन्नविषयत्वेनेति । वैमल्यैमा- लिन्ययोरवर्णनीयबले खलमुखेषु च वर्तमानत्वात्। विभ्राणेत्यादि। एवमनु- रक्ताया अनभ्यवपत्तेराक्षेपगर्भ साधो ! इत्यामन्त्रणम्। उदाहार्यमिति। यथा-
तव यशसा रविवर्मन्नतिशयितययातिनहुषभरतेन। अखिलमपि भुवनमासीत् सुरभि च धवलं च रक्तं च।।
केचित् पुनरित्यादि। एतदर्थ च सूत्रे गुणक्रियाशब्दस्यावृत्त्या कृतद्वन्द्वैकशे- षविषयत्वमप्याचक्षते। न्यञ्चदित्यादि। अन्यक्तियमित्यत्र क्रियाग्रहणं गुणस्याप्युपलक्षणम्। आकेकरादीत्यादिशब्देन मुकुलादयः शब्दा गृह्यन्ते।
१. 'त्रुठ्वति' क. ख. पाठ. २. 'लत् स' ग. पाठः. ३. 'त्यवैमल्ययो' स. पाठः.
214
Page 215
२०० अलङ्कारसूत्रं [समुच्चय-
उद्धु भ्रान्तमपाङ्गचर्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥"
अत्राकेकरादयो गुणशब्दाः न्यञ्चदित्यादयः क्रियाशब्दा इति सेमस्तत्वेन गुणक्रियायौगपद्यम् । प्रसादिसप्रेमेत्यादीनां समास- कृत्तद्वितेषु सम्बन्धाभिधानमिति सम्बन्धस्य वाच्यत्वात् तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणशर्व्देत्वेने गुणयौगपद्यं द्रष्ट- व्यम्। एवमयं त्रिधा समुच्यः ॥
एकं समुच्चयं प्रकारत्रयभिन्नं लक्षयित्वा द्वितीयं लक्ष- यति- एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च ॥६६।। समुच्चय इत्येब। यत्रैकः कस्यचित् कार्यस्य सिद्धिहे- तुत्वेन प्रक्रान्तः, तत्रान्योऽपि यदि स्पर्धया तत्सिद्धिं करोति, तदायमपरः समुच्चयः । न चायं समाध्यलङ्गारेऽन्तर्भवति।
न्यञ्चदित्यत्रादिशब्देन प्रसरादयः । प्रसादिसप्रेमेत्यादिशब्देनोद्ध इत्यादयः । गुणत्वादिति। प्राणप्रदत्वाभावात् जातित्वाभाव इति शेषः । त्रिधेति । गु- णानां क्रियाणां गुणक्रयाणां चेति व्यस्तसमस्तत्वेन ।। एकस्येत्यादि। एकस्य कारणविशेषस्य प्रस्तुतसाध्यविशेषहेतुत्वे सत्यपि। अन्यस्येत्येकत्वमविवक्षितम्, उदाहरणेषु बहूनामुपनिपातस्य दष्टत्वात्। स्पर्धये- त्यनेन समुच्चय इत्यन्वर्थसंज्ञाविज्ञानादवगतं सर्वेषामपि कारणानां समप्रधानभावं
१. 'वृत्ति वि', २. 'सामस्त्येन', ३. 'स्य सि', ४. 'व्देन', ५. 'न यौ', ६. 'रणत्वं', ७. 'र्यसि' क. ख्. पाठः.
215
Page 216
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम् । २०१
यत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वम्, अन्यस्तु सौकर्याय काकतालीयन्यायेनापतति, तत्र समाधिर्वक्ष्यते। यत्र तु खलेक- पोतिकया बहनामवतरस्तत्र समुच्चयः । अतश्रानयोः सुमहान् भेदः । स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भव- तीति त्रिधा भिद्यते। सतः शोभनस्य सता समुच्चीयमानेन योगे यथा- "कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाङ्कुशाः ॥" अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समु- चचयः । एकैकं च दर्पहेतुतायोग्यं स्पर्धया निबद्धम्। असतो- ऽशोभनस्यासता समुच्चीयमानेन योगे यथा-
दर्शयति। समाध्यलङ्कारे 'कारणान्तरयोगादि'त्यादिना वक्ष्यमाणलक्षणे। काक- तालीयन्यायेनेति। अतर्कितप्राप्तिलक्षणोपमेयार्थवृत्तेः काकतालशब्दात् 'समा- साच तद्विषयात्' (५.३.१०६) इति छः। समाध्युदाहरणे च काकतालयत्वं दिष्टयेत्यनेन द्योतितम् । खलेकपोतिकयेति। यथा खले शाल्याद्येकदेशग्रह- णार्थमभिसन्धिपूर्वकं वहवः कपोता युगपदुपनिपतन्ति, तद्वदेककार्यनिप्पाद- नोदेशेन बहूनां हेतूनामुपस्थानं समुच्यस्य विषय इत्यर्थः । अवतर इति । 'तृ प्रवनतरणयोरि'त्यस्माद् भावे 'ऋदोरप्' (३. ३. ५७) इत्यप्। सद्योग इत्यादि। मूर्त्यादिभिः शोभनैरिति। भद्रत्वश्रुतिशालित्वपर्याप्तत्वस्फात्यख-
१. 'त' क. ख. पाठः. २. 'प्र', 3. 'र्थप्रव' ख. ग. पाठः. ४. 'त' ख. पाठः. 4.26
216
Page 217
२०२ अलक्कारसूत्रं [समुच्चय-
"दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणा: कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् काल: कृतान्तोऽक्षमो नो सख्यश्रतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥" अत्र स्मरमार्गणानां दुर्वारत्वेनाशोभनानां तादशैरेव प्रियतमा- दिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्वतः शोभ- नत्वं, तथापि विरह्विषयत्वेनात्राशोभनत्वें ज्ञेयम् । सदसतः शोभनाशोभनस्य ताद्ृशेन सदसता समुच्चीयमानेन योगे यथा-
"शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो नृपाङ्कणगतः खलो मनसि सप्त शल्यानि मे ॥"
अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्
ण्डितत्वयोगाच्छोभनैः । ताटशैः अशोभनैः । नववयःप्रभृतीनामित्यत्र प्रभृ- तिशब्देन निर्मलकुलादयो गृह्यन्ते। विरहविषयत्वेनेति। विरहिण्या तेषाम- शोभनत्वस्यैव भावितत्वात्। तादृशैरेवेति। स्वतः शोभनत्वेन गलितयौवन- त्वादिभिरशोभनत्वेन च सदस्भिः । सदसद्योग इत्यत्र सर्वेपामेव समुच्चयवि-
१. 'मदूरत्वादि', २. 'त्वं विज्ञे' ३. 'तः' क. ल. पाठः.
217
Page 218
निरूपणम्] सव्याख्यालक्कार सर्वस्वोपेतम्। २०३
समुच्चीयमान: शोभनोऽन्यस्त्वशोभन इति सदसद्योगो व्याख्ये- यः । ननु नृपाङ्कणगतः खल इत्यशोभनः अन्ये तु शोभना इति कथं न समुच्चीयमानस्ये सतस्तादृशेनासता योगः । नै- तत्। नृपाङ्कणगतः खल इति प्रत्युत प्रक्रमभेदाद् दुष्टमेव, नै- तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत्। अत एवान्यैरेवमादौ सहच- रभिन्नोर्ऽर्थ इति दुष्टमेवेत्युक्तम्। प्रकृते तु नृपाङ्कणगतत्वेने शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनयिम् । एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तं, विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् ।ननु 'दुर्वाराः स्मरमा- र्गणा' इत्यत्रोक्तोदाहरणवत् कथं न सदसद्योगः । नैतत् । इह
षयाणां सदसत्त्वमिष्टं, नतु केषाश्चित् सत्त्वं, केषाश्चिदसत्त्वमित्याह न त्वत्रेति। अस्य व्याख्यानस्योदाहरणे वैघट्यमाशङ्कय परिहरति-नन्वि- त्यादिना। अन्यैरिति । काव्यप्रकाशकारादिभिः । सहचरभिन्न इति । स्वतः शोभनैरुपाधिवशादशोभनैः शशिपरभृतिभिः खलस्य भिन्नत्वात्। एवं तर्हि नृपाङ्कणगतः खल इत्येतदनुदाहरणमेवेत्याशङ्कय, उदाहरणं घटत एव, प्रकरमविरोधो दुष्परिहर इत्याह -- प्रकृते त्विति। न निरवद्यमिति। निर- वद्यं तु यथा- सूक्तिस्त्वद्गुणवर्णनेन रहिता रत्नं त्वदन्यैर्धृतं रम्यं वस्तु भवद्दशोरविषयीभूतं यदुक्ष्मापते!। विद्वानप्यनयोर्भवच्चरणयोः सेवामनासेदिवान् धातारं प्रथयन्ति युक्तघटनानैयत्यमुक्तादरम्॥
१. 'स्य सदस', २. 'त्युपक', ३. 'न सौ', ४. 'ते न', ५. 'तु' क, ख. पाठः.
218
Page 219
२०४ अलक्कारसूत्रं [समाधि
शोभनस्य सतोऽशोभनत्वमिति विवक्षा। तत्र त्वशोभनत्वमे- वैतदिति विवक्षितमित्यस्ति भेदोऽनयोः । अत एवैकत्रोपसंहृतं मनसि सप्त शल्यानीति, सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहे- तुत्वात्। अपरत्र तु कथं सोढव्य इति सर्वथा दुष्टत्वाभिप्राये- ण। तस्मादस्ति प्रकारत्रयस्य विविक्तविषयता।।
कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधि: ॥६७॥।
केनचिदारब्धस्य कार्यस्य कारणान्तरसंबन्धात् सौकर्य यत्, स सम्यगाधानात् समाधिः । समुच्चयसाद्ृश्यांत् तदन- न्तरमुपक्षेपः। तद्वैलक्षण्यं तु प्राक् प्रतिपादितमेव। उदाहरणं-
अत्र स्वतः शोभनायाः सूक्तवर्णनीयगुणवर्णनराहित्यादशोभनायाश्च ताट- ग्भिरेव रत्नादिभि: समुच्यः । एकैक च धातुर्युक्तघटनानैयत्याभावप्रथनक्षमं स्पर्धया निबद्धम्। अशोभनत्वमेवेति। अत्र दुर्वारा इत्यादौ स्मरमार्गणा- दीनां केषाश्चित् स्वतः शोभनत्वमशोभनत्वं च नास्ति । नववयःप्रभृतयो यद्यपि स्वतः शोभनाः, तथापि तेषां स्वाभाविकमेव शोभनत्वं विरहिण्या प्रतिक्षिप्यते। न तु तदङ्गीकारेणोपाध्यन्तरवशादशोभनत्वमापाद्यत इति तत्राशोभनत्वस्यैव विवक्षेत्यर्थः । अत एवेति । शोभनाशोभनत्वस्य विव- क्षणादशोभनत्वस्यैव विवक्षणाच। अपरत्र त्वित्यादि। उपसंहृतमित्यस्या- नुषङ्गः। प्रकारत्रयस्य सद्योगादिलक्षणस्य ।।
सम्यगाधानादिति। कार्यस्येति शेषः । समुच्चयसादृश्यादिति ।
१. 'तवे ॥ का', २. 'यसु', ३. 'रेण योगात् सं', ४. 'श्यान्निरन्त' क. . पाठ :.
219
Page 220
निरूपणम् ] सव्याख्यालक्कार सर्वस्वोपेतम्। २०९
"मानमस्या निराकर्तु पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदमुदीर्ण घनगर्जितम् ॥" माननिराकरणे कार्ये पादपतनं हेतुः : तत्सौकर्यार्थ तु घनगर्जि- तस्य कारणान्तरस्य प्रक्षेपः । सौकर्य चोपकारायेति प्रकाशि- तम् ॥ एवं वाक्यन्यायाश्रयिणोऽलङ्कारान् प्रतिपाद्याधुना लोक- न्यायाश्रयिणोऽलङ्कारा उच्यन्ते। तत्र- प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनी- कम् ॥ ६८ ॥ यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षण प्रतीकारः कर्तु न शक्यत इति तत्सम्बन्धिनो दुर्बलस्य यत् तं बाधितुं तिरस्कारः क्रियते, तत् प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रति- निधिः प्रत्यनीकमुच्यते। तत्तुल्यत्वादिदमपि प्रत्यनीकम् । यथा अनीकेऽभियोक्तव्ये तत्रासामर्थ्यात् तत्प्रतिनिधिभूतमन्यद् व्या- मोहेनाभियुज्यते, तद्वदिह प्रतिपक्षे विजये दुर्बलतदीयतिर- स्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा-
एकस्मिन् कारणे सति कारणान्तरोपनिपातरूपत्वात्। तत्सौकर्यार्थ माननि- राकरणसौकर्यार्थम् । तत्संबन्धिन इति। तच्छब्देन बलवान् प्रतिपक्षः परामृश्यते। तद्वदि- त्यादि। प्रतिपक्षतिरस्कारासमर्थेन तदीयतिरस्कारो व्यामोहहेतुक इत्यर्थः ।
१. 'तम् ॥ अत्र मा', २. 'द लो', ३. 'हादभि' क. ख. पाठः.
220
Page 221
२०१ अलक्कारस् [पतीप-
"यस्य किञ्ञचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवक्रसदशाकृति कृती राहुरिन्दुमधुनापि बाधते ।।" अत्र राहोर्भगवान् कृष्णो बलवान् प्रतिपक्षः तदीयः पुनर्वक्त्र- सादृश्यमुखेन दुर्बलश्चन्द्रमाः । तन्निराकरणाद् भगवतः प्रकर्षा- वगतिः।।
उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ॥ ६९।। उपमेयस्यैवोपमानभारोद्वहनसामर्थ्याद् यदुपमानस्या- क्षेपः कैमर्थक्येनालोचनं क्रियते, तदेकं प्रतीपम्। उपमानप्र- तिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः। यदप्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरार्थमुपमेयत्वं कल्प्य- ते, तत् पूर्वोक्तगत्या द्वितीयं प्रतीपम्। क्रमेणोदाहरणं-
व्यामोहाभावे तु जतव्यमेव जेतुमुत्सहेत, अशक्तश्रेत् तूष्णीमासीत, न त्वन्य- मभियुञ्जतिति भावः। तन्निराकरणादिति । राहुकर्तृकाच्चन्द्रस्य निराकरणा- दित्यर्थः । प्रकर्षावगतिः एवं नाम भगवतः प्रावल्यं, यत् तत्तिरस्कारेऽसमर्थः सन् राहुस्तत्सम्बन्धिचन्द्रतिरस्कारे प्रवर्तते।। उपमानस्येत्यादि । प्रतीपमित्यन्वर्थसंज्ञयावगतम् । उपमेयस्यो- पमानं प्रति प्रातिकूल्यं सामान्यलक्षणम् । उपमानभारः उपमानधुरा, उप- मानकार्यमिति यावत्। कैमर्थक्येनेत्यादि। अनेन तत्कार्यस्य साधित-
१. 'ण यथा-य' क. ख. पाठ :.
22
Page 222
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २०७
'येत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुव- लयदलदामानी'त्यादि। यथा वा- "लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः॥" अत्र यथासंख्यमप्यस्तीति प्राक् प्रतिपादितम् । "ए एहि दाव सुन्दरि ! कण्णं दाऊण सुणसु वअणिज्जं। तुज्झ मुहेण किसोअरि ! चन्दो उवमिज्जइ जणेण ॥I" अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं क- ल्पितम्। वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका। कचित् पुनर्निष्पन्नमेवौपम्यमनादरकारणम्। यथा -
त्वात् किमर्थमिदमित्येवंरूपं निरूपणम्। उपमानस्याक्षेपो भारादिशब्देन नैरर्थक्यपर्यवसायिना द्योत्यते किंशब्देनाभिधीयत इति च दर्शयितुमुदाहर- णद्वयोपन्यासः। प्राक् प्रतिपाद्वितमिति। यथासङ्कयलक्षणावसरे। द्वितीयस्य प्रतीपस्योदाहरणम्-ए एहीत्यादि। अयि एहि तावत् सुन्दरि ! कर्ण दत्त्वा शृणु वचनीयम्। तव मुखेन कृशोदरि ! चन्द्र उपमीयते जनेन ।। निकर्षार्थमिति। निकर्षश्च वअणिजं इत्यनेन सूच्यते। वदनस्य चेत्यादि। अत्र चन्द्रस्योपमेयीकरणे चन्द्रनिन्दाप्रतिपिपादयिषाया न प्रयोजकत्वमिति भावः । क्वचिदित्यादि। एहीत्यादौ पूर्वार्धेन स्वानभिमतत्वप्रदर्शनादौपेम्य-
१. 'त' क. ख. पाठः. २. 'धर्मस्या' ख. पाठः.
222
Page 223
२०८ अलक्कारसूत्रं [निमीलित-
"गर्वमसम्भाव्यमिमं लोचनयुगलेने किं वहसि भद्रे!। सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥"
अत्रोत्कर्षभाज उपमानैप्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनात्युत्कृष्टगुणत्वाद् यदुपमानभावमपि न सहते, तस्योप- मानत्वकल्पनेऽपि प्रतीपमेव । यथा- "अहमेव गुरु: सुदारुणाना- मिति हालाहल ! तात! मा स्म दप्यः । a ननु सन्ति भवाद्ृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम्।।" अत्र हालाहलत्वं प्रकृष्टदोषत्वादसम्भाव्योपमानभावमप्युपमा- नत्वेन निबद्म् ॥ वस्तुना वस्त्वन्तरनिगूहनंनिमीलितम् ॥ ७०॥
स्यानिष्पन्नत्वं, गर्वमित्यादौ ईद्ृशानि सन्तीत्यनेन तस्य निष्पन्नत्वं गम्यते । न्यक्कारकारणमिति। उपमानभावस्योत्कृष्टनिष्ठतया तदपेक्षेतयोपमेयस्य निकर्षप्रतीतेः । अत्युत्कृष्टगुणत्वादिति। केनचिदसदशं सदिति शेषः । अस- म्भाव्योपमानभावमपीति। 'उत्कर्पप्रतियोगिकल्पनमपि न्यक्कारकोटिः परे'ति न्यायात् ॥ वस्त्वन्तरेनिगूहनमित्यत्र सम्बन्धसामान्यपष्ठयाः समासः, नतु कृद्योगषष्ठयाः । तस्याः 'कर्मणि च' (२. २. १४) इति समासनिषेधात् ।
१. 'न व', २. 'सि किं भ', ३. 'नताप्रा' ग. पाठः. ४. 'क्षित' क. ग. पाठः. ५. 'रगू' ख्र. पाठ :.
- निरुपसर्गैव संज्ञान्यत्र प्रसिद्धा।
223
Page 224
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। २०९
सहजेनागन्तुकेन वा लक्ष्मणा यद् वस्त्वन्तरेण वसत्व- न्तरं निगुह्यते, तदन्वर्थाभिधानं निमीलितम्। न चायं सामा- न्यालङ्कारः । तस्य हि साधारणगुणयोगाद् भेदानुपलक्षणं रूपम्। अस्य तूत्क्ृष्टगुणेन निक्रष्टगुणस्य तिरोधानमिति महा- ननयोर्विशेषः । सहजेन थथा -
"अपाङ्गतरले दशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।।"
अत्र टक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं हक्ता- रल्यादि तिरोधीयते। आगन्तुकेन च यथा -
वस्तुनेत्यत्र 'उभयप्राप्ती कर्मणि' (२.२. ६६) इति नियमात् षष्ठयभाव इति केचिदाहुः। अन्ये तु करणे तृतीया। वस्त्वन्तरनिगूहनमिति कर्मणि पष्ठया एव समास इत्याचक्षते। अपरे तु वस्तुनो वस्त्वन्तरनिगूहनमिति पाठ इत्यभिदधते। तत्र सुधीभिर्युक्तं ग्राह्यम्। लक्ष्मणेति करणे हेतौ वा तृतीया। वस्त्वन्तरेणेति कर्तरि करणे वा। निगूद्यत इति दीर्घविशिष्टः पाठः प्रमादजः । यकि सति गुणाभावे 'ऊदुपधाया गोहः' (६.४ ८९) इत्यूदादेशाभावात्। अन्वर्था- भिधानमिति। निमीलयतेर्भावे निष्ठाविधानात्। न चायमिति। प्रस्तुतस्या- न्येनेत्यादिना लक्षयिष्यमाणः। लक्ष्मणेति। दृक्तारल्यादिकार्यतिरोधानद्वारा
१. 'न य' क. ख. पाठः. २. 'तौ तृ' क. पाठः ३. 'वेन ऊ' ख. पाठः. 4. 27
224
Page 225
२ १० अलङ्कारसूत्रं [सामान्य- "ये कन्दुरासु निवसन्ति सदा हिमाद्रे- स्त्वत्पातशङ्कगितधियो विवशा द्विषस्ते। अप्यङ्गमुत्पुलकमुद्दहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः।"
अत्र हिमाद्रिकन्दरानिवाससामर्थ्यात् प्रतिपन्नेन शैत्येन समु- आ्ावितावागन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ। तिरोधायकत्वादेवं च मीलिर्तव्यपदेशः॥
प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामा- न्यम् ॥ ७१॥
यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादै- कात्म्यम् अभेदेनाध्यवसायादेकरूपत्वं निबध्यते, तत् समान- त्वयोगात् सामान्यम्। न चेदमपह्नतिः । किञ्चिन्निषिध्य कस्य- चिदप्रतिष्ठापनाते। उदाहरणं- "मलयजरसविलिप्ततनवो नवहारलताविभृषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । लीलया मदोदयलक्षणं वस्त्वन्तरं तिरोधीयत इत्यर्थः । ये कन्दरास्वििति । अत्र कम्परोमाञ्चलक्षणकार्यतिरोधानद्वारा भयतिरोधायकस्य शैत्यस्य स्वकण्ठे- नानुपादानेऽपि सामर्थ्यात् प्रतीतिरित्याह-अत्र हिमाद्रीत्यादिना।। समानत्वयोगादिति । गुणसमानत्वयोगात्। यदि प्रस्तुतस्याप्रस्तुतेन गुणसाम्यवशादेकात्म्यं बध्यते, तदा प्रस्तुतमपद्येतैव। ततश्र विषयापह्नवेऽपहु- तिरित्यपह्ुतिलक्षणादस्य को विशेष इत्याशङ्कयाह-न चेदमित्यादिना। १. 'व मी', २. 'तत्वव्य', ३. 'त्। यथा-म' क. ख. पाठः ४. 'धाय- कद्वा' ख. ग. पाठ :.
225
Page 226
निरूपणम् ] सव्याख्यालक्कार सर्वस्वोपेतम्। २११
शशभृति विततधान्नि धवलयति धरामविभाव्यतां गताः प्रियवसति प्रयान्ति सुखमेव विमुक्तभियोऽभिसारिकाः॥"
अत्र मलयजरसविलेपनादीनां चन्द्रप्रभया सहाविभाव्यतां गता इत्यभेदप्रतीतिर्दर्शिता॥
स्वगुणत्यागादत्युत्कृष्टगुणस्व्रीकारस्तद्णः ।। ७२।।
यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रक्रष्टगृणवस्तु- गुणस्वीकरणं, स तद्णः, तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा। न चेदं मीलितम्। तत्र हि प्रकृतं वस्तु वस्त्वन्तरेण- च्छादितत्वेन प्रतीयते। इह त्वनपह्ुतस्वरूपमेव प्रकृतं वस्तु वरत्व- न्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः । उदाहरणं- "विभिन्नवर्णा गरुडाग्रजन सूर्यस्य रथ्या: परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥"
मलयजरसेत्यादावुदाहरणे हि मलयजरसविलेपनादिविशिष्टा अभिसारिका
प्रतिपाद्यते।। निषिध्य चन्द्रप्रभा न स्थाप्यन्ते, किं तर्हि तासां परस्परभेदानुपलम्भ एव
सूत्रेत्युत्कृष्टशब्देन स्वीकारशब्दन च स्वीकर्तु: परिमित(गुण)त्वमपा- दानस्य समीपवर्तित्वं च लब्धमित्याह-यत्रेत्यादि। यत्रालङ्कारे। गुणा अ- स्मिन्निति। उन्मज्जन्तीति शेपः । न चेद मीलितमिति। अत्युत्कृष्टगुणेन वस्तुना निकृष्टगुणस्य वस्त्वन्तरस्य तिरोधानान्मीलितत्वाशङ्का। तत्र मीलिते वस्त्वन्तरेतिरस्कारः, इह तु गुणमात्रस्येत्यर्थः । विभिन्नवर्णा इत्यादाबुदाहरणे
. 'निरस्तभि', २. 'श्रव' क. ख. पाठः. ३. णा' ४. 'यथा-वि' क. ख. पाठः. ५. 'रस्य वस्तुन एव ति' क. पाठ:
226
Page 227
२१२ अलङ्कारसूत्र [अतद्गुण-
अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणि- प्रभास्वीकार इति तङ्गुणत्वम् । सति हेतौ तट्रूपाननुहारोऽतद्णः। ७३॥
तद्गणप्रस्तावात् तद्विपर्ययरूपोऽतद्गुण उच्यते। इह न्यूनगुणस्योत्क्रृष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्त्या न्याय्यः । यदा पुनरुत्कृष्टगुणसन्निधानाख्ये हेतौ सत्यपि तद्रपस्योत्कृष्टगु- णस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति, सोऽतज्गुणः । तस्यो- त्कृष्टगुणस्यास्मिन गृणा न सन्तीति । यदिवा, तस्याप्रकृतस्य रूपाननुहारः सत्यनुहरणहतावतद्रणः, तस्याप्रकृतस्य गुंणा ना- स्मिन् सन्तीति कत्वा। उेदाहरणं - "धवळो सि जइ वि सुन्दर! तह वि तुए मज्झ रज्जिअं हिअअं।
तद्गुणद्वयं दर्शयति-अत्र रविरथत्यादि। अत्र सूर्यरथ्यैररुणेन च स्वग- तश्यामत्वलौहित्यापेक्षया सातिशयलौहित्यश्यामत्वयोररुणमरतकयोः समीप- वर्तिनोर्वर्णस्वीकरणम् ।। तद्विपर्ययरूप इत्यनेन विरोधसम्बन्धमानन्तर्यहेतुं दर्शयति। न्यून- गुणस्येत्यादिना सूत्रे सति हेतावित्यनेन लब्धं दर्शयति। सन्निधानं प्रत्या- सत्तिः। तदपस्येत्यस्थार्थकथनमुत्कृष्टगुणस्यति, अननुहारशब्दपर्यायस्या- ननुहरणशब्दस्य न्यूनगुणेनाननुवर्तनमिति। तस्योत्कृष्टेत्यादिना 'नजोऽस्त्य- र्थानाम् --- ' (वा० २. २. २४) इति बहुव्रीहिं दर्शयति। लक्षणलक्ष्यगता- भ्यां तच्छव्दाभ्यामत्युत्कृप्टवदप्रकृतं च गृह्यत इत्याह- यदिवेत्यादिना । इहाप्रकृतशव्द्रेनानुत्कृष्टगुण उच्यते। उत्कृष्टगुणस्यापि कदाचिद् गुणान्तरस- म्पर्कादन्यथाभावः स्यादव। स यदा न स्यात्, तदाप्यतद्गुण एवेत्यर्थः । धवलोडसीत्यादि।
१. 'द्रा त', २. 'क्रमण यर्था-ध्र' क. स. पाठः.
227
Page 228
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम् । २१३
राअभरिए वि हिअए सुहअ! णिहित्तो ण रत्तो सि ।" "गाङ्गमम्बु सितमङ्ग! यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस! तव सैव शुभ्रता चीयते न च न चापचीयते॥"
पूर्वतातिरक्तहृदयसम्पर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तम- पि रक्तत्वं न निष्पन्नमित्यतद्गुणः। उत्तरत्र त्वप्रकृतस्य गाङ्गया- मुनजलस्य सम्पर्केऽपि न तथारूपत्वमित्ययमप्यतद्गुण एव। धवलोऽसीति त्वतद्गुण एव। कार्यकारणभावस्यात्राविवक्षणान्न विषमालङ्कारः ॥
उत्तरात् प्रश्नोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् ॥७४॥ यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबद्धादुत्तरादुन्नीयते, तदेकमुत्तरम्। न चेदमनुमानं, पक्षधर्मत्वादेरनिर्देशात्। यत्रे च प्रश्नपूर्वकमसम्भावनीयमुत्तरं, तच्च न सकृत्, तावन्मात्रेण चा-
धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रज्ितं हृदयम्। रागभरितऽपि हृदये सुभग ! निहितो न रक्तोऽसि ।। अत्रोत्तरार्धेऽतद्गुणप्रदर्शनं तत्रैवान्यैर्द्शितत्वात्, न तु पूर्वार्धस्यालङ्कारा- न्तरविषयत्वाद्, इत्याह-धवलोऽसीत्यादि। अविवक्षणादिति। हृदयस्य नायकस्य च यशःकृपाण्योरिव च कार्यकारण(भाव)स्याभावादेव, रञ्जनक्रियामु- खेन सद्भावेऽपि वाविवक्षितत्वात्। न विपमालङ्गार इति। विरूपकार्योत्प- त्तिलक्षणः । उत्तरादित्यादि । उत्तरोपनिबन्धः सामान्यलक्षणम् । न चेद- मिति। प्रतीतेनोत्तरेणाप्रतीतस्य प्रश्षस्य प्रतीतेरनुमानत्वशङ्का। पक्षध- मत्वादेरिति। तन्निर्देशेऽनुमानस्य भावात्। तावन्मात्रेण सकृत्निर्देशमात्रेण।
१. 'त्र प्र' क. ख. पाठः
228
Page 229
२१४ अलक्कारसूत्र [सूक्ष्म-
रुत्वाप्रतीतः । अतश्रासकृदुपनिबन्धे द्वितीयमुत्तरम्। न चेर्दं परिसंख्या, व्यवच्छेद्यव्यवच्छेदकपरत्वोभावात। क्रमेणोदाहर- णम् - "एकाकिनी यदबला तरुणी तथाह- मस्मिन् गृहे गृहपतिश्र गतो विदेशम्। कं याचसे तैदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ! पान्थ! ।।" "का विसमा दव्बगई किं ळद्व्वं जणो गुणग्गाही। किं सोक्खं सुकलत्तं किं दुक्खं जं खळो ळोओ ॥" पूर्वत्र मम निवासोऽत्र दीयतामिति प्रश्न उत्तरादुन्नीयते। उत्त- रत्रे दैवगत्यादि निगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं नि- बद्दम्। इतःप्रभृति गूढार्थप्रतीतिपरालङ्कारलक्षणम् ॥ संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् ॥ ७५॥ इह सूक्ष्म: स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा
द्वितीयोत्तरे असम्भावनीयोत्तरविधानस्य सम्भावितोत्तरनिषेधपरत्वात् परिस- द्वयात्वमाशङ्कय परिहरति-न चेदमित्यादिना। व्यवच्छेद्येति। दैवगत्या- देर्विषमत्वविधान एव तात्पर्य न त्वितरनिषेध इति भाव:। दैवगत्याद्युत्तर- स्यासम्भाव्यत्वेऽसकृत्प्रश्नपूर्वकनिबन्धने च निगूढत्वादिति हेतुनिर्देशः । इतः- प्रभृति उत्तरादारभ्य।। संलक्षणक्षमाणां तीक्ष्णधियां व्यावृत्त्यर्थ स्थूलमतिभिरित्युक्तम्। कुशा-
१. 'य' मूलपाठः. २ 'त्वात्', ३. 'ण यथा- ए', ४. त्वममिह', ५. 'त्र त्ु दै' क. ख. पाठ :. ६. 'रा' ग. पाठ:
229
Page 230
निरूपणम्] २१५
कुशाग्रीयबुद्दिभिरिङ्गिताकाराभ्यां संलक्ष्यते, तदा तस्य संलक्षि- तस्य विदग्धं प्रति प्रकाशनं सूक्ष्मम्। तत्रेङ्गिताद् यथा -
"सङ्केतकालमनसं विटं ज्ञात्वा विदुग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।।"
अत्र विटसम्बन्धी सङ्केतकालाभिप्रायो भ्रूक्षेपादिनेद्गितेन लक्षि- तो रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आ- काराद् यथा-
"वक्त्रस्यन्दिस्वेद बिन्दुप्रबन्धै- र्दष्टा भिन्नं कुङ्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख॥"
अत्र स्वेदकृतकुङ्कुमभेदरूपेण करेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखवड्गलेखनेन प्रकाशितम् ।।
उन्द्धिन्नवस्तुनिगृहनं व्याजोकि:॥ ७६॥
ग्रीयबुद्धिभि: कर्तृभिः । इद्विताकाराभ्यां हेतुभ्याम् । इङ्गितं बुद्धिपूर्वश्चेष्टा- विशेषः । आकारोऽबुद्धिपूर्वको विकारः । विटसम्बन्धी सङ्केतकालाभिप्राय इत्यनेन सूक्ष्मोरऽर्थो निर्दिष्टः । इङ्गितेन विटसम्बन्घिना। आकारेण तन्वी- सम्बन्धिना। खड्गलेखनस्य पुरुषायितलक्षणसूक्ष्मार्थप्रदर्शनायोक्तं-पुरुषो- चितेति।।
230
Page 231
२१६ अलक्कारस [व्याजोकि-
यत्र निगूढं वस्तु कुतश्रिन्निमित्तादुश्िन्नं प्रकटतां गेतं सेद् वस्त्वन्तरप्रक्षेपेण निगुह्यते अपलप्यते, सा वस्त्वन्तरप्रक्षे- परूपस्य व्याजस्य वचनाद् व्याजोक्तिः। यथा-
"शैलेन्द्र प्रतिपाद्यमानगिरिजाहस्तोपगूहोल्लस-
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दष्टोऽवताद् वः शिवः ।।"
अत्र रोमाञ्चादिनोद्विन्नो रतिभावः शैत्यप्रक्षेपेणापलपितः । यद्यप्यपह्नतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्धिन्नत्वेन प्रका-
उत्सूत्रमप्युद्धिन्नपदसामर्थ्यलब्धमाह-निगूढमति। लोके हि गो- प्यस्य प्रकाशीभूतत्वे उद्धिन्नव्यवहारः। उद्भिन्नमित्यस्य व्याख्या प्रकटतां गत- मिति, निगुह्यत इत्यम्यापलप्यत इति। वस्त्वन्तरेत्यादिना निरु्क्तिः । शैत्य- पक्षेपेणेति । रतिशैत्यसाधारणत्वाद् रोमाञ्चादेः। सस्मितत्वरूयापनेनेति। सस्मितं दृष्ट इति दर्शनसमयभाविना मातृमण्डलादिस्मितेन देव्यालम्बनाया रतेर्देवस्यानेन वचनेनापह्व एव क्रियते इत्यस्यार्थस्य सूचितत्वात्। अपह्व- मात्रपर्यवसायि यथा -- व्यक्तात्मीयपराभवे सुमहति त्वद्विक्रमे किन्नरै- रुद्गीते रिपवो विषादविगलद्वाष्पावरुद्दवेक्षणाः । गीतस्यास्य महानहो मधुरिमेत्याचक्षते हृष्टव- न्मध्येदिव्यसभं रणे यद्ुपतेर्गीर्वाणभूयं गताः ।।
१. 'प्रास्तं स', २. 'य', ३. 'ढो', ४. 'भङ्गा' क. ख, पाठ:,
23
Page 232
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २१७
शितः, तथाप्यपलापमात्रचिन्तयास्यालङ्कारस्योल्लेखः। नन्वप- हुतिग्रन्थे सादृश्याय योऽपह्नवः, सापहृतिः । तथा अपह्ववाय यत् सादृश्यं साष्यपह्नतिरिति स्थापितम्। व्याजोक्तौ चोत्तरः प्रकारो विद्यते। तत् कथमियमलङ्कारान्तरत्वेन कथ्यते। सत्यम्। उद्जटसिद्धान्ताश्रर्येणेन तत्रोक्तम् । नहि तन्मते व्याजोक्त्याख्य- मलङ्करणमस्ति ! इह तु तस्य सन्भ्ावाद् व्यतिरिक्तापह्नतिरिति पृथगयमलङ्कारो निर्दिष्टः॥
अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा- योजनं वक्रोक्ति:॥७७॥
उक्तिव्यपदेशसाम्याद् व्याजोक्त्यनन्तरं केथनम्। यद् वाक्यं केनचिदन्यथाँन्याभिप्रायेणोक्तं सदपरेण वक्त्रा काकुप्र-
अत्र दिव्यसदसि देवीभूतानां द्विपां वर्णनीयविक्रमश्रवणजो विपादो वाप्प- गलनेनोद्िन्नो हर्षप्रक्षेपेणापलपितः। अपह्नतिग्रन्थ इति। ल्लेपप्रस्तावे तस्या विविक्तविषयताप्रतिपादनाय विविक्तोदाहरणत्वेन शङ्िते *'आक्षिप्या- दावि'त्यादौ त्वपहत्यलक्वारसद्भावप्रदर्शनपरे 'सादृश्यव्यक्तये यत्रे'त्यादिग्रन्थ इत्यर्थः । व्यतिरित्तापह्नतिरिति। सादृश्यव्यक्तय एवापह्वस्तस्या लक्षणमि- त्यर्थः। अन्यथा'त्वाक्षिप्यादावि'त्यादौ (तु?) व्याजोक्तिसद्भावाच्छूलेपस्याविवि- क्तविषयता द्रष्टव्या।। अन्यथोक्तस्येत्यादि। सूत्रेऽन्यथावचनान्यथायोजनयोरेककर्तृकत्वं नाशङ्कनीयमित्याह-केनचिदिति, अपरेणेति च । काकुर्ध्वनेर्विकारः ।
१. 'न्ये यथा सा', २. हनुताव यत्', ३. 'साप', १.ते'। क', ५. 'रयेण त', ६. 'वचन', ७. 'थाभि' क. ख. पाठः.
- 'आकृष्यादा' इति तु पूर्व पठितम्। 4. 28
232
Page 233
२१८ अलक्कारसूत्रं [वक्रोक्ति-
योगेणे श्रलेषमुखेन वान्यथान्यार्थघटनया योज्यते, तदुक्तिर्व- क्रोक्तिः। काकुप्रयोगेण यथा- "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति साख! सुरभिसमयेऽसौ ॥" एतद् वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम्। तत्स- ख्या काकुप्रयोगेण विधिपर्यन्ततां प्रापितम्। काकुवशाद् विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। श्रेषोऽभङ्गसभङ्गत्वेन द्वि- विधः। तत्राभङ्गश्लेषमुखेन यथा- "अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥" अत्र दारुणेति प्रथमान्तं प्रकान्तं शलेषभङ्गया तृतीयान्ततया संपादितम्। सभङ्गश्लेषमुखेन यथा- "त्वं हालाहलभृत् करोषि मनसो मूर्छी ममालिङ्गितो हालां नैव तिभमि नैव च हलं मुग्धेडस्म किं हालिकः ।
काकुपयोगेणेति। नैष्यतीत्यत्र काकुप्रयोगात् किं नैष्यति एष्यत्येव इत्यर्थो व्यवतिष्ठते । विपरीतेति। वाच्यस्य विधेः काकुवशान्निषेधे सङ्गान्तिः, एवं निषेधस्य विधौ। दारुणा क्रूरा काष्ठेनेति च। त्रिगुणा सत्त्वरजस्तमोमयी। उभयत्रापि विभक्तिभेदेऽप्येकपदत्वादभङ्गश्लेषत्वम् ।
१. 'ण वा शे', २. 'गे य', 'नतं प्रा', ४. 'नत सं', ". 'ग्धे कर्थं हा' क. ख. पाठ :.
233
Page 234
निरूपणम् ] २१९
सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः ।।" उभयमुखेन यथा -
"विजये! कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता। विजये कुशलोडस्मि न तु त्र्यक्षोऽक्षद्वयमिदं पाणौ ॥" "किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । क इह द्वेष्टि विनायकमहिलोकं किं न जानासि ॥" "चन्द्रग्रहणेन बिना नास्मि रमे किं प्रतारयस्येवम्। देव्यै यदि रुचितमिदं नन्दिन्नाहयतां राहुः ।।" "हा राहौ सितदंष्टरे भयकृति निकटस्थिते रतिः कस्योः। यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥"
अखण्डो हालाहलशब्दो देव्या कालकूटार्थे प्रयुक्तो देवेन विभागपूर्वकं हाला- हलयोद्वन्द्वपरत्वेन योजित इति सभङ्गश्लेपता। गोवाहने गौर्वृषः तदूपे वाहने। गवां वहनं प्रति प्रयोजकव्यापारे च। उभयमुखेनेति । सभङ्गाभङ्गश्लेषमु- खेन। विजय इत्यादि। विजय इति देवीवाक्ये सखीसंबोधनम्। त्र्यक्ष इति। त्रिनेत्रत्वादीश्वरवाचकश्च । देववाक्ये विजय इति सप्तम्यन्तम् । त्र्यक्ष इति। देवनाक्षत्रयविशिष्टश्च। मेदुरोदरेण मम दुरोदरेण लम्बोदरेण च। विनायकं विघ्नेश्वरं वीनां पक्षिणां नायकं गरुडं च। चन्द्रग्रहणेन च- न्द्रस्यादानेन चन्द्रोपरागेण च। नास्मि रमे नाहं रति करोमि। हा राहौ। हेत्यव्ययम्। राहौ स्वर्भानौ हाररूपे अहौ च । वसुरहितेन अर्थरहितेन अष्टव-
१. 'शि', २. 'स्य' क. ख. पाठ :.
234
Page 235
२२० अलक्कारसूत्रं [स्वभावोक्ति-
"वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि। किं वसुभिर्नमतोऽमून् सुरासुरानेव पश्य पुरः ॥" "आरोपयस मुधा किं नाहमभिज्ञा किल त्वदङ्गस्य। दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ।। "इति कृतपशुपतिपाशकलीलाकेलहप्रयुक्तवक्रोक्तेः। हर्षवशतरलतारकमाननमव्याद् भवान्या वः ।"
सूक्ष्मवस्तुस्वभार्वेस्य यथावद्ग वर्णनं स्वभावो- क्तिः॥७८॥
इह वस्तुस्वभाववर्णनमात्रं नालङ्गारः। तत्वे सर्व काव्य- मलङ्कारि स्यात्। नहि तत् काव्यमस्ति, यत्र वस्तुस्वभाववर्ण- नमात्रं न विद्यते। तदर्थ सूक्ष्मग्रहणम् । सूक्ष्मः कवयितृ- मात्रस्ये गम्योऽत एव तन्निर्मित इवँ यो वस्तुस्वभावः, तस्य -- सुरहितेन च। अङकश्चिह्नम् उत्सङ्गश्व। अत्र मेदुरोदरेण हाराहावित्यत्र सभङ्ग- त्वम्। अन्यत्राभङ्गत्वम्। अलङ्गारसामान्यवचनोऽपीति। वक्रोक्तिजीवित- कारादिभिस्तथाङ्गीकृतत्वात् ॥ कवयितृमात्रेत्यत्रावधारणार्थेन मात्रशब्देन पर्दपदार्थव्युत्पत्तिमद्रम्य- त्वं व्यावत्यते। तन्निर्मित इति। तच्छव्द्रेन कवयितृपरामर्शः। अगम्य इति पाठे मात्रशब्दः कार्त्स्न्यवृत्तिः । सुकविभिरेव गम्य इत्यर्थः । तन्निर्मित इति तच्छव्देनार्थसामर्थ्यलब्धानां सुकवीनां परामर्शः। यथावदि-
१. 'मि', २. 'कालप्र', ३. 'तरत', . 'वय', ५. 'रः', ६. 'स्याग', ७. 'व व' क. ख. पाठ :. ८. 'दार्थ' ग. पाठः.
235
Page 236
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। २२१
यथावदन्यूनोतिरिक्तत्वेन वर्णन स्वभावोक्तिरलङ्कारः । उक्ति- वचनप्रस्तावादिहास्या लक्षणम्। भाविकरसवदलङ्काराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते। उदाहरणं-
"हुंकारो नखकोटिचञ्चुपुटकव्याघट्टनोट्ट्गित- स्तन्व्याः कुन्तलकण्डुकव्यतिकरे सीत्कारसीमन्तितः ।
सेकाकेकरलोचनस्य कृतिनः कण्ठाँवतंसीभवेत्।"
अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥ ७९॥
अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकतेनात्यह्ुत- त्वाद् व्यत्यस्तसम्बन्धरहितशब्दसन्दर्भसमर्पितत्वाच्च प्रत्यक्षाय- माणत्वं भाविकं, कविगतो भाव आशयः श्रोतरि प्रतिबिम्ब-
त्यस्य व्याख्यानमन्यूनातिरिक्तत्वेनेति। हुङ्कार इति शब्दानुकरणम् ॥ अतीतानागतयोरित्यस्यार्थकथनं भूतभाविनोरिति। युधिष्ठिरादिवत् प्रध्वं- साभावप्रतियोगिनो भूताः । कल्किविष्णुयशःप्रभृतिवत् प्रागभावप्रतियोगिनो भाविनः। ते द्वयेऽपि प्रध्वंसप्रागभावप्रतियोगिविविक्ततया वर्तमानायमाना यदा प्रत्यक्षा इव भवन्ति, तदा भाविकम्। अत्र च प्रत्यक्षायमाणत्वे हेतुरर्थगतमलौ- किकत्वार्दत्यद्धुतत्वं, शब्दगतं व्यत्यस्तसम्बन्धराहित्याद् व्यवहितान्वयाद्यभा- वात् प्रसादवशेन सम्यग झटित्यर्थानामर्पणं प्रतिपादनं च। प्रकृतिभूतस्य भावश- ब्दस्यार्थद्वयकथनेन भाविकं निर्वक्ति-कविगनो भाव इत्यादिना। तत्रा-
१. 'नानति' ग. पाठ :. २. 'क्तिर्वाचोयुक्ति: तत्प्रस्ता', ३. 'हल', ४. 'यथा- टत्कारो', ५. 'कौतुक', ६. 'तसङ्गाङ्ग', ७. 'णा' क. ख. पाठः ८'धद्ु' ख. पाठः.
236
Page 237
२२२ अलक्कारसूत्रं [भाविक-
त्वेनास्तीति, भावो वा भावना पुनःपुनश्चेतासे विनिवेशनं सोऽत्रास्तीति। न चेदं भ्रान्तिमान्। भूतभाविनोर्भूतभावितयैव प्रकाशनात् । नापि रामोऽभूदिति वस्तुवृत्तमात्रम्। भूतभावि- गतस्य प्रत्यक्षत्वार्ख्येस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् । नापीदेमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात्। नहि भूतभाविनावभूतभावित्वेनाध्यवसीयेते, अभूतभाविनौ वा भूतभावित्वेन, नापि प्रत्यक्षमप्रत्यक्षत्वेन, अप्रत्यक्षं वा प्रत्य- क्षत्वेन। नहि प्रत्यक्षत्वं केवलवस्तुधर्मः, प्रतिपत्रपेक्षयैव वस्तुनि तथाभावात् । यदाहुः-'तत्र यो ज्ञानप्रतिभासमात्म- नोऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष' इति। केवलं वस्तु-
द्यः प्रकार: शब्दानां प्रसन्नत्वाद्, द्वितीयस्त्वर्थानामत्यद्वुतत्वात्। सोऽन्रा- स्तीत्यनेन भावशब्दात् सप्तम्यर्थे मत्वर्थीयं ठनं दर्शयति। न चेदमिति। अन्यस्यान्यतया प्रतिभाससम्भावनामात्रेण भ्रान्तिमत्त्वशङ्का, न तु सवथा तस्य लक्षणमत्रास्ति, सादृश्यहेतुकत्वाभावात्। सम्भावनापि दुःस्थेत्यत्र युक्ति- माह-भूतभावितयैवेति। स्फुटस्येत्यनेनानपह्वनीयत्वमाह। अधिकस्येत्य- नेन वस्तुवृत्तमात्रत्वनिरासः । नापीदमिति। अकमलस्य मुखादे: कमलत्वे- नेव अवर्तमानस्याप्रत्यक्षस्य वर्तमानत्वेन प्रत्यक्षत्वेन च प्रतीतेरतिशयोक्तित्व- शङ्ा। अप्रत्यक्षस्य वस्तुनः प्रत्यक्षत्वेन प्रतीतेनान्यस्यान्यतयाध्यवसायाभावो- डसिद्ध इत्याह-नहीति। प्रतिपत्रपेक्षयैवेति। नहि वस्तुधर्मो गोत्वादि: स्वसत्तायां प्रतिपत्रपेक्षामपेक्षते। ज्ञानप्रतिभासं ज्ञानस्फुरणग्। अन्वयव्यति- रेकौ विषयसन्निधौ हि प्रत्यक्षज्ञानस्य रफुरणं, तदसन्निधावस्फुरणं च। केव- लमिति। वस्तुनः प्रत्यक्षत्वे वक्ष्यमाणा सामग्री प्रतिपत्तुरुपयुज्यते। न तु
१. 'वो भा', २. 'सि नि' क. ख. पाठः. ३. 'तिवद् व' ग. पाठः. ४. 'ख्यघ', ५. 'य' क. . पाठः. ६. 'वि वा' ग. पाठः. ७. 'र' क. पाठः.
237
Page 238
निरूपणम् ] २२३
प्रत्यक्षत्वे प्रतिपत्तुः सामत्रयुपयुज्यते । सा च लोकयात्रायां चक्षुरादीन्द्रियरवभावा। योगिनामतीन्द्रियार्थदर्शने भावनारूपा। काव्यार्थविदां च भावनास्वभावैव। सा च भावना वस्तुगतांत्य- हुतत्वप्रयुक्ता, अत्यह्हुतानां वस्तूनामादरप्रत्ययेन हृदि सन्धा- र्यमाणत्वात। नापि भूतभाविनामप्रत्यक्षाणों प्रत्यक्षतयैव प्रती- तेरिवार्थगर्भीकारेणेयं प्रतीयमानोत्प्रेक्षा, तस्या अभिमानरूपा- ध्यवसायस्वभावत्वात्। नह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते, किं तर्हि काव्यार्थविद्िः प्रत्यक्षं दृश्यत इति। नापि वस्तुगत इवार्थ उत्प्रेक्षायाः प्रयोजकः, तस्या अभिमानरूपायाः प्रतिपत्तृध- मत्वात्। यदाहु :- "अभिमाने च सा योज्या ज्ञानधर्मे सुखादिवद्" इति। काव्यविपये च प्रयोक्तापि प्रतिपत्तैव। नाप्यत्यह्हुतपदा- र्थदर्शनादतीतानागतैयोः प्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिंङ्गलिङ्गिभावेन प्रतीत्यभावात्। योगिवत् प्रत्यक्षतया प्रतीतेः ।
वस्तुधर्मः कश्चिदिति भावः। भावनास्वभावैवेत्येवकारः पौनर्वचनिकः । सा चेति। तच्छब्देन काव्यार्थवित्सम्बन्धिनी भावना परामृश्यते। वस्तुगतेति । न तु योगिवद् योगाभ्यासबलोत्था। आदरप्रत्ययेन आदरविशिष्टेन ज्ञानेन। तस्याः उत्प्रेक्षायाः। प्रत्यक्ष दृश्यमानत्वेऽपि वस्तुनः परमार्थतोऽप्रत्यक्षत्वेन इवार्थस्य विद्यमानत्वादुत्प्रेक्षात्वमाशङ्कयाह-नापीति। अभिमाने चेति। ज्ञानावान्तरजातावभिमाने योज्या न वस्तुधर्म इत्यर्थः । वक्तुरपि प्रत्यक्षत्व- प्रतीते: प्रतिपतृधर्मत्वस्यानियममाशङ्कयाह-काव्यविषय इति। काव्यार्थ- निरूपणवेलायाम्। योगिवदिति। यथा योगिनोऽतीतत्वादिविशिष्टोऽप्यर्थः १. 'व', २. 'काती' ग. पाठ :. ३ 'त्या', ४. 'दि धार्य', ५. 'णामप्र' क. ख. पाठ :. ६. 'तत्र' ग. पाठः.
238
Page 239
२२४ अलङ्कारसूत्रं [भाविक-
नाप्ययं परिस्फुरद्रूपतया सचमत्कारप्रतिपत्ते रसवदलङ्गारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानिवत् प्रतीतौ तस्य भावात्। इह तु ताटस्थ्येन भूतभाविनां स्फुटतया भिन्नसर्वज्ञवत् प्रतीतेः । स्फुटप्रतिपतत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतिपत्ति- निमित्तेक औत्तरकालिको रसवदलङ्कारः स्यात्। नापीयं सूक्ष्मवस्तुस्वभाववर्णनात् खवभावोक्तिः । तस्यां लौकिकवस्तुग- तसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसम्भवात। इह लो- कोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येनँ च प्रतीतेः । कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकसवभावो-
पुरोवर्तितया प्रतीयते, तथा सहृदयस्येत्यर्थः । यदि पुनरपुरोवर्त्यपि पुर ईव परिस्फुरति, तदा रसवदलक्कारः स्यादित्याशक््याह-नाप्ययमिति। रत्या- दीत्यादिशब्देन हासादयः विभावादीत्यादिशव्देनानुभावव्यभिचारिणश्च गृ- ह्यन्ते। तदनुपक्ततया रत्याद्यनुपक्ततया। साधारण्येन सकलेसहृदयसाधार- ण्येन। परमाद्वैतज्ञानिनः ब्रह्मैवेदं सर्वमित्यपरोक्षज्ञानवन्तः । भिन्नसर्वज्ञाः सकलानपि भावानात्मनः पृथत्तवेन योगबलात् साक्षात्कुर्वन्तः । औत्तरका लिक इति। ताटस्थ्येन स्फुटप्रतिपत्तिसमयभाविनो भाविकात्। स्वभावोक्ति- लक्षणप्रस्तावे निर्णेष्यमाणतया निर्दिष्टमर्थ निर्णेतुमुपक्रमते-नापीयमित्या- दिना। स्वभावोक्तिनिष्ठं वस्तुनो लौकिकत्वं साधारण्येन हृदयसंवादं च भाविके व्यावर्तयतिलोकोत्तराणामिति, ताटस्थ्येनेति च । कचिदि- त्यादि। लौकिकानामिति स्वभावोक्तेरनुप्रवेशो दर्शितः, (इति?) स्फुटत्वेने-
१. 'सत्त्यादि', २. 'तीतिननि', ". 'स्था', ६. 'ह तु लो' क. ख, पाठः. ७. 'नप्र' ग. पाठः, ८. 'ए', ९. 'लह क ख. पाठ:
239
Page 240
विक्सामम] २२१
कल्योः समावेवः स्पात। न च हृदयसंवादमात्रेण स्वभावो- किस्सवदलङ्कारयोरभेदः । वस्तुस्वभावसंवादरूपत्वात् स्वभा- वोने चित्तेवृत्तिसंवादरूपत्वाच्च रसवदलङ्कारस्य, उभयसंवा- वसंभवे तु समाबेशोऽपि घटते। यत्र वस्तुगतसूक्ष्मधर्मवर्णना स्वात्, तत्र स्वभावोक्तिः । अन्यत्र तु रसवदलङ्गार एव। नाप्ययं शब्दानाकुलत्वहेतुको झटित्यर्थसमर्पणरूपः प्रसादाख्यो गुणः । तस्य हि स्फुटास्फुटोभयरूपवाक्यार्थगतत्वेन झटिति समर्पणं रूपम्, अस्य तु झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः । तरमादयं सर्वोत्तीर्ण एवालङ्कारः। लक्ष्ये चायं प्रचुरप्रयोगो दश्यते पते। यथा-
"मुमिजयति योगीन्द्रो महात्मा कुम्भसम्भवः। येनैकचुलुके दष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥"
ति भाविकस्य । भाविकव्यावृत्त्यर्थ निर्दिष्टस्य हृदयसंवादस्याविशिष्टत्वात् स्वभावोक्ते रसवदलङ्गारादपृथक्त्वमाशङ्कय परिहरति-न चेति। उभयश- व्देन वस्तुचित्ते निर्दिश्येते। शब्दानाकुलत्वं व्यत्यस्तसम्बन्धराहित्यम् । त- स्य प्रसादस्य झटित्यर्थसमर्पणमात्रत्वं रूपं, न त्वर्थस्य स्फुटतया प्रतीतिर- पि। अस्य भाविकस्य । झटिति समर्पितस्येति। अर्थस्येति शेषः । सर्वो- त्तीर्ण इति। आ्क्प्रदर्शितनयेन भ्रान्तिमदाद्यलङ्गारवर्गात् प्रसादगुणाच्च व्या- वृत्तः । अलक्कार इत्यनेन वस्तुवृत्तत्वनिरासः । लक्ष्य इत्यादिना भाविकस्यो- वश्याज्गीकरणीयतां दर्शयति। मुनिर्जयतीत्यादि। समुद्रपानसमये एकचुलुकट-
२, 'वात् स' क. ख. पाठ :. डं. पाठ :. 'ससं', ३. 'स्य झ' ग. पाठ :. ४. 'ते । मु' क.
.29
240
Page 241
२२६ अलङ्कारसूत्रं [भाविक-
यथा वा हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने। तत्र हि प्रत्यक्षमिव स्फुटत्वेन तदीयं रूपं दृश्यते। एवं तत्रैव क्रुद्धमुनिवर्णनपुलिन्दवर्णनादौ ज्ञयम् । अयं त्त्र विचारलेशः सम्भवति। इह क्कचिद् वर्णनीयस्य वर्णनौवशादेव प्रत्यक्षाय- माणत्वं, कचित् प्रत्यक्षायमाणस्यैव वर्णनम्। आद्यं यथोदाह- तम्। द्वितीयं यथा- "अनातपत्रोऽप्येयमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोडप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम्।"
इति । अत्र प्रथमप्रकारविषयोऽयमलङ्कारो न प्रकारान्तरगो- चरः। कविसमर्पितानां धर्माणामलङ्कारत्वात्। न हिमांशुलाव-
शब्दप्रतिपादितत्वाच्च प्रत्यक्षायमाणत्वम्। दृष्टावित्यनेन तदवस्थाविशिष्टस्य तस्यातीतत्वमवगम्यते। भाविविषयं यथा त्वद्यात्रोद्यम एव शात्रवगण: स्थाने वनं प्रस्थितो यस्मात् संयति मण्डलीकृतधनुर्मध्ये कृतावस्थितिः । कोलम्बाधिपते! किरन् दिशि दिशिच्छन्नार्कभासः शरा- नीपद्दत्तदगञ्चलस्त्वमधुना न द्रष्टुमीशिष्यसे ।। अत्र विशिष्टस्य भाविदर्शनाशक्तिविषयस्यानवगतस्य वर्णनीयस्य प्रत्यक्षाय- माणत्वम् । अनातपत्रोऽपीत्यादि । आतपत्रचामरात्ययेऽपि तद्वत्तया दृश्य-
१. 'ते । त' क. ख. पाठः २. 'क्रोधमु' ग. पाठः. ३. 'नादे', ४. 'पिस एव शोभते', " 'ए' क. ख. पाठः.
241
Page 242
निरूपणम् ] २२७
ण्यादीनामिव वस्तुसन्निवेशिनाम् । अपिच "शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते" इति भामहीये 'वाचामनाकुल्येन भाविकमि'ति चोज्भटलक्षणे व्यत्यस्तसम्बन्धरहितशब्दसन्दर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्र- तिपादकं कथं प्रयोजकीभवेद्, यदि वस्तुसन्निवेशिधर्मगतत्वे- नापि भाविकं स्यात्। तस्माद् वास्तवमेव महत्त्वमुत्तरप्रकार- विषये वर्णितमिति नायमत्रालङ्गारः । यदि तु वास्तवमपि सौ- न्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्रगोचरी-
मानत्वे वर्णनीयस्य माहात्म्यमेव हेतुः, न तु वर्णनम्। तच्च माहात्म्यं कोऽप्य- यमित्यनेन प्रकटितम् । प्रथमप्रकारो वर्णनवशादेव प्रत्यक्षायमाणत्वलक्षणः । एवं स्वतः प्रत्यक्षायमाणस्य वर्णने भाविकत्वं निरस्य चिरन्तनलक्षणानुरोधा- चचैवंविधे विषये भाविकत्वं न स्यादित्याह-अपिचेत्यादि । "चित्रोदात्ताद्गुतार्थत्वं कथायाः स्वभिनीतता। शब्दानोंकुलता चेति तस्य हेतुं प्रचक्षते ।।" स्वभिनीतता आङ्िकादि चतुर्विधाभिनयशालित्वम्। "प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्धुताः स्यात् तद्वाचार्मेनाकुल्येन भाविकम् ।" अत्यद्धुता भूतभाविनोऽर्था यत्र प्रत्यक्षा इव दृश्यन्ते वाचामनाकुल्येन तद् भाविकं स्यादित्यन्वयः । अनयोश्र भामहोद्भटवचनयोः प्रतीकोपादानं ताव- न्मात्रस्य सिसाधयिषिताथापयिकतया। अयमर्थः- यदि वस्तुसन्निविष्टेनापि प्रत्यक्षायमाणत्वेन भाविकत्वं स्यात्, तदा भामहोद्भटाभ्यां प्रत्यक्षायमाणत्वं प्रति हेतुतयोपन्यस्तं व्यत्यस्तसम्बन्धराहित्येन झटित्यर्थसमर्पकत्वलक्षणं वा- चामेनाकुल्यं कथं प्रयोजकं स्यात् । सकलवक्त्रगोचरीभूतं सकलानां वक्तृ- १. 'श', २. 'दि वा', ३. 'नुकूल', ४. 'मानुकूल्ये', ५. 'मानुकूल्य' ग. पाठः.
242
Page 243
२२८ अलक्कारसूत्रं [उदास-
भूतं खवभावोक्तिवदलङ्कारतया वर्ण्येत, तदायमपि प्रकारी मातीय दुःश्लिष्टः । अत एव "प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः । तन्ाविकम्" इत्येतावदेवान्यैर्भाविकलक्षणमकारि। स्वभावोक्त्या किश्िित्ता- दृश्यात् तदनन्तरमस्य लक्षणं कृतम् ॥ समृद्धिमद्वस्तुवर्णनमुदात्तम् ॥ ८० 1। स्वभावोक्तौ भाविके च यर्थास्थितवस्तुवर्णनम् । तद्वि- पक्षत्वेनारोपितवस्तुवर्णनात्मने उदात्तस्यावसरः । तत्रासम्भाव्य- मानभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्ष- णमुदात्तम् । उैदाहरणं - "मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिः कृताः प्रातः प्राङ्कणसीमनि मन्थरचलद्वालाङघिलाक्षारुणाः।
णामगोचरतां गतम्। नातीव दुःश्रिष्टः, किश्चिद् घटत एवेत्यर्थः । अत एव वस्तुसन्निवेशिधर्मगतत्वेनापि भाविकत्वाङ्गीकारात्। एतावदेवेत्येवकारेण भामहादिवद् वाचामनाकुल्यं नोपात्तमिति दर्शयति। किश्चित्सादृश्यादिति। उभयत्र सूक्ष्मवस्तुस्वभाववर्णनस्य विद्यमानत्वात्। उदात्तस्य भाविकानन्तर्ये विरोधसम्बन्धो हेतुरित्याह-स्वभावोक्तापि- त्यादि। असम्भाव्यमानेत्यादि। वस्तुनोऽसम्भाव्यमानविभूतियुक्तत्वेन वर्णन- मित्यर्थः। उदात्तशब्दस्यौदार्यमैश्वर्य चार्थः। तयोरैश्वर्यमत्रार्थः। उत्तरत्रीदार्यम्। ऐश्वर्य च न स्वतः सम्भवि, किं तर्हि कविप्रतिभोत्थापितमेवेत्याह-कषिमतिम-
१. 'र्यते, त' क. ख. पाठः. २. 'थार्थस्थि' ग. पाठः. ३. 'कस्योदा', ४. 'यथा-म', ५. 'धा' क. ख. पाठः.
243
Page 244
निरूपणम् ] २२९
आराद् दाडिमबीजशङ्गितधियः कर्षन्ति केलीशुका यदिद्वद्भवनेषु भोजनृपतेस्तत्यागलीलायितम् ।।"
अङ्गभूतमहापुरुषचरितवर्णनं च ।। ८१॥
उदात्तशब्दसाम्यादिहाभिधानम्। महापुरुषाणामुद्दार- चरितानाम् अङ्गीभूतवस्त्वन्तराङ्गभावेनोपनिबद्धं चरितं चोदा- सम्। महापुरुषचरितस्योदाररूपल्वात्। उेदाहरणं - "तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी। विचरन् बाहुसहायश्रकार रक्षःक्षयं रामः ।।" अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ॥ रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रे- यऊर्जस्विसमाहितानि ॥ ८२ ॥
त्यादि। कृताः निक्षिप्ताः। अन्रेदृश्या विद्वर्द्भवनविभूतेरसम्भाव्यमानत्वं स्पष्टमेव।। पूर्वस्माल्लक्षणवल्लक्ष्यवाचिनोऽप्युदात्तशब्दस्यार्थो भिद्यते। औदार्यवा- चकत्वात्। अतो वाचकशब्दस्वरूपसाम्यमेवानन्तर्यहेतुरित्याह-उदात्तश- ंदसाम्यादिति। महापुरुषाणामित्यस्य व्याख्या उदारचरितानामिति । अङ्ग- भूतेत्येतच्च न महापुरुषाणां विशेषणम्, अपि तु तच्चरितस्य तात्कालिक विशे- षणम्। अङ्गभावश्र न महापुरुषसम्बन्धिन्येव प्रधानभूते चरिते रावणवधादौ सेतुबन्धादिवत्, कि तर्ह्यन्यस्मिन् वस्तुनीत्याह-अङ्गीभूतेत्यादि । अंङ्गि- शब्दाच्चः। अङ्गत्वेन वर्णितमिति। उपलक्षणत्वेन निर्दिष्टत्वात्।।
१. 'दवि' ग. पाठ :. २. 'यथा-त', , ३. 'निवसन्' क. ख, पाठः. ४. 'द्विभू' ख. पाठ :.
244
Page 245
२३० अलक्कारसूत्रं [रसवत्-प्रेय-ऊर्जस्वि-समाहित-
उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्ित्तवृत्ति- विशेषस्वभावत्वाच्च रसादीनामिह तद्ददलङ्गाराणां प्रस्तावः । अत एव चत्वारोऽलङ्गारा युगपल्लक्षिताः । तत्र विभावानुभाव- व्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिशचेदः । देवतादिविषया च रतिः । तदाभासो रसाभासो भावाभासश्र। आभासत्वमविषयप्रवृत्त्यानौचित्यात्। तत्प्रशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था। तत्र रसस्य परं विश्रान्तिरूप- त्वात् सा न सम्भवतीति परिशिष्टभेदविषयोऽयं द्रष्टव्यः । एषामुपनिबन्धे क्रमेण रसवदादयोऽलङ्काराः । रसो विद्यते यत्र निबन्धने व्यापारात्मनि, तद् रसवत्। प्रियतरं प्रेयो निबन्धन-
चित्तवृत्तिरूपत्वादिति। महापुरुषचरितस्योत्साहादिरूपत्वात् । तद्वद- लङ्कारा: रसादिमदलङ्गाराः। अत एव चित्तवृत्तिविशेषस्वभावरसादिरूपत्वादेव। देवतादीत्यादिशब्देन नृपगुरुपुत्रादयो गृह्यन्ते। कान्तालम्बनायास्तु रतेर्व्यक्तत्वे शृङ्गारतैव। अनौचित्यादिति। कामकोधादिकारणवशाच्छास्त्रविरुद्धेन रूपेणो- पनिबन्धादविषयवृत्तत्वेनानौचित्यम्। सा प्रशाम्यदवस्था। परिशिष्टति। भावा- दिविषयः । अयं तत्प्रशमो द्रष्टव्यः। व्यापारात्मनीत्यनेन सूत्रे निबन्धशब्दो भाव- साधनः, न त्वधिकरणसाधनतया रसादिनिबन्धनक्रियाधिकरणभूतकाव्याभि- धायीत्याह। काव्याभिधानपरे हि रसवदादिशब्देन रसवदलङ्कार इत्यादिनिर्देशो न घटते। भियतरमित्यादि। लोके हि यत्र चित्तस्यात्यासङ्ग:, तत् प्रियतरमु- च्यते। प्रियतरशब्दो मुख्यया वृत्त्या रत्यालम्बनेषुं देवतादिषु वर्तमानो लक्षणया
- 'तद', २. 'आरापि र' क. ख. पाठः. २. 'शब्दत्यो' ख. ग. पाठः. ४. 'षु न' ख. पाठः.
245
Page 246
निरूपणम् ] २११
मेवे। एवमूर्जो बलं विद्यते यत्र, तदपि निबन्धनमेव। अनौ- चित्यप्रवृत्तत्वाच्च तत्र बलयोगः । समाहितः परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमपर्यायः । तत्र यस्मिन् दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलङ्काराः, तत्राङ्गभूतरसादि- विषये द्वितीय उदात्तालङ्कारः । यन्मते त्वङ्गभूतरसादिविषये रसवदाद्यलङ्गाराः, अन्यत्र रसादिध्वनिना व्याप्तत्वात् तत्र द्वितीयोदात्तालङ्कारस्य विषयो नावशिष्यते, तद्विषयस्य रस- वदादिना व्याप्तत्वात्, तत्र रसवत उदाहरणम् ।
रतौ वर्तते, ततेश्र रतिसहचरितं भावकदम्बकं छत्रिन्यायेन लक्षयंस्तथाविध- भावकदम्बकविषये निबन्धने उपचारेण वर्तत इति निबन्धनस्य प्रेयस्त्वम् । ऊर्जो बलमित्यादि । ऊर्जस्विशब्दस्य 'ज्योत्स्नातमिस्रा-' (५.२.११४) इत्यादिना मत्वर्थे निपातितत्वात्। परिहार इत्यनेन भावे निष्ठान्तः समाहितशब्द इत्याह। तत्र यस्मिन्नित्यादिना रसादिध्वनेर्द्वितीयोदात्तालङ्कारस्य च रसवदादेश्र त्रयाणामपि स्वीकरणं न संगच्छत इत्याह। यस्मिन् दर्शने उद्भटादिमते। द्वितीय इति। अङ्गभूतमहाषुरुषचरितवर्णनलक्षणः । तस्य हि वस्त्वन्तरं प्रत्यङ्गभूता महापुरुषाश्रया उत्साहरत्यादिप्रकर्षात्मानो वीरशृङ्गारादयो विषयः । यन्मते आनन्दवर्धनादिमते। अन्यत्र वाक्यार्थीभूतरसादिविषये। अन्ये तु-अन्य- स्मिन्नपि मते रसाद्याश्रयाणां महतामुपलक्षणभावेनाङ्गभाव उदात्तस्य विषयः। यथा तदिदमरण्यमित्यादौ। यत्र तु रसादीनामेव प्रकारान्तरेणाङ्गभावः, तत्र "अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्ंसनः करः ॥"
१. 'व द्रष्टव्यम् । ऊर्जो' ख. ग. पाठः. २. 'क्तवि' क. ख. पाठः. ३. 'तो र' ग. पाठ :. ४. 'र्जस्वल' ख. पाठः.
246
Page 247
२३२ अलक्कारसूत्रं "किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्विराठ् दर्शनं केयं निष्करुण! प्रवासरुचिता केनासि दूरीकलः। स्वप्नान्तेष्विति ते वदन् प्रियतेमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजन: ॥" एतन्मतद्वयेऽप्युदाहरणम्। तत्र वाक्यार्थीभूतोऽत्र करुणो रसः। अङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेषूदाहार्यम्। प्रेयो- लङ्कारादौ विशेषमनपेक्ष्योदाहि्यते। "गाढालिङ्गनवामनी कृतकुचप्रोह्ूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता कि नु मृता नु किं मनसि मे लीना विलीना नु किम्।
अत्र नायिकाया हर्षाख्यो व्यभिचारिभावः । यथा वा- "तद्दक्रामृतपानदुर्ललितया दृष्टया क विश्रम्यतां तद्दाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः श्रोत्रयोः ।
इत्यादौ रसवदाद्यलक्कार इति त्रितयस्वीकरणमपि संगतमेवेत्याहुः। मतङ् येजपीति। पूर्वस्मिन् मते करुणापेक्षयोत्तरत्र विप्रलम्भशृङ्गारापेक्षया रसवब- लङ्कारः । एवं रसान्तरेष्विति। सम्भोगशृङ्गारे वीररसादौ च। प्रेयोऽलङ्का- रादावित्यादिशब्देन ऊर्जस्विसमाहिते गृह्येते। विशेषम् अङ्गाङ्गिभावलक्षणम्। उदाहरणद्वयोपादानं स्त्रीपुंसयोराश्रययोरङ्विनोः सम्भोगविप्रलम्भयोर्वा भेदात्।
१. 'सखव्या', २. 'ते। तत्र प्रयोगो यथा-गा', ३. 'द्विमरो' क. ख. पाठ :. ४. 'या रस' ख. ग. पाठः.
247
Page 248
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २३३
एभिस्तत्परिरम्भनिर्भरभरैरङ्गै: कथं स्थीयतां कष्टं तद्विरहेण सम्प्रति वयं कृच्छ्रामवस्थां गताः ॥"
अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालङ्कारः । भावस्य चात्र स्थितिरूपतया वर्तनम् । शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा-
"दूराकर्षणमोहमन्त्र इव में तन्नाम्नि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां बिना। एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गाकुलैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेझि स्फुटम् ॥"
अत्र रावणस्याभिलाषश्ृङ्गार औत्सुक्यं चे व्यभिचारिभा- वोऽनौचित्येन प्रवृत्तौ। समाहितं यथा-
परिशिष्टानां रत्यादिभावानामुदाहरणाप्रदर्शनं ग्रन्थविस्तरभयात्। एप एवे- त्यादि। प्रेयोलक्कारम्यैव भावालङ्वार इति संज्ञान्तरमित्यर्थः । शान्त्युदयवत् स्थितेरप्यलङ्कारत्वेनाकथनं नासंभवाद्, अपि तु उक्तप्रेयोरुपत्वादेवेत्याह- भावस्य चात्रेत्यादि। अत्र प्रेयसि। वक्ष्येते इति । समाहिते शान्त्यवस्था । भावोदये उदयावस्था । अत्र रावणस्येति। पूर्वार्धे आभिलाषिकशङ्गारस्य प्रतीतिः, उत्तरार्धे औत्सुक्यस्येत्येवंरूपौ रसव्यभिचारिणौ परदारविषयत्वेन शास्त्रविरुद्धत्वादनौचित्येन प्रवृत्तौ। अतो रसाभासभावाभासयोद्योरप्येतदु-
१. 'त' क. ख. पाठः. . 'ण', 'होमम' क., 'मन्त्रमोह इ' स. पाठः. ३. 'स्था', ४. 'क्ष्य' ख. ग. पाठः. ५. ६. 'ते', ७. 'वीक्षिततरैर', ८. 'च रसव्य', ९. 'त्यप्र' क. ख. पाठः. १०. 'योलङ्कारवत्वादे' ख. ग. पाठः. ११. 'का' ख., 'त' क. पाठ :. १२. 'त्यप्र' ख. ग. पाठ :. A. 30
248
Page 249
२३४ अलक्कारसूत्रं [रसवत्-प्रेय-ऊर्जस्बि-समाहित- "अक्ष्णोः र्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या। भावान्तरस्य तव चण्डि! गतोऽपि रोषो नोद्गाढवासनतया प्रसरं ददाति ।।" अत्रे कोपस्य प्रशमेः । एवमन्यत्राप्युदाहार्यम् ।
"तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्ररणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्ते क तदित्युदीर्य सहसा तत् सम्प्रमार्ष् मया साश्लिष्टा रभसेन तत्सुखवशात् तन्व्यापि तद्विस्मृतम्।।" "एकस्मिञ्छयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम्। दम्पत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषो- र्भगो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥" अत्रेर्ष्याकरोधात्मनो मानस्य प्रशमः । एवमन्यत्राप्युदाहार्यम्॥
दाहरणम् । अत्र कोपस्येति । कोपः रौद्रस्थायिभावः क्रोधः, तस्य च रस- त्वेनानभिव्यक्तौ व्यभिचारित्वाभावाङ्गीकाराद् भावत्वमाश्रित्य तत्प्रशमो भाव- प्रशमत्वेनोदाहृतः । एवमन्यत्रापि स्थायिभावानां शान्त्यादिवचने भाव- शान्त्यादित्वं द्रष्टव्यम्। अन्रेर्ष्येत्यादि। पूर्वत्रोदाहरणे नायिकाश्रयस्येर्ष्या- मानस्य, उत्तरत्रोभयाश्रयस्य प्रणयक्रोधस्वरूपस्य ।।
१ 'स्य', २. 'मः । त', ३. 'च' क. ख. पाठः ४. 'द्रस्य स्था' ग. पाठः.
249
Page 250
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २३९
भावोदयसन्धिशबलताश्चैते पृथगलङ्गाराः।।८३।। भावस्योक्तरूपस्योदय उद्गमावस्था, सन्धिद्वयोर्विरु- द्धयोः स्पर्धिभावेनोपनिबन्धः, शबलता बहनां पूर्वपूर्वोपमर्दे- नेनोपनिबन्धः । एते च पृथग् रसवदादिभ्यो भिन्नत्वेनाल- क्वाराः। एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलङ्कारत्वेन निर्दिष्टत्वात् । अथ च संसृष्टिसङ्करवैलक्षण्येनैते सर्वेऽलङ्काराः पृथक् केवलत्वेन, अलङ्कारा इति सर्वालङ्कारशेषत्वेनोक्तम्। संसृष्टिसङ्करयोहि संपृक्ततया सिद्धानामलङ्काराणां स्थितिः, तद्वै- लक्षण्यप्रतिपादनमेतत्। तत्र भावोदयो यथा-
"एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धया सदः कोपपराङ्मुखग्लपितया चाट्नि कुर्वन्नपि।
सूत्रे पृथगित्यस्यावध्यनिर्देशादवंधि दर्शयति-रसवदादिभ्य इति। भिन्नत्वेनेति। यद्यपि भावोदयादिषु तत्तद्भावानां स्वानुभावविभावव्यञ्जित- त्वात् प्रेयसस्तत्तद्भावाद्यभिव्यञ्जितस्य रसवशेन रसवतो वालङ्कारत्वं सुव- चेम्। तथापि कविसरम्भगोचरानुदयादीन् विशेषानाश्रित्यालङ्गारान्तरत्वेन निर्दिश्यन्त इत्यर्थः । भावोद्यभावसन्धिभावशबलताश्चेत्येतावत्येव निर्देष्टव्ये एते पृथगित्यादिवचनस्य प्रयोजनमाह-एतत्पतिपादनं चेत्यादि। एते पृथ- गित्यादियोगविभागेनार्थान्तरप्रतिपादनलक्षणं प्रयोजनान्तरमप्यस्तीत्याह- अथ चेत्यादिना। एते सर्व इति। उक्तलक्षणाः पुनरुक्तवदाभासादय एत. त्पर्यन्ताः । केवलत्वेनालङ्गारान्तरासम्मिश्रत्वेन। सर्वालङ्कारेति। न तु भा- वोद्यादिमात्रशेषत्वेन। संसष्टीत्यादि। पृथक्सिद्धरूपाणामलङ्कारान्तराणां
१. 'वोप', २. 'दैनोप', ३. 'सङ्करसंसृष्टिवै' क. ख. पाठः. ४. 'चनम् । त' क, पाठ :. ५. 'त्येवं नि' ख. पाठः. ६. 'श्रितत्वे' स्र. ग. पाठः. ७. 'त्रविशे' क. ख. पाठः
250
Page 251
२३६ अलङ्कारसूत्रं [भावोदय-सन्धि-शबलता-
संवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥।" अत्रौत्सुक्यस्योदयः । भावसन्घिर्यथा-
"वामेन नारीनयनाश्चुधारां कृपाणधारामथ दक्षिणेन। उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ॥" अत्र स्नेहाख्यैरतिभावरणौत्सुक्ययोः सन्धिः । भावशबलता यथा-
"क्ाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः! स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं पास्यति॥"
अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता।
सम्पृक्ततया संसृष्टिसङ्करयोः स्थितिरित्यर्थः । औत्सुक्यस्योदय इति। विशि- ष्टस्य वीक्षणस्य तदनुभावत्वात् । उत्पुंसयन् उन्मार्जयन्। अत्राश्रुधाराकृ-
स्पर्िभावः कर्तव्यमूढ इत्यनेन द्योतितः । अत्र वितर्केत्यादि। क्वाकार्य शशलक्ष्मणः क च कुलमित्यादिवागारम्भानुभावसूचितस्य वितर्कादेर्भूयोऽपि दृश्येत सेत्यादिवाचिकानुभावसूचितेनौत्सुक्यादिना उपमृदितत्वात् शबलता।
१. 'आ', २. 'मुग्धः सु', ३ 'ख्यभा' क, ख. पाठः,
25
Page 252
निरूपणम् सव्याख्यालक्कारसर्वस्वोपेतम्। २३७ तदेते चित्तवृत्तिगतत्वेनालङ्कारा लक्षिताः। अधुनैषां सर्वे- षामलङ्काराणां संश्लेषसमुत्थापितमलङ्कारद्दयमुच्यते। तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन वेति द्विधा। संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कट- स्वेन वर्तनम्। तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः । इत- रत्र तु क्षीरनीरसादश्यैम्। क्रमेण तदुच्यते- एषां तिलतण्डुलन्यायेन मिश्रत्वे संसृष्टिः।।८४।। उक्तालङ्काराणां यथासम्भवं यदि क्वचिद् युगपत् संघ- टना स्यात्, तदा ते किं पृथक्त्व एव पर्यवसिताः, उत तद- लङ्कारान्तरमेव किश्चिदिति विचार्यते-तत्र यथा बाह्यालङ्का- राणां सौवर्णमणिमयप्रभृतीनां पृथक् चारुताहेतुत्वेऽपि संघट- नाकृतं चारुत्वान्तरं जायते, तद्वत् प्रकृतालङ्काराणामपि संयो- जने चारुत्वान्तरमुपलभ्यते। तेनालङ्कारान्तरप्रादुर्भावो न प्रथक् पर्यवसानमिति निर्णयः । अलङ्गारान्तरत्वे च संयोगन्यायेन स्फुटावगमो भेदः, समवायन्यायेन वास्फुटावगम इति द्वैधम्। पूर्वत्र संसृष्टिरुत्तरत्रं तु सङ्करः । अत एव तिलतण्डुलन्यायः क्षी-
तदेत इति। रसवत्प्रभृतयो भावशबलतापर्यन्ताः । एतच्चैतेषां मिथः सम्बन्धख्यापनायोक्तम्। तस्यैव भेदस्यैव। तदा ते इत्यत्र तच्छब्देन युगपत् सङ्टितानामुक्तालङ्गाराणां प्रत्यवमर्शः, उत तदित्यत्र तच्छब्देन प्रतिनिर्दि- श्यमानालङ्गासन्तरलिङ्गभाजा युगपत् सङ्टना परामृश्यते। प्रकृतालङ्गाराणां १. 'तविषयत्वे', २. 'नास', ३. 'चे' क. ख. पाठः. ४. 'श्यम् । ए' क. पाठः. ५. 'चा', ६. 'त्र स' क, ख. पाठः. ७. 'चैषां' ख. पाठः.
252
Page 253
२३८ अलक्कारसूत्रं [संसृषि-
रनीरन्यायश्च तयोर्यथार्थतामेव गमयतः । तत्र तिलतण्डुलन्या- येन भवन्ती संसृष्टिस्त्रिविधा, शब्दालङ्कारगतत्वेनार्थालङ्कार- गतत्वेनोभयालङ्गारगतत्वेन च । सङ्गरस्तु प्रभेदयुक्तो वक्ष्यते। तत्र शब्दालङ्गारसंसृष्टिर्यथा-
वनितया विद्धे कलमेखलाकलकलोऽलकलोलदृशान्यया।"
अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः। अत्रैव लकलोल- कलो कलोलकलोल इति सजातीययोर्यमकयोः संसृष्टिः । अ- र्थालङ्कारसंसृष्टियथा-
"देवि! क्षपा गलति चक्षरमन्दतार- मुन्मीलयाशु नलिनीव समृङ्गमब्जम् । एष त्वदाननरुचेव विलुण्ट्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्क:॥"
अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः।
पुनरुक्तवदाभासादीनां काव्यालङ्गाराणाम् । यथार्थ(ते? तामि)ति। लोको हि तिलतण्डुलवत् संक्लेषेऽपि स्फुटभेदानर्थान् संसृष्टा इति व्यवहरति, क्षीरनीर- वदस्फुटभेदान् सङ्कीर्णा इति। अनुमासयमकयोरिति। कुसुमसौरभेत्यादौ छेकानुप्रासस्य विद्यमानत्वात्। सजातीययोरिति। यमकत्वेन निरर्थकत्वेन च। उपमोत्प्रेक्षयोरिति । पूर्वार्धे पाण्ड्योऽयमित्यादिवद् बिम्बप्रतिबिम्बभा-
१. 'मवगमयति। त', २. 'स्रिधा' क. ख. पाठः. ३. 'तिलतण्डलेति।' ख. पाठ:
253
Page 254
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २३९
"लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥"
अत्रोत्प्रेक्षयोः सजातीययोरुत्प्रेक्षोपमयोर्विजातीययोश्र संसृष्टिः। उभयसंसृष्टियथा-
"आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु वो विजयाय मञ्जु-
अत्रोपमानुप्रासयोः संसृष्टिः। पादाम्बुजमित्यत्र ह्युपमायां म-
वोपलक्षितसाधारणधर्मवत्युपमा। उत्तरार्धेऽम्बरत्यागनिमित्ता क्रियाहेतूत्प्रेक्षा। सजातीययोरिति । पूर्वार्घेऽनुपात्तनिमित्तयोः क्रियास्वरूपोत्प्रेक्षयोः, उत्तरा- र्धे ऐकरूप्यनिर्दिष्टसाधारणधर्माया उपमाया विद्यमानत्वात्। पूर्वनिर्दिष्टयो- रुत्प्रेक्षयोर्द्वित्वेऽपि जातिपरत्वेनैकत्वस्य विवक्षणादुपमोत्प्रेक्षयोरिति द्विवच- नम्। उभयसंसृष्टिः शब्दार्थालङ्गारसंसृष्टिः। उपमानुपासयोरिति। पादा- म्बुजमित्यत्र लुप्तधर्मद्योतकसमानधर्मायाः समासोपमायाः, मञ्जुमऔीरेत्यत्रैक- धा समुदायसादृश्यलक्षणस्य वृत्त्यनुप्रासस्योत्कटतया प्रतिभासात्। पाद एवाम्बुजम् अम्बुजमिव पाद इति सन्देहसङ्करो नाशङ्कनीय इत्याह-पादाम्बु- जमित्यत्र हीति। उभयसंसृष्टिवत् पूर्वमुभयगतत्वेनेत्येतावतैव शब्दार्थालङ्का- रगतत्वेनेत्यस्य सिद्धावप्युभयालङ्कारगतत्वेनेति वचनमुभयालङ्गारत्वेन वक्ष्य- माणामां लाटानुप्रासादीनामपि संसृष्टिर्भवतीति ज्ञापनार्थम्। सा यथा-
१. 'या' क, ख. पाठः. २. 'स्थ' ख. ग. पाठः. ३. 'छ' क. पाठ :.
254
Page 255
२४० अलक्कारसूत्रं [सक्कर-
औीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम्। स हि रूपके प्रति- कूलः पारिशेष्यादुपमां प्रसाधेयति। तदेषा त्रिविधा संसृष्टि- र्निर्णीता ।। अधुना क्षीरनीरन्यायाश्रयेण तु सङ्करलक्षणमुच्यते- क्षीरनीरन्यायेन तु सङ्करः ।८५॥ मिश्रैत्व इत्येव। तत्रोत्कटभेदमनुत्कटभेदं च मिश्र- त्वम्। तत्रोत्कटभेदा संसृष्टिरुक्ता। अनुत्कटभेदः सङ्करः। तैच्च- मिश्रत्वमङ्गाड्गिभावेन संशयेन एकवाचकानुप्रवेशेन च त्रिधा- भवत् सङ्करं त्रिभेदमुत्थापयति । क्रमेणोदाहरणम्-
द्विषन्मृगमृगाधिपं भुवनजाड्यवैश्वानर- प्रतापमुपवर्णयेद् यदुपतिं कथं मादृशः । तिरस्कृतपुलोमजिद्गुरुधिया धियाभ्यर्हितं परापदपरापदस्फुटसरोजकान्तेक्षणम् ।। अत्र द्विषन्मृगमृगेति लाटानुप्रासस्याश्रिष्टपरम्परितेन सहैकवाचकानुप्रविष्टस्य िया धियेति सजातीयेन भुवनजाड्यवैश्वानरप्रतापमिति श्विष्टपरम्परितेन पराप(दमि?दि)त्यादौ परसम्बन्ध्यापल्लक्षणेन तदपलापप्रदत्वात्मना चार्थेन परापच्छब्दस्य चापराप(च्छ?दश)·दस्य चैवान्वयाद् यमनयोस्तु द्वयोरपि परा-
क्षणशब्दार्थालङ्कारवृत्तिना संसृष्ट्यलङ्गारेण (वा?) विजातीयेन च संसृष्टिः॥ मिश्रत्व इत्येवेति । उपलक्षणमेतद् एषामित्यस्य चानुवृत्तेः ।
१. 'द', २. 'त्रिधा', ३. 'श्रितत्व', ४. 'ततश्चमि', ५. 'ण यथा-अ' क. ख. पाठ :. ६. 'थ वृ' ख. ग. पाठः.
255
Page 256
निरूपणम्] सव्याख्यालक्कारसर्वस्वोपेतम्। २४१
"अङ्कुलीभिरिव केशसञ्च्यं सन्निगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुख़ं शशी।।"
अत्राङ्कुलीभिरिवेत्युपमा। सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका। रजनीमुखमिति श्ेषमूलातिशयोक्तिः। प्रारम्भवद-
भावः। एवं च वाक्योक्तसमासोक्ते उपमे श्लेषानुगृहीता चा- तिशयोक्तिरुत्प्रेक्षायाश्चुम्बतीवेति प्रकाशिताया अनुग्राहिकाः ।
अङ्गुलीभिरिवेत्युपमेति। सन्निग्रहणमात्रस्य साधारणधमत्वे ऐकरूप्येण निर्दे- शः। तत्कर्मीभूतयोस्तु केशसञ्चयतिमिरयोर्विम्बप्रतिबिम्बभावः । सैवेति । अङ्गुलीभिरिवेत्युपमैव। अत्र मुख्यतयावगम्यमाना हि मरीचयः सरोजमुकु- लीकार एवानुकूल्यं भजन्ते इति लोचनमिव सरोजमित्युपमावसायः । तयो- रङ्गाद्गिभाव इति। अतिशयोत्त्यपेक्षितस्याभेदाव्यवसायनिमित्तस्य साम्यस्य शब्दद्वारेण सम्पादनाच्क्रेषस्यानुग्राहकत्वम् । वाक्येत्यादि। 'इवेन विभक्य- लोप :- '(वा०२.२.१८) इत्यादिवचनमनपेक्ष्यैव तदुक्तम्। अन्यथा सरोज- लोचनमितिवदङ्गुलीभिरिवेत्युपमाया अपि समासोक्तत्वमेव स्यात् । श्लेषा- नुगहीतेति। रजनीमुखमित्यत्र दर्शिता। उत्पेक्षाया इत्यादि। गम्यमानसंस- र्गत्रियानिमित्ताया अभिधीयमानसरोजमुकुलीकारादिनिमित्ताया वा क्रियास्व- रूपोत्प्रेक्षायाः। तद्वलेन उपमातिशयोक्तिबलेन। सापीत्यादिना नियमेन कस्यचिदङ्गत्वे कस्यचिदङ्गित्वे चाङ्गिनैवालङ्कारव्यपदेशः स्यात्, न तु सक्कर इत्युभयोरपि परस्परं प्रत्यङ्गभावश्चाङ्गिभावश्रेतरेतराश्रयपरिहाराय विष- यभेदेनाँवगन्तव्य इत्याह। तत्रोत्प्रेक्षायाः प्रत्युत्थानेऽङ्गमुपमादिः। उपमादे-
१. 'योर', २. 'वं वा' क. ख. पाठः. ३. 'के' ग. पाठः. 5. 'लोम्य भ', ५. 'वै' ख. पाठः. ६. 'न वाव' ख. ग. पाठः. A.31
256
Page 257
२४२ अलङ्कारसूत्रं [सक्कर-
त्वलेन तस्या: समुत्थानात् । सापि समुत्थापिता समुत्थापका- नां चमत्कारकारितानिबन्धनमित्यङ्गाङ्गिभावः । यथा वा-
"त्रयीमयोऽपि प्रथितो जगत्सु यद् वारुणीं प्रत्यगमद् विवस्वान्। मन्येऽस्तशैलात् पतितोऽत एव विवेश शु्धै बडवाभिमध्यम्॥"
अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्ेषः । दर्शनान्तरे तु विरोधश्लेषौ दावलंकारौ। तदनुगृहीती च द्वितीयेऽर्धे मन्येपद- प्रकाशिता द्वितय्युत्प्रेक्षा। अतश्रौताङ्गाङ्गिभावः । तथाहि- अत्र यत् कारणमुत्प्रेक्ष्यते, तत्र विरोधश्लेषानुप्रवेशः, यच्चात्र कार्यमुत्प्रेक्षानिमित्तं, तत्र पतितत्वाभिप्रवेशौ वस्तुस्थित्यान्यथा- स्थितावप्यन्यथाभूताभ्यों ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ। तेना- त्राङ्गाङ्गिभावसंकरः । न च विरोधप्रतिभोत्पत्तिहेतौ श्लेषे श्लेष-
श्रमत्कारकारित्वे उत्प्रेक्षाङ्गम्। श्रेषलक्षणावसरे तद्वलावलनिरूपणायोक्तमे- वार्थमिदानीं सक्करप्रदर्शनाय संक्षिप्याह-त्रयीमयोऽपीत्यादि। एतच्च तत्रैव वितत्य व्याख्यातम्। द्वितयीति। हेतुफलोत्प्रेक्षाभेदात् । अतश्च अनुगृहीत- त्वादेव। तथाह्यत्रेत्यादिनोत्प्रेक्षायाः क्ेषेण क्लेषविरोधाभ्यां वाङ्गाङ्विभावं प्र- तिपाद्य तस्या एवातिशयोक्त्युत्थापकेन श्लेषेण सह तं प्रतिपादयति-यच्चात्रे- त्यादिना। अङ्गाद्गिभावसङ्कर इति। पूर्ववद् विरोधश्लेषयोः क्लेषातिशयोक्त्यो- श्रोत्प्रेक्षाया उत्थानऽङ्गत्वं तस्याश्च तेषां चमत्कारकारित्वेऽङ्गत्वं ज्ञेयम्। श्रे- षोत्प्रेक्षयोरिवोत्प्रेक्षाविषय भूतकारणगतयोर्विरोधश्लेषयो रुत्प्रेक्षानिमित्तकार्यगत- यो: श्लेषातिशयोक्त्योर्वा सङ्करो नाशङ्कनीय इत्याह-न च विरोधेत्यादिना।
१. 'ता द्वि', २. 'श्राङ्गा', ३. 'भ्याम' क. ख. पाठः. ४. 'घः स' ग. पाठः.
257
Page 258
निरूपणम् ] सव्याख्याल्कारसर्वस्वोपेतम्। २४३
स्य विरोधेन सहाङ्गाद्गिभावसंकरः, उत्प्रेक्षाया वा निभित्तगता- तिशयोक्त्या सहाङ्गाङ्गिसंकरः। ताभ्यां बिना तयोरनुत्थानात्। अतश्च निरवंकाशत्वाद् बाधकत्वम्। न च मन्तव्यं विरोधम- न्तरेणापि श्लेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति। यतो न बूमो विरोधमन्तरेणापि श्लेषो न भवतीति। किं तर्ह्लंकारा- न्तरविविक्तो न श्रलेषस्य विषयोऽस्तीति निरवकाशतवात् तेषां बार्धेः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद् दोषः । अत एवमर्थालंकारसंकर उदाहृतः । शब्दालंकारसंकरस्तु कैश्रिदुदाहतो यथा- "राजति तटीयमभिहतदानवरासातिपातिसारावनदा। गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥"
अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षित्वे- नाङ्गाङ्गिभावसंकर इति । एतत् तु न सम्यगावर्जकम्। शब्दा-
उत्प्रेक्षाया वेत्यादि। अत्रापि क्लेषस्येत्यस्यानुषङ्गः । ताभ्यामिति। एकत्वेऽपि लेषस्य विषयभेदेन भेदाद् द्विवचनान्तेन तच्छब्देन परामर्शः । तयोर्विरोधा- तिशयोक्त्योः । अतश्चेत्याँदि। अलङ्कारान्तरोत्थापकत्वेन तद्विविक्तविषयत्वा- भावात्। कैश्चित् काव्यप्रकाशकारादिभिः । राजति तटीत्यादि । इयं तटी अभिहतैर्दानवानां रासं शब्दम् अतिपतितुं शीलवद्धि: सारावैर्नदैर्युक्ता अविरतेन दानेन मदेन वरा श्रेष्ठा सारा उत्कृष्टा वनदा वनखण्डनी सा गजता च यूथ मतिपाति अतिशयेन रक्षति। अत्रेत्यादि। यद्यपि शब्दालङ्कारमध्ये अनुलोम- प्रतिलोमं न लक्षितं, तथापि खड्गाद्याकृतिहेतुत्वस्य दुष्करवैचित्र्योपलक्षण
१. 'वः स' ग., 'वेन सं' क. पाठः. २. 'हायं सं' क. ख. पाठः. ३. 'ण श्ले' ग. पाठ :. ४. 'धकः । त', "१. 'पः : ए क. ख. पाठः. ६. 'वः स' ग. पाठः. ७. 'ति। अ' ख, ग. पाठ:
258
Page 259
२४४ अलक्कारसूत्र [सक्कर-
शब्दालङ्गारसंसृष्टिस्त्वत्र श्रेयसी। यथोदाहृतं प्रोक्। यद्ा, अत्र शब्दालङ्कारद्दयमेकवाचकानुप्रविष्टमति तृतीर्यः संकरो ज्ञेय:। एवमेकः प्रकारश्वर्चितः । द्वितीयप्रकारस्तु सन्देहसंकराख्यः, यत्रीभयोरेकतरस्य साधकं प्रमाणं नास्ति बाधकं वो, तत्र न्यायप्राप्तः संशय इति सन्देहसंकराख्यालंकारः । यथा- "यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तैत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥" अत्र विभावनाविशेषोक्त्योः संकरः। तथाहि-उत्कण्ठाकारणा- भावेऽप्युत्कण्ठाया उत्पत्तौ विभावना। से च कारणाभावो यः कौमारहर इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः। तथा यः
नुत्पत्तौ विशेषोक्तिः। सा चानुत्पत्तिः समुत्कण्ठत इति विरुद्धो-
परत्वाच्चित्रेऽन्तर्भावः । शब्दवदिति। यथा शब्दावर्थ प्रति गुणीभूतत्वाद- न्योन्यमुपकार्योपकारकभावं नानुभवतस्तद्वदित्यर्थः । प्रागिति। कुसुमसौरभे- त्यादौ। एक: प्रकार: अङ्गाङ्गिभावलक्षणः । यः कौमारेत्यादि । विशेषोक्तौ
१. 'पूर्वम् । य', २. 'यसं' क. ख. पाठः. ३. 'कप्र' मूलपाटः. ४. 'त्रान्यतरप- रिग्रहे सा', ५ 'वा प्रमाण न विद्यते त', ६. 'चौर्यसु', ७. 'परिव्ृते चे', ८. 'सन्दे- हः १ त' क, ख. पाठः. ९, 'तथा का'ग. पाठःः १०. 'तः । कौ' क. ख. पाठः. ११, 'धनु' ग. पाठः. १२. 'वदनसौ' क. पाठ :.
259
Page 260
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २४५
त्पत्तिमुखेनोक्ता। अत एव दयोरस्फुटत्वमन्यत्रोक्तम् । न चा- नयोः प्रत्येकं साधकबाधकप्रमाणयोग इति सन्देहसङ्करोऽयम्। यथा चे-
"यद्दक्त्रचन्द्रे नवयौवनेन इमश्रुच्छलेनोल्लिखितश्रकास्ति । उद्दोमरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य॥" अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूप- कमिति संशयः । समासस्योभयथापि भावात्। 'उपमितं व्या- घ्रादिभि :- '(२.१.५६) इति हयुपमासमासः, व्याघ्रादीनामा- कृतिगणत्वात्। मयूरव्यंसकादित्वाद् रूपकसमार्स:, मयूरव्यंसका दीनामाकृतिगणत्वात्। नोत्र क्वचित् साधकबाधकप्रमाणस- ज्वाव इति सन्देहसङ्करः । यत्र तु कस्यचित् परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकत्वं प्रातिकूल्यं बाधकत्वम्। तत्र साधकत्वं यथा-
"प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने। नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥"
प्रसङ्गोक्तस्यैवार्थस्येहावसरप्राप्तत्वात् पुनर्वचनम्। आकृतिगणत्वादित्यनेन उभयत्राप्यादिशब्दस्य प्रकारवाचित्वादपठितत्वेन समासाभावो नाशङ्कनीय इत्याह-नान्रेति। पादाम्बुजमित्यत्र मजीरशिजितयोगवत् शमश्रुसम्बन्ध
१. 'वा', २. 'अरद्धरा', ३. 'सः, म' ४. 'सः, व्याघ्रम' क. ख. पाठः. ५. 'न चात्र' ग. पाठ :. ६. 'णमस्ति, त' क. ख. पाठ:
260
Page 261
२४६ अलक्कारसूत्रं [सक्कर-
अत्र शङ्कर एव क्षीरसिन्धुरिति रूपकस्य साधकं शुद्धामृतमया- त्मकत्वम्। तस्य शङ्करापेक्षया क्षीरासन्धावनुकूलत्वात्। उपमा- यास्तु न बाधकं, शङ्करेऽप्युपचरितस्य तस्य सभ्भावात् । यथा वा -
"एतान्यवन्तीश्वरपारिजातजातानि ताराधिपपाण्डराणि। ३
संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥" अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहे साधकं प्रमा- णम्। बाधकं यथा- "शरदीव प्रसर्पन्त्यां तस्य कोदण्डटङकृतौ। विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत ।" अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजुम्भितहरिरिति साधारणं विशेषणं बाधकं प्रमाणम्। 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (२. १. ५६) इति वचनादुपमासमासे प्रति- कूलत्वात्। अतश्च पारिशेष्याद् रूपकपरिग्रहः । न हि शरदी-
उपमासाधक इति नाशङ्कनीयम् । तदपहुत्यार्थान्तरस्य विधानात्। रूपक- परिग्रह इति। दिश एव वध्व इत्याद्येवंरूपे। वध्व इव दिश इत्याध्युपमाया- स्तु न बाधकं, शोभावहत्वादिमात्रोपचारेण दिग्यशःसम्बन्धेऽप्यनुपपत्तिविर- हात्। शरदीवेत्यादि। हरिः सिंहः पुरुषोत्तमश्च। नन्वङ्गुलीभिरिवेत्युपमा सरोजलोचनमित्यत्रोपमासाधिकेत्युक्तं प्राक्, तद्वदिहापि शरदीवेत्युपमोपमा- साधिका भवत्वित्याशङ्कयाह-न हीति। तत्र बाधकाभावादुपमायाः साधक-
१. 'त्र' ग. पाठः. २. 'सम्भवा' क. ख. पाठः. ३. 'पतिपा' ग. पाठः. ४. 'तु' ग. पाठ :. ५. 'कः', ६. 'दिशः' ख. ग. पाठः,
26
Page 262
निरूपणम् ] सव्याख्यालक्कारसर्वस्वोपेतम्। २४७
वेत्युपमात्रोपमासाधकत्वेन विज्ञेया। न ह्यौपम्येन कदाचिदर्थ- सिद्धिः । न ह्यौपम्येनालक्कारेण प्रक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा। नापि धर्मसूत्रकारवचनम्। नाप्येष न्यायः। उत्तरोत्तरैसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनि- र्वाहस्योचितत्वात। विपर्ययस्तु दुष्ट एव। यथा-'येनेन्दुर्दहनो विषं मलयजो हारः कुठारायते' इति। तस्मात् प्रकृते सामा- न्यप्रयोग उपमापरिग्रहे बाधक इति मयूरव्यंसकादेराकृतिगण- त्वाद् रूपकसमासाश्रयेण रूपकमेव बोद्धव्यम्। एवं 'भाष्या- ब्धिः क्ातिगम्भीर' इत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु सन्देहसङ्करः। यथोदाहतँम्। तृतीयस्तु प्रकार एकवाचकानुप्रवे- शलक्षणः। यत्रैकस्मिन् वाचकेऽनेकालङ्गारानुप्रवेशो न च सन्दे- हो नाप्यङ्गाद्गिभावः। यथा-
त्वाङ्गीकरणम्, इह तु प्रबलस्य सामान्यप्रयोगात्मनो बाधकस्य सद्भावात् तदनाश्रयणमिति भावः । यदि चोपक्रान्तोपमानिर्वाहे कश्चिदर्थलाभः विप- र्यये वा दृष्टरूपोऽ्दष्टरूपो वा प्रत्यवायः न्यायविरोधो वा, तदानीमाश्रयणी- यैवोपमा। न चैतत् सर्वमिति श्रौढवादेन सोल्लुण्ठमाह -- न ह्ौपम्येनेत्या- दिना। किञ्च, उपमापरित्यागेन रूपकस्य परिग्रहे साधकमस्तीत्याह-उत्त- रोत्तरेति। विपर्ययः रूपकं प्रक्रम्योपमाया निर्वाहः। एवं भाष्याब्धीत्या- दि। गम्भीर इति सामान्यप्रयोगेण बाधकेनाब्धिरिव भाष्यमित्युपमां हित्वा भाष्यमेवाब्धिरिति रूपकमेवाश्रयणीयमित्यर्थः । यथोदाहृतमिति। 'यः कौमा- रहर' इत्यादिना। यत्रैकस्मिन्नित्यादि। वाच्यत्वेन शोभाजनकत्वेन वानेको-
१. 'हि चाषेण पञ्चाशत्सिद्धिः ।' ग. पाठः. २. 'ध्ेकेना', ३. 'रप्र', ४. 'ण उपक्रा', ५. 'ते । त', ६. 'यणे रु', ७. 'तः । तृ' क ख, पाठः. ८. 'रप्र' ग. पाठः.
262
Page 263
२४८ अलक्कारसूत्र
"मुरारिनिर्गता नूनं नरकप्रतिबन्धिनी। तवापि मूर्मि गङ्गेव चक्रधारा पतिष्यति॥" अत्र मुरारिनिर्गतति साधारणविशेषणहेतुकोपमा। नरकप्रति- बन्धिनीति श्लिष्टविशेषणसमुत्थोपमा प्रतिभोत्पत्तिहेतुः श्रलेषश्रै- कस्मिन्नेव शब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात् । अत्र च यथार्थश्लेषेण सहोपमायाः सङ्करः, तथा शब्दश्लेषेणापि सह दश्यते। यथा-
उद्यानवापीपयसीव यस्यामेणीद्शो नाट्यगृहे रमन्ते ।।" w अत्र पयसीव नाट्यगृहे रमन्त इत्येतावतैव समुचितोपमा
डलक्कार एकमेकरूपं शब्दं शब्दसमुदायं वाश्रयतीत्यर्थः । न त्वत्रैकशब्दः स- ह्वथावचनः । तथा हि सति 'काशाः काशा इवे'ति 'दानवरासे'त्यादौ चैक- रूपानेकशब्दाश्रययोर्लाटानुप्रासानन्वययोर्यमकानुलोम प्रतिलोमयोश्रैकवाचका- नुप्रवेशवचनं व्याहन्येत। मुरारीत्याँदि। नरकं भौमं निरयं च प्रतिबन्धुं शी- लवती। अत्र मुरारिनिर्गतेत्यादिनोपमायाः क्रियासाम्यलाभाच्छेषनैरपेक्ष्येणो- स्थितत्वान्न प्रतिभोत्पत्तिमात्रम्, अपि त्वलङ्कारान्तरतयावस्थानमित्याह- तस्येत्यादि। उभयोरुपमाश्ललेषयोस्तेनैव शब्देन द्योतितत्वात्। अर्थक्षेषेणे- ति। नरकप्रतिबन्धिनीत्यत्र स्वरप्रयत्नाभेदादर्थश्लेषत्वम्। सत्पुष्करेत्यादि। सन्भिर्वाद्यमुखैर्द्योतितः शोभितः रङ्गो यस्मिन्निति नाट्यगृहे, सत्पुष्करद्योतिनः
१. 'पति' २. 'म्रि', ३ 'पि ह', ४. 'ते स', 'बद्धमृ' क. ख. पाठ :. ६. 'स्थि' ग. पाठः. ७. 'ति । न' ख. ग. पाठः.
263
Page 264
निरूपणम् ] २४९
निष्पन्ना सत्पुष्करद्योतितरङ्गेति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे सङ्कीर्णा । शब्दालङ्गारयोः पुनरेकवाचकानुप्रवेशेन सङ्करः पूर्व- मुदाहतो 'राजति तटीयमि'त्यादिना। एकवाचकानुप्रवेशेनैव चात्र सङ्कीर्णत्वम् । अत एवं पर्यवस्थितेमन्यानुभाषितमप्र- योजकं, तुल्यजातीययोरप्यलङ्कारयोरेकवाचकानुप्रवेशसंभवात्।
सत्कमलद्योतनशीलाः तरङ्गा यस्मिन्निति वापीपयसि। निष्पन्नेति। रतिक्रि- याधिकरणत्वात्मना साधर्म्येण श्ेषनिरपेक्षनिष्पत्तेः पूर्ववदलङ्कारतयावस्थिता। शब्दश्षेषेणेति । द्योतितरङ्गेत्यत्र पदभङ्गभेदेन भिन्नविरामपाठात् प्रयत्नभेदेन शब्दक्लेषत्वम्। अत्र शब्दक्लेषस्योपमायाश्र द्वयोरप्यर्थालङ्गारत्वमुद्भटमतानु- सारेण। अत एवेति । अर्थालङ्कारयोः शब्दालङ्कारयोश्च पृथक् पृथगेकवाच- कानुप्रवेशदर्शनात् काव्यप्रकाशकारादिभिर्विजातीययोः शब्दार्थालङ्गारयोस्तृ- तीयसङ्करस्य वचनमप्रयोजकम् । सम्भवादिति। सम्भवश्रोदाहरणप्रदर्शनेन दर्शित एव। अनुदाहृतोऽपि शब्दार्थालङ्कारयोरयं सङ्करो ग्रन्थकृतोऽभिमत एव, तुल्यजातीययोरपीत्यपिशब्दप्रयोगात् । अनन्वयेन सहास्य सङ्कर इत्यूँ- क्तेश्र। स यथा- न तुलितकुलशैला बाहवः सिन्धुरा वा न च हसितसमीराः सप्तय: सायका वा। कृतरुषि यदुनाथ ! त्वय्यनीके नृपाणां परमजनि परेषां जैत्रमस्त्रं प्रणामः ।।
परिणतत्वादुत्थितेन परिणामेनानुगहीताया अप्रश्नपूर्विकायाः शब्दोपात्तवाहा- दिवर्जनीयाया: परिसङ्क्यायाः परमजनि परेषामित्येकधा समुदायसादश्यल- क्षणेन वृत्त्यनुप्रासेन सहैकरूपे पदसमुदायेऽनुप्रवेशः। सूक्ष्मेक्षिकायां तु पुन-
१. 'सम्पना' ग. पाठः २. 'दौ। अत्र ए', ३. 'न स' क. ख. पाठः. ४. 'व व्यव', ५. 'तत्वमध्यन्यभा' ग.पाठः ६. 'कीडाधि', ७. 'त्यायुके' ख. ग. पाठ :. .A. 32
264
Page 265
२५० अलक्कारसूत्रं [उपसहारः ।
शब्दार्थवृत्त्यलङ्कारस्तु भट्टोज्जटेन प्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव सङ्कर इहोक्तः ।
इदानीमुपसंहारसूत्रम्- एवमेते शब्दार्थोभयालङ्गाराः संक्षेपतः सूत्रिताः॥८६।।
एवमिति पूर्वोक्तप्रकारपरामर्शः । एत इति प्रक्रान्तस्व- रूपनिर्देशः । सूत्रिता इति। अलङ्कारसूत्रैः सूचिताः संक्षेपेण प्रतिपादिताः । तत्र शब्दालङ्गारा यमकादयः । अर्थालङ्गारा
रस्य सत्पुष्करेत्येतदप्युदाहरणम्। भट्टोन्भटेनेति। "शब्दार्थवृत्त्यलङ्कारा वाक्य एकत्र भाविनः । सङ्करो वा" इत्येकवाक्ये भिन्नदेशावस्थितत्वेन लक्षितः। संसृष्टी उभयसंसृष्टिलक्षणायाम् । त्रिप्रकार एव, न तूद्दटवच्चतुष्प्रकार: ॥ सूतिता इत्यस्य व्याख्या अलङ्गारमूत्रैः सूचिता इति। सूचिता इत्येतदपि लोकप्रसिद्ध्या सूत्रितशब्दार्थत्वेनोक्तम्। स्वकण्ठेनानुक्तिशङ्का- निरासाय सूत्रस्थस्य सङ्गेपत इति पदस्यान्वयप्रदर्शनमुखेन व्याचऐे- सङ्क्षेपेण प्रतिपादिता इति। पुनरुक्तवदाभासादौ तत्त्वेदाप्रदर्शनात् । यमकादय इत्यादि। सर्वत्रादिशब्दः प्रकारवाची। व्यवस्थावाचित्वे हि छेकानुप्रासवृत्त्यनुप्रासयोः शब्दालङ्कारत्वं पुनरुक्तवदाभासस्यार्था- लङ्कारत्वं च न स्यात्। स्या(च् वि? चापि) चित्रस्योभयालङ्कारत्वम्। लाटानुप्रासादय इतिवच्छेकानुप्रासादय इत्यवचनमादिशब्दस्य व्यवस्था- वाचित्वबुद्या प्रदेशान्तरलक्षितस्य शब्दश्लेषादेः शब्दालङ्गारस्याग्रहणशङ्का
१. '्थालङ्गारसङ्कर', २. 'टप्र' ग. पाठः. ३. 'रः स', ४. 'क्तप' क. ख. पाठः. ५. 'त्येत' ख. ग. पाठः.
265
Page 266
उपसहार: ।] २५१ उपमादयेः । उभयालङ्कारा लाटानुप्रासादर्यः । संसृष्टिसङ्गर- प्रकारौ कौचिदेलङ्कारौ। तद्रूपत्वात्। लोकवदाश्रयाश्रयिभावेश्र तदलङ्कारत्वैनिबन्धनम् । अन्वयव्यतिरेकौ तु तत्कार्यत्वे प्रयो- जकौ, न तदलङ्गारत्वे । तदलङ्कारत्वप्रयोजकत्वे तु श्रौ- तोपमादेरपि शब्दालङ्कारत्वप्रसङ्गात्। तस्मादाश्रयाश्रयिभावेने
मा भूदिति। अन्ये तु यमकस्य शब्दाश्रयत्वं स्फुटतरम्। अनुप्रासो हि ग्सा- दिलक्षणार्थानुगुण्यमप्यपेक्षते। इहॅ तु न कथश्वदप्यर्थापेक्षेति यमकादय इ- त्युक्तमित्याहुः। एवमुपमादय इत्यपि वचनम् अर्थाश्रयत्वस्य स्फुटत्वाद वि- प्रतिपत्तिनिरासाय। लाटानुप्रासादय इत्यत्रादिशब्देन श्िष्टपरम्परितादयो गृद्यन्ते। तेपां च शब्दस्यार्थस्य च वैचित्र्यमुत्कटतया प्रतिभासत इति वस्तु- स्थितिमनपेक्ष्य शब्दालङ्कारमध्येऽर्थालङ्कारमध्ये च लक्षणं विहितम्। केचिन आदिशब्देन शब्दालक्वारमर्थालक्वारं चाश्रितयोः संसृष्टिसक्करप्रकारयोग्रहणमि- त्याहुः। कौचिदिति। अवान्तरभेदपरिहाणेन सामान्यरूपेण शब्दार्थोभयवृ- त्तित्वेन निर्देष्टमशक्यौ। अथवा कौचिदलङ्कारविषयौ, न ध्वनिगुणाभूतव्य- ङयविषयौ। तद्रूपत्वादिति। पृथगलङ्गारवदलङ्कारसंयोगेऽपि शोभाविशेषोत्प- तेः । एवं शब्दालक्कारादिव्यवस्था आश्रयाश्रयिभावस्यैव प्रयोजकत्वे सिध्य- ति, न त्वन्वयव्यतिरेकयोरिति स एवाश्रयणीय इत्याह- लोकवदित्यादि । श्रौतोपमादेरित्यादिशब्देन वाच्योत्प्रेक्षादेग्रहणम्। तत्रेवादिशब्दान्वयव्यतिरे- कानुविधानदर्शनात्। अन्वयव्यतिरेकपक्षे न परं युक्तिविरोधः, उद्भटादिपू- र्वाचार्यविरोधोऽपि। तदुभयमपि स्वमते नास्तीत्याह-तस्मादिति। सुक-
१. 'यः । ला', २. 'यः उभयालङ्काराः । सं', ३. 'करौ', ४. 'दुभयाल', ५. 'व एव त', ६. 'त्वे', ७. 'त्वे श्र', ८. 'नैव चि', ९. 'ह न तु क' क. पाठ :. १०. 'न च वा' ख. पाठ :.
266
Page 267
२१२ अलङ्कारसूत्रं [उपसंहारः।
चिरन्तनमतानुस्मृतिः । इति मङ्खुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः। सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥
समाप्तं चेदमलङ्गारसर्वस्वम्।
विमुखालङ्कारमित्यनेन नैसर्गिकशक्तिमतामेवालक्कारज्ञानं कवित्वे गुणातिशय- मादधातीति सिद्धम् ।। मङ्खुकनिबन्धविवृतौ विहितायामिह समुद्रबन्धेन। गुणलेशमात्रमित्रैर्भविषीष्टादोषदर्शिभि: सद्भिः ॥ इत्यलङ्कारसर्वस्वव्याख्या सम्पूर्णा ।।
शुभं भूयात्
१. 'सतिः। समासं चेदमलङ्गारसर्वस्वम् । कृती राजानकश्रीरुचकस्य । शिवम्। इ" ग. पाठ :.
267
Page 268
विषयानुक्रमः ।
पृष्ठम् पृष्ठम्
१. पुनरुक्तवदाभासम् १४ २९. सहोक्ति: २. छेकानुप्रासः १७ २६. विनोक्ति: ८९ ३. वृत्यनुप्ास: १८ २७. समासोक्ति: ९१
४. यमकम् २८. परिकर: १०९
१. लाटानुप्रासः २० २९. श्रेष: ११०
६. चित्रम् २१ ३०. अप्रस्तुतप्रशंसा १२२ ७. उपमा २२ ३१. अर्थान्तरन्यासः १३० ८. अनन्वयः २< ३२. पर्यायोक्तम् १३३ ० .. उपमेयोपमा २९ ३३. व्याजस्तुतिः १३५ १०. स्मरणम् ३० ३४. आक्षेपः १३७ ११. रूपकम् ३२ ३५. विरोध: १४७ १२. परिणामः ३८ ३६. विभावना ११२ १३. सन्देहः 80 ३७. विशेषोक्ति: १५१ १४. भ्रान्तिमान् ४३ ३८. अतिशयोक्ति: १५८ १५. उल्लेखः 8 8 ३९. असङ्गतिः १५९ १६. अपहनतिः ४९ ४०. विषमम् १६१ १७. उत्प्रेक्षा ५३ ४१. समम् १६३ १८. अतिशयोक्ति: ६६ ४२. विचित्रम् १६४ १९. तुल्ययोगिता ७१ ४३. अधिकम् १६६ २० दीपकम् ७३ ४४. अन्योन्यम् १६८ २१. प्रतिवस्तूपमा ७७ ४५. विशेषः "' २२. दृष्टान्तः ७८ ४६. व्याघातः १७० २३. निदर्शना ७९ ४७. कारणमाला १७३ २४. व्यतिरेकः ८४ ४८. एकावली
268
Page 269
२
पृष्ठम् पृष्ठम्
४९. मालादीपकम् १७४ ६६. अतद्गुण: २१२ ५०. सारः १७५ ६७. उत्तरम् २१३ ५१. काव्यलिङ्गम् १७६ ६८. सूक्ष्मम् २१४ ५२. अनुमानम् १७९ ६९. व्याजोक्ति: २१९ ५३. यथासंख्यम् १८२ ७०. वक्रोक्ति: २१७ ५४. पर्यायः १८५ ७१. स्वभावोक्ति: २२ ० ५५. परिवृत्तिः १८८ ७२. भाविकम् २२१ ५६. परिसंख्या १९० ७३. उदात्तम् २२८ ५७. अर्थापत्तिः १९३ ७४. रसवत् २२९ ५८. विकल्पः १९५ ७९. प्रेयः ५९. समुच्चयः १९८ ७६. ऊर्जस्वि ", ६०. समाधि: २०४ ७७. समाहितम् ६१. प्रत्यनीकम् २०५ ७८. भावोदयः २३५ ६२. प्रतीपम् २०६ ७९. सन्धिः ६३. निमीलितम् २०८ ८०. शबलता ६४. सामान्यम् २१० ८१. संसृष्टिः २३७ ६५. तद्गुणः २११ ८२. सक्कर: २४०
269
Page 270
APPENDIX I.
२२-पृष्ठे प्रदर्शितस्य पद्मबन्धस्याकारः
त्मा १ वा व त
ता वि पना स ते
सा र
भासते प्रतिभासार! रसाभाता हताविभा। भावितात्मा शुभा वादे देवाभा बत ते सभा ॥
270
Page 271
२
२३ पृष्ठे प्रदर्शितस्य खङ्गबन्धस्याकार:
श्री. थाजसा (द्र) यहना
षा परिपन्यिहिं रोत्रेण वंपु
मा
सानन्दवन्दिजनगीतविचित्रभूमा मातङ्गमन्थरगतिर्महनीयभासा। सारोत्तरेण वपुषा परिपन्थिहिंसा- सातत्यसङ्ग ! यदुनाथ ! जयाङ्गजश्री: ।।
271
Page 272
३
२२-पृष्ठे प्रदर्शितस्य खङ्गबन्धस्याकार:
ता
फिरजल (क यात! धर ती
डुबर! उड़सतर (सा) दसवर्जितन य दि
नी
सादितशत्रुदेहगलित रुधिर तटिनी नीतविवृद्धकीर्ततिजलधिभरितनभसा। साहसवर्जितेन यदुवर! गुरुतरसा सारवतीभयात! धरणिरजनि भवता ॥
272
Page 273
273
Page 274
APPENDIX II.
अलङ्कारसूत्राणि।
१. इहार्थपौनरुक्त्यं शब्दपौनमुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकारा: । २. तत्रार्थपौनरुक्त्यं प्ररूढं दोष: । ३. आमृग्वावभासनं पुनरुक्तवदाभासम्। ४. सङ्गयानियमे पूर्व छेकानुपरास: । ५. अन्यथा तु वृत्त्यनुपासः । ६. स्वरव्यञ्जनसमुदायपीनरुक्त्यं यमकम्। ७. शब्दार्थपौनरक्त्यं पररूढं दोप:। ८. तात्पर्थभेदवत् तु लाटानुप्रासः। ९. तदेवं पौनरुक्त्ये पञ्चालङ्गारा:। १०. वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् । ११. उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा। १२. एकस्यैवोपमानोपमेयत्वेऽनन्वयः। १३. द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। १४. साइट्यानुभवाद् वस्त्वन्नरस्पृति: स्मरणम्। १५. अभेदप्राधान्य आरोप आरोपविषयानपह्रवे रूपकमू। १६. आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः । १७. विषयस्य सन्दिह्वमानत्वे सन्देहः। १८. साहश्याद् वस्त्वन्तरप्रतीतिभ्रान्तिमान्। १९. एकस्थापि निमित्तवशादनेकधा ग्रहण उल्लेख:। २०. विषयापह्रवेऽपहुतिः । २१. अध्यवसाये व्यापारप्ाधान्य उत्पेक्षा।
274
Page 275
२२. अध्यवसितप्राधान्ये त्वतिशयोक्ति:। २३. औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तु- तानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता। २४. प्रस्तुतानामप्रस्तुतानां च दीपकम् । २५. वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्ये पृथड् निर्देशे प्रतिवस्तृपमा । २६. तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दष्ठान्तः । २७. सम्भवतासम्भवता वा वस्तुसम्बन्घेन गम्यमानं प्र- तिबिम्बकरणं निदर्शना। २८. भेदप्राधान्य उपमानादुपमेयस्याविक्ये विपर्यये वा व्यतिरेक: । २०. उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थ- सम्बन्धे सहोक्ति:। ३०. विना किश्चिदन्यस्य सद्सत्त्वाभावो विनोक्ति:। ३१. विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्ति:। ३२. विशेषणसाभिप्रायत्वं परिकरः । ३३. विशेष्यस्यापि साम्ये दयोवोपादाने श्षेषः। ३४. अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सा- रुप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। ३५. सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतस- मर्थनमर्थान्तरन्यासः। ३६. गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम्। ३७. स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। ३८. उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ नि षेधाभास आक्षेप: । अनिष्ठविध्याभासश्र। ४०. विरुद्धाभासत्वं दिरोध: । ४१. कारणाभावे कार्यस्योत्पत्तिर्विभावना। ४२. कारणसामग्रधे कार्यानुत्पत्तिर्विशेषोक्ति:।
275
Page 276
३
४३. कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चाति- शयोक्ति:। ४४. तयोर्विभिन्नदेशत्वेऽसंगतिः। ४५. विरूपकार्यानर्थयोकुत्पत्तिर्विरूपसंघटना च विषमम्। ४६. तद्विपर्षयः समम्। ४७. स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । ४८. आश्रयाश्रयिणोरनानुरूप्यमधिकम् । ४०. परस्परं क्रियाजननेऽन्योन्यम्। ७०. अनाधारमाधेयमे कम ने कगोचरमश कयवस्त्वन्तरक- रणं च विशेष:। ५१. यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः। सौकर्येण कार्यविरुद्धक्रिया च। ५३. पूर्वपूर्वस्योत्तरोत्तर हेतुत्वे कारणमाला। ८४. यथापू्व परस्य विशेषणतया स्थापनेऽपोहने वैका- वली। पूर्वपूर्वस्योत्तरोत्तर गुणावहत्वे मालादीपकम्। ५६. उत्तरोत्तरमुत्कर्ष: सारः। ५७. हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम्। ५८. साध्यसाधननिर्देशोऽनुमानम्। उद्दिष्ठानामर्थानां क्रमेणानुनिर्देशो यथासंख्यम्। ६०, एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्याय:। ६१. समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परि- वृत्ति:। ६२. एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्या। ६३. दण्डापूपिकयार्थान्तरापतनमर्थापत्ति:। ६४. तुल्यबलविरोधो विकल्पः । ६५. गुणक्रियायौगपद्यं समुचय:। ६६. एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च।
276
Page 277
४
६७. कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधि:। ६८. प्रतिपक्षप्रतीकाराशक्ती तदीयतिरस्कार: प्रत्यनीकम्। ६९. उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्। ७०. वस्तुना वस्त्वन्तरनिगूहनं निमीलितम्। ७१. प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम्। ७२. ७३. सति हेती तद्रपाननुहारोऽतद्गुणः। ७४. उत्तरात्. प्रश्नोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम्। ७५. संलक्षित सूक्ष्मार्थप्रकाशनं सक्ष्मम्। ७६. उद्धिन्नवस्तुनिगहनं व्याजोक्ति:। ७७. अन्यथोक्तस्य वाक्यस्य काकुक्षेषाभ्यामन्यथायोजनं वक्रोक्ति:। ७८. सूक्ष्मवस्तुस्वभावस्य यथावद् वर्णनं स्वभावोक्ति: । ७० अतीतानागतयो: प्रत्यक्षायमाणत्वं भाविकम् । ८०. समृद्धिमद्दस्तुवणेनमुदात्तम्। ८१. अङ्गभूनमहापुरुषचरितवर्णनं च। ८२. रसभावतदाभासतत्पशमानां निबन्धे रसवत्प्रेयऊर्ज- स्विसमाहितानि। ८३. भावोद्यसन्धिशबलताश्च्ैते पृथगलंकारा:। ८४. एषां तिलतण्डलन्यायेन मिश्रत्वे संसृष्टिः। ८५. क्षीरनीरन्यायेन तु संकरः। ८६. एवमेते शब्दार्थोभयालंकारा: संक्षेपतः सुत्रिताः ।
277
Page 278
APPENDIX III.
श्लोकानुक्रमणिका ।
पृष्ठम्. पृष्ठम्.
अक्ष्णो: स्फुटा २३४ अलङ्कारः १९५ अङ्गलेखाम १५१ अविरल ६९ अङ्गुलीभिरिव २४१ अव्यात् स वा अण्णं लडह ६७ असमाप्त १०६ अतिशयित ३० असम्भृतं १५३ अत्रानुगोदं अम्या: सर्ग ६८ अथ पत्रिम ४० अहमेव गुरु: २०८
अथोपगूढे १०६ अहीनभुजगा
अनन्तरत १३१ अहो केने २१८
अनन्यसामा ६२ अहो हि मे १३२
अनन्वये च २ १ आकृष्टिवेग १०७ अनातपत्रो २२६ आकृप्यादा १२० अनिद्रो दुःस्व १५५ आटोपेन १८ अनेन सार्ध ८७ आनन्दमन्थर २३९
अन्तश्छिद्रा १२९ आभाति ते ३४
अपाङ्गतरले २०९ आरोपयसि २२०
अब्धिर्लेद्गित आहृतोऽपि १५६ अमुप्मिल्लाँव ५२ इति कृतपशु २२०
अयं मार्तण्ड: ४१ इति मड्खुको २१२ अयं वारामेको १४८ इन्दुः किं क्व ४२
अयमेकपदे १९८ इन्दुर्लिप्त १२४
अरण्यरुदितं ८३ इन्दोर्लक्ष्म १३६ अरण्यानी १६२ उत्कोपे त्वयि ८४
278
Page 279
२
पृष्ठम्. पृष्ठम् .
उत्क्षिप्तं किं हास्येन २३२ V उद्भान्तोज्जित ५१ किमासेव्यं १९१ उन्नत्यै नमति १६५ किमित्यपास्या १८९ उपोढरागेण ९२ किवणाण ७५ उरो दत्त्वा १८९ कुबेरजुष्टां ६० ए एहि दाव २०७ कुलममलिनं २०१ एकस्मिञ्छयने प २३४ कुसुमसौरभ २३८ एकस्मिञ्छयने वि २३५ कृतं च गर्वा ७९
एकाकिनी २१४ कौटिल्यं कच १९१ एतत् तस्य १२४ क्काकार्य २३६ एतान्यवन्ती २४६ क्षीण: क्षीणोऽपि ८५ ऐन्द्रं धनुः १०४ खमिव जलं २९ ओष्ठे बिम्ब ४३ गच्छ गच्छसि १४५
कज्जलहिम १८४ गणिकासु १४४
कण्ठस्य तस्या १६८ गण्डान्ते मद १०१ कपोलफलका ६० गतासु तीरं कमलमनम्भसि ६७ गर्वमसम्भाव्य २०८
कर्पूर इव १५६ गाङ्गमम्बु २१३ कस्तूरीतिलक ६२ गाढालिङ्गन २३२ कस्तवं भो: १२९ गुरुपरतभ्र २१८ का विसमा २१४ गृहाणि यस्यां १७३ किं तारुण्य ४ १ गृह्न्तु सर्वे १४३ किं नाम दर्दुर! १७ घेत्तुं मुश्चइ १६५ किं पद्मस्य ३४ चकोर्य एव ७७ किं भूषणं १९० चक्राभिघात १२५ किं मे दुरो २१९ चन्द्रग्रहणेन २१९ किं वृत्तान्तैः १३६ चित्रं चित्रं ११४
279
Page 280
पृष्ठम् . पृष्ठम् . चूडामणिपदे ८० दिवमप्युपया १६९ चोलस्य यद्भीति ६ १ दुर्वारा: स्मर २०२ जितेन्द्रियत्वं १७३ दूराकर्षण २३३ ज्योत्सा तम: २४० हशा दग्धं १७० ज्योत्साभस्म देवि! क्षपा २३८ णाराअणो त्ति ४७ दोर्दण्डाञ्चित १६७ तण्णत्थि किं पि १२३ द्यामालिलिङ्ग ९९ तदिदमरण्यं २२९ द्युजनो मृत्युना तद्वक्रामृत २३२ दौरत्र क्वचिदा १६७ तन्वी मनोरमा ९३ धन्याः खल वने १२८ तस्य हि प्रव १८९ धवळो सि जइ २१२ तस्या: सान्द्र २३४ धावत्त्वद्श्व ७२ ताला जाअन्ति २० घृतधनुषि १९५ तीर्त्वा भूतेश ३९ न तज्जलं यन्न १७४ तीर्थान्तरेषु १६२ नन्वाश्रयस्थिति १८६ त्रयीमयोऽपि ११७ नमस्कृत्य परां १ त्रयीमयोऽपि २४२ निमेषमपि १६९ त्वं हालाहल २१८ निरर्थकं जन्म ९० त्वत्पादनख ८२ निराक्ष्य विद्यु ९५ त्वदञ्कमार्दवं ७२ निर्ूनान्यल ,९८ त्वमेवंसौन्दर्या १६३ निशासु भास्व १८७ दत्त्वा दर्शन १९० निसष्टरागाद " दन्तप्रभापुप्प ९४ नीतानामाकुली १११ इशवक्रविवादे १०० नेत्रैरिवोत्पलैः १०५ कमोदरकरा ४३ नो किश्चित् कथ १४६ दासे कृतागस ३३ न्यञ्चत्कुश्चित १९९ दाहोड़म्भःप्रस ६९ पथि पाथे शुक १५९. दिद्ृक्षव: पक्ष्म ८५ परिच्छेदा १४८
280
Page 281
४
पृष्ठम् . पृष्ठम्.
पर्यक्की राज ३६ भ्रमिमरति ३८ पशुपतिरपि १९४ मग्गिअळ ६७ पश्यत्सूद्गत १५८ मदनगण ९.६ पश्यन्ती त्रप १०३ मनीषिता: १७८ पश्यामः किमि १२४ मन्दमगि १०१ पाण्ड्योडयमं २७ मलयजर २१० पातालमत 48 महिळास ६१ पीयूषप्रस ३३ मानमस्या २.०५ पुष्पं प्रवालो ६८ मुक्ता: केलि २२८ पूर्णेन्दोः परि ५0 मुण्डसिरे ८३ पृथ्वि ! स्थिरी १३२ मुनिर्जयति २२५ प्रत्यक्ता मधु ९० मुरारिनि २४८
प्रभामहत्या २६ मृगलोचन ९१ प्रसरद्विन्द २४१ मृग्यश्च दर्भा १७७ प्रसर्पत्तात्प १०२ यः कौमार १५७ प्रसीदेति १३९ यः कौमार २४४ प्राप्याभिष ६४ यत् त्वन्नेत्र १७७ प्रायः पथ्यप १६० यत्रता लह १८० प्रासादे सा १६९ यत्रैव मुग्धे १८७
बाणेन हत्वा १४३ यथा रन्धं बाळअ! णाहं १३९ यथारुचि ४ ४
बिम्राणां हद १९९ यदेतचन्द्रा ५०
भ्तिप्रहव १९७ यद्वक्रचन्द्रे २४५ भक्तिर्भवे १९१ यद्वा मृषा १४:
भवदपरा ८६ यद्विस्मय
भासते प्रति २२ यस्य किश्चि २०६
भुजङ्गकुण्ड १६ यान्त्या मुह २७
281
Page 282
पृष्ठम्. पृष्ठम्.
यामि मनो ३५ विजये ! कुश २१९
युद्धेऽ्र्जुनो २८ विदलितस १९८
ये कन्दरासु २१० विद्वन्मानस ३६
१११ विनयेन
.्बा १२५ विभिन्नवर्णा २११
1रकरूप वियोगे गौड विलङ्गयन्ति १९२
योगपट्टो ७२ विलिखति ९८
यो यः पश्यति १९ विसमअआ ७५
रक्तच्छदत्वं ११३ विस्तारशा ३४
रज्जिता नु ४२ वृषपुङ्नव १५
रथस्थितानां ६५ शरदीव २४६
राजति तटी २४३ शशी दिवस २०२
राजन् ! राज १२७ शुद्धान्तदु ८२
राज्ञो मानध १०९ शैलेन्द्रप्र २१६
राज्ये सारं १७५ स एकस्त्रीणि १५६
रेहइ मिहि ७४ सङ्कतकाल २१५
लावण्यद्र ६८ सङ्गनमाफ्क १७४
लावण्यौकसि २०७ सच्छायाम्भो २९
लावण्यौकसि १८३ सञ्चारपूता ७४
लिम्पतीव ५९ सज्जातपत्र ७२
लिम्पतीव २३९ सत्पुष्कर २४८
लोकोत्तरं १३१ सदः कर १६२
वक्रस्यन्दि २१५ सदः कौशि ११९
वसुरहितेन २२० स वः पाया ५९
वामेन नारी २३६ स वक्तुमखिवि १४४
विकसदम ५१ सहसा विद १३१
282
Page 283
पृष्ठम्. पृष्ठः
साधूनामुप ७६ स्पृष्टास्ता न १३४ सा बाला व १६० स्व्रपक्षलीला १०१ सात्यपा १४३ स्वेच्छोपजा १११ सीमानं न १०० हाराहौ सित .e.
सुहअ! विळ १४० हुक्कारो नख सैषा स्थली ५९ हृदयमधि सौजन्याम्बु ३७ हे हेलाजित १३५
283
Page 284
284
Page 285
S80.8. . R996AT
DATE OF ISSUE This book onst be retarhed within 3, 7. 14 duys of ita issue. A fine ef ONE ANNA per day will be charzed if the book i. overdpe. ----
12Apr 701
285
Page 286
ss NOS.80. 8 Book No. (976A7 Vol.
Ie.A.LA.N.KAR.A.S.U .. T.R.A
Acc. No. 16537
286
Page 287
287