1. Anubhuti Prakasa Vidyaranya (Pothi or Oblong) 1881 Nirnaya
Page 1
892.1Up3 12 CU58957391 Anubhutiprakaca of
Page 2
Columbia Mniversitp in the Citp of Mem Dork THE LIBRARIES SIGILLVM . COLLE on VIDEN ETVO IN LVMINE T
NIWATE .NOVI . EBORAC LVMBIAE I . COLVM
Digitized by Google
Page 3
upanishad Anubhutipra kāca. ॥ अथ अनुभूतिप्रकाशः प्रारभ्यते॥
Digitized by Google
Page 4
शिष्यवर्ग विद्यारण्यस्वामी
Digitized by Google
Page 5
श्रीगणेशाय नमः॥ अथ श्रीविद्यारण्यविरचित उपनिषत्तात्पर्यरूपोऽनुभूतिप्रकाशः प्रारभ्यते॥ हरि:ॐ। ऐतरेयेण संप्रोक्ता द्वितीयारण्यकांतगा॥ ब्रह्मविद्या सुविस्परष्टं बालबोधाय तन्यते॥१॥ आत्मैव सृष्टेः प्रागासीन्नामरूपविवर्जितः॥ सोऽप्येक एव नान्योऽस्ति जडं चान्यन्न विद्यते॥।२॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्॥ इति श्रुत्यंतरे प्रोक्ता माया नान्यत्र तत्त्वतः॥३। निस्तत्वं व्यवहारार्हमन्टतं बालयक्षवत्॥ बालो यक्षं प्रकल्प्यास्माद्विभेति व्याघ्रतो यथा ॥४॥ वस्तुतत्त्वं जडं किंचिन्नान्यदस्त्यात्मवस्तुनः॥ अद्दयानंदरूपात्मा तदा सुप्ताविव स्थितः ॥५॥ निस्तत्वापि जगद्धांति माया निद्रेव कल्पयेत्।निर्विकारोऽप्यसावात्मा मायावत्या व्यचारयत्॥।६।। स विचार्याखिलान् लोकान सृष्टा पालकसृष्टये।कृलवा विराट्तनुं छिद्रेष्वथ तद्देवता व्यधात्।।७।। समुद्रतुल्ये देहेऽस्मिन् देवताः पतितास्तथा॥ तं देहं क्षुत्पिपासा्यां योजयामास स प्रभुः।।८।। Digitized by Google अन्नभोगायात्मदेहान् गवाश्वपुरुषादिकान्॥ सृष्टा प्रावेशयत्तत्र देवतास्ता यथायथम्॥९॥ ईशोऽसाधारणं स्थानमपश्यन् क्षुत्पिपासयोः॥ प्रावेशयद्देवतासु तद्भोगाते च तृप्यतः॥ १०॥ अन्ने सृष्टे भोक्तृवर्गो ह्यजिघृक्षत्तदिंद्रियैः॥ तत्र वागादयोऽशक्तास्तदपानो गहीतवान्॥११॥ १ एतन्रामकेन मुनिना।
Page 6
अ०प्र० जीवाभावे उथा सर्वमित्यालोच्य परेश्वरः ॥ शिरोमध्यं विदार्यात्र प्राविशज्जीवरूपतः ॥१२॥ अ० प्राणानां धारकः कर्त्ता चेतनो जीव उच्यते॥। आनखवाग्रमहंकारश्र्विद्याप्तश्र्वेतनोऽभवत्॥१३॥ अंतःकरणभागौ दावहंकारो मनस्तथा ॥ वक्षस्य मूलमग्रं च यथाभागौ तथेक्ष्यतां।।१४॥ चिद्विंबप्रतिबिंबाभ्यां युक्तोऽहंकार एव तु॥ चेतना प्राणभृत्तस्य व्दन्निष्ठं करणं मनः ॥१५॥ तस्य व्दत्कंठनेत्रेषु प्रचारवशतोऽभवत्॥ सुप्तिः स्वप्नो जागरश्र सोडयं संसार ईरितः ॥ १६॥ स्वप्नः सकाल एवास्ति नान्यदा स्वप्नजागरौ॥ तथैवेति स्वप्नसाम्यात्रयः स्वप्ना उदीरिताः।।१ अध्यारोपो मायिकोयमुक्तोऽथासावपोह्यते॥ अध्यारोपापवादाभ्यां निष्प्रपंचं प्रपंच्यते ॥१८॥ स संसारीश्वरो जात ईश्वरानुग्रहात्पुनः ॥ पटथिव्यादीनि भूतानि यथाशास्त्रं व्यचारयत्॥१९॥ परमात्मन उत्पन्नं जगदात्मैव नेतरत् ॥ मृदो जातो घटो यद्दन्मृद्दस्त्वेव तथेक्ष्यतां ॥२०॥ घटः शराव इत्यादिविकाराणां मृदः एथक्॥ तत्त्वं नास्ति प्रतीते तु नामरूपे प्रकल्पिते ॥२१॥ Digitized by Google प्रतिबिंबभ्रमो नीराद्युपाधिवशतो यथा॥ सन्निवेशोपाधितोऽयं तथा कुंभादिविभ्रमः ॥२२॥ भ्रांतिः सोपाधिकोपाधिनिळृत्यैव निवर्त्तते॥ न बोधात्तेन भासंते जानतोऽपि घटादयः॥२३॥ १ आकारविशेषः ।
......----
Page 7
पृथग्द्रव्यस्वरूपः सन्समवेतो घटो मदि॥ इत्याहुस्तार्किकास्ततु न द्वैगुण्यप्रसंगतः ॥२४॥ मृद्धाराद्वटभाराज्च गुरुत्वं द्विखणं भवेत्॥ तथालंकारकर्ता स्यात्कृती हेमादिवदिदितः॥२५॥ न सन्निवेशमात्रेण पथग्द्रव्यत्वसंभवः ॥ शयनोत्थानगमनैरन पुत्रे बहुपुत्रता ॥ २६॥ तस्मात्कार्य न वस्तु स्यात्कारणव्यतिरेकतः ॥ किंतु कारण एवैतदन्ृतं भासते मृषा ॥२७॥ अर्थक्रियानृतेऽप्यस्ति स्थाणौ चोरभयेक्षणात्।ततोSनता घटाद्याः स्युर्भातु कुर्वतु वा क्रियांशट सन्निवेशोपाधिहाने गच्छत्येव घटादिधीः॥ विवेकिनां तु वस्तुत्वं घटादीनां निवर्तते ॥२९॥ घटः शराव इत्येवं वाचैवार्यते उथा। मृत्तिकेत्येव सत्यं स्यान्न तु सत्यं घटादिकम्॥३०॥ एवमात्मन उत्पन्नं प्थिव्याद्यपि नात्मनः ॥ थग्वस्त्वस्ति किंलात्मन्यारोपात्प्रतिभासते॥३१॥ सद्दस्तु ह्यात्मनस्तत्वं तस्मिन् भूम्यादिकल्पनात्।। प्टथिव्यादीनि संतीति भासते तत्तदिंद्रियै:३२ Digitized by Google इंद्रियोपाधिका ध्रांतिरक्षरोधान्न भासते ॥ इत्येतद्विशदीकर्तु योगो वेदेषु वर्ण्यते॥३३॥ सदात्मनः एथग्भूतमसङ्गूम्यादि तेन तत्। भात्वक्षैः कार्यकृद्वस्तु मिथ्यैव स्याद्टादिवत्॥३४॥ ईदृग्विवेकदृष्टयेदं जगदात्मैव नेतरत् ॥ एवं सत्यात्मनोन्यत्किं वस्तुमस्तीति शंक्यते॥ ३५॥ अद्दयानंदरूपात्मा सृष्टेः पूर्वमभूदथा ॥ तथैवाद्यापि संपन्नो बुध्या सम्यग्विवेचितः॥३६॥
Page 8
B888EEI EEEEEEEEEE अ०प्र० इत्थं सर्वात्मकं ब्रह्म विविच्य पुनरप्यसौ॥ एतमेव स्वमात्मानं ब्रह्मत्वेन व्यलोकयत् ॥३७॥ अ० ।।२। अहंकारश्र चिच्छाया मिथ्या भूम्यादिवत्ततः॥ चिदात्मकोऽवशिष्टोऽयं जीवो ब्रह्मैव नेतरः॥।३८॥ यथाशास्त्रं विविच्येत्थं प्रत्यग्दृष्ट्या चिदात्मनः।।साक्षाच्चकार ब्रह्मतं जीवः शांत्यादिसंयुतः॥।३९॥ इदमित्यपरोक्षेण ददर्शेति विवक्षया ॥ इदंद्रनामाभूज्ज्ञानी वैयाकरणदृष्टितः ॥४० ॥ तमिंद्र इत्याहुरन्ये नाम्नः पारोक्ष्यसिद्धये॥ पूज्यस्य देवपित्रादेः परोक्षं नाम हि प्रियम्॥४१॥ परमेश्वररूपलादपींद्रत्वमिहोचितम् ॥ समाप्ता ब्रह्मविद्येयमुत्तमस्याधिकारिणः ॥४२।। विरक्तस्योक्तबोध: स्याद्वैराग्यं दोषदर्शनात्॥जन्मैव प्रथमो दोषस्तद्वीभत्सा निरुप्यते॥४३॥ स्वर्गाद्दा नरकाद्ायं वृष्टिद्वाराऽन्नसंस्थितः ॥ प्रविश्य पितरं तत्र गर्भो भवति रेतसि ॥४४॥ तद्रेतः पितृदेहस्थं सर्वागेभ्यः समुत्थितम्॥ पितुः स्वदेहो गर्भाख्यदेहश्र्वेति वपुद्यम्॥४५॥ स्त्रियां सिंचति तद्रेतस्तत्पुत्रोत्पादनं पितुः॥ पुत्ररूपेण तज्जन्म पितुराधं स्वयं कृतम्॥४६॥ Digitized by Google योषिद्योनिं प्रविश्यायं योषिद्वर्भे स्फुटीभवेत्॥ योषिद्वीर्येण पुष्टोऽसौ तद्देहेनैकतां व्रजेत्॥४७॥ अन्यथैनां स्त्रियं हन्याद्रुल्मव्याधिवदांतरः॥ स्वांगवन्न हिनस्त्येनां गर्भ रक्षति सा ततः॥४८।। १ तमिदंद्रम्। २ गर्भः ।
. 1
Page 9
88 गर्भरूपं भर्तृदेहं यतः सा पालयत्यतः॥ सापि भर्त्रा पालनीया तदिष्ठान्नादिवस्तुभिः॥४९॥ गर्भो विण्मूत्रयोः स्थित्वा दशमे मासि जायते। पिता स्वात्मधिया पुत्रं संस्करोति यथाविधि॥५० पितुर्द्वितीयं तज्जन्म पुत्ररूपेण संस्थितं॥ स्वोदराद्दारजठरादपि जन्मद्दयं क्रमात्॥५१॥ पतिर्जायां विशत्यादौ गर्भो भूत्वा स्वमातरम्॥ जायैव माता संपन्नेत्यहो संसारकष्ठता॥५२॥ लौकिकं वैदिकं सवै पुत्रेऽवस्थाप्य तत्पिता॥ मृतो देहांतरे पित्रोरन्ययोर्विशति स्वयम्॥५३॥ पुत्ररूपेण यज्जन्मद्दयं पूर्वमुदीरितम ॥ तदपेक्षं तृतीयं तज्जन्म स्याद्देहधारिणः॥५४॥ स्वोदरं दारजठरं तथा पित्रंतरोदरम्॥ त्रय आवसथा इत्थं जंतोः सर्वस्य जन्मने ॥५५॥ जन्मानि योनिलक्षाणां जंतुश्तुरशीतिषु ॥ उत्तमाधमरूपाणि प्राप्नोत्येवं पुनः पुनः॥५६॥ दुष्टत्वं जन्मनः प्रोक्तं स्पष्टं रोगादिदुष्ठता। विरक्तो बुद्धत्त्वस्तु सुच्यते वामदेववत्॥५७॥ पूर्वजन्मनि बोधेन स्वमुक्तिं चाब्रवीहचा ॥ गर्भस्थो वामदेवोऽयं प्रतिबंधविवर्जितः ॥५८॥ Digitized by Google जन्मन्यतीते वेदांतं श्रुल्ाप्येष न बुद्धवान्॥ बलिना प्रतिबद्धलात्कर्मणा जन्महेतुना ॥५९॥ गर्भे प्रविश्य तत्कर्म विनष्टं प्रतिबंधकम्॥ नवमे मासि संस्मृत्य श्रवणं प्रतिबुद्धवान्॥६ ॥ विद्वान्भूला समुत्पन्नो जीवन्मुक्तोऽभवेत्तदा॥ शरीरमात्मनो भिन्नं मिथ्यैवेत्यवगच्छति॥६१॥
1
Page 10
अ०प्र० इयंतं कालमेतस्मिन्भ्ांत्या देहे निमन्नवान्॥ बोधेन देहादुक्कम्योत्कृष्टोSभूज्जीवतां त्यजनू॥६२।। ॥३॥ जीवत्वेऽपगते तस्य शिष्यतेऽपरमात्मता ॥ स एव स्वर्गतुल्योभूदिंद्रियाविषयत्वतः॥६३॥ अ० परोक्षोऽपि विमूढानां विद्वद्गिरवलोक्यते॥ सर्वेडपि विषयानंदाः प्राप्ता दृष्टे निजात्मनि ॥६४॥ आत्मानंदसमुद्रस्य विछ्युषो विषयोत्थिताः ॥ आत्मन्यंतर्भवंत्यंते समुद्रे बिंदवो यथा ॥६५॥ आत्मन्यानंदमज्ञात्वा विषयेषु स्वविभ्रमात्॥ बाह्यमिच्छति तल्लाभाद्दीरात्मन्युपशाम्यति॥६६।। आत्मानंदं क्षणं भुत्का पुनर्भौत्या बहिर्व्रजेत्॥ विवेकिधीर्निजानंदं भुंक्ते तत्स्थैव सर्वदा ॥६७।। विषये दुःखजातं यत्तद्वीक्ष्यापक्षपाततः॥ शक्यो बोड्धुं निजानंदो बुद्यंते हि विवेकिनः ॥६८॥ वामदेवोऽखिलानंदानाप्यात्मन्यमृतोऽभवत्॥ देहप्राणवियोगाख्या मृतिश्िविद्वस्तुनो नहि॥।६९॥। इत्थं संसारदुष्ठत्वं पुरुषार्थ च बोधतः ॥ श्रुला विरक्ता बोधार्थ मीमांसंते सुमुक्षवः।।७०॥ अहं पश्याम्यहं वच्मीत्यात्मानं सर्वदा वयम्। उपास्महे योगिवंदं कोऽसौ मूर्धि प्रविष्टवान्७१ Digitized by Google मायावी शुद्धचिद्दात्मा कतरः सृष्टितः पुरा॥ बुभुत्संते द्योस्तत्त्वं जीवात्मपरमात्मनोः॥७२॥ जीवस्य चेतनत्वेन चैतन्यं चिंत्यतामिदम्॥। चक्षुरादिविशिष्ठं तच्छुद्धं वा तत्त्वमस्य किम्॥७३॥ ।।३॥ १ विंदय: ।
Page 11
चक्षुश्रोत्रे घ्राणजिव्हे त्वक्क धींद्रियपंच कमू।।रूपशब्दौ गंधरसौ स्पर्शश्र् विषयाः क्रमात्॥७४॥ वाक्पाणिपादपायूपस्थाः कर्मेद्रियपंचकम्॥ भाषणादानगमनविसर्गानंदकाः क्रियाः॥७५॥ गोलकानि दशैतेषामक्ष्यादीनि स्फुटानि हि॥ ज्ञानक्रियाशक्तिरूपमिंद्रियं गोलकस्थितम्७६ प्राणोऽपानः समानश्ोदानव्यानौ च वायवः॥ हद्रुदे नाभिकंठौ च देहश्रवैषु वसंति ते ॥७७॥ श्वासाधोगतिटत्ती द्वे वपुष्यन्नसमीकृतिः॥ उद्गारादिर्देहबलं पंच वायुक्रिया इमाः ॥७८॥ अहं कर्त्ता वपुर्व्याप्य जडं चेतनतां नयेत्॥ मनोंतर्हद्यवस्थाय वत्तीः कामादिका: सृजेत्॥७९॥ ज्ञानेंद्रियाणि पंचात्र तथा कर्मेद्रियाण्यपि। वायवः पंच कर्ता च मनःसप्तदशं स्मृतम्॥८०॥ सोऽयं सप्तदशस्तोमो लिंगदेहः स्वयोनिषु॥ सर्वासु संसरत्यस्य विनाशो मोक्ष उच्यते॥८॥ अज्ञानकल्पितो देहस्तत्वज्ञानेन नश्यति ॥ ज्ञानोत्पत्तिर्विचारेण तस्मादात्मा विचार्यते ॥८२॥ येन पशयत्यसावात्मा यः पश्यति स वा भवेत्।द्रष्टा पश्यति बोधेन चाक्षुषेण तयोस्तु कः॥८३। Digitized by शृणोति येन यः श्रोता तयोरित्यादि योज्यताम्। चैतन्यमस्ति करणे कर्त्तरीत्यत्र चिंत्यते८४ by Google बहूनि करणान्येषु बोधा दृष्यादिनामकाः ॥ बहवः कर्तृबाहुल्यमपि द्रष्टादिभेदतः॥८५॥ करणानां च कर्तृणां भेद: स्याच्चक्षुरादिके H बाह्ये यथा तथैवांतःशरीरेऽप्यवगम्यताम्॥८६॥
Page 12
CEIEEESEEEEE EEEEEEEEE E EEE88E . अ०प्र० करत्रुपाधिरहंकारो वाच्यो हृदयशब्दतः ॥ करणं स्यान्मनस्तस्य संज्ञानाद्यास्तु वृत्तय: ॥८७॥ अ० तत्र सर्वत्र चैतन्यं लक्ष्यते हि एथक पथक् ॥ एवं सति बहुष्वेषु कः स्यादात्मेति संशय:॥ प्रज्ञानमेकं सर्वेषु यत्स आत्मेति निर्णयः॥ प्रकृष्ट निरुपाधिलाच्चैतन्यं यत्तदीक्ष्यताम्॥।८९॥ अहंकारो मनो बाह्यं करणं चाप्युपाधयः॥ तेषु सर्वेषु चिच्छाया संक्रांता चेतनाऽन्यतः।९०॥ न सुख्यं तेषु चैतन्यमात्मत्वस्याप्यमुख्यता। सुषुप्तौ तानि लुप्यंते नल्वात्मा तत्र लुप्यते॥९१॥ प्रज्ञानं निरुपाधितान्नित्यं तल्लोपभासकम।।प्रज्ञानस्यात्मता तस्मान्मुख्या नान्यस्य कस्य चित्९२ द्रष्टाद्या अपि दृष्ादाः शब्दा सुख्यात्मवस्तुनःनामान्युपाधिमालंब्य तस्मादात्मोपलक्षकाः९३ यथैकस्यैव संबंधविशेषोपाधिनाखिलाः॥ पुत्रभ्ात्रादयः शब्दा नामत्वेनोपलक्षकाः॥९४॥ उपलक्षं तु हस्तादियुक्तमेकं वपुस्तथा । चेतनैः कर्तृकरणैः प्रज्ञानमुपलक्ष्यते ॥९५॥ Digitized by Google प्रज्ञानं कर्तदेहादिसाक्षिभूतं यदस्ति तत्॥ जीवस्य वास्तवं रूपमित्येवं निर्णयो भवेत्॥९६॥ प्रज्ञानं स्वशरीरेऽस्ति तथा देहांतरेष्वपि॥ ब्रह्मादिस्थावरांतेषु तस्य स्यात्परमात्मता॥९७॥ प्रज्ञानस्यास्य जीवत्वं प्राणधारणतो यथा॥ जगत्सृष्टयादि हेतुत्वाद्रह्मत्वं च तथेष्यताम्॥।९८॥
Page 13
स्थावरं जंगमं सर्व जगदित्यभिधीयते॥ तस्य प्रज्ञैव नेत्रं स्यात् सृध्यादिनर्यंनादसौ॥ ९९॥ प्रज्ञानं शुद्धचिद्रूपमासीद्यत्सृष्टितः पुरा ॥ तस्मिन् प्रतिष्ठितं सर्व माययोत्पादितत्वतः॥।१००॥ उत्पत्तिस्थितिकालेऽसौ लोकः प्रज्ञाननेत्रकः ॥ नेत्रत्वं व्यवहारस्य सुखादेनयनाङ्गवेत्॥१॥ लये प्रज्ञा प्रतिष्ठा स्या तत्र सर्वस्य संहतेः॥ सृष्टिस्थितिलया इत्थं श्रुताः प्रज्ञानहेतुकाः॥२॥ स्वप्नसृष्टिस्थितिलया जीवचैतन्यसाक्षिकाः॥ निर्जीवस्तंभकुड्यादौ स्वप्नसृष्यादयो नहि॥ ३॥ जगत्सृष्टिस्थितिलया ब्रह्मचैतन्यसाक्षिकाः॥ ब्रह्मचैतन्यरहिते वंध्यापुत्रे न संति ते ॥।४। जगत्सृष्याद्यधिष्ठानं शुद्धचैतन्यमद्यम्॥ परमात्मस्वरूपं स्यादिति तस्यात्र निर्णयः। ५॥ यत्प्रज्ञानं स्वात्मरूपं तद्रह्मेति विबुध्यताम्॥ प्रज्ञानं ब्रह्म विज्ञाय तिष्ठेत्प्रज्ञात्मना सदा ॥६।। जीवन्नेव स्थितप्रज्ञो मुक्तः स्याद्वामदेववत्॥ ्रिियतां यत्र तत्रास्य वपुः सोयं न जायते ।।७॥ Digitized by Google ऐतरेयब्रह्मविद्यां व्याख्यातां संग्रहादिमाम्॥ सुस्थिरामनुगण्हातु विद्यातीर्थमहेश्वरः॥८।। इति श्रीविद्यारण्यमुनिकते अनुभूतिप्रकाशे ऐतरेयोपनिषद्विवरणो नाम प्रथमोऽध्यायः॥१।।
१ प्रेरणात्।
4
Page 14
अ०प्र० ब्रह्मवल्यां ब्रह्मविद्यां तिर्त्तिरिः प्राह यामिमां॥ वक्ष्ये सुखावबोधाय क्रीडंत्त्र सुमुक्षवः॥१॥ अ० दर्शादिपितमेधांतैः कर्मभिर्बहुजन्मसु ॥ अनुष्ठितैर्विविदिषा जायतेंऽतिमजन्मनि ॥२॥ ततो योगं समभ्यस्य संहितोपासनादिभिः।।एकाग्रे साधितेऽथास्य विद्यां सूत्रयति श्रुतिः॥३॥ ॥ २ ॥I सूत्रात्पूर्व शांतिमंत्रोजपायात्रोपवर्णितः। जपेन विन्ना द्वेषाद्याः शाम्यंति मनसि स्थिताः॥४॥ ब्रह्मंवित् परमेतीति सूत्रं सर्वार्थसूचनात्॥ ज्ञेयं ज्ञानं फलं चेति सर्वेऽर्थाः सूचिता इह ॥ ५॥ ज्ञेयं ब्रह्म तदीया धीर्ज्ञानं स्याद्रह्मताफलम्॥ सूत्रव्याख्यानरूपायामृच्येतद्विशदीकृतम्॥६॥ ज्ञातव्यं ब्रह्म यत्तत्किमिति चेत्तस्य लक्षणम्॥ सत्यं ज्ञानमनंतं यत्तद्रह्मेत्यवगम्यताम् ॥७॥ आकाशादि जगत्सर्वमन्टतं मायिकत्वतः ॥ नानृतंब्रह्म तेनैतत्सत्यमित्यभिधीयते ॥८॥ जगज्डं स्वतः स्फूर्तिराहित्याद्रह्म तु स्वयम् ॥ स्फुरतीत्यजडं तेन ज्ञानमित्यऽभिधीयते ॥९॥ जडं घटाद्यंतवत्स्याद्देशकालादिवस्तुभिः॥न देशादिकृतोंऽतोऽस्य ब्रह्मानंतं ततः स्मतम्॥१॥॥ Digitized by Google देशकालाद्यन्यवस्तुत्रयं मायाविजृंभितम्॥ब्रह्म सत्यं मायिकैस्तैः परिच्छिन्नं कथं भवेत्॥११॥ १ यजुःशाखाप्रवर्तकः। २ ब्रह्मविदाप्नोति परम्। ३ तदेषाभ्युक्ता। सत्यं ज्ञानमनंतं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन् । सोश्रुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेति।
Page 15
जडानृतपरिच्छिन्नव्यावृत्यैव पदत्रयम्॥ लक्षकं स्यादृखंडस्य यत्तद्रह्मेति बुध्यताम् ॥१२॥ तादग्ब्रह्म कथं विद्यादिति चेदभिधीयते॥ गहायां परमे व्योम्नि स्थितं ब्रह्म तु वेद यः॥१३॥ देहादभ्यंतरः प्राणः प्राणादभ्यंतरं मनः ॥ततः कर्त्ता ततो भोक्ता सुहा सेयं परंपरा ॥१४॥ पंचकोशगहायां यदज्ञानं कारणं स्थितम्॥ तद्योम परमं तस्मिन्निगूढं ब्रह्म तिष्ठति॥१५॥ जीवेचैतन्यमेवात्र निगूढमिति चेत्तदा ॥ तस्यैव ब्रह्मतां विद्याजीवलभ्रांतिहानये॥१६॥ स्वतो ब्रह्मैव चैतन्यं जीवत्वं प्राणधारणात्।।कोशतादात्म्यविभ्रांत्या भात्यस्य प्राणधारणं॥।१७। वक्ष्यमाणविवेकेन तत्तादात्म्यमपोह्यते ।। ब्रह्मसाक्षात्कृतिस्त्वीदग्बोधेनैव न चान्यथा ॥१८॥ बाह्यं जगत्पंचकोशांश्र्ापोह्यांतर्मुखास्य धीः।ब्रह्मसाक्षात्करोत्येव सर्वोपाधिविवर्जितम्॥१९॥ सोपाध्यैव बहिर्दष्ट्या भाति ब्रह्म न तावता॥ अंपैति जीवता तस्मादंतर्दष्पैव बुध्यताम् ॥२०॥ बहिर्दष्टिर्जगद्रानं तस्य सत्यत्धीरपि ॥ विवेकात्सत्यताऽपैति जगद्गानं तु योगतः॥२१॥ Digitized by Google बहिर्दष्टावपेतायामंतर्दष्ट्या यदीक्ष्यते । निगूढं जीवचैतन्यं तद्रह्मेति प्रपश्यति ॥२२ ॥ दृष्टे तस्मिन्परप्राह्या विद्ुषोऽतिशयोऽत्र कः॥ इति चेद्युगपत्सर्वकामाप्तिरधिका भवेत् ॥२३॥ १ जीवता न नश्यति।
Page 16
अ
अ०प्र० काम्यंते विषयानंदा निखिलैः प्राणिभिः सदा।व्रह्मानंदस्य ते सर्वे लेशा इत्यपरा श्रुतिः॥।२४॥ अ० आनंदहेतवो बाह्या विषया इति विभ्रमात्॥कामयंते बहिर्ध्या विषयान्प्राणिनोऽखिलाः॥२५॥ ॥ २ ॥ अभीष्टविषये लब्धे धी: प्रत्यावत्य हद्रतम्॥ ब्रह्मानंदं क्षणं भुत्का बाह्यं कामयते पुनः ॥२६॥ क्षणिकत्वाल्लेशतास्य पूर्णस्याप्युपचर्यते॥ विषयानंदता भ्रांत्या ब्रह्मानंदो हि वस्तुतः ॥२७॥ अंतर्दष्ट्या विवेकी तु ब्रह्मानंदं सदेक्षते ॥I अंतर्भवंति क्षणिकाः सर्वे तस्मिन्निरंतरे ॥२८॥ तत्त्वविद्रह्मरूपेण सर्वान्कामान् सहाश्रुते॥ इत्येषोऽतिशयो ब्रह्मप्राप्तिरूपं फलं श्रुतम् ॥२९॥ सूत्रव्याख्यानरूपायामृंच्यनंतमितीरितम् ॥ तदानंत्यप्रसिध्यर्थ जगत्कारणतोच्यते ॥ ३०॥ यत्सत्यं ब्रह्म कोशाख्यगहायां व्योमनामके॥ अज्ञाने कारणे गूढं तस्मादाकाश उद्गतः॥।३१। खं वाय्वग्निजलोर्व्योषध्यन्नदेहेषु कारणम्। पूर्व पूर्व भवेत्कार्य परं परमितीक्ष्यतां॥ ३२॥ इंद्रो मायाभिरभवद्वहुरूप इति श्रुतेः॥ आसन्मायिकरूपाणि खादीनि ब्रह्मगानि हि॥३३॥ Digitized by Google परास्य शक्तिर्विविधेत्येवं श्रुत्यंतरेरणात्॥ विविधा ब्रह्मणः शक्तिः सा च मायानृतलतः॥३४। सत्यस्य ब्रह्मरूपलाच्छक्तेरनृततोचिता॥ निस्तला भासते याऽसौ माया स्यादिंद्रजालवत्॥३५॥ ॥६ ॥
१ ऋग्वेदवाक्ये । २ इंद्रः ईश्वरः।
Page 17
मायाया विविधत्वेन तस्या: कार्येषु खादिषु॥ नामरूपेष्वनेकत्वं भात्यन्योऽन्यविलक्षणं॥३६॥ भाति सर्वेषु सत्यत्वमेकं यद्रह्मगं हि तत् ॥ सर्वाधिष्ठानधर्मलात् तत्सर्वत्रानुगच्छति ॥३७॥ सर्पधारादंडमाला रज््वां याः परिकल्पिताः ॥ एतासु रजुगं दैर्घ्य सर्वास्वनुगतं यथा॥३८॥ व्योमादा देहपर्यताः सत्ये ब्रह्मणि कल्पिताः॥ सर्वेष्वनुगतं ब्रह्म सत्यत्वं तस्य सुस्थितम् ३९ अध्यारोपापवादाभ्यां निष्प्रपंचं प्रपंच्यते॥ इति न्यायेन देहांत आरोपः खादिरीरितः॥४०॥ अथापवादो जगतः कथ्यते ब्रह्मबुद्धये ॥ तत्रादौ पुत्रमित्रादिनुंत्यै देहात्मतोच्यते ॥ ४१॥ आत्मा वै पुत्रनामासीत्येवमात्मतवविभ्रमः ॥ लौकिकोनुदंते पुत्रे श्रुत्या युक्तिश्ष विद्यते ॥४२॥ साकल्यं पुत्राभार्यादेर्वैकल्यं चात्मनीक्ष्यते॥ इत्याह भाष्यकृत्तेन पुत्रेऽस्ति स्वात्मताभ्रमः ४३ सोस्यायमात्मा पुण्येभ्यः प्रतिधीयत इत्यदः॥वचो वत्तयैतरेयोऽतः स्वात्मताभ्रम एव हि॥४४॥ एवं व्युदसितुं देहस्यैवात्मलमिहोच्यते॥ यो देहोऽन्नमयः सोऽयमेवात्मान्यो न कश्षन ॥४५॥ Digitized by Google मदीयः पुत्रभार्यादिरिति भेदावभासनात्॥ गौणी स्यादात्मता पुत्रे भृत्यादौ सिंहता यथा॥४६॥ पूर्ववासनया पुत्रे स्वात्मता भाति चेत्पुनः ॥ तद्वासनापनुत्यर्थ देहात्मलमुपास्यताम्॥४७॥ १ निटृत्तये। २ णुदप्रेरणे। ३ स्वर्गीक्रियते।
Page 18
अ०प्र० शिरः पक्षौ मध्यपुच्छे इति देहस्य पक्षिताम्॥ ध्याला तन्निष्ठतां प्राप्य त्यजेत्पुत्रात्मताश्रुतिं ४८ अ० धीर्मनुष्योऽहमित्यस्ति पुत्रोऽहमिति नास्ति धीः।। विकारोऽस्ति परिव्राजो न पुत्रसुखदुःखयोः४९ ।७। अन्नजो देह एवात्मा तदन्नं ब्रह्मबुद्धितः॥ उपास्य सर्वमप्यऽन्नं स्वाभीष्ठं लभते पुमान् ॥५०॥ ॥२ ॥
विवेकाद्वा ध्यानतो वा पुत्राद्यात्मलनिन्हुतौ।तथा देहात्मतां त्यत्का प्राणात्मत्वं विचिंत्यतां॥५१॥ न देहस्यात्मता युक्ता पूर्वजन्मन्यभावतः ॥ पुरात्मा देहदं कर्म कृत्वा प्राप्नोत्यदो वपुः ॥५२॥ आयुर्मरणयोर्हैतौ प्राणे जीवात्मातोचिता॥ स्थिते प्राणे भवत्यायुः प्राणापाये तु हीयते ॥५३॥ देहात्मवासनानुत्यै प्राणात्मतमुपास्यताम्॥ प्राणो ब्रह्मेत्युपासीनः सर्वमायुः समश्रुते ॥५४॥ प्राणोऽपानः समानश्रोदानव्यानौच उत्तयः॥ एतासु पूर्ववत्पक्षमूर्द्वादीन् परिकल्पयेत् ॥५५॥ श्वासोऽधोगमनं कृत्स्ने देहेऽन्नस्य समीकृतिः॥ उद्गारादिबलं देहे क्रियास्तासां क्रमादिमा: ५६ वत्तिसंघं प्राणमयं ध्याता देहात्मवासनाम् ।I संत्यज्याथ प्राणमये त्यजेद्वेहवदात्मतां॥५७॥ Digitized by Google प्राणो नात्मा जडत्वेन चेतनस्यात्मतोचिता। मनस्तु चेतनत्वेन सर्वस्य प्रतिभासनात् ॥५८॥ चक्षुराद्यक्षसापेक्षं मनो बाह्यार्थभासकम् ॥ निरपेक्षेण मनसा सुखाद्यांतरआसनम् ॥५९॥ १ नाशे सति।
Page 19
आत्मत्वं मनसो बुध्वा त्यक्तुं प्राणात्मवासनां। उपासीत मनस्तच्च वत्याख्यावयवैर्युतम् ॥६०। यजुराद्यांश्रतुर्वेदा आदेशस्तद्रतो विधिः॥ तद्गासके मनोटृत्तिपंचके पक्षिकल्पना ।६१॥ अवाड़रनसगम्यस्य ब्रह्मणोऽप्यवबोधने॥ शक्तं भवेन्मनस्तच्च मनो ब्रह्मेति कल्पना ॥६२॥ न ब्रह्मणि मनोजन्यस्फूर्तिस्तस्मादगम्यता। मनस्यंतर्मुखे नश्येदविद्या तेन शक्तिता ॥६३॥ प्राणात्मवासनानाशे मनसोऽप्यात्मतां त्यजेत्॥ कर्तुरात्मत्सुचितं मनोऽतःकरणं खलु॥६४ ॥ अहंकर्तेत्यदोऽज्ञानं विशिष्टं यस्य भासकम्॥ तत्कर्तृरूपं विज्ञानमात्मत्वेनावगम्यताम्॥६५॥ अहंक्रियत इत्येषोहंकारास्यः सविग्रहे॥ आनखाग्रमभ्निव्याप्य स्थितो जागरणे स्फुटः ॥६६॥ तेन चेतनवद्देहो भाति सुत्ौ तु तल्लयात्॥ अवेत्काष्ठसमो देहस्तेनाहंकार आत्मता ।।६७।। मदीयं मन इत्युक्तेरात्मनः करणं मनः॥इत्यात्मानं विविच्याथ तमुपासीत पक्षिवत्॥६८। श्रद्धाद्याः पंच तत्रस्था: कल्प्या मूर्दादिरूपतः॥श्रद्ास्तिक्यमृतं बुद्धौ यथा वस्तनुचिंतनं६९ Digitized by Google यथार्थभाषणं सत्यं योग एकाग्रता धियः॥ महस्तु योगजं ज्ञानं चिंत्या: श्रद्धादयोऽखिला:७० लौकिके वैदिके कर्तविज्ञानं ब्रह्म वेति चेत्॥ त्यजेदामरणं नोचेद्रह्मलोके सुखं ब्रजेत ॥७॥ १ तस यजुरेव शिरः। ऋगदक्षिणः पक्षः। सामोचरः पक्षः। आदेश आत्मा। अथर्वीगिरसः पुच्छं प्रतिक्ठा ।२कर्मणि।
Page 20
अ०प्र० विज्ञानध्यानतो नइ्येन्मनस्यात्मलवासना ॥ विज्ञानात्मलमप्येष त्यजेच्छोकयुतल्तः।७२॥ अ० शोकं तरत्यात्मबोधादिति श्रुत्यंतरे जगौ॥ शोकसागरमन्नोऽयं कर्त्ता तस्यात्मता नहि ॥७३॥ आनंदस्यात्मता युक्ता सोऽत्रास्ति प्रीतिदर्शनात्।।सदा भूयासमेवेति नित्यं प्रेमात्मनीक्ष्यते ७४ । २ ॥I
आनंदैकस्वभावोऽपि कर्तृविज्ञानसंगमात्॥ निजानंदं तिरस्कृत्य कदाचिच्छोकमानुयात्॥७८।। समाधिसुप्तिमूर्छासु विज्ञानस्य लये सति।। नित्यानंदस्वरूपेSस्मिच्छोकोडल्पोऽपिन वीक्ष्यते७६ मूर्छासुप्योर्यदज्ञानं भाति तत्करणं धियः ॥ कारणे बुद्धिटत्तौ च स्वानंदः प्रतिबिंबति ॥७७॥ दुःखं राजसधीटत्तौ सालिक्यां तत्सुखं भवेत्।।प्रियं मोदः प्रमोदश्र्वेत्युच्यते धीसुखं त्रिधा।।७८।। इष्टस्य दर्शनाल्लाभाद्गोगाच्च स्युः प्रियादयः ॥ ते त्रयः कारणानंदआत्मानंदश्व पंच ते ॥७९॥ पक्षिणोऽवयवाः पंच मूर्द्ादास्तेषुं कल्पिताः॥आनंद मयकोशोऽयमुपास्यः पूर्वकोशवत्॥८॥ अन्नप्राणमनोविज्ञानानंदैर्जनिता इमे ॥ कोशास्तेषु क्रमेण स्युरुत्तरोत्तरमांतराः ।८१ ॥ Digitized by Google विज्ञानकोशन्यायेन फलमुन्नीयतामिह ॥ तदुपास्तिफलं चार्थात्त्त्वबोधफलं भवेत् ॥८२॥ १ यदज्ञानं भाति तत् धिय: करणं। २ तस्य पियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः । आनंद आत्मा। ब्रह्मपुच्छं प्रतिष्ठा। ३ तेषु पियादिषु।
Page 21
आनंदं ब्रह्म विज्ञाय त्यजेदामरणं न चेत्॥ शरीरें पाप्मनो हिला सर्वान्कामानवापुयात्॥८३। आनंदमयकोशेऽस्मिन् पंचमावयवः श्रुतः॥ ब्रह्मशब्देन तद्रह्म स्वात्मानंद इतीक्ष्यताम्॥८४॥ उपासनाच्चित्तशुद्धौ ब्रह्मतत्वमवेक्षते । गहाहितब्रह्मबोधात्सर्वकामाप्तिरीरिता ॥८५॥ ुहाहितं ब्रह्म यत्तत्सत्यं ज्ञानमिति श्रुतम॥ तस्य ज्ञानस्य दृश्यास्ते कोशाः सर्व जगत्तथा॥८६।। जगत्कोशाश्र् दृश्यलात्संति ब्रह्म न दृश्यते।अतो नास्तीत्याह मूढस्तत्सत्तां वक्ति बुद्दिमान्॥८७। ब्रह्म नास्तीति चेद्वेद स्वयमेव भवेदसत्॥ कोशात्मता दूषिता चेन्नान्य आत्मास्ति तन्मते ॥८८॥ आनंदमयकोशेऽपि प्रियाद्या नश्वरास्त्रयः॥ अज्ञानं च ज्ञाननाश्यं न ब्रह्मांगीकरोत्यऽसौ।।८९॥ अस्ति ब्रह्मेति चेद्वेद स्वयमेवात्र संभवेत्॥ अदृश्यस्यापि सत्ता स्यात्स्वप्रकाशतवसंभवात्॥।९०।। गौणात्मा पुत्रभार्यादिर्मिथ्यात्मान्नमयादिकःब्रह्मानंदो मुख्य आत्मा क्रमेणैते विवेचिताः॥।९१॥ उत्तंरात्मविवेकेऽस्य पूर्वात्मा देहतां व्रजेत् ॥ तेनोत्तरेण पूर्वस्य पूर्णलाद्देहिदेहता ॥ ९२ ॥ Digitized by Google सत्येवं निखिलं पूर्व शरीरं हयंतिमात्मनः॥ ब्रह्मानंदस्तु शारीरः पूर्वस्यात्मेति निर्णयः॥९३॥ श्रवणं मननं चोभे तत्त्वज्ञानस्य साधने ॥ उक्तनिर्णयपर्यतं विज्ञानं श्रवणाङ्गवेत् ॥९४॥ १ अस्योत्तरात्मनः ।
Page 22
अ०प्र० अथ स्वबुद्धिदोषेण यतः संदेहसंभवः ॥ अतोऽसौ मननंकुर्यात्संदेहाः स्युस्त्योऽस्य हि॥ ९५॥ अ० ब्रह्मास्ति नो वेत्येकः स्यादज्ञानी मुच्यते न वा॥ त्त्वविन्सुच्यते नो वेत्यपरौ संशयावुभौ॥९६॥ यदस्ति नामरूपा्यां व्याप्तं तद्वियदादिकम्॥ ब्रह्म निर्नामरूपत्वान्नास्तीत्याह विमूढधी:९७ ॥ २ ॥
विवेकी ब्रह्मणः सत्तां सृष्टिकामादिहेतुभिः ॥ साधयन् बहुधा मूढं बोधयेन्मोहतुत्तये॥ ९८॥ अकामयत सृष्टयादौ परमात्मा स्वमायया॥ बहु स्यामहमेवातः प्रजायेयेति कामना ॥ ९९॥ स्वस्यैव बहुधा चोक्तेरुपादानं मृदादिवत्॥ तथा कामयितृत्वे न निमित्तत्वं कुलालवतू॥१००॥ निर्धर्मकेऽप्यात्मतत्वे निमित्तत्वं स्वमायया ॥ उपादानत्वसहितं माया दुर्घटकारिणी॥ १॥ असंभाव्यं न मायायामुपलंभं न साडर्हति॥ ततो वेदो यथा ब्रूते सृष्ठिरेषा तथेष्यताम् ॥२॥ सृज्यमालोचयन् सर्वमसृजत्परमेश्वरः ॥ सृष्ट्राऽथ जीवरूपेण प्रविवेश वपुष्यडयं ॥। ३। यो विज्ञानमयस्तस्मिन् चैतन्यं प्रतिबिंबितम्।त्च धारयति प्राणान् जीवाख्यां लभते ततः।।४।। Digitized by Google भोक्ता भूत्वेश्वरस्तद्दद्गोग्यरूपोऽपि सोऽभवत्॥। भोग्यं च बहुधा सच्च त्यच्चेत्यादि विभेदतः॥।५॥ सत्प्रत्यक्ष परोक्षं त्यत्तदभांवावुभौ तथा॥ वक्तुं शक्यमशक्यं चेत्यादि द्वंद्वेऽस्ति भोग्यता॥ ६॥ १ प्रत्यक्षस्य प्रत्यक्षाभावः परोक्षस परोक्षाभावः यथा घटो नास्ति यथा वंध्यापुत्रो नास्तीति।
Page 23
कामित्वमालोचकत्वं स्रष्टृत्वं च प्रवेषटृता ॥I भोग्याकारश्र पंचैते ब्रह्मसद्गावहेतवः ॥७॥ सद्रूपः परमात्मा स्यात्कामितात्स्वर्गकामिवत्॥ आलोचनान्मंत्रिवत्सन् स्नष्टत्वाच्च कुलालवत्८ प्रवेष्टृत्वात्सर्पवत्सन् भोग्यत्वाच्चौदनादिवत्॥ नानुमानैरेव किंतु विद्वत्प्रत्यक्षतोऽपि सन्॥९॥ यत्सत्यं ब्रह्म पूर्वोक्तं तदेव जगदात्मना।। भाति भ्रांत्या ततः सर्व ब्रह्मेत्याचक्षते बुधाः ॥१॥ सर्पधारादिका भ्रांत्या कल्पिता तत्त्वदर्शने ॥ रज्ुरेव यथा तद्दद्रह्नैव सकलं जगत्॥११॥ नामरूपयुतत्वेन जगत्सद्रह्म नेति यत् । पूर्वपक्षिमतं तन्न ब्रह्मसत्च्वं तदीक्ष्यताम्॥१२॥ रज्नुदैध्य यथा सर्पधारादिष्वतुगच्छति॥ ब्रह्मसत्त्वं तथा व्योमवाय्वादिष्वनुगच्छति ॥१३॥। असदेवेदमग्रेऽभून्नामरूपात्मकं जगत् ॥ पश्रात्तु ब्रह्मणा सृष्टं सदभूद्रह्मसच्वतः ॥१४॥ तद्रह्मात्मानमेवेमं सच्िदानंदलक्षणम् । अकार्षीज्गदाकारं स्वयमेव स्वमायया ॥१५॥ Digitized by Google अस्ति भाति प्रियं चेति प्रतिवस्तऽवभासते॥त एते सच्चिदानंदा ब्रह्मगा भांति वस्तुषु ॥१६॥ नामरूपे घटादीनां प्रागऽभावयुते ततः॥ अभावत्वं च भावत्वं पर्यायेणेक्ष्यते तयोः ॥१७॥ आगमापायिधर्मौ यौ न तयोर्द्धर्मिरूपता। शयनोत्थानयोर्नास्ति देहवस्तुस्वरूपता ॥१८॥
Page 24
अ०प्र० शिरः पक्षौ मध्यपुच्छे इति देहस्य पक्षिताम्। ध्याला तन्निष्ठतां प्राप्य त्यजेतपुत्रात्मताश्रुतिं ४८ धीर्मनुष्योऽहमित्यस्ति पुत्रोऽहमिति नास्ति धीः॥ विकारोऽस्ति परिव्राजो न पुत्रसुखदुःखयोः४९ अ०
अन्नजो देह एवात्मा तदन्नं ब्रह्मबुद्धितः ॥ उपास्य सर्वमप्यऽन्नं स्वाभीष्ठंलभते पुमान्॥५०॥ ॥२ ॥
विवेकाद्वा ध्यानतो वा पुत्राद्यात्मलनिन्हुतौ।।तथा देहात्मतां त्यत्का प्राणात्मत्वं विचिंत्यतां॥५१॥ न देहस्यात्मता युक्ता पूर्वजन्मन्यभावतः ॥ पुरात्मा देहदं कर्म कृत्वा प्राप्नोत्यदो वपुः ॥५२॥ आयुर्मरणयोर्हैतौ प्राणे जीवात्मातोचिता॥ स्थिते प्राणे भवत्यायुः प्राणापाये तु हीयते ॥५३॥ देहात्मवासनातुत्यै प्राणात्मत्वसुपास्यताम॥ प्राणो ब्रह्मेत्युपासीनः सर्वमायुः समश्रुते ॥५४॥ प्राणोऽपानः समानश्रोदानव्यानौच उत्तयः॥ एतासु पूर्ववत्पक्षमूर्द्ादीन परिकल्पयेत् ॥५५॥ श्वासोऽधोगमनं कृत्स्ने देहेऽन्नस्य समीकृतिः॥ उद्गारादिबलं देहे क्रियास्तासां क्रमादिमा: ५६ वत्तिसंघं प्राणमयं ध्याला देहात्मवासनाम् ।I संत्यज्याथ प्राणमये त्यजेद्देहवदात्मतां॥५७॥ Digitized by Google प्राणो नात्मा जडत्वेन चेतनस्यात्मतोचिता। मनस्तु चेतनत्वेन सर्वस्य प्रतिभासनात् ॥५८॥ चक्षुराद्यक्षसापेक्षं मनो बाह्यार्थभासकम ॥ निरपेक्षेण मनसा सुखाद्यांतरभासनम् ॥५९॥ १ नाशे सति।
Page 25
आत्मत्वं मनसो बुध्वा त्यक्तुं प्राणात्मवासनां॥ उपासीत मनस्तच्च वत्यास्यावयवैर्युतम् ॥६०।। यजुरादांश्रतुर्वेदा आदेशस्तद्रतो विधिः॥ तद्भासके मनोटृत्तिपंचके पक्षिकल्पना ॥६१॥ अवाड़नसगम्यस्य ब्रह्मणोऽप्यवबोधने ॥ शक्तं भवेन्मनस्तच्च मनो ब्रह्मेति कल्पना ॥६२॥ न ब्रह्मणि मनोजन्यस्फूर्तिस्तस्मादगम्यता। मनस्यंतर्मुखे नश्येदविद्या तेन शक्तिता ॥६३॥ प्राणात्मवासनानाशे मनसोऽप्यात्मतां त्यजेत्॥ कर्तुरात्मलमुचितं मनोऽतःकरणं खलु॥६४ ॥ अहंकर्तेत्यदोऽज्ञानं विशिष्ठं यस्य भासकम्॥ तत्कर्तृरूपं विज्ञानमात्मत्वेनावगम्यताम्॥६५॥ अहंक्रियत इत्येषोहंकारास्यः सविग्रहे॥ आनखाग्रमभ्िव्याप्य स्थितो आगरणे स्फुटः ॥६६॥ तेन चेतनवद्देहो भाति सुतौ तु तल्यात्॥ अवेत्काष्ठसमो देहस्तेनाहंकार आत्मता ॥।६७।। मदीयं मन इत्युक्तेरात्मनः करणं मनः॥इत्यात्मानं विविच्याथ तमुपासीत पक्षिवत्॥६८। श्रद्धाद्याः पंच तत्रस्था: कल्प्या मूर्दादिरूपतः॥श्रद्धास्तिक्यमृतं बुद्दौ यथा वस्तनुचिंतनं६९ Digitized by Google यथार्थभाषणं सत्यं योग एकाग्रता धियः॥ महस्तु योगजं ज्ञानं चिंत्या: श्रद्धादयोऽखिला:७० लौकिके वैदिके कर्तविज्ञानं ब्रह्म वेत्ति चेत्॥ त्यजेदामरणं नोचेद्रह्मलोके सुखं ब्रजेत् ॥७१॥ १ तस्प यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वीगिरसः पुच्छं प्रतिक्ठा । २ कर्मणि। 888
Page 26
अ०प्र० विज्ञानध्यानतो नइयेन्मनस्यात्मलवासना ॥ विज्ञानात्मतमप्येष त्यजेच्छोकयुतलतः॥७२॥ अ० शोकं तरत्यात्मबोधादिति श्रुत्यंतरे जगौ॥ शोकसागरमग्नोऽयं कर्त्ता तस्यात्मता नहि ॥७३॥ आनंदस्यात्मता युक्ता सोSत्रास्ति प्रीतिदर्शनात्॥सदा भूयासमेवेति नित्यं प्रेमात्मनीक्ष्यते ७४ । २ ॥
आनंदैकस्वभावोऽपि कर्तृविज्ञानसंगमात्॥ निजानंदं तिरस्कृत्य कदाचिच्छोकमापुयात।।७८।। समाधिसुप्तिमूर्छासु विज्ञानस्य लये सति।।नित्यानंदस्वरूपेSस्मिच्छोकोडल्पोऽपिन वीक्ष्यते७६ मूर्छासुप्योर्यदज्ञानं भाति तत्करणं धियः ॥ कारणे बुद्धिटत्तौ च स्वानंदः प्रतिबिंबति।७७॥ दुःखं राजसधीटत्तौ सालिक्यां तत्सुखं भवेत्।।प्रियं मोद: प्रमोदश्र्वेत्युच्यते धीसुखं त्रिधा॥७८।। इष्टस्य दर्शनाल्लाभाद्गोगाच्च स्युः प्रियादयः॥ ते त्रयः कारणानंदआत्मानंदृश् पंच ते ।॥७९॥ पक्षिणोऽवयवाः पंच मूर्दाद्यास्तेषुं कल्पिताः॥आनंद मयकोशोऽयमुपास्यः पूर्वकोशवत्॥८॥ अन्नप्राणमनोविज्ञानानंदैर्जनिता इमे ॥ कोशास्तेषु क्रमेण स्युरुत्तरोत्तरमांतराः ।।८१। Digitized by Google विज्ञानकोशन्यायेन फलमुन्नीयतामिह ॥ तदुपास्तिफलं चार्थात्तत्त्वबोधफलं भवेत् ॥८२॥ १ यदज्ञानं भाति तत् धियः करणं। २ तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः । आनंद आत्मा। ब्रह्मपुच्छं प्रतिष्ठा। ३ तेषु प्रियादिषु।
Page 27
आनंदं ब्रह्म विज्ञाय त्यजेदामरणं न चेत्। शरीरें पाप्मनो हिला सर्वान्कामानवापुयात्॥८३। आनंदमयकोशेऽस्मिन् पंचमावयवः श्रुतः॥ ब्रह्मशब्देन तद्रह्म स्वात्मानंद इतीक्ष्यताम्॥८४॥ उपासनाच्चित्तशुद्धौ ब्रह्मतत्वमवेक्षते ।। गहाहितब्रह्मबोधात्सर्वकामाप्तिरीरिता ॥८५॥ गुहाहितं ब्रह्म यत्तत्सत्यं ज्ञानमिति श्रुतम॥ तस्य ज्ञानस्य दश्यास्ते कोशाः सर्व जगत्तथा॥८६।। जगत्कोशाश्र् दृश्यलात्संति ब्रह्म न दृश्यते।अतो नास्तीत्याह मूढस्तत्सत्तां वक्ति बुद्धिमान्॥८७।। ब्रह्म नास्तीति चेद्वेद स्वयमेव भवेदसत्॥ कोशात्मता दूषिता चेन्नान्य आत्मास्ति तन्मते ॥८८॥ आनंदमयकोशेऽपि प्रियाद्या नश्वरास्त्रयः॥ अज्ञानं च ज्ञाननाश्यं न ब्रह्मांगीकरोत्यऽसौ।।८९॥ अस्ति ब्रह्मेति चेद्वेद स्वयमेवात्र संभवेत्॥ अदृश्यस्यापि सत्ता स्यात्स्वप्रकाशतसंभवात्॥९॥ गौणात्मा पुत्रभार्यादिर्मिथ्यात्मान्नमयादिकः।ब्रह्मानंदो मुख्य आत्मा क्रमेणैते विवेचिता:॥।९१।। उत्तंरात्मविवेकेऽस्य पूर्वात्मा देहतां व्रजेत् ॥ तेनोत्तरेण पूर्वस्य पूर्णलाद्देहिदेहता ॥ ९२॥ Digitized by Google सत्येवं निखिलं पूर्व शरीरं ह्यंतिमात्मनः ॥ ब्रह्मानंदस्तु शारीरः पूर्वस्यात्मेति निर्णयः॥९३॥ श्रवणं मननं चोभे तत्त्वज्ञानस्य साधने ॥ उक्तनिर्णयपर्यतं विज्ञानं श्रवणाङ्गवेत् ॥९४॥ १ अस्योत्तरात्मनः ।
Page 28
अ०प्र० अथ स्वबुद्धिदोषेण यतः संदेहसंभवः ॥ अतोऽसौ मननंकुर्यात्संदेहाः स्युस्तयोऽस्य हि॥ ९५॥ ब्रह्मास्ति नो वेत्येकः स्यादज्ञानी सुच्यते न बा। तत्वविन्मुच्यते नो वेत्यपरौ संशयावुभ॥९६॥ अ०
यदस्ति नामरूपाभ्यां व्याप्तं तद्वियदादिकम्॥ ब्रह्म निर्नामरूपत्वान्नास्तीत्याह विमूढधीः९७ ॥ २ ॥ विवेकी ब्रह्मणः सत्तां सृष्टिकामादिहेतुभिः ॥ साधयन् बहुधा मूढं बोधयेन्मोहतुत्तये॥ ९८॥ अकामयत सृष््यादौ परमात्मा स्वमायया॥ बहु स्यामहमेवातः प्रजायेयेति कामना ॥ ९९॥ स्वस्यैव बहुधा चोक्तेरुपादानं मृदादिवत् ॥ तथा कामयितृत्वे न निमित्तत्वं कुलालवतू॥१००॥ निर्धर्मकेऽप्यात्मतत्वे निमित्तत्वं स्वमायया । उपादानत्वसहितं माया दुर्घटकारिणी॥ ॥ असंभाव्यं न मायायामुपलंभं न सारडर्हति॥ ततो वेदो यथा ब्रूते सृष्टिरेषा तथेष्यताम् ॥२॥ सृज्यमालोचयन् सर्वमसृजत्परमेश्वरः ॥ सृष्ट्राऽथ जीवरूपेण प्रविवेश वपुष्यऽयं ॥। ३॥ यो विज्ञानमयस्तस्मिन् चैतन्यं प्रतिबिंबितम्॥।तच्च धारयति प्राणान् जीवाख्यां लभते ततः।।४। Digitized by Google भोक्ता भूत्वेश्वरस्तद्वद्गोग्यरूपोऽपि सोऽभवत्॥।भोग्यं च बहुधा सच्च त्यच्चेत्यादि विभेढतः॥५॥। सत्प्रत्यक्ष परोक्षं त्यत्तदभांवावुभौ तथा॥ वक्तुं शक्यमशक्यं चेत्यादि हंद्ेऽस्ति भोग्यता॥६॥ १ प्रत्यक्षस्य प्रत्यक्षाभावः परोक्षसव परोक्षाभावः यथा घटो नास्ति यथा वँध्यापुत्रो नास्तीति।
Page 29
कामित्वमालोचकत्वं स्रष्टृलवं च प्रवेषटृता ॥ भोग्याकारश्र पंचैते ब्रह्मसद्गावहेतवः ॥७॥ सद्रूप: परमात्मा स्यात्कामिलात्स्वर्गकामिवत्॥ आलोचनान्मंत्रिवत्सन् स्रषटत्वाच्च कुलालवत्८ प्रवेष्टृत्वात्सपंवत्सन् भोग्यत्वाच्चौदनादिवत्॥ नानुमानैरेव किंतु विद्दत्प्रत्यक्षतोऽपि सन्॥९॥ यत्सत्यं ब्रह्म पूर्वोक्तं तदेव जगदात्मना।। भाति भ्रांत्या ततः सर्वै ब्रह्मेत्याचक्षते बुधाः॥१०॥ सर्पधारादिका ्रांत्या कल्पिता तत्त्वदर्शने ॥ रज्ुरेव यथा तद्दद्रह्वैव सकलं जगत् ॥११॥ नामरूपयुतत्वेन जगत्सद्रह्म नेति यत् ॥। पूर्वपक्षिमतं तन्न ब्रह्मसत्त्वं तदीक्ष्यताम॥१२॥ रज्नुदैध्य यथा सर्पधारादिष्वतुगच्छति॥ ब्रह्मस्च्वं तथा व्योमवाय्वादिष्वनुगच्छति ॥१३॥ असदेवेदमग्रेऽभून्नामरूपात्मकं जगत् ॥ पश्रात्तु ब्रह्मणा सृषटं सदभूद्रह्मस्च्वतः ।१४॥ तद्रह्मात्मानमेवेमं सच्चिदानंदलक्षणम् ॥I अकार्षीज्जगदाकारं स्वयमेव स्वमायया ॥ १५॥ Digitized by Google अस्ति भाति प्रियं चेति प्रतिवस्तऽबभासते॥ त एते सच्चिदानंदा ब्रह्मगा भांति वस्तुषु ॥१६॥ नामरूपे घटादीनां प्रागऽभावयुते ततः॥ अभावत्वं च भावत्वं पर्यायेणेक्ष्यते तयोः ॥१७॥ आगमापायिधर्मौ यौ न तयोर्द्वर्मिरूपता। शयनोत्थानयोर्नास्ति देहवस्तुस्वरूपता ॥१८॥
Page 30
888888880 अ०प्र० सश्वासत्वे अन्यंदीये भासेते नामरूपयोः॥ मायारूपमसत्वं स्यात् सत्ताया ब्रह्मरूपता॥९॥ जाडयदुःखे मायिके स्तो भानानंदौ परात्मगै।।।लौकिकाः सञ्चिदानंदा ब्रह्मगाश्र्वेदसत्कथम्२० अ०
भवेत्तु ब्रह्मसत्ताऽस्मिन्नानंदोऽस्ति कथं शृणु॥आनंदोऽत्राभ्युपेतव्यो रसवान् मधुरादिवत्॥।२१। । २ ॥
मूढस्य मधुरादिः स्याद्रसो ब्रह्म विवेकिनः॥ मधुरादिभुगानंदी ब्रह्मविच्च तथा सुखी ॥ २२॥ ब्रह्मानंदो न चेढत्र देहं को नाम चेष्टयेत् ॥ प्राणाक्षाणां चेष्टकत्वं न तत्र करणलतः ।२३॥ न केवलं चेष्टकत्वं विषयानंदहेतुता॥ अप्यऽल्पविषयान् लब्ध्वा स्वानंदे मज्जति क्षणम् ॥२४॥ विषयानंदपर्यतैः कामसृष्यादिहेतुभिः॥ ब्रह्मस्त्वे स्थिते मुक्तिश्िंत्यते विद्वदज्ञयोः ॥२५॥ विद्वान्ब्रह्मति मुक्तश्रवेत् मुच्येताज्ञोऽप्यभिज्ञवत्।।ब्रह्मरूपोऽपि बद्धश्र्वेदऽज्ञोऽभिज्ञोऽपिबध्यते२६ मैवं ब्रह्मात्मैक्यबोध एवैको मोक्षकारणम्॥ ऐक्यदर्शी मुच्यतेऽतो भेददर्शी न मुच्यते ॥२७॥ ऊर्ध्वाकारे समेऽप्यSस्मिन् चोरदर्शी बिभेति हि।स्थाणुदर्शी निर्भयोऽतस्तत्त्वबोधःप्रयोजक:२८ Digitized by Google ज्ञातेऽपि कर्मकांडार्थे वेदांतार्थमजानतः । जन्मादिभीर्भवत्येव वाय्वादीनां यथा तथा ॥२९॥ वायुः सूर्यो वन्हिरिंद्रो मृत्युश्ष्ातीतजन्मनि॥ धर्मज्ञा अप्यऽतत्वज्ञा इदानीं बिभ्यतीश्वरात्३० १ ईश्वरमाययोरिमे। २ मोक्षमयोजकः ।
Page 31
ज्ञानी कामानेति सर्वान् रसो वै सइति श्रुतम्। ब्रह्मानंद स्फुटीकर्तु मीमांसाऽनंदगोच्यते॥३१॥ संपूर्णो मानुषानंदः सार्वभौमे गुणैर्युते॥ हिरण्यगर्भे संपूर्णो देवानंदोऽवधीहि तौ ॥३२ ॥ मध्यस्थे पूर्वपुण्यानामुत्कर्षाद्दर्द्वते सुखम॥ सर्वेषां यत्सुखं तत्तु निष्कामे ज्ञानिनीष्यते॥३३॥ सर्वकामाप्तिरेषाथ रसाख्यानंद उच्यते॥ अध्यात्ममधिभूतं चाधिदैवं चैक एव सः।।३४॥। सर्वे स्वस्वपदे तप्ताः कामयंते न तत्पदम्॥ ज्ञानी तु दोषदष्याऽत्र निष्कामस्तैःसमस्ततः॥३५॥ बुभुत्सौ पुरुषेऽन्येषु मनुष्येषु च योऽस्ति यः॥ आदित्ये चान्यदेवेषु स आनंदो न भिद्यते॥३६॥ परप्रेमास्पदलस्य लक्षणस्यैकरूपतः॥ लक्ष्यानंदो न भिन्नः स्यादखंडैकरसो ह्यतः ॥३७॥ एवं विद्वान्स्वपुत्रादेः कोशषट्रात्प्रकल्पितात्॥ व्युत्थायाखंडैकरसे स्वानंदे प्रतितिष्ठति॥३८॥ सार्वभौमादिकानंदा: पूर्वेभ्यः शतसंख्यया॥ परेऽधिकास्ते तु लेशा ब्रह्मानंदस्य बिंदुवत् ३९ तस्मादियत्ता नैवास्य वक्तुं ध्यातुं च शक्यते॥ न बिभेत्येव तं विद्वान् जन्महेतोः कुतश्र्वना।४०। Digitized by Google पुण्यं नाकरवं कस्मात् पापं तु कृतवान्कुतः॥ इति चिंता तपत्यऽज्ञं ज्ञानिनं न तपत्यऽसौ।४१। तापकत्वं तयोर्विद्वानुपेक्षानुष्ठितं तयोः॥ आत्मानं प्रीणयन् बोधात्सुदृढीकुरुते धियम्४२॥ १ तौ आनंदौ जानीहि। २ तमात्मानम्। ३ तयोः पुण्यपापयोः।
Page 32
अ अ०प्र० देहेंद्रियकृते पुण्ये पापे चात्मतया सदा॥पश्यन् सर्वात्मतां स्वस्य गायन् साम्नाऽवतिष्ठते॥४३॥ अ० अहमन्नं तथान्नाद: श्ोककृच्चेतरोऽप्यहम्॥ इति सर्वात्मतां गायन् जीवन्मुक्त इतीर्यते॥ ४४॥ ॥ २ ॥ जीवन्मुत्त्यऽवसानाया विद्याया मुख्यसाधनमू।।विचारो ब्रह्मणस्तेन भृगर्ब्रह्मावबुद्दवान्॥४५॥ सत्यं तपो दम: शांतिर्दानं धर्मः प्रजाग्नयः॥ अग्निहोत्रं यागयोगौ न्यासश्रवैतैर्वुभुत्सताम्॥४६॥ न्यासोऽधिकं तपो न्यासी युंजीतात्मानमोमिति।।योगिनस्तस्य देहांशा यागांगैरखिलैः समा:४७ अहोरात्रादिकालास्तु समा दर्शादियागकैः॥ जीवनं सत्रतुल्यं स्यान्मुच्यते योगिसेवक:।।४८। स चोत्तरायणे प्रेत आदित्यं प्राप्य सुच्यते॥। अयने दक्षिणे प्रेतश्र्वंद्रं प्राप्य न सुच्यते॥४९॥ तैत्तिरीयकविद्यायाः प्रकाशेनोपसेविनः ॥ बुभुत्सूननुग्ह्लातु विद्यातीर्थमहेश्वरः ॥५०॥ ।। इति श्रीविद्यारण्यमुनिकृते अनुभूतिप्रकाशे तैत्तिरीयकविद्याप्रकाशोनाम।। ॥ द्वितीयोऽध्यायः ॥२॥ Digitized by Google १ सदृशाः। २ यज्ञतुल्यं।
Page 33
छांदोग्ये श्र्वेतकेतुर्यामारुणेर्लब्धवानिमाम् ।I ब्रह्मविद्यां संग्रहेण वक्ष्येहं सुखबुद्दये।।१॥ वेदानधीत्य गर्वेण श्वेतुकेतु: पराङ्मुखः॥ आसीत्प्रत्यङ्मुखीकर्तु गुरुराहातिविस्मयंम् ॥२॥ एकतत्त्वे श्रुते सर्वमश्रुतं च श्रुंतं भवेत् ॥ अमतं च मतं तद्ददविज्ञातं च बुध्यते ॥। ३॥ नर्ग्वेदज्ञानमात्रेण यजुर्वेदादि बुध्यते। तस्मादेकधिया सर्वज्ञानं स्यादित्यलौकिकम् ॥ ४॥ मैवं मृद्देमलोहेषु लौकिकेष्वस्य दर्शनात्॥ मृदादिज्ञानतः सर्व मृन्मयं ज्ञायते स्फुटम् ॥ ५॥ मृदो घटशरावाद्या विकारास्तत्तदाकृतिः॥ मृद्दोधाहुध्यते नेति यदुच्येत न बुध्यताम्॥ ६ ॥ आकृत्याधारभागो यो घटस्यासौ तु बुध्यते॥ आधारो मृत्तिकाऽधेय आकारश्र्ोभयं घटः॥७ आधारभागमात्रेऽपि ज्ञाते ज्ञातो घटो भवेत्॥ गोपुच्छमात्रसंस्पर्शाद्गोस्पर्शव्रतपूर्तिवत्॥।८।। आकृतेर्यद्वदज्ञाने घटाज्ञानं तयोच्यते ॥ तद्रदाधारबोधेन घटो बुद्धः कुतो न हि॥ ९॥ आकृत्याधारयोस्तुल्यं भागत्वं न मृदं विना।।केवलाSकृतिमात्रः सन् घटः क्वाऽपि समीक्ष्यते१० Digitized by Google' मृद्रू पात्कारणद्रव्यात्कार्यद्रव्यं घटादिकम्॥ अन्यत्तत्समवेतं हि मृदीति प्राह तार्किकः ॥११॥ स्वयुत्तयाऽसौ तथा ब्रूते नत्वेतल्लोकसंमतम्॥ घटे मृदः एथग्भूते कीहक् तत्त्वमुदीर्यताम्॥१२॥ १ येनाश्ुतं धुतं भवति। २ येनाश्रुत श्रुत भवत्यमतं मतमविज्ञातं विज्ञातं। ३ एकस्य ज्ञानस्य सर्वज्ञानदर्शनाव्।
Page 34
अ०प्र० वाचैवारभ्यते किंवा पथगानीयते वद॥ वाचैवारभ्यते तत्वं किंचिन्न स्यात्खपुष्पवत् ॥१३॥ ।।१२॥ मृगतृष्णांभसि स्नातः खपुष्पकृतशेखरः॥ वंध्यापुत्र इति प्रोक्तो निस्तत्त्वमखिलं खलु ।।१४॥ अ०
एथगानयनं कर्तु धीमतापि न शक्यते॥। अतोऽन्ृतो घटो नैव सत्य इत्यऽयुपेयताम्॥१५॥ समवायस्त्वया प्रोक्त आरोपं ब्रूमहे वयम्॥ स्थाणावारोपितश्र्वौरो यथा मृदि घटस्तथा॥१६॥ आरोपात्पूर्वमूर्ध्व च तदऽभावादसत्यता ॥ आदावंते च यन्नास्ति वर्तमानेपि तत्तथा॥१७॥ कालत्रयानुग: स्थाणुः सत्यो मृच्च तथेक्ष्यताम्॥ सत्यान्टते च मिथु नीकृत्य कुंभ इतीर्यते॥१८॥ शब्दप्रत्ययकार्याणि संति मृद्धटयोः पृथक्।।स्थाणौ चौरे च दृष्टानि पथक् तानि तथात्र च।।१९।। द्विविधव्यवहारस्य सद्रावेऽपि विवेकिनः॥ सत्यायां मृदि तात्पर्य नानृतेऽस्ति घटादिके॥२०॥ इक्षौ रसोस्त्यृजीषं च रसं गृण्हाति बुद्धिमान्॥।नर्जीषमेवं कुंभेऽपि मद्भागे युक्त आदारः।।२१।। ये घटादिषु मद्धागा ज्ञातव्या आदरेण ते। सर्वेऽपि राशिविज्ञानादेव ज्ञाता भवंति हि ॥२२॥ Digitized by Google . मृद ऐक्येऽपि सर्वलमाकारैस्तदुपाधिभिः॥ निरुपाधिकविज्ञानात् सर्वोपहितधीर्भवेत् ॥२३॥ कटकादौ सत्यभागा बुद्धा हेमधिया तथा॥ कुठारादौ सत्यभागा बुध्यंते लोहबुद्दितः ॥ २४॥ ।।१२॥
१ रसरहितं।
Page 35
यद्यत्कार्य तस्य तस्य धीः स्वोपादानबुद्धितः।इति व्याप्तिं विवक्षिला दृष्टांता बहवः श्रुताः२५॥ सर्वे जगदुपादाने श्रुते सति भवेच्छृतम्॥ मते ज्ञाते मतं ज्ञातमित्यSलौकिकता कुतः ॥ २६॥ श्रवणं गुरुशास्त्राभ्यां मननं तु स्वयुक्तिभिः॥ विज्ञानं स्वानुभूत्येति श्रवणादेरसंकरः॥२७॥ श्वेतकेतुः सर्वबोधमेकबोधेन विश्वसन् ।I प्रत्यङ्मुखो भवत्तस्मै सर्वोपादानमीरितम् ॥२८॥ इद जगन्नामरूपयुक्तमद्य सदीक्ष्यते ॥ सृष्टेः पुरा सदेवासीन्नामरूपविवर्जितम् ॥२९॥ मृद्देमलोहबस्तूनि विकारोत्पतितः पुरा॥ निर्विकाराण्युपादानमात्राण्यासन् यथा तथा॥३०॥। स्वसजातिविजात्युत्थभेदत्रयविबर्जनात्॥ एकमेवाद्वितीयं तत् सद्वस्त्वत्यवगम्यताम् ॥३१॥ वृक्षस्य स्वगतो भेदः शाखाद्यवयवैस्तथा॥ वक्षांतरात्सजातीयो विजातीयः शिलादितः॥३२॥ न सत्यवयवाः संति तेनैकं स्यादखंडकम्॥ जात्यभावात्सजातीयं विजातीयं च दुर्भणम्॥३३॥ एकादिभिः पदैर्भेदत्रयमत्र निवार्यते ॥ सर्वभेदविहीनं यदखंडं तत्सदीक्ष्यताम् ॥३४॥ Digitized by Google अस्तीति शब्दबुद्दी द्े दशयेते नामरूपयोः ॥ तद्भावात्पुरा सृष्टेः शून्यमाहुरवैदिकाः॥३५॥ नामरूपात्मकं शून्यात्किलैतदुपपद्यते॥ तदयुक्तं न वंध्यायाः पुत्रात्पुन्नांतरोद्गवः ॥ ३६ ॥ १मृदादयः। २ सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं।
Page 36
अ०प्र० शून्यजत्वे नाम शून्यं रूपं शून्यमितोदशः॥ शून्यानुवेधो भासेत सद्वेधस्त्ववभासते ॥३७॥ अ० ।।१३॥ ततः सत्कारणं सत्तु सर्वसृष्यर्थमैक्षंत । बहु स्यामहमेवातः प्रजायेयेति मायया ॥३८॥ ॥ ३॥ वस्तुतो बहुभावश्र्वेदद्वैतं सद्विनश्यति॥ माभून्नाश इति श्रुत्या प्रकर्षेण जनिःश्रुता ॥३९॥ प्रकर्षो नाम पूर्वस्मादाधिक्यमधिका तु या।सा माया न सती नापि शून्या स्यादूषितत्वतः४० मायया बहुरूपत्वे सदद्वैतं न नश्यति ॥ मायिकानां हि रूपाणां द्वितीयलमसंभवि॥४१ ॥ अचिंत्यशक्तिर्मायातो दुर्घटं घटयत्यसौ॥ उपादाननिमित्तत्वे कल्पेते सति मायया ॥४२॥ बहु स्यामित्युपादानभावः प्रोक्तो मृदादिवत्॥ ऐक्षतेति निमित्तत्मिति प्रोक्तं कुलालवत्॥४३॥ मायावत्तिविशेषे या चिच्छायासौ सदीक्षणमू।।ईक्षिला ससृजे तेजस्तादक संकल्पलीलया ४४ आकाशवायू प्राक् सृष्ठाविति प्रोवाच तित्तिरिः।दिङमात्रमारुणिः सृष्टेर्वक्तुं तेज उदैरयत्।४५॥ Digitized by Google ब्रह्मोपलक्षणायैव सृष्टिः सर्वत्र कथ्यते॥ जगता कियताऽप्येतेच्छक्यं लक्षयितुं खलु ॥४६॥ तेजसोऽचेतनत्वेऽपि तेजः कंचुकसंयुतम्॥ सद्रह्म पूर्ववद्रीक्ष्य संकल्पात्ससृजे ह्यपः ॥।४७॥ अप्कंचुकं ब्रह्म एथ्वीमन्नहेतुमकल्पयत् ॥ तेजोऽबन्नेभ्य एतेभ्यो देहबीजानि जज्ञिरे ॥४८॥ ।१३॥
१ वदैक्षत बहुखां पजायेवेति। तत्तेजोमृजत वचेज ऐक्षत इत्यादि। २ सभाशः। ३ अल्पेन। ४ एतद् ब्रह्म।
Page 37
जरायुजांडजोद्िज्ानीति बीजत्रयं खलु ॥ जीवरूपप्रवेशार्थमीक्षत ब्रह्म देवताः ॥४९॥ दृष्ट्ा भूय इहोत्पन्नास्तेजोऽबन्नाख्यदेवताः॥ एकैकां त्रिटतं तासु कुर्वे देहादिसृष्टये ॥५०॥ ते जस्यबन्नयोरंशावल्पौ प्रक्षिप्य मिश्रणात्॥ तेजस्त्रिवत्कृतं तद्ददन्ययोरपि योज्यताम्॥५१॥ तेजोऽबन्नैस्त्रिवृद्धूतैरंडजादिवपुष्ययम् ॥ निर्माय जीवरूपेण प्राविशत्तेषु सर्वतः ॥५२॥ अहंकारस्तु चैतन्यसंयुक्त: प्राणधारणात्॥ जीवः स्यात्सर्वदेहेषु व्याप्नोत्यापादमस्तकम्॥।५३॥ सद्दस्तुन्येवमारोप्य संसारो मायया कृतः ॥ अविचारकृतारोपनिठत्त्यर्थ विचार्यताम्॥५४॥ त्रिटृत्करणमशन्यादौ स्पषट तावद्विचारिणः॥ प्रसिद्धे तैजसेऽप्यन्नावबन्नांशाववस्थितौ ॥५५॥ ज्वालायां रोहितं रूपं बहुलं तत्तु तेजसः॥ किंचिच्छुळ्ठमपामेतत्किंचित्कृष्णं तु भूमिगम्॥५६॥ रूपत्रये भूतगते विविक्ते भौतिकोऽनलः ॥ कारणव्यतिरेकेण वाचैवारभ्यते टृथा ॥५७॥ जगतश्रवाक्षुषस्येत्थं मिथ्यात्वं वक्तुमादितः ॥ तेजोऽबन्नन्रयस्यात्र चाक्षुषस्योदिता जनिः॥५८॥ Digitized by Google आदित्यचंद्रविद्युत्सु मिथ्यात्वं वन्हिवन्नयेत्।।गहीत्वैतावता व्यापिं कार्यमिथ्यालमूह्यताम् ५९ तेजोऽबन्नाख्यकार्याणां मिथ्यात्वे स्यात्सदद्दयम्।कारणं सत्यमेषां तु पूर्वेषां ज्ञानिनां मति:॥६० दृश्ये बाह्ये भौतिकलमस्तु देहे तुनो तथा॥ इति मूढमतेर्नुत्यै देहे भौतिकतोच्यते ॥६१॥
Page 38
अ०प्र० यदन्नं पार्थिवं भुक्तं तद्वीमांसपुरीषकैः ॥ सूक्ष्ममध्यस्थूलभागैर्देहेऽस्मिन्परिणम्यते ॥६२॥ अ० प्राणलोहितमूत्रांशैरपां परिणतिस्त्रिधा॥ वाङ्मज्जास्थिविभेद: स्यादृततैलादि तेजसः ६३॥ स्थूले च मध्यमे भागे कारणातुगतिः स्फुटा॥ धीप्राणवाक्षु संदेहं दधिद्ृष्टांततो नुदत् ॥६४।। घृते विलीनो दध्यंशोऽनुगतो भाति न स्फुटः तथापि दधिकार्यत्वं विद्यते सर्वसम्मतमू॥६५॥ तथा मनःप्राणवाचां भवतन्नादिकार्यता॥ अतींद्रियलात् प्रत्यक्षा कारणानुगतिर्न हि ॥६६॥ नित्यद्रव्यं मनो नान्नकार्यमित्याह तार्किकः॥ सएषोंगारदष्टांतद्वारेण प्रतिबोध्यते ॥६७॥ यथा खद्योतमात्रः स्यादंगारः काष्ठसंक्षये॥ काष्ठद्दौ ज्वलत्यग्निस्तथा विद्यान्मनोन्नयोः६८।। त्यक्तेSन्ने पंचदशसु दिनेषु क्षीयते मनः ॥ तेन स्मर्तु न शक्तोभूच्छ्ेतकेतुर्न किंचन ॥६९॥ अन्नेन पुष्टे मनसि वेदान् सस्मार तव्क्षणात्॥ अन्वयव्यतिरेकाभ्यां मनोऽन्नमयमिष्यताम्७० भौतिकत्वेऽखिलस्यैवं स्थिते भूतातिरेकतः ॥ तन्नास्ति तद्वद्ूतानि नैव सद्यतिरेकतः॥७१॥ Digitized by Google जगतः कारणं यत्सदद्वैतं तद्विजज्ञिवान् ॥ श्वेतकेतुस्तावतास्य जीवत्वं न निवर्तते ॥७२॥ स्वस्य ब्रह्मत्वबोधेन जीवलमपगच्छति ॥ इत्यभिप्रेत्य तं शिष्यं पुनः प्रोत्साहयत्यसौ॥७३॥ १ तार्किक: ।
Page 39
स्वप्नावसानं जानीहि मम व्याकुर्वतो मुंखात्॥ स्वस्य स्वरूपं सत्त्वमिति सुप्तौ स्फुटं खलु ७४ यदा सुषुप्तिमाप्नोति पुमानेतं तदा जनाः॥ स्वपितीत्याहुरेतस्य तात्पर्य प्रविचिंत्यताम् ॥७५॥ तिडंतं पदमज्ञानां सुबंतं तु विवेकिनाम्॥ स्यान्निद्राणस्य नामैतंद्वस्तुतत्त्वावभासकम्॥७६॥ स्वप्नजागरयोर्जीवः सत्तत्वाद्गिन्नवद्गवेत् ॥ सुषुप्तौ सम्यगेकत्वं याति सद्दस्तुना सह।।७७॥ जीवलवमात्मनः प्राणधारणान्न स्वभावतः॥ सद्रूपत्वं स्वतस्तत्तु स्फुटं स्वपितिनामतः ।॥७८।। स्वमपीतीति नाम्नोऽस्य निरुक्तिरवगम्यताम्॥ स्वरूपं बास्तवं सुप्तौ प्राप्यमित्युदितं भवेत् ७९ उपाधेर्मनसो जाग्रत्सुत्यवस्थे हि नात्मनः॥ इत्यभिप्रेत्य शकुनिदृष्टांतः प्रोच्यते घियः॥८०॥ शकुनिः सूत्रबद्दो यः स गच्छन्विविधा दिशः।अलब्ध्वाधारमाकाशे बंधनस्थानमाव्रजेत्॥८१॥ सत्तत्वे मायया बद्ं मनो जागरणं व्रजेत्॥ अलब्ध्वा तत्र विश्रांति सत्तत्वे लीयते पुनः॥८२॥ आत्मच्छायापि मनसा सदाऽगच्छति गच्छति॥गत्यागती तु संसारः स च स्वात्मनि कल्पितः ८३ Digitized by Google मनोलयेऽनुपाधिःसन्नात्मा संसारवर्जितः ॥ स्वेन बास्तवरूपेण सुषुप्ताववतिष्ठते ॥८४॥ चिच्छाया च वपुः स्थूलमिंद्रियाण्यात्मबोधने।द्वाराणीत्याह मंत्रोऽयं रूपंरूपमिति स्फुटम् ८५ कथयतः। २ एतत्स्वपितिनाम।
Page 40
अ०प्र० देहे देहे प्रतिच्छायारूपोऽभूत स्वात्मबुद्दये।।मायाभिरिंद्रो बहुधा देहोऽभूत् स्वात्मबुद्दये।८६॥ अ० इंद्रियाश्वास्तेन युक्तास्तच्च स्वात्मावबुद्दये।।छायामाश्रित्य तत्रात्मा बोधितः सुप्तिवर्णनात्।।८७।। अशनायापिपासोत्त्या देहमाश्रित्य बोध्यते॥ अशनाया पिपासाख्या द्वयं स्वपितिनामवत्८८ ।३॥
अशनाया जनैः प्रोक्ता क्षुधा वस्तु विवेकिभिः॥नयत्यशितमित्येवमप्सु निर्वचनं भवेत्॥८९॥ पीता आपोऽशनं भुक्तं द्रवीकृत्य नयंत्यतः ॥ अशनायेति शब्दोक्ता विण्मांसोत्पत्तिरन्नतः॥९॥ विण्मांसहेतुरन्नंय देतस्योत्पादकं जलम्। जलस्योत्पादकं तेजस्तस्यचोत्पादकं च सत् ॥९१।। अनुमायात्र कार्येण ज्ञेयं तत्कारणं परम्॥ सन्मूलकारणं ज्ञेयं स्याददिश्वासोऽनुमानतः ॥९२॥ पुरीषाद्यन्नकार्य स्यात् सत्येवान्नस्य सत्त्वतः॥सत्यामेव यथा कुंभो मृदि दृष्टो न चान्यथा।।९३॥ व्रीह्यादन्नं सतीष्वेव दृष्टमप्सु न चान्यथा।आपश्र स्वेदरूपाः स्युः सत्येवोष्णे हि तेजसि ९४ तेजश्र भावरूपलात्संभवेन्न सता विना॥ सतस्तूत्पत्तिराहित्यान्नान्वेष्यं कारणांतरम्॥९५॥ Digitized by Google सन्मूला: सकला देहा इदानीं च सति स्थिताः।अंते सत्येव लीयंते विद्यात्सत्तत्वमद्यम्॥९६॥ यथा भूतातिरेकेण भौतिकं नैव विद्यते॥ भूतानि च सतोऽन्यानि तथा नेत्युपपादितम् ॥९७॥ अशनायामुखेनेत्थं सत्तत्वे धी: प्रवेशिता॥ पिपासामुखतोऽप्यस्मिन सति धीरवतार्यते॥९८॥
Page 41
उदन्येति पिपासायाः पर्यायस्तं विवेकिनः॥ उदकं' नयतीत्येवं तेजस्येवं प्रयुंजते ॥९९॥ पीतं जलं शरीरस्थं तेजसा जीर्यते ततः ॥ मूत्रं रक्तं च निष्पन्नं द्रवलाज्जलजे उभे॥१००॥ ताभ्यामापोऽनुमीयंते ताभिस्तेजस्ततस्तु सत्॥ व्याप्तिं गहीला सर्वत्र योजनायोदितंपुनः॥१॥ देहे येऽवयवाः संति पदार्थाः संति ते बहिः ॥ तेषु सर्वेषु सन्मात्ररूपलमवधार्यताम् ॥२॥ भौतिकत्वं पुरा प्रोक्तं तदुक्तं देहबाह्ययोः ॥ इंद्रियद्दारतो बोद्धुं प्रोच्यते मरणक्रमः ॥३॥ ्रियर्माणस्य वागादिवत्तिर्मनसि लीयते ॥ मनोटत्तेर्लयः प्राणे प्राणटत्तेस्तु तेजसि॥ ४॥ श्वासस्योपरतावुष्णं स्पष्ट्रा जीवननिश्र्वयम्॥ कुर्वत्यु्णं तु तत्तेजःसद्दस्तुनि विलीयते॥५॥ छायादेहेंद्रियद्वारैः पदार्थो योऽत्र बोधितः ॥ स एष सर्वजगतोऽणिमा बस्तंतरं न तु॥ ६॥ स्थूलताणुत्वरूपाभ्यां वस्त्वेकं भासते द्विधा॥ स्थूलमिंद्रियगम्यलान्नामरूपात्मकं जगत् ॥७॥ सदद्वैतं भवेत्सूक्ष्ममिंद्रियाविषयत्वतः ॥ एतदात्मकतैवास्य स्थूलस्येतीह युज्यते ॥ ८॥ Digitized by Google * अणुत्वं वस्तुनः प्रोक्तं यत्तत्सत्यमबाधनात्॥ स्थूलत्वं मायया कृप्तं ज्ञानेनैतस्य बाधनात् ॥९॥ अबाध्यो यः स एवात्मा सर्वस्य न तु कल्पितः॥ श्वेतकेतो यदद्वैतं तदसि व्वं न मानवः॥ १०॥ १ पिपासा उदकं तेजसि नयति। २ मरणोन्मुखस्य सर्वस्यापि जंतोः।
Page 42
अ०प्र० चिच्छायावानहंकारोऽधीते वेदचतुष्टयम् ॥ त्वं तु साक्ष्येव तस्यातः सदसि त्वंन चेतरः ॥११॥ अ० ।१६ ॥ भिन्नोऽभूडदयग्रंथि: श्र्वेतकेतोर्विवेकतः ॥ धीदोषं संशयं मार्षु भूयो ब्रूहीत्यवोचत ॥ १२॥ ॥३॥ सता संपद्यते जीव: सुषुप्तावित्युदरीतम्॥ तथा चेत्सति संपन्नोऽहमित्यस्य कुतो न धीः ॥१३॥ नानावृक्षरसैक्येन संपन्ने मधुनि स्थितः ॥ न बुध्यते रसोऽस्येति तथा सर्वलयान्न धीः ॥१४॥ जीवोपाधिलयेऽप्यत्र तह्ीजस्यावशेषतः ॥ तदुपाधिक एवास्मिन् देहेऽन्येद्युः प्रबुध्यते ॥१५॥ चित्तैकाग्र्याय तच्छंका परिहार्या तु वस्तुषु ॥ पूर्वोक्तमेव तंदोहुं तदेवाह पुनर्गुरुः ॥१६॥ प्राज्ञंमन्यतया तत्त्वमविश्वस्य स्वशंकया॥ पुनः पुनरष्टच्छत्तं प्रत्याहासौ पुनःपुनः॥१७। सुषुप्तौ बुध्यभावेऽपि पुनर्जागरणेऽस्ति धीः॥ आगच्छं सत इत्येवं तदा कस्मान्न वेत्यसौ॥१८॥ सुप्तो सद्रूपमज्ञाला सदैक्यं प्राप्तवांस्ततः॥ सतो नागमनं स्मार्यमपामस्मरणं यथा ॥१९॥ गंगाजलं प्रविश्याब्धौ मेघेनाकृष्य सिच्यते॥ नाज्ञातलात्स्मतिस्तत्र तद्ददत्र स्मतिर्न हि॥२०॥ Digitized by Google व्याघ्रादि: सुप्त एवात्र बुध्यते वासनावशात्॥ न नष्टा वासनेत्येवं विवक्षिलोच्यते पुनः ॥२१॥ । १६॥ जीवस्य नश्वरस्यैक्यं न नित्येन सतेति चेत्॥ जीवो न नश्यति क्वापीत्येवं वक्षवदीक्ष्यताम्॥२२। १ तत्वमसि। २ तत्त्त्वमसि।
Page 43
शाखां उक्षे जीवपूर्णे जीवस्त्यजति यामसौ। शुष्येन्नान्या तथा जीवेऽपगते म्ियते वपुः॥।२३॥ नामरूपयुतं स्थूलं तद्ीनात्सदणोः कथम्॥ उत्पन्नमिति चेदीजाद्वटवक्षवदीक्ष्यताम्॥२४॥ न्यायागमाभ्यां सिद्धं च श्रद्धाहीनः पराङ्मुखः॥न बुध्यते श्वेतकेतो श्रद्धस्वांतर्मुखो भव ॥२५॥ तत्सर्वत्र स्थितं कस्मान्न सर्वे विदुरीदृशम्॥ सुमुक्षुस्तु कथं वेत्तीत्यत्र दृष्टांत उच्यते ॥ २६॥ लवणस्य घनं नीरे विलीनं वेत्ति न लचा। जिव्हया वेत्ति तद्त्सदुपायेनैव बुध्यते॥ २७॥ सति स्वेद्रियागम्ये क उपायः स उच्यते॥ उपाय उपदेशोऽत्र भवेद्रंधारमार्गवत् ॥२८॥ गंधारादो वने नीतस्तस्करैर्बद्धनेत्रकः ॥ तस्य बंधं विसुच्यात्र कृपालुर्मार्गमादिशत्॥२९॥ तेनादिष्ठमविस्मृत्य धीमान् गंधारमापतवान्॥ अविद्ययाळतं तत्त्वं वेत्येवमुपदेशतः ॥ ३० ॥ अश्वेषनाशौ विदुषः संचितागामिकर्मणोः॥ प्रारब्धे भोगसंक्षीणे सुच्यते न तु जायते॥ ३१॥ कीदृशी मतिरस्येति चेद्ागादिलयादथा ॥ मूढस्य तद्देवास्य वैलक्षण्यं न किंचन ॥ ३२ ॥ Digitized by Google समानायां मृतावेको मुक्तो नान्यः कुतो वद॥ सत्यान्टताभिसंधत्वं वैषम्यं ज्ञानिमूढयोः।। ३३॥ तस्करातस्करौ चौर्यशंकया तलरक्षकैः ॥ गरहीतौ न कृतं चौर्यमित्याहतुरुभावपि॥ ३४॥ गृह्लीत: परशुं तप्तं तौ तयोस्तस्करोऽनृतम्॥ अभिसंधाय दग्धः सन् हन्यते तलरक्षकैः॥३५॥
Page 44
अ०प्र० अतस्करः सत्यसंधो न दग्धो मुच्यते च तैः॥ अज्ञान्यनृतसंधोऽत्र सत्यसंधस्तु तत्त्ववित्॥३६।। अ० ।१७॥ मर्त्योऽहमिति संधाय स्रिियते जायते च सः॥ ब्रह्माहमिति संधाय सुच्यते न च जायते॥३७॥ बुद्धिदोषं समाधातुं दृष्टांतास्तैस्तवात्र किम्॥ त्वं सदेवेत्यभिप्रेत्य नवकृत्व उपादिशत् ॥३८। भिन्नग्रंथि: श्वेतकेतुर्मननाच्छिन्नसंशयः ॥ सद्द्वैतं स्वमात्मानं विशेषेणावबुद्दवान्॥३९॥ श्वेतकेतोर्ब्रह्मविद्या व्याख्याता स्फुटमेतया॥ तुष्टोऽस्माननुगह्लातु विद्यातीर्थमहेश्वरः॥४०॥ इति श्रीविद्यारण्यमुनिकृते अनुभूतिप्रकाशे छांदोग्योपनिषदि श्वेतकेतुविद्याप्रकाशोनाम तृतीयोऽध्यायः॥ ३॥ = = = सनत्कुमारशछांदोग्ये नारदायोपदिष्ठवान्॥ विद्यामेतां प्रवक्ष्येऽत्र सर्वशोकनिठृत्तये॥१॥ पुराणपंचमान् वेदान् शास्त्राणि विविधानि च॥ ज्ञालाप्यनात्मवित्वेन नारदःशोकमाप्तवान्॥२॥ वेदाभ्यासात्पुरा तापत्रयमात्रेण शोकिता॥ पश्र्ा्त्वभ्यासविस्मारभंगगर्वैश्र्व शोकिता ॥३॥ Digitized by Google शोकं तरत्यात्मवेदीत्यभिज्ञेक्ष्यः श्रुतं वचः ॥ शोकपारं नयेत्युक्ता नारदो गुरुमाप्तवान्॥४॥ बहुग्रंथाभ्यासतस्ते महती शब्दवासना ॥ नामब्रह्मेत्युपास्वात इति प्रोवाच तं गुरुः ॥५॥ स्वशब्दवासनां त्यत्का प्राप्स्यसि ब्रह्मवासनाम्॥ पश्र्ाद्रह्मण आत्मत्वं वक्ष्यामीति गुरोर्मतिः६
Page 45
ब्रह्म दृष्ट्ा नाममात्रध्यानान्नाऽपैति शोकिता। इत्यभिप्रेत्य नाम्नोऽस्मादधिकं एष्टवानसौ।। वाङनाम्नः कारणत्वेनाधिकेति ब्रह्मदर्शनम्॥ वाचि प्राह गुरुः शिष्य: पूर्ववत् एष्ठवान्पुनः।।८।। आप्राणमित आरभ्य पूर्वस्मादुत्तराधिके ॥ प्रवर्तते शिष्यगुर्वोः प्रश्नोत्तरपरंपरा ॥९॥ इच्छात्मकं मनो वाचोऽधिकं तत्कारणलतः॥ सत्यामेव विवक्षायां वक्तुमारभते पुमान्॥१०॥ संकल्प्येदं सम्यगिति तदिच्छति पुमांस्ततः॥संकल्पो हेतुरिच्छायाश्र्ितं संकल्पकारणम्॥।११॥ विक्षिप्तचित्तादैकाग्यं ध्यानमभ्यधिकं ततः॥ ध्येयविज्ञानमधिकं ज्ञानादभ्यधिकं बलम् ॥१२॥ ज्ञानहेतुर्देहबलं बलं स्यादन्नकारणम् ॥ आपोऽन्नहेतवोऽपांतु तेजः कारणमीरितम्॥१३॥ हेतुः सवायुराकाशस्तेजसो वियतः पुनः॥ स्त्रष्टव्यस्मतिरीशस्य सृष्याशा स्मृतिकारणम्॥१४ नामाद्याशांततत्वेषु ब्रह्मदृष्टिं करोति यः ॥ स पुमान् लक्षते सर्व तत्रतत्रोचितं फलम्॥१५॥ प्रतीकोपासनैरेतैर्बव्हायासैः प्रशोचति ॥ न शोकं तरतीत्युक्का ह्यष्टच्छत्सोऽधिकं पुनः॥१६॥ Digitized by Google. पराक पदार्थध्यानेषु फलेषु च विरक्तितः॥ दढां प्रत्यग्विविदिषां हष्ट्रा प्राणमुपादिशत्॥१७॥ न मुख्यं प्रत्यगात्मत्वं यद्यपि प्राणवस्तुनः॥ तथाऽप्यात्मप्रतिनिधिः संभवेदात्मलक्षकः ॥ १८॥ कस्मिन्नुत्कांत उत्क्रांतो भविष्यामि स्थिते स्थितः॥इति वीक्ष्यासृजत्प्राणं परमात्मेति हि श्रुतिः।।
Page 46
अ०्प्र० चक्रस्यारा यथा ना भावाश्रिताश्र्वक्षुरादिकम्॥आश्रितं निखिलं प्राणे ततस्तस्यात्मताभवेतू॥२। अश्वेन याति पुरुषो दत्ते विप्राय गपुमान्॥ प्राण एवाश्वादिशब्दैरुक्तो नतु शवः क्वचित्॥२१। अ० = पितृमात्रादिशब्दैश् प्राणः प्रोक्तः शवो न तु॥तस्मात्सर्वात्मक: प्राणःपरमात्मेति निश्र्यः॥।२२॥ यो बुभुत्सुरसौ प्राणमेवं पशयन् गुरूक्तितः॥युक्त्या धिया च वैचिन्वन्नतिवादीति कथ्यते।२३॥ नामाद्याशांततत्वानि यः प्राणोऽतीत्य वर्त्तते॥ तमात्मानं वक्ति यस्मादतिवादी भवेत्ततः ॥।२४।। तर्काद्विक्ावकेभ्योऽयं निर्भीःसन् स्वातिवादिताम्॥अंगीकुर्यादेव यस्मात्संदेहोनात्र विद्यते॥२५ नामादीनामनात्मत्वं स्पष्टमित्यत्र नारदः ॥ असंतुष्टोऽधिकं तत्त्वं पप्रच्छैव पुनःपुनः ॥ २६ ॥ प्राणात्मत्वं तु संभाव्यं सम्यक् तस्योपपादनात्।।शोकश्र सुन्तौ प्राणस्य न दृष्टोऽतस्तुतोष स: २७ श्रद्धालुं योग्यशिष्यं तमुद्दरामीत्यसौ गुरुः॥ अष्टष्टोऽप्यधिकं तत्त्वं स्वयमेवोपदिष्ठवान्॥।२८।। Digitized by Google आत्मोपलक्षकः प्राणो न त्वात्मैषोऽन्ृतत्वतः॥ नामरूपात्मकः प्राणो माययोत्पादितो ह्यसौ२९ अनृतोऽप्येष सत्यस्य लक्षकः प्रतिबिंबवत्॥ सुख्यस्य प्रतिबिंबेन सुखं स्वस्योपलक्ष्यते॥३०॥ ।।१८॥l आत्मेदं बुद्दिगम्यैस्तैराशांतैर्नोपलक्ष्यते॥ प्राणोऽहंबुद्विगम्येषु स्थितलादात्मलक्षकः॥ ३१ ॥ १ विचारयन्।
Page 47
अतएवातिवादिलमस्ति प्राणात्मवेदनात्॥ अमुखयं तञ्च सुख्यं तु भवेत्सत्यात्मवेदनात्।३२॥। कारुण्यातिशयं दृष्ट्रा संतुष्टो नारदोऽब्रवीत्॥सत्येनैवात्मवादी स्यामनृतस्यात्मतां त्यजन्॥३३॥ विचारणीयं तत्सत्यं विज्ञानमननादिभिः ॥ ध्यानवान्नोक्तिमात्रेण बुध्येतेत्यब्रवीद्गुरुः॥३४॥ संशयं च विपर्यासं निराकृत्य विशेषतः ॥ यदा जानाति विज्ञानात्सत्यवादी भवेत्तदा ॥३५॥ विज्ञानहेतुर्मननमन्वयव्यतिरेकभाक् ॥ श्रद्धा मननहेतुः स्यादागमाचार्यवाक्ययोः ॥३६॥ श्रद्धायाः कारणं निष्ठा सदा सुश्रूषणं हि सा। चित्तैकाय्यगतिर्यासौ निष्ठायाः कारणं भवेत्३७ सुखमस्तीति धीर्मुक्तौ कृतिस्तस्याः प्रयोजिका॥ तद्विहीनोऽयमादैनों चित्तैकाय्यं करोति हि ३८ सुखं किमिति चेडूमा सुखमल्पे तु तन्न हि॥ क्विश्यत्यल्पधनोऽन्यस्मिन्धनबाहुल्यदर्शनात्॥३९॥ भूम्नः सुखत्वे भूमा कः किमल्पमिति चेच्छणु॥ ज्ञातज्ञेयज्ञानहीनो भूमाऽविच्छेददर्शनात् ४० ज्ञातृज्ञानज्ञेयरूपं मायाकार्यमिदं जगत् । बहुविच्छेदयुक्तलवादल्पमित्यभिधीयते ॥४१॥ Digitized by Google संसारकाल एवास्ति न सुक्तावल्पता ततः॥ सुक्तौ ज्ञाननिवर्त्यलान्मर्त्य जगदितीर्यते॥४३॥ १ सत्यस्य हेतुविज्ञानं विज्ञानस्य हेतुर्मननं मननस्य हेतुः श्रद्धा श्रद्धाया हेतुर्निष्ठा निष्ठाया हेतु: कृति: (इंद्रियसंयमः) कृतेहेंतुः सुखं।
Page 48
अ०प्र० संसारमोक्षयोर्भूमा विद्यते सोऽमृतत्त्वतः॥ अखंडैकरसानंदः सोयमात्मा स्वयंप्रभः ॥४४॥ अ० ।१९॥ मूर्च्छासुप्योस्ताद्ृशोयमज्ञानेन तिरोहितः॥समाधिसुप्तिमूर्च्छासु भासते साधनं विना।४५। C मेघेनाच्छादितः सूर्यो यथा तद्दत्स्वयंप्रभः ॥ अज्ञानेनातो भूमा प्राणिभिर्न विभाव्यते॥४६॥ स्वप्रकाशात्मचैतन्यमज्ञानस्य न बाधकम्॥ आसकं प्रत्युतैतस्य स्वानंदस्य यथा तथा॥४७॥ आनंदाज्ञानयोःसुपौ चैतन्येनावभासनात्। उत्थितःसुखमस्वाप्सं न जानेऽन्यदिति स्मरेत्४८ अरणिस्थो यथावन्हिर्न दहेदरणिं तथा॥ पश्रान्मथनजातोऽसौ साकल्पेनारणं दहेत् ॥४९॥ तथा वेदांतवाक्योत्थधीटत्तौ प्रतिरबिबितम्॥ स्वप्रकाशात्मचैतन्यं कृत्स्नाज्ञानस्य बाधकम्॥५०॥ तस्माद्विज्ञानसहितः समाधावनुभूय हि॥ भूमानंदं यथाशास्त्रं स्मृता व्युत्थाय वक्ति च ॥५१॥ ज्ञातज्ञानज्ञेयरूपा त्रिपुटी स्वप्नजाग्रतोः ॥ भूमानंदं तिरोधत्ते विद्वांस्वभिभवत्यमुम् ॥५२॥ चिच्छायावानहंकारो ज्ञाता स्याच्चक्षुरादिजा॥ बुद्धिळृत्तिर्भवेज्ज्ञानं ज्ञेया रुपरसादयः॥ ५३॥ Digitized by Google त्रिपुटी मायिकी मिथ्येत्येवं विज्ञाय तत्त्ववित् ॥ तामुपेक्ष्य करोत्येव भूमानंदे भरं सदा ॥५४॥ अखंडैकरसं भूमानंदं श्रुला स नारदः॥ भूम्न्यसंभावनां मला पप्रच्छाधारमस्य हि ॥५५॥ सत्याधारे परिच्छेदो निराधारे न बुध्यते॥ यद्यद्वटादिकं लोके तत्सर्व क्वचिदाश्रितम्॥ ५६॥ ॥१९॥
Page 49
व्यवहारदशायां किमाधारः पच्छ्यतेऽथवा॥ वस्तुतो व्यवहारे तु महिम्न्येवायमाश्रितः॥।५७॥ परास्य शक्तिर्विविधेत्येवं श्रुत्यंतरेरिता। भूम्नः शक्तिर्भवेन्माया तदर्थो महिमाऽखिलः॥५८॥ महिमाख्ये जगत्यस्मिन्य आनंदोऽवभासते॥स भूमास्य परिच्छेदो व्यवहारे न दुष्यति ५९ वस्तुतत्त्वविचारे तुन महिम्नि प्रतिष्ठितः॥महिमा स्याद्रवाश्वादिर्भूम्रो नाधार एव हि ॥६०॥ अन्यस्मिन्हिमहिम्न्यन्यो राजादिः प्रतितिष्ठति॥ भूम्नोनान्यद्वस्तु तस्मात्कुत्रासौ प्रतितिष्ठति॥। यथा लोके निराधार आकाशोस्ति तथा कुतः॥भूमा न स्यादतो युक्त्या निराधारोऽपि बुध्यताम्। व्यावहारिक आनंदे व्युत्पत्ते: शून्यता न हि। व्युत्पन्नो यौक्तिकश्रैष ऐकाय्ये भासते स्वयम् ६३ बोधक्रमो बुभुत्सूनां विस्पष्टमभिधीयते।। चतुर्दिक्ष्वध ऊर्ध्व च भूमा बोद्दव्य आदितः ॥६४॥ सत्ताभानप्रीतयोऽत्र वीक्ष्यंते सर्ववस्तुषु ॥ सच्चिदानंदरूपोऽतो भूमा सर्वत्र तिष्ठति ॥६५॥ भूम्रो वियोगे वस्तूनि नैव संति न भांति च॥ प्रियत्वं दूरतस्तेषां भूमा सर्वात्मकस्ततः॥६६॥ Digitized by Google जगद्धांति निवार्यास्य ताटस्थ्यविनिटत्तये।। अहंकारेण भूमानुसंधेयः सर्वदिक्ष्वसौ ॥६७॥ संत्येव सच्चिदानंदा देहादिष्वपि बाह्यवत्॥ भूमाहंकारयोग्योऽतोऽहं सर्वमिति वा श्रयेत्॥६८। गृहैकदेशेऽवस्थाय सार्वभौमोऽहमित्यसौ॥ राजाभिमन्यते तद्दद्रूमाहमिति नो कुतः ॥६९॥
Page 50
अ०प्र० आभिमानिकमेवेदं भूमात्मत्वमिति भ्रमम्॥ निराकर्तु सर्वदिक्षु भून्नो ज्ञेया चिदात्मता ॥७०॥ अ० ।२0 अहं शब्दश्विदात्मानं साहंकारं ब्रवीति हि। अहंकारे बोधलीने चिदात्मैवावशिष्यते॥७॥ क्रमेणानेन यस्तत्वं पश्यन् शास्त्रविचारतः।।युत्त्या मत्वा घिया वेत्ति जीवन्मुक्तो भवेदसौ॥७२॥ जीवन्मुक्तो रतिक्रीडामिथुनानंदलक्षणान्॥ व्यवहारान् क्रमेणैति प्रारब्धस्यानुसारतः ॥७३॥ सुखदुःखप्रदारब्धकर्मवेगश्र्तुर्विधः ॥ तीव्रो मध्यो मंदसुप्तौ चेति तस्य विधा मताः ॥७४॥ तीव्रवेगे स पश्वादितुल्यो नात्मानमीक्षते॥ आत्मनि प्रीतिमस्तीति भवेदात्मरतिस्तदा॥७५॥ मध्यवेगेतु भोगानां प्राधान्यं स यदा तदा।। कृत्वावकाशमात्मानं वदन् क्ीडति बालवत्॥७६॥ मंदवेगे तिरस्कृत्य भोगान् प्रायेण चिंतयन्॥ धियात्मानं द्ंद्वसुखं प्राप्नोति मिथुने यथा॥७७॥ सुप्तवेगेतिनिर्विघ्नो निर्विकल्पसमाधिभाक्॥ आत्मानंदावशेषः सन्नास्ते मुक्तवद्द्दयः॥७८।। स्वराट् स्यात् पतिते देहे नान्याधीनो विमूढवत्॥ तस्य सर्वेषु लोकेषु कामचारो भवेत्खल।७९॥ . Digitized by Google मायया कल्पिता लोकास्ते सर्वे भूमरूपताम्॥ मुक्तस्य प्राप्ुवंत्येवं सर्वलोकात्मकस्ततः॥८०। कामचारोऽतिविश्रंभ: प्रतिबंध विवर्जितः॥सर्वस्य स्वस्वरूपेऽस्ति प्रतिबंधो न कोऽ पि हि॥८१॥। ॥२0 भूमात्मानं न जानाति मूढः किं त्वन्यथेक्षते। जीवोऽहमीश्वराधीनो धर्माधर्मयुतस्त्विति ॥८२॥
Page 51
तस्येश्वरो भवेद्राजा लोकः कर्माजितः क्षयी॥ कामचारस्तु लोकेषु सर्वथास्य न संभवेत्॥८३॥ जीवन्मुक्तस्तत्वविद्यः शास्त्रयुत्त्यनुभूतिभिः॥तस्य प्राणादिनामांतं जगत्स्वात्मन उद्गतम्॥।८४।। तस्मात्प्राणादिवस्तूनां ध्यानेनास्य फलेन वा। जीवन्मुक्तस्य नार्थोऽस्ति कृतकृत्यः सुखी ह्यसौ।। न मृत्युं पश्यति ज्ञानी न रोगं नापि दुःखिताम्॥ सर्वस्वात्मतया वुध्वा सर्वमाप्ोति सर्वथा॥८६॥ विदेहमुक्तो ब्रह्मत्वात्सव सृजति मायया॥ येन यद्ीक्ष्यते तस्मै तद्रूपं स्वं प्रदर्शयेत्॥८७॥ विषयाहरणं शुद्धे रागद्वेषादिवर्जनात्॥ ततः शुद्धधियात्मानं भूमानं सर्वदा स्मरेत् ॥८८॥ शोकादिसर्वग्रंथीनां भूम्नः स्मृत्या विमोक्षणात्॥ शुद्धधीर्नारदस्तस्मै तमःपारमदर्शयत्८९॥ सनत्कुमारविद्यायास्तात्पर्य स्पष्टमीरितम्॥ तेन कुर्यान्मयि कृपां विद्यातीर्थमहेश्वरः ॥९०॥ इति श्रीविद्यारण्यमुनिकृते अनुभूतिप्रकाशे छांदोग्ये सनत्कुमारविद्याप्रकाशोनाम चतुर्थो-
प्रजापतिः स्वात्मविद्यां छांदोग्ये बहुधाऽब्रवीत् ॥ विरोचनाय चेंद्राय तां वक्ष्ये सुखंबुद्दये॥१॥ ध्याय:।। ४ ॥ 11 = = = = = = Digitized by Google असंसार्ययमात्मा Sसावन्वेष्टव्यो मुमुक्षुणा । प्रजापतिरिति प्राह प्रसंगेन स्वसंसदि ॥२ ॥ यो निःपापोऽजरो मृत्युशोकक्षुत्तृड्डिवर्जितः॥ सत्योऽस्य कामः संकल्पश्रासंसारी स ईश्वरः॥३॥
Page 52
अ०प्र० पापं कर्तुरकर्त्तात्मा चिन्मात्रः पापवान् कथम्॥ जरामृत्यू देहधर्मौं विद्येते न चितस्ततः ॥४॥ अ०
।। २ १ ॥ शोक: स्यान्मनसो धर्मःक्षुतृष्णे प्राणगे उभे ॥ चिद्रूपस्यात्मनो नैव संति शोकादयस्त्रयः ॥५॥ चिन्मात्रस्याप्यस्ति माया कामसंकल्पकारिणी।।स्रक्ष्यामि जगदित्यादिकामो मायाविनोऽस्ति हि आकाशादिपदार्थास्तु यथापूर्व भवंलिह॥ संकल्पोऽस्ति ततो ज्ञेया व्यावहारिकसत्यता ।७॥ अन्वेष्य परमात्माऽयं मायातत्कार्यलक्षितः ॥ गुरुशास्त्रकृतो बोधस्तस्यान्वेषणमुच्यते॥८॥ ततोऽनुभूत्या विज्ञातुमेष्ठव्यो धीनिरोधतः॥ ध्यायन्युत्त्या च मन्वानः स्वात्मानुभवमाप्ुयात् ९ य एवं वेत्यसौ सर्वाल्लोकान्कामांश्र विंदते॥ लोकाधिष्ठानरूपलात्सर्वलोकात्मता भवेत्॥१॥ XII ISIIS कामास्तु विषयानंदा: स्वात्मानंदस्य तेऽखिलाः॥ लेशास्ततः सर्वकामप्राप्तिरात्मविदोऽस्ति हि।। एतत्प्रजापतेर्वाक्यं श्रुला देवासुरास्तदा ।। उभयेऽप्यबुभुत्संतः परमात्मानमादरात् ॥१२॥ Digitized by देवराजोऽसुरेशश्र तौ ह्ाविंद्रविरोचनौ ॥ सत्यलोकं प्राप्य तस्मिन्नसेवेतां प्रजापतिम् ॥१३॥ zed by Google द्ात्रिंशद्वर्षसेवातः प्रसन्नोऽसौ प्रजापतिः॥ अक्षिलक्षितमात्मानं ताभ्यां हाभ्यामवोचत ॥ १४॥ पूर्णतात्पुरुषो योऽस्ति परमात्माऽयमक्षिणि॥जागत्साक्षितया स्थिला विद्वद्भिः सुविभाव्यते१५ चिच्छायावान हंकारो मूढैरात्मेति भाव्यते॥ कर्त्ता भोक्ता स जीवः स्यात्परब्रह्मैव साक्ष्यसौ।१६।। । २ १ ॥
Page 53
ब्रह्मणो मरणाभावादमृतलं तदीर्यते ॥। अद्वितीयतया भीतिहेतभावाच्च निर्भयम्॥१७॥ प्रजापत्युक्तितात्पर्य नानुबुद्दमुभावपि ॥ राज्यवासनया चित्तं तदीयं राजसं खलु॥ १८॥ अन्यदेहस्य या छाया सा चक्षुष्युपलभ्यते॥ तामेवात्मतया प्राहेत्येषा बुद्धिरभूत्तयोः॥१९॥ छायात्मानं दृढीकर्तु पुनः पप्रच्छतुर्गुरुम्॥ अप्स्वादर्शे च यो दृष्टश्छायात्मा सोऽयमेव किम २० तदीयमन्यथा ज्ञानं बुध्वापि न निराकरोत्॥ सभामध्ये मानभंगे बुद्धि्रंशो भवेदिति॥२१॥ स्वेनाक्षिण्युपविष्टो यः स सर्वत्रापि तिष्ठति॥ इत्युक्तोपायतस्तौ दौ बोधयामीत्यमन्यता। २२॥ शरावे जलयुक्ते वा केवलौ वीक्ष्य तौ पुनः॥सालंकाराववेक्ष्याथ छायां नात्मेति बुध्यतामू॥२३। छायाया अन्यथातवं स्यात्साक्षी चैकविधः स्थितः॥ आत्मतवं निर्विकारस्य शक्यते बोद्मंजसा२४ तथापि पापबाहुल्यप्रतिबद्धधियावुभौ॥ छायात्मतां शरावोत्तया दृष्टां कृत्वात्यतुष्यताम्॥।२५॥ कालेन प्रतिबंधस्य क्षये सत्यथ तत्पुनः ॥ उपदेशं शरावाख्योपायं चालोच्य मोक्ष्यते॥२६ ॥ Digitized by Google इत्युपेक्ष्य गुरुस्तस्थौ तौ राज्यत्यागतश्रिविरम्।।प्रयासं प्राप्य सहसा जग्मतुः स्वस्वलोकयोः२७ एतौ प्रजापते: शिष्याविति भ्रांत्या विपर्ययम्॥ तदीयं प्राप्य नश्येयुरिति सोऽघोषयद्गुरुः।२८। विरोचनस्तामसलाच्छीघ्रं तानसुरान्प्रति॥ गला देहात्मतां तेभ्य उपादिक्षन्निजेच्छया॥२९॥
Page 54
अ०प्र० अक्षिच्छाया देहजन्या तया देहोपलक्षणात्॥ देह आत्मा स्वस्वदेहं सदा पूजयतासुराः॥ ३०॥ अ० ।२२ ॥ देहे टढेऽत्र भोगोऽस्ति मुक्तिः स्याच्छवपूजया॥ इत्यासुरःसंप्रदायः प्रायेणाद्यापि दृश्यते॥३१॥ इंद्रस्तु सालिकत्वेन मननं कुरुतेऽध्वनि॥ आंध्यादयोऽपि छायायामलंकारादयो यथा॥ ३२ ॥ एवं सत्यभयं ब्रह्म देहच्छाया कथं भवेत् ॥ एवं मला समागत्य गुरोरग्रे तथावदत् ॥३३॥ पापक्षयाय दात्रिंशद्वर्षाणि तपसेऽवसत् ॥ पूर्वोपदिष्टं भूयोऽपि ब्रवीमीत्याह तं गुरुः॥३४॥ जाग्रति स्थूलदेहेन सांकर्य शक्यते ततः ॥ स्वन्े यश्र्रतीवासौ साक्ष्यात्मेत्यवगम्यताम्॥ ३५॥ आंध्यरोगादयो दोषाच्छायायां देहबिंबगाः॥भांति स्वन्ने तु नैवेति तुष्टो वव्राज पूर्ववत्॥३६॥ मन्वानः सन्नन्यदोषानपश्यत्स्वप्नमात्मनि॥ चोरव्याघ्रादयो घ्नंती त्यादीनागत्य चाब्रवीत्॥३७।। स्वन्नेऽपि वासनादेहःशंक्येतेति सुषुप्तिगम्॥ साक्षिणं प्रोक्तवांस्तस्मै द्वात्रिशद्वर्षसेविने॥३८॥ तुष्टोगच्छत्सुषुप्तिस्थे जाडयं दोषमवैक्षत॥ विनष्टसदशः सुप्तावात्मेत्यागत्य चाब्रवीत्॥३९॥ Digitized by Google अमूर्तै कारणं देहं बोहुं पापक्षयादसौ ॥ शक्तोऽभूदिति संतुष्टः पुनःप्रोवाच तं गुरुः॥४० ॥ पंचवर्षाणि सेवस्व पापशेषक्षयाय ते ॥ इत्युक्क्ता सेवते तस्मै गुरुः स्पष्टसुपादिशत्॥४१॥ मघवन् यत्त्वया बुद्धं शरीरं तत्रिधा स्थितम्॥ स्थूलं सूक्ष्मं कारणं च तत्तु सर्वै विनश्वरम॥४२॥ ।२२॥
Page 55
अनश्वरात्मतत्त्वस्य प्रवेष्ठुर्जीवरूपतः ॥ भोगाधिष्ठानमेवैतद्वपुर्नास्यात्मताऽस्ति हि॥४३॥ जाग्रत्स्वप्रसुषुप्तेषु भासयेद्यो वपुस्त्यम्॥ स साक्ष्यात्मा ब्रह्मताऽस्य सुखदुःखादिवर्जनात्॥४४। आत्मनः प्रतिबिंबो यः सोऽयं देहे प्रविष्ठवान्॥ प्रतिरूपो बभ्ूवेति श्रुत्यंतरसमीरणात्॥४॥ स भोक्ता त्रिषु देहेषु तादात्म्यमभिमन्यते॥ सशरीरः स्वकर्मोत्थे भुंक्तऽवइयं प्रियाप्रिये॥४६॥ अशरीरं साक्षिणं तु स्पशेते न प्रियाप्रिये॥ संसारतदभावौ द्वौ सुस्थितौ कर्तृसाक्षिणोः।४७॥ एवं व्यवस्थितेऽप्यज्ञः कर्तृदेहेषु साक्षिणम्॥ अशरीरं प्रवेश्याशु सुखं दुःखं च मन्यते॥४८ ॥ विवेके सति साक्ष्येव शरीरेश्यः समुत्थितः ॥ स्वाभाविकेन ब्रह्मात्मरूपेण व्यवतिष्ठते॥४९॥ अस्मिन्नर्थे साक्षितुल्या दृष्टांता देहवर्जिताः॥ वाय्वभ्रविद्युतां नास्ति हस्तपादादिमद्दपुः॥५०॥ अदेहा वृष्टिसिध्यर्थमाकारान्कांश्विदापुवन्।वष्टिनिष्पादकस्तत्तदाकारो व्योम्नि दृश्यते॥५१॥ आकारा वृष्टिकालात्प्राग््योम्नि गूढा नतु स्फुटाः।ततोव्योम्नःसमुत्थाय निदाघे ज्योतिरापुवन्॥ Digitized by Google संतापाख्यं परं ज्योतिः प्राप्य तेन दृढीकृताः॥ उृष्टिकाले स्वस्वरूपं स्फोरयंतीति दृश्यते ॥५३॥ तथा Sयमशरीरः सन् साक्ष्यज्ञानतिरोहितः ॥ देहेंतर्भूय वपुषो विवेकेन समुत्थितः॥५४॥ परं ज्योतिर्त्रह्मरूपं प्राप्य वाक्योत्थबोधतः ॥ स्वेन वास्तवरूपेण निर्द्ैते नावभासते ॥५५॥
Page 56
अ०प्र० स्वतः साक्षी संप्रसाद: कालुष्येण विवर्जनात्॥ अविद्यया स्यात्कालुष्यं देहतादात्म्यविभ्रमात्॥ अ० ।।२ ३ । जागरे स्थूलसूक्ष्माभ्यां तादात्म्या द्याधयोखिलाः आधयश्रवास्य संतीदं महत्कालुष्यमिष्यते५७ ई षत्कलुष्यता स्वप्ने सूक्ष्ममात्राभिमानतः ॥ सुप्तौ तेनापि हीनतादयमात्मा प्रसीदति॥५८॥ कालुष्यबीजमज्ञानमस्त्यत्रार्थविवेचिनः ॥ बीजेनापि विहीनलात्सम्यगेव प्रसीदति॥५९॥ स्वतः साक्षी संप्रसादस्तत्स्वरूपानुभूतये॥ समुत्थानं भवेदस्य देहादिभ्यो विवेचने ॥६०॥ ससुत्थितस्य जीवलनिवृत्यै ब्रह्मरूपताम्॥ महावाक्यानि सर्वाणि बोधयंत्यतियत्नतः॥६१॥ परं ज्योति त्रह्मरूपं प्राप्य वाक्यार्थबोधतः॥ उत्तमः पुरुषः स स्याद्यः पुराक्षिणि वर्णितः ॥६२॥ देहादज्ञानतः कार्यात्कारणाच्चायमुत्तमः ॥ जीवतहानाद्रह्मलभावाच्चोत्तमतोचिता द्वाविमौ पुरुषौ लोके क्षरश्र्वाक्षर एव च ॥ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥६४॥ ।६३॥
Digitized by Google उत्तम: पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥ इत्याह भगवान्कार्यकारणा्यां तमुत्तमम्॥६५॥ उत्तमो डयं पुमान्मूढप्राणिनामपि विद्यते॥ तत्र तत्वविदः कोडतिशयः स्यादिति चेच्छृणु॥६६॥ स तूत्तमब्रह्मरूपं तत्त्ववित्स्वात्मवस्तुनि ॥ पर्येति स्वात्मबुध्यैतं सर्वदेहस्थमीक्षते ॥६७॥ ।२ ३ ॥ इंद्रराजादिदेहेषु नानाखाद्यानि भक्षयन्॥ बालैःसाकं हसन्स्त्ीभिः कदाचिद्रमते सह ॥६८।।
Page 57
यानैः क्वापि ज्ञातिभिश्र्व सहितो मोदते खलु॥ न कदाचित्स्मरत्येतद्पुर्जनसमीपगम् ॥६९॥ एतद्देहेन तादात्म्यम्रांत्या दुःखमभूतपुरा ॥ विवेकेन भ्रमेपेते तह्दुःखं नाद वीक्षते॥ ७०॥ इंद्रराजादिदेहेषु न तादात्म्यं पुरापि च ॥ अतो न तद्देहदुःखशंकाप्यस्य न विद्यते ॥७१॥ सुखानि तद्देहगानि साक्षी सर्वाण्यवेक्षते॥ साक्ष्यात्मलाभ्निमानी सन्ज्ञानी तान्यभिमन्यते ७२ दुःखान्यपीक्षते साक्षी तथाप्येतेषु तत्ववित्॥ नाभिमानसुपादत्ते दुःखानां मायिकलतः॥७३॥ ब्रह्मानंदस्य लेशा: स्युरानंदा विषयोत्थिताः ॥ अतस्तत्त्वविदः पक्षपातो हयेतेषु विद्यते ॥७॥ पुण्यमेवासुमाप्नोति न देवान्पापमापुयात्॥ इति श्रुत्यंतरं ब्रूते सुखं सर्वात्मदर्शिनः ॥७॥ प्रजा: शोचंति यत्किंचित्तासामेव भवेदिंदम॥न सर्वात्मदशोऽस्तीति प्राहैतदपि सा श्रुतिः॥७६॥ सर्वात्मलेऽपि देहादिदोषलेपो न मेऽस्ति हि॥ अदुष्टा सूर्यभा यद्दचंडालादिस्ट्गप्यसौ।७७॥ ब्रह्माद्याः स्थावरांता ये प्राणिनो मे वपुः स्मताः।कामक्रोधादयो दोषा जायेरन्मे कुतोऽन्यत:७८ Digitized by Google इत्याचार्या ब्रह्मबोधकुशला अब्रुवन्पुरा॥ सुखमात्रग्राहिणोऽत्र दष्टांताः संत्यनेकशः ॥७९॥ वक्षे मधुकरः पुष्परसं गृण्हाति नेतरत् ॥ यतिर्िक्षामुपादत्ते नाशौचं कस्यचिद्टहे॥८० ॥ १ अश्वादिभि: । २ दुःखं।
Page 58
1
अ०प्र० मूर्खस्यापि सुखे पक्षपातोऽस्तीत्युच्यते यदि॥ तर्हि तस्य प्रसिद्यर्थ तत्त्वं सोऽप्यवगच्छतु॥८१॥ अ० ।।२४।! तत्वे बुद्धे स्वदेहेन तादात्म्यं न स्मरत्यसौ । तेन दुःखे विनष्टेऽथ सुखमेव सदेक्षते ॥८२॥ तादात्म्यस्यास्मृतौ देहनिर्वाहो नेति चेच्छणु॥ अश्वादिनेव प्राणेन प्रेरितं रक्ष्यते वपुः॥८३॥ रथे प्रयोगयोग्योऽश्वः शिक्षितः सारथिं विना। स्वयमेव सदाभ्यासाद्रंतव्यं प्रापयेत्खलु।८४। ईश्वरेणास्य देहस्य प्रेरणाय नियोजितः ॥ प्राणस्तद्गोगदेशेऽमुं देहं नयति कर्मणा ॥८५॥ गर्भस्थानांच बालानां निर्वाहो वपुषो यथा॥जीवन्मुक्तस्य देहेऽपि निर्वाहः स्यात्तथा न किम्॥।८६ समाधावात्मरूपेण व्युत्थाने भोग्यरूपतः॥ सर्वानंदान्सदा भुंक्ते मुक्तस्यातिशयो ह्ययम्।।८७ मुक्तेन बुद्धः साक्ष्येष सर्वाक्षेषु विभाव्यताम् ॥ तत्तदिंद्रियसंयुक्तत्रिपुटी भासयत्यसौ॥ ८८॥ भासमाने साक्षितत्वे तद्रासा भास्यमिंद्रियम्॥चक्षुर्वियत्यभिव्याप्य रूपं सर्वै प्रकाशयेत्।८९॥ Digitized by Google द्रष्टाहंकृत्यवच्छिन्नो दर्शनं चक्षुषः क्रिया॥ दृश्यं रूपमियं सर्वा त्रिपुटी भाति साक्षिणि॥ ९०॥ साक्षिणो भासकत्वेऽपि रूपगंधादिभित्तये ।। चक्षुर्घ्राणाद्यक्षजातं सर्वसाधारणं मनः ॥९१॥ जिघ्राणीममहं गंधमित्यादि त्रिपुटी मिमाम्॥ सदा भासयते साक्षी स एवात्मोत्तम : पुमान्॥९२॥ मनोऽस्य दैवं चक्षुः स्यात्कालत्रयविभासनात्।तेन भुंक्ते ब्रह्मलोकस्थितान्कामान्निजात्मनि॥९३ ।२४ ॥
Page 59
देवाः सर्वे तमात्मानसुपास्य प्रापुवंत्यमून्॥ कामाल्लोकांश्र्वात्मतत्त्वं बुध्वा सर्वात्मतां जयु:।।९४।। अन्योऽपि यस्तमात्मानमन्विष्य गुरुशास्त्रतः॥स्वानुभूत्या विजानाति स तानाप्नोति देववत्९५ प्रजापतिरुवाचेत्थमिंद्रायेत्थं पुनः पुनः ॥ एकाधिकं वर्षशतं सेविलाऽसौ च लब्धवान्॥९६॥ गुरुशुश्रूषया पापं विद्याया: प्रतिबंधकम्॥ अपैति विद्या लब्धा स्यादित्यत्रेंद्रो निदर्शनम्॥९७ सर्वज्ञेनोपदिष्ठापि प्रतिबंधक्षयं विना ॥ न लभ्यतेऽत्र दृष्टांतो विरोचन उदीरितः ॥९८।। गुरु: कारुणिको भूला सोढ़ायासं पुनःपुनः॥ प्रजापतिरिव प्राप्ताननुगण्हीत सर्वथा॥९९॥ प्रजापतेरियं विद्या कथितानुग्रहाद्गुरोः ॥ सच्छिष्याननुगण्हातु विद्यातीर्थमहेश्वरः॥१००॥ इति श्रीविद्यारण्यमुनिकृते अनुभू० छांदोग्ये प्रजापतिविद्याप्रकाशोनाम पंचमोऽध्यायः ॥५॥ ब्रह्मविद्यां शौनकाय यामुवाचांगिरा मुनिः ॥ अथर्वणे मुंडकेऽसौ विशदीकृत्य वक्ष्यते॥१॥ चतुर्मुखादिके संप्रदाये यो मुनिरंगिराः ॥ उपसद यथाशास्त्रमेतं पप्रच्छ शौनकः ॥ २ ॥ Digitized by Google एकस्मिन्विदिते सर्वै विज्ञातमिति वैदिकी॥ प्रसिद्धिरस्ति तद्दस्तु किं स्यान्निश्वित्य मे वद॥३॥ शृणु विद्ये उभे तावद्वेदितव्ये परापरे ।। पष्टं वस्तु तयोर्मध्ये गम्यते परविद्यया ॥४॥ षडंगसहिता वेदा विज्ञायंते यया घिया ॥ सा धीरपरविद्या स्याद्रह्मधीस्तु परा मता ॥५॥
Page 60
अ०प्र० उपनीतेन विज्ञेया वेदाः सर्वे न तावता । ब्रह्मधीः किंतु वैराग्ये स्यादाचार्योपदेशतः ॥६॥ अ० ।।२५॥ वैदिक्यप्यधिकारस्य भेदादुक्ता एथक् परा॥ विप्राः परिव्राजकाश्र तिष्ठंतीति यथा तथा॥७॥ यस्यामपरविद्यायां कर्माण्युक्तानि साधकाः॥ कुर्वति कर्मभिः शुद्धिं परविद्या करोति हि॥८ ॥ ॥६ ॥
परया चाक्षरं ज्ञेयमेतस्मिन्विदिते सति॥ सर्वै जगद्गवेहुद्वं तस्य सर्वात्मकतवतः ॥ ९॥ न विनानुष्ठितं कर्म वेदनं पर्यवस्यति॥ ब्रह्म धीस्तावतैव स्यात्फलदेति परा मता ॥१० ॥ तद्वेद्यमक्षरं कीटगिति चेदभिधीयते ॥ ज्ञानेंद्रियैर्न विज्ञेयं ग्राह्ं कर्मेद्रियैर्न वा ॥११॥ न गोत्रं काश्यपाद्यस्ति वर्णः शुक्कादिकश्र न ॥ म ज्ञानेंद्रियमस्त्यस्य नापि कर्मेद्रियं तथा॥१२।। नित्योऽक्षरपदार्थोऽयं तद्विनाशानिरूपणात्॥ विभुर्विविधभाविलात्तच्च सर्वात्मकलतः॥१३॥ आकाशवत्सर्वगोतः परिच्छेदो न देशतः॥ न कालतोऽपि नित्यलाद्विभुलान्नापि वस्तुतः॥१४॥ Digitized by Google सर्वगस्याऽपि सूक्ष्म लादक्षागोचरतोदिता।।परिमाणाल्पता नात्र सौक्ष्म्यं दुर्लक्ष्यता तु तत्॥१॥ हस्तग्राह्यो घटः स्थूलो ध्वनिः सूक्ष्मस्तदग्रहात्॥स्वरूपसौक्ष्म्यमेतत्स्यादक्षरेपि भवेदिदम्।। धनस्येव व्ययो नास्य विक्रियादेरसंभवात् ॥ स्थिरजंगमभूतानां हेतुं तं मन्वते बुधाः॥१७॥ ।।२५। १ द्वे परापरे वैदिक्यौ।
Page 61
यदुक्तंलक्षणं तत्तु कौटस्थ्यादक्षरं भवेत् ॥ तद्यया वेद्यते सेयं परा विद्येति कीर्तिता ॥१८॥ न युक्तं भूतयोनित्वं साधनांतरवर्जनात् ॥I एकस्माच्चेतनाङ्ूरिजडानामप्यसंअवात् ॥१९॥ # ******* I*EE EEEEEEE8B बव्हौषध्यो यथैकस्या भूमेर्जाता यथा जडाः ॥ केशाश्र्वेतनतो जातास्तथा लक्षरतो जगत्॥२०॥ ऊर्णनाभिर्यथा तंतून् सृजते संहरत्यपि॥ अन्यानपेक्षस्तद्वत्स्यादक्षरस्यापि हेतुता ॥२१॥ ब्रह्मणो जगदुत्पत्तेः क्रमोऽयमवगम्यताम् ॥I वक्ष्यमाणेन तपसा ब्रह्मादावुपचीयते ॥ २२॥ अंकुरोत्पादकं बीजमुच्छूनं स्याद्यथा जलात्॥ सृज्यस्य बुध्या संयुक्तं स्याद्रह्मोपचितं तथा॥।२३।। भोग्यवर्गाकुराखयं यदन्नं तज्जायते ततः ॥ अव्याकृतं व्याचिकीर्षावस्थमन्नमिहोच्यते ॥२४॥ तस्मादन्नात्क्रियाशक्ति: प्राणो ज्ञानस्य साधनम्॥ मनश्राजायत स्थूलं सत्याख्यं भूतपंचकम्।। ततो भूम्यादयो लोका ज्योतिष्ठोमादिकर्मसु॥ अमृतारूयं स्वर्गफलमित्थं सर्वमजायत ॥२६।। ब्रह्मैव जगदाकारं स्याच्चेत्तद्विकृतं भवेत् ॥I नोचेज्गन्न जायेतेत्यत्र प्रतिविधीयते ॥२७॥ Digitized by Google! निरुपाधि ब्रह्मत्त्वं जगदाकारभाङ्न हि। मायोपाधिक एवायं सर्वज्ञः सृजते जगत् ॥२८॥ सामान्यवृत्या सर्वज्ञो विशेषेण च सर्ववित् ॥ ज्ञानमेव तपोस्यास्माजगद्देदाद्यजायत ॥२९॥ जगत्कारणमद्रैतं ज्ञातव्यं परविद्यया ॥ ज्ञातेऽस्मिन्सर्वजगतस्त्त्वं यत्तद्विबुध्यते॥३०॥
Page 62
अ०प्र० अपरा वेदविद्या तु कर्मातुष्ठानमार्गतः॥ साधनं परविद्यायाः सत्यं तत्कर्मणः फलम्॥३१॥ अ० ।२६ । काम्यकर्मफलं स्वर्गो नित्यकर्मफलं धियः ॥ शुद्धिस्तच्चोभयं कर्म कृत्वावश्यमवानुयात्॥३२॥ हेसत्यकामा: कर्माणि मंत्रब्राह्मणदर्शिनः॥ कुरुध्वमेष व ःंथा भोगमोक्षप्रसिये ॥ ३३ ॥ ।६ ॥
अग्निहोत्रं जुहोत्यादौ कुर्याद्दर्शादिकानथ॥ तदभावे जन्मसु स्यात्सप्तस्वेतस्य दुर्गतिः॥३४॥ काल्यादिवन्हिजिव्हासु होतारं तं यथाविधि॥आहुत्याख्या देवतास्ता इंद्रलोके नयंति हि॥३५॥ प्रियं वदंत्य एहीति वहंत्यः सूर्यरश्मिभिः ॥ पुण्यार्जितो लोक एष इत्युक्क्ता प्रापयंति तम्॥३६॥ काम्यकर्मफलं प्रोक्तमीश्वरार्पितकर्मणः ॥ फलं संसारहेयलबुद्दिः साथ विविच्यते॥३७॥ क्षुद्रायास्तरणं नद्याः प्रसिध्यत्यदढैःप्वैः॥न समुद्रस्य यज्ञश्र तद्दच्छिथिलसाधनम् ॥ ३८॥ तेनाप्नोनि स्वर्गमात्रं न तु मोक्षं तथा सति॥ कर्मनिष्ठा जरामृत्यू प्राप्तुवंति पुनःपुनः॥३९॥ ज्ञानवद्वैदिकलेन कर्मणो मुक्तिहेतुता॥ अस्तीति चेन्न संसारमूलहेलनिराकृतेः ॥४० ॥ Digitized by Google अविद्या संसृतेर्मूलमेतस्यामेव कर्मिणः ॥ वर्तैते न तु जानंति ब्रह्मात्मानं सदद्यम्॥४१॥ पंडितंमन्यतां प्राप्ताः कर्मकांडार्थवेदनात् ॥ गरुश् तादगेवातो हयंधनीतांधवत्स्थिताः ॥४२॥ ।।२६ ॥ * १ काली २ कराली ३ मनोजवा ४ सुलोहिता ५ सधूम्रवर्णा ६ स्फुलिंगिनी ७ विश्वरुचि:।
Page 63
अहं यज्वा वाजपेयराजसूयादिभिर्मखैः ॥ कृतार्थ इति रागेण मला भोगक्षये पतेत् ॥ ४३॥ वरिष्ठं कर्म मत्वास्माच्छेयोऽन्यन्नैव वेत्यसौ। स्वर्गादागत्य विप्रत्वं प्राप्नोतिश्वादिजन्म वा॥४४॥ कर्मातरं चेद्रम्यं स्याद्विप्रत्वं श्वादितान्यथा॥ असारतामिमां वेत्ति शुद्धधीर्नित्यकर्मभिः॥४५॥ उपासको ब्रह्मलोकं प्राप्ोत्या वृत्तिवर्जितम्॥ तथापि भूयानायासो मुक्तिश्वास्य विलंबते॥४६॥ परीक्ष्य कर्मजाल्लोकान्कर्मणा सुत्त्यसंभवात्। विरक्तो ब्रह्मबोधार्थ गुरुमेति यथाविधि॥४७॥ वेदांतानामनेकल्वात् संशयानां बहुल्वतः ॥ वेद्यस्याप्यतिसूक्ष्मलान्न जानाति गुरुं विना ॥४८ ।। श्रवणान्मनना द्यानादप्युपायाद्गुरूदितात्॥ अज्ञानसंशयौ जह्याद्विपरीतां च भावनाम्॥४९॥ सुरुश्ष योग्यशिष्याय विद्यामक्षरबोधिनीम्॥ ब्रूयात्स्वकीयविद्यायाः संप्रदायप्रटत्तये॥५०॥ त देतदक्षरं सत्यं मायाशक्तिसमन्वितम्॥ तस्मात्सर्वे समुत्पन्ना विस्फुलिंगा यथाग्नितः ।५१॥ अक्षरात्मा स्वयं ज्योतिर्मायारूपाक्षरात्परः॥अचिंत्यशक्तिरन्टृता मायास्मिन्कल्पयेज्जगत्॥।५२॥ Digitized by Google मायाविनोस्मात्प्राणादि वियदादि च जायते॥ ततोविराडभूत्तस्मिन्नवशिष्टमभृज्जगत्॥५३॥ पुरुषो मायया सर्वजगद्रूपेण भासते॥ सर्व पुरुष एवातो वस्तुतत्त्वावलोकने ॥ ५४॥ देहत्रयगहायां यच्चैतन्यं साक्षि विद्यते ॥ एतत्सर्वात्मकं ब्रह्मेत्येवं बुद्ढा तमो सुदेत् ॥५५॥
Page 64
अ०प्र० अज्ञोहमिति तादत्म्यमज्ञानस्यात्मतास्ति यत्॥अविद्यार्य्रंथिरेव स्यात्स च बोधाद्विकीर्यते॥५६॥ अ० ।२७। आविर्भूतं स्वयं भानात्स्वलात्सन्निहितं च यत्॥ ब्रह्मास्मिन्कल्पितं सर्वमिति धीर्बोध उच्यते ५७ सा धीश्रेन्न स्थिरा तर्हि प्रणवेन विचिंतयेत्॥ बाणेन विध्यते लक्ष्यं विध्येद्रह्म तथा घिया॥५८॥ ॥६ ॥l
धीर्बाणो धतुरोंकारो ब्रह्म तल्लक्ष्यमुच्यते॥ अप्रमत्तेन वेद्वव्यं लग्ना ब्रह्मणि धीर्भवेत् ॥५९॥ दढं लग्नं बालशल्यमाकृष्टमपि नाव्रजेत् ॥ मुक्तशल्यः समागच्छेद्वाण एव उृथा यथा ॥६०॥ ब्रह्मसंलग्नधीरेवं स्वयं नायाति कुत्रचित् ॥ किंतकिंचित्करं चक्षुरादेवायाति बाह्यतः ॥६१ ॥ दर्शनादिक्रिया: कुर्वन् यथापूर्व य इंद्रियैः।। सिध्यसिद्दी न जानाति जीवन्मुक्त: स उच्यते ॥६२ पंचीकृतोक्तमार्गेण प्रणवध्यानमाचरेत् ॥ ततो जगदधिष्ठानमेकमेव सदेक्ष्यते ॥६३ ॥ लौकिकीर्वैदिकीश्र्वान्याः सर्वा वाचः परित्यजेत्॥ध्यायेच्चेद्रह्म तस्यात्र धीग्रंथ्यादि विनश्यति६४ Digitized by Google भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ॥ क्षीयंते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥६५॥ परमव्याकृतं यस्मादवरं स्याच्चिदात्मनः ॥ दृष्टे तस्मिन्नहंकारचितोर्ग्रथिर्विभिद्यते ॥६६॥ अहंकारस्य कर्तलं चित्यध्यस्य तथा चितः॥ स्फूर्ति चाहंकतौ ग्रंथिं कुर्यान्माया तयोर्दढम् ॥६७॥ ।२७।। १ पंचीकरणग्रंथोक्तमार्गेण । २ आरोप्य।
Page 65
भिन्ने ग्रंथौ विवेकेन संशया ब्रह्मतत्त्वगाः॥ छिद्यंते स्याद्गाविजन्महेतुकर्मक्षयस्तथा ॥६८॥ आनंदरूपं हत्कोशे यद्राति प्राणिनां सदा॥ तच्छुभं ज्योतिषां ज्योतिर्रष्टव्यं तन्मुमुक्षुभिः६९ भासका अपि सूर्याद्यास्तद्रासयितुमक्षमाः॥तस्मिन्नादौ भासमाने तद्रासा भासते Sखिलम् ७० सर्वासु दिक्षु तद्राति तस्मिन्नंतर्भवत्यदः॥ जगत्ततः पृथङ्गास्ति तरंगादिर्जलादयथा॥७१॥ जलतत्वं तरंगादौ ब्रह्मतत्त्वं तथाऽखिले ।। ततो ब्रह्मणि विज्ञाते विज्ञातं सकलं भवेत्॥७२॥ अखंडेकरसं ब्रह्म समाधावेव भासते ॥ व्युत्थाने भोक्तृभोक्तारौ भासेते पक्षिवत एथक्।। ७३॥ ृक्षे पक्षी फलं भुंक्ते क्षुधितोऽन्यस्तु वीक्षते॥ चिच्छायावानहंकारो भुंक्ते चिद्रीक्षते तथा॥७४॥ बोधातपुरा तु चिद्धांत्या मग्ना भोक्तरि शोचति॥ सा भ्रांतिर्भोक्तनिष्ठैव तद्विवेकोऽपि भोक्तृग: ७५ भोगावांतरभेदौ हि भ्रांतितद्वाधकावुभौ ॥ इतरारोपवत्तौ च चित्यध्यस्तौ न वास्तवौ। ७६॥ विविनक्ति यदा भोक्ता पुण्यपापे तदास्य नो।।क्रीडत्यात्मन्यसौ ध्यानाद्यूतादौ मूढवत्सद्ा।।७७।। Digitized by Google आत्मन्येव रतिं कुर्यात्सर्वदा नित्यकर्मवत्॥ वरिष्ठो ब्रह्मवित्स्वेष व्यर्थक्षणविवर्जनात्॥७८॥ सत्यं तपो ब्रह्मचर्य विद्याधिकृतिकारणम्॥ मुख्याधिकारी विद्यायां वरिष्ठो ब्रह्मविद्रवेत ॥७९॥ १ तस्याः ब्रांसा:।२ जीवेशौ। ३(= ब्रह्मवित् १ ब्रह्मविद्वरः २ श्रह्मविद्वरीयान् ३ ब्रह्मविद्वरिष्ठः ४)।
Page 66
अ०प्र. न चक्षुषा नापि वाचा नान्यैरक्षैश्व ग्रह्यते ॥ न कर्मणा न तपसा विनांतर्मुखता कचित्॥८०॥ ध्यानेनांतर्मुखो वाक्यांद्रह्मात्मानमवेक्षते ॥I विशुद्धबुद्धिरात्मज्ञो यथा वक्ति तथा भवेत् ॥८१॥ अ०
भूतिकामो विभृत्यर्थमात्मज्ञं सर्वदार्चयेत् ॥ निष्कामस्तमुपासीनो वेत्ति ब्रह्मत्वमात्मनः॥८२॥ ।६ ॥
कामश्रैष्ठयपरः कामैस्तत्रतत्र प्रजायते॥ जीवन्नेवात्मवित्सर्वकामानां लयमाप्ुयात् ॥८३॥ न वेदपाठबाहुल्यान्न बहुश्रुतितस्तथा ॥ आत्मा लभ्योऽथ देवोऽयं वृणुते तेन लभ्यते ॥८४॥ ईश्वरानुग्रहादेव भवेदद्वैतवासना ।। तस्माद्गह्मार्पितं कर्म कुर्यादीश्वरतुष्टये ।। ८५ ॥ ईशानुग्रहयुक्तस्य सच्चिदानंदलक्षणाम् ॥ तनुं विळृणुते स्वीयां परमात्मा ह्यशेषतः ॥ ८६ ॥ श्रवणं मननं ध्यानं यस्य न प्रबलं भवेत्॥ प्रमादो वास्ति विषयासत्तयात्मा न स बुध्यते॥८७॥ तपो नास्त्यांश्रमोपेतं यस्य शुद्धा न तस्य धीः॥ संपत्या श्रवणादीनामसौ ज्ञानेन तृप्यति।।८८।। Digitized by Google वेदांतधीनिश्रितार्थाः सन्यासाच्छुद्दबुद्दयः॥ब्रह्मदृष्टौ स्थिराश्रांते सुच्यंते मूलकारणात्॥८९। संसारिणां देहपातोऽपरांतः पुनरुद्रवात् ॥ परांतो विदुषां देहपातः पुनरतुद्गवात्॥९०॥ परांतकाले मुक्ता ये ब्रह्मलात्ते परामृताः ॥ कलाः पंचदशैतेषां लीर्यंते स्वस्वकारणे॥९१॥ ।।२८।l १ तत्त्वमस्यादिवाक्यात्।२ कामानेव श्रेष्ठत्वेन मन्यते यः सोऽपरः। ३ परकाशते। ४ आश्रमेण संयुक्त तपो यस्प नास्ति।
Page 67
प्राण: श्रद्धा खादिभूतपंचकं चेंद्रियं मनः॥ अन्नवीर्यतपोमंत्राः कर्म लोकाश्र् ताः कलाः ॥९२॥ वागादीन तुगण्हंति वन्ह्यादेः शक्तयः पुरा॥ ताश्र देवानेव यांति स्वानुग्राह्यविलेपनात्॥९३॥ अनारब्धानि कर्माणि विज्ञानमयनामकः॥कर्त्ता च विद्यया लीनः स्वस्मिन्काठिन्यवढूते ॥९४ अब्ध्वावस्तं यांति नद्यो नामरूपे विहाय हि॥ तथा विद्दान्नामरूपान्मुक्तो याति परं पदम् ।।९५।। यः कोऽपि ब्रह्म वेत्येष ब्रह्मैव भवति स्वयम् ॥ अब्रह्मवित्तस्य कुले न स्यादेतद्विबोधतः॥९६॥ शोकं तरति पाप्मानमपि धीग्रथितोऽखिलात्।।मुक्तो ब्रह्मात्मबोधेन भवत्येवामतोऽखिलः९७॥ क्रियावंतः श्रोत्रिया ये सगुणब्रह्मचिंतकाः ॥ तेषामेव ब्रह्मतत्त्वविद्यामेतां वदेहुधः ॥ ९८॥ अंगिरा: शौनकायैतत्सत्यं ब्रह्मोपदिष्ठवान्॥ नमस्कृत्य ब्रह्मविदो ब्रह्मविद्यामवापुयात् ॥।९९।। शौनकस्य ब्रह्मविद्या विस्पष्टमुपवर्णिता ॥ तुष्टोऽस्माननुगण्हातु विद्यातीर्थमहेश्वरः॥१००॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे मुंडकोपनिषद्विवरणोनाम षष्ठोऽध्यायः॥६॥ Digitized by Google अथर्वणे पिप्पलाद: षण्मुनिभ्यो यदब्रवीत्। तत्स्व प्रविविच्यात्र प्रवक्ष्यामि एथक् एथक् ।।१॥। मुनयो वेदतात्पर्यात्सगुणब्रह्मचिंतकाः ॥ परं ब्रह्मापेक्षमाणाः समिद्स्ता गुरुं ययुः ॥२॥
Page 68
अ०प्र. गुरूपसत्तिसंपूर्त्यै वर्ष गुर्वैतिकेऽवसन् ॥ सम्यक् फलति विद्यैषा वार्षिक्या गुरुसेवया॥ ३॥ अ० ।।२९॥ कात्यायनोऽए्च्छदादौ स्थूलदेहजनिक्रमम्॥ फलं लपरविद्यायास्तत्र स्पष्टीभविष्यति॥४॥ कर्मोपास्तिश्र्वापरस्यां विद्यायां श्रूयते हयम॥ तत्फलं जन्मकष्टं तदित्यभिप्रेत्य वर्ण्यते ॥५॥ प्रजापतिः प्रजाकामो विराट्सृष्टेरनंतरम्॥ स्त्रष्टव्यालोचनास्यं तत्तपः कृत्वा सृजत्प्रजाः॥६॥ भोग्यभोक्कात्मकं द्वंद्वं रथिप्राणाख्यमादितः।।सृष्टाभिमानिनौ देवौ चंद्रादित्यौ च सृष्टवान्।।७।। मूर्तमोषध्यादि भोग्यं शब्दगंधरसादिकम् ॥ अमूर्त्तमनयोर्वृदिं देवश्रंद्रः करोति हि॥ ८॥ आदित्य उद्यन्भोक्तृणां तत्तद्िग्वर्तिनामिमान् । प्राणान्प्रवर्त्तयेद्रोक्तृनेते Sन्नं भुंजते ततः।।९। चंद्रस्थितिमहोरात्रं सूर्यः संपादयत्यतः॥ तत्समूहस्वरूपोऽसौ काल: संवत्सरोऽभवत्॥१॥ यद्यदुत्पद्यते तत्तत्स्यादुपाधि: प्रजापतेः ॥ प्रजापतिर्वत्सरात्मा स पुनर्द्विविधोऽभवत्॥११॥ Digitized by Google अभूतां वत्सरांशौ हावयने दक्षिणोत्तरे॥ चंद्रादित्यौ तत्र देवौ दक्षिणोत्तरमार्गयोः॥१२॥ इष्टांपूर्तकृतश्रंद्रं यांति दक्षिणमार्गतः ॥ आवर्त्तैते पुनस्तत्र क्रममुक्तिर्न विद्यते ॥१३॥ ।।२९॥ १ अगनिहोत्रं तपः सत्यं वेदानां चानुपालनम्। अतिथिर्वेश्वदेवश्च इष्टमित्यभिधीयते॥१॥ वापीकूपतडागानि देवतायतनानि च। अन्नमदानमित्येतत्पूर्तमित्यभिधीयते ॥२॥ 38
Page 69
योगिनः सगुणध्यानाद्रविसुत्तरमार्गतः॥ गला तन्मंडलं भिला ब्रह्मलोकं व्रजंति हि॥१४॥ आसीत्प्रजापतिर्मासः पक्षौ शुक्केतराविह॥ यौ तयोश्र रविश्र्वंद्रोऽभिमंतारावुभौ स्थितौ॥१५॥ रविध्यायी तु कृष्णेऽपि कुर्वन् शुक्कफलं व्रजेत्॥शुकपक्षे फलाधिक्यं शास्त्रोक्तं काम्यकर्मणाम् १६ प्रजापतिरहोरात्ररूपोऽभूदहि देवता ॥ रविश्रंद्रो रात्रिदेवो रात्रावेव रविस्ततः ॥१७॥ भोक्तृभोग्यात्मकं द्वंद्वं सृष्टाप्यैष प्रजापतिः ॥ अन्नरूपोऽभवत्तस्मादन्नाद्रेतःसमुद्गवः॥१८॥ रेतसोमू: प्रजा जाता रेतःसेकं प्रजापतेः ॥ व्रतं चरंति चेत्पुत्रं पुत्रीं चोत्पादयंति हि॥१९॥ ब्रह्मचर्यरता ऊर्ध्वरेतसो ब्रह्मचिंतकाः॥ ब्रह्मलोकं व्रजंत्यन्ये निस्तपस्का न यांति तम्॥२०॥ कात्यायनेन यत्पष्टं हेयं जन्म तदीरितम्॥ भार्गवः सूक्ष्मदेहस्य स्थूलेऽप्राक्षीद्विवेचनम्॥२१॥ तस्मिन्विवेचिते स्थूलस्यानात्मलं स्फुटंभवेत॥धारको द्योतकः श्रेष्ठ इत्यप्राक्षीदसौ त्रयम्॥२२॥ देवाः कति स्थूलदेहं धारयंत्यत्र धारणम्॥ द्विविधं जननं तस्य प्रेरणं चेति तह्यम्॥२३॥ Digitized by Google ज्ञानवर्गे क्रियावर्गे स्थिता: के भासयंति तम्।प्रेरणाख्ये धारणेऽस्मिन् श्रेष्ठो देवेषु को भवेत्२४ काठिन्यं च द्रवोष्णले चलनं छिद्रमित्यमी ॥ दशयंतेंऽशाः पंचभूतजन्योऽतो देह इष्यते ॥२५॥ वाक्पाण्यादि: क्रियावर्गः क्रि्कयां कुर्वन्न भासयेत्॥ज्ञानवर्गो मनश्रक्षुरादिको भासयेद्दपुः॥२६॥
4
Page 70
EIEIIEIEII E 8 8880 अ०प्र० प्रेरणाख्यां धारणां तु प्राण एव करोति हि। भूतेंद्रियाभिमानिन्यो देवता गर्वमाधुवन्।।२७।। वयं देहमवष्ट्य प्रेरयामो गहादिषु ॥ प्राणदेवोऽन्यदेवानामेतं गर्वै न्यवारयत् ॥ २८॥ अ० ।३० ॥ यूयं मा प्रापुत भ्रांतिमहमेवात्र पंचधा॥ प्राणापानादिभिर्भोगैर्द्धारियामि ह्यदो वपुः॥२९॥ तानविश्वसतो देवान्विश्वासयितुमेष तु॥ देहान्निर्गतुमुदुक्तो ह्यासन् देवाश् विव्हलाः॥ ३०॥ स्थिते स्वराज्ि तिष्ठति निर्गच्छंति च निर्गते॥ मधुकृन्मक्षिका देवाश्र्ासन्प्राणवशास्तथा॥३१॥ प्राण: सूत्रं तेन बद्ा: सवे तत्तद्शा इमे॥ उत्क्रांति वारयंतस्ते प्राणं तुष्ुवुरादरात् । ३२॥। देहोडकिंचित्कर: प्राण एव संसारकारणम्॥ भार्गवो निश्चिकायेत्थं पिप्पलादेन बोधितः॥३३॥ क्रममुक्तिर्हैतुरस्य प्राणस्य ध्यानमित्यसौ।।कौशल्यः प्राणविषयान् षटप्रश्नानकरोत्स्फुटम्॥३४॥ प्राणोऽयं कुत उत्पन्नः कथमेष वपुर्व्रजेत् ॥ स्वरूपं प्रविभज्यैष कथं देहेऽवतिष्ठते ॥ ३५॥ Digitized by Google केन वत्तिविशेषेण देहादुत्क्रांतिमापुयात्॥ बाह्यं जगत्कथं धत्ते तस्याध्यात्मधृतिः कथम्॥३६॥ उपास्तिश्रद्धया सर्व विशेषं एष्टवानिति॥ तुष्टो गुरुरुवाचैषां प्रश्नानां स्पष्टमुत्तरम् ॥ ३७॥ परमात्मन उत्पन्नः प्राण आत्मा तविक्रियः॥ अविकृत्यैव देहं स्वं देहच्छाया यथोचिता॥३८॥ छायानृतैव दष्टा चेत्प्राणोप्यात्मनि कल्पितः॥यथा दूर्पणदीत्यादिर्मायोपाधिस्तथात्मनः३९॥। ।।३०॥
Page 71
पूर्वकल्पे कृतं कर्म मनसा यत्तदेव हि॥ प्राणस्य स्थूलदेहेषु समागमनकारणम्॥४॥ ग्रामेष्वधिकृतान्संघ्राड्डिनियुंक्ते यथा पृथक्॥प्राणो वत्ती: स्वकीयास्ता विनियुंक्ते यथायथम् ४१ मलमूत्रविसर्गार्थमपानं स्थापयेदधः ॥ मुखनासिकयोः कुर्वन्स्वयं श्वासमवस्थितः ॥४२॥ समान: स्थापितो मध्ये भुक्तमन्नं समं नयेत्॥अन्नाप्यायनतो मूर्दच्छिद्रैः सप्तविधोऽभवत्॥४३॥ हत्पुंडरीके जीवात्मा स्थितस्तद्वहुभिर्वतम्॥ नाडीभेदैमूलनाडीसंख्या चैकाधिकं शतम्॥४४॥ प्रत्येकं शतसंख्या: स्युःशाखा नाड्यस्तथा पुनः॥द्ासप्रतिसहस्त्राणि प्रतिशाखाःप्रकीर्तिताः४५ तासु सर्वास्ववस्थाय व्यानोऽयं कुरुते बलम्॥ करोत्युदान उक्रांतिं कंठस्थो ह्यन्यजन्मने॥४६॥ विभज्य पंचधात्मानमेवं देहे व्यवस्थितः ॥ उदानवायुनोक्रांतिरुक्ता बहिरथोच्यते ॥४७॥ आपो भूमिवियद्वायुतेजसां येभिमानिनः ॥ देवास्तद्रूपतः प्राणो धत्तें बाह्यमिदं जगत् ॥४८॥ पुनस्तद्वेवतारूप: शारीरांश्रक्षुरादिकान्॥ प्राणादीननुगण्हातीत्याध्यात्मं धारणं भवेत्॥४९॥ Digitized by Google रवेरनुग्रहश्रक्षुष्वस्ति स्तद्त्परेष्वपि ॥ अपानादिषु भूम्यादेरुपकारोस्ति शास्त्रतः ॥५०॥ तेजोदेवतयोदानोऽनुग्रहीतो यतस्ततः॥ शारीरौष्ण्ये प्रशांतेऽस्माद्देहाद्देहांतरं व्रजेत् ॥५१॥ मनस्येकीभवंत्यादाविंद्रियाणि तदात्मनः ॥ यं देहं भावयेत्तत्र याति प्राणः स जीवकः ॥५२॥
Page 72
अ०प्र० पट्सु प्रश्नेषु निर्णीतं प्राणं ध्यायति यः पुमान्॥ सोपाधिकब्रह्मवेदी सक्रमेण विमुच्यते॥५३॥ अ० ।।३१॥ ब्रह्मलोकांतसंसारोSपरविद्याफलं ततः ॥ गार्ग्यस्तु परविद्यार्थ पंच प्रश्नानवोचत॥५४॥ कानि स्वपंति कान्यत्र जाग्रति स्वप्नटक्क कः ॥सुपौ सुखं भवेत्कस्य जगत्कस्मिन्विलीयते॥५५॥ दशेंद्रियाणि बाह्यानि स्वपंत्यंतर्धिया सह॥ रशमयोस्तं यथा यांति संध्यायां रविणा सह ॥५६॥ श्रवणादिक्रिया नैव सुप्तलादिति गम्यते॥ तदापि जाग्रति प्राणाः श्वासादेरविलोपनात्॥५७॥ जाठरान्नि: पटुर्भूला भुंक्ते जरयते तदा॥ प्राणान् यागाग्निरूपेण ध्याला यागफलं व्रजेत्॥५८॥ बह्याक्षाणामुपरमे मनोनुपरतं यदा ॥ जीवात्मा तदुपाधिः सन् सदा स्वप्नमवेक्षते ॥५९॥ नाडीषु संचरन्जीवो नानाजन्मभिरर्जिताः॥वासना वीक्षते सोऽयं स्वप्न इत्यभ्िधीयते ॥६०॥ हच्छिद्राण्यावतानि स्युःसुप्ौ पित्ताख्यतेजसा। चित्तोपाधिकजीवोपि पित्तेनात्राभिभूयते ६१ दुःखळृत्युदयश्ित्ते नास्ति छिद्रनिरोधतः॥आत्मानंदः स्वप्रकाशस्तदा जीवस्य तिष्ठति॥६२। Digitized by Google सुप्तौ च प्रलये मुक्तौ जगदात्मनि लीयते॥ निवासवक्षे लीयंते संध्यायां पक्षिणो यथा॥६३॥ तन्मात्राणि च भूतानि ज्ञानकमेद्रियाण्यपि॥। अंतःकरणभेदाश्र शक्ती ज्ञानक्रियात्मके ॥६४॥ ।।३१॥ एतेषां विषयाः सर्वे द्रष्टृश्रोत्रादिनामकाः ॥ जीवोंऽतःकरणस्थोऽपि जगत्सर्वमिदं भवेत् ॥६॥
Page 73
न किंचिद्राति निद्रायां लीनं स्यातदवेक्षया ॥ सर्वेषां प्रलये यद्रन्मुक्तौ तत्त्वविदस्तथा॥६६॥ परमात्मा लयाधारो यथा तद्वत्स्थितेरपि॥ आधारस्तेन जगतः परमात्मोपलक्ष्यताम् ॥६७॥ उपलक्षयिता जीवो बुद्धौ चित्प्रतिबिंबकः॥ उपलक्ष्यं ब्रह्म तततु स्यादच्छायादिरूपकम् ॥६८॥ छाया तमस्तेन हीनं शरीरत्रयवर्जितम्॥ लौहित्यादियणैहीनं शुभ्रं क्रोधाद्यभावतः॥६९॥ अक्षरं नाशहेतूनामभावाड्रह्म तादृशम्॥ यो जानाति स सर्वज्ञ: सर्वात्मा च भवेत्खलु ॥७॥ सत्यकामस्तु पूर्वोक्तव्रह्मानुभवसाधनम् ॥I प्रणवध्यानमप्राक्षीत्फलभेदेन संयुतम् ॥७१॥ लोकेषु ज्ञानकर्मश्यां साध्येषु कतमं व्रजेत्॥ आमृति प्रणवध्यायी सविशेषमिदं वद॥७२॥ शृण्वोंकारः प्रतीकं स्यादपरस्य परस्य च ॥ ब्रह्मणोऽन्यतरद्रह्म प्रणवेन विचिंतयेत्॥७३॥ विराडाद्यपरं तद्दत्सत्यज्ञानात्मकं परम् ॥ मात्रात्रयविभक्तं तदपरं ब्रह्म चिंतयेत् ।।७४॥ विराडकारः सूत्रात्मोकारो ह्यव्याकृतं पुनः ॥ मकार इति विज्ञेयो विभागोऽपरचिंतने॥७५॥ Digitized by Google सूत्रव्याकृतविज्ञातहीनो यदि विचिंतयेत्॥ विराण्मात्रं तमोंकारं तदापि व्यर्थता न हि॥ ७६॥ ऋगाख्य देवाः सहसा भूलोंकं प्रापयंति तम्। पूर्ववासनया योगमभ्यस्यत्यधिकं पुनः।७७॥ विराट् सूत्रात्मकं मात्राद्वयं ध्याला तुनीयते॥ यजुर्षेदैः सोमलोकं पुनरावृत्तिसंयुतम्॥७८॥
Page 74
अ०प्र० विराट् सूत्राव्याकृतार्यं त्रिमात्रं प्रणवं स्मरेत्॥सामवेदैर्ब्रह्मलोकं नीयते मुक्तिकारणम्॥७९॥ अ० ।।३२॥ समस्तजीवसंघाख्यः सूत्रात्मा यः परोऽन्यतः ॥ तस्मादपि परं ब्रह्मतत्त्वं यत्तद्वेक्षते ॥८०। CIIIISII II NEEEES क्ममुक्तिर्भवेदित्थमपरब्रह्मचिंतनात् ॥ ॐकारेण परं ब्रह्म ध्यात्वेक्षिला च सुच्यते ॥८१॥ शांतं जरामृत्युहीनमभयं ब्रह्म यत्परमातच्चोंकारेण विद्वान् यः सोऽन्वेतीति पथक् श्रुतम्॥८२।। मुक्तौ प्राप्यं परं ब्रह्म यत्तस्य प्रत्यगात्मताम्। बुभुत्सुः सन् भरद्वाजः पुरुषं प्रषुमिच्छति॥८३॥ राजपुत्र: पोडशभिः कलाभिः पुरुषं युतम् ॥ अष्टच्छन्मां न वेदाहं वद तं पुरुषं मुने ॥८४॥ शृण्वसौ पुरुषो देहे हन्मध्ये भासते सदा॥ तस्मिन्प्राणादिनामांता माययोत्पादिता: कलाः ८५ प्राण: श्रद्धा खादिभूतपंचकं चेंद्रियं मनः॥ अन्नं वीर्य तपो मंत्राः कर्म लोकाश्र नाम च ॥८६। आरोपिताः कला यस्मिन् पूर्णोसौ पुरुषस्ततः॥ उपलब्धिस्तथाप्यस्य देहमध्ये प्रशस्यते॥८७ Digitized by Google चिद्रूपताऽत्र विस्पष्टा दर्शनश्रवणादिभिः ॥ अपैति जीवता दे हे स्थिते पूर्णतबोधनात्॥८८॥ जीवला पादकोपाधि: प्राणस्तस्माजनैःसदा।।प्राणोक्रांतिस्थिती स्वात्मन्यारोप्येते मुमुक्षुभिः८९ ।। ३२॥ कस्मिन्नुक्ांत उक्रांतिमाप्स्यामीति विचारयन्॥परमात्मासृजत्प्राणान् जनारोपो भवेत्ततः।।९०॥ जीवतस्यारोपितस्य निवृत्यर्थ चिदात्मनि ॥ देहस्थे पूर्णरूपेण पुरुषत्वं विबुध्यताम॥ ९१॥
Page 75
जगत्प्राणादिनामांतं सर्वमस्मिन्प्रकल्पितम् ॥ सर्वाधिष्ठानरूपलात् पूर्णलसुपपद्यते॥९२॥ नदीष्वब्धिं प्रविष्ठासु लीयेते रूपनामनी।कलास्वात्मनि बोधेन लीनास्वात्माब्धिवत्स्थितः॥।९३। एषोऽकालोऽमृतः पूर्णश्र्विदात्मा मुक्त उच्यते॥ एवं बोधयितुं सर्वे वेदांताः संप्रवर्ततिताः॥९४। कला: प्रतिष्ठिता यस्मिन् रथनाभावरा इव ॥ तं वेदं पुरुषं सर्वे जानीध्वं मृत्युहानये॥९५॥ कात्यायनादयः सर्वे शृणुध्वं मुनिपुंगवाः ॥ एतावदेव ब्रह्माहं वेद्मि नातोऽधिकं क्वचित् ॥९६॥ मुनयोऽप्यर्चयंतस्तं पिप्पलादं वचोब्रुवन्॥ संसारभयतोऽस्माकं पालनात्वं हि नः पिता॥९७॥ अविद्यायाः परं पारं यस्तारयति तस्य ते ॥ शुश्रूषामुचितां कर्त्तु न शक्ता:प्रणतिं विना ॥९८॥ गुरुभ्यः परमर्षिभ्यो भूयो भूयो नमो नमः ॥ इत्येवं पिप्पलादस्तान्मुनीननुग्हीतवान्॥९९॥ वेदैश्र्वतुर्िरुत्पन्ना विद्येयं ब्रह्मगोचरा ॥ प्रकाशितातः संतुष्याद्दिद्यातीर्थमहेश्वरः ॥१००॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे प्रश्नोपनिषद्विवरणंनाम सप्मोऽध्यायः॥७॥ Digitized by Google ऐतरेये तैत्तिरीये छांदोग्येथर्वणे च यत ॥ तत्त्वं चतुर्वेदविद्याप्रकाशे तत्समीरितम् ॥१॥ अनुभूतिप्रकाशेऽथ कौषीतक्यादिनामसु ॥ चतुर्वेदांगशाखासु यत्तत्वं तदुदीर्यते ॥२॥ /-१ अरा यथा रथाधिष्ठानकाष्ठे तिष्ठिति तद्वद् । 2303 11
Page 76
अ०प्र० ऋग्वेदस्थितशाखा या कौषीतक्यभिधांकिता॥ तस्यां प्रतर्दनायेंद्रः प्राहात्मानुभवं स्फुटम्॥३॥ ॥३३॥ मनुष्येभ्यो हिततमं वरं वब्रे प्रतर्दनः ॥ हितं हिततरं चेंद्रो मेने हिततमं घिया ॥४॥ अ० हितं स्वर्गसुखं मर्त्यसुखादप्यधिकलवतः ॥ तद्वैराग्यं हिततरं यागाद्यायासवर्जनात् ॥५॥ स्वात्मबोधो हिततमो नित्यानंदानुभूतिदः॥ इति मत्वेंद्र आहैतं शिष्यं जानीहि मामिति॥६॥ . सहस्राक्षोऽहमित्युक्तेर्मद्देह इति चेरणात्॥ अस्मच्छब्दो वपुस्तस्य स्वामिनं च व्रवीत्ययम्॥9॥ सहस्राक्षवपुस्तेन दष्टं स्वामी तु तद्दशा ॥ न द्रष्ठुं शक्यते लिंगातपुरैवानुमतः खलु ॥८॥ सहस्राक्षवपुः स्वामियुक्तं स्याव्द्यवहर्तृतः ॥ मच्छरीरवदित्येवं बालेनाप्यवबुध्यते ॥९॥ अतो बुद्धिमतो बोहुं योग्योऽस्मच्छब्दलक्षितः। विवक्षितःकश्रिवदर्थ इति शिष्येण निश्चितम् १० अलौकिकात्मा ज्ञेयोऽस्तु तद्विज्ञानेन कि फलम्॥ इति चेद्ुःखसंबंधराहित्यं तत्त्वधीफलम्११॥ तस्माद्विततमं ज्ञानं दुःखाभावोऽत्र वर्ण्यते॥ सहस्राक्षे स्थूलदेहे दुःखं रोगादिजंभवेत॥१२॥ Digitized by Google स्वामिन्यस्मिन्सूक्ष्म देहे पुण्यपापकृतं भयम्॥ लाग्ट्ादीनां वधेऽप्यासीद्रयं नैव चिदात्मनः॥१३॥ लट्टुः पुत्रो विश्वरूप आसीद्देवपुरोहितः॥ स्वामिद्रोहं चकारासौ तं लाषूं हतवानहम् ॥१४॥ कर्तरयभूद्रह्महत्या नलवसंगे चिदात्मनि ॥ वेदांतज्ञानहीनानां यतीनां हनने तथा ॥१५॥ ।।३३॥
Page 77
लोकत्रये बहुविधानसुरान् हतवानहम॥ चिदात्मनोऽपि मे तत्र नैव लोमापि हिंस्यते ॥१६॥ महात्म्यं मम नैतत्स्यात्किंतु ज्ञानस्य तद्गवेत्॥ अन्योऽपि मां,चिदात्मानंवेत्ति चेत्तत्फलं भवेत् १७ वाचा वा मनसा मातृवधादीन्कुरुते यदि॥ तथापि ज्ञानिनो मोक्षो न होतैविनिवार्यते ॥१८॥ पापं कृतवतोऽप्यस्य मुखे हर्षक्षयो न हि॥ न सुक्तिर्नश्यतीत्येवं शास्त्रैरस्य विनिश्रयात्॥१९॥ ननु मूढस्यापि नास्ति चिन्मात्रे पापलेपनम्॥ ततः कोऽतिशयस्तत्त्वविदःस्यादिति चेच्छणु २० अहंकर्तृगतं पापमज्ञात्वारोप्यते चिति॥ तेन ग्लानिर्मुखे भाति जन्मापि नरके भवेत् ॥२१॥ ज्ञानेन कर्मणस्तस्य बीजभावो विनश्यति॥ जन्मप्ररोहो नैवास्तीत्येवं निश्रिवित्य हृष्यति ॥२२॥ दग्धबीजं यथा लोके न प्ररोहक्षमं तथा ॥ ज्ञानाग्निदग्धं यत्कर्म न तज्जन्मप्रदं भवेत् ॥२३॥ तर्हि तत्त्वविदः श्रेष्ठा मूढवन्नियमेन तत् ॥ कुतः पापं त्यजंतीति चेद्रहस्यमिद शृणु ॥२४॥ यद्प्यामुष्मिकी हानिर्नास्त्यथाप्यैहिकी तु सा। महती विद्यते तेन पापं यत्नेन वर्जयेत्॥२५॥ Digitized by शिष्टास्त्यजंति पापिष्ठं प्रत्यक्षो नरकः स हि॥तन्निंदकस्तस्य पापं गहीला नरकं व्रजेत् ॥२६॥ Googfe स्तोता कर्मी तु संसर्गात्स्वयमप्याचरेत्तथा॥ इत्थं दोषत्रयं हृष्टा शिष्ठाः पापं त्यजंति हि ॥२७॥ १ परलोकहानिः। 0
Page 78
CEEEEEES अ०प्र० किं च पुण्यरतः पूर्व ज्ञानमाप्ोति नान्यथा । पश्राच्च तद्दासनया पुण्यमेव करोत्यसौ ॥२८॥ अ० कि बहूत्या त्त्वविदो न भ्यं पारलौकिकम्॥ उपदेशसइरुयां च तथाचार्यैरुदीरितम्॥२९॥ परलोकभयं यस्य नास्ति मृत्युभयं तथा। तस्यात्मज्ञस्य शोच्या: स्युः सब्रह्मेंद्रा अपीश्वराः ३० मां जानी हीत्येवमिंद्र: स्वात्मज्ञाने प्रवर्त्य तम्॥ प्राणोऽस्मीत्यादिवाक्येन तस्मै तत्त्वमवोचत॥३१ प्राणप्रज्ञे क्रियाज्ञानशक्ती दे लिंगदेहगे ॥ तदधिष्ठानरूपलात्ता्यामात्मोपलक्षितः ॥३२॥ प्रज्ञात्मा प्राणरूपोऽस्मीत्येवं तस्मा अवोचत। आनंदोऽक्षर इत्यादिनिर्णयस्तस्य उच्यते॥३३॥ अत्रोपायो नास्ति कश्विदुपाधिसुपलक्षकम्॥ विनात्मवाचकः शब्दो यस्मान्न क्वापि वीक्ष्यते ३४ लोके गुणक्रियाजातिरूढयः शब्दहेतवः ॥ नात्मन्यन्यंतमोऽमीषों तेनात्मा नाभिधीयते॥३५॥ उपाधिष्वपि सर्वेषु सामीप्यात्प्रत्यगात्मनः॥ प्राणप्रज्ञाद्वर्यं योग्यमत्यंतं तेन लक्ष्यते॥ ३६॥ Digitized by Google प्राणशब्दोऽभिधाृत्या वायुं चेष्टकमाह हि। प्रज्ञाशब्दो ज्ञानहेतुं बुद्धिं वक्ति स्वशक्तितः॥३७।। तद्चांत्यधिष्ठानतया तद्धेतुलोपचारतः॥ ताभ्यामात्मा लक्ष्यमाणो ज्ञेयः शाखाग्रचंद्रवत्॥३८। देहैंद्रियादयो भावा ज्ञानादिव्याप्टतिक्षमाः॥यस्य सन्निधिमात्रेण सोऽइमित्यवधारय॥३९॥ ।।३४! १ तटस्थलक्षणं । स्वकपलक्षणम्। २ एकोपि न। ३ गुणक्रियादीनाम्।
Page 79
अजडात्मवदाभांति यत्सान्निध्याज्जडा अपि॥ देहेंद्रियमनः प्राणाः सोऽहमित्यवधारय॥४॥ उपाधिलक्षितं तत्त्वं यदि बोहुं न शक्रुयाः ॥ तर्रुपाधिद्रयोपेतसुपास्व गुणसंयुतम् ॥४१॥ आयुष्यममृतत्वं च गुणौ प्राणस्य संमतौ॥ इहायुः प्राणतः स्वर्गे चामतत्वमिति स्फुटम्॥४२॥ सत्यसंकल्पता प्रज्ञागणो ध्यानानुसारतः॥फलमाप्नोति कामी चेन्निष्कामस्तत्त्वमीक्षते॥४३॥ उपास्त्यैकाग्यमात्वाथ तत्त्वं वीक्षितुमादितः॥प्रज्ञाप्राणावुपाधी तौ विविच्येतां यथातथम् ४४ श्रोत्रं तकुक्षुषी जिव्हा घ्राणो धींद्रियपंचकम्॥ वाक्पाणिपादपायूपस्थाः कर्मेद्रियपंचकरम४५ इंद्रियाणां प्रवत्तिः स्यात्प्रज्ञालोचनपूर्विका॥ प्राणवायुप्रेरिता चेत्येवं लोके व्यवस्थितिः॥४६॥ तत्र मूंढा: केचिदाहुर्युगपच्चक्षुरादयः ॥ सर्वेऽपि स्वस्वविषये प्रवर्त्तत इतीदशम ॥४७॥ तदसन्निपुणोऽप्यत्र न शक्तः सूक्ष्मीक्षितुम॥ कालाल्पत्वेन संछाद् ऋमं घूर्तो विडंबयेत्॥८।। प्रज्ञाप्राणसहायेन विना नैवेंद्रियं क्वचित ॥ प्रवर्तते सहायस्तु क्रमभावीति निश्च्ितः ।४९।। Digitized by Google अन्यथा निखिलं वेदं ूर्त्तो ह्येकक्षणे पठेत्॥या प्रज्ञाप्राणयोर्वत्तिः सा स्याद्वाग्वत्तिवक्रमात् ५० प्रज्ञाप्राणानुग्रहेण वाग्यदाह तदेतरे ॥। चक्षुराधा उपरतास्तामनुझ्ुवते खलु ॥५१॥ स्वव्यापारे प्रवृत्ताश्रेत्प्रज्ञाप्राणानुकर्षणात् ॥ वाचो विन्नो भवेद्दिम्नाचरणं ह्यनुवादिता॥५२॥
Page 80
अ०प्र० एव मन्यत्रापि योज्यमतः सर्वेपि संहताः॥ एकैकविषयो हुक्तो व्यवहारः क्रमाद्गवेत्॥५३॥ ।३५। क्रमभावी विचित्रोऽयं व्यवहारश्विदात्मना॥ येनैकेनेक्ष्यते सोऽयमन्यः सर्वेभ्य इष्यताम्॥५४॥ अ०
प्राणा वागादयः सर्वे किं समा उत विद्यते॥ श्रेष्ठस्तेष्विति चेत्प्राणः श्रेष्ठो जीवनकृत्त्वतः॥५॥ तस्मादुपेक्ष्य वागादीन्प्राणोपाधिः समाश्रितः॥ आत्मबोधाय किंचायं प्राण उत्थापयेद्दपुः॥५६ ननु सुप्तावयं प्राणो देहं नोत्थापत्यमुम्॥ किंतु जागरणे तस्मात्प्रज्ञैवात्र प्रयोजिका ॥५७॥ चतुर्भिरुह्यते यत्तु सर्वशत्त्या शरीरकम् ॥ तूलायते तदेवाहंधियाऽSघ्रातमितीक्ष्यते ॥५८॥ सत्यमेव ततः प्रज्ञोपाधि: प्राणवदाश्रितः ॥प्रज्ञात्मा प्राण एवैको मिलिलोपाधिरिष्यते॥५९॥ द्वयोर्मृतौ जीवने च सहभावात्तदेकता॥ उत्थापकल्वादुक्थं तदित्यैकाध्याय चिंतयेत्॥६॥ तत्रैकाय्ये क्षमा बुद्धिर्बोद्धं तत्साक्षिणं भवेत्॥ जगद्ेतुतयाप्येष प्राणः स्वात्मोपलक्षकः॥ ६१॥ Digitized by Google एकादशेंद्रियाण्येषां विषयाश् जगत्खलु ॥ सुप्तौ सर्व जगल्लीनं प्राणोपाधिक आत्मनि॥६२॥ इंद्रियाण्येव लीयंते विषया नेति चेन्न तत्॥ प्रातीतिकस्य जगतो मानाभावो लयो मतः॥६३॥ प्रातीतिकत्वं वेदांतसिद्धांते जगतः स्फुटम्॥ अतः सुप्ौ जगल्लीनं प्रबोधे जायते पुनः ॥६४॥ प्राणप्रतीतिरप्यस्य सुपौ नास्तीति चेत्तदा॥ प्राणोक्तिरन्यदष्टयैव प्राणे नात्मोपलक्ष्यते ॥६५। ।। ३५।
Page 81
प्रबोधे स्वात्मनोऽक्षाणि जायंते विस्फुलिंगवत्।तेभ्योऽभिमानिदेवाः स्युर्देवेभ्यो विषया इमे६६ दृष्टिसृष्टिमिमां ब्रह्मानुभवी बहु मन्यते ॥ स्वप्नबोधात्स्वसंसारो लीयते स्वप्नवद्यतः॥६७॥ न्यायेनानेन मरणे मूर्च्छादौ चोह्यतां लयः॥ लीनस्य पुनरुत्पत्तौ व्यवहारक्रमं शृणु ॥६८॥ प्राणोपाधिकजीवात्मा यदा व्यवजिहीर्षति॥तदा वाक सृजते शब्दं जीवो वाचा त्रवीति तम ६९ एवं सर्वत्र विज्ञेयं प्राणे सर्वाप्तिरीरिता । प्रज्ञा प्राणादभिन्नाऽतस्तस्यां सर्वाप्तिरुच्यते ॥७० ॥ वाक् प्रज्ञाया एकमंशमभिमानाख्यमाश्रिता॥ प्रज्ञाभिमानवशतःशब्दोच्चारणशक्तियुक्॥।७१॥ शरीरगा लगप्येवं शक्ताभूत् स्पर्शजे सुखे॥ रतौप्रजातावानंदे चोपस्थः शक्तिमानभृत् ॥७२॥ कीडा चोत्पादनं वीर्यमोक्षश्र्वोक्तमिदं त्रयम्॥ध्येये ज्ञेये च काम्यादौ चित्तं शक्तमभूत्खलु॥७३॥ सवेद्रियेषु प्रज्ञाया अभिमानोऽवधार्यताम्॥ अन्वयव्यतिरेकाभ्यामुदाहार्योऽखिलेष्वसौ।७४॥ प्रज्ञया वाचमारुह्य जीवो नामाभिवक्ति च ॥ अन्यचित्तोऽभवं तेन नावोचमिति चोच्यते ॥७॥ Digitized by Google वक्ष्यामीत्यभिमानोऽयं वागारोह इतीर्यते॥ध्यास्यामीत्यभिमानात्तुचित्तारोहस्तथा भवेत्॥७६॥ 38 अभिभानोऽपि धीटत्तिः सापि पूर्व भवेदथ॥ धिया ध्यानादिरित्येका धी: क्रमात्कुरुते द्यम् ७७ यथा प्राणे जगत्सर्व लयोत्पत्योरवस्थितम्। प्रज्ञायां च तथा सर्व स्थितिकाले व्यवस्थितम् ७८
Page 82
अ०प्र. प्रज्ञाप्राणौ ततो मुख्योपाधी स्वात्मावबोधने॥ तद्दारेणावबोद्धव्यो जीवात्माSSदौ विवेकिना ७९ वाचा नामाभिवदनं यत्तत्स्यात्कर्तपूर्वकम ॥ क्रियात्वात्कृषिवत्कर्ता चाहमित्यनुभूयते॥८॥ अ० ।३६॥ शब्दादिविषयेऽहंधी: केनापि न हि शक्यते॥ देहेंद्रियेष्वपि तथा मदीयत्वावभासनात्॥८१॥ आनखाग्रमहंकारो वपुर्व्याप्यावतिष्ठते॥ चिद्विंब प्रतिबिंबा्यां व्याप्तोऽसौ कर्तृतां व्रजेत् ॥८२॥ क्रियावांश्र्वेतनः कर्त्ताहंकारस्तादशस्ततः॥। कर्ता भूत्वाखिलैरक्षैर्व्यापारान्कुरुतेऽखिलान्।।८३।। जीवात्मानं विविच्येत्थं चेतनं प्राणधारिणम्॥ विविच्यात्परमात्मानमानंदं शुद्धचेतनम्।। ८४॥ प्रतिबिंबाहंकृतिभ्यां बिंबं निष्कृष्य साक्षिणम्॥ ब्रह्मेति विद्यात्सर्वस्य तस्मिन्नारोपितत्वतः।।८५।। प्रज्ञामात्रा भूतमात्रा ग्राह्यग्राहकरूपतः॥ संसारं निर्वहंत्यस्मिन्नात्मतत्त्वे प्रकल्पिताः ॥८६॥ चक्रस्यारास्वाश्रिता स्यान्नेमिर्नाभावरास्तथा॥।अक्षेषु विषयास्तानि चात्मनि प्राणलक्षिते।।८७।। Digitized by Google चेष्ठाकल्पनहेतुत्वात्प्राणो धीकल्पनस्य च ॥ हेतुत्वेन भवेत्प्रज्ञा ततस्त्वानंद एव हि॥ ८८॥ परप्रेमास्पदतया सर्वेषां यो विभात्यसौ॥ नित्यानंदपरात्मा स्याज्जरामरणवर्जितः ॥८९। न पुण्येन भवेद्देवो न पापेन पशुर्भवेत् ॥ चिच्छायावानहंकार एव स्यात्पुण्यपापवान् ॥ ९०॥ तदीये पुण्यपापे दे देहस्थे च जरामती॥ स्वात्मन्यारोपयेन्मूढस्ततो देवादिजन्मभाक्॥९१॥ ।३६॥
Page 83
आरोपे बाधिते बोधात्कर्म स्याद्दग्धबीजवत्॥ ततो जन्मांकुरो नास्ति निर्लेपे परमात्मनि॥९२॥ कार्योपाधेरभावेऽपि कारणोपाधिमतवतः॥कर्मास्यास्त्विति चेदीशः कर्माध्यक्षो न कर्मकृत्॥९३॥ कारयित्वा पुण्यमेष कर्त्तारं स्वर्गमापयेत्॥ पापं तु कारयित्वा तं नरकं प्रापयेदसौ ॥ ९४॥ पर्जन्यवत्प्रेरकत्वान्नास्य वैषम्यमापतेत् ॥ शाल्यादीन्बहुधा वृष्टिर्वर्धयेद्विषमापि नो ॥९५॥ उत्तमाधमभावोऽत्र तत्तद्वीजेन कारितः ॥ तारतम्यंच जीवेषु स्वस्ववासनया कृतम् ॥९६॥ मातृवत्पालयेल्लोकं शिक्षयेत्पितृवत्प्रभुः॥ स्वमी स्याद्राजवत्सोऽयं ममात्मेत्यवगम्यताम्॥।९७॥ मायोपाधौ स्थिते तस्य मिथ्यात्वं बुध्यते ततः॥ संसारी जीववन्नेशः स्वानंदैकरसोह्ययम्॥।९८॥ अखंडैकरसानंदो मुक्तोऽयं स्वात्मदृष्टितः ॥ संसारिदृथ्या सर्वेश इति विद्वि प्रतर्दन ॥ ९९॥ इंद्रानुग्रहतः सोऽभूत्कृतकृत्यः प्रतर्दनः ॥ एतद््याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः॥१००॥ इति श्रीविद्यारण्य अनुभू० कौषीतकीशाखाविवरणे इंद्रप्रतर्दनसंवादोनामाष्टमोऽध्यायः॥८॥ Digitized by Google राजा बालाकये प्राह विप्राय ब्रह्मवेदनम्॥ कौषीतक्याख्यशाखायामत्र स्पष्टीकरोमि तत्॥१। दप्तो बालाकिरपरब्रह्मवित्स कदाचन॥ अजातशत्रुं काशीशं बुबोधयिषुरागतः ।२॥ अजातशत्रुर्रह्मात्मवेदनाच्छौर्यतोपि च । अंतर्बहिश्र निःशत्रुः काश्यां राजा बभूव सः॥३॥
Page 84
अ०प्र० गर्गगोत्रजविप्रोयं बालाकिर्नैव तत्त्ववित् ॥ किंतु प्रणोपासकोयं दर्पेण महताऽऽटतः॥४॥ अ० ।।३७।। राजन्वुभुत्सवे तुभ्यं परं ब्रह्म ब्रवाण्यहम्॥ इत्युत्कादित्यपुरुषं ब्रह्मोपास्वेत्यवोचत ॥५॥ राजा निवार्य तं प्राह फलं ध्येयगुणानपि ॥ एवं पंचदश ब्रह्माण्यप्यत्रासाववोचत ॥६॥ चंद्रे विद्युति मेघे खे वायावऔ्नौ जलेऽपि च ॥ आदर्शे श्रवणे गंतृशब्दे छायाकृतावपि ॥७॥ देहे स्वप्ने दक्षिणेऽक्षिण्यपि वामेऽब्रवीक्मात्॥ सर्वत्र राज्ञा प्रत्युक्तो विप्रस्तृष्णामवस्थितः।।८।। अजातशत्रू राजा तं परब्रह्मविदुक्तवान् ॥ परब्रह्म वदिष्यामीत्युक्तिस्तव मृषा भवेत् ॥९॥ जगतः पुरुषाणां च कर्तृ ब्रह्मेति बुध्यताम्॥ बालाकिः परविद्यार्थ राजानमुपसन्नवान्॥१०॥ राजा नांगीचकारैतत्स्वजातेरधमत्वतः॥ गरुत्वं नास्ति मे तुभ्यं ब्रह्म विज्ञापयाम्यहम्॥११॥ इत्युक्का पाणिना विप्रमादायांतःपुरं गतः॥सूत्रात्मैव परं ब्रह्म प्राणो जीव इतीहशः ॥१२॥ Digitized by Google बालाकेर्निश्र्वयस्तस्य व्यावृत्यै स्पष्टमाह तम्॥ सुषुप्ते पुरुषे प्राणो न लीनश्र्क्षुरादिवत्॥१३॥ जीवश्रवेत्प्रतिबुध्येत समाहूतः स्वनामभिः॥इति मलाव्हयत्प्राणं शास्त्रीयैस्तस्य नामभिः ।१४॥ नोत्तस्थौ स पुमान् किंतु शिष्य एवात्र पूर्ववत्॥।यध्ासौताडितः सुप्तः समुत्तस्थौ लरान्वितः १५ यथा भस्मावतो वन्हिर्वायुना ज्वाल्यते तथा॥ प्राणो नात्मा बोधहोनो घटवदस्तु बुध्यते॥१६॥ ।।३७।।
Page 85
इंद्रियैः सहितो भोक्ता जीवोऽसौ चेतनलतः ॥ द्वा सुपर्णेति मंत्रेण चेतनौ द्ावु दीरितौ ॥१७॥ तयोरन्यतरो भोक्तानश्नन्नन्यः प्रकाशते॥ चिच्छायावानहंकारो व्याप्तो जागरणे पुमान्॥१८॥ इंद्रियैर्विषयान् भुंक्ते तं बोद्दारमबुध्यत । प्राणात्मवाद्यसौ भोक्तृबोधेनैवातिविस्मितः ॥ १९॥ बुद्ध ब्रह्मेति संतुष्ठो नान्यत्प्रष्ुमपैक्षत ॥ ज्ञापयिष्येहमित्येवं राज्ञा तस्मै प्रतिश्रुतम् ॥२०॥ शिष्टं बोधयितुं तस्मात्स्वयं प्रश्नांश्र्वकार सः॥मंदधीरपि यः श्रोता श्रद्धालुर्विनयान्वितः॥२१॥ अषटष्टेनापि वक्तव्या तस्मै विद्येति शास्त्रधीः।यो भोक्ताऽत्रोत्थितः सोडयं क्काशयिष्ट पुरा क्व वारर अभूद्दीरहिता सुप्ति: कुतो वागादयं पुमान्॥ बालाकिना अविज्ञातमिदं सर्वमिति स्वयम्॥२३॥ निश्चिचित्य त्रितयस्यास्य निर्णयं स्पष्टमत्रवीत्॥ हृदयं कमलाकारं देहमध्येऽस्त्यधोमुखम् ॥२४॥ नाड्यस्तस्माद्विनिर्गत्य व्यापुवंत्यखिलं वपुः॥ अहंकारोपाधिरात्मा जीवो भूला हदि स्थित:२५ Digitized by Google नाडीभि: प्रसृतः सोऽक्षैर्जानन् जागरणे स्थितः॥बाह्यभोगप्रदं कर्म यदा क्षीणं तदा पुनः।२६। वासनाभोगदे कर्मण्युहुद्धे स्वन्नभाग्भवेत्॥ स्वन्ननाडीष्ववेक्ष्याथ कर्मणोऽस्यापि संक्षयात्॥।२७ हृदि संकोचमाप्नोति सा सुषुप्तिरितीर्यते॥ नाडीमूलानि हत्पझे पुरीतद्वेष्टितेऽवसन्॥२८॥
Page 86
अ०प्र० यानि तेषुं प्रविश्यांतर्लीयते परमात्मनि ॥ परमात्मा स्वतः पूर्णः सच्चिदानंदलक्षणः॥ २९॥ अ० ।।३८।। सोहंकारपरिच्छिन्नो जीवलारोपवान्भवेत्॥ अज्ञानकार्योऽहंकारोऽवस्थितः फलभुक्तये॥३०॥ 1 ९॥ फलदे कर्मणि क्षीणे लीयतेऽसौ स्वकारणे॥ पूर्णेनैक्यमवाप्नोति परिच्छिन्नो यथा घटे॥३१॥ नष्टे घटाकाश ऐक्यं वियता महता व्रजेत्॥ यदा न कंचन स्वन्नं पश्येत्सुप्तस्तदाखिलम्॥।३२॥ विषयेंद्रियजातं यत्तत्प्राणे प्रविलीयते ।। प्राणशब्दो वायुमाह परमात्मानमप्यसौ॥ ३३॥ प्रविष्टचेष्ठाहेतुतमुभयंत्रापि विद्यते॥ वायौ श्वासक्रियाः सर्वाः सृष्टिस्तु परमात्मनि ॥३४॥ दृष्टिभेदाद्डयोश्र्वाक्षलयो वक्तुं हि शक्यते॥ सुप्तस्याक्षलयः प्राणवायाविति तटस्थधीः॥३५॥ अद्वैते द्वैतविलयं मन्यते सुप्त उत्थितः ॥ सुप्ताभिप्रायमाश्रित्य परात्मनि जगल्लयः॥३६॥ श्रुत्युक्तस्तेन पूर्वोक्तप्रश्नयोरुत्तरं अवेत् ॥ क्वैषोऽशयिष्ठ कुत्रेयं सुप्तिस्तत्रोत्तरं क्रमात् ॥३७॥ परात्मन्यशयिष्ठाभूदज्ञाने सुप्िरित्यदः॥ परिच्छिन्नस्य पूर्णात्मतादात्म्यं शयनं भवेत् ॥ ३८॥ Digitized by Google साहंकारस्य जगतो विलयः सुप्तिरुच्यते॥ कुत आगादिति प्रश्नस्योत्तरं दृशयतामिदम्॥३९॥ ।।३८! अज्ञानेनाळतात्पूर्णादागच्छति परात्मनः ॥ यदा प्रबुध्यते सुप्तस्तदाग्नेविस्फुलिंगवत् ॥४०॥ १ इंद्रियाणि। २ नाडीपु। ३ अज्ञाने। ४ वायवात्मनोः ।
Page 87
प्राणा यथायर्थं तस्माज्जायंते परमात्मनः॥ प्राणाभिमानिदेवानामग्न्यादीनां जनिस्ततः॥४१।। लोक्यंते विषया अक्षैस्ते देवेभ्यः समुद्रताः॥सर्वसाधारणः सर्ग एकः प्रातिस्विकोपरः ॥ ४२॥ आकाशादिकमादाद्यः प्राणादिकमतोपरः॥सर्वेषां प्राणिनां कर्मक्षये स्यात्प्रलयो महान्॥४३। पुनः कर्मोंद्गवे तेषां स्यान्महासृष्टिरीश्वरात्॥ एकस्य कर्मणि क्षीणे प्रलयः सुप्तिनामभृत्॥४४॥ पुनः कर्मोद्गवे तस्य सृष्टिः स्याज्जागराभिधा ॥ अद्वैततत्त्वबोधाय सृष्टिः सर्वत्र कथ्यते ॥४५॥ अल्पा सा महती वास्तु सदद्दैतं विबुध्यते॥ प्रौढस्य राजगेहस्य द्वारं स्यात्पुरतो महत्॥४६॥ एष्ठतोंऽतःपुरद्वारं चोरद्वाराख्यमल्पकम् ॥ महाद्वारेण सहसा दुर्लभं राजदर्शनम्॥४७॥ जनसंमर्दबाहुल्याद्काराणां च बहुलतः ॥ अल्पद्वारे स्वामिभक्तो हठाद्राजानमीक्षते ॥४८॥ दृष्टिसृष्यानुंभूत्यर्थी वेत्यात्मानं तथा हठात्। महासृष्ठया तत्पदार्थमादौ ज्ञाला तथा पुनः।४९।। तंपदार्थ शोधयित्वा वाक्याद्वोधो विलंबते ॥ तस्मादिहाजातशत्रुर्बालाकेरविलंबतः ॥५०॥ Digitized by Google प्रत्यग्ब्रह्मतबोधार्थ दृष्टिसृष्टिमवोचत । सुप्तावासीददज्ञानमहंकारलयोऽत्र हि॥ ५१॥ सोऽहंकार: कर्मभोगकाले स्यात्पुनरुद्रतः ॥ तेनावच्छिन्न आत्मापि कर्त्ता भोक्तापि पूर्ववत्॥५२॥ १ इंद्रियेभ्यः । २ पुरुषः।
Page 88
अ० = अ०प्र० भोक्तुरात्मन उत्पन्नं भोगसाधनमिंद्रियम् ॥ इंद्रियप्रेरको देवातुग्रहस्तत उद्गतः ॥ ५३॥ ।३९॥ अक्षेभ्योऽनुगहीतेभ्योलोका भांति समुद्रताः॥।सेयं प्रातीतिकी सृष्टिस्तस्माज्जाता ततःस्वयम्५४ अ०
चगत्कर्ता परात्मेति क्षणाद्वालोऽपि बुध्यते॥ ईश्वरो महिमोपेतः सोऽ्यन्न इति वासना ॥५५॥ धीमतां चिरमारूढा वियदादिक्रमस्ततः।किं बहूत्त्याऽस्तु या का चित्सृष्टिः सा मायिकी तंतः५६ अद्वितीयानंद आत्मा सुषुप्तावनुभूयते ॥ अहंकारो मायिको यस्तदवच्छिन्नचेतनः ॥५७॥ आत्मा जागरणे कृत्स्नमानखं व्यापुयाद्दपुः॥गूढोऽग्निररणौ व्यापी तथा सुप्तौ चितिर्वपु: ५८ व्याप्नोत्यविद्यया गूढी जागरे क्षुरवत्स्थिता॥नापितस्य क्षुराःपात्रे स्पष्टा भांति पृथक् स्थिता:५९ चक्षुरादिषु चिल्लेखाः स्पष्टा भांति पृथक् तथा॥ सर्वेऽपि करणात्मानः कर्त्रात्मानमिमं सदा॥६०। अनुसृत्यैव तिष्ठति श्रेष्ठिनं स्वजना इव॥ पुत्रमित्रादिभिः स्वीयैः सार्द्व श्रेष्ठी धनी सदा॥६१।। भुंक्ते तैंपि तदिष्ठार्थ कुर्वैतो भोजयंति तॅम्॥ एवं जीव: स्वकीयाक्षैः सार्द् शब्दादिकान्सदा।६२ Digitized by Google भुंक्तेऽक्षाणि च शब्दादीन् गृण्हंति स्वामितुष्टये।। यत्र तिष्ठति भोक्तासौ सुप्ौ जागरणे पुनः६३ यस्मादुदेति सोऽद्वैतः परमात्मेति बुध्यताम्॥ इत्थमद्वैतबोधार्थमहंकारे परेश्वरः ॥६४॥ ॥।३९॥
१ ईश्वरात्। २ चितिः। ३ श्रेष्ठिनं पुरुषं। ४ ते पुत्रमित्रादयः। ५ श्रेष्ठिनं पुरुषं।
Page 89
स्पष्टचित्प्रतिबिंबोऽभूदिति श्रुत्यंतरे श्रुतम्॥ यावदद्वैतमात्मानमिंद्रो नैव विजज्ञिवान् ॥६५॥ असुरा बहिरंतस्थास्तावदभ्यभवन्निमम्॥ बहिष्ठा असुराः स्वर्गे स्थितमेनं बबाधिरे॥६६॥ आंतरा असुराश्र्िते कामाद्या दुःखदायिनः ॥यदा विजज्ञावात्मानमसुरानखिलांस्तदा ॥६७।। 888888 हला जयेन देवानां श्रैष्ठ्यं स्वाराज्यमाप्तवान्॥ अजातशत्रुतामेति जातब्रह्मात्मबोधतः ॥६८। अंतर्बहिर्वा कः शत्रुर्मम सर्वात्मदर्शिनः॥ ब्रह्माद्याः स्थावरांता ये प्राणिनो मम ते वपुः ॥६९॥ कामक्रोधादयो दोषा जायेरन्मे कुतोऽन्यतः॥ असुराणां स्वात्मताप्तावसुरतं इतं भवेत् ॥ ७०॥ अयमेव जयस्तस्य देवेभ्यः श्रेष्ठता ततः ॥ अद्वैतमपराधीनं स्वराट् स्यात्तेन तत्त्ववित्॥७१॥ आत्मानं बोधयित्वैषामधिपोधिकपालनात्॥ नैतदिंद्रस्य माहात्म्यं किंतु ज्ञानस्य तत्त्वतः॥७२॥ अन्योऽप्यद्वैतमात्मानं वेत्ति चेदिंद्रवद्रवेत्॥ अजातशत्रुर्बालाकिं विप्रमित्थमबोधयत्॥७३॥ Digitized by Google तथैवोत्तमतागर्व त्यत्का जानीत बुद्धिमान्॥I विद्वानप्युपसन्नाय दद्याद्दिद्यां महादरात्॥७॥ देयात्ता्यां स्वभावं तं विद्यातीर्थमहेश्वरः॥७५॥ ॥ इति श्रीविद्यरण्यविरचिते अनुभूतिप्र- काशे कौषीतकीशाखोपनिषद्विवरणोनाम नवमोऽध्यायः॥९॥॥ = = =
Page 90
अ०प्र० यज्ञदानादि कृत्यं ते जातं विविदिषोदयात्॥ सफलं न पुनः कर्म कर्त्तव्यं तेऽ्र विद्यते ॥२५॥ अ० विषयासक्तिरेवास्य ज्ञानस्य प्रतिबंधिका॥ एषा तु नास्ति ते ज्ञानं हस्तप्राप्तमिव स्थितम्॥२६॥ संसारहेयतां बुड्धा त्यक्त तस्मिन्नशेषतः॥ योऽवशिष्टो भाति सोऽयमेवात्मेत्यवगच्छ भोः॥२७॥ अवशिष्टोऽयमात्मासावहमित्येव गम्यते ॥ मतभेदादहंबुद्दिर्बहुष्वस्त्यत्र को भवेत् ॥२८॥ ग: कर्त्ता च साक्षीति त्रयो वादिभिरीरिताः॥ आत्मानस्तेषु कतमो भवतोऽभिमतो वद॥२९॥ क्ष्यात्माभिमतो नान्यौ तयोदोषास्त्वयेरिताः॥ संसारांतःपातिनौ तौ न तयोरात्मतोचिता ३० चाक्षुषव्यवहारेऽस्य भासकत्वेन साक्षिता। विवेक्तुं शक्यते तस्मादक्ष्युपाधौ स उच्यते॥३१॥ देहमध्येऽस्ति हत्पझ्ं नाडीयुतमधोमुखम्॥ नाड्यस्तूर्ध्वमधश्रैतं देहं व्याप्य व्यवस्थिताः।३२॥ अहंकारोऽत्र चिद्युक्त: कर्त्ता भोक्ता हृदि स्थितः॥ मनोंतःकरणं स्थिला हृदि वृत्त्या बहिर्व्रजेत्३३ रश्मिवत्प्रसृता वृत्तिर्नाड्याप्नोत्यक्षिगोलकम्॥ अस्वतंत्रा बहिश्रक्षुरिंद्रियेण सह व्रजेत्॥३४॥ Digitized by Google वृत्त्यवच्छिन्नचैतन्यं घटाकाशवदेतया ॥ वृत्त्या सह बहिर्गला तत्राज्ञानं नुदेक्क्षणात् ॥३५॥ तहृत्यागमनात्पूर्वमज्ञानेन समाृतम् ॥ बाह्यं जगत्तदज्ञानं तया वत्याऽपसेर्यते॥३६॥ १ नश्येत्। २ दूरीक्रियते।
Page 91
वर्तिनिष्ठो यथा दीपस्तमो नाशयते तथा॥ चैतन्यं वृत्तिनिष्ठं यत्तदज्ञानस्य नाशकम्॥३७॥ एष हन्निष्ठचैतन्यपदार्थोऽक्ष्णा बहिर्गतः॥ व्यापुवन्निखिलं तत्र व्यथां नाप्नोति कांचन॥ ३८॥ प्रतिकूलात्तु विषयाद्या व्यथा सा तु मानसी॥ न चैतन्यगतेत्येवमाचार्याः स्पष्टमब्रुवन्॥३९॥ दुःखी यदि भवेदात्मा कःसाक्षी दुःखिनो भवेत्।दुःखिनःसाक्षिता नैव साक्षिणो दुःखिता तथा४० नर्त्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः॥।धीविक्रियासहस्राणां साक्ष्यतोहमविक्रियः४१ यः साक्षी चित्पदार्थोऽसौ जीवात्मा तस्य जीवता॥ अहंकारेण तादात्म्यभ्रांत्यैव परिकल्पिता ४२ आत्माहंकारदेहाभ्यां युक्त: कलुषितः पुरा ॥ विवेचितः स्थूलदेहादीषदेव प्रसीदति ॥४३॥ बोधयित्ा जीवतत्वं जीवस्य ब्रह्मरूपताम्॥ बोधयामास सोऽप्यात्मा स्वेन रूपेण तिष्ठति।।४४॥ अहंकाराद्विविक्तश्रवेत्तदा सम्यक् प्रसीदति।आधिव्याध्याख्यकालुष्यंन चिन्मात्रेऽस्ति किंचन४५ एष साक्षीसंप्रसादो देहद्दयसमुत्थितः॥ शास्त्रसिद्धं परं ब्रह्म ज्योतिः प्राप्ोति वाक्यतः ॥४६॥ Digitized by Google मत्तोऽन्यड्रह्म परमं स्वप्रकाशमिति भ्रमः ॥ पुरासीत्तत्वमस्यादिवाक्येनासौ निवर्तते ॥४७॥ 383 अब्रह्मतभ्रमापायो ज्योतिःप्राप्तिरितीर्यते॥ ततोऽयं ब्रह्मणा स्वेन रूपेण व्यवतिष्ठते ॥४८॥ एवं व्यवस्थिते योऽसावात्मानुभवगोचरः ॥ स एव मृतिभीत्यादिरहितं ब्रह्म नेतरत् ॥४९॥
Page 92
38 अ०प्र० श्रवणं मननं ध्यानं विद्याया: साधनं त्रयम्॥ अज्ञानं संशयो ध्रांतिरित्येतेषां निवर्तकम् ॥५०॥ अ० गुरूपदेशश्रवणादज्ञानं विनिवर्तते ।। उपपत्तिपरामर्शात्संशयानां निवर्तनम् ॥५१॥ निरंतरध्यानतस्तु नश्यति भ्रांतिवासना ॥ राजन् ते श्रवणं जातं मननं कुरु यत्नतः ॥५२॥ प्रमाणे संप्रदाये वा तत्वे वा संशयो भवेत्॥ उदितेऽनुदिते वेति होमः शास्त्राद्विकल्पितः॥।५३। न तथा ब्रह्मविद्येयं सर्वोपनिषदीरणात्॥ न प्रमाणे संशयोऽतः संप्रदायेऽपि नास्त्यसौ॥५४॥ शाखाप्रवर्तको मैत्रो मह्यमाह न चापरः॥ सोऽपि किंचिदुपाख्यानमुदाहृत्य ममाब्रवीत् ॥५५॥ तत्त्वस्य संशयोऽपैति तदाख्यानमिदं शृणु॥ मुनयो वालखिल्या ये ते प्रजापतिमब्रुवन्॥५६॥ अचेतनं शरीरं तत्केन चेतनवत्कृतम् ॥ प्रेरको वास्य को ब्रूहीत्युक्तः प्रत्यब्रवीदसौ ॥ ५७॥ वेदानासुत्तरे भागे श्रूयते परमेश्वरः ॥ स करोत्युभयं तस्य तात्विकं रूपमुच्यते ॥५८॥ Digitized by Google अज्ञान मिश्रणाभावात् शुद्ध: पापविवर्जनात्॥ पूतो रूपेण नाम्ना च हीनलाच्छून्यमुच्यते॥५९॥ शांतः क्रोधादिराहित्याद प्राणोऽचेष्टकलवतः॥ ईशलोपाधिराहित्यादनीशात्मा स्वतो भवेत्॥६॥ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ॥ कार्यकारणतां हित्ा पूर्णबोधोवशिष्यते ॥६१॥ ।४२॥
१ परमेश्वरस्य यथार्थरूप।
Page 93
देशात्कालाद्वस्तुतश् परिच्छेदविवर्जनात्॥ अनंतोऽपक्षयाभावादक्षयोऽचलनात्स्थिरः॥६२। नित्यस्फूर्त्या शाश्वतोऽयमजो जन्मादिवर्जनात्॥ स्वतंत्रो न पराधीनःस्वमहिस्रै वतिष्ठति॥।६३।। महिमाश्र्र्यरूपल्वादखंडैकरसात्मता ।। आधारांतरराहित्यात्स्थितिरत्रोपचर्यते ॥ ६४ ॥ अनिच्छस्येद्ृशस्यैतद्वेहनिर्वहणं कथम् ॥ इति चेत्स्वांशरूपेण देहेऽवस्थाय निर्वहेत् ॥६५॥ स एवोक्तो देहसाक्षी विद्वद्विरतुभूयते । नेतरैः सूक्ष्मरूपोऽयमिंद्रियाविषयत्वतः ॥६६॥ पूर्णत्ात्पुरुषाख्येऽसौ देहे स्वांशेन वर्त्तते॥ बुद्धिपूर्व यथा सुप्तः स्वेच्छया प्रतिबुध्यते ॥६७॥ अध्यापकः प्रदोषेषु मध्यरात्रे प्रबुध्यते॥ स्वेच्छया परमात्मापि तथात्रांशेन वर्तताम् ॥६८॥ प्रतिदेहं तु चिन्मात्रो घटाकाश इव स्थितः॥ देहं साक्षितया जानन् क्षेत्रज्ञ इति कथ्यते॥।६९॥ संकल्पाध्यवसायाभिमानैरेषोऽनुमीयताम् ॥ सर्वैरक्षैरुपेतल्वात्संकल्पाद्यस्य संभवेत् ॥७ ॥ तेनावच्छिन्नचैतन्यरूपेणेदं वपुः सदा ।। चेतनीकृत्य कार्येषु प्रेर्यतेऽश्वैर्यथा रथः ।। ७१॥ Digitized by Google अखंडैकरसस्यांशो नेति चेच्छ्रयतामिदम् ॥ अखंडैकरसात्मैव माययेश्वरतामगात् ॥ ७२॥ मायाया अनृतलेन नाखंडलं विरुध्यते॥ मायायां स्वच्छरूपायामात्मायं प्रतिबिंबति ॥७३॥ तदुपाधिक ईशोऽभूत्सृष्टे: प्रागेक एव सः॥ अतो नारमतैकाकी राजामात्यादिको यथा॥७॥
Page 94
।1४३1 "लअ०प्र० द्यूतक्रीडामिवेशोऽसौ सृष्टिकीडामवैक्षत॥ द्रव्यांतरमुपादानमदृष्टा स्वंव्यचारयत्॥ ७॥ अ० बहुस्यामहमेवात्र प्रजारूपीति चिंतयन्॥ देहानसृजत स्थूलान्पाषाणप्रतिमा इव ॥७६॥ स्वयमेव यथा स्वप्ने गिरिनद्यादिरूपतः ॥ कल्पितो भात्यसावात्मा भालेवं बहुरूपतः॥७७॥ ज्ञानक्रियाशक्तिहीना देहाः क्रीडार्थमक्षमाः।। इत्यालोच्य क्रियाशक्तिः प्राणो भूलांतराविशत्७८ श्वासाधोगत्यन्नसाम्योद्वारादिव्याप्रिसिद्धये॥ पंचधा व्यभजत्प्राणं प्राणोपाधिक ईश्वरः॥७९॥ उपांश्वंतर्यामिसंज्ञौ ग्रहौ दौ सोमयाजिनः॥ नियतौ तद्वदुछासनिश्वासौ प्राणिनामपि॥८०॥ लोहकारः स्वहस्ताभ्यां पर्यायेण दतिद्वयात्॥वन्हिं ज्वालयते यदज्जाठरो ज्वाल्यतेऽनलः।।८१॥ निश्वासोछाससंदाप्तो भुक्तं पाचयतेऽनलः ॥ ईशस्य जाठराग्निलाकारो अगवतेरितः ॥८२॥ अहं वैश्वानरो भूला प्राणिनां देहमाश्रितः ॥ प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥८३॥ कर्णो पिधाय यं घोषं शृणोत्यंतः स जाठरात्॥ वन्हेर्जातो सुमूर्षुस्तु नैनं घोषं शृणोति हि॥८४।। Digitized by Google औष्ण्योपेतं पंचविधा प्राणलिंगाभिधं वपुः॥ प्राणोपाधिकचिद्रूपो ज्ञानशत्त्यापि युज्यते॥८५॥। ततो मनोमयो भूला सत्यसंकल्पतां व्रजेत्॥ यत्संकल्पयते जीवस्तत्करोत्येव सर्वथा ॥ ८६॥ हृदि स्थितः सन् शब्दादीन् भुंजेऽहं विषयानिति॥ संकल्प्याक्षाणि सृष्टा तैर्भुक्तेSक्षैविषयान्सदा
Page 95
देहो रथः पंच हयास्तस्य कर्मेद्रियाणि हि॥ ज्ञानेंद्रियाणि यानि स्युस्तानि बंधनरज्जवः॥८८।। मनोऽत्र सारथिः सर्वैरवच्छिन्नेशतां व्रजन् ॥ चिदात्मा चेतनं देहं कृता प्रेरयते सदा ॥ ८९॥ तस्यापाये मृतो देहोऽचेतनो न प्रवर्तते॥ चिदंशस्य प्रेरकत्वं व्रवीति भगवान् स्फुटम् ॥ ९०॥ ममैवांशो जीवलोके जीवभूतः सनातनः ॥ मनःषष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति ॥९१॥ अवच्छिन्नश्रिविदात्माऽसौ स्वतो ने च्छति किंचना।न भुंक्ते सुखदुःखे च तस्मिन्नारोप्यतेऽखिलम्९२ सर्वेष्वपि शरीरेषु भाति तद्र्मवानिव ॥ न तिष्ठति स्वतस्तेषु नापि तद्र्मसंयुतः ॥९३॥ ज्ञानेंद्रियैर्न दृश्योऽयं ग्राह्यः कर्मेद्रियै ने च॥ स्वरूपसौक्ष्म्यादव्यक्तो वेदांतैरेव बुध्यते॥९४॥ निर्ममलात्सर्वगोऽपि शरीरेषु च तिष्ठति॥ अकर्ताऽप्यनभिज्ञैस्तु कर्त्तेवासौ विभाव्यते ॥९५॥ वेदानामुत्तरे भागे इत्यादिग्रंथवर्णितम् ।। आत्मनो वास्तवं रूपं कर्तृतं नास्य विद्यते ॥ ९६॥ स सर्वोपनिषत्सिद्ध एष हद्युपलभ्यते॥ शुद्धः स्थिरोऽचलो नास्य कर्मलेपोऽस्ति कश्षन ॥ ९७॥ Digitized by Google अव्येग्रो निस्पहस्तूष्णीमुदासीन इव स्थितः।। स्वस्थो विक्षेपराहित्यादित्यात्मानं प्रपश्यत।।९८।। ईदशोऽप्यज्ञदछ्याऽसौ सत्ादिगुणवारिणा॥ मायापटेन संछन्नो भुंजान इव लक्ष्यते॥९९॥ १ अपाये दूरममने सति। २ अचंचलः।
Page 96
अ०प्र. इत्थं बोधितवानेष वालखिल्यान्प्रजापतिः॥ तत्त्वं बुध्वाऽथ पप्रच्छुः कःसंसारीति ते गुरुम१० अ० श्रूयतां परमात्मोक्तस्तस्मादन्योस्ति कश्षन॥ भूतात्माSSख्यो निकृष्टोऽयं पुण्यपापफलैर्युतः॥१॥ 119 oll विप्रक्षत्रादिसद्योनिं श्ववराहादिकामपि॥ असद्योनिमवाप्ोति भूलोके जन्म चेत्तदा ॥ २॥ अन्यत्र जन्म चेत्तर्हि पुण्येन स्वर्गमश्रुते ॥ पापेन नरकं द्वंद्वैरभिभरूतः परिभ्रमेत्॥३॥ मानावमानौ शीतोष्णे द्वंद्वानीत्यादिकानि हि। यो भूतात्मोदितः सोऽथ विस्पष्टमभिधीयते॥४॥ अपंचीकृतभूतैर्यज्जातं सूक्ष्मं वपुर्हि तत् ॥ भूतैः पंचीकृतैर्जातं यत्तत्स्थूलमिदं वपुः ॥५॥ ज्ञानाक्षाणां क्रियाक्षाणां वायूनां पंचकत्रयम्॥ मनोऽहंकार इत्येवं लिंग सप्तदशात्मकम्॥६॥ अहंकारे भौतिके यच्चैतन्यं प्रतिबिंबितम् ॥ स भूतात्माSत्र चिद्विंबं निर्लेपं ब्रह्म कथ्यते ॥७॥ भूतात्मा प्रकृतेजतैर्गुणैरेषोऽभिभ्नूयते ॥ तमोगणाभिभूतलात्स्वात्मस्थं ब्रह्म नेक्षते ॥८॥ Digitized by Google अधिष्ठानतया ब्रह्म भूतात्मन्यपि तिष्ठति ॥ पद्मपत्रे नीरबिंदुरसंश्लिष्ठो यथा तथा ।। ९।। ईदशोऽपीश्वरो मायायुक्तः सन् प्रेरयत्यमुम॥भतात्मानं सभूतात्मा विविनक्तीश्वरं न तम्॥ १०॥ सुखैर्वैषयिकै: सत्गुणोद्धतैः प्रतप्यति ॥ उद्रेके रजसः सोडयं कलुषीक्रियते भृशम्॥१॥ तदानीमतिचांचल्याल्लुप्यते ह्यखिलात्फलात्॥कृषि प्रकरम्य तां त्यत्का तप: कुर्वस्त्यजेददः।।१२॥
Page 97
तत्तत्फले सस्पृहलाद्यग्रो नाप्नोत्यसौ सुखम्॥ अहंकारेण बद्ध: स्याज्जालेन विहगो यथा॥१३॥ संसारभ्रमणं तस्य प्रोक्तं शाखांतरेष्वपि ॥ करणप्रेरकः कर्त्ता भूतात्मा संसरत्ययम् ॥१४॥ चैतन्येन हि पूर्णेन सोंऽतर्व्याप्तस्ततश्र्विति॥ध्रांत्यारोपेण संसारस्तत्रासौ न तु वास्तवः॥१५। दृष्टांतोऽत्राग्निना व्याप्तो लोहपिंडोऽभिधीयते ॥ तप्तलोहं मुद्गरेण हतं बहुविधं भवेत् ॥१६॥ अहंकारे चिदाभासो भूतात्मा साक्षिभासितः॥ हन्यमानो गुणैः सत्वादिभिर्बहुविधो भवेत्॥१७॥ यज्जन्म योनिलक्षाणां भवेच्चतुरशीतिषु॥ सोऽयं बहुविधो भावो लोहे दान्रकुठारवत् ॥१८॥ कुलालेन यथा चक्रं तथा मायाविना गुणाः॥ सत्वादयः प्रेरिताः स्युस्ैश्र् जन्मान्यनेकधा॥१९॥ लोहे मुद्ररघातेन नान्नेर्बाधस्तथा गुणैः ॥ भूतात्मोपद्रवेणास्य साक्षिणो नाऽस्त्युपद्रवः॥२०॥ एकैकदेहो नरको भवेद्धूतात्मनो महान्॥ मैथुनोद्ूत्यादिदोषाः प्रसिद्धा एव देहिनाम् ॥२१॥ देहे दोषा यथा चित्ते दोषास्तद्वदनेकशः॥ संमोहाद्यास्तामसाः स्युस्तष्णाद्या राजसा मता:२२ Digitized by Google भूतात्मा तैः प्रेरितः संस्तैस्तैस्तामसराजसैः ॥ कर्मभिर्बहुधा देहानवाप्नोति पुनःपुनः ॥२३॥ श्रुला संसारिणं वालखिल्या विस्मयमाययुः॥ संसारस्य प्रतीकारं पप्रच्छुर्मुनयः पुनः॥२४॥ शाम्येदूतात्मता येन चिदात्मत्वं तु शिष्यते॥ तमुपायं गुरो ब्रूहीत्युक्तः सन् गरुरुक्तवान्॥२५॥
Page 98
अ०प्र० नद्यूर्म्यादिकटष्ठांतैःसंसारस्याप्यनिष्ठंताम्।। मिथ्यात्वं च विनिश्च्िित्य व्रजेज्ज्ञानाधिकारिताम्२६ या वे देनोदिता विद्या सा भूतात्म प्रतिक्रिया॥ तपो योगः स्तुतिर्बोधश्र्ोक्तं वेदे चतुष्ठयम्॥।२७। अ०
स्वाश्रमोचितधर्मो यः स एवास्य तपो भवेत्॥शांताः स्युर्मोहतृष्णाद्यास्तेन तामसराजसा: २८ तच्छांतौ सत्ववृद्धिः स्यात्सत्वेनैकाग्रता धियः॥ तयात्मतत्त्वानुभवस्ततो मुक्तो न संसरेत् ॥२९॥ निरंधनान्निवच्चितं शाम्येद्योगेन कारणे॥ संस्कारमात्रशेषलान्न धीः संसर्त्तुमर्हति ॥३०॥ तदानीं जीवचैतन्यं ब्रह्मण्येकीभवेद्यथा॥ जले जलं वन्हिरग्नौ व्योम्नि व्योम स्थितं तथा॥३१॥ अद्वैतमनुभूयास्मिन्समाधौ व्युत्थितः पुनः॥स्तुवन्सर्वात्मतां तस्य ब्रह्मणोऽनुस्मरेत्सदा॥३२॥ कुत्सो मुनिर्यथाऽस्तौषीतवं ब्रह्मेत्यादिना तथा॥ स्तुवन्नपनुदेद्वैतवासनां चिरमाश्रिताम्॥ ३३॥ योगादद्वैतविज्ञाने वासनायाश् संक्षये॥ संत्यज्य जीवताभ्रांति परमात्मतमाप्ुयात्॥३४। Digitized by Google सा भ्रांतिस्तमसा जन्या तमस्त्वाश्रितमात्मनि॥ परमात्मतमाळृत्य कल्पयेज्जीवताभ्रमम्॥३५॥ यदावरकमज्ञानमात्माSस्मिन्प्रतिबिंबति। ईश्वरः प्रतिबिंबोऽसौ सृष्टयादीनां प्रवर्त्तकः ॥ ३६॥ यदज्ञानं विक्रियते भवत्येष तमोगुणः ॥ दृशयमानं जगदिदंतम एवाभवतपुरा ॥३७॥ १ इष्टरहितत्वं । २ नाशहेतु: ।
Page 99
ईशेन प्रेरितं तत्स्याद्रजो जलतरंगवत् ॥ रजोऽपि प्रेरितं तद्वत्सलमेव गुणत्रयम् ॥३८॥ समष्टिरूपोऽहंकारः सत्ात्सारः समुधृतः ॥ चिद्धिंबप्रतिबिंबा्यां युक्तोऽसौ चेतनो भवेत् ॥३९॥ प्रतिदेहं व्यष्टिरूपक्षेत्रज्ञत्वेन तिष्ठति। संकल्पोऽध्यवसायश् देहे तत्सत्वसाधकः॥ ४० ॥ हिरण्यगर्भो वेदेषु समष्टिव्यष्टिरूपधृक्॥ श्रूयते यः स सूत्रात्मा प्रजापतिरिहोदितः।।४१।। तस्य श्रेष्ठास्त्रयो देहाः सृष्ट्यंतस्थितिहेतवः॥ब्रह्मा रुद्रो विष्णुरिति गुणत्रयसमुद्गताः ॥४२॥ योयः सृजति लोकेSस्मिन्ब्रह्मा तत्राभि मन्यते।।नाशाभिमानी रुद्रोयं विष्णुः स्थित्यभिमानवान् प्रजापतिस्त्रिधा भूला भूयोऽपि बहुधाभवत्॥ वसुरुद्रादित्यभेदैर्गिरिनद्यादिभेदत्ः॥४४॥ आत्मन्यध्यारोप एवं प्रोक्तो मायाविनिर्मितः॥ आत्माधिष्ठानरूपेण प्रविष्टः सर्ववस्तुषु॥४५॥ इत्थं विवेचितश्र्वात्मा भात्याधिक्येन पालकः।नाधिष्ठानं विना किंचिदारोप्यं बाध्यते क्वचित्४६ आरोपितस्य सर्वस्याधिष्ठानं तत्त्वमीक्षते ॥ तस्मादंतर्बहिश्र्ात्मा स्थितः सर्वेषु वस्तुषु ॥४७॥ Digitized by Google प्रजापतिर्वालखिल्यान्मुनीनेवमबूबुधत् ॥ शाकायन्यः कथामेतां राजे प्रोवाच धीमते ॥४८॥ वैराग्यं परमात्मात्र जीवात्मा साधनानि च॥ तपो योग: स्तुतिर्बोध इति सर्व व्यवस्थितम् ४९ शाकायन्याय भगवान्मैन्नोऽखिलसुवाच ह॥ तत्सर्व मेऽतुगण्हातु विद्यातीर्थमहेश्वरः ॥१५०॥
Page 100
अ०प्र० इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे मैत्रायणीयशाखाविवरणोनाम दशमोऽध्याय:१० अ० याजुष्यां कठशाखायां विद्यां यां नचिकेतसे॥ यम: प्रोवाच तां सर्वी संग्रहेण ब्रवीम्यहम्॥ १ ॥ 1991 नचिकेताः कुमारः सन् स्वपित्रा प्रेषितो यंमम्॥ गल्ा तं तोषयिलात्मज्ञानं वरमयाचत॥२॥ प्रेते मनुष्ये संदेहो भूयान्मतविभेदतः॥ पारलौकिक आत्मास्ति नास्ति वा निर्णयं वद॥३॥ चार्वाका देहमेवाहु: कर्मिणः स्वर्गगामिनम् ॥ मुमुक्षवो मुच्यमानमित्युक्तो गुरुराह तम् ॥४॥ दुर्विज्ञेयमणुलात्तद्वेवैश्र विचिकित्सितम् । त्यत्कैतत्पुत्रवित्तादीन्वृणीष्वेत्युक्त आह तम् ॥५॥ पुत्राद्या नश्वराः क्लेशहेतवश्राथ दुर्गमम्॥ तत्त्वं वक्तुं लादशोऽन्यो नेत्यात्ैव तयोच्यताम॥६॥ श्ृणु प्रियं हितं चेति पुरुषैरर्थ्यते द्वयम्॥ प्रियाः पुत्रादयस्त्वात्मा हितो दुःखविवर्जितः ।। ७॥ अविवेकविवेकौ दौ मार्गो तत्राविवेकिनः ॥ प्रियार्थिनस्त्वं तु नैवं मत्तो ज्ञानं हितं भज॥ ८॥ मूढातिमूढौ न समौ तयात्यंतविवेकिना॥ मूढस्त्वीषद्विवेकी सन्स्वर्गमिच्छति नैहिकम् ॥ ९॥ Digitized by Google तद्ुरुश्ष् तथतौ द्वावंधनीतांधवतिस्थितौ ॥ आत्मतत्त्वानभिज्ञत्वादविद्याभ्यंतरे स्थितौ ॥१॥ १ सहोवाच पितरंतक कस्मै मां दास्यसीति। द्वितीयं तृतीयं त होवाच मृत्यवे ला ददामीति। २ अविद्यायामंतरे वर्तमानाः स्वयं धीरा: पंडितंमन्यमानाः। न तस्व प्राणाः परियंति मृढाः ।अंधेनैव नीयमाना यथांधाः।
Page 101
अतिमूढो धनार्थी सन्त्रह्महत्यादिकान्यपि॥ करोति परलोकस्तु न तस्य प्रतिभासते॥११॥ चार्वाकै: कर्मिभिश्वात्मा श्रवणायापि दुर्ल्लभः।। मुमुक्षवोऽपि बहवः शृण्वंतोऽपि न जानते॥१२॥ हविर्भुजां हि देवानामप्रियं मर्त्यवेदनम् ॥ मर्त्यास्तत्त्वं न जानंति विन्नैर्देवकतैर्हताः॥१३॥ आचार्यशिष्ययोर्दोषान्देवा उत्पादयंति हि॥ वाग्दोषाहुद्िदोषाद्दा वक्तुं शन्कोति नो गुरुः।१४॥ अविश्वासात्कुतर्काद्दा शिष्यो बोहुं न शक्कुयात्। ईश्वरातुग्रहाद्देवा विहंतुं शन्कुवंति नो ॥१५॥ सहनावित्यादिशांतिजपेनेश प्रसादतः ॥ निर्वि्नौ गुरुशिष्यौ स्तस्तादशौ दुर्लभौ खलु ॥१६॥ शब्दार्थज्ञ: स्वात्मतत्त्वानुभवी च गुरुर्द्विधा। आदो नरो न तु ब्रह्म नरलभ्रांत्यनाशनात्॥१७ तेनोक्ते संशया एव स्युर्वाचा बहुयोजनात् ॥ ब्रह्मैवातुभवी तेन ब्रह्म प्रोक्तं विबुध्यते ॥१८॥ कुतर्कान्नशयते विद्या तार्किको न गुरुस्ततः॥ आगमे चानुभूतौ च कुशलोऽत्र एरुर्भवेत्॥१९॥ शिष्यो बहिर्मुखो न स्यादध्यात्मं योगमाचरन्॥ दुर्दशतादिसंयुक्तमप्यात्मानं प्रपश्यति॥२०॥ Digitized by Google बाह्येंद्रियैर्न दशयोयं गूढस्थानप्रवेशतः॥ पंचकोशगहांतस्थो गव्हरे तमसि स्थितः॥ २१॥ योगेनांतर्मुखा बुद्धिस्तमो नाशयते ततः॥ देवं ज्ञात्वा हर्षशोकौ त्यजेत्तदोग्यतास्ति ते॥२२॥ १ न सांपरायः प्रतिभाति बालं प्रमाधंतं वितमोहेन मूढं। अयं लोको नास्ति पर इति मानी मानी पुनःपुनर्वशमापद्यते।
Page 102
अ०प्र० योग्योऽहं चेत्तर्हि तत्त्वं रहस्यं यत्वमीक्षसे ॥ तहूहि सर्वसंसारगणातीतं विमुक्तये ॥२३॥ धर्माधर्मौ कार्यहेतू तथा भूतभविष्यती॥ अन्यच्च सर्वे नो यत्र तदेवापेक्षितं मम ॥२४॥ अ०
सर्ववेदेषु यद्देद्यं तपांसि यदवाप्तये ।। ब्रह्मचर्य च तद्दस्तु प्रणवेनाभिधीयते ॥२५॥ प्रणवो वाचकस्तस्य स्यात्प्रतीकमुपास्तये। तेन बोदगुर्भवेन्मुक्तिर्ब्रह्मलोकोऽप्युपासितुः॥२६॥ न जायते न स्ियते प्रणवार्थश्विदात्मकः॥ पुराणोऽसावजत्वेन नित्यः स्यादमृतत्वतः॥२७॥ कारणं नास्य कार्य वा देहघातेऽपि नो हतिः॥ देहो देहांतरं हंति न चिद्धंति न हन्यते ॥२८॥ शामाकादेरणोरेषोऽणीयांस्तत्राणु कल्पनात्॥महीयान्महतः खादेस्तत्राकाशादिकल्पनाल् २९ स्थितो जंतोर्हद्रुहायां तं निष्कामस्तु पश्यति॥ इद्रियाणां प्रसन्नलाद्दीतशोकस्तदा भवेत्॥३॥ अंतर्मुखोऽहं पश्यामि मत्तोऽन्यो बाह्यधीः पुमान्।ज्ञातुमर्हति को वा तं विरुद्धात्मलभासिनम्३१ दूरं गच्छेदिहासीनः शयानो याति सर्वतः॥समदो विमदश्व्ाऽतो दुर्ल्लक्ष्योऽह्यविवेकिभिः॥३२॥ Digitized by Google वने ध्यातुं समासीनो देहं संकल्प्य मानसम् ॥ तेनैव नगरं गला करोति क्रयविक्रयौ ॥ ३३॥ शयानो मंचकेSक्षेषु विलीनेषु निराकृतिः ॥ आकाशवत्सर्वगत एकः सुप्तोऽवतिष्ठते ॥३४॥ १ खट्टायां।
Page 103
8EI888 * * *** #I IE8 धनविद्यादिभिर्मत्तः पांडित्यं सदसि ब्रुवन्॥ वैराग्यनटनेनासौ लक्ष्यते मदहीनवत्॥३५॥ एवं विरुद्धधर्मलात् स भावः कोऽस्य वास्तवः ॥ इति ज्ञातुमशक्यलादंतर्दष्ट्यैव मीक्षताम्॥३६॥ अशरीरं शरीरेष्वनवस्थेष्वेष्ववस्थितम ॥ सर्वगं बहुआवाधिष्ठानं मला न शोचति ॥३७॥ नायमात्मा बहोः पाठाद्वहुश्रुत्या च मेधया॥ लभ्योबहिर्मुखवस्यास्य नेश्वरानुग्रहो यतः ॥३८।। यमंतर्मुखमीशोऽनुग्टह्लीते तेन लभ्यते॥ तस्येशः स्वात्मनो रूपं भासयत्यखिलं स्फुटम्॥३९॥ पापं क्रोधमनैकाय्यं योगसिद्धिं च नैति यः॥ तमीश्वरोऽनुग्ह्नाति स ज्ञानेनैनमापुयात्॥४॥ ब्राह्मणादिजगन्मृत्युसहितं यस्तु संहरेत्॥ सोऽयमुग्रः कथं बोदुं शक्यः स्यान्नियति विना४१ को बोद्धा कश्ष् बोद्धव्य इति चेत्तावुभौ शृणु ॥ बुद्धिप्रविष्टौ जीवेशौ बोधृबोद्दव्यतां गतौ॥४२॥ अवच्छिन्नो भवेज्ीवोऽनवच्छिन्नो महेश्वरः॥ रथस्वामी च गंतव्यदेशो यद्दुभौ यथा ॥४३॥ जीवं तं रथिनं विद्धि शरीरं रथमेव तु ॥ जीवोपाधिमहंकारं सारथिं प्रग्रहं मनः ॥४४॥ Digitized by Google इंद्रियाणि हया ज्ञेया विषया गम्यभूमयः॥ सारथ्यधीनाः सर्वत्र रथिनः सदसद्गतिः॥४५॥ कर्त्ता सारथिरक्षाणि नियम्य मनसा क्रमात्॥ गच्छन्नंतर्मुखो मार्गपारं विष्णुपदं ब्रजेत्॥४६॥ १ आत्मानं।
Page 104
अ०प्र० इंद्रियादिर्विष्णुतत्त्वपर्यतो ह्यंतरक्रमः॥ इंद्रियेभ्यो भौतिकेभ्यो भूतेष्वांतरता. स्थिता॥४७॥ तद्धतेक्यः सूक्ष्मभूतकार्यलान्मन आंतरम्॥ ततोऽतिसूक्ष्मकार्यलात्कर्ततोपाधिरांतरः ॥४८॥ अ०
समष्टिकर्तृतोपाधिरांतरो व्यष्टिकर्तृतः ॥ समष्ट्याख्यमहत्तत्वात्तद्वेत्वव्यक्तमांतरम् ॥४९॥ मायाख्याव्यक्ततोऽप्यस्याधारः पुरुष आंतरः ॥ पुरुषान्नापरं किंचित्सर्व तेनैव पूरितम् ॥५०॥ सद्रूपः पुरुषस्तस्य सत्वेनान्यत्र पूरणात्॥ अस्तीति निखिलं भाति पूरकः पुरुषोमतः ॥५१॥ वस्तुतत्त्वविचारोंतः पुरुषेऽस्मिन्समाप्यते॥ गंतव्यतत्त्वसीमत्वाद्रथी गच्छति तंक्रमात् ॥५२॥ रथिनो वास्तवं रूपं पूर्णत्वं तद्बोधतः ॥ अवच्छिन्नत्वमेतच्च तद्दोधेन निवर्तते ॥५३॥ आत्मा सर्वेषु देहेषु भ्रांत्या गूढो न भासते॥एकाग्रया सूक्ष्मयैतं पशयेत्ताच्छील्यवान् घिया॥५४।। धियस्तथात्वं योगात्स्याद्योगो भूमिचतुष्कवान्।वाग्धी कर्त्तुसमष्टीनां निरोधाद्गमयोभवन् ५५ वागादिकं बाह्यमक्षं निरुंधन शेषयेन्मनः ॥मनो निरुंधन्कर्त्तारं शेषयेव्दष्टिरूपिणम्॥।५६॥ Digitized by Google सविकल्पकमेतच्च निरुंधन्निर्विकल्पकम् ॥ अस्मीत्येतन्मातृरूपं महांतमवशेषयेत्॥५७॥ तमप्यंते निरुंध्याध शांतात्मा शिष्यते स्वयम् ॥क्षुरधारेव विषमो योगो मंदमतेरयम् ॥५८॥ १ अस्तीति रूपेण निखिलं विश्वं दृश्यते। २ व्यष्टिरूपिणं।
Page 105
क्षुरोऽतिलग्नो देहन्नो न लग्नश्ेद्वपेत नो॥ समाहितं मनोप्येवं निद्रां कुर्याद्वहिर्व्रजेत् ॥५९॥ 88 कौशलं योगिनोऽपेक्ष्यं नापितस्य यथा क्षुरे ॥ निवार्य लयविक्षेपौ समादध्यात्परात्मनि॥६०॥ शब्दस्पर्शादिहीनात्मा सौक्ष्म्यात्सौक्ष्म्यधियेक्ष्यते।ं वाय्वग्निलोर्वीणांस्थौल्यंशब्दादिमत्त्वतः शब्दस्पर्शो रूपरसौ गंधो भूतगुणा इमे ॥ एकद्वित्रिचतुःपंचगुणा व्योमादयः क्रमात् ॥६२॥ गुणाधिक्ये स्थौल्यवद्धिः सौक्ष्म्य द्विर्गुणक्षयात्। निर्गुणं चातिसूक्ष्मादतिसूक्ष्मधियेक्षते ६३ विद्यायोगौ यमेनोक्तौ वैराग्यं नचिकेतसा॥ स्वत एवास्त्युपाख्यानं नाचिकेतमिदं शुभम्।६४॥ एतदेवातिविस्परष्टं पुनश्वात्र प्रपंच्यते॥ श्रूयतां नचिकेतोऽत्र विद्यायाः प्रतिबंधकम् ॥६५॥ इंद्रियाणि बहिर्द्रषुं ससृजे परमेश्वरः ॥ अंतस्तैः प्रत्यगात्मानंन कश्विदपि वीक्षते ॥६६॥ सकामं च मनस्तद्वन्निष्कामं चात्मशुद्धये ।। सृष्टंतयोर्योगयुक्तमनसात्माऽवलोक्यते ॥६७।। यच्चैतन्यानुग्रहेण रूपादीनिंद्रियैः पुमान् ॥ जानाति येन स्वप्नादि दृश्यते तद्विविच्यताम्॥६८। Digitized by Google चैतन्येन जडं ज्ञेयमित्युक्ते शिष्यतेऽत्र किम्॥ अज्ञानं निखिलं प्रज्ञं चैतन्यं ब्रह्म वस्तु हि ॥६९॥ यद्वेदैरपि संदिग्धं यत्पष्टं नचिकेतसा ॥ धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम्॥७०॥ १ समाधि कुर्याद्। २ अज्ञानं निखिलं।
Page 106
अ०प्र० यः कर्मफलभोक्तास्ति जीव: प्राणादिधारकः॥उपाधितो विविच्यैतं ज्ञात्वेशं न जुगुप्सते॥७१॥ अ० जुगुप्सा योनिसंप्राप्तिर्नासावेतस्य विद्यते॥ जगत्कर्तृतया लक्ष्य ईशोऽयं तस्य का जनिः॥।७२॥ यद्देहेऽस्ति तदेवेषु वेदेषु ब्रह्म गीयते ॥ मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति ॥७३॥ मनसैवेदमाप्तव्यमेकाग्रेणेशजीवयोः ॥ तत्त्वमद्वैतमेतस्मिन्योगी भेदं न पश्यति ॥ ७४॥ हन्निष्ठो बुध्यवच्छिन्नो जीवो हंगुष्ठमात्रकः॥ उपाध्यपगमे सोऽयमीशानो भूतभव्ययोः॥७॥ वृष्टं जलं पर्वताग्रे बहुधाऽधोगतिं व्रजेत्॥ जीवेशभेददक चैवं बहुयोनिषु जायते॥ ७६ ॥ ळष्टं तु निर्मले कूपे सुस्थितं पीयतेऽमृतम्॥ तथैव ब्रह्मतां स्वस्य विजानन्मुच्यते सुधीः॥७७॥ पुरमेकादशद्वारं नाभिमूर्द्वन्यसंयुतम् ॥ देहारयं यस्य तं दृष्टा विमुक्तः सन्विमुच्यते॥॥ जीवन्नविद्याकामादिबंधैर्मुक्तो मृतः पुनः ॥ शरीरग्रहणाभावाद्विदेहः सन्विमुच्यते ॥७९॥ Digitized by Google प्राणमूर्ध्व नयत्यात्माऽपानवायुं नयत्यधः॥तत्सेवकाश्र्वक्षुराद्या लिंगेनात्मानुमीयताम्॥ ८०॥ सकर्तकाः प्राणचक्षुराद्याः स्युः साधनत्वतः ॥ कुठारवत्ततो नायमस्तीत्येतन्निराकृतम्॥८१॥ प्राणापानवशाद्ेहो जीवतीति यदुच्यते ॥ तन्न प्राणाद्याश्रयो यः कर्त्ता तेनैव जीवति ॥८२॥ १ तस्पेशस्य का जनिर्न कापीसर्थः ।
Page 107
स कर्ताऽस्मिन्मते देहे स्वकर्मवशतःपुनः ॥ विप्रादियोनिमाप्नोति लतावक्षादिनासुत॥८३॥ देहौ नीचोत्तमौ ताटक्कर्मकर्तपुरःसरौ॥ नीचोत्तमलात्प्रासादपर्णशाले यथा तथा ॥८४॥ सुप्तेष्वक्षेषु यः स्वन्ने कामं कामं सृजत्ययम् ॥ देहातिरिक्तस्तं को वा निराकर्तु प्रभुर्भवेत्॥८५॥ जीवात्मानं प्रसाध्यैवं तस्यैवोपाध्युपायतः॥ब्रह्मतां वेत्ति जगत आधारत्वेन लक्षिताम्॥८६॥ अग्निर्यथैकः काष्ठेषु प्रविश्य बहुधा भवेत्॥ तथात्मा त्वेक एवैषु देहेषु बहुधोच्यते ॥८७॥ वायुश्र्वैकोऽपि देहेषु प्रविश्य प्राणरूपतः॥बहुधा भात्येवमात्मा प्रत्युपाधि पथग्भवेत्॥ ८८॥ सर्वचक्षु:स्वरूपोऽपि न रविर्नेत्ररोगभाक्॥ सर्वात्मत्वेऽपि तद्रह्म तथा दुःखैर्न लिप्यते ॥८९॥ सर्वभूतांतरात्मैकः स्वतंत्रो मायया छतः ॥ एकं स्वंबहुधा कुर्याद्वहुरूपो यथा नटः ॥९०॥ मायोपाधिक ईशोऽयं बुध्युपाधिमतां नृणाम्॥ कर्मानुसारिणः कामान्विदधात्युपभुक्तये।।९१। स्वचित्तस्थं साक्षिरूपमीशं पइयंति ये नराः॥ तेषां नित्या दुःखशांतिर्ब्रह्मानंदश् शाश्वतः॥९२॥ Digitized by Google. अनिर्द्वेशयं तमानंदं प्रत्यक्षं मन्वते बुधाः ॥ सदृशो वा स्वप्रकाश इति चेन्न स दृश्यते ॥९३॥ न भासयंति सूर्याद्या बुद्याद्याश्र स्वयंप्रभम्॥ किं तुभांतं तमन्वेते भांति भासा तदीयया॥९४॥ सर्वोत्तमत्वादूर्ध्वतन्मूलं संसारशाखिनः ॥ देवमानुषपश्ाद्याःशाखास्तस्याधमा मताः ॥९५॥
Page 108
अ०प्र० यन्मूलं तत्स्वयंज्योतिस्त देवामतमुच्यते॥ तस्मिन् लोकाः श्रिता: सर्वे तच्च नात्येति कश्षन ९६ अ० मायाशक्तियुजा तेन जगत्सर्व नियम्यते॥ अग्निसूर्यादयस्तस्माद्गीताः संतश्रंति हि ॥९७॥ नरदेहस्य पातात्प्राक् तद्वोडुं शक्कुयान्न चेत्॥ जन्मांतरेषु तद्वोध: प्रायेणात्यंतदुर्लभ: ॥ ९८॥ स्वप्नवत्पितलोकस्य स्वातंत्र्य नास्ति किंचन ॥ गंधर्वलोके भोगेच्छावशाद्दीरतिचंचला ॥ ९ ९॥ ब्रह्मलोकेऽस्त्येष बोधः स लोकः सुलभो न हि॥ आदर्शवच्छुद्धचित्ते नरेणात्मेक्ष्यते स्फुटम्१०० इंद्रियाणामनात्मव्मागमापायदर्शनात्।बुध्वा तत्साक्षिणि स्वस्मिन् ब्रह्मत्वं बुध्यते सुखात् १ मंदश्र्वेदक्षधीकर्तृसमष्ठ्यव्यक्तरूपतः ॥ क्रमाद्विविच्य मूढः स्वं वीक्ष्यते सूक्ष्या घिया ॥२॥ बाह्याक्षविषयेष्वात्मस्वरूपं न हि तिष्ठति ॥ निठत्तांक्षो निरुद्देन सूक्ष्मेण मनसेक्षते ॥३॥ अप्रमत्तोऽखिलाक्षाणि सकर्तृणि यदा पुमान्॥ निरुणद्धि तदा योगस्तामवस्थां प्रचक्षते॥४॥ सर्वाक्षागोचरत्वेऽपि स्वात्मार्डस्तीत्याह तत्त्ववित्॥ कारणस्यात्मनोऽसत्वे शून्यं कार्य जगद्गवेत्५ Digitized by Google अस्तीत्येवोपलब्धव्यो नायमस्तीति न त्वया॥ सर्वत्रानुगतं यत्तततन्नास्तीत्युच्यते कथम् ॥६॥ सोपाधिकं तावदादौ दृष्टाऽस्तीति ततः पुनः ॥ उपाधीन्संपरित्यज्य तत्त्वभावेन पश्यति ॥७॥ १ पुरुषः । २ ईक्षते।
Page 109
उपाधीनां माययैषां कल्पितत्वेन तैविना॥ निरुपाधिकसन्मान्नं वस्तु तञ्च तथेक्ष्यताम्।।८।। कलुषं जलमानीय ततोऽस्मिन्कातकं रजः ॥ यदा क्षिपेत्तदा नीरं प्रसीदेति यथा तथा॥९॥ सोपाधिकज्ञानवतो निरुपाधि: प्रसीदति॥ रजःप्रक्षेपसदृशी योगान्निष्कामता घियः॥१ ॥ यदा सर्वे प्रसुच्यंते कामा येस्य हृदि स्थिताः॥तदैव मर्त्यतां हिला स जीवन्ब्रह्मतां व्रजेत्॥११॥ अहंकारेण चैतन्यं ग्रथित्वेच्छति चेत्तदा ॥ हृदये ग्रंथयः कामास्ते भिद्यंते विवेकिन: ॥१२॥ अहंकारचितोरैक्यध्रांतेरपगमे सति॥ कामाभासाः संतु चित्ते क्रमान्नश्यंति तेऽपि च ॥ १३॥ जीवन्मुक्तस्तु निष्कामो न मृतिं प्रतिपद्यते। प्राणोक्कांतिर्मतिः सा तु ज्ञानिनो न हि विद्यते १४ प्राणा अंतर्विलीयंते तप्ताश्मक्षिप्तनीरवत्॥ ज्ञानी पुराऽपि ब्रह्मैव सन्ब्रह्माप्येति तल्ये॥१५॥ ब्रह्म बोदुमशक्त: सन्नुपास्ते चेत्तदा पुमान्॥ नाड्या मूर्धन्यया ब्रह्मलोकं गल्ा विमुच्यते ॥१६॥ अत्रैवोपासकस्यास्य धीशुद्विश्र्वेत्तदा त्वसौ। देहाद्विविच्य हन्निष्ठं ब्रह्मत्वेनावगच्छति॥१७॥ Digitized by Google मृत्युप्रोक्तां नाचिकेतोविद्यां योगं तथाऽखिलम्।लब्ध्वा ब्रह्माप्तवानेवं लब्ध्वाऽन्योऽपि विसुच्यते विद्या तत्फलयोविघ्नशांत्यर्थ सहनाविति । मंत्रं जपेत्तेन विघ्नाः शाम्यंत्येव न संशयः॥१९॥ १ निर्मलं भवति। २ पुरुषस्य। ३ मन्रुष्यरूपता। ४ ग्रंथयो भवंति।
1
Page 110
अ०प्र इंद्रियादिर्विष्णुतत्त्वपर्यतो ह्ंतरक्रमः॥ इंद्रिये्यो भौतिकेभ्यो भूतेष्वांतरता.स्थिता॥४७॥ तदद्ूतेभ्यः सूक्ष्मभूतकार्यलान्मन आंतरम्॥ ततोऽतिसूक्ष्मकार्यलात्कर्ततोपाधिरांतरः॥४८॥ अ०
समष्टिकर्तृतोपाधिरांतरो व्यष्टिकर्तृतः ॥ समष्ट्यास्यमहत्तत्वात्तद्वेत्वव्यक्तमांतरम् ॥४९॥ मायाख्याव्यक्ततोऽप्यस्याधारः पुरुष आंतरः॥ पुरुषान्नापरं किंचित्सर्व तेनैव पूरितम् ॥५०॥ सद्रूपः पुरुषस्तस्य सत्वेनान्यत्र पूरणात्॥ अस्तीति निखिलं भाति पूरकः पुरुषोमतः ॥५१॥ वस्तुतत्त्वविचारोंतः पुरुषेऽस्मिन्समाप्यते॥ गंतव्यतत्त्वसीमत्वाद्रथी गच्छति तं क्रमात् ॥५२॥ रथिनो वास्तवं रूपं पूर्णत्वं तदबोधतः ॥ अवच्छिन्नत्वमेतच्च तद्दोधेन निवर्तते ॥ ५३ ॥ आत्मा सर्वेषु देहेषु भ्रांत्या गूढो न भासते॥ एकाग्रया सूक्ष्मयैतं पइयेत्ताच्छील्यवान् घिया॥।५४॥ धियस्तथात्वं योगात्स्याद्योगो भूमिचतुष्कवान्॥वाग्धी कर्तृसमष्टीनां निरोधाङ्गूमयोऽभवन् ५५ वागादिकं बाह्यमक्षं निरुंधन् शेषयेन्मनः ॥मनो निरुंधन्कर्त्तारं शेषयेव्दष्टिरूपिणम्॥।५६॥ Digitized by Google सविकल्पकमेतच्च निरुंधन्निर्विकल्पकम् ॥ अस्मीत्येतन्मातरूपं महांतमवशेषयेत्॥५७॥ तमप्यंते निरुंध्याथ शांतात्मा शिष्यते स्वयम् ॥क्षुरधारेव विषमो योगो मंदमतेरयम् ॥५८॥ १ अस्तीति रूपेण निखिलं विश्वं दृश्यते। २ व्यष्टिरूपिणं। B8
Page 111
क्षुरोऽतिलग्नो देहघ्नो न लग्नश्रेद्वपेत नो॥ समाहितं मनोप्येवं निद्रां कुर्याद्वहिर्व्रजेत्॥५९॥ कौशलं योगिनोऽपेक्ष्यं नापितस्य यथा क्षुरे ॥ निवार्य लयविक्षेपौ समादध्यात्परात्मनि॥६०॥ शब्दस्पर्शादिहीनात्मा सौक्ष्म्यात्सौक्ष्म्यधियेक्ष्यते।खं वाय्वग्निलोर्वीणांस्थौल्यंशब्दादिमत्त्वतः शब्दस्पर्शौ रूपरसौ गंधो भूतगुणा इमे ॥ एकद्वित्रिचतुःपंचगुणा व्योमादयः क्रमात् ॥६२॥ गुणाधिक्ये स्थौल्यवद्दिः सौक्ष्म्यट द्विर्गुणक्षयात्। निर्गुणं चातिसूक्ष्मलादतिसूक्ष्मधियेक्षते ६३ विद्यायोगौ यमेनोक्तौ वैराग्यं नचिकेतसा॥ स्वत एवास्त्युपाख्यानं नाचिकेतमिदं शुभम्॥६४॥ एतदेवातिविस्पष्टं पुनश्वात्र प्रपंच्यते॥ श्रूयतां नचिकेतोऽत्र विद्यायाः प्रतिबंधकम् ॥६५॥ इंद्रियाणि बहिर्द्रषुं ससृजे परमेश्वरः ॥ अंतस्तैः प्रत्यगात्मानंन कश्विदपि वीक्षते ॥ ६६॥ सकामं च मनस्तद्वन्निष्कामं चात्मशुद्धये ।। सृष्टंतयोर्योगयुक्तमनसात्माऽवलोक्यते ॥६७॥ यच्चैतन्यानुग्रहेण रूपादीनिंद्रियैः पुमान्॥ जानाति येन स्वप्नादि दृश्यते तद्विविच्यताम्॥६८।। Digitized by Google चैतन्येन जडं ज्ञेयमित्युक्ते शिष्यतेऽत्र किम्॥ अज्ञानं निखिलं प्रज्ञं चैतन्यं ब्रह्म वस्तु हि ॥६९॥ यद्वेदैरपि संदिग्धं यत्पष्टं नचिकेतसा ॥ धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम्॥७०॥ १ समाधि कुर्याद। २ अज्ञानं निखिलं।
Page 112
अ्०ड़
अ०प्र० यः कर्मफलभोक्तास्ति जीव: प्राणादिधारकः॥ उपाधितो विविच्यैतं ज्ञात्वेशं न जुगुप्सते॥७॥ जुगुप्सा योनिसंप्राप्तिर्नासावेतस्य विद्यते॥ जगत्कर्ततया लक्ष्य ईशोऽयं तस्य का जनिः॥७२॥ अ०
यद्े हेऽस्ति तदेवेषु वेदेषु ब्रह्म गीयते ।। मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति ॥७३॥ मनसैवेदमाप्तव्यमेकाग्रेणेशजीवयोः ॥ तत्त्वमद्वैतमेतस्मिन्योगी भेदं न पश्यति ॥ ७॥ हन्निष्ठो बुध्यवच्छिन्नो जीवो ह्यंगुष्ठमात्रकः॥ उपाध्यपगमे सोऽयमीशानो भूतभव्ययोः॥७॥ ळष्टं जलं पर्वताग्रे बहुधाऽधोगतिं व्रजेत् ॥ जीवेशभेददक चैवं बहुयोनिषु जायते॥७६ ॥ ळष्ठं तु निर्मले कूपे सुस्थितं पीयतेऽमृतम्॥ तथैव ब्रह्मतां स्वस्य विजानन्मुच्यते सुधीः॥७७॥ पुरमेकादशद्वारं नाभिमूर्द्न्यसंयुतम् ॥ देहारूयं यस्य तं दृष्ट्ा विमुक्तः सन्विमुच्यते॥७॥ जीवन्नविद्याकामादिबंधैर्मुक्तो मृतः पुनः ॥ शरीरग्रहणाभावाद्विदेहः सन्विमुच्यते ॥७९॥ प्राणमूर्ध्व नयत्यात्माऽपानवायुं नयत्यधः॥तत्सेवकाश्र्वक्षुराद्या लिंगेनात्मानुमीयताम्॥ ८०॥ Digitized by Google सकर्तकाः प्राणचक्षुराद्याः स्युः साधनत्वतः ॥ कुठारवत्ततो नायमस्तीत्येतन्निराकृतम्॥८१॥ प्राणापानवशाद्ेहो जीवतीति यदुच्यते ॥ तन्न प्राणाद्याश्रयो यः कर्त्ता तेनैव जीवति ॥८२॥ १ तस्येशस्य का जनिर्न कापीसर्थः।
Page 113
स कर्ताऽस्मिन्मृते देहे स्वकर्मवशतःपुनः ॥ विप्रादियोनिमाप्नोति लतावक्षादिनामुत॥८३॥ देहौ नीचोत्तमौ ताटक्कर्मकर्तपुरःसरौ॥ नीचोत्तमलात्प्रासादपर्णशाले यथा तथा ॥८४॥ सुप्तेष्वक्षेषु यः स्वन्ने कामं कामं सृजत्ययम्॥ देहातिरिक्तस्तं को वा निराकर्तु प्रभुर्भवेत्॥८५॥ जीवात्मानं प्रसाध्यैवं तस्यैवोपाध्युपायतः॥ब्रह्मतां वेत्ति जगत आधारत्वेन लक्षिताम्॥।८६॥ अग्निर्यथैकः काष्ठेषु प्रविश्य बहुधा भवेत्॥ तथात्मा त्वेक एवैषु देहेषु बहुधोच्यते ॥८७॥ वायुश्र्चैकोऽपि देहेषु प्रविश्य प्राणरूपतः॥बहुधा भात्येवमात्मा प्रत्युपाधि पथग्भवेत्॥ ८८॥ सर्वचक्षु:स्वरूपोऽपि न रविर्नेत्ररोगभाक्॥ सर्वात्मत्वेऽपि तद्रह्म तथा दुःखैर्न लिप्यते ॥८९॥ सर्वभूतांतरात्मैकः स्वतंत्रो मायया उतः ॥ एकं स्वंबहुधा कुर्याद्वहुरूपो यथा नटः ॥९०॥ मायोपाधिक ईशोऽयं बुध्युपाधिमतां नृणाम्॥ कर्मानुसारिणः कामान्विदधात्युपभुक्तये।।९१।। स्वचित्तस्थं साक्षिरूपमीशं पइयंति ये नराः॥ तेषां नित्या दुःखशांतिर्ब्रह्मानंदश्र् शाश्वतः॥९२॥ Digitized by Google अनिर्द्वेशयं तमानंदं प्रत्यक्षं मन्वते बुधाः ॥ सदृशो वा स्वप्रकाश इति चेन्न स दृशयते ॥९३॥ न भासयंति सूर्याद्या बुद्याद्याश्र स्वयंप्रभम्॥ किं तुभांतं तमन्वेते भांति भासा तदीयया॥९४॥ सर्वोत्तमत्वादूर्ध्वतन्मूलं संसारशाखिनः ॥ देवमानुषपश्वाद्याःशाखास्तस्याधमा मताः ॥९५॥ 1
Page 114
अ०प्र० यन्मूलं तत्स्वयंज्योतिस्तदेवामृतमुच्यते॥ तस्मिन् लोकाः श्रिताः सर्वे तच्च नात्येति कश्षन ९६ मायाशक्तियुजा तेन जगत्सर्व नियम्यते॥ अग्निसूर्यादयस्तस्माद्गीताः संतश्रंति हि ॥९७॥ अ०
नरदेहस्य पातात्प्राक् तद्वोडं शक्कुयान्न चेत्॥ जन्मांतरेषु तद्दोधः प्रायेणात्यंतदुर्लभः॥९८॥ स्वप्नवत्पितलोकस्य स्वातंत्र्य नास्ति किंचन ।। गंधर्वलोके भोगेच्छावशाद्दीरतिचंचला ॥ ९ ९॥ ब्रह्मलोकेऽस्त्येष बोधः स लोकः सुलभो न हि॥ आदर्शवच्छुद्धचित्ते नरेणात्मेक्ष्यते स्फुटम् १०० इंद्रियाणामनात्मतवमागमापायदर्शनात् ॥बुध्वा तत्साक्षिणि स्वस्मिन् ब्रह्मत्वं बुध्यते सुखात् १ मंदश्र्वेदक्षधीकर्तृसमष््यव्यक्तरूपतः ॥ क्रमाद्विविच्य मूढः स्वं वीक्ष्यते सूक्ष्या घिया ॥२॥ बाह्याक्षविषयेष्वात्मस्वरूपं न हि तिष्ठति ॥ निठत्तांक्षो निरुद्देन सूक्ष्मेण मनसेक्षते ॥३॥ अप्रमत्तोऽखिलाक्षाणि सकर्तृणि यदा पुमान्॥ निरुणद्धि तदा योगस्तामवस्थां प्रचक्षते॥४॥ सर्वाक्षागोचरत्वेऽपि स्वात्मार्ऽस्तीत्याह तत्त्ववित्॥ कारणस्यात्मनोऽसत्वे शून्यं कार्य जगद्गवेत्५ Digitized by Google अस्तीत्येवोपलब्धव्यो नायमस्तीति न त्वया॥ सर्वत्रानुगतं यत्ततन्नास्तीत्युच्यते कथम् ॥६॥ सोपाधिकं तावदादौ दृष्टाऽस्तीति ततः पुनः ॥ उपाधीन्संपरित्यज्य तत्त्वभावेन पश्यति ॥७॥ १ पुरुषः । २ ईक्षते।
Page 115
उपाधीनां माययैषां कल्पितत्वेन तैविना ॥ निरुपाधिकसन्मान्रं वस्तु तञ्च तथेक्ष्यताम्॥८॥। कलुषं जलमानीय ततोऽस्मिन्कातकं रजः॥ यदा क्षिपेत्तदा नीरं प्रसीदति यथा तथा॥९॥ सोपाधिकज्ञानवतो निरुपाधि: प्रसीदति ॥ रजःप्रक्षेपसदृशी योगान्निष्कामता धियः॥ १०॥ यदा सर्वे प्रसुच्यंते कामा येस्य हृदि स्थिताः॥ तदैव मर्त्यतां हिला स जीवन्ब्रह्मतां व्रजेत्॥११॥ अहंकारेण चैतन्यं ग्रथित्वेच्छति चेत्तदा ॥ हृदये ग्रंथयः कामास्ते भिद्यंते विवेकिनः ॥१२॥ अहंकारचितोरैक्यध्रांतेरपगमे सति॥ कामाभासाः संतु चित्ते क्रमान्नश्यंति तेऽपि च ॥ १३॥ जीवन्मुक्तस्तु निष्कामो न मृतिं प्रतिपद्यते॥ प्राणोक्कांतिर्मतिः सा तु ज्ञानिनो न हि विद्यते १४ प्राणा अंतर्विलीयंते तप्ताश्मक्षिप्तनीरवत्॥ ज्ञानी पुराऽपि ब्रह्मैव सन्ब्रह्माप्येति तह्लये॥१५॥ ब्रह्म बोहुमशक्तः सन्नुपास्ते चेत्तदा पुमान्॥ नाड्या मूर्धन्यया ब्रह्मलोकं गला विमुच्यते॥१६॥ अत्रैवोपासकस्यास्य धीशुद्विश्र्ेत्तदा त्वसौ।। देहाद्विविच्य हन्निष्ठं ब्रह्मत्वेनावगच्छति॥१७॥ Digitized by Google मृत्यु प्रोक्तां नाचिकेतोविद्यां योगं तथाऽखिलम्।लब्ध्वा ब्रह्माप्वानेवं लब्ध्वाऽन्योऽपि विसुच्यते विद्या तत्फलयोविघ्नशांत्यर्थ सहनाविति ॥ मंत्रं जपेत्तेन विन्नाः शाम्यंत्येव न संशयः॥१९॥ १ निर्मलं भवति। २ पुरुषस्य। ३ मन्रुष्यरूपता । ४ ग्रंथयो भवंति।
Page 116
अ०प्र० वैराग्यं नाचिकेतस्य यथा तीव्रं तथा पुमान्।। प्राप्नोति सेव्यमानः सन्विद्यातीर्थमहेश्वरम्॥१२०॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे कठवल्लीविवरणोनामैकादशोऽध्यायः॥११॥ अ० श्वेताश्वतरनामा यो यजु:शाखाप्रवर्तकः।।सोऽत्याश्रमिभ्यःप्रोवाच विद्यां व्याचक्ष्म हेऽत्र तामू॥।१॥। ।१२॥ ये वेदवादिनस्ते तु मीमांसंते मुमुक्षवः ॥ जगतः कारणं ब्रह्मेत्येवं वेदेषु घुष्यते ॥ २॥ उत्पत्तिस्थितिनाशाः स्युर्यतस्तत्कारणं लिति॥ सामान्यमेव विज्ञातं विशेषस्तु न बुध्यते॥३॥ कस्माद्वस्तुविशेषान्नो जन्म केन च जीवनम्॥लयः कस्मिन्व्यवहतौ सुखादौ को नियच्छति॥।४।। पितृभ्यामन्नतो रेतादृपि जन्मादयस्त्रयः ॥ नियामकश्र राजेति वचनं बालभाषितम्॥५॥ पितृराजाद्यशेषस्य जगतश्चिवंत्यतेऽघुना ॥ कारणं तच्च शास्त्रैकगम्यं शास्त्रं तु नैकधा॥ ६॥ कोल: स्वभावो नियतिर्यदच्छा भूतपंचकम्॥ प्रधानं जीव एतानि मतान्युक्तानि शास्त्रिभि:।।७॥ Digitized by Google ऋतुकाले भवेद्र्भो वर्षतौं संस्यसंभवः ॥ उदाहियत इत्यादि बहुधा कालवादिना ॥८॥ स्वभाववाद्यग्निसुष्णं जलं द्रवमुदाहरत् ॥ रूपज्ञानं चक्षुषैवेत्याहुर्नियतिवादिनः ॥ ९॥ धनिकल्वादिव्यवस्था यदच्छावादिनोच्यते ॥ भूतवादी देहगतकाठिन्यादीनुदाहरत्॥१०॥ प्रधानवादी पुरुषान्सात्विकादीनुदाहरत्॥ जीववादी कर्मवशाज्जन्म देवाद्युदाहरत् ॥११ ॥
Page 117
सर्वत्र युक्तेर्दष्ठत्वात्किं तत्वमिति चिंत्यते ॥ सर्वेषामनिवार्यत्वात्तत्संघोस्त्वति चेन्न तत् ॥१२॥ स्वतंत्रे चेतने जीवे सति कालाद्यचेतनाः ॥I समप्रधानभावेन कथं संधीभवंति ते॥१३॥ तर्हि जीवो हेतुरस्तु तन्न दुःखादिदर्शनात्॥ स्वतंत्रः स्वात्मनो दुःखं कुर्वन्दृष्टो न हि क्वचित् १४ दोषान्सर्वेषु पक्षेषु पश्यंतो बहुधा तदा। मायाशक्तिमनिर्वाच्यामपश्यन्ध्यानयोगतः ॥१५॥ द्वित्रिकक्षासु युक्तीनां सत्वेऽप्यंते न संति ताः॥ न जानामीत्येवमंते विषीदंति हि वादिनः ॥१६॥ यदंते शरणं सर्ववादिनामविवादतः ॥ तदज्ञानमनिर्वाच्या मायेत्याहुर्विपश्चितः ॥१७॥ अनिर्वाच्येऽपि युक्तिं चेदन्विच्छति स मूढधीः॥ न रूपं चक्षुषा द्रष्टुमिच्छत्येवातिमोहित:॥१८॥ सर्वकार्येषु शक्तत्वान्मायाSक्षेपं न सार्ऽर्हति॥ दुर्घटस्यैव घटने स्वभावः सर्वसंमतः ॥१९॥ तथाविधायां मायायां परात्मा प्रतिबिंबितः ॥ अवांतराणि वस्तूनि कालादीन्यधितिष्ठति २० मायाविशिष्टमीशानं जगदाकारतां गतम् । संसारचक्रमित्याहुः संसाराख्यनदीति च॥।२१॥ Digitized by Google पुनः पुनर्जायमानश्रऋवत्परिवर्त्तते ॥I अविच्छेदेन संसारो नदीवत्प्रवहेत्सदा ।२२।। जीवो Sहंकारोपहितश्रऋरवद्धाम्यते सदा ॥ मायोपहित ईशानो जन्मसु प्रेरयेदमुम् ॥२३॥ उपाधिद्दयहीनं तु ब्रह्म वेदेषु बोध्यते । इत्थं वेदरहस्यज्ञा भवेयुर्रह्मतत्पराः ॥२४॥
Page 118
अ०प्र० जगत्स्याव्य्यक्तमव्यक्तं सृष्टिसंहारयोः क्रमात्॥ बिभर्त्ति दयमीशानश्र्विदात्मा तु विमुक्तिाक् २५ अ० ईशानीशावज्ञतज्ज्ञौ भोक्ता भोजयिता च तौ॥ तयोर्निर्वाहिका माया ब्रह्मण्यारोपितं त्रयम २६ ।१२॥ जगद्धमं जीवभेदं वासना देहधारणम्॥ चतुष्टयं निराकुर्यादभिधानादिभिः क्रमात् ॥२७॥ अभितो ब्रह्मरूपतध्यानाद्याति जगद्रमः॥ ब्रह्मत्वे योजिते स्वस्य जीवभावोपि गच्छति।।२८॥ अद्रये भाविते तत्वे वासना विनिवर्तते। आरब्धांते देहहानिर्मायैवं क्षीयतेऽखिला॥२९॥ ब्रह्मज्ञानात्पाशहानौ क्षीणक्वेशो न जन्मभाक्॥ पाशाश्र्वतुर्विधाश्रैव शास्त्रेषु प्रतिपादिता: ३० मलो माया कर्म तत्त्वतिरोधानं च ते मताः॥ मलो ज्ञानक्रियाशत्त्योश्छादको दोष इष्यते॥३१॥ रागादिहेतुर्मायोक्ता कर्म पुण्यं च पातकम् ॥ मूढैस्तत्वतिरोधानं सर्वैरप्यनुभूयते ॥ ३२॥ क्वेशान्पतंजलिः प्राह तेष्वविद्यादिरस्मिता॥ द्वितीया द्वेषरागौ चाभिनिवेशस्तु पंचमः ॥३३॥ भोक्ता भोग्यं प्रेरकश्र् त्रयं ब्रह्मेति त्त्वधीः॥ उपायेन ब्रह्मधीः स्यादरणिस्थान्निलाभवत्॥३४॥ Digitized by Google उपायः प्रणवेनात्मध्यानं तेनैष लक््यते॥ तिलात्तैलादयो यद्दल्लभ्यास्तत्तदुपायतः॥३५॥ सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्। आत्मविद्यातपोभ्यां तमुपलक्य विसुच्यते॥ ३६॥ यदुक्तं प्रणवध्यानं सयोगस्तत्र यत्नवान्॥ मनो ब्रह्मणि युंजानस्तत्साक्षात्कुरुते घिया ॥३७॥
Page 119
उरोंसमूर्धस्थानेषु त्रिषु देहं समुन्नतम् ॥ अवस्थाप्यासनं जिला प्रत्याहारं समाचरेत्॥३८॥ हृद्यक्षाणां निरोधो यः प्रत्याहारः स उच्यते॥ जयेत्प्राबल्यमक्षाणां प्राणायामेन धैर्यवान्॥।३९। प्राणाधीनव्याष्टतीनामक्षाणां प्राणरोधनात्॥ निरोधः स्यात्ततश्रितं धारयेताप्रमादतः॥४०॥ समे शुचौ शर्करादिमशकादिविवार्जिते॥ मनोऽनुकूलेऽवस्थाय देशे ध्यानं समाचरेत् ॥४॥ नाडीरूपाणि नीहारधूमान्यत्र विभांति चेत्॥ ब्रह्मसन्निधिमाप्ता धीरिति निश्च्चीयतां तदा।।४२।। निर्जरत्वितृष्णलशुभगंधादि चेद्रवेत्॥ योगसिद्धि: प्रवत्तेति ज्ञाला योगे स्थिरो भवेत् ॥४३॥ मेघच्छन्नं चंद्रबिंबं मेघापायेऽतिनिर्मलम ॥ तथैव बुद्दिचांचल्यशांतावात्मा प्रसीदति॥४४॥ स्वात्मतत्त्वप्रसादेन ब्रह्मतत्त्वं प्रसीदति ॥ शास्त्राबुद्धं ब्रह्मतत्त्वमात्मत्वेनानुभूयताम्॥४५॥ अजं ध्रुवं मायिकैस्तैः कार्यैः सर्वैविवार्जितम्॥ ज्ञाला देवं परात्मानं सर्वपापैर्विमुच्यते॥४६॥ एष देवः सर्वदिक्षु वन्हादिष्वखिलेषु च ।। वर्तते तं विचिंत्याथ प्रणमेत्सर्वदैवतम्॥४७॥ Digitized by Google तत्त्वयोगौ समुद्दिष्टावुत्तमस्याधिकारिणः ॥ अथ सोपाधिकं वस्तु मंदं प्रत्यभिधीयते॥४८॥ ऐंद्रजालिकवन्मायाजालवानेक ईश्वरः॥ नियच्छन् शक्तिभिर्लोकान्सृजते संहरत्यपि॥४९॥ एक एवेश्वरस्ताहक् द्वितीयो नैव विद्यते॥ जनानां प्रत्यगात्माऽसौ जगत्सृष्यादिकार्यपि ॥५०॥
Page 120
अ०प्र० स विराडपतां प्राप्य विश्वतश्र्वक्षुरादिमान्॥ सर्वेषां चक्षुरादा ये तदीया एव ते ऽखिलाः॥५१॥ अ० ॥५३॥ यो देवानीमिति प्रोक्तस्त्रिभिर्मैत्रैस्तमीश्वरम् ॥ मुमुक्षुः प्रार्थयेतैव सदा बुद्धिविशुद्धये॥५२॥ ।१२॥ ततः शुद्धमतिर्व्रह्म सर्वभूतेष्ववस्थितम्॥ अंतर्बहिश्र संव्याप्तं ज्ञाला स्यान्मतिवर्जितः ॥५३॥ 88 श्वेताश्वतरनामाऽहं पुरुषं वेद्मि तं प्रभुम। अन्योऽपि तं विदित्वैव मृत्युमत्येति नान्यथा॥५४॥ यस्मात्परं नापरं वा किंचिदस्ति तदद्रयम् ॥ वृक्षवन्निश्रलं तेन पूर्ण सर्वमिद जगत् ॥५५॥ एतद्विदुर्मृत्युहीनास्ते स्युर्ये तुन तद्विदुः ॥ ते दुःखमेव गच्छंति न तत्सोपाधिकेक्षणे ॥५६॥ दुर्लक्ष्यो निरुपाध्यात्मा सूक्ष्मधीवर्जितैर्नरैः॥ सुलक्ष्य एव सोपाधिस्तस्मादेवं स्मरेदमुम्॥५७॥ सर्वाननशिरोग्रीवः सर्वभूतगहाशयः ॥ वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५८॥ विश्वाकारजनेः प्राक्च सर्वव्यवहृतिक्षमः ॥ अपाणिपादो जवनो गहीता सर्वशक्तियुक्॥५९॥ Digitized by Google अणोरणीयान्दुर्लक्ष्योमहीयान्महतःस्फुटः॥इत्यात्मानं शास्त्रदृध्या पश्यतोनास्ति दुःखिता ६० स्थूलदर्शी तु साकारे सार्वात्म्ये वासिते सति॥ निराकारं ततो बोह्धुं प्रार्थयेतैश्वरं वपुः ॥६१॥ ।५३॥ य एको वर्ण इत्यादि स्तुवन्मंत्रचतुष्टयात्। प्रार्थ्याथ मायाजीवौ च बुद्धसुप्तौ विचारयेत् ॥६२॥ १. तृतीयोऽध्यायः।
Page 121
लोके काचिदजा वर्णत्रयोपेता बहुप्रजाः॥ सृजते तामजः कश्वित्सेवतेऽन्यस्तु तां त्यजेत्॥६३॥ ते जोबन्नात्मिका तद्वन्माया वर्णैस्त्रिभिर्युता॥ आसक्तो भजते मायां विरक्तस्तु विमुंचति ॥६४॥ विरक्तः क्त्रकर्तारौ विचिंत्यात्स्वस्य विग्रहे। चिच्छायावानहंकार: कर्ता चिद्धाति केवला ॥६५॥ पादपे क्षुधितः पक्षी फलमत्तीतर: पुनः॥ पश्यन्नास्ते तथा विद्याद्गोक्ृतत्साक्षिणावुभौ॥६६॥ चिच्छायागतभोक्तृत्वं साक्षिण्यारोप्यते भ्रमात्॥आनीश्वरोऽयं साक्षीतिशोको अवति मोहतः६७ नित्यतृप्तेश्वरत्वं तत्साक्षितत्वं तदीक्षते ॥ यदा तदा वीतशोको महिमानमवापुयात्॥६८॥ ऋचो देवाश्र्शब्दार्था यस्मिन्नात्मनि कल्पिताः।यस्तं न वेद तस्यर्चा किस्याद्यो वे्त्यसौ कृती६९ छंदांसि यज्ञा नान्यच्च मायावी सृजतेऽखिलम।। जीवात्मना प्रविश्यास्ते सन्निरुद्ो वपुष्ययम ७० मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्॥ तस्यावयवभ्ूतैस्तु व्याप्तं सर्व मिदं जगत् ॥ ७१॥ ईशो यः स्वत एक: सन् जीवाकारैरनेकशः। योनिं योनिं व्रजत्येतमीशं ज्ञात्वा न संसरेत्॥७२॥ Digitized by Google प्रतिबंधस्य बाहुल्याद्यो देवेत्यादिमंत्रतः ॥ पुनः पुनर्भजेतेशं प्रतिबंधनिवृत्तये ॥७३॥ अदृष्टप्रतिबंधो यो निवर्त्य भजनेन तम्॥ दृष्टोयः प्रतिबंधस्तं विचारेण जयेतपुनः ॥७४॥ सूक्ष्मेभ्यः परमाणुभ्योऽप्यतिसूक्ष्मो न लक्ष्यते।। बहिर्मुखैः स्वतः सोऽयं विश्वं व्याप्यावतिष्ठते७५
Page 122
अ०प्र० जगतः पालनेनायमस्तीत्यादौ विबुध्यताम्॥ ब्रह्मर्षयो देवताश्र् योगेनैतं विजानते ॥ ७६॥ अ० ।५४॥ क्षीरे घृतनिमितं यत्सारं तद्दीमतेक्ष्यते॥तथा वृत्तिनिरोधिन्या सूक्ष्मं वस्तु धियेक्ष्यतामू।।७७ दिवारात्रिस्तमश्र्वान्यद्यस्मिन्नास्ति न किंचन॥ नोर्ध्व न तिर्यक्तद्वस्तु न दृष्टांतोऽस्य विद्यते॥७८॥ ।१२॥
दग्गोचरे तस्य रूपं नास्त्यतः कोपि नेक्षते॥ अजात इति मंत्राभ्यामंतर्दष्ट्या भजेत तम्॥७९॥ पुनश्रवैवं विवेक्तव्यं विद्याविद्ये निजात्मगे॥ अविद्यया बध्यतेऽसौ विद्यया तु विसुच्यते॥८०॥ अविद्याकल्पितोपाधिभेदादीशतजीवते ॥ चैतन्यस्य भवेतां ये कथ्येते ते क्रमादिह ॥८१॥ हिरण्यगर्भमुत्पन्नमादौ ज्ञानैर्बिभर्ति यः ॥ एकैकमंतःकरणं बहुधा विकरोत्ययम् ॥ ८२॥ अधश्वोर्ध्व दिशः सर्वा भ्राजतेऽसौ प्रकाशयन्॥ भारं वहेद्यथाऽनड्डान्जगद्गारं वहेत्तथा॥८३॥ यो भावान् क्षीरबीजादीन्दधिवक्षादिरूपतः॥ परिणामं नयेत्सोऽयं गुणांस्त्रीन्विनियोजयेत् ८४ Digitized by Google अविद्याकृतमीशत्वं तदिदं स्पष्ठमीरितम् ॥I वेदयह्योपनिषदा तस्य तत्त्वमुदीरितम्॥८॥ अविद्याकृतजीवलमथ स्पष्टमुदीर्यते ॥ सत्वं रजस्तमश्र्वेति गुणैर्जीवः समन्वितः ॥ ८६॥ स फलार्थ कर्म कुर्यान्ुंक्ते तस्यैव तत्फलम्॥ दक्षिणोदगधोमार्गैः संसरत्येष कर्मभिः॥८७॥ १ चतुर्थो उध्यांय: ।
Page 123
अंगष्ठमात्रहन्निष्ठः स्वप्रकाशः स सूर्यवत्॥ अहंकारोपाधिकः सन् संकल्पान्कुरुते बहून्॥८८।। बुद्धिउत्त्यात्मचैतन्यसंयोगादेष चेतनः ॥स संकोचविकाशाभ्यां तैस्तैर्देहैः समो भवेत् ॥८९॥ नैव स्त्री न पुमानेष नैव चायं नपुंसकः ॥ यद्यच्छरीरमादत्ते तेन तेन स कथ्यते ॥९०॥ अविद्याधीनजीवेशावुक्तौ यत्तत्त्वमेतयोः ॥ तद्विदासिद्ये कालस्वभावादीन्विचारयेत्॥ ९१॥ मूल कारण तैतेषां न युक्ता जनिम्त्वतः॥ देवस्य महिमा योऽसौ मायाख्यस्तस्य युज्यते ॥९२॥ तन्महिन्नाऽऽटतं सर्वे कालं च कलयत्यसौ॥ भूतभव्यादिरूपेण भिन्नोऽसौ जायते ततः॥९३॥ जलान्यादिससुत्पत्तौ स्वभावः सह जायते॥ य टच्छा पंचभूतानि प्रधानं चेति मायिकम्॥९४॥ मूलकारणतास्त्येव मायाया जन्यभावतः॥ अवांतरं कारणत्वं कालादीनां भवलिदम्॥९५॥ एकं प्रधानं द्वे पुण्यपापे सत्वादिकास्त्रयः ॥ अष्टौ प्रकृतयो भूमिमुख्यास्तैर्जायते वपुः॥९६॥ यो मायावी स सर्वेषामादि: कालत्रयात्परः॥ विश्वरूपं स्वचित्तस्थं तमुपास्य प्रसादयेत्।।९७।। Digitized by Google संसारवक्षात्कालादिशाखायुक्तात्परो हययम ॥ धर्मावहं पापनुर्द स्वचित्तस्थं तमीक्ष्यताम्॥९८॥ विष्ण्वादीनामीश्वराणां परमं तं महेश्वरम॥ देवानां परमं देवं विदामोस्य प्रसादतः॥९९॥ १ पंचमोऽध्यायः। 388
Page 124
अ०प्र० न तस्य वपुरक्षं च विद्यते तत्समोपिन ॥ परास्य शक्तिर्विविधा बलज्ञानक्रियादिका॥१००॥ अ० सोऽधिष्ठानतया सर्वकारणं करणाधिपः ॥ ये जीवा अधिपस्तेषां नान्योस्याधिपतिर्भवेत्॥१॥ यस्तंतुनाभ इत्यादिमंत्रेण प्रार्थयेत्ततः ॥ एको देवः सर्वदेहे गूढो व्यापी च सर्वतः ॥२॥ सर्वप्राण्यंतरात्माऽसावध्यक्षः सर्वकर्मणाम् ॥ सर्वभूताश्रयः साक्षी निर्गुणः शुद्धचिद्वपुः॥३॥ ये तु पश्यंति तं धीरास्तेषां स्याच्छाश्वतं सुखम॥नित्यं तं चेतनं बुद्दा प्रापुयाच्छांतिमक्षयाम।।४।। अशक्यं यत्सुखं वक्तुं तदेतदतुभूयते । इति तत्त्वविदः प्राहुरुपायः श्रूयतामिह॥५॥ विवेकयोगौ तद्दोधहेतू तत्त्वविवेकतः ॥ यथाशास्त्रं विविच्यानुभवंति दृढयोगतः ॥६॥ सूर्यचंद्रादयः सर्वभासका अपि तत्सुखम ॥ नैव भासयितुं शक्ता भास्यंते किंतु तेन ते ॥ ७॥ चित्सुखात्मा स्वप्रकाशो भासते प्रथमं स्वयम्॥ सूर्यादयस्तस्य चिता भासंते न चिताऽन्यया ८ एकाकी सूर्यवद्योऽयं सर्वै व्यप्रोति भासयन्॥ तं यो वेत्ति स एवेशो नास्त्यन्यो हेतुरीशने॥९॥ Digitized by Google ज्ञान्येव विश्वकृत्काल: काल: सत्वादिभासकः॥ प्रधानजीवयोः स्वामी हेतुः संसारमोक्षयोः १० विद्याफलमिदं बाह्यधीयोगं स्यात्कदाचन ॥तद्धि शांत्यै प्रार्थयेत तं यो ब्रह्माणमीश्वरम्॥११॥ हिरण्यगर्भ सृष्टादौ वेदांस्तस्मै ददाति यः॥ तं भासकं स्वात्मधियो मुमुक्षु: शरणं भजे॥१२॥
Page 125
निष्कलं निष्क्रियं शांतं विरवद्यं निरंजनम॥ भजे स्वयं भासमानं तं दग्धेंधनवन्हिवत् ॥१३॥ निष्कलोऽवयवैर्हीनो हेतुहीनो निरंजन: ॥निरंधनान्निसाम्यं तु मायातत्कार्यवर्जनात् ॥१४॥ तादृशं परमात्मानं विदिलैव विमुच्यते॥ विना ज्ञानं न मुक्ति: स्यादितरैः कोटिसाधनैः॥१५॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ तदा देवमविज्ञाय मुक्तिर्न वस्ति तह्यम् ॥१६॥ तपसा देवमाराध्य श्वेताश्वरतरनामकः॥ अत्याश्रमिभ्यः प्रोवाच ब्रह्मविद्यामषिप्रियाम्॥१७॥ वेदांते परमं गुह्यं नानोपाख्यानवर्णितम्। नाSप्रशञांताय दातव्यं देयं शिष्याय धीमते॥१८॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ॥ तस्यैते कथिता हर्था:प्रकाशंते महात्मनः॥१९॥ अंतःप्रतिष्टःशास्तेति योंऽतर्यामी श्रुतीरितः॥सोऽस्मान्मुख्यगुरु:पातु विद्यातीर्थमहेश्वर:१२० इति श्रीविद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे श्र्वेताश्वतरविवरणो नाम द्वादशोऽध्याय: १२ काण्वो याजुषशाखायां नानाख्यानोपबंहिताम्॥ ब्रह्मविद्यामुवाचेमां संग्रहेण ब्रवीम्यहम्॥१॥ Digitized by Googte बहदारण्यकप्रोक्तैर्विराट्सूत्रादुपासनैः ॥ स्याद्विराडादिरूपत्वं स विराडिह कथ्यते ॥२॥ उपास्तेर्महिमा तेन भात्युपासनमिच्छतः ॥ मुसुक्षुस्तु विराडादिदोषान्टृष्टा विरज्यते॥३॥ .... अध्यायस्य तृतीयस्य चतुर्थब्राह्मणे श्रुतम् ॥ वैराजं वपुरेतञ्च शरीसांतरकारणम्॥४ ॥
Page 126
अ०प्र० इदं नरगवाश्वादि वपुस्तत्सृष्टितः पुरा॥ आत्मासीत्पुरुषाकारो ब्रह्मांडाख्यशरीरभृत्॥ ५॥ अ० प्रत्यगूप: पराग्रूपाव्य्यावत्तोऽनुभवात्मकः ॥ प्रथते यः स आत्मेति प्राहुरात्मविदो बुधाः ॥६॥ १३॥ बहिर्मुखेन न ज्ञातं प्रत्यक्तत्त्वमतिं विना । यदज्ञातं परं तत्त्वं तद्गवेत्सर्वकारणम् ॥७॥ विराडपि ततो जज्ञे त्रैलोक्यात्मकदेहवान्॥ यथोक्तज्ञानकमभ्यामेवं प्रत्यग्विराडभूत्॥८॥ स एष परमोऽप्यात्मा कोशपंचकधारणात् । संतः पुरुषाकारः कामाविद्याद्युपछुतः॥९॥ सोऽनुवीक्ष्यात्ममोहोत्थं वैराजं रूपमात्मनः॥नापइयदपरं किंचित्सोऽहमस्मीत्यथाभ्यधात् १ अहमित्येव नामास्य संपन्नं तेन लौकिकाः॥ तत्सृष्टा स्वं स्वमात्मानमहमित्यभिचक्षते॥१॥ कोशपंचकयुक्तस्य प्रत्यक्तत्त्वस्य नाम तत्॥ विराजा कृतमित्येतत्सर्वसाधारणं मतम् ॥१२॥ असाधारणदेहस्य तत्तत्पित्रादिना कृतम् ॥ देंवदत्तादिकं नाम जघन्यं पूर्वनामतः॥१३॥ कस्त्वमित्येष एष्टः सन्नादावहमिति ब्रुवन्॥ पश्राज्जघन्यं नामेदं वक्ति जिज्ञासवे जनः॥।१४ ॥ Digitized by Google चिदेकरस आत्मैव कशमले कोशपंचके ॥ एकतामभिसंपन्नोऽहंकारोत्पत्तिमात्रतः ॥१५॥ ।५६॥ बहवोऽतीतकल्पेऽन्य आसन्यद्यप्युपासकाः॥ तथापि भावनाधिक्यादेक एव विराडभूत्॥१६॥ निःशेषेणासुरं पापं दग्धवान्बहुजन्मभिः॥ततो विराडभूदन्योऽप्येवं दग्ध्वा भवेदिराट्॥ १७॥
Page 127
दग्धपापोऽप्यनात्मज्ञो देहादावभ्यमन्यत। ततः स्वनाशमाशंक्य सोऽबिभेदस्मदादिवत॥१८॥ स्रजं हि कल्पयित्वाSSस्ते तद्रयादाकुलेंद्रियः ॥ एवं नश्वरदेहादि प्रतीच्यारोप्य कंपते ॥१९॥ आलोचयेत्स्रजस्तत्वं भीतिध्वस्त्यै यथा नरः ॥ विराडालोचयत्तद्वत्प्रतीचस्तत्त्वमादरात्॥२०॥ आलोचितं यथा तत्त्वमपास्तध्वांतवद्रवेत्।। अनन्यानुभवं साक्षाद्ददर्शैकात्म्यमात्मनि ॥२१॥
देहेंद्रियमनोबुद्दिभावाभावादिसाक्षिणः॥ प्रतीचोऽन्यत्किमप्यत्र नास्ति कस्माद्विभेम्यहम् २३ अन्वयव्यतिरेकाभ्यां स्वमात्मानं यदा पुमान्॥ प्रतीच्येवातुसंधत्ते ब्रह्मास्मीति तदेक्षते ॥२४॥ प्रत्यग्टृथ्ा तदज्ञानं न तज्जं चेक्षते स्वतः॥ ब्रह्म प्रतीचोरैकात्म्यात्तहूरीकृत्य गर्जति ॥२५॥ प्रत्यक्ता ब्रह्मणो रूपं ब्रह्मता चात्मनः स्वतः॥ एवं सति कुतो मे भीरिति विद्वांस्त्रपायते ॥२६॥ ब्रह्मविद्यामृते नान्यद्रयहेतुविनाशकृत् ॥ अतोऽवबोधादेवास्य भयं वीयाय सर्वतः ॥२७॥ Digitized by Google कस्मादभेष्यदीशोऽयं द्वितीयात्खलु तद्गयम॥द्वितीयो ने श्वरस्यास्ति ततो निर्भय एव सः॥२८। की हगा नतु प्रजापतेरैक्यदर्शनं कुत उद्दमौ ॥ शास्त्राचार्यादि तद्ेतोरसत्वात्तदसंभवः ॥२९॥ उच्यते महता पुण्यपुंजपाकेन तत्पदम् ।। वैराजं लब्धवांस्तेन ज्ञानमस्योद्वभौ स्वतः॥३० ॥
Page 128
1
अ०प्र० ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पत्तेः ॥ ऐश्वर्य चैव धर्मश्र सहसिद्धमिति स्मृतिः ॥३१॥ ।५७॥ एवं सति स्वयं भाति वेदलाहुद्दवान्स्वयम्। बोधध्वस्तात्ममोहस्याप्यरतिः समजायत॥ ३२॥ अ०
स्वाभ्ीष्टवस्त्वलाभेन चेतसो याऽनवस्थितिः॥ अरतिः सा सिसृक्षोःसा वस्त्वलाभादजायत ३३ ।१३॥
नतु विज्ञानविध्वस्तावविद्यायाः कुतो रतिः॥ध्वस्तांध्यस्यापि सा चेतस्यादनिर्मोक्ष: प्रसज्यते ३४ अप्युत्पन्नात्मबोधानामधिकारासमाप्तितः ॥ अरत्यादि यथा दृष्ट तथैव स्यात्प्रजापतेः ॥३५॥ अधिकारो यस्य यावान् भुंक्ते भोगे स तावति॥ कुतो न मुच्यते मुक्तिप्रतिबंधस्य संक्षयात्॥३६॥ सत्यामप्यात्मविद्यायां यो दोषो न निवर्तते ॥ तेन दोषेणानुमेयोऽधिकारो विदुषामसौ॥३७॥ प्रबलारब्ववेगेन कामुकः सन्प्रजापतिः ॥ एकं देहं स्वभोगार्थमसृजन्मिथुनात्मकम॥३८॥ तद्वेधाऽपातयद्देहमभूतां दंपती उभौ ॥ मनुः पुमान्वघूर्ज्ेया शतरूपाऽन्र नामतः॥३९॥ Digitized by Google तयोः: संभोगतो जाता मनुष्या दंपती पुनः॥ नानादेहानगृण्हीतां तभ्यां द्ंद्ानि जजिरे॥ ४॥ गवाश्वरासभाजाविप्रसुखा आपिपीलिकम्। प्राणिनो मिथुनात्मानो जाता: कर्मानुसारतः ४१ मुखबाहूरुपादेभ्यो वन्हींद्रवसुभूमिकाः॥ देवता असृजद्रह्मा चातुर्वर्ण्यनियामिकाः ॥१२॥ १ स्त्रीपुरुषौ
Page 129
तत्रेंद्रादीन् भिन्नदेवान्मन्यंते यागभूमिषु ॥ कर्मिणस्तदसज्ज्ञेयं विराडेवाऽखिला इमे॥४३॥ अविद्वदधिकारितात्कर्मणां भिन्नदेवताः॥ उच्यंतां कर्मकांडेन वस्तुतस्तु न तत्तथा॥४४॥ विराजो जीवतामाहुः केचिदन्ये परात्मताम्॥ उभयं युक्तमेवैतद्विवक्षाया विशेषतः ॥४५॥ सोपाधिकविवक्षायां जीव एव विराड भवेत ॥ निरुपाधिविवक्षायां परमात्मैव नेतरः ॥ ४६ ॥ वयमप्येवमेवेति यद्युच्येत तथास्तु तत्॥सृष्टा विराड भोक्तृवर्ग भोग्यमन्नमचीक्कपत्॥४७॥ पूर्वजन्मनि मर्त्यः सन्कृला सोऽज्ञानकर्मणी ॥ अमृतानसृजद्देवान्नह्यते तन्महाद्गुतम्॥४८॥ सृष्टाऽखिलमयं देवमहमस्म्यखियं जगत् ॥ ईदशो महिमा ज्ञेयः कृतयोर्ज्ञानकर्मणोः॥४९॥ वर्णितीयं प्रयत्नेन ज्ञानकर्मफलोर्जिंतः ॥ उपासितुः प्रतृत्यर्थ निवृत्यर्थ मुमुक्षतः॥५०॥ सृष्ट्रैश्वर्ये स्वतंत्रत्वं तत्कामी बहु मन्यते ॥ दोषानेव विवेक्यत्र बहूतुत्प्रेक्षते घिया ॥५१॥ अविद्यपटसंवीतेचक्षुषामियदेव हि ॥ वैदिकं साधनं ज्ञेयं ज्ञानकर्मस्वभावकम् ॥ ५२॥ Digitized by Google तच्च कर्त्रादि सापेक्ष्यं विरंच्यांतफलप्रदम्। जन्मादिविक्रियाषट्युतं सातिशयं जडम् ॥५३॥ दुःखानि च विचित्राणि संत्येव बहुजन्मसु ॥ अनेकक्वेशयुक्तेन दुर्ल्लभं तपसा विना ॥५४॥ १ महिमा। २ अधिको महिमा। ३ उद्धावयति। ४ आच्छादितं चक्षुर्येषां तेषाम्।
Page 130
अ०प्र० कथंचित्साधितेप्यस्मिन्परानंदघनं प्रभुम॥ अंतर्भाव्य विराट्पिंडे स्थातव्यं हि जुखुप्सिते॥५५॥ अ० न केवलं पिंडवासस्तादात्म्यं चाभिमानतः॥ ततो भयं भक्षणाय पितुर्मुखविदारणात् ॥५६॥ ।१३॥ चांडालानां तुनेयं भी: किंतु पन्नगजन्मनः॥को भेदः स्याद्विराङ्गन्मन्युरगाः पुत्रभक्षिणः ॥५७॥ कृछाद्गये प्रशांतेऽपि जगाहाथारतिग्रहः ॥ क्रियमाणे प्रतीकारे गर्दभादिशरीरता ॥५८॥ एकयोनौ सकज्जातः क्वेशं सोढुं न शक्कुयात्॥ अनंतयोनिष्वसकृज्जायमानस्य का कथा ॥५९॥ निस्तरेद्विद्यया चेक्किं बकबंधप्रयासतः॥ अथ विद्यामुपेक्ष्योर्ध्व किं विद्यां प्रार्थयिष्यते॥६०॥ क्वेशेन महतोपास्य बहुयोनीः प्रविश्य च ॥ विद्यान्वेषणतः श्रेय इदानीमेव वेदनम्॥६१॥ एवं विचार्य बहुशस्तूर्णमेव सुमुक्षति ॥ निटृत्तः सर्वबाह्यार्थात्प्रमेयं मातुमर्हति ॥६२॥ अधिकारी साधितः स्यादेवं फलविचारतः ॥ तेन प्रमातुं यद्योग्यं तदिदानीं निरुप्यते॥६३॥ Digitized by Google उपादेयस्य मेयर्स्य वाँच्या संभावना यथा ॥ हेयसंसारहेतुश्र वक्तव्यो यत्नतस्ततः ॥६४॥ संसाराख्यमहाव्याधे: किं मूलमिति चिंतिते ॥ तङ्दस्तये चिकित्सेयं तदा फलवती भवेत्॥६५॥ १ महत्कष्टेन।२कष्टात्। ३ शीघ्रं। ४ ऐक्यं साक्षात्कर्तु। ५अधिकारी सिद्ध: स्याद।६ जीवत्र सैक्यस्य।७ भावना वक्तुं योग्या भव ति।
Page 131
अबुद्दमात्मनस्त्त्वं प्रमातुं योग्यमागमैः॥ निर्ेष्टव्यं तदप्यत्र संभावयितुमंजसा॥६७॥ तमेबोधं तच्च मेयमव्याकृतगिरा श्रुतिः ॥निरदिक्षच्त्रुतिः सातु न्यायेनात्र विचार्यते॥६८॥ तज्गेदं तर्हविस्पष्ठमासीदव्याकृताभिधम्॥ इत्येतस्मिन् श्रौतवाक्ये पदार्थस्तावदीर्यते ॥६९॥ अज्ञानात्मन्यशेषेण लीनं बीजस्वरूपधृक्॥ तच्छव्देन जगत्प्रोक्तं परोक्षार्थाभिधायिना॥७॥ अव्याकृतस्य जगतो भूतकालाभ्िसंगतेः ॥ बुभुत्सुंप्रति पारोक्ष्यात्तच्छब्दस्तत्र युज्यते ॥७॥ ऐतिह्यार्थे ह शब्दः स्यात्सुखेनार्थावबुद्दये॥ तर्केणोक्तो धियः क्ेशः परमाण्वतुमानवत् ॥७२॥ अचिंत्या: खलु ये भावा न तांस्तर्केण योजयेत्॥ नाप्रतिष्ठिततर्केण गंभीरार्थस्य निश्रयः॥७३॥ नामरूपादिविकृतं पराइ-मानेन भासितम् ॥ इदशब्देन निखिलं जगदेतदुदीर्यते ॥७॥ सामानाधिकरण्येन तदिदंपदयोः श्रुतम् ॥ कार्यकारणयोरैक्यं व्याकृताव्याकृतात्मनोः ॥७५॥ Digitized by 87811 एकस्य जगतोऽवस्थे व्याकृताव्याकृतात्मिके॥ अवस्थयोर्विभे देऽपि तद्र्मी न हि भिद्यते ॥७६॥ बाल्ययौवनभेदेऽपि देवदत्तोन भिद्यते ॥। ततो जगदभेदेन सामानाधिकरण्यगीः॥७॥ १ सिद्धेडपि। २ अज्ञानं। ३ ऐतिहयं अनुमानं। ४ बहिर्मानेन।
Page 132
अ०प्र० नामरूपाद्यभिव्यक्ते प्राक्तन: काल उच्यते॥ न हीत्यनेन शब्देन स कालो लोककल्पित:।।७। अ० यद्यप्यव्याकृते कालव्यक्तिर्नास्ति तथाप्यमी॥ लोकाः प्रलयकालतव्यवहारं प्रकुर्वते ॥७९॥ जगतोऽस्यानभिव्यक्तिरव्याकृतरगिंरोच्यते॥ न जगत्प्रागवस्थायां व्यक्तं गर्भस्थपुत्रवत्।८०।। आसीदिति च सत्त्त्वमधिष्ठानतयोदितम् ॥ तथा च भावरूपलाज्जगव्द्याकृतिमर्हति ॥८१॥ अव्याकृतिवचस्तेवमवतार्यास्य वर्णिताः ॥ पदार्था अथ वाक्यार्थो न्यायेनैव निरूप्यते ॥८२॥ यस्य वेदांतमेयत्वं कारणं जगतश्र यत्॥ अव्याकृतं तदेवात्र वाक्यार्थो द्विविधं हितत्॥८३॥ चित्प्राधान्यादविद्यायाः प्रधान्याच्च द्विधाऽद्यम्॥ यच्चिद्वस्तु प्रमेयं तदविद्या तु विकारकृत् ८४ न चिद्रस्तु विवादाह तेन सर्वार्थसिद्धितः ॥ अज्ञोऽहमित्यविद्यापि प्रसिद्वैवानुभूतितः।।८५।। नासदासीन्नो सदासीत्तम आसीदिति श्रुतिः।। आसीदिदं तमोभूतमप्रज्ञातमिति स्मृतिः॥८६॥ अज्ञानतात्प्रमाणेन ज्ञातव्यमिति मेयता ॥ अज्ञानस्य विकारितात्कारणत्वं च संभवेत्॥८७॥ Digitized by Google मायां तुप्रकृति विद्यादीशो मायीति हि श्रुतिः॥दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः।।८८।। इत्यव्याकृतवाक्यार्थो न्यायेन सुनिरूपितः॥अथ व्याकृतवाक्यार्थः क्रमात्पाप्तो निरुप्यते ८९ १ श्रुत्या।
Page 133
EEEEIEEE EEEEEE EEEEEEEN व्याकृतं द्विविधं देहसृष्टिर्जीवप्रवेशनम् ॥ देहादिर्विषयत्वेन प्रवेशात्पूर्वसुच्यते ॥९०॥ अव्याकृतं यत्पूर्वोक्तम रूपकमनामकम् ।। तदिदं नामरूपाभ्यामेव व्याक्रियते स्वयम् ॥९१॥ सुषुप्तादुत्थिती राज्ः स्वयमेव यथा तथा ॥। जग्धाशेषजगन्मूर्त्ेरव्यक्ताद्याकृतिर्मुह्ुः ॥९२॥ नामरूपे तु शब्दार्थी न ताभ्यामतिरिच्यते॥ जगत्किंचिद्वटादौ हि द्वयमेव समीक्ष्यते ॥ ९३।। प्रक्रियानियमो नात्र पुंव्युत्पत्तिप्रधानतः ॥ अतः श्रुतिषु सृष्यादि विगानं बहुधेक्ष्यते॥ ९४॥ यया यया भवेत्पुंसां व्युत्पत्ति: प्रत्यगात्मनि॥सा सैव प्रक्रियेह स्यात्साध्वी सा चाऽनवस्थिता९५ विस्पष्टत्वं व्याकुलत्वं शुक्तिकारजातादिवत्।स्पष्टमव्याकृतान्मोहान्मिथ्याज्ञानमिदं जगत् ९६ नामरूपाध्यास एवं व्याकृतः प्रतिपादितः ॥प्रवेश्यस्यात्र जीवस्य प्रवेशः प्रतिपाद्यते ॥९७॥ सर्वशास्त्रारंभ एष यदर्थस्तद्विबुद्धये ॥ स एष इह देहेषु प्रविष्ठ इति गीयते॥ ९८॥ स एषोऽत्रानखाग्रेभ्यः प्रविष्ठ इति वेदगीः॥व्याख्यायतेऽसौ पदश आदौ मीमांस्यते लथ॥।९९।। Digitized by Google स इत्यनेन शब्देन प्रकृतार्थावमर्शिना॥ अव्याकृताध्यक्ष आत्मा यः पुरोक्तः स उच्यते॥१०॥ यहा विराडधिष्ठानं ब्राह्मणादावुदीरितम्॥ आत्मशब्देन तस्यात्र परामर्शो भविष्यति॥१०१॥ १ सएष इह प्रविष्ट आनखाग्रेभ्यः।
Page 134
अ०प्र० तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः ॥ एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते ॥२॥ अद्वितीयमधिष्ठानं कार्यस्थः सद्यस्तयोः ॥ स एष इत्यभेदोक्तिर्दुष्करेति न चोदताम्॥ ३॥ अ०
अज्ञातवस्तुतत्वस्य दुष्करं नास्ति किंचन। नीलीकृतं नभः पइयेच्चक्षुषा नीलवस्त्रवत्॥४॥ แร3ูแ
योग्यायोग्यव्यवस्थेयं मानव्यवहतौ भवेत् ॥ कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु॥५॥ इहेत्यनेन सूत्रादिस्थाणुपर्यतविग्रहाः ॥ उच्यंते तेषु जीवोऽयं विस्पष्टसुपलभ्यते ॥६॥ प्रविष्ठ इति शब्देन चिदाभासतमोन्विता। जीवत्वेनोपलब्धिर्या चितः सैषाऽभिधीयते॥७॥ चिदाभासप्रवेशस्तु प्रत्यङ््मोहे स्वतोऽभवत्॥ तत्कार्येष्वनुळृत्तः स उपाधिश्च्ित्प्रवेशने॥८॥ जपाकुसुमरक्तत्वं स्फटिके कल्प्यते यथा ॥ चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा॥९॥ सूत्रादिस्थाणुपर्यतं जगत्सृष्टात्ममायया॥ स्वाभासैकसहायेन स एव प्राविशत्परः॥१॥ Digitized by Google आनखाग्रेभ्य इत्युत्त्या मर्यादाऽस्य प्रवेशने॥ उक्ता स्पर्शेन चैतन्यं नखवाग्रावधि लक्ष्यते॥११॥ सामान्येन विशेषाच्च चिद्देहं व्याप्य वर्त्तते॥ दष्टांताभयां दयी वत्तिर्द्विविधाभ्यामिहोच्यते॥१२॥ दारु कृत्स्मभ्िव्याप्य यथाग्निर्दारुणि स्थितः॥संव्याप्य तद्दखिलं देहमात्मा व्यवस्थितः १३ तस्थावसंव्याप्य यथा क्षुरपात्रं क्षुरस्तथा॥ श्रोत्रादिनाडिमध्यस्थस्तनुमव्याप्य संस्थितः १४
Page 135
क्षुरपात्रे स्थानभेदाद्विभज्यंते थथा क्षुराः ॥ चैतन्यानि विभिद्यंते तथा नाडीविभेदतः ॥१५॥ प्राप्नोति वत्ती दे जीवः स्वप्नजाग्रदवस्थयोः ॥ सामान्यवत्तिमेवैकां सुषुप्ते प्रतिपद्यते ॥१६॥ सामान्यवत्तिर्या सात्र जीवनायोपपद्यते ।। विशेषटत्तयो देहे शब्दाद्यालोचनोद्यताः।१७। प्रवेशवाक्यं पदशस्तात्पर्याच्च स्फुटीकृतम् ॥ तदनुग्राहको न्याय इदानीं प्रविचार्यते॥१८॥ देवदत्तः परिच्छिन्नः सांशश्र्ातो गृहं विशेत्॥ निरंशः सर्वगश्रात्मा कथं देहे विशेदसौ॥१९॥ अप्रविष्ठस्वभावोऽयं दिग्देशादयनभिष्ठुतेः॥कल्पितोऽस्य प्रवेशः स्याज्लपात्रार्कबिंबवत्॥२०॥ विभागादयंशवैषम्येऽप्यस्ति साम्यं विवक्षितम।।उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते २१ उपाधावुपलभ्यलमन्यथात्वेन भासनम् ॥I बहुत्वभानमित्येतदृष्टदार्ष्टीतयो: समम् ॥२२॥ तेजोधिकं रवेर्बिबमशक्यं द्रष्टुमंजसा । तथापि जलमध्ये तद्विंबं सम्यगवेक्षते ॥२३॥ स्वयंप्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः ॥ जडदेहाद्युपाधौ तु विस्पष्ठसुपलभ्यते ॥२४॥ Digitized by Google जीवलभ्नांतिरेषैवं प्रत्यग्बोधोपयोगतः ॥ जलपात्रार्कसाम्येन प्रवेश इह कल्प्यते ॥२५॥ यथा सृष्यादयः कृप्ता: प्रवेशोऽपि तथेक्ष्यताम्॥ युक्त्या नैवोपपद्यंते सृध्यादाः कल्पितास्ततः॥ नन्वेवं पर एवात्र प्रविष्टश्र्ेत्दा जनाः ॥ पइयंत्येतं विनाशास्त्रमिति शास्त्रं वथा भवेत्॥२७।।
Page 136
अ०प्र० अहं प्राणिम्यहं वच्मि पशयाम्येतच्छणोमि तत्॥ मन्येऽहमित्यहंबुध्या दृष्ट एवाखिलै: परः २८ अ० उच्यते तन्न पश्यंति प्रविविक्तं स्वतो जनाःनो श्वासभाषणे दृष्टिश्रुती वा स्तोऽस्य नो मितिः२९ प्रविष्ठस्यास्ति चेछासभाषणाद्यस्तु तावता॥ प्रवेष्टरि किमायातं शास्त्रबोध्यः स एव हि॥ ३०॥ ।१३॥
प्रविष्ठस्य प्रवेषुश् रूपाभेदेऽपि भिन्नताम्॥ प्रविष्टत्वाप्रविष्टतधर्माभयां को निवारयेत्॥३१॥ प्रविष्ठं येऽत्र पइयंति नाप्रविष्टममी विदुः ॥ व्याधलेन प्रपश्यंतो न विदू राजपुत्रताम्॥३२॥ व्याधोऽयमित्यसावुक्तिर्योजयेत्प्राणसंकटे । राजदेवादिकोक्तिस्तु भवेहहुफलप्रदा॥ ३३॥ तद्वत्प्रविष्ठटृष्टिर्या सा संसारे नियोजयेत् ॥ अप्रविष्ठात्मदृष्टिस्तु मोचयेत्सर्वसंकटात्॥३४॥ अतोऽप्रविष्टटष््यर्थ निंदते हि प्रविष्टटक् ॥ प्रविष्टदर्शनं यत्स्यान्न तद्दर्शनमात्मनः ॥३५॥ स्वत: परोऽपि देहादौ प्रविष्टोऽकार्त्स्न्यदोषतः ॥ दूषितो दर्शनं तस्य न अवेत्परदर्शनम्॥३६॥ अकृतस्नत्वं यथाऽस्य स्याव्यवहारे तथोच्यते॥ श्वासयोगात्प्राणिता स्याद्क्ता वदनयोगतः।।३७॥ Digitized by Google द्रष्टा दर्शनयोगेन श्रोता श्रवणयोगतः ॥ मंता मननयोगेन स्प्रष्टादौ योजयेत्तथा॥३८॥ एवं चाहं प्राणितेति ज्ञाते वक्राद्यसंग्रहः ॥ वक्ताहमित्यपि ज्ञाते प्राणित्रादेरसंग्रहः॥ ३९॥ यतिदीक्षित चोरादिभूमिकां धारयेन्नटः ॥ तत्र दृष्टे दीक्षितेऽन्ये द्रष्टा यत्यादयो न हि॥ ४ ॥
Page 137
प्राणनादिकृतां मध्य एकैकं यः समीक्ष्यते ॥ न स जानात्यकृतस्न्नवादेतदीक्षितव स्तुन ।४।। इत्युक्तं व्याकृतं सर्व जडाजडविभागवत्॥ आरोपोऽयं तन्निवत्यै विद्यासूत्रमिहोच्यते ॥४२॥ आत्मेत्येवमुपासीते त्येतव्सूत्रमुदाहतम्। उत्का पदार्थ सूत्रातुग्राहको न्याय उच्यते॥ ४३॥ यञ्चाप्नोति यदादन्े यच्चात्ति विषयानिह॥ यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते ॥४१॥ व्याप्नोत्यनवशेषेण सर्पादीन् स्त्रगिवाखिलान् ॥कल्प्यानधिष्ठानतया प्रत्यङ्गात्मा भवेत्ततः ४५ सर्वाधिष्ठानसन्मात्र इत्यशेषजगत्प्रति ॥ अधिष्ठानतया वाततिं श्रुतिर्त्रूते सदात्मनः॥४६॥ स्वचिदाभासमोहेन तदुत्थानखिलान्यतः॥ आदत्ते नात्मनः प्राज्ञस्तत आत्मेति तं विदुः ॥४७॥ पर आत्मनि सर्वेऽपि संप्रतिष्ठंत एकले॥। पथिव्याद्या अनात्मान इति चाथर्वणे वचः ॥ ४८॥ आत्माभास: पराचीना धीवृत्िर्विषयोन्मुखा।।प्रत्यग्गतिर्यतोऽतोऽसावात्मेत्युक्तो मनीषिभि: ४९ विश्वो हि स्थूलभुद्गित्यस्तैजस: प्रविविक्तभुक्॥ आनंदभुक तथा प्राज्ञ इति चागमशासनम् ५० Digitized by O अव्यावताननुगतः पूर्ण: स्वात्मन्यवस्थितः॥यतोऽस्य संततो भावस्तस्मादात्मेति शब्धते ५१ BIE SH तद्विष्णोरिति मंत्रेपि तद्विष्णोः परमं पदम्। चक्षुर्वदाततं व्योम्नि व्याचष्े प्रत्यगात्मनि॥५२॥ चतुर्विधनिरुत्तयाऽत्र चलारोऽर्था: प्रकीर्तिताः ॥ अधिष्ठानं कारणत्वं जीवकावो विमुक्तता॥५३।
Page 138
अ०प्र० यन्मुक्तरूपं साक्षिलाद्याकृतेऽव्याकृतेऽपि तत्॥ अतिरोहितमत्रात्मशब्देनैतद्वि सूत्रितम्॥५४॥ अ० आत्मशब्दधियोरात्मा विषयो नेति भाषितुम्।।सूत्रेSस्मिन्निति शब्दोऽयं यथैतत्स्यात्तथोच्यते५५ यत्रति परशब्द: स्यात्तत्रोपचरितं वचः ॥ ज्येष्ठ पितेति पश्यंतीत्यादावेवमवेक्षणात् ॥५६॥ व्याकृताव्याकते ये दे कल्पिते ते विचारतः ॥ एते वारयितुं सूत्र एवंकारमसूत्रयत् ॥५७॥ उपेति सामीप्यवाची तन्निष्ठा प्रत्यगात्मनि॥ कार्यकारणरूपाभ्यां प्रत्यङ् हृदि य ईक्ष्यते ॥५८॥ एतस्य ब्रह्मसामीप्यं तत्त्वमस्यादिनोच्यते॥। आसीतेति तु शब्देन कूटस्थलमसूत्रयत् ॥५९॥ व्युत्थाय कारणात्कार्यात्तत्तत्वज्ञानवर्त्मना ॥ उपेत्य कूटस्थमजमासीतापरिणामवान्॥६०॥ इत्यात्मशब्दे सूत्रार्थो वाक्यार्थश्रोपवर्णितः॥ तदनुग्राहको न्याय आशंकापूर्वमुच्यते ॥६१॥ व्याकृताव्याकृताभ्यां तद्दस्तुतत्त्वं तिरोहितम्। इति यच्छंकितं तन्न स्वरूपस्यातिरोहिते:।६२॥ स्वस्वरूपं तिरोधातुं न हि केनापि शक्यते ॥ विस्फार्यतामिहाक्षाणि किमक्षैरपराध्यते ॥६३॥ Digitized by Google आपादयेयु: शब्दादीन्यद्यक्षाणि तथापि ते॥ का हानिस्तस्य शब्दादेरेव तत्त्वं विबुध्यताम् ६४ तैः शब्दादितया भाति तत्त्वरूपतया न तु।। इति चेदत एवैतद्वेदवाक्येन बुध्यताम् ॥६५॥ न परोक्षलमाशंक्यं स्वस्वरूपलहेतुतः॥ शब्दादित्त्वं यद्ोङः स्वरूपं तन्न चेतरत् ॥६६॥
Page 139
एकस्याप्यत्र चित्तस्य सहकारिविभेदतः ॥ क्रमेण ग्रहणं तत्त्वे शब्दादौ च कुतो न हि॥६७॥ इति शंकोत्तरं प्रोक्तमे तत्सूत्रेण सूचितम्॥ स्वरूपवाच्यात्मशब्दादतिरोधानभासनात् । ६८ ।। ननु प्राणादियुक्तात्म बोधोSकात्सर्येन दूषितः॥सोSकात्सर्यदोषः शुद्धात्मऽबोधे कस्मान्न संभवेत्॥ इत्याशंकापनुत्यर्थमत्रेदं श्रूयते स्फुटम् ॥ अत्र ह्येते सर्व एकीभवंतीति श्रुतेर्वचः ॥ ७०॥ प्राणा हयुपाध्युपहिता: सर्वेऽप्यात्मान ईश्वरे॥ शुद्धात्मन्येकतां यांति पुत्रभात्रादयो यथा॥७१॥ पुत्रो भ्राता पितेत्येको भिद्यते प्रतियोगिभिः॥पुत्रादयस्त एकस्मिस्तस्मिन्यांत्येकतां ततः ७२ आत्मनोऽनवशेषेण संबंधो नात्मवस्तुनः॥ रज्जुः सर्पादिवन्नातःप्रतीच: शिष्यते पराक ॥७३॥ सर्वमज्ञातमेव स्याद्यस्मिन्नज्ञात आत्मनि॥ ज्ञाते ज्ञातं च कृत्स्ोऽसौ तावत्त्वात्सर्ववस्तुनः ७४ प्रमाभासतमेतेन वाक्येनास्य निवारितम्॥ मात्वं संभाव्यते तस्य पदनीयतवाक्यतः ॥ ७५॥ अस्य सर्वस्य जगत आत्मेति यदुदीरितम्॥ तदेतत्पदनीयं स्यादिति वाक्यस्य योजना॥७६॥ Digitized by Google पदनीयेति शब्देन प्रमातुं योग्यतोच्यते॥ अज्ञातलात्पुमर्थलात्प्रमातुं योग्यताऽऽतनः॥७७॥ अव्याकृतव्याकृतयोरज्ञातात्मकता यतः ॥ अत आत्मातिरेकेण नाज्ञातार्थोऽस्ति कश्न ॥७८॥ ज्ञेयार्थानंदयोर्यस्मात्समाप्तिः प्रत्यगात्मनि॥ परमः पुरुषार्थोऽत आत्मा भवति नेतर:॥७९॥
Page 140
अ०प्र० अज्ञातत्वं पुरा प्रोक्तमव्याकृतगिरा यथा॥ ज्ञेयार्थस्य समाप्तिस्तवां वत्त्यनेनेति वाक्यतः ॥८०। ।६३ ॥ अनेनैतद्वेद सर्वमित्यात्मज्ञानमात्रतः ॥ सार्वज्ञमुक्तमानंदसमाप्तिस्तु प्रवक्ष्यते ॥ ८१॥ अ०
अन्यज्ञानेन नान्यस्य क्वचिदप्यवबुद्धता ॥ आत्मज्ञानेन सर्वस्य ज्ञानं कथमुदीर्यते ॥८२॥ ।१३॥
सत्यमेवं भवेदेतद्यद्यात्माऽप्यन्य इष्यते ॥ आत्माSसावन्य इति च नातुन्मत्तस्य गीरियम्॥८३॥ प्रत्यक्तत्वे परिज्ञाते जगत्तत्वं प्रबुध्यते ॥ इत्यत्र पददृष्ठांतो यथावत्स विविच्यते॥ ८४॥ एकं पादं यथाश्वस्य दष्ट्राश्वत्वमशेषतः॥ दष्टवानेव भवति दृष्ोश इति वर्णनात् ॥८॥ एवं स्वदेहमात्रस्थे साक्षितत्वेऽवलोकिते ॥ अशेषजगतस्तत्त्वं लभ्येतैव न संशयः॥८६॥ आनंदस्य समाप्तिर्या प्रत्यगात्मनि साडधुना॥ प्रदशर्यते ऽनुभूत्याSत्र स्पषटं सार्वजनीनया।।८७। वित्तात्पुत्रः प्रिय: पुत्रात्पिंड: पिंडात्तथेंद्रियम्।।इंद्रियेभ्यः प्रियः प्राण आत्मा प्रियतमस्ततः ८८ स्वात्मभोगस्य हेतुलात्प्राणादौ प्रीतिरिष्यते।न स्वतोऽतोन सा मुख्या वेश्याप्रीतिर्यथा तथा८९ Digitized by Google प्रतीचि निर्निमित्तैव सर्वावस्थास्वपीष्यते॥प्रीतिरम्युष्णवत्तस्मान्मुख्याऽसाविति गम्यताम्९० सर्वातरतरत्वेन युज्यते निर्निमित्तता ॥ बाह्येषु सनिमित्तत्वं प्रीतेः स्पष्ट गवादिषु॥९१॥ ।६३।
व्याध्याद्युपद्रुतो लोको मतिमप्यभिवांछति॥निर्निमित्तप्रियत्वे तु देहादेस्तत्र युज्यते ॥९२॥
Page 141
अनात्मा प्रिय इत्येवं यो मुह्यति सपामरः ॥ विनाशितमुदाहत्य मूढं तं बोधयेहुधः॥९३॥ अनात्मा भोगकालेऽस्य सुखं यावत्प्रयच्छति॥ तत्सहस्त्रगुणं दुःखं नाशकाले प्रयच्छति ॥९४॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी॥ व्युत्थाय विषयेभ्यस्तां प्रतीच्येव निवेशयेत् ॥९५॥ विषया इव न प्रत्यक्कदाचिदपि नश्यति॥ अतो दुःखप्रदत्वं तु शंकितुंन च शक्यते॥९६॥ सूत्रार्थज्ञमनुष्याणां मतिं विज्ञायते चन॥ मुमुक्षवो गुरुं प्राप्य चोदयंत्यतिसंभ्रमात् ॥९७॥ यड्रह्मविद्यया सर्वभावाप्तिं मन्वते नराः॥ तङ्रह्म किं विदिलाभूत्सर्वमित्येतदीर्यताम्॥ ९८॥ एवं मुमुक्षुभिश्रोदे कृते करुणया गुरुः ॥ अनायासेन तच्चोदं परिहर्तुवचोऽब्रवीत् ॥ ९९॥ ब्रह्मैव बोधात्प्राग्जीवो भूलात्मानमवेत्पुनः ॥ अहं ब्रह्मेति तद्दोधात्सर्वात्मकमभूत्तदा॥२००॥ अवेत्सोपाधिरात्मायमात्मनं निरुपाधिकम् ॥ ज्ञातज्ञानज्ञेयभेदान्न दोषोऽत्र मनागपि॥१॥ अविविक्तस्तु देहाद्यैरात्मा भवति वेदिता ॥ विविक्तात्मा वेदितव्यो धीवत्तिर्वेदनं भवेत् ॥२ ॥ Digitized by Google अविद्यारोपनिन्हुत्यै तदात्मानमवेदिति ॥ आत्माभिसुखधीटत्तिरात्मवेदनसुच्यते ॥ ३ ॥ १ ब्रह्म वा इदमग्र आसीत्तदात्मानमेव वेदाहंब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रसबुध्यत स एव तदभवद्थर्षीणां तथा मनुष्याणां तद्वै तत्पश्यन्तृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्रेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति सेद५ सर्व भवति।
Page 142
अ०प्र० आत्मानमेव तदवेदित्युक्तादेंवकारतः ॥ निर्माल्यवत्परित्याज्यं देहादीत्यवगम्यते ॥ ४॥ अ० ।६४॥ त्याज्यमाने तु देहादावात्मैवैकोऽवशिष्यते ॥ परित्यक्तुमशक्यलादात्मानं निन्हुतेऽत्र कः॥५॥ अहं ब्रह्मास्मि नो जीव इत्यवेद्रह्मरूपताम् ॥ शोधितस्याहमर्थस्य युज्यते ब्रह्मरूपता॥ ६॥ ब्रह्मता नात्मनोऽन्यत्र नात्मता ब्रह्मणोऽन्यतः॥ यद्याथात्म्याप्रबोधातु तयोरेष विपर्ययः ॥७॥ अब्रह्मानात्मताहेतौ प्रत्यग्ध्वांते निर्वर्तिते ॥ आत्मानमेव ब्रह्मेति निर्विन्नं प्रतिपद्यते॥८॥ निवर्त्य भेदाद्विन्नोऽर्थो ब्रह्माहंपदयोर्भवेत् ॥ अब्रह्मानात्मते वार्ये एकस्मिन्नेव वस्तुनि॥ ९॥ स्वानुभूत्यवसे यस्मिन्प्रतोच्यब्रह्मतां जनाः॥ आरोप्य शास्त्रगम्येस्मिन्ननात्मलमकल्पयन्१ अनुभूत्यवसे योऽहं ब्रह्म शास्त्रसमर्पितम् ।I अस्मीति बोधादारोपद्वयमत्र निवर्तते ॥११॥ अस्मीति वर्तमानोक्तेर्विद्याकालैव मुक्तता।।सिद्दाSतोऽसौ न साध्या स्यादग्निहोत्रादिकार्यवत्१२ तस्मात्तत्सर्वमभवदिति वाक्येन वेदनात् ॥ उच्यते सर्वभावाप्तिः सर्वज्ञलापवादतः॥१३॥ Digitized by Google स्वतः सर्वात्मकं ब्रह्म भात्यसर्वमिव समात्॥ विद्यया भ्रांतिबाधेऽस्य सर्वतमवशिष्यते॥१४॥ नन्वसौ सर्वभावाप्तिर्न विद्यामात्रतो भवेत् ॥ विनोत्तमल्वानुष्ठानकालदेवाद्यनुग्रहम् ॥१५॥ विप्रस्य फलदो वेदो न शूद्रस्याधमलतः ॥ देवादेरुत्तमस्यैव तथा विद्या फलप्रदा ॥ १६ ॥
Page 143
यागज्ञानमनुष्ठानाद्विना न स्वर्गदं तथा ॥ ब्रह्मज्ञानमनुष्ठानाददिना सर्वाप्तिदं कथम्॥१७॥ गर्भाधानमृतावेव नान्यकाले तथोत्तमे ॥ विद्या कृतयुगे सर्वभावं यच्छति नान्यदा ।१८।। राज्ञा कृषिफलं यद्त्करार्थ प्रतिबध्यते ॥ सर्वभावस्तथा देवैर्यागभुग्भिर्निवार्यते ॥१९॥ तस्मादतुत्तमे जन्मन्यनतुष्ठायिनः कलौ ॥ युगे देवाघृणवतो न विद्या सर्वभावदा ॥२०॥ इति चोदयितुं यत्र चतारश्रोद्यहेतवः ॥ तदो य इत्यादि वाक्यैश्र्वतुर्भिस्तान्निरस्यति॥२१॥ न तावदुत्तमं जन्म सर्वभावप्रयोजकम् ॥ उत्तमस्यापि देवादेः सर्वलं ब्रह्मबोधतः ॥२२॥ यो देवानामृषीणां वा मध्ये ब्रह्म व्यबुध्यत॥ असावसावेव सर्वमभून्नान्यस्तु कश्षन॥२३॥ मनुष्याणां तथा मध्ये ब्रह्मवित्सर्वभावभाक्॥ विद्याविद्ये एव तस्मात्सर्वलाल्पलकारणे॥२४॥ ब्रह्म वा इदमग्रेऽभूदिति विद्याधिकारिता॥ श्रूयते ब्रह्मणो ब्रह्म सर्वजातिषु तत्समम्॥२५॥ न पश्वादेः सर्वभावप्रसंगो बोधवर्जनात् ॥ शुद्रजातिश्र विदुरः सति बोधे विमुच्यते॥२६॥ Digitized by Google यागविद्येवात्मविद्या नातुष्ठानमपेक्षते ॥ फलदान इतिज्ञेर्यं वामदेवनिदर्शनात् ॥२७॥ ब्रह्मात्मलं वामदेवः पश्यन्मन्वादिरूपताम् ।। प्रतिपेदे ह्यनुष्ठानावसरस्तत्र को वद ॥२८ न चितो वामदेवे वा मनौ वाऽन्येषु वा िदा ।। तेन मन्वादिचिद्वामदेवेन प्रत्यपद्यत ॥२९॥
Page 144
अ०प्र० यत्तु पुण्ययुगे सर्वभावो न तु कलाविति॥ तदसद्वोधसाध्यस्य पुण्यकालानपेक्षणात्॥३॥ न सूर्यग्रहणापेक्षो बोधान्निद्राक्षयः क्वचित्॥ तथा न सर्वभावोऽयं कालभेदमपेक्षते॥ ३॥ अ०
य एतर्ह्यपि वेदाहं ब्रह्मास्मीति तदैव सः ॥ इदं सर्वै भवत्येव यदिदं जगदीक्ष्यते ॥३२॥ ।१३॥
अविचारितरम्यस्य नामरूपात्मकस्य यत् ॥ जगतो वास्तवं रूपं सत्तत्त्वं ब्रह्म तद्गवेत्॥३३॥ नराणामल्पधर्मत्वात्सर्वभावं दिवौकसः ॥ वारयंति हविर्भोक्ुं तैर्दत्तमिति चेन्न तत् ॥३४॥ तस्य ज्ञातात्मतत्त्वस्य प्रध्वस्ततमसो यतेः ॥ इंद्रादयोऽपि नैवालं सर्वभावाप्तिवारणे॥३५॥ यद्यपीशा नृणां देवास्तथापि ब्रह्मवेदिनः॥अनीशाः प्रत्युतैतेषामात्मा भवति तत्त्ववित् ॥३६॥ इत्थमादेयविद्यायाः सूत्रवत्ती उदाहते॥ हेयाSविद्या स्वकार्येण युक्ता सूत्रयति श्रुतिः॥३७॥ स्वस्मादन्यां देवतां य उपास्ते स्वंन वेदसः।।इति सूत्रमविद्यायाः सकार्यायाः श्रुतीरितम्॥३८॥ Digitized by GoQgle अचिंत्यशक्तिश्िवन्निष्ठा स्वाश्रयं मोहयेत्क्वचित्।अविद्या साऽबोधनात्स्याज्ीवलभ्रांतिकारिणी। नाश्रयं मोहयेद्याऽसावीश्वरत्वस्य कल्पिका॥ वस्तुतभ्ांतिरेवास्यां हेया सा लवतिष्ठते॥४॥ १. तस्य ह न देवाथ्च नाभूत्या ईशत आत्मा ह्येषाथ स भवत्यथ योन्यां देवतामुपास्तेऽन्योसावन्यो हस्मीति न स वेद यथा पशुरेवस देवानां।
Page 145
सृष्टिप्रकरणे तत्र मायाकारः पुंरोदितः ॥ अव्याकृतगिरा तस्य कार्य व्याकृतमीरितम् ॥४१॥ कर्मिप्रकरणे लस्मिन्नविद्याकार ईर्यते ॥ स्वस्माद्गिन्ना देवतेति धीरविद्याविजंभिता ॥४२॥ स्वस्य तत्त्वमविज्ञाय यागदानादिकर्मभिः॥स्वतोऽन्या देवताः पाति ह्यनद्वान्वणिजो यथा ४३ अपि भ्ूरिपशोः पुंस एकस्मिन्नपि तस्करैः ॥ हियमाणे पशौ दुःखं किसु सर्वापहारतः॥४४।। सर्वस्वतुल्ये नृपशौ ब्रह्मधीपरिमोषिणा ॥ हियमाणे महद्दुःखं सर्वेषां च दिवौकसाम्॥४५॥ तस्मादेषां न प्रियं तद्यन्मतुष्या विजानते। ब्रह्मात्मलमतो देवाः प्रतिबभ्नति वेदनम् ॥४६॥ स्पष्टीकृतं पारतंत्र्यं पशुदृष्टांततो नणाम् ॥ वर्णाश्रमादि तद्र्मसृष्टिः कर्मार्थमीरिता॥४७॥ नन्वेवं तस्य मुक्तिश्व स्यादेवात्मधियं विना। अज्ञानकर्मणोः श्रुत्या सादरेणोपवर्णनात्॥४८॥ मैवमात्मा किमज्ञातो मुक्तिदः कर्म वा महत्॥ आम्रनायकृषिवन्नायमज्ञातात्मा फलप्रदः।४९।। अनधीतो यथा वेदो नार्थज्ञानेन पालयेत्॥ अकता वा कृषिः पाति नाकर्तारं फलार्थिनम्॥५०॥ Digitized by Google तथा स्वात्माऽप्यविज्ञातो मुमुक्षुं मोक्षदानतः॥ न पालयत्यतो मुक्तिर ज्ञस्य नहि कस्यचित्॥५१॥ स्वात्माख्यलोकमज्ञाला यो देहारयस्वलोकतः॥ प्रैत्यसौ पुनरप्यन्यं देहलोकं ब्रजेद्दढम्॥५२। १ ब्रह्मबुद्धिचौरेण।.
Page 146
अ०प्र० अनात्मविन्महत्पुण्यमश्वमेधादिकं यदि ॥ कुर्यान्नित्यफलायैतदथाप्यंते विनश्यति ॥ ५३॥ अ० ॥६६॥ कृतस्य हि क्षयोऽवइयं कोष्ठागारादिवद्गवेत्॥ न मोक्षायादरस्तस्माच्छुतावज्ञानकर्मणोः॥५४॥ किंतु जीवन्मुक्तिकाले बोधहेयं विवेचितम्॥ मुक्तिस्तु विद्या सूत्रेण सूचिता स्यादिचारतः॥५५। ।१ ३॥
आत्मानमेव निर्द्वैतं स्वप्रभं प्रविचारयेत्॥ विचारयति यस्तस्य फलं न क्षीयते क्वचित् ॥५६॥ कामी कामयते यद्यत्सुखं स्वर्गादिजं पुमान्॥ अस्मादेवात्मनस्तत्तत्सृजते कर्म पूजितात्॥५७। अविनाशोऽखिलानंदहेतुत्वं चेत्यदो द्यम्॥ न कर्मणां फले युक्तं युक्तं विद्याफले तु तत्॥५८॥ सिद्धस्य व्यंजिका विद्या व्यक्तात्मा फलमुच्य ते।न ह्यात्मनो विनाशोस्ति नित्यं विद्याफलं ततः५९ सार्वभौमादिगाः प्रोक्ता उत्तरोत्तरटृद्धितः ॥ हिरण्यगर्भपर्यैता आनंदा आत्मविदवः ॥६०॥ ब्रह्मानंदस्य भूतानि मात्रां यांतीत्युदीरणात्॥तत्तत्कर्मानुसारेण ब्रह्मानंद: स्फुरेत्रृणाम्।६१।। Digitized by Google तत्तद्विषयकामेन चित्तेऽस्मिन्व्याकुलीकते॥ आनंद आत्मभूतोऽपि स तिरोधीयते नृणामू॥६२।। पुण्येन विषये लब्धे चित्ते स्वास्थ्यमुपागते।। आत्मानंद: स्फुरेत्तावद्यावन्न व्याकुलांतरम्॥६३। एवं च विषयानंदा ब्रह्मानंदस्य विंदवः ॥ सर्वानंदनिधिर्विद्याफलमित्येतदीरितम्॥ ६४ ॥ ।६६ ।
आनंदबिंद्भिव्यक्तिहेतुकर्मप्रसिद्धये ।। ब्रह्मक्षत्रादिवर्णानां सृष्टिर्यत्ेन वर्णिता ॥६५॥
Page 147
वर्णाश्रमाभिमानी सन्नतत्वज्ञः पराङ्मतिः॥देवादीनामाश्रयः स्यात्सर्वेषामापिपीलिकम्॥६६॥ देवानां यागहोमाभ्यामृषीणां वेदपाठतः ॥ पितृणां श्राद्तो नृणां वस्त्रान्नगहदानतः॥६७। पशूनां तृणनीराभ्यामुच्छिष्टकणधान्यतः। इवाखुटिट्टिभमुख्यानामेवं सर्वाश्रयो गही॥६८॥ कर्मणा नार्जितो यस्मान्न कश्र्विदुपकारकृत्॥ गही देवादिभिस्तस्मादर्जितोभूत्स्वकर्मभि:६९ स्वस्वकर्मार्जितत्वेन देवाद्याः स्वस्वदेहवत्॥अविनाशं सदेच्छंति गहिणः स्वोपकारिणः।।७०।। तत्त्वं बुध्वाननुष्ठानं नाशोऽयं गृहिणो महान्।एष देवादिभिः स्वैर्न हि शक्यश्र्िकित्सितुम् ७१ कर्मणामननुष्टानं मृंतिरोगादिना तुयत्॥ नासावात्यंतिको नाशो यस्मात्पश्र्ात्करिष्यति ७२ माभूत्सर्वस्वहानिनो ब्रह्मयाथात्म्यविद्यया॥ इति देवादयो विद्यां प्रतिबभ्रंति यत्नतः॥७३॥ नन्वनर्थकरे केन गृहीलायं प्रवर्तितः ॥ पारतंत्र्येऽमृतेनैव धीमानत्र प्रवर्तते ॥७४॥ देवादिपारतंत्र्यं तु ग्हिणामधिकारिणाम्॥ मिथ्या धीमात्रहेतुत्वान्नाप्यविद्या प्रवर्तिका॥७॥ Digitized by Google. तर्हि प्रवर्तकं ब्रूम: काम एव प्रवर्तकः ॥ काम एष क्रोध एष इत्यादि स्मतिवाक्यतः ॥७६॥ अकामतः क्रिया काचिदृश्यते नेह कस्यचित्॥ यद्यद्धि कुरुते जंतुस्तत्तत्कामस्य चेष्टितम्।।७७।। तस्मात्कामयते पूर्व ब्रह्मचारी चतुष्टयम् ।। जाया मे स्यादथापत्यमथ वित्तमथ क्रिया॥७८॥
Page 148
अ०प्र० एतावानेव संसारे कामो नाऽतोधिक: क्वचित्॥ लोकांतरं कर्मफलं कर्मोक्तयैवेरितं भवेत्॥७९॥ अ० असंभवेतु जाया देर्मनोवागादिषु क्रमात्॥ आत्मजायादि संकल्प्य ध्यायेज्ायादिसिद्धये।८०। एवं कामप्रेरितःसन् याति कर्माधिकारिताम॥ अवरुद्वंति गहिणं देवाद्या अधिकारिणम् ८१ ।१३॥
इत्यविद्यासूत्रयुक्तोऽनर्थो यत्नेन विस्तृतः ॥ अयं निवत्यों विदुषा जीवतेति श्रुतेर्मतिः ॥ ८२॥ कर्मोपास्तिफलं कण्वः प्राहात्मब्राह्मणे तथा॥ अव्याकृतं व्याकृतं च विद्याविद्ये ह्यतिस्फुटम् ८३ अथाध्याये चतुर्थे च कण्वः पंचमषष्ठयोः ॥ उपाख्यानानि बहुधा वक्ष्यत्यात्मावबुद्दये।।८४॥ अजातशत्रुर्मैत्रेयी दध्यड्ित्युक्तनामभिः॥ आख्यानान्यंकितानि स्युश्चतुर्थाध्यायगानि हि॥८५॥ आश्वलश्षार्तभागश्र् भुज्यूषस्तकहोलकाः॥ गार्ग्युदालकशाकल्या: पंचमाध्यायगा इमे॥८६॥ आख्यानान्येतदीयानि स्युः षष्ठाध्याय ईरितम्॥।जनकस्य ह्युपाख्यानं संग्रहाद्विस्तराढपि।८७ उपाख्यानेषु सर्वेषु प्रत्येकं ब्रह्म वर्णितम्।। श्रुतैरेतैरुपाख्यानैव्रह्मविद्या हढा भवेत् ॥ ८८॥ Digitized by Google यामात्मन्राह्मणे विद्यां कण्वःप्रोवाच सा स्फुटम्॥व्याख्याता प्रीयतां तेन विद्यातीर्थमहेश्वरः२८९ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे रहदारण्यके कण्वविद्याप्रकाशो नाम त्रयो = = दशोऽध्यायः ॥१३॥ = = = =
Page 149
अजातशत्रुरध्याये चतुर्थे ब्राह्मणैस्त्रिभिः ॥ विद्यां बालाकये प्राह तां विस्पष्टमितो ब्रुवे॥ १॥ अजातशत्रुर्व्रह्मात्मवेदनाच्छौर्यतोऽपि च।। अंतर्बहिश्र निःशत्रुः काश्यां राजा बभूव सः॥२॥ गर्गगोत्रजविप्रोऽयं बालाकिर्नैव तत्त्ववित्॥ किंतु प्राणोपासकोऽयं दर्पेण महता वतः॥३॥ अध्यात्ममधिदैवं च ब्रह्म स्यात्प्राण देवता॥ समष्टिव्यष्टिरूपासाविति गार्ग्यस्य निश्चयः॥४॥ रव्याद्या व्यष्टयः प्रोक्ता: समष्टिस्तु विराङ्गवेत्॥न सुख्यब्रह्मतैतेषामिति राज्ञो विनिर्णय:।॥५॥ तस्मादुपासको गार्ग्यो न मुख्यं ब्रह्म वे्त्यतः॥ अन्वयव्यतिरेकाभ्यां बोधयामास तं नृपः॥६॥ स्यादविज्ञानमयो भोक्ता न प्राण इति जागरे॥ विवेको दुःशको यस्मादत्र द्ावपि सुस्थितौ।७॥ यो विज्ञानमयः सुप्तावसावुपरतिं गतः ॥ वर्तते पूर्ववत्प्राणो विवेकः सुशकस्तदा ॥८॥ तस्मात्सुषुत्तं पुरुषमामंत्र्य प्राणनामभिः ॥ अप्रबोधादभोक्तृत्वं प्राणस्यास्पष्टयन्नृपः ॥।९॥ यदि भोक्ता भवेत्प्राणो जाग्द्च्छब्दमागतम्।।अश्रोष्यन्नाश्रुणोत्तस्मान्न स्याद्गोक्तोपलादिवत् १० Digitized by Google श्रोत्रादीनामुपाधोनां सुप्तावुपरततवतः ॥ यथा जीवो नवे्त्येवं प्राणोपीत्यसदुच्यते॥१॥ नेंद्रियाणां भवेत्स्वापो यदि प्राणप्रधानता। नामात्याः शेरते यस्माद्राज्ञि स्वामिनि जाग्रति१२ देवताप्रतिषेधार्थ बोध्यते चंद्रनामभिः ॥ तदबोधादभोक्तृत्वं देवतायाः सुनिश्ितम् ॥१३॥
Page 150
अ०प्र० प्राणस्याभोक्तृतां गार्ग्यो व्यबुध्यत ततो नृपः ॥ विज्ञानमयबोधाय चक्रे यत्नसुपायतः॥१४॥ अ० आपिष्यापिष्य बहुशःसुप्तं राजा व्यबोधयत्। आपेषणोत्थसंक्षोभात्ततोऽसौ प्रत्यबुध्यत १५ मृतकल्पमिमं देहं संचितावेशयन्निव॥ ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम् ॥१६॥ विज्ञानमंतःकरणं तस्मिन्नात्मोपलभ्यते ॥। राहुश्रंद्रे यथा तद्दद्विज्ञानमयता ततः॥१७॥ स्वाभासवदविद्योत्थबुध्यादिव्याप्तिविभ्रमात्॥ तदात्मत्वाभिमानी सन्नहमित्युपलभ्यते ॥१८॥ यद्वोपलब्धिमात्रोऽपि विज्ञानाध्यस्तकर्वताम्। प्राप्योपलब्धा स्यात्तेन विज्ञानमय उच्यते॥१९॥ स्फटिको रक्ततां प्राप्य जपाकुसुमकल्पिताम्॥ पझ्मरागायते तद्ददुपलब्धृलमात्मनः॥२०॥ यद्वोपलभ्यो देहादेविज्ञानेन विवेचितः ॥ स्यादिज्ञानमयस्तेन पुरुषः परिपूरणात् ॥२१॥ अशेषान्कल्पितानेष विज्ञानादीननात्मनः॥ आत्मा पूरयति प्रत्यक् सर्पादीन् रशना यथा २२ यो विज्ञानमयस्तस्य द्वैतधीः स्वप्नजाग्रतोः।अस्ति सुप्तौतु सानास्ति स्वभावोस्यात्र को भवेत्२३ Digitized by Google तस्य स्वभावं निर्णेतुं सुप्तौ क्ाभूदयं पुनः॥ कुत आयादिमं देहमित्येतदिह चिंत्यते ॥२४॥ बुद्धावक्षेषु चात्मायं चिद्रूपः प्रतिबिंबति ॥ तादृग्बुद्दींद्रियोपाधिर्जागर्त्यात्मेति भण्यते ॥२५॥ कर्मक्षये बुद्धिरक्षैः सहाज्ञाने विलीयते॥ चैतन्यप्रतिबिंबाश् लीयंते स्वाश्रयानतु॥२६॥ -
Page 151
तदेंद्रियाणां विज्ञानं धीविज्ञानेन संयुतम् ॥ विज्ञानमय आदत्ते इति श्रुत्योपवर्ण्यते॥२७॥ धीविज्ञानोपसंहारे विज्ञानमयताक्षतौ ।। निर्विकारात्मचैतन्यं केवलं परिशिष्यत ॥२८॥ एतदेव विवक्षिला प्रतिपादयति श्रुतिः ॥ य एषोंऽतर्हदाकाशस्तस्मिच्छेते इतीदृशी॥२९॥ बुद्धिर्हदयशब्देन हनन्निष्ठत्वाद्विवक्ष्यते ॥ आसमंतात्काशतेऽयमित्याकाशोत्र चिद्दपुः ॥ ३०॥ बुद्देरंतः प्रतीचोऽन्यो नार्थ: संभाव्यते यतः ॥ तस्मादाकाशशब्देन प्रत्यगात्मेह गृह्यते॥३१॥ प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः॥ तस्मादाकाशशब्देन ब्रह्मैवात्राभिधीयते ॥३२॥ अधिष्ठानत्वमंतस्त्वमपरिच्छिन्नवस्तुनः ॥ अंतर्बहिर्विभागोऽयं न मुख्य उपपद्यते ॥३३॥ पराक् प्रमेयभूमिभ्यो मनसि व्युत्थिते सति ॥ अनन्यबोधप्रात्यक्ष्याद्य एष इह भण्यते॥३४॥ स्वतोऽवगमरूपेSस्मिन्कूटस्थे निर्द्यात्मनि॥ कातस्नेनावस्थितिर्भोंक्तुः शेत इत्यभिधीयते॥३५॥ घटभंगे घटाकाशो महाकाशान्न भिद्यते ॥ विज्ञानलोपे विज्ञानमयस्यैवं परात्मता ॥३६॥ Digitized by Google देहाघ्ध्यक्षतां हिल्ा सुपौ स्वात्मनि वर्तते ॥ इत्येतत्साध्यते श्रुत्या समाख्यायाश्र युक्तितः॥।३७॥ सुप्तस्य स्वपितीत्येषा समाख्या सर्वसंमता। निरुक्तिमाहु: शछंदोगा: स्वमपीत इतीदशीमू॥३८॥ अतः समाख्यया सुप्तौ स्वाभाविक्यात्मनि स्थितिः॥युक्तिश्र्ोपाधिसंहारः संसारिलनिवत्तये३९
Page 152
अ०प्र० वागाद्युपाधिसंबंधात्संसारित्वमिवेक्ष्यते ॥। ते तूपसंहताः सर्वे ततोऽसंसारितात्मनः॥४०॥ सवेद्रियवियोगेपि सुखिदुःखित्वमात्मनः ॥ स्वन्ने दृष्ठमतःसंग आत्मनस्तात्विको भवेत् ॥४१॥ अ०
मैवं मृषात्वात्स्वप्नस्य मनोमात्रविजृंभणात्॥ बाहयेंद्रिय विलोपेऽपि न मनो लिप्यते तदा।४२।। महाराजादयस्तस्य स्वप्नानुभवगोचराः॥न वास्तवा इति ज्ञेया: शयानेभ्यः एृथकतः ॥४३॥ दृश्यं मिथ्याऽस्तु तद्रषुर्द्रष्टृता वास्तवी ततः॥ दृश्यसापेक्ष्यतेत्येषा शंकात्र विनिवार्यते॥॥४॥ न किंचन यदा वेद तदा सुप् इतीरणात्॥ आत्मनो ज्ञानकर्ततं सुप्ौ नास्तीति गम्यते॥४५॥ सुप्तौ केन क्रमेणायमुपाधि: प्रविलीयते । तक्कमस्यावबोधाय हृदयादि विविच्यते ॥४६॥ आनाभितस्तथा कंठाहृदयं मध्यतः स्थितम्॥ सनालं पद्मकोशाअं पंचच्छिद्रमधोमुखम् ॥४७॥ कदंबकुसुमोद्धूतकेसरा इव सर्वतः ॥ प्रसृता हृदयान्नाड्यो बव्हन्नरसपूरिताः ॥४८॥ निर्गत्य हृदयाहुद्दिस्तासु स्वनं प्रपश्यति ॥ ताभिर्देहाद्वहिर्गला जागर्तीत्यभिधीयते॥४९॥ Digitized by Google. पुनः प्रत्यवसृत्यैषा पुरीतद्वेष्टिते हृहि॥ प्रविश्य लीयते देहं व्याप्य सामान्यवत्तितः ॥५०॥ सर्वसंसारद्डुःखानामत्यंतोपरमात्तदा ।। आनंदस्य परा निष्ठा दृष्टातैः सोपमीयते ॥॥ इि द्र यस्या प्ररूढलात्स्वेष्ट् प्राप्ेर्विवेकतः॥ीरााणां बालराजब्राह्मणानां मातसुखम् ॥। ५२॥
Page 153
दुःखं रागद्वेषजन्यं तदभावे सुखं स्वतः ॥ इति व्याप्तिग्हीत्यर्थ बहुदृष्टांतवर्णनम्॥५३॥ अद्दयानंदरूपलमित्थं सुप्तौ प्रदर्शितम ॥ एतावता स्वभावोऽस्य निर्णीतः प्रत्यगात्मनः॥५४॥ क्वाभूदेष इति प्रश्नं निर्णीय कुत आगतः ॥ इति प्रश्नं विनिर्णेतुमूर्णनाभ्यादिका श्रुतिः॥५५॥ यः सुप्तौ निश्र्ितः स्वात्मा तस्य ब्रह्मलसिद्धये॥ जगत्सृष्टिर्वर्ण्यतेऽस्मात्सृष्टौ दृष्टांत उच्यते ५६ अचेतनो यथा तंतुरूर्णनाभेः सचेतनात्॥ जातश्विदात्मनस्तद्वत्प्राणलोकाद्यचेतनम् ॥५७॥ विस्फुलिंगा यथा चाग्नेर्जायंतेऽग्निस्वभावतः ॥तथा सुप्तात्मनो जीवा विज्ञानमयनामकाः॥५८।। स्वरूपतो जन्मतश् प्राणादिभ्रांतिकल्पिताः॥ जीवस्य कल्पितं जन्म स्वरूपं तु न कल्पितमृ५९ उद्धूतिस्थितिनाशा: स्युर्जगतोऽस्य प्रतिक्षणम॥ अविद्यामात्रहेतुलान्नामीषां विद्यते क्म:६॥ यस्मादविद्ययैवात्मा प्राणक्षेत्रज्ञरूपभाक्॥ स्वतोऽतः सपरं ब्रह्म तस्योपनिषदुच्यते॥६१॥ यद्गुहां ब्रह्मणो नाम बोधायोपासनाय वा ॥ तत्स्यादुपनिषच्छब्दवाच्यं तज्ञात्र बुग्धते ॥६२॥ Digitized by Google सत्यस्य सत्यमित्येतन्नाम ब्रह्मावबोधकम्॥ प्राणा आपांततः सत्याः सत्यं ब्रह्मैव वस्तुतः।६३। असत्यो देह उदित एकजन्मन्युपक्षयात्॥ सत्या: प्राणा लिंगरूपा आमोक्षमनपक्षयात्।६४।। ब्ला १ अविचारतः ।
Page 154
अ०प्र० मोक्षेऽप्यक्षीण आत्मा तु सत्यसत्य उदाहृतः॥ सत्यस्य सत्यं प्रोवाच ब्रह्म बालकये नृपः॥६५॥ अ० ।।७० । प्राणा वै सत्यमित्युक्तं यत्सत्यं व्यावहारिकम्॥ बालाक्यभिमतं तत्तु द्वितीय ब्राह्मणे स्फुटम६६ 1981 शिशुवद्विषयासंगरहितः प्राण इष्यते॥ वागादीनामिव यतो विषयोऽस्य न दृश्यते ॥६७॥ शरीरमस्याधानं स्यादेहमापादमस्तकम॥ सामान्यवृत्त्या संव्याप्य चेष्टयत्यनिशं यतः ॥६८॥ प्रत्याधानं शिरो ज्ञेयं प्रतिच्छिद्रं व्यवस्थितः॥प्रसारयति नेत्रादीन्प्राणो मूर्धि व्यवस्थितः ६९ प्राणस्य बंधनस्तंभः शरीरबलमिष्यतें ॥ दौर्बल्ये सति देहस्य प्राणोत्क्रांतिर्हि दृश्यते ॥७॥ बंधनायास्य दामान्नं वत्सबंधनरज्जुवत्॥।अन्ने त्रिधा विभक्तेऽस्मिन्भागा्यां बद्यते स्वयम्॥७१॥ स्थूलो भाग:पुरीषं स्यान्मध्यमो देहपोषकः ॥ प्राणं तर्पयते सूक्षम इति बद्ं वपु्द्यम्॥ ७२॥ एवं विवेचितं प्राणं य उपास्ते रुणदि सः॥ भ्रातव्यान्द्विषतः सप् मूर्षि छिद्रव्यवस्थितान् ७३ Digitized by Google धातृव्याः स्युःसहोत्पत्तेः शब्दाद्याः संगटत्तयः॥ द्दिषंति च मुसुक्षुं ताः प्रत्यग्टृष्ट्यापहारतः७४ सेवंतेऽक्षिस्थितं प्राणं सप् रुद्रादिदेवताः॥ अक्षीणा इत्युपास्ते यः सोऽन्नमक्षयमश्नुते॥७॥ १ अहर्निशं। २ प्रादेशविशेषेषु प्रति प्रति आधीयतेऽस्मित्रिति पसाधानं। ३ उत्तरदक्षिणकर्णो गौतमभारद्वाजौ विपर्ययेण एव वा तथा चक्षुषी विश्वामित्रजमदग्नी वसिष्ठकश्यपौ नासिके वागेवात्रि:।
Page 155
कर्णादिस त्च्छिद्रेषु गौतमाद्युषिनामकाः॥ स्थिताः प्राणा इति ध्यायेदवाचं च ब्रह्मवादिनीम७६ हिरण्यगर्भरूपेण सर्वभुक् स्यादुपासकः ॥ इति गार्ग्यमतं ब्रह्म ब्राह्मणेऽस्मिन्प्रपंचितम्॥७७॥ गाग्योक्तं ब्रह्म विस्तृत्य तन्निरासाय सांप्रतम्।तृतीयब्राह्मणे प्राह राज्ञोक्तं ब्रह्म विस्तृतम७८ प्रथमब्राह्मणे राजा ब्रह्म यद्यप्यशेषतः ॥ उवाचाथापि सत्यस्य सत्यता नैव विस्तृता॥७९॥ सत्यसत्यत्वविस्तारमुखेन प्रतिपादते । निष्प्रपंचब्रह्मतत्त्वं तृतीयब्राह्मणे स्फुटम् ॥ ८० ॥ द्े एव ब्रह्मणो रूपे प्रपंचलमुपागते ।। मूर्तामूर्तात्मके याभ्यामरूपं ब्रह्म रूप्यते ।।८१। मूर्तामूर्त प्रपंचश्र वासना चेति वा ह्रयम् ॥ सवासनमिदं रूपमनिदं चेति वा दयम्॥ ८२॥ सन्निवेशो नेत्रदशोर्यस्य तन्मूर्तमुच्यते ॥ क्षित्यंव्वभ्नित्रयं मूर्तममूर्तमितरह्द्यम् ॥८३॥ मूत्त मर्त्यै शीघ्रनाशात्परिच्छेदात्स्थितं तथा ॥ प्रत्यक्षलवात्सदित्युक्तममूर्ते तु विपर्ययः॥८४॥ तन्नश्यति विलंबेनेत्यमृतं व्याप्तिमत्वतः ॥ यत्परोक्षमतस्तत्स्यान्मूर्त्तामूर्तात्मकं जगत् ॥८५॥ Digitized by GOogle अध्यात्ममधिदैवं च द्विधा सत्यं व्यवस्थितम्॥ प्रसिद्धमुभयत्रापि स्थूलसूक्ष्मवपुर्द्दयम्॥८६॥ स्थूलसारतया जञेये चक्षुरादित्यमंडले ॥ मूर्तमर्त्यपरिच्छिन्नप्रत्यक्षत्वविशेषिते ॥ ८७॥ अमूर्तामृतसंव्याप्तपरोक्षत्वैस्तु संयुतम ॥ उभयत्र स्थितं लिंगममूर्तरस उच्यते । ८८॥
Page 156
अ०प्र० सारासारयुते रूपे मूर्तामूर्ते उदीरिते ॥ अरूपं ब्रह्म रूपाभ्यां व्यवहारे निरूप्यते ॥८९॥ अ० मूर्तामूर्ते ब्रह्मरूपे इति पक्षो निरूपितः ॥ प्रपंचतद्वासने द्े रूपे इत्येव वर्ण्यते ॥९ ॥ प्रपंचो नाम पूर्वोक्तं मूर्तामूर्तद्वयं भवेत्॥ सद्वासना विचित्राः स्युरनंता लिंगमाश्रिता:॥९१।। अनेकवासनाचित्रं तल्लिगं पटभित्तिवत् ॥ मायेंद्रजालसदृशं व्यामोहास्पदमात्मनः॥९२॥ एतावन्मात्रआत्मेति तत्र भ्रांता निरागमाः॥बौद्धकाणादसांख्याद्यास्तर्कमात्रोपजीविनः॥९३॥ एकैकां वासनां तत्र प्रतिक्षणविनश्वरीम्॥ आहुःक्षणिकमात्मानं बौद्धा विज्ञानवादिनः॥९४॥ आत्मनोद्रव्य भूतस्य गुणा बुध्यादयो नव ॥ वासनालेन वेदोक्ता इति वैशेषिकादयः ॥९५॥ त्रिगुणं यत्प्रधानं तत्पुरुषार्थेन हेतुना ।। प्रवर्तते वासनातवक्वृप्तिस्तत्रेति कापिलाः ॥९६॥ अनंतकल्पोपचया अनंता एव वासनाः ॥ उदाहरणमात्रं तु दृष्टांतैरिह वर्ण्यते ॥९७॥ Digitized by Google हारिद्रं वसनं यद्वत् संसर्गात्पीततां व्रजेत् ॥ तद्वन्नार्यादिसंसर्गाल्िंगं रागादिमद्गवेत्॥९८॥ ईषत्पांडुश्य परुंषः स्यात्स्वच्छःश्र्वेतकंबलः ॥ तथेषच्छद्धयायुक्तं स्वतो रोषादिभागपि॥९९॥ इंद्रगोपोऽतिरक्तः स्यात्स्वत एव तथा मनः॥ विविक्तदेशस्थस्यापि विषयप्रवणं क्वचित् ॥१००॥ १ कठोर:।
Page 157
अग्नेरेंचिर्यथा भास्वद्ृहत्यपि तथा क्वचित् ॥ वेदशास्त्रविदप्यन्यान्बाधेतेर्ष्याद्युपद्रवैः ॥१॥ सितांभोजं यथा सौम्यं सुगंधि मृदु च स्वतः ॥ जन्मनैव तथा चित्तं युक्तं शमदमादिभिः॥।२॥ तीव्रविद्युद्यथाऽत्यंतं घनध्वांतापनोदकृत्॥ तथा हिरण्यगर्भस्य सर्वज्ञा वासना भवेत्॥ ३॥ तामुपासीन आप्नोति श्रियमत्यंतमूर्जिताम् ॥ रजःसत्वतमोयोगाद्दासनानां विचित्रता।।४। प्रपंचवासने ब्रह्मरूपे इत्येतदीरितम् ।I तथेदमनिदंरूपे इति पक्षोऽघुनोच्यते ॥ ८॥ सवासनं जगत्सर्वै तत्रेदंरूपमीरितम् ॥ सच्च त्यञ्चेति सत्यं तत्प्रोच्यते पांचभौतिकम ॥६॥ सत्यस्य सत्यमनिदं वक्तव्यं शिष्यते ततः ॥ आदेशोऽनंतरं तस्य क्रियतेऽनन्यमानिनः ।।७। आदेशो नेति नेतीति ब्रह्मतत्त्वावबोधकः ॥ यथाऽयमुपपद्येत तथा सम्यङ्िरूप्यते ॥८॥ इति शब्देन चिद्धास्यमनूद्य प्रतिषिध्यते ॥ नकारेण दिरुक्तिस्तु वीप्सा कृत्स्निषिद्ये॥९॥ मूरतै वा यदिवामूर्त्तमज्ञानं वासनाऽथवा ॥ अध्यात्ममधिदैवं वा तत्सर्वै प्रतिषिध्यते॥१०॥ Digitized by Google अथवाऽत्रेति शब्दी दौ जीवेशोपाधिवाचिनौ॥ नकाराभ्यामुपाधी दौ निषिध्य ब्रह्म लक्ष्यते ११ १ शिखा। २ श्यामं कमलं। ३ मानापेक्षारहितस्य। ४ अथात आदेशो नेति नेति न ह्ोतस्मादिति नेत्यन्यत्परमस्त्यथ जता नामधेय सत्यस्य सत्यमिति माणा वै सत्यं तेषामेव सत्यम्।
Page 158
अ०प्र० यथा मात्रादिसत्तेयं प्रत्यक् संविद्विसाक्षिका॥ प्रमात्रादेरभावोऽपि तथाऽतस्तेन लक्ष्यते ॥१२॥ अ० ।। ७२ ॥ अतिरोहितसंवित्को दृष्टिमात्रात्मकत्वतः॥ विनैव वाचकं शब्दं बोध्यो लक्षयणयाऽप्यतः॥१३॥ अनन्यानुभवेनैव भावाभावात्मभूमिषु॥ प्रत्यक्रूटस्थमात्मानं पश्यन्नास्ते फलात्मना॥१४॥ अतो मंत्रादिसंभेदो यत्र यत्र निवर्तते ॥ तत्र तत्रैकलः प्रत्यक् स्वमहित्रैव सिद्यति ॥१५॥ एतद्वस्तु स्वतः सिद्धं प्रमात्राद्यनपेक्षतः॥ सर्वस्यैव ततः सिद्धेः कर्थ सिद्ध्येत्तदन्यतः ॥१६॥ तदित्थं नेति नेतीति वाक्यं ब्रह्मात्मबोधकम्।। जीवेशोपाधिनिन्हुत्या लक्ष्याखंडावसानतः १७ इत्येवमनिदंरूपं ब्रह्मणः प्रतिपादितम्॥ निर्नाम्नस्तस्य नामैतत्सत्यसत्यमिति श्रुतम् ॥१८॥ सच्च त्यञ्चेति सत्याख्या: प्राणास्ते ब्रह्मणात्मना। आत्मवंतस्ततो ब्रह्म सत्यं सत्यमितीरितम्१९ अजातशत्रुर्या विद्यां ब्राह्मणैस्त्रिभिरुक्तवान्। तव्याख्यानेन सं तुष्याद्विद्यातीर्थमहेश्वरः॥१२०॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे अजातशत्रुविद्याप्रकाशो नाम चतुर्दशोऽध्याय:१४ Digitized by Google मैत्रेय्यै याजञवल्क्यो यां चतुर्थब्राह्मणेऽब्रवीत्॥ससाधनां ब्रह्मविद्यां विस्पष्टं व्याकरोति ताम् १ चित्तस्य कर्महेतुलात्तत्यागो ज्ञानसाधनम्॥ इति दर्शयितुं प्राह श्रुतिराख्यायिकां शुभाम् ॥२॥ ।।७२॥
एषणात्रयसन्यासो वित्तत्यागेन लक्ष्यते।। ज्ञानस्य हेतुःसन्यास इति शास्त्रेषु डिंडिमः ॥। ३॥।
Page 159
द्विविध: कर्मसन्यासः फलसाधनभेदतः।फलाय ज्ञानिनस्त्यागो जिज्ञासोर्ज्ानसिद्दये॥४॥ ज्ञानिलाद्याज्वल्क्योऽयं जीवन्मुक्तिफलेच्छया। चित्तविक्षेपबाहुल्यं गार्हस्थ्यं त्यक्तुमिच्छति निदिध्यासस्वेति शब्दात्सर्वत्यागफलं जगौ॥ न ह्यन्यचिंतामत्यत्का निदिध्यासितुमर्हति ॥६॥ iv/2311 निरंतरविचारो ऽयः श्रुतार्थस्य गुरोर्मुखात् ॥ तन्निदिध्यासनं प्रोक्तं तच्चैकाध्येण लक्ष्यते ॥७॥ अनात्मन्यरुचिश्च्िवित्ते रुचिश्र्वात्मनि चेद्रवेत् ॥ पुण्यपुंजेन शुद्धं तच्चित्तमैकाग्यमर्हति ॥८॥ शुध्यंकुरितमैका्यं विवेकेनाभिवर्द्धयेत् ॥ प्रियाप्रियविवेकोऽतो मैत्रेय्या उपदिश्यते ॥९॥ पतिजायादिभोगेषु भोक्तर्यात्मनि चेक्ष्यते॥ प्रीतिस्तत्र क्व मुख्येयं कुत्रामुख्येति चिंत्यताम्१० सदा भूयासमेवाहं मानभूवं कदाचन॥ इत्यनौपाधिकी प्रीतिः प्राणिनामात्मनीक्ष्यते॥११॥ स्वसंबंधोपाधिनैव भोग्ये प्रीतिर्न तुस्वतः॥ अन्यथा वैरिभोग्येऽपि भोग्यल्वात्प्रीतिरापतेत् १२ अविचारेण पुत्रादौ या प्रीतिस्तां विचारतः॥ आत्मन्येवोपसंहत्य चित्तैका्यं विवर्द्येत्॥१३॥ Digitized by Google एकाग्र्यमचलं कृत्वा निदिध्यासनकारणम्। आत्मा द्रर्ष्टव्य इत्येतत्सूत्रं व्याख्यातुमाददे॥१४॥ आहात्मशब्दः प्रत्यंचं तथा लोकेऽनुभूतितः॥ अनेनात्रात्मशव्देन प्रमेयं निर्दिदिक्षितम्॥१५॥ १ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन प्रत्याविज्ञानेनेदं सर्व विदितं।
Page 160
अ०प्र० द्रष्ठव्य इति निर्दिष्टा प्रमितिर्दशि धातुना ॥ अज्ञातज्ञापनं तव्यप्रत्ययेनाभिधीयते ॥१६॥ अ० ।।७३ । अज्ञात आत्मा वेदांतजन्यज्ञानेन मीयते॥ इत्येष एव वाक्यार्थो नाप्रवृत्तप्रवर्तनम् ॥१७॥ नन्वहंप्रत्ययेनात्मा वेदांतश्रवणात्पुरा ॥ विज्ञात इति चेन्मैवं सार्वात्म्यानवबोधनात् ॥१८॥ लिंग देह परिच्छिन्नरूपग्राहिण्यहंमतिः ॥ सार्वात्म्यमात्मनस्तत्त्वं तदज्ञातमहंधिया ॥१९॥ सर्वासूपनिषत्स्वेतत्सार्वात्म्यं प्रतिपादते॥ कार्थज्ञेयसमाप्तिः स्यात्सार्वात्म्यस्यावबोधतः २० आत्मा द्रष्टव्य इत्युत्त्या तत्वधीरुपदर्शिता ॥ श्रोतव्य इत्यादिना तु विचार उपदरशर्यते ॥२१॥ श्रुत्यर्थाविष्कृतेर्हैतुः शब्दशक्तिविवेककृत्।। श्रुतिलिंगादिको न्यायः प्रोक्तः श्रोतव्य इत्यतः २२ अर्थासंभावनोच्छेदी तर्को मननमीरितम्॥ वेदशास्त्राविरोध्यत्र तर्को ग्राह्यो न चेतरः ॥ २३॥ अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते॥ ध्यानाशंकानिवृत्त्यर्थ विज्ञानेनेत्युदीरणात्॥ २४॥ . Digitized by Google द्रष्टव्य इति विज्ञानमुद्दिश्य श्रवणं तथा। मननं च विधायाथ विज्ञानमवधिं जगौ ॥२५॥ नन्वनात्मा न निज्ञात आत्मदर्शनमात्रतः ॥ ततोऽकृतस्नतवदोषश्रेन्मैवं सर्वस्य वेदनात् ॥२६॥ ।।७३॥ आत्मनो दर्शनेनेदं दष्ट स्यादखिलं जगत्॥ प्रत्यङ्गात्रैकयाथात्म्यात्कार्यकारणवस्तुनः ॥२७॥ कार्यात्मा कारणात्मा च हावात्मानौ परात्मनः॥प्रत्यग्याथात्म्यमोहोत्थौ मोहे नष्टे विनश्यतः२८
Page 161
मोहतत्कार्ययोर्बाधे प्रत्यक् सर्वमितीर्यते॥ अतः प्रतीचि विज्ञाते सुलभं सर्ववेदनम्॥२९॥ तत्रैवं सति यो मूढः समस्तव्यस्तरूपताम् ॥ ज्ञातव्यां मनुते तां तु वेद एव निषेधति॥ ३०॥ यो विप्रजातिश्र्वैतन्यादन्यद्वस्त्विति मन्यते॥ कैवल्यातं पराकुर्याद्विप्रजातिः पराङ्मुखम्॥३१॥ ब्राह्मणोऽहमिति ध्ांत्या बहस्पतिसवादिषु॥ प्रत्तो लभ्ते जन्मेत्येषैवास्य परा क्रिया॥ ३२॥ विप्रत्ववत्क्षत्रलोकदेवभूतादिकं जगत् । स्वस्माद्वेदेन पइयंतं कवेशयेदपराधिनम्॥ ३३॥ यदस्ति तन्न जानाति यन्नेहास्ति तदीक्षते॥ इत्येवमपराधोऽस्य विद्यते भेददर्शिनः॥३४॥ योऽन्यथा संतमात्मानमन्यथा प्रतिपादयेत्॥ किं तेन न कृतं पापं चोरेणात्मापहारिणा॥३५॥ अपोहितलाज्ात्यादिदर्शनस्येह कि पुनः ॥ द्रष्टव्यमित्यतो वक्ति सर्वाखंडत्वदर्शनम्॥३६॥ प्रत्यत्केन य आभाति प्रत्यग्बुद्धिप्रमाणकः॥तावन्मात्रैकयाथात्म्यमुक्तजात्यादि दृश्यताम३७ एवं श्रोतव्य आत्माऽयं समाप्तः श्रवणे विधिः॥ कथं मंतव्य इत्यत्र दुंदुभ्यादिनिदर्शनम्॥३८॥ Digitized by Google स्थितौ जनौ लयेऽप्येतजगदात्मातिरेकतः॥ नास्तीत्येतत्क्रमेणात्र दृष्टांतैः प्रतिपाद्यते ॥३९॥
१ यज्ञादिषु। २ बाधितत्वात्।
Page 162
अ०प्र० तद्वदात्मातिरेकेण नात्मीयोऽर्थो मनागपि॥यतः समीक्षितुं शक्यस्तेनासौ रज्जुसर्पवत्।।४१।। अ० सामान्यं तद्विशेषश्र् तद्विशेषा इति त्रयः॥ दुंदुभिस्तस्य चाघातः शब्दश्रेत्येभिरीरिताः ॥४२॥ सामान्यं दौंदुभ: शब्दो वीरादिरससंयुतः॥ विशेषस्तद्विशेषास्तु नीचोच्चादिविभेदिनः ॥४३॥ नीचादिभेदिन: शब्दा वीरादिरससंयुते॥ अंतर्भवंति सोप्यतर्भूतस्याद्दौंदुभध्वनौ ।। ४४ ॥ एवं शंखेऽपि वीणायां योजयिलवा पुनः पुनः ॥ शंखदुंदुभिवीणास्यध्वनीनन्यन्न योजयेत्॥४॥ ध्वनित्रयं महाशब्दसामान्येंऽतर्भवेदिति॥ विवक्षया शंखभेरीवीणास्तिस्त्र उदीरिताः ॥४६॥ यथा विशेषसामान्यतत्सामान्यपरंपरा॥ शब्दे स्थिता तथा सर्वमुपलब्धिस्थमीक्षते ॥४॥ उपलब्धोऽस्ति सन्कुंभो लंबोष्ठो देशकालवान्॥ पूर्वपूर्वातिरेकेण नोत्तरोऽर्थोऽनुभूयते॥४८॥ एवं चिदन्वयात्सवै चिदध्यस्तं तथा सति। चिदात्मैवास्य सर्वस्य तात्विकं रूपमीक्ष्यताम्॥४९॥ स्थितिकाले यथैकात्म्यं शक्यते ज्ञातुमंजसा ॥ यथोक्तन्यायतस्तद्वदुत्पत्तावपि शक्यते ॥५॥ Digitized by Google धूमार्चिविस्फुलिंगादिविभागजननातपुरा। अग्निरेव न घूमाद्यास्तथैकात्म्यं जनेः पुरा॥ ५१॥ स्वार्थसाधनयतादीननपेक्ष्य यथा सृजेत् ॥ धूमादीन्हुतभुक्ततद्वद्दंगादीन्प्रत्यगीश्र्वरः ॥५२॥ १ अस्य महतो भूतस्प विश्वसितमेतददटग्वेदो यजुर्वेद: सामवेदोऽथर्वागिरस इतिहासः पुराणं विद्या उपनिषदः श्रोका: सूत्राण्यन्यव्या- खयानान्यस्यैवैतानि निध्वसितानि।
Page 163
नार्थ बुध्वा वाक्यसृष्टिः कालिदासादिवाक्यवत्।।किंतु श्वास इवायत्ातस्यादतोSपौरुषेयता ५३ मंत्राश्रतुर्विधा ज्ञेया ऋग्वेदादिगिरोदिताः॥ ब्राह्मणं चेतिहासादि ूपष्ठ्ववविधं भरवे त् ॥ प्रसिद्धाश्र्वेतिहासाद्या ऋग्वेदाद्युपबंहकाः॥ निखिलापि जगत्सृष्टिः शब्दसृष्योपलक्ष्यते ५५ प्रज्ञानव्यतिरेकेण यथैव स्थितिसर्गयोः ॥ वस्तंतरं न संभाव्यं प्रलयेऽपि तथोच्यते॥ ५६॥ स्वाभाविकात्यंतिकौ दौ प्रलयौ जगतस्तयोः॥।स्वाभाविकः स्यात्कल्पांते बोधादांत्यंतिको मतः५७ समुद्र खिल्यौ दष्टांतौ क्रमात्प्रलययोर्मतौ ॥ लीयतेऽब्धौ जलं यद्दत्तथा ब्रह्मणि तज्जगत् ॥५८॥ साक्षाह्ाथ प्रनाड्या वा ज़लमब्धौ प्रलीयते॥ साक्षाद्रंगादिका नद्यस्तत्प्रनाड्या जलांतरम५९ तथैव कारणं वस्तु साक्षाद्रह्मणि लीयते । कार्य तु कारणद्वारेत्येतदत्र विवक्षितम्॥६॥ विषय प्रलयेनाक्षप्रलयस्योदितत्वतः॥ लयः सर्वस्य जगतो ब्रह्मणीत्यत्र सुस्थितम् ॥६१ ॥ एवं मंतव्य आत्मायमर्थासंभवतुत्तये ॥। दुंदुभ्याद्युक्तृष्टांतन्यायमार्गेण यत्नतः ॥६२॥ Digitized by Google अपरायत्तबोधाख्यनिदिध्यासनसिद्धये। आत्यंतिकलयं वक्तुं खिल्यदृष्ठांत उच्यते ॥६३॥ सामुद्रमंभो लवणक्षेत्रे भानुविपाकतः ॥ लवणोपलतां प्राप्य सैंधवः खिल्य उच्यते॥६४॥ १ अपराधीनबोघसिद्धये।
Page 164
अ०प्र० स खिल्य उदधौ क्षिप्स्तापशांतौ विलीयते॥ अशक्यः पुनरुद्धतुखिल्यरूपेण पूर्ववत् ॥६५॥ खिल्योदृत्यै नीरमब्धावाददीत यतो यतः॥तत्र तत्र रसो लभ्यः खिल्यस्त्वेष न कुत्रचित्॥।६६।। अ०
सामुद्रस्यांभसस्तापात्खिल्यतैवं परात्मनः॥ आब्रह्मस्तंबपर्यतं जीवता स्यादविद्यया ॥६७॥ महद्धूतंमनंतं स्यादपारं चिद्धनं स्वतः ॥ देहेंद्रियास्यभूतेभ्यो जीवत्वेन समुत्थितम्॥ ६८॥ महत्त्वं सर्वगलं स्याद्गैतत्वं नित्यसिद्धता॥ अनंतापारशब्दाभ्यां व्याप्तिनित्यत्वसाधनम् ॥६९॥ कार्यकारणराहित्यं यदि वेहोपलक्ष्यताम् ।I अनंतलवमकार्यतमपारतमहेतुता ॥७० ॥ विज्ञानघन एवेति जात्यंतरनिषेधनम्॥ तदिदं वस्तुनस्तत्वं मायिकी सा समुत्थितिः ॥७१॥ अब्धिस्थानीयमैकात्म्यं जलस्थानंतु साक्षि चित्॥क्षेत्रस्थानं शरीरादि तापस्थानं तु विभ्रम:७२ खिल्यस्थानं चिदाभासो योगात्कर्ततभोक्तृते॥ द्रष्टा श्रोता द्विजो गौरो धनी गोमान्भवेत्ततः ७३ Digitized by Google. प्रत्यगात्मैव सद्रह्म परोक्षमभवत्तदा ॥ ब्रह्मैव सन्नयं चात्मा संसारितमवाप्तवान् ॥७४॥ इत्येवं परवस्तेव पंचभूताख्यमायया ॥ जीवत्वेन समुत्थाय स्वतः शास्त्रेण बुद्यते॥७॥ सर्वमात्मैव सम्यग्धीजन्मनैवाखिले धमे॥ नष्टे नश्यति जीवत्वं जले प्रक्षिप्तखिल्यवत्॥। ७६॥ १ महद्ूतमनंतमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति नशेत्य संज्ञास्तीति।
Page 165
क्षेत्रज्ञेश्वरभेदेन पुनः संज्ञा न विद्यते ॥ तद्देतोस्तमसो ध्वंसात्खिल्यानुद्दरणं यथा॥७७॥ दृष्टिमात्रात्मयाथात्म्यात्कार्यकारणवस्तुनः॥न ज्ञातं किंचिदप्यस्ति नानपास्तं तथा तमः।।७८। आत्यंतिकोऽयं प्रलयः पुनर्जन्मविवर्जनात्॥ स्वाभाविके लये शक्तिशेषादस्ति पुनर्जनिः॥७९॥ विज्ञानैकघनस्यास्य संज्ञा नास्तीति यद्चः ॥ तद्याहतिर्न शक्यात्र तयोर्विषयभेदतः ॥ ८०॥ विज्ञानैकघनोत्त्यास्य कृत्स्नैकात्म्यं पुरोदितम्।संज्ञा नास्तीति चाविद्याजन्या बुद्धिर्निषिध्यते८१ कार्यकारणताशेषि स्वतःसिद्धमनन्यगम्॥ यद्रस्तु तदलं स्वात्मसंवित्यै निरपेक्षतः ।८२। ऐकात्म्यं यदविज्ञातं तद्वैतमिव विभ्रमात्॥ स्याद्यत्र तत्र पुंसोऽसौ कर्तकर्मादिभेदधीः॥८३॥ # ******* II*I ननु द्वैतमिवेत्येतदुपमानं कथं तव ।। उपमेयद्वैतवस्तुराहित्यादिति चेच्छणु ॥८४॥ रामरावणयोर्युद्वं रामरावणयोरिव॥ इत्यादावुपमा दृष्टा स्वस्य स्वेन तथेष्यताम् ॥८५॥ Digitized by यद्वल्लोके चंद्रभेद: कल्पितत्वेन संमतः॥ जगद्गेदोपमा सा स्यान्मिथ्यात्वं तेन सिद्यति ॥८६॥ समस्तव्यस्तरूपत्वं यो वक्तीहात्मनः श्रुतेः॥ तत्पक्षस्य निषेधाय द्वैतमिथ्यातवर्णनम्॥८७॥ Google ज्ञातज्ञानज्ञेयरूपं प्राप्य स्वन्ने यथा मृषा ॥ एको व्यवहरत्येवमज्ञो व्यवहरेन्मृषा ॥८८॥।
Page 166
अ०प्र० यस्यामविद्यावस्थायां भेदभ्रांतिस्तदा पुमान्॥ घ्रातघ्रेयघ्राणसंज्ञामाप्नोत्यन्यां तथा त्रिधा।।८९।। अ० ।७६ ॥ अविद्यायां विनष्ठायां घ्रातघ्राणादिभेदधीः॥ विनश्यतीत्यभिप्रेत्य संज्ञा नास्तीति वार्णतम्९० अभिज्ञोऽप्यज्ञवद्रेदं घ्रातघ्राणादिलक्षणम्॥ विजानातीति चेन्मैवं विद्यायां तदसंभवात्॥९१॥ यस्यां तु विद्यावस्थायामात्मैवास्याभवज्जगत्॥ तदा कः केन किं जिघ्रेदद्वैते परवस्तुनि ॥९२॥ दृष्टगोचरवत्सर्वै कार्यकारणवज्जगत्॥ ध्वस्तात्मांध्यस्य विदुषः सम्यग्ज्ञानोदयो भवेत्॥९३॥ ग्राहकादिविभागोऽत्र नास्ति तद्वेतसंभवात्॥ चिन्मान्नस्य स्वतः सिद्धेर्विज्ञानघनतेरिता।।९४॥ मुक्तस्य व्यवहारस्तु ध्रांतिवासनया कृतः॥ भ्रांतिनाशेऽपि संस्कारानुवृत्तिर्दश्यते खलु॥९५॥ वासनामात्रसंज्ञा तुदेहे सति न वार्यते ॥ वस्तुलभ्रांतिसंज्ञैव प्रबुद्धस्यात्र वार्यते ॥ ९६॥ ज्ञातृज्ञानज्ञेयरूपान संज्ञा विषये यथा। प्रतीच्यपि तथा संज्ञा प्रबुद्धस्य न विद्यते॥९७॥ Digitized by Google ज्ञानोत्पत्तौ न संज्ञास्तीत्यास्तां तावदि हात्मनि॥ अपि सत्यामविद्यायां न संज्ञास्त्यात्मनीदशी९८ १ यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतर श्णोति तदितर इतरमभिवदति तदितर ।।७६ ।l इतरं मनुते तदितर इतरं विजानाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं शणुयात्तत्केन कमभिवदेत्तत्केन कं वि. जानीयाधेनेद ५ सर्व विजानीयाद्विज्ञातारमरे केन विजानीयादिति।
Page 167
ग्राहकादि जगत्सर्व येन कूटस्थसाक्षिणा॥ लोकः सर्वो विजानाति जानीयात्केन तं वद॥९९। बोद्धृताल्लोचनेनापि न संज्ञा प्रत्यगात्मनि॥ न बोद्दा ग्ृहयतेऽन्येन बोधेन विषयेण वा ॥१०॥ व्यावहारिकसंज्ञाऽसौ संसारिण्यपि दुर्लभा॥ किसु निःशेषविध्वस्तसंसारार्णवकारणे ॥१॥ इत्येवमपरायत्तबोधेनात्यंतिको लयः ॥ निदिध्यासनरूपोऽत्र फलभूतः प्रकीर्तितः ॥२ ॥ याज्ञनल्क्योऽत्र मैत्रेयीमन्वगह्लादथा तथा॥ सुमुक्षुमनुग्हातु विद्यातीर्थमहेश्वरः॥१०३॥ इति श्रीविद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे बहदारण्योपनिषदि मैत्रेयीविद्या प्रका शो नाम पंचदशोऽध्यायः॥१५॥ = पंचमे ब्राह्मणे दध्यङ्काथर्वण उवाच याम्॥ अश्विनोर्मधुविद्यां तामत्र स्पष्टीकरोम्यहम् ॥१॥ परस्परोपकारित्वं प्थिव्याः प्राणिनामपि॥ यत्तन्मधुत्वं विज्ञेयमुपकारस्तु सर्जनम् ॥२॥ जंतुभि:पृथिवी सृष्ठा स्वकर्मफलभुक्तये ।। प्ृथिव्याऽप्यात्मभोगार्थ सृष्टाः सर्वेऽपि जंतवः॥३॥ Digitized by Google पार्थिवाणि शरीराणि भुज्यंते जंतुभिस्तथा॥ पथिव्याऽपि धरित्रीत्वं भुज्यते जंतुधारणात्॥४॥ १ इयं पृथिवी सर्वेषां मध्वस्यै पृथिव्य सर्वाणि भूतानि मधुपश्चायमस्यां पृथिव्याँ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म्यं शरीरस्तेजोमयोSमृतमयः पुरुषोऽयमेव स योयमात्मेदममृतमिदं ब्रह्मेदं सर्व।
Page 168
EIEIIIIEEE I EII IIIEEN अ०प्र० अस्यां प्थिव्यां यो भास्वानामोक्षमविनश्वरः॥ लिंगात्मा मध्वसौ सर्वभूतानां तानि तस्य च ५ अ० अध्यात्मं यश् शारीरो लिंगात्मा पार्थिवांशजः॥ स चापि मधु सर्वेषां सर्वभूतानि तस्य च॥६।। अध्यात्मं साधिदैवं च साधिभूतमिदं जगत्॥ एकैकस्यात्मनः कृत्स्ं भोग्यत्वेनावतिष्ठते ॥७॥ ।।१६॥
सर्व सर्वस्य कार्य स्यात्सर्वः सर्वस्य भोजकः॥ इत्येषा मधुविद्याऽन्र वैषम्यात्केशहारिणी॥८॥ भूतानि भूमिर्द्वे लिंगे इत्युक्तं यच्चतुर्विधम् ।। मध्वविद्याकृतं तस्य वस्तुतत्त्वमथोच्यते॥९॥ अयमेव स इत्यत्र मधुरूपश्र्तुर्विधः ॥ प्रपंचोयमिति प्रोक्तः स इत्यात्मोच्यते परः॥१॥॥ अयमेव स इत्युक्त्त्या सामानाधिकरण्यतः॥ प्रत्यङ्मात्रैकयाथात्म्यं प्रपंचस्यावबोध्यते॥११॥ स इत्यनेन निर्देष्टुमतीतग्रंथवर्णितः ॥ योऽयमित्यादिभिर्वाक्यैश्र्वतुर्भिः स्मार्यते परः ॥ १२॥ आत्मा द्रष्टव्य इत्युक्तममृतत्वेन वर्णनम् ॥ नेति नेत्युदितं ब्रह्म तत्सर्वमभवत्विति॥१३॥ आत्माऽमृतब्रह्मसर्वशब्दैः प्राक् प्रतिपादितम्॥वस्त्वस्य मधुनस्तत्त्वमिति वाक्यार्थ ईरितः १४ Digitized by Google उत्तरेष्वपि वाक्येषु मधुरूपमिर्द जगत् । ब्रह्मापि मधुनस्तत्वं योजयेदुक्तवर्त्मना ॥१५॥ साधारणविशेषाभ्यां धर्मो भोगप्रदो द्विधा॥ अधिदैवं तथाध्यात्ममित्यत्रासौ विभज्यते ॥१६॥ सत्यमानुषयोरेवं विभागं योजयेहव्िधा । पथिव्याद्या मानुषांता विराडंशा उदीरिता:॥१७॥
Page 169
अयमात्मेति निर्देशो विराजोभिमतॉऽशिनः॥ हिरण्यगर्भस्तत्रत्यः प्रोक्तस्तेजोमयोक्तितः॥१८।।
अपूर्वानपरामध्यप्रत्यग्याथात्म्यवित्तये। स वा इंत्यादिको ग्रंथ: सदृष्टांतोऽभिधीयते॥२०॥ ननूकतं मधुनस्तत्त्वमयमेव स इत्यतः ॥ वचनाद्वट्डुपर्यायैर्भूयोऽप्येतदृढीकृतम् ॥२१ ॥ बाढमेतावता वस्तुसार्वात्म्यं स्यात्प्रपंचितम् ॥ तदेवाभिव्यज्यतेऽथ विदुषः फलरूपतः॥२२॥ स एव मधुतत्त्वाख्य आत्मायं तत्त्वविन्मतः॥ आधिपत्यं च राजत्वं वैदुष्यं विदुषोऽधिकम २३ अत्राधिपत्यशब्देन स्वातंत्र्यमभिधीयते ॥ स्वार्थः प्रत्यक्तदर्थलात्सहेतोर्जगदात्मनः ॥२४॥ राजत्वं राजनाद्गास्वदविलुप्तात्मदर्शनात्॥ब्रह्मास्मीति परिज्ञानध्वस्तध्वांततकारणात् ॥२५॥ योऽसावविद्यया देही संसारीवाप्यभूत्पुरा॥ स एव विद्यया ब्रह्मेत्यतोऽस्मिन्जगदर्पितम्॥२६॥ चक्रस्यारा यथा सर्वे नाभिनेम्योः समर्पपिताः॥ सजीवा निखिला देहा ब्रह्मविद्यर्पितास्तथा २७ Digitized by Google समाप्ता ब्रह्मविद्येयं कैवल्यावाप्तयेऽखिला॥ यथोक्तब्रह्मविद्यायास्तुत्यर्थाख्यायिकोच्यते॥२८॥ १ स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तदया रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवा- स्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवा: सर्वे लोफा: सर्वे माणा: सर्व एवात्मान: समार्पिताः।
Page 170
अ०प्र० दध्यङ्गाथर्वणोऽश्विभ्यामुवाच द्विविधं मधु॥ प्रवर्ग्यीगरविध्यानं ब्रह्मज्ञानमिति दयम्॥२१॥ अ० ।।७८ । तं उत्तांतमृषिः पशयन्प्राब्रवीदश्विनौ प्रति॥ उत्तांतमब्रवीदग्भ्यामृग््यां च ब्रह्मवेदनम्॥३०॥ ।।१६॥ अश्विनोर्युवयोरुग्रं लाभाय गुरुमारणम्। आविष्करोमि लोकेऽस्मिन्मेघो वृष्टिं यथा तथा ३१ दध्यङ्गाथर्वणोऽश्वस्य शिरसा युवयोर्मधु ॥ यत्प्रोवाच तदप्यत्र जानन्नाविष्करोम्यहम् ॥३२॥ छिला गुरोः शिरोऽन्यत्र निक्षिप्याश्वस्य यच्छिरः॥तदाहृत्य गुरोः स्कंधे प्रतिष्ठापयतो युवाम्३३ सत्यप्रतिज्ञः स गुरुः सोढ़ाप्येतादशीं व्यथाम्॥ मधुद्दयसुवाचेति कथितोऽर्थ ऋचोद्योः॥३४॥ ईशो मंनुष्यपश्वादिदेहांश्रकरे पुरा ततः ॥स पक्षी लिंगरूपेण भूला तान्प्राविशत्प्रभुः॥३५॥ योऽयं पुरुषश्दोऽस्मिन्मंत्रे तस्य निरुक्तितः॥जीवब्रह्मैक्यतात्पर्य मंत्रस्यास्योपवर्ण्यते ॥३६॥ पुरि शेते यतस्तस्मात्पुरुषो जीव उच्यते ॥ सर्वै पूरयतीत्येवं पुरुषो ब्रह्म भण्यते । ३७॥ Digitized by Google अनेन ब्रह्मणा किचिद्वहिर्नानावतं क्वचित्। नास्त्यसंळतमंतश्र पूरणात्पुरुषस्तथा॥३८॥ रूपं रूपं प्रविष्ठोऽयं प्रतिबिंबो भवत्ययम्॥ तदस्य प्रतिबिंबत्वं प्रत्यग्याथात्म्यवित्तये।। ३९॥ १ पुरश्रके द्विपदः पुरश्चके चतुष्पदः पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति स वा अयं पुरुषः सवासु पूर्ष पुरि शयो नैनेन किंचनाऽनावृतं नैनेन किंचनासंदृतं इदं वैतन्मधु दध्यड्ठार्थवणोऽश्विम्यामुवाच तदेवदृषि पश्यत्रवोचत।
Page 171
चैतन्यात्मादयः शब्दा व्युत्पन्नाः प्रतिबिंबके॥ लक्षयंति चिदात्मानं तेन याथात्म्यवेदनम्॥ ४०॥ मिथ्याभिमानैः साभासबुध्यादिपरिकल्पितैः॥ द्रष्टा श्रोताहमित्यादिबहुरूपो विचेष्ठते ॥४॥ संत्यस्य हरयोऽक्षाख्या हरणाद्विषयान्प्रति॥ प्राणिभेदादनंतास्ते तैस्तु संसरतीश्वरः॥४२॥ मंत्रोक्ता हरयोऽध्यस्तास्तत्संख्या च प्रकल्पिता। एतेषां तत्त्वमात्मैवेत्याह ब्राह्मणमादरात् ४३ निःशेषमधुकांडस्य तदेतदिति वाक्यतः॥ सारः संक्षिप्यते साक्षात्करविन्यस्तबिल्ववत्।४४। अज्ञातं संशयज्ञातं मिथ्याज्ञातमिदं जगत्॥ तदेतदित्यनूद्यास्य तत्त्वं ब्रह्मेति बोध्यते॥४५॥ निष्कारणं तन्निष्कार्य निश्छिद्रं बाह्यवर्जितम्॥ परोक्षप्रतिषेधार्थमात्मा ब्रह्मेति भण्यते ॥४६॥ सर्वानुभव एवायं यतः सर्वानुभूस्ततः॥कात्सर्यात्सर्वो भवेदेष चिन्मात्रतवात्तथानुभूः॥४७॥ कर्तव्यमेतद्विज्ञानमिति वेदानुशासनम् ॥ अस्यातिलंघने दोषः संसारानर्थसंगतिः॥४८॥ 88* कुर्वतस्तु महान् लाभ: स्वात्मनः कृतकृत्यता॥ मधुकांडार्थसर्वस्वमित्थं श्रुत्योपसंहतम्॥४९॥ Digitized by Google विद्यावंशजपाद्विद्याविघ्नः सर्वो निवार्यते । मुमुक्षुमनुगह्लातु विद्यातीर्थमहेश्वरः ॥५०॥ इति श्रीविद्यारण्यविरचिते अनुभूति०बहदारण्यके मधुविद्याप्रकाशो नाम षोडशोऽध्यायः१६ १ तदेतद्र आपूर्वमनपरमनंतरमवाल्ममपरमात्मा ब्रझ्म सर्वानुभूतिरित्यनुशासनम्।
Page 172
1,
अ०प्र० याज्ञवल्क्योऽश्वलादिभ्यो विजिगीषुः कथामुखात्। उक्तवान्पंचमेऽध्याये तत्त्वविद्यामनेकधा१ अध्यात्ममधिभूतं च यजमानर्लिगादिषु॥ स्वाभाविक: परिच्छेदो मृत्युर्मर्त्यफलार्जनात् ॥२॥ अ०
कालोऽपि मृत्युः कर्त्रादि मारणात्स्वात्स च द्विधा॥ सौरोऽहोरात्ररूपेण चांद्रः पक्षादिरूपतः ३ जेतुं मृत्युत्रयं ब्रह्मलोकं प्रातुं च साधनम्॥ प्रश्नैश्वतुर्भिः पप्रच्छ देवध्यानं तदुत्तरम् ॥४॥ यजमानस्य वागादेर्होत्रादेश्वाधिदैविके ॥ अश्यादावेकतां ध्याला सुच्यते चातिसुच्यते॥५॥ मुक्तिस्त्यक्लासुरं भावं देवभावस्य चिंतनम्॥ ब्रह्मलोकोऽतिमुक्तिः स्यान्न कैवल्यमुपासनात्॥६॥ अथ संपद उच्यंते स्वल्पे कर्मणि कर्मणः ॥ महतश्रिंतनं संपत्तया प्राप्यं महत्फलम् ॥७॥ होतृप्रयुक्त ऋग्जातित्रये संपादयेदमून् ॥ लोकांस्त्रैलोक्यमाप्नोति समत्वात्नित्वसंख्यया॥ ८॥ समिन्मांसाज्यमुख्यानामुज्वललादिसाम्यतः॥ देवलोकादिसंपत्या देवलोकादिमापुयात्॥९॥ ब्रह्मणो मनसो वत्तिष्वनंतास्वंतवर्जितान्॥ विश्वान्संपादयन्देवाननंतं लोकमाप्ुयात् ॥१०॥ Digitized by Google उक्तास्टृग्जातिषूद्गात्रा गीयमानासु संपदा। लोकत्रयस्य प्राणादेरपि लोकत्रयं व्रजेत् ॥११॥ गयाभूर्बाह्मणो विष्णुरन्नं ब्रह्मेति संपदा।श्राद्धे फलस्य बाहुल्यं मला संपादयंति हि ॥ १२॥ ।।७९॥
बंधास्यमृत्युस्तन्मृत्युर्विदुषोऽनुक्रमस्तथा। प्रयोजकस्तयोर्मत्योः प्रेरकं चात्र पच्छ्यते ॥१३॥
Page 173
अधिभूताधियज्ञादिपरिच्छेद: फलात्मकः ॥ मोहासंगात्मकोमृत्युर्ग्रहातिग्रहबंधवान्॥१४॥ ग्रहा घ्राणादयो ज्ञेया गृहनंति विषयान्यतः॥ घ्राणादिप्रेरकत्वेन गंधाद्याः स्युरतिग्रहाः ॥१५॥ पूर्वब्राह्मणसंप्रोक्तध्यानसंयुक्त कर्मभिः ॥परिच्छेदविनाशऽपि मृत्योः सर्वस्य न क्षयः ॥ १६॥ हिरण्यगर्भरूपेऽपि श्रूयंते हि क्षुधादयः॥ अतो मृत्योरशेषस्य मृत्युरन्योऽत्र पृच्छ्यते ॥१७॥ निर्णेयौ मृत्युतन्मृत्यू बंधमोक्षावबुद्ये॥ दुर्वचौ च ग्रहादीनां लोकेऽत्यंताप्रसिद्धितः॥१८॥ ग्रहातिग्रहवद्वंधो देहेऽप्येष तथाप्यसौ ॥ जन्मांतरेष्वसंचारान्नाप्रसिद्धोन दुर्वचः॥१९॥ एकमेव मनः सर्वजन्मगामीति तार्किकाः॥ अक्षांतराण्यपीत्यन्ये तेन संख्याऽत्र दुर्वचा॥२०॥ मनोन्यायः समोऽन्येषु तेनादोषविवक्षया ॥ पर्यग्रहीदष्ठसंख्यामन्यांतर्भाव उह्यताम् ॥२१॥ यस्येंद्रियस्य योरऽर्थाSस्मिन् जन्मन्यन्यत्र तत्तथा।उतान्यथेति संदेहात्संख्येयं पच्छयते पुनः२२ दृष्टानुसार्यदृष्टं तु कल्पनीयमतीदशात्॥ न्यायात्प्राह यथा दृष्टमिंद्रियार्थव्यवस्थितिम्॥२३॥ Digitized by Google बंधं विशदीकर्तु ग्रहातिग्रहकल्पनम् ॥ मोचनीयो ग्रहगस्तस्तथैवाक्षार्थबंधनात्॥२४॥ ग्रस्तं हिरण्यगर्भीतं मृत्युना सकलं जगत्॥ ग्रहातिग्रहरूपेण मृत्युस्तस्यास्ति वा नवा ॥२५॥ १ ज्ञानेंद्रियपंचकं वाक्याणी द्वौ मनश्चेसष्टी सर्वेंद्रियाणासुपलक्षणम्।
Page 174
अ०प्र० अस्ति चेदनवस्था स्यादनिर्मोक्षोऽन्यथा भवेत्॥ इत्यसौ दुर्वचः प्रश्नो दृष्टांतेनापनुदयते॥२६॥ अ० वन्हेः सर्वाशिनो मृत्योर्यथा मृत्युर्जलं महत् ॥ बंधमृत्योस्तथा मृत्युरज्ञानं बंधहल्लये।।२७। अज्ञानमृत्योर्विज्ञानं मृत्युस्तस्यापि तत्तथा॥ तत्कातकरजोन्यायान्नानवस्थामिहानयेत्॥।२८।। प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानमपन्हुते॥ अपन्हुते स्वमित्यस्मिन्नर्थे नैषा चमत्कृतिः॥२९॥ अथ तत्वविदः प्राणा उक्कामंत्यथवा न हि॥ स्यात्पुनर्जनिरुक्रांतावनुक्कांतौ मृतिः कथम्॥ ३०॥ नोक्कामंति न तिष्ठति किंतु निर्वातदीपवत्॥ न कारणं शिष्यतेऽत्र तस्य ज्ञानेन निन्हुतेः॥३१॥ अनारब्धफलं कर्म तदुक्रांते प्रयोजकम् ॥ स्थितेर्निमित्तमारब्धं ते नष्टे ज्ञानभोगतः॥३२॥ उपादाननिमित्ताभ्यां दीनानामुक्कमः कथमू।कथं वाऽत स्थितिस्तस्माद्युक्त आत्यंतिको लयः३३ प्राणत्यागेन देहोऽयं स्र्रियते बाह्यवायुना॥ आपूर्णस्थोऽल्पमापन्नो निश्ेष्टो दृश्यते यतः॥३४॥ प्राण एव विलीयंते किं वा सर्वै प्रयोजकम्॥ आद्ये प्राणजनिर्भूयो द्वितीये नाम तत्कथम्॥३५॥ Digitized by Google अप्रयोजकनामैव शिष्यते न प्रयोजकम् ॥ अविद्याकामकर्मादि नोक्तदोषद्दयं ततः॥ ३६॥ परवाचाभिनिष्यत्तेरविदुषो बंधनं प्रति ॥ नामाप्रयोजकं युक्तस्तच्छेषः परदेहवत् ॥३७॥ ।८0 ॥
मुक्तावप्यवशिष्टलान्नाम्न्नोऽनंतलसाम्यतः ॥ विश्वान्संपादयन्देवाननंतं लोकमश्रुते॥३८॥
Page 175
ग्रहातिग्रहबंधाख्यमृत्योर्यत्स्यात्प्रयोजकम् ॥ कालकर्मेश्वरादीनां मध्ये तत्किमितीर्यते ॥३९॥ अविद्वद्विषयः प्रश्नोविदुषो बंधसंक्षयात् ॥ आतत्त्वबोधमज्ञानी बध्यतेऽनंतजन्मभिः ॥४०H अनुग्ह्नंति वागादीन्स्वांशैरन्यादिदेवताः॥ भोगक्षये मृतौ स्वांशान्संहरंति यथा तथा॥४१॥ भूयो देहग्रहे भूयो देहस्थानेषु देवताः॥ अंशं निदधति स्वं स्वंन देहग्रहणात्पुरा ॥४२॥ अधिष्ठातवियोगेन न्यस्तदात्रोपमैर्युतः॥वागादिभिरसौ किंस्वित्प्रयोजकमुपाश्रयेत् ॥४३॥ किं कारणात्मतामेति किंवा केन चिदात्मना॥ अवतिष्ठत एवायं किं वा कर्मैव संश्रितः॥ ४४॥ गुणान्वा यदिवेशानं कालं वा दैवमेव वा ॥ यटच्छां संतति शून्यं विनाशं वेति भण्यताम्॥४८॥ प्रश्नेन तुष्टःसंत्यज्य विजिगीषां सहामुना॥ निर्गतौ विजिगीषुभ्यो मिथो निर्णयमूचतुः॥४६॥ संसारभूमिवर्तित्वान्नैवायं कारणाश्रयः ॥ कर्मादिपरतंत्रतात्स्वाश्रयोऽयं न चेष्यते ॥४७॥ जडलाद्रुणकालादिर्न जीवं नेतुमर्हति ॥ हठो यहच्छाशून्यं तुमानहीनं तथेतरत् ॥४८॥ Digitized by Google जीवेश्वरौ स्वतंत्रौ चेद्विधिशास्त्रमनर्थकम् ॥ अतः साधारणो जन्महेतुः कर्मैव शिष्यते॥४९॥ सति कर्मणि वैचित्र्यं देहानामुपपद्यते । देवेशानुग्हीतलाज्ाड्यदोषो न कर्मणः ॥५०॥ तृतीयब्राह्मणे पुण्यफलावधिरुदीर्यते ॥ अश्वमेधः परं पुण्यं ब्रह्मलोकफलावधि ॥५१॥
Page 176
अ०प्र० प्रत्यक्षस्थावरत्वाख्यः स्पष्टः पापफलावधिः ॥ विज्ञायतेऽद्यज्ञानादियत्ता हेयसंसृतेः ॥५२॥ अ० अश्वमेधादियत्पुण्यं महोपासनया युतम्॥ तत्फलं संसृतिस्तस्य भुज्युना एच्छयतेSवधि:॥५३॥ ब्रह्मांडादहिरंतश्र समष्टिव्यष्टिरूपिणः ॥ व्याप्तिर्हिरण्यगर्भस्य संसारस्यावधिर्मतः ॥५४॥ आगमैकाधिगम्योऽयमर्थ इत्युपदर्शयन् ॥ गंधर्वाख्यायिकामाह गंधर्वस्तद्रुरुस्ततः ॥५५॥ लोकांस्तानपि गंधर्वादश्वमेधकृतां फलम्॥ श्रुला पारिक्षितोत्त्यात्र वादिनं तं व्यमोहयत् ॥५६॥ अश्वमेधकृतो वक्ति भुज्युः पारिक्षिता इति॥ परितः क्षितिमावेष्य स्थिता इति विवक्षया॥५७॥ द्विर्याजञवल्क्यमुद्दिश्य प्रश्नोक्तिस्त्रासजन्मने॥ अत्र स्तौतींद्रियज्ञानं दर्शयन्निदमुक्तवान्।५८॥ गंधर्वेण गतिः प्रोक्ता अश्वमेधकृतामिति।।भूयः पष्टः स्वयं वक्तुं प्राह लोकस्य विस्तृतिम्॥५९॥ आदित्यरथगत्याध्वमितो यावानहर्निशम्॥ द्वात्रिंशद्गुणितस्तावान्व्याप्तो भातुगभस्तिभिः६० Digitized by Google इयानेव प्राणिभोगसिद्ये लोक इष्यते ॥ इतः परस्ताहिगुणा प्टथिव्यालोकवर्जिता ॥६१॥ अंतरालोकयुक्त: सन्बहिरालोकवर्जितः॥ लोकालोकगिरिर्मध्ये पटथिव्योरनयोः स्थितः॥६२॥ समुद्रो द्विगुणो भूमे घनोदाख्यो बहिः स्थितः॥ अंडादहि घनोदोऽयमिति पौराणिका जगुः६३ १ सार्धत्रयः कोटय: सप् लक्षाणि सहस्राणि चतुर्दश सार्धद्विशतं त्रिचत्वारिंशद।
Page 177
पुराणं बाध्यते श्रुत्या ध्यानार्था वै श्रुतिर्मता॥ सर्वथाऽप्यंडरूपोडयं वैराजो देह इष्यताम्॥६४॥ योंऽडाइहि: स्थितो वायुः सूत्रात्मेति श्रुतीरितः॥ एषोऽशवमेधकृत्पुण्यपरिपाको न चापर:॥६५॥ क्षुरधारादुपमितः संधिर्योऽडकपालयोः॥ तेन बाह्ये नयत्येतानश्वमेधस्य देवता ॥६६॥ ते वायुभावमापन्नाः समष्टिव्यष्टिरूपतः ॥ अंडादहिस्तदंतश्र् तिष्ठंत्यखिलरूपिणः ॥६७॥ अध्यात्मादिविभागेन व्याप्तिर्व्यष्टिरितीरिता।समस्तलेन संव्याप्तिः समष्टिरिति कीर्तिता।।६८।। समष्टिव्यष्टिरूपं य उपस्तेऽसौ सकन्मृतः॥हिरण्यगर्भो भूलाऽथ सुच्यते ्रियते न तु ॥६९॥ संसारोत्कर्षसीमेत्थं वर्णिता ज्ञानकर्मजा॥ इतो विरक्तिमालक्ष्य वर्ण्यते स्वात्मनिर्णयः॥७०॥ चतुर्थब्राह्मणे मोक्षयोग्यः कर्ततवर्जितः॥ विषयो ब्रह्मविद्याया अस्त्यात्मेति निरूप्यते॥७॥ अहंधीकर्मशास्त्रा्यां दृष्टेर्द्रष्टा न सिध्यति॥ किं तु दृष्यादिसंयुक्तेर्ब्रह्मताऽस्य विरुध्यते॥७२॥ अतो ब्रह्मत्वयोग्यस्य प्रतीचोऽत्र बुभुत्सया॥ अनूद ब्रह्मतामादौ तदह परिष्टच्छति॥ ७३॥ Digitized by Google १ ॐ अथ हैनमुषस्तश्ाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाङ्वह्म य आत्मा सर्वातरस्तं मे व्याचक्ष्वे- त्येष त आत्मा सर्वातरः कतमी याज्ञवल्क्येति सर्वांतरः माणेन प्राणिति स त आत्मा सर्वांतरो य उदानेनोदानिति स त आत्मा सर्वांतर एष त आत्मा सर्वातरः । 0
Page 178
अ०प्र० यत्साक्षादपरोक्षं स्याद्रह्म तद्रूपतामयम्॥ अर्हेत्सर्वीतरस्तादृग्य आत्मा ब्रूहि तं मुने ॥७४॥ अ० ।।८ २ ॥ साक्षादिति पदेनात्र व्यवधानं निवार्यते ॥ स्वर्गलोकादिवद्रह्म नातो देशांतरादिगम्॥७॥ अगौणताऽपरोक्षोत्तया ब्रह्मत्वस्य विवक्षिता॥ नामादेरिव नो गौणं ब्रह्मत्वं प्रत्यगात्मनः॥७६॥ आविर्भावोऽपरोक्षत्वं तच्चास्त्यव्यवधानतः॥ स्वप्रकाशं स्वभावतादिति. वार्थः पदद्रये॥७७॥ अव्यावताननुगतं वस्तु ब्रह्म गिरोच्यते ॥ अकारणमकार्य तदित्यनेनोदितं भवेत्॥ ७८॥ अमुमर्थमिदं प्राप्तं न चेदात्मैव तद्रवेत ॥ यतोऽत आत्मरूपार्थ य आत्मेति विशेष्यते॥७९॥ सजातीयविजातीयद्वितीयार्थनिळत्तये॥ सर्वातर इति प्राह सार्वात्म्यं तेन सिध्यति ॥८०॥ सार्वात्म्यं ब्रह्मणोयोग्यं तच्च जीवात्म नीरितम्।मुख्यापरोक्ष्यं जीवस्य योग्यं ब्रह्मणि वर्णितम८१ अभेदो वास्तवो जीवब्रह्मणोर्व्यत्ययादतः ॥ विवक्षितस्तत्प्रसंगाद्वादिव्यामोह आर्थिकः॥८२॥ आत्मनो ब्रह्मता मुख्या ब्रह्मणोऽप्यात्मता तथा।।प्रत्यग्दृध्या पराग्दृष्या मिथो ब्रह्मात्मनोर्भिदा८३ Digitized by Google. ब्रह्मतमात्मनो रूपं तमसा तत्तिरोहितम्॥ आत्मत्वं ब्रह्मणोऽप्येवं ततो जीवेशभेदधीः॥८४॥ तमसो बोधविध्वंसादब्रह्मानात्मताहतेः ॥ प्रत्यङ्गात्रावशेषतात्स्यामपूर्वादिमानहम् ॥८५॥ ।।८ २
अमूढो याज्ञवल्क्योऽत्र प्रत्यग्दृष्ठ्या परामृशत्॥ प्रत्याहैष त आत्मेति तं सर्वातरमद्दयम्॥८६॥
Page 179
मुख्योऽपरोक्षो यः प्रत्यक् स्वप्रकाशो विभासते॥ एतच्छब्देन तं प्राह विस्पष्टत्वविवक्षया।।८७।। अंतर्मुखस्य विस्पष्टो नायं संदेहगोचरः ॥ इत्यभिप्रेत्य तत्प्रश्ने बहुमानं तु नाकरोत्॥८८॥ षष्ठयंतस्य त इत्यस्य युष्महुध्युपलक्षितम्॥ देहादिसर्वमाव्योम्नो दृश्यमर्थो विवक्षितः॥८९। आत्मेत्यव्यभिचारेण स्वरूपं यत्तदुच्यते॥ प्रमात्राद्यागमापायसाक्षित्वात्तत्स्वरूपता । ९०।। यदस्मिन्व्यभिचार्येतत्तत्स्व रुपं न कुत्र चित्। कुंडलित्वं यथा पुंसःसाक्षित्वव्यभिचारवान्।। ९१।। व्यभिचारो मिथो यद्वत्प्रमात्रा दे:स्वसाक्षिकः।। साक्षिणोव्यभिचारस्तु तथा कि साक्षिको भवेत् ९२ आत्मात्मवत्वसंबंधः षष्ठ्चोक्तो जगदात्मनोः।स्वतो निरात्मकं दृश्यमात्मना सात्मतां व्रजेत् ९३ आत्मा सर्वस्वरूपल्वात्सर्वातरगिरोदितः ॥ सर्पधारादिकल्पेषु रज्ोरांतरता यथा ॥ ९४॥ आत्मनोऽनवशेषेण तदन्यार्थाभिसंगतेः ॥ प्रत्यङ्मात्रतयैवान्यद्दोधादात्मनि लीयते ॥९५॥ इत्थं स्वानुभवाद्याज्ञवल्क्यः सर्वातरं जगौ॥ अन्यः संशयमापाद् जिगीषुः परिष्टच्छति ॥९६।। Digitized by Google तवात्मेत्युत्तरं दत्तं ममात्मेति त्रिधेक्ष्यते । देहो लिंगं च साक्षीति तेषु सर्वातरश्ष कः ॥९७॥ सर्वातरत्वं दुःसाध्यमल्पयोर्देहलिंगयोः ॥ सद्भावेऽन्यस्य किं मानमप्रमेयस्य साक्षिण: ॥९८॥ एवं पष्टःस्वानुभूतौ वादिनोऽनधिकारताम्॥मलाऽनुमानतः सत्तामात्मनः प्रत्यपादयत्॥९९॥ Ho
Page 180
अ०प्र० स्वप्रभे माननैष्फल्याद प्रमेयतमिष्यते।वादिभ्वांतिनिवृत्त्यर्थ मानोक्तौ हियतेSत्र किम्॥१०॥ प्राणादिकरणैश्र्वेष्ठा कर्तपूर्वा क्रियाततः ॥ छिदिक्रियावत्कर्तृत्वं न युक्तं देहलिंगयोः॥१०१॥ अ०
कारणप्रेरकः कर्ता करणैः प्रेर्यते वपुः ॥ लिंगं तु करणात्मलान्नैव कर्तृलमर्हति ॥२॥ सुखसंचारिणा जाग्रदः प्राणेनानतीक्षता॥ सर्वप्रत्यक्तमः सोऽयमात्मा सर्वातरावधिः ॥३॥ सुप्रेऽस्मिन्करणग्रामे योऽसुप्तोऽलुप्तदृष्टिकः॥ अथ सर्वान्नामरूपान्पश्यन्प्राणिति वायुना॥४।। स्पष्टेषु बहुलिंगेषु मानाभावमचूचुदः ॥ इत्युपालब्धये लिंगान्यपानादीन्युदाहरत्॥५॥ एकादशेंद्रियोत्पन्नचेष्टानामुपलक्षणम् ।I प्राणाद्युदाहृदिस्तेन लिंगानां बहुता स्फुटा ॥ ६ ॥ प्राणादिकार्यकरणैः स्वतोऽसंहत एकलः ॥ अकुर्वन् कुरुते चेष्टामयस्कांतो मणिर्यथा॥७॥ रथादौ नियता चेष्टा चेतनेनानधिष्ठिते ॥ न दष्टा चेतनस्तेन प्राणादीनां प्रवर्तकः ॥८। ससूत्रदारुयंत्रेण सदृशं लिंगवद्दपुः ॥ यः प्रेरयत्यसावात्मेत्युक्तेऽन्योपजहास तम् ॥९॥ Digitized by Google यथा गां दर्शयेत्युक्ते लिंगं मूढो वदेतथा ॥ आपरोक्ष्यमनुक्क्ा त्वं लिंगेनावेदयस्यहो ॥ १॥ लिंग वाच्यं परोक्षेऽर्ये न लात्मनि परोक्षता॥ इति मला हैवकारं परोक्षस्य निवर्तकम ॥११॥ १ अर्थान्सवासनारूपानश्नन्प्राणिति वायुना ॥ इति वा पाठ:।
Page 181
मुख्यापरोक्षमुक्तं त इति दर्शयितुं पुनः ॥ प्रत्यग्टृष्टिपरं वाक्यमुत्तरत्वेन वत्तयसौ ॥ १२॥ विद्वद्धाषामबुध्वाऽन्यः स्वरूपादिष्विवात्मनि॥ अक्षजन्यापरोक्षत्वं मलाऽप्ृच्छत्पुरेव तम्॥।१३॥ दृष्टश्रुतमतज्ञातेष्वेषु सर्वातरस्तु कः ॥ दृष्याद्यगोचरः प्रत्यङ्डिति प्रश्नमपाकरोत् ॥१४॥ वेद्मीति यद्वलाद्वक्ति न वेद्मीति च यद्लात् ॥ योगिनोऽनुभवंत्येतमगोचरतयैव हि॥१५॥ उक्तवर्त्मातिरेकेण नात्मवस्तु घटादिवत् ॥ शक्यते प्रतिनिर्देषुं प्रमाणाऽगोचरलतः॥१६॥ द्रष्ट्रदर्शनदृश्यानां साक्षिणः स्वप्रभस्य तत्। प्रमाणगोचरत्वं तु वस्तुस्वाभाव्यतो भवेत्॥१७ दष्टेर्न पशयेद्दष्टारमिति प्रत्युत्तरं वचः ॥ वत्त्यगोचरतामेतद्वाक्यं विव्रियते स्फुटम् ॥१८॥ चक्षुर्जन्यमनोवत्तिश्िवद्युक्ता रूपभासिका॥ दृष्टिरित्युच्यते द्रष्ठा दृष्टे: कर्तेति लौकिकैः ॥१९॥ अतो दृष्टिद्यं वाक्ये भाति षष्ठचंतशब्दतः॥एका दृष्टिस्तजंतेन धातुनाऽन्येति तद्दयम् ॥२०॥ Digitized by Google प्रमातुर्ज्ञायते वत्तिश्र्वक्षुषा रूपरंजिता ।I द्रष्टव्यं तु तया रूपंन साक्षी दृश्यते तया॥२१॥ दृष्टेर्द्र ष्टारमात्मानं दृष्या पइयेन्न हश्यया। इति वाक्यं सुनिर्वक्ति वर्णितं न्यायगर्भितम्॥२२॥ १ कतमो याज्ञवल्क्येति सवांतरो न दृष्टे्द्रष्टारं पश्येन्न श्रतेः श्रोतार शणुयान्न मतेर्मतारमन्वियान्र विज्ञातेविज्ञातारं विजा- नीयादेष त आत्मा सर्वातरोऽन्यदा्त ततो होषस्तथ्ाक्ायण उपरराम।
Page 182
अ०प्र० येन चक्षुरिदं हष्ठं चक्षुषा यन्न पश्यति॥ ब्रह्म विद्धि तदेवत्वमिति श्रुत्यंतरे स्फुटम् ॥ २३॥ श्रुतिःश्रोत्र जधीटत्तिस्तस्याःश्रोताऽवभासकः।।श्रुत्या शब्दावगाहिन्या श्रोतारंश्रृणुयान्नतम्२४ अ०
ऊहापोहात्मधी वत्तिर्मतिस्तस्याः प्रकाशकम्॥ अनूदयमनपोह्यां तं न मन्वीथास्त्वमेतया।। २५॥ अस्पष्ट उह्य आत्मातु विस्पष्टो भानरूपतः॥ अनपोह्योऽनपायित्वादात्मा नापैति कर्हिचित् २६ निश्र्यात्मकधीवत्तिर्विज्ञातिस्तद्विभासकम्॥ असंदिग्धं तया वत्त्या न विज्ञातुं लमर्हसि।।२७।। दृष्टश्रुतमतज्ञातेष्वित्थमात्मा न कश्न ॥I किं तर्हेष तवात्मेति प्रोक्तः सर्वातरःपुरा ॥ २८॥ यः सर्व विषयीकुर्वन्विषयीक्रियते न हि॥ किं तु भाति स्वयं सोऽयं सर्वातर इतीरितः ॥२९॥ सर्वातरत्वं सार्वात्म्यमन्यस्मिन्सति तत्कुतः ॥ न चेदन्यत्तदा सर्वशब्दार्थो नेति शंकिते॥३०॥ अतोऽन्यदार्तमित्याह दोषद्वयनिठृत्तये॥ आर्त मायामयं तस्य तत्त्वज्ञानेन पीडनात्॥ ३१॥ सर्पादीनां कल्पितानां रज्जुरात्मा यथा तथा॥ मायामयस्य सर्वस्य चिद्दस्त्वात्मेति सुस्थितम् ३२ Digitized by Google पंचमब्राह्मणे पूर्वमुक्तस्य प्रत्यगात्मनः ॥ ब्रह्मतसाधनं बोधो मुक्तलक्ष् च वर्ण्यते ॥३३॥ १ ॐ अथ हैनं कहोलः कौषीतकेय: पतरच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपराक्षाद्वह्म य आत्मा सर्वातरस्तं मे व्याच क्ष्वेत्येष त आत्मा सर्वातरः कतमो याज्ञवल्क्य सर्वांतरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं वैतमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्य चरति या हेव पुत्रैषणा सा वित्तैषणा या वित्तैषणा
Page 183
उषस्तष्टष्ठादन्यत्वं निवर्तयितुमात्मनः ॥ यदेव साक्षादित्युक्तादेवकारः प्रयुज्यते ॥३४॥ उपदेशस्य विषयस्त्वमर्थःशोधितः पुरा ॥ न ब्रह्मत्वं सम्यगुक्तमिति पच्छति तत्पुनः ॥३५॥ अशनायादिरहितब्रह्मताया अभाषणे ॥ न स्यात्सर्वीतरत्वादि संसारिणि चिदात्मनि ॥३६॥ इत्यभिप्रेत्य तेनोक्तं साक्षादित्यादिकं पुनः॥ अनूद सर्वे पत्रच्छ कहोलो ब्रह्मरूपताम्॥३७॥ त्वमर्थाच्छोधितान्नान्यद्वह्मेत्येतद्विवक्षया ॥ उक्तमेवोत्तरं भूय एष इत्याद्यवोचत॥ ३८॥ क्षुत्पिपासे शोकमोहौ चरामृत्यू इतीदशैः ॥ त्रििर्युग्मैर्विशिष्ठानां मध्येऽसौ कतमो वद॥३९॥ यद्यन्यतम एतेषां तस्यन ब्रह्मता तदा। एतेष्वनंतर्भूतस्तु नकोऽप्यात्मा जनैर्मैतः॥४० ॥ विद्ज्जनानुभूत्यैष क्षुधादेरवभासकः ॥ प्रसिद्ध इत्यभिप्रेत्य ब्रह्मत्वेन तमुक्तवान् ॥४१॥ अत्येति योऽशनायादीन्विचारेण निरूपणे। क्षुधादिसाक्षी तस्यास्य ब्रह्मत्वं केन वार्यते॥४२॥ नन्वेक आत्मा मूढानां विदुषां चेति ते मतम्॥ उक्तोर्मिषट्ठातीतत्वं तद्दत्त्वं चास्य तत्कथम्॥४३॥ Digitized by Google अविचारविचाराभ्यां यथा सर्पत्वरज्जुते॥ तथात्मन्यपि संसारभावाभावावितीक्षताम्॥४४॥ सा लोकैषणाभे होते एपणे एव भवतस्तस्माद्रह्मणः पांडित्यं निर्विद्य बाल्ये न तिष्ठासेद्वाल्यं च पांडित्यं च निर्विदयाथ मुनिरमौनं 0 च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्ादेन स्यात्तेनेदश एवातोऽन्यदार्च।
Page 184
अ०प्र० क्षुत्पिपासे प्राणधर्मो शोकमोहौ तु मानसौ ॥ जरामृत्यू देहधर्मावात्मधर्मो न कश्चन॥४५॥ अ० ।।८५। प्राणसंचारबाहुल्याद्गमनादिश्रमे सति ॥ क्षुत्पिपासाजनिस्तेन प्राणधर्मलमेतयोः ॥४६॥ इट्टस्य वस्तुनोऽसिदौ चेतसो याऽनवस्थितिः॥ स शोको मनसो धर्मो मोहश् विषयघ्मः॥४७॥ जरा देहस्य शैथिल्यं मृत्यु: प्राणवियुक्तता।ते सर्वेSप्यात्मनि भ्रांत्या कल्पिता व्योम्न नैल्यवत् ४८ यः स्वकारणसंसर्गः क्षुधादेः प्रलये मतः॥ अनात्यंतिकरूपलात्सोऽत्ययोऽत्र न गृहयते ॥४९॥ तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः ॥ तमत्ययं मोक्षविधौ तद्िद्वांसः प्रचक्षते ॥५०॥ प्राणहेतुस्तम: प्राणधर्माभ्यामुपलक्ष्यते। सूत्रात्मा शोकमोहाभ्यां ज़रया मृत्युना विराट्॥५१॥ तमः सूत्रं विराजं च योऽत्येत्यात्मा स्वभावतः॥।असंगस्तत्परं ब्रह्म साक्षादित्यादिलक्षणम्॥५२॥ यथा विशुद्धमाकाशं सति वाऽसति वा मले॥ नीहारादौ तथैवात्मा कार्यकारणवस्तुनि॥ ५३॥ परमात्मस्वभावोऽयं कहोलाय प्रपंचितः ॥ तद्वोधसाधनं त्याग एतमित्यादिनोच्यते ॥५४॥ Digitized by Google उत्पन्नसम्यगज्ञानस्य संन्यासो लक्षणं यतः।साधनं च तदुत्पत्तौसंन्यासोऽतोऽत्र गम्यताम्॥५५॥ ब्रह्मात्मनोर्यदेकत्वं ब्राह्मणद्वयनिश्ितम्॥ एतं तमिति शब्दाभ्यां तदैकात्म्यमनूदते ॥५६॥ अत्येति योऽशनायादीनेतं सर्वातरं पुरा॥ उदितं तं विदित्वाऽथ व्युत्तिष्ठत्येषणत्रयात् ॥५७॥
Page 185
ब्रह्मप्रश्नेन पृष्टे ते तद्वोधफलसाधने ॥ इति मलोत्तरत्वेन व्युत्थानद्दयसुच्यते ॥ ५८॥ पूर्व विदिला प्रश्नातु व्युत्थायेत्यन्वयाछतात्॥विद्वत्संन्यास आभाति ब्रह्मविद्याफलात्मकः॥।५९॥ व्युत्थायाथ विदित्वेति व्यत्ययेनार्थिकान्वयात्।सिद्धो विविदिषात्यागः स्पष्टः श्रुत्यंतरेष्वसौ६ स्वात्मलोकं समिच्छंत: प्रव्रजंतीति वक्ष्यति॥ त्यागेनैकेSमृतत्वं तु प्राप्ता इत्यपरा श्रुतिः॥६१॥ ब्राह्मणग्रहणं श्रुला विप्राणामेव भाष्यकृत्॥ संन्यासेऽधिकृति प्राह चतुर्थाश्रमरूप्यसौ ॥६२॥ विद्यांगं तत्फलात्मानं गारगीविदुरयोरपि॥स्त्रीशूद्रयोर्भाष्यकारः संन्यासमतुमन्यते ॥६३॥ पुत्रैषणेति पुत्रार्थ दारस्वीकारवांछनम्॥ कर्मणां साधने वित्ते तृष्णा वित्तैषणा मता॥६४॥ लोकेषणेति देवादिलोकार्थोपासना श्रुता॥ न कश्िविदन्यः संसार उक्तादस्त्येषणात्रयात्।६५। मनुष्यलोक: पुत्रेण पितृलोकस्तु कर्मणा ॥ विद्यया देवलोकश्रेत्यव्रवीत्संग्रहश्रुतिः॥६६॥ न्याय्यां वृत्तिं समुल्लंघ्य तद्रिरुद्तया स्थितिः॥व्युत्थानमुदितं राजः सामंतो व्युत्थितो यथा ६७ Digitized by Google भिक्षया लक्ष्यते चर्या परिग्रह विवर्जिता॥ कि भोग्यं परिगृण्हीयात्सर्वभोग्येषु दोषकृत् ॥६८।। लोकत्रयार्थैषणाभ्यो व्युत्थानं चापरिग्रहः ॥द्यं बोधमहिम्नैव विदुषां न तु यत्नतः ॥६९॥ आनंदैकस्वभावं स्वमात्मानं पश्यतः कुतः॥कामः परिग्रहो वा स्यादो काम इति वक्ष्यति॥७।
Page 186
अ०प्र० एषणात्रय एतस्मिन्समाना बंधहेतुता॥ इति मत्वैकता तासां त्याज्यैवेत्यब्रवीच्छृतिः ॥७१॥ ।८ ६ । कर्मण्येवाधिकारस्ते माफलेष्विति शास्त्रतः।। एषणाल्वात्फलं त्याज्यं न तु कर्मादिसाधनम्॥७२॥ अ० इति भ्रमं व्युदसितुं प्राब्रवीत्साध्यसाधने॥ उभे अप्येषणे एवेत्यतस्त्यागस्तयोईयोः॥७३॥ ।।१७।। अविशुद्धधियः कर्मण्यधिकारेऽपि शुद्धधीः॥सत्यां विविदिषोत्पत्तौ तदर्थ कर्म संत्यजेत्॥७४॥ तस्माद्रह्मविदः पूर्वे फलसन्यासमापुवन्॥ तस्माद्विविविषुः कुर्यात्पांडित्यं फलसिद्धये॥७॥ पांडित्यबाल्यमौनानि श्रवणादीनि तैरयम्॥ भवति ब्राह्मणस्तत्र ब्राह्मण्यं ब्रह्मरूपता॥ ७६॥ पंडेति बुद्देर्नामैतत्सा जाता यस्य नामतः॥ स पंडितस्तस्य कर्म पांडित्यं श्रवणं तुतत् ॥७७॥ आचार्याच्चागमाछूला निःशेषं वेदनं ततः॥ बालभावे न तिष्ठासेत्युक्का मननतत्परः ॥ ७८॥ श्रवणं शास्त्रतात्पर्य निश्र्चयो मननं पुनः॥ अर्थासंभावनोच्छित्येत्युक्तीनामनुचिंतनम्॥७९॥ पांडित्येन विदिताऽथ छित्वा बाल्येन संशयम्॥ मुनिर्ध्यानसमाधिभ्यां भवेद्ीवत्तिशांतये॥८॥ Digitized by Google प्रशांतवृत्तिके चित्ते परमानंददीपके । कृतकृत्यो ब्रह्मभावं गतो ब्राह्मण उच्यते ॥८१॥ केनेति लक्षणप्रश्नो येनेटक्तेन लक्ष्यताम्॥ इत्युत्तरवचो योज्यं तस्यार्थः प्रविविच्यते॥८२॥ ।। ८६ ।l १ स ब्राह्मणः केन स्पाधेन स्पाचेनेदश एवातोऽन्यदार्त ततो ह कहोल: कौषीतक उपरराम।
Page 187
गीतायां कुत्रचित्प्रोक्तं स्थितप्रज्ञस्य लक्षणम्॥ अन्यत्र विष्णुभक्तस्य गुणातीतस्य च क्वचित्८३ येन चिन्हेन तत्रायमीदगेव निरेषणः ॥ उपलक्षयितुं शक्यस्तदेवास्त्यस्य लक्षणम्॥८४।। ब्रह्म याटक्तादगेव भवेद्िद्वान्विबोधतः ॥ बोधोऽतो लक्षणं तस्य बोधश्र् स्वात्मसाक्षिकः ॥८५॥। अतोऽन्यदार्तमित्येष व्यतिरेकस्त्रिधोच्यते॥ प्रतीचो ब्रह्मतेहोक्ता भेद आर्तस्ततस्तयोः ॥ ८६॥ निरेषणलं विद्याया हेतुरार्ता इहैषणाः ॥ विदुषो लक्षणं बोध आतै तल्लक्षणांतरम् ॥८७॥ षष्ठेऽस्मिन्ब्राह्मणे ब्रह्मकार्य सर्व विविच्यते॥ सर्वातरलं सुज्ञेयं ब्रह्मणः सर्वनिर्णयात् ॥८८॥ यद्यत्कार्य कारणेन व्याप्तमंतर्बहिश् तत् ॥ इति तर्केण पप्रच्छ कारणस्य परंपराम्॥८९॥ पार्थिवं कठिनं सर्वमोतं प्रोतं द्रवे जले॥ दधिपिंड इव क्षीरे जलं कुत्र तथा स्थितम् ॥ ९०॥ दीर्घतंतुवदोतत्वं तिर्यक्तंतोरिवेतरत्॥ यद्ांऽतर्व्याप्तिरोतत्वं प्रोतत्वं तु बहिः स्थितिः॥९१॥ Digitized by GOogle १ ॐ अथैनं गार्गी वाचक्वी पप्रच्छ याज्ञवल्क्येति होवाच यदिद सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्र प्रोताश्चेति वायौ गार्गीति कस्मिन्ु खलु वायुरोतश्च प्रोतश्चेत्यंतरिक्षलोकेषु गार्गीति एवं सर्वेषु पर्यायेषु योज्यं गंधर्वलोकेषु आदित्यलोकेषु चंद्रलोकेषु नक्षत्रलोकेषु देवलोकेषु इंद्रलोकेषु ब्रह्मलोकेषु स होवाच गार्गीति मातिपाक्षीरमा ते मूर्धा व्यप- सत् ततो गार्गी उपरराम।
Page 188
अ०प्र० जलस्य कारणं तेजस्तेजसो वायुराश्रयः॥ श्रुत्यंतरादिदं ज्ञेयं वायोस्तु वियदाश्रयः ॥ ९२॥ अ० भूम्यादिवियदंतानां भूनानामुत्तरोत्तरम्॥ सूक्ष्मताव्यापिते दृष्टे ताभ्यां कारणतेक्ष्यताम्॥९३॥ ।।१७। पंचभूतेभ्य उत्पन्ना अस्मद्देहादयोडखिलाः॥ब्रह्मांडांता इमे देहा भोग्यलाल्लोकसंज्ञकाः। ९४॥ यथैकस्मादिक्षुरसादुत्तरोत्तरपाकतः ॥ गुडादीनि बहूनि स्युर्भूतेभ्योंऽडादयस्तथा ॥९५॥ नरगंधर्वनार्तडचंद्रनक्षत्रदेवताः ॥ इंद्रो विराट् तदंडं चेत्येता भृतदशाः स्मताः ॥ ९६॥ तत्र देहारंभदशास्तत्तन्नाम्त्ा समीरिताः॥ स्थूलसूक्ष्मदशास्तासु कार्यकारणता क्रमात् ॥९७॥ पंचीकृतानां भूतानां सूक्ष्मतांऽडे समाप्यते ॥ एतावदेव तर्केण गम्यं न तुततः परम्॥९८॥ अंडारंअकभूतानामपंचीकृतभूतजम् । सूत्रं कारणमित्येतदागमेनैव गम्यते ॥ ९९ ॥ अचिंत्या: खलु ये भावा न तांस्तर्केण योजयेत्॥ सूत्रांतर्याम्यक्षराणि तार्किका नानुमन्वते २०० तर्काभासो भवेत्तेषु हेतुदृष्टांतवर्जनात्॥ अन्यथा प्रतिपत्याऽतो मूर्धपातं सुनिर्जगौ ॥ २०१॥ Digitized by Google सप्तमब्राह्मणे तर्क्य संत्यज्यागमभागतः ॥ ब्रह्मांडकारणं सूत्रमंतर्यामी च वर्ण्यते ॥ २ ॥ सूत्रांतर्यामिणौ ज्ञातौ गंधर्वस्योपदेशतः ॥। त्कन्नेति विवक्षिला कथं भुज्युवदुक्तवान्॥३॥ १ ॐ अय हैनमुद्दालक आरुणिः पमच्छ याज्ञवल्क्येति होवाच।
Page 189
सूत्रबद्धं दारुयंत्रं पुरुषो नर्तयेद्यथा ।। सूत्रबद्धं जगत्तद्वदतर्यामी नियच्छति॥४॥ सूत्रांतर्यामिणौ सर्वजगत्यनुगतावतः ॥ तौ विद्वानखिलं वेत्तीत्यतो ज्ञातव्यता तयोः ॥५॥ समष्टिव्यष्टिरूपेण भुज्युं प्रति य ईरितः ॥ स एव वायुः सूत्रात्मा तेन सर्व जगदृतम् ॥६॥ ब्रह्मादिस्तंबपर्यतं प्राणिकर्म पुरा कृतम् ॥ बाह्यात्मना परिणतं वर्तते कारणात्मनि॥७॥ मूर्तामूर्तब्राह्मणोक्तवासना एतमाश्रिताः ॥ तदात्मकमिदं लिंगं यत्सप्तदशमुच्यते॥८॥ विष्टब्धो वायुना देह इत्येतन्मरणे सति॥ आवयोर्वपुषः कर्मायोग्यतादवसीयताम्॥९॥ अपंचीकृतभूतानां कार्य सूत्रमुदाहृतम् ।। अंडारंभकभूतानि प्रोतान्योतानि चात्र हि॥ १० ॥ सूत्रादप्यांतरं तत्त्वमंतर्याम्याख्यसुच्यते ।। कार्यकारणभावोऽयमस्मिन्नुक्ते समाप्यते ॥११॥ भूमिष्ठोऽभ-यंतरो भूमेर्भूम्यज्ञातश्र भूवपुः॥नियच्छति भुवं योऽतः स आत्माऽन्यस्य तेऽपि मे१२ Digitized by Google * १ याज्वल्क्यांतर्यामिणं ब्रूहीति यः पृथिव्यां तिष्ठन् पृथिव्या अंतरो यं पृथिवी न वेद यस्प पृथिवी शरीरं यः पृथिवीमंतरो यमयत्येष आत्मांतर्याम्यमृतः २ योऽपसु तिष्ठन्नद्ग्योंतरो यमापो न विदुर्यस्यापः शरीरं योऽपांमंतरो यमयत्येष आत्मातर्याम्यमृतः ३ योग्रौ ४ योंऽतरिक्षे ५ यो वायौ ६ यो दिवि ७ य आदित्ये ८ यो दिक्षु ९ यश्चंद्रतारके १० य आकाशे ११ यस्तमसि १२ यस्तेजसि १३ यः सर्वेषु भूतेषु १४ इत्यधिभूतं ॥ अथाध्यात्मं ।I यः पाणे तिष्ठन् १५ यो वाचि १६ यश्चभ्ुषि १७ यःश्रोत्रे १८ यो मनसि १९. यस्त्वचि २० यो विज्ञाने २१ यो रेतसि ॥
Page 190
EBE888 अ०प्र० लोकं धत्ते स्वयं भूमि: स्वांतर्यामी स्वयं ततः॥ इति स्वभाववादोंऽयं भूमिष्ठत्वेन वार्यते॥१३॥ अंतरत्वेन भूमिष्ठपर्वतादि निवर्त्यते ॥ भूदेवतानिवत्तिः स्यादं न जानाति भूरिति॥१४॥ अ०
नांतर्यामिविदेहत्वे साधनानामसंभवात् ॥ देहिता तु न दृष्टेति न दोषो भूवपुष्वतः॥१५। ।। १७॥
भूदेवताया यो देहो देहोंऽतर्यामिणोऽपि सः॥ देवस्य कर्मणेशस्य मायया चार्जितो यतः ॥१६॥ न चैकदेहयोगेऽपि यंतृयंतव्यसंकरः ॥ बहिष्ठां देवतां भूमिमंतस्थेशो नियच्छति॥१७॥ कार्योपाधिर्बहिष्ठः स्यात्कारणोपाधिरांतरः॥ उपाधिमात्रतो भेदो वस्तुतस्तु न भिद्यते ॥१८॥ अतस्ते मेSखिलस्यापि सोंऽतर्याम्यात्मतां गतः॥ अमृतलान्न जीवलमात्मत्वेऽप्यस्य शंक्यते१९ सार्वात्म्यं वक्तुमस्यैष बहूपाधिषु वर््णतः। सर्वात्मा शक्तियुक्तो यः सोंऽतर्यामीति गम्यताम् २० Digitized by Googl प्रत्यक् ध्वांतं चिदाभासं स्वकार्यनियमात्मकम्॥ तदुपाधिर्नियंतैष परः प्रोक्तो न तु स्वतः॥।२१॥ सर्वज्ञः सर्वशक्तिश्र सर्वात्मा सर्वगो ध्रुवः ॥ जगज्जन्मस्थितिध्वंसहेतुरेष महेश्वरः॥ २२॥ नारायणाभिधो मंत्र एतस्यैवाभिधायकः ॥ पंचाक्षरेण मंत्रेण शिव इत्येष गीयते ॥२३॥ lleell हिरण्यगर्भ हैरण्यगर्भीया एवमूचिरे ॥ व्यासस्तत्तत्पुराणेषु तत्तद्रूपतयोचिवान्॥ २४॥
Page 191
भूम्यादिदेवताः कस्मान्न स्वांतर्यामिणं विद्ुः ॥ अदृष्टोऽश्रुत इत्याह कारणं तदवेदने ॥२५॥ दृष्टिश्रुतिमतिज्ञातिविषयत्वं चिदात्मनः ॥ उषस्तब्राह्मणे पूर्व युक्त्या सम्यङ्गिवारितम् ॥२६॥ मा गोचरातिवर्तिलान्मातमानादिसाक्षिणः॥ द्रष्टुरन्यस्य चाभावान्न तं पशयंति देवताः॥२७॥ अदृष्टताश्रुतलादि प्रत्यग्ध्वांतेऽपि संभवेत्॥ तन्निवृत्त्यै श्रुतिर्द्रष्टा श्रोता मंतेत्यभाषत ॥२८॥ द्रष्ट्ृलश्रोतृताद्यस्य दृष्टिश्रुत्यादिसाक्षिता ॥ अलुप्तचित्स्वभावलान्न विकारो मनागपि।२९॥ लोकसिद्धा नियम्यस्य जीवस्य द्रष्टता तथा॥ अंतर्याम्यिपि चेद्रष्ठा देहे भासेत दद्दयम्॥ ३०॥ इति शंकानिवृत्त्यर्थ नान्योऽतोऽस्तीति भण्यते॥ लोके जीवतया मूढैरंतर्याम्यिव भाव्यते॥३१॥ साधारणो यथा सूर्यो मां प्रत्येवेति पामरैः॥ असाधारणरूपेण भाव्यते जीवता तथा ॥३२ ॥ बुद्धिस्थः पर एवात्मा जीवात्मेति निगद्यते॥ बुध्यागमापायसाक्षी नियंतेत्युच्यते परः॥३३॥ Digitized by Google सूत्रांतर्यामिणौ शास्त्रगम्यलेन प्रतिष्ठितौ ॥I अप्रतिष्ठिततर्केण गम्यमार्त्तमतोऽपरम्॥३४॥ अष्टमब्राह्मणे ब्रह्मतत्त्वं सम्यङ्गिरूपितम् ॥ सूत्रमंतर्यामिता च यत्रोतप्रोततां व्रजेत् ॥३५॥ १ एष त आत्मांतर्याम्यमृ तोऽदृष्टोऽद्रष्टाऽश्रुतः श्रोताSमती मन्ताऽविज्ञातो विज्ञाता नान्योतोऽस्ति द्रष्टा नान्योतोड स्ति श्राता नान्योतोऽस्ति मंता नान्योतोऽस्ति विज्ञातैष त आत्मांतर्याम्यमृतोऽतोऽन्यदार्त ततोद्दालक आरुणिरुपरराम।
Page 192
अ०प्र० पूर्वत्र गौतमोSट्टच्छत्सूत्रांतर्यामिवस्तुनी॥ ओतप्रोतात्मतां गार्गी तयोरेवात्र एच्छति॥३६ ॥ अ० अंडोर्ध्वाऽधोमध्यदेशान्कालं च व्याप्य तिष्ठति॥ सूत्रमित्याहुराचार्या ओतं प्रोतं च कुत्रचित्३७ अंडारंभकभूतानां न पष्टा सूत्र ओतता । सूत्रेण विधृतं पूर्वमिति पूर्वत्र निर्णयात्॥३८॥ तार्किकलनिवृत्त्यर्थमाचार्योक्तिमुदाहरत्॥ निःशेषदेशकालोत्तया सूत्रे सर्वात्मतोदिता॥३९॥ व्यक्तं सर्वे सूत्ररूपमव्यक्ते व्योमसंज्ञके ॥ ओतप्रोतं च विद्वीति प्राह एष्ठमनूद्य सः॥४०॥ देशकालौ च सूत्रेंऽतर्भूतौ देशात्मकं ततः ॥ वियन्नाकाशमत्रेति सूचनायानुवादगीः॥४१॥ बोछुं बोधयितुं चैतदव्यक्तं दुःशकं लिति॥ विस्मितः प्रणनामासौ तमव्याकृतवादिनम्॥४२॥ भूयोऽपि एृष्ठमप्राक्षीत्प्रधानादिषु शंकया। प्रधानादीन् जगद्वेतून्वादिन: स्थापयंति हि ॥४३॥ सावधारणमाकाश एवेत्यन्यनिटत्तये ।। आहोत्तरं मूर्धपातं सूचयंस्तर्कनिर्णये ॥ ४४॥ Digitized by Google यद्दा तंतुष्विव पटः सूत्रं बहुषु संस्थितम् । इत्याशंक्य पुनः प्रश्न एवकारो बहुतनुत्॥४५॥ कस्मिन्खल्वयमाकाश ओतः प्रोतश्र्व ईर्यताम्॥ अनोतत्वे स्वतंत्रलात्प्रधानत्वं प्रसज्जते ॥४६॥ सूक्ष्मलादुर्वचः सूत्रं व्योमसूक्ष्मतरं ततः॥ व्योमाश्रयः सूक्ष्मतमो नवाग्गोचरमेत्यतः ॥४७॥ वक्ति चेन्निग्रहस्थानमवाच्यस्योक्तितो भवेत॥अनुक्तौ वादिता हानिरिति गार्ग्या विवक्षितम४८
Page 193
उक्तदोषद्दयास्पृष्टं प्रत्युत्तरमभाषत ।I एतद्वा अंक्षरं गार्गि प्राहुस्तद्राह्मणा इति ॥४९॥ एतच्छब्देन तस्याह प्रत्यक्त्वात्साक्षितामसौ॥ प्रत्युक्तया तदेकात्म्यं स्वयमेव प्रतीयताम्॥५०॥ न व्याटत्तं विशेषेभ्यो नानुटत्तं च गोलवत्। अव्यावत्ताननुगतं चैतन्यं केन वीक्ष्यताम्॥५१॥ यस्मात्प्रसिद्धं नास्त्यन्यत्प्रसिद्धं यन्न कस्य चित्॥ स्वप्रभलादसंगलाद्दैशब्दस्तत्प्रसिद्दये ॥५२॥ साक्षादित्यादिना पूर्व योऽशनायादिना तथा॥ यत्नादभिहितः प्रत्यक्तच्छव्देन स ग््ह्यते॥५३॥ क्षराहविरुद्दधर्मलादक्षरं ब्रह्म भण्यते ॥। कार्यकारणरूपं तु नश्वरं क्षरसुच्यते ॥ ५४॥ ध्वस्तात्मा ज्ञानतत्कार्याः प्रत्यग्याथात्म्यबोधतः।। त्यक्तसर्वेषणा अत्र ब्राह्मणा इति कीर्तिता:५५ शास्त्रिकगम्यतासिध्यै वदतीत्यभिधीयते । ब्राह्मणास्तद्वदंतीति स्वापराधनिषेधगीः ॥५६॥ नावाच्यं वच्म्यहं किंतु वदंति गुरवोऽखिलाः॥इति वच्मि वचस्तेन वादिताऽपि न हीयते॥५७॥ गुरवोऽपि कथं प्राहुरवाच्यमिति चेच्छृणु॥ स्थूलादीनां निषेधेन लक्षयंत्यक्षरं बुधाः ॥५॥ Digitized by Google १ सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदत्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोवाय्वाकाशमसं- गम रसम गंध मचक्षुष्कम श्रोत्र मवागमनोतेजस्कमप्राणमसुखममात्रमनंतरमवाकं न तदश्नाति किचन तदश्ुति एवस् वा अक्षरस्य प्रशासने गार्गि सूर्याचंद्रमसौ विधृतौ तिष्ठतः।
Page 194
अ० अभावशेषो नाशंक्यो निषेधावधिशेषणात्॥ नाभावनिष्ठो लोकेऽपि निषेधः किसुताक्षरे॥५९॥ अंतर्यामिणि बुद्धेऽथ सुशकं बोडुमक्षरम् । प्रशासनेन लिंगेन सोंडतर्याम्यवबुध्यताम् ॥६०॥ अ० ॥९०॥ ईशितव्यार्थसंबंधादंतर्याम्येतमक्षरम् ॥ चैतन्याभासमोहाख्यवर्त्मनैव न तु स्वतः ॥ ६१ ॥ ।।9७11
एतस्य वा अक्षरस्य शासने सत्यदो जगत् । स्याद्यवस्थितमर्यादं सूर्यचंद्रादिलक्षणम्॥६२॥ विवादगोचरापन्ना यंत्रृपूर्वा जगत्स्थितिः ॥ व्यवस्थितलाल्लोकस्य राजपूर्वा स्थितिर्यथा॥६३॥ सूर्यचंद्रौ द्ुभूलोकौ कालो नद्यो यथायथम्॥ नियमेन प्रवतैते सा प्रवृत्तिर्व्यवस्थितिः ॥६४॥ धने दानेन नष्टेऽपि तत्फलप्रद ईश्वरः ॥ यतोऽस्ति तेन दातारं तं प्रशंसंति वैदिकाः ॥६५॥ नापूर्वफलदं तस्मिन्मानाभावात्फलं पुनः ॥ ईशादप्युपपन्नतान्नैवापूर्वस्य कल्पकम् ॥ ६६॥ सेव्याद्राज्ञ: फलप्राप्तिर्दश्यते न लपूर्वतः॥ दानादिक्रियया सेव्यादीशात्तद्त्फलं भवेत् ॥६७ Digitized by Google देवता यागकर्तारं पितरः श्राद्धकारिणम्॥ नापुयुर्व्यवहारेऽस्मिन्यदि न स्यात्प्रशासिता॥६८ १ दावापृथिन्यौ विधृतौ तिष्ठतः निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठंति। एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नदः स्पंदंते ददतो मनुष्याः पशंसंति यो वा तदक्षरं गार्ग्यविदित्वाSस्मिल्लोके जुद्दोति यजते तपस्तप्यते बहूनि वर्षसहस्त्रांण्यंतवदेवास्य तद्रवति।
Page 195
होमयागतपांस्यज्ञैर्बहुकृलः कृतान्यपि ॥ विनाशफलदानीति शासनं तत्प्रशासितुः॥६९॥ अज्ञानमात्रतो बंधो ज्ञानमात्रेण मुक्तता। इत्याश्र्वर्याणि सर्वाणि कल्पयंतीश्वरास्तिताम्॥७०॥ विवादशंकाSपीशेऽस्मिन्नसंभाव्येति दर्शयन्॥ प्रशासनं लिंगरूपं प्रपंचितमनेकशः ।७१॥ यदप्रबोधात्कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः ॥ तदक्षरं प्रबोद्दव्यं यथोक्तेश्वरवर्त्मना ॥७२॥ अक्षरस्य प्रशास्तृत्वं स्वमोहाासकल्पितम्॥न स्वाभाविकमित्येतहत्त्यदष्ठादिवाक्यतः।।७३॥ मा गोचरातिवर्तित्वाददृष्टं स्यात्तदक्षरम् । अभावत्वनिषेधार्थ द्रष्टक्षरमितीर्यते ॥७॥ कूटस्थदृक्त्वं दृष्टृत्वंन दृश्येद्दृष्टिकर्तता ॥ ओतप्रोतगिराऽशेषदृश्यवस्तुनिराकृतेः ॥ ७५॥ उक्तद्रष्ट्रतिरेकेण दृश्यं नास्ति यथा तथा॥ जीवद्रष्टृनिषेधार्थ नान्यदित्याद्युदीरणम् ॥७६॥ विजातीयसजातीयवस्त्वंतरनिषेधतः । कूटस्थमेकं चैतन्यं सिद्धं वस्त्वक्षरं परम् ॥७७॥ एतस्मिन्नक्षरे गार्गि स्रजि कृप्तफणींद्रवत्। ओतः प्रोतश्र निःशेष आकाशः कारणात्मक:।७८।। Digitized by Google १ यो वा एतदक्षरं गाग्यविदित्वाऽस्माल्लोकात्मैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्पैति स ब्राह्मणः तद्वा एतदक्षरं गाग्यदष्टं दृष्टमश्रुतश्रुतममतं मतमविज्ञातं विज्ञात नान्यदतोऽस्ति द्रष्ट नान्यदतोऽस्ति श्रोत नान्यदतऽस्ति मंतृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्रेति। 388
Page 196
अ०प्र० अक्षरं स्वात्मसंमोहात्कारणत्वं निगच्छति ॥ तथा कार्यत्वमप्येतन्निरवद्यं तदेकलम्॥ ७९॥ अ० सर्वस्याक्षरमात्रत्वात्कृतस्े ज्ञेयसमाप्तितः॥ न ज्ञेयं विद्यते किंचिन्नाप्यध्यस्तं तथा तमः ॥८० ॥ नवमब्राह्मणे देवनिर्णयस्तदुपासनम् ॥ अष्टधा पंचधा चौपनिषद्श्र्ोच्यते क्रमात् ॥८१॥ सूर्यचंद्रादयो देवाः शासितव्या उदीरिताः॥ तेषां विस्तार आनंत्यं संक्षेपस्त्वेकदेवता॥८२॥ त्रयश्रेत्यदिभिर्लक्ष्या बहुशब्दैरनंतता ।। सुषुप्तिप्रलयावस्थः कारणात्मैकदेवता ॥ ८३॥ नानात्वैकत्वरूपाभ्यां तिष्ठति प्राणदेवता । नियंतव्यनियंतृत्वसंबंधस्य प्रसिद्दये॥८४॥ पटथिव्येवेत्यादिवाक्यादष्टधोपासनेरिता ॥ किं देवेत्यादिवाक्येन पंचधोपासनं श्रुतम्॥८५॥ एतावदेव शाकल्यो वेत्ति मायामयं तु तत् ॥ याज्ञवल्क्यः स इत्यादिवस्त्वनूद्याथ एष्ठवान्॥८६॥ देवविस्तारसंक्षेपावष्टधा पंचधा च यत् । उपास्यमुक्तं तत्सर्व नेति नेतीत्यपोह्यते ॥८७॥ Digitized by Google इतिशब्देन निर्दिष्टे दृश्ये तस्मिन्नपोहिते॥ योऽवशिष्टः स आत्माऽस्य दृश्यस्यात्मवतो मतः।।८८।। आत्मात्मवत्वसंबंधो नान्यो दृग्टशययोरिति॥मलात्मश़ब्दो दृग्वस्तुन्यवाच्येऽपि प्रयुज्यते।८९॥ १ सा होवाच ब्राह्मणा भगवंतस्तदेव बहु मन्येध्वं तदस्मान्नमस्कारेण सुच्येध्वं न वै जातु युष्माकमिमं कश्रिद्वल्ौद्यं जेतेति ततो ह वाचक्रव्युपरराम।
Page 197
ननु ब्रह्माधिकारेऽस्मिन्कथमात्मेति वर्ण्यते ॥ नैष दोषोऽतिरेकेण नात्मनो ब्रह्मता यतः॥९०॥ ग्राह्यत्वं शीर्णता संगो बंधो भीतिश्र हिंसनम्।जाड्याज्डस्य धर्माः स्युर्न ते संत्यात्मवस्तुनि९१ कार्यधर्मानतीत्यैतांस्तद्वेतवज्ञाननिन्हुतेः॥ अपूर्वानपरः पूर्ण आत्मा स्वात्मन्यवस्थितः ॥९२॥ इति तत्त्वमनूद्यास्य सृष्टिसंहारहेतुताम् ॥ तथैवोपनिषद्वेद्यमसंगत्वं च पष्ठवान् ॥ ९३॥ आत्मा निरूह्य प्रत्यूह्य पुरुषान्योऽत्यवर्तत ॥ तमीपनिषदं ब्रूहि मूर्धपातं तु तेऽन्यथा॥९४॥ योऽनूदितो नेति नेति सच्चिन्मात्रो ह्यविक्रियः॥ उक्तौ पुरुषनिर्वाहप्रतिवाहौ तु मायिकौ।९५॥ सृष्टिरष्ठविधोपास्यरूपा निर्वाह उच्यते॥ प्रतिवाहस्तु संसारो दिग्देवद्वारतो हृद़ि॥ ९६॥ वस्तुळृत्तेन निःशेषकार्यकारणवर्जनम् ॥ तस्यातिक्रांतिरुद्विष्ठा स चोपनिषदि श्रुतः॥ ९७॥ कर्मकांडविरोधितान्नैवायं श्रूयते क्वचित्॥ ऐकात्म्यवस्तुविज्ञानं कर्मभिर्हि विरुध्यते॥९८॥ य औपनिषदस्तस्य विज्ञानानंदरूपता। दातता भोगमुत्तयोश्र वक्तव्येत्युत्तरा श्रुतिः ॥ ९९॥ Digitized by Google महाप्रलयसंपत्तौ जगतः पुनरुद्गवे ॥ कारणं एच्छते वृक्षसर्वसाधर्म्यपूर्वकम् ॥३००॥ वृक्ष: कांडरुहो बीजरुहश्र्ेति द्विधा तयोः॥समः कांडरुहेणैष रेतसो योऽभिजायते॥३०१॥ न पच्छ्यते Sतिस्पष्टलवात्तदवांतरकारणम् । किंतस्पष्टमशेषस्य एच्छ्यते मूलकारणम् ॥। २॥
Page 198
अ०प्र० अन्वयव्यतिरेकाक्यां बीजाख्यान्मूलकारणात्।दृष्टा वृक्षजनिस्तद्दत्कस्मान्मूलाज्गज्निः॥३॥ अ०
।९२ ॥ नित्यजातस्वभावत्वं न मंतव्यं यतोऽमृतः ॥ पुनः पुनर्जायते स्यात्कृतनाशादिरन्यथा॥४॥ को न्वेनं जनयेन्मर्त्यमित्युक्ता न विदुर्द्विजाःजित्वा तान्याज्ञवल्क्यस्तु गोसहस्रं गहीतवान्॥५॥ सुनिष्टष्ठं जगन्मूलं मुमुक्ष्वतुजिघृक्षया । आह विज्ञानमानंदं ब्रह्मेति श्रुतिरादरात् ॥६॥ विज्ञानमिति चैतन्यं न क्रिया नापि तत्फलमान कारकं न चाभावः क्रि्यादेःकिंतु भासकम्॥७॥ निर्धूताशेषदुःखौघहेतुत्वात्सुखमेव तत् ।। अथैष परमानंदो यो वै भूमेति शास्त्रतः ॥८।।
तदेवाविद्यया शत्त्या भोगमोक्षप्रदातृ हि। अनुगण्हातु तद्यो विद्यातीर्थमहेश्वरः ॥३१०॥ इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे आश्वलायनादिसुनिबोधाख्यो नाम Digitized by Google सप्तदशोऽध्यायः॥१७॥ = = षष्ठाध्याये याज्ञवल्क्यो जनकायोपदिष्ठवान्॥ उपासि्तिं तत्वविद्यां तु संग्रहाद्विस्तरादपि॥१॥ ध्यानादिहैव देवः सन्मृत्वा तद्देवताऽत्यये ।। प्रथमब्राह्मणे प्रोक्तं चतुष्पाद्रह्मचिंतनम्॥२॥ ।।९२॥
वागाद्या देवतास्तासामाधारस्तत्तदिंद्रियम्॥ अव्याकृतं च नामेति पादाश्र्त्वार ईरिताः॥ ३॥
Page 199
असमाप्ते: पुमर्थस्य न सुख्यमनुशासनम्॥ तद्दतां याज्ञवल्क्योऽतो नाग्रहीद्रुरुदक्षिणाम्॥४॥ द्वितीये ब्राह्मणे जाग्रत्स्वप्नसुप्तिमुखान्निजम्॥ आत्मानं शास्त्यतो राजा यथा विध्युपसन्नवान् ५ उक्तोपासनतः प्राप्यो देवभावः पुरोदितः॥ देवत्वान्मुच्यमानेन प्राप्यं पच्छत्यसौ मुनिः॥६॥ गंतव्यं तु न जानामीत्यविद्यां स्वात्मनि स्थिताम्॥ प्रकटीकुर्वतो राज्ञ इंधतत्वमुपादिशत्॥७॥ इंधतेऽहर्निशं यस्मादिंधनामा ततः पुमान् ॥ वीर्यवद्दक्षिणं चक्षुः श्रौतो वातिशयोऽत्र हि ॥८॥ परोक्षनामव्याजेन परमैश्वर्यवाचिनम् ॥ इंधशब्दं प्रयुंजान इंधस्याहेश्वरात्मताम् ॥९॥ दक्षिणाक्षिणि चैतन्यं पुरुषो वामचक्षुषि॥ चैतन्यं स्त्रीति भेदोडयं कल्पते सुखबुद्दये॥ १॥ उक्ता जाग्रदवस्थैवमिंद्रियव्यवहारकृत्॥ दंपत्योः संगमः स्वप्नो हार्दाकाशोऽथ भण्यते॥११॥ संभूयस्तुतिरत्रेति संस्तवो हृदये सुषिः ॥ अनिष्ठान्नरसो रक्तपिंडो यः सोऽन्नमेतयोः॥१२॥ हद्यंतः शतनाडीनां पुंजं प्रावरणं विदुः॥स्वप्नाज्जागरणप्राह्यै मार्गो नाड्यूर्ध्वगामिनी ॥१३॥ Digitized by Google यस्मादन्नरसः केशसहस्रांशेन संमितैः ॥ नाडीभेदैः स्वन्नद्टशयं याति सूक्ष्तरस्ततः॥१४॥ स्वप्नावस्था समाप्ताऽथ तस्य प्राचीति वाक्यतः ॥ सुषुप्तिरुच्यते तत्र युक्ता सर्वदिगात्मता॥१५॥ साश्रयैः करणै र्हीनो ग्रस्ताध्यात्माधिदैवतः॥ सुषुप्तावेक एवास्ते प्रज्ञानघननविग्रहः ॥१६॥
Page 200
अ०प्र० इंधतैजससौषुप्तैर्विराटसूत्रेश्वरा अपि॥ संलक्षिता अथैतेषां तत्वमात्मोपदिश्यते ॥१७॥ अ० ।९३॥ विराडिंधादिभिर्भेदैरभिन्नो योऽवभासते॥स एष नेंति नेत्यात्मा न कार्य नापि कारणम्॥८॥ तेनैव ज्ञात्म नाऽशेषं ध्वांतजं तत्तथा जगत्। जग्ध्वा नेत्यात्मना विद्वान्पूर्णदष्ट्याऽवशिष्यते १९ गंतव्यमुपदिश्यैवं प्राप्तोऽस्यभयमित्यृषिः॥ ऊचे बोधस्ततः प्राप्तःप्राप्स्यसीत्यन्यथा वदेत्२० ज्ञानेन सदृशीमन्यामपश्यन् गुरुदक्षिणाम्॥ अभयं त्वेति वचसा दक्षिणामाशिषं ददौ॥२१॥ उत्तमा दक्षिणैषाशीर्मध्यमा तु नमस्क्रिया ॥ स्वभूमिवपुषोर्दानं वित्तशाठ्यनिळृत्तये ॥२२॥ तृतीयब्राह्मणे स्वप्नसुषुत्त्योरतिविस्तृतिः ॥ क्रियतेऽतो हि दष्टांतौ परलोकविमोक्षयोः॥२३॥ देहादिव्यतिरिक्तत्वस्वप्रभत्वमसंगता ॥ स्वप्नप्रसंगतस्त्वेतत्रयं मंत्रः प्रपंच्यते ॥२४॥ अद्वैतत्वं दृध्यलोप आनंदैकस्वभावता ।। इदं त्रयं सुषुप्तस्य प्रसंगेनोपपद्यते ॥२५॥ Digitized by वरदानेन संवादमिच्छंतं तमशंकया॥। आदौ राजेष्ठमप्राक्षीत्प्रत्यग्ज्योतिर्वुभुत्सया ॥२६॥ red by Google १ स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्षो नहि शीर्यतेऽसंगो नहि सृज्यतेऽस्मितो न व्यधते न रिष्यत्यभयं वै जनक प्राप्तोसीति स होवाच याज्ञवल्क्यः।२ स होवाच जनको वैदेहोऽभयं त्वागच्छतादाज्ञवल्क्य यो नो भगवानभयं वेदयसे नमस्तेऽ ॥९३॥ स्त्विमे विदेहा अयमहमस्मि।
Page 201
देहेंद्रियादिसंघातः पुमान्किं ज्योतिरुच्यताम्। उपवेशनगत्यादि न युक्तं ज्योतिषा विना॥२७।। किं संघातगतं ज्योतिः किं वा संघातिरेकि तत्॥ अतिरिक्तत्वमादत्ते आदित्यादेरुदाहतेः ॥२८॥ रविसोमाग्निशब्दादिज्योतींष्युक्तानि जागरे॥निदर्शनतया ज्योतिस्तैः स्वनेऽप्यनुमीयताम्२९ स्वाप्नदेहव्यवहृतिर्भिन्नज्योतिःपुरःसरः ॥ व्यवहारत्वतो जाग्रव्यवहारो यथा तथा॥ ३०॥ सुप्तौ च पुनरुत्थानव्यवहारस्य कारणम्॥ अस्ति ज्योतिरिति ज्ञाला व्यवहारं स एष्टवान्॥३१॥ स्वप्रकाशस्वरूपत्वाद्यवहारो ह्यतिस्फुटः॥तथाऽप्यविद्यया छन्नः सोऽस्पष्ट इव वर्तते ॥ ३२॥ एतादृश्या अविद्याया विचारेण निठत्तये।। आत्मैव ज्योतिरस्येति प्राह स्वप्नावभासकम् ॥३३॥ भास्यं स्वप्नसुषुप्यादि यस्मिन्भानं प्रकल्पितम्॥ तद्गानं तत्स्वरूलादात्मशब्देन भण्यते॥३४॥ आत्मा विद्या तदुत्थं वा पराग्धीरवगाहते॥प्रत्यग्बुध्यावगाह्योऽत आत्माऽहं भामि केवलः॥।३५॥ आत्मैवेत्येवकारेण स्वप्नदृशयेष्वनात्मसु ॥ ज्योतिष्ट्रशंका व्याळत्ता वासनामयवस्तुषु॥ ३६॥ Digitized by Google अस्येति वासनारूपो दृश्यो देहादिरुच्यते॥ भास्यभासकसंबंधः षष्योक्तो वासनात्मनो:।३७॥ ज्योतिष्टूं भासकत्वं स्याच्चिदाभासमुखेन तत् । उपपन्नमसंगस्य भान्वादिवदतुग्रहात्॥३८॥ १ आत्मैवास्य ज्योतिर्भवतीसात्मनैवायं ज्योतिष्ठास्ते पल्यते कर्म कुरुते विपल्येति।
Page 202
अ०प्र० भान्वादय: प्रभाद्वारा चक्षुराद्यनुग्ह्यते ॥I तथैवात्मानुगण्हीते चिदाभासेन शेमुषी॥ ३९ ॥ अ० अविद्यान्वयवहुद्देश्र्विदाआासान्वयस्तथा ॥ अस्ति तद्यतिरेकेण बुद्देः परिणतिर्वथा॥४०॥ चिदाभासविहीनस्य चित्तस्य परिणामतः॥ न किंचिद्रासते वस्तु साभासा धीस्ततःसदा॥४१। साभासपरिणामेन दुःख्यस्मीत्यपि धीर्भवेत्॥ तथा साभासमज्ञानं न वेद्यीत्यनुभूयते॥४२॥ अन्यथात्मनि कौटस्थ्याहुद्दौ चैतन्यवर्जनात्॥ सर्वोऽपि व्यवहारः स्यादंधकारप्रवत्तवत्॥४३॥। चिदाभासानुग्रहोऽत्र ज्योतिष्टं भानुवन्मतम्॥ न तु रव्यादिवच्चक्षुर्ग्राह्यभास्वररूपता।४४॥ आदित्यादिरनात्माऽस्य सिध्यत्यक्षादिमानतः॥मात्रादिसिद्दिदस्यास्य स्वतः सिद्धेर्न मेयता४५ नाप्रमेयलमात्रेण शशशरृंगादितुल्यता ।। अनन्यानुभवेनास्य विशद स्फुरणं यतः॥। ४६॥ स्यात्स्वप्रव्यवहारोऽयमात्मना ज्योतिषा हशा॥ देहादिव्यतिरिक्तत्वमेवं सिद्धं चिदात्मन:।।४७। आत्मैवास्येति देहादेः स्वरूपत्वेन चिछता॥ चितो देहादिभेदोऽपि आान्वादिवदुदीरितः॥४८।। Digitized by Google पूर्वोत्तरविरुद्वार्थ मत्वा पप्रच्छ भूपतिः॥ बहवोऽर्थाः समीक्ष्यंते आत्माऽन्र कतमो वढ ॥ ४९॥ पिंडस्तावदि हैकोऽर्थो द्वितीयो लिंगसंज्ञितः॥ चिद्विंबताऽवधिश्र्ान्यश्रतुर्थो नेति नेति यः॥५०॥ १ बुद्धि:।
Page 203
देहादिभेदमाश्रित्य योऽयमित्युत्तरं जगौ॥ अधिष्ठानारोप्यभाव आत्माऽस्येति विवक्षितः५१॥ विचारटध्याऽधिष्ठानमेवास्याध्यस्तवस्तुनः।तथापि जाड्यचैतन्यभेदोऽप्यस्तीह लौकिकः॥५२॥ एवं सत्यविबोधस्याद्वेदाभेदार्थवाक्ययोः ॥ योऽयमित्युत्तरे शब्दद्वयमेवं विविच्यताम्॥ ५३॥ यः पष्ठः स्वपराग्वत्तिप्रमा मेयातिलंघितः ॥ प्रत्यङ्मुखेन मानेन लयमित्युपदिश्यते ॥५४॥ परांचीति च मंत्रोक्तिः साक्षादात्मेति च श्रुतिः॥ पराङ्ात्रप्रमेयलमात्मनो विन्यवारयत् ॥५५॥ कुंभाकारेण कुंभार्थो यथा प्रत्यक्ष ईक्ष्यते ॥ ध्याकारेण तथा प्रत्यङ्गात्माकारेण ग्ृह्यते ॥५६॥ अयमित्यभिधायोग्यो लोके देहोऽपि वीक्ष्यते॥विज्ञानमय इत्युत्त्या स्थूलदेहो निवर्त्यते॥५७॥ विज्ञायतेऽनेन सर्वमिति विज्ञानशब्दतः ॥ धीरुक्ता तन्मयतवं तु तत्प्राचुर्य विवक्षितम्॥५८॥ आचख्युर्मयटं केचिद्विकारार्थे न तच्छृतम्॥ अनिर्मोक्षो विकारर्थे प्रायोरऽर्थस्तूपपद्यते॥५९॥ Digitized by Google बुद्धिविज्ञानसंप्टक्तश्रंद्रसंसक्तराहुवत् ।। प्रमीयते ततः प्रत्यग्विज्ञानमय उच्यते ॥६० ॥ द्रष्टृताद्यभिसंबंध: कारकस्यापि सर्वदा ॥ धीविज्ञानकृतोऽतोऽपि विज्ञानमय उच्यते॥६१॥ सर्वार्थकरणं बुद्धिद्वारमात्रं ततोऽपरम् ॥ धीर्विज्ञानमयस्तस्माञ्चिदाभासैकवर्त्मना ॥६२॥ 1A SH १ कतम आत्मेति योयं विज्ञानमयः प्राणेषु हृयंतज्योतिः पुरुषः
Page 204
अ०प्र० प्राणबुध्यविनाभूता इति प्राणमयोऽप्यतः॥ प्राणात्मवादः संप्राप्तः प्राणेष्विति निवार्यते॥।६३॥ अ० ॥९५॥ दशेंद्रियाणि मरुतः पंच च प्राणशब्दिताः॥प्राणेषु योऽर्थोऽनुगतःस आत्मेत्यवधार्यताम्।६४।। धीरेवात्मेत्यपाकर्तु हृदीति श्रुतिरभ्यधात्।।स्वार्थबुद्दौ य आभाति स आत्मा बुद्दिळत्तिदक् ॥६५॥ हदीत्याधारनिर्देशाद्ीस्थवत्तिषु चात्मता ।I प्रसक्ता तन्निवृत्त्यर्थमंतरित्युपदिश्यते ॥६६॥ परागर्थानुसारिण्यो यतो धीटत्तयस्ततः ॥ प्रत्यक्त्ववाचकेनांतःशब्देनैता निवर्तिताः॥६७॥ जाड्यमात्मन इच्छंति कणभुङ्मतजीविनः ॥ तेषां विप्रतिषेधार्थ ज्योतिरित्यभिधीयते॥६८॥ जडबुध्याद्युपादानं तमस्तस्यावभासकम्॥ सकृद्विभातं चिन्मान्रं ज्योतिरात्मेति भण्यते॥६९॥ अचेतनोऽपि बुध्यादिश्र्वेतनावानिवेक्ष्यते॥।यस्य सन्निधितस्तस्य चिज्जोतिष्टमिति स्फुटम्॥७॥ आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः॥ परीक्षणाय प्रक्षिप्तः कुर्यादात्मा तथैव हि॥७१॥ ज्योतिरात्मा चितिच्छायं प्रथमं कुरुते तमः ॥ तमोयोगेन धीस्तद्दद्दीयोगादिंद्रियं तथा॥७२॥ Digitized by Google अक्षयोगात्तथा देह एवमेतच्चिदात्मवत्॥ भासंते ते स्वतः पुंसां प्रत्यगात्मत्वविभ्रमः॥७३॥ तमेव भांतमात्मानमनुभात्यखिलं जगत् ॥ इति श्रुत्यंतरे स्पष्टमुक्तं ज्योतिष्ट्रमात्मनः॥७४॥ आत्मेत्येवं प्रबुद्धेऽस्मिन् ज्योतिषि ध्वांतनाशतः॥सर्वस्यैवात्मयाथात्म्यादात्मा पुरुष उच्यते ७५
Page 205
आत्माज्ञानसमुच्छित्तौ तज्जस्य न हि वस्तुनः॥प्रत्यय्ूपात्पथग्रूपं संभाव्यं केनचित्क्कचित्॥७६॥ पूर्णलात्पुरुषः सोऽयं ज्योतिरात्मेति भण्यते॥ पूर्णस्य लोकसंचारःकथं स्यादिति भण्यताम ७७ यः पूर्णः स समानः सन् बुध्यालोकावुभावपि । संप्राप्तप्रतिपत्तव्यावतुसंचरति क्रमात्॥७८॥ किं पुनः स्यात्समानलमात्मबुध्योस्तदुच्यते॥ विवेकानुपलंभेन तादात्म्यं रज्जुसर्पवत्॥ ७९॥ सम एव धियालोकौ संचरत्येष न स्वतः ॥ अतः संसारमिथ्यालं ध्यायतीवेति वर्ण्यते ॥ ८०॥ ध्यायंत्यां ध्यायतीवात्मा चलंत्यां चलतीव च।। बुद्दिस्थे ध्यानचलने कल्पेते बुद्दिसाक्षिणि॥८१। आलोके व्यंजके यद्वदभिव्यंग्यघटाकृतिः॥ आरोप्यते तथा बौद्धः संसारो बुद्धिसाक्षिणि॥८२॥ ध्यानादोनामवस्तुत्वे स हि स्वप्न इति श्रुतिः॥ हेतुमाह स आत्मायं स्वप्नो भवति धीवशात्८३ बुद्धिजागरणे यद्ज्ागर्मीत्यभिमन्यते॥ बुद्धिः स्वने तथा स्वप्नरूपतमभ्निमन्यते ॥८४॥ जाग्रद्रोगमिमं लोकं स्वप्नो भूातिवर्तते॥ वासनाराशिसाक्षित्वं स्वान्नं भोगं तदापुयात्॥८५।। Digitized by Google अविद्याकामकर्माख्यमृत्यो रूपाण्यतीत्य सः॥ जाग्रद्ेहेंद्रियादीनि तिष्ठति ज्योतिरात्मना।।८६।। तस्मात्स्वाभाविको नैव क्रि्कयाध्यानादिलक्षणः॥लोकद्यानुसंचारः किंत्वैपाधिक इष्यताम् ८७ १ स समान: सन्ुभी लौकावनुर्सचरति ध्यायतीव लेलायतीव स हि खप्नो भूलेमं लोकमतिक्रामति मृसो रूपाणि।
Page 206
अ०प्र० जाग्रद्ेहादिकं मृत्यो रूपं स्वप्नेऽतिवर्तताम्॥ न जन्मांतरमित्येवमाशंक्योक्तं स वा इति ॥८८॥ युज्यते जायमानः सन्दुःखैरात्मैष ऐहिकैः॥ मृतो वियुज्यते भाविजन्मस्वप्नसमं ततः॥।८९। अ० । ९६ ॥ जन्मात्र नासतः स्त्ं किंतु देहेन संयुतिः ॥ प्रादुर्भावो जनेरर्थः सत एव स युज्यते ॥९०॥ मृति: प्राणवियोग: स्यान्नतुनाशः सतो मतः।।मृङ्प्राणत्याग इत्युक्त्यास्वयं नष्टः कर्थ त्यजेत्९ इमं लोकं परं चायं जाग्रत्स्वप्नप्रवाहवत्॥ सदा भजति तेनास्य सिद्दा देहादिभिन्नता॥९२॥ लोकायता: परं लोकं नेच्छंत्यन्ये तु मन्वते॥ त्रील्वोकान्स्वप्रसंयुक्तांस्ततस्तस्येति वैत्तय सौ ।।९३।। अयोगं परलोकस्य वारयत्येवकारतः ॥ संध्यत्वेन तृतीयत्वं स्वप्नलोकस्य वार्यते॥ ९४॥ भोगभावात्तृतीयत्वसुच्यते चेत्तथोच्यताम् ॥ वस्तुतोन तृतीयत्वं धर्माधर्मप्रसंगतः॥ ९५॥ देशयोरुअ्षयोः संधिर्न हि देशांतरं यथा ॥ लोकयोरुअयोः संधिस्तथा लोकांतरं न हि॥९६॥ इमं लोकमिव स्वप्े परलोकं स पश्यति॥ अतः प्रत्यक्षतोऽस्तित्वं परलोकस्य गम्यताम्॥९७॥ Digitized by Google १ स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमान: पाप्माभिसँसृज्यते स उत्क्रामन व्रियमाणः पाष्मनो विजहाति। । ९६ ॥
२ तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च संध्यं तृतीय सप्नस्थानं तस्िन्संध्ये स्थाने तिष्वनेते उभे स्थाने पश्यतीदं च परलोकं परलोकस्थानं च।
Page 207
अतीतजन्मटृत्तांतं बाल्ये प्रायेण पश्यति॥ ऐहिकं यौवनेंडते तु तपस्वी भावि वीक्ष्यते ॥९८॥ आक्रम्य यादग्देहादिभाविजन्मानि वीक्ष्यते॥ स्वप्नेऽपि तादृगाक्रम्य सुखदुःखानि पश्यति९९ बहुजन्मसु संचाराद्देहादिव्यतिरिक्तताम्॥ निरूप्याथ स्वप्रभत्वंस येत्रेति निरुप्यते॥१॥ स यदा वासनामस्य जाग्रल्लोकस्य सर्वशः ॥आदाय शेते विज्ञेया तस्य स्वप्रभता तदा॥१०१। स यत्र प्रस्वपीत्यत्र स्वयंज्योतिः पुमानिति॥ योऽजामस्येत्यादिना तु स्वापशब्दार्थ उच्यते २ न सुषुप्तिरिह स्वापः किंतु स्वप्नो विवक्षितः ॥ स जाग्रद्वासनाजन्यप्रपंचप्रतिभासकः ॥ ३॥ जाग्रह्लोकस्तु सर्वावानशेषमवतीत्यतः ॥ अवितृत्वं च सप्तान्नब्राह्मणे प्राक् प्रपंचितम्॥४॥ यद्वाध्यात्मादिभेदोऽयं सर्वोऽत्ास्तीति सर्ववान्॥ तस्य सर्वावतोऽशेषवासना स्वप्नसृष्टिकत् ५ आदाय वासनां स्थूले देहे हित्वाभिमंतृताम्॥ सूक्ष्मेऽभिमानं निर्माय पशयन्नेषोऽभिमन्यते॥६॥ हननंच विनिर्माणं जीवे कर्मवशादिति ॥ विवक्षुः स्मयमित्याह दैवं कर्मानुसार्यतः॥७॥ Digitized by Google स्वेन भासेति शब्दाभ्यां स्वकीया वासनोच्यते।।स्वरूपभूता चित्स्वेन ज्योतिषेति विवक्षिता।।८।। इत्थंभावे तृतीया स्याद्वासनाज्योतिषोस्ततः ॥ भास्यभासकरूपेण स्थितिः स्वन्न इतीर्यते ॥९॥ १ स यत्र मस्वपिसस्य लोकस्य सर्वावतो मात्रामादाय स्वयं विहृत्य स्वयं निर्माय।
Page 208
अ०प्र० अत्रान्यज्योतिषोडभावात्स्वयंज्योतिः पुमान्भवेत्॥ नज्योतिष्टंवासनाया भास्यत्वेन परिक्षयात्॥ अ० ।९७॥ आत्मबुद्धिमनश्र्वक्षुरालोकविषयैर्युते ॥ न जागरे स्वयं ज्योतिर्विवेक्तुं शक्यते नभिः ॥११॥ न सुघुप्तेऽपि तच्छक्यं आास्याभिव्य त्तयभावतः॥सवने तुभ्ास्यमस्त्येकं ततो ज्योतिर्विविच्यते१२ स्वन्ने जागरवदूष्टा मातृमानाद्यस्ततः ॥ दुर्विवेचलमाशंक्यं न तंत्रेति निषिध्यते ॥१३॥ रथाश्वादीनि वस्तूनि जाग्रत्कर्मक्षये सति॥ लीयंते वासनास्तेषां तिष्ठंति स्वप्नसिद्धये॥१४॥ लोकसिद्धसुपादानं निमित्तं वा न विद्यते॥ स्वप्ने तेन रथादीनां मिथ्यात्वं युज्यतेतराम्॥१५॥ असंगस्यापि संभाव्यमविद्याकामकर्मभिः ॥ स्रष्टृत्वमित्यभिप्रेत्य स हि कर्तेत्यवोचत॥ १६॥ ब्राह्मणोक्तार्थदार्ढ्यार्थ श्रुतिर्मत्रातुदाहरत्॥ स्वयंज्योतिष्टदेहादिभिन्नत्वे तेष्वतिस्फुटे॥ १७॥ आराममेवमायोत्थं स्वप्ननिर्माणलक्षणम् ॥I पश्यंति जंतवस्तस्य न तं पश्यति कश्षन ॥ १८॥ Digitized by Google चिकित्सकप्रसिध्यापि सुप्नो देहाद्विभिद्यते॥ द्रुतं नं बोधयेत्सुप्तमिति प्राहुश्िकित्सकाः॥१९॥ देहान्यतस्वप्रभत्वे असोद्वा स्वन्नमप्यमुम्॥ अपन्हुवानाश्षार्वाकास्तस्याहुर्जागरात्मताम्॥२०॥ १ न तत्र रथा न रथयोगा न पन्थानो भवंत्यथ रथान् रथयोगापन्थः मृजते न तत्रानंदा सुदः पमुदो भवंत्यथानंदान् मुदः प्रमुद: सृजते न तत्र वेशांताः पुष्करिण्यः संभवंत्यथ वेशांतान्युष्करिण्यः स्रवंत्यः सृजते सहि कर्ता ॥२ द्रुतं शीघ्रं।
Page 209
सदसत्स्वप्रपार्थक्यं प्रसिद्धं लोकशास्त्रयोः॥ अत्रायं पुरुषस्तेन स्वप्रभश्र्वेतनः एथक् ॥२१॥ मोदन्यासौ कर्मकार्यो दृष्टौ स्वप्नेऽपि चात्मनः॥ इत्याशंक्य से वा एष इति कर्म विविच्यते॥२२॥ कालुष्यं जागरे जीवे स्वप्ने स्वल्पप्रसन्नता॥ सम्यक् प्रसीदत्यत्रेति संप्रसाद: सुषुप्तकम् ॥२३। स्वप्ने रत्वा चरिलाऽथ विश्रांतः संप्रसादके॥ पुनरायात्यसौ नाडीं स्वप्ार्थमिति योजना ॥२४।। दष्ट्वैवेत्येवशब्देन न कृत्वेति विवक्षितम् ॥ न कर्म कुरुते स्वन कारकाणामसंभवात् ॥२५॥ जागरात्स्वप्रमाप्नोति स्वप्नात्सुप्तिमिति क्रमात्॥वैपरीत्यं प्रतिन्यायं प्रतिमार्ग इतीर्यते॥२६॥ प्रतियोनि यथा स्थानं स्वप्ननाड्यादि भण्यते॥प्रतिमार्गमवाप्याथ स्वप्नाय स्थानमाव्रजेत॥२७।। अनन्वागमने हेतुरसंगत्वं हि शब्दतः ॥ सूच्यते बाधकस्तर्कःप्रसिद्धिर्वाऽत्र लौकिकी ॥२८॥ यद्वा नन्वागतत्वेन विवेक: कर्मणः कृतः॥ असंगत्वेन कामस्य यामो न ह्यात्मनो गुणः॥२९॥ सईयते यत्र कामं यथाकामं प्रवर्तते ॥ इति श्रुतिद्वयं स्वप्ने विस्पष्टं काममन्रवीत् ॥ ३०॥ Digitized by Google स्वप्नकामस्य वस्तुत्वं श्रुतिभ्यां चेद्विवक्षितम्॥ प्रबोधेऽप्यनुवर्तेत तच्च नास्ति ततो मृषा॥३१॥ १ स वा एष एतस्मिन्स स्वप्नांते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं मत्यन्योन्या द्रवति स्वप्रायैव स यत्तत्र किंचित्पश्यत्यनन्यागतस्तेन भवत्यसंगो हवयं पुरुष इत्येवैतधाज्ञवल्क्य सोऽहं भगवते सहसर ददाम्यत उर्ध्व विमोक्षायैव ब्रूहीति।
Page 210
##E BUER अ०प्र० जाग्रत्प्रत्यक्षमाश्रित्य जागरे मृत्युसत्यताम्॥ आशंक्य पुनरप्राक्षीदृष्टैवेति तदुत्तरम् ॥३२॥ अ० मूढप्रत्यक्षतः कर्ता विद्वत्प्रत्यक्षतोऽक्रियः ॥ विवेकिनामनुभवादात्मज्योतिर्विवेचितम् ॥३३॥ असकृत्स्वप्नबुद्धांतसंचारेऽपि न बुद्धवान्॥ इत्यर्थेऽस्मिन्महामत्स्यो दृष्टांतत्वेन वर्ण्यते॥ ३४॥ इत्थं स्वप्नप्रसंगेन देहादिव्यतिरिक्तता ॥I स्वप्रभत्वमसंगत्वं चेत्येतेऽर्थाः प्रपंचिताः॥३५॥ स एष परलोकस्य दष्टांतः स्वप्न ईरितः ॥ सुधुप्तिर्मोक्षदृष्टांतस्तदर्थो ग्रंथ उत्तरः ॥ ३६ ॥ तद्वा अस्यैतदित्यत्र प्राप्तकामस्वभावताम्॥ वक्तुं सुप्तावदुःखत्वं वक्ति इयेननिदर्शनात्॥३७॥ आत्मस्वभावो निःशेषं पुंजीकृत्येह लक्ष्यते ॥ सुप्तौ मुक्ताविवाद्वैतस्वप्रभानंदलक्षणः ।। ३८।। अविद्या तु स्थिताऽप्यत्र द्वैतदुःखाद्यनुद्गवात्॥ स्वभावं न तिरोधत्ते स्वप्रभानंदमद्दयम्।३९॥ Digitized by Google १ स वा एष एतस्मिन्धुद्धांते रत्वा चरित्वा दृष्ट्रैव पुण्यं च पापं च पुनः पूर्ववत्॥ २ तथथा माहामत्स्य उभे कूले अनुसंचरति पूर्व वा परं चैवमेवायं पुरुष एता उभावंतावनुतं चरति स्वप्नांतं च बुद्धांतं च ॥ २ तद्वा अस्यैतदतिच्छंदा अपहृतपाप्मा भययं रूपं तथथा पियया स्ति्रिया संपरिष्वक्तो न बाहां किंचन वेद नांतरमेवायं पुरुषः पाज्ेनात्मना संपरिष्वक्तो न बाहां किंचन वेद नांतरं तद्वत्तस्येतदात्तकाममात्मकामकाम: रूप: शोकांतरं। : तद्यथास्मिन्नाकाशे श्येनो वा सुपणों वा विपरियत्यश्रांतः सहृत्य पक्षौ सच्हृतपापैव ध्रियत एवमेवायं पुरुष एतस्मा अंतावधावति यत्र सुप्ो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति।
Page 211
द्वैतदुःखादिरूपं यत्स्वात्मनः स्वप्नजाग्रतोः॥तदविद्योऽत्थमित्येतत्ता वा अस्येति वर्ण्यते॥४॥ विद्याया: परमोत्कर्षे जाग्रत्साक्ष्यात्मवासना ॥ सर्वोऽस्मीति मति स्वन्ने करोत्यद्वैतभासिनि ४१ सर्वात्मभावः परमो लोको बाधविवर्जनात्॥ बाध्यंते देवराजाद्या इवशब्दश्रुतत्वतः॥४२॥ नन्वद्वैतमपि द्वैतं सुत्यसुप्योरिहात्मनि ॥ क्रमाद्गात्यत्र किं रूपं तस्येत्याशंक्य वर्ण्यते॥४३॥ यत्सार्वात्म्यं पुरा प्रोक्तं तदेवाद्वैतमात्मनः ॥ रूपमागमतः स्वानुभूतेश्र पुरुषार्थतः॥४४॥ शास्त्रप्रसिद्धिं तच्छब्दो वक्ति स्वानुभवं पुनः॥। एतच्छब्दःपुमर्थतमतिच्छंदादिनोच्यते॥४॥ शिवमद्वैतमित्यादि शास्त्रमुदुष्यते बहु ।। समाधिसुत्योरद्वैतं स्वयमेवानुभूयते॥४६॥ छंद: काम: कर्म पापभयं स्यात्कर्मणः फलम्॥ अनर्थरूपं त्रितयमद्वैते वीक्ष्यते न हि ॥४७॥ त्रितयेन तु यद्युक्तं द्वैतं तस्य पुमर्थता॥ नेति द्वैतश्रुतावस्थां वैशब्देन निवर्तते ॥४८॥ Digitized by Google योषिदालिंगितक्षेत्रं गृहं वाऽप्यविचारयन्॥यथा सुखी तथा सुप्तः कामभीत्यादिवर्जनात्॥४९॥ १ ता वा अस्यैताहिता नाम नाड्यो यथा केशः सहस्त्रधा भिन्नस्तावताप्यश्वास्तिष्ठति शुक्कस्य नीलस्य पिंगलस्य हरितस्य पूर्णा अथ यत्रैनं व्रंति वाजितंतीव हस्तीव विहाय याति गर्तमिव पतति यदेव जाग्रद्गयं पश्यति तदत्राविद्यया मेन्यतजथ यत्र देव इव राजेवाहृतेवेदसर्वोंऽस्मीति मन्यते सोऽपरयो लोकः॥
Page 212
8888888888 अ०प्र० तद्वा अस्येति वाक्येन कामाऽभावः प्रपंच्यते॥ आत्मरूपं यदद्वैतमाप्तकामं तदीक्षताम्॥५०॥ अ० सुषुप्तित्सुः समाधित्सुर्बाह्यं कामयते न हि॥ अपि लात्मानमेवात्मा प्राप्त एवाऽखिलै:सदा॥।५१॥ काम्यभोजनतस्तृप्तस्तदा भोज्यं न वांछति॥एवं काम्यात्मनि प्राप्त किमन्यत्काम्यते पुनः॥।५२॥ आत्मरूपमकामं यत्तच्छोकरहितं सदा॥ शोकोत्तरं एथक् शोकादिति निः शोकतोच्यते ॥५३॥ नतु देहाभिमानश्र धर्माडधर्मौ च शोकदाः ॥ यथा जागरणे तद्दत्सुषुप्तौ चप्रसज्जते ॥५४॥ मैवं पिताहमित्यादिदेहात्मभ्रांतिलोपनात् ॥ पितृलयुक्तदेहेऽभिमानः सुपस्य नेक्ष्यते ॥॥ तत्तदेहाभिमानस्तु क्षीणतत्कर्मसंक्षयात ॥ पुण्येन पाप्मना नन्वागतं रूपं परात्मनः॥५६॥ हृदयाख्यं मनस्तस्य पुण्यपापे ततोऽखिलाः॥शोका मनोगताः सुप्ौ शोकानात्माऽतिवर्तते॥५७॥ ननु शोकादिमत्सुप्तौ चैतन्यमपि लुप्यते॥ सुप्ो न पश्यतीत्येवमाहुः सर्वेऽपि लौकिकाः॥८॥ Digitized by Google आत्मन्यदृष्टवशतो ज्ञानमिच्छादिवद्गवेत्।इत्याहुस्तार्किकाः सुपौ न ज्ञानं कर्मणःक्षयात्॥।५९। १ अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवाश्रादेवा वेदा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चांडालोऽ- चांडाल: पौल्कसोऽपौलकसः श्रमणोSश्रमणस्तापसोऽनन्वागतं पुण्येनान्वातं पापेन तीर्णो हि तदा सर्वान्लोकान्हृदयस्य भवति।
Page 213
38 यद्वैतन्नेत्यादिवाक्यैरस्योत्तरमुदीर्यते॥ न चिलोपः किंतु बुद्धेर्लोप इत्येतदुत्तरम् ॥ ६० ॥ तच्छब्दः सुप्तिमाचष्टे वैशब्दोऽवधृतो भवेत्॥ तत्र सुप्तौ पुमान्नैव पश्यतीति जना जगुः॥६१॥ अदर्शनं सर्वथेति तदाहुरविवेकिनः ॥ तद्विवेच्य तथा चात्मा पशयन्नेव न पश्यति ॥६२॥ साक्षी चैतन्यनित्यतान्पश्यन्नेव व्यवस्थितः॥ ज्ञातज्ञानज्ञेयलोपाव्य्यवहारं न पश्यति॥६३॥ तस्मात्सुप्तौ चिदद्वैतं यद्रूपं परमात्मनः ॥ एतह्रूढयितुं प्रोक्ता: पर्याया बहवः श्रुतौ॥६४॥ ननु सर्वैजनैद्वैतं जागरे स्पष्टमीक्ष्यते॥ स द्वैत एव किं न स्यादात्मेत्याशंक्य वर्ण्यते ॥६५॥ यत्रैव जागरे स्वस्मादन्यत्किंचिदिव भ्रमः ॥ तत्रैवान्यः स्वयं द्रष्टा दृश्यमन्यदिवेक्षते ॥६६ ॥ अद्वैतमित्युपक्रम्य व्याख्यातं तद्धि विस्तरात्॥सलिलादिगिरा तस्य क्रियते चोपसंहृतिः६७ आत्मा सलिलवच्छुद्ध: कार्यकारणहीनतः॥ स्वतोऽवबोधमात्रत्वात्कुतो विद्यादिसंगतिः ॥६८॥ Digitized by Google १ यद्वैतन्न पश्यति पश्यंश्रैतन्न पश्यति न हि द्रष्टुर्द्ृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्ततं यत्पश्ये दद्वैतन्न रूप्यते यद्वैतन्न वदति यद्वैतन्न श्ृणोति यद्वैतन्न मनुते यद्वैतन्न स्पृशति यद्वतन्न विजानाति ॥ २ सलिल एको द्रष्टाद्वैतो भवत्ये- षब्रह्मलोकः सम्राळििति हैनमनुशशास याज्ञवल्क्य एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनंद एतस्पैवानंदस्यान्यानि भूतानि मात्रामुपजीवंति।
Page 214
अ०प्र० अंतरेणापि संबंधं कार्यकारणवस्तुनः ॥ स्वतोऽनेकात्मकं तत्स्यादित्याशंक्यैकतोच्यते ॥६९॥ अ० 119001 अकारकस्वभावलमद्रष्टेत्यभिधीयते ॥ यन्न हि द्वैतमित्युक्तेर्यत्र तस्येति चेरणात् ॥७० ॥ स्वतः पूर्णात्मकं ज्योतिर्यत्र द्रष्टेति चोच्यते॥ अविद्याकार्यराहित्यादद्वैतोऽयं भवेत्स्वतः॥७१॥ प्रत्यग्दृष्व्यवहिते प्रात्यक्ष्यादात्मवस्तुनः॥ एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतेः॥७२॥ अव्याटताननुगतं निःसामान्यविशेषवत्॥ब्रह्मेति सुख्यवत्त्येह वस्तु श्रुत्याभिधीयते ॥७३॥ ततो लोकयतेर्धातोर्दर्शनार्थतहेतुतः ॥ प्रकृततवात्तथा दष्टेर्लोकनं लोक उच्यते ॥७४॥ विज्ञानपुरुषस्यास्य योक्ता ब्रह्मात्मता पुरा॥ नैष्ठिकी गतिरेषाऽत्र गत्यंतरसमाप्तितः॥७५॥ संपच्च परमैषैव मोहेच्छाश्र्वान्यसंपदः ॥ उत्कर्षातिशयः संपद्दिभूतिश्र्वेति भण्यते॥ ७६॥ एषोऽस्य परमो लोको लोकास्त्वन्ये क्षयिष्णवः।क्षयिष्णुसाधनायत्ता नन्वेषा साधनाश्रयात७७ Digitized by Google आनंदः परमोऽस्यैव सुखोत्कर्षसमाप्तितः॥ सर्वानंदातिशायिलात्तथा चैतत्प्रवक्ष्यते॥७॥ आनंदः रपमोऽस्यैव इत्युक्तार्थप्रसिद्धये । एतस्यैवेति वचसा समर्थो हेतुरुच्यते ॥ ७९॥ कृत्स्नोऽपिचैष आनंदस्तदविद्यैकहेतुतः ॥ बुध्याद्युपाध्यवच्छेदान्मान्रेति व्यपदिश्यते॥८॥
Page 215
मानुषादिकहैरण्यगर्भातानंदमात्रया ॥ परानंदं बोधयितुं श्रोत्रिये तदुदाहृतिः ॥८१ ॥ श्रोत्रियो वेदशास्त्रज्ञो निष्पापो ब्रह्मवित्वतः॥ भोग्यदोषान्विविच्यास्ते नातः कामेन हन्यते८२ सुखं तृप्तिरकामतमित्येकार्था इमा गिरः ॥ सर्वकामविहीनेऽतः सुखं सर्व व्यवस्थितम् ॥८३।। श्रोत्रिये कामराहित्यात्सर्वानंदा: सह स्थिताः।।सोऽश्रुते सकलान्कामान्सहेति प्राह तित्तिरिः८४ सूत्रात्परमनंतत्वाद्गणितं विनिवर्तते ॥ यतो वाचो निवर्तैत इति श्रुत्यंतरं जगौ ॥८५॥ श्रोत्रियेणानुभूतो यो ब्रह्मानंदोऽस्य विप्रुषः॥ सार्वभौमादिसूत्रांताः प्राणिनोऽनुभवंत्यमी ८६ वक्तव्यार्थे समाप्तेऽपि राजा ्ृच्छति पूर्ववत्॥ भीतोमुनिर्भये हेतु मेधावीत्यादिनोक्तवान् ८७ सर्वेभ्यो निर्णयेभ्यो मामरौत्सीन्न तु मुंचति ॥ अयमेव भये हेतुर्नोत्तरानवबोधनम् ॥ ८८॥ स्वप्नः सुप्तिश्र दृष्टांतौ परलोकविमोक्षयोः ॥ तावेव मुनिना प्रोक्तौ शिष्ठं दाष्ठीतिकद्यम् ॥८९॥ १ स यो मनुष्याणा राद्ः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोंगैः संपन्नतमः स मनुष्याणा परम आनंदोऽय ये शतं Digitized by Google मनुष्याणामानंदाः स एकः पितृणां जितलोकानामानंदोडथ ये शत पितृणां जितलोकानामानंदाः स एको गंघर्वलोक आनंदोडथ ये शतं गंधर्वलोक आनंदाः स एक: कर्मदेवानामानंदो ये कर्मणा देवत्वमभिसंपद्यंतेऽथ ये शतं कर्मदेवानामानंदाः स एक आजानदे वा नामानंदो यश्च श्रोत्रियो वृजिनो कामहतोऽथ ये शतमाजानदेवानामानंदाः स एकः प्रजापतिलोक आनंदो यश्च श्रीत्रियो वृजिनो काम हतोऽथ ये शतं प्रजापतिलोक आनंदाः स एको ब्रह्मलोकस्यानंदो यश्च श्रोत्रियो वृजिनो कामहतः ।
Page 216
अ०प्र० स्वप्नाज्जागरणं यद्द्देहाल्लोकांतरं तथा ॥ इत्यभिप्रेत्य मुनिना स्वप्नाद्ोधोऽभिधीयते॥९॥ शकटं बहुभिर्द्रव्यैर्योजितं गुरुभारतः ॥ कुर्वन् शब्दान्बहून्याति चेतनेन प्रयोजितम् ॥९१॥ अ०
शरीरस्थो हि लिंगात्मा ह्यन्वारूढश्विदात्मना॥ शब्दान्कुर्वन् हि हिक्कादीन्प्रैत्यूर्ध्वश्वासपूर्वकम्॥ lug enl
उपाध्यारोहमन्वात्मा रूढवत्प्रतिभासते ॥ भानोरिवोदपात्रादावारोहो नात्मनः स्वतः ।९३। मर्मसूत्कृष्यमाणेषु वायुनोदानरूपिणा ॥ मुमूर्षोरत्र यहुःखं स्मर्यतां तन्मुमुक्षुभिः ॥९४॥ रोगेण जरया वा यद्ेहकार्श्य यदापुयात् ॥ तदाम्ादिफलं वक्षादिवागेभ्यः प्रसुच्यते ॥९५॥ निर्गत्य हृदयस्थानान्नाडीमार्गेण जागरम्॥ प्राप्तोऽत्र वैपरित्येन नाडीमार्गाढृदि व्रजेत्॥९६॥ जाग्रत्स्वप्नादिसिध्यर्थ गमनागमने पुरा। इदानीं लन्यदेहेऽसौ प्राणं धारयितुं व्रजेत्॥९७॥ ननूपादिस्सिते देहे भोगाय प्राणधारणम्। भोगसंपादने नास्ति शक्तिरस्येति चेच्छणु ॥९८ तत्कर्मोपार्जितैरन्यभोंग्यं संपादते पुरा ॥ इत्येतद्विशदीकर्तु राजदृष्टांत उच्यते ॥९९॥ Digitized by Google १ अथैष एव स एव एष एतस्मिन्सप्राते रत्वा चरित्वा दष्ट्रैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धां तथैव ।। २ तथथाअं बोदुंबरं वा पिप्पलं वा बंधनात्मसुच्यत एवमेवायं पुरुष एपोऽगेभ्यः संमसुच्य पुनः प्रतिन्यार्यं पतियोन्यां इरयति पाणावैव हि।। ३ तथथा राजानमायंतसुग्रा: पत्पेमसः सृतग्रामण्यो यानैरित्यादियाक्येन। ---
Page 217
राज्ञा जीवितदानेन ह्युग्रादय उपार्जिताः ॥ मुमूर्षुणा भाविदेहबंधवः कर्मणार्जिताः॥२००॥ एवं पुत्रादिभावाय प्रतीक्षंतेऽखिलाः सदा॥ऋतावस्मिन्समायाति ब्रह्म पुत्रादिरूपतः ॥१॥ नन्विंद्रियाणि प्रेतस्य लीयंते वपुषा सह॥ इत्याहुस्तार्किका ब्रह्म निरुपाधि: कथं व्रजेत्॥२॥ प्राणोपाधिक एवात्मा गच्छतीति विवक्षया॥ प्राणानामात्मसामीप्यगतं वक्ति मृतौ श्रुतिः॥३॥ राजानं प्रयियासंतमाभ्िमुख्येन सेवितुम ।I आयांत्युग्रादयस्तद्वत्प्राणानामात्मसंगतिः॥४॥ तृतीयब्राह्मणे प्रोक्ता देहे स्वप्नादिसंसृतिः ॥ देहांतरेषु संसारो मुक्तिश्र्ाथ प्रवक्ष्यते ॥ ५॥ स सुमूर्षुर्यदा देहे दौर्बल्यं प्राप्य मूढताम् ॥ प्राप्नोतीव तदा चक्षुरादा आयांति देहिनम्॥ ६ ॥ राजदृष्ठांततः प्रोक्तां प्राणानामात्मसंगतिम्॥ अनूद्य तत्प्रकारोऽत्रं विस्तरेणाभिधीयते ॥७॥ तेजोमात्राश्र्क्षुराद्याः प्रसृता मत्स्यजालवत्॥ जागरेऽथ मुमूर्षुस्ताः समादाय हृदि व्रजेत्॥८॥ अतुगण्हाति यः पूर्व चाक्षुषः पुरुषो रविः ॥ भोगार्थमधुना सोडयं भोगाभावादुपेक्षते॥। ९॥ Digitized by Google १ तद्यथा राजानमयियासंतमुग्राः मसेनसः सूतग्रामण्योऽभिसमायंत्येवमेवैममात्मानमंतकाले सर्वे प्राणा अभिसमायंति यत्रै- तदूर्ध्वोच्छासी भवति।२ चतुर्थब्राह्मणे। ३ ॐ स यत्रायमात्माऽवल्यं न्यत्यसमाहेमिव न्येत्यथैतमेते प्राणा अभिसमायंति स एतास्ते जोमात्राः समभ्याददानो हृदयमेवान्यवकरामति स यत्रैष चाक्षुपः पुरुषः पराङ्पर्यावर्ततेऽथाऽरूपज्ञो भवति॥
Page 218
अ०प्र० इंद्रियस्योपसंहारादादित्यस्याप्युपेक्षया॥ आत्मा द्रष्टुमसामर्थ्यादरूपोऽज्ञो भवेत्तदा॥१० ॥ ।।१०२॥ अस्मिन्नर्थे सर्वलोकप्रसिद्धिरभिधीयते ॥ एकीआवादयं नैवं पश्यतीति जगुर्जनाः॥११॥ अ०
चक्षुर्बुद्दावैक्यमेति रवौ रव्यंश एकताम् । इंद्रियांतरव द्देवेष्वयं न्यायोऽत्र योज्यताम्॥१२॥ कृत्स्रप्राणोऽथ संहारे संयुक्तस्य मुमूर्षतः ॥ नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते ॥१३॥ भाविदेहात्मता यस्य प्रत्यक्चैतन्यबिंबता॥ वासनैवात्मनः सैषा प्रद्योतवचसोच्यते ॥१४॥ स एष कर्मजो बुद्दे: प्रकाशो जायते मृतौ॥ स्वकर्मनिर्मितं लोकं तेनात्माऽयं प्रपश्यति॥१५॥ स्वप्नवत्प्राप्य तद्रावः पश्ाद्ेहाद्विनिःसरेत्॥ गम्यलोकानुसारेण द्वारं स्याच्चक्षुरादिकम्॥१६॥ देहाज्जिगमिषुः प्राणसहितो निर्गतः पुनः ॥ सविज्ञानो भवेत्पूर्व हृदि प्रद्योतनं यथा॥१७॥ पुरा नाडीविशेषेण निर्गतुं ज्ञानमीरितम् ॥। गंतुं लोकविशेषेऽथ पुनर्विज्ञानमीर्यते ॥१८॥ Digitized by Google १ एकीभवति न पश्यतीत्याहुरेकीभवति नजिघ्रतीत्याह्ुरेकीभवति न रसयत इत्याहुरेकीभवति नवदतीत्याहुरेकीभवति न श. णोतीत्याहुरेकीभवति न मनुत इत्याह्ुरेकीभवति तस्य शत इत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं पदोतते नैष आत्मा निष्क्ामति चक्षुषो वा मूर्धो वाऽन्येम्यो वा शरीरप्रवेशेभ्यस्तमुत्कामंतं माणोऽनूत्कामति माणमनूत्कामंतर सर्वे पाणा अनूत्कामंति सविजनो भवति स विज्ञानमेवान्ववक्रामति तं विदाकर्मणी समन्वासाते पूर्वपज्ञा च।
Page 219
हेतुर्जाग्रद्वासनास्य स्वन्नारंभे यथा तथा॥ जन्मांतरारंभहेतुः किं स्यादिति तदुच्यते ॥१९॥ विद्यासंपादिता तेन पुरा कर्म च यत्कृतम्॥ या वासना च तत्सर्वैजन्म भोग्यादिकारणम्॥२०।। देहं विद्या परिच्छिंद्यादीदशो देह इत्यथ ॥ विकर्तृकर्मवोढ्री तु पूर्वप्रज्ञेह पूर्वयोः ॥२१॥ समर्था सैव ते यस्मादुद्वोढुं ज्ञानकर्मणी॥ नरस्यातः प्रधानलात्ताभ्यां सा ग्ृह्यते एथक् ॥ २२।। सर्वगस्य मनोमात्रगति ब्रूतेऽत्र तार्किकः॥ श्रुतिस्तु स्वमतं ब्रूते जलूकाख्यनिदर्शनात् ॥२३॥ जलूकां हि तृणाग्रस्था स्वमुखेन तृणांतरम्॥ अवलंब्य वपुः शिष्ठं सर्वतंत्रोपसंहरेत् ॥२४॥ लिंग देहोपाविरात्मा घिया देहांतरं स्मस्न्॥ लिंगोपाधिकमात्मानं प्रापयेदन्यदेहकम् ॥२५॥ ननु देहांतरारंभे उपादानं किमात्मनः ॥ एतद्वेहारंभकं यत्तदेवोतान्यदीर्यताम् ॥२६॥ स्वर्णकार:सुवर्णाशमादायान्यं नवं नवम् ॥ तेनैव कुरुते भूय उपमृद्यातियत्नतः ॥२७॥ -Digitize १ तद्यथा तृणजलूका तृणस्यांतं गत्वाऽन्यमाक्रम्यात्मानमुपस्हरत्येवमेवायमात्मेद शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रम्या- कम्यात्मानमुपसश्हरति ॥२ तथथा पेशस्कारी पेशसो मात्रामादायाऽन्यं नवतरं कल्याणतर रूपं तनुत एवमेवायमेवात्मेदश श- रीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतर रूपं कुरुते पित्र्यं वा गांधर्व वा दैवं वा माजापत्यं ब्राह्मं वाडन्येषां भूतानां।
Page 220
अ०प्र० अंतरेणापि संबंधं कार्यकारणवस्तुनः ॥ स्वतोऽनेकात्मकं तत्स्यादित्याशंक्यैकतोच्यते ॥६९॥ अ० अकारकस्वभावतवमद्रष्टेत्यभिधीयते ॥ यन्न हि द्वैतमित्युक्तर्यत्र तस्येति चेरणात् ॥७० ॥ स्वतः पूर्णात्मकं ज्योतिर्यत्र द्रष्टेति चोच्यते॥ अविद्याकार्यराहित्यादद्वैतोऽयं भवेत्स्वतः॥७१॥ प्रत्यग्टृध्यव्यवहिते प्रात्यक्ष्यादात्मवस्तुनः॥ एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतेः॥७२॥ अव्यावृताननुगतं निःसामान्यविशेषवत्॥ ब्रह्मेति सुख्यवृत्त्येह वस्तु श्रुत्याभिधीयते ॥७३॥ ततो लोकयतेर्धातोर्दर्शनार्थतहेतुतः ॥ प्रकृततवातथा दष्टेर्लोकनं लोक उच्यते ॥ ७४ ॥ विज्ञानपुरुषस्यास्य योक्ता ब्रह्मात्मता पुरा॥ नैष्ठिकी गतिरेषाऽत्र गत्यंतरसमाप्तितः ॥७५॥ संपच्च परमैषैव मोहेच्छाश्र्वान्यसंपदः ॥ उत्कर्षातिशयः संपद्दिभूतिश्रवेति भण्यते॥७६॥ एषोऽस्य परमो लोको लोकास्त्वन्ये क्षयिष्णवः।क्षयिष्णुसाधनायत्ता नन्वेषा साधनाश्रयात्७७ Digitized by Google आनंदः परमोऽस्यैव सुखोत्कर्षसमाप्तितः ॥ सर्वानंदातिशायिलात्तथा चैतत्प्रवक्ष्यते॥७८॥ आनंदः रपमोऽस्यैव इत्युक्तार्थप्रसिद्धये ॥ एतस्यैवेति वचसा समर्थो हेतुरुच्यते ॥ ७९॥ कृत्स्रोऽपिचैष आनंदस्तदविद्यैकहेतुतः ॥ बुध्याद्युपाध्यवच्छेदान्मान्रेति व्यपदिश्यते॥८०॥
Page 221
मानुषादिकहैरण्यगर्भातानंदमात्रया ॥ परानंदं बोधयितुं श्रोत्रिये तदुदाहृतिः ॥८१॥ श्रोत्रियो वेदशास्त्रज्ञो निष्पापो ब्रह्मवित्वतः॥ भोग्यदोषान्विविच्यास्ते नातः कामेन हन्यते८२ सुखं तृप्तिरकामतमित्येकार्था इमा गिरः ॥ सर्वकामविहीनेऽतः सुखं सर्वे व्यवस्थितम् ॥८३॥ श्रोत्रिये कामराहित्यात्सर्वानंदा: सह स्थिताः।। सोऽश्रुते सकलान्कामान्सहेति प्राह तित्तिरिः८४ सूत्रात्परमनंतल्वाद्गणितं विनिवर्तते ॥ यतो वाचो निवर्तत इति श्रुत्यंतरं जगौ ॥८५॥ श्रोत्रियेणानुभूतो यो ब्रह्मानंदोऽस्य विप्रुषः॥ सार्वभौमादिसूत्रांताः प्राणिनोऽनुभवंत्यमी ८६ वक्तव्यार्थे समाप्तेऽपि राजा पच्छति पूर्ववत्॥ भीतोमुनिर्भये हेतु मैधावीत्यादिनोक्तवान् ८७ सर्वेभ्यो निर्णयेभ्यो मामरौत्सीन्न तु मुंचति ॥ अयमेव भये हेतुर्नोत्तरानवबोधनम् ॥८८॥ स्वप्नः सुप्तिश्र दृष्टांतौ परलोकविमोक्षयोः ॥ तावेव मुनिना प्रोक्तौ शिष्ठं दाष्ठीतिकद्यम् ।८९।। १ स यो मनुष्याणा राद्ध: समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैरभोंगैः संपन्नतमः स मनुष्याणां परम आनंदोडथ ये शतं Digitized by Google मनुष्याणामानंदाः स एक: पितृणां जितलोकानामानंदोडथ ये शत पितृणां जितलोकानामानंदाः स एको गंधर्वलोक आनंदोऽय 10 ये शतं गंधर्वलोक आनंदाः स एकः कर्मदेवानामानंदो ये कर्मणा देवत्वमभिसंपद्यंतेऽथ ये शतं कर्मदेवानामानंदाः स एक आजानदे वानामानंदो यश्च श्रोत्रियो वृजिनो कामहतोऽथ ये शतमाजानदेवानामानंदाः स एकः प्रजापतिलोक आनंदो यश् श्रोत्रियो वृजिनो काम हतोऽथ ये शर्तं प्रजापतिलोक आनंदाः स एको ब्रह्मलोकस्यानंदो यश्च श्रोत्रियो वृजिनो कामहतः।
Page 222
अ०प्र० स्वप्नाज्जागरणं यद्दद्देहाल्लोकांतरं तथा ॥ इत्यभिप्रेत्य मुनिना स्वप्नाद्ोधोऽभिधीयते॥९॥ 1190911 शकटं बहुभिर्द्रव्यैर्योजितं गुरुभारतः ॥ कुर्वन् शब्दान्बहून्याति चेतनेन प्रयोजितम् ॥९१॥ अ०
शरीरस्थो हि लिंगात्मा ह्यन्वारूढश्िविदात्मना॥ शब्दान्कुर्वन् हि हिक्कादीनप्रैत्यूर्ध्वश्वासपूर्वकम्॥ उपाध्यारोहमन्वात्मा रूढवत्प्रतिभासते ॥ भानोरिवोदपात्रादावारोहो नात्मनः स्वतः ॥९३॥ मर्मसूत्कृष्यमाणेषु वायुनोदानरूपिणा ॥ सुमूर्षोरत्र यदुःखं स्मर्यतां तन्मुमुक्षुभिः॥९४॥ रोगेण जरया वा यद्देहकार्श्य यदापुयात् ॥ तदावादिफल वक्षादिवागेभ्यः प्रसुच्यते ॥९५॥ निर्गत्य हृदयस्थानान्नाडीमार्गेण जागरम्॥ प्राप्तोऽत्र वैपरित्येन नाडीमार्गाडृदि व्रजेत्॥९६॥ जाग्रत्स्वप्नादिसिध्यर्थ गमनागमने पुरा॥ इदानीं लन्यदेहेऽसौ प्राणं धारयितुं व्रजेत्॥९७॥ ननूपादित्सिते देहे भोगाय प्राणधारणम्॥ भोगसंपादने नास्ति शक्तिरस्येति चेच्छणु ॥९ तत्कर्मोपार्जितैरन्यर्भोग्यं संपादते पुरा ॥ इत्येतद्विशदीकर्तु राजदृष्टांत उच्यते ॥९९॥ Digitized by Google १ अथैष एव स एव एष एतस्मिन्सप्राते रत्वा चरित्वा दष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धां तथैव।। २ सपचानं बोदुंबरं वा पिप्पलं वा बंधनात्मसुच्यत एवमेवायं पुरुष एषोऽगेभ्यः समसुच्य पुनः प्रतिन्यायं पतियोन्या प्रमति मानाबय हि। ३ तथथा राजानमायंतमुग्रा: पत्पेमसः सतग्रामण्यो यानैरित्यादियाक्येन।
Page 223
राज्ञा जीवितदानेन ह्युगादय उपार्जिताः ॥ मुमूर्षुणा भाविदेहबंधवः कर्मणार्जिताः॥२००॥ एवं पुत्रादिभावाय प्रतीक्षंतेऽखिलाः सदा ॥ऋतावस्मिन्समायाति ब्रह्म पुत्रादिरूपतः ॥१॥ नन्विंद्रियाणि प्रेतस्य लीयंते वपुषा सह॥ इत्याहुस्तार्किका ब्रह्म निरुपाधि: कथं व्रजेत्॥२॥ प्राणोपाधिक एवात्मा गच्छतीति विवक्षया॥ प्राणानामात्मसामीप्यगतं वक्ति मृतौ श्रुतिः॥३॥ राजानं प्रयियासंतमाभिमुख्येन सेवितुम ॥ आयांत्युग्रादयस्तद्वत्प्राणानामात्मसंगतिः ॥४॥ तृतीयब्राह्मणे प्रोक्ता देहे स्वप्नादिसंसृतिः ॥ देहांतरेषु संसारो मुक्तिश्र्ाथ प्रवक्ष्यते ॥ ५॥ स मुमूर्षुर्यदा देहे दौर्बल्यं प्राप्य मूढताम् ॥ प्राप्नोतीव तदा चक्षुराद्या आयांति देहिनम्॥ ६ ॥ राजदृष्टांततः प्रोक्तां प्राणानामात्मसंगतिम्॥ अनूद्य तत्प्रकारोऽत्रं विस्तरेणाभिधीयते ॥७॥ तेजोमात्राश्रक्षुराद्याः प्रसृता मत्स्यजालवत्॥ जागरेऽथ मुमूर्षुस्ताः समादाय हृदि व्रजेत्॥८॥ अनुगण्हाति यः पूर्व चाक्षुषः पुरुषो रविः ॥ भोगार्थमधुना सोडयं भोगाभावादुपेक्षते॥ ९॥ Digitized by Google १ तद्यथा राजानमयियासंतमुग्राः प्रसेनसः सूतग्रामण्योऽभिसमायंत्येवमेवैममांत्मानमंतकाले सर्वे माणा अभिसमायंति यत्रै- तदूर्ध्वोच्छासी भवति। २ चतुर्थब्राह्मणे। ३ ॐ स यत्रायमात्माऽवल्यं न्यत्यसमाहेमिव न्येत्यथैतमेते प्राणा अभिसमायंति स एतास्ते- जोमात्राः समभ्याददानो हृदयमेवान्यवक्रामति स यत्रैष चाक्षुपः पुरुषः पराङ्पर्यावर्ततेऽथाऽरूपज्ञो भवति॥
Page 224
अ०प्र० इंद्रियस्योपसंहारादादित्यस्याप्युपेक्षया ॥ आत्मा द्रष्टुमसामर्थ्यादरूपोऽज्ञो भवेत्तदा॥१०॥ अस्मिन्नर्थे सर्वलोकप्रसिद्धिरभिधीयते ॥ एकीआवादयं नैवं पश्यतीति जगुर्जनाः॥११॥ अ० ।।१०२॥1 चक्षुर्बुद्दावैक्यमेति रवौ रव्यंश एकताम् ॥ इंद्रियांतरवद्देवेष्वयं न्यायोऽत्र योज्यताम्॥१२॥ कृतस्नप्राणोऽथ संहारे संयुक्तस्य मुमूर्षतः ॥ नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते ॥१३॥ भाविदेहात्मता यस्य प्रत्यक्चैतन्यबिंबता॥ वासनैवात्मनः सैषा प्रद्योतवचसोच्यते ॥१४॥ स एष कर्मजो बुद्धे: प्रकाशो जायते मतौ॥ स्वकर्मनिर्मितं लोकं तेनात्माऽयं प्रपश्यति॥१५॥ स्वप्नवत्प्राप्य तद्भावः पश्रादेहाद्विनिःसरेत्॥ गम्यलोकानुसारेण द्वारं स्याच्चक्षुरादिकम॥१६॥ देहाज्जिगमिषुः प्राणसहितो निर्गतः पुनः ॥ सविज्ञानो भवेत्पूर्व हृदि प्रदोतनं यथा॥१७॥ पुरा नाडीविशेषेण निर्गतुं ज्ञानमीरितम्॥ गंतुं लोकविशेषेऽथ पुनर्विज्ञानमीर्यते ॥१८॥ Digitized by Google १ एकीभवति न पश्यतीत्याहुरेकीभवति नजिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकीभवति नवदतीत्याहुरेकीभवति न श. णोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति तस्य शत इत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं पदोतते नैष आत्मा निष्क्ामति चक्षुषो वा मूधो वाऽन्येभ्यो वा शरीरप्वेशेभ्यस्तमुत्कामंतं माणोSनूत्कामति माणमनूत्कामंत सर्वे माणा अनूत्कामंति सविजनो भवति स विज्ञानमेवान्ववक्रामति तं विद्याकर्मणी समन्वासाते पूर्वपज्ञा च।
Page 225
हेतुर्जाग्रद्वासनास्य स्वन्नारंभे यथा तथा॥ जन्मांतरारंभहेतुः किं स्यादिति तदुच्यते ॥१९॥ विद्यासंपादिता तेन पुरा कर्म च यत्कृतम्॥ या वासना च तत्सर्वैजन्म भोग्यादिकारणम्॥२०।। देहं विद्या परिच्छिंद्यादीदशो देह इत्यथ ॥ विकर्तृकर्मवोढ़ी तु पूर्वप्रज्ञेह पूर्वयोः ॥२१॥ समर्था सैव ते यस्मादुद्वोढुं ज्ञानकर्मणी॥ नरस्यातः प्रधानलात्ताभ्यां सा ग्ृह्यते एथक् ॥। २२। सर्वगस्य मनोमात्रगति ब्रूतेऽत्र तार्किकः॥ श्रुतिस्तु स्वमतं ब्रूते जलूकाख्यनिदर्शनात् ॥२३॥ जलूकां हि तृणाग्रस्था स्वमुखेन तणांतरम्॥ अवलंब्य वपुः शिष्ठं सर्वतंत्रोपसंहरेत् ॥२४॥ लिंगदेहोपाविरात्मा घिया देहांतरं स्मस्नू॥ लिंगोपाधिकमात्मानं प्रापयेदन्यदेहकम् ॥२५॥ नतु देहांतरारंभे उपादानं किमात्मनः ॥ एतद्वेहारंभकं यत्तदेवोतान्यदीर्यताम् ॥२६॥ स्वर्ण कारःसुवर्णाशमादायान्यं नवं नवम् ॥ तेनैव कुरुते भूय उपमृद्यातियत्नतः ॥२७॥ Digitized by Google १ तद्था तृणजलूका तृणस्यांतं गत्वाऽन्यमाक्रम्यात्मानमुपस्हरत्येवमेवायमात्मेद शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रम्या- 6 कम्यात्मानमुपसश्हरति ॥२ तथथा पेशस्कारी पेशसो मात्रामादायाऽन्यं नवतरं कल्याणतर रूपं तनुत एवमेवायमेवात्मेद श- रीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतर रूपं कुरुते पित्रयं वा गांधर्व वा दैवं वा माजापत्यं ब्राह्मं वाडन्येषां भूतानां।
Page 226
अ०प्र० पंचीकृतास्तु भूतांशा: स्थूलदेहस्य हेतवः॥ अल्पत्वेनातिसूक्ष्मास्तैरलिंगं तिष्ठति वेष्टितम्॥।२८। अ० निर्मितस्तैरयं देहः पोषितः पितृवीर्यतः॥ मतौ कंचुकवत्याज्यो बाह्यांशो वीर्यनिर्मितः॥२९॥ अधिष्ठानारोप्यभागौ तेषु देहेषु यौ स्थितौ। तादशौ विशदीकर्तु स वा इत्यादिका श्रुतिः॥ ३०॥ यः संसारी पुरा प्रोक्तः स एवायं स्वतः स्फुरन्॥ साक्षिचैतन्यरूपलादधिष्ठानमनात्मनः ॥। ३॥ विज्ञानं कर्तृतोपाधिर्मनःप्राणादयोऽखिलाः॥ बहिर्बहिः समारोप्याः सर्वमारोपितं चिति ॥३२॥ तद्दित्यादिना सर्वशब्दस्यार्थ उदाहृतः ॥ प्रत्यक्षवस्तुन्यध्यासे सतीदंमयता भवेत्॥३३॥ परोक्षवस्तुन्यध्यासाददोमय इतीर्यते॥ आरोपोक्तिः समाध्यर्थमिति शब्द: प्रयुज्यते॥३४॥ इदंमयत्वं विस्पष्टमैहिकलादुपेक्ष्य तत्॥ अदोमयत्वं व्याचष्टे यथाकारीति वाक्यतः ॥३५॥ करणं नित्यकर्म स्यात्काम्यं तु चरणं भवेत्॥ कर्म वा करणे शक्तिश्र्वरणं प्रत्ययात्मकम्॥३६॥ Digitized by Google : १ स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः त्सर्वमयस्तद्यदेतदिदमयोऽदोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोम- यो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तयदेतदिदं म- योऽदोमय इति।। २ यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पाप: ।१-३॥
पापनाथो खल्वाङुः काममय एवायं पुरुष इति॥
Page 227
वासना कर्म विद्या च त्रयं जन्मप्रयोजकम् ॥ उक्तं तत्र प्रधानत्वं कर्मणः श्रूयते पुनः॥ ३७॥ पूर्वकांडपरा इत्थं कर्मप्राधान्यमूचिरे॥ अथ वेदांतशास्त्रज्ञाः प्राहुः कामप्रधानताम्॥३८॥ इत्येतद्विशदीकर्तु सयंथेत्युत्तरा श्रुतिः॥ कामः ऋतुः कर्म जन्मेत्येषामेव क्रमो भवेत् ॥ ३९॥ रुचेरतिशयः काम्ये विषये ऋतुरीर्यते॥ पाक्षिकं धर्मकामे स्यात्करोत्येव कृतौ सति ॥४०॥ कामप्राधान्यदार्ढ्यार्थ मंत्रस्योदाहतिः श्रुतौ। लिंग्यते गम्यते सर्वै मनसाऽतोऽस्य लिंगता॥४१॥ यः पुरा स्वप्नटष्टांतात्परो लोको विवक्षितः॥ इति वित्युपसंहारं तदुक्ते: कृतवान्मुनिः॥४२॥ मुक्तिः सुषुप्तिद्ृष्ठांतान्मुनिना या विवक्षिता॥ मुनिरारभते वक्तुं तामथेत्यादिवाक्यतः।४३। पूर्वोक्तकामिवैषम्यमथ शब्देन सूच्यते ॥। कामी संसरतीत्युक्तं कामाआावे विसुच्यते॥४४॥ परमानंदरूपलमात्मनश्र्वेद्विबुध्यते ।। कुतः कामयते भोग्यं ततो बोधादकामता ॥४५॥ बोधलक्ष्यमकामत्वं यथाकामेत्यसूत्रयत्। योऽकाम इत्यादिनैतत्सूत्रं वित्रियते स्फुटम् ॥ ४६॥ Digitized by GOogle १ स यथा कामो भवति तत्क्तुर्भवति यत्कतुर्भवति तत्कर्म कुरुते यत्त्कर्म कुरुते तदभिसंपद्यते॥ २ तदेष श्रोको भवति। तदेव सक्तः सह कर्मणैति लिंग मनो यत्र निषक्तस्यपाप्यांतं कर्मणस्तस्य य्तिक चिदकरोत्ययं तस्माल्लोकात्पुनरेसस्मै लोकाय कर्मण इति तु कामय मान: ॥ ३ अथाकामयमानो योडकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामंति ब्रह्मैव सन्त्रह्माप्येति।
Page 228
अ०प्र० योऽकामस्तस्य न प्राणा उत्क्रामंतीति योजना॥ संसृतिः कामिनो यद्दकामो सुच्यते तथा४७ अ० दृष्टानुश्राविका बाह्यकामा यस्य न संत्यसौ।। अकामस्तादृशत्वं तु निष्कामत्वेन सिध्यति।४८। विभ्रमापादिताः कामाः प्रत्यक्तत्वविवेकिनः॥यस्माद्विनिर्गताः सोऽयं निष्काम इति भण्यते४९ आप्तकामलतः सिद्धयेहुद्देः कामविनिर्गमः॥ अप्रात्तौ काम्यमानस्य कामः क्वापिन निःसरेत्५० एवं सत्याप्तकामत्वं निःकामलस्य साधनम् ॥I कामातौ लाप्तकामतमेवहेतुर्न चेतरत् ॥ ५१॥ निरुपाधि: परानंद आत्मेति श्रुतिसंमतः॥ आनंदाः सर्वभूतानां तस्मिन्नंतर्भवंति हि ॥ ५२॥ पुत्रादिजन्या आनंदा अपि तस्मिन्नवस्थिताः॥तथा विद्यात्मकामोऽयमाप्कामो भवेदयम् ५३ य ईदृगाप्तकामो यः स निष्कामो भवेत्ततः॥ निष्कामलादकामः सन्संसारात्प्रविसुच्यते ॥॥ उत्पन्नतत्त्वज्ञानस्य प्राणा अज्ञानबाधनात्॥ नोक्रामंति न तिष्ठति न च नश्यंत्यहेतुतः॥५५॥ बंधस्य कल्पितत्वेन तन्मुक्तिरपि कल्पिता। इत्यभिप्रायमाचष्टे ब्रह्मैवेत्यादिवाक्यतः॥५६॥ Digitized by Google अविद्याध्वस्तिमापेक्ष्य सम्यग्धीजन्ममात्रतः।।अत्मा ब्रह्मैव सन्साक्षाद्वह्माप्येतीति सुस्थितम५७ इत्येतत्सर्ववेदांतसर्वस्वं ब्राह्मणोदितम् ॥ अस्यैवार्थस्य दाळ्यार्थ मंत्रोदाहरणं भवेत् ॥५८॥ कामिनः सर्वसंसारः पुरा मंत्रेण वर्णितः ॥ अकामस्य विमोक्षोऽत्र तथा मंत्रेण वर्ण्यते॥५॥
Page 229
पुंसो हंदि श्रिता: कामा सुच्यंते निखिला यदा॥ तदानीममृतो भूला ब्रह्मैवात्र समश्नुते॥६॥ ननु ब्रह्माश्ुतेत्रेति जीवतो मुक्तिरीरिता। जीवत्वे को विशेषोऽस्य बंधान्मुक्तावितीर्यताम् ६१ अभिमान: पूर्वमासोद्देहादावधुना तथा॥ नास्तीत्यत्रातिविस्पष्टः सर्पदृष्टांत उच्यते ॥६२॥ प्रत्यगज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके।। नेति नेति स्वरूपलादशरीरो भवत्ययम्॥६३।। स्थूलदेहं परित्यज्य लिंगदेहयुतो यदि॥ मृतस्तदा स्यान्न त्वेवममृतोऽसावतो भवेत् ॥६४॥ प्रकृष्टचेष्ठाहेतुलात्साक्ष्युक्त: प्राणशब्दतः ॥ को ह्येवान्यादिति प्रोक्तं चेष्ठाहेतुलमात्मनः ॥६५॥ साक्षिणो ब्रह्मरूपलं ब्रह्मैवेत्यभिधीयते ।I संसर्गशंकानुत्त्यर्थमेवकारः प्रयुज्यते॥६६॥ संयोग:समवायो वा नैव ब्रह्मात्मनोरिह ।। अखंडैकरसलं तु भवतीति विवक्षितम् ॥६७॥ तदेव विशदीकर्तु तेज एवेत्युदीर्यते ॥। चैतन्यं तेज इत्युक्तं तच्चैकमुभयोरपि॥६८॥ अविद्यादिनिळत्तिश् चैतन्यव्यतिरेकतः ॥ नास्तीत्येवमभिप्राय एवकारेण सूच्यते ॥ ६९॥ Digitized by Google तत्वविद्यारसाकृष्टः श्रोतुं वांछति संग्रहात्॥ साधनान्यपि विद्यायाः श्रोतुमिच्छति भूंपतिः ७० १ तदेष श्लोको भवति। यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि शरिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत इति॥ २ तद्थाहि- निल्वयनी वल्मीकेSमृता पत्यास्ता शर्यीतैवमेवेद५ शरीर: शेतेऽथायमशरीरेऽमृतमाणो ब्रह्मैव तेजएव॥ ३ सोहं भगवते सहसर ददा- मीति होवाच जनको वैदेहः।
Page 230
अ०प्र० एतत्सर्वै विवक्षुः सन्मुनिःसंग्रहरूपिणः ॥ श्लोकानुदाहरत्तत्र ज्ञानमार्गमिमं जगौ ॥७१॥ अ० श्रोकेनादेन यः पंथाः प्रोक्तस्तस्मिन्मतांतरम्॥ उपन्यस्याथ सिद्धांतं प्राह श्रोकांतरेण स: ७२ ब्रह्मविनमुक्तिमाप्नोति तेन बोधात्मना यथा॥ पुण्यकृत्तैजसश्र्ादौ भूलाय ब्रह्मविद्रवेत्॥७३॥ तेजः शब्देन संशुद्धाबुद्धिरेवाभिधीयते ॥ पुण्ये कृते वुद्धिशुद्धौ विद्या स्यास्मर्यते तथा॥७४॥ यत्पुण्यं बुद्धिशुध्यर्थ यो योगश्र्ात्मबोधकृत्॥शोके द्वितीये तौ प्रोक्तौ तृतीये लन्यथोच्यते॥७५॥ यत्कांम्यं कर्मयोगश् योऽणिमादिप्रदो द्वयम्॥ तत्संसारस्यैव हेतुर्न मुक्तावुपयुज्यते॥७६॥ युज्यते मुक्तभावोऽयं तत्त्वबोधविवर्जनात्॥ जन्म प्रवाह एवातश्रतुर्थे श्रोक ईर्यते॥७७॥ ब्रह्मातुभवयुक्तानां विशेषो दुःखसंक्षयः ॥ श्ोकेन पंचमेनात्र विस्पष्ठमभिधीयते ॥७८॥ नदुःखक्षय एवास्य किंतु विश्वस्य कर्तता॥ सर्वलोकात्मका चेति षष्ठेश्लोक उदीर्यते ॥७९॥ Digitized by Google १ तदेते श्रोका भवंत्यणुः पंथा विततः पुराणोऽससपृष्टो न वित्तो मयैव। ते न धीरा अपि यंति ब्रह्मविदः स्वर्गलोकमित ऊर्ध्व मु. क्ाः ॥ २ तस्मिञ्छुक्लमनु नीलमाहु: पिंगलश हरितशरोहितं च। एष पंथा ब्रह्मणा हनुवित्तस्तेनैति ब्रह्मवित्पुण्यकत्तैजसश्च ॥।३ अं- धे तमः प्रविशंति ये विद्यामुपासंते। ततो भूय इव ते तमो येSविद्याया रताः॥8आनंदा नाम ते लोका अंधेन तमसावताः। तांस्ते पेत्या- भिगच्छंसविद्वां:सोडवुधा जनाः । ५ आत्मान चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन्कस्य कामाय शरीरमनुसज्वरेत्। ६ यस्या- नुविच: प्रतिबुत्ध आत्माऽस्मिन्संदेहोत्थे गहने प्रविष्ठः। स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोक: सकललोक एव।
Page 231
शास्त्राधिकारयुक्तेऽस्मिन्देहे विद्यात्परं पदम्॥ अन्यथाऽनर्थ इत्येवं सप्मे श्लोक ईर्यते॥८०॥ गर्भप्रवेशादिरूपा जुगुप्सा नात्मवेदिनः ॥ इत्येषोऽर्थोऽष्टमे शलोके विस्पृष्ठमभिधीयते ॥८१॥ निःशेषविक्रियाहेतुः कालातिक्रमहेतुतः ॥ देवैरुपास्य इत्येतन्नवमे श्लोक उच्यते ॥८२॥ चेतनाचेतनाधार आत्माऽस्य ब्रह्मतोचिता। इति दर्शयितुं श्लोकं दशमं श्रुतिरब्रवीत् ॥८३॥ प्राणादिसंघ आत्मा स्यादेतस्य ब्रह्मता कथम्॥ इत्याशंक्योत्तरं श्रोक एकादश उदीर्यते॥८४॥ तस्यास्य दर्शनोपायः कः स्यादित्यभ्िचोदिते॥शोकेन द्वार्दशेनाह मनसैवेति निर्णयम् ॥८५॥ अत्यंतभेदाभावेऽपि भेदाभेदौ तयोरिति॥ मतं वारयितुं श्रोकस्त्रयोदँश इहोच्यते ॥८६॥ बोधादूर्ध्व च कर्तव्यमस्तीत्याशंक्य वार्यते ॥ चर्तुर्दशेन श्रीकेन संग्रहोऽत्र समाप्यते ॥८७॥ १. इहैव संतोऽथ विदयसतहयं न चेदवेदीन्महती विनष्टिः येतद्विदुरमृतास्ते भवंत्यथेतरेऽतो दुःखमेवापियंति। २ यद्वैतमतुपश्यसात्मा- नं वेदमंजसा। ईशानं भूतव्यस्प न ततो विजुगुप्स्यते।३ यस्मादर्वाक्सवत्सरोऽहोभि: परिवर्तते। तदेव ज्योतिषां ज्योतिरायुर्होपासतेऽमृ- Digitized by GOogle तं। ४ यस्मिन्पंचपंचजना आकाशश्र प्रतिष्ठितः । तमेवमात्मन्यात्मानं विद्वान्ब्रह्मामृतोमृते। ५ पाणस्य प्राण उतचक्षुषश्चक्षुरुत श्रोत्र- स्य श्रोत्रं मनसो ये मनोविदुस्ते निचिक्युर्ब्रहम पुराणं तस्य।६ मनसैवानुद्रष्टव्यं नेह नानास्ति किंच न। मृसोः स मृत्युमाप्नोति य इह नाने- व पश्यति। ७ एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्ुवं। विरजः पर आकाशादज आत्मा माहान् घृवः ८ तमेव धीरो विज्ञाय पज्ां कुर्वीत ब्राह्मणः। नानुध्यायाद्वहूञ्छाब्दान्वाचो विग्लापनं हि तदिति।
Page 232
अ०प्र० मंत्रब्राह्मणसंघेन यत्ततवं प्राङ्गिरूपितम् । तद्विदासाधनं सर्व मुनिरेष विवक्षिति ॥८८॥ अ० तत्रादौ वेदतत्त्वस्यातुवादेन परिस्फुटम्॥ निरूप्यते स्वरूपं तत्से वा इत्यादिवाक्यतः॥८९॥ ब्रह्म लादेव जीवस्य भ्रांतजीवलवारणात्॥ वशिताद्या जीवधर्मा: शिष्यंते सोऽयमीश्वरः॥ ९॥ जीवतवदशिलाद्या यद्यपि ध्रांतिकल्पिताः॥तथाप्येते समीचीनाः स्वन्े पुत्रात्ययो यथा॥९१॥ अत एव हि जिज्ञासुं प्ररोचयितुमीरितैः ॥ वशितायैः प्रेर्यतेऽसौ यज्ञादौ ज्ञानसाधने॥९२॥ जीवधर्माश्र्वेशधर्माः संतीत्येतन्न में मतम् ॥ असतामेव तेषां तु भानं मायिकमिष्यते॥९३॥ कादाचित्की सतोऽसत्तेत्येष नाशो न तेष्वतः॥ कालत्रयासत्बोधरूपो बाधस्तु संभवेत्॥९४॥ बाधिता अपि भासंते सामग्रीसंभवे सति॥ आरब्धाशेषसामग्रीविनिटतौ न भासनम्॥९५॥ निवृत्तत्वाज्ीवधर्मा भासंते नैव कस्यचित् ॥ अनिटृत्ता ईशधर्मा अकर्मापादिततवतः॥९६॥ Digitized by Google भांति ते लीश्वरस्यापि बद्दानां च स्वबुद्धितः ॥ ईश्वरस्य हि लीला तैर्बद्वानां वतिविस्मयः ॥९७॥ १ स वां एष माहातेज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोंतर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपति: स न साधुना कर्मणा भूयात्रो एवासाधुना कर्मणा भूयात्ो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिप तिरेष भूतपाल एष सतुर्वि- धारण एतेषां लोकानामसंभेदाय।
Page 233
सर्वेश्वरादिकः पूर्वशेषश्रवेदुपसंहृतिः ॥ उत्तरस्य तु शेषत्वे बुभुत्साविषयो भवेत् ॥९८॥ यः सर्वेशलादिलक्ष्यस्तं वेदाध्ययनादिभिः॥ज्ञातुमिच्छत्यविज्ञातः स एवार्थो यतस्ततः॥९९॥ बहिरंगं कर्मजातं संन्यासस्यांतरंगताः॥ प्रत्यासन्नाः शांतिदांतिक्षांत्याद्या इत्यसौ क्रमः॥३००॥ प्रत्यक्प्रवणतां बुद्देः कर्माण्युत्पाद्य शुद्धितः॥ कृतार्थान्यस्तमायांति प्राटडंते घना इव॥। १॥ सामर्थ्यमीहक् चेदस्ति कर्मणां तर्हि किं तव॥ ज्ञानेनेति न वक्तव्यं सुनिलार्थमपेक्षणात्॥२॥ बुभुत्सतेSयमात्मानं सवैर्यज्ञादिकर्मभिः ॥ एतमेव विदित्ाऽसौ मुनिर्भवति नान्यथा ॥३॥ अरुचिप्रतिबंधस्य कर्मभिः प्रक्षये सति ॥ गहस्थो वा परिव्राड्ा शास्त्रेणात्मानमीक्षते ॥४॥ जनकोषस्तगार्ग्यादेर्न स्याद्वेदनमन्यथा ॥ सुलभं तु परिव्राजो बहुविक्षेपवर्जनात्॥ ५॥ सोद्वापि कर्मविक्षेपं चित्तैकाय्ये क्षमो यदि॥ तदा वेत्तु गहस्थोऽपि प्रव्रजत्वन्यथा पुमान्॥६॥ अतो विदित्वेति वाक्यं सामान्यविषयं भवेत ॥ प्रव्रजंतीति वाक्यं तु विशेषेण प्रवर्तते ॥७॥ Digitized by सकृद्वोधो वेदनं स्यान्मुनित्वं ज्ञानशीलता ॥ अज्ञानहानिर्बोधात्स्याज्ीवन्मुक्तिर्मुनित्वतः ॥८।। yGoogle १ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवसेतमेव्र प्त्राजिनो लोकमिच्छंतः प्रव्रजंति । २ अरुचिपतिबंधः। 10
Page 234
अ०प्र० योऽकामस्तस्य न प्राणा उत्क्रामंतीति योजना॥ संसृतिः कामिनो यद्दकामो सुच्यते तथा४७ अ० दृष्टातुश्राविका बाह्यकामा यस्य न संत्यसौ॥ अकामस्तादृशत्वं तु निष्कामत्वेन सिध्यति।४८। विभ्रमापादिताः कामाः प्रत्यक्तत्वविवेकिनः॥यस्माद्विनिर्गताः सोऽयं निष्काम इति भण्यते४९ आप्तकामलतः सिद्धयेहुद्देः कामविनिर्गमः॥ अप्रात्तौ काम्यमानस्य कामः क्वापि न निःसरेत्५० एवं सत्याप्तकामत्वं निःकामलस्य साधनम् ॥ कामात्तौ लाप्तकामलमेवहेतुर्न चेतरत् ॥ ५१॥ # ************* निरुपाधि: परानंद आत्मेति श्रुतिसंमतः ॥ आनंदाः सर्वभूतानां तस्मिन्नंतर्भवंति हि ॥ ५२॥ पुत्रादिजन्या आनंदा अपि तस्मिन्नवस्थिताः॥तथा विद्यात्मकामोऽयमाप्तकामो भवेदयम् ५३ य ईदगाप्कामो यः स निष्कामो भ्रवेत्ततः॥ निष्कामलादकामः सन्संसारात्प्रविसुच्यते ॥५४॥ उत्पन्नतत्वज्ञानस्य प्राणा अज्ञानबाधनात्॥ नोक्रामंति न तिष्ठति न च नश्यंत्यहेतुतः॥५५॥ बंधस्य कल्पितत्वेन तन्मुक्तिरपि कल्पिता ॥ इत्यभिप्रायमाचष्टे ब्रह्मैवेत्यादिवाक्यतः॥५६॥ Digitized by Google अविद्याध्वस्तिमापेक्ष्य सम्यग्धीजन्ममात्रतः।।अत्मा ब्रह्मैव सन्साक्षाद्रह्माप्येतीति सुस्थितम५७ इत्येतत्सर्ववेदांतसर्वस्वं ब्राह्मणोदितम्॥ अस्यैवार्थस्य दार्ढ्यार्थ मंत्रोदाहरणं भवेत् ॥५८॥ कामिनः सर्वसंसारः पुरा मंत्रेण वर्णितः ॥ अकामस्य विमोक्षोऽत्र तथा मंत्रेण वर्ण्यते॥५९॥
Page 235
पुंसो हंदि श्रिताः कामा सुच्यंते निखिला यदा॥ तदानीममृतो भूला ब्रह्मैवात्र समश्नुते ॥६०॥ ननु ब्रह्माश्नुतेऽत्रेति जीवतो मुक्तिरीरिता। जीवत्वे को विशेषोऽस्य बंधान्मुक्तावितीर्यताम् ६१ अभिमान: पूर्वमासोद्देहादावधुना तथा ॥ नास्तीत्यत्रातिविस्पष्टः सर्पदृष्टांत उच्यते ॥६२॥ प्रत्यगज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके॥ नेति नेति स्वरूपलादशरीरो भवत्ययम्॥६३॥ स्थूलदेहं परित्यज्य लिंगदेहयुतो यदि॥ मृतस्तदा स्यान्न त्वेवममृतोऽसावतो भवेत् ॥६४॥ प्रकृष्टचेष्ठाहेतुलात्साक्ष्युक्तः प्राणशब्दतः ॥ को ह्येवान्यादिति प्रोक्तं चेष्ठाहेतुलमात्मनः ॥६५॥ साक्षिणो ब्रह्मरूपलं ब्रह्मैवेत्यभिधीयते । संसर्गशंकानुत्त्यर्थमेवकारः प्रयुज्यते॥६६॥ संयोग:समवायो वा नैव ब्रह्मात्मनोरिह ।I अखंडैकरसलं तु भवतीति विवक्षितम् ॥६७॥ तदेव विशदीकर्तु तेज एवेत्युदीर्यते।। चैतन्यं तेज इत्युक्तं तच्चैकमुभयोरपि॥६८॥ अविद्यादिनिटत्तिश् चैतन्यव्यतिरेकतः ॥ नास्तीत्येवमभिप्राय एवकारेण सूच्यते ॥ ६९॥ Digitized by Google तत्त्वविद्यारसाकृष्टः श्रोतुं वांछति संग्रहात्॥ साधनान्यपि विद्यायाः श्रोतुमिच्छति भूंपतिः ७० १ तदेष श्रोको भवति। यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि शरिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत इति॥ २ तद्यथाहि- निल्वयनी वल्मीकेऽमृता पत्यास्ता शयीतैव मेवेद५ शरीर शेतेऽथायमशरीरेऽमृतमाणो ब्रह्मैव तेजएव॥ ३ सोहं भगवते सहस्रं ददा- मीति होवाच जनको वैदेहः।
Page 236
अ०प्र० एतत्सर्व विवक्षु: सन्मुनिः संग्रहरूपिणः ॥ श्लोकानुदाहरत्तत्र ज्ञानमार्गमिमं जगौ ।७१ ॥ अ० शलोकेनादेन यः पंथाः प्रोक्तस्तस्मिन्मतांतरम्। उपन्यस्याथ सिद्धांतं प्राह श्रोकांतरेण स: ७२ ब्रह्मविन्मुक्तिमाप्नोति तेन बोधात्मना यथा॥ पुण्यकृतैजसश्रादौ भूलाऽथ ब्रह्मविद्रवेत्॥७३॥ ।१८॥
तेजः शब्देन संशुद्धाबुद्धिरेवाभिधीयते ॥ पुण्ये कृते बुद्धिशुद्धौ विद्या स्यास्मर्यते तथा॥७॥ यत्पुण्यं बुद्धिशुध्यर्थ यो योगश्र्वात्मबोधकृत्॥श्रोके द्वितीये तौ प्रोक्तौ ततीये लन्यथोच्यते।७५॥ यत्कांम्यं कर्मयोगश्र योऽणिमादिप्रदो द्यम्॥ तत्संसारस्यैव हेतुर्न मुक्तावुपयुज्यते॥७६॥ युज्यते सुक्तभावोऽयं तत्त्वबोधविवर्जनात्॥ जन्म प्रवाह एवातश्र्तुर्थे श्रोक ईर्यते॥७७॥ ब्रह्मातुभवयुक्तानां विशेषो दुःखसंक्षयः ॥ श्लोकेन पंचमेनात्र विस्पष्टमभिधीयते ॥७८॥ नदुःखक्षय एवास्य किंतु विश्वस्य कर्तता॥ सर्वलोकात्मका चेति षष्ठे श्लोक उदीर्यते ॥७९॥ Digitized by Google १ तदेते श्रोका भवंत्यणुः पंथा विततः पुराणोऽससपृष्टो न वित्तो मयैव। ते न धीरा अपि यंति ब्रह्मविदः स्वर्गलोकमित ऊर्ध्व सु. क्ाः ॥ २ तस्मिञ्छुक्तमनु नीलमाहु: पिंगलए हरितरोहितं च। एष पंथा ब्रह्मणा हनुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश् ॥३ अं- धे तमः प्रविशंति ये विद्यामुपासंते। ततो भूय इव ते तमो येऽविद्याया रताः॥8आनंदा नाम ते लोका अंधेन तमसावताः। तांस्ते मेत्या- ।१५॥ भिगच्छंस विद्वां सोडबुधा जनाः । ५ आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्। ६ यस्या- त्ुविच: प्रतिबुत्ध आत्माऽस्मिन्संदेहोत्थे गहने प्रविष्ठः। स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोक: सकललोक एव।
Page 237
शास्त्राधिकारयुक्तेऽस्मिन्देहे विद्यात्परं पदम्॥ अन्यथाऽनर्थ इत्येवं सप्तमे श्लोक ईर्यते॥८०॥ गर्भप्रवेशादिरूपा जुगुप्सा नात्मवेदिनः ॥ इत्येषोऽर्थोऽष्टमे शलोके विस्पृष्ठमभिधीयते ॥८१॥ निःशेषविक्रियाहेतुः कालातिक्रमहेतुतः ॥ देवैरुपास्य इत्येतन्नवँमे श्लोक उच्यते ॥८२॥ चेतनाचेतनाधार आत्माऽस्य ब्रह्मतोचिता। इति दर्शयितुं श्लोकं दशमं श्रुतिरब्रवीत् ॥८३॥ प्राणादिसंघ आत्मा स्यादेतस्य ब्रह्मता कथम्॥ इत्याशंक्योत्तरं श्ोक एकादश उदीर्यते॥८४॥ त स्यास्य दर्शनोपायः कः स्यादित्यभिचोदिते॥शोकेन द्वादशेनाह मनसैवेति निर्णयम् ॥८५॥ अत्यंतभेदाभावेऽपि भेदाभेदौ तयोरिति ॥ मतं वारयितुं श्रोकस्त्रयोदँश इहोच्यते ॥ ८६॥ बोधादूर्ध्व च कर्तव्यमस्तीत्याशंक्य वार्यते ॥ च्तुर्दशेन श्ोकेन संग्रहोऽत्र समाप्यते ॥८७॥ १ इहैव संतोऽथ विदयसतदयं न चेदवेदीन्महती विनष्टिः येतद्विदुरमृतास्ते भवंत्यथेतरेऽतो दुःखमेवापियंति। २ यद्वैतमनुपश्यसात्मा- नं वेदमंजसा। ईशानं भूतव्यस्य न ततो विजुगुप्स्यते।३ यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते। तदेव ज्योतिषां ज्योतिरायुहोपासतेऽमृ- Digitized by Google तं । ४ यस्मिन्पंचपंचजना आकाशश्र प्तिष्ठितः । तमेवमात्मन्यात्मानं विद्वान्व्रह्मामृतोऽमृते। ५ प्राणस्य प्राण उतचक्षुषश्चक्षुरुत श्रोत्र- स्य श्रोत्रं मनसो ये मनोविदुस्ते निचिक्युर्ब्रह्म पुराणं तस्य।६ मनसैवानुद्रष्टव्यं नेह नानास्ति किंच न। मृयोः स मृत्युमाप्नोति य इह नाने- व पश्यति। ७ एकधैवानुद्रष्टव्यमेतदपमेयं धुवं। विरजः पर आकाशादज आत्मा माहान् घृवः ८ तमेव धीरो विज्ञाय पज्ञां कुर्वीत In cir ब्राह्मणः। नानुध्यायाद्वहञ्छाब्दान्वाचो विग्लापनं हि तदिति। सर
Page 238
अ०प्र० मंत्रब्राह्मणसंघेन यत्तर्वं प्राङ्गिरूपितम् ।। तद्विद्यासाधनं सर्वमुनिरेष विवक्षिति॥८८॥ अ० तत्रादौ वेदतत्त्वस्यानुवादेन परिस्फुटम॥ निरूप्यते स्वरूपं तत्स वा इत्यादिवाक्यतः॥८९।। ब्रह्म ला देव जीवस्य भ्रांतजीवलवारणात्॥ वशिताद्या जीवधर्माः शिष्यंते सोऽयमीश्वरः ९०॥ जीवलवदशिलाद्या यद्यपि भ्रांतिकल्पिताः॥ तथाप्येते समीचीनाः रवन्े पुत्रात्ययो यथा॥९१॥ अत एव हि जिज्ञासुं प्ररोचयितुमीरितैः ॥ वशितायैः प्रेर्यतेऽसौ यज्ञादौ ज्ञानसाधने॥९२॥ जीवधर्माश्र्वेशधर्माः संतीत्येतन्न मे मतम् ॥ असतामेव तेषां तु भानं मायिकमिष्यते॥९३॥ कादाचित्की सतोऽसत्तेत्येष नाशो न तेष्वतः॥ कालत्रयासतबोधरूपो बाधस्तु संभवेत्॥९४॥ बाधिता अपि भासंते सामग्रीसंभवे सति॥ आरब्धाशेषसामग्रीविनिवृत्तौ न भासनम् ॥९५॥ निवृत्तत्वाज्ीवधर्मा ासंते नैव कस्यचित् ॥ अनिटत्ता ईशधर्मा अकर्मापादितलवतः ॥९६॥ Digitized by Google भांति ते लीश्वरस्यापि बद्धानां च स्वबुद्धितः ॥ ईश्वरस्य हि लीला तैर्बद्वानां ततिविस्मयः ॥९७॥ १ स वा एष माहातेज आत्मा योडयं विज्ञानमयः प्राणेषु य एषोऽतर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयात्रो एवासाधुना कर्मणा भूयात्ो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिप तिरेष भूतपाल एष सतुर्वि- भारण एतेषां लोकानामसंभेदाय।
Page 239
सर्वेश्वरादिकः पूर्वशेषश्र्वेदुपसंहृतिः ॥ उत्तरस्य तु शेषत्वे बुभुत्साविषयो भवेत् ॥९८॥ यः सर्वेशलादिलक्ष्यस्तं वेदाध्ययनादिभिः॥ज्ञातुमिच्छत्यविज्ञातः स एवार्थो यतस्ततः॥९९॥ बहिरंगं कर्मजातं संन्यासस्यांतरंगताः॥ प्रत्यासन्नाः शांतिदांतिक्षांत्याद्या इत्यसौ क्रमः॥३००॥ प्रत्यक्प्रवणतां बुद्धे: कर्माण्युत्पाद्य शुद्धितः॥ कृतार्थान्यस्तमायांति प्राटडंते घना इव॥१॥ सामर्थ्यमीहक् चेदस्ति कर्मणां तर्हि किं तव॥ ज्ञानेनेति न वक्तव्यं सुनिलार्थमपेक्षणात्॥२॥ बुभुत्सतेऽयमात्मानं सवैर्यज्ञादिकर्मभिः ॥ एतमेव विदिलाऽसौ मुनिर्भवति नान्यथा ॥ ३॥ अरुचिप्रतिबंधस्य कर्मभिः प्रक्षये सति ॥ गहस्थो वा परिव्राड्ा शास्त्रेणात्मानमीक्षते ॥४॥ जनकोषस्तगार्ग्यादेर्न स्याद्वेदनमन्यथा ॥ सुलभं तु परिव्राजो बहुविक्षेपवर्जनात्॥ ५॥ सोद्वापि कर्मविक्षेपं चित्तकाग्ये क्षमो यदि॥ तदा वेत्तु गहस्थोऽपि प्रव्रजत्वन्यथा पुमान्॥६॥ अतो विदित्वेति वाक्यं सामान्यविषयं भवेत। प्रव्रजंतीति वाक्यं तु विशेषेण प्रवर्तते ॥७॥ Digitized by GOogte सकृद्दोधो वेदनं स्थान्मुनित्वं ज्ञानशीलता ॥ अज्ञानहानिर्बोधात्स्याज्ीवन्मुक्तिर्मुनित्वतः॥८।। १ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवसेतमेत्र पत्राजिनो लोकमिच्छंतः प्रत्रजंति । २ अरुचिपतिबंध:।
Page 240
अ०प्र० बुद्धोऽपि न मुनिः स्याच्चेद्विद्वत्सन्यासमाचरेत्॥ एत्द्वेस्मेति वाक्येन तदेतदभिधीयते॥९॥ अ० परिव्राड़िबुद्ध आत्मा कीदगित्यभिशंकिते॥स एषं नेति नेतीति श्रुतिः प्राहोत्सुका सती॥१०॥ नतु भिक्षादिना देहपोषणादौ समे सति॥ आत्मतत्त्वविदः कोऽतिशयो मूढादितीर्यताम्॥११॥ सर्वेषामपि मूढानां चित्ते स्तःपुण्यपापयोः ॥ एतमेवैकमात्मज्ञं चित्ते द्वे प्रापुतो नहि॥१२॥ उभे उहेति हेतूक्ते तञ्चिंताया असंभवे ॥ अतिक्रामति त्त्वज्ञः पुण्यपापे उभे अपि॥ १३॥ कृते देहादिभिर्वास्तां दे कृते वा द्विधाऽपि च॥ एवं तत्वविदं ते द्े नैव तापयतः क्वचित्॥१४॥ अंतरंगतरा ये ते शांतिदांत्यादयोऽखिलाः॥ वक्तव्या इत्यभिप्रेत्य श्रुतिस्तत्र प्रवर्तते॥१५॥ रुचिमान्कर्मसंन्यासी युक्त:शमदमादिभिः ॥ मुख्याधिकारी भूलाऽसावात्मन्यात्मानमीक्ष्यते पुण्यं च जन्महेतुत्वादत्र पाप्मेति वर्ण्यते ॥ कर्महानिः पूर्वमुक्ता या तस्या उपसंहतिः॥१७॥ ब्रह्मत्वमेव ब्राह्मण्यमित्यभिप्रायमात्मनः ॥ विशदीकर्तुमाहैष ब्रह्मलोक इतीहशम्॥ १८॥ Digitized by Google १ एतद्ध स्म वैतत्पूर्वे विद्वासः प्रज्ञां न कामयंते कि पजया करिष्यामो येषां नो Sयमात्माय लोक इति तेह स्म पुत्रैषणाया वित्तैषणाया श्र लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरंति या ह्ोव पुत्रैषणा सा वित्तैषण या वित्तैषणा सा लोकैषणोभे होते एषणे एव भवतः। २स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्षों नहि शीर्यतेऽसंजातो नहि सज्जतेSसितो न व्यथते न रिष्यति।३ एतमुहैवैते न तपत इत्यतः पापमकरवमित्यतः कल्यणमकरवमित्युभे उह्ैवैष एते तरति नैनं कृताकते तपतः। ४ पाणपोषणम्।
Page 241
ससाधनाया विद्याया: संपूर्णलादयं नृपः ॥ स्वदेहसहितं राज्यं सुरवेऽस्मै न्यवेदयेत् ॥१९॥ आख्यायिकां परित्यज्य श्रुतिरस्मदनुग्रहात्॥सगुणं निर्गुणं ब्रह्म संक्षिप्योचे स वी इति॥।२०।। पूजास्वीकारदातलगुणयुक्तं महेश्वरम् ॥ य उपास्ते पुमानेष यथेष्टं लभते धनम् ॥२१॥ विद्ृद्दृंष्या स एवात्मा जरामरणवर्जतः ॥ आनंदो भयहीनश् ब्रह्मैवाजो न चेतरः ॥२२॥ य एवं ब्रह्म जानाति तद्रह्मैव भवत्यसौ ॥I हिशब्दोऽशेषवेदांतप्रसिद्धं सूचयेदिह॥२३॥ जनकायात्मविद्यैषा याज्ञवल्क्येन वार्णिता। तव्दाख्यानेनानुग्ह्याद्विद्यातीर्थमहेश्वरः॥३२४॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे जनकविद्याप्रकाशो नामाष्ठादशोऽध्याय:।१८॥ शाखा तलवकाराणां सामवेदगताऽस्ति या॥ विद्योक्ता तत्र संक्षेपात्तां विस्पष्टमिह ब्रुवे॥१॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया॥ इत्यर्जुनाय भागवानाह प्रश्नाख्यसाधनम्॥२॥ १ तदेतटचाभ्युक्तमेष नित्यो महिमा ब्राह्मणस्य स न वर्धते कर्मणा नो कनीयान्तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पाप- Digitized by Googte केनेति तस्मादेवंविच्छांतो दांतो उपरतस्तितिक्षु: समाहिती भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैन पाप्मा तरति सर्व पा- प्मानं तरति नैनं पाप्मा तपति विपापो विरजी विचिकित्सो ब्राह्मणो भवत्येष ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राळिति होवाच याज्ञवल्क्य:सोऽहं भगते विदेहान्ददामि मा च सहदा स्यामिति स वा एष माहानज आत्मान्नादो वसुदानो विंदते वसु य एवं वेद। २ स वा एष महानज आत्मा5जरोSमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयः हिवैब्रह्मन्भवति य एवं वेद।
Page 242
अ०प्र० नाष्टष्टः कस्यचिद्रयान्न चान्यायेन एच्छतः ॥ जानन्नपि तुमेधावी चडवल्लोकमाचरेत्॥३॥ अ० इति शास्त्रमवेक्ष्यात्र कश्विच्छिष्यगुणान्वितः ॥ उपसद गुरुं सम्यगप्राक्षीदात्मबुद्दये॥४॥ ।१९॥ मनः प्राणौ श्रोत्रचक्षुर्वाचश्र् वपुषि स्थिताः ॥ प्रवर्तैते स्वस्वकार्ये विद्यते प्रेरको नवा ॥५॥ न चेत्तर्हि जडत्वेन प्रवत्तिर्मनआदिषु ॥ न स्याद्विना प्रेरकेण शकटादयप्रवत्तितः॥६॥ चैतन्यमिंद्रियाणां चेद्रह्मासत्वं प्रसज्यते॥ इंद्रियेभ्यश्रेतनोऽन्यः प्रेरकोऽयुपगम्यताम् ॥७॥ इंद्रियैः साधनैर्जीवोयः कर्ताऽसौ प्रवर्तकः ॥ इतिचेन्न यतो जीवे पारतंत्र्यमवेक्ष्यते॥८। व्यापारामंद्रियोत्थानं न करिष्येऽसुमित्ययम्॥ संकल्प्यापि करोत्येव भूताविष्ठ इवातुरः॥९॥ इंद्रियाधिष्ठातदेवा न स्वतंत्रा यथा वयम् ॥ धर्माधर्मात्मकं कर्म न स्वतंत्रं जडत्वतः॥ १०॥ तस्मात्केन प्रेरितं सद्विषयान्मतुते मनः॥ कर्तुमुछासनिश्वासौ प्राणः केन प्रणीयते ॥११॥ Digitized by Google . वाक्चक्षुश्रोन्नमुख्यानि प्रेरयेत्करणानि कः॥ ईश्वरश्र्वेक्किमेकोऽसौ बहवोऽमीत्युतेर्यताम्॥१२॥ प्रवर्त्यानामनंतत्वाद्वैलक्षण्याच्च नैकता॥ नैकमत्यं बहुत्वे स्याद्हुराजकदेशवत् ॥१३ ॥ उक्तदोषनितृत्त्यर्थ सुरुर्वचनमत्रवीत्। श्रोत्रस्य श्रोत्रमित्यादि तदर्थस्तु विविच्यते ॥१४॥ अंतर्याम्येक एवेशः स च सर्व नियच्छति॥ अधीयंते पथिव्यादौ स्थितं वाजसनेयिनः॥१५॥
Page 243
स्थिला मनस्यांतरोऽस्माज्ज्ञायते मनसा न सः॥ मनस्तस्य शरीरं स्यान्नियच्छत्यांतरो मनः॥१६॥ एवं श्रुतः स सर्वेषु प्राणवागादिवस्तुषु॥ अंतः प्रविष्ठः शास्ताऽयमिति श्रुत्यंतरं जगौ॥ १७॥ सत्यं ज्ञानमनंतं यद्रह्म वेदेषु वर्णितम् ॥ तदेव मायासंयोगादीश्वरत्वं प्रपद्यते ॥१८॥ मायां तुप्रकृतिं विद्यान्मायिनं तु महेश्वरम्॥पराऽस्य शक्तिर्विविधा ता मायाशक्तयोऽखिला:१९ मायाभिरीशो बहुधा भाति सर्वेषु वस्तुषु॥ श्रोत्रशक्तिसुपादाय श्रोत्रं सृष्टाऽत्र भात्यसौ॥२०॥ येन शब्द: श्रूयते तच्छ्ोत्रं श्रोत्रत्वमस्य यत्॥ तस्येशशत्तया सृष्टत्वाच्छोत्रस्य श्रोत्रमीश्वरः२१ व्याकृताव्याकृताकारौ यौ श्रोत्रस्य तयोरिदम्॥श्रोत्रं व्याकृत आकारःशक्तिरव्याकृताभिधार२ तच्छक्तयुपहितत्वेन ब्रह्मापि श्रोत्रमुच्यते ।। शृणोत्यकर्ण इत्युक्तं श्रोत्रशक्तियुतत्वतः॥२३॥ षष्टचंतं करणं तस्य प्रथमांतं प्रवर्तकम्॥ मनसो मन इत्यादावयं न्यायः समीक्ष्यताम् ॥२४॥ एकत्वेऽपीश्वरस्येत्थं तच्छक्तीनां बहुततः । विलक्षणाऽनंतवस्तुप्रेरणं संभविष्यति ॥२५॥ Digitized by Google अक्षाधिष्ठातदेवेषु जीवेष्वक्षेषु चेश्वरः॥ अंतर्यामितया स्थित्वा नियच्छति यथातथम् ॥२६॥ शक्तौ चिदाभासवत्यां स्थिता नियमनक्रिया॥ तदधिष्ठानचैतन्ये नियंतृत्वं प्रकल्पितम्॥२७॥ नियंतृत्वोपाधिना यः परमात्मोपलक्षितः॥ तमिंद्रियनिरोधेन धीराः पश्यंति योगिनः ॥२८॥
Page 244
BEEEEE*EEEEE 5 EEEEEEE अ०प्र० अदर्शने त्वहंकारतादात्म्यं चिति कल्प्यताम्।।तादात्म्याध्यासतो जीवो भूत्वाऽसौ बंधमाप्ुयात्२९ अ० अध्यासवारिका बुद्धिर्येषां धीरास्त ईरिताः॥ बंधान्मुक्त्वा वपुस्त्यक्त्वा ते स्युर्मरणवर्जिताः३० ऐक्यभ्रांतिर्बैधकृत्स्यादृहंकारचिदात्मनोः ॥ तद्विवेके कुतो बंधः शरीरं चात्मनःकुतः॥३१॥ देहप्राणवियोगः स्यान्मरणे यस्य तौ नहि॥ तद्वियोगः कथं तस्य चिदेकरसवस्तुनः ॥३२॥ बंधो देहो मतिर्बोधमात्राच्चेत्संति नो तदा॥ सर्वे बुध्वा निजात्मानं कृतकृत्या: कुतो नहि ॥३३॥ ुरूपदेशरहिता आत्मानं बोडुमक्षमाः॥ चक्षुर्वागादयो यस्मान्न गच्छंति चिदात्मनि ॥३४॥ चक्षुरन गच्छेन्नीरूपे वागवाच्य कथं भवेत्॥ अविकल्पमसंकल्पं गृहीतुं न मनोर्ऽर्हति॥३५॥ एवं सति कथं यूयं जानीथ मनसेति चेतु ॥ आचार्यनिरपेक्षेण न विद्यो मनसा वयम्॥३६॥ आचार्योऽपि कथं ब्रयादवाच्यमिति चेद्यथा॥ बोधयेदभिधावृत्त्या तं प्रकारं न वेग्महम्॥३७॥ षष्ठीगुणत्रियाजाति रूढयः शब्दहेतवः॥ नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते॥३८॥ Digitized by Google इदशं यूयमाचार्याच्छुतवंतः क्थं त्विति ॥ ब्रूषे चेच्छुश्रुमात्मानमतद्यावत्तितो वयम्॥३९॥ ज्ञातं चाज्ञातमित्येव जगद्वेधावभासते ॥ तस्योभ्यस्य व्यावृत्या परमात्मावशिष्यते॥४०॥ ।।१0९॥
धीटत्तिविषयीकृत्य यद्वटाद्यवभासयेत्॥ विदितं तद्यत्र नो धीस्तत्स्यादविदितं खलु ॥४१॥
Page 245
ज्ञाताज्ञाते साक्षिभास्ये स साक्षी भासते स्वयम्॥ज्ञाता ज्ञातपरित्यागे साक्षिशेषो ह्यतिस्फुटः४२ वेद्मीति यद्वलादात्थ न वेद्मीत्यपि यद्लात् ॥ तदन्यनिरपेक्षं सद्गातीत्यस्मद्गुरोर्वचः ॥४३॥ अज्ञातज्ञातयोः साक्षी ब्रह्मेत्येवंविधा तुधीः॥ आज्ञानं नाशयत्येव न ब्रह्म स्फोरयत्यसौ ॥४४॥ स्वत: स्फुरण रूपेऽस्मिन्किमन्यत्स्फुरणं भवेत्।। स्फोर्यला भावतस्तस्य न मनोगम्यता भवेत् ४५ आवाङ्नसगम्यं तदाचार्येणोपदिश्यते ॥ शिष्येण बुध्यते चेत्थं न किंचिन्नोपपद्यते॥ ४६॥ यन्नाभिधीयते वाचा वाग्येन प्रेर्यते सदा॥ ब्रह्म विद्धि तदेवत्वं न त्विदं यट्ठुपासते॥४७॥ उपासकास्तु सर्वज्ञसर्वशत्त्यादिशब्दतः॥वाच्यं स्वभिन्नं ध्यायंति न मुख्यं ब्रह्म तद्रवेत्॥४८॥ स्फोर्यते मनसा यन्न स्फोरकं मनसस्तु यत् । तद्रह्म विद्धि न त्वेतद्त्तु स्फोर्यसुपासते॥४९॥ भावनाजन्यवृत्त्यैव स्फोर्य ध्यायंत्युपासकाः॥ उपासकेन हइयं तद्रह्म मुख्यं कर्थ भवेत्॥५०॥ न दृश्यते चक्षुषा यच्चक्षुषो भासकं तु यत्॥ तद्रह्म विष्णुमूर्त्यादेर्न मुख्यब्रह्मताऽस्ति हि॥५१॥ Digitized by Google न श्रूयते यच्छोत्रस्य साक्षी यद्रह्म तद्गवेत्। श्रुतं प्रणवनामादि न मुख्यब्रह्मतामियात्॥५२॥ न प्रेर्यते यत्प्राणेन प्राणस्य प्रेरकं तु यत् । तद्रह्म न तु हंसाख्यमंत्रः प्राणप्रचोदितः॥५३॥ अन्यैरपींद्रियैर्गम्यं न यत्किंत्वक्षभासकम्॥ ब्रह्म विद्वि तदेव व्वंन व्विदं यदुपासते ॥५४॥
Page 246
अ०प्र० सर्वप्रत्ययवेद्यं यत्सोपाधि ब्रह्म विद्यते ॥ उपासकात्प्ृथग्भूतं तदेवोपासते जनाः॥५५॥ अ० 1199 oll ब्रह्माभासमिदरूपमुपेक्ष्यानिदमात्मकम्॥ मुख्यब्रह्मैव साक्ष्यास्यं ज्ञात्वा स्वानुभवं वद॥।५६।। त्वत्कारुण्यात्सुष्तु वेद ब्रह्माहमिति वक्षि चेत्॥ अल्पं वेत्सि न संपूर्ण ज्ञातज्ञेयविभेदतः॥५७॥ अखंडैकरसे तत्वे ज्ञातृत्वं प्रत्यगात्मनः ॥ देवस्य ब्रह्मते ्येवं खंडनादल्पवेदनम् ॥५८॥ मीमांस्यमेव तेऽथापि भेदभ्रमनिटृत्तये॥ मीमांसित्वा निश्र्यं ते वदेत्युक्तस्तथाऽकरोत् ॥५९॥ भेदभमो निवत्तोऽद्य यथाशास्त्रं विचारतः ॥ सुवेदेति न वेदेति द्वा्यां हीनं तु शेषितम् ॥६०॥ स्वप्रकाशं तमात्मानं तथात्वेनैव वेडयहम्॥ नान्यथाऽतो यथाशास्त्रं बुद्धं ब्रह्मेति निश्रयः॥६१॥ सुवेदेत्यक्षविषये न वेदेत्यप्यभासिते ॥ वक्तुं युक्तं स्वयं भाते कथं तद्युज्यते द्रयम् ॥६२॥ मध्येऽस्माकं हे सखायो ज्ञाता ज्ञातत्ववर्जितम।। ब्रह्मेति वेत्ति योऽसौ हि यथाशास्त्रं विबुद्धवानू६३ Digitized by Google .. r. यल्लौकिकं वस्तु यञ्च ब्रह्म तद्धि विलक्षणम्॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥६४॥ लोके घटो मतो येन स घटज इतीर्यते॥ येन मंत्रा मतं ब्रह्म न त्वसौ ब्रह्मविद्गवेत् ॥६५॥ मंतृमंतव्यरूपेण विविधत्वं विजानता ।I अविज्ञातं ब्रह्मत्त्वमखंडैकरसात्मकम् ॥६६॥ विविधत्वमविज्ञाय यदखंडत्ववेदनम् ॥ तद्गवेद्रह्मविज्ञानं धीमद्विर्बुध्यतां तथा ॥६७॥
Page 247
ईटशः प्रतिबोधो यस्तेन चेद्विदितं तदा। मतं ब्रह्म भवेद्विद्वानमृतत्वं हि विंदते ॥६८॥ नित्यानित्यविवेकादियुक्तेन मनसा पुमान् ॥ वेदितुं लभते वीर्य विद्यया विंदतेऽमृतम् ॥६९॥ देहे प्राणवियोगाख्यामृतिरात्मनि कल्पिता॥ अविद्यया विद्यया तु भ्रांतिः सा विनिवर्तते ७० नैव जन्मनि सर्वस्मिन्विद्यासौ सुलभाऽपि तु॥ शिष्यलक्षणसंपूर्णजन्मन्येव हि लक्ष्यते ७१ ईश्वरानुग्रहाच्छांतिदांत्यादिगणसंयुतम्। जन्म चेल्भ्यते तस्मिन्विद्यया मोक्षमापुयात्॥७२॥ नावेदि चेदिहालस्याद्विनष्टिर्महती भवेत्॥ कदाचिज्जन्म पश्वादिरूपं स्यादिति वेत्ति कः॥।७३॥ तस्माच्छास्त्राधिकारेण युक्तं विप्रादिजन्म चेत्। लभ्यमालस्यरहितो विद्यादात्मानमद्यम७ नानात्मलभ्रमोच्छित्यै तत्तद्व हेष्ववस्थितम्॥ स्वात्मत्वेनैव निश्चित्य धीरा यांति कृतार्थताम् ७५ मायमा दृश्यते लोको येऽस्मात्प्रेत्य स्थिताःपरे॥न तेषां जन्ममरणे विद्येते कार्हेचित्कचित्७६ ईश्वरानुग्रहादेव अवेदद्वैतवासना । नान्यथेति विवक्षिला काचिदाख्यायिकोच्यते ॥७७॥ Digitized by oogle देवार्थमीश्वरो युद्धे विजयं कुरुते सदा ॥ अज्ञालाऽनुग्रहं देवा जयगर्व प्रपेदिरे॥ ७८॥ जयः स्वकीय इत्येवं देवाभिप्रायमीश्वरः॥ ज्ञाला देवान्बोधयितुं तेषां प्रादुर्बभौ पुनः ॥७९॥ देवाःसभासदो दृष्टा वपुरैशमलौकिकम् ॥ किमेतदिति विज्ञातुं प्रेरयंताग्निमंतिके ॥ ८० ॥
Page 248
BEEEEEEEEEEE EEEEE EEREEES अ०प्र० समागतं वन्हिमीश: को भवानिनि एष्टवान्॥ जातवेदोऽग्निनामाहमिति गर्वितवानसौ॥८१॥ अ० तयि किं वीर्यमित्याह गर्व भंकुं परेश्वरः॥ अग्निः सर्वं दहामीति वाक्यं गर्वादवोचत ॥८२॥ स्वदत्तां शक्तिमाहत्य दहेति तणमित्यमुम्॥ उवाचेशः सोऽपि दग्धुं न शशाकैव तत्तृणम्।।८३। अग्निवद्वायुरप्यत्र गर्वे भग्ने निठत्तवान् ॥ निर्गर्वमिंद्रं दृष्ट्रेशः परीक्षायै तिरोभवत् ॥८४॥ इंद्र ईशप्रसादार्थी तस्थावूर्ध्व विलोकयन् ॥ अनुगहीतुमिंद्रं तमुमारूपोऽभवद्दरः ॥८५॥ देवि हष्ट पुरा देवैः कि तदूहीति एष्ठवान् ॥ तद्रह्मानुग्रहात्तस्यजयोऽभूदित्युवाच सा ॥८६॥ उत्कृष्ठा अग्निवाय्विंद्रा ईषत्संभाषणादमी॥तेषामपीद्रः पुण्यात्माऽनुग्रहोऽप्यधिको यतः।८७।। ईशानुग्रहसिध्यर्थ ब्रह्मोपास्यं मुमुक्षुभिः ॥ तच्चाधिदैवमध्यात्ममधिभूतमुपास्यताम्॥८८॥ आविर्भावतिरोभावौ विद्युद्दद्रह्मणि स्थितौ ॥ ततो विद्युदुपाध्येतद्रह्म स्यादधिदैवतम्॥८९॥ Digitized by Google. मनोऽध्यात्ममुपाधि स्यात्स्मतिसंकल्पसंयुतम्॥ तद्दनेति ब्रह्म नाम तन्नामकमुपास्यताम्॥९०॥ यत्तैः संभजनीयं तद्गवेत्तद्वननामकम् । तथैवोपासितं ब्रह्म दद्यादाचार्यसंपदम् ॥ ९१॥ तदुपासकमीशानुग्हीतं ब्रह्मवेदिनम्॥ वांछंति विद्यां ब्रूहीति भक्तिमंतोऽखिला जनाः ॥९२॥ 1999n
हेशिष्य ब्रह्मविद्या ते कथितात्यंतविस्तरात्॥ श्रोत्रस्य श्रोत्रमित्यादेस्तद्विदासाधनं शृणु॥९३॥
Page 249
वेदाःषडंगसहिता अग्निहोत्रादि कर्म च । कृछादिकं तपो दांतिस्तैर्विद्या प्रतितिष्ठति॥९४॥ यत्सत्यं बाधरहितं तद्विद्यायतनं खलु॥ साधनैः साधिता विद्या सत्येऽस्मिन्पर्यवस्यति ॥ ९५॥ अज्यते सुष्यु यन्मुक्तिपदं तत्स्वर्ग उच्यते ॥ अनंतो नाशराहित्याज्ज्येष्ठः सर्वोत्तमल्तः ॥९६॥ मुख्याधिकारिणः प्रषुः शिष्यस्य ब्रह्मबोधनम्॥ ससाधनं सदाचार्य एवमत्रोपदिष्ठवान्॥९७॥ विद्यामेतां वेद योऽसौ पाप्मानं प्रतिबंधकम्॥अपहत्य विमुत्त्याख्ये स्वर्गेऽस्मिन्प्रतितिष्ठति९८ अवाङ्मनसगम्यतमुपदेशश्र वेदनम् ॥ अविरोधेन तत्सर्व विस्पष्टमिह वर्णितम्॥ ९९॥ विद्या तलवकाराणां शाखायां श्रूयते स्फुटम्॥ तद्याख्यानेन संतुष्याद्विद्यातीर्थमहेश्वरः १०० इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे तलवकारविद्याप्रकाशो नामैकोनविंशोऽध्याय:१९ अथर्वणे तापनीये उत्तरस्मिन्प्रजापतिः ॥ देवानबूबुधन्मंत्रराजप्रणवमार्गतः ॥ १॥ मंत्रराजं पूर्वतापनीयं श्रुला तदा धिया॥ ध्यायंतः सगुणं ब्रह्म देवा धीशुद्धिमाप्ुवन् ॥२॥ Digitized by Google ततस्ते निर्गुणं ब्रह्म पप्रच्छः शुद्धबुद्दयः॥ अणोरणीयान्यः प्रत्यङ् प्रणवे तंतदा प्रभो॥।३॥ परमाणोर्योगिनेत्रगम्यं रूपं यदस्ति तत्। प्रतीचो नास्त्यतः प्रत्यङ्गणीयान्परमाणुतः ॥४॥ ऊकारो वाचकस्तस्य प्रतीकं वेति हि श्रुतम्॥ॐकारेणात्मनो ध्यानं वदास्मभ्यं सविस्तरम्॥५॥
Page 250
अ०प्र० श्रूयतामयमोंकारो निःशेषजगदात्मकः ॥ इति ध्यात्ा ब्रह्म सर्वमात्मा ब्रह्मेति वै स्मरेत् ॥६॥ अ० ।११२॥ यदोंकारस्य सार्वात्म्यं ध्यानायैतन्न वस्तुतः॥ यद्रह्मणस्तु सार्वात्म्यं वस्तुतोऽप्येतदीक्ष्यताम् ७ ब्रह्म स्यात्सच्चिदानंदरूपं सर्वेषु वस्तुषु। विद्यंते सच्चिदानंदा इति ह्यूर्ध्व प्रवक्ष्यते ।।८।। ।२ ।
देहेंद्रियादिसाक्षी य आत्माऽस्मिन्ब्रह्मरूपताम्॥ सच्चिदानंदरूपल्ादसंसारिणि युज्यते ॥९॥ देहादुपाधिसंबंधात्संसारित्वं चिदात्मनः ॥ स्वतः सोऽयमसंसारी ब्रह्मत्वं युज्यते ततः॥ १०॥ 3ित्युच्चारयन् ध्याता स्वात्मानं ब्रह्मणा सह॥ एकीकृत्य पुनर्ब्रह्माप्येकीकुर्यात्तथात्मनः॥।११॥ तथा हंस: सोऽहमिति व्यतिहारोऽत्र लक्ष्यते॥ विचिंत्यान्योऽन्यतादात्म्यं तथैवातुभवेदिदम१२ बुद्धिस्तदाकृति कृला यावन्नैश्ल्यमापुयात् ॥ तावद्रवेदनुभवो जरामरणवर्जिते ॥१३॥ चलितानुभवाहुद्विर्बहिश्र्वेद्गंतुमुदता । तदा बाह्यनिवत्त्यर्थ कुर्यादारोपसंहृती ॥१४॥ स्थूलं सूक्ष्मं कारणं च शरीरत्रयमात्मनि॥ माययाSSरोपितं ध्याता बोधाल्लीनमिति स्मरेत् १५ ed by Google तदाऽप्योंकारमुच्चार्य नादांते निर्विकल्पकम्॥ चित्तं कृला यथाशक्ति स्वात्मतत्त्वे स्थिरो भवेत्१६ निर्गते तु पुनश्र्वित्तेऽधिदैवाध्यात्मभेदतः ॥ यद्वेहत्रयमस्त्येतदभेदेनैव चिंतयेत् ॥ १७॥ अंडसूत्राव्याकृताख्या देहाः स्युरधिदैवतम्॥ पिंडलिंगाज्ञानरूपमध्यात्मं वपुषां त्रयम्॥१८॥
Page 251
स्थूलसूक्ष्मैक्य रूपत्वमुभयत्र क्रमात्रिषु॥ अस्ति साम्यमभेदोऽत उभयोरिह चिंत्यताम्॥१९॥ विराद्विरण्यगर्भेशा अधिदैवं हि देहिनः॥ विश्वश् तैजसः प्राज्ञो ह्यध्यात्ममपि देहिनः॥२०॥ स्थूलसूक्ष्मानंदभुजः क्रमात्ते देहिनस्त्रयः ॥ एतत्सर्व स्फुटीकर्तु चतुष्पात्प्रविविच्यते॥२१॥ इंद्रियैर्विषयज्ञानं यत्तज्जागरितं भवेत्॥ तत्र स्थित्वा जगत्स्थूलं वे्त्यात्मा तत्तदिंद्रियैः॥२२॥ शिरश्रक्षुर्मुखं प्राणो मध्यं वस्तिस्ततोऽप्यधः॥इत्यंगसप्तकं वैश्वानरोपास्तिश्रुतौ श्रुतम्॥२३॥ ज्ञानकर्मेद्रियप्राणभेदाः पंचदशेरिताः ॥ चतुर्विधांतःकरणं मुख्यान्येकोनविंशतिः ॥२४॥ स्थूलमिंद्रियगम्यं यत्तङ्गंक्तेऽसौ चतुर्विधः ॥ जागरे जागरस्वप्नसुप्तितुर्याख्यभेदतः॥२५॥ जागरो व्यवहारोऽक्षैः स्वप्ो मानसचितनम्॥तूष्णीस्थितिः सुषुप्तिः स्यानृप्तत्वं तुर्यसुच्यते॥।२६॥ अध्यात्ममधिदैवं च विश्ववैश्वानराभिधः॥ ईदृशः प्रथमः पाद आत्मनःस्याच्चतुष्पदः ॥२७। इंद्रियाणामुपरमे घिया जागरवासनाम्॥ सूक्ष्मां जानन्वासनात्मा सप्तांगादियुतो भवेत् ॥२८॥ Digitized by Google स्पष्टस्मृतिरविस्पष्ठस्मृतिरस्मृतिरित्यपि ॥ स्वप्नभेदाःस्वन्नमध्ये जाग्रत्स्वप्रसुपुप्तयः ॥२९॥ स्वप्नेऽपि तुर्य तप्तत्वं जाग्रतीवानुभूयते । हिरण्यगर्भोऽधिदैवमध्यात्मं तैजसाभिधः॥३०॥ द्वितीय: पाद एष स्यादात्मनोऽस्य चतुष्पदः॥ धियो लये सुषुप्तिस्थ एकोऽभूद्दैतलोपनात्॥३१॥
Page 252
अ०प्र० धीटत्तिरूपाः प्रज्ञास्ता एकीभावमुपागताः॥ दुखहान्यानंदमयो भुंक्ते ब्रह्मसुखं तदा।३२॥ अ० ॥११३॥ अविद्यावृत्त्यवच्छिन्नं चैतन्यं भोगसाधनम् ॥ सुषुप्तौ चतुरात्मत्वं जागरादिविभेदतः॥ ३३॥ ॥२0 ॥ तंद्रयामध्यापयेद्ाचा तदा स्यात्सुप्तिजागरः॥ध्यानाभ्यासस्तु यस्तंद्र्यां सुपिःस्वप्नः सउच्यते गाढनिद्र: सुप्तसुप्तिः सुप्तितुर्य सुखोद्रवः ॥ अध्यात्मं प्राज्ञ एवं स्यादधिदैवं तथेश्वरः॥३५॥ तृतीयः पाद इत्युक्त आत्मनोऽस्य चतुष्पदः॥पादत्रयमिदं मायामात्रं स्यान्न तु तात्विकम्॥३६॥ सुषुप्तिस्वप्ननामभ्यां तत्त्वविद्दक्ति तत्रयम् ॥ तत्वाळते सुप्तसुप्तं स्वप्नता त्वन्यथेक्षणात् ॥३७॥ पादत्रयेणावताऽसौ चिदेकरसतात्मनः ॥ अथ पादश्वतुर्थो यश्र्तुरात्मा स पूर्ववत् ॥३८॥ तुरीयाऽवसितत्वं तु भवेत्पादचतुष्टये ॥ ओतानुज्ञाऽत्रनुज्ञाविकल्पशब्दैरुदीरिताः ॥३९॥ तुरीयपादगा भेदास्तत्स्वरूपं विविच्यते॥ ब्रह्मणो गुरुशास्त्राभ्यां बुध्वा सर्वात्मतां ततः॥४०॥ Digitized by Google सर्ववस्तुष्वनुस्यूतं पश्यन्नोऽतो भवेदयम् ॥ इंद्रियाणि निरुध्याहं ब्रह्मेति ब्रह्मतात्मनि ॥४१॥ येनानुज्ञायते सोऽयमनुज्ञातेति कथ्यते॥ ज्ञातृत्वं तु निराकृत्य चिदेकरसशेषता ॥४२॥ अनुज्ञेत्युच्यते मुक्तिरविकल्प इतीर्यते ॥ विद्वज्जागरणस्वप्नसुप्तितुर्याऽभिधा इमाः॥४३॥ ।११३॥
अवस्थास्तिस्त्र एतास्तु मायालेशेन संयुताः॥ निःशेषमायाहीनोऽयमविकल्पो भवत्यथ॥४४॥
Page 253
8888888* *** * 5 88 अतव्यावत्तिरूपेण तस्यादेशोऽत्र वण्यतें॥जाग्रत्स्वप्रांतरालानि विद्याविद्ये सुषुप्तकम् ॥४५॥ न स्थूलप्रज्ञमित्याद्यैःक्रमात्प्विर्निवार्यते॥ न चक्षुरादिभिर्द्इयैर्नप्राणैर्व्यवहारभाक् ॥ ४६॥ नापि कर्मेद्रियैर्ग्राहयं नानुमेयं च लक्षणात्॥ न चिंत्यं मनसा नैव शब्दैश्र व्यपदिश्यते॥४७॥ स्वप्रकाशात्मसारान्नापि शक्याऽस्य शून्यता॥ स्थूलप्रज्ञादिरूपो यः प्रपंचः स्वात्मनःपृथक् तत्कृतैर्बहुविक्षेपैरात्मनो दुःखितेति चेत् ॥ प्रपंचः कल्पितस्तत्त्वबोधेनैवोपशाम्यति ॥४९॥ ततः शिवं दुखहीनं सर्वविक्षेपशांतितः ॥ पादं चतुर्थ मन्यंते वस्त्वद्वैतमिहोच्यते॥ ५०॥ मतिरेव बुभुत्सूनां न लद्वैते चतुर्थता॥ यदद्वैतं स एवात्मा ज्ञेयो जिज्ञासुना स हि ॥५१॥ तुर्यपादे त्रयं त्यक्क्ता तुर्ये तुर्योऽवबुध्यताम्॥ मायिलादीश्वरोऽप्यत्र ग्रस्तः स्यादवबोधतः ॥५२॥ इत्थं योगविवेकौ दौ प्रथमे खंड ईरितौ ॥ चित्तभ्रमणरूपस्य संसारस्य प्रशांतये॥५३॥ Digitized by OOgle योगो विवेक इत्युक्तौ प्रकारौ श्रुतिसंमतौ॥ असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ५४ १ अथायमादेशो न स्थूलमज्ञं न सूक्ष्मपज्ञं नोभयतःमज्ञं न पज्ञं नापज्ञं न प्रज्ञानघनमद्रष्टव्यमव्यवहार्यमलक्षणमलिंगमचित्यमव्यपदे इयमेकितामत्यवसारं प्रपंचोपशमं शिवं शांतमद्वैतं चतुर्थ मन्यते स आत्मा स विज्ञेय ईश्वरग्रासस्तुर्यः।
Page 254
अ०प्र० प्रकारौ दौ ततः प्रोक्तौ सर्वातुग्रहकाम्यया ॥ आदौ द्वितीयखंडस्य सच्चिदानंदतात्मनः॥५५॥ विविच्यते नित्यसत्ता गम्यते ह्यनुळत्तितः॥ व्यभ्तिचारे जागरादेर्यत्सदव्यभिचारि तत्॥५६॥ अ०
आनंदैकरसं नित्यमिति सत्वं विवेचितम्॥। चक्षुःश्रोत्रादयः सर्वे मदीया इति भासिताः।।५७। ।२० ॥
भाताऽसौ चक्षुरादिभ्यो द्रष्टाऽन्यश्र्ेतनो भवेत्॥ द्रष्ठेति दृष्टिकर्तृतमहंकारेण कल्पितम् ॥५८॥ हङ्मात्रत्वेन साक्ष्यात्मा विकाररहितलतः॥ आनंदघन आत्माऽसौ परप्रेमास्पदत्वतः॥५९॥ मान भूवं सदा सम्यग्भूयासमिति हीक्ष्यते॥ सच्चिदानंदैकरसो भात्यस्माद्वृश्यतःपुरा ॥६॥ सर्वेषु व्यवहारेषु निर्विकल्पं स्फुरेत्पुरः ॥ तमेष भांतमन्वेति तद्रासा भास्यते जगत् ॥६१॥ इति श्रुत्यंतरे प्रोक्त: परमात्मा पुरा स्फुरन् ॥ अखंडैकरसः सोऽयं जरामरणवर्जितः ॥६२॥ Digitized by Google १ तं वा एतमात्मानं जाग्रत्यसुप्तमसुषुपे जाग्रतमसुषुपतं सुषुसे जागतमस्वप्रं तुर्येडजाग्रतं स्वप्नमव्यभिचारिणं नित्यानंदसदैकरसं शेव- चक्षुषषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्ट मनसो द्रष्टा बुर्द्धेर्द्रष्टा पाणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा ततः सर्वस्मादन्यो विलक्षणश्क्षुपः साक्षी श्रोत्रस्य साक्षी वाचो मनसः साक्षी बुद्धे: साक्षी माणस्य साक्षी तमसः साक्षी सर्वस्य साक्षी ततोSविकरियो महाचैतन्योऽस्मात्सर्व स्मात्मियतमानंदघनं खेवमस्मात्सर्वस्मात्पुरतः सविभातमेकरसमेवानरममृतमभयं त्रम्ैव।
Page 255
इत्यात्मानं विविच्याथ युंजीत प्रणवेन तम्॥ चतुर्णी जागरादीनां प्रत्येकं चतुरात्मता ॥६३॥ पूर्वमुक्ता यथा तद्ददकारादिषु कल्पयेत्॥ आधारादुत्थितो वायुर्नाभिहत्कंठगो बहिः ॥६४॥ निर्गच्छन्जनयेच्छब्दं सोऽपि स्थानैश्र्वतुर्विधः॥संज्ञाः परेति पशयंती मध्यमा वैखरीति च॥६५॥ आगमोक्ता वैखरी तु श्रूयते मुखनिर्गता ॥ वाचः पदानि चत्वारि त्रीणि गूढानि विग्रहे॥६६ ॥ तुर्य मर्त्या वदंतीति प्राह मंत्रोऽप्यतिस्फुटम्॥ वैखर्याद्याः परांतास्तु शब्दभेदा: क्रमादमी॥६७॥ स्थूल सूक्ष्मौ बीजसाक्षिणावित्येव श्रुतीरिताः॥ निवत्तिश्र प्रतिष्ठा च विद्या शांतिश्र वै कला:६८ अकारेSस्मिश्र्तुर्भेदे जागरं तु चतुर्विधम॥ ध्यायेत्साम्यं तयोराप्तिरादित्वं चेति चिंतयेत्॥।६९॥ जागरेक्षैर्व्याप्तिरस्ति व्याप्तोऽकार:कखवादिषु॥ आदित्वं लोकतः सिद्धं जागराकारयोईयोः ७० स्थूलसूक्ष्मत्वादिसाम्यं तद्गेदानां क्रमाद्गवेत्॥फलं यथागुणं ध्याने भवेत्सर्वत्र कामिनः॥७१॥ अकारं जागरोऽप्येतमुकारे संहरेत्तथा ॥ उकारं च मकारेतमोंकारे नादरूपिणि॥७२॥ Digitized by Google अथ तुर्य चतुर्भेदमीशग्रासादिनामकम्॥ ध्यायेन्महेश्वरोऽमायी यस्तमोऽतो ग्रसत्ययम्॥७३॥ कालाग्निसूर्य: संहारकाले स्वैस्तीव्ररश्मिभिः॥ तिरस्कुर्याज्गत्ततु लेशाद्राति यथातथा ॥७४॥ ओतोऽयं सच्चिदानंदैर्नामरूपे जगद्ते॥ तिरस्कुर्यात्ते तु लेशमात्रे भातः क्वचित्कचित्॥ ७५॥
Page 256
अ०प्र० यथा सूर्यस्तम: सर्वै प्रकाशीकुरुते तथा॥ अनुज्ञाता जगत्सर्व स्वात्ममान्नं करोति हि॥ ७६॥ अ० दाहां दग्ध्वा यथा वन्हिर्निर्व्यापारोऽवशिष्यते॥ अनुजञैकरसस्तद्वचचिन्मात्रः परिशिष्यते ७७ ॥२० ॥ अवाङ्कमनसगम्योऽयमविकल्पश्रतुर्विधः ॥ तुर्यपादं चतुर्भेदे नदि संचिंतयेक्रमात् ॥७॥ सर्वस्य जगतो वस्तु तत्त्वं यन्निर्विकल्पकम्॥ तदात्मेति समाधाय चित्तं तस्मिन्भवेद्धितत्॥७९॥ अथवा मंत्रराजे धीः समाधेयात्मवाचिनि॥ सर्वसंहारशस््याद्या अर्था उग्रादिशब्दगाः॥८०॥ आत्मानं मंत्रराजेन ध्यायन्ब्रह्मतया पुमान्॥ ब्रह्मरूपो नसिंहः स्याद्योगः शुद्धधियो ह्यहम्८१ विवेकयोगौ संप्रोक्तौ द्वितीये खंड आत्मनः ॥ प्रणवे मंत्रराजे च द्विविधो योग ईरितः ॥८२॥ तृतीयमंत्रराजस्य प्रणवस्यात्मनोऽपिच ॥ एकीकारेण यद्यानं तत्सम्यगभिधीयते ॥८३ ॥ पटथिव्याद्यात्मकोंकार: पाद उग्रादिकोपि च॥ परापइयंत्यादिरूपः सोऽयं विश्वश्वतुर्विध:८४ तैजसप्राज्ञतुर्याश्र तथा ध्यालोपसंहरेत्॥ असौ प्रपंचहीनः स्यादविकल्पे स्थिरः पुमान्॥८५॥ Digitized by Google ज्ञश्र्ििन्मात्रोऽमृतो नित्यो हुतसंविदवत्तिकः ॥ शुद्धो धांतिविहीनलात्संविष्टोऽयमविक्रिय: ८६ प्राणायामेन निर्विघ्नोऽनुभवेदीदशात्मताम्॥ प्राणाधीनां मनोदत्तिः प्राणरोधेन शाम्यति।८७।। १ ओंकारे।
Page 257
निर्विकल्पधिया पशयेज्नगत्स्वात्मतया तदा।। ध्याने प्रपंचं संत्यज्य ब्रह्मरूपेण तिष्ठति ॥८८॥ अन्यो देवोऽहमप्यन्य इति द्वैतस्य वासना ॥ दृढा चेत्ताटशी देवपूजोपास्तिरथोच्यते ॥८॥ योऽस्मिन्खंडे वर्णितोऽसौ संकल्पःपूज्य इष्यते।।षट् तु स्थानानि देहेऽस्मिन्पूजाधाराः प्रकीरत्िताः आधारनाभिहृदयभ्रूमध्यद्दादशांतकाः ॥ षोडशांतश् तेऽष्वग्निब्रह्माद्यानर्चयेक्रमात् ॥९१॥ यश्र्तुर्भेद ओतादैः सोऽमृतो निरुपाधिकः॥उपाधीनां बोधबाधादविकल्पोऽवशेषणात्॥९२॥ सोऽविकल्प:सर्वमयस्तस्मिन्सर्वाधिरोपणात्॥ ये जागरादयो भेदाश्र्लारस्तेSत्र कल्पिताः९३ परिवारा मंत्रराजे माहाचक्रे प्रकीर्तिताः। पथिव्याद्याः सप्तसप्र भेदा मात्रास्तिवह श्रुताः।।९४॥ परिवारेण संयुक्तं चतुःसप्तात्मकं प्रभुम् ।। नृसिंहमग्निरूपं तं मूलाधारे विचिंतयेत् ॥९५॥ भूम्यादिभिः सप्तविधं स्थूलादैश्र चतुर्विधम्॥ अकाररूपं ब्रह्माणमेतं नाभौ विचिंत येत्॥९६॥ Digitized by Google हृदि विष्णुमुकारेण भरूमध्ये च मकारतः ॥ रुद्रं नादेन सर्वेशं द्वादशांतेSग्निवत्स्मरेत् ॥९७॥ चतुःसप्तात्मकोSमायी सर्वेशो ह्यनुपाधिकः॥ षोडशांते सुखं ध्यायेच्चतुःसप्तात्मलक्षितम्॥९८।। तेनानंदामृतेनाध:स्थितास्ता: पंच देवताः।। व्याप्ताश्रतुर्विधाः स्थूलादिभिरित्येव चिंतयेत्॥९९॥ उपचारैरागमोक्तैर्देवास्तान्मनसार्चयेत्॥ ब्रह्मादिमूर्तिभेदेन तथैक्येनापि पूजयेत् ॥१००॥
Page 258
अ०प्र० भक्ष्यभोज्यैर्लेह्यचोष्यैरित्येतैरुपहारयेत् ॥ गरुश्रुत्युक्तमार्गेण पूजयिला यथाविधि ।१।। अ०
।११६॥ मूर्ति तेजसि संहृत्य तेजश्रात्मनि संहरेत् ॥ सूत्रे विराजं संहृत्य सूत्रमव्याकृते च तत् ॥२॥ अविकल्पे तत्र चित्तं समाधाय स्थिरो भव ॥ पूज्यपूजकयोर्भेदवासना यस्य हीयते॥ ३॥ चतुर्थखंडे योगोऽस्य धीविश्रांत्यै निगद्यते॥ नादस्तुरीय ॐकारस्तस्यांते स्फुरदद्दयम॥४॥ मंत्रराजेन साम्यं तै: पादैर्नला प्रसादयेत्॥ प्रणवात्मतया ध्यालाऽहमित्यात्मतया स्मरेत्॥५॥ यावन्निश्वलता तावतस्थितोर्ध्व चिंतत्येपुनः॥ कृतस्मंत्रेण नलोमित्युच्चार्याते स्थिरो भवेत् ॥६॥ ध्यातोंकारं पुनर्मैत्रान्महावाक्यादनुस्मरेत् ॥ मंत्रेण वा केवलेन नृसिंहेति पदेन वा ॥७॥ संस्मृत्याखंडवाक्यार्थ युंजीतोंकारमंत्रयोः ॥ संस्तभ्य चित्ते स्वात्मानं गुणत्रयविवर्जितम्॥८॥ ब्रह्मादिकानकाराधैः संयोज्यात्मनि संहरेत्॥ तेषां तु कारणाविद्यां बाधिला वस्तुतोऽसतीम।९॥ Digitized by Google कृत्वा चिद्धक्षितां वीर:संस्मरन्निर्भयो भवेत् ॥ ब्रह्मादीन्मंत्रराजस्य पादैश्रििद्रूपतां नयेत्॥१॥ अविद्याविनिवर्त्येष नृसिंहः स्वयमुद्दमौ ॥ योगांतरं पंचमेऽस्मिन् षष्ठे स्पष्टमुदीर्यते॥१॥ अकारार्थ मंत्रराजपदाथैर्योजयेक्रमात् ॥ चतुर्मूर्त्यात्मकैर्योगैरविकल्पांतकैरपि ॥ १२ ॥ ।११६॥
चतुर्दशभिरेकेनाप्यजस्रं प्रयतो वसेत्॥ उग्रे वीरे माहाविष्णावुज्ज्वले सर्वतोमुखे ॥१३॥
Page 259
नृसिंहे भीषणे भद्रे मृत्युमृत्यौ न मय्यजा॥ भाति हिंसाकरी माया न मय्यस्ति चिदात्मनि १४ नमामीति पदाद्गह्माभिन्नतामनुचिंतयेत्॥ ईदग्योगी स्यादकामः काम्यमस्य न संभवेत्॥१५॥ निष्कामोऽसौलौकिकानांकामानां विनिवृत्तितः॥काम्य आत्माऽषि बोधाप्तःकिमन्यत्काम्यतेपुनः उक्रामंति न तत्प्राणा लीयंते तु परात्मनि॥ ब्रह्मैव सन्पुराप्येष ब्रह्माप्नोत्यवबोधतः॥१७॥ Jrall तथोंकारमकारं च योज्यौ मंत्रपदेष्वतः॥ अस्मिन्खंडे त्रयो योगा धीविश्रांत्यै प्रकीर्तिता:।।१८।। षष्ठे खंडेऽथ विद्यायाः साधनान्यखिलान्यपि॥जीवन्मुत्त्यवसायीनि संग्ह्यंते ह्यतिस्फुटम् १९ विषयासंगरूपो यः पाप्मासावासुरततः॥ विद्येच्छां प्रतिबध्नाति सोऽयमादौ निवर्त्यताम् २० रजस्तमोवत्तयो या लोभमोहादयो हृदि ॥ क्रूरतादसुरास्ते स्युर्देवाः स्युः सतृत्तयः॥२१॥ सत्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥। २२॥ Digitized by Google अर्थावुग्ादिशब्दानां यौ प्रोक्तौ तापनीययोः ॥ सगुणाणसेदेन तद्यानादसुरान् जयेत्॥२३। त्यक्का रजस्तमोवत्ती सालिकीं वत्तिमाश्रिता॥ धीश्रिदानंदमात्मानं ध्यायंती तन्मयी भवेत्२४ १ आत्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद सोडकामो निष्काम आपकाम आसकामो न तस्य प्राणा उत्कामंत्यत्रैव समवलीयंते ब्रह्लैव सन्त्रह्माप्येति।
Page 260
अ०प्र० ततो ध्यातृध्येयभेदनिवृत्त्यै मंत्रराजतः ॥ तुर्यातुर्यमनुस्मृत्य समाधिःप्रणवे भवेत् ॥२५॥ अ० मंत्रार्थे प्रणवं दीर्घमुक्का चित्तं विलापयेत् ।। अमूर्तमद्दयं ब्रह्मानुभवन्वर्तते तदा ॥ २६ ॥ ।२0 ईटक् समाधिविघ्नानां शांत्यै पुत्रैषणादिकम्॥त्यक्का चित्तं समाधाय जीवन्मुक्त: सुखी भवेत्२७ अकारादिषडंगेषु संयोज्यासंगमद्यम ॥ मंत्रार्थमपि संयोज्य ह्यकारादीनुपेक्षते ॥२८॥ खंडेऽथ सप्तमे योगा: प्रवक्ष्यंते पुनस्त्रयः॥तेषामन्यतमेनासौ विद्वान्कालं नयेत्पुमान्॥२९॥ अकारार्थमजताद्यैश्विवंतयेहुद्विसाक्षिणम् ।I उत्कर्षाद्यैरुकारार्थ मंत्रदेवं विचिंतयेत्॥ ३ ।। अनूद्य साक्षिणं प्रोक्तं मंत्रदेवलमस्य तत् ॥I उत्कृष्टलादिभ्िः शब्दैःपंचभिश्चितयेत्तथा॥ ३१॥ उत्तरैः पंचभिर्देवमनूद्य परमात्मताम् ॥ महत्त्वाधैर्मकारार्थरूपं तस्य विचिंतयेत् ॥ ३२॥ Digitized by Google १ सज्योतिरस्य सर्वस्य पुरतः सुभातमविभातमद्वैतमचिंत्यमलिंगं स्वप्रकाशं परंमेव ब्रह्म भवति। ते देवाःपुत्रैषणाया लोकैषणायाश्र स- साधनेभ्यो व्युत्थाय निरहंकारा नीरागा निष्परिग्रहा अशिखा अयज्ञोपवीता अंधा बधिरा सुग्धाः कीबा मूका उन्मत्ता इव परिवर्त- माना: शांता दांता उपरतास्तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानंदा: अणवमेव परं ब्रह्मात्मपकाशं शून्यं जानंतस्तत्रैव परिसमास्ाः।
Page 261
शरीरत्रयहीनो यः सच्चिदानंदलक्षणः ॥ स एव भवति ध्यानाद्योगोऽयं प्रथमो भवेत्॥३३॥ अन्येन कस्त्वमित्येवं पष्ठाः सर्वेऽपि मानवाः ॥ अहमित्याहुरेतेषामहमित्यभिधानतः॥३४॥ अहंशब्दे प्रत्यगात्मवाचिन्यादेरकारतः ॥ प्रथमे प्रथमाद्वर्णादात्मानमनुचिंतयेत्॥३५॥ ब्रह्मण: सच्चिदानंदा वीक्ष्यंते सर्ववस्तुषु॥ तस्मात्सर्वात्मकं ब्रह्म मकारो ब्रह्मशब्दगः॥३६॥ मकारः प्रणवस्यांते यस्तेन ब्रह्म चिंतयेत्॥ आत्मनो ब्रह्मणैकत्वमुकारेण विचिंतयेत् ॥३७॥ आत्मा ब्रह्मेति वाक्यार्थे योगोडयं प्रणवे श्रुतः॥ अर्थे तत्वमसी त्यस्य योगोऽथ प्रणवे भवेत् ३८ सर्वात्मकं ब्रह्म यत्स्यादुग्रादिपदभाषितम् ।I संहारे जगदत्तृत्वात्तस्योकारार्थतोचिता॥ ३९॥ संहते जगति ब्रह्म सततं ह्यवतिष्ठते ॥ पुनरुग्रादिशब्दैस्तदखंडत्वेन संस्मरेत् ॥ ४ ॥ साक्षिणं मन आदीनामात्मानं तु मकारतः॥ ध्यात्वा ब्रह्मत्वसंपत्यै दृष्टिसृष्टिमनुस्मरेत्॥४१॥ ब्रह्मात्मनोस्तु समयोरैक्यं ध्यायेदुकारतः ॥ फलंतु पूर्ववद्विदात्रयो योगा इतीरिताः ॥४२॥ Digitized by Google चलारो ह्यष्टमे खंडे योगास्तुर्यस्य भासकाः॥ ऊकारनामा प्रणवे नादो यस्तत्र वर्णिताः॥।४३॥ ओतानुज्ञात्रनुज्ञातैरविकल्प इतीरितैः ॥ भेदैर्योगा विभिन्नाः स्युरभ्षयं ब्रह्म तैर्भवेत् ॥४४॥ ऊकारमंत्रयोर्ध्यैयं वस्तु यद्वहुधेरितम् ॥ तत्तत्त्वं नवमे खंडे विस्पष्टं प्रविविच्यते ॥४५॥
Page 262
अ०प्र० य आत्मा ध्यातदेहेषु यश्र् ध्येयेषु भासते ।। एक एव स चिद्रूपो मायया भात्यनेकवत् ॥४६॥ सुषुप्तौ जीवचैतन्यमद्यं ब्रह्मतां व्रजेत् ।। जगत्सर्वमविद्येति सर्वैरप्यनुभूयते॥४७॥ अ० 199<n सृष्टेः प्रागप्येवमासीत्सा माया वटबीजवत्। अनेकरूपतां प्राप्य जीवेशावपि निर्ममे॥४८॥ ।201
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः॥ उपाध्योर्यौ चिदाभासौ तौ जीवेशावुदीरितौ॥४९॥ नियंतेशोऽनुमंता तु जीवः सोऽपि द्विधा भवेत्।।समष्टिव्यष्टिरित्याद्यैस्तयोः सर्वाभिमानवान्५० हिरण्यगर्भः सूत्रात्मा त्रिमूर्तिश्र्वेत्युदीर्यते॥ ब्रह्मा विष्णुश्र रुद्रश्रमूर्तयो गुणभेदतः ॥५१॥ लिंगोपाधिततो जीवा अपीशाः सर्ववित्वतः॥ समष्टिः समुदायात्मा व्यष्टिस्तु पथगात्मवान् ५२ समष्टिः सूत्रवज्ज्ञेयो ब्रह्मांडाख्यवपुर्विराट॥ देवतिर्यङ्गनुष्यादिदेहो व्यष्टिरितीर्यते ॥५३॥ परः प्रविश्य देहेषु मायया गूढवत्स्थितः ॥ द्वैतस्य मायिकत्वेन तत्त्वमद्वैतमिष्यताम्॥५४॥ सन्मात्रो नित्य इत्यादि श्रुत्या तत्तु स्फुटीकृतम्॥ अथर्वणे तु कैवल्यप्रसुखाः श्रुतयः स्फुटा: ५५ Digitized by Googlesg श्रुतिस्मतीतिहासानामभिप्रायविदव्ययः॥ श्रुतिव्याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः॥१५६॥ इति श्रीविद्यारण्यविरचिते अनुभूतिप्रकाशे देवविद्याख्यो नसिंहतापिनीविवरणो नाम विं 199C1
शोऽध्यायः॥२०॥ श्रीरस्तु ।। = =
Page 263
श्रीऋग्वेदादिचतुर्वेदव्याख्यात्रा श्रीमद्विद्यारण्यस्वामिना विरचितोऽनेकोपनिषदर्थसंग्रह रूपोऽयमनुभूतिप्रकाशा- खयो ग्रंथः मुंबापुर्या निर्णयसागराख्यमुद्रणालयाधिपतिना, ब्रह्मविद्वरिष्ठविद्वद्वर्यपीतांबराख्यविदुषां सूचनया सुज्ञ-साले- महंमदात्मजसरीफसंज्ञकस्य साहाय्येन संगृहीतः । स च ब्रह्मविद्वरिष्ठविद्व्दर्यजीवनरामात्मजजयकृष्णाख्यपंडितानां पुस्त- कसंग्रहस्थपुस्तकाधारेण, भावनगराधिराजमहामात्यपदवीं पूर्व स्वीकर्तृणां श्रीमदुदयरामतनुजनुषां श्रीगौरीशंकराभिध- सज्जनानां ग्रंथसंग्रहे स्थितमस्य सुशुद्धं पुस्तकमानीय तदाधारेण च संशोधितः । स एव शके १८०३ वृषनामसंवत्सरे कार्तिकशुळप्रतिपदि इंदुवासरे स्वकीयमुद्रणालये मुद्रयित्वा प्रकाशं नीतः। स च मुमुक्षूणां मोक्षदो भूयात्॥ अनुभूतिप्रकाशोडयं विद्वलेन विशोधितः ॥ यदत्र न्यूनमधिकं क्षंतव्यं तन्मनीपिभिः ॥१॥ Digitized by Google
Page 264
॥। इति अनुभृतिप्रकाशः समाप्तः॥
Digitized by Google