Books / Āpastamba Gṛhyasūtra with commentary — Sanskrit Text

1. Āpastamba Gṛhyasūtra with commentary

Section

1

अथ प्रथमः पटलः प्रथमः खण्डः 1. सामान्यपरिभाषाः 1 प्रतिज्ञासूत्रम् अथ कर्माण्याचाराद्यानि गृह्यन्ते आप्ग्स्_1.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.1: नमो रुद्राय यद्गृह्यमापस्तम्बेन निर्मितम् क्रियते हरदत्तेन तस्य वृत्तिरनाकुला द्विप्रकाराणि कर्माणि-श्रुतिलक्षमानि आचारलक्षमानि च तत्र श्रुतिलक्षणानि व्याख्यातानि अथेदानीं यानि कर्माणि विवाहप्रभृतीनि आचारात् प्रयोगात् गृह्यन्ते ज्ञायन्ते, न प्रत्यक्षश्रुतेः, तानि व्याख्यास्यामः किं प्रयोजनं सूत्रस्य?स्मार्तानां कर्मणां अधिकारः तेन उदगयनादिनियमः."सर्वत्र स्वयं प्रज्वलिते ऽग्ना"(आपगृ.8-5) वित्येवमादीनि च गार्ह्येष्वेव कर्मसु भवन्ति, न श्रौतेषि अत्राथशब्देन श्रौतोपदेशानन्तरं स्मार्तोपदेशं करिष्यामीति वदन् तदपेक्षामस्य दर्शयति तत्र याः परिभाषाः"स त्रयाणां वर्मानांऽ(आपपरि-2) "मन्त्रान्तैः कर्मादीन् सन्निपातयेत्"(आपपरि.2-1.)"रौद्र, राक्षसऽ(आपपरि-9)"तदिदं सवप्रायश्चित्तऽमित्येवमाद्यास्ता इहापि भवन्ति(इदंकार्याणि) आप्ग्स्-तात्_1.1: यो वर्णैरिज्यते नित्यैः कर्मभिश्चोदितैर्निजैः तेभ्यो ऽ(1) पवर्गदो यश्च तं नमाम्यद्वयं हरिम्(2)

atha prathamaḥ paṭalaḥ prathamaḥ khaṇḍaḥ 1. sāmānyaparibhāṣāḥ 1 pratijñāsūtram atha karmāṇyācārādyāni gṛhyante āpgs_1.1 commentaries: āpgs-anā_1.1: namo rudrāya yadgṛhyamāpastambena nirmitam kriyate haradattena tasya vṛttiranākulā dviprakārāṇi karmāṇi-śrutilakṣamāni ācāralakṣamāni ca tatra śrutilakṣaṇāni vyākhyātāni athedānīṃ yāni karmāṇi vivāhaprabhṛtīni ācārāt prayogāt gṛhyante jñāyante, na pratyakṣaśruteḥ, tāni vyākhyāsyāmaḥ kiṃ prayojanaṃ sūtrasya?smārtānāṃ karmaṇāṃ adhikāraḥ tena udagayanādiniyamaḥ."sarvatra svayaṃ prajvalite 'gnā"(āpagṛ.8-5) vityevamādīni ca gārhyeṣveva karmasu bhavanti, na śrauteṣi atrāthaśabdena śrautopadeśānantaraṃ smārtopadeśaṃ kariṣyāmīti vadan tadapekṣāmasya darśayati tatra yāḥ paribhāṣāḥ"sa trayāṇāṃ varmānāṃ'(āpapari-2) "mantrāntaiḥ karmādīn sannipātayet"(āpapari.2-1.)"raudra, rākṣasa'(āpapari-9)"tadidaṃ savaprāyaścitta'mityevamādyāstā ihāpi bhavanti(idaṃkāryāṇi) āpgs-tāt_1.1: yo varṇairijyate nityaiḥ karmabhiścoditairnijaiḥ tebhyo '(1) pavargado yaśca taṃ namāmyadvayaṃ harim(2)


2

आपस्तम्बमुनिं वन्दे मन्दधीहितकाम्यया यो ऽनुष्ठेयपदार्तानां क्रमकल्पयत्

āpastambamuniṃ vande mandadhīhitakāmyayā yo 'nuṣṭheyapadārtānāṃ kramakalpayat


3

यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः स कपर्दी चिरं जीयाद्वेदवेदार्थतत्त्ववित्

yatkṛtaṃ vedavadbhāṣyamādriyante vipaścitaḥ sa kapardī ciraṃ jīyādvedavedārthatattvavit


4

सुदर्शनार्यः(3)कुरुते गृह्यतात्पर्यनिर्णयम्(4) केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि

sudarśanāryaḥ(3)kurute gṛhyatātparyanirṇayam(4) kevalaṃ vaidikaśraddhāprerito mandadhīrapi


7

अथशब्द आनन्तर्यार्थः तदर्थ पूर्ववृत्तमुच्यते इह हि यज्ञा एकविंशतिभेदाः तत्र च सप्त पाकयज्ञसंस्थाः- औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति सप्त च हविर्यज्ञसंस्थाः-अग्निहोत्रं, दर्शपूर्णमासा, वाग्रयणं, चातुर्मास्यानि, निरूढपशुबन्धस्, सौत्रामणिः, पिण्डपितृयज्ञादयो दर्वीहोमा इति (5)सप्तैव च सोमसंस्थाः-अग्निष्टोमो,ऽत्याग्निष्टोम, उक्थ्य, ष्योडशी, वाजपेयो, ऽतिरात्रो ऽप्तोर्याम इति एते च नित्याः नियतप्रदिकालीनजीवननिमित्तका इत्यर्थः कुत एते च नित्याः?ऽजायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेनऽदेवेभ्यः प्रजया पितृभ्यः,(तैसं.6-3-10) इत्यत्र ऽयज्ञेनऽइत्यकवचनं ऽयज्ञं व्याख्यास्यामःऽ(आपपरि.1-1) इतिवत् जात्यभिप्रायं मन्यमानस्य भगवतो वसिष्ठस्य ऽनैयमिकंह्येतदृणत्रयं संस्तुतमऽ(वसं.11-47) इति वचनेन एषामवश्यानुष्ठेयत्वावगमात् तथा ऽसायं प्रातरत ऊर्ध्वमऽ(आपगृ.7-19.) ऽयावज्जीवमग्निहोत्रं जुहोति,ऽऽवसन्ते ज्योतिष्टोमेन यजेतऽ(आपश्रौ.10-2-5) इत्येवमादिभिः, ऽअहरहः प्रवृज्यन्तेऽ(तैब्रा.2-1-3.), अर्धमासेरऽधमासे प्रवृज्यतेऽ(तैबार.3-2-8), ऽपुनर्भक्ष्यो ऽस्य सोमपीथोभवतिऽ; (तैब्रा.3-2-3). इत्येवमादिभिः, (1) कर्मण्योरम्भन्यायेन च प्रयोगाभ्यासावगमात् तथैव सोमस्येषट्यादेश्चाकरणे ऐन्द्राग्नशुविभ्रष्टेष्ट्यादि प्रायश्चित्तविधानेन प्रत्यवायोत्पत्त्यवगमात् तथैव ऽस एतांश्टतुर्होतॄनात्मस्परणानपश्यतऽ(तैब्रा.2-3-7) इति अग्निहोत्रादिसोमान्तानामात्मनिष्क्रयणार्थत्वावगमात् न तु सौर्यादिवत्(2) कोवलं काम्याः उक्तहेतूनां सर्वेषामनुपपत्तैः यत एवैते नित्यां अत एव ऽअनाहिताग्नितास्तेयमऽ(मनु.11-65). इत्यनाहिताग्निताया उपपातकगणे पाठः अत एव नित्याधिकारविधिप्रयुक्तमाधानम् काम्यसिद्धिस्तु नितयानुष्टानेनैव गुणफलाधिकारविधया प्रासङ्गिकी भवतु मीमांसकमत्या तु यद्यपि काम्याधिकारविधिग्रयुक्तमाधानं, काम्यानुष्ठानैन च नित्यसिद्धिः (3) प्रसङ्गात्;तथापि कल्पसूत्रकारणां प्रक्रियया साधिकारत्वेन (4)प्रयुक्तिसक्तियोग्यतया अन्यतो ऽप्रयुक्तौ नित्याधिकारविधिप्रयुक्तिरप्युपपन्ना यथा(5) विवरणमते स्वविधिप्रयुक्तमध्ययनमिति तस्मात् मन्दमध्यमोत्कृष्टबुद्धिभि (6) स्सर्वैरपि त्रैवर्णिकैरेते ऽवश्यं कर्तव्याः ते च नानासाधनका नानाशाखान्तरस्थाङ्गका मीमांसान्यायसहस्रनिर्धार्यवचनव्यक्तिका मन्दबुद्धिभिरिदानीन्तनैर्(7) दुर्शाना- अज्ञाने चानुष्ठातुमशक्ताः कथञ्चन प्रत्यवेयुरितु कृपाविष्टचेतस्कतया सूत्रकारेणऽयज्ञं व्याख्यास्यामःऽ(आपपरि.1-1) इति परिभाषायामेकविंशतियज्ञान् सामान्यतः (8) संक्षेपतश्च व्याखायाय तावन्मात्रेणानुष्ठानानुपयोगात् ऽअथातो दर्शपूर्णमासौऽ(आपश्रौ.1-1) इत्यारभ्य श्रौता हविर्यज्ञास्सोमसंस्थाः (9) क्षामवत्यादयो नैमित्तिकाः प्रसङ्गात् काम्याश्च(10) विशेषतो व्याख्याताः अथ अनन्तरम् आचारात्-आङ् इत्युपसर्गस्य अविच्छेदो व्याप्तिरभिप्रेतोरऽथः चारः चरणं कमसु प्रवर्तनम्, ऽपिण्डपितृयज्ञेन चरन्तिऽ(आपश्रौ.1-7-2) इत्यादौ दर्शनात् तेन यत्सर्वेषु देशेषु सर्वेषु कोलेषु च सर्वैस्त्रैविद्यवृद्धैश्शिष्टैर्लौकिकप्रयोजनाभावे ऽप्यविच्छिन्नमवि(1)गानेनाद्रियमाणं, अतएव मूलान्तरासम्भावात् स्वमूलभूतवेदानुमानेलिङ्गभूतं कर्मसु प्रवर्तनं स आचारः तस्मादाचारात् अनुमितैर्वेदैः यानि औपासनहोमादीनि पाकयज्ञशब्दवाच्यानि पाणिग्रहणादीनि च यशेष्वधिकारिष्यमाणदेहसंस्कारार्थानिकर्माणि गृह्यन्तेज्ञायन्ते कर्तव्यत्वेन तानि व्याख्यास्याम इति शेषः यत एव आचारानुमेयवेदावगम्यानि गार्ह्यअणि कर्माणि अत एव तेभ्यः प्रथममनुष्ठेयेभ्यो ऽपि पूर्व श्रौतानां व्याखायानं कृतम्;प्रत्यश्रुतिविहितेषु जिज्ञासायाः प्रथमभावित्वात्, अनुमितवेदार्थजिज्ञासाया(2) श्चरमभावित्वात्, जिज्ञासाशान्त्र्थत्वाच्च व्याख्यानस्येति अत्र च आचारादित्याचारेणोपलक्ष्य गार्ह्यअणि कर्माणि वदन्नेवं ज्ञापयति- इह साक्षादनिबद्धानामपि येषां ऽजमदग्नीनां तु पञ्चावत्तमऽ; (आपश्रौ.2-18-2) इत्यादीनां पदार्थानामाचारः कृत्स्नदेशादिव्याप्तस्स्यात् ते ऽपि वेदमूला एवोति कृत्स्नदेशादिव्याप्तिश्चाधिकपौनरुक्त्यादिभिश्श्रौते दर्शनेन गृह्यान्तरैर्र्धमशास्त्रैः न्यायबलेन सम्प्रदायविद्वाख्यातृवचनैर्वा निश्चेतव्या इदं चाधिकारसूत्रम् यान्यङ्गान्युत्तरत्रऽपुरस्तादुदग्वोपक्रमःऽ(आपगृ-5) इत्यादीनि वक्ष्यन्ते तेषां गार्ह्यकर्मार्थतां, श्रौतानां सार्वत्रिकाणामपि स्वतो ऽनिदमर्थतां च ज्ञापयितुम् एतच्च(3) समानोपदेशातिदेशयोरभावात् केचित्-कर्माणीत्येतद्गृह्ये वक्ष्यमाणान्यस्मच्चरणार्थान्येव, न तुधर्मशब्दाधिकृतधर्मशास्त्रोक्तवत्सर्वार्तानि तथा श्रौतानन्तरं गार्ह्यअधिकारः श्रौतोक्तसार्वत्रिकधर्मामामिह प्राप्त्यर्थ इति 2 उदगयनादिकालविधिः उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि आप्ग्स्_1.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.2: उदगयनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् समुञ्चयश्चोदगयनादीनां न विकल्पः पुण्याहाःदेवनक्षत्राणि ज्योतिश्शास्त्रे प्रसिद्धानि यमनक्षत्राणि च तद्विहितानि आप्ग्स्-तात्_1.2: उदगयनादयः प्रसिद्धाः पुण्याहास्त्वह्नो नवधा विभक्तस्यायु जो भागाः- प्रातस्सङ्गव(1) मध्याह्णसायंशब्दवाच्याः पुण्यनक्षत्रापरपर्यायाः पञ्च ऽसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणिऽ(तै,ब्रा.2-5.6) ऽमित्रस्य सङ्गवः तत्पुण्यं तेजस्स्व्यहःऽ; (तैब्रा.1-5-6) इत्यादिश्रुतेः युग्मास्त्वश्लीलाः, ऽचत्वार्यश्लीलानिऽ(तैब्रा.1-5-6) इति श्रुतेः केचित्-कृत्तिकादिविशाखान्तानि देवनक्षत्राणि पुण्याहाः, ऽयान्येव देवनश्रत्राणि तेषु कुर्वीत यत्कारी स्यात् पुण्याह एव कुरुतेऽ; (तैब्रा.1-5-2) इति श्रुतेः उदगयनेत्यादिरयं समासो द्वन्द्वः तेषु कार्याणि गार्ह्यअणीति शेषः एषां समुच्चयः न विकल्पः एतच्च सामान्यविधानं तत्र तत्र विशेषविधानेनापोद्यते नियम्यते च एवमुदगयनादीनां विदाने सत्यपि क्वचिदनियमः प्रतिभासते ऽसर्व ऋतवो विवाहस्यऽ; (आपगृ.2-12.) इति वचनात् यदा दक्षिणायने ऽपि विवाहस्स्यात्तदा समावर्तनं तत्कालसमीपकाल एव इतरथा उदगयनसमावृत्तस्य शरदि विवाहे सति बहुकालव्यवधाने, ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजःऽ; (दक्षसंअ.1) इति निषेधातिक्रमप्रसङ्गात् किञ्च आश्वलायनगृह्ये ऽउदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाःऽ(आश्वगृ.1-5) इत्यत्र चौलविकारत्वादेव गोदानस्य उदगयनप्राप्तौ पुनस्तत्र तद्विधिः तद्विकारान्तरे समावर्तने उदगयननियमानिवृत्त्यर्थ इति गम्यते तथा बौधायनीये समावर्तनस्य चौलविकारत्वादेव आपूर्यमाणपक्षप्राप्तौ पुनस्तत्र तद्विधि(2) रुदगयनानियमार्त इति गम्यते तथा गृहनिर्माणप्रवेशयोः ज्योतिश्शास्त्रे दक्षिणायनस्यापि विधानात् अविगीतशिष्टाचाराच्च उदगयनानियमः तथा अपरपक्षे ऽप्यापञ्चम्याः ज्योतिश्शास्त्रादन्नप्रीशन(3)गृहनिर्मामप्रवेशान् रात्रावप्याचरन्ति तथैव यदा पुण्याहाः ज्यौतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि तथैव यदा पुण्याहा- ज्योतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि तदुक्तगुणयुक्तेषि(4) अविगानेन कर्माण्याचरन्ति ज्योत्श्शास्त्रमपि (1) वेदाङ्गत्वादगृह्यमाणकारणत्वात्, शिष्टपरिगृहीतत्वाच्च कल्पसूत्रादिवदादरणीयमेव निर्णये ति शिष्टाः प्रमाणं सर्वत्र 3 यज्ञोपवीतप्रादक्षिण्यादिविधिः यज्ञोपवीतिना आप्ग्स्_1.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.3: कार्याणि इत्यनुवर्तते आप्ग्स्-तात्_1.3: कार्याणीति सम्बन्धः ननु यज्ञोपवीतं पाकयज्ञेषु ऽप्रागपवर्माणिऽ(आपप.215) इत्यादिना सिद्धम् विवाहादिहोमेषु जपादिषु च ऽहोमे जप्यकर्मणिऽ(आपध.1-151) इत्यादिना अतो ऽत्रैतद्विधिर्र्व्यथः सत्यम्;यत्राप्राप्ति(2)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव प्रदक्षिणम् आप्ग्स्_1.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.4: प्रदक्षिणं च तानि कर्तव्यानि दक्षिनं पाणिं प्रतिगतं प्रदक्षिणम् उदाहरणं परिस्तरणादि ननु-तदिदमुभयमविधेयं, पूर्वमेव श्रौतेषु विहितत्वात् ऽदैवानीऽति(आपप.2-35) तत्रोच्यते, इह मानुषेषु जातकर्मादिष्वप्येतयोः प्रवृत्तिरिष्यते93)तदर्थमयमारम्भः आप्ग्स्-तात्_1.4: कार्याणीत्येव सम्बन्धः इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(4) तद्वतिरिक्तगार्ह्यरथ विधीयते ऽततापवर्गःऽ(आप..गृ.1-6) इति चेत्थमेव पुरस्तादुदग्वोपक्रमः आप्ग्स्_1.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.5: अनियमे नियमार्थमिदं वचनम् दक्षिणतः पश्चाद्वोपक्रामो माभूदिति परिस्तरणाद्येवोदाहरणम् आप्ग्स्-तात्_1.5: कार्य इति शेषः अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते तथापवर्गः आप्ग्स्_1.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.6: तेषामपवर्गो ऽपि तथा प्रत्येतव्यः पुरस्तादुदग्वेत्यर्थः अपवर्गः परिसमाप्तिः न चात्र उपक्रामापवर्गयोः समानभिदं नियमनं क्रियते-पुरस्तादुपक्रान्ते तत्रैव समाप्यं उदगारभ्यं च तत्रैवेति किं तर्हि यथासंभवं प्रवृत्तिः तद्यथा परिस्तरणस्य पुरस्तादुपक्रान्तस्य तत्रैवापवर्गासम्बवादुदगपवर्गः तत्रापवर्गविधेरानर्थक्यं, श्रौतेष्वेव परिभाषितत्वात्"प्रागपवर्गाण्युदगपवर्गाणि वे"ति (आपप.2-15) उच्यते यद्यपवर्गविधिः पुनरिह नारभ्यते, अपरेणाग्निं द्वे कुटी कृत्वेऽ(आपगृ.19-14). त्यत्र दक्षिणापवर्गता प्राप्नोति, अत्रोपक्रमस्योदग्गतत्वनियमात् अतो विप्रतिषेधे अपवर्गबलीयस्त्वं यथा स्यादित्ययमारम्भः अन्यथा प्रदक्षिणपरिभाषया सामान्यपरिभाषा बाध्यते किञ्चिद्दैवानि कर्माणीति तत्र विशेषितम् अत्र मानुषेषु कर्मादिष्वपि प्राप्यर्थो ऽपवर्गनियमः आप्ग्स्-तात्_1.6: पुरस्तादुदग्वा क्रियापरिसमाप्तिः कार्येत्यर्तः ननु-ऽपुरस्तादुदग्वोपक्रमःऽइति विधेरेव समन्तपरिषेकादावर्थसिद्धत्वान्नारब्धव्यं ऽततापवर्गः, इति नः अनारभ्यमाणो ऽस्मिन् सूत्रे प्राचीलेखोत्पवनादेरुदीचीलेखा(1) कुटीकरणादेश्चापवर्गः प्रत्यक् दक्षिणा च स्यात् अतस्तद्वाधनायेदमारब्धव्यमेव केचित्- प्राचीनानां लेखानामुदगुपक्रमः, उदीचीनानां च प्रागपवर्गः, अग्निपरिस्तरणवदुभयाविध्यसम्भवात् (2) इति 4 पित्र्याणामपरपक्षादिविधिः अपरपक्षे पित्र्याणि आप्ग्स्_1.7 प्राचीनावीतिना आप्ग्स्_1.8 प्रसव्यम् आप्ग्स्_1.9 दक्षिणतो ऽपवर्गः आप्ग्स्_1.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.10: पितृदैवत्यकर्माण्यपरपक्षे कार्याणि "मासिश्राद्धस्यापरपक्षे"(आपगृ.21.1).ऽया माध्याः पौर्णमास्या उपरिष्टाद्यष्टकेतिऽ; (आपगृ.21-10) तत्रापरपक्ष उपदिष्टः इदं तु नियमनं यानि गयाश्राद्धादीनि देशविशेषेण पात्रविशेषेण काम्यान्युपदिष्टानि अस्माभिश्च परिगृहीतानिपार्वणे नातोन्यानीत्यत्र तेषवपरपक्षप्राप्त्यर्थ च तेन पूर्वपक्षे मृतस्यापरपक्ष एकोद्दिष्टं कर्तव्यं न त्वेकादशे ऽहनि अनुष्ठानञ्चै(त्वे) कादशे ऽहनि मासिश्राद्धस्यापरपक्षविधेः प्रयोजनं तत्रैव वक्ष्यामः अयं चापरपक्षविधिः कृत्स्नस्योदगयनादेरपवादो न पूर्वस्मादुदग्वा यथायोगम् उदाहरणं परिस्तरणादि तदिदं प्राचीनावीत्यादित्रयमविधेयम् श्रौतेष्वेव परिभाषितत्वात्;उच्यते-ऽयज्ञोपवीतिना प्रदक्षिणंऽऽतथापवर्गऽइत्येताः परिभाषा अविशेषेणात्र प्रकरणे पठिताः सामान्यपरिभाषाया बाधितत्वात् पित्र्येष्वपि प्राप्नुवन्ति तद्वाधार्थमिदम् अत्र च येषां पित्र्याणां स्वातन्त्र्येण स्वकोले प्रवृत्तिः तेषामेवायं प्राचीनावीतविधिः नत्वन्यत्राङ्गत्वेन प्रयुज्यमानानाम् तेन दैवेषि मानुषेषु च कर्मसु"पितरः पितामहा"इत्यत्र यज्ञोपवीतमेव भवति अपर आह-"तस्मादभ्याताना वैश्वदेवा"(तैसं.3-4-6). इति दर्शनात्"पितरः पितामहा"इत्यस्यापि पित्र्यत्वादेव प्राचीनावीतस्याप्रसङ्गः इति तथा"अपरपक्षे पित्र्याणी"त्यस्मिन्नधिकारे (1) अभिहितं प्राचीनावीतमविशेषेण पित्र्ये कर्माणि साङ्गे प्रवर्तते तेन पित्र्ये आज्यभागन्ते कर्मणि जयादौ च प्राचीनावीतमेव भवति आप्ग्स्-तात्_1.10: कार्याणीत्येव अयं च विधिस्स्वतन्त्रपित्र्योद्देशेन (2) अङ्गानां तु सहप्रयोज्यानां मुख्यकालत्वेन कालविध्यपेक्षाभावात् एष च न पूर्वपक्षमात्रापवादः किं तर्हि?सर्वापवादार्थ विध्यन्तरम् आः!कुत एतद्ज्ञायते ? ऽन च नक्तं श्राद्धं कुर्वीतऽ(आपध.2-17-23) इति ज्ञापनात् (3) यदि ह्ययं पूर्वपक्षमात्रापवादस्स्यात्, तत उदगयनादीनां त्रयाणामपवादाभावाद्रात्रावप्रसक्तेः प्रतिषेधो न स्यात्, (4) अस्ति च प्रतिषेधः, इत्यतो ज्ञायते विध्यन्तरमेवेति प्रयोजनं त्वविशेषेण दक्षिणायने ऽप्यपरपक्षे ऽह्नि काम्यश्राद्धानि कर्तव्यानीति मासिश्राद्धं तु ऽमासि मासि कार्यमऽ(आप. धर्म.2-16-4) इति (5) वीप्सया दक्षिणायने ऽपि सिद्धमेव नन्वस्मिन् सति ऽमासिश्राद्धस्यापरपक्षेऽ(आपगृ.21-1.) इति विधिः किमर्थः? नियमार्थः तथा हि-अपरपक्ष एव मासिश्राद्धम्, न पुनर्दऐवान्मानुषाद्वा(1) विघातादपरपक्षे ऽतिक्रान्ते"सर्वो ऽपरपक्षः पूर्णमासस्य"इतयादिवत् पूर्वपक्षे ऽपि कर्तव्यम् किन्तु प्रारब्धस्मार्तनित्यकर्मव्यापत्तौ प्रायश्चित्तमेव तच्च ऽभूर्भुवस्सुवस्स्वाहाऽइत्येको होमस्सर्वप्रायश्चित्ताख्यः ऽयद्यविज्ञाता सर्वव्यापद्वा भूर्भुवस्स्वरिति सर्वा अनुद्रुत्याहवनीय एव जुहुयातऽ(ऐब्रा 24-34). इति बह्वृचश्रुतेः अयं चात्रौपासने, नैमित्तिकैकविधिपरश्रुतिस्थाहवनीयशब्दस्य न्यायतो निमित्तवत्कर्मार्ताग्निमात्रप्रदर्शनार्तत्वात् उपवासश्च कार्यः वेदोदितानां नित्यानां कर्मणां समतिक्रमे स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् (मनु.11-203) इति मनुवचनात् (2) आतमिनोः प्राणायामश्च, ऽनियमातिक्रमे चान्यस्मिनऽ(आपध.2-12-18.) इति वचनात् एतोषां समुच्चयं एव न विकल्पः, ऽएकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरनऽ(आपश्रौ. 9-1-2) इति दर्शितत्वात् प्रसङ्गादन्येषां लोपे ऽपि प्रायश्चित्तमुच्यते एवमन्येषामपि प्रारब्धानां प्रायस्चित्तं पाकयज्ञानां व्यापत्तौ, गौमकाले ऽप्यतिक्रान्ते गौणकाले ति सवप्रायश्चित्तपूर्वकं ते ऽनुष्ठेयाः औपासनहोमस्य तु बहुकालातिक्रमे अष्टभ्यो होमकालेभ्यः पूर्व प्रत्येकं सर्वप्रायश्चित्तपूर्वकं (3) अताता होमाः कर्तव्याः अत्रोपवासप्राणायामयोराचारी न दृश्यते ऊर्ध्व तु धार्यमाणे ऽप्यग्नौ ऽअनुगतो मन्थ्यःऽ(आपगृ.5-17) इत्याद्यग्न्युत्पत्तिप्रायश्चित्ते भवतः, ऽचतुरात्रमहूयमानो ऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनात् यदि पुनरालस्यादिनोत्सन्नाग्निरेव चिरकालं वर्तेत तदा स्मृत्यन्तरतस्तत्कालानुरूपं कृच्छ्रादिकं होमद्रव्यदानं च वेदितव्यम् स्वकालं अनारब्धानां तु पाकयज्ञानां सर्वप्रायश्चित्तं हुत्वाऽरम्भः कर्तव्यः (4) केचित्- पाकयज्ञानां (5) स्वकालेष्वनारम्भे आरब्धानां चाकरणे गौणकालातिक्रमे च चतुर्गृहीतेनाज्येन सग्रहेण सप्तहोत्रा जुह्वति यद्यपि ऽसप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहातेनाज्येनऽ(आपश्रौ.14-14-11) इति श्रौतो दर्वीहोमः यज्ञविभ्रेषे युक्तः, तथापि ऽएषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारःऽ(आपश्रौ.14-13-2.) इत्युपक्रम्य ऽआहिताग्नेस्तान् प्रतियादुभयोरितरानऽ(आपश्रौ.14-15-5) इत्युपसंहारात्, गार्ह्ये विभ्रेषे आहत्य प्रायश्चित्तविधानेनापेक्षितत्वाच्च तद्विभ्रेषे ऽपि युक्त एवोति तत्तु कपर्दिस्वामिनोक्तम् जातकर्मादीनां तु (1) स्वकालातिक्रमे सर्वप्रायश्चित्तपूर्वकं तदनुष्ठानम् कर्माङ्गानां तु लोपे सर्वप्रायश्चित्तं प्राणायामश्च अनुष्ठानं चारादुपकारकाणामाकर्मसमाप्तेः द्रव्यसंस्काराणां तु द्रव्योपयोगात् पूर्वमेव सम्भवताम् पाकयज्ञेष्वाग्निहोत्रिक(2) विधौ चोपनयने चाङ्गव्यापत्तौ ऽमुवस्स्वाहाऽइति तत्त(3) त्कर्माङ्गाग्नौ होमः ऽअनाज्ञातमऽइति तिसृभिश्च होमो जपो वा भुवरनाज्ञातविध्यर्थयोर्विकल्पो वा, ऽब्राह्मणावेक्षो विधिः ऽ(आपगृ.2-10) इति ऽश्रुतितस्संस्कारः ऽ(आपधर्म.2-1-09) इति श्रौतप्रायश्चित्तप्राप्त्यर्थत्वात् ननु-ऽभवः ऽ; इति दक्षिणाग्नौ ऽअनाज्ञातंऽइति चाहवनीये सत्यम्, इह तयोरग्न्योरभावात् नैमित्तिकानामप्यङ्गत्वेनेतराङ्गवत् प्रधानाग्नौ होमस्य युक्तत्वाच्च (4) केचित् सर्वेषु गार्ह्यकर्मसु तदङ्गेषु च भ्रेषेऽअनुक्तमन्यतो ग्राह्यम् ऽइति न्याय्न गृह्यान्तरोक्तानि प्रायश्चित्तान्याहुः, तच्चिन्त्यम् अलं प्रासङ्गीकेन प्रकृतमुच्यते यत्तु ऽअपरपक्षस्यापराह्णश्श्रेयानिऽ(आपधर्म.2-16-50) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवते ऽसर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जमऽ(आपश्रौ.12-14-2) इत्यनुवट्काराभावे प्राप्ते ऽपि ऽअपि वोपांश्वनुवषट्कुर्यात्"(आपश्रौ.13-14-9,10) इति ऽसर्वेष्वेवापरपक्षस्याहस्सुऽ(आपधर्म.2-16-7) इति त्वहर्विशेषणार्थम् अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति इतरथा आशौचादतिक्रान्ते ऽपरपक्षे- दैवात् पितॄणां श्राद्धे तु आशौचं जायते यदि आशौचे ऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते इति स्मृत्यन्तरात् कदाचित् पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् नित्यश्राद्धं तु ऽएवं संवत्सरमऽ(आपध.2-18-13) इति अत्यन्त(4) संयोगे द्वितीयाबलात् पूर्वपक्षे ऽपि

athaśabda ānantaryārthaḥ tadartha pūrvavṛttamucyate iha hi yajñā ekaviṃśatibhedāḥ tatra ca sapta pākayajñasaṃsthāḥ- aupāsanahomo, vaiśvadevaṃ, pārvaṇa, maṣṭakā, māsiśrāddhaṃ, sarpabaliṃ, rīśānabaliriti sapta ca haviryajñasaṃsthāḥ-agnihotraṃ, darśapūrṇamāsā, vāgrayaṇaṃ, cāturmāsyāni, nirūḍhapaśubandhas, sautrāmaṇiḥ, piṇḍapitṛyajñādayo darvīhomā iti (5)saptaiva ca somasaṃsthāḥ-agniṣṭomo,'tyāgniṣṭoma, ukthya, ṣyoḍaśī, vājapeyo, 'tirātro 'ptoryāma iti ete ca nityāḥ niyatapradikālīnajīvananimittakā ityarthaḥ kuta ete ca nityāḥ?'jāyamāno vai brāhmaṇastribhiṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena'devebhyaḥ prajayā pitṛbhyaḥ,(taisaṃ.6-3-10) ityatra 'yajñena'ityakavacanaṃ 'yajñaṃ vyākhyāsyāmaḥ'(āpapari.1-1) itivat jātyabhiprāyaṃ manyamānasya bhagavato vasiṣṭhasya 'naiyamikaṃhyetadṛṇatrayaṃ saṃstutam'(vasaṃ.11-47) iti vacanena eṣāmavaśyānuṣṭheyatvāvagamāt tathā 'sāyaṃ prātarata ūrdhvam'(āpagṛ.7-19.) 'yāvajjīvamagnihotraṃ juhoti,''vasante jyotiṣṭomena yajeta'(āpaśrau.10-2-5) ityevamādibhiḥ, 'aharahaḥ pravṛjyante'(taibrā.2-1-3.), ardhamāser'dhamāse pravṛjyate'(taibāra.3-2-8), 'punarbhakṣyo 'sya somapīthobhavati'; (taibrā.3-2-3). ityevamādibhiḥ, (1) karmaṇyorambhanyāyena ca prayogābhyāsāvagamāt tathaiva somasyeṣaṭyādeścākaraṇe aindrāgnaśuvibhraṣṭeṣṭyādi prāyaścittavidhānena pratyavāyotpattyavagamāt tathaiva 'sa etāṃśṭaturhotṝnātmasparaṇānapaśyat'(taibrā.2-3-7) iti agnihotrādisomāntānāmātmaniṣkrayaṇārthatvāvagamāt na tu sauryādivat(2) kovalaṃ kāmyāḥ uktahetūnāṃ sarveṣāmanupapattaiḥ yata evaite nityāṃ ata eva 'anāhitāgnitāsteyam'(manu.11-65). ityanāhitāgnitāyā upapātakagaṇe pāṭhaḥ ata eva nityādhikāravidhiprayuktamādhānam kāmyasiddhistu nitayānuṣṭānenaiva guṇaphalādhikāravidhayā prāsaṅgikī bhavatu mīmāṃsakamatyā tu yadyapi kāmyādhikāravidhigrayuktamādhānaṃ, kāmyānuṣṭhānaina ca nityasiddhiḥ (3) prasaṅgāt;tathāpi kalpasūtrakāraṇāṃ prakriyayā sādhikāratvena (4)prayuktisaktiyogyatayā anyato 'prayuktau nityādhikāravidhiprayuktirapyupapannā yathā(5) vivaraṇamate svavidhiprayuktamadhyayanamiti tasmāt mandamadhyamotkṛṣṭabuddhibhi (6) ssarvairapi traivarṇikairete 'vaśyaṃ kartavyāḥ te ca nānāsādhanakā nānāśākhāntarasthāṅgakā mīmāṃsānyāyasahasranirdhāryavacanavyaktikā mandabuddhibhiridānīntanair(7) durśānā- ajñāne cānuṣṭhātumaśaktāḥ kathañcana pratyaveyuritu kṛpāviṣṭacetaskatayā sūtrakāreṇa'yajñaṃ vyākhyāsyāmaḥ'(āpapari.1-1) iti paribhāṣāyāmekaviṃśatiyajñān sāmānyataḥ (8) saṃkṣepataśca vyākhāyāya tāvanmātreṇānuṣṭhānānupayogāt 'athāto darśapūrṇamāsau'(āpaśrau.1-1) ityārabhya śrautā haviryajñāssomasaṃsthāḥ (9) kṣāmavatyādayo naimittikāḥ prasaṅgāt kāmyāśca(10) viśeṣato vyākhyātāḥ atha anantaram ācārāt-āṅ ityupasargasya avicchedo vyāptirabhipretor'thaḥ cāraḥ caraṇaṃ kamasu pravartanam, 'piṇḍapitṛyajñena caranti'(āpaśrau.1-7-2) ityādau darśanāt tena yatsarveṣu deśeṣu sarveṣu koleṣu ca sarvaistraividyavṛddhaiśśiṣṭairlaukikaprayojanābhāve 'pyavicchinnamavi(1)gānenādriyamāṇaṃ, ataeva mūlāntarāsambhāvāt svamūlabhūtavedānumāneliṅgabhūtaṃ karmasu pravartanaṃ sa ācāraḥ tasmādācārāt anumitairvedaiḥ yāni aupāsanahomādīni pākayajñaśabdavācyāni pāṇigrahaṇādīni ca yaśeṣvadhikāriṣyamāṇadehasaṃskārārthānikarmāṇi gṛhyantejñāyante kartavyatvena tāni vyākhyāsyāma iti śeṣaḥ yata eva ācārānumeyavedāvagamyāni gārhyaaṇi karmāṇi ata eva tebhyaḥ prathamamanuṣṭheyebhyo 'pi pūrva śrautānāṃ vyākhāyānaṃ kṛtam;pratyaśrutivihiteṣu jijñāsāyāḥ prathamabhāvitvāt, anumitavedārthajijñāsāyā(2) ścaramabhāvitvāt, jijñāsāśāntrthatvācca vyākhyānasyeti atra ca ācārādityācāreṇopalakṣya gārhyaaṇi karmāṇi vadannevaṃ jñāpayati- iha sākṣādanibaddhānāmapi yeṣāṃ 'jamadagnīnāṃ tu pañcāvattam'; (āpaśrau.2-18-2) ityādīnāṃ padārthānāmācāraḥ kṛtsnadeśādivyāptassyāt te 'pi vedamūlā evoti kṛtsnadeśādivyāptiścādhikapaunaruktyādibhiśśraute darśanena gṛhyāntarairrdhamaśāstraiḥ nyāyabalena sampradāyavidvākhyātṛvacanairvā niścetavyā idaṃ cādhikārasūtram yānyaṅgānyuttaratra'purastādudagvopakramaḥ'(āpagṛ-5) ityādīni vakṣyante teṣāṃ gārhyakarmārthatāṃ, śrautānāṃ sārvatrikāṇāmapi svato 'nidamarthatāṃ ca jñāpayitum etacca(3) samānopadeśātideśayorabhāvāt kecit-karmāṇītyetadgṛhye vakṣyamāṇānyasmaccaraṇārthānyeva, na tudharmaśabdādhikṛtadharmaśāstroktavatsarvārtāni tathā śrautānantaraṃ gārhyaadhikāraḥ śrautoktasārvatrikadharmāmāmiha prāptyartha iti 2 udagayanādikālavidhiḥ udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi āpgs_1.2 commentaries: āpgs-anā_1.2: udagayanādividhānaṃ dakṣiṇāyanādipratiṣedhārtham samuñcayaścodagayanādīnāṃ na vikalpaḥ puṇyāhāḥdevanakṣatrāṇi jyotiśśāstre prasiddhāni yamanakṣatrāṇi ca tadvihitāni āpgs-tāt_1.2: udagayanādayaḥ prasiddhāḥ puṇyāhāstvahno navadhā vibhaktasyāyu jo bhāgāḥ- prātassaṅgava(1) madhyāhṇasāyaṃśabdavācyāḥ puṇyanakṣatrāparaparyāyāḥ pañca 'samānasyāhnaḥ pañca puṇyāni nakṣatrāṇi'(tai,brā.2-5.6) 'mitrasya saṅgavaḥ tatpuṇyaṃ tejassvyahaḥ'; (taibrā.1-5-6) ityādiśruteḥ yugmāstvaślīlāḥ, 'catvāryaślīlāni'(taibrā.1-5-6) iti śruteḥ kecit-kṛttikādiviśākhāntāni devanakṣatrāṇi puṇyāhāḥ, 'yānyeva devanaśratrāṇi teṣu kurvīta yatkārī syāt puṇyāha eva kurute'; (taibrā.1-5-2) iti śruteḥ udagayanetyādirayaṃ samāso dvandvaḥ teṣu kāryāṇi gārhyaaṇīti śeṣaḥ eṣāṃ samuccayaḥ na vikalpaḥ etacca sāmānyavidhānaṃ tatra tatra viśeṣavidhānenāpodyate niyamyate ca evamudagayanādīnāṃ vidāne satyapi kvacidaniyamaḥ pratibhāsate 'sarva ṛtavo vivāhasya'; (āpagṛ.2-12.) iti vacanāt yadā dakṣiṇāyane 'pi vivāhassyāttadā samāvartanaṃ tatkālasamīpakāla eva itarathā udagayanasamāvṛttasya śaradi vivāhe sati bahukālavyavadhāne, 'anāśramī na tiṣṭheta dinamekamapi dvijaḥ'; (dakṣasaṃa.1) iti niṣedhātikramaprasaṅgāt kiñca āśvalāyanagṛhye 'udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ'(āśvagṛ.1-5) ityatra caulavikāratvādeva godānasya udagayanaprāptau punastatra tadvidhiḥ tadvikārāntare samāvartane udagayananiyamānivṛttyartha iti gamyate tathā baudhāyanīye samāvartanasya caulavikāratvādeva āpūryamāṇapakṣaprāptau punastatra tadvidhi(2) rudagayanāniyamārta iti gamyate tathā gṛhanirmāṇapraveśayoḥ jyotiśśāstre dakṣiṇāyanasyāpi vidhānāt avigītaśiṣṭācārācca udagayanāniyamaḥ tathā aparapakṣe 'pyāpañcamyāḥ jyotiśśāstrādannaprīśana(3)gṛhanirmāmapraveśān rātrāvapyācaranti tathaiva yadā puṇyāhāḥ jyautiṣoktadoṣopahatāḥ tadā aślīleṣvapi tathaiva yadā puṇyāhā- jyotiṣoktadoṣopahatāḥ tadā aślīleṣvapi taduktaguṇayukteṣi(4) avigānena karmāṇyācaranti jyotśśāstramapi (1) vedāṅgatvādagṛhyamāṇakāraṇatvāt, śiṣṭaparigṛhītatvācca kalpasūtrādivadādaraṇīyameva nirṇaye ti śiṣṭāḥ pramāṇaṃ sarvatra 3 yajñopavītaprādakṣiṇyādividhiḥ yajñopavītinā āpgs_1.3 commentaries: āpgs-anā_1.3: kāryāṇi ityanuvartate āpgs-tāt_1.3: kāryāṇīti sambandhaḥ nanu yajñopavītaṃ pākayajñeṣu 'prāgapavarmāṇi'(āpapa.215) ityādinā siddham vivāhādihomeṣu japādiṣu ca 'home japyakarmaṇi'(āpadha.1-151) ityādinā ato 'traitadvidhirrvyathaḥ satyam;yatrāprāpti(2)rhemantapratyavarohaṇādiṣu tatrāyaṃ vidhissārtha eva pradakṣiṇam āpgs_1.4 commentaries: āpgs-anā_1.4: pradakṣiṇaṃ ca tāni kartavyāni dakṣinaṃ pāṇiṃ pratigataṃ pradakṣiṇam udāharaṇaṃ paristaraṇādi nanu-tadidamubhayamavidheyaṃ, pūrvameva śrauteṣu vihitatvāt 'daivānī'ti(āpapa.2-35) tatrocyate, iha mānuṣeṣu jātakarmādiṣvapyetayoḥ pravṛttiriṣyate93)tadarthamayamārambhaḥ āpgs-tāt_1.4: kāryāṇītyeva sambandhaḥ idaṃ tu prādakṣiṇyaṃ pākayajñeṣu tatkoṭiṣu ca vivāhādiṣu paribhāṣāsiddhamapi(4) tadvatiriktagārhyaratha vidhīyate 'tatāpavargaḥ'(āpa..gṛ.1-6) iti cetthameva purastādudagvopakramaḥ āpgs_1.5 commentaries: āpgs-anā_1.5: aniyame niyamārthamidaṃ vacanam dakṣiṇataḥ paścādvopakrāmo mābhūditi paristaraṇādyevodāharaṇam āpgs-tāt_1.5: kārya iti śeṣaḥ ayaṃ tu sarveṣvapi yajñāyajñarūpagārhyeṣvaprāptatvādvidhīyate tathāpavargaḥ āpgs_1.6 commentaries: āpgs-anā_1.6: teṣāmapavargo 'pi tathā pratyetavyaḥ purastādudagvetyarthaḥ apavargaḥ parisamāptiḥ na cātra upakrāmāpavargayoḥ samānabhidaṃ niyamanaṃ kriyate-purastādupakrānte tatraiva samāpyaṃ udagārabhyaṃ ca tatraiveti kiṃ tarhi yathāsaṃbhavaṃ pravṛttiḥ tadyathā paristaraṇasya purastādupakrāntasya tatraivāpavargāsambavādudagapavargaḥ tatrāpavargavidherānarthakyaṃ, śrauteṣveva paribhāṣitatvāt"prāgapavargāṇyudagapavargāṇi ve"ti (āpapa.2-15) ucyate yadyapavargavidhiḥ punariha nārabhyate, apareṇāgniṃ dve kuṭī kṛtve'(āpagṛ.19-14). tyatra dakṣiṇāpavargatā prāpnoti, atropakramasyodaggatatvaniyamāt ato vipratiṣedhe apavargabalīyastvaṃ yathā syādityayamārambhaḥ anyathā pradakṣiṇaparibhāṣayā sāmānyaparibhāṣā bādhyate kiñciddaivāni karmāṇīti tatra viśeṣitam atra mānuṣeṣu karmādiṣvapi prāpyartho 'pavarganiyamaḥ āpgs-tāt_1.6: purastādudagvā kriyāparisamāptiḥ kāryetyartaḥ nanu-'purastādudagvopakramaḥ'iti vidhereva samantapariṣekādāvarthasiddhatvānnārabdhavyaṃ 'tatāpavargaḥ, iti naḥ anārabhyamāṇo 'smin sūtre prācīlekhotpavanāderudīcīlekhā(1) kuṭīkaraṇādeścāpavargaḥ pratyak dakṣiṇā ca syāt atastadvādhanāyedamārabdhavyameva kecit- prācīnānāṃ lekhānāmudagupakramaḥ, udīcīnānāṃ ca prāgapavargaḥ, agniparistaraṇavadubhayāvidhyasambhavāt (2) iti 4 pitryāṇāmaparapakṣādividhiḥ aparapakṣe pitryāṇi āpgs_1.7 prācīnāvītinā āpgs_1.8 prasavyam āpgs_1.9 dakṣiṇato 'pavargaḥ āpgs_1.10 commentaries: āpgs-anā_1.10: pitṛdaivatyakarmāṇyaparapakṣe kāryāṇi "māsiśrāddhasyāparapakṣe"(āpagṛ.21.1).'yā mādhyāḥ paurṇamāsyā upariṣṭādyaṣṭaketi'; (āpagṛ.21-10) tatrāparapakṣa upadiṣṭaḥ idaṃ tu niyamanaṃ yāni gayāśrāddhādīni deśaviśeṣeṇa pātraviśeṣeṇa kāmyānyupadiṣṭāni asmābhiśca parigṛhītānipārvaṇe nātonyānītyatra teṣavaparapakṣaprāptyartha ca tena pūrvapakṣe mṛtasyāparapakṣa ekoddiṣṭaṃ kartavyaṃ na tvekādaśe 'hani anuṣṭhānañcai(tve) kādaśe 'hani māsiśrāddhasyāparapakṣavidheḥ prayojanaṃ tatraiva vakṣyāmaḥ ayaṃ cāparapakṣavidhiḥ kṛtsnasyodagayanāderapavādo na pūrvasmādudagvā yathāyogam udāharaṇaṃ paristaraṇādi tadidaṃ prācīnāvītyāditrayamavidheyam śrauteṣveva paribhāṣitatvāt;ucyate-'yajñopavītinā pradakṣiṇaṃ''tathāpavarga'ityetāḥ paribhāṣā aviśeṣeṇātra prakaraṇe paṭhitāḥ sāmānyaparibhāṣāyā bādhitatvāt pitryeṣvapi prāpnuvanti tadvādhārthamidam atra ca yeṣāṃ pitryāṇāṃ svātantryeṇa svakole pravṛttiḥ teṣāmevāyaṃ prācīnāvītavidhiḥ natvanyatrāṅgatvena prayujyamānānām tena daiveṣi mānuṣeṣu ca karmasu"pitaraḥ pitāmahā"ityatra yajñopavītameva bhavati apara āha-"tasmādabhyātānā vaiśvadevā"(taisaṃ.3-4-6). iti darśanāt"pitaraḥ pitāmahā"ityasyāpi pitryatvādeva prācīnāvītasyāprasaṅgaḥ iti tathā"aparapakṣe pitryāṇī"tyasminnadhikāre (1) abhihitaṃ prācīnāvītamaviśeṣeṇa pitrye karmāṇi sāṅge pravartate tena pitrye ājyabhāgante karmaṇi jayādau ca prācīnāvītameva bhavati āpgs-tāt_1.10: kāryāṇītyeva ayaṃ ca vidhissvatantrapitryoddeśena (2) aṅgānāṃ tu sahaprayojyānāṃ mukhyakālatvena kālavidhyapekṣābhāvāt eṣa ca na pūrvapakṣamātrāpavādaḥ kiṃ tarhi?sarvāpavādārtha vidhyantaram āḥ!kuta etadjñāyate ? 'na ca naktaṃ śrāddhaṃ kurvīta'(āpadha.2-17-23) iti jñāpanāt (3) yadi hyayaṃ pūrvapakṣamātrāpavādassyāt, tata udagayanādīnāṃ trayāṇāmapavādābhāvādrātrāvaprasakteḥ pratiṣedho na syāt, (4) asti ca pratiṣedhaḥ, ityato jñāyate vidhyantarameveti prayojanaṃ tvaviśeṣeṇa dakṣiṇāyane 'pyaparapakṣe 'hni kāmyaśrāddhāni kartavyānīti māsiśrāddhaṃ tu 'māsi māsi kāryam'(āpa. dharma.2-16-4) iti (5) vīpsayā dakṣiṇāyane 'pi siddhameva nanvasmin sati 'māsiśrāddhasyāparapakṣe'(āpagṛ.21-1.) iti vidhiḥ kimarthaḥ? niyamārthaḥ tathā hi-aparapakṣa eva māsiśrāddham, na punardaaivānmānuṣādvā(1) vighātādaparapakṣe 'tikrānte"sarvo 'parapakṣaḥ pūrṇamāsasya"itayādivat pūrvapakṣe 'pi kartavyam kintu prārabdhasmārtanityakarmavyāpattau prāyaścittameva tacca 'bhūrbhuvassuvassvāhā'ityeko homassarvaprāyaścittākhyaḥ 'yadyavijñātā sarvavyāpadvā bhūrbhuvassvariti sarvā anudrutyāhavanīya eva juhuyāt'(aibrā 24-34). iti bahvṛcaśruteḥ ayaṃ cātraupāsane, naimittikaikavidhiparaśrutisthāhavanīyaśabdasya nyāyato nimittavatkarmārtāgnimātrapradarśanārtatvāt upavāsaśca kāryaḥ vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame snātakavratalope ca prāyaścittamabhojanam (manu.11-203) iti manuvacanāt (2) ātaminoḥ prāṇāyāmaśca, 'niyamātikrame cānyasmin'(āpadha.2-12-18.) iti vacanāt etoṣāṃ samuccayaṃ eva na vikalpaḥ, 'ekasmin doṣe śrūyamāṇāni prāyaścittāni samabhyuccīyeran'(āpaśrau. 9-1-2) iti darśitatvāt prasaṅgādanyeṣāṃ lope 'pi prāyaścittamucyate evamanyeṣāmapi prārabdhānāṃ prāyascittaṃ pākayajñānāṃ vyāpattau, gaumakāle 'pyatikrānte gauṇakāle ti savaprāyaścittapūrvakaṃ te 'nuṣṭheyāḥ aupāsanahomasya tu bahukālātikrame aṣṭabhyo homakālebhyaḥ pūrva pratyekaṃ sarvaprāyaścittapūrvakaṃ (3) atātā homāḥ kartavyāḥ atropavāsaprāṇāyāmayorācārī na dṛśyate ūrdhva tu dhāryamāṇe 'pyagnau 'anugato manthyaḥ'(āpagṛ.5-17) ityādyagnyutpattiprāyaścitte bhavataḥ, 'caturātramahūyamāno 'gnirlaukikassampadyate'iti vacanāt yadi punarālasyādinotsannāgnireva cirakālaṃ varteta tadā smṛtyantaratastatkālānurūpaṃ kṛcchrādikaṃ homadravyadānaṃ ca veditavyam svakālaṃ anārabdhānāṃ tu pākayajñānāṃ sarvaprāyaścittaṃ hutvā'rambhaḥ kartavyaḥ (4) kecit- pākayajñānāṃ (5) svakāleṣvanārambhe ārabdhānāṃ cākaraṇe gauṇakālātikrame ca caturgṛhītenājyena sagraheṇa saptahotrā juhvati yadyapi 'saptahotrā yajñavibhraṣṭaṃ yājayeccaturgṛhātenājyena'(āpaśrau.14-14-11) iti śrauto darvīhomaḥ yajñavibhreṣe yuktaḥ, tathāpi 'eṣā vā anāhitāgneriṣṭiryaccaturhotāraḥ'(āpaśrau.14-13-2.) ityupakramya 'āhitāgnestān pratiyādubhayoritarān'(āpaśrau.14-15-5) ityupasaṃhārāt, gārhye vibhreṣe āhatya prāyaścittavidhānenāpekṣitatvācca tadvibhreṣe 'pi yukta evoti tattu kapardisvāminoktam jātakarmādīnāṃ tu (1) svakālātikrame sarvaprāyaścittapūrvakaṃ tadanuṣṭhānam karmāṅgānāṃ tu lope sarvaprāyaścittaṃ prāṇāyāmaśca anuṣṭhānaṃ cārādupakārakāṇāmākarmasamāpteḥ dravyasaṃskārāṇāṃ tu dravyopayogāt pūrvameva sambhavatām pākayajñeṣvāgnihotrika(2) vidhau copanayane cāṅgavyāpattau 'muvassvāhā'iti tatta(3) tkarmāṅgāgnau homaḥ 'anājñātam'iti tisṛbhiśca homo japo vā bhuvaranājñātavidhyarthayorvikalpo vā, 'brāhmaṇāvekṣo vidhiḥ '(āpagṛ.2-10) iti 'śrutitassaṃskāraḥ '(āpadharma.2-1-09) iti śrautaprāyaścittaprāptyarthatvāt nanu-'bhavaḥ '; iti dakṣiṇāgnau 'anājñātaṃ'iti cāhavanīye satyam, iha tayoragnyorabhāvāt naimittikānāmapyaṅgatvenetarāṅgavat pradhānāgnau homasya yuktatvācca (4) kecit sarveṣu gārhyakarmasu tadaṅgeṣu ca bhreṣe'anuktamanyato grāhyam 'iti nyāyna gṛhyāntaroktāni prāyaścittānyāhuḥ, taccintyam alaṃ prāsaṅgīkena prakṛtamucyate yattu 'aparapakṣasyāparāhṇaśśreyāni'(āpadharma.2-16-50) iti, tadaparāhṇavidhānārthamanuvādaḥ, yathā pātnīvate 'sarvatrānuvaṣaṭkāro dvidaivatyartugrahādityasāvitrapātnīvatavarjam'(āpaśrau.12-14-2) ityanuvaṭkārābhāve prāpte 'pi 'api vopāṃśvanuvaṣaṭkuryāt"(āpaśrau.13-14-9,10) iti 'sarveṣvevāparapakṣasyāhassu'(āpadharma.2-16-7) iti tvaharviśeṣaṇārtham aparapakṣasyāhassveva māsiśrāddhaṃ, na pūrvapakṣasyāhassu vikalapenāpyabhimatamiti itarathā āśaucādatikrānte 'parapakṣe- daivāt pitṝṇāṃ śrāddhe tu āśaucaṃ jāyate yadi āśauce 'tha vyatīte vai tebhyaśśrāddhaṃ pradīyate iti smṛtyantarāt kadācit pūrvapakṣasyāhassvapi vikalpenedaṃ syāt nityaśrāddhaṃ tu 'evaṃ saṃvatsaram'(āpadha.2-18-13) iti atyanta(4) saṃyoge dvitīyābalāt pūrvapakṣe 'pi


8

पित्र्याणि कार्याणीति शेषः इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्, ऽप्राचीनावीतिना पित्र्याणिऽइत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(1) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेये ऽअपरपक्षे पित्र्याणिऽइतिवदनपेक्षितत्वाभावाच्च तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितायनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि इत्थमेव ऽयज्ञोपवीतिनाऽइत्यपि तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव केचित्- अङ्गानां प्रधानधर्मता न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यति यज्ञोपवीतिनेति, तच्चिन्त्यंमे

pitryāṇi kāryāṇīti śeṣaḥ idaṃtu vāsovinyāsabhedavidhānaṃ svatantrāsvatantrasarvapitryārtham, 'prācīnāvītinā pitryāṇi'ityanena vākyena aviśeṣāvagamāt, uddeśye pitryamātre labdhe adhikāprakṛta(1) svātantryavivakṣāyāṃ vākyabhedāpatteḥ, aṅgeṣvapi prācīnāvīte vidheye 'aparapakṣe pitryāṇi'itivadanapekṣitatvābhāvācca tena yāni svatantrāṇi yathā pradhānāhutayaḥ, yāni cāsvatantrāṇi yathā dvitāyanimārjanādīni, tāni sarvāṇyeva prācīnāvītinā kāryāṇi itthameva 'yajñopavītinā'ityapi tena pitryāṅgānyapi daivānyāghārādīni yajñopavītinaiva itarāṅgānāṃ tu pātraprayogādīnāṃ tattatpradhānavadeva kecit- aṅgānāṃ pradhānadharmatā nyāyyeti pitryāṅgāni daivānyapi prācīnāvītinā, daivāṅgāni pitryāṇyati yajñopavītineti, taccintyaṃme


9

तथैव शेषः

tathaiva śeṣaḥ


10

पित्र्येषु कार्य इति शेषः अत्र ऽप्राचीनावीतीऽ(आपपरि.2.16)इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात् अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः

pitryeṣu kārya iti śeṣaḥ atra 'prācīnāvītī'(āpapari.2.16)ityādiparibhāṣayā eṣāṃ trayāṇāmapi siddhatvāt apākayajñanityaṣoḍaśaśrāddhādyartho vidhiḥ


8

निमित्तावेक्षाणि नैमित्तिकानि आप्ग्स्_1.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.11: प्राचीनावीतिना प्रसव्यं दक्षिणतो ऽपवर्ग इति पूर्वसूत्रेण सम्बन्धः निमित्तानि यानि नैमित्तिकानि कर्मानि तानि निमित्तमवेक्ष्य तदनन्तरमेव कर्तव्यानि, न तत्र उदगयनाद्यपेक्षा "अगारस्थूणाविरोण"(आपगृ.23-9) इत्युदाहरणानि तत्रामावास्यायां निशशायामिति वचनात् तावानुत्कर्षः गृहप्रवेशनं नैमित्तिकमिति केचित् नेत्यन्ये

nimittāvekṣāṇi naimittikāni āpgs_1.11 commentaries: āpgs-anā_1.11: prācīnāvītinā prasavyaṃ dakṣiṇato 'pavarga iti pūrvasūtreṇa sambandhaḥ nimittāni yāni naimittikāni karmāni tāni nimittamavekṣya tadanantarameva kartavyāni, na tatra udagayanādyapekṣā "agārasthūṇāviroṇa"(āpagṛ.23-9) ityudāharaṇāni tatrāmāvāsyāyāṃ niśaśāyāmiti vacanāt tāvānutkarṣaḥ gṛhapraveśanaṃ naimittikamiti kecit netyanye


11

आप्ग्स्-तात्_1.11: नैमित्तिकान्याग्रयणातिथ्यसीमन्तादीनि निमित्तावेक्षाणि निमित्तानि व्रीहिपाकादीन्येवानुष्ठाने ऽवेक्षन्ते नोदगयनादीनीत्यर्थः अत्रापि सम्भवत- पूर्वपक्षादेर्नापवाद-

āpgs-tāt_1.11: naimittikānyāgrayaṇātithyasīmantādīni nimittāvekṣāṇi nimittāni vrīhipākādīnyevānuṣṭhāne 'vekṣante nodagayanādīnītyarthaḥ atrāpi sambhavata- pūrvapakṣādernāpavāda-


9

एवं प्रयोगानुवन्धं कालादिकमुक्त्त्वा इदानीं सर्वगार्ह्यप्रधानहोमानां साधारणतन्त्रनामानं प्राच्योदाच्याङ्गसमुदायं प्रयोज्यभेदमाह-ऽअग्निमिध्वाऽ; इत्यादि ऽमन्त्र सन्नामःऽ(आपगृ.2-8.) इत्यन्तेन 2. अग्निमुखनिरूपणम् - 1 परिस्तरणादि अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति आप्ग्स्_1.12 प्रागुदगग्रैर्वा आप्ग्स्_1.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.13: उक्ताः पाकयज्ञपरिभाषाः अथ तेषां साधारणतन्त्रं वक्ष्यते-अग्निमिध्वेति तदग्नेरुपसमाधानमित्युच्यते एतच्च कर्माङ्गम् किं पुनरत्राग्निः? पत्नीसम्बन्धेष्वौपासनम् अन्य लौकिकः केचिज्जातकर्मप्रभृति"परिग्रहमग्नेरिच्छन्ति अन्ये पुनः उपनयनप्रभृति अपरे"यत्रान्त्यां समिधमादध्यात् तं वापरिगृह्णीया"दिति यत्र तु प्सिद्धौऽग्निर्नास्ति तत्र श्रौत्रियागारादाहरणं मथनं वा "यत्र क्वचीग्नि"मित्ययं तु देशसंस्कारः सर्वत्र भवति यदि स्यादस्स्कृतो देशः अग्निमिध्वेति प्रकृते पुनरग्निग्रहणं येषु तन्त्रं न प्रवर्तते तत्रापि परिस्तरणं यथा स्यादिति-अग्निं-परिस्तृणाति सर्ववेति उपसमाधानं तु तत्रार्थसिद्धम् प्रागुदगग्रैर्वा अथ वा न सर्वतः प्रागग्गैरेव परिस्तरणं किं तर्हि प्रागग्रैरुदगग्रैश्च तत्रोदगग्राः पश्चात्पुरस्ताच्च

evaṃ prayogānuvandhaṃ kālādikamukttvā idānīṃ sarvagārhyapradhānahomānāṃ sādhāraṇatantranāmānaṃ prācyodācyāṅgasamudāyaṃ prayojyabhedamāha-'agnimidhvā'; ityādi 'mantra sannāmaḥ'(āpagṛ.2-8.) ityantena 2. agnimukhanirūpaṇam - 1 paristaraṇādi agnimidhvā prāgagrairdarbhairagniṃ paristṛṇāti āpgs_1.12 prāgudagagrairvā āpgs_1.13 commentaries: āpgs-anā_1.13: uktāḥ pākayajñaparibhāṣāḥ atha teṣāṃ sādhāraṇatantraṃ vakṣyate-agnimidhveti tadagnerupasamādhānamityucyate etacca karmāṅgam kiṃ punaratrāgniḥ? patnīsambandheṣvaupāsanam anya laukikaḥ kecijjātakarmaprabhṛti"parigrahamagnericchanti anye punaḥ upanayanaprabhṛti apare"yatrāntyāṃ samidhamādadhyāt taṃ vāparigṛhṇīyā"diti yatra tu psiddhau'gnirnāsti tatra śrautriyāgārādāharaṇaṃ mathanaṃ vā "yatra kvacīgni"mityayaṃ tu deśasaṃskāraḥ sarvatra bhavati yadi syādasskṛto deśaḥ agnimidhveti prakṛte punaragnigrahaṇaṃ yeṣu tantraṃ na pravartate tatrāpi paristaraṇaṃ yathā syāditi-agniṃ-paristṛṇāti sarvaveti upasamādhānaṃ tu tatrārthasiddham prāgudagagrairvā atha vā na sarvataḥ prāgaggaireva paristaraṇaṃ kiṃ tarhi prāgagrairudagagraiśca tatrodagagrāḥ paścātpurastācca

Section (cont. 2)

12

आप्ग्स्-तात्_1.13: अत्र च अग्निपदार्थविशेषप्रतिपत्त्यर्थ स्मार्तेष्वग्निर्निरूप्यते तत्र याज्ञवल्क्यवचनम् कर्म स्मार्त विवागाग्नौ कुर्वीत प्रत्यहं गृही (यास्मृ.2-97) इति अस्यार्थ गृही गृहस्थः सपत्नीकः स्मार्त कर्म विवागाग्नौ औपासनाग्नौ कूर्वीत यस्य कर्मणाः प्रयोगे संकल्पावघातान्वारम्भद्रव्यत्यागानुमत्यादिपदार्थद्वारा पत्न्यास्सहत्वं तत् कर्म स्वौपासने कुर्वीत इत्येतत् अथ वा यस्य अग्निसाध्यस्य कर्मणः फलं साक्षात् कर्मान्तरप्रणाल्या वा जायापतिगाम्यन्यतरगामि वा भवति तत्कर्म गृही स्वौपासने कुर्यात्,ऽकुर्वीतऽइत्यात्मनेपदश्रवणादिति एवं च स्मार्तानि पाकयज्ञसीमन्तादीनि औपासनाग्नौ कर्तव्यानि गृहप्रवेशो ऽपि तत्कर्मजन्यवास्तुशान्तेः जायापत्यायुराद्यर्थत्वादौपासन एव तथा पित्रादेर्मातामहादेश्च सपिण्डीकरणमप्यौपासने सपिण्डीकरणफलस्य प्रेतत्वनिवृत्त्या पितृत्वप्राप्तिरूपस्याभ्युदयिकमासिश्राद्धादौ सम्प्रदानार्थत्वात्, तत्फलस्य च जायापतिगामित्वादिति अत एव सपिण्डीकरणं सर्वैरपि पुत्रैर्न कर्तव्यम्, एकेनापि कृत्पुतृतया सम्प्रदानत्वसिद्धेः अतो यत्र पत्न्यास्सहत्वं क्रियाफलं वा जायापतिगामि तत्कर्म (1-टठ-स्वैपासने.) औपासन एव यदि तु पुत्रो ऽनग्निरनुपनीतादिः संवत्सरे पूर्णे ऽवश्यं कर्तव्यत्वात् सपिण्डीकरणं करोति, तदा श्रोत्रियागारादाहृते ऽग्नौ;वोधायनेन ऽअथ वा श्रोत्रियागारादेव तमौपासनमऽ(बौगृ.6-2) इत्यौपासनसंस्तवात्, आचाराच्च अनुपनूतो ऽपि पुत्रश्श्राद्धाधिकार्येव, अर्हत्यनुपनीतो ऽपि विनाप्यग्निं विनाऽपदम् (मनु. 2-172) इति वचनात्, ऽऽन वब्रह्माभिव्याहारयोदन्यत्र स्वधानिनयनातऽ(गौध.2-5) इति गौतमवचनस्थस्वधाशब्दस्य सकलीर्ध्वदैहिकप्रदर्शनार्थत्वाच्च भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शष्य एव वा सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः इति वचनात् यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात् श्रोत्रियागरादाहृताग्नावेव अन्ये तु-भ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत् पतिगामि फलमित्यौपासने;तच्छिन्त्यम् तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि तथोमनयनमपि आचार्यकरणसिध्द्यर्थ मुपनयनमिति मते ऽपि नाचार्यस्यौपासने तस्य नित्यधार्यत्वात् ऽत्र्यहमेतमाग्निं धारयन्तिऽ(आपगृ.11-19) इति सूत्रविरोधात् विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असभ्भवाद्विवाहजन्यौपासनस्य सम्भवे ऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ;ऽयां कामयेत राष्ट्रमस्यै प्रजा ,स्यादिति तस्या औपासनेऽइति प्रतिणार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आटाराट्ट कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाग्नेः, ऽयत्र क्व टाग्निमऽ(आपध.2-1-13.) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् केचित्- इदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति अथ सूत्रं व्याख्यायते अग्निमिद्ध्वाइन्धीतेत्यर्थः यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनात् इद्धमपि पुनरिन्धीत अत्र विध्यर्थे लिङ्गादौग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् तेन इन्धनानन्तरं परिस्तरणमेव कार्य, न तु तयोर्ध्ये ऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसंभारोपकल्पनं च नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात्;सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ;सूचनात् सूत्रमिति मिर्वचनात् इत्यमेव व्याख्यानं प्रयोजनं च सर्वत्र त्काग्रहणेषु प्रागग्रैर्दर्भैरग्निं परिस्तृणाति सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति

āpgs-tāt_1.13: atra ca agnipadārthaviśeṣapratipattyartha smārteṣvagnirnirūpyate tatra yājñavalkyavacanam karma smārta vivāgāgnau kurvīta pratyahaṃ gṛhī (yāsmṛ.2-97) iti asyārtha gṛhī gṛhasthaḥ sapatnīkaḥ smārta karma vivāgāgnau aupāsanāgnau kūrvīta yasya karmaṇāḥ prayoge saṃkalpāvaghātānvārambhadravyatyāgānumatyādipadārthadvārā patnyāssahatvaṃ tat karma svaupāsane kurvīta ityetat atha vā yasya agnisādhyasya karmaṇaḥ phalaṃ sākṣāt karmāntarapraṇālyā vā jāyāpatigāmyanyataragāmi vā bhavati tatkarma gṛhī svaupāsane kuryāt,'kurvīta'ityātmanepadaśravaṇāditi evaṃ ca smārtāni pākayajñasīmantādīni aupāsanāgnau kartavyāni gṛhapraveśo 'pi tatkarmajanyavāstuśānteḥ jāyāpatyāyurādyarthatvādaupāsana eva tathā pitrādermātāmahādeśca sapiṇḍīkaraṇamapyaupāsane sapiṇḍīkaraṇaphalasya pretatvanivṛttyā pitṛtvaprāptirūpasyābhyudayikamāsiśrāddhādau sampradānārthatvāt, tatphalasya ca jāyāpatigāmitvāditi ata eva sapiṇḍīkaraṇaṃ sarvairapi putrairna kartavyam, ekenāpi kṛtputṛtayā sampradānatvasiddheḥ ato yatra patnyāssahatvaṃ kriyāphalaṃ vā jāyāpatigāmi tatkarma (1-ṭaṭha-svaipāsane.) aupāsana eva yadi tu putro 'nagniranupanītādiḥ saṃvatsare pūrṇe 'vaśyaṃ kartavyatvāt sapiṇḍīkaraṇaṃ karoti, tadā śrotriyāgārādāhṛte 'gnau;vodhāyanena 'atha vā śrotriyāgārādeva tamaupāsanam'(baugṛ.6-2) ityaupāsanasaṃstavāt, ācārācca anupanūto 'pi putraśśrāddhādhikāryeva, arhatyanupanīto 'pi vināpyagniṃ vinā'padam (manu. 2-172) iti vacanāt, ''na vabrahmābhivyāhārayodanyatra svadhāninayanāt'(gaudha.2-5) iti gautamavacanasthasvadhāśabdasya sakalīrdhvadaihikapradarśanārthatvācca bhrātā vā bhrātṛputro vā sapiṇḍaśśaṣya eva vā sapiṇḍīkaraṇaṃ kṛtvā kuryādabhyudayaṃ tataḥ iti vacanāt yadā bhrātṛputrādiḥ karoti tadā yathoktasahatvaphalabhāgitvayorabhāvāt śrotriyāgarādāhṛtāgnāveva anye tu-bhrātrādigatapitṛtvaprāptirapi putragatapūtatvādiphalavat patigāmi phalamityaupāsane;tacchintyam tathā jātakarmacaulopākaraṇasamāpanagodānasamāvartanānyapi tathomanayanamapi ācāryakaraṇasidhdyartha mupanayanamiti mate 'pi nācāryasyaupāsane tasya nityadhāryatvāt 'tryahametamāgniṃ dhārayanti'(āpagṛ.11-19) iti sūtravirodhāt vivāhopyasmin, nirmanthye vā, asabhbhavādvivāhajanyaupāsanasya sambhave 'pi prathamaupāsanasya, na tasmin dvitīyādivivāhaḥ ;'yāṃ kāmayeta rāṣṭramasyai prajā ,syāditi tasyā aupāsane'iti pratiṇāryamaupāsanabhedāvagamāt, baudhāyanīye agnidvayasaṃsargavidhānāt, āṭārāṭṭa karmārthasyaupāsanasya saṃskṛte deśe, anupasamāhitasyānyasya vāgneḥ, 'yatra kva ṭāgnim'(āpadha.2-1-13.) iti dharmaśāstroktavidhinā agnipratiṣṭhāpanaṃ kartavyam kecit- idaṃ nāgnyaṅgaṃ, karmāṅgameveti pratikarma kāryam, ukhāyāṃ cāgnerdhāraṇamiti atha sūtraṃ vyākhyāyate agnimiddhvāindhītetyarthaḥ yadyapyarthaprāptamagnerindhanaṃ tathāpyetadvacanāt iddhamapi punarindhīta atra vidhyarthe liṅgādaugrāhye ktvāgrahaṇamindhanasya paristaraṇapūrvakālatāniyamārtham tena indhanānantaraṃ paristaraṇameva kārya, na tu tayordhye 'vaśyakāryamapi mūtranirasanādi karmārthasaṃbhāropakalpanaṃ ca nanvekasmin sūtre indhanaparistaraṇayorvidhāne vākyabhedassyāt;satyam, na tu sūtre vākyabhedo doṣaḥ ;sūcanāt sūtramiti mirvacanāt ityameva vyākhyānaṃ prayojanaṃ ca sarvatra tkāgrahaṇeṣu prāgagrairdarbhairagniṃ paristṛṇāti sarvāsu dikṣu prāgagraiḥ kuśairagniṃ paristṛṇāti


13

अथ वा प्रागग्रैरुदग्ग्रैश्च दर्भैरग्निं परिस्तृणाति दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात् पुरस्ताच्चोदगग्रैः , ऽउदगग्राः पश्चात्पुरस्ताच्चऽ(आपश्रौ.2-14-15) इति श्रौते दर्शनात् एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तराश्चाधरान्;बौधायनभरद्वाजगृह्याभ्या मुक्तत्वात् दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरःऽइति अत्र ऽअग्निमिद्ध्वाऽइति प्रकृते ऽप्यग्नौ, ऽअग्निमऽइति पुनर्वचनं नियमार्थम्-अग्निमेव परिस्तृणाति नान्यदङ्गपीति तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति केचित्-इतन्त्रकेष्वपि कर्मस्वाग्निः परिस्तीर्य एवेति नियमार्थमिति

atha vā prāgagrairudaggraiśca darbhairagniṃ paristṛṇāti dakṣiṇata uttaraśca prāgagraiḥ, paścāt purastāccodagagraiḥ , 'udagagrāḥ paścātpurastācca'(āpaśrau.2-14-15) iti śraute darśanāt etān kuśān dakṣiṇānuttarān karoti , uttarāścādharān;baudhāyanabharadvājagṛhyābhyā muktatvāt dakṣiṇataḥ pakṣa upariṣṭādbhavatyadhasyāduttaraḥ'iti atra 'agnimiddhvā'iti prakṛte 'pyagnau, 'agnim'iti punarvacanaṃ niyamārtham-agnimeva paristṛṇāti nānyadaṅgapīti tena uttareṇa pūrveṇa vā nihitamudakaṃ bahireva bhavati kecit-itantrakeṣvapi karmasvāgniḥ paristīrya eveti niyamārthamiti


10

दक्षिणाग्रैः पित्र्येषु आप्ग्स्_1.14 दक्षिणाप्रागग्रैर्वा आप्ग्स्_1.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.15: तत्र दक्षिणाग्राः पश्चात् पुरस्ताच्च

dakṣiṇāgraiḥ pitryeṣu āpgs_1.14 dakṣiṇāprāgagrairvā āpgs_1.15 commentaries: āpgs-anā_1.15: tatra dakṣiṇāgrāḥ paścāt purastācca


14

आप्ग्स्-तात्_1.15: पित्र्येषु मासिश्राद्धादिषु कर्मसु सर्वासु दिक्षु दक्षिणाग्रैः परिस्तृणाति

āpgs-tāt_1.15: pitryeṣu māsiśrāddhādiṣu karmasu sarvāsu dikṣu dakṣiṇāgraiḥ paristṛṇāti


15

यज्वा दक्षिणाग्रैः प्रागग्रैश्च दर्भैः पश्चात्पिरस्ताच्च दक्षिणाग्रैः, उत्तरतो दक्ष्णतश्च प्रागग्रैः उत्तरानुत्तरान् दक्षिणांश्चाधारान् कुर्यात् तथा प्रागुपक्रम्य प्रसव्यं परिस्तृणाति

yajvā dakṣiṇāgraiḥ prāgagraiśca darbhaiḥ paścātpirastācca dakṣiṇāgraiḥ, uttarato dakṣṇataśca prāgagraiḥ uttarānuttarān dakṣiṇāṃścādhārān kuryāt tathā prāgupakramya prasavyaṃ paristṛṇāti


11

2 पात्रप्रयोगः उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि आप्ग्स्_1.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.16: परिस्तरणानन्तरं अग्नेरुत्तरतः पात्रप्रयोगार्त दर्भान् प्रागग्रान् संस्तृणाति प्रथितं स्तरणम् प्रयुनक्ति सादयति न्यञ्चि न्यग्भूतानि सर्वाणि च द्रव्याणि प्रयोजनवन्ति पात्रग्रहणेन गृह्यन्ते तेनोपनयनादौ मोखलादीनामपि सादनं भवति तत्र यानि देवसंयुक्तानि तानि द्वन्द्वं प्रयुनक्ति द्वे द्वे इत्यर्थः पार्वणादीनि देवकर्माणि अग्निग्रहणमनर्थकमविकृतत्वात् अग्निमिध्वेति ज्ञापकार्थ चैतत् ज्ञापयति-अग्निपरिस्तरणे विहितो ऽयं पात्रप्रयोगे नानुवर्तते इति कदा पुनरसौ ?दर्भाग्रविशेषस्तन्त्राभावे प्रवृत्तिश्च तेन पित्र्येष्वपि प्रागग्राणामेव संस्तरणं अग्नेश्चोत्तरतः तन्त्राभावे च पात्रप्रयोगाभावात् अदिकारात्त्वाग्निप्रतिपत्तावेव तदप्युभयं प्रतित्त्व्यं स्यात् अधिकारादेवः

2 pātraprayogaḥ uttareṇāgniṃ darbhāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni āpgs_1.16 commentaries: āpgs-anā_1.16: paristaraṇānantaraṃ agneruttarataḥ pātraprayogārta darbhān prāgagrān saṃstṛṇāti prathitaṃ staraṇam prayunakti sādayati nyañci nyagbhūtāni sarvāṇi ca dravyāṇi prayojanavanti pātragrahaṇena gṛhyante tenopanayanādau mokhalādīnāmapi sādanaṃ bhavati tatra yāni devasaṃyuktāni tāni dvandvaṃ prayunakti dve dve ityarthaḥ pārvaṇādīni devakarmāṇi agnigrahaṇamanarthakamavikṛtatvāt agnimidhveti jñāpakārtha caitat jñāpayati-agniparistaraṇe vihito 'yaṃ pātraprayoge nānuvartate iti kadā punarasau ?darbhāgraviśeṣastantrābhāve pravṛttiśca tena pitryeṣvapi prāgagrāṇāmeva saṃstaraṇaṃ agneścottarataḥ tantrābhāve ca pātraprayogābhāvāt adikārāttvāgnipratipattāveva tadapyubhayaṃ pratittvyaṃ syāt adhikārādevaḥ


16

आप्ग्स्-तात्_1.16: अग्नेरुत्तरतो ऽदूरेण दर्भान् संस्तूणाति एते च प्रागग्राः, बौधायनगृह्यात् प्रथितं च स्तरणं, समुपसर्गात् उदक्च स्तरमापवर्गः पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः, ऽउत्तरत उपचारो विहारः,(आपप.2.10) इति सिद्धे ऽपीहाप्युत्तरेणेति वचनात्, प्रकृते ऽप्यग्नौऽअग्निम् इत्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च अपवर्गस्तु दक्षिणत एव देवस्युक्तानिदेवकर्मसंयुक्तानि पात्राणिदर्व्यादीनि द्वन्द्वं,द्वे द्वे न्यञ्चि अधोबिलानि प्रयुनक्ति सादयति ननु-उत्तरत्र ऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात् ऽदेवसंयुक्तानिऽइति व्यर्थम् न;दैवानि हि कर्माणि द्विविधानि-पुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात्

āpgs-tāt_1.16: agneruttarato 'dūreṇa darbhān saṃstūṇāti ete ca prāgagrāḥ, baudhāyanagṛhyāt prathitaṃ ca staraṇaṃ, samupasargāt udakca staramāpavargaḥ pitryeṣvapyagneruttarata eva prāgagraiḥ, 'uttarata upacāro vihāraḥ,(āpapa.2.10) iti siddhe 'pīhāpyuttareṇeti vacanāt, prakṛte 'pyagnau'agnim ityadhikaśabdasya adhikārtaparatvasya yuktatvāt, paristaraṇavadviśeṣasyānukteśca apavargastu dakṣiṇata eva devasyuktānidevakarmasaṃyuktāni pātrāṇidarvyādīni dvandvaṃ,dve dve nyañci adhobilāni prayunakti sādayati nanu-uttaratra 'manuṣyasaṃyuktāni''pitṛsaṃyuktāni'iti viśeṣaṇenaiva siddhatvāt 'devasaṃyuktāni'iti vyartham na;daivāni hi karmāṇi dvividhāni-puruṣārtharūpāṇi manuṣyasaṃskārakāṇi ca tatrobhayatrāpi devapātrāṇāṃ darvyādīnāṃ dvandvatāsidhdyarthatvāt


12

तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित् पात्रेष्वपवादमाह- सकृदेव मनुष्यसंयुक्तानि आप्ग्स्_1.17 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.17: यानि मनुष्यसंयुक्तानि पात्राणि तानि सकृदेव प्रयुनक्ति, न द्वन्द्वम् मनुष्यकर्माणि विवाहादीनि एवकारः क्तियाभ्यावृत्तिप्रतिषेधार्थः पात्र बाहुल्यात् द्वाभ्यां बाहुभ्यां सादनाशक्तावप्युपायेन सकृदेव सादनमिति केचित् मेखलादीनामेव मनुष्यसंयुक्तानां सकृत् प्रयोगमिच्छन्ति, न होमार्थानाम् वयं तु मनुष्यसंयुक्तानि मनुष्यकर्मसंयुक्तानीत्यवोचाम

tatra manuṣyasskārakarmārtheṣu keṣucit pātreṣvapavādamāha- sakṛdeva manuṣyasaṃyuktāni āpgs_1.17 commentaries: āpgs-anā_1.17: yāni manuṣyasaṃyuktāni pātrāṇi tāni sakṛdeva prayunakti, na dvandvam manuṣyakarmāṇi vivāhādīni evakāraḥ ktiyābhyāvṛttipratiṣedhārthaḥ pātra bāhulyāt dvābhyāṃ bāhubhyāṃ sādanāśaktāvapyupāyena sakṛdeva sādanamiti kecit mekhalādīnāmeva manuṣyasaṃyuktānāṃ sakṛt prayogamicchanti, na homārthānām vayaṃ tu manuṣyasaṃyuktāni manuṣyakarmasaṃyuktānītyavocāma


17

आप्ग्स्-तात्_1.17: मनुष्यसंयुक्तानि मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वे ऽप्युपायेन केचित्-मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति

āpgs-tāt_1.17: manuṣyasaṃyuktāni manuṣyadvārā saṃyuktāni aśmavāsomekhalādīni sakṛdeva kriyābhyāvṛttiparihāreṇa prayunakti, pātrabahutve 'pyupāyena kecit-manuṣyasaṃskārakarmasu darvyādīnyapi sakṛdeveti


13

एकैकशः पितृसंयुक्तानि आप्ग्स्_1.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.18: यानिपितृकर्मस्युक्तानि तान्येकैकशः प्रयुनक्ति एकमोकमित्यर्थः

ekaikaśaḥ pitṛsaṃyuktāni āpgs_1.18 commentaries: āpgs-anā_1.18: yānipitṛkarmasyuktāni tānyekaikaśaḥ prayunakti ekamokamityarthaḥ


18

आप्ग्स्-तात्_1.18: पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि च एकमोकं प्रयुनक्ति

āpgs-tāt_1.18: pitṛkarmārthāni darvyādīni svadhāpātrādīni ca ekamokaṃ prayunakti


14

3 पवित्रसंस्कारः पवित्रयोस्संकार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् आप्ग्स्_1.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.19: पवित्रयोस्संम्कारः तृणं काष्ठं वे त्येवमादिः तयोरायामतो यत् परिमाणं दीर्घप्रमाणं प्रादेशमात्रा (आपश्रौ.1-11-9.) वित्येतत् प्रोक्षणासंस्कारः"पवित्रान्तर्हितायामाग्निहोत्रहवण्या"(आपश्रौ.1-11-9) मित्यादि तत्राग्निहोत्रहवण्या इहाभावात् पात्रान्तरं प्रापयते उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् तदेतत् पदार्थचतुष्टयं दर्शयति दर्शपूर्ममासयेरिवात्रापि कर्तव्यम् तूष्णीमिति मन्त्रप्रतिषेधः यथा प्रोक्षणे पात्राणामुक्ता क्रिया विस्रंसनञ्चेध्मस्यतदन्तर्भावादेव सिद्धम् इदं तु वचनं नियमार्थम्-पवित्रयोरेवायामत- परिमाणं यथा स्यात् इध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोर् मा भूदिति कथं पुनस्तत्र प्रसङ्गः ?एतदेव ज्ञापयति-भवत्यत्रापि दर्शपूर्णमासवत्तूष्णीं संस्कार इति आयामग्रहणमायामपरिमाणस्यैव पवित्रयोर्नियमेन य वा संख्यापरीमाणं दार्शपूर्णमासिकमेवेध्मस्य भवति तेनात्राविद्यमानेष्वनूयाजेषु न एकविंशातिदारुरिध्मो भवति उपहोमास्त्वनूयाजार्थे भवन्ति

3 pavitrasaṃskāraḥ pavitrayossaṃkāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm āpgs_1.19 commentaries: āpgs-anā_1.19: pavitrayossaṃmkāraḥ tṛṇaṃ kāṣṭhaṃ ve tyevamādiḥ tayorāyāmato yat parimāṇaṃ dīrghapramāṇaṃ prādeśamātrā (āpaśrau.1-11-9.) vityetat prokṣaṇāsaṃskāraḥ"pavitrāntarhitāyāmāgnihotrahavaṇyā"(āpaśrau.1-11-9) mityādi tatrāgnihotrahavaṇyā ihābhāvāt pātrāntaraṃ prāpayate uttānāni pātrāṇi ityādi pātraprokṣaṇam tadetat padārthacatuṣṭayaṃ darśayati darśapūrmamāsayerivātrāpi kartavyam tūṣṇīmiti mantrapratiṣedhaḥ yathā prokṣaṇe pātrāṇāmuktā kriyā visraṃsanañcedhmasyatadantarbhāvādeva siddham idaṃ tu vacanaṃ niyamārtham-pavitrayorevāyāmata- parimāṇaṃ yathā syāt idhmasya darbhāgrayoścājye pratyasyamānayor mā bhūditi kathaṃ punastatra prasaṅgaḥ ?etadeva jñāpayati-bhavatyatrāpi darśapūrṇamāsavattūṣṇīṃ saṃskāra iti āyāmagrahaṇamāyāmaparimāṇasyaiva pavitrayorniyamena ya vā saṃkhyāparīmāṇaṃ dārśapūrṇamāsikamevedhmasya bhavati tenātrāvidyamāneṣvanūyājeṣu na ekaviṃśātidāruridhmo bhavati upahomāstvanūyājārthe bhavanti


19

आप्ग्स्-तात्_1.19: पवित्रयोस्संस्कारो दर्शपूर्ममासाभ्यां तुल्यं मन्त्रवर्ज कार्यः समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन ततोप उपस्पृशेत् ऽगौद्रराक्षसऽ(आपप.2-9) इति वचनात् ततस्तयोर्मूलादारभ्याऽग्रादद्भिर्मार्जनम् तयोश्चायामतः परिमाणं दर्शपूर्णमासवदेव यद्यपि ऽपवित्रयोस्संस्कारो दर्शपूर्णमासवतऽइति वचनादेव तद्वदायामतः परिमाणं प्राप्तम्, तथापि यदायामतः पर्मामं प्रादेशमात्राविति तदेव तद्वत्, न त्विह पृथुत्वेनापि साम्यमित्येवमर्थ ऽआयामतः परिमाणमऽइति पुनर्वचनम् केचित् -पवित्रयोरेवायामतः परिमाणं दर्शपूर्णमासवत्, न त्विध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोरिति नियमार्थ पुनर्वचनम् एवं ब्रुवतैव सूत्रकारेण दर्शपूर्णमासवत्तूष्णीमिध्मस्य दर्भाग्रयोश्च संस्कार- प्रसिद्ध वदभ्यनुज्ञातः तथैव चाचारः तेन खादिरः पालासो वा शुल्वसन्नद्ध इध्मो विस्रस्य त्रिः प्रोक्षितव्यः पार्वणे च पूर्वद्युस्सन्नद्धव्यः दर्भाग्रे च ऽतृणं काष्टं वा ऽ(आपश्रौ.1-11-7.) इत्यादिविधिवा संस्कृत्याज्ये प्रत्यसितव्ये अत्र च यद्यप्ययमर्थः ऽआयामतःऽइति वा ऽपरिमाणंऽइति वान्यतरेण सिद्धः तथापि नियमान्तरार्थमेवमुक्तम् आयामत एव यत्परिमाणं तदेव पवित्रयोः दर्शपूर्णमासवत्, न संख्यातः परिमाणम् तेनेध्मस्य संख्यापरिमाणं दार्शपूर्णमासिकमेव ऽएकविंशतिदारुमिध्ममऽ; (आप.1-5.6) इति आयामस्यैव पवित्रयोर्नियमितत्वात् यद्यप्यनूयाजाभावादेकविंशत्या न कार्यम्;तथाप्येतद्वलात्तत्स्थाने जयादयः कल्प्याः- इत्यायुक्तं भूयिष्ठं च पूर्वव्याख्यानेनान्यथासिद्धे ऽपि सूत्रे कल्पयन्ति प्रोक्षणीसंस्कारो ऽपि दर्शपूर्णमासवत्तूष्णीम् उदगग्राभ्यां पवित्राभ्यां अन्तर्हितायां वेकङ्कत्यां स्नुच्यप आनीय ताभ्यां त्रिरुत्पूय प्रोक्षेत् पात्रपेरोक्षणमपि तद्वत्तूष्णीम् उत्तानानि पात्राणि कृत्वेध्मं च विस्रस्य ताभिस्सपवित्रेण पाणिना त्रिः प्रोक्षेत्

āpgs-tāt_1.19: pavitrayossaṃskāro darśapūrmamāsābhyāṃ tulyaṃ mantravarja kāryaḥ samāvapracchinnāgrau darbhau prādeśamātrau pavitre kurute, tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti, na nakhena tatopa upaspṛśet 'gaudrarākṣasa'(āpapa.2-9) iti vacanāt tatastayormūlādārabhyā'grādadbhirmārjanam tayoścāyāmataḥ parimāṇaṃ darśapūrṇamāsavadeva yadyapi 'pavitrayossaṃskāro darśapūrṇamāsavat'iti vacanādeva tadvadāyāmataḥ parimāṇaṃ prāptam, tathāpi yadāyāmataḥ parmāmaṃ prādeśamātrāviti tadeva tadvat, na tviha pṛthutvenāpi sāmyamityevamartha 'āyāmataḥ parimāṇam'iti punarvacanam kecit -pavitrayorevāyāmataḥ parimāṇaṃ darśapūrṇamāsavat, na tvidhmasya darbhāgrayoścājye pratyasyamānayoriti niyamārtha punarvacanam evaṃ bruvataiva sūtrakāreṇa darśapūrṇamāsavattūṣṇīmidhmasya darbhāgrayośca saṃskāra- prasiddha vadabhyanujñātaḥ tathaiva cācāraḥ tena khādiraḥ pālāso vā śulvasannaddha idhmo visrasya triḥ prokṣitavyaḥ pārvaṇe ca pūrvadyussannaddhavyaḥ darbhāgre ca 'tṛṇaṃ kāṣṭaṃ vā '(āpaśrau.1-11-7.) ityādividhivā saṃskṛtyājye pratyasitavye atra ca yadyapyayamarthaḥ 'āyāmataḥ'iti vā 'parimāṇaṃ'iti vānyatareṇa siddhaḥ tathāpi niyamāntarārthamevamuktam āyāmata eva yatparimāṇaṃ tadeva pavitrayoḥ darśapūrṇamāsavat, na saṃkhyātaḥ parimāṇam tenedhmasya saṃkhyāparimāṇaṃ dārśapūrṇamāsikameva 'ekaviṃśatidārumidhmam'; (āpa.1-5.6) iti āyāmasyaiva pavitrayorniyamitatvāt yadyapyanūyājābhāvādekaviṃśatyā na kāryam;tathāpyetadvalāttatsthāne jayādayaḥ kalpyāḥ- ityāyuktaṃ bhūyiṣṭhaṃ ca pūrvavyākhyānenānyathāsiddhe 'pi sūtre kalpayanti prokṣaṇīsaṃskāro 'pi darśapūrṇamāsavattūṣṇīm udagagrābhyāṃ pavitrābhyāṃ antarhitāyāṃ vekaṅkatyāṃ snucyapa ānīya tābhyāṃ trirutpūya prokṣet pātraperokṣaṇamapi tadvattūṣṇīm uttānāni pātrāṇi kṛtvedhmaṃ ca visrasya tābhissapavitreṇa pāṇinā triḥ prokṣet


15

4 प्रणीताप्रणयनम् अपरेणाग्निं पवित्रान्तर्हिते पात्रे ऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य आप्ग्स्_1.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.20: पात्रप्रोक्षणानन्तरमपरेणाग्निं प्रणीतार्थेपानो पवित्रं निधाय तस्मिन्नुदगग्रे पवित्रे अन्तर्धायाप आनीय्य पवित्राभ्यां उदगग्राभ्यां त्रिरुत्पुनाति प्रागपवर्गम् अग्निग्रहणं पात्राधिकारात् अङ्गुष्ठोपकनीष्ठोभ्यामुत्तानाभ्यां पाणिभ्यामिति कल्पान्तरे दृष्टो विशेषः उत्पूय ता अपस्समं प्राणैर्हरति मुखेन तुल्यमित्यर्थः हृत्वोत्तरेणाग्निं दर्भेषु संस्तीर्णेषु सादयति अग्निग्रहणं पात्रैर्व्यवधानं मा भूदिति सादयित्वा दर्भैः प्रच्छादयति सर्वञ्चैतत् पवित्रहस्तः करोति

4 praṇītāpraṇayanam apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpūya samaṃ prāṇairhṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya āpgs_1.20 commentaries: āpgs-anā_1.20: pātraprokṣaṇānantaramapareṇāgniṃ praṇītārthepāno pavitraṃ nidhāya tasminnudagagre pavitre antardhāyāpa ānīyya pavitrābhyāṃ udagagrābhyāṃ trirutpunāti prāgapavargam agnigrahaṇaṃ pātrādhikārāt aṅguṣṭhopakanīṣṭhobhyāmuttānābhyāṃ pāṇibhyāmiti kalpāntare dṛṣṭo viśeṣaḥ utpūya tā apassamaṃ prāṇairharati mukhena tulyamityarthaḥ hṛtvottareṇāgniṃ darbheṣu saṃstīrṇeṣu sādayati agnigrahaṇaṃ pātrairvyavadhānaṃ mā bhūditi sādayitvā darbhaiḥ pracchādayati sarvañcaitat pavitrahastaḥ karoti


20

आप्ग्स्-तात्_1.20: अग्नेरदूरेण पश्चात् पवित्रान्तर्हिते कस्मिंश्चित् पात्रे ऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति अत्र प्रकृतयोरपि पवित्रयोः पुनर्ग्रहणात् पाण्योः प्रागग्रत्वमाचारसिद्धं ऽआङ्गुष्ठोपकनिश्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यामऽ(आश्वगृ.1-3-3.) इत्याश्वलायनोक्तं च ज्ञापितम् ततस्ता अपस्समं प्राणैर्हृत्वा प्रामस्थानभ्यां मुकनासिकाभ्यां सममुदूधृत्य उत्तरेणाग्निं पुनस्तीर्णेषु दर्भेषु सादयति, ऽदर्भाषुऽइति वचनात् अन्ये पूर्वस्तीर्णेषु ततो दर्भैः प्रच्छादयेतच् अत्र ऽअपरेणाग्निमऽइत्यग्निग्रहणं पात्राणामपरेण मा भूदिति ऽउत्तरेणाग्निमऽइति तु पात्रव्यवदाननिवृत्त्यर्तम्

āpgs-tāt_1.20: agneradūreṇa paścāt pavitrāntarhite kasmiṃścit pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpunāti atra prakṛtayorapi pavitrayoḥ punargrahaṇāt pāṇyoḥ prāgagratvamācārasiddhaṃ 'āṅguṣṭhopakaniśṭhikābhyāmuttānābhyāṃ pāṇibhyām'(āśvagṛ.1-3-3.) ityāśvalāyanoktaṃ ca jñāpitam tatastā apassamaṃ prāṇairhṛtvā prāmasthānabhyāṃ mukanāsikābhyāṃ samamudūdhṛtya uttareṇāgniṃ punastīrṇeṣu darbheṣu sādayati, 'darbhāṣu'iti vacanāt anye pūrvastīrṇeṣu tato darbhaiḥ pracchādayetac atra 'apareṇāgnim'ityagnigrahaṇaṃ pātrāṇāmapareṇa mā bhūditi 'uttareṇāgnim'iti tu pātravyavadānanivṛttyartam


13

5 ब्रह्मवरणम् ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य आप्ग्स्_1.21 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.21: प्रकृतत्वादग्नेः दक्षिणत- तत्रापरेणाग्निं दक्षिणातिर्कम्य तूष्णीं तृमं निरस्योपवेशनमिच्छन्ति अग्रेणाग्निं परित्यान्ये ऽहौत्रब्रह्मत्वे स्वं कुर्वन् ब्रह्मासनमुपविश्य चि(छ)त्रमुत्तरासङ्गं कमण्डलुं वा तत्र कृत्वाधान्यत् कुर्या (खासू-1-26.) दिति कल्पान्तरम् कृताकृतमाज्यहोमेषु परिस्तम् तथाज्यभागौ वा ब्रह्मा वेदा(त्या)श्वलायनः

5 brahmavaraṇam brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya āpgs_1.21 commentaries: āpgs-anā_1.21: prakṛtatvādagneḥ dakṣiṇata- tatrāpareṇāgniṃ dakṣiṇātirkamya tūṣṇīṃ tṛmaṃ nirasyopaveśanamicchanti agreṇāgniṃ parityānye 'hautrabrahmatve svaṃ kurvan brahmāsanamupaviśya ci(cha)tramuttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvādhānyat kuryā (khāsū-1-26.) diti kalpāntaram kṛtākṛtamājyahomeṣu paristam tathājyabhāgau vā brahmā vedā(tyā)śvalāyanaḥ


21

आप्ग्स्-तात्_1.21: अग्निमिध्वेति प्रकृतत्वात् अग्नेर्दक्षिणतो दर्भेषु कंचिद्ब्रह्मणमुपवेशयेत् न तु दर्शपूर्ममासवद्ब्रह्माणं, समानविधानवचनानाम् चोदनालिङ्गानि विनात्र तदीयस्य ब्रह्ममः प्राप्त्यभावात्, ऽब्राह्मणं दक्षिणतो दर्भेषु निषाद्यऽइति कृत्स्नविधानाच्च तेनात्र ब्रह्मधर्भावरणतृणनिरसनादयो न कर्तव्याः पितृभूतर्त्विक्पक्षे ऽपि यः पितुर्ब्रह्मा स एवात्र निषाद्यत इति नियमो नास्ति अन्ये तु-श्रौते ब्रह्मा दक्षिणेनाग्निं दर्बेषु निविष्टो दृष्ट- तथेव बह्वृचानां छन्दोगानां च गृह्ये ब्रह्मेत्येव चोदितः अतो ऽत्रापि ऽब्राह्मणं दक्षिणतऽ; इति लक्षणया ब्रह्मैव चोद्यते तेन सम्भवन्तो ब्रह्मधर्मा इहापीति तन्न, स्वगृह्यस्थस्य ब्राह्मणशब्दस्य श्रुत्यर्तत्यागेन परगृह्याल्लक्षणाश्रयणस्यायुक्तत्वात् न च दक्षिणतो निषदितस्य ब्राह्मममात्रस्य ब्रह्मत्वं सूत्रकारस्येष्टम् यदि हि तथा स्यात्, ऽयं ब्राह्मणं विद्यां विद्वांसं यशो नर्च्छेत्" (आपश्रौ.14-13-7). इत्यत्राल्पैरेवाश्ररैः ऽब्रह्मणे वरं ददातिऽइति ब्रूयात्, न पुनस्त्रिगुणैः ऽयो दक्षिणत आस्ते तस्मै वरं ददाति"(आपश्रौ.14-13-9.) इति सम्भवतां धर्माणां प्राप्तौ मन्त्राणामपि प्राप्तिर्दुर्वारा ऽब्राह्मणं दक्षिणतो निषाद्यऽ; इत्यत्रानुक्तानां मन्त्रादीनां परिसंख्येयं चेति वदतां चोक्तिरीत्या स्वार्तपरत्वे सम्भवति दोषत्रययुक्तपरिसंख्याश्रयणं निर्हेतुकम्

āpgs-tāt_1.21: agnimidhveti prakṛtatvāt agnerdakṣiṇato darbheṣu kaṃcidbrahmaṇamupaveśayet na tu darśapūrmamāsavadbrahmāṇaṃ, samānavidhānavacanānām codanāliṅgāni vinātra tadīyasya brahmamaḥ prāptyabhāvāt, 'brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya'iti kṛtsnavidhānācca tenātra brahmadharbhāvaraṇatṛṇanirasanādayo na kartavyāḥ pitṛbhūtartvikpakṣe 'pi yaḥ piturbrahmā sa evātra niṣādyata iti niyamo nāsti anye tu-śraute brahmā dakṣiṇenāgniṃ darbeṣu niviṣṭo dṛṣṭa- tatheva bahvṛcānāṃ chandogānāṃ ca gṛhye brahmetyeva coditaḥ ato 'trāpi 'brāhmaṇaṃ dakṣiṇata'; iti lakṣaṇayā brahmaiva codyate tena sambhavanto brahmadharmā ihāpīti tanna, svagṛhyasthasya brāhmaṇaśabdasya śrutyartatyāgena paragṛhyāllakṣaṇāśrayaṇasyāyuktatvāt na ca dakṣiṇato niṣaditasya brāhmamamātrasya brahmatvaṃ sūtrakārasyeṣṭam yadi hi tathā syāt, 'yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet" (āpaśrau.14-13-7). ityatrālpairevāśraraiḥ 'brahmaṇe varaṃ dadāti'iti brūyāt, na punastriguṇaiḥ 'yo dakṣiṇata āste tasmai varaṃ dadāti"(āpaśrau.14-13-9.) iti sambhavatāṃ dharmāṇāṃ prāptau mantrāṇāmapi prāptirdurvārā 'brāhmaṇaṃ dakṣiṇato niṣādya'; ityatrānuktānāṃ mantrādīnāṃ parisaṃkhyeyaṃ ceti vadatāṃ coktirītyā svārtaparatve sambhavati doṣatrayayuktaparisaṃkhyāśrayaṇaṃ nirhetukam


22

6 आज्यसंस्कारः आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचो ऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय परित्रे अनुप्रहृत्य आप्ग्स्_1.22 चोम्मेन्तरिएस्: आप्ग्स्-अना_1.22: अथाज्यसंस्कार- तत्र विलापनमाज्यस्य यस्मिन्कस्मिंश्चिदग्नौ भवति उत्तरत्राज्यग्रहणात् निर्वापःआनयनम् पुनराज्यग्रहणमनाघारे ऽपि कर्मणि संस्कारः आज्यस्य यथा स्यात् आज्यं सर्वत्र निरुप्य जुहोतीति निरूहणंपृथक्करणम् उदग्वचनं पुत्र्येष्वपि यथा स्यात् एतोनोद्वासनं व्याख्यातम् अवद्योतनंज्वलता तृणेनावदीपनम् तत्र द्वे दर्भाग्रे पवित्रवत्संस्कृत्याज्ये प्रत्यस्यति प्रक्षिपति द्वे ग्रहणमेकं वे त्यस्याग्निहोत्रदृष्टस्य विकल्पस्य प्रतिषेधार्थम् तेनाग्निहोत्रिके ऽपि तन्त्रे द्वे एव दर्भाग्रे भवतः ततस्तदाज्यं त्रिः प्रदक्षिणं पर्यग्नि करोति आज्यस्य सर्वतो ऽग्निं त्रिरावर्तयति तृणेनोल्मुकेन वा तत्र पित्र्येष्वपि प्रदक्षिणं पर्यग्निकरणमिच्छन्ति उद्वासनं निर्हरणम् प्रत्यूहन माग्निमा संसजैनम् पुनराहारं पुनराहृत्याहृत्य त्रीण्येतानि उत्पवनानि प्रत्यगपवर्गाणि अनुप्रहरणमग्नैः प्रकरणात् "विस्रस्याद्भिस्संस्पृश्ये"ति कल्पान्तरात् इति श्रीहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां प्रथमः खण्डः आप्ग्स्-तात्_1.22: यद्यपि ऽसर्पिराज्यं प्रतीयातऽ(आपप.2-25) इति परिभाषासिद्धं विलापनं, तथापि विलीनमप्याज्यं होमार्थे ऽग्नौ कर्मार्थ पुनर्विलापयेत् ततो ऽग्नेः पश्चात् स्थापितायां पवित्रान्तर्हितायामाज्यस्थाल्यां तदाज्यमानयेत् ऽआज्यं विलाप्यऽइति प्रकृते ऽपि पुनराज्यग्रहणमाज्यस्यैव निर्वापादयः न पुनः ऽदध्न एवाञ्जलिना जुहोति"(आपगृ.22-10) इत्यत्र(2) पशुप्रभवस्य होमद्रव्यत्वे ऽपि यदीयतदीयन्यायाद्दध्नो भवेयुरित्येवमर्थम् केचित् अतन्त्रके ऽपि कर्मण्याज्यं निर्वापादिभिस्संस्कार्यमित्येवमर्थमिति अद्रिमित्यग्नेरेव पश्चात् न ब्राह्मणस्येति केचित्-अन्यस्मिन्नग्नौ विलपनं, होमार्थाग्नेरेव पश्चान्निर्वाप इत्येवमर्थमिति अथाङ्रारानुदीचो निरूह्यनिर्र्वत्य, तेष्वङ्गारेषु आज्यधिश्रित्य, ज्वलता तृणेनावद्युत्य अधोगामिन्या दीप्त्या द्योतयित्वा, द्वे दर्भाग्रे अनियतायामे तृणाद्यन्तर्धाय छित्वाद्भिस्संस्पृश्य ते युगपदाज्ये प्रक्षिपेत् ऽद्वेऽइत्यधिकशब्दात्, आचाराच्च अथोल्मुकमादायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा समन्ततो ऽग्निमावर्त्य तदुदगवतारयेत् अत्र निरूहणोद्वासनयोरुदगपवर्गस्य ऽतथापवर्गःऽ(आपगृ.1-6) इति सिद्धस्य पुनर्विधानमेतयोर्नित्यमुदगेवापवर्गः न तु दैवे विकल्पेनापि प्रागपवर्गः, नापि पित्र्ये दक्षिणतो ऽपवर्ग इति नियमार्थम् तथैव पित्र्येष्वेतयोर्मध्यस्थं पर्यग्निकरणमपि सन्दंशन्यायाद्दैववत्प्रदक्षिणमेव इत्थमेव शिष्टाचारः ततो ऽङ्गारान् पूर्व निरूढान्प्रत्यूह्य पुनरायतनस्थाग्निना संयोज्य अत्राज्यसंस्कारकाणां अङ्गाराणां प्रयूहनविधानात् ऽअपृवृत्ते कर्मणिऽ(आपपरि.4-21) इति न लौकिकत्वम् अवदेयोतनपर्यग्निकरणाग्नयोस्तु यदा आयतनस्थादुपादानं तदा तयोरग्नयेरपवृत्तकर्मत्वेन लौकिकत्वात् त्त्यागः यदा तु निरूढात् तदा तदा तस्मिन्नेव क्षेपः अथ पूर्ववदुदगग्राभ्यां पवित्राभ्यांपुनराहारं त्रिरुत्पूयपुनराहृत्याहृत्य त्रिरुत्पूय अत्र पुरस्तादारभ्य पश्चान्नीत्वा पुरस्तात् परिसमाप्तिः केचित्- आङो बलाद्विपरीतमाहुः ततस्ते पवित्रे अनुप्रहृत्यईचारानुकूलं प्रहृत्य, यदि ग्रन्थिस्स्यात् तदा विस्रस्याद्भिससंस्पृश्य प्रागग्रे अग्नौ प्रहरेदित्यर्थः

6 ājyasaṃskāraḥ ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyāmājyasthālyāmājyaṃ nirūpyodīco 'ṅgārānnirūhya teṣvadhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trirutpūya paritre anuprahṛtya āpgs_1.22 commentaries: āpgs-anā_1.22: athājyasaṃskāra- tatra vilāpanamājyasya yasminkasmiṃścidagnau bhavati uttaratrājyagrahaṇāt nirvāpaḥānayanam punarājyagrahaṇamanāghāre 'pi karmaṇi saṃskāraḥ ājyasya yathā syāt ājyaṃ sarvatra nirupya juhotīti nirūhaṇaṃpṛthakkaraṇam udagvacanaṃ putryeṣvapi yathā syāt etonodvāsanaṃ vyākhyātam avadyotanaṃjvalatā tṛṇenāvadīpanam tatra dve darbhāgre pavitravatsaṃskṛtyājye pratyasyati prakṣipati dve grahaṇamekaṃ ve tyasyāgnihotradṛṣṭasya vikalpasya pratiṣedhārtham tenāgnihotrike 'pi tantre dve eva darbhāgre bhavataḥ tatastadājyaṃ triḥ pradakṣiṇaṃ paryagni karoti ājyasya sarvato 'gniṃ trirāvartayati tṛṇenolmukena vā tatra pitryeṣvapi pradakṣiṇaṃ paryagnikaraṇamicchanti udvāsanaṃ nirharaṇam pratyūhana māgnimā saṃsajainam punarāhāraṃ punarāhṛtyāhṛtya trīṇyetāni utpavanāni pratyagapavargāṇi anupraharaṇamagnaiḥ prakaraṇāt "visrasyādbhissaṃspṛśye"ti kalpāntarāt iti śrīharadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ prathamaḥ khaṇḍaḥ āpgs-tāt_1.22: yadyapi 'sarpirājyaṃ pratīyāt'(āpapa.2-25) iti paribhāṣāsiddhaṃ vilāpanaṃ, tathāpi vilīnamapyājyaṃ homārthe 'gnau karmārtha punarvilāpayet tato 'gneḥ paścāt sthāpitāyāṃ pavitrāntarhitāyāmājyasthālyāṃ tadājyamānayet 'ājyaṃ vilāpya'iti prakṛte 'pi punarājyagrahaṇamājyasyaiva nirvāpādayaḥ na punaḥ 'dadhna evāñjalinā juhoti"(āpagṛ.22-10) ityatra(2) paśuprabhavasya homadravyatve 'pi yadīyatadīyanyāyāddadhno bhaveyurityevamartham kecit atantrake 'pi karmaṇyājyaṃ nirvāpādibhissaṃskāryamityevamarthamiti adrimityagnereva paścāt na brāhmaṇasyeti kecit-anyasminnagnau vilapanaṃ, homārthāgnereva paścānnirvāpa ityevamarthamiti athāṅrārānudīco nirūhyanirrvatya, teṣvaṅgāreṣu ājyadhiśritya, jvalatā tṛṇenāvadyutya adhogāminyā dīptyā dyotayitvā, dve darbhāgre aniyatāyāme tṛṇādyantardhāya chitvādbhissaṃspṛśya te yugapadājye prakṣipet 'dve'ityadhikaśabdāt, ācārācca atholmukamādāyājye pradakṣiṇaṃ triḥ paryagni kṛtvā samantato 'gnimāvartya tadudagavatārayet atra nirūhaṇodvāsanayorudagapavargasya 'tathāpavargaḥ'(āpagṛ.1-6) iti siddhasya punarvidhānametayornityamudagevāpavargaḥ na tu daive vikalpenāpi prāgapavargaḥ, nāpi pitrye dakṣiṇato 'pavarga iti niyamārtham tathaiva pitryeṣvetayormadhyasthaṃ paryagnikaraṇamapi sandaṃśanyāyāddaivavatpradakṣiṇameva itthameva śiṣṭācāraḥ tato 'ṅgārān pūrva nirūḍhānpratyūhya punarāyatanasthāgninā saṃyojya atrājyasaṃskārakāṇāṃ aṅgārāṇāṃ prayūhanavidhānāt 'apṛvṛtte karmaṇi'(āpapari.4-21) iti na laukikatvam avadeyotanaparyagnikaraṇāgnayostu yadā āyatanasthādupādānaṃ tadā tayoragnayerapavṛttakarmatvena laukikatvāt ttyāgaḥ yadā tu nirūḍhāt tadā tadā tasminneva kṣepaḥ atha pūrvavadudagagrābhyāṃ pavitrābhyāṃpunarāhāraṃ trirutpūyapunarāhṛtyāhṛtya trirutpūya atra purastādārabhya paścānnītvā purastāt parisamāptiḥ kecit- āṅo balādviparītamāhuḥ tataste pavitre anuprahṛtyaīcārānukūlaṃ prahṛtya, yadi granthissyāt tadā visrasyādbhisasaṃspṛśya prāgagre agnau praharedityarthaḥ


1

इतिश्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने प्रथमः खण्डः इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः द्वितीयः खण्डः 7 दर्वीसंस्कारः येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति आप्ग्स्_2.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.1: संमार्जनं सुग्वत् प्रतितपनंन्यग्भूतस्य तपनम् अग्निग्रहणमनर्धकम् , अन्यत्र प्रतितपनस्यासम्भवात् तत्क्रियते दर्शपूर्णमासयोस्सम्मार्जने ये धर्मास्तेषामिह प्राप्त्यर्थमाहवनीये गार्हपत्ये वा चोदितं यत्प्रतितपनं तदस्मिन्नग्नौ भवतीति अग्निमात्रं भिद्यते अन्यत् समानं"सुवमग्रैरित्यादि (आपश्रौ.2-44) अग्नौ प्रहरतीति पुनरग्निग्रहणं सुक्संमार्जनधर्मा इह प्रवर्तन्त इति पाकयज्ञेषु च दर्व्या होमः, कल्पान्तरे दृष्टत्वाद्दर्शनाच्च यजयं समावर्तने दर्व्यामादायाज्येनाभ्यानायन्नित्यन्यपरे वाक्ये दर्वीं प्राप्तां दर्शयति यच्चायं सकृदुपहत्येति उपघातं स्थालीपाकाद्दर्शयति तदपि नादर्व्यामुपपद्यते तत्राज्यहोमेष्वेका दर्वी स्थालीपाकेषु द्वे होमार्थ चावदानार्थ च उभयोरपि सम्मार्जनम् अवदानस्य होमार्थत्वात् यथाग्निहोत्रे स्रुवस्य तत्र दर्वीमग्नौ प्रतितप्येति वक्तव्यम् येन जुहोतीति किमुच्यते ? "मध्यमेनान्तमेन वा पलाशपर्णेमे"त्यत्रापि यथा स्यात्, अग्निहोत्रे आग्निहोत्रिके च तन्त्रे यथा स्यादिति यद्येवमञ्जलेरपि प्रसङ्गः विवाहसर्पयज्ञादिषु ज्ञापकात् सिद्धम् यदयमौपकार्ये पार्वणवदिति यत्नं करोति तत् ज्ञापयति-अञ्जलिहोमा अधर्मग्राहकाः यावदुक्तधर्माण इति तेन सादनादि त्रयमञ्जलेर्न भवति

itiśrīsudarśanācāryakṛte gṛhyatātparyadarśane prathamaḥ khaṇḍaḥ ityāpastambīye gṛhyapraśne prathamaḥ khaṇḍaḥ dvitīyaḥ khaṇḍaḥ 7 darvīsaṃskāraḥ yena juhoti tadagnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhānadbhissaṃspṛśyāgnau praharati āpgs_2.1 commentaries: āpgs-anā_2.1: saṃmārjanaṃ sugvat pratitapanaṃnyagbhūtasya tapanam agnigrahaṇamanardhakam , anyatra pratitapanasyāsambhavāt tatkriyate darśapūrṇamāsayossammārjane ye dharmāsteṣāmiha prāptyarthamāhavanīye gārhapatye vā coditaṃ yatpratitapanaṃ tadasminnagnau bhavatīti agnimātraṃ bhidyate anyat samānaṃ"suvamagrairityādi (āpaśrau.2-44) agnau praharatīti punaragnigrahaṇaṃ suksaṃmārjanadharmā iha pravartanta iti pākayajñeṣu ca darvyā homaḥ, kalpāntare dṛṣṭatvāddarśanācca yajayaṃ samāvartane darvyāmādāyājyenābhyānāyannityanyapare vākye darvīṃ prāptāṃ darśayati yaccāyaṃ sakṛdupahatyeti upaghātaṃ sthālīpākāddarśayati tadapi nādarvyāmupapadyate tatrājyahomeṣvekā darvī sthālīpākeṣu dve homārtha cāvadānārtha ca ubhayorapi sammārjanam avadānasya homārthatvāt yathāgnihotre sruvasya tatra darvīmagnau pratitapyeti vaktavyam yena juhotīti kimucyate ? "madhyamenāntamena vā palāśaparṇeme"tyatrāpi yathā syāt, agnihotre āgnihotrike ca tantre yathā syāditi yadyevamañjalerapi prasaṅgaḥ vivāhasarpayajñādiṣu jñāpakāt siddham yadayamaupakārye pārvaṇavaditi yatnaṃ karoti tat jñāpayati-añjalihomā adharmagrāhakāḥ yāvaduktadharmāṇa iti tena sādanādi trayamañjalerna bhavati


1

आप्ग्स्-तात्_2.1: येन पात्रेण दर्व्या स्रुवेणाञ्जलिना वा जुहोति तदग्नौ प्रतितप्येत्यादि व्यक्तार्थम् दर्व्याश्च होमपात्रत्वं ऽदर्व्यामाधायाज्येनाभ्यानायनऽ(आपगृ.12-9) इत्यन्यपरे वाक्ये सिद्धवद्दर्शनात्, आचाराच्च बोधायनेनतु ऽनिऋतिगृहीता दर्वीऽइति दर्वीनिन्दा स्नुवविधानार्था, न तु दर्व्या निषेधार्था अतो दर्वीस्नुवयोर्विकल्पः तत्र केवलाज्यहोमेषु एकैव दर्वी स्रुवो वा, उपस्तरणाद्यभावात् चर्वादिहोमेषु तु द्वे दर्व्यौ स्रुवौ वा उपस्तरणाद्यर्थ होमार्थ च उपस्तरणाद्यर्थस्यापि संस्कारः, उपस्तरणादि प्रदानान्तस्य होमपदार्थत्वात्, श्रौते स्रुवस्यापि संस्कारदर्शनात्, आचाराच्च दर्व्यादीनां त्रयाणां तन्त्रवद्धोमेष्वेव संस्कारः, अतन्त्रकेषु तन्त्रान्तर्गतधर्मानुपपत्ते- तेन ऽअनुगतो ऽपि वोत्तरया जुहुयातऽ(आपगृ.5-20)ऽसर्षपान् फलीकरणमिश्रानऽ(आपगृ.15-6) इत्यादिषु न दर्व्यादीनां संस्कार- अत्राग्नौ प्रतितप्याग्नौ प्रहरतीत्यर्थस्द्धाग्निग्रहणमेवनामायं कृत्स्नविधिरिति ज्ञापयितुम् तेन ऽस्रुवमग्रेऽ(तैब्रा.3.3-1) इत्याद्यैष्टिकस्रुक्संमार्जनधर्माणामिहानुपपत्तिप्रसङ्ग एव केचित्-आग्नौ प्रतितप्याग्नौ प्रहरतीति प्रयोजनान्तरशून्यादग्निग्रहणादैष्टिकस्रुक्सम्मार्गधर्मा इहापि भवन्तीति प्रतितपनं त्वस्मिन्नेवाग्नौ इह च सम्मार्गदर्भाणामग्नावेव प्रहरणम्, न पुनर्वैकल्पिकम् तथा ऽयेन जुहोतीऽत्यत्र सामान्यवचनम् ऽमध्यमेनान्तमेन वा पलाशपर्णेनऽ(आपगृ.22-4) इत्याद्यतन्त्रके ऽपि कर्मणि आग्निहोत्रिके च विधौ होमार्थपात्रस्यापि संस्कारो यथा स्यादित्येवमर्थम् अञ्जलेस्त्वपूपहोमे अवदानप्राप्त्यर्थेम ऽपार्वणवत्"(आपगृ.22-1) इति यन्तेनाञ्जलिहोमा अपूर्वा यावदुक्तधर्माण इति ज्ञापनान्न संस्कार इति

āpgs-tāt_2.1: yena pātreṇa darvyā sruveṇāñjalinā vā juhoti tadagnau pratitapyetyādi vyaktārtham darvyāśca homapātratvaṃ 'darvyāmādhāyājyenābhyānāyan'(āpagṛ.12-9) ityanyapare vākye siddhavaddarśanāt, ācārācca bodhāyanenatu 'niṛtigṛhītā darvī'iti darvīnindā snuvavidhānārthā, na tu darvyā niṣedhārthā ato darvīsnuvayorvikalpaḥ tatra kevalājyahomeṣu ekaiva darvī sruvo vā, upastaraṇādyabhāvāt carvādihomeṣu tu dve darvyau sruvau vā upastaraṇādyartha homārtha ca upastaraṇādyarthasyāpi saṃskāraḥ, upastaraṇādi pradānāntasya homapadārthatvāt, śraute sruvasyāpi saṃskāradarśanāt, ācārācca darvyādīnāṃ trayāṇāṃ tantravaddhomeṣveva saṃskāraḥ, atantrakeṣu tantrāntargatadharmānupapatte- tena 'anugato 'pi vottarayā juhuyāt'(āpagṛ.5-20)'sarṣapān phalīkaraṇamiśrān'(āpagṛ.15-6) ityādiṣu na darvyādīnāṃ saṃskāra- atrāgnau pratitapyāgnau praharatītyarthasddhāgnigrahaṇamevanāmāyaṃ kṛtsnavidhiriti jñāpayitum tena 'sruvamagre'(taibrā.3.3-1) ityādyaiṣṭikasruksaṃmārjanadharmāṇāmihānupapattiprasaṅga eva kecit-āgnau pratitapyāgnau praharatīti prayojanāntaraśūnyādagnigrahaṇādaiṣṭikasruksammārgadharmā ihāpi bhavantīti pratitapanaṃ tvasminnevāgnau iha ca sammārgadarbhāṇāmagnāveva praharaṇam, na punarvaikalpikam tathā 'yena juhotī'tyatra sāmānyavacanam 'madhyamenāntamena vā palāśaparṇena'(āpagṛ.22-4) ityādyatantrake 'pi karmaṇi āgnihotrike ca vidhau homārthapātrasyāpi saṃskāro yathā syādityevamartham añjalestvapūpahome avadānaprāptyarthema 'pārvaṇavat"(āpagṛ.22-1) iti yantenāñjalihomā apūrvā yāvaduktadharmāṇa iti jñāpanānna saṃskāra iti


2

शम्याः परिध्यर्थे विवाहोपनयसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु आप्ग्स्_2.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.2: अथ परिधीन् परिदधाति दर्शपूर्णमासवत्सर्व तूष्णीं तत आधारसमिधौ कुत एतत्?प्रसिद्धवदभ्यानुज्ञानाच्छम्याः परिध्यर्थ इतिपरिध्यर्थेपरिधिकार्य इत्यर्थ- शम्याःलोकप्रसिद्धाः युरप्रान्तयोः छिद्रैषु कीलरूपाः काष्ठाविशेषा- तासां सहेध्मेन सन्नहनम् प्रायश्चित्तंअद्भुतोत्पातप्रायश्चित्तम् विवाहे च हृदयसंसर्गार्थे सर्वत्र शम्याः विवाहादिभ्यो ऽन्यत्र सर्वत्र पार्वणादिषु परिधय एव चौलग्रहणमनर्थकं सीमन्तातिदेशात् सिद्धम् ज्ञापकार्थन्तु, एतत् ज्ञापयति-विवाहादिष्विह संकीर्त्तेष्वेव सम्याः, न तैरतिदिष्टेषु इति तेन सीमन्तादतिदिष्टे पुंसवने परिधय एव पार्वणादिषु च पक्कहोमेषु तथा"एवमत ऊर्ध्व"मिति वैवाहिकेन स्थालीपाकादिति दर्शनात् प्रसङ्गः

śamyāḥ paridhyarthe vivāhopanayasamāvartanasīmantacaulagodānaprāyaścitteṣu āpgs_2.2 commentaries: āpgs-anā_2.2: atha paridhīn paridadhāti darśapūrṇamāsavatsarva tūṣṇīṃ tata ādhārasamidhau kuta etat?prasiddhavadabhyānujñānācchamyāḥ paridhyartha itiparidhyartheparidhikārya ityartha- śamyāḥlokaprasiddhāḥ yuraprāntayoḥ chidraiṣu kīlarūpāḥ kāṣṭhāviśeṣā- tāsāṃ sahedhmena sannahanam prāyaścittaṃadbhutotpātaprāyaścittam vivāhe ca hṛdayasaṃsargārthe sarvatra śamyāḥ vivāhādibhyo 'nyatra sarvatra pārvaṇādiṣu paridhaya eva caulagrahaṇamanarthakaṃ sīmantātideśāt siddham jñāpakārthantu, etat jñāpayati-vivāhādiṣviha saṃkīrtteṣveva samyāḥ, na tairatidiṣṭeṣu iti tena sīmantādatidiṣṭe puṃsavane paridhaya eva pārvaṇādiṣu ca pakkahomeṣu tathā"evamata ūrdhva"miti vaivāhikena sthālīpākāditi darśanāt prasaṅgaḥ

Section (cont. 3)

2

आप्ग्स्-तात्_2.2: विवाहादिषु कर्मसुपरिध्यर्थेपरिधानां कार्ये परिधीनां स्थान इति यावत्,शम्याः युगकीलका भवन्ति ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः, तत्स्थानापन्नत्वात् युक्तं चैतत्, यस्मादेवैविधेविषयै वार्तिककारपादैरुक्तम् ऽसम्भवन्ती खलेवाली खादिरी किन्नु ब्ध्यते इति अत्र विवाहशब्देन स्थालीपाकवर्जितः साङ्गो विवाहो गृह्यते तद्वर्जनकारणं पार्वणैनेत्यत्र वक्ष्यामः सीमन्ते शम्याविधानादेव तद्विकारे चौले चौलविकारे च गोदाने सम्याप्राप्तावपि तयोर्ग्रहणं सीमन्तविकारे ऽपि पुंसवने तासां निवृत्त्यर्थम् प्रायश्चित्तं च ऽअगारस्थूणाविरोहणेऽ(आपगृ.23-9) इत्यादिना विहितम् अत्र च ऽपलाशकार्र्ष्मयऽ(आपश्रौ-5-8)इत्यादिसूत्रोक्तगुणयुक्तांस्त्रीन् परिधीन् संस्पृष्टान् ऽपरिधीन् परिदधारिऽ(तैब्रा.3-3-7) इत्यादि विधानात् तूष्णीं परिदध्यादिति सूत्रकारस्याभिप्राय-, ऽशम्या- परिध्यर्थेऽइति सिद्धवत्परिधीनङ्गीकृत्य तत्स्थाने सम्याविधानात्, आचाराच्च

āpgs-tāt_2.2: vivāhādiṣu karmasuparidhyartheparidhānāṃ kārye paridhīnāṃ sthāna iti yāvat,śamyāḥ yugakīlakā bhavanti tāśca palāśādīnāmanyatamena kḷptāḥ paridhisthaulyāyāmāḥ, tatsthānāpannatvāt yuktaṃ caitat, yasmādevaividheviṣayai vārtikakārapādairuktam 'sambhavantī khalevālī khādirī kinnu bdhyate iti atra vivāhaśabdena sthālīpākavarjitaḥ sāṅgo vivāho gṛhyate tadvarjanakāraṇaṃ pārvaṇainetyatra vakṣyāmaḥ sīmante śamyāvidhānādeva tadvikāre caule caulavikāre ca godāne samyāprāptāvapi tayorgrahaṇaṃ sīmantavikāre 'pi puṃsavane tāsāṃ nivṛttyartham prāyaścittaṃ ca 'agārasthūṇāvirohaṇe'(āpagṛ.23-9) ityādinā vihitam atra ca 'palāśakārrṣmaya'(āpaśrau-5-8)ityādisūtroktaguṇayuktāṃstrīn paridhīn saṃspṛṣṭān 'paridhīn paridadhāri'(taibrā.3-3-7) ityādi vidhānāt tūṣṇīṃ paridadhyāditi sūtrakārasyābhiprāya-, 'śamyā- paridhyarthe'iti siddhavatparidhīnaṅgīkṛtya tatsthāne samyāvidhānāt, ācārācca


3

8 अग्नेः पूर्व परिषेचनम् अग्निं परिषिञ्चत्यदिते ऽनुमन्यस्वे ति दक्षिणतः प्रचीन मनुमते ऽनुमन्यस्वेति पश्चादुदीचीनं सरस्वते ऽनुमन्यस्वे त्युत्तरतः प्राचीनं देव सवितः प्रसुवे ति समन्तम् आप्ग्स्_2.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.3: परिषेचनमुदकेन पर्युक्षणम् अग्निग्रहणं परिध्यधिकाराद्बहीःपरिधिर्माभूदिति प्राचीनमुदीचानमित्युच्यते प्रागुदग्वा(ग्चा) यतं परिषेचनकर्म यथा#अदिति तथापवर्गस्तु परिभाषासिद्ध एव ऽदेव सवितः प्रसुवेऽत् एतावान् मन्त्रः कल्पान्तरेषु भूयस्सु तथा दर्शनात् बोधायनीये च विस्पष्टमेतत् ऽअन्वमंस्थाः प्रासावीरित् मन्त्रान्तान् सन्नमयतीऽ(बौगृ.1-4.7) ति छन्दोगानामेव त्वयं मन्त्रादिः समन्तं सम इत्यर्थः तत्र पुरस्तादुपक्रम्य प्रदक्षिणं सर्वत्र प्रतिमन्त्रमुदकदानम्

8 agneḥ pūrva pariṣecanam agniṃ pariṣiñcatyadite 'numanyasve ti dakṣiṇataḥ pracīna manumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasve tyuttarataḥ prācīnaṃ deva savitaḥ prasuve ti samantam āpgs_2.3 commentaries: āpgs-anā_2.3: pariṣecanamudakena paryukṣaṇam agnigrahaṇaṃ paridhyadhikārādbahīḥparidhirmābhūditi prācīnamudīcānamityucyate prāgudagvā(gcā) yataṃ pariṣecanakarma yathā#aditi tathāpavargastu paribhāṣāsiddha eva 'deva savitaḥ prasuve't etāvān mantraḥ kalpāntareṣu bhūyassu tathā darśanāt bodhāyanīye ca vispaṣṭametat 'anvamaṃsthāḥ prāsāvīrit mantrāntān sannamayatī'(baugṛ.1-4.7) ti chandogānāmeva tvayaṃ mantrādiḥ samantaṃ sama ityarthaḥ tatra purastādupakramya pradakṣiṇaṃ sarvatra pratimantramudakadānam


3

आप्ग्स्-तात्_2.3: अग्निमेवोदकेन परिषिञ्चति न परिध्याङ्गमपि तद्विधिमाह-आदिते ऽनुमन्यस्वेत्यादिना प्राचीनं प्रागायतम् उदीचानमुदगायतम् समन्तंसर्वतः अत्र ऽदेव सवितः प्रसुवऽइत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः तथा नोत्तरे परिषेचने ऽप्रासावीऽरिति प्रसुवपदस्योहः वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानां ऽअदिते ऽनिमन्यस्वऽइत्यादानामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतो ऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजु प्राये मन्त्राष्टके ऋचो ऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्, ऽतस्मादृचं नोहेतऽइति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च विस्पष्टं चैतत् बोधायनानां, ऽश्रन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयतिऽ(बौगृ.1-4-37) इति एवं चोत्तरपरिषेचने ऽअन्वमंस्थाः प्रासावीः ऽइति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः न पुनरबहः यथाग्नौ ऽएतेनैव त्रैष्टुभेनछन्दसाहरिष्टकामुपदधेऽ; इति सन्नामशब्दश्चात्र गौणः अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्राह्मयज्ञपारायणयोश्च

āpgs-tāt_2.3: agnimevodakena pariṣiñcati na paridhyāṅgamapi tadvidhimāha-ādite 'numanyasvetyādinā prācīnaṃ prāgāyatam udīcānamudagāyatam samantaṃsarvataḥ atra 'deva savitaḥ prasuva'ityetāvāneva mantraḥ, narca ādipradeśaḥ tathā nottare pariṣecane 'prāsāvī'riti prasuvapadasyohaḥ vaiśvadevakāṇḍe ekāgnividhāvevamovāmnātānāṃ 'adite 'nimanyasva'ityādānāmaṣṭānāṃ yajuṣāṃ pūrvottarapariṣecanastheṣvaṣṭasu vyāpāreṣu śrutisthānābhyāṃ viniyogāt, vājapeyaprakaraṇasthāyā ṛcaḥ svato 'trāpi viniyogāyogyatvāt, ādipradeśe samudāyalakṣaṇāpatteḥ, yaju prāye mantrāṣṭake ṛco 'pratītatvāt, ūhapakṣe ārṣapāṭhabādhaprasaṅgāt, 'tasmādṛcaṃ nohet'iti bahvṛcaśrutivipratiṣiddhasya grahaṇaprasaṅgāt, asmadīyānāmācārācca vispaṣṭaṃ caitat bodhāyanānāṃ, 'śranvamaṃsthāḥ prāsāvīriti mantrāntān sannamayati'(baugṛ.1-4-37) iti evaṃ cottarapariṣecane 'anvamaṃsthāḥ prāsāvīḥ 'iti pūrvamantrebhyo viśeṣamātrasya pāṭhaḥ na punarabahaḥ yathāgnau 'etenaiva traiṣṭubhenachandasāhariṣṭakāmupadadhe'; iti sannāmaśabdaścātra gauṇaḥ ata evaite mantrāḥ vaiśvadevakāṇḍamupākṛtya prāgutsarjanādadhyetavyāḥ, brāhmayajñapārāyaṇayośca


4

पैतृकेषु समन्तमेव तूष्णीम् आप्ग्स्_2.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.4: अक्रियमाण एवकारे समन्तपरिषेचने मन्त्रप्रतिषेधार्थमेतत् स्यात् एवकारात्तु दक्षिणतः प्राचीनमित्यादे- त्रयस्य निवृत्तिः

paitṛkeṣu samantameva tūṣṇīm āpgs_2.4 commentaries: āpgs-anā_2.4: akriyamāṇa evakāre samantapariṣecane mantrapratiṣedhārthametat syāt evakārāttu dakṣiṇataḥ prācīnamityāde- trayasya nivṛttiḥ


4

आप्ग्स्-तात्_2.4: पैतृकेषु कर्मसु समन्तमेव परिषिञ्चति, न दक्षिणत- प्राचीनमऽइत्यादि तच्च तूष्णीम्

āpgs-tāt_2.4: paitṛkeṣu karmasu samantameva pariṣiñcati, na dakṣiṇata- prācīnam'ityādi tacca tūṣṇīm


4

9 इध्माधानं, आघारहोमश्च इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम् आप्ग्स्_2.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.5: इध्म इति समुदायस्योपदेशात् पञ्चदशादारुमिध्मं सकृदेवादधाति ऽअभिघार्येऽति कल्पान्तरं दर्शपूर्णमासवदित्त्युत्तरं परिधिसन्धिमन्ववहृत्य दक्षिणं परिधिसन्धिमन्ववहृत्येत्येवमादिता विधाने तूष्णीमिति मन्त्रोच्चारणप्रतिषैध- तेन"प्रजापतिं मनसा झ्याय"न्नित्यैतदपि न भवति मनसा मन्त्रोच्चारणं तत्र विधीयत इति कृत्वा काम्यानामाधारकल्पानामिहाप्रवृत्तिः प्रकृतिविषयत्वात्तेषाम् केचित् स्रुवेण पूर्वमाघारमिच्छन्ति अन्ये पुनः उभावपि दर्व्यैव वेदोपभृतोरभावात् उपयमनमपि न भवति आसीन एव चोतरमप्याधारं जुहोति न चाभिप्राणिति अत्र प्रमाणमुपरिष्टाद्वक्ष्यामः

9 idhmādhānaṃ, āghārahomaśca idhmamādhāyāghārāvāghārayati darśapūrṇamāsavattūṣṇīm āpgs_2.5 commentaries: āpgs-anā_2.5: idhma iti samudāyasyopadeśāt pañcadaśādārumidhmaṃ sakṛdevādadhāti 'abhighārye'ti kalpāntaraṃ darśapūrṇamāsavadittyuttaraṃ paridhisandhimanvavahṛtya dakṣiṇaṃ paridhisandhimanvavahṛtyetyevamāditā vidhāne tūṣṇīmiti mantroccāraṇapratiṣaidha- tena"prajāpatiṃ manasā jhyāya"nnityaitadapi na bhavati manasā mantroccāraṇaṃ tatra vidhīyata iti kṛtvā kāmyānāmādhārakalpānāmihāpravṛttiḥ prakṛtiviṣayatvātteṣām kecit sruveṇa pūrvamāghāramicchanti anye punaḥ ubhāvapi darvyaiva vedopabhṛtorabhāvāt upayamanamapi na bhavati āsīna eva cotaramapyādhāraṃ juhoti na cābhiprāṇiti atra pramāṇamupariṣṭādvakṣyāmaḥ


5

आप्ग्स्-तात्_2.5: इध्ममग्नावादधाति स च खादिरः पालाशो वा पञ्चदशसङ्ख्याकोरऽथलक्षणस्थौल्यायामः, इध्मनामधेयात्, श्रौते दर्शनाच्च युगपच्चाधानम्, ऽइध्ममऽइत्येकवचनेन समुदायस्य विवक्षितत्वात् तच्च तूष्णीम्, मन्त्रस्याविधानात् अन्ये-ऽतूष्णामऽइत्यारभ्येदमेकं सूत्रं क-त्वा हिरण्यकेशिनां योमन्त्रः ऽअयं त इध्मः इति , सः ऽअनुक्तमन्यतो ग्राह्यम् ऽइति न्यायेन नोपसंहर्तव्य इति व्याचक्षते तेषां पैतृकेषु समन्तपरिषेचनं समन्त्रकं स्यात् केचित्-गृह्यान्तरात्, इध्मो ऽभिधार्याधेयः इति आघारौआघारनामकौ होमौ द्वौ आघारयति दीर्घधारया जुहोति, दर्शपूर्णमासवत् ऽउत्तरं परिधिसन्धिमन्ववहृत्य... दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति (आपश्रौ.2-12-7) ऽदक्षिणं परिधिसन्धिमन्ववहृत्यऽ(आपश्रौ.2-13-11) ऽप्राञ्चमुदञ्चमऽ(आपश्रौ.2-14-1) इत्यादि ऽऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वा ऽ(आपश्रौ.2-12-8) इति वैकल्पिकास्त्रय आघारपक्षा एव दर्शपूर्णमासाभ्यां तुल्यं कर्तव्याः;न पुनर्द्वितीयाघारस्य ऽपूर्वोर्धे मध्ये पश्चार्धे वा जुहुयातऽ; (आपश्रौ.2-14-8) इत्यनाघारपक्षो ऽपि इमौ च द्वावप्यासीनोदर्व्या तूष्णीमाघारयति, दुर्वीहोमानामपूर्वत्वेनैष्टिकाघारधर्माणां मन्त्राणां चाप्राप्तौः तूष्णीमिति ऽतूष्णीं पञ्चाज्याहुतीर्हुत्वाऽ(आपगृ.22-4) इतिवत् स्वाहाकारस्यापि निवृत्त्यर्थम् अत उभयोरप्याघारयोः प्रजापतिर्देवता ऽयत्तूष्णीं तत्प्राजापत्यम् (तैब्रा.2-1-4) इति श्रुते- कथं पुनरिमावजुहोतिचोदनौ दर्वीहोमौ ?उच्यते-यद्यपि जुहोतीत्येवं न चोदनास्ति. तथाप्याघारयतीति दीर्घधा एगुणकजुहोतिचोदनार्थत्वात्, याज्ञिकप्रसिद्धेश्च दर्वीहोमावेव किञ्च अथाज्यभागौ जुहोतिऽ(आपगृ.2-6) इत्याज्यभागौ स्पष्टमेव दर्वीहोमौ;तत्साहचर्यादाघारावपि तथा यथा अंशोरनारभ्याधीतस्य विनियोगसन्निधेरङावे ऽप्यदाभ्यसाहचर्यात् सोमनियोगसम्बन्धः एवं वा व्याख्यानम्-आधारावाघारयति ऽपुरस्तादुदग्वोपक्रम-ऽ(आपग.1-5) इत्येतस्मात्परत्वेन प्रबलां ऽतथापवर्गःऽ(आपगृ.1-6) इति गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् नाप्यैष्टिकाघारधर्मा मन्त्राश्च, अपूर्वत्वादेव जेवते तु दर्शपूर्णमासवत् प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इत्यर्थ- तूष्णीमिति पूर्ववदेव अन्ये तु आघाराविति नामधेयं ऽमासमाग्निहोत्रं जुहोतिऽइतिवत् ऐष्टिकाघारधर्मातिदेशकम् अत्र स्रुवेण ध्रुवाया आज्यमादाय आसीनो ऽन्यमाघारमाघारयन् (आपश्रौ.2-12-7) ऽजुह्वेहीति जुहूमादत्तेऽ(आपश्रौ.2-13-2) इत्यादिषु सर्वेषु आघारधर्मेषु तन्मन्त्रेषु च प्राप्तेषु ऽआघारावाघारयतिऽइति परिसङ्ख्याथम् आघारयतीति दीर्घधाराधर्मकावेव होमौकुर्यात्, नान्यधर्मकाविति ऽतूष्णीऽमिति तुधर्मावान्तरभेदानां मन्त्राणां निवृत्त्यर्थम् दर्शपूर्णमासवदिति त्वनर्तकमेवेत्याहुः तन्न;दर्वीहोमयोरपूर्वयोः विशेषतश्चाङ्गभूतयोः- धर्मातिदेशानपेक्षत्वात्, स्वतश्च नाम्नो धर्मलक्षणाया अयुक्तत्वात्, आघारयतीत्यत्र च सति गत्यन्तरे परिसङ्ख्याया अन्याय्यत्वात्, आघारव्यतिरिक्तधर्मपरिसङ्ख्याने चातिदेशवैफल्यात्, परिसङ्ख्यायाश्च मन्त्रपरिसङ्ख्याने ऽपि सामर्थ्यात् तूष्णींपदस्य वैयर्थ्यापत्तेः ऽदर्शपूर्णमासवदऽइति पदं व्यर्थमिति स्वेनैवोक्तत्वात्, ऽआघारावाघारयतिऽति च पदयोरतिदेशपरिसङ्ख्यार्थत्वे होमविधायकशब्दाभावात्, तद्भावाय च परिसङ्ख्यात्यागे सर्वेषामाघारधर्माणां श्ष्टाचारविरुद्धानुष्ठानापातात्, आज्यभागादीनामपीत्थमतिदेशे अभ्युपेये तत्राप्यैष्टिकाज्यभागादिधर्माणां सर्वेषामनुष्ठानप्रसङ्गाच्च तस्मात् पूर्वे एव व्याख्याने सुष्ठु यतो ऽपूर्वावेवाघारौ, यतश्च ऽसमिदभावश्च, अग्निहोत्रवर्जम् (आपप.3-8,9) इति परिभाषा, अत एव आघारसमिधो र्निवृत्तिः अन्ये कुर्वन्ति तस्मिन् पक्षे परिधिनिधानानन्तरम्;श्रौते तथा दृष्टत्वात् अनूयाजसमित् अनुयादाभावादेव निवृत्ता तेनेध्मसन्नहनं परिधिभिस्सहाष्टादशधा, विशातिधा वा न पुनरेकविंशतिधा

āpgs-tāt_2.5: idhmamagnāvādadhāti sa ca khādiraḥ pālāśo vā pañcadaśasaṅkhyākor'thalakṣaṇasthaulyāyāmaḥ, idhmanāmadheyāt, śraute darśanācca yugapaccādhānam, 'idhmam'ityekavacanena samudāyasya vivakṣitatvāt tacca tūṣṇīm, mantrasyāvidhānāt anye-'tūṣṇām'ityārabhyedamekaṃ sūtraṃ ka-tvā hiraṇyakeśināṃ yomantraḥ 'ayaṃ ta idhmaḥ iti , saḥ 'anuktamanyato grāhyam 'iti nyāyena nopasaṃhartavya iti vyācakṣate teṣāṃ paitṛkeṣu samantapariṣecanaṃ samantrakaṃ syāt kecit-gṛhyāntarāt, idhmo 'bhidhāryādheyaḥ iti āghārauāghāranāmakau homau dvau āghārayati dīrghadhārayā juhoti, darśapūrṇamāsavat 'uttaraṃ paridhisandhimanvavahṛtya... dakṣiṇāprāñcaṃ ṛjuṃ santataṃ jyotiṣmatyāghāramāghārayan sarvāṇīdhmakāṣṭhāni saṃsparśayakti (āpaśrau.2-12-7) 'dakṣiṇaṃ paridhisandhimanvavahṛtya'(āpaśrau.2-13-11) 'prāñcamudañcam'(āpaśrau.2-14-1) ityādi 'ṛjū prāñcau hotavyau tiryañcau vā vyatiṣaktāvavyātiṣaktau vā '(āpaśrau.2-12-8) iti vaikalpikāstraya āghārapakṣā eva darśapūrṇamāsābhyāṃ tulyaṃ kartavyāḥ;na punardvitīyāghārasya 'pūrvordhe madhye paścārdhe vā juhuyāt'; (āpaśrau.2-14-8) ityanāghārapakṣo 'pi imau ca dvāvapyāsīnodarvyā tūṣṇīmāghārayati, durvīhomānāmapūrvatvenaiṣṭikāghāradharmāṇāṃ mantrāṇāṃ cāprāptauḥ tūṣṇīmiti 'tūṣṇīṃ pañcājyāhutīrhutvā'(āpagṛ.22-4) itivat svāhākārasyāpi nivṛttyartham ata ubhayorapyāghārayoḥ prajāpatirdevatā 'yattūṣṇīṃ tatprājāpatyam (taibrā.2-1-4) iti śrute- kathaṃ punarimāvajuhoticodanau darvīhomau ?ucyate-yadyapi juhotītyevaṃ na codanāsti. tathāpyāghārayatīti dīrghadhā eguṇakajuhoticodanārthatvāt, yājñikaprasiddheśca darvīhomāveva kiñca athājyabhāgau juhoti'(āpagṛ.2-6) ityājyabhāgau spaṣṭameva darvīhomau;tatsāhacaryādāghārāvapi tathā yathā aṃśoranārabhyādhītasya viniyogasannidheraṅāve 'pyadābhyasāhacaryāt somaniyogasambandhaḥ evaṃ vā vyākhyānam-ādhārāvāghārayati 'purastādudagvopakrama-'(āpaga.1-5) ityetasmātparatvena prabalāṃ 'tathāpavargaḥ'(āpagṛ.1-6) iti gārhyaparibhāṣāmanusṛtya prāgapavargābhyāmudagapavargābhyāṃ vā dīrghadhārābhyāṃ juhoti, na tu koṇadigapavargābhyām nāpyaiṣṭikāghāradharmā mantrāśca, apūrvatvādeva jevate tu darśapūrṇamāsavat prathamasya prajāpatiḥ, dvitīyasyendra ityartha- tūṣṇīmiti pūrvavadeva anye tu āghārāviti nāmadheyaṃ 'māsamāgnihotraṃ juhoti'itivat aiṣṭikāghāradharmātideśakam atra sruveṇa dhruvāyā ājyamādāya āsīno 'nyamāghāramāghārayan (āpaśrau.2-12-7) 'juhvehīti juhūmādatte'(āpaśrau.2-13-2) ityādiṣu sarveṣu āghāradharmeṣu tanmantreṣu ca prāpteṣu 'āghārāvāghārayati'iti parisaṅkhyātham āghārayatīti dīrghadhārādharmakāveva homaukuryāt, nānyadharmakāviti 'tūṣṇī'miti tudharmāvāntarabhedānāṃ mantrāṇāṃ nivṛttyartham darśapūrṇamāsavaditi tvanartakamevetyāhuḥ tanna;darvīhomayorapūrvayoḥ viśeṣataścāṅgabhūtayoḥ- dharmātideśānapekṣatvāt, svataśca nāmno dharmalakṣaṇāyā ayuktatvāt, āghārayatītyatra ca sati gatyantare parisaṅkhyāyā anyāyyatvāt, āghāravyatiriktadharmaparisaṅkhyāne cātideśavaiphalyāt, parisaṅkhyāyāśca mantraparisaṅkhyāne 'pi sāmarthyāt tūṣṇīṃpadasya vaiyarthyāpatteḥ 'darśapūrṇamāsavad'iti padaṃ vyarthamiti svenaivoktatvāt, 'āghārāvāghārayati'ti ca padayoratideśaparisaṅkhyārthatve homavidhāyakaśabdābhāvāt, tadbhāvāya ca parisaṅkhyātyāge sarveṣāmāghāradharmāṇāṃ śṣṭācāraviruddhānuṣṭhānāpātāt, ājyabhāgādīnāmapītthamatideśe abhyupeye tatrāpyaiṣṭikājyabhāgādidharmāṇāṃ sarveṣāmanuṣṭhānaprasaṅgācca tasmāt pūrve eva vyākhyāne suṣṭhu yato 'pūrvāvevāghārau, yataśca 'samidabhāvaśca, agnihotravarjam (āpapa.3-8,9) iti paribhāṣā, ata eva āghārasamidho rnivṛttiḥ anye kurvanti tasmin pakṣe paridhinidhānānantaram;śraute tathā dṛṣṭatvāt anūyājasamit anuyādābhāvādeva nivṛttā tenedhmasannahanaṃ paridhibhissahāṣṭādaśadhā, viśātidhā vā na punarekaviṃśatidhā


6

10 आज्यभागहोमौ अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण आप्ग्स्_2.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.6: अग्रेरुत्तरभाग उत्तरार्धः, पूर्वभागः पूर्वाधः तयोरन्तरालंउत्तरार्धपूर्वार्धः सममित्नि देशतः समं तौ होतव्यौ न विषमावित्यर्थः उपदेशादाघारानन्तर्ये सिद्धे अथेति वचनं सम्बोधनार्थम् किं सिद्धं भवति ?आघारयोराज्यभागयोश्च साधर्म्य सिद्धं भवति तेन जेयोतिष्मत्यग्नौ होमः आघारयोः प्रसिद्धो धर्मः तस्याज्यभागयोरपि प्रवृत्तिः तथा आज्वभागयोः प्रसिद्धो धर्मः आसीनहोमो ऽप्युच्छ्वासाभावश्च तस्याघारयोरपि प्रवृत्तिः तेन यदुक्तमुत्तरस्मिन्नप्याघारे स्थानाभिप्राणने न भवत इति तदुपपन्नं भवति आज्यभागावितिहोमयोस्संज्ञा प्रयोजनमग्नेरुपसमाधानाद्याज्यभागान्त इत्येवमादयः

10 ājyabhāgahomau athājyabhāgau juhotyagnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa āpgs_2.6 commentaries: āpgs-anā_2.6: agreruttarabhāga uttarārdhaḥ, pūrvabhāgaḥ pūrvādhaḥ tayorantarālaṃuttarārdhapūrvārdhaḥ samamitni deśataḥ samaṃ tau hotavyau na viṣamāvityarthaḥ upadeśādāghārānantarye siddhe atheti vacanaṃ sambodhanārtham kiṃ siddhaṃ bhavati ?āghārayorājyabhāgayośca sādharmya siddhaṃ bhavati tena jeyotiṣmatyagnau homaḥ āghārayoḥ prasiddho dharmaḥ tasyājyabhāgayorapi pravṛttiḥ tathā ājvabhāgayoḥ prasiddho dharmaḥ āsīnahomo 'pyucchvāsābhāvaśca tasyāghārayorapi pravṛttiḥ tena yaduktamuttarasminnapyāghāre sthānābhiprāṇane na bhavata iti tadupapannaṃ bhavati ājyabhāgāvitihomayossaṃjñā prayojanamagnerupasamādhānādyājyabhāgānta ityevamādayaḥ


6

आप्ग्स्-तात्_2.6: इथ आघारानन्तरं अर्थकृत्यमप्यकृत्वाऽज्यभागनामकावपूर्वौ होमौ जुहोति तत्र प्रथममग्नये स्वाहेति मन्त्रेणाग्नेरुत्तरार्धपूर्वार्धे, प्रागुदीज्यामित्र्तः द्वितीयं सोमाय स्वाहेतिदक्षिणार्धपूर्वोर्धे, दक्षिणपूर्वस्यामित्यर्थः समं पूर्वेण आघारसम्भेदमवधिं कृत्वाक्ष्णया रज्वा यावत्यन्तरे पूर्वो हुतः तावत्यन्तर एवोत्तरं जुहोति, न पुनस्सन्निकृष्टं विप्रकृष्टं वा

āpgs-tāt_2.6: itha āghārānantaraṃ arthakṛtyamapyakṛtvā'jyabhāganāmakāvapūrvau homau juhoti tatra prathamamagnaye svāheti mantreṇāgneruttarārdhapūrvārdhe, prāgudījyāmitrtaḥ dvitīyaṃ somāya svāhetidakṣiṇārdhapūrvordhe, dakṣiṇapūrvasyāmityarthaḥ samaṃ pūrveṇa āghārasambhedamavadhiṃ kṛtvākṣṇayā rajvā yāvatyantare pūrvo hutaḥ tāvatyantara evottaraṃ juhoti, na punassannikṛṣṭaṃ viprakṛṣṭaṃ vā


7

11 प्रधानहोमानन्तरं जयादीनां विधानम् यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वस्विष्टं सुहुतं करोतु स्वाहेति आप्ग्स्_2.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.7: यथोपदेशमिति यस्मिन् यस्मिन् कर्मणि या- प्रधानाहुतय इत्युपद्श्यन्ते, यथा"अन्वारब्धायामुत्तरा आहुती" (आपगृ.142)रितितास्ता इत्यर्तः जयाः "चित्तञ्च चित्तिश्च"(तैसं.3-4-4) इत्येवमादयः अभ्यातानाः "अग्निर्भूतानां (तैसं.3-4-5) इत्यादय- राष्ट्रभृत- "ऋताषाडृतधामे"(तैसं.3-4-7) त्यादयः प्रजापते न त्वदेतानीत्येषाप्राजापत्या व्याहृतयः प्रसिद्धाः विदृतवचनं समस्तनिवृत्त्यर्थम् एतेषामनुपदेशः सिद्धत्त्वात् सौविष्टकृती अप्रसिद्धत्त्वात् पठिता नन्वेषापि सूत्रे पठिता -"यदस्य कर्मणो ऽत्यरीरिचं यद्वान्यूनमिहाकरम् अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्व स्विष्टं सुहुतं करोतु स्वाहे"ति सर्वप्रायश्चित्तेषु, (आपश्रौ.3-12-9) एवं तर्हि एतत् ज्ञापयति पाकयज्ञविधिरयं अन्येषामपि केषाञ्चित् साधारण इति दृश्यते च कालगिरेयाणामनेन प्रवृत्ति- विवाहादिषु"कर्मसु"ये होमाश्चोदिताः तेष्वेतस्य प्राप्त्यर्थ तेषां कालोपदेशार्तमिदम् जयादीनां पुरस्तादाज्यभागयोश्चोपरिष्ठात् प्रधानाहुतय इति नार्थः एतदर्थेनानेन तत्रैवोभयोरप्युपदिष्टत्वात् ऽअग्नेरुपसमाधानाद्यज्यभागान्त उत्तराहुतीर्हुत्वाऽइति"स्थालीपाकाज्जुहोति"इत्यतिदेशात् तत्र प्राप्तिः पार्वणे तु तथा आग्नेयस्थालीपाकविधौ वक्ष्यामः अथ येष्वा ऽज्यभागान्तऽइति वा ऽजयादि प्रतिपद्यतऽइति वा वचनं नास्ति यथा पण्यफलीकरणहोमे तत्र प्राप्त्यर्थेमिदमुच्यते विवाहादिषु तत्र विधानमनर्थकं, आज्यभागान्ते जयादि प्रतिपद्यत इति वचनात् पण्यहोमादयो ऽपूर्वा यावदुक्तधर्माणः इदं तर्हि प्रयोदनं कव्यान्तरोक्तानि नित्यानि नैमित्तिकानिकाम्यानि वा यद्यस्मदादिभिरनुष्ठीयन्ते तदा तेष्वपि एतस्य तन्त्रस्य प्रवृत्तिर्यथा स्यादिति नन्वेतदपि पार्वणातिदेशदर्शनात् सिद्धमाचाराद्यानिगृह्यन्ते इति;सत्यं पक्वहोमेषु सिद्धं, न त्वाज्यहोमेषु ऽकूश्माण्डैर्घृतमिऽत्यादिषु, तस्यापक्वविषयत्वात् विवाहादिषु तन्त्रविधाननियमार्थ यस्मिन् गृहमेधचोदितास्तेषु अत्राग्नेरुपसमाधानाद्याज्यभागान्त इति जयादिप्रतिपद्यत इति वा वचनं तत्रैव तन्त्रप्रवृत्तिः इति तेन पण्यहोमादयो यावदुक्तधर्माण इति सिद्धम् प्रधानाहुतिग्रहणं जयादेराज्यभागान्तस्य च तत्र प्रसिध्द्यर्थम् उपजुहोतीति उपशब्द आनन्तर्यार्थः तेन प्रधानाहुत्यनन्तरमुपहोमाः तेनेशानयज्ञे परिषेचनान्ते बलिहरणं भवति श्राद्धे वानुपदेशनं स्थालीपाके च बहिर्रनुप्रहरणं सौविष्टकृतीमित्युच्यते स्विष्टकृद्देवतेति ज्ञापनार्थम् तेनाज्यहोमस्विष्टकृत् पक्वहोमेषु भवति

11 pradhānahomānantaraṃ jayādīnāṃ vidhānam yathopadeśaṃ pradhānāhutīrhutvā jayābhyātānānrāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīrvihṛtāḥ sauviṣṭakṛtīmittyupajuhoti yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram agniṣṭatsviṣṭakṛdvidvāntsarvasviṣṭaṃ suhutaṃ karotu svāheti āpgs_2.7 commentaries: āpgs-anā_2.7: yathopadeśamiti yasmin yasmin karmaṇi yā- pradhānāhutaya ityupadśyante, yathā"anvārabdhāyāmuttarā āhutī" (āpagṛ.142)rititāstā ityartaḥ jayāḥ "cittañca cittiśca"(taisaṃ.3-4-4) ityevamādayaḥ abhyātānāḥ "agnirbhūtānāṃ (taisaṃ.3-4-5) ityādaya- rāṣṭrabhṛta- "ṛtāṣāḍṛtadhāme"(taisaṃ.3-4-7) tyādayaḥ prajāpate na tvadetānītyeṣāprājāpatyā vyāhṛtayaḥ prasiddhāḥ vidṛtavacanaṃ samastanivṛttyartham eteṣāmanupadeśaḥ siddhattvāt sauviṣṭakṛtī aprasiddhattvāt paṭhitā nanveṣāpi sūtre paṭhitā -"yadasya karmaṇo 'tyarīricaṃ yadvānyūnamihākaram agniṣṭatsviṣṭakṛdvidvāntsarva sviṣṭaṃ suhutaṃ karotu svāhe"ti sarvaprāyaścitteṣu, (āpaśrau.3-12-9) evaṃ tarhi etat jñāpayati pākayajñavidhirayaṃ anyeṣāmapi keṣāñcit sādhāraṇa iti dṛśyate ca kālagireyāṇāmanena pravṛtti- vivāhādiṣu"karmasu"ye homāścoditāḥ teṣvetasya prāptyartha teṣāṃ kālopadeśārtamidam jayādīnāṃ purastādājyabhāgayoścopariṣṭhāt pradhānāhutaya iti nārthaḥ etadarthenānena tatraivobhayorapyupadiṣṭatvāt 'agnerupasamādhānādyajyabhāgānta uttarāhutīrhutvā'iti"sthālīpākājjuhoti"ityatideśāt tatra prāptiḥ pārvaṇe tu tathā āgneyasthālīpākavidhau vakṣyāmaḥ atha yeṣvā 'jyabhāgānta'iti vā 'jayādi pratipadyata'iti vā vacanaṃ nāsti yathā paṇyaphalīkaraṇahome tatra prāptyarthemidamucyate vivāhādiṣu tatra vidhānamanarthakaṃ, ājyabhāgānte jayādi pratipadyata iti vacanāt paṇyahomādayo 'pūrvā yāvaduktadharmāṇaḥ idaṃ tarhi prayodanaṃ kavyāntaroktāni nityāni naimittikānikāmyāni vā yadyasmadādibhiranuṣṭhīyante tadā teṣvapi etasya tantrasya pravṛttiryathā syāditi nanvetadapi pārvaṇātideśadarśanāt siddhamācārādyānigṛhyante iti;satyaṃ pakvahomeṣu siddhaṃ, na tvājyahomeṣu 'kūśmāṇḍairghṛtami'tyādiṣu, tasyāpakvaviṣayatvāt vivāhādiṣu tantravidhānaniyamārtha yasmin gṛhamedhacoditāsteṣu atrāgnerupasamādhānādyājyabhāgānta iti jayādipratipadyata iti vā vacanaṃ tatraiva tantrapravṛttiḥ iti tena paṇyahomādayo yāvaduktadharmāṇa iti siddham pradhānāhutigrahaṇaṃ jayāderājyabhāgāntasya ca tatra prasidhdyartham upajuhotīti upaśabda ānantaryārthaḥ tena pradhānāhutyanantaramupahomāḥ teneśānayajñe pariṣecanānte baliharaṇaṃ bhavati śrāddhe vānupadeśanaṃ sthālīpāke ca bahirranupraharaṇaṃ sauviṣṭakṛtīmityucyate sviṣṭakṛddevateti jñāpanārtham tenājyahomasviṣṭakṛt pakvahomeṣu bhavati


7

आप्ग्स्-तात्_2.7: यथोपदेशं येन हविरादिना विवाहादिषु प्रधानाहुतय उपदिष्टास्तेन तेन विधानेन ता हुत्वा जयाःचित्तं च स्वाहे(तैसं.#र-4-4) ति त्रयोदश अग्निर्भूतानामधिपतिस्समावत्वस्मिन्निति(तैसं.3-4-7)राष्ट्रभृतो द्वाविंशतिः तत्र ऋताषाडित्यनुद्रुत्य ऽतस्मै स्वाहेऽत्यन्तेन प्रथमाहुतिं जुहोति ऽताभ्यस्स्वाहाऽइत्येतावतैवोत्त्राम् एवमुत्त्रे पञ्च पर्यायाः तत्र ऽनाम स इदं ब्रह्माऽइत्यनुषङ्गः ऽताभ्यः स्वाहाऽइति च ऽभुवनस्य पते... स्वस्तिभिस्वाहाऽइति त्रयोदशी ऽपरमेष्ठीऽत्यादयः पूर्ववच्चत्वारः पर्यायाः ऽसनो भुवनस्य पते..... यच्छ स्वाहाऽइति द्वाविंशी ऽप्रजापते न त्वेतानिऽइति ऋक्प्राजापत्या प्राजापत्ययर्चा वल्मीकवपायामवनयेतऽ(तैब्रा.3-7-2) इति श्रुतेः सूत्रकारेणऽप्रजापते न त्वदेतानीऽति प्राजापत्ययर्चा वल्मीकवपायामवनीयऽ; (आपश्रौ.9-2-4) इति व्याख्यातत्वात् व्याहृती विहृताः ऽभूः स्वाहा, भुवः स्वाहा सुवः स्वाहाऽइति सौविष्टकृती ऽयदस्य ऽ; कर्मणः इति ऋक् आत्र चास्याः स्विष्टकृद्देवताक्त्वं लिङ्गादेव सुगमम् देवताज्ञानस्य कर्माङ्गत्वमपि"यो ह वा अविदितार्षेयच्छन्दोदेवताब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुमृच्छति"इत्यादिश्रुतेः, अविदित्वा ॠषिं छन्दो दैवतं योगमेव च यो ऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः इति स्मृतेश्च सिद्धम् अतो यत्रर्षे यादिज्ञानानां नैवंविधिः तत्र तानि पाक्षिकाणीति गम्यते एवमेता जयादिका अष्टपञ्चाशदाहुतीः प्रधानहोमानन्तरमुपजुहोत् यत्रापि सर्पबलायादौ पार्वणातिदिष्टः स्विष्टकृत तत्रापि प्रधानाहुत्यनन्तरमेवैताः ततः स्विष्टकृत्; क्त्वाप्रत्यत्यात्, उपोपसर्गाच्च केचित्-स्विष्टकृतो ऽनन्तरं जयादयः ऽअग्निः स्विष्टकद्वितीय- (आपगृ.7-7) इति स्विष्टकृत- प्रधानतुल्यधर्मत्वज्ञापनादिति ननु-यद्यत्यैव सर्वप्रधानहोमानन्तर साधारण्येन जयादय उपदिष्टाः किमर्थ तत्र तत्र ऽजयादि प्रतिपद्यतेऽइति वचनम् ? उच्यते-यत्रैतद्वचनं नास्ति पार्वणादौ न तत्र जयादय इत्येवमर्थम् एवं तर्ह्यत्र साधारणविधानमेवानर्थकम् न ;केवलं जयादिविझ्यर्थत्वात् अन्यथा विवाहादा वेतेष्वन्वारम्भो ऽपि स्यात् किञ्च अस्मिन्नसतितत्र तत्र ऽजयाभ्यातानानिऽत्यादिमन्त्रसन्नाम इत्यन्ते गुरुर्ग्रन्थः पुनः पुनः पठितव्यस्स्यात् तस्मादन्वारम्भादिनिवृत्त्यर्त ग्रन्थलाघवार्थ चेदं साधारणविधानम् केचित्- यत्राज्यभागान्तं पुरस्तात्तन्त्रं तत्र सर्वत्र जयाद्युत्तरतन्त्रम् एतयोर्मध्ये ऽयथोपदेशं प्रधानाहुतीः ऽइत्यादिशेषेण प्रधानहोमानां विधानात् आग्नेये ऽपि च स्थालीपाके जयादिर्विद्यत एव, ऽसिद्धमुत्तरमऽ(आपगृ.7-14) इति पदद्वयसूत्रेण जयाद्युत्तरतन्त्रोपदेशात् मासिश्राद्धे द्धादौ च ऽपार्वणेनऽ(आपगृ.7-23) इत्यातिदेशात् आज्यहोमेषु जयाद्यनन्तरं श्रौतवत् तूष्णीं परिधीनग्नौ प्रहृत्य तान् दर्वीसंस्रावेणाभिजुहोति;परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वात् आचाराच्च शम्याश्चेत्, अस्मिन् काले अपोह्या;ऽअथ शम्या उपोद्यऽ(बौगृ.1-4-37) इति बोधायनवचनात्, आचाराच्च

āpgs-tāt_2.7: yathopadeśaṃ yena havirādinā vivāhādiṣu pradhānāhutaya upadiṣṭāstena tena vidhānena tā hutvā jayāḥcittaṃ ca svāhe(taisaṃ.#ra-4-4) ti trayodaśa agnirbhūtānāmadhipatissamāvatvasminniti(taisaṃ.3-4-7)rāṣṭrabhṛto dvāviṃśatiḥ tatra ṛtāṣāḍityanudrutya 'tasmai svāhe'tyantena prathamāhutiṃ juhoti 'tābhyassvāhā'ityetāvataivottrām evamuttre pañca paryāyāḥ tatra 'nāma sa idaṃ brahmā'ityanuṣaṅgaḥ 'tābhyaḥ svāhā'iti ca 'bhuvanasya pate... svastibhisvāhā'iti trayodaśī 'parameṣṭhī'tyādayaḥ pūrvavaccatvāraḥ paryāyāḥ 'sano bhuvanasya pate..... yaccha svāhā'iti dvāviṃśī 'prajāpate na tvetāni'iti ṛkprājāpatyā prājāpatyayarcā valmīkavapāyāmavanayet'(taibrā.3-7-2) iti śruteḥ sūtrakāreṇa'prajāpate na tvadetānī'ti prājāpatyayarcā valmīkavapāyāmavanīya'; (āpaśrau.9-2-4) iti vyākhyātatvāt vyāhṛtī vihṛtāḥ 'bhūḥ svāhā, bhuvaḥ svāhā suvaḥ svāhā'iti sauviṣṭakṛtī 'yadasya '; karmaṇaḥ iti ṛk ātra cāsyāḥ sviṣṭakṛddevatāktvaṃ liṅgādeva sugamam devatājñānasya karmāṅgatvamapi"yo ha vā aviditārṣeyacchandodevatābrāhmaṇena mantreṇa yājayati vādhyāpayati vā sthāṇumṛcchati"ityādiśruteḥ, aviditvā ṝṣiṃ chando daivataṃ yogameva ca yo 'dhyāpayejjapedvāpi pāpīyān jāyate tu saḥ iti smṛteśca siddham ato yatrarṣe yādijñānānāṃ naivaṃvidhiḥ tatra tāni pākṣikāṇīti gamyate evametā jayādikā aṣṭapañcāśadāhutīḥ pradhānahomānantaramupajuhot yatrāpi sarpabalāyādau pārvaṇātidiṣṭaḥ sviṣṭakṛta tatrāpi pradhānāhutyanantaramevaitāḥ tataḥ sviṣṭakṛt; ktvāpratyatyāt, upopasargācca kecit-sviṣṭakṛto 'nantaraṃ jayādayaḥ 'agniḥ sviṣṭakadvitīya- (āpagṛ.7-7) iti sviṣṭakṛta- pradhānatulyadharmatvajñāpanāditi nanu-yadyatyaiva sarvapradhānahomānantara sādhāraṇyena jayādaya upadiṣṭāḥ kimartha tatra tatra 'jayādi pratipadyate'iti vacanam ? ucyate-yatraitadvacanaṃ nāsti pārvaṇādau na tatra jayādaya ityevamartham evaṃ tarhyatra sādhāraṇavidhānamevānarthakam na ;kevalaṃ jayādivijhyarthatvāt anyathā vivāhādā veteṣvanvārambho 'pi syāt kiñca asminnasatitatra tatra 'jayābhyātānāni'tyādimantrasannāma ityante gururgranthaḥ punaḥ punaḥ paṭhitavyassyāt tasmādanvārambhādinivṛttyarta granthalāghavārtha cedaṃ sādhāraṇavidhānam kecit- yatrājyabhāgāntaṃ purastāttantraṃ tatra sarvatra jayādyuttaratantram etayormadhye 'yathopadeśaṃ pradhānāhutīḥ 'ityādiśeṣeṇa pradhānahomānāṃ vidhānāt āgneye 'pi ca sthālīpāke jayādirvidyata eva, 'siddhamuttaram'(āpagṛ.7-14) iti padadvayasūtreṇa jayādyuttaratantropadeśāt māsiśrāddhe ddhādau ca 'pārvaṇena'(āpagṛ.7-23) ityātideśāt ājyahomeṣu jayādyanantaraṃ śrautavat tūṣṇīṃ paridhīnagnau prahṛtya tān darvīsaṃsrāveṇābhijuhoti;paridhitatsaṃskārāṇāṃ śrautavadabhyanujñānasyoktatvāt, kṛtakāryāṇāṃ pratipattyapekṣatvāt ācārācca śamyāścet, asmin kāle apohyā;'atha śamyā upodya'(baugṛ.1-4-37) iti bodhāyanavacanāt, ācārācca


7

12 अग्नेरुत्तरं परिषेचनम् पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः आप्ग्स्_2.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.8: पूर्ववदिति पैतृकेषु समन्तमेव तूष्णीम् अन्यत्र मन्त्रवन्ति चत्वारि परिषेचनानि

12 agneruttaraṃ pariṣecanam pūrvavatpariṣecanamanvamaṃsthāḥ prāsāvīriti mantrasannāmaḥ āpgs_2.8 commentaries: āpgs-anā_2.8: pūrvavaditi paitṛkeṣu samantameva tūṣṇīm anyatra mantravanti catvāri pariṣecanāni


9

सन्नमनंसन्नामः, ऊह इत्यर्थः ऽअनुमन्यस्वेऽत्यस्या ऽन्वमंस्थाऽइति सन्नामः ऽप्रसुवेऽत्यस्य ऽप्रासावीऽरिति प्राक् परिषेचनात् तूष्णीं परिधीनां प्रहरणम् पुरस्तादुपहोमानामेकविंशत्या समिधो ऽभ्याधानम् बर्हिरनुप्रहरणमाद्यहोमेषु नास्ति, लेपयोरित्यस्या समिधो ऽभ्याधानम् बर्हिरनुप्रहरणमाज्यहोमेषु नास्ति, लेपयोरित्यस्य पख्वहोमविषयत्वात् परिषेचनान्ते प्रणीताविमोकः ब्रह्मा च कर्मान्ते यथेतं प्रतिनिष्कामति मन्त्रसन्नाम इति मन्त्रग्रहणं मन्त्राणामयसूहविधिर्यथास्वात्, अन्यथाग्नेरपि सन्नामस्सम्भाव्येत सन्नामशब्दस्यान्यत्रापि दर्शनात्, यथा-सन्नमयत्यनुमार्ष्टि वेति

sannamanaṃsannāmaḥ, ūha ityarthaḥ 'anumanyasve'tyasyā 'nvamaṃsthā'iti sannāmaḥ 'prasuve'tyasya 'prāsāvī'riti prāk pariṣecanāt tūṣṇīṃ paridhīnāṃ praharaṇam purastādupahomānāmekaviṃśatyā samidho 'bhyādhānam barhiranupraharaṇamādyahomeṣu nāsti, lepayorityasyā samidho 'bhyādhānam barhiranupraharaṇamājyahomeṣu nāsti, lepayorityasya pakhvahomaviṣayatvāt pariṣecanānte praṇītāvimokaḥ brahmā ca karmānte yathetaṃ pratiniṣkāmati mantrasannāma iti mantragrahaṇaṃ mantrāṇāmayasūhavidhiryathāsvāt, anyathāgnerapi sannāmassambhāvyeta sannāmaśabdasyānyatrāpi darśanāt, yathā-sannamayatyanumārṣṭi veti


8

आप्ग्स्-तात्_2.8: अग्नि परिषेचनं पूर्ववत् अयं तु विशेषः, अदिते ऽनुमन्यस्वेत्यादिषु त्रिषु अनुमन्यस्वेत्यस्य स्थाने ऽअन्वमंस्थाःऽइति , देवसवितरित्यत्र ऽप्रसुवऽइत्यस्य स्थाने ऽप्रासावीःऽइति अत्र श्रौतवत् प्रणीता विमुञ्चति तूष्णीम्;कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्, प्रणीताद्भ्यो दिशो ऽभ्युपनीयऽ(बौगृ.1-4-38) इति बोधायनवचनात्, आचाराच्च ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् अत्रेयं स्थितिः- अग्निमिध्वेत्यादि मन्त्रसन्नाम इत्यन्तः प्राच्योदीच्याङिगसमुदायः सर्वगार्ह्यप्रधानहोमानां साधारणः, ऽयथोपदेशं प्रधानाहुतीर्हुत्वाऽइति प्राच्योदीच्यपदार्थापेक्षया होमानां विशेषणं प्राधान्याभिधानात् एवञ्चाहोमेषु नामकरणादिषु तन्त्रस्याप्रसह्ग एव नन्वेवं ऽअग्नेरुपसमाधानाद्याज्यभागान्तेऽइति किमर्थस्तत्र तत्र पुनरुपदेशः?उत्यते- यत्र पुनः ऽअपिवोत्तरया जुहुयातऽ(आपगृ.5-20) ऽकाममन्युभ्यां वा जुहुयातऽ(आपध.1-26-13) इत्यादिषु नोपदेशः नैवतत्रेदं तन्त्रमिति नियमार्थः कुत एतत् ? केवलाज्यहविष्वेव प्रयोदनान्तरमन्तरेणास्य तन्त्रस्योपदेशात् उपाकरणसमापनादीनां तु तत्र तन्त्रोपदेशाभावऽपि ऽकूश्माण्डैर्जुहुयाद्घृतमऽइत्यादेरिव तन्त्रार्थित्वावगमात् अनेन साधारणविधानेनैव तन्त्रम् तन्त्रार्तित्वावगमस्तु गृह्यान्तरेषु तन्त्रवतामेवोपदेशात् आपस्तम्बदर्शनानुगतोपदेशात्, अविगीतशिष्टाचाराच्च यद्येवमाज्यौषधहविष्के ऽपि विवाहे किमर्थस्तन्त्रोपदेशः? उच्यतेलाजहोमानां कृत्स्नविधानेन तन्त्रानपेक्षत्वात् उपनयनादिवदाज्यहोमार्त एव तन्त्रोपदोशः तता ऽतस्मिन्नुपविशत उत्तरो वरः ऽ(आपगृ-9) इत्यस्यानन्तरमेवग्नेरुपसमाधानादि, न तु ऽयथास्थानमुपविश्यऽ; (आपगृ.5-10) इत्यस्यानन्तरमिति क्रमार्थश्च तता केवलौषधहविषि स्थालीपाके ऽपि क्रमार्थ एव यद्यपि श्रौते दर्शनात् पात्रप्रोक्षणानन्तरमवघातादि युक्तम्, तथाप्येतद्वचनबलात् तन्त्रात् पुरस्तादेवेति ऐशाने ऽपि स्थालीपाके स्थण्डिलकल्पनान्ते त्त्रम्, नतु पार्वणवद्गृह एव प्रतिष्ठिताभिघारणानन्तरमिति क्रमार्थ एव केचित्-कल्पान्तरविहितेषु अपार्वणातिदेशेषु आज्यहोमेषु तन्त्रार्थिषु ऽकूश्माण्डैर्जुहुयाद्घृतमऽइत्यादिष्वस्य तन्त्रस्य प्राप्त्यर्त यथोपदेशमिति सामान्यविधानम् अत्रत्येषु तु विवाहादिषु येष्वेव पुनर्विधानं तत्रैव, नान्यत्र पण्यहोमादिष्विति नियमार्थ तत्र तत्र तन्त्रविधानम् पित्र्येषु तु ऽएकैकशः पितृसंयुक्तानिऽ(आपगृ.1-18) इत्यादिविशेषविधानात् तन्त्रसिद्धिरिति

āpgs-tāt_2.8: agni pariṣecanaṃ pūrvavat ayaṃ tu viśeṣaḥ, adite 'numanyasvetyādiṣu triṣu anumanyasvetyasya sthāne 'anvamaṃsthāḥ'iti , devasavitarityatra 'prasuva'ityasya sthāne 'prāsāvīḥ'iti atra śrautavat praṇītā vimuñcati tūṣṇīm;kṛtakāryāṇāmāsāṃ pratipattyapekṣatvāt, praṇītādbhyo diśo 'bhyupanīya'(baugṛ.1-4-38) iti bodhāyanavacanāt, ācārācca brāhmaṇaśca yathāśakti dānamānādinā satkṛto gacchet atreyaṃ sthitiḥ- agnimidhvetyādi mantrasannāma ityantaḥ prācyodīcyāṅigasamudāyaḥ sarvagārhyapradhānahomānāṃ sādhāraṇaḥ, 'yathopadeśaṃ pradhānāhutīrhutvā'iti prācyodīcyapadārthāpekṣayā homānāṃ viśeṣaṇaṃ prādhānyābhidhānāt evañcāhomeṣu nāmakaraṇādiṣu tantrasyāprasahga eva nanvevaṃ 'agnerupasamādhānādyājyabhāgānte'iti kimarthastatra tatra punarupadeśaḥ?utyate- yatra punaḥ 'apivottarayā juhuyāt'(āpagṛ.5-20) 'kāmamanyubhyāṃ vā juhuyāt'(āpadha.1-26-13) ityādiṣu nopadeśaḥ naivatatredaṃ tantramiti niyamārthaḥ kuta etat ? kevalājyahaviṣveva prayodanāntaramantareṇāsya tantrasyopadeśāt upākaraṇasamāpanādīnāṃ tu tatra tantropadeśābhāv'pi 'kūśmāṇḍairjuhuyādghṛtam'ityāderiva tantrārthitvāvagamāt anena sādhāraṇavidhānenaiva tantram tantrārtitvāvagamastu gṛhyāntareṣu tantravatāmevopadeśāt āpastambadarśanānugatopadeśāt, avigītaśiṣṭācārācca yadyevamājyauṣadhahaviṣke 'pi vivāhe kimarthastantropadeśaḥ? ucyatelājahomānāṃ kṛtsnavidhānena tantrānapekṣatvāt upanayanādivadājyahomārta eva tantropadośaḥ tatā 'tasminnupaviśata uttaro varaḥ '(āpagṛ-9) ityasyānantaramevagnerupasamādhānādi, na tu 'yathāsthānamupaviśya'; (āpagṛ.5-10) ityasyānantaramiti kramārthaśca tatā kevalauṣadhahaviṣi sthālīpāke 'pi kramārtha eva yadyapi śraute darśanāt pātraprokṣaṇānantaramavaghātādi yuktam, tathāpyetadvacanabalāt tantrāt purastādeveti aiśāne 'pi sthālīpāke sthaṇḍilakalpanānte ttram, natu pārvaṇavadgṛha eva pratiṣṭhitābhighāraṇānantaramiti kramārtha eva kecit-kalpāntaravihiteṣu apārvaṇātideśeṣu ājyahomeṣu tantrārthiṣu 'kūśmāṇḍairjuhuyādghṛtam'ityādiṣvasya tantrasya prāptyarta yathopadeśamiti sāmānyavidhānam atratyeṣu tu vivāhādiṣu yeṣveva punarvidhānaṃ tatraiva, nānyatra paṇyahomādiṣviti niyamārtha tatra tatra tantravidhānam pitryeṣu tu 'ekaikaśaḥ pitṛsaṃyuktāni'(āpagṛ.1-18) ityādiviśeṣavidhānāt tantrasiddhiriti


10

एवं सर्वगार्ह्यहोमानां साधारणं स्मार्त विधिमुक्त्वा, इदानीं पाकयज्ञेषु वैकल्पिकं श्रौतं विधिमाह 13 पाकयज्ञशब्दार्थः लौकिकानां पाकयज्ञशब्दः आप्ग्स्_2.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.9: लोके भवालौकिकाःलोकस्मृतिलक्षणा इत्यर्थः लोकशब्देन शिष्टा उच्यन्ते पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते पाकशब्दो ऽल्पवचनः, यथा-क्षिप्रं यजेत पाको देव (आपगृ.20-15) इति पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञान स्यात् तत्संज्ञाप्रयोजनं"यज्ञं वायख्यास्यामः"(आपप.1-1) इत्यत्र एतोषामन्तर्बावः "निऋतिं पाकयज्ञेन यजेते"त्यत्र च धर्मप्राप्तिः

evaṃ sarvagārhyahomānāṃ sādhāraṇaṃ smārta vidhimuktvā, idānīṃ pākayajñeṣu vaikalpikaṃ śrautaṃ vidhimāha 13 pākayajñaśabdārthaḥ laukikānāṃ pākayajñaśabdaḥ āpgs_2.9 commentaries: āpgs-anā_2.9: loke bhavālaukikāḥlokasmṛtilakṣaṇā ityarthaḥ lokaśabdena śiṣṭā ucyante pākayajña iti vivāhādīnāṃ saṃjñā vidhīyate pākaśabdo 'lpavacanaḥ, yathā-kṣipraṃ yajeta pāko deva (āpagṛ.20-15) iti pākaguṇako yajñaḥ pākayajña iti nirvacane ājyahomeṣu saṃjñāna syāt tatsaṃjñāprayojanaṃ"yajñaṃ vāyakhyāsyāmaḥ"(āpapa.1-1) ityatra etoṣāmantarbāvaḥ "niṛtiṃ pākayajñena yajete"tyatra ca dharmaprāptiḥ


10

आप्ग्स्-तात्_2.9: लोकयन्ति वेदैर्वेदार्थानिति लोकाः त्रैविद्यवृद्धाः शिष्टाः द्विजन्मानः तैर्लोकैराचर्यन्ते यानि कर्मणि तानिलौकिकानि,तेषां मध्ये सप्तानां औपासनहोमादीनांपाकयज्ञशब्दः संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् यदि लोकप्रयोगादेवैषां पाकयज्ञनामता प्रसिद्धैव, तर्हि ऽपाकयज्ञेषु ब्राह्मणावेक्षो विधिःऽइत्येतावतालम्, किमर्थ ऽलौकिकानां पाकयज्ञसभ्दः, इति ?उच्यते-पाकेन पक्वेन चरुणा साध्यो यज्ञः पाकयज्ञः इत्येवं व्युत्पन्नसंज्ञानुवादात् नान्तरीयकावगतश्चरुरेवाग्निहोत्रिकविधौ हविः, न पुनर्विध्यन्तरवदाज्यादिकमपीति नियमज्ञापनार्थम् बौधायनेन तु अत्राज्यं हविरुपदिष्टम् न त्वाग्निहोत्रिकं हविरिह भवति, अग्निहोत्रधर्मप्रापकप्रमाणाभावात् ऽद्विर्जुहोतिऽ; (आपगृ.2-11) इत्येवमादयः पुनः पञ्च पदार्थाः वचनबलाद्भवन्ति देवतास्तु तत्तन्मन्त्रप्रतिपाद्या एव

āpgs-tāt_2.9: lokayanti vedairvedārthāniti lokāḥ traividyavṛddhāḥ śiṣṭāḥ dvijanmānaḥ tairlokairācaryante yāni karmaṇi tānilaukikāni,teṣāṃ madhye saptānāṃ aupāsanahomādīnāṃpākayajñaśabdaḥ saṃjñātvena prasiddhaḥ, natu śrautānāṃ vivāhādīnāṃ ca, tatra lokānāmaprayogāt yadi lokaprayogādevaiṣāṃ pākayajñanāmatā prasiddhaiva, tarhi 'pākayajñeṣu brāhmaṇāvekṣo vidhiḥ'ityetāvatālam, kimartha 'laukikānāṃ pākayajñasabhdaḥ, iti ?ucyate-pākena pakvena caruṇā sādhyo yajñaḥ pākayajñaḥ ityevaṃ vyutpannasaṃjñānuvādāt nāntarīyakāvagataścarurevāgnihotrikavidhau haviḥ, na punarvidhyantaravadājyādikamapīti niyamajñāpanārtham baudhāyanena tu atrājyaṃ havirupadiṣṭam na tvāgnihotrikaṃ haviriha bhavati, agnihotradharmaprāpakapramāṇābhāvāt 'dvirjuhoti'; (āpagṛ.2-11) ityevamādayaḥ punaḥ pañca padārthāḥ vacanabalādbhavanti devatāstu tattanmantrapratipādyā eva

Section (cont. 4)

11

तत्र ब्राह्मणावेक्षो विधिः आप्ग्स्_2.10 द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीति आप्ग्स्_2.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.11: तत्र तेषु पाकयज्ञेष्वपरो विधिर्ब्रह्मणावेक्ष इत्याचक्षते ब्राह्मणमात्मनि प्रमाणत्वेनावेक्षत इतिब्राह्मणावेक्षः ब्राह्मणदृष्ट इत्यर्थः विधिः प्रयोगः, प्रगुक्त आघारवान् दर्शपूर्णमासप्रकृतिः अयं त्वग्निहोत्र प्रकृतिः ब्राह्मणावेक्षः उभयोर्विकल्पस्तत्रेत्युच्यते-येषु पाकयज्ञेषु आघारवतस्तन्त्रस्य प्रवृत्तिः तत्रावास्य विकल्पेन प्राप्तिरिति दर्शनार्थम् तेन पण्यहोमादिषु अस्य विधेरप्रवृत्तिः तत्र ऽद्विर्जुहोतीऽत्यनेन अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितो वेदितव्यः ऽद्विर्निमार्ष्टीऽ ति चाग्निहोत्रवल्लेपनिमार्जनम् ऽद्विः प्राश्नातीऽत्युङ्गुलिप्राशनम् ऽउत्सृप्याचामतीऽ तिच यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम् निर्लेढीतियत्तत्र ऽद्विःस्रुचं निर्लेह्य, इति च तच्चोदितम् यावता च विधानेन होमादिसंसिद्धिस्तावदमन्त्रवदग्निहोत्रादेव प्रत्येतव्यम् तद्यथा-स्रुवेणोन्नयनं, पालाशीसमिदाहुतिधारणार्था, चतुर्गृहीतं पञ्चगृहीतं इति तत्र प्रयोगः अग्निमिध्वा परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं स्रुक्स्रुवं संमृज्य यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति यत्रोभयं हविस्तत्र तस्योभयस्य, यथामासिश्राद्धे ततः पश्चादग्नेर्बर्हिष्युपसाद्य पालाशीं समिधमाधाय सर्वानेव मन्त्रान् समनुद्रुत्य सकृदेव प्रधानाहुतीर्हुत्वा प्रातरग्निहोत्रवल्लेपमपमृज्य बर्हिषि निमार्ष्टि यद्यहनि कर्म अथ रात्रौ सायमग्निहोत्रवत् ततस्सौविष्टकृतीं द्वितीयामाहुतिं उत्तराहुतिवज्जुहोति-अग्नये स्विष्टकृते स्वाहेति स्थालीपाकेषु ऽयदस्य कर्मणऽ; इत्याज्यहोमेषु इशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ततः पूर्ववल्लेपमवमृज्य प्राचीनावीती दक्षिणतो भूमौ न्मार्ष्टि ततः स्रुचं सादयित्वा अङ्गुलिप्राशनादिनिर्लेपनान्तमग्निहोत्रवत् ततो दर्भैः सुक्प्रक्षालनं, ततः परिसमूहनपर्युक्षणे एतदाग्निहोत्रिकं नाम तन्त्रं सर्वपाकयज्ञेषु आघारवता तन्त्रेण सह विकल्प्यते

tatra brāhmaṇāvekṣo vidhiḥ āpgs_2.10 dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsṛpyācāmati nirleḍhīti āpgs_2.11 commentaries: āpgs-anā_2.11: tatra teṣu pākayajñeṣvaparo vidhirbrahmaṇāvekṣa ityācakṣate brāhmaṇamātmani pramāṇatvenāvekṣata itibrāhmaṇāvekṣaḥ brāhmaṇadṛṣṭa ityarthaḥ vidhiḥ prayogaḥ, pragukta āghāravān darśapūrṇamāsaprakṛtiḥ ayaṃ tvagnihotra prakṛtiḥ brāhmaṇāvekṣaḥ ubhayorvikalpastatretyucyate-yeṣu pākayajñeṣu āghāravatastantrasya pravṛttiḥ tatrāvāsya vikalpena prāptiriti darśanārtham tena paṇyahomādiṣu asya vidherapravṛttiḥ tatra 'dvirjuhotī'tyanena agnihotrāhutyorubhayordhamaḥ pākayajñeṣu pradhānāhutiṃ sviṣṭakṛtaṃ cādhikṛtya vihito veditavyaḥ 'dvirnimārṣṭī' ti cāgnihotravallepanimārjanam 'dviḥ prāśnātī'tyuṅguliprāśanam 'utsṛpyācāmatī' tica yattatratṛtīyaṃ prāśanaṃ barhiṣopayamyodaṅṅāvṛtyotsṛpyācāmatīti taccoditam nirleḍhītiyattatra 'dviḥsrucaṃ nirlehya, iti ca taccoditam yāvatā ca vidhānena homādisaṃsiddhistāvadamantravadagnihotrādeva pratyetavyam tadyathā-sruveṇonnayanaṃ, pālāśīsamidāhutidhāraṇārthā, caturgṛhītaṃ pañcagṛhītaṃ iti tatra prayogaḥ agnimidhvā parisamūhya, paristīrya, paryukṣya,ājyahomeṣvājyaṃ saṃskṛtya, pakvahomeṣu sthālīpākaṃ sruksruvaṃ saṃmṛjya yāvatpradhānāhuti caturgṛhītāni pañcagṛhītāni vā samavadyati yatrobhayaṃ havistatra tasyobhayasya, yathāmāsiśrāddhe tataḥ paścādagnerbarhiṣyupasādya pālāśīṃ samidhamādhāya sarvāneva mantrān samanudrutya sakṛdeva pradhānāhutīrhutvā prātaragnihotravallepamapamṛjya barhiṣi nimārṣṭi yadyahani karma atha rātrau sāyamagnihotravat tatassauviṣṭakṛtīṃ dvitīyāmāhutiṃ uttarāhutivajjuhoti-agnaye sviṣṭakṛte svāheti sthālīpākeṣu 'yadasya karmaṇa'; ityājyahomeṣu iśānayajñe tu karma tatra coditena mantreṇa tataḥ pūrvavallepamavamṛjya prācīnāvītī dakṣiṇato bhūmau nmārṣṭi tataḥ srucaṃ sādayitvā aṅguliprāśanādinirlepanāntamagnihotravat tato darbhaiḥ sukprakṣālanaṃ, tataḥ parisamūhanaparyukṣaṇe etadāgnihotrikaṃ nāma tantraṃ sarvapākayajñeṣu āghāravatā tantreṇa saha vikalpyate


10

आप्ग्स्-तात्_2.11: तत्र तेषु पाकयज्ञेषु मध्ये पार्वणादिषु पञ्चसु ब्राह्मणावेक्षो विधिर्भवति यो विधिः प्रत्यक्षमेव ब्राह्मणमवेक्षते, नाग्निमिद्ध्वेत्यादिवल्लोकाचारानुमेयम्, सो ऽप्येषु विकल्पेन भवतीत्यर्थ- नानयोर्विध्योर्मिथ- संसर्गः नापि स्मार्तस्यानेन बाधः प्रत्यक्षब्राह्मणस्यापि स्मृत्यनुवादे कल्पसूत्राधिकारणन्यायेन स्मृतितुल्यप्रमाणत्वात् अत एव ऽसर्व पाप्मानं तरति, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजतेऽ(तैसं.5-3-12) इति श्रुत्या ऽयजेत वाश्वमेधेनऽ(मनु-74) इति मनुस्मृत्यनुवादेनच अश्वमेधद्वादशवार्षिकयोर्विकल्पः बौधायनीये च व्याक्तो ऽयमर्थः तत्रोदाहरन्ति आधारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः अग्निहोत्रं तथाऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् इति (बौगृ.1-4-44) तां न मिथः संसादयेदनादेशातऽ; (बौगृ.1-5-1) इति होममन्त्रादयस्तु विध्यन्तरीया अर्थादाचाराच्चेहापि भवन्ति यद्यस्यापि स्मृतितुल्यमेव प्रामाण्यं, किमर्थ ऽब्राह्मणावेक्षःऽइति ? उक्तोत्तरमेवैतत् आग्निहोत्रिकविधौभ्रेषे ऽयदि यजुष्टऽ(ऐब्रा.25-34) इति श्रौतं प्रायश्चित्तम् न तु स्मार्तनाशे ऽयद्यविज्ञाता सर्वव्यापद्वाऽ; (ऐब्रा.25-34.) इति

āpgs-tāt_2.11: tatra teṣu pākayajñeṣu madhye pārvaṇādiṣu pañcasu brāhmaṇāvekṣo vidhirbhavati yo vidhiḥ pratyakṣameva brāhmaṇamavekṣate, nāgnimiddhvetyādivallokācārānumeyam, so 'pyeṣu vikalpena bhavatītyartha- nānayorvidhyormitha- saṃsargaḥ nāpi smārtasyānena bādhaḥ pratyakṣabrāhmaṇasyāpi smṛtyanuvāde kalpasūtrādhikāraṇanyāyena smṛtitulyapramāṇatvāt ata eva 'sarva pāpmānaṃ tarati, tarati brahmahatyāṃ yo 'śvamedhena yajate'(taisaṃ.5-3-12) iti śrutyā 'yajeta vāśvamedhena'(manu-74) iti manusmṛtyanuvādenaca aśvamedhadvādaśavārṣikayorvikalpaḥ baudhāyanīye ca vyākto 'yamarthaḥ tatrodāharanti ādhāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ agnihotraṃ tathā'treyaḥ kāśakṛtsnastvapūrvatām iti (baugṛ.1-4-44) tāṃ na mithaḥ saṃsādayedanādeśāt'; (baugṛ.1-5-1) iti homamantrādayastu vidhyantarīyā arthādācārāccehāpi bhavanti yadyasyāpi smṛtitulyameva prāmāṇyaṃ, kimartha 'brāhmaṇāvekṣaḥ'iti ? uktottaramevaitat āgnihotrikavidhaubhreṣe 'yadi yajuṣṭa'(aibrā.25-34) iti śrautaṃ prāyaścittam na tu smārtanāśe 'yadyavijñātā sarvavyāpadvā'; (aibrā.25-34.) iti


11

सर्वे प्रधानहोमाः प्रधानहोमत्वसामान्यादेको होम इत्यभिप्रेत्य स्विष्टकृदपेक्षया श्रुतिः द्विर्जुहोतीत्याह, न पुनर्द्विरेव जुहोतीति ऽसप्तदश प्राजापत्यानऽ(तैब्रा.1-3-4) इतिवदिह सम्प्रतिपन्नदेवतैकत्वाभावात् केचित्-यावन्तः प्रधानहोमास्तावन्ति चतुर्गृहीतानि स्रुचि सहावदाय होममन्त्रान् सर्वाननुद्रुत्य सकृदेव जुह्वति द्विर्निमार्ष्टित्यादि व्यक्तार्थम् प्रयोगस्तु- न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात् चरुपाकस्त्वर्थाद्विद्यत एव तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वापर्णाग्निं दर्भेषु सादयित्वाऽदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्तमेण हुत्वा दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात्स्विष्टकृते हुत्वा प्राचीनावीती पुनर्लेपमादायदक्षिणतो भूम्यां निमृज्याय उपस्मृश्य यज्ञोपवीती दर्व्या लेप मङ्गुल्याऽदाय प्राश्य शुद्ध्यर्थमाचम्य पुनरप्येवं कृत्वा उदङ्ङावत्योत्सृप्य दर्व्या हविश्शेषं सर्व भक्षयित्वा तां निर्लेह्याचम्य तां दर्भैरद्भिः प्रक्षलयेदिति ननु-वैश्वदेवौपासनहोमयोः कस्मान्नायं विधिः ?उच्यते तत्र ऽउभयतः परिषेचनमऽ(आपगृ.7-22)इति एककार्ययोः द्वयोरपि विध्योः परिसङ्ख्यानात् अत एव बर्हिर्लेपप्रतिपत्त्योरभावाच्च केचित्-पाकयज्ञ इत्यत्र पाकशब्दस्याल्पवाचकत्वात् विवाहादयो ऽपि सोमाद्यपेक्षया पाकयज्ञ इति तेष्वप्ययं विधिरिति तन्न;तेषां मनुष्यसंस्कारार्थत्वेन अप्राधान्यात् प्रधानवाचियज्ञशब्दवाच्यत्वानुपपत्तेः

sarve pradhānahomāḥ pradhānahomatvasāmānyādeko homa ityabhipretya sviṣṭakṛdapekṣayā śrutiḥ dvirjuhotītyāha, na punardvireva juhotīti 'saptadaśa prājāpatyān'(taibrā.1-3-4) itivadiha sampratipannadevataikatvābhāvāt kecit-yāvantaḥ pradhānahomāstāvanti caturgṛhītāni sruci sahāvadāya homamantrān sarvānanudrutya sakṛdeva juhvati dvirnimārṣṭityādi vyaktārtham prayogastu- na paristaraṇadarvīsaṃskāropastaraṇādīni, atrānupadeśāt carupākastvarthādvidyata eva tena caruṇā pradhānāhutisviṣṭakṛtprāśanabhakṣaṇebhyaḥ paryāptena darvīṃ pūrayitvāparṇāgniṃ darbheṣu sādayitvā'dāya tattanmantraiḥ sarvāḥ pradhānāhutīḥ ktameṇa hutvā darvyāstato lepamādāya darbhairnimṛjya śeṣātsviṣṭakṛte hutvā prācīnāvītī punarlepamādāyadakṣiṇato bhūmyāṃ nimṛjyāya upasmṛśya yajñopavītī darvyā lepa maṅgulyā'dāya prāśya śuddhyarthamācamya punarapyevaṃ kṛtvā udaṅṅāvatyotsṛpya darvyā haviśśeṣaṃ sarva bhakṣayitvā tāṃ nirlehyācamya tāṃ darbhairadbhiḥ prakṣalayediti nanu-vaiśvadevaupāsanahomayoḥ kasmānnāyaṃ vidhiḥ ?ucyate tatra 'ubhayataḥ pariṣecanam'(āpagṛ.7-22)iti ekakāryayoḥ dvayorapi vidhyoḥ parisaṅkhyānāt ata eva barhirlepapratipattyorabhāvācca kecit-pākayajña ityatra pākaśabdasyālpavācakatvāt vivāhādayo 'pi somādyapekṣayā pākayajña iti teṣvapyayaṃ vidhiriti tanna;teṣāṃ manuṣyasaṃskārārthatvena aprādhānyāt pradhānavāciyajñaśabdavācyatvānupapatteḥ


12

एकाग्निविधिकाण्डे विवाहमन्त्राणां पूर्वमाम्नानात् विवाहमेव पूर्व व्याख्यास्यन् तस्योदगयनादिनियमापवादेन कालमाह 3. वैवाहिकविषयाः - 1.विवाहकालः सर्व ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम् आप्ग्स्_2.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.12: अथ विवाहविधिः प्रागुपनयनात् शिशिरं परिहाप्योति वक्तव्ये शैशिरौ मासावित्युच्यते ऽउत्तमञ्च नैदाघऽमित्यत्र मासप्रतिपत्त्यर्थम् अन्यथा दिवसो ऽपि प्रतीयेत सर्र्वतुविधानं उदगयनापवादः पूर्वपक्षादयस्तु परिभाषाप्राप्ताः विवाहे ऽवस्थिता एव यथोपनयने वसन्तादिविधान इति केचित् अन्ये तु पूर्वपक्षादेरप्यपवादं मन्यन्ते तेषामपरपक्षे रात्रौ च न निषिध्यते विवाहः

ekāgnividhikāṇḍe vivāhamantrāṇāṃ pūrvamāmnānāt vivāhameva pūrva vyākhyāsyan tasyodagayanādiniyamāpavādena kālamāha 3. vaivāhikaviṣayāḥ - 1.vivāhakālaḥ sarva ṛtavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgham āpgs_2.12 commentaries: āpgs-anā_2.12: atha vivāhavidhiḥ prāgupanayanāt śiśiraṃ parihāpyoti vaktavye śaiśirau māsāvityucyate 'uttamañca naidāgha'mityatra māsapratipattyartham anyathā divaso 'pi pratīyeta sarrvatuvidhānaṃ udagayanāpavādaḥ pūrvapakṣādayastu paribhāṣāprāptāḥ vivāhe 'vasthitā eva yathopanayane vasantādividhāna iti kecit anye tu pūrvapakṣāderapyapavādaṃ manyante teṣāmaparapakṣe rātrau ca na niṣidhyate vivāhaḥ


12

आप्ग्स्-तात्_2.12: सर्वे षडृतवः प्रतेयोकं मासद्वयरूपाः विवाहस्य कालाः दादशापि मासाः सापरपक्षादिकाः कार्त्स्न्ये काला इत्यर्थः ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः, नर्तव इति कुतो ऽवगम्यते ?उच्यते- शैशिरौ मासाविति मासपर्युदासात् अन्यथा विधिपर्युदासयोरेकविषयत्वात् लघुत्वाच्च शिशिरं परिहाप्येति ब्रूयात् प्रयोजनं तु विवाहस्य पूर्वपक्षादिनियमाभावः यत्र पुनरुपनयनादावेवंविधहेत्वभावादृतोतेव विधित्सा, तत्र द्ववदानद्वारा पुरोडाशस्य यागसाधनत्ववत् सामान्यविध्यवरुद्धपूर्वपक्षादिद्वारेणापि ऋतोः कर्मसाधनत्वासिद्धेः पूर्वपक्षादिर्नियत एव शिशिरस्यर्तो- यौ द्वौ मासौ माघफाल्गुनौ, निदाघस्य ग्रीष्मस्य यश्चोत्तमोन्त्य आषाढः, तानेतांस्त्रीन् मासान्परिहाप्य वर्जयित्वा अत्रोत्तममिति तमप्प्रत्ययात् यस्सौरतो ऽन्त्यो नैदाघः, यश्चाधिकमासतो द्वितीय आषाढः तावपि पर्युदस्तौ

āpgs-tāt_2.12: sarve ṣaḍṛtavaḥ prateyokaṃ māsadvayarūpāḥ vivāhasya kālāḥ dādaśāpi māsāḥ sāparapakṣādikāḥ kārtsnye kālā ityarthaḥ ṛtava ityanena lakṣaṇayā māsā eva vidhitsitāḥ, nartava iti kuto 'vagamyate ?ucyate- śaiśirau māsāviti māsaparyudāsāt anyathā vidhiparyudāsayorekaviṣayatvāt laghutvācca śiśiraṃ parihāpyeti brūyāt prayojanaṃ tu vivāhasya pūrvapakṣādiniyamābhāvaḥ yatra punarupanayanādāvevaṃvidhahetvabhāvādṛtoteva vidhitsā, tatra dvavadānadvārā puroḍāśasya yāgasādhanatvavat sāmānyavidhyavaruddhapūrvapakṣādidvāreṇāpi ṛtoḥ karmasādhanatvāsiddheḥ pūrvapakṣādirniyata eva śiśirasyarto- yau dvau māsau māghaphālgunau, nidāghasya grīṣmasya yaścottamontya āṣāḍhaḥ, tānetāṃstrīn māsānparihāpya varjayitvā atrottamamiti tamappratyayāt yassaurato 'ntyo naidāghaḥ, yaścādhikamāsato dvitīya āṣāḍhaḥ tāvapi paryudastau


13

सर्वाणि पुण्योक्तानि नक्षत्राणि आप्ग्स्_2.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.13: सर्र्वतुविधानस्य सर्वापवादत्वात् पुण्याहविधानार्थमिदम् तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः एवमप्युक्तग्रहणमनर्थकं तत् क्रियते मुहूर्तपरिग्रहार्थम् -यानि पुण्यानि नक्षत्राणि यानि पुण्योक्तानि मुहूर्तानि तानि सर्वाणि विवाहस्य यथा स्युरिति तत्र नक्षत्राणि ज्योतिश्शास्त्रादवगन्तव्यानि प्रातस्सङ्गवो मध्यन्दिनो ऽपराह्णस्सायामित्येते मुहूर्ताः

sarvāṇi puṇyoktāni nakṣatrāṇi āpgs_2.13 commentaries: āpgs-anā_2.13: sarrvatuvidhānasya sarvāpavādatvāt puṇyāhavidhānārthamidam tathā ca rātryaparapakṣayoḥ vivāhapiratiṣedhaḥ evamapyuktagrahaṇamanarthakaṃ tat kriyate muhūrtaparigrahārtham -yāni puṇyāni nakṣatrāṇi yāni puṇyoktāni muhūrtāni tāni sarvāṇi vivāhasya yathā syuriti tatra nakṣatrāṇi jyotiśśāstrādavagantavyāni prātassaṅgavo madhyandino 'parāhṇassāyāmityete muhūrtāḥ


13

आप्ग्स्-तात्_2.13: यानि ज्यौतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यति तत्र पुण्योक्तानि सर्वाण्यत्रोपसंहर्तव्यानि

āpgs-tāt_2.13: yāni jyautiṣe puṇyoktāni śubhaphalapradatvenoktāni nakṣatrāṇi nakṣatragrahaṇasya pradarśanārthatvāttithyādīnyati tatra puṇyoktāni sarvāṇyatropasaṃhartavyāni


14

  1. विवाहे मङ्गलानुष्ठानम् तथा मङ्गलानि आप्ग्स्_2.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.14: "ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि मङ्गलानि स्नातो ऽहतवासा गन्धानुलिप्त-, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि तान्येतानि सर्वाणि प्रत्येतव्यानि

2. vivāhe maṅgalānuṣṭhānam tathā maṅgalāni āpgs_2.14 commentaries: āpgs-anā_2.14: "brāhmaṇān bhojayitvāśiṣovācayitve"tyevamādīni svaśāstraprasiddhāni maṅgalāni snāto 'hatavāsā gandhānulipta-, sragvī bhuktavānityevamādīni nāpitakarmāṅkurārpaṇādīni lokaprasiddhāni tānyetāni sarvāṇi pratyetavyāni


14

आप्ग्स्-तात्_2.14: शङ्खदुन्दुभिवीणाववादित्रसम्प्रवादनानि कुलस्त्रीगीतानि केशश्मश्त्वादिप्रकल्पनाहतधौताच्छिद्रविचित्रवासोधारणगन्धानुलेपनसुगन्धस्रग्धारणापदातिगमनच्छत्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाहे उपसंहर्तव्यानि

āpgs-tāt_2.14: śaṅkhadundubhivīṇāvavāditrasampravādanāni kulastrīgītāni keśaśmaśtvādiprakalpanāhatadhautācchidravicitravāsodhāraṇagandhānulepanasugandhasragdhāraṇāpadātigamanacchatradhvajādīni śiṣṭācāraprasiddhāni maṅgalāni vivāhe upasaṃhartavyāni


15

  1. आचारादपि वैवाहिकक्रियाग्रहणम् आवृतश्चास्त्रीभ्यः प्रतीयेरन् आप्ग्स्_2.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.15: मन्त्ररहिताः क्रियाःआवृतैत्युच्यन्ते यस्मिन् जनपदे ग्रामे कुले वा या आवृतः प्रसिद्धाः तास्तयैव व्यवस्थिताः यथा प्रतीयेरन् न सर्वत्रैवमर्तम्

3. ācārādapi vaivāhikakriyāgrahaṇam āvṛtaścāstrībhyaḥ pratīyeran āpgs_2.15 commentaries: āpgs-anā_2.15: mantrarahitāḥ kriyāḥāvṛtaityucyante yasmin janapade grāme kule vā yā āvṛtaḥ prasiddhāḥ tāstayaiva vyavasthitāḥ yathā pratīyeran na sarvatraivamartam


15

आप्ग्स्-तात्_2.15: आवृतःक्रियाः वैवाहुक्य- अविशेषात् समन्त्रका अमन्त्रकाश्च तास्सर्वा आस्त्रीभ्य- सर्ववर्णेभ्यस्सकाशादवगम्य प्रतीयेरन् कुर्वीरन् विवोढारः तत्र समन्त्रका- ग्रहपूजाङिकुरारोपणप्रतिसरबन्धाद्या आचारसिद्धाः अमन्त्रकाः नाकबलियक्षबलीन्द्राणीपूजादयः ताश्च यथाजनपदं यथावर्ण यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव न तु सर्वास्सर्वत्र समुच्चिताः

āpgs-tāt_2.15: āvṛtaḥkriyāḥ vaivāhukya- aviśeṣāt samantrakā amantrakāśca tāssarvā āstrībhya- sarvavarṇebhyassakāśādavagamya pratīyeran kurvīran vivoḍhāraḥ tatra samantrakā- grahapūjāṅikurāropaṇapratisarabandhādyā ācārasiddhāḥ amantrakāḥ nākabaliyakṣabalīndrāṇīpūjādayaḥ tāśca yathājanapadaṃ yathāvarṇa yathākulaṃ yathāstrīpuṃsaṃ vyavasthitā eva na tu sarvāssarvatra samuccitāḥ


16

इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः आप्ग्स्_2.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_2.16: नक्षत्रप्रशंसार्था गाथा विवाहप्रकरणे वरप्रसङ्गार्थमुदाहृता यदि वराः कन्याया वरयितारः कन्या वरणार्त इन्वकाभिप्रसृज्यन्ते

invakābhiḥ prasṛjyante te varāḥ pratinanditāḥ āpgs_2.16 commentaries: āpgs-anā_2.16: nakṣatrapraśaṃsārthā gāthā vivāhaprakaraṇe varaprasaṅgārthamudāhṛtā yadi varāḥ kanyāyā varayitāraḥ kanyā varaṇārta invakābhiprasṛjyante


17

आप्ग्स्-तात्_2.16: ते वरास्तैर्दुहितृमद्भिः प्रतिनन्दिताःसिद्धार्था भवन्ति तस्माद्वरप्रसङ्गे प्रशस्तमिन्वका नाम नक्षत्रम् ऽइन्वकाशब्दो मृगशिरसीऽति स्वयमेव व्याख्यास्यति तस्मात् ज्ञायते-स्मृत्यन्तरप्रसिद्धा लौकिक्येवयं गाथा, न सूत्रकारस्य कृतिरिति

āpgs-tāt_2.16: te varāstairduhitṛmadbhiḥ pratinanditāḥsiddhārthā bhavanti tasmādvaraprasaṅge praśastaminvakā nāma nakṣatram 'invakāśabdo mṛgaśirasī'ti svayameva vyākhyāsyati tasmāt jñāyate-smṛtyantaraprasiddhā laukikyevayaṃ gāthā, na sūtrakārasya kṛtiriti


16

आप्ग्स्-तात्_2.16: इन्काभिः मृगशिरसिऽनक्षत्रे च लुपिऽ(पा.2-3-45) इति सप्तम्यर्थे तृताया ये वराःवरयितारो मृगशिरसि प्रसृज्यन्ते कन्यावरणार्थ प्रेष्यन्ते, ते दुहितृमद्भिःप्रतिनन्दिताःप्रकर्षेण पूजिताः, सिद्धार्था भवन्तीत्यर्थः

āpgs-tāt_2.16: inkābhiḥ mṛgaśirasi'nakṣatre ca lupi'(pā.2-3-45) iti saptamyarthe tṛtāyā ye varāḥvarayitāro mṛgaśirasi prasṛjyante kanyāvaraṇārtha preṣyante, te duhitṛmadbhiḥpratinanditāḥprakarṣeṇa pūjitāḥ, siddhārthā bhavantītyarthaḥ


1

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने द्वितीयः खण्डः तृतीयः खण्डः 4. मघासु गवां क्रयादिना ग्रहणम् मधाभिर्गावो गृह्यन्ते आप्ग्स्_3.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.1: यदि मघाभिः गावः क्रयादिना गृह्यन्ते ताश्च गावः प्रतिनन्तिता भवन्ति तस्मात् गोपरिग्रहे मघाः प्रशस्ताः

iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane dvitīyaḥ khaṇḍaḥ tṛtīyaḥ khaṇḍaḥ 4. maghāsu gavāṃ krayādinā grahaṇam madhābhirgāvo gṛhyante āpgs_3.1 commentaries: āpgs-anā_3.1: yadi maghābhiḥ gāvaḥ krayādinā gṛhyante tāśca gāvaḥ pratinantitā bhavanti tasmāt goparigrahe maghāḥ praśastāḥ


1

आप्ग्स्-तात्_3.1: ऽआर्षे दुहितृमते मिथनौ गावौ देयौऽ(आपघ.2-11-18) इति वचनादार्षे विवाहे वरैर्दीयमाना गावो दुहितृमद्भिर्मघासु गृह्यन्ते एतदुक्तं भवति-आर्ष विवाहं मघास्वेव कुर्यात् , न ब्राह्मादिवत् नक्षत्रान्तरे ऽपीति

āpgs-tāt_3.1: 'ārṣe duhitṛmate mithanau gāvau deyau'(āpagha.2-11-18) iti vacanādārṣe vivāhe varairdīyamānā gāvo duhitṛmadbhirmaghāsu gṛhyante etaduktaṃ bhavati-ārṣa vivāhaṃ maghāsveva kuryāt , na brāhmādivat nakṣatrāntare 'pīti


2

  1. फल्गुनीभ्यां युद्वार्थ सेनाव्यूहनम् फल्गुनीभ्यां व्यूह्यते आप्ग्स्_3.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.2: यदि फल्गुनीभ्यां व्यूह्यते सेना युद्धाकाले साच प्रतिनन्दिता भवति तस्मात् सेनाव्यूहे प्रशस्ते फल्गुन्यौ अविशेषात् पूर्वे उत्तरे च सर्वत्र"नक्षत्रे च लुपी"(पासू.2-3-45) त्यधिकरणे तृतीया

5. phalgunībhyāṃ yudvārtha senāvyūhanam phalgunībhyāṃ vyūhyate āpgs_3.2 commentaries: āpgs-anā_3.2: yadi phalgunībhyāṃ vyūhyate senā yuddhākāle sāca pratinanditā bhavati tasmāt senāvyūhe praśaste phalgunyau aviśeṣāt pūrve uttare ca sarvatra"nakṣatre ca lupī"(pāsū.2-3-45) tyadhikaraṇe tṛtīyā


2

आप्ग्स्-तात्_3.2: अत्र च वधूः फल्गुन्योरेवव्यीह्यतेनीयते स्वगृह्यात्, न तु ऽतां ततः ऽ(आपगृ.5-13) इति वचनात् ब्राह्मादिवत्तदानीमेव केचित्-ऽइन्वकाभिऽरित्यादि ऽफल्गुनीभ्यां व्यूह्यतेऽइत्यन्तमुत्तरत्रेन्वकाशब्दस्य व्याख्यानात् शाखान्तरीया गाथेति कल्पयन्तः, मघासु गवां क्रयादिना स्वीकारः, सेनायाश्च युद्धे व्यूहः, अविशेषात् पूर्वयोरुत्तरयोर्वा फल्गुन्योरिति प्रकृतानुपयोगितया व्याचक्षते

āpgs-tāt_3.2: atra ca vadhūḥ phalgunyorevavyīhyatenīyate svagṛhyāt, na tu 'tāṃ tataḥ '(āpagṛ.5-13) iti vacanāt brāhmādivattadānīmeva kecit-'invakābhi'rityādi 'phalgunībhyāṃ vyūhyate'ityantamuttaratrenvakāśabdasya vyākhyānāt śākhāntarīyā gātheti kalpayantaḥ, maghāsu gavāṃ krayādinā svīkāraḥ, senāyāśca yuddhe vyūhaḥ, aviśeṣāt pūrvayoruttarayorvā phalgunyoriti prakṛtānupayogitayā vyācakṣate


3

6 यां दुहितरं भर्तुः प्रिया स्यादिति कामयते तां स्वातीनक्षत्रे दद्यात् यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छती ति ब्राह्मणावेक्षो विधिः आप्ग्स्_3.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.3: यां दुहितरं पिता प्रियांकामयेतभर्तुरियंप्रियास्यादिति तां निष्ठायांनक्षत्रे दद्यात् एवं दत्ता सा भवत्येव तस्यप्रिया अयं चापरो ऽस्य नक्षत्रस्य गुणः सा प्तृगृहात् पुनरर्थिनी नागच्छति पतुगृह एव तस्यास्सर्वे कामास्सम्पद्यन्ते अन्ये तु निन्दामिमां मन्यन्ते ब्रह्मणावेक्षो विधिरिति वचनात् अन्ये ऽपि स्मृत्यपेक्षा नक्षत्यपेक्षा नक्षत्रविधयो भवन्ति अन्यथा पुंसवने तिष्यवत् विवाहे इदमेव नक्षत्रं स्यात्

6 yāṃ duhitaraṃ bhartuḥ priyā syāditi kāmayate tāṃ svātīnakṣatre dadyāt yāṃ kāmayeta duhitaraṃ priyā syāditi tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punarāgacchatī ti brāhmaṇāvekṣo vidhiḥ āpgs_3.3 commentaries: āpgs-anā_3.3: yāṃ duhitaraṃ pitā priyāṃkāmayetabharturiyaṃpriyāsyāditi tāṃ niṣṭhāyāṃnakṣatre dadyāt evaṃ dattā sā bhavatyeva tasyapriyā ayaṃ cāparo 'sya nakṣatrasya guṇaḥ sā ptṛgṛhāt punararthinī nāgacchati patugṛha eva tasyāssarve kāmāssampadyante anye tu nindāmimāṃ manyante brahmaṇāvekṣo vidhiriti vacanāt anye 'pi smṛtyapekṣā nakṣatyapekṣā nakṣatravidhayo bhavanti anyathā puṃsavane tiṣyavat vivāhe idameva nakṣatraṃ syāt


3

आप्ग्स्-तात्_3.3: इयं भर्तुःप्रिय स्यादिति यां दुहितरं पिता कामयेत तांनिष्ट्यायां स्वातौ वराय दद्यात् सा तस्यप्रियैव भवति नेव तु नैव च रोगदारिद्यादिना पीड्यमाना अर्थिनी पुनः पितृगृहमागच्छति;स्वगृह एव तस्यास्सर्वे अर्थोस्सम्पद्यन्त इति ब्राह्मणावेक्षो विधिः अत्रापि पूर्ववत् स्मार्तपुण्योक्तनक्षत्रैर्विकल्पः

āpgs-tāt_3.3: iyaṃ bhartuḥpriya syāditi yāṃ duhitaraṃ pitā kāmayeta tāṃniṣṭyāyāṃ svātau varāya dadyāt sā tasyapriyaiva bhavati neva tu naiva ca rogadāridyādinā pīḍyamānā arthinī punaḥ pitṛgṛhamāgacchati;svagṛha eva tasyāssarve arthossampadyanta iti brāhmaṇāvekṣo vidhiḥ atrāpi pūrvavat smārtapuṇyoktanakṣatrairvikalpaḥ


4

इन्वकाशब्दो मृगशिरसि आप्ग्स्_3.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.4: छन्दसि प्रयुक्तत्वादेतयोरर्थकथनम्

invakāśabdo mṛgaśirasi āpgs_3.4 commentaries: āpgs-anā_3.4: chandasi prayuktatvādetayorarthakathanam


4

आप्ग्स्-तात्_3.4: एते सूत्रे व्यक्तार्ते

āpgs-tāt_3.4: ete sūtre vyaktārte


5

-5) निष्ठ्याशब्दस्स्वातौ आप्ग्स्_3.5 7 विवाहे गवालम्भनम् विवाहे गौः आप्ग्स्_3.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.6: विवाहस्थाने गौरालब्धव्या दुहितृमता

-5) niṣṭhyāśabdassvātau āpgs_3.5 7 vivāhe gavālambhanam vivāhe gauḥ āpgs_3.6 commentaries: āpgs-anā_3.6: vivāhasthāne gaurālabdhavyā duhitṛmatā


6

आप्ग्स्-तात्_3.6: विवाहस्थाने गौस्सन्निधाप्या

āpgs-tāt_3.6: vivāhasthāne gaussannidhāpyā


6

गृहेषु गौः आप्ग्स्_3.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.7: गृहेषु च गौरालब्धव्या तेनैव दुहितृमता तयौर्विनियोगः

gṛheṣu gauḥ āpgs_3.7 commentaries: āpgs-anā_3.7: gṛheṣu ca gaurālabdhavyā tenaiva duhitṛmatā tayaurviniyogaḥ


7

आप्ग्स्-तात्_3.7: तथा गृहेषु शालायां अन्या गौस्सन्निधाप्या

āpgs-tāt_3.7: tathā gṛheṣu śālāyāṃ anyā gaussannidhāpyā


7

किमर्थमित्यत आह 8 गवा अर्हणीयः तया वरमतिथिवदर्हयेत् आप्ग्स्_3.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.8: या विवाहे गौः तया वरमतिथिवत् पूजयेत् अतिथिवदिति वचनात् मधुपर्केण च "गोमधुपर्करहो वेदाध्याय"(आपध.2-8-5) इति वचनात्

kimarthamityata āha 8 gavā arhaṇīyaḥ tayā varamatithivadarhayet āpgs_3.8 commentaries: āpgs-anā_3.8: yā vivāhe gauḥ tayā varamatithivat pūjayet atithivaditi vacanāt madhuparkeṇa ca "gomadhuparkaraho vedādhyāya"(āpadha.2-8-5) iti vacanāt


8

आप्ग्स्-तात्_3.8: तया विवाहस्थाने सन्निधापितया गवा, न त्वनन्तरोक्तया,वरमतिथिवत् अतिथिं यथा तथाअर्हयेत् पूजयेत् तया हविरुत्पत्तिद्वारेणोत्सर्गद्वारेण वा ङ्गभूतया युक्तेन मधुपर्केण वरमवोदाध्यायिनमपि पूजयेदित्यर्थः

āpgs-tāt_3.8: tayā vivāhasthāne sannidhāpitayā gavā, na tvanantaroktayā,varamatithivat atithiṃ yathā tathāarhayet pūjayet tayā havirutpattidvāreṇotsargadvāreṇa vā ṅgabhūtayā yuktena madhuparkeṇa varamavodādhyāyinamapi pūjayedityarthaḥ


8

यो ऽस्यापचितस्तमितरया आप्ग्स्_3.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.9: यो ऽस्य वरस्यापचितः पूज्यः तेन सहागत आचार्यस्तमितरयागृहेषु या गौरालभ्यते तया किमिवेत्यपोक्षायांअतिथिवदर्हये दित्येव विवाहे वराय तत्सहेयोभ्यश्चान्यस्मिन्नग्नौ पृतगन्नसंस्कारो भवति वपाहोमश्चतत्रैव अपचितय तत्सहोयेभ्यश्च गृहेषु पृथगन्नसंस्कारः गोश्च वपाश्रपणं होमश्चौपासन एवोत्यनुष्ठानप्रकार-

yo 'syāpacitastamitarayā āpgs_3.9 commentaries: āpgs-anā_3.9: yo 'sya varasyāpacitaḥ pūjyaḥ tena sahāgata ācāryastamitarayāgṛheṣu yā gaurālabhyate tayā kimivetyapokṣāyāṃatithivadarhaye dityeva vivāhe varāya tatsaheyobhyaścānyasminnagnau pṛtagannasaṃskāro bhavati vapāhomaścatatraiva apacitaya tatsahoyebhyaśca gṛheṣu pṛthagannasaṃskāraḥ gośca vapāśrapaṇaṃ homaścaupāsana evotyanuṣṭhānaprakāra-


9

आप्ग्स्-तात्_3.9: यो ऽस्य वरस्य पित्राचार्यत्वादिना सम्बन्धी, लोकेचापचितो विद्या भिजनादिसम्पत्त्या यद्वा, वरस्यापचितः पूज्यः तमितरया गृहेषु सन्निधापितया अतिथिवदर्हयेदिति सम्बन्धः एतन्मधुपर्कद्वयमपि विवाहाङ्गं, प्रकरणात् दातृपुरुषार्थत्वे तु ऽआचार्यायर्त्विजे श्वशुराय राज्ञो वरायापचिताय चऽइति ब्रूयात् प्रत्युत ऽअतिथिः पितरो विवाहश्चऽ(आपगृ.3-10) इति विवाहसम्बन्धमेवाह ननु-वरं चापचितं चातिथिवदर्हयेदिति वक्तव्ये ऽविवाहे गौःऽइत्यादि किमर्थम्?उच्यते-उभयोः पूज्योर्भिन्नदेशत्वेन भिन्नतन्त्रत्वज्ञापनार्थम्; इतरथा सम्भवतां तन्त्रता स्यात् ऽसर्वेभ्यो वैकामविभवत्वातऽइति कल्पान्तरे सर्वेभ्यः ऋत्विग्भ्यो विकल्पेन गवैकत्वदर्शनादिहापि वरापचितयोर्विकल्पेन प्रसक्तं गवैकत्वं माभूदिति प्रतिषेधार्थ च

āpgs-tāt_3.9: yo 'sya varasya pitrācāryatvādinā sambandhī, lokecāpacito vidyā bhijanādisampattyā yadvā, varasyāpacitaḥ pūjyaḥ tamitarayā gṛheṣu sannidhāpitayā atithivadarhayediti sambandhaḥ etanmadhuparkadvayamapi vivāhāṅgaṃ, prakaraṇāt dātṛpuruṣārthatve tu 'ācāryāyartvije śvaśurāya rājño varāyāpacitāya ca'iti brūyāt pratyuta 'atithiḥ pitaro vivāhaśca'(āpagṛ.3-10) iti vivāhasambandhamevāha nanu-varaṃ cāpacitaṃ cātithivadarhayediti vaktavye 'vivāhe gauḥ'ityādi kimartham?ucyate-ubhayoḥ pūjyorbhinnadeśatvena bhinnatantratvajñāpanārtham; itarathā sambhavatāṃ tantratā syāt 'sarvebhyo vaikāmavibhavatvāt'iti kalpāntare sarvebhyaḥ ṛtvigbhyo vikalpena gavaikatvadarśanādihāpi varāpacitayorvikalpena prasaktaṃ gavaikatvaṃ mābhūditi pratiṣedhārtha ca


9

9 गोरालम्भस्थानानि एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च आप्ग्स्_3.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.10: एतोष्वेव त्रिषु स्नेषु गोरालम्भः नान्यत्र पाकयज्ञेषु अतिथिशब्देनातिथ्यकर्म व्यपदिश्यते"यत्रास्मा अपचितिं कुर्वन्ती" (आपगृ.13-2) त्येवमादि पितृशब्देनाष्टका कर्म"श्वोभूते दर्भेण गा"(आपगृ.22-3) मित्यादि विवाहशब्देनानन्तरोक्तस्य ग्रहणम् कल्पान्तरोष्वीशानयज्ञादावपि गोरालम्भ आम्नातः, तत्प्रतिषेधार्थो नियमः एवं ब्रुवता कल्पान्तरे दृष्टा अन्ये विशेषा अभ्यनुज्ञाता भवन्ति

9 gorālambhasthānāni etāvadgorālambhasthānamatithiḥ pitaro vivāhaśca āpgs_3.10 commentaries: āpgs-anā_3.10: etoṣveva triṣu sneṣu gorālambhaḥ nānyatra pākayajñeṣu atithiśabdenātithyakarma vyapadiśyate"yatrāsmā apacitiṃ kurvantī" (āpagṛ.13-2) tyevamādi pitṛśabdenāṣṭakā karma"śvobhūte darbheṇa gā"(āpagṛ.22-3) mityādi vivāhaśabdenānantaroktasya grahaṇam kalpāntaroṣvīśānayajñādāvapi gorālambha āmnātaḥ, tatpratiṣedhārtho niyamaḥ evaṃ bruvatā kalpāntare dṛṣṭā anye viśeṣā abhyanujñātā bhavanti


10

आप्ग्स्-तात्_3.10: अतिथिःवेदाध्याय्यागतःपितरःअष्टकाकर्म,विवाहश्चेति, यदेतत्त्त्रयं एतावत् गवालम्बाङ्गकमनिमित्तम् एतदुक्तं भवति- यथातिथिः पितरश्च गवालम्भाङ्गकर्मनिमित्तभूताः एवं विवाहो ऽप्यस्मादेव वचनाद्विशेषणान्तरनिरपेक्षा इति यद्येतत्सूत्रमेवं न व्याख्यायेत तता ऽगौरिति गां प्राहऽ(आपगृ.13-15) ऽश्वोभूते दर्बेण गामुपाकरोतिऽ(आपगृ.22-3) ऽविवाहे गौःऽ(आपगृ.3-6) इत्येतैरेव सिद्धत्वात् व्यर्थमेव स्यात्;तेन अवेदाध्यायिभ्यामपि वरापचिताभ्यां धर्मोक्तगोरहितो मधुपर्को देयः वेदाध्याय्भ्यां तु तत्सहित इति केचित्-एतत्त्त्रयमेवास्माकं गोरालम्बस्थानम्, न पुनरन्येषामिव विकल्पेनापीज्ञानबसिश्शूलगवापरनामा एवं वदन्नस्माकमपि कल्पान्तरोक्तानपि विशेषान् विकल्पेनानुजानातीति

āpgs-tāt_3.10: atithiḥvedādhyāyyāgataḥpitaraḥaṣṭakākarma,vivāhaśceti, yadetatttrayaṃ etāvat gavālambāṅgakamanimittam etaduktaṃ bhavati- yathātithiḥ pitaraśca gavālambhāṅgakarmanimittabhūtāḥ evaṃ vivāho 'pyasmādeva vacanādviśeṣaṇāntaranirapekṣā iti yadyetatsūtramevaṃ na vyākhyāyeta tatā 'gauriti gāṃ prāha'(āpagṛ.13-15) 'śvobhūte darbeṇa gāmupākaroti'(āpagṛ.22-3) 'vivāhe gauḥ'(āpagṛ.3-6) ityetaireva siddhatvāt vyarthameva syāt;tena avedādhyāyibhyāmapi varāpacitābhyāṃ dharmoktagorahito madhuparko deyaḥ vedādhyāybhyāṃ tu tatsahita iti kecit-etatttrayamevāsmākaṃ gorālambasthānam, na punaranyeṣāmiva vikalpenāpījñānabasiśśūlagavāparanāmā evaṃ vadannasmākamapi kalpāntaroktānapi viśeṣān vikalpenānujānātīti


10

अथ विवाहे वर्जनीयाः कन्या आह 10 वरणे वर्जनीयाः कन्याः सुप्तां रुदन्तीं (तीं) निष्क्रान्तां वरणे परिवर्जयेत् आप्ग्स्_3.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.11: वरेषु वरणार्थ प्राप्तेषु या कन्या स्वपिति रोदिति निष्क्तामति वागृहात्, तस्या वरणं न कर्त्तव्यम् अशुभलिङ्गान्येतानीति परिशब्दो ऽत्यन्तप्रतिषेधार्थः मनश्चक्षुषोर्निबन्धे सत्यपीति

atha vivāhe varjanīyāḥ kanyā āha 10 varaṇe varjanīyāḥ kanyāḥ suptāṃ rudantīṃ (tīṃ) niṣkrāntāṃ varaṇe parivarjayet āpgs_3.11 commentaries: āpgs-anā_3.11: vareṣu varaṇārtha prāpteṣu yā kanyā svapiti roditi niṣktāmati vāgṛhāt, tasyā varaṇaṃ na karttavyam aśubhaliṅgānyetānīti pariśabdo 'tyantapratiṣedhārthaḥ manaścakṣuṣornibandhe satyapīti


11

आप्ग्स्-तात्_3.11: या वरेषु वरणार्थ प्राप्तेषु स्वपिति, या रोदिति, या वा गृहान्निष्क्तामति, ता एतावरणे परिवर्जयेतत्यन्तं वर्जयेत्, ऋद्धौ ज्योतिषादिभिर्ज्ञातायामपि;यतस्स्वापादीनामत्रानृद्धिलिङ्गत्वं प्रबलत्वं च विवक्षितम्

āpgs-tāt_3.11: yā vareṣu varaṇārtha prāpteṣu svapiti, yā roditi, yā vā gṛhānniṣktāmati, tā etāvaraṇe parivarjayetatyantaṃ varjayet, ṛddhau jyotiṣādibhirjñātāyāmapi;yatassvāpādīnāmatrānṛddhiliṅgatvaṃ prabalatvaṃ ca vivakṣitam


11

दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् आप्ग्स्_3.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.12: दतावाचान्यस्मै दत्ता गुप्ता प्रयत्नेन रक्ष्यमाणा दुश्शीला वा सा भवति अशुभलक्षणा वा द्योताविषमदृष्टिः ऋषबा ऋषभशीला शरभाअतिदर्शनीया जारास्तां कामयेरन् सा च तान् विनता विनतगात्रा, कुब्जा वा विकटाविस्तीर्णजङ्घा मण्डाअपनीतकेशा मण्डूषिकामण्डूकत्वक् अश्लक्ष्णेत्यर्तः वामनेत्यन्ये सांकारिकाकुलान्तरे जाता कुलान्तरस्यापत्यत्वं गता वा, यस्यां वा गर्भस्थायां माता अस्थिसञ्चितवती राता रतिशीला पाली वत्सादीनां पालयित्री मित्रा वमित्रवती बहुमित्रेत्यर्तः स्वयं वा मित्रभूता स्वनुजा यस्या स्वनुजा शोभना स्वयंदर्शनीया सा स्वनुजा वरजननादूर्ध्वमल्पीयसि काले जाता तस्मिन्नेव संवत्सरे जातेत्यन्ये वर्षकारी वर्षेणाधिका वर्षकारी स्वेदनशीला इत्यन्ये वर्जयेदित्युच्यते वरणे परिवर्जयेदित्यस्यानुवर्तनं माभूदिति तेन योषु वरणं नास्ति ब्राह्मादिषु विवाहेषु तेषिवप्यासां प्रतिषेधः किञ्चि तदनुवृक्तावत्यन्तप्रतिषेधप्रसङ्गः

dattāṃ guptāṃ dyotāmṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet āpgs_3.12 commentaries: āpgs-anā_3.12: datāvācānyasmai dattā guptā prayatnena rakṣyamāṇā duśśīlā vā sā bhavati aśubhalakṣaṇā vā dyotāviṣamadṛṣṭiḥ ṛṣabā ṛṣabhaśīlā śarabhāatidarśanīyā jārāstāṃ kāmayeran sā ca tān vinatā vinatagātrā, kubjā vā vikaṭāvistīrṇajaṅghā maṇḍāapanītakeśā maṇḍūṣikāmaṇḍūkatvak aślakṣṇetyartaḥ vāmanetyanye sāṃkārikākulāntare jātā kulāntarasyāpatyatvaṃ gatā vā, yasyāṃ vā garbhasthāyāṃ mātā asthisañcitavatī rātā ratiśīlā pālī vatsādīnāṃ pālayitrī mitrā vamitravatī bahumitretyartaḥ svayaṃ vā mitrabhūtā svanujā yasyā svanujā śobhanā svayaṃdarśanīyā sā svanujā varajananādūrdhvamalpīyasi kāle jātā tasminneva saṃvatsare jātetyanye varṣakārī varṣeṇādhikā varṣakārī svedanaśīlā ityanye varjayedityucyate varaṇe parivarjayedityasyānuvartanaṃ mābhūditi tena yoṣu varaṇaṃ nāsti brāhmādiṣu vivāheṣu teṣivapyāsāṃ pratiṣedhaḥ kiñci tadanuvṛktāvatyantapratiṣedhaprasaṅgaḥ


12

आप्ग्स्-तात्_3.12: दत्ताद्याःपञ्चदश कन्या वर्जयेत् दत्ताअनेयस्मै वाचा प्रतिश्रुता, उदकपूर्व वा प्रतिपादिता गुप्ताअदर्शनार्थ कञ्चुकादिभिरावृता, प्रयत्नसंरक्ष्यमाणा वा दौश्शील्यादिशङ्कया द्योतापिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा ऋषभा प्रधाना, ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा, ककुद्वास्ति यस्यास्सा शरभा शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, निष्प्रभा वा केचित्-दर्शनीया, यतस्सा जारकाम्या विनताकुब्जा विकटाविकटजङ्घा, विस्तीर्णजङ्घा वा मुण्डा अपनीतकेशा, अजातकेशा वा मण्डूषिका अल्पकाया, अरुणदती वा मण्डूकत्वग्वा अपरे-वामनाङ्गा, दग्धाङ्गा वा साङ्कारिकागर्भस्थायां यस्यां सत्यां माता भर्तुरस्थिसञ्चयनकारिका, कुलान्तरस्य दुहितृत्वं गता वा रातारमणाशीला कन्दुकादिक्रीडाप्रियेत्यर्थः, ऋतुस्नाता वा केचित्-रतिशीला विषयोपभोगशीलेत्यर्थः पालीवत्सक्षेत्रादिपालिका मित्राबहुमित्रा, सखी वा स्वनुजाशोभनानुजा यस्यास्सा, न तु शोभनो ऽनुजो यस्याः शोभनायामनुजायां कदाचित् प्रमादस्स्यादिति केचित्-वरजन्मसंवत्सर एव पश्चाज्जातेति वर्षकारीवराद्वर्षेणाधिका यात्यन्तं स्रवति सा वा परिवर्जयेदित्यनुशङ्गे सत्यपि वर्जयेदिति पुनर्वचनं ब्राह्मादिषु सर्वेषु विवाहेष्वासां प्रतिषेधार्थम्;असति गत्यन्तरे ऋद्धावपि परीक्षितायां दत्तेततरासामनिषेधार्थ वा

āpgs-tāt_3.12: dattādyāḥpañcadaśa kanyā varjayet dattāaneyasmai vācā pratiśrutā, udakapūrva vā pratipāditā guptāadarśanārtha kañcukādibhirāvṛtā, prayatnasaṃrakṣyamāṇā vā dauśśīlyādiśaṅkayā dyotāpiṅgākṣī, babhrukeśī vā, viṣamadṛṣṭirvā ṛṣabhā pradhānā, ṛṣabhasyeva śarīraṃ gatiḥ śīlaṃ vā yasyāssā, kakudvāsti yasyāssā śarabhā śīrṇadīptiḥ, sarvanīlalomnī vā, arūpā vā, niṣprabhā vā kecit-darśanīyā, yatassā jārakāmyā vinatākubjā vikaṭāvikaṭajaṅghā, vistīrṇajaṅghā vā muṇḍā apanītakeśā, ajātakeśā vā maṇḍūṣikā alpakāyā, aruṇadatī vā maṇḍūkatvagvā apare-vāmanāṅgā, dagdhāṅgā vā sāṅkārikāgarbhasthāyāṃ yasyāṃ satyāṃ mātā bharturasthisañcayanakārikā, kulāntarasya duhitṛtvaṃ gatā vā rātāramaṇāśīlā kandukādikrīḍāpriyetyarthaḥ, ṛtusnātā vā kecit-ratiśīlā viṣayopabhogaśīletyarthaḥ pālīvatsakṣetrādipālikā mitrābahumitrā, sakhī vā svanujāśobhanānujā yasyāssā, na tu śobhano 'nujo yasyāḥ śobhanāyāmanujāyāṃ kadācit pramādassyāditi kecit-varajanmasaṃvatsara eva paścājjāteti varṣakārīvarādvarṣeṇādhikā yātyantaṃ sravati sā vā parivarjayedityanuśaṅge satyapi varjayediti punarvacanaṃ brāhmādiṣu sarveṣu vivāheṣvāsāṃ pratiṣedhārtham;asati gatyantare ṛddhāvapi parīkṣitāyāṃ dattetatarāsāmaniṣedhārtha vā


12

नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः आप्ग्स्_3.13 सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् आप्ग्स्_3.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.14: नक्षत्रं नाम यासां ता तथानक्षत्रनामाः, नदीनामाः वृक्षनामाश्चरोहिणी गङ्गा करेजोत्यादयः ताश्च विवाहेगर्हिताः तथा सर्वाश्च रेफलकारोपान्त्याःएवं भूतं नाम इत्यर्तः करा काला सुवेलेत्यादयः ताःवरणे परिवर्जयेत्वरणमप्यासां न कर्तव्यमित्यर्थः

nakṣatranāmā nadīnāmā vṛkṣanāmāśca garhitāḥ āpgs_3.13 sarvāśca rephalakāropāntā varaṇe parivarjayet āpgs_3.14 commentaries: āpgs-anā_3.14: nakṣatraṃ nāma yāsāṃ tā tathānakṣatranāmāḥ, nadīnāmāḥ vṛkṣanāmāścarohiṇī gaṅgā karejotyādayaḥ tāśca vivāhegarhitāḥ tathā sarvāśca rephalakāropāntyāḥevaṃ bhūtaṃ nāma ityartaḥ karā kālā suveletyādayaḥ tāḥvaraṇe parivarjayetvaraṇamapyāsāṃ na kartavyamityarthaḥ


13

आप्ग्स्-तात्_3.14: नक्षत्रस्य नामेव नाम यासांनक्षत्रनामाः एकस्य नामशब्दस्य लेपः, उष्ट्रमुखादिवत् एवमिखादिवत् विग्रहः रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः गङ्गेत्यादयो नदीनामाः शिंशुपेत्याद्यावृक्षनामाः गर्हीताःवर्जनीयाः

āpgs-tāt_3.14: nakṣatrasya nāmeva nāma yāsāṃnakṣatranāmāḥ ekasya nāmaśabdasya lepaḥ, uṣṭramukhādivat evamikhādivat vigrahaḥ rohiṇī citretyevamādayo nakṣatranāmāḥ gaṅgetyādayo nadīnāmāḥ śiṃśupetyādyāvṛkṣanāmāḥ garhītāḥvarjanīyāḥ


14

रेफो वा लकारो वा यासां नाम्नौपान्त उपधेत्यर्थः यथा गौरी शालीत्यादि शेषं व्यक्तम् अत्र चकारेण गर्हिता इत्यनुकर्षणात् आसां वर्जनीयत्वे सिद्धे ऽसर्वा वरणे परिवर्जयतऽइति व्यर्थम् न;सुग्रहार्थत्वात् अथ वा या एता रेफलकारोपान्ता गौरी शालीत्याद्या-, याश्च प्रकारान्तरेणापि स्मृत्यन्तरोक्ता रेफलकारोपान्ताः, यथा सगोत्रा समानप्रवरा पुंश्चलीति तास्सर्वा वरणे परिर्जयेदिति ज्ञापनार्थम् इदं त्विहवक्तव्यम्- असत्यपि गत्यन्तरे व्यक्ते ऽप्यृद्धिलिङ्गे स्रगोत्रादीनां सर्वथानिषेध एव गौर्यादीनां तु न तथा गुप्तादीनामिवेति केचित् नक्षत्रनामेत्यादिकेयं शास्त्रान्तरगीता गाता, तस्याः पादपूररमानि ऽसर्वा वरणे परिवर्जयेऽदिति पदानीति परिकल्पयन्तो, यस्मान्नक्षत्रादिनामा रेफलकारोपान्ताश्च गर्हिताः तस्मात्तास्सर्वो वरणे परिवर्जयेदिति व्याचक्षते

repho vā lakāro vā yāsāṃ nāmnaupānta upadhetyarthaḥ yathā gaurī śālītyādi śeṣaṃ vyaktam atra cakāreṇa garhitā ityanukarṣaṇāt āsāṃ varjanīyatve siddhe 'sarvā varaṇe parivarjayat'iti vyartham na;sugrahārthatvāt atha vā yā etā rephalakāropāntā gaurī śālītyādyā-, yāśca prakārāntareṇāpi smṛtyantaroktā rephalakāropāntāḥ, yathā sagotrā samānapravarā puṃścalīti tāssarvā varaṇe parirjayediti jñāpanārtham idaṃ tvihavaktavyam- asatyapi gatyantare vyakte 'pyṛddhiliṅge sragotrādīnāṃ sarvathāniṣedha eva gauryādīnāṃ tu na tathā guptādīnāmiveti kecit nakṣatranāmetyādikeyaṃ śāstrāntaragītā gātā, tasyāḥ pādapūraramāni 'sarvā varaṇe parivarjaye'diti padānīti parikalpayanto, yasmānnakṣatrādināmā rephalakāropāntāśca garhitāḥ tasmāttāssarvo varaṇe parivarjayediti vyācakṣate


13

11 ऋद्विपरीक्षा शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति आप्ग्स्_3.15 नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति आप्ग्स्_3.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.16: ऽलक्षणसम्पन्नामुपयच्छेतेऽति वक्ष्यति तत्र लक्षणानामज्ञातत्वात् तत्परीक्षणोपाय उपदिश्यते नचायं नित्यो विधिः;ऽसक्तिविषयऽइति वचनात् शक्तिस्सामर्थ्य यदि सम्फवः यदि वधूज्ञातयो ऽनुमन्येरन् तदा कर्तव्यं नान्यथेत्यर्थः तत् कथं कर्तव्यम्?उच्यते-द्रव्याणि पञ्चवक्ष्यमाणानि मृत्पिण्डेषु प्रतिच्छन्नानि कृत्वा उपनिधाय कन्यासमीपे निधाय तां ब्रूयाद्वरः- एषां पिण्डानां एकतमुपस्पृशेति कानि पुनस्तानि द्रव्याणि?नानाबीजानि संसृष्टानि व्रीहियवादीनि वेद्याः पांसूनाहृतान्, सस्यसम्पन्नात् क्षेत्रादाहृतं लोष्टं, सकृत् गोमयं, श्मशानादाहृतं लोष्टमित्येतानि बीजानां द्रव्यत्वाव्यभिचारे ऽरि द्रव्याणीत्युच्यते-शास्त्रान्तरे दृष्टानामन्येषामपि द्रव्याणामिह विकल्पेन प्राप्त्यर्थ तद्यथा-अविदासिनोहदात् सर्वसम्पन्ना देवनात् कितवी इरिणादधन्येति(आश्वगृ.1-5-6)

11 ṛdviparīkṣā śaktiviṣaye dravyāṇi praticchannānyupanidhāya brūyādupaspṛśeti āpgs_3.15 nānā bījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakṛcchmaśānaloṣṭamiti āpgs_3.16 commentaries: āpgs-anā_3.16: 'lakṣaṇasampannāmupayacchete'ti vakṣyati tatra lakṣaṇānāmajñātatvāt tatparīkṣaṇopāya upadiśyate nacāyaṃ nityo vidhiḥ;'saktiviṣaya'iti vacanāt śaktissāmarthya yadi samphavaḥ yadi vadhūjñātayo 'numanyeran tadā kartavyaṃ nānyathetyarthaḥ tat kathaṃ kartavyam?ucyate-dravyāṇi pañcavakṣyamāṇāni mṛtpiṇḍeṣu praticchannāni kṛtvā upanidhāya kanyāsamīpe nidhāya tāṃ brūyādvaraḥ- eṣāṃ piṇḍānāṃ ekatamupaspṛśeti kāni punastāni dravyāṇi?nānābījāni saṃsṛṣṭāni vrīhiyavādīni vedyāḥ pāṃsūnāhṛtān, sasyasampannāt kṣetrādāhṛtaṃ loṣṭaṃ, sakṛt gomayaṃ, śmaśānādāhṛtaṃ loṣṭamityetāni bījānāṃ dravyatvāvyabhicāre 'ri dravyāṇītyucyate-śāstrāntare dṛṣṭānāmanyeṣāmapi dravyāṇāmiha vikalpena prāptyartha tadyathā-avidāsinohadāt sarvasampannā devanāt kitavī iriṇādadhanyeti(āśvagṛ.1-5-6)


15

आप्ग्स्-तात्_3.16: शक्तिस्समर्थ्यम् विषये ऽवकाशः अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् द्रव्याणिवक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति

āpgs-tāt_3.16: śaktissamarthyam viṣaye 'vakāśaḥ asyāmṛddhiparīkṣāyāṃ varatatpakṣiṇāṃ sāmarthyasyāvakāśe sambhavati, yadi kanyā ca tadīyāścemāṃ parīkṣāmabhyupagaccheyurityarthaḥ yata evātra śaktiviṣaya ityāha, ata evaiṣā ṛddhiparīkṣā jyotiṣādibhirvaikalpikī, na tu nityavadvivāhāṅgam dravyāṇivakṣyamāṇāni mṛtpiṇḍeṣu ca praticchannānyekasmin bhājane nidhāya kanyāṃ samīpe ca kṛtvā, tāṃ brūyādeṣāṃ piṇḍānāmekamupaspṛśeti


16

कानि तानीत्यत आह नानाबीजानिव्रीहियवादिबीजानि संसृष्टानिएकस्मिन् पिण्डे क्षिप्तानि वेद्याः सौमिक्याः आहृतान् पांसून् क्षेत्रात् सस्यसम्पन्नादाहृतं लोष्टम् अविशिष्टे प्रसिद्धे

kāni tānītyata āha nānābījānivrīhiyavādibījāni saṃsṛṣṭāniekasmin piṇḍe kṣiptāni vedyāḥ saumikyāḥ āhṛtān pāṃsūn kṣetrāt sasyasampannādāhṛtaṃ loṣṭam aviśiṣṭe prasiddhe

Section (cont. 5)

14

पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः आप्ग्स्_3.17 उत्तमं परिचक्षते आप्ग्स्_3.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.18: तत्र बीजस्पर्शने प्रजाभिस्समृद्धिः वेदिपुरीषे यज्ञैः, क्षेत्रलोष्टे धनधान्यैः, गोमये पशुभिः, श्मशानलोष्टे मरणमिति यथालिङ्गार्थः उत्तममन्त्यं द्रव्यंपरिचक्षतेगर्हन्ते वर्जयन्तीत्यर्थः

pūrveṣāmupasparśane yathāliṅgamṛddhiḥ āpgs_3.17 uttamaṃ paricakṣate āpgs_3.18 commentaries: āpgs-anā_3.18: tatra bījasparśane prajābhissamṛddhiḥ vedipurīṣe yajñaiḥ, kṣetraloṣṭe dhanadhānyaiḥ, gomaye paśubhiḥ, śmaśānaloṣṭe maraṇamiti yathāliṅgārthaḥ uttamamantyaṃ dravyaṃparicakṣategarhante varjayantītyarthaḥ


17

आप्ग्स्-तात्_3.18: पूर्वेषां चतुर्णामुपस्पर्शने यथालिङिगमृद्धिः नानाबीजानामुपस्पर्शने प्रजानां समृद्धिः वेद्याः पांसूनां यज्ञानां, क्षेत्राल्लोषटस्य सस्यानां, शकृतश्च पशूनामिति ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्तः

āpgs-tāt_3.18: pūrveṣāṃ caturṇāmupasparśane yathāliṅigamṛddhiḥ nānābījānāmupasparśane prajānāṃ samṛddhiḥ vedyāḥ pāṃsūnāṃ yajñānāṃ, kṣetrālloṣaṭasya sasyānāṃ, śakṛtaśca paśūnāmiti ṛddhiniścayādvivāhakartavyatāniścaya ityartaḥ


18

उत्तमं श्मशानलोष्टंपरिचक्षते गर्हन्ते शिष्टां, जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादिति

uttamaṃ śmaśānaloṣṭaṃparicakṣate garhante śiṣṭāṃ, jāyāpatyoranyatarasya vā maraṇaliṅgatvāditi


15

उद्वाह्यामाह 12 उद्वाह्यकन्यासम्पत् बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत आप्ग्स्_3.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.19: उक्ता वर्जनीयाः कन्याः अथ ग्राह्या उच्यन्ते बन्धुशब्देन कुलमुच्यते यदुक्तमाश्वलायनेन"कुलमग्रे परिक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरता"(आश्वगृ-5-100 दिति शीलसम्पन्ना आर्यशीला लक्षणसम्पन्नास्त्रीलक्षणैरुपेता रोगराहिता क्षयापस्मारादिरहिता

udvāhyāmāha 12 udvāhyakanyāsampat bandhuśīlalakṣaṇasampannāmarogāmupayaccheta āpgs_3.19 commentaries: āpgs-anā_3.19: uktā varjanīyāḥ kanyāḥ atha grāhyā ucyante bandhuśabdena kulamucyate yaduktamāśvalāyanena"kulamagre parikṣeta ye mātṛtaḥ pitṛtaśceti yathoktaṃ puratā"(āśvagṛ-5-100 diti śīlasampannā āryaśīlā lakṣaṇasampannāstrīlakṣaṇairupetā rogarāhitā kṣayāpasmārādirahitā


19

आप्ग्स्-तात्_3.19: अत्रसम्पन्नामिति प्रत्येकं सम्बध्यते बन्धुसम्पन्नांप्रशस्ताभिजनाम् शीलसम्पन्नामास्तिक्यादिगुणान्विताम् लक्षणसम्पन्नां गूढगुल्फत्वादिस्त्रीलक्षणयुक्ताम् अरोगांक्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिताम् उपयच्छेत उद्वहेत्

āpgs-tāt_3.19: atrasampannāmiti pratyekaṃ sambadhyate bandhusampannāṃpraśastābhijanām śīlasampannāmāstikyādiguṇānvitām lakṣaṇasampannāṃ gūḍhagulphatvādistrīlakṣaṇayuktām arogāṃkṣayāpasmārakuṣṭhādyacikitsyarogarahitām upayaccheta udvahet


16

अथ वरगुणानाह- 13 वरगुणाः बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत् आप्ग्स्_3.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.20: श्रुतवान् श्रुताध्ययनसम्पन्नः वरसम्पत् वरगुणाः एवंगुणाय कन्यका देयोत्यर्थः

atha varaguṇānāha- 13 varaguṇāḥ bandhuśīlalakṣaṇasampannaśśrutavānaroga iti varasampat āpgs_3.20 commentaries: āpgs-anā_3.20: śrutavān śrutādhyayanasampannaḥ varasampat varaguṇāḥ evaṃguṇāya kanyakā deyotyarthaḥ


20

आप्ग्स्-तात्_3.20: बन्दुशीललक्षणसम्पन्नैति पूर्ववद्व्याख्यानम् श्रुतवान्श्रुताध्ययनसम्पन्नः;अविदुषश्चोदुतकर्मानधिकारात्, धर्माद्यर्थत्वाच्च विवाहस्य अरोगैति पूर्ववत् ;तस्याप्यसमर्थत्वेनानदिकारात् एवंभूता वरसम्पत् एवङ्गुणाय वराय कन्यादेयेत्यर्थः

āpgs-tāt_3.20: banduśīlalakṣaṇasampannaiti pūrvavadvyākhyānam śrutavānśrutādhyayanasampannaḥ;aviduṣaścodutakarmānadhikārāt, dharmādyarthatvācca vivāhasya arogaiti pūrvavat ;tasyāpyasamarthatvenānadikārāt evaṃbhūtā varasampat evaṅguṇāya varāya kanyādeyetyarthaḥ


17

अथर्द्धिनिश्चये एकायं मतमाह यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्विर्नेतरदाद्रियेतेत्येके आप्ग्स्_3.21 चोम्मेन्तरिएस्: आप्ग्स्-अना_3.21: यस्यांकन्यायां वरस्यमनसश्चक्षुषश्च निबन्धः तृप्तिरुत्पद्यते तस्यामृद्धिर्ध्रुवा,नेतरत्न दत्तादिगुणदोषाद्यनुदर्शनमादरणीयमित्येके शिष्टा ब्रुवते अत्र पक्षे सर्वगुणासम्पन्नायामपि यस्यां मनश्चक्षुषी न निबध्येते सा वर्जनीया शास्त्रानिषिद्धास्तत्रापि पक्षे वर्ज्या एव, यथा सवर्णा सर्गोत्रेति

atharddhiniścaye ekāyaṃ matamāha yasyāṃ manaścakṣuṣornibandhastasyāmṛdvirnetaradādriyetetyeke āpgs_3.21 commentaries: āpgs-anā_3.21: yasyāṃkanyāyāṃ varasyamanasaścakṣuṣaśca nibandhaḥ tṛptirutpadyate tasyāmṛddhirdhruvā,netaratna dattādiguṇadoṣādyanudarśanamādaraṇīyamityeke śiṣṭā bruvate atra pakṣe sarvaguṇāsampannāyāmapi yasyāṃ manaścakṣuṣī na nibadhyete sā varjanīyā śāstrāniṣiddhāstatrāpi pakṣe varjyā eva, yathā savarṇā sargotreti


21

आप्ग्स्-तात्_3.21: यस्यां कन्यायां वरस्यमनस्चक्षुषीर्निबन्धःनितरां बन्धनं, यस्यामासत्त्यतिशयेन मनस्चक्षुषी निबद्धे अव तिष्ठत इत्यर्थः तस्यांजायायां सत्यां धर्मादीनां समृद्धिः,नेतरत्गुणदोषानुदर्शनमाद्रियेतेत्येकेब्रूवते एतदुक्तं भवति- अत्र मनश्चक्षुषोर्निबन्ध एवादरणे कारणम्, न तु ज्योतिषादिना ज्ञाता गुणाः तथा तदभाव एव परिवर्जने कारणम्, न स्वापादयो दोषा इति उभयोरपि मतयोर्दत्तादीनां निषेधमाद्रियेतैव;ऽसर्र्वणापूर्वशास्त्रविहितायामऽ(आपध.2-13-1) ऽअसमानार्षगोत्रजामऽऽपञ्चमात् सप्तमादूर्ध्वमऽइत्यादिवचनजातात्

āpgs-tāt_3.21: yasyāṃ kanyāyāṃ varasyamanascakṣuṣīrnibandhaḥnitarāṃ bandhanaṃ, yasyāmāsattyatiśayena manascakṣuṣī nibaddhe ava tiṣṭhata ityarthaḥ tasyāṃjāyāyāṃ satyāṃ dharmādīnāṃ samṛddhiḥ,netaratguṇadoṣānudarśanamādriyetetyekebrūvate etaduktaṃ bhavati- atra manaścakṣuṣornibandha evādaraṇe kāraṇam, na tu jyotiṣādinā jñātā guṇāḥ tathā tadabhāva eva parivarjane kāraṇam, na svāpādayo doṣā iti ubhayorapi matayordattādīnāṃ niṣedhamādriyetaiva;'sarrvaṇāpūrvaśāstravihitāyām'(āpadha.2-13-1) 'asamānārṣagotrajām''pañcamāt saptamādūrdhvam'ityādivacanajātāt


1

इत्थंसुदर्शनार्येण गृह्यतात्पर्यदर्शनम् प्रथमे पटले ऽकारि यथाभाष्यं यथामति इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने तृतीयः खण्डः समाप्तश्च प्रथमः पटलः ==================================================================================== अथ द्वितीयः पटलः चतुर्थः खण्डः 4 विवाहप्रकरणम् - 1 वरप्रेषणम् सुहृदस्समवेतान् मन्त्रवतो वरान् प्रहिणुयात् आप्ग्स्_4.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.1: अथ कन्यावरणविधिः इन्वकाभिः प्रसृज्यन्त इत्युक्तम् तस्मिन्नन्यस्मिन् वा पुण्यनक्षत्रेव ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा,सुहृदः बन्धून्समवेतान् सङ्गतान्मन्त्रवतःश्रुताध्ययनसम्पन्नान्वरान् कन्यावरयितॄन्प्रहिणुयात्प्रस्थापयोत्-यूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वमिति यद्यप्येवंविधे कार्ये सुहृदामेव सम्भावना तथापि सुहृद इत्युच्यते मन्त्रवतामसम्भवे सुहृत्वमात्रपरिग्रहार्थम् मन्त्रवत इति ब्राह्मणानोमेव ग्रहणम् तेन क्षत्रियवैश्ययोरपि ब्राह्मणा एव वराः

itthaṃsudarśanāryeṇa gṛhyatātparyadarśanam prathame paṭale 'kāri yathābhāṣyaṃ yathāmati iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane tṛtīyaḥ khaṇḍaḥ samāptaśca prathamaḥ paṭalaḥ ==================================================================================== atha dvitīyaḥ paṭalaḥ caturthaḥ khaṇḍaḥ 4 vivāhaprakaraṇam - 1 varapreṣaṇam suhṛdassamavetān mantravato varān prahiṇuyāt āpgs_4.1 commentaries: āpgs-anā_4.1: atha kanyāvaraṇavidhiḥ invakābhiḥ prasṛjyanta ityuktam tasminnanyasmin vā puṇyanakṣatreva brāhmaṇān bhojayitvāśiṣo vācayitvā,suhṛdaḥ bandhūnsamavetān saṅgatānmantravataḥśrutādhyayanasampannānvarān kanyāvarayitṝnprahiṇuyātprasthāpayot-yūyamamuṣmāt kulāt mahyaṃ kanyāṃ vṛṇīdhvamiti yadyapyevaṃvidhe kārye suhṛdāmeva sambhāvanā tathāpi suhṛda ityucyate mantravatāmasambhave suhṛtvamātraparigrahārtham mantravata iti brāhmaṇānomeva grahaṇam tena kṣatriyavaiśyayorapi brāhmaṇā eva varāḥ


2

आप्ग्स्-तात्_4.1: पूर्वत्र ऽइन्वकाभिः प्रसृज्यन्तेऽ(आपगृ-16) इति विवाहोपयोगिनो वरप्रेषणस्य कालो ऽभिहितः इदानीं तस्य विधिमाह सुहृदःआत्मनो मित्राणि समवेतानात्मानं प्रत्येककार्यान् मन्त्रवतःमन्त्रब्राह्मणवतः, ऽशुचीन् मन्त्रवतःऽ(आपध.2-15-11) इतिवन्मन्त्रग्रहणस्य प्रदर्शनार्थत्वात् वरान्वरयितॄन् वरःप्रहिणुयात्प्रेषयेत् एते युग्मा ब्राह्मणाश्चेति केचित्

āpgs-tāt_4.1: pūrvatra 'invakābhiḥ prasṛjyante'(āpagṛ-16) iti vivāhopayogino varapreṣaṇasya kālo 'bhihitaḥ idānīṃ tasya vidhimāha suhṛdaḥātmano mitrāṇi samavetānātmānaṃ pratyekakāryān mantravataḥmantrabrāhmaṇavataḥ, 'śucīn mantravataḥ'(āpadha.2-15-11) itivanmantragrahaṇasya pradarśanārthatvāt varānvarayitṝn varaḥprahiṇuyātpreṣayet ete yugmā brāhmaṇāśceti kecit


2

तानादितो द्वाभ्यामभिमन्त्रयेत आप्ग्स्_4.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.2: गच्छतस्तान् वराननन्तरमाम्नातस्य मन्त्रसमाम्नायस्यादितो द्वाभ्यां ऋग्भ्यां पप्रसुग्मन्तेत्योताभ्यां अभिमन्त्रयेत अभिलक्ष्य मन्त्रोच्चारणमभिमन्त्रणम् ततस्ते कन्याकुलं गत्वा-एवंगोत्रायामुष्मै सहत्वकर्मभ्यो युष्मदीयां कन्यां वृणीमह-इति ब्रूयः ततस्ते प्रतिब्रूयुः-शोभनं तथा दास्याम-इति तत्र ब्राह्मे विवाहे दैवे चार्थलोपात् वरणलोपः कल्पान्तरदर्शनाच्च-नात्र वरान् प्रहिणुयादिति तथा गान्धर्वराक्षसयोश्च

tānādito dvābhyāmabhimantrayeta āpgs_4.2 commentaries: āpgs-anā_4.2: gacchatastān varānanantaramāmnātasya mantrasamāmnāyasyādito dvābhyāṃ ṛgbhyāṃ paprasugmantetyotābhyāṃ abhimantrayeta abhilakṣya mantroccāraṇamabhimantraṇam tataste kanyākulaṃ gatvā-evaṃgotrāyāmuṣmai sahatvakarmabhyo yuṣmadīyāṃ kanyāṃ vṛṇīmaha-iti brūyaḥ tataste pratibrūyuḥ-śobhanaṃ tathā dāsyāma-iti tatra brāhme vivāhe daive cārthalopāt varaṇalopaḥ kalpāntaradarśanācca-nātra varān prahiṇuyāditi tathā gāndharvarākṣasayośca


2

आप्ग्स्-तात्_4.2: तान्प्रस्थितान् मन्त्रसमाम्नायस्यादितः ऽप्रसुग्मन्ताऽइति द्वाभ्यां ऋग्भ्यांअभिमन्त्रयेत अभिमन्त्रणं आभिमुख्येन मन्त्रस्योच्चारणम् अनुमन्त्रमप्येवमऽअनुमन्त्रयितव्यद्रव्यगतचित्तेनेति तु भेदः अथ सूत्रस्यापूर्णत्वात् क्रम उच्यते- कृतप्राणायामो ऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य, ऽप्रसुग्मम्तेऽति द्वाभ्यां वरानभिमन्त्र्य, ऽयूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वम् ऽइति प्रेषयेत् ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतो ऽवधार्य, दुहितृमन्तं पित्रीदिकं ऽगौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहेऽइति ब्रूयुः ततस्स पित्रादिरऽदास्यामीऽति प्रतिब्रूयात् ततस्ते प्रत्येत्य,ऽसुद्धार्ता वयऽमिति वराया वेदयेयुः एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् अथ यस्मिन्नहनि विवाहः ततः पूर्वमेव पञ्चमे तृतीय वाहनि यथाशिष्टाचारमङ्कुरारोपणं कुर्यात् तथा श्वो विवाह इत्यद्य विवाह इति च ऽतथा मङ्गलानिऽऽआवृतश्चास्त्रीभ्यः प्रतीयेरतऽ(आपगृ.2-14,15) इत्युक्तानि कर्माणि वरो वधूश्च यथाकालं यथायोग्यंकुरुतः केचित्-पूर्वेद्युर्नान्दीश्राद्धं कल्पान्तरादिति ततः पित्रादिर्वधूकुलं प्राप्ताय वराय कन्यामुदकपूर्व दद्यात्-इमां वत्सरोत्रजां लक्ष्मीदायीं गौतमगोत्राय विष्णुशर्मणे तपभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामीति गान्धर्वराक्षसयोस्तु न प्रतिपादनम्, दातृव्यापारा नपेक्षत्वात् ततस्तां वरः प्रतिगृह्य विवाहस्थाने ऽयत्र क्वचाग्निमऽ(आपध.2-1-13) इत्यादिविधिनाग्निं प्रतिष्ठाप्य, तत्रैव यस्यां शालायां कन्याऽस्ते तां गत्वा मधुपर्क प्रतिगृह्णाति यथार्ह यथाविधि एवमेव वरापचितो ऽपि

āpgs-tāt_4.2: tānprasthitān mantrasamāmnāyasyāditaḥ 'prasugmantā'iti dvābhyāṃ ṛgbhyāṃabhimantrayeta abhimantraṇaṃ ābhimukhyena mantrasyoccāraṇam anumantramapyevam'anumantrayitavyadravyagatacitteneti tu bhedaḥ atha sūtrasyāpūrṇatvāt krama ucyate- kṛtaprāṇāyāmo 'varān preṣayiṣye'iti saṅkalpya, 'prasugmamte'ti dvābhyāṃ varānabhimantrya, 'yūyamamuṣmāt kulāt mahyaṃ kanyāṃ vṛṇīdhvam 'iti preṣayet tataste duhitṛmato gṛhaṃ gatvā, kanyāṃ dattasagotratvādidoṣarahitāṃ bandhvādiguṇasampannāṃ ca yatnato 'vadhārya, duhitṛmantaṃ pitrīdikaṃ 'gautamagotrāya viṣṇuśarmaṇe varāya bhavadīyāṃ kanyāṃ prajāsahatvakarmabhyo vṛṇīmahe'iti brūyuḥ tatassa pitrādir'dāsyāmī'ti pratibrūyāt tataste pratyetya,'suddhārtā vaya'miti varāyā vedayeyuḥ etacca varapreṣaṇādyāsurārṣayoreva, nānyeṣu arthalopāt atha yasminnahani vivāhaḥ tataḥ pūrvameva pañcame tṛtīya vāhani yathāśiṣṭācāramaṅkurāropaṇaṃ kuryāt tathā śvo vivāha ityadya vivāha iti ca 'tathā maṅgalāni''āvṛtaścāstrībhyaḥ pratīyerat'(āpagṛ.2-14,15) ityuktāni karmāṇi varo vadhūśca yathākālaṃ yathāyogyaṃkurutaḥ kecit-pūrvedyurnāndīśrāddhaṃ kalpāntarāditi tataḥ pitrādirvadhūkulaṃ prāptāya varāya kanyāmudakapūrva dadyāt-imāṃ vatsarotrajāṃ lakṣmīdāyīṃ gautamagotrāya viṣṇuśarmaṇe tapabhyaṃ prajāsahatvakarmabhyaḥ pratipādayāmīti gāndharvarākṣasayostu na pratipādanam, dātṛvyāpārā napekṣatvāt tatastāṃ varaḥ pratigṛhya vivāhasthāne 'yatra kvacāgnim'(āpadha.2-1-13) ityādividhināgniṃ pratiṣṭhāpya, tatraiva yasyāṃ śālāyāṃ kanyā'ste tāṃ gatvā madhuparka pratigṛhṇāti yathārha yathāvidhi evameva varāpacito 'pi


3

अनन्तरं वरः किं कुर्यादित्यत्राह 2. कन्यायाः समीक्षणम् स्वयं दृष्ट्वा तृतीयां जपेत् आप्ग्स्_4.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.3: ततो विवाहे निश्चिते पूर्वेद्युर्नान्दीश्राद्धं कृत्वा परेद्युर्ब्रअह्मणान् भोजयित्वाशिषो वाचयित्वा वरो वधूकुलं गच्छति तस्मै कूर्चदानादि भोजनान्तं मधुपर्क दत्वा कन्यां प्रतिपादयति-तुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ततस्तां वरः स्वयं दृष्ट्वा तृतीयामृचं जपेत् अभ्रातृघ्नीमित्येताम् स्वयमित्यनुच्यमाने वरं दृष्ट्वेत्यर्थः स्यात् प्रकृतत्वात् स्वयं ग्रहणात्तु कन्यां दृष्ट्वत्यर्थो भवति तत्र ब्राह्मे विवाह उदकपूर्व प्रतिपादनम् गान्धर्वराक्षसयोस्तु नैव प्रतिपादनम्

anantaraṃ varaḥ kiṃ kuryādityatrāha 2. kanyāyāḥ samīkṣaṇam svayaṃ dṛṣṭvā tṛtīyāṃ japet āpgs_4.3 commentaries: āpgs-anā_4.3: tato vivāhe niścite pūrvedyurnāndīśrāddhaṃ kṛtvā paredyurbraahmaṇān bhojayitvāśiṣo vācayitvā varo vadhūkulaṃ gacchati tasmai kūrcadānādi bhojanāntaṃ madhuparka datvā kanyāṃ pratipādayati-tubhyamimāṃ prajāsahatvakarmabhyaḥ pratipādayāmīti tatastāṃ varaḥ svayaṃ dṛṣṭvā tṛtīyāmṛcaṃ japet abhrātṛghnīmityetām svayamityanucyamāne varaṃ dṛṣṭvetyarthaḥ syāt prakṛtatvāt svayaṃ grahaṇāttu kanyāṃ dṛṣṭvatyartho bhavati tatra brāhme vivāha udakapūrva pratipādanam gāndharvarākṣasayostu naiva pratipādanam


3

आप्ग्स्-तात्_4.3: वरःस्वयंकन्याम दृष्ट्वा ऽअब्रातृघ्नीमऽइतितृतीयां ऋचंजपेत् दृष्ट्वै वचक्षुषी उपसंहरति जपश्च सर्वत्र चातुस्स्वर्येण;नतु करणमन्त्रादिवदेकश्रुत्या ऽएकश्रुति दूरात्सम्बुद्धौऽ(पासू.1-2-33) ऽयज्ञकर्मण्यजपन्यूखसामसुऽ(पासू.1-2-34) इति वचनात् अत्र च स्वयमिति विशेषमं वरयितॄमां प्रकृतानामयं जपो मा भूदिति केचित्- स्वयं वधूमेव दृष्ट्वा जपेत् ;न तु वरानिति स्वयं दृष्ट्वेत्यादि च सर्वविवाहानामविकृतम्

āpgs-tāt_4.3: varaḥsvayaṃkanyāma dṛṣṭvā 'abrātṛghnīm'ititṛtīyāṃ ṛcaṃjapet dṛṣṭvai vacakṣuṣī upasaṃharati japaśca sarvatra cātussvaryeṇa;natu karaṇamantrādivadekaśrutyā 'ekaśruti dūrātsambuddhau'(pāsū.1-2-33) 'yajñakarmaṇyajapanyūkhasāmasu'(pāsū.1-2-34) iti vacanāt atra ca svayamiti viśeṣamaṃ varayitṝmāṃ prakṛtānāmayaṃ japo mā bhūditi kecit- svayaṃ vadhūmeva dṛṣṭvā japet ;na tu varāniti svayaṃ dṛṣṭvetyādi ca sarvavivāhānāmavikṛtam


4

चतुर्थ्या समीक्षेत आप्ग्स्_4.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.4: अवयवश ईक्षणंसमीक्षणम् अघोरचक्षुरित्येषा चतुर्थीं

caturthyā samīkṣeta āpgs_4.4 commentaries: āpgs-anā_4.4: avayavaśa īkṣaṇaṃsamīkṣaṇam aghoracakṣurityeṣā caturthīṃ


4

आप्ग्स्-तात्_4.4: ऽअघोरचक्षुःऽइत्यनया समीक्षेत वध्वा दृष्ट्वो स्वदृष्टिं निपातयति, अघोरचक्षुरपिघ्न्येधीति मन्त्रालिङ्गात् केचित्-समीक्षेत अवयवशो निरीक्षेतेति अत्र वरो वधूश्च दर्मेष्वासीनौदर्भान् धारयमाणौ कृतप्राणायामौ सङ्कल्पयेते- आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश्चोत्पादयितव्यां-इति

āpgs-tāt_4.4: 'aghoracakṣuḥ'ityanayā samīkṣeta vadhvā dṛṣṭvo svadṛṣṭiṃ nipātayati, aghoracakṣurapighnyedhīti mantrāliṅgāt kecit-samīkṣeta avayavaśo nirīkṣeteti atra varo vadhūśca darmeṣvāsīnaudarbhān dhārayamāṇau kṛtaprāṇāyāmau saṅkalpayete- āvābhyāṃ karmāṇi kartavyāni, prajāścotpādayitavyāṃ-iti


5

  1. तस्याः भ्रुवोरन्तरे सम्मार्जनम् अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् आप्ग्स्_4.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.5: मध्यमासमीपे वतत इत्युपमध्यमा तयाङ्गुल्या अनामिकयेत्यर्थः भ्रुवोरन्तरंमध्यमित्तरेण यजुषाइदमहमित्यनेन संमार्जनमन्त्रो ऽयं न निरसनमन्त्रः प्रतीचीनंप्रत्यग्गतम् उपर्युपरि शिरो निरस्येत् तत उदकोपस्पर्शनं अङ्गुष्ठसाहचर्यादुपमध्यमयेति विशेषणादेव सिद्धे अङ्गुल्येति विशेष्यनिर्देशो विस्पष्टार्थम् यजुषेति विशेषणं उत्तरेणेति दिग्वाचिताशङ्का मा भूदिति

3. tasyāḥ bhruvorantare sammārjanam aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvorantaraṃ saṃmṛjya pratīcīnaṃ nirasyet āpgs_4.5 commentaries: āpgs-anā_4.5: madhyamāsamīpe vatata ityupamadhyamā tayāṅgulyā anāmikayetyarthaḥ bhruvorantaraṃmadhyamittareṇa yajuṣāidamahamityanena saṃmārjanamantro 'yaṃ na nirasanamantraḥ pratīcīnaṃpratyaggatam uparyupari śiro nirasyet tata udakopasparśanaṃ aṅguṣṭhasāhacaryādupamadhyamayeti viśeṣaṇādeva siddhe aṅgulyeti viśeṣyanirdeśo vispaṣṭārtham yajuṣeti viśeṣaṇaṃ uttareṇeti digvācitāśaṅkā mā bhūditi


5

आप्ग्स्-तात्_4.5: उपमध्यमाउपकनिष्ठिका, न तु प्रदेशिनी, तस्या विस्रंसिकेति व्यपदेशात् उत्तरेण यजुषाऽइदमहं या त्वयिऽइत्यनेन शेषं व्यक्तम् दर्भ निरस्याप उपस्पृशेत्

āpgs-tāt_4.5: upamadhyamāupakaniṣṭhikā, na tu pradeśinī, tasyā visraṃsiketi vyapadeśāt uttareṇa yajuṣā'idamahaṃ yā tvayi'ityanena śeṣaṃ vyaktam darbha nirasyāpa upaspṛśet


6

प्राप्ते निमित्त उत्तरां जपेत् आप्ग्स्_4.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.6: वध्वा स्वबन्धूनां च रोदनंनिमित्तं जीवारुदन्तीति लिङ्गात् उत्तरामृचं ऽजीवारुदन्तीऽत्येताम्, सर्वत्र समावेशनान्ते विवाहकर्मण्यस्मिन्निमित्ते ऽयं जपो भवति निमित्तावृत्तौ मन्त्र आवर्तते

prāpte nimitta uttarāṃ japet āpgs_4.6 commentaries: āpgs-anā_4.6: vadhvā svabandhūnāṃ ca rodanaṃnimittaṃ jīvārudantīti liṅgāt uttarāmṛcaṃ 'jīvārudantī'tyetām, sarvatra samāveśanānte vivāhakarmaṇyasminnimitte 'yaṃ japo bhavati nimittāvṛttau mantra āvartate


6

आप्ग्स्-तात्_4.6: जीवांरुदन्तीऽति मन्त्रलिङ्गनुरूपे निमित्ते प्राप्ते मात्रादिभिः कन्यकया वा अन्योन्यवियोगचिन्तया रोदने कृते इमामृचं जपेत्

āpgs-tāt_4.6: jīvāṃrudantī'ti mantraliṅganurūpe nimitte prāpte mātrādibhiḥ kanyakayā vā anyonyaviyogacintayā rodane kṛte imāmṛcaṃ japet


7

  1. तस्याः स्नानार्थजलाहरणार्थ युग्मानां ब्राह्मणानां प्रेषणम् युग्मान्समवेतान् मन्त्रवत उत्तरयाद्भ्यः प्रहिणुयात् आप्ग्स्_4.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.7: वधूस्नापनार्थानामपामाहरणंउत्तरयर्चाऽव्युक्षत्क्रूरऽमि त्येतया मन्त्रवतःप्रहिणुयात् प्रस्थापयेत् ऽतथा मङ्गलानीऽत्येव सिद्धे युग्मवचनं पञ्चभिर्मन्त्रैः स्नापनं वक्ष्यति, तत्र प्रतिमन्त्रं स्नापनावृत्तिः तत्र च स्नापनस्यायुग्मत्वात् तदर्थानामुदकुम्भानामप्ययुग्मत्वं स्यात् एवमाहर्तॄणां ब्राह्मणानामपि अतो युग्मानित्युच्यते तेन प्रतिमन्त्रं कुभ्भभेद- प्रतिकुभ्भं ब्राह्मणभेदश्च सिद्धो भवति तत्र यदि चत्वारः कुम्भाः चतुर्थेन कुब्भेन चतुर्थपञ्चमाभ्यां मन्त्राभ्यामभिषेकः यदा त्वष्टौ तदा प्रतिमन्त्रं पञ्चभिस्तूष्णीमितरैः समवेतवचनमुदकाहरणे सह प्रवृत्त्यर्थम् मन्त्रवत इति ब्राह्मणानां ग्रहणम्,"आस्यै ब्राह्मणा"इति मन्त्रे दर्शनात्

4. tasyāḥ snānārthajalāharaṇārtha yugmānāṃ brāhmaṇānāṃ preṣaṇam yugmānsamavetān mantravata uttarayādbhyaḥ prahiṇuyāt āpgs_4.7 commentaries: āpgs-anā_4.7: vadhūsnāpanārthānāmapāmāharaṇaṃuttarayarcā'vyukṣatkrūra'mi tyetayā mantravataḥprahiṇuyāt prasthāpayet 'tathā maṅgalānī'tyeva siddhe yugmavacanaṃ pañcabhirmantraiḥ snāpanaṃ vakṣyati, tatra pratimantraṃ snāpanāvṛttiḥ tatra ca snāpanasyāyugmatvāt tadarthānāmudakumbhānāmapyayugmatvaṃ syāt evamāhartṝṇāṃ brāhmaṇānāmapi ato yugmānityucyate tena pratimantraṃ kubhbhabheda- pratikubhbhaṃ brāhmaṇabhedaśca siddho bhavati tatra yadi catvāraḥ kumbhāḥ caturthena kubbhena caturthapañcamābhyāṃ mantrābhyāmabhiṣekaḥ yadā tvaṣṭau tadā pratimantraṃ pañcabhistūṣṇīmitaraiḥ samavetavacanamudakāharaṇe saha pravṛttyartham mantravata iti brāhmaṇānāṃ grahaṇam,"āsyai brāhmaṇā"iti mantre darśanāt


7

आप्ग्स्-तात्_4.7: युग्मान् समसङ्ख्याकान् समवेतान्मन्त्रवतैति पूर्ववत् उत्तरयाऽव्युक्षत्क्रूरमऽइत्येतया प्रैषत्वादुच्चैः प्रयुक्तयाद्भ्यः प्रहिणुयात्वधूस्नापनार्था उप आहर्तु प्रेषयेत् एते च ब्राह्ममा एव,ऽआस्यै ब्राह्मणाऽइति मन्त्रलिङ्गात् ते च ब्राह्मणा यास्वप्सु पुरुषाः स्नानादिषु पूर्व न मृताः ताभ्यस्तृणावकाद्यपनीयाप आनन्यन्ति;ऽअवीरघ्नीःऽइति मन्त्रलिङ्गात्

āpgs-tāt_4.7: yugmān samasaṅkhyākān samavetānmantravataiti pūrvavat uttarayā'vyukṣatkrūram'ityetayā praiṣatvāduccaiḥ prayuktayādbhyaḥ prahiṇuyātvadhūsnāpanārthā upa āhartu preṣayet ete ca brāhmamā eva,'āsyai brāhmaṇā'iti mantraliṅgāt te ca brāhmaṇā yāsvapsu puruṣāḥ snānādiṣu pūrva na mṛtāḥ tābhyastṛṇāvakādyapanīyāpa ānanyanti;'avīraghnīḥ'iti mantraliṅgāt


8

  1. तस्याः स्नापनम्, अहतवस्रधारणं, योक्त्रसन्नहनं च उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाहतेन वाससाऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति आप्ग्स्_4.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.8: ततस्तैरप्स्वाहृतासुतस्यावध्वाशिशरसिदर्भेणवंदर्भैः परिकल्पितं मण्डलंउत्तरेण यजुषाऽअर्यम्णो अग्निऽमित्यनेननिधाय तस्मिन्निण्वे इत्तरया ऽखे ऽनसऽइत्यनया दक्षिणं युगच्छिद्रं दक्षिमस्या युगधुरो बाह्यच्छिद्रंप्रतिष्ठाप्य तस्मिन्छिद्रे सुवर्णमुत्तरयर्चाऽशं ते हिरण्यऽमित्येतयान्तर्धायताभिरद्भिस्तामुत्तराभिः प्चभिःऽहिरण्यवर्णाऽइत्येताभिः प्रतिमन्त्रं स्नापयति कथं पुनच्छिद्रस्यान्तर्धानेन स्नापनं संभवति तथान्तर्धानं कुरुते यथोदकमवस्रवति ततस्तामुत्तरयर्च्चा ऽपरि त्वा गिर्वणो गिरऽइत्येतयाहतेन वाससाऽच्छादयति स्वयमेव मन्त्रमुक्त्वा परिधापयति आच्छाद्याचमय्य उत्तरयर्चा आशासानेत्येतया योक्तत्रेण सन्नह्यति ऊर्ध्वज्ञुमासीना(आपश्रौ.2-5-2) मित्यादिदार्शपौर्णमासिको विशेष इहेष्यते

5. tasyāḥ snāpanam, ahatavasradhāraṇaṃ, yoktrasannahanaṃ ca uttareṇa yajuṣā tasyāśśirasi darbheṇvaṃ nidhāya tasminnuttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇamuttarayāntardhāyottarābhiḥ pañcabhissnāpayitvottarayāhatena vāsasā'cchādyottarayā yoktreṇa sannahyati āpgs_4.8 commentaries: āpgs-anā_4.8: tatastairapsvāhṛtāsutasyāvadhvāśiśarasidarbheṇavaṃdarbhaiḥ parikalpitaṃ maṇḍalaṃuttareṇa yajuṣā'aryamṇo agni'mityanenanidhāya tasminniṇve ittarayā 'khe 'nasa'ityanayā dakṣiṇaṃ yugacchidraṃ dakṣimasyā yugadhuro bāhyacchidraṃpratiṣṭhāpya tasminchidre suvarṇamuttarayarcā'śaṃ te hiraṇya'mityetayāntardhāyatābhiradbhistāmuttarābhiḥ pcabhiḥ'hiraṇyavarṇā'ityetābhiḥ pratimantraṃ snāpayati kathaṃ punacchidrasyāntardhānena snāpanaṃ saṃbhavati tathāntardhānaṃ kurute yathodakamavasravati tatastāmuttarayarccā 'pari tvā girvaṇo gira'ityetayāhatena vāsasā'cchādayati svayameva mantramuktvā paridhāpayati ācchādyācamayya uttarayarcā āśāsānetyetayā yoktatreṇa sannahyati ūrdhvajñumāsīnā(āpaśrau.2-5-2) mityādidārśapaurṇamāsiko viśeṣa iheṣyate


8

आप्ग्स्-तात्_4.8: दर्भेण्वं,दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारमित्यर्थः तदुत्तरेण यजुषा ऽअर्यम्णो अग्निंऽइत्यनेन वध्वाश्शिरसि निधाय तस्मिन्निण्वेवरौत्तरयाखे ऽनसऽइत्येतयादक्षिणं युगछिद्रं , युगस्य दक्षिणं च्द्रं दक्षिमस्या धुरो बारह्यछिद्रं प्रतिष्ठाप्य, छिद्रे सुवर्णमुत्तरयाऽशं ते हिरण्यमऽइत्येतयान्तर्धाय, उत्तराभिःऽहिरम्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽइत्यादिभिः पञ्चभिःऋग्भिः स्नापयति एतच्च पञ्चानामन्ते सकृदेव, ऽवचनादेकं कर्म बहुमन्त्रमऽ(आपप.1-47) इत्युक्तत्वात् एवं सर्वत्र एवं विधेष्वन्नप्राशनादिषु केचित्- पञ्चभिरिति वचनात् प्रतिमन्त्रमिति तन्न;तिसृभ्यो ऽ; वशिष्टयोर्विकल्पनिवृत्त्यर्थत्वादस्य इतरथा क्रियाभ्यावृत्तिवाचक प्रत्ययाश्रुतेः गुणार्थ प्रधानस्नानाभ्यावृत्तिकल्पनापत्तिः, प्रयुक्तिगौरवं च उत्तरया ऽपरि त्वार् र्वणो गिरःऽइत्येतया अहतेन अनिवसितेन वाससा परिधाप्य, द्विराचमप्य, उत्तरया ऽआशासाना सौमनसमऽ; इत्येतया योक्त्रेण सन्नग्यति कृत्स्नविधानं केचित्-ऐष्टिकसन्नहनविधिप्रदर्शनार्थमिति

āpgs-tāt_4.8: darbheṇvaṃ,darbhaiḥ parikalpitamiṇvaṃ nigalākṛtiṃ parimaṇḍalākāramityarthaḥ taduttareṇa yajuṣā 'aryamṇo agniṃ'ityanena vadhvāśśirasi nidhāya tasminniṇvevarauttarayākhe 'nasa'ityetayādakṣiṇaṃ yugachidraṃ , yugasya dakṣiṇaṃ cdraṃ dakṣimasyā dhuro bārahyachidraṃ pratiṣṭhāpya, chidre suvarṇamuttarayā'śaṃ te hiraṇyam'ityetayāntardhāya, uttarābhiḥ'hiramyavarṇāśśucayaḥ pāvakāḥ pracakramurhitvā'ityādibhiḥ pañcabhiḥṛgbhiḥ snāpayati etacca pañcānāmante sakṛdeva, 'vacanādekaṃ karma bahumantram'(āpapa.1-47) ityuktatvāt evaṃ sarvatra evaṃ vidheṣvannaprāśanādiṣu kecit- pañcabhiriti vacanāt pratimantramiti tanna;tisṛbhyo '; vaśiṣṭayorvikalpanivṛttyarthatvādasya itarathā kriyābhyāvṛttivācaka pratyayāśruteḥ guṇārtha pradhānasnānābhyāvṛttikalpanāpattiḥ, prayuktigauravaṃ ca uttarayā 'pari tvār rvaṇo giraḥ'ityetayā ahatena anivasitena vāsasā paridhāpya, dvirācamapya, uttarayā 'āśāsānā saumanasam'; ityetayā yoktreṇa sannagyati kṛtsnavidhānaṃ kecit-aiṣṭikasannahanavidhipradarśanārthamiti


9

अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः आप्ग्स्_4.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.9: अथ सन्नहनानन्तरंऽयत्र क्वचाग्निऽमित्यादिकल्पेनाग्निं प्रसाधयति मथित्वा श्रोत्रियागाराद्वाहृत्य ततो वधूमग्निमभ्यानयति उत्तरयर्चा ऽपूषात्वेतऽइत्येतया आनयनमन्त्रो ऽयम् हस्तग्रहणं तु तूष्णीमेव उदगग्रवचनं दक्षिणाग्रनिवृत्त्यर्थम्

athaināmuttarayā dakṣiṇe haste gṛhītvāgnimabhyānīyāpareṇāgnimudagagraṃ kaṭamāstīrya tasminnupaviśata uttaro varaḥ āpgs_4.9 commentaries: āpgs-anā_4.9: atha sannahanānantaraṃ'yatra kvacāgni'mityādikalpenāgniṃ prasādhayati mathitvā śrotriyāgārādvāhṛtya tato vadhūmagnimabhyānayati uttarayarcā 'pūṣātveta'ityetayā ānayanamantro 'yam hastagrahaṇaṃ tu tūṣṇīmeva udagagravacanaṃ dakṣiṇāgranivṛttyartham


9

आप्ग्स्-तात्_4.9: अथशब्द उक्तार्थः अर्थकृत्यप्रतिषेधार्थ इति एनां वधूंदक्षिणे हस्ते गृहीत्वा, उत्तरयाऽपूषा त्वेतो नयतुऽइत्येतया अग्निमभ्यानीयाग्न्यभिमुखमानयति;नयत्विति मन्त्रलिङ्गात् व्यवहिते ऽपि नयने विनियोगातपरेणाग्निमग्नेरदूरेणऽपस्चादुगग्रं कटमास्तीर्य, तस्मिन्कटे युगपदुपविशतः, यतोत्तरो वरो दक्षिणा वधूः

āpgs-tāt_4.9: athaśabda uktārthaḥ arthakṛtyapratiṣedhārtha iti enāṃ vadhūṃdakṣiṇe haste gṛhītvā, uttarayā'pūṣā tveto nayatu'ityetayā agnimabhyānīyāgnyabhimukhamānayati;nayatviti mantraliṅgāt vyavahite 'pi nayane viniyogātapareṇāgnimagneradūreṇa'pascādugagraṃ kaṭamāstīrya, tasminkaṭe yugapadupaviśataḥ, yatottaro varo dakṣiṇā vadhūḥ


10

  1. अग्नेरुपसमाधानादि कर्म अग्नेरुपसमाधानाद्याज्यभागान्ते ऽथैनामादितो द्वाभ्यामभिमन्त्रयेत आप्ग्स्_4.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.10: अथैवमुपविश्याग्नेरुपसमाधानादि कर्म प्रतिपद्यते अग्निमिध्वा प्रागग्रैरित्यादि आज्यभागान्ते कर्मणि कृते अथानन्तरमुपोत्थाय एनामासीनां वझूं तृतीयस्यानुवाकस्यादितो द्वाभ्यामृग्भ्यां ऽसोमः प्रथमऽइत्येताभ्यामभिमन्त्रयेत अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थम् आज्यभागान्तग्रहणमभिमन्णादेरुत्तरस्य कर्मण- कालोपदेशार्थम् अथशब्दो ऽवस्थान्तरप्रदर्शनार्थः आज्यभागान्तमासीनः कृत्वा अतोत्थायाभिमन्त्रणादि प्रतिपद्यत इति तथा च बोधायनः-अथास्या उपोत्थाय हृदयदेश (बौगृ.1-4-1) मिति आश्वलायनश्च-तिष्ठन् प्राङ्मुखः प्रत्यङ्मुख्या आसीनाया (आश्व.1-7-3) इति एनामित्युच्यते अग्नेरभिमन्त्रणं मा शङ्कीति उत्तराभ्यामिति वक्तव्ये आदितो द्वाभ्यां इत्युच्यते मन्त्रसमाम्नाये अनुवाकव्यवस्थाप्रदर्शनार्थम् तेन"शेषं समावेशने जपे"दित्यादावनुवाकशेषस्य ग्रहणम्

6. agnerupasamādhānādi karma agnerupasamādhānādyājyabhāgānte 'thaināmādito dvābhyāmabhimantrayeta āpgs_4.10 commentaries: āpgs-anā_4.10: athaivamupaviśyāgnerupasamādhānādi karma pratipadyate agnimidhvā prāgagrairityādi ājyabhāgānte karmaṇi kṛte athānantaramupotthāya enāmāsīnāṃ vajhūṃ tṛtīyasyānuvākasyādito dvābhyāmṛgbhyāṃ 'somaḥ prathama'ityetābhyāmabhimantrayeta agnerupasamādhānādi vacanaṃ tantraprāptyartham ājyabhāgāntagrahaṇamabhimanṇāderuttarasya karmaṇa- kālopadeśārtham athaśabdo 'vasthāntarapradarśanārthaḥ ājyabhāgāntamāsīnaḥ kṛtvā atotthāyābhimantraṇādi pratipadyata iti tathā ca bodhāyanaḥ-athāsyā upotthāya hṛdayadeśa (baugṛ.1-4-1) miti āśvalāyanaśca-tiṣṭhan prāṅmukhaḥ pratyaṅmukhyā āsīnāyā (āśva.1-7-3) iti enāmityucyate agnerabhimantraṇaṃ mā śaṅkīti uttarābhyāmiti vaktavye ādito dvābhyāṃ ityucyate mantrasamāmnāye anuvākavyavasthāpradarśanārtham tena"śeṣaṃ samāveśane jape"dityādāvanuvākaśeṣasya grahaṇam


10

आप्ग्स्-तात्_4.10: अथं तन्त्रोपदेशः क्रमार्थ इत्युक्तमेव यदि तु लाजहोमास्तन्त्रशून्या आगन्तुकाः, तदा स क्रमतन्त्रविधानार्तः अथोति पूर्ववत् केचित् कल्पान्तरसिद्धो पोत्थानानन्तर्यप्रदर्शमार्थमिति एनांवझूं वरःआदित अनुवाकस्य ऽसोमः प्रथमःऽइत्यस्य ऽसोमः प्रथमः ऽइतिद्वाभ्यां ऋग्भ्यामभिमन्त्रयेत

āpgs-tāt_4.10: athaṃ tantropadeśaḥ kramārtha ityuktameva yadi tu lājahomāstantraśūnyā āgantukāḥ, tadā sa kramatantravidhānārtaḥ athoti pūrvavat kecit kalpāntarasiddho potthānānantaryapradarśamārthamiti enāṃvajhūṃ varaḥādita anuvākasya 'somaḥ prathamaḥ'ityasya 'somaḥ prathamaḥ 'itidvābhyāṃ ṛgbhyāmabhimantrayeta


11

  1. पाणिग्रहणम् अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात् आप्ग्स्_4.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.11: अथ तथैवावस्थितःअस्यै अस्याः तथैवासीनाया दक्षिणमुत्तानं हस्तं गृह्णीयात् दक्षिणेन नीचान्यक्भूतेन पस्तेन इदं पाणीग्रहणं नामकर्म दक्षिणेनेति न वक्तव्यम् एकपाणिसाध्येषु कर्मसु दक्षिणस्यैव प्रसिद्धत्वात् अथाप्रसिद्धः, अन्यत्रानियमः प्राप्नोति यथात्रैव पुरस्तादुपनयने च एवं तहि नात्र दक्षिमहस्तो विधीयते किं तर्हि?न्यक्ताविदानार्तमनूद्यते यो ऽयं दक्षिणो हस्त- सर्वकर्मसु प्रसिद्धः तेन नीचापाणिग्रहणमिह कर्तव्यमिति अस्मादेव चानुवादात् सर्वत्र दक्षिणपाणिरिति सिद्धम्

7. pāṇigrahaṇam athāsyai dakṣiṇena nīcā hastena dakṣiṇamuttānaṃ hastaṃ gṛhṇīyāt āpgs_4.11 commentaries: āpgs-anā_4.11: atha tathaivāvasthitaḥasyai asyāḥ tathaivāsīnāyā dakṣiṇamuttānaṃ hastaṃ gṛhṇīyāt dakṣiṇena nīcānyakbhūtena pastena idaṃ pāṇīgrahaṇaṃ nāmakarma dakṣiṇeneti na vaktavyam ekapāṇisādhyeṣu karmasu dakṣiṇasyaiva prasiddhatvāt athāprasiddhaḥ, anyatrāniyamaḥ prāpnoti yathātraiva purastādupanayane ca evaṃ tahi nātra dakṣimahasto vidhīyate kiṃ tarhi?nyaktāvidānārtamanūdyate yo 'yaṃ dakṣiṇo hasta- sarvakarmasu prasiddhaḥ tena nīcāpāṇigrahaṇamiha kartavyamiti asmādeva cānuvādāt sarvatra dakṣiṇapāṇiriti siddham


11

आप्ग्स्-तात्_4.11: अनेन नित्यविधिना ऽसो ऽभीवाङ्गुष्ठमऽइत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः इतरथा स इति न ब्रूयात् अस्मै अस्या वध्वाः;षष्ठ्यर्थे चतुर्थी उत्तानं दक्षिणं हस्तंवरस्स्वेननीचा न्यग्णूतेन दक्षिमहस्तेन अभीवाङ्गुष्ठंअभिरुपर्यथः इवेत्यवधारकः उपर्यङ्गुष्ठमेव गृह्णीयात्

āpgs-tāt_4.11: anena nityavidhinā 'so 'bhīvāṅguṣṭham'ityetāvanmātrasya vyavahitasyāpi sambandhaḥ itarathā sa iti na brūyāt asmai asyā vadhvāḥ;ṣaṣṭhyarthe caturthī uttānaṃ dakṣiṇaṃ hastaṃvarassvenanīcā nyagṇūtena dakṣimahastena abhīvāṅguṣṭhaṃabhiruparyathaḥ ivetyavadhārakaḥ uparyaṅguṣṭhameva gṛhṇīyāt


12

अथ काम्यं विधिदिवयमाह 8. तत्र कामनायां विशेषः यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् आप्ग्स्_4.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.12: अङ्गुलीरेव नाङ्गुष्ठं नापि पाणितलम् पूर्वोक्तस्यैवायं कामसंयुक्तो विशेषविधिः तेनेहापि दक्षिणेन नीचा हस्तेनेत्येवमादयो विशेषा भवन्ति

atha kāmyaṃ vidhidivayamāha 8. tatra kāmanāyāṃ viśeṣaḥ yadi kāmayeta strīreva janayeyamityaṅgulīreva gṛhṇīyāt āpgs_4.12 commentaries: āpgs-anā_4.12: aṅgulīreva nāṅguṣṭhaṃ nāpi pāṇitalam pūrvoktasyaivāyaṃ kāmasaṃyukto viśeṣavidhiḥ tenehāpi dakṣiṇena nīcā hastenetyevamādayo viśeṣā bhavanti


12

आप्ग्स्-तात्_4.12: अङ्गुलीरेव नाङ्गुष्ठम् शेषं नित्यवत्

āpgs-tāt_4.12: aṅgulīreva nāṅguṣṭham śeṣaṃ nityavat


13

यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सो ऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति आप्ग्स्_4.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.13: गृह्णीयादित्यनुवर्तते

yadi kāmayeta puṃsa eva janayeyamityaṅguṣṭhameva so 'bhīvāṅguṣṭhamabhīva lomāni gṛhṇāti āpgs_4.13 commentaries: āpgs-anā_4.13: gṛhṇīyādityanuvartate


13

आप्ग्स्-तात्_4.13: अभीव लोमानि, यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा गृह्णाति शेषं नित्यवदेव अतो वध्वङ्गुष्ठमप्युत्तानम्

āpgs-tāt_4.13: abhīva lomāni, yathā varasyāṅguṣṭhalomāni sarvāṇyevopari bhavanti tathā gṛhṇāti śeṣaṃ nityavadeva ato vadhvaṅguṣṭhamapyuttānam


15

पूर्वोक्तस्य नित्यस्य काम्ययोश्च मन्त्रानाह गृभ्णामि त इत्येताभिश्चतसृभिः आप्ग्स्_4.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.14: यः माणिग्रहणे कामं नेच्छति स पाणिमभीवाङ्गुष्ठमभीव लोमानि गृह्णीयादित्येव अभिशब्द उपरिभावे इव शब्द- ईषदर्थे यथा लोमानि हस्तजातानि इषदभिस्पृषाट्नि भवन्ति अङ्गु#ठञ्चतथा गृह्णीयादित्यर्थः "लोमान्ते हस्तं शाङ्गुष्ठमुभयकाम" (आश्वगृ-7-5) इत्याश्वलायनः

pūrvoktasya nityasya kāmyayośca mantrānāha gṛbhṇāmi ta ityetābhiścatasṛbhiḥ āpgs_4.14 commentaries: āpgs-anā_4.14: yaḥ māṇigrahaṇe kāmaṃ necchati sa pāṇimabhīvāṅguṣṭhamabhīva lomāni gṛhṇīyādityeva abhiśabda uparibhāve iva śabda- īṣadarthe yathā lomāni hastajātāni iṣadabhispṛṣāṭni bhavanti aṅgu#ṭhañcatathā gṛhṇīyādityarthaḥ "lomānte hastaṃ śāṅguṣṭhamubhayakāma" (āśvagṛ-7-5) ityāśvalāyanaḥ


14

आप्ग्स्-तात्_4.14: गृह्णीतीति सम्बन्धः सर्वासामन्त एव

āpgs-tāt_4.14: gṛhṇītīti sambandhaḥ sarvāsāmanta eva


16

  1. सप्तपदीगमनम् अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय त्येकमिष इति आप्ग्स्_4.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.15: अथेदानीमेनां वधूमृत्त्थाप्योत्तरेणाग्निं यो देशस्तस्मात् प्रक्रम्य प्राचीं वा दिशमभि उदीचीं वा दक्षिणेन पदा सप्त पदानि प्रक्रामयति एकमिष इत्येतैर्मन्त्रैः प्राग्गतान्युदग्गतानि वा पदानि निधापयतीतियर्थः अत्र स्वयमेव पादं गृहीत्वा मन्त्रांश्चोक्त्वा निधापयति संभाराक्रमणवत् दक्षिणेन पदेति मन्त्राणां दक्षिणसम्बन्धार्थ पूर्वप्रवृत्त्यर्थ च, तस्मात्तूष्णीमितरस्य पश्चादनुप्रवृत्तिः इह सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रमित्यत्र एतैः प्रतिमन्त्रमिति न वक्तव्यम् यथाचैतत्तथा तत्रैव वक्ष्यामः तस्मात्तयोरिहपकर्षेण संबन्धः एकमिष इत्येतैः प्रतिमन्त्रमिति इतरथा प्रतिपदं मन्त्रसम्बन्धो न सिध्यति पदानाञ्च सप्तसंख्यानियमो ऽतोत्तराभिस्तिसृभिः प्रदक्षिणऽमित्यत्र तिसृणामन्ते परिक्तमणारम्भः तद्वदिहापि स्यात् ऽविष्णुस्त्वा न्वेत्विऽति सर्वत्रा नुषजन् जपति प्रथमोत्तमयोः पठितत्वात्

9. saptapadīgamanam athaināmutteraṇāgniṃ dakṣiṇena padā prācīmudīcīṃ vā diśamabhi prakramaya tyekamiṣa iti āpgs_4.15 commentaries: āpgs-anā_4.15: athedānīmenāṃ vadhūmṛttthāpyottareṇāgniṃ yo deśastasmāt prakramya prācīṃ vā diśamabhi udīcīṃ vā dakṣiṇena padā sapta padāni prakrāmayati ekamiṣa ityetairmantraiḥ prāggatānyudaggatāni vā padāni nidhāpayatītiyarthaḥ atra svayameva pādaṃ gṛhītvā mantrāṃścoktvā nidhāpayati saṃbhārākramaṇavat dakṣiṇena padeti mantrāṇāṃ dakṣiṇasambandhārtha pūrvapravṛttyartha ca, tasmāttūṣṇīmitarasya paścādanupravṛttiḥ iha somāya janivide svāhetyetaiḥ pratimantramityatra etaiḥ pratimantramiti na vaktavyam yathācaitattathā tatraiva vakṣyāmaḥ tasmāttayorihapakarṣeṇa saṃbandhaḥ ekamiṣa ityetaiḥ pratimantramiti itarathā pratipadaṃ mantrasambandho na sidhyati padānāñca saptasaṃkhyāniyamo 'tottarābhistisṛbhiḥ pradakṣiṇa'mityatra tisṛṇāmante pariktamaṇārambhaḥ tadvadihāpi syāt 'viṣṇustvā nvetvi'ti sarvatrā nuṣajan japati prathamottamayoḥ paṭhitatvāt


15

आप्ग्स्-तात्_4.15: अथाग्नेरदूरेणोत्तरत आरभ्यैनांदक्षिणेन पदापादेनप्राचीमुदीचीं वा दिशमभिप्रागायतान्युदगायतानि वा सप्त पदानि प्रक्रमयति;ऽएकमिषेऽइत्यादिभिस्सप्ताभिड- ऽविष्णुस्त्वान्वेषुऽइत्यनुषक्तैः प्रतिमन्त्रम्

āpgs-tāt_4.15: athāgneradūreṇottarata ārabhyaināṃdakṣiṇena padāpādenaprācīmudīcīṃ vā diśamabhiprāgāyatānyudagāyatāni vā sapta padāni prakramayati;'ekamiṣe'ityādibhissaptābhiḍa- 'viṣṇustvānveṣu'ityanuṣaktaiḥ pratimantram


17

सखेति सप्तमे पदे जपति आप्ग्स्_4.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_4.16: उक्तं सप्तपदानि प्रतिमन्त्रं प्रक्रमयतीति तत्र सप्तमे पदे निहिते पादमुपसंगृह्यैव ऽसखासप्तपदेऽत्यापभ्य जपति होममन्त्रेभ्यः प्राक् ये मन्त्राः तानित्यर्थः त कल्पान्तरे दृश्यते ऽसप्तमं पदमुपसंगृह्येति

sakheti saptame pade japati āpgs_4.16 commentaries: āpgs-anā_4.16: uktaṃ saptapadāni pratimantraṃ prakramayatīti tatra saptame pade nihite pādamupasaṃgṛhyaiva 'sakhāsaptapade'tyāpabhya japati homamantrebhyaḥ prāk ye mantrāḥ tānityarthaḥ ta kalpāntare dṛśyate 'saptamaṃ padamupasaṃgṛhyeti


1

प्राग्धोमादित्युच्यते जपपरिमाणार्थम्

prāgdhomādityucyate japaparimāṇārtham


16

आप्ग्स्-तात्_4.16: स वरस्सप्तमे पदे निहिते ऽसखा सप्तदाऽइत्यादि ऽसूनृतेऽइत्यन्तं जपति, चातुस्स्वर्येणैव

āpgs-tāt_4.16: sa varassaptame pade nihite 'sakhā saptadā'ityādi 'sūnṛte'ityantaṃ japati, cātussvaryeṇaiva


2

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने चतुर्थः खण्डः अथ पञ्चमः खण्डः 10 वैवाहिकाः प्रधानहोमाः प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहे त्येतैः प्रतिमन्त्रम् आप्ग्स्_5.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.1: समाप्य जपमथाग्निं प्रदक्षिणं करोति तया सह प्रदक्षिणं परिक्तामतीत्यर्थः सर्वत्र दक्षिणे हस्ते गृहीत्वा परिक्रमणम् ततो यतास्थानमुपविशतः यस्य यत् स्थानमुपदिष्टं ऽउत्तरो वरऽइति तस्मिन्नित्यर्थः उपविश्यवध्वामन्वारब्धायांअन्वरब्धवत्यां उत्तराष्षोडश प्रधानाहुतीर्जुहोति होमाय जनिविदेस्वाहेत्योतैः प्रतिमन्त्रम् दर्वीहोमत्वादेवोपवेशने सिद्धे उपविश्येत्युच्यते नियमार्थ-उत्तरा एव षोडशोपविश्यजुहोति, अन्याः स्थित्वैवेति तेन लाजास्तिष्ठता होतव्याः तथा च कल्पान्तरेषु बहुषु दृश्यते बोधायनानां बह्वृचानां छन्दोगानां वाजसनेयिनामाथर्वणिकानाञ्च उपहोमोषु यथाप्राप्तमासनमेव भवति एतच्च वक्ष्यामः अन्ये त्वासीनयोरेव होममिच्छन्ति ऽसोमाय जनिविदऽइति मन्त्रनिर्देशो होममन्त्राणामदिप्रत्ययनार्थः तेन प्रागेव तस्मात् जपमन्त्राः तदुक्तं पुरस्तात् प्राग्घोमादिति उत्तरा आहुती रित्येव प्रतिमन्त्रं होमस्सिद्धः यथान्येषु होमेषु एतैः प्रतिमन्त्रमित्येतत्तु पुरस्तादपकृष्यत इत्युक्तम् तत्रादितश्चत्वारो मन्त्राः स्वाहाकारान्ताः पठिताः ततो द्वादसर्चः, तास्वन्ते स्वाहाकारः जुहोतिचोदनः स्वाहाकारप्रदानः इति

iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane caturthaḥ khaṇḍaḥ atha pañcamaḥ khaṇḍaḥ 10 vaivāhikāḥ pradhānahomāḥ prāgghomāt pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśyānvārabdhāyāmuttarā āhutīrjuhoti somāya janivide svāhe tyetaiḥ pratimantram āpgs_5.1 commentaries: āpgs-anā_5.1: samāpya japamathāgniṃ pradakṣiṇaṃ karoti tayā saha pradakṣiṇaṃ pariktāmatītyarthaḥ sarvatra dakṣiṇe haste gṛhītvā parikramaṇam tato yatāsthānamupaviśataḥ yasya yat sthānamupadiṣṭaṃ 'uttaro vara'iti tasminnityarthaḥ upaviśyavadhvāmanvārabdhāyāṃanvarabdhavatyāṃ uttarāṣṣoḍaśa pradhānāhutīrjuhoti homāya janividesvāhetyotaiḥ pratimantram darvīhomatvādevopaveśane siddhe upaviśyetyucyate niyamārtha-uttarā eva ṣoḍaśopaviśyajuhoti, anyāḥ sthitvaiveti tena lājāstiṣṭhatā hotavyāḥ tathā ca kalpāntareṣu bahuṣu dṛśyate bodhāyanānāṃ bahvṛcānāṃ chandogānāṃ vājasaneyināmātharvaṇikānāñca upahomoṣu yathāprāptamāsanameva bhavati etacca vakṣyāmaḥ anye tvāsīnayoreva homamicchanti 'somāya janivida'iti mantranirdeśo homamantrāṇāmadipratyayanārthaḥ tena prāgeva tasmāt japamantrāḥ taduktaṃ purastāt prāgghomāditi uttarā āhutī rityeva pratimantraṃ homassiddhaḥ yathānyeṣu homeṣu etaiḥ pratimantramityetattu purastādapakṛṣyata ityuktam tatrāditaścatvāro mantrāḥ svāhākārāntāḥ paṭhitāḥ tato dvādasarcaḥ, tāsvante svāhākāraḥ juhoticodanaḥ svāhākārapradānaḥ iti

Section (cont. 6)

1

आप्ग्स्-तात्_5.1: सखेति जपित्वा,प्राग्घोमात् होमात्प्राक् अग्निप्रदक्षिणमेव वध्वा सहकुर्यान्नान्यदर्थकृत्यमावश्यकमपि;ऽप्राग्घोमादिऽत्यधिकग्रहणात् ततो यथास्थानं ऽउत्तरो वरः इत्युक्तस्थानानतिक्रमेण, न त्वनियमेन,उपविश्यवध्वामन्वारब्धायामुत्तराःउत्तरमन्त्रकरणिका आहुतीर्होमान् जुहोति के पुनस्त उत्तरे मन्त्राः?कथं च जुहोति ?इत्यत आह- ऽसोमाय जनिविदेऽइत्यादयष्षोडश मन्त्राः तेषामदितश्चत्वारि यजूंषि, ऽप्रेतो मुञ्चातिऽइत्यादयो द्वादशर्चः एतैः- प्रतिमन्त्रं प्रतिस्वाहाकारं जुहोति, न पुनः ऽयज्ञंस्वाहा वाचि स्वाहा वातेधास्स्वाहाऽ(तैसं.1-1-13) इतिवत् ऽअवदीक्षमदास्थ स्वाहाऽ(एका.1-4-4) इत्येतेनैव स्वाहाकारेण होमः पूर्वेषामहोमार्थता च जुहोशब्दार्थश्च तद्धितेन चतुर्थ्या मन्त्रलिङ्गादिना वा प्रतिपन्नाश्चोदिता देवताश्चोदितेनैव चतुर्थ्यन्तशब्देनोदिश्य यजमानेन त्यक्तस्य हविषश्चोदिताधारे प्रक्षेपः इह च मन्त्रलिङ्गात् सोमादयो देवताः ताश्च न जनिवित्त्वादिविसेषविशिष्टाः होमविध्यनुपपत्त्या हि मन्त्रप्रतिपन्नानां देवतात्वं कल्प्यम्, साच देवतामात्रकल्पनयो शाम्यति न पुनर्निर्बीजां गुर्वीं विशिष्टकल्पनां प्रयुक्तिगौरवापादिकामयुक्तामपेक्षते न च ग्राहकमन्त्राम्नानतयोरनुपपत्त्या विशिष्टानां देवतात्वकल्पना विशेषणानां ऽमूर्धा दिवः ककुतऽ; इत्यादिवत् स्तुत्त्या देवताधिष्ठानान्वये ऽपि तयोश्च रितार्थत्वात् हविश्चाज्यमाऽजुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयातऽ(आपप.1-25) इति परिभाषावचनात् विवादादेरयज्ञत्वे ऽपि यज्ञेष्वधिकरिष्यमाणपुरुषदेहयोग्यतापादकत्वेन तत्र यज्ञधर्मा युक्ता एव अन्यथा आधानपवमानेष्ट्यादिष्वयज्ञेषु ऽयज्ञोपवीती प्रदक्षिणमऽ(आपप.2-15) इत्यादयो न प्रापनुयुः होमाधारस्तूपसमाहितो ऽग्निस्स्थित एव

āpgs-tāt_5.1: sakheti japitvā,prāgghomāt homātprāk agnipradakṣiṇameva vadhvā sahakuryānnānyadarthakṛtyamāvaśyakamapi;'prāgghomādi'tyadhikagrahaṇāt tato yathāsthānaṃ 'uttaro varaḥ ityuktasthānānatikrameṇa, na tvaniyamena,upaviśyavadhvāmanvārabdhāyāmuttarāḥuttaramantrakaraṇikā āhutīrhomān juhoti ke punasta uttare mantrāḥ?kathaṃ ca juhoti ?ityata āha- 'somāya janivide'ityādayaṣṣoḍaśa mantrāḥ teṣāmaditaścatvāri yajūṃṣi, 'preto muñcāti'ityādayo dvādaśarcaḥ etaiḥ- pratimantraṃ pratisvāhākāraṃ juhoti, na punaḥ 'yajñaṃsvāhā vāci svāhā vātedhāssvāhā'(taisaṃ.1-1-13) itivat 'avadīkṣamadāstha svāhā'(ekā.1-4-4) ityetenaiva svāhākāreṇa homaḥ pūrveṣāmahomārthatā ca juhośabdārthaśca taddhitena caturthyā mantraliṅgādinā vā pratipannāścoditā devatāścoditenaiva caturthyantaśabdenodiśya yajamānena tyaktasya haviṣaścoditādhāre prakṣepaḥ iha ca mantraliṅgāt somādayo devatāḥ tāśca na janivittvādiviseṣaviśiṣṭāḥ homavidhyanupapattyā hi mantrapratipannānāṃ devatātvaṃ kalpyam, sāca devatāmātrakalpanayo śāmyati na punarnirbījāṃ gurvīṃ viśiṣṭakalpanāṃ prayuktigauravāpādikāmayuktāmapekṣate na ca grāhakamantrāmnānatayoranupapattyā viśiṣṭānāṃ devatātvakalpanā viśeṣaṇānāṃ 'mūrdhā divaḥ kakut'; ityādivat stuttyā devatādhiṣṭhānānvaye 'pi tayośca ritārthatvāt haviścājyamā'juhotīti codyamāne sarpirājyaṃ pratīyāt'(āpapa.1-25) iti paribhāṣāvacanāt vivādāderayajñatve 'pi yajñeṣvadhikariṣyamāṇapuruṣadehayogyatāpādakatvena tatra yajñadharmā yuktā eva anyathā ādhānapavamāneṣṭyādiṣvayajñeṣu 'yajñopavītī pradakṣiṇam'(āpapa.2-15) ityādayo na prāpanuyuḥ homādhārastūpasamāhito 'gnissthita eva


3

11 वध्वाः अश्मन उपर्यास्थापनम् अथैनामुत्तरेणाग्निं दक्षिणेन पदाश्मानमास्थापयत्यातिष्ठेति आप्ग्स्_5.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.2: पदप्रक्रणणं पदास्थापनमश्मा दृषत्पुत्रः स च प्रागेव पात्रैस्सह प्रतिष्ठापितो भवति

11 vadhvāḥ aśmana uparyāsthāpanam athaināmuttareṇāgniṃ dakṣiṇena padāśmānamāsthāpayatyātiṣṭheti āpgs_5.2 commentaries: āpgs-anā_5.2: padaprakraṇaṇaṃ padāsthāpanamaśmā dṛṣatputraḥ sa ca prāgeva pātraissaha pratiṣṭhāpito bhavati


2

आप्ग्स्-तात्_5.2: व्यक्तार्थम्

āpgs-tāt_5.2: vyaktārtham


4

12 लाजहोमाः अथास्या अञ्जलावुपस्तीर्य द्विर्लअजानोप्याभिघारयति आप्ग्स्_5.3 तस्यास्सोदर्यो लाजानावपतीत्येके आप्ग्स्_5.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.4: अथशब्दः स्थानसम्बन्धार्थः अथोत्थित एवास्याश्चोत्थिताया एवेति तेनावदानप्रभृत्थानमेव भवति तत्र दार्शपौर्णमासिको ऽवदानकल्पः प्रदर्शितः न कल्पान्तरम् तदिहापि प्रत्यभिधागणं पञ्चावत्तञ्च पञ्चावत्तिनां भवति लाजानां च लौकिकः संस्कारः पात्रैश्च सह सादनप्रोक्षणे भवतः अञ्जलेस्तु न सादनादि भवतीत्युक्तम्

12 lājahomāḥ athāsyā añjalāvupastīrya dvirlaajānopyābhighārayati āpgs_5.3 tasyāssodaryo lājānāvapatītyeke āpgs_5.4 commentaries: āpgs-anā_5.4: athaśabdaḥ sthānasambandhārthaḥ athotthita evāsyāścotthitāyā eveti tenāvadānaprabhṛtthānameva bhavati tatra dārśapaurṇamāsiko 'vadānakalpaḥ pradarśitaḥ na kalpāntaram tadihāpi pratyabhidhāgaṇaṃ pañcāvattañca pañcāvattināṃ bhavati lājānāṃ ca laukikaḥ saṃskāraḥ pātraiśca saha sādanaprokṣaṇe bhavataḥ añjalestu na sādanādi bhavatītyuktam


5

सोदर्यो लाजानावपतीति वचनात् उपस्तरणाभिघारणे वरस्यैव भवतः पक्षान्तरे तु तस्यैव सर्वम्

sodaryo lājānāvapatīti vacanāt upastaraṇābhighāraṇe varasyaiva bhavataḥ pakṣāntare tu tasyaiva sarvam


3

आप्ग्स्-तात्_5.4: एते अपि सूत्रे व्यक्तार्थे आचाराल्लाजानां त्रिरावापो जमदग्नीनाम् लाजहोमाश्चापूर्वाः, ऽअस्या अञ्जलावुस्तीयऽइत्यादि कृत्स्नविधानात् पार्वणातिदेशाभावात् पाकयज्ञधर्माग्निमुखप्रत्यभिघारणस्विष्टकृल्ले पाञ्जनानामप्राप्तिरेव केचित्-कृत्स्नाविधानादेव साधारणतन्त्रस्य प्राप्त्यभावात् लाजकिंशुकहोमेषु तन्त्रमध्यस्थं येन जुहोतात्याद्यञ्जलिसंस्कारमपि नेच्छन्ति

āpgs-tāt_5.4: ete api sūtre vyaktārthe ācārāllājānāṃ trirāvāpo jamadagnīnām lājahomāścāpūrvāḥ, 'asyā añjalāvustīya'ityādi kṛtsnavidhānāt pārvaṇātideśābhāvāt pākayajñadharmāgnimukhapratyabhighāraṇasviṣṭakṛlle pāñjanānāmaprāptireva kecit-kṛtsnāvidhānādeva sādhāraṇatantrasya prāptyabhāvāt lājakiṃśukahomeṣu tantramadhyasthaṃ yena juhotātyādyañjalisaṃskāramapi necchanti


6

जुहोती यं नारी ति आप्ग्स्_5.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.5: वरस्यैव जुहोतिक्रिया पात्रस्थानीयो वध्वञ्जलिः

juhotī yaṃ nārī ti āpgs_5.5 commentaries: āpgs-anā_5.5: varasyaiva juhotikriyā pātrasthānīyo vadhvañjaliḥ


5

आप्ग्स्-तात्_5.5: वर एव ऽइयं नारीऽइत्यनया ऋचाभिन्नेन वध्वञ्जलिना देवतीर्थेन लाजान् जुहोति न पार्श्वेन;उपदेशातिदेशोरभावात् केचित्-ऽप्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यऽइत्येष विधिरुत्तरतो वरो ऽभ्यन्तरतो वधूरित्येवंरूपयथास्थाननियमार्थो न युज्यते कुतः? यतो विवाहे वधूप्राधान्येन तस्या अभ्यन्तरीभावो न्यायसिद्धः वधूप्राधान्यं च स्त्रीणां अपुनर्विवाहादेव वेदितव्यमिति एतच्च ऽतस्मिन्नुपविशत उत्तरो वरःऽ(आपगृ.4-9) इत्यत्र सूत्रे व्याख्यातम् अतो यथास्थानानुवोदेन परिभाषासिद्धोपवेशननियमार्थ एवायं विधिः उत्तराष्षोडशैवाहुतारुपविश्य जुहोति, न लाजहोमानपि ते त्वस्मादेव नियमात् बहुतरगृह्यान्तरानुरोधाच्च अविगीतास्मदीयाचारमुल्ल्ङ्घयापि तिष्ठतैव होतव्या इति तन्न;यत औपासनोत्पादनद्वारा देहसंस्कारोत्पादनद्वारा च जायापत्युभयसाध्ययज्ञोपकारके विवाहे तयोर्सममेव स्वामित्वलक्षणं प्राधान्यम् अपि च चोदितसर्वकर्मसु पतिप्रयोगे यस्त्वया धर्माः कर्तव्यस्सो ऽनया वध्वा सहेति पत्न्यास्सहत्ववचनात् प्रत्युत अप्राधान्यमेव स्त्रीणाम् अपुनर्विवाहस्त्वासामप्राधान्ये ऽपि ऽतस्मान्नैका द्वौ पति विन्दतेऽ(तैस.6-6-4) इति निषेधबलादेवोपपध्यते तस्मात् न्यायतो ऽभ्यन्तरीभावस्यानियमे विपर्यये वा प्राप्ते, उपवेशनानुवादेन यथास्थानमुत्तर एव वर इत्येतन्नियमार्थ एवायं विधिः तेन लाजहोमा अप्यासीनेनैव होतव्याः तस्य ऽआसीनो दर्वीहोमान् जुहोतिऽ(आपप.3-10) इति सर्वदर्वीहोमानामविशेषेणास्माकं चोदितत्वात्, स्वसूत्रोक्तविषये बहुतराणामपि गृह्यान्तराणामनुपसंहार्यत्वाच्च

āpgs-tāt_5.5: vara eva 'iyaṃ nārī'ityanayā ṛcābhinnena vadhvañjalinā devatīrthena lājān juhoti na pārśvena;upadeśātideśorabhāvāt kecit-'pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśya'ityeṣa vidhiruttarato varo 'bhyantarato vadhūrityevaṃrūpayathāsthānaniyamārtho na yujyate kutaḥ? yato vivāhe vadhūprādhānyena tasyā abhyantarībhāvo nyāyasiddhaḥ vadhūprādhānyaṃ ca strīṇāṃ apunarvivāhādeva veditavyamiti etacca 'tasminnupaviśata uttaro varaḥ'(āpagṛ.4-9) ityatra sūtre vyākhyātam ato yathāsthānānuvodena paribhāṣāsiddhopaveśananiyamārtha evāyaṃ vidhiḥ uttarāṣṣoḍaśaivāhutārupaviśya juhoti, na lājahomānapi te tvasmādeva niyamāt bahutaragṛhyāntarānurodhācca avigītāsmadīyācāramullṅghayāpi tiṣṭhataiva hotavyā iti tanna;yata aupāsanotpādanadvārā dehasaṃskārotpādanadvārā ca jāyāpatyubhayasādhyayajñopakārake vivāhe tayorsamameva svāmitvalakṣaṇaṃ prādhānyam api ca coditasarvakarmasu patiprayoge yastvayā dharmāḥ kartavyasso 'nayā vadhvā saheti patnyāssahatvavacanāt pratyuta aprādhānyameva strīṇām apunarvivāhastvāsāmaprādhānye 'pi 'tasmānnaikā dvau pati vindate'(taisa.6-6-4) iti niṣedhabalādevopapadhyate tasmāt nyāyato 'bhyantarībhāvasyāniyame viparyaye vā prāpte, upaveśanānuvādena yathāsthānamuttara eva vara ityetanniyamārtha evāyaṃ vidhiḥ tena lājahomā apyāsīnenaiva hotavyāḥ tasya 'āsīno darvīhomān juhoti'(āpapa.3-10) iti sarvadarvīhomānāmaviśeṣeṇāsmākaṃ coditatvāt, svasūtroktaviṣaye bahutarāṇāmapi gṛhyāntarāṇāmanupasaṃhāryatvācca


7

13 अग्निप्रदक्षिणादि उत्तराभिस्तसृभिः प्रदक्षिणमग्निं कृत्वाश्मानमास्थापयति यथा पुरस्तात् आप्ग्स्_5.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.6: उत्तराभिस्तिसृभिःतुभ्यमाग्रे पर्यवहन्नित्यादिभुः अग्निं प्रदक्षिणं करोति तां हस्ते गृहीत्वा तिसृणामन्ते परिक्रमणारम्भः ऽवचनादेकं कर्म बहुमन्त्रऽमिति उत्तराभिरिति बहुवचनेनैव त्रित्वपरिग्रहसिद्धे तिसृभिरिति वचनं तिसृभिरेकमेव परिक्रमणं यथा स्यात् प्रतिमन्त्रं क्रियाभ्यावृत्तिर्मा भूदिति

13 agnipradakṣiṇādi uttarābhistasṛbhiḥ pradakṣiṇamagniṃ kṛtvāśmānamāsthāpayati yathā purastāt āpgs_5.6 commentaries: āpgs-anā_5.6: uttarābhistisṛbhiḥtubhyamāgre paryavahannityādibhuḥ agniṃ pradakṣiṇaṃ karoti tāṃ haste gṛhītvā tisṛṇāmante parikramaṇārambhaḥ 'vacanādekaṃ karma bahumantra'miti uttarābhiriti bahuvacanenaiva tritvaparigrahasiddhe tisṛbhiriti vacanaṃ tisṛbhirekameva parikramaṇaṃ yathā syāt pratimantraṃ kriyābhyāvṛttirmā bhūditi


6

आप्ग्स्-तात्_5.6: उत्तराभिः ऽतुभ्यमग्रे पर्यवहनंऽइत्यादिभिस्तिसृभिः प्रदक्षिणमग्निंकृत्वा यथा पुरस्ताता तथा आतिष्ठेममित्यनया

āpgs-tāt_5.6: uttarābhiḥ 'tubhyamagre paryavahanaṃ'ityādibhistisṛbhiḥ pradakṣiṇamagniṃkṛtvā yathā purastātā tathā ātiṣṭhemamityanayā


8

होमश्चोत्तरया आप्ग्स्_5.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.7: यथा पुरस्तादिति वर्तते उत्तरया ऽअर्यमणं नु देवऽमित्येतया

homaścottarayā āpgs_5.7 commentaries: āpgs-anā_5.7: yathā purastāditi vartate uttarayā 'aryamaṇaṃ nu deva'mityetayā


7

आप्ग्स्-तात्_5.7: लाजहोमश्चोत्तरया ऽअर्यमणं नु देवमऽइत्येतया

āpgs-tāt_5.7: lājahomaścottarayā 'aryamaṇaṃ nu devam'ityetayā


9

पुनः परिक्रमणम् आप्ग्स्_5.8 आस्थापनम् आप्ग्स्_5.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.9: पुनरपि परिक्रमममग्नेः कर्तव्यं आस्थापनञ्चाश्मनः पुनश्शब्दः क्रियाभ्यावृत्तिद्योतनार्थः तेनोत्तराभिस्तिसृभिरित्यादिर्भवति

punaḥ parikramaṇam āpgs_5.8 āsthāpanam āpgs_5.9 commentaries: āpgs-anā_5.9: punarapi parikramamamagneḥ kartavyaṃ āsthāpanañcāśmanaḥ punaśśabdaḥ kriyābhyāvṛttidyotanārthaḥ tenottarābhistisṛbhirityādirbhavati


8

आप्ग्स्-तात्_5.9: अग्निप्रदक्षिणम्

āpgs-tāt_5.9: agnipradakṣiṇam


9

आत्मनः

ātmanaḥ


10

होमश्चोत्तरया आप्ग्स्_5.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.10: उत्तरयाऽत्वमर्यमेऽत्येतया ऋचा

homaścottarayā āpgs_5.10 commentaries: āpgs-anā_5.10: uttarayā'tvamaryame'tyetayā ṛcā


10

आप्ग्स्-तात्_5.10: ऽत्वमर्यमा भवसिऽइत्येतया

āpgs-tāt_5.10: 'tvamaryamā bhavasi'ityetayā


11

पुनः परिक्रमणम् आप्ग्स्_5.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.11: पुनस्शब्दः पूर्ववत्

punaḥ parikramaṇam āpgs_5.11 commentaries: āpgs-anā_5.11: punasśabdaḥ pūrvavat


11

आप्ग्स्-तात्_5.11: ऽहोमश्चोत्तरयाऽइत्यादिषु पञ्चसु सूत्रेषु ऽयथा पुरस्तातऽइत्यनुषङ्गः कार्यः कार्यमिति च यथालिङ्गं वाक्यशेषः

āpgs-tāt_5.11: 'homaścottarayā'ityādiṣu pañcasu sūtreṣu 'yathā purastāt'ityanuṣaṅgaḥ kāryaḥ kāryamiti ca yathāliṅgaṃ vākyaśeṣaḥ


12

जयादि प्रतिपद्यते आप्ग्स्_5.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.12: पूर्वमग्नेरुपसमाधानादिवचनेन तन्त्रप्राप्तिर्दर्शिता इदं तु वचनं कोलोपदेशार्थ परिक्रमणादूर्ध्व जयादयो यथा स्युरिति इतरथा जयादीनुपजुहोतीति वचनाल्लाजहोमानन्तरमुपहोमः स्यात् ततस्तृतीयं परिक्रमणम्

jayādi pratipadyate āpgs_5.12 commentaries: āpgs-anā_5.12: pūrvamagnerupasamādhānādivacanena tantraprāptirdarśitā idaṃ tu vacanaṃ kolopadeśārtha parikramaṇādūrdhva jayādayo yathā syuriti itarathā jayādīnupajuhotīti vacanāllājahomānantaramupahomaḥ syāt tatastṛtīyaṃ parikramaṇam


12

आप्ग्स्-तात्_5.12: एतदुक्ताभिप्रायम्-यत्र वचनं तत्रैव जयादयो, नान्यत्र;अन्वारम्भश्चैषु नास्तीति

āpgs-tāt_5.12: etaduktābhiprāyam-yatra vacanaṃ tatraiva jayādayo, nānyatra;anvārambhaścaiṣu nāstīti


13

14 योक्त्रविमोकानन्तरं शिबिकादिना वध्वाः स्वगृहं प्रति नयनम् परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत् आप्ग्स्_5.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.13: परिषेचनान्त ग्रहणं तन्त्रशेषोपलक्षणम् तेन प्रणीताविमोकस्याप्यन्ते योक्त्रविमोकः जयादि प्रतिपद्यत इत्येव सिद्धे परिषेचान्तग्रहणं तदनन्तरमेव योक्त्रविमोको यथा स्यात् प्रस्थानकाले मा भूदिति उत्तराभ्यांऽप्र त्वा मुञ्चामीऽत्येताभ्याम्;वचनादेकं कर्म बहुमन्त्रमिति द्विमन्त्रो विमोकः तत इति वचनं योक्त्रविमोकस्य प्रस्थानकालनियमो मा भूत् यथोपपद्यते श्वो वा सद्यो वा तदा प्रतिष्ठेतेत्येवमर्थम् प्रवाहणंरथादिभिर्नयनं,प्रहारणंमनुष्यवाह्येन शिबिकादिना नयनम् उभयत्र वाशब्दः उभयोरपि पक्षयोस्तुल्यत्वज्ञापनार्थः अन्यथा रथानयनस्येह प्रत्यक्षकल्पोपदेशादनुपदिष्टकल्पं मनुष्ययानमाग्निहोत्रिककल्पवत् सूचितं विज्ञायेत अतः उभयत्र वाशब्दः, तेन मनुष्यनयने ऽप्यारोहतीमुत्तराभिरुत्तरया शंत उत्तराभि रित्येवमादयो मन्त्राः सिध्धा भवन्ति

14 yoktravimokānantaraṃ śibikādinā vadhvāḥ svagṛhaṃ prati nayanam pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet āpgs_5.13 commentaries: āpgs-anā_5.13: pariṣecanānta grahaṇaṃ tantraśeṣopalakṣaṇam tena praṇītāvimokasyāpyante yoktravimokaḥ jayādi pratipadyata ityeva siddhe pariṣecāntagrahaṇaṃ tadanantarameva yoktravimoko yathā syāt prasthānakāle mā bhūditi uttarābhyāṃ'pra tvā muñcāmī'tyetābhyām;vacanādekaṃ karma bahumantramiti dvimantro vimokaḥ tata iti vacanaṃ yoktravimokasya prasthānakālaniyamo mā bhūt yathopapadyate śvo vā sadyo vā tadā pratiṣṭhetetyevamartham pravāhaṇaṃrathādibhirnayanaṃ,prahāraṇaṃmanuṣyavāhyena śibikādinā nayanam ubhayatra vāśabdaḥ ubhayorapi pakṣayostulyatvajñāpanārthaḥ anyathā rathānayanasyeha pratyakṣakalpopadeśādanupadiṣṭakalpaṃ manuṣyayānamāgnihotrikakalpavat sūcitaṃ vijñāyeta ataḥ ubhayatra vāśabdaḥ, tena manuṣyanayane 'pyārohatīmuttarābhiruttarayā śaṃta uttarābhi rityevamādayo mantrāḥ sidhdhā bhavanti


13

आप्ग्स्-तात्_5.13: परिषेचनान्तं कृत्वा,सामर्थ्यात्तन्त्रशेषं समाप्येत्यर्थः तेन शम्यापोहनप्रणीताविमो कब्राह्मणोद्वासनान्यपि करोति उत्तराभ्यांऽ प्र त्वा मुञ्चामिऽइति द्वाभ्यां ऋग्भयाम् योक्त्रं विमुञ्चति ततः अनन्तरंतांवधूं हस्तिनमश्वं वाप्रवाहयेत् शिबिकामान्दोलिकां रथं मनुष्यं वाप्र वा हारयेत् उभयत्र ऽव्यवाहिताश्चऽ(पासू.1-4-28) इति वाशब्दव्यवधानम् वाशब्दद्वयं तु तुल्याविमौ विधी, नान्यतरो ऽनुकल्प इति ज्ञापयितुम् अत्र ऽविमुच्येऽति क्त्वाप्रत्यये सत्यपि ऽततऽइति यदाह तज्ज्ञापयति, नावश्यं क्त्वाप्रत्यययुक्तं वचनं पूर्वकालतां समानकर्तृकतां वा विदधाति कदाचित्केवलक्रियाविधानमेव सिद्धवदनुवदति, यथा ऽवेदं कृत्वाग्नीन् परिस्तीर्यऽ(आपश्रौ.11-2-15) इति अत्र हि न वेदकरणस्य परिस्तरणपूर्वकालता;वेदपरिवासनविधानाग्न्यागारसमूहनायतनोपलेपनानामपि मध्ये कर्तव्यत्वात् तथात्रापि ऽपरिषेचनान्तं कृत्वोत्त्राभ्यां योक्त्रं विमुच्यऽइति प्रमीतामोक्षणादेर्मध्ये कर्तव्यत्वात् तथा दधिघर्मे ऽएतस्मिन् काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाऽ(आपश्रौ.13-3-4) इति तत्रापि प्रतिप्रस्थाता तधिघर्मसंस्कर्ता, होमकर्ताध्वर्युः ततस्समानकर्तृत्वाभावः तथैवान्यत्राप्यश्वमेधे ऽदक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्म यजमानस्य हस्तं गृह्णातिऽ(आपश्रौ.) इति तथैवात्र ऽस्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्यऽ(आपगृ.11-17) इति

āpgs-tāt_5.13: pariṣecanāntaṃ kṛtvā,sāmarthyāttantraśeṣaṃ samāpyetyarthaḥ tena śamyāpohanapraṇītāvimo kabrāhmaṇodvāsanānyapi karoti uttarābhyāṃ' pra tvā muñcāmi'iti dvābhyāṃ ṛgbhayām yoktraṃ vimuñcati tataḥ anantaraṃtāṃvadhūṃ hastinamaśvaṃ vāpravāhayet śibikāmāndolikāṃ rathaṃ manuṣyaṃ vāpra vā hārayet ubhayatra 'vyavāhitāśca'(pāsū.1-4-28) iti vāśabdavyavadhānam vāśabdadvayaṃ tu tulyāvimau vidhī, nānyataro 'nukalpa iti jñāpayitum atra 'vimucye'ti ktvāpratyaye satyapi 'tata'iti yadāha tajjñāpayati, nāvaśyaṃ ktvāpratyayayuktaṃ vacanaṃ pūrvakālatāṃ samānakartṛkatāṃ vā vidadhāti kadācitkevalakriyāvidhānameva siddhavadanuvadati, yathā 'vedaṃ kṛtvāgnīn paristīrya'(āpaśrau.11-2-15) iti atra hi na vedakaraṇasya paristaraṇapūrvakālatā;vedaparivāsanavidhānāgnyāgārasamūhanāyatanopalepanānāmapi madhye kartavyatvāt tathātrāpi 'pariṣecanāntaṃ kṛtvottrābhyāṃ yoktraṃ vimucya'iti pramītāmokṣaṇādermadhye kartavyatvāt tathā dadhigharme 'etasmin kāle śrātaṃ haviriti pratyuktvā tamādāyāhavanīyaṃ gatvā'(āpaśrau.13-3-4) iti tatrāpi pratiprasthātā tadhigharmasaṃskartā, homakartādhvaryuḥ tatassamānakartṛtvābhāvaḥ tathaivānyatrāpyaśvamedhe 'dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahanniti brahma yajamānasya hastaṃ gṛhṇāti'(āpaśrau.) iti tathaivātra 'smṛtaṃ ca ma ityetadvācayitvā gurave varaṃ datvodāyuṣetyutthāpya'(āpagṛ.11-17) iti


14

15 वैवागिकाग्नेर्नित्यधारणम् समोप्यैतमग्निमनुहरन्ति आप्ग्स्_5.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.14: एतं वैवाहिकमग्निमुखायां समोप्य दम्पत्योर्गच्छतोरनु पृष्ठतःहरन्तितदीयाः पुरषाः समोप्यवचनं श्रौतेष्वग्निषु दृष्टस्य समारोपणस्य प्रतिषेधार्थम् एवं प्रतिषेदं कुर्वन्नेतद्दर्शयति अनुगतो मन्थ्य इत्यत्र श्रौतवदवक्षाणेभ्यो मन्थनमिति अनुशब्दः पुरस्तान्नयनप्रतिषेधार्थः

15 vaivāgikāgnernityadhāraṇam samopyaitamagnimanuharanti āpgs_5.14 commentaries: āpgs-anā_5.14: etaṃ vaivāhikamagnimukhāyāṃ samopya dampatyorgacchatoranu pṛṣṭhataḥharantitadīyāḥ puraṣāḥ samopyavacanaṃ śrauteṣvagniṣu dṛṣṭasya samāropaṇasya pratiṣedhārtham evaṃ pratiṣedaṃ kurvannetaddarśayati anugato manthya ityatra śrautavadavakṣāṇebhyo manthanamiti anuśabdaḥ purastānnayanapratiṣedhārthaḥ


14

आप्ग्स्-तात्_5.14: एतं विवाहाग्निं समोप्योखायामनुहरन्ति अव्यवायेन वध्वाः पश्चान्नयन्ति परिकर्मिणः एतमितिग्रहणं विवाहाग्नेरौपासनाख्यस्य संस्कारशब्दाभिव्यङ्ग्यस्य प्रयाणे ऽपि नित्यं प्रत्यक्षनयनार्थम् अगृह्यमाणे त्वेतमित्यास्मिन् अदृष्टार्थ सर्वार्थस्य लौकिकाकाग्नेरनुहरणं स्यात् औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्

āpgs-tāt_5.14: etaṃ vivāhāgniṃ samopyokhāyāmanuharanti avyavāyena vadhvāḥ paścānnayanti parikarmiṇaḥ etamitigrahaṇaṃ vivāhāgneraupāsanākhyasya saṃskāraśabdābhivyaṅgyasya prayāṇe 'pi nityaṃ pratyakṣanayanārtham agṛhyamāṇe tvetamityāsmin adṛṣṭārtha sarvārthasya laukikākāgneranuharaṇaṃ syāt aupāsanasya ca gṛhyāntareṇa prayāṇe vihitaṃ samāropaṇaṃ syāt


15

नित्यः आप्ग्स्_5.15 धार्यः आप्ग्स्_5.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.16: एष वैवाहिको ऽग्निर्नित्यः शाश्वतिको धार्यःपत्नीसम्बन्धानां कर्मणामर्थाय

nityaḥ āpgs_5.15 dhāryaḥ āpgs_5.16 commentaries: āpgs-anā_5.16: eṣa vaivāhiko 'gnirnityaḥ śāśvatiko dhāryaḥpatnīsambandhānāṃ karmaṇāmarthāya


15

आप्ग्स्-तात्_5.16: पाणिग्रहणादारभ्य सर्वाचारलक्षणकर्मार्थमयमग्निर्नित्यः, यावज्जीवं नोत्सृज्यते;ऽपाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते, तस्मिन् गार्ह्याणि कर्माणिऽ(हिगृ.26.1,2) इति हिरण्यकेशिवचनात् अतः साङ्गे विवाहे समाप्ते ऽपि ऽअपवृत्ते कर्मणि लौकिकस्सम्पद्यतेऽ; (आपप.4-22) इति न भवति

āpgs-tāt_5.16: pāṇigrahaṇādārabhya sarvācāralakṣaṇakarmārthamayamagnirnityaḥ, yāvajjīvaṃ notsṛjyate;'pāṇigrahaṇādiragnistamaupāsanamityācakṣate, tasmin gārhyāṇi karmāṇi'(higṛ.26.1,2) iti hiraṇyakeśivacanāt ataḥ sāṅge vivāhe samāpte 'pi 'apavṛtte karmaṇi laukikassampadyate'; (āpapa.4-22) iti na bhavati


13

नित्य इति सिद्धे धार्य इत्यारम्भात् प्रयाणे ऽप्यस्य समिध्यात्मन्यरप्योर्वा समारोपणं गृह्यान्तरविहितं विकल्पेनापि न स्यात् यथा ऽजुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोतिऽ(श्रौ.2-11-1) इत्यत्र ऽअध्वर्यु कर्तारम् (आपप.1-26) इति वचनात् अध्वर्युरेव कर्ता, नतु ऽजुहोतिजुतीति प्रायश्चित्ते ब्रह्माणमऽ; (आश्वश्रौ.1-1-16) इत्याश्वलायनसृत्रविहितो ब्रह्मा विकल्पेनापि एवं च ऽसमोप्यैतमग्निमनुहरन्तिऽ(आपगृ.5-14) इति सर्वस्य धर्मो ऽयं , न वैवाहिकप्रयाणस्यैव यथा समोप्यैतावग्नी अन्वारोप्यऽ; इत्याग्निकप्रयाणे ऽस्य विहितो धर्मस्सर्वार्थः एवं विधेषु यद्यपि याज्ञिका विकल्पं नेच्चन्ति, तथापि विकल्पो ऽस्तीत्यत्र ज्ञापकं भवति ऽसवर्णापूर्वशास्त्रविहितायां यतर्तु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धःऽऽदायेनाव्यतिक्रमश्चोभयोःऽऽपूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषःऽ(आपघ.2-13-1,2,3) इत्यसवर्णदारसङ्ग्रहणं प्रतिषिध्य स्वयमेवाह सूत्रकारः- स त्रयाणां वर्णानामऽ(आपप.1-2) इति त्रयाणामित्येतस्य पदस्यार्थो भाष्यकारेण व्याख्यातः-ऽतिस्रो हि तस्य भार्यास्स्मृत्यन्तरवचनादप्रतिषिद्धाः, तस्य कथं सह ताभिरधिकारस्स्यादित्येवमर्था त्रिसङ्ख्याऽइति एतत्सूत्रभाष्याभ्यामसवर्णदारसङ्ग्रहस्स्मृत्यन्तरविहितो न सर्वथैव निषिद्ध इति गम्यते तच्चान्येष्वप्येवांविधेषु विकल्पस्य ज्ञापकमेव

nitya iti siddhe dhārya ityārambhāt prayāṇe 'pyasya samidhyātmanyarapyorvā samāropaṇaṃ gṛhyāntaravihitaṃ vikalpenāpi na syāt yathā 'juhvā sruveṇa vā sarvaprāyaścittāni juhoti'(śrau.2-11-1) ityatra 'adhvaryu kartāram (āpapa.1-26) iti vacanāt adhvaryureva kartā, natu 'juhotijutīti prāyaścitte brahmāṇam'; (āśvaśrau.1-1-16) ityāśvalāyanasṛtravihito brahmā vikalpenāpi evaṃ ca 'samopyaitamagnimanuharanti'(āpagṛ.5-14) iti sarvasya dharmo 'yaṃ , na vaivāhikaprayāṇasyaiva yathā samopyaitāvagnī anvāropya'; ityāgnikaprayāṇe 'sya vihito dharmassarvārthaḥ evaṃ vidheṣu yadyapi yājñikā vikalpaṃ neccanti, tathāpi vikalpo 'stītyatra jñāpakaṃ bhavati 'savarṇāpūrvaśāstravihitāyāṃ yatartu gacchataḥ putrāsteṣāṃ karmabhissambandhaḥ''dāyenāvyatikramaścobhayoḥ''pūrvavatyāmasaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ'(āpagha.2-13-1,2,3) ityasavarṇadārasaṅgrahaṇaṃ pratiṣidhya svayamevāha sūtrakāraḥ- sa trayāṇāṃ varṇānām'(āpapa.1-2) iti trayāṇāmityetasya padasyārtho bhāṣyakāreṇa vyākhyātaḥ-'tisro hi tasya bhāryāssmṛtyantaravacanādapratiṣiddhāḥ, tasya kathaṃ saha tābhiradhikārassyādityevamarthā trisaṅkhyā'iti etatsūtrabhāṣyābhyāmasavarṇadārasaṅgrahassmṛtyantaravihito na sarvathaiva niṣiddha iti gamyate taccānyeṣvapyevāṃvidheṣu vikalpasya jñāpakameva


16

अस्यौपासनस्यो द्वातस्योत्पत्तिमाह- 16 अनुगतौ मथनम् अनुगतो मन्थ्यः आप्ग्स्_5.17 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.17: अनुगतःउद्वातः मन्थयः मन्थनेनोत्पाद्यः अस्मिन् पक्षे विवाहे ऽप्यस्य योनिरेषैव धारणं चारप्योर्विवाहप्रभृति भवति तत्र विवाहे अरणीभ्यां मन्थनम्, अनुगते स्वेभ्य एवावक्षाणेभ्य इत्युक्तम् तदभावे भस्मना अरणी संस्पृश्य मन्थनम्

asyaupāsanasyo dvātasyotpattimāha- 16 anugatau mathanam anugato manthyaḥ āpgs_5.17 commentaries: āpgs-anā_5.17: anugataḥudvātaḥ manthayaḥ manthanenotpādyaḥ asmin pakṣe vivāhe 'pyasya yonireṣaiva dhāraṇaṃ cārapyorvivāhaprabhṛti bhavati tatra vivāhe araṇībhyāṃ manthanam, anugate svebhya evāvakṣāṇebhya ityuktam tadabhāve bhasmanā araṇī saṃspṛśya manthanam


17

आप्ग्स्-तात्_5.17: यद्ययमग्निरनुगतः निर्वाणस्स्यात् तदामन्थ्यःतेभ्य एवावक्षणेभ्यो ऽधि मन्थितव्यः यदि तनि न स्युरसमर्थानि वा, तदासय भल्मना अरणी संस्पृश्य मन्थितव्यः

āpgs-tāt_5.17: yadyayamagniranugataḥ nirvāṇassyāt tadāmanthyaḥtebhya evāvakṣaṇebhyo 'dhi manthitavyaḥ yadi tani na syurasamarthāni vā, tadāsaya bhalmanā araṇī saṃspṛśya manthitavyaḥ


17

17 श्रोत्रियागाराद्वाऽहरणम् श्रोत्रियागाराद्वाऽहार्यः आप्ग्स्_5.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.18: श्रुतवृत्ताध्ययनसम्पन्नो ब्राह्मणःश्रोत्रियःतस्य गृहे यः पचनाग्निः तस्माद्वाहार्यः अस्मिन् पक्षे विवाहे ऽप्यस्य योनिरेषैव

17 śrotriyāgārādvā'haraṇam śrotriyāgārādvā'hāryaḥ āpgs_5.18 commentaries: āpgs-anā_5.18: śrutavṛttādhyayanasampanno brāhmaṇaḥśrotriyaḥtasya gṛhe yaḥ pacanāgniḥ tasmādvāhāryaḥ asmin pakṣe vivāhe 'pyasya yonireṣaiva


18

आप्ग्स्-तात्_5.18: अथवाधीतवेदस्य गृहादाहार्यः अयं च व्यवस्थितो विकल्पः यदि मथिते ऽग्नौ विवाहस्तदा मन्थ्यः यद्याहृते ऽग्नौ तदाहार्यः नष्टेषपहृते वाग्नावियमेवोत्पत्तिः अनुगत इत्यस्य नष्टापहृतयोः प्रदर्शनार्थत्वात्

āpgs-tāt_5.18: athavādhītavedasya gṛhādāhāryaḥ ayaṃ ca vyavasthito vikalpaḥ yadi mathite 'gnau vivāhastadā manthyaḥ yadyāhṛte 'gnau tadāhāryaḥ naṣṭeṣapahṛte vāgnāviyamevotpattiḥ anugata ityasya naṣṭāpahṛtayoḥ pradarśanārthatvāt


18

प्रायश्चित्त्माह 18 तत्र दम्पत्योरन्यतरस्योपवासः उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा आप्ग्स्_5.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.19: अत्र व्यवहितकल्पनया पदानां सम्बन्धः अग्नावनुगते भार्यायाः पत्युश्च उभयोरुपवासो भवति तयोरन्यतरस्य वेति चशब्द उभयोरुपवाससमुच्चयार्तः भार्यायाः पत्युश्चेति वाशब्दो ऽन्यतरस्य विकल्पार्थः तयोरन्यतरस्य वेति उपवासःउभयोरपि कालयोरभोजनं, प्रसिद्धेः अनुगमनानन्तरमेव चाग्निप्रकल्पनं सर्वप्रायश्चित्तहोमश्च नन्वनुगतो मन्थ्य इति प्रकृतं तत्किमनुगत इति निमित्तनिर्देशेन ? उच्यते-दम्पत्योः प्रस्थानमिह प्रकृतम् तां ततः प्र वा वाहयेदिति प्रासह्गिकस्त्वग्निधर्मः ततश्चोपवासविधिरपि प्रसिथानशेष एव विज्ञायेत तथा च ऽत्रिरात्रमुभयोरधश्शय्या बरह्मचर्यऽमित्यादीनां प्रासङ्गिकेन संबन्धो न भवति किन्तु प्राकरणिकेनैव अनुगते उभयोरुपवासो ऽन्यतरस्य वेत्येव सिद्धे भार्यायाः पत्युश्चेति पृथङ्निर्देशः कथमस्याग्नेरत्यन्तं भार्यासंबन्धः प्रतिज्ञापितस्यादिति अत एव भार्यायाः पूर्वविर्देशः तेन यस्मिन् कर्मणि भार्यायास्सहत्वं नास्ति यथोपाकरणसमापनयोस्तस्यैतस्मिन्नग्नावप्रवृत्तिः सपत्नीबाधनादौ च पत्त्युस्सहत्वाभावे ऽपि भार्यासबन्धादेवास्मिन्नग्नौ प्रवृत्तिः

prāyaścittmāha 18 tatra dampatyoranyatarasyopavāsaḥ upavāsaścānyatarasya bhāryāyāḥ patyurvā āpgs_5.19 commentaries: āpgs-anā_5.19: atra vyavahitakalpanayā padānāṃ sambandhaḥ agnāvanugate bhāryāyāḥ patyuśca ubhayorupavāso bhavati tayoranyatarasya veti caśabda ubhayorupavāsasamuccayārtaḥ bhāryāyāḥ patyuśceti vāśabdo 'nyatarasya vikalpārthaḥ tayoranyatarasya veti upavāsaḥubhayorapi kālayorabhojanaṃ, prasiddheḥ anugamanānantarameva cāgniprakalpanaṃ sarvaprāyaścittahomaśca nanvanugato manthya iti prakṛtaṃ tatkimanugata iti nimittanirdeśena ? ucyate-dampatyoḥ prasthānamiha prakṛtam tāṃ tataḥ pra vā vāhayediti prāsahgikastvagnidharmaḥ tataścopavāsavidhirapi prasithānaśeṣa eva vijñāyeta tathā ca 'trirātramubhayoradhaśśayyā barahmacarya'mityādīnāṃ prāsaṅgikena saṃbandho na bhavati kintu prākaraṇikenaiva anugate ubhayorupavāso 'nyatarasya vetyeva siddhe bhāryāyāḥ patyuśceti pṛthaṅnirdeśaḥ kathamasyāgneratyantaṃ bhāryāsaṃbandhaḥ pratijñāpitasyāditi ata eva bhāryāyāḥ pūrvavirdeśaḥ tena yasmin karmaṇi bhāryāyāssahatvaṃ nāsti yathopākaraṇasamāpanayostasyaitasminnagnāvapravṛttiḥ sapatnībādhanādau ca pattyussahatvābhāve 'pi bhāryāsabandhādevāsminnagnau pravṛttiḥ


19

आप्ग्स्-तात्_5.19: अन्यतरस्य कालस्य अह्नो वा रात्रेर्चा सम्बन्धी उपवासः अनशनं भार्यायाः पत्युर्वा भवति चकारोग्न्युत्पत्तिप्रायस्चित्तयोः समुच्चयार्थः यद्यहनि रात्रौ वा प्राग्भोजनादनुगतिस्तदा मथित्वाऽहृत्य वा ऽयत्रक्वचेऽति विधिनेपसमाधाय ऽयद्यविज्ञाता सर्वव्यापद्वाऽ; इति सर्वप्रायश्चित्तं हुत्वा कालशेषमुपवसेत् यदि भोजनादूर्ध्व तदा तत्कालशेषमागामिकालं च सर्वता तु विज्ञातमात्र एवानुगमने उत्पादनादि कार्यम्, निमित्तानन्तरं नैमित्तिकस्यावश्यकर्तव्यत्वात् अन्ये तु- भार्यापत्योरुभयोरप्युपवासो न विकल्पः, स्वामित्वाविशेषात्, ऽपर्वसु चोभयोरुपवासःऽ(आप. ध.2-1-4) इति स्मार्ते समुच्चयस्य दृष्टत्वाच्च वाशब्दस्तु चार्थ इति तेषामुपवासश्चान्यतरस्येत्येतावदेवालं सूत्रम् अर्थादेव स्वामिनोरुभयोरप्युपवासो भविष्यति केचित् -ऽउपवासश्चान्यतरस्य भार्यायाः पत्युर्वानुगतेऽइति सूत्रं छित्वा व्यवहितान्वयकल्पनया व्याचक्षते- अनुगतो ऽग्नौ बार्यायाः पत्युश्चोपवासो ऽन्यतरस्य वेति अत्र प्रकृते ऽपि पुनरनुगत इति ग्रहणमधिकयत्नमन्तरेणैवंविधानां प्रासङ्गिकार्थता न स्यात्, किन्तु परमप्रकृतार्थतैवेति ज्ञापयितुमिति

āpgs-tāt_5.19: anyatarasya kālasya ahno vā rātrercā sambandhī upavāsaḥ anaśanaṃ bhāryāyāḥ patyurvā bhavati cakārognyutpattiprāyascittayoḥ samuccayārthaḥ yadyahani rātrau vā prāgbhojanādanugatistadā mathitvā'hṛtya vā 'yatrakvace'ti vidhinepasamādhāya 'yadyavijñātā sarvavyāpadvā'; iti sarvaprāyaścittaṃ hutvā kālaśeṣamupavaset yadi bhojanādūrdhva tadā tatkālaśeṣamāgāmikālaṃ ca sarvatā tu vijñātamātra evānugamane utpādanādi kāryam, nimittānantaraṃ naimittikasyāvaśyakartavyatvāt anye tu- bhāryāpatyorubhayorapyupavāso na vikalpaḥ, svāmitvāviśeṣāt, 'parvasu cobhayorupavāsaḥ'(āpa. dha.2-1-4) iti smārte samuccayasya dṛṣṭatvācca vāśabdastu cārtha iti teṣāmupavāsaścānyatarasyetyetāvadevālaṃ sūtram arthādeva svāminorubhayorapyupavāso bhaviṣyati kecit -'upavāsaścānyatarasya bhāryāyāḥ patyurvānugate'iti sūtraṃ chitvā vyavahitānvayakalpanayā vyācakṣate- anugato 'gnau bāryāyāḥ patyuścopavāso 'nyatarasya veti atra prakṛte 'pi punaranugata iti grahaṇamadhikayatnamantareṇaivaṃvidhānāṃ prāsaṅgikārthatā na syāt, kintu paramaprakṛtārthataiveti jñāpayitumiti


19

अनुगते ऽपि वोत्तरया जुगुयान्नोपवसेत् आप्ग्स्_5.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.20: उत्तरयर्चाऽअयाश्चाग्नेऽइत्येतया जुहुयात् आहुतिमेकां इयमाहुति स्तन्त्रवति न भवति परिस्तरणाज्यसंस्कारदर्वीसंमार्जनानि भवन्ति अपि वेति वचनादेव वैकल्पिकत्वे सिद्धे उपवासप्रतिषेध इयमाहुतिरुप वासस्यैव प्रत्याम्नाया यथा स्यादिति तेनेहापि सर्वप्रायश्चित्थोमस्य समुच्चयो भवति तदिदं प्रायश्चित्तमप्यपहरणादिनाग्निनाशे ऽपि द्रष्टव्यम् अस्यैवाग्नेर्बुद्धिपूर्वोत्सर्गे द्वादशाहादूर्ध्व विच्छेदे च स्मृत्यन्तरे प्रायश्चित्तमुक्तम् तत्राप्यग्निसंकार एतावानेव

anugate 'pi vottarayā juguyānnopavaset āpgs_5.20 commentaries: āpgs-anā_5.20: uttarayarcā'ayāścāgne'ityetayā juhuyāt āhutimekāṃ iyamāhuti stantravati na bhavati paristaraṇājyasaṃskāradarvīsaṃmārjanāni bhavanti api veti vacanādeva vaikalpikatve siddhe upavāsapratiṣedha iyamāhutirupa vāsasyaiva pratyāmnāyā yathā syāditi tenehāpi sarvaprāyaścitthomasya samuccayo bhavati tadidaṃ prāyaścittamapyapaharaṇādināgnināśe 'pi draṣṭavyam asyaivāgnerbuddhipūrvotsarge dvādaśāhādūrdhva vicchede ca smṛtyantare prāyaścittamuktam tatrāpyagnisaṃkāra etāvāneva


20

आप्ग्स्-तात्_5.20: अपि वा अग्नावनुगते उत्तरयाऽअयाश्चाग्नेऽइत्येतयाऽज्यं जुहुयान्नोप वसेत् अनुगत इति पुनर्वचनान्न्ष्टापहृतयोर्नायं विकल्पः, किन्तूपवास एव अपि वेत्येनेनैव उपवासपक्षे व्यावृत्ते, नोपवसेदित्यारम्भादुपवासमात्रेणैवायं विकल्पः प्रायश्चित्तं त्वत्राप्यस्त्येव

āpgs-tāt_5.20: api vā agnāvanugate uttarayā'ayāścāgne'ityetayā'jyaṃ juhuyānnopa vaset anugata iti punarvacanānnṣṭāpahṛtayornāyaṃ vikalpaḥ, kintūpavāsa eva api vetyenenaiva upavāsapakṣe vyāvṛtte, nopavasedityārambhādupavāsamātreṇaivāyaṃ vikalpaḥ prāyaścittaṃ tvatrāpyastyeva


20

19 रथेन गमने विशेषाः उत्तरा रथस्योत्तम्भनी आप्ग्स्_5.21 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.21: अथ दम्पत्योः प्रस्थाने विशेषधर्मा उपदिश्यन्ते उत्तरा सत्येनोत्तभिते त्येषा रथस्योत्तंभनीअनयर्चा रथस्योत्तभनं कर्तव्यमित्यर्थः केन?वरेण, अधिकृतत्वात्

19 rathena gamane viśeṣāḥ uttarā rathasyottambhanī āpgs_5.21 commentaries: āpgs-anā_5.21: atha dampatyoḥ prasthāne viśeṣadharmā upadiśyante uttarā satyenottabhite tyeṣā rathasyottaṃbhanīanayarcā rathasyottabhanaṃ kartavyamityarthaḥ kena?vareṇa, adhikṛtatvāt


21

आप्ग्स्-तात्_5.21: उत्तराऽसत्येनोत्तभिताऽइत्येषारथस्योत्तम्भनीउत्तम्भने करणमन्त्रः

āpgs-tāt_5.21: uttarā'satyenottabhitā'ityeṣārathasyottambhanīuttambhane karaṇamantraḥ


21

वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे आप्ग्स्_5.22 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.22: याभ्यमूह्यते रथः तौ वाहौअश्वावनङ्वाहौ वा उत्तराभ्यांऽयुञ्जन्ति ब्रध्नं,ऽयोगे, इत्येताभ्यांयुनक्तियुगधुरेराबध्नाति युञ्जन्तीति दक्षिणं, योगे योगे इत्युत्तरम् केचिदुभाभ्यामेकैकस्य योगमिच्छन्ति

vāhāvuttarābhyāṃ yunakti dakṣiṇamagre āpgs_5.22 commentaries: āpgs-anā_5.22: yābhyamūhyate rathaḥ tau vāhauaśvāvanaṅvāhau vā uttarābhyāṃ'yuñjanti bradhnaṃ,'yoge, ityetābhyāṃyunaktiyugadhurerābadhnāti yuñjantīti dakṣiṇaṃ, yoge yoge ityuttaram kecidubhābhyāmekaikasya yogamicchanti


22

अर्थात् पश्चात् सव्यम् प्रत्यङ्मुखत्वे च न सिध्यति वचनम् अन्यत्र तथापवर्ग इत्येव सिद्धम्

arthāt paścāt savyam pratyaṅmukhatve ca na sidhyati vacanam anyatra tathāpavarga ityeva siddham


22

आप्ग्स्-तात्_5.22: उत्तराभ्यां ऽयुञ्जन्ति ब्रध्नंऽऽयोगे योगेऽइति द्वाभ्यां अश्वावनड्वाहौ वा युगधुरोराबध्नाति तयोश्चदक्षिणं वाहं पूर्वयनक्ति द्वाभ्यां द्वाभ्यामेकैकं, नैवैवया अत्र च उत्तराभ्यामिति द्वन्द्वापवादेनैकशेषेण समभिव्याहृतयोजनक्रियापेक्षयेतरेतरयोगाभिहितयोर्द्वयोरपि मन्त्रयोस्सहितयोर्विनियोगात् ऽएकमन्त्राणि कर्माणिऽ(आपप.1-41) इत्वस्यापवादः नन्वेवं द्वितीयस्य मन्त्रस्यादृष्टार्थता स्यात्? सत्यम्-तथापि, द्वाभ्यां द्वाभ्यामेकैकमिति परमाप्तभाष्यकारवचनादेकैकवाहयोजने सहितमन्त्रद्वयाचारः कृत्स्नदेशकालकर्तृव्याप्त इत्यनुमीयते

āpgs-tāt_5.22: uttarābhyāṃ 'yuñjanti bradhnaṃ''yoge yoge'iti dvābhyāṃ aśvāvanaḍvāhau vā yugadhurorābadhnāti tayoścadakṣiṇaṃ vāhaṃ pūrvayanakti dvābhyāṃ dvābhyāmekaikaṃ, naivaivayā atra ca uttarābhyāmiti dvandvāpavādenaikaśeṣeṇa samabhivyāhṛtayojanakriyāpekṣayetaretarayogābhihitayordvayorapi mantrayossahitayorviniyogāt 'ekamantrāṇi karmāṇi'(āpapa.1-41) itvasyāpavādaḥ nanvevaṃ dvitīyasya mantrasyādṛṣṭārthatā syāt? satyam-tathāpi, dvābhyāṃ dvābhyāmekaikamiti paramāptabhāṣyakāravacanādekaikavāhayojane sahitamantradvayācāraḥ kṛtsnadeśakālakartṛvyāpta ityanumīyate


23

आरोहतीमुत्तराभिरभिमन्त्रयते आप्ग्स्_5.23 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.23: अथ तं रथं युक्तमारोहति वधूः तामारोहतीमारोहन्तीं उत्तराभि"स्सुकिंशुकमि"त्येवमादिभिः अभिमन्त्रयते इह बहुवचननिर्देशात् त्रिप्रभृति अनियमप्रसङ्गे मन्त्रलिङ्गाच्चतसृभिरिति नियमः याने तूत्तंभनादि सर्व भवति अश्वपुरुषादिषु च अभिमन्त्रणादयः दम्पतीधर्मा भवन्तीत्त्युक्तम् ऽसुचक्रऽमिति मन्त्रलिङ्गात् रथ एव मन्त्रा इत्येके वधूप्रतिपादनपरत्वात् मन्त्रस्य रथालिङ्गत्वमर्थवाद इत्यन्ये

ārohatīmuttarābhirabhimantrayate āpgs_5.23 commentaries: āpgs-anā_5.23: atha taṃ rathaṃ yuktamārohati vadhūḥ tāmārohatīmārohantīṃ uttarābhi"ssukiṃśukami"tyevamādibhiḥ abhimantrayate iha bahuvacananirdeśāt triprabhṛti aniyamaprasaṅge mantraliṅgāccatasṛbhiriti niyamaḥ yāne tūttaṃbhanādi sarva bhavati aśvapuruṣādiṣu ca abhimantraṇādayaḥ dampatīdharmā bhavantīttyuktam 'sucakra'miti mantraliṅgāt ratha eva mantrā ityeke vadhūpratipādanaparatvāt mantrasya rathāliṅgatvamarthavāda ityanye


23

आप्ग्स्-तात्_5.23: रथमारोहतिमरोहन्ती वधूम् नुमभावश्छान्दसः ऽसुकिंशुकमऽ; इत्यादिभिश्चतसृभिरभिमन्त्रयते रथमेवारोहन्तीं नाश्वादिम्; सुचक्रिमिति लिङ्गविरोधात् ऽउदुत्तरमऽइति वा तिसृभिरश्वादिकमारोहन्तीमभि मन्त्रयते

āpgs-tāt_5.23: rathamārohatimarohantī vadhūm numabhāvaśchāndasaḥ 'sukiṃśukam'; ityādibhiścatasṛbhirabhimantrayate rathamevārohantīṃ nāśvādim; sucakrimiti liṅgavirodhāt 'uduttaram'iti vā tisṛbhiraśvādikamārohantīmabhi mantrayate


24

20 युग्ययोः योजनप्रकारः सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् आप्ग्स्_5.24 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.24: द्वेसूत्रेनीललोहिते रथस्य वर्त्मनोरुभयोरः भविष्यन्निर्देशो ऽयं ययोर्र्वतीष्येते रथचक्रे तयोर्र्वत्मनोः वर्तिन्योरिति युक्तं पठितुम् तथा च दक्षिणस्यामुत्तरस्यामित्युत्तरत्र स्रीलिङ्गानिर्दशो ऽव कल्पते व्यवस्तृणाति विशब्दस्तिर्यगर्थे,तिर्यगवस्तृणाति उत्तरया नीललोहित इत्येतया

20 yugyayoḥ yojanaprakāraḥ sūtre vartmanorvyavastṛṇāttyuttarayā nīlaṃ dakṣiṇasyāṃ lohitamuttarasyām āpgs_5.24 commentaries: āpgs-anā_5.24: dvesūtrenīlalohite rathasya vartmanorubhayorḥ bhaviṣyannirdeśo 'yaṃ yayorrvatīṣyete rathacakre tayorrvatmanoḥ vartinyoriti yuktaṃ paṭhitum tathā ca dakṣiṇasyāmuttarasyāmityuttaratra srīliṅgānirdaśo 'va kalpate vyavastṛṇāti viśabdastiryagarthe,tiryagavastṛṇāti uttarayā nīlalohita ityetayā


25

तयोस्सूत्रयोः यन्नीलं दक्षिणस्यां वर्त्मन्यांव्यवस्तृणाति

tayossūtrayoḥ yannīlaṃ dakṣiṇasyāṃ vartmanyāṃvyavastṛṇāti


26

उत्तरस्यामितिसव्यस्य चक्रस्य वर्त्मन्यामित्यर्थः सूत्रे युगपत् गृहीत्वा सकृदेव मन्त्रुमक्तवा व्यवस्तृणाति सत्यपि देशभेदे मन्त्रलिङ्गात् अपर आह-देशभेदात् मन्त्राभ्यावृत्तिरिति अभियानं तु सान्नाय्यकुम्भीवत् द्रष्टव्यम्-अप्रस्रेसाय यज्ञस्यो ऽखे उपदधाम्यह मिति सूत्रव्यवस्तरणमश्वादिषु नास्ति रथसंधात्

uttarasyāmitisavyasya cakrasya vartmanyāmityarthaḥ sūtre yugapat gṛhītvā sakṛdeva mantrumaktavā vyavastṛṇāti satyapi deśabhede mantraliṅgāt apara āha-deśabhedāt mantrābhyāvṛttiriti abhiyānaṃ tu sānnāyyakumbhīvat draṣṭavyam-aprasresāya yajñasyo 'khe upadadhāmyaha miti sūtravyavastaraṇamaśvādiṣu nāsti rathasaṃdhāt


24

आप्ग्स्-तात्_5.24: वर्त्मनोःवर्तन्योरित्यर्थपीठः नीलं दक्षिणस्यामिति स्त्रीलिङ्गनिर्देशात् रथस्य भाविन्योर्र्वतन्योः नीललोहिते भवतः उत्येतया द्वे सूत्रे व्यवस्तृणातितिर्यक्स्तृणाति एतच्च युगपत्, नीललोहिते भवत इति द्विवचनलिङ्गात् तयोश्च सूत्रयोर्दक्षिणस्यांवर्वन्यां नीलंव्यवस्तृणाति,उत्तरस्यांच लोहितम्

āpgs-tāt_5.24: vartmanoḥvartanyorityarthapīṭhaḥ nīlaṃ dakṣiṇasyāmiti strīliṅganirdeśāt rathasya bhāvinyorrvatanyoḥ nīlalohite bhavataḥ utyetayā dve sūtre vyavastṛṇātitiryakstṛṇāti etacca yugapat, nīlalohite bhavata iti dvivacanaliṅgāt tayośca sūtrayordakṣiṇasyāṃvarvanyāṃ nīlaṃvyavastṛṇāti,uttarasyāṃca lohitam


27

ते उत्तराभिरभियाति आप्ग्स्_5.25 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.25: ते सूत्रे अभियातिउपरियाति उत्तराभिस्तिसृभिः ऋग्भिः ये वध्वश्चन्द्रमित्येताभिः तत्र रथेन गच्छन्नुपरियाति मन्त्रास्त्वश्वादिगमने ऽपि वक्तव्याः गमनार्थत्वात्तेषां,नेत्यतये मन्त्रलिङ्गात् त्रित्वनियमः त्रयाणामन्ते गमनारम्भः

te uttarābhirabhiyāti āpgs_5.25 commentaries: āpgs-anā_5.25: te sūtre abhiyātiupariyāti uttarābhistisṛbhiḥ ṛgbhiḥ ye vadhvaścandramityetābhiḥ tatra rathena gacchannupariyāti mantrāstvaśvādigamane 'pi vaktavyāḥ gamanārthatvātteṣāṃ,netyataye mantraliṅgāt tritvaniyamaḥ trayāṇāmante gamanārambhaḥ


25

आप्ग्स्-तात्_5.25: ये वध्वश्चन्द्रम् इति तिसृभिर्व्यवस्तीर्णे सूत्रे अभियातिउपरिगच्छति

āpgs-tāt_5.25: ye vadhvaścandram iti tisṛbhirvyavastīrṇe sūtre abhiyātiuparigacchati


28

21 नैमित्तिको जपः तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् आप्ग्स्_5.26 चोम्मेन्तरिएस्: आप्ग्स्-अना_5.26: अतीत्यगमनमतिक्रमः अतिक्रम एव व्यतिक्रमःविशब्दो ऽनर्थकः,यथोपाय एवाभ्पाय इति उत्तसामृचं जपेद्वरः तामन्दसानेत्येताम् निमित्तावृत्तौ जपस्यावृत्तिः च शब्दः प्रत्येकंजपसंबन्धार्थः इतरथा त्रयाणामतिक्रमसन्निपाते जपः कार्यस्स्यात् मन्त्रलिङ्गात् न च मन्त्रे तीर्थादयस्स्तूयन्ते किंतर्ह्यश्विनौ, तेनैकातिक्रमणे इतरयोः श्रवणं व्यर्थ स्यादिति न चोदनीयं, तत्पदोद्धारो वा शङ्कनीयः

21 naimittiko japaḥ tīrthasthāṇucatuṣpathavyatikrame cottarāṃ japet āpgs_5.26 commentaries: āpgs-anā_5.26: atītyagamanamatikramaḥ atikrama eva vyatikramaḥviśabdo 'narthakaḥ,yathopāya evābhpāya iti uttasāmṛcaṃ japedvaraḥ tāmandasānetyetām nimittāvṛttau japasyāvṛttiḥ ca śabdaḥ pratyekaṃjapasaṃbandhārthaḥ itarathā trayāṇāmatikramasannipāte japaḥ kāryassyāt mantraliṅgāt na ca mantre tīrthādayasstūyante kiṃtarhyaśvinau, tenaikātikramaṇe itarayoḥ śravaṇaṃ vyartha syāditi na codanīyaṃ, tatpadoddhāro vā śaṅkanīyaḥ

Section (cont. 7)

26

आप्ग्स्-तात्_5.26: तीर्थ पुण्यनद्यादि स्थाणुर्गवांकण्डूयनार्थ निखातः चतुष्पथः प्रसिद्धः एतेषां व्यतिक्रमे ऽता मन्दसानाऽइत्येतां जपेत् तीर्थादीनां चान्यतमव्यतिक्रमे ऽपि कृत्स्नाया एव जपः , न त्वितरपदरहितायाः;यतो लिङ्गाच्छुतिर्बलीयसी, ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽ; इतिवत् नन्वत्राचाराच्छ्रुतिरनुमेयेति न तया लिङ्गबाधो युक्तः मैवम्, लिङ्गस्यात्र श्रुति विहितशोषिदिषयसापोक्षत्वात् तत्र ह्यनुमेयश्रुतेर्दौर्बल्यं यत्रास्याः प्रत्युक्षुश्रुत्यैव विरोधः अतो ऽनुमेयापि श्रुतिस्सापेक्षलिङ्गबाधिकैव वृत्तिभेदस्तु तीर्थादिशब्दानां तत्तद्व्यतिक्रमे मन्त्रप्रयोगभेदादुपपद्यते अतस्तीर्थव्यतिक्रमे ऽपि स्थाणुपथशब्दौ दुर्मतिस्थानसामान्यात्तीर्थमेवाभिवदतः एवं स्थाणुमितरौ चतुष्पथमपीतरौ यथेध्मसम्भरणमन्त्रे उपवेषमेक्षणधृष्टिशब्दा अग्रिसंस्पर्शिकाष्ठमयत्वसामान्यात् इध्मदारूण्येवाभिवदन्ति यथा वा जातकर्मण्युत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णे जापः, (आपगृ.15-1) इत्यभिमन्त्रणावघ्राणजपानां जातसंस्कारक्रियासामान्यादभिजिघ्रामीत्यभिवदनम् किञ्चित्राश्विनोः प्राधान्येन स्तूयमानत्वात्तत्सकाशात्तीर्थादिव्यतिक्रमोत्थदोषोपहतेः प्रार्थ्यमानत्वादविकृताया एव जपः अपि च पदान्तरोद्धारे जगतीत्वभङ्गप्रसङ्गः न्यायतस्तु जपमन्त्रो नार्थपरः अतो नात्र तीर्थादयो ऽश्विनौ वा तात्पर्येणाभिधीयन्ते तस्मात् शूपपादः कृत्स्नाया एव जपः एष एव न्यायो नदीनां धन्वनां च व्यतिक्रमे

āpgs-tāt_5.26: tīrtha puṇyanadyādi sthāṇurgavāṃkaṇḍūyanārtha nikhātaḥ catuṣpathaḥ prasiddhaḥ eteṣāṃ vyatikrame 'tā mandasānā'ityetāṃ japet tīrthādīnāṃ cānyatamavyatikrame 'pi kṛtsnāyā eva japaḥ , na tvitarapadarahitāyāḥ;yato liṅgācchutirbalīyasī, 'aindryā gārhapatyamupatiṣṭhate'; itivat nanvatrācārācchrutiranumeyeti na tayā liṅgabādho yuktaḥ maivam, liṅgasyātra śruti vihitaśoṣidiṣayasāpokṣatvāt tatra hyanumeyaśruterdaurbalyaṃ yatrāsyāḥ pratyukṣuśrutyaiva virodhaḥ ato 'numeyāpi śrutissāpekṣaliṅgabādhikaiva vṛttibhedastu tīrthādiśabdānāṃ tattadvyatikrame mantraprayogabhedādupapadyate atastīrthavyatikrame 'pi sthāṇupathaśabdau durmatisthānasāmānyāttīrthamevābhivadataḥ evaṃ sthāṇumitarau catuṣpathamapītarau yathedhmasambharaṇamantre upaveṣamekṣaṇadhṛṣṭiśabdā agrisaṃsparśikāṣṭhamayatvasāmānyāt idhmadārūṇyevābhivadanti yathā vā jātakarmaṇyuttarābhyāmabhimantraṇaṃ, mūrdhanyavaghrāṇaṃ, dakṣiṇe karṇe jāpaḥ, (āpagṛ.15-1) ityabhimantraṇāvaghrāṇajapānāṃ jātasaṃskārakriyāsāmānyādabhijighrāmītyabhivadanam kiñcitrāśvinoḥ prādhānyena stūyamānatvāttatsakāśāttīrthādivyatikramotthadoṣopahateḥ prārthyamānatvādavikṛtāyā eva japaḥ api ca padāntaroddhāre jagatītvabhaṅgaprasaṅgaḥ nyāyatastu japamantro nārthaparaḥ ato nātra tīrthādayo 'śvinau vā tātparyeṇābhidhīyante tasmāt śūpapādaḥ kṛtsnāyā eva japaḥ eṣa eva nyāyo nadīnāṃ dhanvanāṃ ca vyatikrame


1

षष्ठः खण्डः 22 मार्गमध्ये नावा नदीतरणे जपः नावमुत्तरयानुमन्त्रयते आप्ग्स्_6.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.1: अथ यदि पथि नावा तार्या नदी वापी वा स्यात् तत्रनावमुत्तरयर्चा ऽअयं नो मह्याः पारं स्वस्तीऽत्येतयानुमन्त्रयते अनुमन्त्रयेतेत्यर्थः पृष्ठतः स्थित्वा अनुवीक्ष्य मन्त्रोच्चारणमनुमन्त्रणम् कृते ऽनुमन्त्रणे वरो वधूश्च तामारोहतः

ṣaṣṭhaḥ khaṇḍaḥ 22 mārgamadhye nāvā nadītaraṇe japaḥ nāvamuttarayānumantrayate āpgs_6.1 commentaries: āpgs-anā_6.1: atha yadi pathi nāvā tāryā nadī vāpī vā syāt tatranāvamuttarayarcā 'ayaṃ no mahyāḥ pāraṃ svastī'tyetayānumantrayate anumantrayetetyarthaḥ pṛṣṭhataḥ sthitvā anuvīkṣya mantroccāraṇamanumantraṇam kṛte 'numantraṇe varo vadhūśca tāmārohataḥ


1

आप्ग्स्-तात्_6.1: यदि पथि नदी नावा तरितव्या स्यात्, तदा वरः ऽअयं नो मह्याः पारमऽइत्येतया नावमनुमन्त्रयते ततस्तामुभावग्निना सहारोहतः

āpgs-tāt_6.1: yadi pathi nadī nāvā taritavyā syāt, tadā varaḥ 'ayaṃ no mahyāḥ pāram'ityetayā nāvamanumantrayate tatastāmubhāvagninā sahārohataḥ


2

न च नाव्यां स्तरती वधूः पश्येत् आप्ग्स्_6.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.2: ये नावं नयन्ति(ते) नावि भवा नाव्याः कैवर्ताः तान्तरती तरन्ती तरणकाल इत्यर्थः स्त्रीलिङ्गनिर्देशादेव सिद्धे वधूग्रहणं दर्शनप्रतिषेधो वध्वा एव यथा स्यादिति तेन तीर्त्वोत्तरां जपेदिति वरस्यैव भवति चशब्दो वध्वा वरस्य च सहतरणप्रदर्शनार्थः संहोभौ तरतः वध्वास्त्वयं चापरो विशेष इति केचित् नावा तार्#अ आपो नाव्या इति व्याचक्षते तेषां पुंलिङ्गनिर्देशो ऽनुपपन्नः

na ca nāvyāṃ staratī vadhūḥ paśyet āpgs_6.2 commentaries: āpgs-anā_6.2: ye nāvaṃ nayanti(te) nāvi bhavā nāvyāḥ kaivartāḥ tāntaratī tarantī taraṇakāla ityarthaḥ strīliṅganirdeśādeva siddhe vadhūgrahaṇaṃ darśanapratiṣedho vadhvā eva yathā syāditi tena tīrtvottarāṃ japediti varasyaiva bhavati caśabdo vadhvā varasya ca sahataraṇapradarśanārthaḥ saṃhobhau tarataḥ vadhvāstvayaṃ cāparo viśeṣa iti kecit nāvā tār#a āpo nāvyā iti vyācakṣate teṣāṃ puṃliṅganirdeśo 'nupapannaḥ


2

आप्ग्स्-तात्_6.2: नाव्यान्नौनेतॄन् कैवर्तान् तारतीतिछान्दसं रूपम् तरन्ती तरणकाले ऽलक्षणहेत्वोः क्रियायाः ऽ(पाशू.3-2-126) इति शत्रादेशः वधूर्न पश्येत् चकारात् वध्वास्तरणदर्शनप्रतिषेधश्च, वरस्य केवलं सह तरणमिति ज्ञापयति

āpgs-tāt_6.2: nāvyānnaunetṝn kaivartān tāratītichāndasaṃ rūpam tarantī taraṇakāle 'lakṣaṇahetvoḥ kriyāyāḥ '(pāśū.3-2-126) iti śatrādeśaḥ vadhūrna paśyet cakārāt vadhvāstaraṇadarśanapratiṣedhaśca, varasya kevalaṃ saha taraṇamiti jñāpayati


3

तीर्त्वोत्तरां जपेत् आप्ग्स्_6.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.3: तीर्त्वापारं प्राप्यौत्तरामृचंऽअस्य पारऽइत्येतां जपेद्वरः यदि नदी न भवति तदा या ओषधय इत्येतामपि जपेत् नदीनां धन्यानाञ्च व्यतिक्रमे इति वक्ष्यति

tīrtvottarāṃ japet āpgs_6.3 commentaries: āpgs-anā_6.3: tīrtvāpāraṃ prāpyauttarāmṛcaṃ'asya pāra'ityetāṃ japedvaraḥ yadi nadī na bhavati tadā yā oṣadhaya ityetāmapi japet nadīnāṃ dhanyānāñca vyatikrame iti vakṣyati


3

आप्ग्स्-तात्_6.3: पारं प्राप्य ऽअस्य पारेऽइत्येतां वर एव जपेत्

āpgs-tāt_6.3: pāraṃ prāpya 'asya pāre'ityetāṃ vara eva japet


4

23 श्मशानादिब्यतिक्रमे होमः श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति आप्ग्स्_6.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.4: श्मशानभूमेरध्युपरि व्यतिक्रमे भाण्डे भाजनादौ रथे रिष्टे नष्टे रथ इति प्रदर्शनमन्येषु चैवंप्रकारेषु दर्निमित्तेषु वक्ष्यमाणहोमः कार्यः तत्राग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते अधिशब्दप्रयोगाच्छ्मशानभूमेरुपरि गमन एवैतत् भवति तीर्थादीनां तु समापेनातिक्रमे ऽपि भवति

23 śmaśānādibyatikrame homaḥ śmaśānādhivyātikrame bhāṇḍe rathe vā riṣṭe 'gnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ karoti āpgs_6.4 commentaries: āpgs-anā_6.4: śmaśānabhūmeradhyupari vyatikrame bhāṇḍe bhājanādau rathe riṣṭe naṣṭe ratha iti pradarśanamanyeṣu caivaṃprakāreṣu darnimitteṣu vakṣyamāṇahomaḥ kāryaḥ tatrāgnerupasamādhānādi tantraṃ pratipadyate adhiśabdaprayogācchmaśānabhūmerupari gamana evaitat bhavati tīrthādīnāṃ tu samāpenātikrame 'pi bhavati


5

उत्तरा आहुतीर्जुहोति ऽयदृतेचिऽदित्याद्यास्सप्त उत्तरमन्त्रैरैतैराहुतीर्जुहोतीत्यर्थः मन्त्रलिङ्गात् सप्तनियमः हुत्वा जयादितन्त्रशेषं प्रतिपद्यते सकृत् पात्रप्रयोगः शम्याः परिध्यर्थे अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थ, आज्यभागान्तवचनमन्वारम्भकालोपदेशार्थम् ऽजयादि प्रतिपद्यतऽइत्येतच्चान्वारम्भानिवृत्त्यर्थम् तथा जयादि यथासिद्धं प्रतिपद्यत इति

uttarā āhutīrjuhoti 'yadṛteci'dityādyāssapta uttaramantrairaitairāhutīrjuhotītyarthaḥ mantraliṅgāt saptaniyamaḥ hutvā jayāditantraśeṣaṃ pratipadyate sakṛt pātraprayogaḥ śamyāḥ paridhyarthe agnerupasamādhānādi vacanaṃ tantraprāptyartha, ājyabhāgāntavacanamanvārambhakālopadeśārtham 'jayādi pratipadyata'ityetaccānvārambhānivṛttyartham tathā jayādi yathāsiddhaṃ pratipadyata iti


6

यदिदमग्नेरुपसमाधानादि परिषेचनान्तं कर्म तदनन्तरं नैमित्तिकमुक्तं तत् करोति सकृदेव, न पुनः पुनरित्यर्थः अनन्तरोक्तानां निमित्तानां देशकालभेदेनावृत्तावपि सकृदोवान्ते ऽयं होमो भवतीत्यर्थः

yadidamagnerupasamādhānādi pariṣecanāntaṃ karma tadanantaraṃ naimittikamuktaṃ tat karoti sakṛdeva, na punaḥ punarityarthaḥ anantaroktānāṃ nimittānāṃ deśakālabhedenāvṛttāvapi sakṛdovānte 'yaṃ homo bhavatītyarthaḥ


4

आप्ग्स्-तात्_6.4: श्मशानाधिव्यतिक्रमेश्मशानभूमेरुपरि व्यतिक्रमे,भाण्डेवधूभूषणादौ रथे वा रिष्टे, अग्नेरुपसमाधानादि परिषेचनान्तं करोति केवलाज्यहविष्षु न वचनाभावे तन्त्रमित्युक्तमेव आज्यभागान्त इति त्वन्बारम्भकालविध्यर्थम् उत्तराःऽयदृते विदभिश्रिषःऽइति सप्तकरणिका आहुतीः शेषं व्यक्तम्

āpgs-tāt_6.4: śmaśānādhivyatikrameśmaśānabhūmerupari vyatikrame,bhāṇḍevadhūbhūṣaṇādau rathe vā riṣṭe, agnerupasamādhānādi pariṣecanāntaṃ karoti kevalājyahaviṣṣu na vacanābhāve tantramityuktameva ājyabhāgānta iti tvanbārambhakālavidhyartham uttarāḥ'yadṛte vidabhiśriṣaḥ'iti saptakaraṇikā āhutīḥ śeṣaṃ vyaktam


7

24 क्षीर्यादिव्यतिक्रमे कर्तव्यो जपः क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् आप्ग्स्_6.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.5: क्षीरिणां न्यग्रोधादीनामलक्ष्मण्यानाम्, अन्येषामपिलक्षण्यानांलक्षणयुक्तानां प्रसिद्धानां सीमावृक्षणामित्यर्थः लक्ष्मण्यानामित्यपि पाठे अयमेवार्थः नदीनांसोदकानां अनुदकानाञ्च धन्वनां निर्जलानामरण्यानाञ्च व्यतिक्रमे उत्तरेऋचौ यथालिङ्ग यस्य लिङ्ग यस्यां दृश्यते तद्व्यतिक्रमे तां जपेत् तत्र वृक्षातिक्रमे ये गण्धर्वा इति, नद्यतिक्रमे या ओषधय इति, धन्वातिक्रमे यानि धन्वानीति यथालिङ्गवचनं उभयत्रोभे मा भूदिति नद्यतिक्रमे ऽपि कृत्स्ना भवति तथा धन्वातिक्रमे ऽपि

24 kṣīryādivyatikrame kartavyo japaḥ kṣīriṇāmanyeṣāṃ vā lakṣmaṇyānāṃ vṛkṣāṇāṃ nadīnāṃ dhanvanāṃ ca vyatikrama uttare yathāliṅgaṃ japet āpgs_6.5 commentaries: āpgs-anā_6.5: kṣīriṇāṃ nyagrodhādīnāmalakṣmaṇyānām, anyeṣāmapilakṣaṇyānāṃlakṣaṇayuktānāṃ prasiddhānāṃ sīmāvṛkṣaṇāmityarthaḥ lakṣmaṇyānāmityapi pāṭhe ayamevārthaḥ nadīnāṃsodakānāṃ anudakānāñca dhanvanāṃ nirjalānāmaraṇyānāñca vyatikrame uttareṛcau yathāliṅga yasya liṅga yasyāṃ dṛśyate tadvyatikrame tāṃ japet tatra vṛkṣātikrame ye gaṇdharvā iti, nadyatikrame yā oṣadhaya iti, dhanvātikrame yāni dhanvānīti yathāliṅgavacanaṃ ubhayatrobhe mā bhūditi nadyatikrame 'pi kṛtsnā bhavati tathā dhanvātikrame 'pi


5

आप्ग्स्-तात्_6.5: क्षीरिणःक्षीरवन्तः प्लक्षन्यग्रोधादयः लक्ष्म चिह्नं तत्र भवाःलक्ष्मण्याःदुर्गा तिन्त्रिणिका सीमाकदम्बा इत्येवमादयः नद्यः प्रसिद्धाःधन्वानोदीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति एतेषां चव्यतिक्रमे उत्तरे यथालिङ्गं जपेत् ऽये गन्धर्वाःऽइति वृक्षाणां व्यतिक्रमे, ऽया ओषधयःऽइति नदीनां धन्वनाम् यथालिङ्गमिति वचनं जातकर्मवन्मा भूदिति क्षीरिणामित्यादि बहुत्वमविवक्षितम्, निमित्तगतत्वात्, हविरुभयत्ववत्

āpgs-tāt_6.5: kṣīriṇaḥkṣīravantaḥ plakṣanyagrodhādayaḥ lakṣma cihnaṃ tatra bhavāḥlakṣmaṇyāḥdurgā tintriṇikā sīmākadambā ityevamādayaḥ nadyaḥ prasiddhāḥdhanvānodīrghāṇyaraṇyāni yeṣu grāmyāḥ paśavo na nivasanti eteṣāṃ cavyatikrame uttare yathāliṅgaṃ japet 'ye gandharvāḥ'iti vṛkṣāṇāṃ vyatikrame, 'yā oṣadhayaḥ'iti nadīnāṃ dhanvanām yathāliṅgamiti vacanaṃ jātakarmavanmā bhūditi kṣīriṇāmityādi bahutvamavivakṣitam, nimittagatatvāt, havirubhayatvavat


8

गृहानुत्तरया सङ्काशयति आप्ग्स्_6.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.6: अथ स्वं गृहं प्राप्य रथादवरोप्य यद्धनं तस्या वहतुत्वेनागतं तच्च गृहान् प्रपाद्य ततस्तया तान्सङ्काशयतिसम्यगीक्षयति उत्तरयर्चा सङ्काशयामीत्येतया मन्त्रश्चास्मिन्नर्थे यथाकथञ्चित् योजनीयः सङ्काशयामि दर्शयामि वहतुं वध्वाः पितृकुलादानीतं धनं ब्रह्माणा मैत्रेण अघोरेण चक्षुषा न केवलमघोरेण, किं तर्हि मैत्रेण गृहैर्मदीयैस्सार्ध गृहं च मदीयमित्यर्थः अस्यां पर्याणद्धं विश्वरूपाख्यं यदाभरणं तत्परिभ्यः एकस्मिन् बहुवचनम् पत्यै मह्यं स्योनं मुखम् सविता करोत्विति

gṛhānuttarayā saṅkāśayati āpgs_6.6 commentaries: āpgs-anā_6.6: atha svaṃ gṛhaṃ prāpya rathādavaropya yaddhanaṃ tasyā vahatutvenāgataṃ tacca gṛhān prapādya tatastayā tānsaṅkāśayatisamyagīkṣayati uttarayarcā saṅkāśayāmītyetayā mantraścāsminnarthe yathākathañcit yojanīyaḥ saṅkāśayāmi darśayāmi vahatuṃ vadhvāḥ pitṛkulādānītaṃ dhanaṃ brahmāṇā maitreṇa aghoreṇa cakṣuṣā na kevalamaghoreṇa, kiṃ tarhi maitreṇa gṛhairmadīyaissārdha gṛhaṃ ca madīyamityarthaḥ asyāṃ paryāṇaddhaṃ viśvarūpākhyaṃ yadābharaṇaṃ tatparibhyaḥ ekasmin bahuvacanam patyai mahyaṃ syonaṃ mukham savitā karotviti


7

आप्ग्स्-तात्_6.6: वरःस्वगृहान् ज्ञातिधनसंयुक्तान् वधूं ऽसङ्काशयामिऽइति ऋचासङ्काशयतिदर्शयति ननु-यद्यपि समित्युपसर्गः ऽसमवदाय दोहाभ्यांऽ(आपश्रौ.2-20-3) इत्यादौ सहार्थे दृष्टः, तथापि गृहाणां ज्ञातिधनसहितत्वमेवात्राभिप्रेमिति कुतो निश्चीयते? उच्यते-ऽसङ्काशयामिवहतुमऽइति मन्त्रलिङ्गानुसारात् मन्त्रार्थश्च भाष्योक्तः

āpgs-tāt_6.6: varaḥsvagṛhān jñātidhanasaṃyuktān vadhūṃ 'saṅkāśayāmi'iti ṛcāsaṅkāśayatidarśayati nanu-yadyapi samityupasargaḥ 'samavadāya dohābhyāṃ'(āpaśrau.2-20-3) ityādau sahārthe dṛṣṭaḥ, tathāpi gṛhāṇāṃ jñātidhanasahitatvamevātrābhipremiti kuto niścīyate? ucyate-'saṅkāśayāmivahatum'iti mantraliṅgānusārāt mantrārthaśca bhāṣyoktaḥ


9

वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे आप्ग्स्_6.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.7: उत्तराभ्यां आवामगन्"अयं नो देवस्सवितेऽत्येताभ्याम् योगवदेकैकेन मन्त्रेण विमोकः

vāhāvuttarābhyāṃ vimuñcati dakṣiṇamagre āpgs_6.7 commentaries: āpgs-anā_6.7: uttarābhyāṃ āvāmagan"ayaṃ no devassavite'tyetābhyām yogavadekaikena mantreṇa vimokaḥ


10

अर्थात् सव्यं पश्चात्

arthāt savyaṃ paścāt


7

आप्ग्स्-तात्_6.7: ऽआवामगनऽइति द्वाभ्यामेकैकं वाहं विमुञ्चति

āpgs-tāt_6.7: 'āvāmagan'iti dvābhyāmekaikaṃ vāhaṃ vimuñcati


11

25 गृहप्रवेशः लोहितं चर्माऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्ये ऽगारस्योत्तरयाऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा आप्ग्स्_6.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.8: विमुच्य वाहौ वरः पूर्व गृहं स्वयं प्रविश्य यत्र दम्पत्योर्वासः तत्रागारस्य मध्ये चमीस्तृणाति उत्तरयर्चा ऽशर्मा वर्मेऽत्येतया तच्चानडुहं भवति लोहितञ्च वर्णेन प्राचीनमुत्तरलोमेत्यास्तरणे प्रकारः आस्तीर्य ततो दक्षिणेन पदा गृहान्प्रपादयति वधूंप्रवेशयति प्रपादयंस्तामुत्तरामृचंवाचयति ऽगृहानिऽति प्रकृते पुनर्गृहानित्युच्यते- हतरथा अगारस्यापि प्रकृतत्वात् प्रवेशने मन्त्रः शंक्येत इदमेव ज्ञापकमन्तरगारमध्ये चर्मास्तरणमिति प्रपादयन् वाचयतीति वचनान्मन्त्रकर्मणोरदिसंयोगः न मन्त्रान्ते प्रदानम्

25 gṛhapraveśaḥ lohitaṃ carmā'naḍuhaṃ prācīnagrīvamuttaraloma madhye 'gārasyottarayā'stīrya gṛhān prapādayannuttarāṃ vācayati dakṣiṇena padā āpgs_6.8 commentaries: āpgs-anā_6.8: vimucya vāhau varaḥ pūrva gṛhaṃ svayaṃ praviśya yatra dampatyorvāsaḥ tatrāgārasya madhye camīstṛṇāti uttarayarcā 'śarmā varme'tyetayā taccānaḍuhaṃ bhavati lohitañca varṇena prācīnamuttaralometyāstaraṇe prakāraḥ āstīrya tato dakṣiṇena padā gṛhānprapādayati vadhūṃpraveśayati prapādayaṃstāmuttarāmṛcaṃvācayati 'gṛhāni'ti prakṛte punargṛhānityucyate- hatarathā agārasyāpi prakṛtatvāt praveśane mantraḥ śaṃkyeta idameva jñāpakamantaragāramadhye carmāstaraṇamiti prapādayan vācayatīti vacanānmantrakarmaṇoradisaṃyogaḥ na mantrānte pradānam


8

आप्ग्स्-तात्_6.8: ततो वरः पूर्व स्वगृहान् प्रविश्य ऽशर्म वर्मऽइत्येतया यथासूत्रं चर्मास्तीर्य ततो वधूंदक्षिणेन पदागृहान्प्रपादयन्प्रवेशयनऽ; गृहान् भद्रानऽइत्येतां वाचयति

āpgs-tāt_6.8: tato varaḥ pūrva svagṛhān praviśya 'śarma varma'ityetayā yathāsūtraṃ carmāstīrya tato vadhūṃdakṣiṇena padāgṛhānprapādayanpraveśayan'; gṛhān bhadrān'ityetāṃ vācayati


12

न च देहलीमभि (धि) तिष्ठति आप्ग्स्_6.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.9: देहलीनामद्वाराधस्ताद्दरु पर्यन्तवेदिकेत्यपरे तां प्रपादनकाले स्वयं सा च नातिक्रामोदितयर्थः तयोः प्रपन्नयोरग्निमनुप्रपादयति

na ca dehalīmabhi (dhi) tiṣṭhati āpgs_6.9 commentaries: āpgs-anā_6.9: dehalīnāmadvārādhastāddaru paryantavediketyapare tāṃ prapādanakāle svayaṃ sā ca nātikrāmoditayarthaḥ tayoḥ prapannayoragnimanuprapādayati


13

प्रपद्य गृहान् अथ तत्कालमशनमश्नीयात् ततो यस्मिन्नगारे चर्मातिपद्यते सकृत् पात्राणि शम्याः परिध्यर्थे

prapadya gṛhān atha tatkālamaśanamaśnīyāt tato yasminnagāre carmātipadyate sakṛt pātrāṇi śamyāḥ paridhyarthe


9

आप्ग्स्-तात्_6.9: सा च प्रविशन्ती देहलां नाभितिश्ठति केचित्-चकाराद्वरो ऽपि- इति

āpgs-tāt_6.9: sā ca praviśantī dehalāṃ nābhitiśṭhati kecit-cakārādvaro 'pi- iti


14

26 प्रवेशहोमः उत्तरपूर्वे देशे ऽगारस्याग्रेरुपसमाधानाद्याज्यभागान्ते ऽन्वारभ्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः आप्ग्स्_6.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.10: उत्तरास्त्रयोदशप्रधानाहुतीः ऽआगन्गोष्ठऽमित्याद्याः लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्वलीयस्त्वात् भवति लिङ्गञ्चाविवक्षितम् देवतास्मरणार्थत्वात् मन्त्राणाम् उत्तरो वर इत्ययं विशेषः सर्वेषु होमेषु भवतीत्युक्तम् उत्तरपूर्वदेशेगारस्येति विधिरग्नेस्सर्वत्र वेदितव्यः

26 praveśahomaḥ uttarapūrve deśe 'gārasyāgrerupasamādhānādyājyabhāgānte 'nvārabhdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇyupaviśata uttaro varaḥ āpgs_6.10 commentaries: āpgs-anā_6.10: uttarāstrayodaśapradhānāhutīḥ 'āgangoṣṭha'mityādyāḥ liṅgavirodhe satyapi vara eva juhoti, vidhervalīyastvāt bhavati liṅgañcāvivakṣitam devatāsmaraṇārthatvāt mantrāṇām uttaro vara ityayaṃ viśeṣaḥ sarveṣu homeṣu bhavatītyuktam uttarapūrvadeśegārasyeti vidhiragnessarvatra veditavyaḥ


15

उत्तरयर्चाऽइह गावः प्रजायध्वऽमित्येतया तदुपविशतः परिषेचनान्तवचनमानन्तरमेवोपवेशनं कर्तव्यं नान्यदिति तेन भोजनं प्रागेव्ति सिद्धम् तत्रोपवेशने मन्त्र उभयोरपि भवति इहाग्निसम्बन्धाभावात् उत्तरो वर इत्युक्तं प्राङ्मुखौ चोपविशतः

uttarayarcā'iha gāvaḥ prajāyadhva'mityetayā tadupaviśataḥ pariṣecanāntavacanamānantaramevopaveśanaṃ kartavyaṃ nānyaditi tena bhojanaṃ prāgevti siddham tatropaveśane mantra ubhayorapi bhavati ihāgnisambandhābhāvāt uttaro vara ityuktaṃ prāṅmukhau copaviśataḥ


10

आप्ग्स्-तात्_6.10: उत्तराः ऽआगन् इत्यादित्रयोदशाहुतीः उत्तरयाऽइह गावः प्रजायध्वमऽइत्येतया पूर्वेमास्तीर्णे चर्मण्युपविशतः पूर्ववदुत्तर एव वरः

āpgs-tāt_6.10: uttarāḥ 'āgan ityāditrayodaśāhutīḥ uttarayā'iha gāvaḥ prajāyadhvam'ityetayā pūrvemāstīrṇe carmaṇyupaviśataḥ pūrvavaduttara eva varaḥ


16

27 जीवपुत्रायाः पुत्राय फलदानम् 28 दम्पत्योर्वाग्यमः अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत (ति) आ नक्षत्रेभ्यः आप्ग्स्_6.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.11: य पुमांसमेव सूते न स्त्रियं सा पुंशूःऽतस्याः पुंस्वो जीवपुत्राया इति पाठः न रेफः पाठ्यः, पठ्यमानो वा छान्दसो द्रष्टव्यः जीवा एव पुत्रा यस्या न भृताः जीवपुत्रायाः जीवपत्या इति च द्रष्टव्यम् तथा मङ्गलानीति एवं भूतायास्त्रैवर्णिस्त्रियाः पुत्रमपत्तरयर्चा ऽसोमेनादित्याऽइत्येतया अस्या वध्वा अङ्क उपवेश्य तस्मै कुमाराय फलान्युत्तरेण यजुषा ऽप्रस्वस्थः प्रेयऽमित्यनेन प्रदाय तत उत्तरे ऋचौ ऽइह प्रियंऽऽसिमङ्गलीःऽइत्येते जपित्वा तत उभौ तस्मिन्नेव चर्मण्यासीनौ वाचं यच्छतः आनक्षत्रेभ्याः नक्षत्राणामुदयादित्यर्थः कुमारश्च फलानि गृहीत्वा यथार्थ गच्छति

27 jīvaputrāyāḥ putrāya phaladānam 28 dampatyorvāgyamaḥ athāsyāḥ puṃsvorjīvaputrāyāḥ putramaṅka uttarayopaveśya tasmai phalānyuttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata (ti) ā nakṣatrebhyaḥ āpgs_6.11 commentaries: āpgs-anā_6.11: ya pumāṃsameva sūte na striyaṃ sā puṃśūḥ'tasyāḥ puṃsvo jīvaputrāyā iti pāṭhaḥ na rephaḥ pāṭhyaḥ, paṭhyamāno vā chāndaso draṣṭavyaḥ jīvā eva putrā yasyā na bhṛtāḥ jīvaputrāyāḥ jīvapatyā iti ca draṣṭavyam tathā maṅgalānīti evaṃ bhūtāyāstraivarṇistriyāḥ putramapattarayarcā 'somenādityā'ityetayā asyā vadhvā aṅka upaveśya tasmai kumārāya phalānyuttareṇa yajuṣā 'prasvasthaḥ preya'mityanena pradāya tata uttare ṛcau 'iha priyaṃ''simaṅgalīḥ'ityete japitvā tata ubhau tasminneva carmaṇyāsīnau vācaṃ yacchataḥ ānakṣatrebhyāḥ nakṣatrāṇāmudayādityarthaḥ kumāraśca phalāni gṛhītvā yathārtha gacchati


11

आप्ग्स्-तात्_6.11: पुंस्वोः पुंस्वाः इत्यर्चपाठः या पुंस एव सूते न स्त्रीरपि, या च सूत एव न तु वन्ध्या सती क्रयादिना पुत्रवती, सा पुंसूः जीवन्त एव पुत्राः पुमांसो यस्यास्सा जीवपुत्रा, न पुनः ऽभ्रातृपुत्रौ स्वसृदुहितृभ्यामऽ(पा.1-2-68) इत्येकशेषवचनाद्यस्या दुहितरो ऽपि जीवन्ति, पुत्रश्चैको जीवति, सापीह जीवपुत्रा विवक्षिताः पुंस्वोरिति विशेषणानुपपत्तेः एवं भूतायाः पुत्रं ऽसोमेनादित्याःऽइत्येतया वध्वा अङ्क उपवेश्य ऽप्र स्वस्थःऽइति यजुषा पुत्राय फलानि कदल्यादीनि प्रदाय ऽइह प्रियं प्रजयाऽइति ऋचौ जपित्वा, उभौ वाचं यच्छतः आनक्षत्रेभ्यः नक्षत्राणामोदयात्

āpgs-tāt_6.11: puṃsvoḥ puṃsvāḥ ityarcapāṭhaḥ yā puṃsa eva sūte na strīrapi, yā ca sūta eva na tu vandhyā satī krayādinā putravatī, sā puṃsūḥ jīvanta eva putrāḥ pumāṃso yasyāssā jīvaputrā, na punaḥ 'bhrātṛputrau svasṛduhitṛbhyām'(pā.1-2-68) ityekaśeṣavacanādyasyā duhitaro 'pi jīvanti, putraścaiko jīvati, sāpīha jīvaputrā vivakṣitāḥ puṃsvoriti viśeṣaṇānupapatteḥ evaṃ bhūtāyāḥ putraṃ 'somenādityāḥ'ityetayā vadhvā aṅka upaveśya 'pra svasthaḥ'iti yajuṣā putrāya phalāni kadalyādīni pradāya 'iha priyaṃ prajayā'iti ṛcau japitvā, ubhau vācaṃ yacchataḥ ānakṣatrebhyaḥ nakṣatrāṇāmodayāt


17

29 वध्वै ध्रुवारुन्धतीप्रदर्शनम् उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति आप्ग्स्_6.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_6.12: उदितेषु नक्षत्रेष्विति वचनात्ततः प्राकू तस्मिन्नेव चर्मणि वाग्यतयोरासनं पश्चादुपनिष्क्रमणम् उदितेष्वित्येव सिद्धे नक्षत्रग्रहणं विस्पष्टार्थम् उत्तराभ्यां ध्रुवक्षितिऽऽसप्रर्षयःऽइत्येताभ्याम् उभयत्र मन्त्रेण दर्शनं वध्वाः कर्म, वरस्तु पश्यन् ध्रुवमिति निर्दिर्श्य पूर्वा वाचयति वस्चादरुन्धतीमित्त्युत्तराम् ततो वाग्विसर्गः मन्त्रलिङ्गादेव यथालिङ्गदर्शने सिद्धे यथालिङ्गवचनं विकल्पार्थम् उत्तराभ्यां ध्रुवमरुन्धतीञ्च दर्शयति यथालिङ्गं वेति तेनोत्तरस्यामृचि सर्वेषां सप्तर्षीणां कृत्तिकादिनामरून्धत्याश्च सहदर्शनं वध्वाः कर्म पक्षे भवति, केवलमरुन्धत्या एव वा

29 vadhvai dhruvārundhatīpradarśanam uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvamarundhatīṃ ca darśayati āpgs_6.12 commentaries: āpgs-anā_6.12: uditeṣu nakṣatreṣviti vacanāttataḥ prākū tasminneva carmaṇi vāgyatayorāsanaṃ paścādupaniṣkramaṇam uditeṣvityeva siddhe nakṣatragrahaṇaṃ vispaṣṭārtham uttarābhyāṃ dhruvakṣiti''saprarṣayaḥ'ityetābhyām ubhayatra mantreṇa darśanaṃ vadhvāḥ karma, varastu paśyan dhruvamiti nirdirśya pūrvā vācayati vascādarundhatīmittyuttarām tato vāgvisargaḥ mantraliṅgādeva yathāliṅgadarśane siddhe yathāliṅgavacanaṃ vikalpārtham uttarābhyāṃ dhruvamarundhatīñca darśayati yathāliṅgaṃ veti tenottarasyāmṛci sarveṣāṃ saptarṣīṇāṃ kṛttikādināmarūndhatyāśca sahadarśanaṃ vadhvāḥ karma pakṣe bhavati, kevalamarundhatyā eva vā


12

आप्ग्स्-तात्_6.12: उत्तराभ्यां ऽध्रुवक्षितिर्ध्रुवयोनिःऽइत्येताभ्यां यथालिङ्गं पूर्वया सप्रऋषया ध्रुवमुत्तरयारुन्धतीं च दर्शयति वधूम् यथालिङ्गमिति च जातकर्मवद्द्वाभ्यां द्वाभ्यामेकैकं मा भूदिति केचित्- यथालिङ्गमित्यत्र नास्ति, प्रयोक्तॄणां प्रमादात् प्रदेशान्तरदृष्टमिह सञ्चरितपठितमिति अपरे-उत्तराभ्यां यथाक्रमं ध्रुवमरुन्धतीं च दर्शयति;यथालिङ्गं वा इति भित्वा सूत्रं साध्याहारं व्याचक्षते ऽसप्रऋषयः प्रथमामऽइत्येतया सप्तऋषीन् कृत्तिका अरुन्धतीं च सह दर्शयति अरुन्झतीमेव वेति विकल्पार्थ यथालिङ्गवचनामिति

āpgs-tāt_6.12: uttarābhyāṃ 'dhruvakṣitirdhruvayoniḥ'ityetābhyāṃ yathāliṅgaṃ pūrvayā sapraṛṣayā dhruvamuttarayārundhatīṃ ca darśayati vadhūm yathāliṅgamiti ca jātakarmavaddvābhyāṃ dvābhyāmekaikaṃ mā bhūditi kecit- yathāliṅgamityatra nāsti, prayoktṝṇāṃ pramādāt pradeśāntaradṛṣṭamiha sañcaritapaṭhitamiti apare-uttarābhyāṃ yathākramaṃ dhruvamarundhatīṃ ca darśayati;yathāliṅgaṃ vā iti bhitvā sūtraṃ sādhyāhāraṃ vyācakṣate 'sapraṛṣayaḥ prathamām'ityetayā saptaṛṣīn kṛttikā arundhatīṃ ca saha darśayati arunjhatīmeva veti vikalpārtha yathāliṅgavacanāmiti


1

द्वितीये पटले सिद्धं यथाभाष्यं यथामति कृतं सुदर्शनार्येण गृह्यतापर्यदर्शनम् इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यपदर्शने षष्ठः खण्डः द्वितीयः पटलश्च समाप्तः ==================================================================================== अथ तृतीयः पटलः सप्तमः खण्डः 30 आग्नेयस्थालीपाकः (तस्य धर्माः) अथैनामाग्नेयेन स्थालीपाकेन याजयति आप्ग्स्_7.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.1: अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति स्थाल्यां पच्यत इति स्थालीपाकः तस्य देवताविधानं-आग्नेयोनेति ननु-विधास्यते"अग्निर्देवता स्वाहाकारप्रदान"इति, सत्यम्, अपरमपि तत्र भवति-अग्निस्विष्टकृत् द्वितीय इति ततश्च स एव यदि देवताविधिः स्यात् द्विदेवत्यमिदं हविः स्यात् ततश्च निर्वपणकाले ताभ्यामुभाभ्यां सङ्कल्पः क्रियेत यद्यपि वस्तुतो गिणभूतः स्विष्टकृद्यागः तथापि प्रधानवत् तत्र चोद्यते-ऽअग्निस्विष्टकृद्वितीयऽइति ततश्च तस्मा अपि सङ्कल्पः क्रियेत तस्मात् केवलो ऽयमाग्नेयस्थालीपाक इति (वक्तव्यम् एवमाद्रेयस्यैव प्रदानस्य)यद्यप्रत्तदैवतमित्येतत् प्रायश्चित्तं भवति स्विष्टकृतस्तु प्रत्तदैवमित्येतदेव ऽएनां याजयतीऽति वचनात् सहत्वमुभयोरस्मिन् कर्मणि नास्ति वध्वा एवोदं कर्म, वरस्य त्वार्त्विज्यमेव तेन यदिदं स्थालीपाकरिवेषणं ब्रीह्यादिदक्षिणा च तत् वधूधनस्यैव भवति यत्रैदमुच्यते ऽपद्रीहि पारीणह्यस्येशोऽइति (तैसं.6-2-1)

dvitīye paṭale siddhaṃ yathābhāṣyaṃ yathāmati kṛtaṃ sudarśanāryeṇa gṛhyatāparyadarśanam iti śrīsudarśanācāryakṛte gṛhyatātparyapadarśane ṣaṣṭhaḥ khaṇḍaḥ dvitīyaḥ paṭalaśca samāptaḥ ==================================================================================== atha tṛtīyaḥ paṭalaḥ saptamaḥ khaṇḍaḥ 30 āgneyasthālīpākaḥ (tasya dharmāḥ) athaināmāgneyena sthālīpākena yājayati āpgs_7.1 commentaries: āpgs-anā_7.1: atheti vacanādetasyāmava rātryāṃ sthālīpāko bhavati sthālyāṃ pacyata iti sthālīpākaḥ tasya devatāvidhānaṃ-āgneyoneti nanu-vidhāsyate"agnirdevatā svāhākārapradāna"iti, satyam, aparamapi tatra bhavati-agnisviṣṭakṛt dvitīya iti tataśca sa eva yadi devatāvidhiḥ syāt dvidevatyamidaṃ haviḥ syāt tataśca nirvapaṇakāle tābhyāmubhābhyāṃ saṅkalpaḥ kriyeta yadyapi vastuto giṇabhūtaḥ sviṣṭakṛdyāgaḥ tathāpi pradhānavat tatra codyate-'agnisviṣṭakṛdvitīya'iti tataśca tasmā api saṅkalpaḥ kriyeta tasmāt kevalo 'yamāgneyasthālīpāka iti (vaktavyam evamādreyasyaiva pradānasya)yadyaprattadaivatamityetat prāyaścittaṃ bhavati sviṣṭakṛtastu prattadaivamityetadeva 'enāṃ yājayatī'ti vacanāt sahatvamubhayorasmin karmaṇi nāsti vadhvā evodaṃ karma, varasya tvārtvijyameva tena yadidaṃ sthālīpākariveṣaṇaṃ brīhyādidakṣiṇā ca tat vadhūdhanasyaiva bhavati yatraidamucyate 'padrīhi pārīṇahyasyeśo'iti (taisaṃ.6-2-1)


1

आप्ग्स्-तात्_7.1: ननु-ऽअथ पत्न्यवहन्तिऽऽश्रपयित्वाऽइत्येतावदेव वक्तव्यम्;यतौत्तरत्र ऽअग्निर्देवताऽ(आपगृ.7-5) इति विधानादाग्नेयत्वं सिद्धमऽ; स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायामिति विधानात्;अतः किमर्थमिदमधिकमारभ्यते ऽअथैनामाग्नेयेन स्थालीपाकेन याजयतिऽइति ? उच्येते सूत्रं तावदृषिप्रणीतं नानर्थकं भवितुमर्हति तेन लोके व्युत्पत्तिसिद्धाध्याहारादिभिरपि यस्सूत्रस्यार्थस्सम्पाद्यते सो ऽपि वेदार्थोनुष्ठेय उच्यते-ध्रुवमरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च एवमतिदेशेषार्थतया सूत्रमर्थवदेव अन्ये-याजयतीति वचनात् वरादन्यो ऽप्यस्य स्थालीपाकयागस्य कर्तेति तन्न;प्रकरणेनास्य विवाहाङ्गत्वात् ऽसह्ङ्गं प्रधानमऽ; (आपप.2-39) इति साङ्गस्य प्रधानस्यैककर्तृकत्वात् केचित्- उत्तरत्र न केवलमग्निर्देवतेति विधिः, ऽअग्निस्स्विष्टकृत् द्वितीयः इत्यपि तेन द्विदैवत्यो ऽयं स्थालीपाको मा भूत, किन्त्वेकदैवत्य एवेत्येवमर्थमाग्नेयेनेति विधानम् तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः ऽएनां याजयतिऽइति तु नास्मिन् कर्मण्युभयोरधिकारः, किन्तु वध्वा एव वरस्तु ऋत्विक्स्थानीयः तेन होमादौ द्रव्यत्यागस्स्त्रीधनादेवेति तन्न;वध्वेकाधिकारे हि प्रकरणावगतविवाहाङ्गत्वबाधः,अधिकारसाध्यभेधेन शास्त्रतदर्थयोर्भेदात् आचारसिद्धवरकर्तृकत्वबाधापत्तिश्च;अन्यार्त्विज्ये ऽप्यविरोधात्

āpgs-tāt_7.1: nanu-'atha patnyavahanti''śrapayitvā'ityetāvadeva vaktavyam;yatauttaratra 'agnirdevatā'(āpagṛ.7-5) iti vidhānādāgneyatvaṃ siddham'; sthālīpākeneti tu śrapayitveti vidhānāt, enāṃ yājayatīti cānvārabdhāyāmiti vidhānāt;ataḥ kimarthamidamadhikamārabhyate 'athaināmāgneyena sthālīpākena yājayati'iti ? ucyete sūtraṃ tāvadṛṣipraṇītaṃ nānarthakaṃ bhavitumarhati tena loke vyutpattisiddhādhyāhārādibhirapi yassūtrasyārthassampādyate so 'pi vedārthonuṣṭheya ucyate-dhruvamarundhatīṃ ca darśayitvā, anantaraṃ yatrāgneyena sthālīpākena yāgaṃ karoti tatraivaināṃ patnīṃ yājayati patnyāmanvārabdhāyāṃ juhoti, na parvasu pārvaṇavikāreṣu ca evamatideśeṣārthatayā sūtramarthavadeva anye-yājayatīti vacanāt varādanyo 'pyasya sthālīpākayāgasya karteti tanna;prakaraṇenāsya vivāhāṅgatvāt 'sahṅgaṃ pradhānam'; (āpapa.2-39) iti sāṅgasya pradhānasyaikakartṛkatvāt kecit- uttaratra na kevalamagnirdevateti vidhiḥ, 'agnissviṣṭakṛt dvitīyaḥ ityapi tena dvidaivatyo 'yaṃ sthālīpāko mā bhūta, kintvekadaivatya evetyevamarthamāgneyeneti vidhānam tenāgneya eva saṅkalpitasya vrīhyāderarthākṣipto laukiko nirvāpaḥ kāryaḥ 'enāṃ yājayati'iti tu nāsmin karmaṇyubhayoradhikāraḥ, kintu vadhvā eva varastu ṛtviksthānīyaḥ tena homādau dravyatyāgasstrīdhanādeveti tanna;vadhvekādhikāre hi prakaraṇāvagatavivāhāṅgatvabādhaḥ,adhikārasādhyabhedhena śāstratadarthayorbhedāt ācārasiddhavarakartṛkatvabādhāpattiśca;anyārtvijye 'pyavirodhāt


2

पत्न्यवहन्ति आप्ग्स्_7.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.2: अरुन्धतीदर्शनानन्तरमगारं प्रविश्य व्रीहीन् यवान् वा नवानग्नये संकल्पितान् निर्वपति यावद्धोमाय ब्रह्मणभोजनाय च पर्याप्तं मन्यते प्रोक्षणञ्च तूष्णीं संस्कृताभिरद्भिः ततस्तान्पत्न्यवहन्ति ऽएना पत्याऽइत्यादिवत् सावहन्तीति सर्वनाम्ना निर्देशे कर्तव्ये पत्नीग्रहणं पत्नीकर्मेदं यथा विज्ञायेत इतरथा याजमानं विज्ञायेत वधूरिह यजमानेति कृत्वा पार्वणादिषु पत्युरवहननं प्राप्नोति

patnyavahanti āpgs_7.2 commentaries: āpgs-anā_7.2: arundhatīdarśanānantaramagāraṃ praviśya vrīhīn yavān vā navānagnaye saṃkalpitān nirvapati yāvaddhomāya brahmaṇabhojanāya ca paryāptaṃ manyate prokṣaṇañca tūṣṇīṃ saṃskṛtābhiradbhiḥ tatastānpatnyavahanti 'enā patyā'ityādivat sāvahantīti sarvanāmnā nirdeśe kartavye patnīgrahaṇaṃ patnīkarmedaṃ yathā vijñāyeta itarathā yājamānaṃ vijñāyeta vadhūriha yajamāneti kṛtvā pārvaṇādiṣu patyuravahananaṃ prāpnoti


2

आप्ग्स्-तात्_7.2: स्थालीपाकार्थ व्रीह्यादिकम् ऽसावहन्तिऽइति वक्तव्ये ऽपत्न्यवहन्तिऽइत्याधिकाक्षरात् पत्न्यवघातमेव कुर्यात्, न तु श्रपणादिकमपि तदादिकं वर एव केचित्- पत्नीत्यारम्भादवहननं पत्नीकर्मैव, न तु यजमानकर्म यजमानकर्मत्वे हि सहाधिकारे पार्वणादौ पत्युरवहननं स्यात्, तस्य तत्र यजमानत्वात् अत एव पार्वणादौ नान्वारम्भः;पत्न्यवहन्तीतिवत् पत्न्यामन्वारब्धायामित्यवचनादिति मैवम्;वध्वेकाधिकारस्यैव निरस्तत्वात्

āpgs-tāt_7.2: sthālīpākārtha vrīhyādikam 'sāvahanti'iti vaktavye 'patnyavahanti'ityādhikākṣarāt patnyavaghātameva kuryāt, na tu śrapaṇādikamapi tadādikaṃ vara eva kecit- patnītyārambhādavahananaṃ patnīkarmaiva, na tu yajamānakarma yajamānakarmatve hi sahādhikāre pārvaṇādau patyuravahananaṃ syāt, tasya tatra yajamānatvāt ata eva pārvaṇādau nānvārambhaḥ;patnyavahantītivat patnyāmanvārabdhāyāmityavacanāditi maivam;vadhvekādhikārasyaiva nirastatvāt


3

31 स्थालीपाकहोमः, तस्यावदानसंख्या श्रपयित्वामिघार्य प्रचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज्जहोति आप्ग्स्_7.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.3: ततस्तानवहतांस्त्रिष्फलीकृतान् प्रक्षाल्य श्रपयति वरः अग्रेरुपसमाधानादिवचनं तन्त्रविधानार्थ कालविधानार्थ च प्रतिष्ठताभिघारणान्ते कथं तन्त्रं प्रतिपद्येत, न प्रागिति तेनाभिघारणमसंस्कृतेनाज्येन भवति अत्रापि सकृदेव पात्रप्रयोगः तथा शम्याः विवाहशेषत्वादस्य नेत्यन्ये

31 sthālīpākahomaḥ, tasyāvadānasaṃkhyā śrapayitvāmighārya pracīnamudīcīnaṃ vodvāsya pratiṣṭhitamabhighāryāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākājjahoti āpgs_7.3 commentaries: āpgs-anā_7.3: tatastānavahatāṃstriṣphalīkṛtān prakṣālya śrapayati varaḥ agrerupasamādhānādivacanaṃ tantravidhānārtha kālavidhānārtha ca pratiṣṭhatābhighāraṇānte kathaṃ tantraṃ pratipadyeta, na prāgiti tenābhighāraṇamasaṃskṛtenājyena bhavati atrāpi sakṛdeva pātraprayogaḥ tathā śamyāḥ vivāhaśeṣatvādasya netyanye


4

आज्यभागान्तवचनं अन्वारम्भकालोपदेशार्थम् स्थालीपाकादित्यनर्थकम्, तस्य होमार्थत्वात् न च वाच्यं ब्राह्मणभोजनार्थ स्थालीपाको, होमस्त्वाज्यादेव प्राप्नोतीति यागविधानात् देवताविधानाच्च एवं तर्हि शैलीयमाचार्यस्य-यत्रोभयं हविर्भवत्याज्य ञ्चौषधयश्च तत्र प्रधानाहुतिविशेषणं करोति स्थालीपाकादन्नादपूपादाज्याहुतिरुति तेन यत्र विशेषणं नास्ति तत्रैकमेव हविरिति सिद्धं भवति तेनाग्रयणे आज्यस्याभावः ततश्च सकृदुपघातपक्ष एव तत्र भवति, आज्याभावेनोपस्तरणाभिघारणयोरसम्भवात् विवाहे च ऽयथा स्थानमुपविश्येऽत्यत्र आज्याहुतिरिति विशेषणाभावादाज्यमेव तत्र धर्मवद्धाविः, लाजास्त्वधर्मका इति सिद्धम्

ājyabhāgāntavacanaṃ anvārambhakālopadeśārtham sthālīpākādityanarthakam, tasya homārthatvāt na ca vācyaṃ brāhmaṇabhojanārtha sthālīpāko, homastvājyādeva prāpnotīti yāgavidhānāt devatāvidhānācca evaṃ tarhi śailīyamācāryasya-yatrobhayaṃ havirbhavatyājya ñcauṣadhayaśca tatra pradhānāhutiviśeṣaṇaṃ karoti sthālīpākādannādapūpādājyāhutiruti tena yatra viśeṣaṇaṃ nāsti tatraikameva haviriti siddhaṃ bhavati tenāgrayaṇe ājyasyābhāvaḥ tataśca sakṛdupaghātapakṣa eva tatra bhavati, ājyābhāvenopastaraṇābhighāraṇayorasambhavāt vivāhe ca 'yathā sthānamupaviśye'tyatra ājyāhutiriti viśeṣaṇābhāvādājyameva tatra dharmavaddhāviḥ, lājāstvadharmakā iti siddham


3

आप्ग्स्-तात्_7.3: उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य प्रतिष्ठितमभिघारयति ओषधिहविष्को ऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव ऽआज्यभागान्ते ऽन्वारब्धायामऽ; उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम्

āpgs-tāt_7.3: udvāsya saukaryādapareṇāgniṃ pratiṣṭhāpya pratiṣṭhitamabhighārayati oṣadhihaviṣko 'pyatra tantravidhānaṃ kramārthamityuktameva 'ājyabhāgānte 'nvārabdhāyām'; upastaraṇaprabhṛtyanvārambhaḥ pradhānahomāntam


5

सकृदुपस्तरणाभिघारणे द्विरवदानम् आप्ग्स्_7.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.4: अनेन पौरोडाशिको ऽवदानकल्प इह प्रदर्शितो विज्ञेयः ऽतस्मादङ्गुष्ठपर्वमात्रऽ(आपश्रौय-18-9) मित्याद्यपि भवति पञ्चावत्तञ्चपञ्चावत्तिनाम् प्रत्यभिघारणं च हविषः लाजावदानवत् उपस्तीर्य द्विरवदाय द्विरभिघारयतीति वक्तव्ये सकृद्वचनमुपस्तरणाभिघारणयोश्चतुरवत्तसंपादनार्थतां ज्ञापयितुम् तेन चतुरवत्ताभावे उपस्तरणाभिघारणयोरप्यभावः यथा ऽसकृदुपहत्य जुहुयातऽ(आपगृ. 7-7)"दध्न एवाञ्जलिने"(आपगृ.22-10) त्यादौ

sakṛdupastaraṇābhighāraṇe dviravadānam āpgs_7.4 commentaries: āpgs-anā_7.4: anena pauroḍāśiko 'vadānakalpa iha pradarśito vijñeyaḥ 'tasmādaṅguṣṭhaparvamātra'(āpaśrauya-18-9) mityādyapi bhavati pañcāvattañcapañcāvattinām pratyabhighāraṇaṃ ca haviṣaḥ lājāvadānavat upastīrya dviravadāya dvirabhighārayatīti vaktavye sakṛdvacanamupastaraṇābhighāraṇayoścaturavattasaṃpādanārthatāṃ jñāpayitum tena caturavattābhāve upastaraṇābhighāraṇayorapyabhāvaḥ yathā 'sakṛdupahatya juhuyāt'(āpagṛ. 7-7)"dadhna evāñjaline"(āpagṛ.22-10) tyādau


4

आप्ग्स्-तात्_7.4: होमदर्व्या स्रुवेण दर्व्यन्तरेण वा सकृदुपस्तरणं कार्यम् ततश्चरोर्द्विरवदानम् त्रिर्जमदग्नीनाम्, सकृच्चाभिघारणम् ततः स्विष्टकृदर्थ चरोः प्रत्यभिघारणम् अस्यैष्टिकावदानविधिप्रदर्शनार्थत्वादाचाराच्च

āpgs-tāt_7.4: homadarvyā sruveṇa darvyantareṇa vā sakṛdupastaraṇaṃ kāryam tataścarordviravadānam trirjamadagnīnām, sakṛccābhighāraṇam tataḥ sviṣṭakṛdartha caroḥ pratyabhighāraṇam asyaiṣṭikāvadānavidhipradarśanārthatvādācārācca


6

देवतामाह 32 तस्य देवताविधानम् अग्निर्देवता स्वाहाकारप्रदानः आप्ग्स्_7.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.5: प्रधानद्वित्वादुत्तरविवक्षया सिद्धानुवादो ऽयम् अग्निरेव देवता पूर्वस्य होमस्य येयमाग्नेयेनेति विहिता उत्तरस्यान्या विधीयत इति

devatāmāha 32 tasya devatāvidhānam agnirdevatā svāhākārapradānaḥ āpgs_7.5 commentaries: āpgs-anā_7.5: pradhānadvitvāduttaravivakṣayā siddhānuvādo 'yam agnireva devatā pūrvasya homasya yeyamāgneyeneti vihitā uttarasyānyā vidhīyata iti


7

स्वाहाकारेण प्रदानं प्रक्षेपो यस्मिन् स-स्वाहाकारप्रदानः स्थालीपाकस्य होमः अविशेषात् पूर्वश्चोत्तरश्च तत्र स्वाहाकारसंयोगाद्देवताशब्दश्चतुर्थ्यन्तो भवति -अग्नेये स्वाहा, अग्नये स्विष्टकृते स्वाहेति ऽजुहोतिचोदनः स्वाहाकारप्रदानःऽ(आपप.3-4) इत्येव सिद्धे वचनमिदं कल्पान्तरेषु केषुचित् मन्त्रेण प्रदानञ्चोदित"ममुष्मै स्वाहेति जुहुयात्, ऋचा वा तद्देवतये"ति ऽपुरोनुवाक्यामनूच्य याज्यया जुहुयाऽदिति च तत्प्रतिषेधार्थम् एवमपि ऽस्थालीपाकाज्जुहोत्यग्नये स्वाहेत्येव वक्तव्यंऽस्विष्टकृति च स्विष्टकृते स्वाहेति इदं तु वचनं पार्वणातिदिष्टेषु यथोपदेशं देवता इत्यत्र मन्त्रप्रतिषेधार्थम् तेन ऽपौर्णमास्यां पौर्णमासीऽ(आपगृ.7-28) इत्येवमादिषु यत्र स्थालीपाकस्य देवतैव चोद्यते तत्र देवताशब्देनैव होमः, न तद्दैवत्येन मन्त्रेणेति सिद्धम्

svāhākāreṇa pradānaṃ prakṣepo yasmin sa-svāhākārapradānaḥ sthālīpākasya homaḥ aviśeṣāt pūrvaścottaraśca tatra svāhākārasaṃyogāddevatāśabdaścaturthyanto bhavati -agneye svāhā, agnaye sviṣṭakṛte svāheti 'juhoticodanaḥ svāhākārapradānaḥ'(āpapa.3-4) ityeva siddhe vacanamidaṃ kalpāntareṣu keṣucit mantreṇa pradānañcodita"mamuṣmai svāheti juhuyāt, ṛcā vā taddevataye"ti 'puronuvākyāmanūcya yājyayā juhuyā'diti ca tatpratiṣedhārtham evamapi 'sthālīpākājjuhotyagnaye svāhetyeva vaktavyaṃ'sviṣṭakṛti ca sviṣṭakṛte svāheti idaṃ tu vacanaṃ pārvaṇātidiṣṭeṣu yathopadeśaṃ devatā ityatra mantrapratiṣedhārtham tena 'paurṇamāsyāṃ paurṇamāsī'(āpagṛ.7-28) ityevamādiṣu yatra sthālīpākasya devataiva codyate tatra devatāśabdenaiva homaḥ, na taddaivatyena mantreṇeti siddham


5

आप्ग्स्-तात्_7.5: अग्निर्देवतेति विहिताग्निविशेषणार्थमयं परिभाषेक्तानुवादः कथं विशेष्यते?इति चेत्, सो ऽग्निस्स्वाहाकारप्रदानश्चेद्देवता, स्वाहाकातयोग्यया चतुर्थ्या विभक्त्या युक्तश्चेदित्यर्थः नन्व न्वारब्धायामग्नये जुहोतीऽति वक्तव्ये किमर्थमधिकाक्षरं ऽअग्निर्देवता स्वाहाकारप्रदानःऽइत्युपदिश्यतेऊउच्यते-शब्दो देवता, नार्तः अर्थो ऽपि यागे चोदितचतुर्थ्यन्तस्ववाचकसब्देनैवोपकरोति, अर्थस्योद्देष्टुमशक्यत्वात्;उपाकारान्तरस्य च दुर्निरूपत्वादिति मीमांसकमतमिह नाभिमतम्;अर्त एव देवतेति स्वमतज्ञापनार्थम् कथमिति चेत् ?कर्मणि प्रयोगानर्हस्य प्रथमान्तस्याग्निशब्दस्य प्रयोगात् नन्वर्तस्य देवतात्वे सत्यप्युकारश्शब्देनैवेति नानुष्ठाने विशेषः मैवम्;न केवलं चतुर्थ्यन्तशब्दोच्चारणमेवानुष्ठेयम्, किन्त्वर्थस्य ध्यानमपीति अत्र तु ज्ञातकं ऽआग्नेया इति तु स्थितिःऽ(निरु.8-3-7) इत्यादि निरुक्तकारवचनम् केचित्- कल्पान्तरेषु ऽअमुष्मै स्वाहेति जुहुयात् ऋचा वा तद्दैवत्ययाऽइति विकल्पः चोदितः स माभूदस्माकम् पार्वणेषु तद्विकारेषु च ऽअमुष्मै स्वाहाऽइत्येव जुहुयादित्येवमर्थमिति

āpgs-tāt_7.5: agnirdevateti vihitāgniviśeṣaṇārthamayaṃ paribhāṣektānuvādaḥ kathaṃ viśeṣyate?iti cet, so 'gnissvāhākārapradānaśceddevatā, svāhākātayogyayā caturthyā vibhaktyā yuktaścedityarthaḥ nanva nvārabdhāyāmagnaye juhotī'ti vaktavye kimarthamadhikākṣaraṃ 'agnirdevatā svāhākārapradānaḥ'ityupadiśyateūucyate-śabdo devatā, nārtaḥ artho 'pi yāge coditacaturthyantasvavācakasabdenaivopakaroti, arthasyoddeṣṭumaśakyatvāt;upākārāntarasya ca durnirūpatvāditi mīmāṃsakamatamiha nābhimatam;arta eva devateti svamatajñāpanārtham kathamiti cet ?karmaṇi prayogānarhasya prathamāntasyāgniśabdasya prayogāt nanvartasya devatātve satyapyukāraśśabdenaiveti nānuṣṭhāne viśeṣaḥ maivam;na kevalaṃ caturthyantaśabdoccāraṇamevānuṣṭheyam, kintvarthasya dhyānamapīti atra tu jñātakaṃ 'āgneyā iti tu sthitiḥ'(niru.8-3-7) ityādi niruktakāravacanam kecit- kalpāntareṣu 'amuṣmai svāheti juhuyāt ṛcā vā taddaivatyayā'iti vikalpaḥ coditaḥ sa mābhūdasmākam pārvaṇeṣu tadvikāreṣu ca 'amuṣmai svāhā'ityeva juhuyādityevamarthamiti


8

33 तत्र सकृदुपघातपक्षः अपि वा सकृदुपहत्य जुहुयात् आप्ग्स्_7.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.6: यया दर्व्या होमस्तयैवसकृदुपहत्यजुहुयात् अत्र पक्षे उपस्तरणाभिघारणयोप्यभाव इति सिद्धम् केचित् कुर्वन्ति जुहुयादिति वचनं स्विष्टकृत्यपि प्राप्यत्यर्थम्

33 tatra sakṛdupaghātapakṣaḥ api vā sakṛdupahatya juhuyāt āpgs_7.6 commentaries: āpgs-anā_7.6: yayā darvyā homastayaivasakṛdupahatyajuhuyāt atra pakṣe upastaraṇābhighāraṇayopyabhāva iti siddham kecit kurvanti juhuyāditi vacanaṃ sviṣṭakṛtyapi prāpyatyartham


6

आप्ग्स्-तात्_7.6: अथवा दर्व्या सकृत् स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम्

āpgs-tāt_7.6: athavā darvyā sakṛt sthālīpākādgṛhītvā juhuyāt, na tu pūrvavaccaturavattaṃ pañcāvattaṃ vā apūrvatvāddarvihomānām

Section (cont. 8)

9

अग्निस्स्विष्टकृत् द्वितीयः आप्ग्स्_7.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.7: अग्निः स्विष्टकृद्द्वितीयो भवति देवतात्वेन द्वितीयवचनं पूर्वेण तुल्यधर्मत्वज्ञापनार्थम् तेन ऽयथोपदेशं प्रधानाहुतीरित्यादौ स्विष्टकृतो ऽपि ग्रहणं भवति तथा ऽसकृदुपहत्य जुहुयातऽऽस्वाहाकारप्रदानऽइत्येतयोश्च प्रवृत्तिः

agnissviṣṭakṛt dvitīyaḥ āpgs_7.7 commentaries: āpgs-anā_7.7: agniḥ sviṣṭakṛddvitīyo bhavati devatātvena dvitīyavacanaṃ pūrveṇa tulyadharmatvajñāpanārtham tena 'yathopadeśaṃ pradhānāhutīrityādau sviṣṭakṛto 'pi grahaṇaṃ bhavati tathā 'sakṛdupahatya juhuyāt''svāhākārapradāna'ityetayośca pravṛttiḥ


7

आप्ग्स्-तात्_7.7: देवतेति शेषः स्थालीपाकशेषात् द्वितीयो होमः कर्तव्यः तस्मिन् अग्निस्स्विष्टकृद्देवतेतेयर्थः अर्थसिद्धे ऽपि द्वितीये ऽद्वितीयऽ; इति ग्रहणे प्रयोजनं ऽसदसस्पतिर्द्वितीयः ऽ(आपगृ.8-2) इत्यत्र वक्ष्यते केचित्- पूर्वहोमेन तुल्यधर्मत्वज्ञापनम् तथा च सति ऽयथोपदेशं प्रधानाहुतीःऽइत्यत्र स्विष्टकृतमपि हुत्वा जयादीत्येवमादि भवेदिति

āpgs-tāt_7.7: devateti śeṣaḥ sthālīpākaśeṣāt dvitīyo homaḥ kartavyaḥ tasmin agnissviṣṭakṛddevateteyarthaḥ arthasiddhe 'pi dvitīye 'dvitīya'; iti grahaṇe prayojanaṃ 'sadasaspatirdvitīyaḥ '(āpagṛ.8-2) ityatra vakṣyate kecit- pūrvahomena tulyadharmatvajñāpanam tathā ca sati 'yathopadeśaṃ pradhānāhutīḥ'ityatra sviṣṭakṛtamapi hutvā jayādītyevamādi bhavediti


10

अस्य त्ववदानविधिमाह- 34 तत्र उपस्तरणादिविधानम् सकृदुपस्तरणावदाने द्विरभिघारणम् आप्ग्स्_7.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.8: अत्रापि पौगोजाशिकस्विष्टकृतो ऽवदानकल्पः प्रदर्शितो विज्ञेयः "तेन द्विः पञ्चावत्तिनः उत्तरमुत्तरं ज्यायांसम्, न हविः प्रत्यभिधारयतीऽ(आपश्रौ.2-21-3,4,5) ति विशेषाः इहापि द्रष्टव्यः

asya tvavadānavidhimāha- 34 tatra upastaraṇādividhānam sakṛdupastaraṇāvadāne dvirabhighāraṇam āpgs_7.8 commentaries: āpgs-anā_7.8: atrāpi paugojāśikasviṣṭakṛto 'vadānakalpaḥ pradarśito vijñeyaḥ "tena dviḥ pañcāvattinaḥ uttaramuttaraṃ jyāyāṃsam, na haviḥ pratyabhidhārayatī'(āpaśrau.2-21-3,4,5) ti viśeṣāḥ ihāpi draṣṭavyaḥ


8

आप्ग्स्-तात्_7.8: सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् जमदग्नीनां तु द्विरवदानम् अवदानं दैवताज्ज्यायः नापि हविः प्रत्यभिघारणम्;ऐष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च

āpgs-tāt_7.8: sakṛdupastaraṇamavadānaṃ ca dvirabhighāraṇaṃ ca kāryam jamadagnīnāṃ tu dviravadānam avadānaṃ daivatājjyāyaḥ nāpi haviḥ pratyabhighāraṇam;aiṣṭikasauviṣṭakṛtāvadānavidhipradarśanārthatvāt, ācārācca


11

मध्यात् पूर्वस्यावदानम् आप्ग्स्_7.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.9: पूर्वस्यप्रधानहोमस्येत्यर्थः उपघातपक्षार्थ वचनम् चतुरवत्तपक्षे तु पौरोजाशिकत्वात् सिद्धम्, ननु तत्रापि"पूर्वार् धाद्वितीयं पश्चार्धात् तृतीय"मित्येतयोर्देशविशेषयोः प्रतिषेधार्थ स्यात् यद्येवं उत्तरवत्तरस्योति स्विष्टकृति नारब्धव्यं, विशेषाभावात् तस्मात् चतुरवत्तपक्षे पौरोडाशिक एव विधिः इदं तु वचनमुपघातपक्षार्थम्

madhyāt pūrvasyāvadānam āpgs_7.9 commentaries: āpgs-anā_7.9: pūrvasyapradhānahomasyetyarthaḥ upaghātapakṣārtha vacanam caturavattapakṣe tu paurojāśikatvāt siddham, nanu tatrāpi"pūrvār dhādvitīyaṃ paścārdhāt tṛtīya"mityetayordeśaviśeṣayoḥ pratiṣedhārtha syāt yadyevaṃ uttaravattarasyoti sviṣṭakṛti nārabdhavyaṃ, viśeṣābhāvāt tasmāt caturavattapakṣe pauroḍāśika eva vidhiḥ idaṃ tu vacanamupaghātapakṣārtham


9

आप्ग्स्-तात्_7.9: हविषो मध्यात् पूर्वस्य दैवतस्यावदानं कार्यम् उपघातपक्षार्थ एवायमारम्भ- चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान्मध्यादङिगुष्ठपर्वमात्रावदानम् ऽतिरछ्टीनमवद्यति पूर्वार्धाद्द्वितीयमनूचीनं चतिरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनःऽ; (आपश्रौ.2-18-9) इत्यवदानस्थानसिद्धेः एतेनोपघातपक्षे चतिरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति

āpgs-tāt_7.9: haviṣo madhyāt pūrvasya daivatasyāvadānaṃ kāryam upaghātapakṣārtha evāyamārambha- caturavattapakṣe tvaiṣṭikavidhipradarśanabalānmadhyādaṅiguṣṭhaparvamātrāvadānam 'tirachṭīnamavadyati pūrvārdhāddvitīyamanūcīnaṃ catiravattinaḥ paścārdhāttṛtīyaṃ pañcāvattinaḥ'; (āpaśrau.2-18-9) ityavadānasthānasiddheḥ etenopaghātapakṣe catiravattadharma upastaraṇādirna pravartate iti darśayati


12

मध्ये होमः आप्ग्स्_7.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.10: आघारसम्भेदो मध्यम् अत्रापि पौगोडाशिक एव होमदेशो दर्शितो विज्ञेयः तेनाहुतीनामनेकत्वे ऽपूर्वा पूर्वा संहितामिऽ(आपश्रौ.2-19-9) त्येवमादयो विशेषा इहापि भवन्ति

madhye homaḥ āpgs_7.10 commentaries: āpgs-anā_7.10: āghārasambhedo madhyam atrāpi paugoḍāśika eva homadeśo darśito vijñeyaḥ tenāhutīnāmanekatve 'pūrvā pūrvā saṃhitāmi'(āpaśrau.2-19-9) tyevamādayo viśeṣā ihāpi bhavanti


10

आप्ग्स्-तात्_7.10: होमः प्रक्षेपः दैवतस्य अग्ने र्मध्येआघारसम्फेदे प्रधानाहुतिबहुत्वे ऽपूर्वा पूर्वा सांहितामऽ(आपश्रौ.2-19-9) इति च भवति अयं तूभयपक्षार्थः

āpgs-tāt_7.10: homaḥ prakṣepaḥ daivatasya agne rmadhyeāghārasamphede pradhānāhutibahutve 'pūrvā pūrvā sāṃhitām'(āpaśrau.2-19-9) iti ca bhavati ayaṃ tūbhayapakṣārthaḥ


13

उत्तरार्धादुत्तरस्य आप्ग्स्_7.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.11: अयमप्युपघातपक्षार्थ आरम्भः

uttarārdhāduttarasya āpgs_7.11 commentaries: āpgs-anā_7.11: ayamapyupaghātapakṣārtha ārambhaḥ


11

आप्ग्स्-तात्_7.11: उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् अयमपि पूर्ववदुपघातपक्षार्थ एव

āpgs-tāt_7.11: uttarārdhāddhaviṣa uttarasya sviṣṭakṛta avadānaṃ kāryam ayamapi pūrvavadupaghātapakṣārtha eva


14

उत्तरार्धपूर्वार्धे होमः आप्ग्स्_7.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.12: अत्रापि पौरोडाशिकस्य स्विष्टकृतो धर्मो विज्ञेयः तेनाः ऽसंसक्तामितराभिऽ(आपश्रौ.2-21-6)रिति विशेष इहापि भवति होमग्रहणे आश्रियमाणे उत्तरार्धपूर्वार्ध इत्यस्य लेपयोः प्रस्तरवदित्त्युत्तरेणापि सम्बन्धस्सम्भाव्येत

uttarārdhapūrvārdhe homaḥ āpgs_7.12 commentaries: āpgs-anā_7.12: atrāpi pauroḍāśikasya sviṣṭakṛto dharmo vijñeyaḥ tenāḥ 'saṃsaktāmitarābhi'(āpaśrau.2-21-6)riti viśeṣa ihāpi bhavati homagrahaṇe āśriyamāṇe uttarārdhapūrvārdha ityasya lepayoḥ prastaravadittyuttareṇāpi sambandhassambhāvyeta


12

आप्ग्स्-तात्_7.12: तस्य स्विष्टकृतो होमो ऽग्नेरुत्तरार्धपूर्वार्धे अस्यापि प्रदर्शनार्थत्वात् ऽअसंसक्तामितराभिराहुतिभिःऽ(आपश्रौ.2-21)-6) इत्यपि भवति

āpgs-tāt_7.12: tasya sviṣṭakṛto homo 'gneruttarārdhapūrvārdhe asyāpi pradarśanārthatvāt 'asaṃsaktāmitarābhirāhutibhiḥ'(āpaśrau.2-21)-6) ityapi bhavati


15

होमोपस्तरणाद्यर्थदर्वीद्वपलेपयोः पात्रप्रयोगार्थ संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह लेपयोः प्रस्तरवत् तूष्णीं बर्हि रङ्त्वा (क्त्वा) ग्नौ प्रहरति आप्ग्स्_7.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.13: यस्मिन् बर्हिषि प्रतिष्ठितं हविराज्यं च तस्मात् किञ्चिदुपादाय तद्वर्हिरन्नस्य चाज्यस्य च यौ लेपौ तयोः प्रस्तरव त्तूष्णीमङ्त्वा प्रस्तरवदेव तूष्णामग्नौ प्रहरति अत एव प्रतिपत्तिविधानादपरेणाग्निं बर्हिषः स्तरणं भवति हविषश्च तत्रासादनम् कल्पान्तरे च स्पष्टमेतत् शृतानिहवींष्यभिधार्य उदगुदावास्य बर्हिष्यासाद्येति केचिदग्निपरिस्तरणादञ्जनं मन्यन्ते प्रस्तरवदिति वचनात् त्रिषु स्थानेष्वञ्जनं भवति तत्र चतुरवत्तपक्षे यया होमाः तस्यामग्रस्य, ययोपस्तरणाभिघारणे तस्यां मध्यस्य, आज्यस्थाल्यां मूलस्य चाञ्जनं भवति उपघातपक्षे तूपस्तरणांभिघारणार्थाया दर्व्या अभावादाज्यस्थाल्यां मध्यस्य मूलस्य चरुस्थाल्याम् अक्तस्य तृणमपादायेत्येतदपि भवति तथा यया होमस्तस्यां प्रतिष्ठापनं च आग्नीध्रकर्म च स्वयमेव करोति

homopastaraṇādyarthadarvīdvapalepayoḥ pātraprayogārtha saṃstīrṇasya ca varhiṣaḥ pratipattimāha lepayoḥ prastaravat tūṣṇīṃ barhi raṅtvā (ktvā) gnau praharati āpgs_7.13 commentaries: āpgs-anā_7.13: yasmin barhiṣi pratiṣṭhitaṃ havirājyaṃ ca tasmāt kiñcidupādāya tadvarhirannasya cājyasya ca yau lepau tayoḥ prastarava ttūṣṇīmaṅtvā prastaravadeva tūṣṇāmagnau praharati ata eva pratipattividhānādapareṇāgniṃ barhiṣaḥ staraṇaṃ bhavati haviṣaśca tatrāsādanam kalpāntare ca spaṣṭametat śṛtānihavīṃṣyabhidhārya udagudāvāsya barhiṣyāsādyeti kecidagniparistaraṇādañjanaṃ manyante prastaravaditi vacanāt triṣu sthāneṣvañjanaṃ bhavati tatra caturavattapakṣe yayā homāḥ tasyāmagrasya, yayopastaraṇābhighāraṇe tasyāṃ madhyasya, ājyasthālyāṃ mūlasya cāñjanaṃ bhavati upaghātapakṣe tūpastaraṇāṃbhighāraṇārthāyā darvyā abhāvādājyasthālyāṃ madhyasya mūlasya carusthālyām aktasya tṛṇamapādāyetyetadapi bhavati tathā yayā homastasyāṃ pratiṣṭhāpanaṃ ca āgnīdhrakarma ca svayameva karoti


16

आप्ग्स्-तात्_7.13: लेपयोःदर्वीद्वयलग्नयोः पात्रासादनार्थ संस्तीर्णबर्हिःप्रस्तरवत्तूष्णी मङ्क्त्वा तद्वदेवाग्नौ प्रहरति इदमपि प्रदर्शनार्थम् तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति ननु-प्रस्तरवदितीहानुपपन्नम् बर्हिषो ऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् उच्यते-होमदर्व्यामग्रमनक्तिः, इतरस्यां मध्यमूलेः ऽअन्याल्लोपौ विवृद्धिर्वाऽ(आपप.4.13) इति वचनाम् एव त्रिर्द्विवी ऽअशापरमऽइति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रये ऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात् ऽइडान्तं वाऽहवनीये शंय्वन्तं गार्हपत्येऽ; (आपश्रौ.3-14-6) इति पक्षे ऽआज्यस्थाल्यां मूलमऽ(आपश्रौ.3-14-7) इति दर्शनाच्च इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् केचित्-कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति तन्न; कल्पान्तरोक्तबर्हिः प्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यद्वद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह सिद्धमुत्तरं परिषेचनम् आप्ग्स्_7.14 (आना)उत्तरंतन्त्रं जयादि यथासिद्धमत्रापि कर्तव्यमित्यर्थः कथं च सिद्धम्?उपजुहोतीतिवचनात् प्रधानहोमानन्तरं तेनोपहोमानामुपरिष्टाद्वर्हिषो ऽनुप्रहरणं भवति अन्यथा प्रधानहोमानन्तरमुपदेशादुपहोमानां पुरस्तादनुप्रहरणं स्यात्

āpgs-tāt_7.13: lepayoḥdarvīdvayalagnayoḥ pātrāsādanārtha saṃstīrṇabarhiḥprastaravattūṣṇī maṅktvā tadvadevāgnau praharati idamapi pradarśanārtham tenāñjanādisaṃsrāvāntaṃ śrautavattūṣṇīṃ karoti nanu-prastaravaditīhānupapannam barhiṣo 'gramadhyamūlānāṃ dvayordarvyoḥ prastaravadañjanāsambhavāt ucyate-homadarvyāmagramanaktiḥ, itarasyāṃ madhyamūleḥ 'anyāllopau vivṛddhirvā'(āpapa.4.13) iti vacanām eva trirdvivī 'aśāparam'iti pakṣe sakṛdevopastaraṇādyarthāyāṃ mūlaṃ, homārthāyāṃ madhyāgre anye tu ājyasthālīṃ dhruvāsthāne pakṣatraye 'pi kurvanti, añjanasyopayuktapātralepapratipattyarthatvāt 'iḍāntaṃ vā'havanīye śaṃyvantaṃ gārhapatye'; (āpaśrau.3-14-6) iti pakṣe 'ājyasthālyāṃ mūlam'(āpaśrau.3-14-7) iti darśanācca iha tu pakṣe lepayoriti dvivacanamājyauṣadhalepābhiprāyam, na tu pūrvavadāghāradvitvābhiprāyam kecit-kalpāntarādapareṇāgniṃ yasmin barhiṣi havirājyaṃ ca pratiṣṭhitaṃ tasmādvā, paristaraṇādvā kiñcidupādāyāñjanamiti tanna; kalpāntaroktabarhiḥ pratiṣṭhāpanopasaṃhārasya pākṣikatvena nityadvaddhakramamapi pariṣecanaṃ na nivartate, agnayaṅgatvādityāha siddhamuttaraṃ pariṣecanam āpgs_7.14 (ānā)uttaraṃtantraṃ jayādi yathāsiddhamatrāpi kartavyamityarthaḥ kathaṃ ca siddham?upajuhotītivacanāt pradhānahomānantaraṃ tenopahomānāmupariṣṭādvarhiṣo 'nupraharaṇaṃ bhavati anyathā pradhānahomānantaramupadeśādupahomānāṃ purastādanupraharaṇaṃ syāt


17

अत्र कृत्वेत्यध्याहर्तव्यम् परिषेचनं कृत्वापरिषेचनान्तं कृत्वेत्यर्थः किमर्थमिदम् ?परिषेचनान्ते ब्राह्मणभोजनाद्येव कर्म प्रतिपाद्येत नान्यदित्येवमर्थम् अन्ये तु सिद्धमुत्तरं परिषेचनमित्ये कमेव योगं पठन्तो व्याचक्षते तेनेह स्थालीपाके प्रधानहोमानन्तरं तन्त्रशेषस्य प्राप्तस्य पर्षेचनमेव सिद्धमन्यदसिद्धमिति तेनोपहोमानमिह लोपश्चोद्यत इति तेषामुत्तरमिति व्यर्थम्

atra kṛtvetyadhyāhartavyam pariṣecanaṃ kṛtvāpariṣecanāntaṃ kṛtvetyarthaḥ kimarthamidam ?pariṣecanānte brāhmaṇabhojanādyeva karma pratipādyeta nānyadityevamartham anye tu siddhamuttaraṃ pariṣecanamitye kameva yogaṃ paṭhanto vyācakṣate teneha sthālīpāke pradhānahomānantaraṃ tantraśeṣasya prāptasya parṣecanameva siddhamanyadasiddhamiti tenopahomānamiha lopaścodyata iti teṣāmuttaramiti vyartham


14

आप्ग्स्-तात्_7.14: स्पष्टेमेतत् ततः प्रणीताविमोको ऽपि केचित्- सिद्धमुत्तरमिति पदद्वयमेकं वाक्यम् सिद्धमाविकृतम् उत्तरंतन्त्रशेषं जयादि एताच्चेहोत्कृष्य पधितमपि ऽयथोपदेशं प्रधानादुतीर्हुत्वा जयाभ्यातानानऽ(आपगृ.2-7) इति श्रौतक्रमस्य बलीयस्त्वात् प्रधानतुल्यधर्मकस्विष्टकृतो ऽनन्तरमेव तथा ऽपरिषेचनमऽइत्यप्यानन्तर्यविध्यर्थम् परिषेचनान्तं कृत्वा ब्राह्मणभोजनमेवेति तन्न; सिद्धमुत्तरं परिषेचनमिति प्रतीताभ्यर्हितसामानाधिकरण्यान्वयबाधेन महादोषवाक्यभेदकल्पनापेक्षत्वात् तथा वचनाभावादिह जयाद्येव नास्ति, दूरे क्रमबलाबलकथा तथा ऽपरिषेचनमऽइत्यस्यापि सिद्धमुत्तरमित्येतदन्वयनिराकाङ्क्षत्वात् कृत्वेत्यध्याहारो निर्बीजः आनन्तर्य तु पाठप्राप्तं न विधेयमेव तस्माद्वरं यथोक्तशङ्कानिवृत्यर्थमेवेदं सूत्रमिति

āpgs-tāt_7.14: spaṣṭemetat tataḥ praṇītāvimoko 'pi kecit- siddhamuttaramiti padadvayamekaṃ vākyam siddhamāvikṛtam uttaraṃtantraśeṣaṃ jayādi etāccehotkṛṣya padhitamapi 'yathopadeśaṃ pradhānādutīrhutvā jayābhyātānān'(āpagṛ.2-7) iti śrautakramasya balīyastvāt pradhānatulyadharmakasviṣṭakṛto 'nantarameva tathā 'pariṣecanam'ityapyānantaryavidhyartham pariṣecanāntaṃ kṛtvā brāhmaṇabhojanameveti tanna; siddhamuttaraṃ pariṣecanamiti pratītābhyarhitasāmānādhikaraṇyānvayabādhena mahādoṣavākyabhedakalpanāpekṣatvāt tathā vacanābhāvādiha jayādyeva nāsti, dūre kramabalābalakathā tathā 'pariṣecanam'ityasyāpi siddhamuttaramityetadanvayanirākāṅkṣatvāt kṛtvetyadhyāhāro nirbījaḥ ānantarya tu pāṭhaprāptaṃ na vidheyameva tasmādvaraṃ yathoktaśaṅkānivṛtyarthamevedaṃ sūtramiti


18

35 स्थालीपाकशेषात् ब्राह्मणभोजनम् तेन सर्पिष्मता ब्राह्मणं भोजयेत् आप्ग्स्_7.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.15: सर्पिष्मतेतिवचनमतिशयार्थमभिघारणेन प्रागपि सर्पिष्मत्वात् लौकिकेन सर्पिषा प्रभूतेनोपसिच्येत्यर्थः यो दक्षिणत आस्ते स इह ब्राह्मणः तं भोजयेत् वधूर्वरो वा

35 sthālīpākaśeṣāt brāhmaṇabhojanam tena sarpiṣmatā brāhmaṇaṃ bhojayet āpgs_7.15 commentaries: āpgs-anā_7.15: sarpiṣmatetivacanamatiśayārthamabhighāraṇena prāgapi sarpiṣmatvāt laukikena sarpiṣā prabhūtenopasicyetyarthaḥ yo dakṣiṇata āste sa iha brāhmaṇaḥ taṃ bhojayet vadhūrvaro vā


15

आप्ग्स्-तात्_7.15: तेनहविश्शेषेण सर्पिष्मताप्रभूतसौकिकाज्योपसिक्तेन ब्राह्मणंदक्षिणतो दर्भेषु निषादितंभोजयेत्तस्येह प्रकृतत्वात् इह तु सर्पिष्मतेति मतुवतिशयार्तः भोजयेदिति बलाच्च(वचनात्) होमब्राह्मणभोजनायालं च रु कार्यः

āpgs-tāt_7.15: tenahaviśśeṣeṇa sarpiṣmatāprabhūtasaukikājyopasiktena brāhmaṇaṃdakṣiṇato darbheṣu niṣāditaṃbhojayettasyeha prakṛtatvāt iha tu sarpiṣmateti matuvatiśayārtaḥ bhojayediti balācca(vacanāt) homabrāhmaṇabhojanāyālaṃ ca ru kāryaḥ


19

36 स्थालीपाकदक्षिणादानम् यो ऽस्यापचितस्तस्मा ऋषभं ददाति आप्ग्स्_7.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.16: अस्यवरस्ययो ऽपचितःपूज्यः आचार्यः,तस्मै ऋषभं स्थालीपाकस्य दक्षिणांददतिवधूः स्वकुलादानीयर्त्विजे वराय दातव्या सती दक्षिणा जायापत्योः अन्योन्यदानप्रतिग्रहाभावात् तदाचार्याय चोद्यते तेनासौ परिक्तीतो भवति दृश्यते चायं न्यायो धर्मशास्त्रे-"न पिता याजयेत् पुत्रं न पुत्रः पितृयाजनम्"इत्याद्युक्त्वा ऽऽचार्याय दक्षिणां दद्युरुतु

36 sthālīpākadakṣiṇādānam yo 'syāpacitastasmā ṛṣabhaṃ dadāti āpgs_7.16 commentaries: āpgs-anā_7.16: asyavarasyayo 'pacitaḥpūjyaḥ ācāryaḥ,tasmai ṛṣabhaṃ sthālīpākasya dakṣiṇāṃdadativadhūḥ svakulādānīyartvije varāya dātavyā satī dakṣiṇā jāyāpatyoḥ anyonyadānapratigrahābhāvāt tadācāryāya codyate tenāsau pariktīto bhavati dṛśyate cāyaṃ nyāyo dharmaśāstre-"na pitā yājayet putraṃ na putraḥ pitṛyājanam"ityādyuktvā ''cāryāya dakṣiṇāṃ dadyurutu


16

आप्ग्स्-तात्_7.16: नन्विदं सूत्रमयुक्तमिव प्रतिभाति ऽयो ऽस्यापचितस्तमितरयाऽ(आपगृ.3-9) इति वद्वरादन्यस्य दानकर्तृत्वप्रतीतेः, इह चान्यस्याभावात् यद्यपि पत्नी विद्यते, तथापि तस्या भर्तुरपि प्रवासे सहाधिकारेषु कर्मसु मध्यग धनत्यागे ऽनुमतिद्वारेणाव कर्तृत्वाभ्युपगमात् अथ अत्र ऽएनां याजयतिऽइति वचनाद्वधूर्यजमाना सा स्त्रीधनाद्वरस्यापचिताय ददाति तेन च ऋत्विग्भूतो वर आनतो भवति न च वरायैव दानम्, जायापकत्योरन्योन्यदानाद्यभावादित्युच्यते, नैव तत्;वध्वेकाधिकारे ह्यस्योभयतो विवाहाङ्गसन्दष्टत्वेन प्रतिपन्नविवाहाङ्गत्वबाधः अधिकारसाध्यभेदेन शास्त्रतदर्थयोर्भेदात् अथ उभयाधिकारविवाहसिध्यर्थमेव वधूरनेन प्रधानकर्मणापि यागेन संस्क्रियते, तर्हि वध्वेकाधिकारमित्युक्तिमात्रमिति वृथा स्त्रीधनव्ययः तस्मात् शूत्रं यथोपपन्नं स्यात् तथा व्याख्येयम् आप्ग्स्-तात्_7.16: अत्रोच्यते-एवं तर्ह्यध्याहारेण वा विपरिणामेन वा व्याख्यायते यो ऽस्यात्मने ऽपचितः पूज्यः तस्मा ऋषभं ददाति यद्वा ये ऽस्य श्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागकर्ता ऋषभं ददाति, न तु स्थालीपाकयागान्तराणां कर्ता;तेषामपूर्वत्वात् अथवा-अस्येति षष्ठ्या अयमिति विपरिणामः यो ऽयं लोके विद्याभिजनादिसम्पत्त्या अपचितः तस्मा अयमेतत्स्थालीपाककर्ता ऋषभं ददाति सर्वथा त्वेतद्विकृतिष्वपि स्थालीपाकान्तरेषु ऋषभदानं नास्त्येव

āpgs-tāt_7.16: nanvidaṃ sūtramayuktamiva pratibhāti 'yo 'syāpacitastamitarayā'(āpagṛ.3-9) iti vadvarādanyasya dānakartṛtvapratīteḥ, iha cānyasyābhāvāt yadyapi patnī vidyate, tathāpi tasyā bharturapi pravāse sahādhikāreṣu karmasu madhyaga dhanatyāge 'numatidvāreṇāva kartṛtvābhyupagamāt atha atra 'enāṃ yājayati'iti vacanādvadhūryajamānā sā strīdhanādvarasyāpacitāya dadāti tena ca ṛtvigbhūto vara ānato bhavati na ca varāyaiva dānam, jāyāpakatyoranyonyadānādyabhāvādityucyate, naiva tat;vadhvekādhikāre hyasyobhayato vivāhāṅgasandaṣṭatvena pratipannavivāhāṅgatvabādhaḥ adhikārasādhyabhedena śāstratadarthayorbhedāt atha ubhayādhikāravivāhasidhyarthameva vadhūranena pradhānakarmaṇāpi yāgena saṃskriyate, tarhi vadhvekādhikāramityuktimātramiti vṛthā strīdhanavyayaḥ tasmāt śūtraṃ yathopapannaṃ syāt tathā vyākhyeyam āpgs-tāt_7.16: atrocyate-evaṃ tarhyadhyāhāreṇa vā vipariṇāmena vā vyākhyāyate yo 'syātmane 'pacitaḥ pūjyaḥ tasmā ṛṣabhaṃ dadāti yadvā ye 'sya śthālīpākayāgasya karturapacitastasmā etadyāgakartā ṛṣabhaṃ dadāti, na tu sthālīpākayāgāntarāṇāṃ kartā;teṣāmapūrvatvāt athavā-asyeti ṣaṣṭhyā ayamiti vipariṇāmaḥ yo 'yaṃ loke vidyābhijanādisampattyā apacitaḥ tasmā ayametatsthālīpākakartā ṛṣabhaṃ dadāti sarvathā tvetadvikṛtiṣvapi sthālīpākāntareṣu ṛṣabhadānaṃ nāstyeva


20

37 पार्वणस्थालीपाकः एवमत ऊर्ध्व दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः आप्ग्स्_7.17 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.17: अतःस्थालीपाकादूर्ध्वदक्षिणां वर्जयित्वाउपोषिताभ्यां ऽपर्वसु चोभयोरुपवास,(आपध.2-1-4) इत्यनेन प्रकारेण कृतोपवासाभ्यां गृहमेधिभ्यांपर्वसु पौर्णमासीषु चामावास्यासु च एवमेवाग्नेयस्थालीपाककल्पेन स्थालीपाकः कार्यः कल्पातिदेशो ऽयम्-पर्वसु स्थालीपाकः कार्यः, तस्य च"आग्नेयेन स्थालीपाकेन याजयती"त्येवमादिः तस्मा ऋषभं ददातीऽत्येवमनातः कल्प इत्यर्थः अत्रोपोषिताभ्याऽमिति द्विवचननिर्देशादुभावप्यधिकारिणौ तत्र तु पत्न्येव दक्षिणा चेह नास्तीत्येतावान् विशेषः तत्र पार्वणे विवाहनिमित्ता विशेषाः सकृत्पात्राणि शम्या इत्यादयो न कर्तव्याः अन्वारम्भो ऽपि न कर्तव्यः, यजमानकर्मत्वात् अत्र चोभयोर्यजमानत्वात् अस्तु तर्ह्यन्यो याजयिता, अन्वारम्भश्चोभयोः तदपि न, ज्ञापकात् यदयं हृदयसंसर्गान्वारम्भं विदधाति तत् ज्ञापयति न पार्वणादिष्वन्वारम्भो भवतीति अन्यथा पार्वणातिदेशादेवान्वारम्भः सिद्धस्स्यात् पाणिग्रहणादधि गृहमेधिनोर्व्रतमऽइत्यादौ साङ्गं विवादृकर्म विवक्षितम् तेन संवेशनान्ते विवाहिकर्मणि निष्ठिते पञ्चमहायज्ञादीनां गृहस्थधर्माणां प्रवृत्तिः पार्वणस्थत्वस्य प्रागपि संवेशनात् स्यात् पाकादूर्ध्व पर्वप्राप्तौ प्रवृतेतिर्भवति तदर्थमाह- अत ऊर्ध्वमिति तस्य च पौर्णमास्यामुपक्रमो नामावास्यायाम् श्रौतयोस्तथा दर्शनात् तत्स्थानापन्नत्वाच्चानयोः छन्दोगाश्चामनन्ति -अमावास्या चेत् पूर्वमापद्यते पौर्णमासेनेष्ट्वाथ तत् कुर्यात् अकृत्वा पौर्णमासीमाकाङ्क्षोदित्येकेऽ(खाग.2-1-2) इति ऽपर्वसु चोभयोरुपवासऽइत्येव सिद्धे उपोषिताभ्यामिति वचनमस्मिन् कर्मणि उभयोरव्याधिकारप्रदर्शनार्थम् एवमप्युभाभ्यामित्येव वक्तव्यं नोपोषिताभ्यामिति तस्मात् पर्वसु चोभयोरुपवास इति प्राप्तमुपवासं प्रकृत्यंशेनानूद्य द्विवचनेन द्वयोरधिकारः प्रदर्श्यते -उपोषिताभ्यामिति तेन यजनीये ऽहन्येव स्थालीपाकस्सिद्धो भवति पञ्चदश्यां पूर्वेद्युः कर्म तथा चाश्वलायनः"अथ पार्वणस्थालीपाकः तस्य दर्शपूर्णमासाभ्यामुपवासः इध्माबर्हिषोश्च सन्नहन"(आश्वगृ 1-10-1,2,3) मिति उभाभ्यां पर्वसु कार्य इत्युच्यमाने पर्वस्वेव स्थालीपाकस्स्यात्, उपवासश्च, निर्देशतुल्यत्वात्

37 pārvaṇasthālīpākaḥ evamata ūrdhva dakṣiṇāvarjamupoṣitābhyāṃ parvasu kāryaḥ āpgs_7.17 commentaries: āpgs-anā_7.17: ataḥsthālīpākādūrdhvadakṣiṇāṃ varjayitvāupoṣitābhyāṃ 'parvasu cobhayorupavāsa,(āpadha.2-1-4) ityanena prakāreṇa kṛtopavāsābhyāṃ gṛhamedhibhyāṃparvasu paurṇamāsīṣu cāmāvāsyāsu ca evamevāgneyasthālīpākakalpena sthālīpākaḥ kāryaḥ kalpātideśo 'yam-parvasu sthālīpākaḥ kāryaḥ, tasya ca"āgneyena sthālīpākena yājayatī"tyevamādiḥ tasmā ṛṣabhaṃ dadātī'tyevamanātaḥ kalpa ityarthaḥ atropoṣitābhyā'miti dvivacananirdeśādubhāvapyadhikāriṇau tatra tu patnyeva dakṣiṇā ceha nāstītyetāvān viśeṣaḥ tatra pārvaṇe vivāhanimittā viśeṣāḥ sakṛtpātrāṇi śamyā ityādayo na kartavyāḥ anvārambho 'pi na kartavyaḥ, yajamānakarmatvāt atra cobhayoryajamānatvāt astu tarhyanyo yājayitā, anvārambhaścobhayoḥ tadapi na, jñāpakāt yadayaṃ hṛdayasaṃsargānvārambhaṃ vidadhāti tat jñāpayati na pārvaṇādiṣvanvārambho bhavatīti anyathā pārvaṇātideśādevānvārambhaḥ siddhassyāt pāṇigrahaṇādadhi gṛhamedhinorvratam'ityādau sāṅgaṃ vivādṛkarma vivakṣitam tena saṃveśanānte vivāhikarmaṇi niṣṭhite pañcamahāyajñādīnāṃ gṛhasthadharmāṇāṃ pravṛttiḥ pārvaṇasthatvasya prāgapi saṃveśanāt syāt pākādūrdhva parvaprāptau pravṛtetirbhavati tadarthamāha- ata ūrdhvamiti tasya ca paurṇamāsyāmupakramo nāmāvāsyāyām śrautayostathā darśanāt tatsthānāpannatvāccānayoḥ chandogāścāmananti -amāvāsyā cet pūrvamāpadyate paurṇamāseneṣṭvātha tat kuryāt akṛtvā paurṇamāsīmākāṅkṣodityeke'(khāga.2-1-2) iti 'parvasu cobhayorupavāsa'ityeva siddhe upoṣitābhyāmiti vacanamasmin karmaṇi ubhayoravyādhikārapradarśanārtham evamapyubhābhyāmityeva vaktavyaṃ nopoṣitābhyāmiti tasmāt parvasu cobhayorupavāsa iti prāptamupavāsaṃ prakṛtyaṃśenānūdya dvivacanena dvayoradhikāraḥ pradarśyate -upoṣitābhyāmiti tena yajanīye 'hanyeva sthālīpākassiddho bhavati pañcadaśyāṃ pūrvedyuḥ karma tathā cāśvalāyanaḥ"atha pārvaṇasthālīpākaḥ tasya darśapūrṇamāsābhyāmupavāsaḥ idhmābarhiṣośca sannahana"(āśvagṛ 1-10-1,2,3) miti ubhābhyāṃ parvasu kārya ityucyamāne parvasveva sthālīpākassyāt, upavāsaśca, nirdeśatulyatvāt


17

आप्ग्स्-तात्_7.17: अतःस्थालीपाकादूर्ध्व उपोषिताभ्यांऽपर्वसु चोभयोरुपवासःऽ(आपध.2-1-4) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां पर्वसु पौर्णमासीष्वमावास्यासु च द्वितीयासुदक्षिणावर्ज ऋषभदानवर्जएवमेवंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः धर्मशास्त्रे तु ऽश्वोभूते स्थालीपाकऽ(आपध.2-1-10) इत्युपवासादिधर्मसम्बन्धार्थो ऽनुवादः सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् यथा ऽएतस्यैव रेवतीषुऽ(ताण्ड्यब्रा.17-8-1) इति, यथा वा ऽमासमग्निहोत्रं जुहोतिऽइति तत्र तु ऽएतस्यऽऽअग्निहोत्रमऽइति पदाभ्यां, इह तु एवंपदेनेति भेदः ननु-दर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ? केचित्-नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दऐवतस्यानुपदेशात् अतः कल्पातिदेश एव;ऽश्वोभूते ऽन्वष्टकां, तस्या मासिश्राद्धेन कल्पो व्याख्यातः ऽइतिवदिति नैतत् हविर्दऐवतस्यानुपदेशे ऽपि मासमग्निहोत्रं जुहोतिऽइत्यादिषु धर्मातिदेशस्य दृष्टत्वात् अपरे तु-एकस्य तूभयत्वे संयोगपृथक्त्वम् (जैसू.4-3-5) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्य ऽएवं पर्वसु कार्यःऽ; इत्याधिकारान्तसम्बन्धविधिरिति एतदपि न;एवं सति ऽएष कार्यऽइति सूत्रं स्यात्, ऽनत्वेवं कार्य इति किञ्चि पर्वस्वन्वारम्भो ऽपि स्यात्; यतस्समस्तधर्मकस्यैव प्रकृतकर्मणो ऽधिकारान्तरविध्युपगमः धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेव ऽअथैनामाग्नेयेमऽइति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण अत्र च ऽअत ऊर्ध्वमऽइति वचनं विवाहमध्ये ऽपि पर्वारम्भार्थम् यद्यष्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या च स्यामेवारम्भदर्शनात् व्यक्तं चैतच्छन्दोगानाम् ऽअमावास्या चेत् पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येकऽइति तस्मात्साथालीपाकानन्तरं पौर्णमासी चेत् पूर्वमागच्छेत्,तदा विवाहमध्ये ऽपि पर्वारम्भः मासिश्राद्धस्य त्वारम्भश्चतुर्थाहोमान्ते अपरपक्षे;सिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च तथा वैश्वदेवस्यापि, ऽतेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्याऽ(आपध.2-3-13) इत्यादिव्रतं सपत्नीकश्चारित्वा प्रशस्ते ऽहन्यारभ्भः

āpgs-tāt_7.17: ataḥsthālīpākādūrdhva upoṣitābhyāṃ'parvasu cobhayorupavāsaḥ'(āpadha.2-1-4) ityādividhinā kṛtopavāsābhyāṃ jāyāpatibhyāṃ parvasu paurṇamāsīṣvamāvāsyāsu ca dvitīyāsudakṣiṇāvarja ṛṣabhadānavarjaevamevaṃprakāra etatsthālīpākasadṛśo homaḥ kartavya iti vidhiḥ dharmaśāstre tu 'śvobhūte sthālīpāka'(āpadha.2-1-10) ityupavāsādidharmasambandhārtho 'nuvādaḥ sādṛśyaṃ cātra dravyadevatādisamastadharmanibandhanam yathā 'etasyaiva revatīṣu'(tāṇḍyabrā.17-8-1) iti, yathā vā 'māsamagnihotraṃ juhoti'iti tatra tu 'etasya''agnihotram'iti padābhyāṃ, iha tu evaṃpadeneti bhedaḥ nanu-darvīhomeṣvatideśo nāsti, apūrvatvātteṣām satyam, nāsti codanāliṅgāt, vacanāttvatideśaḥ kena vāryate ? kecit-nāyaṃ dharmātideśaḥ, sauryādiṣviva havirdaaivatasyānupadeśāt ataḥ kalpātideśa eva;'śvobhūte 'nvaṣṭakāṃ, tasyā māsiśrāddhena kalpo vyākhyātaḥ 'itivaditi naitat havirdaaivatasyānupadeśe 'pi māsamagnihotraṃ juhoti'ityādiṣu dharmātideśasya dṛṣṭatvāt apare tu-ekasya tūbhayatve saṃyogapṛthaktvam (jaisū.4-3-5) iti nyāyena prakṛtasyaiva sthālīpākasya 'evaṃ parvasu kāryaḥ'; ityādhikārāntasambandhavidhiriti etadapi na;evaṃ sati 'eṣa kārya'iti sūtraṃ syāt, 'natvevaṃ kārya iti kiñci parvasvanvārambho 'pi syāt; yatassamastadharmakasyaiva prakṛtakarmaṇo 'dhikārāntaravidhyupagamaḥ dharmātideśe tu yathā nānvārambhastathoktameva 'athaināmāgneyema'iti sūtramatideśaviśeṣārthamiti vadatā bhāṣyakāreṇa atra ca 'ata ūrdhvam'iti vacanaṃ vivāhamadhye 'pi parvārambhārtham yadyaṣyata ūrdhvamityaviśeṣavacanaṃ, tathāpi paurṇamāsyāmevārambhaḥ kālaikyena prayojanaikyāt, sthānāpattyā ca syāmevārambhadarśanāt vyaktaṃ caitacchandogānām 'amāvāsyā cet pūrvamāpadyeta paurṇamāseneṣṭvātha tatkuryāt, akurvan paurṇamāsīmākāṅkṣedityeka'iti tasmātsāthālīpākānantaraṃ paurṇamāsī cet pūrvamāgacchet,tadā vivāhamadhye 'pi parvārambhaḥ māsiśrāddhasya tvārambhaścaturthāhomānte aparapakṣe;siṣṭācārāt, bodhāyanavacanāt, karmamadhye karmāntarārambhasyāyuktatvācca tathā vaiśvadevasyāpi, 'teṣāṃ mantrāṇāmupayoge dvādaśāhamadhaśśayyā'(āpadha.2-3-13) ityādivrataṃ sapatnīkaścāritvā praśaste 'hanyārabhbhaḥ


21

पूर्णपात्रस्तु दक्षिणेत्येके आप्ग्स्_7.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.18: पात्रशब्द उभयलिङ्गः धान्यमुष्टिशतस्य पूर्ण पात्रंपूर्णपात्रमित्याहुः दक्षिणा चेयं ब्रह्मणे देया

pūrṇapātrastu dakṣiṇetyeke āpgs_7.18 commentaries: āpgs-anā_7.18: pātraśabda ubhayaliṅgaḥ dhānyamuṣṭiśatasya pūrṇa pātraṃpūrṇapātramityāhuḥ dakṣiṇā ceyaṃ brahmaṇe deyā


18

आप्ग्स्-तात्_7.18: धान्यादेः पूर्ण यत्किंचित् पात्रंपूर्णपात्रम् यद्वा- ऽअष्टमुष्टि भवेत् किञ्चित् किञ्चिच्चत्वारि पुष्कलम् पुष्कलानि च चत्वारि पूर्णमात्रं प्रचक्षते ऽ इति वचनात् धान्यमुष्टीनां अष्टाविंशत्याधिकं शतं पूर्णपात्रम् पात्रशब्दश्चोभयलिङ्गः तुशब्दात् पर्वस्वयं विकल्पो, न वृषभदाने

āpgs-tāt_7.18: dhānyādeḥ pūrṇa yatkiṃcit pātraṃpūrṇapātram yadvā- 'aṣṭamuṣṭi bhavet kiñcit kiñciccatvāri puṣkalam puṣkalāni ca catvāri pūrṇamātraṃ pracakṣate ' iti vacanāt dhānyamuṣṭīnāṃ aṣṭāviṃśatyādhikaṃ śataṃ pūrṇapātram pātraśabdaścobhayaliṅgaḥ tuśabdāt parvasvayaṃ vikalpo, na vṛṣabhadāne


22

38 औपासनहोमः सायं प्रातरत ऊर्ध्व हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् आप्ग्स्_7.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.19: अस्मात् स्थालीपाकादूर्ध्व याश्च एतो आहुती ब्रीहितण्डुलैर्यवैर्वाजुहुयात् अत ऊर्ध्वमित्यस्य पार्वणवदेव प्रयोजनम् तेन तस्यामेव रात्रावारब्भः तस्मादूर्ध्व दम्पत्योस्सायमशनम् एते आहुती इत्युच्यते- ये अग्निहोत्राहुती आहिताग्नेस्ते एते इति प्रतिज्ञापनार्थम् तेन तद्धर्माणामत्रप्रवृत्तिः यथा ऽपालाशी समित् द्व्यङ्गुले मूलात् समिधंऽ(आपश्रौ.6-10-4) इत्येवमादीनां प्रादुष्करणहोमकालयोष्च तच्चोक्तमाश्वलायनके-तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ (आश्वगृ.1-9-5) इत्यादि हस्तेनेति दर्व्या अपवादः तन्त्रस्य चानुपदोशादपूर्वत्वम् परिस्तरण् तु भवत्येव परिषेचनं त्विहैव विधीयते

38 aupāsanahomaḥ sāyaṃ prātarata ūrdhva hastenaite āhutī taṇḍulairyavairvā juhuyāt āpgs_7.19 commentaries: āpgs-anā_7.19: asmāt sthālīpākādūrdhva yāśca eto āhutī brīhitaṇḍulairyavairvājuhuyāt ata ūrdhvamityasya pārvaṇavadeva prayojanam tena tasyāmeva rātrāvārabbhaḥ tasmādūrdhva dampatyossāyamaśanam ete āhutī ityucyate- ye agnihotrāhutī āhitāgneste ete iti pratijñāpanārtham tena taddharmāṇāmatrapravṛttiḥ yathā 'pālāśī samit dvyaṅgule mūlāt samidhaṃ'(āpaśrau.6-10-4) ityevamādīnāṃ prāduṣkaraṇahomakālayoṣca taccoktamāśvalāyanake-tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau (āśvagṛ.1-9-5) ityādi hasteneti darvyā apavādaḥ tantrasya cānupadośādapūrvatvam paristaraṇ tu bhavatyeva pariṣecanaṃ tvihaiva vidhīyate


19

आप्ग्स्-तात्_7.19: सायं प्रातरित्याग्निहोत्रकालानां चतुर्णामुपलक्षणम्;अग्निहोत्रानुकारित्वादौपासनहोमस्य अत ऊर्ध्वस्थालीपाकान्ताद्विवाहा दूर्ध्वम्;विवाहस्यैवात्र परमप्रकृतत्वात्,न क्वनन्तरप्रकृतत्वात्पर्वण ऊर्ध्वम्, यतो न प्रासङ्गिकप्रकृतपरामर्शस्स्वरसस्सर्वनाम्नाम् स्थालीपाकान्तादिति च स्थालीपाकं विधाय, ऽअत ऊर्ध्वमऽइति वचनात् अस्य चारब्भो ऽनन्तरं रात्रावेव यदि नव नाड्यो नातीताः अतीताश्चेदपरेद्युस्सायमेवाग्निहोत्रारम्भवेलायाम् अत्र हस्तेनेत्यादिना कृत्नविधानम् हस्तेनेति विधानाद्दर्व्यादिनिवृत्तिः तम्जुलैर्यवार्वेति विधानात् पाकस्य उभयतः परिषेचनमिति परिसङ्ख्यानात् पार्वणधर्माणाम् वेश्वदेवे ऽपीत्थमेव व्याख्यानम् ऽएतेऽइति विशेषणादत्रापि द्वितीयाहुतिः स्विष्टकृत्स्थानीत्या अङ्गमित्यर्थः तेनेतां विस्मृत्य कर्मसमाप्तौ नेषा पुनर्होतव्या किन्तु सर्वप्रायाश्चित्तमेव

āpgs-tāt_7.19: sāyaṃ prātarityāgnihotrakālānāṃ caturṇāmupalakṣaṇam;agnihotrānukāritvādaupāsanahomasya ata ūrdhvasthālīpākāntādvivāhā dūrdhvam;vivāhasyaivātra paramaprakṛtatvāt,na kvanantaraprakṛtatvātparvaṇa ūrdhvam, yato na prāsaṅgikaprakṛtaparāmarśassvarasassarvanāmnām sthālīpākāntāditi ca sthālīpākaṃ vidhāya, 'ata ūrdhvam'iti vacanāt asya cārabbho 'nantaraṃ rātrāveva yadi nava nāḍyo nātītāḥ atītāścedaparedyussāyamevāgnihotrārambhavelāyām atra hastenetyādinā kṛtnavidhānam hasteneti vidhānāddarvyādinivṛttiḥ tamjulairyavārveti vidhānāt pākasya ubhayataḥ pariṣecanamiti parisaṅkhyānāt pārvaṇadharmāṇām veśvadeve 'pītthameva vyākhyānam 'ete'iti viśeṣaṇādatrāpi dvitīyāhutiḥ sviṣṭakṛtsthānītyā aṅgamityarthaḥ tenetāṃ vismṛtya karmasamāptau neṣā punarhotavyā kintu sarvaprāyāścittameva


23

39 तत्र देवताविधानम् स्थालीपाकवद्दैवतम् आप्ग्स्_7.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.20: देवतैव दैवतम् अग्नये स्वाहेति पूर्वाहुतिः अग्नये स्विष्टकृते स्वाहेत्युत्तरा

39 tatra devatāvidhānam sthālīpākavaddaivatam āpgs_7.20 commentaries: āpgs-anā_7.20: devataiva daivatam agnaye svāheti pūrvāhutiḥ agnaye sviṣṭakṛte svāhetyuttarā


20

आप्ग्स्-तात्_7.20: अयं ऽएते आहुतीऽइति प्रप्तस्यानुवादः पूर्वाहुतेर्विकल्पं वुधातुम् ;यथा-पात्नीवते ऽनानुवषट्कारोति अपि वोपांश्वनुवषट् कुर्यातऽ(आपश्रौ.13-14-9,10) इति

āpgs-tāt_7.20: ayaṃ 'ete āhutī'iti praptasyānuvādaḥ pūrvāhutervikalpaṃ vudhātum ;yathā-pātnīvate 'nānuvaṣaṭkāroti api vopāṃśvanuvaṣaṭ kuryāt'(āpaśrau.13-14-9,10) iti


24

सौरी पूर्वाहुतिः प्रातरित्येके आप्ग्स्_7.21 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.21: सौरीसूर्यदेवत्या सूर्याय स्वाहेति वा पूर्वाहुतिर्भवति अन्यत् समानम् तत्र यथाकामी प्रक्रमेत प्रक्रमात्तु नियम्यते

saurī pūrvāhutiḥ prātarityeke āpgs_7.21 commentaries: āpgs-anā_7.21: saurīsūryadevatyā sūryāya svāheti vā pūrvāhutirbhavati anyat samānam tatra yathākāmī prakrameta prakramāttu niyamyate


21

आप्ग्स्-तात्_7.21: सौरीसूर्यदेवत्या ऽसूर्याय स्वाहाऽइति पूर्वाहुतिः प्रातर्होमे इत्येके

āpgs-tāt_7.21: saurīsūryadevatyā 'sūryāya svāhā'iti pūrvāhutiḥ prātarhome ityeke


25

उभयतः परिषेचनं यथा पुरस्तात् आप्ग्स्_7.22 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.22: अस्य होमस्य परिषेचनंअभयतःपुरस्तादुपरिष्टाच्च कर्तव्यम्, यथा पुरस्ताच्चोदितम्-अग्निं परिषिञ्चति पूर्ववत् परिषेचमिति

ubhayataḥ pariṣecanaṃ yathā purastāt āpgs_7.22 commentaries: āpgs-anā_7.22: asya homasya pariṣecanaṃabhayataḥpurastādupariṣṭācca kartavyam, yathā purastāccoditam-agniṃ pariṣiñcati pūrvavat pariṣecamiti


22

आप्ग्स्-तात्_7.22: उभयतःएतयोराहुत्योः पुरस्तादुपरिष्टाच्चपरिषेचनं यथा पुरस्ताद्विहितंऽअग्निं परिषिञ्चतिऽ(आपगृ.2-3) ऽपूर्ववत्परिषेचनमन्वमंस्थाःऽ(आपगृ.2-8) इति पाकयज्ञेषु सप्तसु न विद्युद्वृष्टी ऽसैषा मीमांसाग्निहोत्र एव सम्पन्ना अथो आहुः सर्वेषु यज्ञक्रतुष्वितिऽ(तैका.3-10-9) इतेयत्र ऽतदिदं सर्वयज्ञेपूपस्पर्शनं भवतिऽ(आपश्रौ.4-1-7) इत्यत्र च सर्वशबेदोन प्रकृतपरामर्शिना प्रकृतश्रौतसर्वयज्ञानामेव परामर्शात् अस्मादेव हेतोः ऽद्विर्जुहोतिऽ(आपगृ.2-11) इत्यादिना परिसङ्ख्याय कृत्स्नविधानाच्चाग्निहेत्रिकविधावपि नैव विद्युद्वृष्टी

āpgs-tāt_7.22: ubhayataḥetayorāhutyoḥ purastādupariṣṭāccapariṣecanaṃ yathā purastādvihitaṃ'agniṃ pariṣiñcati'(āpagṛ.2-3) 'pūrvavatpariṣecanamanvamaṃsthāḥ'(āpagṛ.2-8) iti pākayajñeṣu saptasu na vidyudvṛṣṭī 'saiṣā mīmāṃsāgnihotra eva sampannā atho āhuḥ sarveṣu yajñakratuṣviti'(taikā.3-10-9) iteyatra 'tadidaṃ sarvayajñepūpasparśanaṃ bhavati'(āpaśrau.4-1-7) ityatra ca sarvaśabedona prakṛtaparāmarśinā prakṛtaśrautasarvayajñānāmeva parāmarśāt asmādeva hetoḥ 'dvirjuhoti'(āpagṛ.2-11) ityādinā parisaṅkhyāya kṛtsnavidhānāccāgnihetrikavidhāvapi naiva vidyudvṛṣṭī


26

40 पार्वणबिकृतयः पार्वणेनातो ऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते आप्ग्स्_7.23 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.23: पर्वसु भवः पार्वणः तेनपार्वणेनस्थालीपाकेनाते ऽस्मात्पार्वणादन्यानि कर्माणि व्याख्यातानि यान्याचारादूगृहायन्ते ज्ञायन्ते तानि सर्वाणि अयमपि कल्पातिदेशः यो ऽयं पार्वणस्य कल्पः ऽएवमत ऊर्ध्वऽइत्यादिः पूर्णपात्रस्तु दक्षिणेत्येक इत्येवमन्तः स एव सर्वेषां पाकयज्ञानां कल्प इत्यर्थः तत्रोपवासः पार्णादन्यत्र न भवति पर्वसंयोगेन प्रकरणान्तरे विधानात् उपोषिताभ्यामित्यस्य चाविधायकत्वात् नन्विस्मिन् वैवाह्के धर्मा आम्नाताः पार्वणस्यापि तत एवातिदिष्टाः ततश्चान्येषामपि तत एवातिदेशः कर्तव्यः ऽदक्षिणावर्जऽऽपूर्णपात्रस्तुदक्षिणेत्येकेऽइत्यस्य विशेषस्य परिग्रह्र्थस्तु पार्वणेनातिदेशः ऽअतो ऽन्यानिऽइति वचनं समानजातीयपरिग्रहार्थम् तेन पक्वगुणेष्वेव स्थालीपाकेषु पशुषु चायमतिदेशो नाज्यगुणकेषु केचित् तत्रापीच्छन्ति कर्माणीति वचनात् कर्मणामेव पार्वणव्याख्यातत्वम् न कालरर्तृधर्माणाम् तेन निऋतिं पाकयज्ञेने (आपध.1-26) त्यत्रं पत्नीवत्वं पर्वनियमश्च न भवति हृदयसंसर्गादिषूपवासश्च व्याख्यातानीति वचनात् व्याख्यानमेव पार्वणेनान्येषां कर्मणां, न प्रसृतिविकृतिभावः तेनानारब्धपार्वणस्यापि कालगमे सर्पबल्यादौप्रकृत्तिर्भवति आचाराद्यानि गृह्यन्त इति वचनात् अस्मिन् शास्त्रे अऽनुपदिष्टानामपि शास्त्रान्तरदृष्टानां पक्वगुणकानामयमुपदेशो भवति यथा-काम्यानां स्थाने काम्याश्चरवः ऽषडाहुतिश्चरुऽरित्येवमादीनाम्

40 pārvaṇabikṛtayaḥ pārvaṇenāto 'nyāni karmāṇi vyākhyātānyācārādyāni gṛhyante āpgs_7.23 commentaries: āpgs-anā_7.23: parvasu bhavaḥ pārvaṇaḥ tenapārvaṇenasthālīpākenāte 'smātpārvaṇādanyāni karmāṇi vyākhyātāni yānyācārādūgṛhāyante jñāyante tāni sarvāṇi ayamapi kalpātideśaḥ yo 'yaṃ pārvaṇasya kalpaḥ 'evamata ūrdhva'ityādiḥ pūrṇapātrastu dakṣiṇetyeka ityevamantaḥ sa eva sarveṣāṃ pākayajñānāṃ kalpa ityarthaḥ tatropavāsaḥ pārṇādanyatra na bhavati parvasaṃyogena prakaraṇāntare vidhānāt upoṣitābhyāmityasya cāvidhāyakatvāt nanvismin vaivāhke dharmā āmnātāḥ pārvaṇasyāpi tata evātidiṣṭāḥ tataścānyeṣāmapi tata evātideśaḥ kartavyaḥ 'dakṣiṇāvarja''pūrṇapātrastudakṣiṇetyeke'ityasya viśeṣasya parigrahrthastu pārvaṇenātideśaḥ 'ato 'nyāni'iti vacanaṃ samānajātīyaparigrahārtham tena pakvaguṇeṣveva sthālīpākeṣu paśuṣu cāyamatideśo nājyaguṇakeṣu kecit tatrāpīcchanti karmāṇīti vacanāt karmaṇāmeva pārvaṇavyākhyātatvam na kālarartṛdharmāṇām tena niṛtiṃ pākayajñene (āpadha.1-26) tyatraṃ patnīvatvaṃ parvaniyamaśca na bhavati hṛdayasaṃsargādiṣūpavāsaśca vyākhyātānīti vacanāt vyākhyānameva pārvaṇenānyeṣāṃ karmaṇāṃ, na prasṛtivikṛtibhāvaḥ tenānārabdhapārvaṇasyāpi kālagame sarpabalyādauprakṛttirbhavati ācārādyāni gṛhyanta iti vacanāt asmin śāstre a'nupadiṣṭānāmapi śāstrāntaradṛṣṭānāṃ pakvaguṇakānāmayamupadeśo bhavati yathā-kāmyānāṃ sthāne kāmyāścaravaḥ 'ṣaḍāhutiścaru'rityevamādīnām

Section (cont. 9)

23

आप्ग्स्-तात्_7.23: पार्वणेम वैवाहिकेन स्थालीपाकेन अतो ऽन्यानिअस्मादन्यानि सर्पबल्यादीनियान्याचारादूगृह्यन्तेतानिकर्माणि व्याख्यातानितेष्वेतद्धर्मातिदेश इत्यर्थः ननु-कथं पार्वणशब्दवाच्यत्वं वैवाहिकस्थालीपाकस्य?इति चेत्नित्यस्तावत् ऽउपोषिताभ्यां वर्वसु कार्यऽ(आपगृ.7-17) इति पर्वसु भवत्वात् पार्वणः तस्य च पार्वणस्यायं प्रकृतित्वे सम्बन्धीतिऽतस्येदमऽ(पासू.4-3-120) इति पार्वणशब्दादण्प्रत्यये कृते पार्वम इत्येवं रूपं भवति यद्यपि कर्मान्तराणामप्ययं प्रकृतिः, तथाप्यस्य पार्वणसम्बधितया व्यपदेश्यत्वमेव युक्तम् ;यथो ऽत्र कर्मणि द्रव्यदेवतयोरप्यतिदेशः कर्मान्तरेषु त्वितरधर्माणामेवेति नन्वेवमपि शीघ्रावगतस्य नित्यस्य पार्वणस्य प्रकृतित्ये सम्भवति किमिति विलम्बितावगम्यस्य वैवाहिकस्य प्रकृतित्वमुच्यते ?इति चेत्न, वैवाहिक एव धर्मोपदेशपौष्कल्यात्, इतरत्र तदभावाच्च प्रसिद्धश्चैष न्यायः-यस्य पुष्कलो धर्मोपदेशस्सो ऽन्येषां प्रकृतिः;न हि भिक्षुको भिक्षुकान् याचितुमर्हतीति तस्माद्युक्तं वैवाहिकस्यैव प्रकृतित्वम् अस्य च वैवाहिकस्य पार्वणशब्दावाच्यत्वं धर्मसास्त्रे व्यक्तमेव ऽपर्वसु चोभयोरुपवासः औपवस्तमेव कालान्तरे भोजनम् तृप्तिश्चान्नस्य यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् अधश्च शर्यायाताम् मैथुनवर्जनं च श्वोभूते स्थालीपाकः तस्योपचारः पार्वणेन व्याख्यातःऽ(आपध.2-1-4....11) इति नित्यस्य पार्वणेन व्याख्यानाभिधानात्, पर्वसम्बन्धिनः कर्मान्तरस्यात्रासम्भवात्, नित्यस्य च नित्येनैव व्याख्याने आत्माश्रयदोषात् नन्वत्र केचित्- ऽयच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहमिऽइत्येतच्छब्देनैकवचनान्तेन ऽपर्सु चऽइति बहिवचनान्तनिर्दिष्टपर्वाहः परामर्शानुपपत्तेः, ऽपाणिग्रहणादधि गृहमेधिनोर्व्रतमऽ(आपध.2-1-1)इति परमप्रकृतं पाणिग्रहणनक्षत्रं परामृश्यते तेन प्रतिसंवत्सरं पाणिग्रहणनक्षत्रे प्रियभोजनादि कार्यम् श्वोभूते च स्थालीपाकः कर्तव्यः तस्य च कमान्तरस्योपचारः पार्वणेन नित्येन व्याख्यात इत्याहुः तत्कथं धर्मशास्त्रे व्यकेतं वैवाहिकस्य पार्वणशब्दवाच्यत्वमिति तन्न;यतो ऽत्र व्रतमेव परमप्रकृतम्, पाणिग्रहणस्य तु तदवधितया कीर्तनमात्रम् नक्षत्रं तु गम्यमानमेव गम्यमानं चैतच्छब्देन पराम्रष्टुं प्रियभोजनादिना विशेषयितुं च नार्हम् तदाहुराचार्याः "गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् शब्दान्तरैर्विभक्त्या वा धूमो ऽयं ज्वलतीतिवत् " (तन्त्रवा.1-1-7) इति अतश्चात्र ऽपर्वसु चऽइत्युद्देश्यगतबहुत्वस्याविवक्षितत्वात् श्रुताव्यवहितस्य प्रकृतस्यपर्वाहस्यैव परामर्शो विशेषणं च युक्तम् अतौपवासादेरिव प्रियभोजनादेरपि पर्वसम्बन्धात् ऽश्वोभूते स्थालीपाकःऽइत्युपवासादिधर्मविधानार्थमेव ऽउपोषिताभ्याम् पर्वसु कार्यःऽइति गृह्यविहितस्य स्थालीपाकस्यानुवाद एव, न कर्मान्तरस्य विधिः अनुवादे च तस्योपचार इति दूरस्यस्य परामर्शो घटते विधौ त्वस्योपचार इति स्यात् एवं च यद्यपि ऽश्वोभूते स्थालीपाकःऽइत्यापाततो ऽनुवादस्वरूपः;तथापि यस्येमे विधीयमाना उपवासप्रियभोजनादयो धर्मास्सम्बन्धिनस्तस्योपचारः पार्वमेन व्याख्यात इति साध्याहारमेवेदं सूत्रं व्याख्येयम् तस्माद्धर्मशास्त्रे ऽपि वैवाहिकस्य पार्वणशब्दव्यपदेश्यस्यैव प्रकृतित्वम्, न नित्यस्येति सिद्धम् नन्वेमपि शीघ्रबोधकत्वात् वैवाहिकेनेति वक्तव्ये, किमर्थमस्य विवाहाङ्गस्यापि सतो विवीहसम्बन्धं तिरस्कृत्य ऽपार्वणेनऽइत्याह ?उच्यते-इतराङ्गवदस्य न शम्याः ;किन्तु शिष्टाचारसिद्धाः परिधयएवेत्येवमर्थम् अत्र च अतो ऽन्यानीत्याह-एतत्सदृशान्येवौषधप्रधानहवींषि सर्पबल्यादीनि कर्माण्यनेन व्याख्यातानि, न त्वनेन तत्सदृशानि पशुप्रभवप्रधानहवींषि वपाहोमादीनीति वक्तुम् कुत एतत्? ऽतत्र सामान्याद्विकारो गम्येतऽ(आपप.3-39) इति परिभाषावचनात् किञ्च अतो ऽन्यानीत्यस्य नञ्समासप्रभेदविग्रहवाक्यत्वात् ऽनञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतिःऽ(वैप.74) इति नञ्समासभेदार्थनिर्णयात्, वाक्यसमासयोर्भिन्नार्थत्वे चासमर्थसमासापत्तेः औषधानि हवीमषि पशुप्रभवानि च कानि कतिधा च ?इति चेत्-पुरोडाशः, ओदनो, यवागूस्तण्डुलाः, पृथुकाः, लाजाः, सक्तवः, पुष्टानि, फलीकरणानि, धानः, करम्भाः, सुरेत्यौषधानि द्वादशाविधानि पयो, दध्या, ज्य, मामिक्षा, वाजिन, भवदानानि, पशुरस,श्शोणितं, त्वक्, वपेति, पशुप्रभवानि धशविधानि ऽअथ कर्माण्याचाराद्यानि गृह्यन्तेऽ(आपगृ.1-1).इति प्रकृते ऽप्यत्र पुनर्वचनं गृह्यप्रश्ने ऽनुक्तानां महाराजस्थालीपाक गणहोमादीनामेतद्विकृतित्वं वक्तपम् ननु-यद्यनेनैव सूत्रेण औषधहविष्केषु कर्मसु पार्वणतन्त्रातिदेशः, किमर्थ ऽअस्तामिते स्थालीपाकःऽऽपार्वणवदाज्यभागान्तेऽ; (आपगृ.18.5.6) इति सर्पबलौ पुनर्वचनम् ?उच्यते-यद्यपि श्रौतआप्रयणे वैश्वदेवादीनां भूयस्त्वेन पौर्णमासतन्त्राशङ्कायां ऐन्द्राग्नस्य मुख्यत्वात् ऽमुख्यं वा पूर्वचोदनाल्लोकवतऽ(जैसू.12-2-23) इति सिद्धान्तन्यायेन ऽआमावास्यं तन्त्रमऽ(आपश्रौ.6-29-5) इति दर्शितम्, तथाप्यत्रान्येषां हविषां बहुत्वे ऽप्यौषधस्य मुख्यत्वात् पार्वणतन्त्रतैवेति मुख्यन्यायं मन्दबुद्धिहितार्थ दर्शयितुमेव पुनश्चोक्तं ऽपार्वणवदाज्यभागान्तेऽइति तेन मासिश्राद्धे अष्टकाकर्मणि च पार्वणमेव तन्त्रम् यद्यप्यष्टकायां वपाहोमस्य मुख्यस्यापूर्वत्वं, तथाप्यन्येषां कृत्स्नविधानाभावादौषधत्वात् ऽस्विष्टकृत्प्रभृति समानमापिण्डनिधानातऽ(आपगृ.22-8) इति दर्शनाच्च पार्वणमेव तन्त्रम् अपूपहोमे तु ऽपार्वणवतऽ(आपगृ.22-1) इति पुनर्वचनमपूपमांसौदनपिष्टान्नहोमानां स्थाने अनुकल्पेन विहितस्यौषधहविष्कस्यापि दधिहोमस्य पार्वणतन्त्रप्राप्तिं ज्ञापयितुम्, न त्वपूपहोमार्तम्;तस्यौषधहविष्ट्वादेव पार्वणतन्त्रप्राप्तेः तत्स्थानापन्नेषु च तद्धर्मप्राप्तिर्दृष्टा यथा ऽयस्य हविषेवत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेतऽ(आपश्रौ.9-1-23) इति सान्नाय्यस्थाने विहिताया यवाग्वास्सान्नाय्यधर्माः केचित्-नित्यस्य पार्वणस्य यः कल्पस्स एव सर्वेषां यज्ञानां कल्पः यद्यपि वावाहिकेधर्माम्नानं, तथापि नित्यस्यैव कल्पादिदेसो ऽदक्षिणावर्जऽइत्यस्य परिग्रहार्थः अतो ऽन्यानीति वचनादेतत्सदृशानां पक्वगुणानामेव स्थालीपाकानां पशूनां चायं विकल्पो, न त्वाज्यगुणकानाम् कर्माणीति वचनात् कर्ममात्रस्यैव व्याख्यानं, न तु कर्तृतद्धर्मकालादीनाम् तेन ऽगर्दभेनावकीर्णी निऋतिं पाकयज्ञेन यजेत, (आपध.1-26-8) इत्यत्र पशौ न पत्नीवत्त्वम् नापि हृदयसंसर्गादिषु पर्वणो नियमः, विशेषतश्चोपवासस्य धर्मशास्त्रे पर्वसम्बन्धेन विधानात् व्याख्यातानीति वचनादन्येषां नैतद्विकृतित्वम् तेनानारब्धपार्वणो ऽपि तेष्वधिकारी हृदयसंसर्गादिषु पुनस्तन्त्रविधानं आज्यहोमवन्नियमार्थम् एतद्गृह्योपदिष्टेषु यत्र वचनं तत्रैव तन्त्रं, नान्यत्र तेनाग्रयणे तन्त्रलोप इति तन्न;यत उपदिष्टधर्मकस्य वैवाहिकस्य धर्मातिदेशे ऽपि नैव दोषः प्रत्युत नित्यस्य कल्पादिदेशे पर्वादीनामप्यतिदेशाद्दोषः कर्माणीति वचनान्नेति चेत्-न;तस्योद्देश्यसमर्पणोपक्षीणत्वात् अखण्डग्राहिणश्चोदकस्योच्छ्टङ्खलत्वात् दक्षिणाभावस्तु प्रयोजनं तस्य ऽयो ऽस्यापचितस्तस्मा ऋषभं ददातिऽ(आपगृ.7-16) इति सिद्धम् तथा सदृशेष्वयमतिदेश इत्युक्तिमात्रम्, असदृशेष्वपि पशुष्वभ्युपगमात् पक्वत्वात् सादृश्ये द्रव्यत्वादाज्ये ऽपि स्यात् न चैवं व्याख्यातशब्दः प्रकृतिविकृत्त्वाभावार्थः ऽएतेन वैश्वसृजा ज्यो व्याख्यातः (आपश्रौ.19-15-1) इत्यादौ प्रकृतिविकृतित्वस्य दृष्टत्वात् तथा नैकस्मिन्नाग्रयणे तन्त्रलोपफलार्थ नियमार्थानि बहूनि सूत्राण्यारब्धव्यानि अविकृतमातिथ्यमाग्रयणं चेच्येतावन्मात्रसूत्रादेव स्वाभिमतसिद्धेः अतस्तानि तन्त्रसूत्राणि यथोक्तप्रयोजनार्थानि आग्रयणमपि तन्त्रवदेव

āpgs-tāt_7.23: pārvaṇema vaivāhikena sthālīpākena ato 'nyāniasmādanyāni sarpabalyādīniyānyācārādūgṛhyantetānikarmāṇi vyākhyātāniteṣvetaddharmātideśa ityarthaḥ nanu-kathaṃ pārvaṇaśabdavācyatvaṃ vaivāhikasthālīpākasya?iti cetnityastāvat 'upoṣitābhyāṃ varvasu kārya'(āpagṛ.7-17) iti parvasu bhavatvāt pārvaṇaḥ tasya ca pārvaṇasyāyaṃ prakṛtitve sambandhīti'tasyedam'(pāsū.4-3-120) iti pārvaṇaśabdādaṇpratyaye kṛte pārvama ityevaṃ rūpaṃ bhavati yadyapi karmāntarāṇāmapyayaṃ prakṛtiḥ, tathāpyasya pārvaṇasambadhitayā vyapadeśyatvameva yuktam ;yatho 'tra karmaṇi dravyadevatayorapyatideśaḥ karmāntareṣu tvitaradharmāṇāmeveti nanvevamapi śīghrāvagatasya nityasya pārvaṇasya prakṛtitye sambhavati kimiti vilambitāvagamyasya vaivāhikasya prakṛtitvamucyate ?iti cetna, vaivāhika eva dharmopadeśapauṣkalyāt, itaratra tadabhāvācca prasiddhaścaiṣa nyāyaḥ-yasya puṣkalo dharmopadeśasso 'nyeṣāṃ prakṛtiḥ;na hi bhikṣuko bhikṣukān yācitumarhatīti tasmādyuktaṃ vaivāhikasyaiva prakṛtitvam asya ca vaivāhikasya pārvaṇaśabdāvācyatvaṃ dharmasāstre vyaktameva 'parvasu cobhayorupavāsaḥ aupavastameva kālāntare bhojanam tṛptiścānnasya yaccainayoḥ priyaṃ syāttadetasminnahani bhuñjīyātām adhaśca śaryāyātām maithunavarjanaṃ ca śvobhūte sthālīpākaḥ tasyopacāraḥ pārvaṇena vyākhyātaḥ'(āpadha.2-1-4....11) iti nityasya pārvaṇena vyākhyānābhidhānāt, parvasambandhinaḥ karmāntarasyātrāsambhavāt, nityasya ca nityenaiva vyākhyāne ātmāśrayadoṣāt nanvatra kecit- 'yaccainayoḥ priyaṃ syāttadetasminnahami'ityetacchabdenaikavacanāntena 'parsu ca'iti bahivacanāntanirdiṣṭaparvāhaḥ parāmarśānupapatteḥ, 'pāṇigrahaṇādadhi gṛhamedhinorvratam'(āpadha.2-1-1)iti paramaprakṛtaṃ pāṇigrahaṇanakṣatraṃ parāmṛśyate tena pratisaṃvatsaraṃ pāṇigrahaṇanakṣatre priyabhojanādi kāryam śvobhūte ca sthālīpākaḥ kartavyaḥ tasya ca kamāntarasyopacāraḥ pārvaṇena nityena vyākhyāta ityāhuḥ tatkathaṃ dharmaśāstre vyaketaṃ vaivāhikasya pārvaṇaśabdavācyatvamiti tanna;yato 'tra vratameva paramaprakṛtam, pāṇigrahaṇasya tu tadavadhitayā kīrtanamātram nakṣatraṃ tu gamyamānameva gamyamānaṃ caitacchabdena parāmraṣṭuṃ priyabhojanādinā viśeṣayituṃ ca nārham tadāhurācāryāḥ "gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam śabdāntarairvibhaktyā vā dhūmo 'yaṃ jvalatītivat " (tantravā.1-1-7) iti ataścātra 'parvasu ca'ityuddeśyagatabahutvasyāvivakṣitatvāt śrutāvyavahitasya prakṛtasyaparvāhasyaiva parāmarśo viśeṣaṇaṃ ca yuktam ataupavāsāderiva priyabhojanāderapi parvasambandhāt 'śvobhūte sthālīpākaḥ'ityupavāsādidharmavidhānārthameva 'upoṣitābhyām parvasu kāryaḥ'iti gṛhyavihitasya sthālīpākasyānuvāda eva, na karmāntarasya vidhiḥ anuvāde ca tasyopacāra iti dūrasyasya parāmarśo ghaṭate vidhau tvasyopacāra iti syāt evaṃ ca yadyapi 'śvobhūte sthālīpākaḥ'ityāpātato 'nuvādasvarūpaḥ;tathāpi yasyeme vidhīyamānā upavāsapriyabhojanādayo dharmāssambandhinastasyopacāraḥ pārvamena vyākhyāta iti sādhyāhāramevedaṃ sūtraṃ vyākhyeyam tasmāddharmaśāstre 'pi vaivāhikasya pārvaṇaśabdavyapadeśyasyaiva prakṛtitvam, na nityasyeti siddham nanvemapi śīghrabodhakatvāt vaivāhikeneti vaktavye, kimarthamasya vivāhāṅgasyāpi sato vivīhasambandhaṃ tiraskṛtya 'pārvaṇena'ityāha ?ucyate-itarāṅgavadasya na śamyāḥ ;kintu śiṣṭācārasiddhāḥ paridhayaevetyevamartham atra ca ato 'nyānītyāha-etatsadṛśānyevauṣadhapradhānahavīṃṣi sarpabalyādīni karmāṇyanena vyākhyātāni, na tvanena tatsadṛśāni paśuprabhavapradhānahavīṃṣi vapāhomādīnīti vaktum kuta etat? 'tatra sāmānyādvikāro gamyeta'(āpapa.3-39) iti paribhāṣāvacanāt kiñca ato 'nyānītyasya nañsamāsaprabhedavigrahavākyatvāt 'nañivayuktamanyasadṛśādhikaraṇe tathāhyarthāvagatiḥ'(vaipa.74) iti nañsamāsabhedārthanirṇayāt, vākyasamāsayorbhinnārthatve cāsamarthasamāsāpatteḥ auṣadhāni havīmaṣi paśuprabhavāni ca kāni katidhā ca ?iti cet-puroḍāśaḥ, odano, yavāgūstaṇḍulāḥ, pṛthukāḥ, lājāḥ, saktavaḥ, puṣṭāni, phalīkaraṇāni, dhānaḥ, karambhāḥ, suretyauṣadhāni dvādaśāvidhāni payo, dadhyā, jya, māmikṣā, vājina, bhavadānāni, paśurasa,śśoṇitaṃ, tvak, vapeti, paśuprabhavāni dhaśavidhāni 'atha karmāṇyācārādyāni gṛhyante'(āpagṛ.1-1).iti prakṛte 'pyatra punarvacanaṃ gṛhyapraśne 'nuktānāṃ mahārājasthālīpāka gaṇahomādīnāmetadvikṛtitvaṃ vaktapam nanu-yadyanenaiva sūtreṇa auṣadhahaviṣkeṣu karmasu pārvaṇatantrātideśaḥ, kimartha 'astāmite sthālīpākaḥ''pārvaṇavadājyabhāgānte'; (āpagṛ.18.5.6) iti sarpabalau punarvacanam ?ucyate-yadyapi śrautaāprayaṇe vaiśvadevādīnāṃ bhūyastvena paurṇamāsatantrāśaṅkāyāṃ aindrāgnasya mukhyatvāt 'mukhyaṃ vā pūrvacodanāllokavat'(jaisū.12-2-23) iti siddhāntanyāyena 'āmāvāsyaṃ tantram'(āpaśrau.6-29-5) iti darśitam, tathāpyatrānyeṣāṃ haviṣāṃ bahutve 'pyauṣadhasya mukhyatvāt pārvaṇatantrataiveti mukhyanyāyaṃ mandabuddhihitārtha darśayitumeva punaścoktaṃ 'pārvaṇavadājyabhāgānte'iti tena māsiśrāddhe aṣṭakākarmaṇi ca pārvaṇameva tantram yadyapyaṣṭakāyāṃ vapāhomasya mukhyasyāpūrvatvaṃ, tathāpyanyeṣāṃ kṛtsnavidhānābhāvādauṣadhatvāt 'sviṣṭakṛtprabhṛti samānamāpiṇḍanidhānāt'(āpagṛ.22-8) iti darśanācca pārvaṇameva tantram apūpahome tu 'pārvaṇavat'(āpagṛ.22-1) iti punarvacanamapūpamāṃsaudanapiṣṭānnahomānāṃ sthāne anukalpena vihitasyauṣadhahaviṣkasyāpi dadhihomasya pārvaṇatantraprāptiṃ jñāpayitum, na tvapūpahomārtam;tasyauṣadhahaviṣṭvādeva pārvaṇatantraprāpteḥ tatsthānāpanneṣu ca taddharmaprāptirdṛṣṭā yathā 'yasya haviṣevatsā apākṛtā dhayeyustatsthāne vāyavyāṃ yavāgūṃ nirvapet'(āpaśrau.9-1-23) iti sānnāyyasthāne vihitāyā yavāgvāssānnāyyadharmāḥ kecit-nityasya pārvaṇasya yaḥ kalpassa eva sarveṣāṃ yajñānāṃ kalpaḥ yadyapi vāvāhikedharmāmnānaṃ, tathāpi nityasyaiva kalpādideso 'dakṣiṇāvarja'ityasya parigrahārthaḥ ato 'nyānīti vacanādetatsadṛśānāṃ pakvaguṇānāmeva sthālīpākānāṃ paśūnāṃ cāyaṃ vikalpo, na tvājyaguṇakānām karmāṇīti vacanāt karmamātrasyaiva vyākhyānaṃ, na tu kartṛtaddharmakālādīnām tena 'gardabhenāvakīrṇī niṛtiṃ pākayajñena yajeta, (āpadha.1-26-8) ityatra paśau na patnīvattvam nāpi hṛdayasaṃsargādiṣu parvaṇo niyamaḥ, viśeṣataścopavāsasya dharmaśāstre parvasambandhena vidhānāt vyākhyātānīti vacanādanyeṣāṃ naitadvikṛtitvam tenānārabdhapārvaṇo 'pi teṣvadhikārī hṛdayasaṃsargādiṣu punastantravidhānaṃ ājyahomavanniyamārtham etadgṛhyopadiṣṭeṣu yatra vacanaṃ tatraiva tantraṃ, nānyatra tenāgrayaṇe tantralopa iti tanna;yata upadiṣṭadharmakasya vaivāhikasya dharmātideśe 'pi naiva doṣaḥ pratyuta nityasya kalpādideśe parvādīnāmapyatideśāddoṣaḥ karmāṇīti vacanānneti cet-na;tasyoddeśyasamarpaṇopakṣīṇatvāt akhaṇḍagrāhiṇaścodakasyocchṭaṅkhalatvāt dakṣiṇābhāvastu prayojanaṃ tasya 'yo 'syāpacitastasmā ṛṣabhaṃ dadāti'(āpagṛ.7-16) iti siddham tathā sadṛśeṣvayamatideśa ityuktimātram, asadṛśeṣvapi paśuṣvabhyupagamāt pakvatvāt sādṛśye dravyatvādājye 'pi syāt na caivaṃ vyākhyātaśabdaḥ prakṛtivikṛttvābhāvārthaḥ 'etena vaiśvasṛjā jyo vyākhyātaḥ (āpaśrau.19-15-1) ityādau prakṛtivikṛtitvasya dṛṣṭatvāt tathā naikasminnāgrayaṇe tantralopaphalārtha niyamārthāni bahūni sūtrāṇyārabdhavyāni avikṛtamātithyamāgrayaṇaṃ cecyetāvanmātrasūtrādeva svābhimatasiddheḥ atastāni tantrasūtrāṇi yathoktaprayojanārthāni āgrayaṇamapi tantravadeva


24

41 तत्र होमदेशविधानम् यथोपदेशं देवताः आप्ग्स्_7.24 अग्निं स्विष्टकृतं चान्तरेण आप्ग्स्_7.25 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.25: पार्वणेनातोन्यानीत्ययं कल्पातिदेशः इत्युक्तम् तेन पार्वणे ये देवते यस्च स्थालीपाकः तेषां सर्वेषु कर्मसु प्रवृत्तिः तत्र तत्रेपदिष्टाभिस्तु देवताभिः पार्वणदेवतयोः बाधे प्राप्ते तन्निवृत्त्यर्थ वचनं तत्र चोदितानां देवतानां देशविधानार्थञ्च-यो ऽयमग्निः पार्वणोयश्च स्विष्टकृत्, तावन्तरेण तयोर्मध्ये ता देवता यष्टव्या इति तत्र पार्वणस्याग्नेः पार्वणमेव हविः तत्र तत्र विहितानां तत्र तत्र विहितम् स्विष्टकृतस्तु सर्वोहविश्शेषः, अन्यत्र तथा दर्शनात् अन्ये तु तत्र विहितादेव हविषः पार्वणदेवतयोरपीज्यामिच्छन्ति अपर ईह- नात्र पार्देवते अनूर्द्यते अग्निश्च स्विष्टकृच्च किं तर्हि ?आगन्तुके एते अनेनैव वचनेन विधीयेते तत्र हविषो ऽनुपदिष्टत्वात् अग्नेराज्यं हविः स्विष्टकृतस्तु सर्वो हविश्शेष इति सर्वथा सर्वेष्वेव पार्वणातिदिष्टेष्वग्निः पूर्व यष्टव्यः तथा च श्रौतेषु ऽयेन यज्ञेनेत्र्सेत् कुर्यादेव तत्राग्नेयमिति यथा भाष्यं व्याख्यायते पार्वणव्याख्यातेषु सर्वेष्वेव कर्मसु यथोपदेशं देवता यजति अग्निं स्विष्टकृतं च यजति योयमग्निस्विष्टकृत् पार्वणे द्वितीयो देवताविशेषः तं च यजति तस्मादेव हविषः यत्तत्र तत्रोपदिष्टानां हविरिति तत्र यथोपदेशं देवता इत्यनुवादः स्विष्टकृतस्समुच्चयविधानार्थः असति समुच्चये तेषु तस्य प्रवृत्तिर्न स्यात् तत्र तत्रोपदिष्टभिर्देवताभिर्निवर्तितत्वात् अग्नेरिव स्विष्टकृतो ऽपि प्रधानदेवताच्चोदितत्वात्- ऽअग्निस्विष्टकृद्वितीय इति अन्तरेण इत्यनेन तु तस्यैव स्विष्टकृतो देशो नियम्यते-प्रधानाहुतीष्टोपहोमांश्चान्तरणोग्निं स्विष्टकृतं यजतीति तेनयत्राप्युत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते, ऽआज्याहुतीरुत्तराः जयादु प्रतिपद्यतऽइति च क्रमपरं वचनं तत्रापि नित्यमग्निस्विष्टकृदस्मिन्नन्तराले यष्टव्यो भवतीति प्रकरणाच्च प्रधानाहुतीरुपहोमाश्चान्तरेणेत्यर्थो ऽपि लभ्यते आप्ग्स्-तात्_7.25: अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् अध्याहारश्च, साकाङ्क्षत्वात् यथोपदेशं सर्पवल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टां देवतास्ता एव भवन्ति, न पार्वणदेवताः न तेषु पार्वणं प्रधानं समुच्चेतव्या इत्यर्थः ननु विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेश-, प्रधानं चोपकार्य, नोपकारजनकम् पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् अतस्तस्यातिदेश एव नास्ति दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् ऽषड्भिर्दीक्षयतिऽ(तैसं.5-1-9) इत्यत्र तुप्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव सत्यमेवम्;किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयो ऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्य विशेषेणातिदेशप्रातिभासात् ऽषडिभिर्दीक्षयति, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते तन्निरासायेदं सूत्रम्

41 tatra homadeśavidhānam yathopadeśaṃ devatāḥ āpgs_7.24 agniṃ sviṣṭakṛtaṃ cāntareṇa āpgs_7.25 commentaries: āpgs-anā_7.25: pārvaṇenātonyānītyayaṃ kalpātideśaḥ ityuktam tena pārvaṇe ye devate yasca sthālīpākaḥ teṣāṃ sarveṣu karmasu pravṛttiḥ tatra tatrepadiṣṭābhistu devatābhiḥ pārvaṇadevatayoḥ bādhe prāpte tannivṛttyartha vacanaṃ tatra coditānāṃ devatānāṃ deśavidhānārthañca-yo 'yamagniḥ pārvaṇoyaśca sviṣṭakṛt, tāvantareṇa tayormadhye tā devatā yaṣṭavyā iti tatra pārvaṇasyāgneḥ pārvaṇameva haviḥ tatra tatra vihitānāṃ tatra tatra vihitam sviṣṭakṛtastu sarvohaviśśeṣaḥ, anyatra tathā darśanāt anye tu tatra vihitādeva haviṣaḥ pārvaṇadevatayorapījyāmicchanti apara īha- nātra pārdevate anūrdyate agniśca sviṣṭakṛcca kiṃ tarhi ?āgantuke ete anenaiva vacanena vidhīyete tatra haviṣo 'nupadiṣṭatvāt agnerājyaṃ haviḥ sviṣṭakṛtastu sarvo haviśśeṣa iti sarvathā sarveṣveva pārvaṇātidiṣṭeṣvagniḥ pūrva yaṣṭavyaḥ tathā ca śrauteṣu 'yena yajñenetrset kuryādeva tatrāgneyamiti yathā bhāṣyaṃ vyākhyāyate pārvaṇavyākhyāteṣu sarveṣveva karmasu yathopadeśaṃ devatā yajati agniṃ sviṣṭakṛtaṃ ca yajati yoyamagnisviṣṭakṛt pārvaṇe dvitīyo devatāviśeṣaḥ taṃ ca yajati tasmādeva haviṣaḥ yattatra tatropadiṣṭānāṃ haviriti tatra yathopadeśaṃ devatā ityanuvādaḥ sviṣṭakṛtassamuccayavidhānārthaḥ asati samuccaye teṣu tasya pravṛttirna syāt tatra tatropadiṣṭabhirdevatābhirnivartitatvāt agneriva sviṣṭakṛto 'pi pradhānadevatāccoditatvāt- 'agnisviṣṭakṛdvitīya iti antareṇa ityanena tu tasyaiva sviṣṭakṛto deśo niyamyate-pradhānāhutīṣṭopahomāṃścāntaraṇogniṃ sviṣṭakṛtaṃ yajatīti tenayatrāpyuttarā āhutīrhutvā jayādi pratipadyate, 'ājyāhutīruttarāḥ jayādu pratipadyata'iti ca kramaparaṃ vacanaṃ tatrāpi nityamagnisviṣṭakṛdasminnantarāle yaṣṭavyo bhavatīti prakaraṇācca pradhānāhutīrupahomāścāntareṇetyartho 'pi labhyate āpgs-tāt_7.25: atrāsvapado vigrahaḥ, avyayībhāvasamāsatvāt adhyāhāraśca, sākāṅkṣatvāt yathopadeśaṃ sarpavalyādiṣu yāśca yāvatyaśca yena yena prakāreṇa mantravidhānādinopadṣṭāṃ devatāstā eva bhavanti, na pārvaṇadevatāḥ na teṣu pārvaṇaṃ pradhānaṃ samuccetavyā ityarthaḥ nanu vikṛtāvupakāramukhena tajjanakānāṃ dharmāṇāmatideśa-, pradhānaṃ copakārya, nopakārajanakam pārvaṇe ca sthālīpākahomayoḥ prathamo homaḥ pradhānam atastasyātideśa eva nāsti dūre tatsamuccayāśaṅkā, yannirāsāyedaṃ sūtraṃ syāt 'ṣaḍbhirdīkṣayati'(taisaṃ.5-1-9) ityatra tuprākṛtīnāṃ dīkṣāhutīnāṃ aṅgatvādatideśaḥ, adṛṣṭārthatvācca samuccayaḥ, yathopadiṣṭānāṃ prakṛtikḷptakramabādhabhayādante niveśaśca yukta eva satyamevam;kintu gārhyakarmānuṣṭhātṝṇāṃ madhye ye mandabuddhayo 'ṅgapradhānayoratideśyānatideśyayośca anabhijñāste pārvaṇenetya viśeṣeṇātideśaprātibhāsāt 'ṣaḍibhirdīkṣayati, ityādau darśanamātrācca pradhānātideśatatsamuccayāvupadiṣṭapradhānānāmante niveśaṃ ca manyante tannirāsāyedaṃ sūtram


25

अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति ऽयथोपदेशं देवताःऽ(आपगृ.7-24) इत्यनुवर्तते यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते अग्निं स्विष्टकृतं चान्तरेण आग्नेय सौविष्टकृतयोर्होमयोर्मध्ये भवेयुः अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागे- नाग्निमुद्दिश्य जुहुयादित्यन्यो ऽप्यर्थो विधीयते विभक्तस्य सूत्रस्य चायं विवक्षितोरऽथः- सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चेपकरणसमापनयोश्च शिष्टाचारा ऽदग्नये स्वाहेऽत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्यो ऽपि प्रधानहोमेभ्यः पूर्व जुहुयादिति नन्वत्र ऽस्विष्टकृतऽमिति व्यर्थम् ;सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात् स्वत एवासावन्ते एव भवतीति नैवम्-विकृतिषु द्विविधाः प्रधानहोमाः-पार्वणविकारा अपूर्वाश्च;तेषामुभयोषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभियः पूर्वमेवाग्निमुखमित्येवमर्थ स्विष्टकृद्वन्नियम इति केचित्- ऽयथोपदेशं देवता अग्निं स्विष्टकृतं चऽइत्येवमन्तमेकं सूत्रम् तस्यार्थः- ऽअग्निस्स्विष्टकृत् द्वितीयःऽ(आपगृ.7-70 इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात् विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेण ऽयथापदेशं देवताःऽइत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यात् इति तासु तस्य समुच्चयो विधीयते तथा ऽअन्तरेणऽइति पदमेकं सूत्रं ऽअन्तरा त्वाष्ट्रेणऽ; इत्यादिवत् प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः इतरथा क्वचित्तस्य लेपः स्यात्, ऽस्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यतेऽ(आपगृ.9-4) इत्यादि परिसङ्ख्येति कृत्वेति तन्न,-विभागे साकाङ्क्षयोर्द्वितीयान्तयोः ऽअग्निं स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्, ऽअग्निस्स्विष्टकृद्द्वितीयःऽइत्यस्य प्रयोजनान्तरपरत्वाच्च तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपे ऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते तथा ऽअन्तरेणऽइत्यस्य यथोक्तश्रुतसम्बन्धन्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः व्यर्थ चैतत्;स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः

atha vaikṛtapradhānahomānāṃ sthānamarthādagnimukhasauviṣṭakṛtayośca vidadhāti 'yathopadeśaṃ devatāḥ'(āpagṛ.7-24) ityanuvartate yathopadeśaṃ devatāḥ ye vikṛtāvupadiṣṭāḥ te agniṃ sviṣṭakṛtaṃ cāntareṇa āgneya sauviṣṭakṛtayorhomayormadhye bhaveyuḥ atra ca sviṣṭakṛtamitivadagnimityapi siddhānuvādāt, anyataśca prāptyabhāvāt, yogavibhāge- nāgnimuddiśya juhuyādityanyo 'pyartho vidhīyate vibhaktasya sūtrasya cāyaṃ vivakṣitor'thaḥ- sarveṣu tantravatsvauṣadhahomeṣu dadhihomeṣu cepakaraṇasamāpanayośca śiṣṭācārā 'dagnaye svāhe'tyājyena agnimukhākhyamaṅgahomaṃ sarvebhyo 'pi pradhānahomebhyaḥ pūrva juhuyāditi nanvatra 'sviṣṭakṛta'miti vyartham ;sarvatra sviṣṭakṛtaśśeṣapratipattyarthatvāt svata evāsāvante eva bhavatīti naivam-vikṛtiṣu dvividhāḥ pradhānahomāḥ-pārvaṇavikārā apūrvāśca;teṣāmubhayoṣāmapyanta eva sviṣṭakṛdyathā syādityevamarthatvāt anyathā yaddhomāṅgaṃ sviṣṭakṛttadanta eva syāt tathāgnimiti cobhayebhyaḥ pradhānāhutibhiyaḥ pūrvamevāgnimukhamityevamartha sviṣṭakṛdvanniyama iti kecit- 'yathopadeśaṃ devatā agniṃ sviṣṭakṛtaṃ ca'ityevamantamekaṃ sūtram tasyārthaḥ- 'agnissviṣṭakṛt dvitīyaḥ'(āpagṛ.7-70 ityatra sviṣṭakṛtaḥ pradhānahomatulyadharmatvajñāpanāt vikṛtiṣu ca pārvaṇapradhānalope sati tasyāpi lopassyāt, sa mā bhūdityanena sūtreṇa 'yathāpadeśaṃ devatāḥ'ityanūdya, agniṃ sviṣṭakṛtaṃ ca kuryāt iti tāsu tasya samuccayo vidhīyate tathā 'antareṇa'iti padamekaṃ sūtraṃ 'antarā tvāṣṭreṇa'; ityādivat prakaraṇādvaikṛtapradhānahomānāṃ jayādīnāṃ ca madhye sarvāsvapi vikṛtiṣu sviṣṭakṛnnitya evetyarthaḥ itarathā kvacittasya lepaḥ syāt, 'sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate'(āpagṛ.9-4) ityādi parisaṅkhyeti kṛtveti tanna,-vibhāge sākāṅkṣayordvitīyāntayoḥ 'agniṃ sviṣṭakṛtaṃ, ityetayoḥ antareṇetyanena sambandhākāṅkṣeṇa ekavākyatve sambhavati vākyabhedasyāyuktatvāt, 'agnissviṣṭakṛddvitīyaḥ'ityasya prayojanāntaraparatvācca tathāpi yadi sviṣṭakṛtaḥ pradhānatulyadharmakatvaṃ, tadā tallope 'pi pradhānalopaprāyaścittamevāpadyate tathā 'antareṇa'ityasya yathoktaśrutasambandhanyanvayasambhave aprakṛtagamyamānānvayo na yuktaḥ vyartha caitat;svamate sviṣṭakṛtassamuccayavidhānādeva tridoṣāyāḥ parisaṅkhyāyā api nirastatvāt, tasya sarvatra nityatvenālopasiddheḥ


28

अविकृतमातिथ्यम् आप्ग्स्_7.26 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.26: या गौरतिथय आलभ्यते ऽगौरिति गां प्राहेतिऽतदातिथ्यं नामकर्मतदविकृतमपूर्व पार्वणधर्मास्तद्वपाहोमे न कर्तव्या इत्यर्थः इदमेव ज्ञापकं न स्थालीपाकेष्वेव सो ऽतिदेशः किं तर्हि ?सर्वेषु पक्वगुणेषु पशुष्वपीति तेनाष्टकायां काम्यपशुषु च शास्त्रान्तरदृष्टेषु पार्वणाधर्मसिद्धिः

avikṛtamātithyam āpgs_7.26 commentaries: āpgs-anā_7.26: yā gauratithaya ālabhyate 'gauriti gāṃ prāheti'tadātithyaṃ nāmakarmatadavikṛtamapūrva pārvaṇadharmāstadvapāhome na kartavyā ityarthaḥ idameva jñāpakaṃ na sthālīpākeṣveva so 'tideśaḥ kiṃ tarhi ?sarveṣu pakvaguṇeṣu paśuṣvapīti tenāṣṭakāyāṃ kāmyapaśuṣu ca śāstrāntaradṛṣṭeṣu pārvaṇādharmasiddhiḥ


29

आप्ग्स्-तात्_7.26: अतिथिर्यस्य कर्मणो निमित्तं तदातिथ्यम्, गवालम्भ इत्यर्थः तदविकृतंयथोपदिष्टमेव स्यात् नात्र ऽअग्निमिद्ध्वाऽ; (आपगृ.1-12)इत्यादि सामान्यमपि तन्त्रम्, पार्वणं तु दूरे;ऽकृत्स्नविधानात् यजतेरपूर्वत्वमऽ(जैसू.8-1-5) इति न्यायात् ऽकृत्स्नविधानं च तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेकोन्नातमेन वा पलाशपर्णेनोत्तरया जुहोतिऽ(आपगृ.22-4) इति एतच्च प्रदर्शनार्थम् तेन वपाहोमानन्तरं कुंशुकहोमसर्षपहोमफलीकरणहोमादयो ऽप्यपूर्वा एव;कृत्स्नविधानस्य तुल्यत्वात् ननु-ऽनानग्नौ प्रधानमऽइति याज्ञिकवचनात् वैश्वदेवबलिहरणानि तावदङ्गानि अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह- 42 वैश्वदेवः वैश्वदेवे विश्वे देवाः आप्ग्स्_7.27 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.27: ऽआर्याः प्रयता वैश्वदेवऽइति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशो ऽयं निर्वापकाले सङ्कल्पार्थम् यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं (अपाध-2-3-16) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः तथा पक्वादेवान्नात् होमा बलयश्च तस्यै तस्यै देवतायै ऽअहरहर्भूतबीलऽरित्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः ऽआर्याः प्रयताऽइत्यादिकस्तु तेषामेव प्रयोगविधिः तस्मात् न पृथक् पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवम् यदग्नौ क्रियते स देवयज्ञः यत् बलिहरणं स भूतयज्ञः यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः यदग्रं च देयमित्यादि स मनुष्ययज्ञः तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् न च षडेभिराद्यैरिति विरोधः तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते?उच्यते-इहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च तस्मात् सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः अथ तंहि देवतोपदेशः तत्रैव कस्मान्न कृतः ?इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति

āpgs-tāt_7.26: atithiryasya karmaṇo nimittaṃ tadātithyam, gavālambha ityarthaḥ tadavikṛtaṃyathopadiṣṭameva syāt nātra 'agnimiddhvā'; (āpagṛ.1-12)ityādi sāmānyamapi tantram, pārvaṇaṃ tu dūre;'kṛtsnavidhānāt yajaterapūrvatvam'(jaisū.8-1-5) iti nyāyāt 'kṛtsnavidhānaṃ ca tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamekonnātamena vā palāśaparṇenottarayā juhoti'(āpagṛ.22-4) iti etacca pradarśanārtham tena vapāhomānantaraṃ kuṃśukahomasarṣapahomaphalīkaraṇahomādayo 'pyapūrvā eva;kṛtsnavidhānasya tulyatvāt nanu-'nānagnau pradhānam'iti yājñikavacanāt vaiśvadevabaliharaṇāni tāvadaṅgāni agnau homeṣu ca āgneyasauviṣṭakṛtāvantareṇa ye homāsta eva pradhānāḥ tau tu sarpabalyādisāmānyādaṅgamityāśaṅkyāha- 42 vaiśvadevaḥ vaiśvadeve viśve devāḥ āpgs_7.27 commentaries: āpgs-anā_7.27: 'āryāḥ prayatā vaiśvadeva'iti codite vaiśvadevākhye karmaṇi devatopadeśo 'yaṃ nirvāpakāle saṅkalpārtham yāstu tatra devatāḥ ṣaḍbhirādyaiḥ pratimantraṃ (apādha-2-3-16) ityevamādyāḥ tāḥ pradānakāle devatāḥ, tena viśvebhyo devebhyaḥ iti saṅkalpya gṛhasthena svagṛhe pākaḥ kāryaḥ tathā pakvādevānnāt homā balayaśca tasyai tasyai devatāyai 'aharaharbhūtabīla'rityevamādyāḥ pañcamahāyajñānāmutpattividhayaḥ 'āryāḥ prayatā'ityādikastu teṣāmeva prayogavidhiḥ tasmāt na pṛthak pañcamahāyajñāḥ kartavyāḥ tatraiva vaiśvadevam yadagnau kriyate sa devayajñaḥ yat baliharaṇaṃ sa bhūtayajñaḥ yaddakṣiṇataḥ pitṛliṅgeneti sa pitṛyajñaḥ yadagraṃ ca deyamityādi sa manuṣyayajñaḥ tatra vaiśvadeve somāya svāheti dvitīyāhutiriti mantravyākhyākāreṇoktam na ca ṣaḍebhirādyairiti virodhaḥ tasya pradhānadevatāviṣayatvāt, sviṣṭakṛtaśca tāntrikatvāt atha kasmādihaiva vaiśvadevasya kṛtsnakalpo nopadiśyate?ucyate-ihopadeśe tasya kalpasya sarvacaraṇārthatā na syāt, iṣyate ca tasmāt sarvacaraṇasādhāraṇeṣu sāmayācārikeṣūpadeśaḥ atha taṃhi devatopadeśaḥ tatraiva kasmānna kṛtaḥ ?ihopadeśaprayojanamasmin gṛhye tadapi vaiśvadevaṃ karmopadiṣṭaṃ yathā syāditi tenāsmadīyānāṃ sa eva vaiśvadevakalpo nānyeṣu dharmaśāstreṣu coditaḥ yajñopavītinā pradakṣiṇamityādi paribhāṣāpravṛttiśca bhavati

Section (cont. 10)

30

आप्ग्स्-तात्_7.27: वैश्वदेवमिति कर्मनामधेयम् प्रवृत्तिनिमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्, आग्नेयादयष्षडपि होमाः बलिहरणानि चानग्निदेश्यान्यपि सर्वाण्येव प्रधानानि;न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः अयं भावः-यादिनानग्नौ प्रधानम्, किन्तु शेष एवेति तर्ह्ये तच्छेषलक्षणे तृतीयाध्याये दृश्येत न तु दृष्टम्, नापि सूत्रकारेक्तं दृश्यते किन्तु पुण्डपितृयज्ञे तावदापस्तम्बेन हेमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्यर्यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेतऽ(आपश्रौ.1-9-8) इति यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः तस्मादत्र प्रधानस्यैव पिण्डदानस्य ऽनासोमयाजी सम्मयेतऽ(तैसं.2-5-5) इत्यादिवदनारभ्भलक्षण एव विरामः कात्यायनस्तु-प्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याहऽजीवपितृकस्य होमान्तम्, अनारम्भो वाऽ(काश्रौ.4-1-24,25) इति तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् अवभृथे त्वनग्नावेव प्रधानम् सोमाङ्गत्वे ऽप्यस्य प्रधान्यं स्वाङ्गापेक्षया तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ;ऽअप्यस्ववदानैश्चरेयुःऽ(आपश्रौ.9-15-3) इति वचनात् वपायास्तूपदेशमतादग्नौ होमः ऽयदि वपा हविरवदानं वा स्कन्देतऽ(आपश्रौ.9-18-15) इति वपायाः पृथग्ग्रहणात् एवमनग्नावप्यन्यानि बहूनि प्रधानम्;ऽऔपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयातऽ(आपध.2-3-17) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणा- विकारत्वात् सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् किञ्च वैश्वदेवमन्त्रेष्वपि ऽअग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहाऽइत्येतयोरप्याम्नानात् प्राधान्यम् ननु-वैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते?इच्यते-ऽषड्भिराद्यैः प्रतिमन्त्रमऽऽअपरेणाग्निं सप्तमाष्टमाभ्यामऽ; (आपध.2-3-16,20) इत्यादिसूत्रैः क्रमेण विनियोगात् क्वचिदाम्नानमस्तीत्यवगम्यते तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकार वचनात् ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् सर्वप्राधान्ये च प्रयोजनम्-एषामेकतरमप्यकृत्वा प्रयोगे समापिते ऽपि तत् प्राग्भोजनात् सप्रायश्चित्तं साङ्गमनुष्ठेयम्;कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति केचित्-वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् यास्तु धर्मशास्त्रे मन्त्रविनियोगात् कल्पितास्ताः प्रदानकाले देवताः इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः तत्र तस्योपदेशस्तु सर्वचरणार्थः इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् ऽअहरहर्भूतबलिःऽ(आपध.1-12-15) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः ऽआर्याः प्रयता वैश्वदेवेऽ; (आपध.2-3-1) इत्यादिस्तु प्रयोगविधिः तत्र यदग्नौ क्रियते स देवयज्ञः, यत् बलिहरणं स भूतयज्ञः, यद्दाक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनापनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात् कल्पितेभ्यो दातुमयुक्तत्वात् ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् यत्तु मीढुष्यै जयन्ताय चास्मात् स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत् सवनीयपुरोडाशवच्च ऽत्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वाऽ(आपगृ.20-4) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तर विधानाद्युक्तम् पञ्चमहायज्ञेभ्यो न पृथग्वैश्वदेवमित्यपि न;प्रकरणान्तरात् संज्ञाभेदाच्च कर्मभेदावगतेः नच कर्मभेदे तेषां प्रयोगो दुरुपपाद इति प्रमितभेदापह्नवो युक्तः, यतो भाष्ये वैश्वदेवस्य तेषां च प्रयोगः पृथगेवोपपादितः अथ प्रयोगभाष्यमीषद्भेदं सिख्यते-वैश्वदेवस्य कर्मोच्यतेऽप्रसङ्गात् पञ्चमहायज्ञानां च समावेशनजपान्ते विवाहे समाप्ते वैश्वदेवमन्त्रणामुपयोगे यद्व्रतं ऽद्वादशाहमधश्शय्याऽ(आपध.2-3-13) इत्यादि तत्स्वामित्वाविशेषात् सपत्नीकश्चरित्वा प्रशस्ते ऽ- हन्यारभ्य ऽआर्याः प्रयता वैश्वदेवे ऽन्नसंस्कर्तारस्स्युःऽइत्यादिविधिना सिद्धे ऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिः ऽभूतमऽइति स्वामिने प्रब्रूयात् तत् ऽसुभूतं साविराडन्नं तन्माक्षायिऽइति स्वामी प्रतिब्रूयात् ततो यदि प्रयाणे गृहेवा वैश्वदेवस्य होमस्य स्थाने ऽग्निरुपसमाधातव्यः, तत्र धर्मसास्त्रोक्तविधिना उपसमादधाति एवमन्यत्राप्यौपासनहोमादिषु अथ गृहमेधिनो यदशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये हविष्यमन्नं देवयज्ञार्थ तृतीये सर्वतस्समवदाय अग्रार्थ चतुर्थे सर्वत एव समवदाय मनुष्ययज्ञार्य पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते ऽमनुष्येभ्यो यथाशक्ति दानमऽ; (आपध.1-12-15) इति वचनात् ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रं ऽअग्नये स्वाहेऽत्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् अथ उदीचीनमुष्णं भस्मापोह्य तस्मिन् अहविष्यं स्वाहाकारेण जुहोति;ऽयस्याग्नौ न क्रियते यस्यचाग्रं न दायते न तद्भोक्तव्यम् (आपध.2-15-13) इति वचनात् अथ षडाहुतिहोमशेषमहविष्यहोमशेषेण संसृज्यान्नेन सूप संसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वाग्रं ब्राह्मणाय दत्वा, ब्राह्मणोक्तत्वा दपार्वण व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत देवयज्ञेन यक्ष्य इत्यागूर्य, विद्युदसि औपासने पचने वा कल्पितादन्नात्, तदभावे हविष्यमन्नं व्रीहियवादि, आकाष्ठात्, देवेभ्यस्स्वाहेति हस्तेन जुहुयाते;सन्निपातीतिकर्तव्यतयोरौपासनहोमवैश्वदेवयोर्हस्तेन होमस्य दृष्टत्वात् मन्त्रवच्चोभयतः परिषेचनम्, तयोर्दृष्टत्वादेव वृष्टिरसि वषट्कारहोमेषु विद्युद्वृष्टी इत्युपदेशः अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा विद्युदासि शुचौभूमौ कल्पितादोदनात् हस्तेन अङ्गुष्ठप्रदेशिन्यावन्तरेण पितृभ्यः स्वधास्तु, इति दद्यात् आहुतिमात्रम् वृष्टिरसि पित्र्यं बलिहरणविधिनेत्युपदेशः अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती भूतयज्ञेन यक्ष्य इत्युक्त्वा, वुद्युत् शुचौ भूमावेव हस्तेन ऽइदं भूतेभ्यो ऽस्तुऽइति दद्यात् वृष्टिः बलिहरणविधिनेत्युपदेशः अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती मनुष्ययज्ञेन यक्ष्य इत्युक्त्वा, विध्युत ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् वृष्टिः दानमाज्ञमित्युपदेशः ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा;ऽउतित आदित्येऽ(तैआ.2-11) इति वचननात् तस्य कर्मोच्यते-ऽब्रह्मयज्ञेन यक्ष्यमाणःऽ(तैआ.2-11) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचामेत् अस्मिंस्त्वाचमने विशेषः- ऽदक्षिणत उपवीयऽइत्यारभ्य ऽसकृदुपस्पृश्यऽ(तैआ.2-11) इत्येवमन्ते विगुणे कृते ऽयदि यजुष्टऽइति ऽभुवस्वाहाऽइति होमः प्रायश्चित्त्म् ऽदाक्षिणेन पाणिना सव्यं प्रोक्ष्यऽइत्यारभ्य शेषे विगुणे कृते ऽयद्यविज्ञाताऽइति प्रायश्चित्तम् अथ क्रम उच्यते- ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत आचमनम् आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः;ऽश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्यऽ(आपध.1-9-1) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणा धीर्यतेऽविना चाम्नानैः आदिप्रदिश्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत परिधानीयां कृत्वा, वृष्टिरसि एवमहरहः कृतान्तादारभ्य यावत्समाप्तो वेदः सहैकाग्नि विधिकाण्डेन समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयधीयीत एवं विनियोगदर्शनात्, ऽऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, इति वचनाच्च यद्यनेकशाखाध्यायी ततो ऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् यदा ब्राह्मणस्य क्रमेण तदा ऽभूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीऽत्यभिव्याहरेत् एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत मनुष्ययज्ञान्ते ऽसर्वान् वैश्वदेवेभागिनः कुर्वीत, (आपध.2-9-5) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्पदानभूताय निनयेत्, ऽरुद्रायस्वाहाऽइति नित्यवच्चनिनयनम्;प्रतिपत्तिकर्मत्वात् ऽएवं वास्तु शिवं भवतिऽ(आपध.2-4-23) इत्यर्थवादः ऽद्रव्यसंस्कारकर्मसु परार्थत्वातऽ; (पूमी.4-3-1) इति न्यायात् फलं वा, सूत्रकारेणोपदिष्टत्वात् ऽयएतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्चऽ(आपध.2-4-9) इति एवमृते महायत्रेभ्यः सायं रौद्रान्तं कृत्वा वैहायसमाकाशे भूतबलिं कुर्वीत अन्य आहुः-ऽनक्तमेवोत्तमेनऽ(आप.2-4-8) इत्येवकारस्य व्यवहितान्वयाद्वैहायसमेव सायमिति इदानीं प्रसङ्गात् सर्पवलेस्तदुत्सर्गस्य च देवतामुपदिशति- पौर्णमास्यां पौर्णमासी यस्यां क्रियते आप्ग्स्_7.28 चोम्मेन्तरिएस्: आप्ग्स्-अना_7.28: "श्रावण्यां ऽपौर्णमास्यामस्तमिते स्थालीपाक"इत्यादि पौर्णमास्यां यत् कर्म चोदितं तत्र पौर्णमासीदेवता का सा ?यस्यां तत् कर्म क्रियते श्रावण्यै पौर्णमास्यै स्वाहेति एवं स्थालीपाकाद्धोमः ततो यथोपदेशं किंशुकानि समिध आज्याहुतयश्च, ततः स्थालीपाकात् स्विष्टकृत् ततो जयादि ऽयस्यां क्रियतऽइत्यनुच्यमाने पौर्णमास्यै स्वाहेत्येव होमः स्यात्

āpgs-tāt_7.27: vaiśvadevamiti karmanāmadheyam pravṛttinimittaṃ ca, viśve sarve devā atrejyanta iti iha ca mantravarṇasiddhānāṃ devatātvasyāvidheyatvāt, āgneyādayaṣṣaḍapi homāḥ baliharaṇāni cānagnideśyānyapi sarvāṇyeva pradhānāni;na tu kiñcidapi śeṣāparanāmāṅgam, ityevaṃ sūtrārthaḥ ayaṃ bhāvaḥ-yādinānagnau pradhānam, kintu śeṣa eveti tarhye taccheṣalakṣaṇe tṛtīyādhyāye dṛśyeta na tu dṛṣṭam, nāpi sūtrakārektaṃ dṛśyate kintu puṇḍapitṛyajñe tāvadāpastambena hemaḥ piṇḍadānaṃ cobhayaṃ pradhānamuktam, piṇḍadānaṃ prakṛtyaryadi jīvapitā, na dadyāt, āhomātkṛtvā viramet'(āpaśrau.1-9-8) iti yadi hi piṇḍadānasyāṅgatā, tadā pradhānabhūtahomānuṣṭhāne sati, tasyāpyanuṣṭhānaṃ syāt, na virāmaḥ tasmādatra pradhānasyaiva piṇḍadānasya 'nāsomayājī sammayet'(taisaṃ.2-5-5) ityādivadanārabhbhalakṣaṇa eva virāmaḥ kātyāyanastu-pratyuta pakṣe piṇḍadānameva pradhānaṃ, homastadaṅgamityāha'jīvapitṛkasya homāntam, anārambho vā'(kāśrau.4-1-24,25) iti tathā sarpeśānabalyorapi homā balayaśca pradhānam avabhṛthe tvanagnāveva pradhānam somāṅgatve 'pyasya pradhānyaṃ svāṅgāpekṣayā tathaiva rākṣase gardabhapaśau anagnāveva pradhānam ;'apyasvavadānaiścareyuḥ'(āpaśrau.9-15-3) iti vacanāt vapāyāstūpadeśamatādagnau homaḥ 'yadi vapā haviravadānaṃ vā skandet'(āpaśrau.9-18-15) iti vapāyāḥ pṛthaggrahaṇāt evamanagnāvapyanyāni bahūni pradhānam;'aupāsane pacane vā ṣaḍbhirādyaiḥ pratimantraṃ hastena juhuyāt'(āpadha.2-3-17) iti parisaṅkhyayā cāsya vaiśvadevasyāpārvaṇā- vikāratvāt sarpabalyādiṣu tu pārvaṇavikāratvāttāvadaṅgam kiñca vaiśvadevamantreṣvapi 'agnaye svāhā, agnaye sviṣṭakṛte svāhā'ityetayorapyāmnānāt prādhānyam nanu-vaiśvadevamantrāṇāmapi na pratyakṣassamāmnāyaḥ, sa kathamavagamyate?icyate-'ṣaḍbhirādyaiḥ pratimantram''apareṇāgniṃ saptamāṣṭamābhyām'; (āpadha.2-3-16,20) ityādisūtraiḥ krameṇa viniyogāt kvacidāmnānamastītyavagamyate taccāmnānaṃ prāgvivāhamantrebhyaḥ, bhāṣyakāra vacanāt tataśca brahmayajñapārāyaṇayorapyeteṣāmevaṃkrameṇādhyayanaṃ veditavyam sarvaprādhānye ca prayojanam-eṣāmekataramapyakṛtvā prayoge samāpite 'pi tat prāgbhojanāt saprāyaścittaṃ sāṅgamanuṣṭheyam;kṛte tu bhojane pākayajñalopaprāyaścittameveti kecit-vaiśvadeve viśve devā devatā vidhīyante nirvāpakāle saṅkalpārtham, īśānayajñavat yāstu dharmaśāstre mantraviniyogāt kalpitāstāḥ pradānakāle devatāḥ iha ca devatopadeśo vaiśvadevasya gārhyaparibhāṣāprāptyarthaḥ tatra tasyopadeśastu sarvacaraṇārthaḥ idaṃ ca vaiśvadevaṃ na pañcamahāyajñebhyaḥ pṛthagbhūtam 'aharaharbhūtabaliḥ'(āpadha.1-12-15) ityādayaśca pañcamahāyajñānāmutpattividhayaḥ 'āryāḥ prayatā vaiśvadeve'; (āpadha.2-3-1) ityādistu prayogavidhiḥ tatra yadagnau kriyate sa devayajñaḥ, yat baliharaṇaṃ sa bhūtayajñaḥ, yaddākṣiṇataḥ pitṛliṅgeneti sa pitṛyajñaḥ, yaccāgradānaṃ sa manuṣyayajñaḥ, iti tanna, svamate śrutyā coditān viśvān devān vacanaṃ vināpanīya, tebhyassaṅkalpitasya haviṣo devatāntarebhyo mantravarṇāt kalpitebhyo dātumayuktatvāt īśānabalau tu bhavaśarvādiśabdānāmīśānābhidhānatvāt, arthasya devatātvamiti sūtrakāramatācca, yuktaṃ bhavāyetyādibhirmantrairdānam yattu mīḍhuṣyai jayantāya cāsmāt sthālīpākāddānaṃ tadapyabhyudayeṣṭyādivat savanīyapuroḍāśavacca 'trīnodanān kalpayitvottarairupasparśayitvottarairyathāsvamodanebhyo hutvā'(āpagṛ.20-4) iti vacanaiḥ sthālīpākāṃśadvaye pūrvadevatāpanayena devatāntara vidhānādyuktam pañcamahāyajñebhyo na pṛthagvaiśvadevamityapi na;prakaraṇāntarāt saṃjñābhedācca karmabhedāvagateḥ naca karmabhede teṣāṃ prayogo durupapāda iti pramitabhedāpahnavo yuktaḥ, yato bhāṣye vaiśvadevasya teṣāṃ ca prayogaḥ pṛthagevopapāditaḥ atha prayogabhāṣyamīṣadbhedaṃ sikhyate-vaiśvadevasya karmocyate'prasaṅgāt pañcamahāyajñānāṃ ca samāveśanajapānte vivāhe samāpte vaiśvadevamantraṇāmupayoge yadvrataṃ 'dvādaśāhamadhaśśayyā'(āpadha.2-3-13) ityādi tatsvāmitvāviśeṣāt sapatnīkaścaritvā praśaste '- hanyārabhya 'āryāḥ prayatā vaiśvadeve 'nnasaṃskartārassyuḥ'ityādividhinā siddhe 'nne tiṣṭhannannasaṃskartā bhāryādiḥ 'bhūtam'iti svāmine prabrūyāt tat 'subhūtaṃ sāvirāḍannaṃ tanmākṣāyi'iti svāmī pratibrūyāt tato yadi prayāṇe gṛhevā vaiśvadevasya homasya sthāne 'gnirupasamādhātavyaḥ, tatra dharmasāstroktavidhinā upasamādadhāti evamanyatrāpyaupāsanahomādiṣu atha gṛhamedhino yadaśanīyamannaṃ tato homārtha haviṣyamannaṃ pātre kalpayati ahaviṣyaṃ śrāralavaṇāvarānnasaṃsṛṣṭaṃ dvitīye haviṣyamannaṃ devayajñārtha tṛtīye sarvatassamavadāya agrārtha caturthe sarvata eva samavadāya manuṣyayajñārya pañcame yadi brāhmaṇatarpaṇaṃ nāvakalpate 'manuṣyebhyo yathāśakti dānam'; (āpadha.1-12-15) iti vacanāt tataḥ pariṣecanaṃ kṛtvā prathamakalpitādannādyathāhutimātraṃ aṅguṣṭhaparvamātraṃ 'agnaye svāhe'tyādibhiḥ ṣaḍaihutīrhutvā uttaraṃ pariṣecanam atha udīcīnamuṣṇaṃ bhasmāpohya tasmin ahaviṣyaṃ svāhākāreṇa juhoti;'yasyāgnau na kriyate yasyacāgraṃ na dāyate na tadbhoktavyam (āpadha.2-15-13) iti vacanāt atha ṣaḍāhutihomaśeṣamahaviṣyahomaśeṣeṇa saṃsṛjyānnena sūpa saṃsṛṣṭena dharmaśāstroktena vidhinā raudrāntaṃ baliṃ hṛtvāgraṃ brāhmaṇāya datvā, brāhmaṇoktatvā dapārvaṇa vyākhyātaṃ sannipātītikartavyatākaṃ devayajñaṃ kurvīta devayajñena yakṣya ityāgūrya, vidyudasi aupāsane pacane vā kalpitādannāt, tadabhāve haviṣyamannaṃ vrīhiyavādi, ākāṣṭhāt, devebhyassvāheti hastena juhuyāte;sannipātītikartavyatayoraupāsanahomavaiśvadevayorhastena homasya dṛṣṭatvāt mantravaccobhayataḥ pariṣecanam, tayordṛṣṭatvādeva vṛṣṭirasi vaṣaṭkārahomeṣu vidyudvṛṣṭī ityupadeśaḥ atha prācīnāvītī pitṛyajñena yakṣye ityuktvā vidyudāsi śucaubhūmau kalpitādodanāt hastena aṅguṣṭhapradeśinyāvantareṇa pitṛbhyaḥ svadhāstu, iti dadyāt āhutimātram vṛṣṭirasi pitryaṃ baliharaṇavidhinetyupadeśaḥ atha baliharaṇasya homatulyatvāt yajñopavītī bhūtayajñena yakṣya ityuktvā, vudyut śucau bhūmāveva hastena 'idaṃ bhūtebhyo 'stu'iti dadyāt vṛṣṭiḥ baliharaṇavidhinetyupadeśaḥ atha dānasya homatulyatvāt yajñopavītī manuṣyayajñena yakṣya ityuktvā, vidhyuta brāhmaṇatarpaṇaṃ, saṅkalpitasya vā dānam vṛṣṭiḥ dānamājñamityupadeśaḥ brahmayajñaṃ tu pūrvameva kurvīta agnihotramaupāsanaṃ vā hutvā;'utita āditye'(taiā.2-11) iti vacananāt tasya karmocyate-'brahmayajñena yakṣyamāṇaḥ'(taiā.2-11) ityādi brāhmaṇoktadeśe yathāvidhyācāmet asmiṃstvācamane viśeṣaḥ- 'dakṣiṇata upavīya'ityārabhya 'sakṛdupaspṛśya'(taiā.2-11) ityevamante viguṇe kṛte 'yadi yajuṣṭa'iti 'bhuvasvāhā'iti homaḥ prāyaścittm 'dākṣiṇena pāṇinā savyaṃ prokṣya'ityārabhya śeṣe viguṇe kṛte 'yadyavijñātā'iti prāyaścittam atha krama ucyate- brahmayajñena yakṣye ityuktvā, vidyuta ācamanam āsanakalpanādi sāvitrījapāntaṃ kṛtvā vedasyādita ārabhya yathādhyāyamadhyayanamadhyāyaḥ kṛtsnasya vedasyāsamāpteḥ;'śrāvaṇyāṃ paurṇamāsyāmadhyāyamupākṛtya'(āpadha.1-9-1) iti vacanāt yena prakāreṇādhyāyo yena ca krameṇā dhīryate'vinā cāmnānaiḥ ādipradiśṭānuṣaṅgaprakhyādibhiḥ, utsṛjan utsṛjyotsṛjya, vācā manasā ca yāvattarasaṃ yāvacchakyamadhīyīta paridhānīyāṃ kṛtvā, vṛṣṭirasi evamaharahaḥ kṛtāntādārabhya yāvatsamāpto vedaḥ sahaikāgni vidhikāṇḍena samastamadhītya vaiśvadeva mantrānadhītya tataḥ prasugmanteti praśnadvayadhīyīta evaṃ viniyogadarśanāt, 'aikāgniko vidhiḥ kāṇḍaṃ vaiśvadevamiti sthitiḥ, iti vacanācca yadyanekaśākhādhyāyī tato 'nenaiva vidhinā dvitīyaṃ punaradhīyīta ṛgyajussāmnāṃ krameṇa adhyayane yadyanadhyāyassyāt, tadaikāṃ varcamekaṃ vā yajurekaṃ vā sāma kṛtāṃtādevārabhyābhivyāharet yadā brāhmaṇasya krameṇa tadā 'bhūrbhuvassuvassatyaṃ tapaśśraddhāyāṃ juhomī'tyabhivyāharet evaṃ yāvajjīvaṃ brahmayajñaṃ kurvīta manuṣyayajñānte 'sarvān vaiśvadevebhāginaḥ kurvīta, (āpadha.2-9-5) ityādividhānena sarveṣu patnyanteṣu bhuktvatsu, pākapariveṣaṇapātrebhyo lepān saṅkṛṣyottarataḥ śucau deśe rudrāya sampadānabhūtāya ninayet, 'rudrāyasvāhā'iti nityavaccaninayanam;pratipattikarmatvāt 'evaṃ vāstu śivaṃ bhavati'(āpadha.2-4-23) ityarthavādaḥ 'dravyasaṃskārakarmasu parārthatvāt'; (pūmī.4-3-1) iti nyāyāt phalaṃ vā, sūtrakāreṇopadiṣṭatvāt 'yaetānavyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiśca'(āpadha.2-4-9) iti evamṛte mahāyatrebhyaḥ sāyaṃ raudrāntaṃ kṛtvā vaihāyasamākāśe bhūtabaliṃ kurvīta anya āhuḥ-'naktamevottamena'(āpa.2-4-8) ityevakārasya vyavahitānvayādvaihāyasameva sāyamiti idānīṃ prasaṅgāt sarpavalestadutsargasya ca devatāmupadiśati- paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate āpgs_7.28 commentaries: āpgs-anā_7.28: "śrāvaṇyāṃ 'paurṇamāsyāmastamite sthālīpāka"ityādi paurṇamāsyāṃ yat karma coditaṃ tatra paurṇamāsīdevatā kā sā ?yasyāṃ tat karma kriyate śrāvaṇyai paurṇamāsyai svāheti evaṃ sthālīpākāddhomaḥ tato yathopadeśaṃ kiṃśukāni samidha ājyāhutayaśca, tataḥ sthālīpākāt sviṣṭakṛt tato jayādi 'yasyāṃ kriyata'ityanucyamāne paurṇamāsyai svāhetyeva homaḥ syāt


28

आप्ग्स्-तात्_7.28: यस्यां पौर्णमास्यां श्रावण्यां मार्गशीर्ष्या च निमित्तभूतायां स्थालीपाकः क्रियते, तस्य सैव पौर्णमासी देवता अयमर्थः सर्पबलौ ऽश्रावण्यै पौर्मास्यै स्वाहाऽइति स्थालीपाकस्य होमः उत्ससर्जने तु ऽमार्गशीर्ष्यै पौर्णमास्यै स्वाहाऽइति

āpgs-tāt_7.28: yasyāṃ paurṇamāsyāṃ śrāvaṇyāṃ mārgaśīrṣyā ca nimittabhūtāyāṃ sthālīpākaḥ kriyate, tasya saiva paurṇamāsī devatā ayamarthaḥ sarpabalau 'śrāvaṇyai paurmāsyai svāhā'iti sthālīpākasya homaḥ utsasarjane tu 'mārgaśīrṣyai paurṇamāsyai svāhā'iti


1

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने सप्तमः खण्डः अष्टमः खण्डः 43 उपाकरणम् उपाकरणे समापने च ऋषिर्यः प्रज्ञायते आप्ग्स्_8.1 सदसस्पतिर्द्वितीयः आप्ग्स्_8.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.2: द्विविधमुपाकरणम्-काण्डोपकरणमध्यायोपाकरणञ्चेति तथा समापनम् तथा चान्यपरे वाक्ये दर्शनं"काण्डोपाकरणे चामातृकस्य काण्डसमापने चापितृकस्ये"ति (आपध.1-11-1-2) अध्यायोपाकरणं तु प्रसिद्धं-श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्येति (आपध.1-9-10) तथा समापनं तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्,इति (आपध. 1-9-20) तत्र द्विविधे ऽप्युपाकरणे समापने चार्षियेः प्रज्ञायते काण्डानुक्रमण्यां काण्यऋषित्वेन स तत्र देवता तत्र सदसस्पतिर्द्वितीयः काण्डऋषये हुत्वा सदसस्पतये होतव्यमित्यर्थः तत्र प्राजापत्यं सौम्यं आग्नेयं वैश्वदेवमिति काण्डानि प्रजापतिः सोमो ऽग्निर्विश्वेदेवा इति काण्डर्षयः सारस्वतं नाम सङ्कीर्णानि काण्डानि यताह बौधायनः-पौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्णणानि सानुब्राह्मणानि प्राजापत्यानि आर्ध्वयवं ग्रहाः दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि अग्न्याधेयं पुनराधेयं अग्निहोत्रमग्नुपस्थानमग्निचयनं सावित्र नाचिकेतचातुर्होत्रियवैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्ममान्याग्येयानि राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयो ऽपाघाः सत्रायणमुपहेमाः सूक्तान्युपानुवाक्यं याज्या अश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानीति (बौगृ.3-1-21-24) अस्माकञ्च गृह्यमन्त्रप्रश्नद्वयमप्येकाग्निकाण्डं नाम वैश्वदेवकाण्डे द्रष्टव्यम् तत्र काण्डोपाकरणे तस्य काण्डस्य ऋषिर्यः तस्मै होमः प्रजापतये काण्डऋषये स्वाहेति ततस्सदसस्पतिमद्भुतमिति मन्त्रेण क्रमप्राप्तेन सहितमन्त्रस्वाध्यामार्थ विवाहप्रकरणे पठित- तस्यैव विनियोगप्रदर्शनार्थ इदं सूत्रमस्मिन् प्रदेशे पछितम् अन्यथोपनयनानन्तरमेव वक्तव्यं स्यात् एवं तस्य तस्य समापने तस्मै तस्मै काण्डर्षये होमः सदसस्पतये द्वितीयः न जयादयः, प्रापकाभावात् सूत्रान्तराश्रयणेन केचिज्जुह्वति तानीमानि चत्वारि वेदव्रतानि यानि प्रतिकाण्डमुपाकरणानि यानि समापनानि तानि व्रतविसर्जनानि अध्यायोपकारणे तु सर्वेषां काण्डर्षीणां होमः ततस्सदसस्पतेः जयादयश्च भवन्ति वा, न वा तत्र काण्डोपाकरणसमापनयोरु- दगयनादिप्राप्तेरुपनयनानन्तरं तदानीमेव प्राजापत्यं काण्डमुपाकृत्य श्रावण्यां पौर्णमास्यामुपाकृत्य प्राजापत्यस्य काण्डस्याध्ययनम् तैष्यामुत्सर्गः तत्रैतावता कालेन प्राजाप्तयकाण्डस्य समाप्तौ तेनोत्सर्गः अथ सौम्यस्योपाकारणम् अथ यावदध्यायोपाकणं तावत् प्राजापत्यस्य काण्डस्य धारणाध्ययनं शुक्लपक्षेषु कृष्णपक्षेष्वङ्गाध्ययनम् श्रावण्यामुपाकर्म अथ सौम्यकाण्डस्याध्ययनम् तैष्यामुत्सर्गः काण्डसमापनम् एवमितरयोः सर्वत्र उत्सर्जनादूर्ध्व पूर्वगृहीतस्यांशस्य दारणाध्ययन- मङ्गाध्ययनञ्च होमः प्रथमःकल्पः अथ ये सारस्वतं पाठमधीयते तेषामुपनयनानन्तरं तदानीमेव चत्वारि वेदब्रतानि क्रमेण कृत्वा काले ऽध्यायमुपाकृत्य यथापाठमध्ययनं तैष्यामुत्सर्गः पूर्ववद्धारणाध्ययनमङ्गाध्ययनं च पुनरुपाकरणमित्यादि आद्यकल्पे तु केचिदुत्सर्जनं न कुर्वते ओपाकरणादधीत्य पुनरुपाकुर्वते अन्ये तूत्सृज्य पुनरधीयते वेदव्रतानि च यदा कदाचित् कुर्वते तेषां मूलं मृग्यम् सर्वेष्वपि पक्षेषु शुक्रियाणां पृथगुपाकरणमुत्सर्जनञ्च तत्र प्रयोगः-पर्वण्युदयगयन इत्यारभ्याज्यभागन्ते सोमाय काण्डर्षये स्वाहेति सदसस्पतिमिति च हुत्वा जयादिपरिष्चनान्ते मदन्तीरुपस्पृश्येत्येवमादि प्रतिपद्यते एवमेव पूर्ववत् विसृज्येत्यत्रापि प्रयेगः

iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane saptamaḥ khaṇḍaḥ aṣṭamaḥ khaṇḍaḥ 43 upākaraṇam upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate āpgs_8.1 sadasaspatirdvitīyaḥ āpgs_8.2 commentaries: āpgs-anā_8.2: dvividhamupākaraṇam-kāṇḍopakaraṇamadhyāyopākaraṇañceti tathā samāpanam tathā cānyapare vākye darśanaṃ"kāṇḍopākaraṇe cāmātṛkasya kāṇḍasamāpane cāpitṛkasye"ti (āpadha.1-11-1-2) adhyāyopākaraṇaṃ tu prasiddhaṃ-śrāvaṇyāṃ paurṇamāsyāmadhyāyamupākṛtyeti (āpadha.1-9-10) tathā samāpanaṃ taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet,iti (āpadha. 1-9-20) tatra dvividhe 'pyupākaraṇe samāpane cārṣiyeḥ prajñāyate kāṇḍānukramaṇyāṃ kāṇyaṛṣitvena sa tatra devatā tatra sadasaspatirdvitīyaḥ kāṇḍaṛṣaye hutvā sadasaspataye hotavyamityarthaḥ tatra prājāpatyaṃ saumyaṃ āgneyaṃ vaiśvadevamiti kāṇḍāni prajāpatiḥ somo 'gnirviśvedevā iti kāṇḍarṣayaḥ sārasvataṃ nāma saṅkīrṇāni kāṇḍāni yatāha baudhāyanaḥ-pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ pitṛmedha iti sabrāhṇaṇāni sānubrāhmaṇāni prājāpatyāni ārdhvayavaṃ grahāḥ dākṣiṇāni samiṣṭayajūṃṣyavabhṛthayajūṃṣi vājapeyaśśukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni agnyādheyaṃ punarādheyaṃ agnihotramagnupasthānamagnicayanaṃ sāvitra nāciketacāturhotriyavaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmamānyāgyeyāni rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ satrāyaṇamupahemāḥ sūktānyupānuvākyaṃ yājyā aśvamedhaḥ puruṣamedhassautrāmaṇyacchidrāṇi paśuhautramupaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevānīti (baugṛ.3-1-21-24) asmākañca gṛhyamantrapraśnadvayamapyekāgnikāṇḍaṃ nāma vaiśvadevakāṇḍe draṣṭavyam tatra kāṇḍopākaraṇe tasya kāṇḍasya ṛṣiryaḥ tasmai homaḥ prajāpataye kāṇḍaṛṣaye svāheti tatassadasaspatimadbhutamiti mantreṇa kramaprāptena sahitamantrasvādhyāmārtha vivāhaprakaraṇe paṭhita- tasyaiva viniyogapradarśanārtha idaṃ sūtramasmin pradeśe pachitam anyathopanayanānantarameva vaktavyaṃ syāt evaṃ tasya tasya samāpane tasmai tasmai kāṇḍarṣaye homaḥ sadasaspataye dvitīyaḥ na jayādayaḥ, prāpakābhāvāt sūtrāntarāśrayaṇena kecijjuhvati tānīmāni catvāri vedavratāni yāni pratikāṇḍamupākaraṇāni yāni samāpanāni tāni vratavisarjanāni adhyāyopakāraṇe tu sarveṣāṃ kāṇḍarṣīṇāṃ homaḥ tatassadasaspateḥ jayādayaśca bhavanti vā, na vā tatra kāṇḍopākaraṇasamāpanayoru- dagayanādiprāpterupanayanānantaraṃ tadānīmeva prājāpatyaṃ kāṇḍamupākṛtya śrāvaṇyāṃ paurṇamāsyāmupākṛtya prājāpatyasya kāṇḍasyādhyayanam taiṣyāmutsargaḥ tatraitāvatā kālena prājāptayakāṇḍasya samāptau tenotsargaḥ atha saumyasyopākāraṇam atha yāvadadhyāyopākaṇaṃ tāvat prājāpatyasya kāṇḍasya dhāraṇādhyayanaṃ śuklapakṣeṣu kṛṣṇapakṣeṣvaṅgādhyayanam śrāvaṇyāmupākarma atha saumyakāṇḍasyādhyayanam taiṣyāmutsargaḥ kāṇḍasamāpanam evamitarayoḥ sarvatra utsarjanādūrdhva pūrvagṛhītasyāṃśasya dāraṇādhyayana- maṅgādhyayanañca homaḥ prathamaḥkalpaḥ atha ye sārasvataṃ pāṭhamadhīyate teṣāmupanayanānantaraṃ tadānīmeva catvāri vedabratāni krameṇa kṛtvā kāle 'dhyāyamupākṛtya yathāpāṭhamadhyayanaṃ taiṣyāmutsargaḥ pūrvavaddhāraṇādhyayanamaṅgādhyayanaṃ ca punarupākaraṇamityādi ādyakalpe tu kecidutsarjanaṃ na kurvate opākaraṇādadhītya punarupākurvate anye tūtsṛjya punaradhīyate vedavratāni ca yadā kadācit kurvate teṣāṃ mūlaṃ mṛgyam sarveṣvapi pakṣeṣu śukriyāṇāṃ pṛthagupākaraṇamutsarjanañca tatra prayogaḥ-parvaṇyudayagayana ityārabhyājyabhāgante somāya kāṇḍarṣaye svāheti sadasaspatimiti ca hutvā jayādipariṣcanānte madantīrupaspṛśyetyevamādi pratipadyate evameva pūrvavat visṛjyetyatrāpi prayegaḥ


1

आप्ग्स्-तात्_8.2: अत्र विषयशुध्यर्थमध्यायस्य च प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यानां काण्डानां च तत्तत्काण्डाख्यव्रतानां चोपाकरण समाप- नयोश्च स्वरूपमुच्यते-तत्राध्यायस्योपाकरणं, श्रावण्यां पौर्णमास्यां विहितहोमपूर्वक मध्यायानामारम्भः समापनं च, तस्य तैष्यां पौर्णमास्यामित्यादिषु होमपूर्वकमेवाध्ययनोत्सर्गः काण्डानामुपाकरणं तुक्रमप्राप्ते काले होमपूर्वकमेव तत्तत्काण्डानामध्ययनोपक्रमः समापनं चैषां तत्तत्काण्डाध्ययने समाप्ते होमपूर्वकमेवोत्सर्गः ये एते काण्डानामुपाकरणसमापने ते एव व्रतानामिति, न भेदोम, अध्ययनाङ्गत्वात् सर्वेषां ब्रह्मचारिव्रतानाम् सारस्वतपाठाध्ययने तु काण्डानां सङ्कीर्णत्वेन यथाकाण्डमध्ययनासम्भवात्, व्रतान्येवोदगयने काण्डवदेकैकशः उपाकृत्य संवत्सरं चरित्वा विधिवदुत्सृजेत् चत्वार्येव च वेदव्रतानि, न तु गृह्यान्तरोक्ते सावित्रसम्मिताख्ये वेदव्रते, सवित्रसम्मिताख्यकाण्डयोरभावात् ऽचौलोपनयनं, चत्वारि वेदव्रतानि, (गौध.8-15) इति गौतम वचनाच्च तथा विषयशुध्यर्थमेव प्रयोगभाष्यमल्पभेदमेव लिख्यते आपस्तम्बदर्शनानुगतेपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते तत्र तावदध्यायोपाकरणस्य श्रावण्यां पौर्णमास्यां आचार्यश्शिष्यैस्सह कृतप्राणायामो ऽध्यायमुपाकरिष्यऽइति सङ्कल्प्य महानद्यां विधिवत् स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्- ऽप्रजापतिं काण्डऋषिं तर्पयामि सोमं काण्डऋषिं तर्पयामि अग्निं काण्डऋषिं तर्पयामि विश्वान्देवान् काण्डऋषिं तर्पयामि सांहितीर्देवता उपनिषदस्तर्पयामि याज्ञिकीर्देवता उपनिषदस्तर्पयामि वारुणीर्देवता उपनिषदस्तर्पयामि ब्रह्माणं स्वयंभुवं तर्पयामि सदसस्पतिं तर्पयामि-इति ततो ऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोति ऽप्रजापतये काण्डऋषये स्वाहा सोमाय काण्डऋषये स्वाहा अग्नये काण्डऋषये स्वाहा विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा ब्रह्मणे स्वयंभुवे स्वाहाऽ; सदसस्पतिमित्येतयर्चा नवमीमादुतिं जुहोति तत आचार्यप्रमुखाः दर्भेवासीना दर्भान् धारयमाणा वेदस्यादितश्चतुरो ऽवरार्ध्याननुवाकानधीयीरन् अथ जयादि परिषेचनान्ते ब्राह्मणतर्पणम् एवमेवोत्सर्गे, न ततो ऽधिकंस्मृत्यन्तरोपसंहारेणापि,किन्तु यथापस्तम्बीयं सूत्रम् तथा नादितो वेदस्यानुवाकानामध्ययनम् जयादयस्तु भवन्ति सौम्यादृते काण्डोपाकरणसमापनयोश्च न सूक्तोपहोमदेवतोपस्थानजयादयः सौम्यस्यैव सूक्तजयादयः एवमापस्तम्बमत एवावस्थिताः केचित् कुर्वते यथोक्तम् अथ प्राजापत्ये व्रते पूर्ववत् स्नात्वा सोमाग्निविश्वेदेववर्ज्यानां तर्पणम् अग्निमुखान्ते चान्वारब्धे व्रतिनि जुहोति-प्रजापतये काण्डऋषये स्वाहा ऽप्रजापते न त्वदेतान्यन्यःऽ(तैब्रा.2-8-1-2) इति सूक्तेन प्रत्यृचं षडाहुतीः, चतस्र उपहोमाहुतीः सांहितीभ्य इत्यादिभिरेव, सदसस्पतिमित्येतयैव सदसस्पतिं च ऽअग्ने व्रतपते काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि, तच्छकेयं तन्मे राध्यताम् चायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते काण्डऋषिभ्यः, प्राजापत्यं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ,ऽ; (तैआ.7-41-3) इत्येतैश्चतुर्भिः यथादेवतम् ततो जयादि, ब्राह्मणतर्पणं च एवमेव समापने प्रयोगः संवत्सरे संवत्सरे पर्यवेते तत्रोपस्थानमन्त्रेषु अचारिषमशकमराधीति विशेषः केचित्-सौम्ये केशश्मश्रुवापनस्य दृष्टत्वात् प्राजापत्यादिष्वपीच्छन्ति एवमेवाग्नेये वाश्वदेवे च अग्नये काण्डऋषये स्वाहा;ऽअग्ने नयेऽ(तैब्रा.2-8-2)तिषडृचं सूक्तम्,;ऽअग्ने व्रतपते काण्डऋषिब्यः आग्नेयं व्रतं चरिष्यामीऽत्याग्नेये विशेषः विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा;ऽआ नो विश्वे अस्क्रागमन्तुऽ(तैब्रा.2-8-6-3) इति षडृचं सूक्तम् वैशवदेवं व्रतं चरिष्यामीऽति वैश्वदेवव्रते विश्षः सोमस्य काण्डोपाकरणसमापने शुक्रियकल्पोक्ते अत्राप्युक्तं यत्तदुच्यते पूर्ववदुपाकृत्याग्नेरुपसमाधानाद्यग्निमुखान्ते, सोमाय काणेडऋषये स्वाहा ऽसोमो धेनुऽ(तैब्रा.2-8-3-1) मिति षडृचं सूक्तम् उपहोमान् सदसस्पतिं च हुत्वा, एवं पुर्ववदुपाकृत्य, मदन्तीमुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्न औदुम्बरीस्समिधो घृतान्वक्ता अभ्यादधाति ऽपृथिवी समितऽ(तैआ.7-42-1) इत्यादिभिः अथ देवतोपस्थानम् ऽअग्ने व्रतपते काण्डऋषिभ्यः सौब्यं व्रतं चरिष्यामिऽइत्यादिभिः ततः प्रभृति शुक्रियमन्त्रब्राह्मणानुवाकानां प्रथमपदानि युञ्जतेऽ(तैआ.7-2) ऽसविताऽ(तैआ.8-12) इति वाभिव्याहार्य वाचयित्वा जयादि प्रति पद्यते परिषेचनान्तं कृत्वा मदन्तीमुपस्पृस्य, उत्तमेनानुवाकेन शान्तिं कृत्वा ततस्सम्मीलनादि यथाशूत्रम् श्वोभूते ऽवयः सुपर्णाः (तैआ.7-42-3) इत्यादित्योपस्थानान्ते ब्राह्मणभोजनम् अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः एवं समापने विशेषस्तु ऽद्यौस्समिदादित्य व्रतपतेऽइत्याद्यावृत्ताः समिदाधानोपस्थानमन्त्राः उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् (नत्र प्रभृतिव्याहरणं) अथ सूत्रमाक्षिप्यते- ननु- ऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽइति यः प्रजापत्यादीनामन्यतमः काण्डानुक्रमण्यां काण्डऋषित्वेन समाम्नायते स ऋषिः देवतेति व्यर्थमेवेदं सूत्रम् काण्डोपकरणेष्वेतान् पुरस्तात्सदसस्पतेः जुहुयात् काण्डसमाप्तौ च श्रुतिरेषा सनातनी (काण्डा.2-11) इति काण्डानुक्रमण्यां काण्डर्षिदेवतात्वस्य सिद्धत्वात् सत्यम्, अत एव प्रजापत्यादयश्चत्वारः प्रधानहोमदेवताः; सांहित्यादयस्स्वयम्भुपर्यन्ताश्चत्वार उपहोमदेवताः तेनैते चत्वारस्सर्वकाण्डानामुपाकरणसमापनयोरनुवर्तन्ते प्रधानानुवर्तित्वादङ्गानामित्येवं परं सूत्रम्, न देवतात्वविधिपरम्

āpgs-tāt_8.2: atra viṣayaśudhyarthamadhyāyasya ca prājāpatyasaumyāgneyavaiśvadevākhyānāṃ kāṇḍānāṃ ca tattatkāṇḍākhyavratānāṃ copākaraṇa samāpa- nayośca svarūpamucyate-tatrādhyāyasyopākaraṇaṃ, śrāvaṇyāṃ paurṇamāsyāṃ vihitahomapūrvaka madhyāyānāmārambhaḥ samāpanaṃ ca, tasya taiṣyāṃ paurṇamāsyāmityādiṣu homapūrvakamevādhyayanotsargaḥ kāṇḍānāmupākaraṇaṃ tukramaprāpte kāle homapūrvakameva tattatkāṇḍānāmadhyayanopakramaḥ samāpanaṃ caiṣāṃ tattatkāṇḍādhyayane samāpte homapūrvakamevotsargaḥ ye ete kāṇḍānāmupākaraṇasamāpane te eva vratānāmiti, na bhedoma, adhyayanāṅgatvāt sarveṣāṃ brahmacārivratānām sārasvatapāṭhādhyayane tu kāṇḍānāṃ saṅkīrṇatvena yathākāṇḍamadhyayanāsambhavāt, vratānyevodagayane kāṇḍavadekaikaśaḥ upākṛtya saṃvatsaraṃ caritvā vidhivadutsṛjet catvāryeva ca vedavratāni, na tu gṛhyāntarokte sāvitrasammitākhye vedavrate, savitrasammitākhyakāṇḍayorabhāvāt 'caulopanayanaṃ, catvāri vedavratāni, (gaudha.8-15) iti gautama vacanācca tathā viṣayaśudhyarthameva prayogabhāṣyamalpabhedameva likhyate āpastambadarśanānugatepadeśenādhyāyopākaraṇādīnāṃ karmocyate tatra tāvadadhyāyopākaraṇasya śrāvaṇyāṃ paurṇamāsyāṃ ācāryaśśiṣyaissaha kṛtaprāṇāyāmo 'dhyāyamupākariṣya'iti saṅkalpya mahānadyāṃ vidhivat snātvā pavitrapāṇiḥ nava ṛṣīn tarpayet- 'prajāpatiṃ kāṇḍaṛṣiṃ tarpayāmi somaṃ kāṇḍaṛṣiṃ tarpayāmi agniṃ kāṇḍaṛṣiṃ tarpayāmi viśvāndevān kāṇḍaṛṣiṃ tarpayāmi sāṃhitīrdevatā upaniṣadastarpayāmi yājñikīrdevatā upaniṣadastarpayāmi vāruṇīrdevatā upaniṣadastarpayāmi brahmāṇaṃ svayaṃbhuvaṃ tarpayāmi sadasaspatiṃ tarpayāmi-iti tato 'gnerupasamādānādyagnimukhānte anvārabdheṣvantevāsiṣu navājyāhutīrjuhoti 'prajāpataye kāṇḍaṛṣaye svāhā somāya kāṇḍaṛṣaye svāhā agnaye kāṇḍaṛṣaye svāhā viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyassvāhā brahmaṇe svayaṃbhuve svāhā'; sadasaspatimityetayarcā navamīmādutiṃ juhoti tata ācāryapramukhāḥ darbhevāsīnā darbhān dhārayamāṇā vedasyāditaścaturo 'varārdhyānanuvākānadhīyīran atha jayādi pariṣecanānte brāhmaṇatarpaṇam evamevotsarge, na tato 'dhikaṃsmṛtyantaropasaṃhāreṇāpi,kintu yathāpastambīyaṃ sūtram tathā nādito vedasyānuvākānāmadhyayanam jayādayastu bhavanti saumyādṛte kāṇḍopākaraṇasamāpanayośca na sūktopahomadevatopasthānajayādayaḥ saumyasyaiva sūktajayādayaḥ evamāpastambamata evāvasthitāḥ kecit kurvate yathoktam atha prājāpatye vrate pūrvavat snātvā somāgniviśvedevavarjyānāṃ tarpaṇam agnimukhānte cānvārabdhe vratini juhoti-prajāpataye kāṇḍaṛṣaye svāhā 'prajāpate na tvadetānyanyaḥ'(taibrā.2-8-1-2) iti sūktena pratyṛcaṃ ṣaḍāhutīḥ, catasra upahomāhutīḥ sāṃhitībhya ityādibhireva, sadasaspatimityetayaiva sadasaspatiṃ ca 'agne vratapate kāṇḍaṛṣibhyaḥ prājāpatyaṃ vrataṃ cariṣyāmi, tacchakeyaṃ tanme rādhyatām cāyo vratapate, āditya vratapate, vratānāṃ vratapate kāṇḍaṛṣibhyaḥ, prājāpatyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ,'; (taiā.7-41-3) ityetaiścaturbhiḥ yathādevatam tato jayādi, brāhmaṇatarpaṇaṃ ca evameva samāpane prayogaḥ saṃvatsare saṃvatsare paryavete tatropasthānamantreṣu acāriṣamaśakamarādhīti viśeṣaḥ kecit-saumye keśaśmaśruvāpanasya dṛṣṭatvāt prājāpatyādiṣvapīcchanti evamevāgneye vāśvadeve ca agnaye kāṇḍaṛṣaye svāhā;'agne naye'(taibrā.2-8-2)tiṣaḍṛcaṃ sūktam,;'agne vratapate kāṇḍaṛṣibyaḥ āgneyaṃ vrataṃ cariṣyāmī'tyāgneye viśeṣaḥ viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā;'ā no viśve askrāgamantu'(taibrā.2-8-6-3) iti ṣaḍṛcaṃ sūktam vaiśavadevaṃ vrataṃ cariṣyāmī'ti vaiśvadevavrate viśṣaḥ somasya kāṇḍopākaraṇasamāpane śukriyakalpokte atrāpyuktaṃ yattaducyate pūrvavadupākṛtyāgnerupasamādhānādyagnimukhānte, somāya kāṇeḍaṛṣaye svāhā 'somo dhenu'(taibrā.2-8-3-1) miti ṣaḍṛcaṃ sūktam upahomān sadasaspatiṃ ca hutvā, evaṃ purvavadupākṛtya, madantīmupaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasna audumbarīssamidho ghṛtānvaktā abhyādadhāti 'pṛthivī samit'(taiā.7-42-1) ityādibhiḥ atha devatopasthānam 'agne vratapate kāṇḍaṛṣibhyaḥ saubyaṃ vrataṃ cariṣyāmi'ityādibhiḥ tataḥ prabhṛti śukriyamantrabrāhmaṇānuvākānāṃ prathamapadāni yuñjate'(taiā.7-2) 'savitā'(taiā.8-12) iti vābhivyāhārya vācayitvā jayādi prati padyate pariṣecanāntaṃ kṛtvā madantīmupaspṛsya, uttamenānuvākena śāntiṃ kṛtvā tatassammīlanādi yathāśūtram śvobhūte 'vayaḥ suparṇāḥ (taiā.7-42-3) ityādityopasthānānte brāhmaṇabhojanam athāsya svādhyāyavidhiḥ śukriyakalpa evoktaḥ evaṃ samāpane viśeṣastu 'dyaussamidāditya vratapate'ityādyāvṛttāḥ samidādhānopasthānamantrāḥ uttamenānuvākena śāntiṃ kṛtvā gurave varaṃ datvā keśaśmaśru vāpayitvā brāhmaṇabhojanam (natra prabhṛtivyāharaṇaṃ) atha sūtramākṣipyate- nanu- 'upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate'iti yaḥ prajāpatyādīnāmanyatamaḥ kāṇḍānukramaṇyāṃ kāṇḍaṛṣitvena samāmnāyate sa ṛṣiḥ devateti vyarthamevedaṃ sūtram kāṇḍopakaraṇeṣvetān purastātsadasaspateḥ juhuyāt kāṇḍasamāptau ca śrutireṣā sanātanī (kāṇḍā.2-11) iti kāṇḍānukramaṇyāṃ kāṇḍarṣidevatātvasya siddhatvāt satyam, ata eva prajāpatyādayaścatvāraḥ pradhānahomadevatāḥ; sāṃhityādayassvayambhuparyantāścatvāra upahomadevatāḥ tenaite catvārassarvakāṇḍānāmupākaraṇasamāpanayoranuvartante pradhānānuvartitvādaṅgānāmityevaṃ paraṃ sūtram, na devatātvavidhiparam


2

ननु-सदसस्पतिरध्यायोपाकरणसमापनयेर्नवमः काण्डेपकारणसमापनयेष्षष्ठः एवमयमद्वितीयो ऽपि किमर्थ द्वितीय इत्युच्यते? द्वतीयस्य स्विष्टकृतः स्थाने ऽयं सदसस्पतिर्भवेदित्येवमर्थम् इदमर्थमेव च पूर्वत्र ऽअग्निस्तिष्टकृद्द्वितीयःऽ(आपगृ.7-7) इत्युक्तम् उपाकरणसमापनयोराज्यहविष्कयोः स्विष्टकृदेव नास्ति, कथं तत्स्थाने सदसस्पतिविधिः?इतिचेतनेनैव वचनेनास्य प्रसङ्गो विधीयते, यथा अग्निहोत्रे द्वितीयस्या आहुतेश्शातपथेन ब्राह्मणेन तेनाग्नेरुत्तरार्धपूर्वार्धे ऽस्मै होमः एतद्विस्मरणे स्विष्टकृल्लोपप्रायश्चित्तं च होमो लिङ्गक्रमाभ्यां ऽसदसस्पतिमद्भुतमऽइत्येतया होतव्य इति स्पष्टत्वात् सूत्रकारस्यानादरः केचित् ऽउपाकरणे समापने च यः काण्डऋषिः प्रज्ञायते तस्य द्वितीयस्सदसस्पतिः काण्डऋषेरुपरुष्टादयं मन्त्रस्सदसस्पतिर्विनियुज्यते, न तु विवाहे, उद्दीप्यस्वेति ऋग्द्वयमिव विवाहमध्ये पाठस्त्वध्ययनविध्यर्थःऽइत्येवं सदसस्पतिमन्त्रस्य विषयज्ञापन- व्याजेन एतयोः कर्मणोः प्रयोगकल्पस्यान्यत्र प्रसिद्धस्यात्राप्रसिद्धत्वात् अवश्याश्रयणीयस्य इह शास्त्रे ऽभ्यन्तरीभावो ऽस्य सूत्रस्य प्रयोजनम्, ततश्च क्रियाप्रवृत्तिरिति तन्न;सूत्रस्थस्य सदसस्पतिशब्दस्य मुख्यार्थदेवतापरत्वसम्भवे ऽपि मन्त्रप्रतीकं लक्षयित्वा तेन लक्षितेन मन्त्रलक्षणाया अयुक्तत्वात्, उक्तविधयानयोरिहैव प्रयोगस्य प्रसिद्धत्वात्, अन्यत्रप्रसिद्धस्याभ्यन्तरीभाववैमर्थ्याच्च

nanu-sadasaspatiradhyāyopākaraṇasamāpanayernavamaḥ kāṇḍepakāraṇasamāpanayeṣṣaṣṭhaḥ evamayamadvitīyo 'pi kimartha dvitīya ityucyate? dvatīyasya sviṣṭakṛtaḥ sthāne 'yaṃ sadasaspatirbhavedityevamartham idamarthameva ca pūrvatra 'agnistiṣṭakṛddvitīyaḥ'(āpagṛ.7-7) ityuktam upākaraṇasamāpanayorājyahaviṣkayoḥ sviṣṭakṛdeva nāsti, kathaṃ tatsthāne sadasaspatividhiḥ?iticetanenaiva vacanenāsya prasaṅgo vidhīyate, yathā agnihotre dvitīyasyā āhuteśśātapathena brāhmaṇena tenāgneruttarārdhapūrvārdhe 'smai homaḥ etadvismaraṇe sviṣṭakṛllopaprāyaścittaṃ ca homo liṅgakramābhyāṃ 'sadasaspatimadbhutam'ityetayā hotavya iti spaṣṭatvāt sūtrakārasyānādaraḥ kecit 'upākaraṇe samāpane ca yaḥ kāṇḍaṛṣiḥ prajñāyate tasya dvitīyassadasaspatiḥ kāṇḍaṛṣeruparuṣṭādayaṃ mantrassadasaspatirviniyujyate, na tu vivāhe, uddīpyasveti ṛgdvayamiva vivāhamadhye pāṭhastvadhyayanavidhyarthaḥ'ityevaṃ sadasaspatimantrasya viṣayajñāpana- vyājena etayoḥ karmaṇoḥ prayogakalpasyānyatra prasiddhasyātrāprasiddhatvāt avaśyāśrayaṇīyasya iha śāstre 'bhyantarībhāvo 'sya sūtrasya prayojanam, tataśca kriyāpravṛttiriti tanna;sūtrasthasya sadasaspatiśabdasya mukhyārthadevatāparatvasambhave 'pi mantrapratīkaṃ lakṣayitvā tena lakṣitena mantralakṣaṇāyā ayuktatvāt, uktavidhayānayorihaiva prayogasya prasiddhatvāt, anyatraprasiddhasyābhyantarībhāvavaimarthyācca


2

ऽयस्याग्नौ न क्रियते न तद्भोक्तव्यमऽ(आपध.2-15-13) इति धर्मशास्त्रवचनात् शरीरस्थित्यर्थमपि भोजनं द्विजस्य वैश्वदेवशेषेणैव भवितव्यम् चतूरात्रमहूयमानो ऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनादहुते ऽग्निहोत्रे सर्वक्रत्वर्थो ऽग्निर्लौकिकस्स्यात् ततश्च ज्वरादिभिरुपद्रवे सत्यपि वैश्वदेवाग्निहोत्रादेः तत्प्रायश्चित्तानां वा होमानामवश्यकार्यत्वादृत्विगन्तरालाभे सत्यपि द्वयोरपि स्त्र्यनुपेतयोः येन केनचित् प्रकारेण मन्त्र अङ्गलोपेनापि तत्र प्रसक्तिः तथा वैश्वदेवस्य श्राद्धादिषु ऽअथ गृहमेधिनोयदशनीयस्य होमा बलयश्चऽ; (आपध.2-3-12) इति वचनात्, सुवर्चका यवक्षाराभ्यां लवणेन चावरान्नेन च कोशधान्यापरनाम्ना माषादिना तिलव्यतिरिक्तेन संसृष्टस्यापि भवति हविषो होमे प्रसक्तिः तदुभयनिषेधार्थमाह- 44 वैश्वदेवे निषिद्धः कर्ता निषिद्धानि च द्रव्याणि स्त्रियानुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते आप्ग्स्_8.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.3: पाकयज्ञाधिकारे सर्वत्रायं प्रतिषेधः श्रद्धादिष्वप्यवरान्नानि कोशीधान्यानि माषादीनि कृष्णधान्यानि चणककोद्रवादीनि परिचक्षते वर्जयन्ति सिष्टाः "न स्त्री जुहुयात् नानुपेतः न क्षारलवणहोमो विद्यते"इति प्रतिषेधेनैव सिद्धे उत्तरार्थो ऽयं प्रतिषेधः किञ्च "पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पन्त्यपि वा पुत्रः कुमार्यन्तेवासीवे"(आश्वगृ.1-9-1)ति आश्वलायनवचनेन पन्त्यादीनामौपासनहोमप्राप्त्याशङ्कायां प्रतिषेधः

'yasyāgnau na kriyate na tadbhoktavyam'(āpadha.2-15-13) iti dharmaśāstravacanāt śarīrasthityarthamapi bhojanaṃ dvijasya vaiśvadevaśeṣeṇaiva bhavitavyam catūrātramahūyamāno 'gnirlaukikassampadyate'iti vacanādahute 'gnihotre sarvakratvartho 'gnirlaukikassyāt tataśca jvarādibhirupadrave satyapi vaiśvadevāgnihotrādeḥ tatprāyaścittānāṃ vā homānāmavaśyakāryatvādṛtvigantarālābhe satyapi dvayorapi stryanupetayoḥ yena kenacit prakāreṇa mantra aṅgalopenāpi tatra prasaktiḥ tathā vaiśvadevasya śrāddhādiṣu 'atha gṛhamedhinoyadaśanīyasya homā balayaśca'; (āpadha.2-3-12) iti vacanāt, suvarcakā yavakṣārābhyāṃ lavaṇena cāvarānnena ca kośadhānyāparanāmnā māṣādinā tilavyatiriktena saṃsṛṣṭasyāpi bhavati haviṣo home prasaktiḥ tadubhayaniṣedhārthamāha- 44 vaiśvadeve niṣiddhaḥ kartā niṣiddhāni ca dravyāṇi striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate āpgs_8.3 commentaries: āpgs-anā_8.3: pākayajñādhikāre sarvatrāyaṃ pratiṣedhaḥ śraddhādiṣvapyavarānnāni kośīdhānyāni māṣādīni kṛṣṇadhānyāni caṇakakodravādīni paricakṣate varjayanti siṣṭāḥ "na strī juhuyāt nānupetaḥ na kṣāralavaṇahomo vidyate"iti pratiṣedhenaiva siddhe uttarārtho 'yaṃ pratiṣedhaḥ kiñca "pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ pantyapi vā putraḥ kumāryantevāsīve"(āśvagṛ.1-9-1)ti āśvalāyanavacanena pantyādīnāmaupāsanahomaprāptyāśaṅkāyāṃ pratiṣedhaḥ

Section (cont. 11)

3

आप्ग्स्-तात्_8.3: सेत्रियाअनुपेतेन अनुपनीतेन चहोम होममात्रं श्रौतं स्मार्त च शिष्टाःपरिचक्षतेवर्जयन्ति यस्मात् तस्मादेव ताभ्यां न होतव्यमिति वाक्यशेषः होममिति च सामान्याभिधानेन श्रौतहोमे ऽपि स्त्र्यनुपनीतौ शिष्टाः वर्जयन्तीति ज्ञापनात् गार्ह्यअधिकारापवादः क्षारेत्यादि वायाख्यातप्रायमेव यत्तु धर्मशास्त्रे ऽन क्षारलवणहोमो विद्यते तथावरान्नसंसृष्टस्य चऽ(आपध.2-15-14,15) इति तत् ऽउदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयातऽ(आपध.2-15-16) इति विधानार्थो ऽनुवादः यदपि तत्रेव ऽन स्त्री जुहुयात् नानुपेतःऽ; (आपध.2-15-17,18)इति तत् क्षारादि यथोष्णभस्मनि हूयते, तथा तस्मिन्नापि स्त्र्यनुपनीताभ्यां न होतव्यमिति निषेद्धुम्

āpgs-tāt_8.3: setriyāanupetena anupanītena cahoma homamātraṃ śrautaṃ smārta ca śiṣṭāḥparicakṣatevarjayanti yasmāt tasmādeva tābhyāṃ na hotavyamiti vākyaśeṣaḥ homamiti ca sāmānyābhidhānena śrautahome 'pi stryanupanītau śiṣṭāḥ varjayantīti jñāpanāt gārhyaadhikārāpavādaḥ kṣāretyādi vāyākhyātaprāyameva yattu dharmaśāstre 'na kṣāralavaṇahomo vidyate tathāvarānnasaṃsṛṣṭasya ca'(āpadha.2-15-14,15) iti tat 'udīcīnamuṣṇaṃ bhasmāpohya tasmin juhuyāt'(āpadha.2-15-16) iti vidhānārtho 'nuvādaḥ yadapi tatreva 'na strī juhuyāt nānupetaḥ'; (āpadha.2-15-17,18)iti tat kṣārādi yathoṣṇabhasmani hūyate, tathā tasminnāpi stryanupanītābhyāṃ na hotavyamiti niṣeddhum


3

अस्य प्रतिषेधस्य प्रतिप्रसवमाह यथोपदेशं काम्यानि बलयश्च आप्ग्स्_8.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.4: यो ऽयं स्त्र्यादीनां प्रतिषेधः स काम्येषु कर्मसु नादरणीयःयथेपदेशमेवतानि कर्तव्यानि तथाबलयश्चयथोपदेशमेव कर्तव्याः सिध्यर्थे यदस्य गृहे पण्यं स्यादिति काम्योदाहरणम् एवमतऊर्ध्व यदशनीयस्येत्यादि बलीनां होमे चोदितस्य स्त्र्यादिप्रतिषेधस्य बलिषु प्रसङ्गाभावात् ज्ञापकमिदं-होमधर्मो बलिषु प्रवर्तत इति तेन अपरेणाग्निं दक्षिणं जान्वाच्येत्येवमादि बलिष्वपि भवति ऽन काम्येषु बलिषु चऽइत्योव सिद्धे यथोपदेशमिति वचनमुपदेशादेवैषां प्रवृत्तिः स्वशास्त्रेण शास्त्रान्तरेण वा न प्रतिनिधित्वेन

asya pratiṣedhasya pratiprasavamāha yathopadeśaṃ kāmyāni balayaśca āpgs_8.4 commentaries: āpgs-anā_8.4: yo 'yaṃ stryādīnāṃ pratiṣedhaḥ sa kāmyeṣu karmasu nādaraṇīyaḥyathepadeśamevatāni kartavyāni tathābalayaścayathopadeśameva kartavyāḥ sidhyarthe yadasya gṛhe paṇyaṃ syāditi kāmyodāharaṇam evamataūrdhva yadaśanīyasyetyādi balīnāṃ home coditasya stryādipratiṣedhasya baliṣu prasaṅgābhāvāt jñāpakamidaṃ-homadharmo baliṣu pravartata iti tena apareṇāgniṃ dakṣiṇaṃ jānvācyetyevamādi baliṣvapi bhavati 'na kāmyeṣu baliṣu ca'ityova siddhe yathopadeśamiti vacanamupadeśādevaiṣāṃ pravṛttiḥ svaśāstreṇa śāstrāntareṇa vā na pratinidhitvena


4

आप्ग्स्-तात्_8.4: यानिकाम्यानियेन प्रकारेणोपदिष्टानि तानि तथैव भवन्ति, नैव तत्र क्षारादिवर्जनम्, ऽयदस्य गृहे पण्यं स्यातऽ(आपगृ. 23-5) इत्युपदेशस्य गृहशब्देन विशेषितत्वात् यदि तत्र क्षारादिवर्जनमिष्टं स्यात्, तदा ऽयदस्य पण्यं स्याऽदित्योतावदेव ब्रूयात् तथा बलयश्च यथोपदेशमेव न तु क्षारादिनिषेधः, ऽसति सूपसंसृष्टेन कार्याःऽ(आपद.2-3-19) इत्यारम्भसामर्थ्यात् अन्यथा ऽगृहमेधिनो यदशनीयस्य होमा बलयश्चऽइति वचनादेव क्षारादिव्यतिरिक्तशाकमांसादिसूपसंसृष्टेनान्नेन कार्यास्स्युः अत्र च ऽयदशनी यस्य होमा बलश्चऽइति होमसाहचर्यात् बलिष्वपि या क्षारादिनिषेधशङ्का सावार्यते केचित्-यथोपदेशं काम्यानि बलयश्चेत्यस्मादेवज्ञापनाद्धोमधर्माणां बलिष्वपि प्रसक्तिरिति तेषां सर्पबलौ सक्तुनिर्वापे स्वाहाकारो दुर्वारः

āpgs-tāt_8.4: yānikāmyāniyena prakāreṇopadiṣṭāni tāni tathaiva bhavanti, naiva tatra kṣārādivarjanam, 'yadasya gṛhe paṇyaṃ syāt'(āpagṛ. 23-5) ityupadeśasya gṛhaśabdena viśeṣitatvāt yadi tatra kṣārādivarjanamiṣṭaṃ syāt, tadā 'yadasya paṇyaṃ syā'dityotāvadeva brūyāt tathā balayaśca yathopadeśameva na tu kṣārādiniṣedhaḥ, 'sati sūpasaṃsṛṣṭena kāryāḥ'(āpada.2-3-19) ityārambhasāmarthyāt anyathā 'gṛhamedhino yadaśanīyasya homā balayaśca'iti vacanādeva kṣārādivyatiriktaśākamāṃsādisūpasaṃsṛṣṭenānnena kāryāssyuḥ atra ca 'yadaśanī yasya homā balaśca'iti homasāhacaryāt baliṣvapi yā kṣārādiniṣedhaśaṅkā sāvāryate kecit-yathopadeśaṃ kāmyāni balayaścetyasmādevajñāpanāddhomadharmāṇāṃ baliṣvapi prasaktiriti teṣāṃ sarpabalau saktunirvāpe svāhākāro durvāraḥ


5

45 होनार्थमुपात्तस्याग्नेः स्वयं प्रज्वलने प्रयाश्चित्तम् सर्वत्र स्वयं प्रज्वलिते ऽग्नावुत्तराभ्यां समिधावादध्यात् आप्ग्स्_8.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.5: सर्वत्रसर्वेषु पाकयज्ञेषु अग्नौ स्वयं प्रज्वलिते धमनादि पुरुषप्रयत्नमन्तरेणेत्यर्थः एतस्मिन् निमित्ते संप्राप्ते उत्तराभ्या- मृग्भ्यां द्वे समिधावग्नावादध्यात् ऽउद्दीप्यस्वऽऽमा नो हिंसीरिति आदधातिचोदितत्वात् स्वाहाकारो नास्ति सर्वत्र गृहणात् सर्व पाकयज्ञेष्वयं विधिर्भवति अन्यथा प्रकरणाद्विवाह एव स्यात् सर्वत्र लौकिके वैदिकेगार्ह्ये वाग्नाविति एककर्मकालेष्वित्यन्ये आप्ग्स्-तात्_8.5: सर्वत्र सर्वाचारलक्षणेषु कर्मसु अन्ये-सर्वदा अकर्मकालेष्वपीति स्वयंप्रज्वलिते ऽग्नौ प्रयत्नमन्तरेणौपासने प्रज्वलिते उत्तराभ्यां ऋग्भ्यां ऽउद्दीप्यस्व जातवेदःऽइत्येताभ्यां समिदावादध्यात् प्रत्यृचमेकैकां समिधमादद्यात्, स्वतस्सधनभेदे क्रियाभेदात् आदधातिप्रहरतीत्याद्यजुहोतिचोदितेषु न स्वाहाकारो विहितः प्रस्तरप्रहरणे ऽपि ऽन स्वाहाकरोतिऽ(आपश्रौ.3-6-7) इत्येतत्, आदधातीत्यादिष्वपि प्रतिषेधदर्शनार्थम् अन्ये तु- ऽन स्वाहाकरोतिऽइत्तेष प्रतिषेधः अजुहोतिचोदितेष्वप्याददातीत्यादिषु स्वाहाकागं ज्ञापयतीति

45 honārthamupāttasyāgneḥ svayaṃ prajvalane prayāścittam sarvatra svayaṃ prajvalite 'gnāvuttarābhyāṃ samidhāvādadhyāt āpgs_8.5 commentaries: āpgs-anā_8.5: sarvatrasarveṣu pākayajñeṣu agnau svayaṃ prajvalite dhamanādi puruṣaprayatnamantareṇetyarthaḥ etasmin nimitte saṃprāpte uttarābhyā- mṛgbhyāṃ dve samidhāvagnāvādadhyāt 'uddīpyasva''mā no hiṃsīriti ādadhāticoditatvāt svāhākāro nāsti sarvatra gṛhaṇāt sarva pākayajñeṣvayaṃ vidhirbhavati anyathā prakaraṇādvivāha eva syāt sarvatra laukike vaidikegārhye vāgnāviti ekakarmakāleṣvityanye āpgs-tāt_8.5: sarvatra sarvācāralakṣaṇeṣu karmasu anye-sarvadā akarmakāleṣvapīti svayaṃprajvalite 'gnau prayatnamantareṇaupāsane prajvalite uttarābhyāṃ ṛgbhyāṃ 'uddīpyasva jātavedaḥ'ityetābhyāṃ samidāvādadhyāt pratyṛcamekaikāṃ samidhamādadyāt, svatassadhanabhede kriyābhedāt ādadhātipraharatītyādyajuhoticoditeṣu na svāhākāro vihitaḥ prastarapraharaṇe 'pi 'na svāhākaroti'(āpaśrau.3-6-7) ityetat, ādadhātītyādiṣvapi pratiṣedhadarśanārtham anye tu- 'na svāhākaroti'itteṣa pratiṣedhaḥ ajuhoticoditeṣvapyādadātītyādiṣu svāhākāgaṃ jñāpayatīti


5

आपन्माश्रीः श्रीर्मागादिति वा आप्ग्स्_8.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.6: एताभ्यां यजुर्भ्या एते समिदावादध्यादिति मन्त्रविकल्पः

āpanmāśrīḥ śrīrmāgāditi vā āpgs_8.6 commentaries: āpgs-anā_8.6: etābhyāṃ yajurbhyā ete samidāvādadhyāditi mantravikalpaḥ


6

आप्ग्स्-तात्_8.6: ऽउद्दीप्यस्वेऽति ऋग्द्वयेन आपन्मेत्येतद्यजुर्द्वयं विकल्प्यते

āpgs-tāt_8.6: 'uddīpyasve'ti ṛgdvayena āpanmetyetadyajurdvayaṃ vikalpyate


6

46 विवाहदिनाविस्मरणम् एतदहर्विजानीयाद्यदहर्भार्यामावहते आप्ग्स्_8.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.7: एतदहःएतन्नक्षत्रम् विजानीयात्न विस्मरेत् यदहःयस्मिन्नक्षत्रे भार्याआवहतेतत्कुलादानयति यस्मिन्नक्षत्रे पाणिग्रहणं कृतं तत् न विस्मर्तव्यमित्यर्थः आवहत इत्यनेनादिपाणिग्रहणं विवक्षितम् अविस्मरणोपदेशे प्रयोजनं संवत्सरे संवत्सरे तस्मिन्नक्षत्रे कर्मविशेषः कः पुनरसौ ?ऽयच्चैनयोः प्रियं स्याऽदि (आपध.2-1-7) त्यादि सामयाचारिकेषूपदिष्टः न चासौ विधिः पार्वणविशेषो यदि स्यात् तस्योपचारः पार्वणेन व्याख्यात इत्येतदसम्जसं स्यात् अथ स विधिरेवेह कस्मान्नोपदिश्यते?उच्यते- इहोपदेशे प्रकरणाद्विवाहाङ्गत्वं विज्ञायेत ततश्च शम्यादयो ऽपि विवाहधर्माः स्युः किञ्चि सर्वचरणार्थः तत्रोपदेशः

46 vivāhadināvismaraṇam etadaharvijānīyādyadaharbhāryāmāvahate āpgs_8.7 commentaries: āpgs-anā_8.7: etadahaḥetannakṣatram vijānīyātna vismaret yadahaḥyasminnakṣatre bhāryāāvahatetatkulādānayati yasminnakṣatre pāṇigrahaṇaṃ kṛtaṃ tat na vismartavyamityarthaḥ āvahata ityanenādipāṇigrahaṇaṃ vivakṣitam avismaraṇopadeśe prayojanaṃ saṃvatsare saṃvatsare tasminnakṣatre karmaviśeṣaḥ kaḥ punarasau ?'yaccainayoḥ priyaṃ syā'di (āpadha.2-1-7) tyādi sāmayācārikeṣūpadiṣṭaḥ na cāsau vidhiḥ pārvaṇaviśeṣo yadi syāt tasyopacāraḥ pārvaṇena vyākhyāta ityetadasamjasaṃ syāt atha sa vidhireveha kasmānnopadiśyate?ucyate- ihopadeśe prakaraṇādvivāhāṅgatvaṃ vijñāyeta tataśca śamyādayo 'pi vivāhadharmāḥ syuḥ kiñci sarvacaraṇārthaḥ tatropadeśaḥ


7

आप्ग्स्-तात्_8.7: यस्मिन्नहनि गृहप्रवेशनादि स्थालीपाकान्तं कर्म करोति तदेतदहरवधित्वेनविजानीयात् तत आरभ्य त्रिरात्रमुभयोरधश्शय्योत्यादिकर्तुम् केचित्-यस्मिन्नक्षत्रे व्वाहे ऽभूत् तस्य न विस्मरेत् धर्मशास्त्रे ऽश्वोभूते स्थालीपाकःऽ(आपध.2-1-10) इप्युपदिष्टकर्म प्रतिसंवत्सरं कर्तुम् तस्यचेहोपदिष्टस्य तत्रोपदेशः कथं विवाहाङ्गत्वं शम्याश्च मा भूवन्, सर्वचरणार्थता च कथं स्यादिति प्रकृतत्वादेव च स्थालीपाकादारभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि भविष्यतीति तन्न;यथोक्तकर्मान्तरे विधेरेव निरस्तत्वात् ऽपार्वणेनऽ(आपगृ.7-2-3) इत्यत्र

āpgs-tāt_8.7: yasminnahani gṛhapraveśanādi sthālīpākāntaṃ karma karoti tadetadaharavadhitvenavijānīyāt tata ārabhya trirātramubhayoradhaśśayyotyādikartum kecit-yasminnakṣatre vvāhe 'bhūt tasya na vismaret dharmaśāstre 'śvobhūte sthālīpākaḥ'(āpadha.2-1-10) ipyupadiṣṭakarma pratisaṃvatsaraṃ kartum tasyacehopadiṣṭasya tatropadeśaḥ kathaṃ vivāhāṅgatvaṃ śamyāśca mā bhūvan, sarvacaraṇārthatā ca kathaṃ syāditi prakṛtatvādeva ca sthālīpākādārabhya trirātramubhayoradhaśśayyetyādi bhaviṣyatīti tanna;yathoktakarmāntare vidhereva nirastatvāt 'pārvaṇena'(āpagṛ.7-2-3) ityatra


7

47 विवाहे दम्पत्योर्ब्रह्मचर्यविधिः त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्य क्षारलवणवर्जनं च आप्ग्स्_8.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.8: स्थालीपाकादारभ्यत्रिरात्रमुभयोःदम्पत्योःअधश्शय्यानोपरि खट्वादौ ब्रह्मचर्य मैथुनवर्जनं,क्षारलवणयोश्च वर्जनंभोजने तत्र क्षारलवणवर्जनं स्थालीपाकात् प्रागध्वनि न भवति ब्रह्मचर्य तु तत्रापि भवति चतुर्थ्या समावेशनविधानात् इदं तु ब्रह्मचर्य वचनं दार्ढ्यरथम् यद्यपि सहशयनमुभयोः, तथापि मैथुनवर्जने यत्नः कार्य इति

47 vivāhe dampatyorbrahmacaryavidhiḥ trirātramubhayoradhaśśayyā brahmacarya kṣāralavaṇavarjanaṃ ca āpgs_8.8 commentaries: āpgs-anā_8.8: sthālīpākādārabhyatrirātramubhayoḥdampatyoḥadhaśśayyānopari khaṭvādau brahmacarya maithunavarjanaṃ,kṣāralavaṇayośca varjanaṃbhojane tatra kṣāralavaṇavarjanaṃ sthālīpākāt prāgadhvani na bhavati brahmacarya tu tatrāpi bhavati caturthyā samāveśanavidhānāt idaṃ tu brahmacarya vacanaṃ dārḍhyaratham yadyapi sahaśayanamubhayoḥ, tathāpi maithunavarjane yatnaḥ kārya iti


8

आप्ग्स्-तात्_8.8: उभयोर्दम्पत्योः स्थालीपाकादारभ्य त्रिरात्रमधश्शय्यास्यात्, न तु ख्ट्वादौ नापि पृथक्शय्या, उभयोरिति ग्रहणात् तथाष्टाङ्गमैथुनवर्जनलक्षणंब्रह्मचर्यस्यात् मैथुनस्याष्टाङ्गत्वमपि बृहस्पतिनोक्तम् ऽस्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् सङ्कल्पो ऽध्यवसायश्च क्रियानिर्वृतिरेव च एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणःऽ; इति एतच्च स्थालीपाकात् प्रागप्यध्वनि, ऽशेषं समावेशने जपेतऽ(आपगृ.8-10) इत्युत्तरत्र क्रमविधानात् अत एवात्र सूत्रे शय्यैक्यात् दुर्वारमपि मैथुनमतिप्रयत्नेन वर्जनीयमित्येवमर्थस्तान्निषेधः तथैवक्षारलवणवर्जनं चस्यात् चकारान्मधुमांसदन्तधावनाञ्जनाभ्यञ्जनानुलेपनस्नग्धारणानां वर्जनमपि यद्वा ब्रह्मचर्यपदेनैव मध्वादि सप्तकमपि निषिद्धम् चकारस्तूक्तसमुच्चयार्थ एव सर्वत्र त्रिरात्रमित्येव

āpgs-tāt_8.8: ubhayordampatyoḥ sthālīpākādārabhya trirātramadhaśśayyāsyāt, na tu khṭvādau nāpi pṛthakśayyā, ubhayoriti grahaṇāt tathāṣṭāṅgamaithunavarjanalakṣaṇaṃbrahmacaryasyāt maithunasyāṣṭāṅgatvamapi bṛhaspatinoktam 'smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam saṅkalpo 'dhyavasāyaśca kriyānirvṛtireva ca etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ'; iti etacca sthālīpākāt prāgapyadhvani, 'śeṣaṃ samāveśane japet'(āpagṛ.8-10) ityuttaratra kramavidhānāt ata evātra sūtre śayyaikyāt durvāramapi maithunamatiprayatnena varjanīyamityevamarthastānniṣedhaḥ tathaivakṣāralavaṇavarjanaṃ casyāt cakārānmadhumāṃsadantadhāvanāñjanābhyañjanānulepanasnagdhāraṇānāṃ varjanamapi yadvā brahmacaryapadenaiva madhvādi saptakamapi niṣiddham cakārastūktasamuccayārtha eva sarvatra trirātramityeva


8

48 स्वपतोः तयोर्मध्ये दण्दनिधानम् तयोश्शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति आप्ग्स्_8.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.9: तयोः दम्पत्योःशय्यामनतरेणशयनस्य मध्ये दण्डःक्षीरिवृक्षोद्भवःगन्धेनसुरभिणालिप्तःपुष्पैश्चालङ्कृतःवाससा सूत्रेण वा परिवीतः तिष्ठतिस्थापयितव्यः अन्योन्यसंस्पर्शो मा भूदिति

48 svapatoḥ tayormadhye daṇdanidhānam tayośśayyāmanteraṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītastiṣṭhati āpgs_8.9 commentaries: āpgs-anā_8.9: tayoḥ dampatyoḥśayyāmanatareṇaśayanasya madhye daṇḍaḥkṣīrivṛkṣodbhavaḥgandhenasurabhiṇāliptaḥpuṣpaiścālaṅkṛtaḥvāsasā sūtreṇa vā parivītaḥ tiṣṭhatisthāpayitavyaḥ anyonyasaṃsparśo mā bhūditi


9

आप्ग्स्-तात्_8.9: तयोःव्रतस्थयोर्दम्पत्योर्यावत्त्रिरात्रमभिन्ना शय्या तामेवान्तरेणतस्या एव मध्ये, न तु त्रिरात्रादूर्ध्व नानाशय्या- मेकाशय्यां चान्तरेणापीति;तयोरिरि प्रकृतपरामशात् दण्डो गन्धलिप्तः चन्दनानुलिप्तः गन्धस्य प्रदर्शनार्थत्वात्पुष्पैरप्यलङ्कृतः वाससा सूत्रेण वा परिवीतस्तिष्ठतिस्थापयितव्यः अस्मिंश्च दण्डे गन्धर्वो विश्वावसुर्भावयितव्यः, ऽउदीर्ष्वातो विश्वावसोऽइति मन्त्रलिङ्गात् अत एवायं दण्डो नैयग्रोध औदुम्बर आश्वत्थः प्लाक्षो वा, ऽएते वै गन्धर्वाप्सरसां गृहाःऽ(तैसं.3-4-8) इत्यर्थवादात्

āpgs-tāt_8.9: tayoḥvratasthayordampatyoryāvattrirātramabhinnā śayyā tāmevāntareṇatasyā eva madhye, na tu trirātrādūrdhva nānāśayyā- mekāśayyāṃ cāntareṇāpīti;tayoriri prakṛtaparāmaśāt daṇḍo gandhaliptaḥ candanānuliptaḥ gandhasya pradarśanārthatvātpuṣpairapyalaṅkṛtaḥ vāsasā sūtreṇa vā parivītastiṣṭhatisthāpayitavyaḥ asmiṃśca daṇḍe gandharvo viśvāvasurbhāvayitavyaḥ, 'udīrṣvāto viśvāvaso'iti mantraliṅgāt ata evāyaṃ daṇḍo naiyagrodha audumbara āśvatthaḥ plākṣo vā, 'ete vai gandharvāpsarasāṃ gṛhāḥ'(taisaṃ.3-4-8) ityarthavādāt


9

49 विवाहशेषहोमः, समावेशनं च तं चतुर्थ्यापररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाऽज्यशेषेण हृदयदेशै संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् आप्ग्स्_8.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.10: अपररात्रोरात्रेस्तृतीयो भागःउत्तराभ्यामुदीर्ष्वात इत्येताभ्याम् अत्र प्राप्तस्य निधानस्य विधानं पुनस्तस्मिन् शयने दण्डस्य निधानं मा भूदिति

49 vivāhaśeṣahomaḥ, samāveśanaṃ ca taṃ caturthyāpararātra uttarābhyāmutthāpya prakṣālya nidhāyāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīmupaveśya tasyāśśirasyājyaśeṣādvyāhṛtibhiroṅkāracaturthābhirānīyottarābhyāṃ yathāliṅgaṃ mithassamīkṣyottarayā'jyaśeṣeṇa hṛdayadeśai saṃmṛjyottarāstisro japitvā śeṣaṃ samāveśane japet āpgs_8.10 commentaries: āpgs-anā_8.10: apararātrorātrestṛtīyo bhāgaḥuttarābhyāmudīrṣvāta ityetābhyām atra prāptasya nidhānasya vidhānaṃ punastasmin śayane daṇḍasya nidhānaṃ mā bhūditi


10

उत्तराःसप्त प्रधानाहुतीर्जुहोति-ऽअग्ने प्रायश्चित्तेऽइत्येवमाद्याः तत्रादितश्चतुर्षु मन्त्रेषु ऽत्वं देवानां प्रायश्चित्तिऽरित्ययमनुषङ्गः उत्तरे मन्त्रास्त्रयः आज्यभाग इत्यन्वारम्भकालोपदेशः जयादि प्रतिपद्यत इति च तन्निवृत्तिः

uttarāḥsapta pradhānāhutīrjuhoti-'agne prāyaścitte'ityevamādyāḥ tatrāditaścaturṣu mantreṣu 'tvaṃ devānāṃ prāyaścitti'rityayamanuṣaṅgaḥ uttare mantrāstrayaḥ ājyabhāga ityanvārambhakālopadeśaḥ jayādi pratipadyata iti ca tannivṛttiḥ


11

तन्त्रशेषं समाप्य ततःतामपरेणाग्निंअग्नेः पश्चात्प्राचींप्राङ्मुखींउपवेश्य यो हुयस्याज्यस्य शेषः तस्मादवदाय दर्व्यातस्या वध्वाश्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिः स्वाहाकारान्ताभिः प्रतिमन्त्रमानयति ततःउत्तराम्यामृग्भ्यांऽअपश्यं त्वेऽत्येताभ्यांयथालिङ्गं मिथःअन्यो ऽन्यं युगपत्समीक्षेत्, पूर्वया वधूः उत्तरया वरः ततो वर उत्तरयर्चाऽसमञ्जन्त्विऽत्येतया वधूवरयोरुभयोर्हृदयदेशौ समनक्ति तेनैवाज्यशेषेण सकृत् गृहीतेनाज्येन सकृदेव मन्त्रे चोक्त्वा ततः उत्तरास्तिस्त्रो जपतिऽप्रजापते तन्वऽमित्याद्याः ततःशेषमनुवाकशेषं ऽआरोहोरुऽमित्यादिसमावेशनेसमागमनकाले जपेत् समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति इदमेव समावेशनं मन्त्रवत् नान्यानि परिषेचनान्तवचनमानन्तर्यार्थम् परिषेचनान्ते एतदोव कर्म यथा स्यात् तेन भोजनं प्रागेव भवति

tantraśeṣaṃ samāpya tataḥtāmapareṇāgniṃagneḥ paścātprācīṃprāṅmukhīṃupaveśya yo huyasyājyasya śeṣaḥ tasmādavadāya darvyātasyā vadhvāśśirasi vyāhṛtibhiroṅkāracaturthābhiḥ svāhākārāntābhiḥ pratimantramānayati tataḥuttarāmyāmṛgbhyāṃ'apaśyaṃ tve'tyetābhyāṃyathāliṅgaṃ mithaḥanyo 'nyaṃ yugapatsamīkṣet, pūrvayā vadhūḥ uttarayā varaḥ tato vara uttarayarcā'samañjantvi'tyetayā vadhūvarayorubhayorhṛdayadeśau samanakti tenaivājyaśeṣeṇa sakṛt gṛhītenājyena sakṛdeva mantre coktvā tataḥ uttarāstistro japati'prajāpate tanva'mityādyāḥ tataḥśeṣamanuvākaśeṣaṃ 'ārohoru'mityādisamāveśanesamāgamanakāle japet samāveśanaṃ ca tasminnevāpararātre niyamena bhavati idameva samāveśanaṃ mantravat nānyāni pariṣecanāntavacanamānantaryārtham pariṣecanānte etadova karma yathā syāt tena bhojanaṃ prāgeva bhavati


10

आप्ग्स्-तात्_8.10: चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः चतुर्थ्या रात्रेःचतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डंउत्तराभ्यां ऽउदीर्ष्वातऽइत्येताभ्यांउत्थाप्याद्भिः प्रक्षाल्य शयनादन्यत्रनिदायाग्नेरुपसमाधानादितन्त्रं प्रतिपद्यते आज्यभागान्ते कृते वध्वमन्वारब्धायां उत्तराःऽअग्ने प्रायश्चित्तेऽइत्याद्यास्सप्ताहुतीर्जुहोति तत्र द्वितीयतृतीययोरपि ऽत्वं देवानांऽइत्याद्यनुषङ्गः ततो ऽन्वारम्भवर्ज जयादौ प्रणीता मोचनान्ते कृते अपरेणाग्निं वधूंप्राचींप्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादायतस्याश्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति केचित्-प्रतिमन्त्रमिति अथोत्तराभ्यां ऽअपश्यं त्वा मनसाऽइत्येताभ्यांयथालिङ्गं, पूर्वया वधू रुत्तरया वरः,मिथःअन्ययोन्यं युगपत्समीक्ष्य उत्तरया ऽसमञ्जन्तुऽइत्येतयाआज्यशेषेण हृदयदेशौयुगपदङ्गुष्ठविसंरसिनीभ्यां समनक्ति, ऽसमापो हृदयानि नौऽइति द्विवचनलिङ्गात् अथ उत्तरास्तिस्रः ऽप्रजापते तन्वं मेऽइत्याद्या जपित्वा शेषमनुवाकशेषं ऽआरोहोरुमऽइत्यादिकंसमावेशने समावेशनकाले जपेत् समावेशनं च वध्वा सह मैथुनार्थ शयनम्, ऽऋतुसमावेशनेऽ(आपगृ.8-13) इत्युतुलिङ्गात् एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थ क्रमजपयोर्विदानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् केचित्- असत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः बौधायनेन तु विकल्पो ऽभिहितः (बौगृ.2-7-12) इति अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्व ऽआरोहोरुमऽइत्यादिजपः ततो ऽविष्णुर्योनिमऽइत्यादिभिरभिमन्त्रणम्

āpgs-tāt_8.10: caturthyā apararātre iti vivṛtyārthapāṭhaḥ caturthyā rātreḥcaturthasyāhorātrasyāpararātre rātreraparatra tṛtīyabhāge taṃ daṇḍaṃuttarābhyāṃ 'udīrṣvāta'ityetābhyāṃutthāpyādbhiḥ prakṣālya śayanādanyatranidāyāgnerupasamādhānāditantraṃ pratipadyate ājyabhāgānte kṛte vadhvamanvārabdhāyāṃ uttarāḥ'agne prāyaścitte'ityādyāssaptāhutīrjuhoti tatra dvitīyatṛtīyayorapi 'tvaṃ devānāṃ'ityādyanuṣaṅgaḥ tato 'nvārambhavarja jayādau praṇītā mocanānte kṛte apareṇāgniṃ vadhūṃprācīṃprāṅmukhīmupaveśya hutaśeṣādājyamādāyatasyāśśirasi vyāhṛtibhiroṅkāracaturthābhisvāhākārāntābhissarveṣāmante sakṛdānayati kecit-pratimantramiti athottarābhyāṃ 'apaśyaṃ tvā manasā'ityetābhyāṃyathāliṅgaṃ, pūrvayā vadhū ruttarayā varaḥ,mithaḥanyayonyaṃ yugapatsamīkṣya uttarayā 'samañjantu'ityetayāājyaśeṣeṇa hṛdayadeśauyugapadaṅguṣṭhavisaṃrasinībhyāṃ samanakti, 'samāpo hṛdayāni nau'iti dvivacanaliṅgāt atha uttarāstisraḥ 'prajāpate tanvaṃ me'ityādyā japitvā śeṣamanuvākaśeṣaṃ 'ārohorum'ityādikaṃsamāveśane samāveśanakāle japet samāveśanaṃ ca vadhvā saha maithunārtha śayanam, 'ṛtusamāveśane'(āpagṛ.8-13) ityutuliṅgāt etacca rāgaprāptasamāveśanāśritaṃ vivāhakarmārtha kramajapayorvidānam, yathā bhojanaparyāyavratāśritaṃ payaādividhānam kecit- asatyapi rāge karmārthamasmin krame samaviśanaṃ niyatameveti samāveśanāntareṣu tu akarmārthatvādeva nāyaṃ japaḥ baudhāyanena tu vikalpo 'bhihitaḥ (baugṛ.2-7-12) iti asminneva krame yadi daivādṛtugamanamapi kartavyaṃ syāt tadā pūrva 'ārohorum'ityādijapaḥ tato 'viṣṇuryonim'ityādibhirabhimantraṇam


12

अन्यो वैनामभिमन्त्रयेत आप्ग्स्_8.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.11: अन्यो वा ब्रह्मणः कश्चित् एनौ जायापती समागमिष्यन्तौ अनुवाकशेषेणाभिमन्त्रयेत न स्वयं वरो जपेत् तत्र यत् वधूवासः प्रागनेन परिधापितं तत् व्रतान्ते विमुच्यान्यत् वासः परिधाय संस्पृशति वधूः तेन हस्तस्पर्शने दोषदर्शनात् परादेहि शाबल्यमित्येतासु व्रतचर्यायां तु दण्डेनान्तर्हितत्वादसेस्पर्शः तद्वासः श्वोभूते परादेहि शावल्यमित्येताभिश्चतसृभिः ऋग्भिस्सूर्याविदे ब्राह्मणाय वरो दद्यात् यथा वक्ष्यति-ऽवधूवास उत्तराभिरेतद्विदे दद्यातऽ(आपगृ.9-11) इति आश्वलायनेनाप्युक्तं- ऽसूर्याविदे वधूवस्त्रं दद्यात् अन्नं ब्राह्मणेभ्यःऽ(आश्वगृ.1-8-13,14) इति

anyo vaināmabhimantrayeta āpgs_8.11 commentaries: āpgs-anā_8.11: anyo vā brahmaṇaḥ kaścit enau jāyāpatī samāgamiṣyantau anuvākaśeṣeṇābhimantrayeta na svayaṃ varo japet tatra yat vadhūvāsaḥ prāganena paridhāpitaṃ tat vratānte vimucyānyat vāsaḥ paridhāya saṃspṛśati vadhūḥ tena hastasparśane doṣadarśanāt parādehi śābalyamityetāsu vratacaryāyāṃ tu daṇḍenāntarhitatvādasesparśaḥ tadvāsaḥ śvobhūte parādehi śāvalyamityetābhiścatasṛbhiḥ ṛgbhissūryāvide brāhmaṇāya varo dadyāt yathā vakṣyati-'vadhūvāsa uttarābhiretadvide dadyāt'(āpagṛ.9-11) iti āśvalāyanenāpyuktaṃ- 'sūryāvide vadhūvastraṃ dadyāt annaṃ brāhmaṇebhyaḥ'(āśvagṛ.1-8-13,14) iti


11

आप्ग्स्-तात्_8.11: व्यक्तार्थम् इदं च ऽअहं गर्भमदधामऽइत्यादि लिङ्गविरोधे ऽपि श्रुतेर्बलीयस्त्वात्

āpgs-tāt_8.11: vyaktārtham idaṃ ca 'ahaṃ garbhamadadhām'ityādi liṅgavirodhe 'pi śruterbalīyastvāt


12

50 रजस्वलायाः स्त्रियाः प्रथमर्तावुपदेशः यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति ऽयां मलवद्वाससऽ(तैसं. 2.5.1) मित्येतानि आप्ग्स्_8.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.12: मलवद्वासाइति रजस्वलाया अभिधानम् यदेतिवचनं विवाहादूर्ध्वमपिप्राप्यर्थम् अन्यथा विवाहमध्य एव स्यात्;प्रकरणात् संशासनं च प्रथमर्तौ सकृत् भवति तदेव सर्वार्थ भवति यथा ब्रह्मतारिण उपनयने एनामित्यनुच्यमाने अन्य एनौ संशास्तीत्येवं विज्ञायेत ऽअन्यो वैनाऽविति प्रकृतत्वात् ब्राह्मणप्रतिषिद्धानीत्युच्यते लोकपरतिषिद्धान्युपरिशय्यासनादीनि लोकत एव प्रत्येतव्यानीति ज्ञापनार्थम् कर्माणीति वचनात् कर्मणामेव शब्दान्तरैरवबोधनम्, न ब्राह्मणवाक्येन संप्रैषः ऽएतानीऽतिवचनं ऽयां मलवद्वासऽसमित्यादीनां प्रतिषिद्धानां विहितानां च संशासनं यथा स्यात् तेन ऽतिस्त्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेत्"(तैसं.2-5-1) इति विहितयोरपि संशासनं भवति एवञ्च ऽब्राह्मणप्रतिषिद्धानीऽति प्रतिषिद्धग्रहणमुपलक्षणम् तत्र ऽयां मलवद्वाससऽमिति वाक्ये स्नानात् प्राक् समागमप्रतिषेधः ऽयामरण्यऽइति देशप्रतिषेधः स्नातायामपि ऽयां पराचीऽमिति पराङ्मुख्या गमनप्रतिषेधः ऽया स्नातीऽति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः ऽयाभ्यङ्तेऽइत्यभ्यञ्जनस्य ऽया प्रलिखतऽइति शिरसि प्रलेखनस्य कङ्कतादि ना ऽयाऽङ्तेऽइति चक्षुषोरञ्जनस्य ऽया दतःऽइति दन्तधावनस्य ऽया नखानीऽति नखनिकृन्तनस्य ऽया कृणत्तीऽति कार्पासादेस्तन्तुकर्मणः ऽया रज्जुऽमिति रज्जुक्रियायाः ऽया पर्णेनेऽति पर्णेनाशनस्य ऽया खर्वेणेऽति खर्वेण पात्रेण एकदेशविलुप्तं कर्वम् ऽतिस्रोरात्रीऽरित्येतेषां प्रतिषेधानां कालनियमः ऽअञ्जलिना वा पिबेऽदित्यादिर्भोजने पात्राविधिः आप्ग्स्-तात्_8.12: मलवद्वासाःकालनिर्गतेन शोणितेन मलिनं वासो वसनं यस्यास्सा;रजस्वलेत्यर्थः रूढशब्दत्वाद्यदृच्छया निर्मलवासा अपि यदेयं रजस्वला स्यात्, तदा पतिरेवैनांब्राह्मणप्रतिषिद्धानि कर्माणि संशास्तिलौकिकभाषया श्क्षयति कानि तानि ब्राह्मणप्रतिषिद्धानीत्यत आह- ऽयां मलवद्वाससऽ मित्येतानि ऽयां मलवद्वाससं संभवन्तिऽ(तै. सं.2-5-1-6) इत्येतद्ब्राह्मणचोदितानि, तान्येतान्यपि सर्वाणीत्यर्थः अथ तानि सुग्रहार्थ क्रमेणोच्यनते-न स्नानात्पूर्व मैथुनम् तदेव न स्नानादूर्ध्वमप्यरण्ये तदेव न स्नातयापि पराङ्मुख्या अनिच्छन्त्या वा अपूर्णे त्रिरात्रे न स्नानम् न तैलाभ्यञ्जनम् न कङ्कतादिना शिरसि लेखनम् न चक्षुषोरञ्जनम् न दन्तधावनम् न नखनिकृन्तनम् न कार्पासादिना तन्तुकरणम् न रज्जुक्रिया इत्येतान्येकादश अथाशनपात्रमञ्जलिरखर्वो वा खर्वः अल्पः, खण्डो वा दग्धो ऽपि वा ततो ऽन्यो ऽखर्वः अत्र चामी मैथुनादिनिषेधा अमैथुनादिसङ्कलप विधयो वेति भाष्ये न विविक्तम् न्यायतस्तु ऽतिस्त्रो रात्रीर्व्रतं चरेतऽ(तैसं.2-5-1) इति वचनात् ऽनेक्षेतोद्यन्तमस्तंयन्तमादित्यमऽइत्यादि प्राजापत्यविधिवत् सङ्कल्पविधय एव

50 rajasvalāyāḥ striyāḥ prathamartāvupadeśaḥ yadā malavadvāsāḥ syādathaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti 'yāṃ malavadvāsasa'(taisaṃ. 2.5.1) mityetāni āpgs_8.12 commentaries: āpgs-anā_8.12: malavadvāsāiti rajasvalāyā abhidhānam yadetivacanaṃ vivāhādūrdhvamapiprāpyartham anyathā vivāhamadhya eva syāt;prakaraṇāt saṃśāsanaṃ ca prathamartau sakṛt bhavati tadeva sarvārtha bhavati yathā brahmatāriṇa upanayane enāmityanucyamāne anya enau saṃśāstītyevaṃ vijñāyeta 'anyo vainā'viti prakṛtatvāt brāhmaṇapratiṣiddhānītyucyate lokaparatiṣiddhānyupariśayyāsanādīni lokata eva pratyetavyānīti jñāpanārtham karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena saṃpraiṣaḥ 'etānī'tivacanaṃ 'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca saṃśāsanaṃ yathā syāt tena 'tistro rātrīrvrataṃ caredañjalinā vā pibet"(taisaṃ.2-5-1) iti vihitayorapi saṃśāsanaṃ bhavati evañca 'brāhmaṇapratiṣiddhānī'ti pratiṣiddhagrahaṇamupalakṣaṇam tatra 'yāṃ malavadvāsasa'miti vākye snānāt prāk samāgamapratiṣedhaḥ 'yāmaraṇya'iti deśapratiṣedhaḥ snātāyāmapi 'yāṃ parācī'miti parāṅmukhyā gamanapratiṣedhaḥ 'yā snātī'ti trirātramadhye snānasya pratiṣedhaḥ 'yābhyaṅte'ityabhyañjanasya 'yā pralikhata'iti śirasi pralekhanasya kaṅkatādi nā 'yā'ṅte'iti cakṣuṣorañjanasya 'yā dataḥ'iti dantadhāvanasya 'yā nakhānī'ti nakhanikṛntanasya 'yā kṛṇattī'ti kārpāsādestantukarmaṇaḥ 'yā rajju'miti rajjukriyāyāḥ 'yā parṇene'ti parṇenāśanasya 'yā kharveṇe'ti kharveṇa pātreṇa ekadeśaviluptaṃ karvam 'tisrorātrī'rityeteṣāṃ pratiṣedhānāṃ kālaniyamaḥ 'añjalinā vā pibe'dityādirbhojane pātrāvidhiḥ āpgs-tāt_8.12: malavadvāsāḥkālanirgatena śoṇitena malinaṃ vāso vasanaṃ yasyāssā;rajasvaletyarthaḥ rūḍhaśabdatvādyadṛcchayā nirmalavāsā api yadeyaṃ rajasvalā syāt, tadā patirevaināṃbrāhmaṇapratiṣiddhāni karmāṇi saṃśāstilaukikabhāṣayā śkṣayati kāni tāni brāhmaṇapratiṣiddhānītyata āha- 'yāṃ malavadvāsasa' mityetāni 'yāṃ malavadvāsasaṃ saṃbhavanti'(tai. saṃ.2-5-1-6) ityetadbrāhmaṇacoditāni, tānyetānyapi sarvāṇītyarthaḥ atha tāni sugrahārtha krameṇocyanate-na snānātpūrva maithunam tadeva na snānādūrdhvamapyaraṇye tadeva na snātayāpi parāṅmukhyā anicchantyā vā apūrṇe trirātre na snānam na tailābhyañjanam na kaṅkatādinā śirasi lekhanam na cakṣuṣorañjanam na dantadhāvanam na nakhanikṛntanam na kārpāsādinā tantukaraṇam na rajjukriyā ityetānyekādaśa athāśanapātramañjalirakharvo vā kharvaḥ alpaḥ, khaṇḍo vā dagdho 'pi vā tato 'nyo 'kharvaḥ atra cāmī maithunādiniṣedhā amaithunādisaṅkalapa vidhayo veti bhāṣye na viviktam nyāyatastu 'tistro rātrīrvrataṃ caret'(taisaṃ.2-5-1) iti vacanāt 'nekṣetodyantamastaṃyantamādityam'ityādi prājāpatyavidhivat saṅkalpavidhaya eva


14

5 ऋतुसमावेशनम् रजसः प्रादुर्भावात् स्त्रातामृतुसमावेशन उत्तराभिरभिमन्त्रयते आप्ग्स्_8.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_8.13: रजसःलोहिकस्य ऋतौ यत्समावेशनंतत्र कर्तव्ये,उत्तराभिरऋग्भिःऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिरभिमन्त्रयेत ऽरजसः प्रादुर्भावे ऽभिमन्त्रणं बवति न संशासनवत् प्रथम एवर्तौ ऽस्नाताऽमित्येतत् ब्राह्मणप्रतिषिद्धानां सर्वेषां प्रतिप्रसवार्थम् स्नातांकृतमङ्गलामित्यर्तः तेनाञ्जनाभ्यञ्जनान्यपि भवति

5 ṛtusamāveśanam rajasaḥ prādurbhāvāt strātāmṛtusamāveśana uttarābhirabhimantrayate āpgs_8.13 commentaries: āpgs-anā_8.13: rajasaḥlohikasya ṛtau yatsamāveśanaṃtatra kartavye,uttarābhiraṛgbhiḥ'viṣṇuryoni'mityādibhiḥ trayodaśabhirabhimantrayeta 'rajasaḥ prādurbhāve 'bhimantraṇaṃ bavati na saṃśāsanavat prathama evartau 'snātā'mityetat brāhmaṇapratiṣiddhānāṃ sarveṣāṃ pratiprasavārtham snātāṃkṛtamaṅgalāmityartaḥ tenāñjanābhyañjanānyapi bhavati


13

इति श्रीहरहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायामष्टमः खण्डः आप्ग्स्-तात्_8.13: रजसः शोणितस्य प्रादिर्भावात्काले निर्गमात्कारणात्, न मालिन्यादेः स्नातां पूर्णे त्रिरात्रे स्नातां भार्याम् ऋतुसमावेशनेऋतुकालीनसमावेशनकाले ऽऋतुश्च स्त्रीणां रात्रयष्षोडश स्मृताःऽ(मस्मृ.3-46) इति मनुवचनात् उत्तराभिः ऽविष्णुर्योनिं कल्पयतुऽइत्यादिभिस्त्रयोदशभिरभिमन्त्रयते अत्र रजसः प्रादुर्भावात् स्नातामितिवचनाच्चतुर्थऽहनि प्रायत्यार्थमनया स्नातव्यमेव

iti śrīharaharadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāmaṣṭamaḥ khaṇḍaḥ āpgs-tāt_8.13: rajasaḥ śoṇitasya prādirbhāvātkāle nirgamātkāraṇāt, na mālinyādeḥ snātāṃ pūrṇe trirātre snātāṃ bhāryām ṛtusamāveśaneṛtukālīnasamāveśanakāle 'ṛtuśca strīṇāṃ rātrayaṣṣoḍaśa smṛtāḥ'(masmṛ.3-46) iti manuvacanāt uttarābhiḥ 'viṣṇuryoniṃ kalpayatu'ityādibhistrayodaśabhirabhimantrayate atra rajasaḥ prādurbhāvāt snātāmitivacanāccaturtha'hani prāyatyārthamanayā snātavyameva


1

नवमः खण्डः 2. ऋतुगमनकालः चतुर्थिप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति आप्ग्स्_9.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.1: षोडशीमितिपञ्चम्यर्थे द्वितीया आषोडश्या इत्यर्थः आङ्चाभिविधौ रजसः प्रादुर्बावादारभ्य चतुर्थीषोड श्यौ गृह्येते, प्रकरणात् चतुर्थीप्रभृत्याषोडश्याः सर्वा रात्रय ऋतुगमनकालाः तत्रापिउत्तरामुत्तरां युग्मां रात्रिंप्रजानिश्श्रेयसंविद्यादिति ऋतुगमन इति वचनात् वैवाहिके प्रथमगमने सत्यपि ऋतुनिमित्तेनायमुपदेशः प्रवर्तते चतुर्थ्या अपाररात्रे नियमेन गमनं भवति तत्र च शेषं समावेशने जपेत् उत्तराभिरभिमन्त्रयत इति च गमनमन्त्राणां समुच्चयो भवति तत्र पूर्वमृतुगमनमन्त्राः पश्चात् समावेशनमन्त्राः विपरीतमन्ये

navamaḥ khaṇḍaḥ 2. ṛtugamanakālaḥ caturthiprabhṛtyāṣoḍaśīmuttarāmuttarāṃ yugmāṃ prajāniḥśreyasamṛtugamana ityupadiśanti āpgs_9.1 commentaries: āpgs-anā_9.1: ṣoḍaśīmitipañcamyarthe dvitīyā āṣoḍaśyā ityarthaḥ āṅcābhividhau rajasaḥ prādurbāvādārabhya caturthīṣoḍa śyau gṛhyete, prakaraṇāt caturthīprabhṛtyāṣoḍaśyāḥ sarvā rātraya ṛtugamanakālāḥ tatrāpiuttarāmuttarāṃ yugmāṃ rātriṃprajāniśśreyasaṃvidyāditi ṛtugamana iti vacanāt vaivāhike prathamagamane satyapi ṛtunimittenāyamupadeśaḥ pravartate caturthyā apārarātre niyamena gamanaṃ bhavati tatra ca śeṣaṃ samāveśane japet uttarābhirabhimantrayata iti ca gamanamantrāṇāṃ samuccayo bhavati tatra pūrvamṛtugamanamantrāḥ paścāt samāveśanamantrāḥ viparītamanye


1

आप्ग्स्-तात्_9.1: चतुर्थीप्रभृतीति दीर्घेमार्थपाठः चतुर्थीरात्रिमारभ्याषेडशी;अङ् अबिविधौ, द्वितीया च पञ्चम्यर्थे;आषोडश्या इति यावत् उत्तरामुत्तरां युग्मांरात्रिं प्रति ऋतुगमने ऋतौ मैथुने कृते,प्रजानिःश्रेयसं,प्रजाः पुत्राः तेषां निश्श्रेयसं आयुरादीप्सितगुणसम्पत्तिर्भवतीत्युपदिशन्तिमन्वादयः एतदुक्तं भवति-त्रयोदशसु रात्रिषु ऋतुगमने शुक्लाधिक्ये सति पुत्रा जायन्ते उत्तरोत्तरासु च युग्मासु यथाक्रमं तरतमभावेन ते सद्गुणाधिका भवन्ति

āpgs-tāt_9.1: caturthīprabhṛtīti dīrghemārthapāṭhaḥ caturthīrātrimārabhyāṣeḍaśī;aṅ abividhau, dvitīyā ca pañcamyarthe;āṣoḍaśyā iti yāvat uttarāmuttarāṃ yugmāṃrātriṃ prati ṛtugamane ṛtau maithune kṛte,prajāniḥśreyasaṃ,prajāḥ putrāḥ teṣāṃ niśśreyasaṃ āyurādīpsitaguṇasampattirbhavatītyupadiśantimanvādayaḥ etaduktaṃ bhavati-trayodaśasu rātriṣu ṛtugamane śuklādhikye sati putrā jāyante uttarottarāsu ca yugmāsu yathākramaṃ taratamabhāvena te sadguṇādhikā bhavanti


2

संस्कारकाण्डे कर्मान्तरव्याख्यानमसङ्गतमपि मन्त्राम्नानक्रमेणैव कार्यमित्युत्तरसूत्रजातं यावत्पटलान्तरमारभ्यते 1. धनादिप्राप्त्यर्थ प्रस्थितस्य मध्ये परिक्षवादौ दुर्निमित्ते जाते कर्तव्यो जपः अर्थप्राध्वस्य परिक्षवे परिकासने चाप उपस्पृश्योत्तरे यथालिङ्गं जपेत् आप्ग्स्_9.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.2: अध्वानं प्रस्थितः प्राध्वः अर्थः प्रयोजनम् यत्किञ्चित् प्रयोजनमुद्दिश्य यो ऽध्वानं प्रस्थितः, तस्यअर्थप्राध्वस्य परिक्षवे परिकासनेवा दुर्निमित्ते प्राप्ते प्रायश्चित्तं अप उपस्पृस्योत्तरे ऋचौ जपेत् ऽअनुहवं परिहवंऽ; इत्येते परितः क्षवःपरिक्षवःसर्वतः स्थितैर्जनैःकृतक्षवथुः तथा परिकासनम् उपस्पर्शनं पाणिना संस्पर्शः, स्नानमाचमनं वा तत्र यस्मिन् कृते प्रयतो मन्यते तत्र तत् कुर्यात् यथालिङ्गमित्यनुपपन्नम् परिक्षवपरिकासलिङ्गभावात् अथ पूर्वस्यामृचि परिक्षवशब्द एकतोश- विकृतो लिङ्गमित्युच्यते तथाप्युत्तरस्यां परिकासनलिङ्गं नास्त्येव तस्मादेवं व्याख्येयम्-एतयोर्निमित्तयेरेकस्मिन्नपि सति मन्त्रयोरेतयोर्जपः कार्यः अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्विति तत्र पृष्ठत आह्वानमनुहवः सर्वत आह्वानंपरिहवः परिवादो ऽभिशंसनम् परिक्षवौक्तः दुःस्वप्नःप्रसिद्धः दुरुदितमल्पायुरित्यादि अनुहूतं परिहूतमिति शकुनेरशोभना वागुच्यते अशाकुनंअनिमित्तभूतम् मृगस्य सृगालादेः अक्ष्णया सृतम्तिर्य्यग्गमनमपसव्यादि एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि मन्त्रयोर्जपः कार्यः परिक्षवपरिकासनयोश्च लिङ्गाभावे ऽपि परिक्षवशब्दस्तु क्षवधुलिङ्गं न भवति, रूपभेदात् एकदोशविकारस्तु परिक्षवस्यापि संभवति तन्निमित्ते तु अन्यस्मिन् प्रकरणे एतद्वक्तव्यम् इह च वचनप्रयोजनं विवाहार्थ गच्छ तो ऽपि एतेषु निम्त्तेषु प्रायश्चित्तमेतत् यथा स्यादिति प्रकरणान्तरे तु श्रुतानां विवाहादूर्ध्वमेव प्रवृत्तिः इदं तु अर्थप्राध्वस्येति वचनात् सर्वार्थ च भवति प्रकरणात् विवाहे ऽपि स्वाध्यायस्थाननियमार्थ च मन्त्रयोरेतयोरिह पाठः

saṃskārakāṇḍe karmāntaravyākhyānamasaṅgatamapi mantrāmnānakrameṇaiva kāryamityuttarasūtrajātaṃ yāvatpaṭalāntaramārabhyate 1. dhanādiprāptyartha prasthitasya madhye parikṣavādau durnimitte jāte kartavyo japaḥ arthaprādhvasya parikṣave parikāsane cāpa upaspṛśyottare yathāliṅgaṃ japet āpgs_9.2 commentaries: āpgs-anā_9.2: adhvānaṃ prasthitaḥ prādhvaḥ arthaḥ prayojanam yatkiñcit prayojanamuddiśya yo 'dhvānaṃ prasthitaḥ, tasyaarthaprādhvasya parikṣave parikāsanevā durnimitte prāpte prāyaścittaṃ apa upaspṛsyottare ṛcau japet 'anuhavaṃ parihavaṃ'; ityete paritaḥ kṣavaḥparikṣavaḥsarvataḥ sthitairjanaiḥkṛtakṣavathuḥ tathā parikāsanam upasparśanaṃ pāṇinā saṃsparśaḥ, snānamācamanaṃ vā tatra yasmin kṛte prayato manyate tatra tat kuryāt yathāliṅgamityanupapannam parikṣavaparikāsaliṅgabhāvāt atha pūrvasyāmṛci parikṣavaśabda ekatośa- vikṛto liṅgamityucyate tathāpyuttarasyāṃ parikāsanaliṅgaṃ nāstyeva tasmādevaṃ vyākhyeyam-etayornimittayerekasminnapi sati mantrayoretayorjapaḥ kāryaḥ anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣviti tatra pṛṣṭhata āhvānamanuhavaḥ sarvata āhvānaṃparihavaḥ parivādo 'bhiśaṃsanam parikṣavauktaḥ duḥsvapnaḥprasiddhaḥ duruditamalpāyurityādi anuhūtaṃ parihūtamiti śakuneraśobhanā vāgucyate aśākunaṃanimittabhūtam mṛgasya sṛgālādeḥ akṣṇayā sṛtamtiryyaggamanamapasavyādi eteṣāmekasminnapi nimitte dvayorapi mantrayorjapaḥ kāryaḥ parikṣavaparikāsanayośca liṅgābhāve 'pi parikṣavaśabdastu kṣavadhuliṅgaṃ na bhavati, rūpabhedāt ekadośavikārastu parikṣavasyāpi saṃbhavati tannimitte tu anyasmin prakaraṇe etadvaktavyam iha ca vacanaprayojanaṃ vivāhārtha gaccha to 'pi eteṣu nimtteṣu prāyaścittametat yathā syāditi prakaraṇāntare tu śrutānāṃ vivāhādūrdhvameva pravṛttiḥ idaṃ tu arthaprādhvasyeti vacanāt sarvārtha ca bhavati prakaraṇāt vivāhe 'pi svādhyāyasthānaniyamārtha ca mantrayoretayoriha pāṭhaḥ


2

आप्ग्स्-तात्_9.2: अर्थःप्रयोजनं, धर्मार्थ तदुपकारकाणि अर्थमुद्दिश्य यः प्रसिद्धमध्वानं प्रस्थितः सोरऽथप्राध्वः, न तु स्नान, ब्रह्मयज्ञोदक यग्यघासादि कमुद्दिश्य समीपदोशं प्रति निर्गतः तस्यपरिक्षवेक्षवधौ परिकासनेकासे च दुर्निमित्ते जाते अप उपस्पृश्य उपस्पर्शनमाचमनं स्पर्शनमात्रं वा यथातुष्टि कृत्वोत्तरे ऽअनुहवं परिहवमऽइत्येते यथालिङ्गेपरिक्षवे पूर्वा, परिकासने चोत्तरांजपेत् जपत्वाच्चानयोश्चातुस्स्वर्यमेव अत्र च यथालिङ्गमित्यनेनैतत् ज्ञापयति-पूर्वया वर्णव्यत्ययोन परिक्षव एव प्रकाश्यः, उत्तरया त्वध्याहृतं परिकासनमेव यथा चैते ऋचौ क्षवधुकासावेव तात्पर्येण प्रकाशयतः, तथा व्याख्याते भाष्यकारेण केचित्-यथालिङ्गमिति न केवलं परिक्षवे परिकासने चानयोर्जपः अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्वपीति

āpgs-tāt_9.2: arthaḥprayojanaṃ, dharmārtha tadupakārakāṇi arthamuddiśya yaḥ prasiddhamadhvānaṃ prasthitaḥ sor'thaprādhvaḥ, na tu snāna, brahmayajñodaka yagyaghāsādi kamuddiśya samīpadośaṃ prati nirgataḥ tasyaparikṣavekṣavadhau parikāsanekāse ca durnimitte jāte apa upaspṛśya upasparśanamācamanaṃ sparśanamātraṃ vā yathātuṣṭi kṛtvottare 'anuhavaṃ parihavam'ityete yathāliṅgeparikṣave pūrvā, parikāsane cottarāṃjapet japatvāccānayoścātussvaryameva atra ca yathāliṅgamityanenaitat jñāpayati-pūrvayā varṇavyatyayona parikṣava eva prakāśyaḥ, uttarayā tvadhyāhṛtaṃ parikāsanameva yathā caite ṛcau kṣavadhukāsāveva tātparyeṇa prakāśayataḥ, tathā vyākhyāte bhāṣyakāreṇa kecit-yathāliṅgamiti na kevalaṃ parikṣave parikāsane cānayorjapaḥ anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣvapīti


3

2 तत्रैव चित्रियवृक्षादिदर्शने जपः एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति आप्ग्स्_9.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.3: एवमित्यनेन ऽअर्थप्राध्वेऽति च, अप उपस्पृश्येति च, ऽजपेदिऽतिचापेक्ष्यते एवञ्च यथालिङ्गवचनं विस्पष्टार्थम् चित्रियःप्रसिद्धः तत्रार्तप्राध्वः चित्रियं वृक्षमासाद्याप उपस्पृश्य ऽअग्निरस्त्विऽति एतयर्चानुमन्त्रयते ऽनयश्सकृत्सदेऽइतिशकृद्रीतिमुपतिष्ठेत ऽसिगसीऽतिसिग्वातमन्यकृतम् आत्मसंस्पृष्टो वाससा कृतो वातः सिग्वातः सिगसि नासीति दीर्घान्ते प्राप्ते छान्दसो ह्रस्वः शकुनिं शुभां वाच मनुमन्त्रयेत उद्गातेव शकुनेऽऽकत्येतयर्चा अशुभवचने तु प्रागुक्तो जपः केचिदिदमपि तत्रैवेच्छन्ति

2 tatraiva citriyavṛkṣādidarśane japaḥ evamuttarairyathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrīti sigvātaṃ śakunimiti āpgs_9.3 commentaries: āpgs-anā_9.3: evamityanena 'arthaprādhve'ti ca, apa upaspṛśyeti ca, 'japedi'ticāpekṣyate evañca yathāliṅgavacanaṃ vispaṣṭārtham citriyaḥprasiddhaḥ tatrārtaprādhvaḥ citriyaṃ vṛkṣamāsādyāpa upaspṛśya 'agnirastvi'ti etayarcānumantrayate 'nayaśsakṛtsade'itiśakṛdrītimupatiṣṭheta 'sigasī'tisigvātamanyakṛtam ātmasaṃspṛṣṭo vāsasā kṛto vātaḥ sigvātaḥ sigasi nāsīti dīrghānte prāpte chāndaso hrasvaḥ śakuniṃ śubhāṃ vāca manumantrayeta udgāteva śakune''katyetayarcā aśubhavacane tu prāgukto japaḥ kecididamapi tatraivecchanti


3

आप्ग्स्-तात्_9.3: एवमित्यनेन अर्थप्राध्वोऽप उपस्पृश्येत्याकृष्यते इहोत्तरैरिति करमविभक्तिदर्शनाद्वनस्पत्यादीनि यथालिङ्गमभिमन्त्रयते न तु पूर्ववज्जपेत् चित्रियंलोकप्रसिद्धम्,चयनमूलं वा वनल्पतिं पुष्पैर्विना फलवन्तम् अस्य प्रदर्शनार्थत्वात् वृक्षमप्येवाविधं ऽआरात्ते अग्निःऽइत्येतयाभिमन्त्रयते ऽनमश्शकृत्सदेऽइतिसकृद्रीतिंसकृत्सन्ततिम् ऽसिगसिनसिऽइति सिग्वातम् सिचो वस्त्रस्य वातस्सिग्वातः स चान्यकृतः स्वदेहसंस्पृष्टश्चोदमङ्गलः ऽउद्गातेव शकुनेऽइत्येतयाशकुनिमशोभन वाचम्,ऽप्रति नस्सुमना भवऽइति मन्त्रलिङ्गात् केचित्-शुभवाचं, अशुभदर्शने तु पूर्वसूत्रेणोक्तो जप इति

āpgs-tāt_9.3: evamityanena arthaprādhvo'pa upaspṛśyetyākṛṣyate ihottarairiti karamavibhaktidarśanādvanaspatyādīni yathāliṅgamabhimantrayate na tu pūrvavajjapet citriyaṃlokaprasiddham,cayanamūlaṃ vā vanalpatiṃ puṣpairvinā phalavantam asya pradarśanārthatvāt vṛkṣamapyevāvidhaṃ 'ārātte agniḥ'ityetayābhimantrayate 'namaśśakṛtsade'itisakṛdrītiṃsakṛtsantatim 'sigasinasi'iti sigvātam sico vastrasya vātassigvātaḥ sa cānyakṛtaḥ svadehasaṃspṛṣṭaścodamaṅgalaḥ 'udgāteva śakune'ityetayāśakunimaśobhana vācam,'prati nassumanā bhava'iti mantraliṅgāt kecit-śubhavācaṃ, aśubhadarśane tu pūrvasūtreṇokto japa iti

Section (cont. 12)

4

3 दम्पत्योः परस्परं प्रीतिजनकं कर्म उभयोर्हृदयसंसर्गे ऽप्सुस्त्रिरात्रावरं ब्रह्मचर्य चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्विं वाचयीत आप्ग्स्_9.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.4: यदि वरस्य मनो वर्ध्वा न तुष्येत् अथ तस्सिद्धिकामेन वध्वाः पित्रादिना तपोयुक्तेनेदं कर्म कर्तव्यमज्ञातं वरस्य वशीकरणार्थत्वात् औपासने च कर्तव्यम् तदुक्तं पुरस्तात् ब्रह्मचर्यविधानस्य दृष्टार्थत्वात् यावता तपसार्थसिद्धिं मन्यते तावत् कर्तव्यम् पुनर्वस्वोश्चेदं कर्म भवति ऽश्वस्तित्येणऽ(आपगृ.9-5) इति वचनात् किं पुनस्तत् कर्म?स्थालीपाकः,पाठार्चनं च सर्व कर्म पार्वणवत् विवाहप्रकरणे तूपदेशात् सकृत् पात्रप्रयोगः शम्याश्च कालस्य चानियमः विवाहप्रकरणे चास्यास्समाप्तिः तच्छेषभूतस्य वासोदानस्योपरिष्टादुपदेशादवगन्तव्या एवमर्थमेव च तस्योपरिष्टादुपदेशः

3 dampatyoḥ parasparaṃ prītijanakaṃ karma ubhayorhṛdayasaṃsarge 'psustrirātrāvaraṃ brahmacarya caritvā sthālīpākaṃ śrapayitvāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā sidviṃ vācayīta āpgs_9.4 commentaries: āpgs-anā_9.4: yadi varasya mano vardhvā na tuṣyet atha tassiddhikāmena vadhvāḥ pitrādinā tapoyuktenedaṃ karma kartavyamajñātaṃ varasya vaśīkaraṇārthatvāt aupāsane ca kartavyam taduktaṃ purastāt brahmacaryavidhānasya dṛṣṭārthatvāt yāvatā tapasārthasiddhiṃ manyate tāvat kartavyam punarvasvoścedaṃ karma bhavati 'śvastityeṇa'(āpagṛ.9-5) iti vacanāt kiṃ punastat karma?sthālīpākaḥ,pāṭhārcanaṃ ca sarva karma pārvaṇavat vivāhaprakaraṇe tūpadeśāt sakṛt pātraprayogaḥ śamyāśca kālasya cāniyamaḥ vivāhaprakaraṇe cāsyāssamāptiḥ taccheṣabhūtasya vāsodānasyopariṣṭādupadeśādavagantavyā evamarthameva ca tasyopariṣṭādupadeśaḥ


5

सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः ततः स्विष्टकृत्, ततो जयादि

sapta pradhānāhutayaḥ prātaragnimityevamādyāḥ tataḥ sviṣṭakṛt, tato jayādi


6

पार्वणातिदेशात् एकस्यैव ब्राह्मणस्य भोजने प्राप्ते बहुत्वं विधीयते तेन स्थालीपाको महान् कर्तव्यः सर्पिष्मद्वचनं नियमार्थ परिषेचनादूर्ध्व पार्वणधर्माणां सर्पिष्मत्वमेव भवतीति तेन ऽपूर्णपात्रस्तु दक्षिणेत्येकंऽइत्येतन्न भवतति सिद्धिं वाचयीततैर्भुक्तवद्भिः सङ्कल्पसिद्धिरस्तित्वति वाचनम् परिषेचनान्तवचनं कर्तृनियमार्थम् कथम्?यो होमस्य कर्ता स एव व्राह्मणभोजनं सिद्धिवाचनं च कुर्यादिति तेन यदुत्तरं कर्म परिकिरणादि तस्य वधूः कर्त्रीति

pārvaṇātideśāt ekasyaiva brāhmaṇasya bhojane prāpte bahutvaṃ vidhīyate tena sthālīpāko mahān kartavyaḥ sarpiṣmadvacanaṃ niyamārtha pariṣecanādūrdhva pārvaṇadharmāṇāṃ sarpiṣmatvameva bhavatīti tena 'pūrṇapātrastu dakṣiṇetyekaṃ'ityetanna bhavatati siddhiṃ vācayītatairbhuktavadbhiḥ saṅkalpasiddhirastitvati vācanam pariṣecanāntavacanaṃ kartṛniyamārtham katham?yo homasya kartā sa eva vrāhmaṇabhojanaṃ siddhivācanaṃ ca kuryāditi tena yaduttaraṃ karma parikiraṇādi tasya vadhūḥ kartrīti


4

आप्ग्स्-तात्_9.4: उभयोर्जायापत्योः ऽत्रिरात्रमुभयोरधश्शय्याऽइत्यधिकारात्, इह अन्वारब्धायामिति स्त्रीलिङ्गनिर्देशाच्च हृदयसंसर्ग मनसोस्सम्प्रीतिमीप्सुः वध्वा हितैषी पितृभ्रात्रादिरपापो ऽपि त्रिरात्रादनूनं यावन्मनस्तोषंब्रह्मचर्य चरित्वातस्यौपासन एव स्थालीपाकश्रपणाद्यग्निमुखान्तं कृत्वा तस्यामन्वारब्धायां स्थालीपाकादवदायऽप्रातरग्निमऽइत्यादिभिस्सप्तभिर्मन्त्रैः प्रत्यृचं प्रधानाहुतीर्हुत्वा जयादि प्रतिपद्यते तदनन्तरं स्विष्टकृदादि तन्त्रशेषं पार्वणवत् समाप्य,तेनहुतशेषेणसर्पिष्मता युग्मान् द्व्यवरान्द्वाववरौ संख्यातो येषां तान्ब्राह्मणान्यथालाभंभोजयित्वातैरेव भुक्तवद्भिः कर्मफलसिद्धिरस्त्वितिसिद्धिं वाचयीत तेन सर्पिष्मतेति च पार्वणसिद्धानुवादो युगिमानिति विधातुम्

āpgs-tāt_9.4: ubhayorjāyāpatyoḥ 'trirātramubhayoradhaśśayyā'ityadhikārāt, iha anvārabdhāyāmiti strīliṅganirdeśācca hṛdayasaṃsarga manasossamprītimīpsuḥ vadhvā hitaiṣī pitṛbhrātrādirapāpo 'pi trirātrādanūnaṃ yāvanmanastoṣaṃbrahmacarya caritvātasyaupāsana eva sthālīpākaśrapaṇādyagnimukhāntaṃ kṛtvā tasyāmanvārabdhāyāṃ sthālīpākādavadāya'prātaragnim'ityādibhissaptabhirmantraiḥ pratyṛcaṃ pradhānāhutīrhutvā jayādi pratipadyate tadanantaraṃ sviṣṭakṛdādi tantraśeṣaṃ pārvaṇavat samāpya,tenahutaśeṣeṇasarpiṣmatā yugmān dvyavarāndvāvavarau saṃkhyāto yeṣāṃ tānbrāhmaṇānyathālābhaṃbhojayitvātaireva bhuktavadbhiḥ karmaphalasiddhirastvitisiddhiṃ vācayīta tena sarpiṣmateti ca pārvaṇasiddhānuvādo yugimāniti vidhātum


7

4 पतिवश्यकरं कर्म (पाठाख्यायाः ओषध्याः यवैः प्रकिरणम्, तां स्वहस्तयोराबध्य ताभ्यां पत्युस्समालिङ्गनं च) श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति"यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि"इति आप्ग्स्_9.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.5: श्वोयत् करणीयं कर्मतत्तिष्येण नक्षत्रेणसम्पाद्यत इति कृत्वा पूर्वेद्युस्सिद्धिवाचनान्ते कर्मणि कृते पित्रादिना ऋत्विजा यजमानभूता वधूः यत्र प्रदेशे पाठा तिष्ठति तत्र गत्वा तांपाठां त्रिस्सप्तैःएकविंशत्यायवैः परिकिरति ऽवारुण्यसीऽत्येताभ्याम् त्रिस्सप्तैरिति छान्दसो निर्देशः पाठा ओषधिविशेषः आथर्विणिकास्तु पाशेत्यधीयते

4 pativaśyakaraṃ karma (pāṭhākhyāyāḥ oṣadhyāḥ yavaiḥ prakiraṇam, tāṃ svahastayorābadhya tābhyāṃ patyussamāliṅganaṃ ca) śvastiṣyeṇeti trissaptairyavaiḥ pāṭhāṃ parikirati"yadi vāruṇyasi varuṇāttvā niṣkrīṇāmi yadi saumyasi somāttvā niṣkrīṇāmi"iti āpgs_9.5 commentaries: āpgs-anā_9.5: śvoyat karaṇīyaṃ karmatattiṣyeṇa nakṣatreṇasampādyata iti kṛtvā pūrvedyussiddhivācanānte karmaṇi kṛte pitrādinā ṛtvijā yajamānabhūtā vadhūḥ yatra pradeśe pāṭhā tiṣṭhati tatra gatvā tāṃpāṭhāṃ trissaptaiḥekaviṃśatyāyavaiḥ parikirati 'vāruṇyasī'tyetābhyām trissaptairiti chāndaso nirdeśaḥ pāṭhā oṣadhiviśeṣaḥ ātharviṇikāstu pāśetyadhīyate


5

आप्ग्स्-तात्_9.5: पाठोत्थापनादि भर्तृपरिग्रहणान्तं कर्म श्वोभूते परिद्युस्तिष्यो भवतीति कृत्वा पूर्वेद्युःश्वस्तिष्यःपुनर्वसू इत्यर्थः तस्मिन् नक्षत्रे पित्रादिना सिद्धिवाचनान्ते कर्मणि कृते, अनन्तरं वधूर्यत्र भूमौ पाठास्ति तत्र गत्वा तांपाठां त्रिस्सप्तैःएकविंशत्या यवैः ऽयदि वारुण्यसिऽ; इत्येताभ्यांपरिकिरतिपरितो वपति त्रिस्सप्तैरिति छान्दसं रूपम्

āpgs-tāt_9.5: pāṭhotthāpanādi bhartṛparigrahaṇāntaṃ karma śvobhūte paridyustiṣyo bhavatīti kṛtvā pūrvedyuḥśvastiṣyaḥpunarvasū ityarthaḥ tasmin nakṣatre pitrādinā siddhivācanānte karmaṇi kṛte, anantaraṃ vadhūryatra bhūmau pāṭhāsti tatra gatvā tāṃpāṭhāṃ trissaptaiḥekaviṃśatyā yavaiḥ 'yadi vāruṇyasi'; ityetābhyāṃparikiratiparito vapati trissaptairiti chāndasaṃ rūpam


8

श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया आप्ग्स्_9.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.6: कृत्वा परिकिरणमुपोष्य ततःश्वोबूतेतां पाठां इत्थापयति खनित्रेण खात्वोत्खिदतिउत्तरयर्चा "इमां खनीमी"त्येतयी ततस्तामुत्तराभिः स्तिसृभिः ऋग्भिः अभिम्नत्रयेत ऽउत्तानपर्णे ऽइत्येताभिः तस्या मूलं द्वेधा प्रच्छिद्य हस्तयोरावध्नाति उत्तरयर्चाऽअहमस्मीऽत्येतया प्रतिच्छन्नां यथा भर्ता न पश्यति तथेत्यर्थः उभयत्र मन्त्रस्यावृत्तिः आबध्य ततो रात्रौ शय्याकाले भर्तारं परिगृह्णीयात् उपधानलिङ्गयाऋचा ऽउपते ऽधाऽमित्येतया उत्तरयेति वक्तव्ये उपधानलिङ्गयेति वचनं परिग्रहे विशेषविधानार्थम् यथा मूलयोः अन्यतरदधस्तादुपधानं भवति इतरच्चोपरिष्टादपिधानं तथा परिग्रहः कर्तव्यः

śvobhūte uttarayotthāpyottarābhistisṛbhirabhimantryottarayā praticchannāṃ hastayorābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyādupadhānaliṅgayā āpgs_9.6 commentaries: āpgs-anā_9.6: kṛtvā parikiraṇamupoṣya tataḥśvobūtetāṃ pāṭhāṃ itthāpayati khanitreṇa khātvotkhidatiuttarayarcā "imāṃ khanīmī"tyetayī tatastāmuttarābhiḥ stisṛbhiḥ ṛgbhiḥ abhimnatrayeta 'uttānaparṇe 'ityetābhiḥ tasyā mūlaṃ dvedhā pracchidya hastayorāvadhnāti uttarayarcā'ahamasmī'tyetayā praticchannāṃ yathā bhartā na paśyati tathetyarthaḥ ubhayatra mantrasyāvṛttiḥ ābadhya tato rātrau śayyākāle bhartāraṃ parigṛhṇīyāt upadhānaliṅgayāṛcā 'upate 'dhā'mityetayā uttarayeti vaktavye upadhānaliṅgayeti vacanaṃ parigrahe viśeṣavidhānārtham yathā mūlayoḥ anyataradadhastādupadhānaṃ bhavati itaraccopariṣṭādapidhānaṃ tathā parigrahaḥ kartavyaḥ


6

आप्ग्स्-तात्_9.6: परेद्युर्वधूरेव तां पाठां ऽइमां खनामिऽइत्येतया खमित्रेणोत्खाय ऽउत्तानपर्णेऽइत्यादिभिस्तिसृभिरभिमन्त्र्यतस्याः मूलं द्विधा छित्वा उपायेन भर्तुरदृश्ये कृत्वा ऽअहमस्मि सहमानाऽइत्येतयाभ्यस्तया स्वहस्तयोराबध्य रात्रौ शय्याकाले ऽउपते ऽधामऽइत्युपधानलिङ्गया बाहुभ्यां भर्तारं परिगृह्णीयात् उपधानलिङ्गयेति ज्ञापनं च कर्माङ्गम् केचित्-आबध्य पाठामूलयोर्हस्तयोरुपधानमेको ऽन्यश्चापिधानं यथा स्यात् तथा परिगृह्णीयादिति

āpgs-tāt_9.6: paredyurvadhūreva tāṃ pāṭhāṃ 'imāṃ khanāmi'ityetayā khamitreṇotkhāya 'uttānaparṇe'ityādibhistisṛbhirabhimantryatasyāḥ mūlaṃ dvidhā chitvā upāyena bharturadṛśye kṛtvā 'ahamasmi sahamānā'ityetayābhyastayā svahastayorābadhya rātrau śayyākāle 'upate 'dhām'ityupadhānaliṅgayā bāhubhyāṃ bhartāraṃ parigṛhṇīyāt upadhānaliṅgayeti jñāpanaṃ ca karmāṅgam kecit-ābadhya pāṭhāmūlayorhastayorupadhānameko 'nyaścāpidhānaṃ yathā syāt tathā parigṛhṇīyāditi


9

वश्यो भवति आप्ग्स्_9.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.7: यदि भार्या भर्तरि न रमते तदा नैवैतत्कर्म भवतीति प्रदर्शनार्थमिदंवश्यः पतिर्भवति भार्यायाः न भार्या भर्तुरिति

vaśyo bhavati āpgs_9.7 commentaries: āpgs-anā_9.7: yadi bhāryā bhartari na ramate tadā naivaitatkarma bhavatīti pradarśanārthamidaṃvaśyaḥ patirbhavati bhāryāyāḥ na bhāryā bharturiti


7

इदं स्पष्टम् (तासर्थदर्शनम् ) वश्य इति पुल्लिङ्गनिर्देशात् वधूरिह यजमाना

idaṃ spaṣṭam (tāsarthadarśanam ) vaśya iti pulliṅganirdeśāt vadhūriha yajamānā


10

अस्य अधिकारान्तरसंयोगमाह 5 सपत्नीबाधनं कर्म सपत्नीबाधनं च आप्ग्स्_9.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.8: न केवलमुभयोर्हृदयसंसर्गसाधनमेवैतत्कर्म, किं तर्हि?सपत्नीबाधनच्चसपत्न्यप्यनेन बाधितुं शक्येत्यर्थः अस्मिन्नपि पक्षे औपासन एवाग्निः यो ऽस्या विवाहेन सम्पादितः या सप्तनीं बाधते विवाहभेदाध्द्यग्निस्संसृज्यते तथा च राजसूय इत्युक्तं-"तस्या औपासने प्रतिनिहितम्"(आपश्रौ.18-16-14) इति तथा-अग्निसंसर्गो बौधायनीये ऽभिहितः संसर्गादूर्ध्वमपि तस्मिन्नेव भवति यथा बाध्यमाना सपत्नी न जानाति केचित् पूर्वस्मिन्नेवाग्नौ द्वितीयं विवाहमिच्छन्ति तेषामपि तस्मिन्नेव कर्म

asya adhikārāntarasaṃyogamāha 5 sapatnībādhanaṃ karma sapatnībādhanaṃ ca āpgs_9.8 commentaries: āpgs-anā_9.8: na kevalamubhayorhṛdayasaṃsargasādhanamevaitatkarma, kiṃ tarhi?sapatnībādhanaccasapatnyapyanena bādhituṃ śakyetyarthaḥ asminnapi pakṣe aupāsana evāgniḥ yo 'syā vivāhena sampāditaḥ yā saptanīṃ bādhate vivāhabhedādhdyagnissaṃsṛjyate tathā ca rājasūya ityuktaṃ-"tasyā aupāsane pratinihitam"(āpaśrau.18-16-14) iti tathā-agnisaṃsargo baudhāyanīye 'bhihitaḥ saṃsargādūrdhvamapi tasminneva bhavati yathā bādhyamānā sapatnī na jānāti kecit pūrvasminnevāgnau dvitīyaṃ vivāhamicchanti teṣāmapi tasminneva karma


8

आप्ग्स्-तात्_9.8: सपत्नी बाध्यते येन तत्सपत्नीबाधनम् एतत्कर्म सपत्नीबाधनमपि भवति अधिकारान्तरं च युक्तम्;य एकया संसृष्टहृदयो ऽप्यन्यां तत्सपत्नीं भार्या तदधीनधर्मादावपि लोभान्न बाधते सो ऽपि कथं नु नाम तदधीनधर्मा द्युपेक्षयापि तां बाधेतैवेत्येवमर्थत्वादस्य कर्मणः

āpgs-tāt_9.8: sapatnī bādhyate yena tatsapatnībādhanam etatkarma sapatnībādhanamapi bhavati adhikārāntaraṃ ca yuktam;ya ekayā saṃsṛṣṭahṛdayo 'pyanyāṃ tatsapatnīṃ bhāryā tadadhīnadharmādāvapi lobhānna bādhate so 'pi kathaṃ nu nāma tadadhīnadharmā dyupekṣayāpi tāṃ bādhetaivetyevamarthatvādasya karmaṇaḥ


11

अथान्यदपि सपत्नीबाधनमाह- 6 क्षयरोगग्रस्तायां भार्यादौ तन्निवृत्तिकरं कर्म एतेनैव कामेनोत्तरेणानुवाकेन सदाऽदित्यमुपतिष्ठते आप्ग्स्_9.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.9: एतेनैवसपत्नीबाधनेनकामेन उत्तरेणानुवाकेन"उदसौ सूर्यो अगात्"इत्यनेनसदाअहरहःआदित्यमुपतिष्ठते सदार्थकएवकारः पौनर्वाचनिकः

athānyadapi sapatnībādhanamāha- 6 kṣayarogagrastāyāṃ bhāryādau tannivṛttikaraṃ karma etenaiva kāmenottareṇānuvākena sadā'dityamupatiṣṭhate āpgs_9.9 commentaries: āpgs-anā_9.9: etenaivasapatnībādhanenakāmena uttareṇānuvākena"udasau sūryo agāt"ityanenasadāaharahaḥādityamupatiṣṭhate sadārthakaevakāraḥ paunarvācanikaḥ


9

आप्ग्स्-तात्_9.9: एतास्मिन्नेव कामे वधूः ऽउदसौ सूर्यो अगातऽइत्यनुवाकेन प्राग्भोजनादहरहरादित्यमुपतिष्ठते सदेति वचनं च सिद्धे ऽपि सपत्नीबाधनकामे कर्मान्तरं वेति

āpgs-tāt_9.9: etāsminneva kāme vadhūḥ 'udasau sūryo agāt'ityanuvākena prāgbhojanādaharaharādityamupatiṣṭhate sadeti vacanaṃ ca siddhe 'pi sapatnībādhanakāme karmāntaraṃ veti


12

यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् आप्ग्स्_9.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.10: यक्ष्माराजयक्ष्माक्षयरोगः तेन गृहीतांभार्या अन्यां वा स्वां स्त्रियं मातृप्रभृतिं ज्ञात्वा भैषज्यमिदं कर्तव्यम् किं तत्? उत्यते-ब्रह्मचर्येण युक्तःपुष्करस्य संवर्तमूलैःपरिमण्डलाकारैः मूलैः संवर्तमूलैश्चेत्यन्ये संवर्तिका नवदलमिति नैघण्टुकाः उत्तरैर्मन्त्रैः"अक्षीभ्यां ते नासिकाभ्यां"इत्यादिभिः यथालिङ्गंतस्या अक्ष्यादीन्यङ्गानि समृश्यप्रतीचीनंयथा तथानिरस्येत् यथालिङ्गवचनात् प्रतिमन्त्रं सम्मर्शनं निरसनं च एकैकेन मूलेन सम्मर्खनम्,बहुवचनस्य सर्वापेक्षत्वात् आन्त्रादीनामन्तर्गतत्वात् बहिस्तत्प्रदेशे सम्मार्जनम्

yakṣmagṛhītāmanyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlairuttarairyathāliṅgamaṅgāni saṃmṛśya pratīcīnaṃ nirasyet āpgs_9.10 commentaries: āpgs-anā_9.10: yakṣmārājayakṣmākṣayarogaḥ tena gṛhītāṃbhāryā anyāṃ vā svāṃ striyaṃ mātṛprabhṛtiṃ jñātvā bhaiṣajyamidaṃ kartavyam kiṃ tat? utyate-brahmacaryeṇa yuktaḥpuṣkarasya saṃvartamūlaiḥparimaṇḍalākāraiḥ mūlaiḥ saṃvartamūlaiścetyanye saṃvartikā navadalamiti naighaṇṭukāḥ uttarairmantraiḥ"akṣībhyāṃ te nāsikābhyāṃ"ityādibhiḥ yathāliṅgaṃtasyā akṣyādīnyaṅgāni samṛśyapratīcīnaṃyathā tathānirasyet yathāliṅgavacanāt pratimantraṃ sammarśanaṃ nirasanaṃ ca ekaikena mūlena sammarkhanam,bahuvacanasya sarvāpekṣatvāt āntrādīnāmantargatatvāt bahistatpradeśe sammārjanam


10

आप्ग्स्-तात्_9.10: राज्यक्ष्मणा गृहीतां, अन्यां वा राजयक्ष्मणो ऽन्यैः कुष्ठादिभिर्गृहीतां वा वधूं तद्धितैषी उक्तलक्षणब्रह्मचर्ययुक्तःपुष्करस्यपद्मस्य संवर्तिकाभिर्दलैर्मूलैश्च ऽअक्षीब्यां तेऽइत्याद्यृग्रूपैष्षड्भिर्मन्त्रैःयथालिङ्गंमन्त्रलिङ्गप्रतिपन्नानि भाष्ये व्याख्यातान्यक्ष्यादीन्यङ्गानिसंमृश्य प्रतिमन्त्रं तानिप्रतीचीनं निरस्येत् एतेन भैषज्येनागदा स्यादिति तात्पर्यम् केचित् यक्ष्मगृहीतां भार्या अन्यां वा मात्रादिं पुष्करस्य संवर्तैः परिमण्डलाकारैः मूलैरिति

āpgs-tāt_9.10: rājyakṣmaṇā gṛhītāṃ, anyāṃ vā rājayakṣmaṇo 'nyaiḥ kuṣṭhādibhirgṛhītāṃ vā vadhūṃ taddhitaiṣī uktalakṣaṇabrahmacaryayuktaḥpuṣkarasyapadmasya saṃvartikābhirdalairmūlaiśca 'akṣībyāṃ te'ityādyṛgrūpaiṣṣaḍbhirmantraiḥyathāliṅgaṃmantraliṅgapratipannāni bhāṣye vyākhyātānyakṣyādīnyaṅgānisaṃmṛśya pratimantraṃ tānipratīcīnaṃ nirasyet etena bhaiṣajyenāgadā syāditi tātparyam kecit yakṣmagṛhītāṃ bhāryā anyāṃ vā mātrādiṃ puṣkarasya saṃvartaiḥ parimaṇḍalākāraiḥ mūlairiti


13

7 वधूवाससो दानम् वधूवास उत्तराभिरेतद्विदे दद्यात् आप्ग्स्_9.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_9.11: विवाहकाले यत्वासःपरिधापितं, ततेतद्विदेब्राह्मणाय दद्यात्, यो ऽस्मिन् प्रश्ने पठितान् मन्त्रान् सार्थान् वेद तस्मै केचित्-भैषज्यशेषमिदं मन्यन्ते आनन्तर्यात् तेषां वधूवास इति विशेषणमन्यस्याः स्त्रियाः यक्ष्मगृहीतायाः वाससो दाननिवृत्त्यर्थम् एतद्विद इति च भैषज्यकर्मकृत इत्यर्थः मन्त्रेषु तु परादेहि इत्यादिषु विवाहकाले परिहितस्य वधूवाससः स्पर्शनिन्दा सूर्याविदे ब्राह्मणाय तद्दानं च दृश्यते कल्पान्तरे च तद्व्यक्तम् -"चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्"(आश्वगृ. 1.8.13) इति तस्मात् भैषज्यशेषत्वमनुपपन्नम् यत्पुनरुक्तं आनन्तर्यादिति, तत्र कारणमुक्तमेव कथम्?एवमन्तं विवाहप्रकरणं स्यादिति

7 vadhūvāsaso dānam vadhūvāsa uttarābhiretadvide dadyāt āpgs_9.11 commentaries: āpgs-anā_9.11: vivāhakāle yatvāsaḥparidhāpitaṃ, tatetadvidebrāhmaṇāya dadyāt, yo 'smin praśne paṭhitān mantrān sārthān veda tasmai kecit-bhaiṣajyaśeṣamidaṃ manyante ānantaryāt teṣāṃ vadhūvāsa iti viśeṣaṇamanyasyāḥ striyāḥ yakṣmagṛhītāyāḥ vāsaso dānanivṛttyartham etadvida iti ca bhaiṣajyakarmakṛta ityarthaḥ mantreṣu tu parādehi ityādiṣu vivāhakāle parihitasya vadhūvāsasaḥ sparśanindā sūryāvide brāhmaṇāya taddānaṃ ca dṛśyate kalpāntare ca tadvyaktam -"caritavrataḥ sūryāvide vadhūvastraṃ dadyāt"(āśvagṛ. 1.8.13) iti tasmāt bhaiṣajyaśeṣatvamanupapannam yatpunaruktaṃ ānantaryāditi, tatra kāraṇamuktameva katham?evamantaṃ vivāhaprakaraṇaṃ syāditi


11

आप्ग्स्-तात्_9.11: यस्यावध्वाइदं भैषज्यं क्रियते तस्यावासः एतद्विदेएतत्कर्म समन्त्रार्थ यो वेत्ति तस्मै ऽपरा देहिऽइत्यादिभिश्चत भ्र्द तसृभिर्दद्यात् केचित्-विवाहकाले वध्वा यदाच्छादितं वासस्तद्रिमुच्यासंस्पृशन्नेव पञ्चम्यां ऽपरा देहिऽइत्यादिभिश्चरितव्रतायएतद्विदेसूर्याविदे, य एतान् मन्त्रान् सार्थान् वेद तस्मै दद्यात् असंस्पर्शस्च ऽक्रूरमेतत् कटुकमेततऽइति लिह्घात् अस्य च समावेशनानन्तरमुपदेष्ट व्यस्य इहोपदेशो हृदयसंसर्गार्थे कर्मणि शम्याज्ञापनार्थमिति नेदं युक्तम्, सन्निहितकर्मपरित्यागेन वासोदानस्य अतिव्यवहितविवाह अर्थज्ञानानुदयात्, अस्मदीयानामाचाराभावाच्च

āpgs-tāt_9.11: yasyāvadhvāidaṃ bhaiṣajyaṃ kriyate tasyāvāsaḥ etadvideetatkarma samantrārtha yo vetti tasmai 'parā dehi'ityādibhiścata bhrda tasṛbhirdadyāt kecit-vivāhakāle vadhvā yadācchāditaṃ vāsastadrimucyāsaṃspṛśanneva pañcamyāṃ 'parā dehi'ityādibhiścaritavratāyaetadvidesūryāvide, ya etān mantrān sārthān veda tasmai dadyāt asaṃsparśasca 'krūrametat kaṭukametat'iti lihghāt asya ca samāveśanānantaramupadeṣṭa vyasya ihopadeśo hṛdayasaṃsargārthe karmaṇi śamyājñāpanārthamiti nedaṃ yuktam, sannihitakarmaparityāgena vāsodānasya ativyavahitavivāha arthajñānānudayāt, asmadīyānāmācārābhāvācca


1

इन्थं सुदर्शनार्येण साहसैकप्लवाश्रयात् कृच्छ्रात्तीर्णो ऽतिगूढार्थस्तृतीयपटलोदधिः

inthaṃ sudarśanāryeṇa sāhasaikaplavāśrayāt kṛcchrāttīrṇo 'tigūḍhārthastṛtīyapaṭalodadhiḥ


2

अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा सन्मार्ग प्रवणत्वेन तत् क्षमध्वं विपश्चितः

atrānuktaṃ duruktaṃ vā matermāndyācchrutasya vā sanmārga pravaṇatvena tat kṣamadhvaṃ vipaścitaḥ


1

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने नवमः खण्डः तृतीयश्च पटलः समाप्तः ==================================================================================== अथ चतुर्थः पटलः अथ दशमः खण्डः 6 उपनयनप्रकरणम् - 1 उपनयनस्य कालः उपनयनं व्याख्यास्यामः आप्ग्स्_10.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.1: येन आचार्यकुसमुपनीयते कुमारःतदुपनयनं नाम कर्म श्रौतः पुरुषसंस्कारः ऽगर्भाषटमेषु ब्राह्मणमुपनयीतऽइति वक्ष्यमाणेनैवोपनयनाधिकारे सिद्धे प्रतिज्ञाकरणं प्राधान्यख्यापनार्थम् यथा"अग्न्याधेयं व्याख्यास्याम"(आपश्रौ.5.1.1) इत्यादौ कथं पुनरुपनयनस्य प्राधान्यम्?यस्मादनुपनीतस्य श्रौतस्मार्तेषु सर्वेषु कर्मस्वनधिकारः उपनयने तु गर्भाधानदिभिरसंस्कृतस्यानंधिकारः यत्र ब्रह्मचारिधर्माः सामयाचारिकेषु तत्रैवोपनयने ऽप्युच्यमाने सर्वचरणार्थता स्यात् इष्यते चास्मदीयानामेवायं कल्पः तस्मादत्रोपदेशः

iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane navamaḥ khaṇḍaḥ tṛtīyaśca paṭalaḥ samāptaḥ ==================================================================================== atha caturthaḥ paṭalaḥ atha daśamaḥ khaṇḍaḥ 6 upanayanaprakaraṇam - 1 upanayanasya kālaḥ upanayanaṃ vyākhyāsyāmaḥ āpgs_10.1 commentaries: āpgs-anā_10.1: yena ācāryakusamupanīyate kumāraḥtadupanayanaṃ nāma karma śrautaḥ puruṣasaṃskāraḥ 'garbhāṣaṭameṣu brāhmaṇamupanayīta'iti vakṣyamāṇenaivopanayanādhikāre siddhe pratijñākaraṇaṃ prādhānyakhyāpanārtham yathā"agnyādheyaṃ vyākhyāsyāma"(āpaśrau.5.1.1) ityādau kathaṃ punarupanayanasya prādhānyam?yasmādanupanītasya śrautasmārteṣu sarveṣu karmasvanadhikāraḥ upanayane tu garbhādhānadibhirasaṃskṛtasyānaṃdhikāraḥ yatra brahmacāridharmāḥ sāmayācārikeṣu tatraivopanayane 'pyucyamāne sarvacaraṇārthatā syāt iṣyate cāsmadīyānāmevāyaṃ kalpaḥ tasmādatropadeśaḥ


1

आप्ग्स्-तात्_10.1: उपनयनमिति कर्मनामधेयम् कुमारस्याचार्यसमीपनयनमस्मिन् कर्मणीति, पङ्कजादिवत् विर्विस्तरार्थः आङ्ब लव- दर्थः चक्षिङो ऽत्र व्यक्तवागर्थस्य ख्याञादेशात्व्याख्यास्यामैति रूपम् तथा चायमर्थः- उपनयनाख्यं कर्म वैकल्पिककल्पोक्त्या विस्तृतं बलवत्प्रमाणोपपन्नं असाधारणैश्शब्दैर्वक्ष्याम इति इयं च प्रतिज्ञा श्रोतृजनमनो ऽवधारणार्था केचित्-दैवादेर्विघ्नात् पूर्वैर्निषेकादिभिरसंस्कृतस्याप्युपनयनं भवत्येव न तूपनयनासंस्कृतस्य उत्तराणि श्रौतस्मार्तानीत्येवमुपनयनप्राधान्यज्ञापनार्था प्रतिज्ञा किञ्चि गृह्योपदिष्टकर्मसु गृहस्थस्यैवाधिकारो न ब्रह्मतारिण इत्येवंरूपं विशेषं ज्ञापयितुमप्रतिज्ञं विवाहमुपदिश्य उपनयनकल्पोपदेशः सप्रतिज्ञः क्रियते अस्य च कल्पस्य धर्मशास्त्रे ऽउपनयनं विद्यार्तस्यऽ(आपध.1-1-9) इत्य त्रानुपदेशः सर्वचरणार्थतां निवर्तयितुमिति

āpgs-tāt_10.1: upanayanamiti karmanāmadheyam kumārasyācāryasamīpanayanamasmin karmaṇīti, paṅkajādivat virvistarārthaḥ āṅba lava- darthaḥ cakṣiṅo 'tra vyaktavāgarthasya khyāñādeśātvyākhyāsyāmaiti rūpam tathā cāyamarthaḥ- upanayanākhyaṃ karma vaikalpikakalpoktyā vistṛtaṃ balavatpramāṇopapannaṃ asādhāraṇaiśśabdairvakṣyāma iti iyaṃ ca pratijñā śrotṛjanamano 'vadhāraṇārthā kecit-daivādervighnāt pūrvairniṣekādibhirasaṃskṛtasyāpyupanayanaṃ bhavatyeva na tūpanayanāsaṃskṛtasya uttarāṇi śrautasmārtānītyevamupanayanaprādhānyajñāpanārthā pratijñā kiñci gṛhyopadiṣṭakarmasu gṛhasthasyaivādhikāro na brahmatāriṇa ityevaṃrūpaṃ viśeṣaṃ jñāpayitumapratijñaṃ vivāhamupadiśya upanayanakalpopadeśaḥ sapratijñaḥ kriyate asya ca kalpasya dharmaśāstre 'upanayanaṃ vidyārtasya'(āpadha.1-1-9) itya trānupadeśaḥ sarvacaraṇārthatāṃ nivartayitumiti


2

गर्भाष्टमेषु ब्राह्मणमुपनयीत आप्ग्स्_10.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.2: यस्मिन् वर्षे गर्भो भूत्वा शेते तद्वर्ष गर्भशब्देनोच्यते तदष्टमं येषां तानीमानिगर्भाष्टमानिवर्षाणि बहुवचनं सौरादिभेदेन वर्षाणं भिन्नत्वात् अपर आह-जन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति तेन सप्तस्वपि वर्षेषूपनयनं चोद्यते तत्र चतुर्षु वर्षेष्वयोग्यत्वात् चौलादिसंस्कारान्तरविरोधाच्च पञ्चमादिषु त्रिषुपनयनमिति अत्र षष्ठसप्तमयोः काम्यमुपनयनष्टमे नित्यमित्ययं विसेषो न स्यात् सर्वत्र नित्यमेव स्यात् किंच पञ्चमे षष्ठे वा वर्षे वर्तमाने कथं गर्भवर्षमष्टमं भवति नह्यसत्यपूरणीयेषु पूरणत्वमुपपद्यते तस्मात् सप्तमे वर्तमान एव गर्भवर्षमष्टमं भवति तस्मादविवक्षितं बहुवचनम् पूर्वोक्तो वा निर्वाहः काम्यं तूपनयनं विध्यन्तरलभ्यम् उपनयीतेति पाठः श्रुत्यनुसारेण शब्विकरणस्तु धातुः राजन्यवैश्ययोः विशेषोपदेशा देव गर्भाष्टमविधेः ब्राह्मणविषयत्वे सिद्धे ब्राह्मणविधिः श्रुत्यनुवाद एव पुनरुपनयीतेत्यनुच्यमाने पूर्वमुपनयनग्रहणमधिकारार्थमेव स्यात्, तमर्थ न साझयेत् यस्तत्र साध्यः

garbhāṣṭameṣu brāhmaṇamupanayīta āpgs_10.2 commentaries: āpgs-anā_10.2: yasmin varṣe garbho bhūtvā śete tadvarṣa garbhaśabdenocyate tadaṣṭamaṃ yeṣāṃ tānīmānigarbhāṣṭamānivarṣāṇi bahuvacanaṃ saurādibhedena varṣāṇaṃ bhinnatvāt apara āha-janmaprabhṛti saptānāṃ varṣāṇāṃ garbhamaṣṭamaṃ bhavati tena saptasvapi varṣeṣūpanayanaṃ codyate tatra caturṣu varṣeṣvayogyatvāt caulādisaṃskārāntaravirodhācca pañcamādiṣu triṣupanayanamiti atra ṣaṣṭhasaptamayoḥ kāmyamupanayanaṣṭame nityamityayaṃ viseṣo na syāt sarvatra nityameva syāt kiṃca pañcame ṣaṣṭhe vā varṣe vartamāne kathaṃ garbhavarṣamaṣṭamaṃ bhavati nahyasatyapūraṇīyeṣu pūraṇatvamupapadyate tasmāt saptame vartamāna eva garbhavarṣamaṣṭamaṃ bhavati tasmādavivakṣitaṃ bahuvacanam pūrvokto vā nirvāhaḥ kāmyaṃ tūpanayanaṃ vidhyantaralabhyam upanayīteti pāṭhaḥ śrutyanusāreṇa śabvikaraṇastu dhātuḥ rājanyavaiśyayoḥ viśeṣopadeśā deva garbhāṣṭamavidheḥ brāhmaṇaviṣayatve siddhe brāhmaṇavidhiḥ śrutyanuvāda eva punarupanayītetyanucyamāne pūrvamupanayanagrahaṇamadhikārārthameva syāt, tamartha na sājhayet yastatra sādhyaḥ


2

आप्ग्स्-तात्_10.2: गर्भाष्टमेषुवर्षेष्विति शेषः ऽगर्भादिस्सङ्ख्या वर्षाणामऽ(गौध.2-7) इति गौतमवचनात् गर्भशब्देन यस्मिन् गर्भो वर्धेते, तल्लक्ष्यते तदष्टमं येषां जन्मादीनां सप्तानां तानि गर्भाष्टमानि वर्षाणि तेषुब्राह्मणमुपनयीत एवं यद्यति जन्मादिसप्तस्वप्युपनयनं प्राप्तं,तथापि जन्मादिषु त्रिषु चौलान्तैः गर्भसंस्कारैरवरुद्धत्वान्न क्रियते चतुर्थे ऽपि नैव;कुमारस्य व्रतीचरणा सामर्थ्यात् अतो ऽत्रोपादेयगता बहुत्वसङ्ख्या कपिञ्जलन्यायेन गर्भादारभ्य षष्ठसप्तमाष्टमेषु त्रिष्वेवावतिष्ठते, सामर्थ्यात् प्रयोगभेदेन ननूत्तरत्र ऽराजन्यंऽऽवैश्यऽमिति विशेषोपादानादेव गर्भाष्टमविधिर्ब्रअह्मण स्यैवेत्यर्थसिद्धत्वात् ब्राह्मणमिति न वक्तव्यम् तथोपनयनं व्याख्यास्याम इति मकृतत्वादुपनयीतेत्यपि मैवम्;उपनयनं श्रौतमिति ज्ञापयितुम् ऽअष्टवर्ष ब्राह्मणमुपनयीतऽइत्येत च्छ्रुत्यनुकारित्वात् केचित्-गर्भाष्टम एव वर्षे, न तु षष्ठसप्तमयोः तयोर्र्गभाष्टमत्वाभावादिति तन्न;बहुवचनानर्थक्यात्

āpgs-tāt_10.2: garbhāṣṭameṣuvarṣeṣviti śeṣaḥ 'garbhādissaṅkhyā varṣāṇām'(gaudha.2-7) iti gautamavacanāt garbhaśabdena yasmin garbho vardhete, tallakṣyate tadaṣṭamaṃ yeṣāṃ janmādīnāṃ saptānāṃ tāni garbhāṣṭamāni varṣāṇi teṣubrāhmaṇamupanayīta evaṃ yadyati janmādisaptasvapyupanayanaṃ prāptaṃ,tathāpi janmādiṣu triṣu caulāntaiḥ garbhasaṃskārairavaruddhatvānna kriyate caturthe 'pi naiva;kumārasya vratīcaraṇā sāmarthyāt ato 'tropādeyagatā bahutvasaṅkhyā kapiñjalanyāyena garbhādārabhya ṣaṣṭhasaptamāṣṭameṣu triṣvevāvatiṣṭhate, sāmarthyāt prayogabhedena nanūttaratra 'rājanyaṃ''vaiśya'miti viśeṣopādānādeva garbhāṣṭamavidhirbraahmaṇa syaivetyarthasiddhatvāt brāhmaṇamiti na vaktavyam tathopanayanaṃ vyākhyāsyāma iti makṛtatvādupanayītetyapi maivam;upanayanaṃ śrautamiti jñāpayitum 'aṣṭavarṣa brāhmaṇamupanayīta'ityeta cchrutyanukāritvāt kecit-garbhāṣṭama eva varṣe, na tu ṣaṣṭhasaptamayoḥ tayorrgabhāṣṭamatvābhāvāditi tanna;bahuvacanānarthakyāt


3

गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् आप्ग्स्_10.3 वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण आप्ग्स्_10.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.4: उदगयने वसन्तनियमः ब्राह्मणस्य क्षत्रियस्यापवादो नियमो वा वैश्यापवादः पूर्वपक्षादयस्तु स्थिता एव वर्षाण्यृतनश्च विधीयन्ते इह सामयाचारिकेषु च तत्र सामयाचारिकेषु विधानं सर्वचरणार्थम् इह विधानं वर्णनियमार्थम् शास्त्रान्तरदृष्टानां कालान्तराणामिहप्रवृत्तिर्मा भूदित्येवं ब्रुवन्नेतत् ज्ञापयति-चौलादिषु शास्त्रान्तरदृष्टो ऽपि कालः पक्षे भवतीति

garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam āpgs_10.3 vasanto grīṣmaśśaradityṛtavo varṇānupūrvyeṇa āpgs_10.4 commentaries: āpgs-anā_10.4: udagayane vasantaniyamaḥ brāhmaṇasya kṣatriyasyāpavādo niyamo vā vaiśyāpavādaḥ pūrvapakṣādayastu sthitā eva varṣāṇyṛtanaśca vidhīyante iha sāmayācārikeṣu ca tatra sāmayācārikeṣu vidhānaṃ sarvacaraṇārtham iha vidhānaṃ varṇaniyamārtham śāstrāntaradṛṣṭānāṃ kālāntarāṇāmihapravṛttirmā bhūdityevaṃ bruvannetat jñāpayati-caulādiṣu śāstrāntaradṛṣṭo 'pi kālaḥ pakṣe bhavatīti


3

आप्ग्स्-तात्_10.4: उभयत्रापि कपिञ्जलन्यायेन बहुवचनस्य त्रित्वमेवार्थः

āpgs-tāt_10.4: ubhayatrāpi kapiñjalanyāyena bahuvacanasya tritvamevārthaḥ


4

ऋतवो वसन्तादयस्त्रयो ब्राह्मणादिवर्णक्रमेणोपनयनस्य काला भवन्ति अयं चर्तुविधिस्सामानायाविधिप्राप्तोदगयनस्य यथार्ह नियमापवादार्थः पूर्वपक्षादिस्तु भवत्येव धर्मशास्त्रे तु ऽवसन्ते ब्राह्मणमऽ(आपघ.1-1-19) इत्यादिः ऽशिशिरे च वा सर्वानऽइति भरद्वाजगृह्योक्तशिशिरप्रतिषेधार्थः ऽगर्भाष्टमेषु ब्राह्मणमऽइत्यादिस्तु ऽअथ काम्यानिऽ(आपध.1-1-20) इत्यादि विधातुमनुवादः

ṛtavo vasantādayastrayo brāhmaṇādivarṇakrameṇopanayanasya kālā bhavanti ayaṃ cartuvidhissāmānāyāvidhiprāptodagayanasya yathārha niyamāpavādārthaḥ pūrvapakṣādistu bhavatyeva dharmaśāstre tu 'vasante brāhmaṇam'(āpagha.1-1-19) ityādiḥ 'śiśire ca vā sarvān'iti bharadvājagṛhyoktaśiśirapratiṣedhārthaḥ 'garbhāṣṭameṣu brāhmaṇam'ityādistu 'atha kāmyāni'(āpadha.1-1-20) ityādi vidhātumanuvādaḥ


4

2 उपनयने दिग्वपनम् ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वानुवाकस्य प्रथमेन यजुषापः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति आप्ग्स्_10.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.5: अथोपनयनविधिः-पूर्वेद्युर्नान्दीश्राद्धम् ततः श्वोभूते ब्राह्मणान् भोजयित्वा तैराशिषो वाचयति-पिण्याहं स्वस्यृद्धं इति ततः कुमारं भोजयेत् एवमन्तं पित्रादेः कर्म अथाचार्यः उष्णाश्शीताश्चापः संसृजति अनुवाकस्योत्तरस्यप्रथमेन यजुषा ऽउष्णेनवायऽ; वित्येतेन संसृजंश्चोष्णाश्शीतास्वानयति, न शीता उष्णासु ततस्ताभिरद्भिः कुमारस्यशिर उनत्तिक्लेदयति-उत्तरयर्चाऽआप उन्दन्त्विऽत्येतया उत्तरेण यजुषेत्येव सिद्धे अनुवाकस्य प्रथमेन यजुषेत्युक्तं संज्ञाकरणार्थम् तेन उष्णेन वायवुदकेनेत्येष इत्यत्रानुवाकस्य ग्रहणं भवति अन्यथा संशयः स्यात्- अनुवाको मन्त्रा वेति उष्णाश्शीतास्वानीयेत्येव सिद्धे संसृज्येतिवचनं सर्वार्थत्वप्रदर्शनार्थम् अत्मनश्च नापितस्य च या उन्दनार्थास्ताः संसृजति तच्चान्येषां व्यक्तम्-नापितं शिष्यात्-शीतो ष्णाभिरह्भिरबर्थ कुर्वाणो ऽक्षण्वन् कुशलीकुर्विति (आश्वगृ.1-17-16)

2 upanayane digvapanam brāhmaṇānbhojayitvā'śiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāśśītāsvānīyottarayā śira unatti āpgs_10.5 commentaries: āpgs-anā_10.5: athopanayanavidhiḥ-pūrvedyurnāndīśrāddham tataḥ śvobhūte brāhmaṇān bhojayitvā tairāśiṣo vācayati-piṇyāhaṃ svasyṛddhaṃ iti tataḥ kumāraṃ bhojayet evamantaṃ pitrādeḥ karma athācāryaḥ uṣṇāśśītāścāpaḥ saṃsṛjati anuvākasyottarasyaprathamena yajuṣā 'uṣṇenavāya'; vityetena saṃsṛjaṃścoṣṇāśśītāsvānayati, na śītā uṣṇāsu tatastābhiradbhiḥ kumārasyaśira unattikledayati-uttarayarcā'āpa undantvi'tyetayā uttareṇa yajuṣetyeva siddhe anuvākasya prathamena yajuṣetyuktaṃ saṃjñākaraṇārtham tena uṣṇena vāyavudakenetyeṣa ityatrānuvākasya grahaṇaṃ bhavati anyathā saṃśayaḥ syāt- anuvāko mantrā veti uṣṇāśśītāsvānīyetyeva siddhe saṃsṛjyetivacanaṃ sarvārthatvapradarśanārtham atmanaśca nāpitasya ca yā undanārthāstāḥ saṃsṛjati taccānyeṣāṃ vyaktam-nāpitaṃ śiṣyāt-śīto ṣṇābhirahbhirabartha kurvāṇo 'kṣaṇvan kuśalīkurviti (āśvagṛ.1-17-16)


5

आप्ग्स्-तात्_10.5: ब्राह्मणान् भोजयित्वेत्यनेन यच्छ्राद्धं धर्मशास्त्रे ऽशुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेतऽ(आपध.2-15-11) इति विहितं, यदेव नान्दीश्राद्धमभ्युदयश्राद्धमिति प्रसिद्धं, तदेवोच्यते तच्च स्मृत्यन्तरप्रसिद्धविधिना कर्तव्यम् तस्य त्विह पुनः पाठः पाठक्रमेणानुष्ठानार्थः अन्यथा पदार्थानां बद्धक्रमत्वाद्विवाहादिष्विवान्त एव स्यात् अशीर्वचने ऽपि धर्मशास्त्रविहिते ऽयमेव न्यायः आशीर्वचनविधिश्च भाष्योक्तः केचित्-पूर्वेद्युर्नान्दीश्राद्धम्, आचारात् स्मृत्यन्तराच्च श्वोभूते च ब्राह्मणानां भोजनं, भुक्तवद्भिरेवाशिषां वाचनार्थम् सर्वकर्मणां चान्ते ऽशुचीत् मन्त्रवतस्सर्वकृत्येषु भोजयेतऽइति वचनादिति अत्र च कुमारस्य स्नवभोजनात्प्राक् ऽयज्ञोपवीतं परमं पवित्रमऽइत्यादिमन्त्रेण यज्ञोपवीतधारणम् ऽभोजन आचमने स्वाध्याये च यज्ञोपवीती स्यातऽइति धर्मशास्त्रवचनात् ऽकेचित्-समिदाधानात्प्रागेवेति ऽ; कुमारभोजनं च विना क्षारलवणादिभिः आद्यन्तयोश्च द्विराचमनम् केचित्-एवमन्तं मातापितरौ कुरुतः, अत ऊर्ध्वमाचार्य इति अनुवाकस्य प्रथमेन यजुषाऽउष्णेन वायोऽइत्यनेनअपःउष्णाश्शीताश्चसंसृजति संसृजंश्चो ष्णाश्शीतास्वानयति,न तद त्विनियमेन अत्र चानुवाकग्रहणं गृह्यमन्त्रास्समाम्नाता एव न कल्पसूत्रस्था इति ज्ञापनार्थम् तत्प्रयोजनं चैते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम् ततस्ताभिरद्भिः ऽआप उन्दन्तुऽइत्येतया कुमारस्यशिर उनत्ति प्रागरभ्य प्रदक्षिणमुपनत्तिक्लेदयति त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति आप्ग्स्_10.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.6: प्रवपतिप्रथमं वपति वपनं प्रारभत इत्यर्थः तेन पूर्व मन्त्रवद्वपनं करोत्याचार्यः पश्चान्नापित इत्युक्तं भवति तत्रायं प्रयोगः कुमारस्य शिरसि प्राच्यां दिशि त्रीन् दर्भानन्तर्धाय ऽयेनावपऽदित्येतया प्रच्छिनत्ति क्षुरेण असावित्यब्य स्थाने तस्य नाम प्थमया विभक्त्या गृह्णाति यथा असावयं यज्ञदत्तशर्मा एवं सर्वत्रादसः प्रयोगे नाम निर्देष्टव्यम् प्रच्छिद्यानडुहे शकृत्पिण्डे यवमति केशान् प्रक्षिपति अथाप उपस्पृश्य तथैव दक्षिण्यां दिशि ऽयेन पूषेऽति प्रतीच्यां ऽयेन भूयःऽइति उदीच्यां ऽयेन पूषेऽति अत्र संबुध्या नामग्रहणं-तेन ते वपामि यज्ञदत्तशर्म्मन्नायुषेति

āpgs-tāt_10.5: brāhmaṇān bhojayitvetyanena yacchrāddhaṃ dharmaśāstre 'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpadha.2-15-11) iti vihitaṃ, yadeva nāndīśrāddhamabhyudayaśrāddhamiti prasiddhaṃ, tadevocyate tacca smṛtyantaraprasiddhavidhinā kartavyam tasya tviha punaḥ pāṭhaḥ pāṭhakrameṇānuṣṭhānārthaḥ anyathā padārthānāṃ baddhakramatvādvivāhādiṣvivānta eva syāt aśīrvacane 'pi dharmaśāstravihite 'yameva nyāyaḥ āśīrvacanavidhiśca bhāṣyoktaḥ kecit-pūrvedyurnāndīśrāddham, ācārāt smṛtyantarācca śvobhūte ca brāhmaṇānāṃ bhojanaṃ, bhuktavadbhirevāśiṣāṃ vācanārtham sarvakarmaṇāṃ cānte 'śucīt mantravatassarvakṛtyeṣu bhojayet'iti vacanāditi atra ca kumārasya snavabhojanātprāk 'yajñopavītaṃ paramaṃ pavitram'ityādimantreṇa yajñopavītadhāraṇam 'bhojana ācamane svādhyāye ca yajñopavītī syāt'iti dharmaśāstravacanāt 'kecit-samidādhānātprāgeveti '; kumārabhojanaṃ ca vinā kṣāralavaṇādibhiḥ ādyantayośca dvirācamanam kecit-evamantaṃ mātāpitarau kurutaḥ, ata ūrdhvamācārya iti anuvākasya prathamena yajuṣā'uṣṇena vāyo'ityanenaapaḥuṣṇāśśītāścasaṃsṛjati saṃsṛjaṃśco ṣṇāśśītāsvānayati,na tada tviniyamena atra cānuvākagrahaṇaṃ gṛhyamantrāssamāmnātā eva na kalpasūtrasthā iti jñāpanārtham tatprayojanaṃ caite brahmayajñādiṣvadhyetavyā ityuktam tatastābhiradbhiḥ 'āpa undantu'ityetayā kumārasyaśira unatti prāgarabhya pradakṣiṇamupanattikledayati trīṃstrīn darbhānantardhāyottarābhiścatasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati āpgs_10.6 commentaries: āpgs-anā_10.6: pravapatiprathamaṃ vapati vapanaṃ prārabhata ityarthaḥ tena pūrva mantravadvapanaṃ karotyācāryaḥ paścānnāpita ityuktaṃ bhavati tatrāyaṃ prayogaḥ kumārasya śirasi prācyāṃ diśi trīn darbhānantardhāya 'yenāvapa'dityetayā pracchinatti kṣureṇa asāvityabya sthāne tasya nāma pthamayā vibhaktyā gṛhṇāti yathā asāvayaṃ yajñadattaśarmā evaṃ sarvatrādasaḥ prayoge nāma nirdeṣṭavyam pracchidyānaḍuhe śakṛtpiṇḍe yavamati keśān prakṣipati athāpa upaspṛśya tathaiva dakṣiṇyāṃ diśi 'yena pūṣe'ti pratīcyāṃ 'yena bhūyaḥ'iti udīcyāṃ 'yena pūṣe'ti atra saṃbudhyā nāmagrahaṇaṃ-tena te vapāmi yajñadattaśarmmannāyuṣeti


6

आप्ग्स्-तात्_10.6: ततो ऽयेनावपतऽइत्यादिभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं त्रींस्त्रीन् दर्भानन्तर्धाय केशान् प्रवपति प्रशब्दात् कुशलीकरणमप्याचार्यस्यैव तत्र प्रथमे मन्त्रे असावित्यस्य स्थाने विष्णुशर्मेति कुमारस्य नामग्रहणम् चतुर्थे तु सम्बुध्द्या

āpgs-tāt_10.6: tato 'yenāvapat'ityādibhiścatasṛbhiḥ pratimantraṃ pratidiśaṃ trīṃstrīn darbhānantardhāya keśān pravapati praśabdāt kuśalīkaraṇamapyācāryasyaiva tatra prathame mantre asāvityasya sthāne viṣṇuśarmeti kumārasya nāmagrahaṇam caturthe tu sambudhdyā


6

वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा आप्ग्स्_10.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.7: एवमार्येण प्रतिदिशं प्रवपने कृते नापितस्तस्य केशान् वपति संसृष्टाभिरेवाद्भिरबर्थ कुर्वाणः तं नापितंवपन्तमुत्तरयर्चाऽयत् क्षुरेणेत्येतयानुमन्त्रयतआचार्यः

vapantamuttarayānumantrayate dakṣiṇato mātā brahmacārī vā āpgs_10.7 commentaries: āpgs-anā_10.7: evamāryeṇa pratidiśaṃ pravapane kṛte nāpitastasya keśān vapati saṃsṛṣṭābhirevādbhirabartha kurvāṇaḥ taṃ nāpitaṃvapantamuttarayarcā'yat kṣureṇetyetayānumantrayataācāryaḥ


7

आप्ग्स्-तात्_10.7: दक्षिणत उपविश्य कुमारस्यमाता ब्रह्मचरी वा कश्चित् ऽयत् क्षुरेणऽइत्येतयावपन्तमाचार्यमनुमन्त्रयते कस्मादेवं सूत्रच्छेदः? उच्यते अस्य कुमारस्यायुर्मा प्रमोषीरिति मध्यमपुरुषलिङ्गके ऽनुमन्त्रणे वपनव्यातृताचार्यकर्तृकत्वविरोधात् मातृब्रह्म चारिव्यतिरिक्तस्य प्रकृतस्याभावात्

āpgs-tāt_10.7: dakṣiṇata upaviśya kumārasyamātā brahmacarī vā kaścit 'yat kṣureṇa'ityetayāvapantamācāryamanumantrayate kasmādevaṃ sūtracchedaḥ? ucyate asya kumārasyāyurmā pramoṣīriti madhyamapuruṣaliṅgake 'numantraṇe vapanavyātṛtācāryakartṛkatvavirodhāt mātṛbrahma cārivyatiriktasya prakṛtasyābhāvāt


7

3 उप्तानां केशानामुदुम्बरमूले निधानम् आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति आप्ग्स्_10.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.8: अथ कुमारस्यमाता ब्रह्मचारी वा कश्चित् तस्य दक्षिणत उपविश्य कस्मिश्चित् पात्रे आनडुहं शकृत्पिण्डं कृत्वा यवाश्च तस्मिन् पिण्डं निधाय तस्मिन् केशानुपयच्छति उपगृह्णाति यथा भूमौ न पतन्ति तथा सर्वानुपयम्य ततस्तान् केशानुदुम्बरस्य वृक्षस्य मूले दर्भस्तम्बे वा निदधाति उत्तरयर्चाऽउप्त्वाय केशाऽनित्येतया यदि माता तामन्तो मन्त्रं वाचयति

3 uptānāṃ keśānāmudumbaramūle nidhānam ānaḍuhe śakṛtpiṇḍe yavānnidhāya tasmin keśānupayamyottarayodumbaramūle darbhastambe vā nidadhāti āpgs_10.8 commentaries: āpgs-anā_10.8: atha kumārasyamātā brahmacārī vā kaścit tasya dakṣiṇata upaviśya kasmiścit pātre ānaḍuhaṃ śakṛtpiṇḍaṃ kṛtvā yavāśca tasmin piṇḍaṃ nidhāya tasmin keśānupayacchati upagṛhṇāti yathā bhūmau na patanti tathā sarvānupayamya tatastān keśānudumbarasya vṛkṣasya mūle darbhastambe vā nidadhāti uttarayarcā'uptvāya keśā'nityetayā yadi mātā tāmanto mantraṃ vācayati


8

आप्ग्स्-तात्_10.8: उपनयनस्य प्रकृतत्वान्माता ब्रह्मचारी वा ऽउप्त्वाय केशानऽइत्येतयाआनडुहे शकृत्पिण्डेइत्यादि यथोपदेशं करोति केचित्-आचार्यः पूर्व वपनमारभते ततो नापितस्संसृष्टाभिरेवाद्भिरवर्थ कुर्वन् केशान् प्रवपति तं च वपन्तमुत्तरया आचार्यो ऽनुमन्त्रयते दक्षिणतो मातेत्युक्तार्थमेवेति तन्नैतद्वपनं नापितस्समापयतीत्यत्र वचनाभावात्, तत्कल्पनायां चानुपत्त्यभावात् प्रशब्दस्य विपातस्य प्माणान्तरावगतार्तद्योतकत्वात्, उक्तसूत्रभेदेन स्ववाक्योक्तस्यैव मात्रादेरनुमन्त्रणकर्तृत्वोपपत्तेश्च

āpgs-tāt_10.8: upanayanasya prakṛtatvānmātā brahmacārī vā 'uptvāya keśān'ityetayāānaḍuhe śakṛtpiṇḍeityādi yathopadeśaṃ karoti kecit-ācāryaḥ pūrva vapanamārabhate tato nāpitassaṃsṛṣṭābhirevādbhiravartha kurvan keśān pravapati taṃ ca vapantamuttarayā ācāryo 'numantrayate dakṣiṇato mātetyuktārthameveti tannaitadvapanaṃ nāpitassamāpayatītyatra vacanābhāvāt, tatkalpanāyāṃ cānupattyabhāvāt praśabdasya vipātasya pmāṇāntarāvagatārtadyotakatvāt, uktasūtrabhedena svavākyoktasyaiva mātrāderanumantraṇakartṛtvopapatteśca


8

4 स्नातस्य कुमारस्याश्मन्यास्थापनम् स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधाप्योत्तरेणाग्निं दक्षिणेन पदाश्मनमास्थापयत्यातिष्ठेति आप्ग्स्_10.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.9: "स्नातं कुमारं शुचिवाससंबद्धशिखं यज्ञोपवीतमासञ्जति-यज्ञोपवीतं परमं पवित्रमिति ततस्तं यज्ञोपवीतिनं देवयजनमुदानयती" (बौगृ.2-5)ति बौधायनः तस्य सर्वस्योपलक्षणं स्नातवचनम् ततो ऽवग्नेरुपसमाधानादितन्त्रं प्रतिपद्यत आचार्यः विवाहवदग्न्युत्पत्तिः शम्याः परिध्यर्थे सकृत् पात्रप्रयोगः वासोमेखलादीनामपि सह सादनम् ततआज्यभागान्तेकुमारंपालाशींसमिधमादापयति उत्तरयर्चाऽआयुर्दा देवऽइत्येतया कुमारो मन्त्रेण समिधमादधाति तमाचार्यः प्रयुङ्क्ते मन्त्रं च वाचयति, यमिधं चाधापयति देवताया अभिधेयत्वान्न मन्त्रलिङ्गविरोधः अन्ये त्वाचार्यस्यैव मन्त्रप्रयोगमिच्छन्ति आधाप्य समिधमुत्तरेणाग्निं अश्मानंप्रतिष्ठितमनेनास्थापयति दक्षिणेन पदा ऽआतिष्ठेमऽमिति मन्त्रेण अयं मन्त्र आटार्यस्यैव, कुमारस्याभिधेयत्वात् तेनाचार्यो मन्त्रमुक्तत्वा धत्रिणं पादं हस्ताभ्यां गृहीत्वाश्मनि निधापयति

4 snātasya kumārasyāśmanyāsthāpanam snātamagnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāpyottareṇāgniṃ dakṣiṇena padāśmanamāsthāpayatyātiṣṭheti āpgs_10.9 commentaries: āpgs-anā_10.9: "snātaṃ kumāraṃ śucivāsasaṃbaddhaśikhaṃ yajñopavītamāsañjati-yajñopavītaṃ paramaṃ pavitramiti tatastaṃ yajñopavītinaṃ devayajanamudānayatī" (baugṛ.2-5)ti baudhāyanaḥ tasya sarvasyopalakṣaṇaṃ snātavacanam tato 'vagnerupasamādhānāditantraṃ pratipadyata ācāryaḥ vivāhavadagnyutpattiḥ śamyāḥ paridhyarthe sakṛt pātraprayogaḥ vāsomekhalādīnāmapi saha sādanam tataājyabhāgāntekumāraṃpālāśīṃsamidhamādāpayati uttarayarcā'āyurdā deva'ityetayā kumāro mantreṇa samidhamādadhāti tamācāryaḥ prayuṅkte mantraṃ ca vācayati, yamidhaṃ cādhāpayati devatāyā abhidheyatvānna mantraliṅgavirodhaḥ anye tvācāryasyaiva mantraprayogamicchanti ādhāpya samidhamuttareṇāgniṃ aśmānaṃpratiṣṭhitamanenāsthāpayati dakṣiṇena padā 'ātiṣṭhema'miti mantreṇa ayaṃ mantra āṭāryasyaiva, kumārasyābhidheyatvāt tenācāryo mantramuktatvā dhatriṇaṃ pādaṃ hastābhyāṃ gṛhītvāśmani nidhāpayati

Section (cont. 13)

9

आप्ग्स्-तात्_10.9: अथाग्नेरुपसमाधानादितन्त्रं प्रतिपद्यते पात्रसादनकाले अश्मवासोमेखलाजिनदण्डकुशकूर्चाश्च सहैव सादयति केचित्-दर्व्यादीन्यपि सहैवेति आज्यभागान्ते कृते स्नातंकुमारं ऽआयुर्दा देवऽइत्येतयापालाशींव समिधंहस्ते गृहीत्वाऽदा- पयति मन्त्रान्ते चाधेहीति ब्रूयात् आधापनमन्त्रश्चायम् केचित्-आधानमनत्रं वाचयीताचार्य इति तेषां ऽजरसे नयेममऽइति मन्त्रालिङ्गविरोधः अथाधापनार्थे मन्त्रे अश्मास्थापनमन्त्रवत् कुमाराभिधानार्थमुच्चारणं स्यात्, न देवताभिधानार्यम्;सकृदुच्चरितस्योभयाभिधानाशक्तिरिति चेत्, न;ऽघृतपृष्टो अग्नेऽइतीह देवताया एवाभिधेयत्वात् अत एवोक्तं ऽमन्त्रमुक्त्वाऽधेहि जुहुधीति ब्रूयातऽइति शेषं व्यक्तम्

āpgs-tāt_10.9: athāgnerupasamādhānāditantraṃ pratipadyate pātrasādanakāle aśmavāsomekhalājinadaṇḍakuśakūrcāśca sahaiva sādayati kecit-darvyādīnyapi sahaiveti ājyabhāgānte kṛte snātaṃkumāraṃ 'āyurdā deva'ityetayāpālāśīṃva samidhaṃhaste gṛhītvā'dā- payati mantrānte cādhehīti brūyāt ādhāpanamantraścāyam kecit-ādhānamanatraṃ vācayītācārya iti teṣāṃ 'jarase nayemam'iti mantrāliṅgavirodhaḥ athādhāpanārthe mantre aśmāsthāpanamantravat kumārābhidhānārthamuccāraṇaṃ syāt, na devatābhidhānāryam;sakṛduccaritasyobhayābhidhānāśaktiriti cet, na;'ghṛtapṛṣṭo agne'itīha devatāyā evābhidheyatvāt ata evoktaṃ 'mantramuktvā'dhehi juhudhīti brūyāt'iti śeṣaṃ vyaktam


9

5 कुमारस्य वासः परिधापनम् वासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयानुमन्त्रयते आप्ग्स्_10.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.10: एकस्मिन्नेवाहनि तन्तुक्रिया वयनाक्रिया च यस्य तत्सद्यःकृत्तोतं एवं भूतंवास उत्तराभ्यां ऋग्भ्यां ऽरेवतीस्त्वेऽत्येताभ्यां अभिमन्त्रयेत ततस्तदुत्तराभिस्तिसृभिःऽया अकृन्तऽन्नित्येताभिः परिधापयति आचार्यस्यैव मन्त्राः वचनादेकमिति तिसृणामन्ते परिधापनम् ततः तं परिहितवन्तं कुमारं आचार्यःउत्तरया ऽ परीदं वासऽइत्येतयाअनुमन्त्रयते

5 kumārasya vāsaḥ paridhāpanam vāsaḥsadyaḥkṛttotamuttarābhyāmabhimantryottarābhistisṛbhiḥ paridhāpya parihitamuttarayānumantrayate āpgs_10.10 commentaries: āpgs-anā_10.10: ekasminnevāhani tantukriyā vayanākriyā ca yasya tatsadyaḥkṛttotaṃ evaṃ bhūtaṃvāsa uttarābhyāṃ ṛgbhyāṃ 'revatīstve'tyetābhyāṃ abhimantrayeta tatastaduttarābhistisṛbhiḥ'yā akṛnta'nnityetābhiḥ paridhāpayati ācāryasyaiva mantrāḥ vacanādekamiti tisṛṇāmante paridhāpanam tataḥ taṃ parihitavantaṃ kumāraṃ ācāryaḥuttarayā ' parīdaṃ vāsa'ityetayāanumantrayate


10

आप्ग्स्-तात्_10.10: वासः यच्छाण्यादि धर्मशास्त्रे विहितंतत् सद्यःकृत्तोतंसद्य एव छिन्नोतं, नान्यस्मिन्नहनि प्रसस्ते ऽपि केचित्-एकस्मिन्ने वाहनि तन्तुक्रिया वयनक्रिया च यस्य, तत् सद्यःकृत्तोतमिति एवंभूतं ऽरेवतीस्त्वाऽइति द्वाभ्यामभिमन्त्र्य ऽया अकृन्तनऽइत्येताभिस्तिसृभिः परिधाप्य परिहितंकुमारं ऽपरीदं वासःऽइत्यनयानुमन्त्रयते

āpgs-tāt_10.10: vāsaḥ yacchāṇyādi dharmaśāstre vihitaṃtat sadyaḥkṛttotaṃsadya eva chinnotaṃ, nānyasminnahani prasaste 'pi kecit-ekasminne vāhani tantukriyā vayanakriyā ca yasya, tat sadyaḥkṛttotamiti evaṃbhūtaṃ 'revatīstvā'iti dvābhyāmabhimantrya 'yā akṛntan'ityetābhistisṛbhiḥ paridhāpya parihitaṃkumāraṃ 'parīdaṃ vāsaḥ'ityanayānumantrayate


11

6 मौञ्ज्यजिनधारणम् मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया आप्ग्स्_10.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.11: अथमेखलामुत्तराभ्यामृग्भ्यां ऽइयं दुरुक्ताऽदित्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति कुमारम् स्वयमेव मन्त्रमुक्त्वा तं वाचयत्याचार्यः मन्त्रलिङ्गात् त्रिवृत् मेखलामौञ्जीमुञ्जतृणैः कल्पिता त्रिवृत्त्रिगुणा त्रिवृतामिति छान्दसो दीर्घपाठः ततो ऽजिनमुत्तरंवास- करोतिउत्तरयर्चा मित्रस्य चक्षुरित्येतया स्वयमेव मन्त्रमुक्त्वा सामयाचारिकेषु वर्णविशिष्टा मेखलाविशेषा श्चोदिताः इदं तु सर्ववर्णानां मौञ्जीप्राप्त्यर्थ वचनम् अजिनविशेषास्तु सामयाचीरिका इहापि प्रत्येतव्याः ऽकृष्णं ब्राह्मणस्येऽत्यादयः आप्ग्स्-तात्_10.11: मौञ्जींमुञ्जैः कल्पिताम् त्रिवृतां त्रिवृतम् दीर्घश्छान्दसः मेखलां ऽ इयं दुरुक्तातऽ इत्येताभ्यांत्रिः प्रदक्षिणं परिव्ययति त्रिवृतामिति च ऽशक्तिविषये दक्षिणावृत्तानाम् ज्या राजन्यस्यऽ(आपध.1-2-33,34) इत्यादीनां प्रदर्शनार्थम् अजिनंऽकृष्णं ब्राह्मणस्यऽ(आपध.1-3-3) इत्यादि धर्मशास्त्रे विहितमुत्तरं वासः करोति ऽमित्रस्य चक्षुःऽइत्येतया

6 mauñjyajinadhāraṇam mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇamuttarābhyāṃ parivīyājinamuttaramuttarayā āpgs_10.11 commentaries: āpgs-anā_10.11: athamekhalāmuttarābhyāmṛgbhyāṃ 'iyaṃ duruktā'dityetābhyāṃ triḥ pradakṣiṇaṃ parivyayati kumāram svayameva mantramuktvā taṃ vācayatyācāryaḥ mantraliṅgāt trivṛt mekhalāmauñjīmuñjatṛṇaiḥ kalpitā trivṛttriguṇā trivṛtāmiti chāndaso dīrghapāṭhaḥ tato 'jinamuttaraṃvāsa- karotiuttarayarcā mitrasya cakṣurityetayā svayameva mantramuktvā sāmayācārikeṣu varṇaviśiṣṭā mekhalāviśeṣā ścoditāḥ idaṃ tu sarvavarṇānāṃ mauñjīprāptyartha vacanam ajinaviśeṣāstu sāmayācīrikā ihāpi pratyetavyāḥ 'kṛṣṇaṃ brāhmaṇasye'tyādayaḥ āpgs-tāt_10.11: mauñjīṃmuñjaiḥ kalpitām trivṛtāṃ trivṛtam dīrghaśchāndasaḥ mekhalāṃ ' iyaṃ duruktāt' ityetābhyāṃtriḥ pradakṣiṇaṃ parivyayati trivṛtāmiti ca 'śaktiviṣaye dakṣiṇāvṛttānām jyā rājanyasya'(āpadha.1-2-33,34) ityādīnāṃ pradarśanārtham ajinaṃ'kṛṣṇaṃ brāhmaṇasya'(āpadha.1-3-3) ityādi dharmaśāstre vihitamuttaraṃ vāsaḥ karoti 'mitrasya cakṣuḥ'ityetayā


11

7 कुमारस्य देवताभ्यः परिदानम्, उपनयनञ्च उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीय ऽसुप्रजाऽइति दक्षिणे कर्णे जपति आप्ग्स्_10.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_10.12: अथाचार्यःउत्तरेणाग्निं दर्भार्न्त्सस्तीर्य तेष्वेनंकुमारंउत्तरयाऽआगन्त्रा समगन्महीऽत्येतयावस्थापयति कुमारस्य मन्त्रः आचार्यो वाचयति अवस्थाप्यस्वयं पश्चात् भूमाववस्थाय स्वमञ्जलिमुदकेन पूरयित्वा तम्जलिमस्मै कुमाराय प्रतिमुखं दर्भेष्ववस्थिताय प्रोक्षणार्थमानयति तस्याञ्जलौ अस्मा इति चतुर्थीनिर्देशात् कुमारार्थो ऽयमुदकाञ्जलिः तेन प्रोक्षणस्य कुमारः कर्ता भवति आनीय ततः प्रोक्षणं प्रयोजयत्या चार्यः उत्तरयर्चाऽसमुद्रादूर्मिऽरित्येतया कुमारस्य मन्त्रः आचार्यो वाचयति ऽ(त्रिः प्रोक्षयति सकृत् मन्त्रेण द्विस्तूष्णीम् सव्येन धारणमुदकस्य, दक्षिणेन प्रोक्ष्णम् प्रोक्ष्येत्यत्र णिचो लोपो द्रष्टव्यंः) अथ कुमारस्य हस्तं गृह्णाति उत्तरौर्दशभिर्मन्त्रौः ऽअग्निष्टे हस्तमग्रमीऽदित्यादिभिः प्रतिमन्त्रं ग्रहणावृत्तिः ततौत्तरै रेकादशभिः ऽअग्नये त्वा परिददामीऽत्यादिभिः तं देवताभ्यःपरिददाति सर्वेष्वसौशब्देषु नामग्रहणं संबुध्या परिदायतमुत्तरेण यजुषाऽदेवस्य त्वा सवितुःऽइत्येतेनौपनयते विद्यानुष्ठानार्थ आचार्यः स्वकुलं प्रापयतीत्यर्थः यजुरुच्चारणमेव तत्र व्यापारः, नान्यः कश्चित् नामग्रहणं च संबुध्या केचित्-असावित्यन्तोदातस्य पाठात् आचार्यस्य नाम प्रथमया निर्देश्यं मन्यन्ते एतत्सम्बन्धात् समस्तमेव कर्मोपनयनं, यथा पशुबन्ध इति उपनीयसुप्रजा इति दक्षिणे कर्णे जपति ऽसुपोषः पोषैऽरित्येवमन्तो जपः

7 kumārasya devatābhyaḥ paridānam, upanayanañca uttareṇāgniṃ darbhān saṃstīrya teṣvenamuttarayāvasthāpyodakāñjalimasmā añjalāvānīyottarayā triḥ prokṣyottarairdakṣiṇe haste gṛhītvottarairdevatābhyaḥ parīdāyottareṇa yajuṣopanīya 'suprajā'iti dakṣiṇe karṇe japati āpgs_10.12 commentaries: āpgs-anā_10.12: athācāryaḥuttareṇāgniṃ darbhārntsastīrya teṣvenaṃkumāraṃuttarayā'āgantrā samaganmahī'tyetayāvasthāpayati kumārasya mantraḥ ācāryo vācayati avasthāpyasvayaṃ paścāt bhūmāvavasthāya svamañjalimudakena pūrayitvā tamjalimasmai kumārāya pratimukhaṃ darbheṣvavasthitāya prokṣaṇārthamānayati tasyāñjalau asmā iti caturthīnirdeśāt kumārārtho 'yamudakāñjaliḥ tena prokṣaṇasya kumāraḥ kartā bhavati ānīya tataḥ prokṣaṇaṃ prayojayatyā cāryaḥ uttarayarcā'samudrādūrmi'rityetayā kumārasya mantraḥ ācāryo vācayati '(triḥ prokṣayati sakṛt mantreṇa dvistūṣṇīm savyena dhāraṇamudakasya, dakṣiṇena prokṣṇam prokṣyetyatra ṇico lopo draṣṭavyaṃḥ) atha kumārasya hastaṃ gṛhṇāti uttaraurdaśabhirmantrauḥ 'agniṣṭe hastamagramī'dityādibhiḥ pratimantraṃ grahaṇāvṛttiḥ tatauttarai rekādaśabhiḥ 'agnaye tvā paridadāmī'tyādibhiḥ taṃ devatābhyaḥparidadāti sarveṣvasauśabdeṣu nāmagrahaṇaṃ saṃbudhyā paridāyatamuttareṇa yajuṣā'devasya tvā savituḥ'ityetenaupanayate vidyānuṣṭhānārtha ācāryaḥ svakulaṃ prāpayatītyarthaḥ yajuruccāraṇameva tatra vyāpāraḥ, nānyaḥ kaścit nāmagrahaṇaṃ ca saṃbudhyā kecit-asāvityantodātasya pāṭhāt ācāryasya nāma prathamayā nirdeśyaṃ manyante etatsambandhāt samastameva karmopanayanaṃ, yathā paśubandha iti upanīyasuprajā iti dakṣiṇe karṇe japati 'supoṣaḥ poṣai'rityevamanto japaḥ


12

आप्ग्स्-तात्_10.12: उत्तरयाऽआगन्त्रा समगन्महिऽइत्येतया अस्मा इति चतुर्थी षष्षठ्यर्थे उत्तरयाऽसमुद्रादूर्मिःऽइत्येतया त्रिःप्रोक्षति सकृन्मन्त्रेण, द्विस्तूष्णीम् उत्तरैःऽअग्निष्टे हस्तमग्रभीतऽइत्यादिभिर्दशभिर्मन्त्रैः सर्वेषां चान्ते सकृद्धस्तग्रहणम् उत्तराः ऽ अग्नयेत्वा परिददामिऽइत्येकादशभिः प्रतिमन्त्रंदेवताभ्योमन्लिङ्गप्रतीताभ्यःपरिददातिरक्षणार्थम् ततश्च यदि सकृत्परिदानं स्यात् तदा विध्यपराधात् सर्वप्रायश्चित्तं होतव्यम् असौशब्देषु च सर्वेषु सम्बुद्ध्या नामग्रहणम् उत्तरेण यजुषाऽदेवस्य त्वा सवितुःऽइत्यनेन उपनयतेआत्मनस्समीपं नयति नामग्रहणं च सम्बुद्ध्यैव केचित् कुमारस्स्वाञ्जलावाचार्येणानीतमुदकं सव्ये हस्ते धारयन्, दक्षिणेन हस्तेनात्मानं त्रिः प्रोक्षति आचार्यस्तु प्रोक्षयति णिचश्च लोपो द्रष्टव्यः हस्तग्रहणं च प्रतिमन्मित्यनेककल्पनासापेक्षं व्याचक्षते

āpgs-tāt_10.12: uttarayā'āgantrā samaganmahi'ityetayā asmā iti caturthī ṣaṣṣaṭhyarthe uttarayā'samudrādūrmiḥ'ityetayā triḥprokṣati sakṛnmantreṇa, dvistūṣṇīm uttaraiḥ'agniṣṭe hastamagrabhīt'ityādibhirdaśabhirmantraiḥ sarveṣāṃ cānte sakṛddhastagrahaṇam uttarāḥ ' agnayetvā paridadāmi'ityekādaśabhiḥ pratimantraṃdevatābhyomanliṅgapratītābhyaḥparidadātirakṣaṇārtham tataśca yadi sakṛtparidānaṃ syāt tadā vidhyaparādhāt sarvaprāyaścittaṃ hotavyam asauśabdeṣu ca sarveṣu sambuddhyā nāmagrahaṇam uttareṇa yajuṣā'devasya tvā savituḥ'ityanena upanayateātmanassamīpaṃ nayati nāmagrahaṇaṃ ca sambuddhyaiva kecit kumārassvāñjalāvācāryeṇānītamudakaṃ savye haste dhārayan, dakṣiṇena hastenātmānaṃ triḥ prokṣati ācāryastu prokṣayati ṇicaśca lopo draṣṭavyaḥ hastagrahaṇaṃ ca pratimanmityanekakalpanāsāpekṣaṃ vyācakṣate


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने दशमः खण्डः एकादशः खण्डः 8 आचार्यकुमारयोः प्रश्नप्रतिवचने ऽब्रह्मचर्यमागाऽमिति कुमार आह आप्ग्स्_11.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.1: सवित्रा प्रसूत इत्येवमन्तो मन्त्रः आहेति वचनं उच्चैः प्रयोगार्थम्

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane daśamaḥ khaṇḍaḥ ekādaśaḥ khaṇḍaḥ 8 ācāryakumārayoḥ praśnaprativacane 'brahmacaryamāgā'miti kumāra āha āpgs_11.1 commentaries: āpgs-anā_11.1: savitrā prasūta ityevamanto mantraḥ āheti vacanaṃ uccaiḥ prayogārtham


1

आप्ग्स्-तात्_11.1: व्यक्तम्

āpgs-tāt_11.1: vyaktam


2

प्रष्टं परस्य प्रतिवचनं कुमारस्य आप्ग्स्_11.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.2: ऽको नामासीऽत्येवमादयः चत्वारो मन्त्राः पृष्टप्रतिवचनार्थाः तत्र यत्र पृष्टं तत आरभ्य कर्म्चार्स्येत्यर्थः प्रष्टमिति संप्रसा रणाभावश्छान्दसः, अपपाठो वा यत् प्रतिवचनं तत् कुमारस्य असौशब्देषु नाम निर्दिशति कुमारः प्रथमया आचार्यः संबुध्या कुमारस्य नाम तत्र को नामासीत्याचार्यः यज्ञशर्मनामास्मीति कुमारः कस्य ब्रह्मचार्यसि श्रीयज्ञशर्मन् इत्याचार्यः, प्राणस्य ब्रह्मचार्यस्मि यज्ञशर्मेति कुमारः आहेत्यनुवृत्तेरुच्चैः प्रयोगः

praṣṭaṃ parasya prativacanaṃ kumārasya āpgs_11.2 commentaries: āpgs-anā_11.2: 'ko nāmāsī'tyevamādayaḥ catvāro mantrāḥ pṛṣṭaprativacanārthāḥ tatra yatra pṛṣṭaṃ tata ārabhya karmcārsyetyarthaḥ praṣṭamiti saṃprasā raṇābhāvaśchāndasaḥ, apapāṭho vā yat prativacanaṃ tat kumārasya asauśabdeṣu nāma nirdiśati kumāraḥ prathamayā ācāryaḥ saṃbudhyā kumārasya nāma tatra ko nāmāsītyācāryaḥ yajñaśarmanāmāsmīti kumāraḥ kasya brahmacāryasi śrīyajñaśarman ityācāryaḥ, prāṇasya brahmacāryasmi yajñaśarmeti kumāraḥ āhetyanuvṛtteruccaiḥ prayogaḥ


2

आप्ग्स्-तात्_11.2: प्रष्टं प्रश्न इत्यर्थः रूपं तु छान्दसम् ऽको नामासीऽत्यादिषु प्रश्नप्रतिवचनार्थेषु चतुर्षु मन्त्रेषु प्रष्टं परस्याचार्यस्य, प्रतिवचनं तु कुमारस्य ततश्चैवं प्रयोगः -ऽको नामासि?इत्याचार्यः पृच्छति विष्णुशर्मा नामासिऽइति कुमारः प्रतिब्रूयात् तथा ऽकस्य ब्रह्मचार्यसि विष्णुशर्मन्?ऽइत्याचार्यः ऽप्राणस्य ब्रह्मचार्यस्मिऽइति कुमारः

āpgs-tāt_11.2: praṣṭaṃ praśna ityarthaḥ rūpaṃ tu chāndasam 'ko nāmāsī'tyādiṣu praśnaprativacanārtheṣu caturṣu mantreṣu praṣṭaṃ parasyācāryasya, prativacanaṃ tu kumārasya tataścaivaṃ prayogaḥ -'ko nāmāsi?ityācāryaḥ pṛcchati viṣṇuśarmā nāmāsi'iti kumāraḥ pratibrūyāt tathā 'kasya brahmacāryasi viṣṇuśarman?'ityācāryaḥ 'prāṇasya brahmacāryasmi'iti kumāraḥ


3

शेषं परो जपति आप्ग्स्_11.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.3: पृष्टप्रतिवचनादूर्ध्व अनुवाकस्ययश्शेषःतं ऽएष ते द्व सूर्येऽत्यादिकं पर आचार्यो जपति

śeṣaṃ paro japati āpgs_11.3 commentaries: āpgs-anā_11.3: pṛṣṭaprativacanādūrdhva anuvākasyayaśśeṣaḥtaṃ 'eṣa te dva sūrye'tyādikaṃ para ācāryo japati


3

आप्ग्स्-तात्_11.3: शेषमनुवाकशेषैकदेशं ऽविष्णुशर्मैष ते देवऽइत्यादि ऽअनुसञ्चर विष्णुशर्मनऽइत्येवमन्तमाचार्यो जपति ऽअध्वनामध्व पतेऽइत्यस्य प्रत्यगाशिषो वाचनविधानात्

āpgs-tāt_11.3: śeṣamanuvākaśeṣaikadeśaṃ 'viṣṇuśarmaiṣa te deva'ityādi 'anusañcara viṣṇuśarman'ityevamantamācāryo japati 'adhvanāmadhva pate'ityasya pratyagāśiṣo vācanavidhānāt


4

9 प्रत्यगाशिषां मन्त्राणां कुमारेण वाचनम् प्रत्यगाशिषं चैनं वाचयति आप्ग्स्_11.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.4: तत्रैव शेषे याप्रत्यगाशीःऽअध्वनामध्वपतऽऽइत्येवमाद्याऽतामेनं कुमारंवाचयति

9 pratyagāśiṣāṃ mantrāṇāṃ kumāreṇa vācanam pratyagāśiṣaṃ cainaṃ vācayati āpgs_11.4 commentaries: āpgs-anā_11.4: tatraiva śeṣe yāpratyagāśīḥ'adhvanāmadhvapata''ityevamādyā'tāmenaṃ kumāraṃvācayati


4

आप्ग्स्-तात्_11.4: आत्मगाम्याशीःफलं यस्मिन् मन्त्रे सप्रत्यगाशीः जात्यभिप्रायमेकवचनम् अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः ऽयोगेऽइत्यादयः, तान् सर्वान् कुमारंवाचयति

āpgs-tāt_11.4: ātmagāmyāśīḥphalaṃ yasmin mantre sapratyagāśīḥ jātyabhiprāyamekavacanam adhvanāmityārabhya ā upanayanasamāpterye pratyagāśiṣo mantrāḥ 'yoge'ityādayaḥ, tān sarvān kumāraṃvācayati


5

10 उपनयनप्रधानहोमाः जयादयश्च उक्तमाज्यभागान्तम् आप्ग्स्_11.5 अत्रैनमुत्तरा आहुतीर्हअवयित्वा जयादि प्रतिपद्यते आप्ग्स्_11.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.6: आज्यभागान्तंतन्त्रं प्रागेवोक्तम् अत्रेदानीमेनं कुमारंउत्तराएकादश प्रधानाहुतीर्हअवयतिऽयोगे योगेऽइत्येवमाद्याः उत्तरैर्मन्त्रैः कुमारो जुहोति तमाचार्यः प्रयुङ्के मन्त्रवाचनेन द्वितीयचतुर्थयोरपि मन्त्रयोः कुमार एव वक्ता, देवताभिधानार्तत्वात् अपर आह-लिङ्गविरोधादाचार्यो वक्ता कुमारस्तु होतेति प्रधानहोमेषु हावयित्वेति वचनात् उपहोमेष्वाचार्य एव कर्ता

10 upanayanapradhānahomāḥ jayādayaśca uktamājyabhāgāntam āpgs_11.5 atrainamuttarā āhutīrhaavayitvā jayādi pratipadyate āpgs_11.6 commentaries: āpgs-anā_11.6: ājyabhāgāntaṃtantraṃ prāgevoktam atredānīmenaṃ kumāraṃuttarāekādaśa pradhānāhutīrhaavayati'yoge yoge'ityevamādyāḥ uttarairmantraiḥ kumāro juhoti tamācāryaḥ prayuṅke mantravācanena dvitīyacaturthayorapi mantrayoḥ kumāra eva vaktā, devatābhidhānārtatvāt apara āha-liṅgavirodhādācāryo vaktā kumārastu hoteti pradhānahomeṣu hāvayitveti vacanāt upahomeṣvācārya eva kartā


5

आप्ग्स्-तात्_11.6: इदमनुवादमात्रं मा भूदिति साध्याहारं व्याख्यायते न केवलमध्वनामित्यारभ्य प्रत्यगाशिषो मन्त्रान् वाचयति आज्यभा गान्तमुक्त्वा ये पश्चात् प्रत्यगाशिषो मन्त्राः मेखलापरिव्ययणादिषूक्ताः ऽइयं दुरुक्तातऽइत्याद्यास्तानपि स्वयमुक्तवा वाचयति उक्तमिति जात्यभिप्रायम् इदं त्विह वक्तव्यम् यासु मेखलापरिव्ययणादिषु कुमारप्रधानासु संस्कारक्रियासु ये प्रत्यगाशिषो मन्त्राः, तच्चोदकैराख्यातैः करणत्वेन चोदिताः क्रियाः तैर्मन्त्रैः कृत्वा पश्चाद्वाचयति स्वतः करणमन्त्राणां क्रियागुणभूतैः कर्तभिरेवोच्चर्यत्वात् कुमारस्य चात्र संस्कार्यत्वेन प्राधान्यात् यत्र पुनर्होमादिषु गुणभाव एव, न संस्कार्यत्वं, तत्र तान् प्रत्यगाशिषो वाचयत्येव केचित् परिव्ययणादिष्वपि कुमारस्यैव मन्त्रः, परस्तु वाचयत्येवेति

āpgs-tāt_11.6: idamanuvādamātraṃ mā bhūditi sādhyāhāraṃ vyākhyāyate na kevalamadhvanāmityārabhya pratyagāśiṣo mantrān vācayati ājyabhā gāntamuktvā ye paścāt pratyagāśiṣo mantrāḥ mekhalāparivyayaṇādiṣūktāḥ 'iyaṃ duruktāt'ityādyāstānapi svayamuktavā vācayati uktamiti jātyabhiprāyam idaṃ tviha vaktavyam yāsu mekhalāparivyayaṇādiṣu kumārapradhānāsu saṃskārakriyāsu ye pratyagāśiṣo mantrāḥ, taccodakairākhyātaiḥ karaṇatvena coditāḥ kriyāḥ tairmantraiḥ kṛtvā paścādvācayati svataḥ karaṇamantrāṇāṃ kriyāguṇabhūtaiḥ kartabhirevoccaryatvāt kumārasya cātra saṃskāryatvena prādhānyāt yatra punarhomādiṣu guṇabhāva eva, na saṃskāryatvaṃ, tatra tān pratyagāśiṣo vācayatyeva kecit parivyayaṇādiṣvapi kumārasyaiva mantraḥ, parastu vācayatyeveti


6

अत्र अस्मिन् क्रमे, न तु ऽयथोपदेशं प्रधानाहुतीःऽइति सामान्यवचनादाज्यभागानन्तरमेव एनंकुमारम् उत्तराःऽयोगे योगेऽ; इत्येकादर्शचः प्रत्यगाशिषो वाचयन् हस्ते गृहीत्वा प्रतिमन्त्रंहावयति तत्र द्वितीयचतुर्थौ ऽइममग्न आयुषेऽऽअग्निष्ट आयुः प्रतरामऽइति लिङ्गविरोधात् ऽआयुर्दा देव जरसमऽइतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति केचित् एतयोरपि द्वताभिधानार्थत्वात् कुमारस्यैवोच्चारणमिति ततो ऽजयाभ्यातानान् राष्ट्रभृतऽइति सामान्यविधिप्रसिद्धमेवाचार्यो जयदि प्रतिपद्यते ततश्च अग्निर्भूतानामधिपरिस्समावतुऽइत्यादीनां प्रत्यगाशिषामपि वाचनं न भवति नैव च हावनम्

atra asmin krame, na tu 'yathopadeśaṃ pradhānāhutīḥ'iti sāmānyavacanādājyabhāgānantarameva enaṃkumāram uttarāḥ'yoge yoge'; ityekādarśacaḥ pratyagāśiṣo vācayan haste gṛhītvā pratimantraṃhāvayati tatra dvitīyacaturthau 'imamagna āyuṣe''agniṣṭa āyuḥ pratarām'iti liṅgavirodhāt 'āyurdā deva jarasam'itivat svayameva brūyāt, nainaṃ vācayati kecit etayorapi dvatābhidhānārthatvāt kumārasyaivoccāraṇamiti tato 'jayābhyātānān rāṣṭrabhṛta'iti sāmānyavidhiprasiddhamevācāryo jayadi pratipadyate tataśca agnirbhūtānāmadhiparissamāvatu'ityādīnāṃ pratyagāśiṣāmapi vācanaṃ na bhavati naiva ca hāvanam


6

11 उपनेतुः कूर्च उपवेशः परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्च निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति आप्ग्स्_11.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.7: उत्तरेण यजुषाराष्ट्रभृदसीत्येन परिषेचनान्तवचनमानन्तर्यार्थम् केचित् सावित्रं नाम व्रतमस्मिन् काल उपाकुर्वन्ति केचित् त्रिरात्रान्ते सावित्रीमनुब्रुवते तदुभयमप्यनिष्टमाचार्यस्य निधायेति वचनादाचार्य एव निधाने कर्ता, न माणवकः अधिकारादेव सिद्धे उपनेतेति वचनमुत्तरार्थम् पुरस्तात् प्रत्यङ्ङासीन इत्यत्र उपनेतुः पुरस्तात् यथा स्यात् अग्नेः पिरस्तात् मा भूत् इति तथा दक्षिणेन पाणिना दक्षिणं पादमित्यत्रोपनेतुः पादो न माणवकस्य

11 upanetuḥ kūrca upaveśaḥ pariṣecanāntaṃ kṛtvāpareṇāgnimudagagraṃ kūrca nidhāya tasminnuttareṇa yajuṣopanetopaviśati āpgs_11.7 commentaries: āpgs-anā_11.7: uttareṇa yajuṣārāṣṭrabhṛdasītyena pariṣecanāntavacanamānantaryārtham kecit sāvitraṃ nāma vratamasmin kāla upākurvanti kecit trirātrānte sāvitrīmanubruvate tadubhayamapyaniṣṭamācāryasya nidhāyeti vacanādācārya eva nidhāne kartā, na māṇavakaḥ adhikārādeva siddhe upaneteti vacanamuttarārtham purastāt pratyaṅṅāsīna ityatra upanetuḥ purastāt yathā syāt agneḥ pirastāt mā bhūt iti tathā dakṣiṇena pāṇinā dakṣiṇaṃ pādamityatropanetuḥ pādo na māṇavakasya


7

आप्ग्स्-तात्_11.7: कूर्चदर्भमयामासनम् उत्तरेण यजुषा ऽराष्ट्रभृदसिऽइत्यनेन उपनेताआचार्यः शेषं व्यक्तम्

āpgs-tāt_11.7: kūrcadarbhamayāmāsanam uttareṇa yajuṣā 'rāṣṭrabhṛdasi'ityanena upanetāācāryaḥ śeṣaṃ vyaktam


7

12 गायत्र्युपदेशार्थ कुमारेणाचार्यप्रार्थनम् पुरस्तात् प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह ऽसावित्रीं भो अनुब्रूहिऽइति आप्ग्स्_11.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.8: दर्भेष्वासीन इति गृह्मान्तरे दक्षिणेनेति वचनमुभाभ्यामेवोभावित्ययं पक्षो ऽत्र मा भूदिति तेन सकुष्ठिकमुपसंगृह्णीया दित्ययं विशेषः प्रवर्तते

12 gāyatryupadeśārtha kumāreṇācāryaprārthanam purastāt pratyaṅṅāsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādamanvārabhyāha 'sāvitrīṃ bho anubrūhi'iti āpgs_11.8 commentaries: āpgs-anā_11.8: darbheṣvāsīna iti gṛhmāntare dakṣiṇeneti vacanamubhābhyāmevobhāvityayaṃ pakṣo 'tra mā bhūditi tena sakuṣṭhikamupasaṃgṛhṇīyā dityayaṃ viśeṣaḥ pravartate


8

आप्ग्स्-तात्_11.8: उपनेतुःपुरस्तात् प्रयङ्मुखः आसीनः कुमारो दक्षिणेन पाणिनाउपनेतुर्दक्षिणंपादं अन्वारभ्यौपसंगृह्य ऽसावित्रीं भो अनुब्रूहिऽइति प्रार्थयते

āpgs-tāt_11.8: upanetuḥpurastāt prayaṅmukhaḥ āsīnaḥ kumāro dakṣiṇena pāṇināupaneturdakṣiṇaṃpādaṃ anvārabhyaupasaṃgṛhya 'sāvitrīṃ bho anubrūhi'iti prārthayate


8

13 गायत्र्युपदेशः तस्मा अन्वाह ऽतत्सवितुऽरिति आप्ग्स्_11.9 पच्छोर्रऽधचशस्ततस्सर्वाम् आप्ग्स्_11.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.10: तस्माइति वचनात् कुमारस्य ग्रहणार्थमनुवचनम् तेन त्रिष्वपि वचनेषु कुमारस्यानुग्रहणं भवति अनुशब्दो ऽनुग्रह- द्योतनार्थः अनुग्रहेणाहअन्वाहेति तेन यद्यसमर्थः कुमारः तावत् वक्तुं ततो यथाशक्ति वाचयति स्वयं विधिवत् पूर्वमुक्त्वा प्रथमं पच्छः पादेपादे ऽवसानम् द्वितीयमर्र्धचशः, ततस्सर्वामन्वाहेति उत्तरमिति वक्तव्यं तत्सवितुरिति निर्देशः सावित्रीप्रदेशोषु सावित्र्या समित्सहस्रमादध्या(आपध.1-27-1)दित्यादिषु अस्या एव ग्रहणं यथा स्यात् यस्याः कस्याश्चित् सवितृदेवत्याया मा भूदित्येवमर्थम् तत इति वचनादेतावदेवास्मिन्नहन्यनुवचनम् एतैर्वचनैरग्रहणे कालान्तरे ऽध्यापनम्

13 gāyatryupadeśaḥ tasmā anvāha 'tatsavitu'riti āpgs_11.9 pacchorr'dhacaśastatassarvām āpgs_11.10 commentaries: āpgs-anā_11.10: tasmāiti vacanāt kumārasya grahaṇārthamanuvacanam tena triṣvapi vacaneṣu kumārasyānugrahaṇaṃ bhavati anuśabdo 'nugraha- dyotanārthaḥ anugraheṇāhaanvāheti tena yadyasamarthaḥ kumāraḥ tāvat vaktuṃ tato yathāśakti vācayati svayaṃ vidhivat pūrvamuktvā prathamaṃ pacchaḥ pādepāde 'vasānam dvitīyamarrdhacaśaḥ, tatassarvāmanvāheti uttaramiti vaktavyaṃ tatsavituriti nirdeśaḥ sāvitrīpradeśoṣu sāvitryā samitsahasramādadhyā(āpadha.1-27-1)dityādiṣu asyā eva grahaṇaṃ yathā syāt yasyāḥ kasyāścit savitṛdevatyāyā mā bhūdityevamartham tata iti vacanādetāvadevāsminnahanyanuvacanam etairvacanairagrahaṇe kālāntare 'dhyāpanam


9

आप्ग्स्-तात्_11.10: तस्मैकुमाराय ग्रहणार्थ ऽतत्सवितुर्वरेण्यमऽइत्येतामृचमाचार्यो ऽन्वाह तत्रच सवितृदेवत्यामृचमनुब्रूहीत्यविशेषेण प्रार्थना यां कृतायामपि योयं ऽतत्सवितुरित्यन्वाहऽइति नियमः स ज्ञापयति-धेनुपङ्कजादिशब्दवत् सावित्रीशब्दस्य यौगिकस्यापि ऽतत्सवितुर्वरेण्यमऽ; इत्यस्यामेव प्रयोगो नियतः, न तु ऽआसत्येन रजसाऽइत्यादिष्वपीति ततश्च धर्मशास्त्रे ऽसावित्रीं प्राणायामशःऽ(आपघ.1-26-15) सावित्र्या समित्सहस्रमादध्यातऽ(आपध.1-27-1) इत्यादिष्वस्या एवर्चस्सम्प्रत्ययो नान्यस्या अपीति

āpgs-tāt_11.10: tasmaikumārāya grahaṇārtha 'tatsaviturvareṇyam'ityetāmṛcamācāryo 'nvāha tatraca savitṛdevatyāmṛcamanubrūhītyaviśeṣeṇa prārthanā yāṃ kṛtāyāmapi yoyaṃ 'tatsaviturityanvāha'iti niyamaḥ sa jñāpayati-dhenupaṅkajādiśabdavat sāvitrīśabdasya yaugikasyāpi 'tatsaviturvareṇyam'; ityasyāmeva prayogo niyataḥ, na tu 'āsatyena rajasā'ityādiṣvapīti tataśca dharmaśāstre 'sāvitrīṃ prāṇāyāmaśaḥ'(āpagha.1-26-15) sāvitryā samitsahasramādadhyāt'(āpadha.1-27-1) ityādiṣvasyā evarcassampratyayo nānyasyā apīti


10

खथमन्वाह? इत्यत्राह पच्छःपादे पादे अवसाय अर्र्धचशःअर्र्धचे अवसाय ततः सर्वा समस्तां अनवसानामित्यर्थः अत्र च सर्वानुवचनस्यादृष्टार्थत्वात्, ग्रहीतुमसमर्थस्यामि कुमारस्य सर्वा निगद्यते

khathamanvāha? ityatrāha pacchaḥpāde pāde avasāya arrdhacaśaḥarrdhace avasāya tataḥ sarvā samastāṃ anavasānāmityarthaḥ atra ca sarvānuvacanasyādṛṣṭārthatvāt, grahītumasamarthasyāmi kumārasya sarvā nigadyate


9

अथ तस्मिन्नेवानुवचने विशेषमाह- व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्र्धचयोरुत्तमां कृत्स्नायाम् आप्ग्स्_11.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.11: तत्रावानुवचने विशेषः प्रथमे वचने पादानां त्रयाणां आदिष्वन्तेषु वा तिस्त्रो व्याहृतयः क्रमेण वक्तव्याः

atha tasminnevānuvacane viśeṣamāha- vyāhṛtīrvihṛtāḥ pādādiṣvanteṣu vā tathārrdhacayoruttamāṃ kṛtsnāyām āpgs_11.11 commentaries: āpgs-anā_11.11: tatrāvānuvacane viśeṣaḥ prathame vacane pādānāṃ trayāṇāṃ ādiṣvanteṣu vā tistro vyāhṛtayaḥ krameṇa vaktavyāḥ


11

द्वितीय वचने अर्र्धचयोरादितः अन्ततो वा द्वे व्याहृती क्रमेण वक्तव्ये तत उत्तमा शिष्यते सुवरिति तामुत्तमां कृत्सनायां वचने ऽनुब्रूयादिति तत्र प्रयोगः -प्रणवो ऽग्रे वक्तव्यः "ओंकारः स्वगीद्वारम्, तस्मात् ब्रह्माध्येष्यमाणःऽ(आप-ध-1-13-6) इति वचनात् ओंभूः तत्सवितुर्वरेण्यम् ओंभुवः भर्गो देवस्य धीमहि ओंसुवः धियो यो नः प्रचोदयात् ओंभूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ओंभुवः धियो यो नः प्रचोदयात् ओंसिवः तत्सवितुर्वेण्यं भर्गो देवस्य धामहि धियो यो नः प्रचोदयात् आप्ग्स्-तात्_11.11: विहृताः व्याहृतीःत्रिष्वपि पादादिष्वेकैकामन्वाह अथवा पादानामन्तेषु तथार्र्धचे ऽवसाय प्रयोगे ऽपि प्रत्यर्र्धचमादावन्ते वैवैकामन्वाह अविशिष्टांतूत्तमांव्याहृतिं कृत्स्नाया मादावन्तेवा कृत्स्नायामितिषष्ठ्यार्थपाठः प्रयोगस्तु-प्रथमं प्रणवमन्वाह;ओमिति ब्राह्मणः प्रवक्ष्यन्नाह (तैउ-1-8) इति श्रुतेः, ऽओंकारस्स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येतऽ(1.136) इति धर्मशास्त्रवचनाच्च ओं भूः तत्सवितुर्वरेण्यम् ओं भूः भर्गो देवस्य धीमहि ओंसुवः धियो यो नः प्रचोदयात् ओंभुवः तत्सविदुर्वरेण्यं भर्गो देवस्य धीमहि ओंभुवः धियो यो नः प्रचोदयात् ओंसुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ऽ; अन्तेषु वेति पक्षे प्रयोगः-ऽओं तत्सवितुर्वरेण्यं भूः ओं भर्गो देवस्य धीमहि भुवः ओं धियो यो नः प्रचोदयात् सुवः ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि भूः ओंधियो यो नः प्रचोदयात् भुवः ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सुवः ऽइति

dvitīya vacane arrdhacayorāditaḥ antato vā dve vyāhṛtī krameṇa vaktavye tata uttamā śiṣyate suvariti tāmuttamāṃ kṛtsanāyāṃ vacane 'nubrūyāditi tatra prayogaḥ -praṇavo 'gre vaktavyaḥ "oṃkāraḥ svagīdvāram, tasmāt brahmādhyeṣyamāṇaḥ'(āpa-dha-1-13-6) iti vacanāt oṃbhūḥ tatsaviturvareṇyam oṃbhuvaḥ bhargo devasya dhīmahi oṃsuvaḥ dhiyo yo naḥ pracodayāt oṃbhūḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi oṃbhuvaḥ dhiyo yo naḥ pracodayāt oṃsivaḥ tatsaviturveṇyaṃ bhargo devasya dhāmahi dhiyo yo naḥ pracodayāt āpgs-tāt_11.11: vihṛtāḥ vyāhṛtīḥtriṣvapi pādādiṣvekaikāmanvāha athavā pādānāmanteṣu tathārrdhace 'vasāya prayoge 'pi pratyarrdhacamādāvante vaivaikāmanvāha aviśiṣṭāṃtūttamāṃvyāhṛtiṃ kṛtsnāyā mādāvantevā kṛtsnāyāmitiṣaṣṭhyārthapāṭhaḥ prayogastu-prathamaṃ praṇavamanvāha;omiti brāhmaṇaḥ pravakṣyannāha (taiu-1-8) iti śruteḥ, 'oṃkārassvargadvāraṃ tasmādbrahmādhyeṣyamāṇa etadādi pratipadyeta'(1.136) iti dharmaśāstravacanācca oṃ bhūḥ tatsaviturvareṇyam oṃ bhūḥ bhargo devasya dhīmahi oṃsuvaḥ dhiyo yo naḥ pracodayāt oṃbhuvaḥ tatsavidurvareṇyaṃ bhargo devasya dhīmahi oṃbhuvaḥ dhiyo yo naḥ pracodayāt oṃsuvaḥ tatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt '; anteṣu veti pakṣe prayogaḥ-'oṃ tatsaviturvareṇyaṃ bhūḥ oṃ bhargo devasya dhīmahi bhuvaḥ oṃ dhiyo yo naḥ pracodayāt suvaḥ oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi bhūḥ oṃdhiyo yo naḥ pracodayāt bhuvaḥ oṃtatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt suvaḥ 'iti


11

कुमार उत्तरेण मन्त्रेणोत्तरमोष्ठमुपस्पृशते आप्ग्स्_11.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.12: अथ तत्रैवासीनःकुमारःउत्तरेण मन्त्रेण ऽवृधमसौ सोभ्येऽत्यनेन स्वयमुत्तरमोष्ठमुपस्पृशते अप उपस्पृशति ओष्ठयो र्द्वित्वात् उत्तरमिति विशेषणम् मन्त्रग्रहणमुत्तरशब्दस्य दिग्वाचिताशङ्का मा भूदित्येवमर्थम् मन्त्रे असावित्यनेन प्राणो ऽभिधीयते नाचार्यो नापि माणवकः तेन नामनिर्देशो न कर्त्तव्यः

kumāra uttareṇa mantreṇottaramoṣṭhamupaspṛśate āpgs_11.12 commentaries: āpgs-anā_11.12: atha tatraivāsīnaḥkumāraḥuttareṇa mantreṇa 'vṛdhamasau sobhye'tyanena svayamuttaramoṣṭhamupaspṛśate apa upaspṛśati oṣṭhayo rdvitvāt uttaramiti viśeṣaṇam mantragrahaṇamuttaraśabdasya digvācitāśaṅkā mā bhūdityevamartham mantre asāvityanena prāṇo 'bhidhīyate nācāryo nāpi māṇavakaḥ tena nāmanirdeśo na karttavyaḥ


12

आप्ग्स्-तात्_11.12: आचार्यवाचितेन ऽअवृधमसौ सौम्यऽइत्यनेनमन्त्रेण कुमारः स्वीयत्तमोष्ठमुपस्पृशति छान्दसमात्मनेपदम् असावि- त्यत्र च नास्ति नामग्रहणम्, प्राणाभिधानत्वात् ऽश्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत् ऽ(आपध.1-16-10.) इति वचनात् आचमनं तु कर्तव्यम्

āpgs-tāt_11.12: ācāryavācitena 'avṛdhamasau saumya'ityanenamantreṇa kumāraḥ svīyattamoṣṭhamupaspṛśati chāndasamātmanepadam asāvi- tyatra ca nāsti nāmagrahaṇam, prāṇābhidhānatvāt 'śyāvāntaparyantāvoṣṭhāvupaspṛśyācāmet '(āpadha.1-16-10.) iti vacanāt ācamanaṃ tu kartavyam


12

कर्णावुत्तरेण आप्ग्स्_11.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.13: उत्तरेणमन्त्रेण"ब्रह्मण आणी स्थ"इत्यनेन सकृन्मन्त्रः कर्णाविति द्विवचनयोगात् क्रमेणोपस्पर्शनम्

karṇāvuttareṇa āpgs_11.13 commentaries: āpgs-anā_11.13: uttareṇamantreṇa"brahmaṇa āṇī stha"ityanena sakṛnmantraḥ karṇāviti dvivacanayogāt krameṇopasparśanam


13

आप्ग्स्-तात्_11.13: स एव युगपद्धस्तद्वयेन स्वीयौ कर्णौस्पृशति उत्तरेणऽब्रह्मण आणी स्थःऽइति द्विवचनलिङ्गेन

āpgs-tāt_11.13: sa eva yugapaddhastadvayena svīyau karṇauspṛśati uttareṇa'brahmaṇa āṇī sthaḥ'iti dvivacanaliṅgena


13

14 दण्डग्रहणम् दण्डमुत्तरेणाऽदत्ते आप्ग्स्_11.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.14: उत्तरेण मन्त्रेण ऽसुश्रवस्सुश्रवसऽमित्यनेन

14 daṇḍagrahaṇam daṇḍamuttareṇā'datte āpgs_11.14 commentaries: āpgs-anā_11.14: uttareṇa mantreṇa 'suśravassuśravasa'mityanena


14

आप्ग्स्-तात्_11.14: उत्तरेण ऽसुश्रवःऽइत्यनेन

āpgs-tāt_11.14: uttareṇa 'suśravaḥ'ityanena


14

अथ वर्णक्रमेण त्रिभिस्सूत्रैर्दण्डानां गुणविधिमाह 15 वर्णविशेषपुरस्कारेण दण्डविशेषविधानम् पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजो ऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य आप्ग्स्_11.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.15: राजन्यवैश्ययोः विशेषविधानादेव सिद्धे ब्राह्मणग्रहणं अयमपि विधिर्र्वणसंयुक्तौ यथा स्यादिति तेन ऽवार्क्षो दण्डऽइत्ययं विकल्पो ब्राह्मणस्यापि भवति इतरथा राजन्यवैश्ययोरेव स्यात् तयोरेव वर्णसंयुक्तं विधानमिति कृत्वा

atha varṇakrameṇa tribhissūtrairdaṇḍānāṃ guṇavidhimāha 15 varṇaviśeṣapuraskāreṇa daṇḍaviśeṣavidhānam pālāśo daṇḍo brāhmaṇasya naiyyagrodhasskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya āpgs_11.15 commentaries: āpgs-anā_11.15: rājanyavaiśyayoḥ viśeṣavidhānādeva siddhe brāhmaṇagrahaṇaṃ ayamapi vidhirrvaṇasaṃyuktau yathā syāditi tena 'vārkṣo daṇḍa'ityayaṃ vikalpo brāhmaṇasyāpi bhavati itarathā rājanyavaiśyayoreva syāt tayoreva varṇasaṃyuktaṃ vidhānamiti kṛtvā


15

न्यग्रोधस्य विकारो नैय्यग्रोधः स्कन्धे जातःस्कन्धजः अवाचीनाग्रःअवाङग्रः ङ्कारपाठश्छान्दसः

nyagrodhasya vikāro naiyyagrodhaḥ skandhe jātaḥskandhajaḥ avācīnāgraḥavāṅagraḥ ṅkārapāṭhaśchāndasaḥ


16

बदर्या विकारो बादरःवृक्षप्रकरमात् उदुम्बरो वृक्षः, न ताम्रम्

badaryā vikāro bādaraḥvṛkṣaprakaramāt udumbaro vṛkṣaḥ, na tāmram


15

आप्ग्स्-तात्_11.15: पालाशःपलाशवृक्षस्य विकारः एवमुत्तरेष्वपि विग्रहः स्कन्धे जातःस्कन्धजः अवाङ्ग्रःअवाचीनमग्रं यस्य दण्डस्य

āpgs-tāt_11.15: pālāśaḥpalāśavṛkṣasya vikāraḥ evamuttareṣvapi vigrahaḥ skandhe jātaḥskandhajaḥ avāṅgraḥavācīnamagraṃ yasya daṇḍasya


17

वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति आप्ग्स्_11.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.16: वृक्षस्य विकारो वार्क्षः यज्ञियस्य वृक्षस्य इति कल्पान्तरे पूर्वो विधिर्र्वणसंयुक्तः, अयं तु सर्वसाधारणो न केनचित् वर्णविशेषेण संयुज्यते अत्र च सामयाचारिक एव दण्डविधिस्सर्वचरणार्थः सन्निहानूद्यते नैय्यग्रोधादिषु मन्त्रप्रापणार्थम् अन्यथा पालाशस्यैव मन्त्रेणादानं स्यात् तूष्णीमन्येषाम् ऽसुश्रवःऽइत्यस्य पालाशाभिधानत्वात् "देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नामेति"(तैसं.35-7) वार्क्षो दण्ड इत्वेतावतैव सिद्धे अवर्णसंयोगेनेति वचने कल्पान्तरयोरसंभेददर्शनार्थम्-यदि वर्णसंयुक्तः कल्पः प्रक्रान्तः स एवासमावर्तनात् कर्तव्य इति

vārkṣo daṇḍa ityavarṇasaṃyogenaika upadiśanti āpgs_11.16 commentaries: āpgs-anā_11.16: vṛkṣasya vikāro vārkṣaḥ yajñiyasya vṛkṣasya iti kalpāntare pūrvo vidhirrvaṇasaṃyuktaḥ, ayaṃ tu sarvasādhāraṇo na kenacit varṇaviśeṣeṇa saṃyujyate atra ca sāmayācārika eva daṇḍavidhissarvacaraṇārthaḥ sannihānūdyate naiyyagrodhādiṣu mantraprāpaṇārtham anyathā pālāśasyaiva mantreṇādānaṃ syāt tūṣṇīmanyeṣām 'suśravaḥ'ityasya pālāśābhidhānatvāt "devā vai brahmannavadanta tat parṇa upāśṛṇot suśravā vai nāmeti"(taisaṃ.35-7) vārkṣo daṇḍa itvetāvataiva siddhe avarṇasaṃyogeneti vacane kalpāntarayorasaṃbhedadarśanārtham-yadi varṇasaṃyuktaḥ kalpaḥ prakrāntaḥ sa evāsamāvartanāt kartavya iti


16

आप्ग्स्-तात्_11.16: वार्क्षःवृक्षस्य माज्ञियस्य विकारः, न तु वेणुवेत्रादेः अवर्णसंयोगेनसर्ववर्णानामविशेषेणेत्योकौपदिशन्ति अत्र यद्यपि ऽतत् पर्ण उपाश्रृणोत्सुश्रवा वै नामऽ(तैसं.3-5-7) इत्यर्थवादेन मन्त्रस्थसुश्रवश्शब्दस्य पालाशाभिधानलिङ्गत्वात् अनेन मन्त्रेण नैय्यग्रोधादिदण्डानामप्युपादने लिङ्गविरोधः तथापि ऽदण्डमुत्तरेणादत्तेऽइति श्रुतिप्राबल्यात् लिङ्गं बाधित्वानेनैव सर्वदण्डानामुपादानम् धर्मशास्त्रे ऽपालासो दण्डो ब्राह्मणस्यऽ(आपध.1.2.38)इत्यादि पुनर्विधानं च ऽत्रैविद्यकं ब्रह्मचर्य चरेतऽ; (आपध.1.1.28) इत्युपनयनकालातिपत्तिप्रायश्चित्तानुष्ठाने ऽपि तत्तद्वर्णेन तत्तद्दण्डधारणार्थम् केचित् -तत्रैव सर्वचरणार्थ विहितानां दण्डानां गृह्ये ऽनुवादः सर्वेषामुपादाने ऽपि श्रुत्यैतन्मन्त्रविधानार्थ इति

āpgs-tāt_11.16: vārkṣaḥvṛkṣasya mājñiyasya vikāraḥ, na tu veṇuvetrādeḥ avarṇasaṃyogenasarvavarṇānāmaviśeṣeṇetyokaupadiśanti atra yadyapi 'tat parṇa upāśrṛṇotsuśravā vai nāma'(taisaṃ.3-5-7) ityarthavādena mantrasthasuśravaśśabdasya pālāśābhidhānaliṅgatvāt anena mantreṇa naiyyagrodhādidaṇḍānāmapyupādane liṅgavirodhaḥ tathāpi 'daṇḍamuttareṇādatte'iti śrutiprābalyāt liṅgaṃ bādhitvānenaiva sarvadaṇḍānāmupādānam dharmaśāstre 'pālāso daṇḍo brāhmaṇasya'(āpadha.1.2.38)ityādi punarvidhānaṃ ca 'traividyakaṃ brahmacarya caret'; (āpadha.1.1.28) ityupanayanakālātipattiprāyaścittānuṣṭhāne 'pi tattadvarṇena tattaddaṇḍadhāraṇārtham kecit -tatraiva sarvacaraṇārtha vihitānāṃ daṇḍānāṃ gṛhye 'nuvādaḥ sarveṣāmupādāne 'pi śrutyaitanmantravidhānārtha iti


18

16 स्मृतवाचनादि, आदित्योपस्थानं च स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते आप्ग्स्_11.17 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.17: अथ दण्डमादाय तत्रैवासीनः कुमारःस्मृतञ्च म इत्येतत्व्रतसंकीर्तनमाह ततो गुरवे वरं ददाति ततौदायुषेति मन्त्रेणोत्तिष्ठेतुत्तरैर्मन्त्रैरादित्यमुपतिष्ठते ऽतच्छक्षुऽरित्यादिभिः ऽसूर्य दृशेऽइत्यवमन्तैः व्रतसंकीर्तनादि पदार्थचतुष्टयस्य कुमार एव कर्ता हेत्वभिधानं तूभयत्राविवक्षितं-वाचयित्वोत्थाप्येति च विवक्षिते तु तस्मिन् वरदाने उपस्थाने चाऽचार्य एव कर्ता स्यात् तस्मादर्थप्राप्तस्य हेतुव्यापारस्यानुवादः

16 smṛtavācanādi, ādityopasthānaṃ ca smṛtaṃ ca ma ityetadvācayitvā gurave varaṃ datvodāyuṣetyutthāpyottarairādityamupatiṣṭhate āpgs_11.17 commentaries: āpgs-anā_11.17: atha daṇḍamādāya tatraivāsīnaḥ kumāraḥsmṛtañca ma ityetatvratasaṃkīrtanamāha tato gurave varaṃ dadāti tataudāyuṣeti mantreṇottiṣṭhetuttarairmantrairādityamupatiṣṭhate 'tacchakṣu'rityādibhiḥ 'sūrya dṛśe'ityavamantaiḥ vratasaṃkīrtanādi padārthacatuṣṭayasya kumāra eva kartā hetvabhidhānaṃ tūbhayatrāvivakṣitaṃ-vācayitvotthāpyeti ca vivakṣite tu tasmin varadāne upasthāne cā'cārya eva kartā syāt tasmādarthaprāptasya hetuvyāpārasyānuvādaḥ


17

आप्ग्स्-तात्_11.17: अथाचार्यः ऽस्मतं च मेऽइत्येतन्मन्त्रजातं कुमारं वाचयति तत्राष्टौ मन्त्रास्समानोदर्कअश्शेषो नवमः तेषां प्रत्यगाशिष्ट्वादेव वाचने प्राप्ते वाचयित्वेति पुनर्वचनं वाचनवरदानयोः नैरन्तर्यार्थम् अथगुरवे आचार्याय कुमारो वरं गां ऽगुरो!वरं ते ददामिऽइति ददाति अग्न्याधाने ऽगौर्वै वरःऽ(आपश्रौ.4-11-4) इत्युक्तत्वात् आचार्यस्तु सप्तदशकृत्वो ऽपान्य होतॄणां दशमानुवाकस्य ऽदेवस्य वाऽ; इत्यादित आरभ्य ऽदेवि दक्षिणेऽइत्येवमन्तमुक्त्वा ऽरुद्राय गां तेनामृतत्वमश्यामऽइत्यादि सन्धाय ऽउत्तानस्त्वाङ्गीरसः प्रतिगृह्णातुऽ(तैआ.3-10) इत्येवमन्तेन श्रौतवत् प्रतिगृह्णाति;उपनयनं विद्यार्थस्य श्रुतितस्संस्कारःऽ(आपध.1-1 -9) इति धर्मशास्त्रवचनात् ततः कुमारं ऽउदायुषाऽइत्युत्थाप्य इदं च वाचयति अथ कुमारः ऽतच्चक्षुर्देव हितमऽइत्यादिभिराचार्यवाचितैर्दशभिर्मन्त्रैरादित्यमुपतिष्ठते अत्र वाचयित्वेत्यादेः क्त्वाप्रत्ययस्य, क्रियाविधानमात्रे तात्पर्य, न तु समानकर्तृकत्वे ऽपि ज्ञापितं चैत् ऽयोक्त्रं विमुच्य तां ततः प्र वा वाहयेतऽ(आपगृ.5-13) इत्यत्र अथवा व्यवधानेन सम्बन्धः;आचार्यस्स्मृतादि वाचयित्वा ऽउदायुषाऽइत्युत्थाप्य ऽयं कामयेतऽइत्यादि कुर्यात् कुमारस्तु गुरवे वरं दत्वोत्तरैरादित्यमुपतिष्ठते केचित्-स्मृतसङ्कीर्तनादि पदार्थचतुष्टयमपि कुमारकर्तृकम् वाचयित्वोत्थाप्येति तु णिजर्थो हे तुरविवक्षितःऽअन्यथा त्वसमानकर्तृकत्वात् वरदानमुपस्थानं चाचार्यकर्तृकं स्यात् तथा गुरुग्रहणं चौलादौ ब्रह्मणे वरदानार्थमिति

āpgs-tāt_11.17: athācāryaḥ 'smataṃ ca me'ityetanmantrajātaṃ kumāraṃ vācayati tatrāṣṭau mantrāssamānodarkaaśśeṣo navamaḥ teṣāṃ pratyagāśiṣṭvādeva vācane prāpte vācayitveti punarvacanaṃ vācanavaradānayoḥ nairantaryārtham athagurave ācāryāya kumāro varaṃ gāṃ 'guro!varaṃ te dadāmi'iti dadāti agnyādhāne 'gaurvai varaḥ'(āpaśrau.4-11-4) ityuktatvāt ācāryastu saptadaśakṛtvo 'pānya hotṝṇāṃ daśamānuvākasya 'devasya vā'; ityādita ārabhya 'devi dakṣiṇe'ityevamantamuktvā 'rudrāya gāṃ tenāmṛtatvamaśyām'ityādi sandhāya 'uttānastvāṅgīrasaḥ pratigṛhṇātu'(taiā.3-10) ityevamantena śrautavat pratigṛhṇāti;upanayanaṃ vidyārthasya śrutitassaṃskāraḥ'(āpadha.1-1 -9) iti dharmaśāstravacanāt tataḥ kumāraṃ 'udāyuṣā'ityutthāpya idaṃ ca vācayati atha kumāraḥ 'taccakṣurdeva hitam'ityādibhirācāryavācitairdaśabhirmantrairādityamupatiṣṭhate atra vācayitvetyādeḥ ktvāpratyayasya, kriyāvidhānamātre tātparya, na tu samānakartṛkatve 'pi jñāpitaṃ cait 'yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet'(āpagṛ.5-13) ityatra athavā vyavadhānena sambandhaḥ;ācāryassmṛtādi vācayitvā 'udāyuṣā'ityutthāpya 'yaṃ kāmayeta'ityādi kuryāt kumārastu gurave varaṃ datvottarairādityamupatiṣṭhate kecit-smṛtasaṅkīrtanādi padārthacatuṣṭayamapi kumārakartṛkam vācayitvotthāpyeti tu ṇijartho he turavivakṣitaḥ'anyathā tvasamānakartṛkatvāt varadānamupasthānaṃ cācāryakartṛkaṃ syāt tathā gurugrahaṇaṃ caulādau brahmaṇe varadānārthamiti


19

अथ काम्यमाह 17 उपनयने काम्यविधिः यं कामयेत नायम (यं म) च्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात् आप्ग्स्_11.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.18: यंकिमारं उपनेतीकामयेतगुरुः, किमिति?अयं मत्तो न छिद्येत न वियुज्येत मदधीन एव सायादासमावर्थनादिति तमेतस्मिन् काले दक्षिणे हस्ते गृह्णीयातुत्तरयर्चाऽयस्मिन् भूतमिऽत्येतया नामनिर्देशः सबुध्या काम्यो ऽयं विधिः न नित्यः एतदेव ज्ञापकमासमावर्तनात् नोपनेतुरेव समीपे वर्तितव्यमिति

atha kāmyamāha 17 upanayane kāmyavidhiḥ yaṃ kāmayeta nāyama (yaṃ ma) cchidyeteti tamuttarayā dakṣiṇe haste gṛhṇīyāt āpgs_11.18 commentaries: āpgs-anā_11.18: yaṃkimāraṃ upanetīkāmayetaguruḥ, kimiti?ayaṃ matto na chidyeta na viyujyeta madadhīna eva sāyādāsamāvarthanāditi tametasmin kāle dakṣiṇe haste gṛhṇīyātuttarayarcā'yasmin bhūtami'tyetayā nāmanirdeśaḥ sabudhyā kāmyo 'yaṃ vidhiḥ na nityaḥ etadeva jñāpakamāsamāvartanāt nopanetureva samīpe vartitavyamiti


18

आप्ग्स्-तात्_11.18: यं कुमारं अयमासमावर्तनान्मत्तो न च्छिद्येन न वियुच्येतेतिकामयेत, तमुत्तरया ऽयस्मिम् भूतमऽइत्यनयर्चा सम्बुध्द्या च नाम गृहीत्वादक्षिणे हस्ते गृह्णीयात्यद्यमाचार्यश्चतुर्वेदी सर्वशास्त्रवित् अध्यापयितुं व्याख्यातुं च शक्नोति

āpgs-tāt_11.18: yaṃ kumāraṃ ayamāsamāvartanānmatto na cchidyena na viyucyetetikāmayeta, tamuttarayā 'yasmim bhūtam'ityanayarcā sambudhdyā ca nāma gṛhītvādakṣiṇe haste gṛhṇīyātyadyamācāryaścaturvedī sarvaśāstravit adhyāpayituṃ vyākhyātuṃ ca śaknoti


20

त्र्यहमेतमग्निं धारयन्ति आप्ग्स्_11.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.19: एतमुपनयनाग्निं व्यहं धारयन्ति अविनाशिनं कुर्वन्ति पित्रादयः

tryahametamagniṃ dhārayanti āpgs_11.19 commentaries: āpgs-anā_11.19: etamupanayanāgniṃ vyahaṃ dhārayanti avināśinaṃ kurvanti pitrādayaḥ


19

आप्ग्स्-तात्_11.19: स्पष्टमेतत्

āpgs-tāt_11.19: spaṣṭametat


21

18 ब्रह्मचर्यनियमविधिः क्षारलवणवर्जनं च आप्ग्स्_11.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.20: क्षारलवणयोर्र्वजनं भवति भोजने त्र्यहम् अस्य ब्रह्मचारिणः सामयाचारिकः प्रतिषेधः सार्वकालिकः अयं तु त्र्यहसम्बन्धः तयोर्विकल्पः मध्वादिप्रतिषेधस्तु सामयाचारिको नित्यमेव भवति

18 brahmacaryaniyamavidhiḥ kṣāralavaṇavarjanaṃ ca āpgs_11.20 commentaries: āpgs-anā_11.20: kṣāralavaṇayorrvajanaṃ bhavati bhojane tryaham asya brahmacāriṇaḥ sāmayācārikaḥ pratiṣedhaḥ sārvakālikaḥ ayaṃ tu tryahasambandhaḥ tayorvikalpaḥ madhvādipratiṣedhastu sāmayācāriko nityameva bhavati


20

आप्ग्स्-तात्_11.20: त्र्यहं क्षारलवणयोर्र्वजनं च भवति अत्र च त्र्यहमिति नियमाद्धर्मशास्त्रे ऽयथा क्षारलवणमधुमांसानिऽ(आप.1-4-6) ऽइत्यनेन क्षारलवणयोर्द्वयोर्निषेधः त्र्यहादूर्ध्व पाक्षिकः मध्वादेस्तु नित्यएव

āpgs-tāt_11.20: tryahaṃ kṣāralavaṇayorrvajanaṃ ca bhavati atra ca tryahamiti niyamāddharmaśāstre 'yathā kṣāralavaṇamadhumāṃsāni'(āpa.1-4-6) 'ityanena kṣāralavaṇayordvayorniṣedhaḥ tryahādūrdhva pākṣikaḥ madhvādestu nityaeva

Section (cont. 14)

22

19 समिदाधानम् परि त्वे ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् आप्ग्स्_11.21 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.21: तमुपनयनाग्निं ऽपरि त्वे ऽत्यनेन मन्त्रेणपरिमृज्य सर्वतो मार्जमुदकेन कृत्वाउत्तरैर्मन्त्रैः ऽअग्नये समिधऽमित्यादिभिः द्वादशभिः प्रतिमन्त्रं समिधो नित्यमादध्यात् ब्रह्मचारी ऽसायं प्रातऽ(आपध.14-16) रिति विशेषः सामयाचारिकः प्रत्येतव्यः ऽसायमेवाग्निपूजेत्येकेऽ(आपध.1-4-17) इति च अयं तूपदेशो ऽस्मिन् काले प्रारम्भार्थः तेन प्रातरुपक्रमं समिदाधानं सायमपवर्गम् पक्षान्तरे सायमेवोपक्रमः, नान्यस्मिन् काले तत्र यथाकामी प्रक्रमेत अधिकारादेव सिद्धे तस्मिन्निति वचनं त्र्यहादूर्द्वमपि तस्मिनुपनयनाग्नावेव समिदाधानं यथा स्यादिति तेन नित्यधारणमप्यस्य विकल्पेन साधितं भवति व्याहृतिभिरप्यन्ते चतस्रस्समिध आदधाति तत्त्प्रायश्चित्तत्वेन द्रष्टव्यम्, कल्पान्तरदर्शनाच्च ऽयत्ते अग्ने तेजःऽइत्यादिभिरुपस्थानं समाचाराद्भसित दारणम्

19 samidādhānam pari tve ti parimṛjya tasminnuttarairmantraissamidha ādadhyāt āpgs_11.21 commentaries: āpgs-anā_11.21: tamupanayanāgniṃ 'pari tve 'tyanena mantreṇaparimṛjya sarvato mārjamudakena kṛtvāuttarairmantraiḥ 'agnaye samidha'mityādibhiḥ dvādaśabhiḥ pratimantraṃ samidho nityamādadhyāt brahmacārī 'sāyaṃ prāta'(āpadha.14-16) riti viśeṣaḥ sāmayācārikaḥ pratyetavyaḥ 'sāyamevāgnipūjetyeke'(āpadha.1-4-17) iti ca ayaṃ tūpadeśo 'smin kāle prārambhārthaḥ tena prātarupakramaṃ samidādhānaṃ sāyamapavargam pakṣāntare sāyamevopakramaḥ, nānyasmin kāle tatra yathākāmī prakrameta adhikārādeva siddhe tasminniti vacanaṃ tryahādūrdvamapi tasminupanayanāgnāveva samidādhānaṃ yathā syāditi tena nityadhāraṇamapyasya vikalpena sādhitaṃ bhavati vyāhṛtibhirapyante catasrassamidha ādadhāti tattprāyaścittatvena draṣṭavyam, kalpāntaradarśanācca 'yatte agne tejaḥ'ityādibhirupasthānaṃ samācārādbhasita dāraṇam


21

आप्ग्स्-तात्_11.21: ऽपरित्वाग्नेऽइत्यग्निं परिमृज्यपरिसमूह्य, तस्मिन् उपनयनाग्नौ यावद्धारणमुत्तरैर्मन्त्रैर्द्वअदशभिःल ऽअग्नये समिधमाहार्षऽइत्यादिभिः प्रतिमन्त्रमेकैकां समिधमादध्यात् पुनश्चान्ते तूष्णीं परिसमूहनम् अनन्तरमुभयस्तूर्ष्णीं समन्तं परिषेचनं, स्मृत्यन्तरात् आचाराच्च एतच्च समिदाधानं पूर्व काष्ठैरग्निमिद्ध्वा कार्यम्;धर्मशास्त्रे ऽअग्निमिद्ध्वा परिसमूह्य समिध आदध्यातऽ(आपध.1-4 -16) इति वचनात् परिसमबहनस्य ऽपरित्वेति परिमृज्यऽइति विधिः तथा धर्मशास्त्रे तु ऽसमिद्धमग्निं पाणिना परिसमूहेन्न समूहन्याऽ; (आपध.1-4-18) इति गुणार्थो ऽनुवादः

āpgs-tāt_11.21: 'paritvāgne'ityagniṃ parimṛjyaparisamūhya, tasmin upanayanāgnau yāvaddhāraṇamuttarairmantrairdvaadaśabhiḥla 'agnaye samidhamāhārṣa'ityādibhiḥ pratimantramekaikāṃ samidhamādadhyāt punaścānte tūṣṇīṃ parisamūhanam anantaramubhayastūrṣṇīṃ samantaṃ pariṣecanaṃ, smṛtyantarāt ācārācca etacca samidādhānaṃ pūrva kāṣṭhairagnimiddhvā kāryam;dharmaśāstre 'agnimiddhvā parisamūhya samidha ādadhyāt'(āpadha.1-4 -16) iti vacanāt parisamabahanasya 'paritveti parimṛjya'iti vidhiḥ tathā dharmaśāstre tu 'samiddhamagniṃ pāṇinā parisamūhenna samūhanyā'; (āpadha.1-4-18) iti guṇārtho 'nuvādaḥ


23

एवमग्निपूजापरशब्दं समिदाधानं सविधिकमभिधाय, इदानीं तसेयैवाधिकारसम्बन्धं गुणान्तरं चाह एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य आप्ग्स्_11.22 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.22: यथास्योपनयनाग्नेः नित्यधारणपक्षे समिधादानं नित्यत्वेन चेदितं, एवं त्र्यहं धारणपक्षे त्र्यहादूर्ध्वअन्यस्मिन्नप्यग्नाविदं कर्म कर्तव्यमित्यर्थः

evamagnipūjāparaśabdaṃ samidādhānaṃ savidhikamabhidhāya, idānīṃ taseyaivādhikārasambandhaṃ guṇāntaraṃ cāha evamanyasminnapi sadā'raṇyādedhānāhṛtya āpgs_11.22 commentaries: āpgs-anā_11.22: yathāsyopanayanāgneḥ nityadhāraṇapakṣe samidhādānaṃ nityatvena ceditaṃ, evaṃ tryahaṃ dhāraṇapakṣe tryahādūrdhvaanyasminnapyagnāvidaṃ karma kartavyamityarthaḥ


24

अरण्यग्रहणात् ग्राम्याणां फलवतां वृक्षाणां प्रतिष्धः आहृत्येति वचनात् इन्यैराहृतानां प्रतिषेधः एधाःकाष्ठानि एधग्रहणम् अग्नेराहरणशङ्कानिवृत्यर्थम् सामयाचारिकेषु विधिः गुर्र्वथ ब्रह्मचारिणस्समिदाहररणं विधत्ते इदं त्वात्मार्थम्

araṇyagrahaṇāt grāmyāṇāṃ phalavatāṃ vṛkṣāṇāṃ pratiṣdhaḥ āhṛtyeti vacanāt inyairāhṛtānāṃ pratiṣedhaḥ edhāḥkāṣṭhāni edhagrahaṇam agnerāharaṇaśaṅkānivṛtyartham sāmayācārikeṣu vidhiḥ gurrvatha brahmacāriṇassamidāhararaṇaṃ vidhatte idaṃ tvātmārtham


22

आप्ग्स्-तात्_11.22: एवमुक्तेन विधिना सदा उपनयनप्रभृत्यासमावर्तनात् अहरहस्सायं प्रातः, सायमेव वा समिदाधानं कर्तव्यम् एतच्च त्र्यहा दूर्ध्वमन्यस्मिन्नपि लौकिके ऽग्नौ भवति न तूपनयनाग्निर्नष्ट इति नित्यस्य समिदाधानस्य लोपः समिधश्चारण्यादेवाहृत्याधायाः यच्च धर्मशास्त्रे ऽसायं प्रातर्यथोपदेशमऽइति ऽसायमेवाग्निपूजेत्येकेऽ(आपध.1-4-16,17) इति स विकल्पविध्यर्थो ऽनुवादः केचित्-नित्यस्य समस्समिदाधानस्य अत्रोपदेशो ऽस्मिन् काले प्रारम्भार्थः ततश्चेदं प्रातरुपक्रमं सायमपवर्गम् सायमेवेति पक्षे तु सायमेवोपक्रमो नान्यत्र तत्र यथाकामी प्रक्रमेत तथा तस्मिन्नन्यस्मिन्नपीत्यारम्भात् उपनयनाग्नेस्त्र्यहादूर्ध्वमपि विकल्पेन धारणं, तत्रैव समिदाधानं चेति

āpgs-tāt_11.22: evamuktena vidhinā sadā upanayanaprabhṛtyāsamāvartanāt aharahassāyaṃ prātaḥ, sāyameva vā samidādhānaṃ kartavyam etacca tryahā dūrdhvamanyasminnapi laukike 'gnau bhavati na tūpanayanāgnirnaṣṭa iti nityasya samidādhānasya lopaḥ samidhaścāraṇyādevāhṛtyādhāyāḥ yacca dharmaśāstre 'sāyaṃ prātaryathopadeśam'iti 'sāyamevāgnipūjetyeke'(āpadha.1-4-16,17) iti sa vikalpavidhyartho 'nuvādaḥ kecit-nityasya samassamidādhānasya atropadeśo 'smin kāle prārambhārthaḥ tataścedaṃ prātarupakramaṃ sāyamapavargam sāyameveti pakṣe tu sāyamevopakramo nānyatra tatra yathākāmī prakrameta tathā tasminnanyasminnapītyārambhāt upanayanāgnestryahādūrdhvamapi vikalpena dhāraṇaṃ, tatraiva samidādhānaṃ ceti


25

उत्तरया संशास्ति आप्ग्स्_11.23 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.23: अथं तंउत्तरयर्चाऽब्रह्मचार्यसीऽत्येतयासंशास्तिगुरुः संश्क्षयतीत्यर्थः यथापाठामृचा संशासनं अर्त च कथयति ब्रह्मचार्यसि ब्रह्मचर्याश्रमं प्राप्तो ऽसि तस्मात् कामचारवादभक्षो मा भूः बाढमिति प्रतिवचनम् अपो ऽशान,मयाननुज्ञातः अप एवाशान, नान्यते पूर्ववत् प्रतिवचनं सर्वत्रा कर्म कुरु गुरुशुश्रूषणादि मा सुषुप्थाःदिवा स्वापप्रतिषेधः "दिवा मा स्वाप्सी (आश्वगृ.1-22-2) तिर्येवाश्वलायनः अपर आह-अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवं विधो ऽत्र स्वापाभाव इति भ्क्षाचर्यचरेति नियमेन भैक्षविधिः आचार्याधीनो भवमातापित्रोरपि वशं त्यक्त्वा आचार्यवशे वर्तस्वेत्यर्थः संशासनानन्तरं भिक्षाचरणम् अत्र बोधायनः-"अथास्मा अरिक्तं पात्रं प्रयच्छात्राह मातरमेवाग्रे भिक्षस्वेति" (भौगृ.2-7) आश्वलायनस्तु-"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा"(आश्वगृ.1-22-7) इति

uttarayā saṃśāsti āpgs_11.23 commentaries: āpgs-anā_11.23: athaṃ taṃuttarayarcā'brahmacāryasī'tyetayāsaṃśāstiguruḥ saṃśkṣayatītyarthaḥ yathāpāṭhāmṛcā saṃśāsanaṃ arta ca kathayati brahmacāryasi brahmacaryāśramaṃ prāpto 'si tasmāt kāmacāravādabhakṣo mā bhūḥ bāḍhamiti prativacanam apo 'śāna,mayānanujñātaḥ apa evāśāna, nānyate pūrvavat prativacanaṃ sarvatrā karma kuru guruśuśrūṣaṇādi mā suṣupthāḥdivā svāpapratiṣedhaḥ "divā mā svāpsī (āśvagṛ.1-22-2) tiryevāśvalāyanaḥ apara āha-atha yaḥ pūrvotthāyī jaghanyasaṃveśī tamāhurna svapitīti evaṃ vidho 'tra svāpābhāva iti bhkṣācaryacareti niyamena bhaikṣavidhiḥ ācāryādhīno bhavamātāpitrorapi vaśaṃ tyaktvā ācāryavaśe vartasvetyarthaḥ saṃśāsanānantaraṃ bhikṣācaraṇam atra bodhāyanaḥ-"athāsmā ariktaṃ pātraṃ prayacchātrāha mātaramevāgre bhikṣasveti" (bhaugṛ.2-7) āśvalāyanastu-"apratyākhyāyinamagre bhikṣetāpratyākhyāyinīṃ vā"(āśvagṛ.1-22-7) iti


26

आप्ग्स्-तात्_11.23: ऽब्रह्मचार्यसिऽइत्यनया कुमारंसंशास्तिशिक्षयति अथ सशासनार्थज्ञापनाय मन्त्रार्थ उत्यते ब्रह्मचार्यसिकामचारवा- दभक्षो माभूः अपो ऽशानमयानुज्ञातो ऽप एव पिब, वभुक्षां तु धारय कर्मकुरु,अस्मदर्थ कर्म मयानुक्तो ऽपि कुरु, मा सुषुप्थाः पूर्वोत्थायी जघन्यसंवेशी भूयाः, ऽतामाहुर्न स्वपितिऽ(आप.1-4-28) इत्युक्तत्वात्, मा दिवा स्वाष्सीरिति वा भिक्षाचर्य चर,निमन्त्रणादिना भुञ्जानो ऽप्यस्मदर्थ भैक्षमाचर आचार्याधीनो भव,मयाननुज्ञातो याजनादिकर्म मा कार्षीरिति अत्र चासीतिछान्दसो लकारः, सुषुप्था इति रूप च संशासनेषु च सर्वेषु कुमारो बाढमऽ ऽएवं करोमिऽइति प्रतिवचनं दाप्यः संशासनान्ते च भिक्षाचरणम् अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह-मातरमेवाग्रे भिक्षस्वेति (बौगृ.2-5-40) इति बौधायनगृह्यात् 20 पालाशकर्म वासश्चतुर्थीमुत्तरयाऽदत्ते ऽन्यत् परिधाप्य आप्ग्स्_11.24 चोम्मेन्तरिएस्: आप्ग्स्-अना_11.24: अथ त्रिरात्रे निवृत्ते चतुर्थारात्रिं सप्तम्यर्थेद्वितीया चतुर्थ्यामित्यर्थः तत्र किम्?यद्वासःकुमारस्य धार्य सद्यःकृत्तोतं परिधापितं तदाचार्य आदत्ते उत्तरयर्चा"यस्य ते प्रथमवास्य"मित्येतया अन्यद्वासःपरिधाय त्र्यहे तु तस्मिन्नियमेन सद्यःकृत्तोतमेव चतुर्थीमित्यत्र न रात्रिर्विवक्षिता किं तर्हि?अहोरात्रसमुदायः तत्राहन्यवादानं वाससः ऽउदगयनपूर्वपक्षाहःऽइति नियमात् मेखलामजिनं दण्डमुपवीतं कमण्डलुम् अप्सु प्रास्य विनष्टानि धार्याण्यन्यानि मन्त्रवत्

āpgs-tāt_11.23: 'brahmacāryasi'ityanayā kumāraṃsaṃśāstiśikṣayati atha saśāsanārthajñāpanāya mantrārtha utyate brahmacāryasikāmacāravā- dabhakṣo mābhūḥ apo 'śānamayānujñāto 'pa eva piba, vabhukṣāṃ tu dhāraya karmakuru,asmadartha karma mayānukto 'pi kuru, mā suṣupthāḥ pūrvotthāyī jaghanyasaṃveśī bhūyāḥ, 'tāmāhurna svapiti'(āpa.1-4-28) ityuktatvāt, mā divā svāṣsīriti vā bhikṣācarya cara,nimantraṇādinā bhuñjāno 'pyasmadartha bhaikṣamācara ācāryādhīno bhava,mayānanujñāto yājanādikarma mā kārṣīriti atra cāsītichāndaso lakāraḥ, suṣupthā iti rūpa ca saṃśāsaneṣu ca sarveṣu kumāro bāḍham' 'evaṃ karomi'iti prativacanaṃ dāpyaḥ saṃśāsanānte ca bhikṣācaraṇam athāsmā ariktaṃ pātraṃ prayacchannāha-mātaramevāgre bhikṣasveti (baugṛ.2-5-40) iti baudhāyanagṛhyāt 20 pālāśakarma vāsaścaturthīmuttarayā'datte 'nyat paridhāpya āpgs_11.24 commentaries: āpgs-anā_11.24: atha trirātre nivṛtte caturthārātriṃ saptamyarthedvitīyā caturthyāmityarthaḥ tatra kim?yadvāsaḥkumārasya dhārya sadyaḥkṛttotaṃ paridhāpitaṃ tadācārya ādatte uttarayarcā"yasya te prathamavāsya"mityetayā anyadvāsaḥparidhāya tryahe tu tasminniyamena sadyaḥkṛttotameva caturthīmityatra na rātrirvivakṣitā kiṃ tarhi?ahorātrasamudāyaḥ tatrāhanyavādānaṃ vāsasaḥ 'udagayanapūrvapakṣāhaḥ'iti niyamāt mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum apsu prāsya vinaṣṭāni dhāryāṇyanyāni mantravat


25

आप्ग्स्-तात्_11.24: छतुर्थीमिति सप्तम्यर्थे द्वितीया चतुर्थ्या रात्रौ चतुर्थाहोरात्रे अहन्येव ऽउदगयनपूर्वपक्षाहःऽ(आपगृ.1-2) इति नियमात् वासः उपनयनकाले यत्परिधापितं तदाचार्यः सप्तशकृत्वो ऽपान्य ऽयस्य ते प्रथमवास्यमऽइत्यनयैव स्वीकरोति, न तु सावित्रेण;अत्र विशेषविधेर्बलीयस्त्वात् उपदेशमतं तु ऽदेवा वै वरुणमयाजयन्, (तैब्रा.2-2-5) इति लिङ्गादयज्ञेषु न प्रतिग्रहविधिरिति एतच्चान्यद्वासः कुमारंपरिधाप्यैवकर्तव्यम् स तु ऽगुरो वासस्ते ददामि, इति दद्यात् एतच्चत्र्यहं मन्त्रवत्परिहितमेव वासः परिधेयम् आपस्तम्बमत्या एतदन्तमुपनयनम्

āpgs-tāt_11.24: chaturthīmiti saptamyarthe dvitīyā caturthyā rātrau caturthāhorātre ahanyeva 'udagayanapūrvapakṣāhaḥ'(āpagṛ.1-2) iti niyamāt vāsaḥ upanayanakāle yatparidhāpitaṃ tadācāryaḥ saptaśakṛtvo 'pānya 'yasya te prathamavāsyam'ityanayaiva svīkaroti, na tu sāvitreṇa;atra viśeṣavidherbalīyastvāt upadeśamataṃ tu 'devā vai varuṇamayājayan, (taibrā.2-2-5) iti liṅgādayajñeṣu na pratigrahavidhiriti etaccānyadvāsaḥ kumāraṃparidhāpyaivakartavyam sa tu 'guro vāsaste dadāmi, iti dadyāt etaccatryahaṃ mantravatparihitameva vāsaḥ paridheyam āpastambamatyā etadantamupanayanam


1

अथ पालाशकर्मभाष्यं लिख्यते- केचित् स्मृत्यन्तरोपसंहारेण पलाशवृक्षसमीपे पालाशं कर्म कुर्वते समानम् अन्येषां च श्रद्धधानानां हितार्थ पालाशकर्मणो विधिरुच्यते-त्रीण्यहानि प्रत्यहमाममैक्षमाचरेत् चतुर्थऽहन्यन्नसंस्कारेण संस्कृत्याचार्येण सह प्राचीमूदीचीं वा दिशमुपनिष्क्रम्य पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रत्यङ्मुखः प्रणवश्रद्धामेधाभ्योरऽघ्यपाद्याचमनस्नानवस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाथोपतिष्ठते ऽयश्छन्ददसामऽइत्यनेन ऽश्रुतं मे गोपायऽ(तैउ.1-4) इत्यन्तेन प्रणवम् ऽश्रद्धयाग्निः समिध्यतेऽ(तैब्रा.2-8-8) इति सूक्तेन श्रद्धाम् ऽमेधा देवीऽ(तैउ.4-41) इत्यनुवाकेन मेधाम् ततः पलाशमूले दण्डं विसृज्य अन्यदण्डमादाय सहाचार्यो गृहमागच्छतीति चतुर्थे पटलेपीत्थं यथाभाष्यं यथामति कृतं सुदर्शनार्येण गृह्यतातपर्यदर्शनम् सुबद्धं दुर्लभं भाष्यं भाष्यार्थश्च सुदुर्ग्रहः अतो ऽनुकम्ब्या विद्वद्भिः मन्दबुद्धिश्रुता वयम् इति श्रूसुदर्शनाचार्यकृतौ गृह्यसूत्रतात्पर्यदर्शने एकादशः खण्डः समाप्तश्चतुर्थः पटलः ==================================================================================== अथोपाकर्मोत्सर्जनपटलः 7 उपाकर्मोत्सर्जनप्रकरणम् - 1 उपाकर्मकालविधानम् अथात उपाकरणोत्सर्जने व्याख्यास्यामः

atha pālāśakarmabhāṣyaṃ likhyate- kecit smṛtyantaropasaṃhāreṇa palāśavṛkṣasamīpe pālāśaṃ karma kurvate samānam anyeṣāṃ ca śraddhadhānānāṃ hitārtha pālāśakarmaṇo vidhirucyate-trīṇyahāni pratyahamāmamaikṣamācaret caturtha'hanyannasaṃskāreṇa saṃskṛtyācāryeṇa saha prācīmūdīcīṃ vā diśamupaniṣkramya pūrveṇottareṇa vā palāśavṛkṣaṃ trīṇyudagapavargāṇi sthaṇḍilāni kalpayitvā teṣu yathākramaṃ pratyaṅmukhaḥ praṇavaśraddhāmedhābhyor'ghyapādyācamanasnānavastragandhamālyadhūpadīpabalīṃśca datvāthopatiṣṭhate 'yaśchandadasām'ityanena 'śrutaṃ me gopāya'(taiu.1-4) ityantena praṇavam 'śraddhayāgniḥ samidhyate'(taibrā.2-8-8) iti sūktena śraddhām 'medhā devī'(taiu.4-41) ityanuvākena medhām tataḥ palāśamūle daṇḍaṃ visṛjya anyadaṇḍamādāya sahācāryo gṛhamāgacchatīti caturthe paṭalepītthaṃ yathābhāṣyaṃ yathāmati kṛtaṃ sudarśanāryeṇa gṛhyatātaparyadarśanam subaddhaṃ durlabhaṃ bhāṣyaṃ bhāṣyārthaśca sudurgrahaḥ ato 'nukambyā vidvadbhiḥ mandabuddhiśrutā vayam iti śrūsudarśanācāryakṛtau gṛhyasūtratātparyadarśane ekādaśaḥ khaṇḍaḥ samāptaścaturthaḥ paṭalaḥ ==================================================================================== athopākarmotsarjanapaṭalaḥ 7 upākarmotsarjanaprakaraṇam - 1 upākarmakālavidhānam athāta upākaraṇotsarjane vyākhyāsyāmaḥ


1

अथ शब्दः आदौ मङ्गलार्थः प्रकरणान्तरत्वात् अतश्शब्दौ हेतौ यस्मादेतयोर्व्याख्यानमन्तरेण प्रयोगो न शक्यते कर्तु अत एतो व्याख्यास्यामः इति

atha śabdaḥ ādau maṅgalārthaḥ prakaraṇāntaratvāt ataśśabdau hetau yasmādetayorvyākhyānamantareṇa prayogo na śakyate kartu ata eto vyākhyāsyāmaḥ iti


2

श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म

śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma


2

श्रवणापक्षेश्रवणस्य मासस्य पूर्वपक्ष इत्यर्थः ओषधीषु जातासुप्रवर्षणाद्रूढासुहस्तेन नक्षत्रेण पौर्णमास्यां वा श्रावणस्य कर्तव्यमित्यर्थः अध्यायस्योपाकरणंअध्यायोपाकर्मप्रारम्भैत्यर्थः ओषधीषु जातास्विति वचनादाजातास्वोषधीषु प्रोष्ठपद्यां भवति तथा च कल्पान्तरं-श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यामाषाढ्यां वेति

śravaṇāpakṣeśravaṇasya māsasya pūrvapakṣa ityarthaḥ oṣadhīṣu jātāsupravarṣaṇādrūḍhāsuhastena nakṣatreṇa paurṇamāsyāṃ vā śrāvaṇasya kartavyamityarthaḥ adhyāyasyopākaraṇaṃadhyāyopākarmaprārambhaityarthaḥ oṣadhīṣu jātāsviti vacanādājātāsvoṣadhīṣu proṣṭhapadyāṃ bhavati tathā ca kalpāntaraṃ-śrāvaṇyāṃ paurṇamāsyāṃ proṣṭhapadyāmāṣāḍhyāṃ veti


3

2 काण्डऋष्यादिभ्यो होमः अग्नेरुपसमाधानाद्याज्यभागान्ते ऽवारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमे वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके

2 kāṇḍaṛṣyādibhyo homaḥ agnerupasamādhānādyājyabhāgānte 'vārabdheṣu kāṇḍaṛṣibhyo juhoti sadasaspataye sāvitryā ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāyeti hutvā upahome vedāhutīnāmupariṣṭātsadasaspatimityeke


3

चोम्मेन्तरिएस्: आप्ग्स्-अना_11.24: एवमुपाकरणस्य काल उक्तः अथ प्रयोगः-अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते अग्निश्च श्रोत्रियागाराद्वाहार्यः, मन्थ्यो वा, न त्वौपासनो बहूनामत्र सहत्वाभावात् भार्यायाश्च सहत्वाभावात् वचनमत्रप्रयोग? विद्यासंस्काराथमिदं कर्म वेदसंयुक्तम् तत्राज्यभागान्ते ऽन्वारब्धेषु शिष्येषु प्रधानाहुतीर्जुहोति काण्डऋषिभ्यः प्रजापतिस्सोमो ऽग्निर्विश्वदेवा ब्रह्मा स्वयंभू- इति पञ्च काण्डऋषयः तत्र प्रजापतये स्वाहेति होमः प्रजापतये काण्डऋषये स्वाहेत्यन्ये ऽसदसस्पतिमद्भुतऽमित्यनेन सदसस्पतये जुहोति ऽतत्सवितुऽरित्येतया सावित्र्ये, कल्पान्तरे तथा दर्शनात् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति चतस्रो वेदाहुतयः तत उपहोमाः जयादि प्रतिपद्यते इत्यर्थः एक आचार्या वेदाहुतीनामुपरिष्टात् सदसस्पतिं होतव्यं मन्यन्ते

commentaries: āpgs-anā_11.24: evamupākaraṇasya kāla uktaḥ atha prayogaḥ-agnerupasamādhānādi tantraṃ pratipadyate agniśca śrotriyāgārādvāhāryaḥ, manthyo vā, na tvaupāsano bahūnāmatra sahatvābhāvāt bhāryāyāśca sahatvābhāvāt vacanamatraprayoga? vidyāsaṃskārāthamidaṃ karma vedasaṃyuktam tatrājyabhāgānte 'nvārabdheṣu śiṣyeṣu pradhānāhutīrjuhoti kāṇḍaṛṣibhyaḥ prajāpatissomo 'gnirviśvadevā brahmā svayaṃbhū- iti pañca kāṇḍaṛṣayaḥ tatra prajāpataye svāheti homaḥ prajāpataye kāṇḍaṛṣaye svāhetyanye 'sadasaspatimadbhuta'mityanena sadasaspataye juhoti 'tatsavitu'rityetayā sāvitrye, kalpāntare tathā darśanāt ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāyeti catasro vedāhutayaḥ tata upahomāḥ jayādi pratipadyate ityarthaḥ eka ācāryā vedāhutīnāmupariṣṭāt sadasaspatiṃ hotavyaṃ manyante


4

3 आदितस्त्रयाणामनुवाकानां प्रथमोत्तमयोर्वाध्ययनम् परिषेचनान्तं कृत्वा त्रीननुवकानादितो ऽधीयीरन्

3 āditastrayāṇāmanuvākānāṃ prathamottamayorvādhyayanam pariṣecanāntaṃ kṛtvā trīnanuvakānādito 'dhīyīran


4

तन्त्रशेषं समाप्य वेदस्यादितः त्रीननुवाकानधीयीरनऽइषे त्वोर्जेत्वाऽऽआप उन्दन्तुऽऽउद्धन्यानंऽऽअनुमत्यै पुरोडाशमष्टाकपालं- निर्वपति धेनुर्दक्षिणाऽ; एते प्राजापत्यसौम्याग्नेयवैश्वदेवानामादितश्चत्वारो ऽनुवाकाः ऽसह वै देवानां चासुराणां चेऽति स्वयंभुवः एतेषां वा पञ्चानां अनुवाकानां अध्ययनम्

tantraśeṣaṃ samāpya vedasyāditaḥ trīnanuvākānadhīyīran'iṣe tvorjetvā''āpa undantu''uddhanyānaṃ''anumatyai puroḍāśamaṣṭākapālaṃ- nirvapati dhenurdakṣiṇā'; ete prājāpatyasaumyāgneyavaiśvadevānāmāditaścatvāro 'nuvākāḥ 'saha vai devānāṃ cāsurāṇāṃ ce'ti svayaṃbhuvaḥ eteṣāṃ vā pañcānāṃ anuvākānāṃ adhyayanam


5

प्रथमोत्तमावनुवाकौ वा

prathamottamāvanuvākau vā


5

यदि वा वेदस्य प्रथमोत्तमौ अनुवाकावधीयीरन् ऽइषे त्वाऽऽभृगुर्वैवारुणिऽरिति

yadi vā vedasya prathamottamau anuvākāvadhīyīran 'iṣe tvā''bhṛgurvaivāruṇi'riti


6

त्र्यहमेकाहं वा क्षम्याधीयीरन्

tryahamekāhaṃ vā kṣamyādhīyīran


6

यस्मिन्नहन्न्युपाकरणं कृतं तत आरण्यत्र्यहमेकाहं वा क्षम्यविरम्याधीर्यीरन् उपाकृते त्र्यहमेकाहं वानध्याय इत्यर्थः तत्र काण्डोपकरणे एकाह- पारायणोपाकरणे त्र्यहः अधीयीरन्निति वचनं उपाकृत्यत्र्यहादूर्ध्व नियमेनाध्ययनं यथा स्यादिति

yasminnahannyupākaraṇaṃ kṛtaṃ tata āraṇyatryahamekāhaṃ vā kṣamyaviramyādhīryīran upākṛte tryahamekāhaṃ vānadhyāya ityarthaḥ tatra kāṇḍopakaraṇe ekāha- pārāyaṇopākaraṇe tryahaḥ adhīyīranniti vacanaṃ upākṛtyatryahādūrdhva niyamenādhyayanaṃ yathā syāditi


7

यथोपाकरणमध्यायः

yathopākaraṇamadhyāyaḥ


8

येन प्रकेरेणोपाकरणं कृतं तथाध्ययनं कर्तव्यम् यदि सर्वेभ्यः काण्डऋषिभ्यो हुत्वा वेदादौ त्रयाणामनुवाकानामारम्भः कृतः प्रथमोत्तमयोर्वा तथा सति यथाध्यायमध्ययनं कर्तव्यम् यदि तु काण्डादीनां सर्वेषामारम्भः तथा सति यथाकाण्डमध्येतव्यम् यस्तु कृत्स्नं वेदमरण्ये ऽनुवाक्यानि परिहाप्य प्रागुत्सर्जनादध्येतुं न शक्नोति तस्य पृथक्वाम्डोपाकरणम् तत्र तस्यैव काण्डस्यैक ऋषिः सदसस्पतिः सावित्री वेदाहुतय उपहोमाः परिष्चनान्ते तस्यैव काण्डस्यानुवाकं एकाहमनध्यायः तस्यैव काण्डस्याध्ययनम् 4 उत्सर्गकालः तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः

yena prakereṇopākaraṇaṃ kṛtaṃ tathādhyayanaṃ kartavyam yadi sarvebhyaḥ kāṇḍaṛṣibhyo hutvā vedādau trayāṇāmanuvākānāmārambhaḥ kṛtaḥ prathamottamayorvā tathā sati yathādhyāyamadhyayanaṃ kartavyam yadi tu kāṇḍādīnāṃ sarveṣāmārambhaḥ tathā sati yathākāṇḍamadhyetavyam yastu kṛtsnaṃ vedamaraṇye 'nuvākyāni parihāpya prāgutsarjanādadhyetuṃ na śaknoti tasya pṛthakvāmḍopākaraṇam tatra tasyaiva kāṇḍasyaika ṛṣiḥ sadasaspatiḥ sāvitrī vedāhutaya upahomāḥ pariṣcanānte tasyaiva kāṇḍasyānuvākaṃ ekāhamanadhyāyaḥ tasyaiva kāṇḍasyādhyayanam 4 utsargakālaḥ taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ


8

एवमुपाकृत्यानध्यायवर्ज वेदं काण्डं वारण्ये ऽनुवाक्यानि परिहाप्याधीयानस्यरोहिण्यामुत्सर्गःकर्तव्यः पौर्णमास्यां वा तैषीपक्षस्यैव तत्रास्मिन्कर्मणि होमो ऽपि भवति कथं भवति ?उपाकरणवत् समानविधानादुपाकरणवद्गृहे हुत्वैव क्षम्यमाणं कर्म प्रतिपद्यते हिरण्यकेशिनां तु तर्पणादूर्ध्व उदकान्ते होमः

evamupākṛtyānadhyāyavarja vedaṃ kāṇḍaṃ vāraṇye 'nuvākyāni parihāpyādhīyānasyarohiṇyāmutsargaḥkartavyaḥ paurṇamāsyāṃ vā taiṣīpakṣasyaiva tatrāsminkarmaṇi homo 'pi bhavati kathaṃ bhavati ?upākaraṇavat samānavidhānādupākaraṇavadgṛhe hutvaiva kṣamyamāṇaṃ karma pratipadyate hiraṇyakeśināṃ tu tarpaṇādūrdhva udakānte homaḥ


9

5 तत्र तर्पणीयेभ्य ऋषिभ्य आसनपरिकल्पनम् प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतो ऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याऽचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति

5 tatra tarpaṇīyebhya ṛṣibhya āsanaparikalpanam prācīmudīcīṃ vā sagaṇo diśamupaniṣkramya yatrāpaḥ purastāt sukhāḥ sukhāvagāhā avakinyaḥ śaṅkhinyaḥ tāsāmantaṃ gatvābhiṣekān kṛtvā surabhimatyābliṅgābhirvāruṇībhirhiraṇyavarṇābhiḥ pāvamānībhiriti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārāyitvottīryā'camyopotthāya darbhānanyonyasmai sampradāya śucau deśe prākkūlairdarbhairāsanāni kalpayanti


9

सगणसशिष्यःयत्रापः पुरस्तदिति यत्र देशे पूर्वस्यां दिशि अपःपश्यतीत्यर्थः सुखाःसुखस्पर्शाः सुखावगाहाःसुतीर्थाः यास्ववका भवन्ति ताःअवकिन्यः तथा शंखिन्यः तासामन्तंसमीपं गत्वाबिषेकान् कुंभैः कृत्वा ततः सुरभिमत्यादधिक्रावम्ण इत्येतयाब्लिङ्गाभिः ऽआपोहि ष्ठा मयो भुवऽइति तिसृभिःवारुणीभिः अवते हेड उदुत्तममिमं मे वरुण तत्वायीमीत्येताभिः हिरण्यवर्णीयाभिः ऽ हिरण्यवर्णाश्शुचयः पावकाऽ इति चतसृभिः पावमानीभिः पवमानः सुवर्जन, इत्येतेनानुवाकेनमार्जयित्वा अभ्युक्ष्य प्रतिम्त्रं क्रियाभ्यावृत्तिः प्रतिपादमित्यन्ये ततो ऽन्तर्जलगतः जलस्यान्तर्निमग्नो ऽघमर्षणेन तृचेन ऽऋतं च सत्यं चेऽत्यघमर्षणदृष्टेनत्रीन् प्राणायामान् धारयति सर्वत्र सगण इत्येव अप्सु निमड्यैतमनुवाकं सकृज्जपति स एकः प्राणायामः एवं त्रिर्धारयित्वोत्तीर्य गृह्यान्तरदर्शनात् प्रक्षालितोपदातान्याक्लिष्टानि वासांसि परिधायाचम्योत्थाय द्वौ संभूयदर्भानन्योन्यस्मै संप्रदायततः शुचौ देशे उदकान्त एव स्थण्डिलानि पृथक्कृत्वा दर्भैः प्रागग्रैःआसनानि कल्पयन्ति

sagaṇasaśiṣyaḥyatrāpaḥ purastaditi yatra deśe pūrvasyāṃ diśi apaḥpaśyatītyarthaḥ sukhāḥsukhasparśāḥ sukhāvagāhāḥsutīrthāḥ yāsvavakā bhavanti tāḥavakinyaḥ tathā śaṃkhinyaḥ tāsāmantaṃsamīpaṃ gatvābiṣekān kuṃbhaiḥ kṛtvā tataḥ surabhimatyādadhikrāvamṇa ityetayābliṅgābhiḥ 'āpohi ṣṭhā mayo bhuva'iti tisṛbhiḥvāruṇībhiḥ avate heḍa uduttamamimaṃ me varuṇa tatvāyīmītyetābhiḥ hiraṇyavarṇīyābhiḥ ' hiraṇyavarṇāśśucayaḥ pāvakā' iti catasṛbhiḥ pāvamānībhiḥ pavamānaḥ suvarjana, ityetenānuvākenamārjayitvā abhyukṣya pratimtraṃ kriyābhyāvṛttiḥ pratipādamityanye tato 'ntarjalagataḥ jalasyāntarnimagno 'ghamarṣaṇena tṛcena 'ṛtaṃ ca satyaṃ ce'tyaghamarṣaṇadṛṣṭenatrīn prāṇāyāmān dhārayati sarvatra sagaṇa ityeva apsu nimaḍyaitamanuvākaṃ sakṛjjapati sa ekaḥ prāṇāyāmaḥ evaṃ trirdhārayitvottīrya gṛhyāntaradarśanāt prakṣālitopadātānyākliṣṭāni vāsāṃsi paridhāyācamyotthāya dvau saṃbhūyadarbhānanyonyasmai saṃpradāyatataḥ śucau deśe udakānta eva sthaṇḍilāni pṛthakkṛtvā darbhaiḥ prāgagraiḥāsanāni kalpayanti


10

केभ्यः?देवेभ्यः पितृभ्यः ऋषिभ्यश्च ब्रह्मणे प्रजापतये बृहस्पतये ऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्यो ऽङ्गिरोभ्य इति देवगणानाम्

kebhyaḥ?devebhyaḥ pitṛbhyaḥ ṛṣibhyaśca brahmaṇe prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyassaṃvatsarāya indrāya rājñe somāya rājñe yamāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyassādhyebhyo marudbhya ṛbhubhyo bhṛgubhyo 'ṅgirobhya iti devagaṇānām


10

देवगण इति देवानां च तद्गणानां चेत्यर्थः अत्र ब्रह्मादि दश देवताः इन्द्रादयः पञ्च राजानः वस्वादयः दश देवगणाः सर्वान्ते कल्पयन्तीति वचनात् सर्वत्र कल्पयामीत्यस्य सम्बन्धः ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति एतानि पञ्चविंशतिरासनान्युदगपवर्गाणि तर्पणं चैषां देवेन तीर्थेन भवति

devagaṇa iti devānāṃ ca tadgaṇānāṃ cetyarthaḥ atra brahmādi daśa devatāḥ indrādayaḥ pañca rājānaḥ vasvādayaḥ daśa devagaṇāḥ sarvānte kalpayantīti vacanāt sarvatra kalpayāmītyasya sambandhaḥ brahmaṇe kalpayāmi prajāpataye kalpayāmīti etāni pañcaviṃśatirāsanānyudagapavargāṇi tarpaṇaṃ caiṣāṃ devena tīrthena bhavati


11

6 तर्पयितव्याः देवगणाः ऋषिगणाश्च अथर्षयः विश्वामित्रो जमदग्निर्भरद्वाजो गौतमो ऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः, सप्तर्षिभ्यः कल्पयित्वा दक्षिणतो ऽगस्त्याय कल्पयन्ति

6 tarpayitavyāḥ devagaṇāḥ ṛṣigaṇāśca atharṣayaḥ viśvāmitro jamadagnirbharadvājo gautamo 'trirvasiṣṭhaḥ kaśyapa ityete saptarṣayaḥ, saptarṣibhyaḥ kalpayitvā dakṣiṇato 'gastyāya kalpayanti


11

देवानामुत्तरतः सप्तर्षीणामासनानि, दक्षिणतो ऽगस्त्याय, कश्यपादूर्ध्वमरुन्धत्याः, गृह्यान्तरदर्शनात्

devānāmuttarataḥ saptarṣīṇāmāsanāni, dakṣiṇato 'gastyāya, kaśyapādūrdhvamarundhatyāḥ, gṛhyāntaradarśanāt


12

ततो यावदेकवैद्यन्तैः कल्पयन्ति

tato yāvadekavaidyantaiḥ kalpayanti


12

ततःअनन्तरं यावन्तः एकवेद्यन्ता समानवेद्यन्ताः?सप्तर्षिभिः, तेभ्यः कल्पयन्ति के पुनस्ते?कृष्णद्वैपायनादय ऋषयः एतदुक्तं भवति-कृष्णद्वैपायनाय जीतूकर्ण्याय तरुक्षाय तृणीबिन्दवे सोमशुष्मिणे सोमशुष्काय वर्मिणे सनद्वाजाय बृहदुक्थाय वामदेवाय वाचरत्नाय हरितयज्वनः उदमयाय गौतमाय ऋणञ्जयाय कृत्जयाय बभ्रवे त्र्यरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय वसिष्टायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृतश्रवसे सावित्र्यै वेदेभ्यश्चेति पृथक् एते कृष्णद्वैपायनादयंश्चतुस्त्रिंशदृषयः वेदाश्चत्वार इत्यष्टात्रिंशदेकवेद्यन्ताः सप्तर्षिभिः केचिदथर्वाङ्गिरस इतिहासपुराणानि सपदेवजनान् सर्वभूतानीत्येतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति; कल्पान्तरे तथा दर्शनात्

tataḥanantaraṃ yāvantaḥ ekavedyantā samānavedyantāḥ?saptarṣibhiḥ, tebhyaḥ kalpayanti ke punaste?kṛṣṇadvaipāyanādaya ṛṣayaḥ etaduktaṃ bhavati-kṛṣṇadvaipāyanāya jītūkarṇyāya tarukṣāya tṛṇībindave somaśuṣmiṇe somaśuṣkāya varmiṇe sanadvājāya bṛhadukthāya vāmadevāya vācaratnāya haritayajvanaḥ udamayāya gautamāya ṛṇañjayāya kṛtjayāya babhrave tryaruṇāya tridhātave trivarṣāya śibintāya parāśarāya vasiṣṭāyendrāya mṛtyave kartre tvaṣṭre dhātre savitre bhṛtaśravase sāvitryai vedebhyaśceti pṛthak ete kṛṣṇadvaipāyanādayaṃścatustriṃśadṛṣayaḥ vedāścatvāra ityaṣṭātriṃśadekavedyantāḥ saptarṣibhiḥ kecidatharvāṅgirasa itihāsapurāṇāni sapadevajanān sarvabhūtānītyeteṣāmapi vedagrahaṇena grahaṇamicchanti; kalpāntare tathā darśanāt


13

प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय,कौण्डिन्याय वृत्तिकाराय,बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति

prācīnāvītāni kṛtvā dakṣiṇato vaiśampāyanāya paiṅgaye tittiraye ukhāyātreyāya padākārāya,kauṇḍinyāya vṛttikārāya,baudhāyanāya pravacanakārāya, āpastambāya sūtrakārāya, bharadvājāya sūtrakārāya, satyāṣāḍhāya hiraṇyakeśāya, ācāryebhya ūrdhvaretobhya, ekapatnībhyo vānaprasthebhyaḥ kalpayāmīti


13

ततः सर्वे प्राचीनावीतानि कृत्वावैशम्पायनादिभ्यो द्वादशभ्य आसानानि कल्पयन्त दक्षिणतो देवानामगस्त्यस्य त तत्र दक्षिणाप्रवणदेशे दक्षिणाग्रैः प्रत्यगपवर्ग(सगृ.2-19-7) मिति कल्पान्तरम्

tataḥ sarve prācīnāvītāni kṛtvāvaiśampāyanādibhyo dvādaśabhya āsānāni kalpayanta dakṣiṇato devānāmagastyasya ta tatra dakṣiṇāpravaṇadeśe dakṣiṇāgraiḥ pratyagapavarga(sagṛ.2-19-7) miti kalpāntaram


14

7तर्पणीयानां पितॄणामासनपरिकल्पनम् अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक्

7tarpaṇīyānāṃ pitṝṇāmāsanaparikalpanam atha yathāsvaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaśca pṛthak


14

यथास्वंयस्य ये पितरः पितामाहाः प्रपितामहा मातामहाश्च मातुर्ये पितृपितामहप्रपितामहाः सर्वेभ्य उभयेभ्यःकल्पयन्तीत्यर्थः प्राचीनावीतानि कृत्वा दक्षिणत इति चानुवर्तते तत्र यथास्वं पित्रादीनां नामभिः कल्पनं-रुद्रशर्मणे विष्णुशर्मण इति अन्ये पितृभ्य इत्येव कल्पयन्ति किमर्थ तर्हि यथास्वमिति?जीवपितृकाणामिहापि पिण्डदानवदुपायविशेषप्रतीत्यर्थः

yathāsvaṃyasya ye pitaraḥ pitāmāhāḥ prapitāmahā mātāmahāśca māturye pitṛpitāmahaprapitāmahāḥ sarvebhya ubhayebhyaḥkalpayantītyarthaḥ prācīnāvītāni kṛtvā dakṣiṇata iti cānuvartate tatra yathāsvaṃ pitrādīnāṃ nāmabhiḥ kalpanaṃ-rudraśarmaṇe viṣṇuśarmaṇa iti anye pitṛbhya ityeva kalpayanti kimartha tarhi yathāsvamiti?jīvapitṛkāṇāmihāpi piṇḍadānavadupāyaviśeṣapratītyarthaḥ


15

यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति - अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति

yajñopavītāni kṛtvā teṣveva deśeṣu tayaivānupūrvyā taireva nāmābhirdevānṛṣīṃśca tarpayanti vaiśampāyanaprabhṛtīṃstu mātuḥ prapitāmahaparyantān prācīnāvītinastarpayanti - amuṃ tarpayāmyamuṃ tarpayāmyamuṃ tarpayāmīti


15

अथ कल्पान्तरे दृष्टो विशेषः-अमुष्मै नमो ऽमुष्मै नम इति गन्धपुष्पधूपदीपैः, अमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेन, अमुं तर्पयाण्यमुं तर्पयामीति फलोदकेनेति(भागृ.3-11) (सगृ.2-10-5,6,7)

atha kalpāntare dṛṣṭo viśeṣaḥ-amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpaiḥ, amuṣmai svāhāmuṣmai svāhetyannena, amuṃ tarpayāṇyamuṃ tarpayāmīti phalodakeneti(bhāgṛ.3-11) (sagṛ.2-10-5,6,7)


16

अभिप्यन्ते वान्योन्यम्

abhipyante vānyonyam


16

आप्नोतेरेतद्रूपम् अभिप्या प्रार्थना इहोत्सर्जने कर्मणि शिष्याणामुपाध्यायस्य च स्नानादिषु कर्मसु सह प्रवृत्तिश्चोदिता सर्वत्र वहुवचननिर्देशात्-अभिषेकान् कृत्वाऽसनानि कल्पयन्तीति तत्रायं विशेषो वैकल्पिक उपदिश्यते अन्योन्यमभिप्यन्ते वा द्वौ द्वौ सम्भूयान्यो ऽन्यं प्रार्थयन्ते वासः प्रवृत्यर्थ न सर्वे सहेति अधीत्सन्त इति पाठे ऋध्यतेरेतद्रीपम् उपसर्गवशाच्च स एवार्थः ये त्वधिशब्दात् परं तकारमेवाधीयते न ररेफमपि तेषां धातुर्म-ग्यार्थ एव

āpnoteretadrūpam abhipyā prārthanā ihotsarjane karmaṇi śiṣyāṇāmupādhyāyasya ca snānādiṣu karmasu saha pravṛttiścoditā sarvatra vahuvacananirdeśāt-abhiṣekān kṛtvā'sanāni kalpayantīti tatrāyaṃ viśeṣo vaikalpika upadiśyate anyonyamabhipyante vā dvau dvau sambhūyānyo 'nyaṃ prārthayante vāsaḥ pravṛtyartha na sarve saheti adhītsanta iti pāṭhe ṛdhyateretadrīpam upasargavaśācca sa evārthaḥ ye tvadhiśabdāt paraṃ takāramevādhīyate na rarephamapi teṣāṃ dhāturma-gyārtha eva


17

8 तेषां क्रमशस्तर्पणम् 9 पूर्ववद्ध्ययनम् यज्ञोपर्वातानि कृत्वा त्रीनादितो ऽनुवाकानधीयीरन्

8 teṣāṃ kramaśastarpaṇam 9 pūrvavaddhyayanam yajñoparvātāni kṛtvā trīnādito 'nuvākānadhīyīran


17

अध्ययनप्रकार उपाकरणेन व्याख्यातः

adhyayanaprakāra upākaraṇena vyākhyātaḥ


18

काण्डादीन् प्रथमोत्तमौ वा

kāṇḍādīn prathamottamau vā


18

अयमपि विकल्प उपाकरणे व्याख्यातः

ayamapi vikalpa upākaraṇe vyākhyātaḥ


19

10 जलसमीपे दूर्वारोपणम् ऽकाण्डात् काण्डात् प्ररोहन्तीऽति द्वाभ्यामुपोदके दूर्वा रोपयन्ति

10 jalasamīpe dūrvāropaṇam 'kāṇḍāt kāṇḍāt prarohantī'ti dvābhyāmupodake dūrvā ropayanti


19

अथ समूलं दूर्वास्तम्बमाहृत्य तमुदकस्य समीपे रोपयत् यथा दूर्वा प्ररोहति तथा निखनन्ति ऽकाण्डात् काण्डात् प्ररोहन्तीऽति द्वाभ्यामृग्भ्यामा तत्र दूर्वा इत्येकवचनश्रवणात् एक एव मुख्यो निखनति तमितरे ऽन्वारभेरन् अन्ये प्रतिपूरुषमुच्छन्ति

atha samūlaṃ dūrvāstambamāhṛtya tamudakasya samīpe ropayat yathā dūrvā prarohati tathā nikhananti 'kāṇḍāt kāṇḍāt prarohantī'ti dvābhyāmṛgbhyāmā tatra dūrvā ityekavacanaśravaṇāt eka eva mukhyo nikhanati tamitare 'nvārabheran anye pratipūruṣamucchanti


20

11 जलस्य क्षोभणम्, जलादुत्तीर्याऽजिधावनम् अपः प्रगाह्योदधिं कुर्वन्ति

11 jalasya kṣobhaṇam, jalāduttīryā'jidhāvanam apaḥ pragāhyodadhiṃ kurvanti


20

अथापःप्रविश्यतत्रोदधिं कुर्वन्ति उदधिः समुद्रः तमिव क्षोभयन्तीत्यर्थः

athāpaḥpraviśyatatrodadhiṃ kurvanti udadhiḥ samudraḥ tamiva kṣobhayantītyarthaḥ


21

कथं तदित्याह सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति

kathaṃ tadityāha sarvataḥ parivāryormimantaḥ kurvanti


21

बहुभिःपरिवार्य सर्वतस्सन्निरुध्य यथोर्मयस्तत्रोत्पद्यन्ते तथा कूर्वन्तीत्यर्तः एवं त्रिः कुर्वन्ति

bahubhiḥparivārya sarvatassannirudhya yathormayastatrotpadyante tathā kūrvantītyartaḥ evaṃ triḥ kurvanti


22

उद्गाह्याऽतमितोराजिं धावन्ति

udgāhyā'tamitorājiṃ dhāvanti


22

उद्गाह्यौत्तीर्यआतमितो-आश्रमजननाताजिंधावन्ति प्राचीमुदीचीं वा दिशमभिधावन्ति तथापवर्गः

udgāhyauttīryaātamito-āśramajananātājiṃdhāvanti prācīmudīcīṃ vā diśamabhidhāvanti tathāpavargaḥ


23

12 ब्राह्मणभोजनम् प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति

12 brāhmaṇabhojanam pratyetyābhidānādi saktubhirodaneneti brāhmaṇān bhojayitvā vācayati


23

प्रत्येत्यगृहान् प्रविश्येत्यर्थः ईशिषःपुण्याहाद्याः पुण्याहं स्वस्त्यृध्यतामिति वाचयित्वेति

pratyetyagṛhān praviśyetyarthaḥ īśiṣaḥpuṇyāhādyāḥ puṇyāhaṃ svastyṛdhyatāmiti vācayitveti


24

एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम्

evaṃ pārāyaṇasamāptau ca kāṇḍādi dūrvāropaṇodadhidhāvanavarjam


24

यथास्मिन् वार्षिके ऽप्यध्याये समाप्ते उत्सर्गश्चोदितः एवमेव पारायणसमाप्तावपि कर्तव्यम् तत्र वर्ज्याणि-काण्डादनिमध्ययनं, दूर्वारोपणमुधिकरणमाजिझावनं चेति

yathāsmin vārṣike 'pyadhyāye samāpte utsargaścoditaḥ evameva pārāyaṇasamāptāvapi kartavyam tatra varjyāṇi-kāṇḍādanimadhyayanaṃ, dūrvāropaṇamudhikaraṇamājijhāvanaṃ ceti


25

प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते

pratyetya brāhmaṇabhojanādi karma pratipadyate


25

काण्डादिग्रहणात् पारायणाध्ययने यथाकाण्डमेवाध्ययनम्, न तु सम्भिन्नस्य पाठस्येति केचित् अन्ये तु काण्डादिग्रहणस्योपलक्षणत्वात् सर्वप्रकारस्यानुवाकाध्ययनस्य प्रतिषेधः पारायणे च यथारुच्यध्ययनामित्याहुः

kāṇḍādigrahaṇāt pārāyaṇādhyayane yathākāṇḍamevādhyayanam, na tu sambhinnasya pāṭhasyeti kecit anye tu kāṇḍādigrahaṇasyopalakṣaṇatvāt sarvaprakārasyānuvākādhyayanasya pratiṣedhaḥ pārāyaṇe ca yathārucyadhyayanāmityāhuḥ


26

एवमेवाद्भिरहरहर्देवानृषीन् पितॄंश्च तर्पयेत्

evamevādbhiraharahardevānṛṣīn pitṝṃśca tarpayet


26

अद्भिरिति वचनात् अहरहस्तर्पणमाद्भिरेव तेनोत्सर्गकर्मणि पूर्वोक्तानां गन्धादीनामपि प्रवृत्तिः अहरहस्तर्पणं ब्रह्मज्ञानन्तरम्, कल्पान्तरे दर्शनात्

adbhiriti vacanāt aharahastarpaṇamādbhireva tenotsargakarmaṇi pūrvoktānāṃ gandhādīnāmapi pravṛttiḥ aharahastarpaṇaṃ brahmajñānantaram, kalpāntare darśanāt


1

इति गृह्यसूत्रावृत्तावनाकुलायां उपाकर्मोत्सर्जनपटलः ==================================================================================== अथ पञ्चमः पटलः द्वादशः खण्डः 8 समावर्तनम् - पूर्वत्रोपनयनं व्याख्यातम् उपनीतस्य च धर्मशास्त्रे ऽअथ ब्रह्मचर्यविधिःऽ(आपध.1-2-18) इत्यारभ्य धर्मा उपदिष्टाः अध्यायकाण्डव्रतानामुपाकरणसमापनर्योर्विध्श्च ऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽ(आपगृ.8-1) इत्यत्र सम्पूर्णमेव व्याख्यातः अथोजानीं वेदं व्रतानि वा पारं नीत्वा हयुभयमेव वा (याज्ञस्मृ.1-51) इत्यादिवचनार्थानुष्ठानेन कृतकृत्यस्य गुरुकुलात् समावृत्तस्यानुष्ठेयं समावर्तनापरपर्यायं स्नानाख्यं कर्म व्याख्यायते केचित्-ऽउपाकरणे समापने च ऽ(आपगृ.8-1) इत्यत्रैतयोः कल्पस्याप्रसिध्धत्वात्, अवश्यमन्यत्र प्रसिद्ध आश्रयितव्य इति वदन्तः ऽअथात उपाकरणोत्सर्जने व्याख्यास्यामः, इत्यादिकं व्रतपटलं नाम उपनयनानन्तरं व्याचक्षते नैतत्;ऽउपाकरणे समापने चऽ; (आपगृ.8-1) इत्यत्रैवानयोर्विध्योर्भाष्यकारेण सम्पूर्णमेव व्याख्यातत्वात्, व्रतपटलाध्ययनस्य च विप्रतिपन्नत्वात्, भाष्ये प्रसङ्गभावाच्च 1 उदयात्पूर्व गोष्ठप्रवेशविधानम् वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपरिधायाऽस्ते आप्ग्स्_12.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.1: एवमुपनीतश्चर्तब्रह्मचर्यो ऽधीतवेदषडङ्गो यद्याचार्यकुलादन्यमाश्रमं प्रेप्सुर्भवति तस्य स्नानं विधिवत् भवति तदेतत् स्नानमित्युच्यते स्नानं समावर्तनं तत् करिष्यान्नित्यर्थः प्रागुदयादित्यादित्योदयो गृह्यते नैनमेतदहरादित्यैति दर्शनात् व्रजं गोष्ठम् अन्तः अभ्यन्तरंलोमानि यस्य तेनचर्मणायस्य कस्यचित् मृगस्य आसनवचनं निष्क्रमणप्रतिषेधार्थम् वेदमित्यविवक्षितमेकवचनम् वेदं वेदौ वेदान् वाअधीत्यपाठतश्चार्थतश्चाधिगम्येत्यर्थः स्नास्यन्निति वचनं नैष्ठिकस्य उत्तरं कर्म मा भूदिति

iti gṛhyasūtrāvṛttāvanākulāyāṃ upākarmotsarjanapaṭalaḥ ==================================================================================== atha pañcamaḥ paṭalaḥ dvādaśaḥ khaṇḍaḥ 8 samāvartanam - pūrvatropanayanaṃ vyākhyātam upanītasya ca dharmaśāstre 'atha brahmacaryavidhiḥ'(āpadha.1-2-18) ityārabhya dharmā upadiṣṭāḥ adhyāyakāṇḍavratānāmupākaraṇasamāpanaryorvidhśca 'upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate'(āpagṛ.8-1) ityatra sampūrṇameva vyākhyātaḥ athojānīṃ vedaṃ vratāni vā pāraṃ nītvā hayubhayameva vā (yājñasmṛ.1-51) ityādivacanārthānuṣṭhānena kṛtakṛtyasya gurukulāt samāvṛttasyānuṣṭheyaṃ samāvartanāparaparyāyaṃ snānākhyaṃ karma vyākhyāyate kecit-'upākaraṇe samāpane ca '(āpagṛ.8-1) ityatraitayoḥ kalpasyāprasidhdhatvāt, avaśyamanyatra prasiddha āśrayitavya iti vadantaḥ 'athāta upākaraṇotsarjane vyākhyāsyāmaḥ, ityādikaṃ vratapaṭalaṃ nāma upanayanānantaraṃ vyācakṣate naitat;'upākaraṇe samāpane ca'; (āpagṛ.8-1) ityatraivānayorvidhyorbhāṣyakāreṇa sampūrṇameva vyākhyātatvāt, vratapaṭalādhyayanasya ca vipratipannatvāt, bhāṣye prasaṅgabhāvācca 1 udayātpūrva goṣṭhapraveśavidhānam vedamadhītya snāsyan pragudayādvrajaṃ praviśyāntarlomnā carmaṇā dvāramaparidhāyā'ste āpgs_12.1 commentaries: āpgs-anā_12.1: evamupanītaścartabrahmacaryo 'dhītavedaṣaḍaṅgo yadyācāryakulādanyamāśramaṃ prepsurbhavati tasya snānaṃ vidhivat bhavati tadetat snānamityucyate snānaṃ samāvartanaṃ tat kariṣyānnityarthaḥ prāgudayādityādityodayo gṛhyate nainametadaharādityaiti darśanāt vrajaṃ goṣṭham antaḥ abhyantaraṃlomāni yasya tenacarmaṇāyasya kasyacit mṛgasya āsanavacanaṃ niṣkramaṇapratiṣedhārtham vedamityavivakṣitamekavacanam vedaṃ vedau vedān vāadhītyapāṭhataścārthataścādhigamyetyarthaḥ snāsyanniti vacanaṃ naiṣṭhikasya uttaraṃ karma mā bhūditi


1

आप्ग्स्-तात्_12.1: वेदं मन्त्रब्राह्मणलक्षणम् एकवचनं जात्यभिप्रायम्;ऽवेदानधीत्य वेदौ वा वेदं वापि यथाक्रममऽ; (मस्मृ.3-2) इति मनुवचनात् अधीत्य पाठतश्चार्थतश्चाधिगम्य, सषडङ्गं समीमांसं वेद मधीत्येत्यर्थः अधीत्येति च विधिः ऽवेदं व्रतानि वा पारं नीत्वा ह्यभयमेव वा इत्यस्य प्रदर्शनार्थः स्नास्यन् स्नानाख्यं कर्म करिष्यमाणःप्रागुदयात्प्रागादित्योदयात् व्रजंगोशालां परिश्रितांप्रविश्येत्त्यादि व्यक्तार्थम्

āpgs-tāt_12.1: vedaṃ mantrabrāhmaṇalakṣaṇam ekavacanaṃ jātyabhiprāyam;'vedānadhītya vedau vā vedaṃ vāpi yathākramam'; (masmṛ.3-2) iti manuvacanāt adhītya pāṭhataścārthataścādhigamya, saṣaḍaṅgaṃ samīmāṃsaṃ veda madhītyetyarthaḥ adhītyeti ca vidhiḥ 'vedaṃ vratāni vā pāraṃ nītvā hyabhayameva vā ityasya pradarśanārthaḥ snāsyan snānākhyaṃ karma kariṣyamāṇaḥprāgudayātprāgādityodayāt vrajaṃgośālāṃ pariśritāṃpraviśyettyādi vyaktārtham


2

नैनमेतदहरादित्यो ऽभितपेत् आप्ग्स्_12.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.2: एनंएतत्कर्म कुर्वाणम् एतदहःएतस्मिन्नहनि कदाचिदपिनाभितपेदादित्यः तेन मूत्रपुरीषादिकमपि तत्रैव व्रजे छायायामपि कर्तव्यम् आदित्यग्रहणादग्नितापस्य न प्रतिषेधः

nainametadaharādityo 'bhitapet āpgs_12.2 commentaries: āpgs-anā_12.2: enaṃetatkarma kurvāṇam etadahaḥetasminnahani kadācidapinābhitapedādityaḥ tena mūtrapurīṣādikamapi tatraiva vraje chāyāyāmapi kartavyam ādityagrahaṇādagnitāpasya na pratiṣedhaḥ


2

आप्ग्स्-तात्_12.2: अस्मिन्नहनि यावदस्तमयं मूत्रपुरीषोत्सर्जनार्थमप्यसौ मण्डपाद्बहिर्न निर्गच्छेत् इत्यर्थः

āpgs-tāt_12.2: asminnahani yāvadastamayaṃ mūtrapurīṣotsarjanārthamapyasau maṇḍapādbahirna nirgacchet ityarthaḥ

Section (cont. 15)

3

2 वपनमुपनयनवत् मध्यन्दिने ऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात् समानम् आप्ग्स्_12.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.3: अथ तस्मिन्नहनि मध्यन्दिने कर्म प्रतिपद्यते अग्नेरुपसमाधानादि शम्याः सकृत्पाभाणि क्षुरादिभिस्सह स्वयमेव कर्ता नाचार्यः आज्यभागान्तवचनं समिदाधानादेरुत्तरस्य कर्मणः कालोपदेशार्थम् अनेनैव तन्त्रप्राप्तावपि सिद्धायां अघ्नेरुपसमाधानादिवचनं तन्त्रारम्भसेयैव मध्यन्दिननियमः, न कृत्स्नस्य कर्मणः उत्तरयर्चाऽइमं स्तोमऽमित्येतया न स्वाहाकारः, जुहोतिचोदनाभावात् कटः प्रसिद्धःएरकातत्प्रकृतिभूतं तृणम् कशिप्वित्यन्ये उत्तरयर्चाऽत्र्यायुषऽमित्येतया क्षुरमभिमन्त्र्य उत्तरेण यजुषा ऽशिवो नामासीऽत्यनेन वप्ता नापितः नाचार्यः तस्मै क्षुरं प्रदाय ततः ऽउष्णाः शीतास्वानीयेऽत्यादि यदपां संसर्जनादिकर्मकेशनिधानान्तं तदुपनयनेन समानम् किं? कारयतीत्यधायाहारः केन कारयति?आचार्येण यद्यप्याचार्यकुलादयं निवृत्तः, तथापि स्नान काले विवाहकाले च समवैत्याचार्यः समानवचनसामर्थ्यात् यो ऽस्यापचितस्तमितरया (आपगृ.3-9) इति च दर्शनात् स्पष्टं चाश्वलायनके-अथैतान्युपकल्पयति समावर्तमानरः (त्यमाने) (आश्वगृ.3-7-1) इत्यादि अन्ये त्वाचार्यकुल एव समावर्तमिच्छन्ति तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते एवमन्तमाचार्यकर्म

2 vapanamupanayanavat madhyandine 'gnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuramabhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādyākeśanidhānāt samānam āpgs_12.3 commentaries: āpgs-anā_12.3: atha tasminnahani madhyandine karma pratipadyate agnerupasamādhānādi śamyāḥ sakṛtpābhāṇi kṣurādibhissaha svayameva kartā nācāryaḥ ājyabhāgāntavacanaṃ samidādhānāderuttarasya karmaṇaḥ kālopadeśārtham anenaiva tantraprāptāvapi siddhāyāṃ aghnerupasamādhānādivacanaṃ tantrārambhaseyaiva madhyandinaniyamaḥ, na kṛtsnasya karmaṇaḥ uttarayarcā'imaṃ stoma'mityetayā na svāhākāraḥ, juhoticodanābhāvāt kaṭaḥ prasiddhaḥerakātatprakṛtibhūtaṃ tṛṇam kaśipvityanye uttarayarcā'tryāyuṣa'mityetayā kṣuramabhimantrya uttareṇa yajuṣā 'śivo nāmāsī'tyanena vaptā nāpitaḥ nācāryaḥ tasmai kṣuraṃ pradāya tataḥ 'uṣṇāḥ śītāsvānīye'tyādi yadapāṃ saṃsarjanādikarmakeśanidhānāntaṃ tadupanayanena samānam kiṃ? kārayatītyadhāyāhāraḥ kena kārayati?ācāryeṇa yadyapyācāryakulādayaṃ nivṛttaḥ, tathāpi snāna kāle vivāhakāle ca samavaityācāryaḥ samānavacanasāmarthyāt yo 'syāpacitastamitarayā (āpagṛ.3-9) iti ca darśanāt spaṣṭaṃ cāśvalāyanake-athaitānyupakalpayati samāvartamānarḥ (tyamāne) (āśvagṛ.3-7-1) ityādi anye tvācāryakula eva samāvartamicchanti tatrācāryassaṃsarjanondane kṛtvā kṣuraṃ nāpitādapādāya pratidiśaṃ pravāpya punastasmai pradāya taṃ ca vapantamuttarayānumantrayate evamantamācāryakarma


3

आप्ग्स्-तात्_12.3: यथा मध्यन्दिने प्रधानहेमा भवन्ति तथा कर्म कुर्यात् अत्र तु तन्त्रोपदेशो ऽस्याज्यप्रधान हविष्ट्वात् ऽआज्यभागान्तेऽइति च क्रमार्थम् आज्यभागान्ते कृते समिदाधानमेव, न पुनरर्थकृत्यमपीति अत्र च पात्रप्रयेगे दर्व्यादीनि द्वन्द्वम्, क्षुरकटादीनि सकृदेव, शम्याश्च परिध्यर्थे केचित्-दर्व्यादीन्यपि सकृदेवेति पालाशी पलाशवृक्षावयवभूतामुत्तरयाऽइमं स्तोममऽइत्येतया कटःप्रसिद्धस्तृणमयः एरका कटप्रकृतिभूतं पङ्क्तिकटाख्यं तृणम् केचित्-कशिप्विति उत्तरयार् त्र्कयायुषमित्येतयाउत्तरेणयजुषा ऽशिवो नामासिऽइत्यनेन वप्त्रे वपनकर्त्रे कस्मैचिन्मन्त्रविदे ब्राह्मणाय तत् क्षुरं प्रयच्छति केचित्- इहाप्याचार्यो वपनं प्रारभते, नापितस्तु वप्ता अस्मै प्रयच्छतीति तदयुक्तम्;इहाचार्यस्यैवाभावात्, नापितस्यामन्त्रज्ञत्वाच्च अथानुवाकस्य प्रथमेन यजुषाऽइत्यारभ्य ऽतस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधातिऽ(आपगृ.10-8) इत्येवमन्तमुपनयनेन समानं, भवतीति शेषः

āpgs-tāt_12.3: yathā madhyandine pradhānahemā bhavanti tathā karma kuryāt atra tu tantropadeśo 'syājyapradhāna haviṣṭvāt 'ājyabhāgānte'iti ca kramārtham ājyabhāgānte kṛte samidādhānameva, na punararthakṛtyamapīti atra ca pātraprayege darvyādīni dvandvam, kṣurakaṭādīni sakṛdeva, śamyāśca paridhyarthe kecit-darvyādīnyapi sakṛdeveti pālāśī palāśavṛkṣāvayavabhūtāmuttarayā'imaṃ stomam'ityetayā kaṭaḥprasiddhastṛṇamayaḥ erakā kaṭaprakṛtibhūtaṃ paṅktikaṭākhyaṃ tṛṇam kecit-kaśipviti uttarayār trkayāyuṣamityetayāuttareṇayajuṣā 'śivo nāmāsi'ityanena vaptre vapanakartre kasmaicinmantravide brāhmaṇāya tat kṣuraṃ prayacchati kecit- ihāpyācāryo vapanaṃ prārabhate, nāpitastu vaptā asmai prayacchatīti tadayuktam;ihācāryasyaivābhāvāt, nāpitasyāmantrajñatvācca athānuvākasya prathamena yajuṣā'ityārabhya 'tasmin keśānupayamyottarayodumbaramūle darbhastambe vā nidadhāti'(āpagṛ.10-8) ityevamantamupanayanena samānaṃ, bhavatīti śeṣaḥ


4

3 मेखलाया ब्रह्मचारिणे दानम् जघनार्धे व्रजस्योपविश्य विस्त्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति आप्ग्स्_12.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.4: अथोप्तकेशश्मश्रुनखो व्रजस्य जघनार्धे पश्चार्धे उपविश्य मेखला विस्रस्य विमुच्य, कस्मैचित्ब्रह्मचारिणे प्रयच्छति

3 mekhalāyā brahmacāriṇe dānam jaghanārdhe vrajasyopaviśya vistrasya mekhalāṃ brahmacāriṇe prayacchati āpgs_12.4 commentaries: āpgs-anā_12.4: athoptakeśaśmaśrunakho vrajasya jaghanārdhe paścārdhe upaviśya mekhalā visrasya vimucya, kasmaicitbrahmacāriṇe prayacchati


4

आप्ग्स्-तात्_12.4: अथोप्तकेशादिको व्रजस्य जघनार्धेपश्चार्धे उपविश्येत्यादिकरोति

āpgs-tāt_12.4: athoptakeśādiko vrajasya jaghanārdhepaścārdhe upaviśyetyādikaroti


5

4 तेन तस्याः दर्भस्तम्बे निधानम् तां स उत्तरेण यजुषोदुम्बरमूले दर्भस्तम्बे वोपगूहति आप्ग्स्_12.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.5: प्रच्छादयति उत्तरेण यजुषाऽइदमहममुष्यामुष्येऽत्यादिना तत्रादश्सब्देषु नामग्रहणम्-इदमहं यज्ञशर्मणो गार्ग्यस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्य इति अथ यदि वा स्यात् यज्ञशर्मणो गार्ग्यायणेति दण्डाजिनयोरप्यस्मिन् काले त्यागः आप्ग्स्-तात्_12.5: स तु ब्रह्मचारी तां मेखलां सूत्रोक्तदेशे उपगूहति अप्रकाशां करोति ऽइदमहं विष्णुशर्मणो गौतमस्य पाप्मानमुपगूहाम्युत्तरो विष्णुशर्मा द्विषद्भ्यःऽइत्यनेन यजुषा अत्र च स्नातुर्नामगोत्रे ग्राह्ये

4 tena tasyāḥ darbhastambe nidhānam tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati āpgs_12.5 commentaries: āpgs-anā_12.5: pracchādayati uttareṇa yajuṣā'idamahamamuṣyāmuṣye'tyādinā tatrādaśsabdeṣu nāmagrahaṇam-idamahaṃ yajñaśarmaṇo gārgyasya pāpmānamapagūhāmyuttaro yajñaśarmā dviṣadbhya iti atha yadi vā syāt yajñaśarmaṇo gārgyāyaṇeti daṇḍājinayorapyasmin kāle tyāgaḥ āpgs-tāt_12.5: sa tu brahmacārī tāṃ mekhalāṃ sūtroktadeśe upagūhati aprakāśāṃ karoti 'idamahaṃ viṣṇuśarmaṇo gautamasya pāpmānamupagūhāmyuttaro viṣṇuśarmā dviṣadbhyaḥ'ityanena yajuṣā atra ca snāturnāmagotre grāhye


6

5 स्नानं उदुम्बरकाष्ठेन दन्तधावनं च एवं विहिताभिरेवाद्भिरुत्तराभिष्षङ्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते आप्ग्स्_12.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.6: एवंविहिताभिःपूर्ववत्संसृष्टाभिः शीतोष्णाभिरित्यर्थः तत्र संसर्जने मन्त्रस्य लोपः ऋग्भिः आपोहिष्ठीयाभिः हिरण्यवर्णी याभिश्च तत्र ऽयासु जातऽइत्यासां ग्रहणम् प्रतिमन्त्रं चाभिषेकः दतो धावतेदन्तेभ्यो मलमपनयति उत्तरयर्चाऽअन्नाद्याय व्यूहध्वऽमित्येतया

5 snānaṃ udumbarakāṣṭhena dantadhāvanaṃ ca evaṃ vihitābhirevādbhiruttarābhiṣṣaṅbhissnātvottarayodumbareṇa dato dhāvate āpgs_12.6 commentaries: āpgs-anā_12.6: evaṃvihitābhiḥpūrvavatsaṃsṛṣṭābhiḥ śītoṣṇābhirityarthaḥ tatra saṃsarjane mantrasya lopaḥ ṛgbhiḥ āpohiṣṭhīyābhiḥ hiraṇyavarṇī yābhiśca tatra 'yāsu jāta'ityāsāṃ grahaṇam pratimantraṃ cābhiṣekaḥ dato dhāvatedantebhyo malamapanayati uttarayarcā'annādyāya vyūhadhva'mityetayā


6

आप्ग्स्-तात्_12.6: एवंविहिताभिस्तूष्णीं मिश्रिताभिश्शीतोष्णाभिरद्भिः ऽकेशान् वपतुऽइति मन्त्रलिङ्गविरोधात् एवकाराच्च न मिश्रणमन्त्रः उत्तराभिष्षङ्भिःऽआपो हि ष्ठा इति तिसृभिश्च स्नाति अभिषिञ्चति एतच्च षण्णामन्ते सकृदेव केचित्-प्रत्यृचमिति तन्न ;गुणार्थ प्रधानाभ्यासकल्पनमयुक्तमित्युक्त्वात् अथोदिम्बरेण काष्ठेन दन्तेभ्यो मलं ऽअन्नाद्याय व्यूहध्वमऽइत्यनया अपनयति

āpgs-tāt_12.6: evaṃvihitābhistūṣṇīṃ miśritābhiśśītoṣṇābhiradbhiḥ 'keśān vapatu'iti mantraliṅgavirodhāt evakārācca na miśraṇamantraḥ uttarābhiṣṣaṅbhiḥ'āpo hi ṣṭhā iti tisṛbhiśca snāti abhiṣiñcati etacca ṣaṇṇāmante sakṛdeva kecit-pratyṛcamiti tanna ;guṇārtha pradhānābhyāsakalpanamayuktamityuktvāt athodimbareṇa kāṣṭhena dantebhyo malaṃ 'annādyāya vyūhadhvam'ityanayā apanayati


7

6 स्नानीयद्रव्यैराच्छाद्य पुनः स्नानं, अहतस्यान्तरस्य वाससः परिधानं, चन्दनानुलेपनं, ग्रीवासु मणेराबन्धनं, बादरमणेस्सव्यपाणावाबन्धनं, उत्तरस्य वाससः परिधानञ्च स्नानीयोच्छादितस्स्नातः आप्ग्स्_12.7 उत्तरेण यजुषाहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देवताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवस्वाबध्यैवमेव बादरं मणिं मन्त्रवर्ज सव्ये पाणावाबध्याहतमुत्तरं वासो ऽरेवतीस्त्वेतिऽसमानम् आप्ग्स्_12.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.8: ततःस्नानीयैःस्नानार्हऐः क्लीतकादिभिःउच्छादितःउद्वर्तितः अपकृष्टमलः पुनरपि तभिरेवाद्भिःस्नातः उत्तरेण यजुषाऽसोमस्य तनूरसिऽइत्यनेनअहतमन्तरं वासःयेन कटिः प्रच्छद्यते तदन्तरमित्युच्यते येन बहिर्नीवि प्रच्छादनं उपवीतं वा क्रियते तदित्तरमिति तयोरन्तरं वासः परिधाय चतुर्थ्यानुलेपनं करोति केन?चन्दनेन कीदृशेन ? सर्वसुरभिणासर्वाणि सुरभि- द्रव्याणि यत्र भवन्ति तत् सर्वसुरभि सार्वसुरभिणेतिपाठे रूपसिद्धिर्मृग्या तत्र पूर्वमुत्तरैर्मन्त्रैस्त्रिभिर्देवताभ्यः प्रयच्छति ऽनमो ग्रहायऽचेत्येवमादिभिः तत उत्तरया ऽअप्सरस्सुयो गन्धःऽइत्येतया आत्मनो ऽनुलेपनम् ऽमुखमग्रे ब्राह्मणो ऽनुलिम्पेत् बाहू राजन्य-, उदरंवैश्यः, (आश्वगृ.3-7-10-12) इत्याश्वलायनः अथ मणिमाबध्नातिग्रीवासुप्रतिमुञ्चति स च मणिः सौवर्णो भवति उपदानेन च वैडूर्यादिनोपहितः सूत्रोतःसूत्रेणोतः सपाश इत्यर्थः तं मणिं उत्तरयर्चा ऽइयमोषधेऽऽत्येतया उदपात्रे त्रिः परिप्लावयति सकृदेव मन्त्रः अथ तं उत्तरयर्चा ऽअपाशो ऽस्युरऽइत्येतया ग्रीवास्वाबध्नाति ग्रीवाशब्दो ऽयं धमनिवचनः बहुवचान्तः तध्योगात् कण्ठे प्रयुज्यते अस्यामृचि पृथिवी स्तूयते तस्मादियमोषधिस्त्रायमाणेति भवितव्यम् सकारलोपच्छान्दसः अथबादरंबदुरीबीजेन कल्पितमेवमेव सूत्रोतमुदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य सव्ये पाणावाबध्नाति तूष्णामेव परिप्लावने च बन्धने च मन्त्रप्रतिषेधः पुनर्मणिग्रहणादुपधानमस्य न भवति सूत्रोतस्तु भवति आबध्य मणिं तत उत्तरं वासः करोति आहतमेव तत्र रेवतीस्त्वेत्येवमादि कर्म समानमुपनयनेनैव प्रत्येतव्यम् रेवतीस्त्वेत्येताभिरिति वा उत्तराभिरित्येव वा सिद्धे समानवचनमुपनयनवते प्रयोगार्थम् तेन उत्तराभ्यामभिमन्त्रेयोत्यादि परिहितानुमन्त्रणान्तं गुरोः कर्म

6 snānīyadravyairācchādya punaḥ snānaṃ, ahatasyāntarasya vāsasaḥ paridhānaṃ, candanānulepanaṃ, grīvāsu maṇerābandhanaṃ, bādaramaṇessavyapāṇāvābandhanaṃ, uttarasya vāsasaḥ paridhānañca snānīyocchāditassnātaḥ āpgs_12.7 uttareṇa yajuṣāhatamantaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarairdevatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotamuttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvasvābadhyaivameva bādaraṃ maṇiṃ mantravarja savye pāṇāvābadhyāhatamuttaraṃ vāso 'revatīstveti'samānam āpgs_12.8 commentaries: āpgs-anā_12.8: tataḥsnānīyaiḥsnānārhaaiḥ klītakādibhiḥucchāditaḥudvartitaḥ apakṛṣṭamalaḥ punarapi tabhirevādbhiḥsnātaḥ uttareṇa yajuṣā'somasya tanūrasi'ityanenaahatamantaraṃ vāsaḥyena kaṭiḥ pracchadyate tadantaramityucyate yena bahirnīvi pracchādanaṃ upavītaṃ vā kriyate tadittaramiti tayorantaraṃ vāsaḥ paridhāya caturthyānulepanaṃ karoti kena?candanena kīdṛśena ? sarvasurabhiṇāsarvāṇi surabhi- dravyāṇi yatra bhavanti tat sarvasurabhi sārvasurabhiṇetipāṭhe rūpasiddhirmṛgyā tatra pūrvamuttarairmantraistribhirdevatābhyaḥ prayacchati 'namo grahāya'cetyevamādibhiḥ tata uttarayā 'apsarassuyo gandhaḥ'ityetayā ātmano 'nulepanam 'mukhamagre brāhmaṇo 'nulimpet bāhū rājanya-, udaraṃvaiśyaḥ, (āśvagṛ.3-7-10-12) ityāśvalāyanaḥ atha maṇimābadhnātigrīvāsupratimuñcati sa ca maṇiḥ sauvarṇo bhavati upadānena ca vaiḍūryādinopahitaḥ sūtrotaḥsūtreṇotaḥ sapāśa ityarthaḥ taṃ maṇiṃ uttarayarcā 'iyamoṣadhe''tyetayā udapātre triḥ pariplāvayati sakṛdeva mantraḥ atha taṃ uttarayarcā 'apāśo 'syura'ityetayā grīvāsvābadhnāti grīvāśabdo 'yaṃ dhamanivacanaḥ bahuvacāntaḥ tadhyogāt kaṇṭhe prayujyate asyāmṛci pṛthivī stūyate tasmādiyamoṣadhistrāyamāṇeti bhavitavyam sakāralopacchāndasaḥ athabādaraṃbadurībījena kalpitamevameva sūtrotamudapātre triḥ pradakṣiṇaṃ pariplāvya savye pāṇāvābadhnāti tūṣṇāmeva pariplāvane ca bandhane ca mantrapratiṣedhaḥ punarmaṇigrahaṇādupadhānamasya na bhavati sūtrotastu bhavati ābadhya maṇiṃ tata uttaraṃ vāsaḥ karoti āhatameva tatra revatīstvetyevamādi karma samānamupanayanenaiva pratyetavyam revatīstvetyetābhiriti vā uttarābhirityeva vā siddhe samānavacanamupanayanavate prayogārtham tena uttarābhyāmabhimantreyotyādi parihitānumantraṇāntaṃ guroḥ karma


7

आप्ग्स्-तात्_12.8: स्नानोपकरणैः क्लीतकमधूकचूर्णादिभिः उद्वर्तितदेहः आमल कपिष्टादिभिः स्नानीयैस्स्नातश्च भवति

āpgs-tāt_12.8: snānopakaraṇaiḥ klītakamadhūkacūrṇādibhiḥ udvartitadehaḥ āmala kapiṣṭādibhiḥ snānīyaissnātaśca bhavati


8

ऽसोमस्य तनूरसिऽइत्यनेनयजुषा अहतमन्तरं वासःअन्तर्वासो ऽन्तरीयमित्यर्थः तत् परिदधाति अनेन सूत्रेणात ऊर्ध्व स्नातकस्य नित्यमन्तर्वासो विधीयते यजुः पुनः कर्मार्थमेव, मकारणाम्नानात् ततस्सार्वसुरभिणा सर्वैः कस्तूरिकादिभिर्गम्धद्रव्यैर्वासितेनचन्दनेन अनुलिम्पतीति व्यवहितेन सम्बन्धः कथमनुलिम्पति ?इत्यत्राह-उत्तरैरित्यादि ऽनमो ग्रहाय चऽ; इत्यादिभिस्त्रिभिर्मन्त्रैः देवताभ्यश्चन्दनं पूर्वप्रदाय, पश्चात् ऽअप्सरस्सु यो गन्धःऽइत्यनया आत्मान मनुलिम्पति मुखस्य चाग्रे ऽनुलेपः, ऽमुखमग्रे ब्राह्मणो लिम्पेतऽ(आश्वगृ.3-7-10) इत्याश्वलायनगृह्यात् . देवताभ्यः प्रदानं च नमश्सब्देन, न तु मन्त्रान्तेन;नमस्कारस्यापि प्रदानार्थत्वात् मणिंकीदृशं?सौवर्णसुवर्णविकारम् सोपधानंवज्रवैडूर्यादिना उभयतः परिगृहीतम् सीत्रोतं सूत्रप्रोतम् ऽइयमोषधे त्रायमाणाऽइत्येतया सकृदुच्चरितयाउदपात्रे प्रदक्षिणमविरतं त्रिःपरिप्लाव्य, उत्तरया ऽअपाशो ऽस्युरो मेऽइत्यादिकया ऽपुण्यायऽइत्यन्तया त्र्यवसानया तं मणिंग्रीवसु कण्ठे आबध्य, बदरीबीजमयंबादरं सूत्रोतमेव मणिमेवमेवोदपात्रे त्रिः प्रदक्षिणं तूष्णीं परिप्लाव्य, तूष्णीमेवसव्ये पाणावाबध्नाति अहतमुत्तरं वासः परिधानीयमेव, न तु उत्तरीयम् तदुपनयनेन समानम् स्वयं परिदधाति, इहाचार्याभावात् ततश्च ऽरेवतीस्त्वाऽ; इति द्वाभ्यां परिधानीयं वासो ऽभिमन्त्र्य ऽया अकृन्तनऽइति तिसृभिः परिधाय ऽपरीदं वासःऽइत्यनुमन्त्रयते ऽरेवतीस्त्वे ति समानमऽइति वचनबलाच्च मन्त्रस्थयुष्मदर्थलिङ्गबाध एव यद्वा अन्यो विद्वान् ब्राह्मणः रेवतीस्त्वेति समानं करोति कुतः पुनः ऽअहतमुत्तरं वासःऽइत्यनेनापि परिधानमेवोच्यते नोत्तरीयम्?उच्यते-रोवतीस्त्वेति समानमुपनयनेनेति वचनात् उपनयने च ऽतिसृभिः परिधाप्य परिह्तमुत्तरया, (आपगृ.10-10)इति परिधानार्थवासो ऽवगमात् पूर्वस्य ऽअहतमन्तरं वासःऽइति चोदितत्वाच्च उत्तरीयं तु ऽनित्यमुत्तरं कार्यम् (आपध.2-4-21) इत्यादिधर्मशास्त्रवचनादत्रापि सिद्धमेव वासः केचित् इहोत्तरीयं विधीयते नैव परिधानीयम्;उत्तरमिति वचनात् तथा आचार्य एव ऽरेवतास्त्वा इत्याद्युपनयनेन समानं करोतीति तन्न;परिधाप्य,परिहितमऽइत्यनुपपत्तेरेव तथा आचार्यकुलान्निवृत्तेनेदं स्नानं क्रियते तत्राचार्यकर्तृकत्वा प्रसक्तिरेव

'somasya tanūrasi'ityanenayajuṣā ahatamantaraṃ vāsaḥantarvāso 'ntarīyamityarthaḥ tat paridadhāti anena sūtreṇāta ūrdhva snātakasya nityamantarvāso vidhīyate yajuḥ punaḥ karmārthameva, makāraṇāmnānāt tatassārvasurabhiṇā sarvaiḥ kastūrikādibhirgamdhadravyairvāsitenacandanena anulimpatīti vyavahitena sambandhaḥ kathamanulimpati ?ityatrāha-uttarairityādi 'namo grahāya ca'; ityādibhistribhirmantraiḥ devatābhyaścandanaṃ pūrvapradāya, paścāt 'apsarassu yo gandhaḥ'ityanayā ātmāna manulimpati mukhasya cāgre 'nulepaḥ, 'mukhamagre brāhmaṇo limpet'(āśvagṛ.3-7-10) ityāśvalāyanagṛhyāt . devatābhyaḥ pradānaṃ ca namaśsabdena, na tu mantrāntena;namaskārasyāpi pradānārthatvāt maṇiṃkīdṛśaṃ?sauvarṇasuvarṇavikāram sopadhānaṃvajravaiḍūryādinā ubhayataḥ parigṛhītam sītrotaṃ sūtraprotam 'iyamoṣadhe trāyamāṇā'ityetayā sakṛduccaritayāudapātre pradakṣiṇamavirataṃ triḥpariplāvya, uttarayā 'apāśo 'syuro me'ityādikayā 'puṇyāya'ityantayā tryavasānayā taṃ maṇiṃgrīvasu kaṇṭhe ābadhya, badarībījamayaṃbādaraṃ sūtrotameva maṇimevamevodapātre triḥ pradakṣiṇaṃ tūṣṇīṃ pariplāvya, tūṣṇīmevasavye pāṇāvābadhnāti ahatamuttaraṃ vāsaḥ paridhānīyameva, na tu uttarīyam tadupanayanena samānam svayaṃ paridadhāti, ihācāryābhāvāt tataśca 'revatīstvā'; iti dvābhyāṃ paridhānīyaṃ vāso 'bhimantrya 'yā akṛntan'iti tisṛbhiḥ paridhāya 'parīdaṃ vāsaḥ'ityanumantrayate 'revatīstve ti samānam'iti vacanabalācca mantrasthayuṣmadarthaliṅgabādha eva yadvā anyo vidvān brāhmaṇaḥ revatīstveti samānaṃ karoti kutaḥ punaḥ 'ahatamuttaraṃ vāsaḥ'ityanenāpi paridhānamevocyate nottarīyam?ucyate-rovatīstveti samānamupanayaneneti vacanāt upanayane ca 'tisṛbhiḥ paridhāpya parihtamuttarayā, (āpagṛ.10-10)iti paridhānārthavāso 'vagamāt pūrvasya 'ahatamantaraṃ vāsaḥ'iti coditatvācca uttarīyaṃ tu 'nityamuttaraṃ kāryam (āpadha.2-4-21) ityādidharmaśāstravacanādatrāpi siddhameva vāsaḥ kecit ihottarīyaṃ vidhīyate naiva paridhānīyam;uttaramiti vacanāt tathā ācārya eva 'revatāstvā ityādyupanayanena samānaṃ karotīti tanna;paridhāpya,parihitam'ityanupapattereva tathā ācāryakulānnivṛttenedaṃ snānaṃ kriyate tatrācāryakartṛkatvā prasaktireva


8

7 वाससो ऽन्ते कुण्डले बध्वा तद्विशिष्टया दर्व्या प्रधानहोमाः, जयादयश्च तस्य दशायां प्रवृर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते आप्ग्स्_12.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.9: तस्योत्तरस्य वाससो दशायां प्रवर्तौ कर्णालङ्कारौ सौवर्णौ प्रबध्य दर्व्यामाधायाज्येनौत्तरा अष्टौ प्रधानाहुतिः जुहोति अभ्यानायन्प्रवर्तयोरुपर्याज्येनानयनं कारयन्नित्यर्थः अभ्यानयन् इति वा पाठः अस्मिन् पक्षे सव्येन पाणिनाभ्या- नयनम् अभ्यानायमिति णमुलन्तस्य युक्तः अब्यानीयाभ्यानीयेत्यर्थः सर्वथा प्रवर्तयोरुपर्यासिक्तेनाज्येन प्रधानहोमः जयादिनचनं प्रवर्तावपनीय यतासिद्धं प्रतिपद्येतेत्येवमर्थम्

7 vāsaso 'nte kuṇḍale badhvā tadviśiṣṭayā darvyā pradhānahomāḥ, jayādayaśca tasya daśāyāṃ pravṛrtau prabadhya darvyāmādhāyājyenābhyānāyannuttarā āhutīrhutvā jayādi pratipadyate āpgs_12.9 commentaries: āpgs-anā_12.9: tasyottarasya vāsaso daśāyāṃ pravartau karṇālaṅkārau sauvarṇau prabadhya darvyāmādhāyājyenauttarā aṣṭau pradhānāhutiḥ juhoti abhyānāyanpravartayoruparyājyenānayanaṃ kārayannityarthaḥ abhyānayan iti vā pāṭhaḥ asmin pakṣe savyena pāṇinābhyā- nayanam abhyānāyamiti ṇamulantasya yuktaḥ abyānīyābhyānīyetyarthaḥ sarvathā pravartayoruparyāsiktenājyena pradhānahomaḥ jayādinacanaṃ pravartāvapanīya yatāsiddhaṃ pratipadyetetyevamartham


9

आप्ग्स्-तात्_12.9: तस्य अनन्तरप्रकृतस्य वाससो दशायां प्रवृर्तौकुण्डले सौवर्णे प्रबध्यतावुपायेन दर्व्या अग्रे स्थापयित्वा आज्येने- ति परिभाषाप्राप्तानुवादोभ्यानयनाविधानार्थः अभ्यानायमिति णमुलन्तोरऽथपाठः ततश्च स्वयमेव सव्येन हस्तेन स्थापितयोः प्रवर्तयोरुपरि आज्यमानीय तेनैवाज्येन उत्तराः ऽआयुष्यं वर्चस्यमऽइत्याद्या अष्टौ प्राधानाहुतीर्हुत्वा, ततो दर्व्या अग्रात्तावपनीय यथाप्रसिद्धंजयादि प्रतिपद्यते सूचनात्सूत्रमिति निर्वचनाच्च सूत्रे सर्वत्रानेकार्थविधिनिबन्धनो वाक्यभेदो ऽपि नैव दोष इत्युक्तम् ऽअग्निमिध्वाऽ(आपगृ.1-12) इत्यत्र केचित् सव्येन हस्तेन अभ्यानायन्नन्येन वाभ्यानायन्निति पाठेन भवितव्यमित्याचक्षते

āpgs-tāt_12.9: tasya anantaraprakṛtasya vāsaso daśāyāṃ pravṛrtaukuṇḍale sauvarṇe prabadhyatāvupāyena darvyā agre sthāpayitvā ājyene- ti paribhāṣāprāptānuvādobhyānayanāvidhānārthaḥ abhyānāyamiti ṇamulantor'thapāṭhaḥ tataśca svayameva savyena hastena sthāpitayoḥ pravartayorupari ājyamānīya tenaivājyena uttarāḥ 'āyuṣyaṃ varcasyam'ityādyā aṣṭau prādhānāhutīrhutvā, tato darvyā agrāttāvapanīya yathāprasiddhaṃjayādi pratipadyate sūcanātsūtramiti nirvacanācca sūtre sarvatrānekārthavidhinibandhano vākyabhedo 'pi naiva doṣa ityuktam 'agnimidhvā'(āpagṛ.1-12) ityatra kecit savyena hastena abhyānāyannanyena vābhyānāyanniti pāṭhena bhavitavyamityācakṣate


9

8 तयोः कर्णयोराबन्धनम् परिषेचनान्तं कृत्वैताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये आप्ग्स्_12.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.10: परिषेचनान्तवचनमानन्तर्यार्थम् तेनास्याहनि भोजनं न भवति एताभिरेवाहुतिभिः आहुत्यर्थैर्मन्त्रैरित्यर्थः वचनादेकं कर्म बहुमन्त्रं स्वाहाकारवांश्च मन्त्रः प्रयोज्यः सव्ये चेत्युच्माने म्नत्राणां विभज्य विनियोगः स्यात् तस्मात् पुनरेताभिरित्त्युक्तम्

8 tayoḥ karṇayorābandhanam pariṣecanāntaṃ kṛtvaitābhireva dakṣiṇe karṇa ābadhnītaitābhissavye āpgs_12.10 commentaries: āpgs-anā_12.10: pariṣecanāntavacanamānantaryārtham tenāsyāhani bhojanaṃ na bhavati etābhirevāhutibhiḥ āhutyarthairmantrairityarthaḥ vacanādekaṃ karma bahumantraṃ svāhākāravāṃśca mantraḥ prayojyaḥ savye cetyucmāne mnatrāṇāṃ vibhajya viniyogaḥ syāt tasmāt punaretābhirittyuktam


10

आप्ग्स्-तात्_12.10: परिषेचनान्तरमेवएताभिरेवऽआयुष्यं वर्चस्यमऽइत्यष्टाभिरेवदक्षिणे कर्णे प्रवर्तयोरेकंआबध्रीतप्रतिमुञ्चेत् तथान्य- मेताभिरेव सव्येकर्णे अत्र च होममन्त्राणामेव आबन्धनकरणत्वेन सूत्रवाक्यसादृश्यानुमितया श्रुत्यैव चोदितत्वात्तैराबन्धनमपि गौण्या वृत्त्या प्रकाश्य मैन्द्रीवत् तथैताभिरिति स्त्रीलिङ्गनिर्देशो बहुत्वादृचां ब्राह्मणग्रामवत् न चात्र होमार्थानामेव आबन्धनार्थत्वेनापि विनियोगे देवदत्तीयेयं गौर्यज्ञदत्तीयेतिवद्विरोध- ऽपुरोडाशकपालेन तुषानुपवपतिऽइत्यादिवदधिष्ठानलक्षणया विनियुक्ताकारमतिरोधायापि विनियोगोपपत्तेः, ऋङ्मन्त्रविषये त्वनेकार्थत्वमपि नायुक्तमित्याग्नेय्यधिकरणे उक्तत्वाच्च केचित्-एताभिरित्यनेन प्रकृताहुतिपरामर्शादाहुत्यर्था मन्त्रा लक्ष्यन्ते ऽपितॄणां याज्यानुवाक्याभिरुपतिष्ठतेऽइतिवदिति मैवम्;यतः पूर्वत्रोत्तराहुतीरिति लक्षणया प्रकृतानां मन्त्राणामपि परामर्शो वरम्;नत्विहापि वाक्ये लक्षणा

āpgs-tāt_12.10: pariṣecanāntaramevaetābhireva'āyuṣyaṃ varcasyam'ityaṣṭābhirevadakṣiṇe karṇe pravartayorekaṃābadhrītapratimuñcet tathānya- metābhireva savyekarṇe atra ca homamantrāṇāmeva ābandhanakaraṇatvena sūtravākyasādṛśyānumitayā śrutyaiva coditatvāttairābandhanamapi gauṇyā vṛttyā prakāśya maindrīvat tathaitābhiriti strīliṅganirdeśo bahutvādṛcāṃ brāhmaṇagrāmavat na cātra homārthānāmeva ābandhanārthatvenāpi viniyoge devadattīyeyaṃ gauryajñadattīyetivadvirodha- 'puroḍāśakapālena tuṣānupavapati'ityādivadadhiṣṭhānalakṣaṇayā viniyuktākāramatirodhāyāpi viniyogopapatteḥ, ṛṅmantraviṣaye tvanekārthatvamapi nāyuktamityāgneyyadhikaraṇe uktatvācca kecit-etābhirityanena prakṛtāhutiparāmarśādāhutyarthā mantrā lakṣyante 'pitṝṇāṃ yājyānuvākyābhirupatiṣṭhate'itivaditi maivam;yataḥ pūrvatrottarāhutīriti lakṣaṇayā prakṛtānāṃ mantrāṇāmapi parāmarśo varam;natvihāpi vākye lakṣaṇā


10

9 शिरसि स्रजो धारणं, अक्ष्णोरञ्जनं, आदर्शावेक्षणं, उपानहोरुपमुञ्चनं, छत्रदण्योर्धारणं च एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शवेक्षणमुपानहौ छत्रं दण्डमिति आप्ग्स्_12.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.11: एवमुत्तरैरपि मन्त्रैर्यथालिङ्गं स्नागादीनि षट् द्रव्याण्युपयुञ्जीत यथार्हम् तत्र ऽशुभिके शिरऽइति द्वाभ्यां स्रजश्शिरसि बन्धनम् यथालिङ्गवचनात् द्वाभ्यामिमां तामपिनह्येऽइति)स्रज इति षष्ठ्येकवचनम्, न प्रथमाया द्वितीयाया वा बहुवचनम् इमां तामित्यकेवचनात् शिरसीति वचनात् असयोर्न भवति "न मालोक्ताम् माले चेत् ब्रूयुः, स्रगित्यभिधापयीत"(आश्वगृ.3.8-12) इत्याश्वलायनः अथ ऽयदाञ्जनं त्रैककुदऽमिति द्वाभ्यामञ्जनं अक्ष्णोरुपयुञ्जीत तत्र द्वाभ्यामपि मन्त्राभ्यां पूर्व दक्षिणस्याञ्जनम् अथ ताभ्यामेव सव्यस्य यद्यपि ऽतेन वामाञ्जेऽइति मन्त्रे द्विवचनं भवति तथापि एवमित्यतिदेशसामर्थ्यात् प्रवर्तयोराबन्धनवत् क्रियाभ्यावृत्तिः मन्त्राभ्यावृत्तिश्च भवति तत्र सान्नाय्यकुमभीवत् द्विवचनं, यथा"अप्रस्नसंसाययज्ञस्योखे उपदधाम्यह"मिति अथादर्शस्यावेक्षणं ऽयन्मे वर्चऽइत्येतया अवेक्षणमित्यनुच्यमाने आदानमेव स्यादस्मिन् काले;ऽइदं तत्पुनराददऽ; इतिलिङ्गात् तस्मादवेक्षणग्रहणम् ततः उपानहावुपमुञ्चते ऽप्रतिष्टे स्थऽइति यजुषा आञ्जनवत् क्रियावृत्तिर्मन्त्रस्यावृत्तिश्च भवति ततश्छत्रमादायात्मानमाच्छादयति ऽप्रजापतेश्शरणमसीऽतियजुषा देवस्य त्वेति यजुषा दण्डमादत्ते वैणवमित्याश्वलायनः (आश्वगृ.3-7-15)

9 śirasi srajo dhāraṇaṃ, akṣṇorañjanaṃ, ādarśāvekṣaṇaṃ, upānahorupamuñcanaṃ, chatradaṇyordhāraṇaṃ ca evamuttarairyathāliṅgaṃ srajaśśirasyāñjanamādarśavekṣaṇamupānahau chatraṃ daṇḍamiti āpgs_12.11 commentaries: āpgs-anā_12.11: evamuttarairapi mantrairyathāliṅgaṃ snāgādīni ṣaṭ dravyāṇyupayuñjīta yathārham tatra 'śubhike śira'iti dvābhyāṃ srajaśśirasi bandhanam yathāliṅgavacanāt dvābhyāmimāṃ tāmapinahye'iti)sraja iti ṣaṣṭhyekavacanam, na prathamāyā dvitīyāyā vā bahuvacanam imāṃ tāmityakevacanāt śirasīti vacanāt asayorna bhavati "na māloktām māle cet brūyuḥ, sragityabhidhāpayīta"(āśvagṛ.3.8-12) ityāśvalāyanaḥ atha 'yadāñjanaṃ traikakuda'miti dvābhyāmañjanaṃ akṣṇorupayuñjīta tatra dvābhyāmapi mantrābhyāṃ pūrva dakṣiṇasyāñjanam atha tābhyāmeva savyasya yadyapi 'tena vāmāñje'iti mantre dvivacanaṃ bhavati tathāpi evamityatideśasāmarthyāt pravartayorābandhanavat kriyābhyāvṛttiḥ mantrābhyāvṛttiśca bhavati tatra sānnāyyakumabhīvat dvivacanaṃ, yathā"aprasnasaṃsāyayajñasyokhe upadadhāmyaha"miti athādarśasyāvekṣaṇaṃ 'yanme varca'ityetayā avekṣaṇamityanucyamāne ādānameva syādasmin kāle;'idaṃ tatpunarādada'; itiliṅgāt tasmādavekṣaṇagrahaṇam tataḥ upānahāvupamuñcate 'pratiṣṭe stha'iti yajuṣā āñjanavat kriyāvṛttirmantrasyāvṛttiśca bhavati tataśchatramādāyātmānamācchādayati 'prajāpateśśaraṇamasī'tiyajuṣā devasya tveti yajuṣā daṇḍamādatte vaiṇavamityāśvalāyanaḥ (āśvagṛ.3-7-15)


11

आप्ग्स्-तात्_12.11: यथा कर्ममध्ये समन्त्रकं प्रवर्तौ हि बद्धौ,एवमुत्तरैर्मन्त्रैर्यथालिङ्गंमन्त्रलिङ्गानुसारेण स्रगादिषट्कं आबध्नीत कर्तव्यम् इत्यादि यथार्ह वाक्यशेषः तत्र ऽशुभिके शिरःऽइत्यनयैकयैव शिरसि स्रजमाबध्नीत ऽयामाहरतऽइत्येषा विकल्पार्था;ऽएकमन्त्रणि कर्माणिऽ; ऽअवशिष्टा विकल्पार्थाःऽ(आपप.1-41;4-12) इति परिभाषावचनात् स्रज इति द्वितीयैकवचनार्थे;ऽशुभिके शिर आरोहऽ; ऽयामाहरतऽ; इत्याद्येकवचनलिङ्गात् षष्ठ्येकवचनं वा तथा सति, स्रज आबन्धनं कर्तव्यमिति शेषः तथा ऽयदाञ्जनं त्रैककुदमऽइत्येकयैव सकृदुच्चरितया त्रिककुत्पवर्तजाताञ्जनेन युगपदक्ष्णोरञ्जनं कर्तव्यम् अत्रापि ऽमयि पर्वतऽइत्यादीनि चत्वारि यजूषि विकल्पार्थान्येव न चाक्ष्णोः पर्यायेणाञ्जनम्;ऽतेन वामऽइति द्विवचनलिङ्गविरोधात् तथैव ऽयन्मे वर्चः परागतमऽइत्येतया आदर्शावेक्षणं कर्तव्यम् तथैव ऽप्रतिष्ठे स्थःऽइत्यनेन यजुषोपानहौ युगपदुपमुञ्चते;ऽप्रतिष्ठे स्थःऽइति द्विवचनलिङ्गात् तथैव तूष्णीं छत्रमादाय ऽप्रजापतेः शरणमसिऽइति यजुषा आत्मानमभिच्छादयति तथैव दण्डं वैणवं ऽदेवस्य त्वाऽइत्यादियजुषा आदत्ते इति एतानि षट्द्रव्याणीत्यर्थः केचित्-ऽशुभिके शिर आरोहऽऽयामाहरतऽइति द्वाभ्यामपि स्रज आबन्धनम् तथा ऽयदाञ्जनंऽऽमयि पर्वत पूरुषमऽइति द्वाभ्याम् अप्यावृत्ताभ्यां दक्षिणसव्ययोरक्षणोः क्रमेणाञ्जनम्;ऽएवमुत्तरैर्यथालिङ्गमऽइति वचनबलात् ततश्च ऽतेन वामऽइति लिङ्गमपि विधिबलाद्वाध्यमेव यथैकस्यां सान्नाय्यकुम्भ्यां ऽउखे उपधाम्यहमऽइति द्विवचनलिङ्गम् उपानहोरुपमोचने ऽप्यञ्जनवदेव व्याख्येति तदसत्, ऽएकमन्त्राणिऽ(आपप.1-41) इत्यादिपरिभाषाविरुद्धत्वात् ऽएवमुत्तरैर्यथालिङ्गमऽइत्यस्य च पूर्वव्याख्याने ऽप्युपपत्तेः ऽमयि पर्वत पूरुषमऽइत्यत्र पाठे प्रश्लिष्टे ऽपि विभागे निराकाङ्क्षत्वात्, वाक्यभेदावगतेश्च

āpgs-tāt_12.11: yathā karmamadhye samantrakaṃ pravartau hi baddhau,evamuttarairmantrairyathāliṅgaṃmantraliṅgānusāreṇa sragādiṣaṭkaṃ ābadhnīta kartavyam ityādi yathārha vākyaśeṣaḥ tatra 'śubhike śiraḥ'ityanayaikayaiva śirasi srajamābadhnīta 'yāmāharat'ityeṣā vikalpārthā;'ekamantraṇi karmāṇi'; 'avaśiṣṭā vikalpārthāḥ'(āpapa.1-41;4-12) iti paribhāṣāvacanāt sraja iti dvitīyaikavacanārthe;'śubhike śira āroha'; 'yāmāharat'; ityādyekavacanaliṅgāt ṣaṣṭhyekavacanaṃ vā tathā sati, sraja ābandhanaṃ kartavyamiti śeṣaḥ tathā 'yadāñjanaṃ traikakudam'ityekayaiva sakṛduccaritayā trikakutpavartajātāñjanena yugapadakṣṇorañjanaṃ kartavyam atrāpi 'mayi parvata'ityādīni catvāri yajūṣi vikalpārthānyeva na cākṣṇoḥ paryāyeṇāñjanam;'tena vām'iti dvivacanaliṅgavirodhāt tathaiva 'yanme varcaḥ parāgatam'ityetayā ādarśāvekṣaṇaṃ kartavyam tathaiva 'pratiṣṭhe sthaḥ'ityanena yajuṣopānahau yugapadupamuñcate;'pratiṣṭhe sthaḥ'iti dvivacanaliṅgāt tathaiva tūṣṇīṃ chatramādāya 'prajāpateḥ śaraṇamasi'iti yajuṣā ātmānamabhicchādayati tathaiva daṇḍaṃ vaiṇavaṃ 'devasya tvā'ityādiyajuṣā ādatte iti etāni ṣaṭdravyāṇītyarthaḥ kecit-'śubhike śira āroha''yāmāharat'iti dvābhyāmapi sraja ābandhanam tathā 'yadāñjanaṃ''mayi parvata pūruṣam'iti dvābhyām apyāvṛttābhyāṃ dakṣiṇasavyayorakṣaṇoḥ krameṇāñjanam;'evamuttarairyathāliṅgam'iti vacanabalāt tataśca 'tena vām'iti liṅgamapi vidhibalādvādhyameva yathaikasyāṃ sānnāyyakumbhyāṃ 'ukhe upadhāmyaham'iti dvivacanaliṅgam upānahorupamocane 'pyañjanavadeva vyākhyeti tadasat, 'ekamantrāṇi'(āpapa.1-41) ityādiparibhāṣāviruddhatvāt 'evamuttarairyathāliṅgam'ityasya ca pūrvavyākhyāne 'pyupapatteḥ 'mayi parvata pūruṣam'ityatra pāṭhe praśliṣṭe 'pi vibhāge nirākāṅkṣatvāt, vākyabhedāvagateśca


11

10 वाग्यमः, दिगुपस्थानं, नक्षत्राणां चन्द्रमसश्चोपस्थानम् वाचं यच्छत्यानक्षत्रेभ्यः आप्ग्स्_12.12 उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्र्धचेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति आप्ग्स्_12.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.13: ततः उत्तरेणार्दर्चेन ऽदेवीष्षडुर्वीऽरित्यनेन प्राङ्मुख- प्राञ्जलिः सर्वा दिशो मनसि कृत्वा मन्त्रान्तेन प्रदक्षिणमावृत्य समनुवीक्षते षडेव दिशः ,डुर्वीरिति लिङ्गात् प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति ततडत्तरेणार्र्धचेनऽमा हास्महीऽत्यनेननक्षत्राणि चन्द्रमसंच सहोपतिष्ठते

10 vāgyamaḥ, digupasthānaṃ, nakṣatrāṇāṃ candramasaścopasthānam vācaṃ yacchatyānakṣatrebhyaḥ āpgs_12.12 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramyottareṇārrdhacena diśa upasthāyottareṇa nakṣatrāṇi candramasamiti āpgs_12.13 commentaries: āpgs-anā_12.13: tataḥ uttareṇārdarcena 'devīṣṣaḍurvī'rityanena prāṅmukha- prāñjaliḥ sarvā diśo manasi kṛtvā mantrāntena pradakṣiṇamāvṛtya samanuvīkṣate ṣaḍeva diśaḥ ,ḍurvīriti liṅgāt prācyādyāścatasraḥ ūrdhvā adharā ceti tataḍattareṇārrdhacena'mā hāsmahī'tyanenanakṣatrāṇi candramasaṃca sahopatiṣṭhate


12

आप्ग्स्-तात्_12.13: इदं च व्याख्यातम्

āpgs-tāt_12.13: idaṃ ca vyākhyātam


13

उत्तरेणार्र्धचेन ऽदेवाष्षडुर्वीः इत्यनेनदिशःअवाचीषष्ठा उपस्थाय, उत्तरेण ऽमा हास्महिऽइत्यर्र्धचेननक्षत्राणि चन्द्रमसंचोपतिष्ठते श्रुतिबलाच्च ऽमा हास्महिऽइत्यत्र नक्षत्राणीत्यध्याहृत्य तानि प्रकाश्यान्येव

uttareṇārrdhacena 'devāṣṣaḍurvīḥ ityanenadiśaḥavācīṣaṣṭhā upasthāya, uttareṇa 'mā hāsmahi'ityarrdhacenanakṣatrāṇi candramasaṃcopatiṣṭhate śrutibalācca 'mā hāsmahi'ityatra nakṣatrāṇītyadhyāhṛtya tāni prakāśyānyeva


12

11 मित्रेण सम्भाषणं, यथेष्टगमनं च रातिना सम्भाष्य यथार्थ गच्छति आप्ग्स्_12.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_12.14: रातिनाबन्धुनासंभाष्यकिं मया कर्तव्यम्?क आश्रमः प्रतिपत्तव्यः?इति संभाषणं कृत्वा तेन रातिना सहगच्छति अनधृतमाश्रमं प्रतिनद्यत इत्यर्थ- ऽबुध्वा कर्माणि यत् कामयेत तदारभेतेऽ(आपध.2-21-5) त्यनेनैव सिद्धे पुनर्वचनं प्रव्रजते ऽपि संभाषणान्तं स्नानकर्म यथा स्यादिति

11 mitreṇa sambhāṣaṇaṃ, yatheṣṭagamanaṃ ca rātinā sambhāṣya yathārtha gacchati āpgs_12.14 commentaries: āpgs-anā_12.14: rātinābandhunāsaṃbhāṣyakiṃ mayā kartavyam?ka āśramaḥ pratipattavyaḥ?iti saṃbhāṣaṇaṃ kṛtvā tena rātinā sahagacchati anadhṛtamāśramaṃ pratinadyata ityartha- 'budhvā karmāṇi yat kāmayeta tadārabhete'(āpadha.2-21-5) tyanenaiva siddhe punarvacanaṃ pravrajate 'pi saṃbhāṣaṇāntaṃ snānakarma yathā syāditi


14

आप्ग्स्-तात्_12.14: रातिःमित्रं रमयतीति व्युत्पत्या तेन सह विस्रब्धस्सम्भाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य यथार्थ गच्छति तेन रातिना सह योरऽथो धर्मो मोक्षो वा साध्यत्वेनावधृत-, तदनुरूपमाश्रमं गार्हस्थयं मौनं वा प्रतिपद्यते एवं च ब्रह्मचर्यादेव प्रव्रजतो ऽपि सम्भाषणान्तं स्नानं कृत्वैव प्रव्रज्यात्

āpgs-tāt_12.14: rātiḥmitraṃ ramayatīti vyutpatyā tena saha visrabdhassambhāṣya ātmaśaktyādyanurūpaṃ dharmādikaṃ vicārya niścitya yathārtha gacchati tena rātinā saha yor'tho dharmo mokṣo vā sādhyatvenāvadhṛta-, tadanurūpamāśramaṃ gārhasthayaṃ maunaṃ vā pratipadyate evaṃ ca brahmacaryādeva pravrajato 'pi sambhāṣaṇāntaṃ snānaṃ kṛtvaiva pravrajyāt


1

इति श्रीसुदर्शनाचार्याविरचिते गृह्यतात्पर्यदर्शने द्वादशः खण्डः समाप्तः त्रयोदशः खण्डः 9 मधुपर्कः - 1 पूज्येन कूर्चे उपवेशः अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णी समिधमादधाति आप्ग्स्_13.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.1: व्याख्यातं स्नानकर्म गरीयश्च मुख्यं च अथेदानीमेतदपरं स्नानविधानं लघीयश्च गौणं च व्याख्यायते किं तत्?तूष्णामेव तीर्थे भूमिष्ठे जले स्नाति नोद्धृताभिश्शीताभिः तूष्णींच समिधमादधाति न म्नत्रेण पालाशी समित् एतावदेव- अस्मिन् विधौ कार्यम् नान्यत् किञ्चित् ऽप्रागुदयात् व्रज मित्यादिकम् वपनादि तु लौकिक मधर्मकं भवति तत्र प्रयोगः-केशश्मश्रुनखलोमानि वापयित्वा मे खलादण्डमजिनमित्यपनीय तूष्णीमेव तीर्थे स्नात्वा दन्तझावनमौदुम्बरेण काष्ठेन कृत्वा स्नानीयोच्छादितः पुनः स्नात्वा अहते वाससी परिधायाचम्याग्निमुपसमाधाय संपरिस्तीर्य पालाशीं समिधमग्निं मनसा ध्यायन्नाधाय मणिप्रभृतीन्यलङ्करणानि यथोपपादमुपादत्ते तूष्णीमेव सर्वम्

iti śrīsudarśanācāryāviracite gṛhyatātparyadarśane dvādaśaḥ khaṇḍaḥ samāptaḥ trayodaśaḥ khaṇḍaḥ 9 madhuparkaḥ - 1 pūjyena kūrce upaveśaḥ athaitadaparaṃ tūṣṇīmeva tīrthe snātvā tūṣṇī samidhamādadhāti āpgs_13.1 commentaries: āpgs-anā_13.1: vyākhyātaṃ snānakarma garīyaśca mukhyaṃ ca athedānīmetadaparaṃ snānavidhānaṃ laghīyaśca gauṇaṃ ca vyākhyāyate kiṃ tat?tūṣṇāmeva tīrthe bhūmiṣṭhe jale snāti noddhṛtābhiśśītābhiḥ tūṣṇīṃca samidhamādadhāti na mnatreṇa pālāśī samit etāvadeva- asmin vidhau kāryam nānyat kiñcit 'prāgudayāt vraja mityādikam vapanādi tu laukika madharmakaṃ bhavati tatra prayogaḥ-keśaśmaśrunakhalomāni vāpayitvā me khalādaṇḍamajinamityapanīya tūṣṇīmeva tīrthe snātvā dantajhāvanamaudumbareṇa kāṣṭhena kṛtvā snānīyocchāditaḥ punaḥ snātvā ahate vāsasī paridhāyācamyāgnimupasamādhāya saṃparistīrya pālāśīṃ samidhamagniṃ manasā dhyāyannādhāya maṇiprabhṛtīnyalaṅkaraṇāni yathopapādamupādatte tūṣṇīmeva sarvam


1

आप्ग्स्-तात्_13.1: अथापरमेतद्विधानं उच्यते इति शेषः तीर्थे पुण्यनद्यादौ समिधं पालाशीं, अविरोधात् एवकाराच्चास्मिन् विधौ नान्यत्किञ्चिदनुष्ठेयम् ननु-पूर्वस्मिन्नेव विधौ स्नानसमिदाधानयोरन्य- प्रकारो वै कल्पिक इति किमिति नास्थीयते ?उच्यते-एवकारवैयर्थ्यप्रसङ्गात्,स्नान समिदाधानयोरिह व्युत्क्रमेणाभिधानात्, अस्य सूत्रस्य बह्वक्षरत्वाच्च यदि ह्ययं पूर्वस्मिन्नेव विधौ वैकल्पिको ऽभिप्रेतो ऽभविष्यत्, तदा तत्रैव ऽपालाशींऽसमिधमुत्तरयाधाय तूष्णीं वाऽऽएवंविहिताभिरेवाद्भिरुत्तराभिः षड्भिः स्नात्वा तीर्थे वा तूष्णीमऽइत्यल्पैरेवाक्षरै- रसूत्रयिष्यत् किञ्च सूत्रकाराणां नैवेयं सैली दृष्टचरी-यदुत साङ्गं प्रधानमुक्त्वा पश्चादथादिना सूत्रेण वैकल्पिकानां प्रकारभेदानाम- भिधानमिति एव मेव ऽअथैतदपरं दघ्न एवाञ्जलिना जुहोति (आपगृ.22-10) इत्यस्यापि व्याख्यानम् प्रयोगस्तु-ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा, वासो ऽन्तरपरिधानादि कृत्वा, श्रोत्रियागारादग्निमाहृत्यऽयत्र क्व चाग्निमऽइति विधिनोपसमाधाय, तत्र प्रजापतिं मनसा ध्यायन् तूष्णीमेव समिधमादधाति केचित्-केशश्मश्रु वपनादिकमन्यदप्यविरोधि तूष्णीमेव करोतीति

āpgs-tāt_13.1: athāparametadvidhānaṃ ucyate iti śeṣaḥ tīrthe puṇyanadyādau samidhaṃ pālāśīṃ, avirodhāt evakārāccāsmin vidhau nānyatkiñcidanuṣṭheyam nanu-pūrvasminneva vidhau snānasamidādhānayoranya- prakāro vai kalpika iti kimiti nāsthīyate ?ucyate-evakāravaiyarthyaprasaṅgāt,snāna samidādhānayoriha vyutkrameṇābhidhānāt, asya sūtrasya bahvakṣaratvācca yadi hyayaṃ pūrvasminneva vidhau vaikalpiko 'bhipreto 'bhaviṣyat, tadā tatraiva 'pālāśīṃ'samidhamuttarayādhāya tūṣṇīṃ vā''evaṃvihitābhirevādbhiruttarābhiḥ ṣaḍbhiḥ snātvā tīrthe vā tūṣṇīm'ityalpairevākṣarai- rasūtrayiṣyat kiñca sūtrakārāṇāṃ naiveyaṃ sailī dṛṣṭacarī-yaduta sāṅgaṃ pradhānamuktvā paścādathādinā sūtreṇa vaikalpikānāṃ prakārabhedānāma- bhidhānamiti eva meva 'athaitadaparaṃ daghna evāñjalinā juhoti (āpagṛ.22-10) ityasyāpi vyākhyānam prayogastu-brahmacāriliṅgāni mekhalādīni tyaktvā tīrthe tūṣṇīṃ snātvā, vāso 'ntaraparidhānādi kṛtvā, śrotriyāgārādagnimāhṛtya'yatra kva cāgnim'iti vidhinopasamādhāya, tatra prajāpatiṃ manasā dhyāyan tūṣṇīmeva samidhamādadhāti kecit-keśaśmaśru vapanādikamanyadapyavirodhi tūṣṇīmeva karotīti


2

यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् आप्ग्स्_13.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.2: उक्तयोरन्यतरेण स्नातको भवति तस्यास्मिन् काले बन्धुभिरपचितिः कार्या;गोमधुपर्करहो वेदाध्याय इति वचनात् आवेद्यार्घ्य दद्या(बौगृ.1-2-1)दिति कल्पान्तरम् साधु व्रतस्नात मर्घयिष्यामो भवन्तमिति निगदेनावेदनं कौषीतकिनस्समामनन्ति "विष्टरं पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते"(आश्वगृ.1-21-6) इत्याश्वलायनः तत्र यत्र देशे ऽस्मै अपचितिं कुर्वन्ति बान्धवाः, तत्र तैर्दत्ते कूर्चे उपविशति यथापुरस्तादुपनयनेआचार्यः कूर्च प्रत्तमुपादायोदगग्रं निधाय तस्मिन् ऽराष्ट्रभृदसीऽत्यनेनोपविशतीत्यर्थः

yatrāsmā apacitiṃ kurvanti tatkūrca upaviśati yathāpurastāt āpgs_13.2 commentaries: āpgs-anā_13.2: uktayoranyatareṇa snātako bhavati tasyāsmin kāle bandhubhirapacitiḥ kāryā;gomadhuparkaraho vedādhyāya iti vacanāt āvedyārghya dadyā(baugṛ.1-2-1)diti kalpāntaram sādhu vratasnāta marghayiṣyāmo bhavantamiti nigadenāvedanaṃ kauṣītakinassamāmananti "viṣṭaraṃ pādyamarghyamācamanīyaṃ madhuparko gaurityeteṣāṃ tristrirekaikaṃ vedayante"(āśvagṛ.1-21-6) ityāśvalāyanaḥ tatra yatra deśe 'smai apacitiṃ kurvanti bāndhavāḥ, tatra tairdatte kūrce upaviśati yathāpurastādupanayaneācāryaḥ kūrca prattamupādāyodagagraṃ nidhāya tasmin 'rāṣṭrabhṛdasī'tyanenopaviśatītyarthaḥ


2

आप्ग्स्-तात्_13.2: यत्र यस्मिन् स्वधर्मयुक्तस्य कुटुम्बिनो गृहे आतिथ्यार्थमागतायास्मै स्नातकायापचितिं पूजां मधुपर्कअख्यां कुर्वते कुटुम्बिनः बहुवचनं चानुपादेयगतत्वादविवक्षितम् अत एवोत्तरत्र प्राहैत्येकवचनम् तत् तत्र गृहे तैर्दत्ते कूर्च उपविशति यथापुरस्तात् उपनयने आचार्यः ऽराष्ट्रभृदसिऽइति यजुषा उपविशति तथा उपविशेदित्यर्थः

āpgs-tāt_13.2: yatra yasmin svadharmayuktasya kuṭumbino gṛhe ātithyārthamāgatāyāsmai snātakāyāpacitiṃ pūjāṃ madhuparkaakhyāṃ kurvate kuṭumbinaḥ bahuvacanaṃ cānupādeyagatatvādavivakṣitam ata evottaratra prāhaityekavacanam tat tatra gṛhe tairdatte kūrca upaviśati yathāpurastāt upanayane ācāryaḥ 'rāṣṭrabhṛdasi'iti yajuṣā upaviśati tathā upaviśedityarthaḥ


3

2 राजस्थपत्योरुपवेशनमन्त्रः एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च आप्ग्स्_13.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.3: एवंराजा स्थपतिश्च यथा ब्राह्मणः स्नातकः कूर्चे उपविशति यथालिङ्गमाचार्यासन्दीति एवं राजा स्थपतिश्च पूज्य मानौ उत्तराभ्यांयजुर्भ्या यथालिङ्गमुपविशतः तत्र क्षत्रियो राष्ठ्राधिपतिरभिष्क्तो राज्याय साम्राज्यं तस्य लिङ्गम् स एव जनाधिपतिः स्थापत्त्यायाभिषिक्तःस्थपतिः आधिपत्यं तस्य लिङ्गम् उत्तराभ्यां राजा स्थपतिश्चेत्येव सिद्धे ऽएवंऽऽयथालिङ्गऽ; मित्युच्यते-यथा प्रथमस्य मन्त्रस्य लिङ्गात् विनियोगः एवमुत्तरयोरपि प्रज्ञापनार्थम् तेन प्रथमो मन्त्रो ब्राह्मणस्यैव भवति आचार्या सन्दीति लिङ्गात् ब्राह्मण आचार्यः स्मर्यत इतिचोक्तत्वात् तेन क्षत्रियवैश्ययोः तूष्णीमुपवेशनम् तत्रा"चार्यायर्त्विजे श्वशुराय राज्ञ"इति रज्ञो ऽपचितिः अधिपतेस्तु श्वशुरत्वेनापचितिः

2 rājasthapatyorupaveśanamantraḥ evamuttarābhyāṃ yathāliṅgaṃ rājā sthapatiśca āpgs_13.3 commentaries: āpgs-anā_13.3: evaṃrājā sthapatiśca yathā brāhmaṇaḥ snātakaḥ kūrce upaviśati yathāliṅgamācāryāsandīti evaṃ rājā sthapatiśca pūjya mānau uttarābhyāṃyajurbhyā yathāliṅgamupaviśataḥ tatra kṣatriyo rāṣṭhrādhipatirabhiṣkto rājyāya sāmrājyaṃ tasya liṅgam sa eva janādhipatiḥ sthāpattyāyābhiṣiktaḥsthapatiḥ ādhipatyaṃ tasya liṅgam uttarābhyāṃ rājā sthapatiścetyeva siddhe 'evaṃ''yathāliṅga'; mityucyate-yathā prathamasya mantrasya liṅgāt viniyogaḥ evamuttarayorapi prajñāpanārtham tena prathamo mantro brāhmaṇasyaiva bhavati ācāryā sandīti liṅgāt brāhmaṇa ācāryaḥ smaryata iticoktatvāt tena kṣatriyavaiśyayoḥ tūṣṇīmupaveśanam tatrā"cāryāyartvije śvaśurāya rājña"iti rajño 'pacitiḥ adhipatestu śvaśuratvenāpacitiḥ

Section (cont. 16)

3

आप्ग्स्-तात्_13.3: यथा ब्राह्मणः पूज्यो मन्त्रेणोपविष्टः,एवं राजा स्थपतिश्चोत्तराभ्यांयथालिङ्गं ऽराष्ट्रभृदसि सम्राडासन्दीऽइति राजा, ऽ; राष्ट्रभृदस्याधिपत्न्यासन्दीऽइति स्थपतिश्चोपविशेदित्यर्थः राजा च क्षत्रिय एव, न तु प्रजापालनकर्तान्यवर्णो ऽपि ननु क्षत्रिये राजशब्दप्रयोग आन्ध्राणां, भार्याणां तु प्रजापालनादिकर्र्तयेव, तत्कथं बलवदार्यप्रयोगबाधेन राजा क्षत्रिय एवेति?मैवम् आर्यवरस्य भगवतः पाणिनेः गणपाठे ऽराजासेऽइति विशेषस्मरणस्यान्ध्रप्रयोगमूलत्वमेव युक्तमिति अवेष्ट्यधिकरणे साधितत्वात् स्थपतिश्च महदाधिपत्यं प्राप्तो ऽन्यवर्णो ऽपि अन्ये-वैश्यः स्थपतिरिति केचित्तु-क्षत्रिय एव राज्याभिषिक्त इति

āpgs-tāt_13.3: yathā brāhmaṇaḥ pūjyo mantreṇopaviṣṭaḥ,evaṃ rājā sthapatiścottarābhyāṃyathāliṅgaṃ 'rāṣṭrabhṛdasi samrāḍāsandī'iti rājā, '; rāṣṭrabhṛdasyādhipatnyāsandī'iti sthapatiścopaviśedityarthaḥ rājā ca kṣatriya eva, na tu prajāpālanakartānyavarṇo 'pi nanu kṣatriye rājaśabdaprayoga āndhrāṇāṃ, bhāryāṇāṃ tu prajāpālanādikarrtayeva, tatkathaṃ balavadāryaprayogabādhena rājā kṣatriya eveti?maivam āryavarasya bhagavataḥ pāṇineḥ gaṇapāṭhe 'rājāse'iti viśeṣasmaraṇasyāndhraprayogamūlatvameva yuktamiti aveṣṭyadhikaraṇe sādhitatvāt sthapatiśca mahadādhipatyaṃ prāpto 'nyavarṇo 'pi anye-vaiśyaḥ sthapatiriti kecittu-kṣatriya eva rājyābhiṣikta iti


4

3 पद्यनिवेदनम् आपः पाद्या ऽइति प्राह आप्ग्स्_13.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.4: अथ मधुपर्कप्रदाता पादप्रक्षालनार्थ अप उपसंगृह्य ऽआपः पाद्याऽइति प्राह

3 padyanivedanam āpaḥ pādyā 'iti prāha āpgs_13.4 commentaries: āpgs-anā_13.4: atha madhuparkapradātā pādaprakṣālanārtha apa upasaṃgṛhya 'āpaḥ pādyā'iti prāha


4

आप्ग्स्-तात्_13.4: अथ अपचेता पादप्रक्षालनार्था अप उपसङ्गृह्य ऽआपः पाद्याःऽइति प्राह एतच्च सम्वादवचनं अनन्तरं यत्कर्तव्यं तत्कुर्वित्येवमर्थम् एवमेव प्रयोजनं ऽअर्हणीया आपःऽइत्यादिष्वपि

āpgs-tāt_13.4: atha apacetā pādaprakṣālanārthā apa upasaṅgṛhya 'āpaḥ pādyāḥ'iti prāha etacca samvādavacanaṃ anantaraṃ yatkartavyaṃ tatkurvityevamartham evameva prayojanaṃ 'arhaṇīyā āpaḥ'ityādiṣvapi


5

4 प्रक्षालयित्रे पादप्रसारणम् उत्तरयाभिमन्त्र्य दक्षिणं पादं ब्राह्मणाय प्रयच्छेत्सव्यं शूद्राय आप्ग्स्_13.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.5: अथ पूज्यमानस्ता अपः उत्तरयर्चा"आपः पादावनेजनी"रित्ये तयाभिमन्त्र्य प्रक्षालयित्रे ऽब्राह्मणाय दक्ष्णं पादं पूर्व प्रयच्छेत् प्रसारयेत् सव्यं शूद्रायक्षत्रियवैश्याभ्यामनियमः पुंलिङ्गस्याविवक्षितत्वात् स्त्रीष्वप्येवम् ऽस्त्री प्रक्षालयति पुमानभिषिञ्चति विपरीतमेकेऽ(बौगृ-1-2)इति कल्पान्तरम् पत्नीयजमानौ जङ्घे धावत इति यज्ञे विशेषः आपः पाद्या इति प्रकरणादेव सिद्धे पादग्रहणमुत्तरत्र पादप्रत्ययो माभूदित्येवमर्थम् तेन प्रक्षालयित्रुपस्पर्शन पादे न भवति

4 prakṣālayitre pādaprasāraṇam uttarayābhimantrya dakṣiṇaṃ pādaṃ brāhmaṇāya prayacchetsavyaṃ śūdrāya āpgs_13.5 commentaries: āpgs-anā_13.5: atha pūjyamānastā apaḥ uttarayarcā"āpaḥ pādāvanejanī"ritye tayābhimantrya prakṣālayitre 'brāhmaṇāya dakṣṇaṃ pādaṃ pūrva prayacchet prasārayet savyaṃ śūdrāyakṣatriyavaiśyābhyāmaniyamaḥ puṃliṅgasyāvivakṣitatvāt strīṣvapyevam 'strī prakṣālayati pumānabhiṣiñcati viparītameke'(baugṛ-1-2)iti kalpāntaram patnīyajamānau jaṅghe dhāvata iti yajñe viśeṣaḥ āpaḥ pādyā iti prakaraṇādeva siddhe pādagrahaṇamuttaratra pādapratyayo mābhūdityevamartham tena prakṣālayitrupasparśana pāde na bhavati


5

आप्ग्स्-तात्_13.5: अथ पूज्यस्ता अपः ऽआपः पादावनेजनीःऽइत्येतयाभिमन्त्र्य प्रथमंदक्षिणं पादं ब्राह्मणायप्रक्षालयित्रे प्रयच्छेत् शूद्राय तु पूर्व सव्यम् अत्र ब्राह्मणशूद्रावेव प्रक्षालयितारौ, न तु राजन्यवैश्यौ;तयोरनभिधानात् अन्ये तु-क्षत्रियवैश्याभ्यां अनियमेन पूर्व पादं प्रयच्छेदिति

āpgs-tāt_13.5: atha pūjyastā apaḥ 'āpaḥ pādāvanejanīḥ'ityetayābhimantrya prathamaṃdakṣiṇaṃ pādaṃ brāhmaṇāyaprakṣālayitre prayacchet śūdrāya tu pūrva savyam atra brāhmaṇaśūdrāveva prakṣālayitārau, na tu rājanyavaiśyau;tayoranabhidhānāt anye tu-kṣatriyavaiśyābhyāṃ aniyamena pūrva pādaṃ prayacchediti


6

5 प्रक्षालयितुरुपस्पर्श आत्माभिमर्शश्च प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽत्मानं प्रत्यभिमृशेत् आप्ग्स्_13.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.6: तथा स्वेन हस्तेनावनेक्तुः पाणी संस्पृशे (बौगृ-1-2)दिति कल्पान्तरम् उत्तरेण यजुषाऽमयि महःऽइत्यनेन प्रतीचीन मभिमर्शनम् तच्च हृदयदेशे भवति आत्मनः स्थानं हि तत्

5 prakṣālayiturupasparśa ātmābhimarśaśca prakṣālayitāramupaspṛśyottareṇa yajuṣā'tmānaṃ pratyabhimṛśet āpgs_13.6 commentaries: āpgs-anā_13.6: tathā svena hastenāvanektuḥ pāṇī saṃspṛśe (baugṛ-1-2)diti kalpāntaram uttareṇa yajuṣā'mayi mahaḥ'ityanena pratīcīna mabhimarśanam tacca hṛdayadeśe bhavati ātmanaḥ sthānaṃ hi tat


6

आप्ग्स्-तात्_13.6: ततः प्रक्षालितपादस्तं प्रक्षालयितारं पाणावुपस्पृश्य ऽमयि महःऽइति यजुषा आत्मानं हृदयदेशे प्रत्यभिमृशेत् प्रतिलोमेन पाणिना स्पृशेत् ततो ऽपामुपस्पर्शनम्

āpgs-tāt_13.6: tataḥ prakṣālitapādastaṃ prakṣālayitāraṃ pāṇāvupaspṛśya 'mayi mahaḥ'iti yajuṣā ātmānaṃ hṛdayadeśe pratyabhimṛśet pratilomena pāṇinā spṛśet tato 'pāmupasparśanam


7

6 अर्ध्यनिवेदनम् कूर्चाभ्यां परिगृह्य मृन्मयेनार् ऽहणीया आप ऽइति प्राह आप्ग्स्_13.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.7: ततः प्रदाता मृण्मये पात्रे उपनीता अपःकूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्य ऽअर्हणीया आपऽइति प्राह निवेदयति पुष्पाक्षतैस्संयुक्ता इति कल्पान्तरम्

6 ardhyanivedanam kūrcābhyāṃ parigṛhya mṛnmayenār 'haṇīyā āpa 'iti prāha āpgs_13.7 commentaries: āpgs-anā_13.7: tataḥ pradātā mṛṇmaye pātre upanītā apaḥkūrcābhyāmadhastādupariṣṭācca parigṛhya 'arhaṇīyā āpa'iti prāha nivedayati puṣpākṣataissaṃyuktā iti kalpāntaram


7

आप्ग्स्-तात्_13.7: अथार्हयिता मृन्मये पात्र अर्हणार्थाः पुष्पाक्षतसंयुक्ताः अप आनीय, कूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्य ऽअर्हणीया आपःऽइति प्राह

āpgs-tāt_13.7: athārhayitā mṛnmaye pātra arhaṇārthāḥ puṣpākṣatasaṃyuktāḥ apa ānīya, kūrcābhyāmadhastādupariṣṭācca parigṛhya 'arhaṇīyā āpaḥ'iti prāha


8

7 तदेकदेशस्य पूज्याञ्जलावानयम् उत्तरयाभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् आप्ग्स्_13.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.8: अर्हणीया अपः निवेदिताउत्तरयाऽआमागऽन्नित्येतया अभिमन्त्रयते पूज्यमानस्ततो ऽञ्जलिं कृत्वा हस्तेन ततस्तस्याञ्जलौ एतासामेकदेशमानयति प्रदाता तस्मिन्नानीयमाने उत्तरं यजुःऽविराजो दोहो ऽसीऽत्येतत्जपेत्पूज्यमानः

7 tadekadeśasya pūjyāñjalāvānayam uttarayābhimantryāñjalāvekadeśa ānīyamāna uttaraṃ yajurjapet āpgs_13.8 commentaries: āpgs-anā_13.8: arhaṇīyā apaḥ niveditāuttarayā'āmāga'nnityetayā abhimantrayate pūjyamānastato 'ñjaliṃ kṛtvā hastena tatastasyāñjalau etāsāmekadeśamānayati pradātā tasminnānīyamāne uttaraṃ yajuḥ'virājo doho 'sī'tyetatjapetpūjyamānaḥ


8

आप्ग्स्-तात्_13.8: अथ पूज्यस्ता अपः ऽआमागनऽइत्येतयाभिमन्त्र्य तासामेकदेशे स्तोके स्वाञ्जलौ दात्राआनीयमानेऽविराजो दोहीऽसिऽइति यजुर्जपेत्

āpgs-tāt_13.8: atha pūjyastā apaḥ 'āmāgan'ityetayābhimantrya tāsāmekadeśe stoke svāñjalau dātrāānīyamāne'virājo dohī'si'iti yajurjapet


9

शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते आप्ग्स्_13.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.9: अथ तासामपां शेषं पृर्वस्यां दिशि नयति प्रदाता तत् नीयमानंउत्तरयर्चाऽ समुद्रं वऽइत्येतयाभिमन्त्रयते पूज्यमानः मानः एतस्मिन्काले वस्त्रयुगलं कुण्डलयुगं गां स्रजं यच्चान्यदलङ्करणार्थ तत्सर्व दद्यात् भोजनान्त इत्यन्ये तत्सर्वमपचिति-शब्देन चोदितं द्रष्टव्यम्

śeṣaṃ purastānninīyamānamuttarayānumantrayate āpgs_13.9 commentaries: āpgs-anā_13.9: atha tāsāmapāṃ śeṣaṃ pṛrvasyāṃ diśi nayati pradātā tat nīyamānaṃuttarayarcā' samudraṃ va'ityetayābhimantrayate pūjyamānaḥ mānaḥ etasminkāle vastrayugalaṃ kuṇḍalayugaṃ gāṃ srajaṃ yaccānyadalaṅkaraṇārtha tatsarva dadyāt bhojanānta ityanye tatsarvamapaciti-śabdena coditaṃ draṣṭavyam


9

आप्ग्स्-तात्_13.9: अथ तासां शेषं दात्रा पुरस्तात् नीयमानं पूज्यः ऽसमुद्रं वःऽइत्येतया अनुमन्त्रयते केचित्-अस्मिन् काले भोजनान्ते वा पूज्याय वस्त्रकुण्डलयुगाद्यालङ्करणं दातव्यम्;अन्यथायं पूजित एव न भवति एतच्चाप- चिति शब्देनास्माकमपि चेदितमेवेति

āpgs-tāt_13.9: atha tāsāṃ śeṣaṃ dātrā purastāt nīyamānaṃ pūjyaḥ 'samudraṃ vaḥ'ityetayā anumantrayate kecit-asmin kāle bhojanānte vā pūjyāya vastrakuṇḍalayugādyālaṅkaraṇaṃ dātavyam;anyathāyaṃ pūjita eva na bhavati etaccāpa- citi śabdenāsmākamapi ceditameveti


10

8 मधुपर्कदानम् दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य ऽमधुपर्क ऽइति प्राह आप्ग्स्_13.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.10: वर्षीयसा बृहता कांस्येन पात्रेण मधुपर्क प्राह कांस्येन वर्षीयसा पिधायेत्येवमपि सम्बन्धः तेनोभयोः पात्रयोः कांम्य नियमः सिद्धो भवति इतिशब्दः प्रकारे-दधि मध्विति वा पयो मध्विति वेति

8 madhuparkadānam dadhi madhviti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya 'madhuparka 'iti prāha āpgs_13.10 commentaries: āpgs-anā_13.10: varṣīyasā bṛhatā kāṃsyena pātreṇa madhuparka prāha kāṃsyena varṣīyasā pidhāyetyevamapi sambandhaḥ tenobhayoḥ pātrayoḥ kāṃmya niyamaḥ siddho bhavati itiśabdaḥ prakāre-dadhi madhviti vā payo madhviti veti


10

आप्ग्स्-तात्_13.10: दधि मध्वित्येतद्द्वयं नियमविधानात् कस्मिश्चित्पात्रे संसृज्य, ततो वर्षीयसा बृहता कांस्येन पात्रेण पिधाय शेषं व्यक्तम् अन्ये तु अपिधानं कांस्यं प्रदर्शनार्थम्, तेनेतरदपि कांस्यमेवेति

āpgs-tāt_13.10: dadhi madhvityetaddvayaṃ niyamavidhānāt kasmiścitpātre saṃsṛjya, tato varṣīyasā bṛhatā kāṃsyena pātreṇa pidhāya śeṣaṃ vyaktam anye tu apidhānaṃ kāṃsyaṃ pradarśanārtham, tenetaradapi kāṃsyameveti


11

9 मधुपर्कद्रव्याणि त्रिवृतमेके घृतं च आप्ग्स्_13.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.11: त्रयाणां द्रव्याणां समुदायःत्रिवृत् पूर्वोक्ते द्वे दधि मध्विति वा पयो मध्विति वा,घृतञ्च तृतीयम्

9 madhuparkadravyāṇi trivṛtameke ghṛtaṃ ca āpgs_13.11 commentaries: āpgs-anā_13.11: trayāṇāṃ dravyāṇāṃ samudāyaḥtrivṛt pūrvokte dve dadhi madhviti vā payo madhviti vā,ghṛtañca tṛtīyam


11

आप्ग्स्-तात्_13.11: त्रयाणां द्रव्याणां समाहारस्त्रिवृच्छब्देनोच्यते तस्मिन् पक्षे पूर्वोक्ते दधिमधुनी घृतं च संसर्जनीयानि

āpgs-tāt_13.11: trayāṇāṃ dravyāṇāṃ samāhārastrivṛcchabdenocyate tasmin pakṣe pūrvokte dadhimadhunī ghṛtaṃ ca saṃsarjanīyāni


12

पाङ्क्तमेके धानास्सक्तूंश्च आप्ग्स्_13.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.12: पञ्चानां द्रव्याणां समुदायःपाङ्क्तम् दधि मधु घृतं धानास्सक्तवः इति

pāṅktameke dhānāssaktūṃśca āpgs_13.12 commentaries: āpgs-anā_13.12: pañcānāṃ dravyāṇāṃ samudāyaḥpāṅktam dadhi madhu ghṛtaṃ dhānāssaktavaḥ iti


12

आप्ग्स्-तात्_13.12: इहापि पञ्चानां समुदायः पाङ्क्तः शेषं पूर्ववत्

āpgs-tāt_13.12: ihāpi pañcānāṃ samudāyaḥ pāṅktaḥ śeṣaṃ pūrvavat


13

10 मधुपर्कप्राशनम् उत्तराभ्यामभिन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् आप्ग्स्_13.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.13: अथ तं मधुपर्कमुत्तराभ्यामृग्भ्यां ऽत्रय्यै विद्यायै, ऽआमागन्निऽत्येताभ्यामभिमन्त्र्य पूज्यमानः प्रतिगृह्णाति पाद्यादीनाम्- अभिमन्त्र्य प्रतिग्रहदर्शनात् मधुपर्कस्याभिमन्त्र्य प्रतिग्रहः, न प्रतिगृह्याभिमन्त्रणम् ततस्तं ऽयन्मधुनऽइत्येतया त्रिः प्राश्नाति सकृन्मन्त्रेण द्विस्तूष्णीम् ततः प्राशनस्य पुरस्तादुपरिष्टाच्च यजुर्भ्यामनन्तरपठिताभ्या"ममृतोपस्तरणमस्यमृतोपिधानमसीऽत्येताभ्यां यथाक्रमं अप आचामति तत्र प्रयोगः अमृतोपस्तरणसीत्युपस्तरणीया अप आचम्य मधुपर्क मन्त्रेण प्राश्याचम्य एवं द्विस्तूष्णीं प्राश्यापिधानीया अप आचामति पश्चात् शौचार्थमाचमनम् शेषं मधुपर्कप्राशनशेषंअनुकम्प्यायअनुग्राह्याय पुत्राय भ्रात्रे वा समावृत्तायैव प्रयच्छेत् सो ऽपि तं प्राश्नाति सोमभक्षणे मधुपर्कप्राशने भोजने च मध्ये नोच्छिष्टतेति शिष्टाः स्मरन्ति

10 madhuparkaprāśanam uttarābhyāmabhintrya yajurbhyāmapa ācāmati purastādupariṣṭāccottarayā triḥ prāśyānukampyāya prayacchet āpgs_13.13 commentaries: āpgs-anā_13.13: atha taṃ madhuparkamuttarābhyāmṛgbhyāṃ 'trayyai vidyāyai, 'āmāganni'tyetābhyāmabhimantrya pūjyamānaḥ pratigṛhṇāti pādyādīnām- abhimantrya pratigrahadarśanāt madhuparkasyābhimantrya pratigrahaḥ, na pratigṛhyābhimantraṇam tatastaṃ 'yanmadhuna'ityetayā triḥ prāśnāti sakṛnmantreṇa dvistūṣṇīm tataḥ prāśanasya purastādupariṣṭācca yajurbhyāmanantarapaṭhitābhyā"mamṛtopastaraṇamasyamṛtopidhānamasī'tyetābhyāṃ yathākramaṃ apa ācāmati tatra prayogaḥ amṛtopastaraṇasītyupastaraṇīyā apa ācamya madhuparka mantreṇa prāśyācamya evaṃ dvistūṣṇīṃ prāśyāpidhānīyā apa ācāmati paścāt śaucārthamācamanam śeṣaṃ madhuparkaprāśanaśeṣaṃanukampyāyaanugrāhyāya putrāya bhrātre vā samāvṛttāyaiva prayacchet so 'pi taṃ prāśnāti somabhakṣaṇe madhuparkaprāśane bhojane ca madhye nocchiṣṭateti śiṣṭāḥ smaranti


13

आप्ग्स्-तात्_13.13: अथ पूज्यस्तं मधुपर्क प्रतिगृह्यापिधानपात्रमपनीय ऽत्रय्यै विद्यायैऽऽआमागन् यशशाऽइति द्वाभ्यामभिम्नत्र्य ऽअमृतोपस्तर-णमसिऽ; इति यजुषापुरस्तात्प्राशनादपः पिबति तत आचम्य ऽयन्मधुनो मधव्यमऽइत्यनया त्रिः प्राश्नाति द्विस्तूष्णीम् ततः ऽअमृतापिधानमसिऽ; इति यजुषाउपरिष्टादप्यपःपिबेत् अताचम्य शेषमनुकम्प्याय अनुग्राह्याय पुत्राशिष्यादये समावृत्तायैव प्राशितुंप्रयच्छेत्; न तु ब्रह्मचारिणे, ऽन चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यातऽ(आपध.1-4-5) इति निषेधात् नन्विह मध्ये शुद्ध्यर्थमुपस्तरणानन्तरमाचमनं न कर्तव्यम्;अस्माकं वचनाभावात् न्यायते ऽपि नैव;भोजनवदपिधानान्तमेक- कर्मत्वात् अपरथा भोजमे ऽपि प्रतिग्रासमाचमनं प्रसज्येत अथ सर्वदेशकालकर्तृव्याप्ताचारबलात्तत्कर्तव्यमिति चेत्, न;अयमाचार उक्तलक्षणो न वेत्यर्वाचीनानां दुर्निश्चेयत्वात् अत्रोच्यते-नायमाक्षेपः बोधायनादिगृह्येषूपस्तरणानन्तरमाचमनविधिदर्शनेनास्माकमप्याचारः सर्वदेशादिव्यापीति निश्चेतुं सुशकत्वात् उक्तं चैतत्"अथ कर्माण्याचाराद्यानिऽ(अपगृ.1-1) इत्यत्र गार्ह्यअणीति स्वशब्दं विहाय, आचारादित्युपलक्षणतो व्याख्येयगार्ह्यकर्मनिर्देशात्, गृह्यान्तराद्युपदिष्टविषयो ऽप्यस्मदीयानामाचारो वेदमूल एवेति भोजने तु न प्रतिग्रासमाचमनप्रसक्तिः;क्वचिदपि वचनाभावात्, आचाराभावाच्च सोमपाने पुनः ऽन सोमेनोच्छिष्टा भवन्तिऽइति वचनादन्ते ऽपि नैवाचमनम् अपि चैतदाचमनम् शिकाबन्धनादिवत् कर्तुः संस्कारकम्, सन्निपाति च अनुक्तमप्यपेक्षितमन्यतो ग्राह्यमिति न्यायविदः तस्मादिहोपस्तरणानन्तमाचमनं कार्यमेव केचित्-बौधायनादिभिरुपस्तरणापिधानयोस्तदर्थानां चापां निवेदनस्य पृथगुपदेशात् उपस्तरणादूर्ध्वमाचमनविधानाच्च उपस्तरणादेः बहिरङ्गत्वेन कर्मान्तरत्वावगतेर्युक्तं तेषां प्राशनात्त्प्रागप्याचमनम् अस्माकं तु तथाविधोपदेशाभावात्, अन्तरङ्गत्वेन उपस्तरणाद्य- पिधानान्तं भोजनवदेकं कर्मेति मध्ये सुद्ध्यर्थमाचमनं न युक्तमिति मैवम्;यतो ऽस्माकमपि ऽयजुर्भ्यामप आआचामतिऽइति शब्दान्तरेणाचमनयोः पृथगोवोपदेशः अस्मादेव पृथगुपदेशात्तदर्थानामपामावेदनं चाक्षेप्यम् अतो ऽस्माकं तेषां चोपदेशे वैषम्य- भावात्तुल्ययोगक्षेममेवाचमनम्

āpgs-tāt_13.13: atha pūjyastaṃ madhuparka pratigṛhyāpidhānapātramapanīya 'trayyai vidyāyai''āmāgan yaśaśā'iti dvābhyāmabhimnatrya 'amṛtopastara-ṇamasi'; iti yajuṣāpurastātprāśanādapaḥ pibati tata ācamya 'yanmadhuno madhavyam'ityanayā triḥ prāśnāti dvistūṣṇīm tataḥ 'amṛtāpidhānamasi'; iti yajuṣāupariṣṭādapyapaḥpibet atācamya śeṣamanukampyāya anugrāhyāya putrāśiṣyādaye samāvṛttāyaiva prāśituṃprayacchet; na tu brahmacāriṇe, 'na cāsmai śrutivipratiṣiddhamucchiṣṭaṃ dadyāt'(āpadha.1-4-5) iti niṣedhāt nanviha madhye śuddhyarthamupastaraṇānantaramācamanaṃ na kartavyam;asmākaṃ vacanābhāvāt nyāyate 'pi naiva;bhojanavadapidhānāntameka- karmatvāt aparathā bhojame 'pi pratigrāsamācamanaṃ prasajyeta atha sarvadeśakālakartṛvyāptācārabalāttatkartavyamiti cet, na;ayamācāra uktalakṣaṇo na vetyarvācīnānāṃ durniśceyatvāt atrocyate-nāyamākṣepaḥ bodhāyanādigṛhyeṣūpastaraṇānantaramācamanavidhidarśanenāsmākamapyācāraḥ sarvadeśādivyāpīti niścetuṃ suśakatvāt uktaṃ caitat"atha karmāṇyācārādyāni'(apagṛ.1-1) ityatra gārhyaaṇīti svaśabdaṃ vihāya, ācārādityupalakṣaṇato vyākhyeyagārhyakarmanirdeśāt, gṛhyāntarādyupadiṣṭaviṣayo 'pyasmadīyānāmācāro vedamūla eveti bhojane tu na pratigrāsamācamanaprasaktiḥ;kvacidapi vacanābhāvāt, ācārābhāvācca somapāne punaḥ 'na somenocchiṣṭā bhavanti'iti vacanādante 'pi naivācamanam api caitadācamanam śikābandhanādivat kartuḥ saṃskārakam, sannipāti ca anuktamapyapekṣitamanyato grāhyamiti nyāyavidaḥ tasmādihopastaraṇānantamācamanaṃ kāryameva kecit-baudhāyanādibhirupastaraṇāpidhānayostadarthānāṃ cāpāṃ nivedanasya pṛthagupadeśāt upastaraṇādūrdhvamācamanavidhānācca upastaraṇādeḥ bahiraṅgatvena karmāntaratvāvagateryuktaṃ teṣāṃ prāśanāttprāgapyācamanam asmākaṃ tu tathāvidhopadeśābhāvāt, antaraṅgatvena upastaraṇādya- pidhānāntaṃ bhojanavadekaṃ karmeti madhye suddhyarthamācamanaṃ na yuktamiti maivam;yato 'smākamapi 'yajurbhyāmapa āācāmati'iti śabdāntareṇācamanayoḥ pṛthagovopadeśaḥ asmādeva pṛthagupadeśāttadarthānāmapāmāvedanaṃ cākṣepyam ato 'smākaṃ teṣāṃ copadeśe vaiṣamya- bhāvāttulyayogakṣemamevācamanam


14

11 मधुपर्कप्रतिग्रहीता राजा स्थपतिर्वा चेत् तेन तस्य पुरोहिताय दानम् प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय आप्ग्स्_13.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.14: एवकारात् प्राशनमकृत्वा पुरोहिताय प्रदानम् स विधिवत् प्राश्नाति

11 madhuparkapratigrahītā rājā sthapatirvā cet tena tasya purohitāya dānam pratigṛhyaiva rājā sthapatirvā purohitāya āpgs_13.14 commentaries: āpgs-anā_13.14: evakārāt prāśanamakṛtvā purohitāya pradānam sa vidhivat prāśnāti


14

आप्ग्स्-तात्_13.14: राजा स्थपतिश्चमधुपर्कप्रतिगृह्यैव पुरोहिताय प्रयच्छेत् एवकारादभिमन्त्रणमकृत्वा अभिमन्त्रणादि तु प्रशनान्तं पुरोहितस्यैव प्राशनान्तं पुरोहितस्यैव पुनश्चोत्तरं कर्म राजादेरेव

āpgs-tāt_13.14: rājā sthapatiścamadhuparkapratigṛhyaiva purohitāya prayacchet evakārādabhimantraṇamakṛtvā abhimantraṇādi tu praśanāntaṃ purohitasyaiva prāśanāntaṃ purohitasyaiva punaścottaraṃ karma rājādereva


15

12 गोनिवेदनम् गौरिति गां प्राह आप्ग्स्_13.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.15: अथाचाम्योपविष्टाय गां निवेदयते-गौरिति स्त्री च गौर्भवति, गौर्धनुभव्येति दर्शनात् यद्वा पुमानपि भवति श्रूयतोहि -"तद्यथैवादो मनुष्यराज आगते ऽन्यस्मिन् वारऽहति उक्षाणं वेहतं वा क्षदन्ते"इति (ऐब्रा.1-3-4) एवमर्थमेवात्र गामित्युक्तं गोजातिमात्रस्य न्वेदनं यथा स्यात् . अन्यथा गौरिति प्रहेत्येतावता सिद्धं यथा पाद्यदिषु

12 gonivedanam gauriti gāṃ prāha āpgs_13.15 commentaries: āpgs-anā_13.15: athācāmyopaviṣṭāya gāṃ nivedayate-gauriti strī ca gaurbhavati, gaurdhanubhavyeti darśanāt yadvā pumānapi bhavati śrūyatohi -"tadyathaivādo manuṣyarāja āgate 'nyasmin vār'hati ukṣāṇaṃ vehataṃ vā kṣadante"iti (aibrā.1-3-4) evamarthamevātra gāmityuktaṃ gojātimātrasya nvedanaṃ yathā syāt . anyathā gauriti prahetyetāvatā siddhaṃ yathā pādyadiṣu


15

आप्ग्स्-तात्_13.15: प्राशने कृते दाता ऽगौःऽइति गां प्राहकथयति गैश्च स्त्री, ऽगौर्धेनुभव्याऽइति स्त्रीलिङ्गनिर्देशात् एतच्च कथनं, किमियं गौस्संज्ञप्यतामुत्सृज्यतां वा?इति पूज्याभिप्रायनिश्चयार्थम् स च स्वाभिप्रायं दीतुर्ब्रूयात्

āpgs-tāt_13.15: prāśane kṛte dātā 'gauḥ'iti gāṃ prāhakathayati gaiśca strī, 'gaurdhenubhavyā'iti strīliṅganirdeśāt etacca kathanaṃ, kimiyaṃ gaussaṃjñapyatāmutsṛjyatāṃ vā?iti pūjyābhiprāyaniścayārtham sa ca svābhiprāyaṃ dīturbrūyāt


16

13 गोर्वपां श्रपयित्वा तस्याः पलाशपर्णेन होमः उत्तरयाभिमन्त्र्य तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति आप्ग्स्_13.16 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.16: अनुजानीयदित्यध्याहारः कल्पान्तरे तथा दर्शनात् ओंकुरुत्ति कारयिष्यन् अनुजानीयादिति प्रोक्तायां गवि तांउत्तरया ऽगौरस्यपहतपाप्मेऽत्येतया पूज्यमानो ऽभिमन्त्र्य यद्यस्य आलम्भनमिच्छन् अनुजानीयात् यद्यप्येक एवार्र्धचस्समाम्नायते तथापि स्त्रीलिङ्गनिर्देशादृगेवैषागायत्री तत्रामुष्येत्यस्य स्थाने प्रदातुर्नामनिर्देशः मम च यज्ञशर्मणश्चेति

13 gorvapāṃ śrapayitvā tasyāḥ palāśaparṇena homaḥ uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti āpgs_13.16 commentaries: āpgs-anā_13.16: anujānīyadityadhyāhāraḥ kalpāntare tathā darśanāt oṃkurutti kārayiṣyan anujānīyāditi proktāyāṃ gavi tāṃuttarayā 'gaurasyapahatapāpme'tyetayā pūjyamāno 'bhimantrya yadyasya ālambhanamicchan anujānīyāt yadyapyeka evārrdhacassamāmnāyate tathāpi strīliṅganirdeśādṛgevaiṣāgāyatrī tatrāmuṣyetyasya sthāne pradāturnāmanirdeśaḥ mama ca yajñaśarmaṇaśceti


17

ततः प्रदाता तेनासम्भने ऽनुज्ञाते लौकिक्याऽवृता तस्या गोरालम्भं कृत्वा वपामुत्खिद्य वपाश्रपणीभ्यां परिगृह्य औपासने पचने वा श्रपयित्वा तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरयर्चा ऽ ग्निः प्राश्नात्विऽत्येतया तस्मिन्नेवाग्नौ जुहोति उपस्तीर्याभिघारितामितिउपस्तरणाभिघारणे कृत्वेत्यर्थः हुत्वा ततो मांसं संस्कृत्यान्नेन सह तस्मा उपहरन्ति ऽअविकृतमातिथ्यऽमिति वचनात् उपस्तरणाभिघारणयोरप्रसङ्गे वचनम् पलाशपर्णेनेत्येव सिद्धे मध्यमेनान्तमेनेतिवचनं द्विपर्णस्य पलाशवृन्तस्य पर्णेन होमो मा भूदिति अभावविकल्पार्थ वा पूर्व मध्यमेन तदभावे अन्तमेनेति

tataḥ pradātā tenāsambhane 'nujñāte laukikyā'vṛtā tasyā gorālambhaṃ kṛtvā vapāmutkhidya vapāśrapaṇībhyāṃ parigṛhya aupāsane pacane vā śrapayitvā tāmupastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayarcā ' gniḥ prāśnātvi'tyetayā tasminnevāgnau juhoti upastīryābhighāritāmitiupastaraṇābhighāraṇe kṛtvetyarthaḥ hutvā tato māṃsaṃ saṃskṛtyānnena saha tasmā upaharanti 'avikṛtamātithya'miti vacanāt upastaraṇābhighāraṇayoraprasaṅge vacanam palāśaparṇenetyeva siddhe madhyamenāntamenetivacanaṃ dviparṇasya palāśavṛntasya parṇena homo mā bhūditi abhāvavikalpārtha vā pūrva madhyamena tadabhāve antameneti


16

आप्ग्स्-तात्_13.16: यदि प्रतिहीता संज्ञपनमिच्छेत्, तदा ऽगौरस्यपहतपाप्माऽइत्येतयानवसानया गामभिमन्त्रयते अमुष्येत्यस्य स्थाने चार्हयितुर्नाम विष्णुशर्मण इति गृह्णाति ततस्सुकमासीत दातुरेव वपाहोमान्तं कर्म अभिमन्त्र्येति च क्तवाप्रत्ययः क्रियाविधान मात्रार्थ एव, न तु समानकर्तृकत्वार्थः तसायैतस्याः संज्ञपनं कृत्वा, वपामुत्थिद्य,श्रपयित्वा, मध्यमेनान्तमेन वा पलाशपर्णेन लौकिकेनाज्येनोपस्तीर्य कृत्स्नां वपां सकृदेवावदायाभिघार्य ऽअग्निः प्राशनातुऽइत्येतया तेन पर्णेन स्वागेनौ जुहोति तत्र च मध्यमेनान्तमेन वेति वचनं द्विपर्णप्रतिषेधार्थमभावविकल्पार्थ वा शिष्टैश्चावदानैस्संस्कृतैस्सहान्नं भोजयेत् अयं च संज्ञपनपक्षः कलियुगानाचारेषु पठितत्वादिदानीं त्याज्य एव

āpgs-tāt_13.16: yadi pratihītā saṃjñapanamicchet, tadā 'gaurasyapahatapāpmā'ityetayānavasānayā gāmabhimantrayate amuṣyetyasya sthāne cārhayiturnāma viṣṇuśarmaṇa iti gṛhṇāti tatassukamāsīta dātureva vapāhomāntaṃ karma abhimantryeti ca ktavāpratyayaḥ kriyāvidhāna mātrārtha eva, na tu samānakartṛkatvārthaḥ tasāyaitasyāḥ saṃjñapanaṃ kṛtvā, vapāmutthidya,śrapayitvā, madhyamenāntamena vā palāśaparṇena laukikenājyenopastīrya kṛtsnāṃ vapāṃ sakṛdevāvadāyābhighārya 'agniḥ prāśanātu'ityetayā tena parṇena svāgenau juhoti tatra ca madhyamenāntamena veti vacanaṃ dviparṇapratiṣedhārthamabhāvavikalpārtha vā śiṣṭaiścāvadānaissaṃskṛtaissahānnaṃ bhojayet ayaṃ ca saṃjñapanapakṣaḥ kaliyugānācāreṣu paṭhitatvādidānīṃ tyājya eva


18

14 गोरुत्सर्गपक्षे कर्तव्यः प्रकारः यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजते त्युच्चैः आप्ग्स्_13.17 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.17: अथ यदि गामुत्सृजत्ययं पूज्यमानः स गौरिति प्रोक्ते मन्त्रान् उत्तरांश्चतुरो ऽयज्ञे वर्धताऽमित्युपांशु जपति जपित्वा ऽओमुत्सृजतेऽत्युच्चैःप्रसौति प्रदाता च तामुत्त्सृज्यान्यत् मांसं कल्पयति, ऽनामांसो मधुपर्को भवतीऽ(आश्वगृ.19-28) तु कल्पान्तरात् तत्र पुङ्गवालम्भे गौर्धनुभव्यामातारुद्राणामेतयोर्लोपः लिङ्गविरोदात्, नेत्यन्ये जपत्वादेव सिद्धे उपांशुवचनं नियमार्थम्-उत्तरे चत्वार एव मन्त्राः उपांशु वक्ततव्याः न प्रणव इति शास्त्रान्तरदर्शनात् प्रसङ्गः प्रणवद्युच्चैः, ऊर्द्व वा प्रणवात् इति तेन ब्रह्मणः एवैष विकल्पः सिद्धो भवति इहप्रसवांविध्रभावे ऽपि उत्यैरिति वचनादेव प्रसौतिर्द्रष्टव्यः

14 gorutsargapakṣe kartavyaḥ prakāraḥ yadyutsṛjedupāṃśūttarāṃ japitvomutsṛjate tyuccaiḥ āpgs_13.17 commentaries: āpgs-anā_13.17: atha yadi gāmutsṛjatyayaṃ pūjyamānaḥ sa gauriti prokte mantrān uttarāṃścaturo 'yajñe vardhatā'mityupāṃśu japati japitvā 'omutsṛjate'tyuccaiḥprasauti pradātā ca tāmuttsṛjyānyat māṃsaṃ kalpayati, 'nāmāṃso madhuparko bhavatī'(āśvagṛ.19-28) tu kalpāntarāt tatra puṅgavālambhe gaurdhanubhavyāmātārudrāṇāmetayorlopaḥ liṅgavirodāt, netyanye japatvādeva siddhe upāṃśuvacanaṃ niyamārtham-uttare catvāra eva mantrāḥ upāṃśu vaktatavyāḥ na praṇava iti śāstrāntaradarśanāt prasaṅgaḥ praṇavadyuccaiḥ, ūrdva vā praṇavāt iti tena brahmaṇaḥ evaiṣa vikalpaḥ siddho bhavati ihaprasavāṃvidhrabhāve 'pi utyairiti vacanādeva prasautirdraṣṭavyaḥ


17

आप्ग्स्-तात्_13.17: यदि पूजेयो गामुत्सृज्यमानामिच्छेत् अयं च कामप्रवेदने लिङ् तदोत्तरान् त्रीन् मन्त्रान् ऽयज्ञो वर्धतामऽइत्यादिकानुपांशु जपित्वा ऽ ओमुत्सृजतऽ इत्युच्चैःप्रब्रूयादिति शेषः केचित्-यज्ञ इत्यादिकाश्चत्वारो मन्त्रा इति इयं च गौरुत्सर्जनपक्षे ऽपि भोक्तुरेव

āpgs-tāt_13.17: yadi pūjeyo gāmutsṛjyamānāmicchet ayaṃ ca kāmapravedane liṅ tadottarān trīn mantrān 'yajño vardhatām'ityādikānupāṃśu japitvā ' omutsṛjata' ityuccaiḥprabrūyāditi śeṣaḥ kecit-yajña ityādikāścatvāro mantrā iti iyaṃ ca gaurutsarjanapakṣe 'pi bhoktureva


19

15 अन्ननिवेदनम् अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ओं कल्पयते त्युच्चैः आप्ग्स्_13.18 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.18: अथान्नं सामिषं समाहृत्य तस्मे प्राह-भूतमिति सिद्धे ऽन्ने भूतमिति प्राह (बौगृ-2-55) इति कल्पान्तरम् अस्माकं च वैश्वदेवे तस्मात् भूतमित्येव निवेदनम् तदन्नं पेरोक्तमुत्तरैः पञ्चभिर्मन्त्रैर्भूतमित्यादिभिः भोक्तोपांश्वभिमन्त्र्य ओंकल्पयतेत्युच्चैः प्रसौति प्रसूताः परिवेष्टारः परिवेषन्ति चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेति ब्रूयेत्तोषु भुक्तवात्स्वन्नमस्मा उपाहरन्तीति (बौगृ.1-2) कल्पान्तरम्

15 annanivedanam annaṃ proktamupāṃśūttarairabhimantrya oṃ kalpayate tyuccaiḥ āpgs_13.18 commentaries: āpgs-anā_13.18: athānnaṃ sāmiṣaṃ samāhṛtya tasme prāha-bhūtamiti siddhe 'nne bhūtamiti prāha (baugṛ-2-55) iti kalpāntaram asmākaṃ ca vaiśvadeve tasmāt bhūtamityeva nivedanam tadannaṃ peroktamuttaraiḥ pañcabhirmantrairbhūtamityādibhiḥ bhoktopāṃśvabhimantrya oṃkalpayatetyuccaiḥ prasauti prasūtāḥ pariveṣṭāraḥ pariveṣanti caturo nānāgotrān brāhmaṇān bhojayateti brūyettoṣu bhuktavātsvannamasmā upāharantīti (baugṛ.1-2) kalpāntaram


18

आप्ग्स्-तात्_13.18: अथ दाता सिद्धमन्नं ऽभूतंऽइति मन्त्रेण पूज्याय प्रब्रूयान्निवेदेत् कुत एतत् ?ऽसिज्झे ऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयातऽ; (आपध.2-3-10) इति वैश्वदेवे दर्शनात् मधुपर्कप्रकरण एव ऽसिद्धेन्ने तिष्ठन् भूतमिति प्राहऽइति कल्पान्तराच्च एवं प्रोक्तमन्नं भोक्ता उत्तरैर्मन्त्रैः ऽसुभूतमऽइत्यादिभिः पञ्चभिरुपांश्वभिमन्त्र्य,ओं कल्पयतेत्युच्चैः अत्राप्यनुजानीयांदिति शेष- ततो भोजनं ;अन्ननिवेदनस्य दृष्टार्थत्वात्, आचाराच्च

āpgs-tāt_13.18: atha dātā siddhamannaṃ 'bhūtaṃ'iti mantreṇa pūjyāya prabrūyānnivedet kuta etat ?'sijjhe 'nne tiṣṭhan bhūtamiti svāmine prabrūyāt'; (āpadha.2-3-10) iti vaiśvadeve darśanāt madhuparkaprakaraṇa eva 'siddhenne tiṣṭhan bhūtamiti prāha'iti kalpāntarācca evaṃ proktamannaṃ bhoktā uttarairmantraiḥ 'subhūtam'ityādibhiḥ pañcabhirupāṃśvabhimantrya,oṃ kalpayatetyuccaiḥ atrāpyanujānīyāṃditi śeṣa- tato bhojanaṃ ;annanivedanasya dṛṣṭārthatvāt, ācārācca


20

16 मधुपर्करहअः आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् आप्ग्स्_13.19 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.19: आचार्यादयः प्रसिद्धाः तेभ्यश्चतुर्भ्यः परिसंवत्सरं विप्रेष्योपतिष्ठद्भ्यः गृहमातिश्येनागतेभ्यः एतदपचित्कर्म कूर्चादि भोजनान्तं कर्तव्यम् केन?गृहस्थेन निवेशे हि वृत्ते नैयमिकानि?श्रूयन्ते अग्निहोत्रमतिथयः इति वचनात् अत्र केचिदाहुः- आचार्यायर्त्विजे श्वशुराय राज्ञ इत्येतत् कार्यम् इत्येको योगः अथ परिसंवत्सरादुपतिष्ठद्भ्यश्चायं कार्यः इति तेन विवाहाद- नन्तरं आचार्यश्वशुराभ्यां निमन्त्र्यापचितिः कर्तव्या ऋत्विजे च कर्मणि, राज्ञे चाभिषेकानन्तरम् अथ तेभ्य एव संवत्सरं विप्रो ष्योपगतेभ्यश्च कर्तव्यमिति

16 madhuparkarahaaḥ ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhya etatkāryam āpgs_13.19 commentaries: āpgs-anā_13.19: ācāryādayaḥ prasiddhāḥ tebhyaścaturbhyaḥ parisaṃvatsaraṃ vipreṣyopatiṣṭhadbhyaḥ gṛhamātiśyenāgatebhyaḥ etadapacitkarma kūrcādi bhojanāntaṃ kartavyam kena?gṛhasthena niveśe hi vṛtte naiyamikāni?śrūyante agnihotramatithayaḥ iti vacanāt atra kecidāhuḥ- ācāryāyartvije śvaśurāya rājña ityetat kāryam ityeko yogaḥ atha parisaṃvatsarādupatiṣṭhadbhyaścāyaṃ kāryaḥ iti tena vivāhāda- nantaraṃ ācāryaśvaśurābhyāṃ nimantryāpacitiḥ kartavyā ṛtvije ca karmaṇi, rājñe cābhiṣekānantaram atha tebhya eva saṃvatsaraṃ vipro ṣyopagatebhyaśca kartavyamiti


19

आप्ग्स्-तात्_13.19: यदेतदर्हणं कूर्चादि भोजनान्तं गृहस्थेन स्नातकाय स्नानदिवस एवागताय कर्तव्यमिति विहितं, तदाचार्यादिभ्यःपरिसंवत्सरात्संवत्सरादूर्ध्व गृहमुपतिष्ठद्भ्यः उपागतेभ्यः पुनः पुनः कार्य;न तु स्नातकवत् सकृत् न चाप्यर्वाक्संवत्सरात् अत्र चेतिशन्दश्चार्थः ननु धर्मशास्त्रे ऽगोमधुपर्करहो वेदाध्यायः आचार्य ऋत्विक् स्नातको राजा वाधर्मयुक्तः आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपकश्च दधिमधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् अभाव उदकम्, (आपध.2-8-5...9) इति स्नातकायाचार्यायर्त्विजे उपाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थगवा सह मधुपर्को विहितः किमर्थमिह पुनर्विधीयते?उत्यते- इह विकल्पेन विहितस्य त्रिवृतः पाङ्क्तस्य च तस्मिन् गोमधुपर्के अवेदाध्यायाय श्वशुराय च दीयमाने च प्राप्त्यर्थम् यत्तु तत्रैव ऽगौर्मधुपर्कश्चऽइति पुनर्वचनं, तदाचार्यर्त्विदाध्यायश्वशुरराजभ्य एव परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः कार्यम्, स्नातकवेदाध्यायतिथिभ्यस्तु सकृदेवेत्येवमर्थम्

āpgs-tāt_13.19: yadetadarhaṇaṃ kūrcādi bhojanāntaṃ gṛhasthena snātakāya snānadivasa evāgatāya kartavyamiti vihitaṃ, tadācāryādibhyaḥparisaṃvatsarātsaṃvatsarādūrdhva gṛhamupatiṣṭhadbhyaḥ upāgatebhyaḥ punaḥ punaḥ kārya;na tu snātakavat sakṛt na cāpyarvāksaṃvatsarāt atra cetiśandaścārthaḥ nanu dharmaśāstre 'gomadhuparkaraho vedādhyāyaḥ ācārya ṛtvik snātako rājā vādharmayuktaḥ ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhyo gaurmadhupakaśca dadhimadhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam abhāva udakam, (āpadha.2-8-5...9) iti snātakāyācāryāyartvije upādhyāyāya śvaśurāya rājñe ca dakṣiṇārthagavā saha madhuparko vihitaḥ kimarthamiha punarvidhīyate?utyate- iha vikalpena vihitasya trivṛtaḥ pāṅktasya ca tasmin gomadhuparke avedādhyāyāya śvaśurāya ca dīyamāne ca prāptyartham yattu tatraiva 'gaurmadhuparkaśca'iti punarvacanaṃ, tadācāryartvidādhyāyaśvaśurarājabhya eva parisaṃvatsarādupatiṣṭhadbhyaḥ punaḥ punaḥ kāryam, snātakavedādhyāyatithibhyastu sakṛdevetyevamartham


21

सकृत्प्रवक्त्रे चित्राय आप्ग्स्_13.20 चोम्मेन्तरिएस्: आप्ग्स्-अना_13.20: सकृत् न प्रतिवतसरं कलौ गोरालम्भ्स्य न्षेधाद्रौरित्युत्त्का यज्ञो वर्धतामित्यादि जपेत् मध्यमन्त्रलोपः)प्रवक्त्रे वेदस्य वेदार्थस्य च चित्राय प्रसिद्धाय भिन्नसंशयायेत्यर्थः एवं भूतायोपस्थिताय सकृदेतदपचितिकर्म कर्तव्यं, न प्रतिसंवत्सरमिति

sakṛtpravaktre citrāya āpgs_13.20 commentaries: āpgs-anā_13.20: sakṛt na prativatasaraṃ kalau gorālambhsya nṣedhādraurityuttkā yajño vardhatāmityādi japet madhyamantralopaḥ)pravaktre vedasya vedārthasya ca citrāya prasiddhāya bhinnasaṃśayāyetyarthaḥ evaṃ bhūtāyopasthitāya sakṛdetadapacitikarma kartavyaṃ, na pratisaṃvatsaramiti


20

________________________ आप्ग्स्-तात्_13.20: प्रवक्ता यः पदवाक्यप्रमाणाभ्यां प्रकर्षेण वक्ति साधुशब्दानामुच्चारयिता, प्रमाणोपंपन्नं व्याख्याता चेत्यर्थः चित्रः प्रकाशः लोके प्रसिद्ध इत्यर्थः . इदं प्रवक्तुरेव विशेषणम् तस्मै सकृदेवैतत् गार्ह्य गेरहितं कार्यम् अयं च प्रवक्ता न वेदाध्यायः स हि गोमधिपर्करहः यस्सषडङ्गं वेदमधीते, अर्थाश्च जानाति स वेदाध्यायः ननु-सामयाचारिके गोमधुपर्के धर्मा नोपदिष्टाः, स कथं कर्तव्यः?उच्यते-नामधेयं धर्मग्राहकम्ति मीमांसकाः तेन गृह्ये याज्ञिकप्रसिद्ध्या मधुपर्कसंशिके कर्मणि उपदिष्टा एव धर्माः ऽगोमधिपर्करहःऽइत्यत्र मधुपर्कनाम्ना अतिदिश्यन्ते, ऽमासमग्निहेत्रं जुहोतिऽइतिवत् ऽदधिमन्थो मधुमन्थःऽ(मधुपर्कः)(आप. श्रौ.6-32-5) इत्यत्र तु दक्षिणाद्रव्यस्य कर्मवद्धमार्कअङ्क्षा भावान्नातिदेशः अत्र च वेदाध्यायातिथिपूजायाम् अयं विशेषः, ऽदधिमधुसंसृष्टं मधुपर्कःऽइति प्रत्यक्षविधानादतिदेशप्राप्तं त्रिवृत्त्वं पाङ्क्तत्वं च बाध्यत(आपश्रौ.2-8-8) इति अयमत्र निश्चितोरऽथः आचार्यायर्त्विजे वेदाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थाधिकगवा विना गार्ह्यः सामयाचारिको वा मधिपर्कः कार्यः परिसंवत्सरादिपागतेभ्यः पुनः पुनः कार्यः अवेदाध्यायाय श्वशुरायाधिकगवा विना गार्ह्यः अतिथिवरापचितेभ्यो वेदाध्यायेभ्यः सह गवा धर्मोक्तः अवेदाध्यायाभ्यां तु वरापचिताभ्यां स्नातकाय च स्नानदिन एवागताय गवा विना गृह्योक्तो धर्मोक्तो वा प्रकाशाय च प्रवक्त्रे विना गवा गार्ह्यः आचार्यादिभ्यश्चतुर्भ्यो ऽन्येषां सकृदेवेति केचित् अत्र योगविभागमाहुः आचार्यादिभ्य;चतुर्भ्य एतत्कार्यमित्येको योगः तेन विवाहानन्तरमाचार्यश्वशुराभ्यां निमन्त्र्यापि पूजा कार्या अन्यथा संवत्सरमपि प्रोषिताभ्यां सकृदपि न सिध्येत् ऋत्विजे च कर्मणि कर्मणि पूजा कार्या राज्ञे चाभिषिक्ताय नियमेनैव तथा ऽपरिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनःऽइत्यन्यो योगः स्पष्टश्चायं सामयाचारिकेषु विभागः, ऽगोमधुपर्करहःऽइति पूर्व विधाय, पश्चातऽआचार्यायऽइत्यादिना पुनर्विधानात् पूर्वयोगे च श्वशुरशब्दो निपातयितव्यः न चात्रान्य- तरविध्यारम्भो व्यर्थः सामयाचारिकेषु सर्वाचरणार्थेन विहितायां पूजायां, गार्ह्यस्यास्मदीयानां धर्मातिदेशार्थत्वात् न च नाम्ना धर्मातिदेशः, गोमधुपर्कशब्दयोः ऽमधुमन्थो मधुपर्कःऽ; इतिवत् द्रव्याभिधायकत्वात् अतोरऽथभेदात् गृह्ये धर्मे च विध्यारम्भोर्थवान् तथा वेदस्य वेदार्थस्य च प्रवक्त्रे च्त्राय एतत्सकृत्कार्यमिति तच्चिन्त्यम्

________________________ āpgs-tāt_13.20: pravaktā yaḥ padavākyapramāṇābhyāṃ prakarṣeṇa vakti sādhuśabdānāmuccārayitā, pramāṇopaṃpannaṃ vyākhyātā cetyarthaḥ citraḥ prakāśaḥ loke prasiddha ityarthaḥ . idaṃ pravaktureva viśeṣaṇam tasmai sakṛdevaitat gārhya gerahitaṃ kāryam ayaṃ ca pravaktā na vedādhyāyaḥ sa hi gomadhiparkarahaḥ yassaṣaḍaṅgaṃ vedamadhīte, arthāśca jānāti sa vedādhyāyaḥ nanu-sāmayācārike gomadhuparke dharmā nopadiṣṭāḥ, sa kathaṃ kartavyaḥ?ucyate-nāmadheyaṃ dharmagrāhakamti mīmāṃsakāḥ tena gṛhye yājñikaprasiddhyā madhuparkasaṃśike karmaṇi upadiṣṭā eva dharmāḥ 'gomadhiparkarahaḥ'ityatra madhuparkanāmnā atidiśyante, 'māsamagnihetraṃ juhoti'itivat 'dadhimantho madhumanthaḥ'(madhuparkaḥ)(āpa. śrau.6-32-5) ityatra tu dakṣiṇādravyasya karmavaddhamārkaaṅkṣā bhāvānnātideśaḥ atra ca vedādhyāyātithipūjāyām ayaṃ viśeṣaḥ, 'dadhimadhusaṃsṛṣṭaṃ madhuparkaḥ'iti pratyakṣavidhānādatideśaprāptaṃ trivṛttvaṃ pāṅktatvaṃ ca bādhyata(āpaśrau.2-8-8) iti ayamatra niścitor'thaḥ ācāryāyartvije vedādhyāyāya śvaśurāya rājñe ca dakṣiṇārthādhikagavā vinā gārhyaḥ sāmayācāriko vā madhiparkaḥ kāryaḥ parisaṃvatsarādipāgatebhyaḥ punaḥ punaḥ kāryaḥ avedādhyāyāya śvaśurāyādhikagavā vinā gārhyaḥ atithivarāpacitebhyo vedādhyāyebhyaḥ saha gavā dharmoktaḥ avedādhyāyābhyāṃ tu varāpacitābhyāṃ snātakāya ca snānadina evāgatāya gavā vinā gṛhyokto dharmokto vā prakāśāya ca pravaktre vinā gavā gārhyaḥ ācāryādibhyaścaturbhyo 'nyeṣāṃ sakṛdeveti kecit atra yogavibhāgamāhuḥ ācāryādibhya;caturbhya etatkāryamityeko yogaḥ tena vivāhānantaramācāryaśvaśurābhyāṃ nimantryāpi pūjā kāryā anyathā saṃvatsaramapi proṣitābhyāṃ sakṛdapi na sidhyet ṛtvije ca karmaṇi karmaṇi pūjā kāryā rājñe cābhiṣiktāya niyamenaiva tathā 'parisaṃvatsarādupatiṣṭhadbhyaḥ punaḥ punaḥ'ityanyo yogaḥ spaṣṭaścāyaṃ sāmayācārikeṣu vibhāgaḥ, 'gomadhuparkarahaḥ'iti pūrva vidhāya, paścāt'ācāryāya'ityādinā punarvidhānāt pūrvayoge ca śvaśuraśabdo nipātayitavyaḥ na cātrānya- taravidhyārambho vyarthaḥ sāmayācārikeṣu sarvācaraṇārthena vihitāyāṃ pūjāyāṃ, gārhyasyāsmadīyānāṃ dharmātideśārthatvāt na ca nāmnā dharmātideśaḥ, gomadhuparkaśabdayoḥ 'madhumantho madhuparkaḥ'; itivat dravyābhidhāyakatvāt ator'thabhedāt gṛhye dharme ca vidhyārambhorthavān tathā vedasya vedārthasya ca pravaktre ctrāya etatsakṛtkāryamiti taccintyam


1

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने त्रयोदशः खण्डः पञ्चमश्च पटलस्समाप्तः ==================================================================================== अथ षष्ठः पटलः चतुर्दशः खण्डः मन्त्राम्नानक्रमेण विवाहादयस्संस्कारा व्याख्याताः अनन्तरं तत्क्रमेणैव सीमन्तादयो व्याख्यायन्ते- 10 सीमन्तोन्नयनम् - 1 सीमन्तोन्नयनकालः सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि आप्ग्स्_14.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.1: सीमन्तो नाम केशमध्येर् खाविशेषः स उन्नीयते यस्मिन् कर्मणि तत्सामन्तोन्नयनन्नायकर्म गर्भसंस्कारः तच्चतुर्थे मासि कर्तव्यम् प्रथमनियमादाधारसंस्कारो ऽयम् आधारे च संस्कृते तत्राहिताः सर्व एव गर्भाः संस्कृता भवन्ति

iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane trayodaśaḥ khaṇḍaḥ pañcamaśca paṭalassamāptaḥ ==================================================================================== atha ṣaṣṭhaḥ paṭalaḥ caturdaśaḥ khaṇḍaḥ mantrāmnānakrameṇa vivāhādayassaṃskārā vyākhyātāḥ anantaraṃ tatkrameṇaiva sīmantādayo vyākhyāyante- 10 sīmantonnayanam - 1 sīmantonnayanakālaḥ sīmantonnayanaṃ prathame garbhe caturthe māsi āpgs_14.1 commentaries: āpgs-anā_14.1: sīmanto nāma keśamadhyer khāviśeṣaḥ sa unnīyate yasmin karmaṇi tatsāmantonnayanannāyakarma garbhasaṃskāraḥ taccaturthe māsi kartavyam prathamaniyamādādhārasaṃskāro 'yam ādhāre ca saṃskṛte tatrāhitāḥ sarva eva garbhāḥ saṃskṛtā bhavanti


1

आप्ग्स्-तात्_14.1: सामन्तोन्नयनमित्कर्मनामधेयम्, यस्मिन् कर्मणि गर्भिण्यास्सीमन्त उन्नीयते तत् व्याख्यास्याम इति शेष- तच्चप्रथमे गर्भे;न तु गर्भे गर्भे गर्भार्थमेवाधारस्त्रूसंस्कारः स्त्रीसंस्कारत्वात् सकृदेव कृतस्सीमन्तस्सर्वानेव गर्बान् संस्करोति चतिर्थे मासिचतुर्थे मासे अल्लोपश्छान्दसः, ऽछन्दोवत्सूत्राणि भवन्तिऽइति स्मृतेः

āpgs-tāt_14.1: sāmantonnayanamitkarmanāmadheyam, yasmin karmaṇi garbhiṇyāssīmanta unnīyate tat vyākhyāsyāma iti śeṣa- taccaprathame garbhe;na tu garbhe garbhe garbhārthamevādhārastrūsaṃskāraḥ strīsaṃskāratvāt sakṛdeva kṛtassīmantassarvāneva garbān saṃskaroti catirthe māsicaturthe māse allopaśchāndasaḥ, 'chandovatsūtrāṇi bhavanti'iti smṛteḥ


2

2 तत्र प्रधानहोमा, जयादयश्च ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते आप्ग्स्_14.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.2: तत्र पूर्वेद्युर्नान्दीश्राद्धम् अथ तस्मिन्नहनिब्राह्मणान् भोजयित्वातैर्भुक्तवद्भिःआशिषो वाचयित्वाअग्नेरुपसमाधानादि प्रतिपद्यते सकृत्पात्राणि शलल्यादयश्च सह शम्यः

2 tatra pradhānahomā, jayādayaśca brāhmaṇānbhojayitvā'śiṣo vācayitvāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate āpgs_14.2 commentaries: āpgs-anā_14.2: tatra pūrvedyurnāndīśrāddham atha tasminnahanibrāhmaṇān bhojayitvātairbhuktavadbhiḥāśiṣo vācayitvāagnerupasamādhānādi pratipadyate sakṛtpātrāṇi śalalyādayaśca saha śamyaḥ


3

अष्टौ प्रधानाहुतयो ऽधाता ददातु नो रयिऽमिति चतस्रो ऽयस्त्वाहृदा कीरिणेऽति चतस्रः

aṣṭau pradhānāhutayo 'dhātā dadātu no rayi'miti catasro 'yastvāhṛdā kīriṇe'ti catasraḥ


2

आप्ग्स्-तात्_14.2: इह ब्राह्मणभोजनाशीर्वचनयोर्विधानं उपनयनवत् क्रमार्थम् पात्रासादनकाले तु यथार्थ शलल्यादीनि सकृदेवासाद्यानि शम्याश्च परिध्यर्थे उत्तराः ऽधाता ददातु नो रयिमऽइति चतस्रो ऽयस्त्वा हृदा कीरिणाऽइति चतस्र इत्यष्टौ शेषं सुगमम्

āpgs-tāt_14.2: iha brāhmaṇabhojanāśīrvacanayorvidhānaṃ upanayanavat kramārtham pātrāsādanakāle tu yathārtha śalalyādīni sakṛdevāsādyāni śamyāśca paridhyarthe uttarāḥ 'dhātā dadātu no rayim'iti catasro 'yastvā hṛdā kīriṇā'iti catasra ityaṣṭau śeṣaṃ sugamam

Section (cont. 17)

4

3 त्रेण्या शलल्या सीमन्तोन्नयनम् परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्व सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च आप्ग्स्_14.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.3: प्राचींप्राङ्मुखीं स्वयं प्रत्यङ्मुखः त्रिषु प्रदेशेषु एनी श्वेतीत्रेणी इकारलोपश्छान्दशः णत्वं च शललीशल्यकस्य रोमसूची सविशाखा नाडीपुञ्जीलमित्युच्यते दर्भस्य पुञ्जीलानि त्रीणि भवन्ति उदुम्बरस्य फलसङ्घातविशेषस्तरुणः शलालुग्लप्सैत्युच्यते पिशाचोदुम्बरस्येत्यन्ये एतानि द्रव्याणि युगपद्गृहीत्वातैस्सीमन्तमुन्नयति ऊर्ध्वमुदूहति भूर्भुवस्सुवरित्ये- ताभिः उत्तराभ्यां च ऽराकामहं, ऽयास्तेराकऽइत्येताभ्याम् त्रयाणामन्ते सकृदुन्नयनम् इह मन्त्रसमाम्नाये व्याहृतीनां पाठो न कर्तव्यः व्याहृतिभिरित्येतेनैव सिद्धस्सम्प्रत्ययः यथा व्याहृतीश्च जपित्वा, व्याहृतीर्विहृताः, इत्यादौ एवं सिद्धे व्याहृतीनां पाठः समाम्नायार्थम् किञ्चासति पाठे व्याहृतिभिरुत्तराभ्याञ्चेत्युच्यमाने याजमानसमाम्नायात् ग्रहणं प्राप्नोति-व्याहृतिभिरुत्तराभ्याञ्च मन्त्राभ्यां ऽउच्छुष्मो अग्नऽ; इत्येताभ्यामिति तत्र पाठस्य प्रसिद्धत्वात् ऽराकामहंऽऽयास्ते राकेऽइत्येतयोश्च प्रधानाहुतित्वं विज्ञायेत, विशेषाभावात् तस्मादस्मादेव समाम्नायद्ग्रहणं यथा स्यादिति व्याहृतीनामिह पाठः

3 treṇyā śalalyā sīmantonnayanam pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīmupaveśya treṇyā śalalyā tribhirdarbhapuñjīlaiśśalāluglapsenetyūrdhva sīmantamunnayati vyāhṛtībhiruttarābhyāṃ ca āpgs_14.3 commentaries: āpgs-anā_14.3: prācīṃprāṅmukhīṃ svayaṃ pratyaṅmukhaḥ triṣu pradeśeṣu enī śvetītreṇī ikāralopaśchāndaśaḥ ṇatvaṃ ca śalalīśalyakasya romasūcī saviśākhā nāḍīpuñjīlamityucyate darbhasya puñjīlāni trīṇi bhavanti udumbarasya phalasaṅghātaviśeṣastaruṇaḥ śalāluglapsaityucyate piśācodumbarasyetyanye etāni dravyāṇi yugapadgṛhītvātaissīmantamunnayati ūrdhvamudūhati bhūrbhuvassuvaritye- tābhiḥ uttarābhyāṃ ca 'rākāmahaṃ, 'yāsterāka'ityetābhyām trayāṇāmante sakṛdunnayanam iha mantrasamāmnāye vyāhṛtīnāṃ pāṭho na kartavyaḥ vyāhṛtibhirityetenaiva siddhassampratyayaḥ yathā vyāhṛtīśca japitvā, vyāhṛtīrvihṛtāḥ, ityādau evaṃ siddhe vyāhṛtīnāṃ pāṭhaḥ samāmnāyārtham kiñcāsati pāṭhe vyāhṛtibhiruttarābhyāñcetyucyamāne yājamānasamāmnāyāt grahaṇaṃ prāpnoti-vyāhṛtibhiruttarābhyāñca mantrābhyāṃ 'ucchuṣmo agna'; ityetābhyāmiti tatra pāṭhasya prasiddhatvāt 'rākāmahaṃ''yāste rāke'ityetayośca pradhānāhutitvaṃ vijñāyeta, viśeṣābhāvāt tasmādasmādeva samāmnāyadgrahaṇaṃ yathā syāditi vyāhṛtīnāmiha pāṭhaḥ


3

आप्ग्स्-तात्_14.3: प्राचींप्राङ्मुखीं स्वयं तु प्रत्यङ्मुखः त्रेणीत्रीण्येतानि शुक्लानि यस्यास्सा यद्वा त्रिषु प्रदेशेषु एनी श्वेता त्रेणीति च रूपं छान्दसम् शल्लीसूच्याकारं शल्यलोम त्रेणीति शलल्या विशेषणम् दर्भपुञ्जीलंसविशाखा नाडी शलालुर्गोष्ठोदुम्बरः, करपत्रोदुम्बरः, पिशाचोदुम्बरैत्यनर्थान्तरम् ग्लप्सःस्तबकः;पिशाचोदुम्बरस्य तरुणफलसङ्घातविशेष इत्यर्थः इत्येतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्वसीमन्तमुन्नयतिशिरसि मध्ये रेखामुदूहति कैर्मन्त्रैः?ऽभूर्भुवस्सुवःऽऽराकामहं सुहवामऽऽयास्ते राके सुमतयःऽ; इत्येतैर्मन्त्रैः चकारो बहुमन्त्रज्ञापनार्थः

āpgs-tāt_14.3: prācīṃprāṅmukhīṃ svayaṃ tu pratyaṅmukhaḥ treṇītrīṇyetāni śuklāni yasyāssā yadvā triṣu pradeśeṣu enī śvetā treṇīti ca rūpaṃ chāndasam śallīsūcyākāraṃ śalyaloma treṇīti śalalyā viśeṣaṇam darbhapuñjīlaṃsaviśākhā nāḍī śalālurgoṣṭhodumbaraḥ, karapatrodumbaraḥ, piśācodumbaraityanarthāntaram glapsaḥstabakaḥ;piśācodumbarasya taruṇaphalasaṅghātaviśeṣa ityarthaḥ ityetairdravyairyugapadgṛhītairūrdhvasīmantamunnayatiśirasi madhye rekhāmudūhati kairmantraiḥ?'bhūrbhuvassuvaḥ''rākāmahaṃ suhavām''yāste rāke sumatayaḥ'; ityetairmantraiḥ cakāro bahumantrajñāpanārthaḥ


5

4 वीणागाथिभ्यां वीणागानार्थ संशासनम् गायतमिति वीणागाथिनौ संशास्ति आप्ग्स्_14.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.4: वीणया यो गाथां गायति सवीणगाथी तावुभौ प्रागेवानीतौ भवतः तौ संशास्ति संप्रेष्येति-गायतमिति तौ गायतः तत्रऋङ्नियमः

4 vīṇāgāthibhyāṃ vīṇāgānārtha saṃśāsanam gāyatamiti vīṇāgāthinau saṃśāsti āpgs_14.4 commentaries: āpgs-anā_14.4: vīṇayā yo gāthāṃ gāyati savīṇagāthī tāvubhau prāgevānītau bhavataḥ tau saṃśāsti saṃpreṣyeti-gāyatamiti tau gāyataḥ tatraṛṅniyamaḥ


4

आप्ग्स्-तात्_14.4: वीणया गाथां गायत इतिवीणागाथिनौ गायतमिति संशास्तिसंप्रेष्यति

āpgs-tāt_14.4: vīṇayā gāthāṃ gāyata itivīṇāgāthinau gāyatamiti saṃśāstisaṃpreṣyati


6

उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा आप्ग्स्_14.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.5: उत्तरयोःऋचोः यापूर्वाऽयौगन्धरिऽत्येषा सासाल्वानांसीमन्तकर्मणि गाथा साल्वदेशनिवासिनां अस्यामृचि गानं कर्तव्यमित्यर्थः स देशो यमुनातीरे भवति वैश्याश्च तत्र भूयिष्ठं भवन्ति तेषामेव राजा यौगन्धरिः

uttarayoḥ pūrvā sālvānāṃ brāhmaṇānāmitarā āpgs_14.5 commentaries: āpgs-anā_14.5: uttarayoḥṛcoḥ yāpūrvā'yaugandhari'tyeṣā sāsālvānāṃsīmantakarmaṇi gāthā sālvadeśanivāsināṃ asyāmṛci gānaṃ kartavyamityarthaḥ sa deśo yamunātīre bhavati vaiśyāśca tatra bhūyiṣṭhaṃ bhavanti teṣāmeva rājā yaugandhariḥ


7

इतरा ऽसोम एव नो राजेऽत्येषा न सर्वेषां ब्राह्मणानामपि तु साल्वानाम्

itarā 'soma eva no rāje'tyeṣā na sarveṣāṃ brāhmaṇānāmapi tu sālvānām


5

आप्ग्स्-तात्_14.5: उत्तरयोःऋचोः वीणागाथिनौ गायेताम् केषां कतरा गाथा?इत्यत आह-पूर्वेति पूर्वाऽयौगन्धरिः"इत्येषा साल्वदेशीयानां त्रयाणां वर्णानामपि गाथा;ऽसालवीःऽइत्यविशेषलिङ्गात् अन्यदेशवासिनांब्राह्मणानामितराऽसोम एव नो राजाऽइत्येषा क्षत्रियवैश्यानां तु ऽसोमोमएव नो राजावतु मानुषीः प्रजाः (आश्वगृ.1-12-7) इत्याश्वलायनीये दृष्टायां सार्ववर्णीक्या- मृचि गानं कर्तव्यम् न तु गानाभावः गायतमित्यविशेषेण संशासनविधानात् केचित्-साल्वानामपि ब्राह्मणानामितरेति

āpgs-tāt_14.5: uttarayoḥṛcoḥ vīṇāgāthinau gāyetām keṣāṃ katarā gāthā?ityata āha-pūrveti pūrvā'yaugandhariḥ"ityeṣā sālvadeśīyānāṃ trayāṇāṃ varṇānāmapi gāthā;'sālavīḥ'ityaviśeṣaliṅgāt anyadeśavāsināṃbrāhmaṇānāmitarā'soma eva no rājā'ityeṣā kṣatriyavaiśyānāṃ tu 'somomaeva no rājāvatu mānuṣīḥ prajāḥ (āśvagṛ.1-12-7) ityāśvalāyanīye dṛṣṭāyāṃ sārvavarṇīkyā- mṛci gānaṃ kartavyam na tu gānābhāvaḥ gāyatamityaviśeṣeṇa saṃśāsanavidhānāt kecit-sālvānāmapi brāhmaṇānāmitareti


8

5 गाने निकटवर्तिन्या नद्या नामनिर्देशः नदीनिर्देशश्च यस्यां वसन्ति आप्ग्स्_14.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.6: द्वितीये मन्त्रे असौ शब्दस्य स्थाने नद्या नाम संबुध्या निर्देष्टव्यम् यस्यां वसन्ति यामुपजीवन्तीत्यथः यथा-तीरेण कावेरि तवेति क्षत्रियाणां तु सर्वेषां कल्पान्तरदृष्टायां सार्ववर्णिक्यामृचि गानं भवति "सोम एव नो राजेत्याहुर्मानुषीः प्रजाः विवृत्तचक्रा आसीना" इति अत्रापि नदीनिर्देशस्सम्बुध्या

5 gāne nikaṭavartinyā nadyā nāmanirdeśaḥ nadīnirdeśaśca yasyāṃ vasanti āpgs_14.6 commentaries: āpgs-anā_14.6: dvitīye mantre asau śabdasya sthāne nadyā nāma saṃbudhyā nirdeṣṭavyam yasyāṃ vasanti yāmupajīvantītyathaḥ yathā-tīreṇa kāveri taveti kṣatriyāṇāṃ tu sarveṣāṃ kalpāntaradṛṣṭāyāṃ sārvavarṇikyāmṛci gānaṃ bhavati "soma eva no rājetyāhurmānuṣīḥ prajāḥ vivṛttacakrā āsīnā" iti atrāpi nadīnirdeśassambudhyā


6

आप्ग्स्-तात्_14.6: ऽसोम एव नो राजाऽइत्यस्वां असावित्यस्य स्थाने ऽकावेरिऽऽवेगवतिऽइति सम्बुध्यानदीनिर्देसश्चभवति कस्या नद्याः?इति चेत् ऽयस्यां वसन्तिऽ समीपसप्तमी चेयम् यस्यास्समीपे वसन्ति तस्या निर्देश इत्यर्थः

āpgs-tāt_14.6: 'soma eva no rājā'ityasvāṃ asāvityasya sthāne 'kāveri''vegavati'iti sambudhyānadīnirdesaścabhavati kasyā nadyāḥ?iti cet 'yasyāṃ vasanti' samīpasaptamī ceyam yasyāssamīpe vasanti tasyā nirdeśa ityarthaḥ


9

6 यवाङ्कराबन्धनम्, ततो वाग्यमश्च यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः आप्ग्स्_14.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.7: विरूढातङ्कुरितान् सूत्रबद्धानाबध्नाति शिरसि वध्वाः सैव वाचं यच्छति एवमुपदेशो भोजनञ्चास्यास्मिन्नहनि नेच्छन्ति यवाश्च प्रागेव वप्तव्याः यथास्मिन् काले विरूढा भवन्ति

6 yavāṅkarābandhanam, tato vāgyamaśca yavān virūḍhānābadhya vācaṃ yacchatyānakṣatrebhyaḥ āpgs_14.7 commentaries: āpgs-anā_14.7: virūḍhātaṅkuritān sūtrabaddhānābadhnāti śirasi vadhvāḥ saiva vācaṃ yacchati evamupadeśo bhojanañcāsyāsminnahani necchanti yavāśca prāgeva vaptavyāḥ yathāsmin kāle virūḍhā bhavanti


7

आप्ग्स्-तात्_14.7: अङ्कुरितान् सूत्रग्रथितान्यवान्वध्वाशिशरस्याबध्नाति शिरसीति कुतः?आचारात्

āpgs-tāt_14.7: aṅkuritān sūtragrathitānyavānvadhvāśiśarasyābadhnāti śirasīti kutaḥ?ācārāt


10

7 नक्षत्रोदयानन्तरं वक्सान्वारम्भणं, वाग्विसर्गश्च उदुतेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् आप्ग्स्_14.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.8: वत्सःपुमान् गौश्च भवति व्याहृतयस्समस्ताः याजमानसमाम्नायात् प्रत्येतव्याः

7 nakṣatrodayānantaraṃ vaksānvārambhaṇaṃ, vāgvisargaśca uduteṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet āpgs_14.8 commentaries: āpgs-anā_14.8: vatsaḥpumān gauśca bhavati vyāhṛtayassamastāḥ yājamānasamāmnāyāt pratyetavyāḥ


8

आप्ग्स्-तात्_14.8: विस्पष्टार्थम् इह केचिदध्येतारो ऽयच्छतोऽऽविसृजतऽइति द्विवचने पठन्ति तस्मिन् पक्षे वाग्यमनादिपदार्थपञ्चकमुभौ जायापती कुरुतः केचित् यवाबन्धनादि सर्व वधूरेव;न पतिरिति

āpgs-tāt_14.8: vispaṣṭārtham iha kecidadhyetāro 'yacchato''visṛjata'iti dvivacane paṭhanti tasmin pakṣe vāgyamanādipadārthapañcakamubhau jāyāpatī kurutaḥ kecit yavābandhanādi sarva vadhūreva;na patiriti


11

11 पुंसुवनम् - 1 तस्य कालः पुंसुवनं व्यक्ते गर्भे तिष्येण आप्ग्स्_14.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.9: पुमान् येन सूयते तत्पुंसुवनंनाम कर्म उवङादेशश्छान्दसः मन्त्रदर्शनात् पुंसुवनमसीति आश्वलायनस्तु गुणमेव प्रायुङ्क्त तत्,व्यक्ते गर्भेकर्तव्यम् गर्भव्यक्तिश्च तृतीये चतुर्थे वा मासि यदापि चतुर्थे तदा सीमन्तात् पूर्वमेव पुंसवनम् निमित्तस्य पूर्वत्वात् पश्चादुपदेशस्य तु प्रयोजनं वक्ष्यामः तिष्येणतच्च तिष्ये कर्तव्यम् ऽनक्षत्रे च लुपीऽति अधिकरणे तृतीया

11 puṃsuvanam - 1 tasya kālaḥ puṃsuvanaṃ vyakte garbhe tiṣyeṇa āpgs_14.9 commentaries: āpgs-anā_14.9: pumān yena sūyate tatpuṃsuvanaṃnāma karma uvaṅādeśaśchāndasaḥ mantradarśanāt puṃsuvanamasīti āśvalāyanastu guṇameva prāyuṅkta tat,vyakte garbhekartavyam garbhavyaktiśca tṛtīye caturthe vā māsi yadāpi caturthe tadā sīmantāt pūrvameva puṃsavanam nimittasya pūrvatvāt paścādupadeśasya tu prayojanaṃ vakṣyāmaḥ tiṣyeṇatacca tiṣye kartavyam 'nakṣatre ca lupī'ti adhikaraṇe tṛtīyā


12

आप्ग्स्-तात्_14.9: पुंसुवनमित्यपिकर्मनामधेयम्, येन कर्मणा निमित्तेन गर्भिणि पुमांसमेव सूते तत्पुंसवनम् व्याख्यायत इति शेषः अत्र चोवङादेशश्छान्दसः आश्वलायनस्तु ऽपुंसवनमऽइति सगुणमेव प्रायुङ्क्त व्यक्ते गर्भेअस्ति गर्भ इति निश्चिते व्यक्तिश्च तृतीये चतुर्थे वा मासे;बहुचादिषु स्मृत्यन्तरेषूभयथा दर्शनात् . यदि पुंसवनं चतुर्थे स्यात्तदा पूर्व सीमन्तं कृत्वैव कुत एतत्? पुंसवने पश्चात्क्रियमाणे ऽपि चोदितकालानतिक्रमात्, पश्चान्मन्त्राम्नानसूत्रोपदेशयोरेवंक्रमार्थत्वाच्च केचित्-तृतीयवच्चतुर्थे ऽपि सीमन्तात्पूर्व निमित्तस्य पूर्वत्वादिति इदमपि सीमन्तवत्प्रथमगर्भ एव, न तु प्रतिगर्भम्;पिष्टपेषणन्या- यदेव एतच्च पुमांसं जनयतीत्यत्र विवेचयिष्यते तिष्येण तिष्यनक्षत्रे पुंसवनं कर्तव्ययमिति व्यवाहितेन सम्बन्धः;ऽप्रकरणात् प्रधानस्यऽइति न्ययात् शुङ्गाहरणे त्वनियमः 2 न्यग्रोधवृक्षात् फलविशिष्टाग्राङ्कुरानयनम्, सीमन्तवत्प्रधानाहुतयो जयादयश्च न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि आप्ग्स्_14.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.10: न्यग्रोधस्यवृक्षस्यया प्राची शाखोदीची वा तस्याःशुङ्गामग्राङ्कुरं सवृषणांफलं वृषणमिति व्यपदिश्यते सादृश्यादेव तद्वतीं शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि परिषेचनान्तं कर्म प्रतिपद्यते अग्नेरुपसमाधानादिवचनात् ततः पूर्व ब्राह्मणभोजनमाशीर्वचनं च न भवति अन्ते तु भवति"शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये"दिति तथा यत् परिषेचनादीर्ध्व संशासनादि तदपि न भवति अपरेणाग्निं प्राचीमिति पुनरिहोपदेशात् तत्रप्रयोगः-पूर्वद्युर्नान्दीश्राद्धम् अपरेज्युरग्नेरुपसमाधानादि सकृत्पात्रप्रयोगः शुङ्गया सह परिधय एव, न शम्याः आज्यभागान्ते ऽन्वारब्धायां धाता ददातु नो रयिऽमिति चतस्रो यस्त्वा हृदा कीरिणेति चतस्रः जयादि प्रतिपद्यते परिषेचनान्ते ततो वक्ष्यमाणं कर्म

āpgs-tāt_14.9: puṃsuvanamityapikarmanāmadheyam, yena karmaṇā nimittena garbhiṇi pumāṃsameva sūte tatpuṃsavanam vyākhyāyata iti śeṣaḥ atra covaṅādeśaśchāndasaḥ āśvalāyanastu 'puṃsavanam'iti saguṇameva prāyuṅkta vyakte garbheasti garbha iti niścite vyaktiśca tṛtīye caturthe vā māse;bahucādiṣu smṛtyantareṣūbhayathā darśanāt . yadi puṃsavanaṃ caturthe syāttadā pūrva sīmantaṃ kṛtvaiva kuta etat? puṃsavane paścātkriyamāṇe 'pi coditakālānatikramāt, paścānmantrāmnānasūtropadeśayorevaṃkramārthatvācca kecit-tṛtīyavaccaturthe 'pi sīmantātpūrva nimittasya pūrvatvāditi idamapi sīmantavatprathamagarbha eva, na tu pratigarbham;piṣṭapeṣaṇanyā- yadeva etacca pumāṃsaṃ janayatītyatra vivecayiṣyate tiṣyeṇa tiṣyanakṣatre puṃsavanaṃ kartavyayamiti vyavāhitena sambandhaḥ;'prakaraṇāt pradhānasya'iti nyayāt śuṅgāharaṇe tvaniyamaḥ 2 nyagrodhavṛkṣāt phalaviśiṣṭāgrāṅkurānayanam, sīmantavatpradhānāhutayo jayādayaśca nyagrodhasya yā prācyudīcīṃ vā śākhā tatassavṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi āpgs_14.10 commentaries: āpgs-anā_14.10: nyagrodhasyavṛkṣasyayā prācī śākhodīcī vā tasyāḥśuṅgāmagrāṅkuraṃ savṛṣaṇāṃphalaṃ vṛṣaṇamiti vyapadiśyate sādṛśyādeva tadvatīṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi pariṣecanāntaṃ karma pratipadyate agnerupasamādhānādivacanāt tataḥ pūrva brāhmaṇabhojanamāśīrvacanaṃ ca na bhavati ante tu bhavati"śucīnmantravatassarvakṛtyeṣu bhojaye"diti tathā yat pariṣecanādīrdhva saṃśāsanādi tadapi na bhavati apareṇāgniṃ prācīmiti punarihopadeśāt tatraprayogaḥ-pūrvadyurnāndīśrāddham aparejyuragnerupasamādhānādi sakṛtpātraprayogaḥ śuṅgayā saha paridhaya eva, na śamyāḥ ājyabhāgānte 'nvārabdhāyāṃ dhātā dadātu no rayi'miti catasro yastvā hṛdā kīriṇeti catasraḥ jayādi pratipadyate pariṣecanānte tato vakṣyamāṇaṃ karma


10

आप्ग्स्-तात्_14.10: सवृषणांवृषणाकृतिकेन फलद्वर्येन संयुक्तां,शुङ्गां अग्रङ्कुरम् व्यक्तमन्यत् अत्र च सीमन्तवदग्नेरुपसमाधानादीत्यतिदेशात् ब्राह्मणभोजनमाशीर्वचनं च तन्त्रात् पुरस्तान्निवर्तते कर्मान्ते तु भवत एव शुचीन् मन्त्रवतर्स्सवकृत्येषु भोजयेन (आपध.2-15-11) इति सामान्यवचनात्,ऽलोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथापुण्याहं स्वस्तिऋद्विमिति वाचयित्वा (आपध.1-13-9) इति वचनाच्च पात्रप्रयेगे च शुङ्गादीनां कर्मोपयुक्तानां सकृदेव सादनम् तथात्र परिधय एव, न तु शम्याः ऽशम्याः परिध्यर्थेऽइति अत्र चौलगोदानग्रहणात् तथैव ऽसीमन्तवदग्नेरुपसमाधानादिऽइत्यादिना परिषेचनान्तकल्पातिदेशस्य विवक्षितत्वादिहापि त एवाष्टौ प्रधानहोमाः

āpgs-tāt_14.10: savṛṣaṇāṃvṛṣaṇākṛtikena phaladvaryena saṃyuktāṃ,śuṅgāṃ agraṅkuram vyaktamanyat atra ca sīmantavadagnerupasamādhānādītyatideśāt brāhmaṇabhojanamāśīrvacanaṃ ca tantrāt purastānnivartate karmānte tu bhavata eva śucīn mantravatarssavakṛtyeṣu bhojayena (āpadha.2-15-11) iti sāmānyavacanāt,'loke ca bhūtikarmasvetadādīnyeva vākyāni syuryathāpuṇyāhaṃ svastiṛdvimiti vācayitvā (āpadha.1-13-9) iti vacanācca pātraprayege ca śuṅgādīnāṃ karmopayuktānāṃ sakṛdeva sādanam tathātra paridhaya eva, na tu śamyāḥ 'śamyāḥ paridhyarthe'iti atra caulagodānagrahaṇāt tathaiva 'sīmantavadagnerupasamādhānādi'ityādinā pariṣecanāntakalpātideśasya vivakṣitatvādihāpi ta evāṣṭau pradhānahomāḥ


13

अथ समाप्ते तन्त्रशेषे कर्तव्यमाह 3 तानङ्कुराननृतुमत्या कुमार्या पेषयित्वोत्तानं शायिताया गर्भिण्या दक्षिणनासायां निषेचनम् अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रे ऽपिनयति आप्ग्स्_14.11 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.11: यस्याः प्रादुर्भीतं रजः सा अवस्नाता तद्विपरीताअनवस्नाता एवंभूता कन्या कर्त्री पेषणस्य प्रयोजकः पतिः उपलोदृषत्पुत्रः दृषदर्थे ऽपि दृषत्पुत्र एव तत्र शुङ्गां पेषयित्वा वस्त्रेण परिप्लाव्य अपरेणाग्निं प्राचीं प्राङ्मुखींउत्तानां ऊर्ध्वमुखीं, निपात्य शाययित्वाउत्तरेण यजुषाऽपुंसुवनमसीऽत्यनेन तं रसं अङ्गुष्ठेन तस्या नासिकाच्छिद्रे दक्षिणे अपिनयतिअपिगमयति प्राङ्मुख एव (पिधाय नयनं स्वयं च प्राङ्मुखः)

atha samāpte tantraśeṣe kartavyamāha 3 tānaṅkurānanṛtumatyā kumāryā peṣayitvottānaṃ śāyitāyā garbhiṇyā dakṣiṇanāsāyāṃ niṣecanam anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāperaṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikācchidre 'pinayati āpgs_14.11 commentaries: āpgs-anā_14.11: yasyāḥ prādurbhītaṃ rajaḥ sā avasnātā tadviparītāanavasnātā evaṃbhūtā kanyā kartrī peṣaṇasya prayojakaḥ patiḥ upalodṛṣatputraḥ dṛṣadarthe 'pi dṛṣatputra eva tatra śuṅgāṃ peṣayitvā vastreṇa pariplāvya apareṇāgniṃ prācīṃ prāṅmukhīṃuttānāṃ ūrdhvamukhīṃ, nipātya śāyayitvāuttareṇa yajuṣā'puṃsuvanamasī'tyanena taṃ rasaṃ aṅguṣṭhena tasyā nāsikācchidre dakṣiṇe apinayatiapigamayati prāṅmukha eva (pidhāya nayanaṃ svayaṃ ca prāṅmukhaḥ)


11

आप्ग्स्-तात्_14.11: स्नाननिमित्तस्य रजसो ऽनुत्पन्नत्वात् या न स्नाता तयाअनवस्नातयाकन्यया दृषदर्थापन्ने दुषत्पुत्रेशुङ्गां निधाप्यदृषत्पुत्रान्तरेण पेषयित्वा तद्रसंवस्त्रेण प्लावयित्वा ततो जायामपरेणाग्निं प्राचींप्राक्छिरसंउत्तानामूर्ध्वमूखीं,निपात्यशाययित्वा ऽपुंसुवनमसिऽइति यजुषा दक्षिण नासिकाछिद्रे अङ्गुष्ठेनकरणभूतेन तद्रसमपिनयति गर्भ प्रापयति सा रसं न निष्ठीवेदित्यर्थः

āpgs-tāt_14.11: snānanimittasya rajaso 'nutpannatvāt yā na snātā tayāanavasnātayākanyayā dṛṣadarthāpanne duṣatputreśuṅgāṃ nidhāpyadṛṣatputrāntareṇa peṣayitvā tadrasaṃvastreṇa plāvayitvā tato jāyāmapareṇāgniṃ prācīṃprākchirasaṃuttānāmūrdhvamūkhīṃ,nipātyaśāyayitvā 'puṃsuvanamasi'iti yajuṣā dakṣiṇa nāsikāchidre aṅguṣṭhenakaraṇabhūtena tadrasamapinayati garbha prāpayati sā rasaṃ na niṣṭhīvedityarthaḥ


14

4 तत्फलकथनम् पुमांसं जनयति आप्ग्स्_14.12 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.12: एवमनेन कर्मणा संस्कृता स्त्रीपुमासं जनयति केचिदर्थवादमिदं मन्यन्ते फलविधौ कामसंयोगेन क्रियाया अनित्यत्वप्रसङ्गात् यद्यर्थवादः प्रतिगर्भमावृत्तिप्रसङ्गः एवं तर्हि प्रथमे गर्भे इत्यनुवर्तते एवमर्थमेव चास्य पश्चादुपदेशः व्यक्तं चैतत् छन्दोगानां-प्रथमे गर्भे तृतीय मासि पुंसवनमिति अन्ये फलविधिं मन्यन्ते तत्र च"एषवा अनृणो यः पुत्री"ति (तैसं-6-3-10) वचनात् पुत्रस्य सकृदुत्पादनं नित्यमिति यावदेकः पुत्र उत्पद्येत तावदूगर्भेषु भवति ऊर्ध्व तु पुत्रेच्छायां सत्यां भवति दुहितुरीप्सायां न भवति प्रथमग्रहणं च नानुवर्तते, पुनर्र्गभग्रहणात् पुंसुवनस्य तु पश्चादुपदेशो यथा चतुर्थे मासि तत्क्रियते तस्य पश्चात् प्रयोगार्थ इति

4 tatphalakathanam pumāṃsaṃ janayati āpgs_14.12 commentaries: āpgs-anā_14.12: evamanena karmaṇā saṃskṛtā strīpumāsaṃ janayati kecidarthavādamidaṃ manyante phalavidhau kāmasaṃyogena kriyāyā anityatvaprasaṅgāt yadyarthavādaḥ pratigarbhamāvṛttiprasaṅgaḥ evaṃ tarhi prathame garbhe ityanuvartate evamarthameva cāsya paścādupadeśaḥ vyaktaṃ caitat chandogānāṃ-prathame garbhe tṛtīya māsi puṃsavanamiti anye phalavidhiṃ manyante tatra ca"eṣavā anṛṇo yaḥ putrī"ti (taisaṃ-6-3-10) vacanāt putrasya sakṛdutpādanaṃ nityamiti yāvadekaḥ putra utpadyeta tāvadūgarbheṣu bhavati ūrdhva tu putrecchāyāṃ satyāṃ bhavati duhiturīpsāyāṃ na bhavati prathamagrahaṇaṃ ca nānuvartate, punarrgabhagrahaṇāt puṃsuvanasya tu paścādupadeśo yathā caturthe māsi tatkriyate tasya paścāt prayogārtha iti


12

आप्ग्स्-तात्_14.12: कर्मणीनेन संस्कृता अन्तर्वत्नीपुमांसं जनयतीत्यर्थवादः नित्यत्वात्पुंसुवनस्य एथवा फलम्; सूत्रकारेणोपदिष्टत्वात्;यथा ऽसहस्रं तेन कामदुघो ऽवरुन्धेऽइति फलमक्षे ऽपि ऽएष वा अनृणो यः पुत्रीऽइत्यादिव चनैस्सकृदपि पुत्रोत्पादनस्य अवश्यक- र्तव्यत्वात् तदङ्गं पुंसुवनं प्रथमे गर्भे कर्तव्यमेव तत ऊर्ध्व तु यत्र यत्र गर्भे पुत्रेप्सा तत्र तत्र कर्तव्यं नान्यत्र यस्त्वतिक्रान्त- चोदनः स्त्रीरेव जनयेयमिति कामयते तस्य सकृदपि न भवति अन्ये तु-पुमांसं जनयतीत्येतद्वचनं गर्भे गर्भे ऽस्य कर्तव्यतापरमिति

āpgs-tāt_14.12: karmaṇīnena saṃskṛtā antarvatnīpumāṃsaṃ janayatītyarthavādaḥ nityatvātpuṃsuvanasya ethavā phalam; sūtrakāreṇopadiṣṭatvāt;yathā 'sahasraṃ tena kāmadugho 'varundhe'iti phalamakṣe 'pi 'eṣa vā anṛṇo yaḥ putrī'ityādiva canaissakṛdapi putrotpādanasya avaśyaka- rtavyatvāt tadaṅgaṃ puṃsuvanaṃ prathame garbhe kartavyameva tata ūrdhva tu yatra yatra garbhe putrepsā tatra tatra kartavyaṃ nānyatra yastvatikrānta- codanaḥ strīreva janayeyamiti kāmayate tasya sakṛdapi na bhavati anye tu-pumāṃsaṃ janayatītyetadvacanaṃ garbhe garbhe 'sya kartavyatāparamiti


15

5 क्षिप्रसुवनं कर्म क्षिप्रं सुवनम् आप्ग्स्_14.13 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.13: येन कर्मणा क्षिप्रं सूयते तत्क्षिप्रंसुवनंनाम कर्मोच्यते

5 kṣiprasuvanaṃ karma kṣipraṃ suvanam āpgs_14.13 commentaries: āpgs-anā_14.13: yena karmaṇā kṣipraṃ sūyate tatkṣipraṃsuvanaṃnāma karmocyate


13

आप्ग्स्-तात्_14.13: येनक्षिप्रंशीघ्रं सूते ऽन्तर्वत्नी न चिरं कालं पीड्यते तत्क्षिप्रंसुवनंनाम इति कर्मोपदिश्यते

āpgs-tāt_14.13: yenakṣipraṃśīghraṃ sūte 'ntarvatnī na ciraṃ kālaṃ pīḍyate tatkṣipraṃsuvanaṃnāma iti karmopadiśyate


16

अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् आप्ग्स्_14.14 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.14: अनाप्रीतेनास्पृष्टोदकेनानुस्रोतसं उदकस्य प्रस्नवतो न प्रतीपं पत्तःपादयोरधस्तात् यस्याः श्वेतोपमानि पत्राणि पीतोप- मानि पुष्पाणि या च मध्याङ्णे पुष्यति सा तीर्यन्ती वनेषु जायते वेणुपत्रोपमानि च यस्याः पत्रीणि रक्तोपमानि च पुष्पाणि यां चाग्निशिखेत्याहुः सा शोष्यन्ती तत् ओषधिद्वयं समूलपत्रमादाय सुष्लिष्टं निदधाति मुर्धन्मुर्धनीत्यर्थः अपरे पिष्टिवा आलिम्पन्ति अथतामुत्तरेण यजुषा ऽआभिष्ट्वाहं दशभिरभिमृशामिऽइत्यनेनाभिमृशति दशभिरिति लिङ्गादुभाभ्यां पाणिभ्यामभिमर्शनम् अनुलोमं मुखादारभ्य तत एताभिराहृताभिरेवाद्भिस्तामवोक्षेत् उत्तराभिस्तिसृभिः ऋग्भिःऽयथैव सोमः पवतऽइत्येताभिः प्रतिमन्त्र मवोक्षणम्

anāprītena śarāveṇānusrotasamudakamāhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīmuttareṇa yajuṣābhimṛśyaitābhiradbhiruttarābhiravokṣet āpgs_14.14 commentaries: āpgs-anā_14.14: anāprītenāspṛṣṭodakenānusrotasaṃ udakasya prasnavato na pratīpaṃ pattaḥpādayoradhastāt yasyāḥ śvetopamāni patrāṇi pītopa- māni puṣpāṇi yā ca madhyāṅṇe puṣyati sā tīryantī vaneṣu jāyate veṇupatropamāni ca yasyāḥ patrīṇi raktopamāni ca puṣpāṇi yāṃ cāgniśikhetyāhuḥ sā śoṣyantī tat oṣadhidvayaṃ samūlapatramādāya suṣliṣṭaṃ nidadhāti murdhanmurdhanītyarthaḥ apare piṣṭivā ālimpanti athatāmuttareṇa yajuṣā 'ābhiṣṭvāhaṃ daśabhirabhimṛśāmi'ityanenābhimṛśati daśabhiriti liṅgādubhābhyāṃ pāṇibhyāmabhimarśanam anulomaṃ mukhādārabhya tata etābhirāhṛtābhirevādbhistāmavokṣet uttarābhistisṛbhiḥ ṛgbhiḥ'yathaiva somaḥ pavata'ityetābhiḥ pratimantra mavokṣaṇam


14

आप्ग्स्-तात्_14.14: अनाप्रीतेन अनुदकलिप्तेन अस्पृष्टोदकेनेत्यर्थः तथाभूतेनशरावेण अनुस्रोतसंस्रोतोषनुलोभं न प्रतीपं गृहीतमुदमाहृत्य पत्तस्तस्याः पादयोःतूर्यन्तींअधःपुष्पिताख्यामोषधिं निधाय शोष्यन्तींप्रसवपीडया शुष्यमाणां स्त्रियं ऽआभिष्ट्वाहं दशभिरभिभूमृशामिऽइति यजुषोभाभ्यां हस्ताभ्याम् वमूर्धन्मूर्धन्यभिमृश्य एताभिराहताभिरद्भिः उत्तराभिःऽयथैव सोमः पवतेऽ; इत्यादिभिस्तिसृभिस्तांसकृदेवावोक्षेत् केचित् प्रतिमन्त्रम्;दृष्टोपकारत्वादिति तत्र प्रथमाया ऋचः ऽप्रतितिष्ठतुऽइत्यवसानम् द्वितीयायाः ऽता कृतमऽइति तृतीयायाः ऽसरस्वतीःऽइति अन्ये तु-शोष्यन्तीति चौषधिः तां मूर्ध्निं निधाय स्त्रियं यत्र क्वचाभिमृशेदिति तन्न;शोष्यन्तीसंज्ञाया ओषधेरप्रसिद्धत्वात् केचित्-शोष्यन्तीनामौषधिः या वनेषु जायते, वेणुपत्रोपमानि च यस्याः पत्राणि, पुष्पाणि च रक्तोपमानि, यां चाग्निशिखेत्याहुरिति तन्न;यतो वाच्यवाचकभावो नेपद्शगम्यः, यथादुर्वार्तिककारपादाः- ऽवाच्यवाचकभावो हि नाचार्यैरुपदिश्यते अन्यथानुपपत्त्या तु व्यवहारात्स गम्यते (तंवा.1-3-9) इति इह तु व्यवहाराभावादेव विप्रतिपत्तिः सा भाष्यकारादप्याप्ततमप्रणीताभिधानकोशेषु शोष्यन्तीशब्दस्याग्निशिखापरपर्यायतया पाठाच्छाम्यति न च तथा दृश्यते तस्माद्वरं पूर्वोक्तमेव व्याख्यानमिति

āpgs-tāt_14.14: anāprītena anudakaliptena aspṛṣṭodakenetyarthaḥ tathābhūtenaśarāveṇa anusrotasaṃsrotoṣanulobhaṃ na pratīpaṃ gṛhītamudamāhṛtya pattastasyāḥ pādayoḥtūryantīṃadhaḥpuṣpitākhyāmoṣadhiṃ nidhāya śoṣyantīṃprasavapīḍayā śuṣyamāṇāṃ striyaṃ 'ābhiṣṭvāhaṃ daśabhirabhibhūmṛśāmi'iti yajuṣobhābhyāṃ hastābhyām vamūrdhanmūrdhanyabhimṛśya etābhirāhatābhiradbhiḥ uttarābhiḥ'yathaiva somaḥ pavate'; ityādibhistisṛbhistāṃsakṛdevāvokṣet kecit pratimantram;dṛṣṭopakāratvāditi tatra prathamāyā ṛcaḥ 'pratitiṣṭhatu'ityavasānam dvitīyāyāḥ 'tā kṛtam'iti tṛtīyāyāḥ 'sarasvatīḥ'iti anye tu-śoṣyantīti cauṣadhiḥ tāṃ mūrdhniṃ nidhāya striyaṃ yatra kvacābhimṛśediti tanna;śoṣyantīsaṃjñāyā oṣadheraprasiddhatvāt kecit-śoṣyantīnāmauṣadhiḥ yā vaneṣu jāyate, veṇupatropamāni ca yasyāḥ patrāṇi, puṣpāṇi ca raktopamāni, yāṃ cāgniśikhetyāhuriti tanna;yato vācyavācakabhāvo nepadśagamyaḥ, yathādurvārtikakārapādāḥ- 'vācyavācakabhāvo hi nācāryairupadiśyate anyathānupapattyā tu vyavahārātsa gamyate (taṃvā.1-3-9) iti iha tu vyavahārābhāvādeva vipratipattiḥ sā bhāṣyakārādapyāptatamapraṇītābhidhānakośeṣu śoṣyantīśabdasyāgniśikhāparaparyāyatayā pāṭhācchāmyati na ca tathā dṛśyate tasmādvaraṃ pūrvoktameva vyākhyānamiti


17

अथान्यद्भैषज्यमाह- 6 जरायुपतनार्थ कर्म यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् आप्ग्स्_14.15 चोम्मेन्तरिएस्: आप्ग्स्-अना_14.15: जरायु गर्भावेष्ठनं,तद्यदि न पतेत्, तत उत्तरो विधिः कर्तव्यः कः पुनरसौ?क्षिप्रंसुवने यो विधिश्चोदितः ऽअनाप्रीतेन शरावेणेऽत्यादि (एवं विहिताभिरद्भिः उत्तराभ्यांमन्त्राभ्यां"तिसदेव पद्यस्व, निरै तु पृश्नि शेवलऽमित्येताभ्यां प्रतिमन्त्रमवोक्षेत् एते च कर्मणी स्वभार्याविषयौ)यक्ष्मगृहीतामन्यां वेति कर्मान्तरे यत्नकरणात् अन्ये पुनरविशेषेणेच्छन्ति

athānyadbhaiṣajyamāha- 6 jarāyupatanārtha karma yadi jarāyu na patedevaṃvihitābhirevādbhiruttarābhyāmavokṣet āpgs_14.15 commentaries: āpgs-anā_14.15: jarāyu garbhāveṣṭhanaṃ,tadyadi na patet, tata uttaro vidhiḥ kartavyaḥ kaḥ punarasau?kṣipraṃsuvane yo vidhiścoditaḥ 'anāprītena śarāveṇe'tyādi (evaṃ vihitābhiradbhiḥ uttarābhyāṃmantrābhyāṃ"tisadeva padyasva, nirai tu pṛśni śevala'mityetābhyāṃ pratimantramavokṣet ete ca karmaṇī svabhāryāviṣayau)yakṣmagṛhītāmanyāṃ veti karmāntare yatnakaraṇāt anye punaraviśeṣeṇecchanti


15

आप्ग्स्-तात्_14.15: यदि प्रसूतायास्तस्याजरायुगर्भप्रावरणंन पतेत्तदाऽअनाप्रीतेन शरावेणऽइत्यादिविधिनाऽहृताभिरद्भिः ऐतु गर्भौ अक्षितःऽ इत्येताभ्यामृग्भ्यां तामवोक्षेत् केचित्-प्रतिमन्त्रम् तथा पूर्वस्मिन्नवोक्षणे षडवसानास्तिस्र ऋचः इह तु ऽतिलदेव पद्यदेव पद्यस्वऽइत्येका ऋक्;ऽनिरैतु पृश्निऽइत्यपरं यजुरिति

āpgs-tāt_14.15: yadi prasūtāyāstasyājarāyugarbhaprāvaraṇaṃna patettadā'anāprītena śarāveṇa'ityādividhinā'hṛtābhiradbhiḥ aitu garbhau akṣitaḥ' ityetābhyāmṛgbhyāṃ tāmavokṣet kecit-pratimantram tathā pūrvasminnavokṣaṇe ṣaḍavasānāstisra ṛcaḥ iha tu 'tiladeva padyadeva padyasva'ityekā ṛk;'niraitu pṛśni'ityaparaṃ yajuriti


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने चतुर्दशः खण्डः समाप्तः पञ्चदशः खण्डः 12 जातकर्म - 1 जातस्य कुमारस्य वात्सप्रेणाभिमन्त्रणम्, मूर्धन्यवघ्राणम्, दक्षिणकर्णजपश्च जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यमाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः आप्ग्स्_15.1 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.1: जातमिति पुल्लिङ्गस्य विवक्षितत्वात् पुंस एवायं जातकर्माख्यः संस्कारः न स्त्रियाः वत्सप्रीर्नाम ऋषिः तेन दृष्टं वात्सप्रं दिवस्परीत्येषो ऽनुवाकः प्रत्यृचमभिमर्शनम् सर्वान्त इत्यन्ये उत्तरेण यजुषाऽअस्मिन्नहऽमित्यनेन उत्तरत्र मातुरिति विशेषणादिह स्व उपस्थ आदधाति उत्तराभिरिति पाठः उत्तराभिः तिसृभिः ऋग्भिः अभिमन्त्रणादीनि त्रीणि कर्तव्यानि ऽअङ्गादङ्गाऽदित्यभिम्नत्रणम् ऽअश्मा भवेऽतिमूर्धन्यवघ्राणम् ऽमेधां तऽइति दक्षिणे कर्णे जापः जप इत्यर्थः केचित्तु उत्तराभ्यामिति द्विवचनान्तपाठमाश्रित्य द्वयोर्मन्त्रयोः त्रिष्वपि कर्मसु विनियोगं मन्यन्ते तेषामवघ्राणलिङ्गेनाभिमन्त्रणं कर्णयोर्जपश्च प्राप्नोति आश्वलायनश्चाह-कर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवस्सवितेति (आश्वश्रौ.1-13-2)

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane caturdaśaḥ khaṇḍaḥ samāptaḥ pañcadaśaḥ khaṇḍaḥ 12 jātakarma - 1 jātasya kumārasya vātsapreṇābhimantraṇam, mūrdhanyavaghrāṇam, dakṣiṇakarṇajapaśca jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyamābhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ āpgs_15.1 commentaries: āpgs-anā_15.1: jātamiti pulliṅgasya vivakṣitatvāt puṃsa evāyaṃ jātakarmākhyaḥ saṃskāraḥ na striyāḥ vatsaprīrnāma ṛṣiḥ tena dṛṣṭaṃ vātsapraṃ divasparītyeṣo 'nuvākaḥ pratyṛcamabhimarśanam sarvānta ityanye uttareṇa yajuṣā'asminnaha'mityanena uttaratra māturiti viśeṣaṇādiha sva upastha ādadhāti uttarābhiriti pāṭhaḥ uttarābhiḥ tisṛbhiḥ ṛgbhiḥ abhimantraṇādīni trīṇi kartavyāni 'aṅgādaṅgā'dityabhimnatraṇam 'aśmā bhave'timūrdhanyavaghrāṇam 'medhāṃ ta'iti dakṣiṇe karṇe jāpaḥ japa ityarthaḥ kecittu uttarābhyāmiti dvivacanāntapāṭhamāśritya dvayormantrayoḥ triṣvapi karmasu viniyogaṃ manyante teṣāmavaghrāṇaliṅgenābhimantraṇaṃ karṇayorjapaśca prāpnoti āśvalāyanaścāha-karṇayorupanidhāya medhājananaṃ japati medhāṃ te devassaviteti (āśvaśrau.1-13-2)


1

आप्ग्स्-तात्_15.1: जातं जातमात्रम्, प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते (मनु.2-29) इति वचनात् एतच्चोपरिशोध्यते जात कुमारं पिता वात्सप्रेण ऽदिवस्परिऽ(तैसं-2-2) इत्यनुवाकेन अन्ते सकृदभिमृश्य ऽअस्मिन्नहमऽइत्यनेन यजुषा स्वस्योपस्थे तमाधाय, उत्तराभ्यां ऽअङ्गादङ्गातऽऽअश्मा भवऽइति द्वाभ्यां तस्याभिमन्त्रणं कर्तव्यम्, तथैव ताभ्यामेव मूर्धन्यवघ्राणम्, एतयोरेवर्चोः दक्षिणे कर्णे जापो जप इत्यर्थः वचनबलाच्च जपाभिमन्त्रणयोरवघ्राणलिङ्गबाधः अभिधानं तु जातसंस्कारक्रियासामान्यात् एतच्च ऽतर्धिस्थाणुचतुष्पथव्यतिक्रमेऽ; (आपगृ.5-16) इत्यत्रोपपादितम् केचित्-उत्तराभिरिति पाठो, नोत्तराभ्यामिति तेन ऽअङ्गादङ्गातऽइत्यभिमन्त्रणम् ऽअश्मा भवऽइत्यवघ्राणम् ऽमेधां ते देवःऽइति जपः अत एवाश्वलायनः -"कर्णयोरुपनिधाय मे धाजननं जपतिऽमेधां ते देवस्सविताऽइति" मधुघृतप्राशनं तु ऽत्वयि मेधामऽ; इति यजुर्भिरेव त्रिभिरिति तन्न;अनधीयमानपाठाङ्गीकारे अतिप्रसङ्गात्

āpgs-tāt_15.1: jātaṃ jātamātram, prāṅnābhivardhanāt puṃso jātakarma vidhīyate (manu.2-29) iti vacanāt etaccopariśodhyate jāta kumāraṃ pitā vātsapreṇa 'divaspari'(taisaṃ-2-2) ityanuvākena ante sakṛdabhimṛśya 'asminnaham'ityanena yajuṣā svasyopasthe tamādhāya, uttarābhyāṃ 'aṅgādaṅgāt''aśmā bhava'iti dvābhyāṃ tasyābhimantraṇaṃ kartavyam, tathaiva tābhyāmeva mūrdhanyavaghrāṇam, etayorevarcoḥ dakṣiṇe karṇe jāpo japa ityarthaḥ vacanabalācca japābhimantraṇayoravaghrāṇaliṅgabādhaḥ abhidhānaṃ tu jātasaṃskārakriyāsāmānyāt etacca 'tardhisthāṇucatuṣpathavyatikrame'; (āpagṛ.5-16) ityatropapāditam kecit-uttarābhiriti pāṭho, nottarābhyāmiti tena 'aṅgādaṅgāt'ityabhimantraṇam 'aśmā bhava'ityavaghrāṇam 'medhāṃ te devaḥ'iti japaḥ ata evāśvalāyanaḥ -"karṇayorupanidhāya me dhājananaṃ japati'medhāṃ te devassavitā'iti" madhughṛtaprāśanaṃ tu 'tvayi medhām'; iti yajurbhireva tribhiriti tanna;anadhīyamānapāṭhāṅgīkāre atiprasaṅgāt


2

2 नक्षत्रनामनिर्देशः नक्षत्रनाम च निर्दिशति आप्ग्स्_15.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.2: अभिजिघ्राम्यसौ इत्यत्रासौशब्दस्य स्थाने नक्षत्रनामनिर्देशः तत्संबुध्या निर्दिशेत्-पशूनां त्वा हिंकारेणाभिझिघ्राम्याश्वयुजेत्यादि तत्र नक्षत्रशब्देषु जातार्थे रूपनिर्णयार्थः श्लोकः आप्ग्स्-तात्_15.2: रोरेममृज्येचिषु वृद्धिरादौष्ठात्पे च वान्त्यश्रवशाश्वयुक्षु शेषेषु नाम्वोः कप्रस्स्वरोषन्त्यः स्वाप्वोरदीर्घस्साविसर्ग इष्टः अस्यार्थः-रोहिणी रेवती मघा मृगशीर्षा ज्येष्ठा तित्रा-इत्येतेषु आद्यक्षरनिर्दिष्टेषु आदौ वृद्धिर्बवति, ऽनक्षत्रेभ्यो बहुलम्, (पासू.4-3-37)इति बहुलग्रहणाज्जातार्थप्रत्ययस्य च लुगभावः रूपं च रौहिणः रैवतः माघः मार्गशीर्षः ज्यैष्ठः चैत्रः इति ष्ठात्पे च, प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः "जे प्रोष्ठपदानामऽ(पासु.7-3-18)इत्युत्तरपदवृद्धिरित्यर्थः पूर्ववच्च लुगभावः प्रोष्ठपादः वान्त्यश्रवशाश्वयुक्षु अन्त्यमाम्नानतः अपभरणीरित्यर्थः श्रवः श्रवणं श-शतभिषक् अश्वयुक् इत्येतेषु चतुर्षु वा विकल्पेन वृद्धिः अत्र च श्रवणापभरण्योः बहुलग्रहणादेव लुको विकल्पः अश्वयुक्छतभिषजोस्तु ऽवत्सशालाभिजिदश्वयुक्छ- तभिषजो वाऽ(पासू.4-3-36) इति सूत्रेण अपभरणः आपभरणः श्रवणः श्रावणः शतभिषक् शातभिषजः अश्वयुक् आश्वयुजः शेषेषु न उक्तादन्येषु नक्षत्रेषु न वृद्धिः यतो ऽत्र ऽश्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुलाल्लुकऽ; (पासू.4-3-34) इत्यनेन, नक्षत्रेभ्यो बहुलमऽइत्यनेन च लुग्व भवति ऽलुक्तद्धितलुकिऽ(पासू-2-49) इति स्त्रीप्रत्ययनिवृत्तिः कृत्तिकः तिष्यः आश्रेषः फाल्गुनः हस्तः विशाखः अनूराधः आषाढः श्रविष्ठः आम्वोः कपरः स्वरो ऽन्त्यः, आर्द्रमूलयोरन्त्यः स्वरः कशब्दपरो भवति पूर्वाङ्णापरोह्णार्द्रअमूलाऽइत्यादिना वुन्प्रत्यय इत्यर्थः आर्द्रकः मूलकः स्वाप्वोरदीर्घस्साविसर्ग इष्टः, स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यस्वरो ऽदीर्घस्सविसर्गश्चेष्टः ऽश्रविष्ठाफल्गुनीऽइत्यादिना लुक् सविसर्गत्वं च पूर्वस्य स्त्रीप्रत्ययस्यनिवृत्तौ हल्ङ्यादिलोपाभावात् उत्तरस्यतु तनुवदुकारान्तत्वात् स्वातिः पुनर्वसुः एवं सर्वेषां नक्षत्रनाम्नां प्रथमया निर्देशः सूक्तवाके जातकर्मणि पुनस्सम्बुद्ध्या

2 nakṣatranāmanirdeśaḥ nakṣatranāma ca nirdiśati āpgs_15.2 commentaries: āpgs-anā_15.2: abhijighrāmyasau ityatrāsauśabdasya sthāne nakṣatranāmanirdeśaḥ tatsaṃbudhyā nirdiśet-paśūnāṃ tvā hiṃkāreṇābhijhighrāmyāśvayujetyādi tatra nakṣatraśabdeṣu jātārthe rūpanirṇayārthaḥ ślokaḥ āpgs-tāt_15.2: roremamṛjyeciṣu vṛddhirādauṣṭhātpe ca vāntyaśravaśāśvayukṣu śeṣeṣu nāmvoḥ kaprassvaroṣantyaḥ svāpvoradīrghassāvisarga iṣṭaḥ asyārthaḥ-rohiṇī revatī maghā mṛgaśīrṣā jyeṣṭhā titrā-ityeteṣu ādyakṣaranirdiṣṭeṣu ādau vṛddhirbavati, 'nakṣatrebhyo bahulam, (pāsū.4-3-37)iti bahulagrahaṇājjātārthapratyayasya ca lugabhāvaḥ rūpaṃ ca rauhiṇaḥ raivataḥ māghaḥ mārgaśīrṣaḥ jyaiṣṭhaḥ caitraḥ iti ṣṭhātpe ca, proṣṭhapadetyatra ṣṭhakārātpare pakāre ca vṛddhiḥ "je proṣṭhapadānām'(pāsu.7-3-18)ityuttarapadavṛddhirityarthaḥ pūrvavacca lugabhāvaḥ proṣṭhapādaḥ vāntyaśravaśāśvayukṣu antyamāmnānataḥ apabharaṇīrityarthaḥ śravaḥ śravaṇaṃ śa-śatabhiṣak aśvayuk ityeteṣu caturṣu vā vikalpena vṛddhiḥ atra ca śravaṇāpabharaṇyoḥ bahulagrahaṇādeva luko vikalpaḥ aśvayukchatabhiṣajostu 'vatsaśālābhijidaśvayukcha- tabhiṣajo vā'(pāsū.4-3-36) iti sūtreṇa apabharaṇaḥ āpabharaṇaḥ śravaṇaḥ śrāvaṇaḥ śatabhiṣak śātabhiṣajaḥ aśvayuk āśvayujaḥ śeṣeṣu na uktādanyeṣu nakṣatreṣu na vṛddhiḥ yato 'tra 'śraviṣṭhāphalgunyanūrādhāsvātitiṣyapunarvasuhasta viśākhāṣāḍhābahulālluk'; (pāsū.4-3-34) ityanena, nakṣatrebhyo bahulam'ityanena ca lugva bhavati 'luktaddhitaluki'(pāsū-2-49) iti strīpratyayanivṛttiḥ kṛttikaḥ tiṣyaḥ āśreṣaḥ phālgunaḥ hastaḥ viśākhaḥ anūrādhaḥ āṣāḍhaḥ śraviṣṭhaḥ āmvoḥ kaparaḥ svaro 'ntyaḥ, ārdramūlayorantyaḥ svaraḥ kaśabdaparo bhavati pūrvāṅṇāparohṇārdraamūlā'ityādinā vunpratyaya ityarthaḥ ārdrakaḥ mūlakaḥ svāpvoradīrghassāvisarga iṣṭaḥ, svāpvoḥ svātīpunarvasvorantyasvaro 'dīrghassavisargaśceṣṭaḥ 'śraviṣṭhāphalgunī'ityādinā luk savisargatvaṃ ca pūrvasya strīpratyayasyanivṛttau halṅyādilopābhāvāt uttarasyatu tanuvadukārāntatvāt svātiḥ punarvasuḥ evaṃ sarveṣāṃ nakṣatranāmnāṃ prathamayā nirdeśaḥ sūktavāke jātakarmaṇi punassambuddhyā


3

तद्रहस्यं भवति आप्ग्स्_15.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.3: नक्षत्रनाम रहस्यं भवति यथा परे न जानन्ति तथा वक्तव्यमित्यर्थः सूक्तवाकादिष्वप्येवमेव

tadrahasyaṃ bhavati āpgs_15.3 commentaries: āpgs-anā_15.3: nakṣatranāma rahasyaṃ bhavati yathā pare na jānanti tathā vaktavyamityarthaḥ sūktavākādiṣvapyevameva


3

आप्ग्स्-तात्_15.3: नक्षत्रनाम च रहस्यं निर्दिशतीति सूत्रे प्रणेतव्ये सूत्रान्तरकरणात् यत् नामनक्षत्रनिबन्धनं, यच्च दशम्यां कृतं तदुभयं जातकर्म सूक्तवाकान्नप्राशनाभिवादनादिषु नित्यं रहस्यमेव निर्देश्यं भवति

āpgs-tāt_15.3: nakṣatranāma ca rahasyaṃ nirdiśatīti sūtre praṇetavye sūtrāntarakaraṇāt yat nāmanakṣatranibandhanaṃ, yacca daśamyāṃ kṛtaṃ tadubhayaṃ jātakarma sūktavākānnaprāśanābhivādanādiṣu nityaṃ rahasyameva nirdeśyaṃ bhavati


4

3 कुमारस्य मधुघृतप्राशनम्, दधिघृतप्राशनं च मधु, घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्य बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्गारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत् आप्ग्स्_15.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.4: मधुघृतमित्येतद्वयं विषमपरिमाणं कास्यपात्रे संसृज्य तस्मिन् हिरण्यं दर्भेण, निष्टर्क्य बध्वाऽदधाति निष्टर्क्यमिति बन्धनविशेषो लोकप्रसिद्धः तथा बद्धेन हिरण्येन तद्रसद्वयमादाय तेनैव कुमारं प्राशयेत् उत्तरैस्त्रिभिः ऽत्वयि मेधाऽमित्यादिभिः प्रतिमन्त्रं प्राशनम् ततौत्तराभिः पञ्चभिःऋग्भिः ऽक्षेत्रियै त्वेऽत्यादिभिः प्रतिमन्त्रं स्ना#उयति ततो ऽन्यस्मिन् कांस्यपात्रे दधि घृतञ्च संसृड्य तत्पृषदाड्यं तेनैव कांस्येन प्राशयति व्याहृतीभिरेङ्कारचतुर्थाभिःभूः स्वाहेत्यादिभिः प्रतिमन्त्रम् ततश्शेषद्वयमद्भिस्संसृड्य गेष्ठे निनयेत् कुमारग्रहणं असमर्थस्यापि कुमारस्यैव प्राशनमुपायेन यथा स्यादिति तेन यत्नाभावे"धानाः कुमारान् प्राशयन्ति""क्षैत्रपत्त्यं च प्राशयन्ति"इत्यादौ प्राशनमसमर्थानां न भवति

3 kumārasya madhughṛtaprāśanam, dadhighṛtaprāśanaṃ ca madhu, ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkya badhvāvadāyottarairmantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhissnāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhiroṅgāracaturthābhiḥ kumāraṃ prāśayitvādbhiśśeṣaṃ saṃsṛjya goṣṭhe ninayet āpgs_15.4 commentaries: āpgs-anā_15.4: madhughṛtamityetadvayaṃ viṣamaparimāṇaṃ kāsyapātre saṃsṛjya tasmin hiraṇyaṃ darbheṇa, niṣṭarkya badhvā'dadhāti niṣṭarkyamiti bandhanaviśeṣo lokaprasiddhaḥ tathā baddhena hiraṇyena tadrasadvayamādāya tenaiva kumāraṃ prāśayet uttaraistribhiḥ 'tvayi medhā'mityādibhiḥ pratimantraṃ prāśanam tatauttarābhiḥ pañcabhiḥṛgbhiḥ 'kṣetriyai tve'tyādibhiḥ pratimantraṃ snā#uyati tato 'nyasmin kāṃsyapātre dadhi ghṛtañca saṃsṛḍya tatpṛṣadāḍyaṃ tenaiva kāṃsyena prāśayati vyāhṛtībhireṅkāracaturthābhiḥbhūḥ svāhetyādibhiḥ pratimantram tataśśeṣadvayamadbhissaṃsṛḍya geṣṭhe ninayet kumāragrahaṇaṃ asamarthasyāpi kumārasyaiva prāśanamupāyena yathā syāditi tena yatnābhāve"dhānāḥ kumārān prāśayanti""kṣaitrapattyaṃ ca prāśayanti"ityādau prāśanamasamarthānāṃ na bhavati


4

आप्ग्स्-तात्_15.4: निष्टकर्य शिखाबन्धनवत् सरन्ध्रेण ग्रन्थिना निष्टर्क्य बध्नाति;प्रजानां प्रडननायऽइति लिङ्गात् उत्तरैर्मन्त्रैःऽमेधां ते देवस्सविताऽइत्यृचा, ऽत्वयि मेधानऽइति त्रभिर्यजुर्भिः प्राशनं चतुर्णामन्ते सकृदेव हिरण्येन गृहात्वा "मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषामऽ; (मनु.2-29) इति मनुवचनात् उत्तराभिः पञ्चभिः ऽक्षेत्रियै त्वा निऋत्यै त्वाऽइत्यादिभिः स्नापनमपि पञ्चानामन्ते सकृदेव दधि धृतमितिव समसृष्टं पृषदाज्यं तच्च यस्मिन् कांस्ये संसृज्यते तेनैव प्राशयेन्न हस्तेन व्याहृतीभिरोघ्कारचतुर्थाभिःऽभूः स्वाहाऽ; इत्यादिभिः अत्राप्यन्ते सकृत्प्राशनम् प्राशितशेषमद्भिस्संसृज्य गेष्ठे अधिकरणे ऽन्यो निनयेत् केचित्-मधृघृतसंसर्गो ऽपि कास्ये नियतः प्राशनद्वयं स्नापनं च प्रितिमन्त्रमिति

āpgs-tāt_15.4: niṣṭakarya śikhābandhanavat sarandhreṇa granthinā niṣṭarkya badhnāti;prajānāṃ praḍananāya'iti liṅgāt uttarairmantraiḥ'medhāṃ te devassavitā'ityṛcā, 'tvayi medhān'iti trabhiryajurbhiḥ prāśanaṃ caturṇāmante sakṛdeva hiraṇyena gṛhātvā "mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām'; (manu.2-29) iti manuvacanāt uttarābhiḥ pañcabhiḥ 'kṣetriyai tvā niṛtyai tvā'ityādibhiḥ snāpanamapi pañcānāmante sakṛdeva dadhi dhṛtamitiva samasṛṣṭaṃ pṛṣadājyaṃ tacca yasmin kāṃsye saṃsṛjyate tenaiva prāśayenna hastena vyāhṛtībhiroghkāracaturthābhiḥ'bhūḥ svāhā'; ityādibhiḥ atrāpyante sakṛtprāśanam prāśitaśeṣamadbhissaṃsṛjya geṣṭhe adhikaraṇe 'nyo ninayet kecit-madhṛghṛtasaṃsargo 'pi kāsye niyataḥ prāśanadvayaṃ snāpanaṃ ca pritimantramiti


5

4 दक्षिणस्तनदापनम् उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् आप्ग्स्_15.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.5: अथ तं कुमारं ऽमा ते कुमारऽमित्येतयामातुरुपस्थआदधाति एतावन्तं कालं स्वोपस्थे तस्मात् शेषनिनयनम- प्यन्येन कारायितव्यम् ततौत्तरयर्चाऽअयं कुमारऽइत्येतयादक्षिणं स्तनं प्रतिधाप्य तत उत्तराभ्यां ऋग्भ्यांऽयद्भूमेर्हृदयऽमित्येताभ्यां प्रतिमन्त्रं पृथिवीमभिमृशति ततः तं कुमारं अभिमृषाटायां भूमौ संवेशयति माता तं संविष्टमुत्तरेण यजुषा ऽनामयति न रुदतीऽत्यनेनाभिमृशति

4 dakṣiṇastanadāpanam uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam āpgs_15.5 commentaries: āpgs-anā_15.5: atha taṃ kumāraṃ 'mā te kumāra'mityetayāmāturupasthaādadhāti etāvantaṃ kālaṃ svopasthe tasmāt śeṣaninayanama- pyanyena kārāyitavyam tatauttarayarcā'ayaṃ kumāra'ityetayādakṣiṇaṃ stanaṃ pratidhāpya tata uttarābhyāṃ ṛgbhyāṃ'yadbhūmerhṛdaya'mityetābhyāṃ pratimantraṃ pṛthivīmabhimṛśati tataḥ taṃ kumāraṃ abhimṛṣāṭāyāṃ bhūmau saṃveśayati mātā taṃ saṃviṣṭamuttareṇa yajuṣā 'nāmayati na rudatī'tyanenābhimṛśati

Section (cont. 18)

5

आप्ग्स्-तात्_15.5: उत्तरयाऽमा ते कुमारमऽइत्येतया कुमारंमातुरुपस्थ आदधाति इह च मातृग्रहणादितः पूर्व स्वोपस्थ एव अत एव च शेषनिनयनमन्यकर्तृकम् उत्तरयाऽअयं कमारः इत्येतयाधक्षिणं स्तनं प्रतिधापयतिपाययति इदं च मन्त्रस्तन- नियमयोर्विधानं प्रथमस्तनपानविषयम्, प्रथमातिक्रमे कारणाभावात् ततश्च जातोष्टिः, ऽवैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनातिऽ(तैसं.2-2-5) इत्यादिना यद्यपि पुत्रजन्माख्यानिमित्तसंयोगेन श्रुता तथापि क्षामवत्यादिवन्न निमित्तादनन्तरं कर्तव्या कुत एतत्?रात्रिसत्रन्यायेन आर्थवादिकपुत्रगतब्रह्मवर्चसादिकामनासंवलितस्यैव जन्मनो ऽधिकारहेतुत्वाभ्युपगमात् जातेष्ठिप्रवृत्तेश्चोत्कटजीवत्पुत्रगतपूततादिफलरागाधीनत्वात् दीर्घकालसमाप्यायां चेष्टौ कृतायां पश्चाद्वैधस्तनमाने सति कुमार एव शेषी शिष्कण्ठतया न जीवेत् ततश्चेष्टेयां रागाधीनायां प्रवृत्तिरेव न स्यात् तस्मात् जननानन्तरमेव संशासनान्तं जातकर्मैव कर्तव्यम् इष्टिस्तूक्तेन न्यायेन निमित्तस्वारस्यभङ्गस्य दुर्निवारत्वात् चोदकानुग्रहाच्चाशौचे ऽपगते पर्वण्येव कर्तव्या उत्तराभ्यांऽयद्भूमेर्हृदयंऽइत्येताभ्यांपृथिवींसकृदभिमृशति,यत्र कुमारश्शतंसंविष्टं ऽनामयति न रुदतिऽइतियजुषा भिमृशति

āpgs-tāt_15.5: uttarayā'mā te kumāram'ityetayā kumāraṃmāturupastha ādadhāti iha ca mātṛgrahaṇāditaḥ pūrva svopastha eva ata eva ca śeṣaninayanamanyakartṛkam uttarayā'ayaṃ kamāraḥ ityetayādhakṣiṇaṃ stanaṃ pratidhāpayatipāyayati idaṃ ca mantrastana- niyamayorvidhānaṃ prathamastanapānaviṣayam, prathamātikrame kāraṇābhāvāt tataśca jātoṣṭiḥ, 'vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte yadaṣṭakapālo bhavati gāyatriyaivainaṃ brahmavarcasena punāti'(taisaṃ.2-2-5) ityādinā yadyapi putrajanmākhyānimittasaṃyogena śrutā tathāpi kṣāmavatyādivanna nimittādanantaraṃ kartavyā kuta etat?rātrisatranyāyena ārthavādikaputragatabrahmavarcasādikāmanāsaṃvalitasyaiva janmano 'dhikārahetutvābhyupagamāt jāteṣṭhipravṛtteścotkaṭajīvatputragatapūtatādiphalarāgādhīnatvāt dīrghakālasamāpyāyāṃ ceṣṭau kṛtāyāṃ paścādvaidhastanamāne sati kumāra eva śeṣī śiṣkaṇṭhatayā na jīvet tataśceṣṭeyāṃ rāgādhīnāyāṃ pravṛttireva na syāt tasmāt jananānantarameva saṃśāsanāntaṃ jātakarmaiva kartavyam iṣṭistūktena nyāyena nimittasvārasyabhaṅgasya durnivāratvāt codakānugrahāccāśauce 'pagate parvaṇyeva kartavyā uttarābhyāṃ'yadbhūmerhṛdayaṃ'ityetābhyāṃpṛthivīṃsakṛdabhimṛśati,yatra kumāraśśataṃsaṃviṣṭaṃ 'nāmayati na rudati'itiyajuṣā bhimṛśati


6

5 फलीकरणहोमाः उत्तरेण यजुषा शिरस्त उद्कुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रतिस्वाहाकारं हुत्वा संशास्ति -प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति आप्ग्स्_15.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.6: ततस्तस्य शिरस्समीपे उत्तरेण यजुषाऽआपस्सुप्तेष्विऽत्यनेन उदकुम्भं निदधाति ततस्सर्षपान् फलीकरणमिश्रानञ्जलि- ना जुहोतिउत्तरैर्मन्त्रैःअष्टाभिः ऽअयं कलिऽमित्यादिभिः तत्र च प्रतिस्वाहाकारं त्रिर्होमः सकृन्मन्त्रेण द्विस्तूष्णीम् द्रव्यं च पुनः पुनरादेयम् केचित्तु सकृदुपात्तेनैव त्रिर्जुह्वति उत्तरयोश्च होमयोः स्वाहाकारमात्रमावर्तयन्ति होमश्चायमपूर्वः तन्त्रस्याविधा- नात् परिस्तरणं तु भवति परिषेटनं समन्तमुभयतः हुत्वा ततस्संशास्ति कान् !ये सूतिकागारं प्रविशन्ति तत्र संशासने एवकारः एवमित्यस्यार्थे एतदुक्तं भवति-अस्य सूतिकागारस्य यदा यदा प्रवेशो युष्माभिः क्रियते तदा तदा सर्षपान् फलीकरण- मिश्रनस्मिन्नग्नावेवं तूष्णीमावपत यथा मयोप्ताः अञ्जलिना त्रिल्त्रिश्चेति तत्र तूष्णीमित्यतिदेशप्राप्तस्य मन्त्रस्य प्रतिषेधः यथासंप्रैषं ते कुर्वन्ति होमश्चायं कुमारस्य रक्षार्थः संस्कारः, न मातुः, प्रकरणात् तेन यद्यपिऽयस्यै विजातायां मनऽइति मातुरपि रक्षा प्रतीयते तथापि तदर्थो होमो न भवति ततश्च स्त्रीप्रसवे दशाहमध्ये पुत्रमृतौ च न भवति

5 phalīkaraṇahomāḥ uttareṇa yajuṣā śirasta udkumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrānañjalinottaraistristriḥ pratisvāhākāraṃ hutvā saṃśāsti -praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti āpgs_15.6 commentaries: āpgs-anā_15.6: tatastasya śirassamīpe uttareṇa yajuṣā'āpassupteṣvi'tyanena udakumbhaṃ nidadhāti tatassarṣapān phalīkaraṇamiśrānañjali- nā juhotiuttarairmantraiḥaṣṭābhiḥ 'ayaṃ kali'mityādibhiḥ tatra ca pratisvāhākāraṃ trirhomaḥ sakṛnmantreṇa dvistūṣṇīm dravyaṃ ca punaḥ punarādeyam kecittu sakṛdupāttenaiva trirjuhvati uttarayośca homayoḥ svāhākāramātramāvartayanti homaścāyamapūrvaḥ tantrasyāvidhā- nāt paristaraṇaṃ tu bhavati pariṣeṭanaṃ samantamubhayataḥ hutvā tatassaṃśāsti kān !ye sūtikāgāraṃ praviśanti tatra saṃśāsane evakāraḥ evamityasyārthe etaduktaṃ bhavati-asya sūtikāgārasya yadā yadā praveśo yuṣmābhiḥ kriyate tadā tadā sarṣapān phalīkaraṇa- miśranasminnagnāvevaṃ tūṣṇīmāvapata yathā mayoptāḥ añjalinā triltriśceti tatra tūṣṇīmityatideśaprāptasya mantrasya pratiṣedhaḥ yathāsaṃpraiṣaṃ te kurvanti homaścāyaṃ kumārasya rakṣārthaḥ saṃskāraḥ, na mātuḥ, prakaraṇāt tena yadyapi'yasyai vijātāyāṃ mana'iti māturapi rakṣā pratīyate tathāpi tadartho homo na bhavati tataśca strīprasave daśāhamadhye putramṛtau ca na bhavati


6

आप्ग्स्-तात्_15.6: उत्तरेण ऽआपस्सुप्तेषुऽइत्यनेनयजुषा कुमारस्य शिरस्समीपे उदकस्य पूर्णकुम्भं निधाय अथ ऽयत्र क्व ताग्निमऽ; (आयध.2-1-23) इत्यादिविधिना श्रोत्रियागारादग्निमाहृत्य तमुपनिधायफलीकरणमिश्रान् सर्षपान् उत्तरैःऽअयं कलिमऽइत्यादिभिरष्टभिर्मन्त्रैः अञ्जलिना प्रतिमन्त्रंत्रिस्रिर्जुहोति तत्र तु द्विस्तूष्णीम् तूष्णीकेष्वपि स्वाहाकारो भवति, प्रतिमन्त्रमिति सिद्धे प्रतिस्वाहाकारमित्यधिकाक्षरात् अथ सूतिकागृहपालान्समशास्ति-प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति सम्प्रैषस्य चायं विवक्षितोरऽथः प्रतिप्रवेशं तदनन्तरमेव सर्षपान् फलीकरणमिश्रान् अञ्जलिना अस्मिन्नेवाग्नौ तूष्णीं वाग्यता एव आवपतेति एव काराच्च प्रवेशावापयोर्मध्ये त्रुटिमात्रस्यापि कालस्य न क्षेपः सर्षपाणामेवाञ्जलिना आवापः;प्रकृतत्वात् केचित्- एवकार एवमित्यर्थे तूष्णीमिति चातिदेशप्राप्तमन्त्रप्रतिषेधार्थमिति

āpgs-tāt_15.6: uttareṇa 'āpassupteṣu'ityanenayajuṣā kumārasya śirassamīpe udakasya pūrṇakumbhaṃ nidhāya atha 'yatra kva tāgnim'; (āyadha.2-1-23) ityādividhinā śrotriyāgārādagnimāhṛtya tamupanidhāyaphalīkaraṇamiśrān sarṣapān uttaraiḥ'ayaṃ kalim'ityādibhiraṣṭabhirmantraiḥ añjalinā pratimantraṃtrisrirjuhoti tatra tu dvistūṣṇīm tūṣṇīkeṣvapi svāhākāro bhavati, pratimantramiti siddhe pratisvāhākāramityadhikākṣarāt atha sūtikāgṛhapālānsamaśāsti-praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti sampraiṣasya cāyaṃ vivakṣitor'thaḥ pratipraveśaṃ tadanantarameva sarṣapān phalīkaraṇamiśrān añjalinā asminnevāgnau tūṣṇīṃ vāgyatā eva āvapateti eva kārācca praveśāvāpayormadhye truṭimātrasyāpi kālasya na kṣepaḥ sarṣapāṇāmevāñjalinā āvāpaḥ;prakṛtatvāt kecit- evakāra evamityarthe tūṣṇīmiti cātideśaprāptamantrapratiṣedhārthamiti


7

एवमहरहरानिर्दशतायाः आप्ग्स्_15.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.7: विजननप्रभृति यावत् दशाहानि न निर्गच्छन्ति तावदेव होमः कर्तव्यः संशानञ्चेत्यर्थः सकृच्चहोमाः, न शायम् यद्यपि संशासनमनन्तरं तथापि तावन्मात्रस्यायमतिदेशो न भवति तस्य होमाशेषत्वात् नापि वात्सप्रादेः कृत्स्नस्य कल्पान्तरेषु सर्वेष्वप्रसिद्धत्वात्

evamaharaharānirdaśatāyāḥ āpgs_15.7 commentaries: āpgs-anā_15.7: vijananaprabhṛti yāvat daśāhāni na nirgacchanti tāvadeva homaḥ kartavyaḥ saṃśānañcetyarthaḥ sakṛccahomāḥ, na śāyam yadyapi saṃśāsanamanantaraṃ tathāpi tāvanmātrasyāyamatideśo na bhavati tasya homāśeṣatvāt nāpi vātsaprādeḥ kṛtsnasya kalpāntareṣu sarveṣvaprasiddhatvāt


7

आप्ग्स्-तात्_15.7: यथैतदनन्करोक्तं तूष्णीमावपनं एवमहरहः अनिर्दशतायास्सूतिकागृहपालैः कर्तव्यम् आङ्मर्यादायाम् निर्दशानिर्गता दशभ्यो ऽहोरात्रेभ्यो या रात्रिस्सा आदशम्या रात्रेरित्यर्तः

āpgs-tāt_15.7: yathaitadanankaroktaṃ tūṣṇīmāvapanaṃ evamaharahaḥ anirdaśatāyāssūtikāgṛhapālaiḥ kartavyam āṅmaryādāyām nirdaśānirgatā daśabhyo 'horātrebhyo yā rātrissā ādaśamyā rātrerityartaḥ


8

एवं जातकर्मोत्त्क्वा क्रमप्राप्तं नामकरणमाह 13 नामकरणम् - 6 तस्य कालः (प.6.,खं.15-8) दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति आप्ग्स्_15.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.8: उत्थानं नाम सूतिकालिङ्गानामग्न्युदकुम्भादीनामपनयनम् भर्तुश्च नापितकर्म यच्चन्यत् स्त्रियो विदुः तच्च सर्ववर्मानां दशमे ऽहनि भवति दशमीशब्देन न रात्रिरुच्यते किं तर्हि ?अहोरात्रसमुदायः यथा"तस्मात् सदृशीनां रात्रीणा"मिति तत्र परिभाषावशादहन्येव कर्म स्नानं च सति सम्भवे तस्मिन्नेवाहनि नियमेन भवति प्रकारणादेव सिद्धे पुत्रस्येति वचनं वक्ष्यमाणो ऽनाम्नो लक्षणविशेषःऽतस्यैव यथा स्यात् तेन कुमार्याः ऽअयुजाक्षरं कुमार्याःऽ(आपगृ.15-11) इत्येतावदेव भवति न ऽनाम- पूर्वमाख्यातोत्तरऽमित्यादि पिता मातेति ता च ददतुर्यदग्रे"(तैसं.1-5-10) इति तत्र प्रयोगः शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजये (आपघ.2-15-11) दिति ब्राह्मणान् भोजयित्वा पितामाता च नामाग्रे ऽभिव्याहृत्याशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् केचित् नाम करिष्याव सङ्कल्पमिच्छन्ति

evaṃ jātakarmottkvā kramaprāptaṃ nāmakaraṇamāha 13 nāmakaraṇam - 6 tasya kālaḥ (pa.6.,khaṃ.15-8) daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti āpgs_15.8 commentaries: āpgs-anā_15.8: utthānaṃ nāma sūtikāliṅgānāmagnyudakumbhādīnāmapanayanam bhartuśca nāpitakarma yaccanyat striyo viduḥ tacca sarvavarmānāṃ daśame 'hani bhavati daśamīśabdena na rātrirucyate kiṃ tarhi ?ahorātrasamudāyaḥ yathā"tasmāt sadṛśīnāṃ rātrīṇā"miti tatra paribhāṣāvaśādahanyeva karma snānaṃ ca sati sambhave tasminnevāhani niyamena bhavati prakāraṇādeva siddhe putrasyeti vacanaṃ vakṣyamāṇo 'nāmno lakṣaṇaviśeṣaḥ'tasyaiva yathā syāt tena kumāryāḥ 'ayujākṣaraṃ kumāryāḥ'(āpagṛ.15-11) ityetāvadeva bhavati na 'nāma- pūrvamākhyātottara'mityādi pitā māteti tā ca dadaturyadagre"(taisaṃ.1-5-10) iti tatra prayogaḥ śucīn mantravatassarvakṛtyeṣu bhojaye (āpagha.2-15-11) diti brāhmaṇān bhojayitvā pitāmātā ca nāmāgre 'bhivyāhṛtyāśīrvacanaṃ brāhmaṇairabhivyāhārayetām amuṣmai svastīti kalpāntare darśanāt kecit nāma kariṣyāva saṅkalpamicchanti


8

आप्ग्स्-तात्_15.8: दशम्यांरात्रौ दशमे ऽहनि उत्थितायांसूतिकागृहान्निष्क्रान्तायां प्रसूतिकायां स्नातायां च सत्याम् एवं वदता दशमे ऽहनि निष्क्रम्य स्नातव्यमित्युक्तं भवति पुत्रस्य पिता नाम दधातिव व्यावस्थापयति;न तु करोति;शब्दार्थयोस्सम्बन्धस्य नित्यत्वात् माता च इतिशब्दश्चार्थे, मातापितरौ सहितौ नाम धत्त इति इममर्थ मन्त्रवर्णे ऽप्याह"मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे" (तैसं.1-5-100 इति

āpgs-tāt_15.8: daśamyāṃrātrau daśame 'hani utthitāyāṃsūtikāgṛhānniṣkrāntāyāṃ prasūtikāyāṃ snātāyāṃ ca satyām evaṃ vadatā daśame 'hani niṣkramya snātavyamityuktaṃ bhavati putrasya pitā nāma dadhātiva vyāvasthāpayati;na tu karoti;śabdārthayossambandhasya nityatvāt mātā ca itiśabdaścārthe, mātāpitarau sahitau nāma dhatta iti imamartha mantravarṇe 'pyāha"mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhaturyadagre" (taisaṃ.1-5-100 iti


9

7 नामनि पुंसो ऽक्षरसंख्या (प.6.,खं.15-9) द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् आप्ग्स्_15.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.9: अथ नाम्नो लक्षणविशेषः सव्यञ्जनो निर्व्यञ्जनो वा स्वरो ऽक्षरंनामद्रव्यप्रधानं, तत्पूर्वपदं यत्र तत्नामपूर्व क्रियानिमित्तमाख्यातं, तदुत्तरपदं यत्र तताख्यातोत्तरं दीर्घात्परो ऽभिनिष्ठानो विसर्जनीयो ऽन्ते यस्य तत्दीर्घाभिनिष्ठानान्तम् तथा घोषवद्व्याञ्जनमादिभूतं यस्य तत्घोषवदादिअन्तर्मध्ये अन्तस्था यस्य ततन्तरन्तस्थम्वर्गाणां तृतीयचतुर्थौ इकारश्च घोषवन्तः यरलवा अन्तस्थाः दिवं नयतीति द्युतिः गाः श्रयते इति गोश्रिः गां प्रीणतीति गोप्तीः हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि "ऋष्यणूकं देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्यु"रिति (बौगृ.2 -2-28,29) बौधायनः ऋष्यणूकं ऋष्यभिधीयि वसिष्ठो जमदग्निरिति देवताणूकंदेवताभिधायि रुद्रो विष्णुरिति पूर्वपुरुषाः पित्रादयः

7 nāmani puṃso 'kṣarasaṃkhyā (pa.6.,khaṃ.15-9) dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvamākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham āpgs_15.9 commentaries: āpgs-anā_15.9: atha nāmno lakṣaṇaviśeṣaḥ savyañjano nirvyañjano vā svaro 'kṣaraṃnāmadravyapradhānaṃ, tatpūrvapadaṃ yatra tatnāmapūrva kriyānimittamākhyātaṃ, taduttarapadaṃ yatra tatākhyātottaraṃ dīrghātparo 'bhiniṣṭhāno visarjanīyo 'nte yasya tatdīrghābhiniṣṭhānāntam tathā ghoṣavadvyāñjanamādibhūtaṃ yasya tatghoṣavadādiantarmadhye antasthā yasya tatantarantasthamvargāṇāṃ tṛtīyacaturthau ikāraśca ghoṣavantaḥ yaralavā antasthāḥ divaṃ nayatīti dyutiḥ gāḥ śrayate iti gośriḥ gāṃ prīṇatīti goptīḥ hiraṇyaḥ dadātīti hiraṇyadāḥ bhūridāḥ haradatta ityādīnyudāharaṇāni "ṛṣyaṇūkaṃ devātāṇūkaṃ vā yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syu"riti (baugṛ.2 -2-28,29) baudhāyanaḥ ṛṣyaṇūkaṃ ṛṣyabhidhīyi vasiṣṭho jamadagniriti devatāṇūkaṃdevatābhidhāyi rudro viṣṇuriti pūrvapuruṣāḥ pitrādayaḥ


9

आप्ग्स्-तात्_15.9: अथ व्यवस्थापनीयस्य नाम्नो लक्षणमुच्यते-द्व्यक्षरं चतुरक्षरंवेति समासे ऽभिप्रेतः, न तु रूढिः ऽनामपूर्वमाख्यातेत्तरमऽइति पूर्वोत्तरखण्डव्यवस्थापनात् नापि वाक्यम्;तस्य द्रव्यवाचकत्वाभावात् कुतः पुनर्वाक्यसमासयोरर्तवत्समुदायत्वाविशेषेऽपि समास एव द्रव्यवाचको न वाक्यम्?इति चेत्;ऽकृत्तद्धितमासाश्चऽ(पा,सू.1-2-46) इति समासग्रहणस्य नियमार्थत्वात् नामपूर्व, द्रव्यवाचकं सुबन्तं पदं नाम, तत्पूर्व यस्य तन्नामपूर्वम् तथा आख्यातमुत्तरं पदं यस्य नाम्नस्तदाख्यातोत्तरम् आप्ग्स्-तात्_15.9: ननु-ऽसुप्सुपाऽइति समासनियमात् आख्यातेन तिङन्तेन नैव समासः?सत्यम्;अत एवात्र आख्यातशब्देन आख्यात सदृशं क्विबन्तं सुबन्तमेव विवक्षितम् सादृश्यं च क्रियाप्राधान्याभावे ऽपि क्रियावाचित्वमात्रात्, ऽक्विबन्तो धातुत्वं न जहातिऽइति धातुसंज्ञत्वाच्च दीर्घाभिनिष्ठानान्तंदीर्घश्चाभिनिष्ठानश्चान्ते यस्य नाम्नस्तत्तथोक्तम् अभिनिष्ठान इति विसर्जनीयस्य पूर्वाचार्याणां संज्ञा घोषवान् वर्ण आदिर्यस्य नाम्नस्तत्घोषवदादि घेषवर्णाश्च प्रातिसाख्यसूत्रे प्रसिद्दाः, ऽऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः न हकारः व्यञ्जनशेषो घोषवानऽइति अन्तरन्तस्थंअन्तः मध्ये यस्य नाम्नो ऽन्तस्थाः यरलवास्तत्तथोक्तम् द्व्यक्षरस्योदा- हरणं-वार्दाः वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि चतुरक्षरस्य तु भाष्योक्तं ऽद्रविणोदाः वरिवोदाःऽइति एतद्द्वयमपि छान्दसम् अन्यदपि हिरण्यदा युवतिदाइत्यादि

āpgs-tāt_15.9: atha vyavasthāpanīyasya nāmno lakṣaṇamucyate-dvyakṣaraṃ caturakṣaraṃveti samāse 'bhipretaḥ, na tu rūḍhiḥ 'nāmapūrvamākhyātettaram'iti pūrvottarakhaṇḍavyavasthāpanāt nāpi vākyam;tasya dravyavācakatvābhāvāt kutaḥ punarvākyasamāsayorartavatsamudāyatvāviśeṣe'pi samāsa eva dravyavācako na vākyam?iti cet;'kṛttaddhitamāsāśca'(pā,sū.1-2-46) iti samāsagrahaṇasya niyamārthatvāt nāmapūrva, dravyavācakaṃ subantaṃ padaṃ nāma, tatpūrva yasya tannāmapūrvam tathā ākhyātamuttaraṃ padaṃ yasya nāmnastadākhyātottaram āpgs-tāt_15.9: nanu-'supsupā'iti samāsaniyamāt ākhyātena tiṅantena naiva samāsaḥ?satyam;ata evātra ākhyātaśabdena ākhyāta sadṛśaṃ kvibantaṃ subantameva vivakṣitam sādṛśyaṃ ca kriyāprādhānyābhāve 'pi kriyāvācitvamātrāt, 'kvibanto dhātutvaṃ na jahāti'iti dhātusaṃjñatvācca dīrghābhiniṣṭhānāntaṃdīrghaścābhiniṣṭhānaścānte yasya nāmnastattathoktam abhiniṣṭhāna iti visarjanīyasya pūrvācāryāṇāṃ saṃjñā ghoṣavān varṇa ādiryasya nāmnastatghoṣavadādi gheṣavarṇāśca prātisākhyasūtre prasiddāḥ, 'ūṣmavisarjanīyaprathamadvitīyā aghoṣāḥ na hakāraḥ vyañjanaśeṣo ghoṣavān'iti antarantasthaṃantaḥ madhye yasya nāmno 'ntasthāḥ yaralavāstattathoktam dvyakṣarasyodā- haraṇaṃ-vārdāḥ vāḥ udakaṃ dadātīti vārdāḥ, giraṃ dadātīti gīrdāḥ ityādi caturakṣarasya tu bhāṣyoktaṃ 'draviṇodāḥ varivodāḥ'iti etaddvayamapi chāndasam anyadapi hiraṇyadā yuvatidāityādi


10

8 ऽसु ऽशब्दघटितस्य नाम्नः प्राशस्त्यम् (प.6.,खं.15-10) अपि वा यस्मिन् स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् आप्ग्स्_15.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_15.10: अपि वा अयमपि पक्षःयस्मिन्नाम्नि ऽसुऽइत्ययमुपसर्गः स्यात् देवतत्र लक्षणम् नान्यद्व्यक्षरत्वादि तद्धि प्रतिष्टिताम् हि शब्दो ऽतिशये पूर्वस्मादप्यतिशयेन प्रतिष्ठितं, तेन पूर्वमपि द्व्यक्षरादि प्रतिष्ठितम् तथाच पूर्वास्मिन्नेव लक्षणे स्थित्वा भरद्वाज आह-द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं तद्धि प्रसिद्धमिति विज्ञायते इति प्रतिष्ठितमिति ध्रुवमविनाश्या युष्यमित्यर्थः सुभद्रस्सुमुख इत्याद्युदाहरणम् उपसर्ग इति वचनात्सोमसुदित्यादि प्रतिष्ठितं न भवति

8 'su 'śabdaghaṭitasya nāmnaḥ prāśastyam (pa.6.,khaṃ.15-10) api vā yasmin svityupasargassyāt taddhi pratiṣṭhitamiti hi brāhmaṇam āpgs_15.10 commentaries: āpgs-anā_15.10: api vā ayamapi pakṣaḥyasminnāmni 'su'ityayamupasargaḥ syāt devatatra lakṣaṇam nānyadvyakṣaratvādi taddhi pratiṣṭitām hi śabdo 'tiśaye pūrvasmādapyatiśayena pratiṣṭhitaṃ, tena pūrvamapi dvyakṣarādi pratiṣṭhitam tathāca pūrvāsminneva lakṣaṇe sthitvā bharadvāja āha-dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ taddhi prasiddhamiti vijñāyate iti pratiṣṭhitamiti dhruvamavināśyā yuṣyamityarthaḥ subhadrassumukha ityādyudāharaṇam upasarga iti vacanātsomasudityādi pratiṣṭhitaṃ na bhavati


10

आप्ग्स्-तात्_15.10: अपि वा यस्मिन्नाम्नि ऽसुऽइत्ययुमुपसर्गस्स्यात् तन्नामप्रतिष्ठितंआयुष्मद्यज्ञादिक्रियाच्च भवति;यथा-सुजातः सुदर्शन इत्यादि इह ब्राह्मणग्रहणात् द्व्यक्षरादिविशेषणैः स्विति विशेषणं विकल्प्यते हिशब्दो ऽनर्थको निपातः, अनर्थको मिताक्षरेषुऽइति वचनात् उपसर्गग्रहणमुसर्गप्रतिरूपकाणां सुपसोमेत्यादीनां व्युदासार्थम् अत्र बोधायनो विकल्पान्तराण्याह-ऽऋष्यणूकं देवताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युःऽइति अणूकमभिधायकं, प्रकरणात् ऋष्यणूकं वसिष्ठः नारदः इत्यादि देवताणूकं विष्णुः शिवः इति पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा इत्यादिमि

āpgs-tāt_15.10: api vā yasminnāmni 'su'ityayumupasargassyāt tannāmapratiṣṭhitaṃāyuṣmadyajñādikriyācca bhavati;yathā-sujātaḥ sudarśana ityādi iha brāhmaṇagrahaṇāt dvyakṣarādiviśeṣaṇaiḥ sviti viśeṣaṇaṃ vikalpyate hiśabdo 'narthako nipātaḥ, anarthako mitākṣareṣu'iti vacanāt upasargagrahaṇamusargapratirūpakāṇāṃ supasometyādīnāṃ vyudāsārtham atra bodhāyano vikalpāntarāṇyāha-'ṛṣyaṇūkaṃ devatāṇūkaṃ vā yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ'iti aṇūkamabhidhāyakaṃ, prakaraṇāt ṛṣyaṇūkaṃ vasiṣṭhaḥ nāradaḥ ityādi devatāṇūkaṃ viṣṇuḥ śivaḥ iti pūrvapuruṣāṇāṃ pitṛpitāmahādīnāṃ vā nāmāni yajñaśarmā, somaśarmā ityādimi


11

9 कुमार्या नामकरणम् अयुजाक्षरं कुमार्याः आप्ग्स्_15.11 (प.6,खं.15-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_15.11: या स्ख्या अर्थविमितुं न शक्यते सा अयुक् संख्या अयुञ्जि अक्षराणि यत्र तत् अयुजाक्षरम्-एकाक्षरं त्र्यक्षरमित्यादि एतावदेव कुमार्या नामलणम्-गौः, वाक्, पृथिवि, पार्वतीति

9 kumāryā nāmakaraṇam ayujākṣaraṃ kumāryāḥ āpgs_15.11 (pa.6,khaṃ.15-11) commentaries: āpgs-anā_15.11: yā skhyā arthavimituṃ na śakyate sā ayuk saṃkhyā ayuñji akṣarāṇi yatra tat ayujākṣaram-ekākṣaraṃ tryakṣaramityādi etāvadeva kumāryā nāmalaṇam-gauḥ, vāk, pṛthivi, pārvatīti


11

आप्ग्स्-तात्_15.11: अयुगक्षरं विषमाक्षरंकुमार्या नाम भवति अयुजाक्षरमिति छान्दसः अयुगक्षरत्वमेकमेवात्र विशेषणम्, द्व्यक्षरादीनामनेन निर्वतितत्वात् तद्व्यथा-श्रीः, गौः, भारती, कमला, पतिवल्लभा, कमलेक्षणा, इत्यादि कुमार्या अपि जातकादयश्चौलान्ताः देहंसस्कारार्थाः क्रियास्तूष्णीं कर्तव्या एव "अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम्" (मस्मृ.2-66) इति मनुवचनात् इह च द्रव्यनिष्ठा भावार्थाः प्राशनवपनादय एव निष्कृष्य कर्तव्याः, न तु होमाः;एवमेव शिष्टाचारात्, स्मृत्यर्तसारे दृष्टत्वाच्च

āpgs-tāt_15.11: ayugakṣaraṃ viṣamākṣaraṃkumāryā nāma bhavati ayujākṣaramiti chāndasaḥ ayugakṣaratvamekamevātra viśeṣaṇam, dvyakṣarādīnāmanena nirvatitatvāt tadvyathā-śrīḥ, gauḥ, bhāratī, kamalā, pativallabhā, kamalekṣaṇā, ityādi kumāryā api jātakādayaścaulāntāḥ dehaṃsaskārārthāḥ kriyāstūṣṇīṃ kartavyā eva "amantrikā tu kāryeyaṃ strīṇāmāvṛdaśeṣataḥ saṃskārārtha śarīrasya yathākālaṃ yathākramam" (masmṛ.2-66) iti manuvacanāt iha ca dravyaniṣṭhā bhāvārthāḥ prāśanavapanādaya eva niṣkṛṣya kartavyāḥ, na tu homāḥ;evameva śiṣṭācārāt, smṛtyartasāre dṛṣṭatvācca


12

10 प्रवासादेत्य पित्रा पुत्रस्य मूर्धावघ्राणादि प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान् मन्त्रान् जपेत् आप्ग्स्_15.12 (प.6.,खं.15-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_15.12: प्रवासादागत्यतुउत्तराभ्यामभिमन्त्रणमवघ्राणं च क्रमेण कर्तव्यम् अङ्गादङ्गादित्यभिमन्त्रणं, ऽअश्मा भवेऽत्यवघ्राणम् नामनिर्देशश्चाऽभिजिघ्रामि यज्ञशर्मऽन्निति मन्त्रलिङ्गात् कुमार्या अभिमन्त्रणान्तरोपदेशाच्च सिद्धे पुत्रग्रहणं मूर्धन्यवघ्राणं दक्षिणं कर्णे जापश्च कुमार्या मा भूत् अन्यथा लिङ्गविरोधाभावात् उभयं कुमार्या अपि स्यात् तस्या अपि प्रकृतत्वात् कुमारीमुत्तरेणेत्ययं च अभिमन्त्रणस्यैव प्रत्याम्नायः स्यात्, नेतरयोः उत्तरे मन्त्राः ऽअग्निरायुष्मानिति पञ्चेऽत्यादिष्टाः तान् पुत्रस्यदक्षिणे कर्णे जपेत् मन्त्रग्रहणं क्रियते ऽअग्निरायुष्मानिति पञ्चेऽत्यस्य पञ्चशब्दस्य मन्त्रेषु वृत्तिरिति प्रज्ञापनार्थम्

10 pravāsādetya pitrā putrasya mūrdhāvaghrāṇādi pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarān mantrān japet āpgs_15.12 (pa.6.,khaṃ.15-12) commentaries: āpgs-anā_15.12: pravāsādāgatyatuuttarābhyāmabhimantraṇamavaghrāṇaṃ ca krameṇa kartavyam aṅgādaṅgādityabhimantraṇaṃ, 'aśmā bhave'tyavaghrāṇam nāmanirdeśaścā'bhijighrāmi yajñaśarma'nniti mantraliṅgāt kumāryā abhimantraṇāntaropadeśācca siddhe putragrahaṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇaṃ karṇe jāpaśca kumāryā mā bhūt anyathā liṅgavirodhābhāvāt ubhayaṃ kumāryā api syāt tasyā api prakṛtatvāt kumārīmuttareṇetyayaṃ ca abhimantraṇasyaiva pratyāmnāyaḥ syāt, netarayoḥ uttare mantrāḥ 'agnirāyuṣmāniti pañce'tyādiṣṭāḥ tān putrasyadakṣiṇe karṇe japet mantragrahaṇaṃ kriyate 'agnirāyuṣmāniti pañce'tyasya pañcaśabdasya mantreṣu vṛttiriti prajñāpanārtham


12

आप्ग्स्-तात्_15.12: प्रवासादागत्योत्तराभ्यांऽअङ्गादङ्गातऽअश्मा भवऽइत्येताभ्यांपुत्रस्याभिमन्त्रणं कर्तव्यम् तथैताभ्यामेवमूर्धन्यवघ्राणम् असावित्यस्य स्थाने दशम्यां कृतं नाम सम्बुद्ध्या गृह्णाति केचित्-ऽअङ्गादङ्गादित्यभिमन्त्रणम् ऽऽअश्मा भवेऽत्यवघ्राणमिति तथा सति एवं विभज्यैव विनियुञ्जीत, क्रमेणेति वा ब्रूयात् ततः पुत्रस्यदक्षिणे कर्णे उत्तरानऽअग्निरायुष्मान् स वनस्पतिभिःऽइत्यादिकान् सानुषङ्गान् पञ्चमन्त्रान् जपेत् एतच्च त्रयं प्रतिपुत्रमावर्तते

āpgs-tāt_15.12: pravāsādāgatyottarābhyāṃ'aṅgādaṅgāt'aśmā bhava'ityetābhyāṃputrasyābhimantraṇaṃ kartavyam tathaitābhyāmevamūrdhanyavaghrāṇam asāvityasya sthāne daśamyāṃ kṛtaṃ nāma sambuddhyā gṛhṇāti kecit-'aṅgādaṅgādityabhimantraṇam ''aśmā bhave'tyavaghrāṇamiti tathā sati evaṃ vibhajyaiva viniyuñjīta, krameṇeti vā brūyāt tataḥ putrasyadakṣiṇe karṇe uttarān'agnirāyuṣmān sa vanaspatibhiḥ'ityādikān sānuṣaṅgān pañcamantrān japet etacca trayaṃ pratiputramāvartate


13

11 एवं कुमार्या अपि कुमारीमुत्तरेण यजुषाभिमन्त्रयते आप्ग्स्_15.13 (प.6.,खं.15-13) चोम्मेन्तरिएस्: आप्ग्स्-अना_15.13: प्रवासादेत्यकुमारीस्त्रीप्रजांउत्तरेण यजुषाऽसर्वस्मादात्मनः सम्भूतासीऽत्यनेनअभ्मन्त्रयते दुहितरमिति कर्तव्ये कुमारीमिति वचनं प्रदानादूर्ध्व माभूदिति पुत्रस्य तु यावज्जीवं भवति पुत्रे ऽपि प्रोषितागते अभिमन्त्रणादित्रयं भवति न्यायस्य तुल्यस्य तुल्यत्वात्

11 evaṃ kumāryā api kumārīmuttareṇa yajuṣābhimantrayate āpgs_15.13 (pa.6.,khaṃ.15-13) commentaries: āpgs-anā_15.13: pravāsādetyakumārīstrīprajāṃuttareṇa yajuṣā'sarvasmādātmanaḥ sambhūtāsī'tyanenaabhmantrayate duhitaramiti kartavye kumārīmiti vacanaṃ pradānādūrdhva mābhūditi putrasya tu yāvajjīvaṃ bhavati putre 'pi proṣitāgate abhimantraṇāditrayaṃ bhavati nyāyasya tulyasya tulyatvāt


13

आप्ग्स्-तात्_15.13: प्रवासादेत्येत्यनुवर्तते उत्तरेणऽसर्वस्मादात्मनःऽइत्यनेनयजुषाकुमारीं कन्यामप्रत्तामभिमन्त्रयते कुमार्यस्त्वेतावदेव, न त्ववघ्राणजपौ;अवचनात्, तत्र पुत्रस्येति ग्रहणान्मन्त्रस्थपुल्लिङ्गविरोधाच्च

āpgs-tāt_15.13: pravāsādetyetyanuvartate uttareṇa'sarvasmādātmanaḥ'ityanenayajuṣākumārīṃ kanyāmaprattāmabhimantrayate kumāryastvetāvadeva, na tvavaghrāṇajapau;avacanāt, tatra putrasyeti grahaṇānmantrasthapulliṅgavirodhācca


1

इति श्रीसुदर्षनार्यविरचिते गृह्यतात्पर्यपदर्शने पञ्चदशः खण्डः षोडशः खण्डः 14 अन्नप्राशनम् - 1 तत्र कुमारस्य दध्यादिप्राशनम् जन्मनो ऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् आप्ग्स्_16.1 (प.6.,खं.16-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.1: अथ कुमारस्यान्नप्राशनम् तत्जन्मनो ऽधिजननदित्वसादारभ्य षष्ठे मासि कर्तव्यम् मासाश्च सौरचान्दामासादयः तत्करिष्यन् ब्राह्मणान् भोजयित्वा युग्मान् तैराशिषो वाचयति-पुण्याहं स्वस्ति ऋद्धिमिति नात्र पूर्वेद्युरभ्युदयश्राद्धं, देवेज्याभावात् यत्रापगेद्युः देवेज्या तत्र पूर्वेद्युः पितृभ्यः क्रियते ऽतस्मात् पितृभ्यः पूर्वेद्युः क्रियते उत्तरमहर्देवान् यजते, इति वचनात् वाचयित्वाऽशिषः दध्यादि चतुष्टयं संसृज्य तेन कुमारं प्राशयेत् उत्तरैर्मन्त्रैश्चतुर्भिः ऽभूरपांत्वेऽत्यादिभिः त्वौषधीनामिति मध्यमयोरनुषजति अपामित्यस्य तु पाठो मन्त्रचतुष्टयप्रज्ञापनार्थः असावित्यत्र मानग्रहणं सम्बुध्या-ऽओषझयस्सन्तु यज्ञशर्मऽन्निति प्रतिमन्त्रं प्राशनम् सर्वान्त इत्यन्ये कुमारं इति चनात् कुमार्या विधिवदन्नप्राशनं न भवति-आवृतैव कुमार्या (आश्वगृ.1-14-7) इत्याश्वलायनवचनात्

iti śrīsudarṣanāryaviracite gṛhyatātparyapadarśane pañcadaśaḥ khaṇḍaḥ ṣoḍaśaḥ khaṇḍaḥ 14 annaprāśanam - 1 tatra kumārasya dadhyādiprāśanam janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvā'śiṣo vācayitvā dadhi madhu ghṛtamodanamiti saṃsṛjyottarairmantraiḥ kumāraṃ prāśayet āpgs_16.1 (pa.6.,khaṃ.16-1) commentaries: āpgs-anā_16.1: atha kumārasyānnaprāśanam tatjanmano 'dhijananaditvasādārabhya ṣaṣṭhe māsi kartavyam māsāśca sauracāndāmāsādayaḥ tatkariṣyan brāhmaṇān bhojayitvā yugmān tairāśiṣo vācayati-puṇyāhaṃ svasti ṛddhimiti nātra pūrvedyurabhyudayaśrāddhaṃ, devejyābhāvāt yatrāpagedyuḥ devejyā tatra pūrvedyuḥ pitṛbhyaḥ kriyate 'tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate uttaramahardevān yajate, iti vacanāt vācayitvā'śiṣaḥ dadhyādi catuṣṭayaṃ saṃsṛjya tena kumāraṃ prāśayet uttarairmantraiścaturbhiḥ 'bhūrapāṃtve'tyādibhiḥ tvauṣadhīnāmiti madhyamayoranuṣajati apāmityasya tu pāṭho mantracatuṣṭayaprajñāpanārthaḥ asāvityatra mānagrahaṇaṃ sambudhyā-'oṣajhayassantu yajñaśarma'nniti pratimantraṃ prāśanam sarvānta ityanye kumāraṃ iti canāt kumāryā vidhivadannaprāśanaṃ na bhavati-āvṛtaiva kumāryā (āśvagṛ.1-14-7) ityāśvalāyanavacanāt


1

आप्ग्स्-तात्_16.1: जन्मने ऽधिजन्मन आरभ्य, दिवसगणनया षष्ठे मासि तेन मार्गशीर्ष शुक्ले द्वितीयायां जातस्य न मार्गशीर्षो मासः पूर्णो गण्यते अत एव ज्योतिषे बृहस्पतिः ऽपञ्चाशद्दिवसात् त्रिघ्नात्पश्चात्त्रिहतषष्टिकात् अर्वागेवोत्तमा भुक्तिः"...... इति ब्राह्मणान् भोजयित्वेत्युक्तार्थम् आशीर्वचनानन्तरं दध्यादिचतुष्टयं संसृज्यौत्तरैर्मन्त्रैः ऽ भूरपांत्वौषधीनांऽइत्यादिभिश्चतुर्भिः कुमारं सकृदेव प्राशयोत् सम्बुद्ध्या च नामग्रहणम् द्वितीयतृताययोरपि ऽत्वौषधीनामऽइत्यादेरनुषङ्गः

āpgs-tāt_16.1: janmane 'dhijanmana ārabhya, divasagaṇanayā ṣaṣṭhe māsi tena mārgaśīrṣa śukle dvitīyāyāṃ jātasya na mārgaśīrṣo māsaḥ pūrṇo gaṇyate ata eva jyotiṣe bṛhaspatiḥ 'pañcāśaddivasāt trighnātpaścāttrihataṣaṣṭikāt arvāgevottamā bhuktiḥ"...... iti brāhmaṇān bhojayitvetyuktārtham āśīrvacanānantaraṃ dadhyādicatuṣṭayaṃ saṃsṛjyauttarairmantraiḥ ' bhūrapāṃtvauṣadhīnāṃ'ityādibhiścaturbhiḥ kumāraṃ sakṛdeva prāśayot sambuddhyā ca nāmagrahaṇam dvitīyatṛtāyayorapi 'tvauṣadhīnām'ityāderanuṣaṅgaḥ


2

2 दध्यादिस्थाने तैत्तिरीयमांसविधानम् तैत्तिरेण (रीयेण) मांसेनेत्येके आप्ग्स्_16.2 (प.6.,खं.16-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.2: तित्तिरेः पक्षिणःमांसेनतदन्नप्राशनं कर्तव्यमित्येके आचार्या मन्यन्ते मांसं व्यञ्जनमोदस्य अन्ये तु मांसमेव मन्त्रवत् प्राश्यं मन्यन्ते मांसग्रहणं शोणितादेः प्रतिषेधार्थम्

2 dadhyādisthāne taittirīyamāṃsavidhānam taittireṇa (rīyeṇa) māṃsenetyeke āpgs_16.2 (pa.6.,khaṃ.16-2) commentaries: āpgs-anā_16.2: tittireḥ pakṣiṇaḥmāṃsenatadannaprāśanaṃ kartavyamityeke ācāryā manyante māṃsaṃ vyañjanamodasya anye tu māṃsameva mantravat prāśyaṃ manyante māṃsagrahaṇaṃ śoṇitādeḥ pratiṣedhārtham


2

आप्ग्स्-तात्_16.2: व्यक्तार्थमेतत्

āpgs-tāt_16.2: vyaktārthametat


3

15 चौलम्- 1 तस्य कालः जन्मनो ऽधि तृतीये वर्षे चौलं पुनर्वस्वोः आप्ग्स्_16.3 (प.6.,खं.16-3) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.3: अथ चौसविधिः -यस्मिन् कर्मणि केशाः प्रथमं खण्ड्यते तत् चौलं चूडा प्रयोजनमस्येति डलयोरविशेषः तत् जन्मनः प्रभृति तृतीये वर्षे पुनर्वसेवोर्नक्षत्रे कर्तव्यम् कुमारं प्राशयेदिति विहितत्वात् पुंस एवेदं विधिवच्चौलम् कुमार्यास्त्वावृतैव एवञ्चेत्कृत्वा अपरेणाग्निं प्राञ्चमिति पुंलिङ्गमुपपद्यते जन्मग्रहणं गर्भादारभ्य तृतीये वर्षे मा भूदिति

15 caulam- 1 tasya kālaḥ janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ āpgs_16.3 (pa.6.,khaṃ.16-3) commentaries: āpgs-anā_16.3: atha causavidhiḥ -yasmin karmaṇi keśāḥ prathamaṃ khaṇḍyate tat caulaṃ cūḍā prayojanamasyeti ḍalayoraviśeṣaḥ tat janmanaḥ prabhṛti tṛtīye varṣe punarvasevornakṣatre kartavyam kumāraṃ prāśayediti vihitatvāt puṃsa evedaṃ vidhivaccaulam kumāryāstvāvṛtaiva evañcetkṛtvā apareṇāgniṃ prāñcamiti puṃliṅgamupapadyate janmagrahaṇaṃ garbhādārabhya tṛtīye varṣe mā bhūditi


3

आप्ग्स्-तात्_16.3: जन्मनो ऽधीतिपूर्ववत् ततश्च ऽगर्भादिस्सङ्खया वर्षाणांऽइति गर्भवर्ष न गण्यते चौलमितिकर्मनामधेयम् यस्मिन् कर्मणि चूडासन्निधानं तच्चौलं;पुनर्वस्वोः;कर्तव्यमिति शेषः

āpgs-tāt_16.3: janmano 'dhītipūrvavat tataśca 'garbhādissaṅkhayā varṣāṇāṃ'iti garbhavarṣa na gaṇyate caulamitikarmanāmadheyam yasmin karmaṇi cūḍāsannidhānaṃ taccaulaṃ;punarvasvoḥ;kartavyamiti śeṣaḥ


4

2 उपनयनवन्नान्दीश्राद्वम् ब्राह्मणानां भोजनमुपायनवत् आप्ग्स्_16.4 (प.6,खं.16-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.4: उपनयने ब्राह्मणभोजने विशेषाभावात् आदिपदलोपो ऽत्र द्रष्टव्यः ब्राह्मणभोजनादीति ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वेत्येतावदिह द्रष्टव्यम् अनुवाकस्य प्रथमेनेत्यादिपरस्तादतिदेक्ष्यते

2 upanayanavannāndīśrādvam brāhmaṇānāṃ bhojanamupāyanavat āpgs_16.4 (pa.6,khaṃ.16-4) commentaries: āpgs-anā_16.4: upanayane brāhmaṇabhojane viśeṣābhāvāt ādipadalopo 'tra draṣṭavyaḥ brāhmaṇabhojanādīti brāhmaṇān bhojayitvā'śiṣo vācayitvā kumāraṃ bhojayitvetyetāvadiha draṣṭavyam anuvākasya prathamenetyādiparastādatidekṣyate


4

आप्ग्स्-तात्_16.4: अत्र च ऽब्राह्मणानां भोजनमऽइति ग्रहणमाशीर्वचनकुमारभोजनयोरपि प्रदर्शनार्थम् भोजनादीत्यादिशब्दो वा द्रष्टव्यः; उपायनवदिति वचनात् उपनयनमेवोपायनम्

āpgs-tāt_16.4: atra ca 'brāhmaṇānāṃ bhojanam'iti grahaṇamāśīrvacanakumārabhojanayorapi pradarśanārtham bhojanādītyādiśabdo vā draṣṭavyaḥ; upāyanavaditi vacanāt upanayanamevopāyanam


5

सीमन्तवदग्नेरुपसमाधानादि आप्ग्स्_16.5 (प.6.,खं.16-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.5: अग्नेरुपसमाधानादिपरिषेचनान्तं सीमन्तवत् कर्तव्यम् पूर्वेद्युर्नान्दीश्राद्धं, सकृत्पात्राणि, शलल्यादिभिस्सह शम्याः अन्वारब्धायां इत्यत्र च कुमारस्यान्वारम्भः परिषेचनान्तस्य चादिदेशः यत्तु ऽगायतमिति वीणाथिनौऽइत्यादि न तस्यात्रातिदेशः अपरेणाग्निं प्राञ्चमिति विधानात् पुनरुपवेशस्य

sīmantavadagnerupasamādhānādi āpgs_16.5 (pa.6.,khaṃ.16-5) commentaries: āpgs-anā_16.5: agnerupasamādhānādipariṣecanāntaṃ sīmantavat kartavyam pūrvedyurnāndīśrāddhaṃ, sakṛtpātrāṇi, śalalyādibhissaha śamyāḥ anvārabdhāyāṃ ityatra ca kumārasyānvārambhaḥ pariṣecanāntasya cādideśaḥ yattu 'gāyatamiti vīṇāthinau'ityādi na tasyātrātideśaḥ apareṇāgniṃ prāñcamiti vidhānāt punarupaveśasya


5

आप्ग्स्-तात्_16.5: अग्नेरुपसमाधानादितन्त्रं सप्रधानहोमं परिषेचनान्तमिहसीमन्तदिति ततश्चान्वारब्धे कुमारे प्रधानहोमाः पात्रप्रयोग काले शललल्यादीनां सकृदेव सादनम्

āpgs-tāt_16.5: agnerupasamādhānāditantraṃ sapradhānahomaṃ pariṣecanāntamihasīmantaditi tataścānvārabdhe kumāre pradhānahomāḥ pātraprayoga kāle śalalalyādīnāṃ sakṛdeva sādanam


6

3 कुमारस्य केशानां विनयनम्, शिखानिधानं च केशान् विनीय यथर्षि शिखा निदधाति आप्ग्स्_16.6 (प.6.,खं.16-6) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.6: विनयनंपृथक्करणं वप्तव्यानां शिखार्थानाञ्च तूष्णीमितिवाग्यमनार्थ न मन्त्रप्रतिषेधार्थम्, प्राप्त्यभावात् यथार्षियावन्त ऋषयो यस्य प्रवरे तावतीश्शिखाः करोति-त्र्यार्षेयस्य तिस्नः पञ्चार्षेयस्य पञ्चेति

3 kumārasya keśānāṃ vinayanam, śikhānidhānaṃ ca keśān vinīya yatharṣi śikhā nidadhāti āpgs_16.6 (pa.6.,khaṃ.16-6) commentaries: āpgs-anā_16.6: vinayanaṃpṛthakkaraṇaṃ vaptavyānāṃ śikhārthānāñca tūṣṇīmitivāgyamanārtha na mantrapratiṣedhārtham, prāptyabhāvāt yathārṣiyāvanta ṛṣayo yasya pravare tāvatīśśikhāḥ karoti-tryārṣeyasya tisnaḥ pañcārṣeyasya pañceti


6

आप्ग्स्-तात्_16.6: प्राञ्चंप्राङ्मुखम् वतूष्णीं वाग्यतः केसान् विनीयविविधं नीत्वा;वप्तव्यान् शिखार्थाश्च पृथक्पृथक्कृत्वेत्यर्थः यथार्षियावन्त ऋषयस्स्प्रवरे तावतीश्शिखा निदधाति एकार्षेयस्यैका शिखा द्व्यार्षेयस्य द्वे इत्यादि

āpgs-tāt_16.6: prāñcaṃprāṅmukham vatūṣṇīṃ vāgyataḥ kesān vinīyavividhaṃ nītvā;vaptavyān śikhārthāśca pṛthakpṛthakkṛtvetyarthaḥ yathārṣiyāvanta ṛṣayasspravare tāvatīśśikhā nidadhāti ekārṣeyasyaikā śikhā dvyārṣeyasya dve ityādi


7

यथा वैषां कुलधर्मः स्यात् आप्ग्स्_16.7 (प.6.,खं-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.7: अथवायथायेन प्रकारेणएषांकुमारस्य कुलजानांकुलधर्मःप्रवर्तते तथा शिखां करोति एषां इति वचनं कर्तुः कुलधर्मो मा भूदिति तेनास्मिन् कर्मणि पितैव कर्तेति नियमो नास्ति अन्यत्र तु सति सम्भवे कुमारकर्मसु तस्यैव नियमः

yathā vaiṣāṃ kuladharmaḥ syāt āpgs_16.7 (pa.6.,khaṃ-7) commentaries: āpgs-anā_16.7: athavāyathāyena prakāreṇaeṣāṃkumārasya kulajānāṃkuladharmaḥpravartate tathā śikhāṃ karoti eṣāṃ iti vacanaṃ kartuḥ kuladharmo mā bhūditi tenāsmin karmaṇi pitaiva karteti niyamo nāsti anyatra tu sati sambhave kumārakarmasu tasyaiva niyamaḥ


7

आप्ग्स्-तात्_16.7: अथवा-यथा येन प्रकारेण एषां कुलजानां कुलधर्मः प्रवर्तते, तथा शिखा कर्तव्या केचित् एषामिति वचनात् पितुरन्यो ऽपि चौलकर्तेति

āpgs-tāt_16.7: athavā-yathā yena prakāreṇa eṣāṃ kulajānāṃ kuladharmaḥ pravartate, tathā śikhā kartavyā kecit eṣāmiti vacanāt pituranyo 'pi caulakarteti


8

चोम्मेन्तरिएस्: आप्ग्स्-अना_16.7: ऽउष्णाश्शीतास्वानीयेऽत्यादि ऽदर्भस्तम्बे वा निदधातीऽत्येवमन्तं उपनयनवत् कर्तव्यमित्यर्थः

commentaries: āpgs-anā_16.7: 'uṣṇāśśītāsvānīye'tyādi 'darbhastambe vā nidadhātī'tyevamantaṃ upanayanavat kartavyamityarthaḥ


8

4 उपनयनवत् दिग्वपनादि अपां संसर्जनाद्याकेशनिधानात्समानम् आप्ग्स्_16.8 आप्ग्स्-तात्_16.8: व्याख्यातमेवैतत्समावर्तने

4 upanayanavat digvapanādi apāṃ saṃsarjanādyākeśanidhānātsamānam āpgs_16.8 āpgs-tāt_16.8: vyākhyātamevaitatsamāvartane


9

क्षुरं प्रक्षाल्य निदधाति आप्ग्स्_16.9 (प.6.,खं.16-9) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.9: क्षुरस्य प्रक्षालनंविधीयते निधानमर्थप्राप्तम् यदा निदधाति तदा प्रक्षाल्येति

kṣuraṃ prakṣālya nidadhāti āpgs_16.9 (pa.6.,khaṃ.16-9) commentaries: āpgs-anā_16.9: kṣurasya prakṣālanaṃvidhīyate nidhānamarthaprāptam yadā nidadhāti tadā prakṣālyeti


9

आप्ग्स्-तात्_16.9: अत्र प्रक्षालनमेव विधीयत्;निधानं त्वर्थप्राप्तम्

āpgs-tāt_16.9: atra prakṣālanameva vidhīyat;nidhānaṃ tvarthaprāptam


10

5 वपने उपयुक्तेन क्षुरेण त्रिरात्रपर्यन्तं कर्माकरणम् तेन त्र्यहं कर्मनिवृत्तिः आप्ग्स्_16.10 (प.6,खं.13-10) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.10: तेन क्षुरेण त्रिष्वहोरात्रेषु नापितकर्म न कर्तव्यम्

5 vapane upayuktena kṣureṇa trirātraparyantaṃ karmākaraṇam tena tryahaṃ karmanivṛttiḥ āpgs_16.10 (pa.6,khaṃ.13-10) commentaries: āpgs-anā_16.10: tena kṣureṇa triṣvahorātreṣu nāpitakarma na kartavyam


10

आप्ग्स्-तात्_16.10: तेन क्षुरेण त्र्यहं नापितकर्मनिष्टवृत्तिस्स्यात्

āpgs-tāt_16.10: tena kṣureṇa tryahaṃ nāpitakarmaniṣṭavṛttissyāt


11

वरं ददाति आप्ग्स्_16.11 (प.6.,खं.16-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.11: अस्मिन्कर्मणि समाप्ते कुमारस्य पिता ब्रह्मणे वरं ददाति ऽगौर्वै वरऽइत्त्युक्तम्

varaṃ dadāti āpgs_16.11 (pa.6.,khaṃ.16-11) commentaries: āpgs-anā_16.11: asminkarmaṇi samāpte kumārasya pitā brahmaṇe varaṃ dadāti 'gaurvai vara'ittyuktam


11

आप्ग्स्-तात्_16.11: वरं गां पिता ददाति दक्षिणत असीनाय ब्राह्मणाय यद्यन्यश्चौलकर्ता तदा तस्मै

āpgs-tāt_16.11: varaṃ gāṃ pitā dadāti dakṣiṇata asīnāya brāhmaṇāya yadyanyaścaulakartā tadā tasmai


12

1 गोदानव्रतं, तत्कालश्च एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे आप्ग्स्_16.12 (प.6खं.,16-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.12: यथा चौलं एवमस्य गोदानाख्यमपि कर्म कर्तव्यम् तत्र तृतीयस्य वर्षस्यापवादःषोडशे वर्षेइति अन्यस्मिन्नपि नक्षत्रेपुण्याह एव पुनर्वसु नियमस्यापवादः

1 godānavrataṃ, tatkālaśca evaṃ godānamanyasminnapi nakṣatre ṣoḍaśe varṣe āpgs_16.12 (pa.6khaṃ.,16-12) commentaries: āpgs-anā_16.12: yathā caulaṃ evamasya godānākhyamapi karma kartavyam tatra tṛtīyasya varṣasyāpavādaḥṣoḍaśe varṣeiti anyasminnapi nakṣatrepuṇyāha eva punarvasu niyamasyāpavādaḥ


12

आप्ग्स्-तात्_16.12: गोदानमितिकर्मनामधेयम्;यस्मिन्कर्मण्यङ्गभूतं गोदानयोश्शिरःप्रदेशाविशेषयोर्वपनम् यत्रापि पक्षे शिखावर्जित सर्वकेशवपनं, यथर्षि च शिखाः;तत्रापि गोदानयोर्वपनं कर्मनामधेयप्रवृत्तिनिमित्तं विद्यत एव तद्गोदानाख्यं कर्म एवं यथाचौलम् ब्राह्मणभोजनादि वरदानान्तं कर्तव्यम् तच्चन्यस्मिन्नपि नक्षत्रे रोहिण्यादौ,वर्ष च षोडशे भवति

āpgs-tāt_16.12: godānamitikarmanāmadheyam;yasminkarmaṇyaṅgabhūtaṃ godānayośśiraḥpradeśāviśeṣayorvapanam yatrāpi pakṣe śikhāvarjita sarvakeśavapanaṃ, yatharṣi ca śikhāḥ;tatrāpi godānayorvapanaṃ karmanāmadheyapravṛttinimittaṃ vidyata eva tadgodānākhyaṃ karma evaṃ yathācaulam brāhmaṇabhojanādi varadānāntaṃ kartavyam taccanyasminnapi nakṣatre rohiṇyādau,varṣa ca ṣoḍaśe bhavati


13

अत्र पक्षान्तरमाह अग्निगोदानो वा स्यात् आप्ग्स्_16.13 (प.6.,खं.16-13) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.13: अग्निर्देवता यत्र गोदाने तदग्निगोदानं यस्य वसो ऽग्निगोदानः (अग्निशब्देन तद्दैवत्यं गोदानं लक्ष्यते अग्निर्गोदानमस्येति विग्रहः) एकस्य गोदानशब्दस्य लोपः, उष्ट्रमुखवत् तत्र बौधायनः-षोडशे वर्षे गोदानम् तस्य चौलवत् तूष्णीं प्रतिपत्तिरवसानं च .....अग्नि गोदानो वा भवति तस्य काण्डोपाकरकाण्डसमापनाभ्यां प्रतिपत्तिरवशानं च (बौगृ.3-2-52-58) इति किमुक्तं भवति?आग्नेयानां काण्डानां उपाकरणसमापनयोर्यः कल्पः तत्र चौलधर्माः प्रवर्तन्त इति षोडशे वर्षे भवति सकृत् पात्राणि न शमयाः अस्यास्मिन् गृह्ये ऽनुपदिष्टत्वात् यत् गोदानमुपदिष्टं तत्रैव शम्याविधिः तत्र प्रयोगः ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा तूष्णीं केशश्मश्रु वापयित्वाग्नेरुपसमाधानादि परिषेचनान्तानि आग्नियकाण्डोपाकरणवत् कृत्वा शुक्रियवद्देवतोपस्थानं ऽअग्ने व्रतपते व्रतं चरिष्यामि"इति अन्ये संवत्सरे व्रतचर्या अन्ते विसर्गः एवमेवाचारिषमित्यादि विकारः शुक्रियवत् दैवतम् केशश्मश्रुवपनम् अन्ते ब्राह्मणभोजनम् उभयत्र नान्दीमुखश्राद्धं केचित् कुर्वन्ति अपरे न

atra pakṣāntaramāha agnigodāno vā syāt āpgs_16.13 (pa.6.,khaṃ.16-13) commentaries: āpgs-anā_16.13: agnirdevatā yatra godāne tadagnigodānaṃ yasya vaso 'gnigodānaḥ (agniśabdena taddaivatyaṃ godānaṃ lakṣyate agnirgodānamasyeti vigrahaḥ) ekasya godānaśabdasya lopaḥ, uṣṭramukhavat tatra baudhāyanaḥ-ṣoḍaśe varṣe godānam tasya caulavat tūṣṇīṃ pratipattiravasānaṃ ca .....agni godāno vā bhavati tasya kāṇḍopākarakāṇḍasamāpanābhyāṃ pratipattiravaśānaṃ ca (baugṛ.3-2-52-58) iti kimuktaṃ bhavati?āgneyānāṃ kāṇḍānāṃ upākaraṇasamāpanayoryaḥ kalpaḥ tatra cauladharmāḥ pravartanta iti ṣoḍaśe varṣe bhavati sakṛt pātrāṇi na śamayāḥ asyāsmin gṛhye 'nupadiṣṭatvāt yat godānamupadiṣṭaṃ tatraiva śamyāvidhiḥ tatra prayogaḥ brāhmaṇān bhojayitvā'śiṣo vācayitvā tūṣṇīṃ keśaśmaśru vāpayitvāgnerupasamādhānādi pariṣecanāntāni āgniyakāṇḍopākaraṇavat kṛtvā śukriyavaddevatopasthānaṃ 'agne vratapate vrataṃ cariṣyāmi"iti anye saṃvatsare vratacaryā ante visargaḥ evamevācāriṣamityādi vikāraḥ śukriyavat daivatam keśaśmaśruvapanam ante brāhmaṇabhojanam ubhayatra nāndīmukhaśrāddhaṃ kecit kurvanti apare na


13

आप्ग्स्-तात्_16.13: अग्नये गोदानं यस्यसो ऽग्निगोदानो ब्रह्मचारी पुल्लिङ्गनिर्देशाच्चैवं विग्रहः अस्मिन् पक्षे आज्यभागान्ते कृते ऽअग्नये काण्डर्षये स्वाहाऽइत्याज्येनैवैका प्रधानाहुतिः ततो जयादि क्षुरप्रक्षालनान्तम्

āpgs-tāt_16.13: agnaye godānaṃ yasyaso 'gnigodāno brahmacārī pulliṅganirdeśāccaivaṃ vigrahaḥ asmin pakṣe ājyabhāgānte kṛte 'agnaye kāṇḍarṣaye svāhā'ityājyenaivaikā pradhānāhutiḥ tato jayādi kṣuraprakṣālanāntam


14

संवत्सरं गोदानव्रतमे (मित्ये) क उपदिशन्ति आप्ग्स्_16.14 (प.6खं.,16-14) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.14: कृतगोदानस्यापि तच्छेषतयासंवत्सरं व्रतचरणमेकं आचार्याउपदिशन्ति चौलगोदाने ऽयं विकल्पः अग्निगोदाने तु काण्डोपाकरणातिदेशात् नित्यमेव यदा व्रतचर्या तदा वरदानादूर्ध्व देवतोपस्थानं पूर्ववदन्ते, विसर्गश्च पूर्ववदेव

saṃvatsaraṃ godānavratame (mitye) ka upadiśanti āpgs_16.14 (pa.6khaṃ.,16-14) commentaries: āpgs-anā_16.14: kṛtagodānasyāpi taccheṣatayāsaṃvatsaraṃ vratacaraṇamekaṃ ācāryāupadiśanti caulagodāne 'yaṃ vikalpaḥ agnigodāne tu kāṇḍopākaraṇātideśāt nityameva yadā vratacaryā tadā varadānādūrdhva devatopasthānaṃ pūrvavadante, visargaśca pūrvavadeva

Section (cont. 19)

14

आप्ग्स्-तात्_16.14: अधीते ऽपि वेदे, अवश्यंसंवत्सरं गोदानव्रतंब्रह्मचर्य चरितव्यमित्येक उपदिशन्ति;वैकल्पिकमित्यर्थः

āpgs-tāt_16.14: adhīte 'pi vede, avaśyaṃsaṃvatsaraṃ godānavrataṃbrahmacarya caritavyamityeka upadiśanti;vaikalpikamityarthaḥ


15

उभयोरपि गोदानयोश्चौलाद्विशेषमाह- 2 तत्र वपने विशेषः एतावन्नाना सर्वान् केशान् वापयते आप्ग्स्_16.15 (प.6खं.,16-15) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.15: अस्मिन् चौलगोदाने तुएतावन्नानापृथग्भावश्चौलात् अत्रसर्वान् केशान् वापयतेसशिखान् चौले तु यथर्षि शिखा निदधात् अन्ये श्मश्त्वादीनां प्राप्त्यर्थ सर्वग्रहणं वर्णयन्ति तेषां केशशब्द- उपलणार्थः तथा चाश्वलायनः-केशश्मश्रुलोमनखान्युदकसंस्थानि संप्रेष्यति (आश्वगृ.1-18-6) इति

ubhayorapi godānayoścaulādviśeṣamāha- 2 tatra vapane viśeṣaḥ etāvannānā sarvān keśān vāpayate āpgs_16.15 (pa.6khaṃ.,16-15) commentaries: āpgs-anā_16.15: asmin caulagodāne tuetāvannānāpṛthagbhāvaścaulāt atrasarvān keśān vāpayatesaśikhān caule tu yatharṣi śikhā nidadhāt anye śmaśtvādīnāṃ prāptyartha sarvagrahaṇaṃ varṇayanti teṣāṃ keśaśabda- upalaṇārthaḥ tathā cāśvalāyanaḥ-keśaśmaśrulomanakhānyudakasaṃsthāni saṃpreṣyati (āśvagṛ.1-18-6) iti


15

आप्ग्स्-तात्_16.15: एतावन्नानाएतावान् भेदः यदपिधानार्थयापि शिखया सदसर्वान् केशान् वापयतैति ततस्चेह विनयनाभावाच्छलल्यादीनां निवृत्तिः अत्र च वापयत इति णिजन्तनिर्देशादाचार्य एव गोदानकर्मणः कर्ता वरदानञ्चाचार्यायैव तथात्र शिखाया अपि वपनं ऽएतावन्नाना सर्वान् केशान्वापयतेऽइत्यस्मादेव वचनात् ;सत्रवत् अन्य आहुः ऽरिक्तो वा एषो ऽनपिहितो यन्मुडस्तस्यैतदपिधानं यच्छिखेति सत्रेषु तु वचनात् वपनं शिखायाःऽ(आपध.1-10- -8.9) इति सत्रेभ्यो ऽन्यत्र शिखाया वपनग्रतिषेधात् इहापि नैव श्खाया वपनमिति

āpgs-tāt_16.15: etāvannānāetāvān bhedaḥ yadapidhānārthayāpi śikhayā sadasarvān keśān vāpayataiti tatasceha vinayanābhāvācchalalyādīnāṃ nivṛttiḥ atra ca vāpayata iti ṇijantanirdeśādācārya eva godānakarmaṇaḥ kartā varadānañcācāryāyaiva tathātra śikhāyā api vapanaṃ 'etāvannānā sarvān keśānvāpayate'ityasmādeva vacanāt ;satravat anya āhuḥ 'rikto vā eṣo 'napihito yanmuḍastasyaitadapidhānaṃ yacchikheti satreṣu tu vacanāt vapanaṃ śikhāyāḥ'(āpadha.1-10- -8.9) iti satrebhyo 'nyatra śikhāyā vapanagratiṣedhāt ihāpi naiva śkhāyā vapanamiti


16

उदकोपस्पर्शनमिति छन्दोगाः आप्ग्स्_16.16 (प.3.,खं.16-16) चोम्मेन्तरिएस्: आप्ग्स्-अना_16.16: अस्मिन् गोदानव्रते अहरहरुदकोपस्पर्शनंकर्तव्यमितिछन्दोगा उपदिशन्ति त्रिषवणमिति केचित्

udakopasparśanamiti chandogāḥ āpgs_16.16 (pa.3.,khaṃ.16-16) commentaries: āpgs-anā_16.16: asmin godānavrate aharaharudakopasparśanaṃkartavyamitichandogā upadiśanti triṣavaṇamiti kecit


16

इति श्रीहरदत्तविरचितायामनाकुलायां गृह्यसूत्रवृत्तौ षोडशः खम्डः आप्ग्स्-तात्_16.16: सांवत्सरिकगोदानव्रतपक्षे अहरहरुदकोपस्पर्शनं छन्दोगाउपदिशन्ति;विकल्प इत्यर्थः

iti śrīharadattaviracitāyāmanākulāyāṃ gṛhyasūtravṛttau ṣoḍaśaḥ khamḍaḥ āpgs-tāt_16.16: sāṃvatsarikagodānavratapakṣe aharaharudakopasparśanaṃ chandogāupadiśanti;vikalpa ityarthaḥ


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने षोडशः खण्डः षष्ठः पटलस्समाप्तः ==================================================================================== अथ सप्तमः पटलः सप्तदशः खण्डः 16 गृहनिर्माणम्- 1 तत्र खनित्रेणोद्धननोदूहने दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पालाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति आप्ग्स्_17.1 यज्ञेष्वधिकरिष्यमाणस्य पुरुषस्य देहसंस्कारा व्याख्याताः ते च ऽशालीनस्योदवसायऽइति वचनाभावे गृह एव कर्तव्याः विधिवच्च निर्मिते गृहे विधिवत् प्रवेशादपेक्षितायुर्यज्ञधनादि फलसिद्धिः अतो मन्त्राम्नानक्रमप्राप्तो गृहनिर्माणप्रवेशयोर्विधिर्व्याख्यायते- (प.,खं.17-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.1: अथ गृहसम्मानविधिः गृहसम्मानं च न सर्वयज्ञादिवन्नित्यम् नाप्यद्भुतकर्मप्रायश्चित्तादिवन्नैमित्तिकम् किं तर्हि?काम्यम् अतो ऽक्रियायां न दोषः क्रियायां चोदगयनादिनियमः तत्र यस्मिन् प्रदेशे ऽगारं चिकीर्षितं सो ऽगारावकाशः स दक्षिणाप्रत्यक्प्रवणोभवति दक्षिणा प्रतीच्योरन्तराले निम्ना भवति एवंविधे देशे अगारं कर्तव्यमित्यर्थः तमगारावकाशं उद्धन्ति खनित्रेण खनति यथा पांसव उत्पद्यन्ते उद्धत्य तान् पासून् पालाशेन समीयेन वोदूहेन एतामेव दिशं प्रति उत्तरयर्चाऽयद्भूमेः क्रूरऽमित्येतयाउदूहतिउन्नतात् प्रदेशात् अवनते प्रापयति उदूह्यते ऽनेनेत्युदूहः

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ṣoḍaśaḥ khaṇḍaḥ ṣaṣṭhaḥ paṭalassamāptaḥ ==================================================================================== atha saptamaḥ paṭalaḥ saptadaśaḥ khaṇḍaḥ 16 gṛhanirmāṇam- 1 tatra khanitreṇoddhananodūhane dakṣiṇāpratyakpravaṇamagarāvakāśamuddhatya pālāśena śamīmayena vodūhenaitāmeva diśamuttarayodūhati āpgs_17.1 yajñeṣvadhikariṣyamāṇasya puruṣasya dehasaṃskārā vyākhyātāḥ te ca 'śālīnasyodavasāya'iti vacanābhāve gṛha eva kartavyāḥ vidhivacca nirmite gṛhe vidhivat praveśādapekṣitāyuryajñadhanādi phalasiddhiḥ ato mantrāmnānakramaprāpto gṛhanirmāṇapraveśayorvidhirvyākhyāyate- (pa.,khaṃ.17-1) commentaries: āpgs-anā_17.1: atha gṛhasammānavidhiḥ gṛhasammānaṃ ca na sarvayajñādivannityam nāpyadbhutakarmaprāyaścittādivannaimittikam kiṃ tarhi?kāmyam ato 'kriyāyāṃ na doṣaḥ kriyāyāṃ codagayanādiniyamaḥ tatra yasmin pradeśe 'gāraṃ cikīrṣitaṃ so 'gārāvakāśaḥ sa dakṣiṇāpratyakpravaṇobhavati dakṣiṇā pratīcyorantarāle nimnā bhavati evaṃvidhe deśe agāraṃ kartavyamityarthaḥ tamagārāvakāśaṃ uddhanti khanitreṇa khanati yathā pāṃsava utpadyante uddhatya tān pāsūn pālāśena samīyena vodūhena etāmeva diśaṃ prati uttarayarcā'yadbhūmeḥ krūra'mityetayāudūhatiunnatāt pradeśāt avanate prāpayati udūhyate 'nenetyudūhaḥ


1

आप्ग्स्-तात्_17.1: यो ऽगारार्थत्वेनाभिपरेतो ऽवकाशो भूमिभागो दक्षिणाप्रत्यक्प्रवणःदक्षिणाप्रतीच्यां नैतृत्यां दिशि निम्नस्तमुद्धत्य खनित्रादिना पांसूनुत्खाद्य पालाशेन शमीमयेन वोदूहेन, उदूह्यन्ते देशान्तरं प्राप्यन्ते पांसवो ऽनेनेत्युदूहः;वादुलूक इत्यर्थः तेनैतामेव कोणदिशंउत्तरया ऽयद्भूमेः क्रूरमऽइत्येतयोदूहति

āpgs-tāt_17.1: yo 'gārārthatvenābhipareto 'vakāśo bhūmibhāgo dakṣiṇāpratyakpravaṇaḥdakṣiṇāpratīcyāṃ naitṛtyāṃ diśi nimnastamuddhatya khanitrādinā pāṃsūnutkhādya pālāśena śamīmayena vodūhena, udūhyante deśāntaraṃ prāpyante pāṃsavo 'nenetyudūhaḥ;vādulūka ityarthaḥ tenaitāmeva koṇadiśaṃuttarayā 'yadbhūmeḥ krūram'ityetayodūhati


2

एवं त्रिः आप्ग्स्_17.2 (प.7.,खं.17-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.2: एवं त्रिरुद्धत्य उधूहति

evaṃ triḥ āpgs_17.2 (pa.7.,khaṃ.17-2) commentaries: āpgs-anā_17.2: evaṃ triruddhatya udhūhati


2

आप्ग्स्-तात्_17.2: उदूहतीति सम्बन्धः अत्र द्वितीयतृतीययोरप्युदूहयोः मन्त्रावृत्तिः, एवमिति वचनात् अन्यथा उत्तरया त्रिरुदूहतीत्येव ब्रूयात्, ऽएवं त्रिःऽइति सूत्रान्तरं नारभेत

āpgs-tāt_17.2: udūhatīti sambandhaḥ atra dvitīyatṛtīyayorapyudūhayoḥ mantrāvṛttiḥ, evamiti vacanāt anyathā uttarayā trirudūhatītyeva brūyāt, 'evaṃ triḥ'iti sūtrāntaraṃ nārabheta


3

2 स्थूणागर्तखननम्, स्थूणानिखननं च कॢप्तमुत्तरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाभ्यन्तरं पांसूनुदुप्योत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति आप्ग्स्_17.3 (प.7.,खं.17-3) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.3: एवमुदूह्य ततस्तं भूमिबागं कल्पयन्ति यथा सर्वतस्समं सम्पद्यते ततः तं कॢप्तं उत्तरयर्चा ऽस्योना पृथिवीऽत्येतयाभिमृशति ततःप्रदक्षिणं स्थूणागर्तान् खानयति नकारस्छान्दसः अभ्यन्तरं च बहिरारभ्य मध्ये यथा समाप्यते तथेत्यर्थः तत्र मद्यस्थूणासु वंशधारणार्थासु प्रदक्षिणमितिचाभ्यन्तरमिति च विशेषणस्यासम्भवात् पर्यन्तास्वेव भवति तत्र प्राग्द्वारे ऽगारे दक्षिणद्वारस्थूणागर्तमारभ्य प्रदक्षिणमोत्तरस्मात् द्वारस्थूणागर्तात् खानयित्वा ततो यावत्यो मध्यममस्थूणाः तावतीनां दक्षिणादारभ्योदगपवर्गः एवमन्यथाद्वारे ऽप्यगारे यथासम्भवं प्रदक्षिणमभ्यन्तरत्वं च सम्पाद्यम् एवंखानयित्वा गर्तेभ्यः पासूनुदूप्य उद्धत्य ततौत्तराभ्यां ऋग्भ्यां ऽइहैव तिष्ठेऽत्येताभ्यां दक्षिणाद्वारस्थूणां गर्ते अवदधाति

2 sthūṇāgartakhananam, sthūṇānikhananaṃ ca kḷptamuttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūnudupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇāmavadadhāti āpgs_17.3 (pa.7.,khaṃ.17-3) commentaries: āpgs-anā_17.3: evamudūhya tatastaṃ bhūmibāgaṃ kalpayanti yathā sarvatassamaṃ sampadyate tataḥ taṃ kḷptaṃ uttarayarcā 'syonā pṛthivī'tyetayābhimṛśati tataḥpradakṣiṇaṃ sthūṇāgartān khānayati nakāraschāndasaḥ abhyantaraṃ ca bahirārabhya madhye yathā samāpyate tathetyarthaḥ tatra madyasthūṇāsu vaṃśadhāraṇārthāsu pradakṣiṇamiticābhyantaramiti ca viśeṣaṇasyāsambhavāt paryantāsveva bhavati tatra prāgdvāre 'gāre dakṣiṇadvārasthūṇāgartamārabhya pradakṣiṇamottarasmāt dvārasthūṇāgartāt khānayitvā tato yāvatyo madhyamamasthūṇāḥ tāvatīnāṃ dakṣiṇādārabhyodagapavargaḥ evamanyathādvāre 'pyagāre yathāsambhavaṃ pradakṣiṇamabhyantaratvaṃ ca sampādyam evaṃkhānayitvā gartebhyaḥ pāsūnudūpya uddhatya tatauttarābhyāṃ ṛgbhyāṃ 'ihaiva tiṣṭhe'tyetābhyāṃ dakṣiṇādvārasthūṇāṃ garte avadadhāti


3

आप्ग्स्-तात्_17.3: कॢप्तमुदूहेन प्रागुदक्प्रवणं कृतंउत्तरयाऽस्योना पृथिविऽइत्यनयाभिमृश्य स्थूणागर्तान्स्थूणानां विभागार्थान् गर्तान् कर्मकरैः प्रदक्षिणंखानयित्वाभ्यन्तरमारभ्य, न बहिः,पांसूनुदुप्य उत्तराभ्यांऽइहैव तिष्ठऽइत्येताभ्यांदक्षिणांनिष्क्रामत एव, न प्रविशतः, द्वारस्थूणामवटे अवदधाति अत्र प्रादक्षिण्यस्य चाभ्यन्तरत्वस्य च विधानं पयन्तीयास्वेव स्थूणासु;न तु मध्यमासु

āpgs-tāt_17.3: kḷptamudūhena prāgudakpravaṇaṃ kṛtaṃuttarayā'syonā pṛthivi'ityanayābhimṛśya sthūṇāgartānsthūṇānāṃ vibhāgārthān gartān karmakaraiḥ pradakṣiṇaṃkhānayitvābhyantaramārabhya, na bahiḥ,pāṃsūnudupya uttarābhyāṃ'ihaiva tiṣṭha'ityetābhyāṃdakṣiṇāṃniṣkrāmata eva, na praviśataḥ, dvārasthūṇāmavaṭe avadadhāti atra prādakṣiṇyasya cābhyantaratvasya ca vidhānaṃ payantīyāsveva sthūṇāsu;na tu madhyamāsu


4

एवमितराम् आप्ग्स्_17.4 (प.7.,खं.17-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.4: एताभ्यामेव द्वाभ्यामृग्भ्यांइतरां उत्तराञ्च द्वारस्थूणां अवदधातीत्यथः अहदक्षिणामितरामितिनिष्क्रमतः सव्यदक्षिणे प्रत्येतव्ये;न प्रविशतः

evamitarām āpgs_17.4 (pa.7.,khaṃ.17-4) commentaries: āpgs-anā_17.4: etābhyāmeva dvābhyāmṛgbhyāṃitarāṃ uttarāñca dvārasthūṇāṃ avadadhātītyathaḥ ahadakṣiṇāmitarāmitiniṣkramataḥ savyadakṣiṇe pratyetavye;na praviśataḥ


4

आप्ग्स्-तात्_17.4: इतरांसव्यां द्वारस्थूणांएवंऽइहैव तिष्ठऽइत्येताभ्यामेवावदधाति

āpgs-tāt_17.4: itarāṃsavyāṃ dvārasthūṇāṃevaṃ'ihaiva tiṣṭha'ityetābhyāmevāvadadhāti


5

यथाखातमितरा अन्ववधाय वंशमाधीयमानमुत्तेरण यजुषाभिमन्त्रयते आप्ग्स्_17.5 (प.7खं.,17-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.5: द्वारस्थूणयोः यथाखातं अवधानं मन्त्रवच्च इतरासं तुयथाखातं येन क्रमेण गर्ताः खाताः तेनावधानं तूष्णीम् एवं सर्वास्ववहितासु मध्यमस्थूणासु वंशमादधति कर्मकर्तारः तैराधीयमानं वंशमुत्तरेण यजुषा ऽ ऋतेन स्थूणा" वित्यनेनाभिमन्त्रयते वंशग्रहणेन च पृष्ठवंशो गृह्यते, मुख्यत्वात् व्यक्तञ्चैतत् भारद्वाजके"ऋतेन स्थूणेऽति पृष्ठवंश- मधिरोपयतीऽति तत्र मन्त्रे स्थूणाविति छान्दसो ल्ङ्गव्यत्ययः द्विवचनञ्च यथासम्भवं द्रष्टव्यम्

yathākhātamitarā anvavadhāya vaṃśamādhīyamānamutteraṇa yajuṣābhimantrayate āpgs_17.5 (pa.7khaṃ.,17-5) commentaries: āpgs-anā_17.5: dvārasthūṇayoḥ yathākhātaṃ avadhānaṃ mantravacca itarāsaṃ tuyathākhātaṃ yena krameṇa gartāḥ khātāḥ tenāvadhānaṃ tūṣṇīm evaṃ sarvāsvavahitāsu madhyamasthūṇāsu vaṃśamādadhati karmakartāraḥ tairādhīyamānaṃ vaṃśamuttareṇa yajuṣā ' ṛtena sthūṇā" vityanenābhimantrayate vaṃśagrahaṇena ca pṛṣṭhavaṃśo gṛhyate, mukhyatvāt vyaktañcaitat bhāradvājake"ṛtena sthūṇe'ti pṛṣṭhavaṃśa- madhiropayatī'ti tatra mantre sthūṇāviti chāndaso lṅgavyatyayaḥ dvivacanañca yathāsambhavaṃ draṣṭavyam


5

आप्ग्स्-तात्_17.5: यथाखातं खननक्रमेणैतराःस्थूणाः तूष्णीमन्ववधायवंशं समतूपं समथूणास्वाधीयमानंउत्तरेण यजुषाऽऋतेन स्थूणा वधिरोहऽ; इत्यनेनाभिमन्त्रयते

āpgs-tāt_17.5: yathākhātaṃ khananakrameṇaitarāḥsthūṇāḥ tūṣṇīmanvavadhāyavaṃśaṃ samatūpaṃ samathūṇāsvādhīyamānaṃuttareṇa yajuṣā'ṛtena sthūṇā vadhiroha'; ityanenābhimantrayate


6

सम्मितमुत्तरैर्यथालिङ्गम् आप्ग्स्_17.6 (प.7खं.,17-6) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.6: ततस्तदगारंसम्मितंसंकॢप्तंउत्तरैर्मन्त्रैःऽब्रह्म च ते क्षत्रऽमित्यादिभिष्षड्भिः किम्?अभिमन्त्रयते इत्येव यथालिङ्गमितियस्यागाराङ्गस्य लिङ्गं यस्मिन् मन्त्रे दृश्यते तेन तदभिमुखो ऽगारमभिमन्त्रयत इत्यर्थः यदापि पूर्वस्थूणा बद्धा तदापि द्वे एवाभिसन्धायाभिमन्त्रणम् अगारस्य द्विवचनसंयोगात् एवं सर्वत्र अगारमध्ये यः स्थूणाराजः स्तूपः पृष्ठवंशः अत्रैके स्थूणालिङ्गेषु चतुर्षु मन्त्रेषु ऽस्थूणे अभिरक्षतुऽइत्येवमनुषङ्गाम्च्छन्ति यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु इति अन्ये ऽतेऽशब्दस्यापि-यज्ञश्च ते दक्षिणाश्चेति साकांक्षत्वान्मन्त्राणाम्, नेति वयम् धक्षिणा इषश्चोर्जश्चेतिबहुवचनान्तैः अभिरक्षत्वित्येकवचनान्तस्य सम्बन्धानुपपत्तेः, ऊहस्य चाविधानात् अभ्यातानवत् पाठाभावच्च सर्वानुषङ्गेषु दृष्टस्यान्ते पुनः पाठस्याभावाच्च यत्तु साकांक्षत्वमुक्तं तदपि नानुषङ्गहेतुः सन्निधिमात्रेणाकाङ्क्षाया निवर्तनात् यदि वा धर्मस्ते स्थूणाराज श्रीस्ते इत्यत्राभिरक्षत्वित्यस्य नापेक्षा , द्वयोरपि प्रथमान्तत्वात् एवं दक्षिणा इत्यादिकं प्रथमान्तं द्रष्टव्यम् तस्मादाकाङ्क्षैव नास्ति सन्निधानाच्च स्थूणाप्रतिपत्तिः

sammitamuttarairyathāliṅgam āpgs_17.6 (pa.7khaṃ.,17-6) commentaries: āpgs-anā_17.6: tatastadagāraṃsammitaṃsaṃkḷptaṃuttarairmantraiḥ'brahma ca te kṣatra'mityādibhiṣṣaḍbhiḥ kim?abhimantrayate ityeva yathāliṅgamitiyasyāgārāṅgasya liṅgaṃ yasmin mantre dṛśyate tena tadabhimukho 'gāramabhimantrayata ityarthaḥ yadāpi pūrvasthūṇā baddhā tadāpi dve evābhisandhāyābhimantraṇam agārasya dvivacanasaṃyogāt evaṃ sarvatra agāramadhye yaḥ sthūṇārājaḥ stūpaḥ pṛṣṭhavaṃśaḥ atraike sthūṇāliṅgeṣu caturṣu mantreṣu 'sthūṇe abhirakṣatu'ityevamanuṣaṅgāmcchanti yajñaśca dakṣiṇāśca dakṣiṇe sthūṇe abhirakṣatu iti anye 'te'śabdasyāpi-yajñaśca te dakṣiṇāśceti sākāṃkṣatvānmantrāṇām, neti vayam dhakṣiṇā iṣaścorjaścetibahuvacanāntaiḥ abhirakṣatvityekavacanāntasya sambandhānupapatteḥ, ūhasya cāvidhānāt abhyātānavat pāṭhābhāvacca sarvānuṣaṅgeṣu dṛṣṭasyānte punaḥ pāṭhasyābhāvācca yattu sākāṃkṣatvamuktaṃ tadapi nānuṣaṅgahetuḥ sannidhimātreṇākāṅkṣāyā nivartanāt yadi vā dharmaste sthūṇārāja śrīste ityatrābhirakṣatvityasya nāpekṣā , dvayorapi prathamāntatvāt evaṃ dakṣiṇā ityādikaṃ prathamāntaṃ draṣṭavyam tasmādākāṅkṣaiva nāsti sannidhānācca sthūṇāpratipattiḥ


6

आप्ग्स्-तात्_17.6: सम्मितंनिर्मितमगारंउत्तराःऽब्रह्म च ते क्षत्रं चऽइत्यादिभिः पञ्चभिर्मन्त्रैःयथालिङ्गंमन्त्रलिङ्गावगतदिङ्मुखो ऽभिमन्त्रयते तत्र पञ्चमेन मध्यमाभिमुखः, अनन्वितत्वात् केचित्-षड्भिः तत्र ऽधर्मस्ते स्थूणाराजःऽइति मध्यमश्च ऽश्रीस्ते स्तूपःऽइति पृष्ठवंशमिति अत्र यद्यपि मन्त्रैरगारावयवास्स्थूणाः स्तूयन्ते;तथाप्येभिः स्थूणावदगारमेव स्तूयते, यथा पादवन्दनेन पादवानेव वन्द्यते अत्र केचित्-द्वितीयादिषु त्रिषु मन्त्रेषु वाक्यसमाप्त्यर्थ ऽस्थूणे अभिरक्षतुऽइत्याद्यनुङ्गं मन्यन्ते अन्ये ऽतेऽशब्दस्यापि तथा ऽधर्मस्तेऽइत्यादौ अभिरक्षत्वित्यस्य च अपरे तु-नैवेह कस्याचित्क्वचिदप्यनुषङ्गः;अनुषज्यमानस्य वैरूप्यात्, अन्ते ऽपि च पाठाभावाच्च वाक्यसमाप्तिस्तु प्रकृततया बुद्धिस्थपदार्थान्वयात्सिध्यति, यथा ऽइषे त्वाऽ(तैसं.1-1-1)इति मन्त्रस्य बुद्धिस्थच्छेदनान्वयात् छिनद्भीति वाक्यसमाप्तिरिति

āpgs-tāt_17.6: sammitaṃnirmitamagāraṃuttarāḥ'brahma ca te kṣatraṃ ca'ityādibhiḥ pañcabhirmantraiḥyathāliṅgaṃmantraliṅgāvagatadiṅmukho 'bhimantrayate tatra pañcamena madhyamābhimukhaḥ, ananvitatvāt kecit-ṣaḍbhiḥ tatra 'dharmaste sthūṇārājaḥ'iti madhyamaśca 'śrīste stūpaḥ'iti pṛṣṭhavaṃśamiti atra yadyapi mantrairagārāvayavāssthūṇāḥ stūyante;tathāpyebhiḥ sthūṇāvadagārameva stūyate, yathā pādavandanena pādavāneva vandyate atra kecit-dvitīyādiṣu triṣu mantreṣu vākyasamāptyartha 'sthūṇe abhirakṣatu'ityādyanuṅgaṃ manyante anye 'te'śabdasyāpi tathā 'dharmaste'ityādau abhirakṣatvityasya ca apare tu-naiveha kasyācitkvacidapyanuṣaṅgaḥ;anuṣajyamānasya vairūpyāt, ante 'pi ca pāṭhābhāvācca vākyasamāptistu prakṛtatayā buddhisthapadārthānvayātsidhyati, yathā 'iṣe tvā'(taisaṃ.1-1-1)iti mantrasya buddhisthacchedanānvayāt chinadbhīti vākyasamāptiriti


7

अथ गृहप्रवेशविधिमाह 17 गृहप्रवेशविधिः- 1 गृहस्येशानदिग्भागे ऽग्निप्रतिष्ठापनम् पालाशं शमीमयं वेध्ममादीप्योत्तरयाग्निमुद्धृत्योत्तरेण यजुषागारं प्रपाद्योत्तरपूर्वदेशे ऽगारस्योत्तरयाग्निं प्रतिष्ठापयति आप्ग्स्_17.7 (प.7,खं.,17-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.7: अथ प्रवेशनविधिः अन्यथा सम्मितस्याप्यगारस्य प्रवेशे विधिरयं भवति उदगयनाद्यपेक्षिमिति केचित् नेत्यन्ये बीजवतो गृहान् प्रतिपद्यते (आश्वगृ.2-10-2)इत्याश्वलायनः बीजग्रहणं सर्वेषामेव गृहोपकरणानामुपलक्ष- णम् तत्र प्रवेक्ष्यन्पालाशं समीमयं वा इध्मंअग्नावादीपयति इध्मश्चात्रार्थलक्षणो न नियतपरिमाणः आदीप्य तमग्निपात्रं उद्धरच्युत्तरयर्ता ऽउद्ध्रियमाणऽइत्येतया पञ्चपादया यद्यहनि प्रवेशो रात्रिलिङ्गो ऽविवादः प्रयोक्तव्यः तथा रात्रावहर्लिङ्गो निर्विवादः प्रयोक्तव्यः विभज्यविनियोगाभावात् येषां तूदगयनापेक्षा ते रात्रौ प्रवेशं नेच्छन्ति अहःकृतस्य रात्रिकृतस्य च पाप्मनो विनियोगः प्रपाद्यत इत्यर्थः विरोधो ऽपि नास्ति यथा ऽयदापो नक्तं दुरितं चरामेऽति तमुद्धृतमग्निं उत्तरेण यजुषा ऽइन्द्र स्य गृहा वसुमन्तो वरूथिनःऽइत्यनेनअगारंप्रपादयति प्रपाद्यअगारस्यौत्तरपूर्वे देशे तमग्निं प्रतिष्ठापयति उत्तरयर्चा ऽअमृताहुतिऽमित्यनया अत्रागरस्येति न वक्तव्यं, अग्निमिति च कस्मात्?उभयोरष्यत्रैव वाक्ये श्रुतत्वात् एवं तर्हि नायमगारशब्दो देशविशेषणार्थः किं तर्हि?अग्निविशेषणार्थः अगारस्याग्निं प्रतिष्ठापयतीति कः पुनरगारस्याग्निः?यः पचनाग्निः तस्मादौपासनादुद्वरणंमस्याग्नेर्न भवति लौकिकादेव भवतीति केचित् अपरे तु होमसंयोगादौपासन एवायमग्निरिति स्थिताः तेषामगारस्येत्यग्निमिति च पदद्वयं व्यर्थम् होमाश्च पचने ऽपि दृष्टा वैश्वदेवे तस्मात् पचनाद्रिरेवायम् ययप्येवं तथापि देशसंस्कारो भवत्येव होमसंयोगात् . अथौपासनस्य वैहारिकाणां च तदैव प्रवेशनं प्रतिष्ठापनं च स्वे स्थाने भार्यादीनां च तदैव प्रवेशः

atha gṛhapraveśavidhimāha 17 gṛhapraveśavidhiḥ- 1 gṛhasyeśānadigbhāge 'gnipratiṣṭhāpanam pālāśaṃ śamīmayaṃ vedhmamādīpyottarayāgnimuddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati āpgs_17.7 (pa.7,khaṃ.,17-7) commentaries: āpgs-anā_17.7: atha praveśanavidhiḥ anyathā sammitasyāpyagārasya praveśe vidhirayaṃ bhavati udagayanādyapekṣimiti kecit netyanye bījavato gṛhān pratipadyate (āśvagṛ.2-10-2)ityāśvalāyanaḥ bījagrahaṇaṃ sarveṣāmeva gṛhopakaraṇānāmupalakṣa- ṇam tatra pravekṣyanpālāśaṃ samīmayaṃ vā idhmaṃagnāvādīpayati idhmaścātrārthalakṣaṇo na niyataparimāṇaḥ ādīpya tamagnipātraṃ uddharacyuttarayartā 'uddhriyamāṇa'ityetayā pañcapādayā yadyahani praveśo rātriliṅgo 'vivādaḥ prayoktavyaḥ tathā rātrāvaharliṅgo nirvivādaḥ prayoktavyaḥ vibhajyaviniyogābhāvāt yeṣāṃ tūdagayanāpekṣā te rātrau praveśaṃ necchanti ahaḥkṛtasya rātrikṛtasya ca pāpmano viniyogaḥ prapādyata ityarthaḥ virodho 'pi nāsti yathā 'yadāpo naktaṃ duritaṃ carāme'ti tamuddhṛtamagniṃ uttareṇa yajuṣā 'indra sya gṛhā vasumanto varūthinaḥ'ityanenaagāraṃprapādayati prapādyaagārasyauttarapūrve deśe tamagniṃ pratiṣṭhāpayati uttarayarcā 'amṛtāhuti'mityanayā atrāgarasyeti na vaktavyaṃ, agnimiti ca kasmāt?ubhayoraṣyatraiva vākye śrutatvāt evaṃ tarhi nāyamagāraśabdo deśaviśeṣaṇārthaḥ kiṃ tarhi?agniviśeṣaṇārthaḥ agārasyāgniṃ pratiṣṭhāpayatīti kaḥ punaragārasyāgniḥ?yaḥ pacanāgniḥ tasmādaupāsanādudvaraṇaṃmasyāgnerna bhavati laukikādeva bhavatīti kecit apare tu homasaṃyogādaupāsana evāyamagniriti sthitāḥ teṣāmagārasyetyagnimiti ca padadvayaṃ vyartham homāśca pacane 'pi dṛṣṭā vaiśvadeve tasmāt pacanādrirevāyam yayapyevaṃ tathāpi deśasaṃskāro bhavatyeva homasaṃyogāt . athaupāsanasya vaihārikāṇāṃ ca tadaiva praveśanaṃ pratiṣṭhāpanaṃ ca sve sthāne bhāryādīnāṃ ca tadaiva praveśaḥ


7

आप्ग्स्-तात्_17.7: पासाशं शमीमयं वेध्मंकाष्ठबौपासने ऽग्नावादीपयति इध्ममिति च ऽअग्निषु महत इध्मानादधातिऽइतिवदनियतं संख्यादिकं विवक्षितम् उत्तरयाऽउद्ध्रियमाणःऽइत्येतया ततस्तमग्निमुद्धरति अत्र च सानुषङ्गे चतुष्पदे त्रिष्टुभौ द्वे ऋचौ पञ्चभिः पादैराम्नाते तयोरेकैवोद्धरणार्था अन्या तु विकल्पार्था उत्तरया इत्येकवचनेन विनियोगात् व्यवस्थितश्चायं विकल्पो ऽभिप्रेतःअग्निहोत्रवत् यद्यहनि प्रवेशस्तदा रात्रिलिङ्गया, रात्रौ चेदहर्लिङ्गया रात्रौ च प्रवेशश्शिष्टाचारप्रसिद्ध इति पूर्वमेवोक्तः उत्तरेणऽइन्द्रस्य गृहाःऽइति यजुषा उद्धृतमग्निमगारं प्रपाद्य अनन्तरं विधिवत्संस्कृते उत्तरपूर्वदेशे ऽगारस्यतमग्निमुत्तरयाअमृताहुतिमऽइत्येतयाप्रतिष्ठापयति तथा श्रौताग्नीनपि विधिवदानीतानस्मिन्नेव काले अगारं प्रपाद्याग्न्यगारे यथाविधि प्रतिष्ठापयति केचित्-इहाग्निमुद्धृत्य अगारं प्रपाद्येति प्रकृते ऽपि पुनरुक्तयोरेतयोरर्थवत्त्वाय अगारस्याग्निमित्यन्वयादादीपनादिप्रतिष्ठापनान्तं पचनार्थ स्य लौकिकाग्नेरेव, नौपासनस्येति तेषामेतत्तुल्यसूत्रे विवाहाङ्गे प्रविश्य होमे पचनाग्नेरेवोपसमाधानादि स्यात् अथागारशब्दस्य शयनस्थानवाचित्वात् गृहशब्दस्य चातथात्वात् न तत्र तुल्यसूत्रतेति चेत्-न;गृहागारशब्दयोरेकार्थत्वे विवादाभावात् इह च ऽइन्द्रस्य गृहा वसुमन्तःऽइति मन्त्रस्थगृहशब्देनागाराभिधानात्,प्रत्युत धर्मशास्त्रे ऽमध्ये ऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् उत्तर पूर्वदेशे ऽगारस्योत्तरैश्चतुर्भिः शय्यादेशे कामलिङ्गेनऽ(आपध.2-3-22,23;2-4-1) इति शयनस्थानस्यागारादन्यत्वाभिधानाच्च पिनरुक्तिः स्फुचार्थतयापि निर्वाह्या किञ्चागारस्याग्निमित्यन्वयो ऽपि अगाराग्निः शालाग्निः,गृह्याग्निपासनाग्निरित्येकार्थतया याज्ञिकानां प्रयोगादौपासलन एव प्रतिष्ठाप्यः, न पचनाग्निः

āpgs-tāt_17.7: pāsāśaṃ śamīmayaṃ vedhmaṃkāṣṭhabaupāsane 'gnāvādīpayati idhmamiti ca 'agniṣu mahata idhmānādadhāti'itivadaniyataṃ saṃkhyādikaṃ vivakṣitam uttarayā'uddhriyamāṇaḥ'ityetayā tatastamagnimuddharati atra ca sānuṣaṅge catuṣpade triṣṭubhau dve ṛcau pañcabhiḥ pādairāmnāte tayorekaivoddharaṇārthā anyā tu vikalpārthā uttarayā ityekavacanena viniyogāt vyavasthitaścāyaṃ vikalpo 'bhipretaḥagnihotravat yadyahani praveśastadā rātriliṅgayā, rātrau cedaharliṅgayā rātrau ca praveśaśśiṣṭācāraprasiddha iti pūrvamevoktaḥ uttareṇa'indrasya gṛhāḥ'iti yajuṣā uddhṛtamagnimagāraṃ prapādya anantaraṃ vidhivatsaṃskṛte uttarapūrvadeśe 'gārasyatamagnimuttarayāamṛtāhutim'ityetayāpratiṣṭhāpayati tathā śrautāgnīnapi vidhivadānītānasminneva kāle agāraṃ prapādyāgnyagāre yathāvidhi pratiṣṭhāpayati kecit-ihāgnimuddhṛtya agāraṃ prapādyeti prakṛte 'pi punaruktayoretayorarthavattvāya agārasyāgnimityanvayādādīpanādipratiṣṭhāpanāntaṃ pacanārtha sya laukikāgnereva, naupāsanasyeti teṣāmetattulyasūtre vivāhāṅge praviśya home pacanāgnerevopasamādhānādi syāt athāgāraśabdasya śayanasthānavācitvāt gṛhaśabdasya cātathātvāt na tatra tulyasūtrateti cet-na;gṛhāgāraśabdayorekārthatve vivādābhāvāt iha ca 'indrasya gṛhā vasumantaḥ'iti mantrasthagṛhaśabdenāgārābhidhānāt,pratyuta dharmaśāstre 'madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam uttara pūrvadeśe 'gārasyottaraiścaturbhiḥ śayyādeśe kāmaliṅgena'(āpadha.2-3-22,23;2-4-1) iti śayanasthānasyāgārādanyatvābhidhānācca pinaruktiḥ sphucārthatayāpi nirvāhyā kiñcāgārasyāgnimityanvayo 'pi agārāgniḥ śālāgniḥ,gṛhyāgnipāsanāgnirityekārthatayā yājñikānāṃ prayogādaupāsalana eva pratiṣṭhāpyaḥ, na pacanāgniḥ


8

2 अग्नेर्दक्षिणत उदधानायतनकरणम् तस्माद्दक्षिणमुदधानायतनं भवति आप्ग्स्_17.8 (प.7.खं.,17-8) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.8: एवं प्रतिष्ठतस्याग्नेःदक्षिणमुदधानायतनंकर्तव्यम् उदकं धीयते यत्र तत् उदधानं मणिकाख्यम् आप्ग्स्-तात्_17.8: तस्मात् प्रतिष्ठिताग्नेर्दक्षिणमुदधानस्यमणिकस्यायतनं भवति

2 agnerdakṣiṇata udadhānāyatanakaraṇam tasmāddakṣiṇamudadhānāyatanaṃ bhavati āpgs_17.8 (pa.7.khaṃ.,17-8) commentaries: āpgs-anā_17.8: evaṃ pratiṣṭhatasyāgneḥdakṣiṇamudadhānāyatanaṃkartavyam udakaṃ dhīyate yatra tat udadhānaṃ maṇikākhyam āpgs-tāt_17.8: tasmāt pratiṣṭhitāgnerdakṣiṇamudadhānasyamaṇikasyāyatanaṃ bhavati


9

3 तत्रायतने उदधानप्रतिष्ठापनम् तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति आप्ग्स्_17.9 (प.7.खं.,17-9) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.9: तस्मिन्नायतने विषूचीनाग्रान्सर्वतोदिक्कान्दर्भान् संस्तीर्य तेषुदर्भेषुब्रीहीन् यवांश्चसंयुक्तान्निवपति उत्तरयर्चाऽअन्नपतऽइत्येतया ततस्तस्मिन्नायतने उदधानं प्रतिष्ठापयतियथा निश्चलं भवति तथा स्थापयति

3 tatrāyatane udadhānapratiṣṭhāpanam tasminviṣūcīnāgrāndarbhānsaṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati āpgs_17.9 (pa.7.khaṃ.,17-9) commentaries: āpgs-anā_17.9: tasminnāyatane viṣūcīnāgrānsarvatodikkāndarbhān saṃstīrya teṣudarbheṣubrīhīn yavāṃścasaṃyuktānnivapati uttarayarcā'annapata'ityetayā tatastasminnāyatane udadhānaṃ pratiṣṭhāpayatiyathā niścalaṃ bhavati tathā sthāpayati


9

आप्ग्स्-तात्_17.9: तस्मिन् उदधानस्थाने विषूचीनाग्रान्नानादिगग्रान्दर्भान् संस्तीर्य, तेषुदर्भेषुउत्तरयाऽअन्नपते ऽन्नस्यऽइत्योतयाब्रीहियवांश्च संयुक्तान्न्युप्यतेषुदधानंप्रतिष्ठापयति

āpgs-tāt_17.9: tasmin udadhānasthāne viṣūcīnāgrānnānādigagrāndarbhān saṃstīrya, teṣudarbheṣuuttarayā'annapate 'nnasya'ityotayābrīhiyavāṃśca saṃyuktānnyupyateṣudadhānaṃpratiṣṭhāpayati


10

4 उदधानस्य जलेन पूरणम् तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति आप्ग्स्_17.10 (प.7.खं.,17-10) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.10: उत्तरेण यजुषा ऽअरिष्टा अस्माकऽमित्यनेन प्रतिकुंभं मन्त्रावृत्तिः तत्र चतुर्भिर्वा कुम्भैः पृथगानयनमेकेनैव वाथ पुनः पूरयित्वा, यथा-ऽतिस्रः स्रु च उत्सिच्येऽति

4 udadhānasya jalena pūraṇam tasminnuttareṇa yajuṣā catura udakumbhānānayati āpgs_17.10 (pa.7.khaṃ.,17-10) commentaries: āpgs-anā_17.10: uttareṇa yajuṣā 'ariṣṭā asmāka'mityanena pratikuṃbhaṃ mantrāvṛttiḥ tatra caturbhirvā kumbhaiḥ pṛthagānayanamekenaiva vātha punaḥ pūrayitvā, yathā-'tisraḥ sru ca utsicye'ti


10

आप्ग्स्-तात्_17.10: तस्मिन् उदधाने उत्तरेणऽअरिष्टा अस्माकंऽइत्यनेनयजुषा चतुर उदकुम्भानानयति प्रतिकुम्भं मन्त्रावृत्तिः, द्रव्य भेदेन प्रकाश्यक्रियाभेदात् यत्र पुनर्मधुपर्कप्राशनादौ आवृत्तिविधिस्तस्या एव क्रियायाः, तत्र सकृदेव मन्त्रः

āpgs-tāt_17.10: tasmin udadhāne uttareṇa'ariṣṭā asmākaṃ'ityanenayajuṣā catura udakumbhānānayati pratikumbhaṃ mantrāvṛttiḥ, dravya bhedena prakāśyakriyābhedāt yatra punarmadhuparkaprāśanādau āvṛttividhistasyā eva kriyāyāḥ, tatra sakṛdeva mantraḥ


11

5 तस्य भेदने ऽनुमन्त्रणम् दीर्णमुत्तरयानुमन्त्रयते आप्ग्स्_17.11 (प.7.खं.,17-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.11: अथ यदि तदुदधानां भिद्यते ततुत्तरयर्चा भूमिर्भूमिऽमित्येतयाअनुमन्त्रयते कालान्तरे दीर्ण एतद्भवति उदधानान्तरे ऽपि तत्स्थानापन्ने

5 tasya bhedane 'numantraṇam dīrṇamuttarayānumantrayate āpgs_17.11 (pa.7.khaṃ.,17-11) commentaries: āpgs-anā_17.11: atha yadi tadudadhānāṃ bhidyate tatuttarayarcā bhūmirbhūmi'mityetayāanumantrayate kālāntare dīrṇa etadbhavati udadhānāntare 'pi tatsthānāpanne


11

आप्ग्स्-तात्_17.11: यदिदीर्णमणिकं स्यात्तदाउत्तरयाऽभूमिर्भूमिमगातऽइत्येतयानुमन्त्रयते एतच्च प्रकरणात्कर्माङ्गमेव

āpgs-tāt_17.11: yadidīrṇamaṇikaṃ syāttadāuttarayā'bhūmirbhūmimagāt'ityetayānumantrayate etacca prakaraṇātkarmāṅgameva


12

6 प्रधानाहुतयः अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते आप्ग्स्_17.12 (प.7खं.,17-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.12: चतस्रःउत्तराः प्रधानाहुतयः"वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत"इति तत्राज्यभागान्तवचनेनैव तन्त्रप्राप्तिस्सिद्धा, यथा ऽपार्वणवदाज्यभागान्तेऽइत्यत्र किमग्नेरुपसमाधानादिवचनेन?अग्निनियमार्त तु-यो ऽगारे पचनार्थ प्रतिष्ठापितो ऽग्निः तस्यैव होमार्थमुपसमाधानं यथा स्यादिति अन्यथा सर्वपाकयज्ञार्थे औपासन एव होमः स्यात् जयादिवचनं स्थालीपाकप्रतिषेधार्थम् का पुनः प्राप्तिः स्थालीपाकस्य?कस्पान्तरे दर्शनात् कथं पुनः जयादिवचनेन स्थालीपाकस्य प्रतिषेधः?उत्यते-स्विष्टकृत्प्रतिषेधस्तावत् गम्यते-उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृत्प्रतिषेधस्तावत् गम्यते-उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृतमिति स च स्थालीपाकेषु भवति अतस्यतत्प्रतिषेधद्वारेण स्थालीपाकप्रतिषेध एवायं सम्पद्यते

6 pradhānāhutayaḥ agnerupasamādhānādyājyabhāgānte uttarā āhutīrhutvā jayādi pratipadyate āpgs_17.12 (pa.7khaṃ.,17-12) commentaries: āpgs-anā_17.12: catasraḥuttarāḥ pradhānāhutayaḥ"vāstoṣpate pratijānīhi, vāstoṣpate śagmayā, vāstoṣpate prataraṇo na edhi, amīvahā vāstoṣpata"iti tatrājyabhāgāntavacanenaiva tantraprāptissiddhā, yathā 'pārvaṇavadājyabhāgānte'ityatra kimagnerupasamādhānādivacanena?agniniyamārta tu-yo 'gāre pacanārtha pratiṣṭhāpito 'gniḥ tasyaiva homārthamupasamādhānaṃ yathā syāditi anyathā sarvapākayajñārthe aupāsana eva homaḥ syāt jayādivacanaṃ sthālīpākapratiṣedhārtham kā punaḥ prāptiḥ sthālīpākasya?kaspāntare darśanāt kathaṃ punaḥ jayādivacanena sthālīpākasya pratiṣedhaḥ?utyate-sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtamiti sa ca sthālīpākeṣu bhavati atasyatatpratiṣedhadvāreṇa sthālīpākapratiṣedha evāyaṃ sampadyate


12

आप्ग्स्-तात्_17.12: उत्तरा आहुतीश्चतस्रः प्रधानाहुतीः ताश्च ऽवास्तोष्पते प्रतिजानीहिऽ(तैसं.3-4-10) इति द्वे, ऽवास्तोष्पते प्रतरणो नःऽइति द्वे आज्यहविष्ट्वाच्च तन्त्रविधानम् आज्यभागान्त इति वचनं त्वाज्यभागानन्तरमेव प्रधानहोमाः, नान्यदर्थकृत्यमपीति क्रमार्थम् केचित्-ऽपार्वणवदाज्यभागान्तेऽ(आपगृ.18-6) इतिवदाज्यभागान्त इत्यनेनैव तन्त्रप्राप्तौ सिद्धायां ऽअग्नेरुपसमाधानादिऽइति वचनं स्वमतेन प्रतिष्ठितः पचनाग्निरेवेह होमार्थ इत्येवमर्थमिति तदयुक्तम् , ऽकर्मस्मार्त विवाहाग्नौ कुर्वीत प्रत्यहं गृहीऽ; (या-स्मृ.1-97) इति सर्वस्मार्तहोमानामविशेषेण औपासनविधानात्, अस्य सूत्रस्योक्तविधयान्यार्थत्वात्, अस्मादीयानां गृह्यान्तरीयाणां चौपासन एव वास्तुहोमाचाराच्च

āpgs-tāt_17.12: uttarā āhutīścatasraḥ pradhānāhutīḥ tāśca 'vāstoṣpate pratijānīhi'(taisaṃ.3-4-10) iti dve, 'vāstoṣpate prataraṇo naḥ'iti dve ājyahaviṣṭvācca tantravidhānam ājyabhāgānta iti vacanaṃ tvājyabhāgānantarameva pradhānahomāḥ, nānyadarthakṛtyamapīti kramārtham kecit-'pārvaṇavadājyabhāgānte'(āpagṛ.18-6) itivadājyabhāgānta ityanenaiva tantraprāptau siddhāyāṃ 'agnerupasamādhānādi'iti vacanaṃ svamatena pratiṣṭhitaḥ pacanāgnireveha homārtha ityevamarthamiti tadayuktam , 'karmasmārta vivāhāgnau kurvīta pratyahaṃ gṛhī'; (yā-smṛ.1-97) iti sarvasmārtahomānāmaviśeṣeṇa aupāsanavidhānāt, asya sūtrasyoktavidhayānyārthatvāt, asmādīyānāṃ gṛhyāntarīyāṇāṃ caupāsana eva vāstuhomācārācca


13

7 गृगस्य परिषेचनम् परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतो ऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति आप्ग्स्_17.13 (प.7.ख.,17-13) चोम्मेन्तरिएस्: आप्ग्स्-अना_17.13: परिषेचनान्तवचनं आनन्तर्यार्थम् तन्त्रशेषं समाप्यागारस्य परिषेचनमेव कर्तव्यम् नान्यद्वैश्वदेवादिकमिति उत्तरेण यजुषाऽशिवं शिवऽमित्यनेन उदकुम्भेनन हस्तेन परिभाषयैव सिद्धे प्रदक्षिणमिति वचनात् परिषेचनमिदमेकमेव प्रदक्षिणं त्रिगुणीभूतं सकृदुपात्तेनैवोदकुम्भेन संततमविच्छिन्नं कर्तव्यम् मेखलया परिव्याणवत् त्रीणि परिषेचननीति सिद्धं भवति अन्तरंतैति वचनमगारात् बहिः परिषेचनं मा भूत् अब्यन्तरमेव यथा स्यादिति अगारंगृहं,निवेशनंशयनदेशः ब्राह्ममान् युग्मान् भोजयेदपूपादिभिः इतिशब्दः समुच्चयार्थः

7 gṛgasya pariṣecanam pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayedapūpaissaktubhirodaneneti āpgs_17.13 (pa.7.kha.,17-13) commentaries: āpgs-anā_17.13: pariṣecanāntavacanaṃ ānantaryārtham tantraśeṣaṃ samāpyāgārasya pariṣecanameva kartavyam nānyadvaiśvadevādikamiti uttareṇa yajuṣā'śivaṃ śiva'mityanena udakumbhenana hastena paribhāṣayaiva siddhe pradakṣiṇamiti vacanāt pariṣecanamidamekameva pradakṣiṇaṃ triguṇībhūtaṃ sakṛdupāttenaivodakumbhena saṃtatamavicchinnaṃ kartavyam mekhalayā parivyāṇavat trīṇi pariṣecananīti siddhaṃ bhavati antaraṃtaiti vacanamagārāt bahiḥ pariṣecanaṃ mā bhūt abyantarameva yathā syāditi agāraṃgṛhaṃ,niveśanaṃśayanadeśaḥ brāhmamān yugmān bhojayedapūpādibhiḥ itiśabdaḥ samuccayārthaḥ


13

इति हगदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां सप्तदशः खण्डः आप्ग्स्-तात्_17.13: परिषेचनान्तमुत्तरेणऽशिवं शिवमऽइत्यनेनयजुषाउदकुम्भेन सकृदुपात्तेनअगारं निवेशनं वान्तरतो न बहिःत्रिः प्रदक्षिणं परिषिच्य ब्राह्मणान् भोजयेदपूपादिभिः इतिशब्दस्समुच्चयार्थः सक्तूनां तु भोजनात्प्रागेव उपयोगः, न मध्ये लोक- प्रसिद्ध्यभावात् ऽशुचीन् मन्त्रवतः सर्वकृत्येषु भोजयेतऽ(आपध.2-15-11) इति सिद्धस्य भोजनस्य पुनर्वचनमपूपादिगुणविद्ध्यर्थम्

iti hagadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ saptadaśaḥ khaṇḍaḥ āpgs-tāt_17.13: pariṣecanāntamuttareṇa'śivaṃ śivam'ityanenayajuṣāudakumbhena sakṛdupāttenaagāraṃ niveśanaṃ vāntarato na bahiḥtriḥ pradakṣiṇaṃ pariṣicya brāhmaṇān bhojayedapūpādibhiḥ itiśabdassamuccayārthaḥ saktūnāṃ tu bhojanātprāgeva upayogaḥ, na madhye loka- prasiddhyabhāvāt 'śucīn mantravataḥ sarvakṛtyeṣu bhojayet'(āpadha.2-15-11) iti siddhasya bhojanasya punarvacanamapūpādiguṇaviddhyartham


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने सप्तदशः खण्डः अष्टादशः खण्डः 1 बालग्रहगृहीतस्य कुमारस्य तन्निवर्तकं कर्म श्वग्रहहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्ये ऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् आप्ग्स्_18.1 (प.8.खं.18-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.1: बहवो बालग्रहाः दिवसमासससमादिकाः तत्र येन गृहीतः श्ववच्चेष्टते सश्वग्रहः तेन वगृहातं कुमारं, पुल्लिङ्गनिर्देशात् कुमार्यान भवतीत्येके तपोयुक्तःकर्ता पितेत्येके यः कश्चिदित्यन्ये तपो ब्रह्मचर्यादि यावता तपसा सिद्धं मन्यते तावत् कृत्वेत्यर्थःजालंमत्स्यग्रहणं तेनप्रच्छाद्य कंसंप्रसिद्धं किङ्किणिः घण्टाविशेषः तयोरन्यतरं ह्रादयन् अन्यतरस्य ध्वनिं कारयन् केनचिदन्येन स्वयं कुमारं गृहीत्वासमां प्रपादयति अद्वारेणछदीरपोह्यमार्ग कृत्वा तेनेत्यर्थः किं तत् स्थानम्?सभा, तस्या मध्ये ऽधिदेवनं स्थानंयत्र कितवा दीव्यन्ति तं प्रदेशंउद्धत्याद्भिरवोक्ष्यतत्राक्षान्निवपति अक्षाश्शाराः विभीतका इत्यन्ये तान् पृथु प्रथयित्वाप्वेनमुत्तानंनिपातयति शाययति ततो दध्ना लवणमिश्रेणावोक्षेदञ्ज- लिना उत्तरैर्मन्त्रैः ऽकूर्कुरस्सुकूर्कुरऽइत्यादिभिः ऽश्वानमिच्छ्वादन्न पुरुषं छतऽइत्यन्तैः प्रतिमन्त्रमवोक्षणम् तत्रादितस्तिस्र ऋचः, ततो यजुषी द्वे ऽतत्सत्यं, विगृह्यबाहूऽइति ततः पञ्चर्चो ऽविभ्रन्निष्कञ्चेऽत्याद्याः, ततो यजुरेकं ऽश्वानऽमिति, एवमेकादशैते मन्त्राः यावत् कर्म समाप्यते तावत् संसकिङ्कण्योरन्यतरस्य ह्रादनम् एवमेतत्कर्म जालप्रच्छादनादवोक्षणान्तं त्रिसन्ध्यं कर्तव्यम्

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane saptadaśaḥ khaṇḍaḥ aṣṭādaśaḥ khaṇḍaḥ 1 bālagrahagṛhītasya kumārasya tannivartakaṃ karma śvagrahahītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayannadvāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanamuddhatyāvokṣyākṣānnyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarairavokṣetprātarmadhyandine sāyam āpgs_18.1 (pa.8.khaṃ.18-1) commentaries: āpgs-anā_18.1: bahavo bālagrahāḥ divasamāsasasamādikāḥ tatra yena gṛhītaḥ śvavacceṣṭate saśvagrahaḥ tena vagṛhātaṃ kumāraṃ, pulliṅganirdeśāt kumāryāna bhavatītyeke tapoyuktaḥkartā pitetyeke yaḥ kaścidityanye tapo brahmacaryādi yāvatā tapasā siddhaṃ manyate tāvat kṛtvetyarthaḥjālaṃmatsyagrahaṇaṃ tenapracchādya kaṃsaṃprasiddhaṃ kiṅkiṇiḥ ghaṇṭāviśeṣaḥ tayoranyataraṃ hrādayan anyatarasya dhvaniṃ kārayan kenacidanyena svayaṃ kumāraṃ gṛhītvāsamāṃ prapādayati advāreṇachadīrapohyamārga kṛtvā tenetyarthaḥ kiṃ tat sthānam?sabhā, tasyā madhye 'dhidevanaṃ sthānaṃyatra kitavā dīvyanti taṃ pradeśaṃuddhatyādbhiravokṣyatatrākṣānnivapati akṣāśśārāḥ vibhītakā ityanye tān pṛthu prathayitvāpvenamuttānaṃnipātayati śāyayati tato dadhnā lavaṇamiśreṇāvokṣedañja- linā uttarairmantraiḥ 'kūrkurassukūrkura'ityādibhiḥ 'śvānamicchvādanna puruṣaṃ chat'ityantaiḥ pratimantramavokṣaṇam tatrāditastisra ṛcaḥ, tato yajuṣī dve 'tatsatyaṃ, vigṛhyabāhū'iti tataḥ pañcarco 'vibhranniṣkañce'tyādyāḥ, tato yajurekaṃ 'śvāna'miti, evamekādaśaite mantrāḥ yāvat karma samāpyate tāvat saṃsakiṅkaṇyoranyatarasya hrādanam evametatkarma jālapracchādanādavokṣaṇāntaṃ trisandhyaṃ kartavyam


1

आप्ग्स्-तात्_18.1: येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः तेन गृहीतःश्वग्रहगृहीतः, पिशाचिशुना वा दष्टः तपोयुक्तः यावन्मनस्तोषमनशनादियुक्तः पित्रीदिः कर्ता जालंमत्स्यग्रहणसाधनम् कंसं किङ्किणिं लोहघण्टांह्रदयन्पुरुषान्तरेण ध्वानयद्वारणकुड्याद्यपोह्य मार्ग कृत्वा अधिदेवनं यत्र दीव्यन्ति कितवाः अक्षान् विभीतकफलानि केचित्-शारा इति उत्तरैर्मन्त्रैःऽकूर्कुरस्सुकूर्कुरःऽइत्यादिभिर्यजुर्दशमैः यद्वैकादशभिः तस्मिन् पक्षे आदितस्तिस्र ऋचः ततः ऽतत्सत्यं यत्त्वेन्द्रःऽविगृह्य बाहू इति द्वे यजुषा ततो ऽबिभ्रन्निष्कमऽइति पञ्चर्चः ततः ऽश्वानमऽइत्येकादशं यजुरेवेति विभागः अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव केचित्-द्वष्टोपकारकत्वात् प्रतिमन्त्रमिति एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् अवोक्षणपर्यन्तं च ह्रादनम्

āpgs-tāt_18.1: yena gṛhītaḥ kumāraḥ śveva nadati, śvavadvā ceṣṭate sa śvagrahaḥ tena gṛhītaḥśvagrahagṛhītaḥ, piśāciśunā vā daṣṭaḥ tapoyuktaḥ yāvanmanastoṣamanaśanādiyuktaḥ pitrīdiḥ kartā jālaṃmatsyagrahaṇasādhanam kaṃsaṃ kiṅkiṇiṃ lohaghaṇṭāṃhradayanpuruṣāntareṇa dhvānayadvāraṇakuḍyādyapohya mārga kṛtvā adhidevanaṃ yatra dīvyanti kitavāḥ akṣān vibhītakaphalāni kecit-śārā iti uttarairmantraiḥ'kūrkurassukūrkuraḥ'ityādibhiryajurdaśamaiḥ yadvaikādaśabhiḥ tasmin pakṣe āditastisra ṛcaḥ tataḥ 'tatsatyaṃ yattvendraḥ'vigṛhya bāhū iti dve yajuṣā tato 'bibhranniṣkam'iti pañcarcaḥ tataḥ 'śvānam'ityekādaśaṃ yajureveti vibhāgaḥ avokṣaṇaṃ ca sarveṣāṃ mantrāṇāmante sakṛdeva kecit-dvaṣṭopakārakatvāt pratimantramiti evametajjālapracchādanādyavokṣaṇāntaṃ prātarādiṣu triṣu puṇyāhaviśeṣeṣu kartavyam avokṣaṇaparyantaṃ ca hrādanam


2

अगदो भवति आप्ग्स्_18.2 (प.8.खं.,18-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.2: अगदःअरोगः, रोगनिवृत्तिरस्य प्रयोजनमित्यर्थः किं सिद्धं भवति?यदि भैषज्येन कुमारो ऽगदः स्यात् न तत्रेदं कर्तव्यमिति अन्यथा कुमार स्यास्मिन् रोगे पितुर्नैमित्तिकमिदमवश्यं कर्तव्यं विज्ञायेत गृहदाहेष्ट्यादिवत् . एवं ब्रुवतां दोषः यक्ष्मगृहीतामन्यां वेत्येतत्प्रकारान्तरेण रोगशान्तावपि कर्तव्यं स्यात् . तस्मादिदमन्यते प्रयोजनम् एवमेतस्मिन् कर्मणि त्रिषु कासेषु कृते कुमारो ऽगदो भवति यदि न भवति पुनरपि तपोयुक्तेन कर्तव्यमिति

agado bhavati āpgs_18.2 (pa.8.khaṃ.,18-2) commentaries: āpgs-anā_18.2: agadaḥarogaḥ, roganivṛttirasya prayojanamityarthaḥ kiṃ siddhaṃ bhavati?yadi bhaiṣajyena kumāro 'gadaḥ syāt na tatredaṃ kartavyamiti anyathā kumāra syāsmin roge piturnaimittikamidamavaśyaṃ kartavyaṃ vijñāyeta gṛhadāheṣṭyādivat . evaṃ bruvatāṃ doṣaḥ yakṣmagṛhītāmanyāṃ vetyetatprakārāntareṇa rogaśāntāvapi kartavyaṃ syāt . tasmādidamanyate prayojanam evametasmin karmaṇi triṣu kāseṣu kṛte kumāro 'gado bhavati yadi na bhavati punarapi tapoyuktena kartavyamiti


2

आप्ग्स्-तात्_18.2: इह च ऽशङ्खिनमऽइत्यत्र फलवचनं, सर्वत्र श्रुतितोरऽथतो वावगतस्य कामिनः कर्मोपदेशः सामर्थ्यात्फलसिद्ध्यवगमपर्यन्त इति प्रदर्शयितुम् तेन ऽयक्ष्मगृहीतामऽ(आपगृ.9-10) इत्यादौ फलवचनाभोवे ऽप्युपदोशः काम्यसिद्धिपर्यन्त एव केचित्- एवमेतस्मिन् कर्मणि त्रिसन्ध्यं कृते, अगदो भवति यदि न भवति तदा पुनरप्येतत्कर्म कर्तव्यं, यावदगदो भवति इति नैतत्, स्वाभिमताभ्यासबोधकशब्दाभावात्

āpgs-tāt_18.2: iha ca 'śaṅkhinam'ityatra phalavacanaṃ, sarvatra śrutitor'thato vāvagatasya kāminaḥ karmopadeśaḥ sāmarthyātphalasiddhyavagamaparyanta iti pradarśayitum tena 'yakṣmagṛhītām'(āpagṛ.9-10) ityādau phalavacanābhove 'pyupadośaḥ kāmyasiddhiparyanta eva kecit- evametasmin karmaṇi trisandhyaṃ kṛte, agado bhavati yadi na bhavati tadā punarapyetatkarma kartavyaṃ, yāvadagado bhavati iti naitat, svābhimatābhyāsabodhakaśabdābhāvāt


3

शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तो ऽवनयेत्प्रातर्मध्यन्दिने सायम् आप्ग्स्_18.3 (प.7.खं.,17-3) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.3: शङ्खो नाम ग्रहः कुमाराणां भयङ्करः, येन गृहीतः शह्खवन्नदतीति तेन गृहीतंशङ्खिनमुत्तराभ्यांएते ते प्रतिद्वश्येते इत्येताम्यामृग्भ्यांअभिमन्त्र्य तत उदकुंभेनशिरस्तो ऽवनयेत्, अभिषिञ्चेदुत्तरयर्चा ऽऋषिर्बोधः प्रबोधऽइत्येतया एवमेतदभीमन्त्रणादि त्रिषु कालेषु कर्तव्यम्

śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyāmabhimantryottarayodakumbhena śirasto 'vanayetprātarmadhyandine sāyam āpgs_18.3 (pa.7.khaṃ.,17-3) commentaries: āpgs-anā_18.3: śaṅkho nāma grahaḥ kumārāṇāṃ bhayaṅkaraḥ, yena gṛhītaḥ śahkhavannadatīti tena gṛhītaṃśaṅkhinamuttarābhyāṃete te pratidvaśyete ityetāmyāmṛgbhyāṃabhimantrya tata udakuṃbhenaśirasto 'vanayet, abhiṣiñceduttarayarcā 'ṛṣirbodhaḥ prabodha'ityetayā evametadabhīmantraṇādi triṣu kāleṣu kartavyam


3

आप्ग्स्-तात्_18.3: शह्खो ऽपि ग्रहः येन गृहीतः शङ्खवन्नदति तद्गृहीतश्शङ्खी उत्तराभ्यांऽएते ते प्रतिदृश्येतेऽइत्येताभ्यांउत्तरया ऽऋषिर्बोधः प्रबोधःऽइत्ये तयाशिरस्तो ऽवनयेत्शिरस्यभिषिञ्चेत्,उदकुम्भेनत्रिसन्ध्यम्

āpgs-tāt_18.3: śahkho 'pi grahaḥ yena gṛhītaḥ śaṅkhavannadati tadgṛhītaśśaṅkhī uttarābhyāṃ'ete te pratidṛśyete'ityetābhyāṃuttarayā 'ṛṣirbodhaḥ prabodhaḥ'itye tayāśirasto 'vanayetśirasyabhiṣiñcet,udakumbhenatrisandhyam

Section (cont. 20)

4

अगदो भवति आप्ग्स्_18.4 (प.8.खं.,18-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.4: पूर्ववदस्य प्रयोजनम्

agado bhavati āpgs_18.4 (pa.8.khaṃ.,18-4) commentaries: āpgs-anā_18.4: pūrvavadasya prayojanam


4

आप्ग्स्-तात्_18.4: उक्तर्थम्

āpgs-tāt_18.4: uktartham


5

अथ सर्पबलेर्यस्मिन् काले येन विधिनोपक्रमस्तमाह 18 सर्पबलिः - 1 तदुपक्रमे स्थालीपाकः श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः आप्ग्स्_18.5 (प.7.खं-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.5: अथ सर्पवलिर्नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यमुपदिश्यतेतस्य श्रावण्यां पौर्णमास्यामारम्भः मार्गशीर्ष्यामुत्सर्गः तस्योपक्रमे श्रावण्यां पौर्णमास्यां अस्तमिते आदित्ये स्थालीपाकोभवति असत्यपि नक्षत्रयोगे श्रावणस्य मासस्य पौर्णमासी श्रावणीत्युच्यते लक्षणया तत्र श्लोकौमेषादिस्थे सवितरि योयो दर्शः प्रवर्तते चान्द्रमासास्तदन्ताश्च चैत्रादया द्वादश स्मृताः तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता कादाचित्केन योगेन नक्षत्रस्येति निर्णयः इति तत्र सायमाहुतिं हुत्वा स्थालीपाककर्म प्रतिपद्यते पार्वणेनातो ऽन्यानीत्युक्तं, पौर्णमास्यां पौर्णमासीति च श्रावण्यै पौर्णमास्यै सङ्कल्पितान् व्रीहिन् यवान् वा निरुप्य प्रतिष्ठिताभिधारणान्तं कृत्वाग्नेरुपसमाधानादि द्वन्द्वं न्यञ्चि पात्राणि किंशुकपुष्पैरारग्वधमयसमिद्भिश्च सह

atha sarpabaleryasmin kāle yena vidhinopakramastamāha 18 sarpabaliḥ - 1 tadupakrame sthālīpākaḥ śrāvaṇyāṃ paurṇamāsyāmastamite sthālīpākaḥ āpgs_18.5 (pa.7.khaṃ-5) commentaries: āpgs-anā_18.5: atha sarpavalirnāma karma nityaṃ saṃvatsare saṃvatsare kartavyamupadiśyatetasya śrāvaṇyāṃ paurṇamāsyāmārambhaḥ mārgaśīrṣyāmutsargaḥ tasyopakrame śrāvaṇyāṃ paurṇamāsyāṃ astamite āditye sthālīpākobhavati asatyapi nakṣatrayoge śrāvaṇasya māsasya paurṇamāsī śrāvaṇītyucyate lakṣaṇayā tatra ślokaumeṣādisthe savitari yoyo darśaḥ pravartate cāndramāsāstadantāśca caitrādayā dvādaśa smṛtāḥ teṣu yā yā paurṇamāsī sā sā caitryādikā smṛtā kādācitkena yogena nakṣatrasyeti nirṇayaḥ iti tatra sāyamāhutiṃ hutvā sthālīpākakarma pratipadyate pārvaṇenāto 'nyānītyuktaṃ, paurṇamāsyāṃ paurṇamāsīti ca śrāvaṇyai paurṇamāsyai saṅkalpitān vrīhin yavān vā nirupya pratiṣṭhitābhidhāraṇāntaṃ kṛtvāgnerupasamādhānādi dvandvaṃ nyañci pātrāṇi kiṃśukapuṣpairāragvadhamayasamidbhiśca saha


5

आप्ग्स्-तात्_18.5: श्रवणेन नक्षत्रेण युक्ता पौर्णमासीश्रावणी अयुक्तापीह विवक्षिता, नित्यत्वात्सर्पबलेः श्रावणमासस्य पौर्णमासीत्यर्थः न तु श्रावणमासस्य श्रवणनक्षत्रम्, श्रावणस्य पौर्णमासीविशेषणार्थत्वात्, ऽपौर्णमास्यां (आपप.2-20) इति वचनाच्च अथ चान्द्रमसमासानां चैत्रादीनां, पौर्णमासीनां च चैत्र्यादीनां निर्णयार्थौ श्लोकौ "मेषादिस्थे सवितरि ये ये दर्शः प्रवर्तते चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मता कादाचित्केन योगेन नक्षस्येति निर्णयः" इति तस्यांश्रावण्यांपौर्णमास्यां,अस्तमितेआदित्ये, सायं होमान्ते ऽपत्न्यवहन्तिऽ(आपगृ.7-2) इति विधिता प्रतिष्ठिताभिघारणान्तर स्थालीपाकःकर्तव्यः

āpgs-tāt_18.5: śravaṇena nakṣatreṇa yuktā paurṇamāsīśrāvaṇī ayuktāpīha vivakṣitā, nityatvātsarpabaleḥ śrāvaṇamāsasya paurṇamāsītyarthaḥ na tu śrāvaṇamāsasya śravaṇanakṣatram, śrāvaṇasya paurṇamāsīviśeṣaṇārthatvāt, 'paurṇamāsyāṃ (āpapa.2-20) iti vacanācca atha cāndramasamāsānāṃ caitrādīnāṃ, paurṇamāsīnāṃ ca caitryādīnāṃ nirṇayārthau ślokau "meṣādisthe savitari ye ye darśaḥ pravartate cāndrā māsāstattadantāścaitrādyā dvādaśa smṛtāḥ teṣu yā yā paurṇamāsī sā sā caitryādikā smatā kādācitkena yogena nakṣasyeti nirṇayaḥ" iti tasyāṃśrāvaṇyāṃpaurṇamāsyāṃ,astamiteāditye, sāyaṃ homānte 'patnyavahanti'(āpagṛ.7-2) iti vidhitā pratiṣṭhitābhighāraṇāntara sthālīpākaḥkartavyaḥ


6

2 तत्र किंशुकहोमः पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति आप्ग्स्_18.6 (प.7.खं.,18-6) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.6: सर्व पार्वणवदित्त्युच्यते-स्थालीपाकादेव पार्वणवज्जुहोति, न किंशुकानीति तेन तेष्ववदानकल्पो न भवति स्विष्टकृतश्चावदानं तेभ्यो न भवति किंशुकैः समिधो व्याख्याताः आज्यभागान्तवचनं तन्त्रप्राप्यर्थम् श्रावण्यै पौर्णमास्यै स्वाहेति स्थालीपाकादेधोमः उत्तरैर्मन्त्रेःऽजग्धो मश्कऽइत्यादिभिस्त्रिभिः किंशुकानि पलाशपुष्पाणि पलाशानां कण्टकिनां पुष्पाणीत्यन्ये प्रतिमन्त्रमित्त्युच्यते प्रतिमन्त्रं किंशुकानां बहुत्वं यथा स्यादिति अन्यथा एकैकस्य किंशुकस्य होमः प्राप्नोति, यथा समिधाम्

2 tatra kiṃśukahomaḥ pārvaṇavadājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti āpgs_18.6 (pa.7.khaṃ.,18-6) commentaries: āpgs-anā_18.6: sarva pārvaṇavadittyucyate-sthālīpākādeva pārvaṇavajjuhoti, na kiṃśukānīti tena teṣvavadānakalpo na bhavati sviṣṭakṛtaścāvadānaṃ tebhyo na bhavati kiṃśukaiḥ samidho vyākhyātāḥ ājyabhāgāntavacanaṃ tantraprāpyartham śrāvaṇyai paurṇamāsyai svāheti sthālīpākādedhomaḥ uttarairmantreḥ'jagdho maśka'ityādibhistribhiḥ kiṃśukāni palāśapuṣpāṇi palāśānāṃ kaṇṭakināṃ puṣpāṇītyanye pratimantramittyucyate pratimantraṃ kiṃśukānāṃ bahutvaṃ yathā syāditi anyathā ekaikasya kiṃśukasya homaḥ prāpnoti, yathā samidhām


6

आप्ग्स्-तात्_18.6: ततःपार्वणवदग्नेरुपसमाधानाद्याज्यभागान्तेअग्निमुखान्त इत्यर्थः;सर्वेष्वौषधहविष्केषु तन्त्रवत्सु कर्मसु अग्निमुखस्य विहितत्वात् श्थालीपाकाद्विधिवदवदाय ऽश्रावण्यै पौर्ममास्यै स्वाहाऽइति हुत्वा ऽजग्धो मशकःऽइत्यादिभिस्त्रिभिःउत्तरैः प्रतिमन्त्रं किंशुकानि पलाशस्य पुष्पाणि जुहोति केचित्-पलाशसूदृशस्य कण्टकिनः पुष्पाणीति एतानि च वसन्त एव सङ्गृहीतव्यानि अत्र चाञ्जलेस्संस्कारः उपस्तरणादिरवदानधर्मः,किंशुकशेषादपि स्विष्टकृते समवदानम् अञ्जलेरपि दर्व्या सह लेपाञ्जनं च भवत्येव;मुख्येन धर्मप्रवृत्तेरुक्तत्वात् विप्रतिषिद्धं त्वन्यः कुर्यात् केचित-अञ्जलिहोमा लाजहोमवद्यावदुक्तधर्माण एवेति

āpgs-tāt_18.6: tataḥpārvaṇavadagnerupasamādhānādyājyabhāgānteagnimukhānta ityarthaḥ;sarveṣvauṣadhahaviṣkeṣu tantravatsu karmasu agnimukhasya vihitatvāt śthālīpākādvidhivadavadāya 'śrāvaṇyai paurmamāsyai svāhā'iti hutvā 'jagdho maśakaḥ'ityādibhistribhiḥuttaraiḥ pratimantraṃ kiṃśukāni palāśasya puṣpāṇi juhoti kecit-palāśasūdṛśasya kaṇṭakinaḥ puṣpāṇīti etāni ca vasanta eva saṅgṛhītavyāni atra cāñjalessaṃskāraḥ upastaraṇādiravadānadharmaḥ,kiṃśukaśeṣādapi sviṣṭakṛte samavadānam añjalerapi darvyā saha lepāñjanaṃ ca bhavatyeva;mukhyena dharmapravṛtteruktatvāt vipratiṣiddhaṃ tvanyaḥ kuryāt kecita-añjalihomā lājahomavadyāvaduktadharmāṇa eveti


7

3 आरग्वधसमिद्धोमः उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः आप्ग्स्_18.7 (प.7.,खं.18-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.7: आरग्वधोराजवृक्षः यस्य सुवर्णवर्णानि पुष्पाणि अरत्निमात्राणि फलानि उत्तराभिस्तिसृभिः ऋग्भिः ऽइन्द्र इति जहि दन्दशूकऽमित्यादिभिः समिध आदधाति जुहोति वा सर्वथा स्वाहाकारान्ता मन्त्रां

3 āragvadhasamiddhomaḥ uttarābhistisṛbhirāragvadhamayyassamidhaḥ āpgs_18.7 (pa.7.,khaṃ.18-7) commentaries: āpgs-anā_18.7: āragvadhorājavṛkṣaḥ yasya suvarṇavarṇāni puṣpāṇi aratnimātrāṇi phalāni uttarābhistisṛbhiḥ ṛgbhiḥ 'indra iti jahi dandaśūka'mityādibhiḥ samidha ādadhāti juhoti vā sarvathā svāhākārāntā mantrāṃ


7

आप्ग्स्-तात्_18.7: अथो त्तराभिस्तिसृभिःऽइन्द्र जहि दन्दशूकऽइत्यादिभिः प्रत्यृचम् आरग्वधमय्यस्समिधः,आरग्वधविकारास्समिधः किम्? जुहोतीति सम्बन्ध- तेनात्र समिधां मान्त्रवर्णिकदेवतोद्देशेन त्यागः कर्तव्य एव

āpgs-tāt_18.7: atho ttarābhistisṛbhiḥ'indra jahi dandaśūka'ityādibhiḥ pratyṛcam āragvadhamayyassamidhaḥ,āragvadhavikārāssamidhaḥ kim? juhotīti sambandha- tenātra samidhāṃ māntravarṇikadevatoddeśena tyāgaḥ kartavya eva


8

4 आज्याहुतयः आज्याहुतीरुत्तराः आप्ग्स्_18.8 (प.7खं.,18-8) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.8: उत्तराश्चतस्रआज्याहुतीर्जुहोति तत्सत्यं यत्ते ऽमावास्यायां, ऽनमो अस्तु सर्पेभ्यऽइति तिस्रः

4 ājyāhutayaḥ ājyāhutīruttarāḥ āpgs_18.8 (pa.7khaṃ.,18-8) commentaries: āpgs-anā_18.8: uttarāścatasraājyāhutīrjuhoti tatsatyaṃ yatte 'māvāsyāyāṃ, 'namo astu sarpebhya'iti tisraḥ


8

आप्ग्स्-तात्_18.8: उत्तराश्चतस्रः ऽतत्सत्यं यत्ते ऽभावास्यायामऽइत्येका, ऽनमो अस्तु सर्पेभ्यःऽइति त्स्रश्च

āpgs-tāt_18.8: uttarāścatasraḥ 'tatsatyaṃ yatte 'bhāvāsyāyām'ityekā, 'namo astu sarpebhyaḥ'iti tsraśca


9

जयादि प्रतिपद्यते आप्ग्स्_18.9 (फ.7खं.,18-9) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.9: एवमेता एकादश प्रधानाहुतीर्हुत्वा सौविष्टकृतं च स्थालीपाकादेव हुत्वा ततो जयादि प्रतिपद्यते किंशुकप्रभृतीनामप्याहुतीनां प्राधान्यज्ञापनार्थमिदं नचनम् अन्यथा पौर्णमास्यामस्तमिते स्थालीपाक इति विहितत्वात् पौर्ममास्यां पौर्णमासीति च तस्य देवताभिधानादर्शकर्मकत्वाच्च किंशुकानां प्रधानत्वं न गम्येत ततश्च पार्णवदुपहोमान्तं कृत्वा ततः किंशुकादीनां हेमः प्राप्नोति

jayādi pratipadyate āpgs_18.9 (pha.7khaṃ.,18-9) commentaries: āpgs-anā_18.9: evametā ekādaśa pradhānāhutīrhutvā sauviṣṭakṛtaṃ ca sthālīpākādeva hutvā tato jayādi pratipadyate kiṃśukaprabhṛtīnāmapyāhutīnāṃ prādhānyajñāpanārthamidaṃ nacanam anyathā paurṇamāsyāmastamite sthālīpāka iti vihitatvāt paurmamāsyāṃ paurṇamāsīti ca tasya devatābhidhānādarśakarmakatvācca kiṃśukānāṃ pradhānatvaṃ na gamyeta tataśca pārṇavadupahomāntaṃ kṛtvā tataḥ kiṃśukādīnāṃ hemaḥ prāpnoti


9

आप्ग्स्-तात्_18.9: एतच्च वचनं जयादिप्राप्यर्थम्, स्थालीपाककिंशुकसमिदाज्याहुतीनामेकदशानां प्राधान्यत्रापनार्थ च जयाद्यनन्तरं स्विष्टकृदित्युक्तमेव

āpgs-tāt_18.9: etacca vacanaṃ jayādiprāpyartham, sthālīpākakiṃśukasamidājyāhutīnāmekadaśānāṃ prādhānyatrāpanārtha ca jayādyanantaraṃ sviṣṭakṛdityuktameva


10

5 गृहादीशान्यां दिशि स्थण्डिलं कल्पयित्वा तत्र सक्तुनिवापः परिषेचनान्तं कृत्वा वाग्यतस्संभारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्त्रस्तिस्त्रो लेखा लिखित्वाद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति आप्ग्स्_18.10 (प.7खं.,18-10) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.10: परिषेचनान्तवचनमानन्तर्यार्थम् परिषेचनान्ते उपनिष्क्रमणमेव नान्दिति किं सिद्धं भवति ?तेन सर्पिष्मता ब्राह्मणं भोजयेतऽइत्यादेरुत्कर्षस्सिद्धो भवति वाग्यतःशब्दमकुर्वन्धानाः लाजाः अ#जनाभ्यञ्जने स्थगरोशीरमु- दपात्रमिति संभाराः उपलिप्तो भूमिभागः स्थण्डिलम् कल्पयित्वेति वचनात् स्वयमेव कल्पनं नान्यैः कल्पितस्य परिग्रहः तत्रेति वचनात् स्थण्डिलस्य मध्ये बलेरायतनं भवति श्लोकश्च भवति प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् अथोदीचीः पुरस्संस्थं पश्चिमारंभमालिखेत् अपरे तु प्राचीनानां दक्षिणत आरम्भमिच्छन्ति (प्राचीः प्रागायतः एवमुदीचीः उदगायताः क्रमस्य विवक्षितत्वात्) प्रथमं प्राचीस्तत इदीचीः एकं चेदं लेखाकरणं नाम कर्म ऽपुरस्तादिदग्वोपक्रमस्तथापवर्गःऽइत्युक्तम् तत्रेह प्रागुपक्रमस्यासंभवात् उदगुपक्रमः प्रागपवर्गः एतेन ऽयत्र क्वचाग्निऽमिति एतल्लेखारणं व्याख्यातम् एवं लोखा लिखित्वाद्भिरुपनिनयति तासां समीपे अपो निनयति सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ततस्तासु लेखासूत्तरयर्चा ऽनमो ऽस्तु सर्पेभ्यो ये पार्थिवाऽइत्येतया सक्तून्निवपति हस्तेन दर्व्या वा, आश्वलायनके दर्शनात् तास्विति वचनं ताः सर्वा लेखाः यथा बलिर्व्याप्नुयादित्येवमर्थम्

5 gṛhādīśānyāṃ diśi sthaṇḍilaṃ kalpayitvā tatra saktunivāpaḥ pariṣecanāntaṃ kṛtvā vāgyatassaṃbhārānādāya prācīmudīcīṃ vā diśamupaniṣkramya sthaṇḍilaṃ kalpayitvā tatra prācīrudīcīśca tistrastistro lekhā likhitvādbhirupaninīya tāsūttarayā saktūnnivapati āpgs_18.10 (pa.7khaṃ.,18-10) commentaries: āpgs-anā_18.10: pariṣecanāntavacanamānantaryārtham pariṣecanānte upaniṣkramaṇameva nānditi kiṃ siddhaṃ bhavati ?tena sarpiṣmatā brāhmaṇaṃ bhojayet'ityāderutkarṣassiddho bhavati vāgyataḥśabdamakurvandhānāḥ lājāḥ a#janābhyañjane sthagarośīramu- dapātramiti saṃbhārāḥ upalipto bhūmibhāgaḥ sthaṇḍilam kalpayitveti vacanāt svayameva kalpanaṃ nānyaiḥ kalpitasya parigrahaḥ tatreti vacanāt sthaṇḍilasya madhye balerāyatanaṃ bhavati ślokaśca bhavati prācīḥ pūrvamudaksaṃsthaṃ dakṣiṇārambhamālikhet athodīcīḥ purassaṃsthaṃ paścimāraṃbhamālikhet apare tu prācīnānāṃ dakṣiṇata ārambhamicchanti (prācīḥ prāgāyataḥ evamudīcīḥ udagāyatāḥ kramasya vivakṣitatvāt) prathamaṃ prācīstata idīcīḥ ekaṃ cedaṃ lekhākaraṇaṃ nāma karma 'purastādidagvopakramastathāpavargaḥ'ityuktam tatreha prāgupakramasyāsaṃbhavāt udagupakramaḥ prāgapavargaḥ etena 'yatra kvacāgni'miti etallekhāraṇaṃ vyākhyātam evaṃ lokhā likhitvādbhirupaninayati tāsāṃ samīpe apo ninayati sarvadevajanebhyo dadāti yathāpitṛbhyaḥ piṇḍadāne tatastāsu lekhāsūttarayarcā 'namo 'stu sarpebhyo ye pārthivā'ityetayā saktūnnivapati hastena darvyā vā, āśvalāyanake darśanāt tāsviti vacanaṃ tāḥ sarvā lekhāḥ yathā balirvyāpnuyādityevamartham


10

आप्ग्स्-तात्_18.10: अथ तन्त्रशेषं समाप्य,सम्भारानुत्तरत्रोपयोक्ष्यमाणान् सक्तवादीनादाय,वाग्यतः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, स्थणडिलं पीठं कल्पयित्वा तत्र पीठे दक्षिणस्या आरभ्यप्राचीस्तिस्रःप्रतीच्या आरभ्यौदीचीस्तिस्रश्च रेखा लिखित्वाद्भिरुपनिनीय तासु षचिसु लेखासु लेखनक्पमेणोत्तरया ऽनमो अस्तु सर्पेभ्यो ये पार्थिवाःऽइत्यादिकया ऽबलिं हरिष्यामिऽइत्यन्तयांसक्तून्निन्निवपति सकृदेव मन्त्रः न च स्वाहाकारः;अजुहोतिचेदितत्वात्, नमस्कारस्यापि प्रदीनार्तत्वादित्युक्तत्वाच्च केचित्-सर्वासु रेखासु यथा युगपत्याप्नुयाद्वलिः तथा निवपति

āpgs-tāt_18.10: atha tantraśeṣaṃ samāpya,sambhārānuttaratropayokṣyamāṇān saktavādīnādāya,vāgyataḥ prācīmudīcīṃ vā diśamupaniṣkramya, sthaṇaḍilaṃ pīṭhaṃ kalpayitvā tatra pīṭhe dakṣiṇasyā ārabhyaprācīstisraḥpratīcyā ārabhyaudīcīstisraśca rekhā likhitvādbhirupaninīya tāsu ṣacisu lekhāsu lekhanakpameṇottarayā 'namo astu sarpebhyo ye pārthivāḥ'ityādikayā 'baliṃ hariṣyāmi'ityantayāṃsaktūnninnivapati sakṛdeva mantraḥ na ca svāhākāraḥ;ajuhoticeditatvāt, namaskārasyāpi pradīnārtatvādityuktatvācca kecit-sarvāsu rekhāsu yathā yugapatyāpnuyādvaliḥ tathā nivapati


11

6 तत्राक्षतादीनां निवपनम् तूष्णी सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति आप्ग्स्_18.11 (प.7खं.,18-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.11: संपुष्काअक्षता अखण्डितास्तण्डुलैः कृताः स्थगरञ्चोशीरञ्च गन्धद्रव्ये एतानि षट् द्रव्याणि तासु निवपति इति शब्दः समुच्चयार्थः तेन सर्वत्र पूर्वेण मन्त्रेणैव निवपने प्राप्ते तूष्णीमिति मन्त्रप्रतिष्धः

6 tatrākṣatādīnāṃ nivapanam tūṣṇī sampuṣkā dhānā lājānāñjanābhyañjane sthagarośīramiti āpgs_18.11 (pa.7khaṃ.,18-11) commentaries: āpgs-anā_18.11: saṃpuṣkāakṣatā akhaṇḍitāstaṇḍulaiḥ kṛtāḥ sthagarañcośīrañca gandhadravye etāni ṣaṭ dravyāṇi tāsu nivapati iti śabdaḥ samuccayārthaḥ tena sarvatra pūrveṇa mantreṇaiva nivapane prāpte tūṣṇīmiti mantrapratiṣdhaḥ


11

आप्ग्स्-तात्_18.11: सम्पुष्काःसम्पुष्टा इति धानाविशे,णं अखण्डिततण्डुलैः कृताधानाइत्यर्थः स्थगरमापणस्थं गन्धगद्रव्यम् अन्यानि प्रसिद्धानि इति शब्दस्समुच्चयार्तः एतानि षट् द्रव्याणि तूष्णी रेखस्वेव निवपति

āpgs-tāt_18.11: sampuṣkāḥsampuṣṭā iti dhānāviśe,ṇaṃ akhaṇḍitataṇḍulaiḥ kṛtādhānāityarthaḥ sthagaramāpaṇasthaṃ gandhagadravyam anyāni prasiddhāni iti śabdassamuccayārtaḥ etāni ṣaṭ dravyāṇi tūṣṇī rekhasveva nivapati


12

7 उपस्थानान्तरं गृहमागत्य तत्परिषिच्य ततो ब्राह्मणभोजनम् उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या पश्वेत पदेत्येताभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतो ऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेत् आप्ग्स्_18.12 (प.7.,खं.18-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_18.12: एवमेवैतं बलिं सप्तभिर्द्रव्यैर्दत्वा ततस्तां बलिदेवतामुपतिष्ठते उत्तरैर्मन्त्रैः"तक्षक वेशालेये"त्यादिभिः अष्टादशभिः तेभ्य इमं बलिमहार्षमिति पूर्वस्या एवोत्तरस्य पादस्य सन्नामः न मन्त्रान्तरम् वक्ष्यति ट ऽबलिमन्त्रस्य सन्नामःऽइति एवमुपस्थाय अपःपरिषिञ्चतिसर्वतस्सिञ्चति न्युप्तस्य बलेः प्रकृतत्वात् ततो ऽप्रतीक्षः पृष्टतः अप्रतीक्षमाणस्तूष्णीं वाग्यतःप्रत्येति प्रत्येत्य ऽअपश्वेत पदाऽइत्येताभ्यां ऋग्भ्यां उदकुंभेन उन्तरतो ऽगारं निवेशनं वापरिषिच्यब्रह्मणान् युगमान् भोजयेत् स्थालीपाकश्षादिभिः

7 upasthānāntaraṃ gṛhamāgatya tatpariṣicya tato brāhmaṇabhojanam uttarairupasthāyāpaḥ pariṣicyāpratīkṣastūṣṇīmetyā paśveta padetyetābhyāmudakumbhena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet āpgs_18.12 (pa.7.,khaṃ.18-12) commentaries: āpgs-anā_18.12: evamevaitaṃ baliṃ saptabhirdravyairdatvā tatastāṃ balidevatāmupatiṣṭhate uttarairmantraiḥ"takṣaka veśāleye"tyādibhiḥ aṣṭādaśabhiḥ tebhya imaṃ balimahārṣamiti pūrvasyā evottarasya pādasya sannāmaḥ na mantrāntaram vakṣyati ṭa 'balimantrasya sannāmaḥ'iti evamupasthāya apaḥpariṣiñcatisarvatassiñcati nyuptasya baleḥ prakṛtatvāt tato 'pratīkṣaḥ pṛṣṭataḥ apratīkṣamāṇastūṣṇīṃ vāgyataḥpratyeti pratyetya 'apaśveta padā'ityetābhyāṃ ṛgbhyāṃ udakuṃbhena untarato 'gāraṃ niveśanaṃ vāpariṣicyabrahmaṇān yugamān bhojayet sthālīpākaśṣādibhiḥ


17

इति श्रीहरदत्तविरचितायां गृह्यवृत्तावनाकुलायामष्टादशः खण्डः

iti śrīharadattaviracitāyāṃ gṛhyavṛttāvanākulāyāmaṣṭādaśaḥ khaṇḍaḥ


12

आप्ग्स्-तात्_18.12: अथ उत्तरैर्मन्त्रैः ऽतक्षक वेशालेयऽइत्यादिबिरष्टादशभिः मान्त्रवर्णिकीं बलिदेवतामुपतिष्ठते तत्र च ऽओजस्विनी नामासिऽ; इत्यादिषु चतुर्षु पर्यायेषु दशभ्यः पदेभ्य ऊर्ध्व ऽरक्षिता यश्चाधिपतिःऽइत्यादेरनुषङ्गः तथा ऽहेतयो नाम स्थऽइत्यादिष्वपि पञ्चस्वेकादशभ्य उर्ध्व ऽवातनामं तेभ्यो वो नमःऽइति आदेः यत्तुमध्ये-तेभ्य इमंबलिमहार्षमिति तत्पूर्वस्या एव बलिहरणार्थाया ऋचः उत्तरभागस्योत्सर्जनार्थः सन्नामः वक्ष्यति हि तत्र ऽअहार्षमिति बलिमन्त्रस्य सन्नामःऽ(आपगृ.19-4)इति अथ न्यप्तं बलिमद्भिः परिषिच्य तमप्रतीक्षमाणः तूष्णीं वाग्यतो गृहान्प्रत्येत्य ऽअप श्वेत पदाऽइत्येताभ्यामित्यादि यथासूत्रं करोति तत्राति ब्राह्मणभोजनवचनं क्रमार्थम् उपनयनवद्भुक्तवद्भिराशीर्वचनम्

āpgs-tāt_18.12: atha uttarairmantraiḥ 'takṣaka veśāleya'ityādibiraṣṭādaśabhiḥ māntravarṇikīṃ balidevatāmupatiṣṭhate tatra ca 'ojasvinī nāmāsi'; ityādiṣu caturṣu paryāyeṣu daśabhyaḥ padebhya ūrdhva 'rakṣitā yaścādhipatiḥ'ityāderanuṣaṅgaḥ tathā 'hetayo nāma stha'ityādiṣvapi pañcasvekādaśabhya urdhva 'vātanāmaṃ tebhyo vo namaḥ'iti ādeḥ yattumadhye-tebhya imaṃbalimahārṣamiti tatpūrvasyā eva baliharaṇārthāyā ṛcaḥ uttarabhāgasyotsarjanārthaḥ sannāmaḥ vakṣyati hi tatra 'ahārṣamiti balimantrasya sannāmaḥ'(āpagṛ.19-4)iti atha nyaptaṃ balimadbhiḥ pariṣicya tamapratīkṣamāṇaḥ tūṣṇīṃ vāgyato gṛhānpratyetya 'apa śveta padā'ityetābhyāmityādi yathāsūtraṃ karoti tatrāti brāhmaṇabhojanavacanaṃ kramārtham upanayanavadbhuktavadbhirāśīrvacanam


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने अष्टादशः खण्डः एकोनविंशः खण्डः 8 कुमाराणां बलिशिष्टधानाप्राशनम् धानाः कुमारान् प्राशयन्ति आप्ग्स्_19.1 (प.7.,खं.18-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.1: बलिहरणशिष्टाःधानाः कुमारान् प्राशयन्तिये प्राशने समर्थाः कुमारीणामपि प्राशनमेकशेष निर्देशात्

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane aṣṭādaśaḥ khaṇḍaḥ ekonaviṃśaḥ khaṇḍaḥ 8 kumārāṇāṃ baliśiṣṭadhānāprāśanam dhānāḥ kumārān prāśayanti āpgs_19.1 (pa.7.,khaṃ.18-1) commentaries: āpgs-anā_19.1: baliharaṇaśiṣṭāḥdhānāḥ kumārān prāśayantiye prāśane samarthāḥ kumārīṇāmapi prāśanamekaśeṣa nirdeśāt


1

9 मार्गशीर्षीपर्यन्तं प्रतिदिनं बलिहरणम् एवमत ऊर्ध्व यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः आप्ग्स्_19.2 आप्ग्स्-तात्_19.2: धानाःया बलिहरणशिष्टाःकुमारान् प्राशयन्ति के?शिष्टास्सामर्थ्यात्

9 mārgaśīrṣīparyantaṃ pratidinaṃ baliharaṇam evamata ūrdhva yadaśanīyasya saktūnāṃ vaitaṃ baliṃ haredāmārgaśīrṣyāḥ āpgs_19.2 āpgs-tāt_19.2: dhānāḥyā baliharaṇaśiṣṭāḥkumārān prāśayanti ke?śiṣṭāssāmarthyāt


3

10 मार्गशीर्ष्या स्थालीपाकविधानम् मार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकः आप्ग्स्_19.3 (प.7खं.,18-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.3: यदिदं बलिहरणं वाग्यतस्संभारानादायेत्याद्यप्रतीक्षमाणस्तूष्णीमित्येतदन्तं (आपगृ.18-10-12) तदस्मात् कर्मणऊर्ध्वमामार्गशीर्ष्याः पर्वणश्चतुर्षु मासेषु यदसीयस्यान्नविशेषस्यसक्तूनां वाहरहःकर्तव्यम् यद्यदन्नमशनार्थ गृहे क्रियते तदशनीयम् अगारपरिष्टनादिस्तु स्थालीपाकस्यैव शेषः, न बलेः तेनैतदिह विधीयत् यद्यप्याञ्जनादीन्यलङ्करणार्थनि नाभ्यवहार्याणि तथापि"तासूत्तरया सक्तून् निवपति तूष्णीं संपुष्काः धाना"इत्यादि सर्वेषां तुल्या चेदना मन्त्रे च तुल्यवदभिधानं तेभ्य इमं बलिं हरिष्यामि इति तस्मात् सप्तापि बलिद्रव्याणि तेषां सर्वेषामयं प्रत्याम्नायो नादितस्त्रयाणामेव अपां तु न भवति, चोदनाभेदात् उपनिनीय परिषिच्येति एवंशब्दः कालविधानार्तः यथात्रास्तमिते बलिहरणं, एवंमत ऊर्ध्वमप्यस्तमिते कर्तव्यमिति एतंसभ्दस्तु धर्मविधानार्तः एतं बलिमेवंधर्मकमिति नचान्यतरेणैवोभयसिद्धिः यदि ह्येवशब्द उभयार्थस्स्यात् रात्रौ पार्वणः प्राप्नोति कथम्?रात्रावाग्नेयस्थालीपाक उत्पन्नः एवमतऊर्ध्वमिति पार्वणः तथा यद्येतच्छब्द उभयार्थस्स्यात् "परिसंवत्सरादुपतिष्ठद्भ्यः एतत्कार्य"मिति रात्रावपचितिः प्राप्नोति;समावर्तने रात्रावुत्पन्नत्वादपचितेः तस्मादुभयार्त- मुभयं वक्तयम् एवं तावत् रात्रौ सकृद्वलिहरणमिति अपर आह-उभयोः कालयोः बलिहरणमिति कथम्?यदशनीयस्येति वचनात् यदशनीयस्येति वचनात् यद्यदन्नमशनार्थ यदा क्रियते तस्य तस्य तदा कर्तव्यमिति हि तस्यार्थः द्वयोश्च कालयोरशनम्;कालयोर्भोजनमिति वचनात् ततश्च यदा गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्त्युत्पन्नस्य वैश्वदेवस्य द्वयोः कालयोः प्रवृत्तिः एवमस्यापि स्पष्टञ्चैतदाश्वलायनके"सर्पदेवजेनभ्यस्स्वा- हेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् (आश्व.2-1-14) इति अस्मिन् पक्ष एवंशब्द उत्तरार्थः अत ऊर्ध्वमितिवचनम- स्मिन् प्रथमे बलिहरणे द्रव्यविकल्पोमा विज्ञायीति आमार्गशीर्ष्या इति बलिहरणस्यावसानकालोपदेशः यद्येवं नार्थ एतेन अत्रैनमुत्सृजतीति (आपगृ.19-5) वक्ष्यति प्रयोजनमस्य तत्रैव वक्ष्यामःः आप्ग्स्-तात्_19.3: अत ऊर्ध्वअस्माच्छ्रावण्यां कृतात्कर्मण ऊर्ध्वम् आमार्गशीर्ष्याःयावन्मार्गशीर्षी यावदुत्सर्जनं तावदित्यर्थः एतमनन्तरचोदितं सक्तूनां सम्बन्धिनं बलिम् एवं ऽसम्भारानादाय वाग्यतः प्राचीमुदीचीं वाऽइत्यादि ऽअप्रतीक्षस्तूष्णीमेत्यऽ; (आपगृ.18-10....12) इत्येवमन्तेतिकर्तव्यताकमहरहः सायङ्काले बलिं हरेत् यदशनीयस्य वा सम्बन्धिनमिति वाशब्दस्य व्यवहितेन सम्बन्धः, यदशनीयस्येत्यस्य पदस्य धानादीनां निवृत्त्यर्थत्वात् अगारपरिषेचनादिकं तु स्थालीपाकस्यैव शेषो न बलिहरणस्य, भिन्नदेशत्वात् केचित्-उभयोः कालयोर्बलिहरणम्, यदशनीयस्येति वचनात्, वैश्वदेववत् अशनस्य च ऽकालयोर्बोजनमऽ(आपध.2-1-20 इतिवचनेनोभयकालिकत्वात्, ऽसायं प्रातर्बलिं हरेदा प्रत्यवरोहणातऽ(आश्व-1-14) इत्याश्वलायनवचनाच्च तथा एतमितिशब्दस्यैव अपेक्षितकृत्स्नधर्मप्रापकत्वात् एवमिति शब्द उत्तरसूत्रार्थ इति तन्न;समभिव्याहृतसकलपदानां सम्भूयैकार्थ प्रत्ययविरोधात् मार्गशीर्ष्या बौर्णमास्यामस्तमिते स्थालीपाकः

10 mārgaśīrṣyā sthālīpākavidhānam mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākaḥ āpgs_19.3 (pa.7khaṃ.,18-2) commentaries: āpgs-anā_19.3: yadidaṃ baliharaṇaṃ vāgyatassaṃbhārānādāyetyādyapratīkṣamāṇastūṣṇīmityetadantaṃ (āpagṛ.18-10-12) tadasmāt karmaṇaūrdhvamāmārgaśīrṣyāḥ parvaṇaścaturṣu māseṣu yadasīyasyānnaviśeṣasyasaktūnāṃ vāharahaḥkartavyam yadyadannamaśanārtha gṛhe kriyate tadaśanīyam agārapariṣṭanādistu sthālīpākasyaiva śeṣaḥ, na baleḥ tenaitadiha vidhīyat yadyapyāñjanādīnyalaṅkaraṇārthani nābhyavahāryāṇi tathāpi"tāsūttarayā saktūn nivapati tūṣṇīṃ saṃpuṣkāḥ dhānā"ityādi sarveṣāṃ tulyā cedanā mantre ca tulyavadabhidhānaṃ tebhya imaṃ baliṃ hariṣyāmi iti tasmāt saptāpi balidravyāṇi teṣāṃ sarveṣāmayaṃ pratyāmnāyo nāditastrayāṇāmeva apāṃ tu na bhavati, codanābhedāt upaninīya pariṣicyeti evaṃśabdaḥ kālavidhānārtaḥ yathātrāstamite baliharaṇaṃ, evaṃmata ūrdhvamapyastamite kartavyamiti etaṃsabhdastu dharmavidhānārtaḥ etaṃ balimevaṃdharmakamiti nacānyatareṇaivobhayasiddhiḥ yadi hyevaśabda ubhayārthassyāt rātrau pārvaṇaḥ prāpnoti katham?rātrāvāgneyasthālīpāka utpannaḥ evamataūrdhvamiti pārvaṇaḥ tathā yadyetacchabda ubhayārthassyāt "parisaṃvatsarādupatiṣṭhadbhyaḥ etatkārya"miti rātrāvapacitiḥ prāpnoti;samāvartane rātrāvutpannatvādapaciteḥ tasmādubhayārta- mubhayaṃ vaktayam evaṃ tāvat rātrau sakṛdvaliharaṇamiti apara āha-ubhayoḥ kālayoḥ baliharaṇamiti katham?yadaśanīyasyeti vacanāt yadaśanīyasyeti vacanāt yadyadannamaśanārtha yadā kriyate tasya tasya tadā kartavyamiti hi tasyārthaḥ dvayośca kālayoraśanam;kālayorbhojanamiti vacanāt tataśca yadā gṛhamedhino yadaśanīyasya homā balayaścettyutpannasya vaiśvadevasya dvayoḥ kālayoḥ pravṛttiḥ evamasyāpi spaṣṭañcaitadāśvalāyanake"sarpadevajenabhyassvā- heti sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt (āśva.2-1-14) iti asmin pakṣa evaṃśabda uttarārthaḥ ata ūrdhvamitivacanama- smin prathame baliharaṇe dravyavikalpomā vijñāyīti āmārgaśīrṣyā iti baliharaṇasyāvasānakālopadeśaḥ yadyevaṃ nārtha etena atrainamutsṛjatīti (āpagṛ.19-5) vakṣyati prayojanamasya tatraiva vakṣyāmaḥḥ āpgs-tāt_19.3: ata ūrdhvaasmācchrāvaṇyāṃ kṛtātkarmaṇa ūrdhvam āmārgaśīrṣyāḥyāvanmārgaśīrṣī yāvadutsarjanaṃ tāvadityarthaḥ etamanantaracoditaṃ saktūnāṃ sambandhinaṃ balim evaṃ 'sambhārānādāya vāgyataḥ prācīmudīcīṃ vā'ityādi 'apratīkṣastūṣṇīmetya'; (āpagṛ.18-10....12) ityevamantetikartavyatākamaharahaḥ sāyaṅkāle baliṃ haret yadaśanīyasya vā sambandhinamiti vāśabdasya vyavahitena sambandhaḥ, yadaśanīyasyetyasya padasya dhānādīnāṃ nivṛttyarthatvāt agārapariṣecanādikaṃ tu sthālīpākasyaiva śeṣo na baliharaṇasya, bhinnadeśatvāt kecit-ubhayoḥ kālayorbaliharaṇam, yadaśanīyasyeti vacanāt, vaiśvadevavat aśanasya ca 'kālayorbojanam'(āpadha.2-1-20 itivacanenobhayakālikatvāt, 'sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt'(āśva-1-14) ityāśvalāyanavacanācca tathā etamitiśabdasyaiva apekṣitakṛtsnadharmaprāpakatvāt evamiti śabda uttarasūtrārtha iti tanna;samabhivyāhṛtasakalapadānāṃ sambhūyaikārtha pratyayavirodhāt mārgaśīrṣyā baurṇamāsyāmastamite sthālīpākaḥ


3

चोम्मेन्तरिएस्: आप्ग्स्-अना_19.3: श्रावण्यां पौर्णमास्यामित्यनेनैतत् व्याख्यातम् एवंशब्दश्चात्रानुवर्तते यथेदं श्रावण्यां कर्म कतं एवं मार्गशीर्ष्यामपीति तेन ऽपार्वणवदाज्यभागान्तऽइत्यादेः धानाः कुमारान् प्राशयन्तीऽत्यन्तस्य कृत्स्नस्य कल्पस्यात्र प्रवृत्तिः एतावन्नानामार्गशीर्ष्यै पौर्णमास्यै स्वाहेति स्थालीपाकस्य होमः श्रावण्यां पौर्णमास्यां इति प्रकृते पुनः पौर्णमास्यामित्युच्यते ज्ञापनार्थम् तत्पौर्णमासीग्रहणमस्मिन् प्रकरणे नानुवर्तते इति तेन पूर्वसूत्रे आमार्गशीर्ष्या इति कर्मावधित्वेन न गृह्यते यत्तत्र चोदितमनेन सूत्रेण न कालः तेन मार्गशीर्ष्या पौर्णमास्यामहनि यदशनीयस्य बलिहरणं भवति कालवाचित्वे तु न प्राप्नोति यदि च मर्यादायामाकारः अथ त्भिविधौ, अस्तमिते ऽपियदशनीयं तस्यैव प्राप्नोति इष्यते चास्तमिते स्थालीपाककर्मणि सप्तर्भिर्द्रव्यैर्ब- लिहरणमहनि च यदशनीयस्य तस्मात् पूर्वत्र कर्मण्यपदेशो यथा स्यात्, कालस्य व्यपदेशो मा भूदिति पौर्णमास्यामिति विशेषणम् एवञ्च यदशनीयवचनेनोभयोः कालयोर्बलिहरणमिति यदुक्तं तदेव स्थितं भवति अस्तमित इत्त्युच्यते-अहनिमा भूदिति एवमित्यस्य धर्मप्रापणे कालविधौ चोभयत्र शक्तिर्नास्तीत्युक्तम्

commentaries: āpgs-anā_19.3: śrāvaṇyāṃ paurṇamāsyāmityanenaitat vyākhyātam evaṃśabdaścātrānuvartate yathedaṃ śrāvaṇyāṃ karma kataṃ evaṃ mārgaśīrṣyāmapīti tena 'pārvaṇavadājyabhāgānta'ityādeḥ dhānāḥ kumārān prāśayantī'tyantasya kṛtsnasya kalpasyātra pravṛttiḥ etāvannānāmārgaśīrṣyai paurṇamāsyai svāheti sthālīpākasya homaḥ śrāvaṇyāṃ paurṇamāsyāṃ iti prakṛte punaḥ paurṇamāsyāmityucyate jñāpanārtham tatpaurṇamāsīgrahaṇamasmin prakaraṇe nānuvartate iti tena pūrvasūtre āmārgaśīrṣyā iti karmāvadhitvena na gṛhyate yattatra coditamanena sūtreṇa na kālaḥ tena mārgaśīrṣyā paurṇamāsyāmahani yadaśanīyasya baliharaṇaṃ bhavati kālavācitve tu na prāpnoti yadi ca maryādāyāmākāraḥ atha tbhividhau, astamite 'piyadaśanīyaṃ tasyaiva prāpnoti iṣyate cāstamite sthālīpākakarmaṇi saptarbhirdravyairba- liharaṇamahani ca yadaśanīyasya tasmāt pūrvatra karmaṇyapadeśo yathā syāt, kālasya vyapadeśo mā bhūditi paurṇamāsyāmiti viśeṣaṇam evañca yadaśanīyavacanenobhayoḥ kālayorbaliharaṇamiti yaduktaṃ tadeva sthitaṃ bhavati astamita ittyucyate-ahanimā bhūditi evamityasya dharmaprāpaṇe kālavidhau cobhayatra śaktirnāstītyuktam


3

आप्ग्स्-तात्_19.3: शाकाङ्क्षत्वादेवंशब्दो ऽनुवर्तते यथा श्रावणायांस्थालीपाकःकृतः एवंमार्गशीर्ष्यमप्यस्तमितेकर्तव्यः पत्न्यवहन्तीत्यादि धानाप्राशनान्तं कृत्स्नं कर्मानुष्ठेयमित्यर्थः . स्थालीपाकहोमे तुऽमार्गशीर्ष्यैपौर्णमास्यै स्वाहेऽति विशेषः

āpgs-tāt_19.3: śākāṅkṣatvādevaṃśabdo 'nuvartate yathā śrāvaṇāyāṃsthālīpākaḥkṛtaḥ evaṃmārgaśīrṣyamapyastamitekartavyaḥ patnyavahantītyādi dhānāprāśanāntaṃ kṛtsnaṃ karmānuṣṭheyamityarthaḥ . sthālīpākahome tu'mārgaśīrṣyaipaurṇamāsyai svāhe'ti viśeṣaḥ


4

अहार्षमिति बलिमन्त्रस्य सन्नामः आप्ग्स्_19.4 चोम्मेन्तरिएस्: आप्ग्स्-अना_19.4: सन्नामः ऊहः-हरिष्यामीत्यस्य स्थाने अहार्षमिति यद्यप्ययं सन्नामस्तस्मिन्नेव मन्त्रे पठितः तथाप्यसत्यस्मिन् वचने बलिहरणमन्त्रे चतुर्थपादस्य पृथग्विनियोगाभावात् चतुष्पादा सा विज्ञायेत तस्मात् सन्नामविधिरारभ्यते त्रिपदैव सा तस्या एव तृतीयस्य पादस्य सन्नामो ऽयमुत्तमः पठितः तस्यैव विनियोगकालो न प्रागिति किञ्च कृत्स्नमेवैतत् कर्म धानाप्राशनान्तं स्थालीपाकशब्देन गृह्यते एतच्च दर्शितं भवति बलिहरणस्योत्तरसूत्रे प्रयोजनम्

ahārṣamiti balimantrasya sannāmaḥ āpgs_19.4 commentaries: āpgs-anā_19.4: sannāmaḥ ūhaḥ-hariṣyāmītyasya sthāne ahārṣamiti yadyapyayaṃ sannāmastasminneva mantre paṭhitaḥ tathāpyasatyasmin vacane baliharaṇamantre caturthapādasya pṛthagviniyogābhāvāt catuṣpādā sā vijñāyeta tasmāt sannāmavidhirārabhyate tripadaiva sā tasyā eva tṛtīyasya pādasya sannāmo 'yamuttamaḥ paṭhitaḥ tasyaiva viniyogakālo na prāgiti kiñca kṛtsnamevaitat karma dhānāprāśanāntaṃ sthālīpākaśabdena gṛhyate etacca darśitaṃ bhavati baliharaṇasyottarasūtre prayojanam


4

आप्ग्स्-तात्_19.4: उक्तार्थमेतत्

āpgs-tāt_19.4: uktārthametat


5

11 सर्पबलेरुत्सर्गः अत्रैनमुत्सृजति आप्ग्स्_19.5 (प.7.खं.,18-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.5: अत्र मार्गशीर्षसंज्ञके कर्मण्येनं बलिमुत्सृजति एवमित्यनेन वचनेन श्रावणीविधानस्य कृत्स्नस्यातिदिष्टत्वादस्यापि स्थालीपाकस्य शेषत्वेन बलिहरणप्राप्तिः तत्र श्रावण्यामित्यवधिः कल्पेत तस्मात् मार्गशीर्षशेषस्य अहार्षमित्येव विधिः शिष्टस्य बलेः प्रतिषेधार्थमिदम् आमार्गशीर्ष्या इत्येतत्तु श्रावणशेषस्य बलेखसानविधानार्थम्

11 sarpabalerutsargaḥ atrainamutsṛjati āpgs_19.5 (pa.7.khaṃ.,18-5) commentaries: āpgs-anā_19.5: atra mārgaśīrṣasaṃjñake karmaṇyenaṃ balimutsṛjati evamityanena vacanena śrāvaṇīvidhānasya kṛtsnasyātidiṣṭatvādasyāpi sthālīpākasya śeṣatvena baliharaṇaprāptiḥ tatra śrāvaṇyāmityavadhiḥ kalpeta tasmāt mārgaśīrṣaśeṣasya ahārṣamityeva vidhiḥ śiṣṭasya baleḥ pratiṣedhārthamidam āmārgaśīrṣyā ityetattu śrāvaṇaśeṣasya balekhasānavidhānārtham


5

आप्ग्स्-तात्_19.5: अत्रास्मिन्नुत्सर्जने कृते, एनमहरगः क्रियमाणं बलिमुत्सृजति न चायमात्यन्तिक उत्सर्गः,नित्यत्वेन सर्पबलेस्संवत्सरे सम्वत्सरे कर्तव्यत्वात्

āpgs-tāt_19.5: atrāsminnutsarjane kṛte, enamaharagaḥ kriyamāṇaṃ balimutsṛjati na cāyamātyantika utsargaḥ,nityatvena sarpabalessaṃvatsare samvatsare kartavyatvāt


6

अनाहिताग्नेराग्रयणम् आप्ग्स्_19.6 (प.7.खं.,18-6) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.6: एतिरत्र प्राशनार्थः अग्रे प्रथमं अयनं यत्र तताग्रयणम् अग्रायणमिति प्राप्ते छान्दसो दीर्घव्यत्ययः तत् कर्म वक्ष्यते-तत्र अनाहिताग्निग्रहणमाहिताग्नेरौपासनवतः श्रौतेनाग्रयणेन सह समुच्चयप्रतिषेधार्थम् तेन पार्वणादिषु समुच्चयो भवति तत्र स्मार्तस्य करणे ऽभ्युदयः अकरणे न प्रत्यवायः आग्रयणमिति नाम्ना श्रौताग्रयणस्य धर्माः प्राप्यन्ते नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयादिति (आपश्रौ.6-29-2) वर्षासु श्यामाकैर्यजेत, शरदि व्रीहिभिः, वसन्ते यवैः, यथुर्तुवेणुयवैरिति च

anāhitāgnerāgrayaṇam āpgs_19.6 (pa.7.khaṃ.,18-6) commentaries: āpgs-anā_19.6: etiratra prāśanārthaḥ agre prathamaṃ ayanaṃ yatra tatāgrayaṇam agrāyaṇamiti prāpte chāndaso dīrghavyatyayaḥ tat karma vakṣyate-tatra anāhitāgnigrahaṇamāhitāgneraupāsanavataḥ śrautenāgrayaṇena saha samuccayapratiṣedhārtham tena pārvaṇādiṣu samuccayo bhavati tatra smārtasya karaṇe 'bhyudayaḥ akaraṇe na pratyavāyaḥ āgrayaṇamiti nāmnā śrautāgrayaṇasya dharmāḥ prāpyante nāniṣṭvāgrayaṇenāhitāgnirnavasyāśnīyāditi (āpaśrau.6-29-2) varṣāsu śyāmākairyajeta, śaradi vrīhibhiḥ, vasante yavaiḥ, yathurtuveṇuyavairiti ca


6

आप्ग्स्-तात्_19.6: उपदिश्यत इति शेषः अत्रानाहिताग्नेर्ग्रहणं सशेषाधानिनो ऽप्याहिताग्नेर्नेदं स्मार्तमाग्रयणं श्रैतेन समुच्चेतव्यमित्यर्थम् औपासनहोमादेस्तु अग्निहोत्रहोमादिना समुच्चय एव पिण्डपितृयज्ञो मासिश्राद्धं च आहिताग्न्यनाहिताग्न्योरुभयोरपि समुच्चेतव्ये ऽसो ऽयमेवंविहित एवानाहिताग्नेरौपासनेऽ(आपश्रौ.6-28) इति वचनात्, पितृयज्ञे तु निर्र्वत्य विप्रश्चन्दक्षये ऽग्निमान् पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् (मस्मृ.3-122) इति मनुवचनाच्च सर्वाधीनिनो ऽपि मासिश्राद्धं होमवर्ज कर्तव्यमेव उपद्शमतं तु-सशेषाधानिनश्चाहिताग्ने पार्वणयोरौपासनहोमस्य च निवृत्तिः;दर्शपूर्णमासाभ्यामग्निहोत्रेण च कृतार्थत्वात्, कालैक्येन विरोधाच्चेति आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति यत्कर्मकृत्वेव वाग्रयणं प्रथमायनं नवान्नप्राशनप्राप्तिर्भवतीति

āpgs-tāt_19.6: upadiśyata iti śeṣaḥ atrānāhitāgnergrahaṇaṃ saśeṣādhānino 'pyāhitāgnernedaṃ smārtamāgrayaṇaṃ śraitena samuccetavyamityartham aupāsanahomādestu agnihotrahomādinā samuccaya eva piṇḍapitṛyajño māsiśrāddhaṃ ca āhitāgnyanāhitāgnyorubhayorapi samuccetavye 'so 'yamevaṃvihita evānāhitāgneraupāsane'(āpaśrau.6-28) iti vacanāt, pitṛyajñe tu nirrvatya vipraścandakṣaye 'gnimān piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam (masmṛ.3-122) iti manuvacanācca sarvādhīnino 'pi māsiśrāddhaṃ homavarja kartavyameva upadśamataṃ tu-saśeṣādhāninaścāhitāgne pārvaṇayoraupāsanahomasya ca nivṛttiḥ;darśapūrṇamāsābhyāmagnihotreṇa ca kṛtārthatvāt, kālaikyena virodhācceti āgrayaṇamiti karmanāmadheyam, yena karmaṇā agre navadravyaṃ devān prāpayatīti yatkarmakṛtveva vāgrayaṇaṃ prathamāyanaṃ navānnaprāśanaprāptirbhavatīti


7

19 आग्रयणस्थालीपाकः - 1 नवव्रीह्यादितण्डुलैः पक्वैराग्रयणानुष्ठानं, तत ओदनपिण्डस्यागारस्तूप उद्वेधनविधिः नवानां स्थालीपाकं श्रपयित्वाऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाऽचम्यौदनपिण्डं संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत् आप्ग्स्_19.7 (प.7.खं.,18-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.7: नवानां व्रीहीणां यवानां वा औपासने श्रपयित्वा प्रतिष्ठितमभिघार्याग्निमुपसमाधाय संपरिस्तीय तूष्णीं समन्तं परिषिच्य दुर्वी संमृच्य स्थालीपाकादुपघातं चतस्र आहुतीर्जुहोत्याग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः-इन्द्राग्निभ्यां स्वाहा अग्नीम्द्राभ्यामिति वा ततो व्श्वेभ्यो देवेभ्यः, ततो द्यावापृथिवीभ्यां, अग्नये स्विष्टकृत इति पूर्ववत् परिषेचनम् एतावदेव कर्म नान्यत् किञ्चित्, पार्पकाभावात् केचित् सर्व कुर्वन्ति ततः तण्डुलानां मुखं पूरयति अत्र तण्डुलशब्दः ओदनावयवेषु पुलाकेषु वर्तते यथा मेक्षणे तण्डुला इत्यत्र तेन हविषश्शेषादवदाय पूरणम् अन्ये शुद्धानेव तण्डुलानिच्छन्ति तान् गीर्त्वा भक्षयित्वाऽचम्य तत ओदनपिण्डं संवर्तयाति प्रयत्नेन सम्पादयति यथा स्तूपे उद्विध्यमानो न संशीर्यति तथा संवर्त्य तमगारस्तूपे उद्विध्येत्-उत्तरेण यजुषाऽपरमेष्ठ्यसीऽत्यनेन ऊर्ध्व विध्येत् यथा स्तूपे निपततति स्तूपः पृष्टवंशः विद्धेदित्यपपाठः, छान्दसो वा आग्रयणवचनादेव सिद्धे नवानामिति वचनमनाहिताग्नेर्नवानां स्थालीपाक एव यथा स्यात् अन्ये कल्पा श्रौतदृष्टा मा भूवन्निति स्विष्टकृच्चतुर्थवचनं सोमनिवृत्यर्थम् तेन श्यामाकानां वेणुकानां वेणुयवानां चाग्रयणं अनाहिताग्नेर्भवति

19 āgrayaṇasthālīpākaḥ - 1 navavrīhyāditaṇḍulaiḥ pakvairāgrayaṇānuṣṭhānaṃ, tata odanapiṇḍasyāgārastūpa udvedhanavidhiḥ navānāṃ sthālīpākaṃ śrapayitvā'grayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvā'camyaudanapiṇḍaṃ saṃvṛttyottareṇa yajuṣāgārastūpa udviddhet āpgs_19.7 (pa.7.khaṃ.,18-7) commentaries: āpgs-anā_19.7: navānāṃ vrīhīṇāṃ yavānāṃ vā aupāsane śrapayitvā pratiṣṭhitamabhighāryāgnimupasamādhāya saṃparistīya tūṣṇīṃ samantaṃ pariṣicya durvī saṃmṛcya sthālīpākādupaghātaṃ catasra āhutīrjuhotyāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ-indrāgnibhyāṃ svāhā agnīmdrābhyāmiti vā tato vśvebhyo devebhyaḥ, tato dyāvāpṛthivībhyāṃ, agnaye sviṣṭakṛta iti pūrvavat pariṣecanam etāvadeva karma nānyat kiñcit, pārpakābhāvāt kecit sarva kurvanti tataḥ taṇḍulānāṃ mukhaṃ pūrayati atra taṇḍulaśabdaḥ odanāvayaveṣu pulākeṣu vartate yathā mekṣaṇe taṇḍulā ityatra tena haviṣaśśeṣādavadāya pūraṇam anye śuddhāneva taṇḍulānicchanti tān gīrtvā bhakṣayitvā'camya tata odanapiṇḍaṃ saṃvartayāti prayatnena sampādayati yathā stūpe udvidhyamāno na saṃśīryati tathā saṃvartya tamagārastūpe udvidhyet-uttareṇa yajuṣā'parameṣṭhyasī'tyanena ūrdhva vidhyet yathā stūpe nipatatati stūpaḥ pṛṣṭavaṃśaḥ viddhedityapapāṭhaḥ, chāndaso vā āgrayaṇavacanādeva siddhe navānāmiti vacanamanāhitāgnernavānāṃ sthālīpāka eva yathā syāt anye kalpā śrautadṛṣṭā mā bhūvanniti sviṣṭakṛccaturthavacanaṃ somanivṛtyartham tena śyāmākānāṃ veṇukānāṃ veṇuyavānāṃ cāgrayaṇaṃ anāhitāgnerbhavati


7

आप्ग्स्-तात्_19.7: नवानां व्रीहीणां यवानां वा सम्बन्धिनां पत्न्यवहन्तीत्यादिविधिनास्थालीपाकमेवश्रपयित्वाग्नेरुपसमाधानाद्यग्निमुखान्ते कृते आग्रयणप्रधानदेवताभ्यः श्रौते चोदिताभ्यःस्विष्टकृच्चतुर्थाभ्यःस्विष्टकृच्चतुर्थो यासां ताभ्यो जुहोति तत्र प्रथममिन्द्राग्निभ्यां अग्नीन्द्राभ्यां वा स्वाहेति जुहोति ततो विश्वेभ्यो देवेभ्यस्स्वाहेति ततश्च द्यावापृथिवीभ्यां स्वाहेति तन श्चान्ययेस्विष्टकृतेस्वाहेति सर्वत्र च स्वेनैवावदानधर्मेण अथ लेपयोरित्यादितन्त्रशेषसमाप्तिः ननु-श्रौते ऽआग्नेयमष्टाकपालं निर्वपति पुराणानां व्रीहीणांऽइत्यग्निः प्रथमदेवता तत्कथमिहेन्द्राग्निभ्यामग्नीन्द्राभ्यां वा प्रथमाहुतिः?सत्यं; स तु तत्राग्निराङ्गदेवता, न प्रधानदेवता;आग्रयणदेवताभ्य इति च प्रधानदेवतानामेव सम्प्रत्ययः;अन्यथा अतिप्रसङ्गात् अप्रधान्यं चाग्नेः ऽआग्रयणं भवति हुताद्यायऽइत्यत्रेन्द्राग्न्याददीनामेवोपदेशात् ऐन्द्राग्नस्य मुख्यप्रधानत्वे चामावास्यातन्त्रमिति तन्त्रनि- यमस्योपपत्तेः,दशहुविषां द्वे स्विष्टकृतःऽइत्यत्राग्नेययोर्ज्यानुवाक्ययोरभावाच्च अत्र च स्विष्टकृच्चतुर्थाभ्य इति वचनं श्रौतवदिह व्रीह्याग्रयणेन श्यामाकाग्रयणस्य पाक्षिकी समानतन्त्रता मा भूदित्यावमर्थम् तेनानाहितग्नीनां नानातन्त्रमेव वर्षासु पर्वणि सोमाय श्यामाकाग्रयणं कर्तव्यम्, द्रव्यदेवताकालानामनुक्तानामप्याग्रयणनामधेयादवगतानां आकाङ्क्षितानां स्वीकारे विरोधाभावात् अत एव न्यायाच्छरदि व्रीहीणामाग्रयणं, वसन्ते च यवानां पर्वण्येव केचित्-स्विष्टकृच्चतुर्थवचनाहिताग्नेः स्यामाकादीनां वेणुयवानां चाग्रयणमेव न भवतीति तन्न;अकृताग्रयणस्य नवश्यामाकाद्यशनाभ्युपगमे ऽतिप्रसङ्गात्, स्विष्टकृच्चतुर्थवचनस्योक्तार्तत्वाच्च ततस्तन्त्रशेषे समाप्ते तण्डुलानां मुखमास्यं पूरयति तण्डुलाश्चाशृताः, प्रसिद्धत्वात् शृता इत्यपरे ऽये मेक्षणे तण्डुला-ऽइति दर्शनात् शृतपक्षे हुतशेषात्प्रतिपत्त्यपेक्षादुपादाय मुखपूरणम् ततो निगीर्य तण्डुलानाचामति अपस्सकृत् पिबतीत्यर्थः कर्माङ्गतया चेदमाचमनविधानं, प्रकरणात् सुद्ध्वार्थाचमनमपि ऽआसीनस्त्रिराचामेतऽ(आपध.1-16-2) इत्याद्यनेकपदार्थान्वितं शास्त्रान्तरप्राप्तं कर्तव्यमेव तत ओदनेन हुतशेषेण पिण्डं संवर्तयति यथा उद्विद्यमानो न शीर्यति तथा सुदृढं करोति ततस्तं पिण्डमुत्तरेण यजुषा ऽपरमेष्ठ्यसिऽइत्यनेन उद्विद्धेत् ऊर्ध्व विक्षिपेत् यथागारस्तूपे पृष्ठवंशे पतति तथा विद्धेत् यकारलोपश्छान्दसः

āpgs-tāt_19.7: navānāṃ vrīhīṇāṃ yavānāṃ vā sambandhināṃ patnyavahantītyādividhināsthālīpākamevaśrapayitvāgnerupasamādhānādyagnimukhānte kṛte āgrayaṇapradhānadevatābhyaḥ śraute coditābhyaḥsviṣṭakṛccaturthābhyaḥsviṣṭakṛccaturtho yāsāṃ tābhyo juhoti tatra prathamamindrāgnibhyāṃ agnīndrābhyāṃ vā svāheti juhoti tato viśvebhyo devebhyassvāheti tataśca dyāvāpṛthivībhyāṃ svāheti tana ścānyayesviṣṭakṛtesvāheti sarvatra ca svenaivāvadānadharmeṇa atha lepayorityāditantraśeṣasamāptiḥ nanu-śraute 'āgneyamaṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇāṃ'ityagniḥ prathamadevatā tatkathamihendrāgnibhyāmagnīndrābhyāṃ vā prathamāhutiḥ?satyaṃ; sa tu tatrāgnirāṅgadevatā, na pradhānadevatā;āgrayaṇadevatābhya iti ca pradhānadevatānāmeva sampratyayaḥ;anyathā atiprasaṅgāt apradhānyaṃ cāgneḥ 'āgrayaṇaṃ bhavati hutādyāya'ityatrendrāgnyādadīnāmevopadeśāt aindrāgnasya mukhyapradhānatve cāmāvāsyātantramiti tantrani- yamasyopapatteḥ,daśahuviṣāṃ dve sviṣṭakṛtaḥ'ityatrāgneyayorjyānuvākyayorabhāvācca atra ca sviṣṭakṛccaturthābhya iti vacanaṃ śrautavadiha vrīhyāgrayaṇena śyāmākāgrayaṇasya pākṣikī samānatantratā mā bhūdityāvamartham tenānāhitagnīnāṃ nānātantrameva varṣāsu parvaṇi somāya śyāmākāgrayaṇaṃ kartavyam, dravyadevatākālānāmanuktānāmapyāgrayaṇanāmadheyādavagatānāṃ ākāṅkṣitānāṃ svīkāre virodhābhāvāt ata eva nyāyāccharadi vrīhīṇāmāgrayaṇaṃ, vasante ca yavānāṃ parvaṇyeva kecit-sviṣṭakṛccaturthavacanāhitāgneḥ syāmākādīnāṃ veṇuyavānāṃ cāgrayaṇameva na bhavatīti tanna;akṛtāgrayaṇasya navaśyāmākādyaśanābhyupagame 'tiprasaṅgāt, sviṣṭakṛccaturthavacanasyoktārtatvācca tatastantraśeṣe samāpte taṇḍulānāṃ mukhamāsyaṃ pūrayati taṇḍulāścāśṛtāḥ, prasiddhatvāt śṛtā ityapare 'ye mekṣaṇe taṇḍulā-'iti darśanāt śṛtapakṣe hutaśeṣātpratipattyapekṣādupādāya mukhapūraṇam tato nigīrya taṇḍulānācāmati apassakṛt pibatītyarthaḥ karmāṅgatayā cedamācamanavidhānaṃ, prakaraṇāt suddhvārthācamanamapi 'āsīnastrirācāmet'(āpadha.1-16-2) ityādyanekapadārthānvitaṃ śāstrāntaraprāptaṃ kartavyameva tata odanena hutaśeṣeṇa piṇḍaṃ saṃvartayati yathā udvidyamāno na śīryati tathā sudṛḍhaṃ karoti tatastaṃ piṇḍamuttareṇa yajuṣā 'parameṣṭhyasi'ityanena udviddhet ūrdhva vikṣipet yathāgārastūpe pṛṣṭhavaṃśe patati tathā viddhet yakāralopaśchāndasaḥ

Section (cont. 21)

8

20 हेमन्तप्रत्यवरोहणम् - हेमन्तप्रत्यवरोहणम् आप्ग्स्_19.8 1 प्रत्यवरुह्य नवस्वस्तरे संवेशनम् उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति आप्ग्स्_19.9 (प.7.खं.,19-8,9) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.9: हेमन्तप्रत्यवरोहणं नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यम्, तदुपदिश्यते-हेमन्ते प्राप्ते खट्वां विहाय पलाशस्वस्तरे शेते हेमन्तं ऋतुं प्रति खट्वाया अवरोहणंहेमन्तप्रत्यवरोहणं,तदुत्तरेण यजुषाकर्तव्यं ऽप्रत्यवरूढो नो हेमन्तऽइत्यनेन कः पुनरस्य कालः? यस्यां व्युष्टायां हेमन्तः प्रवर्तते शरन्निवर्तते, सा रात्रिरस्य कालः (अपर आह-मार्गशीर्ष्या पौर्णमास्यामस्तमिते स्थालीपाकान्ते प्रत्यवरोहणं सर्वषां प्रसिद्धत्वादिति अनेयो-मार्गशीर्ष्या पौर्णमास्यामित्यनुवर्तयन्ति) तत्र प्रत्यवरुह्य ततौत्तरैर्मन्त्रैःऽप्रतिक्षत्रऽइत्यादिभिः पञ्चभिःनवस्स्तरेनवैः पलाशैः कस्पिते शयनीये दक्षिणैः पार्श्वैःदक्षिणानि पार्श्वान्यधः कृत्वासंविशन्तिशेरते गृहमेधिनः अमात्याश्च पुत्रादयः कुमार्यश्चाप्रत्ताः नित्यसेयैव संवेशनस्य नियम- विधिरयम्-निशायां यत्संवेशनं संवप्नार्थ तदस्यां निशायामेव कर्तव्यमिति प्रत्यवरोहणन्त्रो ऽपि तस्मिन्नेव काले वक्तव्यः

20 hemantapratyavarohaṇam - hemantapratyavarohaṇam āpgs_19.8 1 pratyavaruhya navasvastare saṃveśanam uttareṇa yajuṣā pratyavaruhyottarairdakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti āpgs_19.9 (pa.7.khaṃ.,19-8,9) commentaries: āpgs-anā_19.9: hemantapratyavarohaṇaṃ nāma karma nityaṃ saṃvatsare saṃvatsare kartavyam, tadupadiśyate-hemante prāpte khaṭvāṃ vihāya palāśasvastare śete hemantaṃ ṛtuṃ prati khaṭvāyā avarohaṇaṃhemantapratyavarohaṇaṃ,taduttareṇa yajuṣākartavyaṃ 'pratyavarūḍho no hemanta'ityanena kaḥ punarasya kālaḥ? yasyāṃ vyuṣṭāyāṃ hemantaḥ pravartate śarannivartate, sā rātrirasya kālaḥ (apara āha-mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākānte pratyavarohaṇaṃ sarvaṣāṃ prasiddhatvāditi aneyo-mārgaśīrṣyā paurṇamāsyāmityanuvartayanti) tatra pratyavaruhya tatauttarairmantraiḥ'pratikṣatra'ityādibhiḥ pañcabhiḥnavasstarenavaiḥ palāśaiḥ kaspite śayanīye dakṣiṇaiḥ pārśvaiḥdakṣiṇāni pārśvānyadhaḥ kṛtvāsaṃviśantiśerate gṛhamedhinaḥ amātyāśca putrādayaḥ kumāryaścāprattāḥ nityaseyaiva saṃveśanasya niyama- vidhirayam-niśāyāṃ yatsaṃveśanaṃ saṃvapnārtha tadasyāṃ niśāyāmeva kartavyamiti pratyavarohaṇantro 'pi tasminneva kāle vaktavyaḥ


8

आप्ग्स्-तात्_19.9: यस्मिन् कर्माणि हेमन्ते स्वष्ट्वातः प्रत्यवरोहणं तद्धेमन्तप्रत्यवरोहणं नाम कर्मोपदिश्यत इति शेषः अस्मादेव च यौगिकान्नामधेयात् ऽप्रत्यवरूडो नो हेमन्तःऽइति मन्त्रलिङ्गाच्चेदं कर्म हेमन्ते प्रथमायां रात्रौ कर्तव्यमिति विधिः कल्प्यते केचित् मार्गशीर्ष्या पौर्णमास्यामस्तमितेऽ(आपगृ.19-3) इत्यनुवर्तनात्तत्रेदं कर्तव्यमिति

āpgs-tāt_19.9: yasmin karmāṇi hemante svaṣṭvātaḥ pratyavarohaṇaṃ taddhemantapratyavarohaṇaṃ nāma karmopadiśyata iti śeṣaḥ asmādeva ca yaugikānnāmadheyāt 'pratyavarūḍo no hemantaḥ'iti mantraliṅgāccedaṃ karma hemante prathamāyāṃ rātrau kartavyamiti vidhiḥ kalpyate kecit mārgaśīrṣyā paurṇamāsyāmastamite'(āpagṛ.19-3) ityanuvartanāttatredaṃ kartavyamiti


9

उत्तरेण यजुषा ऽप्रत्यवरूढो नो हेमन्तःऽइत्यनेन गृहस्थः पत्न्यादयश्च नवस्वस्तरे आरुह्य स्वष्ट्वातो हेमन्ते प्रत्यवरोहन्ति यावद्धेमन्तस्तावत्खष्ट्वां शय्यां विमुच्य नवस्वस्तर एव शयमिहीति बुद्धिं कुर्वन्तीत्यर्थः न पुनः पूर्वमदृष्टार्थ खष्ट्वामारुह्य मन्त्रेण स्वस्तरं प्रत्यवरोहन्तीति अनन्तरमुत्तरैर्मन्त्रैः ऽप्रतिक्षत्रेऽइत्यादिभिः प्रथमैः पञ्चभिः नवस्वस्तरे नवैः पलाशैः कल्पिते शयनीये दक्षिणैः पार्श्वैः दक्षिणानि पार्श्वान्यधः कृत्वा प्रक्छिरसस्संविशन्ति

uttareṇa yajuṣā 'pratyavarūḍho no hemantaḥ'ityanena gṛhasthaḥ patnyādayaśca navasvastare āruhya svaṣṭvāto hemante pratyavarohanti yāvaddhemantastāvatkhaṣṭvāṃ śayyāṃ vimucya navasvastara eva śayamihīti buddhiṃ kurvantītyarthaḥ na punaḥ pūrvamadṛṣṭārtha khaṣṭvāmāruhya mantreṇa svastaraṃ pratyavarohantīti anantaramuttarairmantraiḥ 'pratikṣatre'ityādibhiḥ prathamaiḥ pañcabhiḥ navasvastare navaiḥ palāśaiḥ kalpite śayanīye dakṣiṇaiḥ pārśvaiḥ dakṣiṇāni pārśvānyadhaḥ kṛtvā prakchirasassaṃviśanti


9

पुनरपि सूत्रद्वयेन संवेशनमेव विशिनष्टि 2 संवेशनप्रकारः दक्षिणतः पितोत्तरा मातैवमवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः आप्ग्स्_19.10 (प.7.खं-10) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.10: तेषां संविशतां यः पिता स दक्षिणश्शेते या माता सोत्तरा तयोरन्योन्यापेक्ष दक्षिणोत्तरत्वं"सामात्यः प्राक्शिरा उदङ्मुखः"(आश्व-ग.2-3-6) इकत्याश्वलायनः "मन्त्रविदो मन्त्रान् जपेयुःऽ(अश्वगृ.2-3-9) इति च

punarapi sūtradvayena saṃveśanameva viśinaṣṭi 2 saṃveśanaprakāraḥ dakṣiṇataḥ pitottarā mātaivamavaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ āpgs_19.10 (pa.7.khaṃ-10) commentaries: āpgs-anā_19.10: teṣāṃ saṃviśatāṃ yaḥ pitā sa dakṣiṇaśśete yā mātā sottarā tayoranyonyāpekṣa dakṣiṇottaratvaṃ"sāmātyaḥ prākśirā udaṅmukhaḥ"(āśva-ga.2-3-6) ikatyāśvalāyanaḥ "mantravido mantrān japeyuḥ'(aśvagṛ.2-3-9) iti ca


10

अवशिष्टा अमात्यास्तेषां यो यो ज्येष्टः कुमारः कुमारी वा स पितुर्दक्षिणतः तदनन्तरो मातुरुत्तरतः तृतीयः प्रथमस्य दक्षिणतः चतुर्थो द्वितीयस्योत्तरत इत्यादि अनेयो मातुरेवोत्तरतो ऽनुज्येष्ठं संवेशनमिच्छन्ति सर्वे प्राक्श्रसः उदङ्मुखाः मन्त्रविदश्च मन्त्रान् जपेयुः अनन्तरवचनं संश्लेषार्थम्

avaśiṣṭā amātyāsteṣāṃ yo yo jyeṣṭaḥ kumāraḥ kumārī vā sa piturdakṣiṇataḥ tadanantaro māturuttarataḥ tṛtīyaḥ prathamasya dakṣiṇataḥ caturtho dvitīyasyottarata ityādi aneyo māturevottarato 'nujyeṣṭhaṃ saṃveśanamicchanti sarve prākśrasaḥ udaṅmukhāḥ mantravidaśca mantrān japeyuḥ anantaravacanaṃ saṃśleṣārtham


10

आप्ग्स्-तात्_19.10: दक्षिणतः पितोत्तरा मातेतिदक्षिणोत्तरत्वमन्योन्यापेक्षम् अवशिष्टानांपुत्रादीनां मध्ये यो यो ज्येष्ठः पुत्रो दुहिता वा स स दक्षिणो ऽनन्तरश्च, यो यः कनीयान् स स उत्तरो ऽनन्तरश्च;एवमित्यतिदेशात् एतदुक्तं भवति-यस्सर्वज्योष्ठस्स मातुरुत्तरो ऽनन्तरः,यो द्वितीयो ज्येष्ठस्स सर्वज्येष्ठस्य उत्तरो ऽनन्तर इत्यादि केचित्-सर्वज्येष्ठः पितुर्दक्षिणस्तदनन्तरज्येष्ठो मातुरुत्तर इत्यादीति

āpgs-tāt_19.10: dakṣiṇataḥ pitottarā mātetidakṣiṇottaratvamanyonyāpekṣam avaśiṣṭānāṃputrādīnāṃ madhye yo yo jyeṣṭhaḥ putro duhitā vā sa sa dakṣiṇo 'nantaraśca, yo yaḥ kanīyān sa sa uttaro 'nantaraśca;evamityatideśāt etaduktaṃ bhavati-yassarvajyoṣṭhassa māturuttaro 'nantaraḥ,yo dvitīyo jyeṣṭhassa sarvajyeṣṭhasya uttaro 'nantara ityādi kecit-sarvajyeṣṭhaḥ piturdakṣiṇastadanantarajyeṣṭho māturuttara ityādīti


11

3 उत्थाय पृथिव्यभिमर्शनम् संहायोत्तराभ्यां पृथिवीमभिमृशन्ति आप्ग्स्_19.11 (प.7.खं.,19-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.11: एवं संविश्य किञ्चित् सुप्त्वा संहाय सम्पूर्वो जहतिः शयनादुत्त्थायासने दृष्टः ऽकलिश्शयानो भवति संजिहानस्तु द्वापर"इति (ऐतरेय ब्रपं.7)उत्त्थायाचम्योत्तराभ्यां ऋग्भ्यां ऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्यां स्योनापृथिवीध्येत्ताभ्यां पृथिवीमभिमृशन्ति अत्र च मन्त्रोच्चारणर्योग्यानामोव, न त्वमन्त्रवतामपि वाचनम्

3 utthāya pṛthivyabhimarśanam saṃhāyottarābhyāṃ pṛthivīmabhimṛśanti āpgs_19.11 (pa.7.khaṃ.,19-11) commentaries: āpgs-anā_19.11: evaṃ saṃviśya kiñcit suptvā saṃhāya sampūrvo jahatiḥ śayanāduttthāyāsane dṛṣṭaḥ 'kaliśśayāno bhavati saṃjihānastu dvāpara"iti (aitareya brapaṃ.7)uttthāyācamyottarābhyāṃ ṛgbhyāṃ 'syonā pṛthivi''baḍitthe'tyetābhyāṃ syonāpṛthivīdhyettābhyāṃ pṛthivīmabhimṛśanti atra ca mantroccāraṇaryogyānāmova, na tvamantravatāmapi vācanam


12

एवं संवेशनादि त्रिः आप्ग्स्_19.12 (प.7खं.,19-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.12: एवं संवेशनं संहायाभिमर्शनं च मन्त्रवत् त्रिरावर्तनीयमित्यर्थः प्रत्यवरोहणं तु सकृदेव "उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वे"(आश्वगृ.4-6-18) त्याश्व लायनः

evaṃ saṃveśanādi triḥ āpgs_19.12 (pa.7khaṃ.,19-12) commentaries: āpgs-anā_19.12: evaṃ saṃveśanaṃ saṃhāyābhimarśanaṃ ca mantravat trirāvartanīyamityarthaḥ pratyavarohaṇaṃ tu sakṛdeva "udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayitve"(āśvagṛ.4-6-18) tyāśva lāyanaḥ


12

आप्ग्स्-तात्_19.12: एवमेतत्संवेशनादि समन्त्रकमेव त्रिरावर्तनीयम् कथं पुनः उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि (आपगृ.1-2) इत्यहः पुण्याहविधाने सति, तद्विरुद्धंरात्राविदं कर्तव्यमित्युपदिश्यते ?उच्यते-नैवात्र संवेशेनं विधीयते, येनेदमह्नि पुण्याहे स्यात् किं तर्हि?यदेव रागप्राप्तं रात्रौ संवेशनं तदाश्रत्य मन्त्रा नियमाश्च विधीयन्ते;यथा रागप्राप्तं भोजनमाश्रित्य उपस्तरणप्राणाग्निहोत्रादयः यथा वा ऽपयस्वतीरोषधयः इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः ऽ(आपश्रौ.4-2-3) इत्यादि तेन रात्रावेवेदं कर्मेत्युपपन्नम् अन्ते च ब्राह्मणभोजनम्-ऽशुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेतऽ(आपध.2-15-11) इति वचनात्

āpgs-tāt_19.12: evametatsaṃveśanādi samantrakameva trirāvartanīyam kathaṃ punaḥ udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi (āpagṛ.1-2) ityahaḥ puṇyāhavidhāne sati, tadviruddhaṃrātrāvidaṃ kartavyamityupadiśyate ?ucyate-naivātra saṃveśenaṃ vidhīyate, yenedamahni puṇyāhe syāt kiṃ tarhi?yadeva rāgaprāptaṃ rātrau saṃveśanaṃ tadāśratya mantrā niyamāśca vidhīyante;yathā rāgaprāptaṃ bhojanamāśritya upastaraṇaprāṇāgnihotrādayaḥ yathā vā 'payasvatīroṣadhayaḥ iti purā barhiṣa āhartorjāyāpatī aśnītaḥ '(āpaśrau.4-2-3) ityādi tena rātrāvevedaṃ karmetyupapannam ante ca brāhmaṇabhojanam-'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpadha.2-15-11) iti vacanāt


13

अथेशानबलिर्नाम नित्यः पाकयज्ञो मन्त्राम्नानक्रमप्राप्तो व्याख्यायते तस्य च सामान्यविधिसिद्धोदगयनादिरेव कालः;इह सर्पबलिवत्कालविशेषस्यानुपदेशात् ततश्च प्रतिसंवत्सरमिदं कर्म नावर्तनीयम्;सकृत्कृते कृतश्शास्त्रार्थः इति न्यायात् केचित्-शास्त्रान्तरात् प्रतिसंवत्त्सरमावृत्तिः सकृत्प्रयोगश्च विकल्प्यते तथा शास्त्रान्तरादेव गवां शान्त्यर्थः पुत्रादिकामार्थश्च प्रयोगः प्रत्येतव्य इति 21 ईशानबलिः - 1 स्थालीपाकश्रपणम्, ग्रामाद्वहिः गत्वा स्थण्डिलकरणं च ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाग्नेरुपसमाधानादि आप्ग्स्_19.13 (प.7खं.,19-13) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.13: अथ ईशानबलिर्नाम पाकयज्ञो वक्ष्यते शूलगव इति यस्य प्रसिद्धिः गवालम्भनं च तत्र शास्त्रान्तरे चोदितमश्माकं तु स्थालीपाकएव एतावत् गोरालम्भस्थानमिति नियमात् नित्यश्चायं पुरुषसं स्कारः न काम्योनैमित्तिको वा कामनिमित्तयोरेश्रुतत्वात् सकृच्च कर्तव्यः कालसंयोगाभावात् कालसंयोगे ह्यभ्यावृत्तिर्बवति तस्य कालस्य पुनः पुनस्सम्बन्धात् कः पुनरस्य कालः?शरदि वसन्ते वेति शास्त्रान्तरम् आर्द्रया कर्तव्यमिति च उदगयनादिनियमश्चास्माकम् तत्र फल्गुने मासि पूर्वपक्षे अष्टम्यार्द्रयासम्पद्यते सो ऽस्य मुख्यः कालः तेन यक्ष्यमाणो गृहे स्थालीपाकं श्रपयति औपासने ईशानायदेवाय सङ्कल्पितमेकं,क्षेत्रपतये चापरम् तैस्सहप्राचीमुदीचीं वा दिशं ग्रामात् बहिरुपनिष्क्रम्ययत्र यक्ष्यमाणो भवति तत्र देवयजनाय देवगृहयोश्च पर्याप्तमेकं स्थण्डिलं कल्पयित्वातस्य पूर्वार्धे अगन्यायतनमुल्लिख्याग्निं प्रतिष्ठाप्योपसमाधानादि तन्त्रं प्रतिपद्यते द्वन्द्व पात्राणि, परिधयः

atheśānabalirnāma nityaḥ pākayajño mantrāmnānakramaprāpto vyākhyāyate tasya ca sāmānyavidhisiddhodagayanādireva kālaḥ;iha sarpabalivatkālaviśeṣasyānupadeśāt tataśca pratisaṃvatsaramidaṃ karma nāvartanīyam;sakṛtkṛte kṛtaśśāstrārthaḥ iti nyāyāt kecit-śāstrāntarāt pratisaṃvattsaramāvṛttiḥ sakṛtprayogaśca vikalpyate tathā śāstrāntarādeva gavāṃ śāntyarthaḥ putrādikāmārthaśca prayogaḥ pratyetavya iti 21 īśānabaliḥ - 1 sthālīpākaśrapaṇam, grāmādvahiḥ gatvā sthaṇḍilakaraṇaṃ ca īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīmudīcīṃ vā diśamupaniṣkramya sthaṇḍilaṃ kalpayitvāgnerupasamādhānādi āpgs_19.13 (pa.7khaṃ.,19-13) commentaries: āpgs-anā_19.13: atha īśānabalirnāma pākayajño vakṣyate śūlagava iti yasya prasiddhiḥ gavālambhanaṃ ca tatra śāstrāntare coditamaśmākaṃ tu sthālīpākaeva etāvat gorālambhasthānamiti niyamāt nityaścāyaṃ puruṣasaṃ skāraḥ na kāmyonaimittiko vā kāmanimittayoreśrutatvāt sakṛcca kartavyaḥ kālasaṃyogābhāvāt kālasaṃyoge hyabhyāvṛttirbavati tasya kālasya punaḥ punassambandhāt kaḥ punarasya kālaḥ?śaradi vasante veti śāstrāntaram ārdrayā kartavyamiti ca udagayanādiniyamaścāsmākam tatra phalgune māsi pūrvapakṣe aṣṭamyārdrayāsampadyate so 'sya mukhyaḥ kālaḥ tena yakṣyamāṇo gṛhe sthālīpākaṃ śrapayati aupāsane īśānāyadevāya saṅkalpitamekaṃ,kṣetrapataye cāparam taissahaprācīmudīcīṃ vā diśaṃ grāmāt bahirupaniṣkramyayatra yakṣyamāṇo bhavati tatra devayajanāya devagṛhayośca paryāptamekaṃ sthaṇḍilaṃ kalpayitvātasya pūrvārdhe aganyāyatanamullikhyāgniṃ pratiṣṭhāpyopasamādhānādi tantraṃ pratipadyate dvandva pātrāṇi, paridhayaḥ


13

आप्ग्स्-तात्_19.13: ईश ऐश्वर्ये"इति धात्वथेस्मृतेः निरतिशयमैश्वर्य यस्य सईशानःप्रणवोपासनादिभिरुपास्यो महेश्वर इत्यर्थः तस्मै ईशानाय स्थालीपाकंहोमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा, प्रतिष्ठिताभिघारणान्तं करोति केचित्-त्रीनोदानान् कल्पयित्वाग्निमभ्यानीय ततो बहिः प्रतिष्ठाप्य त्रयाणामभिघारणमिति तेनक्षैत्रपत्यंच स्थालीपाकं लौकिकाग्नौ श्रपयति, तस्यानग्नौ प्रदेयत्वात् अथ यथार्थ सम्भारानादाय ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्याग्निकुट्यादिभ्यो ऽलंस्थण्डिलादि कल्पयित्वा, तस्मिन् ऽयत्र क्वचाग्निऽ(आध.2-1-23) मिति विधिनाग्निं प्रतिष्ठाप्य,अग्नेरुपसमाधानादितन्त्रं प्रतिपद्यते तन्त्रविधानं च क्रमार्थमित्युक्तमेव

āpgs-tāt_19.13: īśa aiśvarye"iti dhātvathesmṛteḥ niratiśayamaiśvarya yasya saīśānaḥpraṇavopāsanādibhirupāsyo maheśvara ityarthaḥ tasmai īśānāya sthālīpākaṃhomādibhyaḥ paryāptaṃ pārvaṇavadaupāsane śrapayitvā, pratiṣṭhitābhighāraṇāntaṃ karoti kecit-trīnodānān kalpayitvāgnimabhyānīya tato bahiḥ pratiṣṭhāpya trayāṇāmabhighāraṇamiti tenakṣaitrapatyaṃca sthālīpākaṃ laukikāgnau śrapayati, tasyānagnau pradeyatvāt atha yathārtha sambhārānādāya grāmātprācīmudīcīṃ vā diśamupaniṣkramyāgnikuṭyādibhyo 'laṃsthaṇḍilādi kalpayitvā, tasmin 'yatra kvacāgni'(ādha.2-1-23) miti vidhināgniṃ pratiṣṭhāpya,agnerupasamādhānāditantraṃ pratipadyate tantravidhānaṃ ca kramārthamityuktameva


14

2 अग्नेः पश्चात् कुटीद्वयकरणम् अपरेणाग्निं द्वे कुटी कृत्वा आप्ग्स्_19.14 (प.7खं.,19-14) चोम्मेन्तरिएस्: आप्ग्स्-अना_19.14: तत अग्नेः पश्चात् द्वे कुटी करोति देवाय देव्यै च प्रत्यग्द्वारे प्राग्द्वारे वा दक्षिणोत्तरे उदगपवर्गः तयोर्देवस्य देव्याश्च प्रतिकृती कृत्वा

2 agneḥ paścāt kuṭīdvayakaraṇam apareṇāgniṃ dve kuṭī kṛtvā āpgs_19.14 (pa.7khaṃ.,19-14) commentaries: āpgs-anā_19.14: tata agneḥ paścāt dve kuṭī karoti devāya devyai ca pratyagdvāre prāgdvāre vā dakṣiṇottare udagapavargaḥ tayordevasya devyāśca pratikṛtī kṛtvā


14

इति श्रीहरदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायां एकोनविंशः खण्डः आप्ग्स्-तात्_19.14: अग्निमुखान्ते कृते अपरेणाग्निं द्वे कुटी प्राग्द्वारो उदगपर्गे कृत्वा

iti śrīharadattamiśraviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ ekonaviṃśaḥ khaṇḍaḥ āpgs-tāt_19.14: agnimukhānte kṛte apareṇāgniṃ dve kuṭī prāgdvāro udagaparge kṛtvā


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकोनविंशः खण्डस्समाप्तः विंशः खण्डः 3 दक्षिणस्यां कुट्यामीशानावाहनम् उत्तरया दक्षिणस्यामीशानमावाहयति आप्ग्स्_20.1 (प.7खं.,20-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.1: मध्ये जयंतस्य प्रतिकृतिमाकाश एव कृत्वा दक्षिमस्यामीशानमावाहयति उत्तरयर्चा ऽआ त्वा वहन्तिऽत्येतया अग्नेरुपसमाधानादीत्त्युक्तत्वात् प्रधानाहुतीनां च वक्ष्यमाणत्वात् आज्यभागान्ते कुटीकरणमेव भवति

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ekonaviṃśaḥ khaṇḍassamāptaḥ viṃśaḥ khaṇḍaḥ 3 dakṣiṇasyāṃ kuṭyāmīśānāvāhanam uttarayā dakṣiṇasyāmīśānamāvāhayati āpgs_20.1 (pa.7khaṃ.,20-1) commentaries: āpgs-anā_20.1: madhye jayaṃtasya pratikṛtimākāśa eva kṛtvā dakṣimasyāmīśānamāvāhayati uttarayarcā 'ā tvā vahanti'tyetayā agnerupasamādhānādīttyuktatvāt pradhānāhutīnāṃ ca vakṣyamāṇatvāt ājyabhāgānte kuṭīkaraṇameva bhavati


1

आप्ग्स्-तात्_20.1: अथोत्तरया ऽआ त्वा वहन्तुऽइत्येतयादक्षिणस्यांकुट्यामीशानमावाहयति मूर्तिमानिहागच्छेति ध्यायेत्

āpgs-tāt_20.1: athottarayā 'ā tvā vahantu'ityetayādakṣiṇasyāṃkuṭyāmīśānamāvāhayati mūrtimānihāgaccheti dhyāyet


2

4 उत्तरस्यां देव्याः मध्ये च जयन्तस्य लौकिक्या वाचोत्तरस्यां मीढुषीम् आप्ग्स्_20.2 मध्ये जयन्तम् आप्ग्स्_20.3 (प.7खं.,20-2,3) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.3: उत्तरस्यां लौकिक्या वाचा मीढुषीं देवीं आवाहयति मध्ये जयन्तमावाहयति लौकिक्या वाचा-आयाहि जयन्त, जयन्तमावाहयामीति वा जयन्तः स्कन्दः लौकिक्येत्यनुच्यमाने पूर्वेण मन्त्रेणावाहनं प्राप्नोति

4 uttarasyāṃ devyāḥ madhye ca jayantasya laukikyā vācottarasyāṃ mīḍhuṣīm āpgs_20.2 madhye jayantam āpgs_20.3 (pa.7khaṃ.,20-2,3) commentaries: āpgs-anā_20.3: uttarasyāṃ laukikyā vācā mīḍhuṣīṃ devīṃ āvāhayati madhye jayantamāvāhayati laukikyā vācā-āyāhi jayanta, jayantamāvāhayāmīti vā jayantaḥ skandaḥ laukikyetyanucyamāne pūrveṇa mantreṇāvāhanaṃ prāpnoti


2

आप्ग्स्-तात्_20.3: तथोत्तरस्यां कुट्यांलौकिक्या वाचा ऽआयाहि मीढुषिऽइति मीढुषीमीशानस्य पत्नीं आवाहयतीत्येव जय कर्माणमिन्द्रं

āpgs-tāt_20.3: tathottarasyāṃ kuṭyāṃlaukikyā vācā 'āyāhi mīḍhuṣi'iti mīḍhuṣīmīśānasya patnīṃ āvāhayatītyeva jaya karmāṇamindraṃ


3

कुट्योर्मध्ये आकाशे जयन्तमिन्द्रसूनुं स्कन्दं वा ऽआयाहि जयन्तऽइत्यावाहयति अत्र सूत्रे अनुक्क्तमप्यौचित्यादावाहितेभ्य आसानानि ददाति

kuṭyormadhye ākāśe jayantamindrasūnuṃ skandaṃ vā 'āyāhi jayanta'ityāvāhayati atra sūtre anukktamapyaucityādāvāhitebhya āsānāni dadāti


3

5 आवाहितेभ्योरऽध्यादिदानम्, प्रधानहोमाः, स्विष्टकृच्च यथोढमुदकानि प्रदाय त्रीनोदनान् कल्पयित्वाग्निमभ्यानीयोत्तरैकुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् आप्ग्स्_20.4 (प.7खं.,20-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.4: (येन शब्देन येषु स्थानेषु येन क्रमेणावाहनं चोदितं तद्देवताकान्यर्ध्याणि प्रयच्छति) पृथक्पात्रैः कल्पितानि आर्ध्यत्वात् पुष्पाक्षतैस्संयुक्तानि ईसानेदं ते अर्घ्यम्, जयन्तेदं ते अर्घ्यमिति ततो गन्धपुष्पघूपदीपैरभ्यर्च्य ततः स्थालीपाकादुद्धृत्य त्रीनोदनान् कल्पयति त्रिषु पात्रेषु देव्यै स्कन्दाय च देवाय होमार्थ उपहारार्थ च स्थाल्यां च भूयांसमोदनम- वशिनष्टि ब्राह्मणभोजनार्थम् ततस्तानोदनानग्निसमीपमानीय्यापगेणाग्निं बर्हिषि प्रतिष्ठापयति दक्षिणत उत्तरतोमध्ये च अत्र प्रतिष्ठि- ताभिघारणमू तत उत्तरैर्मन्त्रैस्त्रिभिर्यथोढं त्रीनोदनानुपस्पर्शयति स्वस्वामिसम्बन्धं कारयति उत्तरैर्मन्त्रैः ऽउपस्पृशतु मीढ्वानऽइत्यादिभिः यथादेवतमभिमृशति ऽइदमग्नेरित्याग्नेयऽमितिवत् एवमुपस्पर्शयित्वा तत उत्तरैर्मन्त्रैस्सप्तदशभिः प्रधानाहुतीर्जुहोतियथास्वमोदनेभ्यः येनौदनेन यस्यै देवतायै त्वत्वसम्बन्ध उपस्पर्शनेनोपलक्षितः तस्मात् तस्य जुहोतीत्यर्थः तत्र भवाय देवायेऽत्यादिभिरष्टाभिः देवस्यौदनात् ऽभवस्य देवस्य पत्न्यै स्वाहेऽत्यष्टाभिः मीढुष्याः ऽजयन्ताय स्वाहेऽति जयनातस्य एवं प्रधानाहुतीर्हुत्वा ततस्सर्वतः समवादायोत्तरेण यजुषाव ऽअग्नये स्विष्टकृते सुहुतऽइत्यनेनाग्निं स्विष्टकृतंयजति सर्वतस्समव- दायेत्त्युच्यते यथा स्वमोदनेभ्यः पृथक्पृथक् स्विष्टकृन्माभूदिति यद्यपि स्विष्टकृतो ऽनन्तरमिदमुक्तमुपस्थानादि, तथापि ऽजयादीनुपजुहोतिऽइत्यत्रोपशब्दश्रवणात् प्रधानहोमानन्तरं जयादयः परिषेचनान्ते उपस्थानादि

5 āvāhitebhyor'dhyādidānam, pradhānahomāḥ, sviṣṭakṛcca yathoḍhamudakāni pradāya trīnodanān kalpayitvāgnimabhyānīyottaraikupasparśayitvā uttarairyathāsvamodanebhyo hutvā sarvatassamavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam āpgs_20.4 (pa.7khaṃ.,20-4) commentaries: āpgs-anā_20.4: (yena śabdena yeṣu sthāneṣu yena krameṇāvāhanaṃ coditaṃ taddevatākānyardhyāṇi prayacchati) pṛthakpātraiḥ kalpitāni ārdhyatvāt puṣpākṣataissaṃyuktāni īsānedaṃ te arghyam, jayantedaṃ te arghyamiti tato gandhapuṣpaghūpadīpairabhyarcya tataḥ sthālīpākāduddhṛtya trīnodanān kalpayati triṣu pātreṣu devyai skandāya ca devāya homārtha upahārārtha ca sthālyāṃ ca bhūyāṃsamodanama- vaśinaṣṭi brāhmaṇabhojanārtham tatastānodanānagnisamīpamānīyyāpageṇāgniṃ barhiṣi pratiṣṭhāpayati dakṣiṇata uttaratomadhye ca atra pratiṣṭhi- tābhighāraṇamū tata uttarairmantraistribhiryathoḍhaṃ trīnodanānupasparśayati svasvāmisambandhaṃ kārayati uttarairmantraiḥ 'upaspṛśatu mīḍhvān'ityādibhiḥ yathādevatamabhimṛśati 'idamagnerityāgneya'mitivat evamupasparśayitvā tata uttarairmantraissaptadaśabhiḥ pradhānāhutīrjuhotiyathāsvamodanebhyaḥ yenaudanena yasyai devatāyai tvatvasambandha upasparśanenopalakṣitaḥ tasmāt tasya juhotītyarthaḥ tatra bhavāya devāye'tyādibhiraṣṭābhiḥ devasyaudanāt 'bhavasya devasya patnyai svāhe'tyaṣṭābhiḥ mīḍhuṣyāḥ 'jayantāya svāhe'ti jayanātasya evaṃ pradhānāhutīrhutvā tatassarvataḥ samavādāyottareṇa yajuṣāva 'agnaye sviṣṭakṛte suhuta'ityanenāgniṃ sviṣṭakṛtaṃyajati sarvatassamava- dāyettyucyate yathā svamodanebhyaḥ pṛthakpṛthak sviṣṭakṛnmābhūditi yadyapi sviṣṭakṛto 'nantaramidamuktamupasthānādi, tathāpi 'jayādīnupajuhoti'ityatropaśabdaśravaṇāt pradhānahomānantaraṃ jayādayaḥ pariṣecanānte upasthānādi


4

आप्ग्स्-तात्_20.4: अथयथेढं येन क्रमेणोढा आवाहितास्तेन क्रमेण वौदकानिपाद्यादीनि प्रत्येकं स्वैस्स्वैर्नामभिर्नमोन्तैःप्रददातिप्रकर्षेण भक्तिपुरस्सरं ददाति उदकग्रहणस्य प्रदर्शनार्थत्वात् दीपान्तं प्रददातीत्युपदेशः अथेशानस्थालीपाकादुद्धृत्यत्रीनादेनान्त्रिषु पात्रेषु कल्पयति ईशानमीढुषीजयन्तेभ्यो होमार्थम् बल्यर्थढ्च स्थाल्यां च ब्राह्मणानां भोजनानार्थ भूयांसमोदनमवशिनष्टि ततस्तानोदनानग्नेस्समीपमानीय अपरेणाग्निं प्रतिष्ठापयति अथैतानुत्तरैस्त्रिभिर्मन्त्रैः ऽउपस्पृशतु मीढ्वानऽइत्यादिभिर्यथासङ्ख्यं यथादेवतमुपस्पर्शयति अस्य चोपस्पर्शनविधेर्द्वितीयतृतीययोरोदनयोरपनीतेशानदेवताकयोर्मीढुषीजयन्ताख्यदेवतान्तरसम्बन्धविज्ञाने तात्पर्यम्, अब्युदयेष्ट्यादिवत् प्रथमे त्वीशानसम्बन्धस्थापने मीढ्वच्छब्दस्येशानवाचकत्वात् अथोत्तरैर्मन्त्रैः ऽभवाय देवायऽ; इत्यादिभिस्सप्तदशभिःयथास्वमोदनेभ्यःयो य ओदनो यस्या यस्या देवतायास्स्वभूतस्तस्मात्तस्माद्यथालिङ्गं पार्वणवदानधर्मेणावदा- य प्रधानाहुतीर्जुहोति तत्र ऽभवायेऽत्यष्टभिरीशानस्यौदनात् युक्तं चैतत् भवशर्वादिशब्दानां ईसानवाचकत्वादिति ऽभवस्य देवस्येऽत्यष्टाभिस्तु मीढुष्यास्स्वात् ऽजयन्तायेऽति जयन्तस्य स्वात् ततस्सर्वतस्सर्वेभ्यस्त्रिभ्य ओदनेभ्यः स्विष्टकृतो ऽवदानधर्मेणसमवदाय सह्वदायौत्तरेण यजुषाऽअग्नये स्विष्टकृते सुहुत हुतऽइत्यनेनाग्निं स्विष्टकृतंजुहोति अतःसर्वतस्समवदायेति वचनं आग्रयणमासिश्राद्धादिवत् सकृदेवावदाय स्विष्टकृदिति शह्कानिरासार्थम्

āpgs-tāt_20.4: athayatheḍhaṃ yena krameṇoḍhā āvāhitāstena krameṇa vaudakānipādyādīni pratyekaṃ svaissvairnāmabhirnamontaiḥpradadātiprakarṣeṇa bhaktipurassaraṃ dadāti udakagrahaṇasya pradarśanārthatvāt dīpāntaṃ pradadātītyupadeśaḥ atheśānasthālīpākāduddhṛtyatrīnādenāntriṣu pātreṣu kalpayati īśānamīḍhuṣījayantebhyo homārtham balyarthaḍhca sthālyāṃ ca brāhmaṇānāṃ bhojanānārtha bhūyāṃsamodanamavaśinaṣṭi tatastānodanānagnessamīpamānīya apareṇāgniṃ pratiṣṭhāpayati athaitānuttaraistribhirmantraiḥ 'upaspṛśatu mīḍhvān'ityādibhiryathāsaṅkhyaṃ yathādevatamupasparśayati asya copasparśanavidherdvitīyatṛtīyayorodanayorapanīteśānadevatākayormīḍhuṣījayantākhyadevatāntarasambandhavijñāne tātparyam, abyudayeṣṭyādivat prathame tvīśānasambandhasthāpane mīḍhvacchabdasyeśānavācakatvāt athottarairmantraiḥ 'bhavāya devāya'; ityādibhissaptadaśabhiḥyathāsvamodanebhyaḥyo ya odano yasyā yasyā devatāyāssvabhūtastasmāttasmādyathāliṅgaṃ pārvaṇavadānadharmeṇāvadā- ya pradhānāhutīrjuhoti tatra 'bhavāye'tyaṣṭabhirīśānasyaudanāt yuktaṃ caitat bhavaśarvādiśabdānāṃ īsānavācakatvāditi 'bhavasya devasye'tyaṣṭābhistu mīḍhuṣyāssvāt 'jayantāye'ti jayantasya svāt tatassarvatassarvebhyastribhya odanebhyaḥ sviṣṭakṛto 'vadānadharmeṇasamavadāya sahvadāyauttareṇa yajuṣā'agnaye sviṣṭakṛte suhuta huta'ityanenāgniṃ sviṣṭakṛtaṃjuhoti ataḥsarvatassamavadāyeti vacanaṃ āgrayaṇamāsiśrāddhādivat sakṛdevāvadāya sviṣṭakṛditi śahkānirāsārtham


4

6 देवताभ्यः सहौदनानां पर्णानां दानम् उत्तरेण यजुषोपस्थायोत्तरैस्सहौदनानि पर्णान्येकैकेन द्वे द्वे दत्वा दश देवसेनाभ्यो दशोत्तराभ्यः आप्ग्स्_20.5 (प.7खं.,20-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.5: उत्तरेण यजुषाऽस्वस्तिनः पूर्णमुखऽइत्यनेन उपस्थानं च महादेवस्य, तत्प्रधानत्वात्कमणः ऽपूर्णमुखऽ; इत्यपि तस्यैव निर्देशः पूर्माहुतिभिः पूर्ममुखः उपस्थायततौत्तरैर्मन्त्रैः"गृहपोपस्पृशे, त्यादिभिः अष्टादशभिःसहौदनानिपर्णानि मन्त्रप्रतीताभ्यो देवताभ्यो ददाति तत्र चादितस्सप्तभिः प्रतिमन्त्रं द्वे द्वे पर्णेददाति अष्टमेन दशदेवसेनाभ्य इति वदन् मन्त्रप्रतीता देवता दर्शयति तत्र गृहप इति महादेवाभिधानं मन्यते गृहान् पातीति ऽनमो रुद्राय वास्तोष्पतयऽइति च मन्त्रान्तरम् तस्मादनेन देवाय पर्णद्वयं तस्यैवौदनात् गृबपी देवी, तस्मादनेन मन्त्रेण देव्यै दातव्यं तस्या एवौदनात् घोषिणीइत्यादयः, सर्वगणा देवस्यानुचराः तेभ्यो ऽपि देवकुटीसमीपे तस्यावोदनात् पर्णद्वयानि देवसेना भूतगणाः तेभ्यो ऽपि सर्पगणवत् देशोत्तराभ्यः "या आख्याता" इत्यस्मिन्नुत्तरे मन्त्रे प्रतीता उत्तरा देवताः ताभ्यो धश पर्मानि तेनैव मन्त्रेण देवस्यैवौदनात्

6 devatābhyaḥ sahaudanānāṃ parṇānāṃ dānam uttareṇa yajuṣopasthāyottaraissahaudanāni parṇānyekaikena dve dve datvā daśa devasenābhyo daśottarābhyaḥ āpgs_20.5 (pa.7khaṃ.,20-5) commentaries: āpgs-anā_20.5: uttareṇa yajuṣā'svastinaḥ pūrṇamukha'ityanena upasthānaṃ ca mahādevasya, tatpradhānatvātkamaṇaḥ 'pūrṇamukha'; ityapi tasyaiva nirdeśaḥ pūrmāhutibhiḥ pūrmamukhaḥ upasthāyatatauttarairmantraiḥ"gṛhapopaspṛśe, tyādibhiḥ aṣṭādaśabhiḥsahaudanāniparṇāni mantrapratītābhyo devatābhyo dadāti tatra cāditassaptabhiḥ pratimantraṃ dve dve parṇedadāti aṣṭamena daśadevasenābhya iti vadan mantrapratītā devatā darśayati tatra gṛhapa iti mahādevābhidhānaṃ manyate gṛhān pātīti 'namo rudrāya vāstoṣpataya'iti ca mantrāntaram tasmādanena devāya parṇadvayaṃ tasyaivaudanāt gṛbapī devī, tasmādanena mantreṇa devyai dātavyaṃ tasyā evaudanāt ghoṣiṇīityādayaḥ, sarvagaṇā devasyānucarāḥ tebhyo 'pi devakuṭīsamīpe tasyāvodanāt parṇadvayāni devasenā bhūtagaṇāḥ tebhyo 'pi sarpagaṇavat deśottarābhyaḥ "yā ākhyātā" ityasminnuttare mantre pratītā uttarā devatāḥ tābhyo dhaśa parmāni tenaiva mantreṇa devasyaivaudanāt


5

आप्ग्स्-तात्_20.5: उत्तरेण यजुषाऽस्वस्ति नः पूर्णमुखऽइत्यनेन अग्निमीशानं वो परिष्ठते इदं च यथापाठं स्विष्टकृतो ऽनन्तरम् ततो लेपयोरित्यादितन्त्रशेषसमाप्तिः ऽपरिषेचनान्तं कृत्वा पर्णदानमऽइति भाष्यकारवचनात् केचित्-उपस्थानादि तन्त्रशेषसमाप्तिरिति ततो यथास्वमोदनेभ्य एव याज्ञियेषुपर्णान्युत्तरैःऽगृहपोपस्पृशऽइत्यादिभिस्सप्तभिर्ददातीति सामान्येन विधाय विशिनष्टिएकैकेनमन्त्रेणद्वे द्वेपर्णे इति अथ द्वे द्वे इत्येतदपवदति-दशेत्यादिना देवस्येशानस्य सेनाःदेवसेनाः, ताभ्यो दश पर्णानि दक्षिणस्यां कुट्यां देवस्यैवौदनादवदाय ददाति तथादशैवपर्णान्युत्तराभ्यो देवसेनाभ्यः उत्तरस्मिन् मन्त्रे ऽया आक्याता याश्चानाख्याताऽइति गुणद्वयवत्यस्ता उत्तरा देवसेनाः

āpgs-tāt_20.5: uttareṇa yajuṣā'svasti naḥ pūrṇamukha'ityanena agnimīśānaṃ vo pariṣṭhate idaṃ ca yathāpāṭhaṃ sviṣṭakṛto 'nantaram tato lepayorityāditantraśeṣasamāptiḥ 'pariṣecanāntaṃ kṛtvā parṇadānam'iti bhāṣyakāravacanāt kecit-upasthānādi tantraśeṣasamāptiriti tato yathāsvamodanebhya eva yājñiyeṣuparṇānyuttaraiḥ'gṛhapopaspṛśa'ityādibhissaptabhirdadātīti sāmānyena vidhāya viśinaṣṭiekaikenamantreṇadve dveparṇe iti atha dve dve ityetadapavadati-daśetyādinā devasyeśānasya senāḥdevasenāḥ, tābhyo daśa parṇāni dakṣiṇasyāṃ kuṭyāṃ devasyaivaudanādavadāya dadāti tathādaśaivaparṇānyuttarābhyo devasenābhyaḥ uttarasmin mantre 'yā ākyātā yāścānākhyātā'iti guṇadvayavatyastā uttarā devasenāḥ


5

पूर्ववदुत्तरैः आप्ग्स्_20.6 (प.7खं.,20-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.6: पूर्ववदुत्तरैर्मन्त्रैः ऽद्वारापोस्पृशेऽत्यादिभिः चतुर्भिः पर्मानि देयानिपूर्ववदेकैकेन द्वे द्वे इत्यर्थः अत्रद्वारापो देवः द्वारपालः द्वारापीदेवी च द्वारापाला अभ्यासरिणो ऽपि देव्या अनुचराः निषिङ्गिन्नितिजयन्तस्याभिधानम् तेभ्यो यथा स्वमोदनैस्तत्र तत्र दानम्

pūrvavaduttaraiḥ āpgs_20.6 (pa.7khaṃ.,20-5) commentaries: āpgs-anā_20.6: pūrvavaduttarairmantraiḥ 'dvārāpospṛśe'tyādibhiḥ caturbhiḥ parmāni deyānipūrvavadekaikena dve dve ityarthaḥ atradvārāpo devaḥ dvārapālaḥ dvārāpīdevī ca dvārāpālā abhyāsariṇo 'pi devyā anucarāḥ niṣiṅginnitijayantasyābhidhānam tebhyo yathā svamodanaistatra tatra dānam


6

आप्ग्स्-तात्_20.6: पूर्व यथा ऽगृहपोपस्पृशऽइत्यादिभिर्दक्षिणेत्तरकुट्योर्मध्ये च स्वेभ्य एवौदनेभ्यो द्वे द्वे पर्णे प्रतिमन्त्रं दत्ते, एवंउत्तरैःऽद्वारापोपस्पृशऽ; इत्यादिभिस्चतुर्भिर्दद्यात् अथ प्रयोगः-परिषेचनान्ते कृते ऽगृहपोपस्पृशऽइति दक्षिणस्याम् ऽगृहप्युपस्पृशेऽत्युत्तरस्याम् ऽघोषिणःऽइति मद्ये ततश्च ऽश्वासिनःऽ इति दक्षिणस्याम् ऽविचिन्वन्तःऽइत्युत्तरस्याम् ऽप्रपुन्वन्तःऽइति मध्ये ततः ऽसमश्नन्तःऽइति दक्षिणस्याम् एतदन्तं द्वे द्वे पर्णे ततो दक्षिणस्यामेव ऽदेवसेनाःऽइति दश पर्णानि तथैव ऽया आक्याताःऽइति दश पर्णानि तस्यामेव ततः पुनरपि तत्रैव ऽद्वारापोपस्पृशऽइति द्वे पर्णे ऽद्वारापिऽइत्युत्तरस्याम् द्वे ऽअन्वासारिणःऽइति मध्ये द्वे ऽनिषङ्गिनऽइति दक्षिणस्यां द्वे इति अत्र यद्यपि केचन मन्त्रा अव्यक्तलिङ्गका बहुवचनलिङ्गकाश्च, तथापीशानमीढुषीजयन्ता एव देवताः प्रमाणं च ऽगृहपिऽऽद्वारापिऽ ऽनिषङ्गिनऽइति मन्त्रलिङ्गदर्शनम् ऽदश देवसेनाभ्यो दशोत्तराभ्य, इत्यत्र तु सूत्रकारवचनाद्देवस्येशानस्य सेना देवसेना एव देवताः ममकारास्पदीभूतस्य च पुत्रभृत्यादेः पूजापि पितृस्वाम्यादिपूजैव, पुत्रादिपूजायां सत्यां पित्रादेरहमेव पूजित इति मानसप्रत्यक्षोदयात् अत एव च जातेष्टेस्संवलिताधिकारत्वम् तस्मादिह देवस्यौदनाद्देवसेनाभ्यो दानं न विरुध्यते केचित्-मान्त्रवर्णिक्य एव देवताः तेन गृहपेति देवाय; ऽरुद्रः खलु वै वास्तोष्पतिःऽ(तैसं.3-4-10) इति श्रुतेः ऽगृहपीऽति देव्यै ऽघोषिणऽइति तु पञ्चभिर्देवस्यानुचर्भ्यः सर्षगमेभ्यः आश्वलायनीयेस्पष्टत्वात् ततो ऽदेवसेनाःऽइति द्वाभ्यां देवसोनाभ्यः ऽद्वारापेऽति देवस्य द्वारपालाय द्वारपीऽति देव्यै द्वारपालायै ऽअन्वासारिणऽइति देव्या वस्या एवानुचरेभ्यः ऽनिषङ्गिनऽइति जयन्ताय, तस्याप्यावाहितस्य बलिना भाव्यत्वादिति

āpgs-tāt_20.6: pūrva yathā 'gṛhapopaspṛśa'ityādibhirdakṣiṇettarakuṭyormadhye ca svebhya evaudanebhyo dve dve parṇe pratimantraṃ datte, evaṃuttaraiḥ'dvārāpopaspṛśa'; ityādibhiscaturbhirdadyāt atha prayogaḥ-pariṣecanānte kṛte 'gṛhapopaspṛśa'iti dakṣiṇasyām 'gṛhapyupaspṛśe'tyuttarasyām 'ghoṣiṇaḥ'iti madye tataśca 'śvāsinaḥ' iti dakṣiṇasyām 'vicinvantaḥ'ityuttarasyām 'prapunvantaḥ'iti madhye tataḥ 'samaśnantaḥ'iti dakṣiṇasyām etadantaṃ dve dve parṇe tato dakṣiṇasyāmeva 'devasenāḥ'iti daśa parṇāni tathaiva 'yā ākyātāḥ'iti daśa parṇāni tasyāmeva tataḥ punarapi tatraiva 'dvārāpopaspṛśa'iti dve parṇe 'dvārāpi'ityuttarasyām dve 'anvāsāriṇaḥ'iti madhye dve 'niṣaṅgin'iti dakṣiṇasyāṃ dve iti atra yadyapi kecana mantrā avyaktaliṅgakā bahuvacanaliṅgakāśca, tathāpīśānamīḍhuṣījayantā eva devatāḥ pramāṇaṃ ca 'gṛhapi''dvārāpi' 'niṣaṅgin'iti mantraliṅgadarśanam 'daśa devasenābhyo daśottarābhya, ityatra tu sūtrakāravacanāddevasyeśānasya senā devasenā eva devatāḥ mamakārāspadībhūtasya ca putrabhṛtyādeḥ pūjāpi pitṛsvāmyādipūjaiva, putrādipūjāyāṃ satyāṃ pitrāderahameva pūjita iti mānasapratyakṣodayāt ata eva ca jāteṣṭessaṃvalitādhikāratvam tasmādiha devasyaudanāddevasenābhyo dānaṃ na virudhyate kecit-māntravarṇikya eva devatāḥ tena gṛhapeti devāya; 'rudraḥ khalu vai vāstoṣpatiḥ'(taisaṃ.3-4-10) iti śruteḥ 'gṛhapī'ti devyai 'ghoṣiṇa'iti tu pañcabhirdevasyānucarbhyaḥ sarṣagamebhyaḥ āśvalāyanīyespaṣṭatvāt tato 'devasenāḥ'iti dvābhyāṃ devasonābhyaḥ 'dvārāpe'ti devasya dvārapālāya dvārapī'ti devyai dvārapālāyai 'anvāsāriṇa'iti devyā vasyā evānucarebhyaḥ 'niṣaṅgin'iti jayantāya, tasyāpyāvāhitasya balinā bhāvyatvāditi


6

7 वृक्षाग्रे पर्णपुटस्थौदनस्याऽसञ्जनम् ओदनपिण्डं संवृत्य पर्णपुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति आप्ग्स्_20.7 (प.7.खं.,20-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.7: अथ तस्यैवोदनात् पिण्डं उभाब्यां हस्ताब्यांसंवृत्यदृढं कृत्वा पर्णैस्स्यूतैः कृते पुटे ऽवधायतं शिक्ये कृत्वोत्तरेण यजुषा ऽनमो निषङ्गिण इषुधिमते, इत्यनेन वृक्षआसजतिअवसम्बयति

7 vṛkṣāgre parṇapuṭasthaudanasyā'sañjanam odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati āpgs_20.7 (pa.7.khaṃ.,20-7) commentaries: āpgs-anā_20.7: atha tasyaivodanāt piṇḍaṃ ubhābyāṃ hastābyāṃsaṃvṛtyadṛḍhaṃ kṛtvā parṇaissyūtaiḥ kṛte puṭe 'vadhāyataṃ śikye kṛtvottareṇa yajuṣā 'namo niṣaṅgiṇa iṣudhimate, ityanena vṛkṣaāsajatiavasambayati


7

आप्ग्स्-तात्_20.7: अथ होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादायपिण्डंसंवर्तयति सुदृढं करोति शेषाणां प्रतिपत्त्यपेक्षत्वात् केचित्-जयन्तस्योदनादिति ततस्तं पिण्डं पर्मपुटे ऽवधायोत्तरेण यजुषा ऽनमो निषङ्गिण इषुधिमतेऽइत्येतावतैव मन्त्रसमाम्नायगतेन वृक्षे कस्मिश्चिदासजति शिक्ये कृत्वावलम्बयति

āpgs-tāt_20.7: atha homabaliśeṣebhyaḥ tribhyaḥ odanebhya upādāyapiṇḍaṃsaṃvartayati sudṛḍhaṃ karoti śeṣāṇāṃ pratipattyapekṣatvāt kecit-jayantasyodanāditi tatastaṃ piṇḍaṃ parmapuṭe 'vadhāyottareṇa yajuṣā 'namo niṣaṅgiṇa iṣudhimate'ityetāvataiva mantrasamāmnāyagatena vṛkṣe kasmiścidāsajati śikye kṛtvāvalambayati


7

8 अत्र रुद्रजपः अत्र रुद्रान् जपेत् आप्ग्स्_20.8 (प.7.खं.,8) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.8: अत्र अस्मिन्काले रुद्रान् ऽनमस्ते रुद्र मन्यव"इत्यादीनेकादशानुवाकान् जपेत् एतैरेव देवमुपतिष्ठेतेत्यर्थः (तत्रोत्तमस्यानुवाकस्यादितो दशस्वृक्षु ऽतेषां सहस्रयोजनऽइत्यनु,ङ्गः अन्ततस्त्रयो मन्त्राः ऽनमोरुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवःऽऽनमो रुद्रेभ्यो ये ऽन्तरिक्षे येषां वातःऽऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यःऽइत्यादि सर्वत्रानुषङ्गः

8 atra rudrajapaḥ atra rudrān japet āpgs_20.8 (pa.7.khaṃ.,8) commentaries: āpgs-anā_20.8: atra asminkāle rudrān 'namaste rudra manyava"ityādīnekādaśānuvākān japet etaireva devamupatiṣṭhetetyarthaḥ (tatrottamasyānuvākasyādito daśasvṛkṣu 'teṣāṃ sahasrayojana'ityanu,ṅgaḥ antatastrayo mantrāḥ 'namorudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavaḥ''namo rudrebhyo ye 'ntarikṣe yeṣāṃ vātaḥ''namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyaḥ'ityādi sarvatrānuṣaṅgaḥ


8

) आप्ग्स्-तात्_20.8: अत्रास्मिन्काले अन्ये तु-अत्र वृक्षसमीप इति रुद्रन् ऽनमस्ते रुद्र मन्यवेऽ(तैसं.4-5 1.) इत्येकादशानुवाकान् जपेत् चातुस्स्वर्येण तत्रोत्तमानुवाके ऽअस्मिन् महतिऽइत्यादिष्वष्टसु ऽतेषां सहस्रयोजनेऽ(तैसं.8-5-11)इत्याद्यनुषह्गः तथा ऽनमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यःऽऽनमो रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात इषवस्तेभ्यःऽनमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणाऽइत्याद्यनुषङ्गः 8 प्रथमोत्तमौ वा आप्ग्स्_20.9 (प.7.खं.,20-9) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.9: अथ वा प्रथमोत्तमाभ्यामेवानुवाकाभ्यामुपस्थानं कर्तव्यम्

) āpgs-tāt_20.8: atrāsminkāle anye tu-atra vṛkṣasamīpa iti rudran 'namaste rudra manyave'(taisaṃ.4-5 1.) ityekādaśānuvākān japet cātussvaryeṇa tatrottamānuvāke 'asmin mahati'ityādiṣvaṣṭasu 'teṣāṃ sahasrayojane'(taisaṃ.8-5-11)ityādyanuṣahgaḥ tathā 'namo rudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavastebhyaḥ''namo rudrebhyo ye 'ntarikṣe yeṣāṃ vāta iṣavastebhyaḥ'namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyo daśa prācīrdaśa dakṣiṇā'ityādyanuṣaṅgaḥ 8 prathamottamau vā āpgs_20.9 (pa.7.khaṃ.,20-9) commentaries: āpgs-anā_20.9: atha vā prathamottamābhyāmevānuvākābhyāmupasthānaṃ kartavyam


9

आप्ग्स्-तात्_20.9: अथ वा रुद्राणांप्रथमोत्तमावेवानुवाकौ जपेत्

āpgs-tāt_20.9: atha vā rudrāṇāṃprathamottamāvevānuvākau japet


9

अथ प्रधानहोमकाल एव यत्कर्तव्यं तदाह 9 अग्नेरभितो गवां स्थापनम् अभित एतमग्निं गास्स्थापयति यथैना धूमः प्राप्नुयात् आप्ग्स्_20.10 (प.7.खं.,20-10) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.10: एतंहूयमानमग्निमभितो गाःआत्मीयाः यथास्थापयतिस्थापने एना गाः धूमः प्राप्नुयात् अनुवातं समीप इत्यर्थः प्रधानहोमकाले च... तदर्थमेवैतमित्युक्तं एतं हूयमानमग्निमिति

atha pradhānahomakāla eva yatkartavyaṃ tadāha 9 agnerabhito gavāṃ sthāpanam abhita etamagniṃ gāssthāpayati yathainā dhūmaḥ prāpnuyāt āpgs_20.10 (pa.7.khaṃ.,20-10) commentaries: āpgs-anā_20.10: etaṃhūyamānamagnimabhito gāḥātmīyāḥ yathāsthāpayatisthāpane enā gāḥ dhūmaḥ prāpnuyāt anuvātaṃ samīpa ityarthaḥ pradhānahomakāle ca... tadarthamevaitamityuktaṃ etaṃ hūyamānamagnimiti


10

आप्ग्स्-तात्_20.10: एतं होमार्तमाग्निमभितःहोमाग्नेस्समीप इत्यर्थः गाःस्वकीयास्स्थापयत्यनुवातं,यथैना गा होमधूमःप्राप्नुयात् केचित्-गोशान्त्यर्थमपीदं कर्मेत्यत्रैतत् ज्ञापकमिति

āpgs-tāt_20.10: etaṃ homārtamāgnimabhitaḥhomāgnessamīpa ityarthaḥ gāḥsvakīyāssthāpayatyanuvātaṃ,yathainā gā homadhūmaḥprāpnuyāt kecit-gośāntyarthamapīdaṃ karmetyatraitat jñāpakamiti


10

10 गवामवोक्षणम् ता गन्धैर्दर्भग्रुमुष्टिनावोक्षति वृषाणमेवाग्ने आप्ग्स्_20.11 (प.7.खं.,20-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.11: ता गन्धैस्सुरभिचन्दनादिभिरवोक्षति दर्भग्रुमुष्टिना, न हस्तेन गुरुमुष्टिः ग्रुमुष्टिः छान्दस उकारलेपः सन्नखेन दर्भमुष्टिनेत्यर्थः तत्र होम कालवचनं प्रोक्षणं तस्मिन् काले

10 gavāmavokṣaṇam tā gandhairdarbhagrumuṣṭināvokṣati vṛṣāṇamevāgne āpgs_20.11 (pa.7.khaṃ.,20-11) commentaries: āpgs-anā_20.11: tā gandhaissurabhicandanādibhiravokṣati darbhagrumuṣṭinā, na hastena gurumuṣṭiḥ grumuṣṭiḥ chāndasa ukāralepaḥ sannakhena darbhamuṣṭinetyarthaḥ tatra homa kālavacanaṃ prokṣaṇaṃ tasmin kāle


11

वृषाणं वृषभं तमेवाग्रे प्रोक्षति यद्यप्यसावुपक्रमे न तिष्ठेत् तथापि अह्गत्वात् तस्यैवावोक्षणम् अग्रे तदर्थ एव कालः 11 आप्ग्स्-तात्_20.11: ता गन्धैश्चान्दनादिना युक्तैः दर्भग्रुमुष्टिना दर्भाणां गुरुमुष्टिर्दर्भग्रुमुष्टिः उकारलोपश्छान्दसः सन्नखो दृढमुष्टिरित्यर्थः तेनावोक्षति तत्र विशेषः-वृषाणं, वृषभमे वाग्रे ऽवोक्षति एवकारात्तस्मिन्नवोक्ष्यमाणे ऽन्या काचिद्रौर्नावोक्ष्यते ततो गोचराय गाः प्रस्थापयति

vṛṣāṇaṃ vṛṣabhaṃ tamevāgre prokṣati yadyapyasāvupakrame na tiṣṭhet tathāpi ahgatvāt tasyaivāvokṣaṇam agre tadartha eva kālaḥ 11 āpgs-tāt_20.11: tā gandhaiścāndanādinā yuktaiḥ darbhagrumuṣṭinā darbhāṇāṃ gurumuṣṭirdarbhagrumuṣṭiḥ ukāralopaśchāndasaḥ sannakho dṛḍhamuṣṭirityarthaḥ tenāvokṣati tatra viśeṣaḥ-vṛṣāṇaṃ, vṛṣabhame vāgre 'vokṣati evakārāttasminnavokṣyamāṇe 'nyā kācidraurnāvokṣyate tato gocarāya gāḥ prasthāpayati


12

11 गवां मार्गे क्षेत्रपतियागः गवां मर्गे ऽनग्नौ क्षेत्रस्य पतिं यजते आप्ग्स्_20.12 (प.7.खं.,20-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.12: अथ क्षैत्रपत्यस्थालीपाकस्य विधिः-मर्गेमार्गे छान्दसो हस्वः अनग्नौभूमावेव गवामपगच्छन्तीनां कस्याश्चित् गोः पथि यागविधानात् अग्नौ प्राप्ते प्रतिषेधः

11 gavāṃ mārge kṣetrapatiyāgaḥ gavāṃ marge 'nagnau kṣetrasya patiṃ yajate āpgs_20.12 (pa.7.khaṃ.,20-12) commentaries: āpgs-anā_20.12: atha kṣaitrapatyasthālīpākasya vidhiḥ-margemārge chāndaso hasvaḥ anagnaubhūmāveva gavāmapagacchantīnāṃ kasyāścit goḥ pathi yāgavidhānāt agnau prāpte pratiṣedhaḥ


12

आप्ग्स्-तात्_20.12: ततः प्रसिथितानांगवां मर्गे मार्गे छान्दसो हस्वः अनग्नौ भूमावेवक्षेत्रस्य पतिं यजते

āpgs-tāt_20.12: tataḥ prasithitānāṃgavāṃ marge mārge chāndaso hasvaḥ anagnau bhūmāvevakṣetrasya patiṃ yajate


13

चोम्मेन्तरिएस्: आप्ग्स्-अना_20.12: तस्य क्षेत्रपतेरावाहनं ईशानवत् कर्तव्यम् ऽआ त्वा वहन्त्विऽत्यनयर्चेत्यर्थः शर्वशब्दो ऽपि तस्य पर्यायनाम द्रष्टव्यम्

commentaries: āpgs-anā_20.12: tasya kṣetrapaterāvāhanaṃ īśānavat kartavyam 'ā tvā vahantvi'tyanayarcetyarthaḥ śarvaśabdo 'pi tasya paryāyanāma draṣṭavyam


13

ईशानवदावाहनम् आप्ग्स्_20.13 आप्ग्स्-तात्_20.13: क्षेत्रस्य पते रावाहनमीशानवत्, ऽआ त्वा वहन्तुऽइत्येतयेत्यर्थः

īśānavadāvāhanam āpgs_20.13 āpgs-tāt_20.13: kṣetrasya pate rāvāhanamīśānavat, 'ā tvā vahantu'ityetayetyarthaḥ


14

12 तस्मै पर्णदानम् चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति आप्ग्स्_20.14 (प.7.खं.,20-14) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.14: आवाह्यार्घ्य दत्वा गन्धादिभिरभ्यर्च्य स्थालीपाकमासाद्याभिघार्य चत्वारि सप्त वा पर्णानि देवस्य समीपे कृत्वा तेषुनमोदेशंनामादिश्यैदनपिण्डं दधाति स्थालीपाकात् तत्र पूर्वेषु पर्मदानमन्त्रेषु स्वाहाकारान्तत्वनियमात् इहापि क्षेत्रस्य पतये स्वाहेति पर्णदानम् एष एवास्य यागः

12 tasmai parṇadānam caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti āpgs_20.14 (pa.7.khaṃ.,20-14) commentaries: āpgs-anā_20.14: āvāhyārghya datvā gandhādibhirabhyarcya sthālīpākamāsādyābhighārya catvāri sapta vā parṇāni devasya samīpe kṛtvā teṣunamodeśaṃnāmādiśyaidanapiṇḍaṃ dadhāti sthālīpākāt tatra pūrveṣu parmadānamantreṣu svāhākārāntatvaniyamāt ihāpi kṣetrasya pataye svāheti parṇadānam eṣa evāsya yāgaḥ


14

आप्ग्स्-तात्_20.14: चत्वारि सप्त वा पर्मानि भूमौ स्थापयित्वा तेषु क्षैत्रपत्यात् स्थालीपाकादोदनमादायनामदेशंनाम चतुर्थ्यन्तमादिश्य ऽक्षेत्रस्य पतये त्वां ददामि, इतिदधाति ऽडुधाञू धारणपोषणयोःऽइति स्मरणात् केचित्-क्षेत्रस्य पतये स्वाहेति ददाति पूर्वत्र बलिमन्त्रेषु स्वाहाकारस्य दृष्टत्वादिति अत्र तु न सहौदनानि पर्मानि देयानि;पर्णेष्विति सप्तमीनिर्देशात्

āpgs-tāt_20.14: catvāri sapta vā parmāni bhūmau sthāpayitvā teṣu kṣaitrapatyāt sthālīpākādodanamādāyanāmadeśaṃnāma caturthyantamādiśya 'kṣetrasya pataye tvāṃ dadāmi, itidadhāti 'ḍudhāñū dhāraṇapoṣaṇayoḥ'iti smaraṇāt kecit-kṣetrasya pataye svāheti dadāti pūrvatra balimantreṣu svāhākārasya dṛṣṭatvāditi atra tu na sahaudanāni parmāni deyāni;parṇeṣviti saptamīnirdeśāt

Section (cont. 22)

15

13 तस्य शीघ्रकरणविधिः क्षिप्रं यजेत पाको देवः आप्ग्स्_20.15 (प.7.खं.,20-15) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.15: पाको बालस्तद्वत् गमनशीलो ऽयं देवः तस्माच्छीघ्रं यजेतेत्यर्थः

13 tasya śīghrakaraṇavidhiḥ kṣipraṃ yajeta pāko devaḥ āpgs_20.15 (pa.7.khaṃ.,20-15) commentaries: āpgs-anā_20.15: pāko bālastadvat gamanaśīlo 'yaṃ devaḥ tasmācchīghraṃ yajetetyarthaḥ


15

आप्ग्स्-तात्_20.15: अयं चौदनदानात्मको यागः क्षिप्रमावाहनानन्तरमुदकमेव प्रदाय कर्तव्यः गन्धादिप्रदानं तु यागोत्तरकालमेव;यतः पाकं अल्पो देवः एतदुक्तं भवति-अनित्यदर्सनत्वात् क्षेत्रस्य पतेः शग्रिमेव बलिर्देय इति केचित्-पाकः बालः बालवद्गमनशीलः तथा गन्धादि दत्वैवात्रापि बलिरिति

āpgs-tāt_20.15: ayaṃ caudanadānātmako yāgaḥ kṣipramāvāhanānantaramudakameva pradāya kartavyaḥ gandhādipradānaṃ tu yāgottarakālameva;yataḥ pākaṃ alpo devaḥ etaduktaṃ bhavati-anityadarsanatvāt kṣetrasya pateḥ śagrimeva balirdeya iti kecit-pākaḥ bālaḥ bālavadgamanaśīlaḥ tathā gandhādi datvaivātrāpi baliriti


16

14 तस्योपस्थानम् उत्तराभ्यामुपतिष्ठते आप्ग्स्_20.16 (प.7.खं.,20-16) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.16: उत्तराभ्यांऽक्षेत्रस्य पतिना वयऽमिति द्वाभ्याम्

14 tasyopasthānam uttarābhyāmupatiṣṭhate āpgs_20.16 (pa.7.khaṃ.,20-16) commentaries: āpgs-anā_20.16: uttarābhyāṃ'kṣetrasya patinā vaya'miti dvābhyām


16

आप्ग्स्-तात्_20.16: ऽक्षेत्रस्य पतिना वयमऽइति द्वाभ्यामृग्भ्यामुपतिष्ठते

āpgs-tāt_20.16: 'kṣetrasya patinā vayam'iti dvābhyāmṛgbhyāmupatiṣṭhate


17

ऽओदनपिण्डं संवृत्यऽइत्यादिना होमबलिशेषाणां प्रतिपत्तिरुक्ता इदानीमीशानस्थालीपाकशेषस्य प्रतिपत्तिमाह 15 स्थालीपाकशेषात् ब्राह्मणानां भोजनम् स्थालीपाकं ब्राह्मणान् भोजयेत् आप्ग्स्_20.17 (प.7.खं.20-17) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.17: ऽतेन सर्पिष्मताऽइति पार्वणातिदेशेनैव सिद्धे बहुत्वविधानार्थ वचनम्

'odanapiṇḍaṃ saṃvṛtya'ityādinā homabaliśeṣāṇāṃ pratipattiruktā idānīmīśānasthālīpākaśeṣasya pratipattimāha 15 sthālīpākaśeṣāt brāhmaṇānāṃ bhojanam sthālīpākaṃ brāhmaṇān bhojayet āpgs_20.17 (pa.7.khaṃ.20-17) commentaries: āpgs-anā_20.17: 'tena sarpiṣmatā'iti pārvaṇātideśenaiva siddhe bahutvavidhānārtha vacanam


17

आप्ग्स्-तात्_20.17: अयं च प्राकृतप्रतिपत्त्यनुवादो ब्राह्मणबहुत्वं विधातुम्, सर्पिष्मत्त्वं निवर्तयितुं वा

āpgs-tāt_20.17: ayaṃ ca prākṛtapratipattyanuvādo brāhmaṇabahutvaṃ vidhātum, sarpiṣmattvaṃ nivartayituṃ vā


18

क्षैत्रपत्यस्य प्रतिपत्तिमाह 16 क्षैत्रपत्यचरोः बन्धुभिस्सह भोजनम् क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति आप्ग्स्_20.18 (प.7.खं.,20-18) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.18: सनाभयस्समानयोनयः पुत्राः भ्रातरश्च सनाभय इत्येव सिद्धेये भवन्ति इति वचनं दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम्

kṣaitrapatyasya pratipattimāha 16 kṣaitrapatyacaroḥ bandhubhissaha bhojanam kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti āpgs_20.18 (pa.7.khaṃ.,20-18) commentaries: āpgs-anā_20.18: sanābhayassamānayonayaḥ putrāḥ bhrātaraśca sanābhaya ityeva siddheye bhavanti iti vacanaṃ dauhitrādīnāmapi sambandhināṃ pratigrahārtham


18

आप्ग्स्-तात्_20.18: सनाभयस्सापिण्डाः

āpgs-tāt_20.18: sanābhayassāpiṇḍāḥ


19

यथा वैषां कुलधर्मस्स्यात् आप्ग्स्_20.19 (प.7.खं.,20-19) चोम्मेन्तरिएस्: आप्ग्स्-अना_20.19: एषां यजमानकुलजातानां यथाकुलध्र्बःतथा वा प्राशनम्-यदि पुत्राणामेव, तथा प्राशनम् अथ सर्वेषां स्वकुलजातानां, तथा प्राशनम् अथ स्वस्रीयादीनामपि, तथा प्राशनमिति

yathā vaiṣāṃ kuladharmassyāt āpgs_20.19 (pa.7.khaṃ.,20-19) commentaries: āpgs-anā_20.19: eṣāṃ yajamānakulajātānāṃ yathākuladhrbaḥtathā vā prāśanam-yadi putrāṇāmeva, tathā prāśanam atha sarveṣāṃ svakulajātānāṃ, tathā prāśanam atha svasrīyādīnāmapi, tathā prāśanamiti


19

इत्यनाकुलायां हरदत्तमिश्रविरचितायां गृह्यवृत्तौ विंशः खण्डः सप्तमश्च पटलः आप्ग्स्-तात्_20.19: यद्येषामनुष्ठातॄणां असपिण्डकर्तृकप्राशनमपि कुलधर्मस्तर्हि तथा वा स्यात्

ityanākulāyāṃ haradattamiśraviracitāyāṃ gṛhyavṛttau viṃśaḥ khaṇḍaḥ saptamaśca paṭalaḥ āpgs-tāt_20.19: yadyeṣāmanuṣṭhātṝṇāṃ asapiṇḍakartṛkaprāśanamapi kuladharmastarhi tathā vā syāt


1

सप्तमे पटले ऽप्येवं कृतं भाष्यानुसारतः श्रीमत्सुदर्शनार्येण गृह्यतात्पर्यदर्शनम्

saptame paṭale 'pyevaṃ kṛtaṃ bhāṣyānusārataḥ śrīmatsudarśanāryeṇa gṛhyatātparyadarśanam


3

अत्रानुक्तं दुरुक्तं वा यत्प्रमादादिहेतुकम् वेदमार्गानुवर्तित्वा त्तत्क्षन्तव्यं मनीषिभिः

atrānuktaṃ duruktaṃ vā yatpramādādihetukam vedamārgānuvartitvā ttatkṣantavyaṃ manīṣibhiḥ


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने विंशः खण्डः समाप्तस्सप्तमश्च पटलः ==================================================================================== अथाष्टमः पटलः एकविंशः खण्डः पुनरपि पाकयज्ञान्तरं पुरुषत्रयसम्प्रदानकं तादृशानामष्टकादीनां प्रकृतिभूतं मासिश्राद्धसंज्ञिकं पित्र्यं कर्मोपदिश्यते 22 मासिश्राद्धप्रकरणम् - 1 मासि श्राद्धकालः मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः आप्ग्स्_21.1 (प.8.खं.,21-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.1: मासिश्राद्धंनाम पित्र्यं कर्म मासि मासि कर्तव्यम् तत्र ये ऽपरपक्षे कालविशेषाः सामयाचारिकेषूपष्टाः"प्रथमे ऽहनिक्रियमाणे (आपध.2-16-8) इत्यादयः अपरपक्षस्यापराह्णः श्रेया"(आपश्रौ.2-16-4)निति च ते सर्वे यथोपदेशंयथा तत्रोपदिष्टाः तथैव मासि मासि प्रत्येतव्याः यद्यपि ते विशेषाः तस्मादेव वचनात् सिद्धाः तथापि तस्य कर्मणः प्रयोगविधानमित उत्तरं क्रियत इति ज्ञापनार्थमिदं वचनम् अन्यथा ज्ञापयेत शुचीन् मन्त्रवतः इत्यादि कस्मिन् कर्मणि विधीयत इति एवं तर्हि मासिश्राद्धस्यैतदेवाधिकारार्थमस्तु तस्मादिदमस्य प्रयोजनम्-मासपरिमाणमनपेक्ष्यापरपक्षवशएन पर्वकाला यथेपदेशं यथा स्युरिति तेन पूर्वस्मिन् पक्षे पञ्चदश्यामकृतश्राद्धस्यापरस्मिन् पक्षे प्रथमादिषु सर्वासु तिथिषु क्रियाभवति तत्तत्का-मस्य

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane viṃśaḥ khaṇḍaḥ samāptassaptamaśca paṭalaḥ ==================================================================================== athāṣṭamaḥ paṭalaḥ ekaviṃśaḥ khaṇḍaḥ punarapi pākayajñāntaraṃ puruṣatrayasampradānakaṃ tādṛśānāmaṣṭakādīnāṃ prakṛtibhūtaṃ māsiśrāddhasaṃjñikaṃ pitryaṃ karmopadiśyate 22 māsiśrāddhaprakaraṇam - 1 māsi śrāddhakālaḥ māsi śrāddhasyāparapakṣe yathopadeśaṃ kālāḥ āpgs_21.1 (pa.8.khaṃ.,21-1) commentaries: āpgs-anā_21.1: māsiśrāddhaṃnāma pitryaṃ karma māsi māsi kartavyam tatra ye 'parapakṣe kālaviśeṣāḥ sāmayācārikeṣūpaṣṭāḥ"prathame 'hanikriyamāṇe (āpadha.2-16-8) ityādayaḥ aparapakṣasyāparāhṇaḥ śreyā"(āpaśrau.2-16-4)niti ca te sarve yathopadeśaṃyathā tatropadiṣṭāḥ tathaiva māsi māsi pratyetavyāḥ yadyapi te viśeṣāḥ tasmādeva vacanāt siddhāḥ tathāpi tasya karmaṇaḥ prayogavidhānamita uttaraṃ kriyata iti jñāpanārthamidaṃ vacanam anyathā jñāpayeta śucīn mantravataḥ ityādi kasmin karmaṇi vidhīyata iti evaṃ tarhi māsiśrāddhasyaitadevādhikārārthamastu tasmādidamasya prayojanam-māsaparimāṇamanapekṣyāparapakṣavaśaena parvakālā yathepadeśaṃ yathā syuriti tena pūrvasmin pakṣe pañcadaśyāmakṛtaśrāddhasyāparasmin pakṣe prathamādiṣu sarvāsu tithiṣu kriyābhavati tattatkā-masya


1

आप्ग्स्-तात्_21.1: मासिश्राद्धस्यमासे मासे श्रद्धया कर्तव्यस्य अपरपक्षेकृष्णपक्षे यथोपदेशंऽसर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति कर्तुस्तु कालाभिनियमात् फलविशेषःऽ(आपध.2-16-7) इत्यादिधर्णशास्त्रसिद्धोपदेशानुसारेण काला भवन्ति ऽअपरपक्षे यथोपदेशं कालाः, इति पुनर्वचनस्य प्रयेजनं ऽअपरपक्षे पित्र्याणिऽ(आपगृ.1-7) इत्यत्रोक्तम् केचित्-यस्यां तिथौ प्रथममुपक्रमस्तस्यामेवोत्तरे प्रयोग इति नियमो नास्ति;कुन्ति पूर्णे ऽपि मासे अपरपक्ष एव यथोपदेशं तिथ्यन्तरे ऽपि नित्यः काम्यश्च प्रयोग इति

āpgs-tāt_21.1: māsiśrāddhasyamāse māse śraddhayā kartavyasya aparapakṣekṛṣṇapakṣe yathopadeśaṃ'sarveṣvevāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti kartustu kālābhiniyamāt phalaviśeṣaḥ'(āpadha.2-16-7) ityādidharṇaśāstrasiddhopadeśānusāreṇa kālā bhavanti 'aparapakṣe yathopadeśaṃ kālāḥ, iti punarvacanasya prayejanaṃ 'aparapakṣe pitryāṇi'(āpagṛ.1-7) ityatroktam kecit-yasyāṃ tithau prathamamupakramastasyāmevottare prayoga iti niyamo nāsti;kunti pūrṇe 'pi māse aparapakṣa eva yathopadeśaṃ tithyantare 'pi nityaḥ kāmyaśca prayoga iti


2

2 भोजनीया ब्राह्मणाः शुचीन् मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत् आप्ग्स्_21.2 (प.8.,खं.21-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.2: शुचीन्सुद्धान्मन्त्रवतःश्रुताध्ययनसम्पन्नान् ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेतऽ(आपध.2-15-11) इत्येव सिद्धे पुनर्वचनमादरार्थम् ब्राह्मणान्योनिसम्बन्धाःश्वशुरमातुलादयः,गोत्रसम्बन्धाःसमानगोत्राःमन्त्रसम्बन्धाःऽऋत्विगाचार्यान्तोवासिनश्च गुणहान्यां तु परेषामिति वक्ष्यति अयुग्मानिति युग्मप्रतिषेधार्थम् त्र्यवरानिति एकप्रतिषेधार्थम् "नत्वेवैकं सर्वेषाम् काममनाद्ये"(आश्वगृ-7-3) इतियाश्वलायनः अनाद्ये आमश्राद्धे दुर्भिक्षे वा कुले एकमपि भोजये- दित्यर्थः यद्यपि स्त्रीभ्यो ऽपि पिण्डदानं दृश्यते तथापि ब्राह्मणभोजनमिह तभ्यो न भवति होमाभिमर्शनयोरदर्शनात् विप्रतिषे- धाच्च युग्मवचनस्य तस्मात् पितृपितामहप्रपितामहेभ्य एव त्रिभ्यो ब्राह्मणभोजनम् एकैकस्मै त्रयः पञ्च वा, कल्पान्तरे धर्मशास्त्रेषु च दर्शनात् विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनं युग्मसंख्यया "मातामहानामप्येवं तन्त्रं वा वैश्वदैविक"(यास्मृ.1-228 मिति यावल्क्यः

2 bhojanīyā brāhmaṇāḥ śucīn mantravato yonigotramantrāsambandhānayugmāṃstryavarānanarthāvekṣo bhojayet āpgs_21.2 (pa.8.,khaṃ.21-2) commentaries: āpgs-anā_21.2: śucīnsuddhānmantravataḥśrutādhyayanasampannān 'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpadha.2-15-11) ityeva siddhe punarvacanamādarārtham brāhmaṇānyonisambandhāḥśvaśuramātulādayaḥ,gotrasambandhāḥsamānagotrāḥmantrasambandhāḥ'ṛtvigācāryāntovāsinaśca guṇahānyāṃ tu pareṣāmiti vakṣyati ayugmāniti yugmapratiṣedhārtham tryavarāniti ekapratiṣedhārtham "natvevaikaṃ sarveṣām kāmamanādye"(āśvagṛ-7-3) itiyāśvalāyanaḥ anādye āmaśrāddhe durbhikṣe vā kule ekamapi bhojaye- dityarthaḥ yadyapi strībhyo 'pi piṇḍadānaṃ dṛśyate tathāpi brāhmaṇabhojanamiha tabhyo na bhavati homābhimarśanayoradarśanāt vipratiṣe- dhācca yugmavacanasya tasmāt pitṛpitāmahaprapitāmahebhya eva tribhyo brāhmaṇabhojanam ekaikasmai trayaḥ pañca vā, kalpāntare dharmaśāstreṣu ca darśanāt viśvebhyo devebhyo brāhmaṇabhojanaṃ yugmasaṃkhyayā "mātāmahānāmapyevaṃ tantraṃ vā vaiśvadaivika"(yāsmṛ.1-228 miti yāvalkyaḥ


2

आप्ग्स्-तात्_21.2: शुचित्वादिगुणयुक्तान् ब्राह्मणान्, अनर्तावेक्षः प्रत्युपकारादिदृष्टप्रयोजनानवेक्षो, भोजयेदिति वाक्यार्थः पदार्थस्तु शुचयो वाङ्मनः कायशुद्धाः न च वाच्यं धर्मशास्त्रे ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेतऽ(आपध.2-15-11) इति सर्वार्थमुक्तत्वादिह पुनश्शुचित्ववचनमनर्थकमिति;यतो ऽल्पाविद्यानपि शुचीनेव भोजयेत्, तदभावे वरं क्रियालोपो, न त्वशुचीनित्येवं शुचीत्वादरार्तम् मन्त्रवतो मन्त्रब्राह्मणवतःयोनिगोत्रमन्त्रासम्बन्धानित्यत्रऽद्वन्द्वात्परं श्रूयमाणः प्रत्येकमभिसम्बन्ध्यतेऽइति न्यायेन, योन्या असम्बन्धाः, गोत्रेणासम्बंधाः याज्ययाजकाध्येत्रध्यापयितारः यत्तु धर्मशास्त्रे ऽमन्त्रान्तेवास्यसम्बन्धानऽ(आपध.2-17-4) इति मन्त्रसम्बन्धव्यातिरेकेणान्तेवास्यसम्बन्धानित्युक्तं तदङ्गाध्येतृश्रोतृलक्षणमन्त्रसम्बन्धनिषेधाभिप्रायम् ननु-सामयाचारिकेष्वेव ब्रह्मणानां मन्त्रवत्त्वं योनिगोत्रमन्त्रासम्बन्धत्वं व सिद्धम्;तदिहं किमर्थ पुनरुक्तम् ?उच्यते-नित्ये मासिश्राद्धे गृह्योक्तगुणानपि भोजयेत् नावश्यं धर्मोक्तान् ब्रह्मविदोन्तेवास्यसम्बन्धानित्येवमर्थम् अयुग्माविषमसङ्ख्याकाः त्र्यवराःत्रित्वमवरं सङ्ख्या येषां ते त्र्यवराः एतच्च पितृपितामहप्रपितामहविषयम् ततश्च पित्रादीनां त्रयाणां प्रत्यकं त्रीन् पञ्च वा न पुनस्सप्तादीन्, द्वो दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा भोजयेत्सुसमृद्धो ऽपि न प्रसज्येत विस्तरे (मस्मृ.3-135) इति मनुवचनात् नन्वस्मिन् मनुवचने ऽपितृकार्ये त्रीनऽइत्युक्त्वा ऽन प्रसज्येत विस्तरेऽइत्युक्तं, तत्किमिति ऽप्च वाऽइत्युक्तम्?उच्यते-अयुग्मांस्त्र्यवरानिति सूत्रकारवचनात् एवं तर्हि ऽएकैकमुभयत्र वाऽइति विरुद्धः न;तस्यानु कल्पत्वात् अत्र यद्यपि मात्रादिभ्यः पृथगेव पिण्डदानदर्शनं, तथापि तासां पृथग्ब्राह्मणभोजनं न भवति, हेमाभिमर्सनयोः पृथक्त्वादर्शनात्, पितृमात्रर्थब्राह्मणसङ्ख्यासङ्कलने सत्ययुग्मत्वविरोधात्, आचाराबावाच्च अपि च अष्टकासु च वृद्धौ च गयायां च मृते ऽहनि मातुश्श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह इति मनुवचनादष्टकादिभ्यो ऽन्यत्र मासिश्राद्धादौ पृथक्त्वाभावस्स्पष्ट एवावगम्यते इह च सूत्रकारभाष्यकाराब्यामनुक्तमपि विश्वदेवार्थ युग्मानां भोजनं कर्तव्यम् ऽद्वौ दैवेऽइति मनुयाज्ञवक्ल्याभ्यामुक्तत्वात्, पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा विप्रलुम्पन्ति सहसा श्राद्धमारक्षवर्जितम् तत्पालनाय विहिता विश्वेदेवास्स्वयम्भुवा इत्यादि झागलेयवचनात्, अविगीतशिष्टाचाराच्च यदा त्वेक एव ब्राह्मणो लभ्यते, तदा तं पित्राद्यर्थमेव भोजयेत्, प्रधानत्वात् अङ्गभूतस्य तु वैश्वदेवस्य यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च देवतायतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् प्रास्येदग्नौ तदन्नं तु दद्याद्द्वा ब्रह्मचारिणे (व.11-30,31) इति वसिष्ठोक्तविधिनानुष्ठानम् ननु च मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् (यास्मृ.1-2280), तथा मातामहनामप्येवं श्राद्धं कुर्याद्विचक्षणः मन्त्रोहेन यथान्यायं शेषं मन्त्रविवर्जितम् (विस्मृ.750) तथैव पृथङ्मातामहानां च वैश्वदेवसमन्वितम् कुर्वीत भक्तिसम्पन्नं तन्त्रं वा वैश्वदैविकम् (विपु.3-15-16) इति याज्ञवल्क्यविष्णुस्मृत्योः विष्णुपुराणे च विधिदर्शनात् मातामहश्राद्धमपि नित्यमेवावगम्यते तत्किमिति सूत्रकारभाष्यकारौ न ब्रूतः? उच्यते-नैव तत्रापि स्मृत्यन्तरेषु पित्र्यवत्सर्वस्यैव जीवतो द्विजस्यावश्यं मातामहश्राद्धमपि नियमेन कर्तव्यमिति विधित्सितम् कृते अभ्युदयः, #करणे न प्रत्यवाय इति कस्य तर्हि नियमेन कर्तव्यमिति विधिरिति चेत्;यः पुत्रिकाकृताया आसुरादिविवाहो- ढाया वा पुत्रो मातामहेन सह मातुस्सापिण्ड्यं करोति, तस्य मातामहश्राद्धं नियतमेव, अकरमे च प्रत्यवायः मासिश्राद्धे तु मातुः पृथक् श्राद्धाभावान्मातामहश्राद्धांशभागित्वोपपत्तेः अथ वा यो दौहित्रो ऽपुत्रस्य मातामहस्याखिलार्तहारी तस्यैतच्छ्राद्धं नियतम् यथाह लौगाक्षिः श्राद्धं मातामहानां च अवश्यं धनहारिणा दौहित्रेण विधिज्ञेन कर्तव्यं विधिवत्सदा इति इममेवार्थ बारुचिरप्याह- ऽयस्मिन् पक्षे अपुत्रो मातामहः, पुत्रिकासुतश्चाखिलद्रव्यहारी, तस्मिन् पक्षे तस्य पिण्डदाननियमःऽइत्यादिना ग्रन्थेन मातामहश्राद्धप्रयोगश्च स्मृत्यन्तरेभ्यो न्यायतस्च प्रत्येतव्यः तस्मात् सर्वस्य धौहित्रस्य पित्र्यवत् कर्तव्यमेवेति नियमाभावत्सूत्रकारभाष्यकारौ न ब्रूतः

āpgs-tāt_21.2: śucitvādiguṇayuktān brāhmaṇān, anartāvekṣaḥ pratyupakārādidṛṣṭaprayojanānavekṣo, bhojayediti vākyārthaḥ padārthastu śucayo vāṅmanaḥ kāyaśuddhāḥ na ca vācyaṃ dharmaśāstre 'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpadha.2-15-11) iti sarvārthamuktatvādiha punaśśucitvavacanamanarthakamiti;yato 'lpāvidyānapi śucīneva bhojayet, tadabhāve varaṃ kriyālopo, na tvaśucīnityevaṃ śucītvādarārtam mantravato mantrabrāhmaṇavataḥyonigotramantrāsambandhānityatra'dvandvātparaṃ śrūyamāṇaḥ pratyekamabhisambandhyate'iti nyāyena, yonyā asambandhāḥ, gotreṇāsambaṃdhāḥ yājyayājakādhyetradhyāpayitāraḥ yattu dharmaśāstre 'mantrāntevāsyasambandhān'(āpadha.2-17-4) iti mantrasambandhavyātirekeṇāntevāsyasambandhānityuktaṃ tadaṅgādhyetṛśrotṛlakṣaṇamantrasambandhaniṣedhābhiprāyam nanu-sāmayācārikeṣveva brahmaṇānāṃ mantravattvaṃ yonigotramantrāsambandhatvaṃ va siddham;tadihaṃ kimartha punaruktam ?ucyate-nitye māsiśrāddhe gṛhyoktaguṇānapi bhojayet nāvaśyaṃ dharmoktān brahmavidontevāsyasambandhānityevamartham ayugmāviṣamasaṅkhyākāḥ tryavarāḥtritvamavaraṃ saṅkhyā yeṣāṃ te tryavarāḥ etacca pitṛpitāmahaprapitāmahaviṣayam tataśca pitrādīnāṃ trayāṇāṃ pratyakaṃ trīn pañca vā na punassaptādīn, dvo daive pitṛkārye trīnekaikamubhayatra vā bhojayetsusamṛddho 'pi na prasajyeta vistare (masmṛ.3-135) iti manuvacanāt nanvasmin manuvacane 'pitṛkārye trīn'ityuktvā 'na prasajyeta vistare'ityuktaṃ, tatkimiti 'pca vā'ityuktam?ucyate-ayugmāṃstryavarāniti sūtrakāravacanāt evaṃ tarhi 'ekaikamubhayatra vā'iti viruddhaḥ na;tasyānu kalpatvāt atra yadyapi mātrādibhyaḥ pṛthageva piṇḍadānadarśanaṃ, tathāpi tāsāṃ pṛthagbrāhmaṇabhojanaṃ na bhavati, hemābhimarsanayoḥ pṛthaktvādarśanāt, pitṛmātrarthabrāhmaṇasaṅkhyāsaṅkalane satyayugmatvavirodhāt, ācārābāvācca api ca aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani mātuśśrāddhaṃ pṛthakkuryādanyatra patinā saha iti manuvacanādaṣṭakādibhyo 'nyatra māsiśrāddhādau pṛthaktvābhāvasspaṣṭa evāvagamyate iha ca sūtrakārabhāṣyakārābyāmanuktamapi viśvadevārtha yugmānāṃ bhojanaṃ kartavyam 'dvau daive'iti manuyājñavaklyābhyāmuktatvāt, piśācā rākṣasā yakṣā bhūtā nānāvidhāstathā vipralumpanti sahasā śrāddhamārakṣavarjitam tatpālanāya vihitā viśvedevāssvayambhuvā ityādi jhāgaleyavacanāt, avigītaśiṣṭācārācca yadā tveka eva brāhmaṇo labhyate, tadā taṃ pitrādyarthameva bhojayet, pradhānatvāt aṅgabhūtasya tu vaiśvadevasya yadyekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet annaṃ pātre samuddhṛtya sarvasya prakṛtasya ca devatāyatane kṛtvā tatra śrāddhaṃ prakalpayet prāsyedagnau tadannaṃ tu dadyāddvā brahmacāriṇe (va.11-30,31) iti vasiṣṭhoktavidhinānuṣṭhānam nanu ca mātāmahānāmapyevaṃ tantraṃ vā vaiśvadaivikam (yāsmṛ.1-2280), tathā mātāmahanāmapyevaṃ śrāddhaṃ kuryādvicakṣaṇaḥ mantrohena yathānyāyaṃ śeṣaṃ mantravivarjitam (vismṛ.750) tathaiva pṛthaṅmātāmahānāṃ ca vaiśvadevasamanvitam kurvīta bhaktisampannaṃ tantraṃ vā vaiśvadaivikam (vipu.3-15-16) iti yājñavalkyaviṣṇusmṛtyoḥ viṣṇupurāṇe ca vidhidarśanāt mātāmahaśrāddhamapi nityamevāvagamyate tatkimiti sūtrakārabhāṣyakārau na brūtaḥ? ucyate-naiva tatrāpi smṛtyantareṣu pitryavatsarvasyaiva jīvato dvijasyāvaśyaṃ mātāmahaśrāddhamapi niyamena kartavyamiti vidhitsitam kṛte abhyudayaḥ, #karaṇe na pratyavāya iti kasya tarhi niyamena kartavyamiti vidhiriti cet;yaḥ putrikākṛtāyā āsurādivivāho- ḍhāyā vā putro mātāmahena saha mātussāpiṇḍyaṃ karoti, tasya mātāmahaśrāddhaṃ niyatameva, akarame ca pratyavāyaḥ māsiśrāddhe tu mātuḥ pṛthak śrāddhābhāvānmātāmahaśrāddhāṃśabhāgitvopapatteḥ atha vā yo dauhitro 'putrasya mātāmahasyākhilārtahārī tasyaitacchrāddhaṃ niyatam yathāha laugākṣiḥ śrāddhaṃ mātāmahānāṃ ca avaśyaṃ dhanahāriṇā dauhitreṇa vidhijñena kartavyaṃ vidhivatsadā iti imamevārtha bārucirapyāha- 'yasmin pakṣe aputro mātāmahaḥ, putrikāsutaścākhiladravyahārī, tasmin pakṣe tasya piṇḍadānaniyamaḥ'ityādinā granthena mātāmahaśrāddhaprayogaśca smṛtyantarebhyo nyāyatasca pratyetavyaḥ tasmāt sarvasya dhauhitrasya pitryavat kartavyameveti niyamābhāvatsūtrakārabhāṣyakārau na brūtaḥ


3

3 अन्नहोमाः अन्नस्योत्तराभिर्जुहोति आप्ग्स्_21.3 (प.8.खं.,21-3) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.3: उत्तराभिः ऽयन्मे मातेऽत्यादिभिः स्त्रीलिङ्गनिर्देशादृग्बिस्सप्तभिः अन्नस्यैकदेशं जुहोति ब्राह्मणभोजनार्त कल्पितादन्नादुद्धृत्य जुहोतीत्यर्थः तत्र ऽअमुष्माऽइत्यस्य स्थाने आदितो द्वयोः पितुर्नामनिर्देशः मध्यमयोः पितामहस्य अन्त्ययोः प्रपितामहस्य "यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये"(आपश्रौ.1-27)दिति न्यायेन द्विपितुर्द्वयोरुपलक्षणम्-अमुष्मा अमुष्मा इति अन्ते स्वाहाकारः केचित् ऽपितरौ वृञ्जेताऽमित्यूहं कुवन्ति (ऋग्विकल्पं कुर्वन्ति वा)एतेन पितामहप्रपितामहौ व्याख्यातौ तथा ऽस्वाहा पित्रऽइत्यत्रापि केचिदूहं कुर्वन्ति अपरे न-पितृत्वमत्र विवक्षितं एकत्वमविवक्षितमिति केचित् मातामहानामप्यूहन होमं कुर्वन्ति-ऽयन्मे मातामही, यन्मे मातुः पितामही, यन्मे मातुः प्रपितामही, तन्मे रोतो मातामहो वृङ्क्तां इत्यादि

3 annahomāḥ annasyottarābhirjuhoti āpgs_21.3 (pa.8.khaṃ.,21-3) commentaries: āpgs-anā_21.3: uttarābhiḥ 'yanme māte'tyādibhiḥ strīliṅganirdeśādṛgbissaptabhiḥ annasyaikadeśaṃ juhoti brāhmaṇabhojanārta kalpitādannāduddhṛtya juhotītyarthaḥ tatra 'amuṣmā'ityasya sthāne ādito dvayoḥ piturnāmanirdeśaḥ madhyamayoḥ pitāmahasya antyayoḥ prapitāmahasya "yadi dvipitā syādekaikasmin piṇḍe dvau dvāvupalakṣaye"(āpaśrau.1-27)diti nyāyena dvipiturdvayorupalakṣaṇam-amuṣmā amuṣmā iti ante svāhākāraḥ kecit 'pitarau vṛñjetā'mityūhaṃ kuvanti (ṛgvikalpaṃ kurvanti vā)etena pitāmahaprapitāmahau vyākhyātau tathā 'svāhā pitra'ityatrāpi kecidūhaṃ kurvanti apare na-pitṛtvamatra vivakṣitaṃ ekatvamavivakṣitamiti kecit mātāmahānāmapyūhana homaṃ kurvanti-'yanme mātāmahī, yanme mātuḥ pitāmahī, yanme mātuḥ prapitāmahī, tanme roto mātāmaho vṛṅktāṃ ityādi


3

आप्ग्स्-तात्_21.3: अत्रान्नशब्देन ब्रह्मणभोजनार्थमन्नं विवक्षितम्, षष्ठ्या चापादानापादेयभावः तेनायमर्थः-ब्राह्मणभोजनार्थात्सर्वस्माद्धविष्यजातादोदनापूपादेर्होमार्थमेकस्मिन्पात्रे सहोद्धृत्य, तस्मात् पार्वणवदवदानधर्मेणावदायोत्तराभिः ऽयन्मे माताऽइत्यादिभिस्सप्तभिः प्रत्यृचं प्रधानीहुतीर्जुहोति न तु बहुमन्त्रक एको होमः, ऽएतद्वा विपरीतमऽ(आपगृ.21-5) इति बहुत्वलिङ्गात् लिङ्गं च ऽएतद्वेऽति सूत्रव्याख्याने व्यक्तं भविष्यति अत्र प्रथमद्वितीययोर्मन्त्रयोरमिष्मा इत्यस्य स्थाने विष्णुशर्मण इति चतुर्थ्या पितुर्नामग्रहणम् एवं तृतीयचतुर्थयोः पितामहस्य पञ्चमषष्ठयोः प्रपितामहस्य सप्तमे त्वदश्शब्दाभावान्नास्ति नामग्रहणम् अनूहश्चात्र द्विपित्रादिकस्यापि, ऽतस्मादृचं नोहेतऽ; (आश्वश्रौ.) इति ऋगूहप्रतिषेधाच्च तस्मात् ऽपिता वृङ्क्तामाऽइत्याद्येकवचनं पित्रादिशामान्यपरम् अत एव प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापि ऽपत्नी सन्नह्यऽइत्येकवचनेनैव सम्प्रैषः ऊह इत्युपदेशः प्रकृतावेव द्वादशाहे"अद्य सुत्यामित्यालेखनः"इत्यूहदर्शनात् एषः ते तत मधुमानेऽइत्यादिष्वेष न्यायः जीवपित्रादिकस्तु पित्रादेः पित्रादीनां त्रयाणां मृतानां नामानि गृह्णाति यस्तु प्रमीतपितृको ऽयं ध्रियमाणपितामहस्स्यात्, स स्वपितुश्च तत्पितामहप्रपितामहयोश्च नामानि गृह्णीयात् तथा मन्वेषु प्रतियोगिभेदे ऽपि पितृपितामहप्रपितामहशब्दानामेव प्रयोगः ऊहपक्षे तु, तत्तत्प्रतियोपिनिर्देशपूर्वकः ऽपितुः पिता वृह्क्तामऽपितुः पितामहो वृङ्क्तामऽइत्यादिकः प्रयोगः न च जीवपित्रादिकस्य मासिश्रीद्धं नास्तीत्याशङ्कनीयम्, ध्रियमाणे तु पितरि पूर्वषामेव निवपेत् पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्त्रितयं यदि (मस्मृ.3-220) इत्यादिवचनजातात् नन्वेमपि व्युत्क्रमाच्च प्रमीतपित्रादिकस्य नैव घटते, ऽव्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता ऽइति व्युत्क्रममृतानां सपिण्डीकरणनिषेधेन सपिण्डीकृतपितृसम्प्रदानके श्राद्धे तत्पुत्रादीनामधिकाराभावात् मैवम्; पिता यस्य तु वृत्तस्स्याज्जीवेच्चापि पितामहः पितुस्स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् पितामहो वा त्च्छ्राद्धं भुज्जीतेत्यब्रवीन्मनुः (मस्मृ.3-221,222) इति मनुवचनेन व्युत्क्रमप्रमीतपित्रादिकसयापि श्राद्धविधानात् ततश्च व्युत्क्रमाच्चेति निषेधः पाक्षिक इति निश्चयादधिकारो ऽपि पाक्षिको ऽविगम्यते

āpgs-tāt_21.3: atrānnaśabdena brahmaṇabhojanārthamannaṃ vivakṣitam, ṣaṣṭhyā cāpādānāpādeyabhāvaḥ tenāyamarthaḥ-brāhmaṇabhojanārthātsarvasmāddhaviṣyajātādodanāpūpāderhomārthamekasminpātre sahoddhṛtya, tasmāt pārvaṇavadavadānadharmeṇāvadāyottarābhiḥ 'yanme mātā'ityādibhissaptabhiḥ pratyṛcaṃ pradhānīhutīrjuhoti na tu bahumantraka eko homaḥ, 'etadvā viparītam'(āpagṛ.21-5) iti bahutvaliṅgāt liṅgaṃ ca 'etadve'ti sūtravyākhyāne vyaktaṃ bhaviṣyati atra prathamadvitīyayormantrayoramiṣmā ityasya sthāne viṣṇuśarmaṇa iti caturthyā piturnāmagrahaṇam evaṃ tṛtīyacaturthayoḥ pitāmahasya pañcamaṣaṣṭhayoḥ prapitāmahasya saptame tvadaśśabdābhāvānnāsti nāmagrahaṇam anūhaścātra dvipitrādikasyāpi, 'tasmādṛcaṃ nohet'; (āśvaśrau.) iti ṛgūhapratiṣedhācca tasmāt 'pitā vṛṅktāmā'ityādyekavacanaṃ pitrādiśāmānyaparam ata eva prakṛtau darśapūrṇamāsayoranekapatnīkasyāpi 'patnī sannahya'ityekavacanenaiva sampraiṣaḥ ūha ityupadeśaḥ prakṛtāveva dvādaśāhe"adya sutyāmityālekhanaḥ"ityūhadarśanāt eṣaḥ te tata madhumāne'ityādiṣveṣa nyāyaḥ jīvapitrādikastu pitrādeḥ pitrādīnāṃ trayāṇāṃ mṛtānāṃ nāmāni gṛhṇāti yastu pramītapitṛko 'yaṃ dhriyamāṇapitāmahassyāt, sa svapituśca tatpitāmahaprapitāmahayośca nāmāni gṛhṇīyāt tathā manveṣu pratiyogibhede 'pi pitṛpitāmahaprapitāmahaśabdānāmeva prayogaḥ ūhapakṣe tu, tattatpratiyopinirdeśapūrvakaḥ 'pituḥ pitā vṛhktām'pituḥ pitāmaho vṛṅktām'ityādikaḥ prayogaḥ na ca jīvapitrādikasya māsiśrīddhaṃ nāstītyāśaṅkanīyam, dhriyamāṇe tu pitari pūrvaṣāmeva nivapet pūrveṣu triṣu dātavyaṃ jīveccettritayaṃ yadi (masmṛ.3-220) ityādivacanajātāt nanvemapi vyutkramācca pramītapitrādikasya naiva ghaṭate, 'vyutkramācca pramītānāṃ naiva kāryā sapiṇḍatā 'iti vyutkramamṛtānāṃ sapiṇḍīkaraṇaniṣedhena sapiṇḍīkṛtapitṛsampradānake śrāddhe tatputrādīnāmadhikārābhāvāt maivam; pitā yasya tu vṛttassyājjīveccāpi pitāmahaḥ pitussa nāma saṅkīrtya kīrtayetprapitāmaham pitāmaho vā tcchrāddhaṃ bhujjītetyabravīnmanuḥ (masmṛ.3-221,222) iti manuvacanena vyutkramapramītapitrādikasayāpi śrāddhavidhānāt tataśca vyutkramācceti niṣedhaḥ pākṣika iti niścayādadhikāro 'pi pākṣiko 'vigamyate


4

4 आज्यहोमाः आज्याहुतीरुत्तराः आप्ग्स्_21.4 (प.8.खं.,21-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.4: षडाज्याहतीर्जुहोति-स्वाहा पित्र इत्याद्याः तत्र ऽस्वाहा पित्रऽ; इति पुरस्तात् स्वाहाकारत्वान्नान्ते स्वाहाकारः अत्राहुः मासिश्राद्धे ब्राह्मणभोजनं प्रधानकर्मतदङ्गमग्नौ करणं पिण्डश्च तोन जीवपितृश्राद्धक्रिया न भवति ऽयदि जीवपिता न दद्यातऽइति निषेधात् आहोमात् कृत्वा विरमेतऽइत्ययमपि विदिर्न भवति होमस्य भोजनाङ्गत्वात् पिण्डपितृयज्ञे तु होमस्य प्रधानत्वादिति अन्ये तु येभ्य एव पिता दध्यात् तेभ्य एव पुत्रो ऽपीत्याहुः अपर आह त्रीणि श्राद्धे प्रधानानि-अग्नौ करणं भोजनं पिण्डदानमिति तेना ऽहोमात् कृत्वा विरमेऽदित्यस्यापि विधेरयं विषय इति आप्ग्स्-तात्_21.4: एवमन्नहोमात् दुत्वा,अनन्तरमुत्तराःऽस्वाहा पित्रेऽइत्याद्याष्षडाज्याहुतीर्जुहोति

4 ājyahomāḥ ājyāhutīruttarāḥ āpgs_21.4 (pa.8.khaṃ.,21-4) commentaries: āpgs-anā_21.4: ṣaḍājyāhatīrjuhoti-svāhā pitra ityādyāḥ tatra 'svāhā pitra'; iti purastāt svāhākāratvānnānte svāhākāraḥ atrāhuḥ māsiśrāddhe brāhmaṇabhojanaṃ pradhānakarmatadaṅgamagnau karaṇaṃ piṇḍaśca tona jīvapitṛśrāddhakriyā na bhavati 'yadi jīvapitā na dadyāt'iti niṣedhāt āhomāt kṛtvā viramet'ityayamapi vidirna bhavati homasya bhojanāṅgatvāt piṇḍapitṛyajñe tu homasya pradhānatvāditi anye tu yebhya eva pitā dadhyāt tebhya eva putro 'pītyāhuḥ apara āha trīṇi śrāddhe pradhānāni-agnau karaṇaṃ bhojanaṃ piṇḍadānamiti tenā 'homāt kṛtvā virame'dityasyāpi vidherayaṃ viṣaya iti āpgs-tāt_21.4: evamannahomāt dutvā,anantaramuttarāḥ'svāhā pitre'ityādyāṣṣaḍājyāhutīrjuhoti


5

एतद्वा विपरीतम् आप्ग्स्_21.5 (प.7.खं.,21-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.5: पूर्वास्सप्ताज्याहुतयः उत्तराष्षडन्नाहुतय इत्यर्थः मन्त्रास्तु यथाम्नातमेव प्रयोगः-पूर्वद्युर्निवेदनं सायं भोजनानन्तरं श्वः श्राद्धं भविष्यतीति तत आगभ्यव्रतचर्या सर्वेषाम् (वयं तु ब्रूमः पूर्वेद्युः सायं भोजनं न भवति ऽयदनाश्वानुपवसेत् पितृदेवत्यस्स्या"दिति लिङ्गादिति) अथापरेद्युः प्रातः द्वतीयं निवेदनम्-अद्य क्रियत इति अथाब्यङ्गस्ततो ऽपराह्णे स्नातान् क-तपच्छौचान् तानमन्त्रयते पूर्व विश्वेभ्यो देवेभ्यो यज्ञोपवीती युग्मान् द्वौ चतुरो वा ऽमासि श्राद्धे विश्वेभ्यो देवेभ्यः क्षणः कर्तव्यऽइति ऽओं तथेऽति प्रतिवचनम् ऽप्राप्नोतु भवाऽनिति यथासनं प्रापणम् ऽप्राप्नवानीऽति प्रतिवचनमे देवेभ्यः प्राङ्मुखाः ब्राह्मणाः प्राङ्मृलेषु दर्मेषु पितृभ्य उदङ्मुखाः द्विगुणभुग्नेषु दक्षिणाग्रेषु युवानः पित्रे वृद्धाः पितामहाय वृद्धतमाः प्रपितामहाय एकैकस्य त्रयस्त्रयो वा शुचौदेशे दक्षिणाप्रवणे श्राद्धागारं सर्वतः परिश्रितमुदगवाद्वारं तस्य पूर्वोत्तरे देशे अग्निरौपासनः तस्या धक्षिणतः पिण्डदानार्थ स्थण्डिलम् तस्य दक्षिणतः उदङ्मुखाः पित्रार्थाः पश्चात् प्राङ्मुखाः देवार्थाः तस्मिन्नेव स्थण्डिले यथावकाशं त्रिषु पात्रेषु पितृभ्य उदकान्यर्घ्याणि दक्षिणापवर्गाणि तिलवन्ति देवेभ्य एकस्मिन्यवमति तानि पुष्पैरवकीर्यदर्भेषु सादयित्वा दर्भैः प्रच्छाद्य आसनगतानां बराह्मणानां हस्तेषु स्वस्मात्स्वस्मात् उदपात्रात् पात्रान्तरेमाप आदाय ऽविस्वे देवा इदं वोरऽघ्यऽ; ऽपितः इदं तेरऽघ्य, पितामह इदं तेरऽघ्य, प्रपितामह इदं तेरऽघ्य, इत्यर्ग्याणि ददाति तूष्णीं वा पुरस्तादुपरिष्टाच्च शुद्धोदकम् ततो गन्धादिभिः वासोभिश्च द्विजानभ्यर्च्य ऽउद्ध्रियतामग्नौ च क्रियताऽमित्यामन्त्रयते ऽकाममुद्ध्रियतां काममग्नौ च क्रियतांऽइति प्रतिवचनम् ततो ब्राह्मणार्थ संस्कृतादन्नादुद्धृत्यापरेणाग्निं बहिर्षि प्रतिष्ठाप्याभिघार्याग्नेरुपसमाधानाद्यज्यभागान्ते त्रयोदश प्रधानाहुतीर्जुहोति

etadvā viparītam āpgs_21.5 (pa.7.khaṃ.,21-5) commentaries: āpgs-anā_21.5: pūrvāssaptājyāhutayaḥ uttarāṣṣaḍannāhutaya ityarthaḥ mantrāstu yathāmnātameva prayogaḥ-pūrvadyurnivedanaṃ sāyaṃ bhojanānantaraṃ śvaḥ śrāddhaṃ bhaviṣyatīti tata āgabhyavratacaryā sarveṣām (vayaṃ tu brūmaḥ pūrvedyuḥ sāyaṃ bhojanaṃ na bhavati 'yadanāśvānupavaset pitṛdevatyassyā"diti liṅgāditi) athāparedyuḥ prātaḥ dvatīyaṃ nivedanam-adya kriyata iti athābyaṅgastato 'parāhṇe snātān ka-tapacchaucān tānamantrayate pūrva viśvebhyo devebhyo yajñopavītī yugmān dvau caturo vā 'māsi śrāddhe viśvebhyo devebhyaḥ kṣaṇaḥ kartavya'iti 'oṃ tathe'ti prativacanam 'prāpnotu bhavā'niti yathāsanaṃ prāpaṇam 'prāpnavānī'ti prativacaname devebhyaḥ prāṅmukhāḥ brāhmaṇāḥ prāṅmṛleṣu darmeṣu pitṛbhya udaṅmukhāḥ dviguṇabhugneṣu dakṣiṇāgreṣu yuvānaḥ pitre vṛddhāḥ pitāmahāya vṛddhatamāḥ prapitāmahāya ekaikasya trayastrayo vā śucaudeśe dakṣiṇāpravaṇe śrāddhāgāraṃ sarvataḥ pariśritamudagavādvāraṃ tasya pūrvottare deśe agniraupāsanaḥ tasyā dhakṣiṇataḥ piṇḍadānārtha sthaṇḍilam tasya dakṣiṇataḥ udaṅmukhāḥ pitrārthāḥ paścāt prāṅmukhāḥ devārthāḥ tasminneva sthaṇḍile yathāvakāśaṃ triṣu pātreṣu pitṛbhya udakānyarghyāṇi dakṣiṇāpavargāṇi tilavanti devebhya ekasminyavamati tāni puṣpairavakīryadarbheṣu sādayitvā darbhaiḥ pracchādya āsanagatānāṃ barāhmaṇānāṃ hasteṣu svasmātsvasmāt udapātrāt pātrāntaremāpa ādāya 'visve devā idaṃ vor'ghya'; 'pitaḥ idaṃ ter'ghya, pitāmaha idaṃ ter'ghya, prapitāmaha idaṃ ter'ghya, ityargyāṇi dadāti tūṣṇīṃ vā purastādupariṣṭācca śuddhodakam tato gandhādibhiḥ vāsobhiśca dvijānabhyarcya 'uddhriyatāmagnau ca kriyatā'mityāmantrayate 'kāmamuddhriyatāṃ kāmamagnau ca kriyatāṃ'iti prativacanam tato brāhmaṇārtha saṃskṛtādannāduddhṛtyāpareṇāgniṃ bahirṣi pratiṣṭhāpyābhighāryāgnerupasamādhānādyajyabhāgānte trayodaśa pradhānāhutīrjuhoti


5

आप्ग्स्-तात्_21.5: यद्वा-विपरीतमेद्भवति, ऽयन्मे माताऽइत्याद्याः पूर्वास्सप्ताज्याहुतयः, ऽस्वाहा पित्रेऽइत्याद्या उत्तराष्षडन्नाहुतय इति

āpgs-tāt_21.5: yadvā-viparītamedbhavati, 'yanme mātā'ityādyāḥ pūrvāssaptājyāhutayaḥ, 'svāhā pitre'ityādyā uttarāṣṣaḍannāhutaya iti


6

5 अन्नाभिमर्शनम् सर्वमुत्तरैरभिमृशेत् आप्ग्स्_21.6 (प.8.खं.,21-6) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.6: एवं प्रधानाहुतीर्हुत्वा सौविष्टकृतं हुत्वा जयादि प्रतिपद्यते साङ्गे प्रधाने सर्वत्र प्राचीनावीतम् न दायादय इत्यन्ये परिषेचनान्तं कृत्वा प्रणीताश्च विमुच्य ततस्सर्वमन्नं होष्यं च समुपनिधाय हुतशेषं च तस्मन् उत्सृज्य तमुत्तैरस्त्रिभिः अभिमृशेत् ऽएष ते तत मधुमानिऽत्येतैः अत्राप्यूहः ऽएष ते मातामह मधुमाऽनित्यादि त्र आप्ग्स्-तात्_21.6: अथ ब्राह्मणभोजनार्थहविष्यमहविषयं च सर्वमन्नं उत्तरैः ऽएष ते तत मधुमानऽइत्येतैस्त्रिभिर्मन्त्रैः अभिमृशेत् एकयत्नेन सर्वस्याभिमर्शनासम्भवे मन्त्रावृत्तिः ;शेषिपरतन्त्रत्वाच्छेषाणाम्

5 annābhimarśanam sarvamuttarairabhimṛśet āpgs_21.6 (pa.8.khaṃ.,21-6) commentaries: āpgs-anā_21.6: evaṃ pradhānāhutīrhutvā sauviṣṭakṛtaṃ hutvā jayādi pratipadyate sāṅge pradhāne sarvatra prācīnāvītam na dāyādaya ityanye pariṣecanāntaṃ kṛtvā praṇītāśca vimucya tatassarvamannaṃ hoṣyaṃ ca samupanidhāya hutaśeṣaṃ ca tasman utsṛjya tamuttairastribhiḥ abhimṛśet 'eṣa te tata madhumāni'tyetaiḥ atrāpyūhaḥ 'eṣa te mātāmaha madhumā'nityādi tra āpgs-tāt_21.6: atha brāhmaṇabhojanārthahaviṣyamahaviṣayaṃ ca sarvamannaṃ uttaraiḥ 'eṣa te tata madhumān'ityetaistribhirmantraiḥ abhimṛśet ekayatnena sarvasyābhimarśanāsambhave mantrāvṛttiḥ ;śeṣiparatantratvāccheṣāṇām


7

कॢप्तान्वा प्रतिपूरुषम् आप्ग्स्_21.7 (प.8.खं.,21-7) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.7: अथ वा भोजनपात्रेषु कॢप्तानोदनविशेषान् प्रतिपुरुषं पृथगभिमृशेत् यथालिङ्गम् तत्र यावन्तः पित्रर्थे भोजयन्ते तावत्सु प्रथमस्य मन्त्रस्यावृत्तिः ऽएवमुत्तरयोः- ततः पात्रेषु कस्पितानन्नशेषान्

kḷptānvā pratipūruṣam āpgs_21.7 (pa.8.khaṃ.,21-7) commentaries: āpgs-anā_21.7: atha vā bhojanapātreṣu kḷptānodanaviśeṣān pratipuruṣaṃ pṛthagabhimṛśet yathāliṅgam tatra yāvantaḥ pitrarthe bhojayante tāvatsu prathamasya mantrasyāvṛttiḥ 'evamuttarayoḥ- tataḥ pātreṣu kaspitānannaśeṣān


7

आप्ग्स्-तात्_21.7: अथवा -पित्राद्यर्थेभ्यो ब्राह्मणेभ्यः प्रतिरूरूषं भोजनपात्रेषु कॢप्तान् प्रकस्पितान् भोजयपदार्थान् एकैकेन मन्त्रेण यथालिङ्ग मभिमृशेत् अत्रापि पित्रादेरेकैकस्य ब्राह्मणबहुत्वे युगपदभिमर्शनासम्भवे च तत्तन्मन्त्रावृत्तिः

āpgs-tāt_21.7: athavā -pitrādyarthebhyo brāhmaṇebhyaḥ pratirūrūṣaṃ bhojanapātreṣu kḷptān prakaspitān bhojayapadārthān ekaikena mantreṇa yathāliṅga mabhimṛśet atrāpi pitrāderekaikasya brāhmaṇabahutve yugapadabhimarśanāsambhave ca tattanmantrāvṛttiḥ


8

6 भोक्तृभिरन्नोपस्पर्शनम् उत्तरेण यजुषोपस्पर्शयित्वा आप्ग्स्_21.8 (प.8.खं.,21-8) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.8: उत्तरेण यजुषा ऽपृथिवी ते पात्रऽमित्यनेन ब्राह्मणैः स्पर्शयित्वा भोजयेदिति शेषः तत्र च ऽब्राह्मणानां त्वा, ऽमैषां क्षेष्ठाःऽइति बहुत्वं दृश्यते तथापि प्रतिपुरुषं मन्त्रावृत्तिः उपरवमन्त्रवत् , वत्सापाकरणमन्त्रवच्च तत्र पूर्व देवानामुपस्पर्शनं ऽविश्वे देवासऽ; इत्यनयर्चा, स्मृत्यन्तरे दर्शनात् वैष्णव्येत्यपरे इदं विष्णुरित्यन्ते विष्णो हव्यं रक्षस्वेति तथा पित्र्येष्वप्यन्ते विष्णो कव्यं रक्षस्वेति भुञ्जानेषु पराङावर्तते रक्षोघ्नान् पित्र्यान् वैष्णव्यानन्यांश्च पवित्रान् धर्म्यान् मन्त्रान् धर्मशास्त्र मितिहासपुराणांश्चाभिश्रावयति ततस्तृप्तानि ज्ञात्वा मधुमतीः श्रावयेत् अक्षन्नमीमदन्तेति च अथ भूमावन्नं विकरति-ऽये अग्निदग्धा ये ऽनग्निग्धा ये वा जाताः कुले मम भूमौ दत्तेन पिणडेन तृप्ता यान्तु परां गतिऽमिति अथाचान्तेषु पुनरपो दत्वा ऽस्वदितऽमिति पित्रर्तान् वाचयति ऽरोचतऽइति वाश्वदेवार्तान् ततो यथाश्रद्धं दक्षिणां दत्वा सर्वेभ्यो ऽन्नशेषेभ्यः पिण्डार्थ प्राशनार्थञ्चोद्धृत्य शेषं निवेदयोत्-अन्नशेषैः किं क्रियतां इति इष्टैस्सहोपभुज्यतामिति प्रतिवचनम् ऽदातारो नो ऽभिवर्दन्तां वेदास्सन्ततिरेव नः श्रद्धा च नो मा व्यपगात् बहुदेयं च नो ऽस्तुऽ; इति प्रार्थयते ऽदातारो वो ऽभिवर्धन्ताऽमित्यूहेन प्रतिवचनम् भुक्तवतः प्रदक्षिणीकृत्य, नमस्कारः ओं स्वधेति पितृभ्यः विश्वेदेवाः प्रीयन्तामिति विश्वेषां देवानाम् तत्र सर्वकर्मणां वैश्वदेवेषु पूर्व प्रवृत्तिः पश्चात् पित्र्येषु विसर्जने विपर्ययः अभिश्रवणादि यज्ञोपवीती प्राक्पिण्डेभ्यः कल्पान्तरदर्शनात्

6 bhoktṛbhirannopasparśanam uttareṇa yajuṣopasparśayitvā āpgs_21.8 (pa.8.khaṃ.,21-8) commentaries: āpgs-anā_21.8: uttareṇa yajuṣā 'pṛthivī te pātra'mityanena brāhmaṇaiḥ sparśayitvā bhojayediti śeṣaḥ tatra ca 'brāhmaṇānāṃ tvā, 'maiṣāṃ kṣeṣṭhāḥ'iti bahutvaṃ dṛśyate tathāpi pratipuruṣaṃ mantrāvṛttiḥ uparavamantravat , vatsāpākaraṇamantravacca tatra pūrva devānāmupasparśanaṃ 'viśve devāsa'; ityanayarcā, smṛtyantare darśanāt vaiṣṇavyetyapare idaṃ viṣṇurityante viṣṇo havyaṃ rakṣasveti tathā pitryeṣvapyante viṣṇo kavyaṃ rakṣasveti bhuñjāneṣu parāṅāvartate rakṣoghnān pitryān vaiṣṇavyānanyāṃśca pavitrān dharmyān mantrān dharmaśāstra mitihāsapurāṇāṃścābhiśrāvayati tatastṛptāni jñātvā madhumatīḥ śrāvayet akṣannamīmadanteti ca atha bhūmāvannaṃ vikarati-'ye agnidagdhā ye 'nagnigdhā ye vā jātāḥ kule mama bhūmau dattena piṇaḍena tṛptā yāntu parāṃ gati'miti athācānteṣu punarapo datvā 'svadita'miti pitrartān vācayati 'rocata'iti vāśvadevārtān tato yathāśraddhaṃ dakṣiṇāṃ datvā sarvebhyo 'nnaśeṣebhyaḥ piṇḍārtha prāśanārthañcoddhṛtya śeṣaṃ nivedayot-annaśeṣaiḥ kiṃ kriyatāṃ iti iṣṭaissahopabhujyatāmiti prativacanam 'dātāro no 'bhivardantāṃ vedāssantatireva naḥ śraddhā ca no mā vyapagāt bahudeyaṃ ca no 'stu'; iti prārthayate 'dātāro vo 'bhivardhantā'mityūhena prativacanam bhuktavataḥ pradakṣiṇīkṛtya, namaskāraḥ oṃ svadheti pitṛbhyaḥ viśvedevāḥ prīyantāmiti viśveṣāṃ devānām tatra sarvakarmaṇāṃ vaiśvadeveṣu pūrva pravṛttiḥ paścāt pitryeṣu visarjane viparyayaḥ abhiśravaṇādi yajñopavītī prākpiṇḍebhyaḥ kalpāntaradarśanāt


8

आप्ग्स्-तात्_21.8: उत्तरेण ऽपृथिवी ते पात्रमऽइत्यनेन यजुषा, कॢप्तानन्नाविशेषान् ब्राह्मणान्, हस्ते गृहीत्वोपस्पर्शयित्वा, तं भोजयेदिति शेषः अत्र च मन्त्रे यद्यपि ब्राह्मणानामिति बहुवचनं ततापि युगपत् स्पर्सायितुमशक्यत्वात् प्रतिपूरुषं मन्त्रावृत्तिः, यथा-ऽवायवस्स्थऽ(तै. सं-1-1-1) इति मन्त्रः प्रतिवत्सम् एवंविधेषु बहुवचनं प्रयोगसाधुत्वार्थ, एकप्रयोगवचनप्रयोज्यानेकव्यक्त्योभिप्रायं वा

āpgs-tāt_21.8: uttareṇa 'pṛthivī te pātram'ityanena yajuṣā, kḷptānannāviśeṣān brāhmaṇān, haste gṛhītvopasparśayitvā, taṃ bhojayediti śeṣaḥ atra ca mantre yadyapi brāhmaṇānāmiti bahuvacanaṃ tatāpi yugapat sparsāyitumaśakyatvāt pratipūruṣaṃ mantrāvṛttiḥ, yathā-'vāyavasstha'(tai. saṃ-1-1-1) iti mantraḥ prativatsam evaṃvidheṣu bahuvacanaṃ prayogasādhutvārtha, ekaprayogavacanaprayojyānekavyaktyobhiprāyaṃ vā

Section (cont. 23)

9

7 भुक्तवतामनुव्रजनम्, पिण्डदानम्, शेषभक्षणं च भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा पूर्ववदुत्तरैरपो दत्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिःप्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्घ्यमावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासवरार्घ्य प्राश्नीयात् आप्ग्स्_21.9 (प.8.खं.,21-9) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.9: ततस्तान्भुक्तवतो ऽनुव्रज्य प्रदीक्षणीकृत्यप्रत्यावृत्य प्राचीनावीती पिण्डप्रदानदेशे दक्षिणाग्रान् दर्भान् संस्तृणातिद्वैधंद्वयोः स्थानयोरसंभिन्नानित्यर्थः तत्र पितृभ्यः पुरस्तात् स्तृमाति, मातृभ्यः पश्चात् तथा चाश्वलायनः -कर्षूष्वेके द्वयोष्षट्सु वा, पूर्वासु पितृब्यो दद्यात्, अपरासु स्त्रीभ्यः (आश्वगृ.1-56,7,8) इति ऽदक्षिणाग्रैः पित्र्येषुऽ(आपगृ.14) इत्यस्य परिस्तरणीवषयत्वादिह दक्षिणीनीत्युक्तम् संस्तीर्य तेषूत्तरैर्मन्त्रैः ऽमार्जयन्तां मम पितरऽइत्यादिभिरपो ददाति पूर्ववदिति वक्ष्यमाणमन्त्राप्यपकृष्यन्ते पिण्डं पूर्ववत् ददाति पिण्डपितृयज्ञे यत् पिण्डदानं तदित्यर्थः तेन त्रीनुदकाञ्जलीनित्येवमादयोविशेषा इहापि भवन्ति तत्र पितृलिङ्गैः पितृभ्यस्तीर्णेषु, मातृलिङ्गैर्मातृभ्यस्तीर्णेषु एवमपो दत्वा तत उत्तरैर्मन्त्रैः ऽएतत्ते ततासाऽवित्यादिभिस्तेषु दर्भेषूभयेषुदक्षिणापवर्गान् पिण्डान् ददाति यथालिङ्गं पितृभ्यश्च मातृभ्यश्च असावित्यत्र सर्वत्र नामग्रहणं यथालिङ्गम् अत्रापि पूर्ववदित्यस्य सबन्धात् सव्यं जान्वाच्यावाचीनपाणिरित्यादि विधानमिहापि भवति अनेकपितृकस्योह इति पैङ्गिसूत्रम् ऽएतद्वां ततौ यज्ञशर्मविष्णुशर्माणौ ये च युवामनु, ऽएतद्वां पितामहाऽ- वित्यादि एतद्वां मातरावसौ याश्च युवामनुऽइत्यादिदक्षिणापवर्गानित्युच्यते-उभयेषां पिण्डानां पृथक् दक्षिणापवर्गता यथा स्यादिति तेन पितृपिण्डानां दक्षिणतो मातृपिण्डा न भवन्ति किं तर्हि ?पश्चात् एवं पिण्डान् दत्वा पूर्ववदुत्तरैरपो ददाति पितृभ्यश्च मातृभ्यश्च मन्त्रसमाम्नायेऽमार्जन्तां मम पितर इत्येतेऽइति मन्त्राणां पुनरादिष्टत्वात् ऽउत्तरैरपो दत्वाऽइत्येव सिद्धे पूर्ववदित्यतिद्शः पिण्डपितृयज्ञप्रत्यवमर्शनार्थः -पिण्डेषु चोदकाञ्जलिषु च तत उत्तरैर्मन्त्रैः तानुपतिष्ठते यथालिङ्गं ऽये च वो ऽत्रेति पितॄन्, याश्च वे ऽत्रेति मातॄ;ते च वहन्तामिति पितृन्, ताश्च वहन्तानिति मातॄः, तृप्यंतु भव्त इति पितॄन्, तृप्यंतु भवत्यः इति मातॄः, तृप्यत तृप्यत तृप्यत इत्युभयान् तत उत्तरयर्चा ऽपुत्रान् पौत्रानित्येतयात्रिः प्रसव्यमुदपात्रेण पिम्डान् परिषिञ्चति . उभयास्तपर्यन्त्विति ल्ङ्गात् पिण्डानां सहपरिषेचनम् उदपात्रवचनं हस्तेन मा भूदिति प्रसव्यवचनमनुवादः प्रसव्यं त्रिगुणीभूतमेकमेव परिषेचनं सन्ततं यथा स्यात्, न पिण्डपितृयज्ञवत् त्रीणि परिषेचनानि पृथगिति एवं परिषिच्य ततः पात्राणि यान्यत्र प्रकृतानि त्रीण्यर्घ्यपात्राणि परिषेचनपात्रामुदकुम्भः यस्मिन् पिण्डार्थमन्नमुद्धृतं तच्चेति तानिन्युब्ज्यन्याञ्चि कृत्वा तत उत्तरं यजुः ऽतृप्यत तृप्यत तृप्यतेऽत्येततनवानमनुछ्वसन् त्र्यवरार्ध्य मावर्तयति त्रिरभ्यावृत्तिः अवरा मात्रा यस्यावर्तनस्य तत्त्र्यवरार्ध्यम् यजुर्ग्रहणं ऽतृप्यतेऽत्यस्य त्रिरावृत्तस्य पठितस्यैकयजुष्ट्व्ज्ञापनार्थम् तस्य त्रिरावृत्तौ नवकृत्वो ऽभ्यावृत्तिर्भवति एवमावृत्य न्यक्कृतानि पात्रानि प्रोक्ष्यद्वद्वमभ्युदाहरतिउदानयति अभीति वचनात् उत्तरं कर्म प्रत्युदाहरतीत्यर्थः तेनोत्तरस्मिन्नपि श्राद्धकर्मणि तान्येव पात्राणीत्येके नेत्यन्ये एवमभ्युदाहृत्य शेषस्यान्नस्यग्रासवरार्घ्य ग्रासो ऽवरार्ध्यो अवमा मात्रा यस्य तत्ग्रासवरार्ध्यम्छान्दसो ह्रस्वः तत्प्राश्नीयात् उत्तरेण यजुषाऽप्राणे निविष्टो ऽमृतं जुहोमिऽइत्यनेनसर्वतस्सर्वभ्यः श्राद्धशेषेभ्य अन्नशेषेभ्य इत्यर्थः श्राद्धाङ्गमिदं प्राशनं, न नित्यस्याशनस्य नियमविधिः तस्मात् तत्रापि प्राचीनावीतमेव आचमने तु यज्ञोपवीतमनङ्गत्वात् ततः पञ्चमहायज्ञानां प्रवृत्तिः आप्ग्स्-तात्_21.9: अतभुक्तवतो व्रजतो ब्राह्मणानागृहसीमान्तमनुव्रज्यप्रदक्षिणीकरोति एतयोश्च यज्ञोपवीतम् कथम्?प्रदक्षिणे तावत् ऽयज्ञोपवीतिना प्रदक्षिणमऽइति साहचर्यात् अनुव्रजने ऽप्यनुव्रज्य प्रदक्षिणीकृत्येति प्रदक्षिणसाहचर्यात् तन्त्रेण चैतदुभयं, सम्भवात् यदि तु कारणवशात्तन्त्राभावः, तदा पृथक्पृथक् अथ प्रत्येत्य प्राचीनावीती पिण्डदानदेशे दक्षिणाग्रान् दर्भान्, द्वैधंद्वेघा संस्तृणाति तत्र पुरस्तात्पित्राद्यर्थ, पश्चान्मात्राद्यर्थम्;आश्वलायने दर्शनात्, आचाराच्च ततस्तेषु दर्बेषूत्तरैः ऽमार्जयन्तां मम मातरःऽइत्यादिभिश्च यथार्ह दक्षिणापवर्गमपो दत्वा अनन्तरमुत्तरैः ऽएतत्ते ततासौऽइत्यादिभिः ऽएतत्ते मातसौऽइत्यादिभिश्च यथालिङ्गं त्रींस्त्रीन् दक्षिणापवर्गान् पिण्डान् ददाति पिण्डाश्च हुतशेषात् भुक्तशेषाच्च समवदाय कर्तव्याः अत्र पूर्वेषु त्रिषु मन्त्रेष्वसावि- त्यस्य स्थाने पितृपितामहप्रपितामहानां नामानि सम्बुद्द्या यथाक्रमं गृह्णाति उत्तरेषु तु त्रिषु माथृपितामहाप्रपितामहानाम् ऽदक्षिणतो ऽपवर्गःऽ(आपगृ.1-20) इति सामान्यविधिसिद्धस्येह पुनर्वचनं, पिण्डदान एव दक्षिणापवर्गःऽद्वैधं दर्बास्तरणेषु तु पश्चिमापवर्ग इति ज्ञापनार्थम्, तथोभयेषां पिण्डानां प्रत्येकं दक्षिणापवर्गसिद्ध्यर्थ च अथ पूर्ववत् ऽमार्जयन्तामऽइत्यादिभिरेवापो ददाति केचित्-ऽतेषूत्तरैरपो दत्वा उत्तरैर्दक्षिणापवर्गान् पिण्डान् दत्वाऽइत्येतयोरपि ऽपूर्ववतऽइति पदमपकृष्य त्रिष्वपि सूत्रेषु चोद्यमानं पूर्ववत् पिण्डपितृयज्ञवत्कर्तव्यमिति व्याचक्षते प्रयोजनं तु"त्रीनुदकाञ्जलीन्निनयति"(आपश्रौ.1-8-10) ऽसव्यं जान्वाच्यावाचीनपाणिः ऽ(आपश्रौ.1-9-1) इत्यादिविधानामिहापि भवतीति तन्न;अपकर्षस्यैवायुक्तत्वात्, पूर्ववदित्यस्य पिण्डपितृयज्ञवदित्येवंबुद्ध्यनुदयाच्च यदि त्वाचारबलात् ऽसव्यं जान्वाच्यऽइत्यादीहापि कर्तव्यमेवेत्युच्येत, तदा न कश्चिद्दोषः अथोत्तरैः ऽये च वो ऽत्रऽइत्यादिभिष्षर्ड्र्भिमन्त्रैर्यथा क्रमं यथालिङ्गं पितॄन् त्रिस्त्रिरुपतिष्ठते तृप्यतेत्यनेन त्रिरावृत्तेन उभयांस्तन्त्रेण केचित् चत्वारो मन्त्राः न षट् तत्र प्रथमो मन्त्रो ऽये च वो ऽत्रऽइत्यादिः ऽताश्च वहन्तामऽइत्यन्तः उभयोषामुपस्थानार्थः ऽतृप्यन्तु भवन्तःऽ; इति पितॄणाम् ऽतृप्यन्तु भवत्यःऽइति मातॄणाम् ऽतृप्यत तृप्यत तृप्यतऽइत्युभयेषामिति ततौत्तरयाऽपुत्रान्पौत्रानऽइत्येतया उभयेषां पिण्डान्युगपदुदपात्रेण त्रिः प्रसव्यमविच्छिन्नंपरिषिञ्चति सामान्यविधिसिद्धस्य प्रसव्यस्येह पुनर्वचनं पूर्वत्र"प्रदक्षिणीकृत्य"इति वचनादिहापि प्रादक्षिण्यं स्यादिति शङ्कानिरासार्थम् अनन्तरं पात्राणि होमार्थानि पिण्डदानार्थानि च केचित्-भोजनार्थानि वोददानार्थानि च, न तु होमार्थानीति न्युब्ज्यअधोबिलानि कृत्वा ततौत्तरं यजुःऽतृप्यत तृप्यत तृप्यतऽइत्याम्नानत एवं त्रिरभ्यस्तम् अनवानंअनुच्छ्वसन् त्र्यवरार्ध्य त्रिरभ्यावृत्तिरवरा मात्रा यस्यावर्तनस्य तत्त्त्र्यवरार्ध्यम् यथा भवति तथावर्तयति ततश्चावमायामपि मात्रायां तृप्यतेति नवकृत्वो ऽभ्यासितव्यं भवति एवमनवानं यावच्छत्त्यावर्त्य, ततःपात्राणि न्यगभूतानि वप्रोक्ष्य, द्वन्द्वमभ्युदाहरति अत्राभ्युपसर्गादुत्तरं कर्म प्रत्युदाहरति तेषां पात्राणां निरिष्टिकदोषो नास्तीति भावः अथशेषस्यान्नस्यग्रासवरार्ध्य ग्रासावरार्ध्यम् छान्दसत्वाद्घ्रस्वः उत्तरेण यजुषाऽप्राणे निविष्टःऽ; इत्यनेन प्राश्नीयात् एतच्च सर्वतस्सर्वेभ्यो ऽन्नशेषेभ्यस्समवदाय कार्यम् इदं च प्राशनं भोजनेच्छायामसत्यामपि ग्रासवरार्ध्यमवश्यं प्राश्यं; कर्माङ्गत्वात् एवं प्राश्य, ततश्शुद्ध्यर्थ यज्ञोपवीत्याचामेत् अथात्र सूत्राणामपूर्णत्वादन्यतस्सिद्धानपि पदार्थानुपसंहृत्य यथाप्रतिभासं प्रयोग उत्यते-पूर्वेद्युस्सायमौपासनहोमं हुत्वा प्राचीनावीती कृतप्राणायामः श्वो मासिश्राद्धं कर्तास्मीति सङ्कल्प्य शुचित्वादिगुणसम्पन्नेभ्यः श्वित्रादिदोषवर्जितेभ्यः कृतसायमाह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् तत्र प्रथमं यज्ञोपवीती भूत्वा ऽश्वो मासिश्राद्धं भविता, तत्र भवद्भिर्विश्वदेवार्थे क्षणः कर्तव्यःऽइति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ततःप्राचीनामीती ऽपित्रर्थे क्षणः कर्तव्यःऽइति पित्रर्थेभ्यः ऽपितामहार्थे क्षणः कर्तव्यःऽइति पितामहार्थेभ्यः प्रपितामहार्थे क्षणः कर्तव्यः ऽइति प्रपितामहार्थेभ्यः एकब्रह्मणपक्षे तु ऽपितृपितामहप्रपितामहार्थे क्षणः कर्तव्यःऽइति मातामहश्राद्धकारी चेत्, ऊहेन ऽमातामहार्थे क्षणःऽइत्यादिना निवेदयेत् तत्र चाधारयोस्तदर्तसमिधोराज्यभागयोरग्निमुखाहुतौ स्वविष्टकृति प्रायश्चित्ताहुतौ च यज्ञोपवीती तथा विश्वदेवार्थेषु सर्वेषु पदार्थेषु च प्रदक्षिणानुव्रजनयोश्च यज्ञोपवीतमेव एभ्यो ऽन्यत्रासमाप्तेस्सर्वत्र प्राचीनावीतमेव एतच्च प्रागेवोपपादितम् कर्तुश्चात्र सङ्कल्पादारभ्य आसमाप्तेर्ब्रह्मचर्यादिव्रतचर्या अनशनं च भवति भोक्तॄणामपि मनूक्तो ऽक्रोधत्वादिः अथापरेद्युः प्रातस्तान् ब्राह्मणान् गृहमानीय आचान्तानासनेषूपवेश्य पूर्ववद्द्वितायमामन्त्रणम् अत्र त्वद्य श्राद्धं भविष्यतीति भेदः ऽपूर्वेद्युर्निवेदनं अपरेद्युर्द्वितीयं तृतायं चामन्त्रणमऽइतिवचनात् अथ तेषां पादान् कुण्डेषु सकूर्चतिलेष्ववनिज्याचमय्य, कृसरताम्बूलादीनि दत्वा अभ्यज्य स्नानार्थ प्रस्थापयेत् ते च स्नायुः ततस्स्वयं च स्नातो ब्राह्मण भोजनार्थादन्नादन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश्च कुर्यात् केचित्-समाप्ते श्राद्धे इति ततो ऽपराह्णेप्राचीनावीती ब्राह्मणान् प्रक्षालितपाणिपादानाचान्तानासनेषूपवेशयति तत्र विश्वदेवार्थान् प्राङ्मुखान् प्राक्कूलेषु दर्भेषु पित्राद्यर्थानुदङ्मुखान् द्विगुणभुग्नेषु दक्षिणाग्रेषु दर्भेषु श्राद्धागारं च सुचौ देशे दक्षिणाप्रवणे सर्वतः परिश्रितमुदग्द्वारं च भवति तस्योत्तरपूर्वदेशे ऽग्निरौपासनड- अग्नेदक्षिणतः पिण्डप्रदानार्थ स्थणडिलम् तस्य दक्षिणतः प्त्राद्यर्थानामासनम् पश्चात्तु विश्वेदेवार्थानामासनम् स्थण्डिलेषु यथावकाशं पित्रादिभ्यस्रिषु पात्रेषु एकस्मिन् वा शास्त्रान्तरोक्तविधिनार्घ्यार्थमुदकग्रहणम् विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे तानि गन्धादिभिरभ्यर्च्य, दर्भेषु सादयित्वा दर्भैः प्रच्छाद्याथासनगतानां ब्राह्मणानां हस्तेषु स्वस्मात्स्वस्मादुदपात्रात्पात्रान्तरेणाप आदाय ऽविश्व देवाः इदं वो अर्घ्यऽऽपितृपितामहप्रपितामहाइदं वो अर्घ्य ऽइति वार्घ्याणि ददाति इदमेवार्घ्यदानं श्राद्धे स्वधानिनयनमुदपात्रानयनमिति चोच्यते पुरस्तादुपरिष्टाच्चर्घ्यदानाद्धस्तेषु शुद्धोदकदानम् ततो गन्धादिभिर्वासोभिरङ्गुलीयकादिभिश्च यथाविभवं ब्राह्मणानामभ्यर्चनम् ततस्तान् ऽउद्ध्रियतामग्नौ च ग्रियतामऽइति प्रतिब्रूयुः ऽउदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् उद्ध्रियतामग्नौ च क्रियता मित्यामन्त्रयते काममुद्धियताकाममग्नौ च क्रियतामित्यतिसृष्ट उद्धरेज्जुहुयाच्चऽ(आपध.2-17-17,18,19) इति धर्मशास्त्रवचनात् एतच्छोदपात्रानयनं उद्ध्रियतामित्यामन्त्रणं च पाक्षिकम्, भाष्यकारेणानुक्तत्वात्, उधीच्यवृत्तिरित्यस्य समासस्य उधीच्यानां वृत्तिरुदीच्येशु वृत्तिरित्युभयथापि विग्रहाभ्युपगमाच्च अथ ब्राह्मणभोजनार्थादन्नात् हविष्यमोदनापूपादिकं एकस्मिन् पात्रे समुद्धृत्य अहविष्यं क्षारादिसंसृष्टमन्यस्मिन् पात्रे उद्धृत्याथ हविष्यं प्रतिष्ठतमभिघार् अग्नेरुपसमाधानाद्यग्निमुखान्तं कृत्वा ऽयन्मे माताऽइत्यादिभिस्त्रयोदश प्रधानाहुतीर्हुत्वा स्विष्टकृतं च तत उदीचीनमुष्णं भस्मापोह्य अहविष्यं स्वाहाकारेण हुत्वाथ ऽलेपयोःऽइत्यादि तन्त्रशेषं समाप्य ततः ऽएष ते ततऽइत्यादिभिस्सर्वमन्नमभिमृश्य अथ पृथक्पृथक्तृतीयमामन्त्रणं पूर्ववदेव कृत्वा त्रिष्वपि चामन्त्रणेषु ऽओं तथाऽइति प्रतिवचनं ब्राह्मणानाम् ततः कर्तुः प्रार्थनऽइति ततः ऽप्राप्नवानिऽइत्यङ्गीकारो भोक्तॄणाम् अपरे क्रमान्तरमाहुः- वैश्वदेवपञ्चमहायज्ञानन्तरं अपराह्णे प्राचीनावीती अग्नेरुपसमाधानादि करोति तत्र स्वधानिनयनपक्षे पात्रसंसादनकाले स्वधापात्राणामपि सादनम् प्रणीताः प्रणीय विधिवत् स्वधाग्रहणम् ततो ऽब्राह्मणं दक्षिणतो निषाद्यऽ; इत्याद्यग्निमुखान्ते कृतेपादप्रक्षालनादि उद्धियतामित्यामन्त्र्य, अन्नमुद्ध्त्य प्रधानहोमादय इति इहापि पक्षे स्वधानिनयनं पाक्षिकमेव अन्ये तु- मासिश्राद्धे शास्त्रान्तरानुसारान्मन्त्रवन्नियमवद्भोजनदेशसंस्कारं, विश्वेषां देवानां चावाहनं, भोजयित्वोद्वासनं चेच्छन्ति अत्र च पदार्थेषु क्रमे च शिष्टाचारादेव निर्णयः, सूत्रकारभाष्यकाराभ्यामनुक्तत्वात् अथ प्रकृतमुच्यते-भोजनपात्रकॢप्तानन्नविशेषान् यथास्वं ब्राह्मणानुपस्पर्शयति ऽपृथिवी ते पात्रं, इत्येतया ऽइदं विष्णुर्विचक्रमेऽइत्येतया च तस्याश्चान्ते ऽविष्णो बव्यं रक्षस्वऽइति विश्वेषां देवानां, ऽविष्णो कव्यं रक्षस्वऽइति पित्रादीनाम् एवं स्पर्शयित्वाथ भोजयेत् विभवे सति सर्पिर्मासादीनि विशिष्टानि दद्यात्;अभावे तैलं शाकमिति भुञ्जानान् ब्राह्मणानाहवनीयार्थेन ध्यायेत्, पित्रादीन् देवतात्वेन, अन्नं चामृतत्वेन, आत्मानं ब्रह्मत्वेन भुञ्जनेषु च पराङावृत्त्य राक्षोध्नान् पित्र्यान् वैष्णवानन्यांश्च (खगपवित्रान्) पावमानमन्त्रान् धर्मशास्त्रमितिहासपुराणानि चामिश्रावयति तृप्तांश्च ज्ञात्वा मधुमतीश्श्रावयति, ऽअक्षन्नमीमदन्तऽइति च अथ भूमावन्नं (खग प्रकिरति) परिकिरति ये अग्निदग्धा ये ऽनग्निदग्धा ये वा जाताः कुले मम भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् इति अथाचान्तेषु पुनरपो दत्वा ऽस्वदितमऽइति पित्राद्यर्थान् वाचयति, ऽरोचयतेऽइति विश्वेदेवार्थान् ततो यथाशक्ति दक्षिणां दत्वाथ सर्वेभ्यो ऽन्नसेषेभ्यः पिण्डार्थ प्राशनार्थ चोद्घृत्य (अन्नशेषैः) अन्नशेषः किं क्रियतामऽ?इति शेषं निवेदयेत् ते च ऽइष्टैस्सह भुज्यतांऽइति प्रतिब्रूयुः अथ कर्ता दातारो नो ऽभिवर्धन्तां वेदास्सन्ततिरेव नः (खग.-षैः) श्रद्धा च नो मा व्यपगाद्बहु देयं च नो ऽस्तु इति प्रर्थयते दातारो वो ऽभिवर्धन्तां वेदास्सन्ततिरेव वः (खग-च) श्रद्धा च वो मा व्यगमद्बहु देयं च वो ऽस्तु इति तेषां प्रतिवचनम् अथ, अन्नं च नो बहु भवेदतिथींश्च लभेमहि याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन इति च प्रार्थयते (खगझ अतीर्थींश्च सभध्वम् याचितारश्च वस्सन्तु मा च याचध्वं वञ्चन इत्यधिकम् ) ऽअन्नं च वो बहु भवेतऽइत्यबहेनैव प्रतिवचनम् अनन्तरं ऽओं स्वाधाऽइत्याह ऽअस्तु स्वधाऽइति प्रतिवचनम् अथ ब्राह्मणानां पित्राद्यर्थानां पूर्व विसर्जनम् विश्वेषां देवानां पश्चाद्विसर्जनम् पूर्वोक्तेषु निवेदनादिषु सर्वेषु पदार्थेषु दैवपूर्वत्वमेव अथ यज्ञोपवीती भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य, प्राचीनावीती ऽद्वैधं दक्षिणाग्रानऽइत्यादि, ऽशेषस्य ग्रासवरार्ध्य प्राश्नीयातऽइत्येवमन्तं यथासूत्रं करोति अत्र चेदं वक्तव्यम् -ब्राह्मणभोजनं होमः पिण्डदानं च त्रीण्यपि मासिश्राद्धे प्रधानानि अग्न्याधेये (ङ ज-भाष्यकेरेणेत्याधिकम्) धूर्यस्वामिनोक्तत्वात् , वैश्वदेवे विश्वेदेवा इत्यत्र कपर्दिस्वामिनीक्तत्वाच्च केचित् -इह ब्राह्मणभोजनमेव प्रधानम्, हेमः पिण्डदानं च तदङ्गम्, अनर्थावेक्षो भोजयेदिति प्रकृत्य तयोर्विधानात् इति अथास्य मुख्यकल्पासम्भवे आमश्राद्धविधिरनुकल्पतयोच्यते आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि इति (छ-बृहस्पतिवचनात् बृहत्प्रचेतोवचनाच्च ज-वृहस्पतिप्रचेतसोर्वचनात्,) वृहत्प्रचेतोवचनात् अत्र व्यासः आवाहनं च कर्तव्यमर्ध्यदानं तथैव च एष एव विधिर्यत्र (ड-अन्न. छ-आम) यत्र श्राद्धं विदीयते यद्यद्ददाति विप्रभ्यः शृतं वा यदि वाशृतम् तेनाग्नौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् इति अत्र षट्त्रिंशन्मतमामश्राद्धं यदा कूर्यात् पिण्डदानं कथं भवेत् गृहादाहृत्य पक्वान्नं पिण्डान् जद्यात्तिलैस्सह इति प्रयोगसंक्षेपस्तु-पूर्वेद्युरपरेद्युर्वा ब्राह्मणान्निमन्त्र्य, पूर्वाह्णे स्नात्वा ब्राह्मणानाहूय, पादप्रक्षालनाद्यर्घ्यदानान्तं कृत्वा, यथाविभवं गन्धवस्त्रादिभिश्च यथार्हमभ्यर्च्य, ऽअग्नौ करिष्यामीऽत्यामन्त्र्य आथाग्निमुखान्ते तण्डुलाद्यमद्रव्येण होमकरणम् ततस्तन्त्रशेषं समाप्य, तण्डुलाद्यामद्रव्यं श्राद्धार्थ ददाति चरोरभावात्तद्धर्माणामभावः भोजनाभावाच्च तत्सम्बन्धिनामब्यणावः ततः पिण्डदानमामेन, गृहादाहृतेन पक्केन वेति अत्यन्तापदि तु ऽअपि ह वा हिरण्येन प्रदानमात्रंऽ, अपि ह वा हिरण्येन (खग ङ-प्रधानमात्रं एवमुत्तरत्रापि) प्रदानमात्रं अपि वा मूलफलैः प्रदानमात्रम्, इत्यादिबोधायनादिवचनाद्धिरण्यादेर्वा प्रदानमात्रं समस्तधर्मरहितं कुर्यात् एवं सर्वथापि श्राद्धमवश्यं कर्तव्यम् न तु कस्यांचिदप्यवस्थायां लोपः अत्र च श्राद्धविषये यद्यपि, वसवः पितरो ज्ञेयाः रुद्राश्चैव पितामहाः प्रपितामहास्तदित्याश्श्रुतिरेषा समातनी इत्यादिशास्त्रान्तरसिद्धं बहु वक्तव्यमस्ति;तथापि विस्तरभयादुपरम्यते

7 bhuktavatāmanuvrajanam, piṇḍadānam, śeṣabhakṣaṇaṃ ca bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarairapo datvottarairdakṣiṇāpavargān piṇḍāndatvā pūrvavaduttarairapo datvottarairupasthāyottarayodapātreṇa triḥprasavyaṃ pariṣicya nyubjya pātrāṇyuttaraṃ yajuranavānaṃ tryavarārghyamāvartayitvā prokṣyapātrāṇi dvandvamabhyudāhṛtya sarvatassamavadāyottareṇa yajuṣā śeṣasya grāsavarārghya prāśnīyāt āpgs_21.9 (pa.8.khaṃ.,21-9) commentaries: āpgs-anā_21.9: tatastānbhuktavato 'nuvrajya pradīkṣaṇīkṛtyapratyāvṛtya prācīnāvītī piṇḍapradānadeśe dakṣiṇāgrān darbhān saṃstṛṇātidvaidhaṃdvayoḥ sthānayorasaṃbhinnānityarthaḥ tatra pitṛbhyaḥ purastāt stṛmāti, mātṛbhyaḥ paścāt tathā cāśvalāyanaḥ -karṣūṣveke dvayoṣṣaṭsu vā, pūrvāsu pitṛbyo dadyāt, aparāsu strībhyaḥ (āśvagṛ.1-56,7,8) iti 'dakṣiṇāgraiḥ pitryeṣu'(āpagṛ.14) ityasya paristaraṇīvaṣayatvādiha dakṣiṇīnītyuktam saṃstīrya teṣūttarairmantraiḥ 'mārjayantāṃ mama pitara'ityādibhirapo dadāti pūrvavaditi vakṣyamāṇamantrāpyapakṛṣyante piṇḍaṃ pūrvavat dadāti piṇḍapitṛyajñe yat piṇḍadānaṃ tadityarthaḥ tena trīnudakāñjalīnityevamādayoviśeṣā ihāpi bhavanti tatra pitṛliṅgaiḥ pitṛbhyastīrṇeṣu, mātṛliṅgairmātṛbhyastīrṇeṣu evamapo datvā tata uttarairmantraiḥ 'etatte tatāsā'vityādibhisteṣu darbheṣūbhayeṣudakṣiṇāpavargān piṇḍān dadāti yathāliṅgaṃ pitṛbhyaśca mātṛbhyaśca asāvityatra sarvatra nāmagrahaṇaṃ yathāliṅgam atrāpi pūrvavadityasya sabandhāt savyaṃ jānvācyāvācīnapāṇirityādi vidhānamihāpi bhavati anekapitṛkasyoha iti paiṅgisūtram 'etadvāṃ tatau yajñaśarmaviṣṇuśarmāṇau ye ca yuvāmanu, 'etadvāṃ pitāmahā'- vityādi etadvāṃ mātarāvasau yāśca yuvāmanu'ityādidakṣiṇāpavargānityucyate-ubhayeṣāṃ piṇḍānāṃ pṛthak dakṣiṇāpavargatā yathā syāditi tena pitṛpiṇḍānāṃ dakṣiṇato mātṛpiṇḍā na bhavanti kiṃ tarhi ?paścāt evaṃ piṇḍān datvā pūrvavaduttarairapo dadāti pitṛbhyaśca mātṛbhyaśca mantrasamāmnāye'mārjantāṃ mama pitara ityete'iti mantrāṇāṃ punarādiṣṭatvāt 'uttarairapo datvā'ityeva siddhe pūrvavadityatidśaḥ piṇḍapitṛyajñapratyavamarśanārthaḥ -piṇḍeṣu codakāñjaliṣu ca tata uttarairmantraiḥ tānupatiṣṭhate yathāliṅgaṃ 'ye ca vo 'treti pitṝn, yāśca ve 'treti mātṝ;te ca vahantāmiti pitṛn, tāśca vahantāniti mātṝḥ, tṛpyaṃtu bhavta iti pitṝn, tṛpyaṃtu bhavatyaḥ iti mātṝḥ, tṛpyata tṛpyata tṛpyata ityubhayān tata uttarayarcā 'putrān pautrānityetayātriḥ prasavyamudapātreṇa pimḍān pariṣiñcati . ubhayāstaparyantviti lṅgāt piṇḍānāṃ sahapariṣecanam udapātravacanaṃ hastena mā bhūditi prasavyavacanamanuvādaḥ prasavyaṃ triguṇībhūtamekameva pariṣecanaṃ santataṃ yathā syāt, na piṇḍapitṛyajñavat trīṇi pariṣecanāni pṛthagiti evaṃ pariṣicya tataḥ pātrāṇi yānyatra prakṛtāni trīṇyarghyapātrāṇi pariṣecanapātrāmudakumbhaḥ yasmin piṇḍārthamannamuddhṛtaṃ tacceti tāninyubjyanyāñci kṛtvā tata uttaraṃ yajuḥ 'tṛpyata tṛpyata tṛpyate'tyetatanavānamanuchvasan tryavarārdhya māvartayati trirabhyāvṛttiḥ avarā mātrā yasyāvartanasya tattryavarārdhyam yajurgrahaṇaṃ 'tṛpyate'tyasya trirāvṛttasya paṭhitasyaikayajuṣṭvjñāpanārtham tasya trirāvṛttau navakṛtvo 'bhyāvṛttirbhavati evamāvṛtya nyakkṛtāni pātrāni prokṣyadvadvamabhyudāharatiudānayati abhīti vacanāt uttaraṃ karma pratyudāharatītyarthaḥ tenottarasminnapi śrāddhakarmaṇi tānyeva pātrāṇītyeke netyanye evamabhyudāhṛtya śeṣasyānnasyagrāsavarārghya grāso 'varārdhyo avamā mātrā yasya tatgrāsavarārdhyamchāndaso hrasvaḥ tatprāśnīyāt uttareṇa yajuṣā'prāṇe niviṣṭo 'mṛtaṃ juhomi'ityanenasarvatassarvabhyaḥ śrāddhaśeṣebhya annaśeṣebhya ityarthaḥ śrāddhāṅgamidaṃ prāśanaṃ, na nityasyāśanasya niyamavidhiḥ tasmāt tatrāpi prācīnāvītameva ācamane tu yajñopavītamanaṅgatvāt tataḥ pañcamahāyajñānāṃ pravṛttiḥ āpgs-tāt_21.9: atabhuktavato vrajato brāhmaṇānāgṛhasīmāntamanuvrajyapradakṣiṇīkaroti etayośca yajñopavītam katham?pradakṣiṇe tāvat 'yajñopavītinā pradakṣiṇam'iti sāhacaryāt anuvrajane 'pyanuvrajya pradakṣiṇīkṛtyeti pradakṣiṇasāhacaryāt tantreṇa caitadubhayaṃ, sambhavāt yadi tu kāraṇavaśāttantrābhāvaḥ, tadā pṛthakpṛthak atha pratyetya prācīnāvītī piṇḍadānadeśe dakṣiṇāgrān darbhān, dvaidhaṃdveghā saṃstṛṇāti tatra purastātpitrādyartha, paścānmātrādyartham;āśvalāyane darśanāt, ācārācca tatasteṣu darbeṣūttaraiḥ 'mārjayantāṃ mama mātaraḥ'ityādibhiśca yathārha dakṣiṇāpavargamapo datvā anantaramuttaraiḥ 'etatte tatāsau'ityādibhiḥ 'etatte mātasau'ityādibhiśca yathāliṅgaṃ trīṃstrīn dakṣiṇāpavargān piṇḍān dadāti piṇḍāśca hutaśeṣāt bhuktaśeṣācca samavadāya kartavyāḥ atra pūrveṣu triṣu mantreṣvasāvi- tyasya sthāne pitṛpitāmahaprapitāmahānāṃ nāmāni sambuddyā yathākramaṃ gṛhṇāti uttareṣu tu triṣu māthṛpitāmahāprapitāmahānām 'dakṣiṇato 'pavargaḥ'(āpagṛ.1-20) iti sāmānyavidhisiddhasyeha punarvacanaṃ, piṇḍadāna eva dakṣiṇāpavargaḥ'dvaidhaṃ darbāstaraṇeṣu tu paścimāpavarga iti jñāpanārtham, tathobhayeṣāṃ piṇḍānāṃ pratyekaṃ dakṣiṇāpavargasiddhyartha ca atha pūrvavat 'mārjayantām'ityādibhirevāpo dadāti kecit-'teṣūttarairapo datvā uttarairdakṣiṇāpavargān piṇḍān datvā'ityetayorapi 'pūrvavat'iti padamapakṛṣya triṣvapi sūtreṣu codyamānaṃ pūrvavat piṇḍapitṛyajñavatkartavyamiti vyācakṣate prayojanaṃ tu"trīnudakāñjalīnninayati"(āpaśrau.1-8-10) 'savyaṃ jānvācyāvācīnapāṇiḥ '(āpaśrau.1-9-1) ityādividhānāmihāpi bhavatīti tanna;apakarṣasyaivāyuktatvāt, pūrvavadityasya piṇḍapitṛyajñavadityevaṃbuddhyanudayācca yadi tvācārabalāt 'savyaṃ jānvācya'ityādīhāpi kartavyamevetyucyeta, tadā na kaściddoṣaḥ athottaraiḥ 'ye ca vo 'tra'ityādibhiṣṣarḍrbhimantrairyathā kramaṃ yathāliṅgaṃ pitṝn tristrirupatiṣṭhate tṛpyatetyanena trirāvṛttena ubhayāṃstantreṇa kecit catvāro mantrāḥ na ṣaṭ tatra prathamo mantro 'ye ca vo 'tra'ityādiḥ 'tāśca vahantām'ityantaḥ ubhayoṣāmupasthānārthaḥ 'tṛpyantu bhavantaḥ'; iti pitṝṇām 'tṛpyantu bhavatyaḥ'iti mātṝṇām 'tṛpyata tṛpyata tṛpyata'ityubhayeṣāmiti tatauttarayā'putrānpautrān'ityetayā ubhayeṣāṃ piṇḍānyugapadudapātreṇa triḥ prasavyamavicchinnaṃpariṣiñcati sāmānyavidhisiddhasya prasavyasyeha punarvacanaṃ pūrvatra"pradakṣiṇīkṛtya"iti vacanādihāpi prādakṣiṇyaṃ syāditi śaṅkānirāsārtham anantaraṃ pātrāṇi homārthāni piṇḍadānārthāni ca kecit-bhojanārthāni vodadānārthāni ca, na tu homārthānīti nyubjyaadhobilāni kṛtvā tatauttaraṃ yajuḥ'tṛpyata tṛpyata tṛpyata'ityāmnānata evaṃ trirabhyastam anavānaṃanucchvasan tryavarārdhya trirabhyāvṛttiravarā mātrā yasyāvartanasya tatttryavarārdhyam yathā bhavati tathāvartayati tataścāvamāyāmapi mātrāyāṃ tṛpyateti navakṛtvo 'bhyāsitavyaṃ bhavati evamanavānaṃ yāvacchattyāvartya, tataḥpātrāṇi nyagabhūtāni vaprokṣya, dvandvamabhyudāharati atrābhyupasargāduttaraṃ karma pratyudāharati teṣāṃ pātrāṇāṃ niriṣṭikadoṣo nāstīti bhāvaḥ athaśeṣasyānnasyagrāsavarārdhya grāsāvarārdhyam chāndasatvādghrasvaḥ uttareṇa yajuṣā'prāṇe niviṣṭaḥ'; ityanena prāśnīyāt etacca sarvatassarvebhyo 'nnaśeṣebhyassamavadāya kāryam idaṃ ca prāśanaṃ bhojanecchāyāmasatyāmapi grāsavarārdhyamavaśyaṃ prāśyaṃ; karmāṅgatvāt evaṃ prāśya, tataśśuddhyartha yajñopavītyācāmet athātra sūtrāṇāmapūrṇatvādanyatassiddhānapi padārthānupasaṃhṛtya yathāpratibhāsaṃ prayoga utyate-pūrvedyussāyamaupāsanahomaṃ hutvā prācīnāvītī kṛtaprāṇāyāmaḥ śvo māsiśrāddhaṃ kartāsmīti saṅkalpya śucitvādiguṇasampannebhyaḥ śvitrādidoṣavarjitebhyaḥ kṛtasāyamāhnikebhyo brāhmaṇebhyo nivedayet tatra prathamaṃ yajñopavītī bhūtvā 'śvo māsiśrāddhaṃ bhavitā, tatra bhavadbhirviśvadevārthe kṣaṇaḥ kartavyaḥ'iti viśvadevārthebhyo brāhmaṇebhyo nivedayet tataḥprācīnāmītī 'pitrarthe kṣaṇaḥ kartavyaḥ'iti pitrarthebhyaḥ 'pitāmahārthe kṣaṇaḥ kartavyaḥ'iti pitāmahārthebhyaḥ prapitāmahārthe kṣaṇaḥ kartavyaḥ 'iti prapitāmahārthebhyaḥ ekabrahmaṇapakṣe tu 'pitṛpitāmahaprapitāmahārthe kṣaṇaḥ kartavyaḥ'iti mātāmahaśrāddhakārī cet, ūhena 'mātāmahārthe kṣaṇaḥ'ityādinā nivedayet tatra cādhārayostadartasamidhorājyabhāgayoragnimukhāhutau svaviṣṭakṛti prāyaścittāhutau ca yajñopavītī tathā viśvadevārtheṣu sarveṣu padārtheṣu ca pradakṣiṇānuvrajanayośca yajñopavītameva ebhyo 'nyatrāsamāptessarvatra prācīnāvītameva etacca prāgevopapāditam kartuścātra saṅkalpādārabhya āsamāpterbrahmacaryādivratacaryā anaśanaṃ ca bhavati bhoktṝṇāmapi manūkto 'krodhatvādiḥ athāparedyuḥ prātastān brāhmaṇān gṛhamānīya ācāntānāsaneṣūpaveśya pūrvavaddvitāyamāmantraṇam atra tvadya śrāddhaṃ bhaviṣyatīti bhedaḥ 'pūrvedyurnivedanaṃ aparedyurdvitīyaṃ tṛtāyaṃ cāmantraṇam'itivacanāt atha teṣāṃ pādān kuṇḍeṣu sakūrcatileṣvavanijyācamayya, kṛsaratāmbūlādīni datvā abhyajya snānārtha prasthāpayet te ca snāyuḥ tatassvayaṃ ca snāto brāhmaṇa bhojanārthādannādanyenānnena vaiśvadevaṃ pañcamahāyajñāṃśca kuryāt kecit-samāpte śrāddhe iti tato 'parāhṇeprācīnāvītī brāhmaṇān prakṣālitapāṇipādānācāntānāsaneṣūpaveśayati tatra viśvadevārthān prāṅmukhān prākkūleṣu darbheṣu pitrādyarthānudaṅmukhān dviguṇabhugneṣu dakṣiṇāgreṣu darbheṣu śrāddhāgāraṃ ca sucau deśe dakṣiṇāpravaṇe sarvataḥ pariśritamudagdvāraṃ ca bhavati tasyottarapūrvadeśe 'gniraupāsanaḍa- agnedakṣiṇataḥ piṇḍapradānārtha sthaṇaḍilam tasya dakṣiṇataḥ ptrādyarthānāmāsanam paścāttu viśvedevārthānāmāsanam sthaṇḍileṣu yathāvakāśaṃ pitrādibhyasriṣu pātreṣu ekasmin vā śāstrāntaroktavidhinārghyārthamudakagrahaṇam viśvebhyo devebhyaśca yathāvidhi pātrāntare tāni gandhādibhirabhyarcya, darbheṣu sādayitvā darbhaiḥ pracchādyāthāsanagatānāṃ brāhmaṇānāṃ hasteṣu svasmātsvasmādudapātrātpātrāntareṇāpa ādāya 'viśva devāḥ idaṃ vo arghya''pitṛpitāmahaprapitāmahāidaṃ vo arghya 'iti vārghyāṇi dadāti idamevārghyadānaṃ śrāddhe svadhāninayanamudapātrānayanamiti cocyate purastādupariṣṭāccarghyadānāddhasteṣu śuddhodakadānam tato gandhādibhirvāsobhiraṅgulīyakādibhiśca yathāvibhavaṃ brāhmaṇānāmabhyarcanam tatastān 'uddhriyatāmagnau ca griyatām'iti pratibrūyuḥ 'udīcyavṛttistvāsanagatānāṃ hasteṣūdapātrānayanam uddhriyatāmagnau ca kriyatā mityāmantrayate kāmamuddhiyatākāmamagnau ca kriyatāmityatisṛṣṭa uddharejjuhuyācca'(āpadha.2-17-17,18,19) iti dharmaśāstravacanāt etacchodapātrānayanaṃ uddhriyatāmityāmantraṇaṃ ca pākṣikam, bhāṣyakāreṇānuktatvāt, udhīcyavṛttirityasya samāsasya udhīcyānāṃ vṛttirudīcyeśu vṛttirityubhayathāpi vigrahābhyupagamācca atha brāhmaṇabhojanārthādannāt haviṣyamodanāpūpādikaṃ ekasmin pātre samuddhṛtya ahaviṣyaṃ kṣārādisaṃsṛṣṭamanyasmin pātre uddhṛtyātha haviṣyaṃ pratiṣṭhatamabhighār agnerupasamādhānādyagnimukhāntaṃ kṛtvā 'yanme mātā'ityādibhistrayodaśa pradhānāhutīrhutvā sviṣṭakṛtaṃ ca tata udīcīnamuṣṇaṃ bhasmāpohya ahaviṣyaṃ svāhākāreṇa hutvātha 'lepayoḥ'ityādi tantraśeṣaṃ samāpya tataḥ 'eṣa te tata'ityādibhissarvamannamabhimṛśya atha pṛthakpṛthaktṛtīyamāmantraṇaṃ pūrvavadeva kṛtvā triṣvapi cāmantraṇeṣu 'oṃ tathā'iti prativacanaṃ brāhmaṇānām tataḥ kartuḥ prārthan'iti tataḥ 'prāpnavāni'ityaṅgīkāro bhoktṝṇām apare kramāntaramāhuḥ- vaiśvadevapañcamahāyajñānantaraṃ aparāhṇe prācīnāvītī agnerupasamādhānādi karoti tatra svadhāninayanapakṣe pātrasaṃsādanakāle svadhāpātrāṇāmapi sādanam praṇītāḥ praṇīya vidhivat svadhāgrahaṇam tato 'brāhmaṇaṃ dakṣiṇato niṣādya'; ityādyagnimukhānte kṛtepādaprakṣālanādi uddhiyatāmityāmantrya, annamuddhtya pradhānahomādaya iti ihāpi pakṣe svadhāninayanaṃ pākṣikameva anye tu- māsiśrāddhe śāstrāntarānusārānmantravanniyamavadbhojanadeśasaṃskāraṃ, viśveṣāṃ devānāṃ cāvāhanaṃ, bhojayitvodvāsanaṃ cecchanti atra ca padārtheṣu krame ca śiṣṭācārādeva nirṇayaḥ, sūtrakārabhāṣyakārābhyāmanuktatvāt atha prakṛtamucyate-bhojanapātrakḷptānannaviśeṣān yathāsvaṃ brāhmaṇānupasparśayati 'pṛthivī te pātraṃ, ityetayā 'idaṃ viṣṇurvicakrame'ityetayā ca tasyāścānte 'viṣṇo bavyaṃ rakṣasva'iti viśveṣāṃ devānāṃ, 'viṣṇo kavyaṃ rakṣasva'iti pitrādīnām evaṃ sparśayitvātha bhojayet vibhave sati sarpirmāsādīni viśiṣṭāni dadyāt;abhāve tailaṃ śākamiti bhuñjānān brāhmaṇānāhavanīyārthena dhyāyet, pitrādīn devatātvena, annaṃ cāmṛtatvena, ātmānaṃ brahmatvena bhuñjaneṣu ca parāṅāvṛttya rākṣodhnān pitryān vaiṣṇavānanyāṃśca (khagapavitrān) pāvamānamantrān dharmaśāstramitihāsapurāṇāni cāmiśrāvayati tṛptāṃśca jñātvā madhumatīśśrāvayati, 'akṣannamīmadanta'iti ca atha bhūmāvannaṃ (khaga prakirati) parikirati ye agnidagdhā ye 'nagnidagdhā ye vā jātāḥ kule mama bhūmau dattena piṇḍena tṛptā yāntu parāṃ gatim iti athācānteṣu punarapo datvā 'svaditam'iti pitrādyarthān vācayati, 'rocayate'iti viśvedevārthān tato yathāśakti dakṣiṇāṃ datvātha sarvebhyo 'nnaseṣebhyaḥ piṇḍārtha prāśanārtha codghṛtya (annaśeṣaiḥ) annaśeṣaḥ kiṃ kriyatām'?iti śeṣaṃ nivedayet te ca 'iṣṭaissaha bhujyatāṃ'iti pratibrūyuḥ atha kartā dātāro no 'bhivardhantāṃ vedāssantatireva naḥ (khaga.-ṣaiḥ) śraddhā ca no mā vyapagādbahu deyaṃ ca no 'stu iti prarthayate dātāro vo 'bhivardhantāṃ vedāssantatireva vaḥ (khaga-ca) śraddhā ca vo mā vyagamadbahu deyaṃ ca vo 'stu iti teṣāṃ prativacanam atha, annaṃ ca no bahu bhavedatithīṃśca labhemahi yācitāraśca nassantu mā ca yāciṣma kañcana iti ca prārthayate (khagajha atīrthīṃśca sabhadhvam yācitāraśca vassantu mā ca yācadhvaṃ vañcana ityadhikam ) 'annaṃ ca vo bahu bhavet'ityabahenaiva prativacanam anantaraṃ 'oṃ svādhā'ityāha 'astu svadhā'iti prativacanam atha brāhmaṇānāṃ pitrādyarthānāṃ pūrva visarjanam viśveṣāṃ devānāṃ paścādvisarjanam pūrvokteṣu nivedanādiṣu sarveṣu padārtheṣu daivapūrvatvameva atha yajñopavītī bhuktavato 'nuvrajya pradakṣiṇīkṛtya, prācīnāvītī 'dvaidhaṃ dakṣiṇāgrān'ityādi, 'śeṣasya grāsavarārdhya prāśnīyāt'ityevamantaṃ yathāsūtraṃ karoti atra cedaṃ vaktavyam -brāhmaṇabhojanaṃ homaḥ piṇḍadānaṃ ca trīṇyapi māsiśrāddhe pradhānāni agnyādheye (ṅa ja-bhāṣyakereṇetyādhikam) dhūryasvāminoktatvāt , vaiśvadeve viśvedevā ityatra kapardisvāminīktatvācca kecit -iha brāhmaṇabhojanameva pradhānam, hemaḥ piṇḍadānaṃ ca tadaṅgam, anarthāvekṣo bhojayediti prakṛtya tayorvidhānāt iti athāsya mukhyakalpāsambhave āmaśrāddhavidhiranukalpatayocyate āpadyanagnau tīrthe ca candrasūryagrahe tathā āmaśrāddhaṃ dvijaiḥ kārya śūdraḥ kuryātsadaiva hi iti (cha-bṛhaspativacanāt bṛhatpracetovacanācca ja-vṛhaspatipracetasorvacanāt,) vṛhatpracetovacanāt atra vyāsaḥ āvāhanaṃ ca kartavyamardhyadānaṃ tathaiva ca eṣa eva vidhiryatra (ḍa-anna. cha-āma) yatra śrāddhaṃ vidīyate yadyaddadāti viprabhyaḥ śṛtaṃ vā yadi vāśṛtam tenāgnau karaṇaṃ kuryātpiṇḍāṃstenaiva nirvapet iti atra ṣaṭtriṃśanmatamāmaśrāddhaṃ yadā kūryāt piṇḍadānaṃ kathaṃ bhavet gṛhādāhṛtya pakvānnaṃ piṇḍān jadyāttilaissaha iti prayogasaṃkṣepastu-pūrvedyuraparedyurvā brāhmaṇānnimantrya, pūrvāhṇe snātvā brāhmaṇānāhūya, pādaprakṣālanādyarghyadānāntaṃ kṛtvā, yathāvibhavaṃ gandhavastrādibhiśca yathārhamabhyarcya, 'agnau kariṣyāmī'tyāmantrya āthāgnimukhānte taṇḍulādyamadravyeṇa homakaraṇam tatastantraśeṣaṃ samāpya, taṇḍulādyāmadravyaṃ śrāddhārtha dadāti carorabhāvāttaddharmāṇāmabhāvaḥ bhojanābhāvācca tatsambandhināmabyaṇāvaḥ tataḥ piṇḍadānamāmena, gṛhādāhṛtena pakkena veti atyantāpadi tu 'api ha vā hiraṇyena pradānamātraṃ', api ha vā hiraṇyena (khaga ṅa-pradhānamātraṃ evamuttaratrāpi) pradānamātraṃ api vā mūlaphalaiḥ pradānamātram, ityādibodhāyanādivacanāddhiraṇyādervā pradānamātraṃ samastadharmarahitaṃ kuryāt evaṃ sarvathāpi śrāddhamavaśyaṃ kartavyam na tu kasyāṃcidapyavasthāyāṃ lopaḥ atra ca śrāddhaviṣaye yadyapi, vasavaḥ pitaro jñeyāḥ rudrāścaiva pitāmahāḥ prapitāmahāstadityāśśrutireṣā samātanī ityādiśāstrāntarasiddhaṃ bahu vaktavyamasti;tathāpi vistarabhayāduparamyate


10

एवं प्रकृतिभूतं मासिश्राद्धं व्याख्यायेदानीं तद्विकृतिभूतं प्रतिसंवत्सरमनुष्ठेयं अष्टकाख्यं पाकयज्ञान्तरं व्याख्यास्यन्, तस्य कालविधिमाह 23 अष्टकाश्राद्धम् 1 तस्य क्रालः या माघ्याः पौर्णमास्या उपरिद्व्यह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते आप्ग्स्_21.10 (प.8.,ख.21) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.10: व्याख्यातः श्रद्धविधिः अथाष्टका नाम पाकयज्ञः पित्र्यः संवत्सरे संवत्सरे कर्तव्यः स उपदिश्यते तस्य कालविधिरयं या माधी तस्याउपरिष्टाद्व्याष्टकाकृष्णपक्षः तस्यां या अष्टमीतामेकाष्टका इत्याचक्षतेसा यदिज्येष्ठया सम्पद्यतेसङ्गच्छते तामप्येकाष्टकेत्याचक्षते इति द्वाविमौ योगौ अन्यथा पौर्णमास्या उपरिष्टादष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षत इत्येतावता सिद्धम् किं व्यष्टकत्वम् द्व्यष्टकाग्रहणस्य प्रयोजनं मृग्यम् किमर्थ ज्येष्ठया सम्पद्यत इति?यदा द्वयोरह्नोरष्टमी तदा ज्येष्ठासंयुक्तायां क्रिया यथा स्यादिदि

evaṃ prakṛtibhūtaṃ māsiśrāddhaṃ vyākhyāyedānīṃ tadvikṛtibhūtaṃ pratisaṃvatsaramanuṣṭheyaṃ aṣṭakākhyaṃ pākayajñāntaraṃ vyākhyāsyan, tasya kālavidhimāha 23 aṣṭakāśrāddham 1 tasya krālaḥ yā māghyāḥ paurṇamāsyā uparidvyahyaṣṭakā tasyāmaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣate āpgs_21.10 (pa.8.,kha.21) commentaries: āpgs-anā_21.10: vyākhyātaḥ śraddhavidhiḥ athāṣṭakā nāma pākayajñaḥ pitryaḥ saṃvatsare saṃvatsare kartavyaḥ sa upadiśyate tasya kālavidhirayaṃ yā mādhī tasyāupariṣṭādvyāṣṭakākṛṣṇapakṣaḥ tasyāṃ yā aṣṭamītāmekāṣṭakā ityācakṣatesā yadijyeṣṭhayā sampadyatesaṅgacchate tāmapyekāṣṭaketyācakṣate iti dvāvimau yogau anyathā paurṇamāsyā upariṣṭādaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣata ityetāvatā siddham kiṃ vyaṣṭakatvam dvyaṣṭakāgrahaṇasya prayojanaṃ mṛgyam kimartha jyeṣṭhayā sampadyata iti?yadā dvayorahnoraṣṭamī tadā jyeṣṭhāsaṃyuktāyāṃ kriyā yathā syādidi


10

आप्ग्स्-तात्_21.10: माध्याःमाघमासस्य सम्बन्धिन्याःपौर्णमास्याः उपसिष्टादूर्ध्व या व्यष्टकाकृष्णपक्ष इत्यर्थः तस्यांव्यष्टकायां याअष्टमी तिथिःज्येष्ठयाज्येष्ठानक्षत्रेणसम्पद्यतेसङ्गच्छते तामष्टमीमे काष्टकेत्याचक्षतेकथयन्ति ब्रह्मवादिनः तस्यामष्टका कर्तव्येति शेषः एकाष्टकायां वपाहोमादि प्रधानं कर्तव्यमित्यर्थः तामेकाष्टकेत्याचक्षत इति वचनं यान्यन्यान्यप्येकाष्टकायां विहितानि, यथा गवामयनदीक्षा यथा च दीर्घसत्रेषु विज्ञानार्थमपूपेन कक्षस्योपोषणं, यथाव चेखासम्भरणं, तानि च सर्वाणि यथोक्तलक्षणायामेवाष्टम्यां कार्यामीत्येवमर्थम् अत्रायमभिप्रायः- यद्यपि माघमासस्य सर्वा कृष्णपक्षाष्टमी ज्येष्ठया न सम्पद्यते;तथापि तस्यामेकाष्टका कर्तव्यैव;पाकयज्ञत्वेन नित्यत्वात्, ऽव्यष्टका तस्यांऽइत्यधिकग्रहणाच्चेति ज्येष्ठयासम्पद्यतैति तु प्रायिकाभिप्रायम् तेनायुक्तायामपि गवामयनदीक्षादीनि लभ्यन्ते केचित्- यदा द्वयोरह्नोरष्टमी, यस्मिन्वा संवत्सरे द्वौ माघमासौ, तत्र या अष्टमी ज्येष्ठया सम्पद्यते तस्यामेव नास म्पन्नायामित्येवमभिप्राय इति

āpgs-tāt_21.10: mādhyāḥmāghamāsasya sambandhinyāḥpaurṇamāsyāḥ upasiṣṭādūrdhva yā vyaṣṭakākṛṣṇapakṣa ityarthaḥ tasyāṃvyaṣṭakāyāṃ yāaṣṭamī tithiḥjyeṣṭhayājyeṣṭhānakṣatreṇasampadyatesaṅgacchate tāmaṣṭamīme kāṣṭaketyācakṣatekathayanti brahmavādinaḥ tasyāmaṣṭakā kartavyeti śeṣaḥ ekāṣṭakāyāṃ vapāhomādi pradhānaṃ kartavyamityarthaḥ tāmekāṣṭaketyācakṣata iti vacanaṃ yānyanyānyapyekāṣṭakāyāṃ vihitāni, yathā gavāmayanadīkṣā yathā ca dīrghasatreṣu vijñānārthamapūpena kakṣasyopoṣaṇaṃ, yathāva cekhāsambharaṇaṃ, tāni ca sarvāṇi yathoktalakṣaṇāyāmevāṣṭamyāṃ kāryāmītyevamartham atrāyamabhiprāyaḥ- yadyapi māghamāsasya sarvā kṛṣṇapakṣāṣṭamī jyeṣṭhayā na sampadyate;tathāpi tasyāmekāṣṭakā kartavyaiva;pākayajñatvena nityatvāt, 'vyaṣṭakā tasyāṃ'ityadhikagrahaṇācceti jyeṣṭhayāsampadyataiti tu prāyikābhiprāyam tenāyuktāyāmapi gavāmayanadīkṣādīni labhyante kecit- yadā dvayorahnoraṣṭamī, yasminvā saṃvatsare dvau māghamāsau, tatra yā aṣṭamī jyeṣṭhayā sampadyate tasyāmeva nāsa mpannāyāmityevamabhiprāya iti


11

तस्यास्सायमौपकार्यम् आप्ग्स्_21.11 (प.8.ख.21) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.11: उप समीपे क्रियत इत्युपकारः तत्र भवमौपकार्यम् तस्या औपकार्यमित्यन्वयः तस्याःएकाष्टकायाः समीपे यत्कर्म क्रियते पूर्वेद्युस्सप्तम्याम्, तत्रचतुश्शरावमपूपं श्रपयति सायं सप्तम्यामस्तमिते आदित्ये अपूपहविष्कं कर्म कर्तव्यमित्यर्थः तदेवमौपकार्यशब्दः कालाविधानार्थः तस्यास्सायमित्यन्वये अष्टम्यामस्तमिते ऽपूपं प्राप्नोति, नवम्यां पशुः, ऽदशम्यामन्वष्टकाऽ, तच्छास्त्रेष्वप्रसिद्धम् औपकार्यशब्दश्चानर्थकः

tasyāssāyamaupakāryam āpgs_21.11 (pa.8.kha.21) commentaries: āpgs-anā_21.11: upa samīpe kriyata ityupakāraḥ tatra bhavamaupakāryam tasyā aupakāryamityanvayaḥ tasyāḥekāṣṭakāyāḥ samīpe yatkarma kriyate pūrvedyussaptamyām, tatracatuśśarāvamapūpaṃ śrapayati sāyaṃ saptamyāmastamite āditye apūpahaviṣkaṃ karma kartavyamityarthaḥ tadevamaupakāryaśabdaḥ kālāvidhānārthaḥ tasyāssāyamityanvaye aṣṭamyāmastamite 'pūpaṃ prāpnoti, navamyāṃ paśuḥ, 'daśamyāmanvaṣṭakā', tacchāstreṣvaprasiddham aupakāryaśabdaścānarthakaḥ


11

आप्ग्स्-तात्_21.11: त्रिपदमिदं सूत्रम् तस्या अष्टकायाऔपकार्यमुपकारकम् उपकारं करोतीति कर्तरि यत्प्रत्ययः छान्दसः अष्टकाया अङ्गभूतं कर्मेत्यर्थः सायं पूर्वेद्युस्सप्तम्याः सोमयागस्याग्नीषोमीयपशुयागवत्तस्या अष्टकाया अङ्गभूतं कर्म पूर्वेद्युस्सप्तम्यास्सायङ्काले कर्तव्यमिति सूत्रार्थः न त्विह तस्या अष्टकाया इति सम्बन्धः नवम्यां वपाहोमादि प्रधानप्रसङ्गात् न चैतद्युक्तम्;या माध्याइति कालविधानस्यौपकार्यार्तत्वोपपत्तौ ऽप्रकरणात्प्रधानस्यऽइति न्यायविरोधात्, शास्त्रान्तरेष्वप्रसिद्धत्वाच्च

āpgs-tāt_21.11: tripadamidaṃ sūtram tasyā aṣṭakāyāaupakāryamupakārakam upakāraṃ karotīti kartari yatpratyayaḥ chāndasaḥ aṣṭakāyā aṅgabhūtaṃ karmetyarthaḥ sāyaṃ pūrvedyussaptamyāḥ somayāgasyāgnīṣomīyapaśuyāgavattasyā aṣṭakāyā aṅgabhūtaṃ karma pūrvedyussaptamyāssāyaṅkāle kartavyamiti sūtrārthaḥ na tviha tasyā aṣṭakāyā iti sambandhaḥ navamyāṃ vapāhomādi pradhānaprasaṅgāt na caitadyuktam;yā mādhyāiti kālavidhānasyaupakāryārtatvopapattau 'prakaraṇātpradhānasya'iti nyāyavirodhāt, śāstrāntareṣvaprasiddhatvācca


12

अथास्यैपकार्यस्य विधिमाह व्रीहीणांचतुश्सरावंतूष्णीं निरुप्य पार्वणावत् पत्न्यवहन्तीत्यादिविधिनापूपंश्रपयति अपूपः प्रथितावयवः प्रसिद्धः प्रतिष्ठिताभिघारणान्तं च करोति आप्ग्स्_21.12 2 अपूपवाकः अपूपं चतुश्शरावं श्रपयति

athāsyaipakāryasya vidhimāha vrīhīṇāṃcatuśsarāvaṃtūṣṇīṃ nirupya pārvaṇāvat patnyavahantītyādividhināpūpaṃśrapayati apūpaḥ prathitāvayavaḥ prasiddhaḥ pratiṣṭhitābhighāraṇāntaṃ ca karoti āpgs_21.12 2 apūpavākaḥ apūpaṃ catuśśarāvaṃ śrapayati


12

अष्टाकपाल इत्येके आप्ग्स्_21.13 (प.8.,ख.,21) चोम्मेन्तरिएस्: आप्ग्स्-अना_21.13: सायमपूपाष्टाकपालो हविः इत्येके मन्यन्ते अष्टसु कपालेषु संस्कृतो ऽष्टाकपालः अस्मिन् पक्षे पुरोडाशस्यावृता श्रपणम् पूर्वस्य तु लौकिक्यापूपस्यावृता द्वयोरपि पक्षयोः औपासने श्रपणम् एतच्च पित्र्यस्याङ्गमपि कर्म स्वयं पित्र्यं न भवति, ऽतेन प्राचीनावीतादि न भवति

aṣṭākapāla ityeke āpgs_21.13 (pa.8.,kha.,21) commentaries: āpgs-anā_21.13: sāyamapūpāṣṭākapālo haviḥ ityeke manyante aṣṭasu kapāleṣu saṃskṛto 'ṣṭākapālaḥ asmin pakṣe puroḍāśasyāvṛtā śrapaṇam pūrvasya tu laukikyāpūpasyāvṛtā dvayorapi pakṣayoḥ aupāsane śrapaṇam etacca pitryasyāṅgamapi karma svayaṃ pitryaṃ na bhavati, 'tena prācīnāvītādi na bhavati


13

इति श्रीहगदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायामेकविंशःखण्डः आप्ग्स्-तात्_21.13: अष्टसु कपोलेषु संस्कृतः पुरोडाशो ऽष्टकपालः सः श्रपयितव्य इत्येके पुरोडाश इति च प्रसिद्ध आकृतिविशेषः तेन लौकिकेन प्रकारेण पाक औपासनं एव

iti śrīhagadattamiśraviracitāyāṃ gṛhyasūtravṛttāvanākulāyāmekaviṃśaḥkhaṇḍaḥ āpgs-tāt_21.13: aṣṭasu kapoleṣu saṃskṛtaḥ puroḍāśo 'ṣṭakapālaḥ saḥ śrapayitavya ityeke puroḍāśa iti ca prasiddha ākṛtiviśeṣaḥ tena laukikena prakāreṇa pāka aupāsanaṃ eva


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकविंशः खण्डः द्वाविंशः खण्डः 3 अञ्जलिनापूपहोमः पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरयापूपाज्जुहोति आप्ग्स्_22.1 (प.8.ख.,22-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.1: प्रतिष्ठिताभिधारणान्ते कृते अग्नेरुपसमाधाज्यभागान्तं कृत्वा पार्वणवदवदानकल्पेनापूपादुत्तरयर्चा अञ्जलिना जुहोति ऽयां जनाः प्रतिनन्दन्तीऽत्येतया सामर्थ्यादुपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता आज्यभागान्तवचनं तन्त्रविधानार्थम् एतदेव ज्ञापकं न पित्र्यमेतत्कर्मेति अन्यथा यथा मासिश्राद्धे ऽष्टकायां च यत्नाभावे ऽपि तन्त्रं प्रवर्तते, पित्र्येषु यत्नाभावे ऽपि तन्त्रं प्रवर्ततो इत्युक्तत्वात्, तथात्रापि सिद्धं स्यात् पार्वणवद्वचनं अञ्जलिहोमानामधर्मग्राहकत्वात् अवदानकल्पप्राप्त्यर्थ अञ्जलिनापि जुह्वत् पार्वणवदवदानकल्पेन जुहोतीति सादनप्रोक्षणसं मार्जनान्यञ्जलेर्न भवन्ति

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ekaviṃśaḥ khaṇḍaḥ dvāviṃśaḥ khaṇḍaḥ 3 añjalināpūpahomaḥ pārvaṇavadājyabhāgānte 'ñjalinottarayāpūpājjuhoti āpgs_22.1 (pa.8.kha.,22-1) commentaries: āpgs-anā_22.1: pratiṣṭhitābhidhāraṇānte kṛte agnerupasamādhājyabhāgāntaṃ kṛtvā pārvaṇavadavadānakalpenāpūpāduttarayarcā añjalinā juhoti 'yāṃ janāḥ pratinandantī'tyetayā sāmarthyādupastaraṇābhighāraṇayoravadānasya cānyaḥ kartā ājyabhāgāntavacanaṃ tantravidhānārtham etadeva jñāpakaṃ na pitryametatkarmeti anyathā yathā māsiśrāddhe 'ṣṭakāyāṃ ca yatnābhāve 'pi tantraṃ pravartate, pitryeṣu yatnābhāve 'pi tantraṃ pravartato ityuktatvāt, tathātrāpi siddhaṃ syāt pārvaṇavadvacanaṃ añjalihomānāmadharmagrāhakatvāt avadānakalpaprāptyartha añjalināpi juhvat pārvaṇavadavadānakalpena juhotīti sādanaprokṣaṇasaṃ mārjanānyañjalerna bhavanti

Section (cont. 24)

1

आप्ग्स्-तात्_22.1: ततः पार्वणवदग्नेरुपसमाधानाद्यग्निमुखान्ते, स्वकीयेनावदानधर्मेणापूपात्पुरोडाशाद्वावदाय उत्तरयर्चा ऽयां जनाः प्रतिनन्दन्तिऽ; इत्येतया अञ्जलिना जुहोति अञ्जलेस्तु ऽयेन जुहोतिऽइत्यादिसंस्कारलेपाञ्जनमुपस्तरणाभिगारणहविरवदानानि च विप्रतिषेधादन्यः कुर्यात् स्विष्टकृतं तु दर्व्यैव जुहोति, नाञ्जलिना;विकृतौ चोद्यमानो धर्मः प्रधानार्थो भवतीति न्यायात् न च वाच्यमौपकार्यस्याङ्गत्वात् प्राधान्यमेव नास्तीति ;यतो ऽस्यापि स्वाङ्गापेक्षया प्राधान्यमस्त्येव अत एव ऽमन्दं दीक्षणीयायामनुव्रूयातऽ(आपश्रौ 10-4-11) इति वाङ्नियमस्सोमाङ्गभूतदीक्षणीयाप्रधानमात्रार्थः न तदङ्गप्रयाजाद्यर्थो ऽपि तथा ऽततस्तूष्णीमाग्निहोत्रं जुहोतिऽ(आपश्रौ.5-17-6) इति तूष्णीकत्वमाधानाङ्गभूतस्य नैयमिकाग्निहोत्रविकृतेः प्रधानस्यैव धर्मः न तदङ्गानामपीति औपकार्यस्य चौषधिहवुष्कत्वादेव सिद्धस्य तन्त्रस्य पुनर्वचनं एतत्स्नापन्नदधिहोमे ऽपि प्राप्त्यर्थमित्युक्तमेव

āpgs-tāt_22.1: tataḥ pārvaṇavadagnerupasamādhānādyagnimukhānte, svakīyenāvadānadharmeṇāpūpātpuroḍāśādvāvadāya uttarayarcā 'yāṃ janāḥ pratinandanti'; ityetayā añjalinā juhoti añjalestu 'yena juhoti'ityādisaṃskāralepāñjanamupastaraṇābhigāraṇahaviravadānāni ca vipratiṣedhādanyaḥ kuryāt sviṣṭakṛtaṃ tu darvyaiva juhoti, nāñjalinā;vikṛtau codyamāno dharmaḥ pradhānārtho bhavatīti nyāyāt na ca vācyamaupakāryasyāṅgatvāt prādhānyameva nāstīti ;yato 'syāpi svāṅgāpekṣayā prādhānyamastyeva ata eva 'mandaṃ dīkṣaṇīyāyāmanuvrūyāt'(āpaśrau 10-4-11) iti vāṅniyamassomāṅgabhūtadīkṣaṇīyāpradhānamātrārthaḥ na tadaṅgaprayājādyartho 'pi tathā 'tatastūṣṇīmāgnihotraṃ juhoti'(āpaśrau.5-17-6) iti tūṣṇīkatvamādhānāṅgabhūtasya naiyamikāgnihotravikṛteḥ pradhānasyaiva dharmaḥ na tadaṅgānāmapīti aupakāryasya cauṣadhihavuṣkatvādeva siddhasya tantrasya punarvacanaṃ etatsnāpannadadhihome 'pi prāptyarthamityuktameva


2

था 4 शेषस्याष्टधा कृतस्य ब्राह्मणेभ्य उपहरणम् सिद्धश्शेषस्तमष्टधा कृत्वा आब्रह्मणेभ्य उपहरति आप्ग्स्_22.2 (प.8.,ख.,22-2) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.2: तन्त्रस्य शेषस्सिद्धो भवति अविकृत इत्यर्थः अञ्जलिना जुहोतीत्युभयं विशेषः स्विष्टकृति न भवतीतियर्थः तेन स्विष्टकृतमवदानकल्पेन दर्व्या हुत्वा समिधमेकविंशतिमाधाय जयादि प्रतिपद्यते

thā 4 śeṣasyāṣṭadhā kṛtasya brāhmaṇebhya upaharaṇam siddhaśśeṣastamaṣṭadhā kṛtvā ābrahmaṇebhya upaharati āpgs_22.2 (pa.8.,kha.,22-2) commentaries: āpgs-anā_22.2: tantrasya śeṣassiddho bhavati avikṛta ityarthaḥ añjalinā juhotītyubhayaṃ viśeṣaḥ sviṣṭakṛti na bhavatītiyarthaḥ tena sviṣṭakṛtamavadānakalpena darvyā hutvā samidhamekaviṃśatimādhāya jayādi pratipadyate


3

ऽतेन सर्पिष्मता ब्राह्मणऽमित्ययेकस्य भक्षणे प्राप्ते ऽष्टाभ्य इपहारो विधायते तत्र ये ब्राह्मणाः श्वोभूते भोक्तारः तेभ्यो निवेद्योपवसति

'tena sarpiṣmatā brāhmaṇa'mityayekasya bhakṣaṇe prāpte 'ṣṭābhya ipahāro vidhāyate tatra ye brāhmaṇāḥ śvobhūte bhoktāraḥ tebhyo nivedyopavasati


2

आप्ग्स्-तात्_22.2: अपूपस्यशेषस्सिदधः उपहरतिप्राशनार्थमिति चानुवादः, तं शेषं सर्पिष्मन्तमष्टधा कृत्वा अष्टफ्यो ब्रह्मणेभ्यैति विधातुम् तेनेहब्राह्मणैकत्वबाधः केचित्-सिद्धः शेषः इति सूत्रच्छेदः सिद्धो ऽविकृतस्तन्त्रस्य शेषः तेन दर्व्या होमस्स्विष्टकृतः, जयादि प्रतिपद्यत इति च सिद्धमिति तेषां तमष्टधेत्यत्र तमपूपमिति व्यवहितस्य परामर्शो भवेत् एवमौपकार्य कृत्वा मासिश्रादधवध्भोक्तृभ्यो ब्राह्मणेभ्यो निवेदयेत् श्वो ऽष्टकाश्राद्धं भविष्यतीति भेदः

āpgs-tāt_22.2: apūpasyaśeṣassidadhaḥ upaharatiprāśanārthamiti cānuvādaḥ, taṃ śeṣaṃ sarpiṣmantamaṣṭadhā kṛtvā aṣṭaphyo brahmaṇebhyaiti vidhātum tenehabrāhmaṇaikatvabādhaḥ kecit-siddhaḥ śeṣaḥ iti sūtracchedaḥ siddho 'vikṛtastantrasya śeṣaḥ tena darvyā homassviṣṭakṛtaḥ, jayādi pratipadyata iti ca siddhamiti teṣāṃ tamaṣṭadhetyatra tamapūpamiti vyavahitasya parāmarśo bhavet evamaupakārya kṛtvā māsiśrādadhavadhbhoktṛbhyo brāhmaṇebhyo nivedayet śvo 'ṣṭakāśrāddhaṃ bhaviṣyatīti bhedaḥ


4

5 गोरुपाकरणम् श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति आप्ग्स्_22.3 (प.8.ख.,22-3) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.3: दर्भेणेत्येकत्वमविवक्षितम् गां स्त्रियं, जुष्टामितेल्ङ्गात् पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् पित्र्यं चा #टकाकर्म,पितृभ्यस्त्वाजुष्टामितिदर्शनात् पित्र्येषु यत्नमन्तरेणापि तन्त्रं प्रवर्तते इति पुरस्तादुक्तम् तत आज्यभागान्ते तन्त्रे कृते उपाकरणादेः प्रवृत्तिः अत्र प्रमाणं वक्ष्यामः ऽअपरपक्षस्यापराह्णः श्रेयानिऽत्येष च कालः सर्वत्र प्राचीनावीतम्

5 gorupākaraṇam śvobhūte darbheṇa gāmupākaroti pitṛbhyastvā juṣṭāmupākaromīti āpgs_22.3 (pa.8.kha.,22-3) commentaries: āpgs-anā_22.3: darbheṇetyekatvamavivakṣitam gāṃ striyaṃ, juṣṭāmitelṅgāt purastātpratīcīṃ tiṣṭhantīṃ, śraute tathā darśanāt pitryaṃ cā #ṭakākarma,pitṛbhyastvājuṣṭāmitidarśanāt pitryeṣu yatnamantareṇāpi tantraṃ pravartate iti purastāduktam tata ājyabhāgānte tantre kṛte upākaraṇādeḥ pravṛttiḥ atra pramāṇaṃ vakṣyāmaḥ 'aparapakṣasyāparāhṇaḥ śreyāni'tyeṣa ca kālaḥ sarvatra prācīnāvītam


3

आप्ग्स्-तात्_22.3: अथ स्वोभूते अष्टभ्याम् ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्रीद्धवत्कृत्वा, अथ दर्भेणैकेन गां स्त्रियं ऽपितृभ्यस्त्वा जुष्टामुपाकरोमि, इत्यनेन मन्त्रेणोपाकरोति

āpgs-tāt_22.3: atha svobhūte aṣṭabhyām brāhmaṇān gṛhamānīyetyādyagnimukhāntaṃ sarva māsiśrīddhavatkṛtvā, atha darbheṇaikena gāṃ striyaṃ 'pitṛbhyastvā juṣṭāmupākaromi, ityanena mantreṇopākaroti


5

6 वपाहोमः तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति आप्ग्स्_22.4 (प.8ख्.,22-4) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.4: तूष्णीमित्यनुच्यमाने सम्प्रदानाभावे होमानिवृत्तेः देवताकल्पनायां प्राप्तायां या ऐताः पाशुबन्धिक्यः पश्वाहुयः ऽउपाकृत्य पञ्च जुहोतीऽति विहिताः ता एता इति विज्ञायेत ततश्च मन्त्रेष्वपि प्राप्तेषु तूष्णीं इत्युक्तम् एवं ब्रूवन् एतद्दर्शयति श्रौतस्य पशेरावृताषस्यापि पशोस्संस्कार इति तेन ऽपुरस्तात् प्रत्यञ्चं तिष्टव्तऽमित्येवमादयो विशेषा इहापि भवन्ति तस्या इति वचनं तस्या वपाया एवात्र चोदितो विशेषो यथास्यात् श्रपणादि, नावदानमित्येवमर्थम्, तेन मांसौदनादेर्मासिश्राद्धवदन्यस्मिन्नग्नौ संस्कारः आज्यग्रहणमनर्थकम् अपिवोत्तरया जुहोतीतिवत् सिद्धम्, तत् क्रियते ज्ञापकार्थम्, एतत् ज्ञापयति-आज्यभागान्ते तन्त्रे कृते पशोरुपाकरणादीति कथं कृत्वा ज्ञापकम्?सर्वत्र प्रधानाहुतिषु तान्त्रिकस्य हविषस्सधर्मकस्यानेकत्वे सति विशेषणं दृश्यते-स्थालीपाकादन्नादाज्याहुतिरितु, तदिहापि दृष्टम् तत् ज्ञापयति-तान्त्रिकेणैवाज्योनाहुतयोहबयन्त इति उपाकरणस्य चैतासां चानन्तर्य दृश्यते "उपाकृत्य पञ्च जुहोती"(तैसं.3-1-5)ति तस्मादाज्यभागान्ते पशोरुपाकरणमिति सिद्धं भवति एवं पञ्चाज्याहुतीर्हुत्वा तूष्णीं संज्ञप्य वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वाभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य ततस्तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चा ऽवह वपाऽमित्येतया पर्मस्य वपाश्रपण्योश्च पात्रैस्सह सादनादि भवति

6 vapāhomaḥ tūṣṇīṃ pañcājyāhutīrhutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti āpgs_22.4 (pa.8kh.,22-4) commentaries: āpgs-anā_22.4: tūṣṇīmityanucyamāne sampradānābhāve homānivṛtteḥ devatākalpanāyāṃ prāptāyāṃ yā aitāḥ pāśubandhikyaḥ paśvāhuyaḥ 'upākṛtya pañca juhotī'ti vihitāḥ tā etā iti vijñāyeta tataśca mantreṣvapi prāpteṣu tūṣṇīṃ ityuktam evaṃ brūvan etaddarśayati śrautasya paśerāvṛtāṣasyāpi paśossaṃskāra iti tena 'purastāt pratyañcaṃ tiṣṭavta'mityevamādayo viśeṣā ihāpi bhavanti tasyā iti vacanaṃ tasyā vapāyā evātra codito viśeṣo yathāsyāt śrapaṇādi, nāvadānamityevamartham, tena māṃsaudanādermāsiśrāddhavadanyasminnagnau saṃskāraḥ ājyagrahaṇamanarthakam apivottarayā juhotītivat siddham, tat kriyate jñāpakārtham, etat jñāpayati-ājyabhāgānte tantre kṛte paśorupākaraṇādīti kathaṃ kṛtvā jñāpakam?sarvatra pradhānāhutiṣu tāntrikasya haviṣassadharmakasyānekatve sati viśeṣaṇaṃ dṛśyate-sthālīpākādannādājyāhutiritu, tadihāpi dṛṣṭam tat jñāpayati-tāntrikeṇaivājyonāhutayohabayanta iti upākaraṇasya caitāsāṃ cānantarya dṛśyate "upākṛtya pañca juhotī"(taisaṃ.3-1-5)ti tasmādājyabhāgānte paśorupākaraṇamiti siddhaṃ bhavati evaṃ pañcājyāhutīrhutvā tūṣṇīṃ saṃjñapya vapāñca vapāśrapaṇībhyāṃ tūṣṇīmuddhṛtya aupāsane śrapayitvābhighārya barhiṣi pratiṣṭhāpya punarabhighārya tatastāmupastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇena juhoti uttarayarcā 'vaha vapā'mityetayā parmasya vapāśrapaṇyośca pātraissaha sādanādi bhavati


4

आप्ग्स्-तात्_22.4: तूष्णीं स्वाहाकारेणापि विनापञ्चाज्याहुतीर्जुहोति, मन्त्रप्राप्त्यभावात् देवता चासां प्रजापतिरेव तस्यै वपामित्यादि व्याख्यातम् उत्तरयावहवपामऽ इत्येतया

āpgs-tāt_22.4: tūṣṇīṃ svāhākāreṇāpi vināpañcājyāhutīrjuhoti, mantraprāptyabhāvāt devatā cāsāṃ prajāpatireva tasyai vapāmityādi vyākhyātam uttarayāvahavapām' ityetayā


6

7 मांसौदनहोमाः मांसौदमुत्तराभिः आप्ग्स्_22.5 (प.8.,ख.22-5) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.5: (हुतायां वपायां पशोर्विशसनं कारयित्वा अन्वष्टकार्थ ...गृहेषु श्रपयित्वा अन्यानि च हविष्यौदनादीनि तान्यभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य दर्व्या जुहोत्यवदानकल्पेन नात्र सकृदुपघातकल्पः स्विष्टकृति विप्रतिषेधात् आज्ये ऽभावात् मांसपिष्टौदनयोश्च भावात् तत्र)मांसौदनमुत्तराभिः यां जनाः प्रतिनन्दन्तिऽइत्येताभिः सप्तभिः मांसमिश्र ओदनो मांसौदनः होमकाले च मिश्रणम् न श्रपणकाले पक्तिवैषम्यात् अस्मिन् कर्मणि अष्टादशहोममन्त्राः समाम्नाताः ऋचो दश यजूंष्यष्टौ तत्राद्या ऋगपूपार्था वपार्थोत्तरा उत्तरादिभिरिति स्त्रीलिङ्गनिर्देशः पिष्टान्नमुत्तरयेति वक्ष्यति तेन सप्तभिऋग्भिर्मासौदनस्य होमः

7 māṃsaudanahomāḥ māṃsaudamuttarābhiḥ āpgs_22.5 (pa.8.,kha.22-5) commentaries: āpgs-anā_22.5: (hutāyāṃ vapāyāṃ paśorviśasanaṃ kārayitvā anvaṣṭakārtha ...gṛheṣu śrapayitvā anyāni ca haviṣyaudanādīni tānyabhighārya barhiṣi pratiṣṭhāpya punarabhighārya darvyā juhotyavadānakalpena nātra sakṛdupaghātakalpaḥ sviṣṭakṛti vipratiṣedhāt ājye 'bhāvāt māṃsapiṣṭaudanayośca bhāvāt tatra)māṃsaudanamuttarābhiḥ yāṃ janāḥ pratinandanti'ityetābhiḥ saptabhiḥ māṃsamiśra odano māṃsaudanaḥ homakāle ca miśraṇam na śrapaṇakāle paktivaiṣamyāt asmin karmaṇi aṣṭādaśahomamantrāḥ samāmnātāḥ ṛco daśa yajūṃṣyaṣṭau tatrādyā ṛgapūpārthā vapārthottarā uttarādibhiriti strīliṅganirdeśaḥ piṣṭānnamuttarayeti vakṣyati tena saptabhiṛgbhirmāsaudanasya homaḥ


5

आप्ग्स्-तात्_22.5: मांसमिश्र ओदनो मांसौदनः तं उत्तराभिः ऽयां जनाः प्रतिनन्दन्तिऽइत्यादिभिस्सप्तभिर्जुहोति इदं चेह वक्तव्यम् - वपाहोमान्ते गोर्विशसनं कारयित्वान्वष्टकाब्राह्मणभोजनव्यञ्जनार्थ मांसमवशिष्य, इतरत् कृत्स्नं लौकिकप्रकारेण श्रपयित्वा, तदेकदेशं मासिश्राद्धवत् ब्राह्मणभोजनार्थादन्नद्धोमार्थमुद्धृते ऽन्ने संसृज्य, तेनैव मांसमिश्रेणौदनेन जुहोतीति न च मांसौदनयोस्सहपाकश्शङ्कनीयः, गोरालम्भात् प्रागेव होमार्थान्नस्योद्धृतत्वात्, मांसौदनयोः पक्तिवैषम्याच्च

āpgs-tāt_22.5: māṃsamiśra odano māṃsaudanaḥ taṃ uttarābhiḥ 'yāṃ janāḥ pratinandanti'ityādibhissaptabhirjuhoti idaṃ ceha vaktavyam - vapāhomānte gorviśasanaṃ kārayitvānvaṣṭakābrāhmaṇabhojanavyañjanārtha māṃsamavaśiṣya, itarat kṛtsnaṃ laukikaprakāreṇa śrapayitvā, tadekadeśaṃ māsiśrāddhavat brāhmaṇabhojanārthādannaddhomārthamuddhṛte 'nne saṃsṛjya, tenaiva māṃsamiśreṇaudanena juhotīti na ca māṃsaudanayossahapākaśśaṅkanīyaḥ, gorālambhāt prāgeva homārthānnasyoddhṛtatvāt, māṃsaudanayoḥ paktivaiṣamyācca


7

8 पिष्टान्नहोमाः पिष्टान्नमुत्तरया आप्ग्स्_22.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_22.6: पिष्टेन कृतमन्नं तस्य पयसि श्रपणमुत्तरयर्चा ऽउक्थ्यश्चेऽत्येतया जुहोति

8 piṣṭānnahomāḥ piṣṭānnamuttarayā āpgs_22.6 commentaries: āpgs-anā_22.6: piṣṭena kṛtamannaṃ tasya payasi śrapaṇamuttarayarcā 'ukthyaśce'tyetayā juhoti


6

आप्ग्स्-तात्_22.6: पिष्टेन कृतमन्नं पिष्टान्नं पयसि शृतं प्रसिद्धम् तदुत्तरया ऽउक्थ्यश्चऽइत्यनया जुहोति इह ब्राह्मणभोजनाद्यर्थमवश्यं पिष्टान्नं श्रपयितव्यम् शृताच्च होमार्थ भेदेन पूर्वमेवोद्धरणम् मांसौदनस्य पिष्टान्नस्य च पार्वणवत्स्वकीयो ऽवदानधर्मः पलाशपर्ण चेह वपाहोममात्रे अन्यद्दर्व्यैव

āpgs-tāt_22.6: piṣṭena kṛtamannaṃ piṣṭānnaṃ payasi śṛtaṃ prasiddham taduttarayā 'ukthyaśca'ityanayā juhoti iha brāhmaṇabhojanādyarthamavaśyaṃ piṣṭānnaṃ śrapayitavyam śṛtācca homārtha bhedena pūrvamevoddharaṇam māṃsaudanasya piṣṭānnasya ca pārvaṇavatsvakīyo 'vadānadharmaḥ palāśaparṇa ceha vapāhomamātre anyaddarvyaiva


8

9 आज्याहुतयः आज्याहुतीरुत्तराः आप्ग्स्_22.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_22.7: उत्तरैर्मन्त्रैः ऽभूः पृथिव्यग्निनर्चेऽत्यादिभिः अष्टाभिराज्यस्य जुहोतीत्यर्थः

9 ājyāhutayaḥ ājyāhutīruttarāḥ āpgs_22.7 commentaries: āpgs-anā_22.7: uttarairmantraiḥ 'bhūḥ pṛthivyagninarce'tyādibhiḥ aṣṭābhirājyasya juhotītyarthaḥ


7

आप्ग्स्-तात्_22.7: उत्तरमन्त्रकरणिका आज्याहुतीरष्टौ जुहोतीत्यर्थः ते च ऽभूः पृथिव्यग्निनाऽइत्यादयः यजूरूपाः

āpgs-tāt_22.7: uttaramantrakaraṇikā ājyāhutīraṣṭau juhotītyarthaḥ te ca 'bhūḥ pṛthivyagninā'ityādayaḥ yajūrūpāḥ


9

10 स्विष्टकृदादि स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् आप्ग्स्_22.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_22.8: स्विष्टकृत्प्रभृति पिण्डनिधानान्तं कर्म कृत्स्नं मासिश्राद्धवदिहापि कर्तव्यमित्यर्थः अत्र मांसौदनात् पिष्टाच्च स्विष्टकृत्, ततो जयादि अथ ब्राह्मणानामुपवेशनं हस्तेषूदपात्रानयनमलङ्कारः ततऽस्सर्वमुत्तरैरभिमृशेऽदित्यादि ग्रासवरार्ध्य प्राश्नीयात् इत्येवमन्तम् एतदेवास्मिन्नहनि भोजनं, नान्यत् आरब्धे चाभोजनमासमापनादिति पञ्चयज्ञाश्च लुप्यन्ते

10 sviṣṭakṛdādi sviṣṭakṛtprabhṛti samānamāpiṇḍanidhānāt āpgs_22.8 commentaries: āpgs-anā_22.8: sviṣṭakṛtprabhṛti piṇḍanidhānāntaṃ karma kṛtsnaṃ māsiśrāddhavadihāpi kartavyamityarthaḥ atra māṃsaudanāt piṣṭācca sviṣṭakṛt, tato jayādi atha brāhmaṇānāmupaveśanaṃ hasteṣūdapātrānayanamalaṅkāraḥ tata'ssarvamuttarairabhimṛśe'dityādi grāsavarārdhya prāśnīyāt ityevamantam etadevāsminnahani bhojanaṃ, nānyat ārabdhe cābhojanamāsamāpanāditi pañcayajñāśca lupyante


8

आप्ग्स्-तात्_22.8: स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासवरार्ध्य प्राश्नीयादित्येवमन्तं, सर्व पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेवेत्यर्थः तत्र च मांसौदनात् पिष्टान्नाच्च स्विष्टकृते सहावदानमिति भेदः

āpgs-tāt_22.8: sviṣṭakṛdādi tantraśeṣaṃ sarvābhimarśanādi ca pradakṣiṇīkṛtyetyevamantaṃ brāhmaṇabhojanaṃ, piṇḍanidhānaṃ, grāsavarārdhya prāśnīyādityevamantaṃ, sarva padārthajātaṃ māsiśrāddhavadihāpi kartavyamevetyarthaḥ tatra ca māṃsaudanāt piṣṭānnācca sviṣṭakṛte sahāvadānamiti bhedaḥ


10

अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति आप्ग्स्_22.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_22.9: न पिण्डनिधानमित्युच्यमाने ऽन्वष्टकायामपि पिण्डनिधानं न स्यात् अष्टका प्रकृता तत्र कः प्रसङ्गो यदन्वष्टकायां न स्यात् एवं तर्हि एतत् ज्ञापयति - विकल्पो ऽत्र विधिरयम् अतः कृत्स्नस्य कर्मणो विषयो भवति सापूपस्य सान्वष्टकस्येति तेन दध्यञ्जलिः कृत्स्नैकाष्टकाकरणात् विकल्प्यते सापूपेन सान्वष्टकेनेति केचित् वयं तु ब्रूमः - अष्टकायामकृतायां भोजनमस्य न भवतीत्येतदर्थमेव वचनमन्वष्टकायां यत् पिण्डदानं तदिह .... नास्मिन् कर्मणि पृथक् कर्तव्यमिति

anvaṣṭakāyāmevaike piṇḍanidhānamupadiśanti āpgs_22.9 commentaries: āpgs-anā_22.9: na piṇḍanidhānamityucyamāne 'nvaṣṭakāyāmapi piṇḍanidhānaṃ na syāt aṣṭakā prakṛtā tatra kaḥ prasaṅgo yadanvaṣṭakāyāṃ na syāt evaṃ tarhi etat jñāpayati - vikalpo 'tra vidhirayam ataḥ kṛtsnasya karmaṇo viṣayo bhavati sāpūpasya sānvaṣṭakasyeti tena dadhyañjaliḥ kṛtsnaikāṣṭakākaraṇāt vikalpyate sāpūpena sānvaṣṭakeneti kecit vayaṃ tu brūmaḥ - aṣṭakāyāmakṛtāyāṃ bhojanamasya na bhavatītyetadarthameva vacanamanvaṣṭakāyāṃ yat piṇḍadānaṃ tadiha .... nāsmin karmaṇi pṛthak kartavyamiti


9

आप्ग्स्-तात्_22.9: या श्वोभूतो ऽन्वष्टकेति विधास्यते तस्यामन्वष्टकायामेव पिण्डनिधानं पिण्डप्रदानं नाष्टकायामित्येके आचार्या उपदिशन्ति केचित् - न पिण्डनिधानमेके इति वक्तव्ये अन्वष्टकायामेवैक इत्येवं वचनमेतत् ज्ञापयति - विकल्पो ऽत्र विधीयमानः कृत्स्नस्य कर्मणः सापूपहोमस्य सान्वष्टकस्य विषये भवतीति तेन दधिहोमः कृत्स्नेनान्वष्टकान्तेनाष्टकाकर्मणा विकल्प्यत इति केचित्तु - अन्वष्टकायां यत् पिण्डनिधानं, तदेवास्य, न पुनस्तदस्मिन् प्रदेशे पृथक् कर्तव्यमिति वचनव्यक्त्यास्य कर्मणो ऽसमाप्तत्वसूचनम् तेनान्वष्टकायामकृतायां न कर्तुर्भोजनं, नापि पञ्चमहायज्ञा इति वस्तुतस्तु - भाष्यकारेणात्रार्थविशेषस्यानुक्तत्वात्, ऽअन्वष्टकोभयोरपि पक्षयोऽरिति वक्ष्यमाणत्वात्, अवान्तरप्रयोगस्य समाप्तेस्स्पष्टत्वाच्च, ऽअन्वष्टकायामेवैकऽइत्येषो ऽन्वष्टकायामेव पिण्डनिधानं नाष्टकायामिति फलाभिप्रायो व्यपदेश इति मन्तव्यम् अथ यज्ञोपवीतप्राचीनवीतयोर्विवेकः - औपकार्ये च मांसौदनहोमेषु चादितश्चतुर्षु, षष्ठे च पिष्टान्नहोमे च, आज्यहोमे चादितष्,ट्सु, दधिहोमे चाघारादिषु च (प्राक् तेषु इत्यधिकम् एव प्रतिषिद्धम्) यज्ञोपवीतं, मन्त्राणां देनलिङ्गत्वात् अन्यत्र प्रकृतिवत् प्राचीनावीतमेव ननु चात्र कलियुगे धर्मज्ञसमयाद्गोरालम्भो निषिद्धः तेन यद्यपि ऽमांसौदनमुत्तराभिःऽइत्यत्र हविरुपसर्जनीभूतमांसाभावे ऽपि केवलौदनहविष्कहोमैः प्रधानान्तरसहितैः अष्टकाधिकारसिद्धेरुपपत्तिः;तथापि वपाहोमे स्वरूपस्यैवाभावान्न युज्यते मैवम्, प्रमाणबलेन कस्मिंश्चित् प्रधाने निषिद्धे ऽपि प्रधानान्तरैरेव विषयप्रत्यभिज्ञानादधिकारसिद्धेरुपपन्नत्वात् अत एव दर्शपूर्णमासयोः ऽनासोमयाजी सन्नयेतऽ; (तैसं. 2-5-5), ऽनासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यतेऽ(आपश्रौ. ) इति निषिद्धयोरपि सान्नाय्याग्नीषोमयोस्तद्व्यतिरिक्तैरेव प्रधानैरधिकारसिद्धिः इयांस्तु भेदः - क्वचिच्छ्रुतिर्निषेधिका, क्वचिद्धर्मज्ञसमय इति धर्मज्ञसमयो ऽपि वेदवत् प्रमाणम् अथवा आज्यमेव वपामांसयोस्स्थाने प्रयोक्तव्यम् ऽआज्येन शेषं संस्थापयेतऽइति पात्नीवते दर्शनात् ऽआज्यस्य प्रत्याख्यामवद्येतऽ(तैसं.3-1-3) इति दर्शनाच्च प्राप्तिस्तु नित्यत्वादेवाष्टकायाः कृत्स्नायाः यद्वा - गोस्स्थाने छाग एवालब्धव्यः, प्रस्तुतसमानयोगक्षेमे ऽऐन्द्राग्नं पुनरुत्सृष्टमालभेतऽ(तैसं.2-1-5) इत्यत्र गोः पुनरुत्सृष्टस्य स्थाने ऽपुनरुत्सृष्टश्छागःऽइति भरद्वाजसूत्रदर्शनात् अपि वात्यन्तलघुरपि दधिहोमपक्षः कलियुगे व्यवस्थितो द्रष्टव्यः प्रमाणं तु त्रैविद्यवृद्धाश्शिष्टा एव

āpgs-tāt_22.9: yā śvobhūto 'nvaṣṭaketi vidhāsyate tasyāmanvaṣṭakāyāmeva piṇḍanidhānaṃ piṇḍapradānaṃ nāṣṭakāyāmityeke ācāryā upadiśanti kecit - na piṇḍanidhānameke iti vaktavye anvaṣṭakāyāmevaika ityevaṃ vacanametat jñāpayati - vikalpo 'tra vidhīyamānaḥ kṛtsnasya karmaṇaḥ sāpūpahomasya sānvaṣṭakasya viṣaye bhavatīti tena dadhihomaḥ kṛtsnenānvaṣṭakāntenāṣṭakākarmaṇā vikalpyata iti kecittu - anvaṣṭakāyāṃ yat piṇḍanidhānaṃ, tadevāsya, na punastadasmin pradeśe pṛthak kartavyamiti vacanavyaktyāsya karmaṇo 'samāptatvasūcanam tenānvaṣṭakāyāmakṛtāyāṃ na karturbhojanaṃ, nāpi pañcamahāyajñā iti vastutastu - bhāṣyakāreṇātrārthaviśeṣasyānuktatvāt, 'anvaṣṭakobhayorapi pakṣayo'riti vakṣyamāṇatvāt, avāntaraprayogasya samāptesspaṣṭatvācca, 'anvaṣṭakāyāmevaika'ityeṣo 'nvaṣṭakāyāmeva piṇḍanidhānaṃ nāṣṭakāyāmiti phalābhiprāyo vyapadeśa iti mantavyam atha yajñopavītaprācīnavītayorvivekaḥ - aupakārye ca māṃsaudanahomeṣu cāditaścaturṣu, ṣaṣṭhe ca piṣṭānnahome ca, ājyahome cāditaṣ,ṭsu, dadhihome cāghārādiṣu ca (prāk teṣu ityadhikam eva pratiṣiddham) yajñopavītaṃ, mantrāṇāṃ denaliṅgatvāt anyatra prakṛtivat prācīnāvītameva nanu cātra kaliyuge dharmajñasamayādgorālambho niṣiddhaḥ tena yadyapi 'māṃsaudanamuttarābhiḥ'ityatra havirupasarjanībhūtamāṃsābhāve 'pi kevalaudanahaviṣkahomaiḥ pradhānāntarasahitaiḥ aṣṭakādhikārasiddherupapattiḥ;tathāpi vapāhome svarūpasyaivābhāvānna yujyate maivam, pramāṇabalena kasmiṃścit pradhāne niṣiddhe 'pi pradhānāntaraireva viṣayapratyabhijñānādadhikārasiddherupapannatvāt ata eva darśapūrṇamāsayoḥ 'nāsomayājī sannayet'; (taisaṃ. 2-5-5), 'nāsomayājino brāhmaṇasyāgnīṣomīyaḥ puroḍāśo vidyate'(āpaśrau. ) iti niṣiddhayorapi sānnāyyāgnīṣomayostadvyatiriktaireva pradhānairadhikārasiddhiḥ iyāṃstu bhedaḥ - kvacicchrutirniṣedhikā, kvaciddharmajñasamaya iti dharmajñasamayo 'pi vedavat pramāṇam athavā ājyameva vapāmāṃsayossthāne prayoktavyam 'ājyena śeṣaṃ saṃsthāpayet'iti pātnīvate darśanāt 'ājyasya pratyākhyāmavadyet'(taisaṃ.3-1-3) iti darśanācca prāptistu nityatvādevāṣṭakāyāḥ kṛtsnāyāḥ yadvā - gossthāne chāga evālabdhavyaḥ, prastutasamānayogakṣeme 'aindrāgnaṃ punarutsṛṣṭamālabheta'(taisaṃ.2-1-5) ityatra goḥ punarutsṛṣṭasya sthāne 'punarutsṛṣṭaśchāgaḥ'iti bharadvājasūtradarśanāt api vātyantalaghurapi dadhihomapakṣaḥ kaliyuge vyavasthito draṣṭavyaḥ pramāṇaṃ tu traividyavṛddhāśśiṣṭā eva


10

11 दध्यञ्जलिहोमः अथैतदपरं दध्न एवाञ्जलिना जुहोति ययापूपम् आप्ग्स्_22.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_22.10: एवमष्टकायां मुख्यः कल्पो दर्शितः अथानुकल्पः यया ऋचा जुहोति ऽयां जनाऽइत्येतया तया दध्नः पूर्णेनाञ्जलिना जुहोति तन्त्रस्य विधानात् अञ्जलिना होमत्वाच्च अपूर्वो दध्यञ्जलिः अञ्जलिनेति वचनात् दर्व्या निवृत्तिः (2 क,ख, पुरस्तात्तन्त्रमुपरिष्टात्तन्त्रं च कृत्स्नं न भवति) तन्त्रद्वयञ्च न भवति कः पुनरस्य कालः ?अष्टमी पूर्वाह्णे च क्रिया, दैवत्वात् प्रातर्होमानन्तरं औपासनमुपसमाधाय सम्परिस्तीर्य तूष्णीं समन्तं परिषिच्य दध्नाञ्जलिं पूरयित्वा ऽयां जनाऽइति जुहोति न स्विष्टकृत् पुनरपि तूष्णीं परिषेचनम् अन्ये तु पुरस्तात्तन्त्रं स्विष्टकृच्चेच्छन्ति, न जयादीन् अत्र मूलं मृग्यम् एष कालः, आचार्यप्रवृत्तित्वात् एषा ह्येवानुकल्पेष्वाचार्यस्य प्रवृत्तिः तद्यथा - समावर्तने तूष्णीमेव तीर्थे स्नात्वेति दध्यञ्जलिश्चायमष्टकायां ये होमास्तेषां निवर्तकः, तदनन्तरमभिधानात्, नापूपहोमस्य नान्वष्टकायाः ब्राह्मणभोजनपिण्डनिर्वापणे च भवतः होममात्रस्यैवायं दध्यञ्जलिर्निवर्तकः एवं तर्ह्यत्र वचनं व्यज्यते यज्जुहोति तद्दध्न एवाञ्जलिनेति (अपर आह - अपूपाष्टकयोर्द्वयोरपि निवर्तकम् नान्वष्टकायाः यदि तस्या अपि प्रत्याम्नायः स्यात् तामभिधायायमनुकल्पो वक्तव्यस्स्यादिति) अन्ये तु सापूपस्य सान्वष्टकस्य कृत्स्नस्याष्टकाकर्मणो निवर्तको दध्यञ्जलिरिति

11 dadhyañjalihomaḥ athaitadaparaṃ dadhna evāñjalinā juhoti yayāpūpam āpgs_22.10 commentaries: āpgs-anā_22.10: evamaṣṭakāyāṃ mukhyaḥ kalpo darśitaḥ athānukalpaḥ yayā ṛcā juhoti 'yāṃ janā'ityetayā tayā dadhnaḥ pūrṇenāñjalinā juhoti tantrasya vidhānāt añjalinā homatvācca apūrvo dadhyañjaliḥ añjalineti vacanāt darvyā nivṛttiḥ (2 ka,kha, purastāttantramupariṣṭāttantraṃ ca kṛtsnaṃ na bhavati) tantradvayañca na bhavati kaḥ punarasya kālaḥ ?aṣṭamī pūrvāhṇe ca kriyā, daivatvāt prātarhomānantaraṃ aupāsanamupasamādhāya samparistīrya tūṣṇīṃ samantaṃ pariṣicya dadhnāñjaliṃ pūrayitvā 'yāṃ janā'iti juhoti na sviṣṭakṛt punarapi tūṣṇīṃ pariṣecanam anye tu purastāttantraṃ sviṣṭakṛccecchanti, na jayādīn atra mūlaṃ mṛgyam eṣa kālaḥ, ācāryapravṛttitvāt eṣā hyevānukalpeṣvācāryasya pravṛttiḥ tadyathā - samāvartane tūṣṇīmeva tīrthe snātveti dadhyañjaliścāyamaṣṭakāyāṃ ye homāsteṣāṃ nivartakaḥ, tadanantaramabhidhānāt, nāpūpahomasya nānvaṣṭakāyāḥ brāhmaṇabhojanapiṇḍanirvāpaṇe ca bhavataḥ homamātrasyaivāyaṃ dadhyañjalirnivartakaḥ evaṃ tarhyatra vacanaṃ vyajyate yajjuhoti taddadhna evāñjalineti (apara āha - apūpāṣṭakayordvayorapi nivartakam nānvaṣṭakāyāḥ yadi tasyā api pratyāmnāyaḥ syāt tāmabhidhāyāyamanukalpo vaktavyassyāditi) anye tu sāpūpasya sānvaṣṭakasya kṛtsnasyāṣṭakākarmaṇo nivartako dadhyañjaliriti


10

आप्ग्स्-तात्_22.10: यया ऽयां जनाऽइत्येतया अपूपं जुहोति, तया ऋचा दध्नस्स्वावदानधर्मेणावदायाञ्जलिना जुहोति पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् ऽयेन जुहोति तदग्नौ प्रतितप्यऽइत्यादिकं लेपाञ्जनं चान्येन कारयितव्यम् अयं च दधिहोमो ऽष्टम्यां पूर्वाह्णे केचित् - अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति अयं चानुकल्पो ऽपूपहोमाद्याज्याहुतीरुत्तरा इत्येवमन्तानामेव स्थाने वेदितव्यः, नान्वष्टकाया अपि, आज्याहुत्यन्तं कर्म विधायान्वष्टकायाः प्रागेवानुकल्पस्य विधानात् तेनोभयोरपि पक्षयोर्नवम्यामन्वष्टका नित्यैव तेन दधिहोमपक्षे ऽन्वष्टका नास्तीति निर्मूलम् अयं च दधिहोमविधिर्होमानामेव स्थाने;ऽदध्न एवाञ्जलिना जुहोतीऽति जुहोतिशब्दस्य स्वारस्यात् तेनास्मिन्नपि पक्षे ब्राह्मणभोजन पिण्ड प्रदान योरावृत्तिः तस्मात् सप्तम्यां रात्रौ ब्राह्मणान्निमन्त्र्याष्टभ्यां होमस्थाने दधिहोमः, ततो ऽपराह्णे भोजनादि सर्वमविकृतं, नवम्यामन्वष्टकापीति सिद्धम्

āpgs-tāt_22.10: yayā 'yāṃ janā'ityetayā apūpaṃ juhoti, tayā ṛcā dadhnassvāvadānadharmeṇāvadāyāñjalinā juhoti pārvaṇavaccāgnimukhānte dadhihomaḥ, apūpahomavaccāvadānam 'yena juhoti tadagnau pratitapya'ityādikaṃ lepāñjanaṃ cānyena kārayitavyam ayaṃ ca dadhihomo 'ṣṭamyāṃ pūrvāhṇe kecit - añjalihomāssarve apūrvāḥ, naiva tatra purastādupariṣṭāttantramiti ayaṃ cānukalpo 'pūpahomādyājyāhutīruttarā ityevamantānāmeva sthāne veditavyaḥ, nānvaṣṭakāyā api, ājyāhutyantaṃ karma vidhāyānvaṣṭakāyāḥ prāgevānukalpasya vidhānāt tenobhayorapi pakṣayornavamyāmanvaṣṭakā nityaiva tena dadhihomapakṣe 'nvaṣṭakā nāstīti nirmūlam ayaṃ ca dadhihomavidhirhomānāmeva sthāne;'dadhna evāñjalinā juhotī'ti juhotiśabdasya svārasyāt tenāsminnapi pakṣe brāhmaṇabhojana piṇḍa pradāna yorāvṛttiḥ tasmāt saptamyāṃ rātrau brāhmaṇānnimantryāṣṭabhyāṃ homasthāne dadhihomaḥ, tato 'parāhṇe bhojanādi sarvamavikṛtaṃ, navamyāmanvaṣṭakāpīti siddham


11

12 अन्वष्टका अत एव यथार्थ मांसं शिष्ट्वा श्वोभूते ऽन्वष्टकाम् आप्ग्स्_22.11 (प.8.,ख.22-11) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.11: अत एवास्या एव गोरेकाष्टकायामालब्धायां मांसं यस्य यथार्थ यावत्प्रयोजनं शिष्ट्वा श्वोभूते नवम्यामन्वष्टकानाम कर्म कर्तव्यम् भूयांसमतो माहिषेणेत्यादीनां निवृत्त्यर्थ एवकारः

12 anvaṣṭakā ata eva yathārtha māṃsaṃ śiṣṭvā śvobhūte 'nvaṣṭakām āpgs_22.11 (pa.8.,kha.22-11) commentaries: āpgs-anā_22.11: ata evāsyā eva gorekāṣṭakāyāmālabdhāyāṃ māṃsaṃ yasya yathārtha yāvatprayojanaṃ śiṣṭvā śvobhūte navamyāmanvaṣṭakānāma karma kartavyam bhūyāṃsamato māhiṣeṇetyādīnāṃ nivṛttyartha evakāraḥ


11

आप्ग्स्-तात्_22.11: श्वोभूते मवम्यामन्वष्टकाख्यं कर्म कर्तव्यम् अत एव गोरष्टकायामालब्धायाः मांसं यथार्थ यथाप्रयोजनं शिष्ट्वा इत्येतत्प्रथमपक्षविषयम्

āpgs-tāt_22.11: śvobhūte mavamyāmanvaṣṭakākhyaṃ karma kartavyam ata eva goraṣṭakāyāmālabdhāyāḥ māṃsaṃ yathārtha yathāprayojanaṃ śiṣṭvā ityetatprathamapakṣaviṣayam

Section (cont. 25)

12

तस्या मासिश्राद्धेन कल्पो व्याख्यातः आप्ग्स्_22.12 (प.8.,ख.22-12) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.12: मासिश्राद्धवदन्वष्टका कर्तव्येत्यर्थः कल्पातिदेशात् द्रव्यदेवतादि सर्वमिह प्राप्यते ऽतत्रान्नस्योत्तराभिर्जुहोतीऽत्यत्र मांससंसृष्टस्यान्नस्य होममिच्छन्ति अष्टकायां दर्शनात् इह च यथार्थ मांसमिति वचनात् अन्ये मासिश्राद्धातिदेशादन्नस्याव होममिच्छन्ति यत्रैव तु कार्ये मासि श्राद्धे मांसं इहापि तत्रैवेति अत्र केचित्-दध्यञ्जलिपक्षे ऽप्यन्वष्टकामिच्छन्ति मध्ये तस्य विधानात् यदि ह्यसावन्वष्टताया अपि प्रत्याम्नायः स्यात् तामप्यभिधाय वक्तव्यं स्यादिति अत एव यथार्थ मांसं शिष्ट्वा श्वोभूते ऽन्वष्टका तस्या मासि श्राद्धेन कल्पो व्याख्यातः इति पूर्वत्र सम्बन्धः अथैकोद्दिष्टविधिः शास्त्रान्तरात् प्रेतमेकमुद्दिस्य यच्छ्राद्धं क्रियते तदेकोद्दिष्टम् अयुग्मा ब्राह्मणाः एकः त्रयः पञ्चेति वृध्या फलभूयस्त्वम् तत्र नाग्नौ करणं, नाभिश्रावणं, न पूर्व निमन्त्रणं, न दैवं, न धूपो, न दीपो, न स्वधा, न नमस्कारः, उदङ्मुखाः ब्राह्मणाः सर्वस्मादन्नात्सकृत्सकृदवदाय दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वेव जुहुयात् प्रेतायामुष्मै यमाय च स्वाहेति प्रेतायेति वचनं प्रेतस्य नामनिर्देशार्थम् यज्ञशर्मणे यमाय च स्वाहेति प्रयोगमिच्छन्ति यज्ञशर्मणे प्रेताय यमाय चेत्यन्ये अमुष्मै तृप्तिरस्त्विति अपां प्रतिग्रहणं विसर्जनं चा अस्ति तृप्तिरिति प्रतिवचनम् अमुष्मा उपतिष्ठत्वित्यनुदेशनं, आशयेषु च पिंढदानं भोजनस्थान इत्यर्थः तृप्यस्वेति संक्षालनम् एतदेकोद्दिष्टं सर्ववर्णानां स्वाशौचान्ते प्रसिद्धम् अथान्यानि नवश्राद्धमासिकानि त्रैपक्षिकं षाण्मासिकं साम्वत्सरिकमिति यत्प्रथमं क्रियते तन्नवश्राद्धम् नवं च तच्छ्राद्धञ्चेति कृत्वा तस्य वर्णानुपूर्वेण कालः चतुर्थे पञ्चमे चैव नवमैकादशे तथा यदत्र दीयते जन्तोः तन्नवश्राद्धमुच्यते इति सर्वेषामपि वर्णानां चत्वार्यपि नवश्राद्धानीत्यन्ये तोषां द्वितीयादिषु नवशब्दो घटते मासिकानि द्वादश प्रतिमासं मृताहे कर्तव्यानि आद्यं तु स्वाशोचन्ते अन्त्यं च सपिण्डीकरणेन सह मृताह एव त्रापक्षिकं षाण्मासिकं द्वितीयादिषु सम्वत्सरेषु प्रतिसम्वत्सरं मृताह एव साम्वत्सरिकमिति षोडशैतान्येकोद्दिष्टानि साम्वत्सरिके च क्षेत्रजजारजयोः एकोद्दिष्टकल्पस्य च विकल्पः इतरेषामेकोद्दिष्टमेव ये नवश्राद्धानां समुच्चयमिच्छन्ति तेषां षोडशैकोद्दिष्टानीत्येषापि प्रसिद्धिर्दुरुपपादा अत्र पठन्ति नित्यश्राद्धं मासि मासि अपर्याप्तावृत्तुं प्रति द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा अथ सपिण्डीकरणं सम्वत्सर एकादशे चतुर्थे तृतीये वा मासि त्रिपक्षे अर्धमासे द्वादशे वाहनि उपनयनाभ्युदयप्राप्तौ वा तत्र एकोद्दिष्टस्य मासिश्राद्धस्य च समुच्चयः प्रेतस्यैकोद्दिष्टं तस्य ये प्त्रादयः तेभ्यो मासिश्राद्धं मन्त्रेषु च न क्श्चिद्विकारः यन्मे मातेत्यादिषु यथैव ते पित्रा प्रेतेन पूर्व प्रयुक्तास्तथाव पुत्रेणापि प्रयोक्तव्याः पुत्रादन्यस्य च सपिण्डीकरणे नाधिकारः, मासिश्राद्धाभावात् सपिण्डीकरणास्य च मासिश्राद्धप्रयोगविकारत्वात् तस्मादपुत्रस्य प्रेतस्य भार्या यावज्जीवमेकोद्दिष्टकल्पेनैव पत्ये मासिश्राद्धं ददाति पुत्रो ऽप्यकृतविवाह एवमेव विवाहादूर्ध्व यदा मासिश्राद्धमारभते तदा पितुः सपिण्डीकरणेन सहारभते अन्ये त्वेतदनुष्ठानं अन्यथापि भवति तत्र पित्रे प्रेताय पूर्ववद्भस्मनि होमः इतरेभ्यो ऽन्नादाज्याच्च मासिश्राद्धवत् पिण्डदाने-मासिश्राद्धवत्पिण्डान् दत्वा तत्समीपे पृथक् स्तीर्णेषु दर्भेषु प्रेताय पिण्डः पूर्ववदपो दत्वा तस्यान्ते अर्घ्यार्ध पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ऽये समामाऽइति द्वाभ्यां पिण्डं पिण्डेषु संसृजेत् एतत्सपिण्डीकरणम् एतस्मिन्कृते प्रेतः पितृत्वमापद्यते चतुर्थश्चानुज्ञापित उत्सृष्टो भवति अत्र विप्रतिप्त्तिः- केचित्प्रपितामहस्य पात्रं पिण्डं चेतरेषु संसृजन्ति प्रेतशब्देन स एवोच्यते प्रकर्षेण इतः प्रेत इति स ह्यत्रानुज्ञातो भवति प्रसिद्धस्त्वाचारः यस्य सपिण्डीकरणं स प्रेतः, तस्यैव च पात्रपिण्डयोरितरेषु संसर्गः एवमपि प्रपितामहस्यैवानुज्ञेति मातृसपिण्डीकरणे सा यदि पुत्रिका, आसुरादिविवाहोढा वा ततो मातामहादीनां पिण्डेषु संसर्गः तत्पिण्डस्येतरत्र श्वश्त्वादि पिण्डेन एकाचित्यारूढायास्तु भर्तृपिण्डेनेति केचिद्व्यवस्थापयन्ति प्रयोगस्तु पिरसिद्धाचारानुरोधेन कर्तव्यः अत्र केचित्पठन्ति भ्राता वा भ्रातृपुत्रो वा सपिण्डः श्ष्य एव वा सहपिण्डक्रियाः कृत्वा कुर्यादभ्युदयं ततः इति तथा अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डतामिति अथ नाम्दीश्राद्धम्- तत्र बोधायनः -अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान्, युग्मान् ब्राह्मणान्, यवैस्तिलार्थः, पृषदाज्यं हविः सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं, संसर्जनं च नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यग्नौकरणमनुदेशनं च आशयेषु परिसमूढेषु दर्भेषु पृषदाज्येनानुप्रदानं नान्दीमुखेभ्यः पितृभ्यः स्वधा नमः इति सर्व द्विर्द्विरिति (बौगृ.3-12-2....5) तत्रैव प्रदेशान्तरे"तेषु भक्तवत्सु स्वधायै स्थाने ऽमधु मनिष्ये मधु जनिष्यऽइत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनयति स्वधैवैषोक्ता भवति नैकेनाह्ना दैवं पित्र्यं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति, तस्मात् पितृभ्यः पूर्वेद्युः क्रियते, परेद्युर्देवानामिति (बौगृप.1-3-10-11) तथा पुष्पफलाक्षतमिश्रैर्यवैः तिलार्थ उपलिप्य दध्योदनं समप्रकीर्येति तत्र मासिश्राद्धं सर्वेषां पित्र्याणां प्रकृतिः अस्माकं विशेषास्तु शास्त्रान्तरादागमयितव्याः तेन ऽपूर्वेद्युर्निवेदनऽमित्यादि सर्वमिहापि भवति युग्मा ब्राह्मणाः अष्टौ षोडश वा यद्युष्टौ द्वौ देवेभेयः पितृभ्यो द्वौ द्वौ यदि षोडश देवेभ्यश्चत्वारो द्वादश पितृभ्य इत्यादि यवैस्तिलार्थः मासिश्राद्धो यत् तिलकृत्यमर्घ्यादिषु तदत्र यवैः कर्तव्यः पुष्पादिभिश्च मिश्रणम, प्रदेशान्तरे वचनात् पृषदाज्यं हविः र्मासौदनवत्पृषदाज्यमिश्रमित्येके, केवलमेवेत्यन्ये सोपयामेनेति येनार्घ्य प्रदीयते तत्पात्रमन्येन पात्रेणोपयम्येत्यर्थः नान्दीमुखाः प्रीयन्तामिति देवेभ्यस्तु विश्वेदेवाः प्रीयन्तामिति तत्र पितॄणामेकपात्रं, न त्रीणि;पितृपितामहप्रपितामहविशेषस्यानुपदेशात्, सर्वेषु मन्त्रेषु नान्दीमुखाः पितर इत्युपदेशात् तस्मादेकमेव पात्रं पितॄणां, देवानां चैकम् तत्र ब्राह्मणानुपवेश्याग्नेः प्रतिष्ठापनं अर्घ्यपात्रयोश्च अग्निश्चौपासन एव विवाहेष्वसंभवात् अर्घ्य प्रदाय गन्धादिभिश्चालङ्कृत्यानुज्ञातो हविरुद्धृत्य पृषदाज्येन संसृज्याभिघार्याज्यभागान्ते नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्येकां प्रधानाहुदीं जुहोति केवलेन पृषदाज्येन सौविष्टकृतं द्वितीयं जुहुयादिति तन्त्रशेषं समाप्य क्लप्तान्वा प्रतिपूरुषमिति न्यायेनानेन नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यनेन मन्त्रेण पितृभ्यो ऽनुदिशति, देवेभ्यस्तु वुश्वेभ्यो देवेभ्यः स्वाहेति मासिश्राद्धे ये होममन्त्राः अनुदेशनमन्त्राश्च तेषां निवृत्तिः उपस्पर्शनं तु भवत्येव प्रत्याम्नायाभावात् पृथिवीते पात्रमित्याशयेषु च परिसमूढेष्विति आशयेषु भोजनस्थानेषु परिसमूढेषु परिसमूहनेन शोधितेषु पृषदाज्यमिश्रेण बविषा पृषदाज्येनैव तावत्पिण्डस्यानुप्रदानं नान्दीमुखेभ्यः स्वधानम इत्यनेन एवं सर्व द्विर्द्विरिति आसनप्रदानादिषु द्विर्द्विः प्रयत्नः कर्त्तव्य इत्यर्थः उपलिप्य दध्योदनं सम्प्रकीर्य तते ऽये अग्निदग्धाऽइत्यस्मिन् स्थाने भवति अथ दक्षिणां दत्वा विसर्जनं नान्दीमुखाः पितरः प्रीयन्तामिति तत उदपात्रसमीपे मधु मनिष्य इति यजुर्जपित्वा विसर्जनमन्त्राभ्यां बर्हिषि पात्रे निनीय्य न्युब्जमिति एवमेतन्नान्दीश्राद्धं तत्र कर्तव्यं यत्रापरेद्युर्देवयज्यानुष्ठानम् केचित्वन्यथा पठन्ति च मातुश्श्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् ततो मातामहानां तु वृद्धौ श्राद्धत्रयं विदुः इति अस्मिन् पक्षे मात्रादीनां द्वौ द्वौ एवं पित्रादीनां, एवं मातामहादीनां, देवार्थेद्वावेति विंशतिर्द्विजाः तथा च मनुनान्यपरे वाक्ये दर्शितम् प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे इति (मस्मृ.8-392) यात्राभ्युदयश्राद्धं भवति तद्विंशतिद्विजं कल्याणं भवति पुनश्च पठंति पुंसि जातान्नचौलोपस्नानपाणिग्रहेषु च अग्न्याधाने तथा सोमे दशस्वभ्युदयस्स्मृतः इति प्रयेगश्च-पार्वणश्राद्धवदेव एतावदत्र नाना युग्मा ब्राह्मणाः प्रदक्षिणमुपचारो यज्ञोपवीतं यवास्तिलार्त इति

tasyā māsiśrāddhena kalpo vyākhyātaḥ āpgs_22.12 (pa.8.,kha.22-12) commentaries: āpgs-anā_22.12: māsiśrāddhavadanvaṣṭakā kartavyetyarthaḥ kalpātideśāt dravyadevatādi sarvamiha prāpyate 'tatrānnasyottarābhirjuhotī'tyatra māṃsasaṃsṛṣṭasyānnasya homamicchanti aṣṭakāyāṃ darśanāt iha ca yathārtha māṃsamiti vacanāt anye māsiśrāddhātideśādannasyāva homamicchanti yatraiva tu kārye māsi śrāddhe māṃsaṃ ihāpi tatraiveti atra kecit-dadhyañjalipakṣe 'pyanvaṣṭakāmicchanti madhye tasya vidhānāt yadi hyasāvanvaṣṭatāyā api pratyāmnāyaḥ syāt tāmapyabhidhāya vaktavyaṃ syāditi ata eva yathārtha māṃsaṃ śiṣṭvā śvobhūte 'nvaṣṭakā tasyā māsi śrāddhena kalpo vyākhyātaḥ iti pūrvatra sambandhaḥ athaikoddiṣṭavidhiḥ śāstrāntarāt pretamekamuddisya yacchrāddhaṃ kriyate tadekoddiṣṭam ayugmā brāhmaṇāḥ ekaḥ trayaḥ pañceti vṛdhyā phalabhūyastvam tatra nāgnau karaṇaṃ, nābhiśrāvaṇaṃ, na pūrva nimantraṇaṃ, na daivaṃ, na dhūpo, na dīpo, na svadhā, na namaskāraḥ, udaṅmukhāḥ brāhmaṇāḥ sarvasmādannātsakṛtsakṛdavadāya dakṣiṇato bhasmamiśrānaṅgārānnirūhya teṣveva juhuyāt pretāyāmuṣmai yamāya ca svāheti pretāyeti vacanaṃ pretasya nāmanirdeśārtham yajñaśarmaṇe yamāya ca svāheti prayogamicchanti yajñaśarmaṇe pretāya yamāya cetyanye amuṣmai tṛptirastviti apāṃ pratigrahaṇaṃ visarjanaṃ cā asti tṛptiriti prativacanam amuṣmā upatiṣṭhatvityanudeśanaṃ, āśayeṣu ca piṃḍhadānaṃ bhojanasthāna ityarthaḥ tṛpyasveti saṃkṣālanam etadekoddiṣṭaṃ sarvavarṇānāṃ svāśaucānte prasiddham athānyāni navaśrāddhamāsikāni traipakṣikaṃ ṣāṇmāsikaṃ sāmvatsarikamiti yatprathamaṃ kriyate tannavaśrāddham navaṃ ca tacchrāddhañceti kṛtvā tasya varṇānupūrveṇa kālaḥ caturthe pañcame caiva navamaikādaśe tathā yadatra dīyate jantoḥ tannavaśrāddhamucyate iti sarveṣāmapi varṇānāṃ catvāryapi navaśrāddhānītyanye toṣāṃ dvitīyādiṣu navaśabdo ghaṭate māsikāni dvādaśa pratimāsaṃ mṛtāhe kartavyāni ādyaṃ tu svāśocante antyaṃ ca sapiṇḍīkaraṇena saha mṛtāha eva trāpakṣikaṃ ṣāṇmāsikaṃ dvitīyādiṣu samvatsareṣu pratisamvatsaraṃ mṛtāha eva sāmvatsarikamiti ṣoḍaśaitānyekoddiṣṭāni sāmvatsarike ca kṣetrajajārajayoḥ ekoddiṣṭakalpasya ca vikalpaḥ itareṣāmekoddiṣṭameva ye navaśrāddhānāṃ samuccayamicchanti teṣāṃ ṣoḍaśaikoddiṣṭānītyeṣāpi prasiddhirdurupapādā atra paṭhanti nityaśrāddhaṃ māsi māsi aparyāptāvṛttuṃ prati dvādaśāhena vā bhojyā ekāhe dvādaśāpi vā atha sapiṇḍīkaraṇaṃ samvatsara ekādaśe caturthe tṛtīye vā māsi tripakṣe ardhamāse dvādaśe vāhani upanayanābhyudayaprāptau vā tatra ekoddiṣṭasya māsiśrāddhasya ca samuccayaḥ pretasyaikoddiṣṭaṃ tasya ye ptrādayaḥ tebhyo māsiśrāddhaṃ mantreṣu ca na kścidvikāraḥ yanme mātetyādiṣu yathaiva te pitrā pretena pūrva prayuktāstathāva putreṇāpi prayoktavyāḥ putrādanyasya ca sapiṇḍīkaraṇe nādhikāraḥ, māsiśrāddhābhāvāt sapiṇḍīkaraṇāsya ca māsiśrāddhaprayogavikāratvāt tasmādaputrasya pretasya bhāryā yāvajjīvamekoddiṣṭakalpenaiva patye māsiśrāddhaṃ dadāti putro 'pyakṛtavivāha evameva vivāhādūrdhva yadā māsiśrāddhamārabhate tadā pituḥ sapiṇḍīkaraṇena sahārabhate anye tvetadanuṣṭhānaṃ anyathāpi bhavati tatra pitre pretāya pūrvavadbhasmani homaḥ itarebhyo 'nnādājyācca māsiśrāddhavat piṇḍadāne-māsiśrāddhavatpiṇḍān datvā tatsamīpe pṛthak stīrṇeṣu darbheṣu pretāya piṇḍaḥ pūrvavadapo datvā tasyānte arghyārdha pitṛpātreṣu pretapātraṃ prasecayet 'ye samāmā'iti dvābhyāṃ piṇḍaṃ piṇḍeṣu saṃsṛjet etatsapiṇḍīkaraṇam etasminkṛte pretaḥ pitṛtvamāpadyate caturthaścānujñāpita utsṛṣṭo bhavati atra vipratipttiḥ- kecitprapitāmahasya pātraṃ piṇḍaṃ cetareṣu saṃsṛjanti pretaśabdena sa evocyate prakarṣeṇa itaḥ preta iti sa hyatrānujñāto bhavati prasiddhastvācāraḥ yasya sapiṇḍīkaraṇaṃ sa pretaḥ, tasyaiva ca pātrapiṇḍayoritareṣu saṃsargaḥ evamapi prapitāmahasyaivānujñeti mātṛsapiṇḍīkaraṇe sā yadi putrikā, āsurādivivāhoḍhā vā tato mātāmahādīnāṃ piṇḍeṣu saṃsargaḥ tatpiṇḍasyetaratra śvaśtvādi piṇḍena ekācityārūḍhāyāstu bhartṛpiṇḍeneti kecidvyavasthāpayanti prayogastu pirasiddhācārānurodhena kartavyaḥ atra kecitpaṭhanti bhrātā vā bhrātṛputro vā sapiṇḍaḥ śṣya eva vā sahapiṇḍakriyāḥ kṛtvā kuryādabhyudayaṃ tataḥ iti tathā aputrāyāṃ mṛtāyāṃ tu patiḥ kuryātsapiṇḍatāmiti atha nāmdīśrāddham- tatra bodhāyanaḥ -athābhyudayikeṣu pradakṣiṇamupacāro yajñopavītaṃ prāgagrān darbhān, yugmān brāhmaṇān, yavaistilārthaḥ, pṛṣadājyaṃ haviḥ sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantāmityapāṃ pratigrahaṇaṃ, saṃsarjanaṃ ca nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyagnaukaraṇamanudeśanaṃ ca āśayeṣu parisamūḍheṣu darbheṣu pṛṣadājyenānupradānaṃ nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namaḥ iti sarva dvirdviriti (baugṛ.3-12-2....5) tatraiva pradeśāntare"teṣu bhaktavatsu svadhāyai sthāne 'madhu maniṣye madhu janiṣya'ityetadyajurjapitvā nāndīmukhāḥ pitaraḥ prīyantāmityapo ninayati svadhaivaiṣoktā bhavati naikenāhnā daivaṃ pitryaṃ ca kurvanti yasyaikāhnā pitryaṃ daivaṃ ca kurvanti prajā hāsya pramāyukā bhavati, tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate, paredyurdevānāmiti (baugṛpa.1-3-10-11) tathā puṣpaphalākṣatamiśrairyavaiḥ tilārtha upalipya dadhyodanaṃ samaprakīryeti tatra māsiśrāddhaṃ sarveṣāṃ pitryāṇāṃ prakṛtiḥ asmākaṃ viśeṣāstu śāstrāntarādāgamayitavyāḥ tena 'pūrvedyurnivedana'mityādi sarvamihāpi bhavati yugmā brāhmaṇāḥ aṣṭau ṣoḍaśa vā yadyuṣṭau dvau devebheyaḥ pitṛbhyo dvau dvau yadi ṣoḍaśa devebhyaścatvāro dvādaśa pitṛbhya ityādi yavaistilārthaḥ māsiśrāddho yat tilakṛtyamarghyādiṣu tadatra yavaiḥ kartavyaḥ puṣpādibhiśca miśraṇama, pradeśāntare vacanāt pṛṣadājyaṃ haviḥ rmāsaudanavatpṛṣadājyamiśramityeke, kevalamevetyanye sopayāmeneti yenārghya pradīyate tatpātramanyena pātreṇopayamyetyarthaḥ nāndīmukhāḥ prīyantāmiti devebhyastu viśvedevāḥ prīyantāmiti tatra pitṝṇāmekapātraṃ, na trīṇi;pitṛpitāmahaprapitāmahaviśeṣasyānupadeśāt, sarveṣu mantreṣu nāndīmukhāḥ pitara ityupadeśāt tasmādekameva pātraṃ pitṝṇāṃ, devānāṃ caikam tatra brāhmaṇānupaveśyāgneḥ pratiṣṭhāpanaṃ arghyapātrayośca agniścaupāsana eva vivāheṣvasaṃbhavāt arghya pradāya gandhādibhiścālaṅkṛtyānujñāto haviruddhṛtya pṛṣadājyena saṃsṛjyābhighāryājyabhāgānte nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyekāṃ pradhānāhudīṃ juhoti kevalena pṛṣadājyena sauviṣṭakṛtaṃ dvitīyaṃ juhuyāditi tantraśeṣaṃ samāpya klaptānvā pratipūruṣamiti nyāyenānena nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyanena mantreṇa pitṛbhyo 'nudiśati, devebhyastu vuśvebhyo devebhyaḥ svāheti māsiśrāddhe ye homamantrāḥ anudeśanamantrāśca teṣāṃ nivṛttiḥ upasparśanaṃ tu bhavatyeva pratyāmnāyābhāvāt pṛthivīte pātramityāśayeṣu ca parisamūḍheṣviti āśayeṣu bhojanasthāneṣu parisamūḍheṣu parisamūhanena śodhiteṣu pṛṣadājyamiśreṇa baviṣā pṛṣadājyenaiva tāvatpiṇḍasyānupradānaṃ nāndīmukhebhyaḥ svadhānama ityanena evaṃ sarva dvirdviriti āsanapradānādiṣu dvirdviḥ prayatnaḥ karttavya ityarthaḥ upalipya dadhyodanaṃ samprakīrya tate 'ye agnidagdhā'ityasmin sthāne bhavati atha dakṣiṇāṃ datvā visarjanaṃ nāndīmukhāḥ pitaraḥ prīyantāmiti tata udapātrasamīpe madhu maniṣya iti yajurjapitvā visarjanamantrābhyāṃ barhiṣi pātre ninīyya nyubjamiti evametannāndīśrāddhaṃ tatra kartavyaṃ yatrāparedyurdevayajyānuṣṭhānam kecitvanyathā paṭhanti ca mātuśśrāddhaṃ tu pūrva syātpitṝṇāṃ tadanantaram tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ viduḥ iti asmin pakṣe mātrādīnāṃ dvau dvau evaṃ pitrādīnāṃ, evaṃ mātāmahādīnāṃ, devārthedvāveti viṃśatirdvijāḥ tathā ca manunānyapare vākye darśitam prativeśyānuveśyau ca kalyāṇe viṃśatidvije iti (masmṛ.8-392) yātrābhyudayaśrāddhaṃ bhavati tadviṃśatidvijaṃ kalyāṇaṃ bhavati punaśca paṭhaṃti puṃsi jātānnacaulopasnānapāṇigraheṣu ca agnyādhāne tathā some daśasvabhyudayassmṛtaḥ iti prayegaśca-pārvaṇaśrāddhavadeva etāvadatra nānā yugmā brāhmaṇāḥ pradakṣiṇamupacāro yajñopavītaṃ yavāstilārta iti


12

आप्ग्स्-तात्_22.12: तस्या अन्वष्टकायाः कल्पो मासिश्राद्धवत् कर्तव्य इत्यर्थः कल्पातिदेशात् सर्वमिह द्रव्यदेवतादिकं प्राप्यते तस्मान्निमन्त्रणादि ग्रासप्राशनान्तं सर्व मासिश्राद्धवदविकृतं कर्तव्यम्

āpgs-tāt_22.12: tasyā anvaṣṭakāyāḥ kalpo māsiśrāddhavat kartavya ityarthaḥ kalpātideśāt sarvamiha dravyadevatādikaṃ prāpyate tasmānnimantraṇādi grāsaprāśanāntaṃ sarva māsiśrāddhavadavikṛtaṃ kartavyam


13

अथावशिष्टानां मन्त्राणां येषु विनियोगस्तानि कर्माणि व्याचष्टे 1 याच्ञार्थ गज्छता कर्तव्यो जपः सनिमित्वोत्तरान् जपित्वारऽथ ब्रूयात् आप्ग्स्_22.13 (प.8.,ख.22-13) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.13: सन्यर्थ दातारं गत्वा भिक्षणलभ्यं धनं सनिरित्युच्यते सनिमित्वा उत्तरान्मन्त्रान् ऽअन्नमिव ते दृशे भूयासऽमित्यादीन् सप्त जपित्वा तमर्थ प्रब्रूयात् यदर्थमागत- सप्तमे मन्त्रे असावित्यत्र प्रदातुर्नामग्रहणं ,म्बुध्या

athāvaśiṣṭānāṃ mantrāṇāṃ yeṣu viniyogastāni karmāṇi vyācaṣṭe 1 yācñārtha gajchatā kartavyo japaḥ sanimitvottarān japitvār'tha brūyāt āpgs_22.13 (pa.8.,kha.22-13) commentaries: āpgs-anā_22.13: sanyartha dātāraṃ gatvā bhikṣaṇalabhyaṃ dhanaṃ sanirityucyate sanimitvā uttarānmantrān 'annamiva te dṛśe bhūyāsa'mityādīn sapta japitvā tamartha prabrūyāt yadarthamāgata- saptame mantre asāvityatra pradāturnāmagrahaṇaṃ ,mbudhyā


13

आप्ग्स्-तात्_22.13: सनिर्यात्ञा भिक्षणम् केचित्-भिक्षणलब्धं धनमिति या सनिःऽभिक्षणे निम्त्तमाचार्यो विवाहो यज्ञे मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपःऽऽतत्र गुणान् समीक्ष्य यथाशक्ति देयमऽ(आपध.2-10-1,2) इति धर्मशास्त्रेवगता, तामुद्दिश्य इत्वा गत्वा उत्तरान् मन्त्रान् ऽअन्नमिव ते दृशे भूयासंऽइत्यादीन् सप्त जपित्वा तमर्थ प्रयोजनं ब्रूयात्, यं भिक्षेत तं बोधयति ऽआचार्यार्थं भिक्षामि भवन्तमऽइति एवमुत्तरेष्वपि भिक्षणनिमित्तेषु विशेषः विवाहार्थमित्यादिः सप्तमे च मन्त्रे ऽअसाऽवित्यत्र समबुद्ध्या दातुर्नामग्रहणम्

āpgs-tāt_22.13: saniryātñā bhikṣaṇam kecit-bhikṣaṇalabdhaṃ dhanamiti yā saniḥ'bhikṣaṇe nimttamācāryo vivāho yajñe mātāpitrorbubhūrṣārhataśca niyamavilopaḥ''tatra guṇān samīkṣya yathāśakti deyam'(āpadha.2-10-1,2) iti dharmaśāstrevagatā, tāmuddiśya itvā gatvā uttarān mantrān 'annamiva te dṛśe bhūyāsaṃ'ityādīn sapta japitvā tamartha prayojanaṃ brūyāt, yaṃ bhikṣeta taṃ bodhayati 'ācāryārthaṃ bhikṣāmi bhavantam'iti evamuttareṣvapi bhikṣaṇanimitteṣu viśeṣaḥ vivāhārthamityādiḥ saptame ca mantre 'asā'vityatra samabuddhyā dāturnāmagrahaṇam


14

इदानीं यदि याच्ञया रथादीनि सब्धानि, तदा केन विधिना स्वीकारः?इत्युत्तरे विधये आरभ्यन्ते 2 रथलाभे चक्राभिमर्शनम् रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा आप्ग्स्_22.14 (प.8.,ख.22-14) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.14: यदि रथो लभ्यते ततस्तं लब्ध्वा योजयति कर्मकरैर्युगधुरोः करोति तं प्राङ्मुखमवस्थाप्य उत्तरयर्चा ऽअङ्कौ न्यङ्कावभितऽइत्येतया रथचक्रे उभे सहाभिमृशति पक्षसी रथस्येति शेषः पार्श्वे फलके इत्यन्ये नेमी इत्यपरे सकृदेव मन्त्रः पाणिभ्यामुभाभ्यामभिमर्सनम् तथा चाश्वलायनः ऽरथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभ्मृशेत् (आश्वगृ.2-6-1) इति

idānīṃ yadi yācñayā rathādīni sabdhāni, tadā kena vidhinā svīkāraḥ?ityuttare vidhaye ārabhyante 2 rathalābhe cakrābhimarśanam rathaṃ labdhvā yojayitvā prāñcamavasthāpyottarayā rathacakre abhimṛśati pakṣasī vā āpgs_22.14 (pa.8.,kha.22-14) commentaries: āpgs-anā_22.14: yadi ratho labhyate tatastaṃ labdhvā yojayati karmakarairyugadhuroḥ karoti taṃ prāṅmukhamavasthāpya uttarayarcā 'aṅkau nyaṅkāvabhita'ityetayā rathacakre ubhe sahābhimṛśati pakṣasī rathasyeti śeṣaḥ pārśve phalake ityanye nemī ityapare sakṛdeva mantraḥ pāṇibhyāmubhābhyāmabhimarsanam tathā cāśvalāyanaḥ 'rathamārokṣyannānā pāṇibhyāṃ cakre abhmṛśet (āśvagṛ.2-6-1) iti


14

आप्ग्स्-तात्_22.14: रथश्चेल्लब्धः तं कर्मकरैर्वाहाभ्यांयोजयित्वाथ तं प्राञ्चंप्राङमुखमवस्थाप्य उत्तरया ऽअङ्कौ न्यङ्कौ ऽइत्येतया रथचक्रे उभे पाणिभ्यां युगपदभिमृशति अपि वा पक्षसी ईर्षे अन्यथापि पदार्थमाहुः

āpgs-tāt_22.14: rathaścellabdhaḥ taṃ karmakarairvāhābhyāṃyojayitvātha taṃ prāñcaṃprāṅamukhamavasthāpya uttarayā 'aṅkau nyaṅkau 'ityetayā rathacakre ubhe pāṇibhyāṃ yugapadabhimṛśati api vā pakṣasī īrṣe anyathāpi padārthamāhuḥ


15

3 रथारोहृअमन्त्रः उत्तरेण यजुषाधीरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थ यायात् आप्ग्स्_22.15 (प.8.,ख.22-15) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.15: ततःउत्तरण यजुषाऽअध्वनामध्वयतऽइत्येन रथं स्वमधिरोहति ततः उत्तरयर्चा ऽअयं वामश्विमा रथऽइत्येतया प्रचीमुदीचीं वा दिशमभिप्रपाद्य यथार्थ यायात् यत्र प्रयोजनं तत्र गच्छेत् अधीरुह्येति दीर्घपाठश्छान्दसः एताद्विधानं क्रयादिलब्धस्यापि रथस्य प्रथमारोहणे भवति द्वितीयादिषु तु न भवति लब्ध्वेति वचनात्

3 rathārohṛamantraḥ uttareṇa yajuṣādhīruhyottarayā prācīmudīcīṃ vā diśamabhiprayāya yathārtha yāyāt āpgs_22.15 (pa.8.,kha.22-15) commentaries: āpgs-anā_22.15: tataḥuttaraṇa yajuṣā'adhvanāmadhvayat'ityena rathaṃ svamadhirohati tataḥ uttarayarcā 'ayaṃ vāmaśvimā ratha'ityetayā pracīmudīcīṃ vā diśamabhiprapādya yathārtha yāyāt yatra prayojanaṃ tatra gacchet adhīruhyeti dīrghapāṭhaśchāndasaḥ etādvidhānaṃ krayādilabdhasyāpi rathasya prathamārohaṇe bhavati dvitīyādiṣu tu na bhavati labdhveti vacanāt


15

आप्ग्स्-तात्_22.15: तेन(ततः)उत्तरेणऽअध्वनामध्वपतेऽइत्यनेन यजुषा रथं स्वयमधिरुह्य दीर्घश्छान्दसः उत्तरयाऽअयं वामश्विनौऽइत्येतया प्राचीमुदीचां वा दिशमभ्प्तयायप्रस्थायादृष्टार्थ, ततो यथार्थप्रयोजनानुसारेणयायान्गच्छेत्

āpgs-tāt_22.15: tena(tataḥ)uttareṇa'adhvanāmadhvapate'ityanena yajuṣā rathaṃ svayamadhiruhya dīrghaśchāndasaḥ uttarayā'ayaṃ vāmaśvinau'ityetayā prācīmudīcāṃ vā diśamabhptayāyaprasthāyādṛṣṭārtha, tato yathārthaprayojanānusāreṇayāyāngacchet


15

केचित्-लब्ध्वेतिवचनात् क्रयादिलब्धस्यापि रथादेः प्रथमारोहणे विधिरयं भवतीति नैतत्;प्रकृतयाच्ञादिना लब्धरथादिविषयत्वेनैवास्य वाक्यस्यार्थवत्त्वोपपत्तेः, ऽयाच्ञया रथादीनि लब्ध्वाऽइति भाष्यविरोधाच्च

kecit-labdhvetivacanāt krayādilabdhasyāpi rathādeḥ prathamārohaṇe vidhirayaṃ bhavatīti naitat;prakṛtayācñādinā labdharathādiviṣayatvenaivāsya vākyasyārthavattvopapatteḥ, 'yācñayā rathādīni labdhvā'iti bhāṣyavirodhācca


16

4 अश्वारोहणमन्त्रः अश्वमुत्तरैरारोहेत् आप्ग्स्_22.16 (प.8.,ख.22-16) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.16: लब्ध्वे त्यनुवर्तते उत्तैरेकादशभिः ऽअश्वो ऽसि हयो ऽसिऽइत्यादिभिः रथलाभवदश्वलाभो व्याख्यातः

4 aśvārohaṇamantraḥ aśvamuttarairārohet āpgs_22.16 (pa.8.,kha.22-16) commentaries: āpgs-anā_22.16: labdhve tyanuvartate uttairekādaśabhiḥ 'aśvo 'si hayo 'si'ityādibhiḥ rathalābhavadaśvalābho vyākhyātaḥ


16

आप्ग्स्-तात्_22.16: अश्वश्चेद्याच्ञया लब्धः तमुत्तरैर्मन्त्रैः ऽअश्वो ऽसिऽ; इत्यादिभिरारोहेत्

āpgs-tāt_22.16: aśvaścedyācñayā labdhaḥ tamuttarairmantraiḥ 'aśvo 'si'; ityādibhirārohet


17

5 हस्त्यारोहणमन्त्रः हस्तिनमुत्तरया आप्ग्स्_22.17 (प.8.ख.,22-17) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.17: लब्ध्वाऽगोहोदिति वर्तते उत्तरया ऽहस्तियशसमसीऽत्येतया तत्रासाविति हस्तिनो नामग्रहणम् अभिनिदधामि नागेन्द्रेति आरुह्य तूष्णीमङ्कुशाभिधानम् मन्त्रे चाभिनिदधामीति द्रष्टव्यः तेन मन्त्रे लिङ्गस्याविरोधः

5 hastyārohaṇamantraḥ hastinamuttarayā āpgs_22.17 (pa.8.kha.,22-17) commentaries: āpgs-anā_22.17: labdhvā'gohoditi vartate uttarayā 'hastiyaśasamasī'tyetayā tatrāsāviti hastino nāmagrahaṇam abhinidadhāmi nāgendreti āruhya tūṣṇīmaṅkuśābhidhānam mantre cābhinidadhāmīti draṣṭavyaḥ tena mantre liṅgasyāvirodhaḥ


17

आप्ग्स्-तात्_22.17: पूर्ववद्व्याख्यानम् उत्तरयाऽहस्तियशसंऽइत्येतया असावित्यत्र च सम्बुद्ध्या ऐरावतेति गजनामग्रहणम् अत्र यद्यपि ऽवज्रेणाभिनिदधाम्यसौऽइतिलिङ्गादङ्कुशाभिधानार्थता मन्त्रस्य;तथापि ऽहस्तिनमुत्तरयाऽरोहेतऽइति वाचनिकविनियोगस्य बलवत्त्वात्तदनु सार्येव मन्त्रो व्याख्यातव्यः

āpgs-tāt_22.17: pūrvavadvyākhyānam uttarayā'hastiyaśasaṃ'ityetayā asāvityatra ca sambuddhyā airāvateti gajanāmagrahaṇam atra yadyapi 'vajreṇābhinidadhāmyasau'itiliṅgādaṅkuśābhidhānārthatā mantrasya;tathāpi 'hastinamuttarayā'rohet'iti vācanikaviniyogasya balavattvāttadanu sāryeva mantro vyākhyātavyaḥ


18

ताभ्यां रेषणे पूर्ववत् पृथिवीमभिमृशेत् आप्ग्स्_22.18 (प.8.ख.,22-18) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.18: ताभ्यां अस्वहस्तिभ्यांरेषणेशरीरोपमर्दे जाते पूर्ववथेमन्तप्रत्यवरोहणवत्पृथिवीमभिमृशेत् ऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्याम् पूर्ववदिति न जातकर्म गृह्यते, व्यवधानात्

tābhyāṃ reṣaṇe pūrvavat pṛthivīmabhimṛśet āpgs_22.18 (pa.8.kha.,22-18) commentaries: āpgs-anā_22.18: tābhyāṃ asvahastibhyāṃreṣaṇeśarīropamarde jāte pūrvavathemantapratyavarohaṇavatpṛthivīmabhimṛśet 'syonā pṛthivi''baḍitthe'tyetābhyām pūrvavaditi na jātakarma gṛhyate, vyavadhānāt


18

आप्ग्स्-तात्_22.18: ताभ्यां तयोरश्वहस्तिनोः रेषणे मरणे सति पूर्ववत् हेमन्तप्रत्यवरोहणवत् ऽस्योना पृथिवीऽइत्येताभ्यांपृथिवीमभिमृशेत् केचित्-ताभ्यां अश्वहस्तिभ्याम् प्रमादाद्भूमौ पतितस्य रेषणे शरीरोपमर्दे जाते इति

āpgs-tāt_22.18: tābhyāṃ tayoraśvahastinoḥ reṣaṇe maraṇe sati pūrvavat hemantapratyavarohaṇavat 'syonā pṛthivī'ityetābhyāṃpṛthivīmabhimṛśet kecit-tābhyāṃ aśvahastibhyām pramādādbhūmau patitasya reṣaṇe śarīropamarde jāte iti


19

1 छत्रदण्डयोरादानम् संवादमेष्यन् सव्येन पाणिना छत्रं दण्डञ्चाऽदत्ते आप्ग्स्_22.19 (प.8.ख.,22-19) चोम्मेन्तरिएस्: आप्ग्स्-अना_22.19: यत्र स्थानेरऽथादिनिमित्ते प्रत्यर्थिभिः सम्वदते ससम्वादः तमेष्यन् तत्रापराजयायसव्येन पाणिना छत्रं दण्डञ्चादत्ते पाणिग्रहणमुत्तरार्थम् इह तु आदानपरत्वादेव सिद्धम् तेन खलीकरणहोमः पाणिनैव कर्तव्यः, न पात्रेण अन्यथा मुष्टिशब्दस्य परिमाणवाचित्वस्यापि दरशनादस्याप्रसङ्गः

1 chatradaṇḍayorādānam saṃvādameṣyan savyena pāṇinā chatraṃ daṇḍañcā'datte āpgs_22.19 (pa.8.kha.,22-19) commentaries: āpgs-anā_22.19: yatra sthāner'thādinimitte pratyarthibhiḥ samvadate sasamvādaḥ tameṣyan tatrāparājayāyasavyena pāṇinā chatraṃ daṇḍañcādatte pāṇigrahaṇamuttarārtham iha tu ādānaparatvādeva siddham tena khalīkaraṇahomaḥ pāṇinaiva kartavyaḥ, na pātreṇa anyathā muṣṭiśabdasya parimāṇavācitvasyāpi daraśanādasyāprasaṅgaḥ


19

इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां द्वाविंशः खण्डः आप्ग्स्-तात्_22.19: सम्वादःऋणादानादिव्यवहारः केचित्-यत्र स्थाने प्रयर्थिभिस्संवदत इति ऋणादानादिव्यवहारं कर्तुमेष्यन् व्यवहारे जयमिच्छन्नित्यर्थः शेषं व्यक्तम्

iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ dvāviṃśaḥ khaṇḍaḥ āpgs-tāt_22.19: samvādaḥṛṇādānādivyavahāraḥ kecit-yatra sthāne prayarthibhissaṃvadata iti ṛṇādānādivyavahāraṃ kartumeṣyan vyavahāre jayamicchannityarthaḥ śeṣaṃ vyaktam


1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने द्वाविंशः खण्डस्समाप्तः अथ त्रयोविंश खण्डः 2 फलीकरणमुष्टिहोममन्त्रः दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् आप्ग्स्_23.1 [एतदादिसूत्रत्रयमेकसूत्रतया परिगणितं हरदत्तमते इति खड. पुस्तकयोः] (प.7.ख.,23-1) चोम्मेन्तरिएस्: आप्ग्स्-अना_23.1: छत्रदण्डौ सव्येन पाणिना धारयन्नेवदक्षिणेनपाणिना फलीकरणानां मुष्टिं जुहोति उत्तरयर्च्चा(1- गघ. अवजिह्वकेति लिङ्गदर्शनात्) ऽअव जिह्वकेऽत्येतया तत्रासाविति प्रत्यर्थिनो नामनिर्धेशः प्रथमया होमश्चायमपूर्वः उपसमाधानं परिस्तरणं तूष्णीमुभयतः पर्युक्षणमित्येतावत् ततस्संवादं गत्वा प्रत्यर्थिनं दृष्ट्वाजपेत् उत्तरामृचं ऽआ ते वाचमास्यांऽइत्येताम् अत्राप्यसाविति प्रत्यर्थिनो नामनिर्देशः सम्बुध्या अवाचीनेन मुष्टिना होमः ऽअवयज इतिऽलिङ्गात् दक्षिणेनेति वचनं होमकाले छत्रदण्डयोः सव्येन धारणार्थम् - सव्यस्य व्यापृतत्वात् दक्षिणेनैव होमः इति

iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane dvāviṃśaḥ khaṇḍassamāptaḥ atha trayoviṃśa khaṇḍaḥ 2 phalīkaraṇamuṣṭihomamantraḥ dakṣiṇena phalīkaraṇamuṣṭimuttarayā hutvā gatvottarāṃ japet āpgs_23.1 [etadādisūtratrayamekasūtratayā parigaṇitaṃ haradattamate iti khaḍa. pustakayoḥ] (pa.7.kha.,23-1) commentaries: āpgs-anā_23.1: chatradaṇḍau savyena pāṇinā dhārayannevadakṣiṇenapāṇinā phalīkaraṇānāṃ muṣṭiṃ juhoti uttarayarccā(1- gagha. avajihvaketi liṅgadarśanāt) 'ava jihvake'tyetayā tatrāsāviti pratyarthino nāmanirdheśaḥ prathamayā homaścāyamapūrvaḥ upasamādhānaṃ paristaraṇaṃ tūṣṇīmubhayataḥ paryukṣaṇamityetāvat tatassaṃvādaṃ gatvā pratyarthinaṃ dṛṣṭvājapet uttarāmṛcaṃ 'ā te vācamāsyāṃ'ityetām atrāpyasāviti pratyarthino nāmanirdeśaḥ sambudhyā avācīnena muṣṭinā homaḥ 'avayaja iti'liṅgāt dakṣiṇeneti vacanaṃ homakāle chatradaṇḍayoḥ savyena dhāraṇārtham - savyasya vyāpṛtatvāt dakṣiṇenaiva homaḥ iti


1

आप्ग्स्-तात्_23.1: सव्यपाणिधृतच्छत्रदण्ड एवदक्षिणेनपाणिनाफलीकरणमुष्टिमुत्तरयाऽअव जिह्वकऽइत्येतया स्वाग्नौ जुहोति ऽअसाऽवित्यत्र सोमशर्मेति प्रथमया प्रत्यर्थिनो नामग्रहणम् यावदुक्त (2- धर्मा चायं) धर्मश्चायं होम इति पूर्वमेवोक्तम् केचित् - परिस्तरणमुभयतस्तूष्णीं पर्युक्षणं च कर्तव्यम्, मुष्टिना चावाचीनेन होम इति ततस्संवाददेशंगत्वाप्रत्यर्थिनं पश्यन्नुत्तरां ऽआ ते वाचंऽइत्येतां जपेत् इह च सम्बुध्या नामनिर्देशः प्रत्यर्थिन एव

āpgs-tāt_23.1: savyapāṇidhṛtacchatradaṇḍa evadakṣiṇenapāṇināphalīkaraṇamuṣṭimuttarayā'ava jihvaka'ityetayā svāgnau juhoti 'asā'vityatra somaśarmeti prathamayā pratyarthino nāmagrahaṇam yāvadukta (2- dharmā cāyaṃ) dharmaścāyaṃ homa iti pūrvamevoktam kecit - paristaraṇamubhayatastūṣṇīṃ paryukṣaṇaṃ ca kartavyam, muṣṭinā cāvācīnena homa iti tatassaṃvādadeśaṃgatvāpratyarthinaṃ paśyannuttarāṃ 'ā te vācaṃ'ityetāṃ japet iha ca sambudhyā nāmanirdeśaḥ pratyarthina eva


2

3 क्रुद्धाभिमन्त्रणम् क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति आप्ग्स्_23.2 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.2: उत्तराभ्यांऽया त एषा रराट्याऽइत्येताभ्याम् तत्र मन्त्रयोर्लिङ्गे विशेषाभावात् कुद्धमिति लिङ्गमविवक्षितम् तेन स्त्रियामपि भवति शूद्रादिष्वपि भवति नेत्यन्ये क्रुद्धस्य दर्शने नैमित्तिकमिदं नियमेन कर्तव्यमिति प्राप्त आह - विक्रोधो भवतीति यस्य क्रोधविगमं चिकीर्षति तत्र कर्तव्यमित्यर्थः क्रोधश्चात्मविषयः परविषयो वा

3 kruddhābhimantraṇam kruddhamuttarābhyāmabhimantrayeta vikrodho bhavati āpgs_23.2 commentaries: āpgs-anā_23.2: uttarābhyāṃ'yā ta eṣā rarāṭyā'ityetābhyām tatra mantrayorliṅge viśeṣābhāvāt kuddhamiti liṅgamavivakṣitam tena striyāmapi bhavati śūdrādiṣvapi bhavati netyanye kruddhasya darśane naimittikamidaṃ niyamena kartavyamiti prāpta āha - vikrodho bhavatīti yasya krodhavigamaṃ cikīrṣati tatra kartavyamityarthaḥ krodhaścātmaviṣayaḥ paraviṣayo vā


2

आप्ग्स्-तात्_23.2: यदि क्रुद्धः प्रत्यर्थी वा व्यवहारद्रष्टा वा, तत्क्रोधशान्तिं चासाविच्छति, तदाउत्तराभ्यांऽया त एषाऽइत्येताभ्यांक्रुद्धमितरं वाभिमन्त्रयेत अनेन चाभिमन्त्रणेन क्रुद्धो विक्रोधोविगतक्रोधो भवति फलविधिश्चायम् नार्थवादमात्रं, सूत्रकारेण बद्धत्वात्

āpgs-tāt_23.2: yadi kruddhaḥ pratyarthī vā vyavahāradraṣṭā vā, tatkrodhaśāntiṃ cāsāvicchati, tadāuttarābhyāṃ'yā ta eṣā'ityetābhyāṃkruddhamitaraṃ vābhimantrayeta anena cābhimantraṇena kruddho vikrodhovigatakrodho bhavati phalavidhiścāyam nārthavādamātraṃ, sūtrakāreṇa baddhatvāt


3

4 स्वभार्यायां परपुरुषसम्बन्धप्रतिरोधकं कर्म असंभवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत् आप्ग्स्_23.3 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.3: (असंभवेप्सुःअमैथुनेप्सुः) सम्भवो मैथुनम् श्रूयते च - काममाविजनितोः सम्भवामेति (तैसं.2-5-5) तदभावो ऽसम्भवः परेषां पुरुषाणां असम्भवमिच्छनाढारिकासरीसृपविशेषः शतचरणा वा सा च द्विविधा स्थूला तन्वी च अरण्येषु स्थूला अन्यत्र तन्वी तत्र स्थूलायां जीवन्त्यांचूर्णानिकारयति, कर्मकर्तैव कारयित्वातानि यदा भार्या स्वपिति तदा तस्यास्सम्बाधेउपस्थे उपवपेत् उत्तरयाऽअव ज्यामिव धन्वनऽइत्येतया एवं कृते संबाध उपभोगयोग्यो न भवति व्यभिचारशङ्कायामिदम् वेश्याविषयं वा

4 svabhāryāyāṃ parapuruṣasambandhapratirodhakaṃ karma asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāssambādha upavapet āpgs_23.3 commentaries: āpgs-anā_23.3: (asaṃbhavepsuḥamaithunepsuḥ) sambhavo maithunam śrūyate ca - kāmamāvijanitoḥ sambhavāmeti (taisaṃ.2-5-5) tadabhāvo 'sambhavaḥ pareṣāṃ puruṣāṇāṃ asambhavamicchanāḍhārikāsarīsṛpaviśeṣaḥ śatacaraṇā vā sā ca dvividhā sthūlā tanvī ca araṇyeṣu sthūlā anyatra tanvī tatra sthūlāyāṃ jīvantyāṃcūrṇānikārayati, karmakartaiva kārayitvātāni yadā bhāryā svapiti tadā tasyāssambādheupasthe upavapet uttarayā'ava jyāmiva dhanvana'ityetayā evaṃ kṛte saṃbādha upabhogayogyo na bhavati vyabhicāraśaṅkāyāmidam veśyāviṣayaṃ vā


3

आप्ग्स्-तात्_23.3: यः प्रवत्स्यन् गृहे वा प्रजातन्तुं रक्षितुं स्वभार्यायां परपुरुषशुक्लस्यासम्भवमिच्छति सपरेषामसम्भवेप्सुः तस्योपायोपदेशः - स्थूलाढारिकाया जीवन्त्याश्चूर्णान्यन्येन कारयति आढारिका गौलिका सरीसृपविशेषः, या शतचरणा नाम सा च द्विविधा, ग्राम्या आरण्या च तयोरारण्या स्थूला, ग्राम्या तन्वी जीवचूर्णानिचाश्मादिना महता प्रहारेण मार्यमाणायां भवन्ति ततस्तानि चूर्णान्युत्तरयाऽअव ज्यामिव धन्वनऽइत्येतयासुप्तायाः सम्बाधेयोनावुपवपेत् एवं कृते सम्बाध उपभोगयोग्यो न भवति

āpgs-tāt_23.3: yaḥ pravatsyan gṛhe vā prajātantuṃ rakṣituṃ svabhāryāyāṃ parapuruṣaśuklasyāsambhavamicchati sapareṣāmasambhavepsuḥ tasyopāyopadeśaḥ - sthūlāḍhārikāyā jīvantyāścūrṇānyanyena kārayati āḍhārikā gaulikā sarīsṛpaviśeṣaḥ, yā śatacaraṇā nāma sā ca dvividhā, grāmyā āraṇyā ca tayorāraṇyā sthūlā, grāmyā tanvī jīvacūrṇānicāśmādinā mahatā prahāreṇa māryamāṇāyāṃ bhavanti tatastāni cūrṇānyuttarayā'ava jyāmiva dhanvana'ityetayāsuptāyāḥ sambādheyonāvupavapet evaṃ kṛte sambādha upabhogayogyo na bhavati


4

5 पुनः सम्भवेच्छायां कर्तव्यम् सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत आप्ग्स्_23.4 (इतः प्रभृति सूत्रपञ्चकं सूत्रद्वयरूपेण परिगणितं हरदत्तमते इति क,ख पुस्तकयोः विभागप्रकारश्चेत्थम् - सिध्यर्थे बभ्रु..पलायेरन् तस्मिन्निण्वानि .. प्रक्षालयन्ति इति) चोम्मेन्तरिएस्: आप्ग्स्-अना_23.4: सिध्यर्थेकार्यसिद्धेः प्रार्थनायां उपभोग्ययोग्यत्वे चिकीर्षिते इत्यर्थः तदाबभ्रुमूत्रेणसम्बाधस्यप्रक्षालनंकर्तव्यम् इदमत्र भैषज्यमित्यर्थः बभ्रूः कपिलवर्णा गौः

5 punaḥ sambhavecchāyāṃ kartavyam siddhyarthe babhrumūtreṇa prakṣālayīta āpgs_23.4 (itaḥ prabhṛti sūtrapañcakaṃ sūtradvayarūpeṇa parigaṇitaṃ haradattamate iti ka,kha pustakayoḥ vibhāgaprakāraścettham - sidhyarthe babhru..palāyeran tasminniṇvāni .. prakṣālayanti iti) commentaries: āpgs-anā_23.4: sidhyarthekāryasiddheḥ prārthanāyāṃ upabhogyayogyatve cikīrṣite ityarthaḥ tadābabhrumūtreṇasambādhasyaprakṣālanaṃkartavyam idamatra bhaiṣajyamityarthaḥ babhrūḥ kapilavarṇā gauḥ


4

आप्ग्स्-तात्_23.4: अथ यदा परपुरुषशङ्कापैति तदा स्वशुक्लसम्भवसिध्यर्थे भैषज्यमुच्यते - कपिलायाः गोमूत्रेण प्रक्षालयीत सम्बाधम्

āpgs-tāt_23.4: atha yadā parapuruṣaśaṅkāpaiti tadā svaśuklasambhavasidhyarthe bhaiṣajyamucyate - kapilāyāḥ gomūtreṇa prakṣālayīta sambādham


5

6 पण्यानां सिध्यर्थ होमः सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात् आप्ग्स्_23.5 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.5: अस्यकुटुम्बिनो गृहेयत् द्रव्यंपण्यंक्रय्यं तस्य सिद्यर्थे अर्धापकर्षादिना सिद्धिस्स्यादित्येवमर्थम् तस्मात् द्रव्यात् किञ्चिदादाय उत्तरयर्चाऽयदहं धनेनेऽत्येतया जुहुयात् सिद्धिर्भवति अत्र क्षारलवणादीनामपि होमो भवति उक्तानि यथोपदेशं काम्यानि तत्र द्रवद्रव्येषु दर्वी इतरेषु हस्तः फलीकरणहोमवच्चापूर्वार्थम् अस्येति वचनं अस्य गृहे यत् पण्यं तस्यान्येनापि तद्धितैषिणा होमो यथा स्यादिति न च मन्त्रे ऽहमित्यस्य विरोधः;स एव भूत्वा स करोतीति गृहे पण्यमिति वचनात् क्षेत्रादिविषये न भवति पुनः सिध्यर्थवचनं एस्य कर्मान्तरत्वज्ञापनार्थम् अन्यथा पूर्वस्यैव विकल्पविधिस्सम्भाव्येत

6 paṇyānāṃ sidhyartha homaḥ siddhyarthe yadasya gṛhe paṇyaṃ syāttata uttarayā juhuyāt āpgs_23.5 commentaries: āpgs-anā_23.5: asyakuṭumbino gṛheyat dravyaṃpaṇyaṃkrayyaṃ tasya sidyarthe ardhāpakarṣādinā siddhissyādityevamartham tasmāt dravyāt kiñcidādāya uttarayarcā'yadahaṃ dhanene'tyetayā juhuyāt siddhirbhavati atra kṣāralavaṇādīnāmapi homo bhavati uktāni yathopadeśaṃ kāmyāni tatra dravadravyeṣu darvī itareṣu hastaḥ phalīkaraṇahomavaccāpūrvārtham asyeti vacanaṃ asya gṛhe yat paṇyaṃ tasyānyenāpi taddhitaiṣiṇā homo yathā syāditi na ca mantre 'hamityasya virodhaḥ;sa eva bhūtvā sa karotīti gṛhe paṇyamiti vacanāt kṣetrādiviṣaye na bhavati punaḥ sidhyarthavacanaṃ esya karmāntaratvajñāpanārtham anyathā pūrvasyaiva vikalpavidhissambhāvyeta


5

आप्ग्स्-तात्_23.5: क्रय्यद्रव्यानु सारेणाज्यभागान्तमग्निमुखान्तं वा कृत्वा, तस्मात्पण्यादादायोत्तरया ऽयदहं धनेनऽइत्येतयाजुहुयात् अत्र तत इति वचनान्न प्राणिद्रव्याद्धोमः, ततो ऽवदाने ऽङ्गवैकल्यापत्तेः केचित्-अस्येति वचनादन्येन तद्धितैषिणा होतव्यम् मन्त्रे चाहमित्यस्य न विरोधः, स एव भूत्वा स जुहोतीति

āpgs-tāt_23.5: krayyadravyānu sāreṇājyabhāgāntamagnimukhāntaṃ vā kṛtvā, tasmātpaṇyādādāyottarayā 'yadahaṃ dhanena'ityetayājuhuyāt atra tata iti vacanānna prāṇidravyāddhomaḥ, tato 'vadāne 'ṅgavaikalyāpatteḥ kecit-asyeti vacanādanyena taddhitaiṣiṇā hotavyam mantre cāhamityasya na virodhaḥ, sa eva bhūtvā sa juhotīti


6

7 भृत्यप्रीतिजनिका क्रिया यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत् आप्ग्स्_23.6 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.6: यंभृत्यं मत्तो ऽयं न झिद्येतोतिकामयेतनापगच्छेदिति यावज्जीवं मदधीन एव स्यादिति जीवतो गोर्विषाणं स्वयं पतितमादाय स्वं मूत्रमानीय तेन तं भृत्यं सुप्तंउत्तराभ्यां ऽपरि त्वा गिरेरऽमित्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् जीववचनं मृतस्य निवृत्यर्थम् गौरित्युपदेशः आनीयेति वचनात् पूर्वमन्यस्मिन् पात्रे मूत्रयित्वा शौचञ्च कृत्वा ततो विषाणोपनयनम् परिषीतो ऽसि इति मन्त्रलिङ्गात् स्त्रीष्विदं न भवति आप्ग्स्-तात्_23.6: यंभर्तारं सपत्न्यामन्यस्यां वा इन्द्रियदौर्बल्यादनुरक्तं या स्त्रीकामयेतअयं भर्तामत् मत्तो न च्छिद्येतअस्य मय्यविच्छेदेन स्नेहस्स्यादिति सा स्त्रीजीवविषाणे जीवन्त्या गोर्विषाणे बलात्पातिते स्वंमूत्रमानीयतेन भर्तारंसुप्तं उत्तराभ्यां ऽपरि त्वा गिरेरमिहंऽ; इत्येताभ्यांत्रिः प्रसव्यं परिषिञ्चेत् अत्र चीनीयेति वचनातपूर्वमन्यस्मिन्पात्रे मूत्रयित्वा शौचं च कृत्वा ततो विषाणे ऽवनयनम्

7 bhṛtyaprītijanikā kriyā yaṃ kāmayeta nāyaṃ macchidyeteti jīvaviṣāṇe svaṃ mūtramānīya suptamuttarābhyāṃ triḥ prasavyaṃ pariṣiñcet āpgs_23.6 commentaries: āpgs-anā_23.6: yaṃbhṛtyaṃ matto 'yaṃ na jhidyetotikāmayetanāpagacchediti yāvajjīvaṃ madadhīna eva syāditi jīvato gorviṣāṇaṃ svayaṃ patitamādāya svaṃ mūtramānīya tena taṃ bhṛtyaṃ suptaṃuttarābhyāṃ 'pari tvā girera'mityetābhyāṃ triḥ prasavyaṃ pariṣiñcet jīvavacanaṃ mṛtasya nivṛtyartham gaurityupadeśaḥ ānīyeti vacanāt pūrvamanyasmin pātre mūtrayitvā śaucañca kṛtvā tato viṣāṇopanayanam pariṣīto 'si iti mantraliṅgāt strīṣvidaṃ na bhavati āpgs-tāt_23.6: yaṃbhartāraṃ sapatnyāmanyasyāṃ vā indriyadaurbalyādanuraktaṃ yā strīkāmayetaayaṃ bhartāmat matto na cchidyetaasya mayyavicchedena snehassyāditi sā strījīvaviṣāṇe jīvantyā gorviṣāṇe balātpātite svaṃmūtramānīyatena bhartāraṃsuptaṃ uttarābhyāṃ 'pari tvā gireramihaṃ'; ityetābhyāṃtriḥ prasavyaṃ pariṣiñcet atra cīnīyeti vacanātapūrvamanyasminpātre mūtrayitvā śaucaṃ ca kṛtvā tato viṣāṇe 'vanayanam


7

केचित्-भृत्यविषयमेतत् स्वामिनः कर्मेति अथ भृत्यादीनां पलायितानां पुनरागमनकामस्य कर्माह 8 पलायितानां दासादीनां प्रतिनिवृत्यर्थ कर्म येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीजुहुयात् आप्ग्स्_23.7 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.7: अथ भृत्यानां पलायितानां निवृत्तिमिच्छतः कर्म ये कुर्वन्ति दासा अन्ये वा ते दासकर्मकाराःयेन यथा पलायेरन्तस्मिन् पथि इण्वानिदारुमयानि निगलानिउपसमाधायप्रज्वाल्य तस्मिन्नग्नावुत्तराश्चतस्र आहुतीर्जुहुयात् ऽआवर्तन वर्तयेऽत्येताः तत्र चतुर्णामिण्वानां मार्गे, क्रमेण भेदेनोपसमाधानं मन्त्राश्च क्रमेणेति केचित् अन्ये सकृदेव बहूनामिण्वानामिपसमाधानं होमश्च तत्रैवेति एकस्य द्वयोश्च पलायने ऽपि भवत्येवायं होमो न बहूनामेव एकशोषनिर्देशात् दासकर्मकरश्च दासकर्मकरौ च दासकर्मराश्च दासकर्मकरा इति अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथा-कति भवतः पुत्रा इति अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथा-कति भवत- पुत्रा इति मन्त्रेषु च ऽपरिक्रोशोवऽइत्यादिबहुवचनमविवक्षितम्, देवताधानपरत्वात् अयमप्यपूर्वो होमः सर्वेष्वेतेषु यथा सम्भवमग्निरौपासन एव

kecit-bhṛtyaviṣayametat svāminaḥ karmeti atha bhṛtyādīnāṃ palāyitānāṃ punarāgamanakāmasya karmāha 8 palāyitānāṃ dāsādīnāṃ pratinivṛtyartha karma yena pathā dāsakarmakarāḥ palāyeran tasminniṇvānyupasamādhāyottarā āhutījuhuyāt āpgs_23.7 commentaries: āpgs-anā_23.7: atha bhṛtyānāṃ palāyitānāṃ nivṛttimicchataḥ karma ye kurvanti dāsā anye vā te dāsakarmakārāḥyena yathā palāyerantasmin pathi iṇvānidārumayāni nigalāniupasamādhāyaprajvālya tasminnagnāvuttarāścatasra āhutīrjuhuyāt 'āvartana vartaye'tyetāḥ tatra caturṇāmiṇvānāṃ mārge, krameṇa bhedenopasamādhānaṃ mantrāśca krameṇeti kecit anye sakṛdeva bahūnāmiṇvānāmipasamādhānaṃ homaśca tatraiveti ekasya dvayośca palāyane 'pi bhavatyevāyaṃ homo na bahūnāmeva ekaśoṣanirdeśāt dāsakarmakaraśca dāsakarmakarau ca dāsakarmarāśca dāsakarmakarā iti aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavataḥ putrā iti aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavata- putrā iti mantreṣu ca 'parikrośova'ityādibahuvacanamavivakṣitam, devatādhānaparatvāt ayamapyapūrvo homaḥ sarveṣveteṣu yathā sambhavamagniraupāsana eva

Section (cont. 26)

7

आप्ग्स्-तात्_23.7: दासाश्च भृतिकर्मकराश्चदासकर्मकराः ते येन पथा पलयेरन् तस्मिन्पथि भूमावेवैण्वानिलेकप्रसिद्धानि दारुमयान्युपसमाधायनिधाय तेष्वेवानग्नौ ऽपदे जुहोतिऽइतिवत् उत्तराः ऽआवर्तनवर्तयऽअत्याद्युत्तरमन्त्रकरीणकाश्चतस्र आज्याहुतीर्जुहुयात् अपूर्व चेदं कर्म अत्र यद्यपि दासकर्मकरा इति बहुवचनं, तथाप्येकस्य द्वयोर्वा पलायने ऽपि भवत्येवेदं कर्म केचित्-पथीण्वान्यग्नौ प्रज्वाल्य, तत्राग्नावेव होम इति

āpgs-tāt_23.7: dāsāśca bhṛtikarmakarāścadāsakarmakarāḥ te yena pathā palayeran tasminpathi bhūmāvevaiṇvānilekaprasiddhāni dārumayānyupasamādhāyanidhāya teṣvevānagnau 'pade juhoti'itivat uttarāḥ 'āvartanavartaya'atyādyuttaramantrakarīṇakāścatasra ājyāhutīrjuhuyāt apūrva cedaṃ karma atra yadyapi dāsakarmakarā iti bahuvacanaṃ, tathāpyekasya dvayorvā palāyane 'pi bhavatyevedaṃ karma kecit-pathīṇvānyagnau prajvālya, tatrāgnāveva homa iti


8

9 नैमित्तिकानि यद्येनं वृक्षात् फलमभिनिपतेद्वयो वाभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत आप्ग्स्_23.8 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.8: एनंस्नातकंवृक्षात्प्रच्युतफलंयद्यभिनियतेत्शिरसि प्रदेशान्तरे वा वयःपक्षी काकादिः एनमभिविक्षिपेत् शिरसि प्रदेशान्तरे वा यदि वा अवर्षतर्क्ये वर्ष यत्र न तर्क्येत तस्मिन् काले देशे वाबिन्दुःअपां स्तेकः अभिनिपतेत् तदङ्गंउत्तरैः ऽयदि वृक्षादिऽत्यादिभिः यथालिङ्गं अद्भिः प्रक्षालयेत् ऽयदि वृक्षाऽजिति फलस्य ऽये पक्षिणंऽइति वयसः "दिवो नु मा बृहतऽइति बिन्दोः यथालिङ्गवचनं त्रये ऽपि मन्त्राः एकस्मिन्निमित्ते मा भूवन्निति तीर्थाद्यतिक्रमवत् स्यात् प्रसङ्गः, विधेर्वलीयस्त्वात्

9 naimittikāni yadyenaṃ vṛkṣāt phalamabhinipatedvayo vābhivikṣipedavarṣatarkye vā bindurabhinipatettaduttarairyathāliṅgaṃ prakṣālayīta āpgs_23.8 commentaries: āpgs-anā_23.8: enaṃsnātakaṃvṛkṣātpracyutaphalaṃyadyabhiniyatetśirasi pradeśāntare vā vayaḥpakṣī kākādiḥ enamabhivikṣipet śirasi pradeśāntare vā yadi vā avarṣatarkye varṣa yatra na tarkyeta tasmin kāle deśe vābinduḥapāṃ stekaḥ abhinipatet tadaṅgaṃuttaraiḥ 'yadi vṛkṣādi'tyādibhiḥ yathāliṅgaṃ adbhiḥ prakṣālayet 'yadi vṛkṣā'jiti phalasya 'ye pakṣiṇaṃ'iti vayasaḥ "divo nu mā bṛhata'iti bindoḥ yathāliṅgavacanaṃ traye 'pi mantrāḥ ekasminnimitte mā bhūvanniti tīrthādyatikramavat syāt prasaṅgaḥ, vidhervalīyastvāt


9

आप्ग्स्-तात्_23.8: यद्येनंद्विजंवृक्षात्फलं अभि उपरि नीचैरकस्मात्पतेत्, यदि वा वयः पक्षी पक्षाभ्यामेनमभिविक्षिपेतुपरि पक्षवातेन धुनुयात्, यदिवा अवर्षतर्क्ये अभ्रशून्ये नभसि तस्माद्दिन्दुरपां स्तोकः अभिनिपतोत्, व्याख्यातम् तत्फलनिपातादिभिरुपहतं शरीराङ्गमुत्तरैर्मन्त्रैर्यथालिङ्गं प्रक्षालयीत तत्र ऽयदि वृक्षातऽइति फलाभिपाते, ऽये पक्षिणःऽइति वयो ऽभिविक्षेपे, ऽदिवो नु मा बृहतःऽइति बिन्द्वभिनिपाते यथालिङ्गमिति तु वचनमेकैकस्मिन्निमित्ते त्रिभिस्त्रिभिः प्रक्षालनं मा भूदिति

āpgs-tāt_23.8: yadyenaṃdvijaṃvṛkṣātphalaṃ abhi upari nīcairakasmātpatet, yadi vā vayaḥ pakṣī pakṣābhyāmenamabhivikṣipetupari pakṣavātena dhunuyāt, yadivā avarṣatarkye abhraśūnye nabhasi tasmāddindurapāṃ stokaḥ abhinipatot, vyākhyātam tatphalanipātādibhirupahataṃ śarīrāṅgamuttarairmantrairyathāliṅgaṃ prakṣālayīta tatra 'yadi vṛkṣāt'iti phalābhipāte, 'ye pakṣiṇaḥ'iti vayo 'bhivikṣepe, 'divo nu mā bṛhataḥ'iti bindvabhinipāte yathāliṅgamiti tu vacanamekaikasminnimitte tribhistribhiḥ prakṣālanaṃ mā bhūditi


9

अथादिभुतप्रायश्चित्तम् 10 अद्भुतप्रायश्चित्तम् आगारस्थूणाविरोहणे मधुन उपवेशने कुप्त्वां कपोतपददर्शने ऽमात्यानां शरीररेषणे ऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते आप्ग्स्_23.9 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.9: अथादिभुतोत्पातप्रायश्चित्तम् अद्भुतमपूर्वमदृष्टचरम् तस्य (अद्भुतस्यादृष्टचरस्य) उत्पात उपजनः यद्वा ऊर्ध्वभवा अद्भुताविशेषा एवोत्पाताः दिव्या आन्तरिक्ष्याश्च रात्राविन्द्रधनुर्लोहिनी द्यौरादित्ये कीलदर्शनमित्यादयः तस्मिन् पक्षे ऽद्भुतशब्देन भौमान्युच्यन्ते गोवलीवर्दन्यायेन द्वन्द्वश्च समासः तत्रोदाहरणरूपेण कानिचिदद्भुतानि दर्शयति-अगारस्थूणेति विरेहणं अङ्कुरोपजननम् अगारग्रहणात् आत्मीयेष्वपि शूद्ररृहादिषु न भवति मधुन उपवेशनेअगारे इत्येव कुप्तुःचुल्लीभ्राष्ट्रमित्यनर्थान्तरम् कपोतस्य पक्षिण आरण्यस्यपददर्शने पचनागारे तस्मिन् प्रविष्ट इत्यर्थः अमात्याः पुत्रादयः तेषां बहूनां युगपत् शरीररेषणे व्याधौमरणे च अन्येषु चैवंप्रकारेषु वल्मीकादिषु इन्द्रधनुरादिषु च अन्येष्वितिवचनात् अमात्यानां शरीरेषणमप्यद्भुतरूपमेव गृह्यते नैकस्य द्वयोर्वा रेषणे कालभेदे च न भवति अत्र प्रायश्चित्तम्-अमावास्याथां निशायां चतुर्धाविभक्तायां रात्रेः द्वतीयो भागो न्शा यत्र प्रदेशे अपां कुम्भैरुदधानेष्वानीयमानानां शब्दं न शृणुयात् तत्र प्रदेशे ऽग्नेरुपसमाधानाद्युत्तरा आहुतय एकादश इमं मे वरुण इत्यादयः प्रजापत इति ऽप्रजापते न त्वदेतानीऽत्येषा गृह्यते प्रसिद्धेः, न ऽप्रजापते त्वं निधिपाऽइत्येषा प्रजापते नत्वदिति चहुत्वा प्रधानहुर्तार्जुहुयात् इति तन्त्रशेषं प्रतिपद्यते आज्यभागान्त इत्येवं तन्त्रसमाप्तौ सिद्धायां अग्नेरुपमाधानादिवचनं अग्निमात्रस्योपसमाधानार्थम् तेन औपासनाभावे लौकिके ऽपि भवति एवंप्रकाराणामेतेषां नैमित्तिकानां दृष्टफलानां च पण्यहोमादीनां अन्यस्मिन्नप्यग्नौ प्रवृत्तिप्रदर्शनार्थ सर्वान्ते अग्निविधानार्थो यत्नः कृतः दयादि वचनमानन्तर्यार्थम् प्रधानाहुत्यनन्तरं जयाद्येव प्रति पत्यते, न सूत्रान्तरदृश्टा आहुतयो ऽस्मिन् तन्त्रे होतव्याः इति काः पुनस्ताः?कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोतः इति प्रत्यृचं जुहुयात् जपेद्वा (आश्व-7-7) इत्याश्वलायनः जयदिवचनेनैव तन्त्रसमुच्चयप्रेतिषेधः तदपि प्रायश्चित्तं विकल्पेन भवति पृथक्तन्त्र इति तत्रापि शम्याः परिध्यर्थे अस्यापि प्रायश्चित्तस्यास्मिन्नेव शास्त्र उपदिष्टत्वात्

athādibhutaprāyaścittam 10 adbhutaprāyaścittam āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣvamāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāttadagnerupasamādhānādyājyabhāgānta uttarā āhutīrhutvā jayādi pratipadyate āpgs_23.9 commentaries: āpgs-anā_23.9: athādibhutotpātaprāyaścittam adbhutamapūrvamadṛṣṭacaram tasya (adbhutasyādṛṣṭacarasya) utpāta upajanaḥ yadvā ūrdhvabhavā adbhutāviśeṣā evotpātāḥ divyā āntarikṣyāśca rātrāvindradhanurlohinī dyaurāditye kīladarśanamityādayaḥ tasmin pakṣe 'dbhutaśabdena bhaumānyucyante govalīvardanyāyena dvandvaśca samāsaḥ tatrodāharaṇarūpeṇa kānicidadbhutāni darśayati-agārasthūṇeti virehaṇaṃ aṅkuropajananam agāragrahaṇāt ātmīyeṣvapi śūdrarṛhādiṣu na bhavati madhuna upaveśaneagāre ityeva kuptuḥcullībhrāṣṭramityanarthāntaram kapotasya pakṣiṇa āraṇyasyapadadarśane pacanāgāre tasmin praviṣṭa ityarthaḥ amātyāḥ putrādayaḥ teṣāṃ bahūnāṃ yugapat śarīrareṣaṇe vyādhaumaraṇe ca anyeṣu caivaṃprakāreṣu valmīkādiṣu indradhanurādiṣu ca anyeṣvitivacanāt amātyānāṃ śarīreṣaṇamapyadbhutarūpameva gṛhyate naikasya dvayorvā reṣaṇe kālabhede ca na bhavati atra prāyaścittam-amāvāsyāthāṃ niśāyāṃ caturdhāvibhaktāyāṃ rātreḥ dvatīyo bhāgo nśā yatra pradeśe apāṃ kumbhairudadhāneṣvānīyamānānāṃ śabdaṃ na śṛṇuyāt tatra pradeśe 'gnerupasamādhānādyuttarā āhutaya ekādaśa imaṃ me varuṇa ityādayaḥ prajāpata iti 'prajāpate na tvadetānī'tyeṣā gṛhyate prasiddheḥ, na 'prajāpate tvaṃ nidhipā'ityeṣā prajāpate natvaditi cahutvā pradhānahurtārjuhuyāt iti tantraśeṣaṃ pratipadyate ājyabhāgānta ityevaṃ tantrasamāptau siddhāyāṃ agnerupamādhānādivacanaṃ agnimātrasyopasamādhānārtham tena aupāsanābhāve laukike 'pi bhavati evaṃprakārāṇāmeteṣāṃ naimittikānāṃ dṛṣṭaphalānāṃ ca paṇyahomādīnāṃ anyasminnapyagnau pravṛttipradarśanārtha sarvānte agnividhānārtho yatnaḥ kṛtaḥ dayādi vacanamānantaryārtham pradhānāhutyanantaraṃ jayādyeva prati patyate, na sūtrāntaradṛśṭā āhutayo 'smin tantre hotavyāḥ iti kāḥ punastāḥ?kapotaścedagāramupahanyādanupatedvā devāḥ kapotaḥ iti pratyṛcaṃ juhuyāt japedvā (āśva-7-7) ityāśvalāyanaḥ jayadivacanenaiva tantrasamuccayapretiṣedhaḥ tadapi prāyaścittaṃ vikalpena bhavati pṛthaktantra iti tatrāpi śamyāḥ paridhyarthe asyāpi prāyaścittasyāsminneva śāstra upadiṣṭatvāt


9

आप्ग्स्-तात्_23.9: तत्रादुभताः स्वभावतः पूर्वमभूतास्सन्तो भवन्तीति उत्पाता इति तु ऊर्ध्व भवन्ति अन्यक्तावस्थायां प्राप्नुनुवन्ति अद्भुताश्चोत्पाताश्चेति द्वन्द्वसमास शब्दभेदस्तु भौमदिव्यभेदाभिप्रायः तत्र दिव्या उत्पाता रात्राविन्द्रधनु रादित्यकील इत्यादयः भौमांस्त्वद्भुतानगारस्थूणेत्यादिना स्वयमेवोदाहरति अगारस्य स्थूणाःअगारस्थूणाः, तासां विरोहणे अङ्कुरोपजनने स्थूणाग्रहणं चान्यस्यापि गृहसम्बन्धिनो वंशाद्रनिखातस्यापि प्रदर्शनार्थम्, निमित्तगतविशेषणत्वात् .मधुन उपवेशनैत्यगार एव उपसर्जनस्याप्यगारशब्दस्य योग्यत्वेन बुद्ध्या विभज्य सम्बन्धः;आरामादिष्वनद्भुतत्वात् कुप्तुःचुल्ली भ्राष्ट्रमम्बरीषमित्यनर्थान्तरम् तस्यां कुप्त्वां पचनागार इत्यर्थः कपोतस्याप्यारण्यस्य पक्षिविशेषस्यपददर्शने कुप्त्वामित्यति प्रदर्शनार्थम्;अन्तर्गृहे ऽप्यस्यादुभुतत्वात् अमा सह वसन्तीत्यमात्याः एकपात्रभोजनाः पुत्रभ्रात्रादयः तेषां बहूनां सन्ततंशरीररेषणेशरीरनाशने मरण इत्यर्थः केचित्-अमात्यानां युगपद्व्याधावपीति अन्येषु चादुभुतोत्पातेषुउक्तेभ्यो ऽन्येषु गृहमध्ये वल्मीकजननादिष्वदिभुतेषु उसातेषु च दृषेषु सत्सु तत्सूचितदुरितशान्त्यादिकामो ऽमावास्यायांनिशायां रात्र्यांमुहूर्तद्वयादूर्ध्वम् केचित्-द्वितीये याम इति यत्रापांवहन्तीनांशब्दं न शृणुयात्केचित्-कुम्भैरुदधानेष्वानीयमानास्विति तथाबूते देशे अग्नेरुपसमाधानादितन्त्रं प्रतिपद्यते तन्त्रविधानं चास्य आज्यहविष्ट्वात् . आज्यबागान्ते इति त्वर्थकृत्यप्रतिषेधार्थम् उत्तरा आहुतीः ऽइमं मे वरुण, तत्वायामिऽइत्येकादशाहुतीर्हुत्वा वचनबलाज्जयादि प्रतिपद्यते अत्र प्रजापति इति प्रतीकेन ऽप्राजापत्या व्याहृतीःऽइतिवत् ऽप्रजापते न त्वदेतानिऽइत्येषैव गृह्यते

āpgs-tāt_23.9: tatrādubhatāḥ svabhāvataḥ pūrvamabhūtāssanto bhavantīti utpātā iti tu ūrdhva bhavanti anyaktāvasthāyāṃ prāpnunuvanti adbhutāścotpātāśceti dvandvasamāsa śabdabhedastu bhaumadivyabhedābhiprāyaḥ tatra divyā utpātā rātrāvindradhanu rādityakīla ityādayaḥ bhaumāṃstvadbhutānagārasthūṇetyādinā svayamevodāharati agārasya sthūṇāḥagārasthūṇāḥ, tāsāṃ virohaṇe aṅkuropajanane sthūṇāgrahaṇaṃ cānyasyāpi gṛhasambandhino vaṃśādranikhātasyāpi pradarśanārtham, nimittagataviśeṣaṇatvāt .madhuna upaveśanaityagāra eva upasarjanasyāpyagāraśabdasya yogyatvena buddhyā vibhajya sambandhaḥ;ārāmādiṣvanadbhutatvāt kuptuḥcullī bhrāṣṭramambarīṣamityanarthāntaram tasyāṃ kuptvāṃ pacanāgāra ityarthaḥ kapotasyāpyāraṇyasya pakṣiviśeṣasyapadadarśane kuptvāmityati pradarśanārtham;antargṛhe 'pyasyādubhutatvāt amā saha vasantītyamātyāḥ ekapātrabhojanāḥ putrabhrātrādayaḥ teṣāṃ bahūnāṃ santataṃśarīrareṣaṇeśarīranāśane maraṇa ityarthaḥ kecit-amātyānāṃ yugapadvyādhāvapīti anyeṣu cādubhutotpāteṣuuktebhyo 'nyeṣu gṛhamadhye valmīkajananādiṣvadibhuteṣu usāteṣu ca dṛṣeṣu satsu tatsūcitaduritaśāntyādikāmo 'māvāsyāyāṃniśāyāṃ rātryāṃmuhūrtadvayādūrdhvam kecit-dvitīye yāma iti yatrāpāṃvahantīnāṃśabdaṃ na śṛṇuyātkecit-kumbhairudadhāneṣvānīyamānāsviti tathābūte deśe agnerupasamādhānāditantraṃ pratipadyate tantravidhānaṃ cāsya ājyahaviṣṭvāt . ājyabāgānte iti tvarthakṛtyapratiṣedhārtham uttarā āhutīḥ 'imaṃ me varuṇa, tatvāyāmi'ityekādaśāhutīrhutvā vacanabalājjayādi pratipadyate atra prajāpati iti pratīkena 'prājāpatyā vyāhṛtīḥ'itivat 'prajāpate na tvadetāni'ityeṣaiva gṛhyate


10

परिषेचनान्तं कृत्वाभिमृतेभ्य उत्तरया दक्षिणतो ऽश्मानं परिधिं दधाति दधाति आप्ग्स्_23.10 चोम्मेन्तरिएस्: आप्ग्स्-अना_23.10: अत अमात्यानां शरीररेषणे इत्यस्मिन्नद्भुते कश्चिद्विशेषः येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते ते अभिमृतास्तेभ्यस्तदर्थ तेषां मृत्युशमनार्थ उत्तरं कर्म होममिमं कृत्वा परिषेचनान्ते ऽश्मानं परिधि अन्तर्धानं मृत्त्युनिवारणार्थ प्रतिष्ठापयतिउत्तरयर्चा ऽइमं जीवेभ्यऽ; इत्येतया अभ्यासः प्रश्वसमाप्तिद्योतकः परिधिमिति वचनात् तस्याश्मनः प्रच्यावनं न कार्यम्, तत्रैव प्रतिष्ठितो भवति

pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti dadhāti āpgs_23.10 commentaries: āpgs-anā_23.10: ata amātyānāṃ śarīrareṣaṇe ityasminnadbhute kaścidviśeṣaḥ yeṣāṃ pūrvāparā anvañcaḥ pramīyante te abhimṛtāstebhyastadartha teṣāṃ mṛtyuśamanārtha uttaraṃ karma homamimaṃ kṛtvā pariṣecanānte 'śmānaṃ paridhi antardhānaṃ mṛttyunivāraṇārtha pratiṣṭhāpayatiuttarayarcā 'imaṃ jīvebhya'; ityetayā abhyāsaḥ praśvasamāptidyotakaḥ paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam, tatraiva pratiṣṭhito bhavati


10

इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां त्रयोर्विंशः खण्डः समाप्तश्चोत्तमो ऽष्टमः पटलः ==================================================================================== संपूर्णानाकुला वृत्तिः आप्ग्स्-तात्_23.10: ततः परिषेचनान्तं तन्त्रश्षं करोति शम्याः परिध्यर्थे इति पूर्वमेवोक्तम् केचित्-आज्यभागान्त इत्यनेन तन्त्रप्राप्तौ सिद्धायामग्नेरुपसमाधानादिवचनमग्निमात्रस्योपसमाधानार्थम् तेनौपासनशून्यस्येदं कर्म लौकिके ऽपि भवति अन्यानि चेवंप्रकाराणि दृष्टफलानि नैमित्तिकानि पण्यहोमादीनि, अस्य सर्वान्ते ऽग्निविधानस्य सर्वार्थत्वावगमादिति अभिमृतेभ्यैत्यादिना ऽअमात्यानां शरीररेषणेऽइत्यस्मिन्नद्भुते कश्चिद्विशेषो ऽभिधीयते अभिमृताअभिमुख्येन मृता योग्यतया जीवन्त एव अमात्यानां सन्ततमरणदर्शनेन स्वयमपि मरणाद्भीता इत्यर्थः तेभ्यस्तदर्थ सन्ततमरणभयनिवृत्त्यर्तौत्तरयाऽइमं जीवेभ्यःऽ; इत्यनयापरिधिं मृत्योरन्तर्धानभूतंअश्मानं दक्षिणतो निदधाति एतच्च तन्त्रशेषान्ते, कृत्वेति क्त्वाप्रत्ययबलात् केचित्-निदधाति प्रतिष्ठापयति परिधिवचनाच्च तस्याश्मनः प्रच्यावनं न कर्तव्यमिति दधाति ददातीतिग्विरुक्तिः प्रश्नसमाप्तिसूचनार्ता

iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ samāptaścottamo 'ṣṭamaḥ paṭalaḥ ==================================================================================== saṃpūrṇānākulā vṛttiḥ āpgs-tāt_23.10: tataḥ pariṣecanāntaṃ tantraśṣaṃ karoti śamyāḥ paridhyarthe iti pūrvamevoktam kecit-ājyabhāgānta ityanena tantraprāptau siddhāyāmagnerupasamādhānādivacanamagnimātrasyopasamādhānārtham tenaupāsanaśūnyasyedaṃ karma laukike 'pi bhavati anyāni cevaṃprakārāṇi dṛṣṭaphalāni naimittikāni paṇyahomādīni, asya sarvānte 'gnividhānasya sarvārthatvāvagamāditi abhimṛtebhyaityādinā 'amātyānāṃ śarīrareṣaṇe'ityasminnadbhute kaścidviśeṣo 'bhidhīyate abhimṛtāabhimukhyena mṛtā yogyatayā jīvanta eva amātyānāṃ santatamaraṇadarśanena svayamapi maraṇādbhītā ityarthaḥ tebhyastadartha santatamaraṇabhayanivṛttyartauttarayā'imaṃ jīvebhyaḥ'; ityanayāparidhiṃ mṛtyorantardhānabhūtaṃaśmānaṃ dakṣiṇato nidadhāti etacca tantraśeṣānte, kṛtveti ktvāpratyayabalāt kecit-nidadhāti pratiṣṭhāpayati paridhivacanācca tasyāśmanaḥ pracyāvanaṃ na kartavyamiti dadhāti dadātītigviruktiḥ praśnasamāptisūcanārtā