Books / Bhashya Ratnamala ASS

1. Bhashya Ratnamala ASS

Page 2

आनन्दा मस ग्रन्थावलिः। W ग्रन्थाङ्क: ७५ सुब्रह्मण्यविरचिता

ब्रह्मसूत्रशांकर- भाष्यार्थरत्नमाला।

एतत्पुस्तकं वे० शा० रा० गोखले इत्युपाह्वैर्गणेशशास्त्रिभिः संशोधितम् ।

तच्च हरि नारायण आपटे इत्येतैः

पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरर्मद्रयित्वा प्रकाशितम् ।

शालिवाहनशकाबडा: १८३६ खि्रिस्ताब्दाः १९१९

(अस्य सर्वेऽधिकारा राजशासनानुसारण स्वायत्तीकृता:) मूल्यं सपादरूपकचतुष्टयम् (४८४)।

Page 4

अस्या माष्यार्थरत्नमालाया: पुस्तकं परहितैषिभि: रा० रा० बाबासाहेबगर्दे इत्पेतैर्दत्तम्।

Page 6

ॐ तत्सङ्वह्मणे नमः । सुन्रह्नण्यविरचिता ब्रह्मसूत्रशांकर- भाष्यार्थरत्नमाला।

प्रथमाध्यायस्य प्रथम: पादुः ।

सुचरितपरिपाकैः शुद्धसत्त्वप्रधानैः

श्रुतिशतनुतकीरति सच्चिदानन्दमूर्ति परमपुरुषमाद्यं भावयेऽभीष्टसिद्ध्यै।। १।। आत्म धिविधुरं प्रसमीक्ष्य लोक- मुमाहतमना निगमार्थसारम्। नित सूत्रनिचयं रचयांचकार श्रीबाद्रायणमुनिर्भुवनैकमान्य: ।।२॥

प्रक्षुभ्यत्परमात्मनिर्मलधियामात्मावबोधापये। यः शारीरकसूत्रभाष्यमनघं चक्रे कृपासागर: सोऽयं सर्वयतिप्रसुर्विजयते श्रीशंकरार्यो गुरुः ॥३॥ सुवनै न्यचरितं सूत्रकृतं च प्रणम्य भाष्यकृतम्। रचयति सुब यो रम्यां माष्यार्थरत्नसन्भालाम् ॥४॥ सत्यज्ञानसुखात्मा केनायं शोकसागरे मग्न:। इत्यालोघ्य यतीन्द्रः प्रागध्यासं प्रदर्शयामास ॥५॥ आत्मानात्माध्यासे विवेकविज्ञानमर्थवद्भवति। रजतेद्मंशयोरिव स युज्यते स्याद्यदा तयोरैक्यम् ॥६॥ ख्यातोऽपि युष्मदस्मत्प्रतीतिगी विषयविषयिणी लोके। तिमिरप्रकाशयोरिव विरुद्धयोः स्यात्कथं तयोरैक्यम्॥७॥ अध्यासमूलमैक्यप्रमोत्थसंस्कारमामनन्ति यतः । तद्भाव ध्यासो न च विषयो न प्रयोजनं वाडपि॥८ ॥

Page 7

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

तद्नुग्रहपवृत्तोऽ्यधिकारी दुर्लभोऽपि तद्सत्त्वम्। तस्मादध्यासकथा शास्त्रारम्मो वृथेति चेन्मैवम् ॥ ९॥ ऐक्यानुभूतिजनितः संस्कारोऽध्यासकारणं नान्य:। कथमन्यथाऽपि लोके नीलं व्योमेति विभ्रमो भवति ॥१०॥ युष्मत्प्रत्ययगोचरविषयस्य च विषयवृत्तिधर्माणाम्। विषयिणि चिदात्मकेऽस्मत्प्रत्ययगम्येऽपि योऽयमध्यास:।११॥ यश्वापि विषयित्धर्माणां च विपर्ययेण विषयेऽस्मिन्। अध्यासः किल यद्यपि मिथ्यैव न चैष भवति परमार्थः ।१२॥ इति सत्यमिह तथाऽपि ह्यन्योन्यस्मिन्परस्परात्मत्वम्। इतरेतराविवेकेनाध्यस्य विविक्तयोरई्वयोरनयोः ॥१३॥ स्याद्द्र्मधर्मिणोः किल मिथ्याज्ञानावलम्बनायत्तः। सत्यानृते ह मिथ्ुनीकृत्याहमिदं ममेदमित्येष: ।। १४ । नैसर्गिको हि लोकव्यवहारः प्रथित एव सर्वेषाम्। अध्यासस्यैतस्य च लक्षणमेवंविधं हि कथयन्ति ॥१५॥ यः पूर्वदर्शनाहितसंस्कारकृतावलम्बनोऽन्यत्र। अवभास्योऽवगतानां धर्माणां लक्षणं भवेत्तत्त्वम् ॥१६॥ कार्याध्यासस्यैव हि लक्षणमन्रोपवर्णितं भाष्ये। यस्मादनर्थहेतु: कार्याध्यासेन कारणाध्यास:।।१७। उभयानुगतं लक्षणमन्यत्रान्यावभास एव स्यात्। एतञ्च सर्वथाऽपि त्वन्यस्येत्यत्र दर्शितं भाष्ये॥ १८॥ धि्यास इतीमं ज्ञानाध्यास इति वर्णयन्त्यार्याः । ·हि शुक्त्यविद्यापरिणामः शुक्तिका तले भवति ॥१९ ॥ विज्ञायते हि विद्यावृत्त्यैव न पुनरन्येन । अर्थाध्यासो यच्चाविद्यापरिणामभूतमिह रजतम् ॥२० ॥ ध्य स्यावमासकाज्ञानवृत्तिरेव स्यात्। समिमर्मा°रीयख्यातिं वेदान्तिनो हि कथयन्ति ॥ २१॥ शेगात्तस्यासत्त्वे प्रतीत्ययोगाञ्च। सत्त्वे त्वपरोक्षत्वं च संनिकृष्टत्वम्॥ २२॥ तत्रानुपपन्नं स्यात्तेनानिर्वाच्यताऽस्य युक्तैव। चिदन्यथात्मख्याती किल वर्णयन्ति ा: ॥२३॥

Page 8

[प्रथमपादः १] भाष्यार्थरत्नमाला।

बौद्धाश्र तत्प्रदर्शितलक्षणमेवं प्रदर्शितं माष्ये। तं केचिदन्यधर्माध्यासोऽन्यत्रेति तस्य चार्थोडयम् ॥ २४॥ सादृश्यादिनिमित्ताच्छुक्त्यादी यत्प्रतीयते रजतम्। स्वावयवधमभूतं शुक्तावारोप्य तेन चान्यदिति ॥२५॥ यो बुद्धिरूप आत्मा रजतत्वाद्या भवन्ति तद्धर्माः। बाह्यार्थे शुक्त्यादावारोप्यन्ते त एव नान्य इति ॥२६ ॥ अपरोक्षसंनिकृष्टत्वाभ्यां पक्षद्दय च युक्तिसहम्। अख्यातिवादिन: किल गुरवोऽध्यासं हि वर्णयन्त्येवम्। यत्र यद्ध्यास इति प्रवाद उपलभ्यते हि लोकेऽस्मिनू। ।. 1. रख॥

न च वस्तुनोर्विवेकाग्रहणनिमित्तो हि तद्धियोरपि च तन्मूलको विशिष्ट्व्यवहारो रजतमिद्मिहास्तीति। सोऽयमिहाध्यासः स्थादित्यध्यासं हि वर्णयन्त्येतम् ।। तन्र विशिष्ट्व्यवहारादध्यासो विशिष्टविषय: स्यात्। यदि न विशिष्टाध्यासो व्यवहारश्रेदृशो विलुप्येत।। जगदेतरदा मसदिति वद्न्त्यसत्ख्यातिवादिमाध्यमि ३०॥ क:ः॥ अध्यासस्यास्य पुनस्तदनुमतं लक्षणं भवेदित्थम् ॥:॥१॥ यत्र यद्ध्यास इति प्रवदृन्ति जनास्तमेतमध्यासम्। विपर्रीतधर्मकल्पनरूपत्वं वर्णयन्ति ते तस्य ॥ ३२॥ अत्यन्तासत एव हि : सदूपकल्पना सेति। सर्वप्रमाणबाधितमसारतरतर्कजालसंरमसम्॥३३॥ यद्यप्येतद्थापि च न बाधकं कथमपीह तन्भ्वति 4 अन्यस्य चान्यधर्मावमासतारूपलक्षणं हीदम् ॥ ३४॥ स्यात्सर्ववादिसंप्रतिपन्नमवान्तरमतप्रभेदेऽपि। तस्माल्लक्षणसत्त्वाद्ध्यासे नेह बाधकं किमपि ॥३५ ॥। लोके हि शुक्तिकेयं रजतवद्वभासते तथा पन्द्रः। एकोऽपि सद्वितीयवदवभासत इति तु तु प्र सिद्धमिदम् ॥३६ ॥ ननु विषयस्य च तद्गतधमाणां यश्च वणिताऽध्यास: । न च कथमविषयभूते प्रत्यग्वस्तुनि समख्जसो भवति ॥३७॥ लोको हि संनिकृष्टे विषयेऽध्यस्यति किलापरं विषयम्। आत्मा न संनिकृष्ो न च युष्मत्पत्ययस्य विषयोऽपि ॥३८॥ शुक्त्याद्यो हि युष्मत्प्रत्ययविषयाश्च संनिकृष्टाक्ष। तत्र च रजतादीनामध्यासी युक्त एव नेह तथा ॥ २९॥

Page 9

४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

युष्मत्प्रतीत्यपेते प्रत्ययूपे भवेन्न विषयत्वम्। तस्मादध्यासोऽयं तत्रानुपपन्न इति तु नाऽडशङयम् ॥४० ॥ यस्मादिहायमात्मा न तावदृत्यन्तमविषयो भवति। अस्मत्प्रत्ययविषयस्तथाऽपरोक्षश्र दृश्यते सोऽयम् ॥४१॥ अस्मत्पतीतिजनिताविद्या संशयवृत्तिफलभाक्त्वात्। विषयत्वमौपचारिकमाश्रितमध्यासकारणं तत्स्यात् ॥४२॥ अध्यसितव्यं विषयान्तरमिन्द्रियसंनिकृष्टविषय इति। मवति न कश्विन्नियमो यस्मादृत्र हि विपर्ययो दृष्टः ॥। ४३॥

बाला न तज्च विषयो न चेन्द्रियेणापिसंनिकृष्टं स्यात् ॥४४ ॥ अविरुद्धस्तद्वदसावध्यासः प्रत्यगात्मचैतन्ये।। अध्यासमुक्तलक्षणमेवाविद्यां वदन्ति विद्वांस:।।४५।। विद्यामाहुर्यत्तु स्वरूपनिर्धारणं विवेकेन। यत्र यद्ध्यासः स्यादोषिण गुणेन तत्कृतेन पुनः ॥४६॥ वस्त्वणुमात्रेणापि च न हि संबध्येत कल्पितत्वेन। एतमविद्यासंज्ञं चिज्जडयोः किल परस्पराध्यासम्॥४७॥ आलम्व्यमानमेव व्यवहारा: सर्व एव संवृत्ताः। तहूच्छास्त्राणि विधिप्रतिषेधविमोक्षतत्पराणि स्युः ॥४८ ॥ ननु कथमन्राविद्यावद्विषयाण्येव हि प्रमाणानि। प्रत्यक्षादीनि तथा शास्त्राणि स्युरिति न पुनराशङ्क्यम्॥४९ ॥ देहे चेन्द्रियादावहंममाध्यासवर्जितस्य पुनः। नैवोपपद्यते हि प्रमातृता संप्रसाद्समय इव ॥ ५० ॥ यदि न प्रमातृता स्यात्तदा प्रमाणप्रवृत्तिरपि न स्यात् । भवति प्रत्यक्षादिव्यवहारो नेन्द्रियाण्यनादाय ॥ ५१ ॥ नैव विनाऽधिष्ठानं व्यापारः क्वचिदृपीन्द्रियाणां स्यात्। व्याप्रियते न हि कश्ििद्वेहेनाऽडत्माभिमानरहितेन ॥ ५२॥ नैतस्मिन्सर्वस्मिन्नसत्यसङ्गनत्मनः प्रमातृत्वम् । नैव प्रमातृभावं विना प्रमाणप्रवृत्तिरिह दृष्ा ।। ५३ ॥ तस्मात्प्रत्यक्षादिप्रमाणजालानि यानि शास्त्राणि। सर्वाण्येवाविद्यावद्विषयाणीति युक्तमेवैतत् ॥५४॥ पश्वादीनां हि यथा व्यवहारोऽध्यासमूलको हष्षः। विदुषामपि भवति तथा व्यवहारोऽध्यासमूलक: सकलः॥५५॥

Page 10

पाद: १ ] माष्यार्थरत्नमाला। ५

दण्डोद्यतकरमभिमुखमायान्तं पुरुषमेकमालक्ष्य। इच्छति हन्तुमसाविति भीता: पशवो दुतं पलायन्ते ॥ ५६॥ करविनिहतहररिततृणं पुरुषं दृष्टाऽतिनिकटमायान्ति। व्युत्पन्नचेतसोऽपि ह पुरुषा लोके तथोपलभ्यन्ते ॥ ५७॥ आक्रोशतो नितान्तं खड्गधरान्क्रूरदष्टिसंवलितान्। बलवत उपलभ्य ततो भीता एव हि पुनर्निवर्तन्ते ॥५८॥ तद्विपरीतान्पुरुषानालक्ष्य च तान्प्रति प्रवर्तन्ते। तस्माव्यवहारोऽसौ सर्वोऽ्यध्यासमूल इति युक्तम्॥५९॥ पश्वादयोऽपि यद्यप्यध्यासं प्रकटयन्ति न परेषु। वागाद्यपाटवेनाथापि समं भवति कार्यमुभयत्र ॥ ६० ॥ अध्यासकार्यभूतो व्यवहारो याहशः पशूनां स्यात्। व्युत्पत्तिमतां पुंसां व्यवहारस्ताद्वृशो हि तत्काले ॥ ६१ ॥ निर्णीयते स चायं व्यवहारोऽध्यासजनित एवेति। व्यवहारे शास्त्रीये यद्यपि यो बुद्धिपूर्वकारी स्थात ॥ ६२॥ न हि नाधिक्रियते परलोकगतिं स्वात्मनोऽपरिज्ञाय। परलोकगतिपरिज्ञानं देहान्यात्मविषयविज्ञानात ॥६३॥ तेन च देहविविक्तात्मज्ञानं कर्महेतुरिति वाच्यम्। तव्यवहारस्याऽडध्यानाधीनत्वं कर्थं भवेदिति चेतु । ६४॥ कर्मणि देहविभिन्नात्मज्ञानं केवलं भवेज्जनकम्। नैवाऽडत्मतत्त्वगोचरमपि विज्ञानं हि तत्र जनकं स्यात् ॥ ६५॥ अशनायादिविवर्जितमपि वेदान्तैकसमधिगम्यं च। क्षत्रविभेदापेतमसंसारि चाऽडत्मतत्वं हि ॥ ६६॥ तद्विज्ञानं यदिदं कर्मस्वधिकारकारणं न भवेत्। कर्मस्वधिकारे न हि यथोक्ततत्वावगत्यपेक्षाऽस्ति ॥ ६७॥ प्रत्युत यथोक्ततत्त्वज्ञानात्कर्माधिकारभङ्ग: स्यात्। पागात्मतत्त्वबोधात्प्रवर्तमानं हि शास्त्रमखिलमपि ॥ ६८॥ यदिदमविद्यावद्विषयत्वं तन्नातिवर्तते त्धीः। यानि च कर्मपराणि ह शास्त्राणि ब्राह्मणो यजेतेति ॥ ६९॥ तान्यात्मनि वर्णाश्रमवयोविशेषादिविषयमध्यासम्। आभित्य हि प्रथन्ते न कढाचिदिमानि वैपरीत्येन ॥ ७०॥

Page 11

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

तस्माद्यवहारोडयं सकलोऽप्यध्यासजनित इति सिद्धम्। अध्यासोऽयमतस्मिस्तद्बुद्धिरिति प्रपश्चितं पूर्वम् ॥७१॥ सोडयं हि पुत्रभार्यादिषु विकलेषु च तथेव सकलेषु। हष्टो हि बाह्यधर्माध्यासो विकलोऽहमिति सकल इति च । ७२॥ एवं हि देहधर्माध्यासः कृष्ण: कृशोऽहमिति दृष्षः । इन्द्रियधर्माध्यासो मूक: कीबोऽहमिति च काण इति ॥ ७३ ॥ बधिरोऽहमन्ध इत्यप्यन्तःकरणस्थकर्मजातमपि। कामादिकं तथैवाध्यस्यति हि प्रत्यगात्मचैतन्ये।। ७४॥ एवमहंप्रत्ययिनं तदाश्रयं स्वप्रचारसाक्षिणि च। प्रत्यग्रूपेऽध्यस्य प्रत्यग्रूप तमेतमात्मानम् ॥७५॥ अन्त:करणादिष्वध्यस्यति किल तद्विपर्ययेणापि। इति सिद्धोऽध्यासोऽयं लक्षणसंभावनाप्रमाणान्तैः ॥७॥ सकलानुभूतसिद्धः सामग्रीसहकृतोऽयमध्यासः। विषयफलसिद्धिहेतु: शास्त्रारम्भेडस्य वर्णनं न वृथा॥७७॥ चिरकालसंप्रवृत्त: सर्वानर्थैकसाधनं हि परम्। सोऽयमनन्तोऽध्यास: पुंसामात्मैक्यविस्मृतौ हेतुः ॥। ७८॥ तस्य च मूलोच्छेदे विशुद्धमात्मैक्यमन्तिके माति । वेदान्तार्थविचारस्तत्सिद्धौ कारणं परं भवति ॥ ७१॥ इति मनसि सकलमर्थं सम्यङ्निश्चित्य सूत्रकारोऽसौ। चक्रे शास्त्रारम्मे विचारकर्तव्यतापरं सूत्रम्॥ ८०॥ इत्यध्यास: समाप्तः । अथातो ब्रह्मजिज्ञासा॥ १॥ विषयफलयोः सतोरण्यधिकारी नास्ति चेद्वृथा शास्त्रम्। तत्राथातःशब्दावधिकार्यर्थौ प्रदर्शिती मुनिना ।।८१ ॥। आ ररथोऽसावथशब्दो नान्यमर्थमाचटे। इतिशब्दो हेतुं कर्मफलानित्यतां प्रसञ्ज्यति ॥ ८२ ॥ मिलितौ द्वावप्येतौ साधनसंपन्नमर्थिनं बृतः । नित्यानित्यविवेकश्चेहामुत्रार्थभोगवैराग्यम्॥८३॥ षटूकं शमादिकानां मुमुक्षुता चेति सुप्रसिद्धानि। चत्वारि साधनानि ह्यानन्तर्यावधिं वदन्त्यार्याः।।८४।।

Page 12

[प्रथ्मपादः १] माष्यार्थरत्नमाला। ७

कर्मफलानित्यत्वप्रतिपत्तिः प्रथमसाधने हेतुः। प्रथमं साधनमुत्तरसाधनसिद्धावपेक्षितो हेतु: ॥। ८५॥। आरम्मार्थो नासावथशब्दो भवति सूत्रनिर्दिष्टः । जिज्ञासापदमुख्यो नैवाऽडरभ्येत कुत्रचित्क्वापि। ८६ ॥ लक्ष्यार्थे चाऽडरम्भो लक्ष्यस्मारकपदान्तराल्लम्यः । तेनैव कार्यसिद्धावथशब्दोऽनर्थकः प्रसज्येत ॥८७॥ अथशब्द: क्रमवचनः स्यादवदानार्थवाक्यपठित इव। कर्मब्रह्मविचारौ स्यातां यद्येककर्तृकौ लोके ॥। ८८ ॥ धर्मविचारं साधकमानन्तर्यावधि वदन्त्यन्ये। धर्मविचारः सोडयं ब्रह्मविचारैकसाधनं चेत्स्यात्॥८९।। प्रथमाश्रमे विरक्तो विशुद्धविज्ञानसाधनोपचितः । कर्मविचारास्पृष्टी ब्रह्मविचारे कथं प्रवर्तेत ॥ ९० ॥ जिज्ञास्यमपि च भिन्नं फलमपि भिन्नं हि दृश्यते शास्त्रे। तस्माद्धर्मविचारो ह्यानन्तर्यावधिः कर्थं भवति ॥ ९१॥ अर्थान्तरत्वबोधकमथशब्दं वर्णयन्ति केचिदिह। अर्थान्तरत्वमेतद्यतः कुतश्वित्प्रसिद्धमफलं हि॥ ९२॥। हेतुफलभावसिद्धिप्रापकमर्थान्तरत्वमिह वाच्यम्।

सूत्रावयवश्चरमः कर्भणिषठ्ठीसमासनिष्पन्रः। शेषेषछीपक्षं वारयति परं सकर्मको धातुः ॥ ९४ ॥ तस्माद्दर्र्ित साधनसंपद्नन्तरमिहोक्तजिज्ञासा। कर्तव्येति प्रथयति वाक्यार्थं प्रथमसूत्रसंदर्भः ॥९५॥ जिज्ञास्यं ब्रह्मोक्तं तक्किं लोकप्रसिद्धमितरद्वा। यदि लोकसुप्रसिद्धं निःसंदेहं तदा न जिज्ञास्यम् ॥९६॥ यदि चाप्रसिद्धमेतत्तज्जिज्ञास्यं कथमितीह नाSडशङ्कूयम्। सत्यं ज्ञानमनन्तं श्रुतिवचनेषूपलभ्यते ब्रह्म ॥९७॥ वैनाशिकादि्समयेष्वतथाभूतो निरुप्यते ह्यात्मा। अत उपपन्नः संशय इति मत्वा शास्त्रमेतदारब्धम्॥९८॥

वादिविवादोपचितः संदेहो नाशमि(मे)ति निर्लेपम् ॥९९॥

Page 13

सुब्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य ] V

ब्रह्मविचारे कार्ये लक्षणमादावपेक्षितं मवति। इति लक्षणबोधार्थं द्वितीयसूत्रं चकार मुनिवर्यः ॥ १००॥ जन्मादस्य यतः ॥ २ ॥ प्रथमं जन्मादिपदं जन्मस्थितिनाशसंघमभिधत्ते। प्रत्यक्षसिद्धमेतज्जगदखिलं प्रथयतीह षश््चन्तम् ॥१०१॥ षठ्ठी संबन्धार्था यत इति शब्दोऽपि कारणं वक्ति। जगदनुबन्धी जन्मस्थितिलयसंघो हि यन्निदान इति ॥१०२ ॥ सू्रार्थे निष्पन्ने लक्षणलाभः कर्थ भवेन्नणाम्। इत्याकलय्य भगवांस्तङ्गह्मेति प्रपूरयामास ॥१०३॥ यवमयचरुवाक्यादौ लक्षणबोधो हि वाक्यशेषात्स्यात्। तद्वदिति नात्र शङ्का यत्तच्छब्दी हि नियतसाकाङ्गी ॥ १०४ ॥ जगदनुबन्धिकजन्मस्थितिलय संघातकारणं ब्रह्म। इति सूत्रार्थे लब्धे लक्षणशङ्का निवर्तिता मवति ॥१०५॥ यास्कमुनिसूत्रदर्शितविकारषट्रकं न वक्ति जन्मादि। लक्षणमेवंभूतं भूम्यादीनामिहोपदिष्टं स्यात् ॥ १०६॥ श्रुत्यर्थनिर्णयार्थं लब्धोत्साहोऽतर सूत्रसंदर्भः । आश्रित्य पिशुनवृत्तिं अ्ुत्यर्थं हातुमुत्सहेत कथम् ॥ १०७ ॥ लक्षण समन्वयबोधे हेतुरविलक्षविज्ञानम्। लक्ष्यस्वरूपबोधे स्वरूपलक्षणमपेक्षितं भवति ॥१०८॥ जगदेकदेशभूतो वेदो नित्य इति विश्वुतो यस्मात्। जगद्ुत्पत्तिस्थितिलयकारणतारूपलक्षणं च कथम् ॥ १०९॥

निश्वसितवाक्यनिचयात्सूत्रार्थो वर्ण्यंते तृतीयोऽसी ॥ ११० ॥ शास्त्रयोनित्वात् ॥ ३ ॥ षष्ठीसमासपक्षे तटस्थसंज्ञं स्वरूपसंज्ञं च। श्रुतिनिवहकर्तृतायां सिद्धायामुक्तलक्षणं सिध्येत् ॥ १११॥ यन्निश्वसितप्रायो वेद: सर्वार्थबोधको हष्टः। तस्य च सर्वज्ञत्वं लक्षणमित्यत्र केयमाशङ्का॥ ११२॥ श्रुतिकर्तृत्वे सिद्धे वेदे कार्यत्वसिद्धिरवतरति। तत्सिद्धौ सिद्धं स्याज्गज्जनिप्रभृतिकारणत्वमपि। ११३ ।।

Page 14

[१ प्रथमपाद: ] माध्यार्थरत्नमाला।

यदि जनिकर्ता चेत्स्याद्वेदोऽयं पौरुषेयतां गच्छेत्। इति शङ्काऽत न कार्या न पोरुषयो निरुप्यते वेदः ॥११४॥ अर्थावबोधपूर्वकयत्नो यस्य प्रसाधको मवति। तत्र व्याकरणादौ भवति परं पौरुषेयता लोके ॥११५ ॥ अर्थावबोधकृत्या समकालिकता प्रतीयते ह्यत्र। निश्वसितवाक्यनिचये तस्माद्वेदे न पौरुषेयत्वम् ॥११६॥ निश्वसितवाक्यमेतन्निश्वासन्यायमेव बोधयति। तस्मादृपौरुषेयो वेदोऽत्रार्थे न बाधकं किचित् ॥ ११७।। नियतानुपूर्विकत्वाद्वेदो नित्य इति गौणवादोडसौ। तस्माज्गदुत्पत्तिस्थितिलय कारित्वलक्षणं सिद्धम् ॥ ११८।। लक्षणपरमेतच्चेत्स्यादाशङ्का प्रमाणमिह किमिति। तस्मात्प्रमाणपरमप्येतत्सूत्रमिति वर्ण्यते सपदि ॥ ११९॥ कारणवचन इदानीं प्रमाणवचनो हि योनिशब्द्ोऽसौ। शास्त्रं योनिर्यस्येत्यत्र समासः परं बहुव्रीहिः॥ १२०॥ शास्त्र प्रमाणकत्वाज्जगज्जनिप्रभृतिकारणत्वाव्च। साधनसंपत्तिमता ब्रह्म विचार्यमिति निश्चितं भवति ॥१२१ ॥ शास्त्र प्रमाणकत्वं न शक्यते ब्रह्मणि प्रतिज्ञातुम्। कृत्स्नस्य वेदराशे: कर्मपरत्वं हि जैमिनि: प्राह ॥१२२॥ कर्मपरत्वे सिद्धे सफलार्थकता हि वेदभागे स्यात्। अतदर्थकवाक्यानामानर्थक्यं प्रपश्चितं हि यतः ॥ १२३ ॥ अध्ययनविध्युपात्ते वेदे चानर्थकत्वमन्याय्यम्। इति शङ्कावसरः स्यादाम्नायस्येति सूत्र इति मत्वा ॥१२४ ॥ विध्येकवाक्यभावाद्विधिसंनिहितार्थवादवाक्येषु। स्तुत्यर्थबोधकथया क्रियापरत्वं समर्थितं भवति ॥१२५॥ सोडरोदीदित्यादौ निषेधवाक्यैकवाक्यभावेन। राजतनिन्दारूपक्रियापरत्वं समाश्रितं भवति । BANSKRIT VIDYA मन्त् इपे त्वेत्यादौ छिनदियोगेन कर्मपरतास्थेत RUFATI. तद्वद्वेदान्ताना कर्त्रादिस्तावकत्वमालम््य ।१७।। कर्मपरत्वे सि्धे ब्रह्मपरत्वं कथं भवेत्तेषाम्। विधिविप्रकृष्टदेशा वेदान्ता: स्यु: कर्थं हि कर्मपराः ॥१२८॥ २

Page 15

१० सुब्रह्मण्य विरचिता- [१ प्रथमाध्य

इति चेत्तथाऽपि न क्षतिरुपासनादिक्रियापरत्वेन। इत्याक्षेपनिवृत्त्यै चकार भगवांश्चतुर्थसूत्रमिदम् ॥१२९॥ तत्तु समन्वयात् ॥ ४ ॥ तत्पद्मस्मिन्सूचे पक्षतया ब्रह्मबोधकं भवति। शास्त्रप्रमाणकत्वं विधेयमिह पूर्वसूत्रलभ्यं स्यात् ॥ १३० उक्ताक्षेपं निरसितुमत्र तुशब्दो हि मध्यनिर्दिष्टः। पञ्च्म्यन्तश्ररमः प्रथयत्युक्तार्थसाधकं हेतुम् ॥१३१॥ पक्षविशेषणवाची समिति ह्यंशोऽप्यखण्डमाचट्टे। अन्वयशब्दो योऽसी प्रकृते तात्पर्यवाचको भवति ॥१३२ अत्राखण्डं ब्रह्म प्रतिपाद्यं भवति शास्त्रनिचयेन। श्रुतितात्पर्याद्द्वेतोर्नैवं कर्मेति सूत्रवाक्यार्थः ।१३३॥। शास्त्रप्रमाणकत्वे हेतुरिहोक्तो हि शास्त्रतात्पर्यम्। तन्निर्णयैकसाधनसुपक्रमप्रभृतिलिङ्गषद्कं स्थात् ॥१३४। छान्दोग्यमैतरेयं मुण्डकमाण्डरक्यतैत्तिरीयाणि। ईशावास्यादीनि हि यानि च. वेदान्तवाक्यजालानि॥ १: तेषासुपक्रमादौ विमृश्यमाने विशुद्धभावेन। तेषां वेदान्तानां ब्रह्मणि तात्पर्यनिर्णयो भवति ॥१३६॥ नन्विह वेदान्तानां ब्रह्मणि तात्पर्यमनुचितं वक्तुम्। ब्रह्म परिनिष्ठितं तन्मानान्तरगम्यमेव भवति यतः ॥१३५ नैषा शङ्का कार्यासिद्धं मानान्तराभिगम्यमिति। रूपादिरहितमेतङ्रह्म न मानान्तराणि संस्पृशति ॥ १३८ नन्वेवं वेदान्तैर्वह्मण्यावेदिते फलं किं स्यात्। हेयोपेयविहीने वस्तुन्यावेदितेऽपि न पुमर्थः ॥१३९ ॥ पुरुषार्थसाधकं स्यानद्वेयमुपादेयमुपदिशच्छास्त्रम्। हेयोपेये ज्ञाते स्यातामिष्टाप्त्यनिष्टपरिहारी ॥ १४० ॥ इति नात्र शक्कतव्यं यत एतच्छास्त्रमेवमुपदिशति। हेयोपेयविहीने ब्रह्मणि साक्षात्कृते पुमर्थः स्यात् ॥१४१ आत्मानं चेत्पुरुषो यदाऽयमस्मीति यो विजानीयात्। किं फलमिच्छन्कस्य च कामाय शरीरमनु तपेत्स इति॥ ननु न हि वेदान्तानां कर्त्रादिस्तावकत्वमाशङ्कचम् । तत्केनेत्यादीनि ह्यकर्तृतामस्य बोधयन्ति यतः ॥१४३ ॥

Page 16

[ १ प्रथमपादः] भाष्यार्थरत्नमाला।

श्रुतितात्पर्ये सिद्धे ब्रह्मणि शास्त्रप्माणकत्वमपि+ सिद्धूं स्यादिति पक्षं दूषयितुं जातकौतुका: केचित् ॥१४४ ।। शास्त्रप्रमाणकत्वं ब्रह्मणि यञ्चोपदर्र्ितं सूत्रे। सिद्धे फलानवगमाद्विधिशेषतयैव तञ्च युक्ततरम् ॥१४५॥ आत्मेत्येवेत्याद्यैरात्मोपास्ती विधीयमानायाम्। कोऽसावात्मा किं तद्गह्मेत्येवं भवेदिहाऽडकाङरक्षा ॥ १४६ ॥ तस्यामाकाङ्क्षायामात्मप्रतिपादकाश्र वेदान्ता: । सत्यं ज्ञानमनन्तं ब्रह्मेत्याद्या इहोपयुक्ता: स्युः ॥ १४७॥ यूपे पशुमित्याद्यैर्यूपाश्रयके हि बन्धने विहिते। यूपस्वरूपबोधकवाक्यानि यथा भवन्ति सफलानि ॥१४८॥ प्रतिपत्तिविषयभूतं ब्रह्मैव समर्पयन्ति वेदान्ता: । आम्नायस्येत्याद्यैः सूतैरपि नात्र कश्न विरोध: ॥। १४९॥। विधिसंस्पर्शविहीनं ब्रह्म यथा बोधयन्ति वेदान्ताः । सप्तद्वीपा धात्री राजा यातीति वाक्यसाम्यं स्यात् ॥१५० ॥ इति पक्षान्तरमेतन्निरस्यते सपदि भाष्यकारेण। यद्येवमर्थता स्यादतार्थता भवति पूर्वतन्त्रेण । १५१॥ पूर्वत्र चोपदिष्टो धर्मोडसी कर्मरूप एव स्यात्। कायिकवाचिकमानसभेदेनैतत्रिधोपदिष्टं हि॥ १५२॥ तत्फलमपि शास्त्रोक्तं त्रिधोपभोग्यं त्रिधैव निर्िष्टमू। यञ्चोपासनमुक्तं मानसिकं कर्म भवति न तदन्यत् । १५३.।। ध्यानमपि ताहशं स्याद्ध्यानोपास्त्योर्न भेदशङकाडत। यज्चोपासनसाध्यो मोक्षोऽयं तर्ह्यनित्य एव स्यात् ॥१५४॥ कर्मायत्तनां शास्त्रेणानित्यतैव निर्दिष्टा। प्रतिपत्तिविधिपराश्रेद्वेदान्ता: प्रथमसूत्रमफलं स्यात् ॥१५५॥ णसूत्रं तद्वत्प्रमाणसूत्रं समन्वयारव्यं च। ब्रह्म च नोत्पाद्यं स्यान्न प्राप्यं भवति नापि संस्कार्यम् ॥१५६॥ न विकायं वा स्यादिह विधिशेषत्वं कथं प्रसज्येत।

नाऽडत्मा संस्कार्योसौ नित्यत्वान्भ्वति नो विकार्योडपि। द्रष्टव्यविध्यनन्तरसपरश्रवणादिविधिपरं शास्त्रम्॥१५८।।

Page 17

१२ सुब्ह्मण्यविरचिता- [ १ प्रथमाध्वायस्य]

विधिशेषत्वं ब्रह्मणि साधयतीत्येवमपि न चाऽडशङ्रक्यम्। यद्यवगतमन्यस्मिन्नियुज्यते विधिपरेण वाक्येन ॥ १५९॥ विधिशेषता तदा स्याद्युपाहवनीययोस्तथा दष्टेः। अवगत्यर्थं ह्येतच्छ्रवणाद्यं साधनं विनिरदिष्म् ॥१६०॥ श्रवणमननादिसाधनपरिपाकादवगतिर्यथा भवति। संसारमूलकारणहृद्यग्रन्थिप्रभेदनं भवति ॥१६१ ॥ तेनानर्थनिवृत्त्या परमानन्दैकरूपतामेति। इत्येतमर्थनिकरं पश्यन्प्रतिपेद एवमादीनि ॥१६२॥ प्रथयन्ति वारयन्ति च कर्तव्यविशेषमवसरप्राप्तम। नेदं यदिदमुपासत इत्यादीन्यपि च वेदवाक्यानि।१६३। प्रथयन्त्यनुपास्यत्वं ब्रह्मणि विधिशेषता कथं बटते। विधिशेषत्वाभावे चाऽडत्मा द्रष्व्य एवमादीनि ॥ १६४ ॥ विधिवाक्याभासानि श्रुतिवचनानीह निष्फलानि स्युः । नैषा कार्या शङ्का यत एतान्यर्थवत्तराणि स्युः ॥१६५॥

सर्वान्तरे परात्मनि चेतोवृत्तिप्रवर्तनार्थानि॥ १६६॥ तस्यां प्रवर्तितायां ब्रह्मावगतिहि जायते झटिति। सिद्धार्थबोधकत्वेनाऽडम्नायस्येति सूत्रवैगुण्यम् ॥१६७॥ नास्मिञशास्त्रे शाङ्क्यं यतस्तयोभिन्नशास्त्रता भवति।* स्तुतिपरतया विधीनां क्रियापरत्वेन सर्ववेदानाम्॥ १६८॥ यञ्ञ सफलार्थकत्वं निषेधवाक्येन दृश्यते तदिह। हननक्रियानिवृत्त्या ह्यौदासीन्यं प्रतीयते तत्र ॥१६९।। न च तदुभयं क्रिया स्यान्न वा क्रियायाश्र साधनं भवति। विध्यर्थवादयोर्वा कर्त्रादिपराणि वाक्यजालानि॥ १७०॥ दृश्यन्ते खलु तेषामनर्थकत्वं न कोऽपि वारयति। पूर्वस्मिन्नपि तन्त्रे दोषोऽयं दुर्निवार इव भाति॥१७१ ॥ कथमुत्तरतन्त्रेऽसी पदं निधातुं समर्थतां गच्छेत्। तस्माद्वेदान्तानां सिद्धार्थपरत्वबाधकाभावात् ॥ १७२॥ ब्रह्मावगता सत्यामशरीरत्वं प्रपद्यते जीव:। ब्रह्मण्युपासनायाः शेषत्वं माऽस्तु विषयभावेन ॥ १७३ ॥

Page 18

[१ प्रथमपादः ] माष्यार्थरत्नमाला। १३

ब्रह्मणि तच्छेषत्वं कर्तृत्वात्स्यादितीह नाऽडशाङ्क्यम्। ब्रह्मणि विधिशेषत्वं कर्तृत्वेनापि नैव संभवति ॥१७४॥ आविद्यकसंघाते कर्तृत्वं स्यान्न शुद्धरूपेऽपि। वर्णाश्रमादिकवलितसंघातः कर्तृभावमुपयाति॥१७५।। मिथ्याप्रत्ययरूपस्तत्राहंप्रत्ययो न गौणोSसौ। यक्ष्ये दास्यामीति व्यवहारस्तन्निदानको भवति ॥१७६॥ समसमयिकत्वमनयोर्व्यवहाराध्यासयोर्यतो मवति। उपदर्शितसंघातो मिथ्यात्मेतीह दृश्यते शास्त्रे ॥ १७७।। पुत्रादिर्गोणात्मा तस्य च सर्वार्थकारिताहेतोः। जाग्रत्स्वप्रसुषुत्तित्रितयानुगतो हि मुख्य आत्माडसौ ।। १७८ ॥ तस्य च न कर्तृता स्यात्सौषुप्तसमाधिबाधितत्वेन। देहादौ संघाते योऽयमहंप्रत्ययः स गौण इति ॥१७९ ॥ केचन वदन्ति वृद्धास्तत्पक्षोयं निरस्यते सपदि। यत्रार्थयोर्विवेक: प्रत्यक्षेणोपलभ्यते तत् ॥ १८०॥ गुणयोगजा प्रतीतिर्गोणीयमिति प्रससिद्धिमनुभवति। माणवकः सिंह इति प्रत्यय एतादृशो ह्यतो गौण: ।। १८१।। यत्रान्धकारसमये स्थाणौ पुरुषप्रतीतिरुन्भवति। सा च कथं गौणी स्यात्तस्मान्मिथ्येति निश्चितं भवति ॥१८२॥ मिथ्यात्मकर्तृकः स्यात्सकलो विधिवचनबोधितो ह्यर्थः । योऽसावात्मा : कर्मणि कर्ता कदाऽपि न च भवति॥ १८३।। तस्माद्विधिशेषत्वं कतृत्वेनापि नाश्नुते ब्रह्म । ब्रह्मावगती सत्यां मिथ्यागौणात्मनोरसत्त्वेन ।। १८४।। विधिवचनबोधितानि ह्यौपासनादीनि संभवन्ति कथमू। आत्मावगते: पूर्व मिथ्याज्ञानावबद्द एवासी ॥१८५॥ आरोप्य कर्तृताक्षीन्कर्मणि सततं प्रवर्तते लोक:। विधिशेषभावरहिते ब्रह्मणि वेदान्तवाक्यतात्वर्पम्॥१८६॥ सिद्धं तस्माच्छुद्धं विचार्यमिति निश्चितं मवति। इममर्थमसहमाना: सांख्याः स्मृतियुक्तिसाधना: प्राहुः ॥१८७॥ जगदुत्पत्तिस्थितिलयकारणमेतत्प्रधानमेवेति। कार्यमखिलंतनमचेतनं तस्य कारणं युक्तम्॥ १८८॥

Page 19

१४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य]

सस्यादिके हि कार्ये कारणमपि तस्य ताहशं दृष्टम्। तस्मात्प्रधानमेव त्रिगुणं परिणामि जगदुपादानम् ॥१८९॥ भवति ह तद्विपरीतं ततो नैव जगदुपादानमू। सर्वज्ञत्वं यञ्च स्वरूपलक्षणमुद्दाहृतं तदृपि ॥ १९० ॥ अस्मिन्प्रधान एव हि सत्त्वमुपाश्रित्य मवति निरवद्यम्। सत्त्वोत्कर्षादेव हि विखयाता योगिनोऽपि सर्वज्ञाः ॥१९१॥ सर्वज्ञशब्द्योगोऽप्यनुचित आमात्यनन्तवोधघने। जन्मादिकारणत्वप्रतिपत्तिपराणि यानि वाक्यानि।१९२॥ श्रुतिनिर्दिधानि परं प्रधानपक्षे प्रमाणभूतानि। जन्मादिकारणं तत्सदादिशब्दं प्रधानमिह युक्तम्॥१९३॥ इत्याक्षेपं निरसितुमिद्मधिकरणं प्रवर्तते सदय: । ईक्षतेर्नाशब्दम् ॥ ५॥ : सूत्रावयवः पञ्चम्यन्तोऽयमीक्षणं वक्ति ॥१९४॥ बुद्धिस्थवस्तुभेद्पदर्शनार्थकमिदं हि नेति पदम। अन्तिममशब्दृपद्मपि सदादिपद्योगरहितमाचटे ॥ १९५ ॥ यस्मादृशब्द्मेतत्प्रधानमत एव कारणं नास्य। इत्येकदेशलभ्ये वाक्यार्थे स्यादिहेक्षणं हेतुः ॥ १९६॥। अपरोक्षमानरूपं हीक्षणमेतन्नच प्रधाने स्यात्। यदिदमचेतनमुक्तं प्रधानमेतच्च चेतने भवति ॥ १९७.॥ तस्मादृत्र हि चेतनमीक्षितृ जन्मादिकारणं ब्रह्म। छान्दोग्यवाक्यदर्शितसत्पद्वाच्यं तदेव न तदन्यत् ॥ १९८॥ सर्वज्ञता हि युक्ता ब्रह्मणि सर्वार्थमानरूपे स्यात्। प्रततप्रकाशरूपे सवितरि यद्दत्प्रकाश्नतेशब्द्ः। १९९।। यदि चेत्प्रधानमेतत्सत्वमुपाश्रित्य भवति सर्वज्ञम्। तहूद्रज भ्यां किंचिज्ज्ञमपि प्रधानमुक्तं स्यात् ॥ २०० ॥

नन्वयमीक्षितृशब्दः सतिनिर्दिष्टो हि गौण एव स्यात्। तत्तेज ऐक्षतेति ह्यान्तर ये यथा स गौण: स्यात्॥२०१॥ गौणे तस्मिन्सोऽयं प्रधानपक्षेऽपि साधुरेव स्यात। नैषा शङ्का कार्या सत्पद्वाच्यं प्रधानमेवेति॥ २०२।।

Page 20

[१ प्रथमपाद: ] माष्यार्थरत्नमाला। १५ ईक्षितृशब्दो योऽसौ न हि गौणो येन सत्प्रधानं स्यात्। यदि चेद्गोण: सोऽयं तत्सहचारी कथं स आत्मेति॥ २०३ ॥ नन्वेष आत्मशब्दोऽप्यात्मीयपदो(रो) हि दृश्यते लोके। आत्माखिलार्थकारिणि ममायमात्मा हि मद्रसेन इति ॥ २०४॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ ७॥ नैषा शङ्का कार्या यद्ययमात्मीयवाचको सवति। उपदेशः सकलोऽयं षष्ठे विहितो हि विफल एव स्थात् ॥२०५॥ उपदिश्य च तन्निष्ठां तत्त्वमसीत्यादिवाक्यजातेन। मुक्त्युपदेशोऽसात्रथ संपत्स्य इति प्रतीयते षछठी ॥ २०६ ॥ आत्मीयवाचकत्वात्प्रधानवादी यदाऽडत्मशब्द: स्यात्। तत्त्वमसि वाक्यलभ्या तंन्निष्ठाऽपि प्रधाननिष्ठा स्यात् ॥ २०७॥ तन्निष्ठस्य च मोक्षस्तन्भ्धावापत्तिरेव न तदन्यः । यः श्वेतकेतुरस्मिन्नुपदेशे सम्यगधिकृतः सोऽयम् ॥ २०८॥ सकलश्रुतिविपरीतं ह्यनात्मभावं कथं प्रपद्येत। ब्रह्मत्वभावरूप मोक्षं कथयन्ति सर्ववेदान्ताः ॥। २०९॥ ईक्षितृशब्दो योडसौ तथाऽऽत्मशब्द्रोऽपि मुख्य इह दृष्षः। तस्मात्सत्पद्वाच्यं ब्रह्म परं स्यान्न च प्रधानमपि॥ २१०॥ हेयत्वावचनाच्च ॥ ८॥ यदि च प्रधानपरता सदादिकानामिहोपदिश्येत। श्रद्धालुराद्टृतात्मा तन्निष्ठः स्यादिति श्रुतिर्मत्वा ॥२११॥ तत्वमसिवाक्यपरतस्तन्नासीति श्रुतिः कथं न वदेत्। तस्मान्नास्मिन्वाक्ये प्रधानशङ्कावकाशलेशोऽपि।। २१२॥ परपक्षनिरसनक्षमहेतूनुपदिश्य सूत्रकारोयम। सद्यः स्वपक्षसिद्धयै हेतूनन्यान्प्रदर्शयत्यनघान्॥ २१३॥ स्वाप्ययात् ॥ ९॥ इह खलु सत्पद्वाच्यं ब्रह्म परं भवति जगदुपादानम्। यस्मात्सुषुप्तिकाले सति सर्वेषां लयो विनिर्दिष्टः॥।२१४।। गतिसामान्यात् ॥ १० ॥ किं चान्यदृवगतीनां सकलश्ुत्यन्तवाक्यजनितानाम्। चेतनकारणविषयकमावं सामान्यमपि च भाति यत:॥२१५॥।

Page 21

१६ सुन्नह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

तन्न्यायादत्रापि ह चेतनकारणपरत्वसंसिद्धौ। अर्धजरतीयं न यतः प्रधानपरता कथं समथ्येत ॥ २१६ ॥ श्रुतत्वाच्॥ ११॥ श्वेताश्वतरप्रभृतिश्चुत्यन्तेषु ्रुतं हि यङ्गह्म। जन्मस्थितिलयकारणमस्य तदेवेति सकलमनवद्यम् ॥ २१७॥ ब्रह्म विचार्यमिहोक्तं लक्षणमुक्तं तथा प्रमाणमपि। सकलनिगमान्तव चसां ब्रह्मणि परमे समन्वयश्रोक्तः ।। २१८।। प्रतिकूलकर्मवादः प्रधानवादो निराकृत: प्रायः । शास्त्रं हि परिसमाप्तं सकला शङ्का निव्तिता हि यतः ॥ २१९॥ उत्तरसूत्रोत्थाने निमित्तमिह नोपलभ्यते किमपि। इति शङ्कामपनेतुं निमित्तमत्रोपवर्ण्यते सपदि॥ २२० ॥ यच्चोक्तलक्षणं स्याङ्गह्म तदेतद्विरूपमाभाति। कथयन्ति हि वेदान्ताः सविशेषं निर्विशेषरूपमपि ॥ २२१॥ सविशेषवाक्यजातं हयपास्यरूपे समन्वितं भवति। यन्निर्विशेषवाक्यं ज्ञेये ब्रह्मणि समन्वितं सकलम् ॥ २२२॥ वेदान्तवाक्यविहितान्युपासनान्यपि बहुप्रपञ्चानि। गुणसंप्रयोगभेदात्फलभेदादृपि च भिन्नरूपाणि ॥ २२३ ॥ कानिचिदुपासनानि हि कर्मसमृद्धचर्थकानि चान्यानि। क्रममुक्त्यर्थानीति हि भेदस्तेषामुपासनानां स्यात् ॥ २२४॥ ब्रह्म खलु पूर्णमेकं निर्भेदस्वप्रकाशचिन्मात्रम्। गुणसंप्रयोगभेदादभिन्नरूपेऽपि भिन्नभावोऽयम् ॥ २२५॥ अत्रोपास्योपासकमावो युक्तो ह्यभिन्नरूपेऽपि। चित्तोपाधिकृतोऽयं तरतमभावो यतोऽस्य बीजं स्थात् ॥ २२६॥ सद्योमुक्तिफलप्रद्मात्मज्ञानं ह्युपाधिरूपेण। उपदिश्यमानमेतत्परविषयं वा न वेति संदेहे॥ २२७ ॥ आलोच्य वाक्यपद्वीमुपाधियोगं व्युदस्य परविषयम्। तदिदं निर्णेयमिति प्रवर्तते सपदि सूत्रसंदर्भः ॥ २२८॥ ईक्षत्याद्यैलिङ्गर्व्रह्म हि जन्मादिकारणं सदिति। वर्णितमेतत्पूर्वं प्रधानवादश्र निरसित: सकलः ॥ २२९ ॥ नन्वीक्षत्यधिकरणे गौणं हित्वा यदीक्षणं मुख्यम्। आलम्ब्य तद्कलेन हि परमात्मा सदिति वर्णितं पूर्वम् ॥२३०॥

Page 22

[१ प्रथमपाद: ] भाष्यार्थरत्नमाला। १७

इह तैत्तिरीयके खल्वानन्दमयप्रकाशकं वाक्यम्। तत्र च वाक्ये मयटः प्राचुर्यविकारयोक्च मुख्यत्वात् ॥२३१॥ आनन्दमयो जीव: शारीरत्वादिलिङ्गयोगात्स्यात्। तत्र च शारीरत्वं प्रियप्रमुख्याणि चाङ्गजालानि। २३२॥ कथितान्यानन्दमये स ताद्टशोऽयं करथं परात्मा स्यात्। इत्याशङ्कानिरसनपुरःसरोक्तार्थतत्त्वबोधाय ॥ २३३॥ करुणान्धुर्भगवानिद्मधिकरणं स प्रदर्शयामास। आनन्दमयोऽयासात्॥१२॥ ये तत्सूत्रं बहुधा बहुभि: प्रपश्चितार्थं हि॥२३४ ॥ तस्मादस्मात्सूतरात्तत्वावगतिर्हि दुर्लभा भाति। नैषा शङ्का कार्या तस्मात्तत्तत्प्रदर्शितार्थेषु॥ २३५॥ गुणदोषवर्णने किल तत्वावगतिर्न दुर्लभा भवति।

इति केचिदामनन्ति हि तत्पक्षोऽयं विचार्यते सपदि। आनन्दमयपदार्थो ह्यन्नमयप्रभृतिपञ्चकं चेत्स्यात ॥ २३७ ॥ स्यालक्षणा तदानीं श्रुतहान्यादीनि दूषणानि स्युः । यत्रानुपपत्ति: स्यादन्वयतात्पर्ययोस्तदा सा स्यात् ॥ २३८॥ घोषोडयं गङ्गायामित्यादौ सा हि लक्षणाबीजम्। बीजाभावादस्य ह्यानन्दमयस्य लक्षणाऽनुचिता॥ २३९॥ यदि समुदायः पक्षस्तत्राभ्यासो न दृश्यते क्वापि। असकृत्प्रयोगवाची ह्यभ्यासो नेह कस्यचिद्दृष्टः ॥ २४० ।। ब्रह्म परं सककृदेव ह्यन्नमयप्रकृतिसंगतं भाति। तदृपि मनोमयवाक्ये न प्रकृती दृश्यते कुतोऽभ्यासः ॥ २४१॥ पञ्चानां ब्रह्मत्वे न च प्रमाणं न साधको हेतु: । अत इह चाऽऽनन्ड्मयो नान्नमयादि: परंतु मुख्यः स्यात् ॥२४२॥ न हि परमात्माऽभ्यासादिति सूत्रार्थं हि वणयन्त्येके। स्वाभिमतार्थं प्रथयितुकामो भगवान्हि भाष्यकारोऽयम्॥ २४३॥ तन्मतमाशरित्यैव हि तत्मूत्रार्थान्प्रदर्शयत्यादौ। नन्वत्राSSनन्दमयः परमात्मा चेत्कथं स शरीरः ॥ २४४॥ सस्यैष इत्यनेन हि शारीरत्वं प्रदर्शितं चास्य। इति नात्र शाङ्कनीयं शारीरत्वं न मुख्यमस्योक्तम्।।२४५ ।। ३

Page 23

१८ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

मयादिशरीरद्दारा ग्राह्यत्वरूपमेव स्यात् । प्रियशीष त्वादिकमपि पूर्वोपाधिककृतकल्पनायत्तम् ॥। २४६ ।। स्व्रत एतस्मिन्नात्मनि नैवंरूपा हि कल्पना भवति। आनन्दपदाभ्यासो हयुत्तरवाक्येषु दृश्यते यस्मात् ॥ २४७॥ अभ्यासादिति हेतु: परमात्मत्वप्रसाधको भवति। नन्विह मयडन्तोडयं विकारवचनो हि दृश्यते लोके ॥ २४८॥ मृन्मयदारुमयादौ तस्मात्स कथ परात्मवचनः स्यात्। परमात्माऽसी जगतः प्रकृतिर्न विकारभावमुपयाति ॥२४९॥ इत्येतामाशङ्कां निरसितुमेतत्प्रदर्शितं सूत्रम्। विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥ यस्माद्विकारवाची मयडन्तोऽसावतो न परमात्मा ॥। २५० ॥। आनन्दमयः स्यादिति नेयं शङ्काऽत कर्तुमुचिता स्यात्। तत्प्रकृतवचनतार्यां मयड्विधानं तु दश्यते शास्त्रे ॥ २५१॥ प्रानुर्यपर्यवसितो मयडर्थ इतीह लभ्यते तस्मात्। अन्नमयो यज्ञोऽसावित्यादौ दृश्यते हि मयडर्थः ॥ २५२ ॥ गतप्राचुर्य तस्मात्प्राचुर्यमत्र मयडर्थः ।

आनन्दप्रचुरत्वं निरतिशयानन्दरूपता नान्यत्। ब्रह्मेहोत्तरवाक्ये निरतिशयानन्दरूपसुपदिष्टम्॥२५४ ॥ तस्मादानन्दमयो ब्रह्मेत्यस्मिन्न दोषशङ्काडपि। ब्रह्म प्रचुरानन्दं मयडन्तार्थोडयमित्युपन्यस्तम् ॥२५५॥ तद्धेतुव्यपदेशाच्॥ १४॥ प्रचुरानन्दृत्वं तत्साधयितुं हेतुमपरमाचटे। अत्र हि तच्छब्दोऽसावानन्दं बुद्धिविषयमाचष्टे॥ २५६ ॥ अव्रत्यहेतुशब्दो णिजर्थकर्तृत्ववाचको भवति। तद्द्ेतुशब्दलभ्यं ह्यानन्दयितृत्वमस्य निर्दिष्म् ॥२५७॥ एष ह्येवेत्यादावयमेवार्थः प्रपश्चितो सवति। धनिकत्वापादयिता प्रचुरधनोSसाविति प्रसिद्धो हि॥ २५८ ॥ आनन्दयिता तद्त्प्रचुरानन्दो भवत्यसावात्मा। मान्त्रवर्णिकमेव च गीयते ॥ १५॥ सत्यं ज्ञानमनन्तं ब्रह्मेत्यन्तेन मन्त्रवर्णेन ॥ २५१॥

Page 24

[ १ प्रथमपाद: ] माष्यार्थरत्नमाला। १९

प्रतिपादितं यदेतङ्रह्म गुहायामवस्थितं यद्पि। सत्यज्ञानान्मोक्ष: प्रदर्शितः सर्वकामसमवात्तिः॥ २६०॥ तन्मन्त्रवर्णवर्णितमस्मिन्वाक्ये हि गीयते ब्रह्म। तस्मादानन्दमयः पर एवाऽडतमेह दर्शितो भवति॥२६१ ॥ आनन्दमयो जीवः स्ादिति शङ्कां निराकरोतीह। नेतरोऽनुपपत्तेः ॥ १६ ॥ यञ्च जगत्कर्तृत्वं बहुमवनं चोत्तरत्र निर्दिष्टम् ॥ २६२॥ तद्तुपपत्तेर्जीवो नाऽडनन्दमयो हि किंतु परमात्मा। योऽसावानन्दमयो रसस्वरूप: प्रदर्शितः श्लोके॥ २६३।। अेदव्यपदेशाच ॥ १७॥ रसरूपं नें लब्ध्वा स्वात्मानन्दं जगत्यसौ जीव:। योऽसावानन्दमयो लब्धव्यः स्याद्रसस्वरूपोऽपि ।। २६४।। इत्यादिभेदजातं श्रुतिवचनेषूपदिश्यते यम्मात्। तस्मादान्दमयो लब्धव्यात्मा परोऽयमिति सिद्धम् ॥२६५॥ ननु यद्यानन्दमयो जीवो न स्यात्तदा प्रधानं स्थात्। भेदव्यपदेशो वा स्षृत्वं वाऽपि तस्य संभवति ॥ २६६ ॥ कामाच्च नानुमानापेक्षा ॥ १८॥ नैषा प्रधानशङ्का कामयितृत्वान्निरस्यते सपदि। अनुमानगम्यमेतत्प्रधानमिह वक्तमनुचितं हि यतः ॥ २६७।। सोऽकामयतेत्यस्मादानन्दमये हि दृश्यते कामः । कामयितृत्वं ह्येतत्परात्मनि स्यान्न च प्रधानेऽपि ॥ २६८॥ अस्मिन्नस्य च तयोगं शास्ति ।। १९ ॥। अस्मिन्नानन्दमये यदाऽहमस्मीति बुध्यते लोक: । तस्य च तदाऽडत्मभावं तद्योगं शास्ति शास्त्रमभयमिति॥२६९। रथिमन्यमेव हि वर्णयितुं जातकौतुको भगवान्। पूर्वोक्ते सूत्रार्थे भूयो दोषान्प्रदर्शयत्यधुना ॥ २७० ॥ आनन्दमयोऽभ्यासात्। अन्नमयादिषु पञ्चसु मयटप्रवाहे समानरूपेऽपि। अन्नमयवाक्यजाते विकारवाचित्वमत्र न तथेति ॥ २७१॥ प्राचुर्थवाचकत्वाश्रयणं मयटो न युक्तमाभाति। यद्येतस्मिन्वाक्ये मयडन्तेनोपदिश्यते ब्रह्म ॥ २७२॥

Page 25

२० सुब्रह्मण्य विरचिता- [१ प्र

प्रियशीर्षत्वादिकमिह यन्निर्दिषट हि धर्मजातं तत्। ब्रह्मणि सकलं वाच्यं तथा हि सूत्रान्तराद्विरोध: स्या अध्याये च तृतीये गुणोपसंहारपादमाश्रित्य। पियशीर्षत्वादीनामप्राप्तिर्दर्शिता हि सूत्रकृता॥ २७४ यद्यानंन्दमयोऽसौ तत्पुच्छं ब्रह्म मुख्यमेव स्यात्। अनुचितमेकस्य स्याद्वयवरूपत्वमवयवित्वं च।। २७५ ब्रह्मेह निर्विशेषं ह्युपक्रमे चोपसंहता कथितम् । अन्र हि सविशेषं चत्तथा विरोधश्र वाक्यवैरूप्यम् । शारीरशब्द एष प्राणिमयप्रभृतिकोशपठितः सन् । उत्सृज्य कोशजातं कथं परं ब्रह्म बोधयेत्सद्यः । २७७ आनन्द्मयपदेन हि चदा परात्मा विवक्षितो भवति। अभ्यासादिति हेतुस्तत्रासिद्धः करथं हि साधयति ॥२ आनन्दमयपदस्य ह्यभ्यासो नोपलभ्यते येन। नाऽडनन्द्मयपदार्थं निर्णेतुं शक्नुयादयं हेतुः ॥ २७९॥ अन्यपदस्याभ्यासे कथमन्यपदार्थनिर्णयो भवति। तस्मादा्मिन्पक्षे सूत्रार्थकथा कथं हि संघटते ॥ २८० प्राचुर्यवाचकोऽयं मयडिति पक्षोऽत नैव युक्त: स्यात् प्राचुर्य लोकेऽस्मिन्प्रतियोग्यल्पत्वसहकृतं येन ॥ २८१ विप्रमयो ग्रामोऽसावित्यादाविव यथोक्तवाक्येन। आनन्दपाचुर्यं दुःखाल्पत्वाविलं प्रतीयेत ॥ २८२ । तस्माद्विकारवचनी मयडिति युक्तं यथाऽन्नमयवाक्ये। मयडन्तप्रतिपाद्यो न हि परमात्मा परं तु कोश: स्यात पुच्छपद्सहचरं यद्ब्रह्मपदं तैत्तिरीयके हष्टम्। आनन्द देन हि तद्वाक्यस्थं हि गृह्यते तदिह ॥ २८ समुदायवाच हि तदेकदेशार्थकत्वमविरुद्धम्। ग्राहोऽयं जागर्तीत्यादावेवं हि दश्यते लोके ॥ २८५॥ पुच्छपद्संनिकृष्ट ब्रह्मपदं कि परं प्रकाशयति। आनन्दमयावयवं किं वा वक्तीति संशये प्राप्ते।। २८६ पुच्छपद् संनिधानाद्वयववाचित्वमत्र युक्तमिति। आक्षेपस्य प्राप्ताविद्मधिकरणं प्रदर्शितं सपदि ॥ २८।

Page 26

[१ प्रथमपादः ] भाष्यार्थरत्नमाला। २१

ब्रह्मपद्मत्र वाक्ये ब्रह्म परं स्वप्रधानममिधत्ते। दित्यस्मिञ्श्लोके यतोऽस्य दृष्टो हि केवलोऽभ्यासः ॥२८८॥ नन्वत्र पुच्छवाक्ये परात्मनो ग्रहणमनुचितं भाति। यस्माद्वयववाचकपुच्छपदं संनिकृष्टमिह भाति ॥२८९॥ विकारशव्दान्नेति चेन्न प्राचुर्यात्। िक्रिय तेऽनेनेति हि विकारशब्दोऽयमवयवं वक्ति। अवयवलाक्षणिकं यत्पुच्छपद्ं ब्रह्मशब्दसंनिहितम् ॥२९०॥ सूत्रे विकारशब्दस्तस्मान्न स्वप्रधानपरमेतत्। इति शङ्काऽन्र न युक्ता प्राचुर्यार्थो हि पुच्छशब्दोऽसौ ।। २९१ ॥ प्राचुर्यशब्दवाच्या प्रायापत्तिर्न चान्यदिह यस्मात् । मुख्यार्थस्यालाभे तत्मायं बुद्धिवृत्तिरनुसरति ॥२९२ ॥ शिरआद्यवयवजाते निर्दिष्टे पुच्छशब्दनिर्देशः। मुख्यार्थस्यालाभात्तत्पायं ब्रह्म सम्यगनुसरति ॥२९३॥ पादार्थिका प्रतिष्ठा परमयनं वक्ति नैव पुनरन्यत्। तस्मादस्मिन्वाक्ये ब्ह्मपदं स्वप्रधानपरमेव ॥ २९४॥

आनन्द्मयान्तस्य हि जगतो हेतुत्वमस्य निर्दिशति। सोऽकामयतेत्येतत्तस्मादेतत्परं समन्वेति ॥ २९५॥ मान्तवर्णिकमेव च गीयते। सत्यं ज्ञानमनन्तं ब्रह्मेत्यन्तेन मन्त्रभागेण। यद्गह्म वर्णितं स्यात्तदृत्र वाक्ये हि गीयते ब्रह्म ॥ २९६ ॥ नेतरोऽनुपपत्ते:। इह पुच्छवाक्यलभ्यो जीवः स्यादिति पुनर्न चाऽडशङ्क्यम्। जीवे स्रधृत्वादिकमुत्तरवाक्यस्थमनुपपन्नं हि ॥ २९७॥

इह पुच्छवाक्यदर्शित आत्मा लब्धव्यभावसुपयाति। यस्माद्रसरूपोडसी लब्धा जीवोऽत्र वर्णितः श्लोके ॥ २९८॥ लब्धव्यलब्धृभावान्जेदो व्यपदिश्यते हि वाक्येडस्मिन्। तस्माल्लब्धव्यात्मा परमात्मैवात्र दर्शितो भवति ॥२९९ ॥

Page 27

२२ [ १ प्रथमाध्यायस्य ]

कामाच्च नानुमानापेक्षा। श्रुतिनिर्दिष्टो योऽसावानन्दमयः परं प्रबोधयति। पञ्चवाक्यस्थत्वा[दा]नन्द इवेति नैतदनुमानम्॥३०० ॥ ब्रह्मपरत्वे साधकमनेकपूर्वोक्तदूषणग्रासात्। अस्मिन्नस्य च तद्योगं शास्ति । यः पुच्छवाक्यदर्शित आत्मा तस्मिन्कृतप्रबोधो यः ॥ ३०१ ॥ अथ सोडभयमिति वाक्यं तस्य च तन्भ्ावमेव बोधयति। पुच्छपद्संनिकृष्टं ब्रह्मपदं स्वप्रधानपरमेव॥ ३०२॥ यदि्दमुपक्रमदृष्टं ब्रह्म तद्त्रोपसंहतं भवति। तस्मादेतद्वाक्यं ब्रह्माण परमे समन्वितं ज्ञेये ॥ ३०३॥ ननु यद्यानन्दमयः प्रियशीर्षत्वादि्धर्मयोगेण। परमात्मा न मवति चेच्छान्दोग्येऽपि च तथा प्रसज्येत ॥३०४।। तन्र च हिरण्मयोऽसौ पुरुषो यो दृश्यतेऽन्तरादित्ये। आप्रणखाच्च सुवर्णो हिरण्यकेशो हिरण्मयशमश्ुः ॥३६५॥ आरक्ताम्बुजनेत्रोदितिनामा सर्वपापनिर्मुक्त:। इत्याधिदैविकोऽयं पुरुषो निर्दिष्ट एवमादिगुण: ।। ३०६ ॥। आध्यात्मिकपुरुषोऽयं निर्दिष्टश्व्वान्तरक्षिणि ह्येवम्। ये च पराख्ो लोका ये च स्युर्देवलोककामाश्र ॥ ३०७॥ तेषामीष्टे पुरुषो योऽसी निर्दिश्यतेऽन्तरादित्ये। ये चार्वाञ्च्ो लोका ये च स्युर्मर्त्यलोककामाश्र॥ ३०८॥ तेषामीष्टे पुरुषो योऽसौ निर्दिश्यतेऽन्तरक्षिणि च।

प्रा[ण]दिकेश्वरत्वादिह निर्दिष्टः कथं परात्मा स्यात्। विद्याकर्मातिशयात्माप्तोत्कर्षो हि कश्विद्धिकारी ॥ ३१०॥ किं वा योगी कश्चित्संसारी स्यादिहान्तरादित्ये। इति शाङ्कामपनेतुं मुनिना रचितं तदेतद्धिकरणम्॥३११॥ अन्तस्तद्धर्मोपदेशात् ॥ २० ॥ परमेश्वर एवायं पुरुषो निर्दिश्यतेऽन्तराढित्ये। परमेश्वरधर्माणामिहोपदेशो हि दृश्यते यस्मात् ॥ ३१२ ॥ उदित उद्तीत्याद्या पापास्पृष्टत्वमामनन्तीह। नैवर्गित्यादीनि ह ऋगादिरूपत्वमामनन्तीह।। ३१३।।

Page 28

[१ प्रथमपाद: ] भाष्यार्थरत्नमाला। २३

सर्वात्मके परेशे तदेतदुक्तं समख्जसं भवति। सर्वजगत्कर्तृत्वात्सर्वात्मकता हि तस्य युक्तरा ॥ ३१४॥ परिमितमैश्वयं यद्दर्णिंतमुभयत्र तञ्च न विरुद्धम् । अध्यात्मादिविभागापेक्षं तन्न स्वतः परे पुंसि ॥३५॥ प्रख्यापयन्ति सर्वे वेदान्तास्तस्य निरुपमैश्वर्यम्। परमेश्वरवाक्येऽस्मिन्विकारधर्मैः कुतोऽस्य निर्देशः ॥३१६॥ इति शङ्का नेह स्याद्यतः परेशो ह्यकुण्ठितैश्वर्यः । भक्तानुकम्पयैव हि नानारूपाणि मायया सृजति॥ ३१७। परमात्मपरमपीदं वाक्यं सविशेषपरतया योज्यम्। यत एतस्मिन्वाक्ये हयुद्गीथोपासना विनिर्दिष्टा॥ ३१८॥ ऋक्सामगेयताऽपि हि सर्वेशे सर्वकारणे युक्ता। लौकिकगानेष्वपि यैः परमेशो गीयते हि तस्मात्ते॥ ३१९॥ धनसनयो लोकेऽस्मिन्प्रभूतसुखसंपदो हि विचरन्ति। भेदव्यपदेशाच्ान्यः ॥ २१॥ यो मण्डलाभिमानी देवोडयं पुरुष एव निर्दिष्टः॥ ३२०॥ इति नैवाऽडशडू्यं यतस्तयोर्भेद एव निर्दिष्टः। आदित्यादन्तर इति वाक्यं ह्यादित्यभेदमुपदिशति॥३२१ ॥ तस्मादेतद्वाक्यं हिरण्मयत्वादिगुणगणोपेते। सर्वेश्वरे परात्मन्यन्तर्यामिणि समन्वितं भवति ॥ ३२२॥ भवतु परमेश्वरोऽसावुपदिष्टो योऽयमन्तरादित्ये। उद्गीथवाक्यदर्शित आकाशोडयं कथं परात्मा स्यात् ३२३।। श्रुतिलिङ्गवाक्यसूत्रे श्रुतिर्हिं लिङ्गाद्वलीयसी हष्ा। निरपेक्षरूढशब्दः श्रुतिरिति कथयन्ति जैमिनिप्रमुखाः ॥३२४ ॥ तस्माद्भूताकाशः श्रुत्या ह्याकाशशब्दलभ्यः स्यात्। जन्मादिकारणत्वं यदत्र वाक्ये प्रदर्शितं तदृषि ॥ ३२५॥ भूताकाशेऽपि स्यात्क्रमेण वाय्वादिकारणत्वेन। इत्याक्षेपं निरसितुमिदमधिकरणं प्रदर्शितं मवति ॥ ३२६ ॥

जैवलिशालावत्यावुद्गीथविचारलब्धकुतुकौ हि। शालावत्येनोक्तं सर्गादिकमन्तवत्वदोषेण।। ३२७।।

Page 29

२४ सुबह्मण्य विरचिता- [ १ प्रथमाध्यायस्य ]

उद्गीथस्य परायणमेतन्नेति ह्युदस्य तत्पक्षम्। लोकस्यास्य च का गतिरिति शालावत्यवचनमनुसृत्य ॥ ३२८॥ आकाश इतीत्याद्यं जैवलिना हि प्रदर्शितं भवति। तद्ाक्ये चाऽडनन्त्यं प्रदर्शितं यत्परोवरीयस्त्वम् ॥ ३२९॥ उपसंहृतमाकाशे स एव इत्यादिवाक्यशेषेण। दर्शितमुपक्रमे यज्जन्मस्थितिनाशकारणत्वं हि॥ ३३०॥ तदिदं हि कारणत्वं भूताकाशेऽपि वर्णितं हि पुरा। वाय्वादिकारणत्वं क्रमेण तत्रेदमनुपपन्नं स्यात् ॥३३१॥ सर्वाणि ह वेत्यादौ भूतविशेषणपद्ं हि सर्वपद्म्। आकाशादेवेति ह्यवधारणमनुपपन्नमेव स्यात् ॥ ३३२ ॥ भूताकाशपरत्वे श्रुतिरहिं लिङ्गाह्वलीयसीत्युक्तम्।

समुदायार्थे चैक त्यजेदिति न्याय एवमुपदिशति। ्रुतिबलसमाश्रयेऽपि हिन विरोध: कश्विदृत्र संभवति॥ ३३४ ॥ ज्यायस्त्वमिह यदुक्तं परायणत्वं च दर्शितं यद्पि। आकाशो हीत्याद्यैरात्मनि परमे समख्जसं भवति ॥ ३३५॥ निर्वहितेत्यन्तेSस्मिन्बह्मण्याकाशशब्द उपदिटः । ब्रह्मणि तत्पर्यायो व्योमन्नित्यादिवाक्यनिर्दिष्टः ॥३३६।। उद्गीथवाक्यमेतत्परोवरीय स्त्वगुणगणोपेतम्। आकाशशब्द्वीच्ये ततः परात्मनि समन्वितं भवति॥३३७॥ अत एव प्राणः।। २३ ।। प्रस्तावदेवताया: स्वरूपविज्ञानलब्धगुरुभाव: । चाक्रायणमुनिरधुना प्रस्तोत्रादन्प्रबोधयत्यस्मिन्॥३३८॥ प्रस्तावदेवताया: स्वरूपविज्ञानरहित एव यदि। पस्तोता प्रस्तोष्यति मूर्धा ते पतनमेष्यतीत्युक्त्वा॥३३९॥ प्रस्तो्रादिप्रश्नं कतमा सा देवतेति चाऽडकणर्य। प्रस्तावदेवताया: स्वरूपविज्ञानमुपदिदेशेत्थम् ॥ ३४०॥ नैषेत्यन्तैर्वाकयैः प्राणः प्रस्तावदेवतेत्युक्त:। वायुविकार: किंवा परमात्मा स इति संशयंप्राप्ती । ३४१ ॥ वायुविकारो नायं किंतु परात्मा यदत्र तल्लिङ्गम्। इत्येतद्भिनिगढितुं ह्ययमतिदेश: प्रदर्शितो मुनिना ॥ ३४२।

Page 30

१ प्रथमपाद: ] माष्यार्थरत्नमाला। २५

इह सकलभूतराशेः संवेशश्रोद्गमश्च निर्दिक्ः। परमेश्वरपरतारयां तदेतदृखिलं समख्जसं भवति ॥३४३॥ श्रुतिलिङ्गवाक्यदर्शितविरोधशङ्काऽपि परिहृता पूर्वम्। स्वापप्रबोधयोः किल संवेशनवादिवाक्यमखिलमपि॥३४४॥ वायुविकारे प्राणे समख्जसं स्यादितीह नाSडशङ्क्यम्। वागादीनामेव हि संवेशोद्गमनवादिवाक्यमिह ॥३४५॥ वायुविकारे प्राणे समन्वितं नैव सर्वभूतानाम्। प्रस्ताववाक्यमेतत्प्राणे ब्रह्मणि समन्वितं भवति॥३४६ ॥ ब्रह्मपरः प्राणोऽयं प्राणस्य प्राणमिति च वाक्येऽपि। अन्यत्रापि च दृष्टो वाक्येपि प्राणबन्धनं हीति॥३४७॥ प्रस्तावदेवतात्मक एष प्राणो हि भवति परमात्मा। वायुविकारो नासावित्युक्तं सकलमेतदनवद्यम् ॥ ३४८॥ मवतु यदिहोपदि्ं प्राणाकाशादिवाक्यमखिलमपि। तललिङ्गसमवधानाद्ब्रह्मपरं तद्द्वि भवति युक्ततरम्॥३४९ ॥ यदतः पर इत्याद्यैरार्यैर्यच्चोपदर्शितं ज्योतिः । विश्वस्मादुपरितनेष्वनूक्तमेषूत्तभेषु भातीति॥३५० ॥ अन्तःपुरुषेऽवि तथा तदिदं ज्योतिः प्रदर्शितं तत्किम्। भौतिकमथ वा ब्रह्मेत्येतन्निर्णेतुमेतद्धिकरणम् ॥ ३५१॥ ज्योतिश्रवरणाभिधानात् ॥ २४ ॥ ज्योतिरिह ब्रह्म स्यान्न भौतिकं किमपि शङ्कितुं शक्यम्। पादोऽस्येत्येतस्मिन्भूतादिपदानि दर्शितानि यतः ॥ ३५२ ॥ नन्विह पदाभिधानं ज्योतिर्वाक्ये न दृश्यते किमपि। तत्कथमिह हेतु: स्थात्तेन कथं ब्रह्मताऽस्य सिद्धा स्यात् ॥३५३॥ इति नात्र शङ्कनीयं यत इह वाक्ये हि यत्पद् दृष्टम्। बुद्धिस्थवाचकं तद्यत एतत्सर्वनामसंज्ञं स्यात् ॥ ३५४॥ पूर्वत्र चोपदिष्टे ब्रह्मणि यच्छव्दृतः परासृष्टे। तन्नोपदर्शितं यत्पादृचतुष्टयमिहोपदिषं स्यात् ॥ ३५५॥ नन्विह दीप्यत इति या श्रुतिरिह कार्ये समख्जसा भवति। तद्यदिदमन्तरित्यपि जाठरवैश्वानरं प्रबोधयति ॥३५६॥ तस्येषा दृष्टिः स्यात्तस्यैषा श्रुतिरिति बुवाणा या। हष्ट भ्रुतमित्येषा श्ुतिरस्योपासनां विधापयति।। ३५,७ ।।

Page 31

२६ सुन्नह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

यञ्ञैतद्वेदैवं चक्षुष्यश्र भ्रुतश् भवतीति। अल्पफलश्षुतिरेषा कार्ये ज्योतिषि समख्ज्जसा भवति ॥३५८॥ यद्तः पर इत्यादयैरुपदिष्टं ज्योतिरत्र कार्यमिति। नैषा शङ् का यस्मादुब्रह्मपरत्वे तदेतदनवद्यम्॥ ३५९॥ दीप्यत इति निर्दिष्टा दीप्तिरथेत्यादिवाक्यट्टष्टा या। नित्यावबोधरूपा नैषा ब्रह्मणि समञ्जसा भवति ॥३६० ॥ दष्टत्वादिकमखिलं प्रतीकमूलं न हि स्वतोऽस्य स्यात् । अल्पफलश्रुतिरेषा ब्रह्मणि सर्वार्थदेति युक्ततमा ॥३६१॥ तस्माज्ज्योतिःशब्दे ब्रह्मेत्येतत्समञ्जसं भवति। छन्दोभिधानान्नेति चेन्न तथा चेतोर्प- णनिगदात्तथा हि दर्शनम् ॥२५॥ त्र पूर्ववाक्ये गायत्रीछन्द एव निर्दिष्टम् ॥३६२॥ नैषा चतुष्पदेति हि चतुष्पदृत्वं च तस्य निर्दिष्टम्। न च तज्ज्योतिःशब्दे ब्रह्मपरत्वप्रसाधकं भवति ॥ ३६३ ॥ इति चेन्न पूर्ववाक्ये छन्दोमात्रं हि नैतदुपदिष्टमू। छन्दोनुगते ब्रह्मणि चित्तसमाधानमेव निर्दिष्टम् ॥३६४ ॥। उक्थानुगते ब्रह्मणि चित्तसमाधानवचनमन्यत्र। एतमिति मन्त्रभागे तदिदं हष्ट हि तद्दत्रापि॥ ३६५॥ छन्दोभिधायकानि हि वाक्यान्यन्यानि यानि द्वृश्यन्ते। तान्यप्युक्तार्थानि हि तस्मान्नेहास्ति काचिदाशङ्रका ॥ ३६६॥ भूतादिपादव्यपदेशोपपत्तेश्रैवम् ॥ २६ ॥ भूतपृथिवीशरीराण्यपि हृदयं चति सम्यगुपदिश्य। नैषा चतुष्पदेति हि निर्दिष्टा साऽपि दर्शितार्थैव ॥ ३६७।। ब्रह्मेह नोपदिष यद्यक्षरसंनिवेशरूपाया: । कथमस्या गायत्रया भूतादिपदानि संभवन्तीह ॥ ३६८॥ उपदेशभेदान्नेति चेन्नोभयस्मि- न्नप्यविरोधात् ।। २७ ।। नन्वत्र पूर्ववाक्ये चतुष्पद् ब्रह्म यञ्च नि्दिषम्। उपदेशभेद्हष्ट ज्योतिर्वाक्धे कर्थं परामृट्म् ॥३६९॥ इति शङ्ककाऽत्र न कार्या विभक्तिभेदेऽपि भवति चार्थैक्यम्। सतम्यन्ते वाक्ये पश्चम्यन्तेऽपि कोऽपि न विरोध: ।३७० ।।

Page 32

१ प्रथमपाढः ] माष्यार्थरत्नमाला। २७

मन्वत्रोद्गीथादिप्रकरणपठितानि यानि वाक्यानि। तलिङ्गसमवधानाद्ब्रह्मपरत्वेन वर्णितानि परम् ॥३७१॥ इह कौषीतकिवाक्ये प्राणोऽस्मीत्यादिवाक्यजालेन। प्राणो योऽसावुक्त: स किं परं ब्रह्म पञ्चवृत्तिर्वा ॥३७२।। इह चोभयलिङ्गानि हि दृश्यन्ते ह्युत्तरत्र भूयासि। तस्माच्छृत्यनुसारात्प्राणोडयं पञ्चवृत्तिरेव स्यात् ॥ ३७३। इंत्याक्षेपं सकलं निरस्य बहुलेन युक्तिजालेन। प्राणोऽसी निर्दिे ब्रह्मैवेति प्रदश्यते सपदि ॥३७४ ॥ प्राणस्तथाऽनुगमात् ॥ २८ ॥। यः कौषीतकिवाक्ये प्राणो निदिषि एप परमात्मा। पौर्वापर्यविमर्शे पदानि सकलानि तत्पराणि यतः ॥३७५ ॥ हिततमपद्निर्दिष्टः परमात्मा स्यान्न वायुविकृतिरसौ। अमृतादिशब्द्योग: परमात्मन्येव दृश्यते शास्त्रे॥ ३७६ ॥ आनन्दोऽजर इति वा ब्रह्मणि परमे समख्जसो भवति। भूतप्रज्ञामान्राह्यर्पणमषि परमकारणे युक्तम्॥ :७७॥। ज्ञानक्रियात्मनोरिह विभिन्नशब्दस्वभावयोर्यदृपि। प्राणप्रज्ञोपाध्योरेकीकरणं परात्मलिङ्गं स्यात् ॥ ३७८॥ इदमित्यादयुपदिटं देहे स्थानं परिग्रहाद्यखिलम्। घरमात्मन्युपपन्नं कार्यं सकलं यतस्तदायत्तम् ॥ ३७९॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसं- बन्धभूमा ह्वस्मिन् ॥ २९ ॥। नन्वत्र देवतात्मा वक्ता हीन्द्रः प्रतर्दनाय किल। स्वाष्ट्रवधसाहसात्मकविग्रहसंबन्धिधर्मनिवहेन॥ ३८० ॥ स्वात्मोत्कर्ष प्रथयन्योऽयमहंकारवादमाशित्य । प्राणोऽस्मि मामुपास्स्वेत्यादयैरात्मानमुपदिदेश स यम ॥३८१॥ स च कथमिह परमात्मा योऽसी प्राण: स वक्तुरात्मैव। इत्याक्षेप: सकलो निरस्यते सपदि सूत्रशेषेण॥ ३८२॥ एषा शङ्का कार्या न वक्तुरात्मोपदेशयोगेन। अध्यात्मसंनिकर्षः प्राचुर्येणोपलभ्यते यस्मात् ॥ ३८३ ।। मनु वक्तारं विद्यादिति वा्ऽडर्यैदशितोऽन्तरात्मैव। आनन्दासृतरूप: प्राणो निर्विश्यते हि वाक्येऽस्मिन् ॥ ३४ ॥

Page 33

२८ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्याघस्य-

त्वाष्ट्रवधसाहसोक्तिर्न हि विज्ञेयस्तुति प्रसञ्जयति। न ह वै तस्येत्याद्यैविज्ञानस्तुतिपरा हि सा मवति ॥३८५ ॥। यदि परमात्मैव प्राणोऽस्मीत्यादिवाक्यनिर्दिष्टः। स च कथमस्मिन्वाक्ये निर्दिष्टो वक्तुरात्मभावेन॥। ३८६ ।। शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥ शास्त्रोपदिष्लक्षणमपरोक्षी कृत्य तत्परं ब्रह्म। इन्द्रस्तमुपदिदेश हि मुनिवर्यो वामदेवसंज्ञ इव ॥३८७॥ सुनिरेष वामदेवः प्रभूतविज्ञानसाधनोपचितः । गर्भस्थ एव बुबुधे ह्यहमित्यादिकमवाप मन्त्रमपि । ३८८।। जीवमुख्यप्ाणलिङ्गान्नेति चेन्नोपासात्रै- विध्यादाश्रितत्वादिह तद्योगात्॥ ३१॥ विद्यादिति निर्दिष्टं जीवलिङ्गमिह वाक्ये। परिगृह्योत्थापयतीत्यपि सुख्यप्राणलिङ्गमुपदिष्म्॥ ३८९ ॥ तस्माज्ीवो वा स्यान्मुख्यप्राणोऽय वाडयमुपदिष्टः । न हि परमात्मा प्राण: स्यादिति शङ्का न चात्र कर्तव्या ।३९०।। यत एतस्मिन्वाक्ये भूयो हष्ट परात्मलिङ्गमपि। तस्मात्रिविधाल्लिङ्गाधिविधमुपासनमिह प्रसज्येत ॥ ३९१॥ यज्जीवलिङ्गमुक्तं मुख्यप्राणस्य यद्पि लिङ्गं वा। तदुभयमपि परात्मनि समञ्जसं स्यादितीरितं पूर्वम् ॥३९२॥ प्राणस्यास्य च वृत्तिर्रह्मणि पूर्व प्रदर्शिता भवति। तल्लिङ्गसमवधानात्प्राणोऽयमिहापि सवति परमात्मा ॥३९३॥

तेन न दोषाशङ्का न चात्र काचिद्विरोधशङ्काडपि। ३९४॥ तस्मादिहोपदिष्टं कौषीतकिवाक्यमेतदखिलमपि। ब्रह्मण्युपास्यरूपे विज्ञेये वा समन्वितं भवति ॥ ३९५॥ शारीरकमीमांसा सुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां प्रथमो योऽसौ समन्वयाध्याय: ॥ ३९६॥ तत्र प्रथमे पाढे सूतार्थो यश्र भाष्यकारोक्त:। आर्यावृत्तैरमलै: प्रकाशितो जयतु सोऽयमनवद्यः ॥।३९७ ।। इति प्रथमाध्यायस्य प्रथम: पाद: ।। १।।

Page 34

२ द्वितीयवाद: ] माध्यार्थरत्नमाला।

अथ द्वितीयपादप्रारम्भः । प्रथमे पाढ़े जगतो जन्मस्थित्यादिकारणं ब्रह्म। वेदान्तवाक्यनिचयैः स्फुटतरलिङ्गैः प्रदर्शितं भूयः ॥१॥ व्यापित्वं नित्यत्वं सर्वज्ञत्वं च दर्शितं तस्य । अर्थान्तररूढानामाकाशप्राणमुख्यशब्दानाम्॥२॥ आ लिङ्गबाधनपुरःसरं ब्रह्मलिङ्गयोगेन। न्यायोपेतैर्वाक्यैर्ब्रह्मपरत्वं प्रसाधितं भवति ॥३॥ इह च द्वितीयपादे ह्यस्पष्टब्रह्मलिङ्गवाक्यौघैः। यच्चोपास्यं ब्रह्म प्रदर्शितं तदिति वर्ण्यते सपदि॥ ४ ॥ छान्दोग्ये च तृतीये ज्योतिर्विद्याप्रधानवाक्यान्ते। सर्वं खल्वित्याद्यं मनोमयत्वादिवाक्यमध्यमपि।।५॥ शाण्डिल्यपद्कृतान्तं यदेतदुपदिष्टमत्र तक्किं स्थात्। प्रधानमथ वा जीवपरं वेति संशये प्राप्ते ॥ ६॥ शाण्डिल्यवाक्यमेतत्पौर्वापर्येण सम्यगालोच्य। जीवाशङ्कां निरसितुमिदमधिकरणं चकार मुनिवर्यः ।।७।। सर्वत्र प्रसिद्धोपदेशात् ॥ १॥ निगमान्तवाक्यप्रकाशितं यञ्च जगदुपादानमू। तदिहोपक्रमवांक्ये हुपदिष्टमतो न जीवशङ्काऽन ॥८॥ नन्विह सवं खल्वित्युपासनाविषयबोधकं न भवेत्। शान्त उपासीतेति हि विहितशमारातिरागनिर्मुक्त्ये ।।९॥ सकलस्यैकात्मकर्ता प्रबोध्य रागादिनिरसनं कुरुते। स क्रतुमितिवाक्येन हि विहितक्रतुविषय एव जीव: स्थात् ॥१०। तस्य च मनोमयत्वं प्राणशरीरत्वमाञ्ज्जसं भवति। ब्रह्मात्मताधकलिङ्ग नात्रोपलभ्यते किमपि॥ ११॥ तस्मादेतद्वाक्यं जीवोपास्तिप्रधानमाभाति। इति खलु नैवाSडशङक्यं यदत वाक्ये न जीववार्ताडपि।१२॥ तस्मिन्नितिवाक्यस्थिततच्छव्देनैकवाक्यतापन्नम् । स्योनमिति वाक्यजातं यथा पुरोडाशधर्मिणं बूते ।। १३॥ स क्रतुमितिवाक्यस्थे कतौ हि नियमेन विषयसाकाङ्क्षे। वय बोधपितुमिदं त्यादिकमुदाहनं ति.।१४ ॥ :

Page 35

सुघह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

तस्य विशेषणजाले मनोमयप्रभृतिवाक्यजालेन। भूय: प्रदृश्यमाने जीवाशङ्का कथं प्रवर्तेत ॥ १५॥ यद्यपि लिङ्गविगानाद्विशेषणार्थत्वमसुलभं भाति। लिङ्गस्य विपरिणामे तथाऽपि नैवात्र बाधकं किमपि ॥१६॥ ब्रह्मणि मनोमयत्वं प्राणशरीरत्वमनुपपन्नमिति। नैवाऽडशंङ्का कार्या ब्रह्मण्यखिलात्मके हि तद्युक्तम् ॥१७॥ सामानाधिकरण्यं विवक्षितं ब्रह्मणा यदा कार्ये। बाधायां तच्च स्यादत्र हि कार्येण कारणेन स्यात् ॥ १८ ॥ तेन च सर्वात्मकता ब्रह्मणि परमे प्रदर्शिता भवति। इदमिति पद्मप्यत्र ब्रह्मविशेषणपरं हि कर्तव्यम्॥१९॥ यदिदं ब्रह्मपरं स्यात्सर्वं खलु तदिति योजना कार्या। तेन च सर्वात्मकता ब्रह्मणि परमे समर्थिता भवति ॥ २० ॥ ब्रह्मण्युपास्यरूपे सर्वोत्कर्षश्र वर्णितः प्रायः । तज्जत्वादिकमखिलं यदुत्तरस्मिन्प्रदर्शितं तद्पि ॥ २१॥ तस्य च सर्वात्मकताप्रतिपत्पर्थ च शमविधानार्थमू। तस्माच्छतिशतगेये सर्वात्मनि सकलजगदुपादाने ॥। २२॥ णे मनोमयत्वं प्राणशरीरत्वमेतदुपपन्नम्।

च विधिविहितायामुपासनायामपेक्षिता ये स्युः ॥२३॥ ते सत्यकरामताद्या हुपपन्ना: स्युर्गुणा: परे पुंसि। अत्र च विवक्षितत्वं हयुपासनायामपेक्षणीयत्वम् ॥।२४॥ इह सत्यकामतामुखगुणजाते भवति तञ्ञ निरवद्यम्। अनुपपत्तस्तु न शारीरः ॥ ३ ॥ योऽयं शारीरः स्यात्स चोक्तगुणजातभाजनं न भवेत् । २५।। यत एतस्मिन्वाक्ये ह्यवाक्यवादरत इतीरितं भवति। देहेन्द्रियादियोगिनि शारीरे कथमवाक्यतावार्ता॥२६। नियतविषयाभिलाषिण्यनादरत्वं च तत्र न हि भवति। कर्मकर्तृव्यपदेशाच्॥४ ॥ किं चात्र वाक्यशेषे मनोमयत्वादिगुणगणोपेतः।।२७।। एतमिति कर्मभावादुपदि्टोऽयं परः पुमानेव। अभिसंभविताऽस्मीतिच ज्ञारीर: कर्तृभावमापन्नः ॥। २८।।

Page 36

२ द्वितीयपाद: ] माष्यार्थरत्नमाला।

निर्दिशे यः स कथं ह्युपासनाविषयभावसुपगच्छेत्। शब्दविशेषात् ॥ ५॥

शारीरोडसी कर्ता ह्युपास्यरूपो हिरण्मयः पुरुष:। प्रथमान्तशब्दबोध्यः स कथं शारीरभावमुपगच्छेत् ॥ ३०॥ देहेन्द्रियवशवर्ती शारीरो न च पर: पुमान्भवति। स्मृतेश्र ॥ ६ ॥ स्मृतिरेषा भागवती शारीरपरात्मभेद्माचटे।३१॥ शारीरं च नियम्यं नियामकं हृदयदेशमीशमपि। अर्भकौकस्त्वात्तद्चपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७॥ नन्विह वाक्ये योऽसावृपास्यरूप: कथं स परमात्मा ॥ ३२॥ अर्भकमस्याSडयतनं निर्दिष्टं स्यात्तदाऽर्भकत्वमपि। यस्माद्धृदि निर्दिट्टः श्यामाकादृपि च दर्शितोऽणीयान् ॥३३॥ स च कथमिह परमात्मा योऽसौ व्यापीति दर्शितः शास्त्रे। इति चेन्नायं दोषो निचाय्यभावेन दर्शितो योऽसौ ॥३४॥ ब्रह्मण्यपरिच्छिन्ने मनो विधातुं न शक्नुयाज्जीव: । इति करुणापरतन्त्रा श्रुतिः परिच्छेदमस्य निर्दिशति॥३५॥ व्योन्न इवास्यापपि स्यादुपाधियोगादयं परिच्छेद:। संभोगप्राप्तिरिति चेन्न वैशेष्यात्॥ ८ ॥ शारीरः परमात्मा यद्येतौ हृदयदेशसंनिहितौ॥ ३६ ॥ शारीरस्य च भोगे कथं परात्मा न भोगमाप्नोति। इति शङ्कामपनेतुं प्रवर्तते सपदि सूत्रशेषोऽयम् ॥३७॥ धर्मादिसाधनोऽन्यस्तद्विपरीतश्र भवति परमात्मा। अपहतपाप्मा योऽसौ स धर्मफलभोगमातनोति कथम् ॥३८॥ धर्मादिसाधनस्य हि शारीरस्योक्तभोगसंबन्ध: । आविद्यकदेहादावभिमानेनास्य भोगसंबन्ध: ।। ३९।। सर्वज्ञस्य परस्य हिन चास्त्यविद्या न भोगवार्ता वा । अद्वैतवादलोपो नैवाSडशङगयोऽत्र भेदनिर्देशात् ॥४०॥

Page 37

सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

तस्मादेतत्सकलं शाण्डिल्यमुनीन्द्रदर्शितं वाक्यम् ॥४१॥ ब्रह्मण्युपास्यरूपे समन्वितं ह्य्र कोऽपि न विरोध: । ननु यदि परमात्माऽसाववहृतपाप्मा ततो न भोक्ता स्याद् ।४२। कठवल्लीवाक्येऽस्मिन्भोक्ता जीवो भवेन्न परमात्मा। यस्य ब्रह्म क्षत्रं चोभयमोदन इतीह निर्दिष्टम् ॥४३॥ उपसेचनमिह मृत्यु: प्रदर्शितस्तेन चात्तृता लब्धा। आत्मा चाग्निर्वाह्याजीवो वा भवति नैव परमात्मा।।४४॥ कठव मतस्यां यतोऽग्िजीवी प्रदर्शिती पूर्वम्। अन्नादोऽग्निरयं स्यादिति श्रुतिश्रातृतां प्रसञ्यति ॥४५ ॥ स्वाद्वत्तीति श्रुतिरपि जीवे तामत्तृतां प्रसस्यति। यदि च प्रकरणभेदान्नागनि: प्रतिगृह्यतेऽत्तृभावेन ।। ४६ ॥। तर्हत्ता जीव: स्यान्न तु परमात्मा यत: स नाश्नाति। इत्याक्षेपप्राप्तावततृपदे गौणवृत्तिमाश्रित्य॥। ४७।। निरसषितुभिममाक्षेपं चकार मुनिवर्य एतद्धिकरणम्। अत्ता चराचरग्रहणात् ॥ ९॥ चराचरमेतन्मृत्युर्यस्येतिवाक्यनिर्दिष्म् ॥४८॥ तस्यात्ता कथमन्यस्तस्मादृत्ता पर: पुमानेव। संहारकत्वयोगादत्तृत्वं तस्य गौणमेव स्यात् ।४९।। कर्मफलमोक्तृतैव हि जीवे हष्टा न सा परे पुंसि। प्रकरणाच् ॥ १० ॥ प्र मपि यञ्चैतत्परात्मनो दृश्यते न चान्यस्य ॥। ५०॥ प्रश्नप्रतिवचनाभ्यां परमात्मैवात्र दर्शितो येन। इत्था को वेदेति हि दुर्विज्ञेयत्वमस्य निर्दिष्टमू ॥५१॥ परमात्मलिङ्गभेतत्तस्मादत्ता पर: पुमानेव। मवतु परात्मवायं यस्य ब्रह्मेतिवाक्यनिर्दिक्षः॥।५२॥ मेत्युत्तरवाक्ये गुहाहितत्वेन दर्शितौ तौ कौ। पौ गुहां प्रविष्ी छायातपवद्विलक्षणावुक्ती॥ ५३ । किमु तत्र बुद्धिजीवी जीवपरेशावितीह संदेहः। तो यदि च वुद्धिजीवौ बुद्धूचा जीव: पृथङ्निरुक्त: स्पात्।।५४॥

Page 38

द्वितीयपाढ: २ ] माष्यार्थरत्नमाला।

यदि वा जीवपरेशौ जीवादीशः पृथग्गृहीतः स्यात् । यदि जीवेशौ स्यातां गुहाहितत्वं तयोरयुक्तं स्यात् ॥ ५५॥ तस्मादिह निर्दिष्टावुक्तविशेषी हि बुद्धिजीवौ तौ। इत्याक्षेपं निरसितुमेतट्वाक्यार्थनिर्णयार्थमपि ।।५ ॥ भगवान्मुनिवर्याऽसाविदमधिकरणं चकार नु गृहीत्यै। गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ अत्र च गुहां प्रविष्ावात्मानौ तो च जीवपरमेशी ॥ ५७ ॥ निर्दिश्यते हि लोके संख्या तुल्यस्वमावयोरुभयोः । अस्य द्वैतीयिको गौरन्वेष्टव्य एवमभिधाने ॥५८॥ गौरेव हि द्वितीयस्तत्रान्विष्येत नाश्व इतरो वा। ऋतुपानालिङ्गादिह जीवे निर्धारिते हि तस्य यदि ॥५९॥ अन्विष्यते द्वितीयश्रेतनभावादसी परात्मा स्यात्। अत्र विबन्ताविति या श्रुतिर्हि पानं प्रदर्शयत्युभयोः ॥६० ॥ सञ्च कथं परमात्मनि परितृप्ते स्यादितीह नाऽडशङ्क्यम्। जीवस्तावत्पिबति हि परमात्माऽसी हि तं च पाययति ॥ ६१॥ पाचयिता पक्तेति हि दृष्टा लोकप्रसिद्धिरिह तद्दत्। नन्विह जीवपरेशौ ग्रृह्येते चेत्कथं गुहावेशः ॥ ६२॥ सर्वगते परमात्मनि देशपरिच्छेद एष यदयुक्तम्। इति नाऽडशङक्यं योऽसौ सर्वगतो यदि तदेकदेशगतः ॥६३ ॥ सकलवसुधाधिनाथो रामः साकेतनगरनाथ इव। श्रुतिसिद्धो न्यायः स्याच्छ्रत्यनुकूलश्तुतिर्न चेहास्ति ॥ ६४ ॥ नेयं शङ्का श्रुतिषु हि गुहाहितत्वं परात्मनो हष्टम्। श्रुतिवाक्ये निर्दिष्टं गुहाहितं गह्यरेष्ठमित्यादी ॥ ६५ ॥ यो वेदेति च वाक्येऽप्यन्विच्छ गुहां प्रविट्मित्यादौ। छायातपसाम्यं गद्विलक्षणत्वेन तत्तयोर्युक्तम् ॥६६ ॥ जीवोडयं संसारी तद्विपरीतो यतो हि परमात्मा। तस्मादृतं पिबन्ती गुहां प्रविष्ठै च दर्शितावेतौ॥ ६७॥। छायातपसदशावपि जीवपरेशौ न बुद्धिजीवौ हि।. विशेषणाच# १२॥ यदृपि विशेषणमेतद्वांक्ये निर्दिष्टमेतर्योर्भवति ॥ ६८ ॥

Page 39

३४ सुब्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य-

रथिनं विद्दीत्यस्मिन्वाक्ये जीवो रथी विनिरदिष्टः। विज्ञानसारथि: स्याद्रथी यदाडयं स पारमाओोति॥६९॥ गमिकर्तृकर्मभावावित्युपदिष्टी हि जीवपरमेशौ। दुर्दर्शमिति च मन्त्रे मनधातोः कर्तृकर्मभावेन॥ ७० ॥ तावेतौ निर्दिष्टौ जीवपरेशौ न चेतरौ मवतः । इहलोकसिद्धमेनं जीवं निर्दिश्य तदनुवादेन ॥ ७१ ॥ तस्माद्विलक्षणोडसी परमात्माऽन्र प्रदरश्यते वाक्ये। यो हि सुपर्णा सयुजेत्येवं दृष्टो हि मुण्डके मन्त्रः ॥ ७२॥ कठवल्लीवाक्यगतैर्मन्त्रैरुक्तैः समार्थको भवति। इह केचिदाहुरार्यी मन्नो यो द्वेति मुण्डके कथितः ॥ ७३॥ अधिकरणस्यैतस्य हि भवति न सिद्धान्तमुक्तवाक्यार्थमू। पैड्ग्युपनिषदि यतोऽयं सर्वक्षेत्रज्ञपरतया नीतः।।७४ ॥ न च भवति पूर्वपक्षं स्याद्वदनं येन सत्त्व उपदिष्टम्। औदासीन्येनायं क्षेत्रज्ञो द्शितश्र तत्रैव ॥७५॥ सत्वस्य भोक्तृतोक्ति: क्षेत्रज्ञे ब्रह्मभावमभिधातुम्। कठवल्युक्तावेतौ जीवप्राज्ञी न चेह संभवतः ॥७६॥ तस्मादन्यार्थोडयं मुण्डकदृष्टो हि मन्त्रभाग इति। ननु कठवल्ल्यामस्यामृतपानं प्रथमतः श्रुतं भवति॥७७॥ प्रथमश्रुत्तयोगेन हि तव्राधिकृतं तुजीवमालम््य। तत्समभावो योऽसी परमात्मा ताद्वितीय उपदक्: ।।७८ । सलविद्यायामेष य इत्यादिवाक्यमुपदिष्टम्। पुरुषो दृश्यत इति किल हश्यत्वं प्रथमतः श्रुतं तस्य ॥ ७९॥ चाक्षुषधीविषयत्वं हश्यत्वं जगति सुप्रसिद्धं हि। तद्योगी पुरुषोऽसी छायात्मा वाऽथ वा भवेजीव:।। ८० ।। किंवा स देवतात्मा न खलु परात्मा न दृश्यते स यतः। यदि च च्छायात्माऽसावसृतामयलक्षणः पुमान्न भवेत् ॥८१ ॥। भवतुतिदा,जीवो वा देवो वा स्यान्न चैव परमात्मा। धर्मादिसाधनोऽसौ जीवोऽप्यमृतादि णो भवति ॥ ८२॥ योऽसी हि देवतात्मा स चापि निर्दि णो दृष्टः। सत्या गतौ परस्य हि विशिष्टदेशत्वकल्पनाऽनुचिता ॥ ८३ ॥

Page 40

द्वितीयपाद: २] माष्यार्थरत्नमाला।

दृश्यत्वकल्पना वा तस्याऽनुचिता ह्यनामरूपत्वात। इति शङ्कायां सत्यामुपकोसलवाक्यमेतदृखिलमपि ।। ८४H सम्यग्विचार्य भगवानिद्मधिकरण चकार मुनिवर्य:। अन्तर उपपत्तेः ॥ १३॥ वैदो- मिव ते मुखं विमातीति तं. प्रशस्याऽडदौ॥। ८५। । उपदेशमिमं चकार जाबालमुनिवरो यस्मात्। मेनोपदिश्यमानो य एष इल्यादिवाकयनिर्दिष्टः ॥ ८६ । स. च परमात्मेव स्यान्न चेतरः कोऽपि शक्कितुं शक्यः । आत्मत्वममृतमावो ब्रह्मात्मकताऽभयं च सर्वीमदम्॥।८७ ।। गुणजातं परमात्मन्युपपन्नं स्यान्न चेतस्त्रापि। पाप कर्मैवंविदि न श्लििष्यत इति हि यञ्च निर्दिष्टम् ।८6।1 तद्विदि पापास्पशनमस्मिन्पक्षे समक्जसं भवति। अक्षिस्थानं यदिदं प्रदर्शितं सर्वलेपरहितमिति ॥ ८3 ॥ नद्यदितिमन्त्रमागे तस्मात्स्यादि्ह पर: पुमानेव। यञ्चेह वामनीत्वं संयद्धामत्वमपि च. यञ्चोक्तम्॥ ९०। यग्चेह भामनीत्वं परमात्मनि युक्तमेतदखिल.मपि। संयद्टामत्वादिकमखिलं विवृतं हि मन्त्रभागेण ॥ ९१।। कर्मफलोत्पादकता संयद्दामत्वशब्ड्लभ्योऽर्थः । कर्म प्रापकता मवति तथा वामनीत्वशब्दार्थः।९२॥ सर्वार्थमानदत्वात्तथैव सर्वत्र मासमानत्वात्। उक्तं हि भामनीत्वं तदेतदृखिलं परात्मनि प्रथितम् ॥ ९३॥ तस्मादिह परमात्मा निर्दिष्टो भवति नेतरः कश्चित्। स्थानादिव्यपदेशाच्॥१४॥ यदि परमात्माऽयं स्यादृक्षिस्थानत्वमनुपपन्नामीति ॥९४॥ नेयं शङ्का यस्मात्तस्य स्थानानि दर्शितान्येव। अन्तर्यामिनिरुक्तस्थानानि बहूनि दर्शितान्यस्य ॥९५॥ चक्षुरपि तत्र दृष्ट तस्मादयमिह परः पुमानेव। सूत्रस्थादिपदेन हि नाम च रूपं च वर्णितं यदपि ॥ ३६॥ स्यरूपे तदेवद्खिलं समख्जसं भवति।

Page 41

३६ सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य

सुखविशिष्टाभिघानादेवं च ॥ १५॥

कं ब्रह्मेत्यादिकमपि सुखात्मकं ब्रह्म बोधयत्याशु। खण्डशब्दसाहचर्याङ्ह्मण्यल्पत्वबोधपरिहारे॥ ९८॥ ब्रह्मपद्साहचर्यात्कंशब्दोऽनन्तसुखपरो भवति। तेनानन्तसुखात्मकसुपदिष्टं ब्रह्म पूर्ववाक्येण।। ९९।। न ह्येताद्ृशरूपो जीवो देवोऽथ वा भवत्यन्य: । श्रुतोपनिषत्कगत्यभिधानाच् ॥ १६॥ विदितश्रुत्यन्तस्य च या गतिरुपदिश्यते हि वेदान्ते ॥ १०० ॥ अर्चिष्पमुखा सेहाप्युपदिष्टाऽतोऽयमत्र परमात्मा। अथ यदि चैवेत्यस्मिन्मन्त्रे गतिरियमुदाहता भवति॥१०१॥ तस्मादृक्षिस्थाने प्रदर्शितोऽयं हि भर्वात परमात्मा । अनवस्थितेरसंभवाच्च नेतरः ॥ १७॥ इतरश्षाष्यात्मादिरन चेह निर्दिश्यतेऽन्तरक्षिणि हि॥ १०२॥ अनवंस्थितो यतोऽसी छायात्मा किं च भवति नाऽडत्माSपि। चक्षुःसमीपवर्ती पुरुषो यदि भवति चक्षुषि च्छाया ॥ १०३॥ अपयाते तस्मिन्निह पुरुषच्छाया न दृश्यते काऽपि। जीवो यद्यप्यात्मा तथाऽपि चक्षुष्यवस्थितो नायमू॥१०४॥ चित्तोपाधियोऽसी चित्तं प्रायेण हृदयदेशगतम्। अमृतत्वमस्य दुर्घटममयं चाप्यस्य दुर्घटं मवति ॥ १०५॥ सर्वगतस्य परात्मन इदं हि सकलं समस्जसं भवति। यद्यपि च देवतात्मा नित्यं चक्षुष्यवस्थितो मवति ॥१०६॥। अमृतादिशब्दयोगी तथाऽपि नैवाऽSत्मश्दृयोग: स्यात। अमरत्वं देवानां चिरकालावस्थितत्वसापेक्षम् ॥ १०७॥ ऐश्वर्यमीशतन्त्रं न च स्वतोस्याभयं च नो सवति। दृश्यत इति येयं श्रुतिरुदाहता सा न चाक्षुषत्वपरा॥ १०८॥ विद्वदनुभूतिविषयप्रदर्शनार्था प्ररोचनार्थव। तस्मात्परमात्माडयं योऽसावक्षिणणि निरुपितो ह्यात्मा ।१०९ ॥ उपकोसलवाक्यमिदं तत्र परात्मनि समन्वितं भवति। नन्वयमक्षिस्थाने प्रदर्शितो, भवति नैव परमात्मा॥११०॥।

Page 42

द्वितीयपाद: २] माष्यार्थरत्नमाला।

स्थानव्यपदेशादिति शङ्रकां वारयितुमेष दृष्ान्तः । अन्तर्यामिब्राह्मणवाक्ये यञ्चक्षुषीति निर्द्िष्टः ॥१११॥ स्थानादिव्यपदेशादिति सूत्रेणोपदर्शितः पूर्वम्। स च दषान्तोऽसिद्धो यतः परात्माऽशरीर उपदिक्ट: ॥११२।। अशरीरस्य क्वापि हि यमयितृमावो न दृश्यते लोके। इह खल्वन्तस्तिष्ठन्यमयत्ययमिति हि दर्शितो योऽसी ॥ ११३ ॥ अन्तर्यामी योगी किंवा स्यात्तदभिमानिदेवो वा। न तु परमात्मा योऽसावकार्यकरणो निरुपितः शास्त्रे ॥११४ ॥ इति शङ्कां वारयितुं चकार मुनिवर्य एतद्धिकरणम्। अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥ अधिंदेवादिविभिन्नं जगत्समग्रं हि योऽन्तरवतिष्ठन्।। ११५ ।। यमयति स च परमात्मा न हि योगी नापि देवतात्मा वा। योऽसौ परमात्मा स्याज्जगतः सृष्यादिकारणं भवति ॥११६ ॥ जगदीशः कृत्स्नमिदं जगन्नियन्तुं स एव शक्रोति। आत्मत्वममृतभावस्तस्यैव हि युज्यते न चान्यस्य । ११७ ।। अतथाभूतो योगी देवो वाऽडत्माSमृत: कथं भवति। यं पृथिवी नेत्येषा श्रुतिः पृथिव्यादिदेवतादीनाम् ॥ ११८॥ अन्तर्यामिणमविदितमाचष्टे स न कथं परात्मा स्यात्। यो देवतात्मनामप्यन्तर्यामी कथं स देव: स्यात् ॥ ११९॥ स्वस्यैव यमयितृत्वं नियम्यता चेति बाधितं तत्स्यात्। यच्चोक्तमस्य बाधितमकार्यकरणस्य यमयितृत्वमिति ॥१२० ॥ तद्पि च दूषणमस्मिन्नचिन्त्यशक्तौ परापरे न भवेत् । यानिह यमयति भगवान्कर्मफलासक्तचेतसो लोकान् ॥ १२१॥ तत्कार्यकरणजालैः सकार्यकरणो ह्यकार्यकरणोऽपि। एवमदटष्टत्वादिव्यपदेशोऽप्यत्र दर्शितो योऽसौ ॥ १२२ ॥ स च परमात्मनि युक्तो न योगिनि स्यान्न देवतात्मनि वा।

ननु चादृष्टत्वादिव्यपदेशः स्यात्प्रधानपक्षेऽपि॥ १२३॥ जगतः कारणभावादन्तर्यामि प्रधानमेव स्यात्। इति चेन्नेयं शङ्का द्रहटत्वादिकमुदाहृतं येन ॥१२४ ।।

Page 43

सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

धानधर्मो ह्यन्तर्यामी ततः परात्मैव। वष्टत्वादृष्टत्वव्यपदेशादिह स न प्रधानं चेत्॥१२५।। शारीरो भवतु तथाऽप्यन्तर्यामी यतः स हि द्रष्टा। भोता मन्ता चाऽडत्मा चेतनमावाददृ्टरूपश्र ॥१२६॥ देहादि्यमयितृत्वादित्याशङ्का निरस्यते सपदि। शारीरश्रोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥ वश्चायं शारीरो नान्तर्यामी मवेद्यतश्रैनम् ॥१२७॥ शारीराद्ज्रेदेन हि काण्वा माध्यदिनाश्र कथयन्ति। यो विज्ञाने तिष्ठन्नित्यन्ये वर्णयन्ति चान्येऽपि ॥ १२८॥। योडसावात्मनि तिष्ठन्नित्यि कथयन्ति चोभयत्रापि। विज्ञानशब्द एकस्तथाऽSत्मशब्दोऽपि जीववचन: स्यात् ॥१२९॥ विज्ञानमयो यस्माज्जीवो निर्दिश्यते हि सर्वत्र। जीवस्यान्तर्यामी योऽसौ स कथं हि जीवतां गच्छेत् ॥ १३०॥ तस्मादन्तर्यामिणि परमात्मनि वाक्यमेतदुपपन्नमू। एकस्यापि हि नियामकत्वं नियम्यरूपत्वम् ॥ १३१ ॥ औपाधिकमेदेन हि तदेतद्खिल समख्जसं भवति। नन्वत्रान्तर्यामी द्वष्टत्वात्मत्वध्मयोगेण ।। १३२ ।। स्मातं प्रधानमेतन्न भवति चेन्दवतु तावताऽपीह। मुण्डकवाक्ये भूयो निरुक्तमद्वेश्यतादिगुणयोगि॥१३३॥ अक्षरमिति यत्परथितं तदिदं स्मातं प्रधानमेव स्यात्। शब्दादिरहित मेतद्यत एतस्य ह्यदृश्यता युक्ता ॥ १३४ ॥। हह्यित्वादिकमि सूक्ष्मत्वादस्य युक्तमाभाति। महदादिकारणत्वात्रिगुणत्वादस्य भृतयोनित्वम् ॥ १३५॥ सस्मादेतद्वाक्यप्रदर्शितं यत्प्रधानमेव स्यात्। योनिशब्दो निमित्तवाची तदा तु शारीस:॥ १३६ ॥ न हि मवति सतयोनिर्यतश्र धर्मादिसाधनोपचितः । नन्विह इति यह्च्येत तदा मवति विरोधोऽत वाक्यशेषेण। यः सर्वज्ञः सर्वविदित्येवं वाक्यशेष इह हक्षः ॥ १३८॥ क्यशेषदर्शितसर्वज्ञत्वं कथं प्रधाने स्यात। इति नात्र श तयं सर्वज्ञत्वं यदेतदुपडिष्टम्। १३९।।

Page 44

द्वितीयपाद: २] भाष्यार्थरत्नमाला। ३९

अक्षरपदाभिधेयात्परस्य परमात्मनो हि निर्दि्टम् । तस्मादस्मिन्वाक्ये प्रधानमिह भूतयोनिरित्युक्तम् ॥ १४० ॥ अथवाडयं शारीरो न हि परमात्माऽत्र भूतयोनि: स्यात्। हष्टान्तबोधकानि हि यथोर्णनाभिरितिवाक्यजालानि ॥१४१॥ दृष्ठान्तभावमेषामचेतनानां यतश्र कथयन्ति। इत्याशङ्कां सकलां निरस्य वाक्यार्थतत्त्वबोधार्थम्॥१४२॥ भगवान्करुणासिन्धुश्र्वकार मुनिवर्य एतद्धिकरणम्। अदृश्यत्वादिगुणको धर्मोक्ते: ॥ २१ ॥ मुण्डकवाक्ये योऽसावद्रेश्यत्वादिगुणक उपदिष्ट: ॥ १४३॥ स च परमात्मा यस्मात्सर्वज्ञत्वादिधर्मनिर्देशः। भूतप्रकृतित्वेन हि यद्क्षरं पूर्ववाक्यनिर्दिष्टम ॥१४४॥ तत्रैवोत्तरवाक्ये सर्वज्ञत्वं च दर्शितं येन। अक्षरविद्या येयं परविद्या नेति वर्णितं पूर्वम् ॥१४५॥ यद्यक्षरं प्रधानं तद्विय्या सा कथ परा विद्या। कस्मिन्भगवो ज्ञाते सर्वमिदं ज्ञातमिति च यच्चोक्तम् ॥१४६ ॥। एकस्य च विज्ञाने सर्वज्ञानं परात्मपक्षे स्यात्। या कर्मगोचरा स्यादपरा विद्यति तां हि निन्दित्वा ॥ १४७॥ निःश्रेयसफलकतयाSपरविद्या नेति वर्णितं भूयः । निन्दित्वाऽपरविद्यां ततो दिरक्तस्य साधनं कथयन् ॥१४८॥ परविद्यायामस्यां श्रुतिरधिकारं हि तस्य बोधयति। परतः पर इत्यन्ते मन्त्रे निर्दिष्टमक्षरं यत्स्यात् ॥ १४९॥ तज्चोत्तरसूत्रार्थव्याख्याने दर्शयिष्यते मूय:। तस्मात्स हि परमात्मा यद्क्षरं स्याददृश्यतादिगुणम्॥१५० ॥ सर्वज्ञत्वाद्यखिलं तस्मिन्नात्मनि सम मवति। यस्मादचेतनानां दृष्टान्तत्वं प्रदर्शितं भूय: ॥१५१ ॥ तस्माद्क्षरशब्दं प्रधानमिह मूतयोनिरेवेति। य द्दूषण मेतस्मिन्परात्मपक्षे न किंचिदृपि भवति ॥ १५२॥ न हि न्ते धर्मिणि सकलं साम्यं विवक्षितं मवति। विशेषण भेदव्यपदेशाभ्यां च नेतरौ ॥ २२॥ यद्यक्षरशब्द: स्याच्छारीरेऽसी विशेषणं चैक्त् ॥१५३ ॥

Page 45

४० सुन्नह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

दिव्यो हीत्युपदिष्टं दिव्यत्वाद्यनुपपन्नमेव स्पात् । आविद्यकदेहादावहमभिमानेन विस्मृतस्वात्मा ॥ १५४॥ यः शारीरः सोऽयं दिव्यत्वाद्यैः कथं विशिष्येत। अद्रेश्यत्वादिगुणं यदक्षरं भूतयोनिरित्युक्तम् ॥१५५॥ उपदिश्यते प्रधानाद्विन्नं तस्माञ्च तत्परात्मैव। अप्राणो हीत्यस्मिन्मन्त्रे पुंलिङ्गशब्दनिर्दिष्टः ॥१५६॥ योडयं परमात्मा स्यात्स चाक्षरात्पर इहोपदिट: स्यात्। तत्राक्षरशब्द्ोऽसावव्याकृतमतसूक्ष्मपर एव । १५७।। न हि तदिना परात्मा सृष्टिस्थितिनाशकारणो भवति। रूपोपन्यासाच्च॥ २३।। अग्निमूर्धेतीयं श्रुतिरस्यैवाक्षरस्य रूपमिद्म् ॥१५८॥ त्रैलोक्यावयवात्मकसुपदिशति हि तस्य चान्तरात्मत्वम्। न ह्येतादृशरूपं शारीरे स्याच्छरीरपरतन्त्रे ॥१५९॥ सर्वान्तिरात्मताऽपि च न च प्रधाने ह्यचेतने भवति। पकरणात। प्रकृतानुकर्षणं हि प्रकरणशब्दार्थ एष उपदिक्षः ॥ १६०॥। सर्वस्य चान्तरात्मा यस्तं ह्येष इति निर्दिशन्पूर्वम। पुनरप्येतस्मादिति तमेव भूयः परामृशन्नस्य ॥ १६१॥ प्राणादिकारणत्वं प्रपशश्चितं येन स खलु परमात्मा । केचिदिहाऽडनु: सुधियस्त्वग्गिर्मर्धेतिवाक्यनिर्दष्टम् ॥१६२॥ रूपं यदेतदखिलं नाद्रेश्यत्वादिगुणक उचितमिति। अज्ञादीनामेषां निर्दिष्टा जायमानता यस्मात् ॥ १६३।। तस्मात्तदिदं रूपं हिरण्यगर्भस्य युक्तमाभाति। पुरुष इति वाक्यशेषप्रदर्शितं रूपमत्र सूत्रोक्तम् ॥ १६४ ।. तस्योपन्यासोऽयं तत्प्रतिपत्तिप्रजननो भवति। ननु वाक्यशेषदर्शितसर्वज्ञत्वादिधर्मयोगेण.।। १६५.।। यद्यक्षरं प्रधानं न भवति चेन्दवतु तार्ह तत्रैवम्। वैश्वानर इति रूढश्छान्दोग्ये हि प्रदर्शितो योऽसी ॥१६६ ॥ होमाधिकरणमावाच्चात्रोक्ताज्ाठरागनिरेव स्यात्। अयमगनिरिति च वाक्ये यद्यंशब्दोऽपि जाठरे हक्षः ॥१६७॥।

Page 46

थपाद: २] माष्यार्थरत्नमाला। ४१ यद्यं मूताशनिर्वा वैश्वानरशव्द्वाच्यता गच्छेत्। विश्वस्मा इति वाक्ये वैश्वानरशब्द एष भूताग्ौ ॥१६८॥ दृष्टस्तस्मादृथ वा भवेदसौ तद्भिमानिदेवो वा। वैश्वानरस्य सुमताविति श्रुतिर्ह्यत्र साधिका भवति ॥१६९ ॥ य द्यात्मशब्ड्योगान्नैते वैश्वानरा भवन्ति तदा। जीवो वा स्याद्यदयं जाठरवैश्वानरेण संनिहितः ॥ १७० ॥। पादेशमात्रमिति च श्रुतिरप्यस्मिन्समख्जजसा भवति। तस्मादिह जीवो वा जठराग्निर्वाऽथ वाऽवि भूतागनि: ।।१७१ ॥ वैश्वानरशब्द: स्यात्किंवाSसौ तदभिमानिदेवो वा। न तु परमात्मेत्येवं निरसितुमुक्तप्रकारमाक्षेपम् ॥ १७२ ।। सर्वज्ञोऽसौ भगवानिदमधिकरणं चकार मुनिवर्यः। वैश्वानरः साधारणशब्दविशेषात् ॥२४॥ उदालकावसाना ये च प्राचीनशालसुनिमुख्याः॥१७३॥ को नु इति ते च सर्वे मीमांसां चक्रुरेवमन्योन्यम्। मतिवैरूप्यादेते परिनिष्ठां तत्र लब्धुमसमर्थाः।।१७४।। वैश्वानरविद्यां तां ग्रहीतुकामा: शुचिव्रता मुनयः । पृतद्िद्याकुशलं के कयमश्वपतिमेत आजग्मुः ॥१७९॥ राजानं पपच्छुर्बूहीत्यन्तेन वाक्यजालेन। राजाऽपि परमकृपया तद्भिप्रायं च सकलमाकर्ण्य । १७६।। वयस्तोपासनपक्ष निन्दित्वाऽडत्मानमुपदिदेशेत्थम्। यस्त्वेतमिति च वाक्यैर्द्युमूर्धताद्यङ्गषद्कसंवलितम्॥१७७॥ वैश्वानरं वदिष्यंस्तदुपास्तिफलं च वर्णयामास। अत्र च वाक्ये सकले योऽसी वैश्वानरो विनिर्दिष्टः॥१७८॥ स च परमात्मैव स्यान्न जाठराग्न्यादिरथ च जीवो वा। न ह्यस्य जाठराग्नेर्य्यमूर्धता स्याद्यतः परिच्छिन्नः ॥१७९॥ यद्पि भूतागगिरसावपरिच्छिन्नस्तथाऽपि नेयं स्यात्। यो हि विकारो लोके नैव विकारान्तरात्मको दृष्ः ॥१८० ॥ नायं जीवोऽपि तथा यतः परिच्छिन्न एष निर्दिष्ः। जगतोऽस्य कारणत्वात्परमात्मन एतदखिलमुपपन्नम् ।१८१ । कार्यगता ये धर्मा निर्दिश्यन्ते हि कारणे लोके। फलगतमपि माधुर्यं चूतादौ मन्यते यतो लोकः ॥ १८२॥ ६

Page 47

४२ सुन्रझ्मण्यविरचिता- [१ प्रथमाध्यायस्य-

तस्मादसौ परात्मा द्युमूर्धतादिभिरिहोपदिष्टो यः। यदि परमात्मा न स्याद्योऽसी वैश्वानरोऽन् निर्दषः ॥१८३।। तदुपासकस्य भोग्यं सर्वत्रेत्येतद्नुपपन्नं स्थात्। तद्यदिषीकातूलं ह्वग्री प्रोतं प्रदूयते यदत ॥ १८४ ॥। तद्वद्वैश्वानरविदि पापं कर्मेति चाप्ययुक्तं स्यात्।

लोकादिषु फलभोगव्यपदेशः पापकर्मनाशोकति:। चैश्वानरशब्दोऽयं हेतुभिरैतैः परात्मपर एव ॥ १८६॥ इममर्थ बोधयितुं पञ्चम्यन्तोऽत सूत्रनिर्दिष्टः। व्यवधानं गमितौ तौ दयोस्त्रयाणां च बोधकी भवतः ॥।१८७॥ तावेतौ संनिहिती परमेश्वरमेनमेव बोधयतः । माणवकमग्निमेनं पश्येत्येवंविधेषु वाक्येषु॥ १८८ ॥ माणवकशब्दयोगादुत्कृष्टपरो यथाऽग्रिशब्द: स्यात्।

परमेश्वरमेवैनं वैश्वानरमीदृशं प्रबोधयति। स्मर्यमाणमनुमानं स्यादिति ॥२५॥ द्यां मूर्धानमितीयं स्मृतिरषि वैश्वानरस्य रुपमिदम् । १९०॥ दर्शयति तञ्च रूपं श्रुतिनिर्दिष्टत्वसाधकं भवति। श्रुतिमूलं स्मृतिवाक्यं वदन्ति वेदार्थपारगा वृद्धाः ॥१९१॥ यञ्च स्मृतिनिर्दिषं तच्छतिवाक्येन दर्शितं भवति। एतज्ज पारमेश्वररूपमिति स्मृतिरियं हि दर्शयति ॥ १९२॥ छान्दोग्येऽपि हि तदिदं प्रदशितं येन भवति परमात्मा। इतिशब्दो हेत्वर्थः सूत्रोक्त: पारमेश्वरं रुपम्॥१९३॥ श्रुतिनिर्दद्िष्टं यस्मात्सोSचिन्त्यात्मेति दर्शितं स्मृत्या। शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा दृष्टयु- पदेशादसंभवात्पुरुषमपि चैनमधीयते ॥ २६ ॥ नन्विह वैश्वानर इति निर्दिष्टो भवति नैव परमात्मा ॥१९४॥ शब्दादिभ्योऽपि तथा तथैव चान्त:प्रतिष्ठितत्वेन। वैश्वानरशब्दोऽसी तथाSगनिशब्दोऽपि योडत निर्दिष्ः॥१९५॥ तावे ग्निपरौ स एष इत्यादिवाक्यनिर्दिष्टौ। आदिपदादृन्त्याद्ग्नित्रेताप्रकल्पनं ग्राह्यम् ॥१९६॥

Page 48

द्वितीयपाद: २] माष्यार्थरत्नमाला। ४३

प्राणाहुत्याश्रयता ग्राह्या या वाक्यशेषनिर्दिष्टा। अन्तःप्रतिष्ठितित्वव्यपदेशोऽप्यत्र दर्शितो भवति ॥ १९७॥ एतेभ्यो हेतुभ्यो वैश्वानर एष जाठरागि: स्यात्। इति शङ्काऽव् न कार्या नाग्निर्जाठर इहोपदिष्टः स्यात् ॥१९८॥ अपि तु तदुपाधिकेडस्मिन्परमात्मनि हष्टिरत्र निर्दिष्ठा। शब्दादिहेतवो ये पूर्वोक्ता नात्र बाधकास्ते स्यु: ॥१९९॥ यदि जाठर एवाग्निरवैश्वानर इति निरूप्यते तत्र। आत्मत्वमनुपपन्नं दयुमूर्धतादिकमपीह निर्दिष्म् ॥२००॥ किं चात्र दर्शितं यत्पुरुषत्वं तदपि बाघितं तत्र। यत्पुरुष इति च वाक्ये पुरुषो वैश्वानरो विनिर्दिष्टः ॥ २०१॥ पुरुषविधमित्यपीमं सूत्रावयवं पठन्ति केचिदिह। तत्न च पुरुषविधत्वं यदुक्तमधिदैवतं यद्ध्यात्मम् ॥ २०२।। दुष्भृतिष्वधिदैवं मूर्धादिष्ववयवेषु चाध्यात्मम्। तद्भिप्रायं तज्व हि न जाठरे भवति किंतु परमेशे ॥२०३॥ अत एव न देवता भूतं च ॥। २७ ।। उत्ेभ्यो हेतुभ्यो भूताग्निर्वाथ देवतात्मा का। वैश्वानरो न हि स्याद्यतः स नाऽडतमान चापि पुरुषोवा।२०४॥ लिङ्गनानि बाधकानि हि यानि स्युर्भतदेवतापक्षे। तानि प्रदर्शितानि हि तस्माद्वैश्वानरः परात्मैव ॥ २०५॥। साक्षादप्यविरोधं जैमिनिः ॥ २८॥ पूर्वं हि जाठरा्रे: प्रतीकभावं ह्युपाधिमावं च। आभित्यैव हि दशितमेतस्यान्तःप्रतिष्ठितत्वमपि ॥ २०६ ॥। योऽसौ दुमूर्धतादिभिरुदाहतः परमपुरुष इह वाक्ये। अन्तःप्रतिध्ठतत्वं तस्यान्तर्यामिभावयोगेन ॥ २०७॥ अथ वा चित्रुकान्तेषु हि पुरुषावयवेषु मूर्धता हुक्ता। अन्तःप्रतिष्ठितित्वं साक्षादेवेति जैमिनिः प्राह ॥ २०८॥ तस्मादस्मिन्वाक्ये परमात्मैव प्रदर्शितो नान्य: । वैश्वानरशब्दोऽयं योगेन तमर्थमेव बोधयति॥२०९॥ विश्वेषां वा नर इति विश्वे वाऽस्येति योग इह भवति।

Page 49

४४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

वैश्वानरः परात्मा मवति ह्यत्रागिशब्द्बोध्योऽपि। अग्रफलनेतृभावाद्या च त्रेताग्निकल्पना साऽपि। २११॥ सर्वात्मके परात्मनि सकलं चतत्समख्सं भवति । अस्य प्रादेशत्वं संप्रति सम्यङ्निरुप्यते सूत्रैः॥२१२॥

परिदृश्यते परात्मा योऽसौ प्रादेशिकत्वमात्रेण। भक्तानुकम्पयाऽयं तस्मात्प्रादेशिक: परात्मा स्यात् ॥ २१३॥ हृदयादिषु प्रदेशेष्वयं परात्मोपलभ्यते येन। प्रादेशिक: परात्मा तस्मादित्याश्मरथ्य आचार्यः ।।२२४ ॥ अनुस्मृतेर्बादरिः ॥ ३० ॥ प्रादेशमात्रहृद्ये प्रतिष्ठितं मन इति प्रसिद्धं हि। तेनानुस्मरणीयः कथितः प्रादेशमात्र एष इति ॥२१५॥ प्रस्थमिता: प्रस्था इति निर्देशोऽयं यथा तथेहापि। इति बादरिराचार्यो वदति प्रादेशमात्रतामस्य।। २१६।। संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१॥ यान्याधिदैविकानि ह्यङ्गान्यत्रोपदर्शितान्यस्य। प्रादेशिकमूर्धादौ यदत्र संपादितानि चैष इति ॥ २१७॥ प्रादेशिकसंपतत्या सेयं प्रादेशमात्रता तस्य । इंति जैमिनिराचार्यस्तस्य प्रादेशमात्रतां बूते ॥ २१८॥ आमनन्ति चैनमस्मिन्॥ ३२॥ मूर्धादिचुबुकमध्ये यदेनमिह वर्णयन्ति जाबाला:। वैश्वानरं परेशं य एष इत्यादिमन्त्रभागेण ।। २१९॥ तस्मादसी परात्मा प्रादेशिकश्दभाजनं मवति। शब्दोऽयमभिविहितस्तत्र परात्मनि समख्जसो भवति ॥ २२० ॥ सर्वत्राभिगतोऽयं परिमितिहीनो यतोऽयमात्मा स्यात्। जगदेतदभिविमीते विमीयते वा य आभिमुख्येन ।। २२१॥ तस्मादेतद्वाक्यं दयुमूर्धतादयङ्गजालसंवलिते। वैश्वानरे परात्मन्युपास्यरूपे समन्वितं भवति ॥ २२२॥

Page 50

तृतीयपाद: ३] माष्यार्थरत्नमाला। ४५

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। ध्यायी तस्यां प्रथमो योऽसी समन्वयाध्यायः ॥२२३॥ तत्र द्वितीयपादे सूत्रार्थो यश्र भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्य: ॥२२४ ।। इति प्रथमाध्याये द्वितीय: पाढ: ॥२॥

अथ तृतीयपादप्रारम्म: ।

इह च द्वितीयपादे यानि च वाक्यान्युपास्यबहुलानि। तानि ह्युपास्यरूपे समन्वितानीति दर्शितं पूर्वम् ॥१॥ अत्र च तृतीयपाढे यानि ज्ञेयप्रधानवाक्यानि। तेषां समन्वयश्च ज्ञेये ब्रह्मणि निरुप्यते सद्यः ॥२॥ ननु वाक्यशेषद्टृष्टो द्युमूर्धताद्यन्वयानुरोधेन। वैश्वानरशब्दोऽसावुपक्रमस्थो यदा परात्मपरः ॥३॥ झुभ्वाद्यायतनं यन्मुण्डकवाक्ये निरूपितं चाडडदौ। तदिदं प्रधानमेव स्यादन्ते सेतुशब्दनिर्देशात्॥४॥ दुप्रमृतिप्राणान्तं यस्मिन्नोतमिति दुर्शितो योऽसौ।

रमृतशब्दोऽसौ बह्मण्येव प्रयुज्यते शास्त्रे। षठ्ठी संबन्धार्था सेतुर्द्ट्टो हि पारवालीके । ६ ॥ तस्मादेतद्वाक्यं यद्सृतसंबन्धिपारवत्त्वगुणम्। बोधयति हि प्रधानं यतिः(तः) परात्मा न पारवान्मवति ॥७॥ अथ वा द्युप्रमतीनां विधारकत्वेन निश्चितो योऽसौ। व ज स्यादृथ वा शारीरो वाऽडत्मशब्द्योगेन ॥। ८ ॥ तस्मान्मुण्डकवाक्ये द्युम्वाद्यायतनभावमापन्नः । न परात्मेत्याशङ्कां निरसितुमधिकरणमेतदाह मुनिः ॥९॥ युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ द्ुपमृतीनामेषामायतनत्वेन वर्णितो थोऽसौ। न च परमात्मैव स्यान्न च प्रधानं न चेतरः कश्चित् ॥ १०॥ यस्मिन्नोतं सकलं तमेकमात्मानमेव जानीथ। इत्यर्थके हि वाक्ये तस्मिन्टष्टो य आत्मशब्दो हि। ११ ॥

Page 51

४६ सुबह्मण्य विरचिता- [ १ प्रथमाध्यायस्यं-

चेतनवाची सोडयं दृष्टः सर्वत्र चेतनार्थपर:। शुम्वाद्यायतनत्वं न च प्रधाने श्रुती क्वचिद्दृष्टम् ॥१२ ।। सन्मूला इति मन्त्रे सर्वायतनत्वमात्मनो दृष्टम्। यद्वाग्विमोकपूर्वकविज्ञेयत्वं प्रदर्शितं ह्यत्र ॥ १३ ॥। तद्पि च परात्मनः स्यान्न च प्रधानस्य कुत्रचिद्दटृष्टम् । शुत्यन्तरे तमेवेत्यस्मिन्टटं परात्मनस्तदिदम् ॥। १४ ।। पूर्वोपदर्शितं वा सर्वज्ञत्वं यदेकविज्ञानात्। तस्मिन्नितिमन्त्रोक्तं परात्मपक्षे समख्जसं भवति ॥१५॥

परमात्मानं बरूते विज्ञेयत्वं च तस्य निर्दिट्टम् ॥ १६ ॥ अतदर्थकवाक्यानां त्यागं वक्तीह मन्त्रशेषोऽयम्। मन्त्रो हि पुरुष एवेत्यपि सर्वस्यैव पुरुषतां जूते ।। १७॥। सामानाधिकरण्यं यदत्र हष्ट विलापनार्थं स्यात्। हष विलयार्थत्वं चोरोऽयं स्थाणुरिति च वाक्ये हि॥ १८ ॥ तद्वत्प्रञ्चमखिलं विलाप्य शु्धं यदेतदायतनम्। ब्रह्म तूते मन्त्रो न सप्पञ्चं न च प्रधानं वा ॥ १९।। सेतुत्वममिहितं यद्यमृतस्यैष इति मन्त्रभागेण। तद्पि च विधार त्परात्मनो युक्तमेव सेतुत्वम्॥ २०॥ राहो: शिर इति वाक्ये षठठी चाभेद्बोधिका दृष्टा । ब्रह्म यदाऽमृतशब्दं तदा त्वभेदार्थिका हि षषठीयम्॥ २१॥ मोक्षो यदाऽमृतः स्यात्संबन्धार्थैव भवति षष्ठीयम्। यो वाग्विमोकपूर्वकसाक्षात्कारस्तदा स मन्त्रोक्त: ।। २२ ।। एतत्पदामिधेय: प्रापकभावेन तस्य हेतुत्वम्। तस्माद्त्रह्मैवेदं दुभ्वाद्यायतनमत्र निर्दिषम् ॥ २३॥ मुक्तोपसृप्यव्यपदेशात् ॥२॥ रागादिदोषमुक्ता ये च स्युस्ते हि मुक्तपद्वाच्या:। मुक्तोपसृप्यता खलु निर्दिष्टा ह्यस्य चोत्तरत्र यत: ॥ २४ ॥ मिद्यत इति मन्त्रेरितसाक्षात्कारेण दोषमुक्तानाम्। पुरुषसुपैतीत्यन्तो मन्त्रोऽयं तदुपसृप्यतां बूते ॥ २५॥ मन्त्रान्तरं यदेति हि कथयति कामादिदोषमुक्तानाम्। अत्र बह्म समश्तुत इत्यन्ते तदुपसृप्यतामस्य ॥ २६॥.

Page 52

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ४७

नानुमानमतच्छव्दात् ॥ ३ ॥ झुभ्वाद्यायतनं न प्रधानमनुमानगम्यमत्र स्यात्। अत्र च तत्परशब्दो यतो न दृष्टः कथं प्रधानं स्थात् ॥ २७ ॥ यः सर्वज्ञः सर्वविदित्यादौ चेतनार्थशब्दो यः । सर्वत्र दृश्यतेऽसौ तस्माद्यदिदं कथं प्रधानं स्यात् ॥२८॥ अत इह योऽयं वायुर्द्युभ्वाद्यायतनतां स नोपैति। यञ्च प्रधानपक्षे दूषणजालं तदेतदत्रापि। २९ ॥ प्राणभच्च ।। ४ । प्राणमदपि शारीरी नैषामायतनभावमुपयाति। यद्यमसर्वज्ञः स्याद्यस्माद्बुद्धयादिभि: परिच्छिन्नः॥३०॥ भेदव्यपदेशाच् ॥ ५॥ मेदव्यपदेशाच्च दुभ्वाद्यायतनमत्र न हिजीवः । ज्ञातृत्वेन नियुक्त: स कथं विज्ञेयभावमुपयाति॥३१॥ द्युभ्वाद्यायतनं यद्विज्ञेयत्वेन दर्शितं पूर्वम्। जानीथेति हि वाक्याज्ज्ञातृत्वेनोपदर्शितो योऽसौ ॥ ३२ ॥ तस्मादिह परमात्मा विज्ञेयत्वेन दर्शितः सोऽसी। दुभ्वाद्यायतनं स्यान्न च प्रधानं न कश्रिदन्यो वा ॥३३॥ प्रकरणात् ॥ ६ ॥ प्रकरणमपि यच्चैतत्परमात्मपरं हि दृश्यते विपुलम्। कस्मिन्नित्यारभ्य हि यतः परात्माऽत्र वणितो भूयः ॥ ३४ ॥ स्थित्यदनासयां च ।। ७ ॥ अन्योऽभिचाकशीतीत्यस्मिन्वाक्ये स्थितिर्विनिर्दिष्टा। स्वाद्वत्तीति च वाक्ये कर्मफलादनमपीह निर्दिष्टम् ॥ ३५॥ ताभ्यां स्थित्यदनाभ्यामीशक्षेत्रज्ञलक्षणं कथितम् । क्षेत्रज्ञात्पृथगीशं यथोक्तलक्षणमिहोपपादयितुम् । ३६॥ इह लोकसिद्धमेनं क्षेत्रज्ञं न श्रुतिर्हिं बोधयति। ईशो न लोकसिद्धो ह्यस्मात्तमिमं श्रुतिः प्रबोधयति॥३७॥ पैद्गिव्याख्यानेऽपि हि योऽसौ क्षेत्रज्ञ इत्युपन्यस्तः । सत्वोपाधिविवर्जितपरमात्मैवेति तेन न विरोध: ।३८ ।।

Page 53

४८ सुन्रह्मण्यविरचिता- [ १ प्रथंमाध्यायस्य-

तस्मादेतद्वाक्यं यथोक्तलक्षणसमन्विते शुद्धे। ब्रह्मणि परमे ज्ञेये समन्वितं तेन सकलमनवद्यम् ॥ ३९॥ नन्विह सुण्डकवाक्ये दयुपरभृतीनां यदेतदायतनम्। तच्ञाऽडत्मशब्दयोगात्परमात्मैवेति दर्शितं पूर्वम्॥४ ॥ तत्रेदमनुपपन्नं यदात्मशब्दो ह्यचेतनेऽपि स्यात्। छान्दोग्ये भूमवाक्ये ह्युपक्रमे पठित आत्मशब्दो य: ॥४१॥ उपसंहारे सोडयं शब्दो हष्टो ह्यचेतने प्राणे । तत्रोपक्रमवाक्ये सनत्कुमारं हिनारदोऽभ्येत्य ॥ ४२॥ श्रुतमित्याद्यैर्ना(रा)त्मविद्य (द)न्तैरात्मविविदिषां चक्रे। तत्र च सनत्कुमारोऽप्यृगाढिपारगमृषिप्रवीरं तम् ।४३॥ नाम ब्रह्मेत्यादीन्युपासनानि प्रदर्शयामास। प्रश्नप्रतिवचनाभ्यां प्राणान्तं सम्यगेनमुपदिश्य ॥४४॥ प्रश्नादिकं विनैव हि भूयः प्राणं प्रसञ्ज्यामास । प्राणो हेति हि वाक्यैः प्राणे सर्वात्मकत्वमुपदिष्म्॥४५॥ सर्वात्मकत्वसिद्धौ तस्याऽडतमत्वं च दर्शितप्रायम्। सर्वसमर्पणमुक्तं तस्मिन्प्राणे यथेति मन्त्रेण। ४६।। पाणविदो निर्दिष्टा ह्यतिवाद्यस्मीति मन्त्रभागेण। अतिवादिता तथोक्ता ह्यतिवादित्वापवादनिन्दा च ॥ ४७॥ सर्वसमर्पणकथनान्रूमत्वं प्राण एव संभवति। यद्भूमलक्षणं स्याद्यत्रेत्यादौ प्रदर्शितं तदपि॥ ४८॥ सौषुप्तावस्थायां प्राणे सर्वं समख्जसं वति। यञ्च सुखत्वं भूम्नो दर्शितममृतत्वमपि च यञ्चोक्तम्॥४९॥ प्राणेऽपि तदुभयं स्याद्यतो हि मन्त्रान्तरे तथा दृष्टम्। यत्रैष इति च मन्त्रे सुखरूप: प्राण एव निर्दिष्टः ॥५०॥ अमृतत्वमपि च तस्मिन्निर्दिष्टं प्राणवाक्यशेषे हि। तस्माद्योऽसौ भूमा प्राणोऽयं भवति नैव परमात्मा ॥५१॥ इममाक्षेपं निरसितुमिदमधिकरणं चकार मुनिमान्यः । भूमा संप्रसादादध्युपदेशात् ॥ ८॥ नायं भूमा पाण: प्राणादृध्वं यतोऽयमुपदिक्षः ।।५२।। परमात्मैवायं स्याल्लक्षणभेदात्म्माणभेदाच्च। श्रुतममित्यादी वाक्ये हयुपक्रमे चाऽडत्मविविदिषा दृष्टा ।। ५३ ॥

Page 54

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ४९

शोकं तरतीत्यस्मात्फलमपि निर्दिष्टमात्मबोधस्य। प्राणोऽयं यदि भूमा कथं स आत्मा कथं फलं चैतत् ॥ ५४ ॥ एतत्प्राणं ज्ञात्वा सोडयं शोकं कथं तरेलोकः । नामादिपाणान्तं प्रतीतभावेन वर्णितं ह्यन्न ॥ ५५॥ तच्च यदि ब्रह्म स्यादात्मा वा शास्त्रदृष्टविपरीतम्। वागादिपराणान्ते भूय:शब्द: प्रदर्शितो योऽसौ ॥ ५६॥ सावधिकबहुलमावं पूर्वस्मादुत्तरस्य दर्शयति। निरवधिकबहुलभावं भूमञशव्दोऽथ एष वर्णयति ॥५७॥ यस्मात्पञ्चम्यन्तं पदान्तरं नेह संनिधी दष्टम। निर्वधिकं च बहुत्वं परात्मनोऽन्यत्र न क्वचिद्दृट्टम् ॥५८ ॥ यो धर्मवाचकः स्याच्छव्दो नियमेन धर्मिसाकाङ्क्षः । मूमकशब्दः सोऽयं धर्मपरो नियतधर्मिसाकाङक्षी(क्षः)। ५९॥। आकाङक्षतेऽनुरुपं धर्मिणमानन्दवोधपरिपूर्णम्। तस्मान्दूमञ्शब्दः सर्वगतं ब्रह्म सच्चिदानन्दम् ॥६० ॥ बोधयति नान्यमर्थ तेन प्राण: कथं स भूमा स्यात्। सर्वसमर्पणमेतत्सर्वात्मत्वं च यञ्च पूर्वोक्तम् ॥६१ ॥ तत्र च सर्वपदं स्याद्वागादिपरं न चाखिलार्थपरम्। उक्तं हि सुप्तिवाक्ये वागादीनां समर्पण प्राणे ॥६२ ॥ प्राणावस्थात्मकतां पित्रादीनां प्रबोधयत्येषाम्। प्राणो हीति प्रथिता श्रुतिर्न सर्वात्मतां बवीत्यस्य ॥६३ । अतिवादित्वं यदपि प्राणविदो दर्शितं हि पूर्वत्र। अतिवादित्वं तदपि प्राणविद: श्रुतिरपोद्य भूयोऽपि॥ ६४ ॥ सत्यविदो दर्शयति ह्येष तु वेत्यादिवाक्यशेषेण। तुशब्दो योऽसावुत्तरभाङ्नैव पूर्वभाग्भवति ॥ ६५॥ सत्यपदं ब्रह्मपरं सत्यं ज्ञानमितिमन्त्रनिर्देशात्। सत्यज्ञानेनैव ह्यतिवादित्वं न चेतरज्ञानात् ॥६६॥ इति मन्त्रार्थे सिद्धे ब्रह्मविदश्रातिवादिता सिद्धा। अन्रत्यमेव सत्यं विज्ञानादीनि साधनान्युकत्वा ॥ ६७॥ आकृष्य भूमवाक्ये बहुपपञ्च निरूपितं ब्रह्म । प्राणो यदि भूमा स्यादात्मा वा यदि तदाऽडत्मतः प्राण: ॥६८। 6

Page 55

५० सुब्ह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

इति मन्त्रबाधनं स्याद्यदात्मजस्याSडत्मता विरुद्धा ह। देहैकदेशसंस्थो योऽसी प्राण: कथं भवेद्भूमा ॥ ६९॥ तस्मादिहं परमात्मा भूमा नान्य इति निश्चितं भवति। धर्मोपपत्तेश् ।। ९ ॥। ये चेह मूम्नि धर्माः श्रूयन्ते वाक्यशेषभागेषु॥ ७० ॥ ते सर्वे परमात्मन्युपपन्ना न ह्यताद्ृशे प्राणे। यत्रेतिवाक्यदर्शितलक्षणमस्यैव सम्यगुपपन्नम् ॥। ७१।। यस्मिन्दृष्टे नान्यत्पश्यति नान्यच्छृणोति लोकोऽयम्। न हि भूमेति च लक्षणमस्यैव स्यान्न चेतरस्यापि॥ ७२ ॥ यो वै भूमा तदसृतमितिमन्त्रोक्ततं यदेतदमृतत्वम्। तदृपि परात्मन एव ह्युपदिष्टं सर्ववेद्वाक्येषु॥७३॥ तत्सकलमित्युपदिटं सुखत्वमपि तस्य सुप्रसिद्धं हि। आनन्दो ब्रह्मेति हि मन्त्रे चान्यत्र दर्शितं भूय: ।७४॥ आनन्दृत्वं यदि चेद्बह्मणि सिद्धं सुखत्वमप्येवम् । उपसंहता हि कथितं तमसः पारत्वमुचितमेवास्य॥७५॥ सकलनिगमान्तवाक्यस्तमःपरत्वेन वर्ण्यते योऽसौ। यः सत्येनेत्येतन्मन्त्रोक्तं रूढमस्य सत्यत्वम्॥ ७६॥ स्वे महिमनीतिमन्त्रे श्रुतं च यत्स्वमहिमप्रतिष्ठत्वम्। यद्षि च सर्वात्मत्वं सर्वगतत्वं च यदृपि निर्दिध्म॥ ७७॥ तद्खिलमपि परमात्मनि भूम्न्येव समख्जसं न चान्यत्र। उपसंहृतिवाक्यस्य ह्युपक्रमेणैकवाक्यभावोऽपि। ७८। मूम्रः परमात्मत्वं साधयति न चेतरस्य कस्यापि। तस्मादेतद्वाक्यं छान्दोग्ये सप्तमे विनिर्दिष्टम् ॥७९ ॥ भूमपरमखिलमात्मनि समन्वितं निर्विशेषचिन्मात्रे। नन्विह तत्सत्यपदं ब्रह्मणि रूढमिति भूमवाक्यमिद्मू॥ ८० ॥ सत्साहचर्ययोगाङ्गह्मपरं चेत्तथैव तत्रास्तु। मृहदारण्यकवाक्ये ह्येतह्वै तदितिवाक्यनिर्दिषम् ॥८॥। रमिह वर्णः स्यादक्षरशब्दृश्र वर्णरूढो हि। यद्यपि योगाश्रयणे ब्रह्मपरत्वं प्रतीयते तुस्मिन् ॥ ८२ ।। तदृपि च योगाश्रयणं रूढिविरोधान्न चेह संभवति। तस्मादक्षरश्दादोंकारो ह्यन्र गृह्यते नान्य:।। ८३।।

Page 56

तृतीयपाद: ३ ] भाष्यार्थरत्नमाला। ५१ सर्वात्मकत्वकथनादाकाशान्तस्य धारकत्वेन। निर्दिश्यते स एव ह्योंकार इति प्रदर्शितां शङ्काम्॥८४ ॥ निरसितुमवहितहृद्यश्रकार मुनिवर्य एतद्धिकरणम्। अक्षरमम्वरान्तधुतेः ॥ १० ॥ प्रथमे गार्गीप्रश्ने ह्याकाशो भूतधारकोऽभिहितः ॥। ८५।। तस्मिन्निति द्वितीये ह्याकाशान्तस्य धारकत्वेन। अक्षरमिदमुपदिटटं मुनिप्रवीरेण याज्ञवल्क्येन ।। ८६।। अस्थलादिपदैरिह लक्षणमुक्तं च तस्य तेनैव। एतलक्षणलक्ष्यं ब्रह्मैवाक्षरपदेन निर्दिष्टम् ॥८७॥ उपदिश्यते यद्क्षरमाकाशान्तस्य धारकत्वेन। वर्णात्मक ओंकारे ह्याकाशान्तस्य धारकतवं वा ॥ ८८॥ अस्थूलादिपदोक्तं लक्षणमपि वा यतो न संभवति। सर्वात्मकत्वमपि वा तस्योंकारस्य यदृपि निर्दिषम् ॥८॥ तदिदं ध्यानार्थ स्यान्न वस्तुयाथात्म्यनिर्णयस्य कृते। ननु यद्यक्षरशब्दादोंकारो नेह ग्ृह्यते तर्हि ॥९० ॥ मवतु प्रधानमक्षरमस्मिन्पूर्वोक्तलक्षणं युक्तम्। अपि चाम्बरान्तविधरणमपि युक्तं तस्य कारणत्वेन ।। ९१॥ शारीरो या स्यादिह यदक्षरं याज्ञवल्क्यनिर्दिषमू। सा च प्रशासनात् ॥ ११ ॥ या चाम्बरान्तविधृतिः परात्मनः स्यान्न च प्रधानस्य ।। ९२ ॥ जगतः प्रशासितृत्वं यदत्र वाक्येऽक्षरे विनिर्दिष्टम्। सर्वज्ञे परमात्मनि तदेतदुचितं न च प्रधानेऽपि॥ ९३॥ शारीरेऽपि न युक्तं यद्सौ देहादिभि: परिच्छिन्नः । अन्यभावव्यावृत्तेश्र ॥ १२॥ अ्राक्षरशब्देन हि यदन्यदाशङ्कितं प्रधानादि॥ ९४॥ तन्भ्ावरहितमेव ह्यक्षरमेषा श्रुतिहहिं बोधयति। दषटत्वादृष्टत्वाद्यिलं यञ्चोपदर्शितं अुत्या ॥९५॥ तेनाचेतनभाव: सकलोऽयं बाधितो भवत्यस्य। अक्षरशब्द: सोऽयं योगबलाङ्गह्मबोधको भवति ॥ ९६।

Page 57

५२ सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

यत्र हि रूढिर्योगस्तत्र हि योगाद्वलीयसी रूढे:(ढिः)। अत्र च रूढेर्बाधाद्योगबलेनाक्षरं परं ब्रह्म ॥९७॥ तस्मादक्षरवाक्यं ज्ञेये ब्रह्मण समन्वितं भवति। ननु यदि बृहदारण्ये यदक्षरं याज्ञवल्क्यनिर्दिट्म् ॥९८॥

प्रश्जोपनिषदि या खलु निरूपिता सत्यकामसंज्ञाय ॥९९॥ प्रणवालम्बनविद्या यः पुनरित्यादिवाक्यनिवहेन। तत्र च यः परशब्द: पुरुषविशेषणपरो हि निदिष्ः ॥१००॥ गतिलिङ्गयोगतः स्यात्परकार्यपर एव रूढिबाधेन। गतिरिह हष्टा कार्ये ब्रह्मणि सा खलु न कारणे हष्टा ।। १०१॥ ईक्षत इत्यन्तेन हि मन्त्रेण यदीक्षिणं विनिर्दिष्टम्। अन्वेतीत्यन्तेन हि तत्माप्तिफलं यदेतदुपदिष्टम् ॥१०२॥ तडुभयमपि कार्ये स्याययुक्तं न हि कारणे कथंचिदृपि। तस्माद्यद्भिध्यानं तद्पि च कार्यस्य युक्तमाभाति ॥१०३॥ इत्याक्षेपप्राप्ताविद्मधिकरणं कृतं मुनीन्द्रेण। ईक्षतिकर्मव्यपदेशात्सः ॥। १३ ॥। इह पिप्पलादनामा मुनिवर्यः सत्यकाममुपसन्नम् ॥१०४॥ ओंकारं च सत्त्वं तद्वयवांक्ष प्रबोधयन्भूयः । ब्रह्मध्यानालम्बनभावं द्विविधं हि दर्शयामास ॥१०५ ॥ ब्रह्मप्राप्त्यात्मकमपि फलसुभयविध निरूपयामास। एतद्वा इत्याद्येनान्वेतीत्यन्तमन्त्रभागेण । १०६।। पश्चान्निर्दिष्टेन हि यः पुनरित्यादिमन्त्रभागेण। यः साधको हि पुरुषस्त्रिमात्रमोंकारमनिशमालम््य ।। १०७ ॥। ध्यायन्परं पुमांसं विसृष्टदेहश् सूर्यमुपयाति। सूर्ये संपन्नः सन्स सामभिर्व्रह्मलोकमुपनीतः॥१०८॥ योऽसौ हिरण्यगर्भो-जीवघनो यश्च पर इति प्रथितः । तस्मात्परं पुमासं स ईक्षते पुरिशयं परं ब्रह्म ।। १०९ ॥ इममर्थमुपदिदेश हि स पिप्पलादश्र सत्यकामाय। अन्रायं परशब्दो ब्रह्मणि रूढ इति सुगसिद्धं हि ॥ ११०॥ अत्र च रूढेबध न कारणं किमपि शक्यते वक़्तुम्। यत्कार्यगमनमुक्तं लिङ्गं तत्स्यान्न बाधकं रूढे: ॥ १११ ॥.

Page 58

तृतीयपाद: ३ ] माष्यार्थरत्नमाला।

कार्यगतस्य हि पुंसः कारणसाक्षात्कृतिर्यतो दृष्टा । कार्यात्यय इति सूत्रे तस्मात्कारणपरोडत्र परशब्द: ॥११२॥ यदि परशब्दो योडयं कार्यपरः स्यात्तद्तदफलं स्यात्। उभयात्मकत्वकीर्तनसुभयप्राप्तिस्वरूपफलकथनम् ॥ ११३॥ एतद्ा इति मन्त्रे हषट यदिदं निरर्थकं तत्स्यात्। ध्येयत्वव्यपदेशो ह्यतथाभूतस्य दृश्यते शास्त्रे ॥ ११४॥ पञ्चाग्निध्यानादावीक्षतिकर्मत्वकीर्तनं न तथा। तस्यादत्र ध्येय: परः पुमानेव नापरं ब्रह्म ॥११५॥ यस्मात्परस्य पुंसः श्रुतिरीक्षतिकर्मतां बवीत्यस्य। तस्मादेतद्वाक्यं यथोपदिष्टं हि पिप्पलादेन ॥ ११६ ॥। ज्ञेये प्रणवध्येये ब्रह्मणि परमे समन्वितं भवति। नन्विह परशब्दोडयं परमात्मन्येव सुख्य इति मत्वा ॥ ११७ ॥ परमात्मपरतयाऽयं निर्दिष्टश्वेत्तथैव चान्नास्तु। इह दहरवाक्यमेतच्छान्दोग्ये हश्यते ह्यथेत्यादि ॥ ११८॥

तस्यान्तरप्रकाशं दहरत्वेनेह दर्शयित्वाऽथ ॥ ११९॥ तस्यान्तस्थं यत्स्यात्तस्यान्वेष्ट्व्यता विनिदिष्टा। भूताकाशः स्यादिह योऽसावाकाशेशब्द्रनिर्दिष्टः ॥१२० ॥ यस्मान्भूताकाशे रूढो ह्याकाशशब्द इह दृक्षः। दहरायतनापेक्षं दहरत्वं तस्य सन्यगुपपन्नम्॥ १२१॥ अन्वेष्टव्यत्वादिकमस्यैव स्यान्न चेतरस्यात्र। अन्वेष्टव्यत्वादिकमाकाशान्तस्थ एव दृष्टमिति ॥१२२॥ यहुच्यते तदाऽयं शारीरः स्यान्न चेह परमात्मा। दहरत्वादिकमखिलं तस्मिन्नाराग्रमात्र उपपन्नम् ॥१२३॥ जविपुर एव तस्मिन्त्रह्मपुरत्वं श्रुतिरहिं बोधयति। जीवकृतकर्मजन्यं शरीरमेतन्द्वि जीवपुरमेव ॥ १२४ ॥ जीवे च ब्रह्मपदं भाक्त स्यान्नैव मुख्यभावेन। यो हि पुरस्वामी स्यात्पुरैकदेशे स्थितिर्भवेत्तस्य॥१२५॥ बुद्धयाद्युपाधिकत्वाच्छारीरोडयं भवेतपुरस्वामी। परमात्मनो विभुत्वाद्दहरत्वादिकमयुक्तमेतस्मिनू ॥ १२६.॥।

Page 59

५४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

इत्याशङ्कां निरसितुमधिकरणमिदं चकार मुनिरत्र। दहर उत्तरेश्यः ॥ १४॥

हृत्पुण्डरीकवेश्मनि दहरो योऽसाविहान्तराकाशः॥ १२७॥ स च परमात्मा नासी भूताकाशो न चापि शारीर:। यस्मादुत्तरवाक्ये ह्येतच्छव्देन दहरमनुकृष्य॥१२८॥ आत्मत्वाद्युपदिष्टं तस्माद्दहरः परः पुमानेव । आत्मत्वं च यदुक्तं ह्यपहतपाप्मत्वमपि च यच्चोक्तम् ॥ १२९॥ यदिदं हि सत्यसंकल्पत्वान्तं विजरतादिमध्यमपि। तत्सवं परमात्मन उचितं न व्योम्नि नापि शारीरे ॥ १३०॥ यस्माद्भूताकाशो ह्यचेतनस्तेन भवति नाऽडत्माSसौ। यद्यप्यात्मा जीवस्तथाऽपि नापहतपाप्मतादिगुणः ।। १३१॥ भूताकाशौपम्यं तद्गुणसारस्य नैव संभवति। ब्रह्माभेदेन यदा तदेतदापाद्यते तदा भाक्तम् ।१३२।। मुख्यासंभवपक्षे गौणार्थो ग्रृह्यते न चेतरथा। यद्यप्याकाशपदं भूताकाशे तु मुख्यमेव स्यात् ॥१३३॥ पूर्वोक्तधर्मबाधात्तथाऽपि सोडयं न गृह्यते दहरः । आकाशस्तल्लिङ्गादित्यधिकरणेन पौनरुक्त्यमपि।। १३४ ।। नैवाऽडशङ्डूयं यस्माद्यदषत्र दृष्ट हि लिङ्गमस्पट्टम्। अन्वेष्टव्यत्वादिकमन्तस्थस्यैव वस्तुनो हष्टम् ॥ १३५॥ दहरस्याSडकाशस्य तु नैतद्द्टृष्टमिति नैवमाशङ्कयम्। यद्याकाशो दहरो नान्वेष्टव्यो भवेत्तदैवं स्यात् ॥ १३६॥ द्यावाभूमीत्यादिकमन्वेष्टव्यं भवेदतो नैवम् । इह दहरवाक्यशेषे ह्यपहतपाप्मत्वगुणकमात्मानम् ॥१३७॥ हत्पुण्डरीकवेश्मन्यन्विष्य तदाश्रितांश्र सत्यादीन्। अन्विष्य मोगशेषं क्षपयित्वा ये व्रजन्ति परलोकम् ॥१३८॥ तेषासुपासकानामकुण्ठितः कामचार उपदिष्टः । यस्मात्तस्मादत्र हि दहरं च तदाश्रितं च सत्यादि ॥ १३९॥ अन्वेष्टव्यं तदुमयमिति बोधयितुं यदन्तरिति कथितम्। ब्रह्मोपलब्धिसाधनमिदं शरीरमिति सुप्रसिद्धं हि॥ १४०॥

Page 60

तृतीयपाद: ३] माष्यार्थरत्नमाला। ५५

ब्रह्मपुरशब्दयोगोऽप्यनुकूलो भवति नैव विपरीतः । आकाशौपम्यादिकमखिलं परमात्मनो हि युक्ततरम् ॥१४१ ॥ यस्मात्सर्वंगतोSसावायतनापेक्षमस्य दहरत्वम्। ये वाक्यशेषदर्शितधर्मास्ते साधका: स्युरत्रेति ॥ १४२॥ पञ्चम्यन्तार्थमिमं सूतैरवर्णयति सूत्रकारोडयम्। गतिशब्दाभ्यां तथा हि दष्टं लिङ्गं च ॥ १५ ॥ इह दहरवाक्यशेषे ब्रह्मगतिर्दर्शिता हि जीवानाम् ॥ १४३॥ सा ब्रह्मभावमस्य हि साधयति ब्ह्मलोकशब्द्रोऽपि। अहरहरिमा: सुषुप्ता: प्रजाः खलु ब्रह्मलोकमिमम् ॥१४४ ॥ न विदुर्गच्छन्त्योऽपीत्ययमर्थश्र प्रदर्शितस्तत्र। हृत्पुण्डरीकनिलयो दहरो योडयं न चेत्परात्मा स्यात् ॥१४५॥ नैतत्सुषुप्तिसमये जीवानां ब्रह्मलोकगमनं स्यात्। यो ब्ह्मलोकशब्दः सोऽप्यस्य परात्मतां हि साधयति ॥ १४६॥ न हि सत्यलोक गमनं सुप्ताद्द्टृष्टं हि सर्वजन्तूनाम्। ब्रह्मैव लोक इति खलु सहसा इह मवति नैव तत्पुरुषः ॥१४७।। तस्माद्गतिशब्दाभ्यां दहराकाशो हि भवति परमात्मा। ब्रह्मगमनं हि दृष्टं सुषुप्तिकाले च सर्वजन्तूनाम् ॥ १४८॥ संपद्येत्यादौ श्रुतिनिरदिष तदेतदिह लिङ्गमू। धृतेश्र महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ अथ य इतिवाक्यदर्शितसे तुपदेनोपदिष्ट आत्माऽसौ ॥१४९॥ अस्य चराचरलक्षणजगतो विधृतेश्र भवति परमात्मा। अत्र च विधृतिपदार्थो धारयिता न खलु धारणं भवति ॥१५०॥ आत्मपद्साहचर्यादयं च महिमा न दृश्यतेऽन्यत्र। बृहदारण्यकवाक्ये ह्येतस्येत्यादिवाक्यशेषेऽपि॥१५१॥ सोडयं महिमा जगतो ह्यसंकरायोपवर्ण्यते भूयः। प्रसिद्धेश्र ॥ १७।। अत्राSडकाशपदेन हि परमात्मा ग्रृह्यते न चान्योऽपि।। १५२॥ आकाशो हेत्यादावाकाशपदं परात्मनि प्रथितम्। इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८ ॥ अथ य इति वाक्यशेषो दहराध्याये हि दृश्यते तत्र ॥ १५३॥

Page 61

सुत्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

यः संप्रसादशब्दः सुषुप्तरूढोऽपि जीववचनः स्यात्। अत्र हि शारीरोऽस्माच्छरीरदेशात्ससुत्थितो भूत्वा ॥ १५४ ॥ ज्योति: संपद्य परं रुपेण स्वेन युज्यते योऽसी। स ह्यात्मेत्युपदेशात्स एव जीवोऽत दहर इति चेन्न ॥१५५॥ जीवो यदि दहरः स्यात्पूर्वोपन्यस्तधर्मबाधः स्यात्। तस्माद्योऽसौ दहरः स हि परमात्मा न चेतरः कश्चित् ॥१५६॥ तद्वाक्यशेषदर्शितगुणजातं तत्र युक्त्तमखिलमपि। उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ जीवस्य दहरतायामसंभवादिति च हेतुरुपदिष्टः ॥१५७॥ न हि युक्तो यदि बाधो धर्माणां पारमेश्वराणां स्यात्। न घ न हि दृष्टो बाध: शारीरेऽस्मिन्यथोक्तधर्माणाम् ॥१५८॥ पस्मादुत्तरवाक्ये हश्यन्ते जीव एव ते धर्माः । आदौ चोदशरावब्रह्मण वाक्येन दर्शयित्वाऽन्यम्॥१५९॥ देहात्मवादृपक्षं तस्मिन्दोषे मरुत्वतामिंहिते। तस्मै प्रजापतिरसाविन्द्रायाऽSत्मानमुपदिदेशेत्थम् ॥१६० ॥ एतं त्वेवेत्याद्यैर्बहुप्रपञ्चं ह्वनेकपर्यायेः। शेऽसी जाग्रत्पुरुषो य एष इत्यादिवाक्यनिर्दिक्टः ॥१६१॥ सोडयमसृतादिलक्षणपरमात्मैवेति वर्णयामास। सद्त्स्वामिकपुरुषोऽव्यसृताभयलक्षणो विनिर्दिष्टः ॥१६२।। सौधुप्तिकोऽपि पुरुषो यथोक्तलक्षणसमन्वितोऽभिहित: । पर्यायत्रितयेऽस्मिन्दूषणजाले हि मघवताऽभिहिते ॥ १६३॥। मघवन्नित्यारभ्य हिस एव जीवस्तुरीय उपदिष्टः । सशरीरतानिमित्तं यदप्रियं यदपि च प्रियं वाऽन्यत् ॥१६४॥ न ह्यशरीरस्य सतः प्रियं च किंचिन्न चाप्रियं वाऽपि। अविवेकमूलकं स्यात्सशरीरत्वं यदस्य निर्दिट्टम् ॥१६५॥ श्रुतिकृतविवेकबोधाद्विवेके शिथिलभावमापन्ने। व्युत्थायास्माद्देहात्साक्षात्कुर्वन्परं पुमासं यः ॥१६६॥ संपद्यते परात्मा स उत्तमः पुरुष इति हि तत्रोक्तम्। सोडयममृतादिलक्षण आत्मा जीव: कर्थं न दहरः स्वात् ॥१६७॥

Page 62

तृतीयपाद: ३ ] माप्यार्थरत्नमाला। ५७

अपहृतपाष्मत्वादिकमखिलं तस्योपपन्नमेव यतः । इति नाSडशङ्यं तत्र ह्याविर्भूतस्वरूप उपदिष्टः ॥ १६८॥ स च परमात्मव स्यात्तस्य च नापहतपाष्मताबाधः । बाधोऽयं तत्र स्याद्योऽसी देहात्मभावमुपयातः ॥१६९॥। तद्भिप्रायेणैव ह्यसंभवादिति निरूपितो हेतु: । स व्यज्यते कदाचिद्दर्मः स्वाभाविको हि सोपाधौ ॥ १७० ॥ नीलाय्युपाधियोगात्स्फटिकादी शौक्ल्यतादिधर्म इति। स्वाभाविकधर्माणां बाधो निर्दिश्यते हि सोपाधौ ॥ १७१ ॥ तद्वदविद्योपाधिक आत्मनि बाधोऽन् सूत्रकारोक्त:। जीवे हि पारमेश्वरधर्माणां च प्रदर्शिते बाधे ॥१७२॥ जीवाद्विलक्षणत्वं परमात्मन्यपि निरूपितं भवति। परमेश्वरस्य जीवाद्विलक्षणत्वे प्रपश्चिते पश्चात् । १७३।। तस्यासंसारित्वं सर्वज्ञत्वं समर्थितं भवति। एतदितिवाक्यजालैर्बह्माभेदेन दर्शिते जीवे ॥। १७४॥ यद्विद्यापरिकल्पितसंसारित्वं निवर्त्यते तस्मिन् । संसारित्वनिवृत्तौ जीवोऽयं ब्रह्मभावसुपयाति॥ १७५ ।। व्रह्मात्मभावसिद्धी भवति ब्ह्मैव जगदिदं सर्वम्।

कर्मविधयः प्रवृत्तास्तथैव चोपासनादिविधयोऽपि। अन्यार्थश्र् परामर्शः ॥ २० ।। जीवपरामर्शोऽसौ दष्टो यो दहरवाक्यशेषे हि ॥ १७७ ॥। स च न हि जीवपरः किंतु परात्मप्रवृत्तिसिद्धयर्थः। यज्ज्योतिःसंपन्नी जीवो निष्पद्यते स्वरूपेण ।। १७८।। अपहृतपाप्मा चायं ह्यन्वेष्टव्य इति बोधयत्येषः। अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ दहरत्वमस्य नोचितमिति नाऽड्ङक्यं यतश्र तस्यापि॥ १७९॥ वर्णितमेतत्पूर्व निचाय्यतापेक्षमर्भकौकस्त्वम्। नन्विह मुण्डकवाक्ये न तत्र सूर्य इति मन्त्र उपदिष्ट: ॥१८०॥ तत्र च मन्त्रे सूर्यश्चन्द्रो नक्षत्रविद्युदादीनि। तत्र न मान्तीत्युक्त्वा तन्द्ासा माति सर्वमिति चोक्तमू॥१८१। 6

Page 63

  1. सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

तत्र हि तच्छव्द्ोक्तस्तेजोधातुः स किं परात्मा वा। विनिगमकामावादिह संदेहोऽयं समर्थितो मवति ॥ १८२॥ पुर्वत्र इहरवाक्ये ह्यात्मत्वादिश्तेर्विरोधेन ।

तहदिह मासमाने माननिषेधश्रुति(ते,विरोधेन।

सत्यर्था चेयं स्यात्तत्रेतिपदे च सप्तमी या सा। तस्मिन्सति सूर्यादिकमव्न्यवसानं न भास्यते किमपि ॥१८५॥ इति वाक्यार्थे ज्ञाते तेजोधातुर्हि तत्परार्थः स्यात्। अहनि च भास्करबिम्बे प्रकाशमाने हि चन्द्रतारादि॥ १८६॥। किमपि न भास्यत इति यत्तदेतदस्माकमनुभवारूढम्। य दिहानुमासमुक्तं तदपि च तुल्यस्वभावयोर्युक्तम् ॥१८७॥ अनुगमनादिकमखिलं लोके तुल्यस्वभावयोर्ह्ष्टम् । तस्मात्तेजोधातुः शस्तः कोऽप्यत्र तत्परार्थः स्यात् ॥ १८८॥ इति शङ्कां वारयितुं मुनिना रचितं तदेतधिकरणम्। अनुकृतेस्तस्य च ॥ २२ ॥ तत्र घ सुण्डकवाक्ये न तत्र सूर्य इतिमन्त्रनिर्दिष्टः ॥ १८९॥ तच्छब्दार्थ: सोऽयं परमात्मा वति नेतरः कश्चित्। यस्मादस्मिन्मन्त्रे तस्यानुकृतिर्हि दर्शिता जगतः ॥ १९० ॥ अनुकृतिरनुभानं स्यादनुभातीत्यादिवाक्यनिर्दिष्टम्। तस्येति सूत्रशेषश्रतुर्थपादोपदिष्बोधार्थः ॥१११॥ मन्त्रे तस्येत्यत्र च पडी संबन्धवाचिका भवति। तत्संबन्धिक मानप्रयोज्यभानाश्रयत्वमस्यार्थः ।।१९२॥

न हि तत्पदोपदिष्टः कथमन्यः स्यात्परं तु परमात्मा ॥ १९३॥ नन्वसुककृतिरिह लोके दृष्टा तुल्यस्वभावयोरेव। चिज्जड पोरिह साधकमिति शङ्काऽव्यत्र नेव कर्तव्या॥१९४॥ संतप्तायःपिण्डे ह्यग्न्यनुकरणं हि दृश्यते लोके। रजसि च वाय्यनुकरणं तस्मात्तुल्यत्वमत्र न निमित्तम् ॥१९५॥

वद्मानव्यतिरेकादन्याभासं स्वमर्थमाचषटे॥ १९६ ॥

Page 64

तृतीयपाद: ३ ] भाष्यार्थरत्माला।

एवं च लक्षणदयमत्र परात्मन इहोपदिषं स्यात्। यद्भानव्यतिरेकादन्यस्यामासमानता तत्वम् ॥ १९७। सर्वार्थभासकत्वं मन्त्रस्थचतुर्थपादनि्दिषिमू। प्रथमे पाढे मातेर्णिज्योग एव कर्तव्यः ॥ १९८ ।। विषयार्थिका हि सा स्यात्तत्रेतिपदस्थसप्तमी या हि। सूर्यो वा चन्द्रो वा नक्षत्राण्यपि च विद्युदादीनि॥१९९॥ बाह्यार्थभासकान्यपि तानि परे तन्न मासयन्तीति। इति वाक्यार्थे फलिते न बाधकं किमपि मनससि संस्फुरति ॥२०० सतिसप्तम्याश्रयणे श्रुतहान्यादीनि दूषणानि स्युः । पूर्वोपदर्शितार्थप्रतिपत्तिपरं हि सत्परं हष्टम्॥२०१॥ पूर्वोपदशितं किल सर्वज्ञं ब्रह्म निर्विशेषं यत्। य स्मिन्द्यौरित्याद्यैस्तच्छव्दार्थस्ततः परात्मैव ॥ २०२ ॥ तुल्यस्वभावयोः स्यादनुकृतिरित्यत्र कोऽपि न विरोधः । सं देवा इतिमन्त्रे ज्योतिष्वं ह्वात्मनो विनिर्दिष्टम्॥२०३.॥ तच्छुभ्रमिति च मन्त्रेऽप्यतः परात्मैव तत्पदेनोक्त: । अपि च स्मर्यते ॥ २३ ॥ यद्ूपं ब्रह्मोक्ते न तघ् सूर्य इति मन्नवाक्येण ॥ २०४॥ तदूवं गीतार्या न तदित्यारभ्य वर्णितं भूय:। तस्मादेतद्वाक्यं न तत्र सूर्य इति मुण्डके पठितम् ॥२०५॥ मारूपे परमात्मनि विज्ञेये तत्समन्वितं भवति। नन्वस्यां कठवलपां मन्त्रो योऽङ्ुष्ठमात्र इत्यादि: ॥ २०६॥ अङ्गुन्ष्ठमात्र इह खलु पुरुषोऽयं देहमध्यमध्यास्ते। न च भूतभव्यराशेरीशानः सर्वकालसंनिहितः॥ २०७'॥ इत्युपदिष्टे योऽसी स कि परात्माऽ्थ भवति जीवो वा। इत्यत्र संशयः किल भवत्यसावुमयलिङ्गयोगेन ॥ २०८। मुण्डकवाक्यस्थस्य च न तत्र सूर्य इति मन्त्रभागस्य। अध्याहारेण णिचस्तत्र च दष्टानुमानलिङ्गेन । २०९ ॥। ब्रह्मपरत्वं साधितमनात्मपरतां व्युदस्य पूर्वत्र। अङ्गुष्वमानलिङ्गादध्याह्ृत्य क्रियामिहास्मीति ॥२१०॥ ध्यानविधिशेषभावाज्जीवपरत्क हि युक्त्तमस्यापि। अथ सत्यवतः कायादितिस्सृतिर्ह्यत्र साधिका भति ॥ २१॥

Page 65

६० सुत्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य-

योऽङ्ुष्ठमात्रपुरुषस्तत्रोक्तो जीव एव न तद्न्य: । तत्रोक्तपाशबन्धनलिङ्गन्यखिलानि जीव एव यतः ॥ २१२॥ स्मृत्यनुसारादत्राप्युपदिष्टो जीव एव न परात्मा। इति शङ्कां वारयितुं परात्मपरतां च तस्य बोधयितुम् ॥ २१३॥ अधिकरणमेतदमलं चकार मुनिसंघमाननीयोऽसी। शब्दादेव प्रमित: ॥। २४॥ योऽङ्रगुळ्ठपरिमितोऽसौ पुरुषो मन्त्रेण दर्शितः सोऽयम्॥२१४॥ परमेश्वर एव स्याद्यत ईशानादिशब्दयोगोऽतर। यो भूतभव्यराशेरीशानः स च कथं हि जीव: स्थात् ॥ २१५॥ प्रकरणमपि यदिह स्यात्तदृपि च दृष्ट परात्मपरमेव। अन्यत्रेत्यारम्भे प्रश्नो योऽसौ परात्मपर एव ॥ २१६ । तस्य प्रतिवचनपथे पठितो योऽङ्ुष्ठमात्र इत्यादि: । स कथं जीवपरः स्यात्तस्मादिह दर्शितः परात्मैव ॥ २७॥ अङ्गुश्वपरिमितत्वं कथमात्मन इति च नैवमाशङ्कयम्। हृयपेक्षया तु मनुष्याधिकारत्वात् ॥। २५।। यद्यपि घरमात्माऽयं सर्वगतः सर्वशक्तिसंपन्नः ॥२१८॥ मनुजहृद्याधिवासात्तस्य ह्यङ्डुषष्ठयरिमितत्वमपि। योऽसी हि मनुजकायः प्रायो दृष्टो हि नियतपरिमाणः ॥२१९। मतुजहृदयं यदेतत्प्रायेणाङ्गष्वपरिमितं दष्टमू। तस्मादसौ परात्मा निर्दिष्टोऽङ्गुष्ठमात्र इति तत्र ॥ २२० ॥ अविशेषतः प्रवृत्ते शास्त्रेऽधिकृतो हि मनुज एवासौ। शक्तत्वार्थित्वादिकमधिकारिविशेषणं च तस्यैव ।। २२१॥। यदि च परिमाणलिङ्गाज्जीवपरत्वे भवेदघृदावेशः। परमात्मैकत्वेन हि जीवे तात्पर्यमस्य वाक्यस्य ॥ २२२॥ लनिगमान्तवचसां द्विधापरवृत्तिस्तु शास्त्रदृष्टा हि। प्रत्यगभिन्नब्रह्मणि सविशेषे सत्यकामतादिगुणे॥२२३॥ ज्ञानोपासनभेदात्तस्मात्पक्षद्वयेऽपि न विरोध: । उत्तरनिर्दिष्टो यो मन्त्रो ह्यङ्गुष्ठमाव्र इत्यादि: ॥ २२४ ॥। तस्य प्रत्यगभिन्नब्रह्मार्थत्वं स्फुटं हि तत्रैव। वा स्यादुपास्यपरता्थ वाडस्य मा .. . २२५॥

Page 66

तृतीयपाद: ३ ] माष्याथरत्नमाला। : ६१

परमेश्वरपरतायां नें बाधकं किमपि मनसि संस्फुरति। कठवल्लीवाक्यस्थो योऽसावङ्गुषमात्र इतिमन्त्रः ॥ २२६॥ ब्रह्मण्युपास्यरूपे विज्ञेये वा समन्वितो भवति। मनुजाधिकारिकं चेच्छास्त्रं देवाधिकारिकं न स्यात् ॥ २२७॥ तदनधिकारे यानि क्रममुक्त्यर्थान्युपास्तिवाक्यानि। वाध्येरन्नितिशङ्कां निरस्य देवाधिकारकथनेन ॥ २२८॥ तदुपट्टम्भपुरःसरमिद्मधिकरणं चकार मुनिवर्यः । तदुपर्यपि वादरायण: संभ्वात् ॥ २६ ॥ मनुजानासुपरितना ये देवा: सन्ति तेऽपि चाधिकृताः ॥। २२९॥ श्रवणमननादिसह कृतविशुद्धपरमात्मविषयविद्यायाम्। विद्याग्रहणाङ्गानि ह्यर्थित्वादीनि संभवन्त्येषाम्॥ २३०॥ मन्त्रार्थवाद्वाक्यैविग्रहवत्वं हि दृश्यते तेषाम्। विद्याग्रहणाङ्गानि हि लिङ्गनानि ब्रह्मचर्यमुख्याणि॥ २३१॥ इन्द्रादिदेवतात्म(न्य)नु दहराध्याये प्रदर्शितान्येव। स्वोद्देश्यके हि कर्मणि न त्वस्त्येवाधिकार इति मत्वा ॥ २३२॥ इन्द्रादीनां कर्मण्यधिकारो नेति वर्णितं भूय: । विद्यायामधिकारे नैतद्बाधकमुदाहृतं किमपि ॥ २३३॥ तस्मादेवादीनामधिकार: स्यादिहाऽडत्मविद्यायाम्। विरोधः कर्मणीति चेन्नानेकप्रति- पत्तेर्दर्शनात् ॥२७॥ विद्याग्रहणाङ्ग ननु विग्रहवत्त्वं यदा हि देवानाम् ॥ २३४ ॥ कर्मणि विरोधशङ्कां परिह्तु नेह शक्नुयात्कोऽपि। विग्रहवतो हि लोके स्वरूपसंनिधिवशेन चाङृत्वम् ॥ २३५॥ ऋत्विक्पभृतिषु दृष्ट तथैव कर्माङ्गमाव इह वाच्य: । भिः क्रियमाणेषु हि बहुषु च यागेषु संनिधानेन ॥ २३६ ॥ एक: सन्निन्द्रादि: कथमिह यागाङ्गभावसुपगच्छेत्। यागे संनिहितासते विग्रहवन्तः कुतो न दृश्यन्ते ॥२३७॥ न्न देहिनस्ते कित्वर्थोपहितशब्दरूपा: स्युः । इति चेन्नेयं शङ्का यतश्र ते योगवीर्यसमुपचिताः ।। २३८।

Page 67

सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्थ=

योगैश्वर्यबलेन च बहूनि गात्राणि संसृजन्त्येते। निजयोगसृष्टगात्नैर्युगपद्नेकत्र चाङ्गतां यान्ति ॥ २३९ ॥ योगैश्वर्यबलेन च देवानां बहुशरीरसंपत्ति:। शाकल्ययाज्ञवल्क्यप्रश्नपतिवचनसरणिषु प्रथिता ॥ २४०॥ इह वैश्वदेवशस्त्रे कति दृष्टा: शस्यमानदेवा: स्युः । इति शाकल्यप्रश्जे प्रतिवचनं याज्ञवल्क्यमुनिनोक्तम् ॥२४१॥ त्रीणि सहस्राणि तथा त्रीणि शतानि च षडुत्तराणीति। तेषां संख्याकथनात्संख्येया दर्शिता भवन्त्येव ।। २४२।। केषामेते देवा विभूतयः स्युरिति पुनरषि प्रश्ने। वस्वादिदेवताना विभूतयस्ते प्रदर्शितास्तेन ॥। २४३।।. वस्वाद्यश्ष षण्णां पृथ्व्यादीनां विभूतयः कथिताः । कतमस्यैते देवा विभूतयः स्युरिति चान्तिमप्रश्ने॥२४४॥ प्राणोऽसी निर्दिषो हिरण्यगर्भः समष्टिरूपो यः । आत्मन इत्याद्या या स्सृतिरप्यणिमादियोगसिद्धस्य ॥ २४५॥ युगपदनेकशरीरेर्योंगं च तथाऽपि योगमाचष्टे। योगाङ्गभावकलिता अपि देवास्ते परैरन दृश्यन्ते । २४६। ऋत्विज इव ते न स्युर्ये ह्यन्तर्धानशक्तिसंपन्नाः। अर्थान्तरमपि भवति हि सूत्रे निर्दिष्चरममागस्य ॥२४७॥ विग्रहषानेकोऽपि हि युगपदनेकाङ्गभावमुपयाति। एको यथा हि लोके बहुभिर्युगपज्जनो नमस्क्रियते ॥ २४८॥ तद्वद्यजिक्रियायामेकोऽनेकत्र चाङतां गच्छेत्। यज्यर्थस्त्याग: स्यात्यागोद्देश्यत्वमेव चाङृगत्वम्॥ २४९॥ एतच्चैकस्यापि हि युगपद्नेकत्र दृश्यते लोके। तस्मादिह देवानां विग्रहवत्त्वेऽपि बाधकाभावात्॥ २५०। देवानामधिकारो विद्यायामिति यदेतद्नवद्यम्। शब्द इति चेन्नातः प्रभवात्प्रत्यक्षा- नुमानाभ्याम् ॥ २८ ॥ नंन्विंह विग्रहवत्वेऽपीन्द्रादीनां विरोधपरिहारः ॥ ३५१ ॥ कर्मणि परं कृत: स्याच्छब्दे तु विरोध एव जागर्ति। . , आत्पत्तिकसूत्रे किल नित्यस्यार्थस्य नित्यसंबन्धात् ॥ २५२।।

Page 68

तृतीयपाद: ३ ] भाष्यार्थरत्नमाला। ६३

वैदिकशब्दे सकले नित्यत्वं स्थापितं हि पूर्वत्र। संप्रति विग्रहवत्वे देवादीनामिहास्मदादीनाम्॥२५३॥ जननमरणादिसाम्यादनित्यता सेयमपरिहार्थैद। तद्नित्यत्वे सिद्धे तह्ाचकवेदवाक्यजातस्य ॥ २५४।। सिद्धा ह्यनित्यता सा वेदाप्रामाण्यमेव साधयति। इति शक्काऽत्र न कार्या प्रभवत्यखिलं हि वदिकाच्छव्दात्॥२५५।। यत इदमखिलं प्रभवति तस्य च नित्यत्वमपरिहार्य हि। व्रह्मप्रभवत्वं हि प्रथमे सूत्रे प्रदर्शितं जगतः ॥ २५६। शब्दप्रभवत्वमिह प्रपञ्चितं जगत एतद्समरसम्। इति नात्र शङ्कनीयं यतस्तयोर्भिन्नरूपता भवति ॥२५७ ॥ ब्रह्मप्रभवत्वं यद्गह्मोपादानकत्वमेवेह। इह शब्दपूर्वकत्वं शब्दप्रभवत्वमत्र निर्दिष्म् ॥२५८॥ तेन ततो न विरोधं वर्णयितुं कोऽपि शक्तुयादत्र। शब्दप्रमवत्वेन च देवादीनामनित्यता सिद्धा ॥२५९॥ देवाद्यनित्यतायां वेदपरामाण्यमपगतं भवति। इत्येतद्दूषणमपि नास्मत्पक्षं स्पृशेत्कथंचिदृपि॥ २६० ॥। वेवाहयत्पत्तावपि वेदाप्रामाण्यमत्र नाऽडशड्कूयम्। आकृत्या संबन्धः शब्देन व्यक्तिमि: कर्थचचिदृपि। २६१॥ व्यक्तीनां नानात्वात्तत्संबन्धो हि दुर्गहो येन। शब्दप्रमवत्वमिह श्रुतिस्मृतिभ्यां हि निश्चितं भवति ॥ २६२॥

एत इतिस्मृतिरेषा वर्णयति यतोऽस्य शब्दमूलत्वम् ॥ २६३॥ श्रुत्यन्तराणि जगतः शब्दप्रभवत्वमेव कथयन्ति। स्मृतिरप्यनादिनिधनेत्याद्या जगतश्र मूलत्वम् ॥ २६४ । प्रथयति तस्माच्छब्दे न विरोध: कश्विदत् संमवति। ननु शब्दप्रभवत्वं जगतो यद्दर्णितं हि पूर्वत्र ॥ २६५॥ स च शब्द: कि वर्णः किं वा स्फोटोऽयमिति मवेच्छङ्का। तत्र च शब्दस्फोटो भवेदयं न खलु वर्णरूप: स्यात् ॥ २६६ ॥ वर्णा एते यस्मादुत्पन्नध्वंसिनश्र गह्यन्ते । वर्णात्मकत्वपक्षे पूर्वोक्तं सकलमनुपपन्नं स्यात् ॥ २६७।।

Page 69

६४ सु्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

नित्याच्छव्द्वादखिलं जगदेतत्प्रभवतीति पूर्वोक्तम् । प्रत्युच्चारणमेते वर्णा भिन्ना यतः प्रतीयन्त ॥ २६८॥ तारत्वाद्यैरर्थैभिन्नत्वेन प्रतीयमानानाम्। अर्थावबोधकत्वं नित्यत्वं वा कथं हि वर्णानाम् ॥ २६९ ॥ एकैकस्मिन्वर्णे नार्थप्रत्यायकत्वमेह इटम्। क्रमवत्वादूर्णानां तत्समुदायः कथं प्रतीषेत ॥२७० ॥ न ह्यपतीयमान स्वार्थप्रत्यायकत्वसुचितं स्यात्। पूर्वाक्षरानुभूतिजसंस्कारैः सहकृतोऽन्त्यवर्णोडपि॥ २७१ ॥ स्वयमप्रतोयमानो नार्थप्रत्यायकत्वमुपयाति। संस्कारानवबोधे न तत्सहककृतान्त्यवर्णचोध: स्यात् ॥ २७२॥। तस्मान्न वर्णरूप: शब्दोडयं स्फोटरूप एव स्यात्। एकैकवर्णबो धजसंस्कारपुरस्कृतान्त्यवर्णमतौ॥२७३॥ एकमतिगोचरतया स्फुरणात्स्फोट इति वर्ष्यंते सोऽयम्। एकमतिगोचरत्वं वर्णानां स्यादितीह नाऽऽशङरक्यम् ॥२७४॥ ते षामनेक मावादसिद्ध मेकश्रुतीतिविषयत्वम्।

स्फोटोडयं नित्यः स्यात्प्रभवति तस्मादिदं हि जगदखिलम्। इति पक्षोऽयमयुक्तो यत उपवर्णो हि नैवमाचषटे॥। २७६॥ किं तु स भगवानेतत्पोवाच हि वर्ण एव शब्द इांत। तत्प्रत्यभिज्ञया किल वर्णानां नित्यता परं सिद्धा॥ २७७ ।। उत्पन्नध्वंसित्वं वर्णेषु न दृष्टमेव केनापि। नाSऽशाङ्क्यं सादृश्यात्सेयं हि प्रत्यभिज्ञेति ॥२७८॥ यत्रोत्तरकालंचेद्वोधो निर्णीयते तदैवं स्यात्। शब्दाभेदे सत्यप्युच्चारणभेदतो हि भेदमतिः॥ २७९॥ तारत्वं मन्द्रत्वं यञ्चोदात्तत्वमन्यदृपि यञ्ञ। ध्व निकृतमेतत्सकलं न वर्णकृतमिति न भेदशङकाऽत ॥२८०।। दूरादाकर्णयतः प्रथमं कर्णपथमवतरेद्यस्तु। स ध्वनिरिति निर्दिष्टस्तन्ज्ेदेनात्र मेदनिर्देशः ॥२८१।। गौरित्येकं पदमित्येकत्वप्रत्ययोऽत यो दृष्टः। समुदायविषयकत्वादनसेनादाविवेह निरवद्य: ॥ २८२।।

Page 70

तृतीयपाद: २] माष्यार्थरत्नमाला। ६५

जारा राजेत्यादी मवति क्रमभेदतो हि भेदमतिः । तस्माद्वर्णा एव क्रमोपदिष्टा भजन्ति पदसंज्ञाम् ॥ २८३॥। पद्संज्ञां लभमाना वर्णाः स्वार्थान्प्रबोधयन्त्याशु। स्फोटस्य वाचकत्वे गौरवमधिकं न कश्रिदिह लाभः ॥ २८४ ॥ वर्णा: क्रमादिकलिता: स्फोटमभिव्यअ्जयन्ति न स्फोट: । अर्थं प्रत्याययतीत्यत्र फलं गौरवं न चान्यदृपि ॥ २८५॥ वर्णेभ्यो मिन्नोडयं स्फोट: स्वार्थाभिधायकश्च यदि। स्कोटप्रतीतिविषया वर्णा न स्युर्विलक्षणा हि यतः ॥ २८६ ॥ यदि च विलक्षणयोरपि नियमेनैकप्रतीतिगम्यत्वम्। गोमहिषशब्दयोरपि नियतैकज्ञानगम्यता भूयात् । २८७ ।। तस्माद्योऽयं शब्द: स च न स्फोट: परं तु वर्णः स्यात् । वर्णात्मकाद्दि शब्दात्प्रभवति जगदखिलभेतदिति सिद्धम्॥२८८। अत एव च नित्यत्वम् ॥ २९॥ नित्यनियताककृतेरिह जगतः सर्वस्य वेदमूलत्वात्। वेदस्य ताद्टृशस्य हि कर्तुरसिद्द्ेश्ष वेदनित्यत्वम् ॥ २८१॥ यज्ञेन वाच इति हि श्रुतिरुपपाद्यति वेदनित्यत्वम् । यानि स्मृतिवचनानि हि युगान्त इत्यादिनोपदिष्टानि ॥ २९०॥ तान्यखिलान्यपि भूय: प्रथयन्ति हि वेदशब्दनित्यत्वम्। आकृतिसंबन्धेन हि वेदपामाण्यमपि च निरवद्यम् ॥२९१॥ समाननामरूपत्वाच्चाऽऽवृत्तावप्य- विरोधो दर्शनात्स्मृतेश्र ॥ ३० ॥ शब्दार्थयोर्हि लोके व्यवहारान्ासते हि संबन्धः । संबन्धभास एव हि शब्दस्यार्थाभिधायकत्वं स्थात् ॥ २९२।। अर्थावबोधकत्वे वेदप्रामाण्यमखिलसुपपन्नम्। जगतः स्थितिकाले स्याद्यथोपदिष्टं हि सकलमुपपन्नम् ॥२९३॥ जगदेतदखिलमपि यत्प्रलीयतेऽप्यभिनवं च जायेत। अभिनवसृष्टी पूर्वव्यवहारः सर्व एव लुप्तः स्यात् ॥२४४॥ व्यवहर्तृमूलकोडसी व्यवहारो दृश्यते न चेतरथा। स्वापे वागादिलये पुनः प्रबोधे हि तद्नुसंधानात्-। २१५।।

Page 71

६६ सुन्नह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

एर्वानुरूप एव व्यवहारस्तत्र मवति नात्र तथा। वयव हर्तृव्यवहारव्यवहार्याणां लये समुत्पन्ने ॥ २९६॥ अनुसंधातुरभावात्तद्यवहारः कथं पुनः सर्गे। व्ववहारो यदि न स्याद्योडसौ शब्दार्थयोर्हि संबन्ध: । २९७॥। न स विज्ञायेत तदा कथमस्यार्थावबोधकत्वं स्यात्। तदभावे वेदृस्य प्रामाण्यकथाऽपि दूरवातैव ॥ २९८ ॥ इति शङ्काडत्र न कार्या समनामजगत्समानरूपं हि। जगति समनामरुपे ह्यावृत्त्यभ्युागमेऽपि न विरोधः ॥ २९९।। यदि नामरूपभेद: पूर्वोत्तरयोर्भवेत्तदा तत्र। व्यवहारलोपतः स्यादर्थानभिधायकत्वमनिवार्यम्॥३००॥ जगति समनामरूपे व्यवहारविलोपकारणाभावात्। अर्थावबोधकत्वे सिद्धे प्रामाण्यमनपवदनीयम्॥३०१॥ कल्पान्तरं गतानां व्यवहारो नैव कस्यचिन्न्वति। अनुसंधातुरभावादित्युक्तं दूषणं च नात्र स्थात् ॥ ३०२॥। ये चेह पूर्वकल्पे प्रकृष्टविज्ञानकर्मसंपत्राः । अपि वर्तमानकल्पे प्रादुर्भूता हिरण्यगर्भाद्याः॥३०३॥ कल्पान्तरगतमखिलं स्मर्तुं व्यवहर्तुमधिकृतास्ते स्युः । यो ब्रह्माणमितिश्रतिरिममेवार्थं हि सकलमाचषे ॥ ३०४॥ काण्डर्षिप्रभृतीनां व्यतीतकल्पाभिसंधिसामर्थ्यम्। प्रथयन्ति श्रुतयोऽन्या: स्यृतयस्तस्मान्न कश्रिदिह दोषः॥३०५॥ समनामरूपतां खलु जगतो दर्शयति नामनिर्देशात्। सूर्याचन्द्रमसावितिमन्त्रोऽयं तैत्तिरीयके पठितः ॥३०६ ॥ नक्षत्रेष्टिविधावप्यग्निर्वेत्यादिका श्रुतिश्चैवम्। अग्न्यादिदेवतानां कल्पान्तरनामरूपतां बूते॥ ३०७॥ श्रुतयोऽन्या: कथयन्ति हि जगतः समनामरूपतामस्य। नामभिरेवेत्यन्ता: स्मृतयोऽप्युक्तार्थमेव कथयन्ति ॥३०८ ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥। देवानामधिकारी विद्याया बादरायणेनोक्त: । सच - समञ्जस इति जैमिनिराचार्य एवमाचटे ॥३०९॥

Page 72

तृत्तीयपाद: ३] माष्यार्थरत्नमाला। ६७

छान्दोग्ये मधुविद्या या चासावित्यनेन निर्दिषा। तत्राऽडित्यो योडयं मध्विति शब्देन सन्त्रनिर्दिष्टः ॥३१०॥ मधुमावेनोपास्यो ह्यादित्य इति प्रतीयते तस्मात्। नेयं मधुविद्या स्यात्तव्राऽडदित्यस्य नाधिकार: स्थात् ॥३११ ॥ आदित्यसंभितानि ह्यमृतानि च पञ्च तत्र हषानि। वस्वाद्युपजीव्यानि प्रथितान्येतानि रोहितादीनि ।। ३१२ ॥ तदुपासनाफलं यद्स्वादिपाप्तिलक्षणं तदृपि। तत्रैव दृष्टमन्त्रे ह्यधिकारो नैव देवतानां स्यात् ॥३१३॥ योऽयमुपास्योपासकभावः सकलो हि भेदमूलः स्यात् । भेदाभावादत्र ह्यधिकारो नैव शक्यते वकतुम् ॥ ३१४ ॥ कर्णादिसप्तकेष्वपि यान्ययमित्यादिमन्त्रद्ृष्ठानि। ऋषिभावनात्मकानि ह्युपासनान्यपि च सुप्रसिद्धानि ॥ ३१५॥। तदुपासनेष्वृषीणामधिकारोडयं न शक्यते वक्तुमू। सस्मादिन्द्रादीनां मध्वादिष्वनधिकारसंसिद्धा। ३१६॥ विद्यान्तरानधिकृते निरुक्तविद्याधिकारमङ्गेण। ब्रह्मात्मगोचरायां विद्यायामनधिकार एव स्यात् ॥ २१७।

ज्योतिषि भावाच ॥ ३२ ।।

यदिदं ज्योतिर्मण्डलमाशित्य नभो विभासयत्यखिलम्।. आदित्याद्याः शब्दास्तत्प्रतिपादनपरा हि लक्ष्यन्ते ॥ ३१८॥ ज्योतिर्मण्डलरूपा देवा: सर्वे ह्यचेतना दृष्टाः । विद्याग्रहणाङ्ग यत्सामथ्यं तत्कथं भवेत्तेषाम् ॥३१९॥ विग्रहवतां हि भूयस्तदेतदखिलं हि दृश्यते लोके। न हि विग्रहादिरहिता देवा विद्याािकारिणस्ते स्युः ॥ ३२० ॥ विग्रहयोगो हविषां भोगश्रैश्वर्यसुप्रसन्नत्वे। फलदातृत्वमपीदं पञ्चकमितिहासदर्शितं यद्षि ॥। ३२१ ॥। तत्पौरुषेयवाक्यप्रदर्शितं न प्रमाणसिद्ध स्यात्। विधिविनियुक्ता मन्त्रा: प्रयोगनिहितार्थबोधमाव्पराः॥३२२।। न हि देवविग्रहादिपदर्शनार्थे प्रमाणभूता: स्युः । इति जैमिन्याक्षेपो निरस्यते बादरायणेनेह ॥ ३२३ ॥

Page 73

६८ सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

भावं तु बादरायणोऽस्ति हि॥ ३६ ॥ इह बादरायणो मुनिरधिकारं देवतात्मनां बूते। ब्रह्मत्वगोचरायां विद्यायामर्थितादियोगेन ॥ ३२४ ॥ यद्यपि मधुविद्यादी देवानामनधिकार एव स्यात। नैतावताऽधिकारे प्रसरति दोष: परात्मविद्यायाम्॥३२५॥ एकत्रानधिकारे ह्यन्यत्राप्यनधिकार एवेति। नायं नियमो हष्ट: केनाषि हि कुत्रचित्कदाचिदृपि॥ ३२६॥ अप्राप्तराजसूयोऽप्यधिकारी भवति दर्शयागादौ। तत्र च यो न्याय: स्यादृत्रापि स एव निर्णये हेतुः ॥ ३२७॥ तद्यो यो देवानामित्यादिश्वुतिरपीह देवानाम्। विद्यायामधिकारं विद्याफलभूतमोक्षमभिधत्ते।। ३२८॥ इन्द्रो हेत्याद्या या श्रुतिरपि देवाधिकारमभिधत्ते। गन्धर्वयाज्ञवल्क्यस्सृतयोप्युक्तार्थमेव कथयन्ति ॥ ३२९॥ ज्योतिर्मण्डलरूपा देवास्ते देहधारिणो न स्युः । इति शङका हिन युक्ता यस्माद्देवास्तु शक्तिसंपन्नाः ।। २३०॥ ज्योतिर्मयात्मना हि स्थातुं विग्रहविशेषमादातुम्। निपुणा इति खलु हष्ट सुब्ह्मण्यार्थवादवाक्येषु॥ ३३१॥ गङ्गगतटेऽतिविमले कुन्तीं स्वध्यानतत्परां।। आदित्य एप भगवान्पुरुषाक्कृतिमास्थितो जगामाऽडयु ॥३३२॥ इत्यादिस्मृतयोऽपि हि देवानां विग्रहादियोगं च। यज्ज्योतिरात्मना हि स्थितिमपि कथयन्ति तेन न विरोध:।।३३३। विग्रहयोगाभावे देवानां तदिद्मनुपपन्नं स्यात्। मघवान्प्रजापतावितिवाक्ये यद्ब्रह्मचर्यमुपदिष्टम् ॥३३४ ॥ अन्यदृपि श्रुतिवचनं प्रथितं यदज्रहस्त इति यञ्च। इन्द्रं सहस्रनयनं गोत्रभिदं वज्रबाहुमभिधत्ते।। ३३५॥ विग्रहयोगाभावे यागोद्देश्यत्वमनुपपन्नं स्यात्। ध्यायेद्वपट्करिष्यन्नित्यन्तानीह वेदवाक्यानि॥ ३३६॥ ध्यानारूढस्यैव हि यागोद्वेश्यत्वमामनन्ति यतः। लोके विग्रहरहितो ध्यातुं शक्यो न नियतमावेन । ३३७ ॥। इह विग्रहादिमत्वप्रतिपत्तिपरं हि वाक्यजातं यत्। तच्चार्थवादरूपं स्वार्थपरं नेति नैवमाशङ्रक्यम्॥ ३८॥

Page 74

तृतीयपाद: ३ ] माष्यार्थरत्नमाला।

येनार्थवाद्वाक्यान्यवान्तरान्वयधियं हि जनयित्वा। केमर्थक्यवशेन स्तुतिलक्षकतां प्रयान्ति नैवाऽडदौ ॥ ३३९॥ नैतावतार्ऽर्थवाद: स्वार्थपरो नेति युक्तमभिधातुम्। भ्रुतिवचनदृष्टमर्थं न शक्नुयात्कोऽपि वा निराकर्तुम्॥३४० ॥ इतिहासादिकमपि यत्तदखिलमत्र प्रमाणमेव स्यात्। यस्मात्समूलमेतन्महर्षिजुटटं न चाप्रमाणं स्यात् ॥ ३४१॥ इह पौरुषेयभावादप्रामाण्ये तु शास्त्रमफलं स्यात्। वर्णाश्रमव्यवस्थाभिधायि शास्त्रं यदाऽप्रमाणं स्यात् ॥ ३४२।। जगद्खिलमव्यवस्थितवर्णाश्रमधर्मकलुषितं प्रमवेत्। तस्माद्यदि्ंदं सकलं प्रमाणभूतं न चान्यथा मवति ॥३४३॥ ये चाणिमादियोगैः सिद्धा व्यासाद्यश्ष ये चान्ये। ते देवान्पश्यन्तीत्येषा शास्त्रप्रसिद्धिरपि युक्ता ॥ ३४४ ॥ तस्माद्विग्रहवत्त्वं देवादीनां प्रमाणसंसिद्धम्। विग्रहवत्वादेव हि विद्यायामधिकृता हि देवा: स्युः ॥ ३४५॥ विद्याधिकारिवाक्यं समन्वितं विग्रहादिभूतार्थे। तदद्बह्मणि भूते समन्वितं सकलनिगमवाक्यमपि॥३४६॥ ननु यदि विग्रहवत्वादेवा विद्याधिकारिण: स्युरिति। शूद्ा अव्यविशेषाद्विद्यायामधिकृता: कुतो न स्युः ॥ ३४७॥ इह शूदयोनिजनिता विशिष्टविज्ञानसंपद्नुकमप्या: । विदुरपमुखा ये स्युर्विख्याता ब्ह्मवित्समाजेषु॥३४८॥ अर्थित्वं सामथ्यं विद्याङ़ यञ्ञ सकलमुपदिष्टम्। तत्सवं घूद्राणां विग्रहयोगात्समख्जसं भवति ॥ ३४९॥ तस्माच्छूद्रो यज्ञेऽनवकृप् इति प्रदर्शितं यद्पि। यज्ञानवकृप्तत्वं तच्च न विद्याधिकारविद्वेषि ॥ ३५० ॥। यच्चाग्गिहोत्रसाधनसंपद्रहितोऽत नाधिकारीति। नायं नियमो यस्माद्विदुरादिष्वपि च दृश्यते विद्या॥ ३५१ ॥ संवर्गवाक्यशेषे ह्ययमेवार्थः प्रदर्शितो मवति। जानश्रुतिर्हिं कश्चिद्विख्यातः परमधार्मिको भूप: ३५२।।

षद्छतसंख्याक: सह गोभी रथमेकमाददानोऽयम्॥३५३॥ विद्याग्रहणार्थं तं जगाम दृढमक्तिभावितस्वात्मा । तमृषी रैक्को हद्टा जानश्रुतिमाह शूद्दशब्देन ॥ ३५४॥

Page 75

७० सुबह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

तस्माच्छूद्रोऽप्यस्या विद्यायामधिकृतो मवत्येव। इत्याक्षेपं सकलं निरसितुमधिकरणमेतदाह मुनिः ॥३५५॥ शुगस्य तदनादरश्रवणात्तदा- दरृवणात्सूच्यते हि॥ ३४ ॥ विग्रहयोगाच्छूद्रोऽप्यधिकुर्यादिति हि नैवमाशकूचम्। यो वै गृहीतवेदो योऽसौ सम्यग्गृहीतवेदार्थः ॥३५६॥ ब्रह्मात्मगोचरायां विद्यायामधिकृतः स एव स्यात्। असति हि सामर्थ्ये स्यादर्थित्वं केवलं न विद्याङ्गम् ॥ ३५७ ॥ शास्त्रोपदिष्टमेव हि सामथ्यं यत्तदेव विद्याङ्गम्। अध्ययनविध्यधिकृते विचारशक्तिं हि शास्त्रमाचटे॥ ३५८॥ उपनयनपूर्वकेSस्मिन्वेदाध्ययने न चायमधिकारी। उपनयनादिकमखिलं विहितं वर्णत्रयस्य नान्यस्य ॥ ३५९॥ विदुरादिषु हष्टा या विद्या सा पूर्वसाधनायत्ता। यज्ञानवकृप्तत्वे प्रमाणभूतं यदेव वाक्यं स्यात् ॥:६०॥ विद्यानवकृप्तत्वे तदेव मानं हि युक्तिसामान्यात्। शूद्रपदं यच्चैतल्लिङ्ं संवर्गवाक्यनिर्दिष्टमू ॥३६१। नैतनयायाभावाक्यायानुगृहीतमेव लिङ्ग स्यात्। तत्र च रूढेरबाधाद्योगार्थाश्रयणमेव कर्तव्यम् ॥ ३६२॥। कम्वर इति हंसोक्तेरस्य च जानश्रुतेः शुगुत्पन्ना । शुचमेतां सूचयितुं रेक्कमुनिः प्राह तं च राजानम् ॥ ३६३॥ आत्मापरोक्षबोधं प्रख्यापयितुं स एष मुनिवर्यः। योडयं रथो हारेत्वा गोभि: सहितस्तवास्तु शूदरेति॥ ३६४॥ तत्र च शूद्रपदस्य हि योगार्थो गृह्यते न रूढ्यर्थः । शुचमभिदुद्वावायं शुचा हि दुद्वाव रैक्वमयमिति वा ॥ ३६५॥ योगबलबोधितोऽसी राजा जानश्रुतिर्न शूद्: स्यात्।

क्षत्रियत्वगतेश्वोत्तरत्र चैत्र- रथेन लिङ्गात् ॥३५॥ संवर्गवाक्यशेषातक्षत्रियता हि प्रतीयते तत्र। चित्रसथवंशजन्मा ह्यमिप्रतारी नृपो विनिर्दिष्ः॥३६७.।।

Page 76

तृतीयपाद: २ ] माष्यार्थरत्नमाला। ७२

तद्याजको हि योऽसौ कापेयः शौनकोऽपि तत्रोक्त: । चित्ररथः क्षत्रिय इति कापेया याजकाश्र तस्येति ॥३६८॥ निर्दिष्टमेव तस्मादभिप्नतारी हि मवति राजाऽसौ। तेन च सह निर्देशाल्विङ्गाज्जानश्रुतिर्भवेद्ाजा ॥ ३६९॥ संस्कारपरामर्शात्तदभावाभ्िलापाच्॥ ३६॥ इह खलु विद्याग्रहणे संस्कारो वैदिक: परासृक्ः । ब्रह्मपरा इत्याद्यैस्तदभावश्चामिलप्यते शूदे॥ ३७०॥ शूवे न पातकं स्ान्द्क्षणमूलं न चास्य संस्कारः । इममर्थमुपदिशन्ति हि न शूइ इत्यादिकानि वाक्यानि॥ ३७१॥ तदभावनिर्धारणे च प्रवृत्तेः ॥३७॥ गौतममुनिरिह भगवास्जाबालं निकटमागतं दृषट्वा। सत्यवचनेन तस्मिञूदरत्वाभावनिश्वये जाते ॥ ३७२ ॥ अनुशासितुमुपनेतुं जाबालमिमं प्रवृत्त इति दृष्टम् । तस्माद्योऽसौ शूद्रो विद्यायामधिकृतः कथं न स्यात् ॥ ३७३ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्र ॥ ३८॥। वेदस्य श्रवणं वाऽव्यध्ययनं वा निषिध्यते शूदे। तदुभयनिषेधने स्यादर्थावगमो निषिद्द एवास्य ॥३७४॥ अयमर्थः सकलोऽपि ह्यथास्य वेदमितिसून्रवाक्येषु। उपदिष्टस्तत्करणे प्रायश्चित्तं च तत्र निर्दिष्म ॥ ३७५॥ संस्कारादिविहीन: भ्रवणाध्ययनादिसंपदा रहितः । विद्यायां प्रतिषिद्धो विद्याधिकृत: कथं भवेच्छद्ः ॥३७६॥ तस्मादेतद्वाक्यं समन्तितं क्षत्रिये यथा सिद्धे। सकलमपि श्रुतिवाक्यं सिद्धे ब्रह्मणि समन्वितं भवति ॥३७७॥ ननु कठवलव्यामस्यां यदिदं किं चेतिवाक्यमुपदिष्टम् । तत्र च जगदखिलमपि प्राणाभरितमेव चेष्टते यदिदम् ॥ ३७८॥ सुमहत्तरभयहेतु: समुद्यतं वञ्चमिव हि लोकेऽस्मिन्। यच्चैवं विदुरेनं ते सर्वे यान्ति मोक्षमित्युक्तम् ॥३७९॥ अङ्गु्मात्रवाक्यं जीवे ब्ह्मैक्यबोधजनकतया। ब्रह्मपरमेतदिति खलु वर्णितमत्र तु तथा न संभवति ॥३८० ॥ एजयितृत्वाद्विदिते प्राणे ब्रह्मैक्यबोधनायोगात्। ब्रह्मपरत्वायोगे प्राणपरत्वं हि युक्तमाश्रयितुम्॥। ३८१ ॥

Page 77

७२ सुवह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

वच्चोपमितत्व यह्टायो: पर्जन्यमावयोगेन। युक्तं स्यािति शङ्कां निरसितुमधिकरणमेतदाह मुनिः ॥३८२॥ कम्पनात् ॥ ३९ ॥ अत्र हि योऽसौ प्राणः स हि परमात्मा न वायुमात्रं स्यात्। न हि केवलो हि वायुः सर्वपरिस्पन्दकारणं भवति ॥३८३ ॥ न प्राणेनेत्यायैः सर्वपरिस्पन्दकारणत्वं यत्। परमात्मन्युपदिष्टं तस्मात्प्राणोऽन्र मवति परमात्मा ॥ ३८४ ॥ भयहेतुत्वादिकमपि परमात्मन्येव द्वृश्यते यस्मात्। अत्र भयादित्यादी तस्मात्प्राणो हि भवति परमात्मा ॥३८२ ॥ भीषाऽस्मादित्यादावेतत्सवं प्रपश्चितं भूयः । भयहेतुत्वं यद्पि च सर्वपरिस्पन्दकारणत्वं च ।। ३८६ ॥ पूर्वस्मिन्नषि भागे तदेव शुक्रमितिवाक्यनिर्दिष्टः। परमात्मैव हि तस्मादत्र प्राणः कथं स वायुः स्यात् ॥ ३८७ ॥। प्रकरणसमाश्रयेऽपि हि परमात्मैव प्रतीयते नान्यः । अन्यत्रेत्यारम्भात्म्रकरणमखिलं परात्मपरमेव ॥३८८ ॥ तद्विज्ञानफलं य्यमृतत्वं तत्परात्मपक्षे स्यात्। न हि वायुमात्रपक्षे तस्मात्प्राणोऽत भवति परमात्मा । ३८९॥ कठवल्लीवाक्यस्थं यदिदं किं चेतिवाक्यमखिलमपि। ब्रह्मणि परमानन्दे विज्ञेयात्मनि समन्वितं भवति ॥ ३९० ॥ नन्विह दहराध्याये प्राजापत्यं य एष इत्यादि। वाक्यं हष्ट तत्र ज्योतिःशब्दो हि दृश्यते योऽसौ ॥ ३९१॥ परो वा किं वा सूर्यपरो वेति संशये जाते। पूर्वत्र सर्वशब्दं ब्रह्मपरत्वप्रसाधकं मत्वा ॥ ३९२॥ तत्पद्योगेनायं प्राणो ब्रह्मेति युक्तमाश्रयितुम् । अत्र तु न तथा लिङ्गं प्रकरणमप्यात्मगोचरं दूरे ॥३९३॥ तस्माज्ज्योतिःशब्दं न परं ब्रह्मेति शङ्कितं दोषम्। निरसितुमिदमधिकरणं कृपया रचितं मुनिश्रवीरेण ॥ ३९४॥ ज्योतिर्दर्शनात् ॥४० ॥ ज्योतिःशब्दं भवति परं ब्रह्म नैव सूर्यादि। पस्मादस्मिन्वाक्ये स उत्तम: पुरुष इति तु हह हि।। ३१५॥

Page 78

तृतीयपाद: ३] माष्यार्थरत्नमाला। ७३

उत्तमपुरुषपदं तत्प्रकरणसाहाय्ययोगमालम्व्य। ज्योतिःशब्दस्यास्य ब्रह्मपरत्वं प्रसाधयतुमीष्टे ॥३९६॥ क्रममुक्तिबोधनार्थ नेदं वाक्यं प्रवृत्तमिह यस्मात्। इह निर्विशेषगोचरमखिलं वाक्यं तु दश्यते ह्येतत्॥ ३९७॥ अशरीरं वावेतिश्वुत्युक्तं यदशरीरतारूपम्। तच्च न मारगायत्तं तस्माद्युक्ता न सूर्यपरताऽतर ॥ ३९८॥ सूर्यप्राप्तिद्वारा ब्रह्मप्राप्तिविवक्षिता यत्र। तत्र च सूर्यपरत्वं ज्योतिःशब्दस्य युक्तमाश्रयितुम् ॥ ३९९॥ सगुणोपास्तौ तदिदं युक्तं न हि निर्विशेषविद्यायाम्। तस्मादस्मिन्वाक्ये ज्योतिःशब्द: परात्मपर एव ॥ ४०० ॥ अशरीरतात्मकोडसौ मोक्षो ब्रह्मापरोक्षसापेक्षः । व्यादायेत्यत्रेव ह्यत्र क्त्वान्तस्य विनिमयो भवति ॥ ४०१ ॥ तस्मादहराध्याये ज्योतिर्वक्यं यदत्र निर्दिष्टमू। तत्स्वप्रकाशरूपे ब्रह्मणि परमे समन्वितं भवति ॥४०२॥ नन्वत्र च्छान्दोग्ये ह्याकाशो हेतिवाक्यमुपदिष्टम्। तत्राSडकाशो योऽसी निर्वहिता नामरूपयोर्भवति ॥४०३॥ ते चापि नामरूपे यस्माद्विन्ने हि तत्परं ब्रह्म। तद्मृतमात्माऽपि स्यादित्याकाशः प्रदर्शितो भूयः ॥४०४।। स च किं भूताकाशः किं परमात्मेति भवति संदेहः।

ज्योतिष्पदं यदेतङ्रह्मपरं हीति वर्णितं भूय: । तददिहोपक्रमगतमाकाशश्रुतिबलं समालम््य ।।४०६॥। भूताकाशपरं स्यादखिलं वाक्यं यदेतदुपदिष्टम्। इत्याक्षेपं निरसितुमधिकरणमिदं चकार मुनिवर्यः ॥४०७ ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥ अत्राSडकाशो योऽसौ बह्मैव स्थान्न भूतमात्रं हि।

तन्निर्देशादस्मिन्न कार्यरूपत्वमभिहितं भवति। निर्वहितृत्वमिहोक्तं परात्मनोऽन्पन्नर नैव संभवति ॥४०९ ॥ तङ्गह्म तदमृतमिति व्यपदेशो योऽत्र दृश्यते भूयः । न हि सर्वो युक्त्त: स्याङ्गह्मणि परमे न भूतमात्रेऽपि ॥४१० ॥

Page 79

७४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

आकाशश्रुतिरेषा बहुभिलिंङ्गरुपद्रुता भूय: । स्वविषयविकलादीनां विषयान्तरमगतिकं समाश्रयते ॥ ४११॥ तस्मादेतद्वाक्यं छान्दोग्ये दृश्यमानमखिलमपि। अमृताभयस्वरूपे ब्रह्मणिि परमे समन्वितं भवति ॥४१२ ॥ नन्विह बृहदारण्ये योऽयं विज्ञानमय इति भथितम्। वाक्यं दृष्ट तत्किं जीवपरं स्यात्परात्मपरमथ वा॥४१३॥। पूर्वस्मिन्नधिकरणे लिङ्गं ह्यर्थान्तरत्वमुपदिष्टम्। तञ्ञच न लिङ्गं यस्मादभिन्नरूपेऽपि भेद उपदिक्क: ॥। ४१४॥ एवमितिवाक्य एव हि विज्ञानमयो दश्यते न शारीरः । इत्याशङ्कां निरसितुमधिकरणमिदं कृतं हि सूत्रकृता ॥ ४१५॥ सुषुप्त्युत्क्रान्त्योभेदेन ॥। ४२॥ व्यपदेशादितिसूत्रे पञ्चम्यन्तस्य पूरणं कार्यम्। विज्ञानमयो योऽसी न हि शारीरः परं तु परमात्मा ॥४१६॥ यस्मात्स खलु सुषुप्तावुत्क्रान्तावुच्यते हि भेदेन। एवमितिवाक्यजालैः शारीरविलक्षणो हि यः प्राज्ञः॥४१७॥ निर्दिश्यते स एव हि विज्ञानमयः स एव परमात्मा। यस्माद्विज्ञानमयो महानजश्रेति पूर्वनिर्दिष्टः ॥४१८॥ अयमिह सलिलादिपदैर्यदुत्तरत्रापि दर्शितो भूय: । प्रश्नप्रतिवचनानि हि परमात्मपराणि तत्र दृश्यन्ते ॥४१९॥ पत्यादिशब्देक्यः ॥। ४३।। पत्याद्यक्ष शब्दा: स एष इत्यादिवाक्यनिर्दिष्टाः । ते खलु परमात्मपरा विज्ञानमये हि दर्शिता ह्यन्र ॥४२० ॥ तस्माद्विज्ञानमयः पर एवाऽडरमा न चेतर: कश्चित्। यदिदं वाक्यमिहोक्तं समन्वितं निर्विशेषचिन्मानने ॥४२१॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां प्रथमो योऽसौ समन्वयाध्यायः ॥४२२॥ तत्र हि तृतीयपादे सूत्रार्थो यश्च भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्य: ।४२३॥ इति प्रथमाध्यायस्य तृतीयः पाद: समाप्:॥३ ॥

Page 80

चतुर्थपाद्: ४ ] माष्यार्थरत्नमाला।

अथ चतुर्थपादपारम्भः।

त्रिमिरप्येतैः पादैर्बह्मणि वेदान्तवाक्यनिचयस्य। लिङ्गैरुपक्रमादिभिरन्यैश्र समन्वयो हि निर्णीतः ॥१॥ ईक्षत्यधिकरणे हि प्रधानवाद्श्र परिहृत: पूर्वम्। तद्यत्प्रधानमस्य त्वीक्षणलिङ्गादशव्दृता कथिता॥२॥ अत्र च वेदान्तानां गतिसामान्यं च चेतने गदितम। तत्रेदमनुपपन्नं यदशब्दृत्वं निरूपितं तस्य ॥ ३ ॥ ब्रह्मणि गतिसामान्यं प्रधानमिह येन शब्दवद्दृष्टम्। तेन च गतिसामान्यं प्रधानपक्षेऽपि युक्तमाश्रयितुम्॥४॥ कठवल्ल्यामेतस्यां महतः परमिति हि वाक्यमुपदिष्टम्। तत्र च वाक्ये महतः परमव्यक्तं प्रदर्शितं भवति ॥५॥ विज्ञानमयपदस्य ब्रह्मपरत्वं प्रदर्शितं पूर्वम्। अस्याव्यक्तपरस्य प्रधानपरतेह तद्देव स्यात् ॥ ६ ॥ पत्यादिशब्दयोगाद्विज्ञानमयो यथा परं ब्रह्म। महदादिशब्दयोगादव्यक्तमिह प्रधानमेव स्यात्॥७॥

तस्य च सशब्दृतायां गतिसामान्यं च तत्र सुगम स्यात् ॥८।। तस्यैव युक्तमेतज्जगतो जन्मादिकारणत्वमपि। सकलागमान्तवचसां समन्वयो यश्च पूर्वनिर्दिक्ः॥९॥ ब्रह्मणणि स कथं सिध्येद्यतः प्रधाने प्रतीयते सोऽयम्। इत्याक्षेपं निरसितुमिदमधिकरणं चकार मुनिवर्यः ॥ १० ॥ आनुमानिकमप्येकेषामिति चेन्न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च॥। १॥ कपिलस्मृतिव चनैरिदम चेतनं यत्प्रधानमुपदिष्टम्। कठवल्व्यामेतस्यामव्यक्तपदोक्तमेतदेव स्थात् ॥११॥ रूढिबलाद्योगबलाद्व्यक्तपदं समख्जसं तत्र। इति तस्य शब्दवत्वादशब्दता त्वनुचिताऽस्य वक्तुं स्यात् ॥१२॥ इति चेन्नेयं शङ्का यतः प्रधानं न चैतद्व्यक्तम् । रूपकविन्यस्तं यच्छ ररमव्यक्तशब्द्योग्यं स्यात् । १३।

Page 81

७६ सुब्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य-

पूर्वस्मिन्वाक्ये किल योऽसावात्मा रथी विनिरदिष्टः। तस्य च रथः शरीरं बुद्धि: सारथिरिदं मनो यढपि॥ १४॥ प्रग्रह इति निर्दिष्टं हयाश्र सकलेन्द्रियाणि मार्गाश्च। शब्दादयो हि विषया भोक्ता संघातरूप आत्मेति ॥१५॥ निर्दिश्य सकलमेतद्रथिनो मार्गद्वयं च निर्दिट्टमू। बुद्धीन्द्रियेरशुद्धैः पुरस्कृतश्रेत्स याति संसारम् ॥१६॥ योऽसी रथी यदा स्याद्विशुद्धबुद्यादिपरिवृतः शुद्धः। स हि मार्गपारभूतं विष्णोः परमं पदं प्रयातीति ॥१७॥ तदिदं परमपद्ं यद्दर्शयितुं वाक्यमेतदुपदिष्म्। तच्चेन्द्ियेभ्य इति खलु तत्र च हट त एव निर्दिष्टाः ॥१८॥ ये पूर्ववाक्यहष्टा आत्मप्रमुखा भवन्ति विषयान्ताः। आत्मान्ता येऽत स्यु: पूर्वत्रेहापि तुल्यशब्दा हि॥ १९॥ अव्यक्तपद्मिहोक्तं पूर्वस्मिन्नोपलभ्यते वाक्ये। तदषि प्रकरणबलतः पूर्वोक्तशररपरमिति न्याय्यम् ॥२० ॥ पूर्वत्राSडत्मानन्तरमुपदिष्टं यच्छरीरमवशिष्टम्। बुध्ययारूढं यस्मादृव्यक्तपदेन गृह्यते तदिदम् ॥ २१ ॥ प्रकरणविधुरं हि कथं प्रधानमव्यक्तशब्दयोग्यं स्वात्। अव्यक्तपदं चैतदूढिबलाद्वोधकं प्रधानस्य । २२॥ सांख्यानामेवेयं रुढिर्दृष्ा न चेतरस्यापि। तत्प्रत्यभिज्ञया स्याद्वस्तुग्रहणं न हि क्रमादेव ॥ २३॥ अश्वस्थाने पश्यन्गामश्वं नो बुधो विजानाति। प्रकरणमपि यदिदं स्यात्परात्मपरमेव न प्रधानपरम्॥२४.।। यच्छेदितिवाक्योक्तो योग: सर्वः परात्मधीहेतु:। एष इतिवाक्यनिवहैर्दुर्विज्ञेयत्वमात्मनः प्रथयन् ॥२५॥ तद्विज्ञानायैव हि योगो रथरूपकल्पना चेयम्। तत्र प्रधानवार्ता न हश्यते केनचित्क्वचिद्वाऽपि ।। २६॥ अव्यक्तपदं चैतद्योगेन स्याच्छरीरपरमेव। ननु कथमिदं शरीरं व्यक्तपदाहं भवेदिहाव्यक्तम्॥२७॥ तस्मात्प्रधानमेवाव्यक्तपदाह न चान्यदिति चेन्न। सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ यदिदं सूक्ष्मशरीरं तदेव चाव्यक्तशव्दनिर्देश्यम्॥२८॥

Page 82

चतुर्थपाद्: ४] माष्यार्थरत्नमाला। ७७

तद्वाचको हि शब्दस्तत्कार्यपरोऽपि दृश्यते लोके। गोभिरितिवाक्य एव हि गोशब्द: क्षीरवाचको हक्षः॥ २९॥ तद्वदिहाव्यक्तपद सूक्ष्मपरं स्थूलबोधकं मवति। यदिदं सूक्ष्मं लोके तत्रैवाव्यक्तशब्द उपलब्धः ॥ ३० ॥ सूक्ष्मे मुख्ये मूत्वा गौण्या स्थूले प्रवर्तते सोडयम्। तदधीनत्वादर्थवत् ॥ ३॥ अव्यक्तशब्दयोग्यं यदिदं सूक्ष्मं शरीरमुपदिष्टमू ॥३१॥ रथिनोऽस्य चेतनस्य हिन तद्विना भवति तस्य संसार:। सूक्ष्मं शरीरमेव ह्यव्यक्तपदेन गृह्यते नान्यत् ॥ ३२॥। तद्धीन: संसारो यस्मादिति केचिदृत्र कथयनन्ति। तद्युक्तं पूर्वत्र हि रथरूपतया शरीरमुमयविधम् ॥३३॥ निर्दिष्ट यद्यत्र ह्येकं चेत्ताह वाक्यभेद: स्यात्। ननु यद्यव्यक्तपद्प्रतिपाद्यं सूक्ष्ममिह शरीरं चेत्॥। ३४ ॥। तदिदं प्रधानमेव ह्यत्रोक्त स्यादितीह नाऽडशङूयम्। यदिद्मविद्यात्मकमिह सूक्ष्मशरीरं तदात्मपरतन्त्रम्॥३५॥ यञ्च प्रधानमुक्तं स्वतन्त्रमेतदिति वर्ण्यते सांख्यैः । तस्मात्प्धानवाद: सोऽयं वेदान्तिभिर्निराक्रियते॥ ३६॥ यदि च प्रधानमेव ह्यव्यक्तपदाईमत्र निर्दिषमू। ज्ञेयत्वावचनाच्च ॥ ४ ॥ ज्ञेयत्वमत्र वाक्ये तदिहाव्यक्ते कुतो न निर्दिष्टम् ॥३७॥ पद्मात्रमेतदिह किल निर्दिष्ट दृश्यते हि वाक्येऽस्मिन्। गुणपुरुषान्तरबोधान्निशरेयसमिति च तेन तद्युक्तम् ॥६८॥ ज्ञेयत्वावचने किल तन्निर्देशो वृथव तेषां, स्थात्। तस्मात्प्धानमेतत्प्रदर्शयितुमत्र नेदमुपदिषम॥ ३९॥ अपि तु परमेश्वरं तं बोधयितुं वाक्यमेतदुप्युक्तम्। रथरूपकल्पनादयैः परमेश्वर एव चित्तमवतार्य।।४०।। निःशेयसफलकतया परात्मविज्ञानमुपदिशत्येतत्। वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५॥ ज्ञेयत्वानिर्देशादव्यक्तं न प्रधानमिति नैतत् ।। ४१ ॥।

Page 83

सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

यस्मादस्यां वल्लयामशब्दमित्यादिवाक्यमखिलमपि। यद्शब्दतादिगुणकं प्रधानमेतन्निचाय्यममिधत्ते ।। ४२॥। इति चेन्नेयं शङ्का यस्मात्पराज्ञोऽयमत्र निर्दिष्ट: । यदिवं प्रकरणमेतत्परमात्मपरं न हि प्रधानपरम् ॥ ४३ ॥ येनासौ परमात्मा न जायते ब्रियत इत्यनेनोक्त: । मृत्युमुखमोक्षफलकं यदस्य विज्ञानमत्र निर्दिष्टमू ॥४४ ॥ तदृपि परमात्मपक्षे समञ्जसं न प्रधानपक्षेऽपि। त्रयाणामेव चैवमुपन्यासः प्रश्नक्ष ॥ ६ ॥ अस्यां कठवल्ल्यां खल्वग्निर्जीवस्तथैव परमात्मा ॥ ४५॥ न्रय एते निरदिशः प्रश्नप्रतिवचनवाक्यजालेन। प्रश्न उपन्यासो वा प्रधानविषयो न दृश्यते क्वापि ॥ ४६ ॥ तस्मादस्मिन्वाक्ये नाव्यक्तपदं प्रधानमभिधत्ते। नन्वेतदनुपपन्नं प्रश्नोपन्यासरूपलिङ्क यत् ॥।४७।। नचिकेता: किल पित्रा प्रहितो मृत्योः सकाशसुपयातः । मुत्युः किल तं हष्टा परितुष्स्त्रीन्वरानिमान्प्रादात्।।४८॥ जनकस्य सौमनस्यं तथाडननिविद्यां तथाऽडत्मविद्यां च। जनकस्य सौमनस्ये प्रथमं दत्ते वरदयं शिष्म् ॥ ४९ ॥ या चेयमग्निविद्या या च परात्मप्रकाशिका विद्या। शिष्टे वरद्वयेऽस्मिन्प्रश्नत्रयमेतदनुपपन्रं हि॥ ५०॥ प्रतिवचनं च तथैवानुपपन्नमितीह नैवमाशङ्यम्। यस्माद्वरप्रदानव्यतिरेकेणात्र किमपि न हि हष्टम् ॥५१॥ प्रश्नव्यतिरेकेण च नेहोपन्यस्तमेव किंचिदृपि। एवं सत्यपि नात्र प्रश्नत्रयमङ्गलेशशङ्काऽपि ॥५२॥ शिष्टे वरद्वयेडस्मिन्प्रश्नन्रयमेतदुचितमेव स्यात्। भिन्नार्थकं यदा स्यात्प्रश्नान्तरमत्र भवति दोषोऽयम् ॥५३॥ जीवेशगोचरस्य प्रश्नयुगस्यैकविषयकत्वेन। एकत्वादिह न भवति वरप्रदानव्यतिक्रमाशङ्का॥ ५४॥ प्रश्नत्नित्वोक्तिरियं विशेषभेदप्रवादमाश्रित्य। तस्मादिह मात्रार्थे परात्मपक्षे न कोऽपि दोष: स्यात् ॥५५॥ दोष: प्रधानपक्षे मवति ततो न प्रधानमव्यक्तमू।

Page 84

चतुर्थपाद: ४] भाष्यार्थरत्नमाला। ७९

महदच ॥ ७॥ सांख्ये: सत्तामात्रे प्रयुज्यमानो यथा महच्छव्दः ॥५६॥ न हि वैदिके प्रयोगे तामभिधातुं यथा न शक्त: स्यात्। अव्यक्तशब्द एष प्रधानपर इति हि वर्णितः सांख्यैः ॥५७॥ न हि स प्रधानवाची भवति ततोऽव्यक्तमिह शरीरं स्यात्। यदिदं प्रधानमस्य ह्यशब्दृता निरपवादमिह सिद्धा ॥५८॥ सस्माद्वेदान्तानां ब्रह्मणि परमे समन्वयः सुगमः ।

नन्वत्राजामन्त्रादशब्दता दुर्लभैव पुनरस्य। तत्र च काचिदजोक्ता या लोहितशुकृ कृष्णवर्णा सा ॥ ६० ॥ बह्नी: प्रजा: सरूपा: सृजति हि तामेक एष जुषमाणः । अनुशेते ह्यविवेके जहाति चान्यस्तु मुक्तभोगां ताम् ॥ ६१॥ इति तत्र च निर्दिष्ट ह्यजा प्रधानं ततो न चान्यत्स्यात्। पूर्व प्रधानपक्षे लिङ्गं किंचिदृषि नोपलब्धमिति ॥६२॥ प्राज्ञप्रकरणबलतो ह्यव्यक्तपदं शरीरपरमुक्तम। इह लोहितादिशब्दैः सत्त्वादिगुणत्रयं हि निदिषमू ॥६३॥ तच्चाजाशब्दस्य प्रधानपरताप्रसाधकं लिंङ्गमू। स्रषटृत्वमपि च तस्मादशब्दृता स्यात्क्थं प्रधानस्य ॥ ६४॥ इत्याक्षेपं निरसितुमधिकरणमिदं चकार मुनिमान्यः । चमसवदविशेषात् ॥ ८ ॥ अर्वाग्बिल इति मन्त्रश्चमसप्रतिपत्तिसाधनो वृक्षः ॥ ६५॥ तत्रारवाग्विलशब्दो विशेषतो नार्थबोधको सवति। येन स्वार्थं बूते ग्रहादिसाधारणेन धर्मेण ॥ ६६॥ एष इतिवाक्यशेषाद्विशेषतः स्वार्थनिर्णयो मवति। तद्दिहाजामन्त्रः सामान्यार्थप्रदर्शको मवति ॥६७॥ नात्र प्रधानवाचकशब्दो दृष्टो न दृश्यते लिङ्गम्। यद्जापद्मत्र स्याद्योगनान्यार्थकं च तन्दवति ॥६८। रूढिश्राजायां किल दृष्टा नास्मस्तथा प्रधानेऽपि। ये लोहितादिशब्दास्तेपि न सत्त्वादिवाचका: स्युरिह ॥ ६९॥ रूपविशेषपरत्वं लोके वेदे च हष्टमेतेषाम्। मुख्यार्थसंभवे किल गौणार्थो गृह्यते न केनापि।। ७० ।।

Page 85

८० सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्थ-

तस्मादिदं प्रधानं नाजाशब्देन ग्रृह्यते किंतु। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ येयं ज्योतिष्प्रमुखा मूतत्रयलक्षणा जगद्योनिः।। ७॥ परमेश्वरपरतन्त्रा या लोहितशुकककृष्णवर्णाडपि। छान्दोग्यवाक्यटृष्टा सेयमजा गृह्यतेऽत्र न तदन्या ॥ ७२॥ तस्या हि वाक्यशेषे हष्टोडसौ लोहितादिगुणयोग: । संदिग्धासंदिग्धौ यद्येकत्रैव संगतौ भवतः ।७३ ।। तत्रासंदिग्धेन हि संदिग्धार्थस्य निगमनं न्याय्यम्। तेनाजामन्त्रेऽपि हि भूतत्रयलक्षणा ह्यजा ग्राह्या ॥७४॥ उपसुज्यते ह्यविदुषा विदुषा संत्यज्यते हि सैवाजा। क्षेत्रज्ञमेदसिद्धचै विद्वदविद्वत्प्रदर्शनं न कृतम् ॥ ७५॥ मेद्मनूद्य तयोरिह बन्धविमोक्षव्यवस्थिति: कथिता। नन्वत्राजाशब्दो ज्योतिष्प्रमुखां कथं हि बोधयति ॥ ७६॥ इह योगरूढिबाधादित्याशङ्का निरस्यते सपदि। कल्पनोपदेशाच् मध्वादिवदविरोधः ॥ १॥ योगेन वाऽपि रूढया ज्योतिष्प्रमुखां न चायमभिधत्ते।। ७७।। सादृश्योपाधिकया कल्पनया ता प्रबोधयत्येषः । लोके काचिद्जा हि स्याल्लोहित कृष्णवण।।।७८।। जनयति सरूपवर्ग तथेयमिति बोधयत्ययं शब्द: । तस्मात्काल्पनिकत्वं तत्राजाशब्द एष उपपन्नः ।। ७।। मध्वाद्यक्ष शब्दा आदित्यादौ यथोपपन्ना: स्यु: । तस्मादशब्दृतैषा सिद्धा सांख्योचितप्रधानस्य ।८० ॥ ब्रह्मणि वेदान्तानां समन्वयो निरपवाद एवात्र। नन्वत्राजामन्त्रादिह प्रधाने सशब्दता मा भूत् ।८१ ॥ यस्मिन्नितिमन्त्रात्किल सशब्दृता स्यादिह प्रधानस्य। तस्मिन्मन्त्रे पञ्च हि पञ्चजनास्तद्देव चाऽडकाशः॥८२॥ यस्मिन्प्रतिष्ठिता: स्युस्तमेव मन्ये सदाऽहमात्मानम्। एवं विद्वानसृतो ब्रह्मामृतरूप एव भूयासम् ॥८३ ॥ इत्येवमर्थजातं प्रपश्चितं पञ्चकद्दयं तत्र। तदिदं हि पश्चविंशतितत्वानि स्मृतिगतानि निर्दिशति ॥८४॥

Page 86

चतुर्थपाद: ४ ] माष्यार्थरत्नमाला।

मूलप्रकृतिरविककृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। पोडशकश् विकारो न प्रकृतिर्न विकृतिश्र पुरुष इति ॥८५॥ स्सृतिनिर्दिष्टामेव हि त्वानां पञ्चविशतिं बूते। रूढिं त्यक्त्वा ज्योतिष्प्रमुखार्थकता ह्यजापदस्योक्ता । ८६।। तद्वज्जनशब्दस्य हि रूढिं परिहत्य तत्त्वपरता स्यात्।

वारयितुमाहतात्मा चकार मुनिवर्य एतद्धिकरणम्। न संख्योपसंग्रहादपि नाना- आावादतिरेकाच्॥ ११॥ सनिबन्धनैव संख्या दवित्राद्या हश्यते हि लोकेऽस्मित् ॥। ८८॥ धर्मनिबन्धनविरहे पञ्चत्वाद्या कथं भवेत्संख्या। पञ्चपद्द्वययोगात्संखयैव हि पञ्चविंशञतिर्लब्धा ॥ ८९॥ तावन्मात्रेण कर्थ तत्त्वानां पञ्चविशतेर्बोध: । जनशब्देन समस्तं पञ्पदं वा कथं विशेष्यं स्यात् ॥ ९० ॥ उपसर्जनं हि लोके विशेष्यत्वे न केनचिद्दरुटम् । पञ्चजना इत्येतत्समस्तमेवेह न भवति व्यस्तम् ॥ ९१॥ माषिकवाक्यादस्य ह्येकपदत्वं विनिश्वितं भवति। पञ्चजना इत्यस्मात्संर्यालाभे कुतस्तदाकाङक्षा । ९२॥ संख्याकाङ्क्षाविरहे पञ्चेति पदं पुनर्वृथैव स्याद। इह पञ्च पञ्च पूल्यः स्युरिति च दृष्टा हि सा समाहारे॥ ९३।। पञ्चजना इत्यत्र तु समास इह कर्मधारयो येन। दिक्संख्ये संज्ञायामित्यस्मादिह समास उपदिष्टः ॥९४ ॥ संख्याबोधार्थ किल पञ्चपद्ं जनपदेन न समस्तम् । सप्तर्षय इत्यादो संज्ञायां किल समास उपदिष्टः ॥ ९५॥ तद्वदिहापि स्यादिति स पञ्चविशतिरितः प्रतीषेत। सूंत्रे ह्यात्माकाशौ तत्त्वान्तःपातिनौ विनिर्दिष्टी ।९६।। यस्मिन्नितिमन्त्रे खल तौ पृथगेवोपदर्शितौ मत्रतः । आधारत्वेनाऽडत्मा ह्याकाशश्च प्रतिष्ठितत्वेन ॥ ९७॥ निर्दिष्टै तस्मात्किल तत््वानां पञ्चविंशतेर्भङ्ग:। तस्मादस्मिन्मन्त्रे निरुक्तसूचैकवाक्यताभङ्गगत्॥९८॥

Page 87

सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायत्य-

सेथमयुक्ता शङ्का तर्वानां पञ्चविशतीनां या। इह पञ्चजनपढ़े किल समासविधिना प्रतीयते संज्ञा ॥ ९९॥ सेयं प्रतीयमाना संज्ञिनमाकाङ्क्षते हि नियमेन। तस्यामांकाङ्क्षारयों रुढिबलात्संज्ञिन प्रधोधयति ॥ १०० ॥ सोऽयं हि वाक्पशेष: प्राणस्य प्राणमित्युपन्यस्तः । णादयो वाक्यशेषात् ॥ १२॥ यस्मि्नितिम ्त्रोत्तरमिहोपलब्धो हि वाक्यशेषोऽयम् ॥१०१॥ तत्र प्राणाश्चक्षुः भोत्रं चानं च मन इति ह्येते। पञ्च पदार्थाः कथितास्त एव मन्त्रे भवन्ति जना: ॥ १०२॥। जनशब्द: प्राणादिषु कथं प्रवर्तत इतीह नाऽडशङक्यम्। भवतां तत्वेषु यथा प्राणादिष्वपि तथा प्रवर्तेत ॥ १०३ ॥ इह सुभसिद्दसंनिधिपठितो यो ह्यप्रसिद्धवचनः स्यात। तस्य प्रसिदधपरता दृष्टाऽन्यत्रोद्धिदादिशव्देषु॥ १०४॥ जनपद्समार्थकं च प्राणादिषु दृश्यते हि पुरुषपद्म्। ते वा एते पञ्चेत्यस्मिंस्तस्मान्न कध्विदिह दोष: ॥१०५॥। माध्यंदिनाश् ये स्युस्तेषामेते भवन्तु पञ्चजना: । काण्वानां कथमेते प्राणादिषु नाऽडमनन्ति ये चान्नम् ॥१०६॥ न हि तत्र पञ्चसंख्या तत्पारे स्यावितीह नाऽडशङ्क्यम्। ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ येषां परठे चान्नं प्राणादिषु नोपलभ्यते तत्र ॥ १०७॥ पूर्वत्र दर्शितं यज्ज्योतिष्माणादिसमुदये योज्यम्। तस्मात्त एव मन्ने पञ्चजना: स्युर्न सांख्यतत्वानि॥ १०८॥ कापिलसूत्रं यदिदं तस्य च मूलं न दवृश्यते किमपि। तस्माद्यदशब्दृत्वं पूर्वोक्तं तञ्च निरपवादं स्ात् ॥१०९॥ ब्रह्मणि वेदान्तानां समन्वयो निरपवाद इति सिद्धम्। ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपश्च्ितं हि ननु ॥११०॥ तद्नुपपन्नं यस्माद्वेदान्तानां विगानमिह हष्टम् । श्रृंतिवचनवैपरीत्ये जगज्जनिप्रभृतिकारणत्वमपि । १११॥ तत्रासिद्धं तेन च लक्षणवाक्यं कथं समन्वेति। तत्र अ्ुतिवचनानि ह्यनेकविधसृष्टिमामनन्त्येवम् ॥११२॥ आत्मन इति चैका श्रुतिरादावाकाशजन्म निर्दिशति। ते तेजो ऽसृजतेतिश्रुतिरादी जन्म तेजसो वद्ति॥११३॥

Page 88

चतुर्थपादः ४] माष्यार्थरत्नमाला।

स प्राणमसृजतेति श्रुतिरादी प्राणजन्म निर्दिशति। स इमानित्याद्या हि श्रुतिरादी लोकसृष्टिमुपदिशति ॥११४ ॥ तत्कर्तृकां हि सृष्टिं बोधयति श्रुतिरियं सदेवेति। जगदेतदसत्कतृकमुपदिशति श्रुतिश्यं ह्यसद्वेति ॥११५ ॥ भ्रुतपोऽन्या अप्येवं सृष्टिं नानाविर्धा हि कथयन्ति। सृष्टिश्रुतिवाक्यानि स्रष्टव्येषु क्रमादिवैचित्रयात् ॥११६॥ विप्रतिपन्नानि यतो लक्षणबोधः कथं मवत्येभ्यः। जन्मादिकारणत्वं लक्षणमुक्तं हि तस्फ यत्पूर्वम् ॥ ११७। तद्सिद्धं चेद्रह्मणि गतिसामान्यं हि दुरुपपादं स्यातू। थोडयं प्रधानपक्षे दोष: सोडयं परात्मपक्षेऽपि ॥ ११८॥ श निरसितुमिवृमधिकरणं प्रपश्च्ितं मुनिना। कारणत्वेन चाऽडकाशादिषु यथाध्यपदिष्टोकक: ॥ १४ ॥ इह सृज्यमानविषये विगानमुपलम्यते हि वेदेषु ॥ ११९॥ स्रट्टरि वेदान्तानां विगानमुपलभ्यते न किंचिदृपि। ईक्षणपूर्वकमस्य हि कारणतां वर्णयन्ति वेदान्ताः ॥ १२०॥ सत्यं ज्ञानमनन्तं सर्वज्ञं ब्रह्म दर्शयन्ति तथा। सोऽकामयतेत्येषं कामयितृत्वं हि तस्य निर्दिष्टम् ॥१२१ ॥ अन्यत्रापि तथेव हि नदैक्षतेत्यत्र ता्द्ध निर्वष्टमू। मन्त्रान्तरे तदेव हि स ईक्षतेत्यादिवाक्यनिर्दिष्टम् ॥१२२॥ एवं किलेक्षितृत्वं हीक्षांचक्र इतिवाक्यनिर्दिष्टमू। तञ्चेतनस्य धर्मो नान्यस्येत्युक्तमेव पूर्वत्र ॥ १२३ ॥ सर्वज्ञत्वाविकमपि सर्वत्रैव प्रपश्चितं तस्य । यादृशं हि प्रपश्चितं कारणत्वधर्मेण ॥ १२४॥ 1

मन्त्रान्तरे तथैव प्रतिपादितं हि सर्वत्र । कार्यविगाने सत्यपि कारणमविगीतमेव सर्वत्र ॥ १२५॥ नैतावन्माघ्रेण हि लक्षणमङ्गोऽत्र शङ्कितुं शक्य: । ब्रह्मैकरूपमेव तु कारणसुपदिश्यते हि वेदान्ते ॥ १२६ ॥ सत्कर्तृका हि सृष्टिश्छान्दोग्ये या प्रतीयते साडपि। परमात्मकर्तृकेवेत्येवं निर्धारितं हि पूर्वत्र ॥१२७।।

Page 89

८४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

नन्विह लक्षणमेतङ्वह्मणि नैवोपपद्यते यसमात्। असतोऽपि कारणत्वं दर्शयति श्रुतिरियं ह्यसद्वेति ॥१२८॥ समाकर्षात् ॥ १५॥ असदित्यस्मिन्मन्त्रे निरात्मकं नासदुच्यते किंतु। ब्ह्म सदेवासदिति ह्यव्याकृतनामरूपमुपदिष्मू ॥१२९॥ यद्यन्यथा हि पूर्व सत्यज्ञानादिलक्षणं ब्रह्म। आकृष्य सम्यगस्य हि कामयितृत्वं च दर्शयत्येव ॥ १३० ॥ तस्मात्सृष्टिं विततां निर्दिश्यानन्तरं हि तस्यैव। असदित्युपदेशोऽसावसंगतः स्यादतो ह्यसच्छव्द्ः ॥ १३१ ॥ ब्रह्म सदात्मकमेव ह्यव्याकृतनामरूपसुपदिशति। यत्रासच्छव्दोऽयं छान्दोग्ये दृश्यते सदित्यादि: ॥ १३२॥ सोऽपि स्ववाक्यदर्शितसत्पद्योगात्सदर्थको भवति। व्याक्रियतेत्यादौ हि व्याकरणं कर्तृतन्त्रमुपदिषम् ॥१३३॥ सर्वत्र व्याकर्ता परमात्मैवेति वर्णितं श्रुत्या। व्याकरवाणीत्यनया तस्मान्नेहास्ति बाधकं किमपि। १३४ ।। णवाक्यविरोधो न केनचिच्छङ्गितुं हि शक्योऽ्र। तस्माल्वक्षणवाक्यं ब्रह्मणि परमे समन्वितं भवति ॥१३५॥ नन्विह लक्षणवाक्यं सकलं ब्रह्मणि समन्वितं कथितम्। तद्नुपपन्नं यस्मात्कौषीतकिवाक्यमन्यथा दृषम् ॥१३६ ॥ तत्र च बालाकिरसौ राजानमजातशत्रुमुपयातः। तं चोपगम्य सोडयं बालाकिरजातशत्रुमाहेवस्॥१३७॥ ब्रह्म ववाणि त इति हि संबोध्यैनं प्रबोधयामास। आदित्ये चन्द्रमसि घ योऽसौ पुरुषो भवेत्परात्मेति ॥ १३८॥ तच्छत्वा राजाऽसी त्वयोक्तमखिलं सृषेति निर्दिश्य। एतेषां पुरुषाणां योऽसौ कर्ता हि यस्य तत्कर्म ॥ १३९ ॥ स हि वेदितव्य इति खलृ राजा बालाकिमुपदिदेशेत्थम्। तत्र च योऽसौ कर्ता प्राणो वा स्याद्थापि जीवो वा ॥१४०॥ इत्येवं संदेह: कर्मपदश्रवणयोगतो भवति। पूर्वम सत्पद्मेतत्स्ववाक्यगतसत्पदावलम्बेन ।। १४१ ।। स परतया तद्दर्णितमत्र तुन साधकं किमपि। सालाकियाक्यदुष्ट ब्रह्मपदं तन्न राजवाक्येडस्ति ॥ १४२॥

Page 90

धतुर्थपाद: ४] माध्यार्थरत्नमाला।

तस्मात्प्राणोऽयं स्याद्योडसौ कर्ता हि दर्शितो राज्ञा। चलनात्मकं हि कर्म च तस्योचितमेव वायुरूपतया ॥ १४३॥ पुरुषाणां कर्तृत्वं समष्टिरूपेण युक्तमेवास्य। जीवो वाडयं तस्य च धर्माधर्मात्मकं हि कर्म स्यात् ॥ १४४ । पुरुषाणां कर्तृत्वं भोक्तृत्वात्तस्य युक्तमेव स्यात्। पूर्वोक्तलक्षणं हि प्राणस्यापि प्रदर्शितं ह्यत्र ॥ १४५॥ तस्थाल्वक्षणवाक्यं ब्रह्मणि कथमिह समन्वितं भवति। इत्याक्षेपं निरसितुमिदमधिकरणं प्रदर्शितं मुनिना ॥ १४६ ॥ जगहाचित्वात् ॥ १६ ॥ यदिदं कर्मपदं तच्चलनात्मककर्मबोधकं न भवेत्। एतच्च सुपसिद्धं ह्यप्रकृतमशब्दितं च भवति यतः ॥ १४७॥ कर्तृव्यापारं वा क्रियाफलं वा न बोधयत्यतत्। कर्तृपदात्तल्लाभे कर्मपद स्यादिदं हि पुनरुक्तम् ॥ १४८ ॥ अत्र प्रदर्शितानां पुरुषाणां बोधकं न कर्मपदमू। पूर्वोपदशितत्वादुभयत्र च लिङ्गवचनवैरुप्पात् ॥१४९॥ तस्मादिह कर्मपदं योगेन स्वार्थबोधकं वाच्यम्। यत्क्रियते तत्कर्मेत्येवं योगेन कार्यपरमेव ॥ १५० ॥ जगदेकदेशभूत्या कार्यत्वेन प्रदर्शयन्पुरुषान्। प्रादेशिककर्तृत्वाशङ्कां वारयितुमेवमाह पुनः ॥१५१॥ यन्नामरूपभिन्नं जगदखिलं तत्पदेन निर्दिश्य। तदिदं यस्य हि कार्यं स वेदितव्य इति निर्दिशत्येनम् ॥१५२॥ तस्मादिह कर्मपदं जगत्परं सत्क्रियापरं भवति। यः सर्वस्य च जगतः कर्ता सोडयं भवेत्परात्मैव ॥१५३॥ सर्वेषां भूतानामित्यस्मिन्वाक्यशेष उपदिष्टम्। तद्विज्ञानफलं यन्निरतिशयं ब्रह्म भवति तेनायम् ॥१५४॥ जीव मुख्य प्राणलिङ्गान्नेति चेक्त्द्व्याख्यातम् ॥१७॥ नन्वत्र वाक्यशेषे बालाकिमसौ बुबोधयिषुरादौ। आमन्कय सुप्पुरुषं प्राणस्याभोक्तृतां प्रदर्शयति ॥१५५॥ यष्ट्यभिघातोत्थानात्तद्यतिरिक्तं च जीवमुपदिशति। तत्रैव दर्शितोऽसी मुख्यप्ाणो ह्राथेति वाक्येन ॥ १५६।।

Page 91

८६ सुबह्मण्यविरचिता- [१ प्रथमाध्यायस्थ-

एवं जीवोऽपि तथा निर्दिष्स्तद्यथेति वाक्येन। तस्माज्जीवो वा स्यात्म्ाणो वेत्यत्र नैवमाशकूयम् ॥१५७॥ जीवादिलिङ्गयोगात्तत्तदुपास्तिर्यदा विवक्ष्येत। त्रिविधमुपासनमत्र प्रसज्यते तत्तु नैव युक्तमिह ॥१५८॥ प्राणपदस्य हि वृत्ति: परमात्मनि दर्शितैव पूर्वत्र। जीवपरात्मेक्येन हि परमात्मनि जीवलिङ्गमुपपन्रम् ॥ १५९। अन्यार्थ तु जैमिनिः प्रश्नव्याख्या- नाभ्यामपि चैवमेके।। १८ ॥ जीवपरामशौडयं जीवलक्षणपरात्मबोधपरः। प्रश्नव्याख्याने किल परमात्मपरे यतः प्रतीयेते ॥१६० ॥ इति जैमिनिराचार्यो जीवपरामर्शकारणं बूते। क्वैष इति वाक्यशेषे प्रश्नोऽयं स्यात्परात्मपर एव । १६१॥ प्रतिवचनमपि हि हष्ट यदेतिमम्त्रे परात्मपरमेव। अप्येके शाखिन इह वदन्ति बालाकिराजसंवादे॥१६२॥ विज्ञानमयं जीवं निर्दिश्य स्वापमुपदिशन्त्यस्य। हादाकिाशे ब्रह्मणि तस्मादिह दर्शितः परात्मैव ॥१६३॥ अत्र परात्मन एव हि निर्दिषं सर्वकारणत्वमपि। यदृपि च गतिसामान्यं ब्रह्मणि वेदान्तवाक्यनिचयस्य ।।१६४। अनवद्यं हि तदस्मात्कौषीतककिवाक्यमेतदृखिलमपि। जगतः कारणरूपे ब्रह्मणि परमे समन्वितं भवति ॥१६५ ।। नन्विह वृहदारण्ये मैत्रेयीब्राह्मणे समान्नातम्। पत्यु: कामाय पतिः प्रिय इत्यादिकमनेकमात्मपरस् ॥१६६।। वाक्यं तत्र प्रथम मेत्रेयी याज्ञवल्क्यमुनिमाह। मगवन्यञ्च रहस्यं वेत्सि तदेतन्ममाह्य कथयेति ॥१६७ ।। तच्छत्वा मुनिवर्धो मैन्रेय्यै तदिदमुपदिदेश किल। पत्यु: कामाय पतिर्न हि प्रियो भवति चाऽऽत्मकामाय॥ १६८॥ पतिजायापुत्राद्या ये चान्पे भोगसाधनीभूता:। आत्मार्थतया सर्वें प्रिया भवन्त्यत्र न स्वकामाय ॥ १६९। सोडयं प्रियतम आत्मा सर्वेषां भोगसाधनानां यः । ;भोतव्यो मन्तव्योऽसी तथा निदिध्यास्यः ॥१७० ॥

Page 92

पतुर्थपाद: ४] माध्यार्थरत्नमाला। CU

अस्मिन्नात्मनि दृष्टे श्ुते मते तद्टदेव विज्ञाते। सर्वमिदं विदितं स्यादिति मैत्रेयीमुवाच मुनिवर्यः ॥ १७१ ॥ एवं मध्येऽपि तथा श्रुत्या वर्णितमिदूं महद्भूतम्। तदवदनन्तमपारं विज्ञानघनः स एव चाऽडतमाडयम् ॥१७२॥ एतेभ्यो भूतेभ्यः समुत्थितस्तान्यनु प्रणश्यति हि। तामेवमुपदिदेश हि योऽसावात्मेह द्शितो मुनिना ॥ १७३ ॥ स हि किं परमात्मा स्याज्जीवो वाऽ्यमिति संशयप्राप्तौ। पूर्वमुपक्रमवाक्ये ब्रह्मपदश्रुतिबलावलम्बेन ॥ १७४॥ चालाक्यजातशञवाः प्रश्नप्रतिवचनवाक्यमखिलमपि। ब्रह्मपरं तद्दर्णितमत्र तु वाक्य ह्युपक्रमे दृष्टः ॥१७५॥ प्रियसंसूचित आत्मा भोक्ताडयं जीव एव किं न स्यात्। यञ्च समुत्थानं स्यान्नतेभ्यस्तदृपि जीवलिङ्ग हि॥ १७६ ॥ दृष्ट्व्यत्वादिकमपि तस्यवोक्त न चेतरस्य स्यात्। सर्वं विदितमिहोक्तं भोक्वर्थत्वाच्च भोग्यपरमेव॥। १७७॥ तस्मादस्मिन्वाक्ये निर्दिष्टो जीव एव न परात्मा। इत्याक्षेपं निरसितुमिद्मधिकरणं प्रदर्शशितं सुनिना ॥ १७८॥ वाक्यान्वयात् ॥ १९ ॥ योऽसावस्मिन्वाक्ये निर्दिष्टः स खलु भवति परमात्मा। यस्मादेतद्वाक्यं परमात्मन्येव सम्यगन्वेति ।। १७९।। अत्र ह्युपक्रमे किल मैत्रेयीं याज्ञवल्क्यमुनिराह। अमृतत्वस्य त्वाशा वित्तेनानेन काऽपि नास्तीति ॥१८० ॥ येन च वित्तेनाहं न स्यामसृतादि तेन वित्तेन। किमहं कुर्यामिति सा तत्साधनमेनमिति हि पप्रच्छ ॥ १८१। तत्पृष्टेन च मुनिना य एष आत्मा हि सम्यगुपदिष्टः । स हि कथमिह जीवः स्यात्परमात्मैवोपदिष इह भवति ॥१८२॥ ब्रह्मज्ञानादेव ह्यमृतत्वं वर्णयन्ति वेदान्ताः। यद्यन्र दर्शितोऽयं न चेत्परात्मा वृथोपदेशः स्यात् ॥१८३॥ अमृतत्वसाधने किल पृष्ठे तत्साधनं हि वक्तव्यम्। परमात्मानुपदेशे कथमिह तत्साधनं हि कथितं स्थात् ॥१८४ ॥ आत्मनि विदिते सर्वं विदितं स्यादिति च यञ्च निर्दिष्टमू। सर्वात्मके परात्मनि विदिते तदिदं समअ्जसं भवति ॥१८५॥

Page 93

८6 सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

यद्येतज्जीवपरं तदेदमिति वाक्यमनुपपसनं स्यात्। बुध्द्याद्युपाधिको न ह्यनन्ततापारतादिगुणयोगी॥ १८६॥ यस्येतिवाक्यदर्शितसकलजगरकारणत्वमपि जीवे । असमश्जसमेव स्यात्तस्मादिह दर्शितः परात्मैव ॥ १८७ ॥ इदं सवं यदितिश्रुतिबोधितसर्वकार्यरूपत्वम्। सर्वस्य कारणत्वात्वरमात्मन्येव तद्पि युक्ततरम् ॥ १८८॥ दुन्दुभ्याद्या अपि ये दृष्टान्ताक्षात्र दर्शिता भूयः । तेऽपि च परात्मपक्षं प्रसञ्जयम्त्पत्र न हि ततोऽन्यमपि । १८९ ।। आत्मनि विज्ञाते सति निर्दिष्ट यञ्च सर्वविज्ञानम्। येनाधुतमित्यादौ प्रदर्शितं तत्परात्मलिङ्ग हि॥। १९० ॥ तस्मादिह परमात्मा मैव्ेयीब्राह्मणे विनिर्दिट्टः। द्रष्टव्यत्वादिकमिह तस्थैव स्यान्न चेतरस्यापि॥ १९१॥ नन्विह यदि परमात्मा विवक्षितः स्थात्तदेतद्समरसम् । पत्यादिसूचितस्य हि भोक्तुर्रटव्यतादिनिर्वचनम् ॥१९२॥ यच्च समुत्थानं स्यान्भूतेभ्यो दर्शितं हि तद्युक्तम्। परमात्मबोधने किल विज्ञानात्मा यतो निराकाङ्क्ष: ॥१९३॥ प्रतिज्ञासिद्धेलिङ्गमाश्मरथ्यः ॥२०॥ प्रियसूचितस्य भोक्तुर्द्रष्टव्यत्वादिकीर्तनं यत्स्यात्। सर्वं विदितं भवतीत्येवंरूपा हि या प्रतिज्ञा स्यात् ॥ १९४॥ तस्या: सिद्धेः सूचकलिङ्गमिति ह्याश्मरथ्य आचार्यः । जीवपरमात्मनोरिह भेदाशङ्गां भृशं निव्त्य किल ॥ १२५॥ साधयति तां प्रतिज्ञां तदिदं लिङ्गमिति सूत्रवाक्यार्थः। यदि च तयोर्भेद: स्यात्तदा प्रतिज्ञा हि बाधितैव स्थात् ॥१९६॥ उत्क्रिष्यत एवंभावादित्यौटुलोभिः॥२१॥ ज्ञानध्यानाभ्यामिह विवेकविज्ञानसुपसन्नस्य। देहेन्द्वियसंघातादुच्चिक्रमिषोः परात्मभावेन ॥ १९७। प्रिय सूचितस्य भोक्तुनिर्देशोऽसावुपक्रमे सफल: । इत्यौडुलोमिरार्यो भोक्तृग्रहणं हि सफलयत्यादौ ॥ १९८॥ अवस्थितेरिति काशकत्सः ॥ २२ ॥ इह चोपक्रमयाक्ये प्रियादिसंसूचितस्य भोक्तुरयम्। दष्व्यतानिदेश: सकलोऽयं सफल एव न विरुद्द्ः ॥ १९९॥

Page 94

चतुर्थपाद: ४] माष्यार्थरत्नमाला। ८९

परमात्मनो यदा स्याद्विन्नो भोक्ता तदा हि विफलं स्यात्। यत इह परमात्माऽसाववस्थिता भोक्तमावमालम्व्य ।। २०० ।। तत एतस्मिन्वाक्ये न कोऽपि दोष इति काशकृत्स्मुनिः । तस्मादेतव्वाक्यं ब्रह्मणि परमे समन्वितं भवति ॥२०१॥ नन्विह वेदान्तानां ब्रह्मण परमे समन्वयः कथितः। बुद्धयारूढे वस्तुनि तात्पर्यस्यावधारणं मत्वा ॥ २०२॥ बुद्धयारोहार्थ किल लक्षणमुक्तं हि तस्य पूर्वत्र। तदृपि च लक्षणमस्य हि जगतो जन्मादिकारणत्वं हि॥२०३॥ किमुपादानं तत्त्वं किं वा तत्स्यान्निमित्ततारूपमू। इत्येतननिर्णेतुं सपदि विचार: प्रवर्तितो मुनिना ॥२०४ ॥ लक्षणसूत्रानन्तरमयं विचारस्तु कर्तुमुचितः स्यात्। निर्धारिततात्पयैर्वेदान्तैस्तस्य निर्णयार्थं हि॥२०५॥ अध्यायान्ते तस्य हि विचार एष प्रवर्तितो सुनिना। जन्मादिकारणत्वं निमित्ततारूपमत्र युक्तं हि॥ २०६॥ ईक्षणपूर्वकमेव हि कारणतां दर्शयन्ति वेदान्ता:। सा कर्तृता स्वरूपनिमित्ततायां हि पयंवस्यत ॥२०७ ।। यत ईश्वरत्वमस्य प्रसिद्धमस्मान्निमित्तता युक्ता। वेवस्वतादिषु परं राजानुकूल्ये निमित्तता हषा ॥२०८॥ यदिचेन्निमित्तताऽस्य हि जगत उपादानमन्यदिह वाच्यमू। कार्यानुरूपमेव हि हष्टमुपादानकारणं लोके ॥ २०९ ॥ जगदिदमचेतनं स्यात्तदुपादानं च ताद्शं भवति। त्रिगुणात्मकं प्रधानं ह्यचेतनं भवति जगदुपादानम् ॥ २१०॥

इत्याशङ्कां निरसितुभिदमधिकरणं प्रदर्शितं सुनिना ॥ २११॥ प्ररतिश्र प्रतिज्ञादृष्टान्ता- नुपरोधात्॥ २३॥ जज्ञास्थ ब्रह्मैतज्जगन्निमित्तं च जगदुपादानम्। नोचेत्तथा प्रतिज्ञादृष्टान्तावत्र कुण्टितौ स्याताम् ॥२१२ ॥ ब्रह्म जगतो यदा स्यान्निमित्तमात्रं तदा तयोर्भेदात। ब्रह्मणि विदिते सर्वं विदितं स्यादिति हि या प्रतिज्ञा सा।२१३।। उपरुध्येत यदा तज्जगत उपादानकारणं भवति। ब्रह्माभेद्राजगतस्तदा प्रतिज्ञा समर्थिता भवति ॥ २१४॥ १२

Page 95

सुब्रह्मण्य विरचितर- [ १ प्रथमाध्यायस्य-

ब्ह्म यदि केवलं स्याज्जगत उपादानकारणं हि तदा। कर्तर्यन्यस्मिन्सति तद्नुपपत्रं हि सर्वविज्ञानम्॥ २१५॥ तम्मादुमयविधं स्याज्जगतो जन्मादिकारणत्वं हि। उक्तार्थकाच्चशब्दात्समर्थितं भवति सर्वविज्ञानम् ॥ २१६ ।। वृषान्ताथ् सृाद्या यदेतिवाक्ये प्रदर्शितास्तेऽपि। प्रथपन्ति कारणत्वं प्रकृतित्वात्मकमतोऽत्र न विरोध: ॥ २१७ ।। शाखान्तरे प्रतिज्ञाहष्टान्तावेतदर्थकी भवतः। तस्मात्परमात्माऽयं प्रकृतिः कर्ता च भवति नैकतरम् ॥ २१८॥ अभिध्योपदेशाच ॥ २४॥ सोडकामयत बहु स्यामित्येवं तैत्तिरीयकें वाक्यम्। आध्यानपूर्विका हि प्रवृत्तिरत्रोपलभ्यते तस्य । २१९ ॥ तत्राभिध्यानम्य प्रतीयते स्वात्मगोचरत्वं हि। भयानृत्वात्कतृत्वं ध्येयत्वात्प्रकृतिताऽपि तस्य स्यात् ॥ २२० ॥ साक्षाचोअयाम्नानात्॥ २५॥ छान्दोग्ये किल हष्ट सर्वाणि ह वेति वाक्यमात्मपरम् । इतरानपेक्षतां किल बोधयति ह्येवकार इह र्पठतः ॥ २२१। ननेसरानपेक्षसृष्टिप्रलयौ परात्मनः कथितौ। कर्तृत्वप्रकृतित्व तस्माद्वाक्यात्परात्मनो लब्धे ॥। २२२ ।। आत्मकतेः परिणामात् ॥२६ ॥ आत्मानं स्वयमकरोदित्येवं तैत्तिरीयवाक्यमिह। स्वथमकुरुतेतिवाक्यात्कर्तृत्वं तस्य भवति निदिषम् ॥ २२३॥ आत्मानमित्यनेन प्रककृतित्वं तस्य दर्शितं भवति। कर्मत्वं कर्तृत्वं कथमेकस्यैव भवति हीत्येतत् ॥ २२४ । परिणामाहित्यस्मान्निरस्यते सपदि सूत्रशेषेण। परिणमवत्यात्मानं स्वशक्तियोगेन हि परात्मेति ॥ २२५॥ योनिश्र हि गीयते ॥ २७ ॥ सवंज्ञः परमात्मा योनिरयं गीयते हि वेदान्तैः । नहाक्यमध्यपठितैरदिभुमित्येतेहि कर्तृता लब्धा। नव्रेष योनिशव्दात्प्रकृतित्वं चापि लभ्यते तस्य ।। २२७ ।।.

Page 96

प्रथमपाद: १ ] माष्यार्थरत्नमाला।

जन्मादिकारणत्वं यदुभयविधमत्र दर्शितं तच्व। सत्यज्ञानानन्ते परमात्मन्येव समुचितं भवति ॥ २२८॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८।। इह च प्रधानवाद: प्रत्यासन्ने हि वेदवादस्य । शिष्टैश्र परिगृहीतो वैदिकलिङ्गोपबृंहितश्रापि॥ २२९॥ तस्मात्तत्प्रतिषधे यत्नोऽपि ततः कृतो हि सूत्रकृता। तत्प्रतिषेधकलिङ्गैरन्ये वादाश्र निरसिता एव ॥ २३० ॥ तत्रापि तुल्यमेतद्यदशब्दत्वं हदाहृतं लिङ्गम्। अत्र पढाभ्यासोऽयं ह्यध्यायसमाप्तिमेव बोधयति ॥ २३१॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां प्रथमो योऽसी समन्वयाध्याय: ॥ २३२॥ तत्र चतुर्थे पादे सूत्रार्थो यश्च माष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ॥ २३३ ॥। शारीरकमीमांसाप्रथमाध्यायस्थसकलसूत्रार्थः । श्रीभाष्यकारदर्शिततरणिं संभित्य वर्णितः सोऽयम् ॥ २३४॥ माष्यार्थरत्नमाला वैयासकिसूत्रजालसंग्रथिता। भगवति परमानन्दे समर्पिता जयतु जगति निरवद्या ॥२३५॥ इति प्रथमाध्यायस्य चतुर्थः पादः समाप्तः । ४ ॥।

इति प्रथमाध्यायः समाक्षः ॥१॥

अथ. द्वितीयाध्यायस्य प्रथम: पाद: ।

प्रथमेऽध्याये जगतो जन्मस्थित्यन्तकारणं ब्रह्म। जन्माद्यस्येत्याद्यैः सूतैरुपदर्शितं हि सूत्रकृता ॥ १॥ ठयापित्वं नित्यत्वं सर्वज्ञत्वं तथाऽद्यत्वमपि। सूत्रेण शास्त्रदृष्या त्वित्याद्येनोपदर्शितं मुनिना ॥२ ॥ ये च प्रधानवादास्तथाऽणवादाश्र ये च विखयाता:। ते चाऽडनुमानिकादिकसूत्रैरश्रौतभावपरिभूताः ॥३ ॥ सकलनिगमान्तवचसामुपक्रमाद्यैः समन्वयोऽभिहितः। ब्रह्मण्युपास्यरूपे विज्ञेये सच्चिदादिपढ्लक्ष्ये।।४।।

Page 97

[ २ द्वितीयाध्यायस्य- 42 सुन्नझण्यविरचिता-

ननु सकलभ्रुतिव चसां णि योऽसी समन्वयोऽमिहित: । स्मृत्यनवकाशदोषादसमख्जस एव सोडयमाभाति ॥ ५ ॥ न हि कपिलस्मृतिवचसां कर्मण्यवकाशलेशशङ्काडपि। सम्यग्दर्शनमेव हि फलं समुद्दिश्य तानि रचितानि ॥ ६ ॥ न हेताद्टशवचसामप्रामाण्यं हि शङ्कितुं शक्यम्। तेन च तदानुगुण्याच्छ्रतिवचसामिह समन्वयो वाच्य: ।।७। तम्माद्वेदान्तानां समन्वयो नेह भवति युक्ततमः । इति खलु विरोधशङ्कां परिहतु विषयविषयितारूपाम्॥८॥ संगतिमालम्व्येमामध्यायोऽयं द्वितीय आरब्धः । अज्ञाते विषये न हि विरोधशङ्का समाधियोगो वा॥ ९॥ इत्यविरोधाध्याये समन्वयानन्तरत्वमुचितमिति। निश्वित्य सकलमर्थं चकार मुनिवर्य एतद्धिकरणम् ॥१०॥ स्मृत्यनदकाशदोषप्रसङ्ग इति चेन्नान्य- स्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥ सांख्यस्मृतिवचनानां न्यायाभासोपबृंहितत्वमिति। प्रथमे तावत्पादे प्रत्यधिकरणं निरुप्यते भूय: ॥ ११ ॥ स्तृतिरिह तन्त्राख्या या कपिलादिमहर्षिमाषिता सा हि। तद्नुगुणाश्र स्सृतयः समर्थयन्ति प्रधानकारणताम् ॥१२॥ न हि तासामवकाशः कथायेतुमन्यत्र केनचिच्छक्य: । मन्वादिस्मृतिवचसां वर्णाश्रमधर्मनिर्णयार्थतया ।१३॥ कर्मण्यवकाशः स्यादिह च तथा नैव कर्मपरता स्यात्। गुणपुरुषान्तरबोधान्निःश्रेयसमिति वदन्ति कपिलाद्याः॥१४॥ ब्रह्मणि वेदान्तानां समन्वयो यश्च दर्शितः पूर्वम्। स्मृत्यनवकाशदोषे जाग्रति स कर्थं हि संस्थितिं यायात् ॥१५॥ तस्मात्स्मृत्यनुसाराच्छ्रृत्यन्तानां समन्वयो युक्त: । नो चेद्वेदान्तानामप्रामाण्यं हि दुर्निवारं स्यात् ॥१६॥ इति चेन्मैवमिहाषि हि दोषोडयं दुर्निवार एव स्थात्। मन्वादिस्मृतिव च सामवकाशो नोपलभ्यते तत्र। वआ्ाययन्तरातमा क्षत्रज्ञश्रेति कथ्यते वित्ुधैः ॥१८॥

Page 98

प्रथमपाद: १] माष्यार्थरत्नमाला। ९३

यञ्चाव्यक्तं त्रिगुणं तस्मादुत्पन्नमुपदिशत्यन्या । मनुना च सर्वभूतेष्वात्मानं चाऽडत्मनीह भूतानि ॥ १९॥ पशयन्स आत्मयाजी स्वाराज्यं गच्छतीति निर्दिष्टम। एवमिह भारतादावयमेवार्थः प्रदर्शितो भूयः ॥२० ॥ तव मम चान्तर्यामी ये चान्यदेहसंस्थिता: सर्वे। सर्वेषामपि तेषां साक्षी न हि गृह्यते स जडधीभिः ॥२१॥ सोडयं हि विश्वमूर्धा विश्वभुजो विश्वपाच्च विश्वाक्षः। अनुसरति सर्वभूतेष्वयमात्मा स्वैरचारिमर्यादाम् ॥ २२ ॥। इत्यादिवचनजातैः सर्वज्ञत्वादिगुणगणोपेतः । आदिष्ः परमात्मा नियामकत्वेन न प्रधानमपि।२३॥ आपस्तम्बाद्यैरपि पर एवाऽडत्मा हि जगदुपादानम्। तस्मात्कायाः प्रभवन्तीत्याद्यैवर्णितं हि भूयोऽपि॥। २४ ॥ तस्मात्स्मृतिवचनानां श्रुत्यनुसारात्प्रमाणता वाच्या। श्रुतिविपरीतार्थानामप्रामाण्यं हि कपिलवाक्यानाम् ॥ २५॥ प्रथमे तन्त्रे चैवं जैमिनिना सूत्रितं हि सूत्रकृता। असति विरोधे अ्वत्या स्मृतेः प्रमाणत्वमितरथा नेति ॥२६॥ कपिलस्मृतिवच सामिह मूलं नैवोपलभ्यते क्वापि। निर्मूलैरेतैरिह कथं विरोधः समन्वये शौते ॥२७ ॥ ननु कपिलस्मृतिवचसामप्रामाण्यं न शङ्कितुं शक्यम्। यस्माद्टृषिप्रसूतं कपिलमितिश्रुतिरिमं हि वर्णयति ॥२८॥ यस्य ज्ञानातिशयं भ्रुतिरियमेवं हि वर्णयत्यमलम्। तद्वचसां हि विरोधे भौतः कथमिह समन्वयो भवति ॥२९ ॥ इति शङकाडत न कार्या यदय कपिलो न मन्त्रनिरदिक्ट:। सुगतसुतविलयकर्ता मगवान्कपिलो हि मन्त्रनिर्दिक्टः ॥ ३०॥ सच न सूत्रकर्ता कि त्वन्यस्तेन तन्निराक्रियते। न हि शब्दमात्रसाम्यादमिलषितार्थाः क्वचिच्च सिध्यन्ति॥३१।। स्मृत्यनवकाशदोषस्तस्मादिह नैव शङ्कितुं शक्यः । औते समन्वयेऽस्मिन्विरोधशङ्कापि दूरवार्तैव ॥३२ ॥ नन्वीक्षत्यधिकरणे प्रधानवादो हि निरसित: पूर्वम्। कथमिह पुनराशङ्का संजातैषेति नैवमाशङ्यम् ॥३३॥

Page 99

९४ सुन्नह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

परतम्त्रप्रतिमा: स्यु: प्रायेण जना हि वेदवाक्यार्थम्। निश्चेतुमस्वतन्त्रा: स्मृतिषु प्रज्यातकर्तृकास्वेव॥३४॥ बहुमानाद्विश्वस्युर्नास्मद्याख्यानसरणिषु ह्येते। अत इह तत्स्मृतिवचसामसारतां वक्तुमयमुपन्यासः ॥३५॥ इतरेषां चानुपलब्धेः ॥ २ ॥ यानीतराणि सांख्येर्महदादीनि प्रधानकार्याणि। निर्दिष्टान्येतानि हि लोके वेदे च नोपलम्यन्ते ॥ ३६ ॥। भूतेन्द्रियाणि तावलोके वेदे च सुप्रसिद्धानि। तद्विषयस्सृतिरपि या प्रमाणमिति सा हिनो निराक्रियते ॥३७।। महड़ादीनि हि लोके वेदे न क्वापि चोपलन्यन्ते। पठेन्द्रियार्थकल्पान्यत्र स्सृतिरषि कथं प्रमाणं स्यात् ॥३८॥ क्रचिदिह तत्परमिव यन्महदादिपदं हि दश्यते वेदे। तज्ञातत्परमिति खलु निर्दिष्टं ह्यानुमानिके सूत्रे ॥ ३९॥ यदि कार्यस्य स्मरण न चत्प्रमाणं हि कारणस्य स्यात्। तत्कथमिह प्रमाणं तत्र स्सृत्यनवकाशदोषः स्यात्॥४०॥ सांरूपस्सृतिवाधेऽषि हि तदुक्तयुक्त्यादिबाधनं नेति। नेयं शङ्का कार्या तदुत्तरत्रोषवर्ण्यते येन।।४१ ।। नन्वह् वेदान्तानां समन्वये हि प्रधानवादेन। न मवतु विरोधशङ्का योगस्मृत्या तु सैव जागर्ति ॥ ४२॥ इति शक्कां वारयितुं सोत्कण्ठो बादरायणाचार्यः । पूर्वोपदि्ष्टमेव न्यायं त्वत्रापि सम्यगतिदिशति ॥ ४३ ॥। एतेन योग: प्रत्युक्त:।३।। वस्मादिह प्रधानं महदादीन्यपि च वेदबाह्यानि। निर्दिदान्यत्रापि हि तस्माद्योगोऽषि निरसितो भवति ॥४४ ॥ नन्वयमतिदेश: किल निरर्थको माति नात्र फलदेशः । सामान्यन्यायत्वाद्योग: पूर्वेण निरसितो येन ॥४५॥ नायं दोषो यस्माद्योगोऽसौ वेद्वाक्यनिर्दिष्टः । भोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम् ॥ ४६।। श्वेताश्वतरादी हि त्रिरुन्नतं स्थाप्य सममिति प्रथितम्। योगविधानपरं किल बहुपपञ्ञं हि वाक्यमुपलब्धम्॥ ४७॥।

Page 100

प्रथमपाद: १] माष्यार्थरत्नमाला। ९५

लिङ्गानि वैदिकान्यपि योगपराणि स्फुटं प्रतीयन्ते। तां योगमित्यधीते मन्त्रे विद्यामिति प्रसिद्धेऽपि ।।४८॥ अथ तत्त्वदर्शनस्योपायो योग इति योगशास्त्रेऽपि। सम्यग्दर्शनकारणभावाद्योगो हि दर्शितो भवति ॥४९॥ संप्रतिपन्नार्थत्वाद्योगस्मृतिरनपवदनयोग्या स्यात्। इत्यभ्यधिका शङ्का निरस्यते सपदि चातिदेशेन ॥ ५०॥ क्वचिदृषि संप्रतिपत्ती विप्रतिपत्ति: क्वचिद्यतो दृष्ा। अध्यात्मगोचरानुस्मृतिषु च बहुधा सतीष्वपि ह्यनयोः ॥५:॥ सुनिना तु सांख्ययोगस्मृत्योर्यत्नः कृतो निराकरणे। यस्माच्च सांख्ययोगी पुरुषार्थकराविति प्रसिद्धौ हि ॥ ५२ ॥ शिष्टैश्र परिगृहीतौ लिङ्गेननाऽडस्नायचोदितेनेद्धौ। अयमर्थस्तत्कारणमितिमन्त्रे सांखययोगयोर्द्वटः॥।५॥ श्रुतिनिरपेक्षेण न तत्सांख्यज्ञानेन योगमार्गेण। निःशेयसमधिगम्यत इति हि निराकरणमेतयोर्भवति ॥ ५४॥

स्फुटतरमिह बोधयति श्रुतिरेषा विश्रुता तमेवेति ॥५५॥ यस्मात्सांख्या योगा नाऽडत्मैकत्वं वढन्ति तेनैते। श्रुतिबाह्या इति मत्वा सूत्रकृतैतन्मतं निराक्रियते ॥५६॥ तत्कारणमितिमन्त्रे निर्दिष्ः सांख्ययोगशब्द्ोडपि। वेदिकमेव ज्ञानं ध्यानं वूते न हि स्मृतिप्रथितम् ॥५७॥ येनाSSसन्नविरोधो न भवति सांख्यैस्तथैव योगैश्च। योऽसी संप्रतिपन्नो वेदान्तैः सोषय नो निराक्रियते ॥५८॥ योयमसङ्गो हीतिश्वुत्युक्तः पुरुष एव सांख्योक्त: । योगोक्तमथ परिव्राडितिश्रुतीरितनिवृत्तिनिष्ठत्वम् ॥५९॥ तदुभयमिष्यत एव ह्यविरुद्धं येन वेदवाक्यानाम्। प्रतिवक्तव्यान्येवं तर्कस्मरणानि यानि चान्यानि ॥ ६० ॥ तस्मात्स्मृतिवाक्यैरिह विरोधशङ्कावकाशपरिहारात्। ब्रह्मणि वेदान्तानां समन्वयो निरपवाद इति सिद्धम ॥ ६१ ॥ नन्वन्न स्मृतिव चनैराक्षेपे परिहृतेऽपि पुनरन्य: । तर्कनिमित्तः सोड़यं विरोध इह दुर्निवार एव स्यात् ॥६२॥

Page 101

सुत्रह्मण्यविरचिता- द्वितीयाध्यायस्य-

धर्म इवाSडम्नायोSसावनपेक्षोSव्रेति नैवमाशङक्यम्। धर्मस्यासिद्धत्वात्स च न हि मानान्तराणि संस्पृशति ॥६३ ॥ ब्रह्म च सिद्धं यस्मान्मानान्तरवेद्यभावसुपयाति। इत्याम्नायसमन्वयमिह पुनराक्षिपति तर्कसाधनतः ॥६४ ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४ ॥। दृष्टानुसारतोऽसावदटृष्टमर्थं समर्पयन्ती या। युक्तिर्हि संनिकृष्टा श्रुतिरनुभूतेस्तु विप्रकृष्टैव ॥ ६५॥ अनुमूत्यवसानं यङ्गह्मज्ञानं हि मोक्षफलकं स्यात् । मवति तदेवाविद्यानिवर्तकं न हि परोक्षविज्ञानम् ॥ ६६ ॥। दर्शनसाधनमेतन्मननं श्रवणातिरिक्तमुपदिशति। भोतव्य इति श्रुतिरप्यावश्यकता हि तेन तर्कस्य ॥ ६७।। तस्मात्तर्कविरोधान्न ब्रह्मप्रकृतिक हि जगदेतत्। यस्मादचेतनं तत्सुखदुःखाकुलमशुद्धमाभाति ॥६८॥ ब्रह्म त्वानन्दघनं शुद्धं च स्वप्रकाशचिन्मात्रम्। प्रकृतिविकारात्मकता विरूपयोः कथमियं भवति ॥६९॥ न हि रुचकादिविकार सृदुपादाना भवन्ति लोकेऽस्मिन्। ये च शरावाद्या अपि न सुवर्णप्रकृतिका हि हश्यन्ते ॥ ७० ॥ यस्माज्जगदिदमखिलं सुखद्दुःखान्वितमचेतनं तस्मात्। सुखद्ुःखाकलितस्य ह्यचेतनस्यैव कार्यमिह भवति॥ ७॥ जगदिद्मचेतनं सत्स्यादुपकरणं हि चेतनस्यैतत्। न हि सत्युमयोरुपकृतिरिह कस्यचित्केनचिद्भवति ॥ ७२॥ लोके न हि प्रदीपावन्योन्यस्योपकरणतामेतः । उपकृतिरिह चेतनयोरन्योन्यं स्वामिृत्ययोर्यद्दत् ॥।७३ ॥ कार्य करणं चेतनमप्युपकरणं हि भोक्तुरिति चेन्न। न हि लोके केवलयोश्चेतनयोरुपकृतिः क्वचिद्दृष्टा ॥७४॥ स्वात्स्वामिमृत्ययोरप्य चेतनांशस्य चेतनोपकृतिः । बुद्धधाद्यचेतनांशे मवति हि तद्वच्च चेतनोपकृतिः॥७५॥। पुरुषाश्वाकर्तारो निरतिशयाश्चेतना विनिर्दिष्टाः। तस्मान्नेतेषामिह परस्परं चोपकारिता भवति ॥७६॥ न ब्रह्मप्रकृतिकमिह जगदेतत्तद्विलक्षणं येन। उृत्पाषाणानामपि चैतन्यं स्याद्यदा तदैवं स्यात्॥७७H

Page 102

प्थम पाढ: १] माष्यार्थरत्नमाला। ९७

ननु सुप्तमूर्छितादी चैतन्यं सदपि मवति न व्यक्तम् । तद्वन्मृदादिकानां चैतन्यं नो विभाव्यते सदपि॥७८॥ चेतनविलक्षणत्वं जगतः कथमिति हि नैवमाशङ्क्यम्। एवमपि चास्य जगतो विलक्षणत्वं हि दुर्निवारमिति॥७९॥ व शुद्धं जगदिद्मशुद्धमुपदिश्यते हि शास्त्रेषु। इति शुद्धयशुद्धिलक्षणविलक्षणत्वं तु जगति दुर्वारम्॥८०॥ तस्माद्चेतनस्य हि कार्य जगदेतद्खिलमपि वाच्यमू। तदिहाचेतनमेतत्प्रधानमनुरूपकारणं जगतः । ८१।। चेतनविलक्षणत्वं जगतः कथयति हि शब्द एवायम्। सच्च त्यञ्च निरुक्तं तथाऽनिरुक्तं च भवति विज्ञानम् ॥ ८२।। तद्द्विज्ञानमिति बूते चेतनविलक्षणवं हि। तस्माद्चेतनं स्याज्जगन्न हि ब्रह्म जगदुपादानम् ॥८३॥ ननु चेतनत्वमपि किल सृदादिकानां तथेन्द्रियाणां व। भूयत एव हि मन्त्रे मृद्त्वीदिति च ते ह वाचमिति॥८४॥ अभिमानिव्यपदेशस्तु विशे- षानुगतिक्याम्॥ ५ ॥ प्र रशङ्रकां निरसितुमयं तुशब्दो हि सूत्रनिर्दिष्टः। न हि खलु मृद्बवीहित्यनया ध्रुत्या सृदादिकार्ना स्यास् ।।८५।। चेतनता ह्यभिमानिव्यपदेशोऽसी न भूमात्रस्य। वागाद्यभिमानिन्यो ह्यभिमानिन्यो मृदादिकानां या ॥८६॥ तास्तु खल चेतना: स्युध्यपदिश्यन्ते हि वदनकृत्येषु। यस्मान्भोक्तृणामपि तथैव भूतेन्द्रियादिकानां च । ८७ ।। चेतनताचेतनताप्विभागोडयं हि पूर्वमुपदिष्टः । सर्वस्थ चेतनत्वे प्रविभागोऽयं हि दुुपपाद: स्यात्॥ ८८ ॥ कौषीतकिवाक्ये किल दृष्टो यः प्राणवाक्यसंवाद:। तत्र च कारणशङ्का निवर्तिता देवतादिशब्देन।।८९॥ सर्वत्र देवता: खल्वभिमानिन्यस्तथैव चानुगता:। मन्त्रार्थवाद्वाक्येष्ववगम्यन्ते तथेतिहासादी॥९० ॥ अगनिर्वागितिमन्त्रः करणानुगतां हि देवतां बूते। अभिमानिव्यपदेशं ते ह प्राणा इति श्रुतिर्वक्ति॥ ९१॥ तत्तेज ऐक्षतेति श्रुतिरपि सद्रूपदेवताया हि। स्वविकारानुगताया ईक्षा व्यपदिश्यते न चान्यस्य ।। ९२॥।

Page 103

सुब्रह्मण्य विरचिता- [२ द्वितीयाध्यायस्य- पम्माद्वह्मविलक्षणमिदं जगद्दृश्यते हि लोकेऽस्मिन् । तत्प्रकृतिकमिह न स्यादित्याशङ्कां निराकरोति मुनिः ॥९३॥ दृश्यते तु ॥ ६ ॥ अत्र तुशब्दो योऽसावाक्षेपं निरसितुं प्रवृत्तो हि। ब्रह्मविलक्षणमेतज्जगन्न तत्प्रकृतिकं भवेदिति हि ॥ ९४॥ यदिदं दूषणमुक्तं तदत्र पक्षे पदं न विदधाति। अत्र च विलक्षणत्वं यत्किंचिद्वाऽथ सर्वतो वा स्यात् ॥९५।। किचिद्वैलक्षण्यं प्रतिकूलं प्रकृतिविक्कृतिभावे चेत् । पुरुषशरीरादिह किल केशनखानां कथं भवेज्जन्म ॥ ९६॥ इह चतनं प्रसिद्धं पुरुषशरीरं ह्यचेतनान्येव। केशनखादीनि ततस्तत्प्रकृतिकता कथं हि तेषां स्थात् ॥ ९७॥ तहच्च वृश्चिकानासुत्पत्तिर्भवति गोमयादिभ्यः । ते चेतना: प्रसिद्धा अचेतनान्येव गोमयादीनि ॥९८॥ ननु [च]शरीरमचेतनम चेतनान्येव गोमयादीनि। न विलक्षणता तेषामतो मवेत्प्रकृतिविकृतिभावो हि॥ ९९ ॥ तद्वञ्व वृश्चिकानां गात्राणि भवन्त्यचेतनान्येव। गोमयकार्याणि यतो न विरोध: प्रकृतिविक्कृतिभावे स्यात्॥१००।। इति चेद्विलक्षणत्वं तथाऽपि दुवारमेतयोर्भवति। एक हि चेतनस्याधिष्ठानं स्यात्तथा न चान्यत्स्यात् । १०१॥ इति खलु वैलक्षण्यं परिहर्तु नैव केनचिच्छक्यम्। वैलक्षण्ये च कथं तयोर्भवेत्प्रकृतिविक्कृतिभावोडपि ॥ १०२॥ सर्वात्मना हि तच्चेद्वैलक्षण्यं हि बाधकं प्रकृते। नैतज्जगति यतोऽयं सत्तारूपश्र धर्म उभयन्न ॥१०३॥ पैतन्यानन्वितमिति जगन्न चेतनविकार इति चन्न। चेतनकारणवाढ़े दष्ान्तो नात्र विद्यते कश्चित् ॥ १०४॥ सर्वस्य जनिमतः किल जगतः प्रकृतिहि चेतनं तत्र। दृषान्तमन्तरेण ह्ययमाक्षेपो न शङ्कितुं शक्यः ॥ १०५।। पक्षातिरिक्त एव हि दृष्टान्तो नैव पक्षकुक्षिस्थ: । कारणगुणसंक्रमणं कार्रे सर्वत्र दृष्टमिति मत्वा ॥१०६्॥ पेतन्यं कार्ये स्यादिति शङ्काऽप्यत्र नैव कर्तव्या। अण्वादिकारणत्वे दोषोडयं दुर्निवार एव स्यात ॥ १०७॥

Page 104

प्रथमपाद: १] भाष्यार्थरत्नमाला।

तत्र च योऽसी न्यायः स एव चात्रापि निर्णये हेतु:। चेतनकार्यत्वे स्याज्जगतश्चैतन्यमिति तु नाऽऽशङक्यम् ॥१०८॥ न विभाव्यते कदाचित्स्वगतो धर्मो हि सुप्मूर्छितयोः । तद्दिहापि स्यादिति दोषो न ब्रह्मकारणत्वे स्थात् ॥ १०९॥ यदपि च वैलक्षण्यं जगत्यशुद्धत्वधर्मयोगेण। अविभावितत्वमूलकमखिलं स्यान्नैव वस्तुवृत्तमपि॥ ११० ॥ चेतनकारणतायामेतद्वाधकमुदाहृतं न भवेत्। ध्रुतिरपि तदैक्षतेति प्रथयति सत्यादिलक्षणं ब्रह्म ॥१११ ॥ जगतः कारणमिति खल्वस्य च सर्वात्मकत्वमुपदिशति। या खलु मननं श्रवणव्यतिरेकेण श्रुतिः प्रदर्शयति ॥११२॥ तर्कावश्यकतायां समानमिति हि प्रपश्चि्वितं नैतत् । यत इह केवलतर्को न भवति कस्यापि निर्णये हेतुः ॥११३ ॥ नैषा तर्केणेतिश्रुतिरिममर्थं प्रदर्शयत्येवम्। जगतः कारणविषया मतिर्हिं तर्केण नापनेया स्यात् ॥ ११४॥ श्रुत्युपदिष्ा सेयं यथोक्तविज्ञानसाधने हेतु:। श्रुतिबलविरहे को वा तर्केण हि केवलेन निर्णेतुम् ॥११५॥ प्रभवति को वा वक्तुं कुत आजाता कुतश्र सृष्टिरियम्। सृष्टेरवांचीना देवा नैवास्य निर्णये कुशला॥११६॥ अस्य च जगती योऽसावध्यक्ष: सत्यलोकनिलयोऽपि। वेद न वा वेदेति प्रथयति दुर्बोधरूपतामस्य ॥ ११७॥ तस्माच्छरत्यभिगम्ये तर्कविरोधः पदं न विदधाति। श्रुतिशतगेये तस्मिन्मननं श्रवणाङ्गमेव निर्देषुम ॥११८॥ द्रषव्यः श्रोतव्यो मन्तव्य इतिश्रुतिः प्रवृत्तेयम् । श्रुतिनिर्दिष्ेऽपि भवेत्तस्यासंभावितत्वशङ्काडपि। ११९॥ तामपनेतुं ह्येषा श्तार्थसंभावितत्वविज्ञाने। मननं परमं साधनमुपदिशति न हि स्वतन्त्रमानमिति ॥ १२० ॥ श्रुत्यनुगुणं हि तच्चेद्यथोक्तविज्ञानसाधनं भवति। प्रतिकूलं मननं यत्तदप्रमाणं हि तेन न विरोध: ॥ १२१॥ सूत्रकृदिममेवार्थ प्रवक्ति तर्कप्रतिष्ठितत्वेन। सिद्धं हि वस्त लोके हष्टं मानान्तराभिगम्यमिति॥ १२२॥

Page 105

सुन्ह्मण्यविरचिता- [ २ द्वितीयाष्य . -

मदूद्वस्मापीति हि दूषणमेतन्न चेह संभवति। ब्झ्म तु यद्यपि सिद्धं तथाऽपि मानान्तरं न संस्पृशति ॥१२३॥ कपड़ियागरहितं ब्ह्म यतो सवति नेन्द्रियग्राह्यम्। नैवानुमानगम्यं लिङ्गामावात्किमन्यदिह मानम् ॥ १२४ ॥। तम्माच्छत्यमिगम्ये तर्कविरोध: स्मृतेरविरोधो था। ब्रह्मणि पदमाधातुं न शक्नुयात्तेन कोऽपि न विरोध: ।। १२५।। ब्हमणि परमानन्दे न बाधकं श्रुतिसमन्वये किमपि। बहम यदि कारणं स्यात्प्रागृत्पत्तेस्तदात्मना सत्वम् ॥ १२६॥ कायस्य वाच्यमेतन्न च खलु युक्तं विरुद्धरूपेण। यदि च प्रधानमेतज्गतो जन्मादिकारणं भवति ॥१२७॥ प्रागुत्पत्तेः सत्त्वं तदात्मना जगति युक्तमिति चेन्न। असदिति चेन्न प्रतिषेधमात्रत्वात् ॥७। ननु यदि चेतनमेंकं जगतो जन्मादिकारणं यस्मात् । भष्दाश्मिच्च काय स्थूलं परिहश्यते हि जगदखिलम् ॥ १२८॥ ब्रह्म च तद्विपरीतं कारणसुपवर्ण्यते तदैवं स्यात्। असवेव कार्यमेतत्परागुत्पत्तेरिति प्रसज्येत ॥ १२९॥ सत्कार्यवादिनिस्ते तदनिष्टं स्यादितीह नाSSशङ्कयम्। प्रतिषेधमात्रमेतझ्ास्म प्रतिषेधठ्यमस्ति किंचिदृपिं । १३०।। सत्यं प्रागुत्पत्तेः प्रतिषेद्धुं नैव शक्नुयादेष:। बत उत्पत्तः प्रागपि कारणरूपेण सत्वमस्य स्यात् ॥१३१॥ हिन्वा कारणसत्तां प्रागुत्वत्तेस्तथैव चेदानीम्। कार्यस्य नेव्र हुषं सत्वं प्रतिपद्यते हि तच्च कथम् ॥ १३२॥ अपीतौ तद्दत्पसङ््गादसमअसम् ॥ ८ ॥ पेतनकारणतायां दोषोडयं दुर्निवार एव ननु। स्थितिसमये जगदेतत्स्थूलमशुद्धं च हश्यते लोके ॥ १३३ ॥ अध्ययकाले तदिदं कारणरूपं प्रपद्य सकलमपि। कुद्धं कारणरूपं स्वीयाशुद्धयादिघर्मनिवहेन॥ १३४ ॥ संखाद्य दूषयेदिति दूषणमेतच्च दुर्निवारं हि। अभिभागसुपगतानां मोक्तृणामपि परेण पुरुषेण ॥ १३५॥ पुमकत्पची तेर्षा मोक्तृविभागोऽपि दुर्लभो मवति। असति व नियामके स्यान्नोकतृविभागस्तदा हि सुक्तानामू॥१३६।

Page 106

प्रथमपाद: १] भाष्यार्थरत्नमाला। १९

तत्र च योऽसौ न्यायः स एव चात्रापि निर्णये हेतु:। चेतनकार्यत्वे स्याज्जगतश्रैतन्यमिति तु नाऽऽशङक्यम् ॥१०८ ॥ न विभाव्यते कदाचित्स्वगतो धर्मो हि सुप्तमूर्छितयोः । तद्वदिहापि स्यादिति दोषो न ब्रह्मकारणत्वे स्यात् ॥ १०९॥ यदृषि च वैलक्षण्यं जगत्यशुद्धत्वधर्मयोगेण। अविभावितत्वमूलकमखिलं स्यान्नैव वस्तुवृत्तमपि॥ ११० ॥ चेतनकारणतायामेतद्वाधकमुदाहृतं न भवेत्। ध्रुतिरपि तदैक्षतेति प्रथयति सत्यादिलक्षणं ब्रह्म ॥१११॥ जगतः कारणमिति खल्वस्य च सर्वात्मकत्वमुपदिशति। या खलु मननं श्रवणव्यतिरेकेण श्रुतिः प्रदर्शयति ॥११२॥ तर्कावश्यकतायां समानमिति हि प्रपश्चितं नैतत् । यत इह केवलतर्को न भवति कस्यापि निर्णये हेतुः ॥११३ ॥ नैषा तर्केणेतिश्रुतिरिममर्थं प्रदर्शयत्येवम्। जगतः कारणविषया मतिर्हि तर्केण नापनेया स्यात् ॥११४॥ श्रुत्युपदिष्टा सेयं यथोक्तविज्ञानसाधने हेतु: । श्रुतिबलविरहे को वा तर्केण हि केवलेन निर्णेतुम् ॥११५॥ प्रभवति को वा वक्तुं कुत आजाता कुतश्र सृष्टिरियम्। सृष्टेर्वांचीना देवा नैवास्य निर्णये कुशलाः॥११६॥ अस्य च जगतो योऽसावध्यक्षः सत्यलोकनिलयोऽपि। वेद न वा वेदेति प्रथयति दुर्बोधरूपतामस्य ॥११७॥ तस्माच्छरत्यभिगम्ये तर्कविरोध: पदं न विदधाति। श्रुतिशतगेये तस्मिन्मननं श्रवणाङ्गमेव निर्देषम ॥११८॥ द्रष्ट्व्यः श्रोतव्यो मन्तव्य इतिश्रुति: प्रवृत्तेयम् ।

तामपनेतुं ह्येषा श्रुतार्थसंभावितत्वविज्ञाने। मननं परमं साधनमुषदिशति न हि स्वतन्त्रमानमिति ॥। १२०॥ ध्रुत्यनुगुणं हि तच्चेद्यथोक्तविज्ञानसाधनं भवति। प्रतिकूलं मननं यत्तदप्रमाणं हि तेन न विरोध: ॥ १२१॥ सूत्रकृदिममेवार्थ प्रवक्ति तर्काप्रतिष्ठितत्वेन। सिद्धं हि वस्तु लोके हष्टं मानान्तराभिगम्यमिनि॥१२२॥

Page 107

१०२ सु्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य- अप्ययकालेऽपि तथा कारणमेतच्च कार्यधर्मेण। संसृज्येत तथव हि मोक्तृविभागोऽपि दुर्लभो भाति ॥१५१ ॥ मुक्ानां च तथैव हि पुनरुत्पत्तिस्तु दुर्निवारैव। यदि केचितप्ययेऽपि हि विभक्तरूपाः परं प्रधानेन १२॥ ते्षां कथं प्रधानं कारणमेषां प्रधानकार्यत्वम्। बस्माद्दूषणमेतत्तुल्यमतो नेह बाधकं भवति ॥१५३ ॥ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चदेवमप्यविमोक्षप्रसङ्ग: ॥११॥ इत्यागमगम्येऽर्थे तर्कविरोधो हि नैवमाशङ्रक्यः । पस्मान्निरागमास्ते पुरुषोत्प्रेक्षानिबन्धना एव ।। १५४ ।। पुरुषमतिवैरूप्याद्यतो मवन्त्यप्रतिष्ठितास्तर्काः । उत्प्रेक्षिताश्र निपुणं कुशलैरनुमातृभिश्र ये तर्काः ॥१५५॥ अन्यैरमियुक्ततरैराभास्यन्ते हि ते च सर्वेऽपि। अथ सुप्रसिद्धकीर्तेः कपिलस्य स्यात्प्रतिष्ठितस्तर्कः ॥ १५६॥ इति नात्र शङूकनीयं प्रसिद्धमहसो भवन्ति तीर्थकराः । पहवः कणभुक्प्रसुखा विप्रतिपत्तिश्र दृश्यते तेषाम् ॥१५७॥ नर्कविदामप्येषां कपिल: सर्वोत्तमी हि भवतीति। कणमुक्ममुखैरेतेः कपिलोऽयं नैव परिगृहीतोऽस्ति ॥१५८॥ अभ वयमन्यथैव ह्यनुमास्यामो यथा न दोषोऽयम्। नैव हि वक्तुं शक्यं तर्कः सकलः प्रतिष्ठितो नेति ॥ १५९ ॥। अर्थामासनिरासद्वारा श्ुत्यर्थनिर्णये सोडयम्। नर्क: कारणमिति हि श्रुतिः प्रदशयति मननसाहाय्यम् ॥१६०॥ तर्कबलादेव यतः सुखसंबन्धे च दु.खपरिहारे। छोक: प्रवर्ततेऽसावतीतसाम्यादनागते तस्मिन् ॥१६१॥ दयमिमं तर्क हित्वा य एष निरवद्य: । वर्क. जीयो भवतीत्याशाSत्र नैव कर्तव्या ॥१६२॥ स्यचिदृषि विषये तर्कः प्रतिष्ठितः स्यात्तथाऽपि न विमोक्ष: नामाद्यगम्यमेतङ्गह्य यतो दर्शयन्ति वेदान्ता: ॥ १६३ ।। वन्न तर्क: सोडयं निरागमो हि प्रतिष्ठितो नेति।

Page 108

प्रथमपाद: १] माष्यार्थरत्नमाला। १०३

चेतनमद्यरूपं ब्रह्मैवैतस्य कारणं सिद्धम्। अन्यच्छरतिविपरीतं प्रधानमेतस्य कारणं नेति ॥१६५॥ ब्रह्मणि वेदान्तानां समन्वये नैव बाधकं किमपि। नन्विह समन्वयेSस्मिन्पुनर्विरोधो हि दुर्निवार: स्यात् ॥ १६६॥ कपिलस्मृतिवचनैरिह विरोधशङ्का तु परिदता पूर्वम्। द्रव्यं न विभुप्रकृतिकमिति योऽसौ कणभुगभिमतस्तर्कः ॥१६७॥ संप्रति तेन विरोधो दुर्वारः श्रुतिसमन्वये भवति। कपिलस्तर्के कुशलः कणभुक्तस्मादतीव कुशल: स्यात् ॥१६८॥ कणभुक्तर्कविरोधाच्छतिव चसामिह समन्वयोऽसिद्धः। इति शङ्कामतिदेशादपनेतुं रचितमेतद्धिकरणम् ॥ १६९।। एतेन शिष्टापरिग्रहा अपि व्याख्याता: ॥१२॥ शिष्टपरिग्रहविधुरा ये वै शिष्टा[ परिग्रहा ]स्ते स्युः । अतिदेशेन निरस्तास्ते खल्वण्वादिवादमुख्या ये ॥ १७० ॥ योऽसौ प्रधानवाद: प्रत्यासन्नो हि वेदवादस्य । शिष्टश्र परिगृहीतः ध्रुतिलिङ्गेनोपब्ृंहितस्तद्वृत् ॥ १७१॥ अणुकारणतावादो नायं कस्यापि संमतो भवति। शिष्टैर्न परिगृहीतस्तस्मादत्रात्यनादरोडभिहितः ॥ १७२।। तस्य निराकरणेऽपि च तुल्यं साधनमिहोपदिष हि। अतिगम्मीरं चैतद्वह्माऽडगममात्रसमधिगम्यं स्यात्॥१७३॥ तकनिवगाह्यत्व तथैव तर्काप्रतिष्ठितत्वमपि। अपि चान्यथानुमानेऽप्यविमोक्षः सकलमेतदिह तुल्यम् ॥१७४॥ ननु यदि जगदखिलमपि ब्ह्मप्रकृतिकमितीष्यते भवता। ब्ह्माद्वितीयरूपं कार्यं सकलं हि भिन्नरूपं हि। १७५॥ कारणवलक्षण्याद्वैलक्षण्यं हि हश्यते कार्ये। मृत्तन्तुभेदतः स्याद्वटपटयोर्भिन्नरूपता दष्टा ।१७६॥ ब्रह्मण्यप्रत्यक्षे श्रुतिः प्रमाणं न चान्यदित्युक्तम् । अत्र पुनः प्रत्यक्षे जगति विरुद्धार्थरूपताऽनुचिता॥१७७।। इह भोकृभोग्ययोर्य: प्रत्यक्षे चोपलभ्यते भेद: । ब्रह्मप्रकृतिकतायां तस्य च बाधो भवत्स चायुक्त: ॥ १७८॥ आदित्यो यूप इतिश्रुतिर्यथा गौणमर्थमाचष्टे। तद्वत्सच्च त्यच्चेत्येवंभूता श्रुतिश्र गौणपरा॥ १७९॥

Page 109

१०४ सुब्रह्मण्य विरचिता- [१ द्वितीयाध्यायस्य- तम्माज्गढखिलमपि प्रधानकारणकसुचितमाश्रयितुम। इति शङ्ककामपनेतुं मुनिना रचितं तदेतदधिकरणम् ॥१८० ॥ ब्रह्म यदि चाद्वितीयं कारणमुपदिश्यते हि वेदान्तैः । मोक्ता हि मोग्यभावं भोग्यं वा भोक्तृभावमुपगच्छेत् ।।१८१ ।। न हि कारणविशेषे कार्यविशेषो हि दृश्यते क्वापि। मोक्त्रापत्ती सत्यामविभागो दुर्निवार एव तयोः ॥१८२।। जगति खलु मोक्तकृमोग्यी विभक्तरूपेण सुपरसिद्धी हि। अनुचितमिद्माभयितुं प्रमाणसिद्धार्थबाधनं धृत्या । १८३। इतिचेन्नैवं यस्माल्वोकवदेवात्र निर्णयो भवति। मृत्नकृतिका विकार घटकरकाद्या: परस्परं भिन्ना: ॥१८४ ॥ मृत्खल्वेकाकारा प्रकृतिविकारत्वमत्र दृष्ट हि। वीच्यादयो विकार: समुद्रमूला: परस्परं भिन्नाः ॥१८५॥ तेजां कारणमूतः समुद् एकोऽद्वितीय आभाति। रुचकावयो विकारा: सुवर्णमूलास्तथैव हश्यन्ते॥ १८६ ॥ एकस्वरूपमेव हि सुवर्णमाभाति तद्देवेह। शब्दाकयो हि भोग्या मोक्ता चाऽडविद्यकश्र संघातः ॥१८७॥ महमविकारा: सन्तो भजन्ति मेवं परस्परं सरवे। भेद: प्रमाणसिद्धो वीच्यादिषु हश्यते यथा लोके ॥ १८८ ॥ तदन्ोक्त्रादिष्वपि भेदे नैवास्ति बाधकं किमपि। तस्मात्प्रकृतविभेदे विकारभेद इति नायमेकान्तः । १८९॥। वीच्यादिकार्यजाते यदयं नियमो हि भङ्गमापन्नः । तस्माच्छ्ृत्य नुसारा प्रकृतिकमिदं हि जगदखिलम् ॥१९० ॥ णि कारण रूपे अ्त्यन्तसमन्वयोऽपि निरवद्यः । प्रकृतिकतायां योऽसौ दोष: प्रदर्शित: पूवम् ॥१९१॥ स च परिहतो हि दोष: परिणामप्रक्रियां समालम्व्य। यविदं दूषणमुक्तं विवर्तवादावलम्बनेन पुनः । १९२।। तदिदं दूषणमखिलं निर्मूलयितुं कृतप्रयत्नेन। इह खल्वाहतमनसा सुनिना रचितं तदेतद्धिकरणम्॥१९३॥

व्यवहाराधसरे किल जगत्समग्रं विभक्तमाभाति। परमार्थतो हि सकलं कारणरूपं सकार्यमन्यदिद्द॥ १९४॥

Page 110

अथमपाढ: १] भाष्याथरत्नमाला 1 १०५

यस्माद्नन्यतैव हि विसृष्टयोर्भवति कार्यकारणयोः । कारणसत्तां हित्वा कार्यासत्वं तयोरनन्यत्वम् ॥ १९५॥ सृद्घटयोरिह लोके सृदनन्यत्वं तदेदशं हष्टम्। सर्वत्र कार्यजाते ह्यनन्यता भवति कारणेनैवम् ॥१९६ ॥ आरम्भणशब्दाद्यैस्तमेतमर्थं श्रुतिः प्रदर्शयति। येनाश्ुतमित्यादावेकज्ञानेन सर्वविज्ञानम्॥ १९७॥ निर्दिश्य तत्र चायं दृष्ठान्तो हि प्रदर्शितः ध्रुत्या। सृत्पिण्डेनैकेन च सृन्मयमखिलं यथैव विज्ञातम् ॥ १९८॥ यस्माद्वाचारम्भणमेष विकारा हि नामधेयमिति। घटकरकादिविकारो वाचैवाऽडरभ्यते हिकेवलया ॥ १११॥ परमार्थतो विमर्शे न विकारो नाम कश्विदन्योऽस्ति। अनृतात्मको विकारो नामैव हि सृत्तिकेव सत्यमिति ॥२०० ॥ तेजोबन्नेषु तथा त्रीणि हि रूपाणि सत्यमिति चोक्तम्। दृष्टान्तोऽयं ब्रह्मण उक्तार्थसमर्थनाय निर्दिष्टः ॥२०१॥ ब्रह्मप्रकृतिकमेतत्तद्यतिरेकेण नास्ति चैतदिति। प्रख्याव्य सत्यमेकं ब्रह्मैवेतिश्चुतिः प्रदर्शयति ॥ २०२ ॥

मानमिति सूचितं स्यात्तदनन्यत्वे यथोपदिषार्थे। २०३॥. दृष्टान्तैरेतैरिह भवेदनेकात्मकत्वमस्येति। नवाSSशङ्कूयं यस्मात्कारणमात्रस्य सत्यता कथिता ॥ २०४।। तस्करदटृष्टान्तोऽयं विकारजातः स चानृतत्वं हि। प्रथयति न चेत्तदैवं तदुपन्यासो हि विफल एव स्यात् ॥२०५ ॥ दृष्टान्ते चैतस्मिन्बन्धनमिह तस्करे विनिर्दिष्टम्। अनृताभिसंधियोगात्तथैव दार्ान्तिकेऽपि वक्तव्यम् । २०६॥ प्रकृतिविकारी सत्यौ स्यातां को वाऽनृताभिसंधि: स्थात्। तस्मादनृतं कार्यं सत्तु स्यात्कारणं परं ब्रह्म ॥ २०७ ॥ इति खल्वङ्गीकार्य दृष्टान्तोडयं तदाऽनुकूल: स्यात्। ब्रह्म ननु निर्विशेषं सविशेषं च द्विरूपमुपदिष्टम् । २०८ ।। प्रथयन्ति निर्विशेषं ह्यशब्दृमित्यादिवाक्यजालानि। सविशेषसुपदिशन्ति श्रुतिवचनान्यपिच सर्वकर्मेति ॥ २०९॥ एकत्वं नानात्वं ब्रह्मणि सत्यं तदेतदुभयमपि-।- उपयुज्यते तु कर्मणि नोनात्वेनास्य यञ्च विज्ञानम् ॥ २१०॥

Page 111

सुत्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य- एकत्वेन च सत्यज्ञानं मोक्षैकफलमिति न्याय्यम् । नममात्तदिदमयुक्तं कारणमात्रस्य सत्यताकथनम् ॥ २११॥ इतिचेन्मवं शकूं ब्रह्म यतो निर्विशेषरूपमिति। गम्मिन्सर्वाणीतिश्रुतिः प्रदर्शयति नह नानेति ॥ २१२॥ ननु यदि चवं चेत्स्यात्सविशेषनिरूपणं वृथेव स्यात्। भुतिवाक्यदशितस्य हि वैयथर्थ नैव दृश्यते पि।। २१३ ॥ हतिचन्मैवं यस्मात्सविशेषमुपासनार्थमुपदिष्टम। सम्य च परिणामित्वं जगदाकारेण वर्णितं यद्पि ॥ २१४॥ तद्पीह निर्विशेषप्रतिपत्त्पर्थ श्रुतिः प्रदर्शयति। अन्येन सोम्य शुङ्गेनेतिश्रुतिरेतमर्थमाचष्टे ॥ २१५॥। व्यवहारावस्थायां परात्मनो मवति चेशितृत्वमपि। तत्रेशितव्यमावो जगतः सर्वस्य वण्यंते शास्त्र॥ २१६॥

बोधयितुमेतमर्थ लोकवदित्याह सूत्रकारोऽयम् ॥ २१७॥ परमार्धावस्थार्या न चेशितव्यं न वाऽयि चोपास्यम्। केवलरूपो ह्यात्मा विमाति नान्यत्ततोऽस्ति किंचिदपि॥ २१८॥ प्ुतिरेषा बोधयति हि यस्मिन्सर्वाणि नेह नानेति। दर्शवितुमेतमर्थ तदनन्यत्वं हि सूत्रितं मुनिना ॥ २१९ ॥ ननु चेत्स कार्य विकारभूतं तथाऽनृतं ताहे। लोकव्यवहारोडयं विचिताव्यवस्थितत्वेन ।। २२०।। व्यवहार: सकलोऽयं प्रमाणमूल: प्रमातृमूलश्र। सर्वस्य चानृतत्वे न च प्रमाता न हि प्रमाणं वा ॥ २२१ ॥ व्यबहारस्तद्भावे कथं हि लोकप्रवर्तनाहेतु: । शाख्तजीयो विधिरूपो ज्पोतिष्टोमादिगोचरो योऽसौ ॥ २२२ ॥ प्रतिषेधश्वापि तथा विच्छिद्येताप्रमाणकत्वेन। शाख्त्रेण चानृतेन प्रतिपाद्य यदृपि चाऽडतमतत्वमपि ॥ २२३ ॥ तज्च कथं सत्यं स्यादित्याशङ्काऽत नैव कर्तव्या। आत्मावबोधतः प्राग्जगदासत्यरूपमाभाति ॥ २२४ ॥ अ्यवहारम तथेव व्वया रथो न चाम्यभा गमति।।

Page 112

प्रथमपाद: १] माध्यार्थरतमाला।

स्वप्रव्यवहारः प्राग्यथा प्रवोधान्न वाध्यते तहूत्। स्वप्रेन चानृतेन हि शुभस्य लाभो यथा भवेलोके ।। २२६।। अनृतेन चाऽडत्मलाभस्तथा मवत्येव मोक्षशाखत्रेण। भावे चोपलब्धे: ॥ १५॥ एतस्मादृवि हेतोरनन्यता भवति कार्यकास्णयोः ।।२२७॥। यस्मात्कारणभावे हष्टा कार्यस्य नियतमपलब्धि: । सत्यां मृदि करकादि: सति च सुवर्णे तथैव रुचकादि: ।२२८॥ उपलभ्यते हि तस्मादनन्यता भवति कार्यकारणयोः । नैवान्यस्य च भावे न ह्यन्यस्योपलब्धिरिह हटा ॥२२९।। न ह्यश्वो गोरन्यो गोर्भावे चोपलभ्यवे ह्यश्वः । एवं कुलालभावे घटोपल्धिश्व नैव हष्टा हि॥ २३० ॥ सत्यपि निमित्तनैमित्तिकमावे न हि तयोरयं नियम: । यद्यं नियमो हट्टो यत्र स्यात्प्रकृतिविकृतिभावोऽयम् ॥२३१॥ नन्वन्यस्य च मावे न ह्यन्यस्योपलब्धिरिति न स्यात्। धूमश्ाग्रेरन्यः स. चाग्गिभावेऽपि नियतमुपलब्धः ।। २३२।। नियतोप्लब्धियोगादनन्यता स्यादितीह न हि नियमः । भैवं निषातदेशे ह्यग्न्युद्रापेऽपि दृश्यते धूमः ॥ २३३ ॥ अथ वा तद्नन्यत्वे तन्भ्ावेनोपलब्धिविषयत्वम् ।. हेतुं व्य बढ़ामो ह्ेतुरयं नाग्निधूमयोर्भवति.।।२३४।। मृद्घटमोरिह टृष्ट: सोडयं तस्मादनव्यता हि तथोः॥ अथ वा. मावाच्ेति हि सूतावयवोऽयमत्र पठनीय: ॥। २६५॥। तेनोपलब्धिमावाद्नन्यता साधितैतयोर्मवति। पूर्वं शब्दबलेन ह्यनन्यता दर्शिता हि सूत्रकृता ॥२३६॥ प्रात्यक्षिकोपलब्ध्या तदनन्यत्वं प्रसाधितं ह्यत्र। सत्त्वाच्चावरस्य ॥ १६॥ हेतोरेतस्मादृप्यनन्यता भवति कार्यकासणयोः ॥२३७॥ यस्मात्परागुत्पत्ते: कारणरूपेण सत्त्वमवरस्य। कार्यस्य वाच(च्य)मेतन्नचेत्ततः स्यात्कथं तदुत्पत्तिः ॥ २३८॥ उत्पत्तिपाक्समये यदात्मना यन्न वर्तते कार्यम्। न ततस्तस्योत्पत्ति: सिकताम्यस्तैलपूर इव सवति॥२३९ । तस्मादनन्यदेव हि कार्य सच कारणेन स्पात्।

Page 113

सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

असद्व्यपदेशान्नेति चेन्न धर्मान्त- रेण वाक्यशेषात्।। १७ ।। प्रागुत्पत्तेर्ननु यदि सत्त्वं स्यात्कारणात्मना कार्ये॥ २४० ॥ स्यादिह तद्तयोरियमनन्यता तच्च नैव संभवति।

श्रुतिरसदेवेदमिति ह्यन्याऽप्यवं ध्रुतिर्ह्सद्वेति। नस्मात्प्रागुत्यत्तेरनन्यता सद्सतोः कथं घटते ॥१४२॥ इति चन्मैवं यस्मात्पागुत्पत्तेरसन्न कार्यं स्यातू। किंतु सदेव हि कार्यं प्रागृत्पत्तेरसद्विनिर्दिष्मू ॥ २४३ ॥ धर्मान्तरेण चायं व्यपदेशो भवति युक्त एवास्य । धर्मान्तरमियमेव ह्यव्याकृतनामरूपतैवास्य । २४४।। सच्छव्दाहँ लोके यद्याकृतनामरूपमिह भवति। उत्पत्त्यनन्तरं स्याद्व्याकृतनामस्वरूपता कायें ॥ २४५॥ तदमावादुत्पस्तेः प्रागसदिति कथ्यते सदेवेदम। अत्रत्यवाक्यशेषाद्यमेवार्थः प्रतीयते यस्माद ॥ २४६॥ तत्रोपक्रमवाक्ये यदसच्छव्देन वर्णितं पूर्वम्। उत्तरवाक्येण च तत्सच्छव्दरेनोपवर्णितं हि पुनः १२४७।। भुत्यन्तरेऽप्यसद्वेत्यत्र च यद्सत्पदर्शितं तस्य। स्वयमकुरुतेति चोत्तरवाक्यात्सटूपता भवेत्तस्मात् ॥;४८॥ युक्तं प्रागुत्पत्ते: कारणरूपेण सत्वमवरस्य। युक्त्े: शब्दान्तराच्च ।। १८॥। सत्वमनन्यत्वं वा प्रागुत्पत्तेश्र कारणेनास्य ॥ २४९॥ 'स्य युक्तमेव हि युक्ते: शब्दान्तराच्च माति यतः। व या युक्ति: स्यात्सैवेदानी निरुप्यते भूय: ॥ २५०॥ दधिघटरुयकाद्यथिमिरेतानि क्षीरमृत्सुवर्णानि। नियतमुपादीयन्ते न वैपरीत्येन तानि गृह्यन्ते।। २५१ ॥ सत्कार्यवाद एव हि तदिदं युक्तं न चेतरत्रापि। कारणनियमो न स्या सत्कार्यवादवार्ता स्वात् ॥२५२ ॥ प्रपंत्र चाविशेषे कार्यें सत्त्वे तथैव चान्यत्वे। शीरावेव दधि स्पान्न मृत्तिकायास्तथा घटोऽपयेवम् ॥ २५३।

Page 114

अथमपाद: १] माष्यार्थरत्नमाला। १८९

सृद एव स्यान्नैव क्षीरादिति नियम एष इह न स्यात्। प्राक्कार्यस्यासत्वे तुल्येऽपि हि कश्िविदृतिशयः क्षीरे ॥ २५४॥ दभ्: स्यादेवं किल घटादिकार्यस्य सृत्तिकादिषु च। इतिचेदेवं हि तदा तवापि सत्कार्यवाद एव स्थात् ॥२५५॥ कार्यातिशयो योऽसौ शक्तिविशेषो हि कारणे वाच्यः । स च कारणात्मभूतो नापि तदन्यों न चाप्यसन्भवति ॥२५६॥ यदि चान्यो यदि चासन्क्षीरादृपि वा घटः कुतो न भवेत्। क्षीरेऽपि चास्य तुल्यं ह्यन्यत्वं वा तथैव चासत्व्म्॥ २५७॥ पागसदन्यत्कार्य समवैति कथं हि कारणे पश्चात्। समवायकल्पना वा नैव च युक्ता तु कार्यकारणयोः ॥ २५८॥ संबन्धमन्तरा खलु न भवति कार्यस्य कारणे सतत्वम्। अत इह समवायोऽयं संबन्धो युक्त एतयोरिति चेतू ॥२५९॥ समवायस्यापि तदा संबन्धश्रान्य एव किंन स्यात्। संबन्धता च यस्मान्नासंबन्धस्य युज्यते वक्कुम् ॥ २६० ॥ यदि खलु संबन्धोऽयं संबन्धान्तरमपेक्षते नैव। संयोग: संबन्धो नैवापेक्षेत तं च समवायम् ॥ २६१॥ यदि चेत्समवायोडयं समवायान्तरमपेक्षते च तदा। तस्यान्यस्तस्यान्य: संबन्ध इतीह चानवस्था स्यात् ॥ २६२। संयोगो हि गुणत्वात्संबन्धान्तरमपेक्षते नायम्। समवायो यस्मादयमगुणः स्यादिति पुनर्न चाsडशङ्कूयम् 1.२६३।। गुणपरिभाषा सेयं न चात्र तन्त्रं परं त्वपेक्षेव। संयोग: संबन्ध: सन्नपि वाडयं समीहते यदत् ।। २६४॥ तद्वत्समवायोऽपि स्यादिह बीजं तु तुल्यमुभयत्र। तादात्म्यमेव चेह प्रतीयते जगति कार्यकारणयोः ॥ २६५॥ यद्यश्वमहिषयोरिव भेदश्रेत्स्यात्तयोर्हि समवायः। यदपि व कार्यद्रव्यं सर्वावयवेषु भवति समवेतम् ॥ २६६ ॥ किं वाऽप्येकैकस्मिन्निति वक्तव्यं न युक्तमुमयमपि। सर्वावयवेषु यदा तत्प्त्यक्ष हि दुर्लमं भवति ॥ २६७ ॥ सर्वावयवानामिह मवेद्यदा संनिकर्ष एतत्स्यात्। न च लाके हि बहुत्वं व्यस्तग्रहणेन गृह्यते क्वापि॥ २६८।। अवयवशः प्रत्येकें कार्ये समवेतमवयवेषु यदि। आरम्मानतिरिक्ता अप्यवयविनः स्युरवयवाश्ान्ये॥। २६९।।

Page 115

११० सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

एकैकस्मिन्हि यदा समवेतं कार्यमभिमतं सवति। एकेकसंनिकर्षे सत्यपि गृह्येत कार्यमखिलमपि॥२७० ॥ एकत्र व्यापारे व्यापारोऽन्यत्र तस्य नैव स्यात्। न हि देववत्त एक: सुघ्ने निवसंस्तु पाटलीपुत्रे ।। २७१ ॥ सुन्न इव तद्हरेव च संनिहितः स्याइतो न युक्तमिदम्। प्रत्येकपरिसमाप्तिर्गोत्वादिपदृस्य वण्यते च यदा॥ २७२ ॥ प्रत्येकमवयवेष्वपि फलयोग: स्यात्तदा स्वकार्यस्य। उरसा च पृष्ठकार्य स्तनकार्य वा मवेच्च शृङ्गेण॥। २७३॥ नैतत्ववापि च दृष तस्मात्कथमेतयोविभिन्नख्वम्। पागृत्पत्तेरसदिह कार्य वा कारणे कथं भवति ॥ २७४ ।। असतोऽपि जन्म चेत्स्याद्वन्ध्यापुत्रोऽपि जायते न कथम्। तो निस्तत्वत्वान्मर्यादाकरणमस्य नच युक्तम् ॥२७५।8 क्षेत्रगृहादीनामिह मर्यादा दृश्यते सतामेव। प्राक्पूर्णवर्मणोडयं वन्ध्यापुत्रो बभूव राजेति॥ २७६॥ न तो मर्यादा वन्ध्यापुत्रस्य कुत्रचिद्दृष्टा। उत्पत्तिरवि च या स्याक्क्रिया च सा स्यात्सकर्तृकाऽपि तथा ॥ नाकर्तृका क्रियेयं नैवासत्कर्तृका क्वचिद्दृष्टा। ननु यदि कार्योत्पत्तेः प्रागपि कार्य सदेव चेत्तरहिं॥ २७८॥ व्यापार: सकलोऽयं विफल: स्यात्कारणस्य सर्वस्य। इत्यपि नैबाऽडशङूचं कारकयोगस्तु नात्र विफल: स्यात् H२७२।। यद्यपि कारणमेतत्प्रागपि सिद्धं तथाऽपि सफलोऽयम्। करणव्यापार: स्यात्कार्याकारेण योजयितुमेतत् ॥।२८0 ।। तस्मादुत्पसे: प्राक्सव्नन्यत्कारणेन कार्यमतः । प्रकृतिकमसिलं ब्रह्मानन्यत्तदात्मना सफदि॥ २८१। सिद्धमिह या प्रतिज्ञा येनाश्ुतमिति च साऽपि सिद्धैव। सत्वानन्यत्वे किल युक्तेरेवं समर्थिते भवतः ॥ २८२ I शब्दान्तराज् जगतस्ते वे सम्यङनिरूपयिष्येते। पूर्वमसद्वयपदेशी योऽसौ शब्द: प्रसस्नितः कार्ये ॥ २८३॥ तस्माच्छव्दान्तरमिह सच्छन्दोडयं हि दृश्यते कार्ये। यस्मात्सदेव सोम्येत्यस्मिन्मन्त्रे हि सत्पदेनाऽडदौ ॥ २८४॥

Page 116

माध्यार्थंरतमाला।

सृष्टेः पूर्व सकलं सदात्मनैवोपदर्शितं मवति। कथमसतः सत्त्वादीत्याक्षिप्य पुनस्तदेव निर्दिष्टमू ॥२८५॥ सत्येवेत्येबस्मादग्रे कार्य सदेव नान्यदिति। पटवच्च ॥ १९ ॥ संवेष्टितः पटोऽयं न विशिष्ायामविस्तरो भाति॥२८६।। पश्चात्प्रसारितोऽसौ यावत्स्वायामविस्तरो माति। न च संवेष्टितरूपात्प्रसारितोऽसी हि मिद्यते लोके ॥२८७ ।। वेमादिव्यापारात्मागिह तन्तुषु पटो न गृह्यत। चेमकुविन्दतुरीणां व्यापारोऽसौ यदा प्रवृतः स्यात् ॥२८८।। तन्त्वात्मनैव तन्न स रमुपलभ्यते तदैवासौ। एवं सृष्टेः पूर्वं ह्यव्याकृतनामरूपभावेन॥। २८९।। सदपि च कार्य सकलं स्फुटतरमिह नोपलभ्यते किमपि। यद्याविद्यकमेतन्नाम व रूपं तथा [च] भूतमपि ॥ २९०॥ व्याकृतमेतच्चेत्स्यात्परेण सकलं सदात्मना भाति। यथा च प्राणादिः॥२०॥ प्राणायामनिरु्े प्राणापानादिपञ्चकेऽपि यथा।। २९१॥ आकुञ्चनप्रसारणकाय नैवोपलम्यते किमपि। जीवनमात्रं कार्य भाति य तस्मिन्समीरणात्मत्वम्।२९२॥ प्राणानामवियोगे जीवनमात्राधिकं हि कार्यमिदम्। आकुञ्चनादिकं स्यात्प्राणापानादिभेदद्टष्टिश्र ॥ २९३ ॥ तदत्सृष्टे: पूर्व सदात्मना मवति जगदवस्थानम्। नैवाभ्युद्यफलं स्यात्तेजोबन्नादिभेददृट्टिर्वा।। २९४।। सृष्टेः पश्रादखिलं ह्यम्युद्यफलं विभेदद्टष्टिर्वा। तस्मात्सिद्धं जगतस्तवनन्यत्वं तदात्मना सत्वम् ॥ २१५॥। प्रत्यगभिन्ने ब्रह्मणि वेदान्तसमन्वयोऽपि निरवद्यः।

दिदोषप्रसक्ति: ॥। २१॥। अत्राहितकरणं तद्रज्ज्वध्यासात्प्रतीयते सूत्रे ॥। २९६ ।। नन्वेतदनुचितं स्याङ्ह्म यदा भवति जगदुपादानम्। इतरव्यपदेशोड़यं श्रुत्यन्तेषूपलभ्यते यस्मात् ॥ २९७ ॥

Page 117

११२ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्थ.

इह चानेनेत्यस्मिन्मन्त्रे ब्रह्मात्मता हि जीवस्य। तत्वमसीत्येतस्मिन्त्रह्मणि जीवात्मताऽपि निर्दिष्टा ॥२९८॥ तस्मात्प्रत्यक्परयोः परस्परात्मत्वमभिहितं मवति। तेन ब्रह्मप्रकृतिकमिदमखिलं जीवकर्तृकं भवति ॥२९९॥ यच्चानिष्टं लोके नरकाद्यखिलं हि सजति जीव इति। अभ्युपगन्तव्यं किल दोषोऽयं दुर्निवार एव तदा ॥ ३०० ॥ आत्माहितकरणं यन्न हि स्वतन्त्रस्य कुत्रचिद्द्टृष्टम्। एतन््यायविरुद्धं द्रषृत्वं ब्रह्मण: कथं घटते ॥ ३०१ ॥ जीवेशयोरभेदे ब्रह्मगतस्षटतादि जीवस्य। यदपि च संसारित्वं जीवगतं ब्रह्मणोपि दुर्वारम्॥ ३०२॥ तस्मादयं स्वतन्त्रो जीव: कर्ताऽडत्मसौमनस्यकरम्। कुर्यान्न चाहितं यज्जन्मजरारोगमरणजालमपि॥ ३०३॥ न हि कश्िदपरतन्त्रो निजात्मनो बन्धनालयं कमपि। स्वयमेव तं च सध्वा तदनुप्विशन्हि दुःखमनुभवति॥३०४ ॥ अन्त्यन्तनिर्मलः सन्नतिमलिनं देहमात्मभावेन। नैवोपेयात्स्वयमिह कृतमपि यद्दुःखकरमिदं जह्यात् ॥३०५॥ विरचितमिदं विचित्रं जगन्मयेति स्मरेदयं जीवः । सर्वो लोकः स्पष्ट स्मरति हि कार्य कृतं मयेत्येवम्॥३०६॥ मायावी निजमायां स्वरच्छामात्राद्यथोपसंहरति। एवं शारीरोऽपि च सृष्टिमिमां नोपसंहरेद्द्वि कुतः ॥ ३०७ ॥। स्वमपि शरीरं त्यक्तुं नानायासेन शक्तुयाजीव: । तस्माद्ि तत्क्रियादेरदर्शनादनुचितैव सृष्टिरियम् ॥३०८॥ इत्याशङ्कां निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना। अधिकं तु भेदनिर्देशात् ॥ २२॥ अत्र तुशब्दो योऽसावाक्षेपनिरासफलक इह भवति ॥३०९॥ योऽसी शारीर: स्यात्स्रष्टारं तं वयं न च बूम: । यः शारीरादधिक: सर्वज्ञः सर्वशक्तिसंपन्नः ॥ ३१०॥ तं परमेश्वरमेव तु जगतः स्रषारमिह वयं बूमः। न च तस्य विद्यते किल हितमहितं वेह नित्यतृप्तत्वात्॥ ३११॥ शारीरे तत्सवं स च न स्रष्टा परं तु परमात्मा। परमेश्वरे तु तस्मिन्कथं हिताकरणलक्षणो दोष: ॥३१२॥

Page 118

अथमपादः १] माष्यार्थरत्नमाला।

यस्मादसी परात्मा मिन्नत्वेनोपदिश्यते शास्त्रे। द्रष्टव्यः श्रोतव्यो मन्तव्य इति श्रुतिस्तथैवेयम्॥ ३१३॥ सोऽन्वेष्टव्य इति श्रुतिरपि भेदं त्वीशजीवयोर्वक्ति। न हि कर्तृकर्मभावो विनैव भेदं क्वचित्पसिद्धोऽस्ति ।३१४।। तस्माद्सी परात्मा कर्मत्वेनोपदिष इह योऽसौ। न हि खलु भवति परात्मा स्रषा तस्मिन्न दोषशङ्काऽपि ॥३१५॥ ननु तत्त्वमसीत्येषा श्रुतिर्ह्यभेदं तयोः प्रदर्शयति। येनाशुतमित्यन्या श्रुतिरप्येतं तयोर्निरूपयति ॥३१६ ॥ कथमेकस्मिन णि भेदाभेदी तु संभवेयाताम्। इति नात्र शङ्कनीयं यत इह भेदो हयुपाधिमूल: स्यात् ॥ ३१७॥ आविद्यकदेहादावहंममाध्यासकवलितो योऽसौ। न हि शारीरस्तस्मान्ेदो निर्दिश्यते हि परमेशे॥ ३१८॥ नित्याविद्यो यतः परात्मा हि दोषनिर्मुक्त: । अविवेकलक्षणोऽसावध्यासो याघदस्ति शारीरे ॥ ३१९॥ तावत्संसारित्वं तस्य स्रषटत्वमीश्वरस्य स्पात्। अविवेकमखिलमेतं व्युदस्य चैतन्यरूपमात्रेण॥ ३२० ।। प्रतिबोधितो यदाऽसी तदा न मेदस्तदा न संसार: । परमे तदा स्यान्न स्रषा किं त्वखण्डरूप: स्यात् ॥ ३२१॥ तद्भिप्नायेणैव हि ततत्वमसीत्यादिवाक्यजालेन। नवधा प्रपश्चितोऽयं प्रत्यक्परमात्मनोरभेदो हि॥ ३२२ ॥ अविवेककृता भ्रान्तिर्या तु हिताकरणदोषमूलं स्यात्। मेदे सत्यपि न स्रषा भ्रान्तिकवलितो जीव: ।। ३२३ ॥ तद्भावाञ्च परात्मा जगतः स्रषटेति सर्वमनवद्यम्। अश्मादिवच्च तदनुपपत्तिः ॥ २३।। नन्विद्मखण्डरूपे ब्रह्मणि वैचित्र्यमनुपपन्नमिह ।। ३२४॥ एक: शारीरः स्याद्न्य: परमेश्वरक्ष मवतीति। कार्यकृतं वैचित्रयं स्वरूपकृतमपि निरूपितं शास्त्रे ॥ ३२५ ॥ इति दोषो न तु शङ्चो ह्यश्मादिवदेव सर्वसुपपन्नम्। पृथिवीत्वजातिकलिता अप्यश्मानो मवन्ति वज्राद्याः॥३२६॥ के चिन्महार्हमणयो मध्यमवीर्याश्र सूर्यकान्ताद्याः। अन्ये श्ववायसानां प्रहरणफलका सवन्ति पाषाणा: ॥ ३२७॥ १५

Page 119

११४ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

पार्थिवभागोऽवगतेष्वपि बीजेषु तथैव वैचित्र्यम्। पत्रफलपुष्पगन्धैर नेकविधमेव लक्ष्यते लोके ॥ ३२८॥ एकस्यान्नरसस्याप्यध्यात्मं लोहितादिवैचित्रयम् । ब्रह्मण्य खण्डरूपे तद्दज्ीवेशभाववैचित्रयम् ॥ ३२९॥ स्रहृत्वं मोकतृत्वं सर्वज्ञत्वं तथैव चाज्ञत्वम्। र्सिद्धं जगतो ब्रह्मैव तु कारण न चान्यदिति ॥३३० ॥ ब्रह्मण्येवंरूपे वेदान्तसमन्वयोऽपि निरवद्य:। नतु परमात्मा जगतो न कारणं स्याद्यतोऽयमसहायः ॥३३१ ॥ असहायस्य च लोके सषटृत्वं नोपलभ्यते क्वापि। ससहाय: स्षा स्यान्न चासहाय इति लोकनयसिद्द्म् ॥३३२॥ न्यायविरोधाद्बह्मणि जगतः सहृत्वमनुपपन्नं हि। तस्माद्वेदान्तानां समन्वयोऽप्यत्र दुरुपपाद: स्थात् ॥ ३३३॥ इत्याशङ्कां निरसितुमिद्मधिकरणं प्रदर्शितं मुनिना। उपसंहारदर्शनान्नेति चेन्न क्षीरवद्दि ॥ २४॥ लोके कार्यारम्भे च कुलालादयो हि कर्तारः ॥ ३३४ ॥ मृदृण्डचक्रसचिवा: सन्तः कार्येषु ते प्रवर्तन्ते। यङ्गह्म तद्सहायं कार्य जगदखिलमतिदुरारम्भम् ॥३३५॥ कथमीद्वशस्य जगतः स्ष्ट्रसहायं मवेत्परं ब्रह्म। इति चेन्मैवं यस्मात्क्षीरवदेवेदमखिलमुपपन्नम् ॥ ३३६॥ क्षीरं जलं विनैव हि सहायमन्यं यथा हि लोकेऽस्मिन्। दधिकरकाकारेण च परिणमते ब्रह्म तद्देवेदम् ॥ ३३७॥ जगदात्मना स्वभावाद्विना सहायं तथैव परिणमते। नन्वसहायं क्षीरं नैव हि दध्यात्मना च परिणमते ॥ ३३८॥ औष्ण्यादिना हि लोके क्षीरं दृधि भवति न स्वतः क्वापि। इति चेन्नेयं शङ्का स्वयमपि दधिभावमेतद्ुपयाति ॥३३९।। औष्ण्यादिना दधि स्यात्वरयेत्येतच्च लोकसिद्धमिदम्। दृधिभावशीलता यदि न स्यात्स्वयमन्यैर्नैव औष्ण्यादयैः॥३४०॥ द्धिमावोऽस्य बलादिह न युज्यते कदाऽपि कुत्रचिद्वाऽपि। न हि लोके वायुर्वाडप्याकाशो वाऽथ वा तदन्यो वा ।३४१॥ औष्ण्यादिना बलाद्वा दधिभावगतोऽपि कुत्रचिद्दृष्टः ।

Page 120

प्रथमपाद: १] माष्यार्थरत्नमाला। ११५ देवादिवदपि लोके॥ २५॥ देवा ऋषयः पितरो गन्धवाश्वापि जगति विखयाताः ॥३४२॥ त खल्विच्छामाचात्सृजन्ति हर्म्याणि रम्यरूपाणि। तद्वद्विचित्ररूपाण्यपि गात्राणि च सृजन्त्यभिध्यानात् ॥३४३।। उपसंहरन्ति पुनरपि तान्यखिलानि च निजेच्छयैवेति। रेतःसेकसहायं विना बलाकाऽपि गर्भमिह धत्ते ॥ ३४४॥ प्रस्थानसाधनं वा किमपि ह्यनपेक्ष्य पझ्मिनी च तथा। उपसर्पति ह्ययत्नात्सरोन्तरात्सा सरोन्तरं तद्दत् ॥३४५॥ एवं ब्रह्मापि तदा बिना सहायं प्रवर्तते कार्ये। नन्विह दष्टान्तोऽयं न चातुरूपो विभाति कश्िविदृपि ॥ ३४६ ॥। देवादिकर्तृकार्या सृष्टी देवादिदेह एव स्यात्। कारणमपि च बलाका स्तनयित्तुरवेण गर्भमिह धत्ते॥ ३४७॥ चेतननियोजितैव हि सरोन्तरं पध्मिनीयमुपसरति। तस्माच्चेतनकर्तृकसषो दृष्टान्त एष विषमः स्यात् ॥३४८॥ इति चेन्मैवं यस्माद्दृष्टान्तोडयं हि भवति न च विषमः । हष्टान्तन विवक्षितमिह हि कुलालादिकर्तृवेधमर्यम् ॥३४९॥ बाह्यं साधनमिह किल यथा कुलालादयो ह्यपेक्षन्ते। एवं देवाद्या इह नापेक्षन्ते हि साधनं बाह्यम्॥ ३५०॥ ब्रह्मा पे तद्देव हि जगदारम्भे न साधन किमपि। बाह्यमपेक्षत इति खल्वंशस्तुल्यो हि सोऽयमुभयत्र ॥। ३५१ ॥ देवादयो यथा वा निजयोगबलेन संसृजन्त्येवम्। ब्रह्मापि विश्वमेतत्सृजत्यचिन्त्यात्मशक्तियोगेन ॥३५३॥ श्रुतिरपि तमेतमर्थ न तस्य कार्यमिति दर्शयत्येषा। तस्मादसहायेऽपि ब्रह्मणि वियदादिकारणत्वं स्यात् ॥ ३५३।। ब्रह्मण वेदान्ताना समन्वयोऽपीह भवति निरवद्यः ।

नन्वत्र क्षीराद्यैहेष्टान्तैब्रह जगदुपादानम्॥३५४ ॥ असहायमेव भवतीत्येतत्सव प्रपश्च्ितं पूर्वम्। तज्चैतद्नुपपन्नं यस्मात्क्षीरादि भवति परिणामि॥ ३५५॥ तद्द्टष्टान्तवलेन हि यथाऽसहायस्य कारणत्वं स्यात। परिणामिकारणत्वं तथैव परमात्मनोऽस्य वक्तव्यम्॥ ६५६ ।

Page 121

११६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

ब्रह्म यदि निर्विशेषं जगदाकारेण परिणमेत तदा।

कृत्स्नप्रसक्तिरत्र तु जगदाकारेण कृत्स्नपरिणामः । कृत्सस्य कार्यभावापत्या द्रष्टव्यताऽस्य नैव स्यात् ॥ ३५८॥ यद्येकदेशमात्राज्गढाकारेण परिणमेत तदा। निरवयवभावबोधकशब्दा ये चास्य वेदनिर्दिष्ाः ।३५९।। निर्मलशब्दपुरोगा विरुद्धकथनेन ते हि कुप्येयुः । निश्वयवस्य च लोके नचैकदेश्येकदेशभावः स्यात् ॥ ३६० ।। यदि वा परिणामि स्याद्यदि वा कृत्सस्य कार्यपरिणाम: । यद्येकदेशभावस्तदाऽस्य चानित्यताऽपि दुर्वारा॥३६१॥ - निरसितुमिममाक्षेपं सुनिना रचितं तदेतद्धिकरणम्॥३६२॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७॥ तुशब्दो योऽसाबुक्ताक्षपस्य निरसनार्थ: स्यात्। चेतनकारणवादे नायं दोष: प्रवर्तते कोऽपि।। ३६३॥ इह कारणस्य रूपे श्रुतिः प्रमाणं न केवलस्तर्कः। जगतः सृट्यारम्भे परिणमते ब्रह्म तत्स्वरूपेण॥। ३६४ ।। न च परिणमते कृत्सं तदिति श्रुतिरेव बोधयत्येषा। सोऽकामयतेत्याद्या पादोऽस्येत्येवमादिका च तथा ॥३६५॥ तदिदं हि शब्दमूलं ब्ह्म यथाशब्दमभ्युपेयं स्यात्। नैव ह्यतीन्द्रियार्थे विनैव शब्दं यथार्थबुद्धि: स्यात् ॥३६६॥ अस्यातीन्द्रियभावं न चक्षुषेति श्तिः प्रबोधयति। नैताद्टशस्य तस्य हि रूपं शब्दं विनैव तर्केण ॥ ३६७ ॥। अपि वा निर्धारयितुं प्रतिपाद्यितुं च कोपि शक्त: स्यात्। मणिमन्त्रशक्तयोऽपि तु विचित्रकार्यैकसाधनीभूताः॥३६८।। दृश्यन्ते खल्लु लोके ता अप्युपदेशसमधिगम्याश्च। किमुताचिन्त्यमहिम्ः परात्मनः शक्तिरप्रतर्क्येति ॥३६९॥ तस्माच्छत्यभिगम्ये जगतो जन्मादिकारणे तस्मिन्। कृत्सप्रसक्तिरूपा दोषा नैवेह शक्कितुं शक्याः ॥ ३७० ॥ नन्विह विरुद्द्मर्थं श्रुत्तिरप्येषा कथं प्रबोधयति। र्पारणमते न च कृत्सं परिणमत इदं विरुद्धमाभाति॥३७१॥

Page 122

प्रथमपादः १] माष्यार्थरत्माला। ११७

अतिरात्रे षोडशिनं गृह्लातीत्यादिकर्मवाक्येषु। भवति विकल्पाश्रयणं विरोधपरिहारकारणं तेषु ॥ ३७२ ॥ तत्कर्म पुरुषतन्त्रं यतो विकल्पादि तत्र युक्तं स्यात्। ज्ञानं तु वस्तुतन्त्रं प्रमाणजन्यमिति सुपरासिद्धं हि॥ ३७३ ॥ वस्तुनि न विकल्प: स्यात्स च क्रियायां हि दश्यते शाखे। अविरुद्द्धाक्षेपैषा श्रुतिः प्रमाणं न वैपरीत्येन ॥ ३७४॥ परिणामवादपक्षे सावयवत्वं ह्यनित्यताऽपि स्यात्। तस्माच्चेतनकारणवादो हि न युक्त एष इति चेन्न॥ ३७५ ॥। इह खलु विवर्तवादाश्रयणे तात्पर्यमस्य सूत्रकृत: । अत्र व न विरोध: स्यान्नानित्यताविदोषशङ्काऽपि ॥३७६॥ मायावी परमात्मा निअमायाशक्तियोगमालम्व्य। निरवयवो नित्योऽपि हि जगदाकारेण मासते बहुधा॥ ३७७॥ तिमिरहतलोचनाआं चन्द्रो हि यथा ह्यनेकधा माति। तद्द्विद्याकव लित निजात्ममासा स माति विश्वात्मा ॥ ३७८॥ पादेशिका हि माया जगदाकारोऽपि चैकदेशगतः । मायायोगविहीनं ब्रह्म द्रष््व्यभावमुपयाति ॥ ३७९॥ मायोपाधिसहायात्सकलं तस्योपपन्नमेव स्यात्। परिणामवादृपक्षे दोषोऽयं न हि विवर्तवादेऽपि॥ ३८० ॥ आत्मनि चैवं विचित्राश्र हि॥ २८ ॥ आत्मानुपमर्देन हि सृष्टिरियं ब्रह्मणा कथं घटते। इति नात्र शङ्कनीयं यत इह सृष्टिस्तथेव दृष्टा हि॥ २८१॥ मायाव्यादिषु लोके विना स्वरूपोपमर्द्सुपलब्धा। हस्त्यश्वरथपदातिप्रमुखाणां सृष्टिरेवमन्यत्र ॥ ३८२ ॥ स्वप्रहगादिषु दष्टा तथैव सृष्टिर्मवेत्परात्मनि च। तत्र यथा नैते स्युर्दोषा मायामयत्वयोगेन॥ ३८३॥ तद्वद्वह्मणि नैते दोषा जगतोऽस्य मायिकत्वेन। तस्मान्निरवयवेऽस्मिन्वेदान्तसमन्वयोऽपि निरवद्य: ।३८४।। स्वपक्षदोषाच ॥ २९ ॥ चेतनकारणवाढ़े योऽसौ दोष: प्रसस्तः सोऽयम्। तुल्यः प्रधानवादे परमाणुप्रकृतिभाववादेऽपि। ३८५ ॥।

Page 123

११८ सुबह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

शब्दादिरहित मेत न्निरवयवं च प्रधानमण्वादि । सावयवस्य च शब्दादिमतः कारणमिति प्रतिज्ञातम् ॥३८६।। तत्र च पूर्वोक्तोऽसौ दोषोडयं दुर्निवार एव स्यात्। अणुकारणतावादे ह्यणुरपरेणाणना हि संयुक्तः॥ ३८७॥ द्यणुकादि जनयतीति प्रपश्चितं तञ्व नैव युक्ततरम्। निरवयवयोस्तयोरिह संयोग: स्याधदैकदेशेन ॥ ३८८॥ परमाणूनां हि तदा सावयवत्वं तु दुर्निवारं स्यात्। सर्वावच्छदेन तु संयोगो यदि तथाडप दोषोऽयम्॥३८९॥ प्रथिभानुपपत्त्यादि: कार्यस्य स्यादतो न दोषोऽयम्। परिहृत एव हि पूर्व दोषोडयं ब्रह्मकारणत्वे हि॥ ३९० ॥ तस्मान्निरवयवमाप ब्रह्मेदं भवति जगदुपादानम्। ब्रह्मणि तथाविधेऽस्मिन्वेदान्तसमन्वयोऽपि निरवद्यः ।३९१॥ नन्विह सशरीराणां कार्योत्पादैकसा धेका शक्ति: । मायाविप्रभृतीनां वृष्टान्तोक्तेन चाशरीरस्य । ३९२॥।

कथमिति शङ्कां निरसितुमिदमधिकरणं प्रदर्शितं मुनिना॥३९३।। सर्वोपिता च तद्दर्शनात् ॥ ३०॥ यद्यपि मायाव्यादिषु सशरीरेष्वेव दृश्यते शक्ति: । भवति तथाऽपि न दोषो यतः परात्मा ह्यकुण्ठितैश्वर्यः॥। ३९४॥ न च शक्तिप्रतिबन्ध: कदाऽपि तस्यास्त्यलुप्तशक्तित्वात्। शारीरे हि किलेदं कार्यारम्भे शरीरसाहाय्यम् ॥३९५॥ यस्माच्छारीरोडसी शरीरसंयोगसाधनी भवति। परमात्मा तु शरीरं विनाऽपि तत्सर्वशक्तिसंपन्नः ॥३९६॥ दर्शयति श्रुतिरेषा परात्मनः सर्वशक्तिसंयोगम्। यस्मात्पराऽस्य शक्तिविविधेति तथैव सर्वकर्मेति ॥ ३९७॥ तस्मादेकस्य यथा सामथ्यं स्यात्तथा परस्यापि। सामथ्यं मवतीति हि न चायमेकान्त इत्यभिप्रायः । ३९८H विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३३ ॥ एतद्चक्षुःश्रोत्रं तथेव चापाणिंपादमित्येषा। अश्रोत्रमवागमना इति श्रुतिर्ह्रकरणं विनिर्दिशति ॥३९९॥

Page 124

प्रथमपाद: १ ] माष्यार्थरत्नमाला। ११९

एवंविधस्य तस्य सषटत्वं स्याद्विरुद्धमिति चेन्न। एतस्य चोत्तरं तु प्रदर्शितं नेह किमपि वक्तव्यम् ॥ ४०० ॥ मायाशक्तिसहायात्परमात्मा सृजति विश्वमखिलमपि। स्वेच्छामात्रात्सकरणमात्मशरीरं मनोज्ञमातनुते ।।४०१ ।। नेन च विहरति भक्तरुपदिशति निजात्मतत्वमखिलमपि। संहरति दनुजवर्ग पालयति च दीनलोकमखिलमपि ।४०२॥। उपसंहृत्य च सकलं के वलरूपेण भाति विश्वात्मा। तस्याकुण्ठितंशक्ते नैवाशक्यं हि विद्यते किमपि ॥ ४०३ ॥ तस्माद्वेदानतारना ब्रह्मणि परमे समन्वयो युक्त:। न प्रयोजनवत्त्वात् ॥ ३२॥ सृष्टिप्रवृत्तिरेषा ननु भवति परात्मनो न युक्ततमा ॥४०४॥ लोके प्रवृत्तिरेषा दृष्टा ह्यात्मप्रयोजनार्थेव। आत्मप्रयोजनार्था परात्मनः स्थाद्यदा प्रवृत्तिरियम् ॥४०५॥ व्याहन्येत तदानीं परितृप्तत्वं परात्मनस्तदिदम। उन्मत्तस्य यथा वा प्रवृत्तिरेवं परोत्मनो भवति ॥४०६ ॥ सर्वज्ञत्वं तस्य श्रुतिनिर्दिष्टं विरुद्धमेव स्थात्। तस्मादन्याय्येयं चेतनसृष्टिः श्रुतिप्रणीताऽपि।। ४०७ ।। इति शङ्कां परिहर्तुं मुनिना रचितं तक्षेत द्धिकरणम्। लोकवत्तु लीलाकैवल्यम्॥ ३३॥ श्रुतिनिर्दिष्टा सेयं सुष्टिः केवलमिहास्य लीलैव ।। ४०८ ॥ लोके च यथा राज्ञ: क्रीडादिषु भवति केवलं लीला। अनपेक्ष्य किंचिदृि वा प्रयोजनं तद्देव चेहापि।। ४०९॥ परमात्मन: प्रवृत्तिर्लीलारूपैव चान्तरेण फलम्। राजादिक्री डास्वपि भवेञ्च किंचित्प्रयोजनं सूक्ष्मम् ॥४१०॥ परमेश्वरस्य सृष्टिक्रियासु नास्ति प्रयोजनं किमपि। यस्मादसौ परात्मा स चाऽडप्काम इति गीयते शास्त्रे॥ ४११ ॥ तस्माच्छतिवचसामिह समन्वये नैव बाधकं किमपि। ननु परमात्मा सोडयं जगतो जन्मादिकारणं न भवेत् ॥४१२ ॥ यस्मादसौ परात्मा विषमां सृष्टिं हि जगति निर्माति। अत्यन्तसुखसमृद्धान्देवान्सृजतीह मर्त्यवर्गमपि।४१३।।

Page 125

१२० सुत्ह्मण्यविरचिता- [ २ द्विंतीयाज्यायस्य-

मध्यमसुखमाजमिमं तथैव चात्यन्तदुःखमाजोऽपि। पश्वादीनपि सृजति हि तेन च वैषम्यमस्य दुर्वारम्॥४१४॥ प्रलयावसरे सर्वप्राणिनिकायं विनाऽपराधेन। संहरतस्तस्यैव तु परमात्मनो निर्घणत्वमनिवार्यम्॥४१५॥ कूरत्वमपि व तस्य हि दुःखविधानात्तथेव दुर्वारम्। रागद्वेषादिकमपि पृथग्जनस्येव तस्य दुर्वारम्॥४१६॥ अपहृतपाप्मनि तस्मिन्स्पृत्वं युक्तमीहशं नु कथम्। तस्मान्न जगत्कारणमात्मा वैषम्यनिर्घृणत्वाभ्याम् ॥४१७॥ इत्याशङ्कां निरसितुमिद्मधिकरणं प्रदर्शितं मुनिना। वैषम्यनैर्घण्ये न सापेक्षत्वा- चथा हि दर्शयति॥३४॥ इति चेन्मैवं यस्मान्न चास्य वैषम्यनिर्धृणत्वे स्तः ॥। ४१८॥ यदि निरपेक्षः सोडयं विषमां सृष्टिं हि निर्मिमीते चेतू। स्यातामेतौ दोषावस्य परात्मा स किंतु सापेक्षः ॥। ४१९॥ प्राणिकृतौ यौ धर्मार्मावेव ह्यपेक्ष्य सृष्टिमिमाम्। रचयति स चायमात्मा कुतोऽस्य वैषम्यनिर्घृणत्वे तु ॥ ४२० ॥ यदङ्गीहीयवादिषु साधारणकारणं च पर्जन्यः । तद्वत्परमात्मा स्यात्साधारणकारणं जगत्स्ष्टा । ४२१॥ तत्तद्वीजान्येव ब्रीह्यादिविशेषकारणानि यथा। तत्तकर्माणि तथा देवादिविशेषकारणानि स्य: ॥।४२२॥। नेशापराधमूला सृष्टि: कर्मापराधमूलैव। 4 यादिनिरासे सापेहि यञ्च क्तम् ॥ ४२३॥ तदिदं सापेक्षत्वं प्रपञ्चयते सपदि सूत्रशेषेण। दर्शयति भ्रुतिरेषा सापेक्षत्वं यदेष एवेति ।। ४२४।। ऊ्ध्व हि नेतुमिच्छति यं च परात्मा तमेनमादो हि। कारयति कर्म साध्विति यं चाधो नेतुमिच्छति ह्यात्मा॥ ४२५॥ कर्म कारयतीत्येषाऽपि प्रदर्शयत्येवम्। नन्विह कारयितृत्वात्फलप्रदातृत्वमस्य निर्दिट्टम् ॥४२६॥ कारयितृत्वे तस्य च सापेक्षत्वं कथं मवेदिति चेतू। जन्मान्तरवासनया कुर्षन्तं कारयत्यसावात्मा ।। ४२७॥

Page 126

मथमपाद: १ ] माष्यार्थरत्नमाला। १२१

तेन च सापेक्षत्वे न बाधकं किमपि शक्कितुं शक्यम्। यदि चाकुर्बन्तमपि ह्यात्मा साध्वादि कर्म कारयति ॥४२८॥ मवति तदाडयं दोष: सापेक्षत्वं च दुर्घटं तस्य। न कर्माविभागदिति चेन्ना- नादित्वात् ॥ ३५। नन्विह सापेक्षत्वं यञ्चोक्तं तञ्ञ दुर्घटं भाति ॥४२९॥ यस्मात्प्रलयावसरे निर्लेपं भवति कर्म सकलमपि। उत्तरकालं सृष्टौ वैषम्यकरस्य कर्मणोऽसत्त्वात्॥ ४३० ॥ सुल्यैवाऽडद्या सृष्टिर्मवेन्न देवादिविषमभावेन। यदि तुल्या सृष्टिरियं तदोत्तरत्रापि तद्वदेव स्यात् ॥४३१ ॥ यदि चेद्विषमा सृष्टिर्वैषम्यादिकमब्राधितं तस्य। इति चेन्नानादित्वात्कर्मण इह नास्ति दोषशङ्काडपि॥ ४३२।। तदनादिकालसंसृतमखिलं कमेति नास्ति दोषोऽयम्। कथमस्य कर्मणः स्यादनादिकालप्रवृत्ततेत्येवम् ॥४३३॥ शङ्कामेतां निरसितुमेतत्सूत्ं प्रदर्शितं मुनिना। उपपद्यते चाप्युपलक्यते च ।। ३६ ॥ संसारस्तन्मूलं कर्मानादीति चोपपसनं हि ॥ ४ ४॥ यद्यादिमानयं स्यात्संसारस्तस्य मूलमपि कर्म। मुक्तानामपि लोकेडस्मिन्पुनरपि संसारबन्धनं न कुतः ॥४३५॥ उपलभ्यते च तदिदं कर्मानादीति मन्त्रवर्णेषु। सूर्याचन्द्रमसाविति मन्न्रो जूते तथैव चान्याऽपि। ४३६॥ प्रथयत्यनेन जीवेनेत्याद्या तेन सकलमनवद्यम्। सपदि परपक्षदूषणमुख्यफलं प्रकरणं प्रवर्तयितुम् ॥४३७॥ सूत्रकृदुपसंहरति प्रकरणमेतत्स्वपक्षसिद्धिफलम् । सर्वरधर्मोपपत्तेश् ॥। ३७॥ चेतनकारणपक्षे कारणधर्माश्र ये च विरुयाता: ॥४३८॥। कारणरूपे ब्रह्मण्युपपद्यन्ते हि सर्वधर्मास्ते। सर्वज्ञता तथा स्याद्विचित्रमायासहायताऽप्येयम्॥ ४३९॥ तहच्च सर्वशक्ति: कारणतामस्य साधयन्त्येव। तस्माद्वेदान्तानां सर्वज्ञे सर्वशक्तिसंपने॥४४॥ १६

Page 127

१२२ सुन्नह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

म्रह्मणि कारणरुपे समन्वयो निरपवाद इति सिद्धम्। शारीरकमीमामा मुनिना व्यासन विरचिता सेयम्। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्याय:।। ४४१॥ तत्र प्रथमे पादे सूत्रार्थो यश्र माष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो मवतु सोऽयमनवद्यः ।। ४४२। इति द्वितीयाध्यायस्य प्रथम: पाद: ॥ १ ॥

अथ द्वितीयपादपारम्म: ।

सांख्यादिस्पृतिवचनैर्विरोधशकका व्युदस्य पूर्वत्र। णि वेदान्तानां समन्वयोऽसी स्थिरीकृतः सूतैः॥१॥ सांरयादिस्मृतिवचसां न्यायामासोपबृंहितत्वेन। स्थिरयितुमप्रामाण्यं द्वितीयपाद: प्रवर्तते सपदि ॥ २ ॥ यद्यपि वेदान्तानामैदपर्यावधारणार्थमिद्म्। शाखत्रं हि केवलामिर्युक्तिभिरेवेह कमपि सिद्धान्तम् ॥ ३॥ साधयितुमप्रवृतं वूषयितुं वाऽपि तर्कशास्त्रमिव। सत्यं तथाऽपि लोके विरूयातानि च महान्ति तम्त्राणि ॥४ ॥ कपिलादिसंमतानि हि महाजनैश्वापि परिगृहीतानि। उपलभ्य जडमतीनां केर्षाचित्स्यादिहापि च श्रद्धा ॥५॥ तत्त्वावधारणाय तु भवन्ति चैतानि साधनानीति। अत इह तदसारत्वं यावसैवोपवर्ण्यते तावत् ॥६॥। वेदान्तवाक्यनिचयैरुत्पन्नं ज्ञानमाकुली भवति। तस्मादसी हि यत्नो युक्त: कपिलादिमतनिरासे स्यात् ॥७॥ अत्र स्वपक्षसाधनमभ्यहितमिति कृतं तदादी च। संभति परपक्षोऽयं निरस्यते हि स्वपक्षदार्ळ्याय॥८।। उद्यधिकरणे प्रागपि सांख्याद्मतननरा्सोयम् । प्रायः कृतो हि पुनरपि तत्र च यत्नो वृथेति चेन्मैवम् ॥ ९॥ एवं पधानवादे श्षतिसाहाय्यं न चास्ति किंचिदिति। निरसितमत्र च पाढे युक्तिसहायो निरस्यते सपदि ॥ १॥ नन्विह कारणधर्मा ब्रह्मण्येवोपपादिता: सर्वे। तविद्मयुक्कं यस्मादिह प्रधानेऽपि संभवन्त्येते । ११।।

Page 128

द्वितीयपाद: २] माष्यार्थरत्नमाला। १२१

घटकरकाादाबकार मृदात्मनाऽन्वीयमानरूपा हि । ते च खलु मृद्टिकारा मृत्सामान्येकपूर्वका दृटा: ॥१२॥ आध्यात्मिका अपीत्थं मेदा: सुखदुःखमोहरुपेण। अन्यीयमानरूपास्तादृशसामान्यपूर्वका एव । १३ ।। सुखदुःखमोहरूपं ह्यचेतनं तत्प्रधानमेव स्यात्। तदिदिं प्रधानमेव ह्यचेतनं भवति जगदुपादानम्॥१४॥ परिमाणादयैलिक्ैरवि जगतः कारणं तदेव स्यात्। इति शङ्कामपनेतुं सुनिना रचितं तवेतद्धिकरणम्॥१५॥ रचनानुपपत्तेश्र नानुमानम् ॥ १॥ नैवामिलषितसिद्धिर्द्ष्टन्तादेव केवलान्भवति। दष्टान्तोऽयं लोके सुलमो मवतीह सर्वपक्षेषु॥ १६॥ यद्चेतनं हि लोके न चेतनेनानधिष्ठितं किमपि। कार्य रचयद्टृष्ट मृहादिकेषु च रथादिषु ह्येवम्। १७॥ लोके सृदादयो वा रथादयो वा कुलालवाहाद्यैः। अनधिष्ठिता घटार्वीन्सचयन्तो जगति नैव वृश्यन्ते ॥ १८॥ चेतनपुरस्कृतैरिह सृद्दावधिहि विरचिता दृषा:। ग्रेहप्रासादाद्या: सुखदुःखप्राप्तिविघटनानलसाः॥१९। जगदेतवृखिविलिमपि किल देवमनुष्याद्यधिष्ठितं भवति। कर्मफलमोगपोग्यं मूम्यपेजोनिलादिपर्याप्तम्॥। २०।। प्रज्ञावद्दि: शिल्पिभिरलोचयितुं हि जातु मनसाडपि। पद्शक्यं तवनचयेत्स्वतन्त्रमेतत्प्रधानमनभिज्ञम् ॥२१॥ सृद्दृष्टान्तैरेष ह्यानुभेयं मूलकारणं जगतः । न तु बाह्यकुम्मकारप्रमुखैरिति नियमकारणं किमपि ।। २२॥ श्रुतिरेषमनुगृहीता चेतनदृष्टान्तसंग्रहे मवति। यस्मात्तदैक्षतेति अतयः कथयन्ति चेतनास्सृ्टिम ॥। २३॥ सर्वज्ञकारणत्बे तदेतदखिलं समख्जसं मवति। यदि चेत्प्धानमेतत्स्वतन्त्रमेवाखिलं जगज्जनयेत् ॥२४॥। स्थूलोपला: स्वतनत्रा: प्रासादादषीन्कत हि न सृजन्ति। इति रचनानुपपत्तेः स्सृतिदष्टमिद न कारणं जगतः ।। २५।। सुखदुःखमोहमावेनान्वयरूपो य एष निर्दिष्टः । हेतुस्तस्यासिद्धिं सूचयति शब्द एष सूत्रस्थः ॥२६।।

Page 129

१२४ सुन्ह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

बाहयाध्मात्मिक मेदेष्विह न हि सुखदुःखमोहरूपतया। अन्वय :हाति लोके यतश् तेषां विरुद्धभावोऽस्ति ॥ २७ ॥ सृगद्गानाषिकमखितं प्रतीयते चान्तरःवधर्मेण। शब्दाइयश्र बाह्या अनन्तरत्वेन जगति भासन्ते ॥। २८॥ शब्डाइयो हि भेदा: सुखादिकानां निमित्तभावेन। हष्टा यतः कर्थं स्यादन्वयहेतुः स चायमुपपन्नः ॥ २९॥ न तु भिन्नरूपयोरयमभिन्नभावो हि दश्यते क्वापि। यश्ाऽडदिशब्डलन्यः सूत्रेऽसी परिमितत्वहेतुरपि॥ ३०॥ संसर्गपूर्वकत्वप्रसाधनायोपदिष्ट इह कार्ये। देशपरिच्छेद्दात्मा भागासिद्धो हि सोऽयमाकाशे॥ ३१॥ कालपरिच्छेदेऽस्मिन्हेतौ स्यात्सिद्धसाधनं दोष: । गोऽयमविद्यागुणयोः संसर्गस्तत्र भवति दोषोऽयम् ॥३२॥ पक्षदयेऽपि सोडयं स कंचिवर्थ हि साधयत्येषः। वस्तुपरिच्छेदातमकमेतह्यदि परिमितत्वमत्रोक्तम् ।३३॥। सश्वरजस्तमसामपि तुल्यं तदतो ह्यसावनेकान्तः । तस्मावसाधकोऽयं यश्चोक्त: परिमितत्वहेतुरपि॥३४॥ लोके हि कार्यकारणविभागबुद्धि: प्रवर्तते यावत्। तावद् चेतनपूर्वकमखिलं कार्यमिति नायमेकान्तः ।। ३५॥। यत्र च विभागवुद्धि: समाप्यते जगति कार्यकारणयोः । तद्चेतनं प्रधानं तत्पूर्वकमेव सकलमधि कार्यम् ॥३६॥ इति सांख्यदर्शितं यल्लक्षणमेतत्परात्मनस्तुल्यम्। तेन व सकलं कार्य चेतनपूर्वकमितीह किं न स्यात् ॥ ३७॥ प्रवृत्तेश्र ॥ २ ॥ अन्रानुपपत्तेरिति पद्मनुवृत्तं हि मवति पूर्वस्मात्। तेनानुपपत्तिरसाविह प्रवृत्तेः प्रदर्शिता भवति ॥३८॥ मियं तु रचना तत्सिन्द्यर्थाऽपि या प्रवृत्ति: स्यात् । सा सत्त्वरजस्तमसां भवति ह्यङ्गाङ्गिरूपतैव किल ॥३९॥ एवं कार्याभिमुखप्रवृतता सेति तां च कथयन्ति। सा च प्रवृत्तिरिह खल्वचेतनस्यैव केवलस्य भुवि ॥ ४० ॥ इट्टा नैत्र सृदादेश्ेतःसंयोगमन्तरा क्वापि। ेवनपुरस्कृतस्य हि सा तु मृददिस्तथा रथादेश्वव॥४१॥

Page 130

द्वितीयपाद्: २ ] माष्यार्थरत्नमाला। १२५

तस्मात्तद्नुपपत्तेः प्रधानमिह नैव जगदुपादानम्। नन्विह चेतनयोगादचेतनस्य च यदा प्रवृत्ति: स्यात् ॥ ४२। सिद्द्वैव सा प्रधाने तदनुपपत्तिश्र नेति चेन्मैवम्। यद्यप्यचेतनेऽस्मिन्मृदादिके सा प्रवृत्तिरुपलब्धा ॥ ४३॥ भवतु तथाऽपि च सा खल्वचेतने भवति चेतनादेव। दृहनप्रकाशरूपा क्रिया च काष्ठादिसंश्रयाऽपि यथा॥४४॥ ज्वलनाधीनैव स्यात्तथैव सा भवति चेतनाधीना। लोकायतिकमतेऽपि हि जीवद्वेहस्य चेतनत्वेन ।। ४५।। अनुमतमिह रथशकटप्रसुतीनां तु प्रवर्तकतवं स्यात्। तस्मादचेतनानां प्रवर्तकत्वं हि चेतने युक्तम् ॥ ४६ ॥ ननु परमात्मा सोडयं चैतन्यैकस्वरूप एवोक्त: । तद्व्यतिरेकेणास्य प्रवर्तकं नोपलभ्यते किमपि॥४७॥ स कथं प्रवर्तकः स्यादिति शङ्काऽप्यत्र नैव कर्तव्या। यस्मात्सर्वज्ञोऽसी परमात्मा सर्वशक्तिसंपन्नः ॥४८॥ सस्य प्रवर्तकत्वे शङकेयं कथमुद्देति मनसि तव। एकोऽसौ परमात्मा प्रवर्तक: कथमितीह नाऽडशङ्क्यम् ॥४९॥ मायोपाधिवशेन हि तदेदखिलं समख्जसं तस्य। तस्मात्परात्मनोऽस्य प्रवर्तकत्वं यदेतद्नवद्यम् ॥ ५०॥ पयोम्बुवच्चेत्तत्रापि ।। ३ ।। नन्घत्राचेतनयोः पयोम्बुनोरपरतन्त्रयोलोके। वृष्टा प्रवृत्तिरेषा तथा प्रधानस्य सा कर्थं न स्यात् ॥५१॥ वत्सविवृद्द्यर्थ किल पथा स्वतः स्यन्दते पयो लोके। लोकानामुपकृतये यथा जलं वा तथा प्रधानमपि ॥५२ ॥ महदाद्याकारेण स्वभावतो नैव परिणमेत कुतः । इति चेन्न येन कथयति चेतनसापेक्षतां हि तत्रापि॥५३॥ योऽप्स्विति मन्त्रो योऽसी तथैव चैतस्य वेति मन्त्रोऽपि। अपि वत्सचोषणं यन्मातु: प्रेमानुबन्धनं यञ्च ॥ ५४ ॥ तदुभयसापेक्षमिदं पयः परिष्यन्दते जलं यञ्ञ। तन्निन्नभूम्यपेक्षं सदा परिष्यन्दृते न चेतरथा ॥५५॥ अत इह दृष्टान्तोऽयं पक्षसमो नैव तद्रहिर्भूतः । तस्मात्पयोम्वुवच्वेत्यनुपन्यसनीयमेतदिह भवति ।५६॥

Page 131

१२६ सुत्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य

व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥।४॥। सत्वं रजस्तमश् त्रयो गुणा यदि समानमावेन। अव्तिष्ठमानरूपा: प्रधानमेतदिति वर्ण्यते सांख्येः । ५७॥। तद्यतिरेकेण तदा प्रवर्तकं न हि निवर्तकं वाडस्ति । तदमावादनपेक्षं ह्यनरेक्षत्वात्प्रवर्तते च कथम् ॥ ५८॥ गुणवेषम्यकृतोऽयं सर्गो वा भवति तस्य तदभाये। तस्मात्वधानवाढ़: प्रतारणार्थो न युक्तिमूल: स्यात् ॥५९॥ अन्यत्राभावाच न तृणादिवत् ॥ ५॥ तृणपल्मवोदकावि क्षीराकृत्या यथा हि परिणमते। तहत्प्रधानमेतन्महदाद्याकारपरिणतं न कुतः ॥ ६० ॥ इति शाङककाऽत्र न युक्ता यतस्तृणाद्यपि मवेन्न निरपेक्षम्। यदि निरपेक्ष ह्येतत्क्षीराकारेण परिणमेत तदा ॥६१॥ अन्यत्र धेनुकायास्तृणाढ़विकं क्षीरता कुतो नेयात्। यदि चेदन्यत्रापि क्षीरी मूयात्तृणादिकं लोके ॥ ६२॥ यञ्ञ प्रहीणमेतद्यञ्ष बलीवर्दचर्वितं वाऽपि। तदृपि क्षीराकृत्या परिणतिमेतां हि नो लमेत कुतः ॥ ६३॥ मानृषसाध्यं किंचिन्भवति च देवादिकृत्यमपि किंचित्। न च निर्निमित्तमेतत्तस्मात्तदिदं हि देवताकृत्यम् ॥६४॥। मर्त्या अषि प्रमूतं क्षीरं लब्धुं प्रभूतघासमिमाम् । धेनुं हि चारयन्त्यपि तस्मात्सकलं हि चेतनायुक्तम ॥ ६५॥

स्वामाबिकी प्रवृत्तिर्न चास्य मवतीति दर्शितं पूर्वमूं। अम्युवगच्छेन वयं भवतः श्रद्धामिहानुरुध्येताम् ॥६६॥ स्वामाविकीं पवृत्तिं तथाऽपि दोषोऽनुयुज्यते सोऽयम्। स्वामाषिकी प्रवृत्ति: सेयं नापेक्षते हि किंचिदिति ॥ ६७॥। तदेयं यथैव नापेक्षते हि सहकारि। एवं नापेक्षेत प्रयोजनमपीति दोष इह मवति ॥ ६८॥ साधवति व पधानं थं समग्रमिति योऽयम्। हषेत सा प्रतिज्ञा न च प्रवृत्तिर्ह हश्यते विफला।६९ ॥ यढ़ि व प्रवृत्तिरस्थ प्रयोजनमपेक्षते हिन ।यमू । क्पृचि प्रयोजनं वा । नैवीपलम्यते पि। ७० ॥

Page 132

द्वितीयपादः २ ]. माष्यार्थरत्नमाला। १२७

भोगो वा स्थादृथ वाऽप्यपवर्गो वाडथ तदुमयं वाडपि। नैवं प्रयोजनं स्याद्यत इह पुरुषो हि निष्कलो भवति॥७१ ॥ विषयककृतसुखविशेषाधाननैवास्य भोग इह वाच्य: । अध्यासमन्तरेण हि स च न हि पुरुषे मवेदयं भोगः । ७२।। अध्यासोऽयं सांख्यैर्नैवाभ्युपगम्यते हि कुत्रापि। तस्मादिह मोगार्था प्रवृत्तिरिति नैव शक्पते वक्तुम् ॥७३ ॥ तस्या मोगार्थत्वेऽ्यविमोक्षापत्तिरत्र दुर्वारा। सा स्थादृपवगर्रित्ययमपि पक्षो न चेह संभवति ॥७४ ।। अपवर्गोडयं पुंसः स्वात्मावस्थानलक्षणो नान्यः । सोडयं हि तत्प्रवृत्तेः प्रागपि सिद्धं प्रयोजनं न भवेत् ॥ ७५॥ अपवर्गार्थत्वे वा शब्दाद्यपलब्धिरतुपपन्ना स्यात्। उभयार्थता यदा स्यादविमोक्षोऽयं हि तत्र दुर्वारः॥७६॥ यस्मादनन्तता स्याद्भोक्तव्यानां प्रधानमात्राणाम्। औत्मुक्यनिरसनार्थं क्रियासु यद्दत्प्रवर्तते लोक: ॥ ७७॥ पुरुषस्य मुक्त्तये हि प्रवर्तते तद्ते(दे)तद्व्यक्तम्। इत्योत्सुक्यनिरासपरयोजनार्था प्रवृत्तिरित्यपि न ॥७८॥ इच्छाविशेष एव ह्यौत्सुक्यं तद्दि चेतनस्यैव। नाचेतनस्य लोके क्वचिदृपि हष्ट तदेतदौत्सुक्यम्॥७९॥

पुरुषस्य चाविमोक्ष: प्रधानवादे हि मवति दुर्वारः । तस्मात्प्रधानवादो न कथंचिदृपीह वटयितुं शक्यः ।।८। ।। पुरुषाश्मवदिति चेत्तथाडपि।। ७॥ लोके यदा हि कश्ित्पुरुषो हक्शक्तिसंयुतो गन्तुम्। शक्तिविहीन: पङ्ठः पुरुषं दृग्शक्तिविच्युतं चान्धम् ॥ ८२।। गतिशक्तिसचिवमपरं वाग्यापारेण तं प्रवर्तयते। एवमयस्कान्तोऽशमा प्रवृत्तिरहितोऽप्ययः प्रवर्तयति ॥८३॥ तद्वद्यं पुरुषोऽपि प्रवर्तयिष्यति परं प्रधानमिदम्। इतिहष्टान्तालम्बातपुनराशङ्का समुत्थिता सेयम् ॥८४ ॥ सा तु न युक्ता यस्माद्हष्टान्तोऽयं हि विषम इह मवति। वागाद्यैः पङ्गुरसावन्धमधिष्ठाय तं नियोजयति ॥ ८५॥

Page 133

१२८ सुत्रह्मण्य विरधिता- [ २ द्वितायाध्यायस्य-

तत्रेदमुचितमेव हि पुरुष उदासीन इह च निर्दिट्टः। सोऽयं निर्ध्यापारः कथं प्रधानं प्रवर्तयितुमर्हः ॥८६॥ एवंविधस्व लोके प्रवर्तकत्वं न हि क्वचिद्ट्टृट्टम् । यदि च प्रवर्तकत्वं तथाविधस्यापि कल्प्यते सांर्यैः ।। ८७।। पुरुषस्यौदासीन्यं स्वातन्त्रयं वा कथं प्रधानस्य। यदि चायस्कान्त इव प्रवर्तते संनिधानमात्रेण ।। ८८।। पुरुष उदासीनेऽपि प्रधानमेतत्तदा मवेदेवम् । संनिधिसातत्येन प्रवृत्तिसातत्यमप्रतीकारम् ॥८९॥। परिमार्जनाद्यपेक्षो ह्यनित्यसंनिधिरसाधयस्कान्तः । तस्माद्दृट्टान्तोऽसी विषमो न प्रकृतनिर्णयार्थः स्थात् ॥ ९० ॥ पुरुष उदासीनोऽसावचेतनं हि प्रधानमिह च तयोः । संबन्धयिता चान्यस्तृतीय इह नोपलभ्यते क्वापि ।। ९१ ॥ इह योग्यतानिमित्तः संबन्धो यदि तयोर्भवेत्ताहै।

पूर्ववदर्थामावो दोषोडयं तुल्य एव चेहापि। चेतनकारणपक्षे सोडयं दोष: पदं न विदधाति ॥ ९३॥ सर्वज्ञे परमात्मनि मायामूलं प्रवर्तकत्वं स्थात्। औदासीन्यं यदिदं स्वतोऽस्य सिद्धं न साधनायत्तम् ॥ ९४।।

यदि सत्वरजस्तमसां समता न गुणप्रधानभाव: स्यात्। सेयं साम्यावस्था प्रधानमिति वर्णयन्ति खलु सांख्याः ॥९५॥ सा कूटस्था नित्या मवति यदा नैव सर्गवार्ता स्यात्। सगों महदादीनां गुणवैषम्ये हि भवति नेतरथा ॥९६॥ कूट स्थानां कथमिह तेपामङ्गाङ्गिभावसंपत्तिः । अङ्गित्वानुपपत्तेरयुक्त एव प्रधानवादोऽयम् ॥ ९७॥ यदि नैते कूटस्था गुणा न नित्यास्तथाऽपि दोषोऽयम्। दुर्वारस्तव पक्षे यतो नियन्ता न चेह कश्वदृपि॥ ९८॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९॥ अनुमीयते तथेदं दोषो न यथा प्रधानवादे स्यात्। एते सत्वादिगृणा वैषम्योपगमयोग्यतापन्नाः ।।९९।।

Page 134

द्वितीयपादः २] माष्यार्थरत्नमाला।

गुणसमतायामपि न हि रचनानुपपत्तिदोषशङ्केह। समतापन्ना अपि ते कार्यवशेन च भजन्ति वैषस्यम्॥१००॥ कार्य यथा यथा स्यात्तथा स्वभावो हि कल्प्यते तेषाम्। चलमिह गुणवृत्तमिति ह्यभ्युपगच्छन्ति कापिला इति चेता१०१। एवमपि दुर्निवारो रचनानुपपत्तिरूपदोष: स्यात्। यस्माज्ज्ञशक्तिविधुरं त्रिगुणमचेतनमिदं प्रधानं स्यात् ॥ १०२। यदि च ज्ञश्ञक्तियुक्तं भवेत्प्रधानं तदा निवृत्तं स्यात्। प्रतिवादित्वमथ स्याच्चेतनकारणसमर्पणं तेन ॥१०३॥ चेतनमेकं जगतो जन्मस्थित्यन्तकारणं ब्रह्म। इति चेतनकारणतावाद: स्यान्न प्रधानवादोऽयम् ॥१०४ ॥ विप्रतिषेधाच्चासमअ्जसम् ॥ १०॥ विप्रतिषेधादृपि खल्वसमन्जसमेव कापिलं तन्त्रम्। विप्रतिषेधश्रायं बहुतर उपलभ्यते हि तन्त्रेऽस्मिन् ॥ १०५ ॥ क्वचिदिन्द्रियाणि सत् क्वचिदेकादश वदन्ति तान्येव। तन्मात्राणां सर्गं महतः क्वचिदिह वदन्त्यहंकारात् ॥ १०६ ॥ क्वचिदन्तःकरणानि त्ीणि तदेकं क्वचिच्च कथयन्ति। इत्यन्योन्यविरोध: प्रसिद्ध एवात्र कापिले तन्त्रे॥ १०७ ॥ चेतनकारणपरया श्रुत्या स्मृत्या प्रसिद्ध एवायम्। इत्यन्योन्यविरोधादसमञ्जसमेव सांख्यतन्त्रमिद्म् ॥१०८॥ नन्वेतदर्शनमपि भवत्ययुक्तं यदौपनिषदानामू। जात्यन्तरभावोऽयं न वर्ण्यते तैर्हि तप्यतापकयोः ॥ १०९॥ ससारी जीवो यः संसारस्तप्यतापकावेतौ। अर्थी चार्थश्र तथाऽनर्थोऽनर्थी च जगति विख्याती ॥ ११०॥ अर्थोऽपि तापक: स्यात्स चार्जनक्केशतोऽप्यलाभेन। तापयति पुरुषमस्मात्तप्य: पुरुषश्र तापकोऽर्थः स्यात् ॥१११। स्वत एवानर्थोडयं तापक इति जगति सुप्रसिद्धो हि। पर्यायेण च ताभ्यां यः संयुज्येत मवति न हि तप्य: ॥११२॥ अभ्युपगता यदा स्यादेकात्मकता समस्तजगतोऽपि। लुप्येत लोकसिद्धो मेदो योऽसौ हि तप्यतापकयोः ॥११३॥ न हि लोकसुप्रसिद्धं बाधयितुं जगति केनचिर यम्। यद्यर्थिन: स्वतोऽन्यो न स्यादर्थस्तदेदसर्धित्वम्॥११४।

Page 135

१३० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

कस्मिन्खलु विषये स्याद्यतोऽयमात्मा स्वरूप एवार्थ: । अभ्यर्थना हि त्वैक्ये न च सिद्धे जगति कस्यचिद्द्ृष्टा ॥ ११५॥ अर्थित्वस्यासिद्धौ नैवार्थत्वं च कस्यचिद्भवति। नन्वेकात्मकयोरप्यन्योन्यं जगति हश्यते भेढ: ॥११६ ॥ एकाग्न्यात्मकयोरवि दृष्टो ह्यौष्ण्यप्रकाशयोर्भेद: । एकत्रह्मात्मकयोरनयोर्भेदृस्तथेति चेन्मैवम् ॥११७॥ एवमपि दर्शनेऽस्मिन्भवति च दोषो न दोषनिस्तारः। आष्ण्यप्रकाशनाभ्यामविमोक्षोऽग्रेर्यथा हि लोकेऽस्मिन् ॥११८॥ इह तप्पतापकाभ्यामविमोक्षस्तद्वदस्य दुर्वारः। धर्मापाये ननु किल यद्वस्थानं हि धर्मिणो मोक्षः ॥११९ ॥ फनतरङ्गनापाये जगति जलस्य स्वरूपमात्रेण। समवस्थानं दृष्ट यथा तथैवेह स भवतीत्यपि न ॥ १२०॥ आविर्भावतिरोभावाभ्यामनपायिनो हि फेनादयाः। तैरिह विमोक्षवार्ता सतो जलस्यातिदुर्लभा दृष्ा ॥ १२१॥ दार्शान्तिके कथं वा तद्दष्टान्तेन दोषपरिहारः। भिन्नात्मकतायामिह न दोषशङ्काऽस्ति तप्यतापकयोः ॥१२२॥ ताभ्यां भवति विमोक्षस्तत्संयोगैकहेतुपरिहारात्। इत्यभ्यधिकां शङ्कां निरसितुमत्राऽडधीयते तदिदम् ॥१२३ ॥ सर्वस्यैकात्मकता विशुद्धविज्ञानविलसिता हि यदा। सा परमार्थदशेय तद्वस्थायां न तप्यतापकता ॥१२४ ॥ औष्ण्यस्थः परमात्माऽव्यनावृतैकात्म्यभावमुपयातः । प्रविलीनेऽपि द्वैते स च कं तापयति तप्यते च कथम् ॥१२५ ॥ तस्माच्च तव्यतापकभावानुपपत्तिरत्र न हि दोष: । दृटश्र तप्यतापकभावो व्यवहारसमय एवासौ ॥१२६ ॥ यत्र यथा दृष्टः स्यात्स च खलु तस्यैव धर्मतामेति। क्व पुनरिह तप्यतापकभावः स्यादिति तु नैवमाशङ्ूयम् ॥१२७॥ जीवद्ेहस्तप्प: सविताSसौ तापकः प्रसिद्धो हि। नन्विह तप्तिर्दुःखंसा चेतयितुर्न चास्य देहस्य ॥१२८॥ इति चेद्यदसौ दोषो भवति तवैवायमप्रतीकारः । सत्यपि देहे केवलचेतयितुर्भवति नैव तततिरसौ ॥ १२९॥

Page 136

द्वितीयपादः २ ] माष्यार्थरत्नमाला। १३१

चेतयितुरेव सा चेदशुद्धतादिप्रसक्तिरनिवार्या। न च देहचेतयित्रोः संहतमावो निरुप्यते सांख्यैः ॥१३०॥ न च तप्तेस्तप्तिः स्यादृतस्तवैष दुर्निवार: स्यात्। सत्वं तप्यं हि रजस्तापकमिति नैव वक्तुमिह शक्यम् ॥१३१॥ ताभ्यां कथमस्पृष्टे चेतयितरि तप्यतापकात्मकता। प्रतिबिम्बितत्वयोगात्तप्यत इव चेतनोऽयमित्यपि न ॥१३२॥ तदिह परमार्थतोऽसी न तप्यत इति प्रपश्चितं भवता। नैवेवकारयोगादृतथाभूतस्तथाविधो भवति ॥१३३ ॥ सर्प इवमोडसावित्युक्त्या निर्विषो न सविषः स्यात्। इति यथोक्तधर्मानुपपत्तिरसौ तवैव दुर्वारा ॥१३४॥। आविद्यको हि तस्मादपारमार्थिक इतीह वक्तव्यम्। मवता तदिदं तुल्यं ममापि पक्षे न दूषणं किमपि ॥ १३५ ॥ सिद्धान्तभङ्गभीत्याऽहिष्वेते तप्यतापके नित्ये। स्वस्वामिभावरूपः संयोगश्राविवेकसंवलितः ॥ १३६ ॥। भवति यदा तत्सचिवं ह्यदर्शनाख्यं तमस्तदा पुंसः। संसारबन्धनं स्पात्तस्य विरामो यदा विषेकेन ॥ १३७॥ अपवर्गस्तस्य स्यादित्युक्तावपि न दोषनिस्तारः । यस्माददर्शनाख्यं तमो हि नित्यं प्रधानवादेस्मिन् ॥ १३८॥ नित्यत्वेऽपि च तमसो यतो गुणाश्रोन्भ्वाभिभवयोगात्। अनियतवृत्तास्तस्मात्तत्संयोगोऽयमनियतो भवति ॥१३९ ॥ तेन विशिष्टा(ट्टो) परमे युक्तस्तस्यापवर्ग इत्यपि न। यद्यनियत एवायं संयोग: स्यात्तथा वियोगोऽपि॥ १४० ।। अनियत एव स्थादित्यपवर्गकथाऽतिदुर्लभा भवतः। तस्मादसंगतोऽयं प्रधानवादो निराकृतो भवति ॥१४१ ॥ नन्विह चेतनकारणबादोऽप्ययमनुपपन्न एष स्यात्। यस्माच्चेतनकारणवादेऽपि हि दोष एष दुर्वारः॥१४२॥ सुखदुःखमोहरूपः प्रधानधर्मः स दृश्यते जगति। इति किल पूर्व जगतः कारणमेतन्न हीति निर्दिष्टम् ॥१४३॥ तद्वदिहापि च वादे दूषणमेतद्धि तुल्यमामाति। तन्त्वादिकारणस्थं गुणजातं शुककनीलपीतादि ॥ १४४ ।।

Page 137

१३२ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

समजातीयगुणान्तरजनकं हट पटादिके कार्ये। यदि चेञ्चेतनमेव हि जगतो जन्मादिकारणं भवति॥१४५॥ कारणगतचैतन्यं चैतन्यान्तरमिहार्जयेन्न कुतः । कार्यं यज्जगर्दातद्चेतनमेव दृश्यते लोके ॥ १४६॥ तस्मात्कथमिह जगतो जन्मस्थित्यन्तकारणं ब्रह्म । इत्याशङ्कां निरसितुमिद्मधिकरणं कृतं मुनीन्द्रेण । १४७॥ महद्दीर्घवद्दा ह्स्वपरिमण्डलाभ्याम्॥११॥ कारणगतगुणजातं यद्यत्कार्ये समानजातीयम्। आरमते किल तत्तद्गुणान्तरमिति ह नैष नियमोडस्ति ॥१४८॥ काणसुजे किल समये सोडयं सृष्टिप्रकार उपदिष्ः। परमाणवः किलामी पूर्वमनुत्पन्नकार्यसंरमभाः ॥ १४९॥ पश्चादृदृष्टसचिवास्ते खलु संयोगसहकृता: सन्तः । व्द्यणुकादिकं हि सकलं ब्रह्माण्डान्तं जगत्सृजन्तीति ॥१५०॥ शुक्का दिगुणविशेषा: परमाणगुणाणाहेतुके द्यणुके।

परमाणुगुणविशेष: परिमाणं यञ्च पारिमाण्डल्यम्। तत्किल समजातीयं द्यणुके नैवाऽSरमेत परिमाणम् ॥१५२॥ परिमाणे चाणुत्वह्नस्वत्वे द्यणुकवृत्तिनी भवतः । द्वे ह्यणुके संवलिते चतुरणुकं यदाऽपि जनयन्ति ॥१५३॥। कगतं परिमाणं न ञयणुकादी सरूपमारभते। कगते चाणुत्वह्नस्वत्वे वर्णयन्ति परिमाणे ॥१५४H कयणुके चतुरणुके वा महत्त्वदीर्घत्वसंज्ञके मवतः। कारणगुणतायां किल तुल्यायां चात्र मवति वैषम्यम् ॥१५५॥ शुक्कादिगुणविशेषा: परमाणुगता: समानजातीयान्। कादिकार्यजाते शुककादीनारभन्त एवान्यान् ॥१५६॥ नैवाSडरमते किंचित्परमाणगतं हि पारिमाण्डल्यम्। इति किल काणादनये वैषम्यं भवति तद्दत्रापि॥१५७॥ चेतनकारणवादेऽप्युपपन्नं भवति सकलमेवेदम्। कारणसमाश्रितं किल चैतन्यं जगति नाम वर्तेत ॥१५८॥। अस्तित्वलक्षणोऽसी कारणधर्मस्तु वर्तते कार्ये। इति साधुपपत्तौ तदिदं कथमन्र दूषणं भवति॥१५९॥

Page 138

द्वितीयपादः २] माष्यार्थरत्नमाला। १३३

अथ तत्र युक्तमेतत्परिमाणेन च विरोधिनाऽडक्रान्तम्। द्यणुकादिकार्यजातं तेनाजनकं हि पारिमाण्डल्यम् ॥ १६०॥ चेतनकारणपक्षे जगदेतच्चेतनाविरु्वेन। नैवाSSक्रान्तं हषट तेन कुतो नाऽडरभेत चैतन्यम् ॥ १६१॥ कार्ये चैतन्यान्तरमिति शङ्का दुर्धरेयमिति चेन्न । कारणगतमपि चतन्न यथाऽऽरभते हि पारिमाण्डल्यम् ॥ १६२॥ तद्वच्चैतन्यमपीत्ययमंशो भवति तुल्य उभयत्र। न हि सवाशे साम्यं दष्टान्ते क्वापि दृश्यते लोके ॥ १६३ ।। किंच विरोधाक्रान्तं कार्य परिमाणजननतः पश्चात्। प्राक्परिमाणारम्भात्परिमण्डलताऽडरभेत तन्न कुतः ॥ १६४ ॥ परिमाणान्तरजनने परिमण्डलतेयमन्यथा सिद्धा। यस्मात्परिमाणान्तरसुपदिष्टं ह्यन्यहेतुकं सुनिना ॥ १६५। कारणबहुत्वमपि वा तथैव कारणमहत्त्वमपि वा स्यात्। प्रचयविशेषोऽप्यथ वा कार्यमहत्त्वैकसाधनं नान्यत् ॥ १६६।। त्रितयायत्तं च महत्त्वं तद्विपरीतं ह्यणुत्वमिह भवति। दीर्घत्वह्वस्वत्वे तत्सहचरिते तथाविधे भवतः ॥१६७ ॥ इति यत्सूत्रितमेतत्कणाद्मुनिना च तदृपि निर्मूलम्। कारणबहुतादौ वा परमाणुगते च पारिमाण्डल्ये ।। १६८।। कारणगुणतासाम्ये महत्त्वहेतुर्बहुत्वमेवेति। विनिगमनायां बीजं वर्णयितुं नेह शक्यते किमपि ॥१६९ ॥ द्रव्यगुणान्तरयोर्यों ह्यारम्म: कारणस्थगुणजाते। स्वाश्रयसमवायेन तु गुणान्तशरम्भकत्वमविशिषमू ॥ १७० ॥ तस्मात्स्वतोऽन्र वाच्या नाऽडरम्भकता हि पारिमाण्डल्ये। ततनताया अपीति नैवेह दोषशङ्का स्यात् ॥ १७१॥ कारणसमवेतो यो विशेषगुण एव कार्यजाते हि। स्वसजातीयगुणान्तरमापाद्यतीति नायमेकान्तः ।।१७२ ।। चित्रपटरूपकारणतन्तुगते शुक्लनीलपीतादौ।

संयोगादृपि लोके कार्यद्रव्यं विलक्षणं दृष्टम्। एवमुदाहरणानि प्रथितान्येव हि विलक्षणारम्भे ॥ १७४॥

Page 139

१३४ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

तस्माच्चेतनमेंकं जगतो जन्मादिकारणं नान्यत् । तत्र च कणादृदर्शिततर्कविरोधः पदं न विद्धाति॥ १७५ ।। नन्वीश्वरानधिछ्ठितमिद प्रधानं न कारणं जगतः । इत्यादियुक्तिजालै: प्रधानवादो हि निरसित: पूर्वम् ॥१७६ ॥ इह च परमाणुवादे न तथा दोषावकाशलेशोडस्ति। यस्मादीशसहाया अणवोऽत भवन्ति जगदुपादानम् ॥१७७॥ इति खलु परमाणूनां कारणतापक्षमखिलमुन्मूल्य। काणादानां समयं निरसितुमधिकरणमेतदाह मुनि:।१७८। उभ्यथाऽपि न कर्मातस्तदभावः ॥ १२ ॥ स ह्यणुकारणवादः प्रपश्चितश्वैवमंत्र काणादैः। लोके पटादिकार्यं सावयवं सकलमेव यद्दृष्टम् ॥ १७९॥ संयोगकृतसहायैः स्वानुगतैरवयवैस्तवारब्धम्। तत्सामान्याद्यदिवं क्षितिजलतेजोनिलाख्यमखिलमपि ॥१८० ॥ स्वानुगतैश्रानेकैरारब्धं ह्यवयवैः ससंयोगैः । अवयव्यवयवभावः सोऽयं यस्मान्निवर्तते स॥।१८१।। अपकर्षावधिभूत: परमाण: स घ चतुर्विधो मवति। सकलमपि कार्यजातं ह्याद्यन्तवदेव दृश्यते लोके॥ १८२ ॥ कारणविधुर चैतत्काय न क्वापि दृश्यते जगति। अत इह जगतः कारणमणवो हीति प्रदर्शितं मुनिना ॥१८३॥ तेषामपकर्षावधिभूतानां न परतो विभाग: स्यात्। अण्वन्तो हि विभागो भूम्यादीनां विनश्यतां भवति ॥१८४ ॥ नैव विभागावस्थाप्लयः सकलस्य भूतवर्गस्य। तत इह सृषट्यारम्भे वायुपराणाष्वदृष्टसापेक्षम् ॥ १८५॥ कर्मोत्पन्नमणुं तं स्वाश्रयमण्वन्तरेण योजयति। भवति ततो द्यणुकादिक्रमेण वायुः प्रजायते स्थूलः ॥ १८६॥ एवमयमग्गिरापः पृथिवी च शरीरमिन्द्रियं सकलम्। भवति हि परमाणुभ्यस्तदूपाद्द्यणुकरूपमपि चैवम् ॥ १८७॥ तन्तुपटन्यायेनेत्यभिमन्यन्ते हिते च काणादाः। तत्पक्षं निरसितुमिह तदेतदभिधीयते हि सूत्रकृता॥१८८॥। तत्र विभागदशायां परमाणूनां हि कर्मसापेक्षः। संयोग: स्याल्लोके कर्मवतां दृश्यते हि संयोग: ॥१८९ ॥

Page 140

द्वितीयपाद: २] माष्यार्थरत्नमाला। १३५ कर्म च कार्य यस्मात्तस्य निमित्तं हि किमपि वक्तव्यम्। यदि च निमित्तं न स्यात्परमाणुषु कर्म चाऽडद्यमपि न स्यात् ॥ यत्नो वाऽप्यभिघातो निमित्तसुपगम्यते यथाद्टृष्टम्। तस्येहानुपलम्भात्परमाणुषु नोपपद्यते कर्म ॥ १९१॥ तस्यां चावस्थायां देहवियोगात्कथं भवेद्यत: । देहप्रतिष्ठितेऽस्मिन्मनसि यदा चाऽडत्मना मनोयोगः ॥ १९२॥। आत्मगुणो यत्नोडसी जायेत तदा न चान्यथा भवति। अभिघाताद्यपि दृष प्रत्याख्यातं निमित्तमिह भवति ॥१९३ ॥ सर्गोत्तरकालं स्यात्कर्म निभित्तं तदेतदृखिलमपि। अथ यद्यदृष्टमेव हि निमित्तमिह यस्य कर्मणो बूषे ॥ १९४॥ आत्मनि समवेतं स्यादट्टृष्टमथ वाऽणुमात्रसमवेतम्। इदमुमयथाऽपि नाणुष कर्म निमित्तं ह्यचेतनं यस्मात् ॥१९५॥ यच्चेतनानधिष्ठितमचेतनं तत्कथं प्रवर्तयति। आत्मा तद्वस्थायामचेतनोऽजातचेतनत्वेन ॥ १९६ ॥। अभ्युपगतभेतत्खल्व दृष्टमप्यात्ममात्रसमवायि। तेनासंबन्धे कथमणुषु भवेत्कर्मणो निमित्तं तत् । १९७।। यदि चादृष््वता किल संबन्धोऽयं हि कर्ममूलः स्यात्। संबन्धसततभावात्प्रवृत्तिसातत्यमपरिहार्थ स्यात् ॥१९८॥ तस्मात्कर्म निमित्तं नियतं नैवोपलभ्यते यस्मात् । कर्मनिबन्धन इह किल संयोगो नाणुषूपजायेत ॥ १९९॥ संयोगस्याजनने सर्गो वा तन्निबन्धनश्र कथम्। अण्वन्तरेण चाणोः संयोग: स्याद्यदैकदेशेन ॥ २००॥ सावयवत्वापत्या ह्यनित्यता तेषु दुर्निवारैव। सवांशेन यदा स्यात्प्रथिमानुपपत्तिरपरिहार्यैव ॥ २०१ ।। कल्पितदेशेन स चेत्संयोग: कथमकल्पितो भवति। तस्यापि कल्पितत्वे द्यणकादेर्वास्तिवस्य कार्यस्य ॥ २०२ ॥ संयोगोऽसावण्वोर्भवेदसमवायिकारणं हि कथम्। सर्गादावणुषु यथा संयोगार्थ न संभवेत्कर्म ॥ २०३॥ एवं प्रलयावसरे कर्म विभागार्थमनुपपन्नं हि। कर्मनिमित्ताभावो योऽसौ तत्रापि तुल्य एव स्यात् ॥२०४॥

Page 141

१३६ सुब्ह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

यच्चादृष्ट तद्पि च भोगार्थं नैव भवति विलयार्थम्। तस्माद्णुकारणता सुसमर्था नेह भवति युक्ततमा ॥ २०५ ॥ समवायाभयुपगमाच्च साम्या- दनवस्थितेः ॥ १३ ॥ अण्वोः समवैतीदं द्यणुकमणुभ्यां हि भिन्नमत्यन्तम्। समवायलक्षणेन हि संबन्धेनेति कणभुगभिमान: ॥। २०६।। द्यणुकमणुभ्यां भिन्नं समवायमपेक्षते हि संबन्धम्। स्वावस्थितये चाण्वोः समवायोऽपि च तथैव किं न स्यात्॥२०७।। द्यणुकस्यैवास्यापि हि समवायस्यापि मेदसाम्येन। यदि समवायोऽप्येवं संबन्धान्तरमपेक्षते तर्हिं॥ २०८॥ तत्संबन्धोऽप्येवं संबन्धान्तरमपेक्षते न कुतः । एवं सत्यनवस्था तदत्र पक्षे हि मवति दुर्वारा॥ २०९॥ समवायः संबन्ध: संबन्धान्तरमपेक्षते न यदि। संयोगश्च तथैव हि नापेक्षेतापरं हि समवायम् ॥ २१० ॥ संयोगो हि गुणत्वात्संबन्धमपेक्षते न समवायः । इति च मनोरथमात्रं तुल्यमपेक्षानिमित्तमुभयत्र ॥ २११॥ तस्मादनयस्थेयं समवायाभ्युपगमे हि दुर्वारा। सत्यामनवस्थायामेकासिद्धावसिद्धमिह सकलम् ॥ २१२। झ्मणुकमणुभ्यां दाम्यां नैवोत्पद्येत चाप्रमाणत्वात्।

नित्यमेव च भावात् ॥१४ ॥ अणवः प्रवृत्तिभावा निवृत्तिभावाः किमुभयथामावाः। अनुभयभावा वा स्युर्नैव चतुर्धोपपद्यते चायम् ॥ २१४॥ नित्यप्रवृत्तिभावात्प्रलयाभावः प्रवृत्तिभावत्वे। नित्यनिवृत्तेर्भावात्सर्गाभावो निवृत्तिभावत्वे ॥ २१५॥। उभयस्वभावतेयं लोके नैवोपपद्यते क्वापि। अनुभयभावत्वेऽपि प्रवृत्तिभावे निवृत्तिभावे वा ॥ २१६ ॥ अङ्गीक्रियमाणेऽपि हि निमित्तवशतस्तथाऽपि दोषः स्यात्। तत्र यदाऽदृष्ट स्यान्निमित्तमेतस्य नित्यसांनिध्यात् ॥ २१७।। नित्यं प्रवृत्तिरेव स्यादथ तस्याप्यतन्त्रतायां स्यातू। नित्याप्रवृत्तिरेव स्यादिति दूषणमशक्यपरिहारम् ॥ २१८॥

Page 142

द्विती यपादः २ ] साष्यार्थरत्नमाला। १३७

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । १५ ।। रूपादिमञ्च सकलं पठादि दृष हि जगति साबयवम्। स्थूलमनित्यं च तथा स्वकारणापेक्षया हि तद्दटृष्टम् ॥ २१९॥ तन्तूनपेक्ष्य चायं पटस्तथा तन्तवो निजावयवान्। इति खलु सकलं दृष्टं तथैव परमाणवोऽपि किन स्यु: ॥२२०॥ रूपादिम्त्वहेतु: परमाणुष्वपि यतोऽविशिष्टः स्यात् । परमाणूनां हि तदा नित्यत्वविपर्ययः प्रसज्येत ॥ २२१॥ नित्यत्ववादिनस्तव परमाणूनामनित्यताऽनुचिता। तस्मादणुवादोडयं न कथंचिदपीह घटयितुं शक्य: ।। २२२।। सद्कारणवन्नित्यं स्विति यन्नित्वत्वकारणं कथितम्। तद्पि चपरमाणूनां कारणवत्वास्निराकृतं मवति ॥ २२३ ॥ नित्यत्वप्रतिषेधो लोके प्रतियोगिनियतसाकाङ्क:। नित्यत्वाकाङक्षी सन्स एव परमाणुनित्यताकाङ्क्षी ॥ २२४॥ तस्मादृणवो नित्या इत्यपि नैवाणुनित्यतामानम्। नित्ये यस्मिन्कस्मिन्नसत्यनित्यमिति नञन्समासोऽयम्॥ २२६॥ न हि मवतीति हि सत्यं न तावतैवाणुनित्यतासिद्धिः। नित्यं ब्रह्माऽडलम्ब्यैवेह समासोऽपि सोऽयमुपपन्नः॥२२६॥ नित्यत्वे कारणमिह यदविद्येति च तृतीयमिह कथितम्। सा चाविदा हि यदुा प्रत्यक्षेणेह कारणाग्रहणम् ॥ २२७॥ द्यणकादिनित्यताऽपि स्यादिह दूषणमशक्यपरिहारम्। यदि च विशिष्येतासमवेतद्रव्यात्मकत्वयोगेन ।। २२८।। पूर्वेणैव गतार्थ खविह पुनरुक्तं निरर्थकं तत्स्यात्। पूर्वत्राभिहितं स्यात्कारणवत्वेन दूषणं तदिह ॥ २२९॥ कारणनाशात्कारणविभागतोऽन्यस्य नाशकस्येह। योऽयमभावोऽविद्या सेवाणूनां हि नित्यतागमकम् ॥२३०॥ इति न विनश्यदस्तु द्वाभ्यामेव हि यदा विवश्येत। भवति तदेयमविद्या परमाणूनां हि नित्यतागमकम् ॥२३१॥ संयोगसचिवमेवानेक मिहाऽडरम्भकं यदि द्रव्यम् । भवति तदैवं हि यदा सामान्यमपास्तभेदमिह जनकम् ॥२३२।।

Page 143

१३८ सुबह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

वृतकठिनतादिलयवन्मूर्तावस्थादिविलयनेनापि । २३३ ॥ कार्यविनाशोत्पत्तेरुक्ताविद्यादिवर्णनं हि वृथा। तस्मात्सावयवानामवयवशोऽपि हि विमज्यमानानाम्॥ २३४॥ यत्र च परो विभागो न भवति खलु ते चतुर्विधा ह्यणवः। रूपादिमन्त एते नित्याश्राऽडरम्भका हि भूतानाम् ॥ २३५॥ इति वैशेषिकपक्षो भवति निरालम्बनी वृथैवायम्। रूपादिमत्त्वयोगादणृत्वनित्यत्ववैपरीत्येन ।। २३६ ।। उभयथा च दोषात् ॥ १६ ॥ गन्धरसरूपसहितस्पर्शी स्थूलेयमवनिरिह दषा। रसरूपस्पर्शगुणा: सूक्ष्मा आपस्तथैव तेजोऽपि ॥ २३७॥ रूपस्पर्शगुणं तत्सूक्ष्मतरं मवति वायुरेष तथा। स्पर्शगुणः सूक्ष्मतमो मूतान्येतानि सन्ति चत्वारि २३८॥ उपचितगुणमेदेन हि तरतममावेन जगति लक्ष्यन्ते। उपचितगुणादिभेद्ात्तरतममावोऽयमणुषु कल्पेत ।। २३९।। उपचितगुणतायां स्यात्तेषा मूर्त्युपचयोऽपि दुर्वारः। मूर्त्युपचये ह्यणूनामनणुत्वापत्तिरत्र दुर्वारा॥ २४०॥ यत्र गुणोपचयः स्यान्मूर्तेरप्युपचयोऽपि तत्र स्यात्। कार्यात्मकेषु भूतेष्वेवं हष्ट यतो हि सर्वत्र ॥ २४१ ॥ यद्येतदोषमयान्नोपचितादिगुणत्वमिह न स्यात्। सर्वे चैकेकगुणाश्रतुर्गुणाश्रापि सर्व एव स्युः ॥ २४२ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥१७॥ सत्कार्यतावलम्बान्मन्वाद्यैरपि च परिगृहीतत्वात्। साधुः प्रधानवादः स करथंचित्स्यान्न चाणवादोऽयम् ॥ २४३॥ नासौ शिष्टगृहीतः केनाप्यंशेन तेन चैतस्मिन्। अनपेक्षा कर्तव्या श्रेयस्कामेन चाऽडदर: कार्यः ॥ २४४॥ किंच द्रव्यगुणादीन्वडपि पदार्थान्परस्परं भिन्नान्। अभिधाय पुनरिहैव त्विदृमपरं कल्पयन्ति काणादाः ॥२४५॥ गुणकर्मादीनां हि व्रृव्याधीनत्वमिति तु कथयन्ति । तच्चायक्तं ह्येते यदि भिन्ना न हि परस्पराधीना: ॥।२४६-।।

Page 144

द्वितीयपादः २] माष्यार्थरत्नमाला। १३९

न हि शशकाशपलाशा भिन्ना: सन्तः परस्पराधीनाः। द्रव्यगुणादीनामिह भिन्नत्वं वा न युज्यते यस्मात् ॥२४७॥ तादात्म्यभेव तेषां परस्परं हिप्रतीयते लोके। द्रव्यगुणादीनां न ह्यश्वद्विपयोरिवास्ति भेदमतिः ॥ २४८॥ नन्विह चक्षुर्ग्राह्यं रूपं स्पर्शस्त्वगिन्द्रियग्राह्यः। उभयग्राह्यश्च घटः कथमिह तादात्म्यमेतयोरिति चेतु ॥२४९ ।। सत्यपि तादात्म्ये किल भेदमतिर्बाह्यरूपसापेक्षा। एक: पुमान्हि लोके पिता च पुत्रस्तथैव जामाता ॥ २५० ॥ श्वशुरः शालक इत्यपि भेदमतिभाग्यथैव भवति तथा। ग्राहकभेढ़ापेक्षा मेदमतिः स्यात्स्वरूपसापेक्षम् । २५१॥ तादात्म्यं चेत्युमयं ह्यमेदृपक्षेपि बाधकं न भवेत् । तस्माङव्यगुणानां दव्याधीनत्वमपि च भिन्नत्वम् ॥ २५२।। नापि प्रमाणगम्यं नैव हि युक्त्येकसाधनं भवति। ननु गुणकर्मादीनां द्रव्याधीनत्वमत्र युक्तं हि॥ २५३ ॥ द्रव्यगुणौ तु विभिन्नौ तथाऽपि तावयुतसिद्रूपौ यत्। द्रव्याधीनत्वं तद्गुणादिकानां सुयुक्तमेव स्यात् ॥२५४ ॥। शशकुशकाशादीनां नायुतसिद्धत्वमस्ति कुत्रापि। तेन न तेषामेषां परस्पराधीनतेति चेन्मैवमू ॥२५५। अपृथग्देशन्वं वा ह्यपृथक्कालत्वमपृथगात्मत्वम्। तच्चायुतसिद्धत्वं वाच्यं तदिदं त्रिधाऽपि नो सवति ॥२५६॥ अपृथग्देशत्वं हि द्रव्यगुणानां कथंचिदृपि नं स्यात् । रूपादि हि पटदेशं पटस्तु तन्तुप्रदेश एवं यतः ॥ २५७ ॥। अपृथक्वालत्वं चेत्तदृपि विरुद्धं भवेन्दवत्पक्षे। उत्पन्नेषु पटादिषु पश्रादुत्वद्यते हि रूपादि ॥ २५८॥ मीहशयोस्तत्स्यादपृथक्कालत्वमयुतसिद्धत्वम्। धेनुविषाणकयोरपि तत्स्याद्यच्चेदमयुतसिद्धत्वम् ॥२५९॥ यच्चापृथगात्मत्वं तत्स्वाभ्युपगमविरुद्धमेव स्यात्। न ह्यवयवसंयोगादेव च कार्यं प्रजायते लोके ॥ २६०। संयोगमन्तरायाद्दधिहिमकरकादि दश्यते लोके। तस्माद्णुवादोऽयं शेयस्कामैरुपेक्षणीयः स्यात् ॥२६१॥

Page 145

१४० सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य- वैशेषिकसमये किल देहोऽयं चाऽडशुतरविनाशी स्यात्। घरिमाणान्तरजननात्तद्धर्मवैनाशिकं (?) हि कथयन्ति ॥ २६२ ॥ तत्पक्षनिरसनान्ते सकलो वैनाशिकोऽपि बुद्धिस्थः । इति खलु तत्पक्षोऽयं निरस्यते सपदि सूत्रकारेण ॥ २६३॥ समुदाय उभयहेतुकेऽपि तदभापतिः ॥१८॥ स च खलु बहुप्रकारो बुद्धिविभेदाद्विनेयभेदाद्वा। तत्र त्रय एते स्युः केचित्सर्वास्तितां तु कथयन्ति ॥ २६४॥ कथयन्ति केचिदत्र तु विज्ञानास्तित्वमात्रमेव किल। अस्य तु वर्णयन्ति हि यदिदं सकलं च शून्यमेवेति॥२६५॥ ये सर्वास्तित्वपरा बाह्यं मूतं च मौतिकं चापि। चित्तं चैत्तं चान्तरमम्युपमच्छन्ति तान्निराचष्टे।॥ २६६।। [स्कम्धापाहेतुको यः] समुदाय उमयहेतुकेऽपि तदप्राप्तिः। पृथिवीजलतेजोनिलचतुष्टयं भूतमिति तु कथयन्ति॥२६७॥ भौतिकमिह रुपादिकमपि चक्षुष्पमुखमिन्द्रियं चेति। भूतं मौतिकमेतत्सकलं ह्यणवोडत्र संहता एव ॥ २६८॥ चित्तं चैतं च तथा रूपं विज्ञानवेदने चैवम्। संज्ञा: संस्काराख्या: पञ्च स्कन्धाश्र संहता एक ॥२६९।। तत्रेदमनुपपन्नं यञ्चोभयहेतुकश्र समुदायः । अणुहेतुकश्र योऽसी यश्र स्कन्धैकहेतुको वाडपि॥ २७० अङ्गीकृतेऽपि तस्मिन्समुदायापास्तिरत्र दुर्वारा। यस्मावृणवः स्कन्धा अचेतना एव केवलं ते स्यु: ॥२७१॥ यदि संहता न मोक्ता कश्िविच्चेतन इहोपपन्न: स्यात्। भवति तदा संघातः सचेतनस्तव न चास्ति संहन्ता ॥ २७२॥ तस्मादुमयविधोऽसी संघातो नोपपद्यते योऽयम्॥२७३॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् । १९ ॥ इह सौगतीयसमये या चाविद्याऽथ यश्च संस्कार:। विज्ञानं नाम तथा रूपं यदिदं षडायतनमपि च ।। २७४ ।। स्पर्शोडपि वेदनेयं तृष्णापादानसंजञिके च तथा। यच्च मवो जातिरियं जरा परिवेदना च मरणं च॥ २७५।।

Page 146

द्वितीयपादः २ ] माष्यार्थरत्नमाला। १४१

दुःखं च दुर्मनस्तेत्येवंरुपाणि सुप्रसिद्धानि। तानीह चेतनेतरजनकानि यतो भवन्ति चैतस्य ॥ २७६ ॥ संघातस्य निमित्तं तान्येव स्युरिति नैवमाशङ्रक्यम्। संघातमनवलम्व्य ह्यात्मानं ये च नोपगच्छन्ति ॥ २७७॥ ें चाविद्यादय इह संघातनिमित्ततां कथं यान्ति। संघातसिध्द्यनन्तरमिह चाविद्यादिसंततिः प्रभवेत् ॥ २७८ ॥ चित्ताभिज्वलनमिदं न तु संघातस्य कारणं भवति। संघाते सिद्धे सति चित्ताभिज्वलनमेतदुद्भवति ॥२७९॥ आशयसंज्ञं चाऽडलयविज्ञानं नो निमित्तमस्य स्यात्.। समुदायेभ्यो ह्यस्य त्वस्य त्वा(?)नन्यतादिदुर्बोधम् ॥२८० ॥ तस्मात्परमाणूनामचेतनत्वाद्वि चेतनस्येह। संघातु(हन्तु)रप्यमावात्संघातः कथमिहोपपद्येत ।।२८१।। संघातस्याभावे कथं नु तन्मूललोकयात्रा स्थात। संघात एव केषलमिह संघातस्य कारणं यदि तु॥ २८२ ॥ पूर्वस्मात्संघातात्संघातान्तरमपूर्वमिह यत्स्यात्। तत्किं सद्टशं वा स्यादसहशमथ वापि विसदृशं वा स्यात्॥२८३॥ यदि सद्ृशं नियमेन स्याच्च तदा मर्त्यपुट्गलस्येह। कर्मविपाकवशाविहि न स्याद्ेवासुरादितनुयोगैः ॥२८४।। विसहशमसद्टशमथ वा यदि संघातान्तरं प्रजायेत। स च मनुजपुद्गलोऽसी क्षणेन हस्त्यश्वजन्म किं न लभेत्॥२८५॥ अपि यद्भोगार्थोडसौ संघातस्तेन न स्थिरो भोक्ता । भोगो भोगार्थः स्यान्मोक्षो मोक्षार्थ एव यदि चैवम्॥ २८६॥ यद्यन्य: प्रार्थयिता भूयान्ोगापवर्गसमयेऽपि। तद्वस्थानापत्या क्षणभङ्गकथा सुदूरतोऽपास्ता ॥ २८७॥। उत्तरोत्पादे च पूर्वनिरोधात् ॥ २०॥ उक्तमविद्यादीनां परस्परोत्पत्तिमात्रहेतुत्वम्। नैतावताऽपि सोऽयं संघातः सिध्यतीति चाप्युक्तम् ॥ २८८।। अत्राविद्यादीनां संप्रत्युत्पत्तिमात्रहेतुत्वम्। न कथंचन संभवर्तीत्येतत्प्रतिपाद्यतेऽत्र निपुणतरम् ॥ २८९॥ भङ्गवादिना खल्वेवं निर्दिश्यते च सर्वत्र। उत्तरवस्तूत्पादे निरुध्यते पूर्वमखिलमेवेति ॥ २९० ॥

Page 147

१४२ सुत्रह्मण्यविरचिता- [२ द्विती माध्यायस्य -

अभ्युपगच्छन्नेवं पूर्वोत्तरयाहै हेतुफलभावम् । वैनाशिक: कथंचन न समर्थयितुं हि शक्नुयात्तमिमम् ॥२९१॥ योऽयमभावग्रस्तो यश्च निरुद्धो निरुध्यमानो यः । स च क्रथमुत्तरहेतुर्दग्धमृदादिर्घटादिकस्येव ॥ २९२ ।। अथ मावभूत एव हि परिनिष्पन्नक्षणोऽस्ति यः पूर्वः । स भवत्युत्तरहेतुस्तन्न न पूर्वोक्तदोष इति चेन्न ।। २९३॥ भवति तथाऽपि च दोषो यह्युत्तरकार्यहेतुतासिद्ध्यै। व्यापारः पुनरन्यः परिनिष्पन्नस्य भावभूतस्य ॥ २९४॥ क्षणभङ्गवाद्हानिं क्षणान्तरस्थायिताप्रसङ्गेन। अथ माव एव चास्य व्यापारः स्यात्तथाऽपि दोष: स्यात्॥।२९५॥ हेतुस्वभावशून्यात्फलस्य चोत्पत्त्यसंभवो यस्मात। हेतुस्वभावयोगे फलकालस्थायिताप्रसङ्गेन ॥ २९६॥ क्षणम मङ्ग: पूर्वोक्तो दुर्निवार एवात्र। हेतुस्वभावयोगं विना विफलहेतुताऽस्य कल्पेत ॥ २९७॥ 'तरैव हि कार्यापत्येहातिप्रसङ्ग एव स्यात्। अपि चोत्पादनिरोधी किंवा वस्तुस्वरूपमथ वा किम् ॥२९८॥ तद्वस्थान्तरमथ वा वस्त्वन्तरमिति तु नैव संभवति। वस्तुस्वरूपता चेद्दस्त्वन्तर्माव एतयोर्भवति ॥ २९९ ॥ तेनानाित्वं चानन्तत्वं वस्तुनोऽन् दुर्वारम्। आद्यन्तावस्थे यद्यत्वादनिरोधसंज्ञिके भवतः ॥३०० ॥ आद्यन्तमध्यवर तिक्षणत्रयस्थायिताऽस्य दुर्वारा। यदि चोत्पादनिरोधौ व्यतिरिक्तावेव वस्तुनो भवतः ॥ ३०१ ॥ ताभ्यामस्पृष्टत्वाद्वस्तुन एवास्य शाश्वतत्वं स्यात् । यदि चादर्शनवर्शनरूपी स्यातां न वस्तुधर्मो तौ ॥ ३०२॥ द्रष्टगतौ किल ताभ्यामस्पृष्टं वस्तु शाश्वतं न कुतः । त्सीगतमेतन्मतमग्राह्यं न युक्तमिह यस्मात्॥ ३०३।। ति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥ हेतावसति यदि स्यातप्रतिज्ञोपरोध एव स्यात्। विषयः करणं यत्स्यात्सहकारी यश्र भवति संस्कारः ॥ ३०४ ॥। एते चतुर्विधा: किल हेतव एतान्प्रतीत्य जायन्ते। ते चित्तचैत्तसंज्ञा इति प्रतिज्ञा हि बाधिता भवति॥३०५ ॥

Page 148

द्वितीयपाद: २ ] भाष्यार्थरत्नमाला। १४३

अथ यदि फलपर्यन्तं पूर्वं वस्तु प्रतीक्षते कालम्। संस्कारा: सर्वेऽपि क्षणिका इत्यस्य मङ्ग एव स्यात् ॥ ३०६॥ प्रतिसंख्या प्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२॥। अपि यञ्च बुद्धिबोध्यं त्रयाद्यदन्यच्च संस्कृतं क्षणिकम्। वैनाशिका इतीह क्षणिकत्वं कल्पयन्ति भावानाम्॥ ३०७ ॥ प्रतिसंख्याप्रतिसंख्यानिरोधसंज्ञा च यदृपि चाऽडकाशम्। त्रयमिद्मवस्तुभूतं निरुपाख्यमभावमात्रमेवेति ॥ ३०८॥ प्रतिसंख्याख्यनिरोषो मावाना बुद्धिपूर्वको नाशः । तद्विपरीतश्वान्यो ह्यावरणामावमात्रमाकाशम्॥ ३०९।। संस्कृतमुत्पन्नं स्थात्प्रमेयमेवेह वुद्धिबोध्यं स्यात्। सपदि निरोधद्वितयं प्रत्याचष्टे हि सूतरकारोऽयम् ॥३१०॥ प्रतिसंख्याप्रतिसंख्यानिरोधयोनेह संभवो घटते। संतानगोचरौ वा स्यातामथ भावगोचरी वा तौ ॥ ३११॥ संतानेषु च सर्वेष्वथापि संतानिनामविच्छेदात्। फलहेतुमावयोगे कथमिह संतानविच्युतिर्मवति॥ ३१२॥ अथ च निरोधावेती तथैव न हि मावगोचरी मवतः । न हि मावानां लोके निरन्वयो वा तथैव निरुपाख्यः ॥३१३ ॥ क्वापि विनाशो यस्मादन्वय्यवियोगमेव लोकोडयम्। प्रत्यभिजानात्यत इह भावानां न हि निरन्वयो नाश: ॥ ३१४॥ तस्मात्सर्वावस्थास्वप्यन्वयिना कदा विच्छेदात्। परपरिकल्पितमेतन्निरोधयुग्मं न चोपपद्येत ।। ३१५ H उभयथाऽपि च दोषात् ॥ २३ ॥ योऽयमविद्यादीना परपरिकल्पितनिरोध इह भवति। स च किं सम्यग्ज्ञानादथ वाऽन्वयमेव वेति वक्तव्यम॥३१६॥ निर्हेतुकनाशस्याभ्युपगमहानिस्त्विहाऽडद्यकल्पे स्यात्। मार्गोपदेशयत्नानर्थक्यं चोत्तरत्र दुर्वारम्॥ ३१७॥ आकाशे चाविशेषात् ॥ २४॥ प्रतिसंख्यादिनिरोधद्वयेऽपि निरुपाख्यता निरस्तैव। संप्रत्याकाशस्यापि हि निरुपाख्यत्वं निरस्यते भूय: ॥३१८॥

Page 149

१४४ सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

आत्मन आकाश इति श्रुतिवचनादस्य वस्तुतासिद्धौ। आवरणामावतया निरुपाख्यत्वं न युक्तमेवास्य ॥ ३१९॥ अपि चाऽडवरणाभावो यैद्याकाशस्तथा हि दोष: स्यात्। एकस्मिन्हि सुपर्णे पतति सुपर्णान्तरस्य चोत्पित्सोः ॥ ३२० ॥ आवरणस्य च भावात्तस्याऽडकाशत्वमनुपपन्नं स्यात्। अपि चाऽडवरणामावो यद्याकाशस्तथा हि सुगतस्य ।। ३२१॥ वायुश्र वियत्संश्रय इति वाक्यं वै मवेदनुपपन्नम्। अपि च निरोघद्दयमिद्माकाशं च त्रयं हि निरुपाख्यम् ॥३२२॥ नित्यमवस्त्विति चैतद्विप्रतिषि्धं हि सकलमप्येतत्। यदि धर्मधर्मिमावस्तदा हि वस्तुत्वमेव तस्य स्यात् ॥ ३२३॥ अनुस्मृतेश्रव ॥ २५ ॥ अभ्युपगच्छन्यदसौ क्षणिकत्वं सर्ववस्तुनी जगति। उपलब्धुरषि किलायं क्षणिकत्वं किं तथैव नोपेयात् ॥३२४॥ इह चानुस्मृतियोगादुपलब्धिरितश्र नैव संभवति। अनुभवमुपलब्धिमनूत्पन्नं स्मरणं ह्यनुस्मृतिर्मवति ॥३२५॥ अन्योपलब्धिविषये ह्यन्यस्यानुस्सृतेरहष्टत्वात्। एकोपलब्धृकैव हि सा स्यान्नहि भिन्नकर्तृका भवति ॥ ३२६ ॥ अहमिद्मद्राक्षमिदं स्मरामि चेत्येवमनुभवो लोके। अद्राक्षीदिदमन्यः स्मराम्यहं त्विति तु कस्यचिद्वाडपि॥ ३२७ ॥ नैवानुभवो हष्टो यदस्य वैनाशिकस्य चाप्येवम्। यद्युपलब्धिस्पृत्योरेकः कर्ता भवेत्तदा न स्यात् ॥ ३२८॥। क्षणभङ्गवादसिद्धिर्यस्मादेकः क्षणद्यानुगतः । उपलब्धिस्मृत्योरिह नैकः कर्ता न चापि विषयैक्यम्॥ ३२९॥ यस्मात्सेयमभिज्ञा साहश्यादेव केवलादिति चेत् । तेनेदं सद्कशमिति द्वितयायत्तं हि मवति साहृश्यम् ॥ ३३०॥ इह सद्कशयोर्द्वयोरपि ग्रहीतुरेकस्य दुर्लभत्वेन। सादृश्यभूलमेतत्प्रतिसंधानमिति दुष्प्रलापः स्यात् ॥३२१॥ साद्ृश्यग्राह्येक: पूर्वोत्तरयोरयथा भवेद्धि तदा। समयद्दयसंबन्धादेकस्य क्षणिकता कथं घटते ॥ ३३२॥ तेनेदं सहशं स्यादित्येतत्प्रत्ययान्तरं भवति। भिन्नपदार्थग्रहणान्न पूर्वपरबोधमूलमिति चेन्न ॥ ३३३॥

Page 150

द्वितीयपाद: २] माष्यार्थरत्नमाला। १४५

भिन्नपदार्थग्रहणाद्भवेदिदं प्रत्ययान्तरं हि यदि। तेनेदं सद्ठशमिति प्रयोग इह नैत्र संभवेक्किंतु ॥३३४ ॥ सादृश्यमात्रगोचर एव स्यात्प्रत्ययो हि न तदन्यः । नैवं हि दृश्यते सा प्रतिसंधानं न चापि सादृश्यात् ॥३३५॥ बाह्ये वस्तुनि लोके तद्वा तत्सदश़मेव वेत्येवम्। स्यात्संदेहः क्वापि हि न चोपलब्धिर्भवेत्ससंदेहा ॥ ३३६॥ नासतोऽदृष्टत्वात् ॥ २६ ॥ स्थिरमनुयायि च कारणमिह यदि वैनाशिकास्तु न सहन्ते। भवति तदैवमभावाद्भावस्योत्पत्तिरिति तु फलितं हि॥ ३३७ ॥ नैवाभावाद्भाव: क्वचिद्प्युत्पद्यमान इह दृष्टः । यदि चाभावाद्भावः कारणसंपत्तिरनुपयुक्ता स्यात् ॥ ३३८॥ नानुपसृद्य प्रादुर्भावादिति ये हि वर्णयनत्यत्र। तत्र ह्युपमृदितानां बीजादीनां हि योऽप्यमावः स्यात् ॥३३९॥ तस्य च शशशृङ्गस्य च निरात्मकत्वेन निर्विशेषत्वात्। क्षीरादेव दृधि स्याद्बीजादेवाङ्कुरश्र भवतीति ॥३४० ॥ कारणविशेषविषयो निर्बन्धोऽसी वृथैव तेषां स्यात्। यदि निर्विशेष एवामावो भावस्य कारणं चेतस्यात। ३४१॥ कथमङ्कुरादिकार्य नैवोत्पद्येत शशविषाणाछयैः। यदि चाभावस्यापि विशेषस्तदा स भाव: स्यात् ॥ ३४२॥ यदि चाभावस्यैव हि मावोत्पत्यैकहेतुता ताहैं। कार्यं सकलमभावान्वितमेव स्यान्न दृश्यते चैवम्॥३४३॥ सकलं कार्य यत्स्यान्मृदादिमावान्वितं हि तद्द्ृष्टम्। तस्माच्च शशविषाणाद्सतः सत्कार्थजन्मनोडदृटे:॥।३४४॥ असतश्र कारणत्वाभ्युपगम एवायमनुपपन्नः स्यात्। तस्मादसंगतो यद्ैनाशिकसमय एष न ग्राह्य: ।।३४५।। उदासीनानामपि चैवं सिद्धिः ॥ २७ ।। यदि चाभावादेव हि मावस्योत्पत्तिरत्र कल्व्येत। एवमुदासीनानामप्यभिमतसिद्धिरत्र किं न स्यात् ॥ ३४६ ॥ सर्वत्राभावः किल सुलभो यस्मात्कृषीवलस्यापि। अककृतकृषिकर्मणः स्याद्यतमानस्येव सस्यनिष्पातिः ॥ ३४७॥ 95

Page 151

१४६ सुब्ह्मण्य विरचिता- [२ द्वितीयाध्यायस्य-

स्वर्गापवर्गयोर्वा नैव हि कश्चिज्जनः समीहेत। तस्मात्सोऽयमभावाद्भावोत्पादाऽयमत्र न हि युक्तः । ३४८॥। नाभाव उपलब्धः ॥ २८ ॥ इह खलु बाह्यार्थकथामाशित्योन्भ्भावितेषु दोषेषु। विज्ञानमान्नवादी बौद्ध इदानीं हि पूर्वपक्षयति॥३४९॥

विज्ञानवाद एव हि सुगताभिमतो न चेतर: कश्चित् ॥ ३५० ॥ तास्मिन्वुध्य्यारूढे चान्तस्थो मानमेयफलभेदैः । तद्ूपेण किलायं व्यवहारश्वोपपद्यते सकलः ॥३५१॥ सत्यपि बाह्यार्थेऽस्मिन्बुध्य्यारोहं विनैव कस्यापि। व्यवहारो न हि द्ृष्टो यस्मादन्तस्थ एव सकलोऽयम् ॥ ३५२ ॥ जात्याद्यस्तथैव ह्यन्तस्था एव नातिरिक्ता: स्युः । ज्ञानगतं हि विशेषं बिना विशेषो न बाह्यबुद्धीनाम् ॥३५३॥। विषयाकार: सकलो ज्ञानेनैवावरुध्यते यस्मात्। नैव हि बाह्यार्थः स्यादपार्थिका बाह्यकल्पना सकला ॥ ३५४॥ अपि किल सहोपलम्भाद्विषयज्ञप्त्योरभेद एव स्यात्। एकस्यानुपलम्भे न ह्यन्यस्योपलब्धिरिह हषा ॥३५५॥ बाह्यार्थमन्तरेण स्वप्नादिप्रत्यया यथा लोके। जागरितगोचरा अपि रसादिमतयस्तथैव किं न स्युः ॥३५६॥ स्याह्ासनाविशेषात्मत्ययवैचित्रयमसति चाप्यर्थे। संसारे चानादौ बीजाङ्कुरवच्च वासनानां च॥ ३५७॥ ज्ञानानामन्योन्यं न प्रतिषिध्येत हेतुफलभावः । बाह्यार्थस्यामावाद्युक्तो विज्ञानवाद इति चेन्न ॥ ३५८॥ न हि बाह्यस्याभावोऽध्यवसायितुमत्र शक्य: स्यात्। बाह्योऽर्थोडयं सकलो यस्मादुपलभ्यते हि सर्वत्र ॥ ३५९॥ उपलभ्यमानमर्थं प्रतिषेद्धुं नैव शक्नुयात्कोऽपि। सुञ्जानो भुजिसाध्यां तृप्तिं ह्यनुभूयमान एवेह॥ ३६०॥ नाहं भुख नैव हि तृप्यामीति च वदेत्कथं प्राज्ञ: । स्वयमुपलभमानोऽसाविन्द्रियसंबद्धमर्थमिह बाह्यम्॥३६१॥ नैवाहमुपलभे न च सोडस्तीति वदेत्कथं जनो भान्यः । ननु नोपलमे बाह्यं त्विति नैवाहं ववीमि किं तत्र ॥३६२॥

Page 152

द्वितीयपाद: २] माष्यार्थरत्नमाला।

उपलब्धिव्यतिरिक्तं नोपलमे किमपि बाह्यमिति चेन्न। उपलब्धिविषयभावाद्वाह्यार्थेषु प्रतीयमानेषु ॥३६३॥ उषलब्धिव्यतिरेके प्रतीयमानेऽपि कथमियं शङ्का। सवैरपि प्रमाणैर्बा्यिार्थे चोपलभ्यमानेऽपि॥ ३६४ ॥ व्यतिरेकादिवि पैः स न संभवतीति कथमिहोच्येत। न ज्ञानविषययोरिह सारूप्याद्विषयबाधनं भवांे ॥३६५॥ असति च विषये तेन हि सारूप्यं कथमिहोपपद्येत। नैव च सहोपलम्भादर्थज्ञप्त्योरभेद आशङ्क्यः ॥ ३६६।। सोऽयमुपायोपेयात्मकतायोगेन भेदमूल: स्यात्। तस्मादर्थज्ञप्त्योर्भेदोऽसी सप्रमाण आस्थेय: ॥ ३६७।। विज्ञानयोई्वयोरप्युपहतयोरात्मवेदनेनैव। इत रेतरयोर्ग्राह्यग्राहकमावोऽयमनुपपन्नः स्यात् ॥३६८॥। विज्ञानभेदविषया क्षणिकत्वाद्यर्थगोचराऽपि तथा। या च स्वलक्षणार्था तथैव सामान्यलक्षणार्था च ॥३६९॥ या वास्यवासकत्वाविद्योपपुवपरा तथ्ैवेयम्। सद्सद्धर्मार्था या या किल बन्धापवर्गविषयाऽपि॥ ३७० ॥ सकला अपि प्रतिज्ञा हीयेरन्या: स्वशास्त्रविहितास्ताः। विज्ञानमभ्युपेत्य हि नैवाभ्युपगम्यते कुतो बाह्याः ॥ ३७१॥ अनुभूयते यथा वा विज्ञानं तद्ददेव बाह्योऽर्थः । स्वयमनुभूयत एव हि विज्ञानं स्वप्रकाशरूपर्वात्॥ ३७२ ॥ न तथा बाह्योरऽर्थोऽसाविति चेदात्मनि विरुद्धमेतत्स्यात्। स्वात्मव्यतिरिक्त्ेन हि विज्ञानेनानुभूयते योऽसौ ॥ ३७३ ॥ अविरुद्धमतं बाह्यं नेच्छसि पाण्डित्यमद्दुतं तदिदम्। स्वव्यतिरिक्तग्राह्यं विज्ञानं यदि तदाऽनवस्था स्थात् ॥ ३७४॥ इति नैवाऽडशङ्क्यं यदिदं विज्ञानसाक्षिभास्यं हि। इह साक्षिप्रत्यययोरुपलब्धुपलभ्यभावेन ॥ ३७५॥ वैलक्षण्यं हृष्ट प्रत्याख्यातुं न शक्नुयात्कोऽपि। किंच यदि भासकान्तरनिरपेक्षमिदं विभाति विज्ञानम्॥३७६।। तर्ह्यप्रमाणगम्यं विज्ञानमिति प्रदर्शितं हि भवेत्। चक्षुष्पसाधने खल्ववगन्तरि सति यथा भ्दीपादैः॥३७७।

Page 153

१४८ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

प्रथनं हष्टं तदूद्विज्ञानस्यापि साक्षिमास्यत्वम्। इह साक्षिणोऽवगन्तु: स्वयंग्रसिद्धत्वमिच्छता भवता ॥३७८॥ विज्ञानवाद एव ह्ययमाश्रित इति न संभ्रमः कार्यः । विज्ञानस्योत्पत्तिध्वंसादिकमाश्रितं यतो भवता ॥ ३७९ ॥ व्यतिरिक्तग्राह्यत्वं विज्ञानस्य प्रसाधितं हि ततः । वैधर्म्याच्च न स्वमादिवत् ॥२९ ॥ बाह्यार्थमन्तरेण स्वप्नादिप्रत्यया यथा लोके ॥ ३८० ॥ जागरितिगोचरा अपि विनैव चार्थ भवेयुरिति चेन्न। यत्स्वप्नजागरितयोरवैधम्यं हश्यते हि लोकेऽस्मिन् ॥ ३८१॥ स्वप्रोपलब्धमखिलं प्रबोधसमये न हश्यते लोके। एवं मायादिष्वपि यथायर्थं बाध्यते हि वस्त्वखिलम् ॥ ३८२ ॥ जागरितगोचर्र यहेहप्रासादशयनभूम्यादि । न हि बाध्यते कदाचित्तस्माद्वैधम्यमेतयोर्भवति ॥३८३॥ वैधर्म्ये सति च तयोर्विनाऽपि चार्थ यथा भवेत्स्वम्ः। एवं जाग्रत्पत्यय इत्यालापो बृथा प्रलाप: स्यात् ॥ ३८४॥ प्रत्यक्षे वैध्म्ये साधम्यं कथमिहोपवर्ण्येत। न भवोऽनुपलब्धेः ॥ ३० ॥ बाह्यार्थमन्तरेणाप्युपपद्येतैव वासनाबलतः ।। ३८५।। ज्ञानणतं वैषित्र्यं सकलं यच्चेति नेह शङ्का स्यात्। यस्माच्च वासनानामपि भावो नोपपद्यते हि तव ॥ ३८६ ॥। अर्थोपलब्धियोगान्नानारूपा हि वासना लोके। तेष्वनुपलम्यमानेष्वपि किंमूलास्तु वासना: स्युरिह ॥ ३८७॥ यदि पूर्ववासनातः पुनरन्यद्वासनान्तरं मवति। अन्धपरम्परया किल तदाऽनवस्था हि दुर्निवारा स्यात्॥ ३८८॥ उपलब्धिमन्तरेण हि न वासना क्वापि जायते लोके। अपि वासनां विनैव ह्युप्लब्धिद्ृश्यते हि सर्वत्र ॥ ३८९॥ तस्मादर्थनिमित्ता ह्युपलब्धिरिति ह्यवश्यमिह वाच्यम्। क्षणिकत्वाच् ॥ ३१॥ आलयविज्ञानं यत्कल्पित मिह वासनाथ्रयत्वेन ॥ ३९०।।

Page 154

द्वितीयपादः २ ] माष्यार्थरत्नमाला। १४९

तदपि क्षणिकत्वेन हि न वासनानामिहाऽडश्रयो मवति। कूटस्थे कालत्रयसंबन्धिनि सकलद्शिनि ह्वसति ॥३९१ ॥ न हि वासनानिमित्तपरतिसंधानादिलक्षणं कार्यम्। यदि च स्थिरस्वरूपं ह्यालयविज्ञानभभिमत भवतः ॥३९२॥ सिद्धान्तहानिरपरो दोषोऽयं दुर्निवार एव तव। बाह्यार्थवाद्पक्षे क्षणिकत्वनिबन्धनानि यानि स्युः ॥३९३॥ तानीह दूषणानि प्रतिसंधानैकभाजनान्येव। बाह्यार्थवादृपक्षस्तथैव विज्ञानवादपक्षश्र ॥ ३९४॥ तावेतौ वैनाशिकपक्षी द्वावपि निराकृतौ भवतः । सर्वप्रमाणविप्रतिषिद्धोऽयं शून्यवादिपक्ष: स्थात् ॥३९५॥ तस्य निराकरणे खल्वतो निमित्तादनादर: क्रियते। सर्वथाऽनुपपत्तेश्र ।। ३२॥। वैनाशिकसमयोडयं यथा यथा वा परीक्ष्यते हि तथा ॥ ३९६॥ सिकतारूपवदेव हि विदीर्यते नोपपद्यते सोडयम्। बाह्यार्थवाद्पक्षं तथैव विज्ञानवाद्पक्षमपि ॥३९७॥। शून्यार्थवादपक्षं ह्युपदिशतैव त्रयं च सुगतेन। स्पष्टीकृतं हि केवलमनृतासंबद्धविप्रलापित्वम् ॥३९८॥ तस्मात्सागतसमयः शेयस्कामैरुपेक्षणीय: स्यात्। भ्रममूलकेन सौगतसिद्धान्तेनेह भवति कदाचिदृपि॥ ३९९॥ वेदान्तसारभूते सिद्धान्ते न हि विरोधशङ्का स्यात्। इति मुक्तकच्छसमये निराकृते भवति मुक्तवसनानाम् ॥४०० ॥ मतमिह बुध्द्यारूढं तस्मात्तदिदं निरस्यते सपदि। नैकस्मिन्नसंभवात् ॥ ३३। विवसनसिद्धान्तोऽयं प्रमाणमूलो यतश्र तेनेह ॥४०१॥ वैदिकसिद्धान्तेऽस्मिंस्तेन विरोधो हि दुर्निवार इति। तत्पूर्वपक्षफलमभिसंधायैतन्मतं प्रदर्शयति ॥४०२॥ इह मोक्तुमोग्यरूपी जीवाजीवौ विवक्षिती तत्र। विषयेषु चेन्द्रियाणां प्रवृत्तिरास्रव इहोपदिष्टः स्यात् ॥४०३।। तां संवृणोति योऽसौ यमनियमादि: स संवरो भवति। तप्तशिलारोहादिर्जरयति मलमिति स निर्जरो मवति॥४०४॥

Page 155

१५० सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

बन्धः प्रसिद्ध एव हि मोक्षः सततोर्ध्वगमनमेव स्यात्। इति किल सप्त पदार्थास्तेष्वपरमिमं प्रपञ्चयन्त्येते ॥ ४०५॥ जीवास्तिकाय एक: पदार्थ इह पुद्गलास्तिकायक्ष । धर्मास्तिकायसंज्ञोऽप्येवमधर्मास्तिकाय आकाशः ॥४०६॥ इति सर्वेषामेषां बहुप्रभेदान्हि कल्पयन्त्येते। इह सप्तमङ्गिनयमिति कमपि न्यायं हि वर्णयन्त्येते॥ ४००॥ स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्त्यथाऽप्यवक्तव्य:। स्याद्स्त्यवाच्य एव स्यान्नास्ति न वाच्य एव मवति तथा॥४०८।। स्यादस्ति च नास्ति तथा न वाच्य इति सप्तधा हि कथयन्ति। विवसनपरिकल्पितमिह यदेतदखिलं विरुद्धमेव स्यात् ॥४०९ ॥ न ह्येकस्मिन्धर्मिणि सद्सद्र्मत्वकल्पना युक्ता । इति चेदेवंरुपाः सप्त पदार्थाः प्रपशच्िता भवता ॥४१०॥ ते किं तथैव वा स्युः किंवाऽप्यतथेत्यनिश्चितं ज्ञानम्। संशयवदप्रमाणं समुपदिशेत्कथमिहैष तीर्थकरः ॥ ४११ H इह च निरङ्कशमेव हि यदिदमनैकान्त्यमखिलवस्तुषु च। प्रतिजानानस्थेदं निर्धारणमपि कथं प्रमाणं स्यात् ॥ ४१२॥ एवं निर्धारयितृप्रभृतेरस्तित्वनास्तिताद्यखिलम्। स कथं प्रमाणभूतस्तीर्थकरो ह्येवमुपदिशेच्छिष्यान्॥४१३॥ उपदिष्ट्मेतमर्थं चुद्ध्वाऽप्येते कथं प्रवर्तेरन्। ऐकान्तिकतायामिह निर्णीतायां तदातुकृल्येन ।। ४१४॥ तत्साधनादिकृत्ये प्रवर्तभानोऽत दश्यते लोक:। तस्मादनिश्चितार्थं शास्त्रं प्रणयन्नपीह तीर्थकरः ॥४१५॥ मत्तोन्मत्तवदेव ह्ययमनुपादेयवचन एव स्यात्। पञ्चास्तिकायसंज्ञा थे निर्दिष्टा हि तेष्वपि ह्येवम् ॥ ४१६ ॥ पञ्चत्वमस्ति किं वा नास्तीत्येवं न शक्यते बोद्धुम। तेन न्यूना संख्या स्याद्धिका वा न पश्चसंख्यैव।। ४१७। वक्तव्यत्वं तदृपि च तेषां कथं नु संभवा। यदि चावक्तव्यास्ते नैवोच्येरेंस्तथा न दृश्यन्ते ॥४१८॥ तन्निर्धारणफलमर्प्या।ैरन शक्यते बोद्धुम्। िवर्गयोरपि पक्षे मावस्तथैव चाभावः ॥ ४१९.॥

Page 156

द्रेतीयपाद: २] भाष्यार्थरत्नमाला। १५१

इत्यनवधारणारयां तत्र च लोक: कथं प्रवर्तेत। जीवप्रभृतीनां वा स्वसमयनिश्चितनिजात्मभावानाम् ।।४२०।।

यदिदमणुभ्यः पुढ्ठलसंज्ञेभ्य: केवलं हि संघाताः।४२१। पमवन्तीति तदेतत्पूर्वत्रैव तु निराकृतं भवति। एवं चाऽडत्माकात्स्न्यम् ॥ ३४ ॥ किं चाऽर्डर्हता हि जीवं शरीरपरिमाणमेव कथयन्ति ॥४२२॥ सोऽयमसर्वगतः सन्नकृत्सन आत्मा मवेत्परिच्छिन्नः । स्याञ्चेदेवमनित्यो घटावित्स्यादसौ हि शारीस: ॥४२३॥ मानुषजीवो वाडयं मनुष्यतनुमात्रपरिमितो भूत्ा। केनापि कर्मणाडयं स एव हस्त्यादिजन्म लभमान: ।। ४९४।। हस्त्पादिविपुलदेहं कृत्सं विन्देत कथमसी जीवः। हस्तिशरीरो भूत्वा सूक्ष्मशरीरं स एष लभमान: ।।४२५ !। सूक्ष्मशरीरे तस्मिन्नहि संमीयेत कृत्स एवासौ। यदि चानन्तावयवो जीवः स्यात्तस्य सूक्ष्मतनुयोगे ॥ ४२६॥ केचिच्च संकुचेयुर्महति च विकसेयुरवयवा इति चेत्। ये चानन्तावयवा जीवस्योक्ता हि ते च सर्वेऽपि।। ४२७।। जीवाधिष्ठितदेशे प्रतिहन्यन्ते न वेति वक्तव्यम्। यदि चेत्पतिहन्यन्ते संमीयन्ते कथं शरीरेडल्पे।। ४२८॥ अप्रतिघाते तेषां तस्यैकावयवदेशताप्राप्त्या। इतरावयधानां स्थात्प्रथिमानुपपत्तिरत्र दुर्वारा॥ ४२९॥ एवं सति जीवस्य ह्यणुमात्रत्वप्रसङ्ग एव स्वात्। न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५॥ उपगच्छन्ति ह केचित्पर्यायेण च बृहत्तनुपात्ौ ॥४३०॥ के चित्सूक्ष्मशरीरे ह्यपगच्छन्तीति नेद्मपि युक्तम्। पर्यायेणावयवोषगमापगमादियोगतोऽप्यस्य ।४३१॥ न च देहपरिमितत्वं नित्यत्वं चास्य शक्यते वक्तुम। येनावयवोपगमापगमाभ्यां विक्रियादिमत्त्वेन ।। ४३२ ।। जीवस्यानित्यत्वप्रसक्तिर त्रेयमपरिहार्यव। जीवस्यानित्यत्वे तस्य च मोगापवर्गसंयोगः ।। ४३३।।

Page 157

१५२ सुब्ह्मण्य विरचिता- [ २ द्वितीयाध्यायस्थ उपपाद्यितुं शक्यो न करथचिदपीह केनचिद्वाऽपि। अत एवमादिदोषप्रसक्तियोगेन चास्य जीवस्य ॥। ४३४॥ पर्यायेणावयवोपगमापगमी न वाञ्छितुं शक्यौ। अन्त्यावस्थितेश्र्वोक्षयनित्यत्वादविशेषः ॥ ३६ ॥ मोक्षावस्था सेयं ह्यन्त्यावस्थेति वर्ण्यते जैनैः ॥४३५॥ नित्यमिति चेष्यते खलु तदवस्थाभाविजीवपरिमाणम्। यद्यन्त्यं परिमाणं नित्यं स्यात्तर्हि पूर्वयोरपि च ॥ ४३६॥ परिमाणयोस्तथा स्यान्नित्यत्वं न हि तयोर्विशेषः स्यात्। एकतनुमानता स्यान्नोपचितापचितगात्रयोगोडस्य ॥४३७॥ अपि चान्त्यं परिमाणं जीवगतं यद्यवस्थितं भवति। पूर्वत्रापि तथैवावस्थितपरिमाणजीवः स्यात् ।४३८॥। एवं सति च सदैव ह्यणुर्महान्वा भवेदसौ जीव:। न हि नानातनुयोगात्तत्तत्परिमाणतामसी गच्छेत् ॥ ४३९ ॥ तस्मात्सोगतमतवच्चाऽडर्हतमपि मतमिद्ं न युक्तं स्यात। क्षपणकसिद्धान्तेन हि वेदान्तसमन्वयस्य न विरोध: ।। ४४०॥ लुश्चितकेशमतेऽस्मिन्निराकृते जटिलशैवमतमेतत्। बुद्धावध्यारूढं वेदान्तसमन्वयस्य परिपन्थि ॥४४१॥ इति मत्वा सूत्रकृता तदिदं शैवं मतं निराक्रियते। पत्युरसामअस्यात् ॥ ३७॥ इह चाधिष्ठातैव हि न प्रकृतिः सोऽयमीश्वरो जगतः ॥। ४४२॥। आगमकृताबलम्बाः पाशुपताश्रैवमत्र कथयन्ति। केचित्तु सांख्ययोगव्यपाश्रयाश्रैवमत्र कथयन्ति ॥४४३॥ ईशः प्रधानपुंसोनियन्तृभावान्निमित्तमान्रं स्यात्। इतरेतरभिन्ना हि प्रधानपुरुषेश्वरा भवन्तीति ॥४४४ ॥ माहेश्वरास्त्विहैवं मन्यन्ते वर्णयन्ति चाप्येवम्। ये कार्यकारणयोगा विधिदु:खान्ताक्ष पञ्च पशुपतिना॥ ४४५॥ इह पशुपाशविमुक्त्ये ह्युपदिश्टः पश्चुपतिर्निमित्तमिति। कार्यं महदादिकमिह करणं च स्यात्प्रधानमेवेदम् ॥४४६॥। योग: समाधिरेव त्रिषवणजलमज्जनादि विधिरत्र। दुःखान्तोडसी मोक्ष: पञ्न पदार्थास्त एत एवेह॥ ४४७॥

Page 158

द्वितयिपाद: २] माष्यार्थरत्नमाला। १५३ तत्रेद्मनुपपन्नं यञ्च हि माहेश्वरादिनिर्दिषमू। ईशस्य कारणत्वं तदिदमधिष्ठातृभावयोगेन ॥। ४४८॥ तत्रासामस्ज्जस्यात्तदेतदिह नोपपद्यते किमपि। इह चासामक्जस्यं तदेतदीशस्य दृश्यते लोके॥। ४४९ ॥ यद्द्वीनमध्यमोत्तमभावेन प्राणिवर्गमखिलमपि। विद्धत ईशस्यापि हि रागद्वेषादिदोषतापत्ति: ॥४५० ॥ रागद्वेषापत्ताविहास्मदादिवदनीश्वरत्वं स्यात्। प्राणिकृतकर्मसाधनसापेक्षत्वादृदोष इति चेन्न ॥ ४५१ ॥ यदि च नियम्यनियामकभावः कर्मेशयोस्तदा चायम्। अन्योन्याश्रयदोषप्रसङ्ग इह दुर्निवार एव स्यात् ॥४५२॥ सोडयमनादित्वादिह न दोष इति नैव शक्यते वक्तुम्। स हि वर्तमानकालवद्तीतकालेऽपि तुल्य एव स्यात् ॥४५३॥ नयवित्समयः सोऽयं प्रवर्तनालक्षणो हि दोष इति। दोषेण चाप्रयुक्तो न स्वार्थे वा तथैव न परार्थे॥ ४५४॥ लोकः प्रवर्तमानो हष्टः स्वार्थप्रयुक्त एवासौ। येन प्रवर्तते किल लोकस्तेनेह चासमख्जसता ॥ ४५५॥ ईशः स्वार्थपरश्चेदनीशता तस्य दुर्निवारा स्यात। अन्यद्सामञ्जस्यं पुरुषविशेष: परो हयुदासीनः ॥४५६॥ संबन्धानुपपच्तेश्र ॥। ३८ ।। योऽसौ प्रधानपुरुषव्यतिरिक्तो हीश्वरो विनिर्दिष्टः । संबन्धमन्तरेण प्रधानपुंसो: स ईशिता हि कथम् ॥४५७॥ न च संयोगो येन प्रधानपुरुषेश्वरा हि सर्बगता:। निरवयवाश्र् तथाऽतः कथमिह संयोग ईद्टशां मवति ।४५८H इह चाSडश्रयाश्रयित्वानिरूपणान्नापि भवति समवायः । कार्यैकसमधिगम्यो नाव्यन्य: कश्विदृत्र संबन्धः । ४५९॥ पि कार्यकारणभावस्यैवात्र चाप्रसिद्धत्वात्। तादात्म्यलक्षणोऽसी संबन्धो ब्रह्मवादिनो भवति ॥४६० ॥ आगमबलावलम्बात्स खलु निरूपयति कारणाद्यखिलम्। आगमटष्ट सकलं ह्यभ्युपगन्तव्यमेव तेनेह ॥४६१॥ इह कारणादिरूप दष्टन्तबलेन केवलेनैव। वर्णयतो हि परस्याभ्युपगन्तव्यं यथैव दृष्टमिद्म् ॥४६२॥ २०

Page 159

१५४ सुब्ह्मण्यविरचिता-

सर्वज्ञदर्शिताममसद्मावादिह मवेत्परस्यापि। आगमबलसाहाय्यं समानमिति चेत्परस्पराश्रयता ॥ ४६३॥ आगमविश्वासात्किल सर्वज्ञत्वस्य सिद्धिरिह वाच्या। श्रामाण्यमागमस्य स्यादिह सर्वज्ञतादिसिद्धी हि॥ ४६४॥ अधिष्ठानानुपपत्तेश्र ॥ ३९॥ इह चानुपपत्ति: स्यात्तार्किकपरिकल्पितस्य चेशस्य। यह्च्च कुम्भकारो मृदाद्यधिष्ठाय संप्रवर्तयति ॥४६५॥ एवं प्रवर्तयेदयमीशोऽघिष्ठाय हि प्रधानादि। इह चाधिष्ठेयं यन्मृदादि रूपादिमद्दि तद्दृष्टम् ॥४६६ ॥ इह रूपादिविहीनं प्रधानमीशस्य कथमधिष्ठेयम्।

करणवच्चेन्न भोगादिक्यः ।। ४० ॥ लोके च चक्षुरादिकमप्रत्यक्षं यथा हयिष्ठाय। पुरुषो यथा नियुक्के तथा प्रधानं प्रवर्तयेदीशः ॥ ४६८॥ नैवोपपन्नमेतन्न हि करणग्रामसाम्यमिह भवति। मोगादिना हि करणग्रामस्याधिष्ठितत्वमिह दृष्टम् ॥४६९ ॥ नैवमिह दृश्यते किल मोगः संसारिणामिवेशस्य। व्याख्यायते किलेदं सूत्रदयमन्यथैव पुनरपि च॥ ४७० ॥ 'अधिष्ठानानुपपत्तेश्र' साधिष्ठानो लोके सशरीरो हीशिता तु राजादि:। नैव हि निरधिष्ठानो दृष्टो राष्ट्रस्य चेशिता क्वापि। ४७१॥ करणायतनं किंचिच्छरीरमीशस्य तद्वदिह वाच्यम्। सृष्चुत्तरं शरीरं भवेन्न सृष्टेस्तु पूर्वमपि किंचित् ॥४७२॥ स च निरधिष्ठान: प्रवर्तकत्वं कथं भवेत्तस्य। निरधिष्ठानस्यापि प्रवर्तकत्वे न चेह हष्टान्त: ।। ४७३।। 'करणवञ्चेन्न मोगादिभ्यः'। अथ्र णायतनं शरीरमीशस्य किमपि कल्प्येत। संसारिवदस्यापि हि भोगादिरनीश्वरत्वमपि च स्यात ॥ ४७४॥

Page 160

द्वितीयपाढ: २] माष्यार्थरत्नमाला। १५५

अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ अपि चेदमनुपपन्नं तार्किकपरिकल्पितस्य चेशस्य। स हि सर्वज्ञोऽनन्तस्तद्वदनन्तं प्रधानमंथ पुरुषाः॥४७५॥ अभ्युपगम्यन्ते तैरमिथो विभिन्नास्तथैव चानन्ताः। सर्वज्ञेनेशेन प्रधानपुरुषात्मनामिहेयत्ता ॥ ४७६ ।। सा हि परिच्छिद्येत न वेत्युभयत्राषि भवति दोषोऽयम्। पूर्वत्र चान्तवत्वं प्रधानपुरुषेश्वरेषु दुर्वारम्॥ ४७७ ॥ लोके तदन्तवक्किल हष्ट यदियत्तया परिच्छिन्नम् । तद्वत्प्रधानपुरुषेश्वरत्रयं यदि भवेत्परिच्छिन्नम् ॥४७८॥ तर्ह्रन्तवदेतत्स्यात्संख्यापरिमाणमपि च वक्तव्यम्। इह च परिच्छिन्नानां ये मुच्यन्ते जनास्तु संसारात् ॥ ४७९। संसार: किल तेषां संसारित्वं तदन्तवद्दृट्म्। इतरेषु मुच्यमानेष्वपि संसारस्य चान्तवत्त्वं स्यात् ॥ ४८० ।। एवं प्रधानमपि किल सविकारं चान्तवद्भवति। सर्वस्य चान्तवत्वे किमधिष्ठेयं भवेदिहेशस्य ॥ ४८१॥ सर्वज्ञतेश्वरत्वें स्वातामीशस्य कुत्र किंविषये। यद्यन्तवतत्वमेषां तदादिमत्त्वं घ मवति दुर्वारम् ॥४८२॥ यदि चेदेवं हि तदा प्रसज्यते शून्यवाद एवात्र । यदि चेयत्ता तेषां न परिच्छिद्येत तर्हि दोषोऽयम्॥४८३॥ सर्वज्ञत्वाभ्युपगमहानिः परमेश्वरस्य दुर्वारा। तस्मादृसंगतः स्यात्तार्किकपरिकल्पितेशवादोऽयम्॥४८४ ॥

व्यूहचतुष्ट्यवादो बुद्धिस्थोऽसौ निरस्यते सोडपि॥। ४८५॥। उत्पत्त्यसंभवात् ॥। ४२।।

प्रकृतिरधिष्ठाताऽसावुभयात्मकमेव कारणं हीशः । येषामभिमत एवं तत्पक्षोऽसौ निरस्यते सपदि ॥ ४८६ ।। नतु च श्रुतिमूलं वा ह्येवंरूपो विनिश्चितो हीश: । या हि श्ुत्यनुकूला स्मृतिः प्रमाणमिति वर्णितं पूर्वम्॥४८७।। तत्पक्षस्य निरासः सूत्रकृतो नैव युक्त इति चेन्न। प्रकृतित्वाद्यंशोऽयं नैव विसंवादगोचरो भवति ॥ ४८८ ॥

Page 161

१५६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्प-

अस्ति त्वंशान्तरमिह तद्धि विसंवाद्विषयतामेति। एको हि वासुदेवो भगवान्स च खलु निरखनज्ञान: ॥ ४८९॥ प्रविभज्यैवाSडत्मानं स चतुर्धा हि प्रतिष्ठितो भवति। आद्यो हि वासुदेवव्यूहः संकर्षणो द्वितीय: स्यात् ॥ ४९० ॥ प्रद्यम्नश्र तृतीयस्तथाऽनिरुद्धश्रतुर्थसंज्ञः स्यात्। यो वासुदेवसंज्ञो व्यूहः स परो हि कारणं भवति ॥४९१ ॥ जीवमनोहंकारा: कार्यं संकर्षणादयो व्यूहाः। इत्थंभूतं तं खल्वभिगमनाद्यैश् साधनैरिष्टा ॥ ४९२॥ क्षीणक्केशो मनुजस्त्वन्ते प्रतिपद्यते हि भगवन्तम्। यञ्चैतद्मागवतं प्रपञ्चितं तत्र भगवतो योऽसौ ॥ ४९३॥ बहुधा मावो यद्पि ह्यजस्रमाराधनं विनिर्दिष्टम्। तक्किल न निराक्रियते यस्मादेतच्छृतिस्मृतिप्रथितम् ॥४९४॥ संकर्षणादिकानां या चोत्पत्ति: प्रदर्शिता सा हि। नैवोपपद्यते किल यस्मात्तेषामनित्यतापत्ति: ।४९५॥ तद्नित्यत्वे मोक्षो भगवत्पाप्तिर्न चास्य संभवति। न च कर्तुः करणम् ॥ ४३ ॥ एतस्मादृपि हेतोरसंगतैषा हि कल्पना सर्वा ।। ४९६॥। यस्माद्धि वर्णयन्ति हि संकर्षणसंज्ञकाच्च कर्तुरिदम्। उत्पद्यतेऽत्र करणं यञ्च प्रह्युम्नसंज्ञकं हि मनः ॥४९७॥ उत्पद्यतेऽनिरुद्धोऽहंकार: करतृजाञ्च मनस इति। तच्चायुक्तं करणं न च कर्तुर्जायते क्वचिद्वाऽपि।। ४९८॥ नेह च दृष्टान्तो वा श्रुतिरथवा नोपलभ्यते काऽपि। विज्ञानादिभावे वा तदप्रतिषेध: ॥ ४४ ॥ अथ यद्येवं वूषे ये वै संकर्षणादयो गढिताः । ४९९। जीवादयो न ते स्युविज्ञानैश्वर्यशक्तिबलवीयैः । तेजोभिरप्रतक्यैस्वरधर्मैः समन्विताः सर्वे ॥ ५०० ॥ निर्दोषा निरवद्या निरधिष्ठानाश्च वासुदेवास्ते। द्यिथोपवर्णितदोष: कथमपि न चेह भवतीति ॥५०१॥ एवमपि दुनिर्वारो योऽसावुत्पत्त्यसंभवो दोष: । यदि च परस्परभिन्नास्तुल्यात्मानों हि वासुदेवाद्या:।।५०२।

Page 162

तृतीयपाद: ३ ] माध्यार्थरत्नमाला। १५७

एकेन कार्यसिद्धेरनेकपरमेशकल्पना विफला। सिद्धान्तहानिरपरो दोषोऽयं दुर्निवार एवात्र ॥ ५०३॥ अभ्युपगतं हि भगवानेवैको वासुदेव इति यस्मात्। एकस्य भगवतो यदि चत्वारस्तुल्यभावमापन्नाः॥५०४॥ एवमपि दुर्निवारो यथोपदिष्टो हि दोष इह मवति। इह वासुदेवसंज्ञात्कथमिह संकर्षणस्य चोत्पत्तिः ।। ५०५।। असति विशेषे क्वापि हि न हश्यते कार्यकरणभावोऽयम्। इह तरतमभावोऽयं न दृश्यते पाञ्चरात्रसिद्धान्ते ॥ ५०६॥ अपि च चतुःसंख्यायां भगवद्वचूहाक्ष नावतिष्ठेरन्। स्तम्बावसानमेतङ्वह्मादि च यञ्च दृश्यते सकलम्॥५०७ ॥ भगवद्वयूहत्वेन च तदेतद्वगम्यते हि सर्वत्र। विप्रतिषेधाच् ॥४५ ॥ विप्रतिषेधश्रायं बहुविध उपलभ्यते हि शास्त्रेऽस्मिन्॥५०८॥ ज्ञानैश्वर्यप्रसुखा गुणास्त आत्मान एव भगवन्त: । इति गुणभावं गुणिताविरुद्धमेवोपवर्णयन्त्येते ॥ ५०९॥ विप्रतिषेधपदस्य हि निन्दार्थपरत्वमपि च संभवति। वेदेषु चतुर्षु परं श्रेयोऽलब्ध्वा स एष शाण्डिल्यः ।। ५१० ॥ शास्त्रं तदेतद्धिगतवानिति हष्टा हि वेदनिन्दाऽपि। तस्मादसंगतैषा वेदविरुद्धार्थकल्पना सकला ॥५११॥ शारीरकमीमांसा सुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्यायः ॥५१२॥ तत्र द्वितीयपादे सूत्रार्थो यश्र भाष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः॥ ५१३॥ इति द्वितीयाध्यायस्य द्वितीय: पाद: समाप्तः ॥२॥

अथ तृतीयपादपारम्म: ।

जीवस्यानुत्पत्तावाकाशो वा कथं प्रजायेत। इत्येकदेशिशङ्कां निरसितुमिद्माह सूत्रकारोडयम्॥ १॥

Page 163

१५८ सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्यं-

न वियदश्रुतेः ॥ १ ॥ श्रुतिविप्रतिषेधाद्यदि परपक्षाणामुपेक्षणीयत्वम्। तहिं श्रुतिपक्षोऽयं विप्रतिषेधादुपेक्षणीयः स्यात् ॥२॥ इति खलु शंङ्कोत्थाने वादारम्भो हि तन्निवृत्त्यर्थः । इह भूतभोक्तृवचसां मिथो विरोधो निरस्यते पादे ॥३ ॥ उत्पत्तिश्रुतयः किल मिन्नप्रक्रमपरा हि लक्ष्यन्ते। आकाशस्योत्पत्तिं वदन्ति खलु तैत्तिरीयकश्रुतयः ॥४॥ छन्दोगा: खलु नैवं वियदुत्पत्तिं समामनन्ति यतः। जीवस्य प्राणानामपि क्रमाविककृतविरोध इहदृषक्ः ॥५॥ श्रुत्यन्तरेषु तस्माद्यमपि पक्षो ह्युपेक्षणीय इति।

आरभ्यते विचारस्तत्र प्रथमं हि वियदुपाभित्य। नोत्पद्यते हि तदिदं वियद्यतो मवति तज्ञ विसुसंज्ञम्॥७॥ किंचोत्पत्तिप वाक्ये न श्रूयते क्वचिद्वाऽपि। छान्दोग्ये हि सदेवेत्यादी वाक्ये तु पञ्चमूतानाम्॥ ८H तेजो मध्यम कृत्वा सृ्टिः प्रपश्चिता हि सतः । मानं श्रुतिरन्द्रियविज्ञाने या न दश्यते सेयम् ॥९॥ अस्ति तु ॥ २ ॥ अत्र तुशब्दो योऽसी न हि पक्षान्तरपरिग्रहे मानम्। यद्यपि वियदुत्पत्तिश्छान्दोग्ये नैव दृश्यतेऽथापि॥ १० ॥ दृष्टा च तैत्तिरीयकवाक्ये ते खलु समामनन्त्येवम्। सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्य तदिद्मिह पठितम् ॥ ११॥ तस्माद्वा एतस्मादात्मन आकाश इति च यद्दाक्यमू। तत्र च विप्रतिषेधः भ्रुत्योरनयोर्हि दुर्निवारोऽसी ॥ १२॥ तेज:प्रमुखासृष्टि: क्वचिदिह दृष्ा क्वचिच्च वियदाद्या। नैवावगम्यते खल्वनयोः श्रुत्योरिहैकवाक्यत्वम् ॥१३॥ स्रट्टः सकृच्छ्रतस्य हि न स्रष्ट्व्यदयेन संबन्धः । यद्येवं तत्तेजोऽसृजत तदाकाशमसृजतेति स्यात् ॥१४॥ कर्तव्यद्ययोगो नन्विह कर्तुः सकृच्छतस्यापि। हष्टः सूपं पकत्वा तथौदनं पचति विप्र इति चेन्न॥१५ ॥

Page 164

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १५९

सत्र हि पौर्वापर्याद्युक्तो नाSडकाशतेजसोस्तु तथा। इह चाSडदिमत्वमुभयोर्द्टृष्ट छान्दोग्यतैत्तिरीयकयोः ॥ १६॥ स्रद्टः सकृच्छ्वुतस्य हि युगपत्ताभ्यां कथं नु संबन्ध: । वायोरगनिरितीदं पृथगाम्नानं विरुद्मिह मवति ॥ १७॥। गौण्यसंभवात्॥ ३ ॥ एवं विप्रतिषेधे या ह वियज्जनिपरा श्ुतिः सेयम्। गौणी वाच्या यस्माद्वियदुत्पत्तिः कथंचिदृपि न भवेत् ॥१८।। इह कारणसामेग्री वियदुत्पत्तौ न हश्यते काऽपि। समधायिकारणं स्याद्यदेकजातीयमिह तथाऽनेकम् ॥ १९ ॥ व्रव्योत्पत्ती साधनमेतद्डटृष्टं पढादिके कार्ये। वियतः कार्यत्वे किल तद्त्र नैवोपलभ्यते किमपि ॥ २० ॥ एवं सति च निमित्तं यञ्चासमवायिकारणं तद्पि। त प्रवृत्तं तद्सत्त्वे साधयेत्कथं कार्यम्॥ २१॥ उत्पत्तिमरतां दृष्ट: पूर्वोत्तरकालयोविशेष: स्पात्। आकाशस्योत्पत्ती संमावयितुं न शक्यते सोऽयम् ॥२२ ॥ किंच पृथिव्यादिभ्यो वैधम्यं चास्य दृश्यते भूयः । तेन विसुत्वमजत्वं सिध्यति नोत्पत्तिमत्त्वमेतस्य ॥। २३॥ घटकरकाकाशगृहाकाशा इति वियत एकरूपस्य। मेदृव्यपदेशोऽयं ह्युपाधिमूलो न वस्तुमूल: स्यात् ॥ २४ ॥ आकाशो जात इति व्यपदेश: स्यादुपाधिजनिमूलः। गौणो वियदठत्पत्तिश्रुतिरषि गौणी तथैव किं न स्यात् ॥।२५। शब्दाच ॥४ ॥ वायुश्रेत्याद्या या श्रुतिर्हि वाय्वन्तरिक्षयोरेवम्। अमृतत्वमुपदिशन्ती वियदुत्पत्तिं निवारयत्येषा ॥ २६॥ आकाशवदिति चान्या श्रुतिराकाशेन तत्परं ब्रह्म। सर्वगतत्वेन तथा नित्यत्वेनापि सहशमुपदिशति ॥२७ ॥ उपदिश्य सद्दृशमेतत्ती धर्मावस्य सूचयत्येषा। स यथाऽनन्त इति श्रुतिराकाशस्याव्यनन्ततां वक्ति ॥ २८॥ श्रुतिराकाशशरीरं ब्रह्मेति तथैव बोधयत्यपरा। तस्मात्सिद्धं ब्रह्मवदाकाशं नित्यमपि च सर्वगतम् ॥२९॥

Page 165

१६० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

स्याचैकस्य ब्रह्मशब्दवत् ॥५॥ शङ्कोत्तरसूत्रमिदं शङ्का चेयं हि भवति तत्रैवम् । संभूतशब्द एष हि सकृच्छ्रतस्तैत्तिरीयके वाक्ये॥३॥ वियति चस कथ गौणस्तेज:प्रभृतिषु कथं स मुख्य इति। नेयं शङ्का कार्या येनासौ ब्ह्मशब्दवद्भवति ॥ ३१ ॥ तपसा ब्रह्मेत्यस्मिन्नधिकारे तपसि चैवमन्नादौ। स्याद्गह्मशब्द एव हि गौणो मुख्यस्तथैव चाडऽनन्दे ॥३२॥ ननु नभसोऽनुत्पत्तौ श्रुतिप्रतिज्ञा हि बाधिता भवति। एवं किलैकमेवाद्वितीयमिति दृश्यते प्रतिज्ञेयम् ॥३३ ॥ यदि नमसो नित्यत्वं ब्रह्म तदा सद्वितीयमेव भवेत्। आत्मनि विदिते सवं विदितमितीयं तथेति चेन्मैवम्॥ ३४॥ अत्रत्यसर्वशब्द: स्वकार्यपर एव नैव सर्वपरः। कश्चित्कुलालगेहे सृदण्डादीनि पूर्वमुपलभ्य ।।३५॥ नानाविधान्यमत्राण्युपलभ्य परेद्युरेवमाचष्टे। एकाकिनी सृदेव ह्यासीत्पूर्वेद्युरेतदखिलमिति॥३६॥ स तु सृत्कायं सकलं नाऽडसीत्पूर्वेद्युरित्यभिभेयात्। न तु दण्डादिकमेवं नाऽऽसीदग्रे स्वकार्यजातमिति॥३७॥ अथवेयमद्वितीयश्रुतिरिह कर्त्रन्तरं निवारयति। इह चामत्रप्रकृतेमृद: कुलालो यथा ह्यघिष्ठाता॥३८॥ नैवमधिष्ठाताऽन्यो भवतीह ब्रह्मणो जगत्पकृतेः । अथवाऽय नाद्वितीयश्रुतिभङ्गोऽयं हि शङ्कितुं शक्यः । ३९ ॥ इह सद्वितीयता किल लोके दृष्टा हि भिन्नलक्षणयोः । प्रागुत्पत्तेर्लक्षणभेदो न ब्रह्मगगनयोर्भवति ॥४० ॥ क्षीरोदकयोरिव किल तयोश्र संसृष्योः पुरा सृष्टेः व्यापित्वामूर्तत्वाद्यखिलं तुळ्यं हि धर्मजातं तत् ॥ ४१॥ तङ्गह्मसर्गकाले यतते स्तिमितं वियद्यथापूर्वम्। तेनान्यता तयो: स्यात्सृष्यत्तरमेव नैव तत्पूर्वम् ॥४२॥ किंचैवमेव सिध्येद्भह्मज्ञानेन सर्वविज्ञानम्। अपि किल काय सकलं वियताऽव्यतिरिक्तदेशकालं हि ॥४३॥ वियदृपि यदिदं हि तथा ब्रह्माव्यतिरिक्तदेशकालं स्यात्। तेन णि विदिते भवति हि विदितं तदेतदाकाशम्।।४४॥

Page 166

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १६१

क्षीरगतो जलविन्दुः क्षीरग्रहणेन गृह्यते हि यथा। एवं ब्रह्मणि विदिते वियदृपि तदिदं गृहीतमेव स्यात् ॥४५॥ इति सकलश्रुतिवचसामविरोध इहेति चैकदोशिमतम् । निर्दिश्य सप्रपञ्चं तदिदं वूषयति सूत्रकारोऽयम् ॥४६॥

येनाशुतमिति या स्यादृात्मनि खल्विति तथैब चान्याऽपि। कस्मिन्नित्यपरा या न च काचन मदिति चैवमन्याऽपि।।४७।। प्रतिवेदान्तं चैवंरूपा या दृश्यते प्रतिज्ञा हि। तस्या एवमहानिस्तदनुपरोधो मवेन्न चेतरथा ॥ ४८ ॥ यद्यव्यतिरेकः स्यादविज्ञेया णोऽस्य कृत्स्नस्य। उपपद्यते तदैव ह्यव्यतिरेक: स एष निर्दिक्टः ॥४९॥। यद्येकस्माङ्गह्मण उत्पद्येतेदमखिलमपि वस्तु । धरुत्याऽप्यव्यतिरेकादियं प्रतिज्ञा प्रदर्शिता भवति ॥५०॥

येनभ्रुतमित्याद्या श्रुतिप्रतिज्ञा समर्थिता श्रुत्या ॥५१। ये चोत्तरत्न पठिता: सदेव सोम्पेदमग्र इत्याद्या:। ते खल्वीक्षणपूर्वकमखलं तेज:पुरःसरं कार्यम् ॥ ५२॥ ण उपदिश्य ततश्राव्यतिरेकं प्रदर्शयन्ति किल। इह चैतदात्म्यमिति। वाक्यमुपक्रम्य चाऽडसमापेहि॥५३॥ न कार्यमेतद्यद्याकाशं भवेद्युक्तमिदम्। ब्रह्मण विज्ञाते सति न हि विज्ञायेत तदिद्माकाशम्॥५४॥ एवं सति प्रतिज्ञा श्रीती सेयं हि बाधिता मवति। हीयेत चेत्पतिज्ञा वेदाप्नामाण्यमत्र दुर्वारम्॥५५॥ प्रतिवेदान्तं शब्दा इदं सर्वमिति चैवमाद्या मे। ते तत्तद्द्टृष्टान्तैरिमां प्रतिज्ञां समर्थयन्ति खलु ।५६।। तस्माज्ज्वलनादिवदिदमपि गगनं ब्रह्मणो जनि लभते। नोत्पद्यते तदेत्द्वियदभ्रवणादितीह यञ्चोक्तम् ॥५७॥ तद्युक्तमेव यस्माद्वियदुत्पत्ति: प्रदर्शिता भ्रुत्या । तस्माद्वा एतस्मादात्मन आकाश एवमादिकया ॥ ५८॥ ननु तत्तेजोऽसृजतेत्येनेन चास्य विरोध इति चेन्न । न हि भिन्नवाक्यता स्यास्छ्रृतिव चसां किंत्विहैकवाक्यत्वम्।५९॥ २१

Page 167

१६० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

स्याच्चैकस्य ब्रह्मशब्दवत् ॥५ ॥ शङ्कोत्तरसूत्रमिदं शङ्का चेयं हि भवति तत्रैवम् । संभूतशब्द एष हि सकृच्छ्रतस्तैत्तिरीयके वाक्ये॥ ३०॥ वियति चस कथ गौणस्तैजःप्रभृतिषु कथं स सुख्य इति। नेयं शङ्का कार्या येनासौ ब्रह्मशव्दवद्भवति ॥३१ ॥ तपसा ब्रह्मेत्यस्मिन्नधिकारे तपसि चैवमन्नादौ। स्याद्वह्मशब्द एव हि गौणो मुख्यस्तथैव चाऽऽनन्दे ॥३२॥ ननु नभसोऽनुत्पत्तौ श्रुतिप्रतिज्ञा हि बाघिता भवति। एवं किलैकमेवाद्वितीयमिति दृश्यते प्रतिज्ञेयम् ॥ ३३ ॥ यदि नमसो नित्यत्वं ब्रह्म तदा सद्वितीयमेव भवेत्। आत्मनि विदिते सरवं विदितमितीयं तथेति चेन्मैवम्॥ ३४॥ अत्रत्यसर्वशब्दः स्वकार्यपर एव नैव सर्वपरः। कश्चित्कुलालगेहे सृदण्डादीनि पूर्वमुपलभ्य ॥३५॥ नानाविधान्यमत्राण्युपलभ्य परेद्युरेवमाचष्टे। एकाकिनी सृदेव ह्यासीत्पूर्वेद्युरेतदखिलमिति॥३६॥ स तु सृत्काय सकलं नाऽडसीत्पूर्वेद्युरित्यभिभ्रेयात्। न तु दूण्डादिकमेवं नाऽऽसीदग्रे स्वकार्यजातमिति॥३७॥ अथवेयमद्वितीयश्षुतिरिह कर्त्रन्तरं निवारयति। इह चामत्रप्रकृतेसृद: कुलालो यथा ह्यघिष्ठाता॥३८॥ नैवमधिष्ठाताऽन्यो भवतीह ब्रह्मणो जगत्प्रकृतेः । अथवाऽत नाद्वितीयश्रुतिभङ्गोऽयं हिशङ्धितुं शक्य: । ३९॥ इह सद्वितीयता किल लोके दृष्टा हि भिन्नलक्षणयोः । प्रागुत्पत्तेर्लक्षणभेदो न ब्रह्मगगनयोर्भवति ॥४० ॥ क्षीरोदकयोरिव किल तयोश्र संसृषयोः धुरा सृष्टेः। व्यापित्वामूर्तत्वाद्यखिलं तुळ्यं हि धर्मजातं तत् ॥ ४१॥ तद्गह्मसर्गकाले यतते स्तिमितं वियद्यथापूर्वम्। तेनान्यता तयो: स्यात्सृष््युत्तरमेव नैव तत्पूर्वम् ॥४२॥ किंचैवमेव सिध्येद्भह्मज्ञानेन सर्वविज्ञानम्। अपि किल काय सकलं वियताऽव्यतिरिक्तदेशकालं हि ॥४३॥ वियद्पि यदिदं हि तथा ब्रह्माव्यतिरिक्तदेशकालं स्यात्। तेन णि विदिते भवति हि विदितं तदेतदाकाशम्।।४४॥

Page 168

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १६३

द्विदलाक्वुरवत्स्यादिति पक्षोऽप्येतेन परिहृतो मवति। तस्माद्विप्रतिषेधः ध्रुत्योरनयोरन चास्ति कश्रिदृपि॥ ७६॥ अपि किल येनाश्ुतमिति वाक्यं सकलं समर्थयितुमत्र। असमाम्नातमपीदं वियदुत्पत्तावपेक्षितं चेत्स्यात्॥ ७७॥ कस्मान्न ग्रुह्यते वा वियदेतत्तैत्तिरीयकाम्नातम्। यञ्चोत्तं वियतः किल सर्वेणानन्यदेशकालत्वात्॥७८ ।। तद्गह्मणा च कार्यैवियदपि सह विदितमेव भवतीति। नाप्यद्वितीयविषयश्चुतिकोपो भवति चेह कश्विदृपि॥७९॥

इति तु न युक्तं यदि चेदेरूज्ञानेन सर्वविज्ञानम्॥ ८ell. क्षीरजलन्यायेन स्याञ्चेत्तदिदं ह्ययुक्तमेव स्यात् । इह च मृदादिभिरेव हि दृष्टान्तैः प्रकृतिविककृतिभावेन ।।:८१ ॥ सर्वज्ञानं यदिदं नेतव्यं तदिति गम्यते नान्यत्। तदिदं सर्वज्ञानं सम्य्ज्ञानं न चान्यथा भवति ॥ ८२।। क्षीरज्ञानगृहीतं जलं न सम्यम्गहीतमिह भवति। भवति न पुरुषाणामिव वेदस्यालीकवञ्चनाद्यखिलम्॥ ८३॥ नाप्येकदेशविषयं सर्वज्ञानं स्वकार्यसापेक्षम्। एकाद्वितीयतादेरवधारणमपि तथेति नो युक्तम् ॥८४।। सर्वत्र संभवादिदमपूर्ववञ्चेह नोषदेष्टव्यम्। तस्मादृशेषविषयं सर्वज्ञानं तदत्र निर्दिष्टम् ॥ ८५॥ तदुपन्यासो योऽसी सर्वस्य ब्रह्मकार्यतापेक्षः। गौणी जन्मश्रुतिरिति यञ्चोक्तं तन्निरस्यते सपदि ॥ ८६ ॥ यावद्विकारं तु विभागो लोकवत्॥ ७॥

यस्माद्यावत्किंचिद्विकारजातं घटादिकं हट्म्।८७। तावद्विमक्तमेव हि घटपटकटकादि दृश्यते लोके। न त्वविकृतं हि किंचिद्विभक्तमुपलभ्यते कुतश्र्दृपि॥८८॥ अत्र पृथिव्यादिभ्यो विभाग उपलभ्यते हि वियतोऽपि। तस्माद्धि वियद्पीद भवति विकार: कदाडपि नाविकृतम्।।८९।

Page 169

१६४ सुब्रह्मण्य विरचिता- [२ द्वितीयाध्यायस्य-

एतेन व्याख्यातं दिगादिकानामपीह कार्यत्वम्। नन्वात्माSवि विभक्तो वियदादिम्योऽबगम्यते लोके ।। ९० । तस्मात्सोऽपि विकारो घटवत्स्यादितीह नाऽडशङ्क्यम्। यो धर्रिसत्तया किल समसत्ताको भवेदविभागोऽसी ॥ ९१॥ हेतुः स चायमात्मनि न संभवेद्येन कल्पितोऽयं स्यात्। हेतावज्ञानान्यङ्व्यत्वमपीह पूरणीयं स्यात् ॥ ९२॥ एवं चेद्यभिचारो नाज्ञाने वा तदीयसंबन्धे। आत्मन श इति श्ुत्याSSकाशादिकारणत्वेन ।। ९३ ।। निर्धारितोऽयमात्मा कथं विकारो यथा विकार: स्यात्। आकाशादिक मेतत्कार्यं सकलं निरात्मकं मवति ॥९४॥ एवं च शून्यवाद: स्यादत आत्मा कदाऽपि न विकार:। योऽसौ सर्वस्याऽडत्मा जगतः सर्वस्य कारणीभूतः ।९५॥ स हयात्मेहशरूप: केन कथं वा क्व वा निराकियते। अनपेक्ष्य च प्रमाणं सोऽसावात्मा भवेत्स्वयं सिद्धः ॥ ९६॥ वियदादय: पदार्थाः केनचिदृपि नैवमभ्युपेयन्ते। सर्वव्यवहाराणामाश्रयभूतो यतोऽयमात्मा स्यात् ॥ ९७॥ प्राग्व्यवहाराति : स चायमात्मा कर्थ निराक्रियते। जानामि वर्तमानं ह्यतीतमज्ञासिषं तथैवा ॥। ९८॥ ज्ञास्याम्येवमनागतमित्येवं ज्ञातुरेव सर्वत्र। प्रत्यभिसंधेर्योगादात्मा नित्यो न चैवमाकाशः ॥९९॥ समजातीयमनेकं व्योम्न उपादानकारणं यस्मात्। नैवोपलभ्यतेऽतो निस्यं वियदिति हि यञ्च पूर्वोक्तम् ॥१०० ॥ तद्नुपपन्नं यस्माङव्यारम्मेडव नास्ति नियमोऽसौ। आरमते किल कार्यं समजातीयं न चान्यदित्येवम् ॥१०१॥ यदि चैवं नियम: स्यात्पटादिकार्यं कर्थ भवेत्तत्र। तन्तौ तत्सयोगे समजातीयत्वभसुलभं हि यतः ॥ १०२ ॥ समवायिकारणस्याप्येवंरूपो हि नैव नियम: स्यात्। र्गोवालैरप्येका रज्जुाहै सृज्यते यस्मात् ॥१०३॥ ते किल कार्य नैवैकं कित्वनेकमेवेति। नियम: स्याद्यतश्र परिणामवाद इह भवति ॥१०४॥

Page 170

तृतीयपाद: ३ ] भाष्यार्थरत्नमाला। १६५

परिणमते किल लोके क्वचिदेकमनेकमपि च परिणमते। जाढिकमेतत्वनेक मेवाङ्कुरादिमावेन ।। १०५ ॥। क्षीरादि तु परिणमते ह्येकं दध्यादिकार्यभावेन। नैवेशशासनं स्यादनेकसुत्पादकं न चैकमिति ॥१०६॥ तस्माच्छत्यनुसारादेकस्माङ्गह्मणो हि जगद्खिलम्। जायत इति सिद्धं तत्क्षीरवदित्यत्र दृश्यते सूत्रे॥ १०७॥ आकाशस्योत्पत्ती पूर्वापरकालयोर्विशेष: स्यात्। इति किल नैवाऽडशङ्क्यं यश्र विशेषो हि दृश्यते सपदि॥।१०८॥ वियति पृथिव्यादिभ्यः स हि पूर्वं नेति गम्यते वियति। पृथव्यप्तेजोवायुस्वभावविधुरं यथा भवेद्बह्म ॥ १०९॥ प्रागुत्पन्तेरेवं वियत्स्वभावेन वर्जितं भवति। तस्माद्वियदृपि कार्यं यथा पृथिव्यादि तद्ददेव स्यात् ॥ ११०॥ एवमनित्य गुणाश्रयभावेनानित्यता भवेद्वियतः । अमृतत्वश्रुतिरपि या वियतो नित्यत्वबोधिका साऽपि॥ १११ ॥ अमृता देवा इतिवच्चिरकालावस्थितत्वसापेक्षा। आकाशस्य जनिश्ुतिरपि गौणी ब्रह्मशब्दवत्तपसि ॥११२ ॥ इति तु निराकृतमत इह वियदेत द्ह्मकार्यमिति सिद्धम्। एतेन मातरिश्वा व्याख्यातः ॥।८।। अतिदेशत्वात्पृथगिह संगत्यन्तरमपेक्षते नेदम् ॥११३ ॥ व्याख्यानेन हि वियतो व्याख्यातो भवति मातरिश्वाऽपि। छान्दोग्य: स हि पूर्व बलवत्तरतैत्तिरीयकश्चुत्या ॥११४॥ नयनादुक्तस्परि समन्वयोऽसौ तद्ेकवाक्यतया। एवं सत्याकाशानन्तरता तेजसोऽस्य लब्घैव ॥ ११५॥ तुल्यवदानन्तर्य मवति यदा वायुतेजसोरनयोः। वायोरगनिरितीह क्रुतिर्या हि बाधिता सा स्यात् ॥ ११६ ॥ पौर्वापर्ये च पुनस्तेजःप्राथम्यमङ्ग एव स्यात्। तन्दङ्गे च श्रुत्योस्तदेकवाक्यत्वमनुपपन्नं स्यात् ॥ ११७॥ इति गौणवादपरतामाशित्येहापि पूर्वपक्षः स्यात्। उत्पत्तिपरे वाक्ये छान्दोग्येऽसी न हश्यते वायुः ॥११८॥ आकाशाद्वायुरिति ह्याम्नातम्तैत्तिरीयके च पुनः । र्विप्रतिषेधे चोत्पंत्तिश्षुतिरियं हि गौणी स्यात् ॥ ११९॥

Page 171

१६६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

यस्मात्सैषेत्यादिश्वुतिरस्तमयं निवारयत्यस्य । इत्याक्षेपं निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना ॥ १२० ॥ उत्पद्यते हि वायुर्यतः प्रतिज्ञानिरोध इह मवति। अम्युपगतं हि यावद्विकारजातं विभक्तमिह यस्मात् ॥ १२१॥ मयप्रतिषेधश्रापरविद्यापरो न मुख्य: स्यात्। अमृतत्वादिभ्रवणं व्याख्यातार्थं हि मवति पूर्वत्र ॥१२२॥ नन्विह वियतो वायोरुत्पत्तिप्रकरणे हि तुल्यतया। अवणादिद्मधिकरणं भवेदिहैकं न चातिदेशोऽयम्॥१२३ ॥ इति चेन्मन्दधियामिह कदाचिदेषा हि शब्दमात्रकृता। शङ्का स्यादिति मत्वा ह्यतिदेशोऽयं प्रदर्शितो मुनिना ॥ १२४॥ संवर्गवाक्यशेषे यदसौ वायुः श्रुतो महाभागः । असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ ननु यदि वियदादीनामुत्पत्तिः सा परात्मनोऽपि स्यात्॥१२५।। वियतो विकाररूपाद्विकाररूपो यथा भवेद्ायुः । स्याङ्रह्मणो विकाराद्वियदादीनां तथैव चोत्पत्तिः । १२६.।। स्याच्चेदनाद्यनन्तं महतः परमिति हि गौणमेतत्स्यात्। अमृतत्वं हि यथा वा वाय्वादे: स्यात्तथैव चेहापि॥१२७ ॥ त्वंरे मवसीति श्रुतिर्हि मुख्यार्थबोधिका वाच्या। त्परात्मनोऽपि स्यादुत्पत्तिः कुतश्रिदिति शङ्काम् ॥ १२८॥ निर्रा मवस्त्विति मुनिना रचितं तदेतद्धिकरणम्। न ब्रह्मण: सतोऽस्य स्यादुत्पत्ति: कृतश्रिविदन्यस्मात्।१२९ ॥ सद्रूपं यतो न मवेत्सत एव तस्य चोत्पत्ति: । प्रकृतिविकारात्मकताऽप्यसति विशेषे हि न क्वचिद्दृष्टा ॥१३०॥ नापि विशे इह सत्सामान्यं हि शङ्गितुं शक्यम्। लोके घटादिमृच्च घटादेरन हश्यते क्वापि। १३१ ॥ नाप्यसतो वा सत्स्यादसद्यदेतन्निरात्मकं हष्टम्। श्रतिरेषा हि स कारणमित्याद्या या च दश्यते साऽपि। १३२ ॥ अधिपं च जनयितारं परात्मनोऽन्यं नचेति वारयति। न्वं जातो मवसीति श्रुतिरौपाधिकजनिप्रधानैव॥। १३३ ।

Page 172

तृतीयपाद: ३] माष्यार्थरत्नमाला। १६७

तेजोऽतस्तथा ह्याह ॥ १० ॥ छान्दोग्ये तत्तेजोऽसृजतेति श्रूयते हि वाक्यमिदम्॥१३४ ॥ तेन च सन्मूलत्वं प्रतीयते चास्य तेजसस्तस्मात। तस्यैव तैत्तिरीयकवाक्ये हष्ट हि वायुमूलत्वम्॥१३५॥ एवं विप्रतिपत्ता प्राप्तं हि ब्रह्मयोनि तेज इति। तत्तेजोSसृजतेति ह्युपदेशोऽयं च तत्परो येन ॥ १३६ ॥ एवं चेदेतं (?) स्यादेकज्ञानेन सर्वविज्ञानम्। वायोरगनिरितिश्रुतिरपि वाय्वग्न्योः क्रमार्थिका भवात ॥ १३७॥। एवं प्राप्ते बूते तेजोऽतो जायते हि मरुत इति। आह श्रुतिरेषा किल वायोरगनिरिति चेममेवार्थम्॥ १३८॥ इह चापादानार्था न च र्था हि पञ्चमी सेयम्। आत्मन आकाश इति प्रथममपादानपञ्च्मी दृष्टा ॥ १३९ ॥ नैव पुरस्तादृपि किल सा संभवति क्रियानिमित्तैव। संभवतेरधिकारे तुल्ये कथमर्थभेद इह भवति ॥ १४० ॥ अपि च क्रमार्थकत्वे वायोरु्ध्वमिति कल्पनीया स्यात्। उपपद्योग: सोऽयं कारकयोगाद्दि दुर्लभो भवति ॥१४१॥ श्रुतिरेषा तस्मादिह गमयति खलु वायुयोनि तेज इति। तत्तेजोऽसृजतेति श्रुतिरन्या ब्रह्मयोनि तेज इति ॥१४२॥ गमयति यद्यपि तस्या: परम्पराजनिपरत्वमेव स्यात्। तस्या: श्रुतमामिक्षा दृधि तस्या इति हि दृष्टमन्यत्र ॥ १४३ ॥ ईशस्मरणमपीदं भवन्ति भावा इतीह गमकं स्यात। इह चाक्रमवचनानां बलवत्क्रमपरतदेकवाक्यत्वात् ।। १४४।। वियदादिकारणेडस्मिन्त्ह्मणि तेषां समन्वयः सिद्धः। आपः॥११ ॥

इह मुण्डकवाक्ये खं वायुर्ज्योतिराप इत्यन्ते ॥ १४५॥ ब्रह्मप्रभवत्वमपां श्ुतमन्यत्राग्गिजत्वमपि तासामू। तस्मात्तयो विरोधेनैवासामग्निजत्व सिद्धि: स्यात् ॥१४६॥ यत इह दृष्टा लोके ता आपो ह्यग्निदाह्यमावेन। एतस्मादिति तन्रार्थिका पञ्च्मीति शङ्कायाम्-॥ १४७।

Page 173

१६८ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

तेजोन्याय इहापि स्यादित्यतिदिशति सूत्रकारोऽयम्। प्रत्यक्षतो विरोधे कथमासामग्निजत्वमिति चेन्न ॥ १४८॥ ये च त्विवृत्कृते ते तयोविरोधो हि दृश्यते नेह। श्रुतिवचनाद्विरोधो निर्णीतो येन चात्रिवृत्कृतयोः ॥ १४९॥ केवलमतिदेशो न श्ृत्यविरोधप्रदर्शनार्थः स्यात्। पञ्चमहाभूतानामुत्पत्तिक्र मनिरूपणार्थश्र ॥ १५० ॥। तेजोमावापन्ने परे श्रुतीनां समन्वयस्तस्मात्। पृथिव्यधिकाररूपशब्दान्तरेक्यः ॥ १२॥ इह किल ता आप इति च्छान्दोग्यवाक्यमेतदुपलब्धम्॥१५१॥ अद्भ्योऽन्नसृष्टिरस्मिन्वाक्ये ता अन्नमित्यनेनोक्ता। इह चान्नशब्द्लम्यो ब्रीह्यादिर्वाऽथवार्डिपि पृथिवी वा ॥१५२॥ शब्दप्रकरणयोगादिह संदेहे समुत्थिते तत्र। ब्रीहियवाद्येवान्नं सत्यां वृष्टौ तदेव बहु भवति ॥१५३॥ इति शङ्कामपनेतुं पृथिवीं निर्दिशति सूत्रकारोऽयम्। पृथिवीयमन्नशब्दात्प्रतीयते नौदनादि किंचिदृपि॥१५४॥ अधिकाररूपशब्दान्तराणि लिङ्गानि तत्पराणि यतः । प्रकरणमधिकार: स्यात्स खलु महाभूतगोचरो दृष्टः ॥१५५॥ पृथिवीं क्रमागतामिह विलङ्ध्य नौदनपरिग्रहो न्याय्यः। इह वाक्यशेषदृष्ट तदनुगुणं दृश्यते हि रूपमपि ॥१५६ ॥ यत्कृष्ण मित्यनेन प्रदर्शितं कृष्णरूपमेव(वा)स्या: । ब्ीहियवादौ तु पुनः कृष्णत्वं नोपलभ्यते नियतम् ॥१५७॥ क्वचिदिह पाण्डुरवर्णा लोहितवर्णा च दृश्यते पृथिवी। एवमपि नेह दोषो बाहुल्यापेक्षया हि कृष्णत्वम् ॥ १५८॥ पौर्सा श्र तदत्कृष्णं रूपं प्रदर्शयन्त्यस्याः । एिकृष्णं रूपं भवति पृथिव्या न चेतरस्येद्म् ॥१५९॥ श्रुत्यन्तरमप्यदभ्यः पृथिवीत्येवं हि दवृश्यते यद्पि। तदृपि ह्यद्म्य: सृषटां पृथिवीं दर्शयति नौदनादि तथा ॥१६०॥ पृथिवीसट्टेः पश्राद्वीह्यायपत्तिरभिहिता यस्मा तू् ।

Page 174

सृतीयपादः ३] माष्यार्थरत्नमाला। १६९

तस्मादिहान्नशब्दात्पृथिवी स्थान्नौदनादि किंचिदृपि॥१६१॥ लोकप्रसिद्धिरपि या साऽप्यधिकारादबाधिता भवति। योऽसौ हि वाक्यशेषो यत्र क्व च वर्षतेति सोऽन्नस्य ॥१६२॥ पार्थिवतामुक्ताऽसावद्म्य: पृथिवीसमुद्भवं वक्ति। एवं हि तैत्तिरीयश्रुतिमाश्रित्यैव तदनुसारेण ॥ १६३॥ छन्दोगश्चुतिनयनाद्विरु्द्धो भूतसृष्टिवाक्यानाम्। ब्रह्मणि परमानन्दे समन्वयः सपदि तानि भूतानि ॥१६४॥ आश्रित्य परिहरिष्यति तत्स्वातन्त्रयैकविषयकां शङ्काम्। तदभिध्यानादेव तु तल्िङ्गात्सः ॥।१३॥ स्वयमेव स्वविकारान्सृजन्ति वियदादिकानि भूतानि ॥१६५॥ परमेश्वर एवासी तदात्मनैवावतिष्ठ्मानः सन्। तत्तद्विकारजातं किमभिध्यायन्हि सृजतति वेत्येवम् ॥१६६ ॥ संदेहे सति तावत्स्वयं सृजन्तीति युक्तमाभाति। श्रुतिराकाशाद्वायुर्वायोरगनिरिति बोधयत्येव । १६७।। स्वातन्त्रयं भूतानामतः सृजन्त्येव तानि भूतानि। तत्तेज ऐक्षतेति श्रुतिर्षतश्रेतनत्वमपि वक्ति ॥ १६८॥ इति शङ्कां वारयितुं तदेतदभिधीयते हि सूत्रकृता। परमेश्वर एवासौ सृजति स्वयमेव तानि भूतानि॥१६९ ॥

तदभिध्यानादेव हि तेज:प्रमुखेषु चेक्षणं भवति ॥ १७० ॥ सर्वनियन्तृत्वं यल्लिङ्गं तस्यैव भवति नान्यस्य। अन्तर्यामिपरेऽस्मिन्बाह्मणवाक्ये हि दृश्यते तदिदम् ॥ १७१ ॥ सोडकामयतेत्यस्मिंस्तन्य(त्र) च सर्वात्मभाव उपदिष्:। विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ ध्रुतिकृतविरोधशङ्का यद्यपि नैवेह परिहृताऽथापि ॥ १७२ ॥ भूतानामुत्पत्तिक्रमे तु बु्द्धाविहाधिरूढे हि। विलय क्रमोऽपि तेषां बुध्द्यारूढो विचार्यते सपदि॥ १७३ ॥ किमनियतेनैतेषां क्रमेण विलय: किमन्यथा वा स्यातू। भूतोत्पत्तिक्रमरतस्तद्विपरीतेन वेति संदेहे॥ २७४ ॥

Page 175

१७० सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

उत्पत्तिस्थितिविलया ब्रह्मायत्ता यतो हि भूतानाम्। तत्र विशेषाभावादनियम एवेह युक्त आभाति॥१७५॥ अथवैतेषां विलयः स्यादुत्पत्तिक्रमानुरोधेन। इत्याशङ्कायोगात्तदेतदभिधीयते हि सूत्रकृता ॥१७६॥ विपरीतक्रम एव स्यादुत्पत्तिक्रमाद्द्वि विलयस्य। सोपानारोहादौ यथाऽवरोहक्रमो हि विपरीतः ॥ १७७॥ ओषध्यादिकमेवं सृदि बिलयं याति सृदपि चाप्सवेव। आपस्तेजसि तेजो वायौ वायुश्र वियति वियदृपि च॥ १७८ ॥ बह्मणि विपरीतेन क्रमेण सकलं हि विलयमुपयाति। स्मृतिरषि जगत्प्रतिष्ठेत्याद्या विलयक्रमं हि विपरीतम् ॥१७९॥ दर्शयति येन तस्मान्नैवोत्पत्तिक्रमो हि भवतीह। यद्यत्पत्तिक्रम इह विलयेऽपि स्यात्तदा भवेदेवम् ॥ १८०॥ समवस्थितेऽपि कार्ये कारणविलयक्ष जगति दृश्येत। कार्याप्यये तु कारणसमवस्थानं हि दृश्यते लोके ॥ १८१ ॥ तस्माद्विपर्ययेण क्रमो हि विलयस्प युक्त एपेह। अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥१५॥

अनुलोमप्रतिलोमक्रमेण तौ भवत इति हि निर्दिष्टम्। उत्पत्तिश्राऽडत्मादि: प्रलयश्राऽडत्मान्त इत्यपीहोक्तम् ॥ १८३ ॥ इह सेन्द्रियस्य मनसो बुद्धेरैपि दृश्यते हि सन्भ्ावः । बुद्धिं तु सारथिमिति श्रुतिवाक्ये तत्परं यतो लिङ्गम् ॥१८४॥ उत्पत्तिपलयो किल संग्राह्यावेतयो: क्वचिन्भवतः। अभ्युपगतें हि यस्माद्वह्मप्रभवं हि सकलमेतदिति ॥ १८५॥ अपि चैतस्माज्जायत इति मन्त्रे सेन्द्रियं मनोऽधीतम्। उत्पत्तिपरे वाक्ये मूतानामात्मनोऽन्तराले हि॥ १८६ ॥ करणानामुत्पत्तिक्रमोऽयमपरो हि दश्यते तत्र। एवं सति च विरोधो भवति हि तित्तिर्यथर्वणश्ुत्योः ॥१८७॥ एवं सति व विरोधाच्््रत्योर्त्रअ्मणि समन्वयोऽसिद्धः। तस्मादुक्तोत्पत्तिक्रमविलय क्रमविभङ्ग इति चेन्न ॥ १८८॥ आत्न आकाश इति श्रुतिवाक्ये पञ्चमी हि निर्दिष्ा। तस्याश्र कार्यकारणभावेनार्थक्रमः प्तीयेत । १८९॥

Page 176

तृतीयपादः ३ ] माध्यार्थरत्नमाला। १७१

प सूत्रं स्यादथर्वणे तेन चेह न विरोधः । पा माद्दि बलवानर्थक्रम इति हि शास्त्रमर्यादा॥ १९० ॥ तस्मात्करणानामिह भूतानन्तर्यमेव युक्तं स्यात्। यस्माच्च भौतिकानि हि करणानि मनःपुरःसराणि स्युः॥१९१॥ भूतोत्पा मतो न तदुत्पत्तिक्रमे विशेष: स्यात्। यं हीत्येषा करणानां मौतिकत्वमाचषे ॥ १९२॥ चेदमौतिकानि हि करणाभि तथाऽपि चात्र न विरोध: । भूतानन्तरमेव हि करणानि भवन्ति नैव तत्पूर्वम् ॥१९३ ॥ एवं पृथगाम्नातः प्रजापतिर्वेति मन्त्रवाक्ये य:। भूतक्रमाद्दि करणक्रमः स चायं हि नो विरुद्ध: स्यात् ॥१९४॥ तस्मात्समख्सः स्याद्यृतोत्पत्तिक्रमोऽयमुपदिक्य:। चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशो

तत्पद्वाच्यार्थस्य हि कारणरूपस्य निर्णयायैव ॥१९५॥ भूतश्ुतिवाक्यानां विरोधशक्का निराकृता पूर्वम्। चाSड पाड्समाप्ेसत्वंपव्वाच्यार्थसिन्धये भूयः ॥१९६॥ जीवध्ुतिवाक्यानां विरोधशङ्का निरस्यते सपदि। जातेष्टिदर्शनेन हिन जायते म्रियत एवमादीनाम् ॥ २९७॥ श्रुतिवचसां हि विरोधे जीवाजत्वश्रुतोर्है बाधः स्थात्। तेन च जीवोत्पा मेण भूत स्य बाध: स्यात्॥१९८॥ इति शङ्कामुद्धतुं मुनिना रचितं तदेतदृधिकरणम् । चेतनमुद्दिश्यैव हि जातेष्ट्यादि च विधीयते लोके ॥। १९९।। उद्देश्यमिह विधेयाविरोधतो नेयमिति नयो दृष्टः। तेन च जातेष्यादिकमखिलं देहादिजन्ममूलं स्यात् ॥ २०० ॥ न हि जीवस्य कदाचिज्जन्म लयो वा स्वतोऽस्य संभवति। यदि देहामुविनाशी जीव: स्याच्छास्त्रमेतद्फलं स्यात् ॥२०१॥ इष्टप्राप्तिफलं यद्वििशास्त्रमनिष्टनरसनार्थं यत्। प्रतिषेधशास्त्रमसति ह्योकारिणि कुत्र सफलमेतत्स्यात्॥२०२७ तस्मान्न जायतेऽसी न म्रियते जीव एष नित्यः स्यात्। भ्रुतिरपि जीवापेतं वावेति किलैतमर्थमुपदिशति॥२०३॥

Page 177

१७२ सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

जन्ममृतिव्यपदेशो लोके हष्टः स भाक्त एव स्यात्। स्थावरजङ्गमदेहव्यपाश्रयी जन्ममरणशब्दी स्त: ॥२०४॥ तत्र हि सुख्यौ सन्तावुपचर्येते तदाश्िते जीवे। देहोन्दवाभिभवयोरेतौ शब्दौ यतो हि दश्येते ॥ २०५॥ दर्शयति श्रुतिरेषा स वा अयं पुरुष एवमाद्या हि। तनुसंयोगवियोगायत्ताविति जन्ममरणशब्दी द्वौ॥ २०६॥ जातेध्यादिविधानं सकलमपि शरीरजन्मसापेक्षम्। स्थूलावुत्पत्तिलयौ तस्माद्वेहव्यपाश्रयावेव ॥२०७।। न हि जीवे तावेसावितीह सूत्रे निराकृतौ मवतः । वस्य परस्मादुदयो वियदादीनामिवास्ति नास्तीति ॥ २०८॥ शङ्का निरसितुमेतामुत्तरसूत्रं मुनिः प्रदरशयति।

देहेन्द्रियसंघाताध्यक्षे जीव: प्रसिद्ध आत्माऽसौ॥ २०३॥ पेहोत्पत्तिलयाभ्यामस्पृष्ट इतीह दर्शितं पूर्वम् । मवतु तथाऽप्ययमात्मा वियदादिवदात्मनः परस्मान्दिव॥२१०॥ उत्पद्यत इति वाच्यं यतः प्रतिज्ञा हि नोपरुध्येत । आम्नातैवोत्पत्तिर्यथा सुदीप्तादिति श्रुतावपि च ।। २११॥ अविकृत एव परात्मा प्रविष्ट इह जीवमावमापन्नः। एवं सति प्रतिज्ञा समस्जसैवेति नेह युक्ततमम् ॥२१२॥ अपहतपाप्मत्वगुणः परमात्मा गीयते हि सर्वत्र। तद्विपरीतो जीवो धर्माधर्मादिसाधनो यस्मात ॥ २१३ ॥ एवं लक्षणभेदे जाग्रति कथमैक्यमेतयोमंवति। वियदादि यद्विमक्तं तत्सवं विकृतमेव हषं हि॥ २१४ ॥ परमात्मना विभक्तो जीवोऽसावपि विकार एव स्यात्। प्रवेशवाक्यं स एष इत्यादिमन्त्रपरिपठितम् ॥२१५॥ तदृपि च विकारमावापत्या तस्योपपादनीयं स्यात्। जीवोत्पत्तिस्थितिरिह वाक्ये यद्यपि न हश्यतेऽथापि॥ २१६॥ क्वचिद्श्ुतमन्यत्र श्रुतं न वारयितुमर्हतीति नयात्। उपसंहर्तव्येयं जीवोत्पत्तिर्हि मवति सर्वत्र ॥ २१७॥ उत्पद्यते स तस्मात्तस्य च योऽसावजत्वनिर्देशः । कल्पान्तरालजननप्रतिषेधार्थो हि सोऽयमिति चेन्न ॥ २१८॥

Page 178

तृतीयपाद्: ३] माष्यार्थरत्ममाला। १७३ योऽसावात्मा जीव: स च खलु नोत्पद्यते कदाचिद्षि। जीवोत्पत्तिरियं न श्रुत्यन्तेषूपलभ्यते क्वापि॥ २१९॥ उत्पत्तिरेव तस्य हि कथमपि वियदादिवन्न संभवति। नित्यत्वमेव तस्य श्रुत्यन्तेभ्योऽवगम्यते यस्मात् ॥ २२० ॥ सूत्रस्थाच्च चशब्दादृजत्वमवगम्यते हि तस्यैव। अविकारत्वं च तथा परात्मनो ह्यविकृतस्य जीवतया ॥२२१॥ समवस्थानं ब्रह्मस्वरूपता लभ्यते हि तस्यैव। उपपद्यते हि सा कथमेवंरूपस्य तस्य चोत्पत्तिः ॥ २२२ ॥। हश्यन्ते हि श्ुतयो न जायते ब्रियत एवमाद्या हि। एष महानज आत्मेत्येवमजो नित्य एवमाद्याश् ॥२२३ ॥। एवमनेनेत्याद्यास्तत्सृष्ट्रवेत्येवमादिका: श्रुतयः । तत्त्वमसीत्याद्या अपि तथा स एष इति चैवमाद्याश् ॥ २२४।। नित्यत्वमभिदधाना जीवोत्पत्ति निवारयन्त्येव। ननु जीवो हि विभक्तो विकार एवेति युक्तमिति पेन्न ॥ २२५॥ नास्य स्वतो विभागो भवति हि बुध्द्ाद्युपाधिमूलोडसौ। एको देव इति श्रुतिरेकत्वं येन दर्शयत्यस्य ॥ २२६॥ तस्यैकस्पैबाऽडत्मन उपाधिमयतां प्रदर्शयत्येषा। अयमात्मा ब्रह्मेति ह्यादिश्य ब्रह्मरूपतामस्य ॥ २२७॥ विज्ञानमष स्वाविकमस्याविकृतस्य दर्शयत्येषा। तन्मयता हि विविक्तस्वरूपविज्ञानविधुरतामूला॥ २२८॥ जाल्म: स्त्रीमय इतिवत्तन्मयता तदुपरक्ततारूपा। जीवस्थोत्पत्तिलयश्रवणं यदपीह दृश्यते तदपि ।। २२९॥। तत्तदुपाध्युत्पस्तिपलयप्रतिसंधिपरतया नेयम्। विज्ञानधन इतीह श्रुतिरियमप्येतमर्थमुपदिशति॥२३०॥ तनुरूपपरिणतेष्यो मूतेभ्योऽसी जनि समालम््य। तान्येद लीसमानान्यतुसृत्यायं विनाशसुपयाति ॥२२१॥ इत्यौपाधिकमरणानन्तरमेतस्य नास्ति संज्ञेति। एवसुपाधि धिीन: प्रलयोऽस्य न स्वतोऽस्तीति ॥ २३२॥ श्रुतिरत्नैवेत्याद्या प्रश्नपुरःसरमिदं प्रदर्शयति। आत्मा विज्ञानघनः प्रेत्य च संज्ञा न तस्य काचिदिति ॥२२३ ॥

Page 179

१७४ सुब्रह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

आपादितवान्मोहं बूहि न जानामि तन्ममेत्येवम्। सति मैत्रेयीप्रश्ने न वा अरे अहमितीह दर्शयति॥ २३४॥ सुनिरविनाशित्वाद्यं मात्रासंसर्गमस्य यत एवम्। आत्माऽसी नित्य: स्थादिह प्रतिज्ञानुरोध एवं स्यात् ॥ २३५॥ अविकृत एव परात्मा न जीवभावेन देहसंस्थ इति। लक्षणभेदोऽप्यनयोरुपाधित्तम्त्रो न वस्तुतन्त्र: स्यात् ॥ २३६॥ यंस्मावृत ऊ्ध्वमिति श्रुतिरषा, तस्य दर्शयत्येवम्। विज्ञानादिमयस्य प्रकृतस्यैवाऽडतमनो हि सकलमिद्म् ॥ २३७॥ संसारधर्मजातं प्रत्याख्यायोपदिशति तस्यैव। परमात्मभावममलं स करथं म्रियेत वाऽथ जायेत ॥। २३८॥ तस्मादात्मा मित्यो नैवोत्पद्येत न प्रमीयेत। ज्ञोऽत एव ॥। १८॥ संप्रत्यात्मैवास्य ज्योतिर्भवतीति वेदवाक्यानाम्॥ २३९॥ पश्यंश्रक्षु: शृण्वञभ्रोत्रमिति श्रुतिवचोमिरन्योन्यम्। ज्ञानानित्यत्वपरैर्यश्र विरोधो निरस्यते सोडयम् ॥ २४० ॥ जीवस्यानुत्पत्तावपि नासी स्वप्रकाशचिदूप: । आगन्तुक पैतन्य: काणसुजानामिवायमात्मा स्यात् ॥ २४१ ॥ यदि नित्यं चैतन्यं तस्य भवेत्सुप्तमूर्छिितादीनाम्। चैतन्यं किं न भवेत्साधनवैयथर्यमपि च दुर्वारम्॥ २४२॥ आगन्तुकचैतन्ये ब्रह्मैक्यं तस्य भवति कथमिति चेतू। तस्योत्तरमेतत्स्वादात्माऽसौ भवति नित्य चैतन्य: ।। २४३ ।।. नोत्पद्यते यतोडयं परमेव ब्रह्म यदपि चाविकृतम्। वुध्धादयपाधियोगात्तदेव जीवात्मभावमापन्नम् ॥ २४४। यद्दि परं ब्ह्म स्पात्तन्नित्यस्वप्रकाशचिद्रूयम्। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतिवचोमिराम्नातम् ॥२४५॥ यदि च पर ।सौ जीवः स्यात्तर्हि नित्यचैतन्यः । भ्रुतयो विज्ञानमयप्रकरणपठितास्तथैव श्यन्ते॥ २४६॥ सोऽयमसुप्तः सुप्तानर्थानमिलक्ष्य पश्यतीत्सर्था। स्वात्मज्योतिः पुरुषः स्वापे मवतीति बोधयत्येका॥ २४७॥ विज्ञातुरविज्ञातेर्न विलोप इतीह बोधयत्यन्या। अथ यो वेदेदमिति प्रतिकरणं वेदनानुसंधानात् ॥ २४८॥

Page 180

वृतीयपाद: ३] भाष्यार्थरत्नमाला। १७५

जीवात्मनोऽपि भवति हि नित्यज्ञानस्वरूपता सिद्धा। जीवस्य नित्यचेतनभावे घ्राणाद्यनर्थकं भूयात् ॥ २४९ ॥ इति तु न हि घ्राणादिकमन्यत्र गन्धादिविषयवृत्त्यर्थमू। गन्धाय घ्राणमिति[श्रुति]रप्युक्तार्थमेव बोधयति॥२५० ॥ सुप्तादिषु चैतन्यं स्यादिति शङ्काऽपि नेह कर्तव्या। श्रुत्यैव परिहृतेयं पश्यन्वै तन्न पश्यतीत्यनया ॥ २२१॥ यदि चेतयमानत्वं सुप्तादिषु हश्यते हि तद्दि किल। न हि चैतन्याभावात्परंतु तद्विषयवृत्त्यभावेन ॥ २५२॥ वियदाश्रयः प्रकाशो यथा प्रकाश्यार्थविरहितत्वेन। नैवामिध्यक्त: स्यात्तद्वविहापीति सर्वमनवद्यम् ॥ २५३॥ तस्मात्सिद्धं नित्य: स्वयंप्रभज्ञानरूप आत्मेति। उत्क्रान्तिगत्यागतीनाम् ॥१९॥ संप्रति किंपरिमाणो जीवः स्याविति विचार्यते मूयः ॥२५४॥ ननु जीवे निर्णीतं नित्यत्वं नित्यचेतनख्वमपि। अत इह परमात्माSसौ जीव इति निरूपितं हि पूर्वत्र ॥ २५५॥ आस्न्नाता हि परस्य त्वनन्तता सा हि मवति जीवस्य। तेन च परिमाणान्तरचिन्ता नेहोचितेति चेम्मैवम् ॥२५६ ॥ थत उत्क्रान्त्यादीनि ह्यस्य परिच्छेदमेव गमयन्ति। क्वचिद्णापरिमाणत्वं तस्यैवाऽडस्नायते स्वशब्देन ॥ २५७॥ एतस्यानुकूलतासुपपादयितुं कृतोऽयमारम्म:। उत्क्रान्त्यीदिश्नवणादणुरात्माऽसौ भवेत्परिच्छिन्नः ॥२५८॥ उत्क्रान्तिः स यदेति श्रुतिवाक्येनोपदर्शिता तस्य। गतिरपि ये वै के चेत्यनया श्रुत्योपदर्शिता मवति ॥२५९॥ आगतिरपि निर्दिष्टा तस्माल्लोकादिति श्वुतौ तस्य। उत्क्रान्त्यादिभ्रवणात्स भवेदात्मा यदा परिचि :॥ २६० ।। तनुपरिमाणनिरासाद्णुरयमात्मेति गम्यते डि तदा। स्वात्मना चोत्तरयोः ॥ २० ॥ ग्राम्यस्वाम्यनिवृत्तिवदिय मुत्क्रान्तिर्भवेदचलतोऽरपि ।। २ ६१ ।। नाचलतो हि कदाचन गत्यागमने तथोत्तरे भवतः । गमिधातुरयं यस्मात्कर्तृगतां हि क्रियां प्रदर्शयति ॥ २६२॥

Page 181

[ २ द्वितीयाध्यायस्य-

आपादितवान्मोहं बूहि न जानामि तन्ममेत्येवम्। सति मैत्रेयीप्रश्ने न वा अरे अहमितीह दर्शयति॥ २३४॥ सुनिरविनाशित्वाद्यं मात्रासंसर्गमस्य यत एवम्। आत्माऽसौ नित्यः स्यादिह प्रतिज्ञानुरोध एवं स्यात् ॥ २३५॥ अविकृत एव परात्मा न जीवमावेन देहसंस्थ इति। लक्षणभेदोऽप्यनयोरुपाधितम्त्रो न वस्तुतन्त्रः स्यात् ॥ २३६॥ यस्मादत ऊध्वमिति श्रुततिरषा, तस्य दर्शयत्येवम्। विज्ञानादिमयस्य प्रकृतस्यैवाऽडतमनो हि सकलमिदम् ॥ २३७॥ संसारधर्मजातं प्रत्याख्यायोपदिशति तस्यैव। परमात्मभावममलं स कर्थं म्रियेत वाऽथ जायेत ॥। २३८॥ तस्मादात्मा मित्यो नैवोत्पद्येत न प्रमीयेत। ज्ञोडत एव ॥ १८॥ संप्रत्यात्मैवास्य ज्योतिर्भवतीति वेदवाक्यानाम्॥ २३९॥ पश्यंश्रक्षुः शृण्वञभ्रोत्रमिति श्रुतिवचोमिरन्योन्यम्। ज्ञानानित्यत्वपरैर्यश्र विरोधो निरस्यते सोडयम् ॥२४०॥ जीवस्यानुत्पत्तावपि नासी स्वप्रकाशचिद्रूप: । आगन्तुकचैतन्य: काणसृजानामिवायमात्मा स्यात् ॥ २४१ ॥ यदि नित्यं चैतन्यं तस्य भवेत्सुप्तमूर्छिितादीनाम्। चैतन्यं किं न भवेत्साधनवैयर्थर्यमपि च दुर्वारम् ॥ २४२॥ आगन्तुकचैतन्ये ब्रह्मैक्यं तस्य भवति कथमिति चेतू। तस्योत्तरमेतत्स्वादात्माऽसौ भवति नित्यचैतन्य: ।। २४३ ।। नोत्पद्यते यसोडयं परमेव ब्रह्म यदपि चाविकृतम्। बुध्धादपाधियोगात्तदेव जीवात्मभावमापन्नम् ॥ २४४ ।। यद्दि परं बह्म स्पात्तन्नित्यस्वप्रकाशचिट्रयम्। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतिवचोभिराम्नातम् ॥२४५॥ यदि च पर सौ जीवः स्यात्तर्हि नित्यचैतन्यः । भ्ुतयो विज्ञानमयप्रकरणपठितास्तथैव हश्यन्ते॥ २४६॥ सोऽयमसुप्तः सुप्तानर्थानिलक्ष्य पश्यतीत्सर्था। स्वात्मज्योतिः पुरुषः स्वापे मवतीति बोधयत्येका॥ २४७॥ विज्ञातुरविज्ञातेर्न विलोप इतीह बोधयत्यन्या। अथ यो वेदेदमिति प्रतिकरणं वेदनानुसंधानात् ।२४८॥

Page 182

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १७७

सकलशरीरव्यापिनमाह्लादं जनयतीह तद्दयम्। देहैकदेशसंस्थो जनयत्युपलब्धिमखिलदेहगताम् ॥ २७६॥ त्वक्संबन्धाच्चास्य हि सकलशरीरगतवेदना भवति। अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाड्ृदि हि॥ २४ ॥ नन्विह दृष्टान्तोऽयं विषमो नेहार्थसाधको भवति ॥२७७॥ हरिचन्दनबिन्दुरसाविह खलु देहैकदेशसंस्थोऽपि। प्रत्यक्षेण हि दृष्टो जनयन्नाह्लादमखिलदेहगतम् ॥२७८॥ इह पुनरुपलब्धिरियं सर्वांङगव्यापिनी परं दृष्टा। नैवैकदेशसंस्था प्रत्यक्षेणोपलभ्यते तस्य ॥ २७९ ॥ तस्यैकदेशसंस्थितिसाधकमनुमानमपि न देहेऽस्ति। उपलब्धिरियं किंवा कृत्स्नतनुस्थत्वगिन्द्रियस्यैव । २८० ।। किंवा वियत इव विभो: किंवा देहैकदेशसंस्थस्य। इतिसंशयानिवृत्तेर्दष्टान्तो नेह युक्त इति चेन्न ॥२८१॥ देहैकदेशसंस्था वेदान्तेषूपलभ्यते तस्य। योऽयं विज्ञानमयः प्राणेष्वित्यादिवेदवाक्येन ॥ २८२ ।। हृद्यन्तर्ज्योतिरिति श्रुतिवचसा हृदयदेशवृत्तित्वम्। यस्मादस्याभ्युपगतमत उपपन्नः किलैष दृषान्तः ॥ २८३ ॥। दष्टान्तावैषम्याद्विरोध इतीह युक्तमेवोक्तम्।

गुणाद्वा लोकवत् ॥ २५॥

चैतन्यगुणव्याप्तेरविरोधो भवति लोकवच्चेह ॥ २८४।।

या च प्रभा तदीया सा चाधिकदेशसंगता दृष्टा ॥ २८५॥ नन्विह चन्दनबिन्दोरपि किल देहैकदेशसंस्थस्य। अवयवविसर्पणेन ह्याह्लाद्यितृत्वमुचितमेवास्य ॥ २८६॥ इह खलु जीवस्याणोनित्यस्य तथैव सन्ति नावयवाः । कैरवयवैः कथं वा सकलं देहं स विप्रसर्पेत । २८७ ।। इति शङ्गां वारयितुं सूत्रं तदिदं कृतं गुणाद्वेति। नन्विह कथं गुणोऽसी गुणिनमतिक्रम्य वर्तितुं प्रभवेत्॥२८८॥ पटगतशुक्कादिगुणो न पटाद्न्यत्र दृश्यते लोके। दीपप्रभा हिन गुणो द्रव्यान्तरमेव किंतु सा भाति ॥२८९ ॥ २३

Page 183

१७८ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य -

निबिडावयवं तेजो द्रव्यं लभते प्रदीपसंज्ञां हि। विरलावयवं यदिदं तेजोद्रव्यं हि तत्प्रमा भवाति ॥ २९० ॥ तर्ाद्युक्त एव ह्ययमपि दृष्टान्त इत्यतः पठति। व्यतिरेको गन्धवत् ॥ २६ ॥। तथा च दर्शयति ॥ २७ ॥। गन्धवतो द्रव्यस्य व्यतिरेकेणापि वर्ततेऽन्यत्र ॥ २९१॥ गन्धो गुणो यथा वा चैतन्यगुणोऽपि तद्ददेव स्यात्। उपलभ्यते हि कुसुमेष्वप्राप्तेष्वपि च गन्धगुण एषः ।। २९२।। तेन गुणत्वाद्वूपवदाश्रयविश्लिष्टता न युक्ताऽस्य। इत्येतद्यभिचरितं दृष्टो गन्धे यतश्र विश्लेष: ।। २९३।। गन्धस्यापि सहैवाऽडश्रयेण विश्लेष इति तु न हि युक्तम्।

क्षीयेत पूर्वसंस्थर्गुरुबुध्द्यादिभिरपीह हीयेत। सूक्ष्मा: कुसुमाचयवा विप्रसृताः सर्वतो हि जनयन्ति ॥२९५॥ गन्ध प्रविशन्ति तथा नासापुटमिति न चेह युक्ततमम्। सूक्ष्मा ह्यतीन्द्रियास्ते स्फुटो हि गन्धः प्रतीयमानोऽसी।। २२६।। तस्मान्न किंचिदेतद्यथेव हष्ट तथाऽभ्युपेतव्यम्। दर्शयति श्रुतिरेषा तथैव हृदयालयत्वमणुतां च॥। २९७।। तस्याभिधाय पुनरप्या लोमभ्यस्तथाऽड नखाग्रेभ्यः। चैतन्येन गुणेन हि सर्वतनुव्यापितां च दर्शयति ॥ २९८॥ ध्रुत्यम्तराविलम्बाद्यापित्वं तस्य दर्शयत्यधुना। पृथगुपदेशात् ॥ २८॥ प्रज्ञां पृथगुपदिशति श्रुतिरिह या प्रज्ञया शरीरमिति ॥२९९॥ कृत्स्तनुव्यापित्वं तथैव तस्योपदर्शयत्येषा। स्वापाधिकारपठिता श्रुतिस्तदेतदिति दर्शयत्येवम् ॥३०० ॥ अणुरयमात्मा हीशो विभुरत ऐक्यं कथं तयोरिति चेतु। तद्गु-सारत्वान्तु तव्यपदेश: प्राज्ञवत् ॥ २९ ॥ सोडयं हि पूर्वपक्षव्यावृत्तिफलस्तु शब्द इह भवति ॥३०१॥ उत्पत्तेरश्रवणाङ्गह्मण एव प्रदेशदृध्या च। तट्पतोपदेशास्परमेव ब्रह्म जीव इत्युक्तम्॥। ३०२ ॥।

Page 184

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १७९

यावङ्रह्म परं स्यात्तावाञ्जीवोऽपि भवितुमर्हति हि। इह च परस्य विभुत्वं श्रुतमत आत्माऽपि सवति विमुरेव।२०३। एष महानज आत्मा योऽयं विज्ञानमय इति-प्रथितः । जीवपरा हि औीता विभुत्ववादा: समर्थितास्तेन ।।३०४।। यदि चाणुर्जीवः स्यात्सकलतनुव्याप्तिवेदना न स्यात्। त्वक्संबन्धात्सा चेत्कण्टकतोदेऽपि तद्वदेव स्यात् ॥३०५॥ कण्टकुतुन्नो लभते पादतले वेदनां न चान्यत्र। इह चैतन्यगुणस्य व्याप्तिर्वा कथमणोर्हि जीवस्य ॥ ३०६ ।। यञ्च गुणस्य गुणत्वं गुणिनमनाश्रित्य तत्कथं सिध्येत्। गन्धः साश्रय एव हि संचरतीत्येतदेव युक्तमतः ॥ ३०७॥। द्वैपायनेन मुनिना हयुपलभ्याधस्वति तदेतदेवोक्तमू। सर्वशरीरव्याप्ं चैतन्यं स्याद्यदाडस्य जीवस्य॥३०८॥ न तदाऽणुर्जीवः स्याद्यतो हि चैतन्यरूप एवासौ। औष्ण्यप्रकाशरूपो यथा हि वहिस्तथाऽयमात्मा स्पात् ॥३०९॥ गुणगुणिमावायोगात्तनुपरिमाणत्वनिरसनाच्चैव। तस्मादिह परिशेषाद्विमुरयमात्मेति युक्तमभिधातुम् ॥ ३१०॥ तद्णात्वव्यपदेशं संगमयति सपदि सूत्रकारोऽसौ। तट्ठुणसारो जीवो यतोऽणुरयमिति हि गीयते तेन ।। ३११ ॥ इच्छाद्वेषप्र ये वै बुद्धेर्गुणा हि विख्याताः। तेषामध्यासेन ह्यणुत्ववादोऽयमस्य संवृत्त: ।।३१२। कर्तृत्वभोक्तृतात्मकसंसारित्वं च भवति तन्मूलम् । स्वत इह सोऽयमकर्ता तद्दृभोक्ता च नित्यमुक्तश्र ॥३१३ ॥ परिमाणाध्यास बुद्धयध्यासप्रयुक्त एवास्य। उत्क्रान्तिव्यपदेशो बुद्धच्युत्क्रान्त्या न च स्वतोऽस्य स्यात्॥३१४॥ श्रुतिरिह वालाग्रेति प्रथममणुत्वं हि तस्य निर्दिश्य। अन्ते स चेति वाक्यादानन्त्यं तस्य सम्यगुपदिशति ॥३१५॥ तच्चैवमाञ्जसं स्याद्यदौपचारिकमणुत्वमिह भवति। आनन्त्यमौपचारिकमिति नाSडशङ्ूचं यतश्र सर्वत्र ॥३१६॥ ब्रह्मत्वभाव एव श्रुत्यन्तेषूपदिश्यते तस्य । या बुद्धेरित्याद्या श्ुतिरस्याऽडराग्रमान्नतां शास्ति ॥ ३१७॥

Page 185

१८० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

सा बुद्धिये गमूलां तामाचष्टे न हि स्वरूपेण। या श्रुतिरषोऽगुरिति प्रथयत्यछतां न तत्परा सा हि ॥३१८। ज्ञानप्रसादगम्य: पर एताऽडत्मा यतोऽत निर्दिष्टः। अणुपरिमाणत्वं किल जीवस्याव्यनुपपन्नमेवातः ॥३१९॥ डुर्ज्ानत्वपरं स्यादुपाधिसंबन्धपरतया वा स्यात्। यञ्चान्यच्छरतिवाक्यं प्रदर्शितं प्रज्ञया शरीरमिति ॥३२० ॥ वुद्धि: प्रज्ञैव स्याद्थवा व्यपदेशमात्रमेतत्स्यात। व्यपदेशोऽयमभिन्ने भवति शिलापुत्रकस्य गात्रममिति ।३२१।। अत्र घ गुणगुणिभावो नैवास्तीत्युक्तमेव पूर्वत्र। हृदयायतनत्वोक्तिर्बुध्यायत्ता तथैव चोकक्रान्तिः ।। ३२२।। इममर्थमेव कस्मिन्नवहमित्येषा श्रुतिः प्रदर्शयति। यद्युत्क्रान्तिर्न स्यात्स्यातां गत्यागती कर्थं तस्य ।। ३२३ ।। तस्माद्यपदेशोऽसावुपाधिगुणसारतोऽत्र युक्त: स्यात्। परमात्मनो यथा वा प्राज्ञस्योपासनेषु सगुणेषु ॥ ३२४॥ - संसारित्वमणुत्वं तद्वज्ीवेऽप्युपाधियोगेन ।। ३२५ ।। बुध्द्यात्मयोगतो ननु संसारित्वं यदाऽस्य कल्प्येत। संयोगस्यापगमो मवत्यवश्यमिति तद्वियोगे हि॥ ३२६ ॥ वस्यासंसारित्वं स्यादिति शङ्कां निराकरोत्यधुना। यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥ नैषा शङ्का कार्या यस्माद्बुद्य्यायपाधियोगोऽसौ ॥। ३२७ ॥ स च यावदात्मभावी नाकस्मात्तदवसानमिह भवति। यावत्तत्वावगतेरस्य न संसारिता निवर्तेत ॥ ३२८॥ त नोपशाम्यति बुध्या योगो न केनचिद्वाऽपि। वुध्या योगो योऽसी स कथं स्याद्यावदात्मभावीति ॥३२९॥ एषा शङ्का मुनिना निरस्यते सपदि सूत्रशेषेण। योऽयमिति श्रुतिदृष्टो विज्ञानमयो हि बुद्धिमय एव ॥ ३३०॥ मनआदिसाहचर्य विज्ञानस्योपलभ्यते येन। विज्ञानमयमनोमयपुरःसरा श्रुतिवचोन्तरे दृष्ा ॥ ३३१॥ अनुसंचरतीत्यन्ता स समान: सन्निति श्रुतिर्याऽपि। छोकान्तरगमनेऽपि हि बुद्धया योगं प्रदर्शयत्येषा ॥३३२ ॥

Page 186

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १८१

मिथ्याज्ञानपुरःसर एवासावात्मबुद्धिसंयोग: । मिथ्याज्ञाननिवृत्तिर्न हि सम्यग्ज्ञानमन्तरा भवति ॥३३३ ॥ तस्माद्बुद्धया योगः सम्यग्ज्ञानाहते न शाम्येत। श्रुतिरपि वेदाहमिति प्रथयति तभिमं यथोपदिषार्थम्॥ ३३४॥ अत्येति तं विदित्वा सृत्युं मार्गोडयनाय नान्य इति। नन्विह सुतौ भलये बुद्धया योगो न शक्यते ज्ञातुम् ॥३३५॥ कृत्सं विकारविलयं स्वमपीत इति श्रुतिर्यतो वक्ति। पुंस्त्वादिवत्त्वस्य सतोऽभ्षिव्यक्तियोगात ॥ ३१॥ सुप्त्यादौ निर्लेपं बुद्ेर्योगेन विलयमुपयाति॥३३६ ॥ सत एवाभिव्यक्तिलोंके दृष्टा न चासतः क्वापि। पुंस्त्वादीनि हि लोके बाल्ये जीवात्मना स्थितान्येव ॥ ३३७।। आविर्भवन्ति पश्चाद्यौवनसमये न वैपरीत्येन। यदि चेन्नायं नियम: षण्डाद़ीनां कुतो न जायन्ते ॥ ३३८॥ तस्मात्सुप्ती विलये बुद्धया योगो हि सूक्ष्मरुपेण। स्थित एव संप्रबोधे व्यक्तं गृह्यत इतीह वक्तव्यम्॥३३९॥ दर्शयति श्रुतिरेषा सति संपद्येति चेममेवार्थम्।

न्यतरनियमो वाऽन्यथा॥३२॥ आत्मन उपाधिभूतं ह्यन्तःकरणं मनश्र बुद्धिरिति ॥३४०॥ विज्ञानं चित्तमिति ह्यनेकधा गीयते हि वेदेषु। निश्चयवृत्तिर्बुद्धि: संशयवृत्तिकमिदं मनो भवति ॥३४१ ॥ यद्यन्त:करणमिदं नाभ्युंपगम्येत तरहि दोषोडयम्। नित्योपलब्धिरथवा नित्यानुपलब्धिरेव तस्य स्यात् ॥ ३४२॥ उपलब्धिसाधनानामात्मेन्ट्रियविषयपरिकरादीनाम्। सततोपलब्धिरेव हि संनिधियोगेन तस्य जायेत ॥ ३४३॥ सति हेतुसमवधाने यदि च फल नैव द्वश्यते तर्हिं। अनवरतानुपलब्धिस्तस्येयं मवति दुर्निवारैव ॥ ३४४॥। शक्तिप्रतिबन्धो वाऽप्यात्मेन्ट्रिययोरिहाभ्युपेयः स्थात्। शक्तिप्रतिबन्धोऽसावात्मन इह वक्तुमनुचितो भवति ॥३४५ ॥

Page 187

१८२ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

यस्मादृविक्रियोऽसावात्मा तेनायमनुचितस्तस्य। नापीन्द्रियस्य पूर्वोत्तरक्षणाकुण्ठशक्तिकस्यैव ॥३४६॥ मध्ये हि कथमकस्माच्छक्तिरियं तस्य चोपरुध्येत । तस्माच्च यद्वधानानवधानाभ्यामुभे इमे भवतः ॥। ३४७। तच्चाSSवश्यकमेव हिमन इममर्थ श्रुतिः प्रदर्शयति । मनसा ह्येवेत्याद्या श्रुतिरन्यत्रेति चापरापि तथा ॥ ३४८॥ तस्मात्सूत्रकृतोक्तं तहुणसारत्वसुचितमेवास्य। कर्ता शास्त्रार्थवत्वात्॥ ३३ ॥ तट्ठुणसारत्वेन ह्यणुताध्यासात्स्वतो महत्त्वमिति ॥ ३४९॥ स्थापितमेतत्संप्रति कर्तृत्वाध्यासमपि च दर्शयति। अन्रासङ्गत्वश्रुतिवचनानामपि विधिश्रुतीनां च ।। ३५०।। विप्रतिपत्तौ बुद्धेः कर्तृत्वेनैव शास्त्रनिर्वाहात्। सोऽयमकर्तैव स्यादिति सांख्यमतं हि निरसितुं सकलम् ॥३५१॥ कर्तृत्वाध्यासोक्त्या सिद्धान्तयतीह सूत्रकारोऽयम् । आत्माऽसौ कर्ता स्याद्यस्माद्विधिशास्त्रमर्थवन्भवति ॥३५२।। कथमन्यथाऽर्थवत्स्यादध्ना जुहुयाद्यजेत पशुनेति। द्रष् भोता मन्ता बोद्धा कर्तेति शास्त्रमखिलमपि ।३५३ ।। नैवासङ्गत्वश्नत्तिपरिपन्थ्याविद्यकं हि कर्तृत्वम्। विहारोपदेशात्॥ ३४ ॥ तस्मात्स हि कर्ता स्यादितोऽपि चाऽडत्मा भवेद्सौ कर्ता॥३५४॥ यस्माद्विहारमस्य श्रुतिः स ईयत इति प्रदर्शयति। उपादानात् ॥ ३५॥ आत्माऽसी कर्ता स्याद्यतस्तदेषामिति श्रुतिस्तस्य ।। ३५५।। जीवप्रकरण एव हि करणोपादानमस्य कीर्तयति। व्यपदेशाच्च क्रियायां न चेन्निर्दशविपर्ययः ॥ ३६ ॥ विज्ञानं यज्ञमिति श्रुतिरेषा हि क्रियासु कर्तृत्वम्॥ ३५६ ॥ व्यपदिशति तस्थ वस्मादितोऽपि चाऽडत्मा भवेदसी कर्ता। नन्विह विज्ञानपदं बुद्धिपरं स्यान्न चाऽऽत्मपरमिति चेत्॥३५७ बुद्धिपरं चेचदिदं निर्देशविपर्ययः प्रसज्येत। विज्ञानेनेति स्याद्विज्ञानमितीह नो निदेश: स्थात् ॥ ३५८॥

Page 188

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १८३

बुद्धिविवक्षायां खलु करणविभक्तिर्हि हश्यतेन्यत्र। विज्ञानेनेत्येवं श्रुतौ तदेषामिति प्रसिद्धायाम् ॥ ३५९॥ ननु यदि बुद्धयतिरिक्तो जीव: कर्ता स च स्वतन्त्र: सन्। प्रियमात्मनो हि यत्स्यात्तदेव संपाद्येन्न विपरीतम् ॥ ३६० ॥ विपरीतमपि च कार्य कुर्वाणो हश्यते ह्यसावात्मा। एवंविधा प्रवृत्तिर्न हि स्वतष्त्रस्य भवति युक्ततमा ॥ ३६१॥ इत्येतामाशङ्कां निरसितुमपरं हि सूत्रमिह पठति। उपलब्धिवदनियमः ॥३७॥ आत्मा यथोपलब्धिं प्रति स्वतन्त्रोऽप्यनिष्टमिष्टं च ॥३६२ ॥ उपलभते तद्वदिहाप्यनिटमिष्टं समर्जयेन्न कुतः । उपलब्धिसाधनानि हि मवन्ति विषयप्रकल्पनार्थानि॥ ३६३॥ उपलब्धौ त्वनपेक्षः स्याद्यमात्मा हि चेतनत्वेन। नन्वयमात्मा करणान्यपेक्षते विषयकल्पनार्थं चेत् ॥ ३६४।। स च कथमिह स्वतन्त्रः स्यादित्येतञ्च तुल्यमुभयत्र। कर्ता व्यपेक्षते किल देशं कालं निमित्तमपि किंचित् ॥३६५॥ नैतावता हि कार्ये कर्तुः स्वातन्त्रयमपहतं भवति। एधोदकसापेक्षः पक्ता पाके स्वतन्त्र एव स्यात् ॥३६६॥। सहकारान्तरयोगादिष्टानिष्ठप्रवृत्तिरस्य स्यात्। शक्तिविपर्ययात् ॥ ३८॥ विज्ञानव्यतिरिक्तो जीव: कर्तेति वक्तुमिह युक्तम् ॥ ३६७॥ विज्ञानशब्दवाच्या बुद्धि: कर्तृत्वभागिनी चेत्स्यात्। बुद्धिरहि करणशक्ति: प्रथिता सर्वत्र सा च हीयेत ॥ ३६८॥। एवं हि कर्तृशक्तिस्तस्या बुद्धे: परं प्रसज्येत। सर्वार्थकारिकरणं कल्पयितव्यं तदाऽन्यदेतस्याः॥३६९॥ शक्तोऽपि सन्क्रियास्विह करणापेक्षो हि दृश्यते कर्ता। करणव्यतिरिक्तेऽपि हि कर्तरि संज्ञाकृतो विवाद: स्यात्॥३७०।। समाध्यभावाच् ॥ ३९॥ औपनिषदात्मबोधप्रयोजनो यः समाधिरुपदिष्टः । द्ृष्टव्यः श्ोतव्यो मन्तव्य इति श्रुतिप्रदेशेषु ॥ ३७ ॥

Page 189

१८४ [ २ द्वितीयाध्यायाप-

असति च कर्तृत्वे कथसुपपन्नस्तस्य सोडयमिह भवति। तस्माद्व्यय आत्मा कर्तेत्येतञ्च युक्तमेव स्यात् ॥३७२॥ यथा च तक्षोभयथा॥४०॥ शास्त्रार्थवत्त्वपूर्वैर्हैतुभिरेतस्य यञ्ञ कर्तृत्वम्। मीमांसकानुमत्या स्वाभाविकमेव तदिति संगापे ॥ ३७३ ॥ न स्वाभाविकमस्य च कर्तृत्वं स्यादितीह दर्शयति। तच्चेत्स्वाभाविकमिह न विमोक्षः स्यात्कर्थंचिदृपि तेन ॥ ३७४॥ कर्तृत्वाद्विमुक्ते पुरुषार्थो वा कथं भवेत्को वा। ननु कर्तृत्वे सत्यप्यस्य च कर्तृत्वकार्यपरिहारात् ॥३७५॥ पुरुषार्थः स्यादस्य हि तत्परिहारो निमित्तपरिहारात्। अग्रे: शक्तस्यापि हि काष्ठवियोगे यथा न कार्यं स्यात् ॥३७६॥ तद्दिहापि स्यादिति नेयं शङ्का हि भवति युक्ततमा । येन निमित्तानामपि संबन्ध: शक्तिलक्षणेन स्यात् ॥३७७॥ तत्परिहारायोगादविमोक्षोऽसी ततोऽस्य दुर्वारः। ननु मोक्षसाधनात्किल मोक्ष: स्यादिति तु नैवमाशङ्क्यम्॥३७८॥ साधनसापेक्षो यदि मोक्षस्तर्ह्ययमनित्य एव स्यात्। साधनसापेक्षं किल लोके सकलं हि दृश्यतेऽनित्यम् ॥३७९॥ ब्रह्मात्व(त्म)भावबोधान्मोक्ष इति निरूपितं हि शास्त्रेऽस्मिन्। स हि नावकल्पते किल बोधः स्वाभाविके हि कर्तृत्वे ॥ ३८० ॥ तस्मादुपाधिधर्माध्यासेनैवास्य कर्तृता वाच्या। दर्शयति चेममथ श्रुतिरेषा ध्यायतीवशब्दमुखा॥ ३८१ ॥ न विवेकिनां परस्मादन्यो जीवो हि विद्यते कर्ता। नान्योडतोऽस्ति द्रष्टेत्याद्या: श्रुतयोऽपि दर्शयन्त्येवम्॥ ३८२॥ पर एव तार्हे कर्ता भोक्ता च स्यात्तथैव संसारी। इति तु न दोष इह स्थाद्यस्मादाविद्यकानि चैतानि॥ ३८३ ॥ आविद्यकमेवेदं कर्तृत्वादिकमिति प्रदर्शयति। श्रुतिरन्या यत्रेति हि विद्यावसरे तु वारयत्यपरा॥३८४ ।। यत्र त्वस्येत्याद्या श्रुतिरपि तस्मान्न कश्रिदिह दोषः। तस्य सवपे जाग्रत्युपाधिसंपर्कजनित एवासी ॥। ३८५।। श्रम आकाशे पततः शयेनस्येवेति दर्शयित्वैवम्। तद्मावं च सुषुप्ते आवयति प्राज्ञसंपरिष्वक्ते ॥ ३८६ ॥

Page 190

तुतीयपाद: ३] माष्यार्थरत्नमाला। १६५

तद्वा अस्येत्याद्या श्रुतिः परानन्दरूपतामस्य। दर्शयितुमेतमर्थं प्राहाऽडचार्यो यथा च तक्षेति ।। ३८७ ।। त्वर्थश्रेह चशब्दः पक्षव्यावृत्तिफलक एवासौ। स्वाभाविकमेव स्यात्कर्तृत्वादिकमितीह नाऽडशङूयम्॥३८८॥ लोके तक्षा हि यथा गृहीतवास्यादिकरणहस्तः सन्। दुःखी भवति स एव स्वगृहं प्ाप्तो विमुक्तवास्यादि:॥३८९॥ स्वस्थो निर्वृत्तोऽसी निर्व्यापारः सुखी भवत्येवम्। द्वैतमविद्यामूलकमालम्व्य स्वप्नजाग्रतोरात्मा ॥३९०॥ कर्ता दुःखी भवति हि स तच्छ्रमस्यापनुत्तये हि पुनः। प्रविशन्परमात्मानं प्रविलापितकार्यकरणसंघातः ।। ३९१॥ स हि भवति संप्रसादावसरे च सुखी तथैव चाकर्ता। एवमविद्याध्वान्तं विद्यादीपेन सुक्त्यवस्थायाम्॥ ३९२॥ आत्मा विधूय सकलं परमानन्दो हि केवलो भवति। तक्षा हि तक्षणादौ यथा हि वास्याद्यपेक्ष्य कर्ता स्यात्॥३९३॥ एवं मनआदीनि ह्यपेक्ष्य कर्ता स्वतस्त्वकरतैव। इत्यावेद्यितुं किल हष्टान्तोऽयं प्रदुर्शितो भवति ॥३९४॥ बोधयितुं कर्तृत्वं स्वाभाविकमिति न चेह विधिशास्त्रम्। तद्नूद्याSडविद्यकमिह कर्तव्यविशेषबोधनार्थं स्यात् ॥। ३९५॥ नन्विह संध्ये स्थाने प्रतीयते केवलस्य कर्तृत्वम्। कामं परिवर्तत इति विज्ञानेनेति वाक्ययुगलेन ॥ ३९६।। इति चेन्नायं दोषो यतश्र तत्रापि करणसंबन्धः । श्तिवचनेन सधीरिति संध्यपरेण प्रतीयते हि यत: ॥ ३९७॥ स्मृतिरषि किलेन्द्रियाणासुपरम इत्येतमर्थमाचष्टे। तस्मात्समना एव हि विहरति संध्य इति युक्तमभिधातुम॥३९८। सोडयं हि वासनामय एव विहारो न तथ्यंरूप: स्यात्।

एवसुपादानेऽपि हि कर्ता समना न केवलो भवति। करणविभक्तिरयुक्ता करणविशिष्टस्य कर्तृतारयां स्यात् ॥। ४०० ॥ इति नात शङ्कनीयं लोकविवक्षा हि दश्यते बहुधा। युध्यन्ते योधा इति योधैर्युध्यत इहैष राजेति॥४०१ ॥

Page 191

सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्ष्य-

तस्मात्करणविभक्ति: सेह विवक्षावशेन युक्तैव। अपि चोपादानेऽस्मिन्व्यापारोपरम एव करणानाम् ॥४०२॥ न स्वातन्त्रयं कस्यचिद्बुद्धिपूर्वः स दृश्यते स्वापे। विज्ञानं यज्ञमिति व्यपदेशो यश्च दर्शितः पूर्वम् ॥४०३॥ स हिरेव स्यात्कर्तृत्वपरो न चाडत्मनो मवति। मनसोऽनन्तरपठितं विज्ञानपदं तु बुद्धिरूढं हि॥ ४०४ ॥ श्रद्धाद्यवयववत्वं बुद्धेरेवोपदर्शयत्येषा। तस्य श्रद्धेत्याद्या श्षतिरत इह बुद्धिरेव विज्ञानम् ॥४०५।। एवं स एष वाचश्चित्तस्येति श्रुतौ हि यज्ञस्य। वाग्बुद्धिसाध्यतोक्ता तस्माद्विज्ञानमत्र बुद्धि: स्यात् ॥ ४०६॥ शक्तिविपर्ययशङ्का न हि बुद्धेः कर्तृतामते मवति। करणानामपि लोके स्वस्वव्यापारकर्तृता हि यतः ॥ ४०७॥ उपलब्ध्यपेक्षयाऽपि हि करणाना नैव करणता युक्ता। नित्योपलब्धिरूपो ह्यात्मा यस्मादृतो न तद्पेक्षा ।। ४०८।। एवमहंकृतिपूर्वकमपि कर्तृत्वं न चोपलव्धुरिह। बुद्धेः कर्तृत्वे वा करणान्तरकल्पना न चेहास्ति ॥ ४०९॥ तस्य समाधिविधानं चाऽडविद्यककर्तृतामुपादाय। तस्मादौपाधिकमिह कर्तृत्वं नैव तथ्यमिति सिद्धम् ॥ ४१० ॥ परातु तच्छतेः ॥ ४१ ॥ य दिदमुपाधिनिबन्धनमस्य हि कर्तृत्वममिहितं तत्किम्। ईश्वरमनपेक्ष्य स्यात्किंवा तमपेक्ष्य भवति चेत्येवम् ॥ ४११ ॥ एष ह्येवेत्यादिश्रुतिवचसामपि तथैव विधिवचसाम्। अन्योन्यं हिविरोधे शङ्का सेयं समुत्थिता भवति ॥४१३॥ सत्यामेतस्यां खल्विह मीमांसकमतेन. चाडडक्षेपः। जापेक्षते हि जीवः परमात्मानं प्रयोजनाभावात् ॥४१३॥ रागद्वेषादियुतः कारकसंपत्तिसहकृतो जीव:। अनुमवितुं कर्तृत्वं शक्कोति यतः किमीश्वरेणास्य ॥ ४१४॥ कृष्यादिकेषु कर्मस्वीशापेक्षा न दृश्यते लोके। क्लेशद कर्तृत्वेनच. जन्तून्सृजतोस्य निर्घृणत्वंस्थात्-।४१५॥

Page 192

तृतीयपाद: ₹ माष्यार्थरत्नमाला।

विषमफलं कर्तृत्वं विद्धत ईशस्य विषमताऽपि स्यात्। सापेक्षत्वान्नासौ दोष: स्यादिति तु नेह युक्ततमम् ॥४१६॥ सापेक्षता तदा स्याद्मधिर्मी यदा हि जन्तूनाम्। जीवस्य कर्तृतायां सत्यां सन्भ्ाव एतयोर्मवति॥ ४१७॥ पदि चेदीशापेक्षं कर्तृत्वं स्यात्तदा हि किंबिषयम्। सापेक्षत्वं तस्य स्यादकृताभ्यागमश्च दुर्वारः॥।४१८॥ इत्येतामाशक्कामपनुदति हि सूत्रकृत्तुशब्देन। जीवोऽविद्यावसरे मवत्यविद्यातमोन्ध एव किल ॥ ४१९॥ स हि कार्यकरणसंघाविवेकदर्शी मवेदतस्तस्य । चेतयितुरीश्वरात्किल कर्माध्यक्षाच्च सर्वभूतस्थात् ॥ ४२० ॥। तदनुज्ञया किल स्यार्त्ससार: कर्तृमोक्ततारूफ। तवनुग्रहैकहेतुकविज्ञानेनास्य मोक्षसिद्धिरवि ॥ ४२१॥ एष ह्येवेत्याद्या श्रुतिरिममथं यतः प्रदर्शयति। या च य आत्मनि तिष्ठन्निति श्रुतिः साऽपि दर्शयत्येवम् ।।४२२। नन्वीशः कारयिता यदा मवेत्तस्य विषमताऽप्येवम्। निर्घणता जीवस्य स्यावकृताम्यागमोऽप्यतः पठति ॥४२३॥ प्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिनयः ॥४२॥ उक्त्ताक्षेपनिवृत्तिप्रयोजनोऽसी तुशब्द इह मवति। जीव प्रयत्नसाध्यो धर्माधर्मैकलक्षणो योऽसौ ॥। ४२४ ॥ तद्पेक्ष एव हीश: कारयति ततोऽत्र नैव दोषोऽयम्। धर्माद्यपेक्षयेव हि विषमं विभजेत्फलान्यसावीशः॥ ४२५।। तत्तद्वीजापेक्षो वीहियवादीन्यथा हि पर्जन्यः। सृजति तथा परमात्मा धर्माधमवपेक्ष्य कारयति॥४२६l। ति.च पर्जन्येडस्मिन्नसत्सु बीजेषु नोपजायेत। रस -- पफल पलाशाद्खिलं यञ्ञोपद्वृश्यते तन्ि ॥४२७॥ एवं परमात्माऽसी धर्माधर्मावपेक्ष्य जीवगतौ। जीवानामेतेषां शुमाशुमात्मकफलं हि विदधाति॥ ४२८:॥ नन्वेतत्कर्तृत्वं जीवस्य यदा भवेत्परायत्तम्। कथमिह कृतप्रयत्नापेक्षत्वं स्यादितीह नाऽऽशङ्क्यम् ॥४२९ ॥ कारयति हि परमात्मा कुर्घन्तं पूर्ववासनावशतः । पूर्वतरं चापेक्ष्य प्रयत्नमीशो ह्यकारयत्पूर्वम्॥४३० ॥

Page 193

१८८ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्प-

पूर्वमपेक्ष्येदानी कारयतीशो यतो ह्यनादिरसौ। संसारस्तस्मादिह सूत्रकृतोक्तं हि सकलमनवद्यम् । ४३१।। कथमवगम्यत ईशः कृतप्रयत्नाद्यपेक्ष इति चेन्न। षिहितपरतिषिद्धावैयर्थर्यादिभ्योऽवगम्यते ह्येवम् ॥४३२॥ एवं चेदेव स्यात्सुवर्गकामो यजेत च न हिंस्यात्। दति विहितं प्रतिषिद्धं सफलं नो चेत्तदेतद्फलं स्यात् ॥४३३॥ ईश्वर एव विधौ वा प्रतिषेधे वा सदा नियुज्येत। यस्मा ऐऽसी जीव: स कथं नियुज्यते तत्र । ४३४ ।। विधिविहितिकारिणं वाडनर्थेन निषिद्दकारिणं च तथा। अर्थेन संसृजेदिति वेदोऽसावप्रमाणमेव स्यात् ॥४३५॥। अनपेक्षश्रेदीशो लोके स्यातपुरुषकारवैय्यथ्यम्। एवं हि देशकालादीनामकृतागमादिदोष: स्यात् ॥४३६॥ इति खलु द्वूषणजातं त्वादिग्रहणेन दर्शितं मुनिना। तस्मात्कर्मापिक्षः कारयतीश इति. कोऽवि न विरोध: ।। ४३७ ।।

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥। ४३।

एको जीवो नित्यो नाणुरकर्ता स्वयंप्रकाश इति। वर्णितमेतत्पूर्व ब्रह्मैक्यं तस्य सुगममेवेति ॥४३८॥ संप्रति भेदाभेदश्रुतिवचसामिह विरोधशङ्कायाम्। तामपनीय हि सकलां ब्रह्मैक्यमिदं दृढं करोति मुनिः ॥४३९॥ उपकार्यो जीवोऽसावुपकारक एष भवति परमात्मा । इति तु पुरा निर्दिष्टं स भवति संबन्धिनोसयं धर्मः ॥४४० ॥ किं स्वामिभृत्ययोरिव किमसावग्निस्फुलिङ्गयोरिव वा। इति शङ्कायां सत्वां युक्त: स्यात्स्वामिभृत्यवञ्चान्॥४४१॥ तत्र नियोज्यनियोजकभावोऽसी सुप्रसिद्ध इह लोके। तद्वदिहापि स्यादित्याक्षेपो वै निरस्यते सपदि ॥४४२॥। ईशस्यांशो जीवो यथा स्फुलिङ्गो मवत्यसावयेः। नन्वीशो विरवयव: कथं हि तस्यांश एष जीवः स्यात् ॥४४३। तस्मान्नासावंशो नानाव्यपदेशदर्शनादृपि च। नानाव्यपदेशोऽसौ सोडन्वेष्टव्यो य आात्मनीत्यादि:।४४४ ।।

Page 194

तृतीयपाद: ३ ] माष्यार्थरत्नमाला।

भुत्यन्तरेषु दृष्टो नासति मेदे स युज्यते क्वापि। स स्वामिभृत्यसाम्ये युक्त: स्यादिति तु नेह शङ्का स्यात् ।४४५ न हि नानाव्यपदेशादेकस्मावंशताऽत्र निर्दिशा। किं त्वन्यथाऽपि तस्य व्यपदेशादंशतोपपन्ना स्यात् ॥४४६॥ व्यपदेशो नानात्वप्रतिपत्तिपरोऽपि मवति तस्पेह। दाशकितवादिभावं ब्रह्मण एके समामनन्ति यतः ॥ ४४७॥ चाSडथर्वणिका: किल सूक्ते बह्मात्मतत्त्वबोधपरे। दाशा दासा: कितवा बह्मैवेत्यर्थमुपदिशन्त्येते।। ४४८॥ व्वं स्त्रीति श्रुतिरन्या व्यपदिशति ब्रह्मतत्त्वमेवमिति। स्त्री च पुमाश्र कुमारस्तथा कुमारी तथैव जीर्णोऽपि।। ४४९ ॥। यश्च हि जातो लोके सकलोऽयं ब्रह्म मवति नान्य इति। सर्वाणीत्याद्या अपि कथयन्ति ब्रह्म सर्वरूपमिति ॥४५०॥ चैतन्यं त्वविशिष्टं मवति हि जीवेशयोर्यतस्तस्मात्। भेदाभेदावगमाभ्यामीशांशत्वमस्य युक्ततमम्॥४५१॥ मन्त्रवर्णाच् ॥ ४४ ॥ तावानस्येत्याद्यो मन्त्रोऽ्यमुमर्थमेव दर्शयति। मन्त्रे च भूतशब्दः स्थावरजङ्गमसजीवदेहपरः ॥४५२॥ तत्परताऽहिंसन्निति मन्त्रे दृष्टा हि भूतशब्दस्य। अत्र च पादोऽश: स्यात्तस्मादंशत्वमस्य युक्ततमम् ॥४५३॥ अपि च स्मर्यते ॥४५ ॥ ईश्वरगीतास्वपि किल जीवस्येशांशता विनिरदिष्टा। तत्र ममैवांश इति व्यपदेशो येन जीवभूतस्य॥ ४५४॥ अत्र नियोज्यनियोजकभावोऽसौ स्वामिभृत्ययोरेव। लोके यद्यपि दृष्टस्तथाऽपि शास्त्रेण चांशता कथिता ।४५५।। हीनोपाधियुतानिह जीवान्मायासहायसंपन्नः । परमात्माऽसौ शास्तीत्यत्र न काचिद्विरोधशङ्का स्यात् ॥४५६॥ नन्वीशांशो जीवो यदा तदीयेन दुःखभोगेन। अंशिन ईशस्यापि हि दुःखित्वं दुर्निवारमेव स्यात् ॥४५७॥ हस्ताद्यवयवसंगतदुःखेन यथाडड्गिनो भवेद्दु:खम्। नानानीवाशगतैर्दुःखैरीशस्य दुः िकं स्पात्॥४५८।

Page 195

सुबह्मण्यविरंचिता- [ १ द्विंतीयाध्यायस्ये- मुक्ती तत्प्ाप्तानां महत्तरं दुःखमपरिहायं स्यात्। सम्यग्दर्शनमफलं पूर्वः संसार एव वरमिति चेतु ।४५९।। प्रकाशादिवन्नैवं परः ॥ ४६ ॥ जीवो यथा हि दुःखं संसारकृतं सदाऽनुमवति तथा। नैवं परो हि यस्माज्जीवो देहात्ममावमापन्नः ॥४६० ॥ तद्द्ुःखेनाविद्यावशत दुःखित्वमात्मनो मनुते। देहात्मभावयोगो दुःखयमिमानोऽपि नैवमीशस्य॥ ४६१॥ जीवस्यापि च देहाद्यविवेकभ्रमनिबन्धनो भवति। दुःखामिमान एष हिन तुस च परमार्थतोऽस्ति कश्विवृपि ॥४६२॥ इह पुत्रमित्रगोचरमपि दुःखं तद्भिमानतो दवृष्टम् । अभिनिविशमान एव वशेनेह पुत्रमित्रादौ ॥४६३॥ तन्नामिमानयोगादनुमवति तदीयदुःखमखिलमपि। मिथ्याभिमानमूलो दुःखानुभधो हि मवति तेनासौ॥ ४६४ ॥ ये पुत्र मित्र बन्धुष्वमिमानविवर्जिता हि यतिनः स्युः । तद्दुःखमूलकं किल दुःखं नैतेषु दृश्यते किमपि ॥ ४६५॥ किसुत प्रज्ञानघनात्परात्मनोऽन्यन्न वस्तुतो वस्तु। दुःखित्वं नेति ततो नैवाSSत्मज्ञानमफलमिति शख्यम्॥ ४६६॥ निदर्शनमेतत्प्रकाशवदिति प्रदर्शितं मुनिना। लोके यथा प्रकाश: सौरश्रान्द्रो गुमण्डलव्यापी ।! ४५७॥ ऋजु मावकलितेष्वङ्गुलिदार्वाद्युपाधिषु प्रायः। उपगततद्भ्ाव इव प्रतिपन्नो न परमार्थतः सोऽयम्॥४६८॥ तन्भावं प्रतिपद्यत एवं सर्वत्रगोऽपि चाऽडकाशः । गच्छत्स्वपि च घटादिषु गच्छन्निव माव्यमानरूपोडि ॥४६९॥। गच्छत न स परमार्थत एवं जलकम्पनेन तत्रत्ये। सूर्यादिप्रतिबिम्बेऽपि कम्पमाने न कम्पते सूर्यः ॥ ४७०॥। एवमविद्यावस्थितबुद्धच्ुप हित जीवसंज्ञके ह्यंशे। दुःखायितेऽपि तस्मिस्तद्वद्दुःखायते न हीशोऽयम्॥४७१ ॥ जीवस्यापि हि दुःखप्राप्तिरविद्यानिबन्धनेत्युक्तम्। एवमविद्यामूलकमेतं जीवात्मभावमुन्मूल्य ।। ४७२।। त्मतां वदन्ति हि तत्त्वमसीत्यादिसकलवेदान्ताः। ह जैवेन च दुःखेनेशस्य दुःखतापत्तिः। ४७३ ॥

Page 196

तृतीयपाढ: ३] माष्यार्थरत्नमाला। १९१

स्मरन्ति च ॥ ४७ ॥ व्यासादयः किलामी स्मरन्ति परमात्मतत्वमखिलमपि। तत्र च परमात्माडयं स हि नित्यो निर्गुणश्र भवति यतः॥४७४ ॥ न हि कर्मणा फलैवां न लिप्यते पद्मपत्रमिव पयसा। कर्मात्मा त्वपरोऽसौ स युज्यते मोक्षबन्धनैरिति हि॥४७५॥ अत्र चशबंदश्रवणात्समामनन्तीति वाक्यशेष: स्यात्। नन्वत्र चान्तरात्मा भूतानामेक एव चेत्तर्हि ॥ ४७६॥ कथमत्रानुज्ञापरिहारौ तावर्थवत्तरौ मवतः । नन्वीशांशो जीवस्तन्द्वेदात्तौ समख्जसौ मवतः ॥४७७ ॥ इति चेदनंशतामपि जीवस्याभेद्बोधिका: श्रुतयः। सृत्यो: स सृत्युमानोतीत्याद्या हि प्रदर्शयन्त्येवम्॥४७८॥

नन्विह भेदामेदावगमाम्यामंशता हि निर्णीता॥ ४७९ । सत्यं तथाऽपि भेदाभेदौ नात्र च बुबोधयिषितौ हि। भेदमनूद्याSSविद्यकमभेद इह किल बुबोधयिषितो हि॥ ४८० ॥ निरवयवस्य ब्रह्मण इह मुख्योडश: कथं भवेज्ीव:। तस्मात्पर एवैको मूतानां भवंति चान्तरात्मा य: ॥४८ । सोडयं हि जीवमावेनावस्थित इत्यवश्यमिह वाच्यम्। एवं चानुज्ञापरिहारानुपपत्तिरित्यतो बूते ।। ४८२।। अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥४८॥ अग्नाषामीय पशुमित्याद्या किल भवेदिहानुज्ञा। परिहारश्र न हिंस्यादित्यादिस्तावुभावपि प्रथितौ ॥४८३॥ एवमृतौ मार्यामिति गुरुपत्नीं नैव संस्पृशेदिति च। एतौ चानुज्ञापरिहारौ मवतो हि देहसंबन्धात् ॥ ४८४॥ आत्मन एकत्वेऽपि च दृष्टोऽसावत्र देहसंबन्धः । दे हेन्द्रिय संघाताविवेकमूलभ्रमात्मकः सोऽयम् ।४८५॥ अहमन्धो मूढोऽहं गच्छाम्यहमेव चाऽडगमिष्यामि। इति किल सम्यग्ज्ञानात्म्राकप्रततोऽसौ हि सर्वजन्तुषु च. ॥४८६।। तस्मान्नेहानुज्ञापरिहारादौ न वाधकं किमपि। तर्ह्यानर्थक्यं स्यात्सम्यग्दर्शन इतीह नाऽडशङूयम् ॥४८७॥

Page 197

१९२ सुन्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्थ-

हेये चोपादेये यस्त्वविवेकी नियुज्यते सोडयम्। यस्त्वात्मव्यतिरिक्तं हेयमुपादेयमपि च नेक्षेत ।। ४८८।। ब्रह्मणि निरूढचित्तो विद्वान्स कथं नियुज्यते तत्र। सम्यग्दर्शिन इह यदि न नियोग: स्याद्यथेष्टचेष्टा स्यात्॥४८९॥ इति तु न सर्वत्रैव ह्यभिमानोऽसौ प्रवर्तको यस्मात्। अभिमानाभावेन हि तश्वविदो न हि यथेष्टचेष्टा स्यात् ॥४९०॥ तस्माच्चानुज्ञापरिहाराविह देहयोगजावेव। इह च निदर्शनभूता ज्योतिष्प्रमुखा भवन्ति लोकेडस्मिन् ।४९१।। ज्योतिष एकत्वेऽपि ह्यमनि: शा(पा)पोन गृह्यते लोके। परिवरज्यते हि सवितुः प्रकाश एकोऽप्यमेध्यदेशस्थः ॥ ४९२॥ वैदूर्याद्या मौमा गृह्यन्ते नरकलेवराणि न हि। मूत्रपुरीषं च ग्वा पवित्रमिति गृह्यते न चान्यस्य ।। ४९३॥ असंततेश्र्वाव्यतिकरः ॥ ४९ ॥ नन्वेवमपि च दोषो सवति ह्येकात्मतामते सोडयम्। स्वाम्येकत्वादिह किल कर्मफलव्यतिकरो भवेदिति चेतु ॥४९४। न हि कर्तुर्भोक्तुर्वा संबन्धः सर्वतनुभिरिह मवति। योऽसावुपाधितन्त्र: कर्मफलव्यतिकरो न तेनास्य ।।४९५।। आआास एव च ॥ ५० ॥ जी शांशत्वं पूर्वमवच्छेदपक्षमाश्रित्य। करकाकाशस्येव हि वर्णितमिह चैवकारयोगेण। ४९६॥। तत्रावच्छेदमते चिं कांचिदपि सूचयन्नेव। रूपं रूपमितिश्रुतिसिद्धं प्रतिबिम्बपक्षमनुसरति ॥४९७॥ आमास एव जीव: परात्मनो वारिसूर्यवद्भवति। साक्षान्न स एव स्यान्नापि च वस्त्वन्तरं हि जीवोऽसौ ॥। ४९८ दिह प्रविष्टः परः स एष इतिवाक्यनिर्दिष्टः। तस्मादिह बुद्धयादिप्रतिबिम्बो जीव एष इति युक्तम्॥४९९॥ शुक्ती रजतवद्स्य हिन च स्वरूपेण कल्पितत्वं स्यात्। मेदं मेतीव हि नेदं मुखमिति न दृश्यते यस्मात् ॥ ५००। प्रति स्व च बाधो न दर्पणे मुखमितीह हष्टः स्थातू। सस्मादुपाधि स्वरूम कल्पितोऽयं स्थात् ॥५०१॥

Page 198

सृतीयफदः १ ] भाष्यार्थरत्नमाला।

एकस्मिअ्जलसूर्ये प्रकम्पमाने न कम्पते चान्य: । एकस्मिन्किल जीवे कर्मणि न तदन्तरस्य तद्योग ... ५०२।। अत्र व्यतिकरशङ्का ह्यैकात्म्येनैव कर्मफलयोः स्यात्। आभासोऽयमविद्याकृतस्तदालम्बनोऽवि संसारः॥ ५०३॥ आविद्यक इत्येत व्युइस्य परमार्थरूपमुपदिशति। चहवो विभवो येषामात्मानो व्यतिकरो हि तेषां स्यात् ॥५०४॥ चैतन्यमात्ररूपा बहवो विभवो भवन्ति चाऽडत्मान: । साधारणं प्रधानं तदर्थमिति तन्निबन्धनैवैषाम् ॥५०५॥ भोगापवर्गसिद्धिर्भवतीति हि वर्णयन्ति किल सांख्याः। चहवः सर्वगता अप्यात्मानः स्वयमचेतना एव ॥५०६॥ उपकरणानि बहूनि हि मनांसि तान्यप्यचेतनान्येव। आत्ममनोयोगेन ह्युत्पद्यन्ते गुणा नवेच्छादयाः ॥ ५०७॥ प्रत्येकमात्मसु यदा ह्यव्यतिरेकेण समवयन्त्येते। भवति तदा संसारस्तदुपरमो मोक्ष इति हि काणादाः ॥५०८॥ सांख्यनये ज़ीवानां स्वतश्र चैतन्यमान्नरूपत्वात्। एकस्मिन्नपि देहे सर्वेषामात्मना च सांनिध्यात् ॥५०९॥ एकस्मिन्सुखयोगे तत्सर्वेषां कुतो न जायेत। अविशेषेऽपि च पुंसा सर्वेषां प्रकृतिसंनिधानस्य ॥५१०॥ नियमेन प्रकृतिरियं षुंसां भोगापवर्गसिद्ध्यर्थम्। उद्दिश्य प्रतिपुरुषं प्रवर्तते तेन तद्यवस्था स्यात् ॥ ५११॥ भोगो विषयमतिः स्यादृपवर्गो गुगविलक्षणात्ममतिः । तत्साधनभूतेयं नियता प्रकृतिप्रवृत्तिरेव स्यात् ॥५१२॥ एतद्नङ्गीकारे स्वमहत्त्वख्यापनार्थिका सा स्यात्। एवं चेदुद्देश्यव्याघातोऽत्राविमोक्षरूप: स्थात् ॥५१३॥ इति चेन्नैतत्सारं विनोपपत्ति कथं व्यवस्था स्यात्। अयमुद्देश्यविवेको जडप्रधानस्य नैव युक्ततमः ॥५१४॥ नाचेतनस्य लोके नियामकत्वमपि दृश्यते क्वापि। तस्साच्च न व्यवस्था व्यतिकर इह दुर्निवार एव स्यात् ॥५१५॥ काणादानां च नये यद्येकेनाऽडत्मना मनोयोगः । आत्मान्तरैस्तदाSयं सांनिध्यस्याविशेषती हि भवेत् ॥५१६॥ २५

Page 199

सृतीयफदः १ ] भाष्यार्थरत्नमाला।

एकस्मिअ्जलसूर्ये प्रकम्पमाने न कम्पते चान्य: । एकस्मिन्किल जीवे कर्मणि न तदन्तरस्य तद्योग ... ५०२।। अत्र व्यतिकरशङ्का ह्यैकात्म्येनैव कर्मफलयोः स्यात्। आभासोऽयमविद्याकृतस्तदालम्बनोऽवि संसारः॥ ५०३॥ आविद्यक इत्येत व्युइस्य परमार्थरूपमुपदिशति। चहवो विभवो येषामात्मानो व्यतिकरो हि तेषां स्यात् ॥५०४॥ चैतन्यमात्ररूपा बहवो विभवो भवन्ति चाऽडत्मान: । साधारणं प्रधानं तदर्थमिति तन्निबन्धनैवैषाम् ॥५०५॥ भोगापवर्गसिद्धिर्भवतीति हि वर्णयन्ति किल सांख्याः। चहवः सर्वगता अप्यात्मानः स्वयमचेतना एव ॥५०६॥ उपकरणानि बहूनि हि मनांसि तान्यप्यचेतनान्येव। आत्ममनोयोगेन ह्युत्पद्यन्ते गुणा नवेच्छादयाः ॥ ५०७॥ प्रत्येकमात्मसु यदा ह्यव्यतिरेकेण समवयन्त्येते। भवति तदा संसारस्तदुपरमो मोक्ष इति हि काणादाः ॥५०८॥ सांख्यनये ज़ीवानां स्वतश्र चैतन्यमान्नरूपत्वात्। एकस्मिन्नपि देहे सर्वेषामात्मना च सांनिध्यात् ॥५०९॥ एकस्मिन्सुखयोगे तत्सर्वेषां कुतो न जायेत। अविशेषेऽपि च पुंसा सर्वेषां प्रकृतिसंनिधानस्य ॥५१०॥ नियमेन प्रकृतिरियं षुंसां भोगापवर्गसिद्ध्यर्थम्। उद्दिश्य प्रतिपुरुषं प्रवर्तते तेन तद्यवस्था स्यात् ॥ ५११॥ भोगो विषयमतिः स्यादृपवर्गो गुगविलक्षणात्ममतिः । तत्साधनभूतेयं नियता प्रकृतिप्रवृत्तिरेव स्यात् ॥५१२॥ एतद्नङ्गीकारे स्वमहत्त्वख्यापनार्थिका सा स्यात्। एवं चेदुद्देश्यव्याघातोऽत्राविमोक्षरूप: स्थात् ॥५१३॥ इति चेन्नैतत्सारं विनोपपत्ति कथं व्यवस्था स्यात्। अयमुद्देश्यविवेको जडप्रधानस्य नैव युक्ततमः ॥५१४॥ नाचेतनस्य लोके नियामकत्वमपि दृश्यते क्वापि। तस्साच्च न व्यवस्था व्यतिकर इह दुर्निवार एव स्यात् ॥५१५॥ काणादानां च नये यद्येकेनाऽडत्मना मनोयोगः । आत्मान्तरैस्तदाSयं सांनिध्यस्याविशेषती हि भवेत् ॥५१६॥ २५

Page 200

चनुर्थपाद: ४] माष्यार्धर लां। १९५

सा न स्याद्यदि च तमो: समप्रदेशं त्वह्टष्टमिह न स्यात्। स्वर्गाद्युपभोगस्यानुपपत्तिरपि प्रदेशवादिनये॥ ५३० ॥ ब्राह्मणशरीरदेशावच्छिन्ने स्याददृट्टनिष्पत्तिः । स्वर्गाद्युपभोग: किल देवादिशरीरवेश एव स्थात् । ५३१॥ लोके हि कार्यकारणमावो न विभिन्नदेशयोर्हष्टः। इह चाऽडत्मनां बहूनां सर्वंगतत्वमपि नोपपन्नं स्थात् ॥ ५३२ ॥ सति दृष्टान्ते तदिदं बुद्ध्यारूढं मवेन्न चेतरथा। वद तावत्वं के ते वहवो जीवा: समानदेशाश् ॥५३३॥ रूपरसाद्य इव ते समानवेशाश्र बहव इति घेन्न। तेषामपि धम्यशेनाभेदात्तत्स्वरूपता युक्ता ॥५३४ ॥ अथवा लक्षणमेदात्तेषां मेदो न चाऽडत्मनां स भवेत्। नेह बहूना तेषां लक्षणभेव्श्र वक्तमपि शक्य: ।५३५॥ अन्त्यविशेषादेव हि तेषां भेवोपपत्तिरित्यपि न। सति मेदेऽन्त्यविशेषस्तस्मिन्सति मेदकल्पना भक्षति ॥,५३६ । इति चेतरेतराश्रयतादोषोऽप्यत्र दुर्निवारः स्यात्। आकाशादीनामपि विभुत्वमस्माकमननुमतमेव ॥ ५३७। आत्मन आकाश इति भ्रुतिवाक्येनास्य कार्यतावगमात्। आत्मैकत्वे दोषा वादिमिरुद्भ्वाविताश् ये सर्वे ।। ५३८ ॥ ते निरसिता हि बुद्ध्याछपाधियोगावलम्बनेनैव।. तस्मादस्मिन्पक्षे न दोषशङूावकाश इति सिद्धम॥५३९॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेषम्। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्याय: ॥ ५४० ॥ तघ्र च तृतीयपादे सूत्रार्थो यश्च भाष्यकारोक्त:। आर्यावृत्तेरमलै: प्रकाशितो भवतु सोऽयमनवद्य: ।। ५४॥ इति द्वितीयाध्यायस्य तृतीय: पाद: ।.३ ।

चतुर्थपाद्पारमभ :: ।

पूर्वस्मिन्नधिकरणे विचार्य कर्तुः स्वरूपमखिलमपि । हह च तदुपकरणानां पाणानां साधयव्यथोत्पत्तिम।१ ।

Page 201

१९६ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

पूर्वत्र भूतभोक्तृस्वरूपमखिलं विचार्य सम्यगिह। प्राणस्य भौतिकस्य हि विचार इति हेतुहेतुमन्भ्ावः ॥२॥ पादद्यस्य संगतिरित्येतत्स्फुटयितुं हि वर्णयति।

परिहृत इह तु चतुर्थे पाढे प्राणादिंगोचरो योऽसौ। श्रुतिविप्रतिषेध: स्यात्स चायमिह किल निरस्यते सम्यक् ॥४॥ तत्तेजोऽसृजतेति ह्यात्मन आकाश एवमाद्येषु। श्रुतिवचनेषूत्पत्ति: प्राणानां नोपलभ्यते क्वापि ।। ५॥ किं चानुत्पत्ति: क्वचिदेषामास्नायते ह्यसद्वेति। अस्मिन्मन्त्रे प्राणा ऋषिस्वरूपेण दर्शितास्तेषाम् ॥६।। प्राणानां सन्भावः प्रागुत्पत्तेः प्रतीयतेडन्येत्र। तेषां प्राण्ानामप्युत्पत्ति: पठ्यते यथेत्यस्मिन् ॥ ७ ॥ एतस्माज्जायत इति मन्त्रेऽपि च हश्यते तदुत्पात्तिः। एवं सप्त प्राणाः प्रभवन्तीत्येवमादिमन्त्नेषु ॥८॥ एवं हि श्रुतिवचसां विप्रतिषेधोऽत्र भवति दुर्वारः तद्व्यतरस्य हि निर्धारणकारणं न किंचिदृपि ।। ९॥। दिप्रतिपत्ति: भुतिवचनानामिह प्रसज्येत। अथवा प्रागुत्पत्ते; सन्ावश्रवणतो भवेदौणी ॥ १॥ प्राणानासुत्पत्तिश्रुतिरिति पक्षान्तरं प्रसज्येत । इति विचिकित्सायां किल सत्याँ भगवांस्तदेतदिह पठति ।११: तथा प्राणाः॥ १ ॥ नन्वक्षरातुलोम्यं तथेति कथमिह पुनर्निरुप्येत। प्रकृतोपमानमत्र हिन द्ृश्यते तेन तत्कथं भवति ॥१२॥ पूर्वमतीतानन्तरपादान्ते वर्णितं हि भूयोऽपि। सर्वगतात्मबहुत्वप्रतिपादकवादिदूषणं हि परम् ॥१३ ॥ सादृश्याभावेन हि तदिदं नैवोपमानमिह भवति। नापि ह्यहट्टसाम्यप्रतिपाद्नपरमिदं तथेति स्यात् ॥ १४॥ सर्वात्मसंनिधाने ह्यट्ष्मुत्पन्नमनियतं यदत। एवमनियता: प्राणा: सर्वेष्वात्मस्वितीह वक्तव्यम् ॥ १४॥ तत्किल देहानियमेनैवोक्तं भवति चेह पुनरुक्तम्। अपसिद्धान्तमयेन प्राणा जीवेन नोपमीयेरन्।। १६।।

Page 202

चतुर्थपाद: ४] माष्यार्थरत्नमाला। १९७

प्राणानां तूत्पत्तिरविवक्षिता भवति सा न जीवस्य। तस्मादनुचितमेतत्तथेति सुत्रोक्तमिति तु नाऽडशङूचम्॥१७॥ एतस्मादात्मन इति यत्पाणोत्पत्तिवाक्यसुपदिष्टम्। तदिदमुदाहरणं स्यात्तद्ृतमुपमानमत्र संग्राह्यम् ॥१८॥ प्राणास्तथा परस्माद्यथा हि लोकादयो मवन्त्यस्मात् । इति किल सूत्रार्थः स्यात्तत्र न पूर्वोक्तदूषणं किमपि। १९॥ एतस्माज्जायत इति मम्न्रान्तरमपि भवेदुदाहरणम्। तेन च खादिवदेव प्राणा जायन्त इति हि फलितं स्यात् ॥२०॥ अथवा व्यवहितमेव हि वियदादि तृतीयपादनिर्दिट्टमू। उपमानमत्र भवति व्यवहितयोगोऽपि दृश्यतेऽन्यत्र ॥ २१॥ पानव्यापच्चेति हि सूत्रेऽस्मिन्टश्यते तथैवासी। यज्ञे हि सोमपाने क्रियमाणे सति भवेद्यदा वमनम् ॥ २२॥ सोमेन्द्रदेवताकं श्यामाकघरुं स निर्वपेत्तदवृत्। इति खलु सूत्रार्थः स्यात्तत्र हि तच्छब्दयोगतो हि यथा ॥२३॥ अश्वप्रतिग्रहेष्टिन्पायोऽसौ व्यवहितः परामृष्टः। तद्वदिहापि व्यवहितसंबन्धे नैव बाधकं किमपि॥२४॥ तस्मादुत्पद्यन्ते प्राणा वियदादिवदिति सिद्धमिह। अत्र श्रुतत्वमेव प्राणोत्पत्ती हि साधको हेतुः ॥। २५ ।। ननु केषुचित्प्रदेशेष्वियमुत्पत्तिर्हि न ्रुतेत्युक्तम्। तद्युक्तं किल यस्मात्प्राणोत्पत्ति: श्रुतैव चान्यत्र ॥ २६ ।। क्वचिद्श्ुतमपि तदिदं न श्रुतमन्यत्र वारयितुमीषे। तस्माच्छरतिनिर्देशात्माणा जायन्त इति तु सूक्तमिद्म् ॥२७॥ गौण्यसंभवात् ॥ २ ।। प्राणानामुत्पत्तिर्गौणीति न चेह शक्कितुं शक्यम्। गौण्या असंभवादिति तत्पुरुषसमास इह च निर्दिष्टः॥२८॥ सेयं प्राणोत्पत्तिर्गौणी कधमपि न चेह संभवति। सेयं गौणी चेत्स्यात्तवा प्रतिज्ञोषमर्द एव स्यात् ॥ २९॥ कस्मित्रु भगव इत्यत एकज्ञानेन सर्वविज्ञानम्। आदिश्य तदुपपत्तय एतस्मािति हिवाक्यमान्नातम् ॥३० ।। यदि च विकार: प्राणाद्यखिलं तदा प्रतिज्ञयम्। प्रकृतिविकारामदत्यायेनैव हि.समर्रिता भव्रति.॥.३१॥

Page 203

१९८ [२ द्वितीयाध्यायस्य-

श्ुत्यन्तरेऽपि तेन न्यायेनेषा समर्थनीया हि ॥ ३२ ॥ नन्षेवं प्राणानामप्युत्पत्तिर्यथा भवेत्तहि। प्राणानां सन्ावः प्रागृत्पत्तेः श्रुतो विरुध्येत ॥ ३३ ।। इति चेदेतद्वाक्यं न हि मूलप्रकृतिगोचरं मवति। यस्मादृपाणत्वं श्ुतिरप्राण इति दर्शयति तस्याः ॥। ३४ ॥। तस्मादेतद्वाक्पं ह्यवान्तरप्रकृतिगोचरं मवति। प्राक्सन्भ्ावश्रवणं स्वविकारापेक्षमेव तेषां स्यात् ॥ ३५।। व्याकृतविषयाणां हि प्रकृतित्वमपि श्रतिस्मृतिप्रथितम्। यद्धिकरणे तदिदं सूतं किल पूर्वपक्षसूत्रमिति॥३६॥ गौणी जन्मश्चतिरियमसंभवादिति हि वर्णितं तत्र। तत्र च मवेत्पतिज्ञाहानिरतोऽसावुपेक्षितः पक्ष: ॥ ३७॥। इह पुनरेतत्सूत्रं मवति हि सिद्धान्तसूत्रमिति मत्वा। गाण्या असंभवादिति वर्णितमत्र च[न] कोऽपि दोष: स्पात्।।३८। तत्पाक्श्रतेश्र ॥। ३॥। एतस्मादपि हेतोदियदादीनामिवात्र मुख्येन। प्राणानामपि चैषा जन्मश्रुतिरिति ह युक्तमामाति ॥ ३९॥ वियदादष्वनुवृत्तं जायत इत्येतदेकमेव पदम् । मुख्यं चेहियदादी प्राणेषु प्राक्श्रुतं तथा मुख्यम् ॥ ४० ॥

प्राणे श्रुतस्य तस्य श्रद्धादिष्वपि परेषु संबन्ध: ।। ४१ ॥ तत्पूर्वकत्वाद्वाच: ॥ ४ ॥ यद्यपि तेजोबन्नानामेवोत्पत्तिरमिहिता ह्वस्मिन्। छान्दोग्ये प्राणानासुत्पत्तिर्नोपलभ्यतेऽथापि । ४२॥ ब्रह्मप्रकृतिकतेजोबन्नमयत्वं हि वर्णितं येन। अन्नमयं हीत्यस्मिन्मन्त्रे वाक्पाणमानसानां स्यात् ॥४३ ॥ तेन च तेषां ब्रह्मप्रभवत्वमपीह वर्णितप्रायम्। मयडिह विकारवाची मवत्यतो ब्रह्मकार्यता तेषामू॥४४॥ यदि मयडिह माक्त: स्यासदापि कार्यत्मनपयादं हि। तदधीनस्थितिकत्वे तत्कार्यत्वस्य सहजसिद्धत्वात ।। ४५।।

Page 204

चतुर्थपाद: ४] र्थरत्नमाला। १९९

उपसंहाराज्च तथा शृत्यन्तरदर्शनेन चैतेषाम्॥ ४६ ॥ ब्रह्मविकारत्वं स्यान्मनआदीनामिति प्रदर्शयितुम। अन्नमयत्वाद्युक्तिर्मनआदीनामिति स्फुटं मवति ॥४७ ॥ पाक्सन्भावश्यत्यविरोधादिह कारणे परात्मनि हि। तस्मात्माणोत्पत्तिश्रुतिव चसामषि समन्वयः सिद्ध: ॥ ४८॥। सप्त गतर्विशेषितत्वाच्च । ५॥ लिङ्गविचारपराणां फलमिह लिङ्गित्वमर्थमेदमतिः । आ्णानासुपजीव्योपजीवकत्वस्वरूपसंगत्या ॥४९।। उत्पत्तौ सिद्धायामषि श्रुतीनां विरोधतो जाते। संख्यासंदेहे किल तां निर्णेतुं हि पूर्वपक्षयति ॥। ५०॥ उत्पत्तिगोचरः किल बिप्रतिषेधस्तु परिहृतः पूर्वम्। संख्याविषय हदानीं चिप्रतिषेधो निरस्यते ह्यत्र॥५१॥ मुख्यप्राणो योऽसौ स चोपरिष्टान्निरुप्यते सपदि। ये च तदितरे प्राणास्ते य कतीति हि विचार इह भवति ॥५२॥ अत्र श्रुतिवचसां किल विप्रतिपत्तिस्तु बहुविधा दृष्टा। सप्त प्राणा: प्रमवन्तीत्यत्र हि सप्त दर्शिता: प्राणाः ॥ ५३॥ अष्टावतिग्रहा इति मन्त्रे चाही हि कीर्तितास्ते स्पु:। क्वचिदिह नव ते प्राणा सप्तेत्यस्मिन्प्रदर्शिता मन्त्रे ॥ ५४ ॥ क्वचिदिह दश निर्दिष्टा नव वे पुरुष इति मन्त्रभागे हि। क्व चिदेकादश कथिता दशेमे पुरुष इति मन्त्रवाक्येण।। ५५।। क्वचिदुपदिश द्वादश सर्वेषामेवमादिवाक्येन। एवं त्रयोदशापि क्वचिदुपदिष्टा हि चक्षुरित्यादा ॥५६॥ एवं विप्रतिपत्तौ प्राणा: सप्तेति वककुमिह युक्तम। यस्मात्तावन्तस्ते गभ्यन्ते वेद्वचसि सप्तेति॥५७॥ यस्माद्विशेषितास्ते शीर्षण्या इति पदेन सप्तैव। नन्वतिरिक्ता: प्राणा गुहाशयाः सप्त सप् निर्दिष्ाः॥५८। अत्र च वीप्साभ्रवणात्कथमिह सप्तत्वसिद्धिरिति पेन्न । चीप्सा हि पुरुषभेदामिप्राया नैव तत्त्वभेदपरा॥५९॥ ध्ुत्यन्तरोपदिष्टा नन्वष्टत्वादिकाऽपि संख्येह। इति चेन्नेह विरोधादन्यतमा भवति चेह निर्णेया॥ ६॥

Page 205

२०० सुन्ह्मण्य विरंचिता- [ २ द्वितीयाध्यायस्य-

स्तोकाधिककल्पनयोर्मध्ये हि स्तोककल्पना युक्ता। इति सप्तैव प्राणा: संख्यान्तरमत्र वृत्तिभेदेन ॥ ६१॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ ससैव प्राणा इति यदुक्तमेतन्न युक्तमत्र पतः । हस्ताद्योऽपि चान्ये हस्तो वै ग्रह इति श्रुतिप्रथिताः ॥६२॥ एकादश ते. प्राणा ह्युत्तरसंख्यानुरोधतस्तस्मात्। दशेमे पुरुषे प्राणा आत्मैकादश इति भ्ुतावुक्ता: ॥६३॥ करणाधिकारतोऽसावात्माऽन्त:करणमेव नान्य: स्यात्। नन्वेकादृशताया अधिका संख्याऽपि दर्शिता पूर्वम् ॥६४ ॥ सत्यं तथाऽपि कार्य नाधिकमेकादशभ्य इह दृष्टम्। रूपरसगन्धशब्दस्पर्शार्थाः पञ्च् बुद्धिभेदा: स्युः ॥ ६५॥ बुद्धीन्द्रियाणि चक्षुष्प्रमुखाणि सदर्थकानि पञ्च स्युः । वचबादानविहारोत्सर्गानन्दा हि कर्मभेदा: स्युः ॥६६ ॥ पञ्च तदर्थानि तथा वागादीनीन्द्रियाणि पञ्चैव। सर्वार्थगोचरं स्यादनेकवृत्तिकमिहैकमपि च मनः ॥ ६७॥ तच्च मनो बुद्धिरहंकारश्वि्तमिति वृत्तिभेदेन। उपदिश्यते चतुर्धा श्रुतिरेषाऽनेकवृत्तिकं वक्ति ॥६८॥ कामः संकल्पो विचिकित्सेति श्रुतिरनेकरूपतया। सतत्सवं मन एवेत्यन्तेनोपदर्शयति हि मनः ॥ ६९ ॥ अपि चमे सप्तेति हि वद्तश्चत्वार एव ते च स्युः । स्थानविभेदादेते चत्वारः सप्तसंख्यया गणिताः॥७० ॥ द्वे नासिके तथव द्वे श्रोत्रे चक्षुषी तथेका वाकू। इति खलु न ह्येतेषामितरे प्राणा हि वृत्तिभेदा: र्युः ॥ ७१॥ हस्तादिवृक्षयः किल वागादिभ्यो यतो विजातीया:। नाभिर्द्शमीति श्रुतिरषि देहच्छिद्रभेदमभिधत्ते ॥ ७२॥। नैतस्य तत्त्वभेदं न प्राण: कश्व्िदस्ति नामिरिति। स्य्र प्राणस्य ह्यायतनं नाभिरपि च मवतीति ॥७३॥ नामिदशर्मीत्येवं प्रदर्शितमतो न कश्विदिह दोषः। तन्न छुषासनारथं [प्रदर्शनाथं ] प्रपश्चिता ह्येते॥७४ ॥ ते कार्यजातवशतः प्राणा एकादशैव न न्यूना: । सूबद्बस्य्र पुनरियमपराऽपीहार्थयौजना मवति ॥७५॥

Page 206

चतुर्थपाद: ४ ] माष्यार्थरत्नमाला। २०१ सप्ानामेव गतिर्यतः श्ुता तेन ते हि सप्तैव। इह च तमुत्कामन्तं प्राणोऽनूत्क्रामतीति वाक्यान्ते॥ ७६।। पाणमनूत्क्रामन्तं सर्वे प्राणा इति श्रुतिर्द्वृष्टा। नन्वत्र सर्वशब्दृश्रवणात्प्राणा: कथं हि सप्त स्युः ॥७७ ॥ इति चेद्यतस्त एव हि विशेषिताश्रक्षुराद्यः सप्त। ते हि स यत्रैष इति श्रुतौ विशिष्योपदर्शिता हि खलु ॥७८॥ प्रायणसमये चाक्षुषपुरुषादौ स्वांशिनं समुपयाते। एकी भवन्ति मनसि हि लिङ्गांशाश्रक्षुरादयः सप्त॥ ७९॥ अत एनं पार्श्वस्था नायं पश्यति न जिघ्रतीत्यपि च। न वद्ति न रसयते न च शृणोति नाव्येष मनुत इत्येवम्॥८०॥ न स्पृशति नो विजानातीत्याहुरिति प्रषश्चिता: सप्त। सर्वे द्विजा हि मोज्या इति वाक्यगतो हि सर्वशब्दोऽयम्॥८॥ यद्वन्निमन्त्रित द्विजमात्रपरः स्यात्तथैव चेहापि। प्रकृता एव प्राणा: प्रतिपाद्यन्ते हि सर्वशब्देन ।। ८२ ।। विज्ञानमष्टमं ननु हषट प्राणा: करथं हि सप्त स्युः। इति तु न चेहाऽडशङ्का कार्या भेदो यतो मनोबुद्द्योः।।८३।। तस्मात्ससवैते प्राणा इति पक्षमत्र वारयति। हस्ताद्योऽपि चान्ये हस्तो वै ग्रह इति श्रुतौ दृष्ाः ॥।८४।। ग्रहसंज्ञका हि ते स्युः क्षेत्रज्ञमिमं यतश्र बध्नन्ति। हस्तादिभिरिह देहे क्षेत्रज्ञो बध्यते यथा तदत् ॥ ८५ ॥ देहान्तरेऽपि बध्यत इति बन्धनरूपता भवेत्तेषाम्। आवश्यका इमे खल्वतिरिक्ता एव नैव सप् स्युः ॥ ८६॥ पुर्यष्टकेन लिङ्गेनेति स्मृतिरेवभेव दर्शयति। प्राज्ञोऽक्षादवियोगो ग्रहसंज्ञेनास्य दुस्तरोऽयमिति ॥८७॥ त थर्वणवाक्यं चक्षुश्चेत्यादितो विनिर्दिश्य। हस्तौ चेति ह्यन्ते हस्तादीन्यपि च निर्दिशत्येवम्।। ८८॥। एवं दशेमे पुरुषे प्राणा आत्मेति मन्त्रवर्णोडपि। प्राणानामेकादृशसंख्यानामनुगति प्रदर्शयति। ८९।। प्राणेषु सर्वशब्दः सर्वे प्राणा इति श्रुतौ दृष्टः। स हि सर्वप्राणपरो न केवलं सप्तमात्रपर एव ।। ९० ॥। २६

Page 207

२०२ सुन्रह्मण्य विरचिता- [२ द्वितीयाध्यायस्य

प्रकरणमपेक्ष्य शब्दो बलवानिति शास्त्रसिद्धमेवैतत्। सर्वे विप्रा मोज्या इत्यादौ सर्वभोजनायोगात् । ९१॥ प्रकृतनिमन्त्रितपरता तत्र हि युक्त्यैव सर्वशब्दस्य। इह तु पुनः संकोचे न दृश्यते कारणं हि किंचिदृ्पि। ९२॥ अतं इह सर्वे ग्राह्याः सप्तग्रहणं प्रदर्शनार्थं स्यात्। ते तेच शब्दतोऽपि हि कार्यत एकादशेति सिदमिह ॥९३॥ अणवश्ष ॥। ७॥। अणवश्चैते प्रकृता: प्राणा एकादशेति वक्तव्यम्। सौक्ष््यपरिच्छेदात्मकमणुत्वमिह न परमाणुतुल्यत्वम् ।९४॥ परमाणुतुल्यता चेत्कृत्स्नतनुव्यापि कार्यमिह न स्यात्। सूक्ष्मा एते प्राणा निर्गमसमये यतो न दृश्यन्ते ॥ ९५॥ उत्क्रान्त्यादिश्रवणादेते प्राणास्तथा परिच्छिन्ना: । सर्वगताश्रेदेते तद्गुणसारत्वमात्मनो न स्यात् ॥ ९६॥ सर्वगतानामपि किल वृत्तिर्देहै भवेत्परिच्छिन्ना। भवति तयैव हि तद्गुणसारत्वमिहेति नैव युक्तमिद्म् ॥९७॥ यदि च परिच्छिन्नेयं वृत्ति: स्यात्करणमपि च नैव स्यात्। तत एव कार्यसिद्धौ करणव्यापित्वकल्पना हि वृथा ॥ ९८॥ भवति ह्युपासनार्था प्राणानन्त्यश्रुतिस्तया तस्मात् । प्राणोत्क्रान्त्यादिश्वुतिवचसामविरोध इति तु सिद्धमिह ॥९९॥

इतरप्राणवदेव ब्रह्मविकारो भवेदसी मुख्य: । नन्धेतत्मागेव प्रथमे सूत्रे प्रपश्च्ितं भूयः ॥ १०० ॥ ou इत्येतदृत्र सत्यं तथाऽपि किंचिन्निमित्तमिह दृषम् ॥१०१ ॥ न सृत्युरासी[दि]त्याद्यो भवति नासदासीये। ब्रह्मप्रधानसूक्ते तत्र ह्वानीदृवातमिति पठितम् ॥ १०२॥ आसीदिति शब्देन प्रतीयते प्राणकर्म तेनेह। प्रागुत्पत्तेरस्य हि सत्त्वं प्राणस्य सूचितं भवति ॥ १०३॥ प्राणस्तस्माद्ज इति जायेत मतिर्हि कस्यचित्पुंसः । मतिभेतां निरसितुमयमतिदेशोऽयं प्रदर्शितो मुनिना ॥ १०४ ॥

Page 208

चतुर्थपाद: ४ ] माष्यार्थरत्नमाला। २०३

प्राक्याणस्य हि सत्वं नाऽडनीच्छब्दो निरूपयत्यत्र। यस्मादवातमिति किल विशेषणं तस्य दर्शितं मन्त्रे ॥१०५ ॥ अप्राणो हेत्यादिर्मन्त्रः प्राणादिरहिततां बूते। तस्मादानीच्छव्दः कारणसन्भावगमक एवेह ॥ १०६ ॥ प्राणो वावेत्येतन्मन्त्रबलाज्ज्येष्ठताऽस्य युक्त्ैव। यस्माच्छुक्रनिषेकप्रसत्यसी लब्धवृत्तिक: प्राणः ॥१०७ ।। शुक्रं पूयेत न चेदेवं श्रोत्रादिकरणजातस्य । स्थानविमागोत्पत्तेरनन्तरं तस्य वृत्तिलाभः स्यात् ॥ १०८॥ तस्माच्छोत्रादीनामज्येष्ठत्वं प्रसिद्धमपि चायम्। मुख्य: प्राणः श्रेष्ठःश्रुतिप्रदर्शितगुणाधिकत्वेन ॥ १०९॥ न वायुक्रिये पृथगुपदेशात्॥९ ॥ स पुनर्मुख्य: प्राणः किंरूप इतीह मवति चिन्तेयम्। तत्र प्राप्तं तावद्योऽसी प्राण: स वायुरेवेति ॥ ११० ॥ उपदिशति श्रुतिरेनं प्राणं यस्मात्स एष वायुरिति। अथवा तन्न्नान्तरतः प्राणोऽयं सकलकरणवृत्तिरिति ॥११ ।। सामान्यकरणवृत्ति: प्राणापानादिवायवः पञ्च। तन्त्रान्तरावलम्बिन एव प्राणान्निरुपयन्ति यतः ॥११२॥ तस्माद्वायुरयं स्यादित्याशङ्का निरस्यते सपदि। नासौ प्राणो वायुर्भवति हि न समस्तकरणवृत्तिर्वा ॥११३ ॥। पृथगुपदिशति प्राणं वायोर्यस्मात्स वायुनेत्याद्या। श्रुतिरेषा स कथं वा पृथगुपदिश्येत वायुरूपश्रेत् ॥ ११४ ॥ तद्वच्च करणवृत्तेः पृथगुपदेशोऽस्य हश्यतेऽन्यत्र। एतस्मादिति मन्त्रे प्राणमनःप्रभृतय: पृथरदृष्टाः।।११५॥ नाप्येका सर्वेषां करणानां वृत्तिरत्र संभवति । एकैकवृत्तिकतया वागादीनां हि करणता दृष्ा ॥११६ ॥ प्रत्येकं व्यूहस्य त्वकारकत्वान्न वृत्तिरेका स्थात्। नन्विह पञ्जरचालननयेन समुदायवृत्तिरेका स्यात् ॥११७॥ प्रतिनियतव्यापारा: पतगा: संभूय पञ्जरे निहिता:। एकादृशसंख्याकाः पञ्चरमेकं हि चालयन्ति यथा ॥ ११८॥ एवं शरीरनिहिता: प्राणा एकाद्शापि संभूय । माणाख्यवृत्तिमेकां भजन्ति चेकैकवृत्तिका अपि ते ॥?१९

Page 209

२०४ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायोप-

इति तु न युक्त: पञ्जरचालनसमता न चेह संभवति। सद्टृशव्यापाराः किल पतगा: सर्वेऽपि पञ्ञरे निहिताः॥१२०। तस्माच्च चालयेयुः पञ्जरमेतच्च दष्टमपि लोके। श्रवणादिव्यापारैरवान्तरैरम्विता विजातीयैः ॥१२१॥ प्राणा: संभूय कर्थ प्राण्युनेह प्रमाणमपि किंचित्। तच्छ्रेष्ठत्वाद्युक्ति: संप्रति वागादिकरणजातस्य ।। १२२।। गुणभावोपगमो वा न युज्यते करणवृत्तिमात्रेऽस्मिन्। तस्मादन्य: प्राणो भवत्ययं वायुकरणवृत्तिभ्याम्॥१२३ ॥ ननु तर्हि कथमिमं यः प्राण इति श्रुतिरिहोपपद्येत। इति चेन्न वायुरेव ह्यध्यात्मं लब्धपञ्चवृत्तिरसी ॥ १२४ । प्राण इति कथ्यते न हि तत्त्वान्तरमिह न वायुमात्रं वा। तस्मादुभे इमे अपि भेदाभेदश्ुती हिन विरुद्धे॥१२५॥ स्यादेतन्नन्वेष प्राणो जीववदिह स्वतन्त्र: स्यात्। श्रेष्ठत्वादिभिरस्य ह्यनेकधा वर्ण्यते विभृतिरपि ॥ १२६ ॥ सुप्तेषु हि वागादिष्वेको जागति सृत्युनाऽनाप्त:। वागादीन्संवृक्के पुत्रान्मातेव रक्षति प्राणान् ॥ १२७ ॥ इत्येवं किल तस्मात्माणस्यापीह भोक्तृता देहे। जीववदेव स्यादिति शङ्कामेतां निवारयत्यधुना ॥ १२८॥ चक्षुरादिवत्तु तत्सहशि दिश्यः॥१0॥ प्राणस्य स्वातन्त्रयं व्यावर्तयितुं तुशब्द इह पठितः । जी कर्तृतां प्रति यथोपकरणानि चक्षुरादीनि ॥ १२९ ॥ राजामात्यवदेव हि भवन्ति चैतानि न स्वतन्त्राणि। जीवोपकरणभूतः प्राणोऽपि तथेह न स्वतन्त्र: स्यात् ॥१३०॥ सह शिष्यते यतोऽसी प्राणस्तैश्रक्षुरादिभि: सर्वैः। सह शासनं यदेत त्तत्संवादादिघूप्लब्धं तत् ।। १३१॥ समधर्मेष्वेवैतद्युक्त हि बृहद्रथन्तरेषु यथा। अर्वातकये कारणमचेतनत्वादि सुप्रसिद्धं यत् ॥ १३२ ।। सूत्रेऽयमादिशब्दस्तदेतदखिलं प्रदर्शयितुमेव।. ननु चक्षरादिसाम्यादस्य च जीवोपकरणता तर्हि॥१३३॥ तद्द्विषयान्तरमपि रूपादिवदस्य किमपि व्यम्। तत्माणकार्यजातान्येकादश वणर्णितानि पवत्र ।। 93V ।।

Page 210

नुर्यपाद: ४ ] माष्यार्थरत्नमाला। २०५

तानि च परिगणितानि हि रुपालोकनपुरःसराण्येव। द्वादशमपरं कार्यं न हश्यतेऽतो वृथाऽयमिति चेन्न ॥१३५॥। अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ११ ॥ विषयपरिच्छेदेन प्राणस्य च करणता न चेहास्ति। एतावताऽस्य कार्य किमपि च नास्तीति वक्तुमिह पाणान्तरेष्वदृष्ट वैशेषिकमस्य कार्यमुपदिशति। मू।१३६॥

यस्मिन्नुत्क्रान्त इदं शरीरमित्यादिका श्रुतिर्ह्येवम् ॥१३७ ॥ यमिस्त्रुत्क्रान्ते सति पाषिष्ठतरं शरीरमेतत्स्यात्। स भवति वः श्रेष्ठ इति प्रजापतेवक्यमेतदाकर्ण्य॥ १३८॥ उत्क्रान्तेष्वपि वागादिषु तेषां वृत्तिमात्रलोपेडपि। जीवनमेतस्य यथापूर्व जीवस्य दर्शयत्येव । १३९॥। प्राणोञ्चिक्रमिषायां वागादीनां हि शिथिलतापत्तिम्। तद्वच्छरीरपातप्रसङ्गमस्योपदर्शयित्वैव ।। १४० । प्राणनिमित्तामेव हि देहेन्द्रियसंस्थितिं प्रदर्शयति। पाणेनेति श्रुतिरषि सुप्ते वागादिकरणजाते हि। १४१ ॥ पाणनिमित्तैवयं शरीररक्षेति बोधयत्येवम्। यस्मात्कस्माच्चाङ्गात्प्राण इति श्रुतिरपीह दर्शयति ॥१४२॥ प्राणनिमित्तामेव हि देहेन्द्रियपुष्टिमेवमपराऽफि। पाणनिमित्ते एव हि जीवोत्क्ान्तिस्थिती विनिर्दिशति ॥१४३॥ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२॥ एतस्मादृपि हेतोर्मुख्यप्राणस्य दृष्टमिह कार्यम्। व्यपदिश्यते हि यस्माच्छरृतिषु प्राणो हि पश्चवृत्तिरसौ ॥१४४ ।। प्राणोऽपानश्षेति व्यान उदान: समान इत्येयम्। : प्राग्वृत्तिरसौ तद्वदपानो मवेदवाग्वृत्ति: ॥ १४५॥। वर्तत इह तत्संधी व्यानोऽसी वी्यंकर्महेतु: स्यात्। ऊर्ध्वमुखवृत्तिरेष हुदान उत्क्रान्तिकमहेतु: स्यात् ॥१४६॥ स समानो योऽन्नरसं सर्वेष्वङ्गेषु समतया नयति। एवं हि पञ्चवृत्ति: प्राणो व्यपदिश्यते मनोवदसी ॥ १४७॥ मनसो यथा प्रसिद्धाः श्रोत्रादिनिमित्तवृत्तयः पश्च। शब्दादिगोचरास्तास्तथैव चास्यापि वृत्तय: पश्च ॥१४८॥

Page 211

२०६ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

कामाद्यस्तु मनसो न पञ्चसंख्यातिरेकतो ग्राह्याः। नन्विह भूतभविष्यद्विषयाऽप्यपरा भवेन्मनोवृत्ति:।।१४९।। एवं च पञ्चसंख्यातिरेक इह दुर्निवार इति चेन्न । परमतमप्रतिषिद्धं ह्यनुमतमेवेति नयसुपाशित्य ॥। १५० । इह योगशास्त्रसिद्धा: परिगृह्यन्ते हि वृत्तयः पञ्च। स्मृत्यवसाना मनसः प्रमितिविपर्ययविकल्पनिद्ाख्याः ॥ १५१॥ अथवा बहुवृत्तित्वात्प्राणस्य निदर्शनं मनो भबति। इव प्राणस्याप्युपकरणत्वं हि पञ्चवृत्तित्वात् ।१५२ । अणुक्ष ॥ १३ ॥ इतरप्राणवदेव च मुख्योऽप्यणुरेव मवति हि प्राण: । सौक्ष्म्यपरिच्छेदौ खल्वत्राणुत्वं न चाणुतुल्यत्वम्॥ १५३। कृत्स्शरीरव्यापी येनासौ पञ्चवृत्तिभि: प्राणः । सूक्ष्मश्र प्राणोऽसावुत्क्रान्तावनुपलभ्यमानत्वात् ॥ १५४।।

नन्विह विभुताऽपि समः प्लुषिणेत्यादिश्रुता विनिर्दिष्टा ॥१५५॥ इति चेहाSडधिदैविकसमष्टिरूपो हिरण्यगर्भो यः । प्राणात्मा तत्वेन हि विभुत्वमास्नायतेऽस्य नेतरथा ॥१५६॥ ज्योतिरायधिष्ठानं तु तदामननात्॥। १४॥ आध्यात्मिकाधिदैविकविभागतोऽणुत्वमपि विभुत्वं च। प्राणस्य पूर्वमुक्तं तेषामिह सपदि तत्प्रसङ्गेन ॥ १५७॥ इद्माधिदैविकाधीनत्वं वर्णयति सूत्रकारोऽयम्। अत्र हि वाचा नामान्यभिवदृतीतिश्रुतिप्रदेशेषु ॥१५८ ॥ निरपेक्षसाधनत्वं वागादीनां प्रतीयते हि तया। र्वागित्यादिश्रुतेर्दिरोधे समुत्थिते सेयम् ॥१५९॥। नाधिष्ठातृपराऽग्रेस्तदुपादानत्वबांधनार्थेव। ते च प्राणा: प्रकृता: स्वकार्यशक्ता यतः प्रतीयन्ते ॥१६० ॥ तस्मात्स्वमहिन्रैव ह्येते प्राणा इह प्रवर्तरन्। अपि चाधिष्ठातृत्वे देवानां भाकृताऽपि दुर्वारा॥ १६१। भोकृत्वं चेत्तेषां शारीरस्यास्य भोक्तता न स्यात्। इति शङ्कां वारयितुं तदेवदृभिधीयते हि सूत्रकृता.॥.१६२ ।।

Page 212

चतुर्थपाद: ४] माष्यार्थरत्नमाला। २०७

इह पूर्वपक्षनिरसनः सोऽयं तुशब्द इह पठितः । वागादिकरणजातं ह्यग्नयाद्यभिमानिदेवतोपकृतम् ॥१६३॥ तदनुग्रहावलम्बात्स्वीये कार्ये प्रवर्तते सततम्। अग्निर्वागित्यादिश्रुतिरप्यमुमर्थमेव दर्शयति ॥१६४ ॥ अग्नेर्वाग्भावोडयं मुखप्रवेशश्च नान्य इह मवति। किंत्विह तद्धिष्ठातृत्वाधिष्ठेयत्वरूप एवासौ ॥१६५॥ एवं वायुः प्राणो भूत्वेत्यादावसौ भवेदर्थः । वागेव ब्रह्मण इति मन्त्रे वाचोडगनिभावकथनमपि॥१६६॥। उक्तार्थकं हि तस्मात्प्रत्यासत्तिस्तयोर्भवेदेवम्। वागध्यात्ममिति स्मृतिव चनैर्वागादिकरणजातस्य ॥१६७॥ अग्नचाद्यधिष्ठितत्वं स्फुटतरमेव प्रपशच्चितं भवति। स्वमहिम्नैव प्राणाः स्वकार्यशक्ता इतीह यच्चोक्तम्॥ १६८॥ तच्चायुक्तं लोके शक्तानामपि भवेत्परापेक्षा। अश्वाद्यधिष्ठितानामेव रथानां यतः प्रवृत्तिः स्यात् ॥ १६९॥ अग्नयाद्यधिष्ठितत्वं तस्माद्वागादिकरणजातस्य। युक्तं तदागमादृषि तेषां भोक्तत्वमिह निराक्रियते ॥ १७० ॥ प्राणवता शब्दात् ॥१५॥ सत्स्वेवाधिष्ठातृष्वग्नयादिषु देवतात्मसु प्रथितः । प्राणवता शारीरेणैवैषां भवति नित्यसंबन्ध: ।। १७१॥। अथ यत्रैतदिति श्रुतिरषि शारीरेण सर्वकरणानाम्। भोक्तव्य भोक्तृतादिस्वरूपसंबन्धमत्र दर्शयति ॥ १७२ ॥ अपि चाधिष्ठातृणाभनेकभावान्न चेह भाक्तृत्वम्। अवकल्पते ततोऽसावेकः शारीर एव भोक्ता स्यात् ॥१७३॥ प्रतिसंधानादिबलादृपि शारीरोऽयमत्र भोक्ता स्यात् । भोकतृत्वं देवानामिह न कदाचिदिति दर्शयत्यधुना ॥१७४॥ तस्य च नित्यत्वात् ॥ १६ ॥ शारीरस्यैवास्मिन्नित्यत्वं भवति भोक्तृभावेन। पुण्यापुण्यार्जनतस्तथैव सुखदुःखभोगयोगाज्च॥१७५॥ या देवताः परस्मिन्नैश्वर्यपदेन तिष्ठमाना: स्युः । ता हि निहीने देहे लब्धुं भोक्तृत्वमत्र नार्हन्ति ॥ १७६ ॥

Page 213

२०८ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

श्रुतिरपि च पुण्यमेवामूनीत्याद्या निरूपयेत्येवम्। प्राणानां संबन्धः शारीरेणैव भवति नित्यतया ॥ १७७॥ येन तमुत्क्ामन्तं प्राण इति श्रुतिरपीह दर्शयति। शारीरेणैवैषामुत्क्ान्ती तद्षनुवृत्तितामेव ।। १७८॥ तस्मादासु सतीष्वपि न हि शारीरस्य भोक्तृताहानिः । देवा हि करणपक्षे दीपवदे[व] हिन भोक्तृपक्षेऽपि॥ १७९॥ तस्माच्च चक्षुषेति श्रुतिरेषा भवति साधनत्वपरा। तद्धिष्ठातृपरैव ह्यग्निर्वागिति तयोक्ष न विरोधः ।। १८० ।। त इन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्ठात् ॥ १७॥ एको मुख्यस्त्वितरे प्राणा एकादृशेति निर्दिष्टम्। मुख्यस्य वृत्तिभेदा इतरे प्राणा भवन्ति किंवा ते ॥१८१॥ तत्वान्तराणि तस्मादिति संदेहे समुत्थिते तन्र। सुख्यस्य वृत्तिभेदा इतरे प्राणा इतीह युक्ततमम् ॥१८२॥ हन्तास्यैवेत्याद्या श्रुतिरपि मुख्यात्मतां ववीत्येषाम्। एकत्र मुख्यवृत्तिरितरत्र च लक्षणा तु न हि युक्ता॥ १८३॥ तस्मादेकस्यैव प्राणाद्याः पञ्च वृत्तयो हि यथा। एवं वागाद्या इति शङ्कामेतां निवारयत्यत्र ॥१८४॥ वागादीन्येतानि हि मवन्ति तत्त्वान्तराणि तानि यतः । एकाद्शेन्द्रियाणीत्युच्यन्ते श्रेष्ठमेकत्र विना ॥ १८५॥ एकस्मादिति मन्त्रे प्राणा: पृथगेवमिन्द्रियाण्यवि च। व्यपदिश्यन्ते हि यतस्तस्मात्तत्वान्तराणि तानि स्युः ॥ १८६॥ पाणस्येव हि नन्वेवं सत्यनिन्द्रियत्वं स्यात्। व्यपदिश्यते हि यस्मात्पृथङ्मनोऽपीन्द्रियेम्य इति चेन्न ॥ १८७॥ व्यपदेशोऽसी यद्यपि मनसः पृथगेव दृश्यतेऽथापि। मनसोऽपि चेन्द्रियत्वं स्मृतिप्रसिद्धं श्रुतिप्सिद्दमपि॥। १८८॥ प्राणस्य चेन्द्रियत्वं न च श्रुती न स्पृती प्रसिद्धं स्यात्। व्यपदेशभेद एष हि तत्त्वै ह्ययुक्त एव स्यात् ॥ १८९॥ भेदशुतेः॥ १८ ॥ मेदेन व्यपदेशो वागादिभ्यो हि हश्यते प्राणे। नेहेति भ्रुतिवाक्ये वागादीनसुरपाप्मविध्वस्तान्॥.११०।।

Page 214

चतुर्थपादः ४ ] माष्यार्थरत्नमाला। २०९

निर्दिश्य सकलमेतद्वागादिप्रकरणं च संक्षिप्य। भ्रुत्याऽथ हेममिति किल मुख्योऽसावसुरपाप्मविध्वंसी॥१९१॥ व्यपदिष्टः पृथगेव हि तस्मात्तत्वान्तराणि करणानि। तत्वान्तरतामेतामधुना हेत्वन्तरेण वर्णयति ॥ १९२॥ वैलक्षण्याच ॥१९ ॥ वैलक्षण्यं हष मुख्यप्राणस्य चेतरेषां च। सुप्तेषु हि वागादिषु मुख्यो जागर्ति नेतरे प्राणाः ॥१९३।। तस्य स्थित्योत्क्रान्त्या तनुधारणपततनकार्यमिह भवति। एतच्च नेन्द्रियाणां विषयपरिच्छेदहेतुता तेषाम् ॥१९४॥ तस्मादप्येतेषां तत्त्वान्तरभावसिद्धिरिति युक्तम्। एतस्यैव हि सर्वे रुपमितिश्रुतिबलेन तत्त्वैक्यम्॥१९५ ॥ न हि वर्णयितुं शक्यं यस्मात्तत्र प्रतीयते भेद: । इह च वदिष्याम्येवाहमिति श्रुत्या व्रतं विनिर्दिष्म् ॥ १९६॥ वागादीनामेवं कथितश्रममृत्युकवलितत्वमपि। पश्चाद्थेममेवेत्यनया श्रुत्या हि मध्यमः प्राणः ॥ १९७।। पृथगेव सृत्युनाऽनभिभूतोऽसी वर्णितस्तथेवास्य। वाक्येनायं वै नः श्रेष्ठ इति श्रेष्ठताऽपि निर्दिष्ा ॥१९८॥ तस्माद्वहुभिलिङ्गैरत्र विरोधे समुस्थिते तेषाम्। तदूपभवनमेतत्तद्धीनस्थितिकंतात्मकं वाच्यम् ॥१९९॥। मुख्ये प्राणे शक्तो लाक्षणिक: प्राणशब्द इह मवति। तस्माद्वागादीनां माणात्तत्वान्तरत्वमिह सिद्धम् ॥ २०० ॥ संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ तन्नामरूपभेदात्प्राणोऽसी करणभिन्न इत्युक्तम्। तन्नामरूपकृत्तिर्भवति हि किंकर्तृकेति चिन्तेह ॥ २०१ ॥ सत्पकरणे हि तेजोबन्नानां सृष्टिसरणिमभिधाय। एकेकं करवाणीत्यन्तं वाक्यं हि सेयमित्यादि ॥ २०२॥ एतद्नन्तरपठितं तस्मात्संदेह एष संभूत: । कि जीवकर्तृकमिद किं वा परमेशकर्तृकं वेति॥ २०३॥ सच्चेह नामरूपव्याकरणं जीवकर्तृकं युक्तम्। यस्मादनेन जीवेनेति श्रतिरात्ममावमप्टिडय।।२०५।। २७

Page 215

२१० [ २ द्वितीयाध्यायस्य-

व्याकरवाणीत्यस्माद्याकर्तृत्वं हि तस्य दर्शयति। लोके चारेणाहं परसैन्यमनुप्रविश्य कलयानि॥ २०५॥ एवंविधप्रयोगे तत्कर्तृकमेव सन्यसंकलनम्। अध्यारोपयति यथा स्वात्मनि राजा हि हेतुकर्तृरवात् ॥२०६॥ संकलयानीत्येवं तथेदमवि जीवकर्तृकं सदिह। स्वात्मन्यारोपयति व्याकरवाणीति देवता ह्येषा ॥ २०७ ॥ आपि किल डित्थादिषु वा नामस्वेवं घटादिरुपेषु । जीवस्यैव हि दृष्ट व्याकर्तश्वं न चेतरस्येह ॥ २०८ ॥ तस्माच्च जीवकर्तृकमिदमिति शङ्कां निराकरोत्यधुना। सूत्रस्थो हि तुशब्दः प्रकृताशङ्कानिवर्तनार्थः स्यात् ॥ २०९॥ यच्चेह नामरूपव्याकरणं तत्परेश्वरस्पैव । तस्येह निरपवादं कर्तृत्वं स्यान्न चेतरस्येदम् ॥ २१० ॥

सा तेजोबन्नानां निर्मातुर्भवति कृतिरिहेशस्य ॥ २११॥ सेयमिति श्रुतिरेषा व्याकरवाणीति चरमवाक्येण। परामात्मन एव यतो व्याकर्तृत्वं तदेतदुपदिशति ॥२१२॥ नन्विह जीवेनेति व्यपदेशाज्जीवकर्तृकं सत्स्यात्। इति न यतो जीवेनेत्यनुपरविश्येत्यनेन संबन्ध्यम् ॥ २१३ ॥। अव्यवधानान्नेह व्याकरवाणीत्यनेन संबध्येत। स्यादैपचारिकोऽसावुत्तमपुरुषश्र तेन संबन्धे ॥ २१४॥ अपि गिरिनदीसमुद्रादिषु नानारूपनिवहेषु। व्याकरणकर्तृता कथमनीश्वरस्यास्य भवति जीवस्य ॥२१५॥ येष्वपि सामथ्यं स्यात्तेष्वपि तदिदं भवेत्परस्यैव। राज्ञश्रार इवायं न परस्माद्विन्न एव जीव: स्यात् ॥२१६॥ यस्मादिहाऽSत्मनेति च विशेषणं दृश्यते हि जीवस्य। तस्योपाधिनिबन्धन एवासी जीवभाव इत्युक्तम् ॥२१७॥ तेन च तत्कृतमेतत्परात्मकृतमेव भवति सर्वमपि। परमेश्वर एवासौ व्याकर्ता नामरूपयोरिति हि ॥ २१८॥ आकाशो हेत्याद्यैः श्रुतिव चनैर्व्यक्तमेतदुपदिषम्। प्रत्येकनामरूपव्यांकरणं भूतसर्गवाक्येण। २१९॥

Page 216

चतुर्थपाद: ४ ] भाष्यार्थरत्नमाला। २११

निर्दिष्टमत्र तु पुनर्विवक्ष्यते मौतिकेषु तदिदं हि॥ तेजोबन्नानां किल भवेतिवृत्करणपूर्वकं यस्मात् ॥ २२०॥ तस्मादग्न्यादिष्वियमुपदिशति श्रुतिरिदं त्रिवृत्करणम्। श्रुतिरेषा हि यद्ग्नेरित्याद्या सकलमेतदुपदिशति ॥ २२१॥ अग्न्यादित्यादीनां यदुदाहरणं श्रुतौ विनिर्दिष्टम्। तेनैतेषु त्रिष्वपि भौमांभसतैजसेषु तत्सिद्धम् ॥२२२॥ यस्माद्विशेषेण भ्ुताविमा इत्युपक्रमो दृष्टः । यदु रोहितमित्यादावुपसंहारोऽि चाविशेषेण ॥ २२३ ॥ तासां बहिस्तिसृणां त्रिवृत्कृतानां तु देवतानां हि। अध्यात्ममपरमेषा श्रुतिस्त्रिवृत्करणमत्र दर्शयति॥२२४ ॥ सा चेमास्तिस्र इति प्रथिता हि तयैव दर्शयत्येतत्।

मांसादि भौमं यथाशब्दमितरयोश् ॥२१॥ भूमेखििवृत्कृताया: पुरुषेणेहोपसुज्यमानायाः। निष्पद्यते हि कार्यं मांसादि हि मवति तद्यथाशब्दम ॥ २२६॥ दर्शयति चान्नमशितं त्रेधेत्याद्या श्रुतिर्यथोक्तार्थम्। भूमेरुपसुक्ताया: स्थविष्ठरूपं पुरीषभावेन ।२२७।। निर्गच्छति बहिरेव हि मध्यममध्यात्ममेव मांसादि। वर्धयति यद्धयणिष्ठं भवति मनो ह्येवमितरयोरपि च ॥ २२८॥ सूतं लोहितमेवं प्राष्पश्र तथा भवेदपां कार्यम्। अस्थि च मज्जा वागपि तेजस एतञ्रयं भवेत्कार्यम् ॥२२९॥ ननु भूतं भौतिकमप्यविशेषेण त्रिवृत्कृतं चेतस्यात्। योडयं विशेषवादस्तेजोबन्नेषु स च विलुप्येत ॥। २३०।। इदमिह तेज इमा: खल्वाप इदं चान्नमेवमादिरसौ। अध्यात्ममपि तथेद कार्यं मांसादि चाशितान्नस्य ॥ २३१॥ एवमपां पीतानां कार्यं चैतद्धि लोहितादीति। अशितस्य तेजसोऽपि ह्यस्थ्याद्येवास्य कार्यमिति चेन्न ।२१२# वैशेष्यानु तद्दादस्तद्वादः ॥२२॥। चोदितमेतं दोषं तुशब्दयोगेन सम्यगपनुदति। अन्न हि विशेषमावो वैशेष्यं तच्च भवति भूयस्त्वम् ॥ २३३॥

Page 217

२१२ सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

यद्यपि स चेदं त्रिवृत्कृतं स्यादथापि वैशेष्यम्। एकस्य भूतधातोर्भूयस्त्वं चोपलभ्यते कवापि ॥ २३४॥ तेजोभूयस्त्वं खल्वग्रेद्टंष्टं तथोदकस्यापि। अन्मूयस्त्वं दृष्टं तथा पृथिव्या इहान्नभूयस्त्वम् ॥ २३५।। व्यवहारसिद्दये खल्विदं तरिवृत्करणमाश्रितं भवति। इह च पदाभ्यासोऽसावध्यायसमाप्तिमाशु बोधयति॥ २३६। शारीरकमीमांसा सुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्यायः ॥२३७॥ तत्र च चतुर्थपादे सूत्रार्थो यश्र माष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ।। २३८॥ भाष्यार्थरत्नमाला वैयासिकसूत्रजालसंग्रथिता। भगवति परमानन्दे समर्पिता जयतु जगति निरवद्या॥ २३९॥ इति श्रीमाष्यार्थरत्नमालायां द्वितीयाध्यायस्य चतुर्थः पाद: ॥४ ॥

समाप्तश्र द्वितीयाध्यायः॥२॥

माष्यार्थरत्नमालायां तृतीयाध्यायस्य प्रथम:पाढः।।

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् ॥। १ ॥। पूर्वस्मिन्नध्याये कपिलादिस्सृतिनयैर्विरोधोडसौ । वेदान्तवाक्यविहितबरह्मावगमे हि परिहतः सकलः॥ १॥ अनपेक्षत्वं च तथा परपक्षाणां प्रपश्च्िचितं मवति। विप्रतिषेधश्ायं श्रुतिवचसामपि निराकृत: सकलः ॥२॥ जीवव्यतिरिक्तानि हि यानि च जीवोपकरणभूतानि। तानि परस्माङ्गह्मण उत्पद्यन्त इति दर्शितं पूर्वस ॥३॥ एवं वेदान्तार्थे विरोधशङ्कानिरासतो बिमले। लब्घावसरा सेयं जाता तज्ज्ञानसाधने चिन्ता॥४ ।। इति हेतुहेतुमन्भावात्मकसंगतिमिहावलमब्यैव। तन्निर्णयाय संप्नत्यध्यायोऽसी तृतीय आरब्धः ।५॥

Page 218

'प्रथम:पादः १ ] भाष्यार्थरत्नमाला। २१३ लिङ्गोपाधे: सिद्धा मवति हि तदुपहितजीवसंसारे। चिन्तेति पादयोरपि संगतिरिह हेतुहेतुमद्भ्ावः ॥६॥ एतस्मिन्नध्याये योऽसावुपकरणपरिहृतो जीवः । तस्य हि संसारगतिस्तद्वस्था ब्रह्मतत्वयाथात्म्यम् ॥७॥ विद्यामेदाभेदौ गुणोपसंहारतद्विपर्यासौ। सम्यग्दर्शनयोगात्पुंसां पुरुषार्थसिद्धिरप्येवम् ॥८।। सम्यग्दर्शनसाधनविधिप्रभेदो हि मुक्त्यनियमश्च। एतन्निरूपयिष्यत इह प्रसङ्गागतं तथाऽन्यदृपि॥९॥ प्रथमे तावत्पादे पञ्चस्वग्नित्वगोचरां विद्याम्। आश्रित्य विरतिहेतोः संसारगतेः प्रदश्यते भेदः ॥१० ॥ तस्य जुगुप्सेतेति ह्यन्ते दृष्टा विरक्तिसाधनता। मुख्य प्राणसहायो जीवोऽसी सेन्द्रियश्र समनस्कः॥११ ॥ विद्याकर्मपुरस्कृतपूर्वप्रज्ञापरिग्रहोपेतः । पूर्वं विहाय देहं देहान्तरमभिनवं हि लमत इति ॥१२॥ इत्येतद्वगतं खल्वथैनमित्यादिवेद्वाक्येषु । धर्माधर्मफलानामुपभोक्तृत्वेन तस्य तद्युक्तम् ।१३ ।। स हि देहबीजमूतैः सूक्ष्मैर्भूतैरसंपरिष्वक्तः । गच्छत्याहोस्वित्किं स संपरिष्वक्त एव यातीति ॥ १४ ॥ चिन्तेयमत्र युक्ता ह्यसंपरिष्वक्त एव यातीति। करणोपादानवदिह भूतोपादानमत्र न हि दृंषमू ॥१५॥ इह च स एतास्तेजोमात्रा इत्यत्र करणमात्रपर:। तेजोमान्नाशब्द: श्रूयत एवं न भूतपरशब्दः ॥ १६ ॥ अपि चेह वाक्यशेषे कथितानि हि चक्षुरादिकरणानि। एवं न भूतमात्रोपादानस्येह कीर्तनं दृष्म् ॥१७॥ सुलमाश्र मूतमात्रा यस्मात्तासां हि निष्फल नयनम्। तस्माद्संपरिष्वक्तो यातीत्यत इदं पठत्यार्यः ।।१८।। व्यवहारसिद्धये किल पञ्चीकरणं प्रदर्शितं पूर्वम्। संप्रति स व्यवहारो निरुप्यत इतीह हेतुफलमावः ॥ १९॥ देहान्तरसंपत्ती सूक्ष्मैर्भृतैः सहैव संयाति। जीवोऽन मवति हेतुः प्रश्नप्रतिवचनरूप एवेति ॥ २० ॥

Page 219

२१४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्क-

राज्ञ: प्रवाहणस्य प्रश्नोऽसी श्वेतकेतुमुद्दिश्य। वेत्थ यथा पञ्चत्वमित्यादिस्तस्य चोत्तराज्ञाने ॥२१ ॥ तत्पितरं राजाडसौ पप्रच्छोद्दालकं यथापूर्वम्। तेनासौ वावेति वचनं हीदं प्रदर्शितं राज्ञे॥ २२॥ इह खल्वग्ावेता: श्रद्धाख्या: श्रद्धया हुता आप:। आज्यपयोद्धिरूप भवन्ति यजमानसंगतास्ताभि: ॥२३॥ सोमाख्यदिव्य देहात्मना स्थिता: स्वर्गलोकमासाद्य। कर्मान्त पर्जन्ये हुतास्ततो वृष्टिमावमुपयान्ति ॥२४॥ एवं हुता: पृथिव्यां ताश्रान्नत्वेन परिणतास्तद्ृव। पुरुषे रेतोरूपा योषिति च हुता हि पुरुषपद्वाच्याः ॥२५॥ दर्शयतीति त्वाद्या श्रुतिरेषा सकलमेतमर्थमिह। तस्मादृन्भिर्जीवो व्रजति परिष्वक्त इति तु युक्तमिह ॥२६॥ नन्विह पूर्व देहं त्यक्त्वा जीवस्तदन्तरं लभते। इत्यत्र वर्णितं तत्प्तिकूलं तृणजलायुकेत्यस्याः ॥२७॥ पूर्वतनुत्यागोऽसौ तदन्तरप्राप्त्यनन्तरं तत्र। निर्दिष्ट इह तु पूवं तस्मादेतद्विरुद्धमिति चेन्न ॥ २८॥ भावनयैव गृहीत्वा कर्मायत्तं हि भाविदेहमसौ। पूर्वं देहं त्यजतीत्येव जलूकानिदर्शनेनैषा ॥ २९ ॥ बोधयति सूत्रदर्शितमर्थ श्रुतिरिति न कश्विदिह दोषः। देहान्तरसंपत्तिप्रकार एवं श्रुतिस्मृतिप्रथिते॥३०॥ तत्राSडत्मनस्तथैव हि करणानां व्यापिनां भवेद्वृत्तिः। इति सांख्यकल्पना वा तथैव सुगतादिकल्पना याऽसौ।।३१ ॥ केवलमात्मन एव हि तदन्तरे भवति वृत्तिलाभ इति। एवं काणादानां मन एवाभिप्रतिष्ठते तादिदम् ॥ ३२॥ उत्पद्यन्ते देहवद्भिनवरूपाणि चेन्द्रियाणीति। या कल्पना तथेयं शुक इव वृक्षात्तदन्तरं हि यथा ॥ ३३ ॥ उत्प्लुत्य जीव एकस्तदन्तरं लभत एवमाद्या हि। जैनानां ता: सकला नाऽऽदर्तव्या यतश्च निर्मूलाः॥३४॥ श्रुतिविप्रतिषेधाश्चेत्यत एतासु ह्यनादरो युक्त:। प्रश्नपतिवचनाभ्यां नन्वद्भि: केवलामिराकलिन: ॥३५॥

Page 220

प्रथम:पाढः १] माष्यार्थरत्नमाला। २१५

रंहति परलोकमिति प्रतीयते कथमिह प्रतिज्ञातम्। सवैहि मूतसूक्ष्मैः सह प्रयातीत्यतस्त्विदं पठति ॥३६ ॥ त्र्यात्मकत्वान्तु भूयस्त्वात् ॥ २ ॥ अत्रत्यश्च तुशब्दो यथोक्तशङ्कानिवर्तनार्थ: स्यात्। प्रश्ननिरूपणवाक्यप्रदर्शितास्त्रिस्वरूपका ह्यापः ॥३७॥ यस्मात्रिवृतमिति श्रुतिरिह तिस्नस्तास्त्रिवृत्कृता वूते। तासाभारम्भकतासिद्धावितरद्व्यस्य सा सिद्धा ॥ ३८ ॥ तेजोबन्नानामिह यस्मात्कार्यं च हश्यते देहे। तस्माद्देहरूयात्मक एष पुनरूयात्मकस्त्रिधातुत्वात्॥ ३९॥ यस्माच्च वातपित्तश्लेष्मभिराकलित एव देहोडसौ । न च केवलाभिरद्भिर्विनैव भूतान्तराणि चाऽडरब्धुम्॥ ४०॥ नैव हि शक्यस्तस्माद्ब्भूयस्त्वापेक्षयेह चाप्शब्द:। हश्यत एव हि यस्मादव्भूयस्त्वं हि सर्वदेहेषु ॥ ४१ ॥ ननु पार्थिवोऽपि धातुर्भूयिष्ठो हश्यते शरीरेषु। मैवमपां बाहुल्यं त्विहेतरस्मान्दि दृश्यते लोके ॥ ४२ ॥ यद्ेहबीजभूतं शुक्रं शोणितमिति प्रसिद्धं तत्। द्रवबहुलमेव दृष्ट कर्मापि निमित्तकारणं यत्स्यात् ॥ ४३। तद्पि च सोमाज्यादिद्रवबहुलद्रव्यसंश्रितं भवति। तत्समवेता ह्यापः श्रद्धाशब्दोदिता मवन्त्येता: । ४४।। सह कर्मभिर्द्युसंज्ञे ह्यग्नौ हूयन्त इति च वक्ष्यति हि। तस्माद्वाहुल्यमपामष्शब्देनेह देहबीजानाम्॥ ४५॥ युक्तमुपादानं किल सर्वेषामेव भूतसूक्ष्माणाम्। यञ्ेह मूतसूक्ष्मैः सहगमनं तस्य तद्पि निरवद्यम् ॥४६॥ प्राणगतेश्र ॥ ३॥। देहान्तरसंपत्तौ प्राणानामपि गतिः श्ुता ह्येवमू। इह च तमुत्कामन्तं प्राणोऽनूत्क्ामतीति वाक्येन ॥ ४७॥ सा हि मतिः प्राणानां नैवाऽडश्रयमन्तरेण संभवति। अत इह तदृत्यर्थं तदाश्रयाणामपीह सा वाच्या॥४८॥ न प्राणानां दृष्टा निराश्रयाणां क्वचिद्गतिस्तस्मात्। भूतान्तरसहितानामपामपि गतिस्त्ववश्यमिह वाच्या।४

Page 221

२१६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४ ॥ ननु देहान्तरयोगे नैव प्राणा: सहैव जीवेन। गच्छन्त्यग्न्यादिगतिश्रुतेस्तथेयं श्रुतिः प्रदर्शयति ॥५० ॥ देहावसानसमये प्राणा वागादयो हि गच्छन्ति। अग्न्यादीन्देवानिति यत्रास्येति श्रुतिर्हि दर्शयति ॥५१॥

लोमसु केशेषु च सा न दृश्यते श्रुतिरिहेत्थमुपदिशति ॥ ५२॥ लोमानि चौषधीरिति केशाश्र वनस्पतीन्प्रयान्तीति। न हि लोमानि च केशा उत्प्लुत्यौषधिवनस्पतीन्यान्ति ॥५३॥ न च जीवस्य प्राणोपाधित्यागेन गमनमषि युक्तम्। देहान्तरे हि भोगो वाऽपि प्राणैर्विनोपपद्येत॥५४॥ जीवेन च सह गमनं प्राणानामपि च दृश्यतेऽन्यत्र। तस्मादग्न्यादीनां वागाहापकारिणां हि देवानाम्॥ ५५॥ उत्क्रमसमये केवलमुपकारनिवृत्तिमात्रमालक्ष्य। वागाद्यः प्रयान्ति ह्यग्न्यादीनिति तु भात्तमेव स्यात् ॥५६॥ प्रथमेSश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥ नन्वेतत्कथमापः पञ्चम्यामाहुती हि पुरुषाख्या:। यस्मादय्नी प्रथमे नैवापां श्रवणमस्ति किंचिदृपि॥ ५७॥ आहुत्याधारतया पञ्चाधीतास्त्वहाग्रयो द्युमुखाः। तेषां प्रथमे त्वग्ौ तस्मिन्नित्येवमादिकां श्रद्धाम् ॥५८॥ होम्यद्रव्यतया हि श्रृतिः प्रदर्शयति तेन तद्युक्तम्। पर्जन्यादिषु सोमप्रभृतीनां होमकरणभूतानाम् ॥५९॥ द्रवबाहुल्पेनापां होम्यद्रव्यत्वसुचितमेव स्यात्। प्रथमे त्वग्नी श्रद्धां श्वुतां परित्यज्य चाश्रुता आप: ॥ ६० ॥ कथमिह होतव्या: स्युः पञ्चम्यामित्ययुक्तमिति चेन्न। यस्मात्प्रथमेऽप्यग्री ता एवाऽडपो भवन्ति होतव्याः ॥ ६१॥ श्रद्धाशब्देनापि च ता एवाडडपो विवक्षिता: स्युरिह। एवं चेदेवं स्यात्तदादिमध्यावसानसंबन्धात् ॥६२॥ एकं वाक्यमनाकुलमुपपद्यत इतरथाऽडहुतावस्याम्। पञ्चम्यामेवापां पुरुषवचस्त्वप्रकार इह पृष्ठे॥ ६३॥

Page 222

प्थमपाद: १] माष्यार्थरत्माला।

प्रतिब वसरे हि प्रथमेयौ प्रथममाहुतिस्थाने। अनपो होम्यडव्यं भ्रद्धां नामावतारयेत्तहि ॥ ६४ ॥ नात्रैकवाक्यता स्यात्प्रस्नप्रतिवचनवैपरीत्येन। उपसंहारोऽपीति व्वित्याद्या चैकवाक्यता वक्ति॥६५॥ लक्ष्पत एवाव्बहुलं श्रद्धाकायं च सोमधृष््यादि। कार्यानुरूपमेव [ च] लोके दृष्ट हि कारणं सकलम् ॥ ६६ ।। मनसो जीवस्यायं श्रद्धाख्य: प्रत्ययोऽत धर्मः सनू। पश्वादिभ्यो हृदयानीवायं धर्मिणो निकृष्य कथम् ॥ ६७॥ होतुमुपादेष: स्याच्छ्रद्धाशब्दा इहाऽडप एवात: । श्रद्धाशब्दश्राप्सु श्रद्धा वा आप एवमादिषु च ॥ ६८ ॥ वाक्येषु वैदिकेष्वपि हष्टस्तस्मात्तनुत्वयोगेन। श्रद्धासमानरूपा: श्रद्धाशब्दा इहाऽडप एव स्यु: ॥६९॥ अथवा श्रद्धाशब्दः श्रद्धासंवलितकमेसमवायात्। श्रद्धाहेतुत्वाद्दा श्रद्धाशब्दोऽयमप्सु युक्त: स्थात् ॥७० ॥ आपो हास्मै श्रद्धा इत्याद्या हि श्रुतिः प्रदर्शयति। श्रद्धाहेतुत्वेन श्रद्धाशब्दोपपत्तिमप्सु यतः ॥ ७१॥ अश्रतत्वादिति चेन्नेष्टािकारिणां ीतेः ॥६॥ प्रश्नप्रतिवचनाभ्यामापः श्रद्धादिभावमापन्नाः । प्रतिपद्येरन्पुरुषाकारं ताश्राऽडहुतौ हि पञ्चम्याम्॥ ७२॥ ताभिस्तु संपरिष्वक्ता जीवाश्रेह नैव रंहेयु: । न हि जीवानां कश्िच्छ्रावयिताऽपामिबेह शब्दोऽस्ति ॥ ७३॥ तस्माद्युक्तमेव ह्यद्भि: परिवेष्टितस्य गमनमिदम्। इतिचेत्पतीयते तद्रंहणमिष्टादिकारिणामत्र ॥ ७४॥ अथ य इमे ग्राम इति श्रुतिरिह धूमादिवर्त्मनैतेषाम्। इष्टादिकारिणां गतिमपि चन्द्रपराप्तिमत्र दर्शयति॥७५॥ यात्याकाशाच्न्द्रं चन्द्रमसी भवति सोमराज इति। एवमिहापि हि तस्मिन्नित्यादावेतदेव निर्दिष्टम् ॥॥६॥। तस्मिन्नग्री देवा: श्रद्धां जुह्ृति तदाहुतेरेषः। सोमो राजा भवतीत्यंत्र श्रुतिवचनसाम्यतो लब्धम्॥ ७७॥। तेषां च कर्मसाधनभूता एते हि दधिपय:॥। वृवमूयस्त्वादाप: क्षेणैव ता हि दुश्यन्ते॥। ७८ ॥।

Page 223

[ ३ तृतीरयाध्यायस्य:

आहवनीये प हुताः सृक्ष्मास्तानाश्रयन्ति यजमानान्। तषां शरीस्मपि खत्वन्तेऽग्रावृत्विजोऽत्र जुहृति हि॥ ७९॥ आपश्राऽडहुतिमय्यः सूक्ष्माश्रेष्टादिकारिणो जीवान्। परिवेद्यामुं लौकं फलदानाय च नयन्ति ता इसि हि॥ ८० ॥ अग्नौ देवा श्रद्धामित्याद्येन प्रतीयते ह्येवम्। अुत्यन्तरेऽग्गिहोत्रप्रकरणपठितेन वाक्यशषेण ।।८१ ।।

जनकेन याज्ञवल्क्यं प्रति षट्प्रश्नाः प्रदर्शितास्तत्र ॥८२ ।।' पुरुषस्योत्कामत इह ते एते आहुती हुते भवतः । यक्चान्तरिक्षलोकस्तद्वारा ते दिवं हि गच्छनत्यौ ॥ ८३ ॥ दिवमेवाऽडहवनीय प्रतिष्ठयोपेतमातनुत एते । ते हि-दिवं तर्पयतस्त्वावर्तेते ततो हि पुनरपि च ॥८४ ॥ ते च पथिव्यां पुरुषे योषिति च हुते हिपुरुषरूपेण। उपतिष्ठत इत्येतत्कर्मिषु सर्वत्र दर्शयित्वैव ॥ ८५॥ त्वमनुत्क्रान्तिं न गति न च प्रतिष्ठां न तृप्तिमपि चैवम्। न च पुनरावृत्तिं वा न च लोकं प्रत्युपस्थितं वेत्थ।। ८६।। इति षट्प्रश्नैविवृते न हि पुनरावृत्तिवर्जितः पन्थाः।

रंहति परलोकमसौ फलभोगायेति युज्यते तदिदम्। इष्ादिकारिणां ननु फलोपभोगाय रंहण यदिह ॥ ८८ ॥ धूमादिवत्मनोक्तं तद्युक्तमिव प्रतीयते यस्मात्। इशाढ्विकारिणां किल शशधरमण्डलमुपागतानां हि। ८९॥ तदेवानामन्नं तं देवा एवमाढिका तेषाम्। श्रुतिशन्नतां हि कथयति कथमेतेषां फलोपभोग: स्थात् ॥९० ॥ ते चन्द्रं प्राप्यान्नं भवन्ति तांनेवमादिकाऽ्यपरा। श्रुतिरिममर्थं बते कथमिह तेषां स्वकर्मफलभोग: ॥ ९१ ॥ तस्माव्याघ्रादिभिरिव देवैः सर्वत्र भक्ष्यमाणानाम्। उपभोगाशंसनमिह कथमिति शङ्कां निराकरोत्यधुना । ९२॥ भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॥७॥

च वाशब्दाडसी यथांक्तशङ्गांनरासफलक: स्यात्। एतेपामन्नत्वं न हि.मुख्यं किंतु भाक्तमेव स्याद ॥ ९३ ॥

Page 224

प्थमपाद्:१] माष्यार्थरत्नमाला। -किलान्नमावे विधिवाक्यं स्वर्गकामपरमखििलम्। असमक्जसमुपभोगो यदि तेषां चन्द्रमण्डले न स्यात् ॥ ९४॥ अधिकारिण: किमर्थ कर्म यदायासबहुलमिह कुर्युः। लोके किलान्नशब्दोऽनन्नेडप्युपचर्यमाण इह दृषटः ॥९५॥ राज्ञां यथा विशोऽन्न विशामिहान्न यथा हि पशव इति।

इषादिक्कारिभिर्यतसुखविहरणमेतदेव देवानाम्। भक्षणमभिमतमेतन्न चर्वणं नापि निगरणं वाऽपि॥९७॥ भ्रुतिरिह न ह वै देवा इल्पाद्याऽप्येवमेव दर्शयति। नाश्नन्ति नैव देवा: पिवन्ति हषवाऽमृतं हि तृप्यन्ति ॥.९८॥ इति तेषां देवानां वारयति हि चर्वप्पादिकं सकलम्। इष्टादिकारिणां पुनरुपभोगोऽयं हि भवति युक्ततमः ॥९९॥ राजोपजीविनामिह जगति यथैवैष परिजनानां स्यात् । युक्तो ह्यनात्मवित्त्वात्तेषां देवोपभोग्यभावोऽसी॥॥ १०० ॥ योऽन्यामित्येषा श्रुतिरपि देवोपभोग्यतां बूते। स च न हि वेद यथाऽसौ पशुरेवं स खलु देवतानां स्यात।११॥ स हि यस्मिन्नषि लोके कर्मभिरिष्टादिभिश्र देवादीन्। परितोषयन्हि पशुवद्देवानामुपकरोति चाविरतम् ।। १०२।। एवममुष्मिल्ीके फले तदादिष्मेव भुआान: । पशुवद्सी देवानामुपकुरुत इतीह गम्यते हि ततः ॥ १०३॥ अर्थान्तरपरमपि खल्वनात्मविन्वादितीह यच्चोक्तम्। इषादिकारिण: खल्वनात्मविद एव केवलं ते स्युः ॥१०४ ॥ यस्मात्समुच्चयानुधानविहीना हि कर्ममात्रपरा:। तस्माद्रुणवादेन हि तेषामन्नत्वमत्र निर्दिष्टम् ॥१०५॥ पञ्चाग्निवद्यया विधुरास्तस्मादनात्मविदएते। दर्शयति कर्मभोगं स सोमलोके विभूतिमनुभूष॥१०६॥ पुनरावर्तत इति हि श्रुतिरेषा चन्द्रमण्डले तेषाम्1 अुत्यन्तरमथ ये शतमित्यादिकमेवमेव दर्शयति॥१०७॥ इष्टादिकारिणामिह भाक्तत्वादन्नभाववचनस्य। रहति "लोपमुत्तयै स संपरिष्यक्त इति हि युक्तमॅदमू३ १०८॥

Page 225

२२० सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

त्ययेऽनुशयवान्दष्टस्सृतिभयां यथेतमनेवं च ॥ ८ ॥ धूमादिवर्त्मना किल शशघरमण्डलसुपागतानां हि। इषादिकारिणामिह तत्रैव च भुक्तसकलभोगानाम् ॥ १०९॥ प्रत्यवरोहस्तस्मिन्यावत्संपातमित्यनेनोक्त: । येनाध्वना गतास्ते पुनस्तमध्वानमतु निवर्तन्ते ॥११० ॥ यदि रमणीयाचरणा रमणीयां योनिमेव ते यान्ति। यदि चेत्कपूयचरणा: कपूययोनिं प्रयान्ति हीत्युक्तम् ॥१११॥ ते किं निरनुशया वा सानुशया वा ततोऽवरोहन्ति। इति शङ्ायां प्राप्तं निरनुशया एव केवलं त इति ॥ ११२॥ यावत्संपातमुषित्वेति विशेषणमपीह निर्दिष्टम्। येनैव संपतत्ययमस्माल्लोकादसी हि संपात: ॥ ११३॥ स च कर्मानुशयः स्याद्यावत्संपातमित्यनेनोक्त:। नस्य कर्मणी हि प्रतीयते भुक्तता हि तत्रैव । ११४ ।। श्ुत्यन्तरेण तेषां यदेत्यनेन प्रतीयते ह्येवम्। नन्विह यावदमुष्मिल्ोके कर्मोपभोगयोग्यं स्थात् ॥ ११५.॥ तावत्युपभुक्त इति श्वत्यर्थश्रेह कल्व्यतामिति चेतू। यावत्पदसंकोचोऽप्पनुचित इह कल्पनीय एव स्थात् ॥ ११६। यत्किंचेह करोत्ययमित्यादिश्रुतिभिरपि विरोध: स्यात्। अपि चानारब्धफलं यत्कर्माभिव्यनक्ति कृत्स्नं तत् ॥। ११७॥ पायणमेतस्मात्मागारब्घफलेन कर्मणा तस्य । प्रतिबन्धादेव स्यादनभिव्यक्तिरिति तद्वियोगे तु ११८।। सामग्रया अविशेषाद्यदिदं प्रायणमिहोपपन्नं तत्। यावदनारब्धफलं तावदृभिव्यभवत्येव ॥ ११९॥ रणे निमित्ते नैमित्तिकमपि च ताहशं हष्टम्। टयोरुपलब्धी न तार हि दीपसांनिध्ये॥ १२०॥ त तनिर् य ह्यवरोहन्तीति प प ति। येनैव कर्मणा ते शश गता हि योगाय ॥ १२१॥ मोघेन क्षपिते तहिं षां यदम्मयं यात्रम्। उपसो T5. धे. तध्छापभोगक्षये हि संनद्दे । १२२म. शोकर् भे: प्रतीयते सवित सं त्। शविरिवेदं तत 1द: कृतश्य

Page 226

भाष्या नाला। २२१ कर्मण उपभोगेन क्षपे समुत्पन्न एव सानुशया:। रोहन्त्येत इति श्रुतिस्सृतिम्यां प्रतीयते तदिदम ॥१२४ ॥ तद्य इहेति भ्ुतिरिह तमेतमर्थं हि सकलसुपदिशति। ये रमणीयाचरणास्ते चावश्यं प्रयान्ति रमणीयाम् ॥१२५॥ ब्राह्मणयोनिं वा ते क्षत्रिययोनिं च वैश्ययोनिं वा। ये हि कपूयाचरणास्ते हि कपूयामवश्यमुपयान्ति ॥ १२६॥। सूकरयोनिं वा ते श्वयोनिमथवाऽन्त्यजातियोनिं वा। रणशब्देनानुशयः सूच्यते न चान्यदिह॥ १२७ ॥ हि जन्मनैव प्राणिषु सर्वेषु चोपमोगोऽयम्। प्रविभज्यमान एव ह्यनुशयसद्भावमेष सूचयति ॥ १२८॥ वर्णा इत्याद्याऽपि स्मृतिरिममेव प्रदर्शयत्यर्थम् । ननु योऽसावनुशय इह सूत्रोक्त: स खलु किंविधोऽयमिति।१९॥। स्वगार्थकर्मणोडयं भुक्तफलस्यावशेष एव स्यात्। भा नुसारितैलवद्यमिति केचित्तु वर्णयन्तीह ॥१३०:॥ कर्मशेषावस्थानं ननु न युक्तमिह भाति। कर्म लोके तत्सकलं भोगनाश्यमिति चेन्न ॥१३१॥ सर्वात्मनां हि कर्मण इह मुक्तफलत्वमनुपपन्नं स्यातू। इष्टादिकर्मफलमिह यद्यपि भोक्तुं हि चन्द्रमारूढा: ।। १३२।। सत्यं तथाऽपि चाल्पावशेषमात्रं न शक्यते स्थातुम् । इह सेवको हि कश्ित्समग्रसेवोपकरणसंपन्नः ॥१३३॥ राजकुलमनुसृतोऽसी चिरप्रवासाच्चिरप्रसादाच्च। अपग पकरण: कतिपयसेवोपकरणमात्रेण॥ १३४॥ राजकुले हि स्थातुं यथा न शक्रोति तद्ददेवायम् । यमात्रेण पुनः शक्कोति न चन्द्रमण्डले स्थातुम् ॥१३५॥ इति पक्षो हिन युक्तो दिषादिकं हि यत्कर्म। भवति हि तत्स्वर्गार्थं मोकृफलं तत्र तस्य भवति कथमूम १३६॥ लेशानुवृत्तिरेषा स्वर्गादन्यत्र फलमसौ जनयेत्। शब्दप्रमा ना न चेदशी कल्पनाऽपि युक्ततमा।। १३७॥।

सेवे दृष्टा हि तैलमाण्डे तल्लेशस्यानुवृत्तिरिह लोके। नुदृत्तिरप्रि से ।। १३८॥।

Page 227

२२२ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्थ :-

लेशानुवृत्तिरेषा न स्वगार्थस्य कर्मणो दष्टा। स्वर्गफलशास्त्रबाधान्नाप्येषा कल्पनाऽपि युक्तमा॥१३९ ॥। स्वर्गफलस्येष्टादेलेशस्तस्मान्न चानुशय एष:। यदि तस्य लेश एव ह्यनुशय इति कल्व्यते तढा चायम् ॥१४०॥ रमणीय एक एव स्यादनुशय इह च नैव विपरीतः। अनुशयसन्भ्ावपरा तद्य इहेत्यादिका श्रुतिश्रेह ॥ १४१॥ अनुशयमुभयविधं किल रमणीयकपूयभेदतो बते। तस्मात्तत्राSSमुष्मिकक्मफले निरवशेषमुपभुक्त ॥१४२।। यञ्चेदमैहिकफलं कर्मान्तरजातमनुशयस्तत्स्यात्। तद्वन्तस्ते स्वर्गाद्वरोहन्तीति युक्तमेवोक्तम् ॥१४३॥ सर्वस्येह कृतस्य च कर्मण उपभोगतोऽन्तमासाद्य। निरनुशया एवैते ह्यवरोहन्तीति यञ्च पूर्वोक्तम् ॥१४४॥ यत्किंचेतिभ्रुतिबलमालम्व्य तदुत्तरं हि मवतीदम्। आमुष्मिकफलमिह कृतमपि यञ्चाऽडरब्धभोगमपि कर्म॥१४५॥ उपमोगेन च सकलं तत्क्षपयित्वेति गम्यते हि ततः । यञ्चानारब्धफलं कर्म प्राक्पायणान्न तमि(दि)दम् ॥ १४६ ॥ प्रायणमित्यनुशयसद्भावश्रुत्यैव परिहृतं तद्पि। यच्चानारब्धफलं कृत्स्मभिव्यज्यते हि तस्येह॥ १४७॥ वृत्तिप्रतिबन्धः स्यादारब्धफलेन कर्मणा तस्य। युगपद्नारब्धफलं कृत्समभिव्यज्यते हि.तदुपशमे॥ १४८॥ इति तत्पूर्व कथितं तदपि च निर्युक्तिकं हि निर्मूलम्। प्राक्पायणाद्यथैव ह्यारब्धफलेन कर्मणाऽन्यस्य ।। १४९॥। प्रति स्य हि युगपन्न वृत्तिलाभस्तथैव चेहापि। कर्मानेकविधं तद्विरुद्धफलमपि च दृश्यते शास्त्रे॥१५० ॥। तस्य च सर्वस्यैव हि युगपद्भिव्यक्तिरनुप्पन्नैव । प्रबलेन दुर्बलस्य प्रतिबद्धस्य च न वृत्तिरिह दष्टा ।-१५१। तस्मात्प्रायणसमये कस्यचिदेव हि भवेदभिध्यक्ति:। जात्यन्तरोपभोग्यं कर्मानारब्ध मनेकं च ।१५२॥ एकरिमन्प्रायण इह युगपद्भिव्यज्यते कथं वा तत्। यस्म लं कर्म प्रतिनियतफलं हि दश्यते शास्त्रे ॥१५३॥

Page 228

प्रथमपादः १] माष्यांर्थरत्नमाला। २२₹

नापि प्रायणसमये कस्यचिदिह कर्मणो ह्यभिव्यक्ति:। कस्व्चिदुच्छेद: स्यादिति किल वक्तुं न शक्यते यस्मात्॥१५४॥ सकलमपि कर्म भवति ह्यैकान्तिकमतो न किंचिदिदम। प्रायश्चित्तादिकमिह बिना कथं कर्मणां समुच्छेद: ॥१५५॥ इह च विरुद्धफलेन प्रतिबद्धस्यास्य चिरमवस्थानम्। कर्मण इह दर्शयति स्मृतिरेषा खलु कदाचिदित्याद्या ॥१५६ ॥ यदि. च प्रायणसमये कृत्समनारब्धफलमिदं कर्म। युगपद्भिव्यक्तं सत्तञ्वैकां जातिमारभेत ततः ॥१५७॥ नारकतिर्यग्योनिषु देवमनुष्यादियोनिभेदेषु । अधिकारासंपत्ताविहोत्तरा जातिरुद्भ्वेञ्व कथम् ॥१५८ ॥ ब्रह्महननादिकर्मण एकस्यानेकजन्महेतुत्वम्। स्मृतिवाक्यदर्शितं यत्तदेतदखिलं विरुद्दमेव स्यात् ॥१५९॥ दृष्टफलं कारीरिप्रभृति प्रायणमभिव्यनक्ति कथम्। दीपोपन्यासोऽपि हि कर्मबलत एव परिहार्यः ॥ १६० ॥ इह-दीपसंनिधाने स्थूलमभिव्यज्यते न सूक्ष्ममपि। प्राप्तावसरे कर्मणि कृत्से प्रायणमभिव्यनक्त्येवम्॥१६१॥ कर्म. यदेतदवलवत्तदेव नैवेह दुर्बलं किमपि। तस्मादशेषकमौभिव्यक्तिकथा प्रमाणपरिभूता ॥ १६२॥ यदि भवति कर्मशेषस्तदा कथं मोक्ष इति वृथा प्रश्नः । ब्रह्मात्मदर्शने सत्यशेषकर्मक्षयः श्रुतो यस्मात् ॥ १६३ ॥ तस्माद्नुशयवन्तस्ततोऽवरोहन्ति सोमलोकगताः । ते च यथेतमनेवं ह्यवरोहन्तस्ततोऽवरोहन्ति ॥१६४ ।। अवरोहे पितृयाणे धूमाकाशश्रुतेर्यथेतमिति।

चरणादिति चेन्नोपलक्षणा- र्थेति कार्ष्णाजिनिः ॥ ९॥ नन्वनुशयसद्भावप्रदर्शनाय श्रुतिः पुरा कथिता। सा खलु चरणाद्योन्यापत्तिं दर्शयति न हि तथाऽनुशयात॥१६६ चरणं चारित्रमिति ह्याचारः शीलमिति च पर्याया:। भूतेषु कर्भणा वा मनसा वाचाऽपि सततमद्रोहः ॥१६७॥

Page 229

२२४ सुब्रह्मण्यविरचित- [ ३ तृतीयाध्यायस्व-

तद्नुग्रहस्तथैव ज्ञानं शीलमिति वर्णयन्ति बुधा: । मुक्तफलादतिरिक्तं कर्मानुशयं हि वर्णयन्त्यार्याः ॥ १६८।। व्यपदिशति कर्मचरणे भेदेन श्रुतिरियं यथेत्याद्या। यान्यनवद्यानीति श्ुतिरन्याऽप्येवमेव दर्शयति॥१६९ ॥ चरणाद्योन्यापत्तौ कथमनुशयसिद्धिरित्यतो बूते। काष्णाजिनिराचार्य: श्रुतिरेषा तदुपलक्षणार्थेति॥१७० ।। आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १०॥ स्यादेतत्कस्मादिह पुनरत्रत्येन चरणशब्देन। श्रीतं विहाय शीलं लाक्षणिकोऽसी हि गृह्यतेऽनुशयः।१७१ ॥ शीलस्यैव शुभाशुमयोन्यापत्ति: फलं भवेदत्र। अभ्युपगन्तव्यं किल शीलस्यावश्यमेव किंचिदिह॥१७२॥ नो चेदानर्थक्यं शीलस्य स्यादिहेति चेन्मैवम्। इष्टादिकर्म यस्माच्चरणापेक्ष हि वीर्यव द्द्ृष्टम् ॥ १७३ ॥ नाप्याचारविहीन: कर्मणि कुत्रापि दृश्यतेऽधिकृतः । स्मृतिराचारविहीनं न पुनन्तीत्येवमादिकाऽप्येवम्॥१७४॥ आचारविरहितस्य हि कर्मानधिकारमेव दर्शयति। इष्टाढिकर्मजाते त्वारभमाणे फलं हि विधिदृष्टम् ॥१७५॥ आचारस्तद्पेक्षस्तत्रैव च कंचिदृतिशयं जनयेत। सर्वार्थकारि कर्म श्रुतिस्मृतिभ्योऽवगम्यते यस्मात् ॥ १७६ ॥ तस्मादनुशयभूतं तदेव शीलोपलक्षितं कर्म। योन्यापत्ती कारणमिति कार्ष्णाजिनिमतं हि यु ममू॥ १७७॥ कर्मणि संभवति च सति योन्यापत्तिर्न शीलतो युक्ता। पन्धयां पलायिता किल जानुम्यां रंहितुं हि नोस्सहते॥। १७८।। सुकतदुष्कते एवेति तु बादरिः ॥ ११ ॥ इह सुकृतदुष्कृते द्वे प्रत्याथ्येते हि चरणशब्देन। इति बादरिराचार्यो मन्यत एवं हि चरणशब्दार्थम् ॥१७९ ॥ चरणं हि यस्मादविशेषेणेव कर्ममात्रे य। चरति: प्रयुज्यमान: सर्वत्रैवेह दृश्यते लोके ।। १८० । योऽसौ हि नियतवृत्त्या करोति चेष्टादिलक्षणं कर्म। धर्म चरति महात्मेत्येवं तं ल .. १चढन्ति ततः ॥८॥

Page 230

प्रथमपाद: १ ] र्थरत २२५

मेद्व्यपदेशोऽयं ब्राह्मणतापसनयेन नेतव्यः। निर्मलकर्माणो निन्दितकर्माण एव निर्दिश्ाः ।१८२।। अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ इष्टादिकारिणो ये ते चन्द्रमसं प्रयान्ति हीत्युक्तम। संप्रति पुनरत्रैव हि ये चानिष्ठादिकारिणस्तेऽपि ॥१८३॥ चन्द्रमसं गच्छन्त्युत नैव हि गच्छन्ति त इति चिन्तेयम्। गच्छन्ति चन्द्रमण्डलमेतेऽपीत्येतदत्र युक्तं स्यात् ॥१८४॥। कौषीतकिनो यस्माद्येवै के चेत्यनेन वाक्येन। प्रयतां सर्वेषामपि चन्द्रपात्तिं हि वर्णयन्त्येते ॥१८५॥ तत्प्ाप्तिमन्तरेण च देहारम्मोऽपि दुर्लभोऽन्येषाम्। आहुतिसंख्यानियमादृपि चन्द्रपाप्तिरत्र युक्ततमा ॥ १८६ ॥। इष्टादिकारिणामपि नन्वितरेषां समानमार्गत्वम् । कथमिति चेदितरेषां न हि भोगश्रन्द्रमण्डले भवति ॥१८७॥ संयमने त्वनुभूयेतरेषामारोहाव- रोहौ तद्गतिदर्शनात्॥ १३॥ एतत्पक्ष निरसितुमेष तुशब्दो हि सूत्रनिर्दिष्टः। चन्द्रमसं गच्छन्ति हि सर्वेपीत्येतदनुपपन्नं हि। १८८ ॥। चन्द्रारोहणमेतद्भ्ोगायैव हिन निष्फलं भवति। नापि प्रत्यवरोहायैव तदारोहणं हि युक्तमिह॥ १८९ ॥ आरोहति किल वृक्षं पुष्पफलादे: परिग्रहाय नरः। नापि च निष्फलभेव हिन चाषि पतनाय वृक्षमारोहेत्॥१९०॥ चन्द्रमसि भोगवार्ता नैवानिष्टादिकारिणामस्ति। तस्मादिष्टाढिकरा एवाऽडरोहन्ति चन्द्रमितरे तु ॥१९१ ॥ यमनिलयमाशु गत्वा दुश्वरितफलं च सम्यगनुभूय। पुनरेवेमं लोकं प्रत्यवरोहन्त्यनिष्टकर्मकृतः ॥१५२॥

अत्रानिष्टादिकृतां प्रयतां यमवश्यतां गतिं यामीम्॥१९३॥ श्रुतिरिह न सांपरायः प्रतिभातीत्येवमादिका बूते। श्रुतिरन्या वैवस्वतमित्याद्याड़प्येवमेव दर्शयति॥ १९४॥

Page 231

२२६ सुबह्मण्यविरचिता- [३ तृत्तीयाध्यायस्य-

स्मरन्ति च॥ १४ ॥ अपि च मनुष्यासाद्या ये खलु शिष्ा: पुरे हि संयमने। ते च स्मरन्ति दुष्कृतकर्मविपाकं चिरं यमायत्तम् । १९५॥ अपि च सप् ॥ १५ ॥ अपि चेह सप्त नरका दुष्कृतफलभोगभूमयो ह्येते। गच्छन्ति ताननिष्टादिकृतश्चद्रं कथं हि गच्छेयुः ॥ १९६ ॥ ननु दुरितकारिणस्ते यमनियमितयातना मवन्तीति। नैत दयस्मादन्ये स्मर्यन्ते तत्र चित्रगुप्ताद्या:॥।१९७। तत्रापि च तद्व्यापारादविरोधः ॥। १६ ॥। तेष्वपि च सप्तनरकेष्वस्याधिष्ठा कृता यमस्यैवं। अन्ये यमप्रयुक्ताधिष्ठातारो न हि स्वतन्त्रास्ते ॥ १९८॥ विद्याकर्मणोरिति तु प्रकतत्वात् ॥१७॥ पञ्चाग्गिगोचरायां विद्यायामेष दश्यते प्रश्नः। वेत्थ[यथाS]साविति किल तस्य प्रति[व]चस(न)समय इदमुक्तम्।। ये चैतयोः पथोर्यद्यन्यतरेणापि साधनेन युताः। ते जननमरण्संततिसंकलितानि हि मवन्ति भूतानि ॥२०० ॥ तत्रैकयो: पथोरिति विद्याकर्मप्रदर्शनार्थमिद्म्। देवपितृयाणयोस्ते प्रतिपत्तौ मुख्यसाधने प्रकृते॥२०१॥ विद्या हि तद्य इस्थं विदुरिति गढिता तयोर्हि गन्तव्य: । सोडयं हि देवयान: पन्था एवात्र दर्शितो भवति ॥ २०२॥ कर्म त्विष्टापूर्ते दत्तमिति निरूपितं हि तेनायम्। प्रतिपत्तव्य: पन्थाः पितृयाण इति प्रदर्शितो भवति २०३।। तत्प्रकरण एवैतच्छतं किलाथैतयो: पथोरिति च। ये विद्यासाधनतो न देवयानेन कर्मणाऽपि च ये ॥ २०४॥ पितृयाणेऽधिकृता: स्युस्तेषां पन्थास्तृतीय एवासौ। क्षुद्रतरजन्तुलक्षण इति दर्शयति श्रुतिर्हि तानीति ॥२०५॥ तस्मादृपि चानिष्टादिकारिभिश्चन्द्रमा न लभ्येत। ननु तेऽपि चन्द्रमण्डलमारुह्य ततोऽवरुह्य पुनरपि च ॥ २०६॥ क्षुद्रतरजन्तुभावं प्रतिपत्स्यन्त इति युक्तमिति चेन्न। भोगामावादेषामारोहोऽनर्थक: प्रसज्येत ।। २०७ ।।

Page 232

प्थमपाढ: १] भाष्यार्थरत्नमाला। २२७

अपि च प्रयत्सु सर्वेष्वपि चन्द्रं प्राम्ुवत्स्वसौ लोकः । सर्वैरषि प्रयद्भिः संपूर्येतेत्यतो न युक्तमिदम् ॥२०८॥ पश्नविरुद्धं तदिदं प्रतिवचनं च प्रसज्यते तत्र। अवरोहादेवेहासंपूरणमिति तु नेह युक्ततमम् ॥२०९ ॥ यस्माच्छतिस्मृतीयस्थानोकत्या पूरणं हि दर्शयति। तस्माच्चानारोहादेवासंपूरषं हि युक्तमिह ॥ २१०॥ इष्टादिकारिणामप्यवरोहान्याविशिष्टतायां हि। इह च तृतीयस्थानप्रतिपाद्नमेतदफलमेव स्यात् ॥ २११॥ या खल्वशेषगमनाशङ्का शाखान्तरीयवाक्योत्था। तामेतामाशङ्कामुन्मूलयितुं तुशब्द इह पठितः ॥ २१२।। शाखान्तरीयवाक्ये त्वधिकृतविषयो हि सर्वशब्द: स्यात्। ये च प्रयान्त्यधिकृता अस्माल्लोकात्त एव चन्द्रमसम ॥ २१३॥ सर्वे गच्छन्तीति श्रुत्यर्थे न हि विरोधलेशोऽपि। द्वधवाय चन्द्रारोहणमिति यत्तदत्र परिहरति ॥२१४॥ न तृतीये तथोपलब्धेः ॥ १८॥ आहुतिसंख्यानियमो न तृतीये मवति देहलाभाय। यस्मादिह च तृतीयस्थानप्राप्तिर्विनैव तन्नियमम् ॥२१५॥ उपलभ्यते हि जायस्वेतिश्रुत्यन्तरस्थवाक्येषु। अपि चेहाऽडहुतिसंख्या कथिता मानुषशरीरहेतुतया । २१६। नेतरहेतुतयाऽसी पुरुषपदस्यास्य मनुजवचनत्वात्। अपि चेह पुरुषमावः पञ्चम्यामाहुतावपां कथितः ॥ २१७॥ प्रतिषिध्यते न चेहापञ्चाम्यामाहुतौ हि तन्भावः । उमयार्थकतायां किल वाक्यस्य द्यर्थतादिदोष: स्यात् ॥२१८॥ आहुतिसंख्या तेषां येष्वारोहावरोहणे भवतः । अन्येषां तु विनैव हि संख्यानियमं शरीरमुन्भवति । २१९ ।। स्मर्यतेऽपि च लोके ॥ १९॥ धृषट्ु ोणप्रभृतीनां जगति सुपसिद्धानाम्। सीताप्रमृतीनामव्ययोनिजत्वं हि विश्रुतं लोके ॥ २२०॥ दर्शनाच॥ २०॥ अपि च चतुर्विधभूतग्रामे हि स्वेद्जोद्धिदोरेवम्। उत्पत्तिरन्तरेण ग्राम्यं धर्म हि दृश्यते लोके ।। २२१॥

Page 233

२२८ सुत्र यविरचिता- [ ३ तृतीयाध्यायस्य-

ननु तेषांषां भूतानामेवमादिके मन्त्रे ॥ २२२ ॥ अण्डजमिह जीवजमित्युद्भिज्जमिति त्रिधैव निर्दिष्टः। मूतग्राम: स कथं चतुर्विध इतीह कथितमिति चेन्न ॥ २२३ ॥ तृतीयशब्दावरोधः संशोकजस्य ॥२१॥ संशोकजशब्देन स्वेदज एवात्र गृह्यते तत्र। इह चोद्गिज्जपदेन श्रुतिवाक्यस्थेन संग्रहो भवति॥२२४ ॥ साभाव्यापत्तिरुपपचेः ॥ २२ ॥ एवं हि पापिनां खल्वेते गत्यागती विचार्यैव। इष्टादिकारिणामिह संप्रत्यवरोहलक्षणं बूते ॥। २२५ ॥ अवरोहलक्षणपरा श्रुतिरत्राथैतमेवमाद्या हि। चन्द्रमसो हि निवृत्तास्ते पुनराकाशमेव गच्छन्ति ॥ २२६ ॥ आकाशादृपि वायुं वायुर्भूत्वाऽपि भवति धूमोऽसौ। धूमो मूत्वा चाभ्रं ह्यभ्रं भूत्वा हि मवति मेघोऽसौ ॥ २२७ ॥ मेधो मूत्वा चासी प्रवर्षतीत्येतमर्थमुपदिशति। हिन्तस्त्वेते ह्याकाशादिस्वरूपमुपयान्ति ॥२२८॥ किंवाऽप्याकाशायैः साम्यं यान्तीति संशये प्राप्ते। तत्रैतदयुक्तं स्यादाकाशाद्यात्मतां प्रयान्तीति ॥ २२९॥ श्रुतिरिह मुख्यार्था स्यादेवं चेदन्यथा हि गौणी स्यात्। श्रुतिलक्षणयोविशये न्याय्या श्रुतिरेव लक्षणा न तथा ॥ २३० ॥ धूमो मूत्वेत्यादीन्यवकल्पन्तेऽक्षराणि चेहैव। तस्मादाकाशादिस्वरूपतापत्तिरत्र युक्तेति॥ २३१ ॥ एवं प्राप्ते बूते यान्त्याकाशादिसाम्यमेवेति। चन्द्रमससि भोगफलकं यदम्मयं गात्रमेतदारब्धम्॥ २३२॥ उपमोगापाये हि प्रविलीनं तद्वियत्समं भवति। वायोर्वशमेति ततो धूमादिभिरेव भवति संपृक्त: ।। २३३।। र्थमेव कथयति यथैवमित्यादिका श्रुतिर्यस्मात्। तेऽे न ह्यन्यस्यान्यरूपता॥।२३४। यदि चेदाकाशादिस्वरूपतापत्तिरिह भवेत्तां। वाय्बादिवतर्मना हि.क्रमावरोहोऽपि नोपपद्येत ।। २३५।।

Page 234

प्रथमपाद: १] माष्यार्थरत्नमाला। २२९

अ शस्य विभुत्वात्तेन च तस्येह सततसंयोगात्। संयोगलक्षणायां भवति श्रुत्याऽनुवाद एव स्यात्॥ २३६॥ तत्सावृश्यादन्यस्तत्संबन्धो हि न घटते तस्मात्। यल्लक्षण णं तदपीह श्रुत्यसंभवे न्याय्यम् ॥ २३७ ॥ तस्मादाकाशादैः साभाव्यापत्तिरेव तन्द्ावः। सामाव्यं मावस्तत्खलु सादृश्यमेव नान्य: स्यात् ॥ २३८॥ नातिचिरेण विशेषात् ॥ २३॥ ब्रीह्यादिप्रतिपत्तेः प्रा शादिसाम्यसंपत्तौ। किं दीर्घं कालमसी पूर्वसमत्वेन वर्तमान: सन् ॥२३९॥ उत्तरसमर्ता गच्छत्युताल्पकालमिति संशयो भवति। अन्रानियमो न्याय्यो न चेह किंचिन्नियामकं यस्मात् ॥ २४० ॥ एवं प्राप्ते पठति हि नातिचिरेणेति सूत्रकारोऽयम्। अल्पं ह्यल्पं कालं ते चाऽडकाशादिसमतया स्थित्वा ॥ २४१॥ भुवमापतन्ति पश्चादेते हि सहैव वर्षधाराभि:। इत्येतदेव यस्माद्व्रीह्यादिभावतः पश्चात् ॥ २४२॥ श्रुतिरेषाडतो वै खलु दुर्निष्प्रपतरमिति प्रदर्शयति। छान्दस्या प्रक्रियया ह्यत्र तकारो हि लुप्त इह मवति ॥ २४३॥ इह दुर्नि तरं दुर्निष्क्रमणं स्वरूपमेव स्यात्। ब्रीह्यादिभावपरतो दुर्निःसरणं प्रदर्शयन्ती सा ॥ २४४।। पूर्वेष्वाकाशादिषु सुखनिष्क्रमणं हि सूचयत्येव। सुखदुःखताविशेषो निष्क्रमणस्य हि चिराचिरत्वकृतः ॥। २४५॥। न हि मो कोडसी तस्मिन्नवधौ तनोरनिष्पत्तेः। ब्रीह्यादिमावतः प्रागचिरेणैवावरोह इह तस्मात् ॥२४६॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ २४ ॥ रोहे हि पनन्तरं तु पठितेयम्। त ब्रीहियवा इत्य ध्रुतिरत्र संशयोडयं स्पात् ॥ २४७ ॥ त्यापन्नास्तत्सुखदुःखानुशयिन एते स्यु: । मिकतनुषु हि किंवा संश्लेषमेव यान्तीति ॥२४८॥ वि*त स्थावरमावानुशयिन एत इति। स्थावरजात्यापत्ती जने्हि मुख्यार्थतोपपन्ना स्यात् ॥ २४९॥

Page 235

२३० सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्य

उपभोग: किल हष्टः स्थावरजातावपि श्रुतिस्मृत्योः। पश्ुविशसनादियोगादनिष्टफलता भवेदिहेश्टादेः ॥ २५० ॥ तस्मादनुशयिनामिह भवति ब्रीह्यादिजन्म मुख्यं हि। अनुशयिनां हि यथा वा मुख्यं स्याच्छादिजन्म तद्ददिह॥ २ इति शङ्कायां वृते ह्यन्यैर्जीवैरधिष्ठितेष्वेषु। व्रीह्यादिष्वनुशयिनः संसर्ग केवलं प्रपद्यन्ते ॥ २५२॥ न हि तत्सुखदुःखभुजो यथा ह्ययं वायुधूमभावः स्यात् । व्रीह्यादिभाव एवं भवति हि संश्लेषमात्रमेवात्र ॥ २५३॥ यस्माच्च तद्देव ह्यमिलापोऽन्रापि दवृश्यते भूयः। संकीर्तनं यद्तत्कर्मव्यापारमन्तरेणैव ॥ २५४ ।। तद्वद्ावः सोऽयं ह्याकाशादिप्रवर्षणान्तेषु। भवति हि तत्र न किंचित्कर्मव्यापारकीर्तनं यस्मात् ॥ २५' कर्मव्यापारोडयं कपूयचरणा इति प्रदेशषु। संकीर्तिती हि तत्र त्वनुशयिनां मुख्यमेव जन्म स्यात्। अपि यद्यनुशयिनां चेन्मुख्यं ब्रीह्यादिजन्म भवति तदा। तेष्वेव लूयमानेष्वपि किल तेष्वेव पच्यमानेषु॥ २५७।। व्रीह्यादिष्वनुशयिनः प्रवसेयुस्तद्भिमानिनो ये स्युः । यञ्चाभिमन्यते किल जीवस्तस्मिन्हि पीड्यमाने तु ॥ २५८ परवसति स चेत्ततः खल्वनुशयिनामेष नाभिलप्येत। इह रेतःसिग्भावो योऽसी ब्रीह्यादिभावतः पश्रात् । २५९ तस्मादनुशयिनां तत्सङ्गो ब्रीह्यादिभाव इह मवति। स्थावरजन्मान्येषामपुण्ययोगेन मवति तञ्व किल ॥ २६०। उपभोगस्थानं स्यात्तेषामेव हिन चानुशयिनां स्यात। दनुशयिनस्ते स्थावरभावं न चेह गच्छन्ति ॥ २६१॥

पशुविश अशुद्धमिति चेन्न शब्दात् ॥ २५॥ दियोगादाध्वरिकं कर्म चाविशुद्धं स्थात्ः। तस्य त्वनिष्टफलमपि युक्तं व्रीह्यादिजन्म मुख्यमिति २६ यच्चैतत्पूर्वोक्तं तदेतदत्र हि निरस्यते सूत्रे। नाऽडध्वरिक कर्म स्याद्शुद्धमेतस्य शास्त्रमूलत्वात् ॥ २६३

नहिशा न्तरेण च कस्यचिद्पि किल सुमेधसो भवति।।

Page 236

प्रधमंपोद: ₹ ] माष्यार्थरत्नमाला। २३१

यस्मिन्देशे काले तथा निमित्ते च भवति यो धर्मः । मवति स एवाधर्मो यथोक्तदेशादिवैपरीत्येन ॥ २६५।। न ह्येवंविधयोरिह विज्ञानं शास्त्रमन्तरेण स्यात्। हिंसानुग्रहरूपो ज्योतिष्टोमो हि धर्म इत्युक्तः ॥ २६६ ॥ शास्त्रेणैव हि तस्मात्स कथमधर्म इति शक्यते वक्तुम्। ननु च न हिंस्यात्सर्वा भूतानीत्येवमादिकं शास्त्रम्॥ २६७॥। अवगमयति हिंसामयमधर्म इति भूतगोचरामिति चेतू । बाढं तविदि्मथापि ह्युत्सगो भवति नापवाद: स्थात् ॥ २६८॥ अग्रीषोमीयं पशुमित्याद्यं भवति चापवादो हि। अपवाद्शास्त्रविषयं हित्वा हुत्सर्गशास्त्रमखिलमपि॥ २६९॥ अवगमयति किल पुरुषं प्रवर्तयति तद्देव नान्यत्र। न हि भिन्नविषययोरिह विरोधशङ्का प्रवर्तते शास्त्रे॥ २७० ॥ तस्मादिदमाध्वरिकं कर्म विशुद्धं हि शिष्जनसेव्यम्। शास्त्रैरनिन्द्यमानं स्थावरभावो न तस्य फलमुचितम्॥ २७१॥ व्रीह्यादिजन्म यदिदं तक्किल न श्वादिजन्मवन्भवति। इह किल कपूय चरणानधिकृत्य श्वादिजन्म निर्दिष्मू ॥२७२॥ नैवमिह किंचिदृपि वाकर्म परामर्शलिङ्गसुपलब्धम्। तस्माद्रीह्यादिष्वनुशयिनां संश्लेषमात्रमेव स्यात्॥२७३॥ रेतःसिग्योगोऽथ॥ २६ ॥। व्रीह्यादिभाव इह किल तत्संश्लेषो न चान्यदिह भवति। यस्मात्ततोऽनुशयिनां रेतःसिग्भाव एष आम्रातः ॥। २७४।। यो ह्यन्नमत्ति रेतः सिञ्चति तद्भूय एव भवतीति। रेतःसिग्भावोडसी मुख्यो नैवेह तस्य संभवति ॥२७५॥ स च रेतःसिग्भवति हि चिरजातः प्राप्तयौवनो योऽसौ। कथमद्यमानभक्तानुगतोऽनुशयी हि मुख्यतद्भावम् ॥ २७६॥ प्रतिपद्येत स तस्माद्वेतःसिग्योग एव तद्मावः। आत्माऽवश्यं वाच्यस्तद्द्व्रीह्यादिमाव इह भवति ॥२७७॥ योनेः शरीरम् ॥ २७ ॥ रेतःसिग्भावोत्तरमिह योनौ हि रेतसि निषिके। योनेरध्यनुशयिनां फलभोगायोपजायते देहः ॥ २७८ ।

Page 237

२३२ सुब्रह्मण्यविरचिता- । ३ सृतीयाध्यायाय-

इममर्थमेव सकलं तद्य इहेत्याविका प्रतिर्भूते। ब्रीह्यादिभावसमये तस्मादचिराम्न चावरोहेत्स: ।। २७९।। योनिजमेव शरीरं तत्सुखदुः न्वितं मवेन्नान्यत्। ब्रीह्यादिजन्म त्तित्संो न चान्यदिति सिद्धूम् ॥॥। गत्यागतिसंसारो दुर्वारः कर्मिणामितीह स्थात्। अनुसंधानात्तत्वज्ञानफलं कर्मफलविरागित्वम्॥ २८१॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां तृतीयसंज्ञश्र योऽयमध्यायः ॥ २८२॥ तत्र प्रथमे पादे सूत्रार्थो यश्र भाष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥ २८३ ॥। इति तृतीयाध्यायस्य प्रथम: पाद: ॥।१॥

अथ द्वितीयपादप्रारम्भ: ।

पूर्वोक्तवर्त्मना किल निरूढवैराग्यममलचित्तस्य । यश्र पदार्थविवेको वाक्यार्थज्ञानसाधनीभूतः।१॥। सोडयं द्वितीयपादे निरुप्यत इतीह पादयोरुमयोः । हेतुफलभावरूपा संगतिरित्येतदत्र दर्शयति ।।२॥ गत्यागतिप्रभेदो जीवस्यास्य प्रपश्चितः पूर्वमू । तदवस्थाभेदोऽ1 ेप्रपञच्यते सकलः ॥३ ॥ द्ेश्यतया हि प्रथमं।सितस्त्वमर्थः स्यात्। तेनावस्थाद्वारा तमेव चाऽडदी विवेचयित्वाऽन्ते ॥।४ ॥ आ पादपरिसमाप्तर्विविच्यतेSत्रैव तत्पदार्थोSसौ। पूर्व जाग्रद्वस्था गत्यागतिचिन्तया विनिर्दष्टा ॥५॥ सपदि स्वप्ावस्थां तद्नन्तरभाविनीं प्रदर्शयति। श्रुतिरेषा हि स यत्र स्वपिर्तीत्याद्या रथादिसृष्टिमिह॥ ६॥ प्रपञ्चयति सा प्रबोध इव पारमार्थिकी किंवा। मायामयी हि सैषा सृष्टिरिति प्रमवतीह संदेहः॥७॥ तत्र च युक्त: पक्ष: सृष्टिः सा पारमार्थिकीत्येतत्। हत्पेतमेव पक्षं भगवानत्र प्रदुर्शयत्यादौ ॥t८I

Page 238

द्वितीय:पाढ: २] माध्यार्थरत्नमाला।

संध्ये सृष्टिराह हि ॥ १ ॥ संध्यमिह स्वप्नः स्याद्यतः स जाग्रत्सुषुप्तयोः संधौ। भवति तथैवासाविहपरयोश्च लोकयोः संधौ॥९॥ तस्मिन्संध्ये स्थाने सृष्टिरियं भवति तथ्यरूपैव। यस्मात्प्रमाणभूता श्रुतिरवेमां हि सृष्टिमुपदिश्ति॥१०॥ साऽथ रधान्सथयोगान्पथः सृजत एवमादिका मवति'- स हि कर्तेत्याद्याऽपि श्रुतिरिममेव प्रदर्शयत्यर्थम् ॥११:॥ निर्मातारं चैके पुत्रादयक्ष ॥ २ ॥। निर्मातार मिहै के शाखिनमात्मानमामनन्त्यपि च।- प्रकटीकृतोऽयमर्थो य एष इत्यादिकेन वाक्येन ।। १२।। कामपदेनानेन च पुत्रादय एव तत्र गृह्यन्ते। नैवेच्छारूपास्ते यत इह तेष्वेव कामशब्दोऽयम्॥१३॥ यस्मात्कठवलचां किल कामानां त्वेवमादिवाक्ये हि। पुत्रादिषु प्रयुक्त: पूर्वप्रकृतेषु कामशब्दोऽयम् ॥१४. अत्र च निर्मातारं प्राज्ञं प्रकरणबलेन निश्चितुम:। इह च प्रकरणमन्यत्रेत्याद्यं प्राज्ञविषयकं हटमू ॥१५॥ तद्गोचर एवासौ तदेव शुक्रमिति वाक्यशेषोऽि। या प्राज्ञकर्तृका स्यात्सृष्टिः सा पारमार्थिकी दृष्टा ॥१६ ॥ जागरितसंभिता किल भवति स्वप्ाश्रिताऽपि तद्ददियम्। ध्रुतिरपि चाथो खल्विति तुल्यन्यायत्वमेतयोर्वक्ति॥१७॥। तस्मातसंध्ये स्थाने या सृष्टिर्दर्शिता रथादीनाम्। सा भवति तथ्यरूपेत्येवं प्राप्ते त्विदं पठति चाडडर्यः ॥ १८॥ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३॥ इह पूर्वपक्षमेनं व्यावर्तयितुं तुशब्द इह पठितः। येथं संध्ये सृष्टिः सा किल मायैव केवलं भवति ॥१९॥

कात्स्न्येनाभिव्यक्तस्वरूप इह नैव दृश्यते स्वन्ः ॥ २० ॥ इह देशकालसाधनसंपत्तिरबाध एव कार्त्स्न्यं स्थात्। परमार्थवस्तुगोचरदेशादीनि हि न चास्य विद्यन्ते ॥ २१॥ सवप्रे रथादिकानामुचितो देशो न चेह संभवति। न हि संघृते हि देहे रथाद्यस्ते लभेयुरवकाशम् ॥२२ ।।

Page 239

२३४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

ननु देहाद्वहिरेव स्वप्नः स्याद्वाह्यवस्तुसाहाय्यात। श्रुतिरपि बहिष्कुलायादित्याद्या ह्येवमेव दर्शयति ॥२३॥ स्थितिगतिभेद्श्रासी नानिष्क्रान्ते समख्जसो भवति। इति तु न युक्तं यस्माज्न्तोः सुप्तस्य हिक्षणेनैव ॥ २४ ॥ अतिदूरपथं देशं पर्येतुं वा तथा विपर्येतुम्। साम्थ्यं कथमपि किल संपाद्यितुं न शक्यते तस्य ॥। २५॥ प्रश्यागतिवर्जितमपि तं च स्वप्नं क्वचिच्च कथयन्ति। अहमिह कुरुषु शयानस्तथैव निद्रापरिप्लुतः स्वमे ॥ २६॥ पञ्चालानभिगतवांस्तत्रैत्याहं प्रबुद्ध इत्येवम्। यदि देहादपयातः पञ्चालेषु हि तदा प्रसुध्येत ॥२७॥ नैवं प्रवुध्यतेऽसौ किंत्वत्रैव प्रबुध्यते कुरुषु। थेन च देहेनायं देशान्तरमश्नुवान इति मनुते ॥२८॥ सं शयनदेश एव हि पश्यन्त्यन्ये हि पार्श्वदेशस्थाः । वेशान्तराणि चायं सुप्तः र्वप्ने यथैव पश्यति हि ॥ २९॥ तानि च न तथाभूतान्यपि तद्देशे भवन्ति सर्वेषाम्। वर्शयति चान्तरेव हि देहे स्वन्नं श्रुतिः स यत्रेति ॥३० ॥

बहिरिव स कुलायादित्येवं तत्रेवशब्दयोगेन।। ३१॥ यो हि वसन्नषि देहे न तेन कार्यं करोति किंचिदृपि। सोडयं बहिरिव देहान्भवतीत्येतच्च युक्तमेवास्य ॥३२॥ स्थितिगत्यादिप्रत्ययभेद: सकलोऽपि विप्रलम्भः स्यात्। कालविसंवादोऽपि स्वम् दष्टो निशि प्रसुप्तः सन् ॥३३॥ भारतवर्षे वासरमेकं मनुते कदाचिदिह मर्त्यः । एवं क्षणिके स्वप्ने कदाचिदृव्दानिहातिवाहयति ॥ ३४ ॥ अत्र निमित्तान्यपि वा न बुद्धये समुचितानि विद्यन्ते। तन्न रथादिग्रहणे न चक्षुरादीनि तस्य विद्यन्ते ॥ ३५॥ निरवर्तने रथादे: कुतोऽन्यशक्तिनिमेषमात्रेण। नापि रथादे: स्रष्ा तदाडस्य दारूणि वा कुतस्तस्य ॥ ३६ ॥ बाध्यन्ते खल्वेते रवपे हष्टा: प्रबोधसमये हि। पते हि मवाधास्तत्रैवाऽडद्यन्तयोर्हि द्श्यन्ते ॥३७॥

Page 240

द्वितीय: पाद: २] माष्यार्थरत्नमाला। २३५

रवने रथोऽयमिति किल निर्णीतः स्यात्क्षणेन मनुजोऽयम्। मनुजोऽयमिति च तत्र हि निर्णीतः स्यात्क्षणेन वृक्षोऽयम्॥३८॥ स्वप्े रथाद्यभावं श्रावयति श्रुतिरियं न तत्रेति। न्मायामात्रं न हि स्वतः स्यात्क्षणेन वृक्षोऽयम्॥३९॥ इह यदि मायामात्रः स्वप्ः स्यात्तर्हि कश्िवदपि तत्र। न च परमार्थोऽस्तीति प्राप्तं तस्येदमुत्तरं बूते।। ४० ॥ सूचकश्ष हि श्रुतेराचक्षते च तद्विदः ।। ४ ।। स्वपो हि सूचकः स्यात्स भाविनोः साध्वसाधुनोरुमयोः । अत्र श्रुतिरेव यदा कर्मसु काम्येष्विति प्रदर्शयति ॥४१ ॥ स्त्रियमिह कार्ये कर्मण्यनुकूलां यः प्रपश्यति सवने। स्वेष्टार्थलामरूपां समृद्धिमस्मिन्स एष जानीयात् ॥४२॥ यश्र रवमे पुरुषं पश्यति कृष्णं च कृष्णदन्तं च। न च खल्वेनं हन्तीत्यवगमयति साध्वसाधुसूचकताम् ॥४३॥ स्वप्नाध्यायविदोऽपि स्वप्रस्याऽडचक्षते हि सूचकताम्। `हि कुअ्रारोहणादिकानि च भवन्ति धन्यानि ॥ ४४।। यानि च खरयानादीन्यत्राधन्यानि वर्णयन्त्येवम्। मन्त्रादिमूलकाश्च स्वप्नाः सत्यार्थगन्धिनः स्युरिति ॥ ४५। तन्नापि सत्यता किल सूच्यार्थस्यैव सूचकस्य न हि। तस्मात्स्व रस्य हि मायामात्रत्वमेतदुपपन्नम् । ४६ ।। यञ्चोक्तमाह हीति व्याख्यातव्यं तदत्र भाक्तमिति। लाङ्गलमुद्दहतीदं यथा गवादीनि तहिं भाक्ते स्यात् ॥४७ ॥। तत्र च गवादिजीवननिमित्तता लाङ्गलस्य मवति यथा। कृषिकर्मद्वारैव हि तथैव चेहापि भवति हि सवमे ॥ ४८॥ मो: कुरु दृष्द्वारा स्वाप्निकटृषा निमित्तितामत्र। रथकारस्येव रथं प्रति साक्षात्स्वप्रकर्तृता नास्य ।। ४९।। रथतुरगमानमूलकमोदत्रासादिदर्शनादस्य। तद्धेतुसुकृतदुष्क त्वेन च निमित्तता तस्य ॥। ५०।। अपि जागरिते तस्य हि विषयेन्द्रिययोश्र सततसंयोगात्।

इह दुर्विवेचनं स्यादिति मत्वा तद्विवेचनायैव। उपन्यस्तोडयं श्रुतिरियमिद्द यदि रथादिमृट्टिपरा॥ ५२॥

Page 241

'२३६ सुब्ह्मण्य विरचिता- [ १ तृतीयाध्यायस्य-

तर्हि स्वयंभ्रभत्वं यत्प्रकृतं तञ्च नैव निर्णीतम्। तस्माद्रथादिसृष्टिप्रतिपादनमेतर्दा मपि भाक्तम् ॥५३॥ यञ्चोक्तं प्राज्ञमिमं निर्मातारं समामनन्तीति। तदृपि च न समीचीनं यतः श्रुतिश्चैवमत्र दर्शयति॥५४॥ जाग्र हत्वा निर्माय च वासनामयं देहम्। आत्मीयबुद्धिवृत्त्या चैतन्येनानुमवति हि स्वप्रम् ॥५५॥ जीवव्यापारं हि श्रुतिः स्वयमिति प्रदर्शयति तत्र। दर्शयति चेममर्थं श्ुत्यन्तरमपि य एष इत्यादि ॥५६॥ तस्यैव वाक्यशेषे तदेव श्रुत्य (शुक्रं) तदेवमाद्ये हि। व्यावर्त्य जीवभावं चिरंतनं ब्रह्मभाव उपदिष्: ॥५७॥ तत्वमसीत्यादिवदिह न ब्रह्मप्रकरणं विरुध्येत। न प्राज्ञव्यापारः स्वप्नेऽपि निषिध्यते यतस्तस्य ।। ५८।। सर्वेशत्वात्सवांधिष्ठातृत्वादि सकलमुपपन्नम्। वियदादिसर्गवदयं न तथ्यरूपो हि संध्यसर्ग इति ॥५९।। प्रतिपादितमेतावन्न च वियदादेरपीह सत्यत्वम्। यत आरम्मणसूत्रे मिथ्यात्वं दर्शितं हि सकलस्य । ६० ॥ ब्रह्मात्मतावबोधात्माग्वियदादिव्यवस्थितात्मा स्यात्। संध्याश्रयस्तु न तथेत्यत इह मायामयत्वमुपदिष्टम् ॥६१ ॥ सामझया: कृप्ाया विरहेऽपि स्वामिके हि सृष्टिरियम्। सांकल्पिके हि सत्या स्यादिति शङ्कां निवारयत्यधुना ॥६२॥ पराभ्िध्यानाततु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ॥ ५ ॥

नन्वात्मन: परस्य हांशो जीव इति दर्शितं पूर्वम्। नप्रकाशशक्ती सभे यथाऽग्गरिस्फुलिङ्गयोर्भवतः ॥ ६ ॥। ज्ञानेश्वरताशक्ती अपीह जीवेशयोः समे स्याताम्। जीवस्वै 'वशा सांकल्पिकी रथादीनाम्॥ ६४॥ मृष्टिहिं त स्यादिति शङ्का न चेह कर्तव्या। यद्यपि जीवे रंशाशित्वं तथाऽपि जीवस्य ॥ ६५॥ प्रत्यक्षेणैवैषा परात्मविपरीतधर्मता वृषा। भावेनेपं न संभासा ॥६६॥।

Page 242

द्वितीय: पाद: ४ ] माष्यार्थरत्नमाला। २३७

किं त्वीश्वरसाधर्म्यं निरन्तरं तस्य विद्यमानमपि। तद्नाद्यविद्यया किल तिरोहितं तत्तिरोहितं सदृपि॥ ६७॥ ध्यायत ईश्वरमनिशं यतमानस्य हि विधूतपापस्य।

परमेश्वरप्रसादात्सिद्धस्याSडविर्भवेन्न चेतरथा। यस्मात्ततः परेशादस्य च जीवस्य बन्धमोक्षौ स्तः ॥ ६९ ॥। अपरिज्ञानाद्वन्धो मोक्षस्तस्य स्वरूपविज्ञानात्। ज्ञात्वा देवमिति श्रुतिरिममेवार्थं प्रदर्शयत्यत्र ॥। ७०॥ देवं साक्षात्कृत्वा विद्यादिक्केशमूलनाशः स्यात्। क्केशापाये जनिमृतिरूपो बन्धः स्वतो निवत्येत ॥ ७१॥ सविशेषाभिध्यानाद्विश्वैश्वर्यं तृतीयमणिमादि। सिद्धतनौ भवति ततस्त्वात्मज्ञानेन केवलोऽयमिति ॥ ७२॥ देहयोगाद्वा सोऽपि॥ ६॥ जीव: परमात्मांशस्तिरस्कृतज्ञानपारमैश्वर्यः। इति तु न युक्तं यस्मादृतिरोभावस्तयोर्हि युक्त: स्यात् ॥ ७३॥ दृहनप्रकाशयोरिह यथा स्फुलिङ्गस्य तद्ददिति चेन्न। सत्यं तथाऽपि तस्य ज्ञानेश्वर [भावयोस्तिरो]भावः।। ७४।। भव[ति हि देहयोगाद्ेहेन्द्रियवेदनादि]युक्तस्य। वह्नेररणिगतस्य हि ते एते द्वे तिरस्कृते भवतः ॥७५॥ [ दहनप्रकाशने ये तयोर्यथा भस्मना तिरोभावः।

अविवे न्तिकृतो ज्ञानेश्वरमावयो]स्तिरोभावः। वाशब्दो जीवेश्वरभेदाशङ्कानिवारणार्थः स्यात्॥७७॥ नन्वन्य एव जीव[स्तिरकृतज्ञानपारमेश्वर्यः। किं देहयोगकल्पनयाऽनन्यत्वोपपादनादिति चेतु ॥।७८ ॥। अन्यत्वं हि परेशात्कथमपि जीवस्य नोपपद्येत। यत्सेयमितिश्रुतिरिह सदात्मभावेन जीवमुपदिशति॥ ७९ ॥ तत्वमसीति श्रुतिरपि जीवस्योपदिशतीश्वरात्मत्वम्। तस्माद्योऽसी जीव: स भवति परमेश्वरादनन्यो हि।। ८० ॥ स च मवति देहयोगात्तिरस्कृतज्ञानपारमैश्वर्यः। सांर्का तस्मात्तस्य स्वमे रथादिसृष्टिः स्यात्।। ८१ ।।

Page 243

२३८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

सांकल्पिकी यदि स्यात्सृष्टिरियं स्वाप्निकी तथाऽनिटम्। स्वप्ं कथमिह पश्येत्संकल्पयतीह कोडपि नानिट्म् ॥ ८२ ॥। जागरितदेश एवेत्येषा श्रुतिरेव सत्यतां बते। स्वप्रस्येति यदुक्तं तच्छ्रृतिवचनं न सत्यताकुलितम् ॥८३ ॥ यस्माच्छत्यैवायं रथाद्यमावः प्रदर्शितः रवम्े। यस्माच्च स्वप्नोऽयं जागरितप्रभववासनामूलः॥८४॥ जागरिततुल्यनिर्भासत्वाभिप्रायमत इदं वचनम् । तस्मात्स्वप्रस्यैवं मायामात्रत्वमेतदुपपन्नम् ।। ८५॥। एवमविद्याविलसितमेनं स्वप्नं विचार्य सम्यगिह। वर्णयति तां सुषुप्तिं प्रतियोग्यनुयोगिभावसंगत्या॥ ८६ ॥ तदभावो नाडीषु तच्छ्तेरात्मनि च । ७॥ तत्र च तद्यन्नैतत्सुप्त इति सुषुप्तविषयकाः श्रुतयः । ताभि: प्रत्यवसृप्येत्यपराऽपि श्रुतिरियं सुषुप्तपरा॥ ८७॥ तासु तदा ति श्रुतिरन्याऽपि हि सुषुप्तविषयैव। तापि य एषोऽन्तर्हृदय इति श्रुतिस्तद्थैव ॥८८॥ ताद्विषयान्याऽपि सता सोम्य तदेत्यादिका श्रुतिर्भवति। तत्र च न ।दीनि हि निरपेक्षाण्येव भिन्नभिन्नानि ।।८९ ।। सुप्तिस्थानानि स्युः परस्परापेक्षितानि तानीह। एकं सुप्तिस्थानं स्यादिति वा भवति चात्र संदेहः ॥ ९०॥ सुप्तिस्थानानि स्युर्मिन्नानीत्येतदत्र युक्तं स्यात् । यस्मादेकार्थकता नाड्यादीनां प्रतीयते ह्यन्न ॥ ९१॥ एकार्थानां क्वचिदपि परस्परापेक्षता तु न हि दषा। ब्ीहियवादीनां न ह्येकार्थानां समुच्चयो दृष्टः ॥ ९२॥ सुप्तावेका नाड्यादीनामपीह दष्टैव। नाडीषु इत्यपि पुरीततीत्येवमत्र निर्देशात् ॥९३॥ नाडीषु सप्तमीयं तथा पुरीतति च दृश्यते सा हि। ननु सप्तमी न दृष्टा सति किंतु सतेति हष्टमिति चेन्न ॥९४॥ अत्रापि आयतनैषी जीव: सदेतदुपसर्पतीति दर्शयति ॥ ९५॥ शेषात र्थोऽव ते योऽसी।

Sडयतनमिति श्रुतिरियमायतनभावमस्य सतः। सदेव प्राणो ह्याय इ मीवाच्यम्॥९६॥

Page 244

द्वितीयपादः २] माष्यार्थरत्नमाला। २३९

दृष्टा च सप्मीयं सति संपद्येति वाक्यशेषे हि। तस्मादेकार्थकता नाड्यादीनां प्रतीयते ह्यत्र॥ ९७॥ एवं च सति विकल्पात्स कदाचित्किंचिदेव हि स्थानम् । सुप्य उपसरतीति प्राप्ते त्भ्ाव इति हि पठतीह ॥ ९८॥ अत्र च तद्भावपर्द स्वप्नाभावं सुषुप्तमाचटे। इह च चशव्दान्नाड्यादीन्यात्मानं समुच्चयेनैव ॥ ९९॥ स्वप्नापायेऽपैति हिन विकल्पेनेति दर्शितं भवति । यस्मान्नाड्यादीनां सुप्तिस्थानत्वमभिहितं श्रुत्या ।। १०० ॥ वीहियवादीनामिव नन्वेकार्थत्वमत्र पूर्वोक्तम्। तेन विकल्पो युक्तो न समुच्चय इति तु नेह वक्तव्यम् ॥१०१॥ एकविभक्तिश्रवणान्नैकार्थत्वं भवेद्विकल्पश्च। नानार्थताससुच्चययोरेकविभक्तिरत्र दृष्ा हि ॥ १०२॥ प्राकारे प्रासादे पर्यंक्क शेत एवमादिषु हि। तद्वन्नाडीषु पुरीतति च ब्रह्मणि समुच्चयेनायम् ॥ १०३॥ स्वपिरतीत्येतद्युक्तं यस्माच्छरतिरिह समुच्चयं ब्रूते । तासु तदा भवति यदा सुप्तः स्वप्ं न कंचनेत्याद्या। १०४। सा चैकवाक्यमावान्नाडीप्ाणादिकस्य दर्शयति। सुप्तिस्थानत्वमिदं प्राणस्य ब्रह्मता तु समधिगता ॥१०५॥। ननु सुप्तिस्थानत्वं नाडीनामेव दर्शयत्येषा। तासु तदा मवतीति श्रुतिरिति शङ्का न चेह कर्तव्या॥ १०६ ॥ ध्रुत्यन्तरप्रसि्धं ब्रह्म प्रतिषेद्धुमनुचितं यस्मात्। ब्रह्मणि नाडीद्वारा स्वपितीत्येतञ्च युक्तमभिधातुम् ॥१०७॥ नाडीषु सप्तमीय कथमिति शङ्का न चेह कर्तव्या। नाडीभिरपि ब्रह्मणि सुप्ो नाडीषु सुप् एव स्यात् ॥ १०८॥ [ यो गङ्गया हि सागरमभिगच्छति स गत एव ग]ङ्गायाम् । अपि चेह रश्मिनाडीसमन्वितव्रह्मलोकमार्गस्य । १०९ ॥। [ वक्तव्यत्वान्नाडीस्तुत्यर्थं सृप्तिकीर्तनं ज्ञेयम्। एतच्च तं न कश्च]न पाप्मा स्पृशतीति दर्शयन्तीयम् ॥११०॥ [श्रुतिरषि नाडी: शंसति सृप्तो भवतीत्यनन्तरं पठिता। पाप्मास्पर्शे हेतुं श्रुतिरेव तेजसा हीति वक्ति ॥१११॥] इह तेजसेति नाडीगतं हि पित्ताख्यमत्र निर्दिशति। अथवाऽत तेजसेति ब्रह्मण एवैष भवति निर्देशः ॥११२ ॥।

Page 245

२४० [ ३ तृतीयाध्यायस्थ,-

ब्रह्मणि तेज:शब्दो हष्टो ब्रह्मैव तेज एवेति। नाडीद्वारा चासौ संपन्नो ब्रह्मणा तदा भवति ॥ ११३॥ तस्माज्च तं न कश्न पाप्मा स्पृशतीति दर्शितं भवति। पाप्मस्पर्शाभावे परात्मसंपत्तिरेव हेतुरिति । ११४।।. सर्वे पाप्मान इति श्रुतिवचनेनैव दर्शितं भवति। एवं सति प्रदेशान्तरसिद्धेन च परात्मनाऽनुगुणम् ॥११५॥ नाडीनामपि सुप्तिस्थानत्वमिदं समाश्रितं भवति। नाडीपरात्मनोरिह समुच्चयोऽसौ गुणप्रधानतया ॥ ११६ ॥। तस्या: पुरीततोऽपि हि सुप्तिस्थानत्वमेवमेव स्यात् । हृदयपरिवेष्टनं किल पुरीतदेतन्न चान्यदिह भवति ॥११७ ॥ आकाशे हि तद्न्तर्वर्तिनि परमे शयान एवासौ। शेते पुरीततीति व्यपदेषठुं शक्यते यथा लोके ॥ ११८॥ नृपतिरिह वर्तमान: परितः प्राकारवेष्टिते हि पुरे। प्राकारे नृपतिरसी वर्तत इति वर्ण्यते जनैः सवैः ॥ ११९॥ म्रह्मत्वमुक्तमेव हि हृदयाकाशस्य दहरवाक्येण। एवं त्रीणि श्रुतिभि: सुप्तिस्थानानि कीर्तितानीह ॥। १२० ॥ : पुरीतद्ब्रह्म च नाडी पुरीतदुभयं हि। स्याह्वारमात्रमेतङ्गह्मैवेकं तु सुप्त्यधिष्ठानम् ॥ १२१।। नाड्य: पुरीतदृवि वा तदुषाध्याधार एव भवतीह। यस्मात्करणान्यखिलान्यपि जीवस्यास्य तत्र वर्तन्ते ॥ १२२ ॥। नोपाधिमन्तरेण स्वत एतस्यास्ति कश्विदाधार: । ब्रह्माधारत्वोक्ति: सत्तादात्म्यप्रदर्शनार्थेव ।।१२३।। स्वमपीतो भवतीति श्रुतिरियमुक्तार्थमेव दर्शयति। अपि च न कदाचिदृपि वा जीवस्य ब्रह्मणाऽस्त्यसंपत्तिः ॥१२४॥ किंतु स्वमे जाग्रत्युपाधिसंपर्कतोऽस्य संप्रासाम्। पररूपापत्तिमिवावेक्ष्य श्रुत्याऽनया हि तदुपशमात्॥१२५॥ सुप्ता हि तस्य सेयं स्वरूपसंपत्तिरेवमुपदिष्टा। एवं च सति कढाचित्सता स ते कदाचिद्यम् ॥१२६ ॥ न हि संपद्यत इति यत्तदेतदखिलं ह्ययुक्तमेवात्र। सति संपन्नस्तावन्न विज्ानातीह किंिदृपि यत्र ।।.१२७।।

Page 246

द्वितीयपाढ: २] माष्यार्थरत्नमाला। २४१

सत्संपत्ताधनयोरेकत्वात्तदृपि युक्तमेवेह। एतन्नाडीषु पुरीतति च शयानस्य नैव युक्तं स्यास् ॥ १२८॥ नाविज्ञाने कारणमिह सति भेदे हि दृश्यते किमपि। तत्रान्योऽन्यत्पश्येदिति श्रुतिश्चैधमेव दर्शयति ॥१२९ ॥ दूरादिवशादेवाविज्ञानं यद्यपि क्वचिद्दृष्टम् । इह तु तथा नैव स्यान्न हि जीवोऽसौ स्वतः परिच्छिन्नः ॥१३०॥ तस्य परिच्छेदोऽसावुपाधियोगेन संप्रवृत्तो हि। उपशान्ते चोपाधौ सति संपन्नस्य तदिदमिह युक्तम् ॥१३१॥ न हि नाड्यादिसमुच्चयमभिधातुं सूत्रभेतदारब्धमू। नाड्य: सुप्तिस्थानं भवति तथैतत्पुरीतद्थवेति ॥ १३२ ॥ न ह्रेतद्विज्ञानात्म्रयोजनं किमपि वक्तुमिह शक्यम्। नैतद्विज्ञानप्रतिबद्धं वा फलमिहास्ति किंचिदिह ॥ १३३॥ न ह्येतद्विज्ञानं कस्यचिदङ्गं हि फलवंतो भवति। ब्रह्मानपायि सुप्तिस्थानमितीदं विवक्षितं भवति ॥१३४ ॥ बह्मात्मतावबोध: स्वप्नाद्यस्पृष्टतावबोघश्र। तेन फलं स्यात्तस्मात्सुप्तिस्थानं स एष आत्मैव ।। १३५ ।। अतः प्रबोधोऽस्मात् ॥८॥ यस्मादात्मैवायं सुप्तिस्थानं न चान्यदृत एव । तस्मादात्मन एव प्रबोध उपदिश्यते हि सर्वत्र ॥१३६ ॥ श्रुतिरेषा हि यथाऽये: क्षुद्धा इत्यादिका प्रदर्शयति। अग्रेर्थथा स्फुलिङ्गास्तथाऽडत्मनो व्युच्चरन्ति सर्व इति ॥१३७ ॥ एवं सत आगम्येत्याद्या श्षतिरेतमर्थमुपदिशति। अत्र विकल्पाश्रयणे नाडीभ्योऽपि क्वचित्प्रबुध्येत ।। १३८।।

अत्र प्रबुध्यमानः सत्संपन्नो य एष जीव: स्यात्। प्रतिबुध्यते स एव हि किंवाऽन्य इतीह भवति चिन्तेयम् ॥१३९॥ तत्रानियमेनैव प्रबोध इति वक्तुमत्र युक्तं हि। लोके जलराशौ हि प्रक्षिप्तो यश्च भवति जलबिन्दुः ॥१४० ॥ जलराशिरेव स भवति पुनरुद्धरणे स एव जलबिन्दुः। भवतीति दुर्षिवेचनमिदमत्र यथा तथैव देहोऽपि॥ १४१॥

Page 247

२४२ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

सुप्ती हि संप्रसन्नः परात्मनैकात्मभावमापन्नः । योऽसौ भवति कथं वा पुनरुस्थातुं स एव शक्रोति॥ १४२॥ तस्मात्स वेश्वरोऽन्यो जीवो वाऽत प्रबुध्यते कश्चित्। [इति शङ्काऽत्र न कार्योत्तिष्ठति जीवः स एव सुप्त] इति ॥१४३। एवं कर्मानुस्सृतिशब्दविधिभ्योऽवगम्यते यस्मात्। लोके हि कर्म[णोऽनुष्ठितस्य शेषं तु हश्यते कुर्बन्]॥१४४ ॥ उपदेशमन्तरेणाप्यन्योत्थाने न युज्यते तदिदम्। न ह्यन्येन च लोके सा[मिकृतं कर्म विद्यते तस्य] ।१४५॥ कथमन्य: स्वयमेव हि कर्तु शेषक्रियां प्रवर्तेत। तस्मादेक: कर्ता पूर्वोत्तरवासरेष्विहैकस्य ॥ १४६ ॥ एवमदोऽद्राक्षमिति प्रागनुभूतस्य भवति यत्पश्चात्। स्मरणं स्मरामि तदिति ह्यन्योत्थाने तु नोपपद्येत । १४७।। प्रतियोन्याद्रवतीति च तथैव सर्वाः प्रजा इति प्रथिताः। स्वापप्रबोधवाक्यप्रदर्शिता ये भवन्ति शब्दास्ते ॥। १४८॥ असा भवेयु: स एव तस्मात्पबुध्यते नान्यः । एतं कर्मविधिभ्यः स एव चोत्तिष्ठतीति मातीह ॥ १४९॥ अन्योस्थाने विधयः कर्मपरा ये निरर्थका: स्युस्ते। अपि चेह सुप्तमात्रो सुच्येत तदा हि कर्मणा कि स्यात्॥१५०॥ अन्योत्थाने यदि किल जीवो देहान्तरीय डा त्। तत्रत्यव्यवहार: सकलो निर्लेपमेष लुप्येत ॥१५१ ॥ अन्यत्र सुप्त एव ह्यन्यत्रोत्तिष्ठतीति कल्प्येत। नास्यां हि कल्पनायां कश्चन लाभो निर्रार्थकैवैषा ॥ १५२॥ विध्वस्ताविद्यस्य च मु त्थानमीश्वरस्य तथा। दूरापेतं तस्मादसंगतैषा हि कल्पना सकला ॥ १५३॥ अकृत कृतनाशावन्योत्थाने तु दुर्निवारी हि। तस्माद्य एव सुप्तः स एव चोत्तिष्ठतीति युक्तमिह ॥१५४॥ जलराशौ निक्षिप्तो जल बिन्दुरिवैकता गतो योऽसौ। सतिरे जीवो नार्हत्युत्थातुमिति हि यच्चोक्तम् ॥ १५५॥ तत्र च हट्टान्तोडयं जलबिन्दुर्विषम एष मातीह। जलबिन्दोरुद्धूरणे न हि तन्र विवे ।रणं किमपि । १५६।।

Page 248

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। २४३

तव्नु णं तस्मात्तत्र च युक्तं न चैवमत्रापि। किल विवेककारणमस्ति हि कर्म च तथैव चा किंचेह दुर्विवेचनयोरन्यैरस्मदादिमिर्जगति। मिलितक्षीरोदक योहंसेन यथा विवेचनं मवति॥१५८॥ प्राणिकृतसु कर्माद्यपेक्षयैवेश्वरः करोतीदम। न हि जीवोऽनर परस्मादि पो य एष निरदिष्टः ॥१५९ ॥ न हि जलबिन्दुरिवायं जलराशेर्न हि यथा पृथग्मूतः । न तथाऽसी जीव: स्याल्किंतु स घाद्युपाधियोगेन ॥ १६०।। परमात्मा सन्नध्य पचर्यत एष जीव इति लोके। बन्धानुवृत्तिरेषा य ोपाधिसंगता मवति ।।१६१। तदुपाधिकजीवस्य व्यवहा विदेव भवतीह। सा यदि तदन्तरगता व्यवहारोऽयं तदन्तरस्यैव । १६२ । सोडयमुपाधि: स्वापप्रबोधयो: स्थलसूक्ष्मभावेन। सततानुवृत्त एव हि स एव तस्मात्प्रबुध्यते नान्य: ।। १६३॥ मुग्धेऽर्धसंपत्तिः परिशेषात्॥ १० ॥ अस्ति हि मुग्ध: कश्िद्यं सूर्छित इति जना हि कथयन्ति। सघखलु किमवस्थः स्यादिति चिन्तार्यां नि ते सेयमू१६४॥ शारीरस्यावस्था मवन्ति तिस्र्रस्तथा हि जागरितम्। स्वप: परिरेवं देहादपसृप्तिरिह चतुर्थी स्यात् ॥ १६५॥ इह पञ्चमी त्ववस्था श्रुतौ स्मृतौ वाऽपि न प्रसिद्धाऽस्ति। तस्मादेषाऽवस्था भवति हि तिमृणां हि काचिदृन्यतमा ॥१६६॥। इत्याशङ्का सकला निरस्यते सपदि सूत्रकारेण। न हि जागरितावस्थो मुग्धो योऽसौ कदाचिदपि भवति ॥१६७॥ यस्मात्स हीन्द्रियैरिह विषयान्नैवेक्षते कढाचिदृपि। नन्विषुकारन्यायाज्जाग्रदवस्थो भवेद्सी सुग्धः ॥१६८॥ इष्वास नस्को यदेषुकारो हि जाग्रदपि चायम्। नैवान्यान्विषयानिह समीक्षते तद्वदेव सुग्धोऽपि। १६९ ।। मुसलामिधातजनितप्रभूतदुःखानुभूतिविकलमनाः । जाग्रदृपि चायमन्यान्विषयानीक्षत इतीह न हि युक्तमू॥ १४०। व्यापृतमना ब्वीति ह्ययमिषुकार: स्वकृत्यमखििरिलमपि। इषुमुंपलंममानो ह्ययमेतावत्कालमासमत्रेति।। १७१ ॥

Page 249

२४४ सुन्रह्मण्यविरचिता- [ ३ तृतीयाष्यायस्य

मुग्धस्तु लब्धसंज्ञो बवीति न मयाऽत चेतितं किमपि। एतावन्तं कालं प्रक्षिप्तोऽन्धे तमस्यभूवमिति।। १७२।। तस्मान्न हि जागर्त्ययमपि च स्वप्नान्न पश्यति ह्येष:। निःसंज्ञत्वाद्यमिह नापि मृतः स्यादिहोष्मसद्भावात्॥१७३ ॥ सुग्धे जन्तौ हि मृतो न वा सृतोऽयमिति संशयानास्तु। ऊष्माऽस्ति नास्ति वेति स्पृशन्ति हृदयं तदत्र निर्णेतुम् ॥१७४॥ प्राणोऽस्ति नास्ति वेति हि निर्णेतुं नासिकाप्रदेशमपि । प्राणं चोष्माणं वा प्रतिपद्यन्ते यदा हि तत्रैव ।। १७५ ।। नायं सृत इति मत्वा संज्ञालाभाय तं भिषज्यन्ति। नन्विह निःसंज्ञत्वात्सुषुप्त एवास्तु मुग्ध इति चेन्न ॥१७६ ॥ मुग्धोडयं चिरमपि किल नोच्छसिति सवेपशुश् देहोऽस्य। वदनं भयानकं स्यान्नेत्रे विष्फारिते हि मवतोऽस्य ॥ १७७॥

नेत्रे निमीलिते किल न च देहो वेपमान इह हक्षः ॥१७८॥ सुप्त: वद्न: पुनः पुनस्तुल्यकालमुच्छ्ठसिति।

सुपं हि पाणिपेषणमात्रेणोत्थापयन्ति न तथेमम्। सुद्गरपातेनापि च निमित्तमेद्श्र भवति चेह तयोः ॥ १७९॥ भिघातमूलो मोह: स्वापः श्रमादिमूल: स्यात्। परिशेषादिह तददं मुग्धत्वं भवति चार्धसंपत्तिः ॥१८० ॥ यत इह निःसंज्ञोऽयं संपन्नः स्याद्थाप्यसंपन्नः ।

ननु मुग्धता कथं वा पुनरिह मवतीयमर्धसंपत्ति:। इह सता सोम्येति श्ुत्या सुप्ं प्रतीत्थमुपदिष्टम्।८२।। च सति संपत्ति: स्तेनत्वाद्यखिलधर्मराहित्यम्। दिकर्मबन्धनवियोगमपि यत्सुखित्वदुःखादेः॥ १८३॥ सकलोडयं सुप्ते पुरुषे प्रदर्शितो हि तया। स च खलु मुग्धे तुल्यो ह्योतमुपाध्युपशयोऽपि तुल्यःस्यात्॥१८४॥ वस्मात्सुप्तवदेव हि मुग्धे युक्ता हि कृत्स्संपत्ति: । इति वयं बूम: संपत्तिर्वरह्मणाडस्य मवतीति॥ १८५॥ किंत्वेतन्मुग्धत्वं सुषुप्तधर्मार्धधर्मयोगेण। भिप्ेतमिति तु निर्णीतम॥१८६॥

Page 250

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। २४५

दर्शितमेव हि पूर्वं वैलक्षण्यं हि सुप्तिमुग्धतयोः । द्वारमभिभवति चैतन्मुग्धत्वं सृत्युलोकसंक्रमणे॥ १८७॥ तस्माद्ब्ह्मविदोऽत हि वदन्ति मुग्धत्वमर्धसंपत्तिम्। नैवेह पञ्चमी किल काचिद्वस्थेति यञ्च पूर्वोक्तम्॥१८८॥ नासौ दोषो यस्मात्कादाचित्की भवेदवस्थेयम्। तेन श्रुतौ स्मृतौ वा मुग्धावस्था न हि प्रसिद्धाऽस्ति ॥१८९ ॥ यदि सुग्धताऽप्रसिद्धा कथं विचार इति नेह शङ्का स्पात् । दिषाडवस्था लोकायुर्वेदयोः प्रसिद्दैव ॥ १९० ॥

इह सुग्धता हि लोके न गण्यते पञ्चमीति केनापि ॥ १९१॥ सर्वावस्थामिरसावलिप् एव त्वमर्थ इत्येवम्। सम्यग्विचार्य संप्रति निरूपयति तत्पदार्थमीशानम् ॥१९२॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि॥ ११ ॥ अत्र त्वमर्थजिज्ञासोपरमानन्तरं हितस्यैव। अवसरसंगत्या हि स्वरूपभूतं विचार्यते ब्रह्म ॥ १९३॥ सन्त्यत्रोभयलिङ्गा: श्रृतयो ब्रह्मस्वरूपबोधपराः। अत्र। सर्वकर्मेत्याद्याः सविशेषगोचरा: श्रुतयः॥१९४॥ अस्थूलमे द्या :- : किल निर्विशेषबोधपरा:। श्रुतिषु सतीष्वेतासु ब्रह्मोमयलिङ्गनमेव किंवा स्यात् ॥ १९५॥ अन्यतरलिङ्गमथ वा यदाऽपि चान्यतरलिङ्गमेतत्स्यात्। सविशेषलिङ्गमेतत्किंवा तन्निर्विशेषमेवेति ॥१९६ ॥ संदेहे सति तत्र ब्रह्मोमयलिङ्गमिति तु युक्तं स्यात्। पूर्वत्र सुप्तिमरणोभयरूपं वर्णितं हि मुग्धत्वम् ॥ १९७॥ त द्च्छत्यनुसाराद्बह्मात्र ध्येयमुभयरूपं स्यात्।

तामेतामाशङ्कां निरसितुमेतत्प्रवर्तितं सूत्रम्। अत्रोमयलिङ्गत्वं स्वत एव परस्य नोपपन्नं स्यात् ॥ १९९॥ वस्त्वेकमेव लोके भवति हि रूपादिगुणगणोपेतम्। तद्विपरीतं चेति धारयितुं कथं हि शक्येत ॥ २०० ॥ नोपाधियोगतोऽन्यादशस्य चान्यादृश: स्वभाव: स्यात्। न स्वच्छ: स्फटिकोऽसावस्वच्छोऽलक्तकादियोगेन।। २०॥

Page 251

२४६ सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायकष्य-

स्वच्छत्वव्यपदेशोऽयं भ्रान्तिमूलको दृष्टः । ये चोपाधय इह ते भवन्त्यविद्यासमुस्थिता एव ॥ २०२। तन्मूलकं हि तदिदं भ्रान्त्यायत्तं न वस्तुवृत्तमतः । अन्यतराश्रयणेऽपि प्रतिपाद्यं ब्रह्म निर्विशेषमिह ।। २०३।। ब्रह्मप्रतिपत्तिपरेष्वशब्दमस्पर्शमेवमाद्येषु। द्पास्तसर्वोपाधिविशेषं प्रपश्चितं ।। २०४ । न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२॥ यन्निर्विशेषमेव प्रतिप ति तु पूर्वोक्तम्। तन्नोपपद्यतेऽत्र ब्रह्माकारास्तु भिन्नभिन्ना हि॥ २०५॥ उपदिश्यन्ते ते हि प्रतिविद्यं सकलनिगमवाक्येषु। चतुष्पादित्यपि घोडशकलमिति च वर्णितं बह्म ॥२०६ ॥ तदवच्च वामनीत्वादिलक्षणं ब्रह्म सकलभुवनतनु। वैश्वानरशव्दितमपि कथयन्ति ब्रह्म सर्ववेदान्ताः ॥। २०७॥ रसविशेषत्वं परात्मनोऽवश्यमभ्युपेयमिह। नो चेन्निविषयं स्यात्सकलमिदं भेदशास्त्रमिति चेन्न ॥ २०८॥ यस्माद्मेदमेव प्रत्येकं ब्रह्मण: श्रुतिर्ब्रूते। य मेवमाद्या श्ुतिरस्याभेद्मेवमुपदिशति॥ २०९॥ तेजोमयोऽमृतमयः पुरुषो योऽस्यां भवेत्पृथिव्यां सः। यश्ाध्यात्मं पुरुषः शारीरः सोऽपि तादृशो गढितः ॥२१०॥ तावेवंविधरूपौ निर्दिश्यामेदमेव हि बूते । अयमेव स योऽयमिति श्रुतिरध्यात्मादिभेदमपवार्य। २११॥ अपि चैवमेके।। १३ ॥

एके हि शाखिन: किल मनसैवेत्यादिना पठन्तीह ॥ २१२॥ अन्येऽपि मोक्तृभोग्यप्रेरितृरूपस्य सकलजगतोऽपि। ब्रह्मात्मतां वद्न्ति हि मोक्ता मोग्यमिति वाक्यनिचयेन ॥२१३। सविशेषनिर्विशेषब्रह्मपरासु च सतीष्वपि श्रुतिषु। ननु निर्विशे ब्रह्म कथं स्यादितीह नाऽडशङ््यम्॥ २१४॥ अत्रातत्परतत्परविप्रतिषेधे हि तत्परं वत्। एतन््यायाश्रयणान्नासी दोष इति पठति सूत्रमिद्मू॥२१५॥

Page 252

द्वितीयपादः २ ] माष्यार्थरत्नमाला। २४७

अरूपवदेव हि तत्प्धानत्वात् ॥ १४ ॥ रूपादिरहितमेव ब्रह्म परं स्यात्ततो न विपरीतम्। श्रुतिवचनानि च सर्वाण्यपि दवृश्यन्ते हि तत्प्रधानानि॥ २१६॥ अस्थूलमेवमाद्यं ह्वशब्द्मस्पर्शमेवमाद्यपि च। आकाशो हेत्यादिकमपि किल दिव्यो ह्यमूर्त इत्याद्यम्॥ २१७॥ यञ्ञान्यदृपि तदेतद्रह्मापूर्वमिति निगमवाक्य स्यात। परतत्वबोधकानि ह्येतानि भवन्ति तत्प्धानानि॥ २१८॥ तस्माच्च निर्विशेषं श्रुतिवचनेषु हि यथाश्चुतं ग्राह्यम्। आकारवत्पराणि श्रुतिवचनानि तुन तत्पधानानि॥ २१९॥ किंत्वेतानि भवन्ति हि सविशेषोपासनाप्रधानानि। असति विरोधे तेषामाश्रयितव्यं यथाश्रुतं मवति॥ २२० ॥ सति च विरोधे कल्पितविशेषसालम्बनानि तानि स्युः । न हि निर्विशेषवाक्याण्येवं कुत्रापि सावकाशानि॥२२१॥ तस्मान्भवन्ति तानि हि परात्मतत्त्वप्रधानवाक्यानि। इममर्थभेव सकलं बोधयितुं सूत्रमेतदिह पठति ॥ २२२ ॥ प्रकाशवच्चावैयर्थर्यात् ॥१५॥। लोके यथा प्रकाशः सौरश्रान्द्रो नमस्थलव्यापी। ऋजुवक्र कलिते ह्यङ्गुल्यादावुपाधिसंबन्धात्॥ २२३।। तन्द्भावं प्राप्त इव प्रतिपन्नो न प्रपद्यते हि तथा। तत्तूपाधिवशेनाऽडयातीव हि तत्तदाकृतिं ब्रह्म ॥ २२४॥ एवमुपास्त्यङ्गतया साकारत्रह्मविषयवाक्याणाम्। न च वैयथ्याशङ्का भवति हि नैवेह वेदवाक्यानाम् ॥ २२५॥ कस्यचिद्नर्थकत्वं कस्यचिदिह सार्थकत्वमिति युक्तम्। सर्वस्य वेदराशेः प्रमाणभावे यतो हिन विशेषः ।। २२६।। नोपाधियोगतोऽपि ब्रह्मोमयलिङ्गमिति तु यच्चोक्त्तम् । इह तद्विरुद्धमुक्तं भवतीत्येवं न शङ्कनीयमिह॥ २२७ ॥ यच्चोपाध्यायत्तं तदिदं नैवेह वस्तुधर्मः स्यात् । आविद्यका ह्युपाधय इत्येतत्सकलमेव पूर्वोक्तम् ॥ २२८॥ आह च तन्मात्रम् ॥ १६॥ स यथा सैन्धवघन इत्येषा श्रुतिरैवमत्र दर्शयति। ब्ह्म प्रज्ञानघनं रूपान्तररहितमेकमविशेषम् ॥ २२९॥

Page 253

२४८ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायर्य-

यद्वत्सैन्धववन इह बहिरन्तश्चैकलवणरस एव। चैतन्यमात्रभेव ब्रह्म निरन्तरमिद तथैवेति ॥२३० ॥ दर्शयति चाथो अपि स्मर्यते ॥ १७॥ दर्शयति श्रुतिरेषा ह्यथात आदेश एवमाद्या हि। इतरप्रतिषेधेन ब्रह्मण एतस्य निर्विशेषत्वम्॥ २३१॥ श्रुतिरन्यदेव तद्विदितादित्याद्यापि दर्शयत्येवम्। अन्याऽप्यत्र यतो वाच इति श्रुतिरपि तथैव दर्शयति ॥२३२ ॥ बाष्कलिना बाभ्रव्य: पृष्टः सन्नेतमवचनेनैव। ब्रह्म प्रोवाचेति श्रुयत इह निगमवाक्य एव किल ॥२३३॥ तत्र स होवाचाधीहीति प्रथमं स एष पृष्टः सन्। नोवाच किंचिद्यमिति तेन प्रश्नद्वये कृते पश्चात्॥ २३४ ॥ त्वं तु न जानास्येवं मवति ह्युपशान्त एष आत्मेति। आत्माऽपास्तद्वैतो ह्यवचनमत उत्तरे मवेत्तस्य ॥ २३५॥ सौत्रश्वाथोशब्दस्तदर्थको नान्यमर्थमाचट्टे। गीतादिस्मृतिवचनैर्ब्रह्म परं निर्विशेषमुपदिषमू ॥२३६ ॥ एतच्चानादिमदिते वाक्येषु स्पष्टमेवमन्यत्र। नारायणोपदिष्टे माया ह्येषा मयेति वाक्ये हि॥। २३७॥ अत एव चोपमा सूर्यकादिवत् ॥ १८॥ यत एवाऽडत्मा सोडयं चैतन्यैकस्वरूप एव स्यात्। वाङनसातीतः स्यादितरप्रतिषेधसमुपदेश्यश्ष ॥ २३८॥ तस्योपाधिनिमित्तामपारमार्थिक विशेषवत्तां हि। आलम्ब्य मोक्षशास्त्रे ह्युपमा जलसूर्यकादिभि: कथिता॥२३९॥ दर्शयति श्रुतिरेषा यथा ह्ययं ज्योतिरेवमाद्याहै। सूर्यो यथाऽनुगच्छन्नपो हि भिन्ना उपाधियोगेन ॥ २४०॥ भिन्नस्तथाऽयमात्मा क्षेत्रेषूपाधितो हिभिन्न इति। श्रुतिरेक एव हीति च मूते भूते व्यवस्थितो ह्यात्मा॥२४१ ॥ बहुधैकधा च दश्यत एको जलचन्द्रवदिति वर्णयति। सूर्यक इति कपत्यय इह सूत्रे द्योतनार्थको सवति ॥ २४२॥

Page 254

द्वितीयपाद: २] माष्यार्थरत्नमाला। २४९

अम्बुवद्ग्रहणात्तु न तथात्वम् ।। १९ ।। ननु जलसूर्याद्युपमा न चाऽडत्मन: कथमपीह संभवति। सर्यादिभ्यो भवति हि जलमेतद्विप्रकृष्टदेशस्थम् ॥ २४३ ॥ रूपवतः सूर्यस्य प्रतिबिम्बस्तत्र युक्त एव स्यात्। अत्र च मायाबुद्याधुपाधयो नैव दूरदेशस्थाः ॥ २४४ ॥ स्वरूपमेव हि सर्वात्मकमपि च सर्वदेशगतम्। तस्माद्द्ृष्टान्तोऽसावयुक्त इत्यस्य चोत्तरं पठति ॥२४५॥

हष्टान्तोऽसौ युक्तो विवक्षितांशो यतोऽत्र संमवति। दार्ध्टान्तिकस्य लोके दष्टान्ते न च सर्वसाम्यं स्यात् ॥ २४६ ॥ नतत्स्वमनीषिकया दष्ठान्तप्रणयनं कृतं किंतु। शास्त्रोपदर्शितस्य हि फलमात्रमिहोपदिश्यते तस्य ॥२४७॥ तदिदं प्रयोजनं स्याद्यदात्मनो निर्विशेषतारूपम्। अत्र च विवक्षितं यत्सारूप्यं तदिदमीद्वृशं भवति ॥२४८॥ जलगतमिह सूर्यादिप्रतिबिम्बं यच्च दृश्यते तदिदम्। वर्धत इह जलवृद्धी तद्धरासे ह्नसति किंच जलचलने ॥ २४९॥ चलति च जलभेदे किल भिद्यत इति चैतदेवमिह भवति। जलधर्मानुविधायि हि न तथात्वं भवति चास्य सूर्यस्य ॥२५०॥ एवं ब्रह्माविकृतं परमार्थत एकरूपमपि सदिह।

सारूप्याद्द्टष्टान्त: समस्जसोडयं तथा च न विरोध: ॥ २५२। दर्शनाच ॥ २१॥ अत्र पुरक्षक इति श्रुतिः परस्य प्रवेशमभिधत्ते। द्विपद्शरीराणि तथा चतुष्पदानि च वपूंषि सृक्ा सा ॥२५३॥। पूर्वं हि चक्षुरादेः पक्षित्वेनाविशत्स तानीति। श्रुतिरन्याऽनेनेति प्रवेशमत्र च परं प्रदर्शयति ॥ २५४ । अस्माद्युक्तः सोडयं योऽसी जलसूर्यकादिदृष्टान्तः। ब्रह्म न चोभयलिक्क नावि घ सविशेषलिङ्गमिति सिद्धमू॥२५४॥ ३२

Page 255

२५० सुब्रह्मण्यविरचिता- [ ३ तृतीयाच्यायस्य

इह कल्पयन्ति केचिह्वे अधिकरणे हि तत्र च प्रथमम्। किंवा प्राप्तविशेषं सविशेषं ब्रह्म किं भवेदिति हि॥२५६ ॥ पूर्वस्मादधिकरणात्प्रत्यस्तमितप्रपञ्चता सिद्धा। किं सल्लक्षणमेतङ्रह्म मवेद्दोधलक्षणं वेति॥२५७ ॥ वा तदुमयलक्षणमिति शङ्कायां द्वितीयमधिकरणम्। इह सर्वथाऽप्यनर्थकमधिकरणान्तरविदं ह्यनारब्धम् ॥२५८॥ धिकरणमिदं स्यादनेकलिङ्गत्वनिरसनार्थं हि। तत्किल पूर्वेणैव हि न स्थानत इत्यनेन परिभूतम् ॥२५९॥ उत्तरमधिकरणमिदं प्रकाशवच्चेति विफलमेव स्यात्। सल्लक्षणमेवेदं न बोधलक्षणमिदं भवेद्ह्म ॥ २६० ॥ इति शङ्कितुं न शक्यं विज्ञानधनश्चुतेर्विरोधेन। अपगतचैतन्यं तद्रह्म कथं वाऽपि चेतनस्यास्य ॥ २६१॥ जीवस्य श्रुतिवचनैस्तदात्मभावेन चोपदिश्येत । नाप्यत्र बोधलक्षणमेव न सल्लक्षणं तदेदिति ॥ २६२॥ वकतुं शक्यमिह स्यादस्तीत्यादिश्रुतेर्विरोधेन। तदुमयलक्षणमेव ब्रह्मेत्यपि नेह शङ्गितुं शक्यम् ॥ २६३ ॥ तस्यैकलिङ्गतायाः पूर्वोक्ताया विरोध एव स्यात् । सत्ताव्यावृत्तेन च बोधेन तथैव सत्तयोपेतम् ॥२६४॥ तत्प्रतिजानानस्य हि पूर्वप्रतिषिद्धसप्रपञ्च्त्वम्। पुनरपि तस्य स्यादित्यसमञ्जसमेव तदिदमखिलं स्थात्॥२६५॥ न श्रुतिवचनशतेनाप्येकस्यानेकरूपता भवति ॥ यदि बोध एव सत्ता बोध: सत्तैव न हि तयोर्भेद: ॥.२६६।। भवतु तदा सल्लक्षणमित्यादिविकल्पना निरा १। निर्णीतान्यस्माभि: सूत्राण्येकाधिकरणभावेन ॥ २६७।। अपि चान्यन्यं श्रुतिषु हि विप्रतिपन्नासु निर्विशेषेऽस्मिन्-। ब्रह्मणि तत्र गृहीते गतिरितरासामवश्यमिह वाच्या ॥ २६८॥ तत्परतयाऽर्थवन्ति प्रकाशवञ्चैवमादिमात्राणि। केचिदेवमाहुः साकारपरा मवन्ति याः श्रुतयः ॥२६९॥ प्री मुखेन ता अपि मवन्त्यनाकारतत्परा इति हि। तदृपि च न समीचीनं या: परविद्यापर्प । शुतयः ॥ २७ ॥।

Page 256

द्वेतीयपाद: २ ] माष्यार्थरत्नमाला। २५१

हयस्येत्याद्याः प्रविलयफलिका भवन्ति ता एव। यस्मात्तदेतदित्ययमुपसंहारोऽव् निर्विशेषपरः ॥ २७१ ॥ ये च श्ुतेः प्रपञ्चा उपासनाप्रक्रियासु हश्यन्ते। छान्दोग्ये हि मनोमय इत्याद्यास्ते कथं प्रविलयार्थाः॥ २७२ ॥ स क्रतुमित्येतेन हयुपासनातत्परेण विधिनैव। यत एर्षां संबन्धे श्रुत्यैव यथोक्तगुणकदम्बस्य ॥ २७३ ॥ तदुपासनार्थकत्वे प्रतीयमाने च लक्षणावृत्त्या। तस्यापि च प्रपञ्चप्विलयपरता कथं हि युक्ता स्यात्॥ २७४1

तच्चेदमनवकाशं सर्वस्य प्रविलयार्थकत्वे स्यात् ॥२७५॥ मध्युपासनानां भिन्नं भिन्नं प्रतीयते शास्त्रे। दुरितक्षय: क्वचित्स्यात्क्वचिदैश्वयं क्वचित्क्रमान्मुक्तिः ॥ २७६। तस्मात्पृथगर्थकता ज्ञेयोपास्यप्रधानवाक्यानाम्। नम्वेकवाक्यता किल यथैव चाङ्गपधानवाक्यानाम् ॥२७७।। भवति हि योगस्यैक्यात्परमापूर्वस्य तद्देवेह। प्रविलयविषयक एको नियोग आत्मावबोधकामस्य ॥। २७८।। अविलापिते प्रपञ्चे कथमपि न ब्रह्मतत्त्वबोध: स्यात्। योगोऽनुष्ठातव्यो भवति यथा स्वर्गलोककामस्य ॥२७९ ।। एवं प्रपञ्चविलयो विमोक्षकामस्य भवति संपाधः। तमसि यथा घटतत्वं बुभुत्सुनाऽडदौ विलाप्यते हि तम:ा २८०॥ एवं प्रपश्चविलय: कर्तव्यो ब्रह्मतत्त्वविविदिषुणा। अन्रेदं प्रष्टव्यं प्रपश्चविलयो हि किंविधोऽयमिति ॥२८१॥ यदि पावकसंपर्काद्घृतकाठिन्यस्य विद्यमानस्य। प्रविलय इव चेद्यमपि विलयस्तस्यैव विद्यमानस्य ॥ २८२॥ व्यर्थस्तदोपदेशः स खलु न शक्यो हि पुरुषमात्रेण। यदि नैकेन प्रपञ्चविलयः श्रुतस्तदेदानीम् ॥२८३॥

यदि चाविद्याध्वस्तः सकलोऽयं विद्यया विलाप्य इति॥ २८४ ॥ तत एतदेव लब्धं तत्सत्यज्ञानलक्षणं ब्रह्म। आविद्यकप्रपञ्चपत्याख्यानेन वेदितव्यमिति ॥२८५ ॥

Page 257

२५२ सुब्रह्मण्यविरचिता- { ३ तृतीयाव्यायस्य

आवेदिते हि तस्मिन्विद्या स्वयमेव जायते तस्य। प्रविलीयते तया चाविद्या ध्वस्तो हि सकल एवायम्॥ २८६॥ स्वप्नपपञ्च इव किल न वैपरीत्ये हि जायते विद्या। रज्जुप्रदुर्शनेनैव च भवति हि तत्स्वरूपविज्ञानम् ॥२८७ ॥

भवति तथैवेहापि ब्रह्मण्यावेदिते स्वयं विद्या ॥ २८८॥ नापि नियोगशतेन च विद्याऽनावेदिते भवेत्तस्मिन्। अपि च प्रपञ्चपक्षे जीव: किं ब्रह्मपक्ष एव स्थात् ॥ २८,. प्रथमे हि निष्पपश्च ब्रह्मप्रतिपादनेन जीवेऽपि। प्रविलापिते जगद्वत्कस्य नियोग: कुतोऽस्य मोक्षो वा॥ २९० ॥ जीवो द्वितीयपक्षे ह्यनियोज्यब्रह्मरूप एव स्यात्। जीवत्वं चाविद्याकल्पितमेवेति बोधिते तस्मिन् ।२९१ ॥ च नियोज्याभावान्नियोगनिष्ठा न कस्यचिन्द्वति। द्रष्टव्याद्या: शब्दास्तत्वाभिमुखीकृतिप्रधाना: स्युः ॥ २९२॥ यदि चाSडम्नायः सकलः पर्यवसन्नो नियोगनिष्ठतया। जीवस्य यद्नियोज्यत्रह्मात्मत्वं तदप्रमाणं स्यात् ॥ २९३॥ कृत्स्नंस्याSडस्नायस्य हि नियोगपरता यदोपवर्ण्येत। श्रुतहानिरभ्ुतार्थप्रकल्पना चात्र दुर्निवारैव ॥ २९४॥ मोक्षस्यानित्यत्वं ह्यदटृष्टफलताऽपि कर्मफलवत्स्यात्। तस्मा पराणि ह्यवगतिनिष्ठानि सकलवाक्यानि॥ २९५॥

अनुचितमेतत्सकलं यदि चाभ्युपगम्यते नियोगोऽयम्॥२९६॥ ब्रह्मपरेष्वपि वाक्येष्वसिद्धमेव हि तदा तदेकत्वम्। सेविशेषनिर्विशेषप्रतिपादनतत्परेषु तेषु स्यात् ॥ २९७॥ शब्दान्तरैः प्रमाणैनियोगमेदेऽवगम्यमानेऽपि। सर्वत्राषि ह्येको नियोग इति नैव शक्यमाश्रयितुम ॥२९८॥ दर्शप्रयाजवाक्येष्वधिकाराभेदृतस्तदेकत्वम्। साङ्े प्रधानयागे स्य स्वर्गलीककामस्य । २९९ ॥।

Page 258

द्वितीयपाद: २३ माष्यार्थरत्नमाला। २५३

मारुपत्वादिगृणा न हि प्रविलयोपकारिणो दृष्ा:। नापि प्रपञ्चविलयो भारूपत्वादिसहचरो दृष्टः ॥ ३०१॥। यस्मात्परस्परं ते दृश्यन्ते किल विरुद्धरूपतया। मुक्त्यभ्युद्यार्थिन इह भवन्ति विद्याधिकारिणो भिन्ना:॥३०२। नैवाङ्गाङ्गित्वं वा मिथोविरुद्धार्थविद्ययोर्भवति। कृत्स्नप्रपञ्चविलयस्तदेकदेशाद्यपेक्षणं चापि ।। ३०३।। न ह्रेकस्मिन्धर्मिणि त्च समावेशयितुं शक्यमू। साकृतिवाक्यानामिह न भवत्याकारविलयनद्वारा॥ ३०४ ।। निर्गुणवाक्यैकत्वं तस्मादस्मत्प्रपश्च्ितं युक्तम्। तैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥२२॥ तदिदं ब्रह्म श्रुतिभिनिर्दिषं निर्विशेषचिन्मात्रम् ॥३०५॥ सकलप्रतिषेधावधि सद्ूपं तदिति वर्ण्यते सपदि। मूर्तममूतं चेति द्े रुपे ब्रह्मणो विनिर्दिश्य॥ ३०६॥ पञ्च महाभूतानि द्वैराइयेन च विभज्य तत ऊर्ध्वम्। तस्यामूर्तरसस्य हि पुरुषस्य च यानि सकलरूपाणि॥ ३०७ ॥ तानि महारजनादीन्यप्येतस्यैव वर्णयित्वाऽन्ते। वाक्यं तढत्र पठितं ह्यथात आदेश एवमादि किल ॥३०८ ॥ तत्र च वाक्ये नेतीत्येतद्वाक्यं द्विवारमुपदिष्टम्। न ह्येतस्मादित्यपि वाक्यं तत्रोपलभ्यते किंच॥ ३०९॥ नेत्यत्यत्परमस्तीत्येवं वाक्यानि तत्र दृश्यन्ते। अत्र प्रतिषेध्यं किल विशेषतो नोपलभ्यते किमपि ॥ ३१०॥ अत्र च नञ्शब्दोऽसावितिशब्दपरः स चायमितिशब्दः। संनिहितकृत्स्नवस्तुप्रदर्शनार्थः प्रतीयते लोके॥ ३११॥ प्रकरणसामर्थ्यादिह रूपद्यमत्र भवति संनिहितम्। तस्यैव सप्रपञ्चब्रह्मण एतद्दयं यदुपदिष्टम ॥ ३१२॥ तत्र च संदेहः कि प्रतिषेधति रूपरूपवय्युगलम्। किंवा रूपं यदिदं किंवाऽप्येतज्च रूपवङ्रह्म ॥ ३१३ ॥ तत्र च रूपं रूपवददुमयं प्रतिषिध्यतीति युक्तं स्यात्। नञ्शब्ददययोगादथ वा ब्रह्मैव रूपवद्यदिक्षम्॥३१४।। तद्दाङमनसातीतं किंचासंभाव्यमानसन्भावम्। 'प्रतिषेधाहं प्रतिषेधाहों न हि प्रपञ्चोऽसौ॥ ३१५ ॥

Page 259

२५४ सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

प्त्यक्षगोचरत्वादभ्यासस्त्वादरार्थ इह मवाि। एवं प्रास्ते बूम: प्रतिषेधो नोमयस्य भवतीह ॥। ३१६ ॥ प्रतिषेध: sयं किंचित्परमार्थतत्त्वमालम्ब्य। यश्चापरमार्थः स्यात्स खलु प्रतिषिध्यते न सर्वमपि ॥ ३१७॥ सर्वस्य प्रतिषेधे मवेदसी शून्यवाद एव तदा। रज्जवादौ सपाद्या: प्रतिषिध्यन्तेऽवशिष्यमाणेडस्मिन् ॥ ३१८॥ कृत्स्प्रतिषेधे किल कोऽन्यस्तत्रावशिष्यते भावः। अन्यस्यानवशेषे कृत्सस्यैवास्य शून्यताप्राप्त्या॥।३१९॥। प्रतिषेद्धुरप्यभावे प्रतिषेध: कथमिहोपपद्येत। ब्रह्मप्रतिषेधो वा कथमपि नैवेह शक्यते वक्तुम ॥ ३२०॥ येनोपक्रमवाक्ये ब्रह्मप्रतिपादनं प्रतिज्ञातम्। विं सन्नैवेति श्रुतिरसदात्मत्वमस्य निन्दृति च ॥३२१॥ अस्तीत्येवेत्यपरा श्रुतिरस्तित्वेन वक्त्ति तङ्गह्म। श्रुतिवचसां व्याकोपो ब्रह्मासत्वे हि दुर्निवारः स्यात् ॥३२२ ॥ व सातीतत्वं यच्चोक्तं ब्रह्मणस्तद्तदृपि। नाभावाभिप्रायं किंतु प्रतिपादनपकारोऽयम् ॥३२३॥ तद्वाखनसातीतं सर्वेषां प्रत्यगात्मभूतमपि। नित्यं शुद्धं भूतं ब्रह्मैतन्नित्यमुक्तरूपमिति ॥३२४ ॥ प्रतिपाद्यन्ति सर्वे वेदान्ता: कथमभावशङ्काडस्य। तस्माङ्गह्मण एतत्प्रतिषेधति रूपमेव न ब्रह्म ॥ ३२५।। प्रतिषेधावधिभूतं यत एतङ्गह्म परिशिनष्टि ततः। प्रकृबं यच्चैतावन्मूर्तामूर्तैकलक्षणं रुपम् ॥३२६ ॥ तच्च प्रतिषेधति किल नेति च शब्दो न रूपबद्धह्म। रूपं तदिदं प्रकृतं पूर्वग्रन्थे प्रपश्चितं चैतत् ॥ ३२७ ॥ अधिंदैवतमध्यात्मं तद्धीनं वासनामयं त्वपरम्। रूपममूर्तरसात्मकमपि लिङ्गात्मकव्यपाश्रयं यञ्ञ ॥ ३२८। वर्णितमत्र महारजनाद्यपमाभिर्यंथेति वाक्येन। तज्ञोपनीयते खल्वितिशब्देन च नञं प्रतीत्येवम्॥ ३२९॥ अवगम्यते यतोऽत्र हि रूपविशेषणतयैव त किल निर्दिष्टं रूपं तच्ु प्रधानभावेन । ३३०॥

Page 260

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। १५४

रूपवतो जिज्ञासायामेवैतत्पदर्शितं वाक्यमू। कल्पि पप्रत्याख्यानेन ब्रह्मण: स्वरूपमिह ॥ ३३१॥ निर्णीयते तदास्पदमखिलं नेति हि निषिध्यते तस्मात्। वाचारम्भणशब्दादिम्य: कार्यस्य चानृतत्वेन ।। ३३२॥ युक्त: प्रतिषेधोऽयं न ब्रह्मण इह भवेदसी युक्त:। तस्य कथं वा स भवेद्रह्म यतः सर्वकल्पनामूलम्॥३३३॥ स्वयमेव शास्त्रमेततदूपट्वयमस्य दर्शेत्वाडडदौ। प्रतिषेधतीह कथमिति नैषा शङ्काऽत भवति युक्ततमा ॥३३४॥ रूपद्वयमिह शास्त्रं प्रतिपाद्यत्वेन नैव निर्दिशति। रूपद्वयं प्रसिद्धं ब्रह्मणि कल्पितमिदं परामृशति॥३३५॥ प्रतिषेध्यत्वाय तथा शुद्धबह्मस्वरूपबोधाय। द्वाचेतौ प्रतिषेधौ मूर्तामूर्ते निषेधतः क्रमतः ॥ ३३६ ॥ एको हि भूतराशिं प्रतिषेधति वासनात्मकं त्वपरः। अथवाऽपि नेति नेतीत्येषा वीप्सा हि किमपि नेतीति॥३३७॥ परिगणितप्रतिषेधे किवैतद्बह्म किमथवाऽन्यदिति। स्यादेषा जिज्ञासा वीप्सायां सकलविषयजातस्य ॥३३८॥ प्रतिषेधाच्चाविषयः प्रत्यग्ब्ह्मेति सा निवर्तेत। तस्मात्कल्पितमेतत्प्रतिषेधति परिशिनष्टि तङ्ह्म ॥ ३३९॥ अन्यत्परमस्तीति बवीति भूयो यतस्तदिह सत्यम्। आदिश्य नेति नेतीत्यादेशं किल पुनश्र निर्वक्ति॥३४० ॥। ब्रह्मण एतस्माद्धि व्यतिरिक्तं नेह किंचिदृस्तीति। उक्तार्थबोधनाय हि नेतीत्युक्तं तदेव दर्शयति॥३४१॥ अन्यञ्च प्रतिषि्धं ब्रह्मपरं यत्तदेतदस्तीति। न ह्येतस्मादिति यद्युपदेशान्तरनिषेधनार्थं स्थात् ॥३४२॥ सूत्रे ततो बवीतीत्येतत्स्यान्नामधेयपरमेव। अथ नामधेयमिति हि बवीति सत्यमिति तत्परं तत्स्यात्॥३४३॥। प्रतिषेधोऽयं सफलो यदि च ब्रह्मावसान एष स्यात्। यदि चाभावावधिकः कथमिह सत्यस्य सत्यमुच्येत ॥३४४ ॥ तस्मात्प्रतिषेधोडयं मवति ब्रह्मावसान इति सिद्धम्। तदव्यक्तमाह हि॥ २३ ॥ अन्यत्प्रपञ्चजातात्प्रतिषिद्धादयदि भवेत्परं ब्रह्म ॥ ३४५॥

Page 261

२५६ सुन्नह्मण्यबिरचिता- [३ तृतीयाध्यायस्य-

तच्च कुतो न हि ग्ुह्यत इत्यत एतस्य चोत्तरं बूते। तदिदं ब्रह्माव्यक्तं भवति हि तत्सर्वदृश्यसाक्ष्यपि च । ३४६॥ तेनेन्द्रियैन गृह्यत इत्येतच्छृतिरिह प्रदर्शयति। सा हि श्रुतिः किलैषा न चक्षुषेत्यादिका बर्वीत्येवम् ॥३४७॥ अन्याऽपि श्रुतिरेवं स एष नेत्यादिका प्रदर्शयति। इयमपराऽपि यदा ह्येवैष इति श्रुतिरिति प्रदर्शयति ॥३४८॥ अव्यक्तोऽयमचिन्त्योऽयमिति स्मृतिरपि तथैव दर्शयति। अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपि चेह योगिनस्तं संराधनसमय एव पश्यन्ति ॥ ३४९॥ संराधनं हि भक्तिध्यानातुष्ठानमेव न तदन्यत्। त्द्येवमेव यस्माच्छृतिस्मृती चैवमेव दर्शयतः ॥ ३५० ॥ श्रुतिरिह पराश्चि खानि व्यतृणदितीत्येवमत्र दर्शयति। बहिरर्थमेव सर्वे पश्यन्ति न कश्विदन्तरात्मानम्॥३५१॥ यो धीमान्मोक्षार्थी स हि तं पश्यति निरुद्धचक्षुरिति। अपरापि शुद्धसत्त्वस्तत इत्याद्याऽपि दर्शयत्येवम् ॥३५२॥ स्मृतिरत्र यं विनिद्रा इत्याद्या योगिनस्तमित्याद्या। परमात्मनोऽस्य केवलयोगिध्यानाभिगम्यतां जूते ॥। ३५३॥ ननु संराध्य: संराधक इति भिन्नत्वमेतयोरिति चेतु । प्रकाशादिवच्चावैशेष्यं प्रकाशश्र कर्मण्यभ्यासात् ॥२५॥ लोके प्रकाशरूपा ये सवितृप्रमृतयो हि वर्तन्ते॥ ३५४॥ ते खलु सविशेषा इव भासन्ते परमुपाधियोगेन। एवं ध्यानोपाधिषु कर्मसु भिद्यत इहैष परमात्मा॥ ३५५॥ परमार्थतोऽयमात्मा न भिद्यते नापि सविशेषः। भेद उपाधिकृतोऽसौ स्वतस्त्वमेद इति वर्णयन्त्येते ॥३५६॥ अभ्यासेनासकृदिह जीवप्राज्ञौ हि सर्ववेदान्ताः । अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ येनाविद्यामूलो मेद: सकलोऽपि तेन जीवोऽसी ॥ ३५७॥ सकलम विद्याध्वान्तं विद्यादीपेन संनिरस्यैव। प्राज्ञेनानन्तेन हि परात्मना सोऽयमेकतां याति ॥३५८॥ श्रुतिलिङ्गमेवमेव हिस यो ह वै तदिति वर्णयत्यत्र।

Page 262

द्वितीयपाढ: २] माष्यस्थंरत्माला। २५७

उभ्यव्यपदेशात्वहिकुण्डलवत् ॥ २ ७ ॥। स्वमतविशुद्धय इह किल मतान्तरं किमपि दर्शयत्यत्र ॥ ३५९॥ क्कचिदिह जीवेश्वरयोर्ध्यातृध्यातव्यभावमालस्व्य। जयपदिश्यते हि भेदस्ततस्तु तं पश्यतेति वाक्येन ॥ ३६० ॥ ष्यपदिश्यते क्वचित्किल परात्परं पुरुषमेवमाद्येन। वाक्येन गन्तृगन्तव्यत्वेनापि च तयोरसी भेद: ॥ ३६१ ॥ एवं नियन्तृनियमनकर्मत्वेनापि भेद उपदिष्टः । यः सर्वाणीत्याधैर्वक्यैः क्वचिदिह तयोरभेदोऽपि ॥ ३६२॥

एष त आत्माऽन्तर्याम्यमृत इति प्रथितवेदवाक्यैश्र ॥३६३॥ अत उभयव्यपदेशादहिकुण्डलबन्भ्वेदिदं तत्त्त्रम्। प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८॥ अथवाऽत्र यः प्रकाशः सवितुर्योऽसी तदाश्रयः सविता ॥३६४॥ तेजस्त्वेनाभिन्नौ भेदृव्यपदेशिनौ तथेहापि। पूर्ववद्दा ॥। २९॥। पूर्वप्रकाशवञ्चावैशेष्यमिति प्रदर्शितं यत्स्यात् ॥३६५ ॥ भवति तदेव हि तत्वं येनाविद्याकृतो हि बन्धोऽयम्। ब्रह्मात्मविद्यया किल बन्धापायेऽत्र भवति मोक्षो हि॥ ३६६॥ अहिकुण्डलवद्दन्धः परस्य संस्थानभूत एव यदि। किंवा स हि प्रकाशाश्रयवद्यधेकदेशभूतः स्यात ॥३६७॥ भवति तदा परमार्थो बन्धस्तस्य च तिरस्कृतिर्न भवेत्। एवं चेद्वैयथ्यं दुर्वारं भवति मोक्षशास्त्रस्य ॥ ३६८॥ भेदाभेदौ तुल्यवदिह न ध्यपदिशति किंत्वभेदमिह। प्रतिपाद्यत्वेन श्रुतिरेषा निर्दिशति तत्त्वमस्याद्या ॥३६९॥ भेदूं त्वनुवदृति ततः प्रकाशवच्चेति मवति सिद्धान्तः । प्रतिषेधाच् ॥ ३० ॥ नान्योऽतोऽस्तीत्याद्याऽप्यथात आदेश एवमाद्याडपि॥ ३७०॥ प्रतिषेधति प्रपञ्चं ब्रह्मव्यतिरिक्तमखिलभेव यतः । तद्रह्म परिशिनष्टि हि यदिदं सन्निर्विशेषचिन्मात्रम्।। ३७१ ।।

Page 263

सुब्रह्मण्यविरचित्ता- [ ३ तृतीयाध्यायस्य-

तस्मात्व्काशवञ्वेत्युपदिषे मवति चात्र सिद्धान्तः । परमतः सेतून्मानसंबन्धभेदव्यपदेशेक्यः ॥ ३१॥ यदिदं निरस्तसकलप्रपञ्चमन्रोपवर्णितं ब्रह्म॥३७२॥ तस्मादन्यत्तत्वं किमस्ति नास्तीति भवति संदेहः। तन्न परस्मादन्यत्तत्वं स्यादिति तु युक्तमाभातति ॥३७३॥ सत्वादिव्यपदेशा यस्मात्तत्साधका हि दृश्यन्ते। आत्मा स सेतुरिति हि श्रुत्तिः परस्यास्य सेतुतां बूते॥ ३७४॥ सृद्दार्वादिप्रचये जलगतिविच्छेदसाधने सोडयम्। रूढो हि सेतुशब्दः प्रयुक्त आत्मनि यतो मवेदेष: ॥ ३७५॥ लौकिकसेतोरिव किल गमयति वस्त्वन्तरास्तितामस्य। उन्मानव्यपदेशोऽप्यत्र तथा द्वश्यते तदेतदिति ॥३७३॥ ब्रह्म चतुष्पादष्टाशफं च घोडशकलं च तत्रोक्तम्। कार्षापणादि लोके यदुन्मितं स्यात्ततोऽन्यदस्तीति ॥३७७।। भवति प्रसिद्धमत इह भवितव्यमिति प्रतीयतेऽन्येन। सोम्य तदा संपन्नो भवतीत्याद्येषु निगमवाक्येषु॥३७८॥ संबन्धव्यपदेशोऽप्ययमुक्तार्थस्य बोधको भवति। संबन्धः किल लोके भवति मितानां मितेन यत एवम् ॥३७९ ॥ सोडयं सुप्तौ दृष्टस्तस्मात्परमस्ति किंचचिदिति माति। व्यपदिश्यते परात्मा भिन्नत्वेनैव सोऽन्तरादित्ये॥ ३८० ॥ एवं स चान्तरक्षिणि सावधिकं चेश्वरत्वमुपदिष्टम्। भवति तयारिह तस्मात्परमन्यङ्वह्मणोऽस्ति किंचिदिति॥। ३८१॥ इत्येतामाशङ्कां निरसितुमेतत्प्रदर्शित सूत्रम्। सामान्यातु ॥ ३२॥ तुशब्देन हि खल्वाक्षेपोडयं निरस्यते सकलः ॥ ३८२॥ न ब्रह्मण: परस्माद्न्यत्तत्वं कदाऽपि संभवति। न ह्यन्यस्यास्तित्वे प्रमाणमुपलभ्यतेऽत्र किंचिदृपि॥ ३८३॥ सर्वस्य जनिमतः किल जगतो जन्मादिकारणं ब्रह्म। निर्धारितं हि तस्यानन्यत्वं च प्रदर्शितं भवति ॥३८४ ॥ बह्येतद्यतेरिकतं किंचिदजंतत्त्रमत्र संभवति। यस्मात्सदेव सोम्येत्यस्मादवधारितं हि सद्ब्ह्म ॥ ३८५.॥

Page 264

द्वितीयपाद: २] माष्यार्थरत्नमाला। २५९

येनाश्रुतमिति वाक्यादेकज्ञानेन सर्वविज्ञानम् । दर्शितमिह तेन कथं ब्रह्मव्यतिरिक्तवस्तुसत्त्वं स्यात् ॥ ३८६ ॥ सेत्वादिव्यपदेशात्स्यादन्यत्तत्वमिति तु यच्चोक्तम्। तद्युक्तमेव यस्माच्छरृतिरेषा वक्ति सेतुरात्मेति ॥ ३८७ ॥ न ततः परमस्तीति शुत्या चवोपदिष्मेवात्र। सेत्वादिव्यपदेशादन्यास्तित्वप्रतीतिरित्यपि न H ३८८ ।। लिङ्गेन चाद्वितीयश्रुतिबाधोडयं यतो न हि न्याय्य:। सेतुनिदर्शनमात्रेणान्यत्तत्वास्तिता यदोच्येत ।। ३८९।। तद्द्ृष्टान्तेन तदा सृद्दारुमयत्वमस्य कल्प्येत। नैतन््यायं यस्मादृजत्वमुफदिशति शास्त्रमेतस्य ॥ ३९०॥ इह सेतुशब्द आत्मनि तत्सामान्यात्प्रयुक्त इति युक्तम्। जगतस्तद्दर्माणां विधारकत्वमिह सेतुसामान्यम् ॥ ३९१।। सेतुं तीर्तवैत्यत्र च तरतिर्नातिक्रमार्थको भवति। आत्मा यतो विभु: स्यात्किंतु प्राप्त्यर्थ एव तरतिरसौ । ३९२॥ प्राप्त्यर्थे दृष्टोऽयं व्याकरणं तीर्ण एवमादो हि। बुद्धचर्थः पादवत् । ३३॥ उन्मानव्यपदेशादृपि नान्यास्तित्वकल्पना युक्ता । ३९३।। स भवति किल बुद्धचर्थ: सा बुद्धिरुपासनैव नान्या स्यात् । ब्रह्मण्यपरिच्छिन्ने स्थापयितुं बुद्धिरयमशक्थेति ॥ ३९४॥ ब्रह्म चतुष्पात्षोडकलमित्युन्मानकल्पनाSत्र कृता। पादवदित्येतत्किल निदर्शनं स्याद्यथोपदिष्टार्थ॥३९५॥ ब्रह्मपतीकयोरिह मनआकाशस्वरुपयोहि यथा। वागाद्यक् पादाश्वत्वारस्ते च मनस उपदिष्टाः ॥३९६॥ आकाशस्याग्न्याद्य आध्यानायैव ते हि निर्दिष्ाः। तद्वदिहापि स्यादियमथवाऽप्यन्यार्थकं हि पादपद्म् ॥ ३९७॥ कार्षापणे यथा वा पादविभागस्तु कल्प्यते लोके। ध्यवहारप्राचुर्य न भवति कार्षापणेन सकलेन ।। ३९८॥ तस्मात्क्रयादिसिद्धचै पादविभागो यथा तथेहापि। स्थानविशेषात्मकाशादिवत् ॥ ३४॥

Page 265

२६० सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

परमन्यत्तत्वं स्यादिति यञ्चोक्तं निरस्यते तदिदम्। व्यपदेशावेतौ हि स्थानविशेषावलम्बनी भवतः ॥। ४०० ॥ बुद्धयाद्युपाधियोगादुद्भूतं यद्विशेषविज्ञानम्। बुद्धध्ुपशमे हि तस्योपशमी यः स हि परेण संबन्ध: ।। ४०१॥ सोडयमुपाध्यायत्तो माक्तो न हि परिमितत्वसापेक्ष:। भेदव्यपदेशोऽपि ह्युपाधिभेदप्रयुक्त एवास्य ॥ ४०२॥ न हि वस्तुभेदमूलो यथा प्रकाशादिषूप्लब्धोऽयम्। लोके यथा प्रकाशाकाशप्रभृता उपाधियोगेन।। ४०३।। संबन्धव्यपदेशो भेदव्यपदेश एवमेवात्र। उपपत्तेश् ॥ ३५॥ इह चैतादृश एव हि संबन्धो युज्यते न चान्यविध: ॥ ४०४ ।। पीतो भवतीति स्वरूपसंबन्धमामनन्त्येवम्। तज्ञ स्वरूपमन्यत््वनपायीति श्रुतिस्मृतिप्रथितम् ॥४०५॥ तस्माद्यदुपाधिकृतं स्वरूपमागन्तुकं भवेदस्य । तस्य तिरोभावे हि स्वमपीत इतीह युक्तमुपदिष्टम्॥४०६॥ भेदृव्यपदेश उपाधिकृतो नान्याद्वृशोऽत संभवति। अन्यादृशो यदि स्याच्छतिसिद्द्ैकेश्वरत्वबाधः स्यात् ॥४०७ ॥ आकाशे दृष्टोऽसावुपाधियागेन भेदनिर्देशः। तथाऽन्यप्रतिषेधात्॥ ३६ ॥ सेत्वादिव्यपदेशान्हेतूनुन्मथ्य पक्षमात्मीयम्॥४०८।। हेत्वन्तरेण संप्रत्युपसंहरति ह्यनेन सूत्रेण। अन्रान्यप्रतिषेधादन्यन्नास्तीति गम्यते तस्मात् ॥ ४०९।। यस्मादइमेवाधस्तादात्मैवेति वेदवाक्येन। अन्यैश्र नेह नानेत्याद्यैरेतैरनन्यपरवाक्यैः ॥ ४१०॥ ब्ह्मव्यतिरिक्तं किल किंचिन्नास्तीति निश्चितं भवति। अनेन सर्वगतत्वमायामशब्दादिश्यः ।।३७॥ परपक्षहेतुनिरसनमन्यप्रतिषेधवर्णनें च कृतम् ॥४११॥ सर्वगतत्वमनेन ह्यात्मन एतस्य सिद्धमिह भवति। सेत्वादिव्यपदेशा यदि मुख्या: स्युस्तदा परिच्छेद्: ॥४१२॥

Page 266

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। २६१

आत्मन एतस्य स्यात्सेत्वाद्या एवमात्मका हियतः। अन्यप्रतिषेधेऽपि ह्यसति परिच्छेद एव तस्य स्यात् ॥४१३॥ आयामशब्दृतः किल सर्वगतत्वं प्रतीयते तस्य। आयामशब्द इह किल सर्वव्यापिस्वरूपवचन: स्यात् ॥४१४॥ यावान्वेति श्रुतिरिह तथैव चाऽडकाशवदिति चान्याऽपि। ज्यायान्दिव इत्यपरा श्रुतिरप्यायाममस्य दर्शयति ॥४१५॥ नित्यः सर्वगतः स्थाणुरिति स्मृतिरपि तमस्य दर्शयति। फलमत उपपत्तेः॥ ३८ ॥ पूर्वोपदर्शितस्य हि परात्मनो व्यावहारिकी येयम् ॥४१६॥ ईशेशितव्यभावावस्था तस्यां निरुप्यते तदिदम्। इष्टानिष्टव्यामिश्रलक्षणं कर्मफलमिदं त्रिविधम् ॥ ४१७॥ संसारगोचरं तज्जन्तुषु सर्वेषु सुप्रसिद्धं हि। तत्कर्मण: किमीशात्स्यादिति संदेहनिरसनार्थमिह॥४१८॥ पूर्वोपदशितस्य हि परात्मनो निर्विशेषभावेन। फलदातृत्वं कथमिति शङ्काया निरसनार्थमपि किंच॥। ४१९॥ फलदातृत्वं कर्मण एवेत्याक्षेपमखिलमुन्मूल्य। लक्ष्यार्थबोधसाधनवाच्यार्थसतत्त्वनिर्णयार्थं च।। ४२०॥ सवं हि संगमयितुं फलमत इत्यादिसूत्रमारब्धम् । अस्मात्परात्मनः किल भवति फलं तदिति युक्तमाश्रयितुम्॥४२१॥ यस्मादसी परात्मा सर्वाध्यक्षस्तथैव सर्वज्ञः। स हि देशकालभेदाभिज्ञ: सृष्यादिचित्रमारचयन्॥ ४२२॥ कर्मानुरूपफलमिह दातुं तस्मात्स एव शक्रोति। कर्म विनाशि क्षणिकं जनयति कालान्तरे फलं तदिति ॥४२३॥ इद्मनुपपन्नमेव हि नाभावान्भ्ावसंभवो येन। ननु कर्मेह विनश्यत्फलमनुरूपं हि किंचिदुत्पाद्य ॥ ४२४.॥ नश्यति कालान्तरितं तच्च फलं भोक्ष्यते हि मोक्त्रेति। इद्मपि न युक्तमेव हि यतः फलत्वं न चास्य संभवति ॥,४२५॥ लोके यथा सुखं वा दुःखं वा यदुपभुज्यते पुंसा। तदिदं हि कर्मणः फलमिति च तदा वर्णयन्ति न हि पूर्वमू४२६॥ यदि कर्मजादपूर्वात्फलमुत्पत्स्यत इतीह येत। तदपि न युक्तं यत इदमचेतनं काइलोष्टसममेव।। ४२७

Page 267

२६२ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य- तज्जेतनाप्वर्तितमचेतनं कथमिह प्रवर्तेत। इह चापूर्वास्तित्वे प्रमाणमुपलभ्यते न किंचिदृपि॥ ४२८॥ अर्थापत्तिर्यां स्यादीश्वरसिद्धयैव साडन्यथासिद्धा। श्रतत्वाच् ॥ ३९ ॥ उपपत्यैव न चासावीश्वर इह मवति कर्मफलहेतुः ॥४२९॥ श्रुतिबलसमाश्रयादृपि भवति परात्मैव कर्मफलहेतुः। या हि स वा एष महानज आत्माऽन्नाद् एवमाम्नात: ॥ ४३०॥ अन्नादं वसुदानं परमेश्वरमेनसुपदिशन्ती सा। श्रुतिरेवेश्वरमेनं फलस्य दातारमुपदिशत्यत्र ॥ ४३१ ॥ धर्म जैमिनिरत एव ॥ ४० ॥ इह जैमिनिराचार्य: फलदातारं हि धर्ममाचटटे। शुत्युपपत्ती यस्मादिह धर्मपरत्वसाधिके हषटे ॥ ४३२ ॥ यत्स्वर्गकामवाक्यं तत्र च विध्यर्थभावनाविषयः । याग: स्वर्गोत्पादक इति खल्वर्थः प्रतीयते तस्मात् ॥४३३॥। नोचेदेवं यागो ह्यननुष्ठातृक इह प्रसज्वेत। तत्र यजेतेत्येषामुपदेशः सकल एव विफल: स्यात् ॥४३४ ॥ क्षणिकस्य कर्मणः किल फलं न किचिद्िति मनसि निश्चित्य। पूर्वं निराकृतोऽसी पक्ष: कथमत्र युक्त इति चेन्न ॥४:५॥ श्रुतिरिह यदि प्रमाणं फलसंबन्धोऽपि कल्पनीयोऽस्य। ना [तुत्पा ] द्यापूवं कर्म यदेतद्विनश्यदन्वक्षम् ॥ ४३६॥। फलमिह कालान्तरितं दातुं तत्कर्म नैव शक्रोति। या हि फलस्य च पूर्वा तथोत्तरा कर्मणो ह्यवस्था या ॥४३७ ।। सवापूर्व तेन च फलसंबन्धोऽस्य निरपवाद: स्यात्। ईशः फलं दृदातीत्येतन्नात्रोपपद्यते हि यतः ॥४३८॥ अविचित्रः परमात्मा कार्यं सकलं विचित्रमाभाति। तदनुष्ठानं विफलं वैषम्याद्यपि च तस्य दुर्बारम्॥४३९॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥४१॥ फलहेतुमीशमेव हि मन्यत इह बादरायणाचार्यः। ण एव फलं स्यादिति तु तुशब्देन परिहतं मवति ॥४४० ॥

Page 268

तृतीयपाढ: ३ ] माष्यार्थरत्नमाला। २६३

यस्मादसौ परात्मा हेतुर्व्यपदिश्यते हि शास्त्रेषु। कर्मण इह कारयिता फलस्य दाता च भवति परमात्मा ॥४४१॥ एष ह्येवेत्याद्या श्रुतिरिममर्थं हि सकलमुपदिशति। स्मृतिरपि यो यो यां यामित्याद्याऽप्येतमर्थमाचटे ॥४४२॥ सृष्ट्यादिकारणत्वं तस्योपदिशन्ति सर्ववेदान्ताः। तेन च फलदातृत्वं परमात्मन एव निश्चितं भवति ॥ ४४३॥ सृजति हि परमात्माऽसी प्रजाः स्वकर्मानुरूपती यस्मात्। तस्य च सापेक्षत्वाद्विचित्रसृषटौ न बाधकं किमपि।। ४४४ ।। शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां तृतीयसंज्ञश्र योऽयमध्यायः ।।४४५॥ तन्न द्वितीयपादे सूत्रार्थो यश्र माष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्य: ॥ ४४६॥ इति तृतीयाध्याये द्वितीयपाढ: समाप्षः ॥ २।।

अथ तृतीयपाद:।

पूर्वस्मिन्किल पादे ब्रह्म परं निर्विशेषचिन्मात्रम्। श्रुत्युपपत्तिभ्यां तन्निर्णीतं किल तृतीयपादेऽत्र ॥ १॥ तदुपासनास्वरूपं तज्ज्ञाने मुख्यसाधनं यत्स्यात्। चित्तैकाउयद्वारा तदेतदत्रोपवर्ण्यते सकलम् ॥२ ॥ तस्मात्संगतिमेनां फलफलिभावात्मिकामिहाऽडलम्ब्य। सविशेषविषयिणीयं विद्याचिन्ता हि सपदि संजाता ॥ ३ ॥ सर्ववेदान्तप्रत्ययं चोदनायविशेषात् ॥१॥ शाखान्तरोदितानि हि तद्विज्ञानानि चैकरूपाण। किंवा तानि विभिन्नानीति प्रथम विचार्यते तत्र ।४ ॥ ननु निणातं पूर्व पूर्वापरभेदरहितमेकरसम् । विज्ञानघनं तत्किल विज्ञेयं ब्रह्म भवति नान्यदिति ॥५॥ तद्विज्ञाने हि कथं भेदाभेदैकविषयिणी चिन्ता। कर्मबहुत्ववदेव ब्रह्मबहुत्वं न चेह संभवति ॥६॥ कथमेकस्मिन्त्रह्मणि विज्ञानानि ह्यनेकरूपाणि। अन्यविधेपि ह्यर्थे कथमन्यविधं भवेदिदं ज्ञानमू॥७॥

Page 269

२६४ सुन्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

ब्रह्मण्येकस्मिन्नपि तानि बहून्युत्पिपादयिषितानि। तेषां तदेकमेवाभ्रान्तं भ्रान्तानि चेतराणीति ॥८।। वेदान्तेष्विह सर्वेष्वपि दुर्वारो भवेदनाश्वासः । तस्मात्कर्तुमशक्या ब्रह्मणि विज्ञानभेदशङ्केयम्॥९॥ नैवेह चोदनाद्यविशेषात्तदभेदवर्णनं युक्तम्। ब्रह्मज्ञानं यस्मादचोदनालक्षणं विनिर्दिष्टमू ॥१० ॥ अविधिप्रधानवाक्यैस्तज्जन्यत इति समन्वये तस्मात्। विज्ञानभेदचिन्ता न कर्तुमत्रोचितेति चेन्मैवम् ॥ ११।। सविशेषविषयकेयं चिन्ता प्राणादिविषयका च तथा। तद्विषये विज्ञाने चिन्ता सेयं हि भवति युक्कतमा ॥ १२॥ कर्मवदुपासनानां मेदाभेदी यतोऽ संभवतः । दृष्टादृष्टफलानि हि कर्भवद्ेतान्युपासनान्यपि च । १३॥ क्रममुक्तिसाधनान्यप्युपासनानीह कानिचित्सन्ति। सम्यग्ज्ञानद्वारा साक्षान्मुक्तिप्रयोजनानि तथा ॥ १४ ॥ तेष्वेषा खलु चिन्ता तत्तद्वेदान्तवाक्यनिर्दिष्टम्। ब्रह्मज्ञानं यदिदं कि भिन्नमभिन्नमेव वेत्येवम् ॥१५॥ यदि भिन्नं विज्ञानं गुणोपसंहारकारणं नेह । तत्रैतद्विज्ञानं प्रतिवेद भिन्नमिति तु युक्ततमम् ॥१६॥ यस्माज्जैमिनिना किल शाखाभेदेन कर्मभेदे हि। नामादिहेतवः किल ये निर्दिष्ठास्त एव चेहापि। १७ ॥ नाम च रूपं धर्मविशेष: पुनरुक्तिरवि च निन्दा च। प्रायश्चत्तमशक्ति: समापतिरन्यार्थदर्शनं चेति॥१८॥ तत्र च नाम्नस्तावन्द्ेदप्रतिपत्तिहतुता दृष्ा। ज्योतिष्टोमपरेऽस्मिन्नथैष इत्यादिवेदवाक्ये हि॥ १९॥ ज्योतिष्पदं द्विवारं पठितं तत्कर्मभेदमाचट्टे। वेदान्तान्तरविहितेष्वपि विज्ञानेषु मिन्नमिन्नं हि॥ २० ॥ नामेह तैत्तिरीयकमपि वाजसनेयकं च कौथुमकम्। शाद्यायनकं चेति हि तेन च विज्ञानमेद इह मवति ॥२१॥ यश्चापि रूपभेद: स कर्मभेदस्य बोधको दृष्टः । अन्नैव वैश्वदेव्यामिक्षा वाजिम्य एवमादौ हि।। २२॥

Page 270

तृतीयपाद: ३ ] माध्यार्थरत्नमाला। २६५

पञ्चाग्निगोचरायां विद्यायामपि च दश्यते स खल। केचित्तु षठमग्रिं ह्यन्ये त्वग्नीन्पठन्ति पञ्चैव ॥२३॥ प्राणानां संवादेऽप्येवं केचित्पठन्ति वागादीनू। ऊनानधिकान्केचित्तेन च विज्ञानभेद इह युक्तः॥२४॥ योऽसौ धर्मविशेषः स कर्मभेदस्य साधको हष्टः। कारीर्यध्ययने किल ये च स्युस्तैत्तिरीयकास्तेषाम्॥ २५॥ भूमौ भोजनरूपो धर्मः सोऽयं हि सवति नान्येषाम्। तत्राऽSथर्वणिकानां शिरोव्रतं धर्म इति हि निर्दिष्टम् ॥२६ ॥ अन्येषां तद्भावाद्विद्याभेद: प्रतीयते तेन। पुनरुक्त्यादय एवं विद्याभेदप्रदर्शनार्थाः स्युः ॥२७॥ तस्मात्प्रतिवेदान्तं विज्ञानं भिन्नभिन्नमेवेति। एवं प्राप्ते वूते विज्ञानमभिन्नमेव तत्रेति ॥२८॥ सकलैरपि वेदान्तैविज्ञानानि प्रतीयमानानि। नत्द्वेदान्तेष्वपि तानि न भिन्नानि किंत्वभिन्नानि॥ २९ ॥ यस्माच्च चोदनाभिरविशेषोऽत प्रतीयते तस्मात्। इह चोदना विधायकशब्दः पुरुषप्रयत्नरूपो वा॥३० ॥ सूत्रे चाSडदिग्रहणात्तत्तच्छाखाधिकरणसिद्धान्ते। सूत्रप्रपश्चिता ये ह्यमदहेतव इहानुकृष्यन्ते ॥ ३१ ॥ धात्वर्थावच्छिन्नो यत्नोऽसी चोदनाऽन्र निर्दिश। सा खल्विहाग्निहोत्े शाखाभेदेऽपि तुल्यरूपैव ॥ ३२ ॥ जुहुयादिति प्रतीयत एवं प्राणाद्युपास्तिवाक्येऽपि। ज्येष्ठ च श्रेष्ठं चेत्यादौ छन्दोगवाजिशाखायामू॥३३॥ सा चोदनैकरूपा दटान्तेन च न भेदशङ्काऽत्। जयेष्ठश्र श्रेष्ठश्र स्वानां भवतीति वाक्पनिर्दिष्टमू ॥३४॥ फलमपि तुल्यं तद्वद्विज्ञानस्यास्य रूपमपि तुल्यम्। ज्वैष््यश्ैठ्यादिगुणैर्यदृन्वितं प्राणतंत्व्रमिह रूपम् ॥३५॥ विज्ञानस्य च रूपं विज्ञेयं द्रव्यदेवते हि यथा। यागस्य या समाख्या साऽपि समा प्राणविद्येति ॥३६॥। तस्माद्विज्ञानमिदं शाखाभेदेऽव्यभिन्नमेव स्यात्। विद्यान्तरेषु पञ्चाग्निमभृतिष्घेवमखिलमपि योज्यम्॥३७॥

Page 271

२६६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

ये भेदहेतवः किल नामाद्या दर्शिता हि पूर्वत्र। ते परिहता न नाम्नेत्याद्येन प्रथम एव काण्डे हि। ३८ ॥ अत्राषि परिहरिष्यति मेवान्नेत्येवमादिसूत्रेण। भेदान्नेति चेन्नैकस्यामपि। २॥ ननु सकलनिगमगम्यं विज्ञानमभिन्नमिति हि यञ्चोक्तम् ॥३९॥ पञ्चाग्न्युपासनादी गुणभेदान्नोपपद्यते तदिदम् । विद्यायामेतस्यां के चित्षठठं समामनन्त्यग्निम्॥४० ॥ पञ्चैवाग्मीनपरे छन्दोगा: किल पठन्ति न च षठ्ठम्। कथमुभयेषामेषामेका विद्योपपद्यते तत्र ॥४१॥ नाप्यत्र शक्यते हि प्रत्येतुमसी गुणोपसंहारः । अपि च तथा प्राणानां संवादे श्रेष्ठवर्जितांश्रतुरः ॥४२॥ छन्दोगा: प्राणान्वाचं चक्षुः श्रोत्रमामनन्ति मनः । वाजिन इह रेतो वै प्रजापतिरितीह पञ्चमं त्वन्यम् ॥४३॥ वेद्यमपि भिन्नमेव ह्यावापोद्दापभेदतो भाति। वेद्यस्वरूपभेदे विद्याभेदोऽ युक्त इति चेन्न ॥। ४४ ॥ विद्यायाभेकस्यामेवंजातीयको हि गुणभेदः । युक्तो यद्यपि षष्ठस्याग्नेरुपसंहृतिर्न चेह स्यात् ॥४५॥। भवतु तथाडपि न विद्याभेदोऽसावत्र शङ्कितुं शक्य: । द्ुप्रमुखाः पञ्चाग्नय उमयत्र प्रत्यभिज्ञया हि समाः॥४६॥ न हि षोडशिनो ग्रहणाग्रहणाभ्यां भिद्यतेऽतिरात्रोऽसौ। य एव हरन्तीत्येवं षष्ठाग्निमपि पठन्त्येते ।। ४७ ।। वाजसनेयिन इह खल्वग्रिषु सांपादिकेषु प समिदादिकल्पनाया अनुवृत्ताया निवृत्तये चैवम् ॥४८॥ च।

अग्निर्भवति समित्समिठित्यन्तं वाक्यमामनन्ति हि ते। तस्माच्छन्दोगैरप्युप्संहतुं हि शक्यते स गुणः ।।४९॥ न संख्याविरोधशङ्काऽपि भवति युक्ततमा । सांपादिकाग्न्यमिप्रायैवैषा भवति पञ्चसंख्याऽत्र॥ ५०॥ द्. पासनेष्वप्युपसंहारोऽधिकस्य न विरुद्धः। रेतस आवापोऽयं छान्दोग्ये नेव ते किंतु । ५१॥

Page 272

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २६७

वाजसनेयक एव च्छान्दोग्ये मवति तस्य चोद्ाप:। नैतावनणहि विद्यामेदोऽत शङितुं शक्क: ।। ५२।। वेद्यांशस्य च कस्यचिदावापोद्दापयोस्तथैवेह। पाचुर्येणाभेदापगमान्नैवेह। ते विद्या॥५३॥ याध्यस्य तथात्वेन हि समाचारेऽधिकाराच

सववच्च तन्नियमः ॥ ३ ॥ यज्चाSडथर्वानां विद्यां प्रति किल शिरोवतं विहितम। अन्येषां न तथेति हि विद्याभेदोऽन्र युक्त इत्युक्तम्॥ ५४॥ तत्तु न युक्तं यस्मात्स्वाध्यायस्यैव मवति धर्मोऽयम्। नासी विद्याधर्मो यतस्तथैवावगम्यते तदिद्म् ॥५५॥ आथर्वणिका इदमपि वेदव्रतरूपसुपदिशन्त्यत्र। ने हि समाचाराख्ये ग्रन्थे स्वाध्यायधर्मरूपतया ॥५६॥ नैतद्ची त इति वाक्यं यच्चोपदर्शितं तत्र।

निर्धार्यते तदेतत्स्वोपनिषद्धीतिधर्म एवेति। ननु तेषामिति वाक्ये वतमिह विद्याङ्गमेव निर्दिष्टम्॥५८॥ अध्ययनधर्म एतत्कथमिति नैवेह शङ्कितुं शक्यम्। तत्रैतामित्यस्मात्पकृतस्यैव हि भवेत्परामर्शः ॥ ५९॥ इह च प्रो ग्रन्थस्तत्संयोग्येव मवति धर्मोऽयम्। अत्र प वञ्चेति हि निदर्शनं स्थाद्यथा सवा: सप्त ॥६० ॥ सौयादय: शतौदनपर्यन्ता विश्वुता हि ते च किल।

कित्वाथर्वणिकैकाग्न्यभिसंबन्धाच्च ते नियम्यन्ते। आथर्वी।नामेवेत्येवमिहाषि यस्त्वयं धर्मः ॥६२॥ अध्ययनशब्दयोगात्तत्रैव नियम्यते न विद्यायाम्। तस्मादिद्म विद्यैकत्वं यदेतदुपदिषम् ॥६३ ॥ दर्शयति च ॥४॥ वेद्यैकत्वादेव च विद्यैकत्वं हि दर्शयति वेद:। सर्वे वेदा इति तथैतेमेवति वेदभागोऽपि॥ ६४ ॥

Page 273

२६८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

एवं कठवल्व्यामपि महन्न्यं वञ्रमेवमाद्येन। वाक्येन चेश्वरस्य हि भयहेतुत्वं यदेतदुपदिटम् ॥६५॥ तस्यैव तैत्तिरीयेऽप्यथ तस्येत्यादिना परामर्शः । एवं वाजसनेयकवाक्ये वैश्वानरो यर्थवोक्त: । ६६ ।। प्रादेशमात्ररूपश्छान्दोग्यपि च तथैव निर्दिष्टः। यस्त्वेतमेवमाद्यैस्तस्मात्सर्वत्र भवति विद्यैका ॥६७॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥ वेदान्तेष्वखिलेष्वपि विज्ञानं त्वेकरूपमुपदिष्म्। विज्ञानैकत्वे यत्प्रयोजनं तदिह वर्ण्यते सूत्रे ॥६८॥ विज्ञानैकत्वे किल ये चान्यत्रोपदर्शिता हि गुणा: । उपसंहर्तव्यास्ते सर्वत्रैव च समानविज्ञाने ॥ ६९॥ अर्थाभेदादित्यय रर्थस्यैव साधको हेतुः । यश्रैकत्र गुणानां विशिष्टविद्योन्भ्वो भवेदेषः ॥ ७0 ॥. ये चाग्निहोत्रधर्मा विधिशेषा: श्रुतिषु दशितास्तेषाम्।

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६॥ वाजसनेयित्राह्मणवाक्यं ते हेति द्वंश्यते तत्र। सत्वैकवृत्तिरूपा देवा असुरान्रजस्तमोरुपान् ॥ ७२॥ उद्गीथकर्मणा तानतीत्य देवत्वमाशु गच्छाम: । इति निश्चित्य हि देवा ऊचुसतवं न इति वाचमादौ हि। ७३॥ तत एते देवा: किल वागाद्या असुरपाप्मना विद्ा: । इति निन्दित्वा मुख्यं प्राणं त्वं न इति तत्र तानूचुः॥७४॥ तच्छत्वा तत एप प्राणस्तेभ्यस्तथोदृगायदिति। छान्दोग्येऽपि तथैव प्रक्रम्य ततस्तदेतदुपदिष्म् ॥ ७॥ उद्गीथमुपासांचक्किर इत्यवसानमथ ह इत्यादि। उभयत्राषि प्राणप्रशंसनं तुल्यमेव भाति यतः ॥७६॥ तेन प्राणस्येयं विद्या स्यात्तत्र संशयो भवति। किंवा विद्याभेदो विद्यैकत्वमिह भवेदिति वा॥७७॥ तत्र च विद्यैकत्वं पूर्वन्यायेन युक्तमाभाति। प्र मेदान्नन्विह विद्यैकत्वं कथं भवेदयुक्तम्॥७८॥

Page 274

तृरत्षीयपाद: ३] माष्यार्थरत्नमाला। २६९

उद्गीथत्वेनैव च्छन्दोगैः प्राण एष निरदिट्ः ॥४९॥ कथमियमेका विद्या स्यादिति चेन्नैष दोष इह भवति। एतावन्मात्रेण च न हि विद्यैकत्वमपगतं भवति ॥८० ॥ यस्मादविशेषोऽपि हि बहुतर उपलभ्यतेऽ्यमुभयत्र। देवासुरसङ्गामोपक्रमणं ह्यमुरविजयतात्पर्यम्॥८॥ उद्गीथोपन्यासस्तथैव वागादिकीर्तनं चापि। तन्निन्दया च मुख्यप्राणस्यास्य व्यपाश्रयस्तद्ृत् ।। ८२।। तद्वीयदिसुरलयश्चाश्मादिनिदर्शनेन चेत्येवम्। बहवोर्ऽर्था उभयत्राप्यविशिष्टा एव चोपलभ्यन्ते ॥ ८३.॥ सामानाधिकरण्यं श्रुतमुद्दीथेन वाजिवाक्येऽपि। प्राणस्यैष उ वेति च्छन्दोगानां तथोपनिषदिह [हि ]। ८४ ॥ अस्योक्टीथपदस्य च लक्षयितव्यं हि मवति कर्तृत्वम्। तस्माद्विदयैकत्वं वाजिच्छान्दोग्यशाखयोरिति चेत् ।।८५।। न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७। इह विद्याभेद: स्याद्विदैकत्वं हि न न्याय्यम्। हेतुप्रकरणभेद: प्रक्रमभेदात्मको हि भवतीह॥ ८६ ॥ छान्दोग्ये खल्वादावोमित्येतदिति वाक्यमुपलब्धम्। अक्षरमुद्गीथमुपासीतेत्योंकारमन्न निर्दिश्य॥८७॥ रसतमतादिगुणोपव्याख्यानं चापि तत्र कृत्वैंव। अथ खल्वेतस्योपव्याख्यानमितीह पुनरषि ह्येनम्॥ ८८॥ उद्गीथावयवात्मकमोंकारान्तं किलानुवृत्यैव। देवासुरवृत्तान्तद्वारा तं प्राणमिति हि निदिषम् ॥८९॥ यदिदं वाक्यं तत्र च यद्युद्ीथो हि सकलभक्ति: स्यात्। तस्था: कर्तोद्ठाताऽप्युपरुध्येत ह्युपक्रमे सोऽयम् ॥ ९०॥ स्यालक्षणा तदाऽत्र ह्युपसंहारोऽप्युपक्रमायत्तः । तेनोद्रीथावयवे ह्योंकारे प्राणदृष्टिरिह वाच्या॥९१॥ वाजसनेये चोद्गीथावयवग्रहणकारणाभावात्। सकलैव सामभक्तिहुद्गीथपदेन बोध्यते तत्र ॥९२॥ उद्गायेत्यपि तस्था: कर्ता ह्यृत्विक्च योऽयमुद्गाता।

Page 275

२७० ण्यविरचित।- [ ३ तृतीयाध्यायस्य-

स खलु प्राणत्वेन हि निरूप्यत इतीह मिन्नगतिरेषा ॥ ९३॥ सामानाधिकरण्यं यञ्चद्गीथेन तत्र निर्दिष्टम्। तदृपि प्राणस्योद्गातृत्वेन निदर्शयिषितरूपस्य ॥ ९४॥ ्मित्व प्रतिपत्त्यर्थमतो नेह भवति विद्यैक्यमू। उद्गीथमाव इव पुनरुद्वातृत्वं ह्युपासनार्थतया।।९५।। उपदिश्यते यतोडसा ता प्राणवीर्यमालम्व्य। औद्ान्रकर्म कुरुते तस्मान्नेहास्त्यसंभवाशक्का॥ ९६॥ प्राणेना दायेदिति हि वर्णितं चैतत्। मेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण॥ ९७॥ नैव समानार्थत्वाध्यवसानं स्याद्यथाऽम्युदयवाक्ये। त्रेधेति वाक्यमुक्तं तथैव पशुकामवाक्यमुपदिष्टमू ॥ ९८॥ त्रेधा तण्डुलकरणं तथैव चैतन्यदेवतापनयः । उमयत्र तुल्यमेतत्तथाऽपि यागो विभिद्यते तत्र ॥ ९९ ॥ पूर्वत्र देवतान्तरविनियोगो नैव कर्मभेद: स्यात्। रवाक्ये तु पुनर्यागान्तरमेव दर्शितं तत्र ॥ १०० ॥ प्रथमे किलाभ्युदेति त्रेधेत्येवं ह्युपक्रमो दृष्टः। वाक्ये यः पशुकामः स्यादित्युपक्रमो मवति ॥१०१॥ सोडमावस्यामिध्वेत्यनेन यागान्तरं च तत्रोक्तम्। एवमुपक्रमभेदात्तत्र यथा यागभेद उपदिष्ट: ॥१०२॥। तद्दुपक्रमभेदाद्विद्याभेदोऽत भवति युक्ततरः। अत्र च परोवरीयस्त्वादिवदिति दर्शितो हि दृष्टान्त: । १०३॥ उद्गीथे परमेश्वरद्टष्ट्यध्यासे समानरूपेऽपि। आकाशो ह्योवैभ्यो ज्यायानित्यादिवाक्यनिर्दिष्म् ॥ १०४॥ तत्तट्ठुणसंवलितोद्गीथोपासनमिति प्रसिद्धं यत्। अक्ष्यादिगतहिरण्यश्मश्ुत्वहिरण्य केशतादिगुणः ॥।१०५॥ अथ य इतिवाक्यदृष्टा थोपासनाद्यथा भिन्नम्।. शाखायामेकस्यां नेह यथा स्याद्णोपसंहारः ॥ १०६ ॥

संज्ञातश्रेत्तदुक्तमस्ति तु तदपि॥ ८।। नन्विह संज्ञैकत्वाद्विद्यकत्वं हि युक्तमाश्रयितुम् ।१०७

Page 276

तृतीयपाद: ३] माष्यार्थरत्नमाला। २७१

उमयत्राष्यकैव ुद्गीथोपासनेति संज्ञेयम्। इति चेदेतस्योत्तरमुक्तं प्राक्किल न वेतिसूत्रेण ।। १०८। श्रुत्यनुगतं हि तत्स्यात्संज्ञैकत्वं भ्रुतेर्बहिर्भूतम्। प्रसिद्धभेदासूपास्तिषु हि प्रदर्शितं पूर्वम् ॥१०९॥ इह चा तन्रिदर्शप्रभृतीनां हि प्रसिद्धभेदानामू। काठकपठितानां किल काठकसंज्ञा भवत्यसावेका ॥ ११०॥ तद्ा ।ि मविष्यति संज्ञा यत्र तु न भेदहेतु: स्यात्। संवर्गोपास्त्यादिष विद्यैकत्वं हि तत्र तेन स्थात् ॥ १११॥ व्याप्तेश्व समअ्जसम् ॥९॥ न्योग्ये खल्वोमित्येतदिति वाक्यमुपाद्ष्टम्। अक्षरमुद्गीथमुपासीतेति च तत्र दृश्यते वाक्यम् ॥११२॥ सामानाधिकरण्यं त्विहाक्षरोद्गीथशब्द्योर्वष्टम्। तेनात्राध्यासो वा किवाऽव्यपवाद उत तदेकत्वम् । ११३॥ किंवा विशेषणं स्यादिति संदेहे विचार्यते तदिदम्। अध्यासो नामायं यत्र च वस्तुद्ये हि बुद्धिस्ते ॥ ११४ ॥ अनिवर्तितात्मबुद्धावेकस्मिन्नन्यबुद्धिरेव स्यात । नामप्रतिमादी वा यथा भवे विष्णुबुद्धिरियम् ॥ ११५॥ एवममिहाक्षरवुद्धि: स्या थिे किमक्षरे वा स्यात्। उद्गीथबुद्धिरिति पुनरपवादो यत्र पूर्वनिर्दिष्टे। ११६ ॥। पूर्वनिविषायां बुद्धौ मिथ्येति निश्चितायां या। पश्चादुपजाता किल यथार्थबुद्धिहिं पूर्वसिद्धायाः ॥।११७॥ मिथ्याबुद्धिर्मवति हि निवर्तिका सैव चायमपवाद:। देहेन्द्रियसंघाते चाऽडत्ममतिः किल चिरंतनीया स्यात् ॥११८॥ सा चाऽडत्ममात्रगो थार्थवुद्ध्या निवत्यते हि यथा। एवमिहाक्षरबुद्ध्या चोद्रीथमतिस्तथेव तद्बुद्ध्या ॥११९॥ अक्षरबुद्धिर्वेय निवत्यत इति ह्यवश्यमिह वाच्यम्। उद्गी रपदयोरेकत्वं ह्यनतिरिक्तवृत्तित्वम् ॥१२० ॥ मूदेवोऽसी बा इत्यादौ द्ृष्टमेतदेकृत्वम् । सामान्यवाचकस्य च विशेषपरता विशेषणं ते॥ १२१॥ यत्सर्ववेद्साधारणमोमित्यक्षरं हि तस्येह। णापत्तावौद्दात्रे विषये तत्समर्पणं यदिदम् ।१२२॥

Page 277

२७२ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

नीलं यहुत्पलं स्यात्तदानयेत्यत्र हष्टमेतत्स्यात्। य इहोद्गीथोंकारस्तमुपासीतेति योजनेह स्यात् ॥ १२३ ॥ सामानाधिकरण्ये विसृश्यमाने त एत इह भान्ति। तत्रान्यतरावधृती कारणविरहादनिश्चये पठति ॥१२४ ॥ व्याप्तेश्वेति चशब्दस्तुशब्दतुल्यार्थको भवेदत्र। स हि पक्षत्रयनिरसनफलो यतस्ते त्रयो निरस्यन्ते॥ १२५॥ तत्र विशेषणपक्षो निरवद्य इतीह गृह्यते नान्य:। अध्यासे किल तावद्यद्बुद्धिर्यदि परत्र चाध्यस्ता ॥ १२६ ॥ तच्छव्दलक्षणाऽवि च फलमपि कल्प्येत यदुचितं तन्र। आपयितेति श्ुतमषि फलं तदाप्त्यादिदृष्टिफलमेव ॥ १२७ ॥ अध्यासे तु यथा वा न फलं किंचित्तथाऽपवादेऽपि। मिथ्याज्ञानापायो न चेह पुरुषार्थसाधको भवति॥१२८॥ नाप्यत्र वस्तुतत्त्व्प्रतिपादनपरमिदं भवेद्ाक्यम्। किंतूपासनविधिपरमेतद्वाक्यं ततो न युक्तोऽयम् ॥ १२९ ॥ एकत्वपक्ष इह यदि पद्द्योच्चारणं वृथैव स्यात्। एकेनैव पदेन हि विवक्षितार्थः समर्प्यते यस्मात ॥१३० ॥ न च हौत्रविषयभूतोंकारे हुद्गीथशब्द इह दृटः। नैवेह सकलभक्तावोंकारस्य प्रसिद्धिरपि हष्ा ॥ १३१॥ तेन विशेषणपक्षः परिशेषादेष गृह्यते नान्य: । इह सर्ववेदसाधारणमक्षरमेतदिति विचार्येव ॥ १३२ ॥ उद्गीथेनाक्षरमिह विशिष्यते तेन सकलसुपपन्नम्। नन्वेतस्मिन्पक्षेऽप्युद्गीथपदस्य लक्षणा तुल्या । १३३ ॥ यस्मादुद्गीथपदं ह्यवयवलक्षकमितीह वक्तव्यम्। सत्यं हि लक्षणायामपि किल दृष्टो हि संनिकर्षोडत्र ॥ १३४ ॥ अध्यासे चार्थान्तरबुद्धिश्वार्थान्तरे विनिक्षिप्ता। तेनेह विप्रकृषा भवतीयं लक्षणा हि तत्पक्षे ।। १३५ ॥ अन्र विशेषणपक्षे ह्यवयविवचनेन गृंह्यतेऽवयवः। इति भवति संनिकर्षो लोके समुदायवाचका: शब्दाः ॥ १३६॥ अवयवमात्रपरास्ते पटनगरादिषु तथव दृश्यन्ते। तस्माद्याप्ेर्हैतोरोमित्यस्याक्षरस्य भवतीदम्।। १३७॥

Page 278

तृतीयपाद: ३] २७३

उद्गीथमिति विशेषणमत इह सकलं समञ्जसं भवति। सर्वाभेदादन्यत्रेमे ॥ १० ॥ प्राणानां सवाद छन्दोगानां च वाजिनां च तथा ॥ १३८॥ मै दिगुणविशिष्टप्राणस्योपास्यता विनिर्दिषा। घागादयो वसिष्ठत्वादिगुणैरन्वििता हि तत्रोक्ता: । १३९।। ते च वसिष्ठत्वाद्याः प्राणे प्रत्यर्पिता हि पुनरषि च। यद्वाऽहमिह वसिष्ठस्त्वमिह वसिष्ठोऽस्यथापि तेनेति ॥ १४०॥ अन्येषां कौषीतकिमुख्यानां प्राणकरणसंवादे। प्राणश्रैष्ठ्यं कथितं न वसिष्ठत्वादयो गुणास्तत्र ॥ १४१॥ क्वचिदुक्ता हि वसिष्ठत्वाद्य एते गुणा: किमन्यत्र। अस्येरत्ुत नास्येरन्निति संदेह एष भवति यतः॥१४२॥ एवं विद्वान्प्राणे निःश्रेयसमिति पठन्ति वाक्यं ते। एवंशब्देन च खलु वेद्यं वस्त्विह निवेद्यते किमपि॥१४३॥ एवंशब्द: संनिहितालम्बो दृश्यते हि सर्वत्र। शाखान्तरपठितं गुणजातं नार्हति निवेदयितुमेष: ॥१४४॥ यस्मात्स्ववाक्यदर्शितगुणैनिराकाङ्क्षमेव तद्दृष्टम्। इत्याक्षेपे प्राप्ते प्रतिवचनं तस्य चैवमाचष्टे। १४५ ।। अस्थेरन्क्वचिदुक्ता वसिष्ठताप्रसृतयो गुणा एते। अन्यत्रापि च सर्वाेदादेवं प्रतीयते ह्येतत् ॥ १४६ ।। सर्वत्रैवाभिन्नं प्रतीयते प्राणविषयविज्ञानम्। संवादवाक्यमेतत्स्वरूपमुपलभ्यते हि सर्वत्र ॥१४७॥ यदि विज्ञानमभिन्नं तदा कुतोऽन्यत्र ते हि नास्येरन्। नन्वेवंशब्दोऽयं स्ववाक्यनिर्दिष्टमेव गुणजातम् ॥१४८॥ वेद्यत्वाय समर्पयतीत्युक्तं कथमिहैवमिति चेन्न। कोषीतकिवाक्यगतेनैवंशव्देन वाजिवाक्यगतम् ॥१४९॥।

एवमपि वाजिशाखीयैवंशब्डेन परिगृहीतं तत् ॥ १५०॥ न हि परशाखागतमप्यभिन्नविज्ञानसक्तगुणजातम्। तत्रैव च स्वशाखागताद्विशिष्येत कथमिदं शास्त्रे ॥१५१ ॥ धुतहानिरभ्ुतार्थप्रकल्पना वा न चेह संभवति। एकत्र च श्रुता ये ते सर्वत्र श्ुता भवन्त्येव । १५२॥ ३५

Page 279

२७४ सुत्रह्मण्यविरचिता- { ३ तृतीयाध्यायस्य-

न हि देषदत्त एक: शौर्यादिगुणैः स्वदेशविखयातः । देशान्तरे विभावितशार्यगुणोऽ्यतद्रुणो भवति॥ १५३ ॥ परिचयत्रशतो देशान्तरे गुणास्ते यथा विभाव्यन्ते। अभियोगादेवैते गुणाश्र शाखान्तरे तथाऽस्यरन् ।। १५४। तस्मादेकत्रोक्ता गुणा य एकप्रधानसंबन्धा:। उपसंहर्तेव्यास्ते सवत्रैधेति निश्चितं भवति ॥१५५॥ आनन्दादयः प्रधानस्य ॥ ११॥ ब्रह्मप्तिपादनपरवेदान्तेषु प्रदशिता हेते। आनन्दरूपता विज्ञानघनत्वँ च सर्वगत्वमपि ॥१५६॥ सर्वात्मत्वमितीहग्विधा: क्वचिद्गह्वणो गुणास्तत्र । चत्र श्रूयन्ते ते प्रतिपाद्याः कि भवन्ति तत्रैव ॥ १५७॥ किंवा सर्वत्रैते प्रतिपाद्या इति तु भवति संदेहः। प्राणस्य विशेषोऽसाविति युक्त: भाग्गुणोपसंहारः ॥१५८॥। बह्मापास्तविशेषं तद्द्वितीयमिति दर्शितं भ्ुत्या। तत्र च शाखान्तरगतपदोपसंहारकारणं न भवेत् ॥ १५९॥ इत्याशङ्कां निरसितुमिदमधिकरणं प्रदर्शितं मुनिना। आनन्दत्वादीनि ब्रह्मण्येतानि कल्पितान्येव ॥ १६० ॥ तद्भिव्यञ्ञकवृत्तिपभेदृतस्तानि भान्ति भिन्नानि। तेषामुपसंहारस्तदर्थकानन्दिपदकदम्बस्य । १६१॥ उच्चारणं यदेतत्सर्वत्रैवैकवाक्यमावेन। तेन च तद्द्र्माणां विरोधशङ्का निवर्तिता भवति ॥१६२॥ उपसंहृतानि तानि च पढान्यखण्डं हि लक्षयन्ति परम्। एकस्मिन्हि पढ़े न हि विरोधशङ्का न लक्षणावतरः ॥१६३॥ धर्मा आनन्दादय इह ये ते ब्रह्मणः प्रधानस्य। धर्मास्तस्मादेते प्रतिपत्तव्या भवन्ति सर्वत्र ॥ १६४॥ पूर्वाधिकरणदर्शित निदर्शिताधवति तदुपसंहारः। बह्मैक्यादानन्दत्वादीनां ननु यथोपसंहारः ॥ १६५। सर्वत्र समुणविद्यागतधर्माणां तथा स किं न स्यात्। ये तैत्तिरीयके हि प्रियशीर्षत्वाद्यो विनिर्दिष्टा: ॥१६६ ॥ उपसंहारस्तेषामपि युक्तो ब्रह्मणीत्यतः पठति।

Page 280

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ६७५

प्रियशिरस्त्वायपाप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ प्रियशीर्षत्वादीनां धर्माणां तैत्तिरीयकोक्तानाम् ॥१६७।। नान्यत्र प्राप्ति: स्ाद्यत एते ह्युपचितापचितरूपा:। इह चोपचयापचयी सति मेदे सगुण एव संभवतः ॥१६८॥ बह्म तु निरस्तभेद श्रुतिवाक्यैरेकमित्युपन्यस्तम्। तरतमभावोपेता निर्भदे प्रापुयु: कथं हीमे॥ १६९॥ ब्रह्मात्मका न चैते ब्रह्मज्ञानोपयोगिनो नापि। एते हि कोशधर्मा एवेत्येतत्प्रषचच्ितं पूर्वम् ॥१७० ॥ अपि च परस्मिन्त्रह्मणि चित्तावतरणनिमित्तरूपतया। परिकल्पितास्त एते तस्मान्नान्यत्र मवति तत्मात्ति: ॥१७१ । आलम्व्यैतान्ध्मानिह सूत्रे न्यायमात्रमुपदिष्टम्। स च निश्चितेशधर्मेषूपास्तय इह किलोपदिघेषु ॥ १८२ ॥ संयद्ामत्वादिषु नेतव्य: सत्यकामतादिषु च। सत्येवोपास्यैक्ये प्रक्रमभेदादुपासनाभेद: ॥१७३॥। तेनेतरधर्माणां न भवेदितरत्र कथमपि प्रात्तिः। छत्रेणैका नारी तृपभेकसुपासते यथा लोके।। १७४ ॥। अपरा तु चामरेण हि तत्रोपास्ये ह्यमिन्नरूपेडपि। भवति हयुपासनाया मेदो धर्मव्यवस्थितिश्व्ापि॥ १७५॥ एवमिहोपचितापचितगुणत्वं सगुण एव संमवति। कचिदुक्तसत्यकामत्वादीनां प्राप्तिरपि न सर्वत्र ॥१७६॥ इतसे त्वर्थसामान्यात् ॥ १३॥ आनन्दादय इतरे प्रतिपाद्यस्य हि परस्य चैकत्वात्। सर्वत्रैव च ते स्युर्ब्रह्मज्ञानप्रयोजना हि यतः ॥ १७७॥ आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ चेन्द्रियेभ्य इति किल काठकवाक्यं हि हश्यते तत्र। अर्थादयो हि पुरुषान्ता हि परत्वेन वर्णिता: शुत्या॥ १७८॥ तञ् च संदेहोडयं किं ये ह्यर्थादयो विनिदिध्ाः। ते सर्वेऽपि ततस्तत इह तु परत्वेन वेदनीया: स्यु: ॥१७९॥ किंवा परमात्माऽसी सर्वपरत्वेन वेदनीय इति। तत्र च सर्वेषामप्यर्थादीनां परत्वसिह वेद्यम्॥१८० ॥

Page 281

२७६ सुब्ह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

तस्मात्तस्माद्धि परं यस्माच्छरृतिरेव बोधयत्येषा। अत्र परत्वेनार्थादिषु बहुषु प्रतिपाद्यिषितेषु॥ १८१॥ सिद्धे हि वाक्यभेदे न चैकवाक्यत्वभङ्गशङ्का स्यात्। तस्मादर्थादीनां प्रत्येकपरत्वकथनमिह युक्तम् ॥१८२ ॥ इति शङ्कासंपाप्तावेतत्सूत्रं प्रदर्शितं भवति। इह सर्वेभ्योऽपि पर: पुरुषः प्रतिपाद्यत इति युक्तं स्यात्॥१८३॥ प्रतिपन्नेषु परत्वेनान्येषु फलं न किंचिदृपि दृष्म्। सर्वेभ्योऽपि परस्मिन्प्रतिपन्ने पुरुष इह फलं मोक्ष: ॥ १८४ ॥ श्रुनिरपि निचाय्य तमिति ज्ञानफलं मोक्षमेव दर्शयति। अपि चेह पुरुषविषये ह्यनल्पमादरमियं प्रदर्शयति ॥१८५॥ पुरुषान्न परमिति श्रुतिरितरप्रतिषेधकाष्ठशब्दाभ्याम्। पुरुषप्रतिपतत्यथैवैषा पूर्वोक्तिरिति हि दर्शयति ॥ १८६ ॥ आध्यानायेतिपदं तत्राऽडध्यानं हि दर्शितं भवति। आध्यानपूर्वकं किल सम्यग्दर्शनमिहोपदिष्ट स्यात् ॥१८७ ॥ आत्मशब्दाच् ॥ १५॥ इह चेन्द्रियादयः किल पुरुषप्रतिपत्तये विनिर्दिषाः। यस्मादिहैष सर्वेष्वितिश्रुतिः पुरुषमात्मशब्देन ॥ १८८।। निर्दिश्य चेतरेषामनात्मतामेव सूचयत्येषा। तस्य च दुर्बोधत्वं संस्कृतमतिगम्यतां च दर्शयति ॥१८९ ॥ तज्ज्ञानायाऽडध्यानं यञ्चेदित्यादिना विनिर्दिष्टम्। अपि चेह सोऽध्वनः पारमिति च निर्दिश्य परमपद्मेततू॥१९०॥ तद्वोधनाय देहेन्द्रियाद्यनुक्रमणमाहतं भवति। तस्मादात्मप्रतिपत्त्यर्थो ह्याम्नाय एष इति सिद्दम् ॥ १९१॥ आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ चैतरेयके खल्वात्मा वेत्यादिवाक्यमुपलब्धम्। अम्मःप्रमतीनामिह लोकानां सृष्टिरात्मनोऽमिहिता ॥१९२॥ TSS व्द्बोध्य: पर एवाऽडत्माथ वेतर: कश्ित्.। इृति संदेहे नासौ परमात्मेत्येव मिह वक्तुम् ॥१९३॥ पि चेक्षणपूर्वं स्रषृत्वादिकमिहास्य निर्दिष्टम्। एवमप्ि लोकसृष्टिस्त्वादावेवेह दर्शता यस्सात ॥१९४॥

Page 282

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २७७

तस्मादपर: कश्वित्सट्टाऽसौ मवति नैष परमात्मा। स्रषा परमात्मा चेत्पञ्चमहाभूतसृष्टिरिह वाच्या।१९५॥ नैवेह भूतसृष्टिः प्रदर्शिता किंतु लोकसृ्टिरिह। ते संनिवेशरूपा लोका: सर्वेऽपि पञ्चभूतानाम् ॥१९६॥ बूते चाम्म:प्रभृतील्लाकत्वेन ह्ययोडम्म इत्याद्या। स्याल्लोकसृष्टिरेषा परमेशाधिष्ठितेन पुरुषेण ।। १९७।। आत्मैवेदमिति श्रुतिरपि पुरुषविध तमेतमाचष्टे। स्मृतिरपि स वै शरीरी प्रथम इति ह्येतमर्थमाचष्टे॥१९८॥ इह चैतरेयिणोऽपि ह्यथात इत्यादिकेन कथयन्ति। देवादिसृष्टिमखिलां रेतोमूलां प्रजापतिप्रसृताम् ॥१९९॥ आत्मैवेदमिति श्रुतिरस्यैवाऽडत्मत्वमपि च दर्शयति। जगतः प्रागुत्पत्तेरात्मैकत्वावधारणं यदृपि । २०० ॥ तत्स्वविकारापेक्षं हीक्षणमपि तस्य चेतनत्वेन। उपपन्नमपि च ताभ्यो गामानयदेवमादिको भूयान् ॥ २०१॥ व्यापारोऽपि च लोके विशेषवत्सु प्रसिद्ध इह माति। तस्मादात्मेह स्याद्विशेषवान्कश्विदित्यतो बूते॥ २०२॥ पिदिश्यते किल परमात्मा सोऽयमात्मशब्देन। तस्माद्वा एतस्मादात्मन आकाश एवमाद्येषु॥ २०३ ॥ सृष्टश्रवणेष्वितरेष्वात्मा हि परो यथा तथेहापि। लोकेऽपि चाऽऽत्मशव्दृात्प्रत्यग्रूपो हि सुख्य आत्मैव ॥ २०४ ॥ परिगृह्यते यथा वा तथैव चेहापि भवितुमर्हति हि। यत्र च पुरुषविध इति हि विशेषणं किमपि दृश्यते तत्र ॥२०५। मवतु विशेषवदात्मग्रहणं नात्र तु तथाऽस्ति किंचिदृपि। ई पूर्वकसृष्युपदेशादृपि गृह्यतेऽत्र परमात्मा ॥ २०६॥ अन्वयादिति चेत्स्यादवधारणात् ॥१७॥ नन्वेतस्मिन्वाक्ये निर्दिष्ा लोकसृष्टिरादी हि। साऽपि च रेतःपूर्वा कथिता सेयं प्रजापतिप्रभवा ॥ २०७ ॥ स्यैतस्य स्यात्तात्पर्यं हि प्रजापतौ युक्तम्। पूर्वत्र पुरुषवाक्यादर्थादिपरस्य वाक्यजातस्य ॥। २०८॥। भेदापत्तिभयेन तद्दद्वेतो देवा दर्थकतैव तस्य निर्दिष्ा। पूर्वस्मादिहास्य वाक ।। २०९।।

Page 283

२७८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

भेदापत्यै च तात्पयं स्यात्म्रजापती युक्तम। इति चेन्मैवं यस्मादवधारणमेतदत्र निर्दिषमू॥ २१० ॥ आदाविहाSडत्मशब्दः प्रागेकत्वावधारणं च तथा। ब्ह्मपद प्रज्ञानं ब्रह्मेत्युपसंहृतौ च दृष्टमतः ॥ २११॥ एतैरन्येलिंङ्गरेकस्य च लोकसृष्टिलिङ्गस्य। बाधेनास्मिन्वाक्ये प्रत्यग्वह्मैव गृह्यते नान्यः ।। २१२॥ यल्लो नं तद्पि श्रुत्यन्तरानुगुण्येन। पञ्चमहाभूतानां सृह्युत्तरभाविसट्टिपरमेव ॥। २१३॥ छान्दोग्यतैत्तिरीयकवाक्येषु च सृष्टिवचनभेदेऽपि। योजनयैकार्थत्वं यथोपपन्नं तथैव चेहापि॥ २१४॥ व्यापारोऽपि च योऽसी ताभ्यो गामानयदिति विख्यातः । सोऽपि च विविक्षितार्था णत्वेनैव संग्रहीतव्य: ॥ २१५॥ : कथाप्रबन्धो न विवक्षितविषय एष भवति यतः । तत्प्रतिपत्ताविह खलु पुरुषार्थो नोपलभ्यते कश्रित् ॥ २१६ ॥ इह च त्मत्वं विवक्षितमिति प्रतीयते येन। : द रनां किल लोकानां लोकपालकानां च ।। २१७॥ अग्न्यादीनां सृष्टिं शिधवा करणानि चाऽडयतनमेषाम्। उपदिश्य देहमेतं स्रषा हि स एव कथमिदं मदटृते ॥ २१८॥ स्यादिति वीक्ष्य शरीरं प्रविवेशेति श्रतिः प्रदर्शयति। नैषा स एतमेवेत्याद्या हीत्थं प्रवेशमुपदिशति ॥ २१९॥ पुनरपि यदि वाचाऽमिव्याहृतमित्यादिना च करणानाम्। तर्तद्यापारानपि विवेचयित्वाऽथ कोऽहमिति वीक्ष्य ॥ २२०। एतं 'मेव व्याततमयमपश्यदिति। श्तिरिह स एतमेवेत्याद्या त्मितां प्रदर्शयति ॥२२१॥ उत्तरवाक्यं यदिदं ब्रह्मैष इन्द्र इत्यादि। तेन महामूतैः समस्तमपि मेदजातमनुकीत्य ॥२२२ ॥ सर्व तत्पज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं हीति। प्रज्ञानं ब्रह्मेति ब्रह्मात्मतामियं बूते ॥ २२३ ।। तस्मा यमात्मा मवति परात्मैव नान्य इति सिद्धम्। एतस्मिन्व्याख्याने न हि स्फुट: स्याद्गुणोप ।: ॥ २२४॥

Page 284

तृतीयपाद: ३] माष्यार्थरत्नमाला। २७९

न हि पादसंगतिः स्यादिति हि व्याख्यान्तरं प्रदर्शयति। आत्मगृहीतिरितरवदुत्तरात् ॥१६ ॥ वाजसनेयक एतद्वाक्यं दृष्ट हि कतम आत्मेति ॥२२५॥ योऽयं विज्ञानमयः प्राणेष्वित्यादिना च तत्रैव। हद्यन्तर्ज्योतिरसौ पुरुषो निर्धारितश्र तस्यैव ।। २२६।। उपदिश्य सर्वसंगतिमुक्तत्वं ब्रह्मरूपतां बूते। उपसंहारोपि स वा एष महानज इतीह दृष्टोऽयम् ॥२२७ ॥ छान्दोग्ये तु सदेवेत्येतद्वाक्यं ह्युपक्रमे दृष्टम् । तत्र हि न चाऽडत्मशब्दः स खलु स आत्मेत्युदर्क एवास्ति॥२२८॥ तत्वमसीत्याद्यैरपि तादात्म्यं चोपदिशति तत्रैव। तुल्यार्थत्वं वा स्यात्किमतुल्यार्थत्वमेतयोरिति हि॥ २२९ ॥ संदेहे सत्यनयोः प्राप्तमतुल्यार्थकत्वमुचितमिति। आम्नानयोद्वयोरण्यतुल्यतैव प्रतीयते यस्मात् ॥२३०॥ न ह्याम्नाने विषमे युक्तं स्यादर्थसाम्यमिह वक्तुम्। वाजसनेयकधाक्यं ह्युपक्रमस्थात्मशब्द्योगेन । २२१॥ सकलमपि चाऽडत्मतत्वप्रतिपत्तिपरं प्रतीयते वाक्यम्। छान्दोग्ये तूपक्रमविपर्ययात्तद्विपर्ययो भवति ॥ २३२ ॥ यद्यप्युपसंहारे तत्राप्युपदिष्टमेव तादात्म्यम् । सत्यं तथाऽप्युपक्रमतन्त्रोऽयं स्यादिहोपसंहारः ।। २३३॥ तस्मात्तत्वमसीति स्यात्संपदुपास्तिपरमिदं वाक्यम्। इत्याक्षेपप्राप्तावस्य प्रतिवचनमत्र निर्दिशति ॥ २३४ ॥ छान्दोग्येऽपि सदेवेत्यत्र परात्मैव गृह्यते नान्य:। आत्मगहीतिरियं स्याद्यथेतरेषां हि वाजिनां तदत् ॥ २३५॥ यस्मादिहोत्तरत्र च तादात्म्यं समुपदिश्यते भूय: । अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥ इह चोपक्रमवाक्ये न चाSडत्मशब्दो हि दृश्यते सोऽयम्॥ २३६॥ उपसंहृतिवाक्यं यत्तदिद मवति ह्युपक्रमायत्तम्। तस्मादात्मगृहीतिः कथमित्यस्योत्तरं हि भवतीद्म् ॥ २३७ ॥। आत्मगृहीतिरिहाषि स्यादत्र यतोऽवधारणं दृष्टम्। येनाशुत मितिवाक्यादेकज्ञानेन सर्वविज्ञानम्॥ २३८॥

Page 285

२८० सुत्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य

अवधार्येह सदेवेत्येतत्तत्संपिपादयिषयोक्तम्। आत्मगृहीतौ सत्यां तदेतदखिलं समख्जसं नोचेत्।। २३९॥ मुख्यो योऽसावात्मा स न विज्ञात इति कथमिद युक्तम्। एवं प्रागुत्पत्तेः सत एकत्वावधारणं यञ्च ॥ २४० ॥ जीवस्य चाऽडत्मशब्देन परामर्शः सुषुप्त्यवस्थायाम्। सत्संपत्त्यनुकीर्तनमपि च परिप्रश्नपूर्वकं च पुनः । २४१॥ तत्वमसीत्यवधारणमेतत्तादात्म्यबोधने युक्तम्। तादात्म्यसंपदीदं पूर्वोक्तं सकलमनुपपन्नं स्यात् ॥ २४२॥ नेहोपक्रमतन्त्रत्वोपन्यासोऽपि भवति युक्ततरः । आत्मत्वकीर्तनं वाऽप्यनात्मताकीर्तनं च नेहास्ति ॥२४३॥ सामान्योपक्रम इह स वाक्यशेषगविशेषसाकाङ्क्षः। सच्छब्दार्थोऽपि तथा विमृश्यमानस्तु मुख्य एवाऽडतमा ॥२४४॥ सच्छन्दोडसी दृष्टो मावावधिभूतवस्तुपर एव। वाचारम्मणशब्दादिभ्यः सर्वस्य चासृतत्वेन ।। २४५॥ सच्छव्दार्थो मुख्यः परमात्मा स्यान्न चान्यदिह वस्तु। आम्नानविषमताऽपि हिन चार्थवैषम्यमावहत्यत्र ॥ २४६॥ आहर पात्रं तदिदं पात्रमिहाऽडहर तदेतदिति वाक्ये। आम्नानविषमतायां सत्यामप्यर्थसाम्यमुपलब्धम् ॥२४७॥ कथितो हि वाजिवाक्ये त्वमर्थ एव तु तदर्थपर्यन्तः। छान्दोग्ये तु तदर्थस्त्वमर्थपर्यन्त एव निर्दिष्टः ॥ २४८॥ प्रतिपादनप्रकारे भिन्नेऽपि तदर्थतस्त्वभेदेन। एकैवेयं विद्या युक्तो ह्यन्न च गुणोपसंहारः॥ २४९॥ कार्या्ख्यानादपूर्वम् ॥१८॥। छन्दोगा अपि वाजिन एते हि प्राणकरणसंवादे। प्राणस्य श्वक्रिमिमर्यादमन्नमादी हि॥ २५० ॥ व प्राणस्य ह्यापो वासः समामनन्त्येते। छन्दोगास्तस्माद्वा एतदिति पुनः समामनन्तीह ॥। २५१॥ प्रागुपरिष्टादृद्धि: परिदृधतीत्येवमादि तत्रोक्म् । वाजसनेोपिन विद्वांस: श्रोत्रिया अशिष्यन्तः ॥।२५२।।

Page 286

ततीयपाद: ३] माष्यार्थरत्नमाला। २८१

आचा त्यादिकमेतद्वाक्यं समामनन्तयत्र। अशिशिषतामशितव तामाचमनमनग्रचिन्तनं चापि।। २५३॥ स्य दृश्यते किल किमेतदुमयं विधीयते किंवा। अ नमेव केवलमनग्नताचिन्तनं विधीयेत ॥ २५४॥ इति संदेहे तत्रोमयं विधीयत इति प्रशस्त हि। उभयमपि मानं तद्दपूर्वं ततो हि विध्यर्हम्॥२५५॥ केवलमाचमनं वा विस्पष्टविधिविभक्तिरत्र यतः । आचमनस्तुत्यर्थं ह्यनग्रताकीर्तनं भवेदत्र ॥ २५६ ॥। एवं प्राप्ते बूते SSचमनँ विधेयमत्रेति। कार्यत्वेनाSSचमनं शुद्धूयर्थतया स्मृतिप्रसिद्धं हि॥२५७ ॥ न च विध्यहं तस्मादृ्रान्वाख्यायते किलाऽडचमनम्। नन्वेषा श्रुतिरस्या: स्मृतेर्मवेन्मूलमिति तु न हि युक्तम् ॥२५८॥ इह मूलमूलिमावो योडसौ न विभिन्नविषययोर्भवति। सर्वेषामाचमनं शुध्दयर्थ स्मृतिरियं प्रदर्शयति ॥२५९॥ या प्राणविषयविद्याप्रकरणपठिता श्रतिर्हिं सा चेह। तद्विषयमेव केवलमाचमनं विद्धती विदध्यात्तत् ॥ २६० ॥ न प्राणविषयविद्यासंयोग्याचमनमिह विधेयमिति। नैवाSSश्रयितुं शक्यं पूर्वस्येवोपलम्यमानत्वात् ॥ २६१॥ न विधेयमुभयमत इदमुमयविधाने हि वाक्यमेद: स्यात। तस्मात्स्मृतिनिर्दिषटं प्रायत्यार्थं यदेतदाचमनम् ।। २६२।। अशिशिष तामशितव तामनूद्य तत एतमेव तदनमिति। आचमनीयास्वप्सु ह्यनग्रताचिन्तनं हि विद्याङ्गम् ॥ २६३॥ उपदिश्यते हि यस्मादपूर्वमेतत्ततो हि विध्यर्हमू। आचमनस्तुत्यर्थो ह्यनग्नतावाद इति तु न न्याय्यम् ॥२६४॥ आचमनविध्यमावे स्तुत्यर्थत्वं कथं भवेत्तस्य। किंच विधेयत्वमपि ह्यनग्नताचिन्तनस्य भातीह ॥ २६५। प्रायत्यार्थत्वं किल परिधानार्थत्वमिति तु या चास्य। एकस्याSSचमनस्योमयार्थता सेह नाभ्युपेतेह ॥२६६ ॥ यस्मादाचमनं तत्प्रायत्यार्थ क्रियान्तरं मवति। आचमनीयास्वप्सु च वास:संकल्पनं क्रियाऽन्यैव ॥। २६७।। ३६

Page 287

२८२ सुब्रह्मण्यविरचिता- [१ तृतीयाध्यायस्य= परिधानाथं प्राणस्याभ्युपगव्यत इतीद्मनवद्यम्। अपि चेह पूर्ववाक्यं यदिदं ह्या श्वभ्य आ क्रिमिभ्य इति ॥२६८॥ तेन च सर्वान्नाभ्यवहारश्रोद्यत इतीह न हि युक्तम्। नासौ हि शब्दलभ्यः स शक्यते नापि मानुषैः कर्तुम् ॥ २६९ ॥ किंतु प्राणस्थान्नं सकलमितीहान्नदृष्टिरूपदिष्ा। तत्साहचर्यतोऽस्मिन्नाषो वास इति वाक्यशेषेऽपि॥२७० ॥ तदिदमपामाचमनं न चोद्यते किंतु सुप्रसिद्धासु। आचमनीयास्वप्सु हि विहिता परिधानदृष्टिरिति युक्तम्॥२७१॥ यदि चात्रैवं न स्यात्तदा भवेदर्थवैशसं प्रकृते। पूर्वत्र ध्यानविधिस्तदुत्तरत्र क्रियाविधिश्रेति ॥२७२॥ अपि चाऽडचामन्तीति हि नायं शब्दो विधिक्षमी भवति। लटूप्रत्ययो यतोऽसी स वर्तमानाभिधायको दृष्षः ॥२७३॥ यद्यपि च वर्तमानार्थताऽत्र मन्यन्त इति हि तुल्यैव। सत्यं तथाऽपि वासः कार्याख्यानाद्विघीयते तदिदम् ॥२७४॥ वास:संकल्पनमिदमपामपूर्व न चाSडचमनमेततू । आचमनं हि तदेतत्पूर्ववदिति दर्शितं हि पूर्वत्र ॥ २७५ ॥ यच्चोक्तं ह्याचमने विस्पष्टा विधिविभक्तिरिति तद्पि। आचमनस्यैतस्य प्रत्युक्तं पूर्ववत्वलिङ्गेन ॥ २७६ ॥। अत एव चेह काण्वास्तस्मादेवमिति नाऽडमनन्तीह। कुर्वन्तो मन्यन्त इति ह्यत्रैव च किलाध्यवस्यन्ति॥२७७॥ तस्मादिह माध्यंदिनपाठे चानूद्य तदिद्माचमनम् । एवं वासोवित्वं विधीयत इतीह युक्तमाश्रयितुम् ॥२७८॥ आपो वास इतीयं दृष्टा वाक्यप्रवृत्तिरेकैव। तस्माद्विषेयमत्र च वासोविज्ञानमेतदिति सिद्दम्॥२७९ ॥ समान एवं चाभेदात्॥ १९॥ वाजसनेयकशाखायामगनिरहस्यसंज्ञके ग्रन्थे। ज्ञाण्डिल्यनामकलिता काचन विद्या प्रदर्शिता भवति ॥२८० ॥ तत्र स आत्मानमुपासीतेत्यादि प्रदर्शितं वाक्यम्। तत्र च मनोमयत्वं प्राणशरीरत्वमात्मनस्तस्य ।। २८१।। मारूपतेति चैते श्रूयन्ते किल गुणास्तथैवान्ये। गयामेतस्यां दारण्ये पुनश्र पठितमिद्म्॥ २८२ ॥

Page 288

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १८३

वाक्यं मनोमयोडयं पुरुषो भा: सत्य एवमाद्यं हि। स च पुरुषोऽन्तर्हदये वीहियवाभ्यां समो हि तत्रोंक्तः॥। २८३।। स हि सर्वस्येशानः सर्वाधिपतिः प्रशास्ति सर्वमिदम्। यदिदं किंचेत्यन्ते तस्मिन्वाक्ये प्रदर्शितः पुरुषः॥ २८४॥ तत्र किमग्निरहस्ये बृहदारण्ये भवेदसावेका। विद्या तन्र गुणानामुपसंहारोऽथ वा किमन्यैव ॥ २८५॥ विद्या तत्र गुणानुपसंहारश्रेति भवति संदेहः । तत्र च विद्याभेदो गुणव्यवस्थेति युक्तमाभाति ॥२८६ ॥ यद्येका विद्येयं मवति तदा पहैनसक्त्यमनिवार्यम्। भिन्नासु च शाखासु हि वेदित्रध्येतृभेदमालम्व्य ॥ २८७ ।। परिहत्य पौनरुकत्यं विद्यैकत्वं च तत्र निर्धार्य। उपसंह्नियन्त एते गुणा इहान्यत्र येऽतिरिक्ता: स्युः ॥२८८ ॥ प्राणेन्द्रियादिसंवादादिष्वेवं हि दर्शितं पूर्वम्। एकस्यां शाखायां वेदिवध्येतृभेदबाधेन॥ २८९ ॥ जाग्रति च पौनरुक्त्ये कथमिह विद्याभवेदसावेका। एकं विद्याविधिपरमपरं स्यादत्र शुणविधानार्थमू॥ २९०॥ इत्याम्नानविभागाद्विदैकत्वं न वतुमिह युक्म्। तर्ह्यतिरिक्ता एव ह्याम्मायेरन्गुणा इहान्योन्यम् ॥२९१॥ इह च समाना अपि ते ह्याम्नायन्ते मनोमयत्वाद्याः। तस्मादिह नान्योन्यं गुणोपसंहार इत्यतो तरूते ।। २९२।। शाखासु विभिन्नास्वपि विद्यैकत्वं गुणोपसंहारः। भवति यथैवैकस्यां शाखायामपि तथैव मकतीदम् ॥ २९३।। यस्मादुपास्यमेतन्मनोमयत्वादिगुणकमुमयत्र। ब्रह्माभिन्नं प्रत्यभिजानीमोडतो न भिद्यते विद्या ॥ २९४।। रूपाभेदे सत्यपि विद्याभेदो न सङ्गितुं शक्यः । यस्मादुपासनाया रूपमुपास्यं न चान्यदिह किंचित्॥२९५। ननु पौनरुक्त्यमीत्या विद्याभेदोऽन युक्त इति चेन्न। अर्थविभागेनोभयमप्याम्रानं हि भवति युक्तमिह ॥ २९६।। विधिपरमेकं त्वपरं गुणविधिपरं भवेदिति हि। नन्वेवं सत्यपठितमग्निरहस्ये स एष इत्यादि ॥ २९७॥

Page 289

२८४ सुन्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

पठितव्यमेतदेव हि बृहदारण्ये तु यञ्च तत्रान्यत्। पठितं मनोमयोऽयं पुरुषो भा इति तु नैव पठितव्यम् ॥२९८॥ इति चेन्नायं दोषो विद्या या विप्रकृष्टदेशस्था । समानगुणाम्नानबलात्तां प्रत्यभिज्ञाप्य ॥ २९९॥ तस्याभीशानत्वाह्यपदिश्यत इति हि सकलमनवद्यम्। श्रूयन्ते यत्र गुणा बहवस्तत्र प्रधानविधिरेव॥। ३०० ।। अन्यत्र तदनुवादाह्ठुणविधिरेव हि न च प्रधानविधि: । वृहदारण्ये गुणविधिरग्निरहस्ये प्रधानविधिरेव ।। ३०१॥ अप्राप्तांशार्थतया वाक्यं यत्रार्थवत्तरं तत्र। प्राप्तपरामर्शः किल मवति हि नित्यानुवाद इति तेन।। ३०२ ॥ पिक्षितुमिह शक्या स्यात्पत्यमिज्ञैषा। एकर्यां शाखायां विद्यैकत्वं गुणोपसंहारः।। ३०३।। संबन्धादेवमन्यत्रापि॥ २० ॥ अन्र च बृहदारण्ये सत्यं ब्रह्मेति चोपदिश्याSडदौ। वित्यादयं वाक्यमेतदास्नातम्॥३०४॥। च सर स्थ ब्रह्मण एवाधिदेवमध्यात्मम्। आयतनभेद्सुपदिश्य व्याह्ृतिदेहतां च सं ॥३०५॥ दे उपनिषदावादिश्येते तस्योपनिषदिहाहरिति। अधिदैवं हि तथैवाध्यात्मं तस्योपनिषदिहाहमिति ॥ ३०६ ॥ तत्र च संदेहोऽसावुपनिषदौ ये प्रदुर्शिते मवतः । अविभागेनैवैते किसुमे उमयत्र चानुसंधेये॥ ३०७॥ Sधिद्वमपरा त्वध्यात्ममितीह किं विभागेन। इति संदेहे तदिदं सूत्रेणैव हि निरुप्यते सपदि। ३०८॥ शाण्डिल्यसंज्ञिकायां विद्यायां किल गुणोपसंहारः। यद्वत्तद्वदिहापि च गुणोषसंहार एष युक्ततमः ।। ३०९ ॥ एका हि सत्यविद्या किलाधिदैवं तथेव चाध्यात्मम्। पीता यस्मादुपक्रमश्वाध्यभिन्न इह हक्षः॥३०॥ पाठश्व व्या रे हष्टस्तस्मात्कथं ह्ययं धर्मः। तस्यामुदित: पिन स्यात्तस्यामितीदसुचितं स्यात् । ३११॥ योऽप्याचारशोदित इहानुगमनादिरूप आचार्यैः । डरण्यगते स च तुल्यवदेव भवति न विभिन्नः ॥३१२॥

Page 290

तृतीयपाद: ३] माष्यार्थरत्नमाला। २८५

तस्मादुमयोरप्युपनिषदोरुमयत्र मवति संबन्ध:। एवं पाप्ते तमिमं पक्षं संप्रति निराकरोतीह॥ ३१३॥ न वा विशेषात् ॥२१॥ नैवोमयोस्तयोरियमुमयत्र प्राि युक्ता स्यात्। स्थानविशेषनिबन्धो यत एतस्यामुपासनायां स्यात् ॥ ३१४॥ एतस्मिन्म इति निर्दिश्य ह्याधिदैविकं पुरुषम्। उपनिषदहरित्येवं आ्रावयति हि दक्षिणेऽक्षिपुरुषं हि॥ ३१५॥ आध्यात्मिकं प्रकृत्याहमिति च तस्योपनिषदुपन्यस्ता। तस्येति सर्वनाम च संनिहितालम्बनं हि सर्वत्र ॥ ३१६॥ दायतनविशेषालम्बने [ने] ह चोपदिश्येते। एते उपनिषदाविति कुत उभयन्रैतयोर्मवेत्यात्तिः॥३१७॥ नन्वेक एव पुरुषो भवति ह्यधिदैवमेवमध्यात्मम्। ब्रह्मण एकस्यैव च सत्यस्याऽडयतनयुग्ममुपदिष्टम् ॥३१८॥ इति चेदेकस्यापि हि तत्तदवस्थाविशेषयोगेण। उपनिषदुपदेशोऽसावहरहमिति किल विशेषतो हष्टः ॥ ३१९॥ तस्मादुपनिषदेषा तद्वस्थस्थैव भवति युक्ततमा। आचार्यस्यैकस्पाप्यनुवर्तनमिह यथा विभिन्नं स्यात् ॥ ३२० ॥ तत्तिष्ठतो हि न मवेदासीनस्यानुवर्तनं यत्स्यात्। यत्तिष्ठत उपदिष्टं न तदासीनस्य भवति तद्ददिह ॥ ३२१ ॥

तस्य ग्रामारण्यविशेषाभावेन तुल्यवद्मावः ॥३२२॥ अत इह दृष्टान्तोऽयं न प्रकृतार्थेकसाधनो मवति। तस्मादुपनिषदोरिह युक्ततैव स्वात्तयोर्व्यवस्थेयम्॥३२३॥। दर्शयति च ॥ २२॥ अपि चैवंजातीयकधर्माणां स्याद्व्यवस्थितत्वमिति। दर्शयति लिङ्गमेतत्तस्यैतस्य हि तदेव रूपमिति ॥३२४॥ विद्येक्यादेव यदा गुणोपसंहार इह भवेत्ताह। तस्यैतस्य तद्वेत्यतिदेशोऽयं वृथैव तत्र स्यात् ॥३२५॥ तस्माद्विदयैक्येऽपि स्थानं भिन्नं यथा भवेत्तत्र । अतिदेशादेव स्याद्ठणोपसंहार इति हि सिद्धमिह॥ ३२६॥

Page 291

२८६ सुबरह्मण्यविरचिता- [३ तृतीया

सस्येतस्येत्यादाव तिदेश बलाढ्रुणोपसंहारः। उपनिषद्हरित्यादौ तद्सत्त्वात्ते व्यवस्थिते भवतः ॥३२७॥ संभृतिघुव्याप्त्यपि चातः ॥ २३।। बह्मज्येश् वीर्येत्याद्या राणायनीयशाखायामू। श्रुतिराम्नाता तत्र ब्रह्म ज्येष्ठत्वगुणकमुपदिष्टम् ॥ ३२८॥। वीर्याणि संभृतानि प्रदर्शितान्यस्य तत्पुनर्बह्म। प्राग्देवाह्यत्पत्तेर्युलोकमेतें समाततानेति ॥ ३२९॥ एषा खिलेषु पठिता ब्रह्मविभूतय इमाश्र तत्रोक्ता: । तेषामेवोपनिषदि शाण्डिल्यपदाङ्किताश्र परविद्या:।।३३०।। पठिता हि तासु किमिमा: संभृत्याद्या विभूतयो यास्ताः । उपसंगद्येरन्नुत नेति विचारे तदेतदिह पठति॥ ३३१ ॥ संभृत्यादिविभूतय इह शाडिल्यादिसंज्ञविद्यासु। आयतनभेद्योगादुपसंहर्तुं न ता हि शक्यन्ते ॥ ३३२ ॥ शाण्डिल्यद्हरवाक्ये हृदयायतनत्वमस्य निर्दिष्टम्। उपकोसलविद्यायामक्ष्यायतनत्वमेव तस्योक्तम् ॥ ३३३ ॥ आध्यात्मिकमायतनं प्रतीयते ह्येवमासु विद्यासु। संभृत्यादिविभूतय एताः केवलमिहाऽडिदैविक्यः ॥३३४॥। श्रूयन्ते न त्वेतास्वपि च विभूतय इहाऽडधिदैविक्यः । ज्यायान्दिव इत्यादावेष हि सर्वेष्विति श्रुतिष्वपि च ॥ ३३५॥ यावान्वा अयमाकाश इति श्रुतिषु च तथा प्रतीयन्ते। सन्त्यायतनविहीना: षोडशकलसंज्ञिकाश्र परविद्या:॥३३६। तस्मात्संभृत्यादेरुपसंहारोऽत्र युक्त इति चेन्न। संभृत्यादेरत्रानुपसंहारेऽस्ति कारणं किंचित् ॥।३३७।। कतिपयसमानगुणसक्तोपास्यैक्ये हि भवति विद्येक्यम्। तत्किल गुणोपसंहृतिकारणमेतन्न हश्यते प्रकृते ॥ ३३८॥ तद्भावात्संभृत्याछ्युपसंहारो न चेह संभवति। अत्रोपास्यैकत्वं विद्यैकत्वे नियामकं न भवेत् ॥२३९॥ तज्चोयास्यैकत्वं विद्याभेदेपि दृश्यते शास्त्रे। ब्ह्मैकरूपमपि किल विभूतिभेदैरुपास्यते बहुधा ॥३४० ॥ इह किल परोवरीयस्त्वादी दृष्टो ह्युपासनाभेदु: । -कत्वं यदिदं तत्पत्यभिज्ञयैव स्यात् ॥३४१॥

Page 292

तृंतीयपाद: ३ ] माष्यार्थरत्नमाला। २८७

तद्मावात्सभृत्यादीनामेतासु नोपसंहारः। पुरुषविद्यायामिव चेतरेषामनान्नानात् ॥ २४। अस्ति रहस्यब्राह्मणसंज्ञं किल ताण्डिपैङ्गिशाखासु ॥३४२॥ तत्र रहस्यब्राह्मण इयमाम्राता हि पुरुषविद्याख्या। तत्र च पुरुषो यज्ञ: कल्पित एवं तदीयमायुश्र ॥३४३॥ त्रेधा विभज्य सवनत्रयं च यान्यशिशिषादिकान्यपि च। दीक्षाद्यात्मतया किल तानि च तत्रैव कल्पितानि तथा ॥३४४॥ आशीर्मन्त्रजपाद्या अन्ये धर्माश्च तत्र निर्दश्ा:। इह तैत्तिरीयका अपि पठन्ति कमपीह पुरुषयज्ञं हि॥ ३४५॥ तस्यैवंविदुषो यज्ञस्याऽडत्मेत्यादिकेन वाक्येन। वे ताण्डिपैङ्गिवाक्यप्रदर्शिता: पुरुपयज्ञधर्माः स्युः ॥ ३४६॥ इह तैत्तिरीयके तेऽयुपसंहार्या न वेति संदेहे। इह पुरुषयज्ञताया उभयत्रैव च समानरूपत्वात् ॥ ३४७॥ उपसंहारः स्यादित्याक्षेपे तस्य चोत्तरं बूते। उपसंहर्तुं नार्हन्त्येते धर्मा यतोऽत वैषम्यम् ॥३४८॥ इह पुरुषयज्ञकीर्तनमेकेषां ताण्डिपैङ्गिनां हि यथा। न हि तैत्तिरीयकाणामाम्नानं हश्यते तथैवेह॥ ३४९॥ तेषां हि यज्ञसंपादनमितरविलक्षणं हि दृष्टमिह। पत्नीयजमानादिकमितर विलक्षणमुदाहतं तत्र ॥ ३५०॥ यत्प्रातर्मध्यंदिनमित्येवं सवनकल्पनं तेषाम्। इतरविलक्षणमेव हि मरणावभृथत्वसाम्यमपि यञ्च ॥ ३५१॥ तदृपि ह्यल्पीयस्त्वाद्वैलक्षण्येन भूयसाडभिमवे। न च तत्प्रत्यभिसंधिक्षमं भवेन्नापि तैत्तिरीयेऽस्मिन् ।। ३५२॥। पुरुषस्य यज्ञमाव: श्रुतोऽस्ति किंत्वत्र वाक्यमिदमस्ति। विदुषो यज्ञस्थेति व्यधिकरणे एव भवति (त) इह ।३५३॥ सामानाधि ये षछ्ठ्चावेते न चेह संमवतः। न हि विदुषो यज्ञत्वं मुख्यं केनापि वक्तुमिह शक्यम् ॥३५४॥ विद्वत्संबन्धी यो यज्ञस्तस्येत्यवश्यमिह वाच्यम्। आत्मा यजमान इति श्रुतिर्हिं यजमानभावसुपदिश्य॥३५५॥ व्यधिकरणत्वेनैव हि विदुषो दर्शयति यज्ञसंबन्धम्। तत्र च तस्यैवमिति स्फुटमनुवादश्ुतौ प्रतीतायाम्॥३५६:॥

Page 293

२८८ सुन्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

यज्ञ तथैव यजमानमावमात्मनि च। कल्पयतस्तव चायं दुर्वारो मवति वाक्यभेद इह ॥ ३५७॥ विं न्यासेयं परात्मविद्या प्रदर्शिता पूर्वम्। तस्यैवंविदुष इति मश्रेह पूर्वशेष: स्यात् ॥ ३५८॥ कियाद्वयोरपि फलमेकमिहोपलभ्यते यस्मात्। तस्माङ्गह्मण इति हि ब्रह्मपाप्तिहिं फलमिहाभिहितम् ॥३५९॥ इतरेषां चाऽडम्नायस्त्वनन्यशेषो हि पुरुषयज्ञस्य । अत्र ह्येष ह षोडशवर्षशतं जीवतीति वाक्येन ॥ ३६० ॥ फलमपि यन्निर्दिष्ट तद्पि च केवलमिहाऽडयुरभिवृद्धिः। तस्मादिह शाखान्तरपठितानां एरुषयज्ञधर्माणाम्॥ ३६१॥ आशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके युक्ता।

आथर्वणिकानामुपनिषदारम्भे स एष मन्त्रोऽस्ति ॥ ३६२॥ सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिर इति हि। मन्त्रोऽन् देवसवितः प्रसुवेत्यादिर्हिं ताण्डिनां दृकः ॥३६३॥ श ।यनिनां मन्त्र: श्वेताश्वो हरितनील इत्यादि:। शं नो मित्र: शमिति हि मवति कठानां च तैत्तिरीयाणामू।३६४।। देवा इति प्रवर्ग्यब्राह्मणवाक्यं तु वाजिनां दृष्टम्। अग्िष्टेमब्राह्मणवाक्यं यङ्गह्म वेति निर्दिष्टम् ॥ ३६५॥ उपनिषदारम्भे किल कौषीतकिनां तदेतदाम्नातम्। प्रविध्यपूर्वा मन्त्रा: सर्वेऽपि ये च निरदश्ः ॥३६६॥ यानि र्यपूर्वाण्यपि कर्माणि प्रदर्शितान्यत्र। विद्यासु ते च मन्त्रा: कर्माणि च यानि तत्र काथेतानि॥३६७॥ तान्युपसंगृह्यन्ते। नेत्यत्र मवति मीमांसा। तत्र हापसंहारो वि `i हि युक्त इति भाति ॥ ३६८॥ यस्मा ियेतान्युपनिषदामिह समीपपठितानि। यद्यपि। र्थंतया विधानमिह नोपलम्यते तेषाम् ॥३६९॥ सत्यं डपि संनिधिसामथ्यात्तदनुमीयते हीह। षां मन्त्राणां विद्याविषयं न किमपि साम्थ्यम्॥३७०॥। कर्माणि च प्रवर्ग्यादीन्यन्यार्थे नियोजितान्येव। तस्मात्कथमेतेषामिह विद्यार्थत्वमुचितमिति चेन्न ॥ २७

Page 294

तृतीयपाद्: ३ ] भाष्यार्थरत्नमाला। २८९

सामथ्यं मन्त्राणां विद्याविषयमपि वकतुमिह शक्यम्। मन्त्रेषु कीर्तितानि च हृदयादीनि हयुपासनेषु किल ।। ३७४॥ आयतनाद्यात्मतया यत उपदिधानि तेन तद्द्वारा। मन्त्राणासुपपन्नं ह्युपासनाङ्गत्वमेवमादीनाम् ॥३७५॥ विनियोगो मन्त्राणां दृष्ट उपास्तिषु च भूः प्रपद्य इति। कोशतया वैलोक्योपास्तिश्छान्दोग्यदर्शिता तत्र ॥ ३७६॥। सुतदीघायुष्यार्थं पितुरेष प्रार्थनापरो मन्त्रः । इह कर्मणां प्रवर्ग्यादीनामप्यन्यथा नियुक्तानाम्॥३७७॥ विद्यासु च विनियोगो बृहस्पतिस्वस्य वाजपेय इव। अविरुद्द् इति प्राप्ते तेषासुपसंहृति निराचषटे॥ ३७८॥ नैषामुपसंहारो विद्यास्वेतासु भवति युक्ततमः । हृदयं प्रविध्य धमनीरित्येतन्मन्त्रदर्शिता ह्यर्थाः ॥३७९॥ हृदयप्रभेदरूपा विद्यासंबन्धवर्जिता भिन्नाः । न च ताभिर्विद्याभि: संगन्तुं तेषु भवति सामर्थ्यम्॥३८०। ननु हृदयमुपास्त्यङ्गं तद्द्वारा स्यादुपास्तिसंबन्ध: । इति चेन्न हृदयमात्रं हाृपासनाङ्ं कर्थचिदत्र भवेत् ॥ ३८१ ।। हृदयप्रभेदरूपो मन्त्रार्थः कथमिहोपयुज्येत। अविचारविषय एव हि मन्बार्थोडयं प्रतीयते :॥३८२ ॥ तस्मादिहाऽडिचारिक कृत्येनैवास्य भवति संबन्धः । तद्वच्च देव सवितः प्रसुवेत्यस्यापि यज्ञलिङ्गेन ॥ ३८३॥ यज्ञेन कर्मणैव ह्यभिसंबन्धो भवेन्न विद्याभिः । यः संबन्धविशेषः स हि प्रमाणान्तरेण निर्णेयः ॥ ३८४॥। मन्त्राणां चान्येषामपि केषांचित्प्रसिद्धलिङ्गेन। केषांचिदचने[न च ]तथा प्रमाणान्तरेण केषांचित्॥ ३८५॥। इत्यर्थान्तरविनियुक्तानामेषां रहस्यपठितानाम्। संनिधिमात्रेणैव हि विद्याशेषत्वमनुपपन्नमिह॥ ३८६।। ध्रुत्यादिभ्यः संनिधिदौर्बल्यं प्रथमतन्त्र एवोक्तम्। श्रुतिरिह लिङ्गं वाक्यं प्रकरणमेतानि यानि चान्यानि ।३८७।। स्थानसमाख्यारूपाण्येतेषां स्याद्यडा हि समवायः। तन्रार्थविप्रकरषातसूत्रोक्तानां हि पारदीर्बल्यम् ॥ ३८८॥

Page 295

२९० सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

सूत्रे समवायपदं समानविषयत्वमर्थमाचटे। यत्र द्वयोविरोध: समानविषयत्वमूलको दृष्ः । ३८९ ॥ पूर्वेण व्यवधानात्स्वार्थप्रमिती परस्य दौर्बल्यम्। इति संनिधिदौर्बल्यं ध्ुत्यादिभ्यः प्रदर्शितं सूत्रे ॥ ३९० ॥ तस्मात्संनिधिमात्राद्विद्याङ्गत्वं न चेह मन्त्राणाम्। इह कर्मणा प्रवर्ग्यादीनामन्यत्र संनियुक्तानाम्॥३९१॥ न हि विद्याशेषत्वं नो वा तन्र प्रमाणमपि किंचित्। यद्रह्मवर्चसाख्यं फलं बृहस्पतिसवस्य विधिटृष्टम् ॥ ३९२॥। तत्र नियुक्तस्यास्य च यथा नियोगो हि वाजपेये स्यात्। यत्कर्मणां प्रवर्ग्यादीनां विद्याङ्गता तथेत्युक्तम् ॥३९३॥ नैतदुक्त हि यतो बृहस्पतिसवस्य वाजपेये हि। विधिनैव वाजपेयेनेद्ट्त्युपदर्शितो हि विनियोग: ॥३९४ ॥ एको ह्य्य प्रवर्ग्यः सकृदुत्पन्नो बलीयसाऽन्यत्र। विनियुक्त: सन्कथमिह पुनर्नियुज्येत दुर्बलेनासौ।। ३९५ ॥ एवं विधिमन्त्रार्णं तथा प्रवर्ग्यादिकर्मणां तस्मात्। संनिधिमात्रेणैव च विद्याशेषत्वमत्र नाऽडशाङक्यम॥ ३९६॥ संनिधिपाठो युक्तस्त्वरण्यवचनत्वधर्मसाम्येन। हानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगान- वच्तटुक्तम् ॥ २६ ॥ अस्ति किल ताण्डिन। श्रुतिरश्व इवेत्यादिका हितत्रोक्तम्॥३९७ अश्वो रोमाणि यथा पापं सकलं विधूय तद्द्हम्। राहोमुखात्प्रमुच्य स्पष्टश्रन्द्रो यथा तथैवेह ॥ ३९८॥ शरीरमेतन्मुक्तो देहेन्द्रियादिसंघातात्। कृतकृत्यः कृतं लोकं ब्रह्मात्मकं प्रपद्य इति ॥ ३९९ ॥ अन्राऽडथर्वणिकानां श्रुतिर्यथा नद्य इति समास्नाता। ये किल शाट्यायनिनस्तेषां पाठे विशेष इह कश्चित् ॥४००॥। ते हि। पुत्रा दायमिति श्रुतिमिमां पठन्त्यत्र। तदत्कौषीतकिनस्तत्मुकृतेति भ्ुतिं पठन्त्यत्र । ४०१॥ क्वचिदत्र मुकृतदुष्कृतयोर्हानं भ्यते क्वचिच्च तयोः । स्थानविमागेनोपायनं भियैरपियैश्च निर्दिषमू ॥४०२॥

Page 296

तृतीयपाद: ३ ] माध्यार्थरत्नमाला। २९१

हानमुपायनमुभयं क्वचिच्छृतं यत्र चोभयभ्रवणम्। तत्रावशिष्टमपरं वत्तव्यं नावशिष्यते किमपि॥ ४०३॥ यत्रोपायनमेव तु केवलमुपलभ्यते हि नो हानमू। व्यर्थादेव हि संनिपतति तदिदमेतयोरहानम् ॥ ४०४ ॥ अन्यपरिग्राह्ये यद्यात्मीये सुकृतदुष्कृते भवतः। तत्साधनभूतमिदं हानमवश्यं तदाऽभ्युपेयं स्यात् ॥४०५॥ यत्र तु हानं केवलमुपदिष्सुपायनं तु नैवोक्त्म्। तत्रोपायनमेतत्संनिपतेद्वा न वेति संदेहे ॥ ४०६ ॥। अश्रवणादेतस्य ह्यसंनिपातोऽत्र युक्त इति माति। शाखान्तरश्रुतियां विद्यान्तरगोचरा मवेदेषा॥ ४०७॥ अपि चाऽडत्मकर्तृकं स्याद्धानमुपायनमिदं तु परकृत्यम् । असति तयोः संबन्धे हानेनोपायनं कर्थं सिध्येत् ॥ ४०८॥ तस्मादसंनिपातो हानावस्येत्यतस्ति्वदं पठति। हानी हि केवलायामपि श्रुतायासुपायनं तदिदम् ॥ ४०९॥ संनिपतेदिह यस्मात्तच्छब्दो हानशब्दशेष: स्यात्। तद्पेक्षितार्थकत्वं तच्छेषत्वं हि हष्टमन्यत्र ॥ ४२० ॥ तस्मात्केवलहानश्रुतावुपायनमिहानुवृत्तं स्यात्। विद्यान्तरविषयत्वाद्श्रवणात्स्यादसंनिपात इति ॥४११॥ यच्चोक्तं तद्युक्तं नैवानुष्ठेयमत्र निर्दिष्टम। हानसुपायनमपि वाऽनुष्ठेयत्वेन कीत्यते नेह ॥। ४१२॥ विद्यास्तुत्यर्थ किल हानमुपायनमिहोपदिष हि। ये सुकृतदुष्कृते किल विदुषः संसारकारणीभूते ॥४१३॥ चिरकालसंभ्रवृत्ते विद्याबलतो हि ते विधूयेते। विनिवेश्येते ते किल द्द्विषत्स्वपि च तह्लेनैव ।। ४१४H नेषा विद्या हि महाभागेति स्तूयतेऽत्र विद्यैषा। स्तुत्यर्थे चैतस्मिन्रुपायनस्य क्वचिच्छृतस्थापि ॥ ४१५॥ हानश्रुतिसामान्येऽव्यनुवृत्तिकथा स्तुतिप्रकषांय। येनार्थवाद्वाक्यप्रवृत्तिरखिला तदन्तरापेक्षा॥ ४१६॥

I.द्वादश मासा: पञ्चर्तव इति तदन्तरापेक्षा ।। ४१७

Page 297

२९२ सुब्रह्मण्य विरचिता- { ३ तृतीयाध्यायस्य-

येनोपेयोपायनवादो विद्यास्तुति र्थथिः। तेनतस्मिन्नर्थे नाभिनिवेष्टव्यमनृतमेतदिति ॥ ४१८॥ सूत्रे शब्दग्रहणं स्तुत्यर्थत्वप्रदर्शनार्थ स्यात्। सू्रे विवक्षितो यदि गुणोपसंहार एव चेत्तर्हि॥ ४१९ ॥ हित्वोपायनशब्दं ह्युपायनस्यैव शेषतां बूयात्।

स्तुत्युपसंहारविधिप्रदर्शनार्थं हि सूत्रभेतत्स्यात्। अत्र कुशाछन्द:स्तुत्युपगानवढिति निदर्शनं कथितम् ॥४२१॥ माललविनां हि कुशा वानस्पत्याः स्थेति मन्त्रभागेण। अविशेषेण कुशानां वनस्पतिप्रभवताश्ुती सत्याम् ॥४२२॥ शाट्यायनिनामौदुम्बराः कुशा इति विशेषवचनेन। औदुम्बर्यश्र कुशा आश्रीयन्ते यथा तथवेह ॥ ४२३॥ अविशेषेण च देवासुरसंज्ञच्छन्दसां प्रसङ्गे हि। पैङ्गचाम्नानाह्ेवच्छन्दांस्यवधारयन्ति पूर्वाणि ॥४२४॥ केषांचित्पोडशिन: स्तोत्रे कालाविशेषसंप्राततौ। समयावि(ध्यु)षिते सूर्ये षोडशिनः स्तोत्रमेवमादिकया ॥४२५॥ आर्चश्रुत्या तत्र च कालविशेषप्रतीतिरुद्भ्वति। केचित्वविशेषेण ह्युपगानमिदं समामनन्त्यत्र ॥ ४२६॥ माल्लविनस्तु विशेषणैवेति यथा कुशप्रमुख्येषु। धुत्यन्तरोपदर्शितविशेषयोगो भवेत्तथैवेह ॥४२७ ॥ हाना नान्वय इति सूत्रार्थोऽन निश्चितो भवति। दवादशलक्षण्यामपि जैमिनिना सूत्रितोऽयमेवार्थः । ४२८॥ सूत्रं तदेतदेवापि तु वाक्येत्यादिकं हि तत्रोक्त्तम् । ज्योति प्रकरण एतद्वाक्यद्वयं समाम्नातम् ॥४२९॥ यावजीवं जुहुयादित्यपि च न दीक्षितो जुहोतीति। प्रतिषेधार्थत्वे किल नमोविकल्पो भवेत्स चायुक्तः ।। ४३०।। नञ्रूपर्युदासवृत्त्या स हि यावज्जीववाक्यशेष इति। वैतास्वेव विधूननश्ुतिष्वेतदृत्र सूत्रेण ॥४३१॥ चिन्तयितव्यमनेन विधूननवचनेन सुकृतदुष्कृतयाः। अमिधीयते हि हानं किवाड़र्थान्तरमितीह विचिकित्सा ॥। ४३२।

Page 298

तृतीयपाद: ३] मांष्यार्थरत्नमाला। २९३

तत्र विधूननशव्दान्न हानमिधीयते परं त्वन्यत्। धूञ्र् कम्पन इति धातोर्दोधयन्ते द्वि(ध्व)जांशुकानीति ॥४३३॥ लोकप्रयोगदर्शनतश्चालनमिह विधूननं युक्तम्। इह चालनं तु किंचित्कालं हि तयो: फलोपरोध इति॥४३४॥ एवं प्राप्ते बूते विधूननं हानमेव नान्यदिति। इह चोपायनशब्दः शेषत्वेन प्रतीयते यस्मात् ॥४३५॥ न सुकृतदुष्कृतयोरप्रहीणयोः क्वाप्युपायनं हि परैः। तेनोपायनकथनात्तदनुगुणमिदं विधूननं हानम् ॥४३६॥ एतञ्च संनिधाने विधूननस्य क्वचिच्छतं सपदि। भवति कुशाछन्द:स्तुत्युपगानवदिह विधूननधुत्या।॥ ४३७ ॥ सर्वत्र कृतसहायं सार्वत्रिकनिर्णये हि निपुणतमम्। अद्रव्यत्वादेव तुन चालनं स्याद्विधूननं हि तयोः ॥४३८॥

द्रव्यत्वात्तत्रैव हि विधूननं चालनं न चेह स्यात ॥४३९॥

सांपराये तर्तव्याभावात्तथा ह्यन्ये ।। २७॥ पर्यङ्कूसंज्ञिकायां विद्यायां किल समामनन्त्येते ।। ४४०॥ कौषीतकिनस्तन्र च स एतमित्यादिवाक्यमादिष्मू। तत्र च स देवयामं पन्थानं प्राप्य चागगिलोकं हि ।। ४४१॥ आगच्छत्यागत्याSडगच्छति विरजा नदीं ततस्तां च। मनसैवात्येति ततो विधूनुते सुकृतदुष्कृते चोभे ।।४४२॥ इति वर्णितं किमत्र च यथाश्रुतं व्यध्वनीदसुपदिष्टम्। यत्तद्वियोगवचनं प्रतिपत्तव्यं भवेत्किमथवाऽडदौ ॥४४३॥ देहादपसर्पण इति विचारणायां श्रुतेः प्रमाणत्वात्। भ्ुत्यनुसारेणैव प्रतिपत्तिरिति प्रसख्ने पठति॥ ४४४॥ इह सांपरायशब्दाद्देहादपसर्पणं हि निर्दिट्टम्। एतच्च सुकृतदुष्कृतहानं तत्सांपराय एव स्यात् ।। ४४५।। विद्यासामर्थ्यादिह पञ्चम्यन्तोपदर्शितो हेतु:। विदुषो हि संपरेतस्यास्य परं विद्ययैव संप्रेप्सोः ॥४४६॥

Page 299

२९४ सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य- न च सुकृतदुष्कृताभ्यां किंित्पाप्तव्यमन्तरालेडस्ति। स्याच्चेदक्षीणे ते कल्पेयातां क्षणांश्र कतिचिदिह ॥ ४४७॥।

विद्या फलोन्मुखी स्याद्यदा तदैवैष मवितुमर्हति हि॥ ४४८॥ तस्मात्पागेवासौ पि पश्चात्तयोः क्षयः पठितः । अन्येऽपि शाखिनो ये शाट्यायनिनश्च ताण्डिनश्चैते ।।४४९॥ प्रागेव सुककृतदुष्कृतयोरुभयोर्हानमामनन्तीह। छन्दत उभ्रयाविरोधात् ॥२८॥ देहादपसृप्तस्यार्चिरादिना प्रस्थितस्य तस्य यदि॥४५०॥ अभ्युपगम्येतार्धे पथि क्षयोऽसी हि सुकृतदुष्कृतयोः । पतिते देहे च तदा तक्क्षयहेतोर्यमादिरुपस्य ॥४५१॥ इच्छातोड्, नानुपपत्तावनुपपत्तिरेतस्य। तन्द्वेतुकसुकृतादिक्षयस्य भवतीयमपरिहार्यैव ॥ ४५२॥ तस्माच्च पूर्वमेवा नं छन्दतो भवेदस्य । तत्पूर्वकमेवेदं हानं स्यादत्र सुकृतदुष्कृतयोः ॥४५३॥ इति किल निमित्तनैमित्तिकयोरुपपत्तिरिह निराबाधा। तद्च्च ताण्डिशाट्यायनिश्चुतियुगस्य संगतिश्राषि।४५४। विद्यास्तुतये हानावुपायनस्योपसंहृतिः सिद्धा। गतरेर्थवत्त्वमुभयथाऽन्यथा हि विरोधः । २९। क्वचिदृपि च सुकृतदुष्कृतहानसमीपे हि देवयानोऽसौ॥४५५॥ पन्था: श्रूयत एवं क्वचिच्च न भ्रयते हि तत्रायम्। संदेहः किं हानावविशेषेणैव देवयानोऽसौ ॥ ४५६॥ संनिपतेद्थवाऽसी क्वचिद्विभागेन कुत्रचिन्नेति। तत्र यथा हानावविशेषेणोषायनासु वृत्ति: स्यात् ।४५७॥ एवमिह देवयानानुवृत्तिरत्रोचितेत्यतः पठति। इह च विभागेनैव हि पश्ोऽर्थवत्त्वं तु देवयानस्य ॥ ४५८॥ यद्यविशेषेण गतिः सर्वत्र स्यात्तदा विरोध: स्यात्। परमं साम्यमुपैतीत्येषा श्ुतिरेवमत्र दर्शयति ॥४५९॥ विदुषो निर स्य च गन्तव्यं परमसाम्यभेवेति। मन्ता निरडसौ पाप्व्यं परमसाम्यमेवेह ।४६०।।

Page 300

तृतीयपाद: ३ ] माष्यार्थरत्नमाला।

देशान्तराप्तिसाधनभूता च गतिर्विरुध्यते न कथमू। उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् । ३० । क्वचिदर्थवती हि गतिः क्वचिच्च नेत्येवसुभयथा भाव: ।। ४६१।। उपपन्न एव सोऽयं यस्मात्तल्लक्षणार्थ इह दृष्टः । गतिसाधनभूतोऽर्थः पर्यङ्कप्रभृतिस्गुणविद्यासु ॥४६२॥ उपलभ्यते हि तत्र तु पर्यङ्कारोहणं च संवद्नम्। पर्यक्कस्थेन समं विशिष्टगन्धाप्तिरेवमाद्यं हि॥ ४६३॥ देशान्तरसंप्राप्त्यायत्तं हि भ्रूयते फलं यदिदम्। तत्रार्थवती हि गतिर्न तु सम्यग्दर्शने मवेदेवम् ॥ ४६४॥ आत्मैक्यदर्शिनां हि ध्वस्ताविद्यादिसकलबन्धानाम्। आरब्धभोगकर्मव्यतिरेकेण च न किंचिदस्त्यपरम् ॥४६५॥ तत्र च कर्थं गतिः स्यात्प्रयोजनं वा न किंचिदृपि तस्या:। लोकवदेष विभागो यथैव लोके हि नगरसंप्रातौ ॥ ४६६॥ पन्था: कश्विदृपेक्ष्यो नाऽडरोग्यातौ तथैव चेहापि। ननियम: सर्वासामविरोधः शब्दानुमानाभ्याम्॥ ३१ ॥ गतिरर्थवती सगुणास्वेव हि विद्यासु निर्गुणायां तु ॥४६७॥ परमात्मगोचरायां विद्यार्या नेति पूर्वसुपदिष्टम्। सगुणास्वपि विद्यामु हि गतिः क्वचिच्छ्रयते क्वचिन्नैव ।।४६८।। उपकोसलविद्यायां तथैव पर्यङ्कसंज्ञविद्यायाम्। पञ्चाग्निविषयविद्यायामपि दहरात्मविषयविद्यायाम् ॥४६९॥ गतिरियमुपदिष्टा न तु मधुविद्यायां तथैव चान्यत्र। षोडशकलविद्यायां तथैव शाण्डिल्यसंज्ञविद्यायाम्॥ ४७० ॥ वैश्वानरविद्यायां तत्र च संदेह एष जागर्ति। यासु श्रूयत एषा किं तास्वेव हिगतिर्नियम्येत ॥४७१ ॥ एवंविधविद्याभि: संबध्येतेयमनियमेन। तत्र च नियमो न्याय्यो यत्रैव श्रूयते गतिर्हयेषा॥ ४७२॥ तत्रैव सेति यस्मात्प्रकरणमत्र च नियामकं हट्टम्। अन्यत्रोक्ताऽपि गतिर्गच्छेद्विद्यान्तरं यदा हि तदा ॥४७३॥ सर्वं सर्वार्थं स्याच्छुतिप्रमाणत्वमपि च हीयेत। एकत्रोक्ताया अप्यन्यत्र गतेर्यदा भवेत्नात्ति:।। ४७४॥।

Page 301

२९६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

उपकोसलविद्यायां तथैव पञ्चाग्निविषयविद्यायाम्। यत्त्वर्चिरादिकाया गतेः पुनर्वचनमनुपपन्नं स्यात् ॥४७५॥ तस्मान्नियमो युक्तः स्यादित्यत एतदुत्तरं पठति। सर्वासामभ्युद्यप्राप्तिफलानां च सगुणविद्यानाम् ॥४७६।। अविशेषेणैवैषा भवितुं युक्ता हि देवयानगतिः । अविशेषापगमे कथमत्र प्रकरणविरोधपरिहारः ॥ ४७७ ॥ इति नाऽडशङ्क्यं भवति भ्रुतिस्मृतिभ्यां विरोधपरिहारः। श्रुतिरत्र तद्य इत्थं विदुरिति पञ्चाग्न्युपासकानां हि।४७८॥ पन्थानमर्चिरादिकमवतार्य तथोपदिशति चान्येषाम्। ये चेमेऽरण्य इतिप्रकृष्टविद्यान्तरावलम्बानाम् ॥४७९॥ पञ्चाग्निविषयविद्यावद्भिः सममार्गतां प्रदर्शयति। नन्वेषा विद्यान्तरवतां गतिश्रुतिरितीह न हि युक्तम् ॥ ४८० ॥ श्रद्धातपःपराणां गतिरेव हि तत्र दर्शिता यस्मात् । इति चेन्नासौ दोषो विद्याबलमन्तरेण कथमपि च ।। ४८१॥ न श्रद्धयाऽपि तपसा केवलया गतिरियं हि लभ्येत। यस्माच्च विद्ययेति श्रुतिरिममर्थं प्रदर्शयत्यत्र ॥४८२॥ तद्यान्ति विद्ययैव हि यत्र च कामादयः परावृत्ताः । नो यान्ति दक्षिणा वा नाविद्वांसस्तपस्विनो वेति ॥ ४८३॥ विद्यान्तरोपलक्षक एव श्रद्धातपःपदे तस्मात् । श्रद्धां सत्यमुपासत इति वाजसनेयिन: पठन्त्यत्र ॥। ४८४॥ सत्यं बह्मोपासत इह ये श्रद्धालवो ह्यरण्य इति। व्याख्येयं तद्वाक्यं यतश्र सर्वत्र सत्यशब्दृस्य ।। ४८५॥! असकृदूब्रह्मण्येव प्रयोग उपलभ्यते हि शास्त्रेऽस्मिन् । अत्र च पञ्चाग्निविदामित्थंवित्वेन परिगृहीतत्वात् ॥ ४८६॥। इह परिशेषाद्विद्यान्तराश्रयाणां परिग्रहो न्याय्य:। अथ य इति श्रुतिरपरा पन्थानी दक्षिणोत्तरी ये वै ॥४८७॥ न विदुस्ते कीटा: स्युस्तथा पतङ्गा बिलेशया वेति। मार्गद्वयच्युतानामधोगतिं ह्येवमुपदिशन्ती सा ॥४८८॥ देवपितृयाणयोरेवैतानन्तः प्रवेशयत्येवम्।

Page 302

तृतीयपाद: ३] माष्यार्थरलमाला। ६९७

स्मृतिरपि च शुक्लकृष्णे गती इति ह्येतमर्थमुपदिशति । तस्मादुपकोसलविद्यायाँ पञ्चागन्युपासनायां च॥ ४९० ॥ उभयत्र देवयानाम्नानं त्वनुचिन्तनार्थमेव स्यात्। मार्गानुचिन्तनस्य च विद्याङ्गत्वं श्रुतिस्मृतिप्रथितम् ॥४९१॥ येषां मार्गश्रवणं न चास्ति तेषां विनैव त्दयानम्। विद्यासामर्थ्येन हि मार्गप्राप्तिरितिबोधनार्थमियम् ॥४९२॥

यावदधिकारमवस्थितिराधिकारिकाणाम् ।। ३२ ॥। गतिरत्र सगुणविद्यास्वर्थवती ब्रह्मलोकफलकत्वात् ।। ४९३।। निर्गुणविद्यायां गतिरनर्थिका सुक्तिफलतयेत्युक्तम्। विदुषो हि देहपातोत्तरं तु देहान्तरं मवेन्नेति ॥४९४॥ इह चिन्त्यते हि नन्विह नेयं चिन्ताऽत्र वति युक्ततमा। न हि विद्यासंपत्तौ मुक्तिविलम्बेऽस्ति कारणं किमपि ।। ४९५॥ नैवेह पाकसाधनसंपत्तावोदनो भवेन्नेति। सुञ्ज्ानस्तृप्येक्किं न वेति चिन्ता तु कुत्र चिदृद्ृष्ा ।। ४९६ ।। इति चेदुपपन्नेयं चिन्ता यस्मादिहेतिहासादौ। ब्रह्मविदां केषांचिद्देहान्तरजन्म दर्शितं भूय: ॥४९७ ॥ स्मृत इह वेदाचार्यो नाम्नाऽपांतरतमा इति ख्यातः । विष्णुनियोगाज्च कलेरादौ ह्वैपायनो बभूवेति ॥४९८ ॥ इह च वसिष्ठोऽपि तथा ब्रह्मण एवैष मानसः पुत्रः । सन्नवि निमिशापादृपगतपूर्वतनुक्षतुर्मुखादेशात् ।।४९९।। मित्रावरुणाम्यां पुनरसौ बभूवेति च स्मृतो भवति। भृग्वादीनां च तथा पुनरुत्पत्तिस्तु वारुणे यज्ञे ॥ ५०० ॥ स्मर्यत एव तथैव ब्रह्मण एवैष मानसः पुत्रः। सोडयं सनत्कुमारः स्कन्दृत्वेन स्वयं बभूवेति ॥५०१ ॥ इह दक्षनारदादीनामपि हष्टा तदन्तरोत्पत्ति:। स्मृतिषु श्रुतिषु च मन्त्रार्थवाद्योरपि च दृश्यते सेयम् ॥ १०॥ पतिते हि पूर्वदेहे केचिद्देहान्तरं समादृदते। स्थित एवास्मिन्केचिद्योगैश्वर्यावनेकमादृढ़ते ॥५०३ ॥ ३८

Page 303

२९८ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य

स्मर्यन्ते सर्वे ते सम्यङ्निर्णीतसकलवेदार्थाः। तस्माद्बह्मविदामपि देहान्तरदर्शनादिह प्राप्तम् ॥५०४ ॥ अन्या: (स्याः) परविद्याया: पाक्षिकमेव हि विमोक्षहेतुत्वम्। तद्हेतुत्वं वा स्यादेवं प्राप्ताविहोत्तरं बूते ।। ५०५।। वेदप्रवर्तनादिष्वाधिकारेष्वेव संनियुक्तानाम। नेषामपान्तरतमःप्रभृतीनामाधिकारिकाणां हि॥ ५०६॥ तावदवस्थानं स्यादधिकारो यावदेव तेषां स्यात्। भगवान्यथा हि सविता सहस्रयुगमाधिकारिको भूत्वा॥ ५०७ उद्यास्तमयविवर्जितमन्ते कैवल्यमनुभवत्येपः। अथ तत ऊ्ध्वमिति श्ुतिरिममेवार्थ प्रदुर्शयत्वस्य ॥ ५०८॥ ये चेह वर्तमाना ब्रह्मविदस्ते यथैव कैवल्यम्। आरब्धभोगनाशे संजाते सम्यगनुभवन्ति तथा ॥५०९॥ इह तस्य तावदेवेत्येषा श्रुतिरेतमर्थमुपदिशति। एवं ब्ह्मविद इमे ये चापान्तरतमःप्रष्ुख्या: स्युः ॥५१०॥ परमेश्वरेण ते तेष्वधिकारेषु च नियोजिता: सन्तः । कैवल्यहेतुभूते सम्यगज्ञाने हि विद्यमानेऽपि ॥ ५११ ॥ अक्षीणभूरिकृत्या अचतिष्ठन्ते हि यावद्धिकारम् । अधिकारान्ते तु पुनर्मुच्यन्त इतीह सकलमविरुद्ध्म् ॥ ५१२॥ जन्मान्तरं यदेतत्तत्वज्ञानामपीह चेत्तहं। ज्ञानान्मुक्ति: कथमिति शङ्का पदमादधाति नैवेह ॥५१३॥ यस्मात्सकृत्प्रवृत्तं प्रारब्धं ते फलप्रदानाय। अतिवाहयन्त एव हि गृहाद्गृहान्तरमिवान्यमन्यं हि॥५१४॥ देहं क्रमेण युगपन्निरह(मा)य स्वाधिकारसिघ्दयर्थम्। तानधितिष्ठन्तोऽपरिमुषितस्मृतयो हि संचरन्ति किल॥५१५॥ यत्पूर्वजन्महैतु: प्रारब्धं ज्ञानिनां तदेवेह । जन्मान्तरहेतु: स्यान्मुक्ति: स्यात्तद्वसान एतेषाम् ॥५१६॥ पूर्वप्रारब्धान्तरकर्म च जन्मान्तरे यदा हेतु: । क्त्रैव मुख्यभावो न चैवमत्रास्त्यतो न दोषोडयम्॥ ५१७॥ जातिस्मश न चैते त एवैत इति हि यतः प्रसिद्धास्ते। य्रे पूर्वदेहनामाभिसंधिहीना भवन्ति परतन्त्राः ॥५९८॥

Page 304

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २९९

ये चापि सामिमानास्ते वै जातिस्मरा न चैते स्यु: । एते हि निरभिमानास्तथा स्वतन्त्राश्र पूर्वनामानः ।५१९।। इति वैषम्यान्नैते भवन्ति जातिस्मरा: कर्थचिदृपि। सुलभा विवदितुकामा जनकेन ब्रह्मवादिनी काडपि। ५२० ॥ स्वीयं व्युदस्य देहं ततस्तु सा जनकदेहमाविश्य। तेन समं व्युद्य पुनः स्वमेव देहं समाविवेशेति ॥५२१॥ स्मृतिनिर्देशादेव स्वातन्त्रयं तेषु दर्शितं भवति। यद्युपयुक्ते कर्मणि देहान्तरकारणं हि कर्मान्यत् ॥ ५२२ ॥ आविर्भवेत्ततोऽन्यत्तथा प्रसज्येत [ तद्देव पुनः ]। पाक्षिकमेव तदा स्यात्परविद्याया विमोक्षहेतुत्वम् ॥ ५२३ ॥ नैषा शङ्का प्रकृते ज्ञानात्कर्मक्षयस्य निर्देशात्। श्रुतिरत्र भिद्यते हृदृयग्रन्थिरितीममर्थमुपदिशति ॥५२४ ॥ दर्शयति च स्सृतिप्रतिलम्भ इति श्रृतिरपीममेवार्थम्। स्मृतिरपि दर्शयति यथैधाँसि समिन्द्वोऽग्निरेवमाद्या हि॥ ५२५ ॥ बीजान्यम्न्युपदग्धानीत्यन्याऽपि स्मृतिर्यथोक्तार्थम्। नाविद्यादिक्लेशे दग्धेऽपि क्लेशकार्यरूपस्य ॥ ५२६॥ कर्माशयस्य चैकांशे दाहश्र्वैकतः प्ररोह इति। उपपद्यते कथंचन न चागनिदृग्धस्य शालिबीजस्य ॥।५२७॥ एकांशतः प्ररोहो लोके केनापि कुत्रचिद्द्ृष्टः । कर्माशयस्य चाप्यारब्धफलस्य तु निवृत्तिरेवं स्यात् ॥५२८॥ मुक्तेषोरिव वेगक्षयादिहापि च शरीरपातेन। दर्शयति चेममर्थं श्रुतिरेव हि तस्य तावदेवेति ॥५२९ ॥ तेनाSडिकारिकाणामवस्थितिर्भवति यावद्धिकारम्। ज्ञानफलस्यानैकान्तिकतापि न चेह शङ्कितुं शक्या ॥ ५३० । श्रुतिरविशेषेणैव ज्ञानान्मोक्षं हि सर्वजीवानाम्। तद्ो यो देवानामित्याद्या किल यतः प्रदर्शयति ॥५३१॥ सगुणोपासनया ये त्वैश्वर्यादिषु फलेषु सक्तास्ते। पश्चादैश्वर्यक्षयदर्शनमात्रेण तत्र निर्विण्णाः ॥ ५३२ ॥ परविद्यापरनिष्ठाबलेन तेपि प्रयान्ति कैवल्यम्। दर्शयति चेममर्थं श्रुतिरेषा ब्रह्मणा सहेत्याद्या॥५३३॥

Page 305

३०० [ ३ तृतीयाध्यायस्य-

यददिं ज्ञानफलं स्यान्द्रवति हि तच्चेदमनुभवारूढम् । विरहाशङ्केयं तत्र न युक्ता परात्मविज्ञाने ॥५३४ ॥ अननुभवारुढे किल कर्मफले युज्यते हि शङ्केयम्। यत्साक्षादपरोक्षादिति श्रुतिस्तदपरीक्षमुपदिशति ॥५३५ अुतिरपि तत्वमसीति स्वात्मैक्येनोपदिशति फलमेतत्। श्रुतिरियमन्यार्थतया परिणेतुं नैव शक्यते यस्मात् ॥ ५३६ ॥ त्द्वैतत्पश्यन्नित्येषा ह्यात्मापरोक्षसमकालम्। सर्वात्ममावरूपं परात्मदर्शनफलं प्रदर्शयति॥५३७॥ न्तिकी हि तस्माद्विदुषः कैवल्यसिद्धिरिति सिद्धम्। अक्षरधियां त्ववरोधः सामान्यत-

खलु वाजसनेयक एतद्वै तदिति वाक्यमान्नातम्॥ ५३८॥ आथर्वणिकेऽथ परा यया तद्क्षरमितीदसुपदिष्म्। अन्यत्रापि विशेषप्रतिषेधेनाक्षरं परं ब्रह्म ॥ ५३९॥ उपदिष्टं तत्र पुनः प्रतिषिध्यन्ते हि केचिदतिरिक्ताः । तत्र च विशेषनिरसनबुद्धीनां तत्र तत्र दृष्टानाम् ॥५४० ॥ सर्वासां सर्वत्र प्राप्तिः किंवा भवेद्यवस्थेति। संदेहे श्रुतिभेदादिह व्यवस्था मवेदिति प्रातौ ॥ ५४१॥ अक्षरधियामिहाऽडसां सर्वत्र प्राप्तिमेव दर्शयति। ये त्वक्षरे हि धर्मिणि निषेधधीहेतवो हि शब्दा: स्यु: ॥५४२॥ अक्षरधियोऽत्र ते खल्ववरोधोऽप्यत्र तदुपसंहारः। अक्षरबुद्धय एताः सर्वाः सर्वत्र चावरोद्द्व्याः ।। ५४३॥ त्सर्वत्रैव ब्रह्मप्रतिपादनप्रकारोऽयम्। सर्वविशेषनिरस्तात्मकः समानो हि हश्यते किंच ॥ ५४४॥ सर्वत्र प्रतिपाद्यवह्माभिन्नं प्रतीयते तस्मात्। अन्यत्र च श्ुता अपि सर्वत्रैता घिय: कुती न स्युः ॥५४५॥ तदिदं ह्यानन्दादय इतिसूत्रव्याकृता पुरा कथितम्। तत्र च विधिरूपाणि हि विशेषणान्येव चिन्तितानि परमू॥५४६॥ अन्र प्रतिषेधात्मकविशेषणान्येव चिन्तितानि पुनः । निन्दादीनामुपसंहार: स्वरूपभूतत्वात्-। ५Y७।।

Page 306

तृतीयपाद्ः ३ ] माध्यार्थरत्नमाला। ३०१

न निषेधानामेवं स्यादानन्त्यादनात्ममावाच्च। इत्यधिकाशङ्कायां प्रतिषेधानामनात्मभावेऽपि ।। ५४८॥ तेषां हि निर्विशेषबह्मप्रतिपत्तिसाधनत्वेन। उपसंहारो युक्तो निषेधवाक्यैकवाक्यभावेन।। ५४९॥ इत्येतदर्शयितुं सेयं चिन्ताडत मवति युक्ततमा। पिसद्वदिति यन्निदर्शनं तन्निरुप्यते सपदि॥५५०।। जमद्ग्निना कृतोऽसावहीनसंज्ञः क्रनुश्रतूरात्रः । स तु जामदृग्न्य इति किल विर्यातस्तत्र चोपसत्संज्ञाः॥५५१॥ इष्य एतास्तु पुरोडाशिन्यस्तैत्तिरीयके विहिताः। र्वेरहोत्रं वेरिति च पुरोडाशदानमन्त्राणाम्॥ ५५२॥ उद्गातृवेदजानामध्वर्युमिरेव मवति संबन्ध: । तन्र पुरोडाशस्य प्रधानमध्वर्युक्तर्तृकं यस्मात् ॥५५३॥ तदिह प्रधानतन्त्रं ह्यङ्गं निर्दिष्टमेवमत्रापि। रतन्न्नत्वादिह विशेषणानां हि यत्र कुन्रापि ॥५५४॥ उत्पन्नानामेषां सर्वत्रैवाक्षरेण संबन्ध: । उक्त: प्रथमे काण्डे गुणमुख्येत्यादिना हि सूत्रेण ।५५५॥ उत्पन्नस्य फले विनियोगविधिर्मुख्य एष मवति गुणः । उत्पत्तिविधिहिं तयाव्यतिक्रमश्रेत्तदा तु मुख्येन ॥५५६॥ मन्त्रात्मकवेदस्य च मवति ह्यध्वर्युणैव संयोग: । उत्पत्तिरहि फलार्था सर्वत्रैवोपलम्यते लोके ॥। ५५७॥ तस्मात्फलविधिनैव हि गुणस्य नयनमिति मवति सूत्रार्थः । इयदामननात् ॥ ३४ ॥ आथर्वणिकाः श्वेताश्वतराश्र द्वा सुपर्णेति ॥५५८॥ एवं ह्यृतं पिबन्तौ सुककृतस्येत्यादिकं पठन्ति कठा:। अत्र च विद्यैकत्वं विद्यानानात्वमिति तु संदेहः ॥५५९॥ इह विद्यानानातवं युक्तं यस्माद्विशेष इह हक्षः। अत्राथर्वणवाक्ये ह्वयंकस्य च मोक्तृता विनिर्दिष् ॥५६० ॥ वल्लीवाक्ये हि द्योश् मोक्तृत्वममिहितं भवति। वेधं हि मि नं विद्यां मिद्यादिहेत्यतो बूते।। ५६१॥

Page 307

३०२ सुन्नह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

विदयैकत्वमिह स्याद्यत उमयोर्मन्त्रयोरभिन्नं हि। द्वित्वोपेतं वेद्यं दृष्ट हीयत्तया परिच्छिन्नम् ॥५६२॥ इह वेद्यरूपभेदो नाऽडशङ्चो भवति मन्त्रयोरुमयोः। यस्मादेतौ जीवद्वितीयमेवेश्वरं प्रदर्शयतः ॥५६३ ॥

प्रतिपाद्यते परात्मा स एव पुनरपि च वाक्यशेषेऽपि॥ ५६४॥ कठवल्लयां खलु जीवे पिवति च तत्साहचर्यमात्रेण। पसमात्मा पिवतीति च्छत्रिन्यायादिदं भवेद्भाक्तम् ॥ ५६५ ॥ प्रकरणतोऽपि परात्मा प्रतीयते वाक्यशेषतोऽप्येवम्। तस्मान्न वेद्यभेदाद्विद्याभेदोऽत शङ्ितुं शक्य: ॥५६६॥ सादात्म्यबोधनार्थं जीवोपादानमिह भवेत्सफलम्। मेदाभेदविचारावसरो नैव हि परात्मविद्यायाम्॥ ५६७॥ इत्युक्तं तस्मादृत्राधिकधर्मोपसंहृतिर्युक्ता। अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५॥ यत्साक्षादृपरोक्षाद्ब्रह्मेति द्विः समामनन्त्यत्र ॥ ५६८॥ नैरन्तर्येणोषस्तकहोलप्रश्नयोरिदं वाक्यमूं। वाजसनेयिन एते तत्र च विद्या भवेत्किमेकैव ॥ ५६९ ॥ किंवा नानेत्येवं संदेहे सा तु भवति नानेति। युक्तं वक्तुं यस्मादभ्यासश्रेह दृश्यते तस्याः ॥५७०॥ विद्यैकत्वे तुल्यार्थकं द्विराम्नानमफलभेव स्यात्। तस्मादृभ्यासात्किल भवति यथा कर्मभेद एवमिह॥ ५७१ ॥ विद्याभेदोऽभ्यासात्स्यादिति शङ्कां निराकरोतीह। अत्रोषस्तकहोलब्राह्मणयोः स्वात्मनो हि विद्यैक्यम् ॥५७२॥ दिहान्तराऽडम्नानानामविशेष उभयतो दृष्टः। सर्वान्तरोन्तरात्मा ह्यविशिष्टः पृच्छयते स उभयत्र ॥५७३॥। प्रत्युच्यते च न द्वावात्मानावान्तरौ हि संभवतः । यदि चाडन्तरत्वमुभयोर्भृतग्रामवदिदं प्रसज्येत ॥ ५७४॥ इह पाञ्चभौतिकेऽस्मिन्देहे चाSSपोऽन्तरा पृंथिव्या: स्युः । अन्दुघस्तेजोऽन्तरमिति यथा तथैवेद् चान्तरत्वं स्यात ।।५७५॥

Page 308

रपाद: ३ ] माष्यार्थरत्नमाला। ३०३

सर्वान्तरत्वमेतच्चाSSपेक्षिकमेव नैव मुख्यं स्यात्। अथवा भूतग्रामवदित्यस्यार्थान्तरं भवेदेतत् ॥ ५७६ ॥ भूतग्रामेष्वात्मा ह्येको देव इतिमन्त्रनिर्दिष्टः । सर्वान्तरस्तथैतद्वाह्मणयोरपि भवेदसाविति हि॥ ५७७॥ तस्माद्विद्यैकत्वाद्विदयैकत्वं भवेन्निराबाधम्। अभ्यासादिह विद्याभेदो यश्रेह शङ्कितः सोऽपि ॥५७८॥ नैवात्र भवति यत्र तु निरर्थकः स्यात्स चायमम्यासः । तत्रैव भेदकोऽसाविह तूषस्तप्रदर्शितस्यास्य॥ ५७९॥ अशनायादिनिरासार्थतया सफल इति सपदि दर्शयति। अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥ अथ यदि विद्याभेदो नैवाभ्युपगव्यते तयोरुमयोः ॥५८० ॥ आम्रानभेद एव ब्राह्मणयोः कथमिवोपपद्येत। इति चेदुपदेशान्तरवदेष आम्रानभेद उपपन्नः ॥५८१। ताण्डयुपनिषदि हि षछ्ठे प्रपाठके दृश्यते हि नवधाडसौ। तत्त्वमसीत्युपदेशो विद्याभेदो न तत्र संभवति ॥५८२॥ यदुपक्रमोपसंहाराभ्यामैकार्थ्यमवगतं तत्र। अपि भूय एव मा भगवानिति वाक्येन गम्यते ह्वेतत् ॥ ५८३।। अर्थस्यैकस्थैव हि पुनः पुनः प्रतिपिपादयिषितत्वम् । तत्रासकृदुपदेशस्तत्तच्छङ्कानिवारणार्थो हि॥५८४॥। भवति तथैवेहापि प्रश्नसमाप्त्योः समानरूपत्वात् । एकार्थगोचराविह दृष्टौ चोपक्रमोपसंहारौ ।।५८५॥ तत्र च यदेव साक्षादिति द्वितीये कहोलकप्रश्ने। आविश्य चैवकारं पूर्वप्रश्नस्थमुत्तरत्र पुनः ॥५८६॥ आकृष्यमाणमर्थ दर्शयति परं तु पूर्ववाक्ये च। कथितो हि कार्यकरणव्यतिरिक्तस्याSडत्मनो हि सन्भावः ॥।५८७॥। उपदिश्यतेऽ्शनायाद्यसङ्गिता तस्य चोत्तरत्रेति। व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७॥ तद्योऽहं सोऽसाविति योऽसौ सोऽहमिति चाऽडमनन्तीद्म्॥५८८॥ तत्रैतरेयिणो हि प्रकृत्य रविमण्डलस्थितं पुरुषम्। त्वं वा अहमस्मीति त्वमस्म्यहं वा इतीह कथयन्ति ॥ ५८९॥

Page 309

सुब्ह्मण्य विरचिता- [ १ तृतीपाष्यायस्य-

जावाला वाक्यमिदं तत्र च संदेह एष संभवति। किमिह व्यतिहारेणोभयरूपा मतिरियं हि कर्तव्या॥ ५९०॥ अथवा किमेकरूपेत्यत्रेयं स्यादिहैकरूपेति। न ह्यन्नाSतमेश्वरयोरैक्यं मुकत्वाऽन्यदस्ति किंचिदिह ॥५९१॥ चिन्तयितव्यं यदि चेज्ञिन्तयितव्यं हि किमपि कल्प्येत। जीवस्थेशात्मत्वं संसार्यात्मत्वमीश्वरस्येति ॥ ५९२ ॥ जीवस्येशात्मत्वे तस्योत्कर्षो भवेद्यदीशस्य। संसार्यात्मत्वं स्यात्तदेश्वरस्य हि निकर्ष एव स्यात् ।५९३।। तस्मादि हैकरूपा मतिरेव स्यान्नहि द्विरुपेयम् । व्यतिहाराम्नायस्त्वेकत्वदृढी कृतिफलार्थ इत्येवम् ॥५९४॥ प्राप्ते वूते ह्याध्यानाय व्यतिहार एष आम्नातः । इतरवदिति च निदर्शनमत्र भविष्यति यथेतरे हि गुणाः ।।५९५। सर्वात्मत्वप्रभृतय आम्नायन्ते तथैव चेहापि। इह च समाम्नातारस्तथोभयोच्चारणाद्विशिंषन्ति ॥ ५९६॥। त्वं वाऽहमस्म्यहं च त्वमसीति हि तत्किल द्विरूपायाम्। कर्तव्यायां हि मतावर्थवदेतन्न चान्यथा मवति ॥ ५९७॥ ननु यद्यभयाम्नानस्यार्थविशेषोऽत कल्प्यते तहिं। ईशस्य च संसारित्वापत्या स्यान्निकर्ष इत्युक्तम् ॥५९८॥ नासौ दोष इह स्यादैकात्म्यस्यानुचिन्त्यमानत्वात्। नन्वेकत्वदृढीकारोऽसाविह दुर्निवार इति चेन्न ॥ ५९९॥ अत्रैकत्वदृढी कारोऽसी न निवार्यते परंत्वत्र। प्रामाण्याद्यतिहारेणेह तु मतिर्द्विरुपैव ॥६०० ॥ कर्तव्या न त्वन्या मतिरित्येतावदेव वक्ष्यामः । तस्यां मतौ कृतायां फलतश्रवैकत्वमपि दृढी भवति ॥६०१॥ आध्यानार्थं हि यथा सत्यादिगुणेषु चोपदिधेषु । तत्तदुण: परात्मा प्रसिध्यतीहापि तद्ददेव स्यात् ॥ ६०२॥

सैव हि सत्यादयः ॥ ३८ । किल वाज भ्रुतौ स यो हैतमिति समाम्नातम् ॥६०३

Page 310

पपाद: ३] माष्यार्थरत्नमाला । ३०५

योडयं सुमहद्यक्षं प्रथमजमेतं हिरण्यगर्भाख्यम्। सत्यं ब्रह्मेत्येवं वेद भवेत्तस्य लोकविजय इति॥ ६०४ ॥ एषा हि सत्यविद्या नामाक्षरविद्यया समाकलिता। तत्राSडम्नाता हि पुनस्तद्यत्तत्सत्यमिति समाम्नातम् ॥ ६०५॥ वाक्यं त्ाSडदित्यो ज्योतिम गतो हि पुरुषो यः । यो दक्षिणाक्षिसंस्थः पुरुषस्तौ सत्यमिति समाम्नातौ॥। ६०६ ॥ किं द्वे हि सत्यविद्ये किंवाऽप्येकेति तत्र संदेहः। तन्न तु मिन्ना युक्ता फलसंयोगो यतोऽन् भेदेन ॥ ६०७॥ जयतीमालोकानिति भवति हि पूर्वत्र हन्ति पाप्मानम्। जयतीति चोपरिष्टात्फलसंयोगो हि मिद्यते च पुनः ॥ ६०८ ॥ प्रकृताकर्षणमत्रोपास्यैकत्वेन भवति युक्तमिति। एवं प्राप्ते बूते ह्ेकैवैषात् सत्यविद्येति ॥६०९ ॥ तद्यत्तत्सत्यमितिप्रकृताकर्षणमिदं यतोऽत्रास्ति। नसु विद्याभेदेऽपि प्रकृताकर्षणसुपास्यरूपैक्यात् ॥ ६१०॥ उपपद्यत इत्युक्तं कथमिह विद्यैक्यमिति तु नाऽडशङ्रक्यम्। यत्र विशिष्टनिमित्ताद्विद्याभेद: प्रतीयते तत्र ॥ ६११॥ एवं तत्स्यादिह तूभयथावाक्ये प्रतीयमाने हि। पूर्वोपदिष्टविद्यासंबद्धं सत्यमुत्तरत्रापि॥ ६१२।। पुनराकृष्ट हदवा विद्यैकत्वं हि निश्वितं मवति। फलभेदश्रवणादिह विद्याभेद इति यञ्च पूर्वोक्तम् ॥६१३॥ तददूषणमेव यतः फलभेदश्ुतिरिहार्थवाद: स्यात्। आदित्यमण्डलेऽक्षिणि पुरुषस्योपासना हि पूर्वोक्ता ॥ ६१४।। अहरहमित्येवं खल्वङ्गन्तरमषि च पूर्वमुपदिषम। अङ्गफलश्रुतिरेषा स्तुतिरूपा न हि विवक्षितार्था स्यात् ॥६१५॥ यस्मात्प्रधानविधिना फलप्रतीतावियं निराकाङक्षा। तस्मादिह फलभेदासिद्धौ विद्येक्यमनपवादं स्यात् ॥ ६१६॥ यद्ा प्रधानवाक्ये कामपदादर्शनात्फलासिद्धौ। तस्मिंस्तु रात्रिसत्रन्यायेन फले निरूपणीये हि॥ ६१७॥ अङ्गेडपि च प्रधाने श्रुतमपि तदिदं फलं समुच्चित्य। भवति प्रधानफलमिति फलमेदोऽसावसिद्द एषेह ॥ ६१८।

Page 311

३०६ सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तस्मादेकैवेयं विद्या तत्तद्विशेषणोपेता। आम्नायत इत्यत इह सत्यादिगुणोपसंहृतियुंक्ता ॥ ६१९॥ केचित्वस्मिन्सूत्रे यच्चाक्ष्यादित्यपुरुषविषयं हि। वाजसनेयकवाक्यं छान्दोग्येऽप्यथ य एष इत्यादि ॥ ६२० ॥ तत्रैव चान्तरक्षिणि पुरुषो दृश्यत इति प्रसिद्द्धं यत्। वाक्यमुदाहृत्यैतत्सैवाक्ष्यादित्यपुरुषविषयेयम् ॥ ६२१ ॥। उभयत्रैका विद्येत्येवं निश्चित्य तत्र सत्यादीन्। वाजसनेयिभ्यो हि च्छन्दोगानामिहोपसंहार्यान्॥ ६२२ ॥ मन्यन्ते हि तदेतत्समख्जसं नैव कथमपीह स्यात्। छान्दोग्ये चोद्गीथव्यपाश्रयोयं प्रतीयते विद्या॥ ६२३॥ तत्राSSदिमध्ययोरपि तथादऽवसाने च कर्मचिह्नानि। इयमेवर्गि: सामेत्येवमुपक्रमे हि निर्दिषम् ॥६२४ ॥ तस्यक्साम च गेष्णाविति मध्ये साम गायतीत्यन्ते। नैवेह वाजिवाक्ये किमपि च कर्माङ्गचिह्नमस्त्यत्र ॥ ६२५॥ प्क्रममेदाद्विद्याभेदे युक्ता गुणव्यवस्थैव । कामादीतरत्र तत्र चाउऽयतनादिक्यः ॥ ३९॥ अथ य इदमित्यधीतं छान्दोग्ये दृश्यते हि वाक्यमिद्म् ॥६२६॥ तत्र ब्रह्मपुरेऽस्मिन्दहरं किल पुण्डरीकवेश्मोक्त्तम्। तस्यान्तस्थाकाशं दहरं प्रस्तुत्य चायमुपदिष्टः ॥ ६२७॥ अपहृतपाप्मा विजरो विसृत्युरयमिह विशोकरूपश्र। विजिघत्सो ह्यपिपासः स सत्यकामश्र सत्यसंकल्प: ॥ ६२८॥ इह किल वाजसनेयकवाक्यं तदिदं स वेति चाधीतम्। एष महानज आत्मा योऽयं विज्ञानमय इति प्रथितः ॥ ६२९॥ योऽसावन्तर्हृदयाकाशोऽत्यल्पोडस्ति तत्र शेतेडसौ। सर्वस्य वशी सर्वस्येशानः सोऽयमिति हि तत्रोक्तम् ॥ ६३०॥ तत्र च विद्यैकत्वं परस्परं किल गुणोपसंहारः। विद्यानानातं वा किमत्र युक्तमिति संशये बूते ॥६३१ ॥ अन्र च विद्यकत्वं युक्तमतः स्याद्गुणोपसंहारः। छान्दोग्यवाक्यटृष्टा ये वे किल सत्यकामतादिगुणा: ॥ ६३२ ।।

Page 312

तृतीयपादः ३ ] माष्यार्थरत्नमाला। ३०७

ते हि स वा एष महानज आत्मेत्यादिवाजिवाक्ये हि। संबध्यन्ते यत्विह वाज्युपदर्शितमिदं वशित्वादि ॥ ६३३॥। छान्दोग्य एष आत्मेत्यत्र तु संबध्यते तदेतदृपि। यस्मादायतनादिकमुभयत्रैयोपलभ्यते हि समम् ॥६३४ ॥ हृद्यापतनं हि समं वेद्यः परमेश्वरः समानोऽव। सेतुत्वं च समानं लोकासंभेदकारणं यदिदम् ॥६३५॥। नन्विह विद्यैकत्वं न चोमयत्रापि शक्कितुं शक्यम्। हृदयाकाशस्यैव च्छान्दोग्ये दृश्यते हि गुणयोगः ॥६३६ ॥ तत्र शयानस्यैव ब्रह्मण उपदिश्यते हि गुणयोगः । वाजसनेयकवाक्ये वेद्ये मिन्ने कथं हि विदयेका॥ ६३७॥ इति चेन्नासौ दोष: कथमपि नैषात्र वेद्यभेदोडस्ति। छान्दोग्यद्हरवाक्ये ब्ह्मेवाSSकाशशब्दमुपदिष्म् ॥ ६३८॥। यद्यप्यत्र विशेषश्छान्दोग्ये ब्रह्म सगुणसुपदिष्म्। वाजसनेयकवाक्ये निर्गुणमुपदिश्यते परं ब्रह्म ॥ ६३९॥ विद्यामेदेडनुचितो गुणोपसंहार इह किलाथापि। गुणवत एकत्वेनाऽडयतनादीनां समानरूपतया ॥ ६४० ॥ बुद्धिस्थानां तेषामुपसंहारो हि निर्गुणस्थाने। स्तुत्यर्थोऽसायुपसंहारो नोपासनाय भवतीह ॥ ६४१॥ यन्र क्वचिदृपि दृष्टर्गुणैः स्तुतेः कर्तुमत्र शक्यत्वात्। आदरादलोपः ॥। ४० ॥ छान्दोग्ये वैश्वानरविद्यायां वाक्यमेतदुपदिष्टम्॥ ६४२॥ तद्यद्मक्तमिति स यां प्रथमामाहुतिमितीदसुपदिष्मू। तत्र च पञ्च प्राणाहुतयो विहितास्ततश्र तास्व्रेव ॥ ६४३॥ स य एतदेव मित्या दिनोपदिष्टेऽगगिहोत्रशब्दोऽपि। तत्र विचार्यत एतत्किमिह प्राणाग्निहोत्रसंज्ञस्य ॥६४४ ॥ मोजनलोपे लोपो भवेत्किमथवा न तस्य लोप इति। तद्यन्द्क्तमितिश्रुतमक्तागमनस्य मोजनार्थत्वात् ॥६४५॥ मोजनलोपे लुप्यत एव प्राणाग्निहोत्रमेतदिति। एवं प्राप्ते बूते स (न) लप्यते तदिदिमग्निहोत्रमिति ॥६४६ H

Page 313

सुबह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

यस्मादिहाग्निहोत्रे श्रुतिरेवाSSदृरमियं प्रदर्शयति। जाबालभ्ुंतिरेषा या किल पूर्वोडतिथिभ्य इत्याद्या ॥ ६४७॥ उपदिशति चैतदर्थं यश्चाहुत्वाऽग्निहोत्रमात्मीयमू। जुहुयात्पराग्निहोत्रं तथैव चेदमपि विफलमेव स्यात् ॥६४८॥ यच्चाऽSत्मभोजनात्मागतिथीनां भोजनं भवेत्तस्मात्। अतिथिभ्यः प्रागेव स्वयमश्नीयादिति प्रदुश्यैषा ॥ ६४९॥ प्राणाग्निहोत्रविषयकमादरमाविष्करोति सर्वेषाम्। नन्विह मोजनलोपे लोपो भुक्त्यर्थमक्तसंयोगात् ॥ ६५० ॥ प्रागुपदर्शित इति चेन्नासौ दोषो यतश्र वाक्यमिदम्। द्रव्यविशेषविधानार्थकमेव स्याद्यथाऽगगिहोच्चे हि॥ ६५१॥ आज्यपयःप्रमृतीनि द्रव्याणि भवन्ति यानि चान्यानि। इह चागनिहोत्रशव्दात्तेषामपि कौण्डपाय(यि)सत्र इष ॥६५२॥ सम्यक्पात्तौ सत्यां भक्तद्रव्यैकगुणविधानार्थम्। तद्न्धक्तमितीदं वाक्यं गुणलोप इति नयेनात्र ॥६५३ ॥

प्रत्यास्नायन्यायेनैव प्राणाग्निहोत्रसंज्ञस्य ॥ ६५४ ॥ स्यादेवानुष्ठानं न लोप इत्यस्य चोत्तरं पठति। उपस्थितेऽतस्तद्वचनात् ॥४१ ॥ भोजन उपस्थिते किल भोज्यात्प्रथमोपनिपतिताङ्व्यात्।६५५।। प्राणाग्निहोत्रमेतन्निर्वर्तयितव्यमन्यथा नेति। तद्यद्जक्तमिति श्रुतिवचनं बोधयति हीममेवार्थम्॥६५६॥ श्रतिरियमेवं बूते यच्छव्देनेह भोजनाक्षिप्तम्। म नूद्य च तस्मिस्तद्द्वोमीयमिति होमसंयोगम् ॥६५७॥ दिहाSSहुतीनां भुक्त्यर्थद्रव्यसाध्यतैव स्यात्। इह मोजनार्थमेतद्भक्तमुपाश्ित्य ता उपन्यस्ताः ॥६५८॥ मोजनलोपे तासां लोपो नैवाऽडशयान्तरार्पकता। आशरित्य च विहितानामाश्रयलोपे हि लोप इह युक्तः ॥ ६५९। गोदोहनस्य च यथा करत्वर्थप्रणयनाश्चितस्यैव। कतुलोपे लोपोडयं न चाऽऽश्रयान्तरसमर्पकत्वमपि॥ ६६०॥

Page 314

तृतीयपाद: ३] माष्यार्थरत्नमाला। ३०९

प्रकृताग्निहोत्रधर्मप्राप्तिरषि न चेह शङ्कितुं शक्या। यः कुण्डपायिसन्ने हष्टो मासाग्निहोन्नशब्दोऽयम् ॥६६१॥ स तु विधिवाक्यस्थोऽतस्तत्र तु तद्धर्मयोग उचितः स्यात्। इह चागिहान्रिशब्दो योऽसी दृष्टः स चार्थवादगतः ॥ ६६२॥ स्तुतिपर एव न नित्याग्गिहोत्रसाम्यं विधापयितुमर्ह्ः। यदि शब्दमात्रसाम्यात्तन्द्र्मप्राप्तिरत्र कलप्येत ॥ ६६३॥ होमाधिकरणभावायाग्न्युद्धरणादयोऽपि कल्प्येरन्। यद्ययमग्री होमस्तदा विलुप्येत भोजनार्थत्वस्॥ ६६४ ॥ बते जाबालश्ुतिरन्याधारां हि होमनिर्वृत्तिमू। उर एव वेदिरित्यादिकाग्निहोत्राङ्गजातमखिलमपि ॥ ६६५॥ मुख्यानां चालाभात्सांपादिकमेव तञ्च दर्शयति। मुख्याग्निहोत्रकालावरोध एतस्य नैव विहितोस्ति ॥ ६६६॥ अन्ये चोपस्थानादयो विरुद्धा इहोपलम्यन्ते। तस्मान्भोजनपक्षे होमा एते भवन्ति नेतरथा ॥ ६६७ ॥ आदरषचनं भोजनपक्षे प्राथम्यबोधनार्थं स्यात्। यत्स्वामिभोजनस्योत्तरकालत्वं श्रुतिस्सृतिप्रथितम् ॥ ६६८ ।। तद्ुपासकान्यविषयं तस्मात्मत्रोक्तमखिलसुपपस्नम्। तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्य- प्रतिबन्धः फलम् ॥ ४२ ॥

वैश्वानरविद्यायां यञ्च प्राणाग्गिहोत्मुपदिषम ॥६६९ ॥ तद्नित्यभोजनाशरितमनित्यमिति वर्णितं हि पूर्वत्र। कर्माङ्गसंश्रितानि हि विज्ञानानि च मवन्ति चान्यत्र ॥ ६७० ॥ अक्षरमुद्गीथमुपासीतेत्यादीनि तानि किंवा स्युः । कर्मसु नित्यान्येव हि पर्णमर्यीत्वादिवत्किमेतानि ॥६७१॥ गोदोहनादिषद्वा मवन्त्यनित्यानि हीति संदेह:। तत्र तु कर्मसु नित्यान्येवैतानीति युक्तमाभाति ॥ ६७२ ॥ इह चानारभ्याधीतान्यप्युद्गीथसंश्रितत्वेन। कतुसंबन्धादङ्गान्तरवत्तानि प्रयोगवचनेन ॥ ६७३ ॥ परिगृह्यन्ते या च स्ववाक्यटृष्टा फलश्चतिस्तेषाम्। आपयितेत्याद्या सा हि वर्तमानापदेशरूपत्वात् ॥ ६७ ॥।

Page 315

३१० सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

स्यादर्थवादरूपा स्तुतिप्रधानैव केवलं मवति। सा चापापश्लोकश्रवणवदेव हिन च प्रधानं स्यात् ॥ ६७५ ॥ तस्माच्च यस्य पर्णमयीत्वाद्यपकरणोपदिष्टानाम्। अपि जुह्वादिद्वारा कतुप्रदेशाद्यथेव नित्यत्वम् ॥ ६७६॥ एवमिहोद्गीथोपास्तीनामपि नित्यतेत्यतो बूते। निर्धारणानि यान्युद्वीथाद्यङ्गव्यपाश्रयाणि स्युः ॥६७७ ॥ रसतम आप्ति: प्राणः समृद्धिराहवित्य एवमादीनि। न नियम्यरेन्कर्मसु नित्यवदेतानि तेषु तद्हस्षः ॥६८॥ एवंजातीयानामनियतमावं हि दशयत्येषा। तेनोमी कुरुत इति श्रुतिरिह सा चैतमर्थमुपदिशति ॥६७९॥ यश्चैव वेद न यो वेदोभी तौ हि कर्म कुरुत इति। उपदिश्याविदुषोऽपि हि कर्मानुज्ञा प्रदर्शयत्येषा॥ ६८० ॥ प्रस्तावदेवताविज्ञानादिष्वपि तथैव दर्शयति। विज्ञानानामनियतमावं प्रस्तोतरेवमाद्या हि॥ ६८१ ॥ अपि चैवंजातीयकविज्ञानस्य च फलं हि पृथगेव। कर्मण उपलभ्यत इह कर्मफलातिशयरूपमेवैतत् ॥ ६८२ ॥ श्रुतिरेतमर्थमेव हि दर्शयति यदेव विद्यते(ये)त्याद्या। तत्र च तरपः भ्रवणाद्विदयाहीनमपि वीर्यवत्कर्म ॥ ६८३॥ मवतीति गम्यते तद्विद्यानित्यत्व एव संभवति। नित्यत्वे विद्याया: कथमिह विद्याविहीनमपि तदिदम् ॥ ६८४॥ सर्वाङ्गोपस्करणात्क्रियमाणं वीर्यवद्भवेत्कर्म । एवं हि लोकसामादिषु नियतानि हि फलानि शिष्यन्ते ।६८५।। कल्पन्ते हास्मा इत्यादयहि प्रत्युपासनं तानि। नेहार्थवाद्मात्रं प्रतिपत्तु युज्यते फलश्रषणम् ॥६८६॥ स्तुतिलक्षकतापत्या गौणार्थकता भवेत्तदैवं चेत्। संभवति सुख्यवृत्त्या सफलार्थत्वे हि सा तु न न्याय्या ॥६८७॥ प्रकरणबलात्प्रयाजादीनां दर्शादिकाङ्गतालाभात्। तेषु फलश्रवणस्यार्थवादमात्रत्वकल्पनं युक्तम् ॥ ६८८ ॥ पर्णमयीत्वादिष्वपि फलश्चतेरर्थवादता युक्ता। नेवाक्रियात्मकानां फलसंबन्धो विना क्रियायोगम् ॥ ६८९ ॥

Page 316

तृतीयपादः ३ ] माष्यार्थरत्नमाला। ३११

अत इह फलार्थमेषां कतुयोगापेक्षितत्वसुचितं स्यात्। क्रतुरपि च जुहुप्रकृतिद्रव्याकाङ्क्षी भवेञ्च तद्द्रव्यम् ॥ ६९० ॥ पर्णमयीति श्रुत्यां प्रकृतिद्वव्यार्पकेण निर्दिष्टम्। तेन जुहूद्वारैषां क्रत्षङ्गत्वे हि निश्चिते पश्चात् ॥ ६९१॥ तत्र फलश्रवणस्यार्थवादमात्रत्वनिश्चयो भवति। गोदोहनादिकानां क्रत्वाकाङ्क्षाविवर्जितत्वेन ॥ ६९२॥। चमसेनैव प्रककृताप्प्रणयनरूपाश्रयस्य लामेन। उपपन्नो हि फले विधिरेवं बैल्वादिषूपपन्नोऽयम् ॥ ६९३॥ न तु पर्णमयीत्वादिष्वेवं प्रकृतोऽस्ति कश्विदाधार:। कत्वाकाङ्क्षानियतो जुह्वादौ हश्यतेऽयमाधारः ॥६९४॥ क्रत्वाकाङक्षारहितो ह्याधारो दश्यते हि बैल्वादौ। पर्णमयीत्वादौ यदि फले विधि: कल्व्यते हि वाक्येन ॥ ६९५॥ जुह्वाफलसंबन्धः प्रकृतिद्रव्येण चापि संबन्ध:। वाक्येन कल्पनीयस्तदा भवेदाक्यभेद एवात्र ॥६९६॥ कर्माङ्गसंभरितानामुपासनानां स्वतः क्रियात्वेन। त्यागादिवद्तेषां फले विधानं विरुध्यते नेह ॥ ६९७॥ क्रत्वाश्रयाणि गोदोहनादिकानि च फलेन संबन्धात्। यददनित्यानि तथैवोद्गीथादिव्यपाश्रयाणीह ॥ ६९८॥ श्रुतियाक्यदर्शितानि ह्युपासनान्यपि मवन्त्यनित्यानि। प्रदानवदेव तदुक्तम् ॥४३॥ वाजसने[ये]हि वदिष्याम्येवेत्यादि वाक्यमान्नातम् ।६२९॥ तत्र च वागादीनां प्राण: श्रेष्ठोऽवधारितोऽष्यात्मम् । अधिदैवतमग्न्यादेर्वायुश्छान्दोग्यकोपनिषदि तथा॥ ७०० ॥ वायुर्वात्यत्र त्वग्न्यादीनां हि वायुरधिदेवम् । संवर्गो निर्णीतो वागादीनां तथैव संवर्ग:।।७०१।। प्राणोऽध्यात्मं तत्र च वायुप्राणाविमौ हि पृथगेव। उपगन्तव्यौ स्थातामपृथग्वेतीह भवति संदेहः ॥ ७०२ ॥ तत्रापृथगिति युक्तं यतस्तयोर्नेह तत्वभेदोऽस्ति । नेहामिन्ने तत्वे पृथगनुचिन्तनमिदं मवेळ््याय्यम्॥ ७०३ ॥

Page 317

३१२ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

अधिदैवतमध्यात्मं तत्वाभेदं श्रुतिः प्रदर्शयति। अभनिर्वागित्याद्या तथा त एत इति चैवमाद्याऽपि॥ ७०४ ॥ प्राणानामेतेषां विभूतिमस्याSSधिदेविकीं बूते। उपलभ्यते हि बहुधा तत्त्वाभेदस्तु तत्र तयोः ॥७०५॥ निर्दिशति च यः प्राण: स वायुरिति हि श्रुतिस्तयोरैक्यम्। षाजसने[ये] हि यतश्रोदेतीत्यादिनिगमवाक्ये हि॥ ७०६ ॥। प्राणाद्वा एष उद्तीति पाणेन चोपसंहारात्। एकत्वमेव हि तयोर्दर्शयति यथोक्तवाजिवाक्यमपि।७०७।। माण्याञ्चैवापान्याच्चेति प्राणवतेन चैकेन। उपसंहारोऽपि तयो: केवलमेकत्वमेव बोधयति ॥७०८॥ छान्दोग्येऽपि महात्मनश्चतुरो देव एक इति वाक्यम्। संवर्गमेकमेव हि गमयति न तयोः कथंचिदृपि मेदम् ॥ ७०९ ॥ तस्माद्वायुपाणावत्रापृथगेव चोपगन्तव्यौ। एवं प्राप्ते वूते पृथगेवेमाविह्ोपगन्तव्या॥। ७०॥ यस्मात्पृथगेवैतौ वायुप्राणाविहोपदिश्येते। आध्यानार्थो ह्याध्यात्मिकाधिदेवतविभाग उपदिष्ः ॥७११॥ सोडयमसत्याध्यानपृथकत्वे चानर्थकः प्रसज्येत। नन्विह तत्वाभेदानुचिन्तनं ह्यपृथगेव युक्तमिति॥ ७१२॥ प्रागुक्तं कथमेतत्पृथग्मवेदिति न शङ्कितुं शक्यम्। तत्वाभेदेऽप्यत्रावस्थाभेवेन चोपदेशस्य॥ ७१३॥ मेद्वशेन तयोरनुचिन्तनमेदो मवेदसौ युक्त:।

अत्र यतश्ोदेतीत्यस्य तुन ध्येयभेदविघटकता। स यथैषां प्राणानां मध्यम इत्यादिवाक्यमपि वायो: ७१५॥ प्राणेन साम्यमुकत्वा यथोक्तमाध्यानसेदमुपदिशति । योऽसाविहैकमेव व्रतमित्यत्रैवकार उक्तोऽसी ॥ ७१६ ॥ प्राणव्रतामिसंध्या वागादिवतनिवर्तनार्थः स्यात्। मग्नवतानि वागादीनीति च तानि सृत्युरित्याद्या॥ ७१७॥ मग्नव्रतत्व कथनाद्वागादिव तनिवर्तनार्थैव। वतमीमांसेति प्रस्तुत्या मग्नवतत्त्वमुपदिद्टम् ॥ ७८।।

Page 318

सृतीयपाद: ३] माष्यार्थरत्नमाला। २१२ वायुप्राणोभययोर्वतफलमपि वायुलोकसंपराप्तिः। सैषाSनस्तमितेतिश्रुतिदृष्टे यश्र देवताशब्द्ः। ७१९॥ अपरिच्छिन्नातमत्वाद्ायावस्मिन्समअ्जसो भवति। वेदेषु' च वाखुरसौ प्राणः प्राणेषु भवति संचर्ग: ॥। ७२० ॥। इति भिन्नत्वेनैतौ तौ वा एताविति भ्तिर्ब्रूते। वश सन्तस्तत्कृतमित्युपसंहारोऽपि भेदपर एव ॥। ७२१ ।। तस्मात्पृथगेवेमावाध्यातव्यो न चैकरूपतया। अत्र निदर्शनमेतत्प्रधानवदिति प्रदर्शितं हि यथा॥ ७२२॥ त्रिपुरोडाशिन्यां खल्विष्ठाविन्द्राय राज्ञ इत्याद्या। तत्र पुरोडाशक्षेपार्था मन्त्रास्त्रयो हि निर्दिष्टाः ॥७२३॥। सर्वेषामभिगमयन्निति श्रुतेरपि च देवतैक्याच्च। तत्र पुरोडाशानां सहप्रदानप्रसञ्जने हि कृते॥ ७२४॥ याज्यापुरोनुवाक्याव्यत्यासविधानतश्र गुणभेदातू। तहेवतापृथक्त्वं प्रदानपार्थक्यमपि यथा भवति ॥७२५॥ एवं तत्वाभेदेऽप्याध्यानपृथकत्वमत्र युक्तं स्यात्। आध्येयांशपृथकत्वादुक्तं संकर्षणेन नानेति ॥ ७२६॥ तत्र किल यागभेदो मवति परं द्रव्यदेवताभेदातू। इह च न विद्याभेदो विद्यैकत्वं प्रतीयते हि यतः ॥७२०॥ आध्यात्मिकाधिदैवोपदेशवाक्ये हुपक्रमाद्यैरहि। विद्यैक्येऽप्यध्यात्माधिदैवभेदात्प्रवृत्तिभेद: स्यात् ॥७२८॥ सायप्रातःकालप्रभेदतश्चाग्निहोन्न इह स भवेत्। लिङ्गभूयस्त्वात्तद्वि बलीयस्तदपि।।४४ ।। बाजसनेयिन इह खल्वग्निरहस्ये हि नैव वेत्यादि॥ ७२९॥ वाक्यं पठन्ति तत्र च सृष्टेः पूर्व न सच्च नासदिदम्। इत्यादिश्य च मनसः सुहटिं शिष्वा मनोऽधिकृत्योक्तमू।। ७३०॥ तदपश्यत्ष टूत्रिंशत्स ह स्रसंख्यान्मनोमयानग्रीनू। अर्का्मिनश्चित इति ह्यात्मन इत्यादिना निरुच्यैतान् ॥ ७३१॥ वाक्चित इत्यादीनपि पृथगग्रीनामनन्ति तत्रैव। तेष्वेषा विचिकित्सा मनश्विदादय इहोपदिष्टा ये॥ ७३२ !।

Page 319

२१४. सुश्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्यं-

ते कर्मशेषभूताः कि कर्मानुप्रवेशिनोऽत स्यु: । किंवाऽपि ते स्वतन्त्रा: केवलविद्यात्मका मवन्तीति ॥७३३ ॥ तत्र प्रकरणबलतः क्रियानुषङ्गे हि तेषु संग्रासे। तेषां स्वातन्त्रयमिह प्रतिजानीते हि सूत्रकारोऽयम् ॥ ७३४॥ भूयांस्यस्मिन्वाह्मणवाक्ये लिङ्गाानि चोपलभ्यन्ते। विद्यात्मकत्वमेवोपोद्वलयन्त्येषु तानि सकलानि॥ ७३५॥ यत्किंचेमानीति श्ुतिवाक्ये लिङ्गमेतदुपदिष्टम्। सर्वेप्राणिमनोवृत्तिभेर्मम सदाऽग्यो हि चीयन्ते॥ ७३६ ॥। इत्याध्याने हि हढे सर्वाण्यपि यञ्च किमपि भूतानि। संकल्पयन्ति मनसा सा चाग्नीनां कृतिर्भवेदिति हि॥ ७३७॥ एतद्विद्यात्मत्वे मवति हि लिङ्ग न च क्रियाङ्गत्वे। यत्किंचित्करणेन हि सिद्धिर्द्वष्टा न च क्रियाङ्गस्य ॥ ७३८॥ तान्हैतानेवंविद इति श्रुतौ लिङ्गमपरमपि दष्टम्। स्वपतोऽपि जाग्रतोऽपि च तस्यैवाग्रीन्हि सर्वभूतानि ॥ ७३९॥ चिन्वन्ति सर्वदैवैते तद्विद्यात्मकत्वलिङ्ग स्यात्। कर्माङ्गमुदित्तकालानुष्ठेयं सार्वकालिकं चेदम् ॥ ७४०॥ यञ्चान्यत्षद्त्रिंशत्सहस्त्र संख्यत्वमपि च कर्माङ्गम्। श्रुतिलिङ्गसूत्रदृष्ट लिङ्गं तु प्रकरणाद्वलीय इति ॥ ७४१ ॥ विद्यात्मकत्वमेषां तस्माद्युक्तं हि लिङ्गभूयस्त्वात्। पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥४५॥। यञ्चाग्रय: स्वतन्त्रा ह्यनन्यशेषा इतीह निर्दिष्टम् ॥ ७४२॥ नैतययुक्तं यस्मात्प्रकरणमेतक्क्रियामयस्याग्नेः। तद्विषयो हि विकल्पविशेषादेशो न हि स्वतन्त्रः स्यांत्।। ७४३। पूर्वस्य चेष्टकाग्ेः संनिहितस्य हि विकल्पबोधार्थम्। इह संकल्पमयत्वप्रकारभेदोपदेश एवायम् ॥७४४॥ नन्वत्र पूर्वमुक्तं लिङ्ग हि प्रकरणाद्वलीय इति। सत्यं हि लिङ्गमीहङ्न हि प्रकरणाद्वलीय इह मवति॥७४५॥ विधिवाक्यस्थं यत्स्यात्तदेव हि प्रकरणाद्वलीय: स्यात्। विधिवाक्ये न हि लिङ्गं किमपि च दृट परं त्विहैवेतत् ॥७४६॥ सांपादिकाग्गनिविषयप्रशंसनात्मकमिदं भवेद्ाक्यम्। तच्चार्थवाद्रूपं तत्स्थं लिङ्ग न बाधकं भवति ॥७४७॥

Page 320

तृतीयपाद: २ ] माष्यार्थरत्नमाला । ३१५ अप्राप्ते हयन्यार्थे गुणवादेनोपपद्यमानं यत्। प्रकरणमेतद्वाधितुमुत्सहते लिङ्गमीवृशं हि कथम् ॥ ७४८॥ सांपादिका अपीमेऽग्रयः क्रियानुपवेशिनस्तस्मात् । मानसवदितिनिदर्शनमत्र यथा द्वादशाहसत्रे हि। ७४९॥ त्यक्त्वाऽन्त्याहृर्द्वितयं दशरात्रस्य विशेषितस्यान्ते। दृशमेऽहन्यविवाकये मानस एव ग्रहो विनिरदिषः ॥ ७५० ॥ तत्र च पृथिवी पातं सोमरसोडसी समुद्र एवोक्त:। स्थादेवता प्रजापतिरस्मै तस्यैव गृह्यमाणस्य।। ७५१।। ग्रहणासादनहवनाहरणोपह्वानभक्षणानि यथा। तत्र च तान्येतानीत्याम्नायन्ते हि मानसान्येव ।। ७५२ ॥। ग्रहकल्पो हि यथा वा क्रियाप्रकरणात्क्रियाविशेष: स्यात्। एवमयमग्निकल्प: क्रियाविशेषो न हि स्वतन्त्र: स्यात् ॥ ७५३॥ अतिदेशाच ॥४६ ॥ अतिदेशश्चाग्रीनां क्रियात्मकत्वानुमापको हष्टः। एकैक एव तावान्यावान्यः पूर्वमभिहितोऽगिरिति॥७५४॥ सामान्ये सत्येव ह्यतिदेशोऽयं प्रवर्तते शास्त्रे। विदैव तु निर्धारणात्॥४७॥ उक्ताक्षेपनिरासप्रयोजनोऽसौ तुशब्हे इह पठितः ॥७५५॥ एते मनश्िविदाद्या: केवलविद्यात्मका: स्वतन्त्रा: स्युः । विद्याचित पवेति हि निर्धारयतीह येन तानग्नीन् ॥७५६॥ अन्यापि विद्यया हैवैत इति श्रुतिरपीत्थमेवैतान्। दर्शनाच॥ ४८ ॥ एतेषां स्वातकये लिङ्गं यत्पूर्वमेव तञ्चोक्तम्॥। ७७॥ ननु लिङ्गनमीहशं न प्रकरणतो बलवदित्यतो बूते। श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥४९॥ नैवं प्रकरणसामथ्यादिषां हि क्रियाविशेषत्वम्। ४V८॥ अध्यवसाय ततो हि स्वतन्त्रतापक्षबाधनं युक्तम्। भ्रुत्यादीन्यत्र यतो भवन्ति हि प्रकरणाद्लीयांसि ।:७4९ तानि च मनश्व्विदादीनां स्वातन्त्रयं हि साधयन्त्येवः।

Page 321

३१६ सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

ते हैते विद्याचित एवेति श्रुतिरियं हि भवतीह ॥ ७६० ॥ लिङ्गं हि सर्वदा सर्वाणीत्यादिकमुदाहृतं पूर्वम् । वाक्यमषि विद्यया हैवैत इति हि तत्र साधकं भवति ॥ ७६१ ॥ विद्याचित एवेति श्रुतिरेषा सावधारणैतेषामू। अभ्युपगते क्रियानुपवेशपक्षे हि पीडितैव स्यात् ॥७६२॥ नाबाह्यसाधनत्वाभिप्रायं तदवधारणं तहिं। अवधारणमफलं स्याद्विदाचित इत्यनेन तलाभात ॥७६३॥ गृहकल्पवदेतेषां तुल्येनाबाह्यसाधनत्वेन। प्राप्तक्रियाङ्गताया निवर्तनायावधारणं सफलम् ॥७६४॥ एवंविधे हि भूतान्यग्रीश्चिन्वन्ति सर्वद्वेति। सातत्यदर्शनमिदं तेषां स्वातन्त्र्यपक्ष एव स्यात् ॥७६५॥। वाक्पाणमयाग्निष्वपि सातत्यं दृश्यते हि सततमिति। सातत्यदर्शनेन क्रियाप्रयोगस्य चाल्पकालत्वात् ॥ ७६६॥ स्वातन्त्रयेण हि तेषां विद्यारूपत्वमवधृतं भवति। इद्मर्थवाद्रूपं संकीर्तनमात्रमिति तु न न्याय्यम् ॥ ७६७॥ यत्र च विधायकोऽन्यो लिङदिरुपलभ्यते हि विस्पट्टम्। तत्रैव युक्तमेतत्संकीर्तनमर्थवादमात्रमिति । ७६८। अत्र तु विधायकान्तरमन्यन्नैवोपलभ्यते किमपि। संकीर्तनमात्रादिह विज्ञानविधानमुचितमेतेषाम्॥७६९॥ सातत्यदर्शनादिभिरेषां स्वातन्त्रयसिद्धिरिह वाच्या। एवंविदृश्चिता इति पुरुषविशेषानुबद्धमिह वाक्यम्॥७७०॥ न क्षमते क्रतुयोगं तस्मात्स्वातन्त्रयपक्ष इह युक्त:। अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्र तदुक्तम्॥ ५० ॥ प्रकरणमुपसृत्यापि स्वातन्त्रयं स्यान्मनश्विदादीनाम्॥७७१॥ येन मनोव्यापारेष्वनुबध्नाति क्रियावयवयोगम्। मनसैवाऽडधीयन्ते मनसैवेमे ग्रहाश्र गृह्यन्ते ॥ ७७२॥ मनसा शंसन्मनसा स्तुवन्यंदेतच्च कर्म यज्ञीयम्। तच्च मनश्रि्वित्सु मनोमयमेव क्रियत एवमनुबन्ध: ।। ७७३ । संपत्फल इह हष्टः प्रत्यक्षा अपि न च क्रियावयवा:। इह संपदा त एते लिप्सयितव्या हि मवितुमर्हन्ति॥७७४॥

Page 322

तृतीयपाद: ३] माष्यार्थरत्नमाला। ३१७

तदनुप्रवेशितेयं न शङ्कनीया श्रुतेश् वैरुप्यात्। अत्र तु न हि क्रियाङ्के हयथ्यससितव्यं तु किंचिद्पि दृष्म ॥७७॥ किंत्वत्र हि पदूत्रिंशत्सहस्त्रसंख्या इह मनोवृत्ती:। आदाय कल्पयन्ति ह्यग्नित्वं च ग्रहादिकांस्तासु ॥७७६ ॥ पुरुषायुषो ह्यहःसु च संख्या हष्टा सतीह तत्स्थासु। मनसो वृत्तिष्वारोप्यत इति वैरुप्यमत्र मन्तव्यम् ॥ ७७७॥ तस्मादनुबन्धादिम्यः स्वातन्त्रयं मनश्विदादीनाम्। आदिग्रहणादृतिदेशादप्येवं हि योजनीयमिह॥७७८॥ यावानसी हि पूर्वस्तेषामेकैक एव ताहगिति। यञ्ञ क्रियामयागेर्माहात्म्यं तञ्च भावनाग्ीनाम्॥७७॥1 एकैकस्यातिदिशच्छृतिः क्रियानादरं हि दर्शयति। अतिदेशो हि विकल्पार्थ एव नानादरार्थ इत्यपि न। ७८० ॥ यत्रैकस्मिन्साध्ये निरपेक्षं साधनद्दयं भवति। भवति हि तत्र विकल्पो वीहियवाद्योर्यथा हि यागे स्यात्।।७८१।। आहवनीयोद्धरणादिलक्षणं साधनं त्विहकं स्थात्। साध्यं।मयाग्निरध्यानाग्निश्चेति भिन्नमिह हष्म् ॥८२ ॥। एकस्य साधनस्य तु न साध्ययुग्मे भवेद्विकल्पोऽसौ। यत्वत्र पूर्वपक्षोपोद्वलकश्रातिदेश इत्युक्तम् ॥ ७८३ ॥ तत्प्रत्युक्तमिहापि ह्यग्नित्वेनातिदेशसाफल्यात्। ध्रुत्यादीन्यग्नित्वे ध्यानाग्रीनां प्रदर्शितान्येव॥। ७८४ ।। प्रज्ञान्तरपार्थक्यं निद्शनं दर्शितं हि सूत्रकृता। प्रज्ञान्तराणि शाण्डिल्याङ्गितविद्यापुरःसराणि यथा ॥ ७८५॥ कर्मभ्यः पृथगेव प्रज्ञान्तरतोऽपि हि स्वतन्त्राणि। तह्च्च मावनाग्रय इह कर्मभ्यो भवन्ति पृथगेव॥७८६॥ या चेह राजसूयप्रकरणपठिता ह्यवेष्टिनामेष्टिः दृष्टस्तस्या इष्टेरुत्कर्षः प्रकरणाञ्च तत्रैव॥ ७८७॥ वर्णत्रयानुबन्धाद्राजसवत्त्वाच्च राजसूयस्य। र्थायामिति चेदित्यत्र प्रथमतन्त्र इदमुक्तम् ॥ ७८८ ॥ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ।। ५१. ॥

Page 323

२१८ सुब्रह्मण्य विरचिता- [३ तृतीयाध्यायस्य-

मानसवदिति यदुक्तं तच्चेदानी निराकरोतीह।

कल्पयितुमत्र शक्यं पूर्वप्रकृतक्रियाविशेषत्वम्। पूर्वोक्तेम्यः श्ुत्यादिभ्यः केवलपुमर्थताससिद्धेः॥ ७९०॥ न हि किंचित्कस्यचिदपि केनचिदंशेन साम्यमिह नेति। एतावता यथास्वं निवर्तते कि स्वभाववैषम्यम् ॥७?॥ सृत्युवदितिदृष्टान्तो यथा स एष इति मन्त्रवाक्येषु। मण्डलवर्ती पुरुषस्तथाऽयमगनिरपि सृत्युरित्युक्तम् ॥ ७९२॥ इह मृत्युशब्दसाम्येऽप्यादित्याग्न्योर्न सर्वसाम्यं स्यात् । एवमसौ वावेति श्रुतौ ुलोकेऽगरिशब्दसाम्थेडपि॥७९३॥ आदित्य एव समिदित्यादित्ये तत्पदे समानेपि। लोकादित्यादीनां न चाग्निसमिदादिरूपतापत्तिः। ७९४ म परेण च शब्दस्य ताद्विध्यं भूयत्वास्तवनुबन्धः ।।५२।। ताद्विध्यं शब्ड्स्य प्रयोजनं लक्ष्यते परस्ताच्च। एषोऽननिश्चित इत्येतस्मिन्हि ब्राह्मणान्तरे चैतत् ॥ ४९५ ॥ यत्र च कामक्रोधा: परागतास्तं च लोकमेते हि। आरोहन्ति हि विद्यासंपन्ना विद्ययैव केवलया॥ ७९६॥ नाविद्वांस: करिण एवं केवलतपस्विनो वेति। विद्यां च संप्रशंसति कर्म विनिन्दृति हि विद्ययेत्याद्या॥ ७७॥ अन्यत्रापि यदेतन्मण्डलमित्यत्र दृश्यते चैतत्। अमृतो मवति हि मृत्युर्ह्यस्याSतमेत्यादिकेन वाक्येन । ७९८॥ विद्याफलोपसंहारादेवास्य तु न कर्मशेषत्वम्। दिहार वा: संपाद्या: • भवन्ति मूयांसः॥७९९॥ तस्मादिहाग्रिनेयं विद्या के वलमिहानुबध्येत। तस्मात्केवलविद्यात्मकत्वमेव हि मनश्चिदादीनाम्॥। ८०० ॥ एक आत्मनः शरीरे भावात् ॥५३ ॥ इह देहव्यतिरिक्तो ह्यात्माडस्तीति तु समर्थ्यते सपदि। देहव्यतिरिक्तात्मन्यसति च परलोक चोदना: सकलाः॥। ८०१ ॥।

Page 324

तृतीयपादः ३] माष्यार्थरत्नमाला। ३१९

उपरुध्येरन्बन्धो मोक्षोऽपि च कस्य वोपदिश्येत। नन्विह शास्त्रपमुखे प्रथमे पादे हि वर्णि[तं] ह्येतत्॥ ८०२ ॥ देहव्यतिरिक्तस्य हि शास्त्रोक्तफलोपभोगयोग्यस्य। आत्मन इदमस्तित्वं सत्यं तदिदं हि तत्र माष्यकृता ॥ ८०३ ॥ प्रतिपादितं न तत्र ह्यात्मास्तित्वेऽस्ति किंचिदपि सूत्रम्। अन्राSSक्षेपपुरःसरमात्मास्तित्वं हि सूत्रकारेण ।। ८०४।। वर्णितमित एवाSडकृष्याSSचार्येणापि शबरसंज्ञेन। तदिदं प्रमाणलक्षण उपदिष्टं भगवतोपवर्षेण ।। ८०५ ।। अत एवाऽडत्मास्तित्वाक्षेपे शारीरके हि वक्ष्यामः । इत्युद्धारो हि कृतः प्रथमे तन्त्रे समख्सः सोऽयम्॥८०६॥ किंचान्यत्पूर्वस्मिन्नधिकरणे किल मनश्विदादीनाम्। प्रकरणतश्वोत्कर्षोपगमेन पुरुषार्थता हि निर्दिषा॥ ८०७॥ तत्र च कोडसौ पुरुषो मनश्िविदादय इमे यदर्थाः स्युः । इति शङ्कायां देहव्यतिरिक्तात्मास्तितोच्यते सपदि॥८०८ ॥ आत्मास्तित्वाक्षेपार्थ चेदं सूत्रमादिभं भवति। आक्षेपपूर्विका किल परिहारोक्तिर्विवक्षितार्थे हि॥ ८०९॥ प्रभवत्युत्पादयितुं स्थूणानिखनननयेन दढबुद्धिम्। एके लोकायतिका ये किल देहात्मवादिनस्ते वै ॥ ८१०॥ देहव्य तिरिक्तस्याऽडत्मनोऽस्य चाभावमेव मन्वाना: । व्यस्तसमस्तपृथिव्यादिषु देहाकारपरिणतेष्वेव ।। ८११॥ चैतन्यं मदशक्तिवदिति किल संभावयन्त एते हि। विज्ञानं चैतन्यं विशिष्टकायश्र षुरुष इत्याहुः ॥८१२। स्वर्गापवर्गगमनायान्यो देहातिरिक्त इह नास्ति। तस्माच्च चेतनश्ाप्यत्मा भवतीह देह एवासी ॥८१३॥ अत्र शरीरे भावादिति हेतुर्यद्दि सति च यस्मिन्हि। मवति ह्यसति च न भवति तत्तद्धर्म इति चाध्यवसितं हि।।८ १४।। औष्ण्यप्रकाशरूपांविहाग्निधर्मौ तथैव हष्टा हि। चैतन्यस्मृत्याद्या ये चाभिमता: स्युरात्मधर्मतया॥८१५ ॥ न हि बहिरुपलभ्यन्ते ह्युपलभ्यन्तेऽन्तरेव देहे ते। अतिरिक्तात्मासिध्या तद्दर्मा एव भवितुमर्हन्ति ॥८१६॥

Page 325

३२० सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

व्यतिरेकस्तद्वावाभावित्वान्न तूपलब्धिवत्।। ५४ ।। अव्यतिरेको देहादात्मन इति यञ्ञ पूर्वमाक्षिप्तम्। तञ्च न युक्तं देहादस्य व्यतिरेक एव युक्त: स्थात् ॥८१७॥ यन्भ्ावामावित्वादिति तु यथोक्तार्थसाधको हेतुः । यद्यत्र देहमावे भावात्तद्दर्मता भवेत्तेषाम् ॥८८ ।। सति देहेऽपि कदाचिज्ज्ञानादीनां हि तत्र चाावात्। स्याच्चैतद्धर्मत्वं तथाऽडत्मधर्मत्वमपि भवेत्तेषाम् ॥८९। रूपादयो हि ये स्युर्यावद्देहं भवन्ति ते धर्माः । चैतन्यस्मृत्याद्याः सत्यपि देहे सृतौ हि न भवन्ति ॥ ८२०॥ ये देहधर्मभूता रूपाद्यास्ते परैश्च दृश्यन्ते। चैतन्यस्मृत्याद्याः सत्यपि देहे परैन दश्यन्ते ॥८२॥ यद्ेहे चैतन्यं यस्योत्पत्तिश्र मवति भूतेभ्यः । किरूपं तच्च स्यान्न हि भूतचतुष्ट्यातिरिक्तं तत ।। ८२२ ।। लोकायतिकनयेन हि भूतचतुध्ट्यविलक्षणं तत्र। यद्भूतभौतिकानामनुभवनं स्यात्तदेव चैतन्यम् ॥ ८२३॥ इति चेत्तह्येतेषां विषयत्वान्नास्य विषयधर्मत्वम्। एकस्य कर्तृकर्मोभयात्मकत्वं न दृश्यते लोके ।। ८२४ ॥ इह भूतधर्मचैतन्येनैव हि भूतभौतिकानि कथम्। विषयी क्रियन्त इह न हि रूपाद्यैः स्वं परस्य रूपं वा ॥८२८ विषयी क्रियते चैतन्येन तु भूतं च मौतिकं सकलम्। विषयी क्रियते तेषासुपलब्धिरियं यथाऽभ्युपेता स्यात् ॥ ८२६ उपलब्धेरभूतेभ्यो व्यतिरेकोऽपि च तथाऽम्युपेय: स्यात् । उ ब्धरूप एव ह्यात्मा न ततोऽतिरिक्त इह कश्चित् ॥८२४ देहव्यतिरिक्तत्वं नित्यत्वं चाभ्युपेयमेवास्य। अहमिदमद्राक्षमितिप्रत्यमिसंधिन चान्यथा सिध्येत॥ ८२८ अपि चोपलब्धिरेषा सत्सु तु दीपादिषूपकरणेषु। भवति न मवति सेति न चैतावतोपलब्धिरियम् ॥८= न सवति यथा प्रदीपादीनां धर्मस्तथैव देहेऽस्मिन्। सति मवति चोपलब्धिर्नासति भवतीति तावता हीयम ॥८: न हि देहधर्म एव स्याह्ेहस्योपकरणतामान्रात्। दीपादिवद्गुपयोगः कथंचिदुपपद्यते न चात्यन्तम् ॥। ८२१ ।

Page 326

तृतीयपाद: ३] माष्यार्थरत्नमाला। ३१९

उपरुध्येरन्बन्धो मोक्षोऽपि च कस्य वोपदिश्येत। नन्विह शास्त्रपरमुखे प्रथमे पादे हि वर्णि[तं] ह्येतत्॥८०२ ॥ देहव्यतिरिक्तस्य हि शास्त्रोक्तफलोपभोगयोग्यस्य। आत्मन इदमस्तित्वं सत्यं तदिदं हि तत्र भाष्यकृता ॥ ८०३ ॥ प्रतिपादितं न तत्र ह्यात्मास्तित्वेऽस्ति किंचिद्पि सूत्रम्। अन्राSSक्षेपपुरःसरमात्मास्तित्वं हि सूत्रकारेण ।। ८०४।। वर्णितमित एवाSडकृष्याSSचार्येणापि शबरसंज्ञेन। तदिदं प्रमाणलक्षण उपदिष्टं भगवतोपवर्षेण ।। ८०५ ।। अत एवाऽडत्मास्तित्वाक्षेपे शारीरके हि वक्ष्यामः । इत्युद्धारो हि कृतः प्रथमे तन्त्रे समख्जसः सोऽयम्॥८६॥ किंचान्यत्पूर्वस्मिन्नधिकरणे किल मनश्विदाद्षीनाम्। प्रकरणतश्रोत्कर्षोपगभेन पुरुषार्थता हि निर्दिष॥८०७।। तत्र च कोडसौ पुरुषो मनश्विदादय इमे यदर्थाः स्युः । इति शङ्कायां देहव्यतिरिक्तात्मास्तितोच्यते सपदि॥८०८ ॥ आत्मास्तित्वाक्षेपार्थ चेदं सत्रमादिभं भवति। आक्षेपपूर्विका किल परिहारोक्तिर्विवक्षितार्थे हि॥ ८०९॥ प्रभवत्युत्पादयितुं स्थूणानिखनननयेन दढबुद्धिम्। एके लोकायतिका ये किल देहात्मवादिनस्ते वै ॥ ८०॥ देहव्य तिरिक्तस्याऽडत्मनोऽस्य चाभावमेव मन्वाना: । व्यस्तसमस्तपृथिव्यादिषु देहाकारपरिणतेष्वेव ।। ८११॥ चैतन्यं मदशक्तिवदिति किल संभावयन्त एते हि। विज्ञानं चैतन्यं विशिष्टकायश्र षुरुष इत्याहुः ॥८१२॥ स्वर्गापवर्गगमनायान्यो देहातिरिक्त इह नास्ति। तस्माच्च चेतनश्र्ाप्यत्मा भवतीह देह एवासी ॥८१३॥ अत्र शरीरे भावादिति हेतुर्यद्दि सति च यस्मिन्हि। मवति ह्यसति च न भवति तत्तद्दर्म इति चाध्यवसितं हि।। ८ १४।। औष्ण्यप्रकाशरूपाविहाग्निधर्मौ तथैव हषा हि। चैतन्यस्मृत्याद्या ये चाभिमता: स्युरात्मधर्मतया॥८१५ ॥ न हि बहिरुपलभ्यन्ते ह्युपलभ्यन्तेऽन्तरेव देहे ते। अतिरिक्तात्मासिध्या तद्धर्मा एव भवितुमर्हन्ति ॥८१६ ॥

Page 327

३२२ सुब्रह्मण्य विरचिता- [ ३ तृत्ीयाध्यायर

शाखान्तरोदितानां मन्त्राणां कर्मणां गुणानां च। उपसंग्रहस्तु शाखान्तरे भवेच्छाखखिनां यथैकेषाम्॥८४६॥ अश्मादाने मन्त्र: कुटरुरसीत्यादिको हि नाऽडम्रातः। कुटरुरसि कुक्कुटोऽसीति च विनियोगो हि हश्यते तेषामू॥८४ येषामपि प्रयाजा: समिदाद्या न स्फुटं समान्नाताः । ऋतवो या इति तेषां गुणविधिराम्नायते हि तेष्वेव ॥ ८४८॥ येषामपि पाठेडजोऽग्रीषोमीय इति जातिनिर्देशः । नैवास्ति भवति वेषामपि तद्विषयो हि मन्त्रवर्णोडसी॥ ८४९ छागस्य वपाया मेदस इत्यादि: किलैवमन्यत्र।

वेदान्तरे हि दृष्टः परिग्रहो बहवृचोक्तसक्तस्य । यो जात इत्यधीतस्याध्वर्यव इत्यतो हि निर्दिष्टे ॥ ८५१॥ अध्वयुंकर्तृकेऽस्मिन्प्रयोग एव हि परिग्रहो दृष्टः । तस्माद्यथाSSश्रयाणां कर्माङ्गाणं हि भवति सर्वत्र ॥ ८५२॥ अनुवृत्तिरेवमेव हि तदाश्रितानामुपासनानां स्यात्। पागुक्तो हि विरोधो मन्त्रादिवदेव परिहृतो भवति ॥८५३॥ भूम्र: कतुवज्ज्यायस्त्वं तथा हि दर्शयति॥ ५७॥ वैश्वानरविद्यार्या हष्टा प्ाचीनशाल इत्याद्या। आख्यायिका हि तस्यां व्यस्तस्यापि च तथा समस्तस्य ॥८५ वैश्वानरस्य तस्य ह्युपासनं श्रूयते द्विरूपमिदम्। व्यस्तोपासनमभिहितमेवं तत्रौपमन्यवेत्यादि ।८५५।। एवं तत्र समस्तोपासनमपि तस्य वेत्यनेनोक्तम्। तत्र च संदेहोऽयं किमिहोभयथाऽप्युपासनं न्याय्यम्॥ ८५६। व्यस्तसमस्तोमययोरथ तु समस्तस्य तस्य वा तदिति। तत्रोपास्स्वेति प्रत्यवयवमपि च क्रियापद्श्रवणात् ॥ ८५७। तव सुतमासुतमिति फलभेदश्रवणाच्च तत्र युक्तानि। व्यस्तान्युपासनानि स्युरिति प्राप्तेऽमिधीयते हि ततः ।। ८५८ यञ्च समस्तोपासनमस्य हि वैश्वानरस्य तस्यैव। मूम्रो ज्यायस्त्वं खल्वस्मिन्वाक्ये विवक्षितं भवति ॥८५९ ॥ दर्शादिकतुषु यथा साङ्गस्यैव प्रधानयागस्य। एक: प्रयोग एव हि सामस्त्येन च विवक्षितो मवति ॥ ८६०

Page 328

तृतीयपाद: ₹ ] माष्यार्थरत्नमाला। ३२३

न व्यस्ताङ्गानामपि न चैकदेशाङ्गयुक्प्रधानस्य। तद्वदिहापि च भूम्रो ज्यायस्त्वं हि श्रुतिः प्रदर्शयति ॥८६१॥ उद्दालकावसाना ऋषयः षड्ये भवन्ति विखयाता: । वैश्वानरविद्यायां परिनिष्ठां लब्धुमक्षमास्ते हि । ८६२॥ अभ्याजग्मु: केकयराजानमितीह दर्शयित्वैव। एकेकस्योपास्यं द्यप्रसृतीनां हि दर्शयित्वैव ।। ८६३।। मूर्धादिमावमेषां मूर्धा त्वेष इति तत्र विदधाति। मूर्धा ते व्यपतिष्यद्यन्मामित्यादिना हि तत्रैव ॥ ८६४।। व्यस्तोपासनपक्षं व्यावृत्य समस्तपक्षमनुवृत्त्य। भूमाश्रयमेव फलं सर्वेष्वित्यादिना प्रदर्शयति ॥८६५ ॥ प्रत्येकं हि सुतेजःप्रमतिषु फलभेदकीर्तनं यञ्च। तदपि ह्यङ्गफलानां प्रधानफलताप्दर्शनार्थं हि॥ ८६६॥ एवमुपास्स्वेति प्रत्यवयवमाख्यातदर्शनं यदृपि। तदृपि परामिप्राय न व्यस्तोपासनाविधानार्थम् ॥ ८६७।। तस्मादृतर समस्तोपास्त्यवलम्बो भवेदसौ श्रेयान्। के चित्समश्ट्युपासनपक्ष ज्यायांसमत्र निर्दिश्य ॥८६८॥ जायस्त्वकीर्तनादेव व्यस्तोपास्तिपक्षमप्यत्र। सूत्रकृदनुमन्थत इति निरूपयन्त्येतदत्र न हि युक्तम्॥ ८६९॥ अत्र समस्तोपास्तौ सत्यां खल्वेकवाक्यतावगतौ। उभयविधानेन कथं युक्ता तन्ेदकल्पना प्रकृते॥८७ ॥ मूर्धेत्याय्युपदिष्टा निन्दाऽप्यत्र तु भवेद्विरु्द्वैव। यहुभयथाऽप्युपासनमिह सिद्धान्तो भवेत्तदा तत्र ।। ८७१ ।। व्यस्तोपासनमेवेत्येवं वाच्यो हि पूर्वपक्ष: स्यात्। उपसंहारेण समश्युपासने ह्यवगतेऽपि विस्पष्टम् ॥ ८७२ ॥ तद्मावस्तु कथं वा वक्तुं शक्योऽत्र पूर्वपक्षे स्यात्। ज्यायस्त्ववचनमपि यत्सूत्रे परिदृश्यते तदेतदृपि। ८७३॥ अत्र च समष्युपास्तेः प्रमाणवत्त्वप्रदर्शनार्थ स्यात्। व्यस्तोपास्तीनामप्रमाणसिद्धत्वबोधनार्थ च।। ८७४।। नाना शब्दादिभेदात् ॥ ५८॥ सति हि सुतेजःप्रभृतीनामपि फलभेदगोचरे अ्रवणे। तत्र समस्तोपासनमेव ज्याय इति दर्शितं पूर्वम्॥८७५॥

Page 329

३२४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्

तन्यायेन च सर्वाण्युपासनानि श्रुतानि यानि स्युः । तान्यपि साभस्त्येनोपासिष्यन्त इति बुद्धिरुत्पन्ना ॥ ८७६ ।। अपि च न वेद्याभेदे विद्यामेदो भवेत्कथंचिदृपि। परमेश्वरस्तु वेद्यः श्रुतिनानात्वेऽपि चैक एवासौ ॥८७७॥ अवगम्यते मनोमय इत्यादिश्चुतिषु चैक एव तथा। प्राणो वावेतिश्रुतिवचनेषु प्राण एवमन्यत्र ॥। ८७८ ॥ यदृपि श्रुतिनानात्वं तदपि गुणान्तरसमर्पणार्थं स्यात्। तस्मादिहैकवेद्यव्यपाश्रयं यञ्च मवति गुणजातम्॥ ८७९॥ विद्याकात्स्न्याय हि तच्छाखान्तरगतमिहोपसंहार्यम्। एवं प्राप्ते वूते वैद्याभेदेऽपि भवति नानेति ॥। ८८० ।। एवंविधा हि विद्या वेद्याभेदेऽपि मवति मिन्नैव। वेदोपासीतेति हि शब्दो भिन्नः प्रतीयते यस्मात् । ८८१ ॥ शब्दान्तर इति सूत्रे शब्दोडसौ कर्मभेदहेतुरिति। वर्णितमत इह विद्या भिन्ना शब्दादिभेदृतो वति ॥ ८८२ ॥ आदिग्रहणाच्च गुणादयो यथासंभवं हि योज्या: स्यु: । नन्विह वेदेत्यादी प्रतीयते शब्दभेदमात्रं हि।। ८८३ ॥ यजतीत्यादिवदेव प्रतीयते नार्थभेद इह कश्रित। इह तु मनोवृत्त्यर्था वेदेत्याद्या भवन्ति ये शब्दाः॥ ८८४ ॥ तद्भेदेन कथ वा विद्या भिन्नेति चेन्न दोषोऽयम्। तेषु मनोवृत्त्यर्थत्वाभेदेऽपि च गुणादिभेदेन ॥ ८८५॥ वेद्ये मिन्ने विद्या भिन्नैव स्यान्न सा भवेदेका। एकस्यापीशस्य प्रतिप्रकरणं गुणा विभिद्यन्ते ॥ ८८६॥ प्राणस्यैकस्यापि हि गुणो यथा तत्र तत्र भिन्नः स्यात्। एवमनुबन्धभेदाद्विधिभेदे भिद्यते हि विद्येयम् ॥८८७॥ श्रुतिनानात्वं हि गुणान्तरविध्यर्थमिति यञ्च पूर्वोक्तम्। तच्च न यस्मादृत्र तु विनिगमकं नोपलभ्यते किमपि। ८८८॥ प्राप्तामनूद्य विद्यामप्राप्तानेकगुणविशेषाणाम्। यदि चेद्विधानमत्र तु दुर्वारो वाक्यभेद एव तदा ।।८९९।। विद्यैक्ये हि गुणानां पुनरुक्तिरपीह मवति विफलैव। असकृच्छ्रयन्ते किल गुणा: समा: सत्यकामताद्या हि॥ ८९०

Page 330

रियपाद: ३ ] माष्यार्थरत्नमाला। ३२५

प्रकरणमेदान्नैराकाङ्क्ष्ये नात्रैकवाक्यता युक्का । वैश्वानरविद्यायामिवात्र न समस्तचोदना वाडस्ति ॥ ८९१ ॥ विधयेकत्वनिमित्ते विद्यैकत्वे त्विह प्रतिज्ञाते। सकलगुणानामुपसंहारोऽशक्यो भवेत्प्रतिज्ञातः ॥।८१२।। तस्मादिह शब्दादेमेदाद्विद्याऽपि भवति नानेति। सुधूक्तमत्र सूत्रे तदानुगुण्येन मवति विद्यैक्यम्॥८९३॥ विकल्पोऽविशिष्टफलत्वात् ॥ ५९॥ विद्याभेदमिहोक्त्वा तदनुष्ठानक्रमं निरूपयति। अत्र त्रिविधा विद्या अहंग्रहा अपि तथा तटस्थाक्र ॥ ८९४॥ अङ्गाभिताश्र तत्राहंग्रहविद्यास्विदं विचारयति। एतासां विद्यानां किमिह यथेच्छं समुच्चयः किंवा॥ ८५॥ भवति विकल्पो वेति हि संदेहे सति विकल्प इह युक्तः। इह नाऽडसां विद्यानां समुच्चये नियमकारणं किमपि॥ ८९६॥ नन्वग्निहोत्रदर्शादीना हि परस्परं विभिन्नानाम्। भवति समुच्चयनियमो यथा तथेहापि स तु भवेदिति चेतू।।८९७।। मैवं हि नित्यताश्षुतिरेव हि तत्र तु समुच्चये हेतुः । इह विद्यानामेवं नित्यत्वपरा श्रुतिर्न काचिदृपि॥८९८॥ तस्मान्न समुच्चय इह नापि विकल्पोडत भवति युक्ततमः । एकत्राधिकृतस्य प्रतिषेधो नोपलभ्यतेऽन्यत्र ॥ ८९९॥ परिशेषादत्र यथाकाम्यानुष्ठानमेव युक्तमिति। नन्वविशिष्टफलत्वाद्विकल्प आसां भवेदिह न्याय्य: ।। ९०० ।। कं बह्म खं पुराणं मनोमयः सत्यकाम इत्याद्या:। तुल्यवदीशप्राप्तिफला लक्ष्यन्ते यतोऽत इति चेन्न ॥ ९०१॥ स्वर्गादितुल्यफलकेष्वपि च यथाकाम्यमेव दृष्ट हि। एवमिहापि यथाकाम्यमेव न विकल्प इत्यतो बूते ॥। ९०२ ॥ आसां विकल्प एव न्याय्यो न समुच्चय: कदाचिदृपि। यस्मादुपास्यसाक्षात्करणात्मकफलमिहाविशिषटं हि॥ ९०३॥ साक्षात्कृते परात्मन्येकेनैव द्वितीयमफलं स्यात्। अपि चोपास्तीनामिह न समुच्चयेन हिफलं भवेत्किंचित्॥९०४॥ यदुपास्यविषयसाक्षात्करणं फलमिह भवेदुपास्तीनाम्। विक्षेपसादनेऽस्मिन्ससुच्चये सति भवेत्फलं तदिदिम् ।९०५॥

Page 331

३२६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

विद्याफलं हि साक्षात्कृतिसाध्यं दर्शयन्ति वेदान्ताः। यस्य स्यादित्याद्या: स्मृतयश्च सदेति दर्शयन्त्येवम् ॥९०६ ॥ तस्माद्विशिष्टफलानामन्यतमासुपासनामेकामू। आलम्व्यतत्पर: स्याद्यावदुपास्यापरोक्षमन्यत्स्यात् ।९०७। काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥ स य एतमेव वायुं दिशामिति प्रथितकाम्यविद्यासु। कर्मवदेवादृष्द्वारा हि फलं प्रसाधयन्तीघु॥५०८॥ साक्षात्करणापेक्षा न चास्ति तेन च भवेद्यथाकाम्यम्। यस्माद्विकल्पसाधनमविशिष्टफलत्वमत्र नैवास्ति ।। ९०९ । अङ्गेषु यथाश्रयभादः ॥ ६१ ॥ कर्माङ्गेषूद्रीथादिषु विहिता या उपासनास्तास्तु। आश्रयतन्त्रा हि यथा संभयैवाऽऽश्रयास्तथैवैताः ॥ ९१०॥ शिष्टेश् ॥ ६२ ।। त्रिषु वेदेषु यथा वा स्तोत्रादय आभया हि शिष्यन्ते। एवं तदाभिता अप्युपासना: स्युर्न तत्र वैशेष्यम् ॥९११॥ समाहारात् ॥ ६३ ॥ छान्दोग्ये हि प्रणवोद्गथैक्यध्यानविधिरसौ हष्षः। तत्रैव होतृषदनाद्द्वैवाऽSदित्यादिरर्थवादोऽपि ॥ ९१२॥ तन्न स्वरप्रमादादिना हि दैवेन दुष्टमुद्गीथम्। प्रणवोद्गीथेकत्वध्यानबलादेव सोडयमुद्गाता ॥ ९१३ ॥ निर्दोषं तं कुरुते सम्यक्कृतहोतृशंसनादिति हि। वर्णितमत इह वेदान्तरोचितप्रत्ययस्य चैतस्य ॥ ९१४॥ वेदान्तरोपदिष्टानुबन्धसंकीर्तनं हि सर्वत्र। वेदान्तरोदितप्रत्ययोपसंहारमेव सूचयति ॥९१५॥ गुणसाधारण्यश्रतेश्र ॥ ६४ ॥ विद्याध्येयं विद्याशयमोंकारं हि सर्ववेदेषु। साधारणं च तमिमं तेनेयमिति श्रुतिः प्रदर्शयति ॥९१६॥

Page 332

तृतीयपादः ३ ] माष्यार्थरत्नमाला। ३२७ आश्रयसाधारण्यादाश्चितसाधारणत्वमपि तस्मात्। अथवैते कर्मगुणा ये चोद्गीथादयो भवन्त्येते ॥ ९१७ ॥ सर्वप्रयोगसाधारणा इमे कर्मसूपलभ्यन्ते। तेनाSSशयसहमावात्प्रत्ययसहभाव एव युक्त इह ॥ ९१८॥ न वा तत्सहभावाश्रुतेः ॥ ६५॥ आभ्रयसहमावेन प्रत्ययसहभाव इति हि यञ्चोक्तम। सन्नाऽडशयसहभावो न चाऽडशरितानासुपासनानां स्यात् ॥९१९। यस्मादिहाऽडभितानां तत्सहमावः श्ुतो न कुत्रापि। वेदत्रयविहितानां स्तोत्रादीनां तथैव चाङ्गानाम्॥ ९२०॥ सहमावश्चमसं वोन्नीयेत्यादिषु यथोपलब्धः स्यात्। एवं हयुपासनानां सहमावे न क्वचिच्छृतिर्दृष्टा ॥ ९२१॥ नापि प्रयोगवचनं सहभावं प्रापयेदिहैतासाम्। अत्र ह्युपासनानां पुरुषार्थत्वं प्रतीयते श्रुतिषु ॥९२२॥ क्रत्वर्थानामुद्गीथादीनां हि प्रयोगवचनं तु। सहमावमेव केवलमिह गमयेन्न ह्युपासनानां च ॥ ९२३॥ अङ्गाश्रितान्यपि च तान्युपासनानि स्वतः पुमर्थानि। गोदोहनादिवदिति प्रपश्चितं चैतदेव पूर्वत्र ॥ ९२४ ॥ कत्वर्थान्यङ्गानि हि पुरुषार्थानि ह्युपासनानि स्युः । सति चैवं हि विशेषे सहभावो न हि कथंचिदृपि तेषाम् ॥९२५॥ लिङ्गद्वयमपि च परं न्यायाभावाच्छतेरभावाञ्च। नोपासनसहमावस्योपीदलकं हि साधनं भवति ॥ ९२६ ॥ आश्रयतन्त्राण्येतान्याश्रपलोपे परं हि लुप्येरन्। न तु तत्सहमावार्हण्यतो यथाकाममेव तानि स्युः ॥९२७ ॥ दर्शनाच ॥ ६६ ॥ श्रुतिरसहमावमेव हयपासनानामिह प्रदर्शयति। एवंविद्व ब्ह्मा यज्ञं यजमानसृत्विजः सर्वान्॥ ९२८॥ अभिरक्षतीति तत्र हि सर्वत्र प्रत्ययोपसंहारे। सर्वे सर्वविदो न ज्ञानवता ब्रह्मणेतरेषां हि॥ ९२९ ॥ परिपाल्यतवं युक्तं तत्संकीर्तनमिदं सृषैव स्थात। तस्मादुपासनानां समुच्चयो वा भवेद्विकल्पो वा ॥ ९३०॥

Page 333

३२८ सुबह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी त्स्या तृतीयसंज्ञश्र योऽयमध्यायः ॥९३१॥ तत्र च तृतीयपादे सूत्रार्थो यश्च भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ।। ९३२।। इति तृतीयाध्याये तृतीयपाद: समातः ॥३॥ अथ चतुर्थः पादः ।

पादेडतीते हि परापरविद्यानां गुणोपसंहारम्। निर्दिश्य तत्स्वरूपं निश्चितमिह किल चतुर्थपादे हि॥ १॥ पुरुषार्थहेतुता कर्मानङ्गतया निरुष्यते तासाम्। यज्ञादीनि च बहिरङ्गाणि शमादीनि चान्तरङ्गाणि॥ २॥ विद्योत्पत्तौ साधनभूतान्यपि चेह दर्शयिष्यन्ते। भवतीह चैकविद्याविषयत्वं संगतिर्द्वयोरनयोः ॥ ३॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १॥ तत्त्वज्ञाने बहुधा विप्रतिपत्या तदेव चाऽडद्ौ हि। निर्णीयते किमात्मज्ञानं यच्चौपनिषद्मुपदिष्टम् ॥४॥ मण्येवानुप्रविशत्यधिकारसाधनद्वारा। किंवा न्त्रमेतत्पुरुषार्थं साधयिष्यतीत्यस्याम्॥५॥ मीमांसायां सत्यां सिद्धान्तेनैव तदिदमारभते। वेदान्तवाक्यजनितादात्मज्ञानादतो हि पुरुषार्थः ॥ ६।। मवतीति बाद्रायण आचार्यो मन्यते तदेतदिह। म्यते श्रुतिभ्यो ब्रह्मविदाप्नोति तरति शोकमिति ॥७॥ एताघदरे खल्वसृतत्वमिति श्रुतिरपि प्रदर्शयति। निरपेक्षायास्तस्या विद्याया इह पुरुषा(म)र्थहेतुत्वम् ॥८॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ २ ॥ एव ज्ञानमिद पुमर्थसाधनमितीह यच्चोक्तम्। तत्तु न युक्तं यस्माज्ज्ञानं तदिदं हि मवति कर्माङ्गम् ॥ ९॥ येनाSडरमाSसी कर्ता तेनासौ मवति कर्मशेष इह। भवति हि तद्विज्ञानं विषयद्वारेण कर्मसंबन्धि ॥ १०॥

Page 334

नतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला।

प्रोक्षण संस्कारादिवदेव फलश्नुतिरिहार्थवाद: स्यात्। इति मन्यते हि जैमिनिराचार्योऽन्येषु भवति सा हि यथा॥११॥ श्रुतिरर्थवादरूपेवान्यास्सु द्रव्यसंस्क्रियास्वेषा। हष्टा हि यस्य पर्णमधीत्याद्या तत्र चैवसुपदिष्टम्॥१२॥ यस्य जुहूः पर्णमयी स नैव पापं शृणोति हि श्लोकम्। अञ्जनमस्य यदेतद्भ्रातृध्यस्यास्य चक्षुरपहरति ॥१३॥ एवमिति यत्पयाजानूयाजाश्चापि सम्यगिज्यन्ते। यज्ञस्य वर्म तत्स्याद्यजमानस्यापि मवति वर्मेति ॥१४॥

दृष्टं तद्ददिहापि च फलश्रुतेरर्थवादता युक्ता ॥१५॥ प्रकरणमन्यक्किंचिद्विनैव तस्य क्रतुप्रवेशोऽयम्। आत्मज्ञानस्यानारम्याधीतस्य न कथमिति शङ््चम् ॥ १६॥ तद्विज्ञानस्यापि हि कर्तुद्वारा क्रतुपरवेश इह। आत्मा दष्टव्य इतिश्रुतिवाक्यबलेन युक्त एव स्यात् ॥१७॥ ननु विनियोग: क्रतुषु धुतिवाक्यस्यास्य नोपपन्नः स्थात। तत्रानारम्याधीतानां वाक्यात्क्रतुप्रवेश: स्थात्॥१८।। यत्र त्वव्यभिचारि द्वारं लभ्येत किंचिदृपि तेन। लौकिकवैदिककर्मसु कर्ता साधारणोःन तद्व्याप्य: ॥१९॥ तस्मान्न हि तद्द्वारा तद्विज्ञानस्य कर्मसंबन्ध: । इति चेदुपपन्नोऽयं तद्विज्ञानस्य कर्मसंबन्धः ॥ २०॥ इह किल देहव्यतिरिक्तात्मज्ञानं विवक्षितं तञ्ञ। न हि लौकिकेषु कर्मस्वपेक्षितं तद्विनाऽपि दौ॥२१॥ हश्यत एव हि लौकिककर्मातस्तदिद्मात्मविज्ञानम्। तनुपातोत्तरकालफलेष्वेव हि वेदिकेषु जनके स्थात् ॥ २२ ॥ नन्वपहतपाप्माडयं वेदान्तेषूपदिश्यते ह्यातमा। यदिदं तद्विज्ञानं तद्संसार्यात्मविषयमेव स्पात् ॥ २२॥ तच्च कथं कर्माङं स्यादिति शक्का न चेह कर्तव्या। यस्मात्संसार्यात्मा प्रियादिसंसूचितोऽत्र निर्दिषः ॥२४॥ अपहृतपाप्मत्वादिकमस्य स्तुत्पर्थमेव निर्दिष्टम्। ननु पूर्वमेतदुक्तं ब्रह्मासंसारि जगदुपादानम् ॥२५॥

Page 335

३३० सुबह्मण्यविरचिता- [१ तृतीयाध्यायस्य-

संसारिण: स्वरूपं तव्ेव परमार्थतो न चान्यविति। उपदिश्यते हि वेदान्तेष्विति चेतसत्यमेव पूर्वोक्तम् ॥२६ ॥ पूर्वोक्तस्यैव पुनः स्थूणानिखनननयेन वाढर्चाय। उपदिश्येते ह्याक्षेपसमाधाने उभे फलद्वारा ॥ २७ । आचारदर्शनात् ॥ ३ ॥ जनको हेतिप्रभृतीनि यक्ष्यमाण इति चैवमादीनि। ब्रह्मविदामपि विद्याविधिपरवाक्येष्विमानि वाक्यानि॥ २८॥ दश्यन्ते तानि ब्रह्मविदा कथयन्ति कर्मसंबन्धम्। उद्दालकाविषु तथा पुत्राद्यमशासनेन गार्हेस्थ्यम्॥ २९॥ अवगम्यते यदा तु ज्ञानाच्चेत्केवलात्पुमर्थः स्यात्। बहुलायासानि पुनः कर्माण्येतानि ते कथं कुर्यः ॥ ३० ॥ मधु विन्देत समीपे किमर्थमचलं व्रजेदिति न्यायात्। तच्छतेः ॥ ४ ॥

कर्मशेषतैव हि विद्याया न स्वतः पुमर्थत्वम् ॥३१॥ इत्येतदर्शयति श्रुतिरत्र यदेव विद्ययेत्याद्या। समन्वारम्भणात् ॥ ५॥ तं विद्येति श्रुतिरियमिह विद्याकर्मणोः फलारम्मे ॥ ३२॥ दुर्शयति हि साहित्यं तस्माद्विया न केवलाऽर्थकरी। तद्दतो विधानात्॥ ६ ॥ भ्ुतिरेषाSSचार्यकुलाद्वेदमधीत्येति दर्शयत्येवम् । ३३॥। गुरुशुश्रूषाकर्मण्यनुष्ठिते योऽतिशिष्यते कालः। शत्र च यथाविधानं वेदमर्धीत्य च ततः समावृत्य ।। ३४।। गार्हस्थ्ये हि स्थित्वा धर्मान्विधिचोदिताननुष्ठास्यन्। स्वाध्यायं तमधीयानोऽसी सततं शुचिपदेशेषु ॥ ३५ ॥ मूतानि चाप्यहिंसन्नात्मनि सर्वेन्द्रियाणि संस्थाप्य। एवं स वर्तमानो ब्रह्मपदं शाश्वतं प्रयातीति ॥३६ ॥। वेदार्थज्ञानवतः कर्मण्यधिकारदर्शनादत्र। स्वातन्त्रयेप्ैतस्या विद्याया न हि पुमर्थहेतुत्वम् ॥३७॥

Page 336

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३३१

ननु वेदस्याध्ययनं भूयत इह नो तदर्थविज्ञानम्। इति चेद्वेदाध्ययनं मवति हयर्थावधारणार्थमिह॥३८॥ नियमाच॥ ७॥ कुर्वन्नेवेत्याद्या श्रुतिरेतद्वै जरेति चान्याSपि। दर्शयति हि विद्याया नियमेनैवेह कर्मशेषत्वम्॥३९॥ अधिकोपदेशानु बादरायणस्यैवं तद्दर्शनात् ॥८॥ उक्त्ताक्षेपनिरासार्थकस्तुशब्दोत सूत्रनि्दिष्टः। पत्वस्य कर्मशेषत्वेन फलश्रुतिरिहार्थवाद इति ॥ ४० ॥ तत्तु न युक्तं यस्माद्वेदान्तेषूपदिश्यते ब्रह्म। यदि संसार्येवाऽडत्मा शारीर: कर्तृभोक्तृतादिगुण: ।। ४१॥। उपदिष्टः स्याद्वेवान्तेषु तदा युक्तमर्थवादृत्वम्। इंछ पुनरपहृतपाष्मा परमात्मा स्वप्रकाशचिन्मात्र: ॥४२। शारीराद्धिको यो वेदान्तेषूपदिश्यते सोडयम्। तद्विषयं हि ज्ञानं पवर्तकं कर्मणां कथं वा स्यात् ॥४३॥ कर्मोच्छित्तिं यस्मादुपमर्द चेति वक्ष्यति ज्ञानात्। सस्मात्पुरुषार्थोडतः शब्दादिति मगवतो मतं यत्स्यात् ॥४४॥। शेषत्वादिभिरेतन्न चाल्पते तत्तु भवति तद्वस्थम्। परमेश्वरं तमधिकं प्रदर्शयन्ति किल सर्ववेदान्ता: ॥। ४५:। पः सर्वज्ञः सर्वविदित्याद्या अपि तदेक्षतेत्याद्याः। यञ्चोक्तमात्मनोऽस्य प्रियादिसंसूचितस्य वेद्यतया॥ ४६॥ संसारिणोऽनुकर्षणमुपलभ्यत आत्मनस्तु कामाय। सव प्रियमित्येवं त्वेव त इत्यादिकं च तत्सकलम् ॥ ४७॥ न विरुद्द्मस्य महतो भूतस्येत्यादिमि: पहं ज्योतिः । उपसंपद्य स्वेनेत्यादयैवेदान्तवाकयशेषैहिं॥ ४८॥ सत्यामधिकोपदिदिक्षायामेतन्न चातिभेदपरम्। यदिदं शारीरस्य स्वरूपमिह पारमेश्वरं तत्स्यात् ॥ ४९।। औपाधिकमेवैतच्छारीरत्वमिति तत्वमस्याद्यैः। उपदिश्यते तदेतन्निर्णीतं तत्र तत्र पूर्व हि ॥ ५०॥। तुल्यं तु दर्शनम् ॥ ९ ॥ आचारदर्शनादिह विद्येयं कर्मशेष इत्युक्तम्। आचास्दर्शनं तद्विद्याया: खल्वकर्मशेषत्वे।५१-॥

Page 337

३३२ सुन्नह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तुल्यं भ्रतिरिह यस्मादेतद्ध स्मेति दर्शयत्येवम्। कर्मफले स्वर्गादावृषयः संजातमूरिवेराग्याः ॥५२॥ यक्ष्यामहे किमर्था वयमिति यागाद्यनादराविष्टाः ।

विज्ञाय मैक्षचर्यामपास्तसर्वेषणाश्ररन्तीति।

एतावदरे खल्वमृतत्वमितीत्यादिवेद्वाक्येभ्यः । यञ्चेह लिङ्गमुक्तं हि यक्ष्यमाण इति कर्मशेषत्वे ॥ ५५॥ ततिि वैश्वानरविद्याविषयं भवति सा च विद्या हि। सविशेषविषयका स्यात्तत्र च युक्तं हि कर्मसाहित्यम ।५६।। न तु निर्विशेषगोचरविद्या कर्माङ्गमावमुप्याति। कर्म णविरहाद्यदन्यदुक्तमिह तच्छतेरिति हि॥ ५७। असार्बत्रिकी ॥१॥। नेयं हि सर्वविद्याविषयाऽन्र देवविद्ययेत्याद्या। फिंतु प्रकृतोद्गीथोपास्तिपरेव श्रुतिर्भविदेषा ॥ ५८॥ विभागः शतवत् ॥११ ॥ यञ्च समन्यारम्मणमुक्तं यच्चेह भवति विद्याया:। अस्वातकये लिङ्ग तं विद्याकर्मणीत्यनेनोक्तम् ॥५९॥ तस्थेवं प्रतिवचनं मवति विभाग इति सूत्रनिर्दिट्म। इह विद्याऽन्वारमते ह्यन्यं पुरुषं तथेव कर्मान्यम्॥ ६० । इति तु विभामोऽत स्याच्छतवदिति निदर्शनं भवेवृत्र। शतमेताम्यां देहीत्युक्ते पृथगेव दीयते हि यथा ॥ ६१ ॥ पञ्चाशत्पश्चाशत्तथेतदृपि वस्तुतोत वचनमिद्म्। संसारिपरमिहेति तु कामयमान इतिवाक्यनिर्देशात ॥६२॥ अन्नाथाकामयमान इति मुमुक्षु: पृथग्विनिर्दिष्टः। विद्या विहिता प्रतिषिद्धाऽपि च संसारविषय एव स्यात॥६३। संसारविषय एव हि कर्म प्रतिषिद्द्मपि च विहिनं च । अविभागेनाप्यत्र समन्वारम्भे न बाधकं किमपि ॥ ६४॥ अध्ययनमान्रवतः ॥ १२॥। यत्तद्वतो विधानादित्यत्रोक्तं निरस्यतेर्ता ।

Page 338

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३३३

भ्ुतमिह तेन च कर्मण्यधिकारोऽध्ययनमात्रवत एव। निर्णीयते ह्यविद्वान्कथमिह कर्मस्वधिक्ियेतेति ॥ ६६ ।। नेषा शङ्का कार्या न वयमिहाध्ययनमात्रसंभूतम्। कर्मावबोधनं यत्कर्मस्वधिकारकारणं नेति ॥ ६७॥ प्रकृते निवारयाम: कित्वात्मज्ञानमौपनिषद यत्। स्वत एव फलवदेतन्न पुनः कर्माधिकारहेतुरिति ॥ ६८ ।। प्रतिपाद्याम एतद्यथैव हि क्रतुविशेषविज्ञानम्। करत्वन्तराधिकारे कथमपि नापेक्ष्यते तथैवैतत् ॥ ६९॥ नाविशेषात् ॥ १३॥ नियमाच्चेति यदुक्तं दूषणमधुना निरस्यते तदिदम। कुर्वन्नेवेत्यादिषु नियमश्रवणेषु विदुष एवेति॥७० ॥ नास्ति विशेषो यस्माद्विशेषेणोपदिश्यते नियम: । स्तुतयेऽनुमतिर्वा ।। १४ ॥। कुर्वन्नेवेत्यत्र त्वपरोऽ्याख्यायते विशेषो हि। ७१ ॥ यद्यपि विद्वानेव प्रकरणबलतः प्रतीयतेऽथापि। विद्यास्तुतये तविदं कर्मानुज्ञानमिति तु विज्ञेयम् ॥ ७२॥ तद्भिप्रायेणैव हि न कर्म लिप्यत इति प्रवर्शयति। यावज्जीवं कुर्वत्यपि विदुषि न कर्म सवति लेपाय ।।७३ ॥ विद्यासामर्थ्यादिति विद्यास्तुतिरेव गम्यते तस्मात्। कामकारेण चैके ।। १५।। अपि चात्रैके प्रत्यक्षी विद्याफला हि विद्वांस:।।७४।। स्वर्गादिसाधनेषु प्रजादिषु हि तद्दलावलम्वेन। निष्फलतामेवैते निश्चिन्वन्तीति दर्शयत्येषा ॥। ७५॥ श्रुतिरियमेतद्ध स्मेत्याद्या प्रजया फलं। माकमू। परमात्मेवाऽडर्मा नः प्राप्यो लोको भवेत्परात्मेति॥७६॥ तस्मादृपि विद्याया न कर्मशेषत्वंसुचि अयितुम्। नापि च तद्विषयाया: फलश्चुतेरर्थवादता युक्ता।। ७७।

Page 339

३३४ सुबह्मण्यविरचिता- [ ३ तृतीया

उपमर्दै च ॥ १६ ॥ कर्माधिकारहेता: कारकफलतक्किरियादिरूपस्य । आविद्यकस्य विद्यावीर्यादुषमर्दमामनन्त्यपि च।७८॥ यत्र त्वस्येत्याद्याः श्ृतयः किचेह वैपरीत्यमपि । औपनिषदात्मविद्यापूर्व कर्माधिकारसिद्दधमिह।७९ ॥ आशासानस्य परं कर्मण्यधिकारभक्ग एव स्यात्। तस्मादृपिं विद्याया: स्वातन्त्रयं स्यान्न कमशैषत्वम्॥ ८० ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥ विद्येयमूर्ध्वरेतःसु च दृष्ा सा भवेन्न कर्माङ्गम्। न हि तेष दृश्यते तद्यद्ग्निहोत्रादिलक्षणं कर्म ॥८१ ॥ ते चोर्ध्वरेतसः किल न भ्रूथन्ते हि वेद इत्यपि न। येनोर्ध्वरेतसस्ते शूयन्ते वैदिकेष शब्देषु ।। ८२ ।। त्रय इह धर्मस्कन्धा: श्रद्धां तप इत्युपासते ये च। ये धोपवसन्ति तपःभरद्धे केवलमरण्यकृतवासाः ॥८३॥ प्रव्राजिनो हि लोकं काङ्क्षन्तः प्रव्जन्ति ते हेति। किंध पुनर्वह्मेत्यादिश्रुतिवाक्ये तदूर्ष्वरेतस्त्वम् ।८४॥ रूयत एव प्रतिपन्नाप्रतिपन्नाश्रमान्तराणां च। तस्मादृपि विद्यायाः स्वातन्त्रयं स्यान्न कर्मशेषत्म् ॥ ८५॥ परामर्शं जैमिनिरचोदना चापवदति हि॥ १८ ॥ ये चोर्ध्वरेतसामिह सन्भावाय प्रदर्शिता: शब्दाः। त्रय इत्याद्याः औतास्ते तत्पतिपादनक्षमा न स्युः ॥ ८६॥ यत आश्रमान्तराणां शब्देष्वेतेषु किल परामर्शम्। केवलमिह जैमिनिराचार्योऽसौ मन्यते न तत्र विधिम्।। ८७।। येन लिङ्ादीनामन्यतमो नेहास्ति चोदनाशब्दः । अर्थान्तरपरतैव हि दृष्टा प्रत्येकमेषु शब्देषु ।। ८८ ॥। तय इत्यादो यज्ञोऽध्ययनं दानमिति वर्णितः प्रथम: । स भवति गृहस्थ इह तप इति तुवनस्थो द्वितीय इह कथितः।।८९।। आचार्यकुलनिवासी योऽसौ हि ब्रह्मचर्यमापन्नः। उपकुर्वाणो नैठिक इति स द्विविधस्मृतीय इह मवति ॥ ९० ॥

Page 340

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला।

एते हि पुण्यलोका इति तु परामर्शपूर्वकं तेषाम्। संकीर्त्यानात्यन्तिकफलतामत्यन्तफलतया हीयम् ॥९१॥ प्रस्तूयते पुनर्बह्मसंस्थता ब्रह्मसंस्थ इत्याद्यैः। नन्वाश्रमा: परामर्शेऽपि हि गम्यन्त एव तत्रैते ॥९२॥ सत्यमथापि स्सृत्याचाराम्यां तत्प्रसिद्धिरिह हष्ा। न प्रत्यक्षध्रुत्या हष्टा सा चेह तद्विरोधे तु ॥९३ ।। नाऽSदूरणीयैवानधिकृतविषया एव ते भविष्यन्ति। ननु गाईस्थ्यमपीवं सहोर्ध्वरेतोमिरिह परासृष्टम्॥९४॥ सत्यमथापि गृहस्थं प्रत्येव विधीयतेऽग्निहोत्रादि। तेन श्रुतिप्रसिद्धं गाईस्थ्यमिति प्रतीयते व्यक्तम् ॥९५॥ इह च परामर्शोडयं स्तुत्यर्थः स्यान्न चोदनार्थोऽपि। अपि च प्रत्यक्षश्रुतिरपवद्ति किलाऽडश्रमान्तर हीयम् ॥९६॥ आचार्याय पियमित्याद्याऽपि तथैव वीरहेत्याद्या। ये चेमेऽरण्य इति श्रुतिरपि भवतीह देवयानपरा॥९७॥ नेहाSSभ्रमान्तरस्य प्रदर्शनार्था यतश्र संदिग्धम्। तद्धघाश्रमान्तरं त एवेत्यादौ तथैतमेवेति ॥९८॥ न हि पारिव्राज्यविधिर्भवति न चायं हि लोकसंस्ताकष: । तदिदं तु पुनर्व्ह्मेत्यादौ वाक्ये प्रदर्शितं हि ननु ॥९९॥ पारिव्राज्यविधानं कथमिह दूषणमिद मवेदिति चेतू। सत्यमथापि त्वेतां जाबालश्रुतिमिहानपेक्ष्पैय ।। १०० ॥ श्ुत्यन्तरावलम्बाद्विचारं इह चालितो हि सूत्रकृता। अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥१९॥ तदिदं पारिव्राज्यमवश्यमनुष्ठेयमवे भवतीह ॥ १०१॥ गार्स्थ्यवदेवेति हि मन्यत इह बादरायणाचार्यः । अनधिकृतानुष्ठेयं तदाश्रमान्तरमितीह नाऽडशङ्ूचम् ॥१०२ ॥ श्रुतिसाम्यमेव दृष्ट गार्हस्थ्येनाऽडश्रमान्तरस्य यतः । स्कन्धश्रुतौ यथैव श्ुत्यन्तरविहितमेव गार्हस्थ्यम्॥१०३॥ मवति परामृष्ट तद्वदेव खल्वाश्रमान्तरं तदिदम्। भवति यथैव निवीतप्राचीनावीतयोः परामर्शः॥१०४।।

Page 341

२३६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाष्यायस्य-

शास्त्रान्तरावगतयोरुपवीतविधिप्रधानके वाक्ये। तस्मादिहाऽडभ्रमान्तरमपि गार्हस्थ्येन तुल्यमेव स्यात् ॥१०५॥ किंच प्रव्ाजिन इत्यस्य च वाक्यस्य दृश्यतेऽत्र पुनः । सममिव्याहारि:(रः) श्रुत्यनुवचना* थैव चेहापि ।। १०६ ॥। ये चेमेऽरण्य इति श्रुतेरहि पश्चाग्निविद्यया मवति। तव एवेत्यादिषु किल संदिग्धं तदिति यच्च पूर्वोक्तम् ॥१०७ ॥ तदिदमयुक्तं निश्चयकारणमत्रोपलभ्यते यस्मात्। धर्मस्कन्धास्त्रय इति यदिदं स्कन्धतयं प्रतिज्ञातम् ।।१०८॥ यज्ञादयो हि धर्मा: पृथगुत्पन्ना मवन्ति मूयांस:। हिंत्वाSSश्रमसंबन्धं त्रित्वेनान्तर्भवन्ति तत एते ॥ १०९॥ भवति गृहस्थाश्रम एवैको यज्ञादिलिङ्गकः स्कन्धः । विस्पष्टमेव चान्यो निर्दिष्टो ब्रह्मचारिशब्देन ॥ ११०॥ तप इत्य्रापि तप:प्रधान एवाऽडश्रमो वनस्थोऽसी। ये चेमेऽरण्य इति श्रुतिवाक्ये खल्वरण्यलिङ्गेन ॥ १११॥ सोडयं तुरीय एव स्यान्न स्कन्धत्रयप्रविष्टोऽयम्। श्रद्धातपःपराणामेव यतो ह्याश्रमान्तरग्रहणमू॥११२॥ विधिर्वा धारणवत् ॥ २० ॥ अनुवाद्कत्वपक्षं हित्वा स्कन्धश्रुतोर्वैधित्वमिह। परिकल्प्यते हि तत्र च लाघवमेवेति दर्शयत्यधुना । ११३॥ विधिराशमान्तरस्य स्थान्न परामर्शमात्रमेवात्र। अविरक्तविषयकत्वाद्यावज्जीवश्ुतेर्न बाधकता ॥११४॥ ननु यदि विधित्वमस्यास्तदैकवाक्यत्वमनुपपन्नं स्यात्। अत्रैकवाक्यता हि प्रतीयते ब्रह्मसंस्थतास्तुत्या ॥ ११५॥ अल्पफलत्वेन त्रीननिन्दित्वा ब्रह्मसंस्थता चेह। अमृतत्वफलतयेव स्तुता हि सा ब्रह्मसंस्थ इत्येव ॥। ११६ ।। इति चेत्सत्यमथापि त्यकत्वा स्तुत्यैकवाक्यतामत्र। विधिरेवापूर्वत्वादभ्युपगन्तव्य इति तु युक्तमिह ॥ ११७ ॥ विध्यन्तरस्य चानुपलम्बा(म्भा)दत्र च विधिप्रतीतेश्र। संभवति हि मुख्यार्थे स्तुतिलक्षणयाSत्र गौणवादत्वम्॥ ११८॥ आशरित्य योजना न हि युक्ता स्तुत्येकवाक्यभावेन। धारणवदिति निदर्शनमुपदिष्टं तत्किलैवमत्र स्यात् ॥ ११९ ॥

Page 342

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३३७

इह च महापितृयज्ञे मवति प्रेताग्रिहोत्रमत्र हविः। प्रक्षिप्तं सुच्याहवनीयं प्रतिनीयते यदा तहि ॥ १२० ॥ हविषस्तस्याधस्तात्समिधं धृत्वा ह्यनुव्जेत्स पुनः । इत्युक्त्वोपरि देवेभ्यो धारयतीति दर्शितं श्रुत्या ॥१२१॥ अनयाऽधस्तादित्यादिकयाऽदोधारणस्य विहितस्य। स्तावकतयोपरिगृहीतस्य च तेनैकवाक्यतामाने ॥१२२॥ सत्यपि दैवे चोपरिधारणविधिरिह यथा तथेहापि। तुल्यत्वाच्चापूर्वत्वस्थोंक्तं शेषलक्षणेऽपीदम् ॥ १२३ ॥ यद्यपि केवलमन्राऽडश्रमान्तरस्यास्ति किल परामर्शः।

या ब्रह्मसंस्थतोक्ता सा स्यादाश्रमचतुष्टये किंवा। भवतीह यस्य कस्यचिद्थ तु परिव्राजकस्य वेत्येतत् ॥ १२५ ॥ अत्र विवेक्तव्यं यदि भवेत्परिव्राजकः परासृष्टः। सर्वेषामविशेषेणैव गृहस्थादिवत्परामर्शात् ॥ १२६॥ यो ब्रह्मसंस्थ एकश्रतुर्षु किल कश्िदाश्रमेषु स्यात्। यदि तु स न परामृष्टस्ततस्तु परिशिष्यमाण इह योऽसी ॥१२७॥ स खलु परिव्राडेव स्यादृत्र ब्रह्मसंस्थ इति युक्तम्। तत्र तपःशब्देन हि भवेत्परिव्राजकः परामृष्टः ॥ १२८॥ इति केचित्तदयुक्तं सत्यां हि गतावनेन शब्देन। वानप्रस्थपरेण च कथं परिव्राजकोऽन गृहयेत ॥ १२९॥। इह च परासृष्टी किल गृहमेधित्रह्मचारिणावेतौ। अत्र यथा साधारणविशेषणेन च विशेषितौ भवतः ॥ १३०॥ एतौ हि भिक्षुवैखानसावपि तथा विशेषिती भवतः । वानप्रस्थानां खल तपस्त्वसाधारणो भवेद्दर्मः ॥१३१॥. कायकेशपुरःसरकर्मणि रूढो ह्ययं तप:शब्दः। भिक्षोस्तु धर्म इन्द्रियसंयमनादिरन चेतर: का्चित् ॥१३२॥ यदि च तपःशब्देनेन्द्रियसंथमनादिरवि च गृह्येत। तरहिं चतुषूवेन सतां त्रिष्वन्तर्भावकथनमन्याय्यम ॥१३६ एकोऽमृतत्वभाक्स्यात्त्रय एते पुण्यलोकभाज इति। व्यपदेशोऽत्र तु दृष्टः स चाऽडश्रमपृथकत्व एव संभवति॥१३४ ॥ ४३

Page 343

३३८ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तस्मादेते पूर्वे मवन्ति किल पुण्यलोकमात्रफलाः । परिशिष्यमाण एष परिव्राडमृतत्वमागिति न्याय्यम्॥१३५॥ नतु संभवन्हि योगात्सर्वत्र ब्रह्मसंस्थशब्दोऽयम्। अवतिष्ठते परिव्राजक एव कथं यदा तु रूढि: स्यात् ॥ १३६ ॥ आश्रममान्रादमृतत्वप्राप्तेज्ञनमफलमिति चेन्न। तत्रानन्यव्यापारतात्मिकां ब्रह्मसंस्थतामत्र॥ १३७ ॥ न ब्रह्मसंस्थशब्दो व्वीति सा नाऽडश्रमत्रयस्य स्यात्। स्वाश्रमविहितानामननुष्ठाने पातकं ध्ुतं तस्य ।। १३८।। अनसुष्ठाननिमित्तं तत्तु परिव्राजकस्य कथमपि च। न भवेद्यतक्ष तस्मिन्हष्टः खलु सर्वकर्मसंन्यासः ॥१३९॥ धर्मः शमादिरस्योपोद्दलको ब्रह्मसंस्थताया: स्थात्। यञ्च शमाद्युपबृंहितमस्य पुनर्रह्मनिष्ठतारूपम् ॥१४० ॥ तत्तस्याSSभ्रमविहितं कर्मान्येषां यथैव यज्ञादि। यदि तद्व्यतिक्रमः स्यात्तदा भवेत्प्रत्यवाय एतस्य । १४१ ॥ न्यास इति ब्रह्मेति श्रुतयस्ते ब्रह्मलोक इत्याद्या:। स्मृतयस्तद्बुद्धय इति कर्माभावं प्रदर्शयन्त्यस्य ॥। १४२॥ तस्मादाश्रममात्रान्न चेह तस्यामृतत्वसंप्राप्ति:। नापीह ज्ञानानर्थक्यापत्तिश्र दूषणं भवति ॥१४३॥ तेनेतराश्रमाणामत्र समानेऽपि किल परामर्शे। लभ्यत एव हि पारिव्राज्यं यङ्गह्मसंस्थतारूपम् ॥१४४॥ अनपेक्ष्य च जावालश्रुतिमाचार्येण चालिता चर्चा। इह चाऽडश्रमान्तरश्रुतिरस्यैव ब्रह्मचर्यमित्याद्या॥१४५॥ पारिव्राज्यं त्वनया श्र(क)मेण दर्शितमथाक्रमेणापि। अनधिकृतगोचरेयं श्षतिरिति नैवेह युज्यते वक्तुम् ॥१४६॥ अविशेषश्रवणात्परमनधिकृतानां पृथग्विधानाच्च। अथ पुनरित्यादिश्रुतिरनधिकृतानां तदेतदुपदिशति ॥१४७॥ ब्रह्मज्ञानस्यास्य च परिपाकाङ्ग हि भवति तच्चैतत् । पारिव्राज्यं नानधिकृतविषयमिति श्रुतिः प्रदर्शयति ॥१४८॥ सा चेयमथ परिव्राड््विवर्णवासा इति प्रसिद्ध्ैव। तस्मादिहोर्ध्वरेतस इह सिद्धा एव तत्र विहितायाः ॥१४९॥

Page 344

वतुर्थ: पाद: ४ ] भाष्यार्थरत्नमाला। ३३९.

विद्याया: स्वातन्त्रयं सिद्धं तेन च समख्जसं सकलम्। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१॥ इह च स एष रसानां रसतम इत्यादिवाक्यमुपदिष्टमू ॥ १५० ॥ छान्दोग्ये तत्र रसः पृथिवी तस्या रसस्त्वमा आप:। ताभ्यश्चौषधयोऽपि हि तथौषधिभ्योऽपि पुरुष एष रसः ।१५:।। पुरुषस्य वाग्रसः स्यादृग्वाचः स्याट्टचश्र साम रसः । साम्नोऽट्टमोडयमुद्गीथो हि रसानां च रसतमः परमः ॥१५२॥ इति निर्दिष्टं हि तथैवान्यत्राप्येवमेव निर्दिष्टम्। इयमेवर्गगनि: सामायं वावेतिवेदवाक्येषु॥ १५३॥ उद्गीथादे: स्तुत्यर्था एवैता भवन्ति किं श्रुतयः । आहोस्विच्छरृतय इमा उपासनाविधिपरा भवन्त्यत्र ॥ १५४।। इति संदेहे सति ता: स्तुत्यर्था इति तु युक्तमिह यस्मात्। श्रूयन्ते ताः कर्माङ्गाण्युद्रीथाषिकानि चाऽडश्रित्य॥१५५॥ इयमेध जुहूरादित्य: कूर्म: स्वर्ग एवमाद्या हि। जुह्वादिस्तुत्यर्था यथा भवन्ति हि तथेति चेन्मैवम् ॥१५६ ॥ श्ुतिवचसां नैतेषां स्तुतिमात्रमिह प्रयोजनं युक्तम। उपलभ्यते किलापूर्वत्वाद्विध्यर्थतैव येनान्र ॥ १५७॥ विध्यर्थत्वे चापूरवोर्डर्यो विहितो मवेदसौ तत्र। स्तुत्यर्थत्वे तेषामानर्थक्यं तदत्र दुर्वारम्॥१५८॥ विधिसंनिधिपठितानां स्तुतिपरता हश्यते न चान्येषाम्। विधिनेत्यस्मिन्सूत्रेऽव्ययमेवार्थः प्रदर्शितो नान्यः ।। १५९। न व्यवहितपठितानामेषामिह वाक्यशेषता युक्ता। इयमेव जुहूरित्यादीनां विधिसंनिधी समाम्नानात् ॥ १६० ॥ स्तुत्यर्थतया तेषां विधिशेषत्वमिति मवति वैषम्यम्। तस्मादेताः श्वुतयो विध्यर्था न स्तुतिप्रधाना: स्यु: ॥ १६१॥ आावशब्दाच ॥ २२॥ सामोपासीतोद्गीथमुपासीताहमुक्थमस्मीति। विद्यादिति च श्रूयन्ते विस्पष्ा विधायका: शब्दाः ॥१६२॥ ते च स्तुतिपरतायां व्याहन्येरन्ससृतिस्तथेयमपि। कुर्याक्क्रियेत कर्तव्यं च भवेत्सयादितीह पञ्चविधम् ॥१६३ ॥

Page 345

३४० सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

एतञ्च सर्ववेदेष्वपि नियतं लक्षणं विधेरिति हि। एवं स्मरन्ति हि लिडनद्यर्थ विधिमत्र मन्यमानास्ते॥। १६४।। इह तु श्रूयन्ते हि प्रतिप्रकरणं फलानि भिन्नानि। आपयिता वे कामानामिति कल्पन्त एवमादीनि ॥ १६५॥ तस्मादुद्गीथादिश्रुतय इहोपासनाविधानार्थाः। अङ्गाश्रितविद्या अप्येता हष्टा इह स्वतन्त्रफलाः ॥ १६६ ॥ किमु वक्तव्यं स्वातन्त्रयमिति परात्मप्रधानविद्यानाम्। परविद्यास्वातन्त्रये पर्यवसानात्समख्जसं सकलम् ॥१६७॥ पारिपवार्था इति चेन्न विशेषितत्वात् ॥ २३॥ पुन्रादिपरिवृताय हि राज्ञे विहिताश्वमेधयागे हि। पारिपुव प्रयोगो नानाख्यानाभिधानरूपौडसी ॥ १६८॥ एवमिह याज्ञवल्क्यस्य द्वे भार्ये इति प्रसिद्धेषु। वेदान्तवाक्यदर्शितनानाख्यानेषु संशयोऽयं स्यात् ॥१६९॥ पारिपरवप्रयोगार्थानि किमेतानि किमथवैतानि। तत्तद्विद्यापतिपतत्पर्थान्येवेति तत्र विहितत्वात् ॥ १७०॥ पारिपुवप्रधाना एवैता: श्रुतय इति यदोच्येत। लुप्येत तर्हि वेदान्तानां विद्याप्रधानताऽन पुनः ।१७१॥ मन्त्रवदेव हि तेषां प्रयोगशेषत्वसंभवादिति चेतु । पारिप्ठवमाचक्षीतेत्यत्र विशेषितानि तान्येव ॥ १७२। यान्याख्यानानि पुनर्मनुरित्यारभ्य दर्शितानि स्यु: । आख्षानत्वेन यदा सर्वगृहीतिस्तदेदमफलं स्यात ॥ १७३॥ मनुरित्यादिविशेषणमतो न पारिपुवार्थतैतेषु। तथा चैकवाक्यतोपबन्धात् ॥। २४।। आख्यानानामेषां यदि च न पारिप्रवार्थता तारहै ॥ १७४ ॥ दृश्यत् एव हि संनिहिताभिविद्याभिरेकवाक्यत्वम् ॥ १७५॥ तेन च विधिशेषत्वं परोचनाञ्च प्रवृत्तिसौकर्यात्। इह मैत्रेयीबाह्मणवाक्ये द्षव्यवाक्यदर्शितया॥ १७६॥ शुद्धात्मविद्यया तद्दष्ट प्रातर्दनेऽपि वाक्ये हि। प्राणोऽस्मि प्रज्ञात्मेत्यनया संवर्गविद्ययाऽपि तथा॥१७७॥

Page 346

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३४१.

जानश्ुतिरितिवाक्ये तदेकवाक्यत्वमवगतं भवति। प्राजापत्यमजं तूपरमिति विधिशेषता यथैतेषाम्॥ १७८॥ भवति स आत्मन इत्याद्याख्यानानां तथैव चेहापि। तस्माद्वेदान्ताखयानानां पारिपवार्थता नेह॥१७९॥ अत एव चाग्नीन्धनादनपेक्षा ॥ २५॥ अधिकरणत्रितयेन च विद्यास्वान्तन्यमेवमभिधाय। प्रथमाधिकरणफलमुपसंह्नियते पुनरिदं हि सूत्रकृता॥ १८० ॥ अत एवेत्यत आदिमसूत्रोक्तं गृह्यते न चान्यदिह। तस्मादिह विद्याया: स्वतश्र पुरुषार्थसाधनत्वेन ॥। १८१ ।। अग्रीन्धनादिसाध्यान्याश्रमकर्माणि यानि चान्यानि। विद्याया: फलसिद्धौ नापेक्ष्यन्ते हि तानि सर्वाणि ॥१८२॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ चिन्त्यत एतदिदानीमत्र किमत्यन्तमेव विद्यायाः। अनपेक्षा विधिविहितेष्वाश्रमकर्मस्वथास्ति काचिदिति ॥१८३॥ न्धिनादिकानि ह्याश्रमकर्माणि तानि फलसिद्धौ। नापेक्षते हि विद्येत्युक्तं पूर्वत्र तेन चात्यन्तम् ॥ १८४ ॥ अनपेक्षायां प्राप्तायामेतदिहाभिधीयते सूत्रे। यज्ञादीन्याश्रमकर्माणि हि सर्वाण्यपेक्षते सेति ॥ १८५॥ नन्विह विरुद्धमेतान्यपेक्षते न ह्यपेक्षते चेति। न विरुद्धमत्र किंचित्स्यादुत्पन्ना यदा भवेदविद्या ॥ १८६ । नापेक्षते तदेयं फलसिद्धिं प्रति तु साधनं किमपि। स्वोत्पत्तिं प्रति विद्या ह्यपेक्षते साधनान्तरं तदिद्म् ॥१८७॥ इममर्थमुपदिशति हि श्रुतिरेषा या तमेतमित्याद्या। ज्ञानेऽपि वेष्यमाणे किंवा पुनरत्र विविदिषायां वा ॥ १८८ ॥ तेषां विधीयते किल हेतुत्वं दुरितनिरसनद्वारा। पारम्पर्यजितायामत्र तृतीया श्ुतिर्भवेद्युक्ता ॥ १८९॥ काठ्ठैः पचतीत्यादौ ज्वालाद्वारा यथा तथेहापि उत्पत्तिहेतुतैषां प्रतीयते ह्यन्र विविदिषायोगात् ॥ १९० ॥ अथ यद्यज्ञ[ इति ] श्रुतिवाक्ये हि ब्रह्मचर्यरूपस्य। विद्याहेतोः समभिव्याहारो हश्यते च यज्ञायैः ॥१९१॥

Page 347

३४२ सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

विद्यासाधनमावो यज्ञादीनां हि सूच्यते तेन। सर्वे वेदा यत्पदमित्यादिश्रुतिवचोभिरप्येवम् ॥१९२॥ सूच्यत एव हि विद्यासाधनभावोऽत्र कर्मणामेषामू। स्मृतिरपि च कषायेत्यादिका यथोक्तार्थमेव दर्शयति ॥१९३॥ अश्ववदिति च निदर्शनमत्र यथाऽश्वो हि योग्यतावशतः । रथचर्यायांो न लाङ्गलाकर्षणेऽपि युज्येत ॥ १९४॥ एव मिहाSडश्रमकर्माण्यपि विद्याया: फलस्य संसिद्धौ। नापेक्ष्यन्ते तस्या उत्पत्तौ पुनरिमान्यपेक्ष्यन्ते ॥ १९५ ॥ शमदमायुपेतः स्याचथाऽपि तु तद्विधेस्तद- ङ्गतया तेषामवश्यानुष्ठयत्वात्॥ २७॥

यज्ञादीनां विद्यासाधनमावोऽयमनुचितो यस्मात्। विधिरत्र नैव कश्विदृदृश्यत इति यदि तु मन्यते कश्वित॥ १९६॥ यज्ञेन विविदिषन्तीत्येषा केवलमिहानुवाद: स्यात्। सा किल विद्याभिष्टवपरा न यज्ञादिविधिपरा भवलि ॥१९७ ॥ विद्या सेयं हि महाभागा यज्ञादिसाधनैरेतामू। वाञ्छन्ति लब्धुमित्येवमथापि च शमाद्युपेतः स्थात ॥ १९८॥ विद्यार्थिनं हि पुरुषं तमेतमर्थ श्रुतिः प्रदर्शयति। एवंविच्छान्तो दान्त इति हि विद्यैकसाधनत्वेन ॥। १९९॥ येन शमादीनामिह विधानमुपलभ्यते ततश्रवैवम्। विहितानां चावश्यानुष्ठेयत्वान्न चैवमत्रापि॥ २०० ॥ आत्मन्येवाऽडत्मानं पश्यति भूत्वा शमाद्युपेत इति। स्याद्वर्तमाननिर्देश एव न विधिरिति पुनरिहाऽडशककुचमू॥२०१॥ तस्मादिति तु प्रकृतप्रशंसनात्तद्विधिर्भवेदत्र । माध्यंदिनास्तु पश्येदिति विस्पष्टं त्वधीयते हि विधिम्॥ २०२ ॥। यज्ञाद्यनपेक्षायामपि च शमादीन्यपेक्षितव्यानि। ननु नोपलम्यते विधिरत्रेत्युक्तं हि विविदिषावाक्ये॥ २०३॥ सत्यं संयोगस्यापूर्वत्वेन च विधित्वमिह युक्तम्। यदि पूव प्राप्तः स्याद्यज्ञादीनां हि विविदिषायोगः ॥ २०४।। तमनुवाद: स्यातपूर्व क्वचिदप्यसी न संभ्राप्तः । पूषा प्रपिष्टमागोऽदन्तक इत्यादिकेषु वाक्येषु॥ २०५॥

Page 348

तुर्थ: पाद: ४ भाष्यार्थरत्नमाला। ३४३

अश्रुतविधिकेष्वपि चापूर्वत्वेन तु विधिं हि परिकल्व्य। पौष्णं पेषणमेतत्प्रथमे तन्त्रेऽवधारितं विकृतौ॥ २०६।। भगवद्गीताद्यासु स्मृतिषु फलासङ्गवर्जितानि पुनः। यज्ञादीनि मुमुक्षोरुक्तं हि ज्ञानसाधनानीति॥ २०७ ॥ तस्माद्यज्ञादीन्यपि शमादिकान्यपि यथाश्रुतं तानि। विद्योत्पत्तौ केवलमपेक्षितव्यानि साधनत्वेन । २०८॥ तत्राप्येवंविदिति हि विद्यासंयोगतः शमादीनि। प्रत्यासन्नानि हि यज्ञादीनि त्वत्र विविदिषायोगात्॥ २०९॥ बाह्यतराणि मवन्तीत्येवं तेषां परस्परं भेद: ।

सर्वान्नानुमतिश्र प्राणात्यये तद्दर्शनात्॥ २८॥ छन्दोगानां न ह वा एवंविदि किचनेति वाक्यं हि। २१० ॥ हष्टमिह प्राणानां संवादे वाजिनां तथैव किल। न ह वा अस्यानन्नं जग्घं न प्रतिगृहीतमित्यादि ॥ २११॥ तत्र च निर्दिषटं खल्वदनीयं सर्वमस्य मवतीति। तत्र च सर्वान्नानुज्ञानं यदिदं प्रदर्शितं श्रुत्या ॥। २१२। तक्किं शमादिवद्विद्याङ्गमवश्यं विधीयते किंवा। स्तुत्यर्थ संकीत्यत इति संदेहेऽत्र विधिरिति प्राप्तम् ॥। २१३॥। एवं चेदुपदेशो भवति हि पुरुषप्रवर्तनाहेतुः। तत्प्राणविषय विद्यासांनिध्यादिह तद्ङ्गभावेन ॥। २१४॥ लब्धा भवति हि नैषा नियमनिवृत्तिरिति सति च नन्वेवम्। मक्ष्याभक्ष्यविभागव्याघाताच्छा फलमिति चेन्न ॥ २१५॥ उपपद्यते स चायं सामान्यविशेषभावतो भाव:। पशुहिंसाविधिना किल यथैव हिंसानिषेधबाधः स्यात् ॥ २१६॥ अपि वामदेव्यविद्याविषयेण न कांचनेत्यनेन यथा। गम्यागम्य विभागप्रदर्शनार्थं हि बाध्यते शास्त्रम्॥ २१७॥ एवमिहापि च सर्वान्नाभ्यवहारार्थकेन वचनेन। भक्ष्याभक्ष्यविभागप्रदर्शकं शास्त्रमपि च बाध्येत ।। २१८।। एवं प्राप्ते बूते नेदं सर्वान्नमक्षणं प्रकृते। विध्यहमिति यतो न हि विधायक: कश्विदृत्र शब्दोऽस्ति॥२१९॥

Page 349

३४४ सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

योऽसौ न ह वेत्यादि: स वर्तमानापदेश एव स्यात्। न ह्यत्रासत्यामपि विधिप्रतीतौ प्रवृत्तिलोभेन ॥ २२० ॥ विधिरभ्युपगन्तव्यः स्यात्किंच श्वादिजन्तुमर्यादम्। प्राणस्यान्नमिहोक्त्वा तदेतदाम्नायते हि न ह वेति ॥२२१॥ नैतद्भोक्तुं शक्यं श्वाद्यन्नं मानुषेण देहेन। शक्यत एव ज्ञातुं प्राणान्नं सकलमेतदिति तस्मात् ॥ २२२ ॥ प्राणान्नज्ञानस्य प्रशंसनार्थोऽर्थवाद एवायम्। न भवति सर्वान्नानुज्ञानविधिरसावितीह दर्शयति ॥२२३ ॥ सर्वान्नानुमतिः स्यात्प्राणात्यय एव न पुनरन्यत्र। दर्शयति श्रुतिरेषा तथैव चाक्रायणस्य परमर्षेः ॥ २२४ ॥ आपदि संप्राप्तायाममक्ष्यमक्षणविधिप्रवृत्तिमिह। मटचीहतेष्वितीयं छान्दोग्ये हृश्यते श्रुतिस्तत्र ॥ २२५ ॥। आपद्गतो हि चाक्रायणमुनिरिभ्यस्य नगरमागत्य। इम्पेन सामि खादितकुल्माषान्प्रार्थयंश्रखादासौ॥ २२६॥ प्रत्याचचक्ष एतद्ध्युच्छिष्टमिति हि तदीयमनुपानम्। कारणमिह(मा) न खादन्नाहमजीविष्यमिति हि तत्रोक्तम्।।२२७।। अनुपानस्य प्रत्याख्याने कामो ह(म) इति हि तत्कथितम्। स्वपरोच्छिष्टानपि पर्युषितानेतान्परेद्युरपि च पुनः ॥ २२८॥ न हि भक्षयांबभूवेत्युपदिष गम्यते हि तेनैतत्। प्राणात्ययप्रसङ्ग संनद्धे प्राणधारणाय पुनः ॥ २२९॥ यज्ञाभक्ष्यं तद्पि च मक्षयितव्यं तथा न हि स्वास्थ्ये। विद्यावताऽपि कार्यं तदिति ह्यनुपाननिन्दया सिध्येत् ॥ २३०॥ तस्मान्न ह वेत्यादिर्भवेत्परमिहार्थवाद एवायम्।

अबाधाच ॥ २९॥

एवं सत्याहारे शुद्धे स्यात्सत्वशुद्धिरित्यर्थम् ॥२३१॥ मक्ष्यामक्ष्यविभागं प्रदर्शयच्छास्त्रमर्थवन्भवति। अपि च स्मर्यते ॥ ३० ॥ अपि चाSडपदि सर्वान्नाभ्यवहारोऽपि प्रदर्शितो ह्यनया॥।२३२॥

Page 350

चुतुर्थः पाद: ४ ] .माष्यार्थरत्ममाला। ३४५

स्सृत्यैव जीवितात्ययमापन्नो योऽन्नमत्ति यत इति हि। अपि च सदैव हि मद्य विप्रः खलु वर्जयेत्सुरापस्य ॥। २३३॥। विप्रस्योष्णामास्ये ह्यासिश्रेयुः सुरां सुरापाश्च। क्रिमयो जायन्त इति ह्यस(न)त्नवर्जनमिह स्मरन्त्यास्ये ॥२३४!। शब्दश्रातोऽकामकारे॥ ३१॥ शब्दश्र कामकारनिवृत्तिफल: भ्रूयते कठानां हि। अस्यां हि संहितायां तस्मान्न पिबेत्सुरां हि विप इति ॥ २३५॥ तस्मान्न ह वेत्याद्या भवन्ति केवलमिहार्थवादास्ते। विहितत्वाच्चाऽऽश्रमकर्मापि ।। ३२ ।। सर्वापेक्षेत्यत्र त्वाश्रमकर्माणि यानि विहितानि ॥ २३६ ॥ तानि च विद्यासाधनभूतानीत्यवधृतं हि पूर्वत्र। अमुमुक्षो: किं केवलमाश्रमनिष्ठस्य तानि कर्माणि ॥२३७ ॥ अननुष्ठेयान्यथवाऽनुष्ठेयानीति चिन्त्यते सपदि। तत्र तमेतमित्तिश्चुतिवाक्ये यज्ञादिकर्मणामेषाम्॥२३८॥ विद्यैकसाधनतया विहितत्वात्तामनिच्छतो विद्याम्। नित्यान्यनुष्ठेयान्येव फलान्तरमपेक्षतस्तस्य ॥। २३९॥ अथ तस्यानुष्ठेयान्येतानि स्युर्यदा तद्तेषाम्। न हि विद्यासाधनता स्यान्नित्यानित्ययोगव्ञाधेन ॥ २४०।। एवं प्राप्ते पठति ह्याश्रममात्रैक्रसंस्थितस्यापि। अमुमुक्षोरेतानि हि कर्तव्यान्येव नित्यकर्माणि॥२४१॥ यावज्जीवमितिश्रुतिवाक्येन यतश्च तानि विहितानि। ज्ञानार्थतथाऽतुष्ठानेनानित्यत्वमपि च नित्यत्वम् ॥। २४२॥ यावज्जीवश्जुत्येत्युभयविधाने न कश्रिविदिह दोष: । ननु यदि नित्यत्वमिह स्यादाश्रमकर्मणां तद्तेषाम् ॥ २४३ ।। कथमिह विद्यासाधनता तेषामित्यतः पठत्येत्ततू। सहकारित्वेन च ॥। ३३ ।। विद्यासहकारीणि ह्याश्रमकर्माणि तब्र विहितस्वात्॥। २४४।। श्ुत्या तमेतमित्यनया सर्वेत्यादिकेन सूत्रेण। तदृपि च सहकारित्वं यदिहाऽडश्रमकर्मणीं हि सूत्रोक्तम् ॥।२४५।।

Page 351

३४६ सुब्ह्मण्यविरचिता- [३ तृतीयोध्यायस्य=्र विद्याफलविषयं तन्न हि प्रयाजादिव द्मवेद्यस्मात्। विधिलक्षणा में विद्या विद्याफलमपि न चेह तत्साध्यम् ॥२४६॥ विधिलक्षणं हि दर्शाद्येव स्वर्गादिसाधनार्थं हि। सहकारिसाधनान्तरमपेक्षते नैवमत्र विद्याडपि॥ २४७॥ अत एव चेतिसूत्े तदेतदुपदिष्टमेव पूर्वत्र। उत्पत्तिहेतुतैव हि सहकारित्वं भवेदिहैतेषाम् ॥ २४८॥ इह च विरोधो न सवति नित्यानित्यात्मकेन योगेन। कमभिदे सत्यषि भवति हि संयोगभेद एकत्र ॥ २४९ ॥ नित्यः संथोगोऽयं यावज्जीवादिवाक्यनिर्दिष्टः । संयोगोऽयम नित्यस्तमेतमित्यादिवाक्य निर्दिष्टः ॥२५० । विद्या परमस्यैव हि फलं न नित्यस्य मवति कथमपि च। करत्वर्थत्वं नित्येनैव हि योगेन खादिरस्य यथा ॥२५१ ॥ संयोगेनानित्येन पुनस्तस्य च पुमर्थता तद्त । सर्वथाऽपि त एवोअयलिङ्गात् ॥ ३४॥ आश्रमकर्मत्वमते विद्यासहकारितामते वाऽपि ॥ २५२॥ उभयत्रैव त एते स्युरग्निहोत्रादयो ह्यनुष्ठेयाः। वारयति कर्मभेदाशङ्कां सूत्रस्थ एवकारोडसौ ॥। २५३॥ नित्याग्निहोत्रभिन्नं यथैव मासाग्निहोत्रमन्यत्र। नैवं प्रकृते यस्माच्छृतिलिङ्गमिहोपलभ्यते तमिति ॥२५४॥ यज्ञादीन्युत्पन्नान्येव नियुङ्गेऽन्र विविदिषायां हि । एषामपूर्वरूपं न जुह्वतीतिवदिहोपपाद्यति ॥२५५॥ स्मृतिलिङ्गमप्यनाश्रित इत्यादिकमेवमेव दर्शयति। यस्यैते चत्वारिंशदिति स्मृतिरषि किलेत्थमुपदिशति ॥ २५६ ॥ तस्मात्कर्मणि भेदावधारणं तदिदमत्र साध्वेव। अनभिभ्वं च दर्शयति ॥ ३५॥ विद्यासहकारित्वस्थैवोपोंढ्कलकमेतदिह लिङ्गम् ॥ २५७ ॥ ध्रुतिरत्र दर्शयति खल्वनभिभवं ब्रह्मचर्ययुक्तस्य। रागादिभिरेतैर्हि क्ेशैरात्मा न नश्यतीत्येवम् ॥२५८॥ तस्माद ब्रयकर्माध्यपि विद्यासाधनानि तान्येव।

Page 352

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३४७

अन्तरा चापि तु तद्दृष्टेः ॥ ३६॥ विधुरादीनां संपद्रहितानां चाऽडश्रमान्तरेण पुनः ॥। २५९॥ संबन्धविरहितानां तदन्तरालैकवर्तिनाभेषाम्। विद्यायामधिकार: किमस्ति कि नास्ति चेति संदेहे ॥ २६०॥ नास्तीत्येतय्युक्तं यत इह विद्यैकसाधनत्वेन। विहितान्याश्रमकर्माण्येतानि तु तेषु नैव हश्यन्ते ॥ २६१ ॥ एवं प्राप्ते बूते ते विद्यायामधिक्रियन्त इति। यस्माद्वैक्वादीनां विधुराणामपि च दश्यते विद्या ॥ २६२।। अपि च स्मर्यते ॥३७॥ संवर्तप्रभृतीनामनग्गिचर्यादिसंपरवृत्तानामू। स्मर्यत एव महायोगित्वमनाश्रमविधिपवृत्तानाम् ॥२६३॥ नन्वत्रानाश्रमिणां विद्याङ्ग कर्म किं तदिति चेन्न। विशेषानुग्रहक्ष ॥ ३८ ॥

मवति हि विद्यानुग्रह इति खल्वेषा स्मृतिः प्रदर्शयति। जप्येनैव तु शुध्येद्वाह्मण इह नास्ति संशयः कश्चित् ॥ २६५॥ कुर्यादन्यन्नो वा मैन्रोडसौ ब्राह्मणो न चान्य इति। जप्यादिनैव तेषामपि विद्यायामनुग्रहस्तस्मात ॥६६॥ जन्मान्तरकृतकर्मभिरपि विद्यायामनुग्रहो भवति। स्मृतिरियमनेकजन्मेत्याद्या दर्शयति चतमेवार्थम् ॥ २६७॥ हष्टार्थेयं विद्या प्रतिषेधाभावमात्रमालस्व्य। जप्यादिसाधनेन अवणादौ पुरुषमधिकरोति किल ॥ २६८॥ तस्माद्विधुरादीनामधिकारे नेह वाधकं किमपि। अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥

ज्यायो विद्यासाधनमेतच्छत्यादिभिश्र संदृब्धम्। ध्रुतिलिङ्गं च तदेतत्तेनैति ब्रह्मविदिति वाक्ये हि॥ २७० ॥। स्मृतिलिङ्गमपि च हंषट दिनमेकमनाश्रमी न तिष्ठेत। यदि चेदनाश्रमी सन्संवत्सरमधिवसेत्तदा चायम्। २७१॥

Page 353

३४८ सुन्नह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

कृष्छ्रं दवाइशरात्रं चरेद्यथाशास्त्रमवहितात्मेति। तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातदूपाभवेक्यः ॥।४० ॥ ये चोर्ध्वरेतसः खल्विहाऽडभ्रमा दर्शिता हि पूर्वत्र ॥ २७२॥ प्राप्तस्य तांस्ततः किं प्रच्युतिरस्त्युत न वेति संदेहे। रागेण पूर्वकर्मानुष्ठानचिकीर्षया कदाचित्स्यात्॥ २७३। प्रच्युतिरित्याशङ्कां परिहतुं सूत्रमेतदिह पठति। योऽसाविहोर्ध्वरेतोमावस्तद्मूत एष इह भवति ॥ २७४ ॥ तस्यातद्भावेडस्ति प्रच्युतिरेव हि ततो न सा युक्ता । नियमात्तद्रूपाभावेभ्यो हि किल प्रतीयते चैवम् ॥ २७५॥ नियम इहाSSचार्यकुलेऽवसाद्यन्निति ततो ह्यरण्यमियात्। स ततो हि न पुनरेयादित्युपनिषदिति ह हश्यते किंच ॥ २७६॥ आचार्येणेत्यादिस्मृतिरषि नियमं तमेतमुपदिशति। अपि च प्रथमाश्रममिह समाप्य स गृही भवेत्ततश्र बनी ॥२७७॥ इत्याराहपराणि ह्युपलभ्यन्ते वचासि नान्यानि। न ह्येवं शिष्टानामाचारा: क्वचिदृपि प्रहश्यन्ते ॥ २७८॥ यच्चेह पूर्वकर्मानुष्ठानचिकीर पयेत्युपन्यस्तम्। अेयान्स्वधर्म इति हि स्मरणाक्यायादयुक्तमेतत्स्यात् ॥२७९॥ यो यं प्रति विह्वितः स्यात्स त्य धर्मो भवेत्परं न्याय्य: । कतुँ युक्त: सोऽयं धर्मस्य हि चोदनाप्रमाणत्वात्॥२८०॥ न च रागादिवशेन प्रच्युतिरिह नियमशास्त्रतो बाधात्। जैमिनिसंप्रतिपत्ति: प्रदर्शिता पुनरिहा्र दादर्घाय।२८१ ।। न चाऽडधिकारिकमपि पतनानुमानात्तदयोगात्।। ४१ ॥ यदि नैष्ठिकः प्रमादादवकीर्णी स्यात्तदा हि कि तस्य। स्याद्वकीर्णीत्युक्तं प्रायश्चित्तं न वेति संदेहे ॥ २८२ ॥ तत्र हि नेति तु युक्तं यदेतद्धिकारलक्षणे कथितम्। प्रायश्वित्यवकीर्णी पशुरिति तद्पि च न नैषठिकस्य स्थात्॥२८३।। यस्मादारूढो न्ते(नै)ठविकमित्येषा स्मृतिस्तु तह्य पुनः । पातकमसमाधेयं बूतेडतः सा प्रतिक्रियां च पुनः ॥२८४॥

Page 354

चतुर्थ: पाद: ४] माष्यार्थ ३४९

वार्यति येन शुध्येर्स आत्महेत्येवमन्तवाक्येन। उपकुर्वाणस्य पुनः पतनस्मरणं न तादृशं क्वापि॥ २८५।। तस्मात्मायश्चित्तं तदेतदुपपद्यते हि तस्यैव। उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥ रया अत्रैके हयुपपातकमेव तविति मन्यन्ते ॥ २८६॥ यन्नैष्ठिकस् गुरुदाराविम्योऽन्यत्र तद्यकीर्येत। तन्न महत्पातकमिह गुरुतल्पादिष यतो न परिगणितम्॥२८७।। उपकुर्वाणस्येव हि मवेदिदं तस्य नैष्ठिकस्यापि। प्रायश्चित्तं थेन द्वयोरपि न दृश्यते विशेषोऽत्र ॥ २८८ ॥ अशनवदिति तु निदर्शनमत्र यथा ब्रह्मचारिणो दैवात्। मधुमांसाशनयोगे वतलोप: स्यात्पुनश्र संस्कारः ॥ २८९। तददिहापि स्याद्ये प्रायश्चितं न चेह वाञ्छन्ति। तेषां तु नोपलभ्यत इह मूलं किमपि ये च वाञ्छन्ति ॥ २९० ॥ तेषां तु पुनत्युक्तं ह्यविशेषवचनमिह मूलम्। तस्मात्तस्यापि किल प्रायश्विवित्तस्य भाव इह. : २९१॥ प्रायश्चित्ताभावे तन्भ्भावे प्रसिद्धिसाम्थेऽपि। श्रुतिमूलतयाSऽदर्तुं युक्ता भावप्रसिद्धिरेवात्र ॥ २९२॥ इह पूर्वतन्त्रसंमतिमाविष्कर्तुं तदुक्तमिति तत्र। यवमयचरुवाक्ये किल यवशब्दो दीर्घशूकधान्येऽपि ॥।२९३॥ देशविशेषे च तथा प्रसिद्ध इति कस्य चरुरिह न्याय्यः । इति संदेहे वृद्धप्रयोगसाम्याद्विकल्पतः प्राप्ती ॥ २९४॥ सूत्रं समेति तत्र ग्राह्या शास्त्रप्रसिद्धिरिह यस्मात्। धर्मज्ञानं शास्त्रात्तद्यत्रान्या इति स्फुटं तस्मात् । २९५॥. धान्यविशेषोऽत यवश्चरुरिह तेनैव कार्य इत्युक्तम्। प्रायाश्रत्ताभावस्मरणं स्याद्यत्गीरवापेक्षम्॥ २९६।। तद्वच्च मिक्षुवैखानसयोरवि तन्भ्वेद्ट्यवस्थातः । वानप्रस्थो दीक्षामेदे कृच्छ्रं चरेद्यथाशास्त्रम्॥ २९७॥ द्वादशरात्रं स ततः प्रवर्धयेति महान्तमपि कक्षठ्। भिश्चुस्तु सोमवृद्ध्िविवर्जितमेतञ्जरेद्यथाशास्रम् ॥२९८॥

Page 355

३५० सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

यश्च स्वशास्त्रविहितः संस्कारः सोऽपि तेन कर्तव्यः । बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥४३ ॥ यच्चोध्वरेतसां हि प्रच्यवनं स्वांश्रमेभ्य इह तञ्ञ ॥ २९९॥ यदि च महापातकसुपपातकमथवा भवेत्तथाऽ्येतत्। आरूढो नैछ्ठिकमित्यादिस्पृतिनिन्दिता बहिष्कार्याः॥३०० ॥ शिष्टैरन हि शिष्टानामाचरणं तैः सह क्वचिद्द्ृष्टमू। स्वामिनः फलश्रुतेरित्यात्रेयः । ४४ ॥ चरितप्रायश्चित्तः संव्यवहार्य इति नियमशास्त्रस्य ॥ ३०१॥ नैष्ठिकविषये निन्दातिशयस्मृत्या यथैव बाध: स्यात् । यस्त्विह यदङ्गकर्ता स च मवति तदाशरितस्य कर्तेति ॥३०२ ॥ र्गस्य हि कर्तुः फलश्रवणतो भवेत्तथा बाघः । इह पुनरुपासनानि हि यान्येवाङ्गाभ्रितानि किं तानि ॥३०३॥ ऋत्विक्वर्माण्यथवा यजमानस्यैव तानि कर्माणि। तत्र च यजमानस्यैवैतानीत्येतदेव युक्तं स्यात् ॥ ३०४ ।। यस्माद्वर्षति हास्मै वर्षयतीत्यादिकं फलश्रवणम्। यजमानगामि हष्ट न्याय्यं साङ्गप्रयोग एतस्य ॥ ३०५॥ अधिकृतभावादृपि चैतस्याधिकृताधिकारमावाच्च। वर्षति हास्मै य उपास्त इति फलं कर्तृगामि दृष्टमिह ॥ ३०६॥ नन्वृत्विजोऽपि हष्ट तदात्मनेवेतिवाक्य इति चन्न। तस्य च वाचनिकत्वात्फलवत्सूपासनेषु कर्तृत्वम् ॥ ३०७॥ स्वामिन एव स्यादित्यात्रेयो मन्यते किलाऽडचार्यः । आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५॥ न स्वामिकर्तृकाणि ह्युपासनानीह किंतु तानि स्युः ॥ ३०८॥ ऋत्विक्कर्माणि परं स मन्यते ह्यौडुलोमिराचार्यः। साङ्गाय कर्मणेव्विक्तस्मै यतः परिक्रियते ॥ ३०९ ॥ एतानि तत्प्रयोगान्त:पातीन्यधिकृताधिकारत्वात्।

निर्वत्येरंस्तदिदं विज्ञानस्य श्रुतिः प्रदर्शयति। उद्भातृकर्तृकत्वं तं ह बको दाल्म्य एवमाद्या हि। ३११॥

Page 356

तुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३५१

कर्ताश्रयमेव फलं श्रूयत इति यञ्च दर्शितं पूर्वम्। तद्पि च न परार्थत्वाद्टृत्विज इह भवति न स्वतन्त्रत्वम् ॥३१२। फलसंबन्धस्तस्य च वचनाद्न्यत्र नैव संघटते।

श्रतेश्र ॥ ४६ ॥ यां वै कांचन यज्ञे ऋत्विज आशिषमिति श्रुतिश्वापि ।३१३॥। यदिदसुपासनसाध्यं फलमिह यजमानगामि दर्शयति। कं ते कामम(मा) गायानीत्याद्येनैव वाक्यजातेन।। ३१४॥ तस्मादङ्गोपास्तीनामृत्विक्कर्तृकत्वमिति सिद्धम्। सहकार्यन्तरविधिः पक्षेण तृतीयं तदतो विध्यादिवत् ।४७। आत्मानमिह विदित्वा पूर्वतना व्राह्मणा हि संन्यस्य ॥ ३१५॥ भिक्षाचर्य यस्माच्चरन्ति ते ब्राह्मणोऽधुना तस्मात्। पाण्डित्यं निर्विद्य च नियतं बाल्येन स खलु तिष्ठासेत्॥३१६॥ बाल्यं पाण्डित्यं चोभयमपि निर्विद्य सोऽथ सुनिरेव। मौनममौनं च तथा निर्विद्य ब्राह्मणोऽथ भवतीति ॥ ३१७॥ बृहदारण्यकवाक्ये श्रुतमेवं तत्र भवति संदेहः । मौनं विधीयते कि न वेति न वेति युक्तमिह यस्मात्॥ ३१८॥ विध्यवसानं बाल्येनेत्यस्मिन्टश्यते न चान्यत्र। अथ मुनिरित्यत्र पुनर्न दृश्यते काऽपि विधिविभक्तिरसौ॥३१९॥ तस्मादथ मुनिरित्ययमनुवादो भवति न खलु विधिरेषः । सुनिपण्डितशब्दौ हि ज्ञानार्थावेव केवलं तेन ॥। ३२०॥ पाण्डित्यं निर्विद्येत्यत एव च मौनमपि किल प्राप्तम्। किंचामौनं मौनं निर्विद्याथेत्यनन्तरं हीदम् ॥३२१॥ ब्राह्मण इति निर्दिषटं न ब्राह्मण्यं विधीयते तत्र। येन प्रागेवैतत्प्राप्तं तेन प्रशंसनार्थं स्थात् ॥३२२।। अथ मुनिरित्यप्येवं प्रशंसनार्थं समाननिर्देशात। एवं प्राप्ते सहकार्यन्तरविधिरिति तदुत्तरं बूते ॥ ३२३ ॥ विधिरेवाSSश्रयितव्यो विद्यासहकारिणोऽस्य मौनस्य। तदिदमपूर्वत्वादिह बाल्यं पाण्डित्यमिव हि विध्यर्हम्॥ ३२४॥ पाण्डित्यमौनशब्दी तुल्यार्थाविति न शङ्कनीयमिह। ज्ञानातिशयार्थोडयं मननान्मुनिरिति यतोऽत्र मुनिशब्द: ॥३२५।।

Page 357

३५२ यविरचिता- [ २ तृतीयाध्यायस्य-

व्युत्पत्तिबलाज्च सुनीनामप्यहमिति किल प्रयोगाच्च। ननु परमाश्रमपर इह सुनिशब्दः श्रूयते हि गार्हस्थ्यम् ॥ ३२६ ॥ आचार्यकुलं मौनं वानप्रस्थमिति वाक्य इति चेन्न । वाल्मीकिर्मुनिपुंगव इत्यादौ तत्परत्वबाधेन ।। ३२७॥ इतराश्रमसांनिध्यात्परिशेषादुत्तमाश्रमस्तत्र। परिगरृह्यते स चायं प्रज्ञाप्राधान्यतो न सर्वत्र ॥ ३२८॥ तस्माच्च वाल्यपाण्डित्यतस्तृतीयं हि मौनमिद्मत्र। ज्ञानातिशयात्मकमिह विधीयते यन्तु बाल्य एव विधे: ॥ ३२९ ॥ पर्यवसानमिति न सत्तदपूर्वत्वाद्विधीयते मौनम्। स्यान्मुनिरिति मौनस्य प्रकृते निर्वेदनीयताकश्रनात् ॥ ३३०॥ बाल्यादेरिव तस्य च विधेयताश्रयणमुचितमेव स्थात्। तद्वत इति संन्यासिन एव हि विद्यावतो मवेद्ग्रहणम् ॥३३१॥ अथ मिक्षाचर्यमिति ह्यधिकारो येन तत्फलो दृष्षः। ननु सति विद्यावत्वे प्राप्तोत्यतिशयमसौ किमेतेन ॥ ३३२॥ स्यादृन्न मौनविधिना पक्षेणेत्यत इदं समाम्नातम् । यस्मिन्पक्षे ज्ञानातिशयमसी भेददर्शनातिशयात्॥ ३३३॥ न पाप्ोति हि तस्मिन्पक्षे विधिरेष स तामेति। विध्यादिवद्यथैव च दर्शादिविधौ हि तस्य सहकारि॥३३४॥। अग्न्यन्वाधानादिकमखिलमपि विधीयतेऽङ्गजातं हि। तेनाविधिप्रधाने वाक्येऽप्यस्मिन्विधीयते मौनम् ॥३३५॥ इति बाल्यादिविशिष्टे सति कैवल्याश्रमे कुतो वेह। छान्दोग्ये गृहिणैव ह्युपसंहार: कृतस्ततो भाति॥३३६ ॥ तद्विषय एव तस्थाऽडदर इति तत एतदुत्तरं पठति। कत्स्नभावानु गृहिणोपसंहारः ।। ४८।। अत्र तु विशेषणार्थो भवति तुशब्दो हि सूत्रमध्यस्थः ॥ ३३७॥ एतस्य कृत्स्नमावो विशिष्यते येन भूरिकर्माणि। यज्ञादीनि हि तं प्रति कर्तव्यतयोपदर्शितानि तथा ॥ ३३८॥ इतराश्रमकर्माण्यपि तस्य यथासंभवं भवन्त्येव। किंचाहिंसेन्द्रियसंयमनादीन्यपि च तस्य विद्यन्ते । ३३९॥।

Page 358

चतुर्थ: पाद: ४ ] माष्यार्थरत्ममाला। ३५३

तस्मादुपसंहारश्छान्दोग्ये नो विरुध्यते गृहिणः । मौनवदितरेषामप्युपदेशात्॥४९॥ मौनं गार्हस्थ्यमिति श्रुतिनिर्दिष्टौ यथाऽडश्रमावेतौ॥ २४०॥ एवं वनस्थगुरुकुलवासौ अ्रुत्यैव दर्शितौ सवतः। तस्मादिहाऽडश्रमाणां सर्वेषामपि समाननिर्देशात् ।।६४१।। प्रतिपत्तिरत्र तेषां समुच्चयेनाथवा विकल्पेन। इतरेषामिति सूत्रे बहुवचनं यह्दयो: श्रुतं तच्च ॥ ३४२॥ भवति किल वृत्तिभेदापेक्षमनुष्ठातृभेद्सापेक्षम्। अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ तस्माद्ब्राह्मण इति बृहदारण्ये श्रूयते हि यह्टाक्यम् ॥३४३ ॥ तन्रानुष्ठेयतया बाल्यं यञ्च प्रदर्शित तत्किम्। बालस्य भाव इति वा किंधा बालस्य कर्म बाल्यं स्यात् ॥३४४॥ तद्द्वितलभ्यस्य धयोवस्थारूपस्य बालभावस्य। इच्छातोऽनुष्ठातुमशक्यर्वाद्वालकर्म बाल्यं स्यात् ॥३४५॥ तद्वालचरितमुपपद्मूत्रपूरीषत्वमन्यदथवा किम्।

इति संदेहे तत्र च बाल्यमिदं बालचरितमिति युक्तम्। यत्कामचारवादाशनोपपद्मूत्रकृत्यमित्यादि ॥ ३४७॥ लोकप्रसिद्धमेतद्वाल्यं तद्ग्रहणमिह भवेद्युक्तम्। ननु कामचारताद्याश्रयणे पतितो भवेदसाविति येत् ।३४८॥ नासी दोषो विद्याबलेन संन्यासिन: कदाचिदृ्पि। वचनप्रामाण्यात्पशुहिंसादिष्विव हि दोषपरिहारात् ॥ ३४९॥ एवं प्राप्ते वूते बाल्यं नैवेह बालचरितमिति। इह बाल्यशब्दृतः खल्वविरुद्धार्थे प्रतीयमानेऽपि ॥ ३५०॥ तस्मिंश्च लभ्यमाने गत्यन्तरसंभवेऽपि वचनस्य। आपातप्रतिपत्या विध्यन्तरभङ्गकल्पनाऽनुचिता॥३५१॥ यञ्चप्रधानसहकारि स्यादङ्ग विधीयते तद्दि। संन्यासिनां प्रधानं श्रवणावृत्त्यादि परमनुष्ठेयम् ॥३५२॥ अङ्गीक्रियमाणेSस्मिन्सकलेऽपि च बालचेष्टिते तेषाम्। न श्रवणादेरभ्यासस्तस्माद्वाल्यमान्तरो भाव: ॥३५३ ॥।

Page 359

३५४ सुब्ह्मण्य विरचिता- [३ तृतीयाध्यायस्य-

आश्रीयते प्ररूढेन्द्रियताद्विकमिह तदेव बाल्यमिति। चानाविष्कुवन्निति सूत्रे सूत्रकृत्प्रदर्शयति॥३५४॥

इम्भादिरहित एव हि यतिर्भवेदिति यथा ह्यसी बाल: ।३५५॥ नाऽडत्मानमप्ररुढेन्द्रिय आविष्कर्तुमीहतेऽन्यत्र। एवमसौ विद्वानपि भवेदयदैवं तदाऽस्य वाक्यस्य ॥३५६॥ उपपद्यते प्रधानोपकारकाङ्गप्रदर्शनार्थतवम्। उक्तं हि स्मृतिकारैय च हि सन्तं न चाप्यसन्तं यम् ॥ ३५७॥ नायुतमपि न बहुश्रुतमपि न सुवृत्त न चापि दुर्वृत्तम्। वेद न कश्चन विद्वान्स एष इह गूढधर्ममाश्रित्य ॥३५८॥ नदिदम विज्ञातव्रतमन्धजडादिवदसौ चरेदिति हि। ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१॥ विद्यासा तत्सविक्षेति सूत्रमारभ्य ॥३५९॥ वचमवधारितमत्र पुनस्तत्फलात्मिका विद्या। सिष्पन्ती किमिहैष हि जन्मनि सिध्यत्यमुत्र वा सिध्येत्॥३६०।। इति चिन्त्यते हि तत्र त्विहैव सा सिध्यतीति युक्तं स्यात् । श्रवणादिपूर्षिका या विद्या तामिह न कश्विदृपि पुरुषः ।३६१।। सा जायताममुत्रेत्यभिसँधाय प्रवर्तते किंतु। अस्मिन्नेव हि जन्मनि ताममिसंधाय तु प्रवर्तेत ॥ ३६२॥ श्रवणादिषु तत्साधनयज्ञादिष्वपि च सिद्धये तस्याः । तस्मादिहैकमेव हि विद्याजन्मेत्यतस्त्विदं बूते॥३६३।। असति प्रतिबन्धे स्याद्विद्याजन्मैहिकं न चेतरथा। अ्रवणादिसाधनस्य प्रतिबन्धो यदि भवेदनेन पुनः ॥ ३६४॥ प्रारब्धकर्मणा संजातविपाकेन तत्र न हिसा स्यात्। यदि कर्मणा न तेन प्रतिबन्ध: स्यान्द्वेदिहैवैषा ॥ ३६५॥ भवतीह देशकालनिमित्तोपनिपातवशत एतस्य। प्रारब्धस्योपस्थितविपाकता कर्मणो न चान्यस्मात् ॥ ३६६॥ एकस्य कर्मणः किल विपाचकानि हि मवन्ति यान्यत्र। तान्येवान्यस्यापि हि विपाचकानीति नायमेकान्तः ॥ ३६७।।

Page 360

चतुर्थ: पाद: ४] माप्यार्थरत्नमाला। ३५५

यस्माद्विरुद्धफलदान्यपि चानेकानि तानि कर्माणि। शास्त्रमपि कर्मणोऽस्य हि फलमिदमेवेति तु प्रदर्शयति ॥३६८॥ न हि देशं कालं वा निमित्तभेदमपि तस्य कीर्तयति। साधनवीर्यविशेषादेवाऽडविर्भवति कस्यचिच्छक्तिः ॥३६९॥ तत्पतिबन्धात्कस्यचिदतीन्द्रिया सा हि कुण्ठिता भवति। ननु विद्यायामस्यामविशेषेणाभिसंधिरिह न भवेत् ॥ ३७० ।। इह वाऽप्यमुत्र वा मे विद्या स्यादिति कथं तविति चेन्न। अभिसंधिरयमकिंचित्करो हि तस्य च निरङ्कुशत्वेन ॥ :७१ ॥ अरवणादिसाधनैरिह विद्या येयं जनिष्यमाणा स्यात्। सा विद्या पुनरत्र प्रतिबन्धक्षयमपेक्ष्य जायेत॥ ३७२॥ अ्रवणायापीति ध्रुतिरपि दुर्बोधत्वमात्मनो बूते। मुनिरेष वामदेवः प्रतिबुबुधे ब्रह्ममाधमिह गर्भे ॥ ३७३ ॥ इति कथयन्ति श्वुतयस्तस्माज्जन्मान्तरीयसाधनतः । जन्मान्तरेऽपि विद्योत्पत्तिरियं भवति सप्रमाणैव ॥। ३७४॥ न हि गर्भस्थस्यैहिकमपि विद्यासाधनं भवेत्किंचित्। मगवद्गीतासु स्मृतिषु यथोक्तं प्रपश्चितं बहुधा ॥ ३७॥ अप्राप्य योगसंसिद्धिमिति स खल्वर्जुनेन पृष्टः सन्। भगवान्स वासुदेवोन्न हि कल्याणकृदितीद्मारभ्य ॥ ३७६॥। तस्यैव पुण्यलोकप्राप्तिमतः सत्कुलप्रसूति च। अभिधाष तत्र तमिति प्रक्रम्यानेकजन्मसंसिद्ध: ॥३४७॥ याति ततोऽसी परमां गतिमित्युक्तार्थमेव दर्शितवान्। तस्माद्विद्या येयं सा चेहामुत्र वाडपि जायेळ॥३७८॥ सेयं हि जायमाना प्रतिबन्धक्षयमपेक्ष्य जायेत। एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥। इह च यथा हि मुमुक्षोरविद्यासाधनकृतावलम्बस्य ॥ ३७९॥ साधनवीर्यविशेषाद्विद्यारूपे फले हि पूर्वोंक्ते। ऐहिकपारत्रिकफलभावकृत: किल भवेद्विशेषोऽयम् ॥३८० ॥ एवं मुक्तिफलेऽप्युत्कर्षनिकर्षप्रयुक्त इह कश्चिवित्। न विशेषप्रतिनियमो यस्मादेका हि मुक्त्यवस्थेयम्॥ ३८१ ॥

Page 361

३५६ सुब्रह्मण्यविरचित।- [ ३ तृतीयाध्यायस्य-

अवधार्यते किलेयं वेदान्तेष्वेवमेव सर्वेषु। एकास्मिका यतः सा ब्रह्मैव हि मवति मुक्त्यवस्थेयम् ॥ ३८२ ॥ न ब्रह्मणो हयनेकाकारत्वं तस्य चैकलिङ्गत्वात्। अस्थूलमनण्वह्नस्वमिति तथेवैष नेति नेत्यात्मा ॥ ३८३ ॥ नान्यत्पश्यति नान्यच्छृणोति नान्यदिति चैवमपराऽपि। ब्रह्मैवेदमिति श्रुतिरिदं सर्वमिति चैवमन्याडपि। ३८४ ॥। एष महानज आर्माऽजरोऽमरोऽमृत इति श्रुतिश्वान्या। यत्र त्वस्थेत्येताः प्रथयन्त्येतस्य निर्विशेषत्वम्॥ ३८५॥ किच यदेतद्विद्यासाधनमत्र स्ववीर्यवैशेष्यात्। आसस्षेद्विशेषं कमपि च विद्यात्मके फले स्वीये॥ ३८६॥ न हि विद्याफलमुक्ती मुक्तिफलं खल्वसाध्यमिह यस्मात्। यद्बह्म नित्यसिद्धं तदेव विद्यैकसमधिगम्यमिति॥३८७॥ असकृत्प्रपश्चितं न हि परविद्यायां विशेष इह कश्ित्। स्यादुत्कर्षनिकर्षात्मको निकृषा हि न खलु सा विद्या ॥ ३८८॥। या परमुत्कृष्टा स्यात्सा विद्या भवति सा च मुक्तिफला। तस्यां खलु विद्यार्या चराचरोत्पत्तिलक्षणोऽतिशयः ॥। ३८९॥। भवतु तथाऽपि न मुक्तावतिशय एवंविधो हि कश्विदृपि। विद्याभेदामावान्न च विद्याफलमपीह भिन्नं स्यात् ॥ ३९०॥ कर्मफले खलु भेद: स्यादेव हि कर्मणामनेकत्वात्। न तथा मुक्तिफलायां विद्यायामस्ति कश्विदृपि भेद: ॥३९१॥ विद्यासु सगुणविषयासु च सति गुणयोगभेदतो भेदे। तत्र यथास्वं फलभेदोऽसी स्यात्कर्मणामिवायं हि॥ ३९२॥ उपदिशति श्रुतिरेवं यथा यथोपासते तथैवेति। हह निर्गणविद्यायां गुणविरहान्नास्ति कश्िविदृपि भेद: ॥३९३॥ न हि गतिरधिकाSस्तीति स्मृतिरप्यर्थं यथोक्तमुपदिशति। तदवस्थावधृतेरितिपदस्य सूत्रेऽत्र योऽयमभ्यासः । अध्यायपरिसमाप्तिं विद्यातयति परं समञ्जसं सकलम् ॥३९४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां तृतीयसंज्ञश्र योऽयमध्यायः ॥ ३९५॥ त्र चतुर्थे पादे सूत्रार्थो यश्र भाष्यकारोक्त:। आर्यावृत्तैरमलै: प्रकाशितो भवतु सोडयमनवद्य:॥३९६॥

Page 362

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३५७

माष्यार्थरत्नमाला वैयासिकसूत्रजालसंग्रथिता। भृगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या॥३९७॥ इति भाष्यार्थरत्नमालायां तृतीयाध्यायस्य चतुर्थः पाद: समापः ॥४ ॥।

इति तृतीयाध्यायः समाप्तः ॥३॥

अथ धतुर्थाध्यायः । तत्र चतुर्थाध्यायस्य प्रथमः पाद:। पूर्वस्मिन्नध्याये साधनमखिलं निरूप्य तस्य फलम्। एतस्मिन्नध्याये निरुप्यते तेन हेतुफलभावः ॥१॥ अध्याययोरद्वयोरपि संगतिरत्र च फलप्रसङ्गेन्न। उत्क्रान्तिरर्चिरादिकमार्गश्र विचार्यते तथैवेह ॥ २॥ भ्रुत्युपदिष्टं साधनमपि संन्यासादि चिन्तितं पूर्वम्। अर्थापतत्यभिगम्यावृत्त्यादिकमत्र चिन्त्यतेऽध्याये ॥ ३ ॥

प्रायेण साधनाश्रयविचार एष प्रवर्तितः पूर्वमू। अस्मिन्पुनरध्याये फलाश्रयः सोऽयमागमिष्यति हि। ४ ॥ अन्यञ्च चिन्तयिष्यति यच्चात्र पुनः प्रसङ्गतः प्राप्तम्। प्रथमं तु साधनाश्रयविचारशेषं तमेतमनुसरति ॥ ५॥ द्रष्ट्व्यः भ्रोतव्यो मन्तव्य इतीह वेदवाक्यानि। एवं तमेव धीरो विज्ञायेत्यादिकानि वाक्यानि॥६॥ भूयांसि श्रूयन्ते तत्रावतरत्ययं हि संदेहः। भ्रतिवचनैरेतैः किं सकृदात्मप्रत्थयोऽत कर्तव्यः ।७।। उपदिश्यतेऽथवाऽसावावृत्त्यैव हि किमत्र कर्तव्यः। तत्र च सकृदेवासौ कर्तव्य इतीद्मेव युक्कतमम् ॥८॥ सकृदृपि कृते हि शास्त्रं सफलार्थं स्याद्यथा प्रयाजादौ। श्रुतिवचनेष्वावृत्तिः क्वचिदृपि न श्रूयते यतस्तस्मात् ॥ ९॥ तस्यां क्रियमाणायां कृतो भवेदिह परं ह्यशास्त्रार्थः। नन्वत्रासकृदुपदेशा एव श्रुतिषु हि प्रतीयन्ते ॥ १० ॥

Page 363

३५८ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

शोतष्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्।

मननं सकृदेव निदिध्यासनमेवं न चातिरिक्त्तं स्यात्। सकृद्ुपेशे वेदोपासीतेत्यादिके हि नाऽडवृत्ति: ॥ १२।। एवं प्राप्ते बूते ह्यावृत्तिरवश्यमत्र कार्येति। दर्शनसाधनविषयोऽसकृदुपदेशोऽञ्र दृश्यते यस्मात् ॥१४ ॥ भोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्। सोऽन्वेष्टव्य इति श्रुतिरप्यावृत्तिं हि सूचयत्यत्र ॥ १४ ॥ नन्विह यावच्छव्वं प्रत्यथमावर्तयेदितीहोक्तम्। मैवं दर्शनपर्यवसानानि श्रवणमननपूर्वाणि॥१५॥ स्युः साधनानि दृष्टार्थानि मवन्ति हि परं तदावृत्त्या। तण्डुलनिष्पत्यवसानान्यवघातादिसाधनानि यथा॥१६॥ अपि चोपासनमपि यद्यञ्च निदिध्यासनं तदेतदृपि। नियतावृत्तिगुणैव क्रिया भवेन्मानसी हि याऽन्तःस्था ॥। १७॥ लोके हि गुरुमुपासते राजानमुपास्त एवमादी हि। स ह्येवसुच्यते यो गुर्वादींस्तसपरोऽनुवर्तेत ॥ १८॥ प्रोषितनाथा ध्यायति पतिमित्यादौ निरन्तरस्मरणा। या सोत्कण्ठा हि पतिं प्रत्येवं साडमिधीयते लोके ।। १९ ।। हषटश्र विद्यपास्त्योर्यतिरेकेण च प्रयोगो हि। वेदान्तेष्विह विदिनोपक्रम्योपास्तिनोपसंहरति ॥ २० ॥ यस्तद्वेदेत्यादी विदिना चोपक्रमोऽयमपलब्धः। यां देवतामुपास्स इति ह्युपसंहृतिरुपास्तिना हष्ा ॥ २१॥ एतच्च हंसवाक्यं यस्तद्वेदेति दर्शितं तत्र। यद्वेद स खलु रैक्को रैक्कादन्योपि यश्च तद्देद ।। २२।। तत्माणतत्त्वविद्याफले हि सर्वमपि चान्तरेव स्यात् । एवं मया स रैक्रो ह्युत्कृष्टतवेन कथित इति वचनम् ॥ २३॥ हंसं प्रति हंसान्तरवचनँ जानश्ुतिस्तदाकर्ण्य। गत्वा रैक्वं राजा प्रोवाचानु म इतीद्मिह वाक्यम्॥ २४॥ एतां हि रैक्वविदितां हे मगवो मेऽनुशाधि हीत्येवम्। एवसुपक्रम्योपास्तिना हि विदिनोपसंहृतं तत्र ॥२५॥

Page 364

प्रथम: पाद: १ ] माष्यार्थरत्नमाला। ३५९

श्रुत्षन्तरे मनो ब्रह्मेत्यादौ पुनरिहोपसंहारः । एवं वेदेति तथोपासीतेति ह्युपक्रमो दृषटः ॥ २६ ॥ सगुणस्य निर्गुणस्य च साक्षात्कारे भवेदिहाऽडवृत्ति: । सिद्धा भ्रौती हष्टार्था च तथा श्रवणमननयोरेवम् ॥२७॥ सकृद्ुपदेशेष्वपि चेदावृत्ति: सेयमसकृदुपदेशे। इह च न सिध्येर्कस्मात्तस्मादावृत्तिरत्र युक्तैव । २८॥

लिङ्गाच ॥ २ ॥ लिङ्गमपि दर्शयति तामावृत्तिं तदिदमत्र विज्ञानम्। उद्गीथविषयकं प्रस्तुत्याSSदित्योऽयमेष उद्गीथः ॥ २९॥ इत्येतदेकपुत्रत्वात्मकदोषेण खल्विहापोद्य। रश्मीस्त्वं पर्यावर्तयेति कौषीतकि: स्वपुत्रमिदम्॥३० ॥ विद्धद्वहुपुत्रत्वाय च रश्मिबहुत्वविषयविज्ञानम सिद्ध वदेवाSSवृत्तिं सर्वेषु प्रत्ययेषु दर्शयति ॥ ३१ ॥ तत्सामान्यात्प्रत्ययसामान्ये सिध्यतीयमावृत्ति:। नन्वावृत्ति: साध्यफलेष्वेव प्रत्ययेषु युक्ता स्यात् ॥ ३२ । तत्साध्यं हि फलं किल तत्रैव स्यान्न चेह संमधति। यन्नित्यमुक्तरूपं [ब्रह्म परं ज्ञायते विशुद्धं हि। ३३ ॥। तत्सकृदुपदेशेन च यतो हि नित्यापरोक्षता तस्य। नतु च सकृ]च्छ्रवणेन ब्रह्मात्मत्वप्रतीतिरिह न स्यात् ॥३४॥ क्रियमाणायामप्यावृत्ती दुर्वार एव दोषोऽयम्। ननु केवलं हि वाक्यं साक्षात्कारे न साधकं किंतु ॥ ३५ । तदिदं हि युक्त्यपेक्षं ब्रह्मात्मत्वापरोक्षजनकं स्थात्। इति चेत्तर्ह्यावृत्त्यानर्थक्यं किंच सापि युक्तिरिह ॥ ३६ ॥ सकृदेव हि प्रयुक्ता स्वमर्थमनुभावयितुमलं मवति। अथ युक्त्या वाक्येन ज्ञानं सामान्यविषयमेव स्थात् ॥३७॥ न विशेषविषयकं तद्यथाऽस्ति हृदि मे महच्च शूलमिति। वाक्याच्च गात्रकम्पनलिङ्गादृपि शूलमात्रसैन्ीवम्॥३८॥ प्रतिपद्यते किलाऽन्यो न विशेषं कमपि चानुभवति यथा। शूले स तद्विशेषानुभवोडविद्यानिवर्तको भवति ॥३९॥

Page 365

३६० सुन्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य- आवृत्तिरेतदर्था स्यादिति चेदेवमपि च दोष: स्यात्। तावन्मात्रे क्रियमाणे विज्ञानोदयो यतो न भवेत् ॥४० ॥ योऽसौ सकृत्प्रयुक्ताभ्यामेताभ्यां हि शास्त्रयुक्तिभ्याम्। नैवावगम्यतेऽसौ शतकृत्वोऽपि प्रयुज्यमानाभ्याम् ॥४१॥ न हि शक्यतेऽवगन्तुं तस्माद्यद्यत्र शास्त्रयुक्तिभ्याम्। प्रतिपाद्यते विशेषो यदि वा सामान्यसुमयथाऽपि पुनः॥४२॥ एते सकृत्प्रयुक्ते स्वफलं कुरुतो न किंचिदावृत्त्या। एते हि शास्त्रयुक्ती सकृत्प्रयुक्ते हि कस्यचित्पुंसः ॥४३॥ नोत्पाद्यतोऽनुभवं कदाऽपि चेति तु न शक्यते वक्तुम्। येन विचित्रप्रज्ञाः प्रतिपत्तारो भवन्ति लोकेऽस्मिन् ॥४४ ॥ अपि चानेकांशयुते सामान्यविशेषवति पदार्थे हि। अवधानेनैकेनैकमंशमन्येन चान्यमंशमपि। ४५।। अवधारयति हि लोके यथैव दीर्घप्रपाठकग्रहणे। तत्राम्यासः सफलः स्यान्नैवं निर्विशेषचिन्मान्ने ॥४६ ॥ ब्रह्मण्यनुभूत्युदये तस्मादावृत्तिरनुचितैवात्र। इति चेदावृत्त्यानर्थक्यं तं प्रति भवेद्य ईदृक्स्यात् ॥४७ ॥ सकुद्दुक्तमेव तत्त्वमसीति ब्रह्मानुभवितुमिह शक्त:। यस्तु न शक्रोति पुनस्तं प्रति युक्तैव हीयमावृत्ति: ॥ ४८ ।। तत्र च्छान्दोग्ये तत्त्वमसीति शवेतकेतुसुपदिश्य। स हि भूय एव मा भगवानिति परिचोद्यमान एव पुनः ॥ ४९॥ उद्दालको हि तत्तच्छक्कायाः कारणं निराकृत्य। नवकृत्वस्तत्त्वमसीत्येवं हि श्वेतकेतुमाचख्यौ ॥ ५० ॥ ननु सकृदुक्तं तत्त्वमसीति न शक्कोति तदनुभावयितुम्। यदि तार्हे नैव शक्ष्यति तदेव चाSडवर्त्यमानमपि वाक्यम्॥५१॥ इति चेन्नासौ दोषो दष्टे न ह्यनुपपन्नमिह किंचित्। दृश्यत एव सकृच्छतवाक्यान्मन्दपतीतमर्थ हि। ५२॥ आवर्तयंस्तमेव हि सम्यक्प्रतिपद्यमान इह लोके। अपि च यदेत त्तत्त्वमसीति तदेतत्त्वमर्थरूपस्य ॥ ५३ ॥ इह तत्पदार्थभावं बूते किल तत्पदेन च प्रकृतम्। सद्बह्मेक्षितृ जगतः कारणमभिधीयते हि तच्च पुनः॥५४॥

Page 366

प्रथम: पादः १ ] माष्यार्थरत्नमाला। ३६१

सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्युतिप्रसिद्धं हि। तघ्राजादिपदैर्जन्मादिविकारा निवर्तिता एवम् ॥५५॥ अस्थूलादिपदैर्हि स्थौल्याद्या अपि निवर्तिता एवम्। विज्ञानादिपदैरपि चैतन्याद्यात्मकत्वमस्योक्तम् ॥५६॥ व्यावृत्तसर्वसंसारधर्मकोडनुभवरूप इह योऽयम्। सोडयं हि तत्पदार्थो वेदान्ताभिज्ञसुप्रसिद्धो हि॥ ५७॥ एवं त्वमर्थ एष श्रोतुर्देहप्रदेशमारभ्य। प्रत्युक्तया च चेतनरूपतया चावधारितो मवति ॥५८॥ प्रतिबद्धावेतौ द्ववेषामज्ञानसंशयादयैः सः । तेषां तत्त्वमसीति प्रमां जनयितुं सकृन्न शक्रोति ॥५९॥ येन पदार्थज्ञानायत्तं वाक्यार्थगोचरं ज्ञानमू्। तेन पदार्थविवेकायैव च तान्प्रत्यवश्यमेष्टव्य: ॥६० ॥ सोडयं हि शास्त्रयुक्त्यभ्यासो यद्यपि निरंश एवाऽडतमा। सत्यं तथाऽपि तस्मिन्देहेन्द्रियविषयवेदनारूपम् ॥६१॥ अध्यारोपितमेतद्वह्वंशत्वं हि तत्र चैकेन। अवधानेनैकांशं तथाऽपरेणापरं त्वपोहति हि॥ ६२॥ इति तु क्रममित्येषा प्रतिपत्ति: परमसाधनं ह्यस्या:। स्यादात्मप्रतिपत्तेरित्यावृत्तिरहि तत्र सफलैव ॥६३ ।। येषां निपुणमतीनां न प्रतिबन्धोऽस्ति संशयाज्ञानैः। ते शक्नुवन्ति सकृदुक्तमपिं च वाक्यार्थमेतमनुभवितुम्॥६४॥ स्यादेवाSडनर्थक्यं तान्प्रति तत्र च न चेयसुपदिष्ा। सकृदुत्पन्नात्मप्रतिपत्तिरविद्यां निवर्तयेत्तेषाम् ॥ ६५॥ ननु यदि कस्यचिदेवं प्रतिपत्तिस्तार्है युक्तमिद्मखिलम्। दृट्टवा दुःखित्वादिप्तिपत्तिर्बलवती हि सर्वस्य ॥६६॥। प्रतिपद्येत कथं वा दुःखित्वादेरभावमिति चेन्न। दुःखित्वाद्यभिमानो योऽसी देहाभिमानवन्मिथ्या॥६७ ॥ प्रत्यक्षमेव तदिंदं देहे केनापि पीडचमाने हि। अहमेब पीडितोऽस्मीत्येवं मिथ्याभिमान इह हक्षः ।६८। बाह्येष्वपि पुत्रादिष्वेवं संतप्यमानगात्रेषु। संतप्तोऽस्म्यहमेवेत्यध्यारोपोऽयमिह यथा दृष्टः ॥ ६९।। ४६

Page 367

३६२ सुब्ह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

स्वात्मनि दुःखित्वाद्यमिमानो मिथ्याप्रतीतिरेव तथा। बाहिरुपलभ्यत एतच्चैतन्याद्दुःखितादि नैवान्तः ॥। ७०। दुःखित्वादेर्यस्मादनुवृत्तिर्द्श्यते न सौधुप्ते। चैतन्यस्य सुषुप्ावप्यनुवृत्ति समामनन्तीह।। ७।। बृहदारण्यकवाक्ये पश्यन्वैतन्न पश्यतीत्यादौ। तस्माच्च सकलदुःखविवर्जितचैतन्यरूप एवाहम् ॥ ७२।। इत्ययमात्मानुभवो भवेन्न चाऽत्मानमेवमनुभवतः । अवशिष्यते हि किमपि च कृत्यमितीयं श्रुतिः प्रदर्शयति॥७३॥ किं प्रजयेत्याद्या सा विदुषः कर्तव्यविरहमुपदिशति। यस्मात्त्वरतिरिति स्मृतिरपि कृत्याभावमस्य दर्शयति ॥v४ ॥। यस्य त्वात्मानुभवो नैवं जायेत झटिति तं प्रति हि। उक्त्तानुभवायाऽऽवृत्त्यभ्युपगम एष भवति सफलोऽन ॥ ७५॥ वाक्यार्थात्मच्याव्य च नैवाऽडवृत्तौ प्रवर्तयेदेनम्। नैवोद्वहन्ति कन्यां परमाता(्था)यैव केवलं वृद्धाः॥७६॥ यः पुनरत्र नियुक्त: कर्तारं मन्यते स्वमात्मानम्। तस्य ब्रह्मप्रत्ययविपरीतप्रत्ययो भवेन्नियतः॥७७॥। यो वाक्यार्थमतत्प्रतिभावान्मतिमान्द्यतो जिहासेतु। तस्यैतस्मिन्नर्थे यथव मनसो भवेत्स्थिरीकारः॥७८॥ आवृत्त्यादौ वाचोयुक्त्या तमिमं प्रवर्तयेत्तस्मात्। आवृत्तिर्युक्तैव हि परचिषये प्रत्ययेऽपि तदुपाये ॥७॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥ यः शास्त्रोक्तविशेषण इह परमात्मा निरूपितः स हि किमू। अहमित्येव ग्राह्यः किंवा ग्राह्यो मदन्य एवेति॥ ८० ॥ संप्रति विचार्यते नन्वत्र कर्थं संशयोऽयमवतरति। अयमात्मा ब्रह्मेति श्रुतिवाक्यैरैक्यमेतयोरिति हि ॥ ८१॥ निर्णीतमेव पूर्व शब्दादेवेति सूत्र इति चेन्न। मुख्योऽयमात्मशब्दो भवति किल प्रत्यगात्मपरतायाम्॥८२॥ जीवेशयोरभेदे तत्परता स्यान्न चैतयोर्भेदे। उपलभ्यते हि भेद: श्रुत्या प्रत्यक्षतस्तयोरत्र ॥८३ ॥ तस्माद्यमात्मेति श्रुतेर्हि गौणार्थता परं युक्ता। अत इह शङ्का युक्ता तत्र च युक्त: स एष पक्ष: स्यात् ॥ ८४॥

Page 368

पथम: पाद: १ ] भाष्यार्थरत्नमाला। ३६३

मत्स्वामीति ग्राह्यः परमात्मा नाहमिति यतश्चासौ। अपहृतपाप्मा भवति हि विपरीतगुणो यतश्र शारीरः ॥ ८५।। यदि चेशः संसारी निरीशता तत्र भवति दुर्बारा। शास्त्रानर्थक्यमपि स्यात्संसार्येव यदि च परमात्मा ॥ ८६ ॥ तर्ह्यधिकारिविलोपादनर्थकं शास्त्रमुमयथैव स्यात्। तस्मादिह भेदृस्य प्रत्यक्षादिप्रमाणसिद्दत्वात् ॥८७॥ प्रतिमादिष्विव विष्ण्वादीनां तादात्म्यभावनेयं स्यात्। संसारिणः परात्मा कदाचिदृपि नेह भवति मुख्यात्मा ।। ८८।। एवं प्राप्ते बूते ह्यात्मेति ग्राह्य इह परात्मेति। यस्मादिह जाबाला: परमात्मप्रकरणे तमात्मानम्॥८१॥ त्वं वा अहमस्मीति ह्युपगच्छन्त्येनमात्मभावेन। अन्ये तथैव चाहं ब्ह्मास्मीत्यादिना पठन्त्यत्र ॥ ९० ॥ इत्यात्मत्वोपगमात्पश्यन्ति ग्राह्यन्ति चाप्येनम्। आत्मत्वेनैव परात्मानं वेदान्तवाक्यजालानि ॥ ९१॥ एष त आत्मा सर्वान्तर इत्यादीनि चैवमन्यानि। एष त आत्माऽन्तर्याम्यमृत इति तथेदमपि स आत्मेति ॥९२⑈ तत्त्वमसीत्यादीनि च वाक्यानि ग्राह्यन्ति चाऽडत्मतया। प्रतिमान्यायेनेदं प्रतीकदर्शनमितीह यञ्चोक्तम्॥ ९३॥ तच्च न वाक्यस्यास्य च वैरूप्याद्गोणताप्रसङ्गाच्च। यत्र प्रतीकद्ृष्टिः सकृदेव हि तत्र वचनमेतत्स्यात् ॥९४॥ तच्च मनो ब्रह्माSडदित्यो ब्रह्मेत्यादि हृश्यते वाक्यम्। त्वं वा अहमस्मीति त्वमस्यहमितीह दृश्यके चैतत् ॥ ९५॥ तस्मादिह प्रतीकश्तुतिवैरूप्यादभेद एव स्यात्। किंचेह भेददृष्ट्यपवादपराः श्रुतय एव दश्यन्ते ॥। ९६ ॥। अथ योऽन्या[मुपास्ते] ह्यन्योऽसावन्य इति तथैवेयम्। मृत्यो: स सृत्युमाप्नोतीत्याद्या भेदमपवदृन्त्येताः ॥। ९७।। नान्योन्यात्मत्वं स्याद्विरुद्धगृणयोरितीह यच्चोक्तम्। नासौ दोषो मिथ्याज्ञाननिमित्ता विरुद्धगुणतेयम्।।९८॥ यच्चोक्तमीश्वराभावः स्यादिति दूषणं न चैतत्स्यात्। शास्त्रपामाण्याद्प्यनभ्युपगमाच्च नेह तल्ज्वति. ॥९९,।।

Page 369

२६४ सुब्ह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

प्रतिपाद्यते न संसार्यात्मत्वं किल परात्मनः किंतु। संसारिणो हि संसारित्वापोहेन चेश्वरात्मत्वम् ॥ १०० ॥ एतावदेव नान्यत्स्यादत्र प्रतिपिपादयिषितं हि। एवं सत्यद्वैतेश्वरस्य चापहतपाष्मतादिगुणः ॥ १०१॥ सिध्येच्छारीरस्य तु विपरीतगुणत्वमत्र मिथ्येति। उमयं व्यवस्थितं स्याद्यदृपि ह्यधिकार्यभाव इत्युक्तम्॥१०२ ॥ प्रत्यक्षादिविरोधश्रेति च तद्पीह परिहृतं भवति।

प्रत्यक्षादिव्यवहारोऽपि च संसारविषय एव स्यात् । दर्शयति प्रत्यक्षाद्यभावमस्य प्रबोधसमये हि॥ १०४ ॥ यत्र त्वस्येत्याद्या श्रुतिरेषा ननु यदा प्रबोधे हि। प्रत्यक्षाभावश्रेच्छतेरभावोऽपि न कृत इति चेन्न ॥ १०५॥ इष्टत्वादत्र पिताऽपितेत्युपक्रम्य दर्शितश्रुत्या। वैदा अवेदा इत्यादिना श्ुतेरष्यभाव इह यस्मात् ॥१०६॥ कस्यायमप्रबोधो य एष संसारमूलमिति चेन्न। यरत्वं पृच्छसि तस्यैवेति वदाम: पुनर्यदा त्वेवम्॥ १०७॥ अहमीश्वर एवोक्त: श्रुत्या स्यात्क्रथमिहाप्रबोध इति। यद्येवं प्रतिबुद्धस्त्वमपि न कस्यचिदिहाप्रबोधः स्यात् ॥ १०८॥ यद्पि ह्यविद्यया खल्वात्मन एतस्य सद्वितीयत्वात्। अद्वैतानुपपत्तिर्दोष इतीह प्रजल्पितं कैश्रित् ॥ १०९ ॥ तदृपि च सर्वस्यानिर्वचनीयत्वेन परिहृतं भवति। तस्मात्परमात्मन्यात्मेत्येव मनो दधीत नेतरथा ॥ ११० ॥ प्रत्यक्षाद्यैर्यद्यपि विरोधावधृतिर्यतः समाधौ हि। स्यात्केवलाऽन्तरङ्गा तस्मात्तत्संगतिर्भवेदत्र ॥ १११॥ न प्रतीके न हि सः ॥ ४ ॥ इह च मनो ब्रह्मेत्याकाशो ब्रह्मेति चैवमादीनि। आदित्यो ब्रह्मेति च नाम ब्रह्मेति चैवमादीनि ॥११२ ॥ अध्यात्मं त्वधिदैवं प्रतीकविषयाण्युपासनानीह। श्यन्ते तन्रायं संदेहः स्यादुपासनेष्वेषु ॥ ११३॥

Page 370

प्रथम: पाद: १] भाष्यार्थरत्नमाला। ३६५

कर्तव्यः किमिहाऽडत्मग्रहो न वेतीह भवति युक्तोऽयम्। तेष्वात्मग्रह एव ब्रह्म परं श्रुतिषु चाऽडत्मभावेन ॥ ११४॥ येन प्रसिद्धमेव हि किंच मनःप्रभृतयः प्रतीकाश्र । ब्रह्मविकारास्तेन ब्रह्मत्वे चाऽऽत्मताऽपि तेषां स्यात् ॥ ११५॥ एवं प्राप्ते वूते प्रतीकवर्गे न चाऽडत्ममतिरिति हि। व्यत्यस्याऽडत्मत्वेनाSSकलयेत्स उपासको न चेमानि ॥ ११६॥ ब्रह्मविकारत्वेन ब्ह्मत्वादात्मतेति यच्चोक्तम्। तदिद्मयुक्तं यस्मात्प्रतीकविलयप्रसङ्ग इह भवति ॥११७ ॥ यद्ब्रह्मणा स्वरूपैक्यमिह विकारस्य न खलु तद्युक्तम्। यदि तद्वाधेनैक्यं प्रतीकबाधादुपास्तिविधिबाधः ॥ ११८॥ स्यादेवं चेत्तस्य च कुतः प्रतीकत्वमात्ममतिरपि वा। कर्तव्यादेरनिराकरणेनोपासनाविधिर्भवति ॥११९। तद्वाधेन ब्रह्मण आत्मत्वं दर्शितं हि पूर्वत्र।

एतेषु च प्रतीकेष्वहंग्रहोपास्तिकल्पनाऽनुचिता। यस्मादुपासकोडयं समः प्रतीकैर्न तत्र चाऽडत्ममतिः ॥१२१॥ न हि रुचकस्वस्तिकयोरितरेतररूपता कदापि स्यात्। तस्मादिह प्रतीकेष्वात्ममति न स कदाचिदृपि कुर्यात् ॥ १२२।। ब्रह्मदृष्टिरुत्कर्षात् ॥ ५॥ तेष्वेवोदाहरणेष्वयमपरः संशयो मवत्येवम्। ब्रह्मण्यध्यसितव्या: किमिहाऽडित्यादिद्ृष्टयः किंवा॥१२३॥ आदित्यादिष्वेवाध्यसितव्या ब्रह्मदष्टिरियमिति हि। आदित्यो ब्रह्म मनो ब्रह्मेत्यादौ हि द्वृश्यते चैतत् ॥ १२४ ॥ सामानाधिकरण्यं ह्यादित्यब्रह्मशब्द्योस्तत्र। तदिदं सामानाधिकरण्यं नैवाऽडञ्तसं भवेद्नयोः ॥१२५ ॥ ब्रह्मादित्यादिपदानामर्थान्तरपरत्वमिह यस्मात्। गारश्व इति न सामानाधिकरण्यं कदाचिद्पि भवति ॥१२६॥ ब्रह्मादित्यादिषु ननु दृष्टो हि प्रकृतिविक्कृतिभावोऽयम्। तेन च सामानाधिकरण्यं स्यान्मृच्छराववत्तेषाम् ॥ १२७॥ इति चेद्विकारविलये प्रकृतिसमानाधिकरणता युक्ता । स्यादिह ततः प्रतीकाभावः परमात्मवाक्यमेतत्स्यात् ॥ १२८॥

Page 371

२६६ सुब्ह्मण्य विरचिता- [४ चतुर्थाध्यायस्य-

एवं चेदत्र पुनर्बाध्येतोपासनाधिकारोऽयम्। व्यर्थमिह परिमितविकारोपादानं यदेद्टशं यस्मात् ॥ १२९ ॥ बहुरयमिह वैश्वानर इत्यादिषु किल यथैव चान्यत्र। संभावितेऽन्यदृष्ट्यध्यासे क्वाध्यस्यते हि किंहटिः ॥। १३०॥ इति संदेहे तत्रानियमो न्याय्य: प्रतीयते यस्मात । शास्त्रं हि किंचिदृपि वा नियामकं नोपलभ्यते चात्र ॥ १३१ ॥ अथ वा ब्रह्मण्यादित्यादीनां दृष्टयो भवेयुरिह। ब्रह्मोपासितमेवं सत्यादित्यादिद्टृष्टिभिर्भवति ॥१३२ ।। फलवद्धह्मोपासनमिति किल दृष्टा हि शास्त्रमर्यादा। यस्मादादित्यादिषु न युज्यते ब्रह्मदृष्टिरित्येवम् ॥१३३ ॥ प्राप्ते ह्यादित्यादिषु युक्तेह ब्रह्मदृष्टिरिति वक्ति। उत्कर्षेणाSSदित्यादयो हि हष्टा भवन्ति यद्येवम् ॥ १३४ ॥ उत्कृध्दृष्टिरध्यसितव्या हि निकृष्टवस्तुनीत्येवम्। लोकन्यायो दृष्टः क्षत्तरि दृष्टा हि राजदृष्टिरियम् ॥१३५॥ अनुगन्तव्य: सोऽयं विपर्यये प्रत्यवाय एव स्यात। नैव हि निकृष्टद्ृष््यध्यासे न निकृष्टतां गतस्यास्य ॥१३६ ॥ शरेय:साधनता स्यादुत्कृष्टस्याप्युपास्यमानस्य। शास्त्रपामाण्यान्नतु न ह्यत्र प्रत्यवायशङ्का स्यात् ॥१३७।। न्यायेन लौकिकेन च दष्टिस्त्वेषा नियन्तुमिह युक्ता। यस्मादेषा दृष्टिः शास्त्रीयाडतो न दोष इति चेन्न ॥ १३८ ॥ निर्णीते शास्त्रार्थे यदुक्तमेतत्तदेवमेव स्यात। संदिग्धे किल तस्मिंस्तं निर्णेतुं हि लौकिको न्यायः ॥१३९॥ आश्रयणीयो मवति हि न विरोध: स्यात्कुतश्िवदृप्यत्र। उत्कृष्टविषयहृष्ट्यध्यासे तेनावधार्यमाणे हि ॥ १४० ॥ न निकृष्टद्टष्टिभध्यस्थात्र पुनः प्रत्यवायसुपगच्छेत। इति युज्यते हि किंचाSSदित्यमनोविद्युदादिशब्द्ानाम् ॥१४१॥ प्राथम्याच्च स्यादिह मुख्यार्थत्वं यतो भवेदेवम्। तैः स्वार्थवृत्तिकरवरुद्धायां प्रथमतो धियामस्याम् ॥१४२॥ पश्ादवतारो हि ब्रह्मपद्स्य च मुख्यया वृत्या। सामान यं स्यादिति तद्द्टृष्टिरेव विहिताऽन्र ॥ १४३ ।

Page 372

प्रथम: पाद: १] भाष्यार्थरत्नमाला। ३६७

किंच ब्रह्मपदस्येतिपरत्वेनैष नैव युक्तोऽर्थः । ब्रह्मेत्युपास्त इति च ब्रह्मेत्यादेश एवमादी हि॥ १४४ ॥ उच्चारयन्ति सर्वत्रेतिपरं ब्रह्मशब्दमिह शुद्धान्। आदित्यादीक्शब्दांस्ततो यथा शुक्तिकं हि रजतमिति ॥१४५॥ प्रत्येतीत्यादौ किल शुक्तिपरो भवति शुक्तिकाशब्द: । रजतप्रतीतिलक्षक एवासौ तत्र रजतशब्दः स्यात् ॥ १४६॥ अत्रापि तान्प्रतीयाङ्गह्मेति तु गम्यते हि वाक्यार्थः । किंचेह वाक्यशेषोऽप्यादित्यादीनुपास्यमानान्हि॥ १४७।। एवं विद्वानादित्यं ब्रह्मेत्यादिना प्रदर्शयति। ब्रह्मोपासनमिह खल्वादरणीयं फलार्थमिति यद्पि॥ १४८॥ तद्युक्तमेव यस्मादादित्यादेरुपास्यतावगम: । ब्रह्मैव दास्यते फलमत्रातिथ्याद्युपासनेषु यथा॥ १४९॥ यस्मात्परमात्माडसौ सर्वाध्यक्षो भवेत्स फलदाता। फलमत उपपत्तेरित्यस्मिन्सूत्रे प्रपश्च्ितं चैतत् ॥ १५० ॥ तस्योपास्यत्वं तद्दृष्ट्यध्यारोपणं प्रतीकेषु। प्रतिमादिष्विव विष्ण्वादीनां तदिहोपपन्नमेवास्य ॥१५१॥ आदित्यादिमतयश्राङ्ग उपपत्तेः ॥ ६॥ इह च य एवासी तपतीति च लोकेषु पञ्चविधमिति च। एवं सप्तविधं सामोपासीतेतिवाक्यदृष्टेषु।१५२॥

अङ्गाश्रितेषु तत्तदुपासननिवहेषु संशयोऽयं स्यात ॥१५३ ॥ आदित्यादावुद्गीथादीनां दृष्टयो भवेयुरिह। किंवोद्गीथादिष्वादित्यादीनां हि दृष्य: स्युरिति ॥१५४॥ इह नियमकारणस्यानुपलम्भादनियमो भवेद्युक्त:। न ह्यत्र ब्रह्मण इव कस्यचिदुत्कृष्टतेयमुपलब्धा॥१५५॥ अपहृतपाप्मत्वादिक गुणयोगादखिलकारणत्वाच्च। आदित्यादिभ्यो हि ब्ह्मोत्कृष्ट भवेन्न चेहापि ॥ १५६ ॥ आदित्योद्गीथादीनां तु विकारत्वधर्मसामान्यात्। नैवेह कश्िविदस्त्युत्कर्षविशेषावधारणे हेतुः ॥१५७॥ अथवा नियमेनैवोद्गीथादीनां हि द्ृष्टय: स्युरिह। आदित्यादावुद्गीथाद्या हि यतश्र कर्मरूपा: स्युः ॥ १५८॥

Page 373

३६८ सुन्नह्मण्य विरचिता- [४ चतुर्थाध्यायस्य-

फलदायिनी हि शक्ति: कर्मण एवेति शास्त्रमुपदिशति। उद्गीथाद्यात्मतयाऽप्या दित्याद्या उपास्यमाना हि॥ १५९॥ उद्गीथाद्यात्मकतां नीता: फलहेतवो भविष्यन्ति। इयमेवर्गगनि: सामेत्यादी हश्यते तथैवैतत् ॥ १६० ॥ एतस्यामृच्यध्यूढं सामेत्यादि यञ्ञ वाक्यमिह। कक्छब्देन हि तत्र च पृथिवीं निर्दिशति सामशब्देन ॥ १६१ ॥ अगनिं च स हि पृथिव्यग्न्योरेवक्सामद्टृष्टिपक्षे स्यात्। ऋक्सान्नोः एुनरनयोर्न खलु पृथिव्यग्निदृष्टिपक्षेऽपि॥१६२॥ क्षत्तरि हि राजदृष्टिनिमित्तादुपचर्यते कदाचिदसौ। तघ किल राजशब्दो न तथैव क्षततृशब्द इह राज्ि ॥१६३॥ ऋक्सामयोर्यदि स्यादत्र पृथिव्यग्निदृष्टिरेव तदा। नैव पृथिव्यग्न्योरयमृक्सामपदप्रयोग इह युक्तः ॥१६४॥ लोकेषु पश्चविधमिति दृष्टा लोकेषु सप्तमी हि तया। हिंकारप्रतिहारप्रस्तावोद्गीथनिधनभेदेन ॥ १६५॥ पञ्चविधस्य च साम्नो लोकेषूपास्यताप्रतीति: स्थात्। एतदायत्रं प्राणेषु प्रोतमिति चैवमेव स्यात् ॥ १६६ ॥ प्रथमं निर्दिष्टेष्वादित्या दिषु चरमभागनिर्दिष्टम्। ब्रह्माध्यसितव्यमिति प्रपश्चितं तत्प्रधानवाक्ये हि॥ १६७॥ एवमिहापि पृथिव्यादय एते प्रथमतो विनिर्दिष्टाः । हिंकाराद्याश्चरमं पृथिवी हिंकार एवमाद्यासु॥१६८॥ श्रुतिषु ततोऽनङ्गेष्वादित्यादिष्वङ्गमतिरिति प्राप्ते। वूते ह्यङ्गेष्वेतेष्वत्राSSदित्यािमतय एवेति ॥१६९ ॥ एवं चेदुपपन्नं फलहेतुत्वं यदत्र विद्याया:। उद्गीथादिषु संस्क्रियमाणेष्वेतेषु मतिभिरेताभिः ॥ १७० । श्रुतिरिह कर्मसमृद्धिं दर्शयति यदेव विद्ययेत्याद्या। ननु संनिकृष्टकर्माङ्गद्वारापेक्षमेव यत्र फलम् ॥ १७१॥ भवति ह्युपासनानां तत्र फलप्राप्तये तदङ्गानाम्। स्यादेवोपास्यत्वं पुनरिह कर्माङ्गमेतद्नपेक्ष्य ॥ १७२॥ यानि च लोकादिफलान्युपासनानि श्ुतानि वेदेषु। सोऽयमुपास्यविवेकस्तन्र कर्थं स्यादितीह नाऽडशाड्रक्यम्॥१७३॥

Page 374

रथम: पाद: १ ] माध्यार्थरत्नमाला। ३६९

यस्मात्कर्माधिकृतस्यैवैतदुपासनाधिकार: स्यात्। यद्वत्स्वतन्त्रपशुफलगोदोहनरूपकर्मजं हि फलम् ॥ १७४ ॥ अङ्गद्वारापेक्षं भवति तथेव हापासनेष्येषु। लोकादिफलेष्वपि किल कर्माङ्गद्वारतः फलं भवति ॥१७५॥ तस्मादङ्गानामेव हि सर्वत्राप्युपास्यमानत्वम्। उत्कर्षानवधृत्या स्यादत्रानियम इति तु यत्तन्न ॥ १७६॥ येनाSडदित्यादीनां फलात्मकत्वाद्भवेदिहोत्कर्षः । कर्मात्मकेभ्य उद्गीथादिभ्यः किल स चायमुपपन्नः ॥१७७॥ ध्रुतिषु यतः कर्मफलं ह्यादित्यप्राप्तिलक्षणं द्ृष्टस् । अपि चोद्गीथमुपासीतेति प्रक्रम्य तमिमसुद्गीथम् ॥१७८॥ तास्मिन्नेवाऽडदित्यादीनां हट्टीरिहोपवर्णयति। यञ्चाप्यादित्यादय एवोदीथादिदृष्टिमिश्रेह ॥१७९॥ स्युर्यद्युपास्यमानास्ते हि तदा कर्मभावमालसय। दास्यन्ति फलमिहेत्येतदयुक्तमुपासनस्य कर्मत्वात् ॥ १८०।। स्वत एव तस्य सिद्धं फलवत्वं न प्रयत्नसाध्यं तत्। किंचोद्गीथादीनामादित्याद्यात्मना हि दुषानाम् ॥१८१॥ सिद्धे कर्मात्मत्वे तदपूर्ववदेव नेह वक्तव्यम्। एतस्यामृच्यध्यूढं सामेत्यत्र भवति लाक्षणिक: ॥ १८२।। यश्च पृथिव्यग्नयोरयमृक्सामपदप्रयोग इह हट्टः । कवचिदृपि च संनिकृष्टेन तु संबन्धो हि लक्षणाबीजम् ॥१८३ ॥ क्त्रचिदृपि च विप्रकृष्टेनापि स्यादेष लक्षणाबीजम्। गङ्गापदस्य तीरे भवति हि सा संनिकृष्टयोगेन ॥ १८४ ॥ अग्निर्बटुरित्यादाव्गिगतो यः शुचित्वरूपगुणः। तद्त्तारूपपरं पदार्थयोगेन भवति सा तत्र ॥ १८५॥ एतस्यासृच्यध्यूढं सामेत्यत्र तद्देवैषा। तत्रक्समिपदाभ्यां स्वार्थट्रृष्टव्यताढियोगेन ॥। १८६॥ स्यालक्षणा पृथिव्यग्न्योरेवक्समिशब्डयोरनयोः । तस्माट्टच्यध्युढं सामेति च मुख्ययो: पृथग्ग्रहणात् ॥१८७॥ एतस्यामुच्यध्यूढं सामेति हि पुनस्तयोर्ग्रहणे। स्यात्पौनरुत्तयमत इह तद्द्वुष्यालम्बनत्वयोगेन ॥। १८८॥ ४७

Page 375

३७० सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य- संनिहितयोः पृथिभ्यग्न्योरव हि तत्पद्प्रयोग: स्यात्। क्येयार्थलक्षणाSपि प्रतीकवाचकपद्स्य दृष्ैव ॥१८९ ॥ राजि क्षत्तृपदं प्रयुज्यते कारणात्कुतश्रिदृपि। इयमेवर्मग्निरिति ह्यृचोऽवधारयति तदिह पृथिवीत्वम् ॥ १९० ॥ अत्र पृथिव्या ऋक्त्वेऽवधार्यमाणे त्वियं ह्यृगेवेति। स्यादक्षरविन्यासः किंच य एवमिति वाक्यशेषेऽपि। १९१॥ उपसंहृतमङ्गाश्रितमिह न पृथिव्याश्रयं हि विज्ञानम्। लोकेषु पञ्चविधमिति यद्यपि लोकेषु सप्तमी दृष्टा ॥१९२॥ सामन्येव हि लोका अध्यस्येरंस्तथाउपि तद्ाक्ये। सामोपासीतेति द्वितीयया चावगम्यते साम्न: ॥१९३॥ येनोपास्यत्वमिदं यदि लोकानामुपास्यता तत्र। सामात्मना हि लोकान्स उपासीतेति योजना कार्या ॥ १९४ ॥ तन्र श्रुतद्वितीयासप्तम्योर्भङ्गकल्पना कार्या। तद्पेक्षया हि केवलसप्तम्या एव भङ्ग इह युक्त: १९५ ॥ लोकातमना हि सामोपासीतेतौह योजना कार्या। इह च तृतीयेवैका परिकल्प्या भवति सप्तमीस्थाने ॥ १९६॥ पूर्वत्रोमयमङ्गस्तथोभयं कल्पनीयमेव पुनः । एतद्वायत्रं प्राणेषु प्रोतमिति चैवमेवेह॥१९७॥ व्याख्येयं यत्र पुनस्तुल्या ह्युमयत्र च द्वितीयैव। अथ खल्वमुमादित्यं सप्तविधमिति ्रुतिप्रदेशेषु ॥१९८॥ सत्रापि खतु समस्तस्य च साम्न उपासनं तु साध्विति हि। साम्न: पञ्चविधस्य च सप्तविधस्याप्युपास्यतावगमात् ॥१९९।। साम्न्येवाSडदित्यादेरध्यासः स्यान्न वैपरीत्येन। पृथिवी हिंकार इति प्रथितं यच्चोपलभ्यते वाक्यम्॥ २००॥ हिंकारोददेशेन च यदि पृथिवीत्वं विधीयते तत्र। उद्देश्यवाचकस्य प्राथम्यापत्तिरिति न शङ्क्यमिह॥ २०१॥ पञ्चविधस्य च साम्रो हिंकारादेरुपास्यताकथनात्। उद्देश्यत्वे सिद्धे योजनया पूर्वभावितेह स्यात् ॥ २०२ ॥ तस्मादुद्वीथ।दिब्बेवाSSदित्यादिमितय इति सिद्धम्। आसीन: संभवात् ॥ ७॥ कर्माङ्गसंितानामुपासनानां हि कर्मतन्त्रत्वाद् ॥ २०३॥

Page 376

प्रथम: पाद: १ ] माष्यार्थरत्नमाला। ३७१

नैवाऽडसनादिचिन्ता न तत्त्वबोधेऽपि वस्तुतन्त्रत्वात्। किं त्वेषा चिन्ता खल्वितरेषूपासनेषु भवति परम् ॥२०४ ॥ तिष्ठन्नासीनो वाडथ वा शयानोऽपि वा प्रवर्तेत। उत नियमेनाऽडसीनो वाडयं तेष्विति परं भवेदेषा ॥ २०५ ॥ तत्रोपासनमखिलं मवति यतो मानसं ततश्रेह। देहस्थितेरनियमे प्राप्ते तस्योत्तरं ब्वीतीदम् ॥२०६॥। आसीन एव सततमुपासीत यतश्र भवति तत्तस्य। येन समानप्रत्ययसंततिरूपं ह्युपासनं तदिदम ॥ २०७॥ एतत्कथंचिदृपि वा न गच्छतो धावतोऽपि वा मवति। गत्याद्यो हि मनसो भवन्ति विक्षेपकारिणो यस्मात् ॥ २०८॥ एवं हि तिष्ठतोऽपि च मनो भवेद्देहधारणव्यग्रम्। तेन न सूक्ष्मनिर्रीक्षणसमर्थमेतत्तथा शयानस्य ॥ २०९॥ निद्रासमागमेनाभिभूयते किल मनो यतस्तस्मात् । आसीनस्य परं स्यादेवंजातीयदोषपरिहारः ॥ २१०॥ तेनोपासनमेतत्स्यादासीनस्य न हि तदन्यस्य। ध्यानाच॥८ ॥ ध्येयार्थो हि समप्रत्ययसंतानरूप एवेह ॥ २११ ॥

ध्यायति बकस्तथैव प्रोषितबन्धुरिति चैवमादो हि। अचलत्वं चापेक्ष्य ।। ९. H अपि च ध्यायतिवादो योऽसौ हि ध्यायतीय पृथिवीति॥२१३। स खलु पृथिव्यादिष्व चलत्वमपेक्ष्येव केवलं भवति। आसीनकर्म तदिद्मुपासनमित्यस्य लिङ्गनमेतत्स्यात् ॥२१४॥ स्मरन्ति च।। १।। अपि च स्मरन्ति शिष्टा आसनमत्र ह्युपासनाङ्गतया। भगवद्गीतासु स्मृतिषु छुची देश इति समासम्य ॥ २१५॥ अत एव पद्मकाद्यासनभेदा योगशास्त्रनिर्दिश्ा:। यत्रैकाग्रता तत्राविशेषात् ॥११ ॥ यददिहाऽऽसननियमस्तथैव दिग्देशकालभेदेषु ॥ २१६॥

Page 377

३७२ सुन्नह्मण्य विरचिता- [ ४ चतुर्थाध्या

अस्ति हि कश्चिन्नियमः किंवा नास्तीति भवति संदेहः । प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनतः । २१७। अत्रापि स्यान्नियमः कश्चिदिति भ्रममिमं निराकुरुते। यस्यां दिशि देशे वा काले वैकाग्रता भवेन्मनसः ॥ २१८॥ सौकर्येण स चायं तत्रोपासीत नियतभावेन। प्राच्यां दिशि पूर्वाल्ले प्राचीनप्रवण एवमादीनाम् ॥ २१९ ॥ अभ्रवणादृत्र पुनर्मनससत्वेकाग्रताविशेषाच्च। नन्वामनन्ति केचिद्विशेषमपि किल समे शुचाविति हि॥ २: तत्र च शुचिप्रदेशे समे तथा शर्करागनिसिकताद्यैः। शब्दजलाधारैरवि विवर्जिते किंच चित्तरमणीये ॥ २२१॥ वक्षुष्पीडारहिते गुहानिवाताश्रये प्रयुस्ज्ीत। इत्युपदिष्टं तेन च विरुद्धमेतदिति चेन्न दोषोऽयम् ॥२२२ दिग्देशादिविशेषा: श्रुत्या यद्यपि निरूपितास्तदृपि। तेषु न नियम इति श्रुतिरेव व्रूते मनोनुकूल इति ॥२२३ ॥ दर्शयितुमिह सुहृद्ावेनाऽडचार्येण कृतमिदं सूत्रम्। आप्रायणात्तत्रापि हि दृष्टम् ॥ १२॥ आवृत्ति:ः सर्वोपास्तिषु कर्तव्येति बर्णितं पूर्वम् ॥२२४ ॥ तत्र च यानि हि सम्यग्दर्शनफलकान्युपासनानि स्युः । तानि च फलपर्यवसानान्यवघातादिवद्यतस्तेषाम् ॥ २२५।। आवृत्तिकालनियमो ज्ञातो न हि तत्वदर्शने कार्ये। निष्पन्ने सति यत्नान्तरमिह किंचिदृपि शासितुं शक्यमू ॥२ अनियोज्यब्रह्मात्मप्रतिपत्ती शास्त्रविषयताबाधातू। कित्वभ्युद्यार्थानि हि यानीहोपासनानि तेष्वेषा ॥ २२७॥। भवति हि चिन्ता किंचित्कालमिमं प्रत्ययं किमावर्त्य। विसृजेलकिंवा यावज्ीवमिहाऽडवर्तयेत्तमेतमिति ॥ २२८॥ तत्र च युक्तं किंचिस्कालमिमं प्रत्ययं समभ्यस्य। विसजेदिति यस्मादावृत्तिविशिष्टस्य भवति कृत एक । २२ एवं प्राप्ते ह्याप्रायणात्तमावर्तयेदिति बूते। यदि चाऽडप्रायणमेतं प्रत्ययमावर्तयेत्तदा तस्य ॥। २३०।।

Page 378

प्रथम: पाद्: १ ] माष्यार्थरत्नमाला। ३७३

अन्त्यप्रत्ययवशतो निष्पन्नं स्याद्हष्टरूपफलम्। जन्मान्तरफलजनकान्यपि कर्माणीह यानि तान्यपिच॥। २२१॥ प्रायणकाले प्राप्तव्यफलस्फूर्ति समाक्षिपन्ति किल। श्रुतिरपि चेह सविज्ञानी भवतीति प्रदर्शयत्येवम् ॥ २३२॥ यदिह फलस्फुरणं भावनामयं स्यात्तदेव विज्ञानम्। विज्ञानं स्फुरितं तत्फलं सविज्ञान एव यात्येष: ।। २३३ ।। तत्सहितस्य फलस्फूर्त्यनन्तरं लीयते मनः प्राणे। प्राणश्चोदानात्मकजीवयतः सन्सहैव मनसा तम् ॥ २३४ ॥ संकल्पितं हि लोकं नयतीति निरूपितं किल श्रुत्या। किंचेह तृणजलूकानिदर्शनान्यपि च दर्शयन्त्येवम्॥ २३५॥ यदिदं हि भावनामयमेव हि विज्ञानमभिहितं श्रुत्या।

प्रतिपत्तव्यफलस्फुरणात्मानः प्रत्यया हि ये चेह। आप्रायणात्त एते परमावर्त्याः स्युरिति तु सिद्धं स्यात्॥२३७॥ किंच स यावत्क्रतुरस्मादित्याद्या श्रुतिश्र या चेह। सा हि प्रायणकाले दर्शयति प्रत्ययानुवृत्तिमिमाम् ॥२३८॥ यं यं वाडपीत्याद्या स्मृतिरप्युक्तार्थमेव दर्शयति। या चेह सोऽन्तवेलायामिति देहावसानसमयेऽि। २३९॥ अक्षितमस्यच्युतमसि तथैव हि प्राणसंमितमसीति। मन्त्रत्रयसंस्मरणं चाSडदिश्योपासकस्य सम्यगिह॥ २४० ॥ कर्तव्यशेषमेवं आरवयति श्षुतिरियं तदाऽप्यस्य। तदधिगम उत्तरपूर्वाधयोरश्लेषवि- नाशौ तद्यपदेशात् ॥१३ ॥

अत्र हयुपासकानां यथाऽन्तसमयेऽपि चास्ति कर्तव्यम् ॥ २४१॥ न तथाSडत्मविदामेषामिति जीवन्मुक्तिमत्र दर्शयति। एवं तृतीयशेषं विचार्य सम्यक्समापिते तस्मिन् ॥ २४२॥ संप्रति परात्मविद्याफलं प्रति किलोपजायते चिन्ता। ब्रह्माधिगमे सति तद्विपरीतफलं हि यञ्च दुरितमिह ॥ २४३॥ तक्क्षीयते न वेति हि संदेहे तत्र युक्तमेतत्स्यात्। यस्मात्कर्म फलार्थंफलं ह्यदृत्वा न च क्षयोऽस्य स्यात ॥२४४॥

Page 379

३७४ सुबह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

फलदायिनी हि शक्ति: भ्रुत्यैवास्यावगम्यते सा हि। उपभोगमन्तरेण च यद्यपवृज्येत कर्मणः शक्तिः ॥२४५॥ श्रुतिरिह कदर्थिता स्यात्स्मृतिरपि नाभुक्तमेवमाद्या हि। नन्वेवं चेत्प्रायश्चित्तादीनामनर्थकत्वं स्यात् ॥ २४६ ॥। इति चेत्पायश्वित्तादीनां नैमित्तिकत्वमेव स्यात्। गृहदाहेष्ट्यादिवदिह यथाऽडहिताग्रेर्गहेडग्रिना दुग्धे ॥ २४७ ॥। दाहात्मके निमित्ते सत्यग्रय इति किलेष्टिरुपदिष्टा। दोषात्मके निमित्ते प्रायश्चित्तं भवेदिहापि तथा॥ २४८ ॥ किंचेह दोषसंयोगेन विधानात्कथंचिदेतेषाम्। प्रायश्चित्तादीनां दोषक्षपणार्थता भवेन्नेह॥ २४९॥ न हि परविद्यायामिह दोषक्षपणार्थताविधि: कश्ितू। ननु यदि विदुषः कर्मक्षयोऽयमिह नाभ्युपेयते तरहिं ॥ २५० ॥ कर्मफलस्यावश्यं भोक्तव्यत्वाद्भवेदनिर्मोक्षः। इति चेन्नासौ दोषो मोक्ष: स्याद्ेशकालसापेक्षः॥२५१॥ न क्षीयतेऽस्य दुरितं फलं दृदात्येव कर्म विदुषोऽपि। एवं प्राप्ते बूते तद्धिगमे भवति दुरितविलय इति ॥२५२॥ ब्रह्माधिगमे सत्यघयोरुत्तरपूर्वयोरुमौ भवतः । अश्लेषश्र विनाशस्तत्र स्यादुत्तरस्य चाश्लेष: ।। २५३।। पूर्वस्यास्य विनाशस्तद्यपदेशान्भ्रवेदसावेवम्। संभाव्यमानदुरितानभिसंबन्धं किलास्य विदुषो हि। २५४। व्यपदिशति पुष्करपलाश आप इत्यादिका श्रुतिश्र्वेह। तत्र किल पद्मपत्रे न श्लिष्यन्ते यथा इमा आप: ॥ २५५ ॥ न श्लिष्यते तथैव हि परात्मविदि कर्म पापमित्युक्तम्। व्यपदिशति नाशमन्या विदुषः पूर्वार्जितस्य दुरितस्य ॥२५६।। अग्रौ प्रोतमिषीकातूलं यद्वत्पदूयते सकलम्। एवंविदः प्रदूयन्ते पाप्मान इति तद्यथेत्याद्या॥ २५७॥ व्यपदिशति श्रुतिरन्या भिद्यत इति किल यथोक्तमेवार्थमू। यच्चो नुपभुक्तफलस्यास्य च कर्मण: क्षये कथिते ॥ २५८॥ शास्त्रं कदर्थितं स्यादित्येतन्नेह दूषणं मवति। नैवेह कर्मणोऽस्य च शक्ति: फलदायिनी निराक्रियते॥ २५९॥

Page 380

थम: पादः १ ] माष्यार्थरत्नमाला। ३७५

किंत्विह सा परविद्याबलेन विरुद्धा न किचिदार्जयति। इति तु वदाम: शास्त्रं व्याप्रियते शक्तिसत्त्वमात्रेण॥ २६० ॥ न प्रतिबन्धाप्रतिबन्धयोरपीतीह सकलमनवद्यम्। न हि कर्म क्षीयत इत्येतत्स्मरणं मवेदिहोत्सर्गः ॥ २६१॥ यत्र खलु नापवादस्तत्रोत्सर्गो न वैपरीत्येन। इष्यत एव प्रायश्चित्तादिभिरस्य कर्मणो नाशः ॥ ६२॥ सरवं पाप्मानं तरतीति श्रुतिरपि किलैवमुपदिशति। यत्तु प्रायश्चित्तादीनि च नैमित्तिकानि हीत्युक्तम् ॥२६३॥ तद्सत्तेषां दोषनिवृत्तिफलत्वेन विधिनियुक्तत्वात्। संमवति हि मुख्यफले गौणफलार्थत्वकल्पनाऽनुचिता ॥ २६४॥ यत्पुनरुक्तं दोषक्षयमुद्दिश्य च यथा विधानमिह। प्रायश्चित्तादीनां न तथा विद्याविधानमिह चेति॥२६५॥ नैतद्विद्यत एव हि विधानमिह सगुणविषयविद्यामु। तत्रैश्वर्यप्राप्तिः पाप्मनिवृत्ति: फलं हि निर्दिष्टम ॥ २६६।। इह च तयोरविवक्षाकारणविरहाद्वश्यमेतत्स्यात्। पाप्मप्रहाणपूर्वकमैश्वर्यप्राप्तिरूपफलमासाम् ॥ २६७॥ यद्यपि परविद्याया न दृश्यते तद्विधानमेवमपि। स्यादृत्राकर्त्रात्मप्रबोधतो दुरितकर्मविलयोऽसी ॥ २६८॥ अश्लेष इति च कर्मस्वागामिषु कर्तृतां न यातीति। दर्शयति यद्यपि स्यादतीतकर्मस्विहास्य कर्तृत्वम् ॥ २६९॥ मिथ्याज्ञानबलेन हि तथाऽपि विदुषोऽस्य विद्यया परया। मिथ्याज्ञानापगमे कारणनाशाञ्च तानि कर्माणि॥२७० ॥ नश्यन्त्येव हि तेषां विनाशकथनं यदत्र ततयुक्तम्। ब्रह्मविदिह किल यस्माद्यङ्गह्माकर्तृभोक्तृचिन्मात्रम्॥२७१ ॥। अवगच्छति तदहमिति स्वात्मानं कर्तृभोक्तृतारहितम् । जानाति पूर्वमपि वा भविष्यति च वर्तमानसमयेऽपि ॥ २७२॥ नो विपरीतं जानात्यतोऽस्य मोक्षोपदेश उपपन्नः । कथमन्यथा विनाशश्विरसंचितकर्मणां भवेदस्य ॥२७३॥ नापीह देशकालनिमित्तापेक्षो भवेदसौ मोक्ष:। यदि कर्मफलवदेव स्थान्मोक्षस्तर्हयनित्य एव स्यात् ॥२७४ ॥

Page 381

३८६ सुब्रह्मण्यविरचिता- [४ चतुर्थध्यार

कर्मफले हि परोक्षे युक्ता देशाद्यपेक्षता नेह। अपरोक्षत्वात्तस्माद्ह्माधिगमे हि भवति दुरितलयः ॥ २७५ इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ पूर्वस्मिन्नधिकरणे शास्त्रव्यपदेशतो(ता)Sस्य निर्दिश। ज्ञाननिमित्तावश्लेषविनाशौ केवलस्य दुरितस्य ॥२७६॥ इह शास्त्रीयो धर्मो बह्मज्ञानं च सवति शास्त्रीयम्। तेन च विरोधविरहान्न तद्विनाश इति पुनरिहाडशङ्कूय ॥२ तामपनेतुं पूर्वाधिकरणनयमेव चातिदिशतीह। सुकृतस्य कर्मणो विज्ञाननिभित्ताविभावुभी भवतः । २७: दुरितस्येवाश्लेष विनाशौ फलजनकता समा यस्मात्। किंच ज्ञानफलप्रतिबन्धित्वात्कर्मणोऽस्य तौ युक्तौ ।। २७९ श्रतिरियमुभे उ हैवेत्याद्या सुककृतस्य दुष्कृतस्पैव। नाशं व्यपदिशति हि किंचाकर्त्रात्मप्रबोधरूपस्य ॥ २८० ॥ इह सुकृतदुरितयोरुभयोरपि लयकारणस्य तुल्यत्वात्। क्षीयन्ते चास्येति श्रुतिवाक्यस्याविशेषतः श्रवणात् ॥ २८१ यत्रापि पाप्मशब्द: केवल उपलभ्यते हि तत्रापि। तेनैव पुण्यमप्याकलितमतो ग्राह्यसुभयमेव स्यात् ॥ २८२। किंच ज्ञानफलापेक्षया निकृष्टं फलं भवेदस्य। नैनं सेतुमहोरात्रे तरत इति श्रुती यतश्रायम्॥ २८३॥ दष्टो हि पाप्मशब्दः सर्वे पाप्मान इति तु सुकृतेऽपि। तस्माद्दुरितस्येव हि सुकृतस्यापि च विनाश इह युक्त: ॥। पाते व्वित्यत्र तुशब्दोऽसाववधारणार्थको भवति। एवं च सुकृतदुष्कृतयोर्बन्धकयोर्हि विद्यया परया ॥ २८५ यद्यश्लेषविनाशौ तनुपातानन्तरं तदा मुक्ति: । भवतीत्यवधारयितुं सूत्रकृता किल तुशब्द इह पठित: ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५॥ अधिकरणद्वितयेऽपि च पूर्वस्मिन्सुककृतदुरितयोरुभयोः। ज्ञाननिमित्तो नाशो भवतीत्यवधारितं हि किमिहासौ। अविशेषेणाSडरब्धानारब्धफलस्य तदुमयस्यापि। किंवाऽनारब्धफलस्यैव विशेषेण मवति नाश इति॥ २८

Page 382

प्रथम: पाद: १ भाष्यार्थरत्नमाला। १७७

संदेहे चैतस्मिन्लभे उ हैवैव इति किल श्रुतिषु। अविशेषेण अ्रवणादविशेषेण क्षयोऽत्र युक् इति ॥२८१॥ एवं प्राप्ते वूते सोऽयमनारब्धकार्ययोरिति हि। ये त्वप्रवृत्तकार्ये जन्मान्तरसंचिते तथैवास्मिन् ॥ २९० ॥ जन्मन्यपि च ज्ञानोत्पत्ते: प्राक्संचिते हि ये भवतः । ते सुकृतदुष्कृते किउ पूर्वे ब्रह्माधिगमबलेनेह॥२९१॥ क्षीयेते नैवैतेऽप्यारब्धफले हि सामिभुक्तफले। याभ्यामेतद्ब्रल्लज्ञानायतनं विनिर्मितं जन्म ॥२९२।। इह तस्य तावदेवेत्येषा श्रुतिरषि यतोऽत्र तनुपातम्। क्षेमप्राप्तेरवधिं दर्शयति ततस्तयोर्हि न विनाशः ॥ २९३॥ नो चेदेवं ज्ञानादशेषकर्मक्षये शरीरस्य। स्थितिकारणस्य विरहाच्छ्रेयो ज्ञानक्षणे स विन्देत ॥२९४॥ तत्र च शरीरपातप्रतीक्षणं यच्छ तिर्न तद्ब्रूयात्। नन्वेष तत्वबोधः कर्मक्षपणप्रशस्तशक्तियुतः ॥२९५॥ कर्माणि कानिचिञ्च क्षपयेत्कानि च कथं न हि क्षपयेत्। न ह्यग्निबीजयोरिह संपर्के सति समानरूपे स्यात् ॥ २९६॥ केषांचिच्छक्तिलयो नान्येषां स इति शक्यते वक्तुम्। इति चेदारब्धफलं कमपि च कर्माशयं ह्यनाशित्य ॥।२९७॥ नैवोपपद्यते हि ज्ञानोत्पत्ति: समाभरिते तस्मिन्। सोडयं कुलालचक्रवदेव हि संरब्धभूरिवेग: स्यात् ॥२९८॥ बैगक्षय: कुतश्चिन्न चान्तराले भवेदतस्तस्य । वेगक्षय प्रतीक्षणमावश्यकमात्मतत्त्वबोधेऽपि।। २९९।। यद्यपि मिथ्याज्ञानं तत्त्वज्ञानेन बाधितं तद्पि। बाधितमपि तत्किंचित्कालं संस्कारतोऽनुवर्तेत ॥ ३०० ॥ चन्द्रे दृष्टेऽपि यथा कंचित्काल द्विचन्द्रताभ्रान्ति:। अपि चेह ब्रह्मविदः कंचित्कालं शरीरमेतद्द्व ॥ ३०१॥ धियते न धरियते वेत्येषा शङ्काऽत्र न खल कर्तव्या। स्वमनोगम्यं ब्रह्मज्ञानमिद देहधारणं चापि॥ ३०२॥ कथमन्योऽनधिगततदगन्धः शक्रोति तत्प्रतिक्षेतुम्। हममर्थमुपदिशन्ति श्रुतिस्थितप्रज्ञलक्षणस्मृतयः ॥३०३॥

Page 383

३७८ सुन्नह्मण्य विरचिता- [ ४ चतुर्थाध्यायर

तस्मादिहाप्रवृत्तस्वकार्ययोरेव सुकृतदुष्कृतयोः । विद्यासामर्थेन क्षयो भवेन्न प्रवृत्तफलयोक्ष ॥ ३०४ ॥ अत्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥ अश्लेषनाशयोरतिदेशः पुण्यस्य दर्शित: पूर्वम्। स्र च सर्वपुण्यविषयः स्यादिति शङ्कां निराकरोत्यधुना ॥३० एक्ताशक्कापरिहारार्थो भवति हि तुशब्द इह दृष्षः । नित्यमिह वेदविहितं यदग्निहोन्नादिलक्षणं कमे ॥ ३०६ ॥ ज्ञानस्य यञ्च कार्य तत्कार्याैव भवति तत्कर्म। यस्मात्तमेतमित्यादिश्युतिवाक्येषु तत्तथा दृष्टम् ॥ ३०७॥ नन्विह कार्यैकत्वं न युज्यते ज्ञानकर्मणोरनयोः । येन विलक्षणकार्योतपादकता दृश्यते तयोरिति चेत्। ३०८। ज्वरमरणकार्ययोरपि दधिविषयोः शर्करादियोगेन। तृप्त्यादिजनकतावत्स्यादेवेहापि कर्मणस्तस्य ॥ ३०९।। ज्ञानेन सहकृतस्य च मोक्षफलत्वं यदेतद्विरुद्धम्। ननु मोक्षो यदि नित्यस्तदा कथं तस्य कर्मकार्यत्वम्॥ ३१० इति चेन्नासौ दोषो न संनिपत्यो[प]कारकं कर्म। किंत्वारादुपकारकमेव ज्ञानस्य कारकं सदिदम् ॥३११॥ मोक्षस्य कारकमिदं कर्मेत्युपचर्यते तदेवेह। अत एव चेह यदिद कार्यैकत्वानुकीर्तनं तदपि॥३१२॥ नाऽडगाभिकार्यविषयं परं त्वतिक्रान्तविषयमेव स्यात् । भवति ब्रह्मविदः किल यदग्निहोत्रादि तन्न चाऽडगामि ॥३१ विधिशास्त्रविषयता न ह्यनियोज्यत्रह्ममावबोधे स्यात्। कर्तृत्वाद्यनिवृत्त्या भवति हि सा सगुणविषयविद्यासु ॥३१ आगामि तद्रिद: स्याद्यद्ग्निहोत्रादिलक्षणं कर्म। विद्योपजायते किल तस्यापि फलाभिसंधिरहितस्य ॥ ३१५ ननु यदि विद्याङगं तद्यद्ग्निहोत्रादिलक्षणं कर्म। तर्यश्लेषविनाशानुकीर्तनं तािडमत्र किंविषयम् ॥३१६ ॥ विनियोगवचनमपि सुहदादौ यच्चोपदर्शितं पूर्वम्। श्रुत्या तस्येत्यनया तदृपि च किंत्रिषयमित्यतो बूते ॥ ३१७

Page 384

प्रथम: पाद: १] माष्यार्थरत्नमाला। ३७९

अतोऽन्याऽपि ह्येकेषामुक्षयोः ॥१७॥ नित्यादतोऽगिहोत्रादेरन्याऽव्यस्ति साधुकृत्येह। या फलमभिसंधाय क्रियते विनियोग एप तद्विषयः ॥ ३१८॥ नस्या एवाश्लेषविनाशप्रतिपादनं भवेदेतत्। एवंविधं हि काम्यं कर्म न विद्योपकारकं भवति ॥३१९.॥ अत्र च संप्रतिपत्तिजमिनिसर्वज्ञबादरायणयोः। यदेव विद्ययेति हि ॥ १८ ॥ यन्नित्यमग्निहोत्रादि सुसुक्षोः कर्भ भवति मोक्षार्थम् ॥३२०। तदुपात्तदुरितिनाशद्वारा चेतोविशुद्धिकारणताम्। प्रतिपद्य मोक्षफलकब्रह्माधिगमैकसाधनत्वेन।। ३२१ ॥

विद्यासयुक्तं तद्विपरीतं श्रूयतेऽग्निहोत्रादि ॥ ३२२॥। विद्वान्यजते विद्वाञजुहोलि शंसति च गायतीत्येवम्। तस्मादेवंविदमेव ब्रह्माणमिति तद््देवमपि ॥ ३२३॥। तेनोभी कुरुतो यध्ैवं वेदेह यश्र नो वेद। इति वाक्येभ्यो विद्यासंयुक्त केवलं च निर्दिष्टमू ॥ ३२४॥ इह चिन्त्यते यदेतद्विद्यासंयुक्तमगगिहोत्राद किं विद्याहेतुतया तथा सह किलैककार्यतां लभते ॥ ३२५ ॥ किंवा विद्यायुक्ं केवलमपि चाविशेषतो लभते। इति संदेहे विद्यायुतमेव यदेतदग्निहोत्रादि॥३२६॥ प्रतिपद्यते तदेव हि विद्यासहकारितां न चान्यदृपि। विद्यायुतस्य विद्याहीनादवगस्यते विशेषोऽयम् ॥ ३२७॥। श्रुतिरत्र यदहरेव जुहोतीत्याद्या किलैवमुपदिशतति। अपमृत्युविजयरूपं विद्यायुतकर्मजः फलं किंच ॥ ३२८॥ बुद्ध्या युक्त इति स्मृतिरपि विद्यायोगतः फलं छूते। इति शङ्गां वारयितुं त्रूतेऽत्र यदेव विद्ययेत्येवम्॥३२९॥ सत्यं विद्यायुक्तं यदग्िहोत्रादिलक्षणं कर्म। तत्किल विद्याहीनाद्विशिष्यते ब्राह्मणो यथा विद्वान् ॥ ३३०॥ एवमपि कर्म विद्याहीनं यञ्चेदमग्निहोत्रादि। तच्चेदं विद्यायां न हयत्यन्तानपेक्षमिह भवति॥ ३३१॥

Page 385

३८० सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

विद्याहेतुत्वं खल्वविशेषेण प्रदर्शितं तस्मात् ॥ ३३२ ॥ नन्विह विद्यायुक्तं विद्याहीनाद्यदा विशिष्टं स्यात्। विद्यासाधनमेतद्विद्याहीनं तदा कथं भवति ॥३३३ ॥ इति चेन्मैवं विद्या न हि तस्य च कर्मणोऽग्निहोत्रादेः। सामथ्यातिशयेन हि विद्यां प्रति कश्िदृतिशयो भवति ॥३३४॥ नैतावता हि विद्याहीनस्यैतस्य निष्फलत्वं स्यात्। यज्ञेन विविदिषन्तीत्यादिश्वृत्या किलाविशेषेण॥ ३३५॥। आत्मज्ञानाङ्गतया प्रदर्शितस्यास्य चाग्गिहोत्रादेः। न हि विद्यानङ्गत्वं शक्यं केनापि दर्शयितुमत्र ॥३३६ ॥ यत्कर्म विद्यया किल करोति तद्टीर्यवत्तरं भवति। उपदिशति चेममर्थ श्रुतिरत्र यदेव विद्ययेत्याद्या॥ ३३७॥ विद्याहीनमपीदं वीर्यवदिति गम्यते तया श्रुत्या। तस्येह वीर्यवत्वं स्वकार्यसाधनसमर्थतारूपम्॥३३८॥ तस्माद्विद्यायुक्तं विद्यारहितं यदग्निहोत्रादि। मोक्षोद्देशेन कृतं तदुभयमपि किल मुमुक्षुणा सम्यक्॥३३९॥ इह जन्मनि पूर्व वा स्वशक्तियोगेन दुरितमुन्मूल्य। ब्रह्मापरोक्षसाधनभावं प्रतिपद्यमानभेतद्द्वि ॥३४० ॥

म्रह्मात्मविद्यया सह कर्म स्यादेककार्यमिति सिद्धम् ॥ ३४१॥ भोगेन त्वितरे क्षपयित्वा संपद्यते ॥ १९ ॥ ये सुकृतदुष्कृते चानारब्धफले तयोः क्षयोऽभिहितः । विद्याबलेन ये पुनरारब्धफले हि ते तु भोगेन ॥ ३४२ ॥ क्षपयित्वाSनन्तरमिह विद्वान्संपत्स्यते परं ब्रह्म। इह तस्य तावदेवेत्याद्या: श्रुतयोऽपि दर्शयन्त्येवम् ॥३४३॥ सत्यपि सम्यग्ज्ञाने भवति यथा तनुविसर्गतः पूर्वम्। द्वैतप्रपञ्चभानं द्विचन्द्रदर्शननयेन तद्ददिदम ॥ ३४४॥ पश्चादृपि न कुतो वाडनुवर्तत इतीह न पुनराशङ्क्यम्। उपभोगक्षपणं किल भवति द्वेतानुवृत्तिमूलमिह ॥ ३४५॥ न ह्यनयोरुपभोगे पुनरन्यत्तादृगस्ति किंचिदृपि। अपरः शिय एवाऽडरभते भोगमपरमिति चेन्न ॥ ३४६॥

Page 386

द्वितीय: पाढ: २ ] माष्यार्थरत्नमाला। ३८१

नाऽडरभते स हि भोगं ज्ञानेन च तस्य दृग्धबीजत्वात्। मिथ्याज्ञानबलेन च तनुपाते कर्मभोगमारभते ॥ ३४७॥ मिथ्याज्ञाने तस्मिंस्तत्वज्ञानेन मूलतो दग्धे। आरब्धकार्यविगमे विदुषः केवल्यमप्रतिद्वन्द्वम् ॥३४८॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥ ३४९॥ तत्र प्रथमे पादे सूत्रार्थो यश्च भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥ ३५० ।। इति धतुर्थाध्याये प्रथम: पादः समाप्ः ॥१॥

अथ द्वितीयपाद़:।

पूर्वस्मिन्किल पादे ज्ञानफलं सकलमेव निर्वर्ण्य। अस्मिन्पादे यञ्ञोपास्तिफलं ब्रह्मलोकसंभोग्यम् ॥१॥ तद्वक्तव्यं तत्खलु संप्राप्यं ह्वर्चिरादिमार्गेण। सा चार्चिरादिमार्गप्राप्तिर्नोत्क्रान्तिमन्तरेण स्थात् ॥२॥।

अध्यायसंगतिः स्यादानन्तर्यं च पूर्वपादेन ॥ ३ ॥ वाङ्न्मनसि दर्शनाच्छव्दाच॥ १॥ अत्रापरासु विद्यासु हि फलभोगाय देवयानाख्यम्। पन्थानमर्चिरादिकमभिधास्थन्प्रथममिह यथाशास्त्रम् ॥:४॥। उत्क्रान्तिक्रममेवाऽडचष्टे भवतीह येयमुत्क्रान्तिः। सा खलु विद्वद्विदुषोस्तुल्या न विशेष इह भवेत्कश्च्ित् ॥ ५॥। प्रायणविषया श्रुतिरियमास्नाता खल्विहास्य सोम्येति। तत्राऽडदी पुरुषस्य प्रयतो वाङ्मनसि तन्मनः प्राणे॥६॥ प्राणस्तेजसि तेजस्तद्धि परस्यां हि देवतायां च। संपद्यत इत्युक्तं किमत्र वाचः सवृत्तिकाया: स्थात् ॥७॥ मनसीयं संपत्तिर्वाग्वृत्तेरेव वा भवेत्सा किम्। तत्र च सवृत्तिकाया वाच: संप्रत्तिरेव युक्ता स्यात् ॥८ ॥

Page 387

३८२ सुब्ह्मण्य विरचित।- [ ४ चतुर्थाधगायस्य-

वृत्तिमदर्थपरायाः श्रुतेर्यदा वृत्तिमात्रपरता स्यात्। स्याल्लक्षणा न चेयं युक्ता मुख्यार्थसंभवेऽपि स्यात् ॥ ९॥ तस्माच्च वाच एव हि सवृत्तिकाया लयोऽतर युक्त इति। एवं प्राप्ते वूते वृत्तेरेव हि लयोऽत्र युक्त इति ॥१० ॥ नन्वाचार्येणात्र च वाङ्मनसीत्यादिसूत्रमुपदिष्टम्। वाग्वृत्तिपरतया तद्याखयातुं युक्तमत्र कथमिति चेत् ॥ ११ ॥ अविभागो वचनादिति वक्ष्यति येनोत्तरत्र कवृत्सलयम्। तस्मादिह वृत्तिलयो विवक्षितो नैव वृत्तिमद्विलयः ॥ १२॥ इह तत्त्वलयविवक्षायां पूर्वत्राविभागसाम्येन। अविभाग इति परस्तादविभागमिमं कुतो विशिंध्यात्सः॥१३।। तस्माद्वृत्त्युपसंहारविवक्षेयं ततो हि वाग्वृत्ति: । उपसंह्नियते पूर्व सवृत्तिके मनसि विद्यमानेऽपि ॥ १४ ॥ उपलभ्यते मनोवृत्तौ सत्यां पूर्वमेव वाग्वृत्तेः। उपसंहारो लोके सवप्ने न तु वाच एव मनास लयः ॥१५॥ केनचिदृपि द्ष्टोऽयं ननु वाङ्मनसीति हिश्रुतिर्जूते। वागप्ययो हि मनसि प्रतीयते न तेन कुत इति चेन्न ॥ १६।७ मनसो वाक्प्रकृतित्वाभावान्न हि वाग्लयो भवेन्मनसि। यस्य यतश्रोत्पत्तिस्तत्र लयस्तस्य हश्यते लोके ॥ १७ ॥ मृदि करकादेरिव न च मनसी वागुद्भव: किद्दृषटः। वृत्त्युत्पत्तिप्रलयावप्रकृतिसमाश्रयावपीह स्तः ॥। १८।। अग्नेर्हिं तैजसस्य च वृत्ति: किल पार्थिवेन्धनेभ्यः स्यात्। अप्सु च तदुपशयोडयं तथैव चेहाषि भवति नन्वत्र ॥ १९॥ वाङ्मनसीति कथं वा साधु: स्यादित्यतोऽतर पठितमिदम्। शब्दाच्चेति स भाक्ताभेदपरो भवति वृत्तिवृत्तिमतोः ।२०॥ अत एव च सर्वाण्यनु ॥ २ ॥ इह चोपशान्ततेजा: पुनर्भवमिति प्रपश्चिता श्रुत्या। या चेह मनसि संपत्ति: स्याद्या यावदिन्द्रियाणां च ॥ २१॥ तत्रापि वाच इव चक्षुरादिकानां सवृत्तिके मनसि। समवस्थिते हि तेषां वृत्त्युपशम एव न स्वरूपलयः ॥ २२॥ वृत्तिद्वारा सर्वाण्यपीन्द्रियाणि हि मनोऽनुवर्तन्ते। सर्वेषां करणानामुपसंहारे हि मनास तुल्येऽपि ॥ २३॥

Page 388

द्विनीय: पाद: २ ] माष्यार्थरत्नमाला। ३८३

अत्र पृथग्ग्रहणं यद्ाचस्तच्छ्रतिनिदेशमालम्व्य। श्रुतिनिर्देशोऽयं वाङनसीतीदं च तदनुरोधेन ॥ २४ ॥ तन्मनः प्राण उत्तरात् ॥ ३।। समधिगतेयं वाङ्नसीत्यत्र च मनसि वृत्तिसंपत्ति: । यञ्चानन्तरवाक्यं तदिह मनः प्राण इति समाम्नातम् ॥ २५॥ किमिहापि वृत्तिमत्संपत्तिः किंवाऽन्र वृत्तिसंपत्तिः। इति विचिकित्सायां वृत्तिमतः संपत्तिरत्र युक्तेति ॥२६॥ श्रुत्यनुसारात्याप्तं तत्प्रकृतित्वस्य दर्शनाच्चात्र। इह चान्नमयं हीति श्ुतिरन्नमयं मनः प्रदर्शयति ॥२७॥ अब्योनिं च प्राणं तथैव चापामिहान्नयोनित्वम्। आपश्चान्नमिति श्ुतिरपि दर्शयतीह तेन यञ्च मनः ॥२८॥ प्राणे प्रलीयतेऽस्मिंस्तदन्नमेवाप्सु लीयते नान्यत्। अन्नं हि मनश्राऽडपः प्राणोऽसौ प्रकृतिविक्कृतिभावोऽयम् ॥२९॥ भवति तयोरित्येवं प्राप्ते बूतेऽन्र वृत्तिसंपतत्तिम्। तदिहागृहीतबाह्येन्द्रियवृत्ति मनः प्रलीयते प्राणे ॥ ३० ॥ वृत्तिद्वारेणैव हि तथोत्तरस्मात्प्रतीयते वाक्यात्। किंच सुषुप्सोश्ष मुमूर्षोश्च प्राणे सवृत्तिके सति हि ॥ ३१ ॥ हृश्यत एव हि मनसो वृत्तिलयो न खलु वृत्तिमद्विलयः । न हि मनसः प्राणेऽस्मिन्स्वरूपविलय: कदाचिदृषि भवति॥३२॥ येनातत्प्रकृतिरसौ प्राणो ननु दर्शिता हि मनसोडस्य । प्राणप्रकृतिकता न ह्येतत्सारंन वर्त्मनाऽनेन॥३३॥ प्राणप्रकृतित्वेन प्राणे संपत्तुमर्हतीह मनः। इह चान्ने मन एव हि लीयेत तथाऽप्सु चान्नमप्येतत् ॥। ३४॥ अप्स्वेव प्राणोडयं लीयेत पुनर्न वैपरीत्येन। एतावताऽपि खल्वन्भृयः प्राणत्वेन परिणताभ्यो हि॥ ३५॥ जायेत मन इतीह प्रमाणमुपलभ्यते न किंचिदृपि। तस्मान्मनसः प्राणे वृत्तिलयः स्थान्न वृत्तिमहिलयः ॥३६॥ सोऽध्यक्षे तदुपगमादिक्यः॥।४ ॥ यस्य तु येनोत्पत्तिस्तस्य च तस्मिन्हि वृत्तिलय एव। न तु वृत्तिमल्लयः स्यादिति समधिगतं हि पूर्वमत्र पुनः ॥ ३७ ॥

Page 389

३८४ सुत्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

संदिह्यते किलेदं यत्प्राणस्तेजसीति वाक्यमिह। तत्र प्राणस्य यथाश्ुति [तेजसि] वृत्तिलय एव स्यात् ॥ ३८॥ देहेन्द्ियाधिनाथे जीवे वा तस्य मवति विलय इति। तत्रानतिशङ्कयत्वाच्छतेस्तदनुसारतो भवेदेवम् ॥३९॥ तेजस्येवैतस्मिन्प्राणस्यैतस्य विलय उचित इति। यद्यश्ुतार्थप्ररिकल्पना भवेत्सा भवेदिहान्याय्या॥४०।। इति शङ्कां वारयितुं प्राणस्याध्यक्षगामितां ब्रूते। सोऽयं प्रकृत: प्राणो विद्याकर्माद्युपाधिकेऽध्यक्षे। ४१॥ विज्ञानात्मन्येवावतिष्ठते तदुपगामितादिभ्यः । ध्रुतिरियमिहैवमेवेत्याद्या दर्शयति तदुपगामित्वम्।।४२॥। हेत्वर्थश्रोपगमानुगमनतद्वस्थितिश्रुतिभ्य इति। यात्रेच्छावन्तं किल राजानं सेवका यथैवेह ॥ ४३ ॥ उपगच्छन्ति तथेव हि परलोकं जिगभिषुं च जीवमपि। सर्वे प्राणा अभिमुखतो यान्तीत्युपगमः श्रुतौ हष्षः॥४४ ॥ सर्वेषां प्राणानामविशेषेणैव चायसुपदिष्टः। इह च तमुत्क्ामन्तं प्राणोऽनूत्क्रामतीति वाक्यमपि।४५॥ प्राणस्य पञ्चवृत्तेरनुगमनं किल विशेषती बूते। अन्तविज्ञानं किल यञ्चाध्यक्षस्य दर्शितं भुत्या ॥४६॥ तञ्चान्तविज्ञानं जीवे प्राणस्थितिं बिना न भवेत्। इत्युपदिशति सविज्ञान इति श्रुतिरिह ततो भवेज्ीवे॥४७ ॥। प्राणस्यावस्थानं तेनास्याध्यक्ष एव संपत्तिः । नन्विह तेजस्येव प्राणलयः श्रूयते परं सूत्रे ॥ ४८ ॥ सोऽध्यक्ष इति ह्यधिकाला(वा)पः कुत एष इति म शङयमिह।

अपि च श्ुत्यन्तरगतविशेषसापेक्षता भवेदस्य। नन्वेतच्छतिवचनं यत्प्राणस्तेजसीति कथमिति चेत्॥ ५० ॥ भूतेषु तच्छरतेः ॥ ५ ॥ तेज:सहचरितेषु च भूतेषु प्राणसहकृतोऽध्यक्षः। सूक्ष्मेषु देहबीजेष्ववतिष्ठत इति किल श्रुतेरर्थः ॥ ५१ ॥ दर्शयति श्रुतिरेषा प्राणस्य च तेजसि स्थितिं हि ननु। न प्राणसहकृतस्याप्यध्यक्षस्येति चेन्न दोषोऽयम् ॥ ५२॥

Page 390

द्वितीय: पाद: २] भाष्यार्थरत्नमाला। ३८५

धुत्या हि पूर्वसूत्रोदाहृतयाऽध्यक्षगामितापरया। अध्यक्षोऽपि किलायं तदन्तराले निवेशितो यस्मात् ॥ ५३॥ यश्च सुध्नान्मथुरां गत्वा हि व्रजति पाटलीपुत्रम्। स व्रजति पाटलीपुत्रमिमं सुन्नादितीव भवतीह ॥। ५४ ॥। तस्माद्ध्यक्षस्य च तद्न्तराले भवेदवस्थानम्। नतु तेज:सहचरितेष्वस्यावस्थानमिति तु यञ्चोक्तम्॥५५॥ तत्कथमुपपन्नं स्याद्यत एक श्रूयते हि तेज इह। वाङ्मनसीत्याद्ये हि श्रुतिवाक्ये तेजसीत्यतः पठति ॥५६॥

नैकस्मिन्दर्शयतो हि॥ ६ ॥ तेजसि नैकस्मिन्किल देहान्तरयोगसमय आयाते। जीवोऽवतिष्ठतेऽसौ पञ्च्ात्मकता यतः शरीरस्य ॥५७॥ प्रश्नप्रतिवचने अपि यथोक्तमेवार्थमत्र दर्शयतः । वेत्थ यथा पञ्चम्यामित्यादा त्यात्मकत्वसूत्रे हि॥ ५८॥ व्याख्यातं तत्सवं श्रुतिस्मृती चैतमर्थमुपदिशतः । पृथ्वीमय आपोमय इत्याद्या हि श्रुतिस्तथैवेयम् ॥५९॥ स्मृतिरण्व्यो मात्रा इत्याद्या पञ्चभूतकार्यत्वम्। देहस्य व्यपदिशति हि तस्माद्भूतेष्वितीह साधूक्तम् ॥६० ॥ ननु वागादिषु करणेष्वखिलेष्वपि चोपसंहृतेषु पुनः । देहान्तरसंप्रेप्सावेलायां क्व पुनरेष भवतीति ॥६१॥ प्रश्ने हि श्रुत्यन्तरमस्य च कर्माश्रयत्वमुपदिशति। श्रुत्यन्तरं हि तो ह यदूचतुरित्यादिना प्रसिद्धं हि ॥ ६२॥ अत्र किल याज्ञवल्क्यार्तभागसंज्ञी मुनी हि कर्मैव। जीवाधारं वृतस्तेन च कर्माश्रयत्वमस्योक्तम् ॥६३॥ भूताश्रयत्वभेवं सति पूर्वोक्तं विरुद्धमिति चेन्न । त्र च कर्माश्रयता ग्रहादिसंज्ञस्य कर्ममूलस्य ॥६४॥ इन्द्रियविषयात्मकबन्धनरूपस्यं प्रवृत्तिरित्युक्ता। इह तु पुनर्भूतोपादानो देहान्तरोदयोऽयमिति॥६५॥ मूताश्रयत्वमुक्तं प्रशशंसतुरित्यनेन पुनरत्र। प्राधान्यमान्रमेव हि कर्मण इत्येव दर्शितं भवति ॥६६॥। ४९

Page 391

३८६ सुब्ह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तत्कर्मणो निमित्तत्वेनाप्युपपह्मते हि पुनरत्र। भूतोपादानकता भूताश्रयता ततश्र न विरोधः ॥६७। समाना चाऽऽसृत्युपक्रमादमृतत्वं चानुपोष्य।७।।

उक्रान्तिरिह किमेषा विद्वदविदुषोः समानरूपैव। मवति हि किंवा सेयं विशेषवत्येव वेति संदेहे ॥ ६८॥ तत्र विशेषवतीति प्राप्तं नैषा हि भूतसंश्लिष्टा। आश्रीयन्ते भूतान्यत्राविदुषा पुनर्भवायैव ॥ ६९॥ न पुनर्भवोऽस्ति विदुषो यस्मादसृतत्वमक्षते विद्वान्। तस्माद्विदुष एवोत्क्रान्तिरियं सा हि न खलु विदुषोऽस्य ॥७०॥। ननु विदुष एव विद्यापकरणबलतो भवेदिहोत्क्रान्ति:। मैवं स्वापादिवदिह सामान्येनानुकीर्तनं तदिदिम् ॥ ७१॥ यत्रैतत्पुरुष इति श्रुत्या हि स्वपिति नाम निर्दिष्टम्। आश [शि]पत्ति नाम पिपासति नाम च पुरुषस्य दर्शितं हि तथा॥७२॥। सर्वसमा एवैते ह्यन्र स्वापाद्योऽनुकीर्त्यन्ते। विद्याप्रकरण एव प्रकृतप्रतिपादनानुगुज्येन॥ ७३॥ स्वापादयो हि विदुषो विशेषतः क्वापि न हि विवक्ष्यन्ते। एव मिहोत्क्रान्तिरियं महाजनगतैव कीर्त्यते नान्या ॥ ७४ ॥ यत्र परस्याँ प्रयतस्तेज: संपद्यते हि पुरुषस्य । स ह्यात्मा तत्त्वमसीत्येतावत्प्रतिपिपाद्यिषितमिह।। ७५।। विदुषो यस्मादेषा प्रतिषिद्धा सेयमविदुषस्तस्मात्। एवं प्राप्ते तूते त्ययुक्रान्तिरियं भवेत्समानेति॥ ७६॥ उक्रान्तिर्वाङ्मनसीत्याद्या या सा समानरुपैव। विद्वद्विदुषोरासृत्युपक्रमादेवमेव सवति यतः ॥७७॥ अविशेषतः श्रुतेयं तत्राविद्वान्हि देहबीजानि। भूतानि सूक्ष्मरूपाण्याशश्रित्य च कर्मसंप्रयुक्तोऽयम् ॥७८ ॥ देहान्तरं ग्रहीतुं संसरति पुनः स एष विद्वांस्तु। ज्ञानप्रकाशितं किल मोक्षद्वारं परं समाश्रयते । ७९॥ आसृत्युपक्रमादित्येतावद्दर्शितं हि सूत्रकृता। बन्वसृतत्वं प्राप्यं नैतदेशान्तरप्रयुक्तं स्थात् ॥८०॥

Page 392

व्ितीय: पाद: २] माष्यार्थरत्नमाला। ३८७

भूताश्रयता चाऽडसृत्युपक्रमो वाडपि तत्र भवति कथम्। इति शङ्कां निरसितुमनुपोष्येति तदेतदभिहितं सूत्रे ॥८।॥ अमृतत्वमिह यदुक्तं तदिदमविद्यादिकानद्ग्ध्वैव। आपेक्षिकमेव स्यात्तदपरविद्याबलेन लभ्येत । ८२ ॥। आमृत्युपक्रमोऽयं भूताश्रयता च तत्र संभवति। गतिरिह निराश्रयाणां प्राणानां नोपपद्यते क्वापि । ८३ । तदाऽपीतेः संसारव्यपदेशात् ॥८॥ तेजस्तञ्च परस्यामित्यत्र प्रकरणादियोगेन। नदिदं प्रकृतं तेज: साध्यक्षं सकरणं च सप्रमाणम्।।८४॥ भूतान्तरोपसृष्टं प्रयतः पुंसोऽस्य देवतायां हि। संबद्यते परस्यामित्युक्तं कीदृशी भवेदेषा ॥ ८५ ॥ संपत्तिरिह भवेदिति चिन्तेयं जायते हि तत्रासौं। आत्यन्तिक एव लयो युक्तस्तत्पकृतिता यतस्तस्याः ॥ ८६ ॥ सर्वस्य जनिमतो हि प्रकृतिरियं देवता परा सेति। प्रागेव हि प्रपश्चितमत इयमात्यन्तिकी भवेदस्याम्॥८७॥ अविभागापत्तिरिति प्राप्ते बृते विभागमेवात्र। भूतान्तरसहित तत्तेज: श्रोत्रादिकरणसंसृष्टम् ।।८८॥। आसंसारविमोक्षादाऽपीतेरात्मवेद ना य त्तात् । अवतिष्ठते हि तावच्छरत्या व्यपदिश्यतेऽस्य संसारु ॥८९॥ इह योनिमन्य इत्यादिकया श्रुत्या प्रपश्चितश्रायमू। नानाशरीरयोगात्संसारोऽस्यान्यथा हि सर्वोऽपि ॥। ९० ॥ संपद्येत ब्रह्म प्रायणसमयेऽप्युपाधिक्लियेन। तत्र च विधिशास्त्रमिदं विद्याशास्त्रं च विफलमेक स्यात् ॥९१॥ मिथ्याज्ञाननिमित्तो बन्धो ज्ञानादृते न नश्येत। नस्मात्सुषुतलयवत्सपत्तिरियं हि बीजशेषेण ॥ ९२ ।। सूक्ष्मं प्रमाणतश्र तथोपलब्धेः ॥ ९॥ भूतान्तरसहितं यत्तेज: पूर्वोक्तमस्य जीवस्य। अस्मादेहात्प्रवसतः आश्रयभूतं प्रमाणतस्तच्च ॥९३॥ सूक्ष्मं नाडीनिष्क्रमणादिभ्योऽस्यावगम्यते सौक्ष्म्यम्। तत्र तनुलादेव हि संचार: स्वच्छतादियोगेन ॥ ९४॥

Page 393

३८८ सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य- द्वितीय

अप्रतिभूतो देहान्निर्गच्छन्नोपलभ्यते चातः। नोपमर्देनातः ॥ १० ॥ सूक्ष्मत्वादेव पुनः स्थलशरीरस्य चोपमर्देन ॥ ९५॥ दाहादिमूल केनतरदिह सूक्ष्मं तु नोपमूद्येत। अस्यैव चोपपत्तेरेष ऊष्मा ॥११ ॥ सूक्ष्म स्यास्य शरीरस्यैव भवत्येष योऽयमूष्माऽत्॥९६॥ यं चोष्माणं देहे संस्पर्शेन हि जना विजानन्ति। चरमदशायां रूपादिगुणेषु च तत्र सत्स्वपि च ॥। ९७ ॥ नैवोपलभ्यतेऽसौ जीवदवसरेऽवगम्यते सोडयम्।

श्रुतिरुष्ण एव जीविष्यन्नित्याद्याऽपि दर्शयत्येवम्। प्रतिषेधादिति चेन्न शारीरात् ।१२ ।। आत्यन्तिकेऽमृतत्वे गत्युक्रान्त्योरभाव उपदिष्ट: ॥९९॥ पूर्वत्र चानुपोष्येत्यनेन केनापि हेतुनाऽन्र पुनः। आशङ्य प्रतिषेधति ताभेतामुत्तरत्र सूत्रेण॥ १०० ॥ इह चाथाकामयमानो योडकाम य इति दृश्यते वाक्यम्। काण्वश्रुती हि तत्र चय आत्मकामःस आप्तकाम: स्याव॥१०१।। यदि भवति चाऽडप्कामो निष्कामः स्यात्ततो ह्यकाम: स्थात्। ईद्टृगकामयमानस्तस्योत्क्रामन्ति नैव हि प्राणाः ॥१०२॥ बह्मैव सन्स विद्वान्बह्माप्येतीति चोपदिषं हि। पूर्णानन्दात्मा यः स चाऽऽत्मकामोऽयमापकामस्तु ॥१०३॥ प्राप्तपरानन्दो यो निष्कामोऽव्यक्तवासनारहित: । सोऽयमकामो यश्च व्यक्तबहिष्कामविरहितो भवति ॥१०४॥ इह परविद्याविषयात्प्रतिषेधान्न परमात्मत्त्वविद: । प्राणानामुत्क्रान्तिर्देहादस्तीति चेन्न चैवं स्यात् ॥ १०५॥ प्रतिषेधोडयं यस्मान्न शरीरान्द्रवति किंतु शारीरात्। अवगम्यते न तस्मात्म्राणा इति पञ्चमीप्रयोगेण ॥१०६॥ काण्वभ्ुतौ हि दृष्टा षष्ठी संबन्धमात्रविषयैव। शाखान्तरगतया पञ्चम्या सा मवति तदिशेषपरा॥ १०७॥

Page 394

द्वेतीय: पाद: २] माष्यार्थरत्नमाला। ३८९

तस्मादिति तच्छव्देनाभ्युदयाद्यधिकृतो हि यो देही। संबध्यते स एव प्राधान्यान्न तु कदाचिदृपि देहः ॥ १०८॥ नोत्क्रामन्ति प्राणास्तस्मादुच्विक्रमिषत इह जीवात्। तेन सहैव मवन्तीत्यर्थस्तस्मात्प्रतीयते वाक्यात् ॥१०९॥ मवति हि सप्राणस्य प्रवसत एतस्य सेयमुत्क्रान्ति: । देहादेतस्मादित्याक्षेपमिमं निराकरोतीह॥११०॥

स्पष्टो ह्येकेषाम् ॥ १३॥

यच्चोक्तमिह परब्रह्मविदोऽप्युत्क्रान्तिरियमतो देहात। प्रतिषेधी यश्चायं स देहुपादान एव भवतीति ॥१११॥ तदिद्मयुक्तं वक्तुं देहापादान एव यत एष: । उत्क्रान्तिप्रतिषेधस्तथैव किल शाखिनामिहैकेषाम् ॥११२॥ उपलभ्यते हि सम्यक्स एव खल्वार्तभागसंप्रश्ने। यत्रायं पुरुष इति प्रक्रान्ते पुरुष एष देहः स्यात् ॥११३॥ अस्माद्देहात्माणा उत्क्रामन्त्युत न वेति तत्प्श्ने। नेत्याह याज्ञवल्क्य इतीहानुत्क्रान्तिपक्षमालम्ब्य । ११४॥ प्राणेषु तर्ह्यनुत्क्रान्तेषु क्व सृतोऽयमिति पुनः प्रश्ने। अत्रैव समवलीयन्त इति हि तत्प्रविलयं प्रतिज्ञाय ॥११५॥ तत्सिद्धये स उच्छवयतीति चाSडरभ्य दर्शितं श्रुत्या। उच्छवयत्याध्मायति चाऽडध्मातः सन्मृतः स शेत इति ॥११६॥ इह बाह्यवायुपूरणबलेन देहाभिवृद्धिरुच्छ्वयनम्। आध्मानमार्द्रभेरीवदेव देहस्य शब्दकारित्वम् ॥ ११७॥ स इति परासृष्टस्योत्क्रान्त्यवधेः पुरुषशब्दवाच्यस्य । देहस्यैवोच्छवयनादीनि स्युर्देहिनो न चैतानि ॥ ११८॥ तस्मादृत्र न तस्मात्माणा इति पञ्चमीप्रयोगेऽपि।

देहापादानस्योत्क्रमणस्यैव हि मवेन्निषेधोऽयम्। यद्यपि देहिन एव प्राधान्यं भाति पञ्चमीपाठे ॥ १२० ॥ षष्ठीपाठे तु पुनर्विद्वत्संबन्धिनीयमुत्कान्तिः। प्रतिषिध्यत इत्येतत्प्रतीयते तावता क्षतिर्नेह ॥१२१ ॥

Page 395

३९० [४ च्तुर्थाध्यायस्थ-

पाप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य निगमवाक्यस्य। देहापादानैषा प्रतिषिद्धा स्यान्न देहयुपादाना॥१२२॥ इह देहादुक्कान्ति: प्राप्ता न तु देहिन: कचिद्वाऽपि। अपि चेह चक्षुषो वा मूर्धो वेत्यादिनेदमुत्कमणम्॥ १२३॥ आदिश्य सप्रपञ्चमविद्वद्विषयं प्रपञ्चगमनं च। इति कामयमान इति ह्युपसंहृत्य च कथामिहाविदुषः ॥ १२४ ॥ विद्वांसं पुनरत्राथाकामयमान इति परासृश्य। उत्क्रान्तिमेव यदि तद्विषयेऽपि प्रापयेदिदं वाक्यम् ॥१२५ असमख्जस एव स्याद्यपदेश: सकल एव तत्रत्यः । तेनाविद्वद्विषये गत्युत्क्रान्त्यो: प्रसक्त्तयोरत्र ॥ १२६॥ विद्द्विषये प्रतिषेध इति व्यपदेशसार्थकत्वाय। व्याख्थेयमिह न च ब्रह्मविदः सर्वात्मतां प्रसन्नस्य ॥१२७॥ प्रक्षीणकामकर्मण उत्क्रान्तिर्गतिरपीयसुपपन्ना। उत्क्रान्ती च गतौ वा न निमित्तं तस्य विद्यते किंचित् ॥१२८॥ अत्र ब्रह्म समश्नुत इत्याद्या अपि भवन्ति या: श्रुतयः । ताः किल गत्युत्क्ान्त्योरभावमुपदर्शयन्ति चाऽऽतमविद: ॥१२९।। स्मर्यते च ॥ १४ ॥ इह भारतेऽपि विदुषो गत्युत्क्रान्त्योरभाव एवेति। अपदस्य पदैषिण इत्येवं हि स्मर्यतेऽयमेवार्थः ॥ १३० ॥ ब्रह्मविदोऽपि गतिर्नन्वत्र किल स्मर्यंते शुकाचार्यः । वैयासकिर्मुमुक्षुर्मास्करमण्डलमभिप्रतस्थ इति ॥१३१ ॥ मैवं सशरीरस्यैवायं किल योगबलसहायेन। भास्करमण्डलसंप्राप्तिपुरःसरमस्य तनुविसर्ग इति ॥ १३२ ॥ वक्तव्यमस्य यस्माददर्शितमिह सर्वभूतद्टृश्यत्वम्। न ह्यशरीरं यान्तं द्रष्टुमिमं शक्तुवन्ति भूतानि ॥१३३ ॥ उपसंहृतमेवं किल तत्रैव शुकस्तु मारुताच्छीघ्राम्। गतिमन्तरिक्षगोऽसौ कृत्वा स ततश्र दर्शयित्वैनम् ॥ १३४ ।/ आत्मप्रभावमखिलं जगाम सर्वात्मभावमयमिति हि। तस्माद्गृतिश्रुतीनां विषयोऽगे वक्ष्यमाण एव स्यात् ॥१३५॥

Page 396

द्रेतीय: पादः २ ] माष्यार्थरत्नमाला। ३९१

तानि परे तथा ह्याह ॥१५ ॥ यानि प्राणपदेन प्रदर्शितानीन्द्रियाणि भूतानि। तानि ब्रह्मविदस्तस्मिन्परमात्मनि प्रलीयन्ते ॥ १३६ ।। श्रुतिरत्र चैवमेवास्य परिद्रषठुरिति बोधयत्येवम्। नन्विह गता: कलाः पश्चद्शेत्याद्या श्रुतिः परा येयम्॥१३७ ॥ सा हि परस्मादन्यत्रापि कलानां लयं प्रदर्शयति। मैवं सा व्यवहारापेक्षा खलु पार्थिवादिका हि कलाः ॥१३८ ॥ स्वप्रकृति(ती) रेव पृथिव्यादीरपियन्ति हीति दर्शयति। एषा परमार्थाभिप्नाया ब्रह्मणि कलालयं बृते ॥ १३९॥ अविभागो वचनात् ॥ १६ ॥ विदुषो योऽसौ हि कलाप्रलयः प्रतिपाितः स चायमिह। किं सावशेष इतरेषामिव किंवा स निरवशेष इति ॥१४० ॥ संदेहे लयसाम्यादिह शक्त्यवशेषताप्रसक्तो हि। अविभागो वचनादिति लयमेतं निरवशेषमुपदिशति॥ १४१॥ ब्रह्मविदोऽस्य कलानामविभागापत्तिरेव युक्ता स्यात्। यत इह वचनादस्मात्परमविभागः प्रतीयते तासाम् ॥१४२।। इह च कलालयमुक्त्ा भिद्येते एवमादिना बूते। आसां हि नामरूपे भिद्येते प्रोच्यते हि पुरुष इति ॥१४३॥ एषोडकलोडमृतो भवतीति च पुरुषोऽकलोऽयमत्रोक्त:। अत्राविद्याजनितानां च कलानां न विद्यया जनिते॥ १४४॥ पलये पुनरेतस्मिन्स्याच्छक्त्यवशेषता कथंचिदृपि। तस्मादत्र कलानामविभागापत्तिरेव युक्ता स्यात् ॥१४५॥ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्या- सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दा- नुगृहीतः शताधिकया ॥१७॥ ह परविद्याचिन्तां समाप्य तत्र प्रसङ्गतः प्राप्ताम्। चेन्तामधुना परविद्याविषयां पुनरिहानुवर्तयति ॥१४६ ॥। विदवूद् विदुषोरासृत्युपक्रमात्किल समेति चोत्कान्ति: । प्रागभिहितं तमेवेदानीमासृत्युपक्रमं बूते ॥ १४७ ॥

Page 397

३९२ सुत्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

उपसंहृतवागादिकलापस्योच्चिक्रमिषत एतस्य । विज्ञानात्मन ओको ह्यायतनं हृदयमेव नान्यदिति ॥१४८॥ दर्शयतीह स एतास्तेजोमात्रा इति श्रुतिः सेयम्। तस्य च हृदयस्याग्ं प्रथमं प्रद्योतते ततश्रायम् ॥१४९॥ चक्षुष्परमृतिद्वारा निष्क्रामति तत्प्रकाशितद्वार:। इति चक्षुराद्यपादानामुत्क्रान्तिं प्रदर्शयत्येषा ॥ १५० ॥ हृदयस्याग्रं प्रद्योतत इत्याद्या श्रुतिहिं सा किमिह। विद्वद्विदुषोहि समा किंवा विदुषो विशेष इह कश्वित् ॥१५१॥ इति विचिकित्सार्यां श्रुत्यविशेषादनियमोऽन्र युक्त इति। एवं भाप्ते बूते हृदयप्रद्योतने समानेऽपि॥ १५२॥ अपि तत्प्रकाशितद्वारत्वे तुल्ये स एष विद्वांस्तु । मूर्धस्थानादेव हि निष्क्रामति नेतरेभ्य इति यस्मात् ॥१५३॥ विद्यासामथ्यं किल दृष्ट तस्यैव नेतरस्य पुनः। इतरवदेव हि विद्वान्यतः कुतश्वित्प्रदेशतोऽपि यदि॥ १५४॥ उत्क्रामेत्स तदाऽयं नोत्कृषटं लोकमत्र विन्देत। एवं चेत्तर्हीयं विद्या सर्वाडप्यनर्थिकैव स्थात् ॥१५५॥ तच्छेषगत्य नुस्सृतियोगाज्ज गतिर्विलक्षणाडस्य स्यात्। विद्याशेषत्वेन च गतिरिह मूर्धन्यनाडिकाद्वारा ॥१५६ ॥ अनुशीलयितव्या सा विहिता विद्याविशेषविषये हि। तामभ्यसंस्तयैव प्रतितिष्ठत एष इति तु युक्तमिह॥१५७॥ तस्मादुपासितेन हि परात्मना हृदयसंस्थितेनायम्। परमनृगृहीत एव हि विद्वांस्तद्मावमिह समापन्नः ॥१५८॥ मूर्धन्ययैकशततमनाड्या निष्क्रामतीतराभ्योऽन्ये। शतमित्याद्या श्रुतिरप्येवं दर्शयति हार्दविद्यायाम् ॥१५९॥ रश्म्यनुसारी॥। १८॥ अस्ति किल हार्दविद्या दहरोऽस्मिन्नन्तरिति समान्नाता। सा चाथ यदिदमस्मिन्ब्ह्मपुर इति प्रपश्चिता भूयः ॥१६०॥ तत्प्करण एव ह्यथ या एता इत्यधीत्य तत्र पुनः । नाडीरश्मिपुरःसरसंबन्धं सप्रपञ्चमभिधाय॥१६१॥ यत्रैतदिति तथैव च तयो्ध्वमित्यादिवाक्यमाम्नातम्। उत्क्मणमेतदस्य प्रारब्धान्ते यदा भवेत्तार्है ॥ १६२॥

Page 398

द्वितीय: पाद: २ ] भाष्यार्थरहनमाला। ३९३

नाडीगतरश्मिभिरेवैतैरुत्क्रामतीति तत्रोक्तम्। तस्मादत्र शताधिकनाड्या विद्वानसौ हि निष्क्रामन् ॥१६३।। रश्म्यनुसारेणैव हि निष्क्रामत्येष इति तु युक्तमिह। तत्किं रश्म्यनुसारित्वँ रात्रावहनि चाविशेषेण ॥ १६४ ।। प्रियमाणस्यास्य स्यात्किंवाऽहन्येव तदिति संदेहे। अविशेषश्रवणात्खल्वविशेषेणैव वर्ण्यते तदिदस् ॥१६५॥ निशि नेति चेन्न संबन्धस्य याष-

अहनि च नाडीरशम्यो: संबन्धोऽस्तीति युक्तमेतत्स्यात् । अहनि सृतस्य च रश्म्यनुसारित्वं न तु भवेदिदं रात्रौ ॥ १६६ ।। विच्छिद्यते हि यस्मान्नाडीरकयोहि तन्न संबन्ध:। रात्रौ सृतस्य सस्मान्न हि रश्म्यनुसारितेति चेन्मैवम् ॥ १६७ ॥ भवति हि यावद्देहं नाडीरश्म्योः स एप संबन्ध: ।

ये नाडीषु च सृप्ता रश्मष इह सन्ति ते किलाSडदित्यात्। अस्माल्लब्धविकासा आभ्यो नाडीभ्य एवमेवैते ॥ १६९ ॥ आदित्ये किल सृप्तास्तथा प्रतायन्त इति हि तत्रोक्तम् । उपलभ्यते निशास्ववि निदाघकाले च सूर्यकिरणानाम् ।१७०।। अनुवृत्तिस्तत्र यतो रात्री तापादि द्वृश्यते भूयः । स्तोकानुवृत्तितः स्याद्दुर्लक्ष्यत्वं तदन्यरजनीषु॥ १७१ ॥ शैशिरदिवसेष्विव दुर्दिनेषु दुर्लक्ष्यता भवेदत्र। अहरेवैतद्रात्री विदधातीति श्रुतिर्ववीत्येवम् ॥१७२ ॥ यदि रात्रिमृतो विद्वानम्यनुसरणं विना क्रमेदूर्ध्वम्। भवति हि रश्म्यनुसारानर्थक्यं तत्र तञ्च दुर्वारम् ॥१७३ ॥ न ह्यत्र यो दिवैव प्रैति स रश्मीनपेक्ष्य चाऽडक्रमते। ऊ्ध्वं हि यस्तु रात्रौ प्रैत्यनपेक्ष्यैव स इति युक्त्तं स्यास् ॥१७४ ॥ अथ विद्वानपि नोध्व यदि रात्रिप्रायणापराधेन। आक्रमते सा पाक्षिकफलेति तञ्चाप्रवृत्तिरेव स्थात् ॥ १७५ ॥ मृत्योरनियतकालत्वात्तस्य दिवैव सृत्युरित्यपि न। अथ विद्वान्रान्रावषि मृतोऽहरागममसावुद्दीक्षेत ॥ १७६॥ ५०

Page 399

३१४ सुत्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

अहरागमेपि विदुषः शरीरमिह पावकादिसंस्कारात्। न मवति हि रश्मिसंबन्धार्हमतो नाऽडक्रमेदसावूर्ध्वम् ॥ १७७।। किंच स यावत्क्षिप्येन्मन इति दर्शयति तदनु दीक्षां हि। तस्माद्विशेषेणाहनि रात्रौ वाडस्य रश्मिसंबन्धः ॥१७८। अतश्वायनेि दक्षिणे ॥ २० ॥ यत इह नैवोदीक्षा न पाक्षिकफला च मवति विद्येयम्। मृत्युर्न नियतकालस्तस्मादृयनेऽपि दक्षिणे विद्वान् ॥१७९ ॥ प्रियमाण: स कदाचिद्विद्याफलमखिलमपि समाप्नोति। या चोत्तकायणमृतिप्राशस्त्यप्रथितिरपि च भीष्मस्य ।। १८० ॥। यज्चोत्तरायणस्य प्रतीक्षणं नैजतनुविसर्गार्थम् । आपूर्यमाणपक्षाद्यानित्याद्या श्ुतिश्र येयमिह ॥१८१॥ एतेभ्यो हेतुभ्यस्तनुपाते चोत्तरायणं हीदम्। आवश्यकमिति शङ्का सूत्रेण निरस्ते हि सूत्रकृता ॥ १८२॥ था चोत्तरायणमृतिपाशस्त्यस्य प्रसिद्धिरिह कथिता । सा चाविद्वद्विषया भीष्मस्य च यत्प्रतीक्षणं तद्पि॥ १८३ ॥ आचारप्रतिपालनरूपफलार्थं पितृप्रसादेन। लब्धस्वेच्छामृत्युं प्रख्यापयितुं च भवति नान्यार्थम् ॥१८४ ॥ यच्चोत्तरायणे स्यान्मरणं तञ्च प्रशस्तमज्ञानाम्। इत्यभिवदनं प्राज्ञानामाचारोऽन्र भवति न तद्न्य: ।। १८५।। श्रुतिरपि च देवताभिप्राया सा नेह कालमात्रपरा। इत्यातिवाहिका इति सूते वक्ष्यति च सूत्रकारोऽयम ॥१८६॥ ननु यत्र काल इत्यादिस्मृतिवाक्येषु काल एवायम् । अहरादिकः प्रधानत्वेनानावृत्तये विनिर्दिष्टः ॥ १८७ ॥ कथमिह विद्वान्रात्रौ किंवाऽसी दक्षिणायने वाऽपि। प्रेत्ोऽनाऽवृत्तिमिमां यायादित्यत इदं पठत्यत्र ॥ १८८॥ योगिनः प्ति[च]स्मर्यते स्मार्ते चैते ॥ २१ ॥ अहरादिकाल नियमो योऽयमनावृत्तये स्मतौ हष्टः । स च योगिनः प्रति स्वात्स्मार्ते चैते हि योगसांख्ये दे॥ १८९ ॥ न शौते तेनात्र प्रमाणभेदाज्ज विषयभेदाज्च। विज्ञानेषु श्रतेष्ववतारो नास्य भवति कथमपि च ॥ १९० ॥

Page 400

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ३४५

नन्वग्निर्ज्योतिरहर्धमो रात्रिरिति चैवमाद्ये हि इह देवयानपितृयाणे श्रौते एव हि प्रतीयेते॥ १९१॥ स्मृतिवाक्येऽपीत्येवं नाऽडशड्क्यं येन तत्र तं कालम्। वक्ष्यामीति च कालप्रतिज्ञया किल विरोधमाशङ्क्य। १९२॥ परिहारोडयं कथितो यदा पुनः स्सृतिषु देवता एव। अग्न्याद्यभिमानिन्यो गृह्यन्ते न हि विरोध इह कश्ित् ॥१९३॥ शारीरकमीमांसा सुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥ १९४ ॥ त्र द्वितीयपादे सूतार्थो यश्र भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥ १९५। इति श्रीभाष्यार्थरत्नमालायां चतुर्थाध्यायस्य द्वितीय: पाढ: समाप्षः ॥ २।।

अथ तृतीयपाद: ।।

अ्चिरादिना तत्प्रथितेः ॥१॥ एवं हि पूर्वपादे निरूपितोत्क्रान्तिरत्र तत्साध्यम्। गन्तव्यं किल मागं दर्शयितुं पाद्मेतमारभते ॥१॥

इत्युक्तमासृतिः सा ह्यनेकधा श्ूयते श्रुतिष्वासु ॥२॥

अपराऽर्चिरादिकाऽपि हि तेऽर्चिषमित्यादिवाक्यविख्याता॥ ३। मवतीह देवयानं पन्थानमिति श्रुतिप्रसिद्दैका। अन्या त्वस्माल्लोकात्प्रैति स वायुमिति वाक्यतो दृष्ा ॥ ४॥ अपरा सूर्यद्वारेणेत्यादिश्रुतिनिरुपिता तत्र। किमिह परस्परभिन्ना एताः सृप्रयो भवन्ति किंवाऽन ॥५॥ एकैवानेक विशेषणाSडमृंतिरितीह संशयो भवति। तत्रैतत्स्यात्सृतयो भिन्ना एवेति यत इमा: स्मृतयः ॥६॥ भिन्नोपासनशेषा भिन्नप्रकरणगताश्र लक्ष्यते।. अपि चाथैतैरेवेत्यवधारणमर्चिराद्यपेक्षायाम्॥७॥

Page 401

३९६ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

उपमृद्येत तथैव त्वरावचनमेतदृवि च पीड्येत। इह च स यावत्क्षिप्येन्मन इत्यादित्वरावचो हष्म् ॥८॥। तस्मादेता: सृतयो भिन्ना एवेत्यतस्त्वदं पठति। ब्रह्म प्रेप्सुः सर्वोऽरचिरािनैवाध्वनोर्ध्वमाक्रमते ॥ ९॥ इति तु प्रतिजानीते तत्प्थितेरिति च भवति हेतुरिह। सर्वेषामपि विदुषां प्रथितोऽसावर्चिरादिको मार्गः ॥। १० । ये चेमेऽरण्य इति भरुतौ हि विद्यान्तरावलम्बानाम्। पञ्चाग्न्युपासकानामिवार्चिराद्या गतिः समाम्नाता । ११॥ स्यादेतदत्र यासु च विद्यासु न काचिदृपि गतिः पठिता। तास्वर्चिरादिकैव हि गतिरियमुपतिष्ठतां हि यासु पुनः ॥ १२। श्रूयत एवान्या विद्यासु किमित्यचिरादिकाश्रयणम्। इति चेन्दवेदिहैवं सृतय इमा यदि परस्परं भिन्नाः ॥१३॥

क्वचिदिह केनचिदेव हि विशेषणेनोपलक्षिता मवति ॥१४॥ सर्वत्र चैकदेशाभिज्ञानाद्वहुविशेषणा सेयम्। मवतीय मेक रूपाSSसृतिर विशेषणविशेष्यभावेन ॥१५॥ प्रकरणभेदेऽपि यथा विद्यैकत्वाद्गुणोपसंहारः। भवति हि तहत्प्रकृते स्यादेवं विशेषणोपसंहारः ॥१६॥ विद्याभेदेऽपि यतोऽभिज्ञा सर्वत्र चैकदेशस्य। गन्तव्याभेदादृपि भवति परं गत्यभेद एवात्र ॥ १७॥ या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिमिति श्रुतिश्वापि। विद्याफलं तदेकं ब्ह्मप्राप्तिस्वरूपमुपदिशति ॥१८॥ यच्चाथैतैरेवेत्यवधारणमत्र दर्शितं तद्पि। रात्री सृतस्य विदुषो रक्म्यप्रात्ती हि तन्निरासार्थम् ॥१९॥ तव्रापि रश्मियोगं प्रपश्चयितुमेव न पुनरन्यस्य। व्यावृत्त्यर्थ तत्स्यान्न च सकृदुक्तोऽयमेवकारोडन ॥ २० ॥ रश्मीश्र प्रापयितुं निवर्तयितुमर्चिरादिकांश्र तथा। अहति तस्माद्व्रावधार्यते स खलु रश्मिसंबन्ध: ।। २१ ॥। यज्तु स यावत्क्षिप्येन्मन इत्यादित्वरावचस्तद्पि। गतिषु यथैव हि लोके सवति विलम्बो य एष लोककृतः ।२२॥

Page 402

तृतीय: पादः ३ ] माष्यार्थरत्नमाला। ३९७

नैवार्चिरादिकेऽध्वनि भवति स एष इति बोधनार्थं स्यात्। लोके निमेषमात्रेणाSडगच्छन्तीति वाक्यविन्यासे॥। २३॥। नैव हि निमेषमात्रेणाSडगमने तत्र भवति तात्पर्यम्। किंतु विलम्बाभावे तद्ददिहापीति तदिद्मविरुद्म् ॥ २४॥ इह खल्वथैतयोरित्याद्या मार्गद्वयच्युतानां हि। कषं तृतीयमेषा स्थानं संकीर्त्य देवयानमिमम्॥२५॥ पितृयाणव्यतिरिक्तं पन्थानं ह्यर्चिरादिपर्वाणम्। प्रथयति तमेकमेव श्रुतिस्मृतीयानुवर्णनेनेह ॥ २६ ॥ अपि चार्चिरादिविषय सृतौ हि भूयांसि मार्गपर्वाणि। श्रूयन्ते पुनरन्यत्राल्पीयांस्येव तानि पर्वाणि ॥२७॥ भवतीह भूयसामनुगुणभावेनैव नयनमन्येषाम्। न्याय्यतरं तस्मादिह युक्तं स्यादर्चिरादिनेत्यादि॥ २८॥ वायुमब्दादविशेषविशेषाभ्याम्॥२॥ केनेह संनिवेशविशेषेण च गतिविशेषणानां हि। स्यादन्योन्यविशेषणविशेष्यभाव इति तदिदमाचार्यः ॥२९ ॥ ग्रथयति हि वायुमद्दादितिसूत्रेण स्वयं सुहृद्भूत्वा। इह पठचते हि पन्थाः स एतमिति देवयानसंज्ञोऽसी ॥३० ॥ कौषीतकिनां तत्र हिस चागनिलोकं स वायुलोकमिति। स वरुणलोकं च तथेन्द्रलोकमपि स प्रजापतेर्लोकम् ॥ ३१॥ स ब्रह्मलोकमिति च क्रमोयमुपलभ्यते हि तत्र किल। यावर्चिरग्निशब्दौ तुल्यार्थौ ज्वलनवाचकौ तौ हि ॥ ३२ ॥ नैवेह संनिवेशक्रमोऽयमन्विष्यते क्वचित्कश्चित्। वायुस्त्वहार्चिरादी वर्त्मनि न अ्यते स कस्मिन्वा ॥३३ ॥। स्थाने निवेशनीयः स्यादित्यत उक्तमत्र सूत्रकृता।

आपूर्यमाणपक्षं तत उद्गयनादिकांश्र षण्मासान्। तेभ्यः संवत्सरमपि तत आदित्यमिति दृश्यते तत्र ॥ ३५ ॥ आदित्यादर्वाश्चं तथैव संवत्सरात्पराञ्च्मिमम्। वायुमभिसंभवतीत्येवं वायोहिं संनिवेश इह ॥ ३६ ॥ क्वचिद्विशेषविशेषावुपलभ्येते यतस्तयोः श्रुत्योः। कौषीतकिवाक्ये किल स वायुलोकमिति चाविशेषेण॥ ३७॥

Page 403

३१८ सुन्नह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

उपदर्शितस्य वायोविशेष उपलभ्यते हि वाक्येऽस्मिन । तदिह यदा वै पुरुषोऽस्मालोकात्प्रैति स इति तत्र किल ॥३८ ॥ स उपासको हि देहाद्यदि निर्गच्छति स वायुमेति तदा। वायुरसावपि तस्मै विजिहीते छिद्रमेष संतनुते॥ ३९॥ रथचक्रबिलसमानं तच्छिद्रं तेन वायुदत्तेन। द्वारेण स खलु विद्वानाक्रम्योध्वं तमेतमादित्यम्॥ ४० ॥ आगच्छतीति दर्शितमत आदित्यात्पतीयते वायोः । पूर्वत्वमेव तस्मादृब्दादित्यन्तराल एवासौ ।। ४१॥ वायुर्निवेशनीय: स्यादिति युक्तमिह सूत्रकारोक्तम्। नन्वस्य पुनरिहागेः परत्वदर्शनविशेषतः कस्मात् ॥४२ ॥ अर्चिरनन्तरमेव हिन निविश्यत एष वायुरिति चेन्न। नासौ भवति विशेष: स एतमित्यादिके यतो वाक्ये । ४३।। केवल एव हि पाठः स चाग्निलोकं स वायुलोकमिति। क्रमवाचको हिशब्दो न कश्विदिह किल यतः पदार्थानाम्॥४४॥ उपलभ्यतेऽनुकी तनमात्रं तं तं च गच्छतीत्येवम्। रथचक्रबिलसमेन च्छिद्रेण हि वायुना प्रदृत्तेन ।। ४५॥ स च खल्वाक्रम्योध्वं तत आगच्छति तमेतमादित्यम्। इत्यवगम्यत एव क्रमोऽयमत इह भवेद्विशेषोऽसौ ॥ ४६॥ तस्मादविशेषविशेषाभ्यामिति युक्तमेव सूत्रोक्तम्। वाजसनेयिन इह किल मासेभ्यो देवलोकमित्युक्त्वा ।।४७।। तस्माच्च देवलोकादादित्यमिमं समामनन्त्यत्र । तत्राSSदित्यानन्तर्याय पुनर्देवलोकतो वायुम् ॥४८ ॥ अभिसंभवेयुरिति वाजसनेयश्चुत्यपेक्षया वाच्यम्। यच्चेह वायुमब्दादिति तच्छन्दोगवाक्यमालम्व्य ।। ४९।। छन्दोगश्नुतिवाक्ये न देवलोकोऽस्ति वाजिवाक्ये तु। संवत्सरो न दृष्टः श्रुतिदवयप्रत्ययादुभावपि हि। ५०॥ उमयत्रैव ग्राह्यौ तत्र च मासब्दयोहि संबन्धात्। संवत्सरो हि पूर्वस्ततो मवेदेवलोक इति बोध्यम् ॥५१॥ तडितोऽधि वरुणः संबन्धात् ॥ ३ ॥ आदित्याच्चन्द्रमसं चन्द्रमसो विद्युत च निर्दिश्य। पश्चाद्गह्मप्राप्तिं प्रथयत्येषा श्ुतिस्तथाऽन्या तु॥५२॥

Page 404

तृतीय: पादः ३ ] माष्यार्थरत्नमाला। ३९९

वरुणादिप्राप्तिमपि प्रदर्शयति तत्र तद्नुसारेण। विद्युत उपरिष्टात्किल वरुण: संबध्यते यतश्च तयोः ॥५३॥ स्यान्नियतः संबन्धो यदैव हि विशालविद्युतो मेघा:। सस्तनितगर्जिता अपि सम्यङ्नृत्यन्ति देवलोकेषु॥५४ ॥ आपः प्रपतन्ति तदेत्येतत्सवांनुभूतिसिद्धं हि। विद्योतते स्तनयतीत्येषा श्रुतिरपि तथैव दर्शयति ॥५५॥ वरुणश्चापामधिपतिरिति श्रुतिस्सृतिषु सुप्रसिद्धं हि। इन्द्रप्रजापती किल वरुणादूध्वं हि संनिवेश्येते ॥५६॥ स्थानान्तरविरहादृपि पाठस्य तथैव दर्शनादृपि च। आगन्तुकभावादृपि वरुणादन्ते हि संनिवेश्यौ तौ ॥ ५७ ॥ आतिवाहिकास्तल्लिङ्गात् ॥४॥ तेष्वेव चार्चिरादिषु संदेहः पुनरिहैवमवतरति। किमिमानि मार्गचिह्नान्याहोस्विद्धोगभूमयः किंवा॥ ५८॥ नेतारो गन्तृणामित्येवं तत्र युक्तमेतत्स्यात्। एते हि मार्गलक्षणभूता एवार्चिरादय: स्युरिति ॥५९॥ यस्मादुपदेशोडयं दृश्यत इह तत्स्वरूपपर एव । प्रस्थातुकाम इह किल लोके ग्रामं च नगरमपि कश्ित् ॥ ६० ॥ अनुशिष्यते त्वमेतं गच्छ महापर्वतं पुरस्तस्य । न्यग्रोधमपि महान्तं ततो नदीं निकट एव तत्परतः॥६१॥ ग्रामं च नगरमपि वा स्वाभिमतं प्राप्स्यसीति तद्वदिह। तेऽरचिषमिति हि ततोऽहस्ततः किलाऽडपूर्यमाणपक्षमिति ॥६२॥ अथवाऽत भोगभूमय एवैते स्युरिति युक्तमाभाति। यस्माच्च लोकशब्देनैते ह्यग्न्याद्योऽनुबध्यन्ते ॥६३॥ अ्राग्निमागच्छतीति वाक्ये हि लोकशब्दोऽयम्। भोगायतनेष्वेव प्राणिनिकायस्य भाष्यते हि परम् ॥६४ ॥ वेदे मनुष्यलोक: पितृलोको देवलोक इत्यादौ। अन्यत्राहोरात्रेष्वित्यादौ दृश्यते तथैवायम् ॥ ६५ ॥ तस्मादिहार्चिरादय एते नैवाऽडतिवाहिका: किंच। तेषामचेतनत्वादृपि नैवात्राSSतिवाहिकत्वं स्यात् ॥ ६६। लोके हि चेतना: किल राजनियुक्ता भवन्ति ये शूराः। मार्गेषु दुर्गमेष्वतिवाह्यानतिवाह्यन्ति ते नान्ये।। ६७ ।।

Page 405

४०० सुबह्मण्यविरचिता- [४ चतुर्थाध्याय

एवं प्राप्ते बूते ते खल्वत्राSSतिवाहिका: स्युरिति। अत्र च तललिङ्गादिति यथोपदिष्टार्थसाधको हेतुः ॥।६८ ॥। इह चन्द्रमसो विद्युतमित्येतदनन्तरं समाम्नातम्। तत्पुरुषोऽमानव इति वाक्यं हि ब्रह्म गमयतीत्यन्तम् ॥ ६९ तेन प्रतीयते खल्वमानवस्योत्तरत्र गमयितृता। गमयितृतानिर्देशात्सिद्धं तस्याSडतिवाहिकत्वमपि।।७० ॥। तत्सामान्यादग्न्यादयो भवन्त्यातिवाहिका: पूर्वभ्। ननु तत्पुरुषोऽमानव इति वचनममानवस्य पुरुषस्य ॥ ७१॥ गमयितृतापरमेव हि नाग्न्यादीनां तथेति चेन्मैवम्। = यद्यचिरादिपर्वस पुरुषा एतेषु गमयितार: स्यु: । ते मानवास्तदैवाSSवश्यकमेतद्धि तन्निवृत्त्यर्थम्॥७३॥ यदिदिममानव इति किल पुरुषविशेषणमिहोपदिषं हि। ननु न हि लिङ्ग गमकं न्यायाभावादतस्त्विदं पठति॥ ७४

ये त्वर्चिरादिमार्गोपगतास्ते किल शरीरविगमेन। मुकुलितकरणग्रामा न च स्वतन्त्रा भवन्ति गत्यादौ॥ ७५ ये त्वर्चिरादयस्तेऽप्यचेतना एव न स्वतन्त्रा: स्यु: । तस्मादिहार्चिराद्यभिमानिन एते हि चेतना देवाः ॥ ७६ ॥ अतियात्रायामस्यां नियोजिता इति भवेद्यवस्थेह। इह मत्तमूर््छिताद्या अपि लोके विकलकरणपरिवारा: ॥७८ केवलपरप्रयुक्ताध्वानो हष्टा: परत्र किमुतैते। न हि मार्गलक्षणत्वं कथमप्यत्रार्चिरादिकानां स्यात्। ७८ अनवस्थिता यतस्ते रात्री प्रेतस्य न हि कथंचिद्पि। भवति ह्यहःस्वरूपप्राप्तिर्न च तत्प्रतीक्षणं वाडस्ति । ७९॥ इत्येतदुक्तमेव न दोषोऽयं भवति देवतापक्षे। यस्माद्धुवा हि देवास्त एव चेहार्चिरादिपदवाच्या: । ८0

किंचार्चिषोऽहरिति निर्देशः खल्वातिवाहिकत्वेऽपि ॥८। न विरुध्यते करथंचित्तच्छन्दात्तदृभिमानिनो ग्रहणे। लोकेऽपि दृश्यते हि प्रख्यातेष्त्रातिवाहिकेषु पुनः ।।८२ ।

Page 406

तृतीय: पाद: ३ ] भाष्यार्थरत्नमाला। ४०१ एधंविध उपदेशो गच्छ त्वमितश्ष कृष्णगुप्तमिति। गच्छ ततो जय सिंहं बलवर्माणं ततश्र गच्छेति ॥८३ ॥ अपि चोपक्रमवाक्ये तेऽचिषमित्यादिना समा्नातः । संबन्धमात्रमेव हिन तद्विशेषोऽत्र कश्रिदुपदिक्ष:॥४॥ उपसंहारे तु स एतानित्यादौ विशेष इह दृट्टः। गमयितृशब्दबलेन च स चातिवाह्यातिवहनरूप: स्यात् ॥ ८५॥ तेन हयुपक्रमेऽपि च स एव निर्णीयते न चान्योऽपि। उपसंहृतकरणत्वान्न तत्र मोगो भवेत्किलैतेषाम्॥८६ H तत्रानुपभुस्ज्ानेष्वपि गन्तृषु गमयितुं भवेच्छक्यः । सोडयं हि लोकशब्दस्तन्रान्येषां यतश्र भोग: स्यात्।। ८७ ॥ एवं चाग्गिस्वामिकलोकं गत्वाSग्निनाSतिवाह्येत। वायुस्वामिकलोकं गत्वैवं वायुनेति योज्यमिह।।८८ ।। नन्वातिवाहिकत्वं यद्येतेषां तदा हि वरुणादौ। तत्कथमुपपन्नं स्याद्वरुणादन्यो यतोऽन निर्दिष्ः ॥ ८९॥ आ ब्रह्मपाप्तेः किल विद्युद्नन्तरममानवः पुरुषः। तस्यैव गमयितृत्वं श्रुतमित्यत एतदुत्तरं पठति ॥ ९० ॥ वैद्युतेनैव ततस्तच्छतेः ॥ ६ ॥ विद्युत्माप्तेरुध्वं विद्युदनन्तरमवस्थितेन पुनः। केनाप्यमानवेनातिवाह्यमाना हि वरुणलोकादौ ॥९१ ॥ ते ब्रह्मलोकमेतं गच्छन्तीत्येवमत्र निष्कर्षः । विद्युल्लोकपाप्तो वैद्युत इति गृह्यते हि सूत्रेऽस्मिन् ॥ ९२॥ तान्वैद्युतादिति श्रुतिवाक्ये वैद्युतपंदं हि लोकपरम् । तान्वैद्यताद्दि लोकादमानवोऽभ्येत्य गमयति ब्रह्म ॥:९३ ॥ इत्येतच्छरृतिवाक्याद्मानवस्थैव गमयितृत्वमिह। वरुणाद्यस्तु तस्यैवानुपरोधेन वा सहायेन ॥ ९४॥ केनापि हेतुना ते भवन्त्यनुग्राहका इति ज्ञेयम्। तस्मादिहार्चिरादय एते खल्वातिवाहिका एव ॥ ९५।। कार्यं बादरिरस्य गत्युपपत्तेः ॥७॥ एवं निरुप्य मार्ग गन्तव्यं ब्रह्म चिन्तयत्यधुना। श्रुतिवाक्येन स एतान्त्रह्म गमयतीति दर्शितं तन्र ॥ ९६ ॥ ५१

Page 407

४०२ सुन्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्ट

किं कार्यमपरमेव ब्ह्म गमयतीह किं परं ब्रह्म। यच्चाविकृतं सर्वोपनिषत्प्रतिपाद्यमिति तु संदेहः ॥९७॥

कार्यं सगुगं ब्रह्मैवैनान्गमयत्यमानवः पुरुष: ॥।९८॥ इति मन्यते हि बादरिराचार्यो युक्तमेतदेव यतः। गन्तव्यत्वमिहोक्तं तविदं कार्यस्य नेतरस्य स्यात् ॥ ९३ ॥ तस्य प्रदेशवत्वात्सर्वगतत्वात्परात्मनो नेयम्। गन्तव्यता गतिर्वा गन्तर्णां प्रत्यगात्मरूपत्वात् ॥ १०० ॥ विशेषितत्वाच्च ॥८॥

इति निर्दिश्य च लोकाञ्श्रुतिरपरा ब्रह्मणोऽस्य लोकेषु॥ १० ते शाश्वतीः समा निवसन्तीति यतो विशेषमुपदिशति। अत इह या गतिरुक्ता सा कार्यब्रह्मगोचरैव स्यात् ॥ १०२॥ बहुवचनलोकशव्द्स्तथेव चाऽडधारसप्तमीश्रवणमू। नैव परस्मिन्व्रह्मणि कथमण्यवकल्पते हि कार्ये तु॥ १०३ तदवस्थाभेदेन च भेदात्सभवति सर्वमेवैततू। या चेह संनिवेशविशिष्टा सविकारभोगभूमि: स्यात् । १०४ लोकश्रुतिरप्येषा तस्यामेवाऽडखसी न चान्यत्र। ब्रह्मैव लोक इति किल गौणी ह्यन्यत्र तदिद्मन्याय्यम् ॥१०'

असमख्स एवातो गमनमिदं कार्यविषयमेव स्यात् ॥ १०६। ननु नायं कार्यपरो नपुंसकब्रह्मशब्द इह भवति। कारणपर एव यतः समन्वये दर्शितोऽयमिति चेन्न ॥ १०७॥ सामीप्यान्तु तव्यपदेशः । ९॥। अत्र तुशब्दो योऽसावुक्ताशङ्कानिवर्तनार्थ: स्यात्। कार्यस्यापि ब्रह्मण इह च परब्रह्मसंनिधानेन ॥ १०८॥ स्याद्बह्मशब्दयोगो नात्र विरोधो भवेत्कुतश्विदृपि। गन्तव्यत्वन्यायादाधाराघेयभावनिर्देशात् । १०९॥ लोकबहुत्वश्रुत्या लक्षणया स खलु कार्यपर एव। ब्रह्म परं यच्छुद्धं तदिह किलोपाधियोगमात्रेण ॥११०॥

Page 408

तृतीय: पादः ३ ] माष्यार्थरत्नमाला। ४०३

अपरं ब्रह्मेदमिति व्यपदिश्यत एव केदलं शाख्े ॥ १११ ॥ नन्वत्र कार्यमेव ब्रह्म प्राप्यं यदा भवेत्तेषाम्। यदनावृत्तिश्रवणं तत्कथमेषामिहोपपद्येत ।।११२।। न ह्यन्यत्न परस्माद्ब्रह्मण एपां भवेदनावृत्ति:। श्नतयोऽत्र दर्शयन्त्वर्चिरादिमार्गेण निर्गतानां हि॥११३॥ एतेनेति च तेषामिति च तयो्ध्वमिति चाव्यनावृत्ति:। तस्माद्ह्मपदेन हि कार्यग्रहणं न युक्तमिति चेन्न ॥ ११४॥ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्॥१०॥ कार्थब्रह्मपदेऽस्मिलँयोन्मुखे तत्पदं गता एते। तत्रोत्पन्नज्ञाना हिरण्यगर्भेण तद्धिनाथेन ॥ ११५॥ प्रतिपद्यन्ते शुद्धं विष्णो: पर पदं हि तेन सह। एवं क्रमसुक्तिरनावृत्तिश्तिवाक्यदर्शिता भवति॥११६ ॥ स्मृतेश्र् ।। ११ ॥ या ब्रह्मणा सहेति स्मृतिरिह साऽप्येतमर्थमुपदिशति। तस्मातकार्यब्रह्मप्राप्तिपरेव हि गतिश्रुतिः सर्वा । ११७॥ आशङ्य पूर्वपक्ष यमत्र सिद्धान्त एष निर्दिष्टः । कार्य बादरिरित्येतत्सूत्रेण प्रदृरश्यते सपदि ॥ ११८॥ परं जैमिनिर्मुख्यत्वात् ॥ १२॥ इह जैमिनिराचार्य: परमेव बह्म गमयतीत्येवम्। ब्रह्मपदस्य परस्मिन्मुख्यत्वान्मन्यते हि सिद्द्धान्तम् ॥ ११९॥ ब्रह्मपदस्य च सुख्यालम्बनमेतन्द्वेतपरं ब्रह्म। अपरं गौणं तत्र च मुख्ये संप्रत्ययो भवेन्न्याय्यः ॥१२०॥। दर्शनाच॥ १३॥ गतिपूर्वकमसृतत्वं तयोर्ध्वमायन्निति श्रुतिर्बूते। अमृतत्वं च परस्मिन्त्रह्मण्युपपद्यते न कार्येडस्मिन् ॥ १२१॥ कार्यस्य भवति नाशो यतः श्ुतिर्मर्त्यमल्पमुपदिशति। परविषयैवैतेषां कठवल्लीषूपदिश्यते हि गतिः ॥१२२ ।। न हि विद्यान्तरपरता कठवल्लीषूपलभ्यते क्वापि। अन्यत्रेति च तन्न प्रक्रान्तं ब्रह्म मवति परमेव ॥ १२३॥

Page 409

३९ ४०४ सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

ब्रह्मश्रुतेः प्रकरणादृपि तद्ददिहामृतत्वलिङ्गाच्च। गतिरेषा परविषया स्यान्नापरगोचरा कथंचिद्यि ॥१२४॥ न च कार्ये प्रतिपत्त्यभ्िसंधिः ॥ १४॥ अपि च प्रजापतेरिदमहं सभां वेश्म तत्प्रपद्य इति। प्राणवियोगावसरे संकल्पः स्यादुपासकस्येति ॥१२५॥ कार्यप्राप्त्यभिसंधिश्रुतेर्न गन्तव्यमत्र परमिति चेतू। आकाशो हेत्यादौ प्रकृतत्वाङ्गह्मणः परस्यैव ॥ १२६॥ तद्वद्यशोऽहमित्यादिभिश्च सर्वात्मकत्वनिर्देशात्। यस्य च नाम महद्यश इति हि यशोनामताप्रसिद्द्ेश्र ॥ १२७ ॥ वेइमप्राप्तिश्षवेयं सवति परप्राप्तिलक्षणैवात्र। वेश्मप्रतिपत्तिरियं कथमिह गतिपूर्विका भवेदिति चेतू॥१२८॥ अपरत्रह्मणि वेश्मप्रतिपत्तिरियं हि हार्दविद्यायाम्। श्रुत्यैव समुपदिष्टा सेयं किल तद्पराजितेत्येवम् ॥१२९ ॥ तत्र च विद्याहीनैर्व्रह्मण एषाऽपराजिता हि पुरी। प्रभुणा हिरण्यगर्भेणैव च रचितं हिरण्मयं वेर्म ॥ १३०॥ इत्यादि दर्शितं तत्प्राप्तिरियं दर्शिता हि गतिपूर्वा । परविषयेऽपि च वेश्मप्रतिपत्तिश्रुतिरियं समाना हि॥ १२१ ॥ तस्मादिहापि तस्या मतिपूर्वकतैव भवति युक्ततमा । किंचात्र पढ गतावित्यस्मादृपि धातुपाठसामर्थ्यात् ॥१३२॥ मार्गापेक्षा वेश्मप्रतिपत्तावत्र भवति युक्तैव। तस्मादत्र गतिभ्रुतयः सर्वा अपि भवन्ति परविषयाः ॥१३३॥ इति पक्षान्तरमेतौ द्वावाचार्येण सूत्रितौ पक्षौ। एको गत्युपपतत्यादिभिरपरो सुख्यतादिभिश्रेह॥ १३४ ॥ मुख्यत्वादीनाभासयितुं गत्यादयः समर्थाः स्यु:। न तु गत्यादीन्मुख्यत्वाद्य इत्याद्य एव सिद्धान्तः ॥१३५॥। व्याख्यातोऽस्मामिरसौ द्वितीय इह पूर्वपक्ष एव स्यात्। मुख्यस्यार्थस्यैव ग्रहणमसत्यपि च संभवे कर्तुम् ॥१३६॥ उचितमिति कश्विदाज्ञापयिता नेहोपलभ्यते क्वापि। उपपद्यते तदेतत्परविद्याप्रकरणोपदिष्टमपि ॥ १३७।। विद्यान्तरानुशीलितगत्यभिधानं स्तुतिप्रकर्षार्थम्। विद्यासंबद्धसुषुम्नास्तुत्यर्थं यथैव विष्वगिति ॥ १३८॥

Page 410

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ४०५

नाड्यन्तरसंकीर्तनभिह परविद्यास्तुतिप्रकर्षार्थम्। तत्प्रकरणेSपि चापरविद्याश्रयगतिकथेयमुचितैव ॥१३९॥ निरतिशयफला हवीयं परविद्यागतिमिहान्तरेणापि। गतिसाध्यमपरविद्याफलमस्याश्चान्तरेव भवतीति ॥१४०॥। स्तुतिलाभार्थ्ं तत्स्यान्न तु परविद्यावलम्बि तन्दवति। गन्तव्यस्य तथा बहुवचनान्तस्यापि लोकशव्दस्य ।१४१॥ अपि दिव्यगन्धभोगश्ुतेश्र संकल्पतोऽपि परविषये। मुख्यार्थस्यैतस्यायोगाद्गतिरपरगोचरैव स्यात् ॥ १४२॥ या च सभा वेश्म प्रतिपद्य इति श्रुतिरिहोपदिष्टाडसौ। कार्यपराऽत्र भ्रुत्या वाक्येन प्रकरणमिह बाध्यम् ॥ १४३॥ सार्वात्म्यमपि यदुक्तं यशोऽहमित्यादिना हि तदपीह। ब्रह्मण्यपरस्मिन्नप्युपासनार्थं हि युक्तमेव स्यात् ॥ १४४॥ यद्वच्च सर्वकर्मत्वादिनिदेशा भवेयुरन्यत्र । तस्मादृत्र गतिश्रुतयः सर्वा अपरगोचरा एव ॥ १४५॥ केचित्तु पूर्वसूत्राणि स्युः किल पूर्वपक्षसूत्राणि। उत्तरसूत्राणि पुनर्भवन्ति सिद्धान्तविषयसूत्राणि ॥१४६ ॥ इति खल्विह व्यवस्थामनुरुध्य गतिश्रुतिर्हि परविषयाः। सर्वा अपि प्रतिष्ठापयन्ति तच्चेद्मनुपपन्नमिह ॥ १४७॥ सर्वगतं सर्वान्तरमपि यत्सर्वात्मकं परब्रह्म। यत्साक्षादपरोक्षाङ्गह्म य आत्मेतिवाक्यनिर्दिषम् ॥१४८॥

निर्धारितस्वरूपं ब्रह्म कथं वेह भवति गन्तव्यम् ॥ १४९॥ नतु गतमवि गन्तव्यं भवति हि देशान्तरादियोगेन। पृथिवीस्थ एव पृथिवीं देशान्तरयोगतो यथा व्रजति ॥१५० ॥ एवं बाल: कालान्तरयोगादात्ममतमेवैतत्। वार्धकमनन्य एव व्रजति तथा ब्रह्मणोऽप्यनन्यस्य ॥ १५१॥ तस्य गतस्यापि च गन्तव्यत्वं सर्वशक्तियोगेन। इति चेन्मैवं ब्रह्म प्रतिषिद्दाखिलविशेषमिह यस्मात् ॥१५२॥ निष्कलमेतन्निष्क्रियमपि शान्तं तच्च भवति निरवद्यम्। अस्थलमनण्वित्यादिश्युतिगेयं स्मृतिष्वपि प्रथितम् ॥१५३॥

Page 411

४०६ सुब्रह्मण्यविरचिता- [ ४ चतुर्थोध्यायस्य-

कथमीद्वशे परस्मिन्कल्पयितुं शक्यते विशेषोऽयम। नैतञ्च भप्रदेशवयोन्यायेनात्र सवति गन्तव्यम् ॥१५४॥ भूवयसो: किल देशविशेषावस्या विशेषयोगेण। गन्तव्यतोपपन्ना भवति प्रादेशिकत्वसंपतत्या ॥ १५५॥ ननु जगतो जन्मस्थितिलयहेतुत्वश्चुतेः परं ब्रह्म। स्यात्सकलशक्तियुक्तं प्रभवति गन्तव्यमेतदिति चेन्न ॥१५६ ॥ इह च विशेषनिराकरणश्तुतिवचनानि निरवकाशानि।

एकत्वप्रतिपादनपराणि सर्वाणि सृष्टिवाक्यानि।

एवं सर्वस्यैव हि विकारजातस्य चानृतत्वमपि। प्रतिपाद्यच्च शास्त्रं कथसुत्पत्त्यादिपरमिह प्रभवेत् ॥१५९ ॥ नन्वत्र निर्विशेषश्रुतिशेषत्वं कृतो मवेदेषाम्। उत्पत्तिश्रुतिवचसां ध्यत्यासो नेह भवति कुत इति चेतु ॥ १६० ॥ इह च विशेषनिराकरणध्ुतयः खलु परं निराकाङ्क्षाः । एकत्वमात्मनोऽस्य च नित्यत्वमजत्वमपि च शुद्धत्वम् ॥ १६१। यद्यवगतं तदा खलु नैवाऽडकाङ्क्षोपजायते भूय:। पुरुषार्थपरिसमाप्त्यवधृतिरेव किलोपजायते तत्र ॥ १६२।। श्ुतयोऽपि तन्र को मोहः कः शोक इति बोधयन्त्येतम्। सार्वात्म्यभावमेव हि विदुषोऽप्यु(षस्तु)ट्व्यनुभवादिकं च तथा ॥ सृत्यो: स सृत्युमाप्नोति य इह नानेव पश्यतीत्यादेः। श्रुतिवाक्याच्च विकारानृताभिसंधी च निन्दितौ मवतः ॥१६४॥ तेन विशेषनिराकरणश्चुतिवचसां न चान्यशेषत्वम्। उत्पत्त्यादिपराणि श्ुतिवचनानीह यानि तेषां तु ॥ १६५॥. न निराकाङक्षार्थप्रतिपादनसामर्थ्यमिह कर्थंचिद्पि किंतु निषेध्यार्पकताद्वारेण निषेधवाक्यशेषत्वम् ॥ १६६।। फलवत्सांनिध्ये नाफलं तदङ्गमिति दृश्यते न्यायः । न्यायाज्ज केवलादिह न हि तच्छेषत्वमुच्यते किंतु ॥ १६७॥

तस्मिन्कारणरूपे ब्रह्मणि हि तदेतािह शुङ्गम् ॥१६८॥

Page 412

दिय: पाद: ३ ] माष्यार्थरत्नमाला। ४०७

जगदात्मकमुत्पन्नं नेदमभूलमिति तदिदमारभ्य। अन्विच्छतेन शुङ्गेनव च सन्मूलमित्युद्कें हि॥ १६९॥ विज्ञेयत्वं सत एकस्य जगत्कारणस्य दर्शयति। अन्यत्रापि यतो वेत्यादौ जन्मादिकारणस्यास्य॥ १७० ॥ ब्रह्मण एकस्यैव हि विज्ञेयत्वं प्रदर्शितं तस्मात्। उत्पत्तिश्रुतिव चसामैकात्म्यावगममान्नपरतैव । १७१ ॥ नानेकशक्तियोगो ब्रह्मणि परमार्थतः कथंचिद्षि। गन्तव्यता परस्य ब्रह्मण इह नोपपद्यते तस्मात् ॥ १७२ ॥ अपि च न तस्य प्राणा उत्क्रामन्तीति या श्रुतिः सा हि। उत्क्रान्तिं प्रतिषिध्य परस्मिन्व्रह्मणि गति निवारयति ॥१७३॥ स्पष्टो ह्येकेषामित्यत्र व्याख्यातमेतदृखिलमपि। गतिरत्र कल्प्यते यदि गन्ता जीवः परात्मनस्तस्य ॥ १७४॥ गन्तव्यस्यावयवोऽथवा विकारोऽथवा भवेदन्यः। आत्यन्तिकतादात्म्ये न हि गमनं भवति कुत्रचिल्लोके॥ १७५॥ यद्येकदेश एव हि जीवस्तर्ह्येकदेशिनस्तेन। नित्याप्तत्वात्पुनरिह गमनं नैवोपपद्यते तादिदम् ॥ १७६ ॥ ब्रह्मण्यपि च परस्मिन्यदैकदेशैकदेशिता तर्हि। निरवयवत्वं तस्य व्याहन्येत श्रुतिस्तदर्थपरा ॥ १७७॥ तुल्यं विकारपक्षेऽप्येतन्न घटो सृदात्मतां हित्वा। अवतिष्ठते कदाचित्यागे वा तस्य शून्यतापत्ति: ॥। १७८। यदि च विकारोऽवयवो वा जीवस्तारि तद्विशिष्टस्य । परमात्मन: स्थिरत्वात्संसारगतिश्र न सुलभा तस्य ॥ १७९।। न ह्यचलबृहदुपलयोर्मण्डकबृहच्छिलान्तरवयवयोः । चलनं कदाचिदृषि वा स्यादस्माकं त्वनाद्यविद्यातः॥। १८० ।। नानोपाधिवशेन हि गत्यागतिविभ्रमोयमा मोक्षात्। यदि च परस्मादस्माज्ीवोऽसावन्य एव भवति तदा॥१८१॥ सोऽणुर्व्यापी मध्यमपरिमाणो वा यदा भवेद्यापी। आकाशादीनामिव गमनमसंभावितं तदा तस्य ।। १८२।। यदि मध्यमपरिमाणस्तस्यानित्यत्वमपरिहार्यं स्यात्। यदि चाणुर्जीवः स्यात्कृत्स्नशरीरगतवेदना न स्यात् ।१८३।।

Page 413

४०८ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तस्य च मध्यमपरिमाणत्वमणुत्वं च परिहृतं पूर्वम्। तस्य परस्मादन्यत्वे तत्त्वमसीति शास्त्रवाधश्र ॥ १८४॥ योऽसौ दोषस्तुल्यः स विकारावयवपक्षयोरपि च। तद्वदनन्यौ हि विकारावयवौ तेन नैष दोष: स्यात् ॥१८५॥ इति चेत्तथाऽपि सुख्यैकत्वानुपपत्तिरत्र दुर्वारा। तिष्वपि पक्षेष्वस्यानिर्मोक्षापत्तिरपि च दुर्वारा ॥१८६॥ संसार्यात्मत्वापरिहारात्तत्परिहृता च तस्य पुनः। स्याञ्च स्वरूपनाशस्तात्विकजीवात्मभावनाशेन॥ १८७।। ब्रह्मात्मत्वं तात्विकमस्मामिरिव त्वया हिजीवस्य। अभ्युपगतं भवेद्यदि संसृतिनाशेऽपि नो विनश्येत्सः ॥१८८॥ ननु किं ब्रह्मात्मतया संसाराभाव एव मोक्ष: स्यात्। स च खलु कर्मामावात्सेत्स्यति किमनेन तत्त्वबोधेन ॥ १८९॥ इति किल कर्मजडानामाशङ्का सा निरस्यते सपदि। कर्माणी हानुष्ठीयन्ते नैमित्तिकानि नित्यानि ॥ १९० ॥ दुरितक्षयाय काम्यानि निषिद्दानि च परिह्नियन्ते हि। स्वर्गस्य च नरकस्यानवातये प्रकृतदेहभोग्यानि॥१९१॥ कर्माण्युपभोगेन क्षप्यन्ते ब्रह्मतां विनैवास्य। प्रकृते देहे पतिते देहान्तरयोगकारणाभावात् ॥१९२॥ स्वात्मावस्थितिलक्षणकैवल्यं सेत्स्यतीद्वशस्येति। यज्जल्पितं हि कैश्रित्तद्सद्यस्मात्म्रमाणमिह नास्ति ॥१९३॥ न ह्येतत्केनापि च शास्त्रेण निरूपितं हि मोक्षार्थी। इत्थं समाचरेदिति बुद्ध्यैव हि तर्कितं भवेदेतत् ॥ १९४॥ येन च कर्मनिमित्त: संसारोडतो निमित्तविरहेण। न भविष्यतीति नैतत्तर्कयितुं शक्यते हि केनापि ॥ १९५ ॥ यस्मान्निमित्तविरहो न शक्यते ज्ञातुमत्र केनापि। इष्टानिष्टफलानि हि जात्यन्तरसंचितानि कर्माणि ॥ १९६॥ एकेकस्य च जन्तो: संभाव्यन्ते बहुप्रकाराणि। इह च विरुद्दूफलानां तेषां युगपत्फलोपभोगस्य ॥ १९७॥ अत्यन्तदुर्लभत्वाल्लब्धावसराणि कानिचिच्चेद्म्। जन्म किल निर्मिमते पराणि कालान्तरं प्रतीक्षन्ते ॥१९८॥

Page 414

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ४०९

तेषाभवशिष्टानां सांप्रतमोगेन यापनायोगात्। न यथावर्णितचरितस्यापि शरीरे हि सांप्रते पतिते ॥ १९९॥ देहान्तरयोगनिमित्ताभावः शक्यते विनिश्चेतुम्। तद्य इहेति श्रुतयः प्रथयन्ति हि कर्मशेषसन्भ्ावम् ॥२००॥ स्मृतयोऽपि ततः शेषेणेत्याद्यास्तद्वदेव नन्वत्र । तक्ष्षेपकाणि नित्यान्यपि किल नैमित्तिकानि कर्माणि॥ २०१॥ मेवं विरोधविरहात्सति च विरोधे परस्परं तेषाम्। क्षेप्यक्षेपकभावो भवेन्न चेहास्ति स च विरोधोऽ ॥ २०२॥ न हि संचितसुकृतानां नित्यैर्नैमित्तिकैर्विरोधोडस्ति। तेषां परस्परं किल विशुद्धिरूपत्वमवगतं शास्त्रात् ॥ २०३॥ दुरितानां क्षपणं स्यादविशुद्धितया ततो विरोधेन। देहान्तरयोगनिमित्ताभावस्तावता कथं सिध्येत् ।।२०४.।। देहान्तरस्य संचितसुक्कृतनिमित्तस्य संभवात्तत्र। निःशेषतश्र दुरितस्यापि क्षपणं हि दुरबगममेव ॥। २०५ ॥। संचितपुण्यापुण्याभ्यां पुनरेतस्य जन्म दुर्वारम्। न च नित्यानुष्ठानाद्दुरितानुत्पत्तिमात्रमेव स्थात् ॥ २०६ ॥ न पुनः कालान्तरफलमिति निश्चेतुं प्रमाणमिह किंचित् । दुरितक्षपणार्थेऽपि च नित्ये पश्चातन्तिरं भवति ॥ २०७ ॥ इति तु स्मरति यथाSडम्रे निमित्त इत्यादिनैतमेवार्थम्। आपस्तम्बस्तत्र च फलार्थमारोपिते यथैवाऽडम्रे ॥ २०८ ॥ छायागन्धावुत्पद्येते ह्यनु तद्ददेव धर्ममिमम्। क्रियमाणमर्थकामावुत्पद्येते किलान्विति प्रोक्तम् ॥ २०९ ।। असति च सम्यग्ज्ञाने काम्यप्रतिषिद्द्वर्जनं तदिदम्। सर्वात्मना भवेदिति न केनचिच्छक्यते प्रतिज्ञातुम् ॥२१०॥ यस्मादतिकुशलानामपि सूक्ष्मो दृश्यतेऽपराधोऽन्र। काम्यादिकर्मणां स्यान्निश्रयविरहेऽपि संशयस्तत्र ॥ २११॥ तेन निमित्तामावो न केनचिच्छक्यतेऽतर निश्र्ेतुम्। श्रुत्यभिगम्यं ब्रह्मात्मत्वं यदि नाभ्युपेयते ताहि ॥ २१२ ॥

कथमिह यथोक्तचरितस्याप्याकाङ्क्षितुमिदं मबेच्छक्यम्॥२१३। ५२

Page 415

४१० सुब्रह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

अग्न्यौष्ण्यवत्स्वभावः परिहतुं शक्यते न केनापि। कर्तृत्वभोक्तृतादेः कार्यमनर्थो न शक्तिमात्रं स्ात् ॥ २१४॥ इह शक्तिमात्रसद्भावेऽपि च कार्थस्य तस्य परिहारात्। उपपन्नो मोक्षोऽसावित्यपि नैवेह शङ्गितुं शक्यम् ॥ २१५॥ शक्त्यवशेषे कार्यप्रसवो लोके यतश्र दुर्वारः। ननु शक्तिरिह निमित्तान्तरनिरपेक्षा न कार्यमारमते ॥ २१६॥ अत एकाकिन्येषा स्थिताऽपि नैवापराध्यतीत्यपि न। शक्तपात्मना निमित्तानामपि सर्वत्र नित्यसंबन्धात् ॥ २१७।। तस्मादात्मनि कर्तृत्वादौ स्वाभाविके सति ह्यसति। विद्यैकसमधिगम्ये ब्रह्मात्मत्वे कदाचिदृप्यस्य ॥ २१८॥ मोक्षं प्रत्याशाऽपि हि मवति परं दुर्लभैव न हि सुलभा। श्रुतिरपि नान्यः पन्था विद्यत इत्यादिका हि दर्शयति ॥२१९॥ ज्ञानादन्यस्त्वपरो विमोक्षमार्गों न कश्चिदित्येवम्। ननु जीवस्य परस्मादनन्यता यदि तदा विलुप्येत ॥ २२०॥ व्यवहारोडयं प्रत्यक्षादीनामप्रवृत्तिरिति चेन्न।

शास्त्रमपि यत्र हि द्वैतमिवेत्याद्यप्रबुद्धविषये हि। प्रायः प्रत्यक्षादिव्यवहारं सकलमेतमनुवर्ण्य ॥२२२ ॥ यत्र त्वन्येति पुभः प्रबुद्धविषये पवक्ति तद्मावम्। तस्मादृत्र परव्रह्मविदो गन्तव्यतादिविज्ञानम् ॥ २२३॥ बाधितमेवेत्यत इह न केनचिद्गतिरियं समर्थ्येत। तर्हि गतिश्रुतय इमाः किंविषया इति न शङ्कनीयमिह ॥२२४॥ या सगुणपरत्रह्मपरा विद्यागतिरपि च भवति तदविषया। क्वचिदिह पञ्चाग्निपरां विद्या प्रक्रम्य गतिरुपन्यस्ता ॥ २२५॥ क्वचिद्षि पर्यङ्कपरां वैश्वानरगोचरां क्वचिद्विद्याम्। यत्र पुनर्वह्मैव प्रकृत्य गतिरियमुदाहृता वाक्ये॥ २२६॥ प्राणो ब्रह्मेत्यादी तथाऽथ यदिद्मिति दहरवाक्येऽपि। तत्राषि वामनीत्वादिभिस्तथा सत्यकामताद्यैश्र ।।२२७।। तैस्तैर्गुणैहि सगुणस्यैवोपास्यत्वमिति गतिर्युक्ता। एवं न परबह्मणणि गतिरेषा श्व्यते क्वचिच्चापि॥ २२८॥

Page 416

रीय: पाद: ३ ] माध्यार्थरत्नमाला। ४११

किंतु गतिप्रतिषेधः श्रूयत इह केवलं म तस्येति। ब्रह्मविदाप्नोतीत्यत्राSSप्नातिर्यद्यपीह गत्यर्था ।। २२९।। एवमपि वर्णितेन न्यायेन गतेरसंभवादत्र। यद्नाद्यविद्यया परिकल्पितमेतद्द्वि नामरूपाद़ि ॥ २३०॥ तत्प्रविलयात्स्वरूपप्रतिपत्यर्था भवेदिहाऽडप्रोतिः । ब्रह्मैव सन्नितिश्रुतिवाक्य इवाऽडमोतिरीदृशी भवति ॥ २३१ ॥ अपि च गतिः परविषया निरुप्यमाणा प्रोचनाय स्यात्। अनुचिन्तनाय वा स्यान्न ब्रह्मविद: प्ररोचनं तदिह ॥ २३२॥ गतिवाक्येनाभिहितं यस्माद्विद्यासमर्पितेनैव। स्वगतेनैव स्वास्थ्येनाव्यवधानेन तस्य संसिद्धेः ॥ २३३॥ इह नित्यसिद्ध निःशेयससंस्फुरणाद्य एप सिद्धफलः । आत्मावगमस्तत्र च गत्यनुचिन्ताफलं न किंचिदृपि।। २३४ ।। तेनापरविषयैव हि गतिः परापरविवेचनाभावात्। आरोप्यते परस्मिन्गतिरेषा निर्विशेषचिन्मात्रे ॥२३५॥ द्वे ब्रह्मणी किमेते परमपरं चेति बाढमेवं हि। श्रुत्यैव दर्शितं खल्वेतद्वै सत्यकाम इत्यत्र ॥ २३६॥ उपदिश्यते हि यच्चाविद्याकृतनामरूपनिर्मुक्तम्। तद्धि परं ब्रह्म स्यात्तदेव किल नामरूपभेदेन । २३७। उपदिश्यते यदा पुनरुपासनाय हि मनोमयादिपदैः। तध्यपरं ब्रह्म स्यान्न चाद्वितीयश्षुतेर्विरोध इह ॥ २३८॥ येनाविद्याकल्पितनानोपाधिमिरिह प्रसक्तमिदम्। अपरब्रह्मोपासनमित्यविरोध: प्रपश्च्ितः पूर्वम् ॥२३२॥ तत्संनिधौ श्रुतं यज्जगदैश्वर्यादिलक्षणं च फलम्। संसारगोचरं तद्येनाविद्या हि तत्र न निवृत्ता ॥ २४० ॥। देशविशेषकृतं तत्तत्पाप्त्यर्थं हि गमनमविरुद्धम। सर्वगतत्वेऽप्यात्मन आकाशस्येव करकगमनेन ।। २४१॥

तद्गुणसारत्वादित्यादिषु सूत्रेष्वतोऽत न विरोध: ॥ २४२ ।। तस्मात्कार्य बादरिरित्ययमेवेह भवति सिद्धान्तः । पक्षान्तरं परं जैमिनिरिति मेधाविकासनायैव ।२४३॥

Page 417

४१२ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्याय

अप्रतीकालम्बनान्नयतीति बादरायण

रीयमपरविषया गतिर्न चैषा कदाऽपि परविषया। एतावदत्र वणितमिह किल संदिह्यते हि पुनरपरम् ॥ २४४ आ्ापयति किमिह सर्वान्कार्यालम्बानमानवः पुरुष: । तं बह्मलोकमविशेषेणाथ स कांश्ििदेव नयतीति॥ २४५ ॥ अत्रैतदेव युक्तं विदुषामविशेषतो हि सर्वेषाम्। स्यादन्यत्र परस्माद्गतिरिति यस्मात्म्रपश्चितं पूर्वम् ॥ २४६। अनियमसूत्रे विद्यान्तरेष्वपीयं गतिः समानेति। इत्याशङ्कां निरसितुमत्र विशेषं तमेतमुपदिशति॥२४७॥ ये च प्रतीकदृष्टय इह तान्हित्वा त्वमानवः पुरुष:। अन्यानेव विकारालम्बान्सर्वान्स एष लोकमिमम् ॥२४८॥ नयतीति बादरायण आचार्यो मन्यते न चैवमिह। मार्गोऽयमप्रतीकोपासकविषयो न सर्वविषय इति ॥२४९॥ दोषो य उमयथाभावः स्यात्सोऽनियमसूत्र इति वाच्यम्। अनियमनयः प्रतीकव्यतिरिक्तोपासनेषु भवति परम् ॥२५० यो यध्द्यायति स हि खलु तत्प्ाप्रोतीति तत्क्रतुन्यायः । स ह्यत्रोभयथाभावस्य च हेतुः समर्पको भवति ॥२१॥ बह्मक्रतुरासीदृत्यैश्वर्यं ब्राह्ममिति हि युक्तमिदम्। दर्शयति च श्रुतिस्तं यथा यथोपासते तथैवेति ॥ २५२॥ क्रतुत्वमिह न प्रतीकविषयेऽस्त्युपासने क्वापि। नन्व क्रतुरपि योऽति(हि)ब्रह्मेति दर्शयत्येषा ॥ २५३॥ पञ्चाग्न्युपासनायां श्रुतिरेनान्ब्रह्म गमयतीत्याद्या। इति चेत्तथाऽपि तत्र प्रत्यक्षश्रुतिबलेन बाधोऽस्य ॥ २५४ ॥ यत्र प्रत्यक्षश्तुतिरेवं नैवोपलभ्यते तत्र। औत्सर्गिकेन तत्क्तुनयेन निर्णीयते हि तत्प्राप्तिः । २५५॥ ये च ब्रह्मक्रतवस्तेषामेवेति नेति चान्येषाम्। विशेषं च दर्शयति ॥ १६॥ शर्दयति किंच नामाद्यपासनेषु पत्यपु २५६ ॥।

Page 418

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ४१३

पूर्वस्माच्च परस्मिन्नुपासने फलविशेषमेवं हि। यावन्नास्ती गतमित्याद्या श्ुतिरत्र फलविशेषोऽयम् ॥ २५७ ॥ उपपद्यते किलोपास्तीनामासां प्रतीकतन्त्रत्वात्। न ब्रह्मतन्त्रतायां फलभेदो ब्रह्मणोऽविशिष्टत्वात् ॥२५८॥ तस्मादिह प्रतीकालम्बानां नेतरै: फलं तुल्यम् । गमनमपि भवति तेषां विद्युल्लोकावसानमिति सिद्धमे ॥ २५९॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥ २६०॥ तत्र हि तृतीयपादे सूतार्थो यश्च भाष्यकारोक्तः। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्य:।। २६१॥। इति श्रीभाष्यार्थरत्नमालायां चतुर्थाध्यायस्य तृतीय: पाद: ॥३॥

अथ चतुर्थपाद्:॥

ब्रह्मोपास्तिपराणां कार्यब्रह्माप्तिरभिहिता पूर्वम्। संप्रत्यैश्वर्यविशेषं तेषां ब्रह्मलोकसंभूतम्॥१॥ पादोत्तरभागेण प्रद्ुर्शययष्यंस्तमेतमादा हि। अभ्यर्हितपरविद्याफलभूतं ब्रह्मभावसुपदिशति ॥ २॥ संपध्याऽSविर्भावः स्वेन शब्दात् ॥ १॥ श्रुतिरियमाम्नायत इह किलैवमेवैष संप्रसाद इति। तत्र किल संप्रसादो जीव: संसारकलुषितः पूर्वम्॥३॥ देहेन्द्रियसंघातादस्मात्प्रविविच्य तमिममात्मानमू। साक्षात्कृत्यानन्तरमपास्तसंसारदु:खपरिताप: ॥४॥ प्रद्योतमानपूर्णानन्दात्मैवावतिष्ठते स इति। उपदिष्टमत्र च स्वपदस्य स्वस्वीयबोधकत्वेन ।। ५।। किंवाडत देवलोकादिष्वयमागन्तुकेन केनापि। रूपविशेषेण पुनर्यथाऽभिनिष्पद्यते तथा किंवा ॥ ६॥ आत्मस्वरूपमात्रेणैवायमितीह मवति संदेहः। युक्तं तत्र स्थानान्तरेष्विवाऽऽगन्तुकेन केनापि।।७ ॥।

Page 419

४१४ सुब्ह्मण्यविरचिता- [४ चतुर्थाध्यायस्य

रूपेण स्यादृभिनिष्पत्तिरितीदं यतोऽस्य मोक्षस्य। फलताप्रसिद्धिरभिनिष्पत्तिरपीयं भव्ेदिहोत्पत्तिः ॥८।। यदि चेत्स्वरूपमात्रेणैवैषा स्यादिहाभिनिष्पत्तिः । न विभाव्यते कुतस्तत्पूर्वदशासु स्वरूपसन्भ्ावात् ॥९॥ तस्मादमिनिष्पद्यत इह केनचिदृपि विशेषरूपेण। एवं प्राप्ते जूते स केवलेन स्वरूपमात्रेण ॥ १०॥ आविर्भवतीति यतः स्वेनेति हि हश्यते स्वशब्दोऽत्र। आगन्तुकेन चेदभिनिष्पत्तिस्तत्र हि स्वशब्देन ।। ११ ॥ रूप विशेषणमेतन्भ्वेद्युक्तं ननु स्वकीयपरः। सोडयं स्वशब्द इति चेन्न तस्य वचनाभिधेयताविरहात् ॥१२॥। येन च रूपेणासावभिनिष्पद्येत भवति तस्थव । आत्मीयत्वं तत्र स्वेनेति विशेषणं भवेद्विफलम् ॥१३॥ स्यादात्मवचनतायामर्थवदेतद्विशेषणं तेन। स्वेनाऽडत्मना विभाव्यत एष न चाडडगन्तुकेन रूपेण ।। १४।। अभिनिष्पद्यत इति ननु विशेष इह नोपलभ्यते कोऽपि। पूर्वावस्थास्विह च स्वरूपसाम्यादतो त्रवीतीदम ॥१५॥ मुक्तः प्रतिज्ञानात् ॥ २ ॥ योऽसावभिनिष्पद्यत इत्युक्त: स्वरूपबन्धनिर्मुक्त: । स च खलु शुद्धेनवाऽडत्मनाSवतिष्ठत इतीह निर्दिषमू ॥१६॥ पूर्वासु खल्ववस्थास्वन्धो मवतीति रोदितीवेति। एवं विनाशमेवापीतो भवतीति सोडयमात्मा हि॥ १७॥ तत्तद्वस्थाकलुषितरूपणैवेति खलु विशेष इह। ननु मुक्तोऽयमिदानीमिति तु कथं वा त्वयाऽवगतमिति चेतु।१८। अवगम्यतेऽयमात्मा मुक्त इदानीमिति प्रतिज्ञानात्। प्राजापत्ये वाक्ये ह्येतं त्वेव त इति प्रतिज्ञाय ॥ १९॥

आत्मानमिमं व्याख्येयत्वेन एनः पुनः प्रतिज्ञाय ॥ २०॥ अशरीरं वेत्यायैः स उत्तम: पुरुष एवमन्तैहिं। उपसंहृतमिह मुक्तात्ममात्रगोचरमिद प्रतिज्ञानमू॥२१॥ किंच य आत्मेत्याद्या या चेहाऽडख्यायिका समान्नाता। तदुपक्रमवाक्ये खल्वपहृतपाप्मेति यत्समाम्नातम् ॥२२॥

Page 420

चतुर्थ: पाद: ४ ] भाष्यार्थरत्नमाला। ४१५

मुक्तात्ममात्रगोचरमेव तदेतत्प्रतीयते सकलम्। या मोक्षस्य फलत्वप्रसिद्धिरत्रोपदर्शिता साडपि। २३ ॥ नापूर्ववस्तुजननापेक्षा स्याद्वन्धनिरसनापेक्षा। अभिनिष्पद्यत इत्युत्पत्तेः पर्याय इति तु यञ्चोक्तम् ॥ २४॥ तद्पि च पूर्वावस्थापेक्ष स्याद्गौणमेव न तु मुख्यम्। रोगनिवृत्तिमपेक्ष्यारोगो निष्पन्न एष इति हि यथा ॥२५॥

आत्मा प्रकरणात् ॥ ३ ॥

कथमयमिह मुक्तोऽस्य च संपत्तव्यं यतः परं ज्योतिः। ज्योतिःशब्दश्चायं भौतिकवचनो हि दश्यते लोके ॥ २६ ॥ यो न हि विकारविषयाद्यावृत्तः स च कथं भवेन्मुक्त:। यस्माद्विकारजातं सकलं चाऽडर्तमिति शास्त्रमुपदिशति ॥२७॥ तस्माज्ज्योतिः संपन्नोऽसी कथमत्र मुक्त इति चेन्न । प्रकरणबलाद्यतोऽत्र ज्योतिःशब्देन गृह्यते ह्यात्मा ॥ २८॥ अपहतपाप्मा विजरो विमृत्युरित्यादिनोपदिटेडस्मिन् । प्रकृते परात्मनि कथं कार्य ज्योतिर्ग्रहीतुमिह शक्यम् ॥ २९॥ प्रकृतत्यागापकृतग्रहणाद्समख्जसं तथा चेत्स्यात्। ज्योतिःशब्दस्त्वात्मन्यपि तदेवा इति श्रुतौ हक्षः॥ ३०॥ अविभागेन दृष्टत्वात्॥ ४ ॥

ज्योति: संपद्य परं विभाव्यते स्वेन यः स पृथगेव। किमिह परस्मादात्मन उताविभक्तोऽवतिष्ठते स इति ॥३१॥ चिन्तायामेतस्यां सत्यामत्र च स तत्र पर्येति। इत्यादिवाक्यजातेनाSSधाराधेयभावनिर्देशात्॥३२॥ उपसंपद्येत्यत इह तथो: पुनः कर्तृकर्मभावोक्त:। मेदेनैव न्याय्यं तस्यावस्थानमिति तु यस्य मतिः ॥३३ ॥ तं व्युत्पादयतीहाविभक्त एवावतिष्ठते स इति। मुक्तोऽवतिष्ठते खलु परात्मना परमिहाविभक्ततया॥३४॥ परमात्मनाऽविभक्तं मुक्तं यस्मात्मदर्शयन्त्येताः । तत्त्वमसीति च नान्यत्वश्यति न तु तद्वितीयमस्तीति ॥३५॥

Page 421

४१६ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

एवमहं बह्मास्मीत्याद्या: भ्रुतयो न वैपरीत्येन। दर्शनमत्र यथा स्यात्फउमपि च तथैव तत्क्रतुन्यायात्॥३६॥ ध्रुत्यन्तरं यथोदकमित्याद्यप्येवमेव दर्शयति। शुद्धे जले हि शुद्धं जलमासिक्तं यथैव ताहक्स्यात् ॥३७॥ एवं सुनेर्विजानत आत्मा भवतीति तददन्यदृपि। भ्रुत्यन्तरं यथा नद्य इति तथा चेह भेदनिर्देशः॥३८॥ स्यादौपचारिकः सत्यपि चाभेदे यथा स भगव इति। आत्मरतिरेवमादावपि भेदस्त्वीपचारिको दृष्टः ।३९। ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥५॥ मुक्तोऽयमात्मरूप्रेणैव हि नांऽडगन्तुकेन रुपेण। अभिनिष्पद्यत इति तु स्वशब्दयोगेन दर्शितं पूर्वम् ॥४० ॥ मुक्तोऽयमन्र किं सत्येन हि सर्वज्ञतादिधर्मेण। अवतिष्ठते स किंवा धर्मस्य च शशविषाणतुल्यत्वात् ।४१॥ चिन्मात्रेणैवासावव तिष्ठत इत्यथैष चिन्मान्र:। सन्नपि मुक्तात्मा खल्वन्येषां बद्जीवसंघानाम् ॥४२॥ अन्योन्यव्यवहारात्कल्पितसर्वज्ञतादिमानिति वा। सुनिविप्रतिपत्तिबलात्संदेहे तद्विशेषजिज्ञासा ।। ४३।। तामनुरुध्यैवाडड़दौ तदेतदृभिधीयते हि सूत्रकृता। यदिदं हि सत्यसंकल्पत्वान्तं भ्रुतिवचो विनिर्दिष्टम् ॥४४॥ ब्राह्मं रूपं सर्वज्ञत्वं सर्वेश्वरत्वमित्येतत्। तेन च रूपेण स्वेनाऽडविर्भवति हि स एष मुक्त इति॥४५॥ इह मन्यते हि जैमिनिराचार्यस्तन्न हेतुरयमेव। योऽयमुपन्यासादि: स तत्परो हश्यते यतो ह्यस्मिन् ॥ ४६॥ अपहृतपाष्मेत्यादौ सोऽन्वेष्टव्य इति विधिमुपाश्रित्य। विध्यर्थोद्देश्याय य आत्मेत्यादिर्भवेदुपन्यासः।४७॥ आदिपदेन विधिव्यप्रदेशोऽयं ग्रृह्यते हि तावेतौ। सर्वज्ञत्वाध्यन्वितमात्मानं दर्शयत इहेद्मपि।। ४८ ॥ जक्षन्क्रीडन्रममाण इति ह्यैश्वर्यमुपदिशत्यस्य। श्रुत्यन्तरं तथैव व्यपदेशोऽन्यत्र दृश्यते वाक्ये।।४९॥

Page 422

चतुर्थ: पाद: ४ ] भाष्यार्थरत्नमाला। लोकेषु कामचारो मवतीत्यादिस्तथाSयमपरोऽपि। सर्वज्ञ एष सर्वेश्वर इत्यादि: स चोपपन्नः स्थात ॥५० ॥ चितितन्मात्रेण तदात्मकत्वादित्योडुलोमिः ॥ ६॥ यद्यप्यपहतपाप्मत्वादय इह ये प्रपश्चितास्ते हि। भेदेनैव हि धर्मा निर्दिश्यन्ते तथाऽपि खल्वेते ।। ५१॥ शब्दविकल्पनिमित्ता: स्यु: पाप्मनिवृत्तिमात्रमेवात्र। अवगम्यते स्वरूपं तदृस्य चैतन्यमात्रमेवेति ॥ ५२॥ अभिनिष्यत्ति: सेयं चितिमात्रेणैव तस्य युक्ततमा । इत्यौडडुलोमिराचार्यो मन्यत इह मवेच्छतिश्वापि॥५३॥ अयमात्माऽनन्तर इत्वाद्या प्रज्ञानघनमिमं बूते। इह सत्यकामताद्या यद्यपि वस्तुस्वरूपमात्रेण॥ ५४ ॥। निदिश्यन्ते सत्याः कामा अस्येत्यथापि ते धर्माः । केवलमुपाधिसंबन्धाधीना एव न हि भवेदेषामू ॥५५ ॥ चैतन्यवत्स्वरूपान्तर्भाव उपाधिमूलकत्वेन। सत्यत्वायोगेनानेकाकारत्वनिरसनादृपि च ।। ५६॥ न हि सत्या न स्थानत इति सूत्रे तदिद्मखिलमुपदिष्टम्। जक्षन्क्रीडन्नित्यादिश्रुत्या जक्षणादिकथनमपि॥ ५७॥ दुःखात्यन्तायोगामिप्रायं स्यादिहाऽडत्मरतिरितिवत्। आत्मनिमित्तानि रतिक्रीडामिथुनानि नेह मुख्यानि ॥५८॥ शक्यन्ते वर्णयितुं द्वितीयसापेक्षता यतस्तेषाम्। तस्मान्निरस्तकृत्स्नप्रषञ्च्जालेन सुपरसन्नेन ॥ ५९॥ परिपूर्णसत्स्वरूपप्रज्ञानधनेन निर्विशेषेण। बोधात्मनाऽभिनिष्पद्यत इति खल्वौडुलोमिमतमेतत् ॥ ६०॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।।७।। चैतन्यमात्रमस्य स्वरूपमभ्युपगतं हि मुक्तस्य। अभ्युपगतेऽपि तस्मिन्व्यवहारापेक्षया हिपूर्वस्य ॥ ६१ ॥

अनिषेधादविरोधं स मन्यते बादरायणाचार्य ॥६२।। ५३

Page 423

४१८ सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य=

संकल्पादेव तु तच्छ्रुतेः ॥८ ॥ स यदि पितृलोककामो भवतीत्याद्यं हि हार्दविद्यायाम्। वाक्यं तदिदं हट संदेहस्तत्र चायमवतरति ॥६३॥ इह पित्रादिसमुत्थाने केवल एव भवति संकल्प: । हेतुः किंवा स निमित्तान्तरसापेक्ष एव हेतुरिति ॥ ६४ ।। संकल्पादेवेति श्रवणे सत्यपि च लोकवत्तत्र । युक्तैव खलु निमित्तान्तरसापेक्षा यथा मवेल्लोके॥ ६५॥ संकल्पादृपि च तथा गमनादिभ्योऽस्मदादिकानां हि। भवति तु पित्रादीनां संपत्तिस्तद्वदेव मुक्तस्य ॥६६॥। स्थादेवं चेत्तत्र च न हष्टविपरीतकल्पना भवति। संकल्पादेवेत्यपि राज्ञः संकल्पितार्थसिद्धिकरीम् ॥६७॥ साधनसामग्रीं किल सुलभां हटवा यथा तथेहापि। संकल्पकृतसमुत्थाना: पित्राद्या न पुष्कलं भोगम् ॥ ६८ ॥ अर्पयितुं हि समर्था मनोरथस्थमिव चञ्चलत्वेन। एवं प्राप्ते बूते संकल्पादेव केवलादृ्र ॥ ६९ ॥ स्या्पित्रादिसमुत्थानमिति तथा हश्यते श्रुतिर्यस्मात्। संकल्पादेवेति श्रुतिर्निमित्तान्तरप्रतीक्षायाम् ॥ ७०॥ पीडयेत यदि च संकल्पानुविधा्येव तन्निमित्तमपि। भवतु तदा तन्नैव हि यत्नान्तरमत्र मवति संपाद्यम्॥७१ ॥ स्यादेव वन्ध्यसंकल्पताSस्य यदि किंचिदत्र संपाद्यम्। प्राक्संपत्तेः भ्ृत्यवगम्पेऽर्थे लोकवदिति यच्चोक्तम्॥ ७२॥ सामान्यतो हि हष्ट तदिदं प्रकृते निदर्शनं न भवेत्। संकल्पाद्यत एषां प्रयोजनस्थैर्यमखिलमुद्मवति । ७३॥ प्राकृतसंकल्पविलक्षण एव हि मवति मुक्तसंकल्पः । विद्याबलेन केवलसंकल्पो भोगसाधनं तेषाम्॥७४॥ अत एव चानन्याधिपतिः।। ९।। यत एव हि विद्वानयमवन्ध्यसंकल्प एव भवतीह। अत एवान्योऽधिपतिर्नास्थानन्याधिपतिरसौ भवति॥ ७५॥

Page 424

चतुर्थ: पाद: ४] माष्यार्थरत्नमाला। ४१९

सत्यां गताविहान्यस्वामिकतामात्मनो न कश्विदृषि। संकल्पयति हि लोके तमेतमर्थ श्रुतिः प्रदर्शयति ॥७६॥ अनुविद्याऽडत्मानमिमं सत्यान्कामांश्र ये व्रजन्तीतः । तेषां तु सर्वलोकेष्वपि भवति हि कामचार इत्येवम्॥७॥ अभावं बादरिराह ह्येवम् ॥ १० ॥ संकल्पादेवेतिश्रुत्या संकल्पमात्रकथनेऽपि। संकल्पमुख्यसाधनभूतं यत्तन्मनोऽत्र सिद्धं स्यात् ॥ ७।। विदुषः प्राप्तैश्वर्यस्यास्य शरीरेन्द्रियाणि सन्ति पुनः । किंवा न सन्ति तस्येत्येवं चिन्ता समुत्थितेह पुनः । ७९॥ इह मन्यते हि बादरिराचार्योडसी महीयमानस्य। विदुषस्तस्य च देहेन्द्रियविरहमिह श्रुतिर्यत, बूते ॥ ८० ॥ मनसैतान्कामानित्याद्या तत्र च यदा त्वसौ विद्वान्। मनसा तथा शरीरेन्द्रियैश्र विहरेत्तदा हि मनसेति ॥८१॥ यच्च विशेषणमिह मनसैतान्कामानिति श्रुतिप्रथितम्। तद्युक्तं स्यात्तस्मान्मोक्षे देहेन्द्रियाणि न स्युरिति ॥ ८२।। भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ देहादयों हि मुक्तौ सदा न सन्तीति बादरे: पक्षः। देहादय: सदैव हि मुक्ती सन्तीति जैमिनेः पक्षः ॥ ८३ ॥ बादरिपक्षश्रोक्तो जैमिनिपक्षं प्रदर्शयत्यधुना। जैमिनिराचार्यस्त्वह मुक्तिं प्रति सेन्द्रियस्य देहस्य ॥ ८४ ॥ मावं हि मन्यते किल मनोवदत्र श्रुतिश्र भवतीयम्। सा खलु स एकधा भवतीत्याद्या न ह्यनेकविधतेयम्॥८५॥ सेन्द्रियशरीरभेदं बिना भवेदाख्सी कथंचिदृपि। इह यद्यपि निर्गुणपरविद्यायां भूमविषयकायां हि।। ८६। स च खल्वनेकधाभावविकल्प: पठ्यते तथाऽपीद्म्। इह सगुणावस्थायामैश्वर्यं विद्यमानमेव पुनः॥८७॥ परमात्मभूमविद्यास्तुतये संकीत्यते ततश्रायम्। सगुणपरमात्मविद्याफलभावेनोपवर्णितो भवति॥८८।।

Page 425

[ ४ चतुर्थाध्यायस्य-

इच्छामात्रेणैते सन्ति कदाचित्कदाचिदिह नेति। दर्शयति बादरायणपक्षमसावेव भवति सिद्धान्तः ।। ८९।। द्वादशाहवद्ुभ्यविधं बादरायणोऽतः ॥ १२॥ इह बाद्रायणाचार्योऽसावत एव मन्यते तदिदमू। उभयविधत्वं साध्वित्युभयश्चुतिलिङ्गदर्शनादेव ।। ९० ।। संकल्पयति यदाऽसौ सशरीरत्वं भवेत्सशारीर:। अशरीरतां यदाऽसावशरीरो येन सत्यसंकल्प: ।। ९१। इति संकल्पविशेषादुभयविधत्वं तदेतदिह युक्तम्। भवति निरदर्शनमेतद्यच्च किल द्वादशाहवदितीह ॥९२॥ तत्र य एवं विद्वांस: सत्रमिहोपयन्ति हीत्येवम्। एवं हि सत्रमासत इति वा खलु चोदना भवेद्यन्र ॥९३॥ तन्भ्वति सत्रसंज्ञं यत्र पुनर्द्वादशाहसंज्ञेन। क्रतुनाडनेन तमेतं यजमानं याजयेत्प्रजाकामम् ॥९४॥ इति यजतिचोदना वा तथा मवेन्नियतकर्तुकत्वमपि। तस्य त्वहीनता स्यात्तथा द्विरह्वाध्वरादिकानां सा ॥।९५॥ तन्वभावे संध्यवदुपपत्तेः ॥१३॥ सेन्द्रियदेहस्य तनोः स्याद्यदि विरहस्तदा यथा संध्ये। देहेन्द्रियविषयादिष्वविद्यमानेषु ते हि पित्राद्याः ॥ ९६ ॥ उपलब्धिमात्ररूपा एव हि कामा भवन्ति सर्वेऽपि। एवं मोक्षेपि स्यु: कामा इति सकलमेतदुपपन्नम् ॥९७॥ भावे जाग्रदृत्।।१४ ॥ अभ्युपगम्यत इह यदि भावः किल सेन्द्रियस्य देहस्य। तहिं यथा जागरिते मवन्ति कामास्तथैव मोक्षेऽपि। ९८ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥१५॥ भावं जैमिनिरिति किल मुक्तौ सशरीरता विनिर्दिष्टा। तत्र त्रिधाविकल्पादिषु बहुधा स्युर्यंदा शरीराणि॥ ९९॥ किं तानि दारुयन्त्राणीव भवन्ति हि निरात्मकान्येव। किंवेह सात्मकान्येव हि सृज्यन्तेऽस्मदादिवदितीह॥ १०० ॥

Page 426

चतुर्थ: पादः ४ ] माप्यार्थरत्नमाला। ४२१

जिज्ञासा स्थात्तत्राSडत्ममनोभेदो यतो न संभवति। एकशरीरेण तयोरयोगेन निरात्मकानि चान्यानि ॥ १०?॥ निरसितुमाक्षेपमिमं पठति हि सूत्रं प्रदीपवदितीह। एको यथा प्रदीपो युगपदनेकप्रदीपभावमिह॥ १०२॥ प्रतिपद्यते हि लोके स्वयमेव विकारशक्तियोगेन। एकोऽपि संस्तथैव हि विद्वानैश्वर्ययोगमात्रेण॥ १०३॥ आलम्ब्य बहुतनुत्वं गात्राण्याविशति तानि सर्वाणि। दर्शयति चैवमेव ह्येकस्यानेकदेहसंपत्तिमू।१०४॥ शास्त्रं स एकधा भवतीति तथा पञ्चधेति नवधेति। नैतद्धि दारुयन्त्रोपमाभ्युपगभे समख्जसं मवति ॥१०५॥ नापि स्वेतरजीवावेशेन स्थात्प्रवृत्तिरिह तेषाम्।

विदुषो न संभवेदिति नासौ दोषो यतो ह्यसौ विद्वान्। समनस्कान्येव मनोनुगतान्यपराणि किल शरीराणि ॥१०७॥ स्रक्ष्यति हि सत्यसंकल्पत्वात्सृश्वा ह्युपाधियोगेन। तन्नाSSत्मनोऽवि भेदेनाघिष्ठातृत्वमुचितमेवास्य ॥ १०८॥ अयमेव योगिनां बहुशरीरयोगप्रकार उपदिष्टः । शास्त्रेषु योगविषयेष्वत्र कथं नन्विहास्य मुक्तस्य ॥ १०९॥ अङ्गी क्रियते तदनेकशरीरावेशरूपमैश्वर्यमू। तत्केन कं विजानीयादिति न तु तद्वितीयमस्तीति ॥ ११० ॥ एवं हि सलिल एको द्रष्टेत्यादीनि यानि वाक्यानि। तानि विशेषज्ञानं निवारयन्तीत्यतस्त्विदं पठति ॥१११॥ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कतं हि ॥ १६ ॥ स्वाप्यय इह च सुघुप्तं स्वयमपीत इति भ्रुतेस्तथाऽन्यत्र। तस्मादेनं स्वपितीत्याचक्षत इति तदन्तरादृपि च ॥ ११२॥ वह्लैव सन्नितिश्रुतिवाक्यात्संपत्तिरत्र कैवल्यम्। उक्तान्यतरावस्थामपेक्ष्य चात्रोपदिश्यते तदिदम् ॥११३॥ यञ्च विशेषज्ञानाभावप्रतिपादनार्थकं वाक्यम्। केवल्यावस्थामपि सुषुप्त्यव्स्थामपेक्ष्य कथितमिति ॥११४॥

Page 427

४२२ सुत्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तत्तत्प्रकरणबलतोऽवगम्यते तेषु तेषु वाक्येषु। आविष्कृतमेतेभ्यो भूतेभ्य इति श्रुतेस्तथाऽन्यस्मात् ॥११५॥ यत्र त्वस्ेत्यादिश्रुतिवचनात्प्रकटितं भवेदेतत्। क्वचिदृपि च यत्र सुप्ो न कंचनेत्यादिवेदवाक्येभ्य: ।।११६ ।। एतच्च सगुणविद्याफलभोगस्थानमपरसायुज्यम्। स्वर्गादिवत्तदेतद्यन्नैश्वर्यं प्रपश्चितं विदुषः ॥ ११७॥ जगव्यापारवर्ज प्रकरणादसंनिहितत्वाच ॥१७॥ सगुणव्रह्मोपासनया ये विदुषः प्रयान्ति सह मनसा। परमेश्वरसायुज्यं तेषासुपवर्णितं यदैश्वर्यम्॥११८॥ तत्किं निरवग्रहमुत सावग्रहमिति तु संशयस्तत्र। निरव ग्रहमेवैषामैश्वर्यमितीह युक्तमाश्यितुम् ॥११९ ॥ यस्माच्छतयः सर्वाः प्रथयन्त्यैश्वर्यमीदृशं तस्थ। आम्ोति स्वाराज्यं सर्वे देवा बलिं प्रयच्छन्ति ॥ १२० ॥ अस्मै महीयमानायाऽडत्मन इत्येवमेव चान्यत्र। लोकेषु कामचारस्तेषां भवतीत्यतस्त्वर्द पठति ॥१२१॥ एश्वर्यस्य च संकल्पादेवेतिश्रुतिप्रतीतस्य। जगदुत्पत्तिलयादिव्यापारादिह विलक्षणत्वेन ॥। १२२ ॥। सतच्छृत्या विदुषः सृष्टिव्यापारकल्पनाऽनुचिता। तस्माज्जगदुदयादिव्यापारमिमं च वर्जयित्वैव।। १२३ ।। अणिमाद्यात्मकमेव ह्यैश्वरयं केवलं भवेत्तेषाम्। यस्तु जगद्व्यापारः स हीश्वरस्यैव नित्यसिद्धस्य ॥ १२४ ॥ स्रहटृत्वं तस्यैवेक्षणपूर्वं सृषयुपक्रमे हीदम्। प्रकृतं न हि मुक्तानां तदा न देहो न चेक्षणं भवति ॥१२५ ॥ तेनासंनिहितास्ते पर एव ह्यधिकृतो भवेत्तत्र। यस्मादुत्पत्त्यादिव्यपदेशः श्रूयते हि तस्थैव ॥ १२६ ॥ सोडयं हि नित्यसिद्धो भवति हि शब्दे हि समधिगम्यश्च। तस्मात्स्हृत्वादिकमखलं स्यादीश्वरस्य नान्यस्य ॥ १२७।। अन्येषां तु तदन्वेषणजिज्ञासनपुरःसरं भवति। आ ाढिकमैश्वर्यं तेन न तेषामिहाधिकार: स्थात् ॥१२८॥

Page 428

चतुर्थ: पाद: ४] मा्यार्थरत्नमाला। ४२३

समनस्कत्वेनापि च तत्रानैकान्त्यमवि मवेत्तेषामू। एकस्य हि स्थितौ स्यादृपरस्य च संहृतावभिप्रायः ॥१२९॥ इत्यन्योन्यविरोधे स्रधृत्वं वा कथं भवेत्तेषाम्। एकं प्रत्यन्येषां गुणभावाभ्युपगमेन यदि चेह॥ १३० विनिवार्यते विरोध: स चेह परमेश्वरो न चान्य: स्यात। परमेश्वरसंकल्पानुगुणं सकलं भवेदिहान्येषाम् ॥१३१ ॥ प्रत्यक्षोपदेशादिति चेन्नाऽधिकारिकमण्डलस्थोके: ॥१८॥ आप्नोति स्वाराज्यमिति प्रत्यक्षोपदेशतो विदुषाम्। निरवग्रहमेव स्यादैश्वर्यमितीह न पुनराशङ्क्यम् ॥ १३२॥ यस्मादिहाSडधिकारिकमण्डलगत एव स खलु परमात्मा। निरदिश्यते स चान्यानधिकारेषु हि नियोजयत्यनिशम् ॥१३३ ॥ तेनाSडधिकारिकोऽसी स एव किल सवितृमण्डलस्थश्र। तद्नुग्रहैकलम्या स्वाराज्यप्राप्तिरिह भवेद्विदुषः ।।१३४ ।। येनानन्तरवाक्यं मनसस्पतिमिति तमीश्वरं बूते। स च भवति सर्वमनसां, पतिस्तमाप्नोति पूर्वसिद्धमिति॥१३५॥ व क्पतिरित्यादिकमपि यथोपदिष्टार्थपरतया योज्यम्। अन्यत्रापि च विदुषामैश्वयं हीशतन्त्रमिति योज्यम् ॥ १३६ ॥ विकारावर्ति च तथा हि स्थितिमाह॥१९॥ य इह जगद्व्यापारः स भवेदेव ह्युपासकप्राव्यः । संकल्पितार्थसिद्धयादिवदेव हि परमुपास्यनिष्ठत्वात् ॥१३७॥ इत्याशङ्कां निरसितुमुपास्थगतनिर्विशेषरूपे हि। व्यभिचारमिह विकारावर्तीत्येतेन दर्शयत्यधुना ॥ १३८॥ नञ्च विकारावत्यपि यदेतदिह पारमेश्वरं रुपम्। न विकारमात्रगोचरमेतत्किल सवितृमण्डलस्थानम्॥१३९ ॥ यस्मादाम्नायोऽसौ स्थितिं द्विरूपां प्रदर्शयत्यस्य। तावानस्येत्यादिर्जगद्विभू्तिं स दर्शयित्वाऽडदी ॥ १४० ॥ ज्यायांश्र पुरुष इति पुनरस्य ज्यायस्त्वमेतदुपदिश्य। तञ्च किल ज्यायस्त्वं परात्मनस्तस्य वर्णितं भूय: ॥१४१॥ कृत्सं विकारजातं तदस्य परमात्मनो भवेत्पाद: । यञ्च विकारास्पृष्ट तदेतद्मृतं त्रिपाद्दिवीत्येवम् ॥ १४२ ॥।

Page 429

४२४ सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तन्निर्विकाररूपं सविशेषालम्बनाः कथचिदृषि। न प्राग्नुषन्ति यस्मान्दवन्त्यतत्क्रतव एव ते सवे ।। १४३ ॥। तस्माद्यथा द्विरुपे परात्मनि हि निर्विशेषरूपमिदम् । अनवाप्य सगुण एव हि वर्तन्ते ते तथैव सगुणेऽपि ॥१४४ ॥ परमेश्वरप्रसादात्सावग्रहमेव तदिदमेश्वर्यम्। लब्ध्वाSनवाप्य निरवग्रहमैश्वर्यं किलावतिष्ठन्ते ॥ १४५॥ दर्शयतश्रवैवं प्रत्यक्षानुमाने ॥ २०॥ दर्शयतश्च विकारावर्तित्वं हि श्रुतिस्मृती तस्य। या प न तत्रेत्याद्या या चन तन्भ्ासयत इति प्रथिता ॥ १४६॥ भोगमात्रसाम्यलिङ्गाच्व ॥२१॥ निशवग्रहमैश्वर्य नैषां सविशेषतत्पराणां स्थात्। परमेश्वरेण यस्मात्तेषां किल भोगमात्रमेव समम् ॥१४७॥ दर्शयतीह तमापो वै खल्वित्यादिका श्रुतिश्र्वेयम्। तं बह्मलोकमागतमुपासकमिमं हिरण्यगर्भोडयम् ॥१४८॥ इत्याहासृतरूपा आपो भुज्यन्त इह मया किंच। लोकोऽसावसृतोदकलक्षण एवमिति सा निरूपयति॥१४९॥ अन्याऽपि किल यथतामित्याम्नाता श्रुतिस्तदेतदिह। परमेश्वरेण तस्य च सायुज्यसलोकतादि दर्शयति ॥१५० ॥ नन्विह सातिशयत्वादैश्वर्यस्यान्तवत्त्वमपि च स्यात्। एवं चेदावृत्तिस्तेषां पुनरत्र दुर्निवारैव।१५१॥ इत्याक्षेपं सकलं निरस्य शास्त्रं हि परिसमापयितुम। सूत्रं पठति तद्तद्दृगवाञूश्रीबाद्रायणाचार्यः॥१५२॥ अनावृत्ति: शब्दादनावृच्ति: शब्दात् ।। २२ ।। सर्वज्ञत्वादस्य च भगवत्वं युक्तमेव सूत्रकृत:। सूत्रद्वारा शिष्याणामाचारे प्रवर्तनादस्य ॥१५३॥ आचार्यत्वं युक्तं तथैव किल बाद्रायणेतिपदात्। पुनरस्य बद्रिकाश्रमवासोक्त्या तत्र सभवतीर्णस्य ॥१५४ ॥ नारायणस्य परमेश्वरलोकगुरोः प्रसादसूचनतः । शास्त्रस्य तत्म्णीतस्य च सूचितमिह किलानवद्यत्वम् ॥ १५५।

Page 430

चतुर्थ: पाद: ४ ] माध्यार्थरत्नमाला। ४२

नाडीर्म्यन्वितमिह पन्थाने ह्यर्चिरादिपर्वाणम्। अनुचित्न्य देवयानं व्रजन्ति ये तेन देवयानेन ॥ १५६ ॥ शास्त्रोपदिष्टनानाविज्ञेषणं ब्रह्मलोकसंज्ञमिमम्। यश्च तृतीयस्यां दिवि पृथिवीलोकात्प्रदर्शितः श्रुत्या॥१५७॥ तस्मिलाके र इति ण्यश्रेत्यप्याख्ययाऽतिविख्यातौ। अर्णवतुल्यौ भवतः सुधाह्नदौ द्वौ तथैव चान्यदृपि॥१५८॥ ऐरंमदीयमित्यपि सरश्ष तन्मद्करं तथाऽन्नमयम्। किंचाश्वत्थस्तत्रामृतवर्षी मुक्तलोकसंसेव्य:॥१५९॥। तत्राजितात्मभि: खल्वप्राप्या ब्रह्मण: पुरी काडपि। प्रभुणैव तेन विरचितमपि वेश्म हिरण्मयं च तत्रास्ति ॥ १६० ॥ मन्त्रार्थवादवाक्यैः पुराणवाक्यैः प्रपश्चितो बहुधा। तमिमं लोकं प्राप्य च तत्र स्वच्छन्दमोगकृतकृत्या: ॥१६१।। ते चन्द्रमण्डलादिव नाSडवर्तन्ते पुनः कदाचिदृपि। यस्मात्तयोर्ध्वमायन्नित्यादिश्युतय उपदिशन्त्येवम् ॥ १६२॥. ये च शताधिकनाड्या व्रजन्ति यान्त्येव तेऽमृतत्वमिति। श्रुतिरन्या तेषामिह न हि पुनरावृत्तिरिति किल बूते ॥१६३ ॥. एतेन देवयानेन पथा ये बह्मलोकमुपयाता:। मानवमाव्तं ते नाऽडवर्तन्त इति दर्शयत्यन्या ॥१६४॥ न च पुनरावर्तत इत्यन्याऽपि बह्मलोकसंस्थानाम्। पुनरावृत्तिविवर्जितमेव पदं शाश्वतं प्रदर्शयति ॥१६५ ॥। अन्तवदेव हि यद्यप्यैश्वर्यमिदं प्रतीयतेऽथापि। भवति यथाऽनावृतत्तिस्तथोपवर्णितमिदं हि पूर्वत्र ॥ १६६ ॥ कार्यात्यय इति सूत्रे कार्यपद्स्य च लये समुत्पन्ने। उत्पन्नतत्त्वसाक्षात्कारास्तत्रैव तद्धिनाथेन ॥१६७॥ सह केवल्यं प्रभुणा हिरण्यगर्भेण ते प्रयान्तीति। साधनवीर्याद्ये पुनरत्रैवोत्पन्नतत्त्वविज्ञाना:॥१६८॥ विध्वस्तानाद्यज्ञानावरणा नित्यसिद्धपरिनिष्ठाः। तेषां चानावृत्ति: सिन्धैवाSSवृत्तिकारणाभावात् ॥१६९॥ सविशेषब्रह्मपराणामपिं विदुषां तदाश्रपेणैव। सेयमनावृत्ति: स्यान्न चान्यथा भवति तत्क्रतुन्यायात्।।१७०।। पञ्चाग्न्युपासकानां यद्यपि सविशेषनिष्ठता नास्ति। ध्रुत्या चानावृत्तिर्रह्मपात्तिश्च दर्शिता तेषाम्॥ १७१ ॥ ५४

Page 431

YP. ४२६ सुबह्मण्यविरचिता भाष्यार्थरत्नमाला। सत्यं तथाऽपि तत्र च तेषामिह न पुनरिति समान्नातम्। तेन त्वस्मिन्कल्पे तेषामावृत्त्यभावबोधेन ॥१७२॥ कल्पान्तरे हि तेषामावृत्तिरियं पुनर्भवत्येव। दृहराछयुपासकानामेवानावृत्तिपरमिदं सूत्रम् ॥१७३॥ सूत्रपदाभ्यासः खल्वध्यायसमाप्तिमेव सूचयति। शास्त्रस्य परिसमाप्तिं सूत्राभ्यासोऽयमत्र सूचयति ॥१७४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्च योऽयमध्यायः ॥१७५॥ तत्र चतुर्थे पादे सूत्रार्थो यश्च भाष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥१७६ ॥। माष्यार्थरत्नमाला वैयासिकसूत्रज्ञालसंग्रथिता। :402 मगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या ॥१७७ स जयति मुनिकुलमान्यो भगवाञश्रीबादरायणाचार्यः। यत्सूत्रालम्बनतो लोक: संसारसागरं तरति ॥१७८ ॥ श्रीबादरायणोदितसूत्रार्थ माष्यरत्नदीपेन। प्रकटी चकार योऽसौ स हिभगवास्ज्यति शंकराचार्यः ॥१७९॥ भगवत्पादीयमिदं भाष्यं येनानभिज्ञदुर्बोधम्। बोधाय तेन तेषां रचिता माष्यार्थरत्नमालेयम्॥१८० ॥ एतां विलोक्य सुधियस्तुष्यन्तु हसन्तु वाडत न विषाद: । सर्वज्ञविरचितेष्वपि महानिबन्धेषु येन तौ हषै ॥११॥ 6.5N तुष्यन्तु वा न वाडन्ये भत्त्या परया समर्पितामेताम्। 15 मालां विलोक्य कृपया तुष्यति भक्तार्तिभख्जनो भगवान्"१८२॥ माष्योपदिष्टमर्थ संगृह्य कृताऽपि भवति रम्येयम्। उपवनतरुससुपचितैर्ग्रंथिता कुसुमैः प्रसूनमालेव ॥ १८३। सेयं हि रत्नमाला सुब्ह्मण्येन विरचिता कृच्छ्रात्। नाय णेसह काराद्दिशि दिशि विशद प्रकाशमुपयातु ।१८४। इति श्रीभाष्यार्थरत्नमालायां चतुर्थाध्यायस्य JANSKRIT VIDYA चतुर्थपाद: समाप्: ॥४॥ इति चतुर्थोडध्याय: समाप्तः। ETHA, TIRUFATI. समाप्ेषं भाष्यार्थरत्नमाला।