1. Avadhuta Upanishad
Page 1
गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।
तत्पदं ब्रह्मतत्त्वं स्वभावमवशिष्यते ॥
ॐ सह नाववतु ।। सह नौ भुनक्तु ।। सह वीर्यं करवावहै ।।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथ हं सांख्यत:भर्गवन्तमवधूतं दत्तात्रेयं
परिसमेत्य प्रपच्छ भगवन्कोडवधूतस्य का स्थितिः किं
लक्ष्म किं संशरणमिति । तं होवाच भगवो दत्तात्रेय:
परमकारुणिक: ॥
१
अक्षरत्वाद्रेण्यत्वाद्रूतसंभारवन्धनात् ।
१
तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्युते ॥ १॥
२
यो विलड्ययाश्रमान्वर्णानात्मन्येव स्थित: सदा ।
२
अतिवर्णाश्रमी योगी अवधूत: स कथ्यते ॥ २॥
३
तस्य प्रियं शिर: कृत्वा मोदो दक्षिणपक्षक: ।
३
प्रमोद उत्तर: पक्ष आनन्दो गोष्पदायते ॥ ३॥
४
गोपालसदृशां शीर्षे नापि मध्ये न चाप्यध: ।
४
ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् ॥ ४॥
५
एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।
५
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५॥
स्वैरं स्वैरविहरणं तत्त्वसंशरणम् । सांवरा वा दिगंबरा वा ।
न तेषां धर्माधर्मौ न मेध्यामेध्यौ । सदा
संग्रहणयेष्याश्वमेधमन्त्यागं यजते ।
स महामखो महायोगी: कृत्स्नमेतच्चरं कर्म ।
स्वैरं न विगायेतन्महाव्रतम् । न स मुग्धवद्लिप्यते ।
यथा रविः सर्वरसान्प्रभुङ्क्ते
हुताशनस्यापि हि सर्वभक्ष: ।
तथैव योगी विषयान्प्रभुङ्क्ते
६
न लिप्यते पुण्यपापैष शुद्ध: ॥ ६॥
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमाप: प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
७
स शान्तिमाप्नोति न कामकामी ॥ ७॥
Page 2
५
न निरोधो न चोत्त्तिनि न बन्धो न च साधक: । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ५॥ ऐहिकामुष्मिकव्रातसिद्ध मुक्तेश सिद्धये ।
९
बहुकृत्यं पुरा स्यान्मे तद्वन्मभुना कृतं । तदेव कृतकृत्यत्वं प्रतियोगिपुर:सरम् ।
१०
अनुसन्धदेवायमेवं तृप्ति नित्यश्र: ।
११
दु:खिनोऽज्ञा: संस्रन्तु कामं पुत्रादिपेक्षया । परमानन्दपूर्णोऽहं संसारामि किमिच्छया ॥ ११॥
१२
अनुतिष्ठन्तु कर्माणि परलोकियासव: । सर्वलोकात्मक: कश्चिदनुतिष्ठामि किं कथम् ॥ १२॥
१३
व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु न अधिकारोडक्रियत्वात् ॥ १३॥
१८
निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । दृष्टारशेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् ॥ १८॥
१५
गुज्जापुञ्जादि दह्योत नान्यारोपितवद्हिना । नान्यारोपितसंसारधर्मा नैवमहं भजे ॥ १५॥
१६
शृण्वन्त्वज्ञाततत्त्वास्ते जाननकस्माज्ज्ञुःणोम्यहं । मन्यन्तां संशयापन्ना न मन्येऽहंमसंशय: ॥ १६॥
१७
विपर्यस्तो निदिध्यसे किं ध्यानमविपर्यये । देहात्मत्वविपर्यांसं न कदाचिदिजाम्यहं ॥ १७॥
१५
अहं मनुष्य इत्यादिवहारो विनाप्यमुम् । विप्यांसं चिराभ्यस्तवासनातोडवकल्पते ॥ १५॥
१९
आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते । कर्मक्षये त्वसौ नैव शमेदूयांसहग्नत: ॥ १९॥
२०
विरलत्वं व्यवहृतेष्टं चेदूयानमस्तु ते । बाधिकमव्यवहारेऽपि शयनश्यायाम्यहं कृत: ॥ २०॥
२१
विक्षेपो नास्ति यस्मान्मे न समाधिस्थतो मम । विक्षेपो वा समाधिर्वा मन: स्याद्विकारिण: ॥ २१॥
२१
नित्यानुभवरूपस्य को मे द्वानुभव: पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यश्र: ॥ २१॥
२२
व्यवहारो लौकिको वा शास्व्रीयो वान्यथापि वा । ममाक्तुर्लेपस्य यथारुचं प्रवर्तताम् ॥ २२॥
२३
अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया । शास्व्रीयेणैव मार्गेण वर्तेऽहं मम का क्षति: ॥ २३॥
२८
देवार्चनस्नानशौचभिक्षादौ वर्ततां वपु: । तारं जपतु वाक्तत्त्वपटलवाम्नायमस्तकं ॥ २८॥
Page 3
25
विष्णुं ध्यायुत धीर्यद्धा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किंचिदपयत्र न कुर्वे नापि कारये ॥
26
कृतकृत्यतया तृप्तः प्राप्तप्राप्ततया पुनः । तृप्यत्प्रेव स्वमनसा मन्यतेऽसौ निरन्तरम् ॥
27
धन्योऽहं धन्योऽहं नित्यं स्वात्मानमृजसा वेऽसि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥
28
धन्योऽहं धन्योऽहं दु:खं सांसारिकं न वीक्ष्येड्य । धन्योऽहं धन्योऽहं स्वस्त्याज्ञानं पलायितं क्वापि ॥
29
धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमन्त्र सम्पन्नम् ॥
30
धन्योऽहं धन्योऽहं तृप्तोऽस्मि कोपमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥
31
अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥
32
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् । अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥
इति य इदमभीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृताकृत्यात्पूतो भवति । एवं विदित्वा स्वेच्छाचारपरो भुइादोषत्यमित्युपनिषत् ॥
ॐ सह नाववतु । ॐ सह नौ भुनक्तु । ॐ सह वीर्यं करवावहे । तेजस्विनावधीतमस्तु मा विद्विषावहे ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्यवधूतोपनिषत्समाप्ता ॥