1. Annapurna Upanishad
Page 1
सर्वापद्धवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।
त्रैपदं श्रीरामतत्त्वं स्वामात्रत्रिमिति भावये ।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यश्रेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
१
हरिः ॐ निवाधो नाम योगीन्द्र ऋषिं ब्रह्मविदां वरम् ।
१
प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ।
२
आत्मतत्त्वमनुबूहीत्येवं प्रपच्छ सदरम् ।
२
कयोपासनया ब्रह्ममीडृशं प्राप्तवानसि ।
३
तां मे बृंहि महाविद्यां मोक्षसाम्राज्यदायिनीम् ।
३
निदाघ त्वं ऋताभिः सदसि श्रृणु विद्या सनातनीम् ।
४
यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि ।
४
मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया ।
५
नित्यानन्दा निराधारा विश्रुता विलसत्त्क्चा ।
५
विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्थथा ।
६
भगवत्यत्रपूर्णेति ममाभिलषितं ततः ।
६
अन्नं देहि ततः स्वाहा मन्त्रसारोचरेत विखुता ।
७
सप्तविंशति वर्णात्मा योगिनीनां गणैसेविता ।
७
ऐं ह्रीं सौं श्रीं क्लीं नमो भगवत्यत्रपूर्णे
८
ममाभिलषितं देहि स्वाहा ।
८
इति पित्रोपवेष्टोऽस्मि तदादिनियमः स्थितः ।
९
कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ।
९
एवं गते बहुदिने प्राप्तुरासीनममाप्रत् ।
१०
अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ।
१०
तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः ।
१०
अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् ।
११
एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव ।
११
आत्मतत्त्वं मнасि मे प्रादुर्भवतु पार्वति ।
१२
तथैवास्थिति मामुक्त्वा ततैवान्तरधीत ।
१२
तदा मे मतिकृत्प्रज्ञा जगद्विचित्र्यदर्शनात् ।
Page 2
१२
ब्रह्मः पञ्चविधो भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिकौ ब्रह्मः ॥ १२ ॥
१३
आत्मनिष्ठं कतुंगुणं वस्तवं वा द्वितीयकः । शरीरत्रयसंयुक्तजीवः सद्भी तृतीयकः ॥ १३ ॥
जगत्कारणरूपस्य विकारित्वं चतुर्थकः । कारणाद्दिन्रजगतः सत्यत्वं पञ्चमो ब्रह्मः ॥ १४ ॥
१५
पञ्चब्रह्मनिवृत्तस्तदा स्फुरति चेतसि । विश्वप्रतिविम्बदर्शननेन भेदभ्रमो निवृत्तः ॥ १५ ॥
स्फटिकलोदितदर्शनने पारमार्थिककर्तृत्वभ्रमो निवृत्तः । घटमठाकाशदर्शननेन सद्द्वैतभ्रमो निवृत्तः ॥
रज्जुसर्पदर्शननेन कारणाद्दिन्रजगतः सत्यत्वभ्रमो निवृत्तः । कनकरुचकदर्शननेन विकारित्वभ्रमो निवृत्तः ॥
१६
तदाप्रभृति मत्वर्तं ब्रह्माकारंभूतस्वयम् । निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥ १६ ॥
१७
निदाघः प्रणतो भूत्वा ऋषभं प्रपच्छ सादरम् । वृंहि मे श्रद्धधानाय ब्रह्मविद्यामनुत्तमाम् ॥ १७ ॥
१८
तथेत्याह ऋषभः प्रीतिसत्क्वजां वदामि ते । महाकर्ता महाभोक्ता महात्यागी भवानघ ॥ १८ ॥
स्वस्वरूपानुसंधानमेव कृत्या सुखी भव । नित्योदितं विमलमायमनंतरूपं ब्रह्माहि सिन नेतर्कलाकलनं हि किंचितित ॥
१९
इत्येव भावय निरञ्जनतामुपेतो निर्वाणमेर्हि सकलमालाशान्तवृत्तिः ॥ १९ ॥
२०
यदिदं दृश्यते किंचित्ततन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥ २० ॥
२१
यतु नो दृश्यते किंचिद्यत्किंचिदिव स्थितम् । मनःषष्टेन्द्रियातीतं तन्मयो भव वै मुने ॥ २१ ॥
२२
अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् । नीरनभं भूरिवाघेषं तदस्मीति विभावय ॥ २२ ॥
२३
यदा संक्षीयते चित्तमभावात्यन्तभावनात् । चित्सामान्यसरूपस्य सत्तासामान्यता तदा ॥ २३ ॥
२४
नूनं चैत्यांशरहितं चिद्यादात्मनि लीयते । असद्रूपपदत्यच्चा सत्तासामान्यता तदा ॥ २४ ॥
२५
दृष्टिरेषा हि परमा सदेहादेहयोः समा । मुक्तयोः संभ्रात्येव तुर्यांतर्गतदाभिधा ॥ २५ ॥
व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ ॥
Page 3
२६
जस्य केवलमज्ञान्य न भवत्येव बोधजा । अनानन्दसमानन्दमुग्धमुग्धमुखच्युति: ॥ २६ ॥
२७
चिरकालपरिक्षीणमननादिपरिब्रहम् । पदमासाद्यते पुण्यं प्रज्ञया वैकिकया तथा ॥ २७ ॥
२८
इमं गुणसमाहारमनात्मत्वेन पश्यत: । अन्त:श्रीतलया यासौ समाधिरिति कथ्यते ॥ २८ ॥
२९
अवासनं स्थिंरं प्रोकतं मनोध्यानं तदेव च । तदेव केवलீभानं शान्तीतेव च तत्सदा ॥ २९ ॥
३०
तनुवासनमत्युच्चै: पदायोद्यतमुच्यते । अवासगं मनोडकृत्पदं तस्माद्वाप्यते ॥ ३० ॥
३१
धनवासनमेततु चेत:कर्तृत्वभावनम् । सर्वदु:खप्रदं तस्माद्वासनां तनुतां नयेत् ॥ ३१ ॥
३२
चेतसा संपरित्यज्य सर्वभावात्मकभावनम् । सर्वमाकाशतामेति नित्यमनन्तमुन्मुखस्थिते: ॥ ३२ ॥
३३
यथा विपिनगा लोका विहरन्टोडप्यसत्समा: । असंवन्धातथा जस्य ग्रामोऽपि विपिनोपम: ॥ ३३ ॥
३४
अन्तर्मुक्ततया नित्यं सुप्तो बुद्धो ब्रजनपथन् । पुरं जनपदं ग्राममरण्यमिव पश्यति ॥ ३४ ॥
३५
अन्त:श्रीतलतां तु लभ्यायां श्रीतलं जगत् । अनस्तृष्णोपतप्तानां दावदाहमयं जगत् ॥ ३५ ॥
३६
भवत्यखिलजन्तूनां यदनस्तद्वहि: स्थिततम् । यस्त्वात्मरतिरेवान्त: कुर्वन्कर्मेन्द्रियै: क्रिया: ॥ ३७ ॥
३७
न वशो हर्षशोकाभ्यां स समाहित उच्यते । आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ॥ ३७ ॥
३८
स्वभावादेव न भयाद्रु: पश्यति स पश्यति । अथैव मृत्य्रियातु कल्पान्तनिचयेन वा ॥ ३८ ॥
३९
नासौ कलड्कमप्नोति हेम पद्दर्गतं यथा । कोऽहं कथमिमं वार्थं मरणजनमनी ॥ ३९ ॥
४०
विचारयान्तरे वेत्थं महतत्फलमेष्यसि । विचारेण परिज्ञातस्वभावस्य सतस्तव ॥ ४० ॥
४१
मन: स्वरूपमुत्सृज्य श्राममेष्यति विज्वरम् । विज्वरत्वं गतं चेतस्तत्वं संसारवृत्तिषु ॥ ४१ ॥
४२
न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वार्ण: । कृपणं तु मनो ब्रह्मन्गोष्पदेष्वपि निमज्जति ॥ ४२ ॥
४३
कार्ये गोष्पदतोऽपि विशीर्णों मषको यथा । यावद्यावन्मुनिश्रेष्ठ स्वयम् संतज्यते᳚डखिलम् ॥ ४३ ॥
Page 4
४८
तावत्तावत्परालोकः परमात्मैव शिष्यते ॥ ४८ ॥
४९
यावत्सवै न सत्यक्तं तावदात्मा न लभ्यते ।
४९
सर्ववस्तुपरित्यागे शेष आत्मनि कथ्यते ॥ ४९ ॥
५०
आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।
५०
सर्वं सन्त्यज्य दूरेण यच्चित्त्रं तन्मयो भव ॥ ५० ॥
५१
सर्वं किंचिद् दृश्यं दृश्यते यज्जगद्ग्रततम् ।
५१
चित्रश्रण्दांशमात्रं तन्नानात्यकिंचन शाश्वततम् ॥ ५१ ॥
५२
समाहिता नित्यतृप्ता यथाेभूतार्थदर्शिनी ।
५२
ब्रह्मान्समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥ ५२ ॥
५३
अक्षूष्या निरहंकारा हृददर्शननुपातिनी ।
५३
प्रोकता समाधिशब्देन मेरोः स्थिरतरा स्थिति॥ ५३ ॥
५४
निश्चितिता विगतभीता हेयोपदेयवर्जिता ।
५४
ब्रह्मान्समाधिशब्देन परिपूर्णां मनोगतिः ॥ ५४ ॥
५५
केवलं चित्रकाशांशकलपिता स्थिरतां गता ।
५५
तुर्यां सा प्राप्ते दृष्टिंमहृद्वेंदवित्तमैः ॥ ५५ ॥
५६
अदृरगतसादृश्या सुप्तस्योपलक्ष्यते ।
५६
मनोहंकारविलये सर्वभावान्तरसिथता ॥ ५६ ॥
५७
समुदेति परानन्दा या तनुः पारमेश्वरी ।
५७
मनसेव मनश्रेष्ठ्वा सा स्वयं लभ्यते गतिः ॥ ५७ ॥
५८
तदनु विषयवासनाविनाश-
५८
स्तदनु शुभः परमः स्फुटप्रकाशः ।
५८
तदनु च समतावशात्स्वरूपे
५८
परिणामं महतामचिन्त्यरूपं ॥ ५८ ॥
५९
अखिलमिदमनन्तमनन्तमातमतत्त्वं
५९
दृढपरिणामिनि चेतसि स्थितोऽन्तः ।
५९
बहिरुपशमिते चराचरात्मा
५९
स्वयमनुभयत एव देवदेवः ॥ ५९ ॥
६०
असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् ।
६०
सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् ॥ ६० ॥
६१
अन्तःसंसक्तनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
६१
बहिः कुर्वन्नकुर्वन्न वा कर्ता न हि कवचित् ॥ ६१ ॥
इति प्रथमोऽध्यायः ॥ १ ॥
१
निदाघ उवाच ॥
१
सृणः कीदृश इत्युक्तः कष वन्थाय देहिनाम् ।
१
कष मोक्षाय कधितः कथं त्वेष चिकित्स्यते ॥ १ ॥
देहदेहीविभागेकपरित्यागेन भावना ।
Page 5
२
देहमात्रे हि विश्वास: सङ्झो वन्धाय कथ्यते ।
३
सर्वमात्रेेदमत्राहं किं वाङ्मात्रामि त्यजामि किम् । इत्यसड्ढस्थितिं विद्धि जीवन्मुक्ततनुरूस्थिताम् ॥
४
नाहमस्मि न चान्योSस्मि न चायं न च नेतर: । सोडसङ्ढ इति संप्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥
५
नाभिनन्दति नैष्कम्यं न कर्मस्वनुषज्जते । सुसमो य: परित्यागी सोडसंसक्त इति स्मृत: ॥
६
सर्वकर्मफलादीनां मनसेव न कर्मणा । निपुणो य: परित्यागी सोडसंसक्त इति स्मृत: ॥
७
असंकल्पेन सकलाक्षेटा नाना विर्जृम्भिता: । चिकित्सिता भवत्तीह श्रेय: संपादयन्ति हि ॥
८
न सक्तमिह विसृजासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासु न कालकलनासु च ॥
९
केवलं चिति विश्वम्य किंचिज्ज्ञेयावलम्ब्यपि । सर्वत्र नीरसग्म तिष्ठत्यतर्मरस्मं मन: ॥
१०
व्यवहारमिदं सर्वं मा करोतु करोतु वा । अकुर्वन्न्वापि कुर्वन्न्वा जीव: स्वात्मरतिक्षय: ॥
११
अथवा तमपि त्यक्त्वा चैत्यान्श् शान्तचिद्घन: । जीवरूस्थिरत संशान्तो ज्वलन्मणिरिवात्मनि ॥
१२
चित्ते चैत्यदशाहीनें या स्थिति: क्षीणचेतसाम् । सोच्यते शान्तिकलना जाग्रत्येव सुप्ततता ॥
१३
एषा निदाघसौषुप्तस्थितिरभ्यासयोगत: । प्रौढा सती तुरीयेऽपि कथिता तत्त्वकोविदै: ॥
१४
अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दै कान्तशिलतव्वादानानन्दपदं गत: ॥
१५
अनानन्दमहानन्दकालातीतसुततोऽपि हि । मुक्त इत्युच्यते योगी तुर्यांततीपदं गत: ॥
१६
परिगलितसमस्तजन्मपाश: सकलविलिनत मोमयाभिमान: । परमरस्मर्यीं परात्मसत्तां जलगत सेन्धवखण्डन्वनमहात्मा ॥
१७
जडाजडृशोर्मध्ये यत्तत्वं पारमार्थिकम् । अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ॥
१८
दृश्यसंवलितो वन्धस्तन्मुक्तौ मुक्तिरूच्यते । द्वयदर्शनसंवेधे यानुभूतिरनामया ॥
१९
तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् ।
Page 6
१९
सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु
२०
आत्मा स्थूलो न चैवानुं प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासत्र सन्मयः
२१
नाहं नान्यो न चैवैको न चानेकोऽद्वयौऽव्ययः । यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम
२२
दृश्यदर्शनसंभेदे यत्सुखं पारमार्थिकम । तदतीतं पदं यस्मात्तत्र किंचिदिवैव तत
२३
न मोक्षो नामतः पृष्टं न पाताले न भूतले । सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते
२४
मोक्षो नेऽस्ति चिन्तान्तर्जान्ता चेद्दृश्यतेऽन्तः मन । मननोऽथे मनस्यैष बन्धः सांसारिको दृढः
२५
आत्मन्यत्तीते सर्वस्मात्सर्वरूपोऽपेड वा तते । को बन्धः कष वा मोक्षो निर्मूलं मननं कुरु
२६
अध्यात्मरतिराशान्तः पूणंपावनमानसः । प्राप्तानुतमविस्रान्तिर्न किंचिदिह वाञ्छति
२७
सर्वाधिष्ठानसम्मात्रे निर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहः स जीवनमुक्त उच्चते
२८
नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति । न संस्मरत्यतीतं च सर्वमेव करोति च
२९
अनुबन्धपरे जन्तावसंसर्गमनः सदा । भक्ते भक्तसमाचरः शठे शाठ्यमिव स्थितः
३०
बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान । युवा यौवनवृद्धेषु दुःस्थेषु सुदुःस्थधीः
३१
प्राज्ञः प्रसन्नमधुरो दैन्यादपगताश्रयः । अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते
३२
मनः प्रशममायाति निर्वाणमवशिष्यते । यतो वाचो निवर्तन्ते विकल्पकलनान्विता
३३
विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते । अनाद्यन्तावभासात्मा परमात्मैव विद्यते
३४
इत्येतत्रिशयं स्तोत्रं सम्यग्ज्ञानं विदुर्बुधाः । यथाभूतार्थदर्शिभिः श्रुत्वमेतद्वनत्रये
३५
यदात्मैव जगत्सर्वामिति निश्चित्य पूणंतता । सर्वमात्मैव कौ दृष्टौ भावाभावौ कव वा स्थितौ
३६
क्व बन्धमोक्षणलनेे ब्रह्मैवेदं विजृम्भते । सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता
Page 7
37
ब्रह्मोदं वृंहिताकारं वृहदृहदवस्थितम् ।
37
दूरादस्तमितद्वैतं भवात्मैव त्वमात्मना ।
38
सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ।
38
मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः ।
39
आदावन्ते च संशान्तस्वरूपमविनाशि यत् ।
39
वस्तूनामात्मनैवैतत्तन्मयो भव सर्वदा ।
40
द्वैताद्वैतसमुड्डैरर्जरामरणविभ्रमैः ।
40
स्फुरत्यात्मभिरात्मैव चितैरेव च वीवृभिः ।
41
आप्तकर्तृऽपसरहः पराया निरूंतेः पदम् ।
41
शुद्धमात्मानमालिङ्ग्य नित्यमनस्तस्या धिया ।
42
यः स्थितस्तं क आत्मैव भोगो बाधयितुं क्षमः ।
42
कृतस्फारविचारस्य मनोभोगादयोदरयः ।
43
मनागपि न बिन्दन्ति शैलं मन्दानिला इव ।
43
नानात्वमस्ति कलनासु न वस्तुतोडन्-
नानाविधासु सरसीव जलादिवानि-
त्येकनिश्चयमयः पुरुषो विमुक्त
44
इत्युच्यते समवलोकितसम्यगर्थः ।
44
इति द्वितीयोऽध्यायः ।
1
विदेहमुक्ते किं रूपं तद्वान्को वा महामुनिः ।
1
कं योगं समुपस्थाय प्राप्तवान्परमं पदम् ।
2
सुमेरोरिवसुधार्पीठे माण्डव्यो नाम वै मुनिः ।
2
कौण्डिन्याजात्ततवमास्थाय जीवन्मुक्तो भवत्यसौ ।
3
जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्महवित्तमः ।
3
सर्वेन्द्रियाणि संहतं मनश्चके महामुनिः ।
4
बद्ध्वापदासनस्थितत्राणत्रधोंन्मीलितलोचनः ।
4
बाह्यानाभ्यान्तरांशैव सृश्टान्परिहररुढने ।
5
ततः स्वमनसः स्थेयं मनसा विगतैनसा ।
5
अहो नु चञ्चलमिदं प्रत्याहतमपि स्कुटम् ।
6
पटादघटमुपायाति घटाच्छ्छकटमुक्तकटम् ।
6
चित्तमर्थेषु चरति पादपेष्विव मर्कटः ।
7
पञ्च द्वाराणि मनसा चक्षुरादीन्यमूत्रालयम् ।
7
बुद्धीन्द्रियाभिमानानि तान्येवालोकयाम्यहम् ।
8
हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः ।
8
चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ।
9
तेनात्मना बहुध्वेन निर्ज्जाताश्वशुरादयः ।
9
परिनिर्वाणमि शान्तोऽस्मि दिदृक्ष्यास्मि विगतज्वरः ।
Page 8
१०
स्वातन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् । अन्तरेव शशामास्य क्रमें प्राणसनति: ॥
११
ज्वालाजालपरिस्पन्दो दग्धेधन इवानल: । तदितोऽस्तं गत इव ह्यस्तं गत इवोदिति: ॥
१२
सम: समरसाभासस्थितामि स्वच्छतां गत: । प्रबुद्ध्रोऽपि सुपुप्तिस्थ: सुपुप्तिस्थ: प्रबुद्धवान् ॥
१३
तुर्यमालम्ब्य कायान्त:स्थितामि स्तम्भितसस्थिति: । सवाध्याभ्यन्तरानभावानस्थूलान्सूक्ष्मतरानपि ॥
१४
त्रैलोक्यसंभाव्यस्तक्वा संकल्पैकविनिर्मितान् । सह प्रणवपर्यन्तदीर्घान: स्वान्तनतुना ॥
१५
जहाविन्द्रियतन्मात्रजालं खग इवानल: । ततोऽसविंदं स्वच्छां प्रतिबिम्बमुपागता मृद् ॥
१६
सद्योजातशिशुजानं प्राप्तवान्मुनिपुङ्गव: । जहौ चित्तं चैतदृशां स्पन्दशक्तिमिवानिल: ॥
१७
चित्सामान्यमथासाद्य सत्तामात्रात्मकं तत: । सुपुप्तपद्मालम्ब्य तस्थौ गिरिरिवाचल: ॥
१८
सुपुप्तस्थैय्यमासाद्य तुत्र्यरूपमुपाययौ । निरानन्दोऽपि सानन्द: सच्चासच्च बभूव स: ॥
१९
ततस्तु संभ्रूयासौ यद्विरामप्यगोचर: । यच्छून्यन्ववादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥
२०
विज्ञानमात्रं विज्ञानविदां यद्मलात्मकं । पुरुष: सांख्यदृष्टीनामेकेश्वररो योगवादिनाम् ॥
२१
शिव: शैवागमस्थानां काल: कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥
२२
यत्सर्वं सर्वगं वस्तु यत्तत्वं तदसौ स्थित: । यदनुक्तमनिष्पन्ने दीपकं तेजसामपि ॥
२३
स्वानुभूत्यैकमानं च यत्तत्वं तदसौ स्थित: । यदेकं चाप्यनेकं च साज्ञानं च निरञ्जनम् ॥
२४
यत्सर्वं चाप्यसर्वं च यत्तत्वं तदसौ स्थित: । अजममर्मनाद्वैमाम्येकं पदम्मलं सकलं च निष्कलं च । स्थित इति स तदा नभ:स्वरूपा- दपिविमलस्थितिरीश्वर: क्षणे न ॥
३
इति तृतीयोऽध्याय: ॥ ३ ॥
१
जीवन्मुक्तस्य किं लक्षणं ह्याकाशादागमनादिकं । तथा चैनमुनिश्रेष्ठं तत् नैव प्रलक्ष्यते ॥
Page 9
२
अनात्मविदमुक्तोडपि नभोविहरणादिकम् । द्रव्यमन्त्रक्रियाकालशक्त्याप्योत्येव स द्विजः ॥
३
नात्मज्ञस्येष विषय आत्मज्ञो ह्यात्ममात्रदृक् । आत्मनात्मनि सन्तुष्टो नाविद्यामनुभावति ॥
४
ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कर्थ तेषु निमज्जति ॥
५
यस्तु मूढोडल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति । सिद्धिसाधनयोरग्निस्तानि साधयति कमात् ॥
६
द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काञ्चन ॥
७
यस्येच्छया विधते काऽचित्साऽ सिद्धिं साधयत्यहो । निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् ॥
५
सर्वेच्छाजालसञ्जातावात्मलाभो भवेत्सुने । स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः ॥
९
अपि शीतरुचावर्के सुतীক্ষ्णेऽपि नदीन्दुमण्डले । अप्यधः प्रसृत्यग्नौ जीवन्मुक्तो न विस्मयी ॥
१०
अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् । कल्पिताश्वर्यजालेषु नाऽभ्युदेति कुतूहलम् ॥
११
ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वातन्त्र्यस्तानौ स्थिताः ॥
१२
सुखदुःखादिशब्दांश्च सामान्यात् प्रेरितान्ति यम् । निःस्वभाव इव शैलेऽन्र चित्तं तस्य मृतं विदुः ॥
१३
आप्तकार्पण्यमुत्साहो मदो मान्यं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥
१४
द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तितः ॥
१५
चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च । चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥
१६
मनस्तां मूर्छतां विद्धि यदा नश्यति सानघ । चित्तनाशाभिमानान्न हि तत्स्वरूपमितीरितम् ॥
१७
मैत्र्यादिभिगुणैर्युक्तं भवत्युक्तं तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥
१८
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । निदाघार्करुपन्यास्तु वर्तते देहमुक्तितके ॥
१९
विदेहमुक्त एवासौ विद्यते निष्कलात्मकः । समग्राग्यगुणाधारमपि सत्त्वं प्रलीयते ॥
Page 10
20
विदेहमुक्तौ विमले पदे परमपावने । विदेहमुक्तिविषये तस्मिन्सतत्वक्षयात्मके ॥ २०॥
21
चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते । न गुणा नागुणास्तत्र न श्रीनांश्रीर्न लोकता ॥ २१ ॥
22
न चोदयो नास्तमयो न हर्षामर्षसंविदः । न तेजो न तमः किंचित् सन्ध्यादिनरात्रयः । न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ॥ २२ ॥
23
ये हि पारं गता बुद्धः संसारारडम्बरस्य च । तेषां तदास्पदं स्कारं पवमानामिवाम्बरम् ॥ २३ ॥
24
संशान्तःखमजडात्मकमेकसुप्त-मानन्दमन्थरमपेतरजस्तमो यत् । आकाशकोशातनवोटनवो महान्त-स्तस्मिन्मपे गालितचित्तलवा भवन्ति ॥ २४ ॥
25
हे निदाघ महाप्राज्ञ निवांसनमनो भव । बलाच्चेतः समाधाय निर्विकल्पमनो भव ॥ २५ ॥
26
यज्जगड्ढासकं भानां नित्यं भाति स्वतः स्फुरत् । स एव जगत् साक्षी सर्वात्मा विमलाकृति ॥ २६ ॥
27
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ॥ २७ ॥
28
एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्नुचः । सर्वाधिष्ठानमद्वैतं परं ब्रह्म सनातनम् ।
29
सच्चिदानन्दरूपं तद्वाङ्मनसगोचरम् ॥ २९ ॥
30
न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वातः सकलाश्र देवताः । स एव देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥३०॥
31
भिय्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१ ॥
32
द्वौ सुपर्णौ श्रीरेडस्मज्जीविषाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ३२ ॥
33
केवलं साक्षिष्पेण विना भोगो महेश्वरः । प्रकाशते स्वयं भेदे कल्पितो मायया तयोः । चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ३३ ॥
34
तर्कतस्त्व प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ३४ ॥
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।
Page 11
35
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनि: । स्वशरीरे स्वप्रज्योतिस्वरूपं सर्वसाक्षिणं । क्षीणदोष: प्रशप्यन्ति नेत्रे मायायावृता: ॥
36
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण: । नानुध्यायाद्बहूञ्छब्दान्वाचो विगलापनं हि तत् ॥
37
बालेनैव हि तिष्ठासेन्नित्वविद्या ब्रह्मवेदनम् । ब्रह्मविद्यां च बाल्यं च निविद्या मुनिरात्मवान् ॥
38
अन्तर्लीनस्मारम्भ शुभाशुभमहाऽऽडरं । संसृतिव्रततेऽर्ज्ज शरीरे विद्धि भौतिकम् ॥
39
भावाभावदशाकोटीं दुःखरत्नसमुच्छ्रुकं । बीजमस्य शरीरस्ये चित्तमाशावशानुगुं ॥
40
द्वे बीजे चित्रवृक्षस्ये वृत्तिव्रततिधारण: । एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥
41
यदा प्रस्पन्दते प्राणो नाडीসংस्पन्दनोद्वात । तदा संवेदनमयं चित्तमाशु प्रजायते ॥
42
सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते । संवित्संरोधनं श्रेय: प्राणादिस्पन्दनं वरं ॥
43
योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनं । प्राणायामेस्थिता ध्यानेः प्रयोगैर्युन्क्तिकल्पिते: ॥
44
चित्तोपशान्तिफलदं परमं विद्धि कारणं । सुखदं संवित: स्वास्थ्यं प्राणसंरोधनं विदु: ॥
45
दृढभावनया त्यक्तपूर्वान्परविचारणं । यदादानं पदार्थस्ये वासना सा प्रकीर्तिता ॥
46
यदा न भाव्यते किञ्चिद्द्रेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥
47
अवसानत्वात्ततं यदा न मनुते मन: । अमनस्ता तदोदेति परमोपशमप्रदा ॥
48
यदा न भाव्यते भाव: क्वचिज्जगति वस्तुनि । तदा हृदम्बरे शून्ये कथम् चित्तं प्रजायते ॥
49
यदभावनामस्थाय यदभावस्य भावनं । यदाथा वस्तुद्रिन्तंव तदचित्तत्वमुच्यते ॥
51
सर्वमन्त: परित्यज्ये श्रीतलाश्रयवर्ति यत् । वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतं ॥
52
भ्रष्टबीजोपमा येषां पुनर्जन्मनवर्जिता । वासनारसनाहीनाज्जीवन्मुक्ता हि ते स्मृता: ॥
Page 12
53
अचित्ता इति कथ्यते देहान्ते व्योमरूपिणः । संवेद्यसंपरित्यागात्प्राणस्पन्दनवासनै ।
54
समूलं नश्यतं क्षिप्रं मूलच्छेदादिव द्रुमः । पूर्वदृष्टमदृष्टं वा यदस्या: प्रतिभासते ।
55
संविदस्तत्प्रयत्नेन मार्जनीयं विजानता । तदमार्जनमात्रे हि महासंसारातनं गतं ।
56
तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते । अजडो गलितानदस्त्यकतसंवेदनो भव ।
57
संविद्रुतुदशालम्बः सा यस्येह न विद्यते । सोऽसंविदजड: प्रोक्तः कुर्य्वानकार्यग्रातान्यपि ।
58
संवेदन हृदाकाशे मनागपि न लिप्यते । यस्यासावजड: संविदज्जीवनमुक्तः स कथ्यते ।
59
यदा न भाव्यते किंचिन्मनिवांशेनतयात्मनि । बालमूढादिविज्ञानमिव च स्थीयते स्थिरं ।
60
तदा जाड्यविनिर्मुक्तं संविदेदमाततं । आश्रितं भवति प्राज्ञो यस्माद्ज्ञो न लिप्यते ।
61
समस्ता वासनाक्त्वा निर्विकल्पसमाधितः । तन्मयत्वादनन्युन्ते तदध्यान्तर्विलीयते ।
62
तिष्ठन्नच्छन्नस्पृशन्जिघ्रन्नपि तल्लेपवर्ज्जितः । अजडो गलितानदस्त्यकतसंवेदन: सुखी ।
63
एतां दृष्टिमवैक्ष्य कष्टचेष्टायुतोडपि सन् । तदेव श्वास्यभे: पारमपरिगुणसागर: ।
64
विशेषं संपरीक्ष्य सन्मात्रं यदलेपकं । एकरूपं महामहं सततायास्तत्पदं विदु: ।
65
कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ।
66
सत्तासामान्यमेनेकं भावनकेवलं विभु: । परिपूर्ण: परानन्दि तिष्ठापूरितदिग्भर: ।
67
सत्तासामान्यमेतन्ने यतत्कलनयोज्ज्झितं । पदमाद्यमनादन्तं तस्य बीजं न विद्यते ।
68
तत्र संलीयते सर्वत्रविकल्पं च तिष्ठति । भूयो न वर्तते दुःखे तत्र लब्धपद: पुनः ।
69
तदेव तु: सर्वभूतानां तस्य हेतुरु विद्यते । स सार: सर्वसाराणां तस्मात्सारो न विद्यते ।
70
तस्मिन्संविददर्पणे स्फारे समस्ता वस्तुदृष्टय: । इमास्ता: प्रतिबिम्बन्ति सरसीव तटद्रुमाः ।
71
Page 13
72
तद्मलमराजं तदात्मतत्त्वं तदवगतावुपशान्तिमेति चेत् । अवगर्तविगततत्स्वरूपो भवभयमुक्तपदौडसि सम्यगेव ॥ ७२॥
73
एतेषां दुःखबीजानां प्रोकतं यथान्ययोततरम् । तस्य तस्य प्रयोगेण श्रीप्रं तत्प्राप्यते पदम् ॥ ७३ ॥
74
सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥ ७४ ॥
75
स्थितिं वन्धासित तत्वज्ञ क्षणेक्षणप्रक्षय्यात्मिकाम् । क्षणेsस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥ ७५ ॥
76
सत्तासामान्यरूपे वा करोभि स्थितिमादरात् । तत्विंचिदधिदकेनेह यत्नेनाप्नोषि तत्पदम् ॥ ७६ ॥
77
संवित्तत्वे कृतध्यानो निद्राष यदि तिष्ठसि । तद्यत्नेनाधिेकनोचैरेसादयसि तत्पदम् ॥ ७७ ॥
78
वासनासंपरित्यागे यदि यत्नं करोभि भोः । यावद्दीलीनं न मनो न तावद्वासनाक्षयः ॥ ७८ ॥
79
न क्षीणा वासना यावच्चित्तं यावत्न शााम्यति । यावत्न तत्वविज्ञानं तावच्चित्तश्रमः कुतः ॥ ७९ ॥
80
यावत्न चित्तोपशमो न तावत्तत्ववेदनम् । यावत्न वासनाशास्तावत्तत्वागमः कुतः ॥ ८० ॥
50
यावत्न तत्वसंप्ल्तिनं तावद्द्वासनाक्षयः ॥ ५० ॥
51
तत्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दु:साधानी स्थितान्यतः ॥ ५१ ॥
52
भोगेच्छां दूरतस्त्यकत्वा त्रयमेतत्समाचर ॥ ५२ ॥
53
वासनाक्षयविज्ञानमनोनाशा महामते । समकाले चिराभ्यस्ता भवन्ति फलदा मता: ॥ ५३ ॥
54
त्रिभिरेभिः समभ्यस्तैरहदयग्रन्थयो दृढा: । निःशेषमेव बुध्यन्ति बिसच्छेदाद्रुणा इव ॥ ५४ ॥
55
वासनासंपरित्यागसं प्राणनिरोधनम् । विदुस्तत्वविदस्तस्माददप्येवं समाहरेत ॥ ५५ ॥
56
वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा गुरु ॥ ५६ ॥
57
प्राणायामदृढाध्यासैयुक्त्या च गुरुदत्तया । आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥ ५७ ॥
58
निःसङ्गव्यवहारत्न्वाडवभावनवरर्जनात् । शरीरनाशदशिांतव्वाड्वासना न प्रवर्तते ॥ ५८ ॥
Page 14
59
यः प्राणपवनस्पन्ददृष्टिस्थितस्पन्दः स एव हि । प्राणस्पन्दजयेऽपि यत्नः कर्तव्यो धीमतोऽच्वके: ॥
60
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् । शुद्धां संवितमाश्रित्यवीतरागः स्थिरो भव ॥
61
संवेद्यवर्जितमनुत्तममाद्यमेकं संवितत्पदं विकलानं कलयन्महात्मन् । हृददेव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेल्य श्रमोदितश्रीः ॥
62
मनागपि विचारेण चेतसः स्वस्य निग्रहः । पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥
4
इति चतुर्थोऽध्यायः ॥
1
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्चते ॥
2
सम्यग्ज्ञानसमालोकः पुमा जेयसमः स्वयम् । न विभेति न चादत्ते वैवश्यं न च दीनताम् ॥
3
अपवित्रमपध्यां च विषसंसर्गदूषितम् । भुक्तं जरयति ज्ञानी क्लिन्नं नष्टं च मृष्टवत् ॥
4
सज्ज्ञगत्यागां विदुःमोक्षं सड़त्वत्यागादजनमता । सड़ूं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥
5
भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना येषा सड़सकृद इति कथ्यते ॥
6
जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥
7
दुःशैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः । आशावैवश्यमुत्सृज्य निदाघाडसड़तां ब्रज ॥
8
दिक्कालाद्यनवच्छिन्नचिन्मात्रदृष्ट्यभयकोटिकम् । चिन्मात्रमेकं शान्तमेकं ब्रह्मास्मि नेतरत् ॥
9
इति मत्या हि तन्मुक्तामुक्तवपुः पुमान् । एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव ॥
10
नास्ति चित्तं न चाविद्या न मनो न च जीवकः । ब्रह्मैवैकमनाद्यन्तं शिवंवत्प्रविभूमते ॥
11
देहो यावदहंभावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥
12
अन्तर्मुखतया सर्वं चिद्रूपंहि त्रिजगत्तुणम् । जुहुन्नोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमा: ॥
चिदात्मास्मि निरंशोऽस्मि परापरविभर्जितः ।
Page 15
१३
रूपं स्मरन्त्रिजं स्कारं मा स्मृत्या समितो भव ॥ १३॥ अध्यात्मशास्त्रमनुत्रेण तृष्णाविषयविषूचिका । क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥ १८ ॥ परिज्ञाय परित्यागो वासनानं य उत्तमः । सत्तासामान्यरूपत्वात्तकेवल्यपदं विदुः ॥ १५ ॥ यन्नास्ति वासना लीना तत्वशुद्धं न सिद्धये । निर्वीजा वासना यत्र ततस्तुयं सिद्धिदं स्मृतम् ॥ १६ ॥ वासनायास्तथा वह्नौ ह्रेणव्याधिद्विषामपि । स्नेहवैरविचारण च शेषः स्वल्पोडपि वाघते ॥ १७ ॥ निर्दंगधवासनाबीजः सत्तासामान्यरूपवान् । सदेहो वा विदेहो वा न भूयो दुःखभाक्भवेत् ॥ १५ ॥ एतावदेवाविदित्वं नेदं ब्रह्मेति निश्चयः । एष एव क्षयस्तस्या ब्रह्मेति मिति निश्चयः ॥ १९ ॥ ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म चिच्छक्तिब्रह्म चिन्मात्रवान् ध्वा: ॥ २० ॥ ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् । सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ॥ २१ ॥ asंस्कृताध्वगालोके मनस्यान्तः सस्िथते । या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् ॥ २२ ॥ प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् । विगताशेषसरण्यं चिदात्मानं समाश्रय ॥ २३ ॥ एवं पूर्वधियो धीरा: समा नीरागचेतसः । न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥ २८ ॥ प्राणोऽयमनिशं ब्रह्मस्पन्दशक्ति: सदागति: । सवाह्याभ्यन्तरे देहेप्राणोऽसावृध्वंगः स्थितः ॥ २५ ॥ अपानोऽप्यनिशं ब्रह्मस्पन्दशक्ति: सदागति: । सवाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥ २६ ॥ जाग्रत् स्वपतश्चैव प्राणायामोऽयमुत्तमः । प्रवर्तते ह्याभ्यसनं तं तावच्च्छ्रेयसे श्रुणु ॥ २७ ॥ द्वादशाड़ुलपर्यन्तं बाह्यामाक्रमतां ततः । प्राणाड़नामा संस्पर्शो यः स पूरक उच्यते ॥ २५ ॥ अपानशब्दमात्रे देहमाप्याययति सुव्रत । प्राणः सूर्योंऽतरथ वा पञ्चत्यनत्रिदं वपुः ॥ २९ ॥ प्राणक्षयसममीप्स्थमपानोदयकोटिगम् । अपानप्राणयोरेक्यं चिदात्मानं समाश्रय ॥ ३० ॥ अपानोऽस्तंगतो यत्र प्राणो नाम्युदितः क्षणम् ।
Page 16
३१
कलाकलङ्करहितं तच्चित्ततत्त्वं समाश्रय ।
३२
नापानौ स्तंर्गतौ यत्र प्राणस्यास्तमुपागतः । नासाग्रगमनावतं तच्चित्ततत्त्वमुपाश्रय ॥
३३
आभासमात्रमेवेदं न सनासज्जगत्नयम् । इत्यन्यत्रकलनात्यागं सम्प्रज्ञ्ञानं विदुर्बुधाः ॥
३४
आभासमात्रकं ब्रह्मांशितदर्शकलङ्कितम् । तत्तद्रूपि सन्त्यज्य निराभासो भवोत्तम ॥
३५
भयप्रदभकल्याणां ध्येयंसर्वस्वहारिणम् । मनःपिशाचमुत्सार्य योडसि सोऽसि स्थिरो भव ॥
३६
चिद्रोमेव किलास्तीह परापरविचार्जितम् । सर्वत्रासंभवच्छेत्यं यत्कल्याणतेऽवशिष्यते ॥
३७
वाङ्म्लाक्षणे तु या तुष्टिस्ततस्त्र वाङ्म्लैव कारणम् । तुष्टिस्त्वतुष्टिपर्यन्ता तन्माद्वाच्छा परित्यज ॥
३८
आशा यातु निराशात्मभवं यातु भवाना । अमनस्त्वं मनो यातु तवसाक्षेऽन जीवत ॥
३९
वासनारहितैर्नित्यैरिन्द्रियैैराहरनिक्रिया । न विकारमवाप्नोति स्ववत्क्षोभशमेतैरपि ॥
४०
चित्तोन्मेषणमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधमनुन्मेषं मनः कुरु ॥
४१
प्राणोन्मेषणमेषाभ्यां संसृतः प्रलयोदयौ । तमभ्यासप्रयोगाभ्यामुन्मेषहरितं कुरु ॥
४२
मौख्योन्मेषणमेषाभ्यां कर्मणां प्रलयोदयौ । तद्विलीनं कुरु बलादुरुग्रास्तवार्थसंगमैः ॥
४३
असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् । प्राणानां वा निरोधेन तदेव परमं पदम् ॥
४४
दृश्यदर्शनसंवेऽपि यत्सुरूपं पारमार्थिकम् । तदन्तैः कान्तया वित्त्या ब्रह्मदृष्ट्यावलोकय ॥
४५
यत्र नाभ्युदितं चित्तं तदैव सुखमकृत्रिमम् । क्षयातिशयिनिर्मुक्तं नोदेति न च शाम्यति ॥
४६
यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि । तदेव तुयोवस्थाय तुयान्तीतं भवत्यतः ॥
४७
संनयस्तसर्वसंकल्पः समः शान्तमना मुनिः । सन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥
४८
सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् । न किंचिद्धावनाकारं यत्तद्ब्रह्म परं विदुः ॥
४९
सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना ।
Page 17
49
सांख्य एवावबुद्धया ये ते सांख्या योगिनः परे ।
प्राणाद्यनिलसंस्थान्ती युक्त्या ये पदमागताः ।
50
अनामयमनादन्तं ते स्मृता योगयोगिनः ॥
उपदेशं तु सर्वेषां शांतं पदमकृत्रिमम् ।
51
एकार्थाभ्यसनं प्राणरोधश्चैतत् परिक्षयः ॥
एकस्मिन्नेव संसिद्धे संसिद्धयुन्ति परस्परम् ।
52
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ॥
आधाराधेयवच्चैते एकभावे विनश्यत: ।
53
कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥
सर्वमेतद्द्वया त्यक्त्वा यदि तिष्ठसि निष्ठलः ।
54
तदाहंकारविलये त्वमेव परमं पदम् ॥
महाचिदेकैवेहास्ति महासत्तेति योच्यते ।
55
निष्कलंका समा शुद्धा निरहंकाररूपिणी ॥
सकृद्विभाता विमला नित्योदयवती समा ।
56
सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥
सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् ।
57
न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥
दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना ।
58
इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ॥
न स्तौमि न च निन्दामि आत्मनोऽन्यान्नहि क्वचित् ।
59
न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥
प्रशान्तचापलं वीतशोकमस्तसमీहितम् ।
60
मनो मम मुनेः शान्तं तेन जीवाम्यनामयम् ॥
अयं बन्धुः परस्वायं ममायमिति मनान्यक् ।
61
इति ब्रह्म जानीमि संस्पृशौ न ददाम्यहम् ॥
वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।
62
सवासनं मनो ज्ञानाज्जेयं निर्वासनं मनः ॥
चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः ।
63
शिष्यते परमं शान्तमेकमेव चिदानमयम् ॥
अनन्तमजमव्यक्तमजरं शान्तमच्युतम् ।
64
अद्वितीयमनाद्यन्तं यदाद्यमुपलभ्यते ॥
एकमाद्यन्तरहितं चिन्मात्रममलं ततम् ।
65
स्वादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः ॥
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।
66
सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥
सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् ।
Page 18
६७
भावाभावमजं सर्वमिति मत्या सुखी भव । न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् ।
६८
द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः । एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥
६९
पदार्थवृन्दे देहादिधिया सन्त्यज्य दूरतः । आश्रितलान्तःकरणो नियतमात्मपरो भव ॥
७०
इदं रस्म्यमिदं नेति बीजं ते दुःखसन्तते । तस्मिन्नास्म्याग्निना दग्धे दुःखस्यावसरः कुतः ॥
७१
शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् । ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ।
७२
अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् । तथा स्थूलमनाकाशमसंप्रुष्यमचाक्षुषम् ।
७३
न रसं न च गन्धाख्यमप्रेमेयमनूपमम् । आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुप्रत ।
७४
अहमस्मीत्यभ्ययेद्दूयेयातिं विमुक्तये । समाधिः संवित्प्राप्तिः परजीवैकतां प्रति ।
७५
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः । एकः सनिध्यते भान्त्या मायया न स्वरूपतः ।
७६
तस्माद्देत एवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो महाकाश इतीरितः ।
७७
तथा भान्तोद्भवा प्रोत्क्तो ह्यात्मा जीवेश्वरात्मना । यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
७८
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् । यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
७९
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते सदा ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
८०
एकीभावः परेणासौ तदा भवति केवलः ॥ शास्त्रसज्जनसंपर्कैराग्याभ्यासरुपीणि ।
८१
प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी । विचारणा द्वितीया स्यात्त्रितीया साक्षिभावना ।
८२
विलापिनी चतुर्थी स्याद्वासनाविलयात्मिका । शुद्धसंविन्मननानन्दरूपा भवति पश्चमी ।
८३
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति । असंवेदनरूपा च षष्ठी भवति भूमिका ।
८४
आनन्दैकघनाकाराः सुपुप्तसदृशी स्थितिः । तुरीयावस्थोपशान्ता सा मुक्तिरेव हि केवल ।
Page 19
५५
समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् । तुयांतीता तु यावस्था परा निर्वाणरूपिणी ।
५६
सप्तमी सा परा प्रौढा विषयो नैव जीविताम् पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् ।
५७
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् । आनन्दैकघनाकार सुषुप्ताख्य तु पञ्जरमी ।
५८
असंवेदनरूपा तु शष्टी तुयंपदाभिधा । तुयांतीतपदावस्था सप्तमी भूमिकोत्तमा ।
५९
मनोवचोभिरग्राह्या स्वप्रकाशसदात्मक । अन्तः प्रत्याहृतवशाच्चैतन्य चेत्न विभावितम् ।
९०
मुक्त एव न सन्देहो महासमतया तया । न म्रिये न च जीवामि नाहं सन्नाप्यसन्नमयः ।
९१
अहं न किंचिद्विदिति मत्वा धीरो न शोचति । अलेपकोऽहमजरो नीरागः शान्तवासनः ।
९२
निरङ्गोऽस्मि चिदाकाशमिति मत्वा न शोचति । अहंत्या विरहितः शुद्धो बुद्धोऽजरोरोडमरः ।
९३
शान्तः शमसमाभास इति मत्वा न शोचति । तृणाग्रेऽप्यम्वरे भानौ नरनागामरेषु च ।
९४
यत्तिष्ठति तदेवाहमिति मत्वा न शोचति । भावनां सर्वभावेषु समुत्सृज्य समुत्थितः ।
९५
अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय । वाचामतीतविषयो विषयाशादशोभिज्ज्वलत् ।
९६
परानन्दरसाक्षुभो रमते स्वात्मनात्मनि । सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः ।
९७
न पुण्येन न पापेन नेतरेण च लिप्यते । स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ।
९८
तज्ज्ञः कर्मफलान्नस्तथा नायाति रञ्जनम् । विहरन्जनतावृन्दे देवकीर्तन पूजनैः ।
९९
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव । निस्स्तोत्रो निर्विकारस पूज्यपूजाविवर्जितः ।
१००
संयुक्तस वियुक्तस सर्वावारनयक्रमे: । तनुं त्यजतु का तीरथे श्वपचस्य गृहेऽथ वा ।
१०१
ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताश्रयः । संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज ।
१०२
मोक्षो भवेदसकल्यान्नादभ्यासं धिया कुरू । सावधानो भव त्वं च ग्रह्यग्राहकसङ्गमे ।
Page 20
१०३
अजग्रामेव संकल्पदशा: परिहरज्याने: ॥ १०३ ॥ मा भव ग्रााह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छृं तन्मयो भव ॥ १०८ ॥ किंचित्चिच्चेतोचते तुभ्यं तद्ब्रह्मोडसि भवस्थितौ । न किंचित्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥ १०५ ॥ अस्मात्पदार्थनिचयाद्वावस्थावरजङ्गमात् । तृणाद्देहेहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥ १०६ ॥ अहंभावानहभावौ त्यक्त्वा सदसती तथा । यदसक्तं संं स्वच्छं स्थितं तत्पुरुमुच्यते ॥ १०७ ॥ या स्वच्छा सता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था व्यवहहतौ सा तुय्रा कलनोच्यते ॥ १०५ ॥ नैतज्जाग्रत् च स्वप्न: संकल्पनानसंभवात् । सुषुप्तभावो नाडप्येतदभाववाज्जडतास्थितेः ॥ १०९ ॥ शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् । विलीनं तुयमित्याहुरबुद्धानां स्थितं स्थिरम् ॥ ११० ॥ अहंकारकलात्यागे समताया: समुद्रंमे । विश्रारारौ कृते चित्ते तुयावस्थोपतिष्ठते ॥ १११ ॥ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वोपाह्व एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मैदमकल्मषम् ॥ ११२ ॥ शान्त एव चिदाकारो स्वच्छं शमसमात्मनि । समग्रशक्तिसचिते ब्रह्मति कलिताभिधे ॥ ११३ ॥ सर्वमेव परित्यज्य महामौनी भवानघ । निर्वाणवात्रिमनन: क्षीणचित्त: प्रशान्तभिः ॥ ११८ ॥ आत्मन्येवावस्व शान्तात्मा मूकान्धवधिरोपमः । नित्यमन्तर्मुख: स्वच्छ: स्वात्मनान्त: प्रपूरर्णभिः ॥ ११५ ॥ जाग्रत्येव सुषुप्तस्थ: गुरु कर्माणि वै द्विज । अन्त: सर्वपरित्यागी बहिः गुरु यथागतम् ॥ ११६ ॥ चित्तसत्ता परं दुःखं चित्तत्याग: परं सुखम् । अतस्तितं चिदाकारो नय क्षयमवेदनात् ॥ ११७ ॥ दृष्ट्वा रसयमस्य वा स्थेयं पाषानवत्सदा । एतावतात्मयत्नेन जिता भवति संसृतिः ॥ ११५ ॥ वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः ॥ ११९ ॥ अन्नपूर्णोंपनिषदं योऽधीते गुरुग्नुग्रहात् । स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥ १२० ॥ इत्युपनिषत् ॥ इति पञ्चमोऽध्यायः ॥ ५ ॥
Page 21
ॐ भद्रं कर्णेभिः शृणुयाम देवा: ।। भद्रं पश्येमाक्षभिर्यजत्रा: ।
स्थिरैरङ्गैस्तुष्टुवा᳚ᳶसस्तनुभि: ।। व्यश्रेम देवहितं यदायुः ।।
स्वस्ति न इन्द्रो वृद्धश्रवा: ।। स्वस्ति न: पूषा विश्ववेदा: ।।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ।। स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।। इत्यन्नपूर्णोपनिषत्समाप्ता ।।