1. Atharvashira Upanishad
Page 1
॥ अथर्वशिरउपनिषत् ॥ अथर्ववेदीयं शैवं उपनिषत् ॥
अथर्वशिरसामर्थ्यमन्थेप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपादक्षरम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि- व्यंञ्शेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिदधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ देवा ह वै स्वर्गं लोकमायन्ते रुद्रमपृच्छन्तको भवान्निति । सोऽब्रवीदहं सोकः प्रथममासं वर्तामि च भविष्यामि च नान्या कश्चिन्न व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राज्ञः प्रत्यग्ऽहं दक्षिणाऽऽद्य उदङ्ऽह अधश्श्श्र्चोऽहं दिशश्र्च प्रतिदिशश्र्चाहं पुमान्पुमान् स्त्रियश्चाहं गावश्र्चाहं त्रीष्टुजगत्यन्नष्टुप चाहं छन्दोऽहं गाहंपत्यो दक्षिणाग्निराहवनीयोऽहं सत्सोडहं गौरहं गौऽर्यहमुगृहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमपोदहं मरण्योऽहमक्षमेरमहतं क्षरमहं पुष्करमहं पवित्रमहं मुग्रं च मध्यं च बहिष्ठं पुरस्तात्ज्योतिरित्यहंमेव सर्वेभ्यो हविर्हीविषा आयुरायुणा सत्येन सत्यं धर्मेण धर्मं तपस्यामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमध्यायान्ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्नित ॥१॥
१
ॐ यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमोनमः ॥ १॥ यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमोनमः ॥ २॥ यो वै रुद्रः स भगवान् यश्च स्कन्दस्तस्मै वै नमोनमः ॥ ३॥ यो वै रुद्रः स भगवान् यश्चाग्निस्तस्मै वै नमोनमः ॥ ४॥ यो वै रुद्रः स भगवान् यश्च वायुस्तस्मै वै नमोनमः ॥ ५॥ यो वै रुद्रः स भगवान् यश्च सूर्यस्तस्मै वै नमोनमः ॥ ६॥ यो वै रुद्रः स भगवान् यश्च सोमस्तस्मै वै नमोनमः ॥ ७॥ यो वै रुद्रः स भगवान् यश्चाष्टौ प्रहास्तस्मै वै नमोनमः ॥ ८॥ यो वै रुद्रः स भगवान् यश्चाष्टौ वास्तुप्रतिग्रहास्तस्मै वै नमोनमः ॥ ९॥ यो वै रुद्रः स भगवान् यच्च भूस्तस्मै वै नमोनमः ॥ १०॥ यो वै रुद्रः स भगवान् यच्च भुवस्तस्मै वै नमोनमः ॥ ११॥ यो वै रुद्रः स भगवान् यच्च स्वस्तस्मै वै नमोनमः ॥ १२॥ यो वै रुद्रः स भगवान् यच्च महस्तस्मै वै नमोनमः ॥ १३॥ यो वै रुद्रः स भगवान् यच्च पृथिवी तस्मै वै नमोनमः ॥ १४॥ यो वै रुद्रः स भगवान् यच्चान्तरिक्षं तस्मै वै नमोनमः ॥ १५॥ यो वै रुद्रः स भगवान् यच्च द्यौस्तस्मै वै नमोनमः ॥ १६॥ यो वै रुद्रः स भगवान् यच्चापस्तस्मै वै नमोनमः ॥ १७॥ यो वै रुद्रः स भगवान् यच्च तेजस्तस्मै वै नमोनमः ॥ १८॥ यो वै रुद्रः स भगवान् यच्च कालस्तस्मै वै नमोनमः ॥ १९॥ यो वै रुद्रः स भगवान् यच्च यमस्तस्मै वै नमोनमः ॥ २०॥ यो वै रुद्रः स भगवान् यच्च मृत्युस्तस्मै वै नमोनमः ॥ २१॥ यो वै रुद्रः स भगवान् यच्चामृतं तस्मै वै नमोनमः ॥ २२॥ यो वै रुद्रः स भगवान् यच्च दाक्षं तस्मै वै नमोनमः ॥ २३॥ यो वै रुद्रः स भगवान् यच्च विश्वं तस्मै वै नमोनमः ॥ २४॥ यो वै रुद्रः स भगवान् यच्च स्थूलं तस्मै वै नमोनमः ॥ २५॥ यो वै रुद्रः स भगवान् यच्च सूक्ष्मं तस्मै वै नमोनमः ॥ २६॥ यो वै रुद्रः स भगवान् यच्च शुक्रं तस्मै वै नमोनमः ॥ २७॥ यो वै रुद्रः स भगवान् यच्च कृष्णं तस्मै वै नमोनमः ॥ २८॥ यो वै रुद्रः स भगवान् यच्च कृत्स्नं तस्मै वै नमोनमः ॥ २९॥ यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमोनमः ॥ ३०॥ यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमोनमः ॥ ३१॥ यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमोनमः ॥ ३२॥
॥ २ ॥
२
भूस्ते आदिमेऽध्य भुवः स्वस्ते श्रीः सृष्टिरूपोऽसि ब्रह्मोकासत्वं विद्या तृधा वृद्धस्त्वं शान्तस्त्वं पुष्टस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसवं विश्वमविश्वं कृतमकृतं परमपरं च त्वम् । अपां सोमममृतां अभुमागन्म ज्योतरविदाम देवान् । किं नूनमस्मान्क्रुवन्वदराति किमु धूर्तिरमृतं मार्त्यस्य । सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगद्वित वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यामग्राह्येण भावं भावन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन तेजसा तस्मादुपसंह्रेन्महाग्रासाय वै नमो नमः । हृदि स्था देवता सर्वा हृदि प्राणा
Page 2
३
प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं तत्सूक्ष्मं तच्छूक्ष्मं यच्छूक्ष्मं तद्व्युतं यद्व्युतं तप्तपं ब्रह्म यत्परं ब्रह्म स एकः य एकः स रुद्रः य रुद्रः यो रुद्रः स ईशानः स भगवान् महेश्वरः ॥ ३ ॥
अथ कस्मादुच्यते ओङ्कारो यस्मादुच्यार्यमाण एव प्राणानुर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्यार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसङ् ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्यार्यमाण एव सर्वाल्लोकान्व्याप्नोति सैहो यथा पललपिण्डमिव शान्तरूपमोत्तप्रमानुप्राप्तो व्यतिरिक्तकष्ठ तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्यार्यमाण एव तिर्यङ्गृध्वेम्वस्ताच्छास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्यारमाण एव गर्भजन्यव्याधिजरामरणसंसरमहाभयात्तारयति च तस्मादुच्यते तारम् । अथ कस्मादुच्यते शूक्ष्मं यस्मादुच्यार्यमाण एव ऋनते कामयति च तस्मादुच्यते शूक्ष्मं । अथ कस्मादुच्यते सूक्ष्मं भूतवा शरीराणांध्यितिष्ठति सर्वाणी चाङ्गान्यमिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्यार्यमाण एव व्यक्के महति तमसि ज्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च बृहद्ब्रह्मत्वा बृहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यते एकः सर्वान्प्राणान्संभक्ष्य संभक्षयन्नाजः संजुञति विसृजति तीर्थेमेके ब्रजन्ति तीर्थेमेके दक्षिणा: प्रत्यङ्ङ उदङ्ङ प्राङ्ङड्मित्रजन्त्येके तेभ्यः सर्वेभामिह सद्यति । साकं स एको भूतस्यति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रः यस्मादृषिभिनान्तैकेन्दुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीऽऽते ईशानोभिज्ञाननिभिष्ठ परमशक्तिभिः । अमृतवा शूर णो नुमो दुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थिव इति तस्मादुच्यते ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्वा ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संजुञति विसृजति च सर्वान्भावान्परित्यज्यात्मज्ञानैनेन योगिभिर्यैण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्वच्रितम् ॥ ४ ॥
४
एको ह देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्मै य इमाञ्जलोकानिशात ईशानोभिः । प्रत्यङ्जनास्तिष्ठति संजुकोचान्तकाले संजुञति विश्वा भुवनानि गोपा । यो योनिं योनिमधितिष्ठितथ्येको येनेधं सर्वं विचरति सर्वम् । तमौशानं पुरुषं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालास्य मूलं बुद्बुदया संचितं स्थापयित्वा तु रुद्रं रुद्रमेकत्वमाहुः । श्राश्वतं वै पुराणमिषमूर्जण पशवोडनुनामयन्तं मृत्युपाशान् । तददतेनात्मन्नेत्रेनार्धचतुर्थेन मातृणां शान्तिं संजुञ्जन्ति पशुपाशाविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्का वर्णेन यस्तां ध्यायते नित्यं स गच्छतेतब्रह्मपदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्देवेशांव पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्देशानां पदम् । या सार्धचतुर्थी मात्रा सर्वदेवताडव्यक्तीभूता खं विचरति शुद्धा स्फटिकसद्रिभा वर्णेन यस्तां ध्यायते नित्यं स गच्छछेत्पदमनामयम् । तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयि पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायण चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिं भवति नेतरेषाम् । यस्मिन्न्क्रोधं यां च तृष्णां चाक्षमां हित्वा हेतुजालास्य मूलम् । बुद्बुदया संचितं स्थापयित्वा तु रुद्रं रुद्रमेकत्वमाहुः । रुद्रो हि श्राश्वतेन वै पुराणेनशमूर्जण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं वा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यड्नाम नाऽऽलनि संस्पृशेतस्माद्ब्रह्म तदेतत्पाशुपतं विमोक्षणाय ॥ ५ ॥
Page 3
योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्रुपे तस्मै रुद्राय नमोडस्त्वग्नये । यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यं ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चक्रुपे तस्मै रुद्राय नमोनमः । यो रुद्रोऽग्निषु यो रुद्रो वनस्पतिषु येन रुद्रेण जगद्व्याप्तमिधारितं पृथिवीं द्विधा त्रिधा धतां धारित नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः । मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् । मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षंतः
तद्रा अथर्वणः शिरो देवकोशः समुज्ज्वलः । तत्प्राणोऽभिरक्षति शिरोडन्तमथो मनः । न च दिवो देवजनेन गुप्ता न चान्तरिक्षानि न च भूम इमा: । यत्स्मिन्द्रं सर्वमोतप्रोतं तस्मादनन्यं परं किंचनास्ति । न तस्मात्पूर्वं न परं
६
तदस्ति न भूतं नोत भव्यं यदासीत् । सहस्रपादेकमूर्धा व्यासं स एवेदमवर्वीर्त्थि भूतम् । अक्षरात्संजायते कालः कालाद्द्वापको उच्चयते । व्यापको हि भगवानुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहायंते प्रजा: । उच्च्छ्वासिते तमो भवति तमस आपोडप्स्वज्योतिज मधिते मधितं शिशिरे शिशिरं मध्यमां फेनं भवति फेनादणडं भवत्यंडाद्ब्रह्मा वायु: वायोरोऽणकारः ॐकारात्सावित्री सावित्या गायत्री गायच्या लोका भवन्ति । अर्चयन्न्ति तप: सत्यं मधु क्षरन्ति यद्वयम् । एतद्वै परमं तपः । आपोड्ज्योती रसोद्मृतं ब्रह्म भूर्भुवः स्वरो नम इति ॥
७
य इदमर्थवंशिरो ब्राह्मणोऽधीते श्रोत्रियो भवति उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सर्वैदेवैर्जातो भवति स सर्वैदेवैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वै: क्रतुभिरिष्टं भवति गायत्र्या: पंक्तिसहस्राणि जस्रानि भवन्ति इतिहासपुराणानि रुद्राणां शतसहस्राणि जस्रानि भवन्ति प्रणवानामयुतं जसं भवति । स चक्षुष: पडिर्क पुनाति । आ सप्तमातृपुषयुगानुयातीनातीयाह भगवानथर्वशिर: सकृज्जपैव शुचि: स पुत्रः कर्मण्यो भवति । द्वितीयं जस्वा गणाधिपत्यमवाप्नोति । तृतीयं जसैवमेवानुप्रविशत्यो
सत्यों सत्यों सत्यम् ॥ ७ ॥ ॐ भद्रं कर्णेभिरि शृणुयाम देवा: ।
॥ इत्यथर्ववंशिरोपनिषत्समाप्ता ॥