1. Amrtabindu Upanishad
Page 1
ॐ भद्रं कर्णेभिः श्रृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥
१
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
१
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥
२
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
२
बन्धाय पिश्यासक्तं मुक्तये निर्विषयं स्मृतम् ॥
३
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ।
३
अतो निर्विषयं नित्यं मनः कार्यमुमुक्षुणा ॥
४
निरस्तनिष्पयासङ्ं सन्निरुद्धं मनो हृदि ।
४
यदाढ़यायात्यात्मनो भावं तदा तत्परमं पदम् ॥
५
तावदेव निरोधव्यं यावदृधृतिगतं क्षयम् ।
५
एतज्ज्ञानं च ध्यानं च शेषो न्यास्य विस्तरः ॥
६
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
६
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥
७
स्वरेṇ संध्येययोगमस्वरं भावयेत्परम् ।
७
अस्वरेṇानुभावेन नाभावो भाव इष्यते ॥
८
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
८
तद्ब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥
९
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
९
अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥
Page 2
१०
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ १० ॥
११
एक एवाडऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयवयतितस्य पुनर्जन्म न विद्यते ॥ ११ ॥
१२
एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥
१३
घटसंवृतमाकाशं नीयमानो घटे यथा । घटो नीयेत नाडकाशः तद्वज्जीवो नभोपमः ॥ १३ ॥
१४
घटवद्विविधाकारं भिद्यमानं पुनः पुनः । तद्वेदे न च जानाति स जानाति च नित्यशः ॥ १४ ॥
१५
शब्दमायावतो नैव तमसा याति पुष्करे । भिन्नो तमसि चैकत्वमेकानुपश्यति ॥ १५ ॥
१६
शब्दाक्षरं परं ब्रह्म तस्मिन्नक्षीणे यदक्षरम् । तद्विद्धानक्षरं ध्यायेदीच्छेच्छान्तिमात्मनः ॥ १६ ॥
१७
द्वे विदे वेदितव्ये तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
१८
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेदग्रन्थमशेषतः ॥ १८ ॥
१९
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९ ॥
२०
धृतमिव पयसि निगढं भूते भूते च वसति विज्ञानम् । सततं मनसि मन्थयित्वा मनु मन्थानभूतेन ॥ २० ॥
२१
ज्ञाननेत्रं समाधाय चोद्वरेद्रहिगवत्परम् । निष्कलं निष्पलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ २१ ॥
२२
सर्वभूताधिवासं यदूतेषु च वसत्यपि । सर्वानुग्रहकत्वेन तदस्म्ययहं वासुदेवः ॥ २२ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
Page 3
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्ताक्ष्योऽरिष्टनेमि: स्वस्ति नो बृहस्पतिर्द्धातु । ऊँ शान्ति: शान्ति: शान्ति: । हरि: ऊँ ॥ ॥ अथर्ववेदीयमृतबिन्दूपनिषत्समाप्ता ॥