Books / Avadhuta Upanishad

1. Avadhuta Upanishad

Page 1

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।

तत्पदं ब्रह्मतत्त्वं स्वभावमवशिष्यते ॥

ॐ सह नाववतु ।। सह नौ भुनक्तु ।। सह वीर्यं करवावहै ।।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ हं सांख्यत:भर्गवन्तमवधूतं दत्तात्रेयं

परिसमेत्य प्रपच्छ भगवन्कोडवधूतस्य का स्थितिः किं

लक्ष्म किं संशरणमिति । तं होवाच भगवो दत्तात्रेय:

परमकारुणिक: ॥

अक्षरत्वाद्रेण्यत्वाद्रूतसंभारवन्धनात् ।

तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्युते ॥ १॥

यो विलड्ययाश्रमान्वर्णानात्मन्येव स्थित: सदा ।

अतिवर्णाश्रमी योगी अवधूत: स कथ्यते ॥ २॥

तस्य प्रियं शिर: कृत्वा मोदो दक्षिणपक्षक: ।

प्रमोद उत्तर: पक्ष आनन्दो गोष्पदायते ॥ ३॥

गोपालसदृशां शीर्षे नापि मध्ये न चाप्यध: ।

ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् ॥ ४॥

एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५॥

स्वैरं स्वैरविहरणं तत्त्वसंशरणम् । सांवरा वा दिगंबरा वा ।

न तेषां धर्माधर्मौ न मेध्यामेध्यौ । सदा

संग्रहणयेष्याश्वमेधमन्त्यागं यजते ।

स महामखो महायोगी: कृत्स्नमेतच्चरं कर्म ।

स्वैरं न विगायेतन्महाव्रतम् । न स मुग्धवद्लिप्यते ।

यथा रविः सर्वरसान्प्रभुङ्क्ते

हुताशनस्यापि हि सर्वभक्ष: ।

तथैव योगी विषयान्प्रभुङ्क्ते

न लिप्यते पुण्यपापैष शुद्ध: ॥ ६॥

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमाप: प्रविशन्ति यद्वत् ।

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ॥ ७॥

Page 2

न निरोधो न चोत्त्तिनि न बन्धो न च साधक: । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ५॥ ऐहिकामुष्मिकव्रातसिद्ध मुक्तेश सिद्धये ।

बहुकृत्यं पुरा स्यान्मे तद्वन्मभुना कृतं । तदेव कृतकृत्यत्वं प्रतियोगिपुर:सरम् ।

१०

अनुसन्धदेवायमेवं तृप्ति नित्यश्र: ।

११

दु:खिनोऽज्ञा: संस्रन्तु कामं पुत्रादिपेक्षया । परमानन्दपूर्णोऽहं संसारामि किमिच्छया ॥ ११॥

१२

अनुतिष्ठन्तु कर्माणि परलोकियासव: । सर्वलोकात्मक: कश्चिदनुतिष्ठामि किं कथम् ॥ १२॥

१३

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु न अधिकारोडक्रियत्वात् ॥ १३॥

१८

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । दृष्टारशेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् ॥ १८॥

१५

गुज्जापुञ्जादि दह्योत नान्यारोपितवद्हिना । नान्यारोपितसंसारधर्मा नैवमहं भजे ॥ १५॥

१६

शृण्वन्त्वज्ञाततत्त्वास्ते जाननकस्माज्ज्ञुःणोम्यहं । मन्यन्तां संशयापन्ना न मन्येऽहंमसंशय: ॥ १६॥

१७

विपर्यस्तो निदिध्यसे किं ध्यानमविपर्यये । देहात्मत्वविपर्यांसं न कदाचिदिजाम्यहं ॥ १७॥

१५

अहं मनुष्य इत्यादिवहारो विनाप्यमुम् । विप्यांसं चिराभ्यस्तवासनातोडवकल्पते ॥ १५॥

१९

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते । कर्मक्षये त्वसौ नैव शमेदूयांसहग्नत: ॥ १९॥

२०

विरलत्वं व्यवहृतेष्टं चेदूयानमस्तु ते । बाधिकमव्यवहारेऽपि शयनश्यायाम्यहं कृत: ॥ २०॥

२१

विक्षेपो नास्ति यस्मान्मे न समाधिस्थतो मम । विक्षेपो वा समाधिर्वा मन: स्याद्विकारिण: ॥ २१॥

२१

नित्यानुभवरूपस्य को मे द्वानुभव: पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यश्र: ॥ २१॥

२२

व्यवहारो लौकिको वा शास्व्रीयो वान्यथापि वा । ममाक्तुर्लेपस्य यथारुचं प्रवर्तताम् ॥ २२॥

२३

अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया । शास्व्रीयेणैव मार्गेण वर्तेऽहं मम का क्षति: ॥ २३॥

२८

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपु: । तारं जपतु वाक्तत्त्वपटलवाम्नायमस्तकं ॥ २८॥

Page 3

25

विष्णुं ध्यायुत धीर्यद्धा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किंचिदपयत्र न कुर्वे नापि कारये ॥

26

कृतकृत्यतया तृप्तः प्राप्तप्राप्ततया पुनः । तृप्यत्प्रेव स्वमनसा मन्यतेऽसौ निरन्तरम् ॥

27

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमृजसा वेऽसि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥

28

धन्योऽहं धन्योऽहं दु:खं सांसारिकं न वीक्ष्येड्य । धन्योऽहं धन्योऽहं स्वस्त्याज्ञानं पलायितं क्वापि ॥

29

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमन्त्र सम्पन्नम् ॥

30

धन्योऽहं धन्योऽहं तृप्तोऽस्मि कोपमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥

31

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥

32

अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् । अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥

इति य इदमभीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृताकृत्यात्पूतो भवति । एवं विदित्वा स्वेच्छाचारपरो भुइादोषत्यमित्युपनिषत् ॥

ॐ सह नाववतु । ॐ सह नौ भुनक्तु । ॐ सह वीर्यं करवावहे । तेजस्विनावधीतमस्तु मा विद्विषावहे ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्यवधूतोपनिषत्समाप्ता ॥