Books / Avyakta Upanishad

1. Avyakta Upanishad

Page 1

स्वाज्ञानासुररागग्रासस्वज्ञाननरकेसरी । प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोตุ माम् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्तिः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुयं मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषदस्तु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ । पुरा किलेदं न किन्चिन्नासीन्ति धौर्नान्तरिक्षं न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनवस्थूलरूपमसृपं रूपवद्विज्ञेयं ज्ञानरूपमानन्दमयमासीत् । तदनन्यतदद्धेधाभूद्रिरितमेकं रक्तमपरं । तत्र यद्रक्तं तद्युन्त्सो रूपमभूत् । यद्वारिरितं तन्मायाया: । तौ समगच्छत: । तयोर्वीर्यमेवमनन्दत् । तदवर्धत । तदण्डमभूधैममं । तत्परिणममानमभूत् । तत: परमेष्ठी व्यजायत । सोडभिजिज्ञासत किं मे कुलं किं मे- कृत्यमिति । तं ह वाग्दृश्यमनाभ्युवाच भोभो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तं यस्मादहमासिषम् । किं तद्वक्तं यन्मे कृत्यमिति । साब्रवीद्विज्ञेयं हि तत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् । तच्चेज्जिज्ञाससि मावगच्छेति । स होवाच कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्पसा मां विजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवास ॥ १ ॥ अथापश्यदृचमानुष्ठानीं परमां विद्यां यस्याऽऽज्ञानन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठतम् । विश्वेदेवाः प्रतिष्ठिता: । यस्तां न वेद किमनैव वेदै: करिष्यति । तां विदित्वा स च रक्तं जिजासयामास । तामेवमन्नुचानां गायत्रीऽऽसिष्ट । सहस्रं समा आध्यन्तनिहितोऽरणं पदान्यगायत् । सहस्रं समा्स्थैवावाक्षरश: । ततोडपश्यज्ज्योतिर्मियें श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छादितमौलिं मृगमुखं नरपुंषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् । तत: प्रजापति: प्रणिपपात नमोनम इति । तथैवर्चाथ तमस्तौत् ।

Page 2

2

उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरमित्याह वीरः खलु वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयं महान्तोदसी व्याप्य स्थितः । ज्वलन्तमित्याह ज्वलत्रिव खल्वसाववस्थितः । सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्निर्विश्वरूपत्वात् । नृसिंहमित्याह यथा यजुरेैवतत् । भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्शन्द्रमा भीतो वायुरवाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः । मृत्योर्मृत्युमित्याह मृत्योरवां अयं मृत्युरमृतत्वं प्रजानाम्रादानाम् । नमामीत्याह यथा यजुरेैवतत् । अहहमित्याह यथा यजुरेैवतत् ॥२॥

3

अथ भगवान्स्तम्भवृैत्प्रजापतेः प्रीतोडहं किं तव्वेप्सितं तदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पत्स्योडस्मि व्यक्तं मम कृत्यमिति पुराश्रावि । तन्नव्यक्तं भवानित्यज्ञायि व्यक्तं मे कथयति । व्यक्तं वै विश्ं चराचरात्मकम् । यद्राज्यते तद्राक्तस्य व्यक्तत्वमिति । स होवाच न शक्रोमि जगत्सृष्ट्रमुपायं मे कथयति । तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं यं विदित्वा सर्वं ज्ञास्यसि । सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मध्यग्नौ स्वात्मानं हविर्ध्यांयेत्तयैवानुष्ठुर्चा । ध्यानयोगे मव । एतद्वै महोपनिषदेवानां गुढ्ं । न ह व एतस्य साम्ना नर्चा न यजुषाथो नु विदथे । य इमां वेद स सर्वांल्लोकानवाप्य सर्वांल्लोकाज्जित्वा मामेवाप्युपैति न स पुनरावर्तते य एवं वेदेति ॥३॥

4

प्रजापतिस्तं यजैरं वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे । सप्रणवया तयैवर्चा हविर्ध्यात्स्वात्मन्मन्थ्यग्नौ जुहुयात् । सर्वज्ञातात्सर्वत्रवर्तकत्सर्वमकरोत् । य एवंविद्वानिति ध्यानयोगे मुनुतिष्ठते स सर्वजोऽनन्तश्शक्ति: सर्वकर्तां भवति । स सर्वांल्लोकाज्जित्वा ब्रह्म परं प्राप्नोति ॥४॥

अथ प्रजापतिलोकान्संक्ष्मानस्स्तस्य एव विद्याया यानि तृणश्शद्क्षरराणि तेम्यस्स्थैलोकान् । अथ द्वे दे अक्षरे ताभ्यामुभयतो दधार । तस्यैवर्चो द्वादशाङ्गिरस्रै:स्थानदेवात्रिमेमे । सर्वेरेव स इन्द्र्रोऽभवत् । तस्मादिन्द्रो नामाधिकोऽभवत् । य एवं वेद समाननामाधिको भवेत् । तस्या एकादशभिः पादैरेकादश रुद्रास्त्रिमेमे । तस्या एकादशभिरेकादशादित्यास्त्रिमेमे । सर्वेरेव स विष्णुरभवत् । तस्माद्विष्णुरभवत् । य एवं वेद समाननामाधिको भवेत् । तस्माद्विष्णुरादित्यानामधिकोऽभवत् । य एवं वेद समाननामाधिको

भवेत् । स चतुर्मूर्तिस्तुर्भिरक्षरैररष्टौ वसूनजनयत् । स तस्या आदिदशाभिरक्षरैरैब्रह्मणमजनयत् ।

Page 3

दशभिर्दशाभिविघ्नक्षत्रे । तस्माद्ब्राह्मणो मुख्यो भवति । एवं तन्मुख्यो भवति य एवं वेद । तृष्णीं शूद्रमजनीतस्तमाच्छूद्रो निविद्योद्भवत् । न वेदं इवा न नक्तमासीदव्यवृतम् । स प्रजापतिरनुष्टुभाभ्यामर्थचाभ्यामहोरात्रावकल्पयत् । ततो व्यैच्छत् व्येवास्मा उच्छत्ति । अथो तम एवापहते । ऋग्वेदमस्या आध्यात्मादाकल्पयत् । यजुर्दिंतीयात् । साम तृतीयात् । अथर्वाङ्गिरससस्तुर्यात् यदषटाक्षरपदा तेन गायत्री । यदेकादशपदा तेन त्रिष्टुप् । यच्छतुष्पदा तेन जगती यदद्वादशप्रदर्शका तेनानुष्टुप् । सा वा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद । सर्वं जगदानुब्रह्मैवोत्तपनमनुष्ठुप्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद ॥२॥ अथ यदा प्रजा: सृष्टा न जायन्ते प्रजापति: कथम् न्विमा: प्रजा: सृजेयमिति चिन्तयत्नुग्रमितीमामुचं गातुमुपाकामत् । तत: प्रथमपादादुग्रुपो देव: प्रादुरभूत् एक: श्याम: पुरतो रक्त: पिनाकी स्त्रीपुंसरोपस्तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुनरुपं व्यधात् । उभाभ्यानंशाभ्यां सर्वमादिष्ट । तत: प्रजा: प्रजायन्ते । य एवं वेद प्रजापते: सोऽपि त्र्यम्बक इमामुचमुद्राय-शूद्रग्रथितजटाटकलाप: प्रत्यर्ज्योतिष्यातमन्येव रन्तारमिति । इन्द्रौ वै किल देवानमनुजावर आसीत् । तं प्रजापतिरब्रवीत्‍च्छ देवानामधिपतिभवेति । सोऽगच्छत् । तं देवा ऊचुर्नुजावरस्य कुतस्त्वाधिपत्यमिति । स प्रजापतिमध्येग्योवाचैवं देवा ऊचुर्नुजावरस्य कुतस्त्वाधिपत्यमिति । तं प्रजापतिरिन्द्रं त्रिकलशेरमृतपूर्णैरानुष्टुभाभिमन्त्रैरभिषिच्य तं सुदर्शनैन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो हृदयेन सुरक्षतोऽभवत् । रौक्मे फलके सूर्यवर्चसि मन्त्रानुष्टुभ्भं विन्यास्य तदस्य कण्ठे प्रत्यमुञ्चत् । तत: सुदुर्निरीक्षोऽभवत् । तस्मै विद्यामनुष्टुभ्भीं प्रादात् । ततो देवास्तमाधिपत्यानुमेनिरे । स स्वाराड्भूत् । य एवं वेद स्वाराड् भवेत् । सोऽमन्यात् पृथिवीमपि कथं अपां जयेयमिति । स प्रजापतिमुपाधावत् । तस्मात्प्रजापति: कमठाकारमिन्द्रानागमुजगेऽन्द्राधं भद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । तत: स उभयोर्लोकयोरधिपतिरभूत् । य एवं वेदोभयोर्लोकयोरधिपतिरभवति । स पृथिवीं जयति यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो

Page 4

वसीयांभर्वति यशैवं वेद यशैवं वेद ॥ ६ ॥ य इमां विद्यामधीते स सर्वांवेदानधीते । स सर्वैः कतुभिरियते । स सर्वतीर्थेषु स्नाति । स महापातकोपपातके: प्रमुच्यते । स ब्रह्मवर्चसं महदाप्नुयात् । आब्रह्मण: पूर्वाङ्कलपादशोतरांश वंशान्नुनीते । नैनमपस्मारादयो रोगा आदिभेयु: । सत्यक्षा: सप्रेतपिशाचा अप्येनं स्पृष्टवा दृष्टवा श्रुत्वा वा पापिन: पुण्यैल्लोकानाप्नुयु: । चिन्तितमात्रादास्य सर्वर्डर्था: सिद्धुयेयु: । पितरमिवैनं सर्वे मन्यन्ते । राजानश्वास्यादेशकारिणो भवन्ति । न चाचार्यव्यतिकर्तं श्रेयांसं दृष्टवा नमस्कुयात् । न चास्मादुपावरोहेत् । जीवन्मुक्तष भवति । देहान्ते तमस: परं धाम प्राप्त्नुयात् । यत्र विराण निसिंहोद्भवासते तत्र खलुपासते । तत्स्वरूपध्यानपररा मुनया आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते । न च पुनरावर्तन्ते । न चेमां विद्यामश्रद्धानाय ब्रूयाज्न्नासूयावते नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षिताय नाधर्मेश्रीलाय न हिसिकाय नाब्रह्मचारिण इत्येशोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्तिः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्व ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इत्यव्यक्तोपनिषत्समाप्ता ॥