Books / Bhamini Vilasa Jagnnatha NSP

1. Bhamini Vilasa Jagnnatha NSP

Page 1

पण्डितराजश्रीजगन्नाथविरचितो भामिनीविलासः।

अच्युतरायक्रतया प्रणयप्रकाशाख्यया व्याख्यया समेत: ।

मूल्यमेको १ रूप्यकः।

Page 3

٣٫٧

Page 5

THE BHĀMINĪVILĀSA OF JAGANNĀTH PANDIT WITH The Commentary (Pranayaprakās'a ) OF ACHCHYUTARAYA MODAK.

EDITED BY KĀS'ĪNĀTH PĀNDURANG PARAB AND MANGESH RĀMKRISHŅA TELANG.

Third Edition.

REVISED BY WĀSUDEV LAXMAŅ S'ĀSTRĪ PAŅS'ĪKAR.

PUBLISHED BY PĀŅDURANG JĀWAJĪ, PROPRIETOR OF THE ' NIRNAYA SAGAR' PRESS, BOMBAY.

Price 1 Rupee.

Page 6

[ All rights reserved by the publisher. ]

Publisher :- Pandurang Jawaji, ? at the 'Nirnaya-sagar' Press, Printer :- Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay.

Page 7

पण्डितराजश्रीजगन्नाथविरचितो भामिनीविलासः।

अच्युतरायकतया प्रणयपरकाशाख्यया व्याख्यया समेतः ।

काशिनाथ पाण्डुरङ्ग परब, मङ्गेश रामकृष्ण तेलङ्ग इत्येताभ्यां संस्कृतः ।

तृतीयावृत्ति: वासुदेव लक्ष्मणशास्त्री पणशीकरसंशोधिता।

स च मुम्बययां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयब्रालये मुद्रयित्वा प्राकाश्यं नीतः ।

शके १८५५ सन १९३३.

मूल्यमेको १ रूप्यकः।

Page 9

।। श्रीः ।। पण्डितराजश्रीजगन्नाथविरचितः भामिनीविलासः।

अच्युतरायकृतया प्रणयप्रकाशाख्यया व्याख्यया समेतः।

अन्योक्तयुल्लासः। प्रथम: प्रमोद्ः । प्रेम्णा प्रेड्य प्राश्चोः प्रपदानि प्रेयसीप्रिययोः । प्रचुरं प्रपश्चयामि प्रौढ्यै प्रणयप्रकाशमहम् ॥ नहि भामिनीविलासः सुखसाध्यो भवति रसविलोलधियाम्। प्रणयप्रकाशविरहे तस्मात्तनैव तैः स संपाधः ॥ इह श्रीमत्परमेश्वरशिर:किरीटही रकहारीभूत समुल्लसत्तरङ्ां सकलोपनिषदन्तरर्क्गा भगवर्तीं गङ्गामाराध्य तत्प्रसादसमासादितसकलविद्याकमलिनीविद्योतनत्वमहित्रा श्रीमज्गन्नाथनाम्रा पण्डितराजेन 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्ष- तये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥' इति भरतसूत्रात्, 'सुन्दरी खवेशहृदयं वशीकृत्य खसद्गुणैः। लौकिकं वैदिकं चापि कूजतीषटं ससाधनम्॥ तद्वत्काव्याद्यपि श्रीमन्महारामायणादिकम् । श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ।' इत्यादि मदुक्तसाहित्यसारप्रपश्चितपद्धत्या धर्मादिचतुर्विधससाधन- पुरुषार्थानां भामिनीविलासाख्ययथार्थलघुकाव्यप्रणयनेनोपदिदिक्षया तन्निष्प्रत्यू- हतादिप्रयोजनं शिष्टाचाराद्यनुमितश्रुतितः प्राप्तविधानं वस्तुनिर्देशलक्षणं मज्जलं तावदन्योत्तयुल्लासेSत्र तयैवाप्रस्तुतप्रशंसारूपया शिष्यानुशासनार्थ ग्रन्थारम्मेऽपि द्योत्यते- दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः। इदानीं लोकेSस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ १॥

Page 10

२ भामिनीविलासे

दिगन्त इति। अयं बुद्धिस्थत्वेनापरोक्षो मृगपतिः, 'सिंहो भृगेन्द्रः' इत्यमरा- त्सिहः, इदामीं वर्तेमानकाले, न तु भविष्यत्कालेऽपि, अस्मिन्प्रत्यक्षे लोके भूलोंके पुनरप्रथमे। एतेन पूर्व शतशः करिवरा विदारिता एवेति ध्वनितम् । अनुपमशिखानामतितीक्ष्णाग्राणां नखानां पाण्डित्यं नैपुण्यं कस्मिन्प्रकटयतु। न क्वापि प्रकटयत्वित्यन्वयः। तत्र हेतुं पूर्वार्धेनाह-यतः, मदमलिनगण्डा दान- दिग्धकपोलाः करटिनः । 'करटो गजगण्डे स्यात्कुसुम्भे निन्धजीविनि। एका- दशाहश्राद्वेऽपि दुर्दुरूदेऽपि वायसे ।' इति विश्वः । विशालगण्डस्थलमण्डिता गजा इत्यर्थः। दिगन्ते प्राच्यादिदिक्प्रान्ते श्रूयन्ते। 'ऐरावतः पुण्डरीको वामनः कुमुदोऽजनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥' इत्यमरात्केवलं परोक्षमेव श्रवणद्वारावगम्यन्ते, न त्वपरोक्षीक्रियन्त इत्यर्थः । तथा करिण्यो गजिन्यः कारुण्यास्पदं खलु तद्ूथनाथानां प्रागेवानेन विदारितत्वात्तासां स्त्रीत्वेन वधानर्हत्वाच्च तास्तावदनुकम्पापात्रमेवेति भावः। किंच मृगा हरिणा असमशीला अतुल्यबलाः खलु। तस्माद्युक्तमेवोक्तमृगपतेः शौर्यप्रकटनस्थानाभाववर्णनमित्या- शयः। इयं हि मुख्योत्त्या व्याख्या॥ अन्योक्तिस्तु-सस्य कस्यचिदन्यस्य वा पण्डितमाण्डलिकचकरवर्तिन; स्तुतिरियमिति पाण्डित्यपदान्यथापत्त्योह्यते। वस्तु- तस्तु तस्या: सर्वतोमुखत्वेन यथाप्रसङ्गं यथायोगं प्रकल्पनेऽपि न क्षतिः । इयमेव व्यवस्था यावदग्रिमान्योक्तिष्वपीति दिक्॥ मङ्गलपक्षे तु वस्तुनिर्देशलक्षणमङ्गल- परतया श्लेषेणार्थत्रयं ज्ञेयम्। तद्यथा-मृगपतिः। अत्र अजहत्सार्थलक्षणया नृमृगपतिर्नरसिंहो ग्राह्यः। तथा चेदं ग्रह्लादस्य हिरण्यकशिपुवधोत्तरं ब्रह्मादीन्प्रति भगवत्प्रभाववर्णनवचनम्। हे त्रह्मादयः, अयमपरोक्षो मृगपतिरुक्तवृत्त्या नृहरिः। इदानीमित्याद्युत्तरार्धशेषं प्राग्वदेव। एवं करटिशब्देनाप्येतद्वध्यत्वेनासुरा एव ज्ञेयाः। ते तु दिगन्ते श्रूयन्ते। समुद्रपातालादिनिविष्टत्वाहूरवर्तमानत्वेन केव- लमाकर्ण्यन्त एवेत्यर्थः । तद्वत्करिणीपदेनापि कयाधूप्रभृतयोऽसुरस्त्रियो बोध्याः। तथा मृगयन्त्यन्वेषयन्तीति व्युत्पत्त्या शुकपुत्रादयस्तन्मन्निण एव मृगशब्दिताः। तस्माद्भ गवतो नारसिंहस्य पुनः शौर्यप्रकाशने न किमपि प्रकृते पात्रमिति हिरण्यक- शिपुवधादितच्चरितात्मकवस्तुव्यञ्ञनेन विचित्रं तच्छौयैंश्वर्यमिति द्योतितम्। तेन तस्य कविकर्तृकनमस्क्रियात्मकमपि मङ्गलं ध्वन्यते। तस्यास्त्वत्तोऽहं निकृष्टो मत्त- स्त्वमुत्कृष्ट इति भावनापूर्वककायिकादित्रिविधप्रह्वीभावैकरूपत्वात् ॥ पक्षे 'शमो दमस्तपः शौच क्षान्तिरार्जेवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभाव-

Page 11

अन्योक्युल्लास: । ३

जम् ।।' इति स्मृतेर्भृगयन्त्यन्वेषयन्ति सदसद्वस्तु विचारयन्ति ते मृगा ब्राह्मणा- स्तान्पाति त्रिःसप्तवारं क्षत्रक्षपणपूर्वकं पृथ्वीप्रदानेन पालयतीति तथा। श्रीम- त्परशुराम इत्यर्थः। नखानां न विद्यते खमाकाशपदवाच्यमवकाशजातं येषां ते तथा। वध्यराहित्येन निरवकाशानां शराणामित्यर्थः । ननु कुत एवमिति चेत्त- त्राह-दिगन्त इति पूर्वार्धन। करटिन ऐरावताद्यष्टदिग्गजोपलक्षिता जहत्सार्थ- लक्षणया तत्स्ामिन इन्द्रादिलोकपाला इत्यर्थः । तेषां मदमलिनगण्डत्वं तु मद- जन्यस्वेदादेव बोध्यम्। एवं करिण्यः करा राजग्राह्यनियतधनभागास्ते विद्यन्ते येषां नृपाणां तेषां स्त्रिय इत्यर्थः । खनिहतराजरमण्य इति यावत्। तद्वन्मृगा मिरुक्तव्युत्पत्त्या विचारशीला जनकादिक्षत्रिया इत्यर्थः । इदं हि श्रीमत्परशुराम- विजयोत्तरं स्वगतमेव कश्यपादिमप्तर्षिवचनम्। उक्तार्थमेवान्यत् ॥ पक्षे गोपीसा- न्त्वनार्थ भगवता प्रेषितमुद्धवं प्रति राधिकावाक्यादम् । तथा हि। हे उद्धव, अयमस्मद्वुद्धिस्थत्वेन प्रत्यक्षः । एतेन प्रीत्यतिशयः सूचितः । मृगेति। मृगो हरि- णस्तद्वत्पतिः। स यथा वन एव प्रायः क्रोडति तद्वदयं श्रीकृष्णो वृन्दावन एवास्म- दर्ता। न तु ग्रामादौ प्रसिद्धस्तथेत्यर्थः । अस्मजारः । श्रीकृष्ण इति यावत्। एवं चास्मान्वश्चयित्वा गतस्तस्येदं वक्ष्यमाणफलमित्याकूतम्। उत्तरार्धेशेषस्तु यथाश्रुत एव। तदेतत्कालावच्छेदेनास्मिंल्लोके मादग्विलासास्पदं तस्य नास्त्येवेति भावः । तदेवोपपादयति-दिगन्त इति। मदेति। मदेन मृगमदेन मलिनाश्चित्रितत्वेन श्यामा गण्डाः कपोला यासां तास्तथा। कस्तूरीकलुषितकपोला इत्यर्थः । एतादृशाः करटिन: करटाः पूर्वोक्तविश्वान्निन्दजीविनः शतशोऽसुराः सन्ति यस्येति स तथा। अनेकदुष्टासुरचमूनायकस्य। भौमासुरस्येति यावत्। तेन सगृहे रोधितत्वेन तत्सं- बन्धिन्यः करिण्यः करशन्दितवलिप्रहणशालिन्योSनेकराजानां षोडशसहस्त्रसंख्या- का: कन्यका इत्यर्थः। तास्तु निरुक्तरोधनवशात्कारुण्यास्पदं यथा स्यात्तथा दिगन्ते कचिद्दिक्प्रान्ते श्रूयन्त इति यावत्। तस्मात्ता अपि न सदः संभोगार्हा भवन्तीति भावः। तथा मृगा मृगयन्ति राधादिगोप्युपभोग्यत्वकीर्तिश्रवणेन श्रीकृष्णमन्वेषय- न्तीति मृगाः । कुब्जादिमथुरानार्य इत्यर्थः । तास्त्वसमशीलाः सामान्यवनितात्वे- नातुल्यखभावाः खलु। तस्मात्तासु तु पुरुषोत्तमस्य भगवतः कदाप्यनुचित एव विहार इति रहस्यम्। एवं च युक्तमेवास्यास्मान्व्चयतः संभोगस्थलराहित्यमधुनेति तत्त्वम् ॥ अत्र प्रथमतृतीयचतुर्थार्थेषु युद्धवीरः, तथा द्वितीये पाण्डित्यवीरः, पञ्चमे विप्रलम्भशृङ्गारानुप्राणितः सौन्दर्यवीरश्च रसः । अर्थचतुष्टयेऽपि धीरो-

Page 12

भामिनीविलासे

दात्तो नायकः। पथ्चमे तु कितवः । परकीयाः प्रगल्भाः सौन्दर्यगर्विता विप्रलब्धा नायिकाः । अप्रस्तुतप्रशंसा श्रेषः काव्यलिङ्गं परिकरः परिकराक्कुरः संकरश्चा- लंकाराः । एतेषां लक्षणानि तु सोदाहरणमुक्त्तानि कुवलयानन्दकारिकासु-'अप्र- स्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एकः कृती शकुन्तेषु योऽन्यं शक्रान याचते॥ नानार्थसंश्रयःश्लेषो वर्ण्यावर्ण्योभयात्मकः। सर्वदो माधवः पायात्स यो गङ्गामदीघरत्॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसकिना। उश्चरद्वूरिकीलालः शुस्ुमे वाहिनीपतिः ॥ समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। जितोऽसि मन्द कंदर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ अलंकारः परिकरः साभिप्राये विशेषणे। सुधां- शुकलितोत्तंसस्तापं हरतु नः शिवः ॥ साभिप्राये विशेष्ये तु भवेत्परिकराक्करः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥' इति। संकरलक्षणं तूक्तं कुवलयानन्द एव-'नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः' इति। एवं रसादिलक्षणा- न्यपि मदीयसाहित्यसारतो ज्ञेयानि। विस्तरभयात्तानि नेह प्रपञ्ज्यन्ते। अत्र यद्यपि अन्योक्तयाद्युक्तर सापेक्षयाप्रस्तुतप्रशंसादयलंकार स्यैवाधिकचमत्कारकारित्वेन प्राधान्याद स्यार्थचित्राख्यमध्यमकाव्यत्वेऽपि निरुक्तालंकारापेक्षयापि तद्यजितयुद्ध-

काव्यभेदस्तु रसगङ्गाधराख्यैतद्रन्थ एव प्रसिद्धः। तदिहान्योत्त्याख्यप्रथमोल्लासे नीत्युपदेशात्ससाधनयोर्धर्मार्थयोः प्रतिबोधनम्। नीतिमत एव धर्मार्थयोः संभ- वात्। द्वितीये शङ्गारोल्लासे तु स्कीयाया नायिकायाः संवर्णनेन 'धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति स्मृतेस्तादृशस्य तस्योपपादनम्। अवशिष्टोल्लास- द्ूये तु ससाधनस्य मोक्षस्यैव प्रबोधनमिति। न च वेदेनैव धर्माद्यखिलपुमर्थोपदे- शस्य ससाधनं विस्तरतः कृतत्वात्किमनेन पौरुषकाव्येनेति चेत्सत्यम्। तस्यार्थि- त्वादिविशेषणविशिष्टाधिकारिविषयत्वात्। यथाहु :- 'अर्थी समर्थो विद्वाञशास्त्र- णापर्युदस्तो यजेत याजयेत्' इति। उपलक्षणमिदं सामान्यतो यावद्वेदार्थग्रहणत- दनुष्ठानादेः । तस्मादे तावद्वेदादयर्थश्रवणादितः प्रभुसंमितोपदेशत्वादिना समु- द्विजन्ति तथा पुरुषार्थमप्यभिवाञ्छन्त्येतादृग्विषयिजनैकविषयत्वादस्य काव्या- देनैव नैरर्थ्यशङ्कापीति ध्येयम्। एवं चात्र विषयित्वे सति पुमर्थेच्छवोऽधिका- रिणः । व्यजनया पुमर्थचतुष्टयबोधनं विषयः । तत्प्राप्यानर्थनिवृत्तिः प्रयोजनम्। व्यङ्गयव्यअ्ञकभावः संबन्धश् सिद्धः । अत्र शिखरिणीवृत्तम्-'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी' इति वृत्तरत्नाकरोक्त्तेरिति शिवम् ॥

Page 13

अन्योक्त्युल्लासः । ५

एवमलौकिकपाण्डित्येऽपि पुरुषेण तावद्र्वः खप्रेऽपि नैव कर्तव्यः, किंतु 'श्रुतं प्रज्ञानुगं यस्य यस्य प्रज्ञा श्रुतानुगा। असंभिन्नार्थमर्यादः पण्डिताख्यां लभेत सः ॥' इति महाभारतोक्तपाण्डित्यरीतिमतैव भाव्यम्, नो चेद्दुर्वारदुःखापत्तिः स्यात्। गर्वापादकख्यातिलाभपूजादिप्रयोजनस्य पाण्डित्यस्य 'क्षयान्ता निचयाः सर्वे पतनान्ता: समुच्छयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥' इति वचनात्तत्साध्योपभोगानां नश्वरत्वात्तथा प्रतिक्षणमनुभवाच्च। अत एवाहु :- 'वेदा- भ्यासात्पुरा तापत्रयमात्राच्च शोकिता। पश्चादभ्यासविस्मारभङ्गगर्वेश्च शोकिता ।।' इति। तस्मात्पाण्डित्याभिमानो नैव विधेय इति तात्पर्य राजहंसान्योक्त्या द्योतयति- पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृते पयसि यस्य यातं वयः। स पल्वलजलेधुना मिलदने कभेकाकुले मरालकुलनायक: कथय रे कथं वर्तताम्॥२॥ पुरेति। इयं हि सार्वभौमाश्रितोऽप्ययं सूरीश्वरस्त द्विरहाद्यतो निराश्रयस्ततोऽदय क्षुद्रशूदाद्याश्रयेण तिष्ठत्विति धनयौवनादयुन्मादेन वदन्तं कंचित्प्रति कस्यचिद्- भिज्ञस्योकिः। रे इति नीचसंबोधने। यस्य पुरा प्राङ् मानसे मानसाह्वये सरसि सरोवरे। विकचेति। विकचानि प्रफुल्लानि यानि सारसानि 'सारसं सरसीरुहम्' इत्यमरात्कमलानि, तेषामालि: प्विस्तस्याः सकाशात्खलन्तश्व्यवन्तो ये परागाः पुष्परेणवस्तैः सुरभि सुगन्धि यथा संपेदे तथा कृतं तस्मिन्नित्यर्थः । एतादृशे पयसि जले यस्य वयो यातम्। तारुण्यमतिक्रान्तमिति यावत्। ननु सारसाना- मालि: पङ्विरिति त्वयोक्तम्। सा च संयोगविशेष एव। एकताननिकटसंगयोस्यैव तादृशकिंचिद्विरलसामानाधिकरण्यद्वारकसंयुक्तसंयोगस्य वा 'भुक्ता पङ्किर्विप्रपङ्गिः' इत्यादौ तच्छक्यताया दृष्टत्वात्। तस्य च गुणत्वात्परागरूपद्रव्यस्य ततः र्खलनव- र्णनमनुचितमेवेति चेन्न। आद्ये 'वर्षत्यम्बुदमालेयम्' इत्यादिवत्, द्वितीये 'द्विजप- द्विभुङ्के' इत्यादिवच संबन्धविशेषकल्पनया निरूढलक्षणया वोपपत्तेः । एतेन 'चको- रीगणे'(१।३) इत्यादि व्याख्यातम्। एवं चैतादृशस्यापि पण्डितवरस्य पाण्डित्या- भिमानेन संपादितभोगक्षये जाते नीचाश्रयोऽप्यधुनानेन कार्य इति पामरेणापि बो- ध्यते खण्ड्यते चेतरेण। तथापि भोगाभावस्तु नैव हृत इति धिक्पाण्डित्याभि- मानंमित्याशयः । सः । मरालेति। मराला हंसाः । अन्र मरालपदस्य हंसे शक्ति- प्रहस्तावन्मानसादि सिद्धपदसांनिध्यादेव। तदुक्तम्-'शक्तिग्रहं व्याकरणोपमान-

Page 14

६ भामिनीविलासे

कोशाप्तवाक्यव्यावहारतक्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य बरृद्धा: ।' इति। मदीये साहित्यसारेऽपि 'रौत्याम्रे पिकः' इत्यादौ प्रसिद्धपदसंनिधे- रिति। तेषां कुलं वंशस्तस्य नायकः, तत्र वा नायको धुरीण इत्यर्थः । मिलदिति। मिलन्तः समुच्चयीभवन्तो येऽनेके भेका बहवो मण्डूकास्तैराकुलं व्याप्तं तत्रेति यावत्। एतादृशे। पल्वलेति। 'वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका' इत्य- ·मरातक्षुद्रसरोवारिणी त्यर्थः। अधुनाद कथं वर्ततां कथं निवसतामिति कथयेत्यन्वयः। तस्मादत्रैतद्वर्तनमनुचितमेवेति भावः। अन्योक्तिस्तू क्ैव।अत्रोदात्तो नायकः। करुणो -रसः। अप्रस्तुतप्रशंसालंकारस्तु प्रायो यावदुल्लाससमाप्ति साधारण एव। इह काव्य- लिङ्गमपि। पृथ्वीवृत्तम्। तदुक्तम्-'जसौ जसयला वसुग्रहयतिक्ष पृथ्वी गुरुः'इति॥ एवं निजैश्वर्यमदेन कस्यापि प्रभावापह्नवेन केषांचिदप्याशोच्छेदो नैव कर्तव्य इति विधात्रन्योत्त्या ध्वनयति- तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे मौनं मुश्चति किं च कैरवकुले कामे धनुर्धुन्वति। माने मानवतीजनस्य सपदि प्रस्थातुकामेडधुना धातः किं तु विधौ विधातुमुचितो धाराधराडम्बरः॥३॥ तृष्णेति। इयं कंचिदपूर्व गुणगणैः सर्वजनसंतोषणनिपुणस्यापि नवाभ्युदयमुप- गच्छतो निजदुर्गुणाभासः परिभावकं प्रति कस्यचिद्गुणज्ञशिरोमणेरुक्तिः । हे धातः अयि चतुरानन। तृष्णालोलेति। तृष्णया पिपासया लोलानि चपलानि विलोच- नानि नेत्राणि यस्य तस्मिन्। एतादृशे चकोरीगणे, न तु चकोरकुले। एतेन करुणायोग्यत्वं व्यज्यते। प्राचीं पूर्वदिशम्। तत्रैव चन्द्रस्योदितत्वसंभवात्। कल- यति पश्यति सतीत्यर्थः । किं चेति समुचये। तथेति यावत्। कैरवेति। 'सिते कुमुदकरवे' इत्यमरात्कुमुदवृन्द इत्यर्थः । मौनं मुकुलीभावं मुश्वति। त्यजति सतीत्यर्थः । विकसति सतीति यावत्। एवं कामे मदने धनुर्मह्नयादि पौप्पं चापं धुन्वति भ्रमरविरुतलक्षणटणत्कारेण कम्पयति सतीत्यर्थः। न केवलमेतावदेव तिर्यङमात्रोपकरणम्, अपि तु मनुष्योपकारितमपि भूरितरं तत्रेति द्योतयति- मान इति। मानवतीति। रूपाद्यभिनिवेशशालिसुन्दरीवृन्दस्येत्यर्थः । माने निरुक्त- गवे। न चात्र मानपदार्थपौनरुत्त्यम्। मानवतीत्यत्र मानं पद्मिन्यादिलक्षणप्रतिपा- दकं शास्त्रं प्रमाणं विद्यते यासु विषये तास्तथेति व्युत्पत्तेर्विवक्षितत्वात्तासामेव रूपाद्य- भिमानस्य दुरुत्सार्यत्वात्तत्संकरजातीनां तु ताद्ृभ्रूपवत्त्वासंभवेन यौवनैकमहित्रा

Page 15

अन्योक्त्युल्लास:।

कदाचित्तत्सत्त्वेऽपि तस्य सुनिरस्यत्वाच्चति ध्येयम्। माने निरुक्तगर्वे सपदि तत्कालं प्रस्थातुकामे गन्तुकामे सतीति यावत्। न तु गते तदैतत्सत्त्वेऽप्यक्षतेः। चन्द्रोदये सत्येतच्चतुष्टयं तावत्स्पष्टमेव सवभावाद्भवतीति। तस्मादधुनोक्तरीत्या। सर्वलोका- भ्युदयसमय इदानीमित्यर्थः । त्वयेत्यार्थिकम्। धारेति। जलदपटलाटोप इत्यर्थः । 'आडम्बरः समारम्भे' इति विश्वः। तत्रापि विधो चन्द्रे, न तु नभःप्रदेशविशेषे। विधातुं कर्तुमुचितो युक्तः किं नु। अपि तु नेव योग्य इति योजना। तदभ्रेण शुभ्रच्छव्याच्छादनं भवता नेव भावनीयमिति भावः । यद्वा गोकुले भगवता हेतुवादैरैन्द्रयागे भझे प्रवर्तिते च गोवर्धनाराधने क्रुद्धेन वृद्धश्रवसा प्रारब्घेऽतित्र- ष्टिविवर्धने तत्रत्यानां ब्रह्माणं प्रतीयं मघवन्माद्यध्वननधुरीणा वाणी। तद्यथा- हे धातः। चकोरीति। चकोरवच्छ्रीकृष्णचरणनखचन्द्रैकजीविनां गोपानां स्त्रीसमूह इत्यर्थः । प्राचीं पुराकृतभगवत्संघटनां कांचिहूतीमित्यर्थः । 'कैः अवकुले' इति छेदः । फलोद्गमे खवनाशकत्वात्तुच्छकुले। वंश इत्यर्थः । कैः सुखरूपैर्ध्वनिभिः। विधा 'विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि' इति विश्वाच्छीकृष्ण इत्यर्थः । इन्द्रेणेति शेषः । शिष्टं तु प्राग्वदेव। इह ललितो नायकः । चरणत्रये शृङ्गारश्वरमे करुणश्र रसः। शलेषोऽप्यलंकारः । शार्दूलविकीडित वृत्तम्। तदुक्तम्-'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति॥

ननु सत्यमेव यदुपदिष्टं निरुक्तान्योत्त्या स्ववैभवमदात्कस्यापि गुणापलापेन केषांचिदपि तदेकोपजीविनां जीवातुविनाशो नैव विधेय इति, तथाप्येते मदनुया- यिनस्तावन्मां प्रति प्रतिदिनम्। 'अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रम: परिभवे वैयात्यं सुरतेप्विव ।' इति। 'पादाहतं यदुत्थाय मूर्धानमधि- रोहति। स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः॥' इति। 'असंपादयतः कंचिदर्थ जाति क्रिया गुणैः। यदच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम्॥' इति। 'तुङगत्वमितरा नाद्रो नेदं सिन्धावगाधता। अलङ्गनीयताहेतुरुभयं तन्मनखिविनि ॥' इति। तुल्ये- Sपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्। हिमांशुमाशु प्रसते तन्म्रदिम्र: स्फुटं फलम्॥' इति। 'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः। केसरी निष्ठुरक्षिप्तमृगयूथो मृगा- धिनः ॥' इति च बहुतरमाघकाव्यादिसंमतिपूर्वकं साभ्युदयार्थ परापकारमेव कर्तव्यतयोपदिशन्तीत्याशङ्किनं प्रति तत्रत्य एव कश्चित्तटस्थो मध्यस्थ इव सकलगु- णज्ञतया प्राक्तनोपदेष्टर्येव कमलान्योत्त्या श्रद्धाविधानं व्यनक्ति-

Page 16

८ भामिनीविलासे

अयि दलदरविन्द स्पन्दमानं मरन्दं तव किमपि लिहन्तो मञ्ु गुअन्तु भृङ्गाः। दिशि दिशि निरपेक्षस्तावकीनं विवृण्व- न्परिमलमयमन्यो बान्धवो गन्धवाहः॥४॥ अयीति। इदं हि कोमलामन्र्रणे संबोधनम्। तेन वक्तरि शिक्षकत्वेऽपि कारु- ण्यं व्यज्यते। दलदिति। भोः । विकसितकमलेत्यर्थः । एतेन मरन्दे स्पन्दमान- तायां हेतुः सूचितः । भृङ्गा भ्रमराः, न तु हंसाः तेन क्षुद्रत्वादि द्योत्यते। तव त्वत्संबन्धिनमित्यर्थः। एवं च भृङ्गेष्वर्थमात्रलोलत्वं ध्वन्यते। स्पन्दमानं किंचित्स्- वमाणम्। तेन मयि भूयः संपद्ते' ततो भक्षयन्तु नाम ये केचन यथेच्छमित्यौदा- सीन्यव्युदासः । मरन्दं मकरन्दम्। किमपि क्थंचिदपि। एतेन स्वामित्वाभावः सूचितः । लिहन्तः । आस्वादयन्तः सन्त इत्यर्थः । एवं च यावदर्थमेवैते मधुरं भाषन्ते तदूर्ध्व तु खप्नेऽप्येते नैव गोचरीभविष्यन्तीत्यनुचितपात्रत्वं तेषु व्यज्यते। मजु मनोज्म्। 'मजु मजुलम्' इत्यमरः । क्रियाविशेषणमिदम्। मनोहरं यथा स्यात्तथा गुजन्तु गुज्ञारवाख्यकर्णजापं कुर्वन्त्वित्यर्थः । एतेनातिनीचत्वं तेषु ध्व- न्यते। उक्तत हि महाभारते-'सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रि- यस्य च पथ्यस्य वक्ता श्रोतापि दुर्लभः ॥' इति। न च सर्वऽप्येवमेवेति पूर्वपद्या- शयोपदेष्ठुरस्य तथात्वाभावादित्याह-दिशि दिशीत्युत्तरार्घेन। दशदिशास्पीत्यर्थः। एतेनाचिन्त्यशक्ति: सूचिता। तावकीनं त्वत्संबन्धिनं परिमलं सुगन्धं वितृण्वन्वि- शदयन्। 'वितन्वन्' इति पाठे विस्तारयन्नित्यर्थः । किं लोभेन, नेत्याह-निरपेक्ष इति। एतादृशोऽयं प्रत्यक्षो गन्धवाहः पवनाख्यो बान्धवः सखा अन्य एव अलौकिक एवास्तीति संबन्धः । तस्मादेतदादरणमेव करणीयमिति तात्पर्यम्। अत्रोदात्तो नायकः। शान्तो रसः भेदकातिशयोक्तिरप्यलंकारः । मालिनी वृत्तम्। तदुक्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति॥ एवं जीवनैकनिर्वाहार्थ कंचिदुपागतमर्थिनं नैवावजानीयादिति कुटजान्योचया द्योतयति समुपागतवतीत्यार्यावृत्तविशेषेण- समुपागतवति दैवादवहेलां कुटज मधुकरे मा गा। मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः।५॥ समुपेति। रे कुटज। 'नवकुटजकदम्बामोदिनो गन्धवाहाः' इति भर्तृहरेः, 'उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः' इति कुवलयानन्दकारिकायाश्चोक्ते:

Page 17

अन्योक्युलासः। ९

"कुडा' इति महाराष्ट्रभाषाप्रसिद्धो वर्षाकालविकासी कश्चित्तिक्ततमो वृक्षविशेषः कुट- जस्तत्संबुद्धौ। एतेनातिनिन्दत्वं ध्वनितम्। दैवात्प्रारब्धाद्वेतोः समुपागतवति सादरं समीपमभिसर्पति। एतेनावश्यादरणीयत्वं व्यज्यते। तत्रापि मधुकरे मधुसं- पादके त्वयि तदाविर्भावाभावेऽपि खवसांनिध्येन तज्जनके भृङ्गविषये, न तु भ्रमरे। एवं च व्ययहेतुत्वेऽव्ययकारणत्वान्नित्यसंग्राह्यत्वं सूचितम्। अवहेलामवज्ञां मा गाः। माकार्षीरित्यर्थः। एवमप्यनास्थायामाह-मकरन्देत्युत्तरार्घेन। तस्मात्त्वयायं सर्वथा सेव्य एवेत्याशयः। इह पूज्यो नायकः। करुणो रसः। काव्यलिङ्गमप्यलंकारः। अस्त्वेवं सति विभवे नीत्युपदेशः कस्यचिहैवाद्विपत्तौ सत्यां कथं कार्य तेनेत्यत्र ैर्यमेव। उक्कं हि भर्तृहरिणा-'विपदि धर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।' इतीति कोकिलान्योक्त्या व्यनक्ति तावदित्यार्यया- तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्। यावन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति ॥६ ॥ तावदिति। हे कोकिल, त्वं तावद्वनान्तरेऽन्यारण्यमष्ये। एतेन धैर्यभज्जहेतु- विषयिसञ्व्युदास: सूचितः । निवसन्नितरां तिष्न्सन्नित्यर्थः, नतु क्षणमात्रं विह- रन्। एवं च तत्संभवाभावो व्यज्यते। विरसान्दिवसान्यापय। नयेत्यर्थः । तावत्पदापेक्षितं पूरयति-यावदित्युत्तरार्घेन। रसाल आम्रः । 'आम्रश्रूतो रसा- लोऽसौ' इत्यमरः । मिलदिति। मिलन्त्याश्लिषन्ति मिलन्त्योऽभिसमालिङ्गन्लो वालिमाला भ्रमरपङ्कयो यस्मिन्स तथेत्यर्थः । तस्मात्साभीष्टदविकासपर्यन्तं धैर्य- मेवावलम्ब्य विपन्नेन वन एव विहर्तव्यमिति तात्पर्यम्। इह करुणो नायकः । शान्तो रसः । लोकोक्तिरप्यलंकारः । तदुक्तम्-'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते। सहसव कतिचिन्मासान्मीलयित्वा विलोचने ।।' इति॥ ननु भवता भूर्युपदेशे क्रियमाणेऽपि मम संशयः पुनः पुनर्नवो नव एवाविर्भ- वतीति धिङ् मामतिनीचमिति स्मनसि खिन्नमिव शिष्यमालक्ष्य गुरुस्तं कूपा- न्योक्या प्रोत्साहयति- नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः। अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि॥७॥ नितरामिति। हे कूप, अहं नितरामत्यन्तं नीचो निम्नः। पक्षे हीबः। कुता-

Page 18

१० भामिनीविलासे

र्किक इत्यर्थः । अस्मीति खेदं कदापि मा कृथाः। नैव कुर्वित्यर्थः । तत्र हेतु :- अत्यन्तेत्युत्तरार्घेन। यतस्त्वमत्यन्तसरसहृदयः । रसो जलम् । पक्षे श्रङ्गारादिः । तेन सहितं सरसमत्यन्तमुत्कटं हृदयमन्तःप्रदेशः । पक्षेमनो यस्य। तथा परेषां लोकानाम्। गुणेति। गुणो नीत्युपदेशादिः । पक्षे रज्जुः। तं गृह्णातीति तथा। एतादृशोऽसीत्यर्थः । अत्र काव्यलिङ्गमलंकारः । शिषं प्राग्वत् ॥ ननु तत्र वनादावपि केनचिदवज्ञा कृता चेत्तदा किं विधेयमित्याशङ्क खगुण- ज्ञलाभसंभावनया धैर्यमेवेति कमलिन्यन्योत्त्या व्यनक्ति- कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः। परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः॥८ कमलिनीति। इह पूर्वार्ध तु सरलमेव। तस्मान्मूर्खकृतावज्ञावशात्खेदो नैव कर्तव्य इति भावः । तत्र हेतु :- परिणतेत्युत्तरार्वेन। परिणतः परिपक्क एतादृशो यो मकरन्दः पुष्परसस्तस्य मार्मिकाः। मर्मज्ञा इत्यर्थः । एतादृशा मिलिन्दा भ्रमराः। स्पष्टमेव शिष्टम्। तस्माद्गुणज्ञा एव त्वद्गुणाञज्ञास्यन्ति न त्वन्य इति तल्लाभार्थ धैर्यमेव धार्यमिति तत्त्वम्। अत्र खिन्ना नायिका। करुणों रसः । निरुक्त एवालंकारः । वृत्तमिदं पुष्पिताग्राभिधम्। तदुक्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश् पुष्पिताग्रा' इति॥ अथ महापद्यपि नीचपरिचरणं नैव कर्तव्यमिति त्रमरान्योत्त्या व्यनत्तया- र्यावृत्तेन- येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत। कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥९ ॥ येनेति। अमन्देति। प्रचुरमकरन्द इत्यर्थः । दलदिति विकसितकमल इति यावत्। एतेन सकलसुखसामग्री सूचिता। अनायिषत। नीतानीत्यर्थः । खल्विति तेनेत्यनेनान्वेति। तथा च तेनैव न त्वन्येन। एतेनानौचित्यं सूचितम्। मधु- करेण कुटजे प्रागुक्तदम ईहा इच्छापि। हा इति खेदे। कथं गतेने किमिति विस्ता- रितेति संबन्धः । इह विपन्नो नायकः । करुणो रसः । परिकरोऽप्यलंकारः ॥ ननु यदि कश्विदनेकगुणाधिकरणमपि गुण्यादिषु तुल्यदृष्ट्यैव तत्पोषकश्चेत्तत्र गुणिनो मे कथमाधिक्यं स्यादिति चेत्तत्स्तुत्यैवेति चन्दनान्योत्तया व्यनत्तया- र्यराविशेषेण-

Page 19

अन्योत्तयुल्लासः । ११'

अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते। उद्विरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ॥ १० ॥ अयीति। कोमलसंबोधनेन सवस्मिन्पाटवं द्योतितम्। मलयेति। कुलीनत्वेन स्तुत्यर्हत्वं व्यज्यते। अयं प्रत्यक्षस्ते तव महिमा माहात्म्यं कस्य गिरां वाचां विषयोऽस्तु। अनिर्वाच्यत्वान्न कस्याप्यस्त्वित्यर्थः । कस्य विधातुः । अस्मदादीनां नैवेति वा। तमेव कथयंस्तत्र हेतुमपि द्योतयति-उदित्युत्तरार्घेन। गरलं विषमु- द्विरतो वमतः। एतेनातिहेयत्वं सूचितम्। एतादृशान्फणिनो नागान्परिमलोद्गारै- र्यतपुष्णासि। पोषयसीत्यर्थः । अपकारिष्वप्युपकारित्वं तवालौकिकमेवेति भावः । इह समदृष्टिर्नायकः । शान्तो रसः । उक्त एवालंकारः ॥ स्तुतिर्हि विपुलैव कार्यकारिणीति द्योतयितुं पुनर्निरुक्तान्योत्तयैव तां व्यनक्ति- पाटीर तव पटीयान्कः परिपाटीमिमामुरीकर्तुम्। यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम् ॥११॥ पाटीरेति। पाटीरेति चन्दनसंबोधनम्। पटाः सन्ति यस्य स पटी तन्तुवायः तद्वत् ईरयति खगुणानन्यत्र पटादौ स यथा प्रेरयति तद्वत्खनिष्ठसौरभ्यादिधर्माश्च- न्दनद्रुमादौ प्रेरयतीति पटीरो मलयाचलस्तत्र भवः पाटीरस्तत्संबुद्धावयि मलयनि- लय चन्दनेत्यर्थः । तवेमां वक्ष्यमाणत्वेन प्रत्यक्षां परिपाटी रीतिमुरीकर्तु स्वीकर्तु कः पटीयानस्ति। न कोऽपीत्यर्थः। तस्मात्त्वमेव धन्य इत्याशयः। तत्र हेतुमाह- यदित्युत्तरार्घेन। यद्यस्माद्धेतोस्त्वं पिषतामपि पेषणेन चूर्णीकुर्वतामपि। एतेन परमतितिक्षुत्वं ध्वनितम् । एतादृशां नृणां मनुष्याणां पिष्टोऽपि परिमलैः पुष्टिं तनोषि। विस्तारयसीत्यर्थः । इह क्षमी नायकः । शान्तो रसः। काव्यलिङ्ग- मलंकारः ॥ नन्वेवमपि स यदि मत्कार्य नैव विवेचयिप्यति तदा किं वक्तव्यमिति चेद्धंसा- न्योत्त्या तद्धनयति- नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्। विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥१२ ॥ नीरेति। हे हंसेति संबुद्धिः। एवकारेण तयैवमालस्यं नैव कार्यमिति व्यज्यते। तन्नानिष्टापत्तिं स्पष्टयति-विश्वस्मिन्नित्युत्तरार्घेन। इह जडो नायकः । उक्त एव रसोऽलंकारश्व ॥। नन्वेवमुक्तौ स कुध्यति चेत्तत्र वक्तव्यां स्तुति व्यनक्ति-

Page 20

१२ भामिनीविलासे

उपरि करवालधाराकारा: क्रूरा भुजंगमपुंगवात्। अन्तःसाक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १३॥ उपरीति। बहिः। करवालेति। करवालः खज्गस्तस्य धारा तद्वदाकारो रोषव्य- अकव्यक्तिविशेषो येषाम्। तत्र हेतु :- भुजंगमेति। भुजंगमाः सर्पास्तेषु पुंगवः श्रेष्ठस्तस्मात्सर्पराजादपि क्रूराः । क्रोधना इत्यर्थः । तर्वन्तरपि ते तथैव स्युरिति सर्वोत्कटत्वेनोक्तत द्वर्णनं कथम्। तत्राह-अन्तरिति शेषेण। द्राक्षेति। मृद्वीका- नामपि माधुर्योपदेशदेशिका इति यावत् । एतादृशाः केऽपि जना जयन्तीति योजना। अर्थात्तादशा भवन्त एवेति द्योत्यते। इह निष्कपटो नायकः। शान्त एव रसः । प्रतीपमलंकारः । स यदि दुर्जनोपदेशादेतन्न मनुते चेत्तत्रोक्तामेव 'अयि दलदू' (१।४) इति कमलान्योक्तिं भ्जयन्तरेण पठितुं स्पष्टयति- स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विद्धतु गुख्ितं मिलिन्दाः। आमोदानथ हरिदन्तराणि नेतुं नैवान्यो जगति समीरणात्प्रवीणः ॥। १४।। स्वेति। विन्दन्त आस्वादयन्तः । विद्धतु कुर्वन्तु । समीरणाद्वायोः। शेषमु- कप्रायमेवाधस्तात्। प्रहर्षिणीवृत्तमिदम् । तदुक्तम्-'त्रौ ज्रौ गस्तिदशयतिः प्रहर्षिणीयम्' इति । ननु स निरुक्तवाक्यं श्रुत्वा रोषं करिष्यतीति चेद्वदान्यत्वकरुणत्वादिसूचकेन पद्यान्तरेण स्तोतव्य इति द्योतयितुं तदेव सरोवरान्योक्तिघटितं पद्यं पठति- याते मय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां गन्ता कं प्रति पान्थसंततिरसौ संतापमालाकुला। एवं यस्य निरन्तराधिपटलैनित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥१५।। यात इति। ममि। निदाघेति। श्रीष्मकालीनोष्णरश्मिजन्यातपार्चिःसहसत्रैरि- व्र्भः। अत एव अचिराच्छीघ्रं शुष्कतां नीरसतां याते प्राप्ते सति। असौ विप्र- कृष्टा। संतापेति उक्तातपावलितरलितेत्यर्थः । एतादृशी । पान्थेति। पथिकपर- म्परेति यावत्। कं. प्रति गन्ता कें वदान्यं प्रति जीवनयाचनार्थ गमिष्यति। नैव

Page 21

अन्योक्युल्लास:। १३

कमपि गमिष्यतीत्यर्थः। उत्तरार्ध तु सरलमेव। मार्गपद सन्मार्गदोतकम्। एवं जीवनपदमपि श्लेषेणोदकस्य प्राणनस्य च सूचकम्। जनुः। जन्मेत्र्थः । 'जनु- र्जननजन्मानि' इत्यमरः । तसादल्पसत्वोऽपि भाविसंकट प्राप्तावर्थिवमुख्यसंभाव- नया पूर्वमेव क्षीयमाणतनुर्वदान्य एव धन्यो न लन्ये भूरिभाग्यसंपभ्ा अपीत्या- शयः। अन्न पूर्वार्धे सदयकरुणौ परार्धे धीरदानवीरौ च नायकरसौ। काव्यलि- जमप्यलंकार: । शार्दूलविकरीडितं वृत्तम्। तल्लक्षणं तु प्रागेवोक्त्म् ॥ ननु तत्राप्यसौ नैव प्रसीदतीति चेत्खानन्यगतिकत्वध्वननेन प्रसादमूलीभूतं तत्र स्वविषयकपरमकरुणोत्पादनमेव मीनान्योक्या विघेयमिति व्यनकि- आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति। संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो तु हन्त कतमां गतिमभ्युपैतु॥१६॥ आपेदिर इति। हे सरः सरोवर, लयि संकोचं श्रीष्मोष्मणा ह्रासमश्चति। स्वीकुर्वति सतीत्यर्थः। पतप्नाः 'पत्ौ पक्षिसूर्यो च' इत्यमराद्वंससारसादयः पक्षिणः परितः समन्तादम्बरपथमाकाशमार्गमापेदिरे। प्रापुरित्यर्थः। न केवलमेत एव तथा किं त्वन्येऽपीत्याह-भृङ्गा इति द्वितीयपादेन। रसालेति। रसाल आम्रः। 'आम्रश्चूतो रसालोऽसौ' इत्यमरः । 'कुद्धलो मुकुलोऽव्नियाम्' इति च। अतो दीनदीनो दीनेभ्योऽनन्यगतिकेभ्यो नक्रादिभ्योऽपि दीनः। परमानन्यगतिक इत्य- र्थः । मीनो मत्स्यः । नु वितर्के। हन्तेति खेदे। कतमां कां वा गतिमभ्युपैतु। तस्य लदुदकप्राचुर्य विना गत्यन्तराभावान्न कामपि गतिमभ्युपैत्वित्यर्थः । तस्ा- दनेन त्वत्पङ्क एव विकलीभूय लोकान्तरे गन्तव्यमिति भावः। एतेन त्वयायं नैवो- पेक्षणीय इति व्यज्यते। अत्र करुणावेव नायकरसौ। परिकरोऽप्यलंकारः। बस- न्तविलकावृत्तम्। तदुक्तम्-'उक्ता वसन्ततिलका तभजा जगौ गः' इति॥ ननु स यदि ब्रूयात्किमेवं मदनिष्टं चिन्तयसी त्यत्न कि कार्यमिति चेत्कमलिन्य- न्योक्त्या खस्य परहितैकनिरतत्वं व्यअ्ञनमेवेति वदखामेवाह- मधुप इव मारुतेऽस्िन्मा सौरभलोभमम्बुजिनि मंस्था:। लीकानामेव मुदे महितोऽप्यारमामुनार्थितां नीतः॥१७॥ मधुप इवेति। हे अम्बुजिनि कमलिनि। एवेनोक्तानिष्टचिन्तन संभाववारूप- भा० वि० २

Page 22

१४ भामिनीलाविसे

विपरीत बोधव त्वात्तत्र स्त्रीबुद्धित्वं ध्वनितम्। पक्षे भो पद्मिनि, त्वं मधुप इव भ्रमर इव। पक्षे मद्यप इव। अस्मिन्मारुते वायौ। पक्षे मे लक्ष्मीब्रह्मप्रभे तत्कारि इतं शब्दितं यस्य तस्मिन्गुरावित्यर्थः । विषयसप्तमीयम्। सौरभेति। सौगन्ध्य- लोभम्। सूर्यविकासितान्निशि मुकुलीभावेन खपरिमलवितरणकार्पण्यमित्यर्थः । पक्षे मुखप्रसादादिना निजमनोज्ञलाप्रकाशनमिति यावत्। मा मंस्थाः । मा मनन- विषयीकुर्या इत्यर्थः । तत्र हेतु :- लोकानामेवेत्युत्तरार्घेन। यतोऽमुना मारुतेन महितोऽपि पूजितोऽप्यात्मा खदेहो लोकानामेव मुदे जनानामेव संतोषार्थमर्थितां नीत इति योजना। एवं चास्य खप्रयोजनं न किमपीति द्योतितम्। तस्मान्ना- यमनादरणीय इत्याशयः । इह मुग्धा नायिका। पूज्यो नायकः। शान्तो रसः। छेषोऽप्यलंकारः । नन्वेतदपि श्रुत्वा स् तूष्णीमेव स्थास्यति चेत्कं कर्तव्यमित्याशक्ष्य तत्न पठ- नीयां खमहत्त्वसूचिकां मालत्यन्योक्तिं वक्ति- गुअ्ति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः। .. शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥१८॥ गुअ्तीति। हे मालति। स्त्रीलिङ्गसंबोधनं प्राग्वत्। त्वं मञ्ु मनोज्ञम्। 'मजु मजजुलम्' इत्यमराद्रम्यं यथा स्यात्तथेत्यर्थः। गुअ्जति गुआरवं कुर्वति मिलिन्दे भ्रमरे विषये इति यावत्। मौनं मोपयासीर्नेव कुर्या इत्यर्थः । तत्र हेतुः-शिरसे- त्यादि। यत एनम्। वदान्येति। दातृवरा अपि सुरतरवः कल्पद्रुमाः सादरं शिरसा वहन्तीत्यन्वयः । इह नायिकादिकमुक्तमेव। मौनशिरःपदे लाक्षणिकत्वेन छेषव्यञ्ञके। ननु तत्र कश्चित्कर्णेजपो विरुद्धं बोधयेचेत्तदा कथमित्याशङ्कायां तत्र वक्तव्यां चन्दनान्योकिं कथयति- यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः। तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम्॥१९॥ यैस्त्वमिति। हे पटीरज भो मलयज चन्दन, गुणगणवानपि त्वं यैर्द्विजिह्ै: सर्पैः । पक्षे सूचकैः। सतामसेव्यतां नीतस्तानपि वहसीत्यादि सरलमेव। औषत्यं महत्त्वम्। इह मूढो नायकः। व्याजस्तुतिरप्यलंकारः ॥ ननु ततोऽसावुत्थायान्यत्रैव रोषाज्जिगमिषुक्षेत्तत्र किं वाच्यमित्यत्र वक्तव्यां भृज्ान्योकि कथयति-

Page 23

अन्योक्त्युल्लासः। १५

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे। पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्ज्मर धन्योऽसि॥ २०॥ अपनीतेति। हे भ्रमर, त्वम् । अत्र 'मधुप-' इत्यपि पाठः। अपेति। दूरीकृतान्य सौरभ्यवार्त इत्यर्थः । अत एव देवेति । अत्रोक्तावेव नायकालंकारौ ।। नन्वेवमपि दुर्जनवाक्य एवासौ श्रद्दधानश्वेत्तर्हि नद्यन्योक्त्या स विबोधनीय इति ध्वनयति तामेव पठन्- तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः। शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ २१॥ तटिनीति। हे तटिनि। 'तरज्ञिणी शैवलिनी तटिनी ह्रादिनी धुनी' इत्यम- रादयि नदीत्यर्थः।त्वं चिराय बहुकालमिति विचारयेति विवेकं कुर्वित्यर्थः । अत्र स्त्रीत्वेन संबोधनमविवेकित्वं व्यनक्ि। इतीति किम्। तदेवाह-विन्ध्येत्यादि शेषेण। विन्ध्याचलोत्पन्नायाः । एतेन सङ्गुरुभत्तयुत्कटत्वयोग्यत्वं द्योत्यते। अत एव पवित्रायास्तव शुष्यन्त्याः सत्या अपि रथ्योदकादानं रथ्यावर्तिदुर्गन्धोदकस्व्री- करणं खलु युक्तं किमिति योजना। तत इदमनुचितमेवेति भावः। अत्र कुलीना मुग्धा नायिका। परिकरोऽप्यलंकार: ।। नन्वथापि सा नैव खमनुसरति चेत्तत्र वक्तव्यां बर्बुरान्योक्ति कथयन्देशत्यागो हि दुर्जनादिति न्यायात्ततो वदान्यान्तरमेव गन्तव्यमिति व्यनकि- पत्रफलपुष्पलक्ष्म्या कदाप्यदष्टं वृतं च खलु शूकैः। उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥ २२ ॥ पत्रेति। हे बर्बुर। 'बाभुळ' इति देशभाषाप्रसिद्धवृक्षविशेषेत्यर्थः । पत्रेति। न केवलं गुणाभाव एव किंतु दोषपरिपोषोऽपीत्याह-वृतं चेत्यादि। शूकैः कण्टकैः। 'शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे' इत्यमरः। खलु वृतं कण्टकमात्राकुलाखि- लशाखमित्यर्थः । क्वचित् 'वृतं च बत' इति पाठः। चः समुच्चये। एतादृशं गुणहीनं दोषवन्तं च भवन्तं वयमर्थिनः कस्य वस्तुनो लोभेनोपसर्पेम त्वन्निकटे आगमनं करवामेति त्वमेव वदेति संबन्धः । तस्मादितोऽन्यत्रैव गच्छामेति तत्त्वम्। इह दुष्टो नायकः । उक्त एवालंकार: ॥ तन्र कश्चित्ससुहच्चेत्खनिर्गमनावसरे स कथमुपदेश्य इत्याशङ्कयानया कोकि- लान्योक्त्येत्याह-

Page 24

६ भामिनीविलासे

एकसवं गहनेSस्मिन्कोकिल न कलं कदाचिदपि कुर्याः। साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दया: काकाः ॥२३॥ एकस्त्वमिति। हे कोकिल, यत एकस्त्वमस्मिन्गहने। 'गहनं काननं वनम्' इत्यमरादरण्ये। अतः कदाचिदपि कलमव्यक्तमधुरध्वनिं न कुर्याः। मैव कुर्वि- त्यर्थः । तत्र हेतु :- साजात्येति। यतोऽमी निर्दयाः काकास्तवां साजात्यशड्या निजजातीयभ्रान्ला न निम्नन्तीत्यन्वयः। उक्तध्वनिरचने तु भ्रान्त्यपगमाननिर्दय- तखाभाव्येन मारयिष्यन्त्येवेति भावः । इह करुणावेव नायकरसौ। भ्रान्तिमा- नप्यलंकारः ।। अथ कदाचित्स राजा खगुणाकृष्टतयानुनेतुमायास्यति चेत्तत्र वक्तव्यां हिमा- चलान्योकतिमाह- तरुकुलसुषमापहरां जनयन्तीं जगति जीवजातार्तिम्। केन गुणेन भवानीतात हिमानीमिमां वहसि॥ २४ ॥ तरुकुलेति। 'सुषमा परमा शोभा', 'हिमानी हिमसंहृतिः' इति चामरः । 'जातिर्जातं च सामान्यम्' इत्यपि। 'आर्तिः पीडाधनुःकोठ्योः' इति च। हे भवानी- तातेति महत्त्वसूचकम्। तेन तवेदमनुचितमिति तात्पर्यम्। अन्नोदात्तो नायकः। परिकरोऽप्यलंकारः ।। किमेवं दुर्जनतिरस्करणमेवोपदेशनीयं तावतैवं स्वादिसज्जनादरसंभवादिति चेन्न। सज्जनादरोपदेशस्याप्यपेक्षितत्वात्। न हि शोधनादिना निर्दोषमपि गोदुग्घं शर्कराप्रक्षेपादि न वाञ्छतीति तात्पर्येण तत्सूचिकां कलभान्योकि वक्ति- कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवक्ञासीः। अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः॥२५॥ कलमेति। यद्यप्येवंजातीयका सा 'समुपागतवति दैवात्' (१।५) इवि प्रागुक्ैव तथापि तत्र कुटजपदस्यात्यन्तजाड्यव्यअ्जकत्वादिह तु राज्ः खगुणपारव- श्येन तथात्वाभावादीषज्जडत्वविवक्षयैव करिशावकवाचिना कलभपदेन ध्वननाना- म्रेडितत्वावकाशः।'उपकण्ठान्तिकाभ्यर्णाभ्यप्रा अप्यभितोऽव्ययम् इत्यमरादन्ति- कं समीपम्। अवज्ञासीरव ज्ञाविषयीकुर्या इत्यर्थः । तत्र हेतु :- अपि दानेति। दानं मदोदकम्। पक्षे वितरणम्। तेन सुन्दराः सुभगास्तेषाम्। अत एव द्विपेति। द्विपाः 'द्विरदोऽनेकपो द्विपः' इत्यमराद्रजास्तेषां धुर्याः। 'धूर्वहे धुर्यधौरेयधुरीणा: सधुरंधरा:' इत्यपि तदुफ्केः श्रेष्ठास्वेषामित्यर्थः । गजराजानामप्ययं शिरोधार्य इत्यन्वयः । इह पूज्यतरो नायकः । शान्तो रसः । काव्यळि्मप्यलंकारः ॥

Page 25

अन्योक्त्युल्लासः। १७

ननु तन्नाप्यसावुदासीन एव चेत्तत्र खानुरागजनिकां वकव्यां भ्रमरान्यो- किमाह- अमरतरुकुसुमसौरभसेवनसंपूर्ण सकलकामस्य। पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २६ ॥ अमरेति। सुरद्रुमपुष्पसौगन्ध्या स्ादनपर्याप्तसर्वमनोरथस्येत्यर्थः। एतादृशस्य भ्रमरस्य पुष्पान्तरसेवेयं महती बिडम्बना अनौचिती भवतीति योजना। तस्माद- स्मदादरोऽवश्यं निरन्तरं विधेय एवेति भावः। इह नायकरसौ तूक्तावेव। परिकरोऽप्यलंकारः ॥ एवं संपद्विपन्नीत्युपदेशश्रवणेन तुष्टःशिष्यः शिष्टतरं खोपदेष्टारं स्ौति-पृष्टा इत्यादित्रिभिः। तत्र निरुपमत्वं प्रथममाम्रान्योत्त्या व्यनकि- पृष्ाः खलु परपुष्टाः परितो दष्टाश्च विटपिनः सर्वे। माकन्द न प्रपेदे मधुपेन तवोपमा जगति॥२७॥ पृष्टा इति । हे माकन्द । 'आम्रश्रूतो रसालोऽसौ सहकारोऽतिसौरभः । कामाड्गो मधुदूतश् माकन्दः पिकवल्लभः ॥' इत्यमरादय्याम्रेत्यर्थः । पक्षे मा लक्ष्मीः, ब्रह्मविषयका प्रमा च तस्यास्तयोवी कन्द इव मूलकारणं तत्संबुद्धौ। तथा भोः चतुर्वर्गप्रद, सद्गुरो इति यावत्। मधुपेनातिनीचेनापि भ्रमरेण। पक्षे बार्ह- दारण्यकमधुब्राह्मणोक्तमधुशब्दितं ब्रह्म पिबति बुभुत्सुत्वेनासादयतीति तथा तेन। क्रममुमुक्षुणेत्यर्थः । यद्पि। परेति। परैलोंकैः स्वैहिकादिफलार्थ पोषिता इत्यर्थः। एतेन मुख्यत्वं सूचितम्। एतादृशः सर्वेऽपि विटपिनो वृक्षाः । अत्र शाखिपदं चेत्पूर्ण: श्लेषः । पृष्टाः प्रश्नविषयीकृताः । ततो दृष्टा अनुभूताश्। यद्वा परपुष्टाः कोकिलाः । पक्षे परेण परमात्मना पुष्टाः पूर्णाः। पृष्टा विटपिनो दृष्टाश्चति। तथापि जगति तवोपमा त्वदृष्टान्तो न प्रपेदे नैव लब्ध इति संबन्धः । इह निरुपमो नायकः। शान्त एव रसः। गुरुविषयकरतिभावो वा। श्रेषोऽप्यनन्वयश्चालंकारः॥ ननु मया यत्किंचिदेव नीतिजातमुपदिष्टं तत्किमिति निरुपमत्वेन मां स्तौषी- त्याशक्ञा 'किंचानर्ध्य यदवसरे दत्तम्' इति प्रश्नोत्तररन्नमालिकायां श्रीमद्विमला- चार्यचरणारविन्दवच नात्समयेऽनुशास्तृत्वेन सुरगुरुप्रभृतिभ्योऽपि भवदाधिक्यमेव भवतीति मालाकारान्योक्त्या द्योतयति-

Page 26

१८ भामिनीविलासे

तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार व्यरचि भवता या तरोरस्य पुष्टिः। सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां धारासारानपि विकिरता विश्वतो वारिदेन ॥२८॥ तोयैरिति। हे मालाकार। मालाः पुष्पस्जः करोतीति तथा तत्संबुद्धौ। भवता कत्रा करुणया अल्पैरपि तोयैर्वाप्याद्युद्गतैर्जलैः करणैरस्य तरोर्या पुष्टिभाम- भानौ भीमश्चण्डो भानु: सूर्यो यस्मिस्तत्र निदाघे ग्रीष्मतौं व्यरचि अकारीत्य- न्वयः । किं ततस्तत्राह-सेत्युत्तरार्घेन। सा पुष्टिरिह लोके प्रातृषेण्येन प्रावृषि वर्षाकाले भवः प्रावृषेण्यः प्रावृदकालीनस्तेनेत्यर्थः । अत एव विश्वतः सर्वतः वाराम् 'आपः स्त्री भूम्नि वार्वारि' इत्यमराज्लानामित्यर्थः। धारासारानपि धारा- व्वासाराश्च धारासारास्तान्। धारा जलधाराः प्रसिद्धा एव । तथा आसारा: 'धारासंपात आसारः' इत्यमराद्वाराणां संभूयपतनमिति रामाश्रमकृताद्याख्या- नाच्च धाराणां समुच्चितपरिपातास्तानपीत्यर्थः। एतेन पुष्टिसाम्रीप्राचुर्य सूचितम्। विकिरता वर्षता एतादृशेन वारिदेन मेघेन जनयितुं कर्तु शक्या योग्या किम्। अपितु नैव योग्येति योजना । तस्मात्त्वं निरुपमत्वेन स्तोतुं योग्य एवेति भावः। अन्नोक्त एव नायको भावश्व। प्रतीप विशेषोऽलंकारोऽपि। मन्दाक्रान्ता- वृत्तम्। तदुक्तम्-'मन्दाक्रान्ता जलधिषडगैम्भौं नतौ ताद्गुरू चेतू' इति॥ एवं निरुक्तश्लोकेऽल्पपदं क्षुद्रत्वं गुरुवाचि व्यनक्तीत्यखरसान्मेघान्योक्त्या पुनः स्तौति- आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभि: परुषीकृता दश दिशश्चण्डातपो दुःसहः। एवं धन्वनि चम्पकस्य सकले संहारहेतावपि त्वं सिश्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा॥२९॥ आरामेति। हे तोयद जलद। आरामेति। 'आराम: स्यादुपवनम्' इत्यमरा- दुदयाननायकः । विवेकेति। विचारहीनः । नूनं निश्चितम्। अस्तीति शेषः । एवं 'रसा विश्वंभरा स्थिरा' इत्यमराद्रसा पृथ्वी। नीरसा निर्गता रसा उदकानि यस्या: सकाशात्तथा जलहीनेत्यर्थः। तद्वद्वात्याभिश्वक्रवातैर्दशदिशः परुषीकृताः रूक्षीकृताः सन्तीति यावतू। तथा। चण्डेति। चण्डस्तीव्र आतपः। 'प्रकाशो दोत

Page 27

अन्योत्तयुल्लासः। १९

आतपः' इत्यमरात्प्रकाशो यस्य स तथा। सूर्य इत्यर्थः। दुःसहो श्रीष्मकालिकत्वेन सोहुमशक्योऽस्तीति यावत्। एवं धन्वनि। 'समानौ मरुधन्वानी' इत्यमरान्मरुदेशे चम्पकस्य। सकले संहारेऽपि। ध्वंसकारणे सत्यपीत्यर्थः । त्वममृतेन । 'पयः कीलालममृतम्' इत्यमराज्लेन। पक्षे पीयूषेण। सिश्न्नाल्ावयन्। एतादृशो वेधसा 'स्रषा प्रजापतिर्वेधाः' इत्यमराद्रह्मणा कुतोऽप्यस्यादष्टाद्वेतोः। आविष्कृतः प्रकटीकृतोऽसीति संबन्धः । अतस्त्वल्लाभ एव पुमर्थ इत्याशयः । इहोक्त्तावेव नायकरतिभावौ। प्रहर्षणमप्यलंकारः । शार्दूलविक्रीडितं वृतं तूक्तमेव। एवं स्तुतिमाकर्ण्य निर्विण्ण: श्रीगुरुः "किमनया स्तुत्या। यदुक्तम्-'अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम्। सच्च्ोन रोचते सा सन्तोऽप्यस्यै न रोचन्ते ।।' इति। किंच 'येषां निमेषमात्रेण जगतः प्रलयोदयौ। तादशाः पुरुषा याता भादशां गणनात्र का ।' इति वचनादलमस्मदीयस्तवेन" इति द्योतयन्म- हानुभावशरीरनाशमनुसंधाय सिंहान्योत्त्या शोचति- न यत्र स्थेमानं दघुरतिभयभ्रान्तनयना गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः। लुठन्मुक्ताभारे भवति परलोकं गतवतो हरेरद्य द्वारे शिवशिव शिवानां कलकलः ॥ ३० ॥ न यत्रेति। यत्र हरेद्वारे। गलदिति। गलत्स्वद्यद्दानं मदोदकं तस्योद्रेकेण बाहु- ल्येन भ्रमन्ति अलिकदम्बानि भ्रमरवृन्दानि येषु ते तथा। न तु साधारणाः। एतेन मदोन्मत्तत्वं सूच्चितम्। एतादृशः करटिनः। उक्तार्थमिदं प्राक्। गजेन्द्रा इत्यर्थः । अतीति। अतुलभीतिचकितलोचनाः सन्त इति यावत्। स्थेमानं स्थिरीभावं न दधु- नैव बभ्चुरित्यन्वयः। तत्र परलोकं खर्गादिलोकान्तरं गतवतः। जगामेति गतवांस्तस्य पञ्चत्वं प्राप्तस्येत्यर्थः । एतादृशस्य हरे: । 'हर्यक्ष: केसरी हरिः' इत्यमरात्सिहस्य। लुठदिति। लुठन्ति श्वापदपादैः प्रचलन्ति ते तथा मुक्तानां विदारितमतङ्गज- गण्डस्थलजात मौक्तिकानां भारा: प्रचुरनिकर यस्मिंखत्तथा। एतादृशे द्वारे दरीमु- खेडय्। शिवशिवेति खेदाद्भगवन्नामस्मरणम्। शिवानां क्रोष्ट्रीणां कलकल: कोला- हलो भवतीति योजना। तस्मान्नश्वरमेवेदमखिलं दृश्यवैभवमिति भावः । इहो- दात्तो नायकः। वीरकरुणभयानकशान्ता रसाः। पर्यायखभावोक्ती अलंकारौ। तदुक्तम्-'एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र

Page 28

२० भामिनीविलाख

जोतः पुराजनि ।' इति, 'खभावोकिः खभावस्य जात्यादिस्थस्य वर्णनम्। कुर- जैरुतरशाक्षै: स्ब्धकरणैरुदीक्षितम् ।' इति च । शिखरिणी वृत्तम्। तल्लक्षणं तूकमेवाघस्वाव। अथ निरुकवनिवेदेन शिष्यमुखं म्लानमिवालक्ष्य तं प्रोत्साहयितुं बकुला- न्योक्या तद्गुणवर्णनं ध्वनयति- दधान: प्रेमाणं तरुधु समभावेन विपुलां न मालाकारोऽसावकृत करुणां बालबकुले। अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलै- र्दिगन्तानातेने मधुपकुलझङ्कारभरितान्॥३१॥ दधान इति। तरुषु समभावेन समानदध्या प्रेमाणं दधानोऽत एवासौ माला- कारो यद्यपि बालबकुले नूतनबकुलद्गुमे विपुलां करुणां नाकृत नैव चकार। तथापि तु पुनरयं द्राक्शीघ्रम्। 'द्राड्क्षु सपदि द्रुतम्' इत्यमरः । उद्यदिति। आविर्भव त्पुष्पगुच्छानां परिमलै: सुगन्धैर्दिगन्तान्। मधुपेति पुष्पंधयनिचयगुआ- रवपूरितानेतादृशानातेने विस्तारयामासेति संबन्धः । इह ललितो नायकः । वीर एव रसः। असंभवोऽप्यलंकारः। तदुक्म्-'असंभवोऽर्थनिष्पत्तेरसंभाव्यत- वर्णनम्। को वेद गोपशिशुकः शैलमुत्पाटयेदिति ।' इति ॥ तत्राप्येक: काम एव तव शत्रुर्जेतव्य इति वृक्षपत्यन्योत्त्या ध्वनयति- मूलं स्थूलमतीव बन्धनटृढं शाखाः शतं मांसला वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव। एक: किंतु मनागयं जनयति खान्ते ममाधिज्वरं ज्वालालीवलयीभवन्नकरुणो दावानलो घसमरः ॥३२ ॥ मूलमित्यादि। हे तरुपते। वृक्षाणां पतिः श्रेष्ठस्त्संवुद्धौ। भो वृक्षराजेत्यर्थः। अत्र तज्जातिविशेषस्याकथनात्तच्छद्मनापदेश्ये अद्यावध्युत्तमत्ादिजात्यनिर्णयाद- प्रौढत्वं व्यज्यते। यतस्तव मूलमतीवात्यन्तमेव स्थूलं महत्तरम्। तथा बन्धनदृढं बन्घनं भूमेरन्तर्गते महापाषाणादौ वेष्टनं तेन दृढमचलं चास्तीत्यर्थः । एतेन चक्रवातादिभीत्यपनुति: सूचिता। एवं शाखाः स्कन्घत्वेन प्रसिद्धास्ताः शतं नतु

Page 29

अन्योच्युल्लास:। २१

खल्पाः । तत्रापि मांसला लक्षणया पल्लवपरिपुष्टा नतु शुष्काः । एतादृश्यः सन्तीति याबत्। न चैवमपि राजमार्गनिष्ठत्वेन मे छेदनादि भयमस्त्येवेति वाच्यम्। तव पर्वतदुर्गनिष्ठत्वादित्याह-वास इति। दुर्गो दुःखेन गन्तुं शक्यः दुर्गः । स चासौ महीधरः पर्वतस्तस्मिन्वासोऽपि भवतीत्यतो हेतोस्तव भीतिः कुत्रारित। न क्वापि भयं संभवतीत्यर्थः । किंत्वेकोडयं दावानलो दावाननिर्मम खान्तेऽन्तःकरणे मनागीषदाधिज्वरम् । 'पुंस्याधिर्मानसी व्यथा' इत्यमरादा- धिर्मानसी व्यथा तया ज्वरः संतापस्तं जनयति । संपादयतीत्यर्थः । तत्र हेतुं वदस्तं विशिनष्टि-ज्वालेत्यादिचरमपादगतविशेषणाभ्याम्। कीदशः । अकरुणो निर्दयः । पुनः कीदृशः। ज्वालेति। ज्वालानामर्चिषामाली पङ्किस्तया वलयीभवन्कटकाकारीभवन्सन्। घस्मरः । बहुभक्षक इति यावत्। 'भक्षको घस्मरोऽद्यरः' इत्यमरः । एतेन तत्र खभीतिहेतुसामत्री द्योतिता । तम्मादेतस्मात्त्वया भेतव्यमेवेति भावः । पक्षे तरव एव पतयः फलादिप्रदा- नेन पालयितारो यस्य तत्संबुद्धौ। अत एव तव वासो दुर्गमहीधर इति संगतम्। एतेनारण्यविहारित्वेन विरक्तत्वं सूचितम् । यतस्तव मूलम् 'ऊर्ध्वमूलम्-' इति स्मृतेरधिष्ठानीभूतं ब्रह्म स्थूलमतीव परममहत्परिमाणम्। परिच्छेदत्रयशून्यमे- वास्तीत्यर्थः । कीदृशं तत्। बन्धनेति । बन्धने संसारबन्धने द्दशानुभूतेऽपि दृढम्। अविनाशीति यावत्। एवं ज्ञाने सामग्री केत्यत्राह-शाखा इति। तैत्तिरीयादिरूपा इत्यर्थः। दावानलपदादौ गौणी लक्षणा। तेन लुप्तोपमा। एतेन दावानलो यथा वनस्थवृक्षयोरेवान्योन्यसंघर्षादुत्पन्नस्तद्दाहकोऽन्यदाहकश्च भवति, तद्वद्भवारण्ये स्त्रीपुंसयोः परस्परसंनिकर्षतः प्रादुर्भूतः कामोऽपि तद्वातकःश्रवणा- दिनान्यघातकश्वेति व्यक्तम्। एतादृशः । अघेति छेदः । अघहेतुः परस्त्रीविष- यकत्वेन पापकारणीभूतो यः स्मरः कामः स तथेत्यर्थः। शेषं तूक्तार्थम् । तस्मातू 'जहि शत्रुं महाबाहो कामरूपं दुरासदम्' इति स्मृतेः काम एव जेय इत्याशयः । अत्र विरको नायकः । शान्तो रसः। श्लेषोऽप्यलंकारः ॥ एवं गुरुवाक्यमाकर्ण्य भवत्प्रतापाओे कोऽयं मशकः कामो यन्मामेवैतजयः कर्तव्यतयोपदिश्यते श्रीमद्भिर्मम त्वेतत्प्राणान्तसंकटमेव परिस्फुरत्यतः खप्रभा- वादेवायमुपशमनीय इति मेघान्योक्त्या व्यनक्ति- . श्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातक- स्त्वां ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान्।

ni

Page 30

२२ भामिनीविलासे

दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचकरे करकानिपातनकपा तत्कं प्रति जूमहे॥३३॥ ग्रीष्म इति।अत एव। भीष्मेति। 'दारुणं भीषणं भीष्मं घोरं भीमं भयान- कम्' इत्यमरादतिभयंकरैरित्यर्थः। एतादशैः करैः किरणैः कृत्वा दिनकृता दिवसक रेण कर्त्रा दग्धोऽपि। दाहवत्प्राणान्तसंतापितोऽपीत्यर्थः । एतादृशोऽपि यश्चातकः। हे घन, लां ध्यायन्मनसा जीवनदातृत्वेन चिन्तयन्सन् द्राघीयसोऽतिशयेन दीर्घा इति द्राघीयांसस्तान्। ग्रीष्मर्तौ दिवसविस्तीर्णत्वं प्रसिद्धमेव। एतादृशानपि। एतेन परमासह्यत्वं व्यज्यते। वासरान्दिवसान्कथमपि येनकेनाप्यनिर्वाच्यप्रकारे- णापि नीतवाननयदिति संबन्धः। लोचनेति। नेत्रविषयीभूतेन। प्रत्यक्षेणेत्यर्थः । एतादृशेन भवता त्वया। तस्मिन्नुक्तरूपे चातके। करकेति। 'वर्षोपलस्तु करका' इत्यमरात्पाषाणकारवारिपरिणामविशेषा एव करकास्तासां निपातनं तद्रूपा या कृपा सा यदीदानीं सवीचक्रेऽङ्ीकृता तत्तर्हि कं प्रति ब्रूमह इत्यन्वयः। तस्मादतु- लश्रद्धालुरनन्यगतिकश्च मादशो भक्तजनः कदापि नैवोपेक्षणीयः किंतु खसामर्थ्य- लेशेनैव कामादि विघ्नसहस्त्रतोऽप्यमृतप्रदानेन संरक्षणीय एवेति भावः। अत्र दग्धो- Sपीत्यनेन श्रद्धातिशयः सूचितः। एवं दैवादित्यनेनाचार्यदौर्लभ्यं ध्वनितम्। इदा• नीमित्यनेन स्ाभ्युदयसमये हि वदान्यचक्रवर्तिनां प्रायेण पात्राद्यविचार्यैव वित- रणप्रवीणत्वं प्रसिद्धं किमुत निजैकजीवने परमसुजने तत्प्रकटीकरणमिति द्योति- तम्। अत्र पूज्यतमो नायकः । करुण एव रसः । विषमविशेषोऽलंकारः । तदुक्तं चिषमं प्रकृत्य-'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थ समुद्यतम्। भक्ष्याशया हि मज्जूषां भड्क्त्वाखुस्तेन भक्षितः ।' इति॥ तत एवं शिष्यवाक्यं श्रुवाप्यश्रुतमिव भावयंस्तदुत्तरमविधायैवान्यजनैः सरहैव वार्तान्तरासक्तमाचार्यमालक्ष्य स तावत्तस्य तद्वैमुख्यपूर्वकं सवैकपरायणत्वं संपाद यितुं तस्मै निजौत्सुक्यं मेघान्योक्तैव व्यनक्ति- द्वद्हनजटालज्वालजालाहतानां परिगलितलतानां म्लायतां भूरुहाणाम्। अयि जलधर शैलश्रेणिशङ्रेषु तोयं वितरसि बडडु कोऽयं श्रीमदस्तावकीनः ॥ ३४ ॥ द्वेति। अयि जलधर। इंदं हि कोमलामत्रणे खकारुण्योत्पादनार्थम्। भो

Page 31

अन्योक्त्युल्लासः। २३

जलपदवाच्यानाममृतानां जीवनानां च धारक मेघेत्यर्थः । एतेनाखिलपुरुषार्थदा- नदक्षत्वं द्योतितम्। त्वम्। दवदहनेति। 'दवदावौ वनारण्यवह्वी' इत्यमराद्दवस्या- रण्यस्य संबन्धी यो दहनो वह्िस्तस्य जटाला जटा इव येन दीर्घतरा अंशविशे- षास्तद्विशिष्टा ये ज्वाला: । 'वह्वेर्द्वयोर्ज्वालकीलै।' इत्यमरः । तेषां जालानि तैरा- समन्ताद्धताखाडिताः । त्वगादौ दग्धा इति यावत्। तेषामित्यर्थः । अत एव । परिगलितेति। च्युतलतानामत एव म्लायतां म्लायन्ति ग्लानि प्रामुवन्ति ते म्लायन्तस्तेषाम्। म्लानानामित्यर्थः । एतादृशां भूरुहाणाम्। 'वृक्षो महीरुहः शाखी' इत्यमरादृक्षाणामिति यावत्। 'षष्ठी चानादरे' इति षष्ठी। ताननादृत्ये- त्यर्थः । शैलेति। पर्वतशिखरेषु तोयं जलं बहु विपुलं वितरसि वर्षसि। पर्वतेषु हि भूयसी वृष्टिर्भवतीति प्रसिद्धमेव। अयं निरुक्तस्तावकीनस्त्वदीयः श्रीमदः संप- दुन्मादः कः। आक्षेपार्थकोऽयं किंशब्दः। अनुचित एवेत्यर्थः। तस्मादस्माखेवा- मृतवृष्टिः पात्रतया कार्येति तात्पर्यम्। इह स्थूललक्ष्यो नायकः । करुणो रसः । परिकरोऽप्यलंकारः । मालिनी वृत्तम्। तल्लक्षणं तूक्तमधस्तात् ॥ इत्थं शिष्यवचनं श्रुल्ा पान्थान्योत्त्या श्रीगुरुस्माश्वासयति- एण्वन्पुरः परुषगर्जितमस्य हन्त रे पान्थ विह्वलमना न मनागपि स्या:। विश्वार्तिवारणसमर्पितजीवनोऽयं नाकर्णितः किमु सखे भवताम्बुवाहः॥३५॥ शृण्वन्निति। रे इति नीचसंबोधने। तेन निरुक्ताक्षेपस्तयानुचित एव विर- चित इति सूचितम्। पान्थ पथिक। पक्षे हितजिज्ञासुत्वेन भो सन्मार्गगामित्नि त्यर्थः। त्वमस्य प्रकृतस्य मेघस्य। पक्षे गुरोर्मम। पुरोऽग्रभागे। परुषेति। परुषं भयंकरम्। पक्षे त्वय्यौदासीन्यमिव विधायान्यं प्रत्युक्तत्वेन दुःसहं च तद्रर्जित स्त- नितम्। पक्षे उच्चैभीषितं शृण्वन्सन्मनागपि ईषदपि विह्वलमना विकलान्तःकरणो न स्या: मा भवेत्यन्वयः। तत्र हेतुः । विश्वेति। हे सखे, भवता। एतेन सान्त्वनं व्यज्यते। विश्वेति। विश्वस्य सर्वस्यार्तिः पीडा तस्या वारणं दूरीकरणं तदर्थ स- मर्पितं जीवनमुदकम्। पक्षे प्राणधारणं येन स तथेत्यर्थः । परोपकारैकतत्पर इति यावत्। एतादृशोडयं प्रत्यक्षोऽम्बुवाहो वारिदः। पक्षेऽम्बुशब्दवाच्यममृतपदश्िषटं कैवल्यं वहति ब्रह्मात्मबोधपर्यन्तोपदेशेन निर्वहतीति तथा श्रीगुरुरित्यर्थः। नाकर्णित:

Page 32

२४ भामिनीविलासे

किमु प्रथितमहिमत्वान् श्रुतः किम्। अपितु श्रुत एवेति योजना। तस्माद्युक्त एवायं त्वदाक्षेप इति भावः । इह संबोध्यो नायकः। शान्तो रसः। श्ेष: काव्यलिनं चालंकारः । वसन्ततिलका वृत्तम्। तल्लक्षणं प्रागेवोक्त्म्।। एवमाश्वास्य चतुर्विधान्यतमपुमर्थार्थिनापि दुःसन्नस्त्याज्य एवेति रहस्यं चन्द- नान्योत्त्या सूचयति- सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरं कीर्तिः किं च दिगङ्गनाङ्गणगता किं त्वेतदेकं शृणु। सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरा- नुज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली॥३६। सौरभ्यमिति। हे श्रीखण्ड श्रीः खण्डेषु यस्य तत्संबुद्धौ। चन्दनस्य हि यादश्ी काष्ठखण्डदशावच्छेदेन सौरभ्यशोभोपलभ्यते न तादृग्द्रुमादिदशावच्छेदेनेति सुप्र- सिद्धमेव। अतो युक्कवोक्त्तव्युत्पत्तिः। अयि चन्दने त्यर्थः। तव सौरभ्यं सौगन्ध्यम्। भुवनेति। लोकत्रयेऽपि विदितं सर्वमान्यतया प्रख्यातम्। वर्तत इति यावत्। तथा शैत्यं तु संतापोपशामकत्वं तु लोकोत्तरमलौकिकमेव। अस्तीत्यर्थः। किंच तव कीर्तिर्दाहादावपि परिमलपौष्कल्यख्यातिः। दिगिति। प्राच्यादिचपलवि- लोचनाजिरसंचारिणीत्यर्थः । भवतीति शेषः । किं तत इति चेत्तदाह-किं त्वित्यादि। तदेव स्फुटयति-इयं प्रत्यक्षा द्विजिह्वावलिः सर्पराजिस्तव कोटरेष्व- नायाससंपन्नतात्काष्ठबिलेष्वित्यर्थः । गरलज्वालां गरलानि वान्तविषाणि तैर्या खनिष्ठसूक्ष्माम्निना सह तवत्काष्ठसंयोगाज््वालार्चिस्ताम्। यद्वा तान्येव ज्वालेव दाहकत्वाज्वाला ताम्। यद्वा तानि ज्वालेव ज्वाला तामित्यर्थः। उज्झन्ती उद्भाव- यन्ती सती ते सर्वानेव तव संपूर्णान्सुन्दरानेव रम्यानेव निरुक्तसौरभ्यादीन्गुणान्। धर्मानित्यर्थः। निगिरति खलु भक्षयत्येवेति योजना। तस्मादेतस्याः परिग्रहस्तव परमनाशहेतुत्बादनुचित एवेति भावः। अत्र सुन्दरपदेन गुणेष्ववश्यं संरक्षणी- यत्वं दोत्यते। इह संबोध्यनायकपक्षेऽपि कोटरपदमात्रे गौणी वृत्तिमाश्रित्यान्तः- पुरादिगृहैकान्तदेशविशेषार्थकत्वमुररीकृत्यार्थान्वयो विधेयः। तदथा-भो देव- दत्त, ते सौरभ्यं सुरमेः 'सुगन्धे च मनोज्े च वाच्यवत्सुरभिः स्मृतः' इवि विश्वान्मनोज्ञस्य भावः सौरभ्यम्। रम्यतमित्यर्थः। शैतयं 'शितशीतौ कूशे तीक्ष्णे' इति हैमात्तैक्ष्ण्यम्। तेजसिवत्वमिति यावद्। द्विजिह्वेति। 'द्विजिहौ सर्प-

Page 33

अन्योक्युल्लास:। २५

सूचकौ' इत्यमरात्परच्छिद्रसूचकपङ्किरित्यर्थः। गरलेति। गरलमिव दुरुपदेशजातं मारकत्वाद्ररलं तेन ज्वाळेव कोपाभिजन्या या परध्वंसनेच्छा तामित्यर्थः। शेष तूकार्थमेव। तस्मात्पिशुनवचो नैवादरणीयमित्याशयः। अत्रोपदेश्यो नायकः। करुणो रसः। श्लेषलुप्तोपमे अप्यलंकारा। शार्दूलविक्रीडितं वृत्तम् ॥ एवं श्रीगुरुवाक्यं श्रुला दुर्जनवचनश्रोतरि खस्मिन्नौदासीन्यमिवालक्ष्य तस् सर्वत्र निरपेक्षसर्वोपकारित्वं सूचयन्नात्मनि तत्कारुण्यमुत्पादयति मेघान्योक्ता- नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः। तथापि हरते तापं लोकानामुनतो घनः॥ ३७॥ नापेक्षेति। हे गुरो, यद्यप्यस्यापेक्षा नासिति। तथा दाक्षिण्यं समुद्रोद कमा- नीय दातृतात्सतः सामर्थ्यमपि नास्तीत्यर्थः । शेषं स्फुटमेव। अत्र नापेक्षेत्यादि- नञ्चतुष्टयेन क्मादुरौ लोभौद्धत्यरागसङ्गव्युदास: सूचितः । तेनाहं नैवोपेक्ष्य इति रहस्यम्। इह पूज्यः कृपालुश्च नायकः । उक्त एव रसः । परिकरोऽप्यलंकारः॥ अथैवं शिष्यवाक्यमाकर्ण्य यद्येवं तव श्रद्धा चेत्तर्तनुपम एवासीति कमला- न्योक्त्या तदुत्पत्तिस्थिति संपत्तिगुणपङ्किस्तवनतो व्यनकि- समुत्पत्ति: स्वच्छे सरसि हरिहस्ते निवसनं निवास: पद्मायाः सुरहृदयहारी परिमलः। गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम्॥ ३८॥ समुत्पत्तिरिति। हे अम्बुज भो कमल, तव समुत्पत्तिः प्रादुर्भावः सच्छे निर्मले सरसि मानसादौ सरोवरे। नतु पल्वलेऽस्तीत्यर्थः । एवं निवसनमपि वस्रतिरपि हरिहस्ते विष्णुपाणौ। तवेत्यस्तीति चादन्तयोरतुबन्धनीयम्। किंच त्वं पद्माया लक्ष्म्या निवासो वसतिस्थानम्। असीति शेषः । तथा तव परिमलः सुगन्धोऽपि। सुरेति । देवमनोहर इत्यर्थः । भवतीत्यध्याहारः । एतेन गोडु- ग्धादेरुत्तमस्थानजन्यत्वेऽपि ताम्रपात्रादिस्थित्या तस्य पुनस्तदितरपात्रादिगत्वे शर्करादियोग्यसंमेलनाभावेन लवणाद्ययोग्य संमेलनेन वा तथा शोधितत्वादभ्यादि- संस्कृतत्वैलादिसुवासितलाभावेन हिङ्वादि दुर्गन्धित्वादिना वा त्याज्यतभिवा- स्ापि निन्यजलादिना हेयत्वं व्युदस्तम्। तर्हि किमेतावन्त एव मयि गुणाः

Page 34

२६ भामिनीविलासे

सन्ति नेत्याह-गुणैरिति। अन्यैरपि निरुक्तेतरैः सवीयसुन्दरीस्मितसदनसाह श्याधैरपीत्यर्थः । ललितस्य। रम्यस्येति यावत्। एतादृशस्य तव यदि। द्विजेति। पक्षिश्रेष्ठे। पक्षे त्रैवर्णिकशिरोमणौ। हंसे राजहंसे, पक्षे परमहंसे। कस्मिश्चिद्वद्मनिष्ठ इत्यर्थः । रतिः प्रीतिरस्ति। तर्हीयमतीवानुपमैवोन्नतिरुत्कटता भवतीत्यन्वयः । तस्मादेवमेव सार्वदिकी श्रद्धा वर्धनीयेति तत्वम्। अत्र द्विजे- त्यादरणीया शब्दज्रह्मनिष्णातत्ादिबहि:सामग्री हंसे त्यन्तःसामग्री च सूचिता। इह बुभुत्सुर्नायकः। शान्तो रसः। काव्यलिक्गादिरप्यलंकारः । शिखरिणी वृत्तम्॥ ननु तर्हि किं सर्वपालकेन राज्ञा मया नीचजनोज्ीवनं नैव विधेयमिति चेत्स- र्वजीवनं तया संपादनीयमेव परंतु तत्तदोग्यतातारतम्यं विवेकेनैव न त्वन्यथेति क्षीराब्ध्यन्योकितो ध्वनयति- साकं आवगणैर्दुठन्ति मणयस्तीरेऽर्कबिम्बोपमा नीरे नीरचरैः समं स भगवान्निद्राति नारायण:। एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ३९ साकमिति। ग्रावेति। 'पाषाणप्रस्तरप्रावोपलाइमानः' इत्यमरात्पाषाणगणैः साकं सार्धम्। नीरे नीरवत्सर्वतः परिपूर्णे क्षीर एव। नतु फलवादिवत्क्वचित्कदा- चित्केनचिदुपलभ्यमान इति यावत्। एतेन क्षीरार्णवे नीरसंभवान्नीरपदप्रयोगानौ- चित्यं परास्तम्। एवं नीरचरपदेऽपि तेषामतितुच्छत्वबोधनार्थमेव नीरपदम्। तेन वक्ष्यमाणाविवेकपरिपोषोऽपि ध्वन्यते। नीरचरैः । मकरादिमिर्जलचरैरि- त्यर्थः। स भगवानिति पदाभ्यां श्रुतिप्रसिद्धत्वं सर्वेश्वरत्वं ततोऽतिपूज्यत्वं च व्यज्यते। हे क्षीरार्णव, त्वामहं किं निन्दान्यथवा स्तवानीति त्वमेव कथयेति संबन्धः । अत्राविवेकी नायकः । संदेहोऽप्यलंकारः। शार्दूलविक्रीडितं वृत्तम्॥ एवं निन्दापदं श्रुत्वा कुपितं तं प्रति स्वयं निःस्पृहत्वेन क्षीरार्णवान्योत्त्या निन्दामेव स्फुटयति- किं खलु रतैरेतैः कि पुनरभ्रायितेन वपुषा ते। सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम्॥४० ॥ कि खल्विति। अभ्रायितेन अभ्रवन्मेघवदाचरितेनेत्यर्थः । महत्त्वनीलत्वा- दिनाभ्रसाम्यं बोध्यम्। तत्र हेतु :- सरलिलमपीति। एवेन तस्यातितुच्छत्वाद्दान-

Page 35

अन्योक्त्युल्लास: । २७

योग्यत्वमावेद्यते। ननु गज्गादीनामपि किं जलं ख्यमेव जनवदनं प्रयातीत्य- त्राह-तृषितानामिति। तस्मात्तषितैरपि त्वज्लं क्षारत्वात्पातुं नैव शक्यत इत्या- शयः। पक्षे सदुपदेष्टरि कुपितत्वेन कृतघ्नस्य तव जलमपि तृषितैरपि जनैर- प्राश्यमेव क्व पुनरन्नमिति ध्वन्यते। अत्र शठो नायकः। लुप्तोपमाप्यलंकारः। करुणो रसः ॥ तत्रापि संपदादिमदेनाप्रणमन्तं तं प्रति तस्य कालग्रस्तत्वेन विनाशित्वं सूचय- न्कासारान्योत्त्या भियं ध्वनयति- इयत्यां संपत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा। निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरा- न्कृशीभूत: केषामहह परिहर्तासि खलु ताम् ॥४१ ॥ इयत्यामिति। पूर्व क्षीरार्णवत्वेन संबोधनेऽपि कुपितत्वात्क्षारार्णवत्वेन निन्दा। तत्रापि स्तब्धत्वादधुना पल्वलत्वेनासावुचितैव। इयत्यां प्रत्यक्षतयाति विपु- लायामित्यर्थः। सलिलानां जलानां संपत्तौ लक्ष्म्यां सत्याभिति योजना। हे कासार, 'कासारसरसी सरः' इत्यमराद्गो: सरोवर, त्वमधुना शरत्काल आर्तानां तृषाक्का- न्तानां जनानां तृषम्। पक्षे धनाद्याशां यदि सहसा झटिति न हरसीति संबन्धः। वर्हि निदाघे 'निदाघ उष्णोपगमः' इत्यमराद्रीष्म इत्यर्थः। चण्डांशौ चण्डास्तीक्ष्णा अंशवः किरणा यस्य तस्मिस्तिग्मरशमौ। सूर्य इति यावत्। परितो न त्वेक- देशे। अज्वारेति। अङ्गारवदतिदाहकत्वात्क्रूरतरातपविशेषा एवाङ्गारास्तेषां निक- रान्समूहान्किरति। वर्षति सतीत्यर्थः। अत एव कृशीभूतस्त्वं केषां तां तृष्णां परिहर्तासीत्यन्वयः । तदानीं त्वयि तृष्णोपशामकत्वस्य सुतरामसंभव इति भावः। तस्मात्त्वयैतादृशं विवेकं विधाय तादृग्दशातः प्रागेवार्थपरिपालनतत्परेण भाव्य- मिति हृदयम्। अत्राप्युक्ता एव नायकादयः॥ तन्नापि दप्तत्वादविनयित्व एव सति तत्कालं तादृक्संवादश्रवणेन राज्ञि मूढत्व- मवधार्य तहत्तघनाद्यपि परित्यज्य गतेष्वर्थिषु स तदादानपरः पुनः किंचित्साम- पूर्वकं समुद्रान्योक्तित एवोपदिश्यते- अयि रोषमुरीकरोषि नो चे- त्किमपि त्वां प्रति वारिधे वदामः।

Page 36

२८ भामिनीविलासे

जलदेन तवार्थिना विमुक्ता- न्यपि तोयानि महान्न हा जहासि॥ ४२।। अयीति। अयि वारिधे। एतेन तत्कोपशभनार्थित्वं सूचितम्। नो चेत्कुपिते ह्युपदेशवैयर्थ्यमेव स्यात्। त्वं महानपि संस्तोयान्यपि। हेति खेदे। न जहासि न त्यजसीति संबन्धः । तस्मादिदं महतस्तेऽनुचितमेवेत्याकृतम्। मालभारिणी वृत्तम्। 'ससजाः प्रथमे पदे गुरू चेत्सभरा येन च मालभारिणी स्वात्' इति वृत्तरन्नाकरोकेः । वीरो रसः ॥ एवं तदुक्तिमाकर्ण्य निरुक्तसमुद्रजलदन्यायेनैव मया यदेतैरर्थिमिः परित्यक्त धनं संगृह्यते तत्कालान्तरे तावदेतेभ्य एव दानार्थ न तु खोपभोगार्थमित्यादि पाण्डित्यं सङ्गुरुनिकटेऽपि प्रकटयन्तं तमेव राजसुतं कश्चित्तटस्थः प्रावृण्नद. न्योक्त्या विनयमुपदिशति- न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जहुजायाः। न युक्तमेतत्तु पुरो यदस्यास्तरक्रभङ्गान्प्रकटीकरोषि ॥ ४३ ॥ न वारयाम इति। अत्र वर्षानदीत्वेन संबोधनं तु स्त्रीप्रकृतिवन्मूर्खत्वं क्ष- णिकैश्वर्यवत्त्वं चापल्यबाहुल्यं गाम्भीर्यवैधुर्य च सूचयितुम्। हे वर्षानदि प्रावृदका- लमात्रतरङ्गिणि, भवतीं त्वां जहुजाया भागीरथ्याः। एतेन महामहिमत्वं दोत्यते। स्त्रोतसि 'स्रोतोऽम्बुसरणं खतः' इत्यमरात्प्रवाह इत्यर्थः । विशन्तीं प्रविशन्ती तदैक्यसंपादनं कुर्वन्तीं न वारयामः। नैव प्रतिरोधयाम इति यावत्। वयमिति शेषः । एतेनामानित्वौदासीन्ये ध्वन्येते। तहिं किं वदसीत्यत्राह-नेत्युत्तरार्घेन। एतत्तु न युक्तं नैवोचितमित्यर्थः । तत्किमित्यत आह-पुर इत्यादिशेषेण। यदस्या जाह्नव्याः पुरोऽग्रे।तरज्वेत्यादि यथाश्रुतमेव योज्यम्। यद्यपि 'भजस्तरङ्- ऊर्मिर्वा स्त्रियां वीचिः' इत्यमराद्द्ञ्गपदं द्विरुक्त्तमिवाभाति, तथापि 'यः सर्वज्ञः सर्ववित्' इत्यादिवत्सामान्यविशेषभावं परिकल्प्य व्यवस्थापनीयम्। यद्ा अस्या इति षष्ठी तरप्नेत्यनेन संबन्ध्य भञ्गपदेन ध्वंसा एव ग्रात्याः । पुरःपदे त्वसौ सिद्धै- वेति न दोष:। तस्मात्त्वया विनयपूर्वकमेव गुर्वैक्यं संवादेनासादनीयमित्या- शयः । इत आरभ्य पद्यचतुष्टये शठ एव नायकः । उपजातिर्वृत्तम् ॥ अथ तन्माहात्म्यवर्णनेन तत्सेवनमपि कर्तव्यतया कमलान्योक्त्या व्यनक्ति-

Page 37

अन्योक्त्युल्लासः। २९

पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां येनाघ्रातसमुज्झितानि कुसुमान्याजघरिरे निर्जरैः। तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्कति त्वं चेदश्चसि लोभमम्बुज तदा किं त्वां प्रति त्रूमहे॥।४४।। पौलोमीति। हे अम्बुज। एतेन विचारशूरताराहित्यं द्योत्यते। येन। पौलो- मीति। 'पुलोभजा शची' इत्यमरादिन्द्राणीरमणाराम इत्यर्थः । विलसतां भ्राज- ताम्। गीर्वाणेति। सुरतरूणाम्। आघ्रातेति। पूर्वमाघ्रातान्यात्तगन्धानि पक्षा- त्समुज्झितानीति तथा। आखाद्य त्यक्कानीति यावत्। एतादृशानि कुसुमानि। निर्जरर्देवैरप्याजघरिरे। आखवादितानीत्यर्थः । अद्य विधिवशाहैववशात्तस्मिन्मधुव्रते भ्रमरे। अत्र व्रतपदमवश्यपरिपाल्यतां ध्वनयति। माध्वीकं मकरन्दम्। आका- द्वति। अपेक्षमाणे सतीत्यर्थः । त्वं लोभमञ्चसि स्वीकुरुषे चेत्तदा त्वां प्रति किं ब्रूमह इत्यन्वयः । तस्मादीदृक्पात्रे धनलोभो नैव कर्तव्यः। किंतु यथेच्छं सम- र्पणीयमेवेति भाव: ।। ननु भवत्वेवं पूज्यतमत्वमस्य, तथापि सपाण्डित्यप्रकटने को दोषः । प्रत्युत शिष्यस्य मम पुत्रताल्यात् 'सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्' इति न्यायात्संतोष एव स्यादि त्याशङ्क्य कादाचित्ककृतप्नताभानापत्तेख्दपि त्याज्यमेवेवि स एव राजहंसान्योत्त्या व्यनक्ति- भुक्ता मृणालपटली भवता निपीता- न्यम्बूनि यत्र नलिनानि निषेवितानि। रे राजहंस वद तस्य सरोवरस्य कृत्येन केन भवितासि कृतोपकारः।।४५।। भुक्तेति। रे इति नीचसंबोधनम्। निरुक्ताशङ्काशालित्वाद्युक्तमेव । न च विवेकाभावादेवेयमाशङ्का न तु प्रमादादिति वाच्यमित्याह-राजेति। एवं च राजहंसे यथा क्षीरनीरविवेककुशलत्वमेवमेव त्वय्यपि शास्त्राभ्यासेन सदसद्विचार- चतुरत्वं वर्तत एव, तथाप्युक्तपाण्डित्य प्रकटनेच्छा यदि तदा प्रमादितमेवेति माण- वकैरपि निर्णेयमिति द्योत्यते। भवता यत्र। मृणालेति। कमलतन्तुसंहतिरित्यर्थः । भुक्ता आखादिता। तथाम्बून्युदकानि निपीतानि। तथा नलिनानि पद्मानि निषेवि- तानि। उपवेशनादिभिरुपभुक्तानीति यावत्। पक्षे मृणालवन्मृदुतरापि सुहृत्संमित- भा० वि० ३

Page 38

३० भामिनीविलासे

पुराणोपदेशवाक्यानि, तथाम्बुवन्मृदुतमानि कान्तासंमितकाव्योपदेशवाक्यानि, तथा नलिनवन्मृदूनि राजसंमितवेदोपदेशवाक्यानि च सतात्पर्य श्रुतानीत्याशयः। अत्र पाठक्रमादर्थक्रमस्य बलीयस्तन्यायेन वेदवाक्यानां प्राथमिकतवं बोध्यम्। तस्य सरोवरस्य लं केन कृत्येन। व्यापारविशेषेणेत्यर्थः । कृतोपकारो रचितप्रत्यु- पकारो भवितासरीति वदेत्यन्वयः । तस्माद्गुरुप्रत्युपकारो नैव कर्तु शक्यः । किंतु तत्सेवनमात्रं 'यावज्जीवं त्रयः सेव्या वेदान्तो गुरुरीश्वरः । पूर्व ज्ञानाप्तये पश्चा- त्कृतघ्नतनिवृत्तये ।I' इति वचनात्कर्तव्यम्। न तु तत्र खपाण्डित्यप्रकटनमपी- त्याकूतम्। एवमनधिकारितया सदुपदेष्टर्यपि तटस्थजन एव रुष्टः स राजकुमारस्तमेव तिर- स्करोति-प्रारम्भ इति भृङ्गान्योक्तया। प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मश्जरी- पुसे मञ्ुलगुजितानि रचयंस्तानातनोरुत्सवान्। तस्मिन्नद्य रसालशाखिनि दशां दैवात्कृशामश्चति त्वं चेन्मुञ्चसि चश्चरीक विनयं नीचस्त्वदन्योऽस्ति क: ॥४६॥ प्रारम्भे इति। हे चश्चरीक भ्रमर। वसन्तस्य प्रारम्भे। यस्य। उल्लसदिति। विकसद्वल्लरीविसर इत्यर्थः । लम्। मञ्जुलेति । मनोज्ञगुज्जारवजातानीति यावत्। रचयन्कुर्वन्संस्ान्प्रसिद्धानुत्सवानातनोर्विस्तारितवानसीत्यर्थः । अद्य तस्मिन्। रसा- लशाखिनीति। आम्रवृक्ष इत्यर्थः। न चात्र शाखीत्यधिकं तस्य परिपुष्यभिप्रायल्ात्। दैवात्कृशां पञ्लववैकल्यवतीमित्यर्थः। दशामवस्थामश्चति सवीकुर्वति विषये तं विनयं प्रश्रयं मुश्चसि त्यजसि चेत्तहिं लत्त्वत्तः सकाशादन्य इतरो नीचः कः । न कोऽपीति योजना। तस्मादेवमौद्धत्यं नैव तया विधेयमित्याशयः॥ एवं निर्भत्सनमाकर्ण्य स तटस्थसतावत्प्रहसत्निव तं राजकुमारं प्रति निरुक्तवाक्यं लया सकीयान्तःपुर एव वक्तुमुचितं नतु पण्डितमण्डल्यामिति कृष्णसारा- न्योक्त्या व्यनक्ि- पणीगणेषु गुरुगर्वनिमीलिताक्ष: किं कृष्णसार खलु खेलसि काननेऽसिमिन्। सीमामिमां कलय मिन्रकरीन्द्रकुम्भ- मक्तामयीं हरिविहारवसुंघरायाः।।४७।।

Page 39

अन्योत्तयुल्लासः । ३१

एणीति। हे कृष्णसार, लम्। गुर्विति। गुरुर्महान्स चासौ गर्वश्च तेन निमी- लिते तादृशे अक्षिणी नेत्रे यस्य स तथा। परमाभिमाननिमीलितलोचनः सन्नित्यर्थः। अस्मिन्काननेऽरण्ये। 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। एणीति। भृगीसमूहेष्वित्यर्थः । खलु निश्चितं किं खेलसि। किमिति क्रीडसीति यावत्। किं तर्हि कार्यमित्यत आह-सीमामित्युत्तरार्घेन। इमाम्। भिन्नेति। भिन्ना विदा- रितास्ते च ते करीन्द्रकुम्भा गजराजकपोलास्तेषां या मुक्ता मौक्तिकानि तैः प्रचुरा तथा। तामित्यर्थः । एतादृशीम्। हरीति । सिंहविलासस्थल्या इति यावद्। सीमां मर्यादां कलयावलम्बयेति संबन्धः। तस्माद्विपश्चित्सदसि तया नैवैवं शक्यं बक्तुमिति तत्त्वम्। एतदारभ्य पद्यपञ्चकान्तं वीरो रसः । धीरललितो नायकश्च॥ एवं तटस्थराजकुमारयोः खनिमितं विवादं श्रुला पण्डितवरस्तं नृपसुतं प्रति स्वासमानेषु रोषो नैवोचित इति सूचयति- जठरेति सिंहान्योक्तिभ्याम्। जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः। करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम् ॥४८ ॥ जठरेति। करिणां गजानां न तु मशकानामरिणा शत्रुणा एतादृशेन महावी- रेण हरिणा सिंहेन। जठरस्योदरस्य ज्वलनो वह्िस्तेन ज्वलति संतप्यत इति तथा तेन। क्षुत्परितप्यता सतापीत्यर्थः । अपगतेति। अपगता निरस्ता शङ्का भीवि- कल्पना यथा स्यात्तथा। पुरोऽप्रभागे न तु पश्चात्। समागतापि न लकस्मात्प्राप्ता। एवेन मौढ्यातिशयो व्यज्यते। एतादृशी हरिणाली मृगपङ्कि: कथं नु हन्यताम्। न कथमपि मार्यताम्, किंतु पाल्यतामेवेति योजना। तस्मात्त्वयात्र तटस्थादौ शान्तिरेव कार्येति तात्पर्यम् ।।

येन भिन्नकरिकुम्भविस्खल- न्मौक्तिकाव लिभिरश्चिता मही। अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥ ४९॥ येनेति। भिन्नेति। भिन्ना विदारिताः । मही पृथ्वी। अश्चिता पूजिता । तेन हरिणा सिंहेन। अद्य हरिणान्तिके मृगनिकटे पराक्रम: कथं नु कथ्यताम्। न कथमपि कथनीय इत्यर्थः । तस्मादसमैः सह नैव वक्तव्यमिति भावः। 'रो नराविह रथोद्धता लगौ' इत्युफेरिदं तद्दत्तम् ।

Page 40

३२ भामिनीविलासे

अथ तं तटस्थं प्रत्यपि स एव पण्डितवरस्तावन्मया निरुक्रीत्योपशमितस्यास्य निकटे लया नैवेतः परं स्थातव्यमिति गजान्योक्तिभ्यां व्यनक्ति- स्थिति नो रे दध्याः क्षणमपि मदान्धेक्षण सखे गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि। असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा- गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः॥५०॥ स्थितिमिति। मदेति। मदेनान्धे ईक्षणे नेत्रे यस्य स तथा तत्संवुद्धौ। एतेनावस्थितिशीलतं ध्वन्यते। सखे। एवं चोपदेशार्हतं व्यज्यते। गजेति। रे करिकुलपते, लमिह जटिलायां वल्लीबाहुल्येन संजातजटायामेतादृश्यां वनभुव्य- रण्यभूमौ क्षणमपि। एतेन भीत्यतिशयः सूच्यते। स्थिति नो दध्या नैव कुर्वि- त्यन्वयः । तत्र हेतुः-असाविति । एतेन प्रत्यक्षत्वादविश्वासव्युदासः । कुम्भीति। गजविभ्रभेणेत्यर्थः । कुम्भिपदभ्रान्त्यर्हतं व्यनक्ति-खरेदि। खराणि तीक्ष्णानि यानि नखराणि नखानि तैर्विद्राविता विदारिता महागुरुप्राव्णां महापा- षाणानाम्। अत्र महत्त्वं स्थूललम्। गुरुतं तु वज्रमणिवद्दुर्भेद्यत्मेवेति न पौनरुत्त्यम्। अत्र 'महागिरि-' इत्येव पाठः प्रामाणिकः। प्रामाः संघा येन स तथेति यावत्। तत्र खरपदं निरुक्तकार्यक्षमत्वसूचनार्थम्। एतादृशः । अत एव-हरीति। मृगराजराजः । गिरीति। कन्दर इत्यर्थः । खपिति निद्रातीति योजना। तस्मादिह तवावस्थानमनुचितमेवेति भावः । भ्रान्त्यलंकारः ॥ गिरिगह्वरेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि संचरे:। यदि बुद्ते हरिशिशुः स्तनंधयो भविता करेणुपरिशेषिता मही ॥५१॥ गिरीति। हे गजेति। अयि करीन्द्रपुत्र, लम्। गुर्विति। गुरुर्महान्स चासौ गर्वश्च तेन गुम्फितो ग्रथितः । परमबलाभिनिवेशावेशित इत्यर्थः । एतादृशः । अत एव-गिरीति। गिरे: पर्वतस्य यानि गह्राणि बिलानि तेष्वित्यर्थः । कदापि कस्मिंश्चित्कालेऽपि। एतेन भयाधिक्यं व्यज्यते। न संचरेः संचारमपि नैव कुर्या इत्यन्वयः । कुत इत्यत्राह-यदीत्युत्तरार्घेन। यदि स्नंधयोऽप्यति- पोतोऽपि। हरीति। सिंहबालको बुद्धते जागर्ति चेत्तर्हि मही पृथ्व्यपि। करे-

Page 41

अन्योक्त्युल्लास:। ३३

ण्विति। करेणव एव गज्य एव परिशेषिता मारणादवशेषिताः। शूराणां हि स्त्रीवधानौचित्यात्ता एवावस्थापिता यस्यां सा तथा। एतादृशी भविता भवि- ष्यतीति संबन्धः । तस्माद्वनान्तर एव लया गन्तव्यमिति हृदयम्। मञ्जुभाषिणी- वृत्तमिदम्। तदुक्तं वृत्तरत्नाकरे-'सजसा जगौ भवति मनुभाषिणी' इति॥ एवं स्वोत्कर्षसूचनपरितुष्टो राजपुत्रस्तं खगुरुं पण्डितमण्डलीमण्डनलेन बकु- लान्योत्त्या स्तौति- निसर्गादारामे तरुकुलसमारोपसुकृती कृती मालाकारो बकुलमपि कुत्रापि निदधे। इदं को जानीते यदयमिह कोणान्तरगतो जगजालं कर्ता कुसुमभरसौरभ्यभरितम्॥५२॥ निसर्गादिति। निसर्गात्सभावात्। आराम उपवने। तर्विति। तरूणां वृक्षा- णामाम्रादीनां यत्कुलं वृन्दं तस्य यः समारोपः सम्यगुत्तमफलपर्यवसायिलेनारो- पोऽवापस्तेन यत्सुकृतं पुण्यं तदस्यास्तीति तथा सदृक्षारोपणपुण्यवानित्यर्थः । एता- दृशः । तत्रापि कृती कुशलः । एतेन तदारोपणस्थानविवेचनचातुर्य सूचितम्। एतादशः । मालेति । शिष्टं पूर्वार्ध बोधार्हमेव । अस्तेवं किं तत इत्यत आह-इदमित्युत्तरार्घेन। किं तदित्यत्राह-यदिति। कोणेति। कोणान्तरग- तोऽपीत्यर्थः । एवं च प्रतिष्ठासामग्यभावः सूचितः। जगदिति। विश्वमण्डलमि- त्यविशयोक्तिः। तेन लोकोत्तरसौष्टवं व्यज्यते। कुसुमेति। कुसुमानां पुष्पाणां यो भरस्वस्य यत्सौरभ्यं सौगन्ध्यं तेन भरितं पूरितमित्यर्थः । एतादृशं कर्ता करिष्य- तीति। तस्माद्यदयपि मयायं ब्राह्मणसाधारण्येनैवादृतस्तथाप्यस्य सद्गरोरलौकिकमेव सामर्थ्यमित्यसौ माननीय एवेति भावः । अन्र ललितो नायकः । अद्भुतो रसः। असंभवोऽलंकारः ।। अथोक्त एव तटस्थोऽपि संस्तुवन्राजकुमारनिन्दां ध्वनयति-यस्मिन्निति राघवान्योत्त्या। यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै- र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावला: पेदिरे। सोऽयं तुङ्गतिमिंगिलाङ्गकवलीकारक्रियाकोविद: कोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः॥५३॥।

Page 42

३४ भामिनीविलासे

यस्मिन्निति। यस्मिन्खेलति क्रीडति सति। हरिदिति। 'दन्ती दन्तावलो हस्ती' इत्यमराददिग्गजा इत्यर्थः । हृदि मनसि। कललोलेति। महोर्मिनिनादैः । मन्थेति। मन्था समुद्रमथनदण्डीभूतो मन्दरः स्र चासावदिश्च तस्य यद्द्रमणं परिवर्तनं तस्य यो भ्रमोऽवभासस्तमित्यर्थः। पेदिरे प्रापुरिति यावत्। किं तावतेत्यत आह- सोऽयमित्युत्तरार्घेन। सोडयं प्रत्यक्ष: । तुङ्गेति। तुङ्गा महत्तरास्ते च ते तिमिंगिला महामत्स्यास्तेषां यान्यङ्गानि तेषां यः कवलीकारो आसीकरणं तत्र क्रियाको- विदो व्यापारेण कुशलः । न तु ज्ञानमात्रनिपुण इत्यर्थः । एवं च कवलीकारको- विद इत्येतावतैव सार्थक्ये क्रियापदानर्थक्यं परास्तम्। एतादृशः। अत एव- केलीति। केलिना वध्वादिभिः सह क्रीडया न तु तदपराधेन यः कलहः सङ्गा- मस्तेन त्यक्तोऽर्णवः समुद्रो येन स तथा। एतादृशो राघवः। 'तिमिंगिलगिलो- डप्यस्ति तद्रिलोऽप्यस्ति राघव' इति वचनान्निरुपमो मत्स्यविशेषः । कस्य सरसः कोडे। 'कोड: सूकरमातङ्गयोः क्रोडा क्ोडं च वक्षसि' इति विश्वाद्वक्षसि। मध्य इति यावत्। कीडतु विहरतु। न कस्यापि विहरतिति संबन्धः । तस्मादेतादृश- किंचिल्लीलाकलहत्यक्तसार्वभौमाश्रयः पण्डितमण्डलीपूजनीयः श्रीगुरुरयं क्षुद्रस्य राजकुमारस्य तव निकटेऽवस्थातुं नैव योग्य इत्याशयः । 'तिमिंगिलादयश्चान्ये' इत्यमरः । अत्रोदात्तो नायकः । अद्भुत एव रसः । अक्रमातिशयोत्तयलंकारः ॥ एवं तटस्थस्याति गुण ज्ञतामालक्ष्य स एव पण्डितः खगतमेवानेन राजकुमारेणास्य परिपालनमेव कर्तव्यं न तु तिरस्करणमिति द्योतयंल्लवङ्गलतिकान्योत्तया वदति- लूनं मत्तगजैः कियत्कियदपि च्छिन्नं तुषारार्दितैः शिष्ट ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम्। एषा कोणगता मुहुः परिमलैरामोद्यन्ती दिशो हा कष्ट ललिता लवङ्गलतिका दावाग्निना दह्यते॥ ५४॥ लूनमिति। काननं वनं यद्यपि कियत्किंचिन्मत्तगजैलूनं छित्नम्। तथा कियदपि तुषारार्दितैस्तुषारेण। 'तुषारस्तुहिनं हिमम्' इत्यमराद्विमेनार्दिताः पीडि- तास्तैः । शीतव्याकुलितैर्लोंकैरित्यर्थः । छिन्नं खण्डितम्। इन्धनार्थमित्याशयः । शिष्टमुर्वरितम्। ग्रीष्मेति । ग्रीष्मे निदाघे जातः अत एव यो भीष्मो भूरिता- पकलाद्ध्यंकरः एतादृशो यो भानु: सूर्यस्तस्य ये किरणास्तैर्मयूखैरित्यर्थः । भंस्मी- कृतं नीरसतापादनेन भस्मतां नीतमेवेति संबन्धः। तथाप्येषा प्रत्यक्षा कोणगता

Page 43

अन्योक्त्युल्लासः। ३५

कोणमप्रसिद्धैकदेशं गतेति तथा। रहसि विद्यमानापीत्यर्थः । मुहुर्भूयः परिमलैः सुगन्धैर्दिशः ककुभ आमोदयन्ती सुरभयन्ती सत्यपि तत्रापि। लवज्ेति। 'लवङ्ग देवकुसुमम्' इत्यमराहेवपुष्पवल्लीत्यर्थः । न तु मालतीलता। एतेनोष्णतसुर- भित्ाभ्यां कस्तूर्यादिवत्परमादरणीयतं द्योतितम्। तत्रापि ललिता नवीना न तु जीर्णा। एवं चावश्यरक्षणीयत्ं ध्वन्यते। हा कष्टमित्यनुपमखेदे। दावेति। दावानलेन दह्यते भस्मीक्रियत इत्यन्वयः । तस्मादिदमनुचितमेवेति भावः । अत्र तृतीयचरणेनालांकिकगुणवत्त्वं लवङ्गलतायां व्यज्यते। एवं च जगति प्रायोऽद्य गुणिनः सुदुर्लभा एव। तत्रायं लचिन्त्यगुणवत्त्वात्त्वया संरक्षणीय एवेति हृद- यम्। न च 'ललितलव ङ्गलतापरिशीलनकोमलमलयसमीरे' इति जयदेवप्रयोगा- दत्र ललितेत्यादिपदापहारः शङ्क्यः। अस्य व्यस्ततादिति। अत्र लवङ्गलतापदं स्त्रीलेन करुणरसपरिपोषार्थमेव। तेन करुणावेव रसनायकौ।।

अथ स्पष्टं तं तटस्थमेव कारुण्योद्रेकात्सुवन्नन्दनान्योत्त्या खाशिषं व्यनक्ति- स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्ुतं पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि। सत्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधि: प्रार्थ्यते त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः॥५५॥ स्वलोंकस्येति। हे नन्दन अयि सुरोद्यान, त्वंखर्लोकस्येन्द्रलोकस्य शिखामणिः शिरोरत्नवदलंकारीभूतमित्यर्थः । तथा। सुरेति। सुराणां देवानां ये तरवस्तेषां कल्पद्रुमाणां यो ग्रामः समूहृस्तस्येत्यर्थः । अद्भुतमाश्चर्यकरं धाम स्थानम्। तथा। पौलोमीति। शचीतद्रमणयोः । पुण्येति । सुकृतपङ्गीनामिति यावत्। परिणतिः परिपाकोऽसीति सत्यम्। किं तु सहृदयैः सुधीभिरिदं विधिर्दैवं, ब्रह्मा वा नित्यं प्रार्थ्यते याच्यत इत्यन्वयः । इदमिति किं तदाह-वत्त इत्यादिचतुर्थचरणेन। खाण्डवेति। खाण्डवमेतन्नामकमैन्द्रं वनं प्रसिद्धमेव। तदेव रङ्गो नृत्यभूविशेष- स्तत्र ताण्डवमुद्धतनृत्यं तत्र नट इव पटुरेतादृशो वैश्वानरो दावाग्निस्तत्तः सका- शाहूरेऽस्तिति। तस्मादचिन्त्यमहिम्रोऽपि तवैतस्मान्नृपकुमारान्गयं भातीत्यतः सावधानेन भाव्यमिति भावः । अन्र ललितो नायकः । भयानको रसः। रूपकम- लंकारः। किंच खाण्डवरज्वेत्यादौ रौद्ररसोऽपि परिस्फुरतीति विबुधैर्ध्येयम्॥

Page 44

३६ भामिनीविलासे

ततः स तटस्थोऽपि खमनोरथभङ्गदुःखं तं पण्डितं प्रति कीरान्योत्तया व्यनक्ति- स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चश्चूकोटिविपाटितारलकुटो यास्याम्यहं पञ्जरात्। एवं कीरवरे मनोरथमयं पीयूषमास्वादय- त्यन्तः संप्रविवेश वारणकराकार: फणिग्रामणीः॥५६॥ स्वस्वेति। जने लोके। सखेति। खखव्यापारसमासक्तचित्ततयेत्यर्थः। मत्तो मत्सकाशात्। निवृत्ते परावृत्ते सति। एतेनैकान्तलाभः सूच्यते। चश्विति। च्चवाः कोटिरग्रं तेन विपाटितो विदारित आरलकुट आराख्यलोहशलाकाविशि- ष्टकाष्टविशेषो येन स तथेत्यर्थः । अत्र 'विदारिताररपुटः' इति पाठः प्रामाणिकः । अररपुटं कपाटपुटकम् । 'कपाटमररं तुल्ये' इत्यमरः । एतादशः सन्नहं पञ्जराया- स्याम्युड्डीय गमिष्यामीति योजना। एवं कीरवरे शुकश्रेष्ठे। मनोरथमयं मनोराज्यै- कविकारं पीयूषममृतमासादयत्यास्ादप्रहणपूर्वकं पिबति सतीति यावत्। अन्तः पञ्जराभ्यन्तरे। वारणेति। गजशुण्डाकार इत्यर्थः । महतोऽप्यहेः खल्परन्ध्रेऽपि प्रवेशो लोके प्रसिद्ध एवेति नानुपपत्तिः । फणीति। सर्पश्रेष्टः संप्रविवेशेति संबन्धः । तस्मादीश्वर एवैतत्संकटादभिरक्षतित्याशयः । अन्न करुणो रसः । सचिन्तो नायकः। रूपकलुप्तोपमे अलंकारौ।। एवं नृपकुमारपण्डितवरतद्गुरुतटस्थानां परस्परं संवादे जायमानेऽकस्मादन्तः- पुराद्धर्म्येमधिरूढां तद्धर्मपत्नीं निरीक्ष्य व्याकुलमनसः कांश्चित्तरुणसदस्यान्प्रति स एव पण्डितवरः कुरद्गान्योत्तयोपदेशं व्यनक्ति- रे चाश्चल्यजुषो मृगाः श्रितनगा: कल्लोलमालाकुला- मेतामम्बुधिकामिनीं व्यवसिता: संगाहितुं वा कथम्। अत्रैवोच्छलद्म्बुनिर्भरमहावतैः समावर्तितो यद्रावेव रसातलं पुनरसौ यातो गजग्रामणीः॥५७।। रे चाञ्चल्येति। यूयम्। श्रितेति। 'शैलवृक्षौ नगौ' इत्यमरादाश्रितकूलद्रुमाः सन्त इत्यर्थ: । एतेन विवक्षितयुवकर्तृकयुवति विशेषनिरीक्षणे सभास्तम्भादिना निभृतत्वं ध्वन्यते। कलोळेति। महोर्मिपङ्गिसंपत्तिमतीमित्यर्थः । एतां प्रत्यक्षाम्। एतेन नैबास्माभिरिदमनुष्ठितमिति वृथैवायमुपालम्भ इत्यापादनं व्युदस्तम्। अम्बु- धीति। समुद्रगामू। गज्गारूपां नदीमिति यावत्। एवं चोत्तरार्धवक्ष्यमाणार्थयोग्यता

Page 45

अन्योत्तयुल्लासः । ३७

द्योत्यते। संगाहितुं प्रवेष्ठमिति यावत्। कथं वा व्यवसिताः कृतव्यापारा भवथेति संबन्धः । ननु किमत्रानिष्टमिति चेत्तत्राह-अत्रैवेत्युत्तरार्घेन। उच्छलदूर्घ्व गच्छत्तच्च तदम्वु च तस्य यो निर्भर आधिक्यं तेन ये महावर्ताः 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरात्प्रसिद्धा महान्तो जलभ्रमास्तैरित्यर्थः । एवकारेण कान्तान्तरे तथा नाशसंभावनासत्त्वेऽपि नास्यामसाविति शङ्का पराखा। समावर्तितो भ्रामितः। असौ महत्त्वेन प्रसिद्धः । अत एव-गजेति। करीन्द्रः पुनर्ग्रावेव पाषाणवदित्यर्थः । यद्यस्माद्रसातलं यात इत्यन्वयः । तस्मादयमनुचितारन्भ एव भवतामिति भावः । अत्र भयानकरौद्रौ रसौ। मूर्खा नायकाः। उपमालंकारः ॥ अथेममभिनवं रोषपरुषं ध्वनिमाकर्ण्य चकितमवलोकयन्तं सवपोतं सैव युवरा- जयुवतिः सिंहशिशुकान्योत्त्या परिसान्तयति-पिबेति। पिब स्तन्यं पोत त्वमिह मददन्तावलधिया दृगन्तानाधत्से किमिति हरिदन्तेषु पुरुषान्। त्रयाणां लोकानामपि हृदयतापं परिहर- न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः॥५८॥ हे पोत अयि बालक, तमिह मदीयपयोधरमण्डले स्तन्यं पिबेत्यन्वयः। ननु पिबाम्येव स्तन्यं किमित्ययं निरनुयोज्यानुयोग इत्यत आह-मदेत्यादिपूर्वार्धशेषेण। लम्। मदेति। मदो यौवनादिविकार स्वद्वत्प्रधानाश्च ते दन्तावलाश्च 'दन्ती दन्ता- वलो हस्ती' इत्यमरादजाक्वेति गन्धद्विपादिवत्समासः। तेषां या धीर्त्रान्त्या तद्वुद्धि- स्तयेत्यर्थः । इह प्रत्यक्षेषु। हरिदिति । दिक्प्रान्तेष्विति यावत्। परुषान्रोषक- षायितानेतादृशान्दगन्तान्किमिति कुतो नु हेतोराधत्से प्रसारयसीति संबन्धः । न च युक्तमेव वध्यवुद्धा नेत्रकोणसंचारणं तद्वुद्वरभ्रमजन्यत्ादित्याह-त्रयाणामि- त्युत्तरार्घेन। यतोऽयं प्रत्यक्षः । एतेनाश्रद्धेयनिरासः । त्रयाणामपि। एवंच महा- महिमतवं द्योतितम्। लोकानां भूरादीनाम्। हृदयेति। अमृतवृष्यान्तस्तापं परि- हरन्सन्नत एव धीरं धीरं यथा स्यात्तथा परमगम्भीरमित्यर्थः । नवोऽभिनवः स चासौ नीलो जलधरो मेघ एव ध्वनतीति योजना। तस्माच्छान्तो भवेति भावः। अत्रोदात्तो नायकः । वीरो रसः। भ्रान्तिरलंकारः ॥ एवं पुत्रं समाधाय तं पण्डितवरं सा नृपकुमारतरुणी नीरदान्योत्तया मधुर- ध्वनिभाषणं प्रार्थयते-

Page 46

३८ भामिनीविलासे

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः। उन्मदवारणवुच्ा मध्येजठरं समुच्छलति॥५९॥ धीरेति। हे नीरद, ते तव धीरेति। गभीरारावैरित्यर्थः । अलं पर्याप्तम्। तत्र हेतुमाह-म इत्यादिशेषेण। मे मम मासिको मासमात्रकालिको गर्भः । गर्भस्थः सुत इति यावत्। उन्मदेति। उन्मत्तमातन्गभ्रान्त्येत्यर्थः । मध्येजठरं जगरस्य मध्य इति यावत्। समुच्छलति सम्यगुद्डानं करोतीति योजना। तस्मा- न्मधुरं वक्तव्यमित्याशयः । अत्रोक्ता एव नायकादयः ॥ अथ पुनरपि तैजसप्रकृतिकतवनातिचञ्चलं खवबालं प्रति सैव सिंहान्योत्तया परिसान्तयति-वेतण्डेति। वेतण्डगण्डकण्डू तिपाण्डित्यपरिपन्थिता। हरिणा हरिणालीषु कथ्यतां क: पराक्रमः ॥ ६० ॥ वेतण्डेति। वेतण्डा गजास्तेषां ये गण्डाः कपोलास्तेषां यत्कण्डूतिपाण्डित्यं तस्य यः परिपन्थी प्रतिस्पर्धी तेनेत्यर्थः । एतादृशेन हरिणा सिंहेन। हरिणेति। मृगपद्गिष्वित्यर्थः । कः पराक्रमः कथ्यताम्, अपि तु न कोऽपि कथ्यतामिति संबन्धः । तस्मादेते सवाश्रितास्त्वया यथारहं पूजनीयास्तथा परिपालनीया एवेति भावः । अत्र धीरो नायकः । करुणो रसः ॥ ततस्त्त्पितासौ नृपकुमारः कंचिदागतं नीचजनं सत्कुर्वस्तेन पण्डितमण्डनीभू- तेन सद्गुरुणा कमलान्योत्त्या प्रबोध्यते- नीरान्निर्मलतो जनिर्मधुरता रामामुखस्पर्धिनी वास: किं च हरे: करे परिमलो गीर्वाणचेतोहरः। सर्वसवं तदहो महाकविगिरां कामस्य चाम्भोरुह त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत्वां किमाचक्ष्महे॥६१॥ नीरादिति। हे अम्भोरुह, तव निर्मलतो नीराज्निरुत्पत्तिः। न च संबुद्ै- वास्य गतार्थतात्पौनरुत्तयापत्तिः । तत्पदस्य योगरूढत्वेऽपि 'रूढिर्योगमपहरति' इवि न्यायेन शीघ्रोपस्थित्या च पद्ममात्रपरल्ात्। किंच तब मधुरता जहत्खार्थया 'गङ्गायां घोषः' इत्यादिवत्त्वन्मधुमाधुरीत्यर्थः । रामेति। यावत्स्त्रीगुणा या रमणी तस्या यन्मुखं निरुक्तलक्षणया तदेकदेशोऽघरस्त्स्पर्धिनी साधिक्येन तद्विरोधि-

Page 47

अन्योक्त्युल्लासः । ३९

नीत्यर्थः । यद्वा मधुरता 'मुखरुचा सौधाधरीमाधुरी' इत्यादिवत्सुन्दरतैव। तथाच नोक्लक्षणाद्वयायासः । एवं किंच। तवेति वास इत्यत्र परिमल इत्यत्र च ज्ञेयम्। गीर्वाणा देवाः। तत्तस्मादहो इत्याश्चये। त्वं महाकविगिरां सर्वसवं सर्व- त्रोपमानयोग्यत्वात्तथा कामस्य सर्वसम्। 'अरविन्दमशोकं च' इति प्रथमबाण- त्वात्। असि। अथ त्वं चेन्मधुपे भृद्गे, पक्षे मद्यपे नीचे, प्रीतिमुरीकरोषि स्वीकरोषि तत्तहिं त्वां किमाचक्ष्महे कथयामः। न किमपि वदाम इत्यर्थः । 'यस्य' इति पाठे यस्य तव नीरादित्यादि योजयित्वा हे अम्भोरुह, तत्त्वमहो महाकवी- त्यादि योज्यम्। तस्मादिदं नैव कार्यमिति तात्पर्यम्। अत्र मूढो नायकः । श्लेष- प्रतीपावलंकारों।। किंच बलवच्छत्रूपेक्षा नैव कार्येति गजान्योत्त्या व्यनक्ति- लीलामुकुलितनयनं किं सुखशयनं समातनुषे। परिणामविषमहरिणा करिनायक वर्धते वैरम् ॥६२॥ लीलेति। परिणामे विषमो यो हरिस्तेनेति सहार्थे तृतीया। स्पष्टमेवान्यत्। तस्मात्सावधानो भवेति भावः । अत्र प्रमत्तो नायकः । भयानको रसः । लुप्तो- पमालंकारः ।। एवं निरुक्ताचार्यवचसि विश्वासदार्ढ्यार्थ कश्चित्तटस्थस्तं राजसुतं प्रति 'सकृज्ज- ल्पन्ति पण्डिताः' इति वचनात्तद्वचोदौर्लभ्यादि द्योतयन्सामान्यतो विदुषां वचसः प्रेक्षापूर्वकत्वाचलार्थकत्वे व्वनयति- विदुपां वदनाद्वाचः सहसा यान्ति नो बहिः। याताश्चेन्न पराश्चन्ति द्विरदानां रदा इव ॥६३ । विदुषामिति। न पराश्चन्ति वैयर्थ्यादिद्वारा नैव पराुखीभवन्तीत्यर्थः । तत्र दृष्टान्तं स्पष्टयति-द्विरदानामिति शेषेण। 'द्विरदोऽनेकपो द्विपः' इत्यमरा- द्रजानामिति यावत्। रदा इव दन्ता इवेत्यर्थः। वाचां नैसर्गिकनैर्मल्यशालित्वेन दृढत्वादिसंपूर्णगुणवत्त्वेनाचलत्वेन च पुंस्त्वेनोपमानमिति रदा इवेत्यनेन ध्वन्यते। तस्मात्त्वयतद्वाक्यं श्रद्धेयमेवेति भावः । अत्र धीरो नायकः। पाण्डि- त्यवीरो रसः । पूर्णोपमामात्रमलंकारः ॥ अथ स एव पण्डितवरः प्रकृततटस्थं प्रति किमिति लमस्य मयि विश्वासं जन- यसि, यद्यप्ययं वदान्यस्तथाप्यपरीक्षक इति विश्वासभावाभावयोरप्यस्माकं तु फलं पामरैस्तुल्यमेव भवतीति कल्पद्रुमान्योत्तया व्यनकि-

Page 48

४० भामिनीविलासे

औदार्य भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधे- र्वासो नन्दनकानने परिमलो गीर्वाणचेनोहरः। एवं दातगुरोर्गुणा: सुरतरो: सर्वेऽपि लोकोत्तराः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि॥६४ ।। औदार्यमिति। संभूतिरुत्पत्तिः । परिमल इति। इदं पद्यं यद्यपि 'नीरान्नि- मलतः' (१६१) इति प्राक्तनपदे पठितत्वाद्विशेषणपदविशिष्टमपि पुनरुक्तमेव, तथापि वक्तुरुभयत्राप्येकतान्नीत्युपदेशावेशवशेन पौर्वापर्यानुसंधानहीनतया तथा प्रयुक्तमपि नैव दोषावद्दम्। प्रत्युत रसनिर्भरपोषकत्वाद्गुणावहमेव। एवमेव नैष- धीयचरितेऽपि कीर्तिमण्डलपदं प्राथमिकपद्यद्वयेऽपि पठितं प्रसिद्धमेव। अत्र विशेषणचतुष्टयेऽपि सुरतरोरिति संबन्धनीयम्। तेनास्य कमात्कीतिसमुत्पत्तिनि- वसतिगुणसंपत्तीनां लोकोत्तरतं द्योत्यते। एवं निरुक्तप्रकारेण दातृगुरोवैदान्यमा- न्यस्येत्यर्थः । सुरेति । कल्पद्रुमस्येति यावत्। अत्र 'दातृगुरो मुरतरो' इति संबुद्धन्तपाठे तवेत्यध्याहार्यम्। सर्वे संपूर्णा अपि गुणास्तदा लोकोत्तरा एव। अचिन्त्या एव स्युरिति शेषः । तदा कदेत्यत्राह-स्यादित्यादिचरमचरणेन। यदि। अर्थीति। अर्थिनां सामान्यतो यावद्याचकानां प्रवरमुत्कटं यदरथितं तस्य योऽर्पण- विधिर्दानविधिस्तस्मिन्विषय इत्वर्थः । एकः केवलो विवेको योग्यतादिविचारः स्यादित्यन्वयः । तस्मादनेन विवेक एव संपादनीय इत्याशयः । इहोदात्तो नायकः। दानवीरो रसः । विनोकिरलंकारः ॥ एवं वदति सति पण्डितवरे तदैश्वर्यमसहमानः कश्चन पिशुनः प्रकृतराजकुमारं भ्रसंज्ञयैवायं ल्गुरुरपि लामविवेकिनमेव मनुत इति किमस्मिन्कृतन्न विफलभक्ति- संपादनेनेति सूचयन्बहिरेव बहुतरविनयवानकस्मान्मृगयां विधायागच्छन्तं व्याधं मयेदं विश्वासेन मृगादिहिंसनमनुचितमेव क्रियत इति कंचिदुदासीनं प्रति जल्पन्तं सन्तमालक्ष्य तेनैव पण्डितवरेण प्रस्तुताङ्गुराख्यकिरातान्योत्त्या निन्धते- एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः। भूपानां भवनेषु किंच विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥६५॥ एक इति। रे व्याध, लमस्यपघृणः । 'कारुण्यं करुणा घृणा' इत्यमरादपगता घृणा दया यस्मात्स तथा। निर्दय इत्यर्थः । अत एव विश्वसतां हरिततृणादिदर्श-

Page 49

अन्योक््युल्लासः । ४१

नेन सदयत्ादिविश्वासशालिनामित्यर्थः । एतादृशां प्राणिनां मृगादिजीवानां प्राणा- नेक एव हरामीत्येवमात्ममनसि स्वचेतसि परिचिन्त्यानुतापं संतापं मा कृथाः। नैव कुर्विति संबन्धः । 'मा स्म' इत्यपि पाठः । तत्र हेतुः-भूपानामित्युत्तरार्घेन। गूढेति। अप्रकटपरघातकरणाद्यभिप्राया इति यावत। एतादृशाः । तत्रापि साधू- नामरयः । अत एव-वत्तुल्येति। तया सह तुल्या समाना कक्षा गूढहिंसना- दिकल्पना येषां ते तथा। एतादृशा नराः । 'खलाः' इत्यपि पाठः । कति न वस- निति। अपि तु सहस्रशो वसन्तीति योजना। तस्माद्भवता निरुक्तपिशुनानात्मसा- म्येनानुसंधायोक्ानुतापस्त्याज्य एवेति भावः । अत्र शठो नायकः । करुणो रसः। अलंकारस्तूक्त एव।। ततोऽतिक्षब्धचेतस्तया स एव पण्डितः पृथ्वीमप्युपालभते- विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः। तानपि दधासि मातः काश्यपि यातस्तवापि च विवेक: ॥६६ ॥ विश्वास्येति। हे मातः काश्यपि। 'क्षोणी ज्या काश्यपी क्षितिः' इत्यमरा- दयि मातर्वरणीत्यर्थः । लं तानपि दधासि। अतस्तवापि च विवेको यातो गत एवेत्यन्वयः । तान्कानित्यत्राह-विश्वास्येति पूर्वार्धेन। ये नरा नम्रतमाः सन्तो मधुरवचनैः साधून्विश्वास्य वञ्चयन्तीति संबन्धः। अत्र काश्यपिपदेन विवेकाईतं द्योत्यते। इह प्रौढा नायिका। उक्त एव रसः । काव्यलिङ्गमलंकारः ॥ एवं पण्डितवरं रुष्टमालक्ष्य स राजकुमारः परिसान्तयन्सामान्यतो विदुषः स्तौति- अन्या जगद्धितमयी मनसः प्रवृत्ति- रन्यैव कापि रचना वचनावलीनाम्। लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीय: ॥६७॥ अन्येति। निरुपमगुणलेन विलक्षणैवेत्यर्थः। कृतिराचारः। दवीयः । 'दवी- यश्च दविष्ठं च सुदूरे' इत्यमरादतिदूरमेवास्तीत्यन्वयः । इह ललितो नायकः । अद्भुतो रसः । भेदकातिशयोकतिरलंकारः ॥ अथ स एव नरवरकुमारस्तमेव खगुरुं प्रति निजापराधक्षमापनप्रार्थनं व्यनक्ति-

Page 50

४२ भामिनीविलासे

आपद्रतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम्। कालागरुर्दहनमध्यगतः समन्ता लोकोत्तरं परिमलं प्रकटीकरोति ॥ ६८ ॥ आपद्रत इति। महाशयेति। महान्विशालो गम्भीरश्वाशयोऽभिप्रायो येषां तेषां बुद्धिशालिनां पुंसां यश्चकवर्ती। सार्वभौम इत्यर्थः । कश्िद्धीरवरस्ता- वदापद्गतोऽपि विपद्धस्तोऽपि। एवं चात्र सावधानतानर्हतवं ध्वन्यते। अकृतेति। पूर्व कृतः प्राक्केनचिदनुष्ठित इति कृतपूर्वः । तादृशो न भवतीत्यकृतपूर्वस्तम्। विचित्रमिति यावत्। एतादृशमुदारभावमौदार्यमित्यर्थः । विस्तारयति खल्विति योजना। उक्तमेवार्थ दृष्टान्तेन द्रढयति-कालेति। कृष्णागरुसंज्ञकः प्रसिद्धश्षन्द- नविशेषः । दहनेति। दहनो वह्िस्तस्य मध्यस्तं गतोऽपि परमदह्यमानोऽपीत्यर्थः । समन्तात्परितः, नतवेकदेशे। तत्रापि लोकोत्तरमलौकिकं न तु सामान्यं परिमलं सुगन्धं प्रकटीकरोतीति संबन्धः । तस्मान्मदपराधाः श्रीमद्भिः सवाभाव्यादेव क्षम्यन्ते, तथाप्यधीरतयाहं व्यर्थमेव प्रार्थयामीत्याशयः। अत्र धीरो नायकः । निरुक्त एव रसः । दृष्टान्तोऽलंकारः ।। न चास्लेवमस्माकं स्वभावाच्छमस्थापि लयि राजप्रकृतिलेन 'यौवनं धनसं- पत्तिः प्रभुतमविवेकिता। एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ।।' इति, 'यत्र' श्रीयौवनं वापि शारदा वापि तिष्ठति। तत्र सर्वान्धता नित्यं मूर्खलमपि जायते॥' इति च बृहन्नारदीये कपिलाचार्यवचनाच् मद्दचसा 'हितं मनोहारि च दुर्लभं वचः' इति न्यायेन कोपश्चेदनुचितमेवेति वाच्यम्। गुरूणां भवादृशामस्मदेकहितार्थ कोपघटितलेन परुषवाक्यस्यापि काश्मीरकटुतवत्तोषैकपोषकत्वादित्याशयेन महतां कोपमपि सामान्यतो रम्यतेनैव वर्णयति- विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव। लोकंपृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ६९॥ विश्वेति। विश्वस्मिअ्जगति येऽभिरामाः सुन्दरा एतादृशा ये गुणास्तेषां यद्गौरवं पौष्कल्यं तेन गुम्फिता प्रथितास्तेषामित्यर्थः। एतादृशां निर्मलधियां सुमनसां

Page 51

अन्योक्युल्लासः । ४३

रोषोऽपि कोपोऽपि रमणीय एवेति यथाश्रुतमेवान्वयः । अपिना हितोपदेशार्थ स चेत्किमु वक्तव्यमिति द्योत्यते। तत्र दृष्टान्तं स्पष्टयति-लोकमित्युत्तरार्घेन। लोकं जगत्पृणन्ति परितोषयन्तीति तथा तैः । कश्मीरेति । कुङ्कुमस्येत्यर्थः । इह नायकाद्युक्तमेव ।। अथ श्रीमदग्रे क्षमादिप्रार्थनादावपि क्व नामास्माकं पामराणां सामर्थ्यमिति स्वविनयं व्यञ्ञयन्नौद्धत्यं चापनयन्स एव राजकुमारः सस्य प्रकृतमेव गुरुं प्रति तन्माहात्म्यं ध्वनयति- लीलालुण्ठितशारदापुरमहासंपन्भराणां पुरो विद्यासद्विनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः॥७॥ लीलेति। विद्येति। विद्याया ऋगादिचतुर्दशान्यतमाया यत्सझ गृहं तस्माद्वि- निर्गलन्तोऽवकरादिना सह च्यवन्तो ये कणा धान्यलेशा इवाक्षरावंशास्तान्मुष्णन्ति स्तेयेनापहरन्ति ते तथा। एतादृशोऽत एव पामरा मादृशो नीचा जनाः। लीलेति। लीलया हेलया न लायासेन लुण्ठिता हठाद्गृहीताः। शारदायाः सरखत्या यत्पुरं नगरम्। न तु गृहं नापि ग्रामः । तस्य महासंपद्धरा उत्कटैश्वर्यसंभारा यैसे तथा तेषां भवादृशां निरतिशयविदुषां पुरोऽग्रे वल्गन्ति चेद्रटन्ति यदि तर्ह्द्याधुनैव श्वो वा फणिनां सर्पाणां मूर्धसु मस्तकेषु। शकुन्तेति। पक्षिपोताः । तथा दन्ता- वलानां गजानाम्। मूर्धस्विति सर्वत्रानुषज्यते। शशाः प्रसिद्धा एव। एवं सिंहानां मूर्धसु शालावृकाः श्वानो वा 'शालावृकाः कपिक्रोष्ट्श्वानः' इत्यमरात्क्रोष्टारः। पदं चरणं सुखेनानायासेनैव धास्यन्ति स्थापयिष्यन्तीति योजना। 'मूर्धनि' इत्येक- वचनान्तोऽपि पाठः। तत्राप्यनर्थान्तरमेव। तस्मात् 'नभः पतन्त्यात्मसमं पत- त्रिणः' इति न्यायात्खशक्तनुसारेण सापराधक्षमापनार्थमेव मया यत्किंचिच्छ्रीम- चरणनलिनाग्रे यथाकथंचित्प्रार्थ्यते। न तु पाण्डित्यप्रकटनार्थमतः क्षन्तव्यमेवेति भावः । अन्रोदात्तो नायकः । पाण्डित्यवीरो रसः । यथासंख्यमलंकारः ॥ किंच न केवलं महतां कोपे कमनीयलमात्रं किंतु तत्कृतपरुषवाग्भिस्तर्जितानां मादशां शिष्याणां महत्त्वापादकलमपीति स एव राजकुमार: प्रकृतं सगुरुं प्रति द्योतयति-

Page 52

४४ भामिनीविलासे

गीर्भिर्गुरूणां परुषाक्षराभि- स्तिरस्कृता यान्ति नरा महत्त्वम्। अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७१॥ गीर्भिरिति। नरा गुरूणां परुषाक्षराभिर्न तु तादृगर्थाभिर्गीभिस्तिरस्कृताः सन्तो महत्त्वं यान्तीति संबन्धः। तमेवार्थमर्थान्तरन्यासेन द्रढयति-अलब्धेति। न लब्धं शाणोत्कषणं यैस्ते तथा एतादृशो मणयो जातु कदाचिदपि नृपाणां मौलो मुकुटे नैव वसन्तीत्यन्वयः। तस्मान्न मम रोषलेशोऽपीत्याशयः। तस्मादुक्ततिरस्क- रणमिष्टमेवेवि भावः। इह धीरो नायकः। शान्तो रसः। अर्थान्तरन्यासोऽलंकारः॥ एवं नरवरकुमारेण संप्रार्थितोऽपि प्रकृत: पण्डितः प्राक्तनं 'एको विश्वसतान्' (१६५) इति पद्यावतरणे समुपक्षितं कंचित्पिशुनं पुनरपि निन्दंस्तं स्वशिष्यं प्रति दुर्जना: सर्वथा त्याज्या एव, नो चेद्राजकानुवर्तिनीनां सर्वप्रजानामपि तथा- लापाताद्राष्ट्रभन्नप्रसङ्ग इति द्योतयति- वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः। विधुरपि भजतेतरां कलङ्कं पिशुनजनं च बिभर्ति यत्क्षितीन्द्रः ।। ७२।। वहतीति। पटीरजन्मा मलयजश्चन्दन विशेष इत्यर्थः। विषेति। सर्पानित्यर्थः । वहति धारयतीति यावत्। विषधरपदमत्र साभिप्रायम्। तेन तद्धारणानौचित्यं सूचितम्। दीपः शिरसि मषीपटलं दधातीति संबन्धः । मषीति। कज्जलभार- मित्यर्थः । एवं वन्यग्राम्योदाहरणे स्फुटीकृत्य दिव्यमपि तद्विशदयति-विधु- श्रन्द्रः । अपिः समुच्चये। पूर्ण चन्द्रोऽपि कलङ्कं भजतेतरामत्यन्तं सेवत इति यावत्। तत्र हेतु :- पिशुनेति शेषेण। चोऽप्यर्थे। यद्यस्मात्क्षितीन्द्रोऽपि न तु क्षुद्रोऽपि पिशुनजनं दुर्जनसंघं बिभर्ति पोषयतीत्यन्वयः। यतो राजैव दुर्जनरज- कस्ततो दिव्यादिभिरपि यदा कलङ्कादिरङ्वीकृतस्तदा कैव कथा मनुष्याणामतस्त्- येदं नैव कार्यमिति तात्पर्यम्। अत्र संबोध्यो नायकः । काव्यलिङ्गानुप्राणितगम्यो- त्प्रेक्षालंकारः । 'खलु बिभ्रति क्षितीन्द्राः' इति पाठे वितरराजवत्तवापि पिशुन- पोषकले तत्प्रजानां तथालापत्त्या राष्ट्रभज्वोऽवश्यंभावीत्यतस्वत्त्याज्यमेवेवि भावः।

Page 53

अन्योत्तयुल्लासः। ४५

एवं गुरुवाक्यमाकर्ण्य स एव राजकुमारः खलानामपि सद्गुणोत्पादनार्थमनु- रजनपूर्वकं सद्भिरपि संग्रहणं करणीयमेवेत्याकूतेन तथा स्भाववत्तया तद्वर्णनं प्रणयति-सत्पूरुष इत्यादिद्वाभ्याम्। सत्पूरुषः खलु हिताचरणैरमन्द- मानन्दयत्यखिललोकमनुक्त एव। आराधित: कथय केन करैरुदारै- रिन्दुर्विकासयति कैरविणीकुलानि॥ ७३ ॥ (युग्मम्।) सदिति। पुरुप एव पूरुषः । संश्चासौ पूरुषश्चेति तथा। साधुजन इत्यर्थः। अनुक्त एवाप्रार्थित एव सन्नित्यर्थः । अखिलेति। सर्वजगदपीति यावत्। हितेति। तत्कल्याणव्यापारैरित्यर्थः । नतु तात्कालिकसुखाभासजनकैः स्रक्चन्दनाङ्गनासङ्ग- संघटनैरिति यावत्। अमन्दं प्रचुरं यथा स्यात्तथा। आनन्दयति खलु संतोषय- त्येवेत्यन्वयः । तदेवार्थान्तरन्यासेन द्रढयति-आराधित इत्युत्तरार्घेन। इन्दुः केनाराधितः सन्कैरविणीकुलान्युदारैः करैर्विकासयतीति कथयेति योजना। एतेन नेयं व्याप्तिरिति प्रत्युक्तम्। एवंच निरुत्तप्रयोजनार्थ सद्भिर्दुर्जना अपि रजनीया एवेति भावः । नो चेत्खभावभङ्गप्रसङ्ग इति तत्त्वम्। अत्र ललितो नायकः। करुणो रसः। उक्त एवालंकारः ॥ परार्थव्यासङ्गादुपजहृदथ स्वार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम्। स्वभावाद्यस्यान्तः स्फुरति ललितो दातमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः॥ ७४ ॥ परार्थेति। स कोऽप्यनिर्वाच्यगुणगणः पुरुषो जयवितरामित्यन्वयः । तरपा परिच्छिन्नसर्वोत्कर्षवर्तनव्युदासः । कोऽसावित्यत आह-परार्थत्यादिविशेषणत्र- येण। यः परार्थेति। परस्मा अयं परार्थः । स चासौ व्यासङ्गो व्यापारश्रेति तथा तस्मादित्यर्थः । सवार्थेति। खपुरुषार्थपरायणतामपीति यावत्। उपजहदुपजहाति त्यजतीति तथतादृशः सन्। अमेदेति। न विद्यते मेदो जलतरप्ादिन्यायेन द्वैतावभासो यस्मिस्तच्च तदेकत्वं चेति तथा। विशुद्धैकामिति यावत्। एतेनौपचा- रिकप्रेम प्रत्यस्तम्। सततं सर्वदा। इदं च देहलीदीपन्यायेनोभयत्राप्यन्वेति। तेन प्रेम्ण: क्षणिकत्वं गुणानां च तथात्वं प्रत्युक्तम्। गुणेति । 'युक्ते क्ष्मादावृते भा० वि० ४

Page 54

४६ भामिनीविलासे

मूतम्' इत्यमराद्ूतपदस्य ऋतशब्दितसत्यार्थकत्वेनावधारणफलकत्वाद्गुणा एवेति तथा। तेषु मूर्तिमच्छान्त्यादिगुणेष्वित्यर्थः । सुजनेष्विति यावत्। वहति सवीकरोतीति संबन्धः । पुनः कः सः । सभावादिति। यस्यान्तः स्वभावादेव न तु लोकप्रार्थनादिहेतोरित्यर्थः । अत एव ललितो निष्कामतया सुन्दरो दातृमहिमा वदान्यमाहात्म्यमित्यर्थः । 'उदात्त-' इति पाठे तु कर्मधारयः । स्फुरतीति योजना। एतेन निरतिशयौदार्यं सूचितम्। पुनः कः सः । समर्थ इति। यो नित्यं नतु क्षणमात्रं समर्थो दक्षः । अस्तीति शेषः । एतेनाचिन्त्यशक्तिमत्त्वं व्यज्यते। अत्र विशेषणत्रयेऽपि यथेच्छं हेतुहेतुमद्भावः। इह प्रथमे परमगुण- ज्ञत्वं द्वितीये वदान्यमान्यत्वं तृतीये तद्रक्षणक्षमत्वं च क्रमाद्धनितम्। तस्माद्भ- वादशां महतां 'अयं निजः परो वेति गणना लघुचेतसाम्। उदाचरितानां तु वसुधैव कुटुम्बकम् ॥' इति वचनान्निरुपाधिकमेव सर्वानुग्रहशीलत्वमित्याकूतम्। इह नायकाद्युक्तमेव ।। अथ स तद्गुरुः सत्यमेव सर्वानुग्राहकत्वं साभाव्यात्सतां तथापि भवादशै राजकुमारैः सत्सज्न एव दुःसङ्गवर्जनपूर्वकं विधेय इत्यन्वयव्यतिरेकाभ्यामर्थान्तर न्यासाभ्यामुपदिशन्व्याप्ती प्रतिबोधयति-वंशभव इत्यादिद्वाभ्याम्। वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः। न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम्॥७५॥ वंशेति । वंशः कुलम्, पक्षे वेणुः । गुणः शमादिः, पक्षे तन्र्री। इह संबोध्यो नायकः । शिष्टं स्पष्टमेव ॥ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति। निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ७६ ॥ निखिलेति। नष्टपुंस्त्वाद्यापादकत्वात्तथात्वं बोध्यम्। यद्यपि तत्कामाना स निर्दुष्ट एव, तथापि तच्छास्त्रविदां पुष्याद्यापादकपाकादावनुपयु क्तत्वाद्दुष्टत्व विवक्षयैव तथात्वेनोदाहृत इति ध्येयम्। नो चेत्तत्तत्कामुकेप्सितत्वेन किंचिदपि दुष्टं नैव स्या- दिति दिकू। अधिकं तु साहित्यसारे दोषरत्नादाव स्माभि: प्रपश्चितमित्यत्रोपरम्यते॥ किंच सतां किंचिदपकारेऽपि दैववशादज्ञानादिना संपद्यमाने ते तावदुपकार- मेव कुर्वन्तीत्यतोऽपि सत्सन्ग एव कर्तव्यो न तु कदाचि्ुःसङ्गोऽपीत्याशयेन पुनः स एव सङ्गुरुः प्रकृतमेव नरवरकुमारं प्रतिबोधयति-

Page 55

अन्योक्त्युल्लासः। ४6

उपकारमेव तनुते विपद्गतः सड्ुणो नितराम्। मूच्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः॥७७॥ उपकारमेवेति। सद्गुणः सन्तः शुभा गुणा अस्येति तथा। सुजन इत्यर्थः । नितरामितिपदं सर्वत्र संबध्यते। एवंच साङ्गुण्यस्य त्रैकालिकत्वं व्यज्यते। विप- दिति। अतिविषद्गस्तोऽपीति यावत्। उपकारमेव नितरां तनुते विपुलं विस्तारय- तीति संबन्धः । अत्रास्मिन्नुक्विषये। मूर्च्छामिति। मूच्छां गतो मूर्च्छित इत्यर्थः। केनचिद्युक्िविशेषेण स्तम्भित इति यावत्। वाथवा मृतो भस्मीभूत इत्यर्थः । एतादृशः पारद एतन्नामको रसो रसायनविशेषः । एवं च न रसपदेन पौनरु- तयम्। निदर्शनमुदाहरणमस्तीत्यन्वयः । पारदो हि मूर्च्छितो वा भस्मीभूतो वा रोगपरिहारादीष्टं संपादयत्येवेति लोके दृष्टमेव। अतः सद्गुणः पुरुषो नितरां विप- द्वतोऽप्युपकारमेव तनुत इति निर्णीयत इति तात्पर्यम्। इह ललितो नायकः । दृष्टान्तोऽलंकारः। उपगीतिर्वृत्तम्। तदुक्तं वृत्तरत्नाकरे-'आर्याद्वितीयकेऽर्घे यद्ग- दितं लक्षणं तत्स्यात्। यद्युभयोरपि दलयोरुपगीति तां मुनिर्ज्ूते ॥' इति॥ ननु दुःसङ्गादुर्मार्गप्रवृत्तिस्ततः पापोत्पत्तिस्तस्माद्वुद्वेरेव यदि सर्वदा दुःसङ्ग: कर्तुमनुचितः किल तर्हि 'धर्मेण पापमपनुदति' इति श्रुतेरैश्वर्यसाध्येन धर्मेण निरुक्तपापं पराकरिष्यामस्ततः का नः क्षतिर्दुर्जनसङ्गतोऽपीत्याशङ्कैश्वर्यस्य क्षणि- कत्वान्मैवमिति सीतावृत्तान्तकथनेन ध्वनयति- वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या। अहो सेयं सीता दशवदननीता हलरदैः परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥७८॥ वनान्त इति। या वनान्ते दण्डकारण्यप्रान्ते। गोदावरीतीरादावित्यर्थः । 'वनान्तः' इति पाठे तु वनमध्य इति यावत्। खेलन्ती क्रीडन्ती सती। शश- केति। शशशावकमालोक्य चकिता सती भयहर्तुः सर्वेश्वरत्वेन यावद्धयभङ्गदक्ष- स्येत्यर्थः । एतादृशस्य। भुजेति। बाह्वेकदेशम्। सपदि तत्कालं नतु विलम्बेन। एतेन भीत्यतिशयो व्यज्यते। भजतीष्टसाधनताधिया सेवत इत्यर्थः । अहो इत्या- श्वर्ये।' सा निरुक्तगुणेयं वर्ण्येतवेन बुद्धिस्थतया प्रत्यक्षा। दशामिति। अतएव- हलेति। हलानीव लाङ्गलानीव रदा दन्ता येषां तैः। एतादृशै रक्षोभिः संरक्षक-

Page 56

४८ भामिनीविलासे

राक्षसैः परीताऽशोकवनिकायां परिव्ृता। अतएव विवशा पराधीना सती कामप्य- निर्वाच्यभीत्यादिरूपामिति यावत्। एतादृशीं दशामवस्थां श्रयत्यवलम्बत इत्य- न्वयः। तस्मादैश्वर्यमदेनापि नैव दुःसङ्ग: कार्य इति तात्पर्यम्। इह मध्या स्वकीया नायिका। भयानको रसः । काव्यलिङ्गमलंकारः ॥ नन्वेवमपि सीतायाः किंचित्कालं लोकलीलान्यायेनैश्वर्यतिरोभावाभासेऽपि पुनस्तन्निरतिशयत्वस्य रावणवधाद्युत्तरं सुप्रसिद्धत्वान्नैतन्निदर्शनेनैश्वर्यवत्त्वाद्धर्मक्ष- येण पुंसां दुर्मार्गप्रवृत्त्यादिना पापसंपादको दुःसङ्ग: सर्वथा त्याज्य एवेति सिध्य- तीत्यस्वरसात्स्मरनिदर्शनेन तङ्ढयति स एव सद्गुरुः प्रकृतनृपतिसुतं प्रति- पुरो गीर्वाणानां निजभुजवलाहोपुरुषिका- महो कारंकारं पुरभिदि शरं संमुखयतः। स्मरस्य सवर्बालानयनसुममालार्चनपदं वपुः सद्यो भालानलभसितजालास्पदमभूत्।। ७९।। पुर इति। गीर्वाणानां देवानां पुरोडयरे। अहो इत्याश्चर्ये। निजेति। निज- स्यात्मनो यद्भुजबलं बाहुबलं तेन आहोपुरुषिका 'आहोपुरुषिका दर्पाद्या स्यात्सं- भावनात्मनि' इत्यमरादर्वेण धन्यंभन्यता तामित्यर्थः । कारंकारं भूयः कृत्वेति यावत्। पुरेति। साभिप्रायमिदम्। त्रिपुरदग्धर्यपीत्यर्थः । एवंच येन परम- दुर्जयत्ति्रिपुरासुरः सपरिवारपुरोऽपि क्षणाद्भस्मीकृतस्तत्र त्रिलोचने भगवति कैव गणना पश्चशरमशकस्येति दयोत्यते। शरं बाणं संमुखयतोऽभिमुखं संदधत इत्यर्थः। एतादृशस्य स्मरस्य मदनस्य वपुः शरीरम्। खरिति। सः स्वर्गसंबन्धिन्यो या बाला अप्सरसस्तासां यानि नयनानि नेत्राणि तान्येव सुमानि सुष्रु सुतरां वा मा लक्ष्मीर्येषु तानि 'लक्ष्मीः पद्मालया' इत्यमरात्कमलानि तेषां या मालेव माला। कटाक्षपरम्परेति यावत्। तया यदर्चनं पूजनं तस्य पदं स्थानं पात्रमित्यर्थः । एता- दृशमपि सत्। सदस्तत्कालमेव, नतु विलम्बेन। भालेति। भालस्य धूर्जटिल- लाटस्य संबन्धी योऽनल: पावकस्तेन यद्भसितजालं 'भूतिर्भसितभस्मनि' इत्यम- राद्भ्स्मपुञजस्तस्यास्पदं स्थानभभूदिति सरलमेव। यस्माज्जगज्जयिनोऽपि मन्मथस्य क्षणाद्भस्मीभूतत्वं सुप्रसिद्धमेव, तदा कैव कथाधुनिकवीराणाम्। अतो नैवैश्वर्याद्या- श्रयेण धर्मविधानात्पापपरिजिहीर्षाशया तत्संपादको दुःसङ्ग: कालत्रयेऽपि विधेय इत्याशयः । इह साहसी नायकः। पूर्वार्धे वीरस्तृतीयपादे शङ्गारश्चतुर्थपादे करुणः सर्वैर्मिलित्वा शान्तश्र रसः । परिकरोऽलंकारः ॥

Page 57

अन्योत्त्युल्लास:। ४९

एवं तदुक्ति श्रुला तत्रत्य एव प्रागुक्तः पिशुनस्तावद्विदूषक इव तद्वाक्यस्य अहहेति शब्दपूर्वकं हस्ताभिनयेनोपहासमेवाकरोत्। अतः कुद्धः स पण्डितवरः पुनः स्फुटमेव मर्कटदृष्टान्तेन तन्निन्दनं ध्वनयति- युक्तं सभायां खलु मर्कटानां शाखास्तरूणं मृदुलासनानि। सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटितानि ॥ ८० ॥ युक्तमिति। मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि। तथा चीत्कृति- श्रीत्कारः सुभाषितम्। तथा दन्तैर्नखाग्रैश्च विपाटितानि परस्परं विदारणान्याति- थेयी अतिथौ साधुस्तथा। तत्पूजेत्यर्थः । इति युक्तं खल्विति योजना ॥ एवं श्रीगुरोः क्षोभमवलोक्य तदुपशमनार्थमतिनम्रीभूय 'भो भोः श्रीमदाचार्य, क्षम्यतामस्मदादीनामपराधकदम्बम्, तथा मया यत्किंचित्पृच्छ्यते प्रश्नपञ्चकेन प्रपश्चरहस्यं तन्निर्णीयोपदिश्यतां च' इति राजकुमारः संप्रार्थ्य पृच्छति- किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः। किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनानां चयः ।। ८१॥ किं तीर्थमिति। तदुत्तरयति-हरीति। एवमेव प्रश्नोत्तरपरम्परेयं पर्याय- चतुष्टयेऽ्प्यग्रे बोध्या। अच्छेति। स्वच्छेत्यर्थः। विषयित्वस्वभावशाली राजतनूजो भेदवादाभिनिवेशात्तत्प्रतिपादकशास्त्रेषु किमुत्तमं शास्त्रं यस्य श्रवणे तात्पर्यनिर्णये जाते सति द्वैतं तिष्ठत्येव, येन विषयसुखं मोक्षसुखं चास्माकं स्यादित्याशयेन पृच्छति-किं शास्त्रमित्यादिना। गुरु: खवचातुरीमाहात्म्येन तदभिमतविशेषण एवाद्वैतित्वेन तृतीयान्तविवक्षया समाधत्ते-श्रवणेनेति। द्वैतेति। दृश्यरूपध्वा- न्ताभ्युदय इति यावत्। अत्र यच्छब्दानुरोधेन पूर्व तच्छास्त्रं किमिति प्रश्नेऽपि तच्छब्दाध्याहारो बोध्यः। सततेति। निरन्तरोपकारतत्परमित्यर्थः । मित्रम्। विशेषणादेवात्र कीबत्वम्। पुंलिङ्गपाठस्तु किं शास्त्रमित्यादिप्राक्तनप्रश्ने, तथा कः शत्रुरित्याद्युत्तरप्रश्नेऽपि विशिष्टस्यैव पृष्टत्वेन तत्सारस्यान्मध्यवर्तिनः किं मित्रमि- त्यादिप्रश्नस्यापि संदंशन्यायेन तथैव वक्तुमुचितत्वादसततोपकाररसिकस्य तत्त्वा- वबोधस्यादृष्टतवेन तन्नयुदासार्थ निरुक्तविशेषणानपेक्षणाच्ानुचित एव । हे सखे

Page 58

५० भामिनीविलासे

इति संबोधनं तु हरिपादेत्यादिसमाधानपञ्चकेऽपि ज्ञेयम्। तेन सौहार्दातिशय- ध्वननान्निरुक्तोत्तरेऽप्याश्वसनीयतमत्वं व्यज्यते। तत्वेति। अद्वयात्मसाक्षात्कारेति यावत्। अत्रैव सखे इति संबोधनप्रयोगादेतदपेक्षयान्यद्रहस्यं नैवेति द्योत्यते। एवं वदेति पदमपि प्रश्नप्चकेऽपि। तथा तदनुरोधात्त्वंपदाध्याहारश् कर्तव्य एव। खेदेति। दुःखदागदक्ष इत्यर्थः । दुर्वासनानामन्तःकरणादिनिष्ठदुष्टसंस्कार।- राणां चयः संघ एवेति योज्यम्। 'सखा' इति प्रथमान्तपाठः 'संचयः' इति पाठश्च कः सखेत्यध्याहारापत्तेः क्रमभज्गापत्तेः प्रश्नसरणित्यागापत्तेः सखिमित्रयोर- वान्तरविशेषेऽपि हितकारित्वाविशेषेण पौनरुत्त्यापत्तेः खेददानकुशल इत्यत्रापि कमभङ्गभिया प्रश्नान्तरत्वाद्यापत्तेरन्यथा दुर्वासनेत्यादावनन्वितत्वापत्तेश्व संबुद्धन्त- पाठेऽपि क्रमभङ्गदोषस्य तु प्रथमे चरण एवाविशिष्टपृष्टत्वेन पराकरणीयत्वादनुचित एव। तथा 'सम्'पदेन गुणानाधानात्प्रत्युत पदचतुष्टयसमासघटकत्वाच्च तस्य मधुर- रसे प्रकृतेऽनुपयुक्तत्वाच्च तथैव सोऽपीति ध्येयं धीरैः । अत्र किं शास्त्रमित्यादि- विशिष्टप्रश्नन्रयेऽपि क्रमाद्धर्ममीमांसायाः सुग्रीवादिवद्यत्किचित्कालावच्छेदेनोपकार- परायणमित्रस्य, शिशुपालादिलक्षणस्य खेददानाकुलस्य शत्रोरपि व्युदास: सूचितः। तस्माद्धरिपादपद्मभजनादिचतुष्टयं पुमर्थचतुष्टयेच्छुना संपादनीयमेव तथा दुर्वास- नाध्वंसनं चेति तत्त्वम्। इह बुभुत्सुर्नायकः। शान्तो रसः। उक्तिप्रत्युक्तिरलंकारः ॥ अथैवं निरुक्तराजपुत्रः सहरूक्तं सकलपुरुषार्थनिदानमवधार्य परमं परितुष्ट इति कश्षित्तत्रैवोपविष्टो दुष्टो दृष्ट्रा मैनाकदष्टान्वेन तन्निन्दनमेव व्यङ्गयमर्यादया व्याचष्टे- निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः। चिरं जलनिधौ मझो मैनाक इव मार्दवम् ॥ ८२॥ निष्णातोऽपीति। निष्णातो नितरां स्नात इव । निममोऽपीत्यर्थः । अपिना तदन्यस्य कैव कथेति ध्वन्यते। मार्दवं मृदुतम्। एवं च तवेदं वश्चकत्वमेवोपदे- शवचनमिति तात्पर्यम्। इह धूर्तो नायकः । वीरो रसः । उपमालंकारः ॥ एवं निन्दनाकर्णनेनातिखिन्नः स्र गुरुः खगतमेवाद्वैति ताच्छेषेण गुणान्निन्दति- नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरबम्। शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनट्ुमाः॥८३॥ नैर्गुण्यमेवेति। मौन्यमेव। पक्षेऽद्वैतत्रझत्वमेव। साधीयः। 'साबीयान्सा

Page 59

अन्योत्तयुल्लासः। ५१

घुबाढयोः' इत्यमरात्साध्वित्यर्थः । स्पष्टमेव धिगित्यादि। तदेवार्थान्तरन्यासेन द्रढयति-शाखिन इत्युत्तरार्घेन। शाखिनः 'वृक्षो महीरुहः शाखी' इत्यमरादृक्षा इत्यर्थः । चन्दनेति। अत्र यद्यपि द्रुमपदमधिकमेव तथापि वक्तुर्निर्वेदाविष्टचेत- स्कत्वेनानवधानध्वनकमिति युक्तमेव। अत्र निर्विण्णो नायकः । श्ान्तो रसः । अर्थान्तरन्यासः श्लेषश्चालंकारः ॥ एतावदमानो मम धनयाञ्चामूल एवेति विभाव्य स एव पण्डितस्तन्निन्दां ध्वन- यन्वृक्षजीवनमेव धन्यत्वेन वर्णयति- परोपसर्पणानन्तचिन्तानलशिखाशतैः। अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः॥।८४॥ परेति। परं प्रत्यन्यं प्रति यदुपसर्पणं स्वीययोगक्षेमार्थमुपगमनं तेनानन्ता दुरन्ता या चिन्ता सैवानलोऽनिस्तस्य या: शिखा ज्वालास्तासां शतानि तैरित्यर्थः। अन्रानन्तेत्यादिना दुःसहत्वं द्योत्यते। अचुम्बितेति। न चुम्बितमेकदेशेऽपि स्पृष्टमन्तःकरणं येषां ते तथा एतादृशाः पादपा वृक्षाः । अत एव साधु शोभनं यथा स्यात्तथा जीवन्तीति संबन्धः । तस्मादयाचितव्रतानामेव चारु जीवितम्, नैवान्येषामिति तात्पर्यम्। अत्राप्युक्कावेव नायकरसौ। अप्रस्तुतप्रशंसा परिक- रश्वालंकारः ।। अथैवं सद्गरुनिर्वेदमालक्ष्य स राजपुत्रः श्रीगुरुं प्रति 'भो भो भगवन्' अनेन तटस्थेन 'निष्णातोऽपि च' (१।८२) इत्यादि पद्यं यत्त्वां प्रत्युकं तत्त्वामुद्दिश्य नैवोक्तम्, किं तु यन्मया पूर्वपद्ये 'किं शास्त्रम्' (१।८१) इत्यादिना मेदवादामि- निवेशेन पृष्टम्, तत्त्वादृशाचार्यचरणान्तेवासिनो मेऽनुचितमेवेव्यभिसंधाय मदुदे- शेनैवोक्तम्, अतो नैतदपराधबुख्ध्या मनः खेदनीयमिति प्रार्थयंस्तेन सज्जनसामा- ज्यस्तुत्या ध्वनिपद्धतित: स्तौति- शून्येऽपि च गुणवत्तामातन्वानः सवकीयगुणजालैः। विवराणि मुद्रयन्द्रागूर्णायुरिवेह सज्नो जयति ॥८५॥ शून्येऽपि चेति। सजन ऊर्णायुरिव लताकीट इव शून्येऽपि च शून्यहृदये पुंस्यपि विषये। पक्षे गरहाकाशदेशेऽपीत्यर्थः । सवकीेति। नैजवाम्मित्वादिसद्धर्म- संघैः। पक्षे सूत्रपटलैरित्यर्थः। गुणवत्तां पक्षद्वयेऽपि यथाकमं मिरुकगुपवैकि व्यममिति यावत्। आवन्वान आतनोत्ीति तथा विस्वारयन्। अल एव विवरनि दोषस्थानानि परच्छिद्राणि पक्षे गवाक्षाषिगृहरन्भामि मुधयन्मुद्रितानि कर्वन्।

Page 60

५२ भामिनीविलासे

आच्छादयन्नित्यर्थः । पक्षे संजातचक्राणि विदधन्सन्। द्राक् शीघ्रं जयतीति योजना। तस्मात्त्वत्पाटवमेवेदं यदनेन दूषितमपि मां भूषयसीति भावः। अत्र ललितो नायकः । शिष्यरतिभावो रसः । उपमालंकारः ॥ ततः पुनरपि खलमेव निन्दन्ध्वनितस्तमेव नरपतिसुतं स गुरुः स्तौति-खल इत्यादित्रिभिः । खलः सज्जनकार्पासरक्षणैकहुताशनः। परदुःखाग्निशमनो मारुतः केन वर्ण्यताम्॥ ८६॥ खल इति। सज्जना एव कार्पासाः शुद्धत्वमृदुत्वादिसाधर्म्यात्तूलविशेषास्तेषां यद्रक्षणं विरोधिलक्षणया भक्षणं तत्रैकहुताशनः। मुख्योऽमिरित्यर्थः । एतादृशः साधुबाधकः खल एको निर्णांत इत्यर्थः । परेति। परेषां यानि दुःखानि तान्ये- वाभिस्ं शमयति पूर्ववद्विरोधिलक्षणयैव दीपयति तथा एतादृशो मारुतो वायुः परदुःखसंवर्धकः पुरुषः केन वर्ण्यताम्। न केनापीत्यर्थः । तस्य खलापेक्षयापि विचित्रदौष्ट्यादसाववाच्य एवेति भावः । अत्र दुःशठो नायकः । करुणो रसः । रूपकविशेषोऽलंकारः । परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीरितं नितराम्। ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः॥८७॥ परगुह्येति। खला दुष्टा आखव इव मूषिका इव। ललिताम्बरमिव रम्यवस- नमिव। परेति परेषामन्येषां यद्गुह्यं गोप्यं धनादि, पक्षे मेढ़ादि, तस्य या गुप्ति- र्गोपनं तत्र निपुणम्। प्रवीणमित्यर्थः । कुत इत्यत्राह-गुणेति। शान्त्यादिगुणप्र- चुरम्। पक्षे सूत्रविकारीभूतम्। अत एवाखिलै: सर्वैलोकेर्नितरां समभिलषितमिति यावत्। एतादृशं सज्नं दूषयन्त्यारोपितदोषयुक्तं कुर्वन्ति। पक्षे खण्डयन्तीत्य- न्वयः । एवे यद्यपि तथा वर्तन्ते तथापि त्वं तु नैवमसीत्याशयः । अत्र नायका- दिकं तूकमेव। उपमालंकारः ।। यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः। कारुण्यकुसुमाकाशः खलः सजनदुःखलः ॥। ८८ ।। यश इति। यश एव सौरभ्यं सौगन्ध्यं तस्य लशुन इव लशुनः । स यथा काळत्रयेऽपि सौरभ्यानुत्पत्तिस्थानमेव तद्वदयं खपेऽपि यशोनुत्पत्तिहेतुरेवेत्यर्थः । मास्तु यशः शमश्वेदलम्। उक्त हि वासिष्ठे-'तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च। बलवत्सु गुणाढ्येषु शमवानेव राजते ।' इति। तत्राह-शान्तीति ।

Page 61

अन्योक्त्युल्लासः। ५३

शान्तिरेव शैत्यं तस्य हुताशन इवानुत्पत्तिस्थानत्वाद्धुताशनोऽनिरित्यर्थः । अथापि दया चेदुभयमप्येतद्भविष्यति। अत एवोक्तम्-'वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः । करणं परोपकरणं येषां केषां न ते वन्धाः ॥' इति। तत्राह- कारुण्येति। कारुण्यमेव कुसुमं तस्याकाश इवानुत्पत्तिहेतुत्वादाकाश इत्यर्थः । एतादृशः खलः । अत एव-सज्नेति। सज्जनानां यद्दुःखं तल्लात्यादत्ते संपादय- तीति तथा। साधुदुःखजनक इत्यर्थः । 'दुःखदः' इति पाठस्तु सरल एव । त्वं व्र सज्जनसुखद एवेति भावः। अत्र रूपकलप्तोपमाविशेषावलंकारौ। शेषं तु प्राग्वदेव।। एवं स राजकुमारः खलनिन्दामाकर्ण्य ततः परमक्षुब्धं श्रीगुरुमालक्ष्य 'गुरुं प्रणतिभिः' इति न्यायादुक्तनिन्दाप्रधानपद्यत्रयद्योतितखवस्तुतितः प्रचुरप्रमुदितः संस्तं वृक्षान्योत्त्या प्रणमति- धत्ते भरं कुसुमपत्रफलावलीनां घर्मव्यथां वहति शीतभवां रुजं च। यो देह्मर्पयति चान्यसुखस्य हेतो- स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ८९॥ धत्ते भरमिति। यो वक्ष्यमाणगुणगणस्तरुवरः। कुसुमेति। भरं भारम्। अन्यसुखस्य हेतोरितरानन्दकरणार्थमित्यर्थः । न हि तेन तस्य किंचिद्धितम्। धत्ते धरति। तथा घर्मव्यथामातपपीडां शीतभवां हिमसंभवां रुजं पीडां च वहति। इदं वृष्यादेरप्युपलक्षणम्। किंबहुना, देहमप्यर्पयति। इन्धनाद्यर्थिभ्य इत्यर्थः । तस्मा- यित्यादि यथाश्रुतमेव योज्यम्। वदान्येति। अनेनैतादृशो दातृशिरोमणिस्त्वमेव, अहं तु वदान्याभास एवेति भावः । अत्र चरणत्रयेण क्रमेण विद्यासंभारसंभरण- श्रमशालित्वं खलपीडासहिष्णुत्वं प्राणप्रायब्रह्मविद्याप्रदातृत्वं चेति वदान्यगुरुत्वे हेतवो द्योतिताः । नमनेन च तत एव सर्ववन्धत्वं व्यज्यते। इहोदात्तो नायकः। दानवीरो भक्तिश्च रसः । काव्यलिङ्गमलंकारः ॥ अथायं निरुक्तापराधी तटस्थादिरपि मूढजनः श्रीमद्धिः करुणयानुग्राह्य एवेति श्रीगुरुं प्रार्थयन्राजकुमारस्तेन प्रबोध्यते- हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम्।

Page 62

५४ भामिनीविलासे

व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं तनुते मनीषाम्॥९०॥ हालाहलमिति। यो दुर्जनं वशयितुं मनीषाम्। 'बुद्धिर्मनीषा' इत्यमरात्तद्- त्तिविशेषरूपामिच्छामित्यर्थः । तनुते विस्तारयति। स हालाहलम्, न तु जलम्। तत्रापि कौतुकेन, न तु मृतीच्छया। खलु निश्चितम्। विषमेवेत्यर्थः । पिपासति धानकर्मीकर्तुमिच्छति। तथा। कालेति। प्रलयकालीनवह्निम्, न तु सामान्या- भिम्। तत्रापि प्रकाममत्युत्कटम्, न तु यत्किंचित्। तत्रापि परिचुचुम्बिषति भूयोऽपि समन्तादपि वक्रसंयुक्तीकर्तुमिच्छति। न केवलमेतावदेव, किं तु- ब्यालेति। सर्पराजं तक्षकमपि। तन्राप्यद्धा साक्षादव्यवहितम्। तत्रापि परिर- न्धुम्, न तु द्रष्टम्। यतते प्रयन्नं करोतीत्यन्वयः । तस्मादिदं दुर्घटमेवेति भावः । इह मूर्खो नायकः। औदासीन्यध्वनितः शान्तो रसः । दृष्टान्तविशेषोऽलंकारः ॥ ततः स तटस्थोऽपि सवदोषमवधार्यानुतप्तस्तं पण्डितं व्याजनिन्दाघटिताप्रस्तु- तप्रशंसालंकारेण पण्डितवरंमन्य इवोपालभते- दीनानामिह परिहाय शुष्कसस्या- न्यौदार्य प्रकटयतो महीधरेषु। औन्नत्यं विपुलमवाप्य दुर्मदस्य ज्ञातोऽयं जलधर तावको विवेकः ॥९१॥ दीनानामिति। हे जलधर, तावकस्त्वदीयः। अयं प्रत्यक्षः। विवेको विचारः। इह लोके दीनानामनन्यगतीनां कृषीवलानाम्। एतेनावश्यानुकम्पनीयत्वं व्यज्यते। तत्रापि। शुष्केति। शुष्कधान्यानि। एवं च तत्पुष्यभावे तेषां मृत्युरेव स्यादिति ढवतपरितर्पणीयत्वमावेद्यते। परिहाय त्यक्त्वा । महीधरेति। पर्वतेष्वित्यर्थः । औदार्य वृष्टिपुष्या वदान्यत्वमिति यावत्। प्रकटयतः स्फुटीकुर्वतः । एतेनोप- हास: सूचितः । एतादृशस्य दुर्मदस्य दुष्टक्षासौ मदश्चेति तथा। उन्मादस्येव्यर्थः। विपुलं प्रचुरमौन्नत्यमौत्कण्ठ्यमवाप्य प्राप्य। ज्ञातः 'प्रतीते प्रथितर्यातवित्तविज्ञा- तबिध्रुताः' इल्यमराद्विख्यातोऽस्ीति संबन्धः । तस्मान्मादृशा दी नास्त्वयानुकम्प- नीया एवेत्याशयः । इहाविवेकी नायकः । करुणो रसः । अलंकारस्तूक एव ।। ततः स राजपुत्रः पण्डितस् सान्त्वनं ध्वनयभनुप्रहदाम्यर्धनमपि सूचयन्सामा- न्यतो महाधियामेव शुक्तं यावहुस्तरेम्य दृवि स्पष्ठपति+

Page 63

अन्योक्त्युल्लासः। ५५

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्। तस्माद्प्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥९२॥। गिरय इति। गुरवो महान्तः। उर्वी पृथ्वी। जगदण्डं ब्रह्माण्डम्। प्रलय इत्याद्यतिगुरुत्वे हेतुगर्भ विशेषणम्। अचलत्वमत्र क्षोभशून्यत्वम्। उक्त हि योग- वासिष्ठे-'अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले। गुरुशास्त्रानुगो मार्ग: परित्याज्यो न धीमता ।I' इति, 'विचारदर्पणे लग्नां धियं धैर्यधुरं गताम्। आध- यो न विलुम्पन्ति वाताश्चित्रानलं यथा ।' इति 'नापदि ग्लानिमायान्ति हेमपदं यथा निशि' इत्यादि च। तम्ाच्छ्रीमद्भिरस्मदादीनां सर्वानप्यपराधान्सोढ़ास्म- दादयः सर्वेऽपि खलाः समनुग्राह्या एवेति भावः । अत्र धीरो नायकः । गुरुर- तिर्भावः। सारोऽलंकारः। तदुक्तं कुवलयानन्दकारिकासु-'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते। मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः ॥' इति॥ पुनरपि श्रीगुरुरिदं दुर्घटमेवेति मन्वानः खलनिन्दां व्यनक्ति- व्योमनि वासं कुरुते चित्रं निर्माति यत्नतः सलिले। स्नपयति पवनं सलिलैर्यः क्षुद्रे चरति सत्कारम्॥९३॥ व्योमनीति। यः भ्ुद्रे। 'क्षुद्रे स्तोकाल्पक्षुल्लका' इत्यमरादल्प इति यावत्। 'यस्तु खले' इति पाठः साधुः। सत्कारः सत्करणं सत्कारः साधुतां नयनमित्यर्थः । स व्योमन्याकाशे वासं वसतिम्। 'व्योमनि शम्बाम्' इति पाठे शम्बां क्षेत्रभक्तिम्। कृषिविभागमिति यावत्। कुरुते। तथा पवनं सलिलैः स्नपयतीति संबन्धः । एवं चैतत्रयं यथा कालत्रयेऽप्यघटमानं तथा क्षुद्रस्य साधुत्वापादनभपीति तात्प- र्यम्। अत्र दुःशठो नायकः । शान्त एव रसः । दृष्टान्तविशेषोऽलंकारः ॥ न केवलं मूर्खस्य साधुत्वापादने यत्नवैफल्यमेव प्रत्युत तत्कृतखवचनानादर- वशान्मानहानिरपि । ततः 'सतां माने म्लाने मरणमथवा दूरगमनम्' इति न्यायेन मृत्युसमकक्षदुःखापत्तिरिति स एव पण्डितो मर्कटान्योत्तया व्यनक्ति- हारं वक्षसि केनापि दत्तमझेन मर्कटः। लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम् ॥ ९४॥ द्ारमिति। लेद्याखादयति। जिघ्रति गन्धग्रहणविषयीकरोति। संक्षिप्या- स्वक्त्वा। उघनतमुन्नमासनं करोतीति स्पष्टमेव। तस्मादनुचिवमेव मूर्खस्राधुलया- पादनयतनमिति हृदयम्। इह नायकायुकमेक। अप्रस्तुतनिन्दालंकारः ।।

Page 64

५६ भामिनीविलासे

एवं मूर्खनिर्भर्त्सनं भूयः समाकर्ण्य स राजकुमारस्तावत् 'अनृतं साहसं माया मूर्खत्वमतिलोभिता। अशौचं निर्दयत्वं च स्त्रीणां दोषाः खभावजाः ॥' इति वच- नात्सकीयरमण्यामपि स्त्रीत्वेन तदवधार्य तज्जिहासुरभूदिति तदिङ्गितैः स पण्डितो निर्णीयाध्यवसिततत्पातिव्रत्यस्त्वया स्वरमण्यौदासीन्यं नैव विधेयमिति भ्रमरा- न्योक्त्या व्यनक्ति- मलिनेSपि रागपूर्णा विकसितवदनाममन्दजल्पेऽपि। त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥९५॥ मलिनेऽपीति। रागपूर्णा रागबाहुल्यवतीमित्यर्थः । पक्षे नायके दुःसङ्गकौ- र्यख्वैरत्वैर्मालिन्यबहुभाषित्वचापल्यानि। नायिकायां तु रागः प्रेमा। 'अनल्प- जल्पेऽपि' इति पाठः । शिष्टं तु स्पष्टमेव। तस्मान्नेयं सर्वगुणरमणीया रमणी हेयेत्याशयः। अत्र सरोजिनीपदेन तस्यां पद्मिनीत्वं ध्वन्यते। इहाविवेकी नायकः । करुणो रसः। निरुक्त एवालंकारः । अथ तत्रैवावस्थितः प्रागुक्तः कक्षित्तटस्थः खमनसि यदयं पण्डितवरस्तावदिमं राजतनूजं सवसुन्दरीत्यागानौचित्योपदेशान्यथानुपपत्त्या प्रागुक्तरीत्या चतुर्वर्गोप- दिक्षुरपि नास्मान्प्रति करुणालेशेनेषपदप्यगृह्नात्यतो धिङ्मामिति परमविषण्ण- खेनानुकम्पया किमिति त्वं खिन्नोऽसीति पृष्टस्तदपलाप्यानुतापवशात्सत्त्वप्रधान- चेताः सन् धनलोभलक्षणं स्वापराधमेव तत्र हेतुं द्योतयन्सामान्यतः सार्थ परार्थ वा धनार्थित्वावच्छेदेन मुखमालिन्यव्याप्तिं स्पष्टयति- स्वार्थ धनानि धनिकात्प्रतिगृह्वतोऽपि स्वास्यं भजेन्मलिनतां किमिदं विचित्रम्। गृहन्परार्थमपि वारिनिधे: पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ ९६ ॥ स्वार्थमिति। प्रतिगृह्नतोऽपि, न तु स्तेयादिना हरतः । स्ास्यं स्वस्य प्रतिग्र- हीतुरस्मदादेरास्यं वदनमित्यर्थः। शोभनं मुखं वा। 'यदास्यम्' इति पाठे तु यत्प- दमिदमा संबध्यते। ननु कुतो नेदं विचित्रं प्रत्युत धनलाभजन्यसंतोषात्प्रसादिनैव भाव्यमित्याशङ्क्य कैमुतिकन्यायेन समादधत्तत्रार्थान्तरन्यासमुपन्यस्यति-गृह्न- त्नित्युत्तरार्घेन। सकलोऽपि संपूर्णोऽपि न त्वेकदेश एव। अयं बुद्धिस्थः सर्वलोक- प्रत्यक्षो वा। मेघः परार्थमपि, न तु सार्थम्। वारिनिधे: सकाशात्पयोऽपि जल-

Page 65

अन्योक्तयुल्लासः । ५७

मपि। तेनास्य तुच्छत्वं व्यज्यते। गृह्णन्कालिमानं कार्ष्ण्यमेतीति योजना। तस्मा- द्विग्धनयाचनमित्याकूतम्। अत्रोदासीनो नायकः । शान्तो रसः। काव्यार्थापत्त्य- नुप्राणितोर्थाऽन्तरन्यासोऽलंकारः ।। एवं समनुतप्तं तं तटस्थमालक्ष्यानुजिघृक्षुः स पण्डितस्तं नृपकुमारोपहारार्थ केनचिदानी तमलय जेक्षणप्रसक्तया चन्दनान्योत्त्या स्तुत्या मण्डयति- जनकः स्थाणुविशेषो जातिः काष्ठं भुजंगमैः सङ्ग: । स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥९७॥ जनक इति। स्थाणुविशेषः 'स्थाणुः कीले स्थिरे हरे' इति विश्वात्स्थिरत्वोपल- क्षितो मलयाचल इत्यर्थः । 'सानुविशेषः' इति पाठे 'स्ुः प्रस्थः सानुरस्त्रियाम्' इव्यमरात्प्रस्थविशेषः । एतेन कुलौन्नत्यराहित्यं व्यज्यते। अस्त्वेवमथापि जात्या हीरकादिवदौन्नत्यं स्यादित्यत आह-जातिरिति। काष्ठम्। एतेन दहनेतरानुप- योगित्वं ध्वन्यते। एवमपि स्वात्युदकवत्सङ्गविशेषेण तत्स्यादित्यत्राह-भुजंगमै- रिति। हे पटीरज मलयज। चन्दनेत्यर्थः। एवं च प्राक्प्रतिज्ञाते जनक इत्यादौ हेतुर्द्योतितः । त्वं तथापि कुलजातिसङ्गसौष्ठवाभावे सत्यपीत्यर्थः। खेति। नैजसौ- रभ्यादिधमैंरेवेत्यर्थः। एवं च गुणानामगणितत्वं महत्त्वसाधकसाम््यन्तरविरहि- तत्वं च सूचितम्। महिमानं देवसेव्यत्वादिलक्षणमौत्कट्यम्। यातोऽसि प्राप्तोऽसी- त्यन्वयः। न चेदं मलयस्य न वा काछ्ठत्वजातेरपि माहात्म्यं यच्चन्दने सुरसेव्य- त्वम्, किं तु तस्य नैसर्गिकसौरभ्यप्रभाव एव। तद्वद्भवतोऽप्यद्य स्ाभाविक एवायं सत्त्वोदय इत्याशयः। अत्र ललितो नायकः। शिष्यरतिर्भावः। प्रस्तुताङ्कुरोऽलंकारः॥ ततस्तं तटस्थं स एव पण्डितः प्रश्नोत्तरसरण्या संजातानुतापत्वेन राजतनूजा- पेक्षयापि मोक्षसाम्राज्यलक्ष्मीप्रासादे द्रुतमारुरुक्षुमालक्ष्य सर्वोपदेशरहस्यं विषय- सुखोपलक्षितं यावद्वैतत्यागमेव संक्षिपति- कस्मै हन्त फलाय सजन गुणग्रामार्जने सजसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय। ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता- स्तैरेवास्य कले: कलेवरपुषो दैनंदिनं वर्तनम्॥ ९८॥ कस्मा इति। हे सजन, त्वं हन्त सखेदं कस्मै फलाय। गुणेति। वाग्मित्वा- दिचारुधर्मसंघसंपादन इत्यर्थः । सज्जसि । संसक्तो भवसीति यावत्। खान्तःकर-

Page 66

५८ भामिनीविलासे

णादे: सत्संस्कार संपादनार्थ सद्गुणगणसंग्रहे किमिति न यतितव्यमित्याशङ्क्य समा- धातुमवधानप्रदानं बोधयति-खात्मेति। खात्मनो निजान्तःकरणादेरुपस्करणं संस्करणं तस्मा इत्यर्थः । किमिति त्वद्वचः समाकर्णनीयमित्यतस्तत्र हेतुगर्भ विशेषणम्-पथ्यमिति। परिणामहितमित्यर्थः । एवं चास्य प्रथममप्रियत्वेऽप्य- नादरणानईत्वं ध्वन्यते। 'सम्'पदेनावधानश्रद्धाधिक्यापेक्षा व्यज्यते। किं तदि- त्यत्नाह-य इत्युत्तरार्घेन। ये भावा अनञ्पदार्थाः । नितरां शोभाभरैः संभृताः परिपुष्टाः । अत एव हृदयं मनः । नितरामिति काकाक्षिगोलकन्यायेनोभयत्रा- न्वेति । हरन्ति वशीकुर्वन्ति । तैरेव प्रागुक्तरम्यानञ्पदार्थैरेव न त्वन्येः । अस्य साक्षिप्रत्यक्षस्य। कलेवरेति। कलेवरं शरीर पुष्णातीति तथैतादृशस्य कले: कलियुगाख्यस्य। वर्तमानकालस्येत्यर्थः । दैनंदिनं दिने दिने भवं दैनंदिनम्। प्रतिदिवससंभवमिति यावत्। वर्तनम्। जीवननिर्वहणमित्यर्थः । अस्तीति शेषः । कलियुगेऽस्मिन्प्रायशो रम्यपदार्थानामेव प्रतिदिवसं भूरिक्षयो भवतीत्यतो धिग्दे- हादिरम्यतासंपादकगुणगणासादनमिति हृदयम्। अत्र सज्जनेत्युपदेशार्हत्वं व्यज्यते। इहोदासीनो नायकः। शान्तो रसः । आक्षेपोऽलंकारः ॥ एवं यावद्रम्यस्याशुविनाशित्वमाकर्ण्य स तटस्थः श्रीगुरुविरहेण निरुक्तनरवर- कुमारस्य दुरवस्थाकथनच्छलेनोभयोरपि तच्चरणकमलयुग्मे रतिमाम्रान्योत्तया व्यनकि- धूमायिता दश दिशो ललितारविन्दा देहं दहन्ति दहना इव गन्धवाहाः। त्वामन्तरेण मृदुजालकलाम्र मञु- गुअन्मधुवतमथो किल कोकिलस्य ॥ ९९॥ धूमायिता इति। हे मृद्विति। मृदु कोमलमेतादृशं यजालकं कलिकाजालं तल्लाति आदत्त इति तथा एतादृश भो आम्र। अथोऽनन्तर त्वामन्तरेण भवन्तं विना कोकिलस्य। ललितेति। ललितानि फुल्लत्वादिना सुन्दराण्यरविन्दानि महोत्पलानि यासु ताः। एतादृशो दशदिशोऽपि। यद्यप्यूर्ध्वाधोदिशोर्नारविन्द- संभावना तथापि ब्रह्मलोकनागलोकयोस्तद्वर्णनाद्युक्तैव सा। धूमेति। धूम इव आचरिताः । सधूमा इत्यर्थः । तथा गन्धवाहाः सुरभिवायवो दहना इवान्नय इव। देहं दहन्ति किलेति संबन्धः । कुत इत्यत आह-मञ्विति। कीदशं त्वाम्। मञ्जुलध्वनन्मधुकरमित्यर्थः । अन्र 'दलितारविन्दाः' इति 'मृदुताम्रद-

Page 67

अन्योक्त्युल्लासः। ५९

लाम्रमन्नुगुञ्जन्मधुव्रत मधौ' इति पाठस्तु समीचीनः। तत्र दलितपदं विक्रसि- तपरम्। एवं मृदून्यत एव ताम्राणि दलानि पत्राणि यस्य तत्संबुद्धौ। अत एव मञ्विति। एतादृश हे आम्र, त्वामन्तरेण लां विना मधौ वसन्ते कोकिलस्ये- त्यादि योज्यम्। तस्मात्त्वद्वियोगो मैवास्त्विति रहस्यम्। इह विषादी नायकः । करुणो रसः । गुरुरतिर्भावश्च। अप्रस्तुतप्रशंसालंकारः ॥

अथैवं स नरवरकुमारोऽपि निजक्षात्रनिसर्गसिद्धशार्यस्यापि 'जहि शत्रुं महा- बाहो कामरूपं दुरासदम्' इति श्रीमद्भगवद्गीतावचनात्, 'कः शूरो यो ललना- लोचनबाणैन विव्यथितः' इति श्रीमद्विमलाचार्यचरणकमलीयप्रश्नोत्तररत्नमालोक्ते- श्रान्त:शत्रुभूतकामाद्यासुरवृत्तिविजयमन्तरा वैयर्थ्यमेवेति प्रपूर्वपद्यध्वनितयावद्र- म्यविनश्वरत्वाकर्णनजन्यनिजनिर्वेदं सिंहान्योत्त्या श्रीगुरुं प्रति द्योतयति- भिन्ना महागिरिशिला: करजाग्रजाग्र- दुद्दामशौर्यनिकरैः करटिभ्रमेण। दैवे पराचि करिणामरिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेशः॥ १०० ॥ भिन्नेति। करिणां गजानामरिणा शत्रुणा सिंहेन। अत एव यद्यपि दैवेऽदृष्टे पराचि पराझुखे सति करटिभ्रमेण। 'काकेभगण्डौ करटौ' इत्यमरात्, 'करटः करिगण्डे स्यात्कुसुम्मे निन्दजीवने। काके वाद्ये दुर्दुरूढे नवश्राद्धे' इति हैमाचच करटशब्दितगण्डपिण्डद्वन्द्वशाली करटी। गजेन्द्र इति यावत्। तद्मेण स्थूल- त्वनीलत्वादिसाधर्म्याद्गजेन्द्रभ्रान्त्येत्यर्थः । करजेति । करजा नखास्तेषां यान्य- ग्राणि तेषां ये जाग्रन्तोऽतन्द्राः अत एव उद्दामा उत्कटा एतादृशा ये शौर्यनि- करा वीर्यसमूहास्तैरित्यर्थः । महागिरिशिलाः भिन्ना विदारिताः । हा इति खेदे। तथापि कुत्नापि पिशितस्य । 'पिशितं तरसं मांसम्' इत्यमरान्मांसस्येत्यर्थः । लेशोऽपि स्वल्पांशोऽपि नापि खलु नैव लब्ध इति योजना। तस्माहुरदृष्टपुष्टमि- थ्यादृष्टिवशादेव मयैते शत्रवः पराजिताः सर्वेऽपि। वास्तविकविजयस्तु तेभ्यः सकाशात्तेषामेवावास्तविकत्वात्क्वचिदपि देशे काले नैव लब्धः। अतः सर्व परि- त्यज्यान्तःशत्रुविजयार्थमेवाहं यतिष्यामीत्याकूतम् । इह निर्विण्णो नायकः । वीरानुप्राणितः शान्तो रसः । उक्त एवालंकारः ॥

Page 68

६० भामिनीविलासे

इदानीं कविर्नीत्युपदेशफलमन्तःशत्रुविजयार्थ सन्मार्गप्रयत्नलक्षणं धर्म तत्सि- ज्तर्थ दानाद्युपयोगिनं स्वस्वोचितगुणप्रावण्यैकसाध्यमर्थ च संपादयितुं शिष्यस्य संजातं विज्ञानं प्रारम्भवत्समाप्तावपि सिंहान्योत्तयैव द्योतयति- गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि। हरिशिशुरुत्पतितुं द्रागङ्गान्याकुश्च्य लीयतेऽतिभृशम्॥१०१। इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे अन्योक्तयुल्लासः प्रथमः ॥ गर्जितमिति। हरीति। सिंहशिशुः पक्षे श्रीकृष्णसुतः कामः । एतेन देवता- विजयवर्णनलक्षणवस्तुनिर्देशलक्षणं मङ्गलमपि प्रकरणसमाप्तौ सूचितं भवति। तथोत्तरप्रकरणप्रतिबोध्यकामपुमर्थस्य सूत्रणमपि ध्वन्यते। निशेति। निशाया रात्रेरर्ध यामद्वयं तत्परिमितं जातं 'जातिर्जातं च' इत्यमराजात्युपलक्षितं वयो यस्य स तथा। तादृगपीत्यर्थः । यद्वा निशार्धे जातः। पक्षेऽक्करितोऽपीति यावत्। मनागीषद्गर्जितं मेघध्वनितम्। तस्योद्दीपनविभावत्वात्। पक्षेऽप्येवमेव। मातुर्ज- नन्याः। पक्षे अमातुर्जीवस्य। अङ्क उत्सङ्गे। पक्षे मनोरूपैकदेशे। द्राक्शीघ्र- मुत्पतितुम् । अतिभृशमत्यन्तम्। अङ्गान्यवयवान्। मोहनादीनि साधनानि। आकुश््य लीयत इत्यन्वयः । 'निभृतम्' इति पाठे तु निगूढामिति व्याख्येयम्। अत्र घीरो नायकः । वीरो रसः। श्लेषश्वालंकारः ॥

इति प्रणयप्रकाशे प्रथमः प्रमोद्:।

Page 69

शृङ्गारोल्ासः । द्वितीयः प्रमोद्ः। अथ श्रीगुरुस्तावदेवं नीत्युपदेशेन ससाधनौ धर्मार्थावुपबोध्याधुनावसरप्राप्तं ससाधनं काममपि शङ्गारोह्लासेन समुपदेष्टं सोऽपि श्रीरामवत्खकीयायामेव तया संपादनीयो न तु श्रीकृष्णवत्परकीयाया मित्यन्वयव्यति रेकनिदर्शनद्वयपरं प्रकरण- मारभमाण: प्रथमं मङ्गलत्वेनादर्शदर्शनादिवच्छृद्गाररसालम्बनीभूतनायिकावदन- वर्णननिपुणं तां प्रति नायकवाक्यमुपन्यस्यति- न मनागपि राहुरोपशङ्का न कलङ्कानुगमो न पाण्डभाव: । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥ १ ॥ न मनागपीति। इदं हि सीतां प्रति श्रीरामस्य, राधां प्रति श्रीकृष्णस्य च वाक्यं तदाननसौन्दर्यमलौकिकतयावधार्य प्रसादाति रेकादेव तन्मानापनोदनफल- कम्। न चैवं सारस्यानुसारेण विवेचनचतुराणां श्रीरामादिविलासपरत्वेन प्रकरणयो- जनमयुक्तमेवेति सांप्रतं 'यौवनोद्रमनितान्तशद्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' इति, 'लोभाद्वराटिकानां विक्रेतुं तकमक्रममटन्त्या। लब्धो गोपकिशौर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' इत्यादौ च तत्र तत्र तल्लिङ्स्य मध्ये स्फुटतरत्वात्कवेः खप्रेयसीवर्णने यथाकथं- चित्तात्कालिकफलसंभवेऽपि पारत्रिकतदभावध्रौव्यात्। प्रत्युत 'न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्। तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिकक्षयाः ॥' इति भगवद्गुणवर्णनहीनवाग्व्ययस्य निषिद्धत्ाच्च। न चैवं प्रथमोल्लासेऽपि शक्यं भगवदितरपरत्वेन निषेधसत्त्वम्। तस्य धर्मोपदेशध्व- नकत्वेन भगवत्परत्वस्य परम्परया संभावितत्वेन तदभावात्। न चैवमत्रापि 'ऋ- तौ भार्यामुपेयात्' इति ब्रह्मचर्यमेव, 'तद्यद्रात्रौ रत्या संयुज्यते' इति च श्रुतेः स्वकीयाविषयकस्य कामस्यापि धर्मत्वेन तत्तौल्यमेवेति वाच्यम्। तथात्वेऽर्थका- मयोः पुरुषार्थतराहित्यापातात्तयोस्तदानुभ विकत्वस्य सार्वलौकिकत्वेनेष्टापत्तौ तद्वि- रोधात्.। उक्तश्रुतेस्तु परिसंख्याविधित्वेन सकीयेतरर्तुकालान्यकालनिवृत्तावेव तात्पर्येण तदनुकूलेन्द्रियनिरोधेन 'मनसश्चेन्द्रियाणां च ऐकाय्यं परमं तपः । तजज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥' इति स्मृतेः । संपद्यमानपरमधर्ममा- भा० वि० ५

Page 70

६२ भामिनीविलासे

त्रपर्यवसन्नत्वेन यथाश्रुतार्थकत्वाभावाच्च। वस्तुतस्तु साध्यसाधनमेदेन पारत्रिकं धर्ममोक्षाख्यपुरुषार्थद्वयमेव। अर्थकामौ त्वैहिकावेव। तत्रापि साधनीभूतस्य ध- रमस्य चित्तशुद्धेर्जनकत्वेन तद्वारा वैराग्यादिसाधनचतुष्टयपुष्टिपूर्व कश्र वणादिपरिपा- कोत्तरं वेदान्तमहावाक्यजन्य्रह्मात्मतत्त्वसाक्षात्कारव्यङ्गथे विशुद्धाद्वैतात्मरूपमोक्ष एव पर्यवसन्नत्वेनैक एव पुरुषार्थः। सर्वपुरुषैरर्थ्यमानस्य निःशेषदुःखध्वंसनिर- विशयसुखलाभस्य तत्रैव संभवात्। धर्मादित्रयाणां परस्परं साध्यसाधनभावसंभ- वेऽपि मुख्यपुमर्थलाभावात्। 'यत्सुखं साधनाधीनं दुःखमेव तदुच्यते' इत्याद- भियुक्तोत्त्यापि तथाताच्चेत्यन्यदेतत्। निरुक्तश्रुतिवशादतुकाल एव पाणिगृहीता- यामेव कामोपभोगशीलस्यानुषङ्गिकोऽपि किं धर्मो न संभवत्येव। यदि संभवति चेदत्रापि परम्परया भगवत्तात्पर्यकत्वेन किमनया कुसृष््येति चेत्सत्यम्। तथापि प्रथमप्रकरणापेक्षयात्र विक्षेपबाहुल्यस्य कोटिगुणमधिकतमत्वात्परकीयायामपि प्रसत्त्यापातात्क् नाम धर्मोदयावकाशः। देवतापरत्वे लस्य तत्स्मरणादिनास्म- च्छब्दस्थल आहार्यतत्तादात्म्यस्य नटादाविव संभवेन च नायमनर्थः, प्रत्युत धर्माधिक्यसाधकत्वमेव। कामाख्यस्य व्यावहारिकपुरुषार्थस्यापि निरुक्तान्वयव्य विरेकनिदर्शनेनाधिकारिणा स्वकीयायामेव साधयितुं शक्यलाच्च न काप्यनुप- पत्तिः । अत एवोकं भगवतापि-'धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति। नन्वथापि 'रम्या दशा मनसि मे मदिरेक्षणायाः' इति तृतीयपद्यादावस्मि- त्ुल्लासे कवेः शतशोऽप्यस्मच्छब्दस्य सत्त्वात्तथा तृतीये करुणोल्लासेऽपि द्वितीय- पद्ये 'मामद्य मज्जरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं शिशिरीकरोषि' इति, तथा 'सा केवलं हरिणशावकलोचना मे' इत्यादि तृतीयपद्यादावपि भूरिशस्तस्य स्फुट त्ाचतुर्थे शान्त्युल्लासेऽपि प्रथमश्लोक एव 'विशालविषयावलीवलयलग्नदावा- नलप्रसृत्वरशिखावलीविकलितं मदीयं मनः' इत्यत्र, तथा 'शिशिरयाशु मां लोच- नैः' इत्यादौ द्वितीयपद्यादावपि तस्य स्पष्टतमलाच्च यस्य पूर्व रमण्यामत्यनुराग- स्वस्यैव तच्निधने शोकस्ततस्तस्यैवौदासीन्ये भगवत्प्रार्थनमित्यवश्यमेकवक्तृकले वाच्ये 'संभवत्येकवाक्यले वाक्यमेदो हि नेष्यते' इति न्यायात्संपद्यमानायामेकवाक्य- तायां कथमत्रत्यास्मच्छब्दस्य रामादिपरतया तृतीयस्थस्यापि तस्य श्रीराममात्रपर- तया चतुर्थस्थस्यैव तस्य काव्यैकपरतया व्याख्यानेन वाक्यमेदाज्गीकरणं शब्दार्थपरी- क्षणनिपुणानामादरणीयं स्यात्। तस्माद्यथाश्रुतैवेयमुल्लासत्रयी व्याख्येयेवि चेद्वा- ढम्। किमत्र कवेर्निजधर्मपत्न्येव वर्णनीयलेनाभिमवेवि त्रूषे। यद्वा या लोक-

Page 71

शृङ्गारोह्लासः । ६३

प्रसिद्धा 'यवनी नवनीतकोमलाज्गी शयनीये यदि नीयते कदाचित्। अवनीतल- मेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥l' इति सुप्रसिद्धैतदीयपद्यसिद्धा यवनविशेषस्य कस्यचित्पृथ्वीपतेर्दुहिता। आद्ये श्रीमद्गङ्गाप्रसादासादितसूरिवरलो- त्तरमिन्द्रप्रस्थे पृथ्वीपति प्रत्युपेत्य 'शीतार्ता इव संकुचन्ति दिवसा नैवाम्बरं श- र्वरी शीघ्रं मुश्चति किं च सोऽपि हुतभुक्कोणं गतो भास्करः । लं चानङ्गहुताश- भाजि हृदये सीमन्तिनीनां गतो नास्माकं वसनं न वा युवतयः कुत्र व्रजामो वयम् ।I' इति श्रोकेन स्ववृत्तविनिवेदनं यदनेन कविना कृतमिति वृद्धपरम्परोद- न्तसुप्रसिद्धमेव। तत्र सपनन्यभावस्य व्यक्ततरतादसंभव एव। तदूर्ध्व तु निरु- कयवन्या एव श्रीमद्रङ्काप्रसादमदेनाज्गीकारात्क्व नाम धर्मपत्नीसंभवः। यतस्वद- र्थमेव काश्यां सर्वविप्रैर्बहिष्कारे कृते ततः पावनतायै पूर्वतपोवशीकृतां श्रीगङ्गा- मेव पीयूषलहरीनाम्रा 'समृद्धं सौभाग्यं सकलवसुधायाः किमपि तत्' इत्यादिद्विप- व्वाशत्पद्यात्मना गङ्गास्तवेनाभिनवेन तां सुता प्रतिश्लोकमेकैकसोपानं जलेना- तिक्रामन्त्या तयासावभिक्षालित इत्यपि वृद्धप्रसिध्धैव सिद्धम्। अन्त्ये तु 'प्रात- स्तरां प्रणमने विहिते गुरूणामाकर्ण्य वाचममलां भव पुत्रिणीति' इति षष्ठपद्ये नायिकायां प्रातःकालिकश्वशुरादिगुरुकर्मकनमस्करणस्य तत्कर्तृकनिरुक्ताशीर्वादप्र- दानस्य च, तथा 'आगतः पतिरितीरितं जनैः शण्वती चकितमेत्य देहलीम्' इकि चतुर्दशपदे पाणिप्रहीतृवाचकपतिशब्दप्रयोगस्य, तथा तृतीयप्रकरणे 'धृत्वा पद- स्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे' इति पश्चमपद्ये विवाहोक्क्शिलाधिरोहणस्य, तथा 'खप्नान्तरेऽपि खल्ल भामिनि पत्युरन्यं या दृष्ट- वत्यसि न कंचन साभिलाषम्' इति सप्तदशपद्येऽपि प्रतिपदप्रयोगस्य च स्वधर्म- पत्नीलिङ्गस्य का गतिरिति भवतैव परिचिन्तनीयम्। यदि लोकप्रसिद्धादिकं सर्व- मिदमलीकमेवेति कामुकैककैवल्यवादिन स्तवाग्रहस्तदापि करुणोल्लासे यथा मध्ये क्वचिदप्यालम्बनान्तरं नैवाकरोत्तथैवात्रापि कामिन्येकवर्णनेन भाव्यम्। प्रकरण- मङ्गस्योभयत्रापि तुल्यलात्तत्तु नास्त्येव। 'यौवनोद्रमनितान्तशङ्किताः' इति, 'अ- धिरोप्य हरस्य हन्त चापम्' इति च पश्चत्रिशत्वट्त्रिंशत्पद्ययोः श्रीरामपरत्ात्। तथा 'लोभाद्वराटिकानाम्' इति चतारिंशत्पद्यस्य 'रूपारुचिम्' इत्येकचलारिंशत्प- द्स्य च श्रीकृष्णपर लात्। एवं 'आविर्भूता यदवधि' इति, 'प्रसङ्गे गोपानाम्' इति व त्रिषष्टिचतुःषष्टिश्लोकयोरपि तत्परत्वात्, एवं 'व्यत्यखं लपति क्षणम्' इति वैदेह्यालम्बनकरावणदुरनुरागवर्णनघटितस्यैकोनसप्तति ोकस्य तात्पर्यंतः सीता-

Page 72

६४ भामिनीविलासे

सौन्दर्यध्वननद्वारा श्रीरामपरलातू। एवं 'मथुरागमनोन्मुखे मुरारौ' इति द्यशी- तितमपद्यस्य श्रीकृष्णपरत्वात्। तथा 'पाणौ कृतः पाणिरिलासुतायाः' इति षड- शीतितमपद्यस्य श्रीरामपरत्वात्। तथा 'परपुरुषदृष्टिपातवज्रा' इति नवतितमपद्य- स्यापि तत्परत्वात्। एवं 'चेलाश्वलेनाननशीतरश्मिम्' इति सप्तनवतितमश्लोकस्य श्रीकृष्णपरत्वाच्च। यदि खल्पानीमानि वचनान्येव बहुतरवचनवर्ण्यरमणीपरतया नेतव्यानीति मनुषे, तर्हि खल्पानि वेदान्तवाक्यान्येव बहुतमवाक्यप्रतिपाद्यध- र्मपरतयैव नेतुमुचितानि स्युरिति जितं पूर्वमीमांसकैः। एतेन 'त्यजेदेकं कुल- स्यार्थे' इति न्यायः प्रत्युक्तः। तस्य समानयोग्यताकस्यैकस्य समानयोग्यता- कानां कुलस्य रक्षणार्थ त्याज्यत्विधानमित्यर्थकल्ात्। न चास्तु निरुक्तयवन्येव प्रकृते वर्ण्या, पूर्वोक्तधर्मपत्नीलिङ्गानि तु यथाकथंचिद्गुणवृत्या 'सिंहो माणवकः' इत्यादिवदाहार्यज्ञानेन वा 'चिन्तामणिरेवायं कुमारः' इत्यादिवद्योज्यानि तथेमानि श्रीरामादिपराण्यपि पद्यान्यप्राकरणिकान्यपि शास्त्रादिसंस्कारवशात्खपावनलार्थ तेन विनिर्मितानीत्येव विज्ञेयमिति वाच्यम्। अहो परीक्षकत्वमायुष्मतः किं वर्णनीय- म्। यद्यवनीवर्णनपर्यवसन्नतायै धर्मपत्नीलिङ्गकानि भगवद्वर्णनपराणि च वाक्यानि प्रकरणभेदकान्यपि यथाकर्थंचिद्योजयसीति बालैरप्युपहास्यत्ापत्तेः ॥ कि च यदे- तस्य कवेरेवमेवाशयः स्यात्तदात्रत्यमेव पद्यमस्मच्छन्दघटितमनेन कविना स्वकृते रसगङ्गाधरे समुदाहृत्य यद्याख्यातं तात्पर्यतस्तत्रास्मच्छब्दः किमित्यप्रयुक्त: स्यात्। तथा च रसगङ्गाघर उत्तमोत्तमकाव्योदाहरणप्रस्तावे-यथा वा-'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतभ्रूलतिकं मामव- लोक्य घूर्णितासीत् ।' अत्र घूर्णितासीदित्यनेन 'असमीक्ष्यकारिन्, किमिदमनु- चितं कृतवानसि' इत्यर्थसंवलितोऽमर्षश्वर्वणाविश्रान्तिधामतात्प्राधान्येन व्यज्य- ते। तत्र 'शब्दोऽर्थश्व गुणः' इत्युक्तम्। इहोदाहरणवर्ण्यनायकस्यैवोदाहर्तृल्वात् 'असमीक्ष्यकारिन्, किमिदमनुचितं कृतवानसि' इत्यर्थसंवलितो मां प्रत्यमर्ष इत्येवोक्तं स्यात्। न स्याच्च तदा निरुक्तरीत्या श्रीरामादिपरताप्यस्य। तस्मा- तदभावादापातदर्शनमात्रेण विपरीतार्थभानेऽपि वस्तुगत्येदं श्रीरामादिपरतयैव व्याख्यातुमुचितमिति प्रतिभाति। न चास्मच्छब्दवैयधिकरण्यमसांप्रतमिति वाच्यम्। सामानाधिकरण्येन संपद्यमानैकवाक्यतापेक्षयापि तस्याधिकनमरस- परिपोषकत्वेन प्रकरणमेदेन चेष्टलात्। तथाहि। शङ्गारोल्लासेSत्र तावत्खध- र्मपत्न्याः पूर्वोक्तयवन्या वानेन कविना वर्णने कृते तदुत्तरं करुणोल्लासे तन्नि-

Page 73

शृङ्गारोह्लासः । ६५

धनवशात्तदवलम्बनेन प्राक्तनानुरागौत्कण्ठ्यात्स्स्य शोकोत्कर्षेडपि वर्णिते ततोऽनु- तापोदितनिरतिशयनिर्वेदान्निजस्यौदासीन्येऽपि शान्त्युल्लासे प्रपश्चिते यावान्र- त्यविकासस्ततोऽपि प्रथमोल्लासे नीतिवर्णनध्वनितससाधनधर्मार्थोपदेशसिद्धौ प्रस- ङात्कामोऽपि श्रीरामवत्स्वकीयायामेव साधनीयो न तु श्रीकृष्णवत्परकीयायामपि, तस्येश्वरत्वेन तत्र तत्संपादनस्यादुष्टत्वेऽपि तदंशे तदाचारस्याननुष्ठेयलात 'यान्यस्माकं सुचरितानि तानि तयोपास्यानि। नो इतराणि', 'महतां वचनं पथ्यं तथैवाचरितं क्वचित्' इत्यादिश्रुतिस्मृतिभ्यां तथैव बोधितताच्चेत्यन्वयव्य- ति रेकप्रबलोदाहरणपूर्वकोपदेश सूचनलाभात्त्वदभिमतभङ्गयन्यतरसरण्या विवरणे तु सुतरां तदसंभवाच्, ततः करुणोल्लासे श्रीसीतानिर्याणोत्तरं श्रीरामकर्तृकशोक- विकस नेनाहोऽनन्तकोटि व्रह्माण्डभण्डनपण्डितस्य भगवतश्चण्डांशुवंशावतंसस्य श्री- रामस्यापि सङ्गप्रसादादेतादृशः शोकः संपन्नस्तत्र कैव कथा मादृशानामज्ञानां विष- यैकतत्पराणां पामराणामिति परमनिर्वेदलाभसंभवाद्यथाश्रुते तु तदभावात्प्रत्युत यदि मम तपःसामर्थ्य स्याच्चेन्मृताया अपि प्रियायाः परमेश्वरकृपया जयदेवपत््या इव पुनर्जीवनं दग्धाया अपि तस्याः, सत्सुहृदादिसामग्रीमहिम्रा मदालसाया इव पुनरवाप्तिश्वेति तपआदावभिलाषस्येव संभवाच्, ततः शान्त्युल्लासे खनिदर्शनेन ससाधनस्य 'किं तीर्थ हरिपादपद्मभजनम्' इत्यादिना नीत्युल्लासे सूत्रितस्य 'पातालं ब्रज' इत्यादिना मोक्षस्यव समुपदेशविकसनादधिकतमरसपरिपोषः किं विकचीभवति न वेति निर्मत्सराः परित्यक्तपक्षपातप्रसराः सारासारविचारचतुराः सूरीश्वरा एव परिचिन्तयन्तिति कृतं पल्लवितेन। हे भामिनि, 'कोपना सैव भामिनी' इत्यमरादयि रूपादिगर्वलक्षणमानमूलकप्रणयकोपाङ्कुरसुन्दरतरवदने वैदेहि। तेनास्यां मानवतीलोत्तमनायिकालमुग्धातानि ध्वनितानि। एवं च तव कादाचित्क प्रणय कोपाङ्गुरोदये सत्यपि मुखे वक्ष्यमाणरीत्या यदैतावन्निरुपमं लावण्यं तदा तदभावे कियत्तद्भविष्यतीत्यतथातमेव तया संपादनीयमित्यचिन्त्यसौन्दर्य- मानापनोदनप्रार्थनं खानुकूल्यसंपादनं च सूचितम्। ते तव मुखस्य वदनस्य। एवेन मानवशात्प्रकृतेऽप्रसन्नलेऽपि 'कोपेऽपि कान्तं मुखम्' इत्यादौ कविसमयव- र्णितनैसर्गिककमनीयत्भपह्ववानर्हमेवेति सूचितम्। कापि वक्ष्यमाणहेतुभिरनुपम- लेनातिलोकोत्तरैवेत्यर्थः । अनेन ब्रह्मानन्दादपि लन्मुखनिरीक्षणानन्दस्य लक्ष- गुणाधिक्यमिति ध्वन्यते। शोभा सुषमेत्यर्थः । तर्हि किमसौ नेत्रनासिकादितदं- वयवेष्वेव नेत्याह-परित इति। समन्ताद्भागेऽपीत्र्थः। एवं च सर्वावयक

Page 74

६६ भामिनीविलासे

सौन्दर्यसंपूरिततं व्यज्यते। अहो यस्य समन्ततोऽपि खप्रकाशरत्नस्येव कान्तिभर- स्वस्य कैमुत्यसिद्धमेव यावदंशसौष्ठवमिति भावः। तत्रापि किं तारुण्यारम्भादिसम- यविशेष एवैंवं नेत्याह-नित्यमिति। प्रतिक्षणमित्यर्थः । एतेन कृष्णपक्षक्षयिण: शरद्राकासुधाकराद्वयतिरेकः सूचितः । तर्हि किं सर्वदैकरूपैव मन्मुखशोभा। तथा च नित्यं भावत्कदिदृक्षा तत्र नैव स्यात्। न ह्येकमेव तुल्यावस्थं चेद्वस्तु कश्चित्सहते पौनःपुन्येन द्रष्टम्। उक्तं च-'नवनवगुणरागी प्रायशो जीवलोकः' इति। तत्राह-उपचीयत एवेति। संवर्धत एवेत्यन्वयः। न तु वयःपरिणामेन हसते, नापि प्रथमक्षणानुभूतवदेवाखण्डं तिष्ठति। तस्मादलौकिकमेव तद्वदनलावण्य- मित्याशयः । तथा चावयवान्तर विहाय वदनस्यैवैवं वर्णनेन भाषणस्य तन्मात्रसा- व्यलात्त्वयेतःपर मौनं झटिति परित्यज्य प्रसादपूर्वकं स्मरशरवैश्वानरपरितप्तोऽहं मणितामृतसंततसुतुषारनिकरैः परितोषणीय इति श्रीरामस्य सीतां प्रति श्रीकृष्णस्य राधां प्रति वा तद्वदनस्वनतः प्रार्थनं द्योत्यते। तत्समर्थनार्थ हेतून्व्यनक्ति- नेत्यादिपूर्वार्धेन। यतस्तत्र मनागपीषदपि राहुरोषशङ्कापि राहुसंज्ञकस्य प्रसिद्धा- सुरविशेषस्य सैंहिकेयस्य रोषः क्रोधस्तस्य शङ्कासंभावनापि न। नैवेत्यर्थः । एतेन क्षयिताद्यभाव: सूचितः । मनाक्पदेन भावादिति भ्रान्त्यापि तत्संभावनाव्युदासः। तत्र हेतुद्वयम्। नेत्यादि। कलङ्कपाण्डिम्रोरभावः । यद्वा अक्षीणलेन राहुरोषश- क्ानवकाशेऽपि मानावस्थादिषु रोषदोषवशादस्य भवतु कलङ्काङ्कतवमित्याशक्कयाह- नेति। अत्रानुपदेन निरुक्तरीत्यनुसारेणापि नैवात्र कलङ्कपङ्कसंकरावकाश इत्या- दयः सूच्यन्ते । गमनं गमः । कलङ्कस्यानुगमः कलङ्कानुगमः । सोऽपि नैवास्ती- त्यर्थः। ननु मा भवतेवं तामसममर्षमालिन्यमथापि राजसं मत्सरपाण्डरत्वं तु भवेदेव राकासुधाकरोदयमाकलय्येत्यत्राह-नेति । 'हरिणः पाण्डरः पाण्डः' इत्यमरादत्र पाण्डिमापि नैवास्तीत्यर्थः । तस्माद्यतोऽत्र न दोषत्रयवत्त्वं प्रकृतचन्द्र- वत्, अतस्तद्वदनमनुपममेवेति तात्पर्यम्। एवं च लया सदो मानं विहाय निरुक्तगुणकथनं यथार्थीकर्तव्यमस्मभ्यं रतिप्रदानेनेत्याकूतम्। इह खकीया पर- कीया वा मुग्धा मानवती नायिका। अनुकूलो नायकः । विप्रलम्भ: शृद्गारः । आधिक्यताद्रूप्य रूपकानुप्राणितो व्यतिरेकालंकारः। तदुकं कुवलयानन्दकारिकासु -'व्यतिरेको विशेषश्वेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किंतु प्रकृति- कोमलाः ॥' इति। एवं चाद्भुतोऽप्यत्र रसस्तदअतया ज्ञेयः। मालभारिणीवृत्तमि-

Page 75

शृङ्गारोल्लासः। ६७

दम्। उक्क हि वृत्तरत्नाकरे-'ससजाः प्रथमे पदे गुरू चेत्सभरा येन च माल- भारिणी स्यात्' इति ॥ एवं कृतेऽपि स्तवे प्रागुक्तरीत्या सीतायां राधायां वा मानाति रेकादप्रसन्नायां सत्यां श्रीरामः श्रीकष्णो वा किं मन्मुखमेवैवं लोकोत्तरगुणाढ्यं नापरशरीरमिति प्रत्युत रोषैकपरितोषकारिणीं तदाशङ्कां प्रशमयंस्तदञमार्दवमपि संवर्णयति- नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकाना- मथ का नाम कथापि पल्लवानाम् ॥ २॥ नितरामिति। अयि प्रिये, यदि तवाङ्गकानां करचरणाद्यखिलावयवानां कोम- लता मृदुता यदि। दैववशादनुभूयेत चेदिति शेषः । एतेन पूर्वोक्तमानवत्त्वादी- श्वरस्यापि मे तदङ्गसङ्ग: सुदुर्लभ एवेति द्योत्यते। तेन किंचिदुपालम्भोऽपि सूच्यते। तदा सरोजमाला कमलमालापि। न तु सरोजमात्रम्, नापि नितरां परुषा। अत्यन्तं कठोरेत्यर्थः । एवं च तस्याः सौकुमार्योत्कर्षः सर्वानुभवसिद्धो- Sपि प्रकृताग्रे तुच्छ एवेति व्यज्यते। एवं भवत्वस्यास्तथातम्, परं लेतद्रर्भवर्ति- बिसतन्तूनां प्रकृतसाम्यं भवेदेवेत्यत्राह-न मृणालानीति। विचारपेशलानि सामान्यतः कोमललेन प्रसिद्धान्यपि किं लदङ्गापेक्षया तानि तथा वा न वेति संशये यदि तानि कोमलानि लदवयवापेक्षया स्युस्तर्हि विरहदशायां लया शय्यायां योजितानि सन्ति लदडे मुद्राजनकानि न स्युरित्याद्यूहाद्यात्मकविवेके तु पेशलानि 'पेशलो रुचिरे दक्षे' इति विश्वात्कोमलतया रुचिराणि। कोमलले वा दक्षाणि न। नैव सन्तीत्यर्थः । तेन प्रकृतेऽलौकिकमार्दवं ध्वनितम्। यदामदुक्क्त- धुरंधराणां मृणालानामपीदृगवस्था, अथ तदा पल्लवानाम्। पदस्तत्पदो लवः सौन्दर्यस्य लेशो येषु ते तथा। तेषां का नाम कथा। न कापीत्यन्वयः। अत्र परिकराङ्करः काव्यार्थापत्तिश्वालंकारः। तदुकत कुवलयानन्दकारिकासु-'कैमुत्येना- र्थसंपत्तिः काव्यार्थापत्तिरिष्यते। स जितस्तन्मुखेनेन्दुः का वार्ता सरसीरु- हाम् ।।' इति। एवं विशेष्यस्य साभिप्रायले परिकराक्कुरोऽपि तत्रैवोक्तः । स्रोऽत स्फुट एव। शेषं तु सर्वं प्राग्वदेवात्राप्यनुसंघेयम्॥ अथैवं प्रार्थनेऽप्यतिभूमिगतमानलेनाप्रसन्नामेव सीतां राधां वा श्रीरामः

Page 76

६८ भामिनीविलासे

श्रीकृष्णो वाकलय्योपेक्षाया अपीदृक्स्थले कार्यकारितस्य लोकाद्यालोकितत्वेन तामेव कुर्वन्नपि निरुक्तनायिकासौन्दर्यादिपारवश्येन परमविकलश्च सन्संस्कारव- शात्तद्विपरीतसुरतावस्थां रतान्तोत्तरद्वित्रिपलोत्तरं पुनः खेन रतिप्रार्थनायां कृतायां सत्यां तदनादरद्योतकमस्तकदोलनावस्थां वा स्मृत्ा ततः संजातं दुःखो- त्कर्षमसहमान: खमनस्येव रहसि दैवं पुरः स्थितमिव प्रकल्प्य तत्प्रतिवदति- स्वेदाम्वुसान्द्रकणशालिकपोलपालि- दोलायितश्रवणकुण्डलमण्डनीया। आनन्दमङ्करयति स्मरणे न कापि रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३॥ स्वेदाम्बुसान्द्रेति। रे दैव। मदिरेति। मदिरेवेक्षणमवलोकनं यस्याः सा तथा तस्याः । सुरासमसंमोहकविलोकनाया इत्यर्थः । एतेन अहो यस्याः स्वाभा- विकनिरीक्षणमपि मद्यवत्खाखवादकमादकं किं वाच्यं तस्याः प्रोक्तावस्थावलोकन- स्मरणं तथेति तदनास्या दुःखातिरेकः सूच्यते। कापि निर्वक्तुमशक्यापि। एवं चालौकिकत्वं तदवस्थायां व्यज्यते। तेनाप्युक्तविप्रलम्भपरिपोष एव प्रध्वन्यते। तर्हि किं विपरीता। नेत्याह-रम्येति। एतेन शोकशङ्कानवकाशः सूचितः । एतादृशी दशावस्था मे मम मनस्यन्तःकरणे स्मरणे। जायमाने सतीत्र्थः । आनन्दं हर्षम्। नाङ्कुरयति नैवाविर्भावयत्यपि किं पुनर्वकव्यं न वर्धयतीति संबन्धः । वक्ष्यमाणगुणायाः पूर्वोक्तालौकिकनायिकावस्थायाः स्मरणे जाय- माने मन्मनसि मनसिजपरिताप एव भूरितरं भवतीति भावः। यथाश्रुतभद्टास्तु यथाश्रुतमेव स्मरणपदं तृतीयान्तं कृला योजयन्ति। तेषां स्मरणस्य परोक्षैकवि- षयलेनावश्यं वियोगकालिकत्वस्य वाच्यत्वात्तदानीं निरुक्तस्मरणस्य दुःखैकजनक- लस्यानुभवसिद्धलेनानन्दजनकत्वस्य सुतरामयुक्तलादाप्रहेण तदज्ीकारे तु प्रकृते प्रतिपाद्यलेन विवक्षितस्य शरङ्गारस्य भङ्ग एव भवेत। तस्माद्युक्तमेवेदं सप्तम्यन्त- लेन व्याख्यानमिति तत्त्वेन विदो विदांकुर्वन्तिति दिक्। कुत एतदिति चेदत आह-खेदेत्यादि पूर्वार्धेन निरुक्त्दशां विशेषणयन्। खेदाम्वुनः पूर्वोक्तरतिश्रा- न्तिजन्यघर्मोदकस्य ये सान्द्राः, न तु विरलाः। तेन श्रमाधिक्यात्सौकुमार्याधिक्यं ध्वन्यते। ते च ते कणाः 'लवलेशकणाणवः' इत्यमरान्मौक्तिकजालकतापन्नाः पृषतास्तैः शालते शोभत इति तथा । तादृशी या कपोलपालि: कपोलयुग- लस्थली तस्यां दोलाग्रिते पुरुषागितवेगादान्दोलायमाने तत्कालावच्छेदेन रता-

Page 77

शृङ्गारोह्लासः । ६९

श्रवणकुण्डले कर्णस्थिते रत्नताटक्के ताभ्यां मण्डयितुं विभूषयितुं योग्येति तथा। अत्र दशावन्मण्डनेनैव यौवनवद्दशामण्डनं बोध्यम्। एवमम्वुपदं श्रवणपदं चाधि- कवदपि तत्कणेषु मौक्तिकत्वस्य कुण्डलयोस्तन्निष्ठत्वेन विलक्षणशोभावत्त्वस्य च सूचकत्ादुचितमेवेति। इह स्वकीयादिः प्रागुक्तैव नायिका रसश्च। विरहातुरो नायकः । चरमपदे उप्तोपमादिरलंकारः । वसन्ततिलकावृत्तम्-'उक्ता वसन्त- तिलका तभजा जगौ गः इति। अथैवं विरह्दार्ततां नायकस्य सख्यादिद्वारा ज्ञाला द्वितीयदिवसे सायं सयमेवा- भिसटतां सीतां राधां वा श्रीरामः श्रीकृष्णो वा राकापीयूषकरापेक्षयापि निष्कल- इतादिना लोकोत्तराननसौन्दर्यवर्णनेनाभिनन्दयति- कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि॥४ ॥ कस्तूरिकेति। अयि आलि। स्वतोऽभिसरणतः सखीप्राये प्रिये इत्यर्थः । एतेन वक्ष्यमाणप्रार्थनकरणयोग्यतवं व्यङ्गयम्। वं कस्तूरिकातिलकं निजवदनस्य मृगाङ्कतौल्याप्तये मृगमदविशेषकमित्यर्थः। एवं च तन्मुखस्य निप्कलङ्डलेन पूर्णचन्द्रापेक्षयापि विलक्षणानन्दप्रदतं द्योत्यते। विधाय ललाटे कृता। अद्य सायं स्वयमभिसरणात्स्मेरानना। स्मेरमागन्तुकमानादिजन्यरोषावमोषेण नैसर्गि- कमन्दहासयुक्तमित्यर्थः । एतादृशमाननं मुखं यस्याः सा तथा। स्मितवदना वर्तस एवेति यावत्। अतः सपदि झटितीत्यर्थः । एतेन यदि विलम्बं कुर्याश्चेत्कदाचि- त्पूर्ववत्पुनर्भानवशाद्रोषकषायिताननापि स्याः । तदानीं वक्ष्यमाणास्मत्समीहितं न स्यादित्युपालम्भेन किंचिद्विनोदोऽपि द्योतितः । समयातिक्रमभीसतु मुख्यं प्रयोजनम्। सौधेति। नैजराजमन्दिरमूर्धानमित्यर्थः । शीलयाधिरोहेति योजना। किमर्थमिति चेत्तदाह-प्रौढिमित्याद्युत्तरार्घेन। कुमुदानि कैरवाणि न लब्जानि। मुदामानन्दानाम्। 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः। उदारां निरविशयाम्। एवेन चन्द्रदर्शनजन्यानन्दस्य तेषां प्रायः प्रतिदिवसं सत्त्वेऽपि तस्य साविशय- लार्वद्वदनदर्शनजन्यस्य निरतिशयलाच्च लदाननं लोकोत्तरसुन्दरमेवेति सूचितम्।

Page 78

७० भामिनीविलासे

प्रौढिं प्रौढताम्। भजन्तु। स्वीकुर्वन्लित्यथः । तथा हरितः 'दिशस्तु ककुभः काष्टा आशाश्र हरितश् ताः' इत्यमरादिश इत्यर्थः । मुखान्याननवत्खखाग्रिमपु- रोदेशानिति यावत्। उल्लासयन्तु प्रोज्वलयन्तित्यन्वयः । तस्मात्कुमुदानन्दसंदो- हार्थ सकलदिखुखविकासार्थ च तया निरुक्तव्यापारवत्या द्ुतं भाव्यमिति भावः । अत्र कुमुदहरित्पदाभ्यामहो नपुंसकानां स्त्रीणां चापि यदाननविलोकनेन यदान- न्दोदयस्तदा किमु वक्तव्यं तदानननिरीक्षणेन क्षणेनैव पुंसां विलक्षणोSसाविति व्यज्यते। इह स्कीया परकीया वा मध्याभिसारिका नायिका। मुदितो नायकः । संभोगारम्भ: शह्गारः । आधिक्याभेदरूपकमलंकारः ॥ एवं प्रार्थनतस्तथा चरणोत्तरं निरुक्तकुमुदानन्दादिव्यवहारे जायमाने पुनर- प्यतीव गर्वितायां सीतायां राधायां वा सत्यां ततः सुरतादिविलासमलभमानः श्रीरामः श्रीकृष्णो वा भूरिवारं प्रेरितामपि तद्वचनानादरेणेतः परमुपेक्षैव लया विधेयाधुनेत्युपदिशन्तीं तत्प्रियसखीं प्रति वक्ति- तन्मञ्ज मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः। अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः ॥ ५॥ तन्म्विति। 'मन्दमञ्नु' इत्यपि पाठः। हे प्रियाप्रियसखि। सायंतनेति। सायंकालिककमलसादृश्यशालिविलोचनायाः प्रकान्तखप्रियाया इत्यर्थः । एतेन तस्यां सुरतमुखनिमीलितनेत्रलं ध्वन्यते। तच्च पूर्व कदाचित्सुरतसमये समनुभूत- मित्यर्थः । यद्यपि वक्ष्यमाणहसितस्योक्तनायिकायां नैसर्गिकलेन प्रागुक्तसौध-

सायंतनपदाभ्यां तात्पर्यतः। प्रोक्तावसरीयत्वस्यैव तत्र सुघटमानतादुक्तमेवोक्त्त- व्याख्यानम्। एतेन निरुक्त्तमानादिवशाद्वित्रिदिनमपि संभोगालाभप्रयोजकलेन कोटिकल्पायमानमेव ममेति खातुरतं व्यज्यते। एतादृशं मञु 'मनोजं मन्ज मसुलम्' इत्यमराच्चारुचन्द्रिकया चेतोहरमित्यर्थः । तहि कि प्रहसितं प्राम्यज- नवत्। नेत्याह-मन्देति। तेन तस्यामुत्तमोत्तमलं दयोत्यते। तथा तानि निरु- ककालीनान्येव श्वसितानि पद्मिनीजातीयलेन सुरतश्रान्तिजनितसुरभितरोच्छ्रा- सजातानीत्यर्थः । एतदपि तस्यैव परिपोषकम् । तेनोकक्कालिकलेन स्मितादि-

Page 79

शृङ्गारोह्लासः । ७१

ष्वलौकिकत्वं ध्वन्यते। तथा सा तात्कालिक्येव। वै निश्चितम्। नत्वयं गुण- कथनारोपः खप्रेमविषयतयेत्याशयः। कलङ्गेति। कलङ्कः कपोलनिर्मितकस्तूरीपत्र- रचनलक्षणलाञ्छनविशेषः। एवं च तन्मुखस्य प्रकृत्यैव रम्यतमलान्मण्डनान- पेक्षलेऽपि तस्य शास्त्रादिसंप्रदायैकपरिपालनौपयिकलेनादरणीयतं दयोत्यते। तेच विधुरा सुरतश्रमनिर्मितघर्मवशात्तदपसारणात्तच्छ्ून्येत्यर्थः । अत एव मधुरा । 'मधुरं रसवत्खादुप्रियेषु मधुरोऽन्यवत्' इति विश्वात्सरसेत्यर्थः । एतेन हीरका- देर्निष्कलङ्कस्यापि निरुक्तकान्तिमत्त्वव्युदास: सूचितः । एतादृशी याननश्रीर्मुख लक्ष्मीरित्यर्थः । केचित्तु मनुमन्देति मधुराननेति च पदैक्येनैव व्याचक्षते। तेषां सर्वथासमस्तपदात्मकवैदर्भीरीतिमत्त्वस्य मधुररसपरिपोषकत्वानभिज्ञलमेव मूलम्। एतानि धर्मजातानि। हन्तेति खेदे। अद्याप्येतावति भूरितरकाले गते- Sपीत्यर्थः । एवं च प्रागुक्तं खातुरतमेव परिपोषितम्। मे मम हृदयं खान्तम्। उन्मदयन्ति स्मृतिशतैरुन्मतं कुर्वन्तीत्यन्वयः। अतस्तया शीघ्रं तादृग्घटन- पाटवेन साभिसारणीयैव, अन्यथास्माकमुन्मत्तवाताद्यापातेन वैपरीत्यमेव संभा- व्यत इति भावः । अत्र मध्या मानवती प्रकृता स्मृतिविषयीभूता तु परितृप्ता स्कीया परकीया वा नायिका। व्याकुलो नायकः । विप्रलम्भः शृङ्गारः। कल- ङ्ेत्याधिक्यताद्रूप्यरूपकं सायंतनेति लुप्तोपमा चालंकारः ॥ एवं निवेदितनिजवृत्तया सख्या सामाद्युपायेः प्रतिबोधिता सती सीता राधा वा द्वितीयदिने प्रससादेति कविः संवर्णयति- प्रातस्तरां प्रणमने विहिते गुरुणा- माकर्ण्य वाचममलां भव पुत्रिणीति। नेदीयसि प्रियतमे परमप्रमोद- पूर्णादरं दयितया दधिरे दगन्ताः ॥६।। प्रातस्तरामिति। दयितया प्रकृतनायिकया प्रातस्तरामत्युषःकाले गुरुणां श्वश्रूप्रभृतीनां पूज्यानाम्। प्रणमने प्रकर्षेण धर्मशास्त्रा धुक्क्क्रमाद्यनुसरणलक्षणो- त्कर्षेण नमने नमस्करणे। विहिते विधिवत्कृते सति। अथ लं पुत्रिणी पुत्रवती भवेत्यमलां निष्कपटां वाचं वाणीम्। अर्थादुक्तगुरुणामेवाशीर्वादभारतीमित्यर्थः । आकर्ण्य श्रुला। नेदीयसि निकटवर्तिनि प्रियतमे श्रीरामे श्रीकृष्णे वा। खवत्रे- मविषयीभूते कान्त इति यावतू। परमेति। परमो निरुपमः सचासौ प्रमोदो

Page 80

७२ भामिनीविलासे

हर्षस्तेन पूर्णो निरवधिक आदरः सत्कारो यथा स्यात्तथेत्यर्थः । दृगन्ताः । न तु दृगन्तः । कटाक्षा इत्यर्थः । एवं च तेषां पौनःपुन्यं ध्वन्यते। दधिरे स्थापिता इति संबन्धः। न तु प्रेषिताः। तथा च पुनस्ततः सवापाङ्गानाकर्षणात्प्रतिक्षणं नवनवापाङ्गास्तत्रैव निधीयन्त इत्यर्थसमाजव्यञ्नेन प्रसादप्राचुर्य सूचितम्। इत्थं च 'उत्तमानां क्षगं कोपः' इति वाक्येन तथासौ झटिति सुप्रसन्ना बभूवेति भावः। ततः पुत्रस्य भवत्संभोगैकसाध्यत्वादद्याहं सवरसत एव संपादयिष्याम्येवे- त्याश्वासनं नायकं प्रति द्योत्यते। अत्र मध्या सुप्रसन्ना सकीया परकीया वा नायिका। प्रहृष्टो नायकः । संभोगलेशः शृङ्गारः। स्वभावोक्तिरलंकारः ॥ अथ यावन्निशि तदभिसरणं निरुक्ततदीक्षणमेवानुसंदधानः श्रीरामः श्रीकृष्णो वा यामचतुष्टयविश्लेषमप्यसहिष्णुः सन्खमनस्येव विलपति- गुरुजनभयमद्विलोकनान्तः- समुदयदाकुलभावमावहन्त्याः। दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि॥ ७॥ गुरुजनेति। अहम्। हा इति खेदे। हरिणद्दशो मृगाक्ष्याः सीताया राधाया वा। गुर्विति। गुरवः श्वश्रूप्रभृतयो ये जना लोकास्तभ्यो भयं तत्संनिवौ प्रियवी- क्षणानौचित्यसाध्वसं तथा मद्विलोकनमनुपदोक्तमन्निरीक्षणं च ताभ्यां योऽन्तःस- मुदयन्मनस्याविर्भवन्य आकुलभावो विह्वलीभावस्तमावहन्त्ा दघत्याः। अनेन लज्जाभयलालस्यवैक्चव्यं सूचितम्। अत एव-दरेति। किंचिदुन्मीलदम्वुजम- झुलम्। त्रिभागभङ्गरमित्यर्थः । एतादृशं नयनम्। न तु नेत्रे। तेनोक्तरसपोष एव। न विस्मरामि। पुनः पुनः स्मराम्येव। दृढसंस्कारैरिति योजना। तस्मात्क- देन्दूदय: स्यादित्यौत्कण्ठ्यं व्यज्यते। इहोक्तैव नायिका। उत्कण्ठितो नायकः । वि- प्रलम्भ: शरङ्गारः। लुप्तोपमालंकारः परिकरश्च। पुष्पिताप्रावृत्तम्। उक्तं हि वृत्त- रत्नाकरे-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताप्रा' इति॥ ततः सायमभिस्टतां सीतां श्रीरामो राधां प्रति श्रीकृष्णो वा परमप्रहृष्टः संस- त्कुचावेव प्रथमं संभोगारम्भस्यालिङ्गनपूर्वकलेन कामशास्त्रे निर्णीतलात् 'अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी। दशवर्षा भवेद्रौरी अत ऊर्ष्व रजखला ॥' इति स्मृते रेका दशवर्षादिवयःक्रमेण पश्चबाणप्रेरणयैव पश्चविधलं प्रास्तलेन वर्णयति-

Page 81

शृङ्गारोल्लासः । ७३

वदरामलकाम्रदाडिमाना- मपहृत्य श्रियमुन्नतां क्रमेण। अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः॥।८।। वदरेति। अयि दयिते भो प्रेयसि, ते तव कुचौ वक्षोजौ क्रमेण। बदरेति। अत्रोत्तरोत्तरमहत्त्वकठिनत्वाधिक्यं ध्वन्यते। उन्नतां महतीम्। वर्तुललाद्यनेक- धमैर्गुरुतरामित्यर्थः । श्रियं शोभाम्। न हि क्रममन्तरा महत्याः श्रियो हरणम्। तेन तयो: परमनीतिनिपुणतान्मन्मनोहारकत्वं कैमुत्यसिद्धमेवेति द्योत्यते। अप- हृत्य वलाद्गृहीलेत्यर्थः । अधुनेदानीम्। करीति। करिणो गजस्य यः शावः पोतः। एतेन व्यामप्राह्यस्तनीत्वादिना शवरतरुणीलादेर्व्युदासः। तेन पझ्मिनीलं तस्यां व्यज्यते। तस्य यौ कुम्भौ कटौ तयोर्या लक्ष्मीः शोभा तस्या इत्यर्थः । हरणे यतेते यत्नं कुरुत इत्यन्वयः। एवं च लोके प्रायेण गजान्तलक्ष्म्या एव संपाद्यत प्रवादात्तत्संपादने निरुक्तकुचाभ्यां कृते सत्यस्यां प्रौढावस्थालमेव स्यात्तथा च प्रागुक्तरीतिकोऽविवेकमूलकः प्रायो मानो नैव स्यादिति किंचिदुपालम्भः स्वावश्योपभोग्यत्वं च सूचितम्। इह मध्यानुकूला स्वकीया परकीया वा नायिका। मुदितो नायकः। संभोगारम्भः शज्गारः। पर्यायविशेषोऽलंकारः । तदुक्तम्- 'पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः। पद्मं मुक्ला गता चन्द्रं कामिनीवद- नप्रभा ।I' इति। प्रकृते तु पर्यायेणैकस्यानेकश्रीहर्तृत्वेनैवानेकसंश्रयस्तथापरश्री- हरणयतमानलेनापीति विशेषः ।। अथैवं कुचवर्णनोत्तरमालिद्गनं संपाद्य क्रमागतं चुम्बनं संपादयितुं श्रीरामः सीतां प्रति श्रीकृष्णो राधां प्रति वा तत्कपोलपालिमेव तुरीयपुमर्थापादकतुरीया- श्रमप्रवृत्तियोग्योदग्दिक्लेनोत्प्रेक्षते- कपोलपालिं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम्। विभाति यस्यां ललितालकायां मनोहरा वै-श्रवणस्य लक्ष्मीः ॥९॥ कपोलेति। हे तन्वि कृशाङ्नि। एतेन निरुक्तगाढालिङ्गनासहिष्णुत्वेन सौकुमा- र्यातिशयः सूचितः । तथा हे लावण्यधन्ये। मौक्तिकसदृशकान्त्या ख्याते इत्यर्थः ।

Page 82

७४ भामिनीविलासे

एतेनोत्तमतमतं द्योतितम्। तव। इमामित्यध्याहारस्तु वक्तुस्तदेकासक्तलेनानव- धानताद्योतकतया रसैकपोषकतवाद्गुण एव। तथा चाङ्गुलिनिर्देशः प्रत्यक्षलेन तस्यां व्यज्यते। कपोलपालि कपोलस्थलीम्। उत्तराख्यामुदक्संज्ञां दिशमेवाहं मन्ये तर्कयामीति योजना। कुत इत्यत आह-विभातीत्याद्युत्तरार्घेन। यस्यां कपोल- पालौ। पक्षे निरुक्तदिकि। ललितेति। ललिताः सुन्दरा अलकाश्चूर्णकुन्तला यस्यां सा तथा पक्षे ललिता रम्या अलका कुबेरनगरी यस्यां सा तथा। एता- दृश्यामित्यर्थः । अत एव वै निश्चितं श्रवणस्य कर्णस्य। पक्षे पदैक्यम्। कुबेरस्य। 'किनरेशो वैश्रवणः' इत्यमरः । लक्ष्मीः शोभा। पक्षे संपत्। मनोहरा रम्य- तमा। विभाति परिस्फुरतीति संबन्धः । तस्मात्कपोलचुम्बनं देहीत्याशयः । इह हेतूत्प्रेक्षा तद्टको भङ्गश्लेषश्चालंकारः । शेषं तु प्राग्वदेव ।। एवं संपादिते सति निरुक्तरात्रावातृप्ति सकलसंभोगे रात्र्यन्तरे पुनर्लीलया प्रणयकुपितां सीतां श्रीरामो राधां श्रीकृष्णो वालक्ष्य तत्प्रसादनार्थ तत्प्रियसखीं प्रति तल्लीलापारवश्यं स्वस्य वर्णयति- नीवीं नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजदशः शयनं जिहासोः। नैवावरोहति कदापि च मानसान्मे नाभे: प्रभा सरसिजोदरसोदरायाः॥ १० ॥ नीवीमिति। अयि प्रियाप्रियसखि, उषसि प्रातः। प्रकाशं सौरालोकलेशमा- लोक्य दृष्टा। शिथिलां पूर्वरात्रौ सुरतार्थमौत्सुक्यात्खत एव च्युतां नीवीं सजघ- नवसनप्रन्थि नियम्य वामकरेण संरुध्य। शयनं निद्राद्यनुकूलावस्थानं जिहासोस्त्य- कुमिच्छोः । एतादृश्या वारिजदृशः पद्माक्ष्याः । अतएव। सरसिजेति। सरसिजं कोकनदमेव प्रकृते वक्ष्यमाणसारस्यवशाद्राह्यम्। तस्य यदुदरं मध्यभागस्तस्य सोदरा सादृश्यातिशयात्सहोदरभगिनीसमा। तस्या इत्यर्थः । एतादृश्या नामेः शरीरमध्यप्रन्थे: प्रभा कान्तिः। मे मम मानसादन्तःकरणात्। पक्षे सरोविशे- षात्। कदापि च कदाचिदपि। नैवावरोहत्यपगच्छतीत्यन्वयः । नामेः स्भावतो निम्नतमत्वगौरलावर्ताकारतादिना कमलमध्यगतपीत वर्णकर्णिकासाम्यान्नीवीनिरो- धननियोजित कराडुल्या रक्तकान्तिमण्डितलेन कोकनदीयतावभासयोग्यताच्च पुनः सुरतौत्कण्ठ्यजनकलेन तद्विलक्षणप्रभानुभवस्य संस्कारदार्ढ्यात्सूर्योद यवशाद्रत्यनौ-

Page 83

शृङ्गारोह्लासः । ७५

चित्येनौत्सुक्यपौष्कल्याच्च तत्प्रभाया: स्मृतिद्वारा निरुक्तनायकचित्तानवरोहध्वनि- तनिरुक्तनायिकाविषयकाभिलाषपरिपोषकतैवेति कदापि चेति पदैः सूचितम्। तस्मात्त्वं शीघ्रमेव तां प्रसादयेत्याशयः । अत्र मानवती प्रकृता। लीलावती तु स्मृता मध्या सकीया परकीया वा नायिका। उत्सुको नायकः । विप्रलम्भः शृद्ारः । लुप्तोपमा स्वभावोक्तिश्चालंकारः ॥ अथ तत्सौजन्यमुपन्यस्यति-आलीष्वित्यादिद्वाभ्याम्। आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती। आरादुपाकर्ण्य गिरं मदीयां सौदामनीयां सुषमामयासीत्॥ ११॥ आलीष्विति। बाला। अत एव। प्रथमचरणशेषः । ममालापं मद्विलासी- यमाभाषणम्। सौदामनीयां 'तडित्सौदामनी' इत्यमराद्विद्ुत्संबन्धिनीम्। सुषमां 'सुषमा परमा शोभा' इत्यपि तदुक्तेर्विलक्षणचापल्यन लोकोत्तरकान्तिमित्यर्थः। अयासीदगमत्। एवं च लज्जातिशयः सूचितः । अत्र लज्जिता मध्यादिर्नायिका। शेषं तु प्राग्वदेव। उपजातिर्व्रृत्तम्॥। मुधैव मन्तुं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे। उद्श्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीकरोति॥ १२॥ मुधैवेति। व्यर्थमेव। मन्तुं 'आगोऽपराधो मन्तुश्ष' इत्यमराद्रोषम्। उदिति। उद्गतान्यश्रूणि याभ्यां ते तथा अतएव चश्चती चपले तादृशे नयने यस्याः सा तथा। अतएव नतेति। कां कामपि गिरं नोररीकरोति नैवोच्चारयतीति योजना। वर्तमानप्रयोगात्परमसुशीलतं द्योत्यते। चकारेति भूतार्थकपाठेऽपि वक्तृभाषणक्ष- णाव्यवहितप्राक्क्षणावच्छिन्नलेन तत्सांगत्यात्तादर्थ्यमेनेति तत्त्वम्। अत्र खिन्ना मध्यादिर्नायिका। लुप्तोपमा। इतरत्सर्व प्राक्नमेव। उपेन्द्रवज्रावृत्तम् ।। ननु 'मांसपाश्चालिकायास्तु यन्र्रलोलेऽग्पज्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्तिया: किमिव शोभनम् ॥' इत्यादि श्रीमद्वासिष्ठाद्युक्तरीत्या श्रीमद्भिर्विवेकिभिरेव भाव्यम्, किमनेन पामरजनस्राधारणेन तदौत्कण्ठ्येनेति सरयाशयमाशक्ष सामा- न्यव्यास्या तां प्रत्याह-

Page 84

७६ भामिनीविलासे

तद्वधि कुशली पुराणशास्त्र- श्रुतिशतचारुविचारजो विवेकः। यद्वधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोर्विलास:॥१३॥ तद्वधीति। श्रीराम एव हे सखि, विवेक: कुशली क्षेमशाली तदवध्येव तावत्कालमेव। न तूर्ध्वमित्यार्थिकम्। किमवधीति तदाकाद्वितं पूरयति-यदवधी- त्युत्तरार्घेन। हरिणेति साभिप्रायम्। कुरज्गशावाक्ष्या इत्यर्थः । तत्रापि दृशो:, न तु दृशः। तत्रापि विलासः, न तु भासः । एतेन सानुरागापाङ्गतरङ्चितत्वं तत्र व्यज्यते। स यदवधि चित्ते नायकमनसि पदम्। चरणोपलक्षितं खसंचारमिति यावत्। न दधाति तदवधीत्यादि पूर्वेण संबन्धः। ननु नह्यापातिकलाकिकविवेकमात्रेण कामि- नीविषयक: कामः शाम्यत्यतो निरुक्तविवेकं विशिनष्टि-पुराणेति। उत्तरोत्तरा- धिक्यध्वननार्थ शास्त्रादिग्रहः तासामपि शतं तस्यापि चारुरुपक्रमादितात्पर्यावधार- णपूर्वकः, न लापातिकः। 'शतवारविचार-' इति पाठे तु 'आवृत्तिरसकृदुपदेशात्' इत्यधिकरणार्थो बोध्यः। एतादृशो यो विचारः प्रमाणानुग्राहकलौकिकादियुत्त्यूहा- पोहस्तो जायत इति तथेत्यर्थः । ईदृशोऽप्यसौ तावदेवायुष्मान्यावन्नोक्तकटाक्ष- च्छटास्मृतिरतः सैव शीघ्रं लया प्रसादनीयेत्याशयः। उक्तं हि-'अनुरक्ताङ्गना- लोललोचनालोचनाकृति। स्स्थीकर्तु मनः शक्तो न विवेको महानपि ॥' इति। अन्र विवेकस्य निरुक्तजन्यतोत्त्या नित्यसिद्धविवेकाख्यसार्वज्ञ्यशक्के: श्रीकृष्णस्य व्युदास: सूचितः। श्रीरामस्य तु वृदृद्वासिष्ठोक्तरीत्या सनत्कुमारदत्तावरणागमनशा- पाज्गीकर णलक्षणभक्तानुप्रहणादिमनुष्यनाट्यलीलानटनपाटववलेन तदुचितमेवेति न कोऽपि शङ्गावकाशः। इद हरिणेत्यादौ परिकराङ्कुरादिरलंकार एवाधरिकः । पर- कीयाभध्यान्तरा नायिकादिकं तु सर्व प्राग्वदेव। श्रीकृष्णे मोहावर्णनात्॥ अथौत्कण्ठ्यौत्कठ्याच्छ्री रामस्तावन्निरुक्तसखीसमक्षमेव खमनोरथं प्रथयति- आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम्। कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा॥ १४ ॥। आगत इति। भो भर्तृदारिके सीते, तब पतिः श्रीरामस्तन्मन्दिरं प्रत्ययमा- गत इति जनैः सखीजनैरीरितं कथितं वाक्यजातं शण्वत्येव सती, न तु श्रुला।

Page 85

शृङ्गारोल्लासः । ७७

सेनादरातिशयो द्योत्यते। अत एव चकितं यथा स्यात्तथा। देहलीम्। प्रत्युद्रमन- विधया मन्दिरद्वारान्तःप्रदेशस्थलीं प्रतीत्यर्थः । एतेन मर्यादातिशयः सूचितः। एवं चकितपदेनौत्कण्ठ्यातिशयश्र। मृगेति। हरिणाक्षी जानकी। तेन लोचनयो- श्वाश्वल्याधिक्याल्लालस्योत्कर्षो व्यज्यते। कौमुदीव शरद्राकाचन्द्रिकेव मम लोचने कदा शिशिरीकरिष्यत इत्यन्वयः । एतेनाशंसाधिक्यं ध्वन्यते। अत्र पतिपदात्ख- कीयैव मध्योत्कण्ठिता नायिका। स एव नायकः । विप्रलम्भः श्रङ्गारः । चपला- तिशयोक्तिः पूर्णोपमा लुप्तोपमा चालंकारः । रथोद्धतावृत्तम् । तदुक्तम्-'रा- ज्राविह रथोद्धता लगौ' इति॥ नन्वेवं जानक्याः प्रत्युद्गमादिसंप्रदायः कदाचिदनुभूतः किंवा कामुकतया केवलमुत्प्रेक्ष्यत इत्याशङ्क्य प्रागेवं प्रत्यह्मनुभूतमेवेति श्रीरामस्तत्सखीं प्रति यथा- वृत्त निवेदयति- अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना। अवलोक्य समागतं तदा मा- मथ रामा विकसन्मुखी बभूव॥ १५॥ अवधाविति। भो सखि, तदा निरुक्तमानावस्थापूर्वकाले। रामा। रमयते सा रामा। रूपलावण्यादिभिः शरीरधर्मैः पातिव्रत्यादिभिर्मनोधर्मैंश्च तद्वशीकरणनिपुणा वैदेहीत्यर्थः । एतेनानुपेक्षणीयत्वं दयोत्यते। दिवसेति। सायंसमयरूप इति यावत्। अवधौ। 'अवधिस्त्ववसाने स्यात्सीम्रि कालेऽपि चावधिः' इति विश्वादन्तःपुराना- गमनप्रयोजकपरिसमाप्तावित्यर्थः । एतेन स्वस्य तस्याश्च धार्मिकत्वं ध्वन्यते। भव- नेति। शुद्धान्तद्वार इत्यर्थः । विलोचने दधाना। नेत्रे तटस्थीकुर्वाणा स्रतीति यावत्। मां समागतमवलोक्य। अथ तदुत्तरक्षणावच्छेदैनेव, न तु किंचिद्विम- श्यापि। एवं च प्रीत्यतिशयः सूचितः । विकसदिति। एतेन वदनेऽरविन्दत्वं व्यज्यते। तेन तत्काले तद्विकासादङ्गुतरसेन लोकोत्तरानन्दो ध्वनितः । तस्मात्त्व- याधुना तत्प्रसादनार्थ यतितव्यमेवेति भावः । इह स्मर्यमाणा अनुकूला वर्तमाना मानवती स्वकीया मध्यैव नायिका। उत्सुको नायकः । विप्रलम्भः शङ्गारः। काव्य- लिङ्गमलँंकार: ।। अथ निरुक्सखीं प्रत्येव श्रीराम: सीतायाः श्रीकृष्णो राधाया वा शीघ्रं वश्ी- भा० वि• ६

Page 86

भामिनीविलासे

करणप्रयोजक स्वौत्कण्ठ्यद्योतकस्वविषयकतदनुरागौत्कव्यमपि प्रकटयति-वक्षोजा-

वक्षोजाग्रं पाणिनामृश्य दूरं यातस्य द्रागाननाज्ं प्रियस्य। शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १६ ॥ वक्षोजाग्रमिति। हे सखि, कदाचिदेकान्ते वक्षोजाग्रं कुचाग्रम्, न तु कुचौ कुचं वा। तेन विनोद: सूचितः। पाणिना करेण। आमृश्य। ईषत्स्पृष्ट्े- त्यर्थ: । द्राक्। 'द्राङह्ण सपदि द्रते' इत्यमराच्छीघ्रमित्यर्थः । दूरं यातस्य तत्रापि प्रियस्य प्रीतिविषयस्य। ममेत्यर्थः । एतेन वक्ष्यमाणरोषस्य प्रणयमूलकत्वं द्योत्यते। आननाब्जं मुखचन्द्रं वदनकमलं वा। भामिनी निरुक्तचू चुकस्पर्शतः प्रोद्दीप्तका- मापूर्तेः कोपना। पूर्वोक्तनायिकेति यावत्। शोणेति। अरुणकोणाभ्यामित्यर्थः । एवं च हार्दस्य कोपामेर्बहिः प्रभापि व्यजिता। एतादृशाभ्यों लोचनाभ्याम्। जोषं विनोदानुसंधानात्प्रथमं सुखं यथा स्यात्तथा। ततः जोषं किमथ निकटमभिसर्तव्यं न वेति संदेहात्तूष्णीं यथा तथा। पुनः। जोषमेव किमनेनेदं मन्मदनोद्दीपनं विधाय तदपूरणमयुक्तं क्रिियत इति धिगेनमिति मर्यादोहद्वनध्वननं च यथा तथैवावतस्थ इत्यन्वयः । 'तूष्णीमर्थे सुखे जोषम्' इत्यमरः । 'जोषं सुखे प्रशंसायां तूष्णी लद्ट- नयोरपि' इति कोशान्तरमपि। यद्वा जुषित्वा जुषित्वा पुनः पुनः संसेव्येत्यर्थः। शेषं तु प्राग्वदेव। तस्मात्त्वया दूर नैव स्थातव्यम्। किं तु तल्प आगत्य मद्र- विसंपूर्तिरेव विधेयेत्याशयः । अत्र क्षुब्धा मध्या स्वकीया परकीया वा नायिका। विनोदी नायकः । संभोगः शरृङ्गारः। श्ेषोऽलंकारः ॥ गुरुभि: परिवेल्लितापि गण्ड- स्थलकण्ड्यनचारुकैतवेन। दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ।।१७।। गुरुमिरिति। श्वश्रूप्रमृतिभिः। पूज्यैरित्यर्थः । परिवेल्वितापि। अभिव्याप्ता- पीत्यर्थः । 'परिवेष्टिता' इत्यपि पाठः । अपिनानुरागातिशयो व्यज्यते। गण्डेति । कपोलपालिकण्द्वपनयनलक्षणरम्य मिषेणेति यावत्। एतेन चातुर्यातिशयः सूचितः।

Page 87

शृङ्गारोह्लासः। ७९

सुरताभिलाषः सौन्दर्योत्कर्षश् द्योत्यते। एतादृशी बाला निरुक्तनायिका मयि नयनाश्वलं लोचनपल्लवम्। संभोगदानसूचकं कटाक्षमित्यर्थः । अत्र लुप्तोपमा- लंकारः। अन्यत्सर्व प्राग्वदेव ।। गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतभ्रू- लतिकं मामवलोक्य घूर्णितासीत् ॥१८॥ गुर्विति। अत एव। नतेति। मया। नीरजेति। कमलमुकुलेनेत्यर्थः । त्वत्कुचतोऽयं न्यूनोऽधिको वेति परीक्ष्यतामिति विनोदो द्योत्यते। मन्दं निहता। अन्यैरविज्ञातं यथा तथाभिहृतेत्यर्थः । एतादृशी सती सा। दरेति। ईषत्ताटङ्क- नटनं यथा तथा। नतेति। नम्रभ्नवल्लिकं च यथा तथेत्यर्थः । क्र्कियाविशेषण- द्वयेनानेन क्रमादावेगविनयौ ध्वनितौ। एवं मामवलोक्य घूर्णिता कम्पिता । एतेन किमिदमकार्यसमीक्ष्यैव प्रेक्षावद्भिरपि भवद्भिरित्याक्षेपो ध्वनितः । अन्नापि रूपकमलंकारः । शेषं तु प्राग्वदेव ॥ एवं संप्रेरितसख्युपदेशादागतां सीतां प्रति श्रीरामो राधां प्रति वा श्रीकृष्णः किंचिदुपालभते- विनये नयनारुणप्रचारा प्रणतौ हन्त निरन्तराश्रुधारा। अपि जीवितसंशया प्रयाणे नहि जाने हरिणाक्षि केन तुष्येः॥१९॥ विनय इति। अयि हरिणाक्षि, त्वयि मया विनये कृते सति तव। नय- नेति। अरुणस्य शोणवर्णस्य यः प्रचारोऽरुणप्रचारः। नयनयोररुणप्रचारो यस्याः सा तथा। कुपिता भवसीत्यर्थः । तर्हि विनयकापट्यसंभवभज्जको नमस्कारः कार्य इत्यन्नाह-प्रणताविति। हन्तेति खेदे। निरन्तरेति। निरन्तरमश्रुधारा यस्याः सा तथा। रुदिता भवसीत्यर्थः । तर्ह्यपेक्ष्येत्यत आह-अपीति। प्रयाणे मया- गमने क्रियमाणे सति तु। जीवितेति। जीवितस्य संशयो यस्याम्। एतादशी संदिग्धजीवितापि भवसीत्यर्थः । अतस्त्वं केनोपायेन तुष्येः संतुष्यसीत्यहं नहि

Page 88

८० भामिनीविलासे

जाने नैव जानामीति योजना। एतेन मौग्ध्याद् धैर्यानुरागा व्यज्यन्ते। 'प्रसाराः', 'धाराः', 'संशयः', इति पाठे तु तव भवन्तीत्याद्यध्याहृत्यैव योज्यम्। शेषं तूकार्थमेव। अत्र मध्या संबोध्या स्वकीयादिरेव नायिका। लुप्तोपमालंकारः । उक्तमेवान्यत्।। इत्थमुपालम्भवाक्येन पुनः कुपितायां सीतायां राधायां वा सत्यां श्रीरामः श्रीकृष्णो वा तल्पनिकट एवानल्पसिन्नत्वेन प्रसुप्तः सन्खप्े तां तथाविर्धा दृष्ट्ासौ प्रबुद्धः खनिकटस्थितामिव मूर्तिमतीं निद्रां प्रकल्प्य निरुक्त्नायिकासंभाषणलाभ- जनकत्वेन तां स्तौति- अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङयेत्यभिधायिनीम्। अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत्॥ २०॥ अकरुणेति। हे भद्रे वक्ष्यमाणनायिकासंभाषणसुखदातृत्वेन कल्याणि निद्रे, तन्वीं निसर्गकृशाङ्गीम्। प्रेयसीमित्यर्थः । एतेन प्रकृतप्रणय प्रकोपप्रकर्षप्राकट्ये प्रयुक्तविरहवैवश्यकार्श्यातिशयस्य कैमुत्यसिद्धत्वं ध्वनितम्। कोऽलौकिकगुणक- श्चेतनादिसाधारणः पदार्थः । भवतीं विना त्वामन्तरा विनिवेदयेत्। विशेषेण वक्ष्यमाणभाषणपूर्वकत्वलक्षणेन तत्रापि नितरां बहुकालम्, न तु क्षणमात्रं वेद- येज्ज्ञापयेदित्यर्थः । मां प्रतीति शेषः। न कोऽप्यन्यस्त्रिभुवनेऽपीत्यार्थिकम्। ननु दृश्यत एव भवता भवत्प्रियाप्रायः सततमेवेति कोऽत्र मया खप्नतो विशेषः संपादित इत्यतस्तां विशिनष्टि-अकरुणेत्यादिना त्रिभिः। रे अकरुण। एवं च कथमेतावत्कालं मतप्रसादनोपेक्षा खानुमानेन मन्मथव्यथाविदापि भवता भावि- तेत्याक्षेपः सूच्यते। न च मया त्वत्प्रियसखी प्रार्थनाशतमेव त्वत्प्रसादनार्थ कृतम्, न तूपेक्षापीत्याक्षेप्यम्। अप्रामाणिकत्वादित्याह-मृषेति। एतेन धूर्तत्वं ध्वन्यते। सिन्धुपदेन त्रैकालिकानाश्वसनीयवचनत्वं माधुर्यगन्धविधुरत्वं च। अत एव त्वं ममाच्चलं बलात्कारेण धृतं वसनपल्लवं विमुश्वेति संबन्धः । अहो सनहादेव मयाश्चलो धृतः, न तु बलात्कारेणेत्यत्राह-तवेति। मया तव स्नहः सम्य- क्परिचित इत्यभिधायिनीं वदन्तीमिति योजना। एतेन यदि सम्यक्तेहः स्यात्तर्हि कथमेतावत्कालं विरहः सुसहः स्यादित्यादितर्कस्तर्क्यते। तेन परमति-

Page 89

शृङ्गारोहासः । ८१

रस्कारो व्यज्यते। अतएव अविरलेति। सततस्खलदश्रुधारामित्यर्थः । एवे- नात्यसह्याधित्वं ध्वन्यते। तत्रापि 'धनेन कान्ताम्' इत्युक्तेर्नवभूषणसमीहाया नवोढाचेष्टात्वोक्तेश् मया चूडामण्यादेर्भूषणस्य प्रदाने कृतेऽपि नैव प्रससादेति व्यनक्ति-निरस्तेति। ऋजवस्तु त्यक्तखाङ्गीनाभरणामिति विवरिष्यन्ति। इह कुपिता सवीयादिर्मध्यैव नायिका। तत्परो नायकः। स्प्नो व्यभिचारी भावः। विप्रलम्भ एव शृङ्गारः। परिकरकाव्यलिङ्गादयोऽलंकारा: । हरिणीवृत्तम्। तदु- कम्-'रसयुगहयैन्सौं म्रौ स्लौ गो यदा हरिणी तदा' इति॥ अथैवं प्रेयोवाक्यमाकर्ण्य तत्प्रेमदार्ढ्यावधारणेन सद्यः सुप्रसन्नया प्रेयस्या सह यथेच्छं सुरतसुखमुपभुज्य प्रातः सकलस्ानप्राक्कालिककृत्योत्तरं सरयूं कालिन्दीं वा स्नातुमागतां सीतां राधां वालक्ष्य श्रीरामः श्रीकृष्णो वा तदर्थमेव तत्रैवागतः संस्तीरवर्तिन्यास्तस्याः सप्रियदर्शनेनातिप्रसन्नं वदनारविन्दं तथा विकासोन्मुखं नीरवर्ति कमलं प्रत्यपि मकरन्दलोभवशादुभयत्रापि धावमानां भ्रमरकिशोरस- रणिमवलोक्य तन्मौग्ध्यं स्वमनस्येव वर्णयति- तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्। आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला॥ २१॥ तीर इति। रे मनः, इयमलिकिशोरमाला मुग्धा भ्रान्ता भवति। तथा त्वं मा भव। किंतु विवेकेन स्वरमण्यानन एव संसक्तं भवेति भावः । कुतोऽस्या भ्रान्तिरवधार्यत इति चेत्तत्राह-यत इयं तीरे तरुण्याः सहासं वदनं नीरे मिल- द्विकासं सूर्योदयवशात्प्राप्तसंफुल्लभावं सरोजं चालोक्य मरन्दलुब्धा सत्युभयत्रापि धावतीति संबन्धः । अन्न किशोरपदं हि भ्रमयोग्यतार्थम्। एवं च तदानने पद्मा- न्यूनानतिरिक्तत्वं व्यज्यते। इह मध्या मुदिता स्वकीया परकीया वा नायिका। हृष्टो नायकः। कटाक्षादिसंभोग एव शङ्गारः। आ्रान्त्यादिरलंकारः । यद्येकस्या अलिकिशोरमालाया ऐककालिकोभयकर्मकधावनक्रियासंभवविभावनमर्धजरतीया- नौचित्याच्चत्तर्ह्यस्तु कालमेदेन तद्यदा प्रथमं सौरभ्याद्याधिक्यलक्षणपद्मिनीजा त्यधर्मतः सीतादिमुखे धावत्यसौ तदा तत्रापि नेत्रादिपद्मवैधर्म्यघटकांशदर्शनत- स्ततः परावृत्य पुनः सरोजे धावति तत्रापि तादृक्सौगन्ध्यालाभात्ततोऽपि पुनः परावृत्य तत्र धावतीत्यतः संदेहादिरेवासाविति रहस्यम् ॥

Page 90

८२ भामिनीविलासे

ततः श्रीकृष्णः कुज्जादौ निश्यन्यां गोपयुवतिमुपभुज्य राधिकासंकेतितमालती- कुञे निशीथे समागतस्तया प्रत्युद्गमनादिना सत्कृतश्च, तदनन्तरं राकाचन्द्रिकायां तमालिज्ञितुं तत्स्कन्धे संस्थापितापि निजभुजकल्पलतामअरी तद्वक्षसि सशत्रुभूत-

लोक्य सद्यःकुपितया तया तत्क्षणादेवाकृष्टेति कविस्तत्कोपचापल्यं प्रकाशयति- वीक्ष्य वक्षसि विपक्षकामिनी- हारलक्ष्म दयितस्य भामिनी। अंसदेशविनिवेशितां क्षणा- दाचकर्ष निजवाहुवल्लरीम् ॥ २२॥ वीक्ष्येति। अत्र कामिनीत्युक्तचिह्नहेत्वर्थम्। एवं दयितपदं प्रियत्वसूचना- त्तदंसदेशे खबाहुलतानिधानयोग्यताध्वननार्थम्। तद्वद्वल्लरीपदमपि तस्यामति- सौकुमार्यद्योतनार्थमेव बोध्यम्। स्पष्टमेवान्यत्। इह परकीया मध्या खण्डिता नायिका। वश्चको नायकः । विप्रलम्भः श्ङ्गारः। लुप्तोपमादिरलंकारः ॥

एवं कुपितायां राधिकायां सत्यां तत्प्रसादनार्थमन्येद्युस्तत्सखीं समुत्कण्ठयितुं श्रीकृष्णस्तल्लीला एव सुरतादिरूपाः स्मृत्वा संवर्णयति-दरानमदित्यादिचतुर्भिः। दरानमत्कंधरबन्धमीष-

अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ़गं चिरमङ्गनायाः ॥२३॥ दरानमदिति। अत्र प्रतिपद्यं हे सखीति संबोधनाध्याह्ारो बोध्यः। अह- मङनायाः प्रकृताया राधिकायाः सङ्गं संभोगं चिर स्मरामीति योजना। तत्र हेतुं द्योतयितुं विशिनष्टि-दरेत्यादित्निभिः। दरमीषदानमन्ती कंधरा 'शिरोधिः कंधरेत्यपि' इत्यमराद्गीवा यत्र तादृशो बन्धः पुरुषायिताभिधः सुरतरचनाविशेषो यस्मिस्तत्रैव तत्संभवात्तमित्यर्थः । अत एव। ईषदिति। स्न्निग्धपदेनानन्दाश्रुसद्भावो व्यज्यते। किंचेतोऽपि तत्र विपरीतरतत्वमेवेति व्यनक्ति-अनल्पेति। अम शरीरम्, न तु हस्तादवयवाः। तस्मादेतादृगनुपमसुखदां तां त्वं दरुतं प्रसादयैवे- त्याकूतम्। इह स्मर्यमाणा प्रमत्ता मध्या परकीयैव नायिका। प्रकृता तु कुपितैव। उत्कण्ठितो नायकः । विप्रलम्भः शृङ्गारः। उक्त एवालंकारः ॥

Page 91

शृङ्गारोह्लासः । ८३

रोषावेशान्निर्गत यामयुग्मा- देत्य द्वारं कांचिदाख्यां गृणन्तम्। मामाज्ञायैवाययौ कातराक्षी मन्दं मन्दं मन्दिरादिन्दिरेव॥ २४ ॥ रोषेति। कोपवेगानिजिर्गतं बहिर्गतम्। ततो यामयुग्मात्प्रहरद्वयादनन्तरम्। द्वारं तन्मन्दिरद्वारमेत्यागत्य। कांचित्तत्सखीं प्रत्याख्यां निरुक्तमद्रोषकारणक- थाम्। गृणन्तम् । जल्पन्तमित्यर्थः । एतादृशं मामाज्ञायैव निरुक्तशब्दलिङ्गेन ज्ञात्वैव। कातराक्षी प्रकृतमद्रोषवशाद्भीतचकितलोचना राधेत्यर्थः। मन्दिराद्रत्या- गारादिन्दिरेव लक्ष्मीरिव सर्वाशरम्या मन्दं मन्दमाययावीषद्वहिराजगामेत्यन्वयः। एतेनार्जवौत्कण्ठ्यभीतिप्रीतिप्रणत्यादयो द्योत्यन्ते। अत्रोत्सुका मध्या परकीया नायिका। उपमालंकारः । शेषं प्राग्वत् । शालिनीवृत्तम्। तदुक्त्तम्-"शालि- न्युक्ता म्तौ तगी गोऽब्धिलोकैः' इति॥ हृदये कृतशैवलानुषङ्गी मुहुरङ्गानि यतस्ततः क्षिपन्ती। प्रियनामपरे मुखे सखीना- मतिदीनामियमादधाति दृष्टिम्॥२५॥ हृदय इति। अनुषङ्गः संबन्धः । सखीनां मुखे त्वत्प्रियः श्रीकृष्णः समागत इति प्रियनामपरे सति। इयं वुद्धिस्थत्वेन प्रत्यक्षा राधिका। तत्रेत्यध्याहारः । निरुक्तसखीमुख इत्यर्थः । अतिदीनां दृष्टिमादधाति, न त्वादधाविति योजना। तेन स्वस्य रसपारवश्याद्भूतमपि तद्टृत्तं वर्तमानमिव भातीति ध्वन्यते। एवं च तस्या विरहलीलोत्कर्ष: प्रतिबोधितः । तेनास्यां सौहार्दाविशयः सूचितः। इह विरहिणी नायिका। शेषं तु पूर्ववदेव। काव्यलिङ्गमलंकारः ।। इत एव निजालयं गताया वनि विनतायाःगुरुभि: समावृतायाः। परिवर्तितकंधरं नतभु स्मयमानं वदनाम्वुजं स्मरामि ॥। २६॥ इत एवेति। पुरोवर्तिदेशत एव। वैनत्ये हेतुः-गुरुभिरिति। 'वनितायाः' इति पाठस्तु सरल एव। एतादृश्या राधायाः । परीति। वलितग्रीवम्। नवेवि।

Page 92

८४ भामिनीविलासे

नते भ्रुवौ यत्र। अत एव सयमानं स्मितयुतम्। एतादृशम्। वदनेति। मुखा- ब्जमित्यर्थः । एतेन ह्रीप्रीत्यौ द्योत्येते । इह सलजोत्कण्ठा नायिका। लप्तोपमा- दिरलंकारः । शेषं प्राग्वत् ॥ अथ निरुक्तसखीसमक्षमेव वसन्तागमव्यज्जकमलयानिलाद्युद्दीपनविभावासहि- रणुतां कथयन्श्रीकृष्णो राधिकाप्रसादनत्वरां सूचयति- कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाता: कृतान्ताः। अयमपि खलु गुअन्मक्ु माकन्दमौलौ चुलकयति मदीयां चेतनां चश्चरीकः ॥२७॥ कथयेति। अयि सखि, मे जीविते न तु धनादौ। तेन त्वयाधुना तत्प्रसा- दने विलम्बलेशोऽपि न कार्य इति व्यज्यते। आशा संभावनापि। तेन वस्तुत- स्वन्नैव स्थास्यतीत्यतिवैक्कव्यं ध्वन्यते। कथमिव जायतामिति त्वमेव कथयेति संबन्धः । किमिति तत्संशयस्तत्राह-मलयेत्यादिना। तेन तेषु दाहकत्वानुमितं विषसंपृक्तत्वं ध्वन्यते। मलयाचलचन्दनसंबन्धित्वेन शीतादिमत्त्वं त्वविनाभाव- सिद्धमिति बोध्यम् । अत एव विरहिणो मे। कृतान्ताः 'कृतान्तो यमुनाभ्राता' इत्यमरान्मृत्यवः । एतादृशा वाताः पवना वान्ति। प्रसरन्तीत्यर्थः । न केवल- मेतावदेव किंत्वन्यदपि तथेति कथयति-अयमपीति। अयं प्रत्यक्षश्रञ्चरीको भ्रमरोऽपि माकन्दमौलौ प्रफुल्लाम्रशिखरे मक्षु मधुर गुअन्सन्मदीयां चेतनां 'प्रतिपज्ज्ञप्तिचेतनाः' इत्यमराद्विवेकसाधनीभूतां बुद्धिमपि चुलकयत्याचामति खत्विति योजना। एवं च विवेकसामग्या अप्यभावः सूचितः। तस्मात्त्वया त्वरयैवासौ प्रसादनीयैवेत्याशयः । अत्र कुपिता मध्या परकीयैव नायिका। विरही नायकः विप्रलम्भः शङ्गारः । काव्यलिङ्गादिरलंकारः । मालिनीवृत्त- मिदम्। तदुक्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति॥ पुनस्तल्लीलान्तरमेव श्रीकृष्णस्तत्सखीं प्रति कथयंस्ततप्रसादन एव त्वरयति- निरुध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने। मयि स्मितार्द्र वदनारविन्दं सा मन्द्मन्दं नमयांबभूव ॥२८॥

Page 93

शृङ्गारोल्लासः । ८५

निरुध्येति। हे सखि, कदाचिद्यान्तीं पलायमानां कपोतीं 'पारावतः कलरवः कपोतः' इत्यमरात्कलरवाख्यां पक्षिणीं निरुध्य कराभ्यां धृत्वा। कूजत्कपोतस्य। सुरतार्थ रुतविशेषं कुर्वतस्तद्दर्तुरित्यर्थः । पुरोऽग्रभागे दधाने स्थापयति। एता- दृशे मयि सतीति यावत्। सा पूर्वप्रकृता राधिका । स्मितेति। स्मेरसुधयाति- स्त्निग्धीकृतमित्यर्थः । एतादृशम्। वदनेति। मुखकमलम्। मन्दमन्दं शनैःशनै- र्यथा स्यात्तथा। नमयांबभूव नम्रीचकारेति संवन्धः। एतेन तस्या अपि तात्कालि- कसुरतौत्कण्ठ्यं संपन्नमिति व्यज्यते। तस्माद्यथाधुनाप्येवं स्यात्तथा भवत्या अवश्यं भावनीयमिति भावः । इह लीलाशालिनावेव स्मर्यमाणनायिकानायकौ। प्रकृतौ तु तौ कुपितावियुक्तायुक्तावेव। विप्रलम्भ एव शद्गारः । यद्यपि स्मर्यमाणस्य तस्य संभोगारम्भरूपस्य संभवेऽपि वर्तमानत्वाभावात् लुत्तोपमादिरलंकारः ॥ अथैकविशतिश्रोकवर्णितवदनां सीतां प्रति श्रीरामः पूर्वश्लोकषडीत्या संप्रे- षितसखीप्रार्थनशतैरभिसृतां राधिकां प्रति श्रीकृष्णो वा सायं तद्वदनस्य राका- निशाकरत्वव्वननेन परितोपयति- तिमिरं हरन्ति हरितां पुरःस्थितं तिरयन्ति तापमथ तापशालिनाम्। वद्नत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहथ्रियम् ॥ २९॥ तिमिरमिति। अयि चकोरलोचने। एतेन त्वन्मुखस्य निप्कलङ्कत्वापरिक्षीण- त्वादिना चकोरमिथुनमेव नयनच्छद्मनात्रैवागत्य विहरतीति द्योतितम्। तव वदनत्विषो मुखकान्तयः । हरितां दिशां पुरःस्थितमग्रभागवर्ति तिमिरं हरन्ती- त्यन्वयः । एवं तर्हि किं मन्मुखस्य सूर्यत्वमुत्प्रेक्ष्यते। तत्त्वनुचितं तस्य ताप- कत्वादस्य तु तच्छामकत्वादित्यत आह-तिरयन्तीति। अथ प्रथमप्रसारतस्ति- मिरहरणानन्तरमित्यर्थः। तापशालिना त्रिविधतापवतां न तु कामज्वरातुराणाम्। तथात्वे बहुवचनात्सामान्यवनितात्वापत्तिः । तापं तिरयन्त्यपसारयन्तीति योज- ना। अथापि जीवन्मुक्तमुखमयूखेष्वतिव्याप्तिरत आह-परीति चरमचरणेन। सरसीति। कमलशोभामित्यर्थः । परिमुद्रयन्ति मुकुलीकुर्वन्तीति संबन्धः । तस्मांद्धन्योऽहमद्य त्वदाननदर्शनेनैवेत्याशयः । अत्र मध्या स्वकीया परकीया वाभिसारिका नायिका। मुदितो नायकः । संभोगारम्भ एव शृङ्गारः । व्यङ्गय-

Page 94

८८ भामिनीविलासे

रोऽपि' इति पाठे तु मुदिरपदवाच्यमेघेन गर्जनतस्तन्निद्राभङ्गः संपादित इवि नकाप्यनुपपत्तिः। तस्माद्यः पूर्व व्यावहारिको यश्चायं प्रातिभासिकश्च मद्विघातः संपन्नस्तं त्वमेव पारमार्थिकं तत्प्रसादनं संपाद्य शामयेत्याशयः। इह विषादनम- लंकारः। तदुक्तम्-'इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम्। दीपमुद्योजयेद्याव- न्निर्वाणस्तावदेव सः ॥' इति। शेषं तु पूर्ववदेव। ननु किमेवं भवादशां प्रौढानामपि कान्तैकरत्या दुःखित्वौचित्यम्। उक्त हि कविसमयेऽपि-'विपुलपुलिना: कल्लोलिन्यो नितान्तपतज्झरीमसृणितशिलाः शैलाः सान्द्रद्रुमा वनभूमयः । यदि परिचयो वैयासिक्यां बुधैश्च समागमः क्व पिशितवसामय्यो नार्यस्तदा क्व च मन्मथः ॥' इति। तस्माद्विचार एव कार्य इति वदन्तीं सखीं प्रति श्रीरामः श्रीकृष्णो वा समहाभारतवेदपच्चकोपलक्षितयावच्छ- ब्दब्रह्मपरिशीलनेऽपि तत्रत्यमेकमद्वितीयव्रह्मलक्षणमर्थजातमपि तथा संतापशान्ति नैव विरचयति यथायं रतान्तश्रान्तायाः प्रकृतकान्तायाः पुनः सुरतार्थ प्रार्थने मया क्रियमाणे सति मुखमयूखसखो नकारोऽपीति प्रतिवदति- श्रुतिशतमपि भूयः शीलितं भारतं वा विरचयति तथा नो हन्त संतापशान्तिम्। अयि सपदि यथायं केलिविश्रान्तकान्ता- वदनकमलवल्गत्कान्तिसान्द्रो नकारः॥। ३३॥ श्रुतीति। अन्र संतापशान्ति विरचयतीत्युत्तरार्धेऽप्यनुकर्षणीयम्। वदनेति। वल्गन्त्यान्दोलनेन चलन्ती या कान्तिः प्रभा तया सान्द्रः। निबिड इत्यर्थः । एता- दृशो नकारोऽपीति योज्यम्। कान्तिवशीकृते चक्षुषि नकारग्रहणे श्रोत्रस्य प्रवृ्त्त्य- वसरशून्यतैव संपद्यत इति सान्द्रपदेन द्योत्यते। एवं तथापदेन सपदिपदेन च मय्यप्युक्तरीत्या श्रुत्यादिकं निर्विषयानन्दप्रदत्वेन संतापशान्ति त्यागयोगादिसा- धनपरिपाकतस्तनोत्येव तथा सद्यस्तादृक्साधनमन्तरैव विषयानन्दप्रदानेन नैव संतापशान्तिं तनोतीति द्योत्यते। अत्र पूर्ववदेवेतरद्विना रतश्रान्तनायिकाप्रती- पविशेषालंकारौ ।। अथैवं सूचनतः सत्वरा सखी सामान्यतः कारणानभिज्ञेव सीताया राधाया वा निरुक्तरोषवैवश्यजातविरहकृतपाण्डिमानं तां प्रत्येव वर्णयन्ती तत्प्रत्युत्तराकाङ्वां व्यनक्ति-

Page 95

शृङ्गारोह्लासः । ८९

लवलीं तव लीलया कपोले कवलीकुर्वति कोमलत्विषा। परिपाण्डुरपुण्डरीकखण्डे परिपेतु: परितो महाधयः॥ ३४ ॥ लवलीमिति। अयि सखि, तव कपोले कोमलत्विषा। एतेन रोषराहित्यं तत्काले ध्वनितम्। लवलीं लीलयैव न लायासेन कवलीकुर्वति प्रसति सति। परीति। अतिसितावदातजलजपुअ इत्यर्थः । महाधयो महामनोव्यथाः परितः सम- न्तात्परिपेतुः संनिपेतुरिति संबन्धः । तस्मात्किमेतत्कारणमित्युत्तरं देयम्। उत्त- रिते च श्रीरामादिविरहरूपे कारणे मया तन्मार्जकोपायः समुपदिश्येतेत्याशयः। अन्र विरहिण्येव स्वकीया परकीया वा मध्या नायिका। विप्रलम्भश्ङ्गारः । काव्यार्थापत्तिरलंकारः । अत्र मालभारिणीसुन्दर्योर्मेलनादुपजातिविशेषो वृत्तम्॥ तत उत्तरानवाप्तौ सीतासमक्षमेव तत्सखीं प्रति सति निकटवर्तिनि श्रीरामे तदवलोकनसंकोचादिकं वर्णयति- यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ३५॥। यौवनेति। हे सखि जानकीति। सीताक्षिपद्मलक्ष्म्यो राघवे विषये। यौव- नेति। अतः संकुचन्ति। शीलेति। अतो विकसन्तीत्यन्वयः। एवं च तदनवलो- कनेऽपि तत्सिद्धवत्कारः प्रसादनोपाय एवेति भावः । इह कुपिता मध्या स्वकी- यैव नायिका। अनुकूलो नायकः । विप्रलम्भादिः शद्गारः। रूपकादिरलंकारः ॥ एवं विनोदतोऽप्यप्रसन्नायां जानक्यां सैव सखी पूर्वोक्तामेव तत्सखीं प्रत्यस्या एव परिहासान्तरमाचरन्ती सती श्रीरामस्यानन्तकल्याणगुणादिकरणत्वं व्यनक्ति- अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्। परिणेष्यति वा युवा त्विदानीं निरपायं सिथिलाधिनाथपुत्रीम्॥ ३६॥

Page 96

९० भामिनीविलासे

अधिरोप्येति। हे सखि। हन्तेति खेदे। तु पुनः। एतेनेयं सीता तावत्पूर्व श्रीरामेणोक्तरीत्या परिणीतैवैका जनककन्यकेति ध्वनितम्। इदानीं वर्तमानकाले, न तु कल्पान्तरे। तेनोक्तावतारस्य पुनः संभवेऽपि न क्षतिः। युवा यः कश्चिद्रामा- तिरिक्तो राजकुमारः। हरस्य शिवस्य चापं कार्मुकमधिरोप्य सज्जीकृत्य। तथा बान्ध- वारना स्वसंवन्धिनां परितापम्। कथमेवं दुर्घटो विदेहपणः कुमारेण पूरणीय इति संतापमित्यर्थः । प्रशमय्य क्षणमात्रेण दूरीकृत्य। तत्रापि निरपायं निर्बाधं यथा स्यात्तथा। एतेन युद्धादिव्युदासो ध्वन्यते। मिथिलेति। अन्यां कांचिज्जनकक- न्यकामिति यावत्। न तु पार्थिवीम्। एतस्यास्तु प्रागेव भगवता श्रीरामेण तथो- द्वहनात् । परिणेष्यति वोद्वहिष्यति किम् । अपि तु नैवोद्वहिष्यतीत्यन्वयः । तस्मात्तादरगुणम णिगणमहार्णवः श्रीमत्किरणमालिकुलतिलकः श्रीरामचन्द्र एवेति तत्रापीयमेवमुदासीनेति पृथ्वीजन्यत्वेनौचित्येऽपि विदेहनन्दिनीत्वेनानुचितमे- वेपि तत्त्वम्। 'युवा न वायम्' इति पाठे त्वयं प्रत्यक्षः श्रीरामो नैव परिणेष्यति तथाप्यन्यः कश्चिद्युवा परिणेष्यति वेति काक्का व्याख्येयम्। शेषं तु प्राग्वदेव। इह परिकराक्कुर एवालंकारः। शेषं प्राग्वदेव ।। अथोक्तसखीवाक्यमाकर्ण्य पतिव्रतासीमन्तभूषणीभूतया सीतया निरुक्तपरिहा- सासहिष्णुत्वेन रोषोत्कर्षतः कम्प एव संपादिते सति पुनरपि सैव सखी प्राग्व- देव तत्सख्यन्तरं प्रति तद्विनोदमेव कुर्वन्ती सती तन्मौग्ध्यं ध्वनयति- भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः। तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥३७॥ भुजेति। हे सखि, इयं जानकी वरेण श्रीरामेण। नवेति। नूतनोद्वाहिता। वधूर्जाया। अत एव। रहसि। भुजेति। बाहुद्वन्द्वरूपसारिकादिपक्षिरोधककाष्टगृह इत्यर्थः । गृहीतालिङ्विता। तत्कालेति। अकस्माद्वागुरागतेत्यर्थः । तत्रापि बालेति। नूतनहरिणीव नितरां वेपते कम्पत इत्यन्वयः । तस्मान्मध्याया एतस्याः परम- सुखनिधाने भगवति विलासप्रधाने श्रीरामे रति प्रार्थयति सति नववधूरिव निरुक्त- दृष्टान्तेन मृत्युपाशग्रस्तत्वारोपमिव मत्वा कम्पाद्याविष्करणमयुक्तमेवेत्याकूतम्। इहोपमालंकारः। अपरं तु सर्व पूर्ववदेव॥ एवं शिथिलप्रयत्नाः सीताया राधाया वा सखीरालक्ष्य श्रीरामः श्रीकृष्णो वा स्मरज्वरातुरो नायिकातत्सखीसमक्षमेव मुक्तकण्ठं संजातसकलविवेककुण्ठं च शोचति-

Page 97

शृङ्गारोह्लासः । ९१

उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता। तदपि न हा विधुवदना मानससदनाद्वहिर्याति॥३८॥ उपनिषद् इति। हेति शोकारावसूचकम्। मयेति क्त्रध्याहारो वक्तुर्विरहपार- वश्यावद्योती। उपेति। परिपीतेति प्रमादो व्यज्यते। पेयवद्धृदये निहितेति यावत्। हन्तेति खेदे। गीतापि। सृतसंहितोक्तव्रह्मगीतापीत्यर्थः । शिवादिगीतयोरुक्त कथो- त्तरकालिकत्वात्। एवं च श्रुतिस्मृत्युभयवैफल्यमेव जातमिति द्योतितम्। तदपी- त्यादि सरलमेव। न यातीति संबन्धः। मनः सदा चन्द्राननामेव चिन्तयतीति तात्पर्यम्। तरुणीनां हि मन्दिराद्वहिर्याने सखीसुमङ्गलीसलिलसुमनःशशाङ्कादपेक्षैव निमित्तं प्रायः। तत्तूपनिषद्रीतामानसविधुपदैरेव श्लेषादिना सिद्धमेवेति युक्त एवो- कतदभाव इति। अत्र स्वकीया परकीया वा मध्या कुद्धा नायिका। विरहविकलो नायकः । विप्रलम्भ: शरङ्गारः। विशेषोक्तिरलंकारः । तदुक्तम्-'कार्याजनिर्विशे- षोकि: सति पुष्कलकारणे। हृदि स्नेहृक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥' इति॥ इत्थं श्रीरामस्य श्रीकृष्णस्य वा मारशरप्रहारपारवश्यजन्यशोकमाकलय्य सीतां राधां वा तत्सखी बलात्स्करे गृहीत्वा तत्सविधं निन्ये। ततोऽपि सातिमानव- शान्नैव प्रससादेति कविर्वर्णयति- अकरुणहृदय प्रियतम मुश्चामि त्वामितः परं नाहम्। इत्यालपति कराम्वुजमादायालीजनस्य विकला सा ॥ ३९॥ अकरुणेति। सा विकला। अत एवालीजनस्य कराम्वुजमादाय। सवकरेणाव- लम्ब्येत्यर्थः । अकरुणेति। एतावत्कालमुपेक्षकत्वात्। एतेन सख्यादिद्वारा प्रार्थने कारितेऽपि त्वया साक्षात्प्रणत्यादिना तन्नैव कृतमिति द्योतितम्। तर्हि त्वयाप्युपे- क्ष्यतां तत्राह-प्रियतमेति। तर्यालिङ्गय। नेल्याह-मुञ्चामीति। अहमितः परं त्वां मुञ्चामि तथाहमपि नैवास्मीति संबन्धः। त्वद्वियोगान्नैव जीवामीति रहस्यम्। एवं चैतावत्कालं मया प्रतीक्षितम्। इतःपरे तु मदभिलषितसत्काराभावादहं पद्च प्राणानेव पञ्चबाणसात्करोमीति व्यज्यते। हे प्रियतम, इतःपरमहं त्वां मुश्चामीति योजनं त्वकरुणहृदयेति संबोधनरहस्यानवधाननिबन्धनमेव। इति निरुक्तप्रका- रेण। आलपति भाषत इत्यन्वयः । बुद्धिस्थत्वाल्लद। इह रूपकादिरलंकारः। शेषं तु प्राग्वदेव ।। अथैवं श्रीकृष्णे राधिकाप्रसादे नैराश्यमापनने ततोऽन्यत्र गते च सवि तत्सखी

Page 98

९२ भामिनीविलासे

तावदन्येद्युस्तां प्रति भेदाख्योपायान्तरमारचयन्ती तेन गोपतरुण्यन्तरप्रीति: संपा- दितेति निवेदयति लोभादित्यादिद्वाभ्याम्- लोभाद्वराटिकानां विक्रेतुं तक्रमक्रममटन्त्या। लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥। ४० ॥ लोभादिति। अयि सखि राधिके, अद्य वराटिकानां कपर्दिकानां लोभात्तकं विक्रेतुमक्रमं यथेच्छमटन्त्या भ्रमन्त्या। गोपेति। 'कैशोरमापञ्चदशम्' इति वचना- त्वत्तुल्यवयस्त्वं तस्यामप्यस्तीति न त्वया श्रीकृष्णप्राप्याशा कार्येति द्योत्यते। मध्येरथ्यं रथ्याया गोकुलप्रतोल्या मध्य इत्यर्थः। 'रथ्या प्रतोली विशिखा' इत्यमरः। महेन्द्रेति। इन्द्रनीलाख्यरत्नविशेषः श्रीकृष्णरूपो लब्धः प्राप्त इति योजना। त्वया त्वसावाप्तोऽप्यपहारित इति तत्त्वम् । अत्र परकीयैव मध्या प्रकृता खिन्ना अप्रकृता मुदिता च नायिका। तथव नायकोऽपि। विप्रलम्भसंभोगाख्यौ शृङ्गा- रावपि। प्रहर्षणविशेषोऽलंकारः। उक्तं हि-'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः ॥' इति। एवमक्रममित्यादौ स्वभावोकिर्महेन्द्रेति रूपकातिशयोकक्तिरपि॥ रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम्। शिव शिव सुदृशः सकले जाता सकलेवरे जगत्यरुचिः ॥४१॥ रूपेति। ततस्तस्याश्चन्द्रादियावद्रूपविषयका रुचिरेव संपन्ना। तां निरसितुं इरिमुखस्य लावण्यम्, न तु सौन्दर्यम्। तेन हि लवणस्य भावो लावण्यं लवणमेव लावण्यमिति व्युत्पत्तितः शलेषो विवक्षितः । तथा चारुचिनिरासार्थ लोके सैन्ध- वादि क्षाराखादनं क्रियत इति प्रसिद्धमेव। न चात्र हरिमुखस्य लावण्यमिति रस- यन्त्या इति च मुखसंबन्धि घर्मस्य क्षारत्वाद्राम्यार्थध्वननापत्तिरिति सांप्रतम्।

संपन्नरथ्यान्तःकृष्णरूपमहेन्द्रनीलमणिलाभलक्षणार्थस्य परमानुकूल्यात्। अतएव गोपकिशोरीत्वेन मौग्ध्यान्मधुरारोचकनिरासे तक्रादिवद्रसयन्त्या आसादयन्त्या। चक्षुश्षकाभ्याममृतवत्पिबन्त्या इति यावत्। अत एव सुदृशः । शिव शिवेति खेदे। सकलेवरे खदेहसहिते सकले जगत्यप्यरुचिरेव जातेति संवन्धः । एवेन तस्या जीवन्मुक्तिरेव संपन्ना, त्वं शोकाकुलैव तु मौग्ध्येनेति ध्वनितम्। तस्मादद्यापि विचार: कार्य इति तात्पर्यम्। इह विषादनादिरलंकारः। शेषं तु पूर्ववदेव ।

Page 99

शृङ्गारोल्लासः । ९३

एवमुपायेनाभिस्टतां राधिकां प्रति श्रीकृष्णः स्तौति- किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति। तद्यदि पतति हुताशे तदा हताशे तुलां तवारोहेत्॥४२॥ किमिति। हे राघे, त्वम्। हन्तेति खेदे। ममाङ्कं सुवर्णवर्णमिति मुग्धतया मौढ्येन किं जल्पसीत्यन्वयः । तत्र हेतुः-तदिति । हतेति। हता नष्टाशा उक्तोपमाभिलाषो यस्यास्तत्संबुद्धौ। तत्सुव्ण यदि हुताशेऽन्ौ पतति तदा तव। अङ्गस्येति शेषः । तुलामारोहेदिति संबन्धः। एवं च तप्तमेव काश्चनं त्वदङ्गसमं न त्वन्यदित्याकूतम्। 'न वारोहेत्' इति पाठे तु तदापि तुलामारोहेन् वेति संशय एव। हुताशपदेन तत्र तपो व्यज्यते। इह परकीयाभिसारिका मध्या नायिका। अनुकूलो नायकः। प्रतीपविशेषोऽलंकारः। संभोगारम्भः शङ्गारश्च ॥ एवं महाप्रयत्नेन संपन्नसङ्गयोः श्रीकृष्णराधिकयोः परस्परावलोकनोत्सवं कविः स्तौति- औत्सुक्यात्परिमिलतां त्रपया संकोचमश्चदां च मुह्ुः। नवसंगमयोर्यूनोर्नयनानामुत्सवो जयति॥४३॥ आत्सुक्यादिति। नवेति। भूरिकालोत्तर संपन्नत्वेन नूतनः संगमो ययोस्तौ। तयोरित्यर्थः । अल्पकालेऽपि तत्त्वं तु परस्परविरहपरितापातिशयादेव बोव्यम्। एतादृशयोर्यूनोस्तरुणयोः । राधाकृष्णयोरित्यर्थः । सरल एव चरमचरणः। बहुत्वं तूभयसंबन्धित्वादेव। जये हेतुः औत्सुक्यादित्यादिविशेषणाभ्याम्। कदा रहः सङ्ग: स्यादित्यन्योन्यौत्कण्ठ्याद्धेतोरिति यावत। परिमिलतां परितः सकलकिरणप्रेर- णेन समन्ततो मिलन्ति संश्लिष्टीभवन्तीति तथा। तेषामित्यर्थः। तथा नवत्वादेव। त्रपया हिया संकोचमच्चताम्। स्वीकुर्वतामित्यर्थः । मुहुरित्युभयत्रापि योज्यम्। एवं चोक्तावलोकने लोकोत्तरत्वं व्यज्यते । इह काव्यलिङ्गादिरलंकार एवापरः। इतरत्तु सर्व पूर्ववदेव।। अथ राधिका खसौन्दर्याद्युत्कर्ष द्योतयन्ती सामान्ययुवनिदर्शनतः श्रीकृष्णवि- नोदं व्यनक्ि- गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदशाम्। स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥४४ ॥ भा० वि० ७

Page 100

९४ भामिनीविलासे

गरिमाणमिति। निर्विवेकाय यूनां धैर्याय ते नम इति योजना। अत्र प्रकृत- धैर्यस्यान्यदीयत्वेनाप्रत्यक्षत्वेऽपि युष्मच्छब्दचतुर्थ्येकवचनादेशप्रयोगस्तु वत्रयाः खवलावण्यादिगर्वप्रमादादेव बोध्यः। निर्विवेकत्वे हेतुः शेषेण। गरिमाणं खनिष्ठाच- लत्वमहत्त्वादिधर्मम्। अर्पयित्वा कुरङ्गदशां कुचतटाय दत्त्वेत्यर्थत एव फलति- कुरज्वेति। कुचेति। लघिमानं तदपेक्षयापि लघुत्वम्। स्वीकुर्वत इति योजना। अयमाशय :- यदैव तरुणानां मनस्यस्या मृगाक्ष्याः कुचौ कनककमलकोरकाकारा- विति तन्महत्त्वविषयको विकारः संपद्यते तदैव महत्त्वभङ्ग इति। एतेन मत्कुच- सौन्दर्यदर्शनेन सुदर्शनकरोऽपि त्वं मोहितोऽसीत्यहमेव धन्येति ध्वन्यते। अत्र सौन्दर्यगर्विता मध्या परकीयैव नायिका। अनुरक्तो नायकः । संभोगः शृङ्गारः। परिवृत्तिरलंकारः । तदुक्तम्-'परितृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्रा- हकं शरं मुक्त्वा कटाक्षान्स रिपुश्रियम् ।' इति॥ एवं विनोदेन परितुष्टः श्रीकृष्णोऽपि राधिकां स्तौति न्य्चतीत्यादिद्वाभ्याम्- न्यञ्चति वयसि प्रथमे समुदश्चति तरुणिमनि सुदृशः। दधति स्म मधुरिमाणं वाचो गतयश्च चारुतां च भृशम्॥४५।। न्यञ्चतीति। हे राधे, सामान्यतः सुदृशः सुन्दर्याः प्रथमे बाल्याख्ये वयसि न्यश्वति न्यग्भावं ह्रासं गच्छति सति। तथा तरुणिमनि यौवने समुदव्वति सम्यक्प्रकाशमाने च सति। वाचो वाण्यः। अर्थात्तस्या एव। मधुरिमाणं दधति स्म धारयामासुरेव। तथा गतयोऽपि मरालदन्तावलादिवत्सविलाससालसगमान्यपि। भृशं चारुतां रम्यतां दधति स्मेत्यनुकृष्य योज्यम्। 'विभ्रमाश्च' इति पाठे विलासा अपीत्यर्थः। तथा च गतिमाधुर्य तु प्राग्वदेव। विलासमाधुर्य तु सकलयुववशी कर्तृत्वं बोध्यम्। तस्मत्रैलोक्यसुन्दर्यास्तव तु वागादौ तत्कैमुत्यसिद्धमेवेति भावः । तेनैवमेव विनोदोक्तयस्त्वया भूयो वक्तव्या इति द्योत्यते। परिकराङ्कुरोऽलंकारः ॥ निःसीमशोभासौभाग्यं नताञ्जा नयनद्वयम्। अन्योन्यालोकनानन्दविरहादिव चश्चलम् ॥४६ ॥ निःसीमेति। निःसीममनन्तं शोभासौभाग्यं यस्य। अमितसुषमैश्वर्यमित्यर्थः । एतादृशं तन्वङ्गयाः कृशाङ्गया नयनद्वयम्। स्पष्टमन्यत्। उत्प्रेक्षालंकारः । अन्य- दुभयत्रापि प्राग्वदेव ।। अथैकोनचत्वारिंशच्छ्रोकोक्तरीत्या सीतयातीव रतिनिराशतां नीतः श्रीरामस्त- त्समक्षमेव तत्सखीं प्रागनुभूतं तच्छीलोत्कर्षम्, पूर्वोक्ताव्यवहित लोकद्वयेन वाग्ग-

Page 101

शृङ्गारोल्वासः । ९५

तिनेत्रैकवर्णनेनेतरगुणावयवानामवर्ण्यत्वं मनस्युत्प्रेक्ष्य कुपितायां राधिकायां सत्यां तत्सान्त्वनध्वननार्थ तत्सखीं प्रति श्रीकृष्णो वा तच्छीलविशेषं वर्णयति- गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्विहन्तुकामं माम्। रद्यन्न्रितरसनाग्रं तरलितनयनं निवारयांचकरे॥४७॥ गुरुमध्य इति। मार्तिकेति। मृत्तिकाया इमानि तानि च तानि शकलानि चेति तथा तैः। मृहोष्टखण्डैरित्यर्थः। रदेति। रदैर्दन्तैर्यन्ति्रितं घृतं रसनाग्रं जिह्वाग्रं यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । खभावोक्तिरियम्। एवं तरलितेत्यपि। यथाश्रुत एवान्वयः । एवं च लज्जाभये व्यज्येते। तस्मान्मौग्ध्य इयमेवं मर्यादा- शीलाभूव, अधुना तु मध्यावस्थायां ततोऽप्याधिक्येनैव भाव्यम्। तदपहाय विचेकैकमूलकं क्रोधादिकमेवेयं कलयतीति तत्र महैवमेव प्रयोजकमित्याकूतम्। इह स्वकीया परकीया वा स्मर्यमाणा लज्जादिमती, प्रकृता तु कुद्धा मध्यैव नायिका । कामुकः खिन्नश्च नायकः । विप्रलम्भ एव शद्गारः। लुप्तोपमा काव्यलिङ्गं खभा- वोक्िश्चालंकारः ।

ततो रसरभसाद्विरहकातरेण श्रीरामेण सीता श्रीकृष्णेन राधिका वा 'यदि त्वं नैव प्रसीदसि तर्हि गच्छाम्येवाहम्, तथाप्येकवारं चरममिदमालिङ्गनं देहि'

कविर्वर्णयति- इति वदता बलादेवालिद्विता सती तादृगाश्रलेषादिमाहात्म्येनैव सद्यः प्रससादेवि

नयनाश्चलावमर्श या न कदाचित्पुरा सेहे। आलिङ्गितापि तस्थौ साङ़गं सा गन्तुकेन दयितेन ॥४८॥ नयनेति। या नेति। नेत्रकोणसूचितरतिपरामर्शमपीत्यर्थः। एतेन मानाद- तिरेकः सूचितः । पुरा कदाचिदपि न सेहे नैवासहत्। किंतु कुपितैवासेत्यर्थः । सा गन्तुकेन जिगमिषुणा दयितेनालिव्चितापि न तु दृष्टा साङ्गमङ्गभुजप्रसारणकु- चौन्नत्यकरणादिरूपैः साधनैः सहितं यथा भवति तथा। एतेन प्रसादो द्योतितः। तस्थावित्यन्वयः । तस्मादलौकिकं काममाहात्म्यमिति तत्त्वम्। 'आलिङ्गितापि जोषं तस्थी सा' इति पाठे तु जोषं सुखं यथा स्यात्तथा तस्थावित्यर्थः। अन्र गन्तुकपदं सहेतुकम्। इह मुदिता स्वकीया परकीया वा मध्यैव नायिका नायकश्व। संभोग: शृद्गारः । परिकरोऽलंकारः ॥

Page 102

९६ भामिनीविलासे

एवं श्रीरामेण सीतायाः श्रीकृष्णेन राधाया वा ज्ञातेऽप्युक्तचेष्टया प्रसादे स्परष्ट मिष्टभाषणादिना तस्यादृष्टत्वात्तहार्ढ्यपरीक्षणार्थ सत्यप्रतिज्ञत्वेन तत्कालमेव चुम्ब- नाद्यकृत्वैवान्यत्र गमने कृते सति संभोगारम्भार्धभज्गवशादतुलकामाकुलया तयैव तदानयनार्थ प्रेषिता खसखी तं प्रति तदवस्थां कथयति- मानपराग्वदनापि प्रिया शयानेव दयित करकमले। उद्वेल्ल्ुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥ ४९॥ मानेति। हे दयित। मत्सखीप्रियेत्यर्थः । प्रिया। तावकीति शेषः । रत्यु- त्पादनायेदं पदद्वयम्। मानेति। शयानेव। एतेनातिशथिल्यं सूच्यते। करेति। खहस्तपद्म इति यावत्। उद्वेल्लदिति। उद्वेळ्लन्नुत्कर्षेण वक्रीभवन्भुजो येन तम्। एतेनो क्शैथिल्यमेव पोषितम्। अलसेति। अलसस्तत्सूचकारशाली ग्रीवाबन्धो (न्धः) कं (कः) स्थितिविशेषो येन तम्। एतादृशम्। स्पष्टमितरत्। तस्मात्त्वयासौ द्वतमुपगन्तव्येति तात्पर्यम् । अत्र निरुक्तावस्थया चिन्तातिशयो व्य(ज्येते) इह विरहिणी सकीयादिरेव नायिका। चतुरो नायकः । विप्रलम्भः श्ङ्गारः । उपमादिरलंकारः ।

स्तीति- एवं सरखीवचनं श्रुता श्रीरामः सीतां श्रीकृष्णो वा राधामभ्युपगम्य तां

लोचन फुल्लाम्भोजद्वयलोभान्दोलितैकमनाः ।

लोचनेति। अयि प्रिये, अयं प्रत्यक्षः। तव अलिके। 'ललाटमलिकम्' इत्यम- राल्ललाट इत्यर्थः। कस्तूरीति। मृगमदविशेषकमिषादिति यावत्। अलिर्भ्रमर उल्लसति मन्मनसि प्रतिभातीत्यन्वयः । तत्र हेतुः-पूर्वार्घेन। लोचने त्वन्नेत्रे एव फुल्ना- म्भोजे विकसितासिताब्जे तयोर्यइयं तत्रान्दोलितं किं तत्र गन्तव्यमत्र वेति संदेह- दोलाधिरूढमेंकं मनो यस्येति तथा। एवं चोभयत्राप्याशापाशपारवश्यान्मध्य एवा- वस्थित इति यावत्। एतेन तात्कालिकप्रसन्नदृष्टित्वं तस्यां ध्वनितम्। तत्र च खोप- गम एव हेतुरिति द्योत्यते। अन्र प्रसन्नैव स्वकीया परकीया वा मध्या नायिका। अनुकूलो नायकः । संभोगारम्भः श्रृद्गारः। कैतवापहुत्यादिरलंकारः ॥ अथैवं स्तुतावप्यत्र 'भोः प्रिये, अयि प्रेयसि, हे कान्ते,' इत्यादि संबुद्धभावा- द्वाक्यस्य सामान्योत्त्यापत्तेः पुनरपि रोषवशायां सीतायां राधायां वा सत्यां सख्या

Page 103

शृङ्गारोह्लासः। ९७

बलादेव तल्पे निद्रापितायामपि श्रीरामः श्रीकृष्णो वा नवोढानिदर्शनेन तत्सखी प्रति ब्रूते- अधिरजनि प्रियसविधे कथमपि संवेशिता गुरुभिः। किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥५१॥ अधिरजनीति। हे सखि, काचिन्मुग्धा गुरुभिः श्वश्रूप्रभृतिभिः। प्राढस्रीज- नैरित्यर्थः । अधिरजनि। रात्रावित्यर्थः । प्रियेति। तत्कान्तान्तिक इत्यर्थः। कथ- मपि यथाकथंचित्। अतिबलात्कारेणेत्यर्थः । संवेशिता निद्रापिता। अत एव। उत्तरार्ध सरलमेव। इतः परं किं भविता सुरतस्य जन्मप्रभृति कदाप्यननुभूतता- त्कथँ भविष्यतीति सशङ्कं संशयसहितं यथा स्यात्तथेत्यर्थः । पङ्कजेति। रात्री कमलानां मुकुलीभावाद्द्ीत्यादिना मुकुलितनेत्रा सती परामृशति यथा मनसि विचारयति तथेयमपीत्यर्थः। एतेनोपहासः सूचितः। तस्मादतीतकैशोर्यायास्त्व- द्वयस्याया अस्या इदमनुचितमेवेत्याकूतम्। अत्र कुपिता नायिका परकीयादिरेव। खिन्नो नायकः । विप्रलम्भः श्ङ्गारः । काव्यलिङ्गादिरलंकारः ॥ ततस्तस्यां रजन्यां तथैव गतायां सत्यामन्येद्युरपि प्रदोषे काचित्परमप्रियव- यस्या सीतां राधां वा प्रतिबोधयति- चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुल: पुनरसावास्तां समस्ता कथा। एतत्वां प्रति वेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति॥।५२। चिन्तेति। योजनं तु यथाश्रुतमेव। कामस्य सचिन्तत्वं लन्मानापनोदस्य दुःसाध्यत्वाद्वोध्यम्। इदमेव सख्यादावपि। आस्तामियं वार्ता। बाहुत्यवशादौ- दास्यं द्योत्यते। तृतीयपादेनापक्षपातित्वं ध्वन्यते। किं तदित्यत्राह-मुग्धे इति चरमचरणेन। राकेति। पूर्णचन्द्रः। माने हि त्वन्मुखे रोषकषायवशात्सकलक्कोऽ- प्यसावप्रसन्नमिदं खप्रसादतः पराभविष्यत्येवेति भावः। एतेन भूरिकालमयमेताह- शमवसरं लक्षीकृत्य परिभ्रमति, अतोऽसावस्मै त्वया नैव देय इति तत्सौन्दर्यस्तवो व्यज्यते। एवं मनसिजसखीप्राणेशपदैः स्थूलसूक्ष्मशरीर द्वयाधिष्ठातृणामेतेषां परि- तोष एव श्रेयस्कर इति दयोत्यते। तस्माह्ुतमभिसर्तव्यमेवेत्याकूतम्। अत्र मानवती स्वकीयादिरेव नायिका। प्रतीप विशेष: काव्यलिङ्गं चालंकारः। शेषं तूक्तमेव।।

Page 104

९८ भामिनीविलासे

एवं सख्योपदिष्टाप्यप्रसन्ना सीता राधा वा श्रीरामेण श्रीकृष्णेन वा विनोदते- अलंकर्तु कर्णो भृशमनुभवन्त्या नवरुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदशः।

जनुः सर्वे श्लाध्यं जयति ललितोत्तंस भवतः ॥५३॥ अलंकर्तुमिति हे ललितोत्तंस, लालित्यं प्रकृतप्रियाकर्णस्थितत्वादेव बो- ध्यम्। पृथक्पदं वेद्यम्। एतेन जडोऽपि रत्नावतंसो यत्कर्णस्थितत्वेनैव ललितोऽभूत्त- यातिप्रीत्या हृद्यालिङ्गितोऽहं चेतनोऽपि ललिततमो नायकः किं न भविष्यामीत्याकूतं द्योत्यते। भवतस्तव सर्व न तु य्किंचित्। तेन तव सकलजन्मसाफल्यं वक्ष्यमा- णव्यापारानुभवादेवेति व्यज्यते। ततो मम तु न तथेतीर्ष्यापि सूच्यते। जनुः। 'जनुर्जननजन्मानि' इत्यमराज्जन्मेत्यर्थः। श्लाध्यं पूज्यं जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः । तत्र हेतुस्त्रिपाद्या। कर्णावलंकर्तु भूषयितुम्। नवरुजं नवा कर्णवेधादि- जन्यत्वेन नूतना चासौ रुक्चेति तथा। तामित्यर्थः। भृशं न तु यत्किंचित्। तेन तज्जन्यदुःखेऽप्यलंकारधारणादौ तरुणीनां प्रायो नैसर्गिक्येवाभिरुचिरिति स्वभावो- किर्ध्वन्यते। अनुभवन्त्या न तुशण्वन्त्याः स्मरन्ता वेत्र्थः। एवं वक्ष्यमाणव्या- पारकारणत्वं फलितम्। अत एव ससीत्कारं सीत्कारपूर्वकं यथा भवति तथेति यावत्। तिर्यक्। सव्यत दितरपार्श्ान्यतरभाग इत्यर्थः। वलितेति। वलितं वक्रीकृतं वदनं यया सा तथा तस्याः । एतादृश्या मृगदृशः कुरद्गाक्ष्याः । अस्या मत्ग्रेयस्या इति यावत्। करेति। पाणिपद्मस्पर्शादिव्यवहारानित्यर्थ। एतद्रूगन्। अतीति। अतुलपुण्यपरिपाकमुख्यांशानिति यावत्। रसयतः। आस्वादयत इत्यर्थः । एता- दृशस्य भवत इति संबन्धः। एवं चैताद्क्तिर्यग्वलितवदनसीत्कार पूर्वकं हि करक- मलव्यापारा: सौकुमार्यातिशयेन सुरतरभसासहिष्णुतादशायां मयानुभवितुं योग्या एव भवन्त्यस्यास्तत्कालं मदङ्गमृदुपरामर्शादिना। तत्त्वद्य विपरीतमेव संपन्न यज्ज- डेनापि भवता तेऽनुभूयन्ते न तु प्रियतमेनापि मयेति धिजामैव मन्दभाग्यमिति भावः । अत्र मानवती खवकीयादिरेव नायिका। कुशलो नायकः । विप्रलम्भः मङ्गारः। काव्यलिङ्गादिरलंकारः ॥ ततोऽपि मानानपगमे पुनस्तत्सख्येव तां साम्नैव प्रार्थयते- आयातैव निशा निशापतिकरैः पूर्ण दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते।

Page 105

शृङ्गारोह्ासः । ९९

मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुः क्षाम्यति॥५४॥ आयातैवेति। हे मुग्धे। एतेन सौन्दर्येऽपि मौढ्यं ध्वन्यते। निशा रात्रिरायातैव प्राप्तैव। किं ततः खपिष्याम्येवाहमेकाकिन्येवेति चेत्तत्राह-निशापतीति। चन्द्र- किरणैः । दिशाम्। प्राच्यादिहरितामित्यर्थः । अन्तरम् । अवकाशजातमित्यर्थः । पूर्ण व्याप्तम्। ननु किमेतावतेत्यत आह-भामिन्य इति। कोपखभावा अपि कामिन्य इत्यर्थः । एतेन संप्रदायः सूचितः । मयापि नैव भूषणानि परित्यक्तानी- त्यत आह-उत्तराधशेषेण। त्वं तद्यापि मनागपीपदपि मानं रूपादिगर्व नापाक- रोषि नैव दूरीकरोषीति संबन्धः । अस्तु नाम ममवम्, किं तेन तवेत्यशह-रोषे- णेति। ते तव। बालेति। सूक्ष्मविसादपीत्र्थः । अतितरामतुलं तन्वी स्वाभावि- ककृशापि तनुः। रोषेण कोपेन। हा हेति खेदे। क्षाम्यत्यतिकृशतमेनीति योजना। 'ताम्यति' इति पाठे संतप्ता भवतीत्यर्थः। तस्मात्त्वयैवं नैव कार्यमिति तात्पर्यम्। अत्र परिकराक्कुरोडलंकारः । शेपं तूक्तमेव ।। एवमप्यप्रसन्नां सीतां राधां वा प्रति पुनस्तत्सरूगेव प्रवसत्पतिकायाः कस्याश्ि- दन्यस्या नायिकायाः प्रियसौहार्दाधिक्यध्वनकव्यापारजातं कथयन्ती सतीत्वं तु तदधिकवयोवत्यपि मया भूयो विोधिता सत्यपि नाद्यापि मानमवमानयसीत्यतो वन्धेवासीत्युपालम्भं व्यनक्त- वाचो माङ्गलिकी: प्रयाणसमये जल्पत्यनल्पं अने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्राम्बुजम्। निःश्वासग्लपिताधरं परिपतद्वाष्पार्द्रवक्षोरुहा वाला लोलविलोचना शिव शिव प्राणेशमालोकते॥५५॥ वाच इति। भो सखि, अत्र प्रतिवेशिवेश्मनि। प्रयाणसमये तत्कान्तस्य नगरान्तरं प्रति प्रवासकाल इत्यर्थः । जने मित्रादिपरिजने। माइगलिकीः । सुमुहूर्त- मङ्गलोपयुक्तस्वस्त्यादिशब्दवतीरिति यावत्। एतादृशीर्वाचो वाणीरनल्पं बहुलं जल्पति सुव्यक्तं वदति सति। केलीति। चरमभूमिकागतरत्यागारगवाक्षमध्य इत्यर्थः । विन्यस्तेति। विन्यस्तं कान्तदर्शनं यथा स्यात्तथातलक्षणेन विशेषेण न्यस्तं स्थापितं वक्राम्बुजं मुखकमलं यथा भवति तथेत्यर्थः। 'विन्यस्य' इति क्चिल्लयबन्तपाठोऽपि। तत्र वक्राम्बुजं विन्यस्येति योज्यम्। 'विन्यस्तवक्राम्बुजा' इति पाठे तु विन्यखं

Page 106

१०० भामिनीविलासे

वक्राम्बुजं ययेति। अत एव। निःश्वासेति। निःश्वासैर्विरहजन्यदाहोष्णश्वासैर्ग्लपितो ग्लानिं प्रापितः । शुष्कतां नीत इति यावत्। तादृशोऽघरोऽधरोष्ठो यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । परीति। परितः समन्तान्न त्वेकदेशे। तेन तत्प्राचुर्य कुच- काठिन्यं च सूच्यते। कठिने हि स्थले पतितोऽम्बुबिन्दुस्तत्कालमेवोड्डीय सहस्त्रधा परितः प्रसरतीति प्रसिद्धमेव। तथा पतन्ति च तानि बाष्पाणि चेति तथा। निपत- दश्रूदकानीत्यर्थः । एतेन प्रियवियोगशोकातिशयो द्योत्यते। तैराद्रौ क्िन्नौ वक्षो- रुहौ स्तनौ यस्याः सा तथा। न तूदरम्। तेन सतनयोरतुलौन्नत्यात्तस्यास्तारुण्या- घिक्यं ध्वन्यते। एतादृशी बाला 'कैशोरमा पञ्चदशम्' इति वचनाद्वादशाब्दाधिक- वयोवती काचिन्नायिकेत्यर्थः । एतेनास्यास्तादकप्रागल्भ्यायोग्यत्वे तदर्शनं प्रेमैकनि बन्धनमिति ध्वनितम्। लोलेति। चपललोचना सतीत्यर्थः । एतेन तच्चेतसोऽति- स्मरशरसंत्रस्तत्वं व्यज्यते। एतादृशी सती प्राणेश न तु पतिम्। तेन तद्विरहे कथं मत्प्राणाः स्थास्यन्तीति चिन्ताकुलवत्त्वं सूच्यते। आलोकते। पश्यतीत्यर्थः। याव- त्तद्रथधूल्यादिदर्शनं तत्रव तटस्थीभवतीति भावः। त्वं तु तदधिकवयस्काप्येतादृशी कोपनैवरेत्याश्षर्यमित्यद्यापि तर्हि प्रसादः कार्य एवेति तात्पर्यम्। इह विरहिणी स्वकीयादिरेव नायिका नायकश्च। विप्रलम्भः शरङ्गारः । लुप्तोपमादिरलंकारः ॥ एवं सोपालम्भाकूतव चसा किंचित्तत्कोपमालक्ष्य सैव पुनस्ां स्तुवन्ती सखीप्रसा- दव्यअ्जकं तत्स्मितं याचते- दारिद्ं भजते कलानिधिरयं राकाधुना म्लायति स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति। द्योतन्ते हरिदन्तराणि सुहदां वृन्दं समानन्दति त्वं चेदश्चसि काश्चनाङ्गि वदनाम्भोजे विकासश्रियम्॥५६ दारि्यमिति। हे काश्चनाद्ि काश्वनवदङ्कं यस्यास्तत्संबुद्धौ। अयि सुवर्णवर्ण- शरीरे मत्सखि, सीते राधिके वेत्यर्थः। एतेन परमगौरत्लावण्यत्वे तत्काये द्योत्येते। गूढाभि संधिनान्तः काठिन्यमपि। त्वम्। वदनेति। मुखकमल इत्यर्थः । विकासेति। विकासपद विवक्षितस्मेरलक्ष्मीमिति यावत्। एतेनास्यां पद्मिनीत्वं व्यज्यते। चेद्दि। एतेन तह्ार्लभ्यं व्यज्यते। अश्वसि। स्वीकरोषीत्यर्थः । तर्ह्ययं प्रत्यक्षः । एतेनोदी- यनसामश्री सृचिता : कलेति। एवं चैतच्चतुर्गुणितकलानन्दजनकत्वमुक्तभावत्कमुख एवेति दोत्यते। अधुनेदानीमेव न तु कालान्तरे। तेन तादृशे तन्मुखे लोकोत्तर-

Page 107

शृङ्गारोल्लासः । १०१

सौषमशालित्वं सूच्यते। दारिद्यं श्रीशून्यत्वम्। भजते। प्राप्रोतीत्यर्थः। त्वत्प्रसा- दादित्योदयेन त्वन्मुखकमले विकासश्रीभाजि कलानिधेरपीन्दोर्निःश्रीकत्वं युक्तमेवे- त्याकूतम्। एवं च तृतीयपादार्थोऽपि संगतः। तस्या यदि चन्द्रादौ दारिद्वादि तदा रात्रौ मित्रालोकराहित्यात्तम:प्राचुर्यप्रयोजकं तर्हि किं मामकं स्मितमिति शङ्कोपशा- मकत्वात्। तथा हि। यद्यपि चन्द्रादिषु दारिद्यादिसत्त्वेऽपि लन्मुखकमलान्तर्गतकु- दकलिकायमानकतिचिद्विजराजराजीयालौकिक चन्द्राड्कुरर्दिअ्ण्डलमण्डनमखण्डि- तमेवेति। एवं राकापूर्णनिशाकरपूर्णमास्यधुनेति सर्वत्र योज्यम्। म्लायति। ग्लानि प्रापोतीति यावत्। नहि धर्मधूनने धर्मिधौरेयता नाम। अतएव स्वैरमित्यादिद्वि- तीयः पादः । स्वरमुन्मीलतीति संबन्धः। निरर्गलं प्रसरतीत्यर्थः । तृतीयपादस्तु विवृतप्राय एव। सुहृदां मादक्सखीजनप्रभृतीनां सरसचेतसामित्यर्थः। अत्र त्रिपाद्यां

ते। तस्मादुक्काने कप्रयोजनं सप्रसादमन्दहसनं भवत्या विधेयमेवेत्याशयः इह मान- वती प्राक्तनैव नायिका नायकश्च रसोऽपि। लुप्तोपमा प्रतीपविशेषोऽक्रमातिशयो- क्तिश्चालंकारः । तदुक्तम्-'अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः। आलि- ङन्ति समं देव ज्यां शराश्च पराश्च ते ॥' इति। वदनेति यतिभङ्गस्त्वनवधानहे- तुभूताद्वक्याः सख्यास्तत्प्रसादनलौल्यादेवेति दिक्॥ एवं प्रार्थनेऽप्यपरित्यक्तमानायां सीतायां राधायां वा सत्यां प्रकृतैव तत्प्रियसखी निकटवर्तितत्सख्यन्तरं प्रति वक्ष्यमाणलक्षणायामस्यां वसन्तलक्ष्म्यां सत्यां कथमियं मत्सखी मानैकपरवशा प्राणधारणं करिष्यतीति खचिन्तासूचनतोऽनयाज्झटिति मानापनोदनपूर्वकं प्रत्युपगन्तव्यमेवेति व्यनक्ति- पाटीरद्रुभुजङ्गपुंगवमुखायाता इवातापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः। एते हन्त किरन्ति कृजितमयं हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु॥५७॥ पाटीरेति। पटीरो मलयाचलः। तस्यायं च चासौ। 'दुद्रमागमाः' इत्यमरा- हुर्वृक्षः। अर्थाच्चन्दनतरुः बहुवचनं वा। तदीया ये भुजंगमपुंगवाः 'पुंगवर्षभकुं जराः' इति श्रेष्ठवाचकशन्देष्वमरे पुंगवपदो क्ते: सर्पश्रेष्ठासेषां मुखानि तेभ्य आयाता इव समागता: किमित्यर्थः । अत एवातापिनः। समान्ताद्विरहिणीतापजनका

Page 108

१०२ भामिनीविलासे

इत्यर्थः । एतादृशो वाताः पवना वान्त्युक्तरीत्या शीतादिगुणत्रयवत्वेन प्रसरन्तीति यावत्। किंच । अमी प्रत्यक्षास्ताम्राः नूत्नसंजातपल्लवत्वेनारक्तवर्णा इत्यर्थः । ईदृशा: । रसालेति। आम्रवृक्षा इत्यर्थः। लोचनं नेत्रम्। जात्यभिप्रायमेकव- चनम्। विरहिणीनामित्यार्थिकम्। विवेकज्ञानं वा। दहन्ति। एतेन विवेकः कार्य इत्याकाह्कापि प्रतिक्षिप्ता। अपि च। हन्तेति खेदे। एते प्रत्यक्षा न तु परोक्षाः। तेन तद्दनौ भ्रमत्वं व्युदस्तम्। कोकिलाकूजितमयं रुतत्वेन विकृतम्। एतेन विकृतस्य तिक्तद्रव्यादेरतिरिक्तत्ववदनुपमतापकत्वं व्यक्तम्। हालाहलम् । 'पुंसि कीबे च काकोलकालकूटहलाहलाः' इत्यमरात्सार्थ तद्धितः । कालकूटमित्यर्थः । तेनालाँकिकदाहकत्वं द्योत्यते। किरन्ति। वर्षन्तीत्यर्थः । तेनाल्पत्वं सूचितम्। भवत्वेवम्, किमेतावता प्रकृत इत्यत आह-बालेति चरमचरणेन। एवं सति हे सखि, इय मद्यस्या बाला द्वादगवर्षो्ष्वोडशार्वाग्वयस्का। सीता राधा वेति यावत्। न तु म्रौठा। तेन धैर्यवैधुर्यं ध्वन्यते। तत्रापि दढा चेत्सहेतैव कदाचि- त्परंतु परमसौकुमार्यान्न तच्छद्कापीति व्यनक्ति-बालेति विशेषणतः । तत्रापि वालं न तु पक्कं तदपि मृणालं विसं न तु कुसुमं तद्वत्कोमला सुकुमारतरा तनु- यस्या: सा तथे त्यर्थः। एतादशी। अत एव नायकसंयोगमन्तरा कथं प्राणात्रक्षतु।न कथमपीत्यार्थिकम्। तस्मादनयाधुनाभिसर्तव्यमेवेति तात्पर्यम्। इह नायिकादिकं सर्वमनपूर्वमेव। उक्तास्पदा हेतूत्प्रेक्षा परिणामः काव्यलिवं उुप्तोपमादिश्चालंकारः ॥ एवं स्वरहःसखीवाक्येन सीता राधा वा यावत्स्मनसि श्रीरामाद्यभिसरणसं- कल्पाद्याकलयति तावदेव तदुद्दीपनसामग्रीभूतममृतद्युतिविम्बमुदयाचलशङ्गश्रेणि- परिचुम्ति संबभूवेति कविर्वर्णयति- आयातेव निशा मनो मृगदृशासुन्निद्रमातन्व्रती मानो मे कथमेष संप्रति निरातक्कं हदि स्थास्यति। ऊहापोहमियं सरोजनयना यावठिधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्वं वभासे विधोः॥५८॥ आयातैवेति। यत इत्यध्याहारः । मृगेति। हरिणाक्षीणामित्यर्थः । एतेन तारुण्यं ध्वन्यते। तत्रैव स्त्रीणां हरिणादिवद्रागादिना लोचनचापल्यादिसत्त्वात् । एवं च साधारणतरुणीनामपीयं रात्रि कामोददोपिका यदा, तदा लोकोत्तरतरुण्या मे सा की द्गुद्दीपनातिशयं करिष्यतीति न जान इति चिन्ताशयः सूचितः । मनोऽन्तः-

Page 109

शृङ्गारोह्लासः । १०३

करणमपि। न तु चन्द्रादिदिद्ृक्षया केवलं चक्षुरेवेत्यर्थः। तेन तदौत्कण्ठ्ये सति तदधीनसकलेन्द्रियवैकल्यं व्यज्यते। उन्निद्रं जागरूकम्। सावधानमिति यावत्। आतन्वती विस्तारयन्तीति तत्त्वम्। तत्रापि आ समन्तादित्यर्थः । एवं चास्याम- त्योत्सुक्यजनकत्वं द्योत्यते। एतादृशी निशा रात्रिः आयातैव। प्राप्तैवेत्यर्थः । न लायास्यति क्षणान्तरे। एतेन संदीप्तभवनकूपखननन्यायेनोपायवैधुर्य ध्वन्यते। अतो मे मम हृदि न तु बहिः। एष साक्षिप्रत्यक्षो मानो 'रूपादिना निजोत्कर्षाद्र्वोऽन्य- स्यावहेलनम्। मत्सौन्दर्यानुसंधानान्न ते गोवर्धन व्यथा ॥' इति मदीयसाहित्य- सारनिरुक्तलक्षणादेर्गवीपरपर्यायस्य मनस्योद्दामत्वप्रयोजकधन्यत्वाधायकवृत्तिविशे- षस्यैव विवक्षितत्वाद्युक्तमेव तस्योक्तप्रत्यक्षल्म्। संप्रतीदानीम्। तेन कालान्तरे तत्संभवेऽपि प्रकृतकालिकत्वेन पुनस्तदनागतेस्तद्विषयकचिन्तावश्यकत्वं व्यज्यते। निरातङ्कं 'रुक्तापशङ्काखवातङ्गः' इति कोशाननिःशङ्कं यथा स्यात्तथे त्यर्थः । एतेन संस्कारात्मना तत्स्थितिसंभवेऽपि व्यक्तरूपेण तदसंभव एवेति द्योत्यते। कथ स्थास्यति कथमपि नैव तत्स्थितिसंभावनाशापीत्याशयः । इमं निरुत्तप्रकारकम् । ऊहेति तर्कवितर्कम्। सरोजेति। पद्ममुखीत्यर्थः । तेन तदानीं सायंकालत्वेन कमलानां मुकुलीभव नौन्मुख्यादुक्त्तचिन्तापारवश्येन तस्यां म्लानास्यत्वं सूचितम्। यावद्यत्कालावच्छेदेन। विधत्तेतरां 'विभुर्विजयतेतराम्' इत्यादिवदत्यन्तं करोती- त्यर्थः । तावत्तत्कालावच्छेदेनव। कामेति। स्मरनरपतिसितातपत्रशोभासंभारमि- त्र्थः । एतादशं विधोश्चन्द्रस्य बिम्बं बभासे प्रकटीवभूवेत्यन्वयः। अत्रातपत्रेत्य- नेन पूर्णत्वं व्यज्यते। इह मानवती सचिन्ता स्वकीया परिकीया वा मध्यैव नायिका। विप्रलग्भः शङ्गारः । निरेति यतिभङ्गोऽपि वक्या रसावेशानव दोषाय। 'इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम्। दीपमुद्योजयेद्यावननिर्वाणस्ताव देव सः ॥' इत्युक्तलक्षणो विषादनाख्यः काव्यलिग्वादिश्वालंकारः । 'सुषमा परमा शोभा' इलमरः ॥

इत्थ संजाते चन्द्रोदये धर्य धर्तुमशकुवाना सीता राधा वा श्रीरामं श्रीकृष्णं वाभिसृत्य यथेच्छं निशि नानाविधविलासैः कीडित्वा संजातेऽपि प्रभाते प्राक्तन• भूरिकालिकविरहाकुलत्वेन तत्राप्यतृप्यमाना स्वस्याः पद्मिनीत्वेन दिवा रक्षिप्रिय- त्वात्तस्याः तत्कालज्ञानप्रागभावपरिपालनाय तल्ोचन संछादनलीलां संपादयन्त्यपि तेन परमचतुरेण कोमलपरिमलशालिमन्दानिलादिना विज्ञाते सति प्रातःकालेडसौ निफलित प्रयत्नैव संपन्नेति कविर्व्यनक्ति-

Page 110

१०४ भामिनीविलासे

प्रभातसमयप्रभां प्रणयिनी हुवाना रसा- दमुष्य निजपाणिना दशममीलयल्लीलया। अयं तु खलु पझ्मिनीपरिमलालिपाटच्चरै- ररेरुदयमध्यगादघिकचारुतैर्मारुतैः ॥५९॥

प्रभातेति। प्रणयिनी प्रेयसी। सीता राधिका वेत्यर्थः। प्रभातेति। प्रातःका- लीनसूर्यदीधितिमित्यर्थः । रसात्। 'श्ङ्गारादा रसे वीर्ये गुणे रागे द्रवे रसः' इति कोशात्सुरतानुरागाद्वेतोरिति यावत्। ह्रुवानापलपमाना सतीत्यर्थः । अमुष्य प्रकृ- तस्य श्रीरामस्य श्रीकृष्णस्य वा दृशं दृष्टिं लीलया। शङ्गारचेष्टाविशेषेणेत्यर्थः । निजेति। सकरकमलेनेति यावत्। अमीलयदाच्छादयामासेति संबन्धः। अयं तु प्रकृतनायकस्तु। पद्मिनीति। पद्मिनीनां कमलिनीनां ये परिमलाः सूर्योदयवशसं- पन्नविकासलेश जन्यसुगन्धास्तेषां या आलयः पङ्मयः । एतेन वक्ष्यमाणभारुतेषु सौगन्ध्याधिक्यं ध्वन्यते। तासां ये पाटचराश्चोरा इवापहर्तारस्ैरित्यर्थः। अत एव -अधिकेति। अधिका लोकोत्तरा चारुता शीतमन्दसुगन्धित्वरूपा रमणीयता येषां तैरित्यर्थः । एतादृशैर्मारुतैः पवनै रवेः सूर्यस्योदयमध्यगाद्वुवुघे खल्विति योजना। एवं च तद्यत्नवैफल्यमेव बभूवेति भावः । 'प्रणयिनि' इति सप्तम्यन्तपाठे पश्चम्य- न्तरसपदेन संबन्धे कान्तविषयकानुरागवशादित्यर्थसंभवेऽपि कत्र्या नायिकाया अध्याहारापत्तिः। एवं 'प्रणयनिह्ुवाना' इति समस्तपाठेऽपि प्रणयेन प्रेम्णा निहु- वानेति व्युत्पत्तिसंभवेऽपि रसादित्यत्र पौनरुत्त्यापहृत्यै संभोगश्ङ्गाररसाद्वेतोरि- त्यर्थकरणेऽपि च तदापत्तिरदुर्वारैवेति बोध्यम्। एवं चोक्तपाठ एव श्रेयान्। तथाच प्रणयिनीत्ादेवोक्तदडीलने प्रवृत्तिरिति तत्वम्। यदा त्वलयो भृङ्गा एव पाटचचरा इति व्याख्यायते तदा माकारीणि सूर्योदयप्रभाजनकानि रुतानि शब्दितानि येषां तैरिति तद्विशेषणमेव ज्ञेयम्। अन्यथा समुचायकश्चकारादिरध्याहार्यः स्यात्। अत एव अधिकेति। एवं पझ्मिनीनां स्त्रीविशेषाणां परिमलो येषु ते च ते। आल्या सखीद्वारा पाटचरा इवेति व्युत्पत्त्या जारपरतमपि। तेन समासोकिरलंकारः। लीलावती स्वकीयादिरेव नायिका। पूर्वार्धे संभोगः, उत्तरार्धे विप्रलम्भश् श्ज्गारः। कुशलो धार्मिकश्च नायकः। श्लषादिरप्यलंकारः ॥ अथ प्रातरुत्थानादिविहितयथाविध्याह्विकव्यापारं श्रीरामं श्रीकृष्णं प्रति वा ताट- श्यैव सीतया राधया वा रहस्यभिस्ृत्य तृत्तीययामे किंचित्संकरेताद्युक्ते स्रति तद्दर्शिना

Page 111

शृङ्गारोह्लासः । १०५

केनचिद्रहःसुहृदा किमनयोक्तमिति प्रणयपृष्टोऽसौ तं प्रत्याह विदूरादित्यादिद्वा भ्याम्- विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया- दुदश्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि। गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनमिह सारङ्गजदशः ॥ ६० ॥ (युग्मम्।) विदूरादिति। हे सखे, विदूराद्विशेषेण दूरतो मद्द्शने जाते। आश्चर्येति। आश्चर्येण पुरुषाकारेन्द्रनीलनिचयमरीचिमण्डलविलो कनेनाद्भुतेन स्तिमितं स्वब्धम्। अथानन्तरम्। किंचित्परिचयान्निरुक्ताश्वर्यजन्यलोभवशात्। पुरोगमनजनितेष- त्संनिकर्षादित्यर्थः । उदश्वदिति। उदञ्वदतिपूजितं भवच्चाञ्चल्यं चापल्यं यस्य तत्तथा। तदनु निरुक्तासक्िसमुद्रेकानन्तरं परितः समन्ततः सर्वसान्दर्यदर्शनार्थम्। स्फारितेति। स्फारिता प्रसारिता रुचिस्तत्प्रतिबिम्बग्रहात्सार्वाशिकनीलकान्तिर्येन तत्। एतेन कमान्नायिकादृष्टावपि स्तम्भवेपशुवैवर्ण्यानि ध्वन्यन्ते। अथ सपदि तत्कालं किंचित्कार्यवशादगुरूणां खपूज्यानां संघाते समूहे। तन्मध्य इत्यर्थः । मयि याते। गते सतीत्यर्थः । इहास्मिन्काले। त्रपेति। उक्तगुरुनिकरमध्यवर्ति- त्वादेव या त्रपा ह्ीस्तया घूर्णन्ती चलन्ती तारा कनीनिका यस्य तत्तथा। एताट- शम्। तत्रापि। सारङ्को हरिणस्तस्माजायत इति तथा। कृष्णसारकिशोर इत्यर्थः। तद्वदृग्दृष्टिर्यस्याः सा तथोक्ता । तस्याः स्वभावत एव कुरङ्गकुमाराक्ष्या इत्यर्थः। नयनं नेत्रम्। जात्येकवचनम्। यद्वा गुर्वित्याद्युक्तहेतोरेककटाक्षाभिप्रायकमेव। समजनीति योजना ॥ किमेवं तर्हि संभोगभज्ग एव संपन्नः । नेत्याह- कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मना- कस्पृशत्यन्तःस्मेरस्तब कितमुखाम्भोरुहरुचः । कथंकारं शक्याः परिगदितुमिन्दीवरदशो दलद्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥६१॥ कपोलाविति। ततो झटित्येवान्तःपुरं गत्वा मयि। उन्मीलदिति। मद्दर्श- नादेवा विर्भवद्रोमाञ्चनिचयौ एतादृशौ कपोला गल्लौ स्पृशति चुम्बनार्थ करेण परा- मृशति सतीत्यर्थः । अत एव। अन्तरिति। अन्तःस्मेरेण गूढस्मितेन स्तबकिता मालतीगुच्छतां गता मुखाम्भोरुहे रुग्यस्या इत्यर्थः। अत एव। इन्दीवरेति।

Page 112

१०६ भामिनीविलासे

नीलोत्पलविलोचनाया इत्यर्थः । न तु पद्माक्ष्याः । एतेन नायकेऽपि कान्तिसौ- न्दर्यादिलोकोत्तरगुणगणोदयो द्योतितः। एतादृश्याः पूर्वोक्तनायिकायाः। दलदिति। दलन्त्यो रसपरिपाकवशात्खयमेव स्फुटन्त्यः। न तु यत्नपाचिताः । एतेन माधु- र्याधिक्यं ध्वन्यते। तत्रापि द्राक्षा मृद्धीकाः। न तु जम्बूफलानि। तासां निर्यन्निः- सरन्यो रसभरो द्रवनिवहस्तेन सपक्षाः। निश्चितसाध्यवत्त्वेन तत्साधर्म्यशालिन्य इत्यर्थः। एतेन तदोष्ठयोनैसर्गिकप्रवालायमानत्वेन परमारुण्येऽपि स्वाभाविकस्मित- पूर्वाभिभाषित्वेन दशनचन्द्रिकाङ्कुराश्चितत्वेन पाटलताया दलद्राक्षोपमेयत्वं तद्वचःसु च मृदुमधुरतरत्ादिना तद्रसभरोपमेयत्वं च सूचितम्। एतादृश्यो भणितयः । संकेतसूचनादिवाग्व्यापारसरण्य इत्यर्थः । परिगदितुं कथयितुं कथंकारं क्थ वा शक्याः। न कथमपि शक्यन्त इत्यन्वयः। तस्मान्निरुक्तरीतिकतद्भाषणमनन्तगुण- गणैर्वाण्यगोचरमेवेति भावः। अत्र प्रमुदितौ नायिकानायकौ। संभोग एव शङ्गारः । लुप्तोपमादिरलंकारः ॥

ततः सायं पूर्णचन्द्रोदयं निरीक्ष्य तदपेक्षयापि निकटस्थायाः सीताया राधाया वा वदनस्य श्रीरामः श्रीकृष्णो वा शोभासंभारं व्यनकि- राजानं जनयांबभूव सहसा जैवातृक त्वां तुयः सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरातो विधिः। संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः॥६२।

राजानमिति। हे जैवातृक। 'अब्जो जैवातृकः सोमः' इत्यमराद्वे चन्द्रेत्यर्थः। तेन 'जैवातृक: स्यादायुष्मान्' इत्यपि तदुकेः श्लषेणान्यस्य राज्यावाततौ स मां मारयिष्यतीति तया नैव भेतव्यम्, किंतु तद्राज्यस्य प्रतिक्षणोत्करषैकदर्शनतः क्षीणत्वकलद्वितत्वादिभिरेव केवलं जीवितव्यमिति द्योत्यते। तवां तु यो विधिव्रह्मा। एतेन विदधातीति विधिरिति व्युत्पत्तिवशात्केवलक्रियैककोविदस्य तस्य विचार- विधुरत्वं ध्वन्यते। अतएव सहसा राजानं जनयांबभूव। अविचारेणैव रचया- मासेत्यर्थः । सोऽयं सर्वज्ञत्वेन प्रत्यक्षः । एतेनाश्रद्वेयवचनत्वं परास्तम्। जरातो द्विपरार्धायुष्यस्तस्य चरमपरार्धारम्भाद्वार्धक्येनेत्यर्थः । कुण्ठितेति। अत्र सर्वपदेन सार्वांशिकतदाश्रयाशाव्युदासः सूच्यते। एतादृशो जात इत्यन्वयः। ननु भवत्वेवम्। किं तावता। नहि दातुदैन्ये दत्तद्व्यदलनं दृश्यत इत्यत आह-

Page 113

शृङ्गारोह्लासः । १०७

संप्रतीत्याद्युत्तरार्धेन। संप्रति मन्मथः । एवं च क्रीबेतरावच्छेदेन सामान्यतः सर्वमनोमथयितुस्तस्य त्वद्राज्योत्सादनादिना त्वन्मनोव्यथकत्वे कैव शङ्केति सूचितम्। तेन पुंराज्यमपहृत्य क्वीबाय तद्दानानौचित्यं परास्तम्। यो न यत्पीड्यः स तत्प्रेमयोग्य इति व्याप्तेरन्वयादिना सिद्धत्वात्तद्भिन्नस्यैव तत्पीड्यत्वाच्च। एवं संप्रतिपदेन तात्कालिकं निरुक्तनायिकायास्तन्निकटावस्थानं व्यज्यते। उन्मदेति। उन्मदौ सुरतलालसौ यौ खञ्जरीटौ। 'खज्जरीटस्तु खजनः' इत्यमरात्खञ्ञनदम्पती इत्यर्थः । ताविव नयने नेत्रे यस्याः । एतेन तद्वकस्य पद्मत्वं ध्वन्यते। तेन 'एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम्' इत्यादि- कालिदासीय शज्गारतिलकोक्तेर हो य द्दर्शनमात्रेणान्येषां राज्यावाप्तिस्तस्य तन्निरति- शयाखण्डतायोग्यतायाः कमुत्यसिद्धिरिति ध्वनितम्। वक्राय। मुखायेत्यर्थः । अस्य जगतोऽखण्डमविनाशि। एतेन प्रत्याप्याशोपशमः सूचितः । राज्यं दाता दास्यतीति संबन्धः । एवं तर्हि प्राक्तस्य दारिद्यादनविकारितैवोक्तदाने नह्यकिंचनो विप्रो गजदानपात्रं दातुस्तत्कर्तृकतद्विकयपापप्रयोजकत्वापनेः । इत्यतो विशिनष्टि- नित्येति। ननु जगद्धात्रा विधात्रा मह्यमेव राज्यं दत्तं तत्कथमनङ्गोऽप्यसावपह- त्यान्यस्मै दास्यतीत्यतस्तं विशिनष्टि। अस्य जगतो नवः। धातेति। मैथुन्यां सृष्टौ मदनाधिनैवोत्पत्तिरिति प्रसिद्धमेव। नन्वेवमपि 'धाता यथापूर्वमकल्पयत्' इत्यादिश्रुत्या प्राच्यधातृरीतिरेवानेनापि परिपाल्येति यदि विभाव्यते तदा नित्येति तादर्थ्ये चतुर्थी। एवं च तुभ्यं तेन राज्ये दत्तेऽपि क्षयादिना ते नित्य- श्रीनैवासेति। प्रकृते तु न तथातमिति। अधिकारस्तून्मदेत्येतेनैव। अन्न प्रमु- दितौ नायिकानायको। संभोगविशेषः शज्गारः । हेतुप्रतीपलुप्तोपमापरिक- रादयोऽलंकाराः ।।

अथैवं भगवता श्रीकृष्णेन स्तुतेति परमगर्विता राधिका केनचिच्छझ्मना प्रणय- कोपं संपाद्य तूष्णींभूता सती नायकेरिततद्रहःसंरुया श्रीकृष्णस्य सौन्दर्यदर्शनेन यदा कुलस्त्रीणामपि कामव्याकुलीभावः संपन्नस्तदानुभूततद्रतिसुखसंपत्त्या भव- त्यास्तावत्कव कथा क्षणान्तरे तदभिसरणेऽतः सदो मह्यमेव यशः किमितिन देय- मिति बोध्यते-आविभूतेत्यादिद्वाभ्याम्-

आविर्भूता यदवधि मधुस्पन्दनी नन्दसूनो: कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा।

Page 114

१०८ भामिनीविलासे

श्वासो दीर्घस्तदवधिमुखे पाण्डिमा गण्डमूले शून्या वृत्ति: कुलमृगदशां चेतसि प्रादुरासीत्॥ ६३॥ आविरिति। हे राधिके, यदवधि यदारभ्य। नन्देति। श्रीकृष्णस्येत्यर्थः । मध्विति। मधुवन्मद्यवत्स्पन्दयति व्यामोहनेन धैर्याच्चेतश्चालयतीति तथा। स्वदर्शनमात्रेणैवोन्मादयित्रीत्यर्थः। एतेन दुर्निरसत्वं सूचितम्। तत्र हेतु :- निखिलेति। निखिलानां सकलजीवानाम्। एवं च यदा पुरुषनपुंसकादिसाधारण्येन यावजीवानामपि नेत्राकर्षणे कुशला भगवतः कान्तिस्तदा लामसावाकरषयिष्यतीति किमु वक्तव्यमिति दयोत्यते। यानि नयनानि नेत्राणि तेषां यदाकर्षणं वशीकरणं तत्र यत्कार्मणं कर्मणाथर्वणप्रसिद्धवशीकरणक्रियाविशेषेण कृतं कार्मणम्। निरुक्त- शक्तिविशेषशाल्यदृष्टमित्यर्थः। तत्संपादयितुं जानातीति तथा एतादृशी। अत एव काचिद्वागगोचरा कान्तिर्लावण्यलक्षणा यौवनद्युतिरिति यावत्। आविभूता प्रकटी- भूतेत्यर्थः । तदवधि। तदारभ्यैवेति यावत्। कुलेति। कुलस्य। सत्कुलस्येत्यर्थः । तथास्मदादीनां हस्तद्वयादिमत्त्वेऽपि न हस्तिपदशक्यत्वं रूढं गजस्य तुतदभावेऽ- प्येकस्यैव शुण्डादण्डरूपस्य प्रशस्ततरस्य तस्य सत्त्वेन तत्सर्वसंमतमेव तद्वत्सामान्य- तः स्त्रीत्वार्व्छिन्नानां जन्यतया कुलैकसंबन्धित्वेऽपि पातिव्रत्याद्यनुमितप्राशस्त्य- शालिकुलजन्यस्त्रीष्वेव कुलकामिन्यादिपदवाच्यत्वमिति प्रकृते सदादिपदाभावेऽपि तदार्थिकत्वं वोध्यम्। न तु केवलमृगाक्षीणाम्। तेन यत्र सतीशिरोमालतीभूतानाम- पीदृश्येवावस्था तत्र परकीयाया भवत्याः कैव कथेति व्यज्यते। मृगपदेनातिभीति- खाभाव्यात्स्मरशरातुरत्ातिशयः सूचितः। साध्य(ध्व)भिधमुग्धानामित्यर्थः। मुखे वदने दीर्घो नियतपरिमाणाधिकगामी श्वासो निःश्वासः। यद्यदि श्वासस्य नासि- कैकायतनत्वस्वाभाव्येन मुखाधिकरणकत्ववर्णनमनुचितमिव भाति तथापि भगव- त्सौन्दर्याद्यभ्युदय दर्शन जन्यानुरागपाति व्रत्यपरिपालनोभयभयजन्यवैकल्योत्कर्षध्व- ननार्थ तदुचितमेवेति तत्त्वम्। अत एव। दीर्घ इति। तथा गण्डमूले कपोल- तले पाण्डिमा। विरहशुत्रिमेत्यर्थः । न केवलं बाह्यचिह्वमेवैवं किंतान्तरमपि तत्तादृशमिति व्यनक्ति-शून्येति। किं पातिव्रत्यं हेयमुत भगवद्रतिलालस्यमिति निर्णयाभावजन्यकषायाभिधसंकल्पहीनेति यावत्। एतादृशी वृत्तिर्वर्तनं चेतसि प्रादुरासीतप्रकटीबभूवेति सरलमेव। न च कुलमृगद्दक्पदवाच्यपतिव्रतानां परपुरु- षीयलोकोत्तरलावण्यवीक्षणमेवादौ 'पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः' इति

Page 115

शृङ्गारोल्लासः । १०९

मूलकारादयुक्ते: क्व पुनस्तदनुरागः, क्वत्रां तज्जन्योक्तनिर्णयाभावः, क्कतमां निरुक- तत्कार्याणीति वाच्यम्। कृष्णस्य पूर्णब्रह्मत्वेनात्मत्ात्तत्र च निरुपचरितप्रीतिविष- यत्वस्य नैसर्गिकसार्वानुभविकत्वाच्च। तेन मायिकाविष्कारितोक्तलीलाविभ्रहवति तु तस्य कैमुत्यसिद्धत्वात्। इह संबोध्या मध्या मानवती परकीया च, तथा वर्ण्याः परकीया विरहिण्यो मुग्धाद्याश्च नायिकाः। सर्वोत्तमो नायकः । विप्रलम्भ: श्द्गारः। चपलाविशयोक्त्यादयोऽलंकाराः । मन्दाकान्ता वृत्तम् ॥ प्रसङ्गे गोपानां यदुषु बहुमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलक्क्ितकपोला कुलवधूः। विषज्वालाजालं झटिति वमतः पन्नगपतेः फणायां साश्चर्य कथयतितरां ताण्डवविधिम्॥ ६४ ॥ प्रसङ्ग इति। हे राधे, कुलेति। काचित्साध्वी। गोपानां बल्लवानाम्। नन्दा- दीनामपीति यावत्। प्रसङ्के कस्मिंश्चिदिन्द्रयागादिकार्यारम्भप्रसक्त्तावित्यर्थः । गुरुषु। निर्धारणसप्तमीयम्। सकलविद्यावृद्वेषु मध्य इत्यर्थः । यद्वा 'स्मृतस्योपेक्षानरईत्वं प्रसङ्ग:' इत्युक्तलक्षणरीत्या स्मृति विषयीभूते गुरुविषय कानुपेक्षणीये कः सर्वगुणैर्व- रिष्ठ इति विचारे प्राप्ते स्रतीति यावत्। यदुपतेः श्रीकृष्णस्य बहुमानमिन्द्रयागं युक्तिभि: पराकृत्य गोवर्धनैकयागप्रतिपादकयुक्तिवैभवपारवश्यप्रयुक्तं सत्कारमिति यावत्। उपाकर्ण्य निकटवर्तित्वेनाकस्माच्छुल्वा। स्विद्यदिति खेदं प्राप्तौ। तथा। पुलकितेति पुलकितौ संजातरोमाश्चौ कपालौ यस्याः सा तथेत्यर्थः। एतेन ज्ञानाधिक्यज्ञानजन्योयमनुराग इति द्योतितम्। तेन पूर्वपद्यापेक्षयास्य न पौनरुत्तयम्। तत्र तु सौन्दर्योत्कर्षस्यैवोक्तलात्। अत्र तु वुद्धादिवैभवस्याप्य- भिहितत्वाच्चेति। एतादृशी। नन्वेवं तर्हि कथं तया सवकपोलपुलकखेदजा- लापलापनमकारीत्याकाल्लां क्षपयति-विषेत्याद्युत्तरार्घेन। एतादृशी अतएव। विषेति। विषस्य गरलस्य या ज्वालास्तासां जालम्, न तु लेशम्। एते- नातिदुःसहत्वं द्योतितम्। तत्रापि झटिति शीघ्रम्, न तु विरम्य। एवं च तदेव दृढीकृतम्। वमतः । भगवत्पादप्रहारासहिष्णुत्वेनोद्रिरत इत्यर्थः । तत्रापि पन्न गेति। सर्पराजस्येत्यर्थः। एतेनाशक्यप्रतीकारत्वं ध्वनितम्। तत्रापि फणायाम्, न तु पुच्छादौ। यदुपतेरित्यत्राप्यनुकृष्य योज्यम्। श्रीकृष्णस्येत्यर्थः । ताण्डवेति । उद्धतनृत्यप्रकारमित्यर्थः । साश्चर्यमाश्चर्येण विस्मयेन सहितं यथा भवति तथा। भा० वि० ८

Page 116

११० भामिनीविलासे

कथयतितरां वारंवारं वृद्धगोपान् प्रति निरुक्तभगवत्ताण्डववर्णनमेवोक्तरीत्या खानु-

न्वयः । तत्स्याददा पतिव्रतानामपि श्रीकृष्णसौन्दर्यसार्वज्यादिविचित्रविविधगुणा- कृष्टयेदृशं कष्टं तदा कैव कथानुभूततद्रत्या भवत्या इति मह्यमेव यशः प्रदाय दुत- मदैव तं प्रत्यभिसर्तव्यमित्याशयः।अत्र प्रकृता परकीया मध्या मानवती नायिका वर्ण्या तूत्कण्ठितैव । ललितो नायकः । विप्रलम्भः शङ्गारः । अपह्गुतिरलंकारः ॥ अथ वैदेह्यास्तु 'राजानं जनयांबभूव' इत्यादिद्वाषष्टिपद्येन श्रीरामेण मुखारवि- न्दवर्णनतोऽभिनन्दने कृतेऽपि परमसात्विकत्वाद्वर्वराहित्ये सत्यतीव परितुष्टोऽसौ राधायाश्रोक्तोपदेशेनाति प्रसाद तोऽभिसृतायास्तादृशः श्रीकृष्णो वा मुखाद्यवयवा न्वर्णयति- कशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया। आस्ये पूर्णशशाङ्गता नयनयोस्तादात्म्यमम्भोरुहां किंचासीदमृतस्य भेदविगमः साचिस्मिते सर्वेदा ॥ ६५॥ कैशोर इति। 'कशोरमापश्चदशम्' इत्यभियुक्तोक्तेर्दशवर्षोत्तरपश्चदशवर्षप- रिसमाप्तिपर्यन्तमित्यर्थः । वयस्यवस्थाविशेषे तन्व्याः कृशाङ्गयाः। तनौ शरीरे। कमेणैकादशवर्षाद्यनुक्रमेण। तनुतां कार्श्य क्षीणत्मिति यावत्। आयात्यागच्छति सतीत्यर्थः । अत एवाखिलेश्वर ईश्वरादिजगद्यामोहकल्वाद्विश्वनियन्तरीत्यर्थः । एतेन वक्ष्यमाणतदाज्ञायामवश्यानुल्लङ्गनीयत्वं व्यज्यते। एतादृशे रतिपतौ न तु कामे। तेन 'यथा राजा तथा प्रजा' इति न्यायेन खवस्याखण्डविलासशीलत्वेन खमियम्येषु तत्कारकत्वनैसर्ग्य सूचितम्। तस्मिन्मदने च निरुक्ततनुरूपनगर्यवच्छे- देनागामिन्यागमिष्यति सतीत्यर्थः । अस्य निरुक्तलक्षणस्य रतिपतेराज्ञया नियोगेन तत्कालमेव तत्क्षणमेव। न तु विलम्बेनेत्यर्थः । एतेन राजाज्ञातिक्रमे सद :- प्राणविगम इति भीतिः सूचिता। आस्ये मुखे। पूर्णेति। अत्र शशपदेन कपोले कस्तूरीमकरविरचनचतुरतरूपस्तरुणीस्वभावो ध्वन्यते। पूर्णपदं द्वितीयादीन्दुव्युदा- सार्थम्। तेन तत्र खनेत्रचकोरतृप्तिजननक्षमत्वं द्योत्यते। तथा नयनयोनेत्रयोः। अम्भोरुहामम्भस्युदके रुहन्ति 'रुह बीजजन्मनि प्रादुर्भावे च' इति धातोर्जन्म लभन्ते तानि तथा। तेषां कमलानामित्यर्थः। एतेन तत्रातिशिशिरीकरणचणत्वं

Page 117

शृङ्गारोल्लासः । १११

सूच्यते। तादात्म्यं भेदसहिष्णुरभेदः । पद्मरूपत्वमिति यावत्। किश्वामृतस्य पीयूषस्य श्ेषान्मोक्षस्यापीत्यर्थः । भेदविगमोऽभेदः । साचीति । वलितप्रीवं मन्दहास्य इत्यर्थः । सर्वदा न तु क्षणमात्रम्। तेनोक्तनायिका मुखवीक्षणेऽपि परमपुमर्थत्वं किं पुनस्तदाखादन इति वर्तमानकालेऽपि त्रैगुण्यसत्त्वं च द्योतितम्। आसीदभूदिति संबन्धः। इह सकीया परकीया वा मध्याभिसारिका नायिका। मुदितो नायकः । संभोग: शङ्गारः। कामिकं रूपकं चालंकारः ॥ एवं वर्णनपूर्वकं तद्रात्रौ यथेच्छं विहारं विधाय प्रातःकाले किंचित्कार्यवशादो- जनादर्वागेव प्रवस्य सायं समागतं श्रीरामं श्रीकृष्णं वा यामचतुष्टयविरहस्याप्यसहि- ष्णुतया शैवलशय्यायां स्मरवैश्वानरदाहापहानार्थ शयाना सीता राधा वा लोकोत्त- रग्लानिवशात्सरभसव्युत्थानाद्यशक्तत्वेन सरसविलोकनैरेवोपचरतीति कविः संव- र्णयति- शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव। प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणेनैव ॥ ६६॥ शयितेति। प्रकृतनायिकेत्यार्थिकम्। शैवलेति। 'जलनीली तु शैवालं शैवलः' इत्यमराच्छैवलस्य जलनील्या यच्छयनं कुसुमादिवद्विर हामिसंतापशान्त्यर्थ तदुपक- ल्पितं तल्पमित्यर्थः। एतेन तत्रातिशीतलत्वमृदुत्वाभ्यामुक्तोपायत्योग्यत्वं व्यज्यते। अत्र शयिता निद्राणा सतीत्यर्थः । न तूपविष्टा नापि प्रसुप्ता। अशक्तिचिन्तौत्क- स्थेन तदसंभवात्। एवं चोक्तवियोगस्यातुलासह्यत्वं सूचितम्। अत एव। सुष- मेति। 'सुषमा परमा शोभा' इत्यमरादलौकिकसौन्दर्यशोभैव शेषोऽवशिष्टोंऽशो यस्याः सा तथा। एतेन निरुपमकार्श्य ध्वन्यते। एतादृश्यपि सविधे निकट एव, न तु दूरम्। आगतमप्युपगतमपि। तत्रापि प्रियं सप्रीतिविषयं नायकम्, नतु मानाद्यवस्थावशादनारणीयं कान्तमिति यावत्। मधुरेति। चन्द्रमरीचिकाृतव- त्कान्तचक्षुश्चकोरैकाखादनीयत्ध्वननार्थ मधुरपदम्। एतादृशं यद्वीक्षणमतिप्रीति- रूपविशेषेण यदीक्षणमवलोकनं तेनैव। न तु प्रत्युद्रमनादिव्यापारान्तरैः । एतेन जीवितमात्रत्वेनानुरागातिशयो द्योत्यते। परमासामर्थ्यव्यज्जकत्वादेकवचनान्तपाठ एवेष्टः। यदि तु प्रेयोदर्शनोत्तरं प्रतीक्षणोज्ीवनाधिक्येन तद्वदनसौन्दर्यदिदक्षा- धिक्येन च वीक्षणे पानकन्यायेन विरम्य विरम्यासादनीयनायकलावण्यलालस्येन भूयस्त्वमपि गुणत्वेनैव संभाव्यते तदा भवतु नाम बहुवचनान्त एव पाठः। वीक्षणै- रिति। सत्कुरुत उपचरति स्वादरविषयीकरोतीत्यन्वयः। तत्र योग्यमुपमानमाह-

Page 118

११२ भामिनीविलासे

नवेति। यथा हि लोके नवा शुककद्वितीयागतत्वेन नूतना। एतादृशी येन्दोश्वन्द्रस्य लेखा। एककलात्मकत्वेन रेखेत्यर्थः । सीतावत् शैवेति । शिवस्य परमेश्वरस्येमानि शैवानि 'भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्' इति दक्षिणमूर्ति- स्तोत्राद्युक्ताष्टवपूंषीत्यर्थः । 'ला आदाने' इति धातोस्तानि लात्याधेयतयादत्ते। गृह्नातीति यावत्। स शैवलः कालस्य सर्वाधारत्वद्वितीयतिथ्याख्यः कालविशेष एव। स एव शयनं तल्पनिव तत्रेत्यर्थः। शयिता दुर्लक्ष्यत्वादनतिप्रसादवत्त्वाच्च निद्रितेव वर्तमानापि। तथा सुषमेति प्राग्वदेव। वर्धमानकलाबीजवत्त्वेन परमदर्शनीयत्वेन च निरतिशयशोभामात्रावशेषशालिन्यपीत्यर्थः । प्रियमादरेण खद्रष्टृतया कंचिहेव- दत्तादिरूपं सखायमिति यावत्। मध्विति। मधुतुल्योऽस्तसमयावच्छिन्नत्वेनारक्त- वर्णवत्त्वान्माक्षिकविशेषसदृशो यो रविः सूर्यस्तेन सह यदीक्षणं निरुक्तदेवदत्तक- रतृकं स्वकर्मकमवलोकनं तेनेत्यर्थः। निरुक्तदर्शनस्य तदैव संभवात्तज्न्यपुण्यरूपक- रणेनेति यावत्। सत्कुरुते सुखयति प्रदानेन परितोषयति तथेयमपीति संबन्धः। अत्र स्वकीयादिर्विरहिण्येव नायिका। सादरो नायकः। पूर्वार्धे विप्रलम्भोऽन्यत्र संभोगश्च शृङ्गारः। उपमालंकारः ॥ अथोक्तरीत्या निकटागतमपि श्रीरामं सीता श्रीकृष्णं राधा वा विरहामनिना दह्यमानमानसा प्रागत एव तन्नामामृतमेवोच्चैः परिदेवनपूर्वकमुच्चारयन्ती सत्यपि कथमेतावन्तं कालमपि प्रेयानपि मामुपेक्षितवानेवास्यतश्चिरोपेक्षालक्षणकार्यलिङ्ग कानुमानेन त्वय्यपरिचितत्वमेव मयाध्यवस्यत इत्याशयवती परिचयहीनेव पश्य- तीत्याह- विरहेण विकलहृदया विलपन्ती दयित दयितेति। आगतमपि सा सविधे परिचयहीनेव वीक्षते बाला ॥६७॥ विरहेणेति। बाला द्वादशवर्षोर्ध्वषोडशवर्षप्राग्वयस्का। मुग्धेत्यर्थः । न तु मध्या। एतेनाति धैर्यवैधुर्य ध्वन्यते। तत्रापि विरहेण सप्रेयोवियोगेन। न तुव्याध्या- दिना। तेन नायकस्यैव प्रकृतेऽपराधित्वेन तं प्रति खस्या औदासीन्यसाम्यसूचनं युक्तमेवेति व्यज्यते। विकलेति। विह्वलचित्तेति यावत्। अत एव दयितेति। वैकल्ये वीप्सा। तेन शोकातिभूमिः सूचिता। एतादशं विलपन्ती सतीत्यर्थः । एतादृशी सा पूर्वोक्तनायिका। सविधे निकटे। आगतमपि प्राप्तमपि। एतेनाव- श्यपरिचरणीयत्वं सूचितम्। एतादृशं तम् । खकान्तमिति शेषः । परिचयेति।

Page 119

शृङ्गारोल्लासः। ११३

परिचयेन नामग्रामादिबोधपूर्वकचाक्षुषज्ञानेनापि हीना। शून्येत्यर्थः । एतेनौदासी- न्याविशयो द्योत्यते। सेत्यनेन हार्दप्रेमभर आवेदयते। एतादृशी वीक्षते। पश्य- तीत्यर्थः । तस्मान्मैवेतः परमेवं कुर्या इति तात्पर्यम्। अतो विरहिणी मुग्धा स्वकीयादिरेव नायिका। अपराधाभासी नायकः । संभोगारम्भो विप्रलम्भश्व शङ्गारः। उत्प्रेक्षालंकारः । परिकरकाव्यलिद्गाद्यपि ॥ इत्थमौदासीन्यमवलोक्य श्रीरामः सीतां श्रीकृष्णो राधां वा परमोत्तमनायक- त्वेन खमात्रापराधमवधारयन्नधरादित द्रूपवर्णनेन प्रसादयति- अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्गिनी। तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ६८ ॥ अधरेति। अयि प्रिये। इयं तवेत्यध्याहारस्तु वक्तुर्विह्वलत्वेनानुसंधानवैधु- र्याद्गुणावह एव रसपरिपोषकतयेति ध्येयम्। अधरद्युतिरघरोष्ठकान्तिः, न तु पाद- तलदीप्तिः । एतेन चक्षुःसंनिकर्षस्य सांमुख्येन तत्रवातिसत्त्वाच्चुम्बनानुरागाति- शयः सूचितः । अस्तेति। अस्ता अदर्शनं गताः । भीतभटन्यायेन संकुचिता इत्यर्थः । पल्लवाः पदस्तत्पदसौन्दर्यस्य लवो लेशो येषु ते तथा, न तु किसल- यानि यया सा तथेत्यर्थः । एवं चात्र मृदुत्वारुणत्वसरसत्वातिशयो द्योत्यते। तहि किं ममाधर एव रम्य इत्यत आह-मुखेति। आस्यसुषमा। शशीति। शशिनः। न तु चन्द्रस्य। एतेन तत्र शशीयश्यामरूपशालित्वेन तत्कान्तौ लङ्व- नार्हत्वं ध्वन्यते। तस्य या कान्तिस्तां लङ्गयत्यतिक्रामतीति तथा। तत्र क्षयिता- दिदोषग्रस्तत्वेन खस्यां प्रतिक्षणाधिकवर्धिष्णुत्वादिगुणगणरमणीयत्वेन च तदति- कमणनिपुणत्वं व्यज्यते। नन्वथापि किं मुखमेव मामकं कमनीयमित्यत्राह- तनुरिति। चः समुच्चये। तनुर्व्यक्तिरपि सकला अप्रतिमैव। अनुपमैवेत्यर्थः। यद्वा न विद्यते प्रतिस्पर्धिनी मा लक्ष्मीरपि यस्याः सा तथेति यावत्। एतेन त्रैलोक्यसुन्दर्याः श्रियोऽपि तव सौन्दर्यमधिकमेवेति ध्वन्यते। तेन सदः सर्वा- ञसंभोगाभिलाषो द्योत्यते। एतत्रितयं कर्तृ । अस्य वार्तमानिकस्य विधेर्रह्मणः कृति रचनां न विवक्षति। नैव विशेषतो वक्तुमिच्छतीत्यर्थः। एवं च कल्पान्त- रीयस्य तस्येयं त्वक्षकृतिरूपाकृतिरस्ति वा न वेति संदेह एव तव संदेह इति भावः। यदि वर्तमानकालिकस्य कस्येयं कृतिस्तावकाकृतिः स्यात्तर्हन्याप्येवम्। तेन खाभाव्यादेव काचिद्रचिता स्यान्न तु तथा क्वापि दृश्यतेऽतः सम्यगेवेदमुकतं

Page 120

११४ भामिनी विलासे

नेत्याद्येवं वदन्तमपि तं भ्रभङ्गेनैवेक्षन्तीं पुनः प्रसादनाय तत्रापि ता विशि- नष्टि-सुभ्रुव इति। शोभने स्मरकार्मुकाकारे भ्रुवौ यस्यास्तादृश्याः। तवेति यावत्। एवं च स्वस्यातिकामवैकल्यं व्यज्यते। अतः सद्यस्त्वं सप्रसादं सुरतं वितरेति तात्पर्यम्। अत्रोक्तैव रुष्टा नायिका। अनुनयी नायकः । उक्त एव शद्गारः। प्रतीपानन्वयावलंकारौ ॥ अथैवं स्तुवत्यपि श्रीरामेऽप्रसन्नायामेव सीतायां सत्यां सति मत्संनिधाने पर- मपतिव्रतात्वेनात्युत्तमनायिकाया अस्या मद्यस्यायाः सुरतानुकूल्यसूचकचेष्टावि- शेषात्मकस्मितकटाक्षविक्षेपादिलक्षण प्रसादकरणानौचित्यान्मयैवेतःपरं रत्यागारा- दस्माद्वहिर्गन्तव्यमित्याशयेन तथा च रत्या तद्रहःसख्या काचिदन्या तादृश्येव तद्वयस्या सीतारामयोरैक्यमाकाक्वन्ती तत एव परमोत्कण्ठया 'भो सखि, किं जानकी प्रसन्ना वा न वा' इति पृच्छन्ती यत्र परकीयस्यापि रावणाख्यस्य नाय- कस्य केवलमस्याः सौन्दर्यश्रवणमात्रजन्यविरहाम्निनैतादृश्यवस्था बभूव। तत्र स्वकीयस्य संपादितबहुवारतदुपभोगस्य श्रीरामस्य तन्निकटवर्तिनस्तदप्रसादजनि- तत द्विरहान लेनातुलव्याकुलीभाव इति द्योतयन्त्या नैवाद्याप्यसौ प्रसीदतातिव्यञ्ज- नावृत्या प्रतिबोध्यते- व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते सर्वस्मिन्विदधाति किं च विषये दाष्टिं निरालम्बनाम्। श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृति वैदेहीविरहृव्यथाविकलितो हा हन्त लङ्केश्वरः ॥६९ ॥ व्यत्यस्तमिति। लपति भाषते। अङ्गेषु स्मरशरनिकरपराघातसंजातकम्पि- तेष्ववयवेषु सत्सित्यर्थः। अत्र नायिका तूक्तैव। विरही स्वकीय एव प्रतिपाद्यो नाय- कः। परकीयस्तु निदर्शनीय एव। विप्रलम्भः शङ्गारः । काव्यार्थापत्तिरलंकारः ॥ तदवसरे निरुक्तनायिकामानभङ्गार्थ भगवतः श्रीरामस्य प्रपूर्वपद्यस्तुतावप्य-

र्वर्णयति- प्रसन्नराधिकाविरहव्याकुलस्य श्रीकृष्णस्य चेच्छया संपन्नपूर्णचन्द्रोदयं कवि-

उदितं मण्डलमिन्दो रुदितं सदयो वियोगिवर्गेण। मुदितं च सकलललनाचूडामणिशासनेन मदनेन।७0]

Page 121

शृङ्गारोह्लासः। ११५

उदितमिति। तत्राप्येकमनिष्टमेव संपन्नमिति द्योतयति-रुदितमिति द्विती- य चरणेन। किं तर्हि न स्वाभीष्टमभूदित्यत्राह-मुदितमित्युत्तरार्घेन। चूडामणय इव रूपाद्याधिक्येन मुख्याः । स्पष्टमन्यत्। तस्मात्खेष्टप्रयोजकमात्रं संपन्नम्। न त्वद्यापि तदिति भावः । अत्र काव्यलिङ्गमलंकारः । अन्यत्तु प्राग्वदेव । अथ व्याकुलं श्रीकृष्णमेव तत्सखी स्वस्थीकर्तु संफुल्लेन्दीवरं सरः प्रदर्शयति- इदमप्रतिमं पश्य सरः सरसिजैर्वृतम्। सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥७१॥ इदमिति। स तं(तां) प्रत्याह-सखे इति। त्वद्वचस एव तत्स्मार कत्वातू। अत्र बहुवचनान्न रामः। इह स्मृत्यलंकारः। शिष्टं तु प्राग्वदेव स्पष्टं च ।। अथैवं समुदितेऽपि चन्द्रमण्डलेऽनुशान्तमानां जानकीं राधिकां वावलोक्य श्रीरामः श्रीकृष्णो वा परमैश्वर्यवशात्तत्कालं चरमं मारास्त्रं प्रावृद्शोभाविर्भावनं संपाद्य तद्वशेन तामुपालम्भतः प्रसादयामासेति कविः संवर्णयति- मुश्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय। इति सुदृशः प्रियवचनैरपायि नयनालकोणशोणरुचिः॥७२।। मुश्चसीति। हे मानिनि, इयं मुदिरालिः। 'घनजीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरात्कादम्बिनीत्यर्थः । उदियायोदिताभूत् । एवं च मलिनयाप्यनया घनश्रे- ण्याभ्युदये समासादितेऽन्तर्बहिःशुद्धायाः सर्वाशमुग्धायास्तव मानैकमीनत्वमनुचि- तमेवेति सूचितम्। त्वं त्वद्याप्येवं प्रावृडागमेऽपि रुषं क्रोधं न मुश्सि। तस्मा- द्धन्यैवासीति विरोधिलक्षणया विचक्षणत्वशून्यत्वं ध्वन्यते । इति प्रियवचनैः खप्रेयश्चाटुचयैः । सुदृशः । एतेन श्लेषाद्विचारशालित्वं व्यज्यते। अत एव। नयनेति। रोषसूचकलोचनकमलक्रोणारुणिनेत्यर्थः । अथायिषिता (अपाय्यपेता)। अगमदिति यावत्। एवं च सदः सुप्रसन्नाभूदिति भावः । अत्र विगतमाना स्वकीयादिर्नायिका। अनुनयी लब्धसाध्यश्ष नायकः । संभोग: शङ्गारः । लुप्तो- पमादिरलंकारः ॥ एवं तद्रोषावमोषपरितोषतः श्रीरामः सीतां श्रीकृष्णो राधां वाभिवर्णयति- आलोक्येत्यादिद्वाभ्याम्।

Page 122

११६ भामिनीविलासे

आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः। किं चासिताक्षि मृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः॥७३॥ आलोक्येति। सिलिन्दा भ्रमराः। अमन्दं नन्दन्तीति संबन्धः। असितेति साभिप्रायम्। अत एव। मृगेति। त्वत्कान्त्यमृतप्राशनार्थमित्यार्थिकम्। चटु- लयन्ति विकासयन्ति। एवं च मुखे प्रसादातिरेकः सूचितः । इह प्रसन्ना नायिका। प्रीतो नायकः । उक्त एव शङ्गारः। भ्रान्तिरलंकारः ॥ स्मितं नैतत्किंतु प्रकृतिरमणीयं विकसितं मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम्। स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी॥ ७४ ॥ स्मितमिति। एतन्मुखमिति को वा ब्रूत इत्यन्वयः। एतेनापि प्रसादोत्कर्ष- स्तस्यां पद्मिनीत्वं च व्यज्यते। भ्रमरेति। एतेन कबरीसौन्दर्यातिशयः सूचितः । अत एव सेयं प्राक्कोपितापीदानीं सुप्रसन्नत्वेन प्रत्यक्षेत्यर्थः । रम्या लता। कल्प- वह्हयेवेति यावत्। शिष्टं तु स्पष्टमेव इहापह्वुतिरलंकारः । अन्यतप्राग्वदेव । एवं स्तवनोत्तरं यथेच्छं तद्रात्रौ रतिविलासं संपाद्य द्वितीयदिवस आसायं विरहवशेन व्याकुलमनाः श्रीरामः श्रीकृष्णो वा चन्द्रोदयं निरीक्ष्य तत्र सूर्यत्मुत्प्रेक्ष ते- संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराघीश्वर- व्यादीर्णीकृतमध्यभागविव रोन्मी लन्नभोनीलिमा। अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥७५॥ संग्रामेति। संग्रामः संगरस्तस्याङ्गणं स्थलं तत्रापि संमुखं न तु पृष्ठत आहताः समन्तात्खङ्गधारया निहता एतादृशः कियन्तस्तादशां दुर्लभत्वात्कतिचिदेव ये विश्वंभरा पृथ्वी तस्या अधीश्वराः पृथ्वीपतयः । क्षत्रिया इति यावत्। तेषामेव रणादौ मुख्याधिकारातू। तैर्व्यादीर्णीकृतो विदारितः । तदुकम्-'द्वावेव पुरुषौ

Page 123

शृङ्गारोल्लासः । ११७

लोके सूर्यमण्डलमेदिनौ। परिव्राड् योगयुक्तश् रणे चाभिमुखं हतः ॥' इति। तत्र प्रकृतं आद्यं विहायान्त्यस्यैव कल्पनम्। श्रीरामादेः क्षत्रियत्वात्तस्य शङ्गा- रविरोधित्वाच्च युक्तमेव। एतादृशो यो मध्यभागस्तस्य यद्विवरं छिद्रं तेनोन्मील- न्प्रकटीभवन्नभोनीलिमाकाशकार्ष्ण्यं यस्मिन्स तथेत्यर्थः। एतेन यद्ययं सूर्य एव न चन्द्रस्तर्हि कलङ्ककालिम्रः का गतिरिति शङ्काशान्तिः स्फुटिता। तथा। अङ्गारेति। अङ्गारा ज्वलत्काष्ठानि तद्वत्प्रखराः प्रकर्षेण तीक्ष्णास्तैरित्यर्थः। 'तिग्मं तीक्ष्णं खरम्' इत्यमरः । एतादृशैः करैः किरणैः । एतत्प्रत्यक्षम्। महीति। पृथ्वीतलम्। एतेन खानुमानेन 'अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्' इत्यभियुक्तोत्त्या च नाय- मस्मान्सूर्यवत्संतापयति, ततः कथं त्वयायं सूर्य एवेत्यवधार्यत इति प्रश्नः प्रयुक्त:। कवलयन्प्रसन्। न तु संतापयन्नेव । तेन तत्र परमासत्यत्वं ध्वन्यते। एतादृशः सन्। अयं प्रत्यक्षः । एवं च निरुक्तधर्मितयानुभूयमानत्वेन सर्वथापलापानर्हत्वं द्योत्यते। मार्तण्डः सूर्य उदेत्युदयं प्राप्नोति। नहि नहि, भो भगवन्, अयं चन्द्र एवेति कृतवादं कंचित्सुहृदं प्रत्याक्षिपति-केनेत्यादिशेषेण। तथा चातस्मिंख- दुद्धिलक्षणेन सस्य भ्रमेणाखिललोकवश्चनं हि मौख्यैककार्यम्। अतः स तत्साध- रम्यात्पशुरेवेति भावः । अत्र च्विनापि सूर्यत्वमेव दृढीकृतं बोध्यम्। इह विरही नायकः । विप्रलम्भ: शृङ्गारः । हेत्वपह्ुत्यलंकारः ॥ ततः समयानुसारेणाभिसरन्तीं खमेव सीतां राधां वा दूरादवलोक्य श्रीराम: श्रीकृष्णो वा समनस्येव तत्कटाक्षपातेन सदःसंमोहादिलिव्वेन तन्नेत्रीयश्यामा- दिरूपे हालाहलाद्युत्प्रेक्षते- श्यामं सितं च सुदृशो न दशो: स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च। नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः॥७६॥ इयाममिति। सुदृशः प्रकृतमृगाक्ष्याः। दृशोर्नेत्रयोः। श्यामं कृष्णं सितं शुक्कं च स्वरूपम्। अन्न रूपपदेनैव चारितार्थ्ये खपदं शुक्कपटादेः काश्मीरजरसजन्यपी- ताद्यागन्तुकरूपव्युदासार्थमेव। तथाच कर्मधारय एवात्र न षष्ठीतत्पुरुषः । तेन खं नाम लक्षणया स्वभावसिद्धमित्यर्थः । न नैव भवति। किंतु। एतत्प्रत्यक्षम्। स्फुटं सर्वानुभवसिद्धम्। एवेनैकस्यैव खप्रदर्शनबद्धमत्वं प्रत्युक्तम्। क्रमादिति-

Page 124

११८ भामिनीविलासे

शेषः। गरलं विषम्। अथानन्तरं विषत्वस्य श्यामरूप।वच्छेदेनाध्यवसानो्ध्वमि- त्यर्थः । अमृतं पीयूषम्। चोऽवधारणे। तेनात्र शङ्कानवकाशः सूचितः। विपक्षे- डनुकूलतर्कपराहतिमाह-नो चेदित्युत्तरार्घेन। नो चेदुक्तकल्पना नाद्रियेत चेद- नयोः प्रकृतदृगवच्छिन्नश्यामादिरूपयोः। निपतनाद। नितरां सानुरागकटाक्षप्र- क्षेपावच्छेदेन कान्त्यात्मना संचरणादित्यर्थः। तदैव न तु क्षणान्तरे। तेन वक्ष्य- माणकार्ये कारणान्तरसंभवव्युदासः सूचितः । युवानोऽस्मदादयस्तरुणाः । नितरा- मत्यन्तं नतु क्षणिकम्। तेन लोकोत्तरत्वं द्योत्यते। मोहं वैचित्यम्। मूर्च्छा- मिति यावत्। अनुरागस्तर्हि तत्र कथमित्यत आह-मुदमिति। हर्षमित्यर्थः । दधते धारयन्तीति संबन्धः। हालाह्लस्य दर्शनान्मोहस्तथामृतस्य दर्शनान्मोदश्व समुद्रमथने प्रसिद्ध एवैंवं तयोनीलधवले रूपे अपि शिवग्रीवासुधाकरयोरिति युक्त एवायं कार्यान्यथानुपपत्तिमूलकस्तर्क इत्याशयः। अत्रामिसारिका स्वकीयादिर्ना- यिका। मुदितो नायकः। संभोगः शव्वारः । हेत्वपह्नुतिरलंकारः ॥ ततः किंचिदग्रे समुपागतां तामालक्ष्य तद्वदनं संदेहालंकारेण वर्णयति- अलिमृगो वा नेत्रं वा यत्र किंचिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदशः॥७७॥ अलिरिति। यत्रालिर्श्रमरो वा मृगो वा नेत्रं वा। जात्यैकवचनम्। किंचिद्वि- भासते तदिदं क्रमादरविन्दं कमलं वा मृगाङ्कश्चन्द्रो वा मृगीदशः प्रकृतनायि- काया मुखं वास्तीत्यन्वयः। अत्र मृगीदक्पदमुक्तयोग्यतार्थम्। िष्टं तु स्पष्ट- मेव पूर्ववच्च । अथातिनिकटमभिस्टतां सीतां श्रीरामो राधां वा श्रीकृष्णस्तत्प्रसन्नतराननवर्ण- नेनाभिनन्दयति-दयिते इत्यादि द्वाभ्याम्। दयिते रदनत्विषां मिषा- दयि तेऽमी विलसन्ति केसराः। अपि चालकत्रेषधारिणो मकरन्दस्पृहयालवोऽलयः॥। ७८।। दयिते इति। अयि दयिते। एतेन प्रेम प्राचुर्य सूचितम्। ते तव। रदनेति। स्मिताविर्भूतदन्तकान्तिछद्यनेत्यर्थः । अमी प्रत्यक्षाः । एतेन प्रसादस्य तात्का-

Page 125

शृङ्गारोल्लासः । ११९

लिकत्वेनात्यानन्दहेतुत्वं व्यज्यते। न तु स्मर्यमाणत्वेन सुखमात्रप्रयोजक- त्वम्। केसरा: किअ्ल्काः। एतेन तदानने शरन्मध्याह्वकालिककमलत्वं तदवरे प्रवालाधिकारुणत्वं शुक्ासु परमसूक्ष्मदन्तहीरककणिका कान्तिपु सवदीप्तिसंमेलनेन कुङ्क मसंपर्कतश्चन्दनस्येव पीतवर्णकिञ्जल्काध्यवसानार्हत्वं च ध्वन्यते। हेतन्तरमपि तत्र निरुक्तपझ्मत्वनिर्णयप्रयोजकमाह-अपि चेति चरमार्घेन। समुच्चयार्थकमेवेदं निपातद्वयम्। मकरन्देति। मकरन्दे पुष्परसे स्पृहयालवः । स्पृहाशीला इत्यर्थः । अतएव। अलकेति। त्वत्केशवेषधरा इत्यर्थः । अलयो भ्रमरा एव सन्तीति योजना। एतेन तत्केशानां कुटिलत्वनीलत्वे सूचिते। यो हि यमर्थ यतमानोऽपि न लभते स तदर्थ वेषान्तरमपि धृत्वा तं साधयत्यवेति कवचकुण्डलादो महाभा- रतेऽवलोकितमेव। अतस्त्वद्वदनपद्ममकरन्दस्य लोकोत्तरत्वेन मधुपानां खप्नेऽप्य- लभ्यत्वात्तैस्त्वत्के शवेषमासाद्य तदर्थ यत्यत इत्याशयः। इह मुदिता सवकीयादिर्ना- यिका। कुशलो नायकः। संभोगः शद्गारः। केतवापहुतिरलंकारः ॥ अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते। निशि निःसरदिन्दिरं कथं तुलयाम: कलयापि पङ्कजम्॥ ७९॥ अनिशमिति। न तु दिवस एव। नयनेति। लोचनाप्रिययेति यावत्। रमया लक्ष्म्या। शोभयेत्यर्थः । शब्दादिशोभा हि श्रोत्रैकवेदेति तद्युदासार्थ नयनेति विशेषणं युक्तमेव। संमदिनः । 'प्रमोदामोदसंमदाः' इत्यमरादानन्दिन इत्यर्थः । एतादृशस्य ते मुखस्य वदनस्य। कलयापि षोडशभागेन नेत्रेणापि सहेत्यर्थः । एतेन सर्वाशतुलाराहित्यस्य कैमुत्यसिद्धिर्ध्वनिता। तत्र हेतुं द्योतयन्पङ्कजं विशि- नष्टि-निशीति। रात्रावित्यर्थः । निःसरदिति। निःसरन्त्यपगच्छन्तीन्दिरा शोभा यस्य तत्तथा। सूर्यास्ते हि पदमं मुकुलत्येवेति प्रसिद्धं लोके। पतादशं क्षणिकश्वर्य- शालि पङ्कजं पझम कथ वा तुलयाम इत्यन्वयः। तस्मान्निरुपममेवेदं तवाननमिति तत्त्वम्। अत्र प्रतीपविशेषोऽलंकारः। अन्यत्प्राग्वदेव ॥ एवं सीतां श्रीरामो राधां श्रीकृष्णो वाभिनन्द यथेच्छं तया सह तृतीयपुमर्थ- सुखमनुभूय तत्सुखपारवश्येन व्युत्थानकालानवधानात्सङ्गवे (त्सखे) किमिदं कान्तापारतन्त्रयमायुष्मतां भवतामिति केनचिद्रहःसुहृदाक्षिप्तसवं प्रत्याह-अज्वैरि- त्यादिद्वाभ्याम्।

Page 126

१२० भामिनीविलासे

अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति। विकलयति कुसुमवाणो बाणालीभिर्मम प्राणान्॥। ८० ॥ अङ्गैरिति। भो मित्र, सा पूर्वप्रकृता नायिका। कुसुमबाणो मदनः । साभि- प्रायमिदम्। नायिकाङैः पुष्पशोभापहारे कृते तत्पक्षपातितया तल्लक्षणबाणैर्म त्प्रा णविकलीकरणं राजनीतिविरुद्धमेवेति भावः । तस्मादेतादृशविपरीत कारिपरतन्र्रा- णामस्माकं प्रमादोऽयं कथं नाम दोषावहः स्यात्। प्रत्युत निरुक्तवीरस्मरभट्वारकप- रितोषकारित्वादसौ गुण एवेति तात्पर्यम्। अत्र लोकोत्तरसुन्दरी स्कीयादिरेव ना- यिका। कोविदो नायकः । संभोगः शङ्गारः। असंगतिरलंकारः। परिकराङ्कुरश्च ॥ खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण। खिद्यामि हन्त परितस्तद्रूपविलोकनेन विकलोऽहम् ॥८१॥ खिद्यतीति। सा प्रकृतनायिका। कोमलेति साभिप्रायम्। अत एव पथि यान्ती सती नितम्बभारेण सििद्यतीत्यन्वयः । हन्तेति खेदे। अहं तद्रूपालोकनेन विकल: सन्परितः खिद्यामीति संबन्धः । काव्यलिङ्गादिरलंकार :- शेषमति- रोहितार्थम्॥ अथाकस्मादागतेऽक्रूरे श्वः श्रीकृष्णे मथुरां प्रति जिगमिषा सति सामान्यतः सर्वासामपि व्रजयुबतीनां प्राणसद्भावोऽपि तद्विरहे भारीभूत एवेति तावतैवातिदुः- खितानां निशि दैवाद्राकावशेन पूर्णशरदिन्दुकान्तिरपि प्रलयानलायमाना तथा खखमन्दिरावच्छिन्नाम्बरमपि कल्पाब्धिकल्पमेवाभूदिति कविः कल्पयति- मथुरागमनोन्मुखे मुरारा- वसुभारार्तिभृतां व्रजाङ्गनानाम्। प्रलयज्वलनायते स्म राका/ भवनाकाशमजायताम्बुराशिः ॥८२।। मथुरेति। असवः प्राणास्तेषां यो भारसेन यार्ति: परमतमपीडा तां बिभ्रति तास्तथा तासामित्यर्थः । हरिविरहेऽन्तःसमीरोऽपि भारीभूत एव ब्रजसुन्दरीणां सामान्यतस्तदा तदेकजीवितावधिकायाः श्रीराधिकायाः कैव कथा तथात्व इत्या- शयः। न केवलमेवमन्तर्वेदनैव, अपि तु बाह्याप्यसौ तथेति कथयति-पलये- त्याद्युत्तरार्घेन। 'ज्वलनो हृव्यवाहनः' इत्यमरात्प्रलयकालानलवदाचरति स्मेत्यर्थः। भवनेति। 'भवनागारमन्दिरम्' इत्यपि तदुक्के: खगृहावच्छिनव्योमापीत्यर्थः।

Page 127

शृङ्गारोह्लासः । १२१

अम्ब्विति। प्रलयकालिकसमुद्र एवेति यावत्। अत्र तैजसत्वविपुलत्वाभ्यामेवान- योस्तत्साधर्म्ये बोध्ये। इह विरहिण्यः परकीया एव मध्या नायिकाः। धीरो नायकः । विप्रलम्भः श्रङ्गारः। प्तोपमादिरलंकारः ॥ किंच न केवलं रूपवैभवेनैव जानक्यां ममात्यासक्तिः, किंतु गुणवैभवेनापीति प्रपूर्वपद्यप्रकृत: श्रीरामः सरहःसुहृदं तथा श्रीकृष्णो वा पूर्वपद्योक्तरीत्या मथुरां गत्ा कंसादीश्च हत्वा राधाद्यखिलगोपिकासान्त्वनार्थमुद्धवं प्रेषयंस्तं प्रति तच्चा- तुर्यचमत्कारं स्मृत्वा प्रपश्वयति- केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः सुप्तायाः सरुषः सरोरुहदृदशः संवीजनं कुर्वतः। जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासख्चितः।८३।। केलीति। भो मित्र, केल्याः कीडाया यन्मन्दिरं गृहं रत्यागारं तत्रागतसद- र्थमुपागतस्तस्येत्यर्थः । एतादृशं मामवलोक्येति यावत्। अत एव शनकैः । न तु तत्कालम्। नो चेन्मदागमनमनया ज्ञातमेवेति मम प्रेमासंभवेन वक्ष्यमाणखरो- षावमोषणभङ्गापत्तिः स्यात्। आलीर्वयस्याः । इद्जितैः सुप्तिसूचकप्रावरणग्रहणादि- चेष्टितैः । न तु वाचा। तथात्वे जागरसंभवेनोक्तपतितादवस्थ्यमेव। एतेन चातु- र्यातिशयः सूचितः । अपास्य बहिर्निरस्य। सुप्ताया निद्राणायाः। तत्र हेतु :- सेति। किंचिद्विलम्बेनोपगतत्वान्मयि रोषं प्रकाशयन्त्या इत्यर्थः । अत एव। सरोरुहेति। कोकनदनयनाया इति यावत। कर्मणि षष्ठीयम्। अतएव संवीज-

कुर्वतोऽनुतिष्ठतक्वेति यावत्। निद्राणायास्तावद्रमण्याः प्रसूनव्यजनसमीरणैः शिशि- रीकरणं जागराद्यर्थ चतुराणामुचितमेव। एतादृशस्य मम पाणिः। जानन्त्यापि। मदागमनादिज्ञातवत्यापीत्यर्थः। अनभिज्ञयेव। अतएव। कपटेति। कपटेन व्यामीलिते विशेषेण आ ईषन्मीलितेऽक्षिणी यया सा तथा। तयेत्यर्थः । एतेना- र्धसुप्तिबोधनं ध्वन्यते। एतादृश्या तया प्रकृतनायिकया। कतर्येत्यर्थः। एतेन क्रियाविदग्धत्वं द्योत्यते। हे सखि, त्वं श्रान्तासीत्यभिधाय संवीजनं कुर्वन्तं मां प्रति सखीबुच्धैवेयं जल्पतीति प्रकाश्येति यावत्। वक्षसि। खहृदय इत्यर्थः । एवेनोक्तपवनशीतलेन त्वत्पाणिना तहि मम हृदय जाभनिप्रशमनं भवत्विति विरह्दा-

Page 128

१२२ भामिनीविलासे

तिरेकः प्रागुक्तसंवीजनेन परमोपकर्ता श्रान्तश्वायं पाणिरेव हृदये कार्य इति वा प्रत्युपकारपूर्वकः स एव सूचितः आसजितः। समन्तात्संघट्टितः । न तु केवलं योजित: तेनोत्कण्ठौत्कट्यं व्यज्यते। अत्र चतुरावेव नायिकानायकौ। संभोग: शृद्गारः ।। अथ पुनरपि श्रीरामः सीतायाः श्रीकृष्णो वा खोपनयनाद्युत्तरं रुक्मिण्याः पाणिप्रहणादि विधाय स्वमनस्येव सौन्दर्य वयःसंधिकालिकं संवर्णयति- मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत्। किं चाभवन्मृगकिशोरदशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥। ८४ ॥ मान्थर्यमिति। मृगेति। एतेन तन्नेत्रयोरतिचपलत्वविशालत्वकृष्णत्वसर- सत्वानि सूचितानि। एतादृश्याः प्रकृतनायिकायाः संबन्धीत्यर्थः । गमनं शैश- वेन बाल्येन सह। मान्थर्य मन्दत्वम्। आपेति योजना। अनयोरपि कीबत्वेनो- चितमेव साहचर्यम्। एवमघरबिम्बमपि। अधरोऽघरोष्ठ एव बिम्बम्। एतन्ना- मकं पक्कतुण्डीफलमित्यर्थः। मनसा चेतसा सहैव रक्तमारक्तं पक्षेऽनुरक्तं चासी- दित्यन्वयः । किं चेति समुच्चये। तथायं प्रत्यक्षः। एतेन तस्यास्तदानीं पुरोवर्तित्वं द्योत्यते। नितम्बः कटिपश्चाद्भागः। जात्यभिप्रायकमेवैकवचनम्। तथोर्द्वित्व- प्रत्यक्षात्। मन्मथेन मदनेन सहैव। सर्वाधिकः सर्वोत्कटः। एतेन सर्वात्मना- दरणीयत्वं व्यज्यते। तत्रापि गुरुर्महान्पक्षे पूज्योऽभवदित्यन्वयः । तस्मादुचित एवास्यां मदनुरागातिशय इत्याशयः । इह सुन्दरी मध्या सकीयैव नायिका। अनुरक्तो नायकः । संभोग: शृङ्गारः । सहोकतिरलंकारः ॥ अत्रान्तरे श्रीरामं प्रति तावत्कालिकविरहमप्यसहन्त्याः सीतायाः, सखा व्रजं प्रति प्रेषितस्ततः समागतस्तावदुद्धवो वा श्रीकृष्णं प्रति राधायाः परमविरहग्लानि वर्णयति-श्वास इति त्रिपाद्या- शर्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः। तस्या: सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ ८५।। श्वास इति। हे सुभग शोभनैश्वर्य। एतेन परवेदनानभिज्ञाननिदानं ध्वनितम्। श्वासोऽनुमानवेद्यः। कार्पाससूत्रलेशस्य तन्नासाग्रसंयोजने, विधीयमाने तत्कम्पा-

Page 129

शृङ्गारोह्लासः । १२३

ख्यकार्यलिङ्गकानुमानैकगम्य इत्यर्थः । अतएव। अङ्गानि हस्तपादाद्यवयवाः । शीतानि शीतलानि। इदं ह्युष्माभावसूचकत्वेन प्राणोत्कमणस्यैव लिङं लोकादौ प्रसिद्धमेव। तथा दृष्टिरपि निश्चला। तटस्थेत्यर्थः । पूर्वोत्तरयोर्धर्मयोः समाधिव्य- भिचारित्वेऽपि मध्यम स्यैवाव्यभिचारित्वेनानयोरपि तथात्वमेव ज्ञेयम्। इयं तस्याः प्रकृतनायिकायाः कथास्तीत्यन्वयः । तस्मात्त्वयातित्वरयैव तत्र गन्तव्यमिति भावः । एवमत्युक्तिवशादमङ्गलप्रायत्वेनासहिष्णुत्वात्कुद्ध इव श्रीरामः श्रीकृष्णो वा तं तिरस्करोति-तिष्ठत्वित्यादिशेषेण। एवं चेदं श्रोतुमपि मया नैव शक्यत इत्याशयः । अत्र विरहिणी स्वकीयादिर्नायिका। कुद्धो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गमलंकारः ॥ ततः श्रीरामः शीघ्रं सीतामुपेत्य तत्करे स्वकरस्थापनं धमनीक्षणार्थ कृत्वा तस्यास्तत्स्पर्शमात्रेण चेतनोद्रमात्खस्य च ततः कामिकसात्विकवेपथ्वागमाचच तत्कालं चकम्प इति कविर्व्यनक्ति- पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन। हिमाम्बुगङ्गानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम्॥८६॥ पाणाविति। इलासुताया भूमिनन्दिन्याः। एतेन तात्कालिकातिजाड्यं व्यज्यते। पाणौ करे। रघुनन्दनेन श्रीरामेण कृतः पाणिः सखेदकम्पः सन्। हिमेति। हिमं शीतमम्बु यस्याः । एतादृश्या गङ्गाया योऽनिलो वायुस्तेन विह्वलं विकलं तस्येत्यर्थः । स्पष्टमन्यत्। अत्र विरहिण्येव नायिका। सोत्कण्ठो नायकः। संभोग: शरृङ्गारः। निदर्शनालंकारः ॥ अथ श्रीरामः स्वकरस्पर्शमात्रेण सदः सावधानां सीतां प्रपूर्वपद्योक्तरीत्या पाणिग्रहणाद्युत्तरं क्रीडागारमुपानीतां रुक्मिणीं प्रति श्रीकृष्णो वा चुम्बनार्थित्वेन तद्धरं प्रवालपल्लवाधिक्येन वर्णयति- अरुणमपि विद्रुमद्गुं मृदुलतरं चापि पल्लवं बाले। अधरीकरोति नितरां तवाधरो मधुरिमातिशयात्॥८७॥ अरुणमपीति। हे बाले, द्वादशवर्षोर्ध्वाषोडशवर्षवयस्के प्रकृतनायिके। एवेनावश्यस्तवनीयत्वम प्रौव्या ध्वन्यते। तवाघरः। अयमिति शेषः। अरुणमप्या-

Page 130

१२४ भामिनीविलासे

रक्तमपि विद्रुमद्रम्। 'दुद्रुमागमाः' इत्यमरात्प्रवालतरुमित्यर्थः । तथा मृदुलतरं परमकोमलम्। एतादृशं किसलयं पल्लवं चापि। मधुरिमेति। माधुर्योत्कर्षात्। अधरीकरोति। तुच्छीकुरुत इत्यन्वयः। तस्मात्त्वयाद स एव मां पाययितव्य इत्याशयः । अत्र स्वकीयैव मध्या नायिका। कामुको नायकः। संभोग: शङ्गारः। प्रतीपविशेषोऽलंकारः ।। ततस्तया दीयमाने स्वयंग्रहालिज्गनादिना तृतीयपुमर्थीभूतसुरतसुखे श्रीरामः श्रीकृष्णो वा क्रमाज्ानक्या रुक्मिण्या वा तात्कालिकलोचनादिसौन्दर्य वर्णयति- नयन इत्यादिद्वाभ्याम्। नयने वहतां नु खञ्जनाना- मिह नानाविधमङ्गभङ्गभाग्यम्। मुखमेतु तुलां कथं सुशोभं सुदृशो भङ्गुरसंपदाम्बुजेन ।। ८८ ॥। नयने इति। सुदृशः प्रकृतमृगाक्ष्याः। नयने नेत्रे। इहास्मिन्सुरतकाले। खञ्ञ- नानाम्। खञ्जरीटाख्यपक्षिविशेषाणामित्यर्थः। नानाविधं बहुप्रकारम्। एतेन खभा- वोक्त्या तात्कालिकोऽनिर्वाच्यश्रमत्कारस्ल्लोचनयोः सूचितः। अङ्गेति। अङ्गानामव- यवानां भप्गः 'भङ्गस्तरङ्ग ऋग्भेदे छेदे जयविपर्यये' इति विश्वात्पराजयो येन तच्व तन्भाग्यम्। ऐश्वर्यमित्यर्थः। एतेन तन्नयनयोस्तत्कालं खज्ञनाङ्गपराभवकारि भूरि- तरसामर्थ्यवत्त्वेनातिचापल्यादि द्योतितम्। वहतां नु धारयतां किम्। उत्प्रेक्षया त्वेतदपि वक्तुमशक्यमेव तयोर्निरुपमत्वात्। तस्मादनिर्वचनीयमेव तद्वैभवमिति व्यज्यते। एवं चेत्निरुक्त्तसुन्दरतरनेत्राधिकरणत्वेन सुशोभं परमनिरन्तरशोभा- शालीदमस्या मुखम्। भङ्गरेति। नश्वरलक्ष्मीकेन का(अ)म्बुजेन पद्मेन सह तुलां कथमेतु। न कथमपीति संबन्धः । एवं चैतदुपलक्षितनिरुपमसर्वाङ्गसुन्दर्ये- वेयमित्याशयः। अत्रोत्प्रेक्षाप्रतीपे चालंकारी। शेषं सर्वं प्राग्वदेव ।। सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विद्धे कापि रुचि: परस्परम्॥ ८९॥ सुदश इति। जितं पराजितं रत्नजालं हीरकादिरत्कणिकाजालकं यया सा तथेत्यर्थः । सुरतेति। बिन्दवोऽत्र खेदजा एव। अलिकेन 'ललाटमलिकम्'

Page 131

शृङ्गारोल्लासः । १२५

इत्मराद्धालेनेत्यर्थः । रुचिः कान्तिः । परस्परमन्योन्यं विदधे। कृतेत्यर्थः । खेदबिन्दुदीप्तिर्भाले तत्कान्तिश्व । तत्र प्रतिबिम्नितेत्यतिचित्रमिदानीमेतदिति तत्त्वम्। अत्रान्योन्यालंकारः । शिष्टं तु सर्व स्पष्टमेव। नायिकादिकं च प्राग्नदेव। अथ कविः सीतारामयोरेव निरुपमं दाम्पत्यमिति द्योतयंस्तथात एव तृतीय- पुमर्थसिद्धिरिति व्वनयति- परपूरुषदृष्टिपातवज्रा- हति भीता हृदयं प्रियस्य सीता। अविशत्परकामिनीभुजङ्गी- भयतः सत्वरमेव सोऽपि तस्याः।।९० ।। परपूरुषेति। परपूरुषाणां स्वकान्तभिन्नपुरुषाणां यो दृष्टिपातो टक्संचारः स एव वज्राहतिरशनिकर्तृकक्षतिस्तया भीता त्रस्ता सतीत्यर्थः । एतेन सरमणेतर- निरीक्षणं तस्याः प्राणान्ताधिकदुःसहमिति द्योतितम्। तेन च परमपातिव्रत्याव- धिरेव ध्वनितः । अतएव सीता जानकी प्रियस्य श्रीरामाभिधसप्रेयसः । हृदय- मन्तःकरणमेव। प्रकृतसंभोगपक्षे वक्ष एव। अविशत्प्रविवेश। तत्रैव तद्धयाभाव- संभवादिति भावः । सोऽपि श्रीरामोऽपि। परेति। परस्य या कामिनी सुन्दरी सैव भुजङ्गी सर्पिणी। 'वेश्यापतिर्भुजङ्गः स्यात्' इति कोशाद्विटस्त्री। वेश्येति यावत्। तस्या एव प्रायः परपुरुषेक्षणप्रवृत्तिसंभवात्। तस्या यद्भयं तस्माद्वेतो- रित्यर्थः। तस्याः सीताया हृदयमित्यनुषज्यते। संभोगान्तं तद्विवेचनं तु प्राग्वदेव। तत्रापि सत्वरमेव न तु विलम्बेन। तेन भीत्यतिशयः सूचितः । इदं पूर्वार्धेऽप्य- पकृष्य योज्यम्। अविशदित्यादि पूर्ववदेव। एवं च प्रकृतरतान्ते गाढालिन्गनेनैव ताभ्यां प्रसुप्तमिति संभोगपक्षे तात्पर्यम्। आद्यपक्षे तु सीतायाः सर्वदा श्रीराम- हृदयैकवतित्वस्य पूर्वारधे वर्णितत्वात्तस्य तस्यां निरतिशयानुरागो व्यज्यते। एवेन रुक्मिण्यास्तथात्वेऽपि श्रीकृष्णस्य तथात्वान्न तत्तृतीयपुमर्थसिद्दुदाहरणीभूतदा- म्पत्यमिति ध्वन्यते। एवमुत्तरार्धेऽपि श्रीरामस्य निरन्तरं सीतैकान्तःकरणवर्ति- त्ववर्णनतस्तस्या अपि तस्मिन्नसौ तादृशः सूध्यते। अत्र सकीयावेव संभोगैक- लीनौ नायिकानायकौ। स एव शजारः। रूपकगम्योत्प्रेक्षे अलंकारौ। ततुः क्षणान्तरे समुत्थितां सीतां व्युत्थितः श्रीरामः प्रपूर्वपद्यप्रकृतः श्रीकृष्णो वा रुक्मिणीं पुनः सुरतलालस्येन स्तनमर्दनस्यैवालिज्गनादिना कामशास्त्रे संभोगा- रम्भकालिकत्वात्तद्वर्णनं कुर्वन्नत्यर्थ प्रोत्साहयति-जम्बीरेत्यादि पश्चभिः। भा० वि० ९

Page 132

१२६ भामिनीविलासे

जम्बीरश्रियमतिलङ्गय लीलयैव व्यानम्रीकृतकमनीय हेमकुम्भौ। नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥९१॥ जम्बीरेति। हे नीलेत्यादिसंबोधनम्। तेन रतिश्रान्तिराहित्यादिदानीं प्रसन्नत्वं व्यज्यते। यद्यपि मध्यवर्तिश्लोकत्रयेण नेत्रकोणादिवर्णनमपि कृतमथापि चरमश्लोके तयोरेव वर्णितत्वात्प्राधान्यं तत्रैव निरुक्तरतिलौल्यक्कप्यावगन्तव्यम्। जम्बीरं प्रसिद्ध एव फलविशेषः । तच्छ्रियं तच्छोभाम्। लीलयैव न त्वायासेन अ- तिलङ्क्यातिक्रम्य। व्यानम्रीकृतेति। विशेषेणासमन्तान्नम्रीकृतौ कमनीय हेमकुम्भा- वुत्तमकनककलशौ याभ्यां तादृशौ सन्तावित्यर्थः। अधुना ते कुचौ कनकाचलेन सार्ध स्पर्धेते किलेत्यन्वयः। एवं च तयोगौरतरत्वोन्नतत्वपृथुत्वकठिनत्वातिशयः सूचितः। तस्मादेतादृशाविमौ परश्रीहर्तारौ सकलभुवनभरत्रा मया कथ न मर्दनी- यावतस्त्वमालिङ्गनमेव द्रुतं देहीत्याशयः । इह सकीयैव मध्या रतान्तव्युत्थिता नायिका। कामुको नायकः । संभोग: शृङ्गारः । पर्यायोऽ्लंकारः ॥ तत्र किमिदमित्याकूतेन कटाक्षतः पश्यन्तीं तां प्रत्याह- अङ्गानि दत्वा हेमाङ्गि प्राणान्क्रीणासि चेत्नणाम्। युक्तमेतन्न तुपुनः कोणं नयनपद्मयोः ॥९२॥ अङ्गानीति। हे हेमाङ्ि स्वर्णवद्गौरि, त्वम्। अज्गान्यालिङ्गनेन कुचादिसर्वा- वयवान्। दत्त्वा नृणाम्। ईश्वरत्वेन सर्वपुंमूलीभूतस्य ममेत्यर्थः । प्राणान्करीणासि चेदेतदुक्म्। न तु पुनर्वारंवारम्न तु सकृत्। नयनेति। कोणं दत्त्वा प्राणा- न्करीणासीति युक्तमिति योजना। तात्पर्याद्यवशिष्टं सर्व प्राग्वदेव। बहुतरहेममुद्रा एव दंत्वा बहवो मणयो विक्रीयन्ते न त्वेकदेशमिति प्रसिद्धमेव लोके। परि- वृत्तिरलंकार: । जितरत्नरुचां सदा रदानां सहवासेन परां मुदं दधानम्। अधरीकुरुते शुभाङ्गि नासा- मधुना साहसशालि मौकिकं ते ॥ ९३॥ जितेति। अयि शुभाङ्गि, भो सर्वावयवसुन्दरि प्रकृतनायिके। एतेन प्रागुक्ता- लिजनप्रार्थनव्यज्ञनमेव दयोत्यते। ते तव मौक्तिकम्। तदुपलक्षितं नासाभूषणमि-

Page 133

शृङ्गारोल्लासः । १२७

त्यर्थः। एवं च नैकवचनेऽपि व्यवहारविरोधः । अधुनेदानीम्। जितेति। परा- जितहीर कादिरत्नकान्तीनामित्यर्थः। एतेन प्रागुक्तप्रार्थनया तस्यां तात्कालिकं स्मितं सूचितम्। एतादृशां रदानां दन्तानाम्। सदा निरन्तरं न तु क्षणमात्रम्। सहेति परामुत्कटाम्। मुदं हर्षम्। दधानं धारयदित्यर्थः । अहो पराजितहीरा- दिरत्नकान्तिदन्तसंततसंगतिशालित्वेन धन्यमेवाहमिति संमदवदिति यावद्। एतेन वक्ष्यमाणप्रमादहेतुर्हर्षः सूचितः । अतएव साहसेति। विवेकशून्यमित्यर्थः । अतएव नासां नासिकामधरीकुरुते खवासनीकरोतीति संबन्धः । इह काव्यलिङ्गा- दिरेवालंकारः । शिष्टं तु प्राग्वदेव । निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यायाः। गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति॥९४ ॥ निभाल्येति। हे मुग्धे। एतेनैतादृश्यां मदाञ्ञायामपि सत्यां नाद्यापि त्वं स्वयमालिङ्गनं ददासीत्यतो नैव त्वयि तादृग्विवेक इति व्यज्यते। त्वं भूयो वारं- वारं न तु क्षणमात्रं सकृद्वा निजेति। स्वशरीरगौरतामित्यर्थः । निभाल्या- वलोक्य। एतेन प्रागुक्तालिङ्गनप्रार्थने सूचिते सति तत्कालं तस्यां धन्याहमेता- दककुचाद्यवयववत्त्वेनेति गर्वभरात्पुनःपुनः स्ववक्षोरुहावलोकनकारित्वं द्योत्यते। सहसैवाकस्मादेव। न तु विचारपूर्वकम्। तथात्वे तस्य वक्ष्यमाणबाधायोगात्। मानं गर्व मा यायाः । मैव गच्छेत्यर्थः । 'यासीः' इति पाठेऽप्ययमेवार्थः । कुत इति चेत्तत्र हेतुं द्योतयति-गृहे गृह इत्याद्युत्तरार्धशेषेण। तवाङ्गवर्णास्त्वच्छरी- रसरूपा: । सुवर्णेति। हेमपङ्कयः गृहे गृहे प्रतिगृहं लठन्ति संचरज्जनपादसंपर्केरपि चलन्तीति त्वं पश्येति योजना। एतेनात्यनादरणीयत्वं व्यज्यते। एवं च किं कुचादिगौरताद्येव भूयो विलोक्य दप्यसि, किंतु मदालिङ्गनादिनैव तत्साफल्यं कलयेत्याशयः । अत्र प्रतीपविशेषोऽलंकारः। अन्यत्सर्वं पूर्ववदेव॥ करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्गलैः। कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥९५॥

Page 134

१२८ भामिनीविलासे

करिकुम्मेति। हे आलि अयि सखि। एतेन निरुक्तपद्यश्रवणेन रोषसंभव- माशक्य सामघटकालिपदेन मया सौहार्दवशादेवेदमुक्तम्। वस्तुतस्तु त्वं लोको- त्तरनिरुपमसुन्दर्येवासीति सूचितम्। किंचाथापि त्वं कुप्यस्येव चेदन्यत्राप्येवं कुतोऽसो न क्रियत इत्याक्षिपत्यवशिष्टत्रिपाद्या। त्वं विश्ङ्कलैः । एतेन कवि- त्वेन क्रान्तदर्शित्वात्तैर्यत्कियेत तद्युक्तमेवेति प्रत्युक्तम्। एतादृशैः कविभिर्वाल्मी- क्यादिभिः । उरोजयोर्निजवक्षोजयोः । करीति। गजगण्डस्थलसाम्यमित्यर्थः । तयो: कृष्णत्वादिना प्रकृतोपमानानर्हत्वमेवेति भावः । क्रियमाणां स्वखग्रन्थेषु प्रथ्यमानाम्। सादरं सप्रेम। कथं शणोषि। नैवैतच्छ्रोतव्यमित्यन्वयः। तत्र हेतु- मर्थान्तरन्यासेन शिष्टपादेनाह-विपरीतेति। तस्मान्मय्यपि नैव रोषः कार्यः । किंत्वालिङ्गनमेव देयमिति तात्पर्यम्। अत्रापि प्रतीपविशेष एवालंकारः। शिष्टं तु सर्वमवशिष्टमेव पूर्वतः ॥ एवं प्रार्थितापि श्रीरामेण सीता श्रीकृष्णेन रुक्मिणी वा सद्यः संजातसुरतान्त- श्रान्तिवशेन पुनस्तात्कालिकक्रीडानुत्सुकैेति तदौत्सुक्यापादनार्थ तेन कस्याश्चि- न्निदर्शनव्याजेनेदानीं त्वया मत्प्रार्थनानादरे कृतेऽपि संपादिते सति मया परा- शुखत्वे क्षणान्तरे पुनः सदस्त्वमेव मदालिङ्गनचुम्बनादिमत्प्रार्थनं विनैव स्य- मेव संपादयिष्यसि तदपेक्षया वरमद्य मत्प्रार्थनेनैव तत्संपादनं येन पातिव्रत्य- बीजीभूतं मद्धच:परिपालनमपि सिध्धेदिति भेदेन बोध्यते- तिरस्कृतो रोषवशात्परिष्वज- न्प्रियो मृगाक्ष्या शयितः पराखुखः । किं दुःखितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सखजे॥ ९६ ॥ तिरस्कृत इति। अयि प्रिये, कयाचिन्मृगाक्ष्या। एतेन रूपयौवनादिमद एव वक्ष्यमाणरोषे हेतुर्द्योतितः । प्रियः प्रेयानपि परिष्वजन्नालिङ्गन्सन्। रोषवशा- त्किंचिदागमविलम्बादिनिमित्तकक्ोधपारतन््यादित्यर्थः । तिरस्कृतः परिभर्त्सितः। अत एव पराझुखः शयितो निद्रितः । अत एव किमसौ दुःखित इति कांदिशी- कया 'कांदिशीको भयदरुतः' इत्यमराद्भीतिकम्पितया सत्या। आचुम्व्य दुःखाति- रेकजन्यगाढनिद्रासंभवात्कामशास्त्र प्रसिद्धमालिज्ञन प्राथम्यमुल्लद्मयेव तज्जागरादिसं- पादकं चुम्बनमेवाधरकपोलादावादौ विधायेति यावत्। चिरायेति देहलीदीपन्य

Page 135

शृङ्गारोह्लासः । १२९

पैन काकाक्षिगोलकन्यायेन वोभयान्वयि। तेन निरुक्तचुम्बने दृढजागरपर्यन्तत्वं चोत्यते। ताहक्कोपाद्यपगमपर्यन्तत्वं च । एवमालिङ्गनेऽपि यावत्खकृततिरस्कृति- जनितदुःखध्वस्त्िपूर्वकरतिसमुत्थितिपर्यन्तत्वं च। सखज आलिङ्गित इत्यन्वयः। तस्मानैवं भवत्या विधेयं किंतु मद्वाक्यानादरजन्यदुष्कृतमसंपाद्यैव क्षणान्तरे तावत्सत्यां खवस्याः कामानुतापादिपीडायामवश्यप्रदास्यमानालिङ्गनाद्यदैव मह्यं प्रदेयमित्याशयः। अत्र स्वकीयैव मध्या संबोध्या नायिका। कुशलो नायकः । काव्यलिङ्गमलंकारः ।। एवं श्रीकृष्णवाक्यमाकर्ण्य रुक्मिण्येव तं प्रति नाहं गोपिकावत्परकीयास्मि किंतु परमधीरा खवकीयैवास्मीति तद्टृत्तान्तवर्णनेन द्योतयति- चेलाञ्चलेनाननशीतरइम संवृण्वतीनां हरिदृश्वरीणाम्। वजाङ्गनानां स्मरजातकस्पा- दकाण्डसंपातमियाय नीवी ॥९७॥ चेलाञ्चलेनेति। भो नाथ, चेलाव्वलेन निचोलपल्लचेन। आननं वदनमेव शीत रश्मिर्हिमकरस्तमित्यर्थः । न तु मुखपदम्। आवृण्वतीनामाच्छादयन्तीनाम्। एवं च कृष्णाभिस्तारिकाणां तासां प्रकाशभीत्या खमुखचन्द्रावरणमुचितमेवेति सूचि- तम्। मुखमाच्छाद्य गमनं तत्खभाव एवेति भावः। हरीति। अत्र युष्मदादिप- दावश्यकत्वेऽपि लज्जादिना तदनुक्तिर्नानार्थकहरिपदोकिश् गुण एव। हरिं कृष्ण- पक्षीयं चन्द्रं, पक्षे श्रीकृष्णं लामेव द्रष्टं शीलं यासां तासामित्यर्थः । चन्द्रदर्शन- शीलं तु खगोपनार्थ तदुदयभीतिशङ्कयैवेत्याशयः । अकाण्डेति। आकस्मिकपतन- मित्यर्थः । न तु श्लथनम्। तेन नग्ना एवाभवन्निति ध्वन्यते। स्पष्टमन्यत्। 'काण्डो नाले तरुस्कन्धे बाणेऽवसरनीरयोः' इति विश्वः। 'यमानिलेन्द्रचन्द्रार्कवि- ष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिना कपिले त्रिषु ।' इत्यमरः । अत्र प्रकृताप्रकृते स्वकीयापरकीये धीराधीरे नायिके। कामुको नायकः । परिक- रादिरलंकार: ।। अथ कविः प्रपूर्वपद्यप्रबोधितायाः सीतायास्तद्वोधवशादेव पूर्वपद्योकरीत्या स्वधैर्य ध्वनयन्त्याः प्रमोदभरादक्मिण्या वा तत्कालोचितत्वेन संजातं स्मितं वर्णयति-

Page 136

१३० भामिनीविलासे

अधरेण समागमाद्रदाना- मरुणिम्रा पिहितोऽपि शुद्धभावः। हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः।।९८।। अधरेणेति। पक्ष्मलाक्ष्याः प्रशस्तनेत्ररोमायाः । प्रकृतकान्ताया इत्यर्थः । एतेन निरुक्तावयवोपलक्षितयावत्त्री गुणवैशिष्यात्तदीय वक्ष्यमाणस्मिते वर्णनीयगु- णगौरवं व्यज्यते। रदानां दन्तानाम्। अधरेण सह समागमात्। अरुणिम्ना वदारकत्वेन । पिहितोऽप्याच्छादितोऽपि। शुद्धभावः शुककत्वम्। सितेन शुभ्रेण हसितेन मन्दस्मितेन। जातपक्षः सन्संजातसहायः सन्। पुनरुल्लास विकास- मवाप प्रापेति संबन्धः । ननु हसितक्षणेऽपि नाधरसमागमापनयस्तथा च कथं तस्य वदनविकासनानुकूलमानसप्रसादप्रयुक्तक्रियाविशेषात्मकस्य तत्कालस्फुरित- दन्तकान्तिनिष्ठसितत्वस्य तत्रारोपेणापि सितत्वमिति चेत्सत्यम्। निरुक्तवदनवि- कासे हि नासाभरणीयमौक्तिकादिसितकान्तीनां दन्तपर्यन्तप्रवेशसंभवेन प्राक्तना- धरारुणिम संक्मापलापेन स्वाभाविकतत्सितत्व प्राकव्यसंभवात्। तस्माद्युक्तमेवोक्तक- ल्पनमित्याकूतम्। अन्न प्रसन्ना नायिका । पूर्वरूपमलंकारः । तदुक्तम्-'पुनः खवगुणसंप्राप्ति: पूर्वरूपमुदाहृतम् । हरकण्ठांशुनीलोऽपि शेषः खयशसा सितः ॥' इति। अन्यत्सर्व प्राग्वदेव। ततः श्रीरामः श्रीकृष्णो वा सीताया रुक्मिण्या वा निरुक्तस्मितमेव प्रार्थितसुर- तप्राप्तये स्तौति- सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव। वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ ९९॥ सरसिरुहेति। सरसिरुहपदं तु मनसिजादिपदवत्साध्वेव। कोशे तु 'सारसं सरसिरुहम्' इति, 'कासारः सरसी सरः' इति सरसीशब्दं गृहीत्वैवोक्तमित्यवि- रोधः । हे मृगाक्षि। उपलक्षणमिद यावत्सौन्दर्यादेः। अयि यावत्त्रीगुणविशिष्ट- सरमणीत्यर्थः । एतेन वक्ष्यमाणार्थयोग्यता द्योतिता। तव। सरसीति। सरसि- रुहं कमलं तस्य यदुदरं तद्वत्सुरभौ सौगन्ध्यशालिनि मनोज्े वेत्यर्थः। अत्र 'तृती- यादिषु भाषितपुंस्कं पुंवद्रालवस्य' इति वैकल्पिकपुंवद्धावान्पुंसकत्वेऽप्युक्तरूपस्या- नादिशब्दवत्साधुत्वं बोध्यम्। एतेन सौगन्ध्यात्ताम्बूलतर्कणं मुखे परास्तम्। एता- दृशे। अधरितेति। अधरितं तुच्छीकृतं बिम्बं पक्कतुण्डीफलं येन तादृशोऽघरो

Page 137

शृङ्गारोह्लासः । १३१

यस्य तत्रेत्र्थः । एतेनाधरोष्ठरागात्तत्र तत्परास्तम्। एतादृशे च। मणीति। मणय इव रदना यत्र। एतेन पूगखण्डादिनापि तत्परास्तम्। एतादृशे वदने मुखे। ताम्बूलं तच्चर्वणादि। वयं केन लिङ्गेन लक्षयेम तर्कयेम। तह्िज्ञं त्वं वद कथयेत्यन्वयः । तस्मात्तादशलिङ्गाभावात्ताम्बूलसेवनं विनैव लन्मुखस्य तथात्वेन त्वं त्रैलोक्यसुन्दर्येवासीत्याशयः। अतः सदः सुरतं वितरेत्याकूतम्। उुप्तोपमादि- रलंकारः । अन्यत्सर्व प्राग्वदेव ।। एवं स्तुतापि सीता रुक्मिणी वा श्रीरामस्य श्रीकृष्णस्य वा प्राक्तनरतिक्ा- न्तिवशान्निकटे केवलं निद्राणाप्यर्धोन्मीलितलोचना सती सानुरागं केवलं मुखमेव पश्यतीति कविराह- शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते॥ १०० ॥ शयेतेति। अपिना सामग्रीप्राचुर्य सूचितम्। दयिता प्रकृतवनिता। दयि- तेति। स्वकान्तास्यकमलमित्यर्थः । इह रतिश्रान्तोक्तैव नायिका। अपरमखिलं पूर्ववदेव ।। एवं सानुरागरागमर्धोन्मीलितया केवलं पश्यन्तीमेव परमसौकुमार्यभरेणाति- तरसुरतान्तकान्तिवशेन पुनः प्रार्थनाशतेनाप्यालिङ्गनादिसंभोगप्रदानेSनुत्सुकतया केवलं खनिकटे शयानां जानकीं प्रति श्रीरामो रुक्मिणीं प्रति श्रीकृष्णो वा यदि त्वयाद्य मद्याज्ाशतेनापि स्वयंग्रहाश्लेषादिपूर्वकं रतिप्रदानं मह्ं न क्रियते तहिं मयेतःपरं श्वस्तनरात्रावत्र रतिमन्दिरे लां प्रति द्रुतं नैवागम्येत तदानीं त्वं याम- चतुष्टयवियोगसंतप्ता सत्यतीव व्याकुलीभविष्यसीत्यभिसंधाय कयाचिद्विरहिण्या साध्व्या सह कस्यचित्पान्थस्य संवादं कथयति- किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः। कथय तथापि मुदे ममकथयिष्यति पथिक तव जाया १०१ किमितीति। हे कृशोदरि। न तु तन्वि। एवं च मम नैसर्गिकमेव सर्वाज्ग- कार्श्यमतः कथमयं न त्वत्प्रश्नस्त्वामेव भ्रान्तत्वं नयेदित्यापत्तिः प्रत्युक्ता । त्वं

Page 138

१३२ भामिनीविलासे

किमिवि कृशासि। एतेन कारुणिकत्वं स्वस्य व्यज्यते। तेन यदि विरह्ृप्रयुक्तस्म- रशरव्यथया तथासि तर्हि तामहं सदः शमयिष्यामि सति त्वदानुकूल्य इति दयोत्यते। एवं चातुर्यातिशयेन तदाशयं निश्चित्य पातिव्रत्यादच्युतधर्यासौ तं तिर- स्करोति-किमित्यादिद्वितीयपादेन। तत्रापि 'कामातुराणां न भयं न लज्ा' इत्युक्तेस्तादृक्तादेव तद्वचोमात्रलाभलालस्येन पुनः पृच्छति-कथयेति तृतीयेन। पुनरतितिरस्कृतावपि स नैवोपरमेदिति स्वस्याः साध्वीत्वं ध्वनयन्ती तमुपरमन्ती चोत्तरयति-कथयिष्यतीति चरमेण। एवं च सा यथा लद्विरहेण साध्वी चेत्कृ- शैव तवयावलोक्येत तथाहमपि स्वकान्तवियुक्तत्वात्कृशास्मीत्यतस्तया शीघ्रं सगृहं प्रत्येव गन्तव्यमित्याशयः । प्रकृते तु तस्मात्त्वयाधुना मद्वचनादरं कृत्वा मह्यमा- लिङ्गनाद्यखिलरतिसुखं पुनरपि शीघ्रं देयमेव सुप्रसन्नतयेति तात्पर्य भगवतः। अत्र प्रकृतौ रतान्तकान्तचतुरतरस्मरातुरौ सवकीयावेव मध्याधीरललितौ नायिका- नायकौ। संभोगः शज्गारः। अप्रकृतौ तु परकीयौ विरहिणीसतीपान्थकामुकौ। विप्रलम्भः शङ्गारः। उक्तिप्रत्युक्तिरलंकारः ॥

ततः संजातविवेका तावत्कालविलम्बेन पुनराविर्भूतमदना च सीता श्रीरामेण रुक्मिणी वा श्रीकृष्णेन सुप्रसन्नत्वेन खमालिङ्गनादि प्रयच्छन्ती तद्रात्रौ यथेच्छ- मुपभुक्तापि प्रातःकाले व्युत्थिता सती गृहदीर्धिकावर्तिबिसिनीविकासमनु निर्मुक्त- षद्पदैस्तद्वदने निरुपमारविन्दत्वं सार्वकालिकविकासशालितादिना निर्णीय लोको- त्तरमकरन्दादिलोभेन तत्र परिभ्रमणे विधीयमाने तदीक्षणवशेन पुनः समुद्दीपितम- दनविकारतया तदघरामृतपानयाचने कृते सति 'प्राणं वा एते प्रस्कन्दन्तिं यहिवा रत्या संयुज्यन्ते' इति श्रुतेर्दिवा रतिविषयकनिषेधे जागर्ति सति किमिदं स्मरपा- रवश्यं विश्वेशनशीलानां सर्वज्ञानामपि भवतामित्याशयेन बहिरतिसक्रोधवीक्षण- परैवेक्षन्ती कंचित्किमित्यद्य प्रातरुत्थाने विलम्बोऽभूदिति पृच्छन्तं रहःसुहृदं प्रति सोदन्तं तदृश एव सर्वोत्कृष्टत्वेन वर्ण्यन्ते- वदनारविन्द सौरभलोभादिन्दी वरेषु निपतत्सु। मय्यधरार्थिनि सुदृशो दशो जयन्त्यतिरुषापरुषाः॥१०२॥ इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे भङ्गारविलासो द्वितीय:।

Page 139

शृङ्गारोह्लासः । १३३

वद्नेति। हे मित्र, वदनं प्रकृतकान्ताया मुखमेवारविन्दं कमलं तस्य यत्सौ- रभं सौगन्ध्यं तस्य यो लोभोऽभिलाषस्तस्मादित्यर्थः। इन्दीवरेषु। 'भ्रमरश्चश्वरीकः स्याद्रोलम्बो मधुसूदनः । इन्दीवरः पुष्पकीटो मधुद्रो मधुकेशटः ॥' इति त्रिका- ण्डशेषाद्भमरेष्वित्यर्थः। निपतत्सु वदनपद्ममभितः परिभ्रमत्सु सत्सित्यर्थः । तदा- नीमेवोद्दीपनवशादधरार्थिनि तदधरामृतपानेच्छौ मयि विषये। सुदृशः प्रकृतमृ- गाक्ष्याः । अतिरुषापि परमकोपेनापि। अपरुषा इति छेदः। अकठोरा एव। एतेन हार्दप्रेमा ध्वन्यते। एतादृशो दशो दृष्टयो जयन्ति कोपेऽप्यपरुषत्वादेव सर्वोत्क- र्षेण वर्तन्त इति योजना। इह धर्मबोधिनी स्वकीया मध्यैव नायिका। गुणज्ञो नायकः। संभोग एव श्ृद्गारः। ्रान्त्यादिरलंकारः। जयवर्णनादन्ते मङ्गलमपि ॥

इति प्रणयप्रकाशे द्विनीय: प्रमोद: ।

Page 140

करुणविलासः। तृतीय: प्रमोद्:। एवं तृतीयः कामाख्यः पुरुषार्थोऽपि स्वकीयया सहैव संपादो न परकीय- यापि सह नापि परकीययैव सहेति श्रीरामादिनिदर्शनेन द्योतयित्ाधुना क्रमप्राप्तस्य मोक्षाख्यचतुर्थपुमर्थस्य ज्ञानैकसाध्यलात्तस्य च भक्तिविरत्त्यादिप्रयोज्यत्वात्तस्यापि प्रायः शोकमन्तरा संभवाभावान्निर्वेदस्थायिभावाख्यं शान्तरसं चतुर्थविलासे वर्ण- यिष्यन्नत्र तृतीये विलासे शोकस्थायिभावं करुणरसं श्रीरामस्य सीतारसातलप्रचे- शोत्तरकालिकैर्वाक्यैरेव व्यनक्ति-दैवे परागित्याद्या प्रकरणसमाप्ति। दैवे पराग्वदनशालिनि हन्त जाते याते च संप्रति दिवं प्रति बन्धुरते। कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवाधिम्॥१॥ दैवे इति। जानक्या रसातलप्रवेशादिकं तूकतं महारामायण एवोत्तर काण्डे- 'सर्वान्समागतान्दृष्टा सीता कौशेयवासिनी। उदझुखा ह्यधोदृष्टिः प्राञ्जलिर्वाक्यम- ब्रवीत्॥ यथाहं राघवादन्यं मनसापि न चिन्तये। तथा मे माधवी देवी विवरं दातु- मर्हति ॥ तथा वदन्त्याः सीतायाः प्रादुरासीत्समन्ततः। भूतलाददिव्यमत्यर्थ सिंहा- सनमनुत्तमम् ॥ ध्रियमाणं शिरोभिस्तदुदतिष्ठद्दुरासदम्। दिव्यं दिव्येन वपुषा नागैरमितविक्रमैः ॥ तस्मिस्तु धरणीदेवी सीतां संग्रह्य बाहुना। सागतं तेत्युवा- चैनामासने चोपवेशयत् ॥ तामासनगतां सीतां प्रविशन्तीं रसातलम्। पुष्पत्ृ- ष्िरविच्छिन्ना दिव्या सीतामवाकिरत् ।।' इत्याद्यासर्गान्तं तद्विस्मयादिकमु- क्ताग्रिमसर्गे तावच्छीरामशोकोऽप्युक्त :- 'दण्डकाष्ठमवष्टभ्य शोकव्याकुलिते- न्द्रियः। अवाक्शिरा दीनमना रामोऽप्यश्रूण्यवर्तयत् ॥ क्रोधशोकस्रमाविष्टो रामो वचनमन्रवीत् । अभूतपूर्वशोको मे पुनः संदष्टमिच्छति ॥' इति । हे मनः । एतेन वस्तुतः सवस्याखण्डानन्दाद्वैतसच्चिदानन्दव्रह्मकरूपतवेन शोकलेशस्याप्यभा- वेऽपि लोकानुप्रहार्थ मायिकमनुष्यनाट्यपटुलीलाविग्रहशालितया जगदीशस्यापि मे यदा विषयसङ्गेन शोकत्वं तदा जीवकोटिनिविष्टानां भवतां कैव कथेत्यतः सर्वात्मना विषयसङ्गपरित्याग एवाहरहः कार्य इति मनःसंबोधनतात्पर्य व्यज्यते। दैवे प्रारब्धकर्मणि। परागिति। पराखुख इत्यर्थः । जाते सति। चः समुचचये। अत एव संप्रतीदानीं बन्धुरते 'बन्धु बन्धूकपुष्पे स्याद्वन्धुर्भ्रातरि बान्धवे' इति

Page 141

करुणविलास:। १३५

विश्वाद्वन्धूनां बान्धवानां सर्वसंबन्धिनां मध्ये रत्नमिव श्रेष्टं तस्मिन्। एतादृशे सीताख्ये कलत्र इति यावत्। हन्तेति खेदे। दिवं प्रति रसातलाभिधबिलस्र्ग प्रतीत्यर्थः। याते गते सति। एवं चैतस्य दुष्परिहरत्वाद्वक्ष्यमाणाक्षेपार्हदुःखहेतुत्वं ध्वन्यते। त्वं निजां स्वकीयाम्। अवस्थां लोकोत्तरशोकदशां कस्मै कथयितासि। न कस्मा अपीत्यर्थः । एतेन 'सुहृदि निरन्तरचित्त गुणवति भृत्ये प्रियासु योषित्सु। करुणाशालिनि भूपे निवेद्य दुःखं सुखी भवति ॥' इत्युक्तदुःखशामकस्थलवैकल्यं व्यज्यते। तेनास्य दुःखस्य लोकविलक्षणत्वं सूच्यते। अत एव कः शीतलैः शिशि- रैर्वचनैरमृतोपमसान्तवाक्यैरित्यर्थः । तवाधि शमयिता। न कोऽपीत्यन्वयः । एवं च निरवधिक एवायं शोकस्तवेति भावः । इह यावत्प्रकरणसमाप्ति संतप्तो नायकः । करुण एव रसः । काव्यलिङ्गादिरलंकारश्च तत्र तत्र यथार्थमूह्यः ॥ प्रत्युद्गता सविनयं सहसा पुरेव स्मेरैः स्मरस्य सचिवैः सरसावलोकैः। मामद्य मश्ुरचनैर्वचनैश्च वाले हा लेशतोऽपि न कथ शिशिरीकरोषि॥ २ ॥ प्रत्युद्गतेति। अयि बाले। यद्यप्यस्यास्तदानीं परोक्षत्वेन संबोधनानर्ईतमेव तस्य प्रत्यक्षैकविषयत्वात्तथापि वक्तुर्विरहोत्कर्षेण तदेकमनस्कतया मानसीं तां पुरःस्थितामिवेक्षित्वैव तदौचित्यमिति ज्ञेयम् । एवमेवाग्रेऽपि यावत्संबोधनेषु बोध्यम्। त्वं पुरेव प्रागिव। एतेन स्मृत्याख्यव्यभिचारिभावो व्यज्यते। सहसा। एवं च सवागमनजन्यसंभ्रमः सूच्यते। तत्रापि सविनयं विनयपूर्वकं यथा भवति तथा न त्वौद्धल्येन। एतेन सतीधर्मधौरेयत्वं ध्वन्यते। प्रत्युद्रता। खरतिमन्दि- रान्मन्दं मन्दं यदभिमुखमागता सतीत्यर्थः। स्मरस्य मदनस्य सचिवैः। सरमर्थस- हायैरित्यर्थः । इदं हि विशेषणं सर्वतृतीयाबहुवचनान्तविशेष्येष्वपि योज्यम्। एता- दृशै: स्मेरैर्मन्दहासैः । तथा। सरसेति। सप्रेमनिरीक्षणैरित्यर्थः । एतेन रत्युत्कर्षः सूचितः । तथा। मजजिवति। भोः प्राणनाथ, चरणारुणराजीवरेणवोऽनन्यया मयादेदं मोदेनैवाद्य निवेदत इत्यादिरूपातिरम्यरचनैरित्यर्थः । एतेन लौकिक- शास्त्रीयोभयचातुरीचमत्कारचश्चुरत्वं सूचितम्। एतादृशैर्वचनैश्र वाक्यैरपीत्यर्थः । हा इति खेदे। एवं च तत्कालं मूर्च्छया भूतलनिपातो द्योत्यते। मां लेशतोऽपीष- दपि कथं न शिशिरीकरोषि शीतलयसीत्न्वयः॥

Page 142

१३६ भामिनीविलासे

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदगलिता विमुखीबभूव। सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव॥ ३॥ सर्वेऽपीति। अत्र कमात्पूर्वार्धपादाभ्यां गीतादिविषयान्तरैश्चित्तशान्तिसं पादनमद्वैतचितिचिन्तनेन वा तत्संपादनं च व्युदस्तम्। अपिशब्दाभ्यां शोको- त्कर्ष: सूचितः । एवमुत्तरार्धेन तु सीताविषयकं श्रीरामस्य ताटस्थ्यं ध्यानतो ध्वनि- तम्। शिष्टं सर्व स्पष्टमेव । 'पृथुकः शावकः शिशुः' इत्यमरः । उपमालंकारः ॥ निर्वाणमङ्गलपदं त्वरया व्रजन्त्या मुक्ता दयावति दयापि किल त्वयासौ। यन्मां न भामिनि निभालयसि प्रभात- नीलारविन्दमदभङ्गकरैः कटाक्षैः॥४॥ निर्वाणेति। भो भामिनि। एतेन 'कोपना सैव भामिनी' इति कोशात्क कोपवशादन्तर्धानभापन्नासीत्युत्प्रेक्षा व्यज्यते। त्वं यद्यस्मात्कारणान्माम्। प्रभा- तेति। प्रभाते प्रातःकाले यानि नीलारविन्दानीन्दीवराणि। एतेन तेषां विकासो- न्मुखत्वं तात्कालिकपवनचापल्यं च सूचितम्। तेषां यो मदः सौन्दर्यगर्वस्तस्य यो भङ्गस्तं कुर्वन्तीति तथा। एवं च कटाक्षेषु लोकोत्तरनीलतचापल्यादि च द्योत्यते। एताहरैः कटाक्षन निभालयसि नैवावलोकयसि। तस्माद्वे दयावति नैसर्गिकानुकम्पाशालिनि प्रिये। निर्वाणेति। अमृतरूपाद्वैतशिवात्मस्थानमित्यर्थः । अत एव लरया शीघ्रं व्रजन्त्या गच्छन्त्या एतादृश्या तयासौ स्ाभाविकत्वेन प्रसिद्धा। दयापि मद्विषयककृपापि मुक्ता किल त्यक्तवेति संबन्धः । न हि धर्म- सत्वे निर्धर्मककैवल्याप्तिर्घटत इत्याकूतम् ॥ धृत्वा पदस्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे। सा मां विहाय कथमद्य विलासिनि द्या- मारोहसीति हृदयं शतधा प्रयाति ॥५॥ धृत्वेति। 'अश्मेव त्वं स्थिरा भव' इति मत्र्रेण कन्यायाः शिलाधिरोहणं प्रसि- द्धमेव वैवाहिके। दाम्। बिलस्वर्गाख्यरसातलगमनप्रार्थनक्षणाविर्भूतभूमिदेव्यक्वि

Page 143

करुणविलासः । १३७

तरत्नससिंहासनमित्यर्थः । विलासिनीति संबोधनेन स्वाभाविकविलासस्तव मां विना कथं सिध्धेदतः खवर्गाप्तिरपि निःस्भावत्वेन स्वरूपशून्यायाः कथं पुरुषार्थ इत्या- क्षेपान्तरमपि द्योत्यते। इति हेतोमें हृदयमिति योजना ॥ निर्दूषणा गुणवती रसभावपूर्णा सालंकृतिः श्रवणकोमलवर्णराजिः। सा मामकीनकवितेव मनोभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६॥ निर्दूषणेति। विशेषणचतुष्टयं तु पक्षद्वयेऽपि स्पष्टमेव। श्रवणेति। श्रवणं श्रोत्रं तस्य कोमलानुद्वेजकत्वादतिप्रिया वर्णराजिर्मणितादिक्षणोच्चारिताक्षरपङ्गि:। पक्षे 'तपःस्ाध्यायनिरतम्' इत्यादिग्रथिताक्षरसरणिर्यस्याः सा तथे त्यर्थः । एतादृशी सा पूर्वानुभूता। मामकीनेति। ममेयं मामकीना मदेकमुख्यवर्णनपरत्वेन मत्संब- न्धिनी श्रीमद्वाल्मीकिविरचितमहारामायणाभिधकवितेवेति यावत्। स्पष्टमन्यत्। अत्र कविवाक्यत्वभ्रान्तिस्तनालोचित पूर्वापर तात्पर्यतया विदुषामपि केषांचिदास्तां नाम परिपक्काम्रफलविशेषे सिन्दूरधीरिव का नः क्षतिस्तावतास्वादितरसानाभितर- रसानां चेति दिक्॥ चिन्ता शशाम सकलापि सरोरुहाणा- मिन्दोश्च बिम्बमसमां सुषमामयासीत्। अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥ चिन्तेति। असमामतुल्याम्। निरुपमामित्यर्थः । अयासीत्। प्रापेति यावत्। शिष्टं तु स्पष्टमेव। इह क्रमेण त्रिपाद्यां चरमचरणेन सीतालोचनादेराननस्य स्वनस्य चाभावो हेतुत्वेन ध्वनितः ॥l सौदामनी विलसित प्रतिमानकाण्डे दत्वा कियन्त्यपि दिनानि महेन्द्रभोगान्। मत्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी- र्भाग्यच्युतस्य करतो मम निर्गतासि ॥८॥ सौदामनीति। 'तडित्सौदामनी विद्युत्' इत्यमराद्विद्युद्विकीडितसमत्वेन क्षणिकानित्यर्थः। एतेन दशसहस्त्रवर्षपर्यन्तत्वेऽपि वक्ष्यमाणविषयभोगेष्वनुपम-

Page 144

१३८ भामिनीविलासे

सुखत्वेन तद्धंसकाले क्षणिकत्वमतिरुचितैवेति द्योतितम्। एतादृशान्। महेन्द्रेति। महानिन्द्रो येन 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेर्हिर- ण्यगर्भान्तसकलविषयानन्दकूटस्थस्याद्वैतब्रह्मानन्दस्यैव ये भोगा इव तानित्यर्थः । एतेन तेष्वलौकिकविषयानन्दत्वं व्यज्यते। कियन्त्यपि दिनानि यत्कंचित्कानि- चिदहानि। मन्त्रेति। मन्त्रेण संध्यादिकरणगूढ विचारेणोज्जितस्त्य क्तस्तस्य। विष- यासत्त्या प्रमादेन तस्य विस्मृतत्वेनैतस्य दौध्यमवेक्ष्यते। नैव परित्यक्तस्यैवे- त्यर्थः । मम करतोऽकाण्डेऽनवसर एवाकस्माद्वा निर्गतासीति संबन्धः । केनापि मे विलसितेन समुद्रतस्य कोपस्य किं नु करभोरु वशंवदाभूः। यन्मां विहाय सहसैव पतिव्रतापि यातासि मुक्तिरमणीसदनं विदूरम्॥ ९॥ केनापीति। विलसितेन। लीलाचरितविनोदादिनेत्यर्थः। समुद्रतस्याविर्भू- तस्य। वशंवदा। स्ाधीनेत्यर्थः । अभूः किं नु। मुक्तीति। एवं च सख्यात्प- तिव्रताया अपि तव तत्र गमनौचित्येऽपि पातिव्रत्यादेवेदमनुचितमेवेत्यपिना ध्वन्यते। शिष्टं तु स्फुटमेव ।। काव्यात्मना मनसि पर्यगमन्पुरा मे पीयूषसारसरसास्तव ये विलासाः। तानन्तरेण रमणीरमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १० ॥ काव्यात्मनेति। हे रमणीरमणीयशीले रमणीनां सुन्दरीणां मध्ये रमणीयं पातिव्रत्यादिगुणैलोकोत्तरं शीलं चारु चरितं यस्या: सा तथा। तत्संबुद्धावि- त्यर्थः । एतेन भार्यान्तरोद्वाहशङ्का प्रत्युक्ता। पुरा मे मनसि तव ये विलासा: काव्यात्मना। श्रीवाल्मीकिविरचितम हारामायणात्मककाव्यरूपेणेत्यर्थः। तत्र सीता- वर्णनस्य प्रचुरतरसत्त्वात्। पर्यगमन्। पूर्व तच्छिष्यकुशलवगीतश्रवणद्वाराभिसं- जग्मुरिति यावत्। 'पर्यणमन्' इति पाठे तु परिणामप्राप्ता इत्यर्थः । परिणामो हि तात्त्विकोऽन्यथाभावः । स तु प्रकृते वास्तविको नैव संभवति। विलासानां विलो- लावलोकनादीनां क्रियाविशेषात्मकत्वेन त्रिक्षणावस्थायित्वात्काव्यस्य च प्रबन्धवि- शेषात्मकत्वाच्च दुग्धदध्यादिवत्तयो: परिणामिपरिणामभावस्य हिमहेमाचलवत्ख-

Page 145

करुणविलासः । १३९

प्रेऽप्यसंभावितलात्। तस्मादत्रानन्दजनकत्वमात्रसादृश्येनोभयो: कार्यकारणभावः परिणामालंकारध्वननार्थमारोपित इत्येवावश्यं वाच्यम्। तत्रापि ताद्ड्विबन्धाभि- व्यञ्जकपुस्तकमात्रेण नैव रसोत्पत्तिः किंतु तद्यज्जितशब्दश्रवणादिनैवेति सर्वानुभ- वसिद्धम्। तथा च प्रकृते निरुक्तमहारामायणनिबन्धश्रवणद्वारा जायमानमानस- वृत्तिविशेषरूपे रसरूपानन्दजनके शाब्दबोध एव प्रकृतनायिकाविलाससमकक्षान- न्दजनकत्वेन तत्परिणामत्वोक्तिर्युक्तवेति दिक्। न चेदं वक्रमिवेति सांप्रतम्। प्रकृतस्य पद्यस्य रामवाक्यत्वोपपादनेनातिसारल्यात्। तानन्तरेण तद्राहित्येन। नोऽस्मद्वर्णनैकप्रधाना। अत एव सुकविता। निरुक्तरामायणाख्यमहाकाव्यरचने- त्यर्थः । चेतोहरा मन्मनोहरणनिपुणा कथं भविता भविष्यतीत्यन्वयः । यद्वा सुकविता नश्चेतोहरा कथं भवितेति संबन्धः ॥ या तावकीनमधुरस्मितकान्तिकान्ता भूमण्डले विफलतां कविषु व्यतानीत्। सा कातराक्षि विलयं त्वयि यातवत्यां राकाधुना वहति वैभवमिन्दिरायाः॥११॥

या तावकीनेति। हे कातराक्षि, या तावकीनेति। त्वदीयमुग्धस्मेरदीप्ति- वद्रम्येत्यर्थः । एतादृशी राका पूर्णमासीनिशा भूमण्डले कविषु वाल्मीकिप्रभृ- तिषु विफलतां सत्याम्। उक्तस्मितकान्तौ कि राकारजन्येति 'दष्ट चेद्वदनं तस्याः किं पद्मेन किमिन्दुना' इत्यादिवन्निष्प्रयोजनतामिति यावत्। व्यतानीत्। परि- विस्तारिताभूदित्यर्थः । तावकीनेत्यादि सप्तम्यन्तपाठे तु भूमण्डलविशेषणमिदम्। सा त्वयि विलयं यातवत्यां सत्याम्। अधुनेन्दिराया लक्ष्म्या वैभवमेश्वर्य वह- तीति योजना ।। मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीजे। सा नित्यमङ्गलमयी गृहदेवता मे कामेश्वरी हृदयतो दयिता न याति ॥१२ ॥। मन्देति। मन्दहासरूपयेत्यर्थः । यद्यपि स्मितपदस्येव 'ईषत्फुल्ल कपोलाभ्यां कटाक्षैरप्यनुल्बणैः । अदृष्टदशनो हासो मधुरस्मितमुच्यते ।।' इति शार्ईदेवोक्तेम-

Page 146

१४० भामिनीविलासे

न्दपदव्यावर्त्यव्यावृत्तिपूर्वकमृदुतबोधकत्वेन तस्य वैयर्थ्यमेव, तथापि शोकपारव- श्येन प्रकृतवक्तुस्तादृगनवधानध्वनने करुणरसपरिपोषकत्वात्सार्थक्यमेवेति ध्येयम्। सुधयामृतेन। या मां परिषिच्य विकसितैः। नेत्रेति। नयनेन्दीवरैः। बहुवचनं तु तत्कटाक्षाभिप्रायेणैव। अनिशं समीजे सम्यगाराधयामासेत्यन्वयः। कामेति। कामस्येश्वरी। दातृत्वेन नियन्त्रीत्यर्थः । शिष्टं तु सरलमेव। गरृहदेवता हि लोके गृहिभि: पूज्यतेऽभिषेकाद्युपलक्षितानेकोपचारैः । प्रकृते तु सैवैनमर्चयामासेति महदाश्चर्यम्। स च पुमर्थावधिश्च ध्वनितः ॥। भूमौ स्थिता रमण नाथ मनोहरेति संबोधनैर्यमधिरोपितवत्यसि द्याम्। स्वर्ग गता कथमिव क्षिपसि त्वमेण- शावाक्षि तं धरणिधूलिषु मामिदानीम्॥ १३॥ भूमाविति। हे एणशावाक्षि, त्वंभूमौ स्थिता सती यम् 'रमण, नाथ, मनोहर' इति संबोधनैर्द्या सवर्गमधिरोपितवत्यसि। तं मामिदानीं स्वर्ग गता सती धरणि- धूलिषु कथमिव क्षिपसीति योजना। एणो हरिणस्तस्य शावः शिशुः। स्पष्टमपरम्॥ लावण्यमुजवलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च। पतान्गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गतासि॥ १४ ॥ लावण्यमिति। उज्वलं लावण्यमित्यादि यथाक्रम मेकैकविशेषण मेकैकस्मि- न्गुणेऽन्वितं बोध्यम्। अशरणान्न विद्यते शरणं रक्षितृ येषां तान्। एतेनान्य- त्रैते नैव वर्तन्त इति द्योतितम्। एतादृशानेतान्गुणान्। अथ मां चेत्यादि सरल- मेव। एवं च साहचर्यात्स्स्याप्यशरणत्वं व्यज्यते। त्रिदिवं तृतीया दौर्यस्मात्स त्रिदिवः । पूर्वोक्तरीत्या भौमस्वर्गस्थमित्यर्थः ॥ कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखा: परितः क्षिपन्तीम्। चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो इदाह ॥ १५ ॥

Page 147

करुणविलासः। १४१

कान्त्येति। सिविरिकाः । अिसंबन्धिनीरित्यर्थः । शिखा ज्वालाः । क्षिपन्तीम्। तिरस्कुर्वाणामिति यावत्। चेतोहरामपि मनोहरामपि। हे कुशेशयलोचने। अयि शतपत्रनेत्रे इत्यर्थः । लाम्। कोपकलुषः । प्रागुक्तखवशिखातिरस्कारित्ा द्गौरिमादि- गुणगरिमजन्यरोषदूषितचित्तः सन्निति यावत्। तत्रापि स्वभावाद्दहनः कृशानुरेव ददाहेत्यहं जानामीति गम्योत्प्रेक्षया संबन्धः। यद्यप्यत्र सीता प्रत्यक्षतो रसातलं

अपिना दाहानौचित्यं द्योत्यते। एवं परया शुध्ेति परमपातिव्रत्यम्॥ कर्पूरवर्तिरिव लोचनतापहन्री फुल्लाम्बुजस्त्रगिव कण्ठसुखैकहेतुः। चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६ ॥ कर्पूरेति। 'अनुकोशोऽप्यथो हसः' इत्यमरादमरीव हि सा। अमरीव देवीव। एतादशी सा प्रकृता सीता। इदानीं नरीभिर्नरत्त्रीभिर्नम्या स्वर्गतलेन नमस्कारारहा एतादृशी विरेजे शुशुभ इति योजना। एवं चैतावत्कालं तासाम- प्यसौ दृष्टिगोचरापि नाभूदिति तदीक्षणदौर्लभ्यं ध्वन्यते। तत्र हेतुरवशिष्टत्रि- पाद्या रम्येति कविताविशेषणमेव। एवं च सबाह्याभ्यन्तरिन्द्रियकायसुखसा- धनतं तस्यां ध्वनितम् ॥ स्वम्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यसि न कंचन साभिलाषम्। सा संप्रति प्रचलितासि गुणैर्विहीनं प्रामुं कथं कथय हन्त परं पुमांसम् ॥।१७॥ स्वप्नान्तरेऽपीति। हे भामिनीति। एतेन 'कोपना सैव भामिनी' इत्यमरात्किं कोपविशेषपारवश्यादेवैवं कृतवत्यसीत्युतप्रेक्षा ध्वन्यते। या वं खप्रान्तरेऽपि पत्यु- रन्यं साभिलाषं यथा भवति तथा कंचन न खलु दृष्टवत्यसि। सा संप्रति। हन्तेवि खेदे। गुणैर्विहीनम्। एतेन परकीयाणामपि तत्राभिलाषविषयताभावात्क पुनः स्वकीयायास्तव तथातमिति द्योत्यते। एतादृशं परं पुमांसमद्वैतात्मानं प्रापुं कर्थ प्रचलितासीति कथयेत्यन्वयः ॥ भा० वि० १०

Page 148

१४२ भामिनीविलासे

दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत्। अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि॥ १८ ॥ दयितस्येति। दयितस्य प्रियस्य। ममेति यावत्। गुणाननुस्मरन्ती एता- दशी या संप्रतीदानीं शयने विलोकितासीत्। हन्तेति खेदे। सा कृशान्गी भाषि- तापि गिरमपि निरुक्तवाक्यावलिमपि। अधुनेदानीमेव नाज्गीकुरुते खल नैव प्रत्युत्तरप्रदानेन चेष्टासूचितानुमोदनेन वा खवीकरोतीति संबन्धः। शोकजन्यो- न्मादवशादेवेदं सर्वमित्याशयः । अन्यथा रसातलप्रवेशोत्तरं तद्दर्शनादेः सुतरा- मसंभवात् ।। अथ ब्रह्मादिभिर्बोधितः सन् श्रीरामः किंचित्सावधान इव तद्वाक्यादेः सर्वज- नस्वव्यत्वं व्यनक्ति- रीति गिराममृतवृष्टिकरीं तदीयां तां चाकृति कृतिवरैरभिनन्दनीयाम्। लोकोत्तरामथ कृति च सुधारसार्द्रो स्तोतुं न कस्य समुदेति मनःप्रसारः॥१९॥ इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे करुणाविलासस्तृतीयः । रीतिमिति। कृतिवरैः। कुशलश्रेष्ठैरित्यर्थः । सुघेति। इदं हि विशेषणं विशेष्य- त्रयेऽप्यन्वेति। न च प्रथमेऽमृतेति विशेषणेन पौनरुत्त्यापत्तिः। शोभना धारा यस्यां सा सुधारा, आर्द्रया नक्षत्रविशेषेण सह वर्तत इति सार्द्रा। सुधारा चासौ सार्द्रा चेति तथा तामित्यर्थः। एतेन वृष्टौ पुष्टतरतवं सूचितम्। आकृतिपक्षे स्निग्धलम्। कृतिपक्षे रसातल प्रवेशरूपमहाशपथलक्षणपाति व्रत्यवीररसघटितलेन सरसत्वं च। तस्मादितःपरं वैदेही सर्वात्मना स्तव्यैव स्वैने तु तदुद्देशेन मया- न्येन वा शोक: कार्य इति तात्पर्यम्। इति प्रणयप्रकाशे तृतीयः प्रमोदः ।

Page 149

शान्तविलासः। चतुर्थः प्रमोदः। एवमहो सकलजगन्नियन्तुरनन्तकल्याणगुणनिलयस्य भक्तानुप्रहार्थमेव प्रकटीकृ- तमायिकलीलाविप्रहस्य वस्तुतः संविदेकरसस्य खप्रकाशसत्यज्ञानानन्तानन्दाद्वैतकूट- स्थब्रह्मरूपस्य भगवतः श्रीरामस्यापि यदा स्वधर्मैकरीत्या विषयान्भुअतश्वकवर्तिनो- पपि यदा प्रेयसीवियोगेन विचेकेतरप्रतीकारविधुरः शोकव्यतिकर एवं संपन्नस्तदा कैव कथा मादशस्य पामरतरस्येति संजातविचाराङ्कुरः प्रथमोल्लासप्रस्तुतः कश्षिन्न- रवरकुमारःसद्यः संपन्नवैराग्यभरः श्रुत्यन्तमहावाक्यैककरणकाशेषदृश्यशोकतरण- द्वारी भूताद्वैतब्रह्मात्मैक्य साक्षात्कारफल कद्वैतमिथ्यातानुभवस्य यावत्काम्यनिषिद्धव- र्जनपूर्व का नेकजन्मानुष्ठितवे दैकनिष्ठापूर्वकनि त्यादिस्वर्णाश्रम कर्मपरितुष्टान्तर्याम्ये- कप्रसादासादितचित्तशुद्धिसत्त्वे 'यस्य देवे परा भक्तिः' इति, 'भत्तया मामभिजा- नावि' इत्यादिश्रुतिस्मृतिप्रसिद्धभगवद्भत्तयेकसाध्यतया तदर्थ तमेव प्रार्थयते- विशालविषयावलीमलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्॥ १ ॥ विशालेति। इदम्। एतेन वर्तमानकालावच्छिन्नतं ध्वन्यते। तेन तरातिश- यात्तापप्राचुर्य सूच्यते। मदीयं मामकम्। मनोऽन्तःकरणं न तु चक्षुः। तेन प्रतिपाद्यनासत्तया विवेकपौष्कल्यं दयोत्यते। मुकुन्देति । 'मुकुन्दो मुरमर्दनः' इत्यमराद्विष्णुरेव मुकुन्दस्तस्य यन्मुखं वदनं तदेव चन्दिरः। 'चिदि आह्लादने' इति धातोरुणादिप्रत्ययविशेषाच्चन्द्रस्तस्मिन्विषय इत्यर्थः । 'चन्दिरोऽनेकपे चन्द्रे' इति विश्वः। चिरं न तु क्षणम्। प्रेमदार्द्य व्यज्यते। चकोरायतां चकोरवदाचरतु। स यथा लौकिकराकामकरे संसक्तो भवति तत्किरणामृतपानार्थमेवमिदमत्र ब्रह्मा- मृतपानार्थमासकतं भवतित्यन्वयः । ननु लौकिकचन्द्रे कामिनीमुखचन्द्र एव वा किमिति न तथातं प्रार्थ्यत इत्याशङ््य तयोः क्षयिष्णुचात्सर्वाशिकशोभावत्त्वेडना- दरबीजं व्यञ्ञयंस्तं विशिनष्टि-अमन्देत्याद्युत्तरार्धशेषेण। अमन्दमखण्डं मिल- न्तीन्द्विरा शोभा लक्ष्मीश्च यस्मिस्तत्रेत्यर्थः । एतेन प्रकृतचन्द्रव्यतिरेकः सूचितः। निखिलेति। सर्वमधुरिमाधार इति यावत्। एवं च सकामैककल्पितमधुंरिमाधाः रात्कामिनीवदनादसौ द्योत्यते। तेन प्रकृते नित्यनिरतिशयसौन्दर्यशालिलं सका-

Page 150

१४४ भामिनीविलासे

मनिष्कामसाधारणतृप्तिजनकदीप्यादिमालितं च क्रमात्सूच्यते। नन्वधिकारवि- रहे शशकशिशोः सिंहशौर्य प्रार्थनशतेनापि कथं घटेतेत्यतस्तद्विशिनष्टि- विश्वालेति। विशाला ब्रह्मलोकान्तलेन महती येयं विषयावली शब्दादीष्टविषय- पङ्कि: सैव वलयाकारा। एतेन पलायनादिना प्रतीकारायोग्यतं ध्वनितम्। एता- दृश्षी लमा संश्लिष्टा या दावानलस्य दावाने: प्रसटत्वराणां 'प्रसतवरः प्रसमरः' इत्य- मरात्प्रसरणशीलानां शिखानां 'अरचिर्हेति: शिखास्तिरियाम्' इत्यपि तदुक्तेर्ज्वाला- नामावलिस्तया विकलितमित्यर्थः । अत्रैकर्विशतिभत्त्यभिन्नः शान्त एव रसः। इह रूपकव्यतिरेककाव्यलिङ्गलुप्तोपमादयोऽलंकाराः ।। एवं व्यञ्ञयमर्यादया भगवन्तं तदेकाकारखान्ततामभ्यर्थ्य परमसंतप्तलेन विल- म्बासहिष्णुः साक्षादेवाथ तं प्रति तत्प्रतिबन्धमोचनपूर्वकसद्यस्तत्ताधायकं तत्क- पाकटाक्षच्छटामभिवाञ्छति- अये जलधिनन्दिनीनयननीरजालम्बन- ज्वलजवलनजित्वरज्वरभरत्वराभङ्गुरम्। प्रभातजलजोन्नमद्गरिमगर्वसर्वकषै- र्जगत्रितयलोचनैः शिशिरयाशु मां लोचनैः॥२॥ अये इति। इदं हि कोमलामन्त्रण अयिवत्। जलधीति। जलधिः क्षीराब्धि- स्वस्य नन्दिनी नन्दयति स्वयंवरेण भगवदेकपरायणतयानन्दयतीति तथा। न तु कन्यकामात्रमित्यर्थः । एतेन तस्यां पितृवंशोद्धारकत्वं ध्वन्यते। तस्या ये नय- ननीरजे नेत्रकमले तयोरालम्बनमिव निरुक्त्खवयंवरकाले तयो: सर्वत्र दोषदर्श- नवशात्कामसमुद्रमज्जमानलेन निरालम्बनतायां संपद्यमानायां लमेवानन्तकल्या- णगुणंनिलयलेनात्मदृध्या लसङ्गलेन चाश्रयीभूत इवेति तत्संबुद्धौ तथेत्यर्थः । एवेन खवप्रार्थनीयशिशिरीकरणसामश्रीप्राचुर्य शीतस्पर्शवत्त्वस्यासाधारणलक्षणलेन तव्निधौ तदाधिक्यं तन्नन्दिन्यां ततोऽपि तदाधिक्यं तल्लोचनपद्मयोस्ततोऽपि तदाधिक्यं तदालम्बने लयि ततोऽपि तदाधिक्यं तु कैमुत्यसिद्धमिति द्योत्यते। मां लोचनैर्वारंवारं सदयमालोचनैः । सकरुणकटाक्षनिरीक्षणैरिति यावत्। एतेन कामनौत्कण्ठ्येन संतापाधिक्यं ध्वन्यते। तेन प्रार्थितेक्षणमात्रतापि सूच्यते। तत्रापि आशु शीघ्रं न तु विलम्बेन । एवं च परमातुरत्वं सूचितम्। तेना- वश्यनिरीक्षणीयतं सूच्यते । शिशिरय शीतलीकुर्विति संबन्धः । सानुकम्पसत- तापाङ्ञावलोकनैस्तिविधताप संतप्तं मां भो भगवन्नद्वैतात्मतत्त्वसाक्षात्काराविर्भावनेन

Page 151

शान्तविलासः । १४५

'ज्ञाला शिवं शान्तिमत्यन्तमेति', 'ज्ञानं लब्वा परां शान्तिमचिरेणाधिगच्छति' इति श्रुतिस्मृतिसिद्धामविद्याध्वंसलक्षणां जीवन्मुक्तिलक्षणां वा शान्ति प्रति नये- त्याशयः । ननु कश्चिदविरक्तोऽपि द्रुतं मे मुक्तिं देहीतीश्वरमभ्यर्थयत्येव नैता- वता स तत्पात्रतामेतीत्याशक्ष तत्ताघटनायात्मानं विशिनष्टि-ज्वलदित्या- दिद्वितीयपादेन। ज्वलन्दीप्यमानो नतूत्पन्नमात्रः । एतेनासत्यतं व्यज्यते। एतादृशो यो ज्वलनः । 'ज्वलनो हव्यवाहन:' इत्यमरादननिस्तद्वजिलरो जयशीलः परधर्षकः एतादृशो योऽयं ज्वरः 'किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्' इति श्रुतिसिद्धद्वैतानुभवज्वरः । सर्वदा संतापकत्वाज्वर इव दुःखद इत्यर्थः । तस्य यो भर आधिक्यं तेन या खरा विलम्बासहिष्णुता तया भङ्गरः क्षयिष्णुसत- मित्यर्थः । एतेनातितमकारुण्यास्पदत्वं व्यज्यते। ननु भवतेवमथापि मदवलोक- नेषु तादृशतापहारकत्वादिकं कुतस्त्यमित्याशङ्य तानि विशिनष्टि-प्रभातेत्याद्यु- त्तरार्धशेषेण। प्रभाते यानि जलजानि कमलानि। एतेन विकसदवस्थलं द्योति- तम्। तेषां य उन्नमन्नुच्चतमोऽपि भाराजयमानः । एवं च गर्वे निरतिशयलं व्यज्यते। एतादृशो यो गर्वस्तस्य सर्वकषाणि सर्वस्यापहारकाणि तैरित्यर्थः । एतेन शिशिरीकारविशारदलं ध्वनितम्। जगदिति। जगत्रितयं त्रैलोक्यं लोच- यन्त्यालोचयन्तीति तथा तैरित्यर्थः। एवं च सर्वज्ञजन्यलेन खवात्मज्ञानजनन- द्वारा साज्ञानदलनदक्षलं द्योतितम्। अत्र प्रतीपविशेष: परिकरः परिकराक्कुरा- दिश्वालंकारः । एवं साक्षाद्भगवन्तं प्रति साभीष्टं संप्रार्थ्य, अथ 'परोक्षप्रिया इव हि देवाः' इति श्रुतेः परोक्षलेनापि तत्प्रार्थयते-स्मृतापीत्यादिद्वाभ्याम् । स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दनगनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥। ३॥ स्मृतापीति। कापि स्वरूपतः 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतेरवाङ्नस- गम्येति यावत्। एतेन 'कृषिर्भूवाचकः शब्दः' इत्यादिश्रुतेः, 'कृष्णस्तु भगवान्स्यम्' इंत्यादिस्मृतेश्र श्रीकृष्णस्य पूर्णावतारतं द्योतितम्। अत एव कादम्बिनी भक्तानु- भहार्थ गृहीतमायिकलीलानीलविभ्रहनटनपाटवलेन नवनीरदपङ्कि रेवेत्यर्थः। 'काद-

Page 152

१४६ भामिनीविलासे

म्बिनी मेघमाला' इत्यमरः। मदीयेति। ममेयं मदीया। मामकीनेति यावत्। एतादृशी या मतिर्बुद्धिस्तां चुम्बतीति तथा। मह्ठुद्धिचुम्बनकत्रीं भवतिति योजना। यद्वा निरुक्तश्री कृष्णाख्यब्रह्मण आत्मलेन खबुद्धेरवश्यं तदाकारतासंभवादुक्तप्रार्थनानर्थ- क्यमेवेति यदि विभाव्यते तदा तत्संभवस्य याथा्थ्येऽपि तत्र दृश्यावच्छिन्नतदा- कारत्वसत्त्वेन निरवच्छिन्नतदाकारताजन्यानन्दानुभवाभावादवच्छेदकमात्रव्युदस- नस्यैव प्रार्थनीयत्वात् हर्षयति उन्मादयतीति वा व्युत्पत्त्या मदः कामस्तस्येयं भदीया सा चासौ मतिश्वेति प्राग्वदेव। एवं च कामबुद्धिचुम्बनकत्री भवतिति प्रार्थना। एवं च बुद्धावुक्तभगवन्मूर्तावाविर्भूतायां सत्यां सा तावन्मुमुक्षुं मां मनोरमास्मार- कत्वादिना नैव पीडयिष्यतीति नान्तरीयकतयेव मन्मतिः सवसरूपशान्तैव स्यादि- त्याशयः। तदुक्तं श्रीमत्सुरेश्वरवार्तिके-'अनात्मादर्शनेनैव परात्मानमुपास्महे' इति। ननु स्त्रियाः स्त्रीचुम्बनमनुचितमेवेति चेत्सत्यम्। शद्गारस्थायिभावाख्य- रतिमूलकस्य तस्य तथालेऽपि 'रतिर्देवादिविषया व्यभिचारी तथाश्चितः । भावः प्रोक्तः' इति काव्यप्रकाशकारिकोक्तदेवादिविषयकभावात्मकरतिमूलकस्य तस्य दुहि- तरि जनयित्र्याः सांशाधिक्येन पुत्रापेक्षयापि प्रेमाधिक्यस्य लोकादाववलोकित- लेनेश्वरस्य समष््युपहितलेन व्यष्टिभूताया मद्ठुद्धेः कामबुद्धेर्वा जन्यलेन मातृ- दुहितृभावात्प्रेमोत्कर्षेण सुतरामुचितत्वात्। एतेन 'तस्यैवाहं ममैवासौ स एवा- हम्' इति श्रीमन्मधुसूदनसरस्तीभिर्गीताटीकोपोद्दाते सामान्येन वर्णितभक्ति- त्रैविध्यमध्ये द्वितीयभक्तिरियमिति ध्वन्यते। द्वितीयपक्षे तु तृतीयैव। ननु नहि प्रार्थनमात्रेणार्थसिद्धिः प्रायः क्वचिदपि दृष्टचरा, नापि निर्गुणायास्तस्याः सत्यपि मायिकोक्तलीलाविग्रहप्रहे संभवति संस्कारमन्तरा निरुक्त्तचुम्बनरचनावलम्बनं, नापि नीलरूपवत्त्वमात्रेणेन्द्रनीलादिवत्कादम्बिनीरूपकं सुकरमित्याशङ्क्य तस्यां

वनविहारिताच्चात्युचितमेवेदं मदुक्तमिति तद्विशेषणमिषेण त्रिपाद्या समाधत्त- स्मृतापीत्यादिना। अपिना चिन्तामण्यादिवैलक्षण्यं द्योत्यते। प्रसिद्धघनावलीव्य- तिरेकश्च। एवमभङ्गरपदेनापि प्रसिद्धविद्युद्विलक्षणलम् । तथा कलिन्दनगन- न्दिनी यमुना तत्तटे ये सुरद्रुमाः कल्पतरवस्तानालम्बत आश्रयत इवि तथेत्यने- नापि प्रसिद्धघनावलीव्यतिरेकश्च। इह रूपकं व्यतिरेकश्चालंकारः ॥ कलिन्दनगनन्दिनीतटवनान्तरं भासय- न्सदा पथि गतागतश्रमभरं हरन्प्राणिनाम्।

Page 153

शान्तविलासः । १४७

लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ कलिन्देति। कलिन्दनगनन्दिनी यमुना तस्या यत्तटं तीरं तत्र यद्दन्दावना- दिवनं तस्य यदान्तरमन्तरालं मध्यवर्तिस्थलमित्यर्थः । भासयन्ख्कान्त्या दीप- यन्। एतेन प्रसिद्धतमालव्यतिरेको द्योत्यते। तथा सदा न तु मध्याह्न एव। तन्रापि ग्रीष्मादावेव। पथि संसारमार्गे। प्राणिनां जीवानाम्। गतागतेवि। ऊर्ध्वाधोगमनागमनजन्यक्लेशातिशयमिति यावत्। एतेनापि स एव। तथा। लतेति। लतानां कनकलताकारकृशपीतसरलदीप्तगौराङ्गीणां गोपकन्यकानामि- त्यर्थः । या वलयः पङ्कयस्तासां शतानि तैरावृतो वलयित इत्यर्थः । एवं च रास- कीडाकालिकत्वमपि व्यज्यते पूर्वपद्यवत्। मधुरया चन्द्रिकयेवातिस्त्िग्धया न तु विग्मयापि। रुचा कान्त्या संभृतः सम्यक् नैसर्गिककान्तिमत्त्वलक्षणेन। समी- चीनलेनेत्यर्थः । भृतः परिपुष्टः । एतेनाप्यसावेव। एतादृशस्तमालद्रमः श्याम- वर्णवत्त्वसाधर्म्याच्छ्रीकृष्णाख्यः कश्चितापिच्छवृक्ष इत्यर्थः । मम श्रमाना- धिभौतिकादित्रिविधतापान्। आशु द्रुतम् । न तु विलम्बेन। एवं च स्वस्य परमौत्सुक्यं सूच्यते। अतितमां पुनस्तद्द्ानप्रागभावासमानकालीनां यथा स्यात्तथा हरतिति संबन्धः। एतेन सकार्यकाज्ञानध्वंसनाभ्यर्थनं ध्वन्यते। अत्रा- प्युक्तावेवालंकारौ।। ननु 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति श्रुतेः, कर्मणैव साधुत्वं स्यात्। ईश्वरस्य तु 'असङ्गो हि' इति श्रुतेः, 'नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः' इति स्मृतेश्च जीवन्मुत्त्यादावुदासीनत्वात्किं मतप्रार्थनया, किंतु 'तमेतं वेदानुवचनेन' इत्यादिश्रुत्युक्तं परमेश्वरैकार्पणवुद्धा स्ववर्णाश्रमधर्मानुष्ठान- मेव संपाद्य ततश्चित्तशुद्धादिक्रमेण ब्रह्म द्वैतात्मैक्यात्मतत्त्वविषयका बाधिता प्रति- बद्धसाक्षात्कारद्वारा सकार्यकतद्विषय कमूला ज्ञानध्वंसोपलक्षिताद्वैतसच्चिदानन्दान - न्तब्रह्मात्मरूपमुक्ति: संभवतीत्याशङ्क्य समाधत्ते- वाचा निर्मलया सुधामघुरया यां नाथ शिक्षामदा- स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्याग:शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥

Page 154

१४.८ भामिनीविलासे

वाचेति। भो नाथ अन्तर्यामिन्। एतेन निरुक्तकर्मादिप्रेरकत्वम्। अपि च 'एष त्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' इति श्रुत्युक्तमन्तर्याम्यधिदैवादिषु 'तद्धर्मव्यपदेशात्' इत्यधिकरणन्यायेन त्वय्येवेति द्योत्यते। ं निर्मलया विशुद्धया वेदरूपिण्ये- त्यर्थः। न तु बौद्धादिप्रणीतया तद्विरुद्धपौरुष्या। एतेन भ्रमप्रमादादिदोषवैघुर्य ध्वन्यते। अत एव। सुघेति। वाचा वाण्या। यां शिक्षां निरुक्तपूर्वोत्तरकाण्डोप- देशसरणिम्। एतेनावश्यादरणीयत्ं व्यज्यते। अदाः मह्यं जीवाय दत्तवानसी- त्यर्थः । तामहम् । अहंभावेति । देहादहंतया व्याप्त इत्यर्थः । न च तत्रापि दुःखादुक्तशिक्षास्मृतिः स्यादिति दुःखसहस्त्रसत्त्वेऽपि मम निर्लज्जतादित्याश- येनात्मानं पुनर्विशिनष्टि-निस्त्रप इति। अत एव खप्नेऽपि न संस्पृशामीत्य- न्वयः । अत्र 'संस्मरामि' इति पाठः साधीयान् । एवं तर्हि मया कि कर्तव्यमि- त्यत आह-इतीत्याद्युत्तरार्घेन। हे यदुपते इति साभिप्रायम्। उग्रसेनराज्यम्र- दलातू। तस्मात्त्वया निरतिशयदयानिधितया मदङ्गीकरणं स्वकीयलेन कृतमे- वेतः परं कथं त्यक्तुमुचितं स्यादिति तात्पर्यम् । 'आगोऽपराधः' इत्यमरः। स्वीयेषु हस्तपादादिवदतिममतास्पदेष्वित्यर्थः । 'सखायौ' इति श्रुतेः सवीयेषु संग्रहणं प्रसिद्धमेव। लत्तो मत्त इति पश्चम्यौ। मत्त उन्मत्तः । अत्र काव्यलिङ्गं परिकरादिश्चालंकारः ॥ एवं निरुपमां भगवतः सदयतां स्वस्य चोन्मत्ततां संस्मृत्य कृतन्नतपरिहारार्थ- मितःपरं तया तन्नामैव स्मर्तव्यमिति स्वयमेव खात्मानं सनिर्वेदपरमसाधनसर्व- खलेनोपदिशति-

पातालं वज याहि वा सुरपुरीमारोह मेरो: शिरः पारावारपरम्परास्तर तथाप्याशा न शान्तास्तव। आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैःश्रमैः॥६॥ पातालं व्रजेति। ननु किं नामस्मरणेन, कर्मैवामिहोत्रादिकं कर्तव्यं, ततश्च दिव्याद्येकविशतिस्वर्गसुखं भोक्तव्यं, पुनरपि मनुष्यशरीरे जाते तथैवेति सत्रगादि- विषयसुखेतरः कोऽपि न पुमर्थ इति मीमांसकमतं प्रत्याचक्षाण इव खजीवं तद- वलम्बितानीचतयाभिमुखीकरोति-रे इवि। नच खर्गादावाशानुपशान्तिः

Page 155

शान्तविलासः । १४९

शान्तिर्वा केन दृष्टा, सांप्रतं लहं निरुक्तविषयसंभोगतः कृतार्थ एव सुखी संवृत्तो- Sस्मीति वाच्यम्। अत्रापि दुःखभूयिष्ठत्वस्यैव लयि दष्टत्वादित्याशयेन तं विशि- नष्टि-आधीति। 'पुंस्याधिर्मानसी व्यथा' इत्यमरादाधिर्मरणचिन्तादिर्मनोव्यथा। व्याधि: कफवातपित्तवैषम्यजन्यः स्थूलशरीरविकारः । तथा जरा वार्धक्य- जन्यस्तत्परिणामः । ताभिः पराहतोऽभिभूतस्तत्संबुद्धौ तथेत्यर्थः। एतेन प्रत्यक्षं निर्वेदनिदानं द्योतितम्। वं यदि निजं न लन्यदीयम्। तेनौदासीन्यव्युदासः सूचितः। क्षेमं 'कुशलं क्षेममस्ति्रियाम्' इत्यमरात्कल्याणम्। वाञ्छसि तर्हि। श्रीकृष्णेति। श्रीकृष्णनामस्मृतिरूपमित्यर्थः । रसायनं रसस्य पारदस्यायनं तरैलो - क्यचिन्तामण्या दिरूपं स्थानमिति यावत्। रसय विरक्तिपथ्याशनशान्त्यनुपानाभ्यां सह समासादयेति संबन्धः। अन्यैर्निरुक्तोपायेतरैः शून्यैर्निष्फलैः श्रमैर्भगवदनर्पित- काम्याग्निहोत्रादिधर्मैः किम्। न किमपि प्रयोजनमिति योजना। तदुक्तं भागवते- 'धर्मः खनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रति श्रम एव हि केवलम् ।।' इति। अत एव श्रूयते-'वा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तम- वरं येषु कर्म। एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥' इति। एतदेव विशदयन्नन्येषां कर्मणां प्रतिज्ञातं शून्यैरित्यादिना नैष्फल्यं हेतूत्त्या द्रढयति-पातालमित्यादिपूर्वार्धेन। रे आधीत्यादि प्राग्वदेव। वं यद्यपि पाता- लमतलादिसप्तबिलखर्गस्थलमित्यर्थः । व्रज गच्छ। तथा। सुरेति। अमरा- वतीमित्यर्थः । याहि गच्छ। तथा। मेरोर्हैमाद्रे: शिरो मस्तकम्। ब्रह्मलोकमिति यावत्। उपलक्षणमिदं भूरादिसप्तदिव्यखवर्गाणाम्। आरोहाधिरोहेति यावत्। तथा। पारावारेति। 'पारावारः सरित्पतिः' इत्यमरात्पारावाराणां क्षीरोदादिशुद्धो- दान्तानां समुद्राणां या: परम्पराः पङ्कयस्ता इत्यर्थः । भरतवर्षेतरजम्बुद्दीपादिस- प्द्वीपरूपभौमखर्गसरणी: कमीभूता इति यावतू। तर समुद्रतरणोपलक्षिततत्तत्स्थ- लजन्मभि: प्रामुहीत्यर्थः । तथापि एवं सत्यपि। तव आशाः। स्ेष्टविषयविषयका- भिलाषा इत्यर्थः । शान्ता उपशान्ताः न नैव भविष्यन्तीत्यन्वयः। तस्माद्युक्त मेवोकं श्रीकृष्णस्मरणेतरसर्वकर्मणां नैष्फल्यमित्याकूतम्। अत्र रूपकाविक: सकलः प्राकन एवालंकारः।। एवमुपदिष्टमपि युत्त्या द्रढितमपि भगवन्नामस्मरणं साधनसर्वस्वत्वेन कदा. चिदनन्तजन्म संपादित कर्मवासनासहस्रपारतकयेणाश्रद्धेयतया सम्भाव्य पुनः सश-

Page 156

१५० भामिनीविलासे

पथं स्वानुभवं दृष्ट्रा स्थूणानिखननन्यायेन चिन्तामण्यादिवन्नानाविधवाञ्छितपूरक-

मृद्दीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधर: खण्डितः । सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्वार: क्वचिलक्षितः॥ ७॥ मृद्वीकेति। हे मदीय जीव। एवं च निरुक्तविशालविषयावली त्यादिपद्यचतुष्टय- मात्रानुष्ठितभगवद्भक्तिमहित्रैव सद्यः सस्य सच्चिदानन्ताद्वैतब्रह्मात्मकप्रत्यक्कूटस्थख- रूपद्ृय्मात्रतत्त्वविषय का प्रतिबद्धसाक्षात्कारोदयपूर्वकसकलदृश्यबाधानुभवः संपन्न इति सूचितम्। अन्यथा जीवस्य खपार्थक्यानुभवासंभवात्। तया। मृद्वीका 'मृद्वीका गोस्तनी द्राक्षा' इत्यमराद्रोस्तनाकारदीर्घद्राक्षाजातिविशेषः । रसितास्वादिता। इह लोक इति शेषः। तथा सिता शर्करा समशिताकण्ठं भक्षिता। तथा स्फीतं विपुलं पयो दुग्धं निपीतं प्राशितम्। एवं स्वर्यातेन स्वर्ग कदाचिद्रतेन। सुधाप्यमृतमपि। अधायि 'घेट् पाने' इवि स्मरणात्प्राशितमित्यर्थः । एवं कतिधा बहुवारं संसारस्यानादित्वा- द्युक्कमेवेदम्। रम्मेति। खण्डितो रतिरभसवशाच्ुम्बनावसरे कदाचिद्दन्तेनापि क्षत इवि यावत्। एतेनैहिकपारत्रिकयावन्मधुरद्रव्याखादानुभवाभावशङ्काशान्ति: सूचिता। अस्त्वेवम्, किं तेनेत्यत्राह-सत्यमित्याद्युत्तरार्धशेषेण। भवता लया। भवे संसारे भूयो वारंवारम्। भ्राम्यता घरटी(घटी)यन्रन्यायेनोर्ध्वाधः पर्याव- तता सतेत्यर्थः । एतेन जीवे सर्वज्ञत्वाभावात्कथं मया कथनीयमस्ति नास्तीत्यन्य- तरकोटिकमप्युत्तरमिति परास्तम्। कृष्णेत्यक्षरयोः । कृष्ण इति संवुध्धन्तवर्णयोर- पीत्यर्थः । अयं प्रत्यक्षः । एतेन सदःसमुच्चारितवर्णालौकिकरसाखादतृप्तिजन्यत्- मुद्रारे द्योत्यते। मधुरिमेति। मधुरिम्णो माधुर्यस्योद्वारस्तृप्युत्तरभाविसशब्दोदानो- पप्राणीभूतदेवदत्ताख्यान्तरकण्ठवायुव्यापार इत्यर्थः। 'उदारः' इति लपपाठ एव । मधुरिम्णो महत्त्वस्योक्तवि शेषणमन्तरापि तद्भिन्नपदैरेव सिद्धलात्। क्वचित्कस्मंश्चि- दपि देशे काले वेति यावत्। एतेन तस्य लोकोत्तरत्वं ध्वन्यते। लक्षित एतल्लक्ष- णलक्ष्यतयानुभूतोऽभूदित्यर्थः । इति सत्यं न तु स्तावकम्। ब्रूहि वदेति योजना। तस्मान्निरुपममेव भगवन्नामस्मरणवैभवमिति भावः । इह प्रतीप विशेषोऽलंकारः ॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः।

Page 157

शान्तविलासः । १५१

क्रूरकेशमहीरुहामुरुभरज्वालाजटाल: शिखी द्वारं निर्वृतिसद्नो विजयते कृष्णेति वर्णद्वयम्॥८॥ वज्रमिति। 'भृञ् धारणपोषणयोः' इति धातोर्महीं बिभ्रति ते तथा पृथ्वीधा- रकाः पर्वता इत्यर्थः। पापान्येवेत्यादि स्पष्टमेव। भवेति। भवः संसार एव गदो रोगः। 'रोगव्याधिगदामयाः' इत्यमरः । यद्वा भवं जन्म आरभ्य यो गदः। जन्मरोगस्य दुर्निरसत्ात्। तस्याप्युद्रेकोऽतिरेकः । आधिक्यमिति यावत्। मिथ्येति। आरो- पिताविद्येत्यर्थः । सैव निशेत्यादिसरलमेव । तिग्मांशुः सूर्य: । मह्यां रुहन्तीति महीरुहास्तेषां वृक्षाणामित्यर्थः । 'शिखावानाशुशुक्षणिः' इत्यमराच्छिखी अग्निः । निर्वृतीति। निर्गता वृतिरावरणं यस्याः सकाशात्सा। अद्वैतचितिरूपमुक्तिरेव निर्वृतिः। शेषमतिरोहितमेव। एवं च भगवन्नाम्रः कृष्णेत्यात्मनः सकलपापा- जन्मरोगस कार्यका विद्याधिभौतिकाद्यखिलदुःखमोक्ष प्रतिबन्धध्वंसकत्वेन सर्वपुमर्थ- दातृतं ध्यन्यते। तस्मात्कलौ बुभुत्सुभिर्नित्याद्यविरोधेन दशविधनामापराधविधुर तदेव स्मर्तव्यं सततमिति तत्त्वम्। अत्र रूपकमलंकारः ॥ अथ 'गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्निर्मम' इत्यादिवद्विरोधिलक्षणया स्वचेतःप्रत्येव भगवद्यानमाक्षेपालंकारेणोपदिशति- रे चेतः कथयामि ते हितमिदं वृन्दावने चारय- न्वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया। सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै- रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥९॥ रे चेत इति। किं तद्धितमित्यत आह-वृन्दावन इत्यादिपूर्वार्धशेषेण। कोऽपि। एवं चावाञ्यनसगोचरत्वेन तस्याद्वैतव्रह्मैकरूपत्वं द्योत्यते। तत्रापि भक्ता- नुग्रहार्थ मायिकलीलाविग्रहनटनात्। नवेति। नूतनघटसंनिभ इत्यर्थः। यद्वा नवानां श्रवणादिनवसंख्याकानां भक्तीनामम्बु जीवनम् 'आपोमयः प्राणः' इति श्रुतेः । प्राणनमिति यावत्। ददाति तादृशी निभा कान्तिर्यस्येत्यर्थः । एवं च तद्भक्तिरेव कार्येति तात्पर्यम्। वृन्दावने। एतेन भक्तपारवश्यं सूच्यते। वृन्दाया अपि खप- तिरूपेण ब्रह्मैव भजन्त्याः परमभक्तलात्। गवां वृन्दं चारयन्। घेनुसंघचारयि- तेत्यर्थः। यद्वा वृन्दस्य देवर्षिपितृमनुष्यतिर्यक्संघस्यावनममिहोत्रादिना तत्तदिष्ट- प्रदानेन रक्षणं यत्र तस्मिन्नित्यर्थः। मनुष्याधिकारत्वाच्छास्त्रस्येति मनुष्यशरीर

Page 158

१५२ भामिनीविलासे

एवेति यावत्। गवां वागादीन्द्रियाणाम्। वृन्दं संघं चारयन्। अयस्कान्तादिवत्प्रे- रयन्नित्यर्थः। एतेन तस्य पारोक्ष्यं प्रत्युक्तम्। एतादृशोऽस्ति स तया बन्धुर्न कार्य इत्यन्वयः । तत्र हेतुः सौन्दर्येत्याद्युत्तरार्घेन। एष लां सौन्दर्येणामृतं कैवल्यमुद्रि- रद्भि: एतादृशैः । मन्देति । मृदुहासैः यद्वा तत्सदृशैरपरोक्षज्ञानोत्तरका- लिकस्वाकारवृत्तिविशेषैरित्यर्थः । संमोह्य वशीकृत्य लां तव वह्लभान्विषयांक्ष। आशु शीघ्रम्। जयं नाशं नेष्यतीति संबन्धः। तस्माद्वितेच्छुना भवतेतः परं तत्सख्यमेव विघेयमित्याशयः ॥ एवं वाणीमप्युपदिशति- अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्रा कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम्। तां द्राक्षौघैरपि बहुमतां माधुरीमुद्धिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ १० ॥ अव्याख्येयामिति। हे रसने, 'रसज्ञा रसना जिह्वा' इत्यमरादयि जिह्वे इत्यर्थः। यदि तं रसज्ञासि तर्हि तां कृष्णेत्याख्यां कथयेति योजना। अहो यत्कथनमात्रेण मद्रसज्ञत्ं प्रख्यातं भवति का सा वैतादृशी लोकोत्तररसमयीत्यत्राह पूर्वार्धेन। या कृष्णेत्याखया। अन्तश्चेतसि निमन्रा मनसैव पराख्यवागात्मना परिणतेनोचा- रिता सतीत्यर्थः। पराम्। अतएव। अव्याख्येयां वागाद्यगोचर ब्रह्माद्वैतविषयत्वेना- निरुच्यामित्यर्थः । एतादृशीं प्रीतिं परितुष्टिं वितरति ददातीत्यर्थः। एवं च मानस- नामस्मरणस्याद्वैतात्मानन्द एव फलमिति द्योत्यते। तथा कण्ठे लग्ना। मध्यमाख्यया वाचोच्चारिता सतीति यावत्। नितरां निरवशेषं न तु यत्किंचित्। तन्रापि । आन्तरेति। आन्तरमन्तर्भवं मानसमित्यर्थः । एतादृशं ध्वान्तजालमविद्यातम :- पटलमित्यर्थः । हरति ध्वंसयतीत्यर्थः। इदमप्युच्चारणं योगैकसाध्यमतः सुगमोपा- याभिधित्सया मया प्रथमं वैखर्यभिधानलमेव प्रार्थितासीत्याशयेन तस्या अपि तत्र लोभं जनयितुं निरुक्ताख्यां विशिनष्टि द्राक्षेत्याद्यवशिष्टेन। द्राक्षाणां मृद्वीकादि- यावत्तदुत्तमजातीनां य ओघाः संघासतैरित्यर्थः । अनेन लोकोत्तरमाधुर्यवत्त्वं तेषु ध्वन्यते। बहुमतामादृतामित्यर्थः। एतादृशीं माधुरीं मधुरतामुद्रिरन्तीं। तृप्ति- पूर्वकं विकासयन्तीमिति यावत्। तस्मात्त्वयावश्यमियं सेवनीयेत्याशयः। गम्यो- स्प्रेक्षालंकार: ।।

Page 159

शान्तविलासः । १५३

ननु किमेवं वागादीन्द्रियोपदेशेन तेषां तवदेकपारतक्याद्यदि लय्येव 'परोप- देशसमये सन्ति सर्वेऽपि पण्डिताः । तदनुष्ठानसमये मुनयोऽपि न पण्डिताः ॥' इति न्यायेन केवलमुपदेशकौशलमेव तर्हि तेषामपि कूपकलशजलन्यायेन कथं नामोपदेशसहस्त्रेऽपि तत्र प्रवृत्ति: स्यादित्याशङ्कय स्वस्यापि नैसर्गिकभगवन्मात्रप्रेम- परत्वं संस्फुटयति- सन्त्येवास्मिअ्जगति बहवः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु। यैरूर्ध्वाक्षैरथ निजसखं नीरदं स्मारयद्धि- श्वित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम्॥११॥ सन्त्येवेति। वासना प्रीतिमूलीभूता संस्कारनाम्री मनोनिष्ठा भावनेत्यर्थः । अस्तैवं भावत्की प्रीतिश्वातकेषु किं ततः प्रकृत इति शङ्गां शमयन्नुक्तप्रीतौ हेतुं द्योतयति यैरित्याद्युत्तरार्घेन। अथ ऊर्ध्वनेत्रानन्तरम् । निजेति। जीवनदलेन खप्राणीभूतमित्यर्थः । उत्त्त हि-'समप्राणः सखा मतः' इति। किमप्यवाङ्नस- गोचरमित्यर्थः । एवं च नीरदस्मरणेन तद्वर्णस्य श्रीकृष्णस्यापि स्मृतिः संभवतीति परम्परया तत्प्रयोजकलेन चातकेषु हंसादीनप्यनादृत्य मत्प्रीतिरुचितैवेति भावः। एतेन भगवद्विषयकं नैसर्गिकं प्रेम व्यज्यते। शिष्टं तु स्पष्टमेव। इह स्मृतिरलंकार: काव्यलिन्नं सवभावोक्तिश्र ॥ नन्वथापि सतु तवापि ममेव परोक्ष एवेति चेन्न। नित्यापरोक्षरूपस्य तस्य परोक्षकल्पनाया व्यामोहैकमू लकत्वात्सर्वदृश्य जालस्य तन्मात्रप्रकाशेन भासमानला- च्चेत्यभिसंधाय भेदवादिन: समुपहसति- विष्वग्रुच्या भुवनमभितो भासते यस्य भासा सर्वेषामप्यहमिति च यत्प्रत्ययालम्बनं यः । तं पृच्छन्ति सवहृदयतलावेदिनो विष्णुमन्या- नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः॥१२॥ विष्वगिति। यस्य व्यापकस्य परब्रह्मरूपस्य श्रीविष्णोरित्यर्थः । विष्वग्रुच्या। विष्वृक् समन्ततः सर्वदेशकालाद्यवच्छेदेनेत्यर्थः। रुचिः सर्वजीवानां श्रीतिर्यस्यां सा तथा तयेत्यर्थः । 'रुचिर्मयूखे शोभायामभिषज्ञाभिलाषयोः' इति विश्वः। तत्त- द्वस्तुविषयकज्ञानेऽभिलाषो हि सर्वेषां जीवानामवश्यं वाच्यः। अन्यथोपादेये सेष्ट-

Page 160

१५४ भामिनीविलासे

विषये प्रवृत्तिरनुपादेये स्वानिष्टविषये निवृत्तिश्च तत्तज्ज्ञानमन्तरा कथं भूयात्। तस्मादुक्तव्याख्यानं युक्तमेव। एवं दीप्तिवाचिभ्यां रुचिभाःपदार्भ्यां द्विरुक्तिरपि प्रत्युक्ता। एतादृश्या भासा स्वरूपभूतखप्रकाशचितेत्यर्थः । तथा च श्रूयते- 'तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति' इति। एतेनेदं- प्रत्ययालम्बनलेन तस्य नित्यापरोक्षं द्योतितम्। भुवनं विश्वम्। अभित: सर्वावस्थावच्छेदेन भासत इति संबन्धः । एवमहंप्रत्ययालम्बनलेनापि तस्य नित्यप्रत्यक्षतवं संक्षिपति-सर्वेषामपीति द्वितीयपादेन। यद्यस्मात्कारणात्। हेतुरयं प्रागपि योज्यः । सर्वेषामपि संपूर्णजीवानामपि यः पूर्वोक्तविष्णुः। अहमिति प्रत्ययालम्बनमहंवृत्तिस्फुरणाश्रयः । अस्तीति शेषः । चः समुचये। तमपि विष्णुं व्यापकं यावदृश्यप्रकाशकं परमात्मानमित्यर्थः । खेति। खहृदयानि खान्तःकरणानि । 'अहंवृत्तिरिदंतृत्तिरित्यन्तःकरणं द्विधा। विज्ञानं स्यादहंवृत्ति- रिदंवृत्तिर्मनो भवेत् ।I' इत्यभियुक्तोक्ते: प्रागुक्तरीत्या बुद्धिमनोरूपाणीति यावतू। तेषां यत्तलं 'तलं स्वरूपाधरयोः' इति विश्वाद्वास्तविकं रूपं निरुक्तरीतिकालम्बन- विधया आधारो वा अद्वैतात्मप्रकाशस्तं न विदन्ति नैव जानन्तीति तथा। अज्ञानिन इत्यर्थः । अन्यान्ब्रह्मविदः पृच्छन्ति तया विष्णुर्द्ष्टश्चेदस्मान्संदर्शये- त्याक्षिपन्ति। अतः । शिवशिवेति खेदे । 'योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। कि तेन न कृतं पापं चोरेणात्मापहारिणा ।I' इत्युक्तरीत्या दक्पा- पिष्ठस्मृत्या प्रायश्चित्ते चायं नृणामन्यायः केन वर्णनीयः । लोकोत्तरलान्न केना- पीत्यन्वयः । एवं चात्युपहासः सूच्ितः । इह काव्यलिङ्गमेवालंकारः ॥ ततः किमेवमन्योपहासेनेति संजातानुतापः स्चेतःप्रत्येव समुपदिशति- सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम्। आलापं यदि काङ्कसि स्मररिपोर्गाथा तदालाप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सुखं सुप्यताम् १३ सेवायामिति। रे चेतः, वं प्राक्तनसंस्कारवशादिति सर्वत्र बोध्यम्। यदि सेवायां साभिलाषमसि तर्हि तया लक्ष्मीपतिरेव सेव्यतां तत एव सर्वसंपल्लाभ- संभवादिति भावः । एवं चिन्तायामित्याद्युत्तरत्रापि बोध्यम् । गजेन्द्रादेश्विन्तो- पशमस्य तादृशोपाध्यवच्छिन्नात्मनः सकाशादेव दृष्टतादित्याशयः। आलापं

Page 161

शान्तविलासः । १५५

'स्यादाभाषणमालापः' इत्यमरात्संभाषणमित्यर्थः । स्मररिपोर्मदनान्तकस्य श्रीशङ्क- रस्यैवेत्यर्थः । गाथा व्यासादिप्रथितकथेत्यर्थः । आलाप्यतामिति छेदः । निरर्ग- लेति। निर्गतमर्गलमिव 'तद्विष्कम्भोऽर्गलं न ना' इत्यमराद्वाररोधककाष्ठविशेष- मिव क्षयोपायाभावात्प्रतिरोधकं यत्र तच्च तत्सुखं चेति तस्मिन्नद्वैतब्रह्मात्मक्यसुख इत्यर्थः । एतेन विषयसुखव्युदास: सूचितः । अत्र स्मररिपुपदेन वक्तुरभेदभक्तलं व्यज्यते। अत एवोक्तं मदीयायामद्वैतसुधायाम्-'कृष्णं पश्यन्तु मां केचित्के- चिद्वा नीललोहितम्। रजुसर्पवदेतेन कूटस्थस्य न मे क्षतिः ॥l' इति। कृष्ण- भक्तिचन्द्रिकायामपि-'उभयोरेका प्रकृतिः प्रत्ययमेदाच्च भिन्नवद्भाति। कल- यति कश्चिन्मूढो हरिहरमेदं विना शास्त्रम् ॥I' इति। एवं चेह जाप्रदादिविक्षेपे राजरिपुरमणीनां सेवनचिन्तनभाषणैरनुक्मात्सुप्यादिलये च वृथायुःक्षयेण पुरु- षार्थाभावो दयोत्यते। तथा चरणचतुष्टयेऽर्थार्थ्यादिजिज्ञासुज्ञानिकर्तृकाश्चतुर्विधा भक्तयो ध्वन्यन्ते। अत्र परिकरपरिकराङ्कुरकाव्यलिङ्गान्यलंकाराः ।

अथ चरमचरणसूचनसंजातस्मरणात्साधून्संवर्णयति- भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो बलादुन्मूल्य द्राङ्गिगडमविवेकव्यतिकरम्। विशुद्धे Sस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुषमार्याः करटिनः ॥ १४ ॥ भवेति। भवः संसारः स एव ग्रीष्मातपनिवहो ग्रीष्मर्तुकालिकालोकनिकर- स्तेन सम्यक् न तु यत्किंचित्तस्ं संतप्त वपुः शरीरं येषां ते तथा। एतेन विरा- गसामग्रीपौष्कल्यं व्यज्यते। अत एव। बलादिति। द्राक् 'द्राङाक्षु सपदि द्रुते' इत्यमराच्छीघ्रमेव न तु विलम्बेन। तेन परमविरागः सूचितः । बलात् 'नारित योगसमं बलम्' इति वचनादोगाभ्यासरूपसाम्थ्याद्धितोरित्यर्थः । श्रवणादिसाम- थ्येन वा। अविवेकेति। अविवेकस्याविचारस्य व्यतिकर आधिक्यं येन तं मूलाज्ञानलक्षणमित्यर्थः । निगडं लोहश्ङ्गलविशेषम्। उन्मूल्य भङ्क्ते- त्यर्थः । एतेनाप्रतिबद्धाद्वैतव्रह्मात्मैक्यसाक्षात्कारपर्यन्तं विचारपरिपाकः सूचितः। ततः विशुद्धSविद्यादिदृश्यमलशून्ये पक्षे निष्पक्वे। नैराश्येति। 'सोऽश्रुते सर्वान्का- मांन्सह' इति श्रुतेर्ब्रह्मविद्यया निखिलानन्दनाडीभूतब्रह्मानन्दाम्भोधिमन्नताना-

Page 162

१५६ भामिनीविलासे

एवेन जीवन्मुक्ति: सूचिता। एतादृशे च । अस्मिन्नित्यापरोक्षे। आत्मेति। आत्माभिन्नं यदमृतं 'श्रेयो निःश्रेयसामृतम्' इत्यमरात्कैवल्यं तदेव सरः कासा- रस्तस्मिन्नित्यर्थः । आर्या: पूज्याः । ब्रह्मज्ञा इत्यर्थः । करटिनो गजेन्द्राः । दूरीकृ- तेति। दूरीकृतं निरस्तं कलुषं संचितक्रियमाणकर्मजातं पक्षे पङ्ढजातं च यथा स्यात्तथेत्यर्थः । विगाहन्ते प्रविशन्ति खैरं विहरन्तीति योजना। अत्र रूपक-

यद्येवमात्मविद्यैकसाध्या मुक्तिस्वर्हि कथं शास्त्रे 'अक्षय्यं ह वै चातुर्मास्यया- जिन: सुकृतं भवति' इत्यादिनामिहोत्रादिकर्मणामेव मुक्तिसाधनतमुक्तं, कथं वा 'नास्ति सांख्यसमं ज्ञानम्' इत्यादिना सांख्यादिशास्त्राणामपि ज्ञानसाधनलम- भिहितं, कथं वा 'सितासिते सरिते यत्र संगते तत्राष्ठुतासो दिवमुत्पतन्ति' इत्या- दिना प्रयागस्नानस्यापि तत्साधनता प्रतिपादितेति चेद्वाढम्। अक्षय्यशन्देन यत्किंचिदापेक्षि काक्षयत्वस्यैव 'प्रवा ह्येते अदृढा यज्ञरूपा' इत्यादिसोपपत्तिकश्रुत्य- न्तरविरोधात्तच्छुति पूर्वापरतात्पर्यपर्यालोचनाच्च विवक्षितत्वं वाच्यम्। एवं सांख्य- शब्देन 'यत्सांख्यैः प्राप्यते स्थानम्' इत्यादिश्रीमद्भगवद्गीतावाक्यस्थभाष्यरीत्या- द्वैतात्मसाक्षात्कारस्यैव तत्त्वं वक्तव्यम्। सितासितश्रुतिस्तु कण्ठत एव स्वर्ग वक्तीति नैव चोदनाविषयः । तस्मादेतादृशाभिप्रायानभिज्ञलेन ये तत्र प्रवृत्तास्ते भ्रान्ता एवेति स्चेत एव प्रतिबोधयति- बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा- नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ते। तीर्थे मजजन्त्यशुभजलधेः पारमारोदुकामाः सर्वे प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥१५॥ बन्धोन्मुक्यै इति। मखो यज्ञो मुखमिव मुख्यो येषु तानित्यर्थः । एताद- शान् । कर्मेति। कर्माण्येव बन्धकत्वात्पाशास्तानित्यर्थः । न हि बन्धकैः पाशै- र्बन्धोन्मुक्ति: खप्नेऽपि संभाव्यते। एवमग्रेऽपि। अन्तरिति। चित्तशान्त्यर्थ- मित्यर्थः । मुनीति। मुनीनां जैमिन्यादिमहर्षीणां यानि शतानि तेषां मतानि सिद्धान्तजातानि तेषां यानल्पा विपुला 'न तु श्रुतिमतस्तर्कोऽनुसंधीयताम्' इति श्रीमद्भाष्यकारचरणब्जवचनाद्यत्किंचिदेतादृशी या चिन्ता तामित्यर्थः । अशु- भेति। दुःखाब्घेरित्यर्थः । पारं परतीरम्। आरोदुकामा आरोदुमधिगन्तुं

Page 163

शान्तविलासः । १५७

कामोऽभिलाषो येषां ते तथा। अत्र सर्वत्र जना इत्यध्याहारो बोध्यः। अवशिष्टं तु स्पष्टमेव। विचित्रालंकारः। तदुक्तम्-'विचित्रं तत्प्रयत्नश्वेद्विपरीतफलेच्छया। नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥' इति ॥ अथ पुनः संजातानुतापः किमनया भ्रान्तचर्याविचारणया ममेत्यतः श्रीविष्णु- चिन्तनमेव सततं ममास्त्वित्यभिलषति- प्रथमं चुम्बितचरणा जङ्गाजानूरुनाभिचक्राणि । आलिङ्ग्य भावना मे खेलतु विष्णोर्मुखालशोभायाम्॥ १६॥ प्रथममिति। मे भावना चित्तवृत्तिः। प्रथमं पूर्वम्। चुम्बितेति। चुम्बितौ चरणौ यया सा तथा। विष्णोरित्यार्थिकम्। एतेन 'संचिन्तयेद्भगवतश्वरणारवि- न्दम्' इत्यादिश्रीमद्भागवतोक्ता भगवद्धानसरणिश्चरणाब्जमारभ्यैवेति द्योतितम्। ततः । जद्गेति। जङ्गे च जानुनी चोरू च नाभिचक्रं चेति तथा। नाभिहृदया- नीति पाठस्तु सरल एव। अत्र 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति सूत्रेणैकवद्धावे प्राप्तेऽपि तदकरणं प्रकृतेSद्वैतब्रह्ममात्ररूपत्वेन प्राणित्वाभावाशयादेवेति बोध्यम्। तान्यालिङ्गय विष्णोमुखाब्जशोभायां खेलत्विति संबन्धः । एतेन प्रागुपभुक्तख- कान्तालिङ्गनचुम्बनखेलनस्मृतिप्रशान्त्युपायत्वमत्र व्यज्यते। भावनाया अपि स्त्रीत्वात्प्रकृते तत्समुचितमेव चुम्बनादीति सूच्यते। एवं चेह समासोक्तिरलंकारः ॥ एवं कृतेऽप्यभिलाषे हृदि निरुक्तकामवासनादिवशाज्झटिति भगवन्मूर्त्यप्रति- भासेन खिन्नमिवात्मानं ब्रह्मावबोधसंस्कारेण ताद्ृशं तं पृथक्त्वेनानुसंधाय स्वयं दड्मात्रः सन्सान्त्वयन्निव भगवत्स्मृतिमाहात्म्यातिशयं व्यनक्ति- तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम्। चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः॥१७॥ तरणोपायमिति। ताम्यसि। संतप्तो भवसीत्यर्थः । चेतःसरणौ चित्तपद्ध- त्याम्। तेन तदागमनयोग्यत्वं ध्वन्यते। रूपककाव्यलिङ्गेऽलंकारौ। अन्यत्तु सरलमेव ।I एवं विषयसंस्काराणामपि भगवज्यानप्रतिबन्धकत्वेऽनुभूतेऽथ सर्वेषामिष्टविष- याणां संपदेकमूलकत्वेन तदभावमेवाशास्ते- श्रियो मे मा सन्तु क्षणमपि च माद्यद्रजघटा-

भा० वि० ११

Page 164

१५८ भामिनीविलासे

निमन्नानां यासु द्रविणरसपर्याकुलदशां सपर्यासौकर्य हरिचरणयोरस्तमयते ॥१८॥ श्रिय इति। ताः श्रियः संपदो मे क्षणमपि च मा सन्त्विति संबन्धः। एते- नात्मनोऽतिविरकत्वं ध्वन्यते। यत्किंचित्संपत्तीनां दुःखहेतुत्वेनानाशास्यत्वेऽपि महतीनां तासां सुखहेतुत्वमेव स्यादित्याशक्क्य ता विशिनष्टि माद्यदित्यादि- पूर्वार्धशेषेण। मादयन्तश्व ते गजाश्च तेषां या घटा 'करिणां घटना घटा' इत्यम- रात्पङ्गिस्तस्यामित्यादि सरलमेव। तत्र हेत्वाशङ्कां शमयंस्च्छब्दापेक्षितं पूरयति निम्नानामित्याद्युत्तरार्घेन। यासु निमनानामत एव द्रविणरसपर्याकुलदृदशां धनसु- खास्ादव्याकुलविवेकानामित्यर्थः । विपरीतं वा हेतुहेतुमद्भावः। तेन जनका- दीनां राज्यानुपपत्तिः प्रत्युक्ता। तेषां तत्रानिमप्नत्वाद्वित्तसुखालुप्तविवेकत्वाच्च। एतादृशां पुंसां हरिचरणयोः । सपर्येति। 'पूजा सपर्यापचितिः' इत्यमरात्सपर्या पूजा तस्याः सौकर्य सुकराया भावः सौकर्य सुसंपाद्यत्वमित्यर्थः। अस्तमयतेऽस्तं प्राप्तोति। दुष्करत्वमेव संपद्यत इत्याशयः। तत्र हेतुगर्भे विशेषणे तु व्याख्याते एव। तस्मादुक्तलक्ष्म्यभावाभिलाषस्तावद्युक एवेति भावः । इह काव्यलिङ्गादिरे- वालकार: ॥ अथ गङ्गाप्यस्ति सकलमुक्तिप्रतिबन्धध्वंसनकरी तत्तीरवासिनस्तवेति पुनः स्चेतः साक्षेपं सान्त्वयति- किं निःशङ्कं शेषे शेषे वयसस्त्वमागतो मृत्युः। अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥१९॥ किं निःशङ्कमिति। रे चेतः, त्वं वयस आयुषः शेषे। किंचिदंशेऽवशिष्टे स्तीत्यर्थः । यद्वा। आयुषोऽतीन्द्रियत्वाद्वयःशब्देन वार्धक्यमेव ग्राह्यम्। तथा च तेन तदल्पतानुमानमेव। निःशङ्कं किं शेषे विषयशयनीये निद्रासीत्यन्वयः। तस्मादितःपर द्रुततरमेव सावधानेन भाव्यमिति भावः । तत्र हेतुः 'आगत' इवि पूर्वार्धशेषेण। ततोऽकस्मादूङ्गां स्मृत्वा निरुक्ताक्षेपमेव प्रतिक्षिपति अथवेत्याद्युत्त रार्घेन। शयीथास्त्वं पूर्ववद्धर्मानुरुद्धविषयशय्यायामेव शयनं कुर्वित्यर्थः । तत्र हेतुर्निकट इत्यादिशेषेण। तस्मात्सैव त्वदुद्धारं करिष्यत्येवातः किं तवायासैरि- व्याशयः । अन्राक्षेपालंकारः । तदुक्म्-'आक्षेपः खयमुक्तस्य प्रतिषेधों विचा- रणात्। चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ।।' इति ॥

Page 165

शान्तविलासः । ५९

ततो जीवननिर्वाहार्थमप्युद्योगवासनां प्रत्याचष्टे- संपाद्यामि किमहं धावं धावं धरातले यदयम्। अस्ति मम शिरसि सततं नन्दकुमार: प्रभु: परमः॥२०॥ संपादयामीति। अहं धरातले धावं धावं पुनःपुनर्धावनं विधाय किं संपाद- यामि किं वाप्रेऽपि संपादयिष्यामि। सुखादेदेवमात्रायत्तत्वाद्यर्थ एव तदर्थमायास इत्याशयः । तर्हि दैवस्यापि यत्नसापेक्षत्वात्कथं देहनिर्वाह इत्यत आह यदित्या- दिशेषेण। यद्यस्माद्वेतोः। अयं प्रत्यक्षः । एतेन सगुणसाक्षात्कारः सूचितः। सत- तमित्यादिपदचतुष्टयेन क्रमात्सस्य कालान्तरचिन्ताशान्तिः श्रीकृष्णस्य तु भक्तब- न्धुत्वसामर्थ्यपरब्रह्मत्वानि च द्योत्यन्ते। 'संतापयामि किमहं धावं धावं धरातले हृदयम्' इति पाठेऽप्ययमेवार्थः फलति। अत्रापि काव्यलिङ्गादिरेवालंकारः ॥ अथ कदाचित्पूर्वसंस्कारतस्तरुण्यासक्तं मनः सोपालम्भं प्रतिबोधयति- रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम्। किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥ २१॥ रे रे मन इति। मम मन इति संबन्धः। त्वम्। मनोभवेति साभिप्रायम्। मनसिजहन्तुः शिवस्येत्यर्थः । पादेति । चरणाब्जयुगम् । अनारतं सततम् । आमनन्तं वेदतः स्मरन्तम्। एतादृशं माम्। तद्वैरात्। संसतीति। भवकुहर इत्यर्थः । किं निपातयसीत्यन्वयः । वैरशुद्यर्थमिति चेत्तत्राह। नेति। एता- वता पुत्रशोक: स्वसुतीभूतकामदाहप्रयुक्तखेद इत्यर्थः । नैव गमिष्यतीति योजना। तस्मात्कान्तासक्तिस्त्याज्यैवेति तत्त्वम्। उक्त एवालंकारः । एवमेकविशश्लोकान्तं शान्तरसव्यज्जनेन चतुर्थे पुरुषार्थे समुपदिष्टे सति वक- व्यांशस्यानवशिष्टत्वात् 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते' इति महाभाष्यस्मृते: समाप्तावपि मङ्गलमभ्सुदयकामस्यावश्यकमिति धिया श्रीम- हारामायणाभिधादिकाव्यकथैकदेशकथनात्मकत्वेन वस्तु निर्देशलक्षणं मङ्गलमाच- रन्प्रकृतग्रन्थेऽपि विनेयानुशिशित्सया संग्रथयति मरकतेत्यादित्रिभिः। तत्रा- प्यरण्यकाण्डकथैकांशसूचनं द्वाभ्याम्। तृतीयेन तु सुन्दरकाण्डस्यैव तस्पेति बोध्यम्-

Page 166

१६० भामिनीविला से

मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरा- दृषिनिकरैरिति संशयः प्रपेदे ॥२२॥ मरकतेति। दूरादृषिनिकरैर्मुनिसंघैः । रघुपति श्रीरामम्। अवलोक्य । अयं दूरप्रत्यक्षः । एतेन संशयसामग्री सूच्यते । मरकतेति। 'गारुत्मतं मर- कतमश्मगर्भो हरिन्मणिः' इत्यमरान्मरकतमणयो हरिद्रत्नानि तन्मयश्चासौ मेदिनीधरः पर्वतक्चेति तथा। एतेन भगवतो रघुनाथस्य 'यं निषेधमुखेनाह नवोढेव पतिं श्रुतिः। तं नामविलसच्छम्पं रामनीरदमाश्रये ।' इत्यादिषु नील- वर्णस्यैव वर्णितत्वेऽपि भगवत्यास्तदा तदनुगामिन्याः सीतायास्तप्तकाश्चनसमतनु- कान्तिसंपृक्तत्वं व्यज्यते। नीलपीतद्रव्यसंपर्के हि लोके हरिद्वर्णस्य प्रसिद्ध- त्वात्। ततः किंचिच्चाश्चल्यं तत्रालक्ष्योत्प्रेक्षान्तरमाहुः। वेति। अथवा। एष पुरोवर्ती तरुणतरोऽतिनूतनपल्लवाढ्यः। एतादृशस्तमाल एतन्नामकः कश्चित्ता- पिच्छत्वेन कोशादौ प्रसिद्धो वृक्षविशेष इत्यर्थः । एतादृशस्तरुर्व्ृक्षोऽस्ति किमिति संशयः संदेहो द्विकोटिको बोधः प्रपेदे प्राप्त इत्यन्वयः । तत्र यदा सीताकान्ति- संपर्कस्तदाद्यकोटिर्यदा तदभावः पाणिचाञ्चल्यं च तदान्त्यकोटिरिति तत्त्वम् । अन्न संदेहालंकारः । तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्सा वा स्यान्न सा मधुरा कुतः। इति रघुपतेः कायच्छाया विलोकनकौतुकै- वनवसतिभि: कैः कैरादौ न संदिदिहे जनैः ॥२३॥ तरणीति। वनेति। वननिवासिभिः। कैः कैर्जनैः। रघुपतेः श्रीरामस्य। कायेति। 'छाया सूर्यप्रिया कान्तिः' इत्यमराच्छरीरकान्तीक्षणकुतूहलैः सद्धिरि- त्यर्थः । आदौ प्रथमम्। एषा पुरोवर्तिनी। तरणीति। तरणिः सूर्यस्वस्य तनया कन्या यमुना स्यात्किम्। नीलवर्णत्वात्तत्र कालिन्दीत्वसंभवेऽपि तोयमयत्वाभावा- न्नेदमित्याहुर्नेत्यादिना। हिर्हेतौ। यस्मात्सा यमुना तोयमयी। इयं तु न तथेति हेतोः प्रागुक्कल्पना न नैव संभवतीति संबन्धः । एवमेव कल्पनान्तरं कृत्वीपि निराचकुरित्याह-मरकतेत्यादिद्वितीयपादेन। 'ज्योत्स्ा सचन्द्रनक्षत्ररात्री चन्द्रा-

Page 167

शान्तविलासः । १६१

तपेऽपि च' इति विश्वान्मरकतमणिकृता हरिद्रत्ननिर्मिता ज्योत्स्ना सचन्द्रनक्षत्र- रात्रिस्तत्सदशी। श्रीरामकान्तेः सीताकान्तिसंपृक्तत्वेन हरिद्वर्णत्वेऽपि तत्राकाश- नैल्यस्य जलादाविव प्रतिफलनाद्रान्निसाधर्म्येण तथा सूर्यस्य प्रतिफलनात्तनीलिमा- दिना सचन्द्रत्वेन तथा तदलंकारहीरप्रतिबिम्वनात्सनक्षत्रत्वेन काचिद्विचित्रा दीप्तिरिति भ्रान्तिः सुघटैवेति भावः । अत्र श्रीरामकान्तौ तु चकोराणों चन्द्र- कान्ताविव तेषां माधुर्यास्वादे जायमाने पुनर्निरुक्तकल्पनामपि प्रत्याचख्युरित्याह नेत्यादिना। नोक्तकान्तिकल्पना नैव संभवति। तत्र हेतुः। सा निरुक्तमरकत- कान्तिः । कुत इत्याक्षेपे। कस्मान्मधुरा। न कुतोऽपि तथेत्यर्थः । इति न संदि- दिहे। अपि तु सर्वैरपि संदिदिह एवेति योजना। एवं च द्वाभ्यामपि पद्याभ्यां तत्कान्तावलौकिकत्वं ध्वन्यते। अत्र सहेतुकसंदेहालंकारः ॥ चपला जलदच्युता लता वा तरुमुख्यादिति संशये निमग्र: । गुरुनिःश्वसितैः कपिर्मनीषी निरुणैषीदथ तां वियोगिनीति॥२४॥ चपलेति। इयं जलदच्युता मेघात्पतिता चपला विद्युदेव। यद्वा तरुमुख्या- त्कल्पद्रुमाच्युता लता कल्पवल्ली वास्तीति संशये निमन्नः कपिर्हनुमान्मनीषी विद्वानत एव अथ निरुक्तसंशयोत्तरं तां सीतां वियोगिनी विरहिणी इति गुरुनि :- श्वसितैरशोकवनिकायां दीर्घनिःश्वासैर्लिङ्नरनिरणैषीन्निर्णीतवानिति योजना। अत्रापि ससंदेहोत्तरपरिकरश्च। अत्र 'कविर्मनीषि' इत्यपि केचित्पठन्त्यथाप्युक्तनिर्णय- सामग्र्या मनीषिपदेनैव संपन्नत्वात्संशयस्य तु तद्ौरत्वादिनैव सिद्धेः कवित्वमनर्थ- कमेवेति ध्येयम्। निर्णयालंकारः ॥ अथास्य अ्रन्थस्य प्रचारप्रतिबन्धकानि नीचगृहसंपत्तिर्विप्रगृहविपत्तिः साधुक्षि- प्रमतिरसाध्वायुर्वृद्धिव्रततिश्चेति चत्वार्येवातः सांप्रतिकत्वेन तत्प्रयोजकमीश्वरमेव कविरुपालभते- भूतिर्नीचगृहेषु विप्रसदने दारिद्यकोलाहलो नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम्। दुर्नीति तव वीक्ष्य कोपदहनज्वालाजटालोऽपि स- नंक कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः॥२५॥

Page 168

१६२ भामिनीविलासे

भूतिरिति। नीचगृहेषु म्लेच्छाद्यधमतमसद्मस्वित्यर्थः । भूतिरैश्वर्यसंपत्तिः । तथा विप्रसदने ब्राह्मणानां गृहे दारिद्यकोलाहलो दारिद्येणान्नाच्छादनादेरपि शून्य- त्वेन यः कोलाहलो बालानां रोदनादिकलकलशब्द इत्यर्थः । 'कोलाहलः कल- कलः' इत्यमरः । हन्तेदि खेदे। सतां साधूनां नाशः शीघ्रमेव मृत्युः। अल्पा- युष्ट्मिति यावत्। एवमसत्पथजुषां कुमार्गगामिनाम्। शतानां शतम्। असंख्या- तमित्यर्थः । अतिशयोक्तिरियम् । यद्वा 'समानाम्' इत्येव पाठः । तथा च 'हायनोऽस्त्री शरत्समाः' इत्यमराद्वर्षाणामित्यर्थः। शतं 'शतायुर्वै पुरुषः' इति श्रुतेस्तेषां पूर्णायुष्टमिति यावत्। हे जगदीश परमेश्वर, एवं विश्वनियन्तुस्तव दुर्नीति वीक्ष्याहम्। कोपेति। कोधानलज्वालाजटालोऽपि सन्नहं किं कुर्वे। न किमपि करोमीत्यर्थः । कुत इति चेत्तत्राह-यदित्यादिशेषेण। यद्यस्मात्कारणा- दहं दीनोऽस्मि। भवान्पुनरीश्वरोऽतिसमर्थोऽसीति संबन्धः। तस्मात्त्वयेदं चतुष्टयं नैव विधेयं तथा च मद्धन्थप्रथावश्यमेव भविष्यतीति भावः । अत्र जगदीशेश्वर- पदाभ्यां द्विरुक्तिस्तु वक्तु: कवेरतिरभसपारवश्येनानवधानादेवेति ध्येयम्। एवं चात्र नीतिवीरो रसः। काव्यलिङ्गादिरेवालंकारः ॥ ननु त्वं किमित्येवमीश्वरमाक्षिपसि तत्तज्ीवादृष्टानुसारत एव तस्य फलदत्वा- त्तथा च यदि त्वत्काव्यस्याप्रसिद्धिरेव स्याच्चत्क ततः सन्त्येव मानुषकविष्वपि कालिदासादीनां रघुवंशादीनि काव्यानि ततस्तैरेव तदधिकारिणां कान्तोपदेश- रीत्या धर्मादिपुमर्थतत्साधनध्वननं च भूयादिति चेत्तत्राह-आमूलादित्यादिसप्त- भिरासमाप्ति। आ मूलाद्रलसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु।

वाचामाचार्यतायाः पद्मनुभवितुं कोऽस्ति धन्यो मदन्य: २६ आमूलादिति। र्नसानोर्मेरोः। 'रत्नसानुः सुरालयः' इत्यमरः। मूलादा। मर्यादार्थकोऽयमाङ्। मेरुमूलं मर्यादीकृत्येत्यर्थः। तथा मलयेति। मलयाचलवेष्टिता- दित्यर्थः । एतादृशात्पयोघेःक्षीराब्घेः कूलात्तीरात् आ। तीरं मर्यादीकृत्येति यावत्। एवं च सेतुसुरालयमध्यदेश इति फलितम्। काव्येति। काव्यरचनचतुरा इत्यर्थः । 'दक्षे तु चतुरपेशलपटवः' इत्यमरः। वदन्त्विति पदमितिशब्दाध्याहारेण कोऽस्ति

Page 169

शान्तविलासः। १६३

धन्यो मदन्य इति वदन्त्विति योजना। मृद्वीकेति। 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः। तस्या अपि मध्यस्तस्मादपि निर्यस्तत्परिपाकात्सयमेवाविर्भवन्। न तु निष्काशितः । अत एव यो मसृणरसो माधुर्याधिक्येन कोमलरसस्तस्यापि या झरी सूक्ष्म: प्रवाहस्तस्य या माधुरी तस्या यद्भाग्यमैश्वर्य तद्भजन्ति सेवन्ते ता- स्तथा। एतादृशीनां वाचां काव्यवाणीनाम्। आचार्यताया गुरुतायाः पदं स्थानम्। अनुभवितुं विशदयेव (?) तथा चाहमेवोक्तपदानुभवनधन्य इति ध्वन्यते। तस्मात्के मदग्रे कालिदासादय इत्याशयः। एवं च युक्तैवोक्तेश्वरप्रार्थनेति रहस्यम्। अत्र कवित्ववीर एव रसः । रूपकं लप्तोपमा चालंकारः ॥ एवं तर्हि भवद्वाच्यपि केचिदेव किमिति सादराः, कुतो वा न सर्वेऽपीत्याक्षिप्ते, किमेतावता क्षतं प्रत्युत यावन्मनुष्येषु पश्चुतत्पतित्वयोरनिर्णायकं श्रवणद्वारा मत्काव्य- मेव संपन्नम्, तदन्यतरनिर्णयसंदेहस्तु सहवासेनैव पराकरणीय इत्याशयेनोत्तरयति- गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम्। वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते- रघुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः॥२७॥ गिरां देवीति। वागधिष्ठात्री भगवती। सरसत्यपीत्यर्थः । एतेन निरुपम- शक्तिमत्त्वं स्वस्य सूच्यते। वीणेति। वीणायाः कच्छप्यभिवाया वल्लक्या ये गुणा- स्तन्न्यभिधानि सूक्ष्मसूत्राणि तेषां यद्रणनं वादनं तत्र हीनादर आसक्तिशून्यः करो हस्तो यस्याः सा तथा। एतादृशी सतीत्यर्थः। एकक्षणावच्छेदेन हि ज्ञानकर्मेन्द्रि- याभ्यां केवलाभ्यां वा तत्र केनचित्कुशलेन तत्तत्साध्ये साध्यमानेऽप्यन्यतरस्य हीनतावश्यंभाव एव। एवं च प्रकृते वक्ष्यमाणकाव्याकर्णनतस्तद्रसाखादने करसं- चारणेन वीणावादने किंचिन्न्यूनतापत्तिः। अतः संपूर्णतया तदाख्वादनार्थ लुब्ध- चेतस्त्वेन तस्याः करस्य स्वयमेव तत्रानादरः संपन्न इति ध्वन्यते। तेन प्रकृतका- व्यस्यालौकिकत्वं द्योत्यते। यदीयानां यत्संबन्धिनीनां वाचां प्रकृतादिकाव्यवाणी- नाम्। अमृतमयं पीयूषरूपं रसं श्ृङ्गारादिरसम्। आचामत्याखादयतीति संबन्धः। तस्य पण्डितपतेः । एतेन स्वस्य सकलशास्त्रपाटवमपि द्योतितम्। वचः काव्य- वीक्यं न तु तर्कव्याकरणादि कर्णकर्कशवाक्यम्। तत्र फलविशेषसत्त्वेऽपि सदयः श्रवणादिसंतोषाजनकत्वाद्। आकर्ण्य श्रुत्वा। यो मूर्धानम्। महारम्यतममिद-

Page 170

१६४ भामिनीविलासे

मिति संतोषेण शिरःकम्पनं हि लोके तत्सूचकचेष्टात्वेन सुप्रसिद्धमेव। तदभावा- दधुन्वन्नकम्पयन्भवति स नृपशुरेव। नराकारः पशुरेवेह बोध्य इत्यर्थः। ननु सुभा- षितश्रवणतो जीवन्मुक्तानामपि परितोषाभावस्य समुद्रे वृध्या जलवृद्भावस्येव लोकादाववलोकितत्वात्कथमेतादृशस्य भवता पशुत्वमेवाध्यवसीयत इत्याशङ्क्य, न मयैवं निर्णोयते किंतु संदिह्यत एवेति कोट्यन्तरकथनतो व्यनक्ति-अथवेत्या- दिशेषेण। अयं पृथिव्याद्यष्टमूर्तिरूपत्वेन प्रत्यक्षः पशुपतिः श्रीशंकर एव स इति योजना। तथा चाम्रायते-'ब्रह्मविद्रह्मैव भवति' इति। उक्तं चान्यत्रापि सुभा- षितादयनानन्दिन: पशुत्वादि-'सुभाषितेन गीतेन युवतीनां च लीलया। यस्य नो द्रवते चित्तं स वै मुक्तोऽथ वा पशुः ॥' इति। यथाश्रुते तु प्रकृतकवेः सर्व- ज्ञत्वाभावात्प्रत्यक्षविषयवाचीदंशब्दप्रयोगानापत्तिः। एवं श्रवणेति वचोविशेषणस्य पूर्वार्धेन सहार्थिकद्विरुक्त्यापत्तिरपि। प्रकृतकवेर्गङ्गाप्रसादप्रसिद्धेः पशचुपतिस्व- रूपपृथिव्याद्यष्टमूर्तिप्रमासंभवेन तद्विषयकप्रत्यक्षवाचीदंपदप्रयोगादोषात्सरख्वती- सान्निध्यभावेऽपि तस्याः सर्वज्ञत्वेन सकाव्यरसं सा मनसैवास्वादयतीत्यवश्यव-

सनौपयिकतयैवोक्तविशेषणसार्थकत्वात्पराकार्येति दिक्। अत्राप्युक्त एव रसः । अतिशयोक्तिः संदेहः काव्यलिङ्गं परिकरः परिकराङ्कुरो लुप्तोपमादिश्चालंकारः ॥

भवत्वेवं यस्त्वद्वात्रसमनास्वादयाते तस्य पशुत्वादिकल्पनमथापि यस्तु तद्रसं ज्ञात्वापि मत्सरवशादेव शिरःकम्पादिकायिकादिव्यापारैनैंव तां खप्रेऽपि बहु मन्यते तस्य किं वन्धकोटौ निन्यकोटौ वा त्वया निवेशः क्रियत इति चेन्न, उपेक्षाख्यतृतीयकोटावेव मम तन्निवेशस्य विवक्षितत्वादित्यभिसंधाय कवित्व- वीररसाविष्टचेतस्तया कविस्तावन्मूर्तिमतीम् 'निर्दूषणां गुणवतीं सरसां सुवर्णा सालंकृति ध्वनिमतीं शुभलक्षणां च। सद्दृत्तिरीति मृदुमन्जुपदामुदारां शङ्गारभावल- लितां गतबालभावाम् ॥ हृद्येव भूरि कठिनां वदने प्रसन्नामन्यत्र चारुमसृणां दृशि कृष्णसाराम्। मर्यादयातिविनतां विशदाशयाढ्यां साध्वीमुपैति सुकृती तरुणीं च वाणीम् ।।' इत्यादि मदुक्तप्रकारेणाप्रतः स्थितामिव प्रकृतमत्सरिकृतानादरखिन्ना- मिव च खवाचं प्रकल्प्य तां सान्त्वयति- मद्दाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम्।

Page 171

शान्तविलासः। १६५

काव्यारविन्दमकरन्दमधुव्रताना- मास्येषु धास्यसितमां कति नो विलासान्॥२८। मद्दाणीति। हे मद्वाणि मदीयभारति। त्वम्। मात्सर्येति। असूयापरनामा परोत्कर्षासहनजन्मा तत्प्रातिकूल्यप्रवीणो मनोविकारो मत्सरः । तत्र सूर्योत्कर्षा- सहनजन्मनि दिवाभीतनिलीनत्वादावतिव्याप्तिरिति तदादिप्रवीणान्तम्। तत्रापि शिशुपालकर्तृकश्रीकृष्णनिन्दारूपे वाग्व्यापारेऽतिप्रसङ्ग इति मनोविकार इति। तस्य भावो मात्सर्यम्। तत्र मन्नं न तु गतम्। तेन पङ्चादौ मन्नवत्तस्य दुरुद्धरत्वं ध्वन्यते। एतादशं मनो येषां तथा तेपामित्यर्थः । एतेन तत्रोपेक्षैकप्रतीकार्यत्वं व्यज्यते। एतादृशां खलानाम्। पिशुनानामित्यर्थः । अनादरेण कर्नरि षष्टी। सा तत्कर्तृकतिरस्कारेणेर्थः । सहसा स्त्रीखाभाव्याद्राभस्येनेति यावत्। विषादं खेदम्। मा कुरु मैव भजखेति योजना। अहो कथं मया न खेदः कार्यः, प्रागुक्तसकलगुणशालिन्या अपि मे पामरैरप्येतैस्तिरस्कारः केवलं कमप्यपरावं विनैव कृष्णाया इव कौरवैः क्रियत इत्यत आह-काव्येत्याद्युत्तरार्घेन। काव्यानि श्रीमहारामायणादीन्येव। अरविन्दानि पद्मानि। तेन तेषां प्रसन्नत्वसरसत्वमृदु- लत्वादीनि द्योत्यन्ते। तेषां यो मकरन्दः पुष्परस इव श्रङ्गारादिरसस्तत्र ये मधुव्रता इव भ्रमरा इव संसक्तत्वतदास्वादकत्वादिना मधुव्रताः सहृदयास्तेषा- मित्यर्थः। अत्र रसमधुव्रतपदाभ्यां शङ्गारादावास्वाद्यत्वतृप्तिजनकत्वादि सहृदयेपु तन्मात्रनिरतत्वादि च सूच्यते। तथा चतादृशां पुरुषधौरेयाणाम्। आस्येषु मुखेषु। कति विलासान्नो धास्यसि। अपि तु बहूनपि विलासान्धास्यस्येवेत्य- न्वयः । अत्र 'धास्यसितमां कियतो विलासान्' इत्यपि केचित्पठन्ति तत्र काक्का- श्रयणमेवोक्तार्थपोषार्थ दोष इति ध्येयम्। तस्मान्नैव भवत्या खेदः कार्य इति तात्पर्यम्। अत्रोक्त एव रसः । समासोक्तिः काव्यलिङ्गं लुप्तोपमादिश्चालंकारः॥ न केवलमसौ मत्काव्यश्रवणानानन्दी पशुरेव किंतु ततोऽपि नीच इति सृचयति- मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषांचिन्न खलु विद्धीरन्नपि मुदम्। ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः॥२९॥

Page 172

१६६ भामिनीविलासे

मधु द्राक्षिति। मधु माक्षिकमेव द्राक्षा। साहचर्यान्मधुरद्रव्यस्यैव प्रकृते सर्वस्य कविविवक्षितत्वाच्च। सुराद्रव्यस्य तु क्वापि तथात्वेनानुक्तत्वात्प्रत्युत दुर्ग- न्धत्वादिना दूरतोऽप्यतितरपराकरणीयत्वादनन्तकोटिशास्त्रनिन्दितत्वाच्च नात्र भ्रान्त्यापि प्रसङ्गः । तद्रराक्षा मृद्दीकादि: प्रसिद्वैव। एतद्यं लाबालसाधारणम् । अमृते तु तेषामश्रुतत्वेन कामाभावात्। साक्षात्प्रत्यक्षम्। तेन 'अमृतं यज्ञशेषे स्यात्' इति विश्वोक्त्तगौणामृतव्यावृत्तिः। अमृतं पीयूषम्। इदं तु बालेतरसाधा- रणम्। तेन विशेषालम्भार्थोऽयमथशब्दः। वामाधरसुधा। 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वात्स्त्ीत्वविवक्षायां टापि कृते वामेति रूपम्। तेन परमसुन्दरीत्यर्थः। तस्या याधरसुधा। अधरामृतमिति यावत्। इदं हि बालानां तत्प्रयोजकाविर्भावाभावेनाविशेषयत्, वृद्धानां तत्सत्त्वेऽपि तदुपोद्वलक्- शक्तिविशेषशून्यत्वेन 'वृद्धस्य तरुणी विषम्' इति वचनेन चाविषयत्वात्तरुणैक- विषयं ज्ञेयम्। अथवेति पदच्छेदे तु माशब्देन लक्ष्मीः । शिष्टं तु प्राग्वदेव। अन्राधरसुधेति पदे रूपकलुप्तोपमाद्यलंकारविवक्षायामपि श्लेषादिवशात्सुधा- पदेन चूणोपस्थितिदोषस्त्वधरे लग्नताम्बूलभक्षणक्षणावच्छेदेन संबद्धा या सुधा चूर्णमिति शाकपार्थिवादिसमासं तस्मिन्पक्षे समाश्रित्य यावत्स्त्रीगुणविशिष्टस्वर- मण्याः कमलाया वाधरसंपर्केण चूर्णस्याप्यमृताधिकमधुरिमासंपन्न इति शङ्गाराति- शयध्वनेः समवमोषणीय इति तत्त्वम्। एवं च जीवन्मुक्तानां विष्णुसायुज्यं संपाद् तत्प्राशनकामनाव्यतिरेकस्यापि संभवाद्युक्तमेव तद्रहणम्। सर्वासामप्य- तिसुन्दरीणां तन्मात्रावधित्वात्। एते पदार्थाश्वत्वारोऽपि प्रत्येकं वा। कदाचि- देशे काले वा। न तु सर्वदा। तत्रापि केषांचिज्जीवन्मुक्तादधिकारिविशेषाणामेव। मुदं हर्ष यद्यपि न खल विदधीरज्नैव कुर्वीरन्नित्यर्थः। तथापि न क्षतिरित्यार्थि- कम्। तत्र मधुद्राक्षे पित्तोपहतरसनस्य सर्वस्य, अमृतवामाधरसुधे तु मिलिते चेज्ीवन्मुक्तानामेव, केवलवामाधरसुधा तु तादृशवृद्धस्यैवानादरविषय इति विभागो बोध्यः। अस्त्वेवम्, प्रकृते किमायातमित्यतस्तद्यनक्ति-ध्रुवमित्याद्युत्तरा- घेन। अहहेति खेदे। ते मन्दमतयो जीवन्तोऽपि मृतका ध्रुवं मृता एव सन्तीति संबन्धः । ते के। येषां जगन्नाथभणितिर्जगन्नाथशर्मणः पण्डितरायस्य मम भणितिः । काव्यात्मकशव्दरचनेत्यर्थः । आनन्दं न जनयतीति योजना। यथा जीवन्मुक्तत्वं जीवेषु परमोत्तमकोटिरेवं जीवन्मृतत्वमपि चरमाधमकोटिरित्या- शयः । तस्मान्मत्काव्यानादरशीलास्तु पश्वादिभ्योऽप्यतिनिन्या एवेति भावः ।

Page 173

शान्तविलासः । १६७

एवं चैतादृशोत्तमोत्तमकाव्यप्रचारार्थमुक्तेश्वरोपालम्भः संभवदुक्तिक एवेति व्यज्य- ते। अत्रापि कवित्ववीर एव रसः । अतिशयोकतिः प्रतीपं लुप्तोपमा काव्यलिङ्ं परिकरस्तैर्मिलित्वा क्षीरनीरवत्संकरश्चालंकारः ।। अथ कवित्ववीररसावेशादेव कंचित्सप्रतिस्पर्धिनं पुरःस्थितं मया त्वदपेक्षया- प्यतिरमणीयतमं काव्यं क्रियत इति वदन्तमिव प्रकल्प्य तं प्रत्याचष्टे- निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव-

काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादशां नो चेद्डुष्कृतमात्मना कृतमिव स्वान्ताद्वहिर्मा कृथाः॥३०॥ निर्माण इति। हे सखे। एतेन स्वस्य प्रतिमल्लेऽपि सौहार्दप्रकाशकत्वेनाति- प्रौढत्वं व्यज्यते। त्वं यदि गिरां काव्यवाणीनां निर्माणे रचने नितरामत्यन्तम्। न तु यत्किचित्। तत्रापि मार्मिकोऽसि तद्रचनचातुरीमर्मज्ञोऽसीत्यर्थः । तर्हि मादृशां संमुखे मत्समक्षं पण्डितधुरधराणां समक्षमित्यर्थः । सुखेन काव्यं कथ- येत्यन्वयः । एतेन खाग्रे काव्यप्रकाशनमलौकिकशक्तिमन्तरानुचितमेवेति द्योत्यते। ननु किमत्रालौकिकशत्तया कविता हि शास्त्रव्युत्पत्तिमात्रसाध्येति तदाशयमनु- माय निरुक्तगिरो विशिनष्टि-अत्यन्तेति। अत्यन्तं खयमुन्मीलनपर्यन्तं न तु यत्किंचित् एतादृशो यः पाकः पक्कता ततो द्रवन्ती निरुक्तोद्भेदेन रसमुद्रिरन्ती एतादृशी या 'मृद्वीका गोस्तनी द्राक्षा' इत्यमराद्राक्षाजातिविशेषो गोस्तनाकार एव तस्या यो मधुमाधुरीमदो मधु माक्षिकं मकरन्दो वा तद्वया माधुरी मधुरता तया यो मदः। गर्व इति यावत्। तस्य यः परीहारः परीभावस्तत्रोद्धुरा अग्रे- सरास्तासामित्यर्थः। एतेनालौकिकानन्तजन्मसंचितसुकृतपरिपाकैकजन्यतादृशक- वित्वप्रयोजकबीजीभूतशक्तिविशेषमन्तरा निरुक्तरीतिककाव्यकल्पनं नैवाल्पायास- साध्यमिति ध्वन्यते। उक्तवैपरीत्ये त्वतितूष्णींभाव एव त्वया विधेय इत्युपदेश- व्याजेन विनिन्दति-नो चेदित्यादि चरमचरणेन। नो चेननिरुक्तसामर्थ्य नास्ति चेत्तर्हि त्वमात्मना बुद्धा कृतं न त्वज्ञानात्संपन्नम्। एतेन व्यवहारे तस्य मौर्ख्यां- पादकत्वेनातिगोप्यत्ववद्धावत्ककाव्येऽपि तत्त्वमेव त्वयावश्यं कर्तव्यमिति द्योत्यते। एतादृशं दुष्कृतं पापमिव। आत्मना त्वया कृतं काव्यमपि स्ान्तादन्तःकरणात् बहिर्वाद्द्वारा प्रकटं मा कृथा: नैव कुर्वित्यन्वयः । एतस्मादेतादृक्सामर्थ्यमिदानी मय्येव नान्यत्रेत्याकूतम्। अत्रोक एव रसः। प्रतीपोपमेऽलंकारौ ।

Page 174

१६८ भामिनीविलासे

तदेव स्पष्ट्यति- घुर्येरपि माधुयैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम्। वन्दैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ३१ ॥ धुर्यैरपीति। 'धूर्दहे धुर्यधौरेयधुरीणास्तु धुरंधराः' इत्यमराच्छेष्ठैरपीत्यर्थः । एतादृशैरपि। द्राक्षेति सुधामृतम्। माधुर्येः । पण्डितेति। कविताया इयं प्रत्य- क्षप्रकृतग्रन्थगा माधुरी मधुरता वन्धैवास्तीति संबन्धः । रसस्त्वत्रोक्त एव। प्रतीपमलंकारः ।। तर्हीदं मुक्तककाव्यमेव किमिति रघुवंशादिवद्रामादिवर्णनमेव न कृतमित्या- क्षेपं समाधत्ते- दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्या। मदीयपद्यरतानां मखूषैषा कृता मया ॥ ३२ ॥ इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे शान्तविलासश्चतुर्थः। दुर्वृत्ता इति। मजूषा पेटिका। एवं च मयायं ग्रन्थः काव्यग्रथनवुद्दा नैव कृतः । किंतु तत्तदवसरे लीलामात्रेण तानि तानि पद्यानि कृतानि। तेषां केचिद्दुर्जनास्तावन्मदीयोऽयं श्लोको मदीयोऽयं श्रलोक इति विद्वत्सदःसु शलाघने- नापहारं करिष्यन्तीति तन्निराकरणार्थमेवेति द्योत्यते। अत्राप्युक्त एव रसः। लुप्ोपमा रूपकं चालंकारः । दोषं करोमि कण्ठे गुणाय किल भामिनीविलास इह। तेनैव सार्थको मे भूयात्प्रणयप्रकाशोऽयम् ॥ पदवाक्यमानविरहोऽप्युपयोगायैव मेऽत्र संपन्नः । यद्भामिनीविलासे रचितः प्रणयप्रकाशोऽयम् ॥ तमिमं वयस्य सुदृशः पश्यन्त्वनिशं ममात्र यो दोषः । तमपि च सुवेषयन्तु स्वात्मसुतृप्यै यतोऽयमारचितः ॥ इति प्रणयप्रकाशे चतुर्थः प्रमोदः ।

Page 175

भामिनीविलासस्थश्लोकानां सूची।

विला० श्रो० विला० श्रो०

अकरुण मृषाभाषा .. श्रृ० २० आविर्भूता यदवधि मधु ... शृ0 ६३ अकरुणहृदय प्रियतम ३९ इत एव निजालयं " २६ अङ्गानि दत्त्वा ... ९२ इदमप्रतिमं पश्य " ७१ अन्ैः सुकुमारतरैः ८० इयत्यां संपत्तावपि अ० ४१ अधरद्युतिरस्तपल्लवा ६८ उदितं मण्डलमिन्दो: ... श्ृ० ७० अधरेण समागमाद्रदानां " ९८ उपकारमेव तनुते ... अ० ७७ अधिरजनि प्रियसविधे ६१ उपनिषदः परिपीता " ... शृ० ३८ अधिरोप्य हरस्य हन्त ३६ उपरिकरवालधारा १३ " अ० अनिशं नयनाभिरामया एकस्त्वं गहने ... " ७९ २३ " अन्यां जगद्धितमयी अ० ६७ एको विश्वसतां ६५ अपनीतपरिमळान्तर २० एणीगणेपु गुरु ४७ "' अमरतरुकुसुम .. २६ औ.सुक्यात्परिमिलता ४३ " अमितगुणोऽपि ७६ ओदार्य भुवनत्रयेऽपि अ० ६४

अयि दलदरविन्द कथय कथमिवाशा शृ0 २७ "> ४ अयि मलयज १० कपोलपालि तव तन्वि " अयि रोपमुरीकरोषि ४२ कपोलावुन्मीलत्पुलक ६९ " अये जलधिनन्दिनी नयन शा० २ कमलिनि मलिनी अ० ८

अरुणमपि विद्रुमन्द्रु ८७ कर्पूरवर्तिरिव लोचन क० अलंकर्तु कर्णो भृश " ५३ करिकुम्भतुलामुरोजयो: शृ० १०८ अलिर्मृजो वा नेत्रं वा ७७ कलभ तवान्तिक " अ० २५ अवधौ दिवसावसान कलिन्दनगनन्दिनी " १५ शा० ४

अव्याख्येयां वितरति शा० १० कस्तूरिकातिलकं ... ४

आगतः पतिरितीरियं शृo १४ कस्य हन्त फलाय अ० ९८

आपद्गतः किल ... अ० ६८ कान्त्या सुवर्णवरया क० १५ आपेदिरेडम्बरपथं काव्यात्मना मनसि पर्य १० ... " १६ " आ मूलाद्रलसानोः शा० २६ किं खलु रतैरेतैः अ० ४०

आयातैव निशा निशापति ... शृo ५४ किं जल्पसि मुग्धतया शृ० ४२

आयातैव निशा मनो किं तीर्थ हरिपाद अ० ८१ ... " ५८ आक्रमाधिपतिः .. ... अ० २९ किं निःशङ्कं शेषे शेषे शा० १९ आलीपु केलीरभसेन ११ किमिति कृशासि कृशो ... शृ० १०१ आलोक्य सुन्दरि मुखं ... " ७३ कुचकलशयुगान्त: " ३०

Page 176

१७० श्ोकसूची।

विला० श्रो० विला० शरो० केनापि मे विलसितेन क० ९ तिरस्कृतो रोषवशात्परि ... श्रृ० ९६ केलीमन्दिर मागतस्य ... शृ0 ८३ तृष्णालोलविलोचने .. अ० ३ कशोरे वयसि क्र्मेण ... " ६५ तोयैरल्पैरपि ... " २८ खलः सज्जनकार्पास ... अ० ८६ दधानः प्रेमाणं ३१ ... " खिद्यति सा पथि शृ० ८१ दयितस्य गुणाननुस्मरन्ती ... क० १८ गरिमाणमर्पयित्वा ... शृ० ४४ दयिते रदनत्विषां ... शृ० ७८ गर्जितमाकर्ण्य ... ... अ० १०१ दरानमत्कन्धरबन्ध ... " २३ गिरयो गुरवस्तेभ्यो ... अ० ९२ दवदहनजटाल अ० ३४ ... गिरा देवी वीणागुणरणन ... शा० २७ दारिदं भजते कलानिघि ... श्ृ0 ५६ गिरिगह्वरेषु अ० ५१ दिगन्ते श्रूयन्ते अ० १ गीर्भिर्गुरूणां " ७१ दीनानामिह परिहाय ... " ११ गुअतिमञ्जु भिलिन्दे ... ... १८ दुवृत्ता जारजन्मान: शा० ३२ " गुरुजनभय ... शृ0 दैवे पराग्वदनशालिनि क० १

गुरुभि: परिवेलिता धत्ते भरं कुसुम अ० ८९ ... " १७ गुरुमध्यगता मया धीरध्वनिभिरलं ते ... ... " ५९

गुरुमध्ये हरिणाक्षी ४७ धुर्यैरपि माधुर्यैद्राक्षा ... शा० ३१ " ग्रीष्मे मीष्मतरैः क० ... ३३ धृत्वा पदस्खलनभीति " चपला जलदच्युता ... शा० २४ धूमायिता दश दिश: ... अ० ९९ चिन्तामीलितमानसो ... शृ० ५२ न मनागपि राहुशेष शृ० १

च्विन्ता शशाम सकलापि क० ७ न यत्र स्थेमानं अ० ३० ... चेला ञ्चलेनाननशीत ४८ ... शृ० ९७ नयनाञ्चलावमर्श ... " जठरज्वलन अ० ४८ नयने वहतां नु खज्जनानां ... " ८८ जनक: स्थाणुविशेषो ... न वारयामो भवतीं " ९७ ... ४३ जम्बीरश्रियमतिलङ्ध्य श्ृ0 ९१ नापेक्षा न च दाक्षिण्यं ... ३७ जितरत्नरुचां यदा " ९३ नितरां नीचोऽस्मीति ... ... " ७ तटिनि चिराय अ० २१ नितरां परुषा ... श्रृ0 २ तदवघि कुशली ... श्रृ0 १३ निपात्य भूयो निजगौरि " तन्मञु मन्दहसितं " ५ निर्दूषणा गुणवती क० ६ तरणितनया किं स्यादेषा ... शा० २३ निर्माणे यदि मार्मिकोऽसि ... शा० ३० सरणोपायमपश्यन्नपि निर्वाणमङ्गलपदं ... " १७ क० ४ ...

तरुकुलसुषमा अ० २५ निरुध्द यान्तीं तरसा ... .. शृ0 तावत्कोकिल तिमिरं हरन्ति हरितां ... "9 ६ निष्णातोऽपि च ... अ० १५ ... शृ० २९ निसर्गादारामे · अ० ५२ वीरे तरुण्या वदनं ... " २१ निःसीमशोभासौभाग्यं w. शृ0 ४६

Page 177

श्ोकसूची। १७१

विला० श्रो० विला० शो०

नीरक्षीरविवेके मद्वाणि मा कुरु विषाद ... अ० १२ .. शा० २८ नीरान्निर्मलतः ६१ मधु द्राक्षा साक्षादमृत २९ ... " ... " नीवी नियम्य शिथिला १० मधुप इव मारुते अ० १७ ... ... नैर्गुण्यमेव अ० ८३ मन्दस्मितेन सुधया ... क० १२

न्यञ्चति वयसि प्रथमे ४५ मरकतमणिभेदिनीधरो ... शा० २२

पत्रफलपुष्पलक्ष्म्या अ ० २२ मलिनेऽपि राजपूर्णा अ० ९५ पर गुह्यगुप्तिनिपुणं मानपराग्वदनापि प्रिया ... शृ0 ४९ " ८७ परपूरुषदृष्टिपात श्रृ० ९० मान्थर्यमाप गमनं " ८४

परार्थेव्यासभ्गात् ७४ मुन्नसि नाद्यापि रुषं " ७२

परोपसर्पणानन्त ८४ मुधैव मन्तुं ... " १२

पाटीर तव पटीयान् मुद्दुरर्थितयाद्य निद्रया ... " ३२ " पाटीरद्रुभुजङ्गपुंगव श्रृ० ५७ मूलं स्थूलमतीव ... अ० ३२

पाणौ कृत: पाणिरिला ८६ मृद्वीका रसिता सिता ·.. शा० " पातालं व्रज पाहि वा शा० ६ यशःसौरभ्यलशुन: ... अ० ८०

पिब स्तन्यं पोत ५८ यस्मिन्खेलति " ५३ पुरा सरसि मानसे ole २ या तावकीनमधुर क० ११ पुरो गीर्वाणानां ७९ याते मय्यच्िरात् .. ... अ० १५

पृष्टाः खलु परपुष्टाः २७ युक्तं सभायां ८० ... " पौलोमीपतिकानने ४४ येन भिन्नकरिकुम्भ ... " ४९ " प्रत्युद्रता सविनयं सहता ... क० २ ये नामदन्मरन्दे ...

प्रथमं चुम्बितचरणा शा० १६ यैस्त्वं गुणगणवान ... १९

प्रभातसमयप्रभां शृ0 ५० योवनोद्गमनितान्त ... श्० ३५

प्रसक्गे गोपानां यदुषु ६४ राजानं जनयांबभूव .. क० द२ " प्रातस्तरां प्रणमने " ६ रीति गिराममृतवृष्टि ... क० १९ प्रारम्भे कुसुमाकरस्य अ० ४६ रूपारुचिं निरसितुं ... शृ० ४१ बदरामलका शृ0 ८ रे चाञ्चल्यजुष: ... अ० ५७ बन्धोन्मुत्त्यै खलु मख शा० १५ रे चेतः कथयामि ते ... श० भवग्रीष्मप्रौढातपनिवह शा० १४ रे रे मनो मम मनोभव ... २१ भिन्ना महागिरिशिला: अ० १०० रोषावेशान्निर्गतं श्ृ0 २४ भुक्ता मृणालपटली: अ० ४५ लवलि तव लीलया ... भुजपज्जरे गृहीता ३७ " ३४ ... शृ0 लावण्यमुज्ज्वलमपास्त क० १४ भूतिनी चगृहेषु विप्र ... शा० २४ लीलामुकुलित अ० ६२ भूमौ स्थिता रमण नाथ क० २३ लीलालुण्ठितशारदा " ७० मथुरागमनोन्मुखे मुरारा ... शृ0 ८२ लूनं मचगजैः ... " ३९

Page 178

१७२ श्रोकसूची।

विला० श्रो० विला०

... शृ0 ५० श्वासोऽनुमानवेद्य: ... ४७ श्रियो मे मा सन्तु " लोभाद्वराटिकानां ... ... शा० ख. वक्षोजाग्रं पाणिनामृश्य १६ श्रुतिशतमपि भूय: शृ0 खि वज्रं पापमहीभृतां ... शा० ८ संग्रामाङ्गणसंमुखा " गवि वदनारविन्दसौरभ ... शृ० १०२ सत्पूरुष: खलु ... अ० गि वनान्ते खेलन्ती अ० ७८ संपादयामि किमहं धावं शा० गिर वंशभवो गुणवानपि ७५ सन्त्येवास्मिअ्जगति ... " ... " गिर वहति विषधराम् ... " ७२ समुपागतवति अ० गि वाचा निर्मलया सुधा शा० ५ समुत्पत्ति: स्वच्छे " गी वाचो माङ्गलिकी: शृ० ५५ सरसिरुहोदरसुरभा शृ0 गुप विदुषां वदनात् अ० ६३ सर्वेडपि विस्मृतिपथं क० गुरु विदूरादाश्चर्यस्तिमितित ... शृ0 ६० साकं ग्रावगणैः अ० गुरु विधाय सा मद्वचना " ३१ सुदृशो जितरल्नजालया ... शृ० गुरु विनये नयनारुण सेवायां यदि साभिलापमसि " १२ शा० गुरु विरहेण विकलहृदया ६७ सौदामिर्नाविलसित ... क० गीषं विशालविषयावली ... शा० सौरभ्यं भुवनत्रये अ चपत विश्वाभिराम अ० ६९ स्थिति नो रे दध्या: ... "' चिन् विश्वास्या विधुर ६६ स्मितं नैतत्किंतु प्रकृति शृ० " च्विन विष्वय्ुच्या भुवनमभितो ... शा० १२ स्मृतापि तरुणातपं शा चेला वीक्ष्य वक्षसि विपक्ष शृ0 २२ स्वच्छन्दं दलदरविन्द अ जठर वेतण्डगण्डकण्डूति अ० ६० स्वप्नान्तरेऽपि खलु भामिनि ... जनक व्यत्यस्तं लपति क्षणं श्ृ० ६९ स्वर्लोकस्य शिखामणिः अ जम्बी व्योमनि वासं कुरुते ... अ० ९२ स्वस्वव्यापृति जितर शयिता शैवलशयने ... शृ० ६६ स्वार्ध धनानि धनिकात् तटिति शयिता सविधेऽप्यनीश्वरा ... स्वेदाम्बुसान्द्रकण तदर्वा " १०० शून्येडपि च गुणवत्ता अ० ८५ हारं वक्षसि केनापि अ तन्मश शृण्वन्पुर: अ० ३५ हालाहलं खलु ... " तरणिर श्यामं सितं च सुदृशो ... ७६ हृदये कृतशैवला ... शरृ सरणो तरुकुल तावत्क तिमिरं वीरे त

Page 180

DONATED TO TTD CENTRAL LIBRARY

Page 182

विक्रेयपुस्तकानि। मृ. डा. अमरुशतकम् -- श्रीअमरुककविविरचितं, अर्जुनवर्मदेव- प्रणीतया रसिकसंजीविन्या टीकया सहितम्. ..... ।।।. आर्यासप्तशती-गोवर्धनाचार्यकृता, नन्तपण्डितकृतय। व्यंङ्रचार्थदीपगटीक ग सहिना ... .... १।। ऋतु संह रकाव्यम्-कोललिदासकृतं, माणरामकटतया टी- कया सहितम्. .... .... .... .... कथाकौतुकम्-पण्डितश्रीवरविरचितम् ..... .... .lII. 6= कादम्बरीकथासारकाव्यम्-श्रीमदभिनन्दकृतम्. किरातार्जुनीयकाव्यम्-भारविकृतं, मल्लिनाथकृतया घण्टापथटीकया सहितम्. .... .... काणणद पिः-पहामहोपाध्यायश्रीगोविन्दविरचितः. .... २ काव्यालंकारसंग्रह :- महामहोपाध्यायश्रीमदुद्भटप्रणीतः, श्रीमत्पतीहारेन्दुराजविरचितया काव्यालंकारसार- लघुवृत्त्या समेतः. .... .... .11= 1 काव्यालंकारसूत्राणि-( वृत्तिसहितानि )-अयं पश्चा- धिकरणात्मकोऽलंकारशास्त्रस्य मूलभूतो अ्रन्थः. ।।। काव्यानुशासनम्-श्रीमद्वाग्भटविरचितं, सकृतटीकु।स- नम. .. ... .... .... .2. 12 रघुवंशकाव्यम्- कालिदासकृतं, नाथकृतसंजीनी- टीकासहितं स्थूलाक्षरम्. .. .... रघुवंशकाव्यम्-संजीविनीटीकासहितं सक्माक्षरम्. २।। १। पाण्डुरङ्ग जावजी, निर्णयसागरयन्नालयाधिपतिः