Books / Bhashyartha Ratnamala of Subrahmanya Ganesh Shastri Gokhale Anand Ashram 75 (Advaita Brahma Sutra )

1. Bhashyartha Ratnamala of Subrahmanya Ganesh Shastri Gokhale Anand Ashram 75 (Advaita Brahma Sutra )

Page 1

आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्क: ७५ सुब्रह्मण्यविरचिता

ब्रह्मसूत्रशांकर- भाष्यार्थरत्नमाला।

एतत्पुस्तकं वे० शा० रा० गोखले इत्युपाह्वैर्गणेशशास्त्रिभिः संशोधितम् ।

तच हरि नारायण आपटे इत्येतैः पुण्या्यपसने आनन्दाश्रमसुद्रणालये आयसाक्षरर्मुदयित्वा प्रकासितम्।

शालिबाहनशकाक्ा: १८३६ जिस्ताब्दा: १९१५

(अस्य सर्वेडधिकारा राजशासनानुसारण स्वायत्तीकृताः) मूल्यं सपाध्रूपकचतुट्यम् (४८४)।

Page 3

अस्या माष्यार्थरत्नमालाया: पुस्तकं परहितैषिभि: रा० रा० बाबासाहेबगर्दे इत्येतैर्दत्तम्।

Page 5

ॐ तत्सब्वह्मणे नमः। सुघ्रह्मण्यविरचिता ब्रह्मसूत्रशांकर- भाष्यार्थरत्नमाला।

प्रथमाध्यायस्य प्रथम. पादः ।

सुचरितपरिपाकैः शुद्धसत्त्वप्रधानैः प्रशमितभवभेदर्मुक्तसंघैरुपास्यम् । श्रुतिशतनुतकीर्ति सच्चिदानन्दमूर्ति परमपुरुषमाद्यं भावयेऽभीष्टसिद्ध्ये।।१ ॥ आत्मावबोधविधुरं प्रसमीक्ष्य लोक- मुद्धर्तुमादृतमना निगमार्थसारम्। निश्चित्य सूत्रनिचयं रचयांचकार श्रीबाद्रायणमुनिर्भुवनैकमान्यः ।२॥

यः शारीरकसूत्रभाष्यमनघं चक्रे कृपासागर: सोडयं सर्वयतिप्रमुर्विजयते श्रीशंकरार्यो गुरुः ॥३॥ सुवनैकमान्यचरितं सूत्रकृतं च प्रणम्य माष्यकृतम्। रचयति सुब्रह्मण्यो रम्यां माष्यार्थरत्नसन्मालाम्॥४॥ सत्यज्ञानसुखात्मा केनायं शोकसागरे मग्न:। इत्यालोच्य यतीन्द्र: प्रागध्यासं प्रदर्शयामास ॥५॥ आत्मानात्माध्यासे विवेकविज्ञानमर्थवन्भवति। रजतेद्मंशयोरिव स युज्यते स्याद्यदा तयोरैक्यम्॥६॥ ख्यातोऽपि युष्मदस्मत्प्रतीतिगी विषयविषयिणी लोके। तिमिरप्रकाशयोरिव विरुद्धयोः स्यात्कथं तयोरैक्यम्॥७॥ अध्यासमूलमैक्यप्रमोत्थसंस्कारमामनन्ति यत:। तद्मावान्नाध्यासो न च विषयो न प्रयोजनं वाडयि॥८ ॥

Page 6

२ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य]

तव्नुग्रहपवृत्तोऽव्यधिकारी दुर्लमोऽपि तद्सत्त्वम्। तस्मादध्यासकथा शास्त्रारम्मो वृथेति चेन्मैवम् ।।९॥ ऐक्यानुभूतिजनितः संस्कारोऽध्यासकारणं नान्य:। कथमन्यथाऽपि लोके नीलं व्योमेति विभ्रमो मवति ॥१० ॥ युष्मत्प्रत्ययगोचरविषयस्य च विषयवृत्तिधर्माणामू। विषयिणि चिदात्मकेऽस्मत्प्रत्ययगम्येऽपि योऽयमध्यास:।११॥ यश्चापि विषयित्धर्माणां च विपर्ययेण विषयेऽस्मिन्। अध्यासः किल यद्यपि मिथ्यैव न चैष भवति परमार्थः ॥१२॥ इति सत्यमिह तथाऽपि ह्यन्योन्यस्मिन्परस्परात्मत्वम्। इतरेतराविवेकनाध्यस्य विविक्तयोर्द्वयोरनयोः ॥१३॥ स्या्धर्मधर्मिणोः किल मिथ्याज्ञानावलम्बनायत्त:। सत्यानृते ह मिथुनीकृत्याहमिदं ममेदमित्येषः ।। १४ ।। नैसर्गिको हि लोकव्यवहार: प्रथित एव सर्वेषाम्। अध्यासस्यैतस्य च लक्षणमेवंविधं हि कथयन्ति ॥१५॥ यः पूर्वदर्शनाहितसंस्कारकृतावलम्बनोऽन्यत्र। अवभास्योऽवगतानां धर्माणां लक्षणं भवेत्तत्वम् ॥ १६॥ कार्याध्यासस्यैव हि लक्षणमत्रोपवर्णितं भाष्ये। यस्माद्नर्थहेतु: कार्याध्यासेन कारणाध्यासः।।१७। उमयानुगतं लक्षणमन्यत्रान्यावमास एव स्यात्। एतज्च सर्वथाऽपि त्वन्यस्येत्यत्र दर्शितं भाष्ये।। १८ ॥ अर्थाध्यास इतीमं ज्ञानाध्यास इति वर्णयन्त्यार्याः। रजतं हि शुक्त्यविद्यापरिणामः शुक्तिका तले मवति ॥१९ ॥ विज्ञायते हि तच्चाविद्यावृत्त्यैव न पुनरन्येन। अर्थाध्यासो यञ्चाविद्यापरिणामभूतमिह रजतम् ॥२० ॥ ज्ञानाध्यासस्तस्यावमासकाज्ञानवृत्तिरेव स्यात्। समिममनिर्वचनीय ख्यातिं वेदान्तिनो हि कथयन्ति ॥ २१॥ सस्वे बाधायोगात्तस्यासत्वे प्रतीत्ययोगाज्ज। अन्यत्र तस्य सत्त्वे त्वपरोक्षत्वं च संनिकृष्टत्वम्।। २२॥ तत्रानुपपन्नं स्यात्तेनानिर्वाच्यताऽस्य युक्तैव। एके चिदन्यथात्मख्याती किल वर्णयन्ति काणादाः ॥२३॥

Page 7

[प्रथमपादः १] माष्यार्थरत्नमाला। ३

बौद्धाश्र तत्प्रदर्शितलक्षणमेवं प्रदर्शितं भाष्ये। तं केचिदन्यधर्माध्यासोऽन्यत्रेति तस्य चार्थोऽयम् ॥ २४॥ सादृश्यादिनिमित्ताच्छुक्त्यादी यत्प्रतीयते रजतम्। स्वावयवधर्मभूतं शुक्तावारोप्य तेन चान्यदिति॥२५॥ यो बुद्धिरूप आत्मा रजतत्वाद्या मवन्ति तद्धर्माः। बाह्यार्थे शुक्त्यादावारोप्यन्ते त एव नान्य इति ॥ २६ ॥ अपरोक्षसंनिकृष्टत्वाम्यां पक्षद्वय च युक्तिसहम्। अर्यातिवादिन: किल गुरवोऽध्यासं हि वर्णयन्त्येवम्॥२७॥ यत्र यद्ध्यास इति प्रवाद उपलम्यते हि लोकेऽस्मिन्। न च वस्तुनोर्विवेकाग्रहणनिमित्तो हि तद्धियोरपि च ॥२८॥ तन्मूलको विशिष्टव्यवहारो रजतमिद्मिहास्तीति। सोऽयमिहाध्यास: स्थादित्यध्यासं हि वर्णयन्त्पेतम् ॥२९। तत्र विशिष्टव्यव हारादृध्यासो विशिष्टविषय: स्यातू। यदि न विशिष्टाध्यासो व्यवहारश्रेवृशो विलुप्येत ॥ ३० ॥ जगदेतदखिलमसदिति वदन्त्यसत्ख्यातिवादिमाध्यमिकाः। अध्यासस्यास्य पुनस्तदनुमतं लक्षणं भवेदित्थम् ॥ ३१ ॥ यत्र यद्ध्यास इति प्रवदृन्ति जनास्तमेतमध्यासम्। विपरीतधर्मकल्पनरूपत्वं वर्णयन्ति ते तस्य ॥ ३२ ॥ अत्यन्तासत एव हि जगतः सठूपकल्पना सेति। सर्वप्रमाणबाधितमसारतरतर्कजालसंरम्भम्॥३३॥ यद्यप्येतद्थापि च न बाधकं कथमपीह तन्द्वति। अन्यस्य चान्यधर्मावमासतारूपलक्षणं हीदम् ॥३४॥

तस्माल्लवक्षणसत्त्वादध्यासे नेह बाधकं किमपि॥ ३५॥ लोके हि शुक्तिकेयं रजतवद्वमासते तथा चन्द्रः। एकोऽपि सद्वितीयवद्वभासत इति तु नु प्रसिद्धमिदम ॥३६ ॥ ननु विषयस्य च तद्गतधर्माणां यश्र वर्णितोऽध्यासः। न च कथमविषयभूते प्रत्यग्वस्तुनि समअ्जसो भवति ॥३७॥ लोको हि संनिकृष्टे विषयेऽध्यस्यति किलापरं विषयम्। आत्मा न संनिकृष्टो न च युष्मत्प्रत्ययस्य विषयोऽपि ॥३८॥ शुक्त्याद्यो हि युष्मत्प्रत्ययविषयाश्र संनिकृष्टाश्। तत्र च रजतादीनामध्यासो युक्त एव नेह तथा॥ ३९॥

Page 8

४ [ १ प्रथमाध्यायस्य ]

युष्मत्प्रतीत्यपेते प्रत्यग्रूपे मवेन्न विषयत्वम्। तस्मादध्यासोऽयं तत्रानुपपन्न इति तु नाऽडशकथम्॥४० ॥ यस्मादिहायमात्मा न तावदृत्यन्तमविषयो भवति। अस्मत्प्रत्ययविषयस्तथाऽपरोक्षश्र दृश्यते सोऽयम् ॥४१ ॥ अस्मत्प्रतीतिजनिताविद्यासंशयवृत्तिफलभाक्त्वात्। विषयत्वमौपचारिकमाश्रितमध्यासकारणं तत्स्यात् ॥४२॥ अध्यसितव्यं विषयान्तरमिन्द्रियसंनिकृष्टविषय इति। भवति न कश्चिन्नियमो यस्मादृत्र हि विपर्ययो दृक्टः ॥४३॥

बाला न तच्च विषयो न चेन्द्रियेणापि संनिकृष्टं स्यात् ॥ ४४ ॥ अविरु्द्धस्तद्वद्सावध्यासः प्रत्यगात्मचैतन्ये। अध्यासमुक्तलक्षणमेवाविद्यां वदन्ति विद्वांस:।।४५।। विद्यामाहुर्थत्ु स्वरूपनिर्धारणं विवेकेन। यत्र यद्ष्यासः स्यादोषिण गुणेन तत्कृतेन पुनः॥४६। वस्त्वणुमात्रेणापि च न हि संबध्येत कल्पितत्वेन। एतमविद्यासंज्ञं चिज्जडयोः किल परस्पराध्यासम्॥४७॥ आलम््यमानमेव व्यवहारा: सर्व एव संवृत्ता:। तद्दच्छास्त्राणि विधिप्रतिषेधविभोक्षतत्पराणि स्युः ॥४८॥ ननु कथमत्राविद्याव द्विषयाण्येव हि प्रमाणानि। प्रत्यक्षादीनि तथा शास्त्राणि स्युरिति न पुनराशङ्क्यम्॥ ४९ ॥ देहे चेन्द्रियादावहंममाध्यासवर्जितस्य पुनः। नैवोपपद्यते हि प्रमातृता संप्रसाद्समय इव ॥ ५० ॥ यदि न प्रमातृता स्यात्तदा प्रमाणप्रवृत्तिरपि न स्यात। भवति प्रत्यक्षादिध्यवहारो नेन्द्रियाण्यनादाय ॥५१॥ नैव विनाऽधिष्ठानं व्यापारः क्वचिदपीन्द्रियाणां स्यात्। व्याप्रियते न हि कश्विद्देहेनाऽत्माभिमानरहितेन ॥। ५२॥ नैतस्मिन्सर्वस्मिन्नसत्य सङ्गात्मनः प्रमातृत्वम्। नैव प्रमातृभावं विना प्रमाणप्रवृत्तिरिह दृष्टा ।। ५३।। तस्मात्प्रत्यक्षादिपमाणजालानि यानि शासतराणि। सर्वाण्येवाविद्यावद्विषयाणीति युक्तमेवैतत् ॥५४॥ पश्वादीनां हि यथा व्यवहारोऽध्यासमूलको हष्ः। विद्ुषामपि भवति तथा व्यवहारोऽध्यासमूलकः सकलः ॥।५५॥

Page 9

[प्रथमपादः १ ] माष्यार्थरत्नमाला। ५

इण्डोद्यतकरमभिमुखमायान्तं पुरुषमेकमालक्ष्य। इच्छति हन्तुमसाविति मीता: पशवो द्वुतं पलायन्ते ॥। ५६॥ करविनिहतहरिततृणं पुरुषं दृष्टाऽतिनिकटमायान्ति। व्युत्पन्नचेतसोऽपि ह पुरुषा लोके तथोपलभ्यन्ते॥५७॥ आक्रोशतो नितान्तं खड्गधरान्क्रूरटष्टिसंवलितान्। बलवत उपलभ्य ततो मीता एव हि पुनर्निवर्तन्ते ॥ ५८॥ तद्विपरीतान्पुरुषानालक्ष्य च तान्प्रति प्रवर्तन्ते। तस्माव्य्यवहारोऽसौ सर्वोऽप्यध्यासमूल इति युक्तम्॥५९॥ पश्वाद्योऽपि यद्यप्यध्यासं प्रकटयन्ति न परेषु। वागाद्यपाटवेनाथापि समं भवति कार्यमुभयत्र॥ ६०॥ अध्यासकार्यभूतो व्यवहारो याहशः पश्ूना स्यात्। व्युत्पत्तिमतां पुंसां व्यवहारस्तादृशो हि तत्काले ॥ ६१ ॥ निर्णीयते स चायं व्यवहारोऽध्यासजनित एवेति। ठयवहारे शास्त्रीये यद्यपि यो बुद्धिपूर्वकारी स्यात ॥६२॥ न हि नाधिक्रियते परलोकगति स्वात्मनोऽपरिज्ञाय। परलोकगतिपरिज्ञानं देहान्यात्मविषयविज्ञानात्॥६३॥ तेन च देहविविक्तात्मज्ञानं कर्महेतुरिति वाच्यम्। तव्धवहारस्याऽडध्यानाधीनत्वं करथं भवेदिति चेत् ॥६४॥। कर्मणि देहविभिन्नात्मज्ञानं केवलं भवेज्जनकम्। नैवाSडत्मतत्व्गोचरमपि विज्ञानं हि तत्र जनकं स्यात् ॥ ६५॥ अशनायादिविवर्जितमपि वेदान्तैकसमधिगम्यं च। ब्रह्मक्षत्रविभेदापेतमसंसारि चाऽऽत्मतत्वं हि॥ ६६॥ तद्विज्ञानं यदिदं कर्मस्वधिकारकारणं न भवेत्। कर्मस्वधिकारे न हि यथोक्ततत्वावगत्यपेक्षाऽस्ति ॥६७॥ प्रत्युत यथोक्ततत्त्वज्ञानात्कर्माधिकारमङ्ग: स्यात्। प्रागात्मतत्त्वबोधात्मवर्तमानं हि शास्त्रमखिलमपि॥ ६८ ।। यदिदमविद्यावद्विषयत्वं तन्नातिवर्तते तद्धीः। यानि च कर्मपराणि ह शास्त्राणि बाह्मणो यजेतेति॥ ६९॥ तान्यात्मनि वर्णाश्रमवयोविशेषादिविषयमध्यासम्। आशरित्य हि प्रथन्ते न कदाचिदिमानि वैपरीत्येन॥ ७० ।।

Page 10

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

तस्माद्यवहारोऽयं सकलोऽप्यध्यासजनित इति सिद्धम्। अध्यासोऽयमतस्मिंस्तद्बुद्धिरिति प्रपश्चितं पूर्वम् ॥७१॥ सोडयं हि पुत्रमार्यादिषु विकलेषु च तथेव सकलेषु । दष्टो हि बाह्यधर्माध्यासो विकलोऽहमिति सकल इति च ।७२॥ एवं हि देहधर्माध्यासः कृष्ण: कृशोऽहमिति दृष्टः। इन्द्रियधर्माध्यासो मूकः कीबोऽहमिति च काण इति ॥ ७३ ॥ बधिरोऽहमन्ध इत्यप्यन्त:करणस्थकर्मजातमपि। कामादिकं तथवाध्यस्यति हि प्रत्यगात्मचैतन्ये।। ७४।। एवमहंप्रत्ययिनं तदाश्रयं स्वप्रचारसाक्षिणि च । प्रत्यय्रूपेऽध्यस्य प्रत्यगूपं तमेतमात्मानम् ॥७५॥ अन्त:करणादिष्वध्यस्यति किल तद्विपर्ययेणापि। इति सिद्धोऽध्यासोऽयं लक्षणसंभावनाप्रमाणान्तैः ॥७६॥ सकलानुभूतसिद्धः सामग्रीसहकृतोऽयमध्यासः। विषयफलसिद्धिहेतु: शास्त्रारम्मेऽस्य वर्णनं न वृथा॥७७॥ चिरकालसंप्रवृत्तः सर्वार्थेकसाधनं हि परम्। सोऽयमनन्तोऽध्यास: पुंसामात्मैक्यविस्मृती हेतुः ॥। ७८॥ तस्य च मूलोच्छेदे विशुद्धमात्मैक्यमन्तिके भाति। वेदान्तार्थविचारस्तत्सिद्धी कारणं परं मवति॥ ७९ ॥ इति मनससि सकलमर्थ सम्यङ्निश्चि्वत्य सूत्रकारोडसौ। चक्रे शास्त्रारम्भे विचारकर्तव्यतापरं सूत्रम्॥८०॥ इत्यध्यास: समाप्तः। अथातो ब्रह्मजिज्ञासा ॥ १॥ विषयफलयोः सतोरप्यधिकारी नास्ति चेद्वृथा शास्त्रम्। तत्राथातःशब्दावधिकार्यर्थौ प्रदर्शिती मुनिना ।।८१ ।। आनन्तर्यार्थोऽसावथशब्दो नान्यमर्थमाचटे। अथइतिशब्दो हेतुं कर्मफलानित्यतां प्रसञ्जयति ॥८२॥ मिलिती द्वावप्येती साधनसंपन्नमर्थिनं बूतः ।

षटूकं शमादिकानां मुमुक्षुता चेति सुप्रसिद्धानि। चत्वारि साधनानि ह्यानन्तर्यावधिं वदन्त्यार्याः।।८४ ।।

Page 11

[प्रथमपाद: १] माष्यार्थरत्नमाला। 9

कर्मफलानित्यत्वप्रतिपत्तिः प्रथमसाधने हेतु: । प्रथमं साधनमुत्तरसाधनसिद्धावपेक्षितो हेतु: ।। ८५।। आरम्मार्थो नासावथशब्दो मवति सूत्रनिर्दिष्टः । जिज्ञासापदमुख्यो नैवाऽऽरभ्येत कुत्रचित्कवापि।। ८६ ।। लक्ष्यार्थे चाऽडरम्भो लक्ष्यस्मारकपदान्तराल्लम्य: । तेनैव कार्यसिद्धावथशब्दोऽनर्थकः प्रसज्येत ॥८७॥ अथशब्दः क्रमवचनः स्याद्वदानार्थवाक्यपठित इव। कर्मब्रह्मविचारौ स्यातां यद्येककर्तृकौ लोके।। ८८॥ धर्मविचारं साधकमानन्तर्यावधिं वद्न्त्यन्ये। धर्मविचारः सोऽयं ब्रह्मविचारैकसाधनं चेत्स्यात्।८९। प्रथमाश्रमे विरक्तो विशुद्धविज्ञानसाधनोपचितः । कर्मविचारास्पृष्टी ब्रह्मविचारे कथं प्रवर्तेत ॥ ९० ॥ जिज्ञास्यमपि च भिन्नं फलमपि भिन्नं हि दृश्यते शास्त्रे। तस्माद्धर्मविचारो ह्यानन्तर्यावधिः कथं भवति ॥ ९१॥ अर्थान्तरत्वबोधकमथशब्दं वर्णयन्ति केचिदिह। अर्थान्तरत्वमेतद्यतः कुतश्र्ित्प्रसिद्धमफठं हि ॥ ९२॥ हेतुफलभावसिद्धिपापकमर्थान्तरत्वमिह वाच्यम्। ताहृश्यर्थान्तरताऽप्यानन्तर्यैकरूपतामेति ॥९३॥ सूत्रावयवश्ररमः कर्भणिषठ्ठीसमासनिष्पन्रः। शेषेषषीपक्षं वारयति परं सकर्मको धातुः ।। ९४॥

कर्तव्येति प्रथयति वाक्यार्थं प्रथमसूत्रसंदर्भ: ॥९५॥ जिज्ञास्यं ब्रह्मोक्तं तक्किं लोकप्रसिद्धमितरद्वा। यदि लोकसुप्रसिद्धं निःसंदेहं तदा न जिज्ञास्यम् ॥९६॥ यदि चाप्रसिद्धमेतत्तज्जिज्ञास्यं कथमितीह नाऽडशङूचम्। सत्यं ज्ञानमनन्तं श्रुतिवचनेषूपलम्यते बह्मा ॥। ९७॥ वैनाशिकादिसमयेष्वतथाभूतो निरूप्यते ह्यात्मा। अत उपपन्नः संशय इति मत्वा शास्त्रमेतदारब्धम्॥९८॥ वेदान्तवाक्यनिचयैन्ययोपेतैविचारिते तत्वे। यादिविवादोपचितः संदेहो नाशमि(मे)ति निर्लेपमू ॥९९॥

Page 12

सुबह्मण्य विरचिता- [१ प्रथमाध्यायस्य ] V

ब्रह्मविचारे कार्ये लक्षणमादावपेक्षितं मवति। इति लक्षणबोधार्थं द्वितीयसूत्रं चकार सुनिवर्यः ॥ १०० ॥ जन्मायस्य यतः ॥ २ ॥ प्रथमं जन्मादिपदं जन्मस्थितिनाशसंघमभिधत्ते। प्रत्यक्षसिद्धमेतज्जगद्खिलं प्रथयतीह षष्ठ्यन्तम् ॥१०१॥ षठठी संबन्धार्था यत इति शब्दोऽपि कारणं वक्ति। जगदनुबन्धी जन्मस्थितिलयसंघो हि यन्निदान इति ॥१०२ ॥ सूत्रार्थे निष्पन्ने लक्षणलाभ: क्थं मवेन्नणाम्। इत्याकलय्य मगवांस्तङ्गह्मेति प्रपूरयामास ॥ १०३॥ यवमयचरुवाक्यादी लक्षणबोधो हि वाक्पशेषात्स्यात्। तददिति नात्र शङ्का यत्तच्छब्दी हि नियतसाकाङ्की ॥१०४ ॥ जगद्नुबन्धिकजन्मस्थितिलय संघातकारणं बह्म। इति सूत्रार्थे लब्धे लक्षणशङ्का निवर्तिता भवति ॥१०५॥ यास्कमुनिसूत्रदर्शित विकारषट्रकं न वक्ति जन्मादि। लक्षणमेवंभूतं मूम्यादीनामिहोपदिष्टं स्यात् ॥१०६॥ भ्ुत्यर्थनिर्णयार्थं लब्धोत्साहोऽत्र सूत्रसंदर्भ: । आभित्य पिशुनवृत्तिं श्रुत्यर्थं हातुमुत्सहेत कथम् ॥ १०७ ॥ लक्षणवाक्यसमन्वयबोधे हेतुर्विलक्षविज्ञानम्। लक्ष्यस्वरूपबोधे स्वरूपलक्षणमपेक्षितं मवति ॥१०८॥ जगदेकदेशभूतो वेदो नित्य इति विश्वुतो यस्मात्। जगदुत्पत्तिस्थितिलयकारणतारूपलक्षणं च कथम् ॥ १०९॥ इत्याक्षिपत्निरसितमादौ षष्ठीसमासमाश्चित्य। निश्वसितवाक्यनिचयात्सूत्रार्थो वर्ण्यंते तृतीयोऽसी ॥ ११०॥ शास्त्रयोनित्वात् ॥ ३ ॥ षष्ठीसमासपक्षे तटस्थसंज्ञं स्वरूपसंज्ञं च। श्रुतिनिवहकर्तृतायां सिद्धायामुक्तलक्षणं सिध्येत् । १११॥ यन्निश्वसितप्रायो वेद: सर्वार्थबोधको हष्टः। तस्य च सर्वज्ञत्वं लक्षणमित्यत्र केयमाशङ्का॥ ११२॥ श्रुतिकर्तृत्वे सिद्धे वेदे कार्यत्वसिद्धिरवतरति। तत्सिद्धौ सिद्धं स्याज्जगज्निप्रभृतिकारणत्वमपि॥ ११३॥

Page 13

१ प्रथमपाद: ] माध्यार्थरत्नमाला।

यदि जनिकर्ता चेत्स्याद्वेदोऽयं पौरुषेयता गच्छेत्। इति शङ्काडत्र न कार्या न पौरुषयो निरुप्यते वेद: ॥११४॥। अर्थावबोधपूर्वकयत्नो यस्य प्रसाधको भवति। तत्र व्याकरणादी भवति परं पौरुषेयता लोके॥ ११५॥ अर्थावबोधकृत्या समकालिकता प्रतीयते ह्यत्र। निश्वसितवाक्यनिचये तस्माद्वेदे न पौरुषेयत्वम् ॥ ११६॥ निश्वसितवाक्यमेतन्निश्वासन्यायमेव बोधयति। तस्मादृपीरुषेयो वेदोऽत्रार्थे न बाधकं किचित् ॥११७ ॥ नियतानुपूर्विकत्वाद्वेदो नित्य इति गौणवादोऽसी। तस्माज्जगदुत्पत्तिस्थितिलय कारित्वलक्षणं सिद्धम् ॥ ११८॥ लक्षणपरमेतञ्चेत्स्यादाशङ्का प्रमाणमिह किमिति। तस्मात्ममाणपरमप्येतत्सूत्रमिति वर्ण्यते सपदि ॥ ११९॥ कारणवचन इदानीं प्रमाणवचनो हि योनिशब्दोऽसी। शाखतरं योनिर्यस्येत्यत्र समास: परं बहुव्रीहिः॥ १२० ॥ शास्त्र प्रमाण कत्वाज्जगज्ज निप्रभृतिकारणत्वाञ्च। साधनसंपत्तिमता ब्रह्म विचार्यमिति निश्चितं भवति ॥ १२१॥ शास्त्रप्रमाणकत्वं न शक्यते ब्रह्मणि प्रतिज्ञातुम्। कृत्स्नस्य वेदराशे: कर्मपरत्वं हि जैमिनि: प्राह ॥१२२॥। कर्मपरत्वे सिद्धे सफलार्थकता हि वेदभागे स्यात्। अतदर्थकवाक्यानामानर्थक्यं प्रपश्च्ितं हि यतः ॥१२३ ॥ अध्ययनविध्युपात्ते वेदे चानर्थकत्वमन्याय्यम्। इति शङ्कावसरः स्यादाम्नायस्येति सूत्र इति मत्वा ॥१२४॥

स्तुत्यर्थबोधकथया क्ियापरत्वं समर्थितं मवति॥१२५॥ सोडरोदी दित्यादा निषेधवाक्यैकवाक्यमावेन। राजतनिन्दारूपक्रियापरत्वं समाशितं मवति ॥१२६॥ मन्त्र इपे त्वेत्यादौ छिनझियोगेन कर्मपरता स्यात्। तद्वदेदान्ताना कर्त्रादिस्तावकत्वमालस्व्य ।। १२७।। कर्मपरत्वे सिद्दधे ब्रह्मपरत्वं कथं भवेस्ेषाम्। विधिविप्रकृष्टदेशा वेदान्ता: स्युः कर्थं हि कर्मपराः ॥१२८॥

Page 14

१० सुमह्मण्य विरचिता- [१ प्रथमाध्यायस्य ]

इति चेसथाऽपि म क्षतिरुपासनाद़िक्रियापरत्वेन। इत्याक्षेपनिवृत्त्ये चकार मगवांश्रतुर्थमूत्रमिद्म्॥१२९॥ तनु समन्वयात् । ४ ।। तत्पद्मस्मिन्सूत्रे पक्षतया ब्रह्मबोधकं भवति। शास्त्रप्रमाणकत्वं विधेयमिह पूर्वसूत्रलभ्यं स्यात् ॥ १३०॥ उक्ताक्षेपं निरसितुमत्र तुशब्दो हि मध्यनिर्दिष्टः। पञ्चम्यन्तश्ररमः प्रथयत्युक्तार्थसाधकं हेतुम् ॥१३१ ॥ पक्षविशेषणवाची समिति ह्यंशोऽप्यखण्डमाचटटे। अन्वयशब्दो योऽसौ प्रकृते तात्पर्यवाचको भवति ॥१३२॥ अत्राखण्डं ब्रह्म प्रतिपाद्यं भवति शाखनिचयेन। श्रुतितात्पर्या्द्वेतोर्नैवं कर्मेति सूत्रवाक्यार्थः ।१३३॥ शास्त्रप्रमाणकत्वे हेतुरिहोक्तो हि शास्त्रतात्पर्यम्। तन्निर्णयेकसाधनमुपक्रमप्रभृतिलिद्गषद्कं स्यात् ॥१३४॥ छान्दोग्यमैतरेयं मुण्डकमाण्ड्रक्यतैत्तिरीयाणि। ईशावास्यादीनि हि यानि च वेदान्तवाक्यजालानि ॥ १३५ ॥ तेषासुपक्रमादौ विमृश्यमाने विशुद्धभावेन। तेषां वेदान्तानां ब्रह्मणि तात्पर्यनिर्णयो भवति ॥१३६ ॥ नन्विह वेदान्तानां ब्ह्मणि तात्पर्यमनुचितं वक्तुम्। ब्रह्म परिनिष्ठितं तन्मानान्तरगव्यमेव भवति यतः ॥१३७ ॥ नैपा शङ्का कार्याSसिद्धं मानान्तराभिगम्यमिति। रूपादिरहितमेतङ्रह्म न मानान्तराणि संस्पृशति ॥ १३८॥ नन्वेवं वेदान्तैर्बह्मण्यावेदिते फलं किं स्थात्। हेयोपेयविहीने वस्तुन्यावेदितेऽवि न पुमर्थः ॥१३९॥ पुरुषार्थसाधकं स्यान्द्वेयमुपादेयमुपदिशच्छास्त्रम्। हेयोपेये ज्ञाते स्यातामिष्टाप्त्यनिष्टपरिहारी॥ १४० ॥ इति नात्र शक्कितव्यं यत एतच्छास्त्रमेवसुपदिशति। हेयोपेयविहीने ब्रह्मणि साक्षात्कृते पुमर्थः स्यात् ॥१४१ ॥ आत्मानं चेत्पुरुषो वदाडयमस्मीति यो विजानीयात्। किं फलमिच्छन्कस्य च कामाय शरीरमनु तपेत्स इति॥ १४२॥ ननु न हि वेदान्तानां कर्त्रादिस्तावकत्वमाशकूयम्। तस्केनेत्यादीनि ह्यकर्तृतामस्य बोधयन्ति यतः ॥१४३॥

Page 15

[१ प्रथमपादः ] माष्यार्थरत्नमाला। ११

प्ुतितात्पर्ये सिद्धे ब्ह्मणि शाखप्रमाणकत्वमपि। सिद्धूं स्यादिति पक्षं दूषयितुं जातकौतुका: केचित् ॥ १४४ ।। शाखत्रप्रमाणकत्वं ब्रह्मणि यञ्ञोपदर्श्ितं सूत्रे। सिद्धे फलानवगमाद्विधिशेषतयैव तञ्ञ युक्ततरम् ॥१४५॥ आत्मेत्येवेत्याद्यैरात्मोपास्तौ विधीयमानायाम्। कोऽसावात्मा किं तद्रह्मेत्येवं भवेदिहाऽडकाक्रक्षा ॥ १४६ ॥ तस्यामाकाङकक्षायामात्मप्रतिपादकाश्र वेदान्ता:। सत्यं ज्ञानमनन्तं ब्ह्मेत्याद्या इहोपयुक्ता: स्युः ॥१४७॥ यूपे पशुमित्याद्यैर्यूपाशयके हि बन्धने विहिते। यूपस्वरूपबोधकवाक्यानि यथा मवन्ति सफलानि॥ १४८॥ प्रतिपत्तिविषयभूतं बह्मैव समर्पयन्ति वेदान्ता: । आमायस्येत्यादयैः सूत्रैरवि नात्र कश्चन विरोध: ।। १४९ ।। विधिसंस्परशविहीनं ब्रह्म यथा बोधयन्ति वेदान्ता:। सप्तद्वीपा धात्री राजा यातीति वाक्यसाम्यं स्यात् ॥१५०। इति पक्षान्तरमेतन्निरस्यते सपदि माष्यकारेण। यद्येवमर्थता स्यादृतार्थता भवति पूर्वतन्त्रेष् ।।१५१।। पूर्वत्र चोपटिट्टो धर्मोडसी कर्मरूप एव स्थात्।

तत्फलमपि शाखोक्त त्रिधोपभोग्यं त्रिधैव निर्िट्म। पञ्चोपासनमुक्तं मानसिकं कर्म भवति न तद्न्यत ।१५३॥। ध्यानमपि ताडशं स्याद्ध्यानोपास्त्योर्न भेदशडकाडन। यञ्चोपासनसाध्यो मोक्षोऽयं तर्ह्यनित्य एव स्यात् ॥१५४॥ कर्मायतफलानां शास्त्रेणानित्यतैव निर्दिधा। प्रतिपत्तिविधिपरा मेदवेदान्ता: प्रथमसूत्रमफलं स्वात् ॥१५५॥ लक्षणसूत्रं तहत्पमाणसूतं समन्वयारव्यं च। ब्रह्म व नोत्पादयं स्थान् प्राप्यं मवत्ति नापि संस्कार्यम् ॥१५६।। न विकार्य वा स्यादिह विधिशेषत्वं कथं प्रसज्येत।

नाऽडत्मा संस्कार्योऽसी नित्यत्वान्भ्वति नो विकार्योडपि। वृषव्यविध्यनन्तरमपरभवणादिविधिपरं शाख्म्॥१५८॥

Page 16

१२ सुब्रह्मण्यविरचिता- { १ प्रथमध्यापस्य]

विधिशेषत्वं ब्रह्मणि साधयतीत्येवमपि न चाऽडशङ्क्यम्। यद्यवगतमन्यस्मि्नियुज्यते विधिपरेण वाक्येन ॥। १५९॥ विधिशेषता तदा स्याद्यूपाहवनीययोस्तथा हटेः। अवगत्यर्थं ह्येतच्छ्रवणाद्यं साधनं विनिर्दिषम् ॥१६०॥ भ्रवणमननादिसाधनपरिपाकादवगतिर्यथा भवति। संसारमूलकारणहृद्यग्रन्थिप्रभेदनं भवति ॥१६१॥ तेनानर्थनिवृत्त्या परमानन्दैकरूपतामेति। इत्पेतमर्थनिकरं पश्यन्प्रतिपेद एवमादीनि ॥१६२ ॥ प्रथयन्ति वारयन्ति च कर्तव्यविशेषमवसरप्राप्तम। नेदं यदिदिमुपासत इत्यावीन्यवि च वेदवाक्यानि॥ १६३ ॥ प्रथयन्त्यनुपास्यत्वं ब्रह्मणि विधिशेषता कथं घटते। विधिशेषत्वाभावे चाऽडत्मा द्रष्व्य एवमादीनि ॥ १६४ ॥ विधिवाक्याभासानि श्रुतिवचनानीह निष्फलानि स्यु: । नैषा कार्या शङ्का यत एतान्यर्थवत्तराणि स्यु: ॥ १६५॥ परमपुरुषार्थवा्छिनमनात्मसंघात्पराङ्रमुखी कृत्य। सर्वान्तरे परात्मनि चेतोवृत्तिप्रवर्तनार्थानि ॥१६६ ॥ तस्यां प्रवर्तितायां ब्रह्मावगतिरह जायते झटिति। सिद्धार्थबोधकत्वेनाऽडम्नायस्येति सूत्रवैगुण्यम् ॥१६७॥ नास्मिञशाख्रे शङ्क्यं यतस्तयोभिन्नशास्त्रता भवति। स्तुतिपरतया विधीनां क्रियापरत्वेन सर्ववेदानाम् ॥ १६८॥ यज्ञ सफलार्थकत्वं निषेधवाक्येन दृश्यते तदिह। हननक्वियानिवृत्त्या ह्यौदासीन्यं प्रतीयते तत्र ॥१६९।। न च तदुभयं क्रिया स्यान्न वा क्रियायाश् साधनं भवति। विध्यर्थवादयोवा कत्रादिपराणि वाक्यजालानि॥१७० ॥ हश्यन्ते खलु तेषामनर्थकत्वं न कोऽपि वारयति। पूर्वस्मिन्नपि तन्त्रे दोषोडयं दुर्निवार इव भाति॥१७१ ॥ कथमुत्तरतन्त्रेSसौ पदं निधातुं समर्थतां गच्छेत्। तस्माद्वेदान्तानां सिद्धार्थपरत्ववाधकाभावाद ।। १७२॥ बह्मावगतौ सत्यामशरीरत्वं प्रपद्यते जीव:। ब्ह्मण्युपासनायाः शेषत्वं माडस्तृ विषयभावेन । १७३ ॥

Page 17

[१ प्रथमपाद: ] माष्यार्थरत्नमाला। १३

ब्रह्मणि तच्छेषत्वं कर्तृत्वात्स्यादितीह नाऽडशङूक्यम्। ब्रह्मणि विधिशेषत्वं कर्तृत्वेनापि नैव संभवति ॥१७४॥ आविद्यकसंघाते कर्तृत्वं स्यान्न शुद्धरूपेऽपि। वर्णाथमादिकवलितसंघातः कर्तृभावमुपयाति ॥१७५। मिथ्याप्रत्ययरूपस्तत्राहंप्त्ययो न गौणोSसौ। यक्ष्ये दास्यामीति व्यवहारस्तन्निदानको भवति॥१७६॥ समसमयिकत्वमनयोर्व्यवहाराध्यासयो्यंतो मवति। उपदर्शितसंघातो मिथ्यात्मेतीह दृश्यते शास्त्रे ।। १७७।। पुत्रादिर्गोणात्मा तस्य च सर्वार्थकारिताहेतोः। जाग्रत्स्वप्रसुषुप्तित्रितयानुगतो हि मुख्य आत्माडसौ ॥। १७८ ॥ तस्य च न कर्तृता स्यात्सौषुप्तसमाधिबाधितत्वेन। देहादौ संघाते योऽयमहंप्रत्ययः स गौण इति ॥१७९॥ केचन वदन्ति वृद्धास्तत्पक्षोऽयं निरस्यते सपदि। यत्रार्थयोर्विवेक: प्रत्यक्षेणोपलभ्यते तत्र ॥ १८० ॥ गुणयोगजा प्रतीतिर्गौणीयमिति प्रसिद्धिमनुभवति। माणवकः सिंह इति प्रत्यय एतादृशो ह्यतो गौण: ।।१८१ ।। यत्रान्धकारसमये स्थाणौ पुरुषप्रतीतिरुद्भ्रवति। सा च कथं गौणी स्यात्तस्मान्मिथ्येति निश्चितं भवति ॥१८२॥ मिथ्यात्मकर्तृकः स्यात्सकलो विधिवचनबोधितो ह्यर्थः । योऽसावात्मा शुद्धः कर्मणि कर्ता कदाऽपि न च भवति॥। १८३। तस्माद्विधिशेषत्वं कतृत्वेनापि नाश्नुते ब्रह्म। ब्रह्मावगती सत्या मिथ्यागौणात्मनोरसत्वेन ।। १८४।। विधिवचनबोधितानि ह्यौपासनादीनि संभवन्ति कथम्। आत्मावगते: पूर्व मिथ्याज्ञानावबद्ध एवासी॥१८५॥ आरोप्य कर्तृताक्षीन्कर्मणि सततं प्रवर्तते लोकः। विधिशेषमावरहिते ब्रह्मणि वेदान्तवाक्यतात्पर्पम्॥१८६॥ सिद्धं तस्माच्छुद्धं ब्रह्म विचार्यमिति निश्चितं मवति। इममर्थमसहमाना: सांख्या: स्मृतियुक्तिसाधना: प्राहुः॥१८७ ॥ जगदुत्पत्तिस्थितिलयकारणमेतत्पधानमेवेति। कार्यमसिठं ह्राचेतनमचेतनं तस्य कारणं युक्त्तम्॥१८८॥

Page 18

१४ सुब्ह्मण्यविरिता- [ १ प्रथमाध्यायस्य] सस्यादिके हि कार्ये कारणमपि तस्य ताहशं दृष्टम्। तस्मात्प्रधानमेव त्रिगुणं परिणामि जगदुपादानम्॥१८९॥ मवति ह तद्विपरीतं ब्रह्मातो नैव जगदुपादानमू। सर्वज्ञत्वं यश्ञ स्वरूपलक्षणमुद्दाहतं तदपि।। १९० ॥ अस्मिन्प्रधान एव हि सत्त्वमुपाभित्य भवति निरवद्यम। सश्योत्कर्षादेव हि विरूयाता योगिनोऽवि सर्वज्ञाः ॥१९१॥

जन्मादिकारणत्वप्रतिपत्तिपराणि यानि वाक्यानि ।१९२।। भ्रुतिनिर्दि्टानि परं प्रधानपक्षे प्रमाणभूतानि। जन्मादिकारणं तत्सदादिशब्दं प्रधानमिह युक्तम्।१९३ ॥ इत्याक्षेपं निरसितुमिद्मधिकरणं प्रवर्तते सदय: । ईक्षतेर्नाशब्दम् ॥ ५॥ आद्यः सूत्रावयवः पञ्चम्यन्तोऽयमीक्षणं वक्ति॥१९४॥ बुद्धिस्थवस्तुभेदप्रदर्शनार्थकमिदं हि नेति पदम। अन्तिममशब्दृपद्मपि सदादिपद्योगरहितमाचटे। १९५॥ यस्मादृशब्द्रमेतत्प्रधानमत एव कारणं नास्य । इत्येकदेशलम्ये वाक्यार्थे स्यादिहेक्षणं हेतुः ।। १९६।। अपरोक्षमानरूपं हीक्षणमेतन्न च प्रधाने स्यात्। यदिदमचेतनमुक्तं प्रधानमेतच्च चेतने सवति ॥ १९७॥ तस्मावृत्र हि चेतनमीक्षितृ जन्मादिकारणं ब्रह्म । छान्दोग्यवाक्यदर्शितसत्पद्वाच्यं तदेव न तदन्यत् ॥ १९८॥ सर्वज्ञता हि युक्ता ब्रह्मणि सर्वार्थमानरूपे स्यात्। प्ततप्रकाशरूपे सवितरि यद्त्पकाशतेशब््ः ॥१९९॥ यदि चेत्पधानमेतत्सत्वमुपाश्रित्य भवति सर्वज्ञम्। तद्द्रजस्तमोभ्यां किंचिज्ज्ञमपि प्रधानमुक्तं स्यात् ॥ २०० ॥

नन्वयमीक्षितृशब्द: सतिनिर्दिष्टो हि गौण एव स्यात्। ततेज ऐक्षतेति ह्यान्तरवाक्ये यथा स गौण: स्यात् ॥ २०१॥ गौणे तस्मिन्सोडयं प्रधानपक्षेऽपि साधुरेव स्यात्। नेपा शड्का कार्या सत्पद्वाक्यं प्रधानमेवेति ॥२०२॥

Page 19

[१ प्रथमपाद: ] माष्यार्थरत्नमाला। १५

ईक्षितृशब्दो योऽसी न हि गौणो येन सत्पधानं स्यात्। यदि चेद्गोण: सोडयं तत्सहचारी कथं स आत्मेति॥२०३॥ नन्वेष आत्मशब्द्रोऽप्यात्मीयपदो(रो) हि दृश्यते लोके। आत्माखिलार्थकारिषि ममायमात्मा हि मद्रसेन इति ॥ २०४॥ तन्निष्ठस्य मोक्षोपदेशात्॥ ७॥ नेषा शङ्रका कार्या यद्ययमात्मीयवाचको भवति। उपदेश: सकलोऽयं षष्ठे विहितो हि विफल एव स्यात् ॥२०५॥ उपदिश्य च तन्निष्ठां तत्त्व्रमसीत्यादिवाक्यजातेन। सुकत्युपदेशोऽसातथ संपत्स्य इति प्रतीयते षठठी ॥ २०६॥ आत्मीयवाचकत्वात्प्रधानवादी यदाऽSत्मशब्द: स्यात्। तत्त्वमसि वाक्यलभ्या तन्निष्ठाऽपि प्रधाननिष्ठा स्यात् ॥ २०७ ॥ तन्निष्ठस्य च मोक्षस्तद्भावापत्तिरेव न तदन्य: । यः श्वेतकेतुरस्मिन्नुपदेशे सम्यगधिकृतः सोऽयम् ॥२०८ ॥ सकलश्रुतिविपरीतं ह्यनात्मभाव कथं प्रपद्येत। ब्रह्मत्वभावरूपं मोक्षं कथयन्ति सर्ववेदान्ताः ॥ २०९।। ईक्षितृशब्दो योऽसौ तथाऽडत्मशब्द्रोऽपि मुख्य इह दृष्टः। तस्मात्सत्पद्वाच्यं ब्रह्म परं स्यान्न च प्रधानमपि॥ २१०॥ हेयत्वावचनाच्च ॥८॥ यदि च प्रधानपरता सवादिकानामिहोपदिश्येत। श्रद्धालुरावृतात्मा तत्निष्ठः स्यादिति श्रतिर्मत्वा ॥२११॥ तत्वमसिवाक्यपरतस्तन्नासीति श्रुतिः कथं न वदेत्। तस्मान्नास्मिन्वाक्ये प्रधानशङकावकाशलेशोऽपि ।। २१२॥ परपक्षनिरसनक्षमहेतूनुपदिश्य सूत्रकारोडयम्। सद्य: स्व्पक्षसिद्धयै हेतूनन्यान्प्रदर्शयत्यनघान्॥ २१३॥ स्वाप्ययात् ॥ ९॥ इह खलु सत्पद्वाच्यं ब्रह्म परं मवति जगदुपादानम्। यस्मात्सुपुप्तिकाले सति सर्वेषां लयो विनिर्द्क्ः ॥।२१४।। गतिसामान्यात्॥ १० ॥ किं चान्यदृवगतीनां सकलश्ुत्यन्तवाक्यजनितानाम्। चेतनकारणविषयकमावं सामान्यमपि च भाति यतः।२१५।।

Page 20

१६ सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य]

तन्यायादत्रापि ह चेतनकारणपरत्वसंसिद्धौ। अर्धजरतीयं न यतः प्रधानपरता कथं समथ्येत ॥२१६॥। श्रुतत्वाच्॥ ११ ॥ श्वेताश्वतरप्रभृतिश्ृत्यन्तेषु श्रुतं हि यङ्गह्म। जन्मस्थितिलयकारणमस्य तदेवेति सकलमनवद्यम् ॥२१७॥ बह्म विचार्यमिहोक्तं लक्षणमुक्तं तथा प्रमाणमपि। सकलनिगमान्तवचसां ब्रह्मणि परमे समन्वयश्रोक्त: ।। २१८। प्रतिकूलकर्मवाद: प्रधानवादो निराकृत: प्रायः । शास्त्रं हि परिसमाप्तं सकला शङ्का निवर्तिता हि यतः ॥ २१९॥ उत्तरसूत्रोत्थाने निमित्तमिह नोपलभ्यते किमपि। इति शङ्कामपनेतुं निमित्तमत्रोपवर्ण्यते सपदि॥ २२० ॥ यञ्चोक्तलक्षणं स्याद्रह्म तदेतद्विरूपमाभाति। कथयन्ति हि वेदान्ता: सविशेषं निर्विशेषरूपमपि ॥ २२१॥ सविशेषवाक्यजातं ह्युपास्यरूपे समन्वितं भवति। यक्निर्विशेषवाक्यं ज्ञेये ब्रह्मणि समन्वितं सकलम् ॥ २२२ ॥ वेदान्तवाक्यविहितान्युपासनान्यपि बहुप्रपञ्चानि। गुणसंप्रयोगभेदात्फलभेदादृपि च भिन्नरूपाणि ॥ २२३ ॥ कानिचिदुपासनानि हि कर्मसमृद्धयर्थकानि चान्यानि। क्रममुक्त्यर्थानीति हि भेदस्तेषामुपासनानां स्यात् ॥ २२४॥ ब्ह्म खल पूर्णमेकं निर्भेदस्वप्रकाशचिन्मान्नम्। गुण संपयोगभेदादभिन्नरूपेऽपि भिन्नमावोऽयम् ॥२२५॥ अत्रोपास्योपासकमावो युक्तो ह्यभिन्नरूपेऽपि। चित्तोपाधिकृतोऽयं तरतममावो यतोऽस्य बीजं स्यात् ॥ २२६ ॥ सद्योमुक्तिफलमद्मात्मज्ञानं हयुपाधिरूपेण। उपदिश्यमानमेतत्परविषयं वा न वेति संदेहे॥ २२७॥ आलोच्य वाक्यपद्वीमुपाधियोगं व्युदस्य परविषयम्। तदिदं निर्णेयमिति प्रवर्तते सपदि सूत्रसंदर्भः ॥ २२८॥ ईक्षत्पाद्यैलिङ्गेर्वह्म हि जन्मादिकारणं सदिति। वर्णितमेतत्पूर्वं प्रधानवाद्श्र निरसित: सकलः ॥२२९॥ नन्वीक्षत्यधिकरणे गौणं हित्वा यदीक्षणं मुख्यम्। आलम््य तुलेन हि परमात्मा सदिति वर्णितं पूर्वमू ॥२३० ॥

Page 21

[१ प्रथमपाद:] माष्यार्थरत्माला। १७

इह तैत्तिरीयके खल्वानन्दमयप्रकाशकं वाक्यम्। तत्र च वाक्ये मयटः प्राचुर्यविकारयोश्र मुख्यत्वात् ॥२३१॥ आनन्दमयो जीव: शारीरत्वादिलिङ्गयोगात्स्यात्। तत्र च शारीरत्वं प्रियप्रमुख्याणि चाङ्गजालानि॥ २३२॥ कथितान्यानन्दमये स ताद्ृशोऽयं कथं परात्मा स्यात्। इत्याशङ्कानिरसनपुरःसरोक्तार्थतत्त्वबोधाय ॥ २३३ ॥। करुणान्धुर्भगवानिद्मधिकरणं स प्रदर्शयामास। आनन्दमयोऽयासात्॥१२॥ यद्यप्येतत्सूत्रं बहुधा बहुभि: प्रपश्चितार्थं हि॥ २३४ ॥ तस्मादस्मात्सूत्रात्तत्वावगतिर्हि दुर्लभा भाति। नैषा शङूका कार्या तस्मात्तत्तत्प्रदर्शितार्थेषु॥ २३५॥ गुणदोषवर्णने किल तत्त्वावगतिर्न दुर्लभा भवति। अत्राSSनन्द्मयोऽसावन्नमयप्रभृतिपश्चक वक्ति ॥२३६॥ इति केचिदामनन्ति हि तत्पक्षोऽयं विचार्यते सपदि। आनन्द्मयपदार्थो ह्यन्नमयप्रभृतिपञ्चकं चेत्स्यात् ॥ २३७। स्याल्लक्षणा तदानी श्रुतहान्यादीनि दूषणानि स्युः । यत्रानुपपत्ति: स्यादन्वयतात्पर्ययोस्तदा सा स्यात् ॥ २३८॥ घोषोडयं गङ्गनयामित्यादौ सा हि लक्षणाबीजम्। बीजाभावादस्य ह्यानन्द्मयस्य लक्षणाऽनुचिता॥ २३९ ॥ यदि समुदायः पक्षस्तत्राभ्यासो न दृश्यते क्वापि। असकृत्प्रयोगवाची ह्यभ्यासो नेह कस्यचिद्दृकटः ॥२४० ॥ ब्रह्म परं सकृदेव ह्यन्नमयप्रकृतिसंगतं माति। तदृपि मनोमयवाक्ये न प्रकृती दृश्यते कुतोऽभ्यासः ॥ २४१॥ पञ्चानां ब्रह्मत्वे न च प्रमाणं न साधको हेतु: । अत इह चाSडनन्ड्ूमयो नान्नमयादि: परं तु मुख्यः स्यात् ॥२४२। न हि परमात्माऽम्यासादिति सूत्रार्थं हि वणंयन्त्येके। स्वाभिमतार्थं प्रथयितुकामो भगवान्हि माष्यकारोऽयम्॥ २४३॥ तन्मतमाभित्यैव हि तत्सूत्रार्थान्प्रदर्शयत्यादौ। नन्वत्राSSनन्द्मय: परमात्मा चेत्कथं स शारीर: ॥ २४४।। तस्पेष इत्पनेन हि शारीरत्वं प्रदर्शितं चास्य । इति नात्र शङ्कनीयं शारीरत्वं न मुख्यमस्योक्तम्।।२४५ ॥। ३

Page 22

१८ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

अन्नमयादिशरीरद्दारा ग्राह्यत्वरूपभेव स्थात्। प्रियशीर्ष त्वादिकमपि पूर्वोपाधिकृतकल्पनायत्तम् ॥। २४६ ।। स्वत एतसस्मिन्नात्मनि नैवंरूपा हि कल्पना मवति। आनन्दपदाभ्यासो हात्तरवाक्येषु दृश्यते यस्मात् ॥ २४७॥ अभ्यासादिति हेतु: परमात्मत्वप्रसाधको मवति। नन्विह मयडन्तोडयं विकारवचनो हि दृश्यते लोके ॥!२४८॥ सृन्मयदारुमयादौ तस्मात्स कथं परात्मवचनः स्यात्। परमात्माऽसी जगतः प्रकृतिर्न विकारभावमुपयाति॥२४९॥ इत्येतामाशङ्कां निरसितुमेतत्प्रदर्शितं सूत्रम्। विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३॥ यस्माद्विकारवाची मयडन्तोऽसावतो न परमात्मा॥।२५० ॥ आनन्दमय: स्यादिति नेयं शङ्काऽत कर्तुमुचिता स्थात्। तत्प्कृतवचनतार्यां मयड्विधानं तु दृश्यते शास्त्रे ।। २५१ ।। प्रानुर्यपर्यवसितो मयडर्थ इतीह लभ्यते तस्मात्। अन्नमयो यज्ञोऽसावित्यादौ दृश्यते हि मयडर्थः ॥। २५२ ॥ अन्नगतप्राचुर्य तस्मात्प्राचुर्यमत्र मयडर्थः ।

आनन्दृप्रचुरत्वं निरतिशयानन्दरूपता नान्यतू। ब्ह्मे होत्तरवाक्ये निरतिशयानन्दरूपमुपदिष्टम् ॥२५४ ॥ तस्मादानन्दमयो ब्रह्मेत्यस्मिन्न दोषशङ्काडपि। ब्ह्म प्रचुरानन्दं मयडन्तार्थोऽयमित्युपन्यस्तम् ॥ २५५॥ तद्धेतुव्यपदेशाच॥ १४ ॥ प्रचुरानन्वृत्वं तत्साधयितुं हेतुमपरमाचटे। अत्र हि तच्छब्दोऽसावानन्दं बुद्धिविषयमाचष्टे ॥। २५६ ॥ अत्रत्यहेतुशब्दो णिजर्थकर्तृत्ववाचको मवति। त्धेतुशब्दलभ्यं ह्यानन्दयितृत्वमस्य निर्दिष्मू ॥२५७॥ एष ह्योवेत्यादावयमेवार्थः प्रपश्चितो मवति। धनिकत्वापाद्यिता प्रचुरधनोऽसाविति प्रसिद्धो हि॥ २५८॥ आनन्दयिता तद्वत्प्रचुरानन्दो भवत्यसावात्मा। मान्त्रवर्णिकमेव च गीयते ॥ १५॥ सत्यं ज्ञानमनन्तं ब्रह्मेत्यन्तेन मन्त्रवर्णेन ॥।२५९।।

Page 23

[१ प्रथमपादः ] माष्यार्थरत्नमाला। १९

प्तिपादितं यदेतङ्रह्म गुहायामवस्थितं यदृपि। सत्यज्ञानान्मोक्ष: प्रदर्शितः सर्वकामसमवाप्तिः॥ २६० ।। तन्मन्त्रवर्णवर्णितमस्मिन्वाक्य हि गीयते बह्म। तस्मादानन्दुमय: पर एवाऽडतमेह दर्शितो भवति॥ २६१॥ आनन्दमयो जीव: स्यादिति शङ्कां निराकरोतीह। नेतरोऽनुपपत्तेः ॥१६ ॥ यञ्च जगत्कर्तृत्वं बहुमवनं चोत्तरत्र निर्दिष्टम् ॥ २६२॥ सद्नुपपत्तेरजीवो नाSडनन्दमयो हि किंतु परमात्मा। योऽसावानन्द्मयो रसस्वरूप: प्रदर्शितः श्लोके।। २६३।। भेदव्यपदेशाच् ॥१७॥ रसरूपं नं लब्ध्वा स्वात्मानन्दं जगत्यसी जीवः। योऽसावानन्दमयो लब्धव्य: स्याद्रसस्वरूपोऽपि ।। २६४।। इत्यादिभेदजातं श्रुतिवचनेषूपदिश्यते यस्मात्। तस्मादान्दमयो लब्धव्यात्मा परोऽयमिति सिद्धम् ॥२६५॥ ननु यद्यानन्दमयो जीवो न स्यात्तदा प्रधानं स्यात्। मेदृव्यपदेशो वा स्षटृत्वं वाऽि तस्य संभवति॥२६६ ॥ कामाच्च नानुमानापेक्षा॥ १८॥ नैषा प्रधानशङ्का कामयितृत्वान्निरस्यते सपदि। अनुमानगम्यमेतत्पधानमिह वक्तमनुचितं हि यतः ॥ २६७ ॥ सोऽकामयतेत्यस्मादानन्दमये हि दृश्यते कामः । कामयितृत्वं ह्येतत्परात्मनि स्यान्न च प्रधानेऽवि ॥ २६८॥ अस्मिन्नस्य च तयोगं शास्ति ।। १९।। अस्मिन्नानन्दमये यदाऽहमस्मीति बुध्यते लोक:। तस्य च तदाऽडत्मभावं तद्योगं शास्ति शास्त्रमभयमिति।२६९।। सूत्रार्थमन्यभेव हि वर्णयितुं जातकौतुको भगवान्। पूर्वोक्ते सूत्रार्थे भूयो दोषान्प्रदर्शयत्यधुना॥२७० ॥ आनन्दमयोडम्यासात्। अन्नमयादिषु पञ्चसु मयटरपरवाहे समानरूपेऽपि। अन्नमयवाक्यजाते विकारवाचित्वमत्र न तथेति ॥ २७१॥ प्राचुर्थवाचकत्वाश्रयणं मयटो न युक्तमामाति। यद्येतस्मिन्वाक्ये मयउन्तेनोपदिश्यते ब्रह्म ॥ २७२॥

Page 24

२० सुबह्मण्य विरचिता- [ १ प्रथमाध्यायस्य ]

प्रियशीर्षत्वादिकमिह यत्निदिष्ट हि धर्मजातं तत्। ब्रह्मणि सकलं वाच्यं तथा हि सूत्रान्तराद्विरोध: स्वात् ।।२७३॥। अध्याये च तृतीये गुणोपसंहारपाद्माश्रित्य। पियशीर्षत्वादीनामप्राप्तिर्दर्शिता हि सूत्रकृता॥ २७४ ॥ पद्यानन्दमयोऽसौ तत्पुच्छं ब्रह्म मुख्यमेव स्यात्। अनुचितमेकस्य स्याद्वयवरूपत्वमवयवित्वं च ॥ २७५ ॥ बह्मेह निर्विशेषं ह्युपक्रमे चोपसंहती कथितम्। अत्र हि सविशेषं चत्तथा विरोधश्र वाक्यवरूप्यम् ॥ २७६ ॥। शारीरशब्द एष प्राणिमयप्रभृतिकोशपठित: सन्। उत्सृज्य कोशजातं कथं परं ब्रह्म बोधयेत्सद्यः ॥ २७७॥ आनन्द्मयपदेन हि यदा परात्मा विवक्षितो मवति। अभ्यासादिति हेतुस्तत्रासिद्धः कथं हि साधयति ॥ २७८ ॥ आनन्दमयपदस्य ह्यभ्यासो नोपलभ्यते येन। नाSSनन्द्मयपदार्थं निर्णेतुं शक्नुयादयं हेतुः ॥२७९ ॥ अन्यपदस्याभ्यासे कथमन्यपदार्थनिर्णयो भवति। तस्मादस्मिन्पक्षे सूत्रार्थकथा कथं हि संघटते ॥ २८० ॥ प्राचुर्थवाचकोडयं मयडिति पक्षोऽन्र नैव युक्त: स्यात्। प्राचुर्थ लोकेऽस्मिन्प्रतियोग्यल्पत्वसहकृतं येन ।। २८१॥ विप्रमयो ग्रामोऽसावित्यादाविव यथोक्तवाक्येन। आनन्दप्राचुर्य दुःखाल्पत्वाविलं प्रतीयेत ॥ २८२।। तस्माद्विकारवचनी मयडिति युक्तं यथाऽन्नमयवाक्ये। मयडन्तप्रतिपाद्यो न हि परमात्मा परं तु कोश: स्यात् ॥२८३॥ पुच्छपद्सहचरं यद्बह्मपदं तैत्तिरीयके हष्टम्। आनन्द्मयपदेन हि तद्वाक्यस्थं हि गृह्यते तदिह ॥ २८४॥ समुदायवाचकस्य हि तदेकदेशार्थकत्वमविरुद्धम्। ग्राहोडयं जागर्तीत्यादावेवं हि हश्यते लोके ॥ २८५॥ पुच्छपद्संनिकृष्टं ब्रह्मपदं कि परं प्रकाशयति। आनन्दमयावयवं किं वा वक्तीति संशये प्राप्ते । २८६॥। पुच्छपद्संनिधानावृवयववाचित्वमत्र युक्तमिति। आक्षेपस्य प्राप्ताविद्मधिकरणं प्रदर्शितं सपदि ।।२८७ ॥

Page 25

[१ प्रथमपाद: ] माष्यार्थरत्नमाला। २१

ब्ह्मपद्मत्र वाक्ये ब्रह्म परं स्वप्रधानममिधत्ते। असदित्यस्मिञश्लोके यतोऽस्य दृष्टो हि केवलोऽम्यासः ॥ २८८॥ नन्वत्र पुच्छवाक्ये परात्मनो ग्रहणमनुचितं भाति। यस्माद्षयववाचकपुच्छपद् संनिकृष्टमिह भाति ॥२८९॥ विकारशवदान्नेति चेन्न प्राचचुर्यात्। विक्रियतेऽनेनेति हि विकारशब्दोऽयमवयवं वक्ति। अवयवलाक्षणिकं यत्पुच्छपद्ं ब्रह्मशब्दसंनिहितम् ॥२९०॥ सूत्रे विकारशब्दस्तस्मान्न स्वप्रधानपरमेतत्। इति शङ्काSत्र न युक्ता प्राचुर्यार्थो हि पुच्छशब्दोडसी ।। २९१॥ प्राचुर्यशब्दवाच्या प्रायापत्तिर्न चान्यदिह यस्मात्। मुख्यार्थस्यालाभे तत्पायं बुद्धिवृत्तिरनुसरति ॥ २१२ ॥। शिरआद्यवयवजाते निर्दिष्टे पुच्छशब्दनिर्देशः। मुख्यार्थस्यालामात्तत्प्रायं ब्रह्म सम्यगनुसरति ॥२९३॥ पादार्थिका प्रतिष्ठा परमयनं वक्ति नैव पुनरन्यत्। तस्मादस्मिन्वाक्ये ब्रह्मपदं स्वप्रधानपरमेव ॥ २९४॥

आनन्दमयान्तस्य हि जगतो हेतुत्वमस्य निर्दिशति। सोऽकामयतेत्येतत्तस्मादेतत्परं समन्वेति ॥ २९५ ॥ माम्त्रवर्णिकमेव च गीयते। सत्यं ज्ञानमनन्तं ब्रह्मेत्यन्तेन मन्त्रभागेण। यङ्रह्म वर्णितं स्यात्तदृत्र वाक्ये हि गीयते ब्रह्म ॥ २९६॥ नेतरोनुपपत्ते:। इह पुच्छवाक्यलभ्यो जीव: स्यादिति पुनर्न चाऽडशङ्क्यम्। जीवे सषृत्वादिकमुत्तरवाक्यस्थमनुपपत्नं हि ॥ २९७॥

इह पुच्छवाक्यदर्शित आत्मा लब्घव्यभावमुपयाति। यस्माद्रसरूपोडसौ लब्धा जीवोऽत वर्णितः श्लोके ॥ २९८ ॥ लब्घव्यलब्धृमावान्भ्ेदो व्यपदिश्यते हि वाक्येडस्मिन्। तस्माललब्धव्यात्मा परमात्मैवात्र दर्शितो भवति ।।२९९.।।

Page 26

२२ [१ प्रथमाध्यायस्य ]

कामाच् नानुमानापेक्षा। भ्रुतिनिर्दिष्टो योऽसावानन्दमयः परं प्रबोधयति। पञ्चवाक्यस्थत्वा[दा]नन्द हवेति नैतदनुमानम्॥३०० ॥ ब्रह्मपरत्वे साधकमनेकपूर्वोक्तदूषणग्रासात्। अस्मिन्नस्य च तद्योगं शास्ति । यः पुच्छवाक्यदर्शित आत्मा तस्मिन्कृतप्रबोधो यः ॥ ३०१॥ अथ सोऽमयमिति वाक्यं तस्य च तन्भ्ावमेव बोधयति। पुच्छपद्संनिकृष्टं ब्रह्मपदं स्वप्रधानपरमेव॥ ३०२॥ यदिदमुपक्रमटृष्ट ब्रह्म तद्त्रोषसंहृतं भवति। तस्मादेतद्वाक्यं ब्रह्माणे परमे समन्वितं ज्ञेये॥ ३०३॥। ननु यद्यानन्द्मयः प्रियशीर्षत्वादिधर्मयोगेण। परमात्मा न मवति चेच्छान्दोग्येऽपि च तथा प्रसज्येत ।३०४।। तत्र च हिरण्मयोऽसी पुरुषो यो दृश्यतेऽन्तरादित्ये। आप्रणखाज्च सुवर्णो हिरण्यकेशो हिरण्मयशमश्ुः ॥३८५।। आरक्ताम्बुजनेत्रोदितिनामा सर्वपापनिर्मुक्त:। इत्याधिदैविकोऽयं पुरुषो निर्दिष्ट एवमादिगुण: । ३०६ ।। आध्यात्मिकपुरुषोडयं निर्दिदश्वान्तरक्षिणि ह्येवम्। ये च पराख्चो लोका ये च स्युर्देवलोककामाश्र ॥ ३०७ ॥ तेषामीष्टे पुरुषो योऽसी निर्दिश्यतेऽन्तरादित्ये। ये चार्वाञ्चो लोका ये च स्युर्मर्त्यलोककामाक्र॥ ३०८॥ तेषामीष्टे पुरुषो योऽसौ निर्दिश्यतेऽन्तरक्षिणि च।

प्रा[णा]दिकेश्वरत्वादिह निर्दिष्टः कथं परात्मा स्यात्। विद्याकर्मातिशयात्माप्तोत्कर्षो हि कश्िविद्धिकारी ॥ ३१०॥ किं वा योगी कश्वित्संसारी स्यादिहान्तरादित्ये। इति शङूकामपनेतुं सुनिना रचितं तदेतद्धिकरणम्॥३११॥ अन्तस्तद्धर्मोपदेशात् ॥ २०॥ परमेश्वर एवायं पुरुषो निर्दिश्यतेऽन्तरादित्ये। परमेश्वरधर्माणामिहोपदेशो हि दृश्यते यस्मात् ॥३१२ ॥। उदित उदेतीत्याद्या पापास्पृष्टत्वमामनन्तीह। नैवर्गित्यादीनि ह ऋगादिरूपत्वमामनन्तीह।। ३१३।।

Page 27

[१ प्रथमपादः ] माष्यार्थरत्नमाला। २१

सर्वात्मके परेशे तदेतदुक्तं समख्जसं भवति। सर्वजगत्कर्तृत्वात्स्वात्मकता हि तस्य युक्ततरा ॥ ३१४ ॥ परिमितमैश्वयं यद्दर्णितमुभयत्र तञ्व न विरुद्धम्। अध्यात्मादिविभागापेक्षं तन्न स्व्रतः परे पुंसि ॥३१५॥ प्रख्यापयन्ति सर्वे वेदान्तास्तस्य निरुपमैश्वर्थम्। परमेश्वरवाक्येSस्मिन्विकारधर्मैः कुतोऽस्य निर्देशः॥३१६॥ इति शङ्का नेह स्याद्यतः परेशो ह्यकुण्ठितैश्वर्यः। मक्तानुकम्पयैव हि नानारूपणि मायया सृजति॥३१७॥ परमात्मपरमपीदं वाक्यं सविशेषपरतया योज्यम्। यत एतस्मिन्वाक्ये हुद्गीथोपासना विनिर्दिष्टा ॥ ३१८॥ ऋक्सामगेयताऽपि हि सर्वेशे सर्वकारणे युक्ता। लौकिकगानेष्वपि यैः परमेशो गीयते हि तस्मात्ते॥ ३१९॥ धनसनयो लोकेऽस्मिन्प्रभूतसुखसंपदो हि विचरन्ति। भेदव्यपदेशाच्ान्यः ॥। २१॥। थो मण्डलाभिमानी देवोडयं पुरुष एव निर्दिष्टः॥३२०॥ इति खलु नैवाSSशडूचं यतस्तयोर्भेद एव निर्दिष्टः। आदित्यादन्तर इति वाक्यं ह्यादित्यभेदमुपदिशति ॥३२१ ॥ तस्मादेतट्वाक्यं हिरण्मयत्वादिगुणगणोपेते। सर्वेश्वरे परात्मन्यन्तर्यामिणि समन्वितं भवति ॥ ३२२॥ भवतु परमेश्वरोऽसायुपदिष्टो योऽयमन्तरादित्ये। उद्गीथवाक्यदर्शित आकाशोडयं कथं परात्मा स्यात् ३२३।। भुतिलिङ्गवाक्यसूत्रे श्रुतिहिं लिङ्गाद्वलीयसी हष्टा। निरपेक्षरूढशब्दः ध्रुतिरिति कथयन्ति जैमिनिप्रमुखाः ॥३२४॥ तस्माद्मूताकाश: भ्रुत्या ह्याकाशशब्डलभ्य: स्यात्। जन्माविकारणत्वं यदत्र वाक्ये प्रदर्शितं तदपि ॥ ३२५ ॥ भूताकाशेऽपि स्यात्क्रमेण वाय्वादिकारणत्वेन। इत्याक्षेपं निरसितुमिदमधिकरणं प्रदर्शितं मवति ॥ ३२६ ॥ आकाशस्तल्लिङ्गात् ॥ २२॥ जैव लिशालावत्यावुद्गीथ विचारलब्धकुतकौ हि। शालावत्येनोक्तं सर्गादिकमन्तवत्वदोषेण॥। २२७।।

Page 28

२४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य ]

उद्गीथस्य परायणमेतन्नेति हयुदस्य तत्पक्षम्। लोकस्यास्य च का गतिरिति शालावत्यव चनमनुसृत्य ।। ३२८॥। आकाश इतीत्याद्यं जैवलिना हि प्रदर्शितं भवति। तद्वाक्ये चाSडनन्त्यं प्रदर्शितं यत्परोवरीयस्त्वम् ॥३२९ ॥ उपसंहतमाकाशे स एव इत्यादिवाक्यशेषेण। दर्शितमुपक्रमे यज्जन्मस्थितिनाशकारणत्वं हि॥ ३३० ॥ तदिदं हि कारणत्वं भूताकाशेऽपि वर्णितं हि पुरा। वाय्त्रादिकारणत्वं क्रमेण तत्रेदमनुपपन्नं स्यात् ॥३३१ ॥ सर्वाणि ह वेत्यादौ भूतविशेषणपदं हि सर्वपद्म्। आकाशादेवेति ह्यवधारणमनुपपन्नमेव स्यात् ॥ ३३२॥ भूताकाशपरत्वे श्रुतिर्हिं लिङ्गाद्वलीयसीत्युक्तम्। बहुलतरलिङ्गयोगाच्छ्रतेर्बलीयस्त्वमपहृतं भवति ॥३३३ ॥ समुदायार्थे चैकं त्यजेदिति न्याय एवमुपदिशति। श्रुतिबलसमाश्रयेऽपि हिन विरोध: कश्षिइत्र संभवति॥ ३३४ ॥ ज्यायस्त्वमिह यदुक्तं परायणत्वं च दर्शितं यद्पि। आकाशो हीत्याद्यैरात्मनि परमे समख्जसं भवति ॥३३५॥

ब्रह्मणि तत्पर्यायो व्योमन्नित्यादिवाक्यनिर्दिष्टः ॥३३६॥। उद्गीथवाक्यमेतत्परोवरीयस्त्वगुणगणोपेतम्। आकाशशब्द्वीच्ये ततः परात्मनि समन्वितं भवति ॥३३७ ॥ अत एव प्राणः॥ २३ ।। प्रस्तावदेवताया: स्वरूपविज्ञानलब्धगुरुभावः। चाकायणमुनिरधुना प्रस्तोत्रादन्प्रबोधयत्यस्मिन् ॥३३८॥ प्रस्तावदेवताया: स्वरूपविज्ञानरहित एव यदि। प्रस्तोता प्रस्तोष्यति मूर्धा ते पतनमेष्यतीत्युकत्वा॥३३९॥ प्रस्तोत्रादिप्रश्ं कतमा सा देवतेति चाSडकणर्य। प्रस्तावदेवताया: स्वरूपविज्ञानमुपदिदेशेत्थम् ॥३४०॥ नैषेत्यन्तैर्वाक्यैः प्राणः प्रस्तावदेवतेत्युक्त:। वायुविकार: किंवा परमात्मा स इति संशयंप्राप्ती ।। ३४१ ॥। वायुविकारो नायं किंतु परात्मा यदत्र तल्लिङ्गम। हत्पेतद्भिनिगदितुं ह्यायमतिदेशः प्रदर्शितो मुनिना ॥३४२।

Page 29

१ प्रयमाद्: ] माष्यार्थरत्नमाला। २५

हह सकलभूतराशे: संवेशश्रोद्गमश् निरदिष्ः। परमेश्वरपरतारयां तदेतदखिलं समञ्जसं भवति ॥३४३॥ भुतिलिङ्गवाक्यदर्शितविरोधशङ्कापि परिहृता पूर्वम्। स्वापप्रबोधयोः किल संवेशनवादिवाक्यमखिलमपि॥ ३४४॥ वायुविकारे प्राणे समञ्जसं स्यादितीह नाऽडशाङ्क्यम् । वागादीनामेव हि संवेशोद्गमनवादिवाक्यमिह॥३४५॥ वायुविकारे प्राणे समन्वितं नैव सर्वभूतानाम्। प्रस्ताववाक्यमेतत्प्राणे ब्रह्मणि समन्वितं भवति ॥३४६ ॥ ब्रह्मपरः प्राणोडयं प्राणस्य प्राणमिति च वाक्येऽपि। अन्य्रापि च दृष्टो वाक्येऽपि प्राणबन्धनं हीति॥३४७॥ प्रस्तावदेवतात्मक एष प्राणो हि भवति परमात्मा। वायुविकारो नासावित्युक्तं सकलमेतदनवद्यम् ॥ ३४८॥ मवतु यदिहोपदिहं प्राणाकाशादिवाक्यमखिलमपि। तल्लिङ्गसमवधानाद्बह्मपरं तद्दि भवति युक्ततरम्॥ ३४९॥ यदतः पर इत्याद्यैरार्येर्यच्ोपदर्शितं ज्योतिः। विश्वस्मादुपरितनेष्वनूक्तमेषूत्तभेषु भातीति॥३५० ॥ अन्तःपुरुषेऽपि तथा तदिदं ज्योतिः प्रदर्शितं तत्किमू। मौतिकमथ वा ब्रह्मेत्येतन्निर्णेतुमेतद्धिकरणम्॥३५१॥ ज्योतिश्रवरणातिधानात् ॥ २४॥ ज्योतिरिह ब्रह्म स्थान्न भौतिकं किमपि शङ्कितुं शक्यम्। पादोऽस्पेत्येतस्मिन्भूतादिपदानि दर्शितानि यतः ॥३५२॥ नन्विह पदाभिधानं ज्योतिर्वाक्ये न दृश्यते किमपि। तत्कथमिह हेतु: स्यात्तेन कथं ब्रह्मताऽस्य सिद्धा स्यात ॥३५३॥ इति नात्न शङक्कनीयं यत हह वाक्ये हि यत्पद्ं दृष्टम्। बुद्धिस्थवाचकं तद्यत एतत्सर्वनामसंज्ञं स्यात् ॥३५४॥ पूर्वत्र चोपदिष्टे ब्रह्मणि यच्छव्दृतः परामृट्ठे। तत्रोपदर्शितं यत्पाद्चतुष्टयमिहोपदिषं स्यात् ॥३५५॥ मन्विह दीप्यत इति या भुतिरिह कार्ये समअ्जसा भवति। तद्यदिद्मन्तरित्यपि जाठरवैश्वानरं प्रबोधयति ॥३५६ ॥ मस्येषा दृष्टिः स्यानस्येषा धुतिरिति बुवाणा या। इद्रं पुतमित्येषा अुतिरस्योपासनां विधापयति॥३५०॥

Page 30

२६ ** सुनह्मण्यविरचिता- [१ प्रथषाध्यायस्य

यज्ञैतद्वेदैवं चक्षुष्यश्र भुतश्र भवतीति। अल्पफलश्षुतिरेषा कार्ये ज्योतिषि समअ्जसा मवति ॥३५८॥ यद्तः पर इत्यादयैरुपदिष्टं ज्योतिरत्र कार्यमिति। नैषा शङ्का यस्मादूब्रह्मपरत्वे तदेतद्नवद्यम्॥ ३५९॥ दीप्यत इति निर्दिष्टा दीप्तिरथेत्यादिवाकयट्टृष्टा या। नित्पावबोधरूपा नैषा ब्रह्मणि समअ्जसा भवति ॥३६० ॥ हष्टश्वादिकमखिलं प्रतीकमूलं न हि स्वतोऽस्य स्थात्। अल्पफल भ्रुतिरेषा ब्रह्मणि सर्वार्थदेति युक्ततमा ॥ ३६१ ॥ तस्माज्ज्योतिःशब्दे ब्रह्मेत्येतत्समख्जसं भवति। छन्दोभिधानान्नेति चेन्न तथा चेतोर्प- णनिगदात्तथा हि दर्शनम् ॥२५॥। नन्वत्र पूर्ववाक्ये गायत्रीछन्द एव निर्दिष्टमू ॥३६२॥ नेषा चतुष्पदेति हि चतुष्पदृत्वं च तस्य निर्दिष्म्। न च तज्ज्योतिःशब्दे ब्रह्मपरत्वप्रसाधकं भवति ॥३६३ ॥ इति चेन्न पूर्ववाक्ये छन्दोमात्रं हि नेतदुपदिष्म्। छन्दोनुगते ब्ह्मणि चित्तसमाधानमेव निर्दिष्टम्॥३६४ ॥ उक्थानुगते ब्रह्मणि चित्तसमाधानवचनमन्यत्र। एतमिति मन्त्रभागे तदिदं हष्टं हि तद्द्त्रापि॥ ३६५॥ छन्दोभिधायकानि हि वाक्पान्यन्यानि यानि द्रृश्यन्त। तान्यप्युक्तार्थानि हि तस्मान्नेहास्ति काचिदाशङरका ॥ ३६६॥

भूतपृथिवीशरीराण्यपि हृदयं चति सम्यगुपदिश्य। नैषा चतुष्पदेति हि निर्दिष्टा साऽपि दर्शितार्थेव॥ २६७।। बह्मेह नोपदिष यद्यक्षरसंनिवेशरूपायाः। कथमस्या गायत्रया भूतादिपदानि संभवन्तीह ॥ ३६८॥ उपदेशभेदान्नेति चेन्नोभयस्मि- न्नप्यविरोधात्॥ २७ ।। नम्वन्र पूर्ववाक्ये चतुष्पदं ब्रह्म यञ्च निद्ष्म्। उपदेशमेद्हष्टं ज्योतिर्वाक्ये कथं परासृट्म् ॥३६९॥ इति शाङ्क्काऽन्र न कार्या विभक्तिभेदेऽपि भवति चार्येक्यम्। सपम्पन्ते वाक्ये पश्चम्यन्तेऽपि कोऽपि ज-विशेध: ।३७०/।।

Page 31

प्रथमपाद: ] माष्यार्थरतनमाला। २७

नन्वत्रोद्टीथादिप्रकरणपठितानि यानि वाक्यानि। तह्लिङ्गसमवधानाद्बह्मपरत्वेन वर्णितानि परम् ॥३७१॥ इह कौषीतकिवाक्ये प्राणोऽस्मीत्यादिवाक्यजालेन। पाणो योऽसावुक्तः स किं परं ब्रह्म पञ्चवृत्तिर्वा । ३७२॥। इह चोमयलिङ्गानि हि दश्यन्ते ह्युत्तरत्र भूयासि। तस्माच्छृत्यनुसारात्प्राणोऽयं पञ्चवृत्तिरेव स्थात् ॥ ३७३॥ हत्याक्षेपं सकलं निरस्य बहुलेन युक्तिजालेन। प्राणोडसी निर्दिषे ब्ह्मैवेति प्रदश्यते सपदि॥३७४ ॥ प्राणस्तथाऽनुगमात् ॥ २८ ॥ यः कौषीतकिवाक्ये प्राणो निदिष् एप परमात्मा। पौर्वापर्यविमर्शे पदानि सकलानि तत्पराणि यतः ॥३७५ ॥ हिततमपद्निर्दिष्टः परमात्मा स्यान्न वायुविकृतिरसौ। अमृताद्दिशब्ड्योग: परमात्मन्येव दृश्यते शास्त्रे॥ ३७६ ।। आनन्दोऽजर इति वा ब्रह्मणि परमे समञ्जसो भवति। भूतप्रज्ञामात्राद्यर्प्णमपि परमकारणे युक्तम्॥ :७७ ॥ ज्ञानक्रियात्मनोरिह विभिन्नशब्दस्वभावयोर्यदृपि। प्राणपज्ञोपाध्योरेकीकरणं परात्मलिङ्गं स्थात् ॥३७८ ॥ इद्मित्याछयुपटिटं देहे स्थानं परिग्रहाद्यखिलम्। परमात्मन्युपपन्नं कार्य सकलं यतस्तदायत्तम् ॥३७९॥। न वक्तुरात्मोपदेशादिति चेदध्यात्मसं- बन्धभूमा ह्यस्मिन् ॥ २९ ॥ नन्वत्र देवतात्मा वक्ता हीन्द्रः प्रतर्दनाय किल। त्वाट्ट्रवधसाह सात्मकविग्रह संबन्धिघर्मनिवहेन॥ ३८० ॥। स्वात्मोत्कर्ष प्रथयन्योऽयम हंकारवाद्माश्रित्य। प्राणोऽस्मि मामुपास्स्वेत्याद्यैरात्मानमुपदिदेश स यम ॥३८१ ॥ स च कथमिह परमात्मा योऽसी प्राण: स वक्तुरात्मेव। इत्याक्षेपः सकलो निरस्यते सपदि सूत्रशेषेण॥ ३८२॥ एषा शङ्का कार्या न वक्तुरात्मोपदेशयोगेन। अध्यात्मसंनिकर्षः प्राचुर्येणोपलभ्यते यस्मात् ॥३८३॥। ननु वक्तारं विद्यादिति वाऽडर्पैदशितोऽन्तरात्मैव। आनन्दासृतरूप: प्राणो निर्दिश्यते हि वाक्येडस्मिन् ।। ३८४।।

Page 32

२८ : १ प्रथमाध्यायसय-

र्वाष्ट्रवधसाहसोक्तिर्न हि विज्ञेयस्तुति प्रसञ्ज्यति। न ह वै तस्येत्याद्यैविज्ञानस्तुतिपरा हि सा मवति ॥३८५ ॥ यदि परमात्मैव प्राणोऽस्मीत्यादिवाक्यनिर्दिष:। स च कथमस्मिन्वाक्ये निर्दिष्टो वक्तुरात्मभावेन॥ ३८६ ।। शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ ३० ॥ शाखोपदिष्लक्षणमपरोक्षी कृत्य तत्परं ब्रह्म। इन्द्रस्तमुपदिदेश हि मुनिधर्यो वामदेवसंज्ञ इव ॥३८७॥ मुनिरेष वामदेव: प्रभूतविज्ञानसाधनोपचितः । गर्भस्थ एव बुबुधे ह्यहमित्यादिकमवाप मन्त्रमपि।।३८८॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रै- विध्यादाश्रितत्वादिह तय्ोगात्॥३१॥ वक्तारं विद्यादिति निर्दिषटं जीवलिङ्गमिह वाक्ये। परिगृद्योत्थापयतीत्यपि मुख्यप्राणलिङ्गमुपदिष्टम् ॥३८९॥ तस्माज्जीवो वा स्यान्मुख्यप्राणोऽय वाडयमुपदिष्टः । न हि परमात्मा प्राण: स्यादिति शङ्का न चात्र कर्तव्या ।३९०। यत एतस्मिन्वाक्ये भूयो हष्ट परात्मलिङ्गमपि। तस्मात्रिविधाल्लिङ्गात्रिविधमुपासनमिह प्रसज्येत ॥ ३९१ ॥ यज्जीवलिङ्गमुक्तं मुख्यप्राणस्य यद्पि लिङ्ग वा। तदुभयमपि परात्मनि समञ्जसं स्यादितीरितं पूर्वम् ॥३९२॥ प्राणस्यास्य च वृत्तिर्बह्मणि पूर्व प्रदर्शिता मवति। तल्लिङ्गसमवधानात्माणोऽयमिहावि मवति परमात्मा ॥३९३॥ अथ वा त्रिविधर्धर्मै ्त्रैह्मोपासनमिहाऽडश्रितं मवति। तेन न दोषाशङ्का न चात्र काचिद्विरोधशङ्काडवि॥ ३९४॥ तस्मादिहोपदिषट कौषीतकिवाक्यमेतद्खिलमपि। ब्रह्मण्युपास्यरूपे विज्ञेये वा समन्वितं भवति ॥३९५॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां प्रथमो योऽसी समन्वयाध्याय: ॥३९६॥ तत्र प्रथमे पादे सूत्रार्थो यश्र माष्यकारोक्त:। आर्यावृत्तैरमलै: प्रकाशितो जयतु सोऽयमनवद्य:।।३९७। इति प्रथमाध्यायश्य प्रथम: पाढ: ।।१।।

Page 33

१ द्ितीयपाद: ] माष्यार्थरलमाला। २९

अथ द्वितीयपादपारम्भः ।

प्रथमे पाढे जगतो जन्मस्थित्यादिकारणं बरह्म। वेदान्तवाक्यनिचयैः स्फुटतरलिङ्ग: प्रदर्शितं भूयः ॥१ ॥ व्यापित्वं नित्यत्वं सर्वज्ञत्वं च दर्शितं तस्य। अर्थान्तररूढानामाकाशप्राणमुख्यशब्दानाम्॥२॥ आब्रह्मलिङ्गबाधनपुरःसरं ब्रह्मलिङ्गयोगेन। न्यायोपतैर्वाक्यैर्ब्रह्मपरत्वं प्रसाधितं भवति ॥ ३॥ इह च द्वितीयपादे ह्यस्पटब्रह्मलिङ्गवाक्यौघैः। यश्चोपास्यं ब्रह्म प्रदर्शितं तदिति वर्ण्यते सपदि॥४ ॥ छान्दोग्ये च तृतीये ज्योतिर्विद्याप्रधानवाक्यान्ते। सर्वं खल्वित्याद्यं मनोमयत्वादिवाक्यमध्यमपि।। ५। शाण्डिल्यपद्कृतान्तं यदेतदुपदिष्टमत्र तक्किं स्थात्। ब्रह्मप्रधानमथ वा जीवपरं वेति संशये पाप्ते ॥६॥ शाण्डित्यवाक्यमेतत्पीर्वापर्देण सम्यगालोच्य। जीवाशङ्कां निरसितुमिद्मधिकरणं चकार मुनिवर्यः॥७॥ सर्वत्र प्रसिद्धोपदेशात् ॥१॥ सकल निगमान्तवाक्यप्रकाशितं यञ्च जगदुपादानम्। तदिहोपक्रमवाक्ये हुपदिष्टमतो न जीवशङ्काडन ॥८॥ नन्विह सर्वं खल्वित्युपासनाविषयबोधकं न भवेत्। शान्त उपासीतेति हि विहितशमारातिरागनिर्मुक्त्ये ॥९॥ सकलस्यैकात्मकतां प्रबोध्य रागादिनिरसनं कुरुते। स क्तुमितिवाक्येन हि विहितक्रतुविषय एव जीव: स्यात् ॥१०।। तस्य च मनोमयत्वं प्राणशरीरत्वमाञ्जसं भवति। ब्हमात्मतावबोधकलिङ्गं नात्रोपलभ्यते किमपि॥ ११॥ तस्मादेतद्वाक्यं जीवोपास्तिप्रधानमाभाति। इति खलु नैवाSडशङ्क्यं यवत्र वाक्ये न जीववार्ताऽपि। १२॥

स्योनमिति वाक्यजातं यथा पुरोडाशधर्मिणं बूते । १३॥ स कतुमितिवाक्यस्थे कती हि नियमेन विषयसाकाङक्षे। विश्रयं बोधयितुमिदं ब्ह्मेत्यादिकमुदाहृतं भवति॥१४ ।।

Page 34

सुबह्मण्यविरचिता- [१ प्रपमाध्यायस्य-

तस्य विशेषणजाले मनोमयप्रभृतिवाक्यजालेन। भूय: प्रदृश्यमाने जीवाशङ्का कयं प्रवर्तेत ॥१५ ॥ यद्यपि लिङ्गविगानाद्विशेषणार्थत्वमसुलमं माति। लिङ्गस्य विपरिणामे तथाऽपि नैवात्र बाधकं किमपि ॥१६॥ ब्रह्मणि मनोमयत्वं प्राणशरीरत्वमनुपपन्नमिति। नैवाऽडशङ्का कार्या ब्रह्मण्यखिलात्मके हि तद्युक्म् ॥१७॥ सामानाधिकरण्यं विवक्षितं ब्रह्मणा यदा कार्ये। बाधायां तज्ञ स्यादृत्र हि कार्येण कारणेन स्पात् ।। १८।। तेन च सर्शात्मकता ब्रह्मणि परमे प्रदर्शिता भवति। इदमिति पद्मप्यत्र ब्रह्मविशेषणपरं हि कर्तव्यम्॥१९ ॥ यदिदं ब्रह्मपरं स्पात्सवं खलु तदिति योजना कार्या। तेन च सर्वात्मकता ब्रह्मणि परमे समर्थिता भवति ॥ २०॥ ब्रह्मण्युपास्यरूपे सर्वोत्कर्षश्र वर्णितः प्रायः । तज्जत्वादिकमखिलं यदुत्तरस्मिन्प्रदर्शितं तडपि ॥ २१ ॥ तस्य च सर्वात्मकताप्रतिपत्यर्थ च शमविधानार्थम्। तस्माच्छतिशतगेये सर्वात्मनि सकलजगदुपादाने ॥२२॥ ब्रह्मणि मनोमयत्वं प्राणशरीरत्व्मेतदुपपन्नमू। विवक्षितगुण परत्तेश्र ॥ २ ॥। अत्र च विधिविहितायामुपासनायामपेक्षिता ये स्युः ॥२३॥ ते सत्यकामताद्या हुपपन्ना: स्युर्गुणा: परे पुंसि। अन्र च विवक्षितत्वं हयुपासनायामपेक्षणीयत्वम् ॥२४॥ इह सत्यकामतामुखगुणजाते मवति तज्च निरवद्यम्। अनुपपत्तस्तु न शारीरः ॥ ३ ॥ योडयं शारीर: स्यात्स चोक्तगुणजातभाजनं न भवेत् ॥२५।। यत एतस्मिन्वाक्ये ह्यवाक्यवादरत इतीरितं भवति। देहेन्द्रियादियोगिनि शारीरे कथमवाक्यतावार्ता।।२६।। नियत विषयाभिलाषिण्यनादुरत्वं य तत्र न हि मवति। कर्मकर्तृव्यपदेशाच॥४ ॥ किं चात्र वाक्यशेषे मनोमयत्वादिगुणगणोषेतः।। २७।। एतमिति कर्ममावादुपटिटोडयं पर: पुमानेव। अभिसंभषिताऽस्मीाते व शारीरः कनृभावमापत: ॥ ६८।।

Page 35

१ द्वितीयपाद: ] माष्यार्थरत्नमाला।

निर्दिट्टो प: स कथं सुपसनाविषयमावमुपगच्छेत्। शब्दविशेषात् ॥५॥ एवमयमन्तरात्मन्नितिसप्त यन्तशब्दनिर्देशः ॥२९॥ शारीरोडसी कर्ता हयुपास्परूपो हिरण्मय: पुरुष:। प्रथमान्तशब्द्बोध्य: स कथं शारीरभावमुपगच्छेत्।।३०।। देहेन्द्रियवशवर्ती शारीरो न च पर: पुमान्भवति। स्मृतेश्र ॥ ६ ॥। स्यृतिरेषा मागवती शारीरपरात्मभेदमाचटे ।।३१ ॥ शारीरं व नियम्यं नियामकं हृदयदेशमीशमपि। अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चेन्न निचाष्यत्वादेवं व्योमवच्च॥ ७॥। नन्विह वाक्ये योऽसावृपास्यरूप: कथ स परमात्मा ॥३२॥ अर्भकमस्याऽडयतनं निर्दिष्टं स्थात्तदाऽर्भकत्वमपि। यस्माद्धृदि निर्दिष्टः श्यामाकादृवि च दर्शितोऽणीयानू॥३३॥ स च कथमिह परमात्मा योऽसी व्यापीति दर्शितः शास्त्र। इति चन्नायं दोषो निचाय्यभावेन दर्शितो योऽसी॥३४॥ ब्रह्मण्यपरिच्छिन्ने मनो विधातुं न शक्नुयाज्ीवः। इति करुणापरतन्त्रा श्रुतिः परिच्छेदमस्य निर्दिशति ॥३५॥ व्योल इवास्यापि स्थादुपाधियोगादयं परिच्छेद:। संभोगपाप्तिरिति चेन्न वैशेष्यात्॥ ८ । शारीर: परमात्मा यद्येतौ हृदयदेशसंनिहितौ॥ ३६ ॥ शारीरस्य च मागे कथं परात्मा न भोगमाप्नोति। इति शङ्कामपनेतुं प्रवर्तते सपदि सूत्रशेषोऽयम्॥३७॥ धर्मादिसाधनोऽन्यस्त द्विपर्रीतश्र भवति परमात्मा। अपहृतपाप्मा योऽसी स धर्मफलभोगमातनोति कथम् ॥३८॥ धर्मादिसाधनस्य हि शारीरस्यो कभोगसंबन्ध: । आविद्यकषेहादावभिमानेनास्य भोगसंबन्ध: ।।३९।। सर्वज्ञस्य परस्य हिन चास्यविद्या न भोगवार्ता वा। अद्वेतवादलोपो नैवाऽडशाडयोडनर मेवनिर्देशात॥1४0 u

Page 36

१२ [१ प्रथमाध्यायस्प-

तस्मादेततसकलं शाण्डिल्यमुनीन्द्रदर्शितं वाक्यम् ॥४१॥ ब्रह्मण्युगस्यरूे समन्वितं ह्यत्र कोपि न विरोध: । ननु यदि परमात्माऽसाववहृतपाप्मा ततो न भोक्ता स्यात् ।४२। कठवल्लीवाक्येडस्मिन्भोक्ता जीवो भवेन्न परमात्मा । यस्य ब्रह्म क्षत्रं चोभयमोदन इतीह निर्दिष्टम् ॥४३॥ उपसेचनमिह सृत्यु: प्रदर्शितस्तेन चानतृता लब्धा। आत्मा चाग्निर्ाह्याज्ीवो वा भवति नैव परमात्मा ॥४४ ॥ कठशलयामेतस्या यतोडग्िजीवी प्रदर्शितौ पूर्वम्। अन्नादोडग्निरय स्यादिति श्रुतिश्वात्तृता प्रसक्यति ॥४५॥ स्वाद्वतीति श्रुतिरपि जीवे तामत्तृता प्रसस्जयति।

तर्हयत्ता जीव: स्यान्न तु परमात्मा यतः स नाश्नाति। इत्याक्षेपपाप्तावततृपदे गोणवृत्तिमाशित्य।। ४७ ।। निरसितुभिममाक्षेपं चकार मुनिवर्य एतद्धिकरणम्। अत्ता चराचरग्रहणात् ॥ ९ ॥

तस्पात्ता कथमन्यस्तस्मादत्ता पर: पुमानेव। संहारकत्वयोगादत्तृत्वं तस्य गौणमेव स्थात् ॥४९॥। कर्मफलमोक्तृतैष हि जीवे दष्टा न सा परे पुंसि। प्रकरणाच ॥ १०॥ प्रकरणमपि यञ्चैतत्परात्मनो दृश्यते न चान्यस्य ॥ ५०॥ प्रश्नप्रतिवचनाभ्यां परमात्मैवात्र दर्शितो येन। इत्था को वेदेति हि दुर्विज्ञेयत्व्रमस्य निर्दिष्मू ॥५१॥ परमात्मलिङ्गभेतत्तस्मादत्ता पर: पुमानेव। भवतु परातमैवायं यस्य व्रह्मेतिवाक्यनिर्दिक्षः ।। ५२।। ऋतमित्युत्तरवाकये गुहाहितत्वेन दर्शिती तो की। अनपी गुहां प्रविष्टी छायातपवद्विलक्षणाुक्ती।। ५३॥ किमु तत्र बुद्धिजीवी जीवपरेशावितीह संदेहः। तो यदि च बुद्धिजीवी बुदध्या जीव: पृथकूनिरक्त: स्वात् ॥५४॥

Page 37

द्वितीयपाद: २] माष्यार्थरत्नमाछा।

यदि वा जीवपरेशी जीवादीश: पृथग्गृहीतः स्यातू। यदि जीवेशौ स्थातां गुहाहितत्वं तयोरयुक्तं स्यात् ॥। ५५॥ तस्मादिह निर्दिष्टावुक्तविशेषी हि बुद्धिजीवौ तौ। इत्याक्षेपं निरसितुमेतद्वाकथार्थनिर्णयार्थमपि॥५ ॥ भगवान्मुनिवर्योऽसाविद्मधिकरणं चकार नु गृहीत्यै। गुहां प्रविष्ठावात्मानौ हि तद्दर्शनात् ॥११॥ अत्र च गुहां प्रविष्टावात्मानौ तो च जीवपरमेशी ।५७ ॥ निर्दिश्यते हि लोके संख्या तुल्यस्वमावयोरुमयोः । अस्य द्वैतीयिको गौरन्वेष्टव्य एवमभिधाने ॥५८॥ गौरेव हि द्वितीयस्तत्रान्विष्येत नाश्व इतरो वा। ऋतुपानाल्लिङ्गादिह जीवे निर्धारिते हि तस्य यदि॥ ५९॥ अन्विष्यते द्वितीयश्र्ेतनमावादसी परात्मा स्यात्। अत्र विबन्ताविति या श्रुतिर्हि पानं प्रदर्शयत्युभयोः ॥६०॥ तञ्च कथं परमात्मनि परितृप्ते स्यादितीह नाऽडशाङ्क्यम्। जीवस्तावत्पिबति हि परमात्माऽसी हि तं च पाययति ॥६१॥ पाचयिता पक्तेति हि दृषा लोकप्रसिद्धिरिह तहूत्। नन्विह जीवपरेशौ ग्ृह्येते चेत्कथं गुहावेशः ॥६२॥ सर्वगते परमात्मनि देशपरिच्छेद एष यदयुक्तम्। इति नाSडशङक्यं योऽसौ सर्वगतो यदि तदैकदेशगतः ॥६३॥ सकलवसुधाधिनाथो रामः साकेतनगरनाथ हव। श्रुतिसिद्धो न्यायः स्याच्छृत्यनुकूलश्ुतिर्न चेहास्ति॥६४॥ नेयं शङ्का श्रुतिषु हि गुहाहितत्वं परात्मनो हट्टम्। श्रुतिवाक्ये निर्दिष्टं गुहाहितं गह्गरेष्ठमित्यादौ ॥ ६५ ॥ यो वेदेति च वाक्येऽप्यन्विच्छ गुहां प्रविष्टमित्यादौ। छायातपसाम्यं यद्विलक्षणत्वेन तत्तयोर्युक्तम्॥६६॥। जीवोडयं संसारी तद्विपरीतो यतो हि परमात्मा। तस्मावृतं पिबन्ती गुहां प्रविष्टौ च दर्शितावेती ॥६७ ॥ छापातपसदृशावपि जीवपरेशी न बुद्धिजीवौ हि। विशेषणाच् ॥ १२॥ यद्पि विशेषणमेतद्वाक्ये निर्दिष्टमेतयोर्भवति॥ ६८ ॥ ५

Page 38

३४ सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

रधिनं विद्दीत्यस्मिन्याक्ये जीवो रथी विनिर्दिष्टः। विज्ञानसारथि: स्याद्रथी यदाडयं स पारमाप्ोति॥६९ ॥ गमिकर्तृकर्मभावावित्युपदिष्टी हि जीवपरमेशौ। दुर्दर्शमिति च मन्त्रे मनधातोः कर्तुकर्मभावेन॥ ७०॥ तावेतौ निर्दिष्टौ जीवपरेशौ न चेतरौ मवतः । इहलोकसिद्धमेनं जीवं निर्दिश्य तदनुवादेन ॥। ७१॥ तस्माद्विलक्षणोSसी परमात्माSन्र प्रदर्श्यते वाक्ये। यो हि सुपर्णा सयुजेत्येवं दष्टो हि मुण्डके मन्त्रः ॥७२॥ कठवल्लीवाक्यगतैर्मन्त्रैरुक्त्ैः समार्थको मवति। इह के चिदाहुरार्यी मन्तो यो द्वेति मुण्डके कथितः॥७३॥ अधिकरणस्यैतस्य हि भवति न सिद्धान्तमुक्तवाक्यार्थमू। पैड्ग्युपनिषि यतोऽयं सर्वक्षेत्रज्ञपरतया नीतः ।।७४ ॥ न च भवति पूर्वपक्षं स्याद्वदनं येन सत्व उपदिष्टम्। औदासीन्येनायं क्षेत्रज्ञो द्शितश्ष तत्रैव ॥७५॥ सत्त्वस्य भोक्तृतोक्ति: क्षेत्रज्ञे ब्रह्मभावमभिधातुम्। कठवल््युक्तावेतौ जीवप्राज्ञी न चेह संभवतः ॥७६॥ तस्मादन्यार्थोडयं मुण्डकदृष्टो हि मन्त्रभाग इति। ननु कठवल्ल्यामस्यामृतपानं प्रथमतः श्रुतं भवति॥७७ ॥ प्रथमश्रुतयोगेन हि तत्राधिकृतं तु जीवमालम्व्य। तत्समभावो योऽसौ परमात्मा तदवितीय उपदक्षः ।७८ ।। उपकोसलविद्यायामेष य इत्यादिवाक्यसुपदिष्म्। पुरुषो दृश्यत इति किल हश्यत्वं प्रथमतः श्ुतं तस्य ॥७९ ॥ चाक्षुषधीविषयत्वं हश्यत्वं जगति सुपरसिद्धं हि। तद्योगी पुरुषोऽसी छायात्मा वाडथ वा भवेजीव: ।। ८० ।। किंवा स देवतात्मा न खलु परात्मा न दृश्यते स यतः। यदि च च्छायात्माऽसावसृताभयलक्षणः पुमान्न मवेत् ॥८१ ॥ भवतुृतदा, जीवो वा देवो वा स्यान्न चैव परमात्मा। धर्मादिसाधनोऽसौ जीवोऽप्यसृतादिलक्षणो भवति ॥८२॥ योडसी हि देवतात्मा स चापि निर्दिष्टलक्षणो दृष्टः। सत्या गतौ परस्य हि विशिद्द्देशत्वकल्पनाऽनुचिता॥।८३।

Page 39

द्वितीयपद: २] माष्यार्थरत्नमाला। ३५

वृश्यत्वकल्पना वा तस्याऽनुचिता ह्यनामरूपत्वात्। इति शक्कायां सत्यामुपकोसलवाक्यमेतदृखिलमपि । ८४H सम्यग्विचार्य मगवानिद्मधिकरणं चकार मुनिवर्य: । अन्तर उपपत्तेः ॥१३॥ महविदो मुखमिव ते मुखं विभातीति तं प्रशस्याऽडदी ॥। ८५1 तस्मा उपदेशमिमं चकार जाबालमुनिवरो यस्मात्। मेनोपदिश्यमानो य एष इन्यादिवाकयनिर्दिक्टः ॥८६॥ स च परमात्मेव स्यान्न चेतरः कोऽवि शक्कितुं शक्य: । आत्मत्वममृतमावो ब्रह्मात्मकतामय च सर्वमिद्म्॥८७॥ गुणजातं परमात्मन्युपपन्नं स्यान्न चेतस्त्रापि। पाप कर्मैवंविदि न श्लिष्यत इति हि यञ्ञ निर्दिट्टम् ॥ ८८।। तद्विदि पापास्पर्शंनमस्मिन्पक्षे समञ्जसं भवति। अक्षिस्थानं यदिदं प्रदर्शितं सर्वलेपरहितमिति ।८3 ।। तद्यदितिमन्त्रभागे तस्मात्स्यादिह पर: पुमानेव। यञ्चेह वामनीतवं संयद्धामत्वमपि च यञ्चोक्तम्॥९० ।। यञ्चेह मामनीत्वं परमात्मनि युक्तमेतद्खिलमपि। संयद्वामत्वादिकमखिलं विवृतं हि मन्त्रभागेण ।। ९१ ॥। क्मंफलोत्पादकता संयद्ामत्वशब्ड्लभ्योऽर्थः । कर्भफल प्रापकता मवति तथा वामनीत्वशब्दार्थः।।९२॥ सर्वार्थमानदृत्वात्तथैव सर्वत्र मासमानत्वात्। उक्त हि मामनीत्वं तदेतद्खिलं परात्मनि प्रथितम् ॥९३॥ तस्मादिह परमात्मा निर्दिषो मवति नेतरः कश्वितू। स्थानादिव्यपदेशाच्॥ १४ ॥

नेयं शङ्का यस्मात्तस्य स्थानानि दर्शितान्येव। अन्तर्यामिनिरुक्तस्थानानि बहूनि दर्शितान्यस्य।। ९५॥ - चक्षुरपि तत्र दृष्ट तस्माद्यमिह पर: पुमानेव। सूत्रस्थादिपदेन हि नाम च रूपं च वर्णितं यद्पि॥१६॥ महण्युपास्परूपे तदेतद्खिलं समख्जसं मवति।

Page 40

३६ सुबह्मण्य विरचिता- [१ प्रशमाध्याययग

सुखविशिष्टाभिधानादेवं च । १५॥

कं ब्ह्मेत्यादिकमपि सुखात्मकं ब्रह्म बोधयत्याशु।

ब्रह्मपद्साहचर्यात्कंशब्दोऽनन्तसुखपरो भवति। तेनानन्तसुखात्मकमुपदिषटं ब्रह्म पूर्ववाक्येण ।। ९९॥ न होतादृशरूपो जीवो देवोऽथ वा मवत्यन्य: । श्रुतोपनिषत्कगत्यभिधानाच ॥१६॥ विदितश्ुत्यन्तस्य च या गतिरुपदिश्यते हि वेदान्ते ॥। १०० ॥ अर्चिष्ममुखा सेहाप्युपदिष्टाSतोऽयमत्र परमात्मा। अथ यदि चवेत्यस्मिन्मन्त्रे गतिरियमुदाहता भवति ॥ १०१ ॥ तस्मादृक्षिस्थाने प्रदर्शितोऽयं हि मर्वात परमात्मा । अनवस्थितेरसंभवाच्च नेतरः ॥ १७॥ इतरथ्वाप्यात्मादिन चेह निर्दिश्यतेऽन्तरक्षिणि हि॥ १०२ ॥ अनवस्थितो यतोऽसी छायात्मा किं च भवति नाऽडत्माडपि। चक्षु:समीपवर्ती पुरुषो यदि भवति चक्षुषि च्छाया॥१०३। अपयाते तस्मित्निह पुरुषच्छाया न दश्यते काऽपि। जीवो यद्यप्याव्मा तथाऽपि चक्षुष्यवस्थितो नायमू॥१०४॥ चित्तोपाधियोऽसी चित्तं प्रायेण हृदयदेशगतम्। अमृतत्वमस्य दुर्घटममयं चाप्यरय दुर्घटं सवति॥१०५॥ सर्वगतस्य परात्मन इदं हि सकलं समख्जसं भवति। यद्यपि व वेवतात्मा नित्यं चक्षुष्यवस्थितो मवति॥ १०६॥ अमृतादिशब्दयोगी तथाऽपि नैवाऽडत्मशब्दृयोग: स्यात्। अमरत्वं देवानां चिरकालावस्थितत्वसापेक्षम् ॥ १०७॥ ऐश्वर्यमीशतन्त्रं न च स्वतोऽस्यामयं च नो भवति। दृश्यत इति येयं श्रुतिरुदाहृता सा न चाक्षुषत्वपरा।१०८॥ विदवदनुभूतिविषय प्रदर्शनार्था प्ररोचनार्थेब। तस्मात्परमात्माडयं योऽसावक्षिणि निरूपितो हात्मा ।।१०९ ॥। उपकोसलवाक्यमिद तत्र परात्मनि समन्वितं मबवि।. नन्वयमक्षिस्थाने प्रदर्शितो मवति नैव परमात्मा 1,११8*।

Page 41

द्विपीयपाढ: २] माष्यार्थरत्नमाला।

स्थानव्यपदेशादिति शङ्ककां वारयितुमेष वृष्टान्तः । अन्तर्यामिब्राह्मणवाक्ये यज्ञक्षुषीति निर्दिष्टः॥१११॥ स्थानादिव्यपदेशादिति सूत्रेणोपदर्शितः पूर्वम। स च हटान्तोऽसिद्धो यतः परात्माऽशरीर उपदिष्ट: ।११२।। अशरीरस्य क्वापि हि यमयितृमावो न दृश्यते लोके। इह खल्वन्तस्तिष्ठन्यमयत्ययमिति हि दर्शितो योऽसी ॥११३॥ अन्तर्यामी योगी किंवा स्यात्तदृभिमानिदेवो वा। न तु परमात्मा योऽसावकार्यकरणो निरूपित: शास्त्रे ॥ ११४॥ इति शङ्कां वारयितुं चकार मुनिवर्य एतद्धिकरणम्। अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥ अधिंदेवादिविभिन्नं जगत्समग्रं हि योऽन्तरवतिष्ठन् ॥। ११५ ।। यमयति स च परमात्मा न हि योगी नापि देवतात्मा वा। योडसी परमात्मा स्याज्जगतः सृध्यादिकारणं भवति ॥११६ ॥ जगदीश: कृत्स्मिदं जगन्नियन्तुं स एव शक्कोति। आत्मत्वममृतभावस्तस्येव हि युज्यते न चान्यस्य । ११७॥ अतथाभूतो योगी देवो वाऽत्माSमृतः कर्थ भवति। यं पृथिवी नेत्येषा श्रुतिः पृथिव्यादिदेवतादीनाम् ॥ ११८॥ अन्तर्यामिणमविदितमाचष्टे स न कथं परात्मा स्यात्। यो देवतात्मनामप्यन्तर्यामी कथं स देव: स्थात् ॥११९॥ स्वस्यैव यमयितृत्वं नियम्यता चेति बाधितं तत्स्यात्। यञ्ञोक्तमस्य बाधितमकार्यकरणस्य यमयितृत्वमिति॥१२० ॥ तदृपि च दूषणमस्मिन्नचिन्त्यशक्तौ परापरे न भवेत्। यानिह यमयति भगवान्कर्मफलासक्तपेतसो लोकान्॥।१२१॥ तत्कार्यकरणजालैः सकार्यकरणो ह्यकार्यकरणोऽवि। एवमदृष्टत्वादिव्यपदेशोऽप्यत्र दर्शितो योडसौ ॥।१२२॥ स च परमात्मनि युक्तो न योगिनि स्यान्न देवतात्मनि वा। न च स्मार्तमत्र्माभिलापात्।१९ ॥ ननु पावृष्टत्वादिव्यपदेश: स्यात्म्रधानपक्षेऽपि॥ १२३।। जगतः कारणमावादन्तर्यामि प्रधानमेव स्यात्। इति पेश्रेषं शक्का महत्वादिकमुदाहतं येन॥। १२४॥।

Page 42

सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

तच्चाप्रधानधर्मो ह्यन्तर्यामी ततः परात्मैव। दषटत्वादृष्टत्वव्यपदेशादिह स न प्रधानं चेत् ।। १२५ । शारीरो भवतु तथाऽप्यन्तर्यामी यतः स हि द्रषा। भोता मन्ता चाउडत्मा चेतनमावाददृष्टरूपश्र ॥ १२६॥। देहादियमयितृत्वादित्याशङका निरस्थते सपदि। शारीरथ्वोभयेऽपि हि भेदेनैनमधीयते ॥ २०॥ पश्ायं शारीरो नान्तर्यामी मवेद्यतश्रैनम् ॥१२७।। शारीरान्ज्ेदेन हि काण्वा माध्यदिनाश्च कथयन्ति। थो विज्ञाने तिष्ठन्नित्यन्ये वर्णयन्ति चान्येडपि ॥ १२८॥ योऽसावात्मनि तिष्ठन्नित्यपि कथयन्ति चोभयत्रापि। विज्ञानशब्द एकस्तथाऽSत्मशब्दोऽपि जीववचनः स्यात् ॥१२९॥ विज्ञानमयो यस्माज्जीवो निर्दिश्यते हि सर्वत्र। जीवस्यान्तर्यामी योऽसौ स कथं हि जीवतां गच्छेत् ॥ १३०॥ तस्मादन्तर्यामिणि परमात्मनि वाक्यमेतदुपपन्नमू। ब्रह्मण एकस्यापि हि नियामकत्वं नियम्यरूपत्वम् ॥१३१॥ औपाधिकमेदेन हि तदेतदखिलं समख्जस भवति। नन्वत्रान्तर्यामी द्रषटत्वात्मत्वधर्मयोगेण । १३२॥ स्मातं प्रधानमेतन्न भवति चेन्दवतु तावताऽपीह। मुण्डकवाक्ये भूयो निरु्तमद्वेश्यतादिगुणयोगि॥१३३॥ अक्षरमिति यत्प्रथितं तदिदं स्मातं प्रधानमेव स्यात्। शब्दादिरहित मेतद्यत एतस्य ह्यदृश्यता युक्ता ॥ १३४॥ अग्राह्यत्वादिकमपि सूक्ष्मत्वादस्य युक्तमाभाति। महदादिकारणत्वात्रिगुणत्वादस्य भृतयोनित्वम् ।। १३५ । सस्मादेतद्वाक्यप्रदर्शितं यत्प्रधानमेव स्थात्। यद्यत्र योनिशब्दो निमित्तवाची तदा तु शारीस:॥१३६॥ न हि मवति मतयोनिर्यतश्र धर्मादिसाधनोपचितः । नन्विह मुण्डकवाक्ये प्रधानमद्ेश्यतादिगुणयोगि॥१३७॥ इति यद्चाच्येत तदा मवति विरोधोडत्र वाक्यशेषेण। यः सर्वज्ञः सर्वविदित्येवं वाक्यशेष इह हष्षः ॥ १३८॥ तह्ाक्यशेषदर्शितसर्वज्ञत्वं कथं प्रधाने स्यात । इति नातर शङूनीयं सर्वज्ञत्वं यदेतदुपदिष्टम् ॥ १३९ ॥

Page 43

द्वितीयपाद: २] भाष्यार्थरत्नमाला।

अक्षरपदाभिधेयात्परस्य परमात्मनो हि निर्दिष्टम् । तस्मादस्मिन्वाक्ये प्रधानमिह भूतयोनिरित्युक्तम् ॥१४० ॥ अथवाडयं शारीरो न हि परमात्माऽत्र मूतयोनि: स्यात्। हष्टान्तबोधकानि हि यथोर्णनाभिरितिवाक्यजालानि ॥१४१॥ दृष्टान्तभावमेषामचेतनानां यतश्र कथयन्ति। इत्याशङ्कां सकलां निरस्य वाक्यार्थतत्त्वबोघार्थम्॥१४२॥ भगवान्करुणासिन्धुश्रकार मुनिवर्य एतद्धिकरणम्। अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ मुण्डकवाक्ये योऽसावद्रेश्यत्वादिगुणक उपदिक्टः ॥ १४३॥ स च परमात्मा यस्मात्सर्वज्ञत्वादिधर्मनिर्देशः। भूतप्रकृतित्वेन हि यदक्षरं पूर्ववाक्यनिर्दिष्म् ॥१४४ ॥ तत्रैवोत्तरवाक्ये सर्वज्ञत्वं च दर्शितं येन। अक्षरविद्या येयं परविद्या नेति वर्णितं पूर्वम्॥१४५॥ यद्यक्षरं प्रधानं तद्विद्या सा कथ परा विद्या। कस्मिन्मगवो ज्ञाते सर्वमिदं ज्ञातमिति च यञ्चोक्तम् ॥१४६॥ एकस्य च विज्ञाने सर्वज्ञानं परात्मपक्षे स्यात्। या कर्मगोचरा स्यादपरा विद्येति तां हि निन्दित्वा ॥ १४७॥ निःश्रेयसफलकतयाSपरविद्या नेति वर्णितं भूयः । निन्दित्वाऽपरविद्यां ततो विरक्त्स्य साधनं कथयन् ॥१४८॥ परविद्यायामस्यां श्रुतिरधिकारं हि तस्य बोधयति। परतः पर इत्यन्ते मन्त्रे निर्दिष्टमक्षरं यत्स्यात् ।१४९॥ तज्चोत्तरसूत्रार्थव्याख्याने दर्शयिष्यते भूयः । तस्मात्स हि परमात्मा यद्क्षरं स्यादवृश्यतादिगुणम्॥१५०॥ सर्वज्ञत्वाद्यखिलं तस्मिन्नात्मनि समञ्जसं मवति। यस्मादचेतनानां दृष्टान्तत्वं प्रदर्शितं मूयः ॥१५१॥ तस्मादक्षरशब्दं प्रधानमिह मूतयोनिरेवेति। य द्दूषण मेतस्मिन्परात्मपक्षे न किंचिदृपि भवति ।१५२।। न हि दष्टान्ते धर्मिणि सकलं साम्यं विवक्षितं मवति। विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥२२॥ यद्यक्षरशब्द: स्वाच्छारीरेऽसी विशेषणं चैतत्॥१५३ ।

Page 44

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्याषस्थ-

दिव्यो हीत्युपदिष्टं दिव्यत्वाद्यनुपपन्नमेव स्पात्। आविद्यकदेहादावहमभिमानेन विस्मृतस्वात्मा ॥ १५४॥ यः शारीर: सोडयं दिव्यत्वाद्यैः कथ विशिष्येत। 1 अद्रेश्यत्वादिगुणं यदक्षरं भूतयोनिरित्युक्तम् ॥१५५॥ उपदिश्यते प्रधानाद्विन्नं तस्माच्च तत्परात्मैव। अप्राणो हीत्यस्मिन्मन्त्रे पुंलिद्गशब्द्निर्दिक्टः ॥१५६॥ योडयं परमात्मा स्यात्स चाक्षरात्पर इहोपदिष्टः स्यात्।

न हि तद्विना परात्मा सृष्टिस्थितिनाशकारणो मवति। रूपोपन्यासाच्च । २३॥ अग्निमूर्धेतीयं श्रुतिरस्यैवाक्षरस्य रूपमिद्म्॥१५८॥ त्रैलोक्यावयवात्मकमुपदिशति हि तस्य चान्तरात्मत्वम्। न ह्येतादृशरूपं शारीरे स्याच्छरीरपरतन्त्रे ॥१५९॥ सर्वान्तिरात्मताऽपि च न च प्रधाने ह्यचेतने भवति। भकरणात्। प्रकृतानुकर्षणं हि प्रकरणशब्दार्थ एष उपदिक्षः ॥ १६०॥। सर्वस्य चान्तरात्मा यस्तं ह्वेष इति निर्दिशन्पूर्वम। पुनरप्येतस्मादिति तमेव भूय: परामृशन्नस्य ॥ १६१॥ प्राणादिकारणत्वं प्रपश्चितं येन स खलु परमात्मा । केचिदिहाऽडहुः सुधियस्त्वग्गिमूर्घेतिवाक्यनिर्दिष्टम् ॥१६२॥ रूपं यदेतद्खिलं नाद्रेश्यत्वादिगुणक उचितमिति। अज्ञादीनामेषां निर्दिष्ा जायमानता यस्मात् ॥ १६३॥ तस्मात्तदिदं रूपं हिरण्यगर्भस्य युक्तमाभाति। पुरुष इति वाक्यशेषप्रदर्शितं रूपमत्र सूत्रोक्तम् ॥ १६४ ॥ तस्योपन्यासोऽयं तत्पतिपत्तिप्रजननो भवति। ननु वाक्यशेषदर्शितसर्वज्ञत्वादिधर्मयोगेण ॥१६५॥ यद्यक्षरं प्रधानं न मवति चेन्भवतु तार्हे तत्रैवम्। वेश्वानर इति रूढश्छान्दोग्ये हि प्रदर्शितो योऽसी ॥१६६ ॥

अथमगनिरिति व वाक्ये यद्यंशब्दोऽपि जाठरे हक्षः ॥१६७॥

Page 45

द्वितीयपाद: २] माष्यार्थरत्नमाला। ४१

यद्यं भूतागनिर्वा वैश्वानरशब्द्वाच्यतां गच्छेत्। विश्वस्मा इति वाक्ये वैश्वानरशब्द एष भूताग्री॥१६८॥ दृष्टस्तस्मादृथ वा भवेदसौ तद्भिमानिदेवो वा। वैश्वानरस्य सुमताविति श्रुतिर्ह्यत्र साधिका भवति ॥१६९ ॥ यद्यात्मशब्द्योगान्नैते वैश्वानरा मवन्ति तदा। जीवो वा स्थाद्यदयं जाठरवैश्वानरेण संनिहित: ॥ १७० ॥। प्रादेशमात्रमिति च श्रुतिरप्यस्मिन्समख्जसा भवति। तस्मादिह जीवो वा जठराग्निर्वाऽथ वाऽपि भूताग्निः ।।१७१॥ वैश्वानरशब्दः स्यात्किंवाऽसौ तद्भिमानिदेवो वा। न तु परमात्मेत्येवं निरसितुमुक्तपकारमाक्षेपम् ॥१७२॥ सर्वज्ञोऽसौ मगवानिदमधिकरणं चकार मुनिवर्यः। वैश्वानरः साधारणशब्दविशेषात् ॥२४॥ उद्दालकावसाना ये च प्राचीनशालमुनिमुख्याः॥१७३॥ को नु इति ते च सर्वे मीमांसां चक्रुरेवमन्योन्यम्। मतिवैरुप्यादेते परिनिष्ठां तत्र लव्धुमसमर्थाः।।१७४।। वैश्वानरविद्यां तां ग्रहीतुकामा: शुचिव्रता मुनयः । एतद्विद्याकुशलं केकयमश्वपतिमेत आजगमुः ॥१७२॥ राजानं पपच्छुर्बूहीत्यन्तेन वाक्यजालेन। राजाऽपि परमकृपया तद्भिप्रायं च सकलमाकर्ण्य । १७६॥। व्यस्तोपासनपक्षं निन्दित्वाSडत्मानमुपदिदेशेत्थम्। यस्त्वेतमिति च वाक्यैर्द्युमूर्धताद्यङ्गषद्कसंवलितम्॥१७७॥ वैश्वानरं वदिष्यंस्तदुपास्तिफलं च वर्णयामास। अत्र च वाक्ये सकले योऽसी वैश्वानरो विनिर्दिषः ॥१७८ ॥ स च परमात्मैव स्यान्न जाठराग्न्यादिरथ च जीवो वा। न ह्यस्य जाठराग्रेर्य्युमूर्धता स्याद्यतः परिच्छिन्नः ॥१७९॥ यद्यपि भूताग्निरसावपरिच्छिन्नस्तथाऽपि नेयं स्यात्। यो हि विकारो लोके नैव विकारान्तरात्मको दृषः ॥१८० ॥ नायं जीवोऽपि तथा यतः परिच्छिन्न एष निर्दिष्टः । जगतोऽस्य कारणत्वात्परमात्मन एतदखिलमुपपन्नम् ।।१८१ ॥ कार्यगता ये धर्मा निर्दिश्यन्ते हि कारणे लोके। फलगतमपि माधुर्यं चूतादौ मन्यते यतो लोक: ॥ १८२॥ ६

Page 46

४२ सुधझ्ण्यविरचित्ता- [१ प्रथमाध्यायस्द-

तस्मादसौ परात्मा द्युमूर्धतादिमिरिहोपदिष्टो यः। यदि परमात्मा न स्याद्योडसी वैश्वानरोऽन्र निर्दिहः॥१८३। तदुपासकस्य मोग्यं सर्वत्रेत्येतद्नुपपन्नं स्थात्। तद्यदिषीकातूलं ह्यगी प्रोतं प्रदूयते यदत् ॥ १८४ ॥ तद्वद्वैश्वानरविदि पापं कर्मेति चाप्ययुक्तं स्यात्।

लोकादिषु फलभोगव्यपदेश: पापकर्मनाशोक्ति:। वैश्वानरशब्दोऽयं हेतुभिरतैः परात्मपर एव ॥ १८६॥ हममर्थं बोधयितुं पञ्चम्यन्तोऽत सूत्रनिर्दिष्टः। व्यवधानं गमितौ तौ द्वयोस्त्रयाणां च बोधकी मवतः ॥१८७॥ तावेती संनिहिती परमेश्वरमेनमेव बोधयतः । माणवकमग्निमेनं पश्येत्येवविधेषु वाक्येषु॥ १८८॥ माणवकशब्द्योगादुत्कृष्टपरो यथाऽग्रिशब्द: स्यात्।

परमेश्वरमेवैनं वैश्वानरमीदृशं प्रबोधयति। स्मर्यमाणमनुमानं स्यादिति॥२५॥ द्यां मूर्धानमितीयं स्मृतिरषि वैश्वानरस्य रुपमिद्म् । १९०। दर्शयति तञ्च रूपं श्रुतिनिर्दिष्टत्वसाधकं मवति। श्रुतिमूलं स्मृतिवाक्यं वदन्ति वेदार्थपारगा वृद्धाः॥१९१॥ यञ्च स्मृतिनिर्दिष्टं तच्छतिवाक्येन दर्शितं मवति। एतज्च पारमेश्वररूपमिति स्मृतिरियं हि दर्शयति ॥१९२॥ छान्दोग्येऽपि हि तदिदं प्रदर्शतं येन भवति परमात्मा। इतिशब्दो हेत्वर्थः सूत्रोक्त: पारमेश्वरं रूपम्॥१९३॥ श्रुतिनिरदिष्टं यस्मात्सोSचिन्त्यात्मेति दर्शितं स्मृत्या। शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा दृष्टु- पदेशादसंभवात्पुरुषमपि चैनमधीयते ॥ २६ ॥ नन्विह वैश्वानर इति निर्दिष्टो भवति नैव परमात्मा ॥१९४॥ शब्दादिभ्योपि तथा तथैव चान्तःप्रतिष्ठितत्वेन। वैश्वानरशब्दोऽसी तथाडग्रिशब्दोऽपि योऽत निर्दिकः ॥१९५॥ तावेतावग्निपरौ स एष इत्यादिवाक्यनिर्दिषी। आदिपदादृत्रत्याद्गित्रेताप्रकल्पनं ग्राह्यम् ॥१९६॥

Page 47

द्वितीयपाद: २] माष्यार्थरत्नमाला। ४३

प्राणाहुत्याश्रयता ग्राह्या या वाक्यशेषनिर्दिष्ा। अन्तःप्रतिष्ठितत्वव्यपदेशोऽप्यत्र दर्शितो भवति ॥ १९७ ॥ एतेभ्यो हेतुभ्यो वैश्वानर एष जाठराग्गि: स्यात्। इति शङ्काऽत न कार्या नाग्निर्जाठर इहोपदिष्टः स्यात् ॥१९८॥ अपि तु तदुपाधिकेऽस्मिन्परमात्मनि दष्टिरत्र निर्दिष्टा। शब्दादिहेतवो ये पूर्वोक्ता नात्र बाधकास्ते स्युः ॥१९९॥ यदि जाठर एवाग्निर्वैश्वानर इति निरुप्यते तत्र। आत्मत्वमनुपपन्नं हयुमूर्घतादिकमपीह निर्दिष्टम् ॥२०० ॥ किं चात्र दर्शितं यत्पुरुषत्वं तदपि बाधितं तत्र। यत्पुरुष इति च वाक्ये पुरुषो वैश्वानरो विनिर्दिष्टः ॥ २०१॥ पुरुषविधमित्यपीमं सूत्रावयवं पठन्ति केचिदिह। तत्र च पुरुषविधत्वं यदुक्तमधिदैवतं यद्ध्यात्मम् ।। २०२।। द्युपभृतिष्वधिदैवं मूर्धादिष्ववयवेषु चाध्यात्मम्। तद्भिप्रायं तच्च हि न जाठरे भवति किंतु परमेशे ॥२०३॥ अत एव न देवता भूतं च ।। २७।। उक्तेभ्यो हेतुभ्यो भूताग्निर्वाडथ देवतात्मा वा। वैश्वानरो न हि स्याद्यतः स नाऽडत्मान चावि पुरुषोवा ॥२०४॥ लिङ्गानि बाधकानि हि यानि स्युर्भतदेवतापक्षे। तानि प्रदर्शितानि हि तस्माद्वैश्वानरः परात्मेव ॥ २०५॥। साक्षादप्यविरोधं जैमिनिः ॥ २८॥। पूर्वं हि जाठराये: प्रतीकभावं ह्युपाधिमावं च। आशरित्यैव हि दशितमेतस्यान्तःप्रतिष्ठितत्वमपि ॥ २०६॥ योऽसौ छुमूर्धतादिभिरुदाहृतः परमपुरुष इह वाक्ये। अन्तःप्रतिष्ठितत्वं तस्यान्तर्यामिभावयोगेन ॥ २०७ ॥ अथ वा चित्रुकान्तेषु हि पुरुषावयवेषु मूर्धता हुक्ता। अन्तःप्रतिष्ठितत्वं साक्षादेवेति जैमिनिः प्राह ॥ २०८ ॥ तस्मादस्मिन्वाक्ये परमात्मैव प्रदर्शितो नान्य: । वैश्वानरशब्दोडयं योगेन तमर्थमेव बोधयति॥२०९॥ विश्वेषां वा नर इति विश्वे वाऽस्येति योग इह भवति। सर्वजगतकर्तृत्वात्सर्वान्तिर्यामिभावनिर्देशात् ॥२१०॥

Page 48

४४ सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

वैश्वानरः परात्मा मवति ह्यत्रागनिशब्दबोध्योऽपि। अग्रफलनेतृभावाद्या च त्रेताग्निकल्पना साडपि । २११ ॥ सर्वात्मके परात्मनि सकलं चतत्समख्जसं मवति। अस्य प्रादेशत्वं संप्रति सम्यङनिरुप्यते सूत्रैः ॥२१२॥

परिदृश्यते परात्मा योडसी प्रादेशिकत्वमात्रेण। भक्तानुकम्पयाडयं तस्मात्प्रादेशिक: परात्मा स्यात् ॥ २१३॥ हृदयादिषु प्रदेशेष्वयं परात्मोपलभ्यते येन। प्रादेशिक: परात्मा तस्मादित्याश्मरथ्य आचार्यः ।। २२४ ॥ अनुस्मृतेर्बादरिः ॥ ३० ॥ प्रादेशमात्रहृदये प्रतिष्ठितं मन इति प्रसिद्धं हि। तेनानुस्मरणीयः कथितः प्रादेशमात्र एप इति ॥२१५॥ प्रस्थमिता: प्रस्था इति निर्देशोऽयं यथा तथेहापि। इति बादरिराचार्यो वदति प्रादेशमात्रतामस्य।। २१६।। संपत्तेरिति जैमिनिस्तथा हि दर्शयि ॥ ३१॥ यान्याधिदैविकानि ह्यङ्गान्यत्रोपदर्शितान्यस्य। प्रादेशिकमूर्धादी यदत्र संपादितानि चैष इति ॥ २१७॥ प्रादेशिकसंपत्या सेयं प्रादेशमात्रता तस्य । इंति जैमिनिराचार्यस्तस्य प्रादेशमात्रतां बूते ॥ २१८। आमनन्ति चैनमस्मिन्॥। ३२ ॥ मूर्धादिचुबुकमध्ये यदेनमिह वर्णयन्ति जाबाला:। वैश्वानरं परेशं य एष इत्यादिमन्त्रभागेण ॥ २१९॥ तस्मादसौ परात्मा प्रादेशिकशब्दभाजनं मवति। शब्दोऽयमभिविहितस्तत्र परात्मनि समञ्जसो भवति ॥ २२० ॥ सर्वत्राभिगतोऽयं परिमितिहीनी यतोऽयमात्मा स्यात्। जगदेतदृभिविमीते विभीयते वा य आभिमुख्येन ।। २२१॥ तस्मादेतव्वाक्यं दुमूर्धताद्यङ्गजालसंवलिते। वैश्वानरे परात्मन्युपास्यरूपे समन्वितं भवति ॥ २२२ ।।

Page 49

तृतीयपाद: २] माष्यार्थरत्नमाला। ४५

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां प्रथमो योऽसी समन्वयाध्याय:।।२२३॥ तत्र द्वितीयपादे सूत्रार्थो यश्र भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो जयतु सोयमनवद्यः ॥ २२४॥ इति प्रथमाध्याये द्वितीय: पादः ॥२॥

अथ तृतीयपादप्रारम्भः ।

इह च द्वितीयपादे यानि च वाक्यान्युपास्यबहुलानि। तानि ह्युपास्यरूपे समन्वितानीति दर्शितं पूर्वम् ॥१॥ अत्र च तृतीयपादे यानि ज्ञेयप्रधानवाक्यानि। तेषां समन्वयश्र ज्ञेये ब्रह्मणि निरुप्यते सद्यः ॥२॥ ननु वाक्यशेषद्टृष्टो द्युमूर्घताद्यन्वयानुरोधेन। वैश्वानरशब्दोऽसावुपक्रमस्थो यदा परात्मपरः ॥३॥ दयुभ्वाद्यायतनं यन्मुण्डकवाक्ये निरूपितं चाऽडदौ। तदिदं प्रधानमेव स्यादन्ते सेतुशब्दनिर्देशात् ॥४॥ दयुप्रभृतिप्राणान्तं यस्मिन्नोतमिति दर्शितो योऽसौ। अन्ते सेतुत्वेनाप्यमृतस्येत्यादिवाक्यशेषेण ॥ ५॥ अत्रामृतशब्दोऽसौ ब्रह्मण्येव प्रयुज्यते शास्त्रे। षठ्ठी संबन्धार्था सेतुर्द्ृषो हि पारवाह्लोके ॥६ ॥ तस्मादेतद्वाक्यं यद्मृतसंबन्धिपारवत्त्वगुणम्। बोधयति हि प्रधानं यतिः(तः) परात्मा न पारवान्मवति ॥७॥ अथ वा द्युप्रभतीनां विधारकत्वेन निश्चितो योऽसौ। वायुर्वा स्याद्थ वा शारीरो वाऽडत्मशब्दयोगेन ।। ८ ॥ तस्मान्मुण्डकवाक्ये द्युम्वाद्यायतनभावमापन्नः । न परात्मेत्याशङ्कां निरसितुमधिकरणमेतदाह मुनिः ॥९॥ युभवायायतनं स्वशब्दात ॥ १॥ द्युपभृतीनामेषामायतनत्वेन वर्णितो योऽसौ। न च परमात्मैव स्यान्न च प्रधानं न चेतर: कश्ित् ॥१०॥ यस्मिन्नोतं सकलं तमेकमात्मानमेव जानीथ। इत्यर्थके हि वाक्ये तस्मिन्टष्टो य आत्मशब्दो हि। ११ ॥

Page 50

४६ सुबह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

चेतनवाची सोडयं दृष्टः सर्वत्र चेतनार्थपर:। शुभ्वाद्यायतनत्वं न च प्रधाने श्रुतौ क्वचिद्दृष्टम् ॥१२ ॥ सन्मूला इति मन्त्रे सर्वायतनत्वमात्मनो दृष्टम्। यद्वाग्विमोकपूर्वकविज्ञेयत्वं प्रदर्शितं ह्यत्र ॥१३ ॥ तद्पि च परात्मन: स्यान्न च प्रधानस्य कुत्रचिद्दृष्टम्। भुत्यन्तरे तमेवेत्यस्मिन्टष्टं परात्मनस्तदिदम् ॥ १४ ।। पूर्वोपदशितं वा सर्वज्ञत्वं यदेकविज्ञानात्। तस्मिन्नितिमन्त्रोक्तं परात्मपक्षे समख्जसं मवति ॥१५॥

परमात्मानं बूते विज्ञेयत्वं च तस्य निर्दिष्टम् ॥१६ ॥ अतदर्थकवाक्यानां त्यागं वक्तीह मन्त्रशेषोऽयम्। मन्त्रो हि पुरुष एवेत्यपि सर्वस्यैव पुरुषतां बूते । १७ ॥ सामानाधिकरण्यं यदत्र हष्ट विलापनार्थ स्यात्। हष्ट विलयार्थत्वं चोरोऽयं स्थाणुरिति च वाक्ये हि ॥ १८ ॥ तद्वत्प्रञ्चमखिलं विलाप्य शुद्धं यदेतदायतनम्। ब्रह्म बूते मन्त्रो न सप्रपञ्चं न च प्रधानं वा ॥ १९ ।। सेतुत्वमभिहितं यद्यमृतस्यैष इति मन्त्रभागेण। तदृपि च विधारकत्वात्परात्मनो युक्तमेव सेतुत्वम् ॥ २० ॥ राहो: शिर इति वाक्ये षष्ठी चाभेदबोधिका दृष्टा। ब्रह्म यदाऽमृतशब्दं तदा त्वभेदार्थिका हि षष्ठीयम् ॥२१॥ मोक्षो यदाऽमृतः स्यात्संबन्धार्थेव भवति षष्ठीयम्। यो वाग्विमोकपूर्वकसाक्षात्कारस्तदा स मन्त्रोक्त: ।। २२ ।। एतत्पदाभिधेयः प्रापकभावेन तस्य हेतुत्वम्। तस्माद्ब्रह्मैवेदं दुभ्वाद्यायतनमत्र निर्दिषमू॥ २३॥ मुक्तोपसृप्यव्यपदेशात् ॥ २॥ रागादिदोषमुक्ता ये च स्युस्ते हि मुक्तपद्वाच्या:। मुक्तोपसृप्यता खलु निर्दिष्टा ह्यस्य चोत्तरत्र यतः ॥ २४ ॥ भिद्यत इति मन्त्रेरितसाक्षात्कारेण दोषमुक्तानाम्। पुरुषमुपैतीत्यन्तो मन्त्रोऽयं तदुपसृप्यतां बृते ॥२५॥ मन्त्रान्तरं यदेति हि कथयति कामादिदोषमुक्तानाम्। अत्र ब्रह्म समश्नुत इत्यन्ते तदुपसृप्यतामस्य ॥ २६ ॥

Page 51

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ४७

नानुमानमतच्छब्दात् ॥ ३ ॥ शुभ्वाद्यायतनं न प्रधानमनुमानगम्यमत्र स्थात् । अ्र च तत्परशब्दो यतो न दृष्टः कथं प्रधानं स्यात् ॥२७॥ यः सर्वज्ञः सर्वविदित्यादौ चेतनार्थशब्दो यः । सर्वत्र दृश्यतेऽसी तस्माद्यदिदं कथं प्रधानं स्यात् ॥२८॥ अत इह योऽयं वायुर्द्युभ्वाद्यायतनतां स नोपैति। यञ्च प्रधानपक्षे दूषणजालं तदेतदत्रापि॥ २९॥ प्राणभच्च।। ४ ।। प्राणमृदृपि शारीरो नैषामायतनमावसुपयाति। यद्यमसर्वज्ञः स्याद्यस्माद्बुद्धयादिभि: परिच्छिन्नः॥३० ॥ भेदव्यपदेशाच् ॥ ५॥ मे दृव्यपदेशाच्च शुभ्वाद्यायतनमत्र न हि जीव: । ज्ञातृत्वेन नियुक्त: स कथं विज्ञेयभावमुपयाति ॥३१ ॥ द्युभ्वाद्यायतनं यद्विज्ञेयत्वेन दर्शितं पूर्वम्। जानीथेति हि वाक्याज्ज्ञातृत्वेनोपदर्शितो योऽसौ ॥। ३२ ॥ तस्मादिह परमात्मा विज्ञेयत्वेन दर्शितः सोऽसी। झुभ्वाद्यायतनं स्यान्न च प्रधानं न कश्रिदन्यो वा ॥३३॥ प्रकरणात् ॥ ६ ॥ प्रकरणमपि यच्चैतत्परमात्मपरं हि दृश्यते विपुलम्। कस्मिन्नित्यारभ्य हि यतः परात्माऽत्र वर्णितो मूयः ॥ ३४॥ स्थित्यदनाकयां च ॥ ७ ॥ अन्योऽमिचाकशीतीत्यस्मिन्वाक्ये स्थितिर्विनिर्दिष्टा। स्वाद्वत्तीति च वाक्ये कर्मफलादनमपीह निर्दिषम ॥३५॥ ताभ्यां स्थित्यदनाभ्यामीशक्षेत्रज्ञलक्षणं कथितम्। क्षेत्रज्ञात्पृथगीशं यथोक्तलक्षणमिहोपपादयितुम् । ३६॥ इह लोकसिद्धमेनं क्षेत्रज्ञ न श्रुतिर्हि बोधयति। ईशो न लोकसिद्धो ह्यस्मात्तमिम श्रुतिः प्रबोधयति॥३७॥ पैद्विनवयाख्यानेऽपि हि योऽसौ क्षेत्रज्ञ इत्युपन्यस्तः । सत्वोपाधिथिवर्जिंतपरमात्मैवेति तेन न विरोध: ॥३८ ।।

Page 52

४८ सुब्ह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

तस्मादेतद्वाक्यं यथोक्तलक्षणसमन्विते शुद्धे। ब्रह्मणि परमे ज्ञेये समन्वितं तेन सकलमनवद्यम् ॥ ३९॥ नन्विह मुण्डकवाक्ये द्युप्रभृतीनां यदेतदायतनम्। तच्चाSSतमशब्दयोगात्परमात्मैवेति दर्शितं पूर्वम्॥४० ॥ तत्रेदमनुपपन्नं यदात्मशब्दो ह्यचेतनेऽपि स्यात्। छान्दोग्ये भूमवाक्ये ह्युपक्रमे पठित आत्मशब्दो य: ॥४१॥ उपसंहारे सोडयं शब्दो द्षो ह्यचेतने प्राणे । तत्रोपक्रमवाक्ये सनत्कुमारं हिनारदोऽभ्येत्य ॥। ४२॥ श्रुतमित्याद्यैर्ना(रा)तमविद्य(द)न्तैरात्मविविदिषां चक्रे। तत्र च सनत्कुमारोऽप्यृगादिपारगमृषिप्रवीरं तम् ॥४३॥ नाम ब्रह्मेत्यादीन्युपासनानि प्रदर्शयामास। प्रश्नप्रतिवचनाभ्यां प्राणान्तं सम्यगेनमुपदिश्य ॥४४ ॥ प्रश्नादिकं विनैव हि मूय: प्राणं प्रसञ्जयामास । प्राणो हेति हि वाक्यैः प्राणे सर्वात्मकत्वमुपदिष्म्॥४५॥ सर्वात्मकत्वसिद्धौ तस्याऽडत्मत्व च दर्शितप्रायम। सर्वसमर्पणमुक्तं तस्मिन्प्राणे यथेति मन्त्रेण । ४६।। प्राणविदो निर्दिष्ा ह्यतिवाद्यस्मीति मन्त्रभागेण। अतिवादिता तथोक्ता ह्यतिवादित्वापवादनिन्दा च ॥ ४७॥ सर्वसमर्पणकथनान्ूमत्वं प्राण एव संभवति। यद्भूमलक्षणं स्थाद्यवेत्यादौ प्रदर्शितं तदपि॥ ४८॥ सौषुप्तावस्थायां प्राणे सर्वं समञ्जसं मवति। यञ्च सुखत्वं भूम्नो दर्शितमसृतत्वमपि च यञ्चोक्तम्॥४९॥ प्राणेऽपि तदुभयं स्याद्यतो हि मन्त्रान्तरे तथा दृष्टम्। यत्रैष इति च मन्त्रे सुखरूपः प्राण एव निर्दिष्टः ॥ ५०॥ अमृतत्वमपि च तस्मिन्निर्दिष्टं प्राणवाक्यशेषे हि। तस्माद्योऽसौ भूमा प्राणोडयं भवति नैव परमात्मा ॥५१॥ इममाक्षेपं निरसितुमिदमधिकरणं चकार मुनिमान्य: । भूमा संग्रसादादध्युपदेशात् ॥८॥ नायं भूमा प्राण: प्राणादृध्वं यतोऽयमुपदिक्षः।।५२॥। परमात्मैवायं स्याल्लक्षणभेदात्प्रमाणभेदाज्च। श्रुतमिस्यादौ वाक्ये ह्यपक्रमे चाऽडतमविविदिषा दृष्टा ॥५३ ॥

Page 53

तृत्तीयपाद: ३] माष्यार्थरत्नमाला। ४९

शोकं तरतीत्यस्मा्फलमपि निर्दिष्टमात्मबोधस्य। प्राणोडयं यदि भूमा कथं स आत्मा कथं फलं चैतत् ॥ ५४ ॥ एतस्प्राणं ज्ञात्वा सोडयं शोक कथं तरेल्लोक: । नामादिपाणान्तं प्रतीतभावेन वर्णितं ह्यत्र ॥ ५५॥ तञ्च यदि ब्रह्म स्यादात्मा वा शास्त्रदृष्टविपरीतम्। वागादिप्राणान्ते भूय:शब्दः प्रदर्शितो योऽसी ॥५६्॥ सावधिकबहुलभाव पूर्वस्मादुत्तरस्य दर्शयति। निरवधिकबहुलभावं भूमक्शव्द्ोऽथ एप वर्णयति ॥५७॥ यस्मात्पञ्चम्यन्तं पदान्तरं नेह सनिधो हष्टम। निर्वधिकं च बहुत्वं परात्मनोऽन्यत्र न क्वचचिद्दृष्टम्॥५८॥ यो धर्मवाचकः स्याच्छव्दो नियमेन धर्मिसाकाङ्क्षः। भूमकशब्द: सोडयं धर्मपरो नियतधर्मिसाकाडक्षी(क्षः)।। ५९।। आकाङूक्षतेऽनुरूपं धर्मिणमानन्दवोधपरिपूर्णम। तस्मान्दूमञशब्दः सर्वगतं ब्रह्म सच्चिदानन्दम् ॥६० ॥ बोधयति नान्यमर्थ तेन प्राण: कथं स भूमा स्यात्। सर्वसमर्पणमेतत्सर्वात्मत्वं च यञ्च पूर्वोक्तम् ॥ ६१ ॥ तत्र च सर्वपदं स्याद्वागादिपरं न चाखिलार्थपरम् । उक्तं हि सुप्तिवाक्ये वागादीनां समर्पण प्राणे ॥ ६२ ॥ प्राणावस्थात्मकतां पित्रादीनां प्रबोधयत्येषाम्। प्राणो हीति प्रथिता श्रुतिर्न सर्वात्मतां बवीत्यस्य ॥६३॥ अतिवादित्वं यदपि प्राणविदो दर्शितं हि पूर्वत्र। अतिवादित्वं तदपि प्राणविद: श्रुतिरपोद्य भूयोऽपि ॥ ६४ ॥ सत्यविदो दर्शयति ह्येष तु वेत्यादिवाक्यशेषेण। अत्र तुशब्दो योऽसावुत्तरभाङननैव पूर्वभाग्भवति ॥६५ ॥ सत्यपद्ं ब्रह्मपरं सत्यं ज्ञानमितिमन्त्रनिर्देशात्। सत्यज्ञानेनैव ह्यतिवादित्वं न चेतरज्ञानात् ॥ ६६॥ इति मन्त्रार्थे सिद्धे ब्रह्मविदश्वातिवादिता सिद्धा। अत्रत्यमेव सत्यं विज्ञानादीनि साधनान्युकत्वा।६७॥ आकृष्य भूमवाक्ये बहुपपश्चं निरूपितं ब्रह्म। प्राणो यदि भूमा स्यादा्मा वा यदि तदाऽडत्मतः प्राणः ॥६८।।

Page 54

४० सुन्रह्मण्यचिरचिता- [१ प्रथमाध्यायस्य-

इति मन्त्रबाधनं स्याद्यदात्मजस्याSडत्मता विरुद्धा हि। देहैकदेशसंस्थो योऽसी प्राणः कथं भवेद्भूमा ॥ ६९॥ तस्मादिहं परमात्मा भूमा नान्य इति निश्चितं मवति। धर्मोपपत्तेश्र ॥ ९॥ ये चेह मूम्नि धर्माः श्रूयन्ते वाक्यशेषभागेषु॥ ७० ॥ ते सर्वे परमात्मन्युपपन्ना न ह्यतादृशे प्राणे। यत्रेतिवाक्यदर्शितलक्षणमस्येव सम्यगुपपन्नमू ।। ७१।। पस्मिन्दृष्टे नान्यत्पश्यति नान्यच्छृणोति लोकोऽयम्। न हि भूमेति च लक्षणमस्यैव स्यान्न चेतरस्यापि॥७२॥ यो वै भूमा तदसृतमितिमन्त्रोक्तं यदेतदमृतत्वम्। तदपि परात्मन एव हयुपदिष्टं सर्ववेदवाक्येष ॥७३ ॥ तत्सकलमित्युपदिष्ट सुखत्वमपि तस्य सुप्रसिद्धं हि। आनन्दो ब्रह्मेति हि मन्त्रे चान्यत्र दर्शितं भूयः ॥ ७४ ॥ आनन्दत्वं यदि चेद्बह्मणि सिद्धं सुखत्वमप्येवम्। उपसंहती हि कथितं तमसः पारत्वमुचितमेवास्य॥७५॥ सकलनिगमान्तवाक्यस्तमःपरत्वेन वर्ण्यते योऽसौ। यः सत्येनेत्येतन्मन्त्रोक्तं रूढमस्य सत्यत्वम्॥ ७६॥ स्वे महिमनीतिमन्त्रे श्रुतं च यत्स्वमहिमप्रतिष्ठत्वम्। यदृषि च सर्वात्मत्वं सर्वगतत्वं च यद्पि निर्दिष्म॥७७॥ तदखिलमपि परमात्मनि मूम्न्येव समख्जसं न चान्यत्र। उपसंह्ृतिवाक्यस्य ह्युपक्रमेणैकवाक्यभावोऽपि।। ७८।। मूछः परमात्मत्वं साधयति न चेतरस्य कस्यापि। तस्मादेतद्वाक्यं छान्दोग्ये सप्तमे विनिर्दिष्मू॥७९॥ भूमपरमखिलमात्मनि समन्वितं निर्विशेषचिन्मान्रे। नन्विह तत्सत्यपदं ब्रह्मणि रूढमिति भूमवाक्यमिद्मू। ८० ॥ तत्साहचर्ययोगाङ्वह्वपरं चेत्तथैव तत्रास्तु। शृहदारण्यकवाक्ये ह्येतह्वै तदितिवाक्यनिर्दिष्म् ॥८१॥ अक्षरमह वर्णः स्याद्क्षरशब्दृश्र वर्णरूढो हि। यद्यपि योगाश्रयणे ब्रह्मपरत्वं प्रतीयते तुस्मिन् ॥ ८२। तवृपि च योगाश्रयणं रूढिविरोधान्न चेह संभवति। तस्मादक्षरशब्दादोंकारो ह्यत्र ग्रह्यते नान्यः ।। ८३।।

Page 55

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ५१

सर्वात्मकत्वकथनादाकाशान्तस्य धारकत्वेन। निर्दिश्यते स एव ह्योंकार इति प्रदर्शितां शङ्काम् ॥८४ ॥ निरसितुमवह्ित हृदय श्रकार मुनिवर्य एतद्धिकरणम्। अक्षरमम्वरान्तघृतेः ॥१०॥ प्रथमे गार्गीप्रश्ने ह्याकाशो भूतधारकोऽभिहित: ।। ८५।। तस्मिन्निति द्वितीये ह्याकाशान्तस्य धारकत्वेन। अक्षरमिदमुपदिष्टं मुनिप्रवीरेण याज्ञवल्क्येन ।। ८६ ।। अस्थलादिपदैरिह लक्षणमुक्तं च तस्य तेनैव । एतल्लक्षणलक्ष्यं वह्मैवाक्षरपदेन निर्दिष्टम्॥८७॥ उपदिश्यते यद्क्षरमाकाशान्तस्य धारकत्वेन। वर्णात्मक ओंकारे ह्याकाशान्तस्य धारकतवं था ॥८८॥ अस्थलादिपदोक्तं लक्षणमपि वा यतो न संभधति। सर्वात्मिकत्वमपि वा तस्योंकारस्य यद्पि निर्दिटम्॥८॥ तदिदं ध्यानार्थं स्यान्न वस्तुयाथात्म्यनिर्णयस्य कृते। ननु यद्यक्षरशब्दादोंकारो नेह गृह्यते तर्हिं ॥९० ॥ मवतु प्रधानमक्षरमस्मिन्पूर्वोक्तलक्षणं युक्तम्। अपि चाम्बरान्तविधरणमपि युक्तं तस्य कारणत्वेन ।९१॥ शारीरो वा स्यादिह यदक्षरं याज्ञवल्क्यनिर्दिष्मू। सा च प्रशासनात् ॥११॥ या चाम्बरान्तविधृतिः परात्मनः स्यान्न च प्रधानस्य । ९२॥ जगतः प्रशासितृत्वं यदत्र वाक्येक्षरे विनिर्दिष्टम्। सर्वज्ञे परमात्मनि तदेतददुचितं न च प्रधानेऽपि॥ ९३॥ शारीरेऽपि न युक्तं यद्सौ देहादिभि: परिच्छिन्नः। अन्यभावव्यावृत्तेश्र ॥ १२॥ अत्राक्षरशब्देन हि यदन्यदाशक्कितं प्रधानादि॥ ९४॥ तन्भ्ावरहितमेव ह्यक्षरमेषा श्रुतिर्हिं बोधयति। दषटत्वादृष्टत्वाद्यिलं यच्चोपदर्शितं शुत्या ॥ ९५॥। तेनाचेतनमावः सकलोऽयं बाधितो भवत्यस्य। अक्षरशब्दः सोडयं योगवलाब्रह्मबोधको मवति । ९६ ।।

Page 56

५२ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

यत्र हि रूढिर्योगस्तत्र हि योगाद्वलीयसी रूढे:(ढिः)। अत्र च रूढेरबाधाद्योगबलेनाक्षरं परं ब्रह्म ॥ ९७॥ तस्मादक्षरवाक्यं ज्ञेये ब्रह्मण समन्वितं भवति। ननु यदि बृहदारण्ये यदक्षरं याज्ञवल्क्यनिर्दिष्टम् ॥९८॥ लिङ्गवशेनाक्षरपदरुढेवाधान्भवेत्परं बह्म। प्रश्नोपनिषदि या खलु निरूपिता सत्यकामसंज्ञाय ॥९९॥ प्रणवालम्बनविद्या यः पुनरित्यादिवाक्यनिवहेन। तत्र च यः परशब्दः पुरुषविशेषणपरो हि निर्दिष्ः ॥१००॥ गतिलिङ्गयोगतः स्यात्परकार्यपर एव रूढिबाधेन। गतिरिह हष्टा कार्ये ब्रह्मणि सा खलु न कारणे हष्टा ।। १०१ ॥ ईक्षत इत्यन्तेन हि मन्त्रेण यदीक्षणं विनिर्दिष्म्। अन्वेतीत्यन्तेन हि तत्पाप्तिफलं यदेतदुपदिषमू ॥१०२॥ तद्ुभयमपि कार्ये स्यादयुक्तं न हि कारणे कथंचिदृपि। तस्माद्यद्भिध्यानं तद्पि च कार्यस्य युक्तमामाति ॥१०३॥ इत्याक्षेपप्राप्ताविद्मधिकरणं कृतं मुनीन्द्रेण। ईक्षतिकर्मव्यपदेशात्सः ।। १३।। इह पिप्पलादनामा मुनिवर्यः सत्यकाममुपसन्नम् ॥१०४॥ ओंकारं च सतत्वं तद्वयवांश्र प्रबाधयन्भूयः । ब्रह्मध्यानालम्बनमावं द्विविधं हि दर्शयामास ॥१०५ ॥ ब्रह्मप्राप्त्यात्मकमपि फलमुभयविधं निरुपयामास। एतद्वा इत्याद्येनान्वेतीत्यन्तमन्त्रभागेण ॥ १०६ ॥। पश्चान्निर्दिष्टेन हि यः पुनरित्यादिमन्त्रभागेण। यः साधको हि पुरुषस्त्रिमात्रमोंकारमनिशमालम््य। १०७॥ ध्यायन्परं पुमांसं विसृष्टदेहश्र सूर्यमुपयाति। सूर्ये संपन्नः सन्स सामभिर्ब्रह्मलोकमुपनीतः॥१०८।। योऽसौ हिरण्यगर्मो जीवघनो यश्र पर इति प्रथितः । तस्मात्परं पुमासं स ईक्षते पुरिशयं परं ब्रह्म ।। १०९॥ इममर्थमुपदिदेश हि स पिप्पलादृश्र सत्यकामाय। अत्रायं परशब्दो ब्रह्मणि रूढ इति सुप्रसिद्धं हि ॥ ११० ॥ अत्र च रूढेबधि न कारणं किमपि शक्यते वक्तुम्। यत्कार्यगमनमुक्तं लिङ्गं तत्स्यान्न बाधकं रूढेः ॥ १११॥

Page 57

तृतीयपाद: ३] माष्यार्थरत्नमाला। ५३

कार्यगतस्य हि पुंसः कारणसाक्षात्कृतिर्यतो दृष्टा। कार्यात्यय इति सूत्रे तस्मात्कारणपरोडत परशब्द: ॥११२॥ यदि परशब्दो योडयं कार्यपरः स्यात्तदैतदफलं स्यात्। उभयात्मकत्वकीर्तनमुभयप्राप्तिस्वरूपफलकथनम् ॥ ११३॥ एतद्वा इति मन्त्रे हष यदिद निरर्थकं तत्स्यात्। ध्येयत्वव्यपदेशो ह्यतथाभूतस्य दृश्यते शास्त्रे ॥ ११४॥ पञ्चाग्निध्यानादावीक्षतिकर्मत्वकीर्तनं न तथा। तस्यादृत्र ध्येय: परः पुमानेव नापरं ब्रह्म ॥११५॥ यस्मात्परस्य पुंसः श्रुतिरीक्षतिकर्मतां बवीत्यस्य। तस्मादेतद्वाक्यं यथापदिष्ट हि पिप्पलादेन ॥ ११६ ॥। ज्ञेये प्रणवध्येये ब्रह्मणि परमे समन्वितं भवति। नन्विह परशब्दोऽयं परमात्मन्येव मुख्य इति मत्वा ॥११७॥ परमात्मपरतयाऽयं निर्दिष्श्रेत्तयैव चात्नास्तु। इह दहरवाक्यमेतच्छान्दोग्ये हश्यते ह्यथेत्यादि ॥ ११८॥ तत्र ब्रह्मपुरेऽस्मिन्दहरं यत्पुण्डरीकमुपदिष्मू। तस्यान्तरप्रकाशं दहरत्वेनेह दर्शयित्वाथ ॥११९॥ तस्यान्तस्थं यत्स्यात्तस्यान्वेष्टव्यता विनिरदिष्ा। भूताकाशः स्यादिह योऽसावाकाशशब्द्निर्दिष्टः ॥१२० । यस्मान्भूताकाशे रूढो ह्याकाशशब्द इह हष्षः। दहरायतनापेक्षं दहरत्वं तस्य सम्यगुपपन्नम् ॥१२१॥ अन्वेष्टव्यत्वादिकमस्यैव स्यान्न चेतरस्यात्र। अन्वेष्टव्यत्वादिकमाकाशान्तस्थ एव दृष्टमिति ॥१२२॥ यदुच्यते तदाडयं शारीर: स्यान्न चेह परमात्मा। दहरत्वादिकमखिलं तस्मिन्नाराग्रमात्र उपपन्नम् ॥१२३॥ जविपुर एव तस्मिन्ब्ह्मपुरत्वं श्रुतिर्हिं बोधयति। जीवकृतकर्मजन्यं शरीरमेतद्दि जीवपुरमेव ॥१२४ ॥ जीवे च ब्रह्मपदं माक्त स्यान्नैव मुख्यभावेन। यो हि पुरस्वामी स्यात्पुरैकदेशे स्थितिर्भवेत्तस्य ॥ १२५॥ बुद्धयाद्युपाधिकत्वाच्छारीरोडयं भवेत्पुरस्वामी। परमात्मनो विभुत्वाद्दहरत्वादिकमयुक्तमेतस्मिन् ॥१२६ ॥

Page 58

५४ सुबह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

इत्याशक्कां निरसितुमधिकरणमिदं चकार मुनिरत्र। दहर उत्तरेश्यः ॥ १४॥

हृत्पुण्डरीकवेश्मनि दहरो योऽसाविहान्तराकाशः॥ १२७ ॥ स च परमात्मा नासी भूनाकाशो न चापि शारीर:। यस्मादुत्तरवाक्ये ह्येतच्छव्देन दहरमनुकृष्य ॥१२८॥ आत्मत्वाद्युपदिष्टं तस्माद्दहरः परः पुमानेव । आत्मत्वं च यदुक्तं ह्यपहतपाप्मत्वमपि च यच्चोक्तम् ॥ १२९ ॥। यदिदं हि सत्यसंकल्पत्वान्तं विजरतादिमध्यमपि। तत्सवं परमात्मन उचितं न व्योम्नि नापि शारीरे॥ १३० ॥ यस्माद्भूताकाशो ह्यचेतनस्तेन भवति नाऽडत्माSसौ। यद्यप्यात्मा जीवस्तथाऽपि नापहतपाप्मतादिगुणः ॥ १३१॥ मूताकाशीपम्यं तद्गुणसारस्य नैव संभवति। ब्ह्माभेदेन यदा तदेतदापादयते तदा भाक्तम् ।१३२॥। मुख्यासंभवपक्षे गौणार्थो गृह्यते न चेतरथा। यद्यप्याकाशपदं भूताकाशे तु मुख्यमेव स्यात् ॥१३३॥ पूर्वोक्तधर्मबाधात्तथाऽपि सोडयं न गृह्यते दहरः। आकाशस्तलिङ्गादित्यधिकरणेन पौनरुक्त्यमपि ।। १३४ ।। नैवाऽडशडूयं यस्माद्यद्षत्र दृष्ट हि लिङ्गमस्पट्टम्। अन्वेष्टव्यत्वादिकमन्तस्थस्थेव वस्तुनो हष्म् ॥१३५॥ दहरस्याSडकाशस्य तु नैतद्दृष्टमिति नैवमाशङ्ू्यम्। यद्याकाशो दहरो नान्वेष्टव्यो मवेत्तदैवं स्यात् ॥१३६॥ द्यावाभूमीत्यादिकमन्वेष्टव्यं भवेदतो नैवम्। इह दहरवाक्यशेषे ह्यपहतपाप्मत्वगुणकमात्मानम् ॥१३७॥ हत्पुण्डरीकवेश्मन्यन्विष्य तदाशरितांश्र सत्यादीन्। अन्विष्य भोगशेषं क्षपयित्वा ये व्रजन्ति परलोकम् ॥१३८ ॥ तेषामुपासकानामकुण्ठितः कामचार उपदिष्टः। यस्मात्तस्मादत्र हि दहरं च तदाश्रितं च सत्यादि ॥ १३९॥ अन्वेष्टव्यं तदुभयमिति बोधयित् यदन्तरिति कथितम्। बह्मोपलब्धिसाधनमिदं शरीरमिति सुमसिद्धं हि॥ १४० ॥

Page 59

तृतीयपाद: ३] माष्यार्थरत्नमाला। ५५

ब्रह्मपुरशब्दयोगोऽप्यनुकूलो भवति नैव विपरीतः। आकाशौपम्यादिकमखिलं परमात्मनो हि युक्ततरम् ॥ १४१ ॥ यस्मात्सर्वगतोऽसावायतनापेक्षमस्य दहरत्वम्। ये वाक्यशेषदर्शितधर्मास्त साधकाः स्युरत्रेति ॥ १४२ ॥ पञ्चम्यन्तार्थमिमं सूत्रैवर्णयति सूत्रकारोऽयम्। गतिशब्दाभ्यां तथा हि दृष्ट लिङ्गं च ॥ १५ ॥ इह दहरवाक्यशेषे ब्रह्मगतिर्दर्शिता हि जीवानाम्॥१४३॥ सा ब्रह्मभावमरय हि साधयति ब्रह्मलोकशव्द्रोडपि। अहरहरिमा: सुषुप्ता: प्रजा: खलु ब्रह्मलोकमिमम् ॥१४४॥ न विदुर्गच्छन्त्योऽपीत्ययमर्थश्र प्रदर्शितस्तत्र। हृत्पुण्डरीकनिलयो दहरो योडयं न चेत्परात्मा स्यात् ॥१४५। नैतत्सुषुप्तिसमये जीवानां ब्रह्मलोकगमनं स्यात्। यो बह्मलोकशब्दः सोडप्यस्य परात्मतां हि साधयति ॥१४६ ॥ न हि सत्यलोक गमनं सुप्राद्दृष्ट हि सर्वजन्तूनाम्। ब्रह्मैव लोक इति खलु सहसा इह भवति नैव तत्पुरुषः ॥१४७॥ तस्माद्गतिशब्दाभ्यों दहराकाशो हि भवति परमात्मा। म्ह्मगमनं हि दृष्टं सुषुप्तिकाले च सर्वजन्तूनाम् ॥१४८॥ सति संपद्येत्यादौ श्रुतिनिर्दिष्टं तदेतदिह लिङ्गम्। धृतेश्र महिम्रोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ अथ य इतिवाक्यदर्शितसेतुपदेनोपदिष्ट आत्माऽसौ ॥ १४९॥ अस्य चराचरलक्षणजगतो विधृतेश्र भवति परमात्मा। अत्र च विधृतिपदार्थों धारयिता न खलु धारणं भवति॥१५०॥ आत्मपद्साहचर्यादयं च महिमा न दृश्यतेऽन्यत्र। बृहदारण्यकवाक्ये ह्येतस्येत्यादिवाक्यशेषेऽपि।। १५१॥ सोडयं महिमा जगतो ह्यसंकरायोपवर्ण्यते भूयः । प्रसिद्वेश्र ॥ १७॥ अत्राSSकाशपदेन हि परमात्मा ग्रृह्यते न चान्योऽपि ॥ १५२॥ आकाशो हेत्यादावाकाशपदं परात्मनि प्रथितम्। इतरपरामर्शात्स इति चेन्नासंभवात् ॥ १८ ॥। अथ य इति वाक्यशेषो दहराध्याये हि दृश्यते तत्र ॥१५३॥

Page 60

५६ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

थः संप्रसादशब्द: सुपुप्तरूढोऽपि जीववचनः स्यात्। अत्र हि शारीरोऽस्माच्छरीरदेशात्समुत्थितो भूत्वा ॥१५४ ॥ ज्योतिः संपद्य परं रूपेण स्वेन युज्यते योऽसौ। स ह्यात्मेत्युपदेशात्स एव जीवोऽत्र दहर इति चेन्न ॥१५५॥ जीवो यदि दहरः स्यात्पूर्वोपन्यस्तधर्मबाधः स्यात्। तस्माद्योडसी दहरः स हि परमात्मा न चेतरः कश्ित् ॥१५६॥ तद्ाक्यशेषदर्शितगुणजातं तत्र युक्तमखिलमपि। उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ जीवस्य दहरतायामसंभवादिति च हेतुरुपदिष्टः ॥१५७।। न हि युक्तो यदि बाधो धर्मार्णों पारमेश्वराणां स्यात्। न च न हि दृष्टो बाधः शारीरेडस्मिन्यथोक्तधर्माणाम् ॥१५८॥ यस्मादुत्तरवाक्ये हश्यन्ते जीव एव ते धर्माः । आदौ चोदशरावब्रह्मण वाक्येन दर्शयित्वाऽन्यम्॥१५९॥ देहात्मवादृपक्षं तस्मिन्दोषे मरुत्वताभिंहिते।

एतं त्वेवेत्याद्यैर्बहुप्रपञ्चं ह्यनेकपर्यायः। मोडसी जाग्रत्पुरुषो य एष इत्यादिवाक्यनिर्दिष्टः ॥१६१॥। सोडयममृतादिलक्षणपरमात्मैवेति वर्णयामास। सहूत्स्वामिकपुरुषोऽ्यमृताभयलक्षणो विनिर्दिष्टः ॥१६२॥ सौपुप्तिकोऽपि पुरुषो यथोक्तलक्षण समन्वितोऽभिहित: । पर्यायत्रितयेSस्मिन्दूषणजाले हि मघवताऽभिहिते॥ १६३ ॥ मघवन्नित्यारभ्य हिस एव जीवस्तुरीय उपदिष्टः । सशरीरतानिमित्तं यदप्रियं यदपि च प्रियं वाऽन्यत्॥१६४॥ न ह्यशरीरस्य सतः प्रियं च किंचिन्न चाप्रियं वाऽपि। अविवेकमूलकं स्यात्सशरीरत्वं यदस्य निर्दिष्टम् ॥१६५॥ श्रुतिकृतविवेकबोधाद्विवेके शिथिलभावमापन्ने । व्युत्थायास्माद्देहात्साक्षात्कुर्वन्परं पुमासं यः ॥ १६६॥ संपद्यते परात्मा स उत्तमः पुरुष इति हि तत्रोक्तमू। सोऽयममृतादिलक्षण आत्मा जीवः क्थं न दहरः स्यात् ॥१६७॥

Page 61

तृतीथपादः ३] माप्यार्थरत्नमाला। ५७

अपहृतपाप्मत्वादिकमखखिलं तस्योपपन्नमेव यतः । इति नाऽडशङ्कचं तत्र ह्याविर्भूतस्वरूप उपदिष्टः ॥ १६८॥ स च परमात्मेव स्यात्तस्य च नापहतपाप्मताबाघः । बाधोऽयं तत्र स्याद्योऽसी देहात्मभावमुपयातः ॥१६९॥ तद्भिप्रायेणैव ह्यसभवादिति निरूपितो हेतुः । स व्यज्यते कदाचिद्धर्मः स्वामाविको हि सोपाधी ॥१७० ॥ नीलादयुपाधियोगात्स्फटिकादी शौक्ल्यतादिधर्म इति। स्वाभाविकधर्माणां बाधो निर्दिश्यते हि सोपाधौ ॥ १७१ ॥ तद्वदविद्योपाधिक आत्मनि बाधोऽन्र सूत्रकारोक्त: । जीवे हि पारमेश्वरधर्मार्णा च प्रदर्शिते बाधे ॥ १७२॥ जीवाद्विलक्षणत्वं परमात्मन्यपि निरूपितं भवति। परमेश्वरस्य जीवादविलक्षणत्वे प्रपश्चिते पश्चात् ॥१७३॥ तस्यासंसारित्वं सर्वज्ञत्वं समर्थितं भवति। एतदितिवाक्यजालैर्बह्माभेदेन दर्शिते जीवे ।। १७४॥ यद्विद्यापरिकल्पितसंसारित्वं निवत्थते तस्मिन्। संसारित्वनिवृत्तौ जीवोऽयं ब्रह्ममावसुपयाति॥ १७५।। वह्मात्ममाषसिद्धौ भवति ब्ह्मैव जगदिदं सर्वम्। प्राग्बोधातस्वाभाविककर्तृत्वादिक मिहावलम्पैव ।। १७६ ॥। कर्मविधयः प्रवृत्तास्तथैव चोपासनादिविधयोऽपि। अन्यार्थश्र परामर्शः ॥ २० ॥ जीवपरामर्शोऽसौ दृष्टो यो दहरवाक्यशेषे हि॥ १७७ ॥ स च खल न हि जीवपरः किंतु परात्मप्रवृत्तिसिद्धयर्थः । यज्ज्योतिःसंपन्नो जीवो निष्पद्यते स्वरूपेण ।। १७८।। अपहतपाप्मा चायं ह्यन्वेष्टव्य इति बोधयत्येपः। अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ दहरत्वमस्य नोचितमिति नाऽऽङ्रक्य यतश्र तस्यापि॥ १७९॥ वर्णितमेतत्पूर्व निचाय्यतापेक्षमर्भकौकस्त्वम्। नन्विह मुण्डकवाक्ये न तत्र सूर्य इति मन्त्र उपदिष्ट: ॥ १८०। तत्र च मन्त्रे सूर्यश्रन्द्रो नक्षत्रविदयुदादीनि। तत्र न भान्तीत्युक्त्वा तन्ासा माति सर्वमिति चोक्तम्॥१८१। 6

Page 62

सुब्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य-

तत्र हि तच्छष्दोक्तस्तेजोधातु: स किं परात्मा वा। विनिगमकामावादिह संदेहोऽयं समर्थितो भवति ॥१८२॥ पूर्वत्र दहरवाक्ये ह्यात्मत्वादिश्वुतेर्विरोधेन। तत्राSSकाशपदस्य हि रूढेर्बाधात्परात्मपरतोक्ता ॥१८३।। तदूदिह मासमाने माननिषेधश्रुति(ते,विरोधेन।

सत्यर्था चेयं स्यात्तत्रेतिपढ़े च सप्तमी या सा। तस्मिन्सति सूर्यादिकमग्न्यवसानं न मास्यते किमपि ।१८५। इति वैक्यार्थे ज्ञाते तेजोधातुर्हि तत्परार्थः स्यात्। अहनि च भास्करबिम्बे प्रकाशमाने हि चन्द्रतारादि ॥ १८६ ॥ किमपि न मास्यत इति यत्तदेतदस्माकमनुभवारूढम् । य दिहानुभासमुक्तं तदपि च तुल्यस्वभावयोर्युक्तम् ॥१८७॥ अनुगमनादिकमखिलं लोके तुल्यस्वभावयोर्ष्टम् । सस्मात्तेजोधातु: शस्तः कोउप्यत्र तत्परार्थः स्यात् ॥ १८८ ॥ इति शङ्कां वारयितुं मुनिना रचित तदेतधिकरणम्। अनुकृतेस्तस्य च ॥ २२ ॥ तत्र च मुण्डकवाक्ये न तत्र सूर्य इतिमन्त्रनिर्दिष्टः ॥ १८९॥ तच्छब्दार्थः सोयं परमात्मा भवति नेतरः कश्चित। यस्मादस्मिन्मन्त्रे तस्यानुकृतिर्हि दर्शिता जगतः ॥ १९० ॥ अनुकृतिरनुभान स्यादनुभातीत्यादिवाक्यनिर्दिष्टमू। तस्येति सूत्रशेषश्चतुर्थपादोपदिष्टबोधार्थः ।१११।। मन्त्रे तस्येत्यत्र च षछ्ठी संबन्धवाचिका भवति। तत्संबन्धिकमानप्रयोज्यभानाश्रयत्वमस्यार्थः ॥१९२॥ वत्संबन्धिक मानप्योज्यभानावलम्वि जगदेतत्। न हि तत्पदोपदिष्टः कथमन्यः स्यात्परं तु परमात्मा ॥ १९३॥ नन्वसुकृतिरिह लोके दृष्टा तुल्यस्वभावयोरेव। चिज्जड पोरिह साधकमिति शङ्काऽ्यत्र नेव कर्तव्या॥ १९४॥ संतप्तायःपिण्डे ह्यग्न्यनुकरणं हि दृश्यते लोके। रजसि च वाच्यनुकरणं तस्मात्तुल्यत्वमत्र न निमित्तम् ।१९५॥।

Page 63

तृतीयपाद: ३ ] माष्यार्थरत्नमाला।

एवं प लक्षणद्वयमत्र परात्मन इहोपदिष स्यात् । यद्मानव्यतिरेकादन्यस्यामासमानता तर्व्रम् ॥ १९७।। सर्वार्थमासकत्वं मन्त्रस्थचतुर्थपादनिरदिष्म्। मन्त्रे प्रथमे पाढे मातेरणिज्योग एव कर्तव्यः ॥ १९८॥ विषयार्थिका हि सा स्यात्तत्रेतिपदस्थसप्तमी या हि। सूर्यो वा चन्द्रो वा नक्षत्राण्यपि च विद्युदादीनि॥१९९ ॥ बाह्यार्थभासकान्यपि तानि परं तन्न भासयन्तीति। इति वाक्यार्थे फलिते न बाधकं किमपि मनसि संस्फुरति ॥२०० सतिसप्तम्याश्रयणे श्रुतहान्यादीनि दूषणानि स्यु:। पूर्वोपदर्शितार्थप्रतिपत्तिपरं हि तत्परं हष्टम् ॥२०१॥ पूर्वोपदशित किल सर्वज्ञ ब्रह्म निर्विशेषं यत्। यस्मिन्द्यौरित्याद्यैस्तच्छव्दार्थस्ततः परात्मैव ॥ २०२ ॥ तुल्यस्वभावयोः स्यादनुकृतिरित्यत्र कोऽपि न विरोधः । सं देवा इतिमन्त्रे ज्योतिष्वं ह्यात्मनो विनिर्दिष्टम् ॥२०३॥ तच्छुभ्रमिति च मन्त्रेऽप्यतः परात्मव तत्पदेनोक्त:। अपि च स्मर्यते ॥ २३ ॥ यदरूपं ब्रह्मोक्ते न तत्र सूर्य इति मन्त्रवाक्येण॥ २०४॥। तदूषं गीतायां न तदित्यारभ्य वर्णितं भूय:। तस्मादेतद्वाक्यं न तत्र सूर्य इति मुण्डके पठितम् ॥ २०५ ॥ मारुपे परमात्मनि विज्ञेये तत्समन्वित भवति। नन्वस्या कठवलयां मन्त्रो योऽडुष्ठमात्र इत्यादि: ॥ २०६॥ अङ्गुष्मात्र इह खलु पुरुषोऽय देहमध्यमध्यास्ते। न च भूतभव्यराशेरीशानः सर्वकालसंनिहित: । २०७। इत्युपदिष्टो योऽसी स किं परात्माऽथ मवति जीवो वा। इत्पत्र संशयः किल भवत्यसादुमयलिङ्गयोगेन ॥ २०८॥ मुण्डकवाक्यस्थस्य च न तत्र सूर्य इति मन्त्रमागस्य। अध्याहरेण णिचस्तत्र च हट्ानुमानलिङ्गेन । २०९ ॥ ब्रह्मपरत्वं साधितमनात्मपरतां ठ्युदृस्य पूर्वत्र। अङुळ्मानलिद्गादध्याहृत्य क्रियामिहास्मीति ॥ २१० ॥ ध्यानविधिशेषभावाज्जीवपरत्वं हि युक्तमस्यापि। अथ सत्यवतः कायादितिस्मृतिहात्र साधिका भवति॥२११॥

Page 64

६० सुब्नह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

योऽङ्गुष्ठमात्रपुरुषस्तत्रोक्तो जीव एव न तदन्य:। तत्रोक्तपाशबन्धनलिङ्गान्यखिलानि जीव एव यतः ॥ २१२॥ स्मृत्यनुसारादत्राप्युपदिष्टो जीव एव न परात्मा। इति शङ्कां वारयितुं परात्मपरतां च तस्य बोधयितुम् ॥२१३॥ अधिकरणमेतद्मलं चकार मुनिसघमाननीयोऽसौ। शब्दादेव प्रमितः ॥ २४॥ योऽङ्गुष्ठपरिमितोऽसी पुरुषो मन्त्रेण दर्शितः सोऽयम्॥२१४॥ परमेश्वर एव स्याद्यत ईशानादिशब्दयोगोऽत्र। यो भूतभव्यराशेरीशानः स च कथं हि जीव: स्यात् ॥ २१५॥ प्रकरणमपि यदिह स्यात्तदृपि च दृष्ट परात्मपरमेव। अन्यत्रेत्यारम्भे प्रश्नो योऽसौ परात्मपर एव ॥ २१६ ॥ सस्य प्रतिवचनपथे पठितो योऽङ्ुग्मात्र इत्यादि: । स कथं जीवपरः स्यात्तस्मादिह दर्शितः परात्मैव ॥ २१७॥ अङ्गुः्वपरिमितत्वं कथमात्मन इति च नैवमाशङ्कयम्। हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५॥ यद्यपि परमातमाऽयं सर्वगतः सर्वशक्तिसंपन्नः ॥२१८।। मनुजहृद्याधिवासात्तस्य ह्यङ्गुःष्ठपरिमितत्वमपि। योऽसी हि मनुजकायः प्रायो दृष्टो हि नियतपरिमाणः ॥ २१९। मनुजहृदयं यदेतत्प्रायेणाङ्गष्वपरिमितं दष्टम्। तस्मादसौ परात्मा निर्दिष्टोऽङ्गुष्ठमात्र इति तत्र ॥ २२० ॥ अविशेषतः प्रवृत्ते शास्त्रेऽधिकृतो हि मनुज एवासौ। शक्तत्वार्थित्वादिकमधिकारिविशेषणं च तस्पैव ॥। २२१॥। यदि च परिमाणलिङ्गाज्ीवपरत्वे भवेदघृदावेशः। परमात्मैकत्वेन हि जीवे तात्पर्यमस्य वाक्यस्य । २२२।। सकलनिगमान्तवचसां द्विधापरवृत्तिस्तु शास्त्रदृष्टा हि। प्रत्यगभिन्नब्रह्मणि सविशेषे सत्यकामतादिगुणे॥। २२३।। ज्ञानोपासनभेदात्तस्मात्पक्षद्वयेऽपि न विरोध: । उत्तरनिर्दिष्टो यो मन्त्रो ह्यङु्मात्र इत्यादि: ॥२२४ ॥। तस्य प्रत्यगभिन्नब्रह्मार्थत्वं स्फुटं हि तत्रैय। ज्ञेयपरत्वं वा स्पादुपास्यपरताऽथ वाडस्य मन्त्रस्य ।। २२५॥

Page 65

तृनीयपाद: ३ ] माष्यार्थरत्नमाला। ६१

परमेश्वरपरतायां न बाधकं किमपि मनसि संस्फुरति। कठवल्लीवाक्यस्थो योऽसावङ्गुष्ठमात्र इतिमन्त्रः ॥ २२६॥ ब्रह्मण्युपास्यरूपे विज्ञेये वा समन्वितो भवति। मनुजाधिकारिकं चेच्छास्त्रं देवाधिकारिकं न स्यात् ॥ २२७॥ तदनधिकारे यानि क्रममुक्त्यर्थान्युपास्तिवाक्यानि। बाध्येरन्नितिशङ्कां निरस्य देवाधिकारकथनेन ॥ २२८॥ तदुषट्टम्भपुरःसरमिद्मधिकरणं चकार मुनिवर्यः। तदुपर्यपि बादरायण: संभवात् ॥ २६ ॥ मनुजानामुपरितना ये देवाः सन्ति तेऽपि चाधिकृताः ॥ २२९॥ श्रवणमननादिस हककृतविशुद्धपरमात्मविषयविद्यायाम्। विद्याग्रहणाङ्गानि ह्यर्थित्वादीनि संभवन्त्येषाम्॥ २३०॥ मन्त्रार्थवाद्वाक्यैविग्रहवत्त्व हि दश्यते तेषाम्। विद्याग्रहणाङ्गानि हि लिङ्गानि ब्रह्मचर्यमुख्याणि॥ २३१ ॥ इन्द्रादिदैवतात्म(न्य)नु दहराध्याये प्रदर्शितान्येव। स्वोद्देश्यके हि कर्मणि न त्वस्त्येवाधिकार इति मत्वा ॥२३२॥ इन्द्रादीनां कर्मण्यधिकारो नेति वर्णितं भूय: । विद्यायामधिकारे नैतद्बाधकमुदाहतं किमपि ॥ २३३ ॥ तस्मादेवादीनामधिकार: स्यादिहाऽडत्मविद्यायाम्। विरोध: कर्मणीति चेन्नानेकप्रति- पत्तेर्दर्शनात् ॥२७॥ विद्याग्रहणाङ्ग नतु विग्रहव्त्त्वं यदा हि देवानाम् ॥ २३४॥ कर्मणि विरोधशङ्का परिहतु नेह शक्नुयात्कोऽपि। विग्रहवतो हि लोके स्वरूपसंनिधिवशेन चाङ्गत्वम्॥ २३५॥ ऋत्विक्प्रभृतिपु दृष्ट तथैव कर्माङ्गमाव इह वाच्यः । बहुमिः क्रियमाणेषु हि बहुषु च यागेषु संनिधानेन ॥। २३६ ॥ एक: सन्निन्द्रादि: कथमिह यागाङ्गमावमुपगच्छेत्। यागे संनिहितास्ते विग्रहवन्तः कुतो न दृश्यन्ते ॥ २३७॥ तस्मान्न देहिनस्ते कित्वर्थोपहितशब्दरूपा: स्युः । इति चेन्नेयं शङ्का यतश्र ते योगवीर्यसमुपचिताः ।।२३८। ..

Page 66

६२ [ १ प्रथमाध्यायम्य-

योगेश्वर्यबलेन च बहूनि गात्राणि संसृजन्त्येते। निजयोगसृष्टगात्रैर्युगपद्नेकत्र चाङ्गता यान्ति ॥२३९॥। योगैश्वर्यबलेन च देवानां बहुशरीरसंपत्तिः । शाकल्ययाज्ञवल्क्यप्रश्नप्रतिवचनसरणिधु प्रथिता ॥ २४० ॥ इह वैश्वदेवशस्त्रे कति दृष्टाः शस्यमानदेवा: स्युः । इति शाकल्यप्रश्ने प्रतिवचनं याज्ञवल्क्यमुनिनोक्तम् ॥२४१॥ त्रीणि सहस्राणि तथा त्रीणि शतानि च षडुत्तराणीति। तेषां संख्याकथनात्संख्येया दर्र्िता भवन्त्येव ।। २४२।। केषामेते देवा विभूतयः स्युरिति पुनरपि प्रश्ने। वस्वादिदेवतानां विभूतयस्ते प्रदर्शितास्तेन । २४३।। वस्वादयक्ष पण्णा पृथ्वयादीनां विभूतयः कथिताः । कतमस्पैते देवा विभूतयः स्युरिति चान्तिमप्रश्न ॥२४४॥ प्राणोऽसी निर्दिषे हिरण्यगर्भः समट्टिरूपा यः । आत्मन इत्याद्या या स्मृतिरप्यणिमादियोगसिद्धस्य ॥ २४५॥ युगपद्नेकशरीरेयोंगें च तथाऽपि यागमाचटे। योंगाङ्गभावकलिता अपि द्वास्ते परर्न दृश्यन्ते ॥ २४६॥ ऋत्विज इव ते न स्युर्ये ह्यन्तर्धानशक्तिसंपन्नाः। अर्थान्तरमपि भवति हि सूत्रे निर्दिष्चरमभागस्य ॥ २४७॥ विग्रहवानेकोऽपि हि युगपदनेकाङ्गभावमुप्याति। एको यथा हि लोके बहुभिर्युगपज्जनो नमस्क्रियते ॥ २४८॥ सद्ूद्यजिक्रियायमेकोडनेक चाङगता गच्छेत्। यज्यर्थस्त्यागः स्यात्यागोद्देश्यत्वमेव चाङ्गत्वम् ॥ २४९॥ पतञ्जैकस्यापि हि युगपदनेकत्र वृश्यते लोके। तस्मादिह देवानां विग्रहवतत्वेऽपि बाधकाभावाल् ॥ २५०। देवानामधिकारो विद्यायामिति यदेतदनवद्यम्। शब्द इति चेन्नातः प्रभवात्पत्यक्षा- नुमानाभ्याम्॥ २८ ॥ नन्विह विग्रहवत्वेऽपीन्द्रादीनां विरोधपरिहारः ॥ २५१ ॥ कर्मणि परं कृत: स्याच्छव्दे तु विरोध एव जागर्ति। आत्पत्तिकसूत्रे किल नित्यस्यार्थस्य नित्यसंबन्धात् ॥२५२॥

Page 67

तृत्षीयपाद: ३ ] माष्यार्थरत्नमाला। ६३

वैदिकशब्दे सकले नित्यत्वं स्थापितं हि पूर्वत्र। संप्रति विग्रहवत्वे देवादीनामिहास्मदादीनाम्॥२५३॥ जननमरणादिसाम्यादनित्यता सेयमपरिहार्यैय। तद्नित्यत्वे सिद्धे तद्वाचकवेद्वाक्यजातस्य ।। २५४।। सिद्धा ह्यनित्यता सा वेदाप्रामाण्यमेव साधयति। इति शङ्काडत्र न कार्या प्रभवत्यखिलं हि वैदिकाच्छव्दात्॥२५५॥ यत इदमखिल प्रभवति तस्य च नित्यत्वमपरिहाय हि। ब्रह्मप्रभवत्व हि प्रथमे सूत्रे प्रदर्शितं जगतः ॥ २५६।। शब्दप्रभवत्वमिह प्रपश्चित जगत एतद्समरसम्। इति नात् शङ्गनीयं यतस्तयोर्भिन्नरूपता भवति ॥२५७॥ ब्रह्मप्रभवत्वं यद्वल्मोपादानकत्वमेवेह। इह शब्दपूर्वकत्वं शब्दपभवत्यमत्र निर्दष्म् ॥२6॥ तन ततो न विगेध वर्णचितुं कोडपि शक्तुयादत्र। शब्दपरभवत्वेन च देवादीनामनित्यता सिद्धा॥ २५९ ॥ देवाद्यनित्यतायां वेदपामाण्यमपगत भवति। इत्येतद्दृपणमपि नास्मत्पक्ष स्पृशेत्कथंचिद्पि॥ २६० ॥। देवाह्यत्पत्तावपि वेदाप्रामाण्यमत्र नाऽडशडुचम्। आकृत्या संबन्धः शब्देन व्यक्तिमि: कथाचेद्पि॥ २६१॥ व्यक्तीनां नानात्वात्तत्संबन्धो हि दुर्गहो येन। शब्दप्रमवत्वमिह श्रुतिस्मृतिभ्या हि निश्चितं भवति ॥२६२॥ एत इतिमन्त्रदर्शितपदपड्किस्मरणपूर्विकां सृष्टिम्। एत इतिस्सृतिरेषा वर्णयति यतोऽस्य शब्दमूलत्वम् ॥ २६३॥ श्रुत्यन्तराणि जगतः शब्दप्रभवत्वमेव कथयन्ति। स्मृतिरप्यनादिनिधनेत्याद्या जगतश्र मूलत्वम् ॥२६४। प्रथयति तस्माच्छव्दे न विरोध: कश्चिदत्र संभवति। ननु शब्दप्रभवत्वं जगतो यद्दर्णितं हि पूर्वत्र ॥२६५।। स च शब्द: किं वर्णः किं वा स्फोटोयमिति मवेच्छड्का। तत्र च शब्दस्फोटो भवेदयं न खलु वर्णरूप: स्यात् ॥ २६६ ॥ वर्णा एने यस्मादुत्पन्नध्वंसिनश्र गृह्यन्ते। वर्णात्मकत्वपक्षे पूर्वोक्त सकलमनुपपन्नं स्यात् ॥ २६७।।

Page 68

६४ सुबह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

नित्याच्छव्द्वादखिलं जगदेतत्प्रमवतीति पूर्वोक्तम्। प्रत्युच्चारणमेते वर्णा मिन्ना यतः प्रतीयन्त ॥ २६८॥ तारत्वाद्यैरथैर्भिन्नतवेन प्रतीयमानानाम्। अर्थावबोधकत्वं नित्यत्वं वा कथं हि वर्णानाम् ॥ २६९॥ एकैकस्मिन्वर्णे नार्थप्रत्यायकत्वमिह टटटम्। क्रमवत्त्वाद्वर्णानां तत्समुदायः कथं प्रतीपेत ॥२७० ॥ न ह्यप्रतीयमान स्वार्थप्रत्यायकत्वसुचितं स्यात्। पूर्वाक्षरानुभूतिजसंस्कारैः सहकृतोऽन्त्यवर्णोडपि॥ २७१ ॥ स्वयमप्रतीयमानो नार्थप्रत्यायकत्वमुपयाति। संस्कारानवबोधे न तत्सहकृतान्त्यवर्णबोध: स्थात् ॥ २७२॥ तस्मान्न वर्णरूप: शब्दोडयं स्फोटरूप एव स्यात्। एकैकवर्णबोधजसंस्कारपुरस्कृतान्त्यवर्णमतौ॥२७३॥ एकमतिगोचरतया स्फुरणात्स्फोट इति वर्ष्यते सोऽयम्। एकमतिगोचरत्वं वर्णानां स्यादितीह नाऽऽशाङक्यम् ॥२७४ ॥ तेषामनेकमावादसिद्ध मेकश्रुतीतिविषयत्वम्। उच्चारयितृविभेदेऽप्येकाकारप्रतीतिगम्यत्वात् ॥२७५।। स्फोटोडयं नित्यः स्यात्प्रभवति तस्मादिदं हि जगद्खिलम्। इति पक्षोऽयमयुक्तो यत उपवर्णो हि नैवमाचष्टे॥। २७६॥ किं तु स मगवानेतत्मोवाच हि वर्ण एव शब्द इात। तत्प्रत्यभिज्ञया किल वर्णानां नित्यता परं सिद्धा॥ २७७ ॥ उत्पन्नध्वंसित्वं वर्णेषु न दृष्टमेव केनापि। नाSडशङ्क्यं सादृश्यात्सेयं हि प्रत्यभिज्ञेति ॥२७८॥ यत्रोत्तरकालंचेद्वोधो निर्णीयते तदैवं स्यात्। शब्दाभेदे सत्यप्युच्चारणभेदतो हि मेदमतिः ॥ २७९॥ तारत्वं मन्द्रत्वं यज्चोदात्तत्वमन्यदृपि यञ्च। ध्व निककृतमेतत्सकलं न वर्णकृतमिति न भेदशङ़काऽत ॥२८०॥ दूरादाकर्णयतः प्रथमं कर्णपथमवतरेद्यस्तु। स ध्वनिरिति निर्दिष्स्तन्भ्वेदेनात्र मेदनिर्देशः ॥२८१॥ गौरित्येकं पद्मित्येकत्वप्रत्ययोऽत्र यो दृष्टः। समुदायविषयकत्वाहनसेनादाविवेह निरवद्य: ॥। २८२।।

Page 69

तृतीयपाद: ३] माष्यार्थरत्नमाला।

जारा राजेत्यादौ मवति क्रममेदतो हि मेदमतिः । तस्माद्वूरणा एव क्रमोपदिष्ा भजन्ति पदसंज्ञाम् ॥ २८३॥ पव्संज्ञां लभमाना वर्णाः स्वार्थान्प्रबोधयन्त्याशु। स्फोटस्य वाचकत्वे गौरवमधिकं न कश्िदिह लाभः ॥ २८४॥ वर्णाः क्रमादिकलिता: स्फोटमभिव्यअ्जयन्ति न स्फोट:ः। अर्थं पत्याययतीत्यत्र फलं गौरवं न चान्यदृपि ॥ २०५॥ वर्णेभ्यो मिन्नोऽयं स्फोट: स्वार्थाभिधायकश्ष यदि। स्फोटप्रतीतिविषया वर्णा न स्युर्विलक्षणा हि यतः ॥ २८६ ॥ यदि थ विलक्षणयोरवि नियमेनैकपतीतिगम्यत्वम्। गोमहिषशब्द्योरपि नियतैकज्ञानगम्यता भयात् । २८७ ।। तस्माद्योऽयं शब्द: स चन स्फोट: परं तु वर्णः स्यात्। वर्णात्मकान्द्ि शब्दात्प्रभवति जगदखिलभेतदिति सिद्धम्॥।२८:।। अत एव च नित्यत्वम् ॥ २९॥ नित्यनियताकृतेरिह जगतः सर्वस्य वेदमूलत्वात्। वेदस्प तावृशस्य हि कर्तुरसिद्देश्र वेदनित्यत्वम् ॥ २८९॥ पज्ञेन वाच इति हि श्रुतिरुपपाठृयति वेदनित्यत्वम्। यानि स्पृतिवचनानि हि युगान्त इत्यादिनोपदिष्ानि ॥२९०॥ तान्यखिलान्यपि मूयः प्रथयन्ति हि वेदशब्दनित्यत्वम्। आकृतिसंबन्धेन हि वेदमामाण्यमपि च निरवद्यम् ॥२९१॥

विरोधो दर्शनात्स्मृतेश्रव ॥ ३० ॥ शब्दार्थयोर्हि लोके व्यवहारान्भ्वासते हि संबन्धः । संबन्धमास एव हि शब्दस्यार्थामिधायकत्वं स्थात् ॥ २९२।। अर्थावबोधकत्वे वेदपरामाण्यमखखिलसुपपन्नम्। जगतः स्थितिकाले स्याद्यथोपदिष्टं हि सकलमुपपत्रम् ।२९३॥ जगदेतद्खिलमपि यत्पलीयतेऽप्यभिनवं च जायेत। अभिनवसृष्टी पूर्वव्यवहारः सर्व एव लुप्तः स्यात् ॥२४४॥ व्यवहर्तृमूल कोऽसी व्यवहारो दृश्यते न चेतरथा। स्वापे वागादिलये पुनः प्रबोधे हि तदनुसंधानात् ।। २९५। 5

Page 70

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

पूर्धानुरूप एव व्यवहारस्तत्र मवति नात्र तथा। व्यव हर्तृव्यवहारव्यवहार्याणां लये समुत्पन्ने ॥ २९६॥ अनुसंधातुरमावात्तद्यवहार: कथं पुनः सर्गे। व्ववहारो यदि न स्याद्योऽसौ शब्दार्थयोर्हि संबन्ध: ।। २९७।। न स विज्ञायेत तदा कथमस्यार्थावबोधकत्वं स्थात। नष्भावे वेदस्य प्रामाण्यकथाऽपि दूरवारतव । २९८॥ इति शक्कूाऽ्र न कार्या समनामजगत्समानरूपं हि। जगति समनामरूपे ह्यावृ्त्त्यम्युरगमेऽपि न विरोध: ।। २९९।। यदि नामरूपभेद: पूर्वोत्तरयोर्भवेत्तदा तत्र। व्यवहारलोपतः स्यादर्थानभिधायकत्वमनिवार्यम्॥३००॥। जगति समनामरूपे व्यवहारविलोपकारणाभावात्। अर्थावबोधकत्वे सिद्धे प्रामाण्यमनपवदनीयम्॥३०१॥ कल्पान्तरं गतानां व्यवहारो नैव कस्यचिन्द्वति। अनुसंधातुरमावादित्युक्त दूषण च नात्र स्यात् ॥ ३०२।। ये चेह पूर्वकल्पे प्रकृष्टविज्ञानकर्मसंपन्नाः । अपि वर्तमानकल्पे प्रादुर्भूता हिरण्यगर्भाद्याः॥३०३॥ कल्पान्तरगतमखिलं स्मतुं व्यवहर्तुमधिकृतास्ते स्युः । यो ब्रह्माणमितिश्चतिरिममेवार्थं हि सकलमाचषे ॥ ३०४ ॥ काण्डर्षिप्रभृतीनां व्यतीतकल्पाभिसंधिसामर्थ्यम्। प्रथयन्ति श्रुतयोऽन्याः स्मृतयस्तस्मान्न कश्रिदिह दोषः॥३०५॥ समनामरूपतां खलु जगतो दर्शयति नामनिर्देशात्। सूर्या चन्द्रमसावितिमम्त्रोऽयं तैत्तिरीयके पठितः ॥३०६ ॥

अग्न्यादिदेवतानां कल्पान्तरनामरूपतां बूते॥। ३०७॥ श्रुतयोऽन्या: कथयन्ति हि जगतः समनामरूपतामस्य। नामभिरेवेत्यन्ताः स्मृतयोऽप्युक्तार्थमेव कथयन्ति ॥३०८ ॥ मध्वीदिष्व संभवादनधिकारं जैमिनिः ॥३१॥। देवानामधिकारी विद्यार्या बादरायणेनोक्त: । स च खलु न समञ्जस इति जैमिनिराचार्य एवमाचटे ॥३०९॥

Page 71

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ६७

छान्दोग्ये मधुविद्या या चासावित्यनेन निर्दिष्टा। तत्राSडदित्यो योडयं मध्विति शब्देन मन्त्रनिर्दिष्टः ॥३१०॥ मधुमावेनोपास्यो ह्यादित्य इति प्रतीयते तस्मात्। नेयं मधुविद्या स्यात्तत्राऽडदित्यस्य नाधिकारः स्थात् ॥३११॥ आदित्यसंभितानि ह्यमृतानि च पञ्च तत्र हष्ानि। वस्वाद्युपजीव्यानि प्रथितान्येतानि रोहितादीनि॥ ३१२ ॥ तद्गुपासनाफलं यद्दस्वादिप्राप्तिलक्षणं तदृपि। तत्रैव दृष्टमन्त्रे ह्यधिकारो नैव देवतानां स्यात् ॥३१३॥ योऽयमपास्योपासकमावः सकलो हि भेदमूलः स्यात्। भेदामावादत्र ह्यधिकारो नैव शक्यते वकतुम्॥ ३१४॥

ऋषिभावनात्मकानि ह्युपासनान्यपि च सुप्रसिद्धानि ॥ ३१५। तदुपासनेष्वृषीणामधिकारोडयं न शक्यते वक्तम्। तस्मादिन्द्रादीनां मध्वादिष्वनधिकारसंसिद्धौ॥ ३१६॥ विद्यान्तरानधिकृते निरुक्तविद्याधिकारमङ्गेण। बह्मात्मगोघरायां विद्यायामनधिकार एव स्यात् ॥ ३१७॥

ज्योतिषि भावाच् ।। ३२।।

यदिदं ज्योतिर्मण्डलमाश्रित्य नभो विभासयत्यखिलम। आदित्याद्याः शब्दास्तत्प्रतिपादनपरा हि लक्ष्यन्ते ॥ ३१८॥ ज्योतिर्मण्डलरूपा देवा: सर्वे ह्यचेतना दृष्टाः । विद्याग्रहणाङ्गं यत्सामथ्यं तत्कथं भवेत्तेषाम् ॥३१९॥ विग्रहवतां हि भूयस्तदेतदखिलं हि दृश्यते लोके। न हि विग्रहादिरहिता देवा विद्यािकारिणस्ते स्युः॥ ३२० ॥ विग्रहयोगो हविषां भोगश्रैश्वर्यसुपसन्नत्वे। फलदातृत्वमपीदं पञ्चकमितिहासदर्शित यदृपि ॥ ३२१ ॥ तत्पौरुषेयवाक्यप्रदर्शितं न प्रमाणसिद्ध स्यात्। विधिविनियुक्ता मन्त्रा: प्रयोगनिहितार्थबोधमान्रपराः ॥३१२।। न हि देवविग्रहादिपदर्शनार्थे प्रमाणभूता: स्यु: । इति जैमिन्याक्षेपो निरस्यते बाद्रायणेनेह॥। ३२३ ॥।

Page 72

६८ सुब्ह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

भावं तु बादरायणोऽस्ति हि॥ ३६ ॥ इह बाद्रायणो मुनिरधिकारं देवतात्मना बूते। ब्रह्मत्वगोचरायां विद्यायामर्थितादियोगेन॥ ३२४॥ यद्यपि मधुविद्यादौ देवानामनधिकार एव स्यात्। नैतावताऽधिकारे प्रसरति दोष: परात्मविद्यायाम् ॥३२५॥ एकत्रानधिकारे ह्यन्यत्राप्यनधिकार एवेति। नायं नियमो हष्टः केनाषि हि कुत्रचित्कदाचिदपि ॥ ३२६ ॥ अपापराजसूयोऽप्यधिकारी भवति दर्शयागादौ। तत्र घ यो न्यायः स्यादृत्रापि स एव निर्णये हेतुः ॥ ३२७ ॥ तद्यो यो देवानामित्यादिश्वुतिरपीह देवानाम्। विद्यायामधिकारं विद्याफलभूतमोक्षमभिधत्ते॥ ३२८॥ इन्द्रो हेत्याद्या या श्रुतिरपि देवाधिकारमभिधत्ते। गन्धर्वयाज्ञवल्क्यस्पृतयोऽप्युक्तार्थमेव कथयन्ति॥ ३२९॥ ज्योतिर्मण्डलरूपा देवास्ते देहधारिणो न स्युः । इति शङ्का हि न युक्ता यस्माददेवास्तु शक्तिसंपन्नाः ॥। ३३०। ज्योतिर्मयात्मना हि स्थातुं विग्रहविशेषमादातुम्। निपुणा इति खलु हष्ट सुबह्मण्यार्थवादवाक्येषु॥३३१॥ गङ्गतटेऽति विमले कुन्तीं स्वध्यानतत्परां दृष्टा। आदित्य एप भगवान्पुरुषाकृतिमास्थितो जगामाऽडयु ॥३३२॥ इत्यादिस्मृतयोऽपि हि देवानां विग्रहादियोगं च। यज्ज्योतिरात्मना हि स्थितिमपि कथयन्ति तेन न विरोध:३२३। विग्रहयोगाभावे देवानां तदिदमनुपपन्नं स्यात्। मघवान्पजापतावितिवाक्ये यद्ब्रह्मचर्यमुपदिष्म्॥३३१॥ अन्यदृपि श्रुतिवचनं प्रथितं यद्वज्रहस्त इति यञ्च। इन्द्रं सहस्रनयनं गोत्रभिदं वज्रबाहुमभिधत्ते।। ३३५।। विग्रहयोगामावे यागोद्देश्यत्वमनुपपत्नं स्यात्। ध्यायेद्वपट्करिष्यन्नित्यन्तानीह वेदवाक्यानि॥३३६॥ ग्यानारूढस्यैव हि यागोद्देश्यत्वमामनन्ति यतः। लोंके विग्रहरहितो ध्यातुं शक्यो न नियतमावेन ॥ ३३७ ॥ इह विग्रहादिमत्त्वप्रतिपत्तिपरं हि वाक्यजातं यत्। तच्चार्थवादरूपं स्वार्थपरं नेति नैवमाशङ्र्क्यम्॥३३८॥

Page 73

तृतीयपाद: ३] माष्यार्थरत्नमाला।

येनार्थवादवाक्यान्यवान्तरान्वयधियं हि जनयित्वा। केमर्थक्यवशेन स्तुतिलक्षकर्ता प्रयान्ति नैवाऽडदी॥३३९॥ नैतावतार्ऽर्थवाद: स्वार्थपरो नेति युक्तममिधातुम्। श्रुतिवचनहृष्टमर्थ न शक्नुयात्कोऽपि वा निराकर्तुम्॥३४० ॥ इतिहासादिकमपि यत्तदखिलमत्र प्रमाणमेव स्यात्। पस्मात्समूलमेतन्महर्षिजुष्टं न चाप्रमाणं स्यात् ॥३४१॥ इह पौरुषेयमावादप्रामाण्ये तु शास्त्रमफलं स्यात्। वर्णाश्रमव्यवस्थामिधायि शास्त्रं यदाऽप्रमाणं स्थात् ॥ ३४२॥। जगदखिलमव्यवस्थितवर्णाश्रमधर्मकलुषितं प्रमवेत्। तस्माद्यदिंदं सकलं प्रमाणभूतं न चान्यथा मवति॥३४३ ॥। ये चाणिमादियोगै: सिद्धा व्यासाद्यश्च ये चान्ये। ते देवान्पश्यन्तीत्येषा शास्त्रप्रसिद्धिरपि युक्ता ॥ ३४४॥ तस्माद्विग्हवत्वं देवादीना प्रमाणसंसिद्धम्। विग्रहवत्वादेव हि विद्यायामधिकृता हि देवा: स्युः ॥ ३४५ ॥ विद्याधिकारिवाक्यं समन्वितं विग्रहादिमूतार्थे। तद्वद्बह्मणि मूते समन्वितं सकलनिगमवाक्यमपि॥३४६ ॥। ननु यदि विग्रहवत्त्वाद्देवा विद्याधिकारिण: स्युरिति। शूद्रा अप्यविशेषाद्विद्यायामधिकृता: कुतो न स्युः ॥३४७॥ इह शूदयोनिजनिता विशिष्टविज्ञानसंपदनुकमप्याः। विदुरपरमुखा ये स्युर्विख्याता ब्रह्मवित्समाजेषु॥ ३४८॥ अर्थित्वं सामर्थ्यं विद्याङ़गं यञ्च सकलमुपदिष्टम्। सत्सवं शूद्राणां विग्रहयोगात्समख्जसं मवति ॥३४९ ॥ सस्माच्छूद्रो यज्ञेऽनवकृप्त इति प्रदर्शितं यदृपि। यज्ञानव कृप्तत्वं तञ्ञ न विद्याधिकारविद्वेषि॥ ३५० ॥

नायं नियमो यस्माद्विदुरादिप्वपि च हश्यते विद्या॥ ३५१ ॥ संवर्गवाक्यशेषे ह्ययमेवार्थः प्रदर्शितो भवति। जानश्रुतिर्हि कश्विद्विख्यातः परमधार्मिको भूपः ३५२।।

षट्छतसंख्याकै: सह गोभी रथमेकमाददानोऽयम्॥३५३॥ विद्याग्रहणाथं तें जगाम दृढमक्तिमावितस्वात्मा। तमृषी रैक्को हट्ट्ा जानश्रुतिमाह शूद्दशव्देन॥ ३५४॥

Page 74

७० सुब्ह्मण्यविरचिता- [ १ प्रथमाध्यायस्य-

तस्माच्छूद्रोऽप्यस्यां विद्यायामधिकृतो मवत्येव। इत्याक्षेपं सकलं निरसितुमधिकरणमेतदाह मुनिः ॥३५५॥ शुगस्य तदनादरश्रवणात्तदा- दवणात्सूच्यते हि॥ ३४ ॥

यो वै गृहीतवेदो योऽसौ सम्यग्गृहीतवेदार्थः । ३५६॥ ब्रह्मात्मगोचरायां विद्यायामधिकृतः स एव स्यात्। असति हि सामर्थ्ये स्यादर्थित्वं केवलं न विद्याङ्गम् ॥३५७ ॥ शास्त्रोपदिष्टमेव हि सामथ्यं यत्तदेव विद्याङ्गम्। अध्ययनविध्यधिकृते विचारशक्तिं हि शास्त्रमाचटे॥ ३५८॥ उपनयनपूर्वकेऽस्मिन्वेदाध्ययने न चायमधिकारी। उपनयनादिकमखिलं विहितं वर्णत्रयस्य नान्यस्य ॥ ३५९॥ विदुरादिषु हष्टा या विद्या सा पूर्वसाधनायत्ता। यज्ञानवकृप्तत्वे प्रमाणभूतं यदेव वाक्यं स्थात ॥ :६०॥ विद्यानव कृप्तत्वे तदेव मानं हि युक्तिसामान्यात्। गूद्रपदं यञ्चैतल्लिङ्गं संवर्गवाक्यनिर्दिष्टमू॥३६१॥ नैतकयायामावाङ्यायानुगृहीतमेव लिङ्ग स्यान्। तत्र च रूढेबाधाद्योगार्थाभयणमेव कर्तव्यम्॥ ३६२॥। कम्वर इति हंसोक्तेरस्य व जानश्रुतेः शुगुत्पन्ना । शुचमेतां सूचयितुं रेक्वमुनिः प्राह त च राजानम् ॥ ३६३॥ आत्मापरोक्षबोधं प्रख्यापयितुं स एष मुनिवर्यः। योडयं रथो हारेत्वा गोभि: सहितस्तवास्तु शूद्रेति॥ ३६४ ॥। तत्र च शूदपदस्य हि योगार्थो गृह्यते न रूढ्यर्थः । शुचमभिदुद्वावाय शुचा हि दुद्राव रैक्रमयमिति वा ॥ ३६५॥ योगबलबोधितोऽसी राजा जानश्रुतिर्न शूद्रः स्यात्। क्षत्रप्ेषणरूपादैश्वर्यात्सूच्यतेऽयमेवार्थः ॥ ३६६॥ क्षत्रियत्वगतेश्र्वोत्तरत्र चैत्र- रथेन लिङ्गात् ॥ ३५॥ संवर्गवाक्यशेषातक्षन्रियता हि प्रतीयते तत्र। चित्ररथवंशजन्मा ह्यभिप्रतारी नृपो विनिदिक्ः ॥।३६७ ।।

Page 75

तृतायपाद: २ । माष्याथरत्नमाला। ७र

तद्याजको हि योऽसौ कापेयः शौनकोऽपि तत्रोक्त: । चित्ररथः क्षत्रिय इति कापेया याजकाश् तस्येति ॥३६८॥ निर्दिष््मेव तस्भादृभिप्रतारी हि मवति राजाऽसी।

संस्कारपरामर्शात्तदभावाभिलापाच । ३६॥ इह खलु विद्याग्रहणे संस्कारो वैदिक: परामृष्टः । ब्रह्मपरा इत्याद्यैस्तदमावश्चामिलप्यते शूढ़े॥३७० ॥ शूदे न पातकं स्यान्द्क्षणमूलं न चास्य संस्कार:। इममर्थमुपदिशन्ति हि न शूद् इत्यादिकानि वाक्यानि॥ ३७१॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥ गौतममुनिरिह भगवाआ्ज्जावालं निकटमागतं दृद्षा। सत्यवचनेन तस्मिळशूदृत्वाभावनिश्चये जाते ॥ ३७२ ॥ अनुशासितुमुपनेतुं जाबालमिमं प्रवृत्त इति दृष्टम्। तस्माद्योऽसौ शूद्रो विद्यायामधिकृतः कथ न स्यात् ॥३७३ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्र ॥ ३८॥। वेदस्य भ्रवण वाऽप्यध्ययनं वा निषिध्यते शूदे। त दुभयनिषेधने स्यादर्थावगमो निषिद्द एवास्य ॥३७४॥ अयमर्थः सकलाऽपि ह्यथास्य वेदमितिसूत्रवाक्येषु। उपदिष्टस्तत्करणे प्रायश्चिवत्तं च तत्र निर्दिष्म ॥३७५॥ संस्कारादिविहीन: भ्रवणाध्ययनादिसंपदा रहितः । विद्यार्या प्रतिषिद्धो विद्याधिकृतः कथं भवेच्छूद्रः ॥३७६॥ तस्मादेतद्वाक्यं समन्वितं क्षतत्रिये यथा सिद्धे। सकलमपि श्रुतिवाक्यं सिद्धे ब्ह्मणि समन्वितं भवति॥३७७॥ ननु कठवह्षामस्यां यदिदं किं चेतिवाक्यमुपदिष्टम्। तत्र च जगद्खिलमपि प्राणाभ्रितमेव चेष्टते यदिदम्॥३७८॥ सुमहत्तरभयहेतुः समुद्यतं वच्रमिव हि लोकेऽस्मिन्। यञ्चैवं विदुरेनं ते सर्वे यान्ति मोक्षमित्युक्तम् ॥३७९॥ अङ्गुष्ठमात्रवाक्यं जीवे ब्रह्मैक्यबोधजनकतया। ब्रह्मपरमेतदिति खलु वर्णितमत्र तु तथा न संभवति॥३८०॥ एजयितृत्वाद्विदिते प्राणे बह्मैक्यबोधनायोगात्। ब्रह्मपरत्वायोगे प्राणपरत्वं हि युक्तमाभयितुम् ॥। ३८१ ॥

Page 76

७२ [ १ प्रथमाध्यायस्य-

वज्रोपमितत्वं यहायो: पर्जन्यमावयोगेन। युक्तं स्याविति शङ्कां निरसितुमधिकरणभेतदाह मुनिः ॥३८२॥ कम्पनात् ॥ ३९ ॥ अत्र हि योऽसौ प्राणः स हि परमात्मा न वायुमात्रं स्यात् । न हि केवलो हि वायुः सर्वपरिस्पन्दकारणं भवति ॥३८३ ॥ न प्राणेनेत्यादयै सर्वपरिस्पन्वकारणत्व यत्। परमात्मन्युपदिषटं तस्मात्प्राणोऽत मवति परमात्मा ॥ ३८४ ॥ मयहेतुत्वादिकमपि परमात्मन्येव दृश्यते यस्मात्। अत्र मयादित्यादी तस्मात्प्राणो हि मवति परमात्मा ॥३८५॥ मीषाऽस्मादित्यादावेतत्सवं प्रपशच्ितं भूयः । मयहेतुत्वं यदृपि च सर्वपरिस्पन्दकारणत्वं च ॥ ३८६ ॥ पूर्वस्मिन्नपि मागे तवेव शुक्रमितिवाक्यनिरदिष्टः। परमात्मैव हि तस्मादत्र प्राण: कर्थं स वायुः स्यात्॥ ३८७ ॥। प्रकरणसमाश्रयेवि हि परमात्मैव प्रतीयते नान्यः । अन्यत्रेत्यारम्मात्म्रकरणमखिलं परात्मपरमेव ॥३८८ ॥ तद्विज्ञानफलं यद्ध्यमृतत्वं तत्परात्मपक्षे स्यात्। न हि वायुमात्रपक्षे तस्मात्म्राणोऽत्र मधति परमात्मा ॥ ३८९॥ कठवल्लीवाक्यस्थं यदिदं किं चेतिवाक्यमखिलमपि। ब्रह्मणि परमानन्दे विज्ञेयात्मनि समन्वितं भवति ॥३९० ॥ नन्विह दहराध्याये प्राजापत्यं य एष इत्यादि। वाक्यं हषट तत्र ज्योतिःशब्दो हि दृश्यते योऽसौ ॥ ३९१॥ ब्रह्मपरो वा किं वा सूर्यपरो वेति संशये जाते। पूर्वत्र सर्वशब्दं ब्रह्मपरत्वप्रसाधकं मत्वा ॥ ३९२॥ तस्पद्योगेनायं प्राणो ब्रह्मेति युक्तमाश्रयितुम् । अत्र तु न तथा लिङ्गं प्रकरणमप्यात्मगोचरं दूरे॥ ३९३॥ तस्माज्ज्योतिःशब्दं न परं ब्रह्मेति शङ्कितं दोषम्। निरसितुमिदमधिकरणं कृपया रचितं मुनिमवीरेण ॥ ३९४॥ ज्योतिर्दर्शनात् ॥४० ॥ अन्न ज्योतिःशब्दं मवति परं ब्रह्म नैव सूर्यादि। यस्मादस्मिन्वाक्ये स उत्तमः पुरुष इति तु हष् हि॥ ३९५।।

Page 77

तृतीयपाद: ३] माष्यार्थरत्नमाला। ७३

उत्तमपुरुषपदं तत्प्करणसाहाथ्ययोगमालम्व्य । ज्योतिःशब्दस्यास्य ब्रह्मपरत्वं प्रसाधयितुमीष्ट ॥३९६॥ क्रममुक्तिबोधनार्थ नेदं वाक्यं प्रवृत्तमिह यस्मात्। इह निर्विशेषगोचरमखिलं वाक्यं तु हश्यते ह्येतत्॥ ३९७॥ अशरीरं वावेतिश्रुत्युक्तं यदशरीरतारूपम्। तच्च न मार्गायत्तं तस्मादयुक्ता न सूर्यपरताऽत्र ॥ ३९८॥ सूर्यप्राप्तिद्वारा बह्मपाप्तिविवक्षिता यत्र। तत्र च सूर्यपरत्वं ज्योतिःशब्दस्य युक्तमाश्रयितुम् ॥ ३९९॥ सगुणोपास्ती तदिदं युक्तं न हि निर्विशेषविद्यायाम्। तस्मादस्मिन्वाक्ये ज्योतिःशब्दः परात्मपर एव ॥ ४०० ॥ अशरीरतात्मकोडसौ मोक्षो ब्ह्मापरोक्षसापेक्षः। व्यादायेत्यत्रेव ह्यत्र क्त्वान्तस्य विनिमयो भवति ॥ ४०१ ॥ तस्मादहराध्याये ज्योतिर्वाकक्यं यवत्र निर्दिष्टम्। सत्स्वप्रकाशरूपे ब्रह्मणि परमे समन्वितं भवति ॥४०२ ॥ नन्वत्र च्छान्दोग्ये ह्याकाशो हेतिवाक्यमुपदिष्टम्। तत्राSSकाशो योऽसी निर्वहिता नामरूपयोर्भवति ॥४०३॥ ते चापि नामरूपे यस्माद्वभिन्ने हि तत्परं ब्रह्म। तदमृतमात्माSपि स्यादित्याकाशः प्रदर्शितो मूयः ॥४०४॥ स च किं भूताकाशः कि परमात्मेति भवति संदेहः।

ज्योतिष्पदं यदेतद्ह्मपरं हीति वर्णित भूयः । तद्वदिहोपक्रमगतमाकाशश्रुतिबलं समालम्व्य।।४०६।। मूताकाशपर स्यादखिलं वाक्यं यदेतदुपदिष्टमू। इत्याक्षेपं निरसितुमधिकरणमिदं चकार मुनिवर्यः ॥ ४८७ ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥ अत्राSडकाशो योऽसौ बह्मैव स्यान्न मूतमात्रं हि। अर्थान्तरत्वमस्मिन्निर्दिषं येन नामरूपाभ्याम्।। ४०८।। तन्निर्देशादस्मिन्न कार्यरूपत्वमभिहितं भवति। निर्वहितृत्वमिहोक्तं परात्मनोऽन्यत्र नैव संभवति ॥४०९ ॥ तङ्रह्म तद्मृतमिति व्यपदेशो योऽत्र हश्यते मूयः । न हि सर्वो युक्त: स्याङ्गह्मणि परमे न मूतमात्रेऽपि ॥ ४१० ॥

Page 78

७४ सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायर्य-

आकाशश्रुतिरेषा बहुमिलिंङ्गैरुपट्ठुता भूयः । स्वविषयविकलादीनां विषयान्तरमगतिक समाश्रयते ॥४११॥ तस्मादेतद्वाक्यं छान्दोग्ये द्ृश्यमानमखिलमपि। अमृतामयस्वरूपे ब्रह्मणि परमे समन्वितं भवति ॥४१२॥ नन्विह बृहदारण्ये योऽयं विज्ञानमय इति प्रथितम्। वाक्यं दृष्ट तक्किं जीवपरं स्यात्परात्मपरमथ वा॥४१३॥ पूर्वस्मिन्नधिकरणे लिङ्ग ह्यर्थान्तरत्वमुपदिष्टम्। तज्च न लिङ्गं यस्मादभिन्नरूपेऽपि भेद उपदिष्ट: ॥ ४१४॥ एवमितिवाक्य एव हि विज्ञानमयो हश्यते न शारीरः। इत्याशङ्कां निरसितुमधिकरणमिदं कृतं हि सूत्रकृता ॥४१५॥

व्यपदेशादितिसूत्रे पञ्चम्यन्तस्य पूरणं कार्यम्। विज्ञानमयो योऽसी न हि शारीर: परं तु परमात्मा ॥४१६॥ यस्मात्स खलु सुषुप्तावुत्क्रान्तावुच्यते हि भेदेन। एवमितिवाक्यजालैः शारीरविलक्षणो हि यः प्राज्ञः ।।४१७।। निर्दिश्यते स एव हि विज्ञानमयः स एव परमात्मा। यस्माद्विज्ञानमयो महानजश्रेति पूर्वनिर्दिष्टः ॥। ४१८॥ अयमिह सलिलादिपदैर्यदुत्तरत्रापि दर्शितो भूयः । प्रश्नप्रतिवचनानि हि परमात्मपराणितत्र दृश्यन्ते ॥४१९॥ पत्यादिशब्देक्यः ॥ ४३॥ पत्याद्यश्ष शब्दा: स एष इत्यादिवाक्यनिर्दिष्टाः । ते खलु परमात्मपरा विज्ञानमये हि दर्शिता ह्यन्र ॥ ४२० ॥ तस्माद्विज्ञानमयः पर एवाऽडत्मा न चेतरः कश्चित्। यदिदं वाक्यमिहोक्तं समन्वितं निर्विशेषचिन्माने ॥ ४२१ ॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां प्रथमो योऽसी समन्वयाध्यायः ॥४२२॥ तत्र हि तृतीयपादे सूत्रार्थो यश्र भाष्यकारोक्त:। आर्यावृत्तेरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ।४२३।। इति प्रथमाध्यायस्य तृतीय: पाद: समाप्त: ॥३ ।

Page 79

चतुर्थपाद्: ४ ] माष्यार्थरत्नमाला। ७५

अथ चतुर्थपादप्रारम्भ: ।

त्रिभिरप्येतैः पादैर्वह्मणि वेदान्तवाक्यनिचयस्य। लिङ्गेरुपक्रमादिभिरन्यैश्र समन्वयो हि निर्णीतः ॥१॥ ईंक्षत्यधिकरणे हि प्रधानवाद्श्र परिहृतः पूर्वम्। तद्यत्प्रधानमस्य त्वीक्षणलिङ्गादशब्दता कथिता ॥२॥ अ्र च वेदान्तानां गतिसामान्यं च चेतने गदितम्। तत्रेद्मनुपपन्नं यदशब्दृत्वं निरूपितं तस्य । ३॥। ब्रह्मणि गतिसामान्यं प्रधानमिह येन शब्दवद्दृष्टम्। तेन च गतिसामान्यं प्रधानपक्षेऽपि युक्तमाश्रयितुम्॥४॥ कठवल्व्यामेतस्यां महतः परमिति हि वाक्यमुपदिष्म्। तत्र च वाक्ये महतः परमव्यक्तं प्रदर्शितं भवति ॥५॥ विज्ञानमयपदस्य ब्रह्मपरत्व प्रदर्शितं पूर्वम्। अस्याव्यक्तपरस्य प्रधानपरतेह तद्देव स्यात् ॥ ६ ॥ पत्यादिशब्दयोगाद्विज्ञानमयो यथा परं बह्म। महदादिशब्दयोगादव्यक्तमिह प्रधानमेव स्थात् ।७॥

तस्य च सशब्दृतायां गतिसामान्य च तत्र सुगम स्थात् ॥८।। तस्यैव युक्तमेतज्जगतो जन्मादिकारणत्वमपि। सकलागमान्तवचसां समन्वयो यश्च पूर्वनिर्दिष्टः ॥। ९॥ ब्रह्मणि स कथं सिध्येद्यतः प्रधाने प्रतीयते सोऽयम्। इत्याक्षेपं निरसितुमिदमधिकरणं चकार मुनिवर्यः ॥ १० ॥ आनुमानिकमप्येकेषामिति चेन्न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥ कपिलस्मृतिवच नैरिदम चेतनं यत्प्रधानमुपदिष्टम्। कठवल्व्यामेतस्यामव्यक्तपदोक्तमेतदेव स्यात् ॥११॥ रूढिबलाद्योगबलादव्यक्तपदं समख्जसं तत्र। PG

इति तस्य शब्दवत्वाद्शब्दता त्वनुचिताऽस्य वक्तुं स्यात् ॥१२॥ इति चेन्नेयं शङ्का यतः प्रधानं न चतद्व्यक्तम् । रूपकविन्यस्तं यच्छरीरमव्य क्तशव्द्योग्यं स्यात् ॥ १३।।

Page 80

७६ सुब्रह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

पूर्वस्मिन्वाक्ये किल योऽसावात्मा रथी विनिर्दिष्टः। तस्य च रथः शरीरं बुद्धि: सारथिरिदं मनो यद्पि॥ १४॥ प्रग्रह इति निर्दिष्टं हयाश्र सकलेन्द्रियाणि मार्गाश्र। शब्दादयो हि विषया भोक्ता संघातरूप आत्मेति ॥१५॥ निर्दिश्य सकलमेतद्रथिनो मार्गद्वयं च निर्दिष्म्। बुद्धीन्द्रियैरशुद्धैः पुरस्कृतश्रेत्स याति संसारम् ॥१६॥ योऽसी रथी यदा स्याद्विशुद्धबुद्धयादिपरिवृतः शुद्धः। स हि मार्गपारभूतं विष्णोः परमं पदं प्रयातीति ॥१७॥ सदिदं परमपदं यद्दर्शयितुं वाक्यमेतदुपदिष्टमू। तच्चेन्द्रियेभ्य इति खलु तत्र च हष्ट त एव निदिध्ा:।१८।। ये पूर्ववाक्यहष्टा आत्मप्रमुखा भवन्ति विषयान्ताः। आत्मान्ता येऽन्र स्यु: पूर्वत्रेहापि तुल्यशब्दा हि॥ १९॥ अव्यक्तपद्मिहोक्तं पूर्वस्मिन्नोपलभ्यते वाक्ये। तदृषि प्रकरणबलतः पूर्वोक्तशरीरपरमिति न्याय्यम्॥२०॥ पूर्वत्राSडत्मानन्तरमुपदिष्टं यच्छरीरमवशिष्टम्। बुध्यारूढं यस्माद्व्यक्तपदेन गृह्यते तदिदम् ॥ २१ ॥ प्रकरणविधुरं हि कथं प्रधानमव्यक्तशब्दयोग्यं स्वात्। अव्यक्तपदं चैतदूढिबलाद्वोधकं प्रधानस्व ॥ २२॥ सांख्यानामेवेयं रुठिर्दृष्टा न चेतरस्यापि। तत्प्रत्यभिज्ञया स्याद्वस्तुग्रहणं न हि क्रमादेव ॥२३ ॥ अश्वस्थाने पश्यन्गामश्व नो बुधो विजानाति। प्रकरणमपि यदिदं स्यात्परात्मपरमेव न प्रधानपरम्॥ २४ ॥ यच्छेदितिवाक्योक्तो योग: सर्वः परात्मधीहेतुः। एष इतिवाक्यनिवहैदुर्विज्ञेयत्वमात्मनः प्रथयन् ॥२५॥ तद्विज्ञानायैव हि योगो रथरूपकल्पना चेयम्। तत्र प्रधानवार्ता न हश्यते केनचित्कचिद्वाऽपि॥२६॥ अव्यक्तपदं चैतद्योगेन स्याच्छरीरपरमेव। ननु कथमिदं शरीरं व्यक्तपदाहं भवेदिहाव्यक्तम् ॥२७॥ तस्मात्मधानमेवाव्यक्तपदाहं न चान्यदिति चेन्न। सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ यदिदं सूक्ष्मशरीरं तदेव चाव्यक्तशव्दनिर्देश्यम्॥२८॥

Page 81

चतुर्थपाद: ४] माष्यार्थरत्नमाला। ७७

तद्वाचको हि शब्दस्तत्कार्यपरोऽपि दृश्यते लोके। गोभिरितिवाक्य एव हि गोशब्दः क्षीरवाचको हक्षः ॥ २९॥ तहदिहाव्यक्तपद सूक्ष्मपर स्थूलबोधकं मवति। यदिदं सूक्ष्मं लोके तत्रैवाव्यक्तशब्द उपलब्धः ॥ ३० ॥ सूक्ष्मे मुरुये मूत्वा गौण्या स्थूले प्रवर्तते सोडयम्। तदधीनत्वादर्थवत् ॥। ३॥ अव्यक्तशब्द्योग्यं यदिदं सूक्ष्म शरीरमुपदिष्टम् ॥३१ ॥ रथिनोऽस्य चेतनस्य हिन तद्विना मवति तस्य संसार:। सूक्ष्म शरीरमेव ह्यव्यक्तपदेन गृह्यते नान्यत् ॥ ३२ ॥। तद्धीन: संसारो यस्मादिति केचिदृत्र कथयन्ति। सद्युक्तं पूर्वत्र हि रथरूपतया शरीरमुमयविधम् ॥३३॥ निर्दिष्ट यद्यत्र ह्येकं चेत्तर्हि वाक्यभेद: स्यात्। ननु यद्यव्यक्तपदप्रतिपाद्यं सूक्ष्ममिह शरीरं चेतू ॥ ३४ ॥ सदिदं प्रधानमेव ह्यत्रोक्त स्यादितीह नाऽडशक्कूयम्। यदिदमविद्यात्मकमिह सूक्ष्मशरीरं तदात्मपरतन्त्रम् ॥ ३५॥ यञ्च प्रधानमुक्तं स्वतन्त्रमेतदिति वर्ण्यते सांख्यैः । तस्मात्प्रधानवाद: सोडयं वेदान्तिमिर्निराक्रियते ॥३६॥ यदि च प्रधानमेव ह्यव्यक्तपदाईमत्र निर्दिषमू। ज्ञेयत्वावचनाच्च ॥ ४ ॥ ज्ञेयत्वमत्र वाक्ये तदिहाव्यक्ते कुतो ने निर्दिष्म् ॥:३७ ॥। पद्मात्रमेतदिह किल निर्दिष्टं दृश्यते हि वाक्येडस्मिन्।

ज्ञेयत्वावचने किल तन्निर्देशो वृथेव तेषां स्थात्। तस्मात्प्रधानमेतत्प्रदर्शयितुमत्र नेदमुपदिष्म् ॥३९॥ अपि तु परमेश्वरं तं बोधयितु वाक्यमेतदुपयुक्तम्। रथरूपकल्पनाद्यैः परमेश्वर एव चित्तमवतार्य ।। ४०॥ निःश्रेयसफलकतया परात्मविज्ञानमुपदिशत्येतत्। वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५॥ ज्ञेयत्वानिर्दृशादव्यक्तं न प्रधानमिति नैतत् ॥ ४१ ॥

Page 82

७८ सुबह्मण्य विरचिता- [१ प्रथमाध्यायस्य-

यस्मादस्यां वल्लयामशब्दमित्यादिवाक्यमखिलमपि।

इति चेन्नेयं शङ्का यस्मात्पाज्ञोऽयमत्र निर्दिष्ट: । यदिदं प्रकरणमेतत्परमात्मपरं न हि प्रधानपरम् ॥४३॥ येनासौ परमात्मा न जायते म्रियत इत्यनेनोक्त: । सृत्युमुखमोक्षफलकं यदस्य विज्ञानमत्र निर्दिष्टम्॥४४ ॥ तद्पि परमात्मपक्षे समञ्जसं न प्रधानपक्षेऽपि। त्रयाणामेव चैवमुपन्यासः प्रश्नश्र॥ ६॥ अस्यां कठवल्यां खल्वग्निर्जीवस्तयैव परमात्मा ॥४५॥ त्रय एते निर्दिश्टाः प्रश्नप्रतिवचनवाक्यजालेन। प्रश्न उपन्यासो वा प्रधानविषयो न हश्यते क्वापि ॥४६॥ तस्मादस्मिन्वाक्ये नाव्यक्तफढं प्रधानममिधत्ते। नन्वेतद्नुपपन्नं प्रश्नोपन्यासरूपलिङ्क यत् ॥। ४७ । नचिकेता: किल पित्रा प्रितो मृत्योः सकाशमुपयातः। मुत्युः किल तं हष्टा परितुष्स्त्रीन्वरानिमान्प्रादात्। ४८॥ जनकस्य सौमनस्यं तथाडगनिविद्यां तथाऽडत्मविर्द्या च। जनकस्य सौमनस्ये प्रथमं दत्ते वरदयं शिषम् ॥ ४९ ॥ या चेयमग्निविद्या या च परात्मप्रकाशिका विद्या। शिष्टे वरद्येऽस्मिन्प्रश्नञ्यमेतदनुपपन्नं हि॥ ५० ॥ प्रतिवचनं च तथैवानुपपन्नमितीह नैवमाशङ्क्यम्। यस्माद्वरप्रदानव्यतिरेकेणात्र किमपि न हि हटम् ॥५१॥ प्रश्नव्यतिरेकेण च नेहोपन्यस्तमेव किंचिदपि। एवं सत्यपि नात्र प्रश्नत्रयमङ्गलेशशङ्काsपि ॥ ५२॥ शिष्टे वरद्धयेऽस्मिन्प्रश्नन्रयमेतदुचितमेव स्यात्। भिन्नार्थकं यदा स्यात्प्रश्नान्तरमत्र भवति दोषोऽयम् ॥५३॥ जीवेशगोचरस्य प्रश्नयुगस्यैकविषयकत्वेन। एकत्वादिह न भवति वरप्रदानव्यतिक्रमाशङ्का ॥५४॥ प्रश्नत्नित्वोक्तिरियं विशेषभेदप्रवादमाश्रित्य। तस्मादिह मात्रार्थे परात्मपक्षे न कोऽपि दोष: स्यात् ॥५५॥ दोष: प्रधानपक्षे मवति ततो न प्रधानमव्यक्तमू।

Page 83

चतुर्थपाद: ४] माष्यार्थरत्नमाला। ७९

महदच ॥ ७॥ सांख्ये: सत्तामात्रे प्रयुज्यमानो यथा महच्छब्दः ॥ ५६॥। न हि वैदिके प्रयोगे तामभिधातु यथा न शक्त: स्यात्। अव्यक्तशब्द एप प्रधानपर इति हि वर्णितः सांख्यैः ॥ ५७। न हि स प्रधानवाची मवति ततोऽ्व्यक्तमिह शरीरं स्यात्। यदिदं प्रधानमस्य ह्यशब्दृता निरपवादमिह सिद्धा ॥५८॥ तस्माद्वेदान्तानां ब्रह्मणि परमे समन्वयः सुगमः ।

नन्वत्राजामम्त्रादशब्द्ता दुर्लभैव पुनरस्य। तत्र च काचिदजोक्ता या लोहितशुकककृष्णवर्णा सा ॥ ६० ॥ बह्नी: प्रजा: सरूपाः सृजति हि तामेक एष जुषमाण: । अनुशेते ह्यविवेके जहाति चान्यस्तु भुक्तभोगां ताम् ॥ ६१॥ इति तत्र च निर्दिष्टा ह्यजा प्रधानं ततो न चान्यत्स्यात्। पूर्व प्रधानपक्षे लिङ्गं किंचिदृपि नोपलब्धमिति ॥६२॥ प्राज्ञप्रकरणबलतो ह्यव्यक्तपढं शरीरपरमुक्तम्। इह लोहितादिशब्दैः सत्त्वादिगुणत्रयं हि निदिष्म् ॥६३॥ तच्चाजाशब्दस्य प्रधानपरताप्रसाधकं लिङ्गम्। स्रषटृत्वमपि च तस्मादशब्दता स्यात्कर्थं प्रधानस्य ॥६४॥ इत्याक्षेपं निरसितुमधिकरणमिवं चकार सुनिमान्य: । चमसवदविशेषात्॥ ८ ॥ अर्वाग्बिल इति मन्त्रश्रमसप्रतिपत्तिसाधनो दृष्षः ॥ ६५॥ तत्रार्वाग्बिलशब्दो विशेषतो नार्थबोधको भवति। येन स्वार्थं बूते ग्रहादिसाधारणेन धर्मेण ॥ ६६॥ एष इतिवाक्यशेपाद्विशेषतः स्वार्थनिर्णयो भवति। तद्वदिहाजामन्त्रः सामान्यार्थप्रदर्शको भवति ॥६७॥ नात्र प्रधानवाचकशब्दो दृष्टो न दृश्यते लिङ्गम्। यदजापद्मत्र स्याद्योगेनान्यार्थकं च तन्दभवति ॥६८ ॥ रूढिश्वाजायां किल दृष्टा नास्मिंस्तथा प्रधानेऽपि। ये लोहितादिशब्दास्तेऽपि न सत्त्वादिवाचका: स्युरिह ॥६९॥ रूपविशेषपरत्वं लोके वेदे च हष्टमेतेषाम्। मुख्यार्थसंभवे किल गौणार्थो गृह्यते न केनापि॥। ७० ॥ -

Page 84

सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यायस्थ-

तस्मादिदं प्रधानं नाजाशब्देन ग्रृह्यते किंतु। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ येयं ज्योतिष्प्रमुखा मूतत्रयलक्षणा जगद्योनिः । ७१ ॥ परमेश्वरपरतन्त्रा या लोहितशुकककृष्णवर्णाडपि। छान्दोग्यवाक्यदृष्टा सेयमजा गृह्यतेडत्र न तदन्या ॥। ७२॥ तस्या हि वाक्यशेषे हष्टोऽसी लोहितादिगुणयोग: । संदिग्धासंदिग्धौ यद्येकत्रैव संगतौ भवतः । ७३ ॥ तत्रासदिग्धेन हि संदिग्धार्थस्य निगमनं न्याय्यम्। तेनाजामन्त्रेऽषि हि मूतत्रयलक्षणा ह्यजा ग्राह्या ॥ ७४ ॥ उपभुज्यते ह्यविदुषा विदुषा संत्यज्यते हि सैवाजा। क्षेत्रज्ञभेदसिद्धयै विद्वदविद्वत्मदर्शनं न कृतम्॥ ७५॥ मेद्मनूद्य तयोरिह बन्धविमोक्षव्यवस्थिति: कथिता। नन्वत्राजाशब्दो ज्योतिष्परमुर्खा कथं हि बोधयति ॥ ७६॥ इह योगरूढिबाधावित्याशक्का निरस्यते सपदि। कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ योगेन वाऽवि रूढया ज्योतिष्प्रमुखां न चायममिधत्ते॥। ७७।। सादृश्योपाधिकया कल्पनया ता प्रबोधयत्येष: । लोके काचिदजा हि स्थालोहितशुकक कृष्णवणाढया ॥ ७८॥ जनयति सरूपवर्ग तथेयमिति बोधयत्ययं शब्दः । तस्मात्काल्पनिकत्वं तत्राजाशब्द एष उपपन्नः ।।७९॥। मध्वाद्यश्ष शब्दा आदित्यादौ यथोपपन्ना: स्यु: । तस्मादशब्दृतेषा सिद्धा सांख्योचितप्रधानस्य ।। ८० ॥ ब्रह्मणि वेदान्तानां समन्वयो निरपवाद एषात्र। नन्वत्राजामन्त्रादिह प्रधाने सशब्दता मा भूत् ।८१ ॥। यस्मिन्नितिमन्त्रात्किल सशब्दृता स्यादिह प्रधानस्य। तस्मिन्मन्त्रे पञ्च हि पञ्चजनास्तद्वदेव चाऽडकाशः ।।८२ । यस्मिन्प्रतिष्ठिता: स्युस्तमेव मन्ये सदाऽहमात्मानम्। एवं विद्वानमृतो ब्रह्मामृतरूप एव भूयासम् ॥८३ ॥ इत्येवमर्थजातं प्रपश्चितं पञ्चकद्दय तत्र। तदिदं हि पञ्चविंशतितत्वानि स्मृतिगतानि निर्दिशति ॥८४॥

Page 85

चतुर्थपाद: ४ ] माष्पार्थरत्नमाला।

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकक्ष विकारो न प्रकृतिर्न विकृतिश्र पुरुष इति ॥८५॥ स्मृतिनिर्दिष्टामेव हि तत्वानां पञ्चविशतिं बूते। रूढिं त्यकत्वा ज्योतिष्प्रमुखार्थकता ह्यजापदस्योक्ता ।। ८६।। तद्वज्जनशब्दृस्य हि रूढिं परिहृत्य तत्त्वपरता स्यात्।

वारयितुमाहतात्मा चकार मुनिवर्य एतद्धिकरणम्। न संख्योपसंग्रहादपि नाना- भावादतिरेकाच ॥ ११॥ सनिबन्धनैव संख्या द्वित्राद्या हश्यते हि लोकेऽस्मिन् ॥। ८८ ॥ धर्मनिबन्धनविरहे पञ्चत्वाद्या कथं भवेत्संख्या। पञ्चपद्दययोगात्संख्यैव हि पश्चविंशतिर्लब्धा ॥। ८९॥ तावन्मात्रेण क्थं तत्वानां पञ्चविंशतेर्बोध: । जनशब्देन समस्तं पञ्चपदं वा कथ विशेष्यं स्यात् ॥ ९० ॥ उपसर्जनं हि लोके विशेष्यत्वे न केनचिद्दृष्टम्। पञ्चजना इत्येतत्समस्तमेवेह न भवति व्यस्तम् ॥९१ ॥ माषिकवाक्यावस्य ह्येकपवृत्वं विनिश्चितं भवति। पञ्चजना इत्यस्मात्संख्यालाभे कुतस्तदाकाठूक्षा ॥। ९२॥ संख्याकाङ्क्षाविरहे पञ्चेति पदं पुनर्वृथैव स्यात्। इह पञ्च पञ्च पूल्यः स्युरिति च दृष्टा हि सा समाहारे ॥ ९३॥ पञ्चजना इत्पत्र तु समास हह कर्मधारयो येन। दिक्संखये संज्ञायामित्यस्मादिह समास उपदिक्षः ॥९४ ।। संख्याबोधार्थं किल पञ्चपदं जनपदेन न समस्तम्। सप्तर्षय इत्यादी संज्ञायां किल समास उपदिक्: ॥९५॥। तद्वदिहापि स्यादिति स पञ्चविंशतिरितः प्रतीयेत। सूत्रे ह्यात्माकाशी तत्त्वान्तःपातिनी विनिर्दिषी ॥९६॥ यस्मिन्नितिमण्तरे खलु तो पृथगेवोपदर्शितौ मत्तः। आधारत्वेनाऽडत्मा ह्याकाशश्व प्रतिष्ठितत्वेन ॥९७॥ निर्दिष्टौ तस्मात्किल तत्वानां पञ्चविंशतेर्भङ्ग:।

Page 86

सुबह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

सेयमयुक्ता शङ्का तस्वानां पञ्चविंशतीनां या। इह पञ्चजनपढ़े किल समासविधिना प्रतीयते संज्ञा ॥९९॥ सेयं प्रतीयमाना संजषिनमाकाङ्क्षते हि नियमेन। तस्यामाकाङ्क्षाया रुढिबलात्सज्ञिनं प्रबोधयति ॥ १०० ॥ सोडयं हि वाक्पशेष: प्राणस्य प्राणमित्युपन्यस्तः । प्राणादयो वाक्यशेषात् ॥ १२॥ यस्मिन्नितिम न्तोत्तरमिहोपलब्धो हि वाक्यशेषोऽयम्॥६०१॥ तत्र प्राणाश्वक्षुः भ्रोत्रं चान्नं च मन इति हेते। पञ्च पदार्थाः कथितास्त एव मम्त्रे भवन्ति जनाः ॥१०२॥ जनशब्द: प्राणादिषु कथं प्रवर्तत इतीह नाऽडशङ्रक्यम्। भवतां तत्वेषु यथा प्राणादिष्वपि तथा प्रवर्तेत ॥ १०३ ॥ इह सुपसिद्धसंनिधिपठितो यो ह्यप्रसिद्धवचनः स्यात्। तस्य प्रसिद्धपरता दृष्टाऽन्यत्ोद्धिदादिशवेषु ॥१०४॥ जनपद्स्तमार्थकं च प्राणादिषु दृश्यते हि पुरुषपद्म्। ने वा एते पञ्चेत्यस्मिंस्तस्मान्न कश्विदिह दोषः ॥१०५॥ माध्यदिनाश् ये स्युस्तेषामेते भवन्तु पञ्चजना: । काण्वानां कथमेते प्राणादिषु नाऽडमनन्ति ये चान्नम् ॥१०६॥ न हि तत्र पञ्चसंख्या तत्पारे स्यावितीह नाऽडशङ्क्यम। ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ येषां पाठे चान प्राणादिषु नोपलभ्यते तत्र ॥ १०७ ।। पूर्वत्र दर्शित यज्ज्योतिष्माणादिसमुद्ये योज्यम्। तस्मात्त एव मन्घे पञ्चजना: स्युर्न सांख्यतत्वानि ॥ १०८॥ कापिलसूत्रं यदिदं तस्य च मूलं न दृश्यते किमपि। तस्माद्यदशव्दत्वं पूर्वोक्तं तञ्च निरपवादं स्यात् ॥ १०९॥ ब्रह्मणि वेदान्तानां समन्वयो निरपवाद इति सिद्धम्। ब्ह्मणणि वेदान्तानां गतिसामान्यं प्रपश्चितं हि ननु ॥११० ॥ तदनुपपन्न यस्माद्वेदान्तानां विगानमिह हष्टम् । श्रुतिवचनवैपरीत्ये जगज्जनिप्रभृतिकारणत्वमपि ।। १११॥ तत्रासिद्धं तेन च लक्षणवाक्यं कथं समन्वेति। तत्र श्तिवचनानि ह्यनेकविधसृष्टिमामनन्त्येवम् ॥११२॥ आत्मन इति चैका श्रुतिरादावाकाशजन्म निर्दिशति। त तेजोऽसृजतेतिश्रुतिरादौ जन्म तेजसो वद्ति ॥ ११३॥

Page 87

चतुर्थपाद: ४] भाष्यार्थरत्नमाला।

स प्राणमसृजतेति श्रुतिरादी प्राणजन्म निर्दिशति। स इमानित्याद्या हि श्रुतिरादौ लोकसृष्टिमुपदिशति॥११४ ॥ तत्कर्तृकां हि सृष्टिं बोधयति श्रुतिरियं सद्वेति। जगदेतदसत्कर्तृकमुपदिशति श्रुतिरियं ह्यसद्वेति ॥११५॥ श्रुतयोऽन्या अप्येव सृष्टिं नानाविधां हि कथयन्ति। सृष्टिश्रुतिवाक्यानि स्रष्टव्येषु क्रमादिवैचित्रयात् ॥११६ । विप्रतिपन्नानि यतो लक्षणबोधः कथं मवत्येभ्यः। जन्मादिकारणत्वं लक्षणमुक्तं हि तस्प यत्पूर्वम् ।११७॥ तदसिद्धं चेद्रह्मणि गतिसामान्यं हि दुरुपपादं स्यात्। योडयं प्रधानपक्षे दोष: सोडयं परात्मपक्षेऽपि ॥ ११८॥ इत्याशङ्का निरसितुमिद्मधिकरणं प्रपश्चितं मुनिना।

कारणत्वेन चाऽडकाशादिषु यथाव्यपदिष्टोक्ककः ॥ १४ ॥ इह सृज्यमानविषये विगानमुपलम्यते हि वेदेषु ॥ ११९॥ स्रट्टरि वेदान्तानां विगानमुपलभ्यते न किंचिदृपि। ईक्षणपूर्वकमस्य हि कारणता वर्णयन्ति वेदान्ताः ॥१२० ॥ सत्यं ज्ञानमनन्तं सर्वज्ञं ब्रह्म दर्शयन्ति तथा। सोऽकामयतेत्येषं कामयितृत्वं हि तस्य निर्दिष्टम् ॥१२१॥ अन्यत्रापि तथेव हि तवैक्षतेत्यत्र ताद्वी निर्दिष्टमू। मन्त्रान्तरे तदेव हि स ईक्षतेत्यादिवाक्यनिर्दिष्टम् ॥१२२॥ एवं किलेक्षितृत्वं हीक्षांचक्र इतिषाक्यनिर्दिष्टम्। ल्चेतनस्य धर्मो नान्यस्येत्युक्तमेव पूर्वत्र ॥१२३ ॥ सर्वज्ञत्वादिकमपि सर्वत्रैव प्रपश्च्ितं तस्य। ब्रह्मेह यादृशं हि प्रपश्चितं कारणत्वधर्मेण ॥ १२४ ।। मन्त्रान्तरे तथेव ब्रह्म प्रतिपादितं हि सर्वत्र। कार्यविगाने सत्यपि कारणमविगीतमेव सर्वत्र ॥१२५॥ नैतावन्मात्रेण हि लक्षणमङ्गोऽन्र शक्कितु शक्पः। ब्रह्मैकरूपमेव तु कारणमुपदिश्यते हि वेदान्ते ॥ १२६ ॥ सत्कर्तृका हि सृष्टिश्छान्दोग्ये या प्रतीयते साऽपि। परमात्मकर्तृकैवेत्येवं निर्धारितं हि पूर्वत्र ॥ १२७ ।।

Page 88

८y सुब्रह्मण्यविरचिता- [ १ प्रथमाध्यापस्य-

नन्विह लक्षणमेतङ्रह्मणि नैवोपपद्यते यस्मात्। असतोऽपि कारणत्वं दर्शयति श्रुतिरियं हसद्ेति॥१२८॥ समाकर्षात् ॥ १५॥ असदित्यस्मिन्मन्त्रे निरात्मकं नासदुच्यते किंतु। ब्रह्म सदेवासदिति हाव्याकृतनामरुपमुपदिष्म् ॥१२९ ॥ यद्यन्यथा हि पूर्व सत्यज्ञानादिलक्षणं बह्म। आकृष्य सम्यगस्य हि कामयितृत्वं च दर्शयत्येव ॥ १३० ॥ तस्मात्सृष्टिं विततां निरदिश्यानन्तरं हि तर्पैष। असवित्युपवेशोऽसावसंगतः स्यादृतो ह्यसच्छव्द्: ॥१३१॥ ब्रह्म सवात्मकमेव ह्यव्याकृतनामरूपमुपदिशति। यत्रासच्छब्दोडयं छान्दोग्ये दृश्यते सदित्यादिः ॥१३२ ॥ सोऽपि स्ववाक्यदर्शितसत्पद्योगात्सदर्थको मवति। व्याक्रियतेत्यादी हि व्याकरणं कर्तृतन्त्रमुपदििम् ॥१३३ ॥ सर्वत्र व्याकर्ता परमात्मैवेति वर्णितं भुत्या। व्याकरवाणीत्यनया तस्मान्नेहास्ति बाधकं किमपि॥ १३४॥ लक्षणवाक्यविरोधो न केनचिच्छङ्कितुं हि शक्योऽत्र। तस्माल्लक्षणवाक्यं ब्रह्मणि परमे समन्वितं भषति ॥१३५॥ नन्विह लक्षणवाक्यं सकलं ब्रह्मणि समन्वितं कथितम्। तद्नुपपन्नं यस्मात्कौषीतकिवाक्यमन्यथा दृष्टम् ॥१३६॥ तत्र च बालाकिरसी राजानमजातशत्रुसुपयातः। तं चोपगम्य सोडयं बालाकिरजातशत्रुमाहैवम् ॥१३७ ॥ ब्रह्म ववाणि त इति हि संबोध्यैनं प्रबोधयामास। आदित्ये चन्द्रमसि च योऽसौ पुरुषो मवेत्परात्मेति॥१३८॥ तच्छत्वा राजाऽसी त्वयोक्तमखिलं सृषेति निर्दिश्प। एतेषां पुरुषाणां योऽसी कर्ता हि यस्य तत्कर्म ॥१३९॥ स हि वेदितव्य इति खलु राजा बालाकिमुपदिदेशेत्थम्। तत्र च योऽसौ कर्ता प्राणो वा स्याद्थापि जीवो वा ॥ १४० ॥ इत्येवं संदेह: कर्मपद्भरवणयोगतो भवति। पूर्वमसत्पद्मेतत्स्ववाक्यगतसत्पदावलम्बेन ।। १४१ ॥ सब्चह्मपरतया तद्दर्णितमत्र तुन साधकं किमपि। बालाकिवाक्यटृष्टं ब्रह्मपद तन्न राजवाक्येडस्ति ॥ १४२ ॥।

Page 89

चतुर्थपाद: ४ ] माध्यार्थरत्नमाला। ८५

तस्मात्माणोडयं स्याद्योऽसौ कर्ता हि दर्शितो रज्ञा। चलनात्मकं हि कर्म च तस्योचितमेव वायुरूपतया ॥ १४३॥ पुरुषाणां कर्तृत्वं समष्टिरूपेण युक्तमेवास्य। जीवो वाडयं तस्य च धर्माधर्मात्मकं हि कर्म स्यात् ॥ १४४ ॥ पुरुषाणां कर्तृत्वं भोक्तृत्वात्तस्य युक्तमेव स्यात्। पूर्वोक्तलक्षणं हि प्राणस्यापि प्रदर्शितं ह्यत्र ॥ १४५ ॥ तस्माल्वक्षणवाक्यं ब्ह्मणि कथमिह समन्वितं मवति। इत्याक्षेपं निरसितुमिदमधिकरणं प्रदर्शितं मुनिना ॥ १४६ ॥ जगद्वाचित्वात् ॥ १६ ॥ यदिषं कर्मपव तच्चलनात्मकक्मबोधकं न मवेत्। एतञ्च सुपसिद्धं ह्यप्कृतमशव्दितं च भवति यतः ॥ १४७॥ कर्तृव्यापारं वा क्रियाफलं वा न बोधयत्येतत्। कर्नृपदात्तल्लामे कर्मपदं स्यादिदं हि पुनरुक्तम् ॥ १४८ ॥ अत्र प्रदर्शितानां पुरुषाणा बोधकं न कर्मपद्म्। पूर्वोपदशितत्वादुभयत्र च लिङ्गवचनवैरप्यात् ॥१४९॥ तस्मादिह कर्मपदं योगेन स्वार्थबोधकं वाच्यम्। यत्क्ियते तत्कर्मेत्येवं योगेन कार्यपरमेव ॥ १५०॥ जगदेकदेश मूत्या कार्यत्वेन प्रदर्शयन्पुरुपान्। प्रादेशिककर्तृत्वाशङ्का वारषितुमेवमाह पुनः ॥१५१॥ यन्नामरूपभिन्नं जगदखिलं तम्पदेन निर्दिश्य। तदिदं यस्य हि कायं स वेदितव्य इति निर्दिशत्येनम् ॥ १५२।। तस्मादिह कर्मपदं जगत्परं सत्क्रियापरं मवति। यः सर्वस्य च जगतः कर्ता सोडयं मवेत्परात्मैव । १५३।। सर्वेषां भूतानामित्यस्मिन्वाक्यशेष उपदिषम्। तद्विज्ञानफलं यन्निरतिशयं ब्रह्म मवति तेनायम्॥१५४॥ जीव मुख्य प्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥१७॥ नन्वत्र वाक्यशेषे बालाकिमसौ बुबोधयिषुरादौ। आमन्य सुप्तपुरुषं प्राणस्याभोक्तृतां प्रदर्शयति ॥१५५॥ यष्ट्यभिघातोत्थानात्तद्यतिरिक्तं व जीवमुपदिशति। तत्रैव दर्शितोऽसी मुरुषप्राणो ह्राथेति वाक्पेन ॥ १५६॥

Page 90

८६ सुन्नह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

एवं जीवोऽपि तथा निर्दिष्स्तद्यथेति वाक्येन। तस्माज्जीवो वा स्यात्प्राणो वेत्यत्र नैवमाशङूचम् ॥१५७ ।। जीबादिलिङ्गयोगात्तत्तदुपास्तिर्यदा विवक्ष्येत। त्रिविधमुपासनमत्र प्रसज्यते तत्त नैव युक्तमिह ॥१५८॥। प्राणपदृस्य हि वृत्ति: परमात्मनि दर्शितैव पूर्षत्र। जीवपरात्मैक्येन हि परमात्मनि जीवलिङ्गमुपपश्रम् ॥१५९॥ अन्यार्थ तु जैमिनि: प्रश्नष्याख्या- नाभ्यामपि चैवमेके। १८ ॥ जीवपरामशौडयं जीवलक्षणपरात्मबोधपरः। प्रश्नव्यारुयाने किल परमात्मपरे यतः प्रतीयेते ॥१६० ॥ इति जैमिनिराचार्यो जीवपरामर्शकारणं बूते। क्वैष इति वाक्यशेषे प्रभ्रोडयं स्यात्परात्मपर एव ॥१६१॥ प्रतिवचनमपि हि हष्ट यदेतिमन्त्रे परात्मपरमेव। अप्येके शाखिन इह वदन्ति बालाकिराजसंवाढे॥ १६२ ॥ विज्ञानमयं जीवं निर्दिश्य स्व्रापमुपदिशन्त्यस्य। हादकाशे ब्रह्मणि तस्मादिह दर्शितः परात्मेव ॥ १६३ H अत्र परात्मन एव हि निर्दिष्टं सर्वकारणत्वमपि। यदृपि च गतिसामान्यं ब्रह्मणि वेदान्तवाक्यनिवयस्य॥।१६४।। अनवद्यं हि तदस्मात्कौषीतकिवाक्यमेतदखिलमपि । जगतः कारणरूपे ब्रह्मणि परमे समन्वितं भवति ॥१६५॥ नन्विह षृहदारण्ये मैत्रेयीब्राह्मणे समान्नातम्। पत्यु: कामाय पतिः प्रिय इत्यादिकमनेकमात्मपरम् ॥ १६६॥। वाक्यं तत्र प्रथमं मैत्रेयी याज्ञवलक्यमुनिमाह। मगवन्यञ्च रहस्यं वेत्सि तदेतन्ममाद्य कथयेति ॥१६७ । तच्छत्वा मुनिवर्धो मैत्रेय्यै तदिवमुपदिदेश किल। पत्युः कामाय पतिर्न हि प्रियो भवति चाऽडत्मकामाय ॥ १६८॥ पतिजायापुत्राद्या ये चान्पे भोगसाधनीभूता:। आत्मार्थतया सर्वे पिया मवन्त्यत्र न स्वकामाय ॥१६९॥ सोडयं प्रियतम आत्मा सर्वेषां भोगसाधनानां यः । दृष्टव्य: भोतव्यो मन्तव्योऽसौ तथा निदिध्यास्यः ॥१७० ॥।

Page 91

चतुर्थपाद: ४] माष्यार्थरत्नमाला।

अस्मिन्नात्मनि दृष्टे भुते मते तद्वदेव विज्ञाते। सर्वमिदं विदितं स्यादिति मैत्रेयीमुवाच मुनिवर्यः ॥१७१ ॥ एवं मध्येऽपि तथा श्रुत्या वर्णितमिदं महद्भूतम्। तददनन्तमपारं विज्ञानघन: स एव चाऽडत्माडयम् ॥१७२॥ एतेभ्यो भूतेभ्यः समुत्थितस्तान्यतु प्रणश्यति हि। तामेवमुपदिदेश हि योऽसावात्मेह दर्शितो मुनिना ॥१७३ ॥ स हि किं परमात्मा स्याज्जीवो वाऽ्यमिति संशयप्रात्तौ। पूर्वमुपक्रमवाक्ये ब्रह्मपदश्रुतिबलावलम्बेन ॥ १७४ ॥ बालाक्यजातशत्रवोः प्रश्नपतिवचनवाक्यमखिलमपि। ब्रह्मपरं तद्वर्णितमत्र तु वाक्ये ह्युपक्रमे दृष्टः ।१७५॥ प्रियससूचित आत्मा भोक्ताडयं जीव एव कि न स्यात्। यज्च समुत्थानं स्यान्भूतेभ्यस्तद्पि जीवलिङ्गं हि॥ १७६ ॥ दरष्टव्यत्वादिकमपि तस्यैषोक्त न चेतरस्य स्यात्। सर्वं विदितमिहोक्तं भोक्तर्थत्वाच्च भोग्यपरमेव॥१७७॥ तस्मादस्मिन्वाक्ये निर्विष्टो जीव एव न परात्मा। इत्याक्षेपं निरसितुभिद्मधिकरणं प्रदर्शशितं मुनिना ॥ १७८।। वाक्यान्वयात् ॥ १९ ॥ योऽसावस्मिन्वाक्ये निर्दिष्टः स खलु भवति परमात्मा। यस्मादेतद्वाक्यं परमात्मन्येव सम्यगन्वेति ॥ १७९ ॥ अत्र ह्युपक्रमे किल मैघ्रेयीं याज्ञवल्क्यमुनिराह। अमृतत्वस्य त्वाशा वित्तेनानेन काऽपि नास्तीति ॥१८० ॥ येन च वित्तेनाहं न स्यामसृतादि तेन वित्तेन। किमहं कुर्यामिति सा तत्साधनमेनमिति हि पपच्छ ॥ १८१ ॥ तत्पृष्टेन च मुनिना य एप आत्मा हि सम्यगुपदिष्टः । स हि कथमिह जीवः स्यात्परमात्मैवोपदिष् इह मवति ॥१८२। ब्रह्मज्ञानादेव ह्यमृतत्वं वर्णयन्ति वेदान्ताः। यद्यत्र दर्शितोऽयं न चेत्परात्मा वृथोपदेशः स्यात् ॥१८३॥ अमृतत्वसाधने किल पृष्टे तत्साधन हि वक्तव्यम्। परमात्मानुपदेशे कथमिह तत्साधनं हि कथितं स्थात् ॥१८४ ॥। आत्मनि विदिते सर्वं विदितं स्यादिति च यज्ञ निर्दिष्टमू । सर्वात्मके परात्मनि विषित तदिदं समअ्जसं भवति ॥१८५॥

Page 92

सुब्रह्मण्यविरचिता- [१ प्रथमाध्यायस्य-

यद्येतज्जीवपरं तदेदमिति वाक्यमनुपपन्नं स्यात्।

य स्येतिवाक्यदर्शितसकलजगरकारणत्वमवि जीवे। असमस्जसमेव स्यात्तस्मादिह दर्शितः परात्मैव ॥ १८७ ॥ इदं सवं यवितिश्रुतिबोधितसर्वकार्यरूपत्वम्। सर्वस्य कारणत्वात्परमात्मन्येव तदपि युक्ततरम् ॥ १८८॥। दुन्दुभ्याद्या अपि ये वृष्टान्ताक्षात्र दर्शिता भूयः। तेऽपि च परात्मपक्षं प्रसस्यम्त्यत्र न हि ततोऽन्यमपि॥ १८९॥ आत्मनि विज्ञाते सति निर्दिष्ट यञ्च सर्वविज्ञानम्। येनाशुतमित्यादी प्रदर्शितं तत्परात्मलिङ्गं हि॥ १९० ॥ तस्मादिह परमात्मा मेत्रेयीबाह्मणे विनिर्दिष्टः। द्रष्टव्यत्वादिकमिह तस्यैव स्यान्न चेतरस्यापि॥ १९१॥ नन्विह यदि परमात्मा विवक्षितः स्यात्तवेतद्समरसम्। पत्पादिसूचितस्य हि भोक्तुर्वृष््व्यतादिनिर्वचनम् ॥१९२॥ यच्च समुत्थानं स्यान्ूतेभ्यो दर्शितं हि तदयुक्तम्। परमात्मबोधने किल विज्ञानात्मा यतो निराकाङ्क्षः ॥१९३॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥ प्रिय सूचितस्य भोक्तुर्द्रष्टव्यत्वादिकीर्तनं यत्स्यात्। सर्वं विदितं भवतीत्येवंरूपा हि या प्रतिज्ञा स्यात् ॥ १९४॥ तस्या: सिद्धेः सूचकलिङ्गमिति ह्याश्मरथ्य आचार्यः। जीवपरमात्मनोरिह भेदाशङ्कां भृशं निवर्त्य किल ॥ ११५॥ साधयति तां प्रतिज्ञां तदिदं लिङ्गमिति सूत्रवाक्यार्थः। यदि च तयोर्भेद: स्याप्तदा प्रतिज्ञा हि बाधितैव स्यान् ॥१९६॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः॥२१॥ ज्ञानध्यानाभ्यामिह विवेकविज्ञानसुप्रसन्नस्य। देहेन्द्रियसंघातादुच्चिक्रमिषोः परात्मभावेन ॥ १९७॥ प्रियसूचितस्य भोक्तुनिर्देशोऽसावुपक्रमे सफलः। इत्यौडलोमिरार्यों भोक्तृग्रहणं हि सफलयत्यादौ ॥ १९८॥ अवस्थितेरिति काशकत्सः ॥ २२ ॥ इह चोपक्रमवाक्ये प्रियादिसंसूचितस्य मोकतुरयम्। द्रष््व्यतानिदेश: सकलोऽयं सफल एव न विरुद्ध: ॥१९९॥

Page 93

चतुर्थपादः ४ ] माष्यार्थरत्नमाला। ८९

परमात्मनो यदा स्याद्भिन्नो मोक्ता तदा हि विफलं स्यात्। पत इह परमात्माऽसाववस्थिता भकृभावमालम्व्य ।। २०२।। तत एतस्मिन्वाक्ये न कोऽपि दोष इति काशकृत्समुनिः । तस्मादेतद्वाक्यं ब्रह्मणि परमे समन्वितं भवति ॥२०१॥ नन्विह वेदान्तानां ब्रह्मण परमे समन्वयः कथितः । बुद्धयारूढे वस्तुनि तात्पर्यस्यावधारणं मत्वा ॥ २०२॥ बुद्धचारोहार्थ किल लक्षणमुक्तं हि तस्य पूर्वत्र। तदृपि च लक्षणमस्य हि जगतो जन्मादिकारणत्वं हि॥२०३॥ किमुपादानं तत्त्वं कि वा तत्स्यान्निमित्ततारूपम्। इत्येतन्निर्णेतुं सपदि विचार: प्रवर्तितो मुनिना ॥ २०४ ॥ लक्षणसूत्रानन्तरमयं विचारस्तु कर्तुमुचितः स्यात्। निर्धारिततात्पयैवेदान्तैस्तस्य निर्णयार्थं हि॥२०५॥। अध्यायान्ते तस्य हि विचार एष प्रवर्तितो मुनिना। जन्मावविकारणत्वं निमित्ततारूपमत्र युक्तं हि॥ २०६।। ईक्षणपूर्षकमेव हि कारणता दशयन्ति वेदान्ता: । सा कर्तृता स्वरूपनिमित्ततायां हि पयवस्थेत ॥२०७।। यत ईश्वरत्वमस्य प्रसिद्धमस्मान्निमित्तता युक्ता। वेवस्वतादिषु परं राजानुकूल्ये निमित्तता हष्ा ॥२०८॥ यदिचेन्निमित्तताऽस्य हि जगत उपादानमन्यदिह वाच्यम्। कार्यानुरूपमेव हि दष्टमुपादानकारणं लोके ॥२०९ ॥ जगदिदमचेतनं स्यात्तदुषादानं च ताद्टश भवति। त्रिगुणात्मकं प्रधानं ह्यचेतनं मवति जगदुपादानम् ॥२१०॥

इत्याशङ्कां निरसितुभिदमधिकरणं प्रदर्शितं मुनिना ॥ २११॥ प्रकतिश्र प्रतिज्ञादृष्टान्ता- नुपरोधात् ॥ २३॥ जिज्ञास्यं बह्मैतज्जगन्निमित्तं च जगदुपादानम्। नोचेत्तथा प्रतिज्ञादृष्टान्तावत्र कृण्ठितौ स्याताम् ॥२१२ ॥ ब्रह्म जगतो यदा स्यान्निमित्तमात्रं तदा तयोर्भेदात्। ब्रह्मणि विदिते सवं विदितं स्यादिति हि या प्रतिज्ञा सा।।२१३।। उपरुध्येत यदा तज्जगत उपादानकारणं भवति। ब्रह्माभेदाज्गतस्तदा प्रतिज्ञा समर्थिता मवनि ॥ २१४ ॥ १२

Page 94

सुन्रह्मण्य विरचिता- [ १ प्रथमाध्यायस्य-

ब्ह्म यदि केवलं स्याज्जगत उपादानकारणं हि तदा। कर्तर्यन्यस्मिन्सति तद्नुपपत्नं हि सर्वविज्ञानम्॥२१५॥ तस्मादुमयविधं स्याज्जगतो जन्मादिकारणत्वं हि। उक्तार्थकाञ्चशव्द्रात्समर्थितं भवति सर्वविज्ञानम् । २१६॥ दृष्टान्ताक्ष मृदाय्या यदेतिवाक्ये प्रदर्शितास्तेऽपि। प्रथयन्ति कारणत्वं प्रकृतित्वात्मकमतोऽत न विरोधः ।। २१७ ।। शाखान्तरे प्रतिज्ञाहष्टान्तावेतदर्थकी भवतः । तस्मात्परमात्माऽयं प्रकृति: कर्ता च मवति नैकतरम् ॥ २१८॥ अभिष्योपदेशाच ॥ २४॥ सोडकामयत बदु स्यामित्येवं तैत्तिरीयकं वाक्यम्। आध्यानपूर्विका हि प्रवृत्तिरत्रोपलभ्यते तस्य ।। २१९॥ तत्राभिध्यानस्य प्रतीपते स्वात्मगोचरत्वं हि। ्यातृत्वात्कर्तृत्वं ध्येयत्वात्प्रकृतिताऽपि तस्य स्यात् ॥ २२० ॥ साक्षाच्चोभयाम्रानात् ॥ २५॥ छान्दोग्ये किल हष्ट सर्वाणि ह वेति वाक्यमात्मपरम्। इतरानपेक्षता किल बोधयति ह्येतकार इह पठित: ॥२२१॥ तनेतरानपेक्षसृष्टिप्रलयौ परात्मनः कथिती। कर्तृत्वप्रकृतित्व तस्माद्वाक्यात्परात्मनो लब्धे ॥ २२२ ।। आत्मकतेः परिणामात् ॥२६ ॥ आत्मानं स्वयमकरोदित्येवं तैत्तिरीयवाक्यमिह। स्वयमकुरुतेतिवाक्यात्कर्तृत्वं तस्य भवति निदिधिम् ॥२२३॥ आत्मानमित्यनेन प्रकृतित्वं तस्य दर्शितं भवति। कर्मत्वं कर्तृत्व कथमेकस्यैव भवति हीत्येतत् ॥ २२४ । परिणामादित्यस्मान्निरस्यते सपदि सूत्रशेषेण। परिणमयत्यात्मानं स्वशक्तियोगेन हि परात्मेति ॥२२५॥ योनिश्र हि गीयते ॥२७ ॥ सर्वज्ञः परमात्मा योनिरयं गीयते हि वेदान्तैः । यत्तदिति चैथमाधैर्वक्यैर्यद्भूतयोनिमित्यन्तैः ॥ २२६॥ तद्वाक्यमध्यपठितैर्दिभुमित्येतैहिं कर्तृता लब्धा। तत्रैव योनिशब्द्ात्प्रकृतित्वं चापि लभ्यते तस्य ।। २२७ ॥।

Page 95

प्रथमपाद १] माष्यार्थरत्नमाला । ९१

जन्मादिकारणत्वं यदुमयविधमत्र दर्शितं तज्ञ। सत्यज्ञानानन्ते परमात्मन्येव समुचितं भवति ॥ २२८ ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८॥। इह च प्रधानवाद: प्रत्यासन्ने हि वेदवादस्य । शिष्टैश्र परिगृहीतो वैदिकलिङ्गोपबृहितश्वापि॥ २२९॥ तस्मात्तत्प्रतिषेधे यत्नोपि ततः कृतो हि सूत्रकृता। नत्प्रतिषेधकलिङ्गैरन्ये वादाक्ष निरसिता एव ॥ २३० ॥ तत्रापि तुल्यमेतद्यदशब्दृत्वं हदाहृतं लिङ्गमू। अत्र पदाभ्यासोडयं ह्यध्यायसमाप्तिमेव बोधयति ॥२३१॥ शारीरकमीमासा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्या प्रथमो योऽसी समन्वयाध्यायः ॥ २३२॥ तत्र चतुर्थे पादे सूत्रार्थो यश् माष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ।। २३३ ॥। शारीरकमीमांसाप्रथमाध्यायस्थसकलसूत्रार्थः। श्रीभाष्यकारदृशिततरणिं संित्य वर्णितः सोऽयम्॥२३४ ॥ भाष्यार्थरत्नमाला वैयासकिसूत्रजालसंग्रथिता। मगवति परमानन्दे समर्पिता जयतु जगति निरवद्या ॥२३५॥ इति प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥४॥

इति प्रथमाध्यायः समाप्ः ॥ 9॥

अथ द्वितीयाध्यायस्य प्रथम पाद ।

प्रथमेऽध्याये जगतो जन्मस्थित्यन्तकारणं बह्म । जन्माद्यस्येत्याद्यैः सूत्रैरुपदर्शितं हि सूत्रकृता ॥१॥ व्यापित्वं नित्यत्वं सर्वज्ञत्व तथाऽद्व्यत्वमपि। सत्रेण शास्त्रदृष्ट्या व्वित्याद्येनोपदर्शितं मुनिना ॥२॥ ये च प्रधानवादास्तथाऽणवादाश्र ये च विरूयाता:।

सकलनिगमान्तव चसासुपक्रमादयैः समन्वयोऽभिहित: । ब्ह्मण्युपास्यरूपे विज्ञेये सचचिदादिपद्लक्ष्ये॥४।।

Page 96

१२ सुब्झण्यविरचिता- [२ द्वितीयाध्यायस्य-

ननु सकलभ्ुतिवचसां ब्रह्मणि योऽसी समन्वयोऽभिहित: । स्मृत्यनवकाशदोषादसमख्जस एव सोऽयमाभाति ॥ ५॥ न हि कपिलस्मृतिवचसां कर्मण्यवकाशलेशशङ्ूाSपि। सम्यग्दर्शनमेव हि फलं समुद्दिश्य तानि रचितानि ॥ ६॥ न हेतादृशवचसामप्रामाण्यं हि शङ्कितुं शक्यमू। तेन च तदानुगुण्याच्छ्रतिवचसामिह समन्वयो वाच्य: ।।७।। तस्माद्वेदान्तानां समन्वयो नेह मवति युक्ततमः । इति खलु विरोधशङ्कां परिहतुं विषयविषयितारूपाम्॥८॥ संगतिमालम्व्येमामध्यायोऽय द्वितीय आरब्यः । अज्ञाते विषये न हि विरोधशङ्का समाधियोगो वा ॥ ९॥ इत्यविरोधाध्याये समन्वयानन्तरत्वमुचितमिति। निश्वित्य सकलमर्थं चकार मुनिवर्य एतद्धिकरणम् ॥१०॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्य- स्मृत्यनवकाशदोषप्रसङ्गात् ॥ १॥ सांख्यस्मृतिवचनानां न्यायाभासोपबृंहितत्वमिति। प्रथमे तावत्पादे प्रत्यधिकरणं निरुप्यते भूय: ॥११॥ स्पृतिरिह तन्त्राख्या या कपिलादिमहर्षिभाषिता सा हि। तद्नुगुणाश्च स्सृतयः समर्थयन्ति प्रधानकारणताम् ॥१२॥ न हि तासामवकाश: कथयितुमन्यत्र केनचिच्छकयः । मन्वादिस्मृतिवचसां वर्णाश्रमधर्मनिर्णयार्थतया ।१३॥ कर्मण्यवकाशः स्यादिह च तथा नैव कर्मपरता म्यात्। गुणपुरुपान्तरबोधान्निःभेयसमिति वदन्ति कपिलाद्याः॥१४॥ ब्रह्मणि वेदान्तानां समन्वयो यश्र दर्शितः पूर्वम्। स्मृत्यनवकाशदोषे जाग्रति स कथं हि संस्थितिं यायात्॥१५॥ तस्मात्स्मृत्यनुसाराच्छत्यन्तानां समन्वयो युक्त:। नो चेद्वेदान्तानामप्रामाण्यं हि दुर्निवारं स्यात्॥१६ ॥ इति चेन्मैवमिहापि हि दोषोडय दुर्निवार एव स्यात्। स्मृत्यनवकाशडरोषाद्वेदान्ताक्ष प्रधानवादपरा ॥१७।। मन्वादिस्मृतिव चसामवकाशो नोपलभ्यते तत्र। यश्चायमन्तरात्मा क्षत्रज्ञश्रेति कथ्यते वितुषे: ॥१८॥

Page 97

प्रथमपादः १ ] माष्यार्थरत्नमाला। ९३

यञ्चाव्यक्तं त्रिगुणं तस्मादुत्पन्नमुपदिशत्यन्या । मनुना च सर्वभूतेष्वात्मानं चाऽडत्मनीह मृतानि ॥ १९ ॥ पश्यन्स आत्मयाजी स्वाराज्यं गच्छतीति निर्दिष्म। एवमिह मारतादावयमेवार्थः प्रदर्शितो मूयः ॥२० ॥ तव मम चान्तर्यामी ये चान्यदेहसंस्थिता: सर्वे। सर्वेषामपि तेषां साक्षी न हि गृह्यते स जडधीमिः ॥२१॥ सोडयं हि विश्वमूर्षा विश्वमुजो विश्वपाज्च विश्वाक्षः। अनुसरति सर्वभूतेष्वयमात्मा स्वैरचारिमर्यादाम् ।२२ ।। इत्यादिवचनजातैः सर्वज्ञत्वादिगृणगणोपेतः । आदिषः परमात्मा नियामकत्वेन न प्रधानमपि॥।२३॥ आपस्तम्बाद्यैरपि पर एवाऽडत्मा हि जगदुपादानम्। तस्मात्काया: प्रमवन्तीत्याद्यैषर्णितं हि भूयोऽपि॥ २४ ॥ तस्मात्स्सृतिवचनानां शृत्यनुसारात्प्रमाणता वाच्या। भ्रुतिविपरीतार्थानामप्रामाण्यं हि कपिलवाक्यानाम् ॥२५॥ प्रथमे तन्त्रे चैवं जैमिनिना सूत्रितं हि सूत्रकृता। असति विरोधे अ्त्या स्मृतेः प्रमाणत्वमितरथा नेति ॥२६॥ कपिलस्मृतिवचसामिह मूलं नैवोपलम्यते क्वापि। निरमूलैरेतैरिह कथं विरोध: समन्वये श्रीत ॥२७ ॥ ननु कपिलस्मृतिवचसामप्रामाण्यं न शक्कितुं शक्यमू। यस्मादृषिप्रसूतं कपिलमितिश्रुतिरिमं हि वर्णयति ॥२८॥ यस्य ज्ञानातिशयं भ्रतिरियमेवं हि वर्णयत्यमलम्। तद्वचसां हि विरोधे भौतः कथमिह समन्वयो भवति ॥२९॥ इति शङकाऽत न कार्या यदयं कपिलो न मन्त्रनिर्दिह्:। सुगतसुतविलयकर्ता मगवान्कपिलो हि मन्त्रनिर्दक्ट: ॥३० ।। स च खलु न सूत्रकर्ता कि त्वन्यस्तेन ततनिराक्रियते। न हि शब्दमात्रसाम्यादमिलषितार्थाः क्वचित्ञ सिध्यन्ति ॥३१॥ स्मृत्यनवकाशदोषस्तस्मादिह नव शक्कितुं शक्य:ः । औौते समन्वपेऽस्मिन्विरोधशक्काऽपि दूरवार्तैव ॥३२ ॥ नन्वीक्षत्यधिकरणे प्रधानवादो हि निरसित: पूर्वम्। कथमिह पुनराशक्का संजातैषेति नैवमाशकूचम् ।३३॥

Page 98

९४ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

परतमत्नप्रतिमा: स्युः प्रायेण जना हि वेदवाक्यार्थम्। निश्चेतुमस्वतन्त्रा: स्सृतिषु प्रज्यातकर्तृकास्वेव॥ ३४॥ बहुमानाद्विश्व स्युर्नास्मद्याख्यानसरणिषु होते। अत इह तत्समृतिवचसामसारतां वक्तुमयमुपन्यासः ॥३५॥ इतरेषां चानुपलब्धेः ॥ २ ॥ यानीतराणि सांख्यैर्महदादीनि प्रधानकार्याणि। निर्दिष्टान्येतानि हि लोके वेदे च नोपलम्यन्ते॥ ३६ ॥। भूतेन्द्रियाणि तावल्लोके वेदे च सुपरसिद्धानि। तद्विषयस्मृतिरपि या प्रमाणमिति सा हि नो निराक्कियते ।।३७।। महदादीनि हि लोके वेदे न क्वापि चोपलभ्यन्ते। षष्ठेन्द्रियार्थकल्पान्यत्र स्मृतिरपि कथं प्रमाणं स्यात् ॥३८॥ क्कचिदिह तत्परमिव यन्महदादिपदं हि हश्यते वेदे। तच्चातत्परमिति खलु निर्दिष्टं ह्यानुमानिके सूत्रे ॥३९ ॥ यदि कार्यस्य स्मरणं न चत्प्माणं हि कारणस्य स्यात्। तत्कथमिह प्रमाणं तत्र स्सृत्यनवकाशदोष: स्थात्॥४० ॥ सांख्यस्सृतिबाधेऽपि हि तदुक्तयुक्त्यादिबाधनं नेति। नेयं शङ्का कार्या तदुत्तरत्रोपवर्ण्यते येन ।।४१ ॥। नन्विह वेदान्तानां समन्वये हि प्रधानवादेन। न भवतु विरोधशक्का योगस्सृत्या तु सैव जागर्ति ॥ ४२॥ इति शङ्कां वारयितुं सोत्कण्ठो बादरायणाचार्य: । पूर्वोपदिष्टमेव न्यायं त्व्रापि सम्यगतिदिशति ॥४३॥ एतेन योगः प्रत्युक्तः॥३।। यस्मादिह प्रधानं महदादीन्यपि च वेदबाह्यानि। निर्दिष्टान्यत्रापि हि तस्माद्योगोऽपि निरसितो मवति ॥४४।। नन्वयमतिदेशः किल निरर्थको भाति नात्र फलदेशः। सामान्यन्यायत्वाद्योग: पूर्वेण निरसितो येन ॥४५॥। नायं दोषो यस्माद्योगोऽसौ वेदवाक्यनिर्दिट्टः। धोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम् ॥४६।। श्वेताश्वतरादी हि त्रिरुन्नतं स्थाप्य सममिति प्रथितम्। योगविधानपरं किल बहुपपअं हि वाक्यमुप्लब्धम्॥। ४७।।

Page 99

प्रथमपाद: १] माष्यार्थरत्नमाला। १५

लिङ्गानि वैदिकान्यपि योगपराणि स्फुटं प्रतीयन्ते। तां योगमित्यधीते मन्त्रे विद्यामिति प्रसिद्धेऽपि ।।४८॥ अथ तत्त्वदर्शनस्योपायो योग इति योगशास्त्रेऽपि। सम्यग्दर्शनकारणभावाद्योगो हि दर्शितो मवति ॥४९॥ संप्रतिपन्नार्थत्वाद्योगस्मृतिरनपवदनयोग्या स्यात। इत्यभ्यधिका शङ्का निरस्यते सपदि चातिदेशेन ॥ ५०॥ क्वचिदृषि संप्रतिपत्ती विप्रतिपत्ति: क्वचिद्यतो दृष्टा। अध्यात्मगोचरानुस्मृतिषु च बहुधा सतीष्वपि ह्यनयोः ॥५१॥ सुनिना तु सांख्ययोगस्सृत्योर्यत्नः कृतो निराकरणे। यस्माच्च साख्ययोगौ पुरुषार्थकराविति प्रसिद्धौ हि ॥ ५२॥ शिषटैश्र परिगृहीतौ लिङ्गेनाSSस्नायचोदितेनेद्धौ। अयमर्थस्तत्कारणमितिमन्त्रे साख्ययोगयोर्द्वक्षः॥५३॥ भ्रुतिनिरपेक्षेण न तत्सांख्यज्ञानेन योगमार्गेण। निःभेयसमधिगम्यत इति हि निराकरणमेतयोर्भवति ॥ ५४॥

स्फुटतरमिह बाधयति श्रुतिरेषा विश्रुता तमेवेति॥५५॥ यस्मात्सांख्या योगा नाऽडत्मैकत्वं वढृन्ति तेनैते। श्रुतिबाह्या इति मत्वा सूत्रकृतैतन्मतं निराक्रियते॥५६॥ तत्कारणमितिमम्त्रे निर्दिष्ः सांख्ययोगशब्द्ोडपि। वैदिकमेव ज्ञानं ध्यानं बूते न हि स्मृतिप्रथितम् ॥५७॥ येनाSSसन्नविरोधी न भवति सांख्यैस्तथैव योगैक्च। योऽसी संप्रतिपत्रो वेदान्तैः सोऽय नो निराक्रियते ॥५८॥ योऽयमसङ्गने हीतिश्रुत्युक्तः पुरुष एव सांख्योक्त: । योगोक्तमथ परिव्राडितिश्रुतीरितनिवृत्तिनिष्ठत्वम् ॥५९॥ तदुभयमिष्यत एव ह्यविरुद्धं येन वेदवाक्यानाम्। प्रतिवक्तव्यान्येवं तर्कस्मरणानि यानि चान्यानि ॥६० ॥ तस्मात्स्मृतिवाक्यैरिह विरोधशङ्कावकाशपरिहारात्। ब्रह्मणि वेदान्तानां समन्वयो निरपवाद इति सिद्धम ॥६१ ॥ नन्वन्न स्मृतिव चनैराक्षेपे परिहतेऽपि पुनरन्यः । तर्कनिमित्तः सोडयं विरोध इह दुर्निवार एव स्यात् ॥६२॥

Page 100

९६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

धर्म इवाऽडम्नायोSसावनपेक्षोऽतरेति नैवमाशङूक्यम्। धर्मस्यासिद्धत्वात्स च न हि मानान्तराणि संस्पृशति ॥६३ ॥ ब्रह्म च सि्द् यस्मान्मानान्तरवेद्यभावमुप्याति। इत्याम्नायसमन्वयमिह पुनराक्षिपति तर्कसाधनतः ॥६४॥ न विलक्षणत्वादस्य तथात्वं च शब्दात्॥४ ॥ दृष्टानुसारतोऽसावद्ृट्टमर्थ समर्पयन्ती या। युक्तिर्हिं संनिकृष्टा श्रुतिरनुभूतेस्तु विप्रकृष्टैव ॥ ६५॥ अनुभूत्यवसानं यद्गह्मज्ञानं हि मोक्षफलकं स्पात् । भवति तदेवाविद्यानिवर्तकं न हि परोक्षविज्ञानम् ॥६६॥ दर्शनसाधनमेतन्मननं भ्रवणातिरिक्त्तमुपदिशति। श्रोतव्य इति श्रुतिरप्यावश्यकता हि तन तर्कस्य ॥ ६७॥ तस्मात्तर्कविरोधान्न ब्रह्मप्रकृतिकं हि जगदेतत् । यस्माद्चेतनं तत्सुखदुःखाकुलमशुद्धमाभाति ॥६८॥ ब्रह्म त्वानन्दघनं शुद्धं च स्वप्रकाशचिन्मात्रम्। प्रकृतिविकारात्मकता विरूपयोः कथमियं भवति ॥६९ ॥ न हि रुचकादिविकार मृदुपादाना मधन्ति लोकेडस्मिन्। ये च शरावाद्या अपि न सुवर्णप्रकृतिका हि हश्यन्ते ॥ ७० ॥ यस्माज्जगदिद्मखिलं सुखदु खान्वितमचेतनं तस्मात्। सुखदुःखाकलितस्य ह्यचेतनस्यैव कार्यमिह मवति ॥ ७१॥ जगदिद्मचेतनं सत्स्यादुपकरणं हि चेतनस्यैतत्। न हि सत्युभयोरुपकृतिरिह कस्यचित्केनचिन्दवति ॥७२ ॥ लोके न हि प्रदीपावन्योन्यस्योपकरणतामेतः । उपकृतिरिह चेतनयोरन्योन्यं स्वामिमृत्ययोर्यदृत्।७३ ॥ काय करणं चेतनमप्युपकरणं हि भोक्तुरिति चेन्न। न हि लोके केवलयोश्र्वेतनयोरुपकृतिः क्वचिद्दृष्टा ॥७४॥ स्यात्स्वामिभृत्ययोरप्यचेतनांशस्य चेतनोपकृतिः। बुद्धयाद्यचेतनांशे भवति हि तद्वच्च चेतनोपकृतिः ॥७५॥ पुरुषाश्राकर्तारो निरतिशयाश्चेतना विनिर्दिष्टाः। तस्मान्नैतेषामिह परस्परं चोपकारिता भवति ॥७६॥ न ब्रह्मप्रकृतिकमिह जगदेतत्तद्विलक्षणं येन। मृत्पाषाणानामपि चैतन्यं स्याद्यदा तदैवं स्यात्॥।७७।।

Page 101

प्रथमपाद: १] मा्यार्थरत्नमाला।

ननु सुप्तमू छतादौ चैतन्यं सदवि मवति न ध्यक्तम । तह्न्मृदादिकाना चैतन्यं नो विभावयत सदृपि॥७८॥ चेतनविलक्षणत्वं जगतः कथमिति हि नैवमाशङ्क्यम्। एवमपि चास्य जगतो विलक्षणत्वं हि दुर्निवारमिति॥७९॥। ब्रह्म च शुद्धं जगदिदमश्ुद्धमुपदिश्यत हि शास्त्रेपु। इति शुद्धयशुद्धिलक्षण विलक्षणत्वं तु जगि दुर्वारम्॥ ८० ॥ तस्मादचेतनस्य हि कार्य जगदेतदखिलमपि वाच्यम्। तदिहा चेतनमेतत्प्धानमनुरुपकारणं जगतः । ८१।। चेतनविलक्षणत्व जगतः कथयति हि शब्द एवायम्। सच्च त्यञ्च निरुक्तं तथाऽनिरुक्तं च भवति विज्ञानम्॥ ८२। तद्वद्विज्ञानमिति बूते चेतनविलक्षणवं हि। तस्माद्चेतनं स्याज्जगन्न हि ब्रह्म जगदुपादानम् ॥८३॥ ननु चेतनत्वमपि किल मृदादिकाना तथेन्द्रियाणां च। भूयत एव हि मन्त्रे मृद्बवीदिति च ते ह वाचमिति ॥८४॥ अभिमानिव्यपदेशस्तु विशे- षानुगतिभ्याम् ॥५॥ प्रकृताशङ्रकां निरसितुमयं तुशब्दो हि सूत्रनिर्दिष्टः। न हि खलु मृदतवीदित्यनया श्रुत्या सृदाद्टिकानां स्यात् ।८५। चेतनता ह्यमिमानिव्यपदेशोऽसी न भूनमात्रस्य। वागाद्यमिमानिन्यो ह्यभिमानिन्यो मृदादिकानां याः ॥८६॥ तास्तु खलु चेतना: स्युर्ध्यपदिश्यन्ते हि वदनकृत्येषु। यस्माद्भोक्तणामपि तथैव भूतेन्द्रियादिकानां च ।।८७ ॥ चेतनताचेतनताप्रबिभागोडयं हि पूर्वमुपदिष्टः । सर्वस्य चेतनत्वे प्रविभागोडयं है वुूपपाद: स्यात्।। ८८।। कौषीतकिवाक्ये किल दृष्टो यः प्राणवाक्यसंवाद:। तत्र च कारणशङ्का निवर्तिता देवतादिशब्देन॥८९॥ सर्वत्र देवता: खल्वभिमानिन्यस्तथैव चानुगता:। मन्त्रार्थवाद्वाक्येष्ववगम्यन्ते तथेतिहासादी।। ९० ।। अग्निर्वागितिमन्त्र: करणानुगतां हि देवता बूते। अभिमानिव्यपदेशं ते ह प्राणा इति श्रुतिर्वक्ति॥ ९१॥ तत्तेज ऐक्षतेति श्रुतिरपि सद्ूपदेवताया हि। स्वविकारानुगताया ईक्षा व्यपदिश्यते न चान्पस्व ।। ९२॥

Page 102

९6 सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्प-

यस्माब्वह्मविलक्षणमिदं जगदवृश्यते हि लोकेऽस्मिन् । तत्प्कृतिकमिह न स्यादित्याशङ्रकां निराकरोति मुनिः ॥९३॥ दृश्यते तु ॥ ६ ॥ अत्र तुशब्दो योऽसावाक्षेपं निरसितुं प्रवृत्तो हि। म्ह्मविलक्षणमेतज्जगन्न तत्प्रकृतिकं भवेदितिह ॥ ९४॥ यदिदं दूषणमुक्तं तदत्र पक्षे पदं न विदधाति। अत्र च विलक्षणत्वं यत्किंचिद्वाऽथ सर्वतो वा स्यात् ॥९५॥ किंचिद्वैलक्षण्यं प्रतिकूलं प्रकृतिविक्कृतिभावे चेत्। पुरुषशरीरादिह किल कशनखानां कथं भवेज्जन्म ॥ ९६ ॥ इह चेतनं प्रभिद्धं पुरुषशरीर ह्यचेतनान्येव। केशनखाीनि ततस्तत्प्रकृतिकता कथ हि तेषां स्यात् ॥९७॥ तद्वच्च वृश्चिकानामुत्पत्तिर्भव्रति गोमयादिम्यः । ने चेतना: प्रसिद्धा अचेतनान्येव गोमयादीनि ॥९८॥ ननु [च]शरीरम चेतनमचेतनान्यव गोमयादीनि। न विउक्षणता तषामतो मवेत्पकृतिविककृतिभावा हि॥ ९९ ॥ तद्वच्व वृश्चिकार्नां गात्राणि भवन्त्यचेतनान्यव। गोमयकार्याणिपि यतो न विरोध: प्रकृतिविक्कृातभावे स्यात्॥१००॥ इति चद्विलक्षणत्वं तथाउपि दुवारमेतयोर्भवति। एकं हि चेतनस्यािष्ठान स्याततथा न चान्यत्स्यात् ॥ १०१॥ इति खलु वैलक्षण्यं परिहर्तु नव केनचिच्छक्यम्। वैलक्षण्ये च कथ तयोर्भवेत्प्रकृतिविककृतिभ।वोऽपि । १०२। सर्वात्मना हि त्जेद्वैलक्षण्यं हि बाधकं प्रकृते। नैतज्जगति यतोऽयं सत्तारुपश्र धर्म उभयत्र ॥ १०३ ॥ वैतन्यानन्वितमिति जगन्न चतनावकार इति चन्न। चेतनकारणवादे दष्टान्तो नात्र विद्यते कश्षित् ॥१०४॥ सर्वस्य जनिमतः किल जगतः प्रकृतिहि चेतनं तत्र। दृष्टान्तमन्तरेण ह्ययमाक्षेपो न शङ्कितुं शक्तः ॥१०५।। पक्षातिरिक्त एव हि दृष्टान्ता नैव पक्षकुक्षिस्थ: । कारणगुणसंक्रमण का। सर्वत्र दृष्टमि मत्वा ॥ १०६॥ चैतन्यं कार्ये स्पादिति र ङ्काऽप्यत्र नैवर कर्तव्या। अण्वादिकारणत्वे दोषोडयं दुर्निवार एव स्यात्॥ १०७ ।

Page 103

भषमपाद: १] माष्यार्थरत्नमाला।

तत्र व योऽसी न्यायः स एव चात्रापि निणंये हेतु:। चेतनकार्यत्वे स्याज्जगतश्रैतन्थमिति तु नाऽडशाङ्क्यम् ॥१०८॥ न विभाव्यते कदाचत्स्वगता धर्मो हि सुप्तमूर्छितयोः । तददिहापि स्यादिति दोषो न ब्रह्मकारणत्वे स्थात् ॥ १०९॥ यद्पि च वलक्षण्यं जगत्यशुद्धत्वधर्मयोगेण। अविभावितत्वमूलकमखिलं स्यान्नैव वस्तुवृत्तमपि ।११० ॥। चेतनकारणतायामेतद्वाधकमुदाहृतं न भवत्। धरुतिरपि तदैक्षतेति प्रथयति सत्यादिलक्षणं ब्रह्म ॥१११ ॥ जगतः कारणमिति खल्वस्य च सर्वात्मकत्वमुपदिशति। या खलु मननं अवणव्यतिरकेण श्रुतिः प्रदर्शयति ॥११२॥ तकवविश्यकतायां समाननिति हि प्रपश्चितं नैतत् । यत इह केषलतर्को न भवति कस्वापि निर्णये हेतुः ॥११३ ॥ नैषा तकणेतिश्रुतिरिममर्थं प्रदर्शयत्येवम्। जगतः कारणविषया मतिर्हिं तर्केण नापनेया स्यात् ॥११४॥ भुत्युपदिष्ा सेयं यथोक्तविज्ञानसाधन हेतु: । ध्रुतिबलविरहे को वा तर्केण हि केवलेन निर्णेतुम् ॥११५॥ प्रभवति को वा वक्तं कुत आजाता कुतश्र सृष्टिरियम। सृष्टेरर्वाचीना देवा नैवास्य निर्णय कुशलाः॥११६॥ अस्य घ जगतो योऽसावध्यक्षः सत्यलोकनिलथोऽपि। वेद न वा वेदेति प्रथयति दुर्बोधरूपतामस्य ॥११७॥ तस्माच्छत्यभिगम्ये तर्कविरोध: पदं न विदधाति। भ्रुतिशतगेये तस्मिन्मननं श्रवणाङ्गमेव निर्वेहम ॥११८॥ द्रष्ट्व्यः श्रोतव्यो मन्तव्य इतिश्रुतिः प्रवृत्तेयम।

तामपनेतुं ह्येषा शुतार्थसंभावितत्वविज्ञाने। मननं परमं साधनमुपदिशति न हि स्वतन्त्रमानमिति ॥ १२०॥ भुत्यनुगुणं हि तञ्ञेद्यथोक्तविज्ञानसाधनं मवति। प्रतिकूलं मननं यत्तद्प्रमाणं हि तेन न विरोध: ॥१२१ ॥ सूत्रकृदिममेवार्थ प्रवक्ति तर्काप्रतिष्ठितत्वेन। सिद्धं हि वस्तु लोके हषट मानान्तरामिगम्यमिति ॥१२२॥

Page 104

१०० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्व-

तद्म्वह्मापीति हि दूषणमेतन्न चेह संभवति। ब्ह्म तु यद्यपि सिद्धं तथावि मानान्तरं न संस्पृशति ॥१२३॥ रूपादियोगरहितं ब्रह्म यतो मवति नेन्द्रियग्राह्यम। नैवानुमानगम्यं लिङ्गनभावात्किमन्यदिह मानम् ।१२४ ।। तस्माच्छृत्यभिगम्ये तर्कविरोध: र्मृतेर्विरोधो वा। ब्रह्मणि पद्माधातुं न शक्नुयात्तेन कोऽपि न विरोध: ।। १२५।। ब्रह्मणि परमानन्दे न बाधक श्रुतिसमन्वये किमपि। ब्रह्म यदि कारणं स्यात्म्ागुत्पत्तेस्तदात्मना सत्वम् ॥१२६।। कार्यस्य वाच्यमेतन्न च खलु युक्तं विरुद्धरूपेण। यदि च प्रधानमेतज्जगतो जन्मादिकारणं भवति ॥१२७ ॥। पागुत्पत्तेः सत्त्व तदात्मना जगति युक्तमिति चेन्न। असदिति चेन्न प्रतिषेधमात्रत्वात्। ७॥ ननु यदि चेतनमेंकं जगतो जन्मादिकारणं यस्मात्। शब्दादिमच्च काय स्थूलं परिदृश्यते हि जगदखिलम॥ १२८॥ म्रह्म च तद्विपरीतं कारणमुपवर्ण्यते तदैवं स्यात्। असदेव कार्यमेतत्प्रागुत्पत्तेरिति प्रसज्येत ॥ १२९ ॥ सत्कार्यवादिनस्ते तदनिष्टं स्यादितीह नाऽडशङ्कथम्। प्रतिषेधमात्रमेतन्नास्य प्रतिषेध्यमस्ति किंचिदृपि। १३०॥ सत्वं प्रागुत्पत्तेः प्रतिपद्धुं नेव शवनुयादेष:। यत उत्पत्त: प्रागपि कारणरूपेण सत्त्वमस्य स्यात् ॥१३१॥ हित्वा कारणसत्ता प्रागुत्त्तेस्तथैव चेदानीम्। कार्यस्य नैव्र हृष सत्वं प्रतिपद्यते हि तच्च कथम् ॥ १३२॥ अपीतौ तद्वत्मसङ््गादसमअसम् ॥ ८ ॥ चेतनकारणतायां दोपोडयं दुर्निवार एव ननु। स्थितिसमये जगदेतत्स्थूलमशुद्वं च हश्यने लोके ॥ १३३॥ अप्ययकाले तदिदं कारणरूप प्रपद्य सकलमपि। शद्धं कारणरूपं स्वीयाशुद्धयादिधर्मनिवहेन॥ १३४॥ संछाद्य दूषयेदिति दूषणभेतच्व दुर्निवारं हि। अविभागमुपगतानां भोक्तृणामवि परेण पुरुषेण ॥१३५॥ पुनरुत्पसौ तेषां भोक्तृविभागोऽपि दुर्लभो भवति। असति क नियामकं स्यान्भक्तृविसागस्तदा हि एुक्तानाम्।१३६॥

Page 105

प्रथमपाद: १ ] माष्यार्थरत्माला। १०१

पुनरुत्पत्तिरवि स्थादित्पेतद्दूषणं हि दुर्बारम्। यदि चेदप्यय काले परेण का्य विभक्तमेव स्थात् ॥१३७॥। स्थितिसमयादविशेषादप्यय एवास्य दुर्लभो भवति। अपृथग्व्यवहारे स्यादप्ययवार्ता हि कार्यकारणयोः ॥१३८॥ यद्यविभक्त यदि वा विभक्तमेवेह कारणे कार्यम्। अध्ययसमये सोडयं दुर्बारो दोष एष इति पेन्न । १३९ ॥ न तु दृष्टान्तभावात् ॥ ९ ॥ नायं दोष: प्रसरति जगतो जन्मादिकारणे तस्मिन्। अविभक्तमेव कार्य ब्रह्मणि जन्मादिकारणे भवति ॥ १४० ॥। अप्ययसमये तत्र [च] दृष्टान्तो दोषमेनमपनुद्ति। सृत्पकृतिका विकार घटकरकाद्या: स्थितिव्यतिक्रान्तौ ॥१४१॥ तामपियन्तोऽपि च ते न संसृजन्त्यात्मधर्मलेशेन। रुचकाद्य: सुवर्ण न संसृजन्त्यप्यये स्वधर्मेण ॥१४२॥ पृथ्वीविकारभूतो भूतग्रामश्चतुर्विधो योऽसौ। उच्चावचप्रभेदोऽप्यप्ययकाले न चाऽडत्मधर्मेण ॥ १४३ ॥ यद्वत्पृथिवभितां न दूषयति तद्देव चेहापि। ब्रह्मणि विशुद्धरूपे न दोषसंसर्गलेशशङ्कूाऽपि॥१४४॥ त्वत्पक्षसाधने किल दष्टान्तो नोपलभ्यत कोऽपि। वृषणमपि यञ्चैतसदल्पमेवोषदर्शितं भवता ॥ १४५॥ स्थितिसमयसुलभमषि यत्तइप्पये दर्शितं यतो भवता। चेतनकारणवादे तस्मात्तदिदं न दूषणं किमपि ॥१४६।। अविभागमुपगतानामपि भोक्तृणा परेण चापीतो। शक्त्यवशेषादेव च मोक्तृावभाग: पुनः प्रवर्तेत ॥१४७।। स्वपक्षदोषाच्च ॥ १ ॥ योऽसौ दोष: सोडयं प्रधानवादेऽपि तुल्य एव स्पात्। शब्दादिमच्च कार्य प्रधानमेतच्च तद्विहीनं हि॥ १४८॥ स्थूलं सकलं कार्य प्रधानमेतद्विलक्षणं तस्मात्। यदि च विलक्षणयोरिह नैव स्यात्प्रकृतिविकृतिभावोऽयमू॥१४९॥ न स्यात्प्रधानजगतोस्तव चाय प्रकृतििकृतिभावोऽपि। जगतः प्रागुव्पसेरसत्त्वमपि दुर्निवारमेव स्यात्॥१५० ॥

Page 106

१०२ सुब्ह्मण्यविरचिता-

अप्ययकालेऽपि तथा कारणमेतज्ञ कार्यधर्मेण। संसृज्येत तथव हि मोक्तृविभागोऽवि दुर्लभो माति ॥१५१॥ मुक्तानां य तथेव हि पुनरुत्पत्तिस्तु दुर्निवारैव। यदि केचिउप्ययेऽपि हि विमक्तरूपा परं प्रधानेन। १.२॥ तेषां कथं प्रधानं कारणमेषां प्रधानकार्यत्वम्। यस्माद्वूषणमेतत्तुल्यमतो नेह बाधकं भवति ॥१५३॥ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चदेवमप्यविमोक्षपसङ्ग: ॥११॥ इत्यागमगम्येऽर्थे तर्कविरोधो हि नैवमाशङक्यः । यस्मान्निरागमास्ते पुरुषोत्मेक्षानिबन्धना एव ।। १५४ ।। पुरुषमतिवैरूप्याद्यतो मवन्त्यप्रतिष्ठितास्तर्काः । उत्प्रेक्षिताश्र निपुणं कुशलैरनुमातृभिश्र ये तर्काः ॥१५५॥ अन्पैरभियुक्ततरैराभास्यन्ते हि ते च सर्वेऽपि। अथ सुप्रसिद्धकीर्तेः कपिलस्य स्यात्प्रतिष्ठितस्तर्कः ॥१५६॥ इति नात्र शङक्कनीयं प्रसिद्धमहमो भवन्ति तीर्थकराः । घहवः कणमुकमुखा विप्रतिपत्तिश्र दृश्यते तेपाम् ॥१५७॥ तर्कविदामप्येषा कपिल: सर्वोत्तमो हि भवतीति। कणमुक्त्रमुखैरेतेः कपिलोऽयं नेव परिगृहीतोऽस्ति ॥१५८॥ अथ वयमन्यथैव ह्यनुमास्यामो यथा न दापोऽयम्। नैव हि वक्तुं शक्यं तर्कः सकलः प्रतिष्ठितो नेति ॥१५९ ॥ अर्थामासनिरासद्वारा श्रुत्यर्थनिर्णये सोऽयम्। तर्क: कारणमिति हि श्रतिः प्रदर्शयति मननसाहाय्यम् ॥१६०॥ तर्कबलाषेव यतः सुखसंबन्धे च दु.खपरिहारे। लोकः प्रवर्ततेऽसावतीतसाम्यादनागते तस्मिन् ॥१६१॥ तस्मात्सावद्यमिमं तर्क हित्वा य एष निरवद्य:। तर्क: संभ्रषणीयो मवतीत्याशाऽत्र नैव कर्तव्या ॥ १६२॥ क्वचिदृपि विषये तर्कः प्रतिष्ठितः स्यात्तथाऽपि न विमोक्षः। वागाद्यगम्यमेतब्रह्म यतो दर्शयन्ति वेदान्ता: ॥१६३॥ तत्र च तर्क: सोऽय निरागमो हि प्रतिष्ठितो नेति। तस्मादागमवशतस्तदनुगुणस्मृतिवच:सहायेन॥ १६४॥

Page 107

प्रथमपाद: १] १०३

चेतनमद्यरूपं बह्मौवेतस्य कारणं सिद्धम्। अन्यच्छृतिविपरीत प्रधानमेतस्य कारणं नेति ॥१६५ ॥ ब्रह्मणि वेदान्तानां समन्वये नैव बाधक किमपि। नान्वह समन्वयेडस्मिन्पुनर्विरोधो हि दुर्निवारः स्यात् ॥१६६॥ कपिलस्मृतिवचनैरिह विरोधशङ्का तु परिद्वता पूर्वम। द्रव्यं न विभुप्रकृतिकमिति योऽसी कणभुगभिमतस्तर्कः ॥१६७॥ संप्रति तेन विरोधो दुर्वारः श्रुतिममन्वये भवति। कपिलस्तर्के कुशलः कणभुक्तस्मादतीव कुशल: स्यात् ॥१६८॥ कणभुक्तर्कविरोधाच्छर तिव चसामिह समन्वयोडसिद्ध:। इति शङ्कामतिदेशावृपनेतु रचितमेतद्धिकरणम् ॥ ६९॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥१२॥ शिष्टपरिग्रहविधुर पे वे शिष्टा[ परिग्रहा ]स्ते र्युः। अतिदेशेन निरस्तास्ते खल्वण्वादिवादमुख्या ये॥ १७० ॥ योऽसी प्रधानवाद: प्रत्यासन्नो हि वेदवादस्य। शिषटश्र परिगृहीतः भ्रुतिलिङ्गेनोपबृंहितस्तद्वृत् ॥ १७॥ अणुकारणतावादो नायं कस्यापि संमतो भवति। शिष्टैर्न परिगृहीतस्तस्मादत्रात्यनादरोऽभिहितः ॥ १७२॥। तस्य निराकरणेऽवि च तुल्यं साधनमिहोपदिषं हि। अतिगम्मीरं चैतद्वह्माऽडगममात्रसमधिगम्यं स्यात् ॥१७३॥ तर्कानवगाह्यत्व तव तर्काप्रतिष्ठितत्वमपि। अपि चान्यथानुमानेऽप्यविमोक्ष: सकलमेतदिह तुल्यमू॥१७४॥ ननु यदि जगदखिलमपि ब्ह्मप्रकृतिकमितीष्यत भवता। ब्रह्माद्वितीयरूपं काय सकलं हि भिन्नरूपं हि।। १७५ ॥ कारणवेलक्षण्य।द्वैलक्षण्यं हि दृश्यते कार्ये। मृत्तन्तुभेदतः स्याद्घटपटयोर्भिन्नरूपता हष्टा । १७६॥ बह्मण्यप्रत्यक्ष श्रुतिः प्रमाणं न चान्यदित्युक्तम्। अत्र पुनः प्रत्यक्षे जगति विरुद्धार्थरूपताऽनुचिता॥१७७॥। इह भोकृभोग्ययोर्यः प्रत्यक्षे चोपलभ्यते मेद: । ब्रह्मप्रकृतिकतायां तस्य च बाधो मवत्स चायुकः ॥१७८॥ आदित्यो यूप इतिश्रुतिर्यथा गौणम्थमाच्टे। तहूत्सञ्च त्यच्चेत्येवंभूता श्रुतिश्र गौणपरा॥ १७९॥

Page 108

१०४ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

तस्माज्गढ़खिलमपि प्रधानकारणकमुचितमाश्रयितुम। इति ठाङ्गकामपनेतुं मुनिना रचितं तद्ेतदधिकरणम् ॥ १८० ॥

ब्रह्म यदि चाद्वितीयं कारणमुपदिश्यते हि वेदान्तैः। भोक्ता हि मोग्यभाव मांग्यं वा भोक्तृभावमुपगच्छेत् ।। १८१।। न हि कारणविशेषे कार्यविशेषो हि दृश्यते क्वापि। मोक्तापत्ती सत्यामविभागो दुर्निवार एव तयोः ॥१८२।। जगति खलु मोकृभोग्यी विभक्तरूपेण सुपसिद्धौ हि। अनुचितमिद्माश्रयितुं प्रमाणसिद्धार्थबाधनं ध्ुत्या ।। १८३।। इतिचेन्नैवं यस्माल्लोकवदेवात्र निर्णयो मवति। मृत्पकृतिका विकाश घटकरकाद्या: परस्परं भिन्ना: ॥१८४ ॥ मृत्खल्वेकाकारा प्रकृतिविकारत्वमत्र दृष्ट हि। वीच्यादयो विकारा: समुद्रमूला: परस्परं भिन्ना: ॥१८५॥ तेषां कारणभूतः समुद्र एकोऽ्वितीय आभाति। रुचकादयो विकारा: सुवर्णमूलास्तथैव दश्यन्ते ॥१८६ ॥ एकस्वरूपमेव हि सुवर्णमाभाति तद्वदेवेह। शब्दादयो हि भोग्या मोक्ता चाऽडविद्यकश्र संघातः ॥। १८७।। ब्रह्मविकारा: सन्तो भजन्ति भेदं परस्परं सवे। भेद: प्रमाणसिद्धो वीच्यादिषु दश्यते यथा लोके ॥। १८८॥ तदन्ोक्त्रादिष्वपि भेदे नैवास्ति बाधकं किमपि। तस्मात्प्रकृतविभेदे विकारभेद इति नायमेकान्तः ।। १८९।। वीच्यादिकार्यजाते यद्यं नियमो हि मङ्गमापन्नः । तस्माच्छृत्यनुसाराङ्गह्मप्रकृतिकमिदं हि जगदखिलम् ॥ १९० ॥। ब्रह्मणि कारण रूपे धृत्यन्तसमन्वयोऽपि निरवद्य:। ब्रह्मप्रकृतिकताबां योऽसौ दोष: प्रदर्शित: पूवम् ॥१९१॥ स च परिहतो हि दोष: परिणामप्रक्रियां समालम्व्य। यदिदं दूषणमुक्तं बिवर्तवादावलम्बनेन पुनः ॥। १९२॥। तदिदं दूषणमखिलं निर्मूलयितुं कृतप्रयत्नेन। इह खल्वाहृतमनसा मुनिना रचितं तदेतद्धिकरणम्॥१९३॥ तदनन्यत्वमारम्भणशब्दादिभय: ।।१४ ॥ व्यवहारावसरे किल जगत्समग्रं विभक्त्कमाभाति। परमार्थतो हि सकलं कारणरूपं सकार्थमन्यदिद्॥ १९४ ॥

Page 109

प्रथमपाद: १] माध्यार्थरत्नमाला। १०५ यस्मादनन्यतैष हि विसृष्टयोर्भवति कार्यकारणयोः । कारणसत्तां हित्वा कार्यासत्वं तयोरनन्यत्वम् ॥ १९५॥ सृद्घटयोरिह लोके सृदनन्यत्वं तदेदशं द्टम। सर्वत्र कार्यजाते ह्यनन्यता भवति कारणेनैवम् ॥१९६॥ आरम्भणशब्द्वाद्यैस्तमेतमर्थ श्रुतिः प्रदर्शयति। येनाश्ुतमित्यादावेकज्ञानेन सर्वविज्ञानम् ॥१९७॥ निर्दिश्य तत्र चायं दृष्टान्तो हि प्रदर्शितः श्रुत्या। सृत्पिण्डेनैकेन च सृन्मयमखिलं यथैव विज्ञातम् ॥ १९८॥ यस्माद्वाचारम्भणमेष विकार हि नामधेयमिति। घटकरकादिविकारो वाचैवाऽडरम्पते हि केवलया ॥ १९२॥ परमार्थतो विमर्शे न विकार नाम कश्िदन्योडस्ति। अनृतात्मको विकारो नामैव हि मृत्तिकव सत्यमिति ॥ २०० ॥ तेजोबन्नेषु तथा त्रीणि हि रूपाणि सत्यमिति चोक्तम्। दृष्टान्तोऽयं ब्रह्मण उक्तार्थसमर्थनाय निर्दिष्टः ॥२०१॥ ब्रह्मप्रकृतिकमेतत्तद्यतिरेकेण नास्ति चैतिति। प्रख्याप्य सत्यमेकं ब्रह्मैवेतिश्ुतिः प्रदर्शयति ॥ २०२॥

मानमिति सूचितं स्यात्तदनन्यत्वे यथोपदिटार्थे।। २०३॥ दृष्टान्तैरेतैरिह भवेदनेकात्मकत्वमस्येति। नवाSडशङ्कयं यस्मात्कारणमात्रस्य सत्यता कथिता ॥२०४ ॥ तस्करदृष्टान्तोऽयं विकारजातः स चानृतत्वं हि। प्रथयति न चेत्तदैवं तदुपन्यासो हि विफल एव स्यात् ॥२०५॥ दृष्टान्ते चैतस्मिन्बन्धनमिह तस्करे विनिर्दिष्टम्। अनृताभिसंधियोगात्तथैव दार्ान्तिकेऽपि वक्तव्यम् ॥२०६ ॥ प्रकृतिविकारौ सत्यौ स्यातां को वाऽनृताभिसंधि: स्यात्। तस्मादनृतं कार्य सत्तु स्यात्कारणं परं बह्म ॥ २०७॥ इति खल्वङ्गीकार्य दृष्टान्तोडयं तड्ाऽनुकूल: स्थात्। ब्रह्म ननु निर्विशेषं सविशेषं च द्विरूपमुपदिष्टम् ॥ २०८॥। प्रथयन्ति निर्विशेषं ह्यशब्दृमित्यादिवाक्यजालानि। सविशेषमुपदिशन्ति श्रुतिवचनान्यपि च सर्वकर्मेति ॥२०९॥ एकत्वं नानात्वं ब्रह्मणि सत्य तदेतदुभयमपि। उपयुज्यते तु कर्मणि नानात्वेनास्य यञ्च पिज्ञानम् ॥, २१॥

Page 110

१०६ सुब्ह्मण्य विरचिता-

एकत्वेन च सत्यज्ञानं मोक्षैकफलमिति न्याय्यम्। तस्मात्तदिदमयुक्तं कारणमात्रस्य सत्यताकथनम् । २११॥ इतिचेन्मवं शङ्क्यं ब्रह्म यतो निर्विशेषरूपमिति। यस्मिन्सर्वाणीतिश्रुतिः प्रदर्शयति नेह नानेति ॥ २१२ ॥ ननु यदि चैवं चेत्स्यात्सविशेषनिरूपणं वृथेव स्यात। भ्रुतिवाक्यदशितस्य हि वैयथर्थं नेव दृश्यते क्वापि॥ २१३॥ इतिचेन्मैवं यस्मात्सविशेषमुपासनार्थमुपदिष्टम। तस्य च परिणामित्वं जगदाकारेण वर्णितं यद्पि॥ २१४॥ तद्पीह निर्विशेषप्रतिपत्त्यर्थ श्रुतिः प्रदर्शयति। अन्येन सोम्य शुङ्गेनेतिश्रुतिरेतमर्थमाचष्टे ॥ २१५॥ व्यवहारावस्थायां परात्मनो मवति चेशितृत्वमपि। तत्रेशितव्यभावो जगतः सर्वस्य वण्यते शास्त्र ॥२१६॥

बोधयितुमेतमर्थं लोकवदित्याह सूत्रकारोऽयम् ॥ २१७॥ परमार्थावस्थायां न चशितव्य न वाऽवि चोपास्यम्। केवलरूपो ह्यात्मा विभाति नान्यत्ततोऽस्ति किचिदृपि॥ २१८॥ श्रुतिरेषा बोधयति हि यस्मिन्सर्वाणि नेह नानेति। दर्शयितुमेतमर्थं तदनन्यत्व हि सूत्ितं मुनिना ॥२१९॥ ननु चेत्सकलं कार्यं विकारभूतं तथाऽनृतं ताहै। लोकव्यत्रहारोयं विच्छिद्येताव्यवस्थितत्वेन ॥ २२०॥ व्यवहार: सकलोऽयं प्रमाणमूल: प्रमातृमूलश्र। सर्वस्य वानृतत्वे न च प्रमाता न हि प्रमाणं वा ॥ २२१॥ व्यबहारस्तदभावे कथं हि लोकप्रवर्तनाहेतुः । शञास्त्रीयो विधिरूपो ज्योतिष्टोमादिगोचरो योऽसौ ॥ २२२ ॥ पतिषेधक्चापि तथा विच्छिद्येताप्रमाणकत्वेन। ॥स्त्रेण चानृतेन प्रतिपाद्य यदपि चाऽडत्मतत्वमपि। २२३ ॥ ञ्च कथं सत्यं स्यादित्याशङ्काडत्र नेव कर्तव्या। आत्मावबोधतः प्राग्जगदखिलं सत्यरूपमामाति ॥२२४॥। तदुपाश्रित्य च सकलः प्रमाप्रमातृपमाणविषयोऽसौ। व्यवहारश्र तथैव व्यवस्थितार्थों न चान्यथा मवति ॥ २२५॥

Page 111

मथमपाद: १३ माष्यार्थरत्माला।

स्वप्नव्यवहारः पाग्यथा प्रबोधान्न बाध्यते तद्दत्। स्वप्रेन चानृतेन हि शुभस्य लाभो यथा भवेलोके ॥। २२६ ।। अनृतेन चाऽडत्मलाभस्तथा भवत्येव मोक्षशास्त्रेण। भावे चोपलब्धेः ॥ १५॥ एतस्मादृवि हेतोरनन्यता भवति कार्यकारणयोः ॥२२७॥ यस्मात्कारणभावे हष्टा कार्यस्य नियतमुपलब्धि: । सत्यां मृदि करकादि: सति च सुवर्णे तथैव रुचकादि: ॥२२८॥ उपलभ्यते हि तस्मादनन्यता भवति कार्यकारणयो. । नैवान्यस्य च भावे न ह्यन्यस्योपलब्धिरिह हष्टा॥। २२९।। न ह्यश्वो गोरन्यो गोर्भावे चोपलभ्यते ह्यश्वः । एवं कुलालभावे घटोपलब्धिश्ष नैव हष्टा हि॥ २३० ॥ सत्यपि निमित्तनैमित्तिकभावे न हि तयोरयं नियमः । यदयं नियमो हष्टो यत्र स्यात्प्रकृतिविकृतिभावोऽयम् ॥२३१॥ नन्वन्यस्य च भावे न ह्यन्यस्योपलब्धिरिति न स्यात्। धूमश्वाग्नेरन्यः स चाग्निभावेऽपि नियतमुपलब्धः ॥ २३२॥ नियतोपलब्धियोगादनन्यता स्यादितीह न हि नियमः । मैवं निवातदेशे ह्यग्न्युद्वापेऽपि दृश्यते धूमः ॥ २३३ ॥ अथ वा तद्नन्यत्वे तन्भ्भावेनोपलब्धिविषयत्वम्। हेतुं वयं बद़ामो हेतुरयं नाग्निधूमयोर्भवति ॥२३४॥ सृद्घटयोरिह दृष्टः सोऽयं तस्मादनन्यता हि तथोः। अथ वा मावाच्चेति हि सूत्रावयवोऽयमत्र पठनीय: ॥२६५।। तेनोपलब्धिभावादनन्यता साधितैतयोर्भवति। पूवं शब्दबलेन ह्यनन्यता दशिंता हि सूत्रकृता ॥२३६ ॥ प्रात्यक्षिकोपलब्ध्या तदनन्यत्वं प्रसाधितं ह्यत्र। सत्त्वाच्चावस्स्य ॥ १६॥ हेतोरेतस्मादृप्यनन्यता भवति कार्यकारणयोः ॥२३७ ॥ यस्मात्परागुत्पत्ते: कारणरूपेण सत्वमवरस्य। कार्यस्य वाच(च्य)मेतन्नचेत्ततः स्थात्कथं तदुत्पत्तिः ॥ २३८॥। उत्पत्तिपाक्समये यदात्मना यन्न वर्तते कार्यमू। न ततस्तस्योत्पत्ति: सिकताम्यस्तैलपूर, इव भवति ॥२३९ ।। नस्मादनन्यदरेव हि कार्य सकलं च कारणेन स्पातू।

Page 112

१०८ सुब्ह्माण्य विरचिता- [ २ द्वितीयाध्यायस्य-

असद्व्यपदेशान्नेति चेन्न धर्मान्त- रेण वाक्यशेषात् ॥। १७ ॥ प्रागुत्पत्तेर्ननु यदि सत्त्वं स्यात्कारणात्मना कार्ये॥ २४० ॥। स्यादिह तदैनयोरियमनन्यता तच्च नैव संभवति।

श्रुतिरसदेवेदमिति ह्यन्याऽव्यवं श्रुतिर्ह्यसद्वेति। तस्मात्प्रागुत्यत्तेरनन्यता सद्सतोः कथं घटते ॥२४२॥ इति चन्मेवं सस्मात्म्रागुत्पत्तेरसन्न कार्य स्थात। किंतु सदेव हि कार्य प्रागत्पत्तेरसद्विनिर्दिम ॥२४३ धर्मान्तरेण चायं व्यपदेशो भवति युक्त एवास्य। धर्मान्तरमियमेव ह्यव्याकृतनामरुपतैवास्य ।। २४४।। सच्छव्द्राहं लोके यद्याकृतनामरूपमिह भवति। उत्वत्यनन्तरं स्याद्व्याकृतनामस्वरूपता कार्ये॥ २४५॥ तड्भावादुत्पत्ते: प्रागसदिति कथ्यते सदेवेदम्। अत्रत्यवाक्यशेषाद्यमेवार्थः प्रतीयते यस्मात्। २४६॥। तत्रोपक्रमवाक्ये यदसच्छव्देन वर्णितं पूर्वम्। उत्तरवाक्येण च तत्सच्छव्देनोपवर्णितं हि पुनः ।२४७।। सुत्यन्तरेऽप्यसद्वेत्यत्र च यद्सत्प्रदर्शितं तस्य। स्वयमकुरुतेति चोत्तरवाक्यात्सदूपता भवेत्तस्मात् ॥२४८॥ युक्त प्रागुत्पत्तेः कारणरूपेण सत्वमवरस्य। युक्ते: शब्दान्तराच्च ॥ १८॥ सस्वमनन्यत्वं वा प्रागुत्पत्तेश्ष कारणेनास्य ।। २४९। कार्यस्य युक्तमेव हि युक्त्ते: शब्दान्तराच्च माति यतः। अत्र च या युक्ति: स्पात्सैवेदानी निरुप्यते भूयः ॥ २५० ॥ दधिघटरुचकाद्यर्थिभिरेतानि क्षीरमृत्सुवर्णानि। नियतमुपादीयन्ते न वैपरीत्येन तानि गृह्यन्ते ॥ २५१ ॥ सत्कार्यवाद एव ह्वि तदिदं युक्तं न चेतरत्रापि। कारणनियमो न स्याद्यत्रासत्कार्यवादयार्ता स्ात् ॥२५२॥ सवत्र चाविशेषे कार्ये सत्वे तथैव चान्यत्वे।

Page 113

प्रथमपादः १ ] माष्यार्थरत्नमाला। १८९ सृद एव स्यान्नैव क्षीरादिति नियम एष इह न स्यात् । प्राक्कार्यस्यासत्वे तुल्येऽपि हि कश्विवदतिशयः क्षीरे ॥ २५४॥ दभ्न: स्यादेवं किल घटादिकार्यस्य सृत्तिकादिषु च। इतिचेदेवं हि तदा तवापि सत्कार्यवाद एव स्थात् ॥२५५॥ कार्यातिशयो योऽसौ शक्तिविशेषो हि कारणे वाच्यः । स च कारणात्मभूतो नापि तदन्यो न चाप्यसन्भवति। २५६ ॥ यदि चान्यो यदि चासन्क्षीरादृपि वा घटः कुतो न भवेत। क्षीरेऽपि चास्य तुल्यं ह्यन्यत्वं वा तथैव चासत्वम् ॥ २५७॥ प्रागसदन्यत्कार्यं समवेति कथ हि कारणे पश्चात्। समवायकल्पना वा नैव च युक्ता तु कार्यकारणयोः ॥ २५८॥ संबन्धमन्तरा खलु न मवति कार्यस्य कारणे सतत्वम्। अत इह समवायोडयं संबन्धी युक्त एतयोरिति चेतु॥२५९ ॥ समवायस्यापि तदा संबन्धश्रान्य एव किंन स्यात्। संबन्धता च यस्मान्नासंबन्धस्य युज्यते वक्तुम् ॥ २६० ॥ यदि खलु संबन्धोडयं संबन्धान्तरमपेक्षते नैव। संयोग: संबन्धो नेवापेक्षेत तं च समवायम् ॥ २६१॥ यदि वेत्समवायोडयं समवायान्तरमपेक्षते च तदा। तस्यान्यस्तस्यान्य: संबन्ध इतीह चानवस्था स्यात् ॥ २६२॥ संयोगो हि गुणत्वात्संबन्धान्तरमपेक्षते नायम्। समायो यस्माव्यमगुणः स्यादिति पुनर्न चाऽडशङूयम्। २६३। गुणपरिमाषा सेय न चात्र तन्त्रं परं त्वपेक्षेव। संयोग: संबन्धः सन्नपि वाडयं समीहते यदत् ।।२६४।। तद्वर्समयायोऽपि स्यादिह बीज तु तुल्यमुमयत्र। तादात्म्यमेव चेह प्रतीयते जगति कार्यकारणयोः ॥२६५॥ यद्यश्वमहिषयोरिव मेदश्रेत्स्यात्तयोर्हि समवायः । यदृपि च कार्यद्रव्यं सर्वावयवेषु भवति समवेतम् ॥ २६६ ॥ किं वाऽष्बेकैकस्मिन्निति वक्तव्यं न युक्तमुमयमपि। सर्वावयवेषु यहा तत्प्रत्यक्षं हि दुर्लमं मवति ॥२६७॥ सर्वावयवानामिह मबेद्यदा संनिकर्ष एतत्स्यात्। न च लाके हि बहुत्वं व्यस्तग्रहणेन ग्रृह्यते क्वापि ॥ २६८॥ अवयवशः प्रत्येकं कार्ये समवेतमवयवेषु यदि। आरम्मानतिरिक्ता अप्यवयचिनः स्पुशवयवाश्रान्ये॥ २६९।।

Page 114

११० सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

एकैकस्मिन्हि यदा समवेतं कार्यमभिमतं मवति। एकैकसंनिकर्षे सत्यपि ग्रृह्येत कार्यमखिलमपि॥ २७० ॥ एकत्र व्यापारे व्यापारोऽन्यत्र तस्य नैव स्यात्। न हि देवदत्त एक: सुप्ने निवसंस्तु पाटलीपुत्रे ॥ २७१ ॥ सुघ्न इव तद्हरेव च संनिहितः स्यादतो न युक्तमिदम्। प्रत्येकपरिसमाप्तिर्गोत्वादिपद्स्य वर्ण्यते च यदा ॥ २२।। प्रश्येकमवयवेष्वपि फलयोग: स्यात्तदा स्वकार्यस्य। उरसा च पृष्ठकारयं स्तनकार्य वा भवेज्च शृङ्गेण ॥ २७३॥। नैतत्क्वापि च दृष तस्मात्कथमेतयोविभिन्नत्वम्। प्रागुत्पत्तेरसदिह कार्यं वा कारणे कथं भवति ॥ २७४ ॥ असतोऽपि जन्म चेत्स्याद्वन्ध्यापुत्रोऽपि जायते न कथम्। असतो निस्तत्त्वत्वान्मर्यादाकरणमस्य न च युक्तम् ॥२७५॥ क्षेत्रगृहादीनामिह मर्यादा दृश्यते सतामेव। प्राक्पूर्णवर्मणोडयं वन्ध्यापुत्रो बभूव राजेति ॥ २७६॥ न हयसतो मर्यादा वन्ध्यापुत्रस्य कुत्रचिद्दृष्टा। उत्पत्तिरवि च या स्यात्क्रिया च सा स्यात्सकर्तृकाऽपि तथा ॥ नाकर्तृका क्रियेयं नैवासत्कर्तृका क्वचिद्द्टृष्टा । ननु यदि कार्योत्पत्तेः प्रागपि कार्यं सदेव चेत्तर्हि॥ २७८ ॥ व्यापारः सकलोऽयं विफल: स्यात्कारणस्य सर्वस्य। इत्यपि नैवाऽडशङ्ूयं कारकयोगस्तु नात्र विफल: स्यात् ॥२७२॥ यद्यपि कारणमेतत्प्रागपि सिद्धं तथाऽपि सफलोऽयम्। करणव्यापार: स्यात्कार्याकारेण योजयितुमेतत् ॥ २८० ।। तस्मादुत्पत्ते: प्राक्सदनन्यत्कारणेन कार्यमतः । ब्रह्मप्रकृतिकमखिलं ब्रह्मानन्यत्तदात्मना सपदि ।२८१॥ सिद्धमिह् या प्रतिज्ञा येनाश्ुतमिति च साऽपि सिद्धैव। सत्वानन्यत्बे किल युक्तेरेवं समर्थिते भवतः ॥ २८२॥ शब्दान्तराज्च जगतस्ते वे सम्यङनिरूपयिष्येते। पूर्वम सदूयपदेशी योडसौ शब्द: प्रसश्नितः कार्ये ॥२८३॥ तस्माच्छव्दान्तरमिह सच्छव्दोडयं हि वृश्यते कार्ये। यस्मात्सदेव सोम्येत्यस्मिन्मन्त्रे हि सत्पदेनाऽडदौ ॥ २८४ ॥।

Page 115

प्रथमपाढ: १] माष्यार्थरत्नमाला। १११

सृष्टेः पू्व सकलं सदात्मनैवोपदर्शितं मवति। कथमसतः सत्वादीत्याक्षिप्य पुनस्तदेव निर्दिष्टम् ॥२८५॥ सत्येवेत्येतस्मादग्रे कार्य सदेव नान्यदिति। पटवच ॥ १९ ॥ संघेष्टितः पटोडयं न विशिष्टायामविस्तरो भाति ॥२८६ ॥ पश्चात्प्रसारितोऽसी यावत्स्वायामविस्तरो भाति। न च संवेष्टितरूपात्पसगरेतोऽसी हि मिद्यते लोके । २८७।। वेमादिव्यापारात्प्रागिह तन्तुपु पटो न गृह्यत। वेमकुविन्दतुरीणां व्यापारोडसी यदा प्रवृतः स्यात् ॥२८८॥। तन्त्वात्मनैव तत्र स्फुटतरमुपलभ्यते तदेवासौ। एवं सृष्टे: पूर्व ह्यव्याकृतनामरूपभावेन ॥। २८९।। सदपि च कार्यं सकल स्फुटतरमिह नोपलभ्यते किमपि। यद्याविद्यकमेतन्नाम च रूपं तथा [च] भूतमपि ॥२९० ॥ व्याकृतमेतच्चेत्स्यात्परेण सकल सदात्मना भाति। यथा च प्राणादिः ॥ २०॥ प्राणायामनिरुद्धे प्राणापानादिपश्चकेऽपि यथा ।।२९१।। आकुञ्चनप्रसारणकार्य नैवोपलभ्यते किमपि। जीवनमात्रं कार्यं भाति च तस्मिन्समीरणात्मत्वम् । २९२। प्राणानामवियोगे जीवनमात्राधिकं हि कार्यमिदम्। आकुश्चनादिकं स्यात्म्राणापानादिभेददटृष्टिश्र ॥ २९३॥ तद्वत्सृष्टे: पूर्व सदात्मना मवति जगदवस्थानम्। नैवाभ्युदयफलं स्यात्तेजोबन्नादिभेददृष्टिर्वा।२९४।। सृष्टेः पश्चादखिलं ह्यम्युद्यफलं विभेददृष्टिर्वा। तस्मात्सिद्धं जगतस्तद्नन्यत्वं तदात्मना सत्त्वम् ॥ २१५॥ प्रत्यगभिन्ने ब्रह्मणि वेदान्तसमन्व्रयोऽपि निरवद्यः। इतरव्यपदेशाद्विताकरणा- दिदोषप्रसक्तिः ।। २१ ।। अत्राहितकरणं तद्रज्ज्वध्यासात्प्रतीयते सूत्रे ॥। २९६ ॥। नन्वेतदनुचितं स्याङ्गह्म यदा मवति जगदुपादानम्। इतरव्यपदेशोड़यं शुत्यन्तेषूपलभ्यते यस्मात् ॥ २९७ ॥'

Page 116

११२ सुब्ह्मण्यविरचिता- [२ द्वितीयाध्यायस्य -

इह चानेनेत्यस्मिन्मन्त्रे बह्मात्मता हि जीवस्य। तत्त्रमसीत्येतस्मिन्बह्मणि जीवात्मताऽपि निर्दिश्ा ॥२९८॥ तस्मात्प्रत्यक्परयोः परस्परात्मत्वमभिहितं मवति। तेन ब्रह्मप्रकृतिकमिदमखिलं जीवकर्तृकं भवति ॥२९९॥ यञ्चानिषं लोके नरकाद्यखिलं हि सजति जीव इति। अभ्युपगन्तव्यं किल दोषोऽयं दुर्निवार एव तदा॥३०० ॥ आत्माहितकरणं यन्न हि स्वतन्त्रस्य कुत्रचिद्दृट्टम्। एतन्जयायविरु्धं द्रषटृत्वं ब्रह्मण: कथं घटते ॥ ३०१॥ जीवेशयोरमेदे ब्ह्मगतस्षटृतादि जीवस्य। यदवि स संसारित्वं जीवगतं ब्रह्मणोऽवि दुर्वारम्॥३०२॥ तस्मादयं स्वतन्त्रो जीवः कर्ताऽडत्मसीमनस्यकरम्। कुर्यान्न चाहितं यज्जन्मजगरोगमरणजालमपि॥ ३०३ ॥ न हि कश्विद्परतन्त्रो निजात्मनो बन्धनालयं कमपि। स्वयमेव तं च सृध्वा तदनुप्रविशन्हि दुःखमनुमवति॥३०४ ॥ अन्त्यन्तनिर्मलः सन्नतिमलिनं देहमात्ममावेन। नैवोपेयात्स्वयमिह कृतमपि यद्दुःखकरमिदं जह्यात् ॥३०५ ॥ विरचितमिदं विचित्रं जगन्मयेति स्मरेदयं जीवः। सर्वो लोक: स्पषट स्मरति हि कार्य कृतं मयेत्येवम्॥३०६ ॥ मायावी निजमार्या स्वरेच्छामात्राद्यथोपसंहरति। एवं शारीरोऽपि च सृष्टिमिमां नोपसंहरेद्धि कुतः ॥ ३०७॥ स्वमपि शरीरं त्यक्तु नानायासेन शक्तुयाजीव:। तस्माद्धि तत्क्रियादेरदर्शनादनुचितैव सृष्टिरियम् ॥३०८॥ इत्याशङ्कां निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना। अधिकं तु भेदनिर्देशात् ॥ २२ ॥ अत्र तुशब्दो योऽसावाक्षेपनिरासफलक इह भवति ॥३०९॥ योऽसी शारीर: स्यात्स्रष्टारं तं वय न च बूमः । यः शारीरादधिक: सर्वज्ञः सर्वशक्तिसंपन्नः ॥३१०॥ तं परमेश्वरमेव तु जगतः स्रषारमिह वयं बूमः । न च तस्य विद्यते किल हितमहितं वेह नित्यतृप्तत्वात्।। ३११॥ शारीरे तत्सवं स च न स्रषा परं तु परमात्मा। परमेश्वरे तु तस्मिन्कर्थं हिताकरणलक्षणो दोष: ।। २१२॥

Page 117

प्रथमपाद: १] माष्यार्थरत्नमाला। ११३

थस्मादसी परात्मा मिन्नत्वेनोपदिश्यते शाख्त्रे। द्रष्टव्य: श्रोतव्यो मन्तव्य इति श्रुतिस्तथैवेयम्॥३१३॥ सोऽन्वेष्टव्य इति श्रुतिरपि भेदं त्वीशजीवयोर्वक्ति। न हि कर्तृकर्मभावो विनैव भेदं क्वचित्पसिद्धोऽस्ति ।।३१४।। तस्माद्सी परात्मा कर्मत्वेनोपदिष्ट इह योऽसौ। न हि खलु भवति परात्मा स्रषा तस्मिन्न दोषशङ्काऽपि ॥३१५॥ ननु तत्त्वमसीत्येषा श्रुति्ह्यभेदं तयोः प्रदर्शयति। येनाश्ुतमित्यन्या श्रुतिरप्येतं तयोर्निरुपयति ॥३१६ ॥ कथमेकस्मिन्त्रह्मणि भेदाभेदौ तु संभवेयाताम। इति नात्र शङ्कनीयं यत इह भेदो ह्युपाधिमूल: स्यात् ॥३१७॥ आविद्यकदेहादावहंममाध्यासकवलितो योऽसौ। न हि शारीरस्तस्मान्वेदो निर्दिश्यते हि परमेशे ॥ ३८॥ नित्यनिवृत्ताविद्यो यतः परात्मा हि दोषनिर्मुक्त: । अविवेकलक्षणोऽसावध्यासो यावदस्ति शारीरे ॥ ३१९॥ तावत्संसारित्वं तस्य स्रषटृत्वमीश्वरस्य स्पात् । अविवेकमखिलमेतं व्युदस्य चैतन्यरूपमात्रेण॥ ३२० ॥ प्रतिबोधितो यदाडसी तदा न भेदस्तदा न संसार:। परमेश्वरस्तदा स्यान्न स्रष्टा किं त्वखण्डरूप: स्यात् ॥ ३२१॥ तद्भिप्रायेणव हि तत्त्वमसीत्यादिवाक्यजालेन। नवधा प्रपश्च्ितोऽयं प्रत्यक्परमात्मनोरभेदो हि॥ ३२२ ॥ अविवेककृता भ्रान्तिर्या तु हिताकरणदोषमूलं स्यात् । ब्रह्माभेदे सत्यपि न स्रषा भ्रान्तिकवलितो जीवः ॥३२३॥ तद्मावाच्च परात्मा जगतः स्रष्टेति सर्वमनवद्यम्। अश्मादिवच्च तदनुपपत्तिः ।। २३ ।। नन्विदमखण्डरूपे ब्रह्मणि वैचित्र्यमनुपपन्नमिह ॥३२४॥ एक: शारीर: स्यादन्य: परमेश्वरश्ष भवतीति। कार्यकृतं वैचित्रयं स्वरूपकृतमपि निरूपितं शास्त्रे ॥ ३२५ ॥ इति दोषो न तु शङ्क्यो ह्यश्मादिवदेव सर्वमुपपन्नम। पृथिवीत्वजातिकलिता अप्यश्मानो भवन्ति वज्राद्याः ॥३२६ ॥ केचिन्महार्हमणयो मध्यमवीर्याश्र सूर्यकान्ताद्याः। अन्ये श्ववायसानां प्रहरणफलका मवन्ति पाषाणा: ॥ ३२७॥

Page 118

११४ [ २ द्वितीयाध्यायस्प-

पार्थिवभागोऽवगतेष्व पि बीजेषु तथैव वैचित्रयम्। पत्रफल पुष्पगन्धैरनेकविधमेव लक्ष्यते लोके ॥। ३२८।। एकस्यान्नरसस्याप्यध्यात्मं लोहितादिवैचित्रयम्। म्रह्मण्य खण्डरूपे तद्वज्जीवेशभाववैचित्रयम ॥ ३२९॥ सदटृत्वं मोक्तृत्व सर्वज्ञत्वं तथैव चाज्ञत्वम्। तस्मात्सिद्ध जगतो बह्मव तु कारण न चान्यदिति ॥३३० ॥ ब्ह्मण्येवंरुपे वेदान्तसमन्वयोऽपि निरवद्यः। ननु परमात्मा जगतो न कारणं स्याद्यतोऽयमसहायः ॥।३३१॥ असहायस्य च लोके सषृत्वं नोपलभ्यते क्वापि। ससहाय: सष्टा स्यान्न चासहाय इति लोकनयसिद्धम् ॥३३२॥। न्यायविरोधाद्बह्मणि जगतः समृत्वमनुपपत्नं हि। तस्माद्वेदान्तानां समन्वयोऽप्यत्र वुरुपपादः स्यात् ॥३३३॥ इत्याशङ्कां निरसितुमिदमधिकरणं प्रदर्शितं मुनिना। उपसंहारदर्शनान्नेति चेन्न क्षीरवद्दि ॥ २४॥ लोके कार्यारम्भे च कुलालादयो हि कर्तारः ॥३३४॥ मृद्दण्डचक्रसचिवाः सन्तः कार्येषु ते प्रवर्तन्ते। यङ्रह्म तद्सहाय कार्य जगदाखलमतिदुरारम्भा॥३३५॥ कथमीदृशस्य जगतः स्ष्ट्रसहायं भवेत्परं ब्रह्म। इति चेन्मैधं यस्मारक्षरवदेवेदमखिलमुपपन्नम्॥३३६॥। क्षीरं जलं विनैव हि सह।यमन्यं यथा हि लोकेऽस्मिन्। द्धिकरकाकारेण च परिणमते ब्ह्म तद्ददेवेदम ॥ ३३७॥ जगदात्मना स्वमावाद्विना सहायं तथैव परिणमते। नन्वसहायं क्षीरं नैव हि दध्यात्मना च परिणमते ॥ ३३८॥ औष्ण्यादिना हि लोके क्षीरं दधि भवति न स्वतः क्वापि। इति चेन्नेयं शङ्का स्वयमपि दधिभावमेतदुपयाति ॥३३९॥ औष्ण्यादिना दधि स्यात्वरयेत्येतञ्च लोकसिद्धमिदम्। द्धिभावशीलता यदि न स्यात्स्वयमन्यर्नैव औष्ण्याद्यैः।।३४०। द्धिमावोऽस्य बलादिह न युज्यते कदाऽपि कुत्रचिद्वाSपि। न हि लोके वायुर्वाडप्याकाशो वाडथ वा तदन्यो वा ॥ ३४१ ॥ औष्ण्याढिना बलाद्वा दृधिभावगतोऽपि कुत्रचिद्दृद्टः ।

Page 119

प्रथमपाद: १] माष्यार्थरत्नमाला । ११५

देवादिवदपि लोके॥ २५॥ देवा ऋपयः पितरो गन्धवाश्चापि जगति विख्याताः ॥३४२।। त खत्विच्छामात्रात्सृजन्ति हर्म्याणि रम्यरूपाणि। तदूद्विचित्ररूपाण्याप गात्राणि च सृजन्त्यभिध्यानात् ॥३४३॥। उपसंहरन्ति पुनरषि तान्यखिलानि च निजेच्छयैवेति। रेतःसेकसहायं बिना बलाकापि गर्भमिह धत्ते॥३४४॥ प्रस्थानसाधनं वा किमपि ह्यनपेक्ष्य पझ्मिनी च तथा। उपसर्पति ह्ययत्नात्सरोन्तरात्सा सरोन्तरं तद्त् ॥३४५। एवं ब्रह्मापि तदा बिना सहाय प्रवर्तते कार्ये। नन्विह दष्टान्तोडयं न चानुरूपो विभाति कश्विदृपि॥ ३४६ ॥ वेवादिकर्तृकार्यां सृष्टौ देवादिदेह एव स्यात। कारणमपि च बलाका स्तनयित्नुरवेण गर्भमिह धत्ते॥ ३४७॥ चेतननियोजितैव हि सरोन्तरं पझ्मिनीयमुपसरति। तस्माव्चेतनकर्तृकसष्टो दृष्टान्त एष विषमः स्यात् ॥३४८॥ इति चेन्मैवं यस्माद्दृष्टान्तोडयं हि मवति न च विषमः । हष्टान्तन विवक्षितमिह हि कुलालादिकर्तृवेधर्म्यम् ॥३४९॥ बाह्यं साधनमिह किल यथा कुलालादयो ह्यपेक्षन्ते। एवं देवाद्या इह नापेक्षन्ते हि साधनं बाह्यम् ॥ ३५० ॥ ब्रह्मा पे तद्देव हि जगदारम्भे न साधनं किमपि। बाह्यमपेक्षत इति खल्वंशस्तुल्यो हि सोऽयमुभयत्र ॥ ३५१ ॥ देवादयो यथा वा निजयोगबलेन ससृजन्त्येवम्। ब्रह्मापि विश्वमेतत्मृजत्यचिन्त्यात्मशक्तियोगेन ॥ ३५३॥ श्रुतिरपि तमेतमर्थ न तस्य कार्यमिति दर्शयत्येषा। तस्मादृसहायेऽपि ब्रह्मणि वियदादिकारणत्वं स्यात् ॥३५३ ॥ ब्रह्मण वेदान्ताना समन्वयोऽपीह भवति निरवद्यः।

नन्वत्र क्षीराद्ैहेश्टन्तैर्बह्म जगदुपादानम्॥३५४ ॥ असहायमेव भवर्तीत्येतत्सवं प्रपश्चितं पूर्वम्। तज्ञैतदनुपपन्नं यस्मात्क्षीरादि सवति परिणामि ॥३५५ ॥ तद्दटृष्टान्तवलेन हि पथाऽसहायस्य कारणत्वं स्यात। परिणामिकारणस्वं तथेव परमात्मनोऽस्य वक्तव्यम् । ३५६।।

Page 120

११६ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

ब्रह्म यदि निर्विशेषं जगदाकारेण परिणमेत तदा।

कृत्स्नप्रसक्तिरत्र तु जगदाकारेण कृत्स्नपरिणामः। कृत्सस्य कार्यभावापत्या द्रष्टव्यताऽस्य नैव स्थात् ॥ ३५८॥ यद्येकदेशमात्राज्जगदाकारेण परिणमेत तदा। निरवयवभावबोधकशब्दा ये चास्य वेदनिर्दिष्टाः।।३५९॥ निर्मलशब्दपुरोगा विरुद्धकथनेन ते हि कुप्येयुः । निरवयवस्य च लोके नचैकदेश्येकदेशभावः स्यात ॥ ३६० ॥ यदि घा परिणामि स्याद्यदि वा कृत्सस्य कार्यपरिणामः । यद्येकदेशभावस्तदाऽस्य चानित्यताऽवि दुर्वारा॥३६१॥ तस्माच्चेतनकारणवादोऽयमयुक्त एव भातीह। निरसितुमिममाक्षेपं मुनिना रचित तदेतद्धिकरणम्॥३६२॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७॥ अत्र तुशब्दो योऽसावुक्ताक्षेपस्य निरसनार्थः स्थात्। चेतनकारणवादे नायं दोष: प्रवर्तते कोऽपि।। ३६३॥ इह कारणस्य रूपे श्रुतिः प्रमाण न केवलस्तकंः। जगतः सृष्ट्यारम्भे परिणमते ब्रह्म तत्स्वरूपेण ॥ ३६४।। न च परिणमते कृत्सं तदिति श्रुतिरेव बोधयत्येषा। सोडकामयतेत्याद्या पादोऽस्येत्येवमादिका च तथा ॥३६५॥ तदिदं हि शब्दमूल बह्म यथाशब्दमभ्युपेयं स्यात्। नैव ह्यतीन्द्रियार्थे विनैव शब्दं यथार्थबुद्धि: स्यात् ॥३६६॥ अस्यातीन्द्रियभावं न चक्षुषेति श्रुतिः प्रबोधयति। नैताद्ृशस्य तस्य हि रूपं शब्दं विनैव तर्केण ॥ ३६७ ॥। अपि वा निर्धारयितुं प्रतिपाद तुं च कोऽपि शक्त: स्यात्। मणिमन्त्रशक्तयोऽपि तु विचित्रकार्यैकसाधनीभूताः।३६८।। वृश्यन्ते खलु लोके ता अप्युपदेशसमधिगम्याश्र। किमुताचिन्त्यमहिम्रः परात्मनः शक्तिरप्रतर्क्येति॥३६९॥ तस्माच्छृत्यभिगम्ये जगतो जन्मादिकारणे तस्मिन्। कृत्स्प्रसक्तिरूपा दोषा नैवेह शङ्कितुं शक्याः॥३७० ॥ नन्विह विरुद्धमर्थं श्रुतिरप्येषा कथं प्रबोधयति। परिणमत न च कृतसं परिणमत इदं विरुद्धूमामाति ॥३७१॥

Page 121

प्रथमपाद: १ ] माष्यार्थरत्नमाला। ११७

अतिरात्रे षोडशिनं गृह्णातीत्यादिकर्मवाक्येषु । मवति विकल्पाश्रयणं विरोधपरिहारकारणं तेषु ॥३७२ ।। तत्कर्म पुरुषतन्त्रं यतो विकल्पादि तत्र युक्तं स्यात्। ज्ञानं तु वस्तुतन्त्रं प्रमाणजन्यमिति सुप्रासिद्धं हि॥ ३७३ ॥ वस्तुनि न विकल्पः स्यात्स च क्रियायां हि दश्यते शास्त्रे। अविरुद्धाक्षेपैषा श्रुतिः प्रमाणं न वैपरीत्येन ॥ ३७४॥ परिणामवादपक्षे सावयवत्वं ह्यनित्यताऽपि स्यात्। तस्माच्चेतनकारणवादो हि न युक्त एष इति चेन्न॥ ३७५॥ इह खलु विवर्तवादाश्रयणे तात्पर्यमस्य सूत्रकृत: । अत्र च न विरोध: स्थान्नानित्यतादिदोषशङ्काऽपि ॥३७६॥ मायावी परमात्मा निजमायाशक्तियोगमालम्व्य। निरदयवो नित्योऽपि हि जगदाकारेण भासते बहुधा॥ ३७७॥ तिमिरहतलोचनानां चन्द्रो हि यथा ह्यनेकधा भाति। तद्वदविद्याकवलित निजात्मभासा स भाति विश्वात्मा ॥३७८॥ प्रादेशिका हि माया जगदाकारोऽपि चैकदेशगतः । मायायोगविहीनं ब्रह्म द्रष्टव्यमावसुपयाति ॥३७९॥ मायोपाधिसहायात्सकलं तस्योपपन्नमेव स्यात्। परिणामवाद्पक्षे दोषोऽयं न हि विवर्तवादेऽपि॥३८० ॥ आत्मनि चैवं विचित्राश्र हि॥ २८॥ आत्मानुपमर्देन हि सृष्टिरियं ब्रह्मणा कथं घटते। इति नात्र शङ्कनीयं यत इह सृष्टिस्तथेव दृष्टा हि॥ ३८१ ॥ मायाव्यादिषु लोके विना स्वरूपोपमद्मुपलब्धा। हस्त्यश्वरथपदातिप्रमुखाणां सृष्टिरेवमन्यत्र ॥ ३८२ ॥ स्वप्रहगादिषु दष्टा तथैव सृष्टिर्मवेत्परात्मनि च। तत्र यथा नैते स्युर्दोषा मायामयत्वयोगन॥। ३८३॥ तद्वद्वह्वणि नैते दोषा जगतोऽस्य मायिकत्वेन। तस्मान्निरवयवेऽस्मिन्वेदान्तसमन्वयोऽपि निरवद्य: ।। ३८४।। स्वपक्षदोषाच्च ॥ २९ ॥ चेतनकारणवादे योऽसौ दोष: प्रसश्ितः सोडयम्। तुल्यः प्रधानवादे परमाणुप्रकृतिमाववादेऽपि॥ ३८५॥

Page 122

११८ [२ द्वितीयाष्यायस्य-

शब्दादिरहित मेतन्निरवयवं च प्रधानमण्वादि । सावयवस्य च शब्दादिमतः कारणमिति प्रतिज्ञातम् ॥३८६ ॥। तत्र च पूर्वोक्तोऽसौ दोषोडयं दुर्निवार एव स्यात्। अणुकारणतावादे ह्यणुरपरेणाणुना हि सयुक्त: ।। :८७।। दणुकादि जनयतीति प्रपश्चितं तञ्व नैव युक्ततरम्। निरवयवयोस्तयोरिह संयोग: स्याप्रदैकदेशेन ॥ ३८८॥ परमाणूनां हि तदा सावयवत्वं तु दुर्निवारं स्यात्। सर्वावच्छेदेन तु संयोगो यदि तथाऽपि दोषोऽयम् ॥३८९॥ प्रथिमानुपपत्थादि: कार्यस्य स्यादतो न दोषोऽयम्। परिहृत एव हि पूर्व दोषोऽय ब्रह्मकारणत्वे हि॥ ३९०॥ तस्मान्निरवयवमाप ब्ह्मेद मवति जगदुपादानम्। ब्रह्मणि तथाविधेस्मिन्वेदान्तसमन्वयोऽपि निरवद्य:।।३९१।। नन्विह सशरीराणां कार्यात्पादैकसाधधिका शक्तिः। मायाविप्रभृतीना दृष्ान्तोक्तेन चाशरीरस्य । ३९२॥।

कथमिति शङ्का निरसितुमिदमधिकरणं प्रदर्शितं मुनिना।३९३।। सर्वोपेता च तद्दर्शनात् ॥ ३० ॥ यद्यपि मायाव्यादिषु सशरीरेष्वेव दृश्यते शक्ति: । भवति तथाऽपि न दोषो यतः परात्मा ह्यकुण्ठितैश्वर्यः।।३९४॥ न च शक्तिप्रतिबन्ध: कदाऽपि तस्यास्त्यलुप्तशक्तित्वात्। शारीरे हि किलेद कार्यारम्भे शरीरसाहाथ्यम् ॥३९५॥ यस्माच्छारीरोऽसी शरीरसंयोगसाधनो भवति। परमात्मा तु शरीरं विनाऽपि तत्सर्वशक्तिसंपन्नः ॥ ३९६॥ दर्शयति श्रुतिरेषा परात्मनः सर्वशक्तिसंयोगम्। यस्मात्पराऽस्य शक्ति वैविधेति तथैव सर्वकर्मेति ॥ ३९७ ॥ तस्मादेकस्य यथा सामथ्यं स्यात्तथा परस्यापि। सामथ्यं मवतीति हि न चायमेकान्त इत्यभिप्रायः ॥३९८॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥ एतद्चक्षुःभ्रोत्रं तथेव चापाणिपाद्मित्येषा। अभोत्रमवागमना इति श्रतिर्ह्यकरणं विनिर्दिशति ॥३९९ ॥

Page 123

प्रथमपाद: १ ] माष्यार्थरत्नमाला। ११९

एवंविधस्य तस्य सहटत्वं स्याद्विरुद्धमिति चेन्न। एतस्य चोत्तरं तु प्रदर्शितं नेह किमपि वक्तव्यम्॥२०0।। मायाशक्तिसहायात्परमात्मा सृजति विश्वमखिलमपि। स्वेच्छामात्रात्सकरणमात्मशरीर मनोज्ञमातनुते।। ४०१॥ नेन च विहरति भक्तरुपदिशति निजात्मतत्त्वमखिलमपि। संहरति दनुजवर्ग पालयति च दीनलोकमखिलमपि। ४०२॥। उपसंहत्य च सकलं केवलरूपेण माति विश्वात्मा। तस्याकुण्ठितशक्तेर्नैवाशक्यं हि विद्यते किमपि॥४०३ ॥ तस्माद्वेदान्ताना ब्रह्मणि परमे समन्वयो युक्त:। न प्रयोजनवत्वात् ॥ ३२ ॥ सृष्टिपवृत्तिरेषा ननु भवति परात्मनो न युक्ततमा ॥४०४॥ लोके प्रवृत्तिरेषा दृष्टा ह्यात्मप्रयोजनार्थैव। आत्मप्रयोजनार्था परात्मनः स्थाद्यदा प्रयृत्तिरियम् ॥४०५॥ व्याहन्येत तदानी परितृप्तत्वं परात्मनस्तदिदम। उन्मत्तस्य यथा वा प्रवृत्तिरेवं परात्मनो मवति ॥ ४०६ ॥ सर्वज्ञत्वं तस्य श्रुतिनिर्दिष्टं विरुद्धमेव स्यात्। तम्मादन्याध्येयं चेतनसृष्टिः श्रुतिप्रणीताऽपि ॥ ४०७ ॥ इति शङ्कां परिहतुं मुनिना रचितं तक्टेतद्धिकरणम्। लोकवन्तु लीलाकैवल्यम्॥३३॥ भ्रुतिनिर्दिष्टा सेप सुष्टिः केवलमिहास्य लीलैव ॥। ४०८ ॥ लोके च यथा राज्ञ: क्रीडादिषु भवति केवलं लीला। अनपेक्ष्य किंचिदृषि वा प्रयोजन तद्वदेव चेहावि। ४०९॥ परमात्मनः प्रवृत्तिर्लीलारूपैव चान्तरेण फलमू। राजादिक्रीडास्वपि भवेञ्च किंचित्प्रयोजनं सूक्ष्मम् ॥४१०॥ परमेश्वरस्य सृष्टिक्रियासु नास्ति प्रयोजनं किमपि। यस्मादसी परात्मा स चाऽडप्काम इति गीयते शास्त्रे । ४११ ॥। तस्माच्छृतिवचसामिह समन्वये नैव बाधकं किमपि। ननु परमात्मा सोडयं जगतो जन्माविकारणं न मवेत् ॥४१२ ॥ यस्मादसी परात्मा विषमां सृष्टिं हि जगति निर्माति। अत्यन्त सुखसमृद्धान्देवान्सृजतीह मर्त्यवर्गमपि ।। ४१३॥

Page 124

१२० सुत्रह्मण्यविरचिता- [ २ द्वितीया ्यायस्य-

मध्यमसुखमाजमिमं तथैव चात्यन्तदुःखमाजोऽपि। पश्वादीनपि सृजति हि तेन च वैषम्यमस्य दुर्वारम्॥४१४॥ पलयावसरे सर्वप्राणिनिकायं विनाऽपराधेन। संहरतस्तस्यैव तु परमात्मनो निर्घणत्वमनिवार्यम्॥४१५॥ करत्वमपि च तस्य हि दुःखविधानात्तथेव दुर्वारम्। रागद्वेषादिकमपि पृथग्जनस्येव तस्य दुर्वारम्॥४१६॥ अपहतपाप्मनि तस्मिन्स्दटृत्व युक्तमीहृश नु कथम्। तस्मान्न जगत्कारणमात्मा वैषम्यनिर्घृणत्वाभ्याम्॥४१७॥ इत्याशङ्कां निरसितुमिद्मधिकरणं प्रदर्शितं मुनिना। वैषम्यनैर्घण्ये न सापेक्षत्वा- तथा हि दर्शयति॥३४॥ इति चेन्मैवं यस्मान्न चास्य वैषम्यनिर्घृणत्वे स्तः ॥ ४१८॥ यदि निरपेक्ष: सोडयं विषमां सृष्टिं हि निर्मिमीते चेतु। स्यातामेतौ दोषावस्य परात्मा स किंतु सापेक्षः॥ ४१९॥ प्राणिकृता यौ धर्माधमवव ह्यपेक्ष्य सृष्टिमिमाम्। रचयति स चायमात्मा कुतोऽस्य वैषम्यनिर्घृणत्वे तु॥ ४२० ॥ यद्वद्वीहीयवादिषु साधारणकारणं च पर्जन्यः। तद्वत्परमात्मा स्यात्साधारणकारणं जगत्सपा । ४२१॥ तत्तद्वीजान्येव ब्रीह्यादिविशेषकारणानि यथा। तत्तकर्माणि तथा देवादिविशेषकारणानि स्यु: ॥४२२ ॥ नेशापराधमूला सृ्टिः कर्मापराधमूलैव। वैषम्यादिनिरासे सापेक्षत्वं हि यञ्च तस्योक्तम् ॥ ४२३॥ तदिदं सापेक्षत्वं प्रपञ्चयते सपदि सूत्रशेषेण। दर्शयति ध्रुतिरेषा सापेक्षत्वं यदेष एवेति ॥४२४।। ऊध्व हि नेतुमिच्छति यं च परात्मा तमेनमादौ हि। कारयति कर्म साध्विति य चाधो नेतुमिच्छति ह्यात्मा ॥ ४२५॥ तमसाधु कर्भ कारयतीत्येषाऽपि प्रदर्शयत्येवम्। नन्विह कारयितृत्वात्फलप्रदातृत्वमस्य निर्दिष्टम् ॥४२६ ॥ कारयितृत्वे तस्य च सापेक्षत्वं कथं भवेदिति चेत्। जन्मान्तरवासनया कुर्वन्तं कारयत्यमावात्मा ॥ ४२७ ।

Page 125

प्रथमपाद: १ ] माष्यार्थरत्नमाला। १२१ तेन च सापेक्षत्वे न बाधकं किमपि शक्कितुं शक्यम्। यदि चाकुर्वन्तमपि ह्यात्मा साध्वादि कर्म कारयति ॥ ४२८॥ मवति तदाडयं दोष: सापेक्षत्वं च दुर्घटं तस्य। न कर्माविभागदिति चेन्ना- नादित्वात्। ३५॥ नन्विह सापेक्षत्वं यञ्ञोक्तं तञ्ञ दुर्घटं माति॥ ४२९॥ यस्मात्पलयावसरे निर्लेपं मवति कर्म सकलमपि। उत्तरकालं सृषी वैषभ्यकरस्य कर्मणोऽसत्वात् ॥ ४३०॥ तुल्यैवाऽडय्या सृष्टिर्भवेन्न देवादिविषममावेन। यदि तुल्या सृष्टिरियं तदोत्तरत्रापि तद्वदेव स्यात् ॥४३१ ॥ यदि चेद्विषमा सृष्टिरवैषम्यादिकमबाधितं तस्य । इति चेन्नानादित्वात्कर्मण इह नास्ति दोषशङ्काSवि॥ ४३२॥ तद्नादिकालसंसृतमखिलं कर्मेति नास्ति दोषोऽयम्। कथमस्य कर्मणः स्यादनाविकालप्रवृत्ततेत्येवम् ॥४३३॥ शङ्टरामेतां निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना। उपपयते चाप्युपलभ्यते च।। ३६ ॥ संसारस्तन्मूलं कर्मानादीति चोपपसं हि । ४ ४ ॥। यद्यादिमानयं स्यात्संसारस्तस्य मूलमपि कर्म। मुक्तानामपि लोकेऽस्मिन्पुनरपि संसारबन्धनं न कुतः ॥ ४३५॥ उपलभ्यते च तदिदं कर्मानादीति मन्तवर्णेपु। सूर्याचन्द्रमसाविति मन्त्रो बूते तथैव चान्याऽपि। ४३६ ॥ प्रथयत्यमेन जीवेनेत्याद्या तेन सकलमनवद्यम। सपदि परपक्षदूषणमुख्यफलं प्रकरणं प्रवर्तयितुम ॥४३७॥ सूत्रकृदुपसंहरति प्रकरणमेतत्स्वपक्षसिद्धिफलम् । सर्वधर्मोपपत्तेश्र ॥। ३७॥ चेतनकारणपक्षे कारणधर्माश्र ये च विखयाता: ॥। ४३८॥ कारणरूपे ब्रह्मण्युपपद्यन्ते हि सर्वधर्मास्ते। सर्वज्ञता तथा स्याद्विचित्रमायासहायताऽप्येवम्॥४३९॥ तहच्च सर्वशक्ति: कारणतामस्य साधयन्तयेव। तस्माद्वेदान्तानां सर्वज्ञे सर्वशक्तिसंपन्ने॥४४० ॥ १६

Page 126

१२२ [२ द्वितीयाष्यापसप-

ब्हमणि कारणरूपे समन्वयो निरपवाद इति सिद्धम्। शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्याय: । ४४१॥ तत्र प्रथमे पाढे सूत्रार्थी यश्च माध्यकारोक्त: । आर्यावृतैरमलैः प्रकाशिती मवतु सोऽयमनवद्य:।।४४२।। इति द्वितीपाध्यायस्य प्रथम: पाठ्: ।।१।

अथ द्वितीयपाद्पारमम: ।

सासयादिस्सृतिवचनैविरोधशङका व्युपस्य पूर्वत्र। ब्रह्मणि वेदान्तानां समन्वयोऽसी स्थिरीकृत: सूत्रेः॥१॥ सांरयादिस्मृतिवचसां न्यायाभासोपबृंहितत्वेन। स्थिरयितुमप्रामाण्यं द्वितीयपादः प्रवर्तते सपदि ॥ २ ॥ यद्यपि वेदान्तानामैदपर्यावधारणार्थमिदमू। शाखं हि केवलामिर्युक्तिभिरेवेह कमपि सिद्धान्तम् ॥३॥ साधयितुमप्रवृत्तं वूषयितुं वाऽपि तर्कशास्त्रमिव। सत्यं तथाऽपि लोके विरयातानि च महान्ति तन्त्राणि ॥४ ॥ कपिलादिसंमतानि हि महाजनैश्वापि परिगृहीतानि। उपलभ्य जउमतीना केर्षाचित्स्यादिहापि च श्रद्धा । ५॥ तत्वावधारणाय तु भवन्ति चैतानि साधनानीति। अत इह तदसारत्वं यावलैवोपवर्ण्यते तावत् ॥६।। वेदान्तवाक्यनिचयैरुत्पन्नं ज्ञानमाकुली मवति। तस्मादसी हि यत्नो युक्त: कपिलादिमतनिरासे स्थात् ॥।७।। अत्र स्वपक्षसाधनमभ्यर्हितमिति कृतं तदादी च। संप्रति परपक्षोऽयं निरस्यते हि स्वपक्षदार्ढ्याय ।।८।। ईक्षत्याद्यधिकरणे प्रागपि सांख्यादिमतनिरासोऽयम्। प्रायः कृतो हि पुनरषि तत्र च यत्नो वृथेति चेन्मैवम् ॥ ९॥ पर्वं प्रधानवादे श्वतिसाहाय्यं न चास्ति किंचिदिति। निरसितमत्र च पाढे युक्तिसहायो निरस्यते सपदि॥ १०॥ नन्विह कारणधर्मा ब्रह्मण्येवोपपादिता: सर्वे। नविदि्मयुक्तं यस्मादिह प्रधानेऽपि संभवन्त्ेते ।। ११ ॥

Page 127

द्वितीयपाद: २ ] माण्पारथरलमाला। १९१ घटकरकादिविकाश मृदात्मनाऽन्वीयमानरूपा हि। ते प खलु मृद्धिकारा मृत्सामान्येकपूर्वका हषाः ॥१२।। आध्यात्मिका अपीत्थं मेदा: सुखदुःखमोहरूपेण। अन्वीयमानरूपास्ताहशसामान्यपूर्वका एव ।। १३॥ सुखदुःखमोहरूपं ह्वयाचेतनं तत्पधानमेव स्यात्। तदिद प्रधानमेव ह्यचेतनं भवति जगदुपादानम् ॥१४॥ परिमाणाधैलिक्गेरपि जगतः कारणं तदेव स्पात्। इति शङ्कामपनेतुं सुनिना रचित तव्तद्धिकरणम्॥१५॥ रचनानुपपत्तेश्र नानुमानम्॥ १॥ नैवाभिलषितसिद्धिर्द्वष्टन्तादेव केवलान्भ्रवति। हष्टान्तोडयं लोके सुलमो मवतीह सर्वपक्षेषु॥१६॥ पद्चेतनं हि लोके न चेतनेनानधिष्ठितं किमपि। कार्य रथयद्वृटं मृषादिकेपु च रथादिषु ह्योवम् ।। १७।। लोके सृदादयो वा रथाद्यो वा कुलालवाहादये:। अनविष्ठिता घटावीन्चयन्तो जगति नैव वृश्यन्ते ।। १८ ॥ पेतनपुरस्कृतैषिह मृद्ा्वधयिहि विरचिता दृटा:। गेहपासादायया: सुखदुःखप्राप्तिविघटनानलसा ।। १९। जगडेसइसिलमपि किठ देवमनुष्याद्यविष्ठितं सवतति।

प्रज्ञाषद्भि: शिह्पिमिरालोथयितुं हि जातु मनसाऽपि। यद्शक्पं तदषपेत्स्वतन्त्रमेतत्पधानमनभिज्ञम् ।२१।। सृद्दष्टान्तेरेय हनुमेयं मूलकारणं जगतः । न तु बाह्यकुम्मकारप्रमुखैरिति नियमकारणं किमपि ॥ २२ ॥। श्रुतिरेवमनुगृहीता पेतनदृष्टान्तसंग्रहे मवति। यस्माश्तदैक्षतेति अतय कथयन्ति चेतनात्मृट्टिम ।२३।। सर्वज्ञकारणत्वे सदेतपसिलं समञ्जसं मवति। यदि चेत्पधानमेतत्स्वतन्त्रमेवाखिलं जगज्जनयेत्॥।२४ ॥ स्थूलोण्ला: स्वतम्त्रा: प्रासादाक्षीन्कुतो हि न सृजन्ति। इनि रचनानुपपत्तेः स्मृतिदृट्टमिवं न कारणं जगतः ।। ६५॥ सुखदुःखमोहभावेनान्वयरूपो य एप निर्दिष्टः । हेतुस्तस्यासिद्धिं सूचयति शब्द एष सूत्रस्थ:॥२६।

Page 128

१२४ सुन्रह्मण्य पिरपिता- [ २ द्वितीयाध्यायस्य-

बाह्याध्यात्मिक मेवेष्विह न हि सुखदुःखमोहरूपतया। अन्वय इहास्ति लोके यतश्र तेषां विरुद्धभावोडस्ति ॥ २७ ॥ सुखदुःखादिकमखिलं प्रतीयते वान्तरत्वधर्मेण। शब्दाद्यश्च बाह्या अनन्तरत्वेन जगति मासन्ते ॥ २८॥ शब्दादयो हि मेदा: सुखादिकार्ना निमित्तमावेन। हष्टा यतः कथं स्यादन्वयहेतु: स चायमुपपन्नः ।। २९॥। न तु भिन्नरूपयोरयमभिन्नमावो हि दृश्यते क्वापि। य श्षाऽडविशब्दलम्य: सूत्रेऽसी परिमितत्व हेतुरपि॥ ३०॥ संसर्गपूर्वक वप्रसाधनायोपदिष् इह कार्ये। वेशपरिच्छेदात्मा मागासिद्धो हि सोडयमाकाशे॥ ३१॥ कालपरिच्छेवेऽस्मिन्हेतौ स्यात्सिद्धसाधनं दोष:। योऽयमविद्यागुणयोः संसर्गस्तत्र मवति दोपोऽयम् ॥३२॥ पक्षद्वयेऽपि सोडयं स कंचिवर्थ हि साधयत्येष: । वस्तुपरिच्छेदात्मकमेतहयदि परिमितत्वमत्रोक्तम् ॥३३॥ सत्वरजस्तमसामपि तुल्यं तदतो ह्यसावनेकान्तः । तस्मावसाधकोऽयं यश्रोक्त: परिमितत्वहेतुरपि॥३४॥। लोके हि कार्यकारणविभागवुद्धि: प्रवर्तते यावत्। तावद्चेतनपूर्षकमखिलं कार्यमिति नायमेकान्तः ।। ३५।। पत्र च विभागबुद्धि: समाप्यते जगति कार्यकारणयोः । तद्चेतनं प्रधानं तत्पूर्वकमेव सकलमपि कार्यम् ॥३६॥ इति सांख्यदर्शितं यललक्षणमेतत्परात्मनस्तुल्यम्। तेन च सकलं काय चेतनपूर्वकमितीह कि न स्यात् ॥३७ ॥ प्रवृत्तेश्र ॥ २ ॥ अन्रानुपपत्तेरिति पद्मनुवृत्तं हि मवति पूर्वस्मात्। तेनानुपपसिरसाविह प्रवृत्तेः प्रदर्शिता मवति ॥३८॥ आस्तामियं तु रचना तत्सिन्द्धपर्थाऽपि या प्रवृत्ति: स्थात्। सा सत्वरजस्तमसां भवति ह्वङ्गाङ्गिरूपतैव किल ॥३९॥ एवं कार्याभिमुखपवृतता सेति तां च कथयन्ति। सा च प्रवृत्तिरिह खल्वचेतनस्यैव केवलस्य भुवि ॥ ४० ॥ दृष्टा नैव मृदादेश्वेतःसंयोगमन्तरा क्वापि। पेतनपुरस्कृतस्य हि सा तु मृदादेस्तथा रथादेश ॥४१॥ -

Page 129

द्वितीयपाद: २ ] भाष्यार्थरत्नमाछा। १२५

तस्मात्तदनुपपत्ते: प्रधानमिह नैव जगदुपादानम्। नन्विह चेतनयोगाद्चेतनस्य च यदा प्रवृत्ति: स्यात् ॥४२॥ सिद्धैव सा प्रधाने तदनुपपत्तिश्र नेति चेन्भैवम्। यद्यप्यचेतनेऽस्मिन्मृदादिके सा प्रवृत्तिरुपलब्धा ॥ ४३॥ मवतु तथाऽपि च सा खल्वचेतने मवति चेतनादेव। दहनप्रकाशरूप क्रिया च काष्ठादिसंभ्रयाऽपि यथा॥४४॥ ज्वलनाधीनैव स्यात्तथैव सा भवति चेतनाधीना। लोकायतिकमतेऽपि हि जीवद्वेहस्य चेतनत्वेन ।। ४५।। अनुमतमिह रथशकटप्रमतीनां तु प्रवर्तकत्वं स्यात्। तस्माद्चेतनानां प्रवर्तकत्वं हि चेतने युक्तम् ॥ ४६ ॥ ननु परमात्मा सोडयं चैतन्यैकस्वरूप एवोक्त:। तद्व्यतिरेकेणास्य प्रवर्तकं नोपलभ्यते किमपि ॥ ४७॥। स कथ प्रवर्तकः स्यादिति शङ्काऽप्यत्र नैव कर्तव्या। पस्मात्सर्वज्ञोऽसी परमात्मा सर्वशक्तिसंपन्नः ॥४८॥। तस्य प्रवर्तकत्वे शङ्केयं कथमुदेति मनसि तव। एकोऽसी परमात्मा प्रवर्तक: कथमितीह नाऽऽशङ्क्यम् ॥४९॥ मायोपाधिवशेन हि तदेदखिलं समख्जसं तस्य। तस्मात्परात्मनोऽस्य प्रवर्तकत्वं यदेतदनवद्यम्॥ ५० ॥ पयोम्बुवच्चेत्तत्रापि ।। ३ ।। नन्वन्राचेतनयो: पयोम्बुनोरपरतन्त्रयोलोंके। वृष्टा प्रवृत्तिरेषा तथा प्रधानस्य सा कथं न स्यात् ॥५१॥ वत्सविवृध्द्यर्थ किल यथा स्वतः स्यन्दते पयो लोके। लोकानामुपकृतये यथा जलं वा तथा प्रधानमपि ॥ ५२॥ महदाद्याकारेण रक्मावतो नैव परिणमेत कुतः । इति क्षेत्र येन कथयति चेतनसापेक्षतां हि तत्रापि॥ ५३॥ योऽप्स्विति मन्त्रो योऽसी तथव चतस्य वेति मन्त्रोऽपि। अपि वत्सचोषणं यन्मातु: प्रेमानुबन्धनं यञ्ञ ॥५४ ॥ तदुमयसापक्षमिदं पयः परिष्यन्दृते जलं यज्ञ। तन्निम्नमूम्यपेक्षं सदा परिष्यन्द्ृते न चेतरथा ॥ ५५॥ अत इह दृष्टान्तोऽयं पक्षसमो नैव तद्रहिर्मूतः ।

Page 130

१२६

व्यतिरेकानवस्थितेश्र्वानपेक्षत्वात् ॥।४॥ सत्वं रजस्तमश्र त्रयो गृणा यदि समानमावेन। अवतिष्ठमानरूपा: प्रधानमेतदिति वर्ण्यते सांखयेः । ५७।। तद्यतिरेकेण तदा प्रवर्तकं न हि निवर्तकं वाडस्ति । तद्मावादनपेक्षं ह्यनपेक्षत्वात्म्वर्तते च कथम् ॥५८॥। गुणवेषम्यकृतोऽयं सर्गो वा मवति तस्य तद्माषे। तस्मात्प्रधानवाद: प्रतारणार्थो न युक्तिमूल: स्थास् ॥५९॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ तृणपल्लवोदकादि क्षीराकृत्या यथा हि परिणमते। तद्वत्प्रधानमेतन्महदाद्याकारपरिणतं न कुतः ॥६०॥ इति शाङ्ककात् न युक्ता यतस्तृणाद्यपि मवेभ निरपेक्षम्। यदि निरपेक्षं ह्ोतत्क्षीराकारेण परिणमेत तदा ॥ ६१॥ अन्यन्र धेनुकायास्तृणाढ़िकं क्षीरता कुतो नेयातू। यदि वेडन्यत्रापि क्षीरी मूयात्तृणाढ़िकं लोके ॥ ६२॥ यञ्ञ प्रहीणमेतयञ्च बलीवर्दचर्वितं वाऽपि। तदृपि क्षीराकृत्या परणतिमेतां हि नो लमेत कुतः ॥६३॥ मानुषसाध्यं किंचिन्वति च देवादिकृत्यमपि किंचित्। न च निर्निमित्तमेतत्तस्मात्तदिवं हि देवताकृत्यम्६४।। म्त्या अपि प्रभूतं क्षीरं लब्धुं प्रमूतघासमिमाम्। धेनुं हि चारपन्त्वपि तस्मात्सकलं हि चेतनायुक्तम ॥ ६५॥।

स्वामाबिकी प्रवृत्तिर्न चास्य मवतीति दर्शितं पूर्वम्। अम्युपगच्छेन वयं मवतः श्रद्धामिहानुरुध्येताम् ॥६६ ॥ स्वामाबिकी प्रवृत्ति तथाऽपि दोषोऽनुयुज्यते सोऽयम्। स्वामाषिकी प्रवृत्ति: सेयं नापेक्षते हि किंचिदिति ॥ ६७ ॥। यह्यच्येत्त तदेयं यथैव नापेक्षते हि सहकारि। एवं नापेक्षेत प्रयोजनमपीति दोष इह मवति ॥६८।। साधयति च प्रधानं पुरुषस्यार्थं समग्रमिति योऽयम्। हीयेत सा प्रतिज्ञा न च प्रवृत्तिह हश्यते विफला ॥६९॥ यदि व प्रवृत्तिरस्य प्रयोजनमपेक्षते हि न सहायम्। तदृपि प्रयोजनं वा तस्या नैवीपलम्यते किमपि॥ ७०॥

Page 131

द्वितीयपाद: २ ] माध्यार्थंरतनमाला। १२७ मोगो वा स्यावृथ वाऽप्यपवर्गो वाऽथ तदुमयं वाडपि। नैवं प्रयोजनं स्थाद्यत हह पुरुषो हि निष्कलो मवति ॥७१॥ विषयकृतसुखविशेषाधाननैवास्य मोग इह वाच्य: । अध्यासमन्तरेण हि स च न हि पुरुषे मवेदयं मोग: ॥७२।। अध्यासोडयं सांख्येनैवाम्युपगम्पते हि कुत्रापि। तस्मादिह मोगार्था प्रवृत्तिरिति नैव शक्पते वक्तम्॥७३॥ तस्या मोगार्थत्वेऽ्यविमोक्षापत्तिरत्र दुर्बारा। सा स्थाद्पवगर्थित्ययमपि पक्षो न चेह संभवति।७४ ।I अपवर्गोडयं पुंसः स्वात्मावस्थानलक्षणी नान्यः । सोडयं हि तत्मवृत्तेः प्रागपि सिद्धं प्रयोजनं न भवेत् ॥७५॥ अपवर्गार्थत्वे वा शब्दाद्युप्लब्धिरनुपपत्ना स्थात्। उमपार्थता यदा स्वादषिमोक्षोऽयं हि तत्र दुर्वारः॥७६॥ पस्मावनन्तता स्याद्भींक्तव्याना प्रधानमात्राणाम्। औत्सुक्यनिरसनार्थं क्रियासु यद्त्प्रवर्तते लोकः ॥। ७७॥। पुरुषस्य मुक्त्तये हि प्रवर्तते तहूते (वे)तद्व्यक्तम्। इत्योत्सुक्यनिरासपयोजनार्था प्रवृत्तिरित्यपि न ॥७८ ॥ इच्छाविशेष एव ह्यीत्सुक्यं तद्धि चेतनस्यैव। नाचेतनस्य लोके क्वचिदृपि हष्ट तदेतवौत्सुक्यम्॥७९॥

दृक्शक्तेरवियोगात्प्रधानगतसर्गशकत्य विच्छेदात्।।८० ॥। पुरुषस्य चाविमोक्ष: प्रधानवादे हि मवति दुर्वारः । तस्मात्मधानवादो न कथचिदृपीह घटयितुं शक्यः ।८। ।। पुरुषाश्मवदिति चेत्तथाऽपि॥ ७ ॥ लोके यद़ा हि कश्िवित्पुरुषो हक्शक्तिसंयुतो गन्तुम्। शक्तिविहीन: पङुः पुरुषं दृग्शक्तिविच्युत चान्धम् ।। ८२।। गतिशक्तिसचिवमपरं वाग्यापारेण तं प्रवर्तयते। एवमयस्कान्तोऽशमा प्रवृत्तिरहितोऽप्ययः प्रवर्तयति ॥८३॥ तहूद्यं पुरुषोऽवि प्रवर्तयिष्यति परं प्रधानमिदम्। इतिहष्टान्तालम्बातपुनराशङ्का समुत्थिता सेयम्॥८४ ॥ सा तु न युक्ता यस्माद्दट्टान्तोऽयं हि विषम इह मवति। बागाधैः पङ्ुरसावन्धमधिठाय तं नियोजयति।८५॥

Page 132

१२८ सुब्रह्मण्यविरचिता- [२ द्वितीयाष्यायस्य- तत्रेदमुचितमेव हि पुरुष उदासीन इह च निर्दिष्टः। सोऽयं निर्ध्यापारः कथ प्रधानं प्रवर्तयितुमर्हः ॥८६॥ एवंविधस्य लोके प्रवर्तकत्वं न हि क्वचिद्वृष्टम्। यदि च प्रवर्तकत्वं तथाविधस्यापि कल्प्यते सांख्येः ।। ८७॥ पुरुषस्यौदासीन्यं स्वातन्त्रयं वा कथं प्रधानस्य। यदि चायस्कान्त इव प्रवर्तते संनिधानमात्रेण।। ८८ ।। पुरुष उदासीनेऽपि प्रधानमेतत्तदा भवेदेवम्। संनिधिसातत्येन प्रवृत्तिसातत्यमप्रतीकारम् ।।८९।। परिमार्जनाद्यपेक्षो ह्यनित्यसंनिधिरसायस्कान्तः । तस्माद्दृष्टान्तोऽसी विषमो न प्रकृतनिर्णयार्थः स्यात् ॥ ९० ॥ पुरुष उदासीनोऽसावचेतनं हि प्रधानमिह घ तयोः । संबन्धयिता चान्पस्तृतीय इह नोपलभ्यते क्वापि । ९१ ॥ इह योग्यतानिमित्तः संबन्धो यदि तयोर्भवेत्ताहै।

पूर्ववदर्थामावो दोषोऽयं तुल्य एव चेहापि। चेतनकारणपक्षे सोडयं दोष: पवं न विदृधाति ॥९३॥ सर्वज्ञे परमात्मनि मायामूल प्रवर्तकत्वं स्थात्। औदासीन्यं यददं स्वतोऽस्य सिद्धं न साधनायत्तम् ।। ९४।

यदि सत्वरजस्तमसां समता न गुणप्रधानभाव: स्थात्। सेयं साम्यावस्था प्रधानमिति वर्णयन्ति खलु सांख्याः ॥९५॥ सा कूटस्था नित्या मवति यदा नैव सर्गवार्ता स्यात्। सर्गो महदादीनां गुणवैषम्ये हि भवति नेतरथा ॥ ९६॥ कूट स्थानां कथमिह तेषामङ्गाद्गिमावसंपत्तिः। अङ्गित्वानुपपत्तेरयुक्त एव प्रधानवादोऽयम् ॥९७॥ यदि नैते कूटस्था गुणा न नित्यास्तथाऽपि दोषोऽयम। दुर्वारस्तव पक्षे यतो नियन्ता न चेह कश्रिदृपि॥ ९८॥ अन्यथानुनितौ च ज्ञशक्तिवियोगात् ॥९॥ अनुमीयते तथेदं दोषो न यथा प्रधानवादे स्यात्। एते सत्त्वादिगुणा वैषम्योपगमयोग्यतापन्नाः।।९९।।

Page 133

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। ११९ गुणसमतायामपि न हि रचनानुपपत्तिदोषशङ्केह। समतापन्ना अपि ते कार्यवशेन च भजन्ति वैषस्यम् ॥१००॥ कार्यं यथा यथा स्यात्तथा स्वभावो हि कल्प्यते तेषाम्। चलमिह गुणवृत्तमिति ह्यम्युपगच्छन्ति कापिला इति चेतु।।१०१। एवमपि दुर्निवारो रचनानुपपत्तिरूपदोष: स्यात। यस्माज्ज्ञशक्तिविधुरं त्रिगुणमचेतनमिदं प्रधानं स्यात् ॥ १०२। यदि च ज्ञशक्तियुक्त भवेत्प्रधानं तदा निवृत्तं स्यात्। पतिवादित्वमथ स्याच्चेतनकारणसमर्पणं तेन ॥ १०३ ॥ चेतनमेकें जगतो जन्मस्थित्यन्तकारणं ब्रह्म। इति चेतनकारणतावादः स्यान्न प्रधानवादोऽयम् ॥ १०४ ॥ विप्रतिषेधाच्चासमअ्सम् ॥१०॥ विप्रतिषेधादृपि खल्वसमञ्जसमेव कापिल तन्त्रम्। विप्रतिषेधश्रायं बहुतर उपलभ्यते हि तन्त्रेऽस्मिन् ॥१०५॥ क्वचिदिन्द्रियाणि सप्र क्वचिदेकादश वदन्ति तान्येव। तन्मात्राणा सर्ग महतः क्वचिदिह वदन्त्यहंकारात् ॥ १०६ ॥ क्वचिदन्त:करणानि त्रीणि तदेकं क्वचिच्च कथयन्ति। इत्यन्योन्यविरोध: प्रसिद्ध एवात्र कापिले तन्त्रे ॥ १०७॥ चेतनकारणपरया श्रुत्या स्मृत्या प्रतिद्ध एवायम्। इत्यन्योन्यविरोधादसमञ्जसमेव सांख्यतन्त्रमिद्म् ॥१०८॥ नन्वेतदर्शनमपि भवत्ययुक्त यदोपनिषदानाम्। जात्यन्तरभावोऽयं न वर्ण्यते तैर्हि तप्यतापकयोः ॥ १०९॥ संसारी जीवो यः संसारस्तव्यतापकावेतौ। अर्थी चार्थश् तथाऽनर्थोऽनर्थी च जगति विख्यातौ॥११० ॥ अर्थोऽपि तापकः स्यात्स चार्जनकेशतोऽप्यलाभेन। तापयति पुरुषमस्मात्तप्य: पुरुषश्र तापकोऽर्थः स्थात् ॥ १११॥ स्वत एवानर्थोडयं तापक इति जगति सुप्रसिद्धो हि। पर्यायेण च ताभ्यां यः संयुज्येत मवति न हि तप्य: ॥११२॥ अभ्युपगता यदा स्यादेकात्मकता समस्तजगतोऽपि। लुप्येत लोकसिद्धो भेदो योऽसी हि तप्यतापकयोः ॥११३॥ न हि लोकसुप्रसिद्धं बाधयितुं जगति केनचिच्छक्यम्। यद्यर्थिन: स्वतोऽन्यो न स्यादर्थस्तदेद्मर्थित्बम् ॥११४।।

Page 134

१३० सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

कस्मिन्खलु विषये म्याद्यतोऽयमात्मा स्वरूप एवार्थः । अभ्यर्थना हि त्वैक्ये न च सिद्धे जगति कस्यचिद्दृष्टा ॥११५॥ अर्थित्वस्यासिद्धी नैवार्थत्वं च कस्यचिद्मवति। नन्वेकात्मकयोरप्यन्योन्यं जगति हश्यते भेद: ॥११६॥ एकाग्न्यात्मकयोरपि दृष्टो ह्यौष्ण्यप्रकाशयोर्भेद: । एकत्रह्मात्मकयोरनयोर्भेदस्तथेति चेन्मैवम् ॥ ११७॥ एवमपि दर्शनेऽस्मिन्भवति च दोषो न दोपनिस्तारः। औष्ण्यप्रकाशनाभ्यामविमोक्षोडग्रेर्यथा हि लोकेऽस्मिन् ॥११८॥ इह तप्यतापकाम्यामविमोक्षम्तद्वदस्य दुर्वारः। धर्मापाये ननु किल यदवस्थानं हि धर्मिणो मोक्षः ॥ ११९ ॥ फनतरङ्गापाये जगति जलस्य स्वरूपमात्रेण। समवस्थानं दृष्ट यथा तर्थवेह स भवतीत्यपि न ॥ १२० ॥ आविर्भावतिरोभावाभ्यामनपायिनो हि फेनाद्याः। तैरिह विमोक्षवार्ता सतो जलस्यातिदुर्लमा दृष्टा ॥ १२१॥ दार्ध्टान्तिके कथ वा तद्द्ष्टान्तन दोषपरिहारः। भिन्नात्मकतायामिह न दापशङ्काडस्ति तप्यतापकयोः ॥१२२॥ ताभ्यां भवति विमोक्षस्तत्सयोगकहेतुपरिहारात्। इत्यभ्यधिकां शर्ङ्का निरसितुमत्राऽडधीयते तदिदम ॥१२३ ॥ सर्वस्यैकात्मकता विशुद्धविज्ञानविलसिता हि यदा। सा परमार्थदृशेय तदवस्थाया न तप्यतापकता ॥ १२४॥

प्रविलीनेऽवि द्वैते स च कं तापयति तप्यते च कथम् ॥१२५॥ तस्माच्च तप्यतापकमावानुष्पत्तिरत्र न हि दोष: । दृटश्र तप्यतापकभावो व्यवहारसमय एवासौ ॥ १२६ ॥ यत्र यथा दृष्टः स्यात्स च खलु तस्यैव धर्मतामेति। क्ब पुनरिह तप्यतापकभावः स्यादिति तु नैवमाशङ्कूयम् ॥१२७॥ जीवद्ेहस्तप्यः सविताSसौ तापकः प्रसिद्धो हि। नन्विह तप्तिर्दुःखं सा चेतयितुर्न चास्य देहस्य। १२८॥ इति वेद्यदसौ दोषो भवति तवैवायमप्रतीकारः । सत्यपि देहे केवल चेतयितुर्भव्रति नैव तप्तिरसी ॥१२९॥

Page 135

रीयपाढः २ ] माष्यार्थरत्नमाला। १३१ चेतयितुरेव सा वेद्शुद्धतादिप्रसक्तिरनिवार्या। न च देहचेतयित्रोः संहतभावो निरुप्यते सारुयैः ॥१३०॥ न च तप्तेस्तप्ति: स्यादृतस्तवैष दुर्निवारः स्यात्। सत्वं तप्यं हि रजस्तापकमिति नैव वक्तुमिह शक्यम् ॥१३१ ॥ ताभ्यां कथमस्पृष्टे चेतयितरि तप्यतापकात्मकता। प्रतिबिम्बितत्वयोगात्तप्यत इव चेतनोऽयमित्यपि न ॥१३२।। तदिह परमार्थतोऽसी न तप्यत इति प्रपश्चितं भवता। नैवेवकारयोगादृतथाभूतस्तथाविधो मवति ॥१३३ ॥ सर्प इव टुण्डुभोऽसावित्युक्या निर्विषो न सविष: स्यात्। इति खल यथोक्तधर्मानुपपत्तिरसा तवैव दुर्धारा ॥ १३४॥। आविद्यको हि तम्मादपारमार्थिक इतीह वक्तव्यम्। मवता तदिदं तुल्यं ममापि पक्षे न दूषणं किमपि॥ १३५॥ सिद्धान्तमङ्गमीत्याSहिष्वेत तप्यतापके नित्ये। स्वस्वामिभावरूप: संयोगश्राविवेकसंवलितः ॥१२६॥। भवति पढ़ा तत्साचवं ह्यदर्शनारूवं तमस्तदा पुसः। संसारबन्धनं स्थात्तस्य विरामो यदा विवेकेन ॥ १३७ ॥ अपवर्गस्तस्य स्यादित्युक्ताषपि म दोषनिस्तारः । यस्माददर्शनारूपं तमो हि नित्यं प्रधानवादेऽस्मिन् ॥ १३८॥ नित्यत्वेऽपि व समसो यतो गुणश्रोन्भवाभिभवयोगात्।

तेन विशिष्टा 'हो) परमे युक्तस्तस्यापवर्ग इत्यपि म। यद्यनियत एषाब संयोग: स्यासथा वियोगोऽपि॥ १४० ॥ अनियत एव स्वादित्यपवर्गकथाऽतिदुर्लमा मवतः। तस्माद्संगतोऽयं प्रधानवाड़ो निराकृतो भवति ॥१४१ ॥ नन्विह चेतनकारणवादोऽप्ययमनुपपत्र एव स्यात्। यस्माच्चेतनकारणवादेऽपि हि दोष एष दुर्वारः॥१४२॥ सुखदुःखमोहरूपः प्रधानधर्मः स हश्यते जगति। इति किल पूर्व जगतः कारणमेतन्न हीति निर्दिष्म् ॥१४३॥ तद्वदिहापि च वादे दूषणमेतद्धि तुल्यमाभाति। तन्त्वादिकारणस्थं गुणजातं शुक्कनीलपीतादि ॥१४४ ॥

Page 136

१३२ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

समजातीयगुणान्तरजनकं हट पटादिके कार्ये। यदि चच्चेतनमेव हि जगतो जन्मादिकारणं भवति॥१४५॥ कारणगतचैतन्यं चैतन्यान्तरमिहार्जयेन्न कुतः। कार्य यज्जगदखिलं तद्चेतनमेव दृश्यते लोके ॥१४६॥ तस्मात्कथमिह जगतो जन्मस्थित्यन्तकारणं ब्रह्म। इत्याशङ्कां निरसितुमिदमधिकरणं कृतं मुनीन्द्रेण ॥ १४७ ॥। महद्दीर्घवद्वा ह्स्वपरिमण्डलाभ्याम्॥११॥ कारणगतगुणजातं यद्यत्कार्ये समानजातीयम्। आरमते किल तत्तद्गुणान्तरमिति ह नैष नियमोऽस्ति ॥१४८।। काणभुजे किल समये सोडयं सृष्टिप्रकार उपदिष्ट:। परमाणवः किलामी पूर्वमनुत्पन्नकार्यसंरम्भाः ॥ १४९॥ पञ्चादृदृष्टसचिवास्ते खलु संयोगसहकृता: सन्तः । व्य्यणुकादिकं हि सकल ब्रह्माण्डान्तं जगत्सृजन्तीति ।१५०।। शुकादिगुणविशेषा: परमाणगुणाणाहेतुके ह्यणुके।

परमाणुगुणविशेष: परिमाणं यञ्च पारिमाण्डल्यम्। तत्किल समजातीयं द्यणुके नैवाSडग्भेत परिमाणम्॥१५२॥। परिमाणे चाणुत्वह्नस्वत्वे ह्यणकवृत्तिनी भवतः । द्वे द्यणुके संवलिते चतुरणुकं यदाऽपि जनयन्ति ॥१५३ ॥ द्यणुकगतं परिमाणं न तयणुकादी सरूपमारमते। द्यणुकगते चाणुत्वह्नस्वत्वे वर्णयन्ति परिमाणे ॥१५४॥ कयणुके चतुरणुके वा महत्त्वदीर्घत्वसंज्ञके भवतः । कारणगुणतायां किल तुल्यायां चात्र मवति वैषम्यम् ॥१५५॥ शुकादिगुणविशेषा: परमाणुगता: समानजातीयान्। द्यणुकाठिकार्यजाते शुककृादीनारमन्त एवान्यान् ॥१५६॥ नैवाSडरमते किंचित्परमाणागतं हि पारिमाण्डल्यम्। इति किल काणादनये वैषम्यं भवति तद्दत्रापि॥ १५७॥ चेतनकारणवादेऽप्युपपन्नं भवति सकलमेवेदम्। कारणसमाश्रितं किल चैतन्यं जगति नाम वर्तेत ।।१५८॥। अस्तित्व लक्षणोऽसी कारणधर्मस्तु वर्तते कार्ये। इति किल सादुपपत्ती तदिदं कथमन्न दूषणं भवति॥१५९ ।

Page 137

द्वितीर्यपाद २] माष्यार्थरत्नमाला। १३३

अथ तत्र युक्तमेतत्परिमाणेन च विरोधिनाSडक्रान्तम् । द्यणकादिकार्यजातं तेनाजनकं हि पारिमाण्डल्यम् ॥ १६०॥ चेतनकारणपक्षे जगदेतच्चेतनाविरुद्ध्ेन। नैवाSSक्रान्तं हष तेन कुतो नाऽडरभेत चैतन्यम् ॥१६१॥ कार्ये चैतन्यान्तरमिति शङ्का दुर्धरेयमिति चेन्न। कारणगतमपि चतन्न यथाऽडरभते हि पारिमाण्डल्यम् ॥१६२॥ तद्वच्चैतन्यमपीत्ययमंशो भवति तुल्य उभयत्र। न हि सवांशे साम्यं दष्टान्ते क्वापि दृश्यते लोके॥ १६३ ॥ किंच विरोधाक्रान्तं कार्य परिमाणजननतः पश्चात्। प्राक्परिमाणारम्मात्परिमण्डलताऽडरभेत तन्न कुतः ॥ १६४॥ परिमाणान्तरजनने परिमण्डलतेयमन्यथा सिद्धा। यस्मात्परिमाणान्तरमुपदिष्ट ह्यन्यहेतुकं मुनिना ॥ १६५ ॥ कारणबहुत्वमपि वा तथैव कारणमहत्त्वमपि वा स्यात्। प्रचयविशेषोऽप्यथ वा कार्यमहत्त्वैकसाधनं नान्यत् ॥ १६६॥। तरितयायत्तं च महत्त्वं तद्विपरीतं ह्यणुत्वमिह मवति। दीर्घत्वह्वस्वत्वे तत्सहचरिते तथाविधे भवतः ॥१६७ ॥ इति यत्सूत्रितमेतत्कणादमुनिना च तदपि निमूलम्। कारणबहुतादौ वा परमाणुगते च पारिमाण्डल्ये ।। १६८।। कारणगुणतासाम्ये महत्त्वहेतुर्बहुत्वमेवेति। विनिगमनायां बीजं वर्णयितुं नेह शक्यते किमपि ॥१६९ ॥ द्रव्यगुणान्तरयोर्यो ह्यारम्म. कारणस्थगुणजाते। स्वाश्रयसमवायेन तु गुणान्तरम्भकत्वमविशिषमू ॥१७०॥ तस्मात्स्वतोडन्र वाच्या नाऽडरम्भकता हि पारिमाण्डल्ये। तद्वच्चेतनताया अपीति नैवेह दोषशङ्का स्यात् ॥ १७१॥ कारणसमबेतो यो विशेषगुण एव कार्यजाते हि। स्वसजातीयगुणान्तरमापाद्यतीति नायमेकान्तः ।१७२।। चित्रपटरूपकारणतन्तुगते शुक्लनीलपीतादौ। स्वसजातीयार्जकतामङ्गाद्यमिचार एष दुर्वारः॥१७३॥। संयोगादृपि लोके कार्यद्रव्यं विलक्षणं दृष्टम्। एवमुदाहरणानि प्रथितान्येव हि विलक्षणारम्भे ॥ १७४॥

Page 138

३४ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

तस्माच्चेतनमेकं जगतो जन्मादिकारणं नान्यत्। तत्र च कणादृदर्शिततर्कविरोध: पदं न विद्धाति ॥१७५॥ नन्वीश्वरानधिष्ठितमिद प्रधानं न कारणं जगतः । इत्यादियुक्तिजालै: प्रधानवादो हि निरसित: पूर्वम्॥१७६ ॥ इह च परमाणुवादे न तथा दोषावकाशलेशोडस्ति। यस्मादीशसहाया अणवोऽत भवन्ति जगदुपादानम् ॥१७७॥ इति खल परमाणूनां कारणतापक्षमखिलमुन्मूल्य। काणादानां समय निरसितुमधिकरणमेतदाह मुनिः ॥१७८॥ उभरयथाऽपि न कर्मातस्तदभावः ॥ १२ ॥ स ह्यणुकारणवादः प्रपश्चितश्रैवमत्र काणादैः। लोके पटादिकार्य सावयवं सकलमेव यद्दृष्टम् ॥ १७९ ॥ संयोगकृत सहायैः स्वानुगतैरवयवैस्तदारब्धम्। तत्सामान्याद्यविदं क्षितिजलतेजोनिलाख्यमखिलमपि।१८० ।। स्वानुगतैश्रानेकैरारब्धं ह्यवयवैः ससंयोगैः। अवयव्यवयवभावः सोडयं यस्मान्निवर्तते स खलु ॥१८१॥ अपकर्षावधिभूतः परमाणु: स च चतुर्विधो भवति। सकलमपि कार्यजातं ह्याद्यन्तवदेव द्ृश्यते लोके ॥। १८२ ॥ कारणबिधुरं चैतत्कार्य न क्वापि दृश्यते जगति। अत इह जगतः कारणमणवो हीति प्रदर्शितं मुनिना ॥१८३॥ तेषामपकर्षावधिभूतानां न परतो विभाग: स्यात्। अण्वन्तो हि विभागो मू यादीना विनश्यतां भवति ॥१८४ ॥ नव विभागावस्थाप्रलयः सकलस्य भूतवर्गस्य। तत इह सृह्चारम्भे वायुपराणुष्वदृष्टसापेक्षम् ॥ १८५ ॥ कर्मोत्पन्नमणुं सं स्वाश्रयमण्वन्तरेण योजयति। मवति ततो द्यणुकादिकमेण वायुः प्रजायते स्थूलः ॥ १८६॥ एवमयमग्निरापः पृथिवी च शरीरमिन्द्रियं सकलम्। भवति हि परमाणुभ्यस्तदूपाद्द्यणुकरूपमपि चैवम् ॥ १७। तन्तुपटन्यायेनेत्यभिमन्यन्ते हि ते च काणादा:। तत्पक्षं निरसितुमिह तदेतद्भिधीयते हि सूत्रकृता ॥ १८८ ॥ तत्र विभागदशायां परमाणूनां हि कर्मसापेक्षः । संयोग: स्याल्लोके कर्मवतां दृश्यते हि संयोगः ॥ १८९॥

Page 139

द्वितीयपाद: २] माष्यार्थरत्नमाला। १३५ कर्म च कार्य यस्मात्तस्य निमित्तं हि किमपि वक्तव्यम्। यदि च निमित्तं न स्यात्परमाणुषु कर्म चाऽडद्यमपि न स्थात् ॥ यत्नो वाऽप्यभिघातो निमित्तमुपगम्यते यथादृष्टम्। तस्येहानुपलम्भात्परमाणुषु नापपद्यते कर्म ॥ १९१ ॥ तस्यां चावस्थाया देहवियोगात्कथं भवेद्यत्नः । देहप्रतिष्ठितेऽस्मिन्मनसि यदा चाऽडत्मना मनोयोगः ॥१९२॥। आत्मगुणो यत्नोऽसी जायेत तदा न चान्यथा भवति। अभिघाताद्यपि वृष प्रत्याख्यातं निभित्तमिह भवति ॥१९३ ॥ सर्गोत्तरकाल स्यात्कर्म निमित्तं तदेतदृखिलमपि। अथ यद्यदृष्टमेव हि निमित्तमिह यस्य कर्मणो बूपे॥ १९४॥ आत्मनि समवेतं स्यादटृष्टमथ वाऽणुमात्रसमवेतम्। इदमुमयथाऽपि नाणुष कर्म निमित्तं ह्रचेतनं यस्मात् ॥१९५॥ यच्चेतनानधिष्ठितमचेतनं तत्कथं प्रवर्तयति। आत्मा तद्वस्थायामचेतनोऽजात चेतनत्वेन ॥ १९६ ॥ अभ्युपगतभेतत्खल्व दृष्टमप्यात्ममात्रसमवायि। तेनासंबन्धे कथमणुषु भवेत्कर्मणो निमित्तं तत् ॥ १९७।। यदि चादृष्ट्वता किल संबन्धोडयं हि कर्ममूल: स्यात्। संबन्धसततमावात्प्रवृत्तिसातत्यमपरिहार्थं स्यात् ॥१९८॥ तस्मात्कर्म निमित्त नियतं नैवोपलभ्यते यस्मात् । कर्मनिबन्धन इह किल संयोगो नाणुपूपजायेत । १९९॥। संयोगस्याजनने सर्गो वा तन्निबन्धनश्र कथम्। अण्वन्तरेण चाणो: संयोग: स्याद्यदैकवेशेन ॥ २०० ॥ सावयवत्वापत्या ह्यनित्यता तेषु दुर्निवारैव। सवांशेन यदा स्यात्प्रथिमानुपपत्तिरपरिहार्यैव ॥। २०१ ॥। कल्पितदेशेन स चेत्संयोग: कथमकल्पितो मवति। तस्यापि कल्पितत्वे द्यणुकादेवस्तिवस्य कार्यस्य । २०२।। संयोगोऽसावण्वोर्मवेदसमवायिकारणं हि कथम्। सर्गादावणुषु यथा संयोगार्थ न संभवेत्कर्म ॥। २०३॥ एवं पलयावसरे कर्म विभागार्थमनुपपन्नं हि। कर्मनिमित्ताभावो योऽसौ तत्रापि तुल्य एव स्यात् ॥ २०४।।

Page 140

१३६ सुब्रह्मण्यविरचिता- ( २ द्वितीयाध्यायस्य-

यच्चादृष्ट तद्पि च मोगार्थ नैव मवति विलयार्थम्। तस्माद्णुकारणता सुसमर्था नेह भवति युक्ततमा ॥ २०५॥ समवायाभ्युपगमाच साम्या- दनवस्थितेः ॥। १३ ॥ अण्वोः समवैतीदं ह्यणुकमणुभ्यां हि भिन्नमत्यन्तम् ! समवायलक्षणेन हि संबन्धेनति कणभुगभिमान: २०६॥ द्यणुकमणुर्यां भिन्नं समवायमपेक्षते हि सबन्धम्। स्वावस्थितये चाण्वोः समवायोपि च तथैव किं न स्थात्२०७।। ह्यणकस्यैवास्यापि हि समवायस्यापि मेदसाम्येन। यदि समवायोऽप्येवं संबन्धान्तरमपेक्षते तर्हि॥ २०८॥ तत्संबन्धोऽप्येवं संबन्धान्तरमपेक्षते न कुतः। एवं सत्यनवस्था तदत्र पक्षे हि मवति दुर्वारा॥ २०९॥ समवायः संबन्ध: संबन्धान्तरमपेक्षते न यदि। संयोगश्च तथैव हि नापेक्षेतापरं हि समवायम् ॥२१० ॥ संयोगो हि गुणत्वात्संबन्धमपेक्षते न समवायः । इति च मनोरथमात्रं तुल्यमपेक्षानिमित्तमुभयत्र ॥२११॥ तस्मादनवस्थेयं समवायाभ्युपगमे हि दुर्वारा। सत्यामनवस्थायामेकासिद्धावसिद्धमिह सकलम् ॥२१२॥ ह्यणुकमणुभ्यां द्वाभ्यां नैवोत्पद्येत चाप्रमाणत्वात्। अणुकारणतावादस्तस्माद्यमनुपपन्न एवेह ॥। २१३ ॥ नित्यमेव च भावात् ॥ १४ ॥ अणवः प्रवृत्तिभावा निवृत्तिभावाः किमुभयथामावाः। अनुभयभावा वा स्युर्नैव चतुर्धोपपद्यते चायम्॥ २१४॥ नित्यप्रवृत्तिभावात्प्रलयाभावः प्रवृत्तिभावत्वे। नित्यनिवृत्तेर्भावात्सर्गामावो निवृत्तिमावत्वे ॥ २१५॥ उभयस्वभावतेयं लोके नैवोपपद्यते क्वापि। अनुभयभावत्वेऽपि प्रवृत्तिभावे निवृत्तिभावे वा ॥२१६ ॥ अङ्गीक्रियमाणेऽपि हि निमित्तवशतस्तथाऽपि दोष: स्यात्। तत्र यदाऽटृष्ट स्यान्निमित्तमेतस्य नित्यसांनिध्यात् ।। २१७।। नित्यं प्रवृत्तिरेव स्याद्थ तस्याप्यतन्त्रतायां स्थात्। नित्यापवृत्तिरेव स्यादिति दूषणमशक्यपरिहारम्॥ २१८॥

Page 141

द्वितीयपादः २ ] माष्यार्थरत्नमाला। १३७

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥१५ ॥ रूपादिमच्च सकलं पटादि दृष्ं हि जगति सावयवम्। स्थूलमनित्यं च तथा स्वकारणापेक्षया हि तदद्ृष्टम् ॥ २१९॥ तन्तूनपेक्ष्य चायं पटस्तथा तन्तवो निजावयवान्। इति खलु सकलं दृष्टं तथैव परमाणवोऽपि किंन स्यु: ॥२२८॥ रूपादिमत्त्वहेतु: परमाणुष्वपि यतोऽविशिष्टः स्यात्। परमाणूनां हि तदा नित्यत्वविपर्ययः प्रसज्येत ॥ २२१॥ नित्यत्ववादिनस्तव परमाणूनामनित्यताऽनुचिता। तस्मादणुवादोऽयं न कथंचिदपीह घटयितुं शक्य: ।। २२२।। सद्कारणवन्नित्यं त्विति यन्नित्यत्वकारणं कथितम्। तद्पि चपरमाणूनां कारणवत्वान्निराकृतं मवति ॥ २२३ ॥ नित्यत्वप्रतिषेधो लोके प्रतियोगिनियतसाकाङ्क:। नित्यत्वाकाङक्षी सन्स एव परमाणुनित्यताकाङक्षी ॥ २२४ ॥ तस्मादृणवो नित्या इत्यपि नैवाणुनित्यतामानम्। नित्ये यस्मिन्कस्मिन्नसत्यनित्यमिति नञ्समासोऽयम्॥ २२५॥ न हि भवतीति हि सत्यं न तावतैवाणुनित्यतासिद्धिः। नित्यं ब्रह्माSडलम्ब्यैवेह समासोऽपि सोऽयमुपपन्नः ॥ २२६॥ नित्यत्वे कारणमिह यदविद्येति च तृतीयमिह कथितम्। सा चाविद्या हि यदा प्रत्यक्षेणेह कारणाग्रहणम् ॥२२७॥ द्यणुकादिनित्यताऽपि स्यादिह दूषणमशक्यपरिहारम्। यदि च विशिष्येतासमवेतद्रव्यात्मकत्वयोगेन ॥। २२८॥ पूर्वेणैव गतार्थ व्विह पुनरुक्तं निरर्थकं तत्स्यात्। पूर्वत्राभिहितं स्यात्कारणवत्वेन द्ूषणं तदिह ॥ २२९ ॥। कारणनाशात्कारणविभागतोऽन्यस्य नाशकस्येह। योऽयममावोऽविद्या सैवाणूनां हि नित्यतागमकम् ॥ २३०॥ इति न विनश्यद्वस्तु द्वाभ्यामेव हि यदा विवश्येत। भवति तदेयमविद्या परमाणूनां हि नित्यतागमकम् ॥२३१॥ संयोगसचिवमेवानेक मिहाऽडरम्भकं यदि द्रव्यम्। भवति तदैवं हि यदा सामान्यमपास्तभेदमिह जनकम् ॥२३२ ॥।

Page 142

१३८ सुबझण्यविरचिता- [२ द्वितीयाध्यायस्य-

सविशेषावस्थान्तरमापद्याऽडरममकं यदा मवति। घृतकठिनतादिलयव-मूर्तावस्थादिविलयनेनापि।। २३३ ॥ कार्यविनाशोत्पत्तेरुक्ताविद्यादिवर्णनं हि वृथा। तस्मात्सावयवानामवयवशोऽपि हि विभज्यमानानाम् ॥ २३४॥ यत्र च परो विभागो न मधति खलु ते चतुर्विधा ह्यणवः। रूपादिमन्त एते नित्याश्राऽडरम्मका हि मूतानाम् ॥२३५॥ इति वैशेषिकपक्षो भवति निरालम्बनो वृथैवायम्। = उभयथा च दोषात् ॥ १६ ॥ गन्धरसरूपसहितरपर्शा स्थूलेयमवनिरिह हष्टा। रसरूपस्पर्शगुणा: सूक्ष्मा आपस्तथैव तेजोऽपि ॥ २३७॥ रूपस्पर्शगुण तत्सूक्ष्मतरं मबति वायुरेष तथा। स्पर्शगुणः सूक्ष्मतमो मूतान्येतानि सन्ति चत्वारि २३८॥ उपचितगुणमदेन हि तरतममावेन जगि लक्ष्यन्ते। उपचितगुणादिभेद्टात्तरतममावोऽयमणुषु कल्पेत ।। २३९।। उपचितगुणतार्यां स्यात्तेरषा मूर्त्युपचयोऽपि दुर्वारः। मूर्त्युपचये ह्यणूनामनणुत्वापत्तिरत्र दुर्वारा॥ २४०॥ यत्र गुणोपचय: स्थान्मूर्तेरप्युपचयोऽपि तत्र स्यात्। कार्यात्मकेपु भूतेष्वेवं हष्ट यतो हि सर्वत्र ॥ २४१॥ यद्येतदोषभयात्नोपचितादिगुणत्वमिह न स्थात्। सर्वे चैकैकगुणाश्रतुर्गुणाश्वापि सर्व एव स्युः ॥२४२॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७॥ सत्कार्यतावलम्बान्मन्वादयैरवि च परिगृहीतत्वात्। साधुः प्रधानवाद: स कथंचित्स्यान्न चाणवादोऽयम् ॥२४३॥ नासी शिष्टगृहीतः केनाप्यंशेन तेन चैतस्मिन्। अनपेक्षा कर्तव्या श्रेयस्कामेन चाऽऽदर: कार्यः ॥ २४४ ॥ किंच द्रव्यगुणाक्षीन्पडपि पदार्थान्परस्परं मिन्नान्। अभिधाय पुनरिहैव त्विदमपरं कल्पयन्ति काणादाः ॥ २४५॥ जुणकर्मादीनां हि वृव्याधीनत्वमिति तु कथयन्ति। तच्चायुक्तं ह्येते यदि भिन्ना न हि परस्पराधीनाः। २४६।।

Page 143

द्वितीयपाद: २] माष्यार्थरत्नमाला। १३९

न हि शशकाशपलाशा भिन्ना: सन्तः परस्पराधीनाः। द्रव्यगुणादीनामिह भिन्नत्वं वा न युज्यते यस्मात् ॥२४७।। तादात्म्यमेव तेषा परस्परं हि प्रतीयते लोके। द्रव्यगुणाक्ीनां न ह्यश्वद्विपयोरिवास्ति भेदमतिः ॥ २४८॥। नन्विह चक्षुर्ग्राह्यं रूपं स्पर्शस्त्वगिन्द्रियग्राह्यः । उभयग्राह्यक्ष घटः कथमिह तादात्म्यमेतयोरिति चेतु ॥२४९।। सत्यपि तादात्म्ये किल भेदमतिर्बाह्यरूपरसापेक्षा। एक: पुमान्हि लोके पिता च पुत्रस्तथैव जामाता ॥ २५० ॥ श्वशुरः शालक इत्यपि भेदमतिभाग्यथैव भवति तथा। ग्राहकभेदापेक्षा मेद्मतिः स्यात्स्वरुपसापेक्षम् ।। २५१ ।। तादात्म्यं चेत्युमयं ह्यमेदपक्षेऽपि बाधकं न मवेत् । तस्माङव्यगुणानां द्व्याधीनत्वमपि च मिन्नत्वम् ॥ २५२।। नापि प्रमाणगम्यं नैव हि युक्त्येकसाधनं मवति। ननु गुणकर्मादीनां द्रव्याधीनत्वमत्र युक्तं हि।। २५३ ॥ द्रव्यगुणौ तु विभिन्नौ तथाऽपि तावयुतसिद्धरूपौ यत्। द्रव्याधीनत्वं तद्गुणादिकार्ना सुयुक्तमेव स्यात् ॥ २५४ ॥ शशकुशकाशादीनां नायुतसिद्धत्वमस्ति कुत्रापि। तेन न तेषामेषां परस्पराधीनतेति चेन्मैवम् ॥२५५ ।। अपृथग्देशत्वं वा ह्यपृथक्कालत्वमपृथगात्मत्वम्। तच्चायुतसिद्धत्वं वाच्यं तदिदं त्रिधाऽपि नो सवति ॥२५६॥ अपृथग्देशत्वं हि वृव्यगणानां करथंचिवृपि न स्यात् । रूपादि हि पटदेशं पटस्तु तन्तुप्रवेश एव यत: ॥२५७ ॥ अपृथक्वालत्वं चेत्तदृपि विरुद्धं मवेद्भवत्पक्षे। उत्पन्नेषु पटादिषु पश्राद्ुत्पद्यते हि रूपादि ॥ २५८॥ कथमीहशयोस्तत्स्यादपृथक्कालत्वमयुतसिद्धत्वम्। धेनुविषाणकयोरपि तत्स्याद्यच्वेदमयुतसिद्धत्वम् ॥२५९ ॥ यच्चापृथगात्मत्वं तत्स्वाभ्युपगमविरुद्धमेव स्यात्। न ह्यवयवसंयोगादेव च कार्य प्रजायते लोके ॥ २६०। संयोगमन्तरायाद्धिहिमकरकादि हृश्यते लोके। तस्मादणुवादोऽयं श्रेयस्कामैरुपेक्षणीयः स्यात् ॥२६१॥

Page 144

१४० सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

वैशेषिकसमये किल देहोऽयं चाऽडशुतरविनाशी स्यात्। परिमाणान्तरजननात्तद्धर्मवैनाशिकं (?) हि कथयन्ति ॥ २६२॥ तत्पक्षनिरसनान्ते सकलो वैनाशिकोऽपि बुद्धिस्थ: । इति खलु तत्पक्षोऽयं निरस्यते सपदि सूत्रकारेण॥ २६३॥ समुदाय उभयहेतुकेपि तदपाप्तिः ॥ १८॥ स च खलु बहुपकारो बुद्धिविभेदाद्विनेयमेदाद्वा। तत्र त्रय एते स्युः केचित्सर्वास्तितां तु कथयन्ति ॥ २६४॥ कथयन्ति केचिदत्र तु विज्ञानास्तित्वमात्रमेव किल। अस्य तु वर्णयन्ति हि यदिदं सकलं च शून्यमेवेति॥२६५॥ ये सर्वास्तित्वपरा बाह्यं मूतं च मौतिकं चापि। चित्तं चैत्तं चान्तरमभ्युपगच्छन्ति तान्निराचषटे ॥ २६६ ॥ [स्कम्धाणुहेतुको य:] समुदाय उमयहेतुकेऽपि तदप्राप्तिः। पृथिवीजलतेजोनिलचतुष्टयं मूतमिति तु कथयन्ति॥२६७ ॥ भौतिकमिह रूपादिकमपि चक्षुष्प्रमुखमिन्द्रियं चेति। मूतं भौतिकमेतत्सकलं ह्यणवोऽत्र संहता एव ॥ २६८॥ चित्तं चैत्तं च तथा रूपं विज्ञानवेदने चैवम्। संज्ञा: संस्काराख्या: पञ्च स्कन्धाश्र संहता एव ॥२६९।। तत्रेदमनुपपन्नं यच्चोमयहेतुकश्र समुदायः । अणुहेतुकश्ष योऽसी यश्र स्कन्धैकहेतुको वाडपि॥ २७० अङ्गीकृतेऽपि तस्मिन्समुदायापास्तिरत्र दुवारा। यस्मादणवः स्कन्धा अचेतना एव केवलं ते स्युः ॥२७१॥ यदि संहता न मोक्ता कश्विच्चेतन इहोपपन्नः स्यात्। भवति तदा संघातः सचेतनस्तव न चास्ति सहन्ता॥।२७२।। तस्मादुमयविधोऽसी संघातो नोपपद्यते योडयम् ॥२७३ ॥ नरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥। इह सौगतीयसमये या चाविद्याऽथ यश्च संस्कार:। विज्ञानं नाम तथा रूपं यदिदं षडायतनमपि च।। २७४॥। स्पर्शोपि वेदनेयं तृष्णापादानसंजञिके च तथा। यच्च मवो जातिरियं जरा च परिवेढना च मरणं च॥ २७५॥

Page 145

द्वितीयपादः २ ] माष्यर्शर्थरत्नमाला। १४१

दुःखं च दुर्मनस्तेत्येवंरुपाणि सुप्रसिद्धानि। तानीह चेतनेतरजनकानि यतो मवन्ति चैतस्य ॥ २७६॥ संघातस्य निमित्तं तान्येव स्युरिति नैवमाशङ्रक्यम्। सघातमनवलम्व्य ह्यात्मानं ये च नोपगच्छन्ति ॥ २७७॥ ते चाविद्याद्य इह संघातनिमित्ततां कथं यान्ति। संघातसिध्द्यनन्तरमिह चाविद्यादिसंततिः प्रभवेत् ॥२७८॥ चित्तामिज्वलनमिदं न तु संघातस्य कारणं भवति। संघाते सिद्धे सति चित्ताभिज्वलनमेतदुद्भवति ॥२७९॥ आशयसंज्ञं चाऽडलयविज्ञानं नो निमित्तमस्य स्यात्। समुदायेभ्यो ह्यस्य त्वस्य त्वा(?)नन्यतादिदुर्बोधम् ॥२८० ॥ तस्मात्परमाणूनामचेतनत्वाद्दि चेतनस्येह। संघातु(हन्तु)रप्यमावात्संघातः कथमिहोपपद्येत ।। २८१।। संघातस्याभावे कथं नु तन्मूललोकयात्रा स्यात। संघात एव केवलमिह संघातस्य कारणं यदि तु ॥ २८२ ॥ पूर्वस्मात्संघातात्संघातान्तरमपूर्वमिह यत्स्यात्। तत्किं सद्दृशं वा स्याद्सदशमथ वाऽपि विसदृशं वा स्यात्॥।२८३।। यदि सद्दृशं नियमेन स्याञ्च तदा मर्त्यपुट्गलस्येह। कर्मविपाकवशादिह न स्यादेवासुरादितनुयोगैं: ॥ २८४।। विसहशमसद्टृशमथ वा यदि सघातान्तरं प्रजायेत। स च मनुजपुट्रलोऽसी क्षणेन हस्त्यश्वजन्म किं न लभेत्॥२८५॥ अपि यन्भ्ोगार्थोऽसी संघातस्तेन न स्थिरो भोक्ता । भोगो भोगार्थ: स्यान्मोक्षो मोक्षार्थ एव यदि चैवम्॥ २८६॥ यद्यन्यः प्रार्थयिता भूयान्भ्ोगापवर्गसमयेऽपि। तद्वस्थानापत्या क्षणभङ्गकथा सुदूरतोऽपास्ता ॥२८७॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ उक्तमविद्यादीनां परस्परोत्पत्तिमात्रहेतुत्वम्। नैतावताऽपि सोडयं संघातः सिध्यतीति चाप्युक्तम् ॥२८८॥ अत्राविद्यादीनां संप्रत्युत्पत्तिमात्रहेतुत्वम्। न कथंचन संभवतीत्येतत्प्रतिपाद्यतेऽत्र निपुणतरम् ॥ २८९॥ क्षणभङ्गवादिना खल्वेवं निर्दिश्यते च सर्वत्र। उत्तरवस्तूत्पादे निरुध्यते पूर्वमखिलमेवेति ॥ २९० ॥

Page 146

१४२ सुबह्मण्यविरचिता- [ २ द्वितीवाध्यायस्य-

अभ्युपगच्छन्नेवं पूर्वोत्तरयोर्हि हेतुफलभावम् । वैनाशिक: कथंचन न समर्थयितुं हि शक्नुयात्तमिमम् ॥२९१॥ योऽयमभावग्रस्तो यश्च निरुद्धो निरुध्यमानो यः । स च कथमुत्तरहेतुर्दग्धमृदादिर्घटादिकस्येव ।। २९२।। अथ मावमूत एव हि परिनिष्पन्नक्षणोऽस्ति यः पूर्वः । स मवत्युत्तरहेतुस्तत्र न पूर्वोक्तदोष इति चेन्न ॥ २९३ ॥ भवति तथाऽपि च दोषो यहुत्तरकार्यहेतुतासिद्ध्यै। व्यापारः पुनरन्यः परिनिष्पन्नस्य मावभूतस्य ॥। २९४।। क्षणभङ्गवाद्हानिं क्षणान्तरस्थायिताप्रसङ्गेन। अथ माव एव चास्य व्यापारः स्यात्तथाऽपि दोष: स्यात्॥२९५॥ हेतुस्वमावशून्यात्फलस्य चोत्पत्यसंभवो यस्मात्। हेतुस्वभावयोगे फलकालस्थायिताप्रसङ्गेन ॥। २९६ । क्षणभङ्गवादमङ्ग: पूर्वोक्तो दुर्निवार एवात्र। हेतुस्वभावयोगं विना विफलहेतुताऽस्य कल्पेत ॥ २९७ ॥ सर्वत्रैष हि कार्यापत्येहातिप्रसङ्ग एव स्यात्। अपि सोत्पादनिरोधी किंवा वस्तुस्वरूपमथ वा किम् ॥२९८॥ तद्वस्थान्तरमथ वा वस्त्वन्तरमिति तु नैव संभवति। वस्तुस्वरूपता चेद्दस्त्वन्तर्माव एतयोर्भवति ॥२९९ ॥ तेनानादित्वं चानन्तत्वं वस्तुनोऽन दुर्वारम्। आद्यन्तावस्थे पद्यत्वादनिरोधसंज्ञिके भवतः ॥३०० ॥ आद्यन्तमध्यवर्तिक्षणत्रयस्थायिताऽस्य दुर्वारा। यदि चोत्पादनिरोधौ व्यतिरिक्तावेव वस्तुनो मवतः ॥ ३०१ ॥ ताभ्यामस्पृष्टत्वाद्वस्तुन एवास्य शाश्वतत्व स्यात्। यदि चादर्शनदर्शनरूपौ स्थातां न वस्तुधर्मौ तौ ॥ ३०२ ॥ द्रष्टगती किल ताभ्यामस्पृष्टं वस्तु शाश्वतं न कुतः । तस्मात्सौगतमेतन्मतमग्राह्य न युक्तमिह यस्मात् ॥ ३०३॥। असति प्रतिज्ञोपरोधो यौगपयमन्यथा ॥२१॥ हेतावसति यदि स्यात्फलं प्रतिज्ञोपरोध एव स्यात। विषयः करणं यत्स्यात्सहकारी यश् मवति संस्कारः ॥ ३०४ ॥। एते चतुर्विधा: किल हेतव एतान्प्रतीत्य जायन्ते। ते चित्तचैत्तसंज्ञा इति प्रतिज्ञा हि बाघिता भवति॥३०५॥

Page 147

द्वितीयपादः २ ] माष्यार्थरत्नमाला। १४३

अथ यदि फलपर्यन्तं पूर्व वस्तु प्रतीक्षते कालम्। संस्कारा: सर्वेऽवि क्षणिका इत्यस्य मङ्ग एव स्यात् ॥३०६॥ प्रतिसंख्या प्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥२२॥ अपि यञ्च बुद्धिबोध्यं त्रयाद्यदन्यञ्च संस्कृतं क्षणिकम्। वैनाशिका इतीह क्षणिकत्वं कल्पयन्ति भावानाम् ॥ ३०७॥ प्रतिसंख्याप्रतिसंख्यानिरोधसंज्ञा च यद्पि चाऽडकाशम्। त्रयमिदमवस्तुभूतं निरुपाख्यमभावमात्रमेवेति ॥३०८॥ प्रतिसंख्याख्यनिरोधी मावानां बुद्धिपूर्वको नाशः ।

संस्कृतमुत्पन्नं स्थात्प्रमेयमेवेह बुद्धिबोध्यं स्यात्। सपदि निरोधद्वितयं प्रत्याचष्टे हि सूत्रकारोऽयम् ॥३१०॥ प्रतिसंख्याप्रतिसंख्यानिरोधयोर्नेह संमवो घटते। संतानगोचरौ वा स्यातामथ भावगोचरी वा तौ ॥३११॥ संतानेषु च सर्वेष्वथापि संतानिनामविच्छेदात्। फलहेतुमावयोगे कथमिह संतानविच्युतिर्मवति ॥३१२ ॥ अथ च निरोधावेतौ तथैव न हि मावगोचरी भवतः । न हि मावानां लोके निरन्वयो वा तथेव निरुपाख्यः ॥३१३ ॥ क्वापि विनाशो यस्मादन्वय्यवियोगमेव लोकोडयम्। प्रत्यभिजानात्यत इह भावानां न हि निरन्वयो नाश: ॥ ३१४॥

परपरिकल्पितमेतत्निरोधयुग्मं न चोपपद्येत । ३१५।। उभयथाऽपि च दोषात् ॥ २३॥ योऽयमविद्यादीनां परपरिकल्पितनिरोध इह मवति। स च किं सम्यगज्ञानादथ वाऽन्वयमेव वेति वक्तव्यम्॥३१६॥

मार्गोपदेशयत्नानर्थक्यं चोत्तरत्र दुर्धारम्॥ ३७॥ आकाशे चाविशेषात् ॥२४॥ प्रतिसंख्यादिनिरोधद्वयेऽपि निरुपाख्यता निरस्तैव। संप्रत्याकाशस्यापि हि निरुपाख्यत्वं निरस्यते भूयः ॥३१८॥

Page 148

१४४ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य- आत्मन आकाश इति श्रुतिवचनावस्य वस्तुतासिद्धौ। आवरणाभावतया निरुपाख्यत्वं न युक्तमेवास्य ॥ ३१९॥ अपि चाSडवरणाभावो यद्याकाशस्तथा हि दोष: स्यात्। एकस्मिन्हि सुपर्णे पतति सुपर्णान्तरस्य चोत्पित्सोः ॥ ३२० ॥ आवरणस्य च मावात्तस्याSडकाशत्वमनुपपन्नं स्यात्। अपि चाऽडवरणामावो यद्याकाशस्तथा हि सुगतस्य ।। ३२१॥ वायुश्र वियत्संश्रय इति वाक्यं वै भवेदनुपपन्नम्। अपि च निरोधद्वयमिद्माकाशं च त्रयं हि निरुपाख्यम् ॥३२२॥ नित्यमवस्त्विति चैतद्विप्रतिषिद्धं हि सकलमप्येतत्। यदि धर्मधर्मिभावस्तदा हि वस्तुत्वमेव तस्य स्यात् ॥३२३॥ अनुस्मृतेश्र ॥ २५ ॥ अभ्युपगच्छन्यद्सौ क्षणिकत्वं सर्ववस्तुनी जगति। उपलब्धुरपि किलायं क्षणिकत्वं किं तथैव नोपेयात् ॥३२४॥ इह चानुस्मृतियोगादुपलब्धिरितश्र नैव संभवति। अनुभवमुपलब्धिमनूत्पन्नं स्मरणं ह्यनुस्मृतिर्भवति ॥३२५॥ अन्योपलब्धिविषये ह्यन्यस्यानुस्मृतेरदष्टत्वात्। एकोपलब्धृकैव हि सा स्यान्नहि भिन्नकर्तृका भवति ॥३२६ ॥ अहमिद्मद्राक्षमिदं स्मरामि चेत्येवमनुभवो लोके। अद्राक्षीदिदमन्यः स्मराम्यहं त्विति तु कस्यचिद्वाऽपि॥ ३२७ ॥ नैवानुभवो हष्टो यदस्य वैनाशिकस्य चाप्येवम्। यद्युपलब्धिस्पृत्योरेक: कर्ता भवेत्तदा न स्यात् ॥३२८॥ क्षणभङ्गवादसिद्धिर्यस्मादेक: क्षणद्वयानुगतः । उपलब्धिस्मृत्योरिह नैकः कर्ता न चापि विषयैक्यम्॥ ३२९॥ यस्मात्सेयमभिज्ञा सादश्यादेव केवलादिति चेतु। तेनेदं सट्टृशमिति द्वितयायत्तं हि मवति साहश्यम्॥३३० ॥ इह सद्टशयोर्द्वयोरपि ग्रहीतुरेकस्य दुर्लमत्वेन। सादृश्यमूलमेतत्प्रतिसंधानमिति दुष्प्रलापः स्यात् ॥३३१॥ सादृश्यग्राह्येक: पूर्वोत्तरयोरयथा भवेद्दि तदा। समयद्वयसंबन्धादेकस्य क्षणिकता कथं घटते ॥ ३३२॥ तेनेदं सहशं स्वादित्येतत्प्रत्ययान्तरं मवति। मिन्नपदार्थग्रहणान्न पूर्वपरबोधमूलमिति चेन्न ॥ ३३३ ॥

Page 149

द्वितीयपाद: २] माष्यार्थरत्नमाला।

भिन्नपदार्थग्रहणाद्मवेदिदं प्रत्ययान्तरं हि यदि। तेनेदं सद्ृशमिति प्रयोग इह नेत्र संभवेक्किंतु॥३३४ ॥ सादृश्यमात्रगोचर एव स्यात्प्रत्ययो हि न तदन्य: । नैवं हि दृश्यते सा प्रतिसंधानं न चापि सादृश्यात् ॥ ३३५॥ बाह्ये वस्तुनि लोके तद्वा तत्सहशमेव वेश्येवम्। स्यात्संदेहः क्वापि हि न चोपलब्धिर्भवेत्ससंदेहा ॥ ३३६॥ नासतोऽदष्टत्वात् ॥ २६ ॥ स्थिरमनुयायि च कारणमिह यदि वैनाशिकास्तु न सहन्ते। मवति तदैवममावाद्भावस्योत्पत्तिरिति तु फलितं हि॥ ३३७॥ नैवामावाद्मावः क्वचिदप्युत्पद्यमान इह दृष्टः । यदि चाभावाद्भाव: कारणसंपत्तिरनुपयुक्ता स्यात् ॥३३८॥ नानुपसृद्य प्रादुर्भावादिति ये हि वर्णयनयत्र। तत्र ह्युपसृदितानां बीजादीनां हि योऽप्यभावः स्यात् ॥३३९॥ तस्य च शशशृङ्गस्य च निरात्मकत्वेन निर्विशेषत्वात्। क्षीरादेव द्धि स्याद्बीजादेवाङ्कुरश्ष मवतीति ॥३४० ॥ कारणविशेषविषयो निर्बन्धोऽसी वृथैव तेषां स्यात्। यदि निर्विशेष एवामावो मावस्य कारणं चेतस्यात ॥ ३४१॥ कथमक्कुरादिकार्य नैवोत्वद्येत शशविषाणाद्यैः। यदि चाभावस्यापि विशेषस्तदा स माव: स्यात् ॥ ३४२॥ यदि चाभावस्थैव हि मावोत्पत्यैकहेतुता तर्हि। कायं सकलमभावान्वितमेव स्यान्न दृश्यते चैवम् ॥३४३॥ सकलं कार्य यत्स्यान्मृदादिभावान्वितं हि तद्दृष्टम्। तस्माच्च शशविषाणाद्सतः सत्कार्यजन्मनोऽसृष्टे:॥३४४॥ असतश्र कारणत्वाभ्युपगम एवायमनुपपन्नः स्यात्। तस्मादसंगतो यद्वैनाशिकसमय एष न ग्राह्मः ॥३४५॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ।। यदि चामावादेव हि मावस्योत्पत्तिरत्र कल्प्येत। एवमुदासीनानामप्यभिमतसिद्धिरत्र किं न स्वात् ॥ ३४६ ।। सर्वत्राभावः किल सुलभो यस्मात्कृषीवलस्यापि। अकृतकृषिकर्मणः स्याद्यतमानस्येव सस्यनिष्पत्तिः ॥३४७ ॥ १९

Page 150

१४६ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

स्वर्गापवर्गयोर्वा नैव हि कश्चिज्जनः समीहेत। तस्मात्सोऽयमभावाद्मावोत्पादोऽयमत्र न हि युक्त: ॥ ३४८॥। नाभाव उपलब्धेः ॥ २८ ॥ इह खलु बाह्यार्थकथामाभित्योन्भ्भावितेषु दोषेषु। विज्ञानमात्रवादी बौद्ध इदानीं हि पूर्वपक्षयति॥३४९॥

विज्ञानवाद एव हि सुगताभिमतो न चेतरः कश्चित् ॥ ३५० ॥ तस्मिन्बुध्य्यारूढे चान्तस्थो मानमेयफलमेदैः । तदूपेण किलायं व्यवहारश्षोपपद्यते सकलः ॥ ३५१॥ सत्यपि बाह्यार्थडस्मिन्बुध्यारोहं विनेव कस्यापि। व्यवहारो न हि दृष्टो यस्मादन्तस्थ एव सकलोऽयम् ॥३५२॥ जात्यादयस्तथैव ह्यन्तस्था एव नातिरिक्ता: स्युः । ज्ञानगतं हि विशेषं बिना विशेषो न वाह्यबुद्धीनाम्॥३५३ ॥ विषयाकार: सकलो ज्ञानेनैवावरुध्यते यस्मात्। नैव हि बाह्यार्थः स्यादपार्थिका बाह्यकल्पना सकला ॥ ३५४॥ अपि किल सहोपलम्भाद्विपयज्ञप्त्योरभेद एव स्यात्। एकस्यानुपलम्भे न ह्यन्यस्योपलब्धिरिह हष्ा ॥३५५॥ बाह्यार्थमन्तरेण स्वप्नाविप्त्यया यथा लोके। जागरितगोचरा अपि रसादिमतयस्तथैव किं न स्युः ॥३५६॥ स्याद्वासनाविशेषात्प्रत्ययवैचित्यमसति चाप्यर्थे। संसारे चानादौ बीजाङकुरवच्च वासनानां च॥। ३५७॥ ज्ञानानामन्योन्यं न प्रतिषिध्येत हेतुफलभावः । बाह्यार्थस्यामावाययुक्तो विज्ञानवाद इति चेन्न ॥३५८॥ न हि बाह्यस्याभावोऽध्यवसायितुमत्र शक्यः स्यात्। बाह्योऽर्थोडयं सकलो यस्मादुपलभ्यते हि सर्वत्र ॥३५९॥ उपलभ्यमानमर्थ प्रतिषेद्धुं नेव शक्नुयात्कोऽपि। भुख्जानो भुजिसाध्यां तृप्तिं ह्यनुमूयमान एवेह ॥ ३६० ॥ नाहं भुञ् नैव हि तृप्यामीति च वदेत्कथं प्राज्ञ: । स्वयमुपलममानोऽसाविन्द्रियसंबद्धमर्थमिह बाह्यम्॥३६१॥ नेवाहमुपलभे न च सोऽस्तीति वदेत्कथं जनो मान्य: । ननु नोपलभे बाह्यं त्विति नैवाहं बधीमि किं तत्र ॥३६२॥

Page 151

द्वितीयपाद्। २] माप्यार्थरत्नमाला।

उपलब्धिव्यतिरिक्तं नोपलभे किमपि बाह्यमिति चेन्न। उपलब्धिविषयमावाद्वाह्यार्थेषु प्रतीयमानेषु ॥३६३ ॥। उपलब्धिष्यतिरेके प्रतीयमानेऽपि कथमियं शङ्का। सवैरपि प्रमाणैर्बाह्यार्थे चोपलभ्यमानेऽपि॥ ३६४॥ व्यतिरेकादिविकरप्पैः स न संभवतीति कथमिहोच्येत। न ज्ञानविषययोरिह सारुप्याद्विषयबाधनं भवति ॥३६५।। असति च विषये तेन हि सारूप्यं कथमिहोपपद्येत। नैव च सहोपलम्भादर्थज्ञप्त्योरभेद आशङ्क्य: ॥३६६। सोऽयमुपायोपेयात्मकतायोगेन भेदमूल: स्थात् । तस्मादर्थज्ञप्त्योर्भेदोऽसी सममाण आस्थेय: ।। ३६७।

इतरेतरयोर्ग्राह्यग्राहकमावोऽयमनुपपन्नः स्यात् ॥३६८।। विज्ञानभेदविषया क्षणिकत्वाद्यर्थगोचराऽपि तथा। या च स्वलक्षणार्था तथेव सामान्यलक्षणार्था च ॥३६९॥ या बास्यवासकत्वाविद्योपपुवपरा तथ्ेवेयम्। सद्सद्धर्मार्था या या किल बन्धापवर्गीविषयाऽपि। ३७० ॥ सकला अपि प्रतिज्ञा हीयेरन्या: स्वशास्त्रविहितास्ताः। विज्ञानमभ्युपेत्य हि नेवाम्युपगम्यते कुतो बाह्याः ॥ ३७१॥ अनुभूयते यथा वा विज्ञानं तद्देव बाह्योऽर्थः । स्वयमनुभूयत एव हि विज्ञानं स्वप्रकाशरूपत्वात् ॥ ३७२ ॥ न तथा बाह्योरऽर्थोऽसाविति चेदात्मनि विरु्द्मेतत्स्यात्। स्वात्मव्यतिरिक्तेन हि विज्ञानेनानुभूयते योऽसी ॥ ३७३ ॥ अविरुद्धमतं बाह्यं नेच्छास पाण्डित्यमद्दुतं तदिदम। स्वव्यतिरिक्तग्राह्यं विज्ञानं यदि तदाऽनवस्था स्यात् ॥ ३७४ ॥ इति खलु नैवाSडशङ्क्यं यदिदं विज्ञानसाक्षिभास्यं हि। इह साक्षिप्रत्यययोरुपलब्धुपलभ्यभावेन ॥ ३७५॥ वैलक्षण्यं हृष्टं प्रत्याख्यातुं न शक्नुयात्कोऽपि। किच यदि मासकान्तरनिरपेक्षमिदं विभाति विज्ञानम्॥३७६॥ तर्ह्यप्रमाणगम्यं विज्ञानमिति प्रदर्शशितं हि मवेत्। वक्षुष्यसाधने खल्शवगन्तरि सति यथा प्रदीपाद्यैः॥ ३७७॥

Page 152

सुबह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

प्रथनं हष्टं तद्वद्विज्ञानस्थापि साक्षिमास्यत्वम्। इह साक्षिणोऽवगन्तु स्वयंप्रसिद्धृत्वमिच्छता मवता ॥ ३७८॥ विज्ञानवाद एव ह्ययमाश्रित इति न संभ्रम: कार्यः । विज्ञानस्योत्पत्तिध्वंसादिकमाश्रितं यतो भवता ॥ ३७९॥ व्यतिरिक्तग्राह्यत्वं विज्ञानस्य प्रसाधिनं हि ततः। वैधर्म्याच्च न स्वमादिवत् ॥२९॥ बाह्यार्थमन्तरेण स्वप्रादिप्रत्यया यथा लोके ॥ ३८० ॥ जागरितगोचरा अपि विनैव चार्य मवेयुरिति चेन्न। यत्स्वप्रजागरितयोवैधम्यं दश्यते हि लोकेऽस्मिन् ॥ ३८१॥ स्वप्रोपलब्धमखिलं प्रबोधसमये न दश्यते लोके। एवं मायादिष्वपि यथायरथं बाध्यते हि वस्त्वखिलम् ॥ ३८२ ॥ जागरितगोचरं यद्देहपासादशयनभूम्यादि। न हि बाध्यते कदाचित्तस्माद्वैधर्म्थमेतयोर्भवति ॥ ३८३ ॥। वैधर्म्ये सति च तयोरविनाऽपि चार्थ यथा भवेत्स्वप्रः। एवं जाग्रत्प्रत्यय इत्यालापो वृथा प्रलाप: स्यात् ॥ ३८४॥ प्रत्यक्षे वैधम्ये साधम्यं कथमिहोपवर्ण्येत। न भावोऽनुपलब्धेः ॥ ३० ॥ बाह्यार्थमन्तरेणाप्युपपद्येतैव वासनाबलतः ॥३८५।। ज्ञानगत बचित्रय सकलं यञ्चेति नेह शङ्का स्यात्। यस्माच्च वासनानामपि माषो नोषपद्यते हि तव ॥ ३८६ ।। अर्धोपलब्धियोगान्नानारूरप हि वासना लोके। सेष्वनुपलम्यमानेष्यपि किंमूलास्तु वासना: स्युरिह॥ ३८७॥ यदि पूर्ववासनातः पुनरन्यद्वासनान्तरं भवति। अन्धपरम्परया किल तदाऽनवस्था हि दुर्निवारा स्यात्॥ ३८८॥ उपलब्धिमन्तरेण हि न वासना क्वापि जायते लोके। अपि वासनां विनैव ह्युपलब्धि्दृश्यते हि सर्वत्र ॥ ३८९॥ सस्मादर्थनिमित्ता हयुप्लब्धिरिति ह्यवश्यमिह वाच्यम्। क्षणिकत्वाच्॥। ३१॥ आलयविज्ञानं यत्कल्पितमिह वासनाश्रयत्वेन।। ३९०।।

Page 153

द्वितीयपाद: २] माष्यार्थरत्नमाला। १४९

तदपि क्षणिकत्वेन हि न वासनानामिहाऽडभ्रयो मवति। कूटस्थे कालत्रयसंबन्धिनि सकलदशिनि ह्यसति ॥३९१॥ न हि वासनानिमित्तप्रतिसंधानाविलक्षणं कार्यम्। यदि च स्थिरस्वरूपं ह्यालयविज्ञानमभिमत भवतः ॥ ६९२॥ सिद्धान्तहानिरपरो दोषोऽयं दुर्निवार एव तव। बाह्यार्थवादपक्षे क्षणिकत्वनिबन्धनानि यानि स्युः ॥३९३॥ तानीह दूषणानि प्रतिसंधानैकभाजनान्येव। बाह्यार्थवाद्पक्षस्तथैव विज्ञानवादपक्षश्र ॥ ३९४॥ तावेतौ वैनाशिकपक्षी द्वावपि निराकृतौ भवतः । सर्वप्रमाणविप्रतिषिद्धोऽयं शून्यवादिपक्षः स्यात् ॥३९५॥ तस्य निराकरणे खल्वतो निमित्तादनादरः क्रियते। सर्वथाऽनुपपत्तेश्र ॥। ३२ ॥। वैनाशिकसमयोऽयं यथा यथा वा परीक्ष्यते हि तथा ॥ ३९६ ॥ सिकतारूपवदेव हि विदीर्यते नोपपद्यते सोडयम्। बाह्यार्थवादृपक्षं तथैव विज्ञानवाद्पक्षमपि ॥ ३९७॥ शून्यार्थवादपक्षं ह्युपादिशतैव त्रयं च सुगतेन। स्पष्टीकृतं हि केवलमनृतासंबद्धविप्रलापित्वम् ॥३९८॥ तस्मात्सीगतसमयः श्रेयस्कामैरुपेक्षणीय: स्यात्। भ्रममूलकेन सौगतसिद्धान्तेनेह भवति कदाचिदपि॥ ३९९॥ वेदान्तसारभूते सिद्धान्ते न हि विरोधशङ्का स्यात्। इति मुक्तकच्छसमये निराकृते भवति मुक्तवसनानाम् ॥४०० ॥ मतमिह बुध्द्ारूढं तस्मात्तदिदं निरस्यते सपदि। नैकस्मिन्नसंभवात् ॥ ३३ ॥ विवसनसिद्धान्तोऽयं प्रमाणमूलो यतश्च तेनेह ॥४०१॥ वैदिकसिद्धान्तेऽस्मिंस्तेन विरोधो हि दुर्निवार इति। तत्पूर्वपक्षफलमभिसंधायैतन्मतं प्रदर्शयति ॥४०२॥ इह मोकतृमोग्यरूपी जीवाजीवी विवक्षिती तत्र। विषयेषु चेन्द्रियाणां प्रवृत्तिरास्त्रव इहोपदिष्टः स्यात् ।४०३।। तां संवृणोति योऽसी यमनियमादि: स संवरो मवति। तप्तशिलारोहादिर्जर्यति मलमिति स निर्जरो मवति ॥४०४॥

Page 154

१५० सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

बन्ध: प्रसिद्ध एव हि मोक्षः सततोर्ध्वगमनमेव स्यात्। इति किल सप्त पदार्थास्तेष्वपरमिमं प्रपञ्चयन्त्येते ॥४०५॥ जीवास्तिकाय एक: पदार्थ इह पुद्रलास्तिकायश्र । धर्मास्तिकायसंज्ञोऽप्येवमधर्मास्तिकाय आकाशः ॥४०६॥ इति सर्वेषामेषां बहुप्रभेदान्हि कल्पयन्त्येते। इह सप्तमङ्गिनयमिति कमपि न्यायं हि वर्णयन्त्येते ॥ ४००॥ स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्त्यथाऽप्यवक्तव्य:। स्याद्स्त्यवाच्य एव स्यान्नास्ति न वाच्य एव मधति तथा॥४०८। स्याद्स्ति च नास्ति तथा न वाच्य इति सप्तधा हि कथयन्ति। विवसनपरिकल्पितमिह यदेतदखिलं विरुद्धमेव स्यात् ॥४०९॥ न हयेकस्मिन्धर्मिणि सदसद्धर्मत्वकल्पना युक्ता। इति चेदेवंरुपा: सप्त पदार्थाः प्रपशच्िता भवता ॥४१० ॥ ते कि तथैव वा स्युः किंवाऽप्यतथेत्यनिश्चितं ज्ञानम्। संशयवदप्रमाणं समुपदिशेत्कथमिहेष तीर्थकरः ॥ ४११ ॥ इह च निरङ्कुशमेव हि यदिदमनैकान्त्यमखिलवस्तुपु च। प्रतिजानानस्थेदं निर्धारणमपि कथं प्रमाणं स्यात् ॥४१२॥ एवं निर्धारयितृप्रभृतेरस्तित्वनास्तिताद्यखिलम्। स कथं प्रमाणभूतस्तीर्थकरो ह्येवमुपदिशेच्छिष्यान्॥ ४१३॥ उपदिष्ट्मेतमर्थं बुद्ध्वाऽप्येते कथं प्रवर्तेरन्। ऐकान्तिकतायामिह निर्णीताया तदानुकूल्येन ।४१४॥ तत्साधनादिकृत्ये प्रवर्तमानोऽत हश्यते लोक:। तस्मादुनिश्वितार्थं शास्त्रं प्रणयन्नपीह तीर्थकरः ॥४१५॥ मत्तोन्मत्तवदेव ह्ययमनुपादेयवचन एव स्यात्। पञ्चास्तिकायसंज्ञा थे निर्दिष्ा हि तेष्वपि ह्येवम् ॥४१६॥ पञ्चत्वमस्ति किं वा नास्तीत्येवं न शक्यते बोद्धुम। तेन न्यूना संख्या स्यादधिका वा न पश्चसंख्यैव।।४१७।। यच्चावक्तव्यत्वं तदृपि च तेषां कथं नु संमवति। यदि चावक्तव्यास्ते नैवोच्येरंस्तथा न वृश्यन्ते ॥४१८॥ तन्निर्धारणफलमप्यस्तित्वाद्यैन शक्यते बोद्धुमू। स्वर्गापवर्गयोरपि पक्षे भावस्तथैव चाभावः ॥ ४१९॥

Page 155

द्वितीयप्रादः २ ] भाष्यार्थरत्नमाला। १५१

इत्यनवधारणायां तत्र च लोक: कथं प्रवर्तेत। जीवप्रभृतीनां वा स्वसमयनिश्चितनिजात्मभावानाम् ।।४२०॥ उक्तानेकविकल्पैरयथावधृतस्वभावतापत्ति:। यदिदमणुभ्य: पुद्गलसंज्ञेभ्यः केवलं हि संघाताः।। ४२१। प्रभवन्तीति तदेतत्पूर्वत्रैव तु निराकृतं मवति। एवं चाउऽत्माकारत्स्न्यम् ।३४ ॥ किं चाऽडर्हता हि जीवं शरीरपरिमाणमेव कथयन्ति ॥४२२ ॥ सोऽयमसर्वगतः सन्नकृत्स्न आत्मा मवेत्परिच्छिन्नः । स्याञ्चेदेवमनित्यो घटादिवत्स्यादसौ हि शारीर: ॥४२३॥ मानुषजीवो वाडयं मनुष्यतनुमात्रपरिमितो भूत्वा। केनापि कर्मणाऽयं स एव हस्त्यादिजन्म लभमान: ।४.४।। हस्त्पादिविपुलदेहं कृत्सं विन्देत कथमसी जीवः। हस्तिशरीरो भूत्वा सूक्ष्मशरीरं स एष लभमानः ।।४२५।। सूक्ष्मशरीरे तस्मिन्नहि संमीयेत कृत्स्न एवासी। यदि चानन्तावयवो जीव: स्यात्तस्य सूक्ष्मतनुयोगे ॥४२६॥ केचिच्च संकुचेयुर्महति च विकसेयुरवयबा इति चेतू। ये बानन्तावयवा जीवस्योक्ता हि ते च सर्वेऽपि ॥ ४२७॥ जीवाधिष्ठितदेशे प्रतिहन्यन्ते न वेति वक्तव्यम्। यदि चेत्पतिहन्यन्ते संमीयन्ते कथं शरीरेऽल्पे।। ४२८॥ अप्रतिघाते तेषां तस्यैकावयवदेशताप्राप्त्या । इतरावयवानां स्थात्प्रथिमानुपपत्तिरत्र दुर्वारा॥ ४२९॥ एवं सति जीवस्य ह्यणुमात्रत्वप्रसङ्ग एव स्वात्। न च पर्यायादप्यविरोधो विकारादिभ्यः ।।३५॥ उपगच्छन्ति ह केचित्पर्यायेण च बृहत्तनुपातौ॥४३० ॥ के चित्सूक्ष्मशरीरे ह्यपगच्छन्तीति नेदमपि युक्तम्। पर्यायेणावयवोपगमापगमादियोगतोऽप्यस्य ।।४३१॥ न च देहपरिमितत्वं नित्यत्वं चास्य शक्यते वक्तुम। येनावयवोपगमापगमाम्यां विक्रियादिमत्वेन ।। ४३२ ।। जीवस्यानित्यत्वप्रसक्तिर त्रेयमपरिहार्यैव।। जीवस्यानित्यत्वे तस्य च भोगापवर्गसंयोगः ।। ४३३।

Page 156

१५२ सुबह्मण्यविरचिता- [२ द्वितीयाध्यायस्य

उपपाद्ितुं शक्यो न कथंचिदपीह केनचिद्वाऽपि। अत एवमादिदोषप्रसक्तियोगेन चास्य जीवस्य ।। ४३४॥ पर्यायेणावयवोपगमापगमौ न वाञ्छितुं शक्यौ। अन्त्यावस्थितेश्र्वोभयनित्यत्वादविशेषः ॥ ३६ ॥ मोक्षावस्था सेयं ह्यन्त्यावस्थेति वर्ण्यते जैनैः ॥४३५॥ नित्यमिति चेष्यते खलु तदवस्थाभाविजीवपरिमाणम्। यद्यन्त्यं परिमाणं नित्यं स्यात्तर्हि पूर्वयोरषि च ॥ ४३६ ॥ परिमाणयोस्तथा स्यान्नित्यत्वं न हि तयोविशेष: स्यात्। एकतनुमानता स्यान्नोपचितापचितगात्रयोगोऽस्य । ४३७॥ अपि चान्त्यं परिमाणं जीवगतं यद्यवस्थितं भवति। पूर्वत्रापि तथेवावस्थितपरिमाणजीव: स्यात् ॥४३८॥ एवं सति च सदैव ह्यणुर्महान्वा भवेदसी जीवः। न हि नानातनुयोगात्तत्तत्परिमाणतामसी गच्छेत् ॥ ४३९॥ तस्मात्सौगतमतवच्चाऽडर्हतमपि मतमिदं न युक्तं स्यात्। क्षपणकसिद्धान्तेन हि वेदान्तसमन्त्रयस्य म विरोध: ।। ४४०॥ लुश्चितकेशमतेऽस्मिन्निराकृते जटिलशैषमतमेतत्। बुद्धावध्यारूढं वेदान्तसमन्वयस्य परिपन्थि ॥४४१॥ इति मत्वा सूत्रकृता तदिवं शैवं मतं निराक्रियते। पत्युरसामअ्स्यात् ॥ ३७॥ इह चाषिष्ठातैव हि न प्रकृतिः सोऽयमीश्वरो जगतः ॥ ४४२॥ आगमकृताबलम्बाः पाशुपताश्चैवमत्र कथयन्ति। केचित्तु सांख्ययोगव्यपाश्रयाश्रैवमत्र कथयन्ति ॥४४३॥। ईशः प्रधानपुंसोनियन्तृभावान्निमित्तमात्रं स्यात्। इतरेतरभिन्ना हि प्रधानपुरुषेश्वरा भवन्तीति ॥४४४॥ माहेश्वरास्त्विहैवं मन्यन्ते वर्णयन्ति चाप्येवम्। ये कार्यकारणयोगा विधिदुःखान्ताश्र पञ्च पशुपतिना॥४४५॥ इह पशुपाशविमुक्त्ये ह्युपदिश्टाः पशुपतिर्निमित्तमिति। कार्य महदादिकमिह करणं च स्यात्प्रधानमेवेदम् ॥४४६॥ योग: समाधिरेव त्रिषवणजलमज्जनादि विधिरत्र । दुःखान्तोडसौ मोक्ष: पश्च पदार्थास्त एत एवेह ॥४४७H

Page 157

द्विर्तायिपाद: २] माप्यार्थरत्नमाला। १५२

तत्रेद्मनुपपन्नं यञ्च हि माहेश्वरादिनिर्दिष्टम्। ईशस्य कारणत्वं तदिद्षमधिष्ठातृभावयोगेन ॥। ४४८॥ तत्रासामख्जस्यात्तदेतदिह नोपपद्यते किमपि। इह चासामस्जस्यं तदेतदीशस्य दृश्यते लोके।। ४४९॥ यद्दीनमध्यमोस्तमभावेन प्राणिवर्गमखिलमपि। विद्धत ईशस्यापि हि रागद्वेषादिदोषतापत्तिः ॥४५० ॥ रागद्वेषापत्ताविहास्मदादिवद्नीश्वरत्वं स्यात्। प्राणिकृतकर्मसाधनसापेक्षत्वाददोष इति चेन्न ॥ ४५१ ॥ यदि च नियम्यनियामकभावः कर्मेशयोस्तदा चायम्। अन्योन्याशयदोषप्रसङ्ग इह दुर्निवार एव स्यात् ॥४५२॥ सोऽयमनादित्वादिह न दोष इति नैव शक्यते वक्तुम्। स हि वर्तमानकालवदतीतकालेऽपि तुल्य एव स्यात् ॥ ४५३॥ नयवित्समयः सोऽयं प्रवर्तनालक्षणो हि दोष इति। दोषेण चाप्रयुक्तो न स्वार्थे वा तथैव न परार्थे॥ ४५४॥ लोकः प्रवर्तमानो हष्टः स्वार्थप्रयुक्त एवासौ। येन प्रवर्तते किल लोकस्तेनेह चासमञ्जसता ।४५५॥ ईशः स्वार्थपरश्चेदनीशता तस्य दुर्निवारा स्यात्। अन्यद्सामख्जस्यं पुरुषविशेष: परो ह्युदासीनः ॥ ४५६॥ संबन्धानुपपच्तेश्र ॥। ३८।। योऽसी प्रधानपुरुषव्यतिरिक्तो हीश्वरो विनिर्दिष्टः । संबन्धमन्तरेण प्रधानपुंसोः स ईशिता हि कथम् ॥४५७॥ न च संयोगो येन प्रधानपुरुषेश्वरा हि सर्वगताः । निश्वयवाश्र तथाऽतः कथमिह संयोग ईद्टशां भवति ॥४५८॥ इह चाSडश्रयाश्रयित्वानिरूपणान्नापि भवति समवायः। कार्येकसमधिगम्यो नाप्यन्यः कश्विदृत्र संबन्धः ॥ ४५९॥ अद्यापि कार्यकारणभावस्यैवात्र चाप्रसिद्धत्वात्। तादृत्म्यलक्षणोऽसी संबन्धो ब्रह्मवादिनो भवति ॥४६० ॥ आगमबलावलम्बात्स खलु निरूपयति कारणाद्यखिलमू। आगमटष्टं सकलं ह्यभ्युपगन्तव्यमेव तेनेह ॥ ४६१॥ इह कारणादिरूपं दष्ान्तबलेन केवलेनैव। वर्णयतो हि परस्याभ्युपगन्तव्यं यथैव दृष्टमिदम् ॥४६२ ॥ २०

Page 158

१५४ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

सर्वज्ञदर्शितागमसद्मावादिह मवेत्परस्यापि। आगमबलसाहाय्यं समानमिति चेत्परस्पराश्रयता ॥। ४६३॥ आगमविश्वासात्किल सर्वज्ञत्वस्य सिद्धिरिह वाच्या। पामाण्यमागमस्य स्यादिह सर्वज्ञतादिसिद्धी हि॥ ४६४ ॥ अधिष्ठानानुपपत्तेश्र ॥ ३९ ॥ इह चानुपपत्ति: स्यात्तार्किकपरिकल्पितस्य चेशस्य। यहच्च कुम्भकारो मृदाद्यिष्ठाय संप्रवर्तयति ॥४६५॥ एवं प्रवर्तयेदयमीशोऽधिष्ठाय हि प्रधानादि। इह चाधिष्ठेयं यन्मृदादि रूपादिमद्दि तद्दृष्म् ॥४६६ ॥ इह रूपादिविहीनं प्रधानमीशस्य कथमधिष्ठेयम्।

करणवच्चेन्न भोगादिभ्यः ॥। ४० ॥ लोके च चक्षुरादिकमप्रत्यक्षं यथा ह्यषिष्ठाय। पुरुषो यथा नियुङ्के तथा प्रधानं प्रवर्तयेदीशः ॥४६८॥ नैवोपपन्नमेतन्न हि करणग्रामसाम्यमिह भवति। मोगादिना हि करणग्रामस्याधिष्ठितत्वमिह दृष्टम् ॥४६९॥ नैवमिह दृश्यते किल भोग: संसारिणामिवेशस्य। व्याख्यायते किलेदं सूत्रदवयमन्यथैव पुनरपि च॥ ४७० ॥ 'अधिष्ठानानुपपत्तेश्र' साधिष्ठानो लोके सशरीरो हीशिता तु राजादि:। नैव हि निरधिष्ठानो दृष्टो राष्ट्रस्य चेशिता क्वापि ॥ ४७१ ॥ करणायतनं किंचिच्छरीरमीशस्य तद्वदिह वाच्यम्। सृध्युत्तरं शरीरं भवेन्न सृष्टेस्तु पूर्वमपि किंचित् ॥ ४७२॥ स च निरधिष्ठानः प्रवर्तकत्वं कथं भवेत्तस्य। निरधिष्ठानस्यापि प्रवर्तकत्वे न चेह हष्ान्त: ।। ४७३॥। 'करणवञ्चेन्न मोगादिम्यः'। अथ चेत्करणायतनं शरीरमीशस्य किमपि कल्प्येत। संसारिवदस्यापि हि भोगादिरनीश्वरत्वमपि च स्यात ॥४७४॥

Page 159

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। १५५

अन्तवत्वमसर्वज्ञता वा ॥४१ ॥ अपि चेदमनुपपन्नं सार्किकपरिकल्पितस्य चेशस्य। स हि सर्वज्ञोऽनन्तस्तद्वदनन्तं प्रधानमथ पुरुषाः ॥ ४७५॥ अभ्युपगम्यन्ते तैर्मिथो विभिन्नास्तथैव चानन्ताः। सर्वज्ञेनेशेन प्रधानपुरुषात्मनामिहेयत्ता ॥ ४७६।। सा हि परिच्छिद्येत न वेत्युमयत्रापि मवति दोषोऽयम्। पूर्वत्र चान्तवत्वं प्रधानपुरुषेश्वरेषु दुर्वारम्॥ ४७७॥ लोके तदन्तवत्किल हष्ट यदियत्तया परिच्छिन्नम्। तद्वत्प्रधानपुरुषेश्वरत्रयं यदि भवेत्परिच्छिन्नम् ॥४७८॥ तर्ह्यन्तवदेतत्स्यात्संख्यापरिमाणमपि च वक्तव्यम्। इह च परिच्छिन्नानां ये मुच्यन्ते जनास्तु संसारात् ॥ ४७९ ॥ संसार: किल तेर्षा संसारित्वं तदन्तवद्दृष्टम्। इतरेषु मुच्यमानेष्वपि संसारस्य चान्तवत्वं स्यात् ॥ ४८० ॥ एवं प्रधानमपि किल सविकारं चान्तवद्भवति। सर्वस्य चान्तवत्वे किमधिष्ठेयं भवेदिहेशस्य ॥४८१ ॥ सर्वज्ञतेश्वरत्वे स्यातामीशस्य कुत्र किंविषये। यद्यन्तवत्व्रमे्षां तदादिमत्त्वं च मवति दुर्यारम् ॥४८२॥ यदि चेदेवं हि तदा प्रसज्यते शून्यवाद एवात्र। यदि चेयत्ता तेर्षां न परिच्छिद्येत तर्हिं दोषोऽयम् ॥४८३॥ सर्वज्ञत्वाभ्युपगमहानिः परमेश्वरस्य दुर्वारा। तस्मादृसंगत: स्यात्तार्किकपरिकल्पितेशवादोऽयम्॥४८४ ॥ पञ्चपदार्थनिरूपकशैवमतेऽस्मिन्निराकृते सपदि। ठ्यूहचतुष्टयवादो बुद्धिस्थोऽसौ निरस्यते सोऽपि॥ ४८५॥ उत्पत्त्यसंभवात् ॥४२॥

प्रकृतिरधिष्ठाताऽसावुभयात्मकमेव कारणं हीशः । येषामभिमत एवं तत्पक्षोऽसौ निरस्यते सपदि॥ ४८६ ॥ नतु च श्रुतिमूलं वा ह्येवंरूपो विनिश्चितो हीश:। या हि श्ुत्यनुकूला स्मृतिः प्रमाणमिति वर्णितं पूर्वम् ॥४८७ ॥ तत्पक्षस्य निरासः सूत्रकृतो नैव युक्त इति चेन्न। प्रकृतित्वाद्यंशोऽयं नैव विसंवाद्गोचरो भवति ॥४८८॥

Page 160

१५६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

अस्ति त्वंशान्तरमिह तद्दि विसंवाद्विषयतामेति। एको हि वासुदेवो मगवान्स च खलु निरञ्जनज्ञान:॥l ४८९॥ प्रविमज्येवाSडत्मानं स चतुर्धा हि प्रतिष्ठितो भवति। आद्यो हि वासुडवव्यहः संकर्षणो द्वितीय: स्यात् ॥ ४९० ॥ प्रध्यम्मश्र तृतीयरतथानिरुद्ध्श्चतुर्थसंज्ञः स्यात्। यो वासुदेवसज्ञो व्यूहः स परो हि कारणं भवति ॥४९१॥ जीवमनोहंकारा: कार्यं संकर्षणादयो टयूहाः। इत्थंभूतं तं खल्वभिगमनाद्यैश्र साधनैरिद्वा ॥ ४९२॥ क्षीणकेशो मनुजस्त्वन्ते प्रतिपद्यते हि भगवन्तम्। यञ्चैतद्मागवतं प्रपश्चितं तत्र भगवतो योऽसौ ॥४९३॥ बहुधा भावो यदपि ह्यजस्रमाराधनं विनिर्दिष्टम्। तत्किल न निराक्रियते यस्मादेतच्छ्रृतिस्मृतिप्रथितम् ॥४९४॥ संकर्षणादिकानां या चोत्पत्ति: प्रदशिता सा हि। नैवोपपद्यते किल यस्मात्तेषामनित्यतापत्ति: ।।४९५॥ तद्नित्यत्वे मोक्षी भगवत्पाप्तिर्न चास्य संभवति। न च कर्तु: करणम् ॥४३॥ एतस्मादृषि हेतोरसंगतैषा हि कल्पना सर्वा ॥। ४९६ ।। यस्माद्धि वर्णयन्ति हि संकर्षणसंज्ञकाज्च कर्तुरिदम्। उत्पद्यतेऽत्र करणं यञ्च प्रहुम्नसंज्ञकं हि मनः ॥४९७॥ उत्पद्यतेऽनिरुद्धोऽहंकार: कतृजाञ्च मनस इति। तच्चायुक्तं करणं न च कर्तुर्जायते क्वचिद्वापि।। ४९८॥ नेह च दृष्टान्तो वा श्रुतिरथवा नोपलभ्यते काऽपि। विज्ञानादिभावे वा तदप्रतिषेध: ॥ ४४ ॥ अथ यद्येवं वृषे ये वै संकर्षणादयो गढिताः ॥। ४९९॥ जीवादयो न ते स्युर्विज्ञानैश्वर्यशक्तिबलवीयैः । तेजोभिरप्रतक्यैरै्वरधर्मः समन्विता: सर्वे ॥ ५०० ॥ निर्दोषा निरवद्या निरधिष्ठानाश्र वासुदेवास्ते। तस्माद्यथोपवर्णितदोषः कथमपि न चेह भवतीति ॥ ५०१ ॥ एवमपि दुनिर्वारो योऽसावुत्पत््यसंभवो दोप: । यदि च परस्परभिन्नास्तुत्यात्मानो हि वासुदेवाद्याः॥५०२॥

Page 161

तृतीयपाद: ३ ] माध्यार्थरत्नमाला। १५७

एकेन कार्यसिद्धेरनेकपरमेशकल्पना विफला। सिद्धान्तहानिरपरो दोषोडयं दुर्निवार एवात्र ॥५०३ ॥ अम्युपगतं हि मगवानेवैंको वासुदेव इति यस्मात् । एकस्य भगवतो यदि चत्वारस्तुल्यभावमापन्नाः ॥५०४॥ एवमपि दुर्निवारो यथोपदिष्टो हि दोष इह भवति। इह वासुदेवसंज्ञात्कथमिह संकर्षणस्य चोत्पत्तिः ।। ५०५ ।। असति विशेषे क्वापि हि न हश्यते कार्यकरणभावोऽयम्। इह तरतमभावोऽय न दृश्यते पाञ्चरात्रसिद्धान्ते ॥ ५०६् ॥ अपि च चतुःसंख्यायां मगवद्वचूहाश्ष नावतिष्ठेरन्। स्तम्बावसानमेतद्वह्मादि च यञ्च दृश्यते सकलम् ॥५०७ ॥ मगवद्वयूहृत्वेन च तदेतद्वगम्यते हि सर्वत्र। विप्रतिषेधाच्च ॥ ४५ ॥ विप्रतिषेधश्रायं बहुविध उपलभ्यते हि शास्त्रेऽस्मिन्॥ ५०८॥ ज्ञानेश्वर्यप्रमुखा गुणास्त आत्मान एव मगवन्तः । इति गुणभावं गुणिताविरुद्धमेवोपवर्णयन्त्येते ॥५०९॥ विभ्तिषेधपदस्य हि निन्दार्थपरत्वमपि च संभवति। वेदेषु चतुर्षु परं श्रेयोऽलब्ध्वा स एष शाण्डिल्यः ॥। ५१० ॥ शास्त्रं तदेतद्धिगतवानिति हष्टा हि वेदनिन्दाऽपि। तस्मादसंगतेषा वेदविरुद्धार्थकल्पना सकला ॥५११॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र् योऽयमध्यायः ॥ ५१२॥ तत्र द्वितीयपादे सूत्रार्थो यश्च माष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः।।५१३॥ इति द्वितीयाध्यायस्य द्वितीय: पादः समाप्षः ॥२॥

अथ तृतीयपादप्रारम्भ: ।

जीवस्यानुत्पत्तावाकाशो वा कथं प्रजायेत। इत्पेकदेशिशङ्कां निरसितुमिद्माह सूत्रकारोऽयमू॥१॥

Page 162

१५८ सुब्रह्मण्यविरचिता- [ २ द्विर्तीयाध्यायस्य-

न वियदश्रुतेः ॥१॥ श्रुतिवि प्रतिषेधाद्यदि परपक्षाणामुपेक्षणीयत्वम्। तहि श्रुतिपक्षोऽयं विप्रतिषेधादुपेक्षणीयः स्यात् ॥२॥ इति खलु शङ्कोत्थाने वादारम्भो हि त्निवृत्त्यर्थः । इह भूतभोक्तृवचर्सा मिथो विरोधो निरस्यते पादे ॥३॥ उत्पत्तिश्रुतयः किल भिन्नप्रक्रमपरा हि लक्ष्पन्ते। आकाशस्योत्पत्तिं वदन्ति खलु तैत्तिरीयकश्रुतयः ॥४ ॥ छन्दोगा: खलु नैवं वियदुत्पत्ति समामनन्ति यतः । जीवस्य प्राणानामपि क्रमाविकृतविरोध इह दृष्टः ॥५। भुत्यन्तरेषु तस्मादृयमपि पक्षो ह्युपेक्षणीय इति।

आरभ्यते विचारस्तत्र प्रथमं हि वियदुपाशित्य। नोत्पद्यते हि तदिवं वियद्यतो भवति तज्ञ विभुसंज्ञम् ॥७॥ किंचोत्पत्तिप्रकरणवाक्ये न श्रूयते क्वचिद्वाSपि। छान्दोग्ये हि सदेवेत्यादी वाक्ये तु पञ्च्भूतानाम्॥ ८H तेजो मध्यममाद्यं कृत्वा सृष्टिः प्रपश्चिता हि सतः। मानं श्रुतिर्ह्यतीन्द्रियविज्ञाने या न दृश्यते सेयम् ॥९॥ अस्ति तु ॥ २ ॥ अत्र तुशब्दो योऽसो न हि पक्षान्तरपरिग्रहे मानमू। यद्यपि वियदुत्पत्तिश्छान्दोग्ये नैव दृश्यतेऽथापि। १०॥ दृष्टा च तैत्तिरीयकवाक्ये ते खल समामनन्त्येवम्। सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्य तदिदमिह पठितम् ॥११॥ तस्माद्वा एतस्मादात्मन आकाश इति च यद्वाक्यम्। तत्र च विप्रतिषेध: ध्रुत्योरनयोर्हि दुर्निवारोऽसी ॥ १२॥ तेज:प्रमुखासृष्टिः क्वचिदिह दृष्टा क्वचिच्च वियदाद्या। नैवावगम्यते खल्वनयो: श्रुत्योरिहैकवाक्यत्वम् ॥१३॥ स्रटट: सकृच्छ्रतस्य हि न स्रष्टव्यद्वयेन संबन्ध: । यद्येवं तत्तेजोऽसृजत तदाकाशमसृजतेति स्यात् ॥१४॥ कर्तव्यद्वययोगो नन्विह कर्तुः सकृच्छ्तस्यापि। हष्टः सूपं पक्त्वा तथौदनं पचति विप्र इति चेन्न॥ १५ ॥

Page 163

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १५९

तत्र हि पौर्वापर्याद्युक्तो नाऽडकाशतेजसोस्तु तथा। इह चाSSदिमत्त्वमुभयोर्द्टृषट छान्दोग्यतैत्तिरीयकयोः ॥ १६॥ स्रट्ट: सकृच्छ्ुतस्य हि युगपत्ताभ्यां कथं नु संबन्ध: । वायोरग्निरितीदं पृथगाम्नानं विरुद्धमिह मवति ॥१७॥। गौण्यसंभवात् ॥ ३ ॥ एवें विप्रतिषेधे या ह वियज्जनिपरा श्रुतिः सेयम्। गौणी वाच्या यस्माद्वियदुत्पत्तिः कथचिदपि न मवेत् ॥१८। इह कारणसामग्री वियदुत्पत्तौ न दृश्यते काऽपि। समवायिकारणं स्याद्यदेकजातीयमिह तथाऽनेकम् ॥१९ ॥ द्रव्योत्पत्ती साधनमेतद्दृष्ट पटादिके कार्ये। वियतः कार्यत्वे किल तद्त्र नैवोपलभ्यते किमपि ॥ २० ॥ एवं सति च निमित्तं यञ्चासमवायिकारणं तदपि। तद्नुग्रहपवृत्तं तदसत्वे साधयेत्कथं कार्यमू॥ २१॥ उत्पत्तिमरता दृष्टः पूर्वोत्तरकालयोर्विशेष: स्यात्। आकाशस्योत्पत्ती संभावयितुं न शक्यते सोऽयम् ॥२२ ॥ किंच पृथिव्यादिभ्यो वैधभ्यं चास्य दृश्यते भूयः । तेन विभुत्वमजत्वं सिध्यति नोत्पत्तिमत्त्वमेतस्य । २३॥ घटकरकाकाशगृहाकाशा इति वियत एकरूपस्य। मेदृव्यपदेशोऽयं ह्युपाधिमूलो न वस्तुमूल: स्यात् ॥२४॥ आकाशो जात इति व्यपदेश: स्यादुपाधिजनिमूलः। गौणो वियदुत्पत्तिश्रुतिरषि गौणी तथैव किं न स्यात् ॥२५॥ शब्दाच ॥४ ॥ वायुश्रेत्याद्या या श्रुतिर्हि वाय्तन्तरिक्षयोरेवम्। अमृतत्वमुपदिशन्ती वियदुत्पत्तिं निवाश्यत्येषा ॥ २६ ॥ आकाशवदिति चान्या श्रुतिराकाशेन तत्परं ब्रह्म। सर्वगतत्वेन तथा नित्यत्वेनापि सहशमुपदिशति ॥२७ ॥ उपदिश्य सद्टृशमेतत्ती धर्मावस्य सूचयत्येषा। स यथाऽनन्त इति श्रुतिराकाशस्याव्यनन्ततां वक्ति ॥ २८॥ श्रुतिराकाशशरीरं ब्रह्मेति तथेव बोधयत्यपरा। तस्मात्सिद्धं ब्रह्मवदाकाशं नित्यमपि च सर्वगतम् ॥।२९ ॥

Page 164

१६० सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

स्याच्चैकस्य ब्रह्मशब्दवत् ॥५॥ शङ्कोत्तरसूत्रमिदं शक्का चेयं हि मवति तत्रैवम् । संभूतशब्द एष हि सकृच्छ्रतस्तैत्तिरीयके वाक्ये॥ ३०॥ वियति च स कथं गौणस्तेजःप्रभृतिषु कथं स मुख्य इति। नेयं शङ्का कार्या येनासौ ब्रह्मशब्दवद्भवति ॥३१ ॥ तपसा ब्रह्मेत्यस्मिन्नधिकारे तपसि चैवमन्नादौ। स्याद्गह्मशब्द एव हि गौणो मुख्यस्तथैव चाऽडनन्दे ॥ ३२॥ ननु नमसोऽनुत्पत्तौ श्रुतिप्रतिज्ञा हि बाधिता भवति। एवं किलैकमेवाद्वितीयमिति दृश्यते प्रतिज्ञेयम् ॥३३ ॥ यदि नमसो नित्यत्वं ब्रह्म तदा सद्वितीयमेव भवेत्। आत्मनि विदिते सवं विदितमितीय तथेति चेन्मैवमू॥ ३४॥ अत्रत्यसर्वशब्दः स्वकार्यपर एव नैव सर्वपरः। कश्ि्वित्कुलालगेहे सृददण्डादीनि पूर्वमुपलभ्य ॥३५॥ नानाविधान्यमत्राण्युपलभ्य परेद्युरेवमाचष्टे। एकाकिनी सृदेव ह्यासीत्पूर्वेद्युरेतदखिलमिति॥३६॥। स तु सृत्काय सकलं नाऽडसीत्पूर्वेद्युरित्यमिभ्रेयात्। न तु दण्डादिकमेवं नाऽडसीदग्रे स्वकार्यजातमिति ॥३७॥ अथवेयमद्वितीयश्रुतिरिह कर्त्रन्तरं निवारयति। इह चामत्रप्रकृतेमृद: कुलालो यथा ह्यघिष्ठाता॥३८॥ नैवमधिष्ठाताऽन्यो भवतीह ब्रह्मणो जगत्प्रकृतेः । अथवाऽत्र नाद्वितीयश्रुतिभङ्गोऽयं हि शङ्कितुं शक्यः ॥ ३९ ॥ इह सद्वितीयता किल लोके दृष्टा हि भिन्नलक्षणयोः। प्रागुत्पत्तेर्लक्षणभेदो न ब्रह्मगगनयोर्भवति ॥ ४० ॥ क्षीरोदकयोरिव किल तयोक्र संसृध्यो: पुरा सृष्टेः। व्यापित्वामूर्तत्वाद्यखिलं तुल्यं हि धर्मजातं तत् ॥४१॥ तद्ह्मसर्गकाले यतते स्तिमितं वियद्यथापूर्वम्। तेनान्यता तथोः स्यात्सृष्यत्तरमेव नैव तत्पूर्वम् ॥४२॥ किं चैव मेव सिध्येद्वह्मज्ञानेन सर्वविज्ञानम्। अपि किल का्य सकलं वियताऽव्यतिरिक्तदेशकालं हि ॥४३॥ वियदपि यदिदं हि तथा ब्रह्माव्यतिरिक्तदेशकालं स्यात्। तेन ब्रह्मणि विदिते भवति हि विढितं तदेतदाकाशम् ॥४४॥

Page 165

तृतीयपाद: २] माष्यार्थरत्नमाला। १६१

क्षीरगतो जलबिन्दुः क्षीरग्रहणेन गृह्यते हि यथा। एवं ब्रह्मणि विदिते वियद्पि तदिद गृहीतमेव स्यात् ॥४५॥ इति सकलश्रुतिवचसामविरोध इहेति चैकदोशिमतम्। निर्दिश्य सप्रपञ्चं तदिद दूषयति सूत्रकारोऽयम् ॥४६॥ प्रतिज्ञाहानिरव्यतिरेकाच्छव्देभ्यः ॥ ६॥ येनाश्ुतमिति या स्यादात्मनि खल्विति तथैव चान्याडपि। कस्मित्नित्यपरा या न च काचन मदिति चैवमन्याऽपि। ४७॥ प्रतिवेदान्तं चैवंरुपा या दृश्यते प्रतिज्ञा हि। तस्या एवमहानिस्तदनुपरोधो मवेन्न चेतरथा ॥ ४८ ॥ यद्यव्यतिरेकः स्याद्विज्ञेयाद्वह्मणोऽस्य कृत्स्नस्य। उपपद्यते तदैव ह्यव्यतिरेकः स एष निर्दिक्टः ॥४९॥ यद्येकस्माद्गह्मण उत्पद्येतेदमखिलमपि वस्तु। श्रुत्याऽप्यव्यतिरेकादियं प्रतिज्ञा प्रदर्शिता भवति ॥५०॥

येनश्रुतमित्याद्या श्रुतिप्रतिज्ञा समर्थिता श्ुत्या ॥५१॥ ये चोत्तरत्र पठिता: सदेव सोम्थेदमद्र इत्याद्या:। ते खल्वीक्षणपूर्वकमखिल तेज:पुरःसरं कार्यम् ॥५२॥ बह्मण उपदिश्य ततश्राव्यतिरेकं प्रदर्शयन्ति किल। इह चैतदात्म्यमिति किल वाक्यमुपक्रम्य चाऽडसमापेि ॥५३॥ न ब्रह्मकार्यमेतद्यद्याकाशं भवेदयुक्तमिदम्। ब्रह्मणि विज्ञाते सति न हि विज्ञायेत तदिदमाकाशम्॥५४॥ एवं सति प्रतिज्ञा श्रौती सेयं हि बाधिता मवति। ह्वीयेत चेत्पतिज्ञा वेदाप्रामाण्यमत्र दुर्वारम्॥५५॥ प्रतिवेदान्तं शब्दा इदं सर्वमिति चवमाद्या मे। ते तत्तद्दृष्टन्तैरिमां प्रतिज्ञां समर्थयन्ति खलु ।. v६।। तस्माज्ज्वलनादिवदिदमपि गगनं ब्रह्मणो जनिं लभते। नोत्पद्यते तदेत्द्वियद्श्रवणादितीह यञ्चोक्तम् ॥ ५७॥ तद्युक्तमेष यस्माद्वियदुत्पत्ति: प्रदर्शिता श्रुत्या। तस्माद्वा एतस्मादातमन आकाश एवमादिकया॥ ५८॥ बनु तत्तेजोऽसृजतेत्येनेन चास्य विरोध इति चेन्न। न हि भिन्नवाक्यता स्याच्छ्रतिवचसां किंत्विह्ैकवाक्यत्म्।।५१।।

Page 166

१६२ सुब्ह्मण्य विरचिता- [ २ द्वितीयाध्यायस्य-

नन्वविरुद्धानामिह भवेत्कदाचित्तदेकवाक्यत्वम्। अत्रैकस्य स्ष्टः स्रष्टव्ययुगेन युगपदस्पर्शात् ॥६० ॥ अकाशतेजसोर्वा प्रथमोत्पत्तेरसंभवाच्च तथा। इह च विकल्पायोगाद्वाक्येकत्वं कथं तयोरिति चेतु ॥ ६१ ॥ इह तेत्तिरीयक किल तेजःसर्गस्तृतीय एवोक्त: । परिणेतुमन्यथा सा न शक्यते तेत्तिरीयके दृट्ा ॥६२॥ छान्दोग्यश्रुतिरेषा शक्या परिणेतुमन्यथा भवति। सृष्टवाSडकाशं वायुं तेजोऽसृजतेति शक्यते वक्तुम् ॥६३ ॥ तेजोजनिप्रधाना वियदुत्पत्ति हि सा न विरुणद्धि। भवति ह्यर्थैकत्वे न चार्थनात्वकल्पना युक्ता ॥ ६४ ॥

स्रष्टव्यान्तरमितरश्रुत्यनुसाराद्ि परिगृहीतं स्यात् ॥६५॥ यद्वत्सवं खल्वित्यविशेषश्रुतमपीह सर्वस्य। ब्रह्मप्रभवत्वं यत्तदिद छान्दोग्यवाक्यनिरदिष्म् ॥६६ ॥ उत्पत्तिक्रममेतं तेजःप्रमुसं न वारयितुमीष्ट। तद्वच्च तेजसोऽपि ब्रह्मप्रभवत्वमत्र यद्दष्टम् ॥६७॥ तद्पि श्रुत्यन्तरगतमुत्पत्तिक्रमभिमं नभःप्रमुखम्। म निवारयितुं शक्रोत्यत इह न तयोरविरोधशङ्का स्यात् ॥ ६८ । ननु सवं खल्विदमिति वाक्य भवतीह शमविधानार्थम्। यस्माच्छान्त उपासीतेति श्रुतमिह न सृष्टिवाक्यमिद्म् ॥६९॥ तस्माद्वियदुत्पत्ती यथोक्तदृष्टान्तसाधना भा वात् । तत्तेजोऽसृजतेतिश्रुत्यनुसारात्क्रमो भवेदिति चेत् ॥ ७0 ॥ तेजोजनिप्रधानश्चुत्यनुरोधाद्यदा क्रमोडयं स्यात्। ध्रुत्यन्तरप्रसिद्धो वियतः सर्गो भवेत्परित्याज्यः ।। ७१।। वियतः सर्गो धर्मी प्राथम्यं तदूतं च यदपि स्यात्। तेजः प्राथम्यार्थे तदेतदुभयं हि बाधितं भवति ॥ ७२॥ योऽसौ क्रमः स च स्यात्सदाऽर्थधर्मो न चायमिह धर्मी। तत्र प्रधानधर्मित्यागाद्दि वरं हि धर्मलोपः स्यात् ॥७३॥ अपि च च्छान्दोग्येऽ्मिन्क्मपरशब्द्रो न दृश्यते कोडपि। आर्थिकभावेनासौ क्रमो भवेन्नैव मुख्यभावेन।। ७४ ॥ स च वायोरग्गिरितिश्रुतिप्रसिद्धक्रमेण वार्येत। प्राथम्ये हि विकल्पः शाखाभेदात्समुच्चयो वाडपि।। ७५।।

Page 167

तृतीयपाद: ३] माप्यार्थरत्नमाला। १६

द्विदलाक्कुशवत्स्यादिति पक्षोऽप्येतेन परिहतो भवति। तस्माद्विप्रतिषेध: ध्रुत्योरनयोर्न चास्ति कश्रिदृपि॥ ७६॥ अपि किल येनाश्ुतमिति वाक्यं सकलं समर्थयितुमत्र। असमाम्नातमपीद वियदुत्पत्तावपेक्षितं चेत्स्यात्॥७७॥ कस्मान्न ग्ुह्यते वा वियदेतत्तैत्तिरीयकाम्नातम्। यञ्चोक्तं वियतः किल सर्वेणानन्यदेशकालत्वात् ॥७८ ।। तङ्गह्मणा च कार्यैवियद्पि सह विदितमेव भवतीति। नाप्यद्वितीयविषयश्चुतिकोपो भवति चह कश्विदृपि॥ ७॥ अव्यतिरेकः क्षीरोदकवद्वह्मान्तरिक्षयोर्यस्मात्। इति तु न युक्तं यदि चेदेकज्ञानेन सर्वविज्ञानम्॥८०॥। क्षीरजलन्यायेन स्याच्चेत्तदिदं ह्ययुक्तमेव स्यात्। इह च मृदादिभिरेव हि दृष्टान्तैः प्रकृतिविककृतिभावेन ।।८? । सर्वज्ञानं यदिद नेतव्यं तदिति गम्यते नान्यत्। तदिदं सर्वज्ञान सम्यग्ज्ञानं न चान्यथा भवति ॥८२॥ क्षीरज्ञानगृहीतं जल न सम्यग्गहीतमिह भवति। भवति न पुरुषाणामिव वेदस्यालीकवञ्चनाद्यखिलम्॥८३॥ नाप्येकदेशविषयं सर्वज्ञानं स्वकार्यसापेक्षम्। एकाद्वितीयतादेरवधारणमषि तथेति नो युक्तम् ॥८४॥ सर्वत्र संभवादिदमपूर्ववच्चेह नोषदेष्टव्यमू। तस्मादृशेषविषयं सवज्ञानं तदत्र निर्दिष्टम् ॥८५॥ तदुपन्यासो योऽसी सर्वस्य ब्रह्मकार्यतापेक्षः। गौणी जन्मश्ुतिरिति यच्चोक्त तन्निरस्यते सपदि ॥ ८६ ॥ यावद्विकारं तु विभागो लोकवत् ॥७ ॥

जन्मासंभवशङ्कानिवर्तनार्थस्तुशब्द इह भवति। यस्माद्यावत्किंचिद्विकारजातं घटादिकं हटम्॥८७॥ तावद्विमक्तमेव हि घटपटकटकादि दृश्यते लोके। न त्वविकृतं हि किंचिद्विमक्तमुपलभ्यते कुतश्र्विदृपि,॥ ६।। अत्र पृथिव्यादिभ्यो विभाग उपलभ्यते हि वियताडपि। तस्माद्धि वियद्पीदं भवति विकार: कदाऽपि नाविकृतमू।।९।।

Page 168

१६४ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

एतेन व्याख्यातं दिगादिकानामपीह कार्यत्वम्। नन्वात्माऽपि विभक्तो वियदादिम्योऽवगम्यते लोके ।। ९० ।। तस्मात्सोऽपि विकारो घटवत्स्यादितीह नाऽडशङ्क्यम्। यो धर्मिसत्तया किल समसत्ताको भवेद्विभागोऽसौ ॥९१॥ हेतुः स चायमात्मनि न संभवेद्येन कल्पितोऽयं स्यात्। हेतावज्ञानान्यङ्रव्यत्वमपीह पूरणीयं स्यात् ॥२॥ एवं चेद्यभिचारो नाज्ञाने वा तदीयसंबन्धे। आत्मन आकाश इति श्रुत्याऽडकाशादिकारणत्वेन । ९३॥ निर्धारितोऽयमात्मा कथं विकारो यथा विकार: स्यात्। आकाशादिक मेतत्कार्यं सकलं निरात्मकं भवति ॥९४॥ एवं च शून्यवाद: स्यादत आत्मा कदाऽपि न विकारः। योऽसी सर्वस्याऽडत्मा जगतः सर्वस्य कारणीभुतः ॥९५॥ स ह्यात्मेहशरूप: केन कथं वा क्व वा निराक्रियते। अनपेक्ष्य च प्रमाणं सोडसावात्मा भवेत्स्वयं सिद्धः ॥ ९६॥ वियदाद्यः पदार्थाः केनचिदृपि नैवमभ्युपेयन्ते। सर्वव्यवहाराणामाश्रयभूतो यतोऽयमात्मा स्यात् ॥९७॥ प्राग्व्यवहारात्सिद्धः स चायमात्मा कथं निराक्रियते। जानामि वर्तमान ह्यतीतमज्ञासिषं तथैवाहम् ॥९८॥ ज्ञास्याम्येवमनागतमित्येवं ज्ञातुरेव सर्वत्र। प्रत्यभिसंधेर्योगादात्मा नित्यो न चैवमाकाशः ॥९९। समजातीयमनेकं व्योन्न उपादानकारणं यस्मात्। नैवोपलभ्यतेऽतो नित्यं वियदिति हि यञ्च पूर्वोक्तकम्॥१००॥ तद्नुपपन्नं यस्माङ्व्यारम्भेऽत नास्ति नियमोऽसौ। आरभते किल कायं समजातीयं न चान्यदित्येवम् ॥१०१॥ यदि चैवं नियम: स्यात्पटादिकार्यं कथं भवेत्तत्र। तन्तौ तत्सयोगे समजातीयत्व मसुलभं हि यतः ॥१०२॥ समवायिकारणस्याप्येवंरूपो हि नैव नियम: स्यान्। सूत्रैरगोवालैरप्येका रज्जार्है सृज्यते यस्मात् ॥ १०३॥ आरमते किल कार्य नैवैकं कित्वनेकमेवेति। नैवायं नियम: स्याद्यतश्र परिणामवाद इह भवति॥१०४॥

Page 169

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। १६५

परिणमते किल लोके क्वचिदेकमनेकमपि च परिणमते। मृद्ीजादिकमेतत्त्वनेकमेवाङ्कुरादिभावेन ॥ १०५ ॥ क्षीरादि तु परिणमते ह्येकं दध्यादिकार्यभावेन। नैवेशशासनं स्यादनेकमुत्पादकं न चैकमिति ॥१०६॥ तस्माच्छृत्यनुसारादेकस्माङ्गह्मणो हि जगदखिलम्। जायत इति सिद्धं तत्क्षीरवदित्यत्र हृश्यते सूत्रे ॥। १०७॥। आकाशस्योत्पत्ती पूर्वापरकालयोविशेष: स्यात्। इति किल नैवाSडशङक्यं यश्च विशेषो हि दश्यते सपदि॥।१०८॥ वियति पृथिव्यादिभ्यः स हि पूर्वं नेति गम्यते वियति। पृथव्यप्तेजोवायुस्वभावविधुरं यथा भवेद्बह् ॥ १०९ ॥ प्रागुत्पन्तेरेवं वियत्स्वभावेन वर्जितं भवति । तस्माद्वियदृपि कार्य यथा पृथिव्यादि तद्देव स्यात् ॥ ११० ॥ एवमनित्य गुणाश्रयभावेनानित्यता भवेद्वियतः । अमृतत्वश्रुतिरषि या वियतो नित्यत्वबोधिका साऽवि ॥ १११ ॥ अमृता देवा इतिवच्चिरकालावस्थितत्वसापेक्षा। आकाशस्य जनिश्रुतिरपि गौणी ब्रह्मशब्दवत्तपसि ॥११२॥ इति तु निराकृतमत इह वियदेतद्रह्मकार्यमिति सिद्धम्। एतेन मातरिश्वा व्याख्यातः ॥। ८ ।। अतिदेशत्वात्पृथगिह संगत्यन्तरमपेक्षते नेदम् ॥११३ ॥ व्याख्यानेन हि वियतो व्याख्यातो भवति मातरिश्वाऽपि। छान्दोग्य: स हि पूर्व बलवत्तरतैत्तिरीयकश्चुत्या ।। ११४॥ नयनादुक्तसप्टरि समन्वयोऽसौ तदेकवाक्यतया। एवं सत्याकाशानन्तरता तेजसोऽस्य लब्घैव ॥ ११५॥ तुल्यवदानन्तर्यं भवति यदा वायुतेजसोरनयोः। वायोरगनिरितीह क्रमभुतिर्या हि बाधिता सा स्यात् ॥ १६६॥ पौर्यापर्ये च पुनस्तेजःप्राथम्यभङ्ग एव स्यात्। तन्भङ्गे च श्रुत्योस्तदेकवाक्यत्वमनुपपन्नं स्यात् ॥ ११७॥ इति गौणवादपरतामाश्रित्येहापि पूर्वपक्ष: स्यात्। उत्पत्तिपरे वाक्ये छान्दोग्येऽसी न दृश्यते वायुः ॥११८॥

अुत्योर्विप्रतिषेधे चोत्पंत्तिश्चुतिरियं हि गौणी स्यात् ॥ ११९॥

Page 170

१६६ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

यस्मात्सैपत्यादिश्वुतिरस्तमयं निवारयत्यस्य । इत्याक्षेपं निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना ॥१२० ॥ उत्पद्यते हि वायुर्यतः प्रतिज्ञानिरोध इह मवति। अभ्युपगतं हि यावद्विकारजातं विभक्तमिह यस्मात् ॥ १२१॥ अस्तमयप्रतिषेधश्वापरविद्यापरो न मुख्यः स्यात्। अमृतत्वादिभ्रवणं व्याख्यातार्थं हि भवति पूर्वत्र ॥१२२ ॥ नन्विह वियतो वायोरुत्पत्तिप्रकरणे हि तुल्यतया। श्रवणादिद्मधिकरणं भवेदिहैकं न चातिदेशोऽयम्॥१२३ ॥ इति चेन्मन्दधियामिह कदाचिदेषा हि शब्दमात्रकृता। शङ्का स्यादिति मत्वा ह्यतिदेशोऽयं प्रदशितो मुनिना ॥१२४ ॥ संवर्गवाक्यशेषे यदसो वायुः श्रुतो महामागः । असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ ननु यदि वियदादीनामुत्पत्ति: सा परात्मनोडपि स्यात् ॥१२५।। वियतो विकाररूपाद्विकाररूपो यथा भवेद्ायुः । स्याद्रह्मणो विकाराद्वियदादीनां तथैव चोत्पत्तिः १२६।। स्याच्चेदनाद्यनन्तं महतः परमिति हि गौणमेतत्स्यात्। अमृतत्वं हि यथा वा वाय्वादे: स्यात्तथैव चेहापि॥१२७ ॥ त्वं जातो मवसीति श्रुतिर्हि मुख्यार्थबोधिका वाच्या। तस्मात्परात्मनोऽपि स्यादुत्पत्तिः कुतश्चिदिति शङ्काम्॥ १२८॥ निरसितुमसंभवस्त्विति मुनिना रचितं तदेतद्धिकरणम्। न ब्रह्मण: सतोऽस्य स्यादुत्पत्तिः कुतश्विदन्यस्मात् ॥१२९॥ सद्ूपं ब्रह्म यतो न मवेत्सत एव तस्य चोत्पत्तिः । प्रकृतिविकारात्मकताऽप्यसति विशेषे हि न क्वचिद्दृष्टा ॥१३०॥ नापि विशेषात्सत इह सत्सामान्यं हि शङ्कितुं शक्यम्। लोके मृदो घटादिमृच्च घटादेन दृश्यते क्वापि॥ १३१ ॥ नाप्यसतो वा सत्स्यादसद्यदेतन्निरात्मकं दषम्। श्रतिरेषा हि स कारणमित्याद्या या च दश्यते साऽपि। १३२। अधिपं च जनयितारं परात्मनोऽन्यं नचेति वारयति। त्वं जातो मवसीति श्रुतिरौपाधिकजनिप्रधानैव॥। १३३ ॥

Page 171

तृतीयपाद: ३] माष्यार्थरत्नमाला। १६७

तेजोऽतस्तथा ह्याह॥ १० ॥ छान्दोग्ये तत्तेजोऽसृजतेति श्रूयते हि वाक्यमिदम्॥ १३४ ॥ तेन च सन्मूलत्व प्रतीयते चास्य तेजसस्तस्मात्। तस्यैव तैत्तिरीयकवाक्ये हष्ट हि वायुमूलत्वम् ॥१३५॥ एवं विप्रतिपत्ती प्राप्तं हि ब्रह्मयोनि तज इति। तत्तेजोऽसृजतंति ह्युपदेशोऽयं च तत्परो येन ॥ १३६ ॥ एवं चेदेत(?) स्यादेकज्ञानेन सर्वविज्ञानम्। वायोरगनिरितिश्रुतिरषि वाय्वगन्योः क्रमार्थिका भवति ॥१३७॥ एवं प्राप्ते बते तेजोऽतो जायते हि मरुत इति। आह श्रुतिरेषा किल वायोरगनिरिति चेममेवार्थम् ॥ १३८॥ इह चापादानार्था न च क्रमार्था हि पञ्चमी सेयम्। आत्मन आकाश इति प्रथममपादानपञ्चमी दृष्टा ॥१३९॥ नैव पुरस्तादपि किल सा संभवति क्रियानिमित्तैव। सभवतेरधिकारे तुल्ये कथमर्थभेद इह भवति ॥१४० ॥ अपि च क्रमार्थकत्वे वायोरुर्ध्वमिति कल्पनीया स्यात्। उपपदयोग: सोडयं कारकयोगाद्धि दुर्लमो भवति ॥१४१॥ श्रुतिरेषा तस्मादिह गमयति खलु वायुयोनि तेज इति। तत्तेजोऽसृजतेति श्रुतिरन्या ब्रह्मयोनि तेज इति ॥१४२॥ गमयति यद्यपि तस्या: परम्पराजनिपरत्वमेव स्यात्। तस्या: श्रुतमामिक्षा दधि तस्या इति हि दृष्टमन्यत्र ॥ १४३ ॥ ईशस्मरणमपीदं भवन्ति भावा इतीह गमक स्यात। इह चाक्रमवचनानां बलवत्क्रमपरतदेकवाक्यत्वात् ॥ १४४।। वियदादिकारणेडस्मिन्त्रह्मणि तेषा समन्वयः सिद्धः। आपः ॥११ ॥ इह खलु मुण्डकवाक्ये खं वायुरज्योतिराप इत्यन्ते ॥!१४५॥ ब्रह्मप्रभवत्वमपां श्तमन्यत्राग्गिजत्वमपि तासाम्। तस्मात्तयोविरोधेनैवासामग्निजत्व सिद्धि: स्यात् ॥१४६ ॥ यत इह दृष्टा लोके ता आपो ह्यगगिदाह्यभावेन। एतस्मादिति तत्र क्रमार्थिका पञ्चमीति शङ्कायाम् ॥१४७॥

Page 172

१६८ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य -

तेजोन्याय इहापि स्यादित्यतिदिशति सूत्रकारोऽयम्। प्रत्यक्षतो विरोधे कथमासामग्निजत्वमिति चेन्न ॥१४८॥ ये च त्रिवृत्कृते ते तयोिरोधो हि दृश्यते नेह। श्रुतिवचनाद्विरोधो निर्णीतो वेन चात्रिवृत्कृतयोः ॥ १४९॥ के वलमतिदेशो न श्रुत्यविरोधप्रदर्शनार्थः स्यात्। पञ्चमहाभूतानामुत्पत्तिक्र मनिरूपणार्थक्र ॥ १५०॥ तेजोभावापन्ने परे श्रुतीना समन्वयस्तस्मात्। पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।। १२॥ इह किल ता आप इति च्छान्दाग्यवाक्यमेतदुपलब्धम्॥१५१॥

इह चान्नशब्दलभ्यो व्रीह्यादिर्वाऽथवारडैपि पृथिवी वा ॥१५२॥ शब्दप्रकरणयोगादिह संदेह समुत्थिते तत्र। ब्रीहियवाद्येवान्नं सत्यां वृष्टौ तदेव बहु भवति ॥१५३॥ इति शङ्कामपनेतुं पृथिवीं निर्दिशति सूतकारोऽयम्। पृथिवीयमन्नशब्दात्प्रतीयते नौदनादि किंचिदपि ॥१५४॥ अधिकाररूपशव्दान्तराणि लिङ्गानि तत्पराणि यतः । प्रकरणमधिकारः स्यात्स खलु महाभूतगोचरो दृष्टः ॥१५५॥ पृथिवीं क्रमागतामिह विलङ्ध्य नौदनपरिग्रहो न्याय्य:। इह वाक्यशेषदटृष्ट तदनुगुणं दश्यते हि रूपमपि ॥१५६ ॥। यत्कृष्णमित्यनेन प्रदर्शितं कृष्णरूपभेव(वा)स्याः। ब्रीहियवादौ तु पुनः कृष्णत्वं नोपलभ्यते नियतम् ॥१५७ ॥ क्वचिदिह पाण्डुरवर्णा लोहितवर्णा च दृश्यते पृथिवी। एवमपि नेह दोषो बाहुल्यापेक्षया हि कृष्णत्वम् ॥१५८॥ पौराणिकाश्र तद्त्कृष्णं रूपं प्रदर्शयन्त्यस्या: । तस्मात्कृष्णं रूपं भवति पृथिव्या न चेतरस्येदम् ॥ १५९॥ शुत्यन्तरमप्यदम्यः पृथिवीत्येवं हि दृश्यते यदपि। तद्पि ह्यद्भ्य: सृष्टां पृथिवीं दर्शयति नौदनादि तथा ॥१६०॥ पृथिवीसृष्टेः पश्चाद्वीह्याद्य्पत्तिरमिहिता यस्मातू ।

Page 173

तृतीयपाद्ष: ३ ] माष्यार्थरत्नमाला। १६९

तस्मादिहान्नशब्दात्पृथिवी स्थान्नौदनादि किंचिदृपि॥१६१॥ लोकप्रसिद्धिरपि या साऽप्यधिकारादवाधिता मवति। योऽसौ हि वाक्यशेषो यत्र क्व च वर्षतेति सोऽन्नस्य ॥१६२ ॥ पार्थिव तामुक्त्वाऽसावदूम्य: पृथिवीसमुन्धवं वक्ति। एवं हि तैत्तिरीयभ्रुतिमाभित्यैव तदनुसारेण ॥ १६३ ॥ छन्दोगश्रुतिनयनादविरुद्धो भूतसृष्टिवाक्यानाम्। ब्रह्मणि परमानन्दे समन्वयः सपदि तानि भूतानि ॥१६४ ॥ आभित्य परिहरिष्यति तत्स्वातन्त्रयैकविषयकां शङ्काम्। तदभिध्यानादेव तु तह्िङ्गात्सः ।।१३॥ स्वयमेव स्वविकारान्सृजन्ति वियदादिकानि भूतानि ॥१६५ ॥ परमेश्वर एवासी तदात्मनैवावतिष्ठमानः सम्। तत्तद्विकारजातं किममिध्यायन्हि सृजति वेत्येतम् ॥१६६ ॥ संदेहे सति तावत्स्वयं सृजन्तीति युक्तमाभाति। ्रुतिराकाशा्वायुर्वायोरमनिरिति बोधयत्येव ॥१६७ ।। स्वातन्त्रयं भूतानामतः सृजन्त्येव तानि भूतानि। तत्तेज ऐक्षतेति श्रुतिर्षतश्चेतनत्वमपि वक्ति ॥१६८॥ इति शक्टां वारयितुं तदेतदमिधीयते हि सूत्रकृता। परमेश्वर एवासी सृजति स्वयमेव तानि भूतानि ॥१६९ ॥ तान्येवामिध्यायंस्तदात्मनैवावतिष्ठमानक्। तदभिध्यानादेव हि तेज:प्रमुखेषु चेक्षणं मवति ॥१७० ॥ सर्वनियन्तृत्वं यल्लिङ्गं तस्यैव मवति नान्यस्य। अन्तर्यामिपरेऽस्मिन्बाह्मणवाक्ये हि दृश्यते तदिदम् ॥ १७१ ॥ सोडकाभयतेत्य स्मिंस्तन्य(त्र) च सर्वात्मभाव उपदिष्ट: । विपर्ययेण तु क्रमोऽत उपपयते च ।। १४ ॥ श्रुतिकृतविरोधशङ्का यद्यपि नैवेह परिहृताऽथापि ॥१७२॥ भूतानामुत्पत्तिक्रमे तु बुद्धाविहाधिरूढे हि। विलयक्रमोऽपि तेषां बुध्यारूढो विचार्यते सपदि॥ १७३॥ किमनियतेनैतेषां क्रमेण विलय: किमन्यथा वा स्यात्। भूतोत्पत्तिक्रमतस्तद्विपरीतेन वेति संदेहे ॥ १७४ ॥ २१

Page 174

१७० सुब्ह्मण्यविरचिता- [२ द्वितीयाय्यायस्य-

उत्पत्तिस्थितिविलया ब्रह्मायत्ता यतो हि मूतानाम्। तत्र विशेषामावादनियम एवेह युक्त आमाति॥१७५॥ अथवैतेषां विलय: स्यादुस्पत्तिक्रमानुरोधेन । इत्याशङ्कायोगात्तदेतदभिधीयते हि सूत्रकृता ॥ १७६॥ विपरीतक्रम एव स्यादुत्पत्तिक्रमाद्दि विलयस्य। सोपानारोहादौ यथाऽवरोहक्रमो हि विपरीतः ॥ १७७ ॥ ओषध्यादिकमेवं सृदि बिलयं याति सृदपि चाप्सवेव। आपस्तेजसि तेजो वायी वायुश्र वियति वियद्पि च ॥१७८ ॥ बह्मणि विपरीतेन क्रमेण सकलं हि विलयमुपयाति। स्सृतिरषि जगत्प्रतिष्ठेत्याद्या विलयक्रमं हि विपरीतम् ॥ १७९ ॥ दर्शयति येन तस्मान्नैवोत्पत्तिक्रमो हि मवतीह। यदयत्पत्तिक्रम इह विलयेऽपि स्यात्तदा भवेदेवम् ॥१८० ॥ समवस्थितेऽपि कार्ये कारणविलयश्च जगति दृश्येत। कार्याप्यये तु कारणसमवस्थानं हि दृश्यते लोके ॥ १८१ ॥ तस्माद्विपर्ययेण क्रमो हि विलयस्य युक्त एवेह। अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥१५॥ भूतानामुत्पत्तिपल बावेतौ श्रुतिस्मृतिप्रथितौ ॥ १८२ ॥ अनुलोमप्रतिलोमक्रमेण तौ भवत इति हि निर्दिष्टम्। उत्पत्तिश्रचाSडतनादि: प्रलयश्राऽडत्मान्त इत्यपीहोक्तम् ॥१८३॥ इह सेन्द्रियस्य मनसो बुद्धेरपि दश्यते हि सन्भावः। बुद्धिं तु सारथिमिति श्रुतिवाक्ये तत्परं यतो लिङ्गम् ॥१८४ ॥ उत्पत्तिप्रलयौ किल संग्राह्यावेतयो: क्वचिन्द्वतः । अभ्युपगतं हि यस्माङ्गह्मप्रमवं हि सकलमेतदिति ॥ १८५॥ अपि चैतस्माजजायत इति मन्त्रे सेन्द्रियं मनोऽधीतम्। उत्पत्तिपरे वाक्ये भूतानामात्मनोऽन्तराले हि॥ १८६ ॥ करणानामुत्पत्तिक्रमोऽयमपरी हि हश्यते तत्र। एवं सति च विरोधो भवति हि तित्तिर्यथर्वणभुत्योः॥।१८७॥ एवं सति च विरोधाच्छत्योर्ब्रह्मणि समन्वयोऽसिद्धः। तस्मादुक्तोत्पत्तिक्रमविलय क्रमविभङ्ग इति चेन्न ॥ १८८॥ आत्मन आकाश इति श्रुतिवाक्ये पञ्चमी हि निर्दिषा। तस्याश्र कार्यकारणभावेनार्थक्रमः प्रतीयेत।१८९।

Page 175

तृतीयपाद: १ ] माष्यार्थरत्नमाला। १७१ पाठक्रमसूत्रं स्यादथर्वणे तेन चेह न विरोध: । पाठक्रमाद्वि बलवानर्थक्रम इति हि शास्त्रमर्यादा॥ १९० ॥ तस्मात्करणानामिह मूतानन्तर्यमेव युक्तं स्यात्। यस्माच्च मौतिकानि हि करणानि मनःपुरःसराणि स्युः॥१९१॥ भूतोत्पत्तिक्रमतो न तदुत्पत्तिक्रमे विशेष: स्यात्। अन्नमयं हीत्येषा करणानां भौतिकत्वमाचषे ॥ १९२॥ अथ चेदमौतिकानि हि करणानि तथाऽपि चात्र न विरोधः । भूतानन्तरमेव हि करणानि भवन्ति नैव तत्पूर्वम् ॥१९३ ॥ एवं पृथगाम्नातः प्रजापतिर्वेति मन्त्रवाक्ये यः । मूतकमाद्ि करणक्रमः स चायं हिनो विरुद्धः स्यात् ॥१९४॥ तस्मात्समख्जसः स्याद्मृतोत्पत्तिक्रमोऽयमुपदिक्षः। चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशो

तत्पदृवाच्यार्थस्य हि कारणरूपस्य निर्णयायैव ॥१९५॥ भूतश्रुतिवाक्यानां विरोधशक्का निराकृता पूर्वम्। इह चाSड पाठ्समाप्तेसतवंपद्वाच्यार्थसि्द्ये भूयः ॥ १९६ ॥। जीवश्नुतिवाक्यानां विरोधशङ्का निरस्यते सपदि। जातेष्टिदर्शनेन हि न जायते म्रियत एवमादीनाम् ॥ २९७॥ श्रुतिवचसां हि विरोधे जीवाजत्वश्रुतोर्हे बाधः स्थात्। तेन च जीवोत्पत्तिक्रमेण भूतक्रमस्य बाध: स्यात् ॥१९८॥ इति शङ्कामुद्धतुं मुनिना रचितं तदेतद्धिकरणम् । चेतनमुदिश्यैव हि जातेष्ट्यादि च विधीयते लोके ॥ १९९।। उद्देश्यमिह विधेयाविरोधतो नेयमिति नयो दृष्टः। तेन च जातेत्यादिकमखिलं देहादिजन्ममूलं स्यात् ॥ २०० ॥ न हि जीवस्य कदाचिज्जन्म लयो वा स्वतोऽस्य संभवति। यदि देहामुविनाशी जीव: स्याच्छास्त्रमेतद्फलं स्यात् ॥ २०१॥ इष्टप्राप्तिफलं यद्विधिशास्त्रमनिष्टनिरसनार्थं यत्। प्रतिषेधज्ञास्त्रमसति ह्यधिकारिणि कुत्र सफलमेतत्स्यात् ।२०२७ तस्मान्न जायतेऽसी न म्रियते जीव एष नित्य: स्यात्। श्रुतिरपि जीवापेतं वावेति किलैतमर्थमुपदिशति॥ २०३॥

Page 176

१७२ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

जन्ममृतिव्यपदेशो लोके हष्टः स माक्त एव स्यात्। स्थावरजङ्गमदेहव्यपाश्रयौ जन्ममरणशब्दौ स्तः ॥२०४॥ तत्र हि मुख्यौ सन्तावुपचर्येते तदाभ्रिते जीवे। देहोद्भवामिमवयोरेती शब्दौ यतो हि हश्येते ॥ २०५॥ दर्शयति श्रुतिरेषा स वा अयं पुरुष एवमाद्या हि। तनुसंयोगवियोगायत्ताविति जन्ममरणशब्दी द्वौ॥ २०६॥ जातेष्ट्यादिविधानं सकलमपि शरीरजन्मसापेक्षम्। स्थूलावुत्पत्तिलयौ तस्माद्देहव्यपाश्रयावेव ॥२०७।। न हि जीवे तावेसावितीह सूत्रे निराकृतौ भवतः । वास्य परस्मादुदयो वियदादीनामिवास्ति नास्तीति ॥ २०८॥ शङ्का निरसितुमेतामुत्तरसूत्रं मुनि: प्रदर्शयति।

देहेन्द्रियसंघाताध्यक्षे जीव: प्रसिद्ध आत्माऽसौ॥ २०१॥ देहोत्पत्तिलयाभ्यामस्पृष्ट इतीह दर्शितं पूर्वम्। भवतु तथाऽप्ययमात्मा वियदादिवदात्मनः परस्माद्दि ॥ २१०॥ उत्पद्यत इति वाच्यं यतः प्रतिज्ञा हि नोपरुध्येत। आम्नातैवोत्पत्तिर्यथा सुदीप्तादिति श्रुतावपि च ॥ २ ११॥ अविकृत एव परात्मा प्रविष्ट इह जीवभावमापन्नः। एवं सति प्रतिज्ञा सम्जसैवेति नेह युक्कतमम् ॥२१२॥ अपहतपाप्मत्वगुणः परमात्मा गीयते हि सर्वत्र। तद्विपरीतो जीवो धर्माधर्मादिसाधनो यस्मात् ॥ २१३॥ एवं लक्षणभेदे जाग्रति कथमैक्यमेतयोर्भवति। वियदादि यद्विमक्तं तत्सवं विकृतभेव हष हि॥ २१४ ॥ परमात्मनो विभक्तो जीवोऽसावपि विकार एव स्यात्। यञ्च प्रवेशवाक्यं स एष इत्यादिमन्त्रपरिपठितम् ॥२१५॥ वद्पि च विकारमाधापत्या तस्योपपादनीय स्यात्। जीवोत्पत्तिस्थितिरिह वाक्ये यद्यपि न हश्यतेऽथापि॥ २१६॥ क्वचिद्श्ुतमन्यत्र श्रुतं न वारयितुमर्हतीति नयात्। उपसंहर्तव्येयं जीवोत्पत्तिर्हि भवति सर्वत्र ॥२१७॥ उत्पद्यते स तस्मात्तस्य च योऽसावजत्वनिर्देशः। कल्पान्तरालजननप्रतिषेधार्थो हि सोऽयमिति चेन्न ॥ २१८॥

Page 177

तृतीयपाद: ३ ] माष्यार्थरत्ममाला। १७२

योऽसावात्मा जीवः स च खलु नोत्पद्यते कदाचिद्पि। जीवोत्पत्तिरियं न शुत्यन्तेषूपलभ्यते क्वापि ॥ २१९॥ उत्पत्तिरेव तस्य हि कथमपि वियदादिवन्न संभवति। नित्यत्वमेव तस्य श्रुत्यन्तेभ्योऽवगम्यते यस्मात् ॥ २२० ॥ सूत्रस्थाज्ज चशब्दादजत्वमयगम्यते हि तस्यैव। अविकारत्वं च तथा परात्मनो ह्यविकृतस्य जीवतया ॥२२१॥ समवस्थानं ब्रह्मस्वरूपता लभ्यते हि तस्यैव। उपपद्यते हि सा कथमेवंरूपस्य तस्य चोत्पत्तिः ।। २२२ ।। हश्यन्ते हि श्ुतयो न जायते ब्रियत एवमाद्या हि। एष महानज आत्मेत्येवमजो नित्य एवमाद्याक्ष ॥ २२३ ॥।

तत्त्वमसीत्याथ्या अपि तथा स एष इति चैवमाद्याक् ॥ २२४ ।। नित्यत्वमभिद्धाना जीवोत्पत्तिं निवारयन्त्येव। ननु जीवो हि विमक्तो विकार एवेति युक्तमिति वेन्न ॥ २२५॥ नास्य स्वतो विभागो मवति हि बुध्द्ादयपाधिमूलोऽसी। एको देव इति श्रुतिरेकत्वं येन दर्शयत्यस्य ॥ २२६॥ तस्वैकस्पैवाऽडतमन उपाधिमयतां प्रदर्शयत्येषा। अयमात्मा ब्रह्मेति ह्यादिश्य ब्रह्मरूपतामस्य ॥ २२७॥। विज्ञानमथत्वादिकमस्याविकृतस्य दर्शयत्येषा। तन्मयता हि विविक्तस्वरूपविज्ञानविधुरतामूला॥२२८॥ जाल्म: स्ीमय इतिवत्तन्मयता तदुपरक्ततारूपा। जीवस्थोत्पत्तिलयश्रवणं यदपीह हश्यते तदपि ॥२२९ ॥ तसदुपाध्युत्पत्तिप्रलय प्रतिसंधिपरतया नेयम्। विज्ञानघन इतीह श्रुतिरियमप्येतमर्थमुपदिशति ॥२३०॥ तनुरूपपरिणतेष्यो मूतेभ्योऽसी जनिं समालम्ब्य। तान्येव लीषमानान्यनुसृत्यायं विनाशसुपयाति ॥२३१॥ इत्यौपाधिकमरणानन्तरमेतस्य नास्ति संज्ञेति। एवमुपाधिप्रलयाधीनः प्रलयोऽस्य न स्वतोऽस्तीति ॥ २३२ ।। श्रुतिरत्रैवेत्याद्या प्रश्नपुरःसरमिदं प्रदर्शयति। आत्मा विज्ञानघनः प्रेत्य च संज्ञा न तस्य काचिदिति ॥२३३ ॥

Page 178

१७४ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्प-

आपादितवान्मोहं बूहि न जानामि तन्ममेत्येवम्। सति मैत्रेयीप्रश्ने न वा अरे अहमितीह दर्शयति॥२३४॥ मुनिरविनाशित्वादयं मात्रासंसर्गमस्य यत एवम्। आत्माऽसी नित्यः स्यादिह प्रतिज्ञानुरोध एवं स्यात् ॥ २३५॥ अविकृत एव परात्मा न जीवमावेन देहसंस्थ इति। लक्षणभेदोऽप्यनयोरुपाधितन्त्रो न वस्तुतन्त्रः स्यात् ॥२३६॥ यस्मावृत ऊर्ध्वमिति श्रुतिरेंषा तस्य दर्शयत्येवम्। विज्ञानादिमयस्य प्रकृतस्यैवाऽडत्मनो हि सकलमिदम् ॥२३७॥ संसारधर्मजातं प्रत्याख्यायोपदिशति तस्यैव। परमात्मभावममलं स कर्थं ब्रियेत वाऽथ जायेत ॥। २३८॥ तस्मादात्मा नित्यो नैवोत्पद्येत न प्रभीयेत। ज्ञोऽत एव ॥ १८॥ संप्रत्यात्मैवास्य ज्योतिर्भवतीति वेदवाक्यानाम्॥ २३९॥ पश्यंश्रक्षुः गृण्वञभ्रोत्रमिति श्रुतिवचोभिरन्योन्यम्। ज्ञानानित्यत्वपरैर्यश्र विरोधो निरस्यते सोडयम् ॥ २४० ॥ जीवस्यानुत्पत्तावपि नासौ स्वप्रकाशचितूपः । आगन्तुकचैतन्यः काणमुजानामिवायमात्मा स्यात् ॥ २४१॥ यदि नित्यं चैतन्यं तस्य भवेत्सुप्तमूर्छिितादीनाम्। चैतन्यं कि न भवेत्साधनवैयर्थ्यमपि च दुर्वारम्॥ २४२॥ आगन्तुकचैतन्ये ब्रह्मैक्यं तस्य मवति कथमिति चेत्। तस्योत्तरमेतत्स्वादात्माSसौ भवति नित्यचैतन्यः ।। २४३ ।। नोत्पद्यते यतोऽयं परमेव ब्रह्म यद्पि चाविकृतम्। वुध्ादयृपाधियोगात्तदेव जीवात्मभावमापन्नम् ॥ २४४॥ यद्धि परं ब्रह्म स्पात्तन्नित्यस्वप्रकाशचिट्ूपम्। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतिवचोभिराम्नातम् ॥२४५॥ यदि च परबह्मासौ जीव: स्यात्तार्ह नित्यचैतन्यः । भुतयो विज्ञानमयप्रकरणपठितास्तथैव हश्यन्ते॥ २४६ ॥ सोडयमसुप्तः सुप्तानर्थानभिलक्ष्य पश्यतीत्र्था। स्वात्मज्योतिः पुरुषः स्वापे मवतीति बोधयत्येका॥२४७॥ विज्ञातुविज्ञातेर्न विलोप इतीह बोधयत्यन्या। अथ यो वेदेदमिति प्रतिकरणं वेदनानुसंधानात्॥२४८॥

Page 179

तृनीयपाद: ३ ] माष्यार्थरत्नमाला। १७५ जीवात्मनोऽपि मवति हि नित्यज्ञानस्वरूपता सिद्धा। जीवस्य नित्यचेतनमावे घ्राणाद्यनर्थकं भूयात्।। २४९। इति तुन हि घ्राणादिकमन्यत्र गन्धादिविषयवृत्त्यर्थम्। गन्धाय घ्राणमिति[श्रुति]रप्युक्तार्थमेव बोधयति॥२५० ॥ सुप्तादिषु चैतन्यं स्यादिति शङ्काऽपि नेह कर्तव्या। श्रुत्येव परिहृतेयं पश्यन्वै तन्न पश्यतीत्यनया ॥ २२१॥ यदि चेतयमानत्वं सुप्तादिषु दश्यते हि तद्धि किल। न हि चैतन्याभावात्परंतु तद्विषयवृत्त्यमावेन ॥ २५२॥ वियदाश्रयः प्रकाशो यथा प्रकाश्यार्थविरहितत्वेन। नैवाभिव्यक्त: स्यात्तदवदिहापीति सर्वमनवद्यम् ॥ २५३ ॥। तस्मात्सिद्धं नित्यः स्वयंप्रमज्ञानरूप आत्मेति। उत्क्रान्तिगत्यागतीनाम् ॥१९ ॥ संप्रति किंपरिमाणो जीव: स्यादिति विचार्यते भूयः ॥ २५४॥ ननु जीवे निर्णीतं नित्यत्वं नित्यचेतनत्वमपि। अत इह परमात्माऽसौ जीव इति निरूपितं हि पूर्वत्र ॥२५५ ।। आम्नाता हि परस्य त्वमन्तता सा हि मवति जीवस्य। तेन घ परिमाणान्तरचिन्ता नेहोचितेति चेम्मैवम् ॥२५६ ॥ बत उत्क्रान्त्यादीनि ह्यस्य परिच्छेदमेव गमयन्ति। क्कचिद्णापरिमाणत्वं तस्यैवाऽSसनायते स्वशब्देन । २५७।। एतस्यानुकूलतामुपपाद्यितुं कृतोऽयमारमभ:। उत्क्रान्त्यादिश्ववणादणुरात्माSसी भवेत्परिच्छिन्नः ॥२५८॥ उत्क्रान्तिः स यदेति श्रुतिवाक्येनोपदर्शिता तस्य। गतिरपि ये वे के चेत्यनया श्रुत्योपदर्शिता मवति ॥२५९॥ आगतिरपि निर्दिष्टा तस्माल्लोकादिति श्रुतौ तस्य। उत्क्रान्त्यादिश्रवणार्स भवेदात्मा यदा परिच्छिन्नः ॥ २६० ॥ तनुपरिमाणनिरासादणुरयमात्मेति गम्यते हि तदा। स्वात्मना चोत्तरयोः ॥ २०॥ ग्राम्यस्वाम्यनिवृत्तिव दियमुत्कान्तिर्भवेदचलतोऽपि ।। २६१॥ नाचलतो हि कदाचन गत्यागमने तथोत्तरे मवतः । गमिधातुशयं यस्मात्कर्तृगतां हि क्रिया प्रदर्शयति ॥२६२॥

Page 180

१७६ सुब्ह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

गत्यागती त्वमध्यमपरिमाणस्याणुताप्रयुक्ते हि। एवं सत्युत्क्रान्तिर्देहादपसृप्तिरेव नान्या स्यात् ॥ २६३॥ चक्षुष्टो वा मूधो वेति कतिरेवमेव दर्शयति। आगतिमस्य स एतास्तेजोमात्रा इति श्रुतिर्वक्ति॥ २६४ ।। शुक्रमिति श्रतिरेषा गतिमपि सिद्धान्ततोऽणरात्मेति। नाणुरतच्छ्रतेरिति चेन्ने- तराधिकारात् ॥ २१ ॥ नन्वयमात्मा नाणुर्यतोऽनणत्वं हि तस्य निर्दिष्म ॥२६५।। एष महानज आत्मा फोऽयं विज्ञानमय इति श्रुतिषु। तस्मादणुपरिमाण: कथमयमात्मेति नेह शङ्का स्यात् ॥२६६॥। यस्मात्प्रकरणमेतङ्वह्मपरं मवति नैध जीवपरम्। विरजः पर आकाशावित्यपि वाक्यं परात्मपरमेव॥ २६७।। नन्विह शारीरोडयं महत्त्वयोगेन दर्शितो मवति। योऽयमिति श्रुतिवाक्ये विज्ञानमयो यतश्र शारीरः ॥ २६८॥ इति नेह शङ्कनीयं निर्देशोऽयं हि शास्त्रवृष्टयैव। मनुरहममवमिति यथा निर्वेशो वामवेवसंज्ञस्य॥ २६९॥ तस्मात्माज्ञस्यैव हि परिमाणान्तरमतोऽणुरात्माऽयम। स्वशब्दोन्मानायां च ।। २२ ॥। अयमणुरात्मा यस्मादणत्वमस्य श्रुतिर्हि निर्दिशति ॥२७७॥ एषोऽणुरिति श्रुतिरिह जीवं प्राणाभ्रितत्वयोगेन। निर्दिश्य दर्शयति किल तस्यैषाणुत्ववेदितिव्यत्वे ।२७१ ॥ उन्मानं किल यदिदं वालाग्रेतीह कर्शितं तदपि। एवं ह्युन्मानान्तरमाराग्रेति प्रदर्शितं तदपि॥ २७२ ॥ तेजोन्माने अपि खल्वणापरिमाणत्वमस्य दर्शयतः। ननु जीवस्याणुत्वे स चैकदेशस्थ एव देहे स्यात् ॥२७३ ॥ सकलशरीरगता कथमुपलब्धिर्दश्यते हि सा लोके। उपलभ्यते हि गङ्गाजलमग्नानां समग्रतनुशैत्यम् ॥२७४॥ परितापोऽपि तथैव च निदाघसमये हि सकलदेहगतः । अविरोधश्रन्दनवत् ॥ २३॥ इति चेद्यथा हि लोके हरिचन्दनबिन्दुरेकदेशस्थः ॥ २७५॥

Page 181

तृतीयपाद: ३] माष्यार्थरत्नमाला। १७७

सकलशरीरव्यापिनमाल्लादं जनयतीह तद्वद्यम्। देहैकदेशसंस्थो जनयत्युपलब्धिमखिलदेहगताम्॥ २७६॥ त्वक्संबन्धाच्चास्य हि सकलशरीरगतवेदना भवति। अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्ृदि हि॥ २४ ॥ नन्विह दृष्टान्तोऽयं विषमो नेहार्थसाधको मवति ॥२४७॥ हरिचन्द्नबिन्दुरसाविह खलु देहैकदेशसंस्थोऽपि। प्रत्यक्षेण हि दृष्टो जनयन्नाह्लादमखिलदेहगतम् ॥२७८ ॥ इह पुनरुपलन्धिरियं सर्वाङ्गव्यापिनी परं दृष्टा। नैवैकदेश संस्था प्रत्यक्षेणोपलभ्यते तस्य ।। २७९।। तस्यैकदेशसंस्थितिसाधकमनुमानमपि न देहेऽस्ति। उपलब्धिरियं किंवा कृत्स्नतनुस्थत्वगिन्द्रियस्यैव ॥। २८० ।। किंवा वियत इव विमो: किंवा देहैकदेशसंस्थस्य । इतिसंशयानिवृत्तेर्दष्टन्तो नेह युक्त इति चेन्न ।। २८१ ॥ देहैकदेशसंस्था वेदान्तेषूपलभ्यते तस्य। योऽयं विज्ञानमयः प्राणेष्वित्यादिवेदवाक्येन ॥ २८२॥। हृद्यन्तर्ज्योतिरिति श्रुतिवचसा हृदयदेशवृत्तित्वम्। यस्मादस्याभ्युपगतमत उपपन्नः किलैष दृष्ान्तः ॥ २८३।। दष्टान्तावैषम्याद्विरोध इतीह युक्तमेवोक्तमू।

गुणाद्वा लोकवत् ॥ २५॥ चैतन्यगुणव्याप्तेरविरोधो मवति लोकवच्चेह ॥।२८४।। य दून्मणिप्रदीपप्रभृतीनामेकदेशसंस्थानाम्। या च प्रमा तदीया सा चाधिकदेशसंगता दृष्टा ॥ २८५॥ नन्विह चन्दनबिन्दोरपि किल देहैकदेशसंस्थस्य। अवयवविसर्पणेन ह्याह्लाद्यितृत्वमुचितमेवास्य ॥ २८६ ॥ इह खलु जीवस्थाणोनित्यस्य तथैव सन्ति नावयवाः । केरवयवैः कथं वा सकलं देहं स विप्रसर्पेत ।। २८७।। इति शङ्कां वारयितुं सूत्रं तदिवं कृतं गुणाद्वेति। नन्विह कथं गुणोऽसी गुणिनमतिक्रम्य वर्तितुं प्रभवेत् ॥८८॥ पटगतशुक्कादिगुणो न पटादन्यत्र दृश्यते लोके। दीपप्रभा हि न गुणो दव्यान्तरमेव कितु सा भाति॥२८९॥ २३

Page 182

१७८ सुब्रह्मण्यविरचिता- [२ द्विवीयाध्यायस्य- निबिडावयवं तेजो द्रव्यं लभते प्रदीपसंज्ञां हि। विरलावयवं यदिदं तेजाद्रव्यं हि तत्प्रमा भवति ॥ २९०॥ तस्माद्युक्त एव ह्ययमपि दृष्टान्त इत्यतः पठति। व्यतिरेको गन्धवत् ॥ २६ ॥। तथा च दर्शयति ॥ २७ ॥ गन्धवतो द्रव्यस्य व्यतिरेकेणापि वर्ततेऽन्यत्र ॥२९१॥ गन्धो गुणो यथा वा चैतन्यगुणोऽपि तद्धदेव स्थात्। उपलभ्यते हि कुसुमेष्वप्राप्तेष्वपि च गन्धगुण एषः ।। २९२॥।

इत्येतद्यभिचरितं दृष्टो गन्धे यतश्र विश्लेषः ॥ २९३॥ गन्धस्यापि सहैषाऽडश्रयेण विश्लेप इति तु न हि युक्तम्।

क्षीयेत पूर्वसंस्थर्गुरुबुध्द्यादिभिरपीह हीयेत। सूक्ष्मा: कुसुमावयवा विप्रसृताः सर्वतो हि जनयन्ति ॥२९५॥ गन्धं प्रविशन्ति तथा नासापुटमिति न चेह युक्ततमम्। सूक्ष्मा ह्यतीन्द्रियास्ते स्फुटो हि गन्धः प्रतीयमानोऽसी। २९६।। तस्मान्न किंचिदेतद्यथैव हष्ट तथाऽभ्युपेतव्यम्। दर्शयति श्रुतिरेषा तथैव हृदयालयत्वमणुतां च ॥ २९७॥ तस्याभिधाय पुनरप्या लोमभ्यस्तथाSS नखाग्रेभ्यः। चतन्येन गुणेन हि सर्वतनुव्यापितां च दर्शयति ॥२९८॥ ध्रुत्यम्तराविलम्बाद्यापित्वं तस्य दर्शयत्यधुना। पृथगुपदेशात् ॥ २८॥ प्रज्ञां पृथगुपदिशति श्रुतिरिह या प्रज्ञया शरीरमिति ॥२९९॥ कृत्स्तनुव्यापित्वं तथैव तस्योपदर्शयत्येषा। स्वापाधिकारपठिता श्रुतिस्तदेतदिति दर्शयत्येवम्॥३०० ॥ अणुरयमात्मा हीशो विभुरत ऐक्यं कथं तयोरिति चेत। तद्गुणसारत्वान्तु तव्यपदेशः प्राजवत् ॥ २९॥ सोडयं हि पूर्वपक्षव्यावृत्त्तिफलस्तु शब्द इह भवति ॥३०१॥ उत्पत्तरश्रवणाङ्गह्मण एव प्रदेशदृध्या च। तदूपतोपदेशात्परमेव ब्रह्म जीव इत्युक्तम्॥ ३०२॥

Page 183

तृतीयपादः ३ ।" माष्यार्थरत्नमाला। १७९

यावङ्वह्म परं स्यात्तावाञ्जीवोऽपि मवितुमर्हति हि। इह च परस्य विभुत्वं श्रुतमत आत्माऽषि मवति विभुरेव।३०३।। एष महानज आत्मा योऽयं विज्ञानमय इति प्रथित:। जीवपरा हि श्रीता विभुत्ववादाः समर्थितास्तेन ।३०४।। यदि चाणुरजीवः स्यात्सकलतनुध्याप्तिवेदना न स्यात्। त्वक्संबन्धात्सा चेत्कण्टकतोदेऽपि तद्वदेव स्यात्॥ ३०५॥ कण्टकुतुन्नो लभते पादतले वेदनां न चान्यत्र। इह चैतन्यगुणस्य व्याप्तिवां कथमणोर्हि जीवस्य ॥३०६॥ यञ्च गुणस्य गुणत्वं गुणिनमनाश्रित्य तत्क्थं सिध्येत्। गन्धः साश्रय एव हि संचरतीत्येतदेव युक्तमतः ।३०७।। द्वैपायनेन मुनिना हुपलभ्याप्स्विति तदेतदेवोक्तम्। सर्वशरीरव्याप्तं चैतन्यं स्याद्यदाऽस्य जीवस्य॥३०८॥ न तदाऽणुर्जीवः स्याद्यतो हि चैतन्यरूप एवासौ। औष्ण्यप्रकाशरूपो यथा हि वहिस्तथाऽयमात्मा स्यात् ॥३०९॥ गुणगुणिभावायोगात्ततुपरिमाणत्वनिरसनाज्चैव। तस्मादिह परिशेषाद्विमुरयमात्मेति युक्तमभिधातुम् ॥ ३१०॥ तद्णुत्वव्यपदेशं संगमयति सपदि सूत्रकारोऽसौ। तद्ठुणसारो जीवो यतोऽणुरयमिति हि गीयते तेन ॥। ३११ ॥ इच्छाद्वेषप्रमुखा ये वै बुद्धेर्गुणा हि विरुयाता:। तेषामध्यासेन ह्यणृत्ववादोऽयमस्य संवृत्तः ॥। ३१२॥ कर्तृत्वभोक्तकृतात्मकसंसारित्वं च मवति तन्मूलम्। स्वत इह सोऽयमकर्ता तदद्भोक्ता व नित्यमुक्तश्र ॥३१३॥ अणुपरिमाणाध्यासो बुद्धयध्यासप्रयुक्त एवास्य। उत्क्रान्तिव्यपदेशो बुद्धय्युत्क्रान्त्या न च स्वतोऽस्य स्वात्॥३१४॥ श्रुतिरिह वालाग्रेति प्रथममणुत्वं हि तस्य निर्दिश्य। अन्ते स चति वाक्यादानन्त्यं तस्य सम्यगुपदिशति ॥३१५॥ तच्चेवमाञ्जसं स्याद्यदौपचारिकमणुत्वमिह भवति। आनन्त्यमौपचारिकमिति नाSSशङ्ूयं यतश्र सर्वत्र ॥३१६ ॥ बह्मत्वभाव एव श्रुत्यन्तेपूपदिश्यते तस्य । या बुद्धेरित्याद्या श्ुततिरस्याऽडराग्रमात्रता शास्ति॥३१७॥

Page 184

१८० [२ द्वितीयाध्यायस्य-

सा वुद्धियोगमूलां तामाचष्टे न हि स्वरूपेण। या श्रुतिरेषोऽणुरिति प्रथयत्यणुता न तत्परा सा हि ॥३१८॥। ज्ञानप्रसाद्गम्य: पर एवाऽडत्मा यतोऽत्र निर्दिष्ट:। अणुपरिमाणत्वं किल जीवस्याप्यनुपपन्नमेवातः ॥ ३१९॥ दुज्ञानत्वपरं स्यादुपाधिसंबन्धपरतया वा स्थात्। यज्ञान्यच्छृतिवाक्यं प्रदर्शितं प्रज्ञया शरीरमिति॥३२० ॥ वुद्धि: प्रज्ञैव स्यादथवा व्यपदेशमात्रमेतत्स्यात्। व्यपदेशोऽयमभिन्ने मवति शिलापुत्रकस्य गात्रमिति।३२१॥ अत्र च गुणगुणिमावो नैवास्तीत्युक्तमेव पूर्वत्र। हृदयायतनत्वोक्तिर्बुध्द्यायत्ता तथैव चोकक्रान्तिः ।। ३२२।। इममर्थमेव कस्मिन्न्वहमित्येषा श्रुतिः प्रदर्शयति। यद्ात्क्रान्तिर्न स्यात्स्यातां गत्यागती कथं तस्य ।। ३२३।। नस्माद्यपदेशोऽसावुपाधिगुणसारतोऽतर युक्त: स्यात्। परमात्मनो यथा वा प्राज्ञस्योपासनेषु सगुणेषु ॥ ३२४॥ स्याद्यपवेशोऽणीयान्त्री हेरित्ययमुपाधियोगेन। संसारित्वमणुत्वं तद्वजीवेऽप्युपाधियोगेन ।। ३२५॥। सुध्ध्यात्मयोगतो ननु संसारित्वं यदाऽस्य कल्प्येत। संयोगस्यापगमो मवत्यवश्येमिति तद्वियोगे हि॥ ३२६ ॥ वस्यासंसारित्वं स्यादिति शङ्कां निराकरोत्यधुना। यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥ नैषा शङ्का कार्या यस्माद्बुष्द्याद्युपाधियोगोऽसी।। ३२७। स च यावदात्मभावी नाकस्मात्तदवसानमिह भवति। यावत्तत्वावगतेरस्य न संसारिता निवर्तेत ।। ३२८॥ तावच्च नोपशाम्यति बुध्या योगो न केनचिद्वाऽपि। बुध्धा योगो योऽसी स कथं स्याद्यावदात्मभावीति॥३२९॥ एषा शङ्का मुनिना निरस्यते सपदि सूत्रशेषेण। योऽयमिति श्रुतिदृष्टो विज्ञानमयो हि बुद्धिमय एव ॥ ३३०॥ मनआदिसाहचर्य विज्ञानस्योपलभ्पते येन। विज्ञानमयमनोमयपुरःसरा श्रुतिवचोन्तरे दष्टा ॥३३१॥ अनुसंचरतीत्यन्ता स समान: सन्निति श्रुतिर्याऽपि। लोकान्तरगमनेऽपि हि बुद्धया योगं प्रदर्शयत्थेषा॥ ३३२॥।

Page 185

तृतीयपाद: २ ] माष्यार्थरत्नमाला। १८१

मिथ्याज्ञानपुरःसर एवासावात्मबुद्धिसंयोगः। मिथ्याज्ञाननिवृत्तिर्न हि सम्यग्ज्ञानमन्तरा भवति ॥३३३॥ तस्माद्बुद्धया योग: सम्यग्ज्ञानाहते न शाम्येत। श्रुतिरपि वेदाहमिति प्रथयति तमिमं यथोपदिष्ार्थम्॥ ३३४॥ अत्येति तं विदित्वा मृत्युं मार्गोऽयनाय नान्य इति। नन्विह सुप्तौ पलये बुद्धया योगो न शक्यते ज्ञातुम ॥३३५ ॥ कृत्सं विकारविलयं स्वमपीत इति श्रुतिर्यतो वाक्ति। पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१॥ सुप्त्यादौ निर्लेपं बुद्धेर्योगेन विलयमुपयाति॥३३६ ॥ सत एवामिव्यक्तिलोंके दृष्ा न चासतः क्वापि। पुंस्त्वादीनि हि लोके बाल्ये जीवात्मना स्थितान्येव ।। ३३७। आविर्मवन्ति पश्चाद्यौवनसमये न वैपरीत्येन। यदि चेन्नायं नियम: षण्डादीनां कुतो न जायन्ते ॥ ३३८॥ तस्मात्सुप्तौ विलये बुद्धया योगो हि सूक्ष्मरूपेण। स्थित एव संप्रबोधे व्यक्तं गृह्यत इतीह वक्तव्यम् ॥३३९॥ दर्शयति श्रुतिरेषा सति संपद्येति चेममेवार्थम्। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽ- न्यतरनियमो वाऽन्यथा॥३२॥ आत्मन उपाधिभूतं ह्यन्तःकरणं मनश्र बुद्धिरिति ॥३४० ॥ विज्ञानं चित्तमिति ह्यनेकधा गीयते हि वेदेषु। निश्चयवृत्तिर्बुद्धि: संशयवृत्तिकमिदं मनो भवति ॥३४१ ॥ यद्यन्तःकरणमिदं नाभ्युपगम्येत तर्हि दोषोऽयमू। नित्योपलब्धिरथवा नित्यानुप्लब्धिरेव तस्य स्यात् ॥ ३४२॥ उपलब्धिसाधनानामात्मेन्ट्रिय विषयपरिकरादीनामू। सततोपलब्धिरेव हि संनिधियोगेन तस्य जायेत ॥३४३ ॥ सति हेतुसमवधाने यदि च फलं नैव दृश्यते तर्हिं। अनवरतानुप्लब्धिस्तस्येयं मवति दुर्निवारैव ।। ३४४।। शक्तिप्रतिबन्धो वाऽप्यात्मेन्द्रिययोरिहाभ्युपेय: स्यात्। शक्तिपतिबन्धोSसावात्मन इह वक्तुमनुचितो मवति ॥३४५॥

Page 186

१८२ सुब्रह्मण्य विरचिता- [२ द्वितीयाध्यायस्य-

यस्माद्विक्रियोऽसावात्मा तेनायमनुचितस्तस्य। नापीन्द्रियस्य पूर्वोत्तरक्षणाकुण्ठशक्तिकस्यैव ।। ३४६॥ मध्ये हि कथमकस्माच्छक्तिरियं तस्य चोपरुध्येत। तस्माच्च यद्वधानानवधानाभ्यामुभे इमे भवतः ॥३४७।। तच्चाSSवश्यकमेव हिमन इममर्थ श्रुतिः प्रदर्शयति। मनसा ह्येवेत्याद्या श्रुतिरन्यत्रेति चापराऽपि तथा ॥ ३४८॥ तस्मात्सूत्रकृतोक्तं त्रुणसारत्वमुचितमेवास्य। कर्ता शास्त्रार्थवत्वात्॥ ३३ ॥ तह्ठुणसारत्वेन ह्यणुताध्यासात्स्वतो महत्त्वमिति ॥३४९॥ स्थापितमेतत्संप्रति कर्तृत्वाध्यासमपि च दर्शयति। अन्रासङ्गत्वश्रतिवचनानामपि विधिश्रुतीनां च ॥ ३५०॥ विप्रतिपत्तौ बुद्धेः कर्तृत्वेनैव शास्त्रनिर्वाहात्। सोऽ्यमकर्तैव स्यादिति सांख्यमतं हि निरसितुं सकलम् ॥३५१॥ कर्तृत्वाध्यासोक्त्या सिद्धान्तयतीह सूत्रकारोऽयम्। आत्माऽसौ कर्ता स्याद्यस्माद्विधिशास्त्रमर्थवन्भृवति ॥३५२॥ कथमन्यथाऽर्थवत्स्यादृध्ना जुहुयाद्यजेत पशुनेति। द्रष भोता मन्ता बोद्धा कर्तेति शास्त्रमखिलमपि॥ ३५३॥ नैवासङ्गत्वश्नत्तिपरिपन्थ्याविद्यकें हि कर्तृत्वम्। विहारोपदेशात्॥३४ ॥ तस्मात्स हि कर्ता स्यादितोऽपि चाऽडत्मा भवेदसौ कर्ता।३५४॥ यस्माद्विहारमस्य श्रुतिः स ईयत इति प्रदर्शयति। उपादानात् ॥ ३५॥ आत्माऽसौ कर्ता स्पाद्यतस्तदेषामिति श्रुतिस्तस्य ॥३५५॥ जीवप्रकरण एव हि करणोपादानमस्य कीर्तयति। व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥ विज्ञानं यज्ञमिति श्रुतिरेषा हि क्रियासु कर्तृत्वम् ॥३५६॥ व्यपदिशति सस्य यस्मादितोऽपि चाऽडत्मा भवेदसी कर्ता। नन्विह विज्ञानपदं बुद्धिपरं स्यान्न चाऽडत्मपरमिति चेत्॥३५७॥ बुद्धिपरं चेत्तदिदं निर्देशविपर्ययः प्रसज्येत। विज्ञानेनेति स्याद्विज्ञानमितीह नो निदेश: स्थात् ॥३५८॥

Page 187

तृनीयपाद: ३ ] माष्यार्थरत्नमाला। १८३

बुद्धिविवक्षायां खलु करणविभक्तिर्हि दृश्यतेऽन्यत्र। विज्ञानेनेत्येव श्रुता तदेषामिति प्रसिद्धायाम्॥३५९॥ ननु यदि बुद्धघतिरिक्तो जीव: कर्ता स च स्वतन्त्र: सन्। प्रियमात्मनो हि यत्स्यात्तदेव संपाद्येन्न विपरीतम् ॥ ३६० ॥ विपरीतमपि च कार्य कुर्वाणो दृश्यते ह्यसावात्मा। एवंविधा प्रवृत्तिर्न हि स्वतन्त्रस्य भवति युक्ततमा ॥३६१ ॥ इत्येतामाशङ्कां निरसितुमपरं हि सूत्रमिह पठति। उपलब्धिवदनियमः ॥३७॥ 'आत्मा यथोपलब्धि प्रति स्वतन्त्रोऽप्यनिष्टमिष्टं च ॥३६२॥ उपलभते तद्ददिहाप्यनिष्टमिषं समजयेन्न कुतः। उपलब्धिसाधनानि हि मवन्ति विषयप्रकल्पनार्थानि॥३६३॥ उपलब्धौ त्वनपेक्षः स्यादयमात्मा हि चेतनत्वेन। नन्वयमात्मा करणान्यपेक्षते विषयकल्पनार्थं चेत् ॥ ३६४ ।। स च कथमिह स्वतन्त्रः स्यादित्येतञ्च तुल्यमुभयत्र। कर्ता व्यपेक्षते किल देशं कालं निमित्तमपि किचित् ॥३६५॥ नैतावता हि कार्ये कर्तुः स्वातन्त्रयमपहतं भवति। एधोदकसापेक्षः पक्ता पाके स्वतन्त्र एव स्यात् ॥३६६ ॥। सहकारान्तरयोगादिष्टानिष्टप्रवृत्तिरस्य स्यात्।' शक्तिविपर्ययात् ॥३८॥ विज्ञानव्यतिरिक्तो जीव: कर्तेति वक्तुमिह युक्तम् ॥३६७॥ विज्ञानशब्दवाच्या बुद्धि: कर्तृत्वभागिनी चेत्स्यात्। बुद्धिर्हि करणशक्ति: प्रथिता सर्वत्र सा च हीयेत ॥ ३६८॥ एवं हि कर्तृशक्तिस्तस्या बुद्धे: परं प्रसज्येत। सर्वार्थकारिकरणं कल्पयितव्यं तदाऽन्यदेतस्या: ॥३६९॥ शक्तोऽपि सन्क्रियास्विह करणापेक्षो हि दृश्यते कर्ता। करणव्यतिरिक्तेऽपि हि कर्तरि संज्ञाकृतो विवाद :: स्यात्॥३७॥ समाध्यभावाच् ॥ ३९॥ औपनिषदात्मबोधप्रयोजनो यः समाधिरुपविक्:। द्रष्टव्यः श्रोजव्यो मन्तव्य इति श्रुकप्रवेशेषु ॥३७१ ॥।

Page 188

१८४ सुबह्मण्यविरचिता- [ २ द्वितीयाध्यायान-

असति च कर्तृत्वे कथमुपपन्नस्तस्य सोडयमिह मवति। तस्मादृव्यय आत्मा कर्तेत्येतञ्च युक्तमेव स्यात् ॥३७२॥ यथा च तक्षोभयथा॥४० ॥ शास्त्रार्थवत्त्वपूर्वैर्हैतुमिरेतस्य यञ्ञ कर्तृत्वम्। मीमांसकानुमत्या स्वाभाविकमेव तदिति संप्राप्ते॥ ३७३ ॥। न स्वाभाविकमस्य च कर्तृत्वं स्यादितीह दर्शयति। तच्चेत्स्वाभाविकमिह न विमोक्ष: स्यात्कथंचिदृपि तेन ॥।३७४ ।। कर्तृत्वाद्विमुक्ते पुरुषार्थों वा कथं भवेत्को वा। ननु कर्तृत्वे सत्यप्यस्य च कर्तृत्वकार्यपरिहारात् ॥ ३७५॥ पुरुषार्थः स्यादस्य हि तत्परिहारो निमित्तपरिहारात। अग्रेः शक्तस्यापि हि काष्ठवियोगे यथा न कारय स्यात् ॥३७६॥ तद्वदिहापि स्यादिति नेय शङ्का हि भवति युक्ततमा। येन निमित्तानामपि संबन्ध: शक्तिलक्षणेन स्यात् ॥३७७। तत्परिहारायोगादविमोक्षोऽसी ततोऽस्य दुर्वारः। ननु मोक्षसाधनात्किल मोक्ष: स्यादिति तु नैवमाशङ्क्यमू॥३७८॥ साधनसापेक्षो यदि मोक्षस्तर्ह्ययमनित्य एव स्थात्। साधनसापेक्षं किल लोके सकल हि वृश्यतेऽनित्यम् ॥३७९॥ ब्रह्मात्व(त्म)मावबोधान्मोक्ष इति निरूपितं हिशास्रेऽस्मिन्। स हि नावकल्पते किल बोध: स्वाभाविके हि कर्तृत्वे।। ३८० ।। तस्मादुपाधिधर्माध्यासेनैवास्य कर्तृता वाच्या। दर्शयति चेममथ श्रुतिरेषा ध्यायतीवशब्मुखा॥ ३८१ ॥ न विवेकिनां परस्मादन्यो जीवो हि विद्यते कर्ता। नान्योऽतोऽस्ति द्रष्टेत्याद्या: श्रुतयोऽपि दर्शयन्त्येवम्॥ ३८२॥ पर एव तारहै कर्ता मोक्ता च स्यात्तथैव संसारी। इति तु न दोष इह स्याद्यस्मादाविद्यकानि चैतानि॥ ३८३॥ आविद्यकमेवेदं कर्तृत्वादिकमिति प्रदर्शयति। भ्रुतिरन्या यत्रेति हि विद्यावसरे तु वारयत्यपरा ॥ ३८४ ।। यत्र त्वस्येत्याद्या श्रुतिरपि तस्मान्न कश्विदिह दोष:। तस्य सवप्े जाग्रत्युपाधिसंपर्कजनित एवासी। ३८५।। श्रम आकाशे पततः श्येनस्येवेति दर्शयित्वैम्। तद्मावं च सुषुपे आवयति प्रा्ञसंपरिष्वक्ते। ३८६ ।।

Page 189

सृतीयपाद: २] माष्यार्थरत्नमाला। १८५

तद्वा अस्येत्याद्या श्ुतिः परानन्दरूपतामस्य। दर्शयितुमेतमर्थं प्राहाऽडचार्यो यथा च तक्षेति ॥। ३८७ ।। त्वर्थश्रेह चशब्दः पक्षव्यावृत्तिफलक एवासी। स्वाभाविकमेव स्थात्कर्तृत्वादिकमितीह नाऽडशककुथम् ॥ ३८८॥ लोके तक्षा हि यथा गृहीतवास्याविकरणहस्तः सन्। दुःखी मवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादि: ।३८९॥ स्वस्थो निर्वृत्तोऽसी निर्ध्यापारः सुखी मवत्येवम्। द्वैतमविद्यामूलकमालम््य स्वप्नजाग्रतोरात्मा ।। ३९०।। कर्ता दुःखी भवति हि स तच्छूमरयापनुत्तये हि पुनः। प्विशन्परमात्मानं प्रविलापितकार्यकरणसंघातः ॥ ३९१। स हि भवति संप्रसादावसरे च सुखी तथैव चाकर्ता। एवमविद्याध्वान्तं विद्यादीपेन मुक्त्यवस्थायाम्॥३९२॥ आत्मा विधूय सकलं परमानन्दो हि केवलो मवति। तक्षा हि तक्षणादौ यथा हि वास्याद्यपेक्ष्य कर्ता स्यात्।३९३। एवं मनआदीनि ह्यपेक्ष्य कर्ता स्वतस्त्वकर्तैव। इत्यावेद्यितुं किल हटान्तोऽयं प्रदर्शितो मवति ॥३९४॥ बोधयितुं कर्तृत्वं स्वामाविकमिति न चेह विधिशास्त्रम्। तद्नूद्याSSविद्यकमिह कर्तव्यविशेषबोधनार्थ स्पात् ॥३९५॥ नन्विह संध्ये स्थाने प्रतीयते केवलस्य कर्तृत्वम्। कामं परिवर्तत इति विज्ञाननैति वाक्ययुगलेन ॥ ३९६ ॥ इति चेन्नाय दोषो यतश्च तत्रापि करणसंबन्ध: । श्रतिवचनेन सधीरिति संध्यपरेण प्रतीयते हि यतः ॥ ३९७ ॥ स्सृतिरषि किलेन्द्रियाणामुपरम इत्येतमर्थमाचट्टे। तस्मात्समना एव हि विहरति संध्य इति युक्तमभिधातुमू॥३९८। सोडय हि वासनामय पव विहारो न तथ्यरूप: स्थात्। श्रुतिरियमुतेवशब्दप्रमुखा तमिमं विहारमुपदिशति ॥३९९॥ एवमुपादानेऽपि हि कर्ता समना न केवलो मवति। करणविभक्तिरयुक्ता करणविशिष्टस्य कर्तृतायां स्यात ॥। ४० इति नात्र शङ्कनीयं लोकविवक्षा डिहरने बुनी। युध्यन्ते योधा इति योधैर्युध्यत व हैप राजति ॥ ४० २४

Page 190

१८३ सुब्रह्मण्यविरचिता- [ २ द्वितीयाध्यायस्य-

तस्मात्करणविभक्ति: सेह विवक्षावशेन युक्तैव। अपि चोपादानेस्मिन्व्यापारोपरम एव करणानाम् ॥४०२॥ न स्वातन्त्रयं कस्यचिदबुद्धिपूर्वः स दृश्यते स्वापे। विज्ञानं यज्ञमिति व्यपदेशो यश्र दर्शितः पूर्वम् ॥४०३ ॥ स हि बुद्धेरेव स्यात्कर्तृत्वपरो न चाऽडत्मनो मवति। मनसोऽनन्तरपठितं विज्ञानपदं तु बुद्धिरूढं हि॥ ४०४ ॥ श्रद्धाद्यवयववत्त्वं बुद्धेरेवोपदर्शयत्येषा। तस्य श्रद्धेत्याद्या श्तिरत इह बुद्धिरेव विज्ञानम्॥४०५॥ एवं स एष वाचश्चित्तस्येति श्रुतौ हि यज्ञस्य। वाग्बुद्धिसाध्यतोक्ता तस्माद्विज्ञानमत्र बुद्धि: स्यात् ॥४०६ ॥। शक्तिविपर्ययशङ्का न हि बुद्धेः कर्तृतामते मवति। करणानामपि लोके स्वस्वव्यापारकर्तृता हि यतः ॥ ४०७ ॥ उपलब्ध्यपेक्षयाऽपि हि करणानां नैव करणता युक्ता। नित्योपलब्धिरूपो ह्यात्मा यस्मादृतो न तद्पेक्षा ।। ४०८।। एवमहंकृतिपूर्वकमपि कर्तृत्वं न चोपलब्धुरिह। बुद्धे: कर्तृत्वे वा करणान्तरकल्पना न चेहास्ति ॥४०९॥ तस्य समाधिविधानं चाSडविद्यककर्तृतामुपादाय। तस्मादौपाधिकमिह कर्तृत्वं नैव तथ्यमिति सिद्धम् ॥ ४१० ॥ परानु तच्छतेः ॥ ४१ ॥ यदिदमुपाधिनिबन्धनमस्य हि कर्तृत्वममिहनितं तत्किम्। ईश्वरमनपेक्ष्य स्यात्किवा तमपेक्ष्य भवति चेत्येवम् ॥ ४११ ॥ एष ह्येवेत्यादिश्रुतिवचसामपि तथैव विधिवचसाम्। अन्योन्यं हि विरोधे शङ्का सेयं समुत्थिता भवति ॥४१२॥ सत्यामेतस्यां खल्विह मीमांसकमतेन चाSडक्षेप: । नापेक्षते हि जीवः परमात्मानं प्रयोजनाभावात् ॥४१३॥ रागद्वेषादियुतः कारकसंपत्तिसहकृतो जीव: । अनुभवितुं कर्तृत्वं शक्कोति यतः किमीश्वरेणास्य ॥४१४॥ कृष्यादिकेषु कर्मस्वीशापेक्षा न दृश्यते लोके। क्लेशद्कर्तृतवेन च जन्तून्सृजतोऽस्य निर्घृणत्वं स्यात् ॥४१५।

Page 191

तृतीयपादः १] माप्यार्थरत्नमाला। १८७ विषमफलं कर्तृत्वं विद्धत ईशस्य विषमताऽपि स्यात्। सापेक्षत्वान्नासी दोष: स्यादिति तु नेह युक्ततमम् ॥ ४१६ ॥ सापेक्षता तदा स्याद्धर्माधर्मौ यदा हि जन्तूनाम्। जीवस्य कर्तृतायां सत्यां सन्भ्भाव एतयोर्भवति। ४१७॥ यदि चेदीशापेक्षं कर्तृत्वं स्यात्तदा हि किविषयम्। सापेक्षत्वं तस्य स्यादकृताभ्यागमश्र दुर्बारः।।४१८॥ इत्येतामाशक्कामपनुदति हि सूत्रकृत्तुशब्देन। जीवोडविद्यावसरे मवत्यविद्यातमोन्ध एव किल ॥ ४१९॥ स हि कार्यकरणसंघाविषेकदर्शी मवेदतस्तस्य । चेतयितुरीश्वरात्किल कर्माध्यक्षाञ्च सर्वभूतस्थात् ॥४२०॥ तदनुज्ञया किल स्यार्त्ससार: कर्तृभोक्तृतारूपः। तव्नुग्रहैकहेतुकविज्ञानेनास्य मोक्षसिद्धिरपि ॥ ४२१॥ एष ह्येवेश्याद्या श्रुतिरिममर्थं यतः प्रदर्शयति। या च य आत्मनि तिष्ठन्निति श्रुतिः साऽपि दर्शयत्येवम् ।४२२। नन्वीशः कारयिता यदा मवेत्तम्य विषमताऽप्येयम्। निर्घृणता जीवस्य स्याद्कृताभ्यागमोऽप्यतः पठति ॥४२३॥ कतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावियर्थ्यादिभ्यः ।। ४२।। उक्ताक्षेपनिवृत्तिप्रयोजनोऽसौ तुशब्द इह मवति। जीवप्रयत्नसाध्यो धर्माधर्मैकलक्षणो योऽसौ ॥। ४२४ ॥ तद्पेक्ष एव हीशः कारयति ततोऽत नैव दोपोऽयम्। धर्माद्यपेक्षयैव हि विषमं विभजेत्फलान्यसावीशः ॥ ४२५॥ तत्तद्वीजापेक्षो ब्रीहियवादीन्यथा हि पर्जन्यः । सृजति तथा परमात्मा धर्माधमवपेक्ष्य कारयति ॥४२६॥ असति च पर्जन्येडस्मिन्नसत्सु बीजेषु नोपजायेत। रसपुष्पफल पलाशाद्खिलं यञ्चोपदृश्यते तन्द्धि ॥ ४२७। एवं परमात्माऽसी धर्माधर्मावपेक्ष्य जीवगतौ। जीवानामेतेषां शुभाशुभात्मकफलं हि विदधाति ॥४२८॥ नन्वेतत्कर्तृत्वं जीवस्य यदा मवेत्परायत्तम्। कथमिह कृतप्रयत्नापेक्षत्वं स्यादितीह नाऽडशङ्क्यम् ॥४२९॥ कारयति हि परमात्मा कुर्वन्तं पूर्ववासनावशतः। पूर्वतरं चापेक्ष्य प्रयत्नमीशो ह्यकारयत्पूर्वम्॥४३० ॥

Page 192

१८८ सुबझमण्यविरचिता- [ २ द्वितीयाध्यायस्व-

पूरवमपेक्ष्येदानीं कारयतीशो यतो ह्यनादिरसौ। संसारस्तस्मादिह सूत्रकृतोक्तं हि सकलमनवद्यम् ।।४३१ ॥ कथमवगम्यत ईशः कृतप्रयत्नाद्यपेक्ष इति वेन्न। विहितप्रतिषिद्धावैयथर्यादिभ्योऽवगम्यते ह्यंवम् ॥४३२ ॥ एवं चेदेव स्यात्सुवर्गकामो यजेत च न हिंस्यात। इति विहितं प्रतिषिद्धं सफलं नो चेत्तदेतवफळं स्यात् ॥४३३॥ ईश्वर एव विधो वा प्रतिषेधे वा सदा नियुज्येत। यस्मात्परतम्त्रोऽसी जीव: स कथं नियुज्यते तत्र ।। ४३४।। विधिविहितिकारिणं वाऽनर्थेन निषिद्धकारिणं च तथा। अर्थेन संसृजेविति वेदोऽसावप्रमाणमेव स्यात् ॥४३५॥ अनपेक्षश्रेदीशो लोके स्यात्पुरुषकारवैयथर्यम्। प्रवं हि देशकालाव्षीनामकृतागमादिदोष: स्यात् ॥४३६॥ इति खलु वृषणजातं त्वादिग्रहणेन दर्शितं दुनिना। तस्मात्कर्मापेक्षः कारयतीश इति कोऽवि न विरोध: ।। ४३७।। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ ४३॥ एको जीवो नित्यो नाणुरकर्ता स्वयंप्रकाश इति। वर्णितमेतत्पूर्वं बह्मैक्यं तस्य सुगममेवेति ॥४३८॥ संपरति मेदामेदश्ुतिवचसामिह विरोधशक्कायाम्। तामपनीय हि सकलां ब्ह्मैक्यमिदं दृढ करोति मुनिः ॥४३९॥ उपकार्यो जीवोऽसायुपकारक एष भवति परमात्मा। इति तु पुरा निर्दिष्टे स मवति संबन्धिनोरयं धर्मः ॥। ४४० ॥ किं स्वामिमृत्ययोरिव किमसावग्गिस्फुलिङ्गयोरिव वा। इति शङ्कायां सत्यां युक्त: स्यात्स्वाभिभृत्यवञ्चान्न ॥४४१॥ तत्र नियोज्यनियोजकमावोडसी सुप्रसिद्ध इह लाके। तहूदिहापि स्यादित्याक्षेपो वे निरस्यते सपदि ।। ४४२।। ईशस्याशी जीवो यथा स्फुलिङ्गो मवत्यसावग्रे: । नन्वीशो निरवयव: कथं हि तस्यांश एष जीव: स्यात् ॥४४३॥ तस्मान्नासावंशो नानाव्यपदेशदर्शनादृवि च। नानाध्यपदेशोऽसी सोन्वेषव्यो य आत्मनीत्यादि:॥४४४ ॥।

Page 193

सृतीयपाद: ३] माष्यार्थरत्नमाला। १८९ भुत्यन्तरेषु वृष्टो नासति मेदे स युज्यते क्वापि। स स्वामिभृत्यसाम्ये युक्त: स्याविति तु नेह शङ्का स्यात् ।४४५। न हि नानाव्यपदेशादेकस्मावंशताऽत्र निर्दष्ा। कि त्वन्यथाऽपि तस्य व्यपदेशादंशतोपपत्ना स्थात् ॥४४६॥ व्यपदेशो नानात्वप्रतिपत्तिपरोऽपि मवति तस्येह। दाशकितवादिमाषं ब्रह्मण एके समामनन्ति यतः ॥ ४४७॥ हह चाSडथर्वणिका: किल सूक्ते बह्मात्मतत्वबोधपरे। दाशा दासा: कितवा बह्मैवेत्पर्थमुपदिशन्त्येते।। ४४८॥ स्वं स्त्रीति श्रुतिरन्या व्यपदिशति ब्ह्मतत्त्वमेवमिति। खरी च पुर्माश्र कुमारस्तथा कुमारी तर्थेव जीर्णोऽपि। ४४९ ॥। यश् हि जातो लोके सकलोऽयं ब्रह्म मवति नान्य इति। सर्वाणीत्याद्या अपि कथयन्ति ब्रह्म सर्वरूपमिति॥४५०॥ चैतन्यं त्वविशिष्टं मवति हि जीवेशयोर्यतस्तस्मात्। भेवाभेदावगमाभ्यामीशशत्वमस्य युक्ततमम्॥४५१॥ मन्त्रवर्णाच्च॥ ४४ ॥ तावानस्पेत्याद्यो मन्त्रोऽप्यमुमर्थभेव दर्शयति। मन्त्रे च मूतशब्: स्थावरजङ्गमसजीवदेहपरः ॥ ४५२॥ तत्परताऽहिंसन्निति मन्त्रे दृष्टा हि भूतशब्वृस्य। अत्र च पाठोऽश: स्यात्तस्मादंशत्वमस्य युक्ततमम् ॥४५३॥ अपि च स्मर्यते ॥४५ ॥ ईश्वरगीतास्वपि किल जीवस्थेशांशता विनिरदिष्टा। तत्र ममैवाश इति व्यपदेशो येन जीवभूतस्य ॥४५४॥ अत्र नियोज्यनियोजकमावोडसौ स्वामिवृत्ययोरेव। लोके यद्यपि दृष्टस्तथाऽपि शास्त्रेण चांशता कथिता ॥४५५॥ हीनोपाधियुतानिह जीवान्मायासहायसंपन्नः । परमात्माSसौ शास्तीत्यत्र न काचिद्विरोधशङ्का स्यात् ॥४५६॥ नन्वीशांशो जीवो यदा तदीयेन दुःखमागेन। अंशिन ईशस्यापि हि दुःखित्वं दुर्निवारमेव स्यात् ॥४५७॥ हस्ताद्यवयवसंगतदुःखेन यथाडङ्गिनो मवेद्दुःखम्। नानाजीवांशगतेर्दु:खैरीशस्य दुःखमधिकं स्यात् ॥४५८॥l

Page 194

१९० सुब्ह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

मुक्ती तत्पाप्तानां महत्तरं दुःखमपरिहाय स्यात। सम्पग्दर्शनमफलं पूर्वः संसार एव वरमिति चेतु ।। ४५९।। प्रकाशादिवन्नैवं परः ॥ ४६ ॥ जीवो यथा हि दुःख संसारकृतं सदाऽनुमवति तथा। नैवं परो हि यस्माज्जीवो देहात्मभावमापन्नः ।। ४६० ॥ तद्दुःखेनाविद्यावशतो दुःखित्वमात्मनो मनुते। देहात्मभावयोगो दुःख्यभिमानोऽपि नैवमीशस्य। ४६१॥ जीवस्यापि च देहाद्यविवेकभ्रमनिबन्धनो भवति। दुःखाभिमान एप हिन तुस च परमार्थतोऽस्ति कश्िविदृपि ॥४६२॥ इह पुत्रमित्रगोचरमपि दुःखं तद्भिमानतो दृष्टमू । अभिनिविशमान एव स्नेहवशेनेह पुत्रमित्रादी ॥४६३ ॥ तत्राभिमानयोगादनुमवति तदीयदुःखमखिलमपि। मिथ्याभिमानमूलो दुःखानुभवो हि भवति तेनासौ॥ ४६४ ॥ ये पुत्रमित्रबन्धुष्वभिमानविवर्जिता हि यतिन: स्युः । तद्दुःखमूलकं किल दुःखं नैतेषु दृश्यते किमपि ॥ ४६५॥ किमुत प्रज्ञानघनात्परात्मनोऽन्यन्न वस्तुतो वस्तु। दुःखित्वं नेति ततो नैवाऽऽत्मज्ञानमफलमित्ति शङ्चम् ॥४६६॥ अत्र निदर्शनमेतत्प्रकाशवदिति प्रदर्शितं मुनिना। लोके यथा प्रकाश: सौरश्रान्द्रो टुमण्डलव्यापी । ४६७॥

उपगततद्भ्भाव इव प्रतिपन्नो न परमार्थतः सोऽयम् ॥४६८॥ तद्ावं प्रतिपद्यत एवं सर्वत्रगोऽपि चाऽडकाशः । गच्छत्स्वपि च घटादिषु गच्छन्निव भाव्यमानरूपोऽपि ।४६९॥ गच्छति न स परमार्थत एवं जलकम्पनेन तत्रत्ये। सूर्याद्विप्रतिबिम्बेऽपि कम्पमाने न कम्पते सूर्यः ॥ ४७० ॥ एवमबिद्यावस्थितबुद्धच्युपहित जीवसंज्ञके ह्यंशे। दुःखायितेऽपि तस्मिंस्तद्वद्दुःखायते न हीशोऽयम्॥४७१॥ जीवस्यापि हि दुःखप्राप्तिरविद्यानिबन्धनेत्युक्तम्। एवमविद्यामूलकमेतं जीवात्मभावमुन्मूल्य ।।४७२॥। ब्रह्मात्मतां वदन्ति हि तत्त्वमसीत्यादिसकलवेदान्ताः। तस्मगन्नो जैवेन च दुःखेनेशस्य दुःखितापस:॥ ४७३॥

Page 195

तृतीयपाढ्: ३] माष्यार्थरत्नमाला। १९१

स्मरन्ति च ॥ ४७ ॥ व्यासाद्यः किलामी स्मरन्ति परमात्मतत्त्वमखिलमपि। तत्र च परमात्माऽयं सहि नित्यो निर्गुणश्र भवति यतः॥४७४॥। न हि कर्मणा फलैवा न लिप्यते पद्मपत्रमिव पयसा। कर्मात्मा त्वपरोऽसौ स युज्यते मोक्षबन्धनैरिति हि॥ ४७५॥ अत्र चशन्दृश्रवणात्समामनन्तीति वाक्यशेष: स्यात्। नन्वत्र चान्तरात्मा भूतानाभिक एव चेत्तर्हि ॥ ४७६ ॥ कथमत्रानुज्ञापरिहारी तावर्थवत्तरी मवतः। नन्वीशांशो जीवस्तन्द्वेदात्ती समञ्जसी भवतः ॥४७७॥। इति चेदनंशतामपि जीवस्याभेदबोधिका: श्रुतयः। सृत्योः स सृत्युमाप्नोतीत्याद्या हि प्रदर्शयन्त्येवम्॥४७८ ॥

नन्विह भेदाभेदावगमाम्यामंशता हि निर्णीता॥४७९।। सत्यं तथाऽपि भेदाभेदौ नात्र च बुबोधयिषितौ हि। भेद्मनूद्याऽडविद्यकमभेद इह किल बुबोधयिषितो हि॥ ४८० ॥ निरवयवस्य ब्रह्मण इह मुख्योऽश: कथं भवेज्ीवः। तस्मात्पर एवैको भूतानां भवति चान्तरात्मा य: ।४८१॥ सोडयं हि जीवमावेनावस्थित इत्यवश्यमिह वाच्यम्। एवं चानुज्ञापरिहारानुपपत्तिरित्यतो बूते ।। ४८२।। अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥४८ । अग्नीषोमीयं पशुमित्याद्या किल भवेदिहानुज्ञा। परिहारश्र न हिंस्यादित्यादिस्तावुभावपि प्रथितौ ॥४८३॥ एवमृतौ मार्यामिति गुरुपत्नी नैव संस्पृशेदिति च। एतौ चानुज्ञापरिहारी भवतो हि देहसंबन्धात् ॥ ४८४॥। आत्मन एकत्वेऽपि च दृष्टोऽसावत्र देहसंबन्ध: । देहेन्द्रिय संघाताविवेकमूलभ्रमात्मकः सोऽयम् ४८५॥ अहमन्धो मूढोऽहं गच्छाम्यहमेव चाऽडगमिष्यामि। इति किल सम्यग्ज्ञानात्म्राक्पततोऽसी हि सर्वजन्तुषु च ॥४८६।। तस्मान्नेहानुज्ञापरिहारादौ न बाधकं किमपि। तर्ह्यािर्थक्यं स्वात्सम्यग्दर्शन इतीह नाऽडशङूयम् ॥४८७॥

Page 196

१९२ सुन्रह्मण्यविरचिता- [ २ द्वितीषाध्यायस्य- हेये चोपादेये यस्त्वविवेकी नियुज्यते सोडयम्। यस्त्वात्मव्यतिरिक्तं हेयमुपावेयमपि च नेक्षेत ।। ४८८।। ब्ह्मणि निरूठचित्तो विद्वान्स कथं नियुज्यते तत्र। सम्यग्दर्शिन इह यदि न नियोग: स्थाद्यथेष्टचेष्टा स्यात्॥।४८९। इति तुन सर्वत्रेव ह्यमिमानोऽसी प्रवर्तको यस्मात्। अभिमानामावेन हि तश्वविदो न हि यथेष्टचेष्टा स्यात् ॥४९०॥ तस्माञ्चानुज्ञापरिह्वाराविह देहयोगजावेव। इह च निदर्शनमूता ज्योतिष्पमुखा मवन्ति लोकेऽस्मिन्।४९१॥ ज्योतिष एकत्वेपि ह्याममि: शा(पा)पो न गृह्यते लोके। परिवर्ज्यते हि सवितुः प्रकाश एकोऽप्यमेध्यदेशस्थः ।। ४९२॥ वैदूर्याद्या मौमा गृह्यन्ते नरकलेवराणि न हि। मूत्रपुरीषं च गर्वा पवित्रमिति गृह्यते न चान्यस्य ।।४९३॥ असंततेश्वाव्यतिकरः ॥ ४९ ॥ नन्वेधमपि च दोषो मवति होकात्मतामते सोडयम्। स्वाम्येकत्वादिह्न किल कर्मफलव्यतिकरो मवेदिति चेतु॥४९४॥ न हि कर्तुर्मोक्तुरवा संबन्धः सर्वतनुभिरिह मवति। योऽसावुपाधितन्त्र: कर्मफलव्यतिकरो न तेनास्य । ४९५।। आभास एव च ॥ ५० ॥ जीवस्थेशांशत्वं पूर्वमवच्छेदपक्षमाश्रित्य। करकाकाशस्येव हि वर्णितमिह चैवकारयोगेण।। ४९६।। तत्रावच्छेदमते ह्यरुचिं कांचिदृवि सूचयन्नेव। रूपं रूपभितिश्रुतिसिद्धं प्रतिबिम्बपक्षमनुसरति ॥४९७॥ आभास एव जीव: परात्मनो वारिसूर्यवन्भवति। साक्षान्न स एव स्यान्नापि च वस्त्वन्तरं हि जीवोऽसौ ॥। ४९८॥ यस्मादिह प्रविष्टः परः स एष इतिवाक्यनिर्दिट्टः। तस्मादिह बुद्धयादिप्रतिबिम्बो जीव एष इति युक्तम्॥४९९॥ शुक्ती रजतवदस्य हिन च स्वरूपेण कल्पितत्वं स्थात्। नेदं रजतमितीव हि नेदं मुखमिति न दृश्यते यस्मात् ॥ ५००॥ प्रतिबिम्बस्य च बाधो न दर्पणे मुखमितीह हष्टः स्यात्। तस्मादुपाधिसक्तस्वरूपमात्रेण कल्पितोऽयं स्यात् ॥।५०१॥

Page 197

तृतीयपद: २ ] माष्यार्थरत्नमाला। १९२

एकस्मिअ्जलसूर्ये प्रकम्पमाने न कम्पते चान्य: । एकस्मिन्किल जीवे कर्मणि न तदन्तरस्य तद्योगः ॥ ५०२॥ अत्र व्यतिकरशक्का ह्यैकात्म्येनैव कर्मफलयोः स्यात्। आभासोऽयमविद्याकृतस्तदालम्बनोऽपि संसारः॥ ५०३॥ आविद्यक इत्येतं व्युइस्य परमार्थरूपमुपदिशति। चहवो विभवो येषामात्मानो व्यतिकरो हि तेषा स्यात् ॥५०४॥ चैतन्यमात्ररूपा बहवो विभवो भवन्ति चाऽडत्मान: । साधारणं प्रधानं तदर्थमिति तन्निबन्धनैवैषाम् ॥५०५॥ भोगापवर्गसिद्धिर्भवतीति हि वर्णयन्ति किल सांख्याः । बहवः सर्वगता अप्यात्मानः स्वयमचेतना एव ॥ ५०६।। उपकरणानि बहूनि हि मनासि तान्यप्यचेतनान्येव। आत्ममनोयोगेन ह्युत्पद्यन्ते गुणा नवेच्छाद्या: ॥ ५०७॥ प्रत्येकमात्मसु यदा ह्यव्यतिरेकेण समवयन्त्येते। भवति तदा संसारस्तदुपरमो मोक्ष इति हि काणादाः ॥५०८॥ सांख्यनये जीवानां स्वतश्ष चैतन्यमात्ररूपत्वात्। एकस्मिन्नपि देहे सर्वेषामात्मनां च सांनिध्यात् ॥५०९॥ एकस्मिन्सुखयोगे तत्सर्वेषां कुतो न जायेत। अविशेषेऽपि च पुंसां सर्वेषां प्रकृतिसंनिधानस्य ॥ ५१० ॥ नियमेन प्रकृतिरियं वुंसां मोगापवर्गसिद्ध्यर्थम्। उद्दिश्य प्रतिपुरुषं प्रवर्तते तेन तद्यवस्था स्यात् ॥५११॥ भोगो विषयमतिः स्यादपवर्गो गुणविलक्षणात्ममतिः । तत्साधनभूतेयं नियता प्रकृतिप्रवृत्तिरेव स्यात् ॥ ५१२ ॥ एतदनङ्गीकारे स्वमहत्त्वख्यापनार्थिका सा स्यात्। एवं चेदुद्देश्यव्याघातोऽत्राविमोक्षरूप: स्यात् ॥५१३॥ इति चेन्नैतत्सारं विनोपपत्ति कथं व्यवस्था स्यात्। अयमुद्देश्यविवेको जडप्रधानस्य नैव युक्ततमः ॥ ५१४॥ नाचेतनस्य लोके नियामकत्वमपि दृश्यते क्वापि। तस्माच्च न व्यवस्था व्यतिकर इह दुर्निवार एव स्यात् ॥५१५॥ काणादानां च नये यद्येकेनाSडतमना मनोयोग:। आत्मान्तरेस्तवाडयं सांनिष्यस्याविशेषतो हि भवेत् ॥५१६ ।।

Page 198

१९४ सुब्रह्मण्यविरचिता- [२ द्वितीबाष्याचस्व-

हेत्वविशेषात्तेषां समसुखदुःखत्वमपरिहा्य स्यात्। इह चाहष्टनिमित्तो नियम: स्यादिति तु नेह युक्तवमम् ॥५१७॥ अदृष्टानियमात् ॥५१ ॥ यञ्च मनोवाक्काबैरटट्टमुत्पद्यते हि तज्ञ किल। सर्वात्मनां विभूनां प्रतिदेहं संनिधानसाम्येन ॥ ५१८॥ एतस्थेदमहष्ट नान्यस्येति हि न शक्यते ज्ञातुम्। सांख्यानां तु नये तत्प्रधानसमवेतमेव नाऽऽत्मगतम् ॥५१९॥ तस्व च सुखादिमोगे न प्रत्यात्मं नियामकत्वं स्यात्। नन्वित्थं करवाणीतीत्थं प्रयत इति चैषमाद्या हि॥ ५२० ॥ अभिसंध्याद्य इह ये प्रत्यात्मनि ते प्रवर्षमाना: स्यु: । स्वस्वािमावममका मवन्त्यदष्टात्मनामिति प्राप्ते ।।५२१॥ अभ्िसंध्यादिष्वपि चैवम् ॥ ५२ ॥ अमिसंध्यादीनामपि हेत्वविशेषाद्यथोक्तदोष: स्पात्। प्रदेशादिति चेन्न्रान्तर्भावात् ॥५३॥ वेहप्रतिष्ठितेन हि मनसा योगस्तु तन्ववच्छिन्ने ॥५२२॥ आत्मप्रदेश एव हि मवत्यतः स्यादिह व्यवस्थेयम्। इति चेन्नेदं युक्तं यत इह सर्वात्मना विभुत्वेन । ५२३॥ सर्वेष्वऽपि च शरीरेष्वन्तर्मावोऽयमप्रतीकारः । तेन च तद्वच्छिन्नः सर्वेष्वात्मसु समो हि संयोगः ॥५२४॥ नापि च निरवयवस्य प्रदेशपरिकल्पनाऽपि युक्ततमा। यदि कल्पितः प्रदेश: कार्यं परमार्थतः कथं जनयेत् ॥५२५॥ सर्वात्मसंनिधाने शरीरमुत्पद्यमानमस्यैव। नान्यस्येति नियन्तुं न शक्यते केनचित्क्वचिद्वाऽपि ॥ ५२६॥ यत्राऽडत्मनोर्इ्योरपि समानमुखदुःखमोग इह हक्षः। देहेनैकेनैव हि तयोद्योर्मोगसिद्धिरपि च स्यात् ॥५२७ ॥। तत्र हि तबोद्वयोरपि समप्रदेशं ह्यहष्टमिति युक्तम्। सुखदुःखमन्वमूत्किल यस्मिन्देशे हि देवदत्तोऽसौ ॥ ५२८॥ अपयाते तस्मिन्किल काशी दत्ते तमेव संपराप्ते। तस्यापि वेतरेण हि समसुखदुःखानुसतिरिह दृष्टा ॥। ५२१ ॥

Page 199

पतुर्थपाद: ४] माष्पार्थरतनमाला। १९५

सा न स्याद्यदि य तथो: समप्रदेशं त्वह्ष्टमिह न स्यात्। स्वर्गादयुपभोगस्यानुपपसतिरवि प्रदेशवादिनये।। ५३०। बाहमणशरीरदेशावच्छिन्ने स्याद्षट्टनिष्पत्ति:। स्वर्गाद्युपमोग: किल देवादिशरीरदेश एव स्यात् ॥५३१॥ लोके हि कार्यकारणमावो न विभिन्नदेशयोर्ष्टः। इह चाऽडत्मनां बहूनां सर्वगतत्वमपि नोपपन्नं स्यात् ॥ ५३२॥ सति वृष्टान्ते तदिवं बुद्ध्यारूढं मवेन्न चेतरथा । षद् तावत्वं के ते बहवो जीवा: समानदेशाश्र ॥५३३॥ रूपरसाद्य इष ते समानदेशाश्र बहव इति चत्र। तेषामपि धम्यशनाभेदास्तत्स्वरूपता युक्ता ॥५३४ ॥। अथवा लक्षणमेदासेषां मेदो न चाऽडत्मना स भवेत्। नेह बहूनां तेषां लक्षणमेदश्र वक्तमपि शक्य: ।।५३५।। अन्त्यविशेषादेव हि तेषां मेदोपपत्तिरिध्यपि न। सति मेदेऽन्त्यविशेषस्तस्मिन्सति भेदकल्पना मवति ॥।५३६॥ इति चेतरेतराभ्रयतादोषोऽप्यत्र दुर्निवारः स्यात्। आकाशादीनामपि वियुत्वमस्माकमननुमतमेव ।। ५३७। आत्मन आकाश इति भुतिवाक्येनास्य कार्यतावगमात्। आत्मैकत्वे दोषा वादिमिरुद्भ्ाविताश् ये सर्वे ।। ५३८॥ ते निरसिता हि बुवष्यादयपाधियोगावलम्बनेनैव। तस्मादस्मिन्पक्षे न दोषशक्कावकाश इति सिद्धम॥५३९॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेषमू। चतुरध्यायी तस्यां द्वितीयसंज्ञश्र योऽयमध्यायः ।।५४० ॥। तत्र च तृतीयपादे सूत्रार्थो यश्च माध्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोडयमनवद्यः॥।५४१॥ इति द्वितीयाध्यायस्य तृतीय: पाद: ॥३ ॥

अथ चतुर्थपाद्पारमभ: ।

पूर्वस्मिन्नधिकरणे विचार्य कर्तुः स्वरूपमखििलमपि। "ोटी इह च तदुपकरणानां प्राणारमा साधयत्यथोत्पत्तिमू । १॥

Page 200

१९६ सुब्रह्मण्यविरचिता- [ २ द्विती याध्यायस्य-

पू्वत्र मूतमोक्तृस्वरूपमखिलं विचार्य सम्यगिह। प्राणस्य मौतिकस्य हि विचार इति हेतुहेतुमन्दाकः ॥२॥ पाददयस्य संगतिरित्येतत्स्फुटयितुं हि वर्णयति।

परिहत इह तु चतुर्थे पादे प्राणादिगोचरो योडसौ। श्रुतिविप्रतिषेध: स्यात्स चायमिह किल निरस्यते सम्यकू ॥४॥ तत्तेजोऽसृजतेति ह्यात्मन आकाश एवमाद्येषु। श्रुतिवचनेषूत्पत्तिः प्राणानां नोपलभ्यते क्वापि ॥ ५ ॥ किं चानुत्पत्ति: क्वचिवेषामास्नायते ह्यसद्वेति। अस्मिन्मन्त्रे प्राणा ऋषिस्वरूपेण दर्शितास्तेषाम्॥ ६। प्राणानां सन्भावः प्रागुत्पत्तेः प्रतीयतेऽन्यत्र। तेषां प्राप्पानामप्युत्पत्ति: पठ्यते यथेत्यस्मिन् ॥।७॥ एतस्माज्ायत इति मन्त्रेऽपि च हश्यते तदुत्पततिः। एवं सप्त प्राणा: प्रभवन्तीत्येवमादिमन्त्रेषु ॥८॥ एवं हि श्रतिवचर्सा विप्रतिषेधोऽत्र मवति दुर्वारः। अत्र तदन्यतरस्य हि निर्धारणकारणं न किंचिदृपि । ९ ॥। तस्मादप्रतिपत्ति: श्ुशिवचनानामिह प्रसज्येत। अथवा प्रागुत्पत्तेः सन्भ्रावश्रवणतो मवेदौणी ॥१०॥ प्राणानामुत्यत्तिश्रुतिरिति पक्षान्तरं प्रसज्येत । इति विचिकित्सायां किल सत्यां मगवांस्तदेतदिह पठति ।११। तथा प्राणाः।।१॥। नन्वक्षरानुलोम्यं तथेति कथमिह पुनननिरुप्येत। प्रकृतोपमानमत्र हिन दृश्यते तेन तत्कथं भवतति ॥ १२॥ पूर्वमतीतानन्तरपादान्ते वर्णितं हि भूयोऽपि। सर्वगतात्मबहुत्वप्रतिपादकवादिदूषणं हि परम् ॥१३॥ सादृश्यामावेन हि तदिदं नैवोपमानमिह भवति। नापि ह्यटष्टसाम्यप्रतिपादनपरमिदं तथेति स्यात् ॥ १४ ॥ सर्वात्मसंनिधाने ह्यटष्टमुत्पन्नमनियतं यदत्। एवमनियता: प्राणा: सर्वेष्वात्मस्वितीह वक्तव्यम् ॥१४॥ तस्किल देहानियमेनैवोक्तं सवति चेह पुनरुक्त्तम् । अपसिद्धान्तमपेन प्राणा जीवेन नोपमीपेरन् ॥१६॥

Page 201

चतुर्थपाद्: ४] माध्यार्थरत्नमाला। १९७

प्राणानां तूत्पत्तिरविवक्षिता मवति सा न जीवस्य । तस्मादनुचितमेतत्तथेति सूत्रोक्तमिति तु नाऽडशकूयम्॥१७॥ एतस्मादृात्मन इति यत्पाणोत्पत्तिवाक्यमुपदिष्टमू। तदिदमुदाहरणं स्यात्तद्ृतमुपमानमत्र संग्राह्यम् ॥१८॥ प्राणास्तथा परस्माद्यथा हि लोकादयो भवन्त्यस्मात् । इति किल सूत्रार्थः स्यात्तत्र न पूर्वोक्तदूषणं किमपि॥ १९॥ एतस्माज्जायत इति मन्त्रान्तरमपि भवेदुदाहरणम्। तेन च खादिवदेव प्राणा जायन्त इति हि फलितं स्यात् ॥२०॥ अथवा व्यवहितमेव हि वियदादि तृतीयपादनिर्दिष्टमू। उपमानमत्र मवति व्यवहितयोगोऽपि हृश्यतेऽन्यत्र ॥२१॥ पानव्यापञ्चेति हि सूत्रेऽस्मिन्टश्यते तथैवासी। यज्ञे हि सोमपाने क्रियमाणे सति भवेद्यदा बमनम् ॥ २२ ॥ सोमेन्द्रदेवताकं श्यामाकधरुं स निर्वपेत्तद्वत्। इति खलु सूत्रार्थः स्यात्तत्र हि तच्छब्दयोगतो हि यथा ॥२३॥ अश्वप्रतिग्रहेष्टिन्यायोऽसौ व्यवहितः परामृष्टः। तद्वदिहापि व्यवहितसंबन्धे नैव बाधकं किमपि॥२४॥ तस्मादुत्पद्यन्ते प्राणा वियदादिवदिति सिद्धमिह। अत्र श्रुतत्वमेव प्राणोत्पत्ती हि साधको हेतुः ॥२५॥ ननु के षुचित्प्द्रेशेष्वियसुत्पत्तिर्हि न श्रुतत्युक्तम्। तद्युक्तं किल यस्मात्ाणोत्पत्ति: श्रुतैव चान्यत्र ॥ २६ ॥ क्वचिद्श्रुतमपि तदिदं न श्रुतमन्यत्र वारयितुमीषे। तस्माच्छृतिनिर्देशात्माणा जायन्त इति तु सूक्तमिद्म् ॥२७॥ गौण्यसंभवात् ॥ २ ॥ प्राणानामुस्पत्तिरगोणीति न चेह शक्कितुं शक्यम्। गौण्या असंभवादिति तत्पुरुषसमास इह च निर्दिह्टः ॥२८॥ सेयं प्राणोत्पत्तिर्गौणी कथमपि न चेह संभवति। सेयं गौणी चेत्स्यात्तदा प्रतिज्ञोपमर्द एव स्यात् ॥। २९ ॥ कस्मित्रु मगव इत्यत एकज्ञानेन सर्ववज्ञानम्। आदिश्य तदुपपत्तय एतस्मादिति हि वाक्यभाम्नातम् ॥ ३०॥ यदि व ब्रह्मविकार: प्राणाद्यखिलं तदा मतिज्ञेयम्। प्रकृतिविकारामदन्पायेनैव हि समर्थिता भवति॥ ३१ म

Page 202

११८ सुब्रह्मण्य विरचिता-

म्र ह्मैवे त्ये तस्मिञ भ्रुतिवाक्येऽप्येवमात्मनो वेति। भुत्यन्तरेऽपि तेन न्यायेनेषा समर्थनीया हि॥ ३२ ॥ नन्षेवं प्राणानामप्युत्पत्तिर्यथा भवेत्तर्हि। प्राणानां सन्भ्ावः भागुत्पत्तेः श्रुतो विरुध्येत॥३२।। इति चेदेतद्वाक्यं न हि मूलप्रकृतिगोचरं मवति। यस्मादपाणत्वं श्रुतिरप्राण इति दर्शयति तस्याः॥। ३४॥। तस्मादेतद्वाक्यं ह्यवान्तरप्रकृतिगोचरं मबति। प्राक्सद्भावभ्रवणं स्वविकारापेक्षमेव तेषां स्थात् ॥ ३५।। व्याकृतविषयाणां हि प्रकृतित्वमपि श्रतिस्सृतिप्रथितम्। यद्धिकरणे तदिद सूत्रं किल पूर्वपक्षसूत्रमिति॥३६॥ गौणी जन्मश्नतिरियमसंभवादिति हि वर्णितं तत्र। तत्र च मवेत्पतिज्ञाहानिरतोऽसावुपेक्षितः पक्षः ॥।३७॥। इह पुनरेतत्सूत्रं मवति हि सिद्धान्तसूत्रमिति मत्वा। गौण्या असंमवादिति वर्णितमत्र च[न] कोऽपि दोष: स्पात्।३८। तत्माक्श्रतेश्व ।। ३॥। एतस्मादृपि ह्ेतोवियदादीनामिवात्र मुख्यैद। प्राणानामपि चैषा जन्मश्रुतेरिति ह युक्तमाभाति ॥ ३९।। वियदादृष्वनुवृत्तं जायत इत्येतंद्कमेव पदम्। मुख्यं चेहियदादी प्राणेषु प्राक्श्रुतं तथा मुख्यम् ॥४० ॥

पाणे शुतस्य तस्य श्रद्धादिष्वपि परेषु संबन्धः ।। ४१ ॥। तत्पूर्वकत्वाद्वाचः ।।४ । यद्यपि तेजोबन्नानामेवोत्पत्तिरमिहिता ह्यस्मिन्। छान्दोग्ये प्राणानासुत्पत्तिर्नापलभ्यतेऽथापि । ४२॥। ब्रह्मप्कृतिकतेजोबन्नमयत्वं हिवणितं येन। अन्नमयं हीत्यस्मिन्मन्त्रे वाक्पाणमानसानां स्यात ॥ ४३। तेन च तेषां ब्रह्मपभवत्वमपीह वर्णितप्रायम्। मयडिह विकारवाची मवत्वतो ब्ह्मकार्यता तेषाम॥४४॥ यदि मयडिह माक्त: स्यात्तदाऽपि कार्यत्वमनपवादं हि। तद्धीनस्थितिकत्वे तत्कार्यत्वस्य सहजसिद्धत्वातू।४५॥

Page 203

मतुर्मभद: १ ] माष्वार्थरतनमाला ।

येनाशुतमित्यस्मादुपक्रमादैतदात्म्य मित्यस्मातू। उपसंहाराज्च तथा भुत्यन्तरदर्शनेन चैतेषाम्॥ ४६॥ ब्ह्मविकारत्वं स्थान्मनआदीनामिति प्रदर्शयितुम। अन्नमयत्वादयुक्तिर्मनआदीनामिति स्फुटं मवति॥४७॥ प्राक्सन्भ्ावश्वत्यविरोधादिह कारणे परात्मनि हि। तस्मात्माणोत्पत्तिश्रुतिवचसामपि समन्वयः सिद्ध: ॥४८॥ सप् गतेर्विशेषितत्वाच् ॥५॥ लिङ्गविचारपराणां फलमिह लिद्धित्वमर्थमेदमतिः । प्राणानामुपजीव्योपजीवकत्वस्वरूपसंगत्या ॥४९॥। उत्पत्तौ सिद्धायामपि श्रुतीनां विरोधतो जाते। संख्यासंदेहे किल ता निर्णेतुं हि पूर्वपक्षयति ॥ ५० ॥ उत्पत्तिगोचरः किल विप्रतिषेधस्तु परिहृत: पूर्वम्। संख्याविषय ददानीं विप्रतिषेधो निरस्यते ह्यत्र ॥५१॥ मुख्यप्राणो योऽसौ स चोपरिष्टान्निरुप्यते सपदि। ये च तदितिरे प्राणास्ते च कतीति हि विचार इह मवति ॥५२॥ अत्र श्रुतिवचसां किल विप्रतिपत्तिस्तु बहुविधा दृष्ा। सप्त प्राणा: प्रमवन्त्रीत्यत्र हि सप्त दर्शिता: प्राणाः ॥ ५३। अष्टावतिग्रहा इति मन्त्रे चाष्टौ हि कीर्तितास्ते स्युः। क्वचिदिह नव ते प्राणा सपतेत्यस्मिन्प्रदर्शिता मन्त्रे ॥५४॥ क्वचिदिह दश निर्दिष्टा नव वे पुरुष इति मन्त्रभागे हि। कवचिदेकादश कथिता दशेमे पुरुष इति मन्त्रवाक्येण।। ५५॥। क्वचिदुपदिष्ा द्वादश सर्वेष/भेवमादिवाक्येन। एवं त्रयोदशापि क्वचिदुपदिष्टा हि चक्षुरित्यादा ॥ ५६॥ एवं विप्रतिपत्ता प्राणा: सप्तेति वक्तुम्रिह युक्तम। यस्मात्तावन्तस्ते गम्यन्ते वेद्वचसि सप्तेति॥५७॥ यस्माद्विशेषितास्ते शीर्षण्या इति पदेन सप्तैव। नन्वतिरिक्ता: प्राणा गुहाशयाः सप्त सप्त निर्दिष्ाः ।५८॥ अत्र च वीप्साभ्रवणात्कथमिह सप्तत्वसिद्धिरिति पेत्र। वीप्सा हि पुरुषभेदामिप्राया नैव तत्वमेदपरा॥५९॥ अुत्यन्तरोपदिष्टा नन्वष्टत्वादिकापि सख्येह। इति चेन्नेह विरोधादन्यतमा भवति चेह निर्णेया ॥ ६०॥

Page 204

२०० सुब्ह्मण्यविरचिता- [२ द्वितीयाध्यायसय-

स्तोकाधिककल्पनयोर्मध्ये हि स्तोककल्पना युक्ता। इति सप्तैव प्राणा: संख्यान्तरमत्र वृत्तिभेदेन ॥ ६१॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥६॥ सप्तैव प्राणा इति यदुक्तमेतन्न युक्तमत्र यतः । हस्तादयोऽपि चान्ये हस्तो वै ग्रह इति श्रुतिप्रथिताः ॥६२॥ एकादश ते प्राणा ह्युत्तरसंख्यानुरोधतस्तस्मात्। दशेमे पुरुषे प्राणा आत्मेकादश इति श्रुतावुक्ताः ॥६३ ॥ करणाधिकारतोऽसावात्माऽन्तःकरणमेव नान्य: स्यात्। नन्वेकादृशताया अधिका संख्याऽपि दर्शिता पूर्वम् ॥६४ ॥ सत्यं तथाऽपि कार्यं नाधिकमेकादशभ्य इह दृष्टम्। रूपरसगन्धशब्दस्पर्शार्थाः पञ्च बुद्धिभेदा: स्युः ॥ ६५ ॥ बुद्धीन्द्रियाणि चक्षुष्प्रमुखाणि सदर्थकानि पञ्च स्युः । वचनादानविहारोत्सर्गानन्दा हि कर्मभेदा: स्युः ॥ ६६ ॥ पञ्च तदर्थानि तथा वागादीनीन्द्रियाणि पञ्चैव। सर्वार्थगोचरं स्यादनेकवृत्तिकमिहैकमपि च मनः ॥६७॥ तञ्च मनो बुद्धिरहंकारश्िवित्तमिति वृत्तिभेदेन। उपदिश्यते चतुर्धा श्रुतिरेषाऽनेकवृत्तिकं वक्ति॥ ६८ ।। काम: संकल्पो विचिकित्सेति श्रुतिरनेकरूपतया। एतत्सवं मन एवेत्यन्तेनोपदर्शयति हि मनः ॥६९ ॥ अपि चेमे सप्तेति हि वद्तश्वत्वार एव ते च स्युः । स्थानविभेदादेते चत्वारः सप्तसख्यया गणिताः॥।७० ।। द्वे नासिके तथव दवे श्रोत्रे चक्षुषी तथैका वाक्। इति खलु न ह्येतेषामितरे प्राणा हि वृत्तिमेदा: स्युः ॥ ७१॥ हस्तादिवृत्तयः किल वागादिभ्यो यतो विजातीयाः। नाभिर्द्शमीति श्रतिरषि देहच्छिद्रमेद्मभिधत्ते। ७२॥। नैतस्य तत्त्वभेदं न प्राण: कश्विदस्ति नाभिरिति। मुख्यस्य प्राणस्य ह्यायतनं नाभिरपि च भवतीति॥ ७३ ॥ नामिर्दशमीत्येवं प्रदर्शितमतो न कश्ि्विदिह दोष:ः। तन्न ह्युपासनार्थं [ प्रदर्शनार्थं] प्रपश्चिता हयेते॥। ७४ ॥ ते कार्यजातवशतः प्राणा एकादशैव न न्यूना: । सुत्रद्यस्य पुनरियमपराऽपीहार्थयोजना मवति॥७५॥

Page 205

चतुर्थपाद: ४ ] माष्यार्थरत्नमाला। २०१

सप्तानामेव गतिर्यतः श्रुता तेन ते हि सप्तैव। इह च तमुत्कामन्तं प्राणोऽनूत्क्ामतीति वाक्यान्ते।। ७६।। प्राणमनूत्क्ामन्तं सर्वे प्राणा इति श्रुतिर्दृष्ा। नन्वत्र सर्वशब्दश्रवणात्माणा: कथं हि सप्त स्युः ॥७७॥ इति चेद्यतस्त एव हि विशेषिताश्रक्षुराद्यः सप्त। ते हि स यत्रैष इति श्रुती विशिष्योपदर्शिता हि खलू ॥७८॥ प्रायणसमये चाक्षुपपुरुषादौ स्वाशिनं समुपयाते। एकी भवन्ति मनसि हि लिङ्गांशाश्रक्षुरादयः सप्त ॥ ७९॥ अत एनं पार्श्वस्था नायं पश्यति न जिघ्रतीत्यपि च। न वद्ति न रसयते न च शृणाति नाप्येष मनुत इत्येवम्॥८० ॥ न स्पृशति नो विजानातीत्याहुरिति प्रपश्चिता: सप्। सर्वे द्विजा हि भोज्या इति वाक्यगतो हि सवशब्दोऽयम्॥८१॥ यद्वन्निमन्त्रित द्विजमात्रपरः स्यात्तथैव चेहापि। प्रकृता एव प्राणा: प्रतिपाद्यन्ते हि सर्वशब्देन ।। ८२ ।। विज्ञानमष्टमं ननु हष प्राणा: कर्थं हि सप्त स्युः । इति तु न चेहाऽडशङ्का कार्या भेदो यतो मनोबुद्य्योः॥८३॥ तस्मात्सप्तैवैते प्राणा इति पक्षमत्र वारयति। हस्तादयोऽपि चान्ये हस्तो वे ग्रह इति श्वृती दृषाः ॥८४।। ग्रहसंज्ञका हि ते स्युः क्षेत्रज्ञमिमं यतश्च बभ्नन्ति। हस्तादिभिरिह देहे क्षेत्रज्ञो बध्यते यथा तद्दत् ॥ ८५ ॥ देहान्तरेऽपि बध्यत इति बन्धनरूपता भवेत्तेषाम्। आवश्यका इमे खल्वतिरिक्ता एव नैव सप् स्युः ॥८६॥ पुर्यष्टकेन लिङ्गेनेति स्पृतिरेवमेव दर्शयति। प्राज्ञोऽक्षादवियोगो ग्रहसंज्ञेनास्य दुस्तरोयमिति॥८७॥ तद्वदथर्वणवाक्यं चक्षुश्रेत्यादितो विनिर्दिश्य। हस्तौ चेति ह्यन्ते हस्तादीन्यपि च निर्दिशत्येवम् ॥ ८८ ॥ एवं दशेमे पुरुषे प्राणा आत्मेति मन्त्रवर्णोडि। प्राणानामेकादृशसंख्यानामनुगतिं प्रदर्शयति ॥८९॥ प्राणेषु सर्वशब्दः सर्वे प्राणा इति श्रुतौ दृष्टः। स हि सर्वप्राणपरी न केवलं सतमात्रपर एव । ९० ॥ ... २६

Page 206

२०२ सुब्रह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

प्रकरणमपेक्ष्य शब्दो बलवानिति शास्त्रसिद्धमेवैतत्। सर्चे विप्रा भोज्या इत्यादौ सर्वभोजनायोगात् ॥ ९१॥ प्रकृतनिमन्त्रितपरता तत्र हि युक्त्यैव सर्वशब्दम्य। इह तु पुनः संकोचे न दृश्यते कारणं हि किंचिद्पि ॥ ९२॥ अत इह सर्वे ग्राह्या: सप्तग्रहण प्रदर्शनार्थं स्यात्। ते तेन शब्दृतोऽपि हि कार्यत एकादशेति सिद्धमिह ॥९३॥ अणवश्ष ॥ ७॥ अणवश्चैतै प्रकृता: प्राणा एकादशेति वक्तव्यम्। सौक्ष्मयपरिच्छेदात्मकमणुत्वमिह न परमाणुतुल्यत्वम् ॥९४॥ परमाणुतुल्यता चेत्कृत्सतनुव्यापि कार्यमिह न स्यात। सूक्ष्मा एते प्राणा निर्गमसमये यतो न दृश्यन्ते ॥ ९५॥ उत्क्रान्त्यादिश्रवणादेते प्राणास्तथा परिच्छिन्नाः। सर्वगताश्रेदेते तद्गुणसारत्वमात्मनो न स्यात् ॥९६॥ सर्वगतानामपि किल वृत्तिर्देहै भवेत्परिच्छिन्ना। भवति तयैव हि तद्गुणसारत्व्रमिहेति नैव गुक्तमिद्म् ॥९७॥ यदि च परिच्छिन्नेयं वृत्ति: स्यात्करणमपि च नैव स्थात्। तत एव कार्यसिद्धी करणव्यापित्वकल्पना हि वृथा ॥ ९८॥ भवति ह्युपासनार्था प्राणानन्त्यश्रुतिस्तया तस्मात् । प्राणोत्कान्त्यादिश्ुतिवचसामविरोध इति तु सिद्धमिह ।९९॥ श्रेष्ठक्ष ॥।८ ।। इतरप्राणवदेव ब्रह्मविकारो भवेद्सी मुख्यः। नन्वेतत्प्रागेव प्रथमे सूत्रे प्रपश्चितं भूयः ॥१०० ॥ एतस्मादित्येतैरप्युपदिष्टं वृथाऽतिदेशोऽयम्। इत्येतदत्र सत्यं तथाऽपि किंचिन्निमित्तमिह दृष्टम् ॥१०१॥ मन्त्रो न सृत्युरासी[दि]त्याद्यो भवति नासदासीये। ब्रह्मप्रधानसूक्ते तत्र ह्यानीद्वातमिति पठितम् ॥१०२॥ आसीदिति शब्देन प्रतीयते प्राणकर्म तेनेह। भागुत्पत्तेरस्य हि सत्वं प्राणस्य सूचितं भवति ॥१०३॥ प्राणस्तस्मादज इति जायेत मतिर्हि कस्यचित्पुंसः। मतिभेतां निरसितुमयमतिदेशोऽयं प्रदर्शितो मुनिना ॥१०४ ।

Page 207

चतुर्थपाद: ४] माष्यार्थरत्नमाला। २०३

प्राक्माणस्य हि सस्वं नाऽडनीच्छब्दो निरूपयत्यत्र । यस्मादवातमिति किल विशेषणं तस्य दर्शित मन्त्रे ॥ १०५॥। अप्राणो हेत्यादिर्मन्त्र: प्राणादिरहितता बूते। तस्मादानीच्छब्दः कारणसन्भावगमक एवेह ॥ १०६॥ प्राणो वावेत्येतन्मन्त्रबलाज्ज्येष्ठताऽस्य युक्व। यस्माच्छरुक्रनिषेकप्रसृत्यसौ लब्धवृत्तिक: प्राणः ॥१०७ । शुक्रं पूयेत न चेदेवं श्रोत्ादिकरणजातस्य । स्थानविमागोत्पत्तेरनन्तरं तस्य वृत्तिलाभः स्यात् ॥१०८ ॥ तस्माच्छोत्रादीनामज्येष्ठत्वं प्रसिद्धमपि चायमू। मुख्यः प्राणः श्रेष्ठःश्रुतिप्रदर्शितगुणाधिकत्वेन ॥ १०९॥ न वायुक्रिये पृथगुपदेशात् ॥ ९॥ स पुनर्मुख्यः प्राणः किंरूप इतीह मवति चिन्तेयम्। तत्र प्राप्तं तावद्योऽसी प्राण: स वायुरेवेति ॥११० ॥ उपदिशति श्रुतिरेनं प्राणं यस्मात्स एप वायुरिति। अथवा तन्त्नान्तरतः प्राणोऽयं सकलकरणवृत्तिरिति ॥११ ॥ सामान्यकरणवृत्ति: प्राणापानादिवायवः पञ्च। तन्त्रान्तरावलम्बिन एव प्राणान्निरुपयन्ति यतः ॥११२। तस्माद्वायुरयं स्यादित्याशङ्का निरस्यते मपदि। नासी प्राणो वायुर्भवति हि न समस्तकरणवृत्तिर्वा । ११३ ।। पृथगुपदिशति प्राणं वायोर्यस्मात्स वायुनेत्याद्या। श्रुतिरेषा स कथं वा पृथगुपदिश्येत वायुरूपश्रेत् ॥ ११४ ।। तहच्च करणवृत्तेः पृथगुपदेशोऽस्य दृश्यतेऽन्यत्र। एतस्मादिति मन्त्रे प्राणमनःप्रभृतयः पृथवदृष्टाः॥११५॥ नाप्येका स्रर्वेषां करणाना तृत्तिरत्र संभवति। एकेकवृत्तिकतया वागादीना हि करणता दृष्टा ॥११६ ॥ प्रत्येकं व्यूहस्य त्वकारकत्वान्न वृत्तिरेका स्थात्। नन्विह पञ्जरचालननयेन समुदायवृत्तिरका स्यात् ॥११७॥ प्रतिनियतव्यापारा: पतगा: संभूय पञ्ञरे निहिताः । एकादृशसंख्याकाः पञ्ञ्रमेकं हि चालयन्ति यथा ॥ ११८॥ एवं शरीरनिहिता: प्राणा एकादशापि संभूय । प्राणाख्यवृत्तिमेकां मजन्ति चेकेकवृत्तिका अपि ते # ११९ ।

Page 208

२०४ सुब्रह्मण्यविरचिता-

इति तुन युक्त: पञ्जरचालनसमता न चेह संभवति। सद्टृशव्यापारा: किल पतगा: सर्वेऽपि पञ्ञरे निहिताः ॥१२०॥ तस्माच्च चालयेयु: पञ्ज्रमेतच्च हष्टमपि लोके। श्रवणादिव्यापारैरवान्तरैरम्विता विजातीये: ॥१२१॥ प्राणा: संभूय कथं प्राण्गुर्नेह प्रमाणमपि किचित्। तच्छ्रेष्ठत्वादुक्ति: संप्रति वागादिकरणजातस्य ।१२२।। गुणभावोपगमो वा न युज्यते करणवृत्तिमात्रेऽस्मिन्। तस्मादन्य: प्राणो भवत्ययं वायुकरणवृत्तिभ्याम् ॥१२३॥ ननु तर्हि कथमिमं यः प्राण इति श्रुतिरिहोपपद्येत। इति चेन्न वायुरेव ह्यध्यात्मं लब्धपञ्चवृत्तिरसौ ॥ १२४ ॥ प्राण इति कथ्यते न हि तत्त्वान्तरमिह न वायुमात्रं वा। तस्मादुभे इमे अपि भेदाभेदश्ुती हि न विरुद्धे ॥१२५॥ स्यादेतन्नन्वेष प्राणो जीववदिह स्वतन्त्रः स्यात्। भेष्ठत्वादिभिरस्य ह्यनेकधा वर्ण्यते विभृतिरपि ॥ १२६ ॥ सुप्तेषु हि वागादिष्वेको जागर्ति सृत्युनाऽनाप्त:। वागादीन्संवृक्के पुत्रान्मातेव रक्षति प्राणान् ॥१२७ ॥ इत्येवं किल तस्मात्प्राणस्यापीह भोक्तृता देहे। जीववदेव स्यादिति शङ्कामेतां निवारयत्यधुना ॥१२८॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥ प्राणस्य स्वातन्त्रयं व्यावर्तयितुं तुशब्द इह पठितः। जीवस्य कर्तृतां प्रति यथोपकरणानि चक्षुरादीनि ॥ १२९॥ राजामात्यवदेव हि भवन्ति चैतानि न स्वतन्त्राणि। जीवोपकरणभूतः प्राणोऽपि तथेह न स्वतन्त्रः स्यात् ॥ १३०॥ सह शिष्यते यतोऽसी प्राणस्तैश्रक्षुरादिभि: सवैः। सह शासनं यदेतत्तत्संवादादिपूप्लब्धं तत् ।। १३१ ॥ समधर्मेष्वेवैतदयुक्तं हि बृहद्रथन्तरेषु यथा। अस्वातक्ये कारणमचेतनत्वादि सुप्रसिद्धं यत् ॥ १३२ ।। सूत्रेऽयमादिशब्दस्तदेतदखिलं प्रदर्शयितुमेव। ननु चक्षरादिसाम्यादस्य च जीवोपकरणता तर्हि ॥ १२३॥ तदद्विषयान्तरमपि रूपादिवदस्य किमपि वक्तव्यम्। तत्माणकार्यजातान्येकादश वर्णितानि पूर्वत्र ॥ १३४ ॥।

Page 209

चतुर्थपाढ्: ४] माष्यार्थरत्नमाला। २०५ तानि च परिगणितानि हि रूपालोकनपुरःसराण्येव। दादशमपरं कार्य न हश्यतेऽतो वृथाऽयमिति चेन्न॥१३५॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ११॥ विषयपरिच्छेदेन प्राणस्य च करणता न चेहास्ति। एतावताऽस्य कार्य किमपि च नास्तीति वक्तुमिह शक्यम्॥१३६॥ प्राणान्तरेष्वदटृष्ट वैशेषिकमस्य कार्यमुपदिशति। यस्मिन्नुत्क्रान्त इद शरीरमित्यादिका श्रुतिर्ह्येवम् ॥१३७ ॥ यमिस्त्रुत्क्रान्ते सति पाषिष्ठतरं शरीरमेतत्स्यात्। स मवति वः श्रेष्ठ इति प्रजापतेवक्यिमेतदाकर्ण्य॥ १३८॥ उत्क्रान्तेष्वपि वागादिपु तेषा वृत्तिमात्रलोपेऽपि। जीवनमेतस्य यथापूर्व जीवस्य दर्शयत्येव ॥१३९।। प्राणोश्चिकमिषायां वागादीना हि शिथिलतापत्तिम्। तद्वच्छरीरपातप्रसङ्गमस्योपदर्शयित्वैव ॥ १४०। प्राणनिमित्तामेव हि देहेन्द्रियसंस्थितिं प्रदर्शयति। प्राणेनेति श्रुतिरषि सुप्ते वागादिकरणजाते हि॥ १४१ ॥ प्राणनिमित्तैवयं करीररक्षेति बोधयत्येवम्। यस्मात्कस्माच्चाङ्गात्प्राण इति श्रुतिरपीह दर्शयति ॥ १४२॥ प्राणनिमित्तामेव हि देहेन्द्रियपुष्टिमेवमपराऽपि। प्राणनिमित्ते एव हि जीवोत्क्रान्तिस्थिती विनिर्दिशति ॥१४३। पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥ १२ ॥ एतस्मादपि हेतोर्मुख्यप्राणस्य दृष्टमिह कार्थम्। व्यपदिश्यते हि यस्माच्छृतिषु प्राणो हि पश्चवृत्तिरसौ ॥१४४ ॥ प्राणोऽपानश्रेति व्यान उदानः समान इत्येवम्। प्राण: प्राग्वृत्तिरसौ तद्वदृपानो भवेदवाग्वृत्तिः ॥ १४५॥। वर्तत इह तत्संधी व्यानोडसा वीयकमहेतुः स्यात्। ऊर्ध्वमुखवृत्तिरेष हयुदान उत्क्रान्तिकमहेतुः स्यात् ॥१४६॥ स समानो योऽन्नरसं सर्वेष्वङ्गेष समतया नयति। एवं हि पञ्चवृत्ति: प्राणो व्यपदिश्यते मनोवद्सौ ॥ १४७ ॥ मनसो यथा प्रसिद्धाः श्रोत्रादिनिमित्तवृत्तयः पञ्च। शब्दादिगोचरास्तास्तथैव चास्यापि वृत्तय: पश्च।।१४८।।

Page 210

२०६ सुब्ह्मण्यविरचिता- [२ द्वितीयाध्यायस्य-

कामाद्यस्तु मनसी न पञ्चसंख्यातिरेकतो ग्राह्याः। नन्विह भूतमविष्यद्विषयाऽप्यपरा भवेन्मनोवृत्ति: ॥ १४९॥। एवं च पञ्चसंख्यातिरेक इह दुर्निवार इति चेन्न। परमतमप्रतिषिद्धं ह्यनुमतमेवेति नयमुपाभित्य ॥।१५० । इह योगशास्रसिद्धा: परिगृह्यन्ते हि वृत्तय: पञ्च। स्मृत्यवसाना मनसः प्रमितिविपर्ययविकल्पनिद्राख्याः ॥। १५१॥ अथवा बहुवृत्तित्वात्माणस्य निदर्शनं मनो मबति। मनस इब प्राणस्याप्युपकरणत्वं हि पञ्चवृत्तित्वात् ॥१५२॥ अणुशक्ष ॥ १३॥ इतरप्राणवदेव च मुख्योऽप्यणुरेव मवति हि प्राणः । सौक्ष्यपरिच्छेदौ खल्वत्राणृत्वं न चाणृतुल्यत्वम् ॥१५३॥ कृत्सशरीरव्यापी येनासौ पञ्चवृत्तिभि: प्राणः। सूक्ष्मश्र प्राणोऽसावुत्क्रान्तावनुपलभ्यमानत्वात् ।। १५४।। भवति परिच्छिन्नोऽसावु ्क्रान्तिगत्यागतिश्रुतिभ्यक्ष। नन्विह विभुताऽपि समः प्लृषिणेत्यादिश्रतो विनि्दिष्टा ॥६५५॥ इति चेहाऽडधिदेविकसमट्टिरूपो हिरण्यगर्भो य: । प्राणात्मा तत्वेन हि विभुत्वमास्नायतेऽस्य नेतग्था ॥१५६॥ ज्योतिराद्यधिष्ठानं तु तदामननात्॥ १४॥ आध्यात्मिकाधिदेविक विभागतोऽणुत्वमपि विभुत्वं च। प्राणस्य पूर्वमुक्तं तेषामिह सपदि तत्प्रसङ्गेन ॥ २५७॥ इद्माधिंदैविकाधीनत्वं वर्णयति सूत्रकारोडयम्। अत्र हि वाचा नामान्यभिवदतीतिश्रुतिप्रदेशपु ॥१५८ ॥ निरपेक्षसाधनत्वं वागादीनां प्रतीयते हि तया। अग्निर्वागित्यादिश्रतेविरोध समुत्थिते सेयम् ॥१५९॥ नाधिष्ठातृपरा ्रेस्तदुपादानत्वबाधनार्यैव। ते च प्राणा: प्रकृता: स्वकार्यशक्ता यतः प्रतीयन्ते ॥१६० ॥ तस्मात्स्वमहिम्रैव ह्येते प्राणा इह प्रवर्तेरन्। अपि चाधिष्ठातृत्वे देवानां माककृताऽपि दुर्वारा॥ १६१॥ भोकृत्वं चेत्तेषा शारीरस्यास्य भोक्तता न स्यात्। इति शङ्कां वारयितुं तदेतदभिधीयते हि सूत्रकृता ॥१६२ ॥

Page 211

चतुर्षपाद: ४] माष्यार्थरत्नमाला। २०७

इह पूर्वपक्षनिरसनः सोडयं तुशब्द इह पठितः । वागादिकरणजातं ह्यग्नयाद्यभिमानिदेवतोपकृतम्॥१६३॥ तदनुग्रहावलम्बात्स्वीये कार्ये प्रवर्तते सततम्। अग्निर्वागित्यादिश्रुतिरप्यमुमर्थमेव दर्शयति ॥१६४ ॥ अग्रेवभावोऽयं मुखप्रवेशश्र नान्य इह भवति। किंत्विह तद्धिष्ठातृत्वधिष्ठेयत्वरूप एवासी ॥१६५॥ एवं वायुः प्राणो भूत्वेत्यादावसी भवेदर्थः । वागेव ब्रह्मण इति मन्त्रे वाचोऽग्रिभावकथनमपि ॥१६६॥। उक्तार्थकं हि तस्मात्प्रत्यासत्तिस्तयोभवेदेवम्। वागध्यात्ममिति स्मृतिव चनैर्वागादिकरणजातस्य ॥ १६७।। अग्नयाद्यधिष्ठितत्व स्फुटतरमेव प्रपश्चितं भवति। स्वमहिस्रैव प्राणाः स्वकार्यशक्ता इतीह यच्चोक्तम् ॥ १६८।। तञ्चायुक्तं लोके शक्तानामपि भवेत्वरापेक्षा । अश्वाद्यिष्ठितानामेव रथाना यतः प्रवृत्ति: स्यात् ॥१६९॥

युक्तं तदागमादृषि तेषां भोक्तत्वमिह निराक्रियते ॥१७० ॥ प्राणवता शब्दात् ॥ १५॥ सत्स्वेवाधिष्ठातृष्वग्रचादिषु देवतात्मसु प्रथित: । प्राणवता शारीरेणैवैषां भवति नित्यसंबन्धः ।। १७१ ।। अथ यत्रैतदिति श्रुतिरवि शारीरेण सर्वकरणानाम्। मोक्तव्य मोकतृतादिस्वरूप संबन्धमत्र दर्शयति ॥ १७२ ॥ अपि चाधिष्ठातृणामनेकभावान्न चेह मोक्तृत्वम्। अवकल्पते ततोऽसावेकः शारीर एव मोक्ता स्थात् ॥१७३॥। प्रतिसंधानादिबलादृपि शारीरोऽयमत्र भोक्ता स्पात्। मोकृत्वं देवानामिह न कदाचिदिति दर्शयत्यधुना॥ १७४ ॥। तस्य च नित्यत्वात् ॥ १६ ॥ शारीरस्यैवास्मिन्नित्यत्वं भवति मोक्तृमावेन। पुण्यापुण्यार्जनतस्तथैव सुखदुःखमोगयोगाज्च।।१७५॥ या देवता: परस्मिन्नैश्वर्यपदेन तिष्ठमाना: स्युः । ता हि निहीने देहे लब्धुं मोक्तृत्वमत्र नार्हन्ति ॥१७६॥

Page 212

२०८ सुब्रह्मण्यविरचिता- [२ द्वितीयाष्यायस्य-

भ्रुतिरषि च पुण्यमेवामूनीत्याद्या निरूपयेत्येवम्। प्राणानां संबन्धः शारीरेणैव भवति नित्यतया॥ १७७ ॥ येन तमुत्क्ामन्तं प्राण इति श्रुतिरपीह दर्शयति। शारीरेणैवैषामुत्क्ान्ती तदनुवृत्तितामेव ॥ १७८॥ तस्मादासु सतीष्वपि न हि शारीरस्य भोक्तृताहानिः । देवा हि करणपक्षे दीपवदे[ष] हि न भोक्तृपक्षेऽपि॥ १७९ ॥ तस्माच्च चक्षुषेति श्रुतिरेषा भवति साधनत्वपरा। तद्धिष्ठातृपरैव ह्यग्निर्वागिति तयोक्ष न विरोधः ॥ १८० ।। त इन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्ठात् ॥ १७॥ एको मुख्यस्त्वितरे प्राणा एकादशेति निर्दिष्टम्। मुख्यस्य वृत्तिभेदा इतरे प्राणा भवन्ति किवा ते ॥१८१॥ तत्वान्तराणि तस्मादिति संदेहे समुत्थिते तत्र। मुख्यस्य वृत्तिभेदा इतरे प्राणा इतीह युक्ततमम् ॥१८२॥ हन्तास्यैवेत्याद्या श्रुतिरपि मुख्यात्मतां बवीत्येषाम्। एकत्र मुख्यवृत्तिरितरत्र च लक्षणा तु न हि युक्ता ॥ १८३॥ तस्मादेकस्यैव प्राणाद्याः पञ्च वृत्तयो हि यथा। एवं वागाद्या इति शङ्कामेतां निवारयत्यत्र ॥ १८४ ॥ वागादीन्येतानि हि मवन्ति तत्वान्तराि तानि यतः। एकादशेन्द्रियाणीत्युच्यन्ते श्रेष्ठमेकत्र विना ॥ १८५।। एकस्मादिति मन्त्रे प्राणा: पृथगेवमिन्द्रियाण्यवि च। व्यपदिश्यन्ते हि यतस्तस्मात्तत्वान्तराणि तानि स्युः ॥१८६॥ प्राणस्येव हि मनसो नन्वेवं सत्यनिन्द्रियत्वं स्यात। व्यपदिश्यते हि यस्मात्पृथडनोऽपीन्द्रियेभ्य इति चेन्न ॥१८७॥ व्यपदेशोऽसी यद्यपि मनसः पृथगेव दृश्यतेऽथापि। मनसोऽपि चेन्द्रियत्वं स्मृतिप्रसिद्धं श्रुतिप्रसिद्धमपि ॥१८८॥ प्राणस्य चेन्द्रियत्वं न च श्रुती न स्मृती प्रसद्धं स्यात्। व्यपदेशभेद एष हि तत्वैकत्वे ह्ययुक्त एव स्यात् ॥ १८९॥ भेदश्रुतेः॥१८॥ भेदेन व्यपदेशो वागादिभ्यो हि हश्यते पाणे। नेहेति श्रुतिवाक्ये वागादीनसुरपाप्मविध्वस्तान्। १९०H

Page 213

चतुर्थपाद: ४ ] माष्यार्थरत्नमाला। २०९

निर्दिश्य सकलमेतद्वागादिप्रकरणं च संक्षिप्य। भ्रुत्याऽथ हेममिति किल मुख्योऽसावसुरपाप्मविध्वंसी ॥१९१॥। व्य पदिष्टः पृथगेव हि तस्मात्तत्वान्तर्शाणि करणानि। तत्वान्तरतामेतामधुना हेत्वन्तरेण वर्णषति ॥ १९२॥ वैलक्षण्याच ॥१९ ॥ वैलक्षण्यं हष्ट मुख्यप्राणस्य चेतरेषां च। सुप्तेषु हि वागादिपु मुख्यो जागर्ति नेतरे प्राणाः ॥१९३॥। तस्य स्थित्योत्क्रान्त्या तनुधारणपतनकार्यमिह मवति। एतञ्च नेन्व्ियाणा विषयपरिच्छेद्हेतुता तेषाम् ॥१९४॥ तस्मादप्येतेषां तत्त्वान्तरभावसिद्धिरिति युक्तम् । एतस्यैव हि सर्वे रूपमितिश्रुतिबलन तत्त्वैक्यम्॥१९५ ॥ न हि वर्णयितुं शक्यं यस्मात्तत्र प्रतीयते भेद: । इह च वदिष्याम्येवाहमिति श्रुत्या व्रतं विनिर्दिष्म् ॥१९६॥ वागादीनामेवं कथितश्रमसृत्युकवलितत्वमपि। पश्चाद्थेममेवेत्यनया श्रुत्या हि मध्यमः प्राणः ॥१९७।। पृथगेव सृत्युनाऽनभिभूतोऽसी वर्णितस्तथेवास्य। वाक्येनायं वै नः श्रेष्ठ इति श्रेष्ठताऽपि निर्दिषा ॥१९८॥ तस्माद्वहभिलिट्गैरत्र विरोधे समुत्थिते तेषाम्। तनूपभवनमेतत्तद्धीनस्थितिक तात्मकं वाच्यम् ॥१९९॥ मुख्ये प्राणे शक्तो लाक्षणिक: प्राणशब्द इह मवति। तस्माद्वागादीनां प्राणात्तत्वान्तरत्वमिह सिद्धमू ॥ २०० ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ तन्नामरूपभेदात्प्राणोऽसी करणभिन्न इत्युक्तम्। तन्नामरूपकृप्तिर्भवति हि किंकर्तुकेति चिन्तेह ॥ २०१॥ सत्प्रकरण हि तेजोबन्नाना सृष्टिसरणिमभिधाय। एकेकं करवाणीत्यन्तं वाक्यं हि सेयमित्यादि ॥ २०२ ॥ एतद्नन्तरपठितं तस्मात्संदेह एष संभूतः । किं जीवकर्तृकमिद किं वा परमेशकर्तृकं वेति॥ २०३ ॥ तश्चेह नामरूपठ्याकरणं जीवकर्तृकं युक्तम्। यस्मादनेन जीवेनेति क्षतिरात्मभावसुपदिश्य ।। २०४ ।।

Page 214

२१० सुन्नझण्यविरचिता- [२ द्वितीयाध्यायस्य-

व्याकरवाणीत्वस्माद्याकर्तृत्वं हि तस्य दर्शयति। लोके चारेणाहं परसैन्यमनुप्रविश्य कलयानि॥ २०५॥ एवंविधप्रयोगे तत्कर्तृकभेव सैन्यसंकलनम्। अध्यारोपयति यथा स्वात्मनि राजा हि हेतुकर्तृत्वात् ॥ २०६ ॥। संकलयानीत्येवं तथेदमपि जीवकर्तृक सदिह। स्वात्मन्यारोपयति व्याकरवाणीति देवता ह्येषा ॥ २०७ ॥ अपि किल डित्थादिषु वा नामस्वेवं घटादिरुपेषु । जीवस्यैव हि दृष्ट व्याकतृरवं न चेतरस्येह ॥ २०८॥ तस्माच्च जीवकर्तृकमिदमिति शङ्का निराकरोत्यधुना। सूत्रस्थो हि तुशब्दः प्रकृताशङ्कानिवर्तनार्थः स्यात् ॥२०९॥ यञ्चेह नामरूपव्याकरण तत्परेश्वरस्पैव । तस्येह निरपवादं कर्तृत्वं स्यान्न चेतरस्येदम् ॥ २१०॥

सा तेजोबन्नानां निर्मातुर्भवति कृतिरिहेशस्य ॥२११॥ सेयमिति श्रुतिरेषा व्याकरवाणीति चरमवाक्येण। परामात्मन एव यतो व्याकर्तृत्वं तदेतदुपदिशति ॥ २१२॥ मम्विह जीवेनेति व्यपदेशाज्जीवकर्तृकं तरस्यात्। इति न यती जीवेनेत्यनुभविश्येत्यनेन संबन्ध्यम् ॥ २१३॥ अव्यवधानान्नेह व्याकरवाणीत्यनेन संबध्येत। स्थादैपचारिकोऽसावुत्तमपुरुषश्र तेन संबन्धे ॥ २१४।। अपि गिरिनदीसमुद्रादिपु नानारूपनिवहेषु। स्वाकरणकर्तृता कथमनीश्वरस्यास्य मवति जौवस्य ॥२१५॥ येष्वपि सामथ्य स्यात्तेष्वपि तदिदं भवेत्परस्यैव। राज्ञश्रार इवायं न परस्माद्विन्न एव जीव: स्यात् ॥ २१६॥ यस्मादिहाऽडत्मनेति च विशेषणं दृश्यते हि जीवस्य। तस्योपाधिनिबन्धन एवासी जीवभाव इत्युक्तम् ॥२१७॥ सेन च तत्कृतमेतत्परात्मकृतमेव भवति सर्वमपि। परमेश्वर एवासी व्याकर्ता नामरूपयोरिति हि॥ २१८॥ आकाशो हेत्वादैः श्ुतिव चनै्व्यक्तमेतदुपदिषम्। प्रत्येकमामरूपव्याकरणं भूतसर्गवाक्पेम् ।। २१९ ।।

Page 215

चतुर्थपाद: ४] माप्यार्थरत्नमाला। २११

निर्दिष्टमत्र तु पुनर्विवक्ष्यते मौतिकेषु तदिदं हि। तेजांबन्नानां किल मवेञिवृत्करणपूर्वकं यस्मात् ॥ २२० ॥ तस्मादृग्न्यादिष्वियमुपदिशति श्रुतिरिदं त्रिवृत्करणम्। श्रुतिरेषा हि यद्ग्रेरित्याद्या सकलमेतदुपदिशति॥२२१ ॥ अग्न्यादित्यादीनां यदुदाहरणं श्रुतौ विनिर्दिष्टम्। तेनैतेषु त्रिष्वपि भौमांभसतैजसेषु तत्सिद्धम् ॥२२२ ॥ यस्मादविशेषेण ्ुताविमा इत्युपक्रमो दृष्टः । यदु रोहित मित्यादावुपसंहारोऽवि चाविशषेण ॥ २२३ ।। तासां बहिस्तिसृणां तरिवृत्कृतानां तु देवतानां हि। अध्यात्ममपरमेषा श्रुतिस्त्रिवृत्करणमत्र दर्शयति ॥ २२४॥ सा चेमास्तिस्र इति प्रथिता हि तयैव दर्शयत्येतत्।

मांसादि भौमं यथाशब्दमितरयोश्र ।। २१॥ भूमेखितिवृत्कृताया: पुरुषेणेहोपभुज्यमानाया:। निष्पद्यते हि कार्य मांसादि हि मवति तद्यथाशब्दम ॥ २२६ ॥ दशयति चान्नमशितं त्रेधेत्याद्या श्रुतिर्यथोक्तार्थम्। भूमेरुपभुक्ताया: स्थविष्ठरूपं पुरीषभावेन ॥२२७।। निगंच्छति बहिरेव हि मध्यममध्यात्मभेव मासादि। वर्धयति यद्धर्चाणेष्ठं भवति मनो ह्वेवमितरयोरपि च ॥ २२८॥ मूत्रं लोहितमेवं प्राणश्च तथा भवेदपां कार्यम्। अस्थि च मज्जा वागपि तेजस एतञ्रयं भवेत्कार्यम् ॥। २२९॥ ननु भूतं मौतिकमप्यविशेषेण त्रिवृत्कृत चेतस्यात्। योऽयं विशेषवादस्तेजोबन्नेषु स च विलुप्येत ॥ २३०। इदमिह तेज इमाः खल्वाप इदं चान्नमेवमादिरसौ। अध्यात्ममपि तथेदं कार्यं मांसादि चाशितान्नस्य । २३१॥ एवमपां पीतानां कार्यं चैतद्धि लोहितादीति। अशितस्य तेजसोडपि ह्यस्थ्याद्येवास्य कार्यमिति चेन्न ॥ २३२॥ वैशेष्यान तद्वादस्तद्वादः ॥ २२॥ चोदितमेनं दोषं तुशव्द्योगेन सम्यगपनुदति। अत्र हि विशेषमावरे वैशेष्यं तञ्ञ सवति भूयहत्थम .२३R M

Page 216

२१२ सुब्ह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

यद्यपि सकलं चेदं त्रिवृत्कृतं स्यादथापि वैशेष्यम्। एकस्य भूतधातोर्भूयस्त्वं चोपलभ्यते क्वापि ॥२३४॥। तेजोभूयस्त्वं खल्वग्रेर्दष्ट तथोदकस्यापि। अध्मूयस्त्वं दृष्ट तथा पृथिध्या इहान्नभूयस्त्वम् ॥ २३५ ॥। व्यवहारसिद्धये खल्विदं त्रिवृत्करणमाश्रितं मबति। इह च पढ़ाभ्यासोऽसावध्यायसमाप्तिमाशु बोधयति ॥ २३६॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां द्वितीयसंज्ञश्ष योऽयमध्यायः ॥ २३७ ॥ तत्र च चतुर्थपादे सूत्रार्थो यश्र माष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः । २३८॥ भाष्यार्थरत्नमाला वैयासिकसूत्रजालसंग्रथिता। भगवति परमानन्दे समर्पिता जयतु जगति निरवद्या॥ २३९॥ इति श्रीमाष्यार्थरत्नमालायां द्वितीयाध्यायस्य चतुर्थः पाढ: । ४ ॥

समाप्तश्र द्वितीयाध्याय: ॥२॥

माष्यार्थरत्नमालायां तृतीयाध्यायस्य प्रथम:पाद:।।

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् १ पूर्वस्मिन्नध्याये कपिलादिस्मृतिनयैविरोधोऽसौ। बेदान्तवाक्यविहितबह्मावगमे हि परिहतः सकलः ॥ १ ॥ अनपेक्षत्वं च तथा परपक्षाणां प्रपश्च्ितं मवति। विप्रतिषेधश्रायं श्रुतिवचसामपि निराकृतः सकलः ॥२॥ जीवव्यतिरिक्तानि हि यानि च जीवोपकरणभूतानि। तानि परस्माङ्गह्मण उत्पद्यन्त इति दर्शितं पूर्वम्॥३॥ एवं वेदान्तार्थे विरोधशक्कानिरासतो विमले। उब्धावसरा सेयं जाता तज्ज्ञानसाधने चिन्ता॥४ ॥ इति हेतुहेतुमन्भावात्मकसंगतिमिहावलम्पैव। तत्निर्णपाय संप्रत्यध्यायोऽसी तृतीय आरगधः ॥५॥

Page 217

प्रथम:पाद: १] माष्यार्थरत्नमाला। २१३

लिङ्गोपाधे: सिद्धा मवति हि तदुपहितजीवसंसारे। चिन्तेति पादयोरपि संगतिरिह हेतुहेतुमन्भावः॥६॥ एतस्मिन्नध्याये योऽसावुपकरणपरिहृतो जीव:। तस्य हि संसारगतिस्तद्वस्था ब्रह्मतत्त्वयाथात्म्यम् ॥७ ॥ विद्यामेदाभेदौ गुणोपसहारतद्विपर्यासौ। सम्यग्दर्शनयोगात्पुंसां पुरुषार्थसिद्धिरप्येवम्॥८।। सम्यग्दर्शनसाधनविधिप्रभेदो हि मुक्त्यनियमश्च। एतन्निरूपयिष्यत इह प्रसङ्गागत तथाऽन्यदृपि॥ ९॥। प्रथमे तावत्पादे पञ्चस्वग्नित्वगोचरां विद्याम्। आश्रित्य विरतिहेतोः संसारगतेः प्रदश्यते भेदः ॥ १० ॥ तस्य जुगुप्सेतेति ह्यन्ते दृष्टा विरक्तिसाधनता। मुख्यप्राणसहायो जीवोऽसी सेन्द्रियश्र समनस्कः ॥११॥ विद्याकर्मपुरस्कृतपूर्वप्रज्ञापरिग्रहोपेतः । पूर्व विहाय देहं देहान्तरमभिनवं हि लमत इति ॥१२ ॥ इत्येतद्वगतं खल्वथैनमित्यादिवेद्वाक्येषु । धर्माधर्मफलानामुपमोक्तृत्वेन तस्य तहुक्तम् ।। १३ ।। स हि देहबीजमूतैः सूक्ष्मैर्भूतैरसंपरिष्वक्तः । गच्छत्याहोस्वित्किं स सपरिष्वक्त एव यातीति ॥ १४ ॥ चिन्तेयमत्र यक्ता ह्यसंपरिष्वक्त एव यातीति। करणोपादानवदिह भूतोपादानमत्र न हि दृष्टम् ॥१५॥ इह च स एतास्तेजोमात्रा इत्यत्र करणमात्रपरः। तेजोमात्राशव्दः श्रूयत एवं न भूतपरशब्दः ॥१६ ॥ अपि चेह वाक्यशेषे कथितानि हि चक्षरादिकरणानि। एवं न भूतमात्रोपादानस्येह कीर्तन दृष्मू ॥१७॥ सुलमाश्र भूतमात्रा यस्मात्तासां हि निप्फलं नयनम्। तस्माद्संपरिष्वक्तो यातीत्यत इदं पठत्यार्यः ।। १८ ।। व्यवहारसिद्धये किल पञ्चीकरणं प्रदर्शितं पूर्वमू। संप्रति स व्यवहारो निरुप्यत इतीह हेतुफलमावः ॥१९॥ देहान्तरसंपत्ती सूक्ष्मैर्भृतैः सहैव संयाति। जीवोऽन्म मवति हेतुः प्रश्नप्रतिवचनरूप एवेति ॥ २० ॥

Page 218

२१४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

राज्ञ: पवाहणस्य प्रश्नोऽसी श्वेतकेतुमुद्दिश्य। वेत्थ यथा पञ्चत्वमित्यादिस्तस्य चोत्तराज्ञाने ॥ २१॥ तत्पितरं राजाऽसौ पप्रच्छोद्दालकं यथापूर्वम्। तेनासौ वावेति वचनं हीद प्रदर्शितं राज्ञे ॥ २२॥ इह खल्वग्नावेता: श्रद्धाख्या: श्रद्धया हुता आपः। आज्यपयोद्धिरूपा भवन्ति यजमानसगतास्ताभिः ॥२३॥ सोमाख्यदिव्यदेहात्मना स्थिता: स्वर्गलोकमासाद्य। कर्मान्ते पर्जन्ये हुतास्ततो वृष्टिभावमुपयान्ति ॥२४ ॥ एवं हुता: पृथिव्यां ताक्षान्नत्वेन परिणतास्तद्वत। पुरुषे रेतोरूपा योषिति च हुता हि पुरुषपद्वाच्या: ।२५। दर्शयतीति त्वाद्या श्रुतिरेषा सकलमेतमर्थमिह। तस्मादृद्भिर्जीवो वजति परिष्वक्त इति तु युक्तमिह॥२६॥ नन्विह पूर्वं देहं त्यक्त्वा जीवस्तदन्तरं लभते। इत्यत्र वर्णितं तत्प्रतिकूलं तृणजलायुकेत्यस्या:॥२७॥ पूर्वतनुत्यागोडसौ तद्न्तरप्राप्त्यनन्तरं तत्र। निर्दिष्ट इह तु पूर्व तस्मादृंतद्विरुद्धमिति चेन्न ॥ २८॥ मावनयैव गृहीत्वा कर्मायत्तं हि माविदेहमसौ। पूर्वं देहं त्यजतीत्येव जलूकानिदृशनेनैषा ॥ २९ ॥ बोधयति सूत्रदर्शितमर्थ श्रुतिरिति न कश्विदिह दोष:। देहान्तरसंपत्तिपकार एवं श्रुतिस्मृतिप्राथते॥ ३०॥ तत्राSSत्मनस्तथैव हि करणानां व्यापिनां भवेद्वृत्तिः। इति सांख्यकल्पना वा तथैव सुगतादिकल्पना याऽसौ॥।३१ ॥ केवलमात्मन एव हि तदन्तरे भवति वृत्तिलाभ इति। एवं काणादानां मन एवाभिप्रतिष्ठते तादिदम् ॥ ३२-।। उत्पद्यन्ते देहवदमिनवरूपाणि चेन्द्रियाणीति। या कल्पना तथेयं शुक इव वृक्षात्तदन्तरं हि यथा॥३३॥ उत्प्लुत्य जीव एकस्तदन्तरं लभत एवमाद्या हि। जैनानां ता: सकला नाऽऽदर्तव्या यतश्र निर्मूलाः ॥३४॥ श्रुतिविप्रतिषेधाश्रवेत्यत एतासु ह्यनादरो युक्त:। प्रश्नप्रतिवचनाभ्यां नन्वद्भि: केवलाभिराकलितः ॥३५॥

Page 219

भथम:पादः १ ] माष्यार्थरत्नमाला। २१५

रहति परलोकमिति प्रतीयते कथमिह प्रतिज्ञातम्। सवैर्हि भूतसूक्ष्मैः सह प्रयातीत्यतस्त्विदं पठति ॥३६॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥ अत्रत्यक्ष तुशब्दो यथोक्तशक्कानिवर्तनार्थ: स्यात्। प्रश्ननिरूपणवाक्यप्रदर्शितास्त्रिस्वरूपका ह्यापः ॥३७॥ यस्मातिवृतमिति श्रुतिरिह तिस्नस्तास्त्रिवृत्कृता बूते। तासाभारम्भकतासिद्धावितरद्वयस्य सा सिद्धा ॥ ३८ ॥ तेजोबन्नानामिह यस्मात्कार्यं च दृश्यते देहे। तस्माद्देहरूयात्मक एप पुनरुषात्मकस्त्रिधातुत्वात् ॥ ६९ ।। यस्माच्च वातपित्तश्लेष्मभिराकलित एव देहोऽसौ । न च केवलाभिरन्भिर्विनैव भूतान्तराणि चाऽडरब्धुम्॥ ४०॥ नैष हि शक्यस्तस्मादब्भूयस्त्वापेक्षयेह चाप्शब्दः। हृश्यत एव हि यस्मादन्भूयस्त्वं हि सर्वदेहेषु ॥ ४१ ॥ ननु पार्थिवोऽषि धातुर्भूयिष्ठो दृश्यते शरीरेषु। मेवमपां बाहुल्यं त्विहेतरस्माद्धि दृश्यते लोके ॥ ४२ ॥ यद्ेहबीजभूतं शुक्रं शोणितमिति प्रसिद्धं तत्। द्रवबहुलमेव दृष्ट कर्मापि निमित्तकारण यत्स्यात् ॥ ४३॥ तद्पि च सोमाज्यादिद्रवबहुलद्रव्यसंश्रितं भवति। तत्समवेता ह्यापः श्रद्धाशब्दोदिता भवन्त्येताः ।। ४४।। सह कर्मभिर्द्युसंज्ञे ह्यग्ौ हूयन्त इति च वक्ष्यति हि। तस्माद्वाहुल्यमपामप्शब्देनेह देहबीजानाम्॥४५॥ युक्तमुपादानं किल सर्वेषामेव भूतसूक्ष्माणाम। यञ्चेह मूतसूक्ष्मैः सहगमनं तस्य तद्पि निरवद्यम्॥४६॥ प्राणगतेश्र ।। ३॥। देहाम्तरसंपत्ती प्राणानामपि गतिः श्रुता ह्येवम्। इह च तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति वाक्येन ॥। ४७॥। सा हि गतिः प्राणानां नैवाSडश्रयमन्तरेण संभवति। अत इह तद्त्यर्थं तदाश्रयाणामपीह सा वाच्या॥। ४८।। न प्राणानां दृष्टा निराश्रयाणां क्वचिदतिस्तस्मात्। भूतान्तरसहितानामपामपि गतिस्त्ववश्यमिह वाच्या।।४९।।

Page 220

२१६ सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४ ॥ ननु देहान्तरयोगे नैव प्राणा: सहैव जीवेन। गच्छन्त्यग्न्यादिगतिश्रुतेस्तथेयं श्रृतिः प्रदर्शयति ॥ ५० ॥ देहावसानसमये प्राणा वागादयो हि गच्छन्ति। अग्न्यादीन्देवानिति यत्रास्येति श्रुतिर्हि दर्शयति ॥५१॥ इति चेद्वागादीनामग्न्यादिगतिश्रुतिर्हि गौणीयम्। लोमसु केशेषु च सा न दृश्यते श्रुतिरिहेत्थमुपदिशति ॥ ५२॥ लोमानि चौषधीरिति केशाश्र वनस्पतीन्प्रयान्तीति। न हि लोमानि च केशा उत्प्लुत्यौषधिवनस्पतीन्यान्ति ॥५३ ॥ न च जीवस्य प्राणोपाधित्यागेन गमनमपि युक्तम्। देहान्तरे हि भोगो वाऽपि प्राणर्विनोपपद्येत ।। ५४।। जीवेन च सह गमनं प्राणानामपि च दृश्यतेऽन्यत्र। तस्मादग्न्यादीनां वागादवुापकारिणां हि देवानाम् ॥५५॥ उत्क्रमसमये केवलसुपकारनिवृत्तिमात्रमालक्ष्य। वागाद्यः प्रयान्ति ह्यग्न्यादीनिति तु भाक्तमेव स्यात् ॥५६॥ प्रथमSश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥ नन्वेतत्कथमापः पञ्चम्यामाहुतौ हि पुरुषाख्या:। यस्मादग्री प्रथमे नैवापां श्रवणमस्ति किचिदृपि॥ ५७॥ आहुत्याधारतया पञ्चाधीतास्त्वहाग्यो दयुमुखाः। तेषां प्रथमे त्वग्ौ तस्मिन्नित्येवमादिकां श्रद्धाम् ॥५८॥ होम्यद्रव्यतया हि श्रृतिः प्रदर्शयति तेन तद्युक्तम्। पर्जन्यादिषु सोमप्रभृतीनां होमकरणभूतानाम्॥५९॥ द्रवबाहुल्येनापां होम्यद्रव्यत्वमुचितमेव स्यात्। प्रथमे त्वग्नो श्रद्धा श्रुतां परित्यज्य चाश्रुता आपः ॥ ६० ॥ कथमिह होतव्या: स्युः पञ्चम्यामित्ययुक्तमिति चेन्न। यस्मात्परथमेऽप्यग्री ता एवाऽडपो भवन्ति होतव्याः ॥६१॥ श्रद्धाशब्देनापि च ता एवाऽडपो विवक्षिता: स्युरिह। एवं चेदेवं स्यात्तदादिमध्यावसानसंबन्धात् ॥६२॥ एकं वाक्यमनाकुलमुपपद्यत इतरथाऽडहुतावस्याम्। पश्चम्यामेवापां पुरुषवचसत्वप्रकार इह पृष्े ॥ ६३॥

Page 221

प्रथमपाद: १] माष्दार्थरत्माला। २१७

प्रतिवचनावसरे हि प्रथमेऽय्ी प्रथममाहुतिस्थाने। अनपो हौम्यद्रव्यं भ्रद्धा मामावतारयेत्तहिं ॥ ६४ ॥ नात्रैकवाक्यता स्यात्प्रश्नप्रतिवचनवैपरीत्येन। उपसंहारोऽपीति स्वित्याद्या चैकवाक्यर्ता बक्ति ॥६५ ॥ लक्ष्यत एवाब्बहुलं श्रद्धाका्यं च सोमवृष्यादि। कार्यानुरूपभेव [च]लोके दृष्ट हि कारणं सकलम्॥६६ ॥ मनसी जीवस्थायं श्रद्धाख्यः प्रश्ययोऽत्र धर्मः सनू। पश्वादिभ्यो हृदयानीवाय धर्मिणो निकृष्य कथम् ॥६७॥ हांतुमुपादेय: स्याच्छ्रद्धाशब्दा इहाऽऽप एवातः । थद्धाशव्द्श्चाप्सु श्रद्धा वा आप एवमादिषु च ॥ ६८ ॥ वाक्येषु वेदिकेष्वपि द्ष्टस्तस्मात्तनुत्वयोगेन। श्रद्धासमानरूपा: श्रद्धाशब्दा इहाऽडप एव स्यु: ॥६९॥ अथवा श्रद्धाशब्दः श्रद्धासवलितकरमसमवायात्। श्रद्धाहेतुत्वाद्दा श्रद्धाशब्दोऽयमप्सु युक्त: स्यात् ॥७० ॥ आपो हास्मै भ्रद्धा इत्याद्या हि श्रुतिः प्रदर्शयति। अ्रद्धाहेतुत्वेन श्रद्धाशव्द्रोपपत्तिमप्सु यतः ॥। ७१ ॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६ ॥ प्रश्नप्रतिवचनाभ्यामापः श्रद्धादिभावमापन्नाः। प्रतिपद्येरन्पुरुषाकारं ताश्ाऽडहुता हि पञ्चम्यामू॥७२॥ ताभिस्तु संपरिष्वक्ता जीवाश्रेह नैव रहेयु:। न हि जीवानां कश्रिच्छ्रावयिताऽपामिबेह शब्दोऽस्ति ॥ ७३ ॥ तस्माद्युक्तमेव ह्यन्भि: परिवेष्टितस्य गमनमिदम्। इतिचेत्पतीयते तद्रंहणभिष्टादिकारिणामत्र ॥७४ ॥ अथ य इमे ग्राम इति श्रुतिरिह धृमादिव्तर्मनैतेषाम्। इषादिकारिणां गतिमपि चन्द्रपाप्तिमत्र दर्शयति ॥७५।। यात्याकाशाच्चन्द्रं चन्द्रमसो भवति सोमराज इति। एवमिहापि हि तस्मिन्नित्यादावेतदेव निर्दिट्म् ॥७६॥ तस्मिन्नग्रौ देवा: श्रद्धां जुह्वति तदाहुतेरेषः। सोमो राजा भवतीत्यत्र श्रुतिवचनसाम्यतो लब्धम् ॥७७। तेषां च कर्मसाधनभूता एते हि दधिपयःप्रमुखाः। द्रव भूयस्त्वादाप: प्रत्यक्षेणैव ता हि वृश्यन्ते ।। ७८ ।।

Page 222

२१८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

आहवनीये च हुता: सूक्ष्मास्तानाश्रयन्ति यजमानान्। तषा शरीरमपि खत्वन्तेऽग्रावृत्विजोऽतर जुह्ृति हि॥ ७९॥ आपश्रणऽऽहुतिमय्यः सूक्ष्माश्रेष्टादिकारिणो जीवान्। परिवेध्यामुं लोकं फलदानाय च नयन्ति ता इति हि॥ ८० ॥ अग्नौ देवा श्रद्धामित्याद्येन प्रतीयते ह्येवम्।

जनकेन याज्ञवल्क्यं प्रति षट्प्रश्नाः प्रदर्शितास्तत्र ॥ ८२॥ पुरुषस्थोत्क्रामत इह ते एते आहुती हुते भवतः । यश्चान्तरिक्षलोकस्तद्वारा ते दिवं हि गच्छन्त्यी ।। ८३ ।। दिवमेवाSSहवनी यप्रतिष्ठयोपेतमातनुत एते । ते हि दिवं तर्पयतस्त्वावर्तेते ततो हि पुनरपि च ॥ ८४ ॥ ते च पृथिव्यां पुरुषे योषिति च हुते हि पुरुषरूपेण। उपतिष्ठत इत्येतत्कर्मिषु सर्वत्र दर्शयित्वैव ॥ ८५॥। स्वमनुत्क्रान्तिं न गतिं न च प्रतिष्ठां ने तृप्तिमपि चवम्। न च पुनरावृत्तिं वा न च लोकं प्रत्युपस्थितं वेत्थ ।। ८६ ।। इति षद्रप्रश्नैविवृते न हि पुनरावृत्तिवर्जितः पन्थाः। तस्मादृद्विश्राऽडहुतिभयीभिरेवेष संपरिष्वक्तः ॥८७।। रंहति परलोकमसी फलभोगायेति युज्यते तदिदम्। इष्टादिकारिणां ननु फलोपभोगाय रंहणं यदिह॥। ८८ ॥। धूमाविवर्त्मनोक्तं तदयुक्तमिव प्रतीयते यस्मात्। इषादिकारिणां किल शशधरमण्डलमुपागतानां हि। ८९ ॥ तद्देवानामन्नं तं देवा एवमादिका तेषाम। श्रुतिरन्नतां हि कथयति कथमेतेषां फलोपभोग: स्यात् ॥९०॥ ते चन्द्रं प्राप्यान्नं भबन्ति तानेवमादिकाऽप्यपरा। श्रुतिरिममर्थं बूते कथमिह तेषां स्वकर्मफलभोगः ॥ ९१ ॥ तस्माध्द्याघ्रादिभिरिव देवैः सर्वत्र भक्ष्यमाणानाम्। उपमोगाशंसनमिह कथमिति शङ्कां निराकरोत्यधुना ।।९२॥ भाकं वानात्मवित्त्वात्तथाहि दर्शयति ॥७॥ अत्र च वाशब्दोसी यथोक्तशङ्कानिरासफलकः स्यात्। एतेषामन्नत्वं न हि मुख्र्य किंतु भाक्तमेव स्यात् ।। ९३।

Page 223

प्रथमपाढ: १] माष्यार्थरत्नमाला। २१९

मुख्ये किलान्नमावे विधिवाक्यं स्वर्गकामपरमखिलम्। असमखसमुपभोगो यदि तेषां चन्द्रमण्डले न स्यात् ॥ ९४॥ अधिकारिणः किमर्थ कर्म यदायासबहुलमिह कुर्युः । लोके किलान्नशब्दोऽनन्नेऽप्युपचर्यंमाण इह दृष्ट: ॥९५॥ राज्ञां यथा विशोऽन्नं विशामिहान्नं यथा हि पशव इति। तस्मादिष्टतमस्त्रीपुत्रादिभिरिव गुणत्वमुपयातैः ॥९६॥ इष्टादिकारिभिर्यतसुख विहरणमेतदेव देवानामू। मक्षणमभिमतमेतन्न चर्वणं नापि निगरणं वाऽवि॥९७॥ श्रुतिरिह न ह वै देवा इत्याद्याऽप्येवमेव दर्शयति। नाश्नन्ति नैव देवा: पिबन्ति हष्वाऽमृतं हि तृप्यन्ति ॥९८॥ इति तेषां देवानां वारयति हि चर्वणादिकं सकलम्। इषादिकारिणां पुनरुपभोगोऽयं हि भवति युक्ततमः ॥९९ ॥ राजोपजीविनामिह जगति यथैवैष परिजनानां स्यात्। युक्तो ह्यनात्मवित्त्वात्तेषां देवोपभोग्यभावोऽसी।।।१००॥ अथ योऽन्यामित्येषा श्रुतिरपि देवोपभोग्यतां बूते। स च न हि वेद यथाऽसी पशुरेवं स खलु देवतानां स्यात्॥१०१। स हि यस्मित्नषि लोके कर्मभिरिष्टादिभिश्र देवादीन्। परितोषयन्हि पशुवद्देवानामुपकरोति चाविरतम् ॥ १०२।। एवममुष्मिल्ोके फलं तदादिष्ट्मेव सुआ्जान: । पशुवद्सी देवानामुपकुरुत इतीह गम्यते हि ततः ॥ १०३॥ अर्थान्तरपरमपि खल्वनात्मवित्त्वादितीह यच्चोक्तम्। इषादिकारिण: खल्वनात्मविद एव केवलं ते स्युः ॥१०४॥ यस्मात्समुच्चयानुष्ठानविहीना हि कर्ममात्रपरा: । तस्माद्ठणवादेन हि तेषामन्नत्वमत्र निर्दिष्टम् ॥१०५॥। पञ्चाग्निविद्यया खलु विधुरास्तस्मादनात्मविद एते। दर्शयति कर्ममोगं स सोमलोके विभूतिमनुभूष॥१०६ ॥ पुनरावर्तत इति हि श्रुतिरेषा चन्द्रमण्डले तेषाम्। भुत्यन्तरमथ ये शतमित्यादिकमेवमेव दर्शयति॥१०७॥ इष्टाविकारिणामिह माक्तत्वावृन्नमाववचनस्व । रहति फलोपयुक्तयै स संपरिष्यक इति हि युक्तमिद्यू।।१०८।।

Page 224

२२० सुबह्मण्यविरचिता- [ १ तृतीयाध्यायस्य-

कतात्ययेऽनुशयवान्दष्टस्मृति्यां यथेतमनेवं च ॥ ८ ॥ धूमादिवत्मना किल शशधरमण्डलमुपागतानां हि। इष्टादिकारिणामिह तत्रैव च सुक्तसकलभोगानाम् ॥१०९॥ प्रत्यवरोहस्तस्मिन्यावत्संपातमित्यनेनोक्त: । येनाध्वना गतास्ते पुनस्तमध्वानमनु निवर्तन्ते॥११० ॥ पदि रमणीयाचरणा रमणीयां योनिमेव ते यान्ति। यदि चेत्कपूथचरणा: कपूययोनिं प्रयान्ति हीत्युक्तम् ॥१११॥ ते किं निरनुशया वा सानुशया वा ततोऽवरोहन्ति। इति शङ्कायां प्राप्तं निरनुशया एव केवलं त इति ॥११२॥ यावत्संपातयुषित्वरेति विशेषणमपीह निर्दिष्टमू। येनैव संपतत्ययमस्माल्लोकादसी हि संपातः ॥११३॥ स च कर्मानुशयः स्याद्यावत्संपातमित्यनेनोक्त: । कृत्स्नस्य कर्मणो हि प्रतीयते भुक्तता हि तत्रैव ॥ ११४।। श्रुत्यन्तरेण तेषां यदेत्यनन प्रतीयते ह्येवम्। नन्विह यावदमुष्मिलोके कर्मोपभोगयोग्यं स्थात् ॥ ११५॥। तावत्युपभुक्त इति श्रत्पर्थश्रेह कल्व्यतामिति चेतू। यावत्पद्संकोचोऽपपनुचित इह कल्पनीय एव स्यात् ॥ ११६॥ यत्किंचेह करोत्ययमित्यादिश्रुतिभिरपि विरोध: स्यात्। अपि चानारब्धफलं यत्कर्माभिव्यनक्ति कृत्स्नं तत् ॥। ११७। प्रायणमेतस्मात्प्रागारब्घफलेन कर्मणा तस्य। प्रतिबन्धादेव स्यावनभिव्यक्तिरिति तद्वियोगे तु ११८ ।। सामग्रया अविशेषाद्यदिदं प्रायणमिहोपपन्नं तत्। यावदनारब्धफलं तावदृभिव्यञ्ञ्जकं मवत्येव ॥ ११९ ॥ साधारणे निमित्ते नैमित्तिकमषि च ताहशं हष्मू। घटपदयोरुपलब्धौ न तारतम्यं हि दीपसांनिध्ये॥ १२० ॥। तस्मात्निरतुशयास्ते ह्यवरोहन्तीति पक्षमपनुदति। येनैव कर्मणा ते शशिमण्डलमुपगता हि भोगाय ॥ १२१।। उपभोगेन क्षपिते तस्मिस्तेषां यदम्मयं गात्रम्। उपभोगायाऽSरबधं तध्टुपभोगक्षये हि संनद्धे ॥ १२२॥ शोकाग्निज्वालाभि: प्रतीयते सवितृकिरणसंपर्कात्। हिमकरकादिरिवेदं तत इष्टादे: कृतस्य सर्वस्य॥१२३॥

Page 225

प्रथमपाद: १] माप्यार्थरत्नमाला। २२१ कर्मण उपभोगेन क्षये समुत्पन्न एव सानुशया: । अपरोहन्त्येत इति श्रुतिस्मृतिभ्यां प्रतीयते तदिदम ॥१२४॥ तद्य इहेति श्रुतिरिह तमेतम्थं हि सकलमुपदिशति। ये रमणीयाचरणास्ते चावश्यं प्रयान्ति रमणीयाम् ॥ १२५॥ ब्राह्मणयोनिं वा ते क्षत्रिययोनिं च वैश्ययोनिं वा। ये हि कपूयाचरणास्ते हि कपूयामवश्यमुपयान्ति ॥१२६॥ सूकरयोनिं वा ते श्वयोनिमथवाऽन्त्यजातियोनिं वा। अत्रत्यचरणशब्देनानुशयः सूच्यते न चान्यदिह ॥ १२७ ॥ दृष्टो हि जन्मनैव प्राणिषु सर्वेषु चोपमोगोऽयम्। प्रविभज्यमान एव ह्यनुशयसन्भ्वावमेष सूचयति ॥१२८॥ वर्णा इत्याद्याऽपि स्मृतिरिममेव प्रदर्शयत्यर्थम्। ननु योऽसावनुशय इह सूत्रोक्त: स खलु किंविधोऽयमिति॥१२९॥ स्वर्गार्थकर्मणोडयं भुक्तफलस्यावशेष एव स्यात्। भाण्डानुसारितैलवद्यमिति केचित्तु वर्णयन्तीह ॥१३० ॥ मुक्तफलकर्मशेषावस्थानं ननु न युक्तमिह भाति। यह्यच्न कर्म लोके तत्सकलं भोगनाश्यमिति चेन्न ॥ १३१ ॥ सर्वात्मनां हि कर्मण इह मुक्तफलत्वमनुपपन्नं स्यात्। इष्टादिकर्मफलमिह यद्यपि भोक्तु हि चन्द्रमारुढाः ॥ १३२॥ सत्यं तथाऽपि चाल्पावशेषमात्रं न शक्यते स्थातुम्। इह सेवको हि कश्वित्समग्रसेवोपकरणसंपन्नः ॥ १३३॥ राजकुलमनुमृतोऽसी चिरप्रवासाज्चिरप्रसादाज्। अपगतबहूपकरणः कतिषयसेवोपकरणमात्रेण।। १३४ ।। राजकुले हि स्थातुं यथा न शक्रोति तद्वदेवायम्। अनुशयमात्रेण पुनः शक्रोति न चन्द्रमण्डले स्थातुम् ॥१३५॥ इति पक्षो हि न युक्तो यस्मादिष्ादिकं हि यत्कर्म। भवति हि तत्स्वर्गारथं मोकृफलं तत्र तस्य भवति कथमू॥१३६॥ लेशानुवृत्तिरेषा स्वर्गादन्यत्र फलमसौ जनयेत्। शब्दप्रमाणकार्ना न चेदृशी कल्पनाऽपि युक्ततमा ॥ १३७ ।। दृष्टा हि तैलमाण्डे तल्लेशस्यानुवृत्तिरिह लोके। सेवोपकरणलेशानुवृत्तिरपि सेवकस्य हहैब ।। १३८॥।

Page 226

२२२ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

लेशानुवृत्तिरेषा न स्वगार्थस्य कर्मणो हष्ा। स्वर्गफलशास्त्रवाधान्नप्यंपा कल्पनापि युक्ततमा ।। १३९ ॥। स्वर्गफलस्पेष्टादेर्लेशस्तस्मान्न चानुशय एष:। यदि तस्य लेश एव ह्यनुशय इति कल्प्यते तदा चायम् ॥१४०॥ रमणीय एक एव स्यादनुशय इह च नैव विपरीतः । अनुशयसन्भ्ावपरा तद्य इहेत्यादिका श्रुतिश्रेह ॥१४१॥ अनुशयमुभयविधं किल रमणीयकपूयभेदतो बूते। तस्मात्तत्राSSमुष्मिक कर्मफले निर्रवशेषमुपभुक्ते ।। १४२।। यञ्चेदमैहिकफलं कर्मान्तरजातमनुशयस्तत्स्यात्। सद्दन्तस्ते स्वर्गाद्वरोहन्तीति युक्तमेवोक्तम् ॥१४३॥ सर्वस्येह कृतस्य च कर्मण उपमोगतोऽन्तमासाद्य। निरनुशया एवैते ह्यवरोहन्तीति यञ्च पूर्वोक्तम् ॥१४४॥ यत्किंचेतिश्रुतिबलमालम्व्य तदुत्तरं हि मवतीदम्। आमुष्मिकफलमिह कृतमपि यञ्चाऽडरब्धभोगमपि कर्म ॥१४५॥ उपभोगेन च सकलं तत्क्षपपित्वेति गम्यते हि ततः । यञ्चानास्ब्धफलं कर्म प्राक्पायणान्न तमि(दि)दम् ॥१४६॥ प्रायणमित्यनुशयसन्भावश्रुत्यैव परिहतं तद्पि। यञ्ञानारब्धफलं कृत्समभिव्यज्यते हि तस्येह ॥ १४७॥ वृत्तिपत्तिबन्धः स्यादारब्धफलेन कर्मणा तस्य। युगपद्नारब्धफलं कृत्स्नमभिव्यज्यते हि.तदुपशमे ॥१४८॥ इति तत्पूर्वं कथितं तदपि च निर्युक्तिकं हि निर्मूलम्। प्राक्पायणाद्यथैव ह्यारब्धफलेन कर्मणाऽन्यस्य ।। १४९। प्रतिबद्धस्य हि युगपन्न वृत्तिलाभस्तथैव चेहापि। कर्मानेकविधं तद्विरुद्धफलमपि च दृश्यते शास्त्रे ॥। १५० ॥ तस्य च सर्वस्यैव हि युगपद्भिव्यक्तिरनुपपन्नैव। प्रबलेन दुर्बलस्य प्रतिबद्धस्य च न वृत्तिरिह दष्टा ॥-१५१॥ तस्मात्मायणसमये कस्यचिदेव हि भवेदभिव्यक्ति: । जात्यन्तरोपमोग्यं कर्मानारब्धफलमनेकं च्र ॥१५२॥ एकरिमन्प्रायण इह युगपद्भिव्यज्यते कथं वा तत्। यस्मात्सकलं कर्म प्रतिनियतफलं हि हश्यते शाब्े ।।।१५३ ।

Page 227

प्रथमपादः १] माध्यार्थरत्नमाला। २२३

नापि प्रायणसमये कस्यचिदिह कर्मणो ह्यभिव्यक्ति:। कस्वचिदुच्छेद: स्यादिति किल वक्तुं न शक्यते यस्मात्॥१५४॥ सकलमपि कर्म मवति ह्यैकान्तिकमतो न किंचिदिदमू। प्रायश्चित्तादिकमिह बिना कथं कर्मणां समुच्छेद: । १५५॥ इह च विरुद्धफलेन प्रतिबद्धस्यास्य चिरमवस्थानम्। कर्मण इह दर्शयति स्मृतिरेषा खलु कदाचिदित्याद्या ॥१५६॥ यदि च प्रायणसमये कृत्स्मनारब्धफलमिदं कर्म। युगपद्भिव्यक्तं सत्तच्चैकां जातिमारभेत ततः ॥१५७॥। नारकतिर्यग्योनिषु देवमनुष्यादियोनिभेदेषु। अधिकारासंपत्ताविहोत्तरा जातिरुद्भ्वेञ्च कथम् ॥१५८ ॥ बह्महननादिकर्मण एकस्यानेकजन्महेतुत्वम्। स्मृतिवाक्यदर्शितं यत्तदेतदखिलं विरुद्धभेव स्यात् ॥१५९॥ वृष्टफलं कारीरिप्रभृति प्रायणमभिव्यनक्ति कथम्। दीपोपन्यासोऽपि हि कर्मचलत एव परिहार्यः ॥ १६० ॥ इह दीपसंनिधाने स्थूलमभिव्यज्यते न सूक्ष्ममि। प्राप्तावसरे कर्मणि कृत्से प्रायणमभिव्यनकत्येवम् ॥१६१॥ कर्म यदेतद्वलवत्तदेव नैवेह दुर्बलं किमपि। तस्मादशेषकमांभिव्यक्तिकथा प्रमाणपरिभूता ॥१६२ ॥। यदि भवति कर्मशेषस्तदा कथं मोक्ष इति वृथा प्रश्नः। ब्रह्मात्मदर्शने सत्यशेषकर्मक्षयः श्रुतो यस्मात् ॥ १६३ ॥ तस्मादनुशयवन्तस्ततोऽवरोहन्ति सोमलोकगताः । ते च यथेतमनेवं ह्यवरोहन्तस्ततोऽवरोहन्ति ॥ १६४ ।। अवरोहे पितृयाणे धूमाकाशश्रुतेर्यथेतमिति।

चरणादिति चेन्नोपलक्षणा- र्थेति कार्ष्णाजिनिः ॥ ९॥ नन्वनुशयसन्भ्ावप्रदर्शनाय श्रुतिः पुरा कथिता। सा खलु चरणाद्योन्यापत्तिं दर्शयति न हि तथाऽनुशयात्१६६। चरणं चारित्रमिति ह्याचारः शीलमिति च पर्यायाः। मृतेषु कर्मणा वा मनसा वाचाऽपि सततमद्रोहः ॥ १६७।

Page 228

२२४ [ ३ तृतीयाध्यायस्य-

तदनुग्रहस्तथैव ज्ञानं शीलमिति वर्णयन्ति बुधाः । भुक्तफलादतिरिक्तं कर्मानुशयं हि वर्णयन्त्यार्याः ।१६८॥ व्यपदिशति कर्मचरणे भेदेन श्रुतिरियं यथेत्याद्या। यान्यनवद्यानीति श्रुतिरन्याऽप्येवभेव दर्शयति ॥१६९॥ चरणाद्योन्यापत्तौ कथमनुशयसिद्धिरित्यतो बूते। कार्ष्णाजिनिराचार्य: श्रुतिरेषा तदुपलक्षणार्थेति॥१७० ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ स्यादेतत्कस्मादिह पुनरत्रत्येन चरणशब्देन। श्रौतं विहाय शीलं लाक्षणिकोऽसी हि गृह्यतेऽनुशयः ।। १७१॥ शीलस्यैव शुभाशुभयोन्यापत्ति: फलं भवेदत्। अभ्युपगन्तव्यं किल शीलस्यावश्यमेव किंचिदिह ॥ १७२॥ नो चेदानर्थक्यं शीलस्य स्यादिहेति चेन्मैवम्। इष्टादिकर्म यस्माज्चरणापेक्ष हि वीर्यव द्हट्टम् ॥१७३ ॥। नाप्याचारविहीन: कर्मणि कुत्रापि हृश्यतेऽधिकृतः । स्मृतिराचारविहीनं न पुनन्तीत्येवमादिकाऽप्येयम्॥१७४ ॥ आचारविरहितस्य हि कर्मानधिकारभेव दर्शयति। इष्टादिकर्मजाते त्वारममाणे फलं हि विधिदृष्टमू ॥१७५।। आचारस्तद्पेक्षस्तत्रैव च कंचिदृतिशयं जनयेत। सर्वार्थकारि कर्म श्रुतिस्सृतिभ्योऽवगम्यते यस्मात् ॥ १७६ ॥ तस्मादनुशयभूतं तदेव शीलोपलक्षितं कर्म। योन्यापत्ती कारणमिति कार्ष्णाजिनिमतं हि युक्ततममू॥१७७॥ कर्मणि संभवति च सति योन्यापत्तिन शीलतो युक्ता। पन्यां पलायिता किल जानुभ्यां रंहित हि नोरसहते॥। १७८ ॥ सुकतदुष्कते एवेति तु बादरिः॥ ११ ॥ इह सुकृतदुष्कृते द्वे प्रत्या्येते हि चरणशब्देन। इति बादरिराचार्यो मन्यत एवं हि चरणशब्दार्थम्॥१७९॥ चरणं हि कर्म यस्मादविशेषेणैव कर्ममात्रे च। चरतिः प्रयुज्यमान: सर्वत्रैवेह दृश्यते लोके ॥ १८० ॥ योऽसौ हि नियतवृत्त्या करोति पेष्टादिलक्षणं कर्म। धर्म चरति महात्मेत्येवं त लौकिका वढन्ति ततः ॥१८१॥

Page 229

प्रथमपाद: १] माष्यार्थरत्नमाला। २२५

मेदव्यपदेशोऽयं ब्राह्मणतापसनयेन नेतव्य:। इह निर्मलकर्माणो निन्दितकर्माण एव निर्दिक्ाः ॥१८२॥

अनिष्टादिकारिणामपि च श्रुतम् ॥ १२॥ इष्टादिकारिणो ये ते चन्द्रमसं प्रयान्ति हीत्युक्तम्। संपरति पुनरत्रैव हि ये चानिष्टादिकारिणस्तेऽपि ।। १८३ ।। चन्द्रमसं गच्छन्त्युत नैव हि गच्छन्ति त इति चिन्तेयम्। गच्छन्ति चन्द्रमण्डलमेतेऽपीत्येतदत्र युक्तं स्यात् ॥१८४॥। कौपीतकिनो यस्माद्येवै के चेत्यनेन वाक्येन। प्रयतां सर्वेषामपि चन्द्रपाप्तिं हि वर्णयन्त्येते ॥१८५॥ तत्प्राप्तिमन्तरेण च देहारम्भोऽपि दुर्लभोऽन्येषाम्। आहुतिसंख्यानियमादपि चन्द्रपाप्तिरत्र युक्ततमा ॥ १८६॥। इष्टाविकारिणामपि नन्वितरेषां समानमार्गत्वम्। कथमिति चेदितरेषां न हि भोगश्रन्द्रमण्डले भवति ॥१८७ ॥ संयमने त्वनुभयेतरेषामारोहाव- रोहौ तद्गतिदर्शनात् ॥ १३॥ एतत्पक्षं निरसितुमेष तुशब्दो हि सूत्रनिर्दिष्टः। चन्द्रमसं गच्छन्ति हि सर्वेऽपीत्थेतदनुपपन्नं हि॥ १८८ ॥ चन्द्रारोहणमेतन्भ्ोगायैव हिन निष्फलं भवति। नापि प्रत्यवरोहायैव तदारोहणं हि युक्तमिह।१८९॥ आरोहति किल वृक्ष पुष्पफलादेः परिग्रहाय नरः। नापि च निष्फलभेव हि न चापि पतनाय वृक्षमारोहेतु ॥१९०॥ चन्द्रमसि भोगवार्ता नैवानिष्टादिकारिणामस्ति। तस्मादिष्टादिकरा एवाऽडरोहन्ति चन्द्रमितरे तु॥ १९१॥ यमनिलयमाशु गत्वा दुश्वरितफलं च सम्यगनुभय। पुनरेवेभं लोकं प्रत्यवराहन्त्यनिष्टकर्मकृतः ॥१४२॥ तेषामेवभूतावेवाऽडरोहावरोहसंज्ञी स्तः। अन्रानिष्टादिकृतां प्रयतां यमवश्यतां गतिं यामीम्॥१९३॥ श्रुतिरिह न सांपरायः प्रतिभातीत्येवमादिका बूते। श्रतिरन्या वैवस्वतमित्याद्याऽप्येवभेव दर्शयति ॥१९४॥

Page 230

२२६ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

स्मरन्ति च ॥ १४ ॥ अपि च मनुष्यासद्या ये खलु शिष्टा: पुरे हि संयमने। ते च स्मरन्ति दुष्कृतकर्मविपाकं चिरं यमायत्तम् ॥ १९५।। अपि च सप्र ॥ १५॥ अपि चेह सप्त नरका दुष्कृतफलमोगभूमयो हेते। गच्छन्ति ताननिष्टादिकृतश्रदं कथ हि गच्छेयु: ॥ १९६ ॥ ननु दुरितकारिणस्ते यमनियमितयातना मवन्तीति। नेतदयस्मादन्ये स्मर्थन्ते तत्र चित्रगुप्ताद्याः॥१९७॥ तत्रापि च तद्व्यापारादविरोधः ॥। १६ ॥ नेष्वपि च सप्तनरकेष्वस्याधिष्ठा कृता यमस्यैव। अन्ये यमप्रयुक्ताधिष्ठातारो न हि स्वतन्त्रास्ते ॥ १९८॥। विद्याकर्मणोरिति तु प्रकतत्वात ॥१७॥ पञ्चाग्निगोचरायां विद्यायामेष हश्यते प्रश्नः । बत्थ[यथाS]साविति किल तस्य प्रति[व]चस(न)समय इदमुक्तम्।। ये चैतयोः पथोर्यद्यन्यतरेणापि साधनेन युताः । ते जननमरणसंततिसंकलितानि हि भवन्ति भूतानि॥ २०० ॥ तत्रैकयो: पथोरिति विद्याकर्मप्रदर्शनार्थमिदम। देवपितृयाणयोस्ते प्रतिपत्तौ मुख्यसाधने प्रकृते ॥२०१॥ विद्या हि तद्य इत्थं विदुरिति गढिता तयोहिं गन्तव्यः । सोडयं हि देवयान: पन्था एवात्र दर्शितो भवति ॥ २०२॥ कर्म त्विष्टापूर्ते दत्तमिति निरूपितं हि तेनायम्। प्रतिपत्तव्य: पन्थाः पितृयाण इति प्रदर्शितो भवति २०३॥ तत्पकरण एवैतच्छतं किलाथैतयोः पथोरिति च। ये विद्यामाधनता न देवयानेन कर्मणाऽपि च ये ॥२०४॥ पितृयाणेधिकृता: स्युस्तेषा पन्थास्तृतीय एवासौ। क्षुद्धतरजन्तुलक्षण इति दर्शयति श्रुतिर्हिं तानीति ॥२०५ ॥ तस्मादृषि चानिष्टादिकारिभिश्रन्द्रमा न लभ्येत। ननु तेऽपि चन्द्रमण्डलमारुह्य ततोऽवरुह्य पुनरपि च ॥ २०६॥ श्षुद्धतरजन्तुभावं प्रतिपत्स्यन्त इति युक्तमिति चेन्न। भोगाभावादेषामारोहोऽनर्थकः प्रसज्येत ।। २०७।।

Page 231

प्रथमपाद: १] माष्यार्थरत्नमाला। २२७

अपि च प्रयत्सु सर्वेष्वपि चन्द्रं प्रामुवत्स्वसी लोक: । स्वैरपि प्रयद्भिः संपूर्येतेत्यतो न युक्तमिदम् ॥२०८॥ प्रश्नविरुद्धं तदिदं प्रतिवचनं च प्रसज्यते तत्र। अवरोहादेवेहासंपूरणमिति तु नेह युक्ततमम् ॥ २०९॥ यस्माच्छतिस्मृतीयस्थानोक्त्या पूरणं हि दर्शयति। तस्माच्जानारोहादेवासंधूरणं हि युक्तमिह ॥ २१०॥

इह च तृतीयस्थानप्रतिपादनमेतदफलमेव स्थात् ॥ २११॥ या खल्वशेषगमनाशङ्का शाखान्तरीयवाक्यात्था। तामेतामाशङ्कामुन्मूलयितुं तुशब्द इह पठितः ॥२१२॥ शाखान्तरीयवाक्ये त्वधिकृतविषयो हि सर्वशब्द: स्यात्। ये च प्रयान्त्यधिकृता अस्माल्लोकात्त एव चन्द्रमसम् ॥ २१३॥ सर्वे गच्छन्तीति भ्रुत्यर्थे न हि विरोधलेशोऽपि। देहोद्भृवाय चन्द्रारोहणमिति यत्तदत् परिहरति ॥२१४॥ न तृतीये तथोपलब्धेः ॥ १८॥ आहुतिसंख्यानियमो न तृतीये मवति देहलाभाय। यस्मादिह च तृतीयस्थानप्राप्तिर्विनैव तन्नियमम् ॥२१५॥ उपलभ्यते हि जायस्वेतिश्रुत्यन्तरस्थवाक्येषु । अपि चेहाऽडहुतिसंख्या कथिता मानुषशरीरहेतुतया ॥ २१६ ॥' नेतरहेतुतयाऽसी पुरुषपदस्यास्य मनुजवचनत्वात्। अपि चेह पुरुषभाव: पञ्चम्यामाहुतावपां कथितः ।। २१७।। प्रतिषिध्यते न चेहापञ्चाम्यामाहुती हि तन्द्भावः। उभयार्थकतायां किल वाक्यस्य द्यर्थतादिदोप: स्यात् ॥२१८॥ आहुतिसंख्या तेषा येष्वारोहावरोहणे भवतः । अन्येषां तु विनैव हि सख्यानियमं शरीरमुद्भषति॥२१९ ॥ स्मर्यतेऽपि च लोके ॥ १९ ॥ घृष्य्युन्नद्वोणप्रभृतीनां जगति सुप्रसिद्धानाम्। सीताप्रभृतीनामप्ययोनिजत्वं हि विश्रुतं लोके । २२० ॥. दर्शनाच्॥२०॥ अपि च चतुर्विधभूतग्रामे हि स्वेदजोद्िदोरेवम्। उत्पत्तिरन्तरेण ग्राम्थं धर्म हि द्ृश्यते लोके ।। २२१ ॥.

Page 232

२२८ सुन्नह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तत्राऽडहुतिसंख्याया भवति यथाऽनादरस्तथाऽन्यत्र। ननु तेषां खल्वेषां भूतानामेवमादिके मन्त्रे ॥ २२२ ॥ अण्डजमिह जीवजमित्युद्भिज्जमिति त्रिधव निर्दिष्टः। मूतग्राम: स कथं चतुर्विध इतीह कथितमिति चेन्न ॥ २२३ ॥ तृतीयशब्दावरोधः संशोकजस्य ।। २१॥ संशोकजशब्देन स्वेदज एवात्र गृह्यते तत्र। इह चोद्व्िज्जपदेन श्रुतिवाक्यस्थेन संग्रहो मवति ॥२२४ ॥ साभाव्यापन्तिरुपपतेः ॥ २२ ॥ एवं हि पापिनां खल्वेते गत्यागती विचार्यैव। इष्टादिकारिणामिह संप्रत्यवरोहलक्षणं बूते ॥। २२५।। अवरोहलक्षणपरा श्रतिरत्राथेतमेवमाद्या हि। चन्द्रमसो हि निवृत्तास्ते पुनराकाशमेव गच्छन्ति ॥ २२६॥ आकाशादृपि वायुं वायुर्भूत्वाऽपि भवति धूमोऽसौ। धूमो भूत्वा चाभ्रं ह्यभ्रं भृत्वा हि मवति मेघोऽसी ॥ २२७ ॥ मेधो मूत्वा चासी प्रवर्षतीत्येतमर्थमुपदिशति। अवरोहन्तस्त्वेते ह्याकाशादिस्वरूपमुपयान्ति ॥२२८॥ किंवाऽप्याकाशायैः साग्यं यान्तीति संशये प्राप्ते। तत्रैतदयुक्तं स्यादाकाशाद्यात्मतां प्रयान्तीति ॥ २२९॥ श्रुतिरिह मुख्यार्था स्यादेवं चेदन्यथा हि गौणी स्यात्। श्रुतिलक्षणयोविशये न्याय्या श्रुतिरेव लक्षणा न तथा ॥ २३०॥ धूमो भूत्वेत्यादीन्यवकल्पन्तेऽक्षराणि चेहैव। तस्मादाकाशादिस्वरूपतापत्तिरत्र युक्केति ॥ २३१ ॥ एवं प्राप्ते बूते यान्त्याकाशादिसाम्यमेवेति। चन्द्रमसि भोगफलकं यद्म्मयं गात्रमेतदारब्धम् ॥ २३२॥ उपमोयापाये हि प्रविलीनं ता्वियत्समं भवति। वायोर्वशमेति ततो धूमादिभिरेव भवति संपृक्तः ॥ २३३ ॥। इममर्थमेव कथयति यथवमित्यादिका श्रुतिर्यस्मात। उपपद्यतेऽयमर्थो न ह्यन्यस्यान्यरूपता युक्ता ॥ २३४॥ यदि चेदाकाशादिस्वरूपतापत्तिरिह भवेत्ताहं। वाय्वादिवत्मना हि क्रमावरोहोऽपि नोपपद्येत ॥ २३५ ॥।

Page 233

प्रथमपाद' १] माष्यार्थरत्नमाला। २२९

आकाशस्य विभुत्वात्तेन च तस्येह सततसंयोगात्। संयोगलक्षणायां भवति श्रुत्याऽनुवाद एव स्यात् ॥ २३६ ॥। तत्सावृश्यादन्यस्तत्सबन्धो हि न घटते तस्मात्। य ल्लक्षणानुसरणं तदपीह श्रुत्यसंभवे न्याय्यम् ॥ २३७॥ तस्मादाकाशादै: साभाव्यापत्तिरेव तन्भ्ावः। साभाव्यं समभावस्तत्खलु साहृश्यमेव नान्य: स्यात् ॥ २३८॥ नातिचिरेण विशेषात् ॥ २३॥ व्रीह्यादिप्रतिपत्तेः प्रागाकाशादिसाम्यसंपत्तौ। कि दीघं कालमसी पूर्वसमत्वेन वर्तमान: सन् ॥२३९॥ उत्तरसमतां गच्छत्युताल्पकालमिति सशयो भवति। अत्रानियमो न्याय्यो न चेह किचिन्नियामकं यस्मात् ॥ २४० ॥ एवं प्राप्ते पठति हि नातिचिरणेति सूत्रकारोडयम्। अल्पं ह्यल्पं कालं ते चाऽडकाशादिसमतया स्थित्वा ॥ २४१॥ भुवमापतन्ति पश्चादेते हि सहैव वर्षधाराभि:। इत्येतदेव युक्त यस्माद्व्रीह्यादिभावतः पश्चात् ॥२४२॥ श्रुतिरेषाऽतो वै खलु दुर्निप्प्रपतरभिति प्रदर्शयति। छान्दस्या प्रक्रियया ह्यत्र तकारो हि लुप्त इह भवति ॥२४३॥ इह दुर्निप्प्रपततरं दुर्निष्क्रमणं स्वरूपभेव स्यात्। व्रीह्यादिभावपरतो दुनिःसरणं प्रदर्शयन्ती सा ॥ २४४ ।। पूर्वेष्वाकाशादिषु सुखनिप्क्रमणं हि सूचयत्येव। सुखदुःखताविशषो निष्क्रमणस्य हि चिराचिरत्वकृतः ॥२४५॥। न हि भोगमूलकोऽसी तस्मिन्नवधी तनोरनिष्पत्तेः। ब्रीह्यादिभावतः प्रागिरेणैवावरोह इह तस्मात् ॥ २४६ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ २४ ॥ तस्मिन्नवरोहे हि प्रवर्षणानन्तरं तु पठिोयम्। त इह वीहियवा इत्याद्या श्रुतिरत्र संशयोऽयं स्पात् ॥ २४७॥ स्थावरजात्यापन्नास्तत्सुखददुःखानुशयिन एते स्युः। अन्यस्वामिकतनुषु हि किंवा संश्लेषमेव यान्तीति ॥२४८॥ अत्र किलैतदुक्त स्थावरभावानुशयिन एत इति। स्थावरजात्यापत्ती जनोर्हिं मुख्यार्थतोपपन्ना स्यात् ॥ २४९॥

Page 234

२३० सुब्रह्मण्यविरचिता- ६ ३ तृतीयाध्यायस्य·

उपमोगः किल हष्टः स्थावरजातावपि श्रुतिसमृत्योः। पश्रुविशसनादियोगादनिष्टफलता भवेदिहेष्टादेः ॥ २५० ॥ तस्मादनुशयिनामिह भवति व्रीह्यादिजन्म मुख्यं हि। अनुशयिनां हि यथा वा मुख्य स्याच्छ्ृादिजन्म तद्वदिह॥ २५१॥ इति शङ्कायां वूते ह्यन्येजीवैरधिष्टितेष्वेषु। व्रीह्यादिप्वनुशयिनः संसर्ग केवलं प्रपद्यन्ते ॥ २५२।। न हि तत्सुखदुःखभुजो यथा ह्य्यं वायुधूमभावः स्यात्। व्रीह्यादिभाव एवं भवति हि संश्लेषमात्रमेवात्र ॥२५३ ।। यस्माच्च तद्वदेव ह्यभिलापोऽत्रापि दवृश्यते भूयः। सकीर्तनं यद्तत्कर्मव्यापारमन्तरेणैव ॥। २५४ ।। तद्वद्भ्ावः सोडयं ह्याकाशादिपवर्षणान्तेषु। भवति हि तत्र न किंचित्कर्मव्यापारकीर्तनं यस्मात् ॥ २५५ ॥। कर्मव्यापारोडयं कपूयचरणा इति प्रदेशषु। संकीर्तितो हि तत्र त्वनुशयिनां मुख्यमेव जन्म स्यात्। अपि यद्यनुशयिनां चेन्मुख्यं व्रीह्यादिजन्म भवति तदा। तेष्वेव लुयमानेष्वाि किल तेष्वेव पच्यमानेषु॥ २५७ ॥ ब्रीह्यादिष्वनुशयिनः प्रवसेयुस्तद्भिमानिना ये स्युः । यञ्चाभिमन्यते किल जीवस्तस्मिन्ह पीड्यमाने तु ॥२५८॥ प्रवसति स चेत्ततः खल्वनुशयिनाभेष नाभिलव्येत। इह रेतःसिग्भावो योडसी ब्रीह्यादिभावतः पश्चात् ॥ २५९॥ तस्मादनुशयिनां तत्सङ्गो व्रीह्यादिभाव इह भवति। स्थावरजन्मान्येषामपुण्ययोगेन वति तज्च किल ॥ २६० ॥ उपभोगस्थानं स्यात्तेषामेव हि न चानुसयिनां स्थात्। तस्मादनुशयिनस्ते स्थावरभावं न चेह गच्छन्ति॥ २६१॥ अशुद्धमिति चेन्न शब्दात् ॥ २५॥ पशुविशसनादियोगादाध्वरिकं कर्म चाविशुद्धं स्पात्। तस्य त्वनिष्टफलमपि युक्तं व्रीह्यादिजन्म मुख्यमिति २६२॥। यञ्चैतत्पूर्वोक्तं तदेतदत्र हि निरस्यते सूत्रे। नाSSध्वरिकं कर्म स्यादशुद्धमेतस्य शास्त्रमूलत्वात् ॥ २६३।। यस्माद्धर्माद्धर्मावतीन्द्रियावेतयोक्ष विज्ञानम्। न हि शास्त्रमन्तरेण च कस्यचिद्पि किल सुभेधसो भवति ॥२६४।

Page 235

प्रथमपाद: १] माप्यार्थरत्नमाला। २३१

यस्मिन्देशे काले तथा निमित्ते च मवति यो धर्मः । भवति स एवाधर्मो यथोक्तदेशादिवैपरीत्येन ॥ २६५।। न ह्येवंविधयोरिह विज्ञानं शास्त्रमन्तरेण स्यात्। हिंसानुग्रहरूपो ज्योतिष्टोमो हि धर्म इत्युक्तः ॥ २६६ । शास्त्रेणेव हि तस्मात्स कथमधर्म इति शक्यते वक्तुम्। ननु च न हिंस्यात्सर्वा भूतानीत्येवमादिकं शास्त्रम् ॥ २६७।। अवगमयति हिंसामयमधर्म इति भूतगोचरामिति चेतू। बाढं तदिदमथापि ह्युत्सरगो भवति नापवाद: स्यात् ॥ २६८॥ अग्रीषोमीयं पशुमित्याद्यं भवति चापवादो हि। अपवाद्शास्त्रविषयं हित्वा हयुत्सर्गशास्त्रमखिलमपि॥ २६९॥ अवगमयति किल पुरुषं प्रवर्तयति तद्वदेव नान्यत्र। न हि भिन्नविषययोरिह विरोधशङ्का प्रवर्तते शास्त्रे ॥ २७० ॥ तस्मादिदमाध्वरिकं कर्म विशुद्धं हि शिष्टजनसेव्यम्। शास्त्रैरनिन्द्यमानं स्थावरभावो न तस्य फलमुचितम् ॥२७१॥ व्रीह्यादिजन्म यदिवं तक्किल न श्वादिजन्मवद्भवति। इह किल कपूय चरणानधिकृत्य श्वादिजन्म निर्दिष्मू ॥२७२॥ नैवमिह किचिदृपि वाकर्म परामर्शलिङ्गमुपलब्धम्। तस्माद्वीह्यादिष्वनुशयिना संश्लेषमात्रमेव स्यात् ॥२७३॥ रेतःसिग्योगोऽथ॥ २६ ॥ ब्रीह्यादिभाव इह किल तत्संश्लेषो न चान्यदिह मवति। यस्मात्ततोऽनुशयिनां रेतःसिग्भाव एष आम्रातः ॥ २७४।। यो ह्यन्नमत्ति रेतः सिश्चति तद्भूय एव भवतीति। रेतःसिग्भावोऽसी मुख्यो नैवेह तस्य संभवति ॥२७५॥ स च रेतःसिग्भवति हि चिरजातः प्राप्तयौवनो योऽसौ। कथमद्यमानभक्तानुगतोऽनशयी हि मुख्यतद्भावम्॥ २७६ ॥ प्रतिपद्येत स तस्मान्वितःसिग्योग एव तद्भावः। आत्माऽवश्यं वाच्यस्तद्व्द्व्ीह्यादिभाव इह भवति॥२७७॥ योनेः शरीरम् ॥ २७॥ अथ रेतःसिग्भावोत्तरमिह योनौ हि रेतसि निषिक्ते। योनेरध्यनुशयिनां फलमोगायोपजायते देहः॥ २७८ ।

Page 236

२३२ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

इममर्थमेव सकलं तद्य इहेत्यादिका श्रुतिर्बूते। व्रीह्यादिभावसमये तस्मादचिरान्न चावरोहेत्सः । २७९।। योनिजमेव शरीरं तत्सुखदुःखान्वितं भवेन्नान्यत्। ब्रीह्यादिजन्म तस्मात्तत्सश्लेषो न चान्यदिति सिद्धम् ॥॥ गत्यागतिसंसारो दुर्वारः कर्मिणामितीह स्यात्। अनुसंधानात्तत्वज्ञानफल कर्मफलविरागित्वय् ॥ २८१ ॥ शारीरकमीमासा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्या तृतीयसंज्ञश्र योऽयमध्यायः ॥ २८२॥ तत्र प्रथमे पादे सृतार्था यक्च भाष्यकारोक्त: । आर्यावृत्तरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥ २८३ ॥। इति तृतीपाध्यायस्य प्रथम: पादः ॥१॥

अथ द्वितीयपादप्रारम्भ: ।

पूर्वोक्तवर्त्मना किल निरूढवैराव्यममलचित्तस्य। यश्च पदार्थविवेको वाक्यार्थज्ञानसाधनीभूतः ॥१॥ सोडयं द्वितीयपादे निरुप्यत इतीह पाद्योरुमयोः । हेतुफलभावरूपा संगतिरित्येतदत्र दर्शयति ॥२ ॥ गत्यागतिप्रभेदो जीवस्यास्य प्रपश्चितः पूर्वम्। तदवस्थाभेदोऽसावस्मिन्पादे प्रपञच्यते सकलः ॥ ३ ॥ अत्रोद्देश्यतया हि प्रथमं जिज्ञासितस्त्वमर्थः स्यात्। तेनावस्थाद्वारा तमेव चाऽडदी विवेचयित्वाऽन्ते ॥।४॥ आ पादपरिसमाप्तेविविच्यतेऽत्रैव तत्पदार्थोऽसौ। पूर्व जाग्रदवस्था गत्यागतिचिन्तया विनिर्दिष्ा ॥५॥ सपदि स्वप्नावस्थां तदनन्तरभाविनीं प्रदर्शयति। श्रुतिरेषा हि स यत्र स्वपितीत्याद्या रथादिसृष्टिमिह॥ ६॥ सवप्े प्रपञ्चयति सा प्रबोध इव पारमार्थिकी किवा। मायामयी हि सैषा सृष्टिरिति प्रभवतीह संदेहः ॥७॥ तत्र च युक्त: पक्ष: सु्टिः सा पारमार्थिकीत्येतत्। इत्येतमेव पक्ष भगवानत्र प्रदुर्शयत्यादौ॥८॥

Page 237

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। २३३

संध्ये सृष्टिराह हि॥ १ ॥ संध्यमिह स्वप्ः स्याद्यतः स जाग्रत्सुषुप्तयोः संधी। भवति तथेवासाविहपरयोश्र लोकयोः संधौ॥ ९॥ तस्मिन्संध्ये स्थाने सृष्टिरियं भवति तथ्यरूपैव। यस्मात्म्माणभूता श्रुतिरेवेमां हि सृष्टिमुपदिशति ॥१०॥ साऽथ रथान्स्थयोगान्पथः सृजत एवमादिका मवति। स हि कर्तेत्याद्याऽपि श्रुतिरिममेव प्रदर्शयत्यर्थम् ॥११॥ निर्मातारं चैके पुत्रादयक्र ॥ २ ॥ निर्मातार मिहेके शाखिनमात्मानमामनन्त्यपि च। प्रकटीकृतोऽयमर्थो य एष इत्यादिकेन वाक्येन ॥ १२॥ कामपदेनानेन च पुत्रादय एव तत्र गृह्यन्ते। नैवेच्छारूपास्ते यत इह तेष्वेव कामशब्दोऽयम् ॥१३॥ यस्मात्कठवल्लयां किल कामाना त्वेवमादिवाक्ये हि। पुत्रादिषु प्रयुक्त: पूर्वप्रकृतेपु कामशब्दोऽयम् ॥१४ ॥ अत्र च निर्मातारं प्राज्ञं प्रकरणबलेन निश्चिनुमः । इह च प्रकरणमन्यत्रेत्याद्यं प्राज्ञविषयकं हष्मू ॥१५॥ तद्गोचर एवासी तदेव शुक्रमिति वाक्यशेषोडपि। या प्राज्ञकर्तृका स्यात्सृष्टिः सा पारमार्थिकी दृष्टा ॥१६॥ जागरित संभिता किल भवति स्वप्नाभिताऽपि तद्वदियम्। ध्रुतिरषि चाथो खल्विति तुल्यन्यायत्वमेतयोर्वक्ति ॥१७॥ तस्मातसंध्ये स्थाने या सृष्टिर्दर्शिता रथादीनाम्। सा भवति तथ्यरूपेत्येवं प्राप्ते त्विदं पठति चाऽडर्य: ॥ १८॥ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३॥ हह पूर्वपक्षमेनं व्यावर्तयितुं तुशब्द इह पठितः । येथं संध्ये सृष्टिः सा किल मायैव केवलं मवति ॥ १९॥

कात्स्न्येनाभिव्यक्तस्वरूप इह नैव दृश्यते स्वप्नः ॥ २० ॥ इह देशकालसाधनसंपत्तिरबाध एव कात्स्न्यं स्यात्। परमार्थवस्तुगोचरदेशादीनि हिन चास्य विद्यन्ते ।२१॥ रवमे रथादिकानामुचितो देशो न चेह संभवति। न हि संवृते हि वेहे रथाद्यस्ते लभेयुरवकाशम् ॥२२॥

Page 238

२३४ [ ३. तृतीयाध्यायस्प-

ननु देहाद्वहिरेव स्वप्र: स्याद्वाह्यवस्तुसाहाय्यात्। श्रुतिरपि बहिष्कुलायादित्याद्या ह्येवमेव दर्शयति ॥२३॥ स्थितिगतिभेदश्वासी नानिष्क्रान्ते समञ्जसी मवति। इति तु न युक्तं यस्माज्जन्तोः सुप्तस्य हि क्षणेनैव ॥। २४ ॥ अतिदूरपथं देशं पर्येतुं वा तथा विपर्येतुम्। साम्थ्यं कथमपि किल संपादयितुं न शक्यते तस्य ॥ २५॥ प्रश्यागतिवर्जितमपि तं च स्वप्नं क्वचिच्च कथयन्ति । अहमिह कुरुषु शयानस्तथैव निद्वापरिप्लुतः सवमे ॥ २६॥ पञ्चालानभिगतवास्तत्रैत्याहं प्रबुद्ध इत्येवम् । यदि देहादपयातः पञ्चालेपु हि तदा प्रदुध्येत ॥२७॥ नैवं प्रबुध्यतेऽसी कित्वत्रैव प्रबुध्यते कुरुषु। येन च देहेनायं देशान्तरमश्नुवान इति मनुते ॥२८॥ नं शयनदेश एव हि पश्यन्त्यन्ये हि पार्श्वदेशस्था: । देशान्तराणि चायं सुप्तः रवप्ने यथैव पश्यति हि ॥ २९॥ तानि च न तथाभूतान्यपि तद्देशे भवन्ति सर्वेषाम्। दर्शयति चान्तरेव हि देहे स्वम्रं श्रुतिः स यत्रेति ॥३०॥

बहिरिव स कुलायादित्येवं तत्रेवशब्दयोगेन ॥ ३१ ॥ यो हि वसन्नपि देहे न तेन कारय करोति किंचिदृपि। सोडयं बहिरिव देहान्भवतीत्येतञ्च युक्तमेवास्य ॥३२॥ स्थितिगत्यादिप्रत्ययभेद: सकलोऽपि विप्रलम्भः स्यात्। कालविसंवादोऽपि सवप्रे दृष्टो निशि प्रसुप्तः सन् ॥३३॥ भारतवर्षे वासरमेकं मनुते कदाचिदिह मर्त्यः । एवं क्षणिके स्वप्ने कदाचिदृव्दानिहातिवाहयति ॥३४॥ अत्र निमित्तान्यपि वा न बुद्धये समुचितानि विद्यन्ते। तत्र रथादिग्रहणे न चक्षुरादीनि तस्य विद्यन्ते ॥ ३५॥ निवर्तने रथादे: कुतोऽन्यशक्तिनिमेषमात्रेण। नापि रथादे: सषा तदाऽस्य दारुणि वा कुतस्तस्य ॥ ३६ ॥ बाध्यन्ते खल्वेते रवप्रे हष्टाः प्रबोधसमये हि। एते हि सुलभवाधास्तत्रैवाऽडद्यन्तयोहि हृश्यन्ते ॥३७॥

Page 239

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। २३५

रवप्ने रथोऽयमिति किल निणातः स्यात्क्षणेन मनुजोऽयम्। मनुजोऽयमिति च तत्र हि निर्णीतः स्यात्क्षणेन वृक्षोयम्॥३८॥ स्वप्रे रथाद्यभावं आवयति श्रुतिरियं न तत्रेति। तस्मान्मायामात्रं न हि स्वतः स्यात्क्षणेन वृक्षोऽयम्॥३९॥ इह यदि मायामात्रः स्वप्नः स्यात्तर्हि कश्रिदृपि तत्र। न च परमार्थोऽस्तीति प्राप्तं तस्येदमुत्तरं बूते ।। ४० । सूचकश्ष हि श्रुतेराचक्षते च तद्विदः ।। ४ ।। स्वमो हि सूचकः स्यात्स माविनोः साध्वसाधुनोरुमयोः । अत्र श्रुतिरेव यदा कर्मसु काम्येष्विति प्रदर्शयति ॥४१ ॥ स्तिरियमिह कार्ये कर्मण्यनुकूलां यः प्रपश्यति रवभे। स्वेष्टार्थलामरूपां समृद्दिमस्मिन्स एफजानीयात ।। ४२। यक्ष रवमे पुरुषं पश्यति कृष्णं च कृष्णदन्तं च। न च खल्वेनं हन्तीत्यवगमयति साध्वसाधुसूचकताम ॥४३॥ स्वप्नाध्यायविदोऽपि स्वप्नस्थाSडचक्षते हि सूचकताम्। स्वमे हि कुअ्जरारोहणादिकानि च भवन्ति धन्यानि॥४४ ॥ यानि च खरयानादीन्यत्राधन्यानि वर्णयन्त्येवम्। मन्त्रादिमूलकाश्ष स्वप्नाः सत्यार्थगन्धिनः स्युरिति ॥४५॥ तत्रापि सत्यता किल सूच्यार्थस्यैव सूचकस्य न हि। तस्मात्स्वप्स्यास्य हि मायामात्रत्वमेतदुपपन्नम । ४६ H यच्चोक्तमाह हीति व्याख्यातव्यं तक्षत्र भाक्तमिति। लाङ्गलमुद्दहतीक्ं यथा गवादीनि तर्हि भाक्ते स्यात्॥ ४७॥ तत्र च गवादिजीवननिमित्तता लाङ्गलस्य मवति यथा। कृषिकर्मद्वारैव हि तथैव चेहापि भवति हि सवमे ॥४८॥ मो: कुरु दृष्द्वारा स्वापिकटष्टां निमित्तितामत्र। रथकारस्येव रथे प्रति साक्षात्स्वप्रकर्तृता नास्य ।। ४९ ।- रथतुरगमानमूलकमोदत्रासादिदर्शनादस्य। तद्द्वेतुसुकृतदुष्कृतकर्तृत्वेन च निमित्तता तस्य ।।५० । अपि जागरिते तस्य हि विषयेन्द्रिययोश्र सततसंयोगोतय आदित्यादिज्योतिर्व्यतिकरतश्र स्वयंप्रकाशत्वम् ॥५१ ॥ इह दुर्विवेचनं स्थादिति मत्वा तद्विवेचनायैव। स्वप्ट उपन्यस्तोडयं श्रुतिरियमिह यदि रथादिसृटटिपरा।। ५२॥

Page 240

२३६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तर्हि स्वयंप्रमत्वं यत्प्रकृतं तञ्च नैव निर्णीतम्। तस्माद्रथादिसृष्टिप्रतिपादनमेतदखिलमपि भाक्तम्॥५३॥ यच्चोक्तं प्राज्ञमिमं निर्मातारं समामनन्तीति। तदृपि च न समीचीनं यतः श्रुतिश्रैवमत्र दर्शयति ॥५४॥ जाग्रद्देहं हत्वा निर्माय च वासनामयं देहम्। आत्मीयब्रुद्धिवृत्त्या चैतन्येनानुमवति हि स्वप्रम् ॥५५॥ जीवव्यापारं हि श्रुतिः स्वयमिति प्रदर्शयति तत्र। दर्शयति चेममर्थं शुत्यन्तरमपि य एष इत्यादि ॥ ५६॥ तस्यैव वाक्यशेषे तदेव श्रुत्य (शुक्रं) तदेवमाद्ये हि। व्यावर्त्य जीवभावं चिरंतनं ब्रह्मभाव उपदिष्: ॥५७॥ तत्वमसीत्यादिवदिह न ब्रह्मप्रकरणं विरुध्येत। न प्राज्ञव्यापारः स्वप्रेऽपि निषिध्यते यतस्तस्य ॥ ५८॥ सर्वेशत्वात्सर्वाधिष्ठातृत्वादि सकलमुपपन्नम्। वियदादिसर्गवदयं न तथ्यरूपो हि संध्यसर्ग इति ॥५९ ॥ प्रतिपादितमेतावन्न च वियदादेरपीह सत्यत्वम्। यत आरम्मणसूत्रे मिथ्यात्वं दर्शितं हि सकलस्य ॥ ६० ॥ ब्रह्मात्मतावबोधात्माग्वियदादिव्यवस्थितात्मा स्यात्। संध्याश्रयस्तु न तथेत्यत इह मायामयत्वमुपदिष्टम् ॥६१ ॥ सामडया: कृप्ाया विरहेऽपि स्वापिके हि सृष्टिरियम्। सांकल्पिके हि सत्या स्यादिति शङ्कां निवारयत्यधुना ॥६२॥ पराभिध्यानानु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ॥ ५॥

मन्वात्मन: परस्य ह्यंशो जीव इति दर्शितं पूर्वमू। दहनपकाशशक्ती समे यथाऽग्निस्फुलिङ्गयोर्भवतः ॥६३ ॥ ज्ञानेश्वरताशक्ती अपीह जीवेशयोः समे स्याताम्। जीवस्यैश्वर्यवशात्स्वने सांकल्पिकी रथादीनाम्॥ ६४ ॥ सृष्टिहिं तथ्यरूपा स्यादिति शङ्का न चेह कर्तव्या। यद्यपि जीवेश्वरयोरंशाशित्वं तथाऽपि जीवस्य ॥। ६५ ॥ प्रत्यक्षेणैवैषा परात्मविपरीतधर्मता दृष्टा। ईश्वरसमधर्मत्वामावेनेयं न चास्य संभात्ता ॥ ६६।।

Page 241

द्वितीय: पाद: ४] माष्यार्थरत्नमाला। २३७

किं त्वीश्वरसाधम्यं निरन्तरं तस्य विद्यमानमपि। तदनाद्यविद्यया किल तिरोहितं तत्तिरोहितं सदपि॥ ६७॥ ध्यायत ईश्वरमनिशं यतमानस्य हि विधूतपापस्य। तिमिरतिरस्कृत दृष्टेरट्टक्शक्तिरिवौषधादिवीर्येण ॥ ६८॥ परमेश्वरप्रसादात्सिद्धस्याSSविर्भवेन्न चेतरथा। यस्मात्ततः परेशादस्य च जीवस्य बन्धमोक्षौ स्तः ॥ ६९॥ अपरिज्ञानाद्वन्धो मोक्षस्तस्य स्वरूपविज्ञानात्। ज्ञात्वा देवमिति श्रुतिरिममेवार्थं प्रदर्शयत्यत्र ॥ ७० ॥ देवं साक्षात्कृत्वा विद्यादिकेशमूलनाशः स्यात्। केशापाये जनिमृतिरूपो बन्धः स्वतो निवत्येत ॥ ७१ ॥ सविशेषाभिध्यानाद्विश्वैश्वयं तृतीयमणिमादि। सिद्धतनौ भवति ततस्त्वात्मज्ञानेन केवलोऽयमिति॥७२॥ देहयोगाद्वा सोडपि ॥ ६ ॥ जीव: परमात्मांशस्तिरस्कृतज्ञानपारमैश्वर्यः। इति तु न युक्तं यस्मादृतिरोभावस्तयोरहिं युक्त: स्यात् ॥७३॥ दृहनप्रकाशयोरिह यथा स्फुलिङ्गस्य तद्ददिति चेन्न। सत्यं तथाऽपि तस्य ज्ञानेश्वर [मावयोस्तिरो]मावः॥।७४।। भव[ति हि देहयोगाद्देहेन्द्रियवेदनादि]युक्तस्य। वह्नेररणिगतस्य हि ते एते द्वे तिरस्कृते मवतः ॥७५॥ [ दहनप्रकाशने ये तयोर्यथा मस्मना तिरोभावः। एवमविद्यामूलकदेहमनोबुद्धचुपाधियोगेन ॥ ७६ ॥ अविवेकभ्रान्तिकृतो ज्ञानेश्वरभावयो]स्तिरोभावः। वाशब्दो जीवेश्वरभेदाशङ्कानिवारणार्थः स्यात्॥७७॥ नन्वन्य एव जीव[स्तिरकृतज्ञानपारमैश्वर्यः। किं देहयोगकल्पनयाऽनन्यत्वोपपादनादिति चेतु।।७८ । अन्यत्वं हि परेशत्किथमपि जीवस्य नोपपद्येत। यत्सेयमितिश्रुतिरिह सदात्मभावेन जीवमुपदिशति॥ ७९॥ तत्वमसीति श्रुतिरपि जीवस्योपदिशतीश्वरात्मत्वम्। तस्माद्योऽसी जीव: स मवति परमेश्वरादनन्यो हि।। ८० ॥ स च मवति देहयोगात्तिरस्कृतज्ञानपारमैश्वर्यः। सांकल्पिकेन तस्मात्तस्य स्वम्रे रथादिमृष्टिः स्वात् ॥।८१ ।

Page 242

१३८ सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

सांकल्पिकी यदि स्यात्मृष्टिरियं स्वाप्निकी तथाऽनिष्टम्। स्वप्ं कथमिह पश्येत्संकल्पयतीह कोऽपि नानिट्टम् । ८२ ।। जागरितदेश एवेत्येषा श्रुतिरेव सत्यतां बूते। स्वप्रस्येति यदुक्तं तच्छ्रुतिवचनं न सत्यताकुलितम् ॥८३॥ यस्माच्छत्यैवायं रथाद्यमावः प्रदर्शित: स्वमे। यस्माच्च स्वप्नोऽयं जागरितप्रभववासनामूलः॥।८४॥ जागरिततुल्यनिर्भासत्वामिप्रायमत इदं वचनम्। तस्मात्स्वप्रस्यैवं मायामात्रत्वमेतदुपपन्नम्।।८५।। एवमविद्याविलसितमेनं स्वप्रं विचार्य सम्यगिह। वर्णयति तां सुषुप्तिं प्रतियोग्यनुयोगिभावसंगत्या॥ ८६ ॥ तदभावो नाडीषु तच्छतेरात्मनि च।। ७॥ तन्न च तद्यन्नैतत्सुप्त इति सुषुप्विषयका: श्रुतयः । ताभि: प्रत्यवसृप्येत्यपराऽवि श्रुतिरियं सुषुप्परा॥ ८७ ॥ तासु तदा भवतीति श्रुतिरन्याऽपि हि सुषुप्तविषयैव। अन्यत्रापि य एषोऽन्तर्हवदय इति श्रुतिस्तदर्थैव ॥ ८८॥ तद्विषयाऽन्याऽपि सता सोम्य नदेत्यादिका श्रुतिर्भवति। तत्र च नाड्यादीनि हि निरपेक्षाण्येव मिन्नभिन्नानि ॥ ८९॥ सुप्तिस्थानानि स्युः परस्परापेक्षितानि तानीह। एकं सुप्तिस्थानं स्यादिति वा मवति चात्र संदेहः ॥ ९० ॥ सुप्तिस्थानानि स्युर्मिन्नानीत्येतदत्र युक्तं स्यात्। यस्मादेकार्थकता नाड्यादीनां प्रतीयते ह्यन्र ॥९१॥ एकार्थानां क्वचिदृपि परस्परापेक्षता तु न हि हष्टा। वीहियवादीनां न ह्येकार्थानां समुच्चयो दृष्टः ॥९२॥ सुप्तावेकार्थकता नाड्यादीनामपीह हषैव। नाडीषु सुप्त इत्यपि पुरीततीत्येवमत्र निर्देशात्॥९३॥ नाडीषु सप्तमीय तथा पुरीतति च दृश्यते सा हि। ननु सप्तमी न दृष्टा सति किंतु सतेति हष्टमिति चेन्न ॥ ९४॥ अत्रापि वाक्यशेषात्सत्तम्यर्थोऽवगम्यते योऽसौ। आयतनैषी जीव: सदेतदुपसर्पतीति दर्शयति ॥ ९५॥ अन्यन्राऽ्डयतनमिति श्रुतिरियमायतनभावमस्य सतः। अन्र सदेव प्राणो सायतनत्वं च सममीवाच्यम्॥ ९६ ॥।

Page 243

द्वितीयपाद: २] माष्यार्थरतनमाला।

दृष्टा च सप्तमीयं सति संपद्येति वाक्यशेषे हि। तस्मादेकार्थकता नाड्यादीनां प्रतीयते ह्यन्॥ ९७॥ एवं च सति विकल्पात्स कदाचित्किंचिदेव हि स्थानम्। सुप्तय उपसरतीति प्राप्ते तन्भ्ाव इति हि पठतीह ॥९८॥ अत्र च तद्भावपदं स्वप्रामावं सुपुप्तमाचटे। इह च चशव्दान्नाड्यादीन्यात्मानं समुच्चयेनैव ।। ९९। स्वप्नापायेऽपैति हिन विकल्पेनेति दर्शितं भवति। यस्मान्नाड्यादीनां सुप्तिस्थानत्वमभिहितं श्रुत्या ॥ १०० ॥ व्रीहियवादीनामिव नन्वेकार्थत्वमत्र पूर्वोक्तम्। तेन विकल्पो युक्तो न समुच्चय इति तु नेह वक्तव्यम् ॥१०१॥ एकविभक्तिश्रवणान्नैकार्थत्वं मवेद्विकल्पश्र। नानार्थतासमुच्चययोरेकविभक्तिरत्र दृष्ा हि ॥१०२॥ प्राकारे प्रासादे पर्यक्कशेत एवमादिषु हि। तद्वन्नाडीषु पुरीतति च ब्रह्मणि समुच्चयेनायम्॥१०३॥ स्वपितीत्येतद्युक्तं यस्माच्छरतिरिह समुच्चयं बूते। तासु तदा भवति यदा सुप्तः स्वमं न कंचनेत्याद्या॥ १०४॥ सा चैकवाक्यमावान्नाडीप्राणादिकस्य दर्शयति। सुप्तिस्थानत्वमिदं प्राणस्य ब्रह्मता तु समधिगता ॥१०५॥ ननु सुप्तिस्थानत्वं नाडीनामेव दर्शयत्पेषा। तासु तदा मवतीति श्रुतिरिति शङ्का न चेह कर्तव्या॥१०६॥ शुत्यन्तरप्रसिद्धं ब्ह्म प्रतिषेद्धुमनुचितं यस्मात्। ब्रह्मणि नाडीद्वारा स्वपितीत्येतञ्च युक्तमभिधातुम् ॥१०७॥ नाडीषु सप्तमीयं कथमिति शङ्का न चेह कर्तव्या। नाडीभिरवि ब्रह्मणि सुप्तो नाडीषु सुप्त एव स्थात् । १०८ ॥ [ यो गङ्गया हि सागरमभिगच्छति स गत एव ग]ङ्गायाम्। अपि चेह रश्मिनाडीसमन्वितबह्मलोकमार्गस्य ॥ १०९॥ [ वक्तव्यत्वान्नाडीस्तुत्यर्थं सृप्तिकीर्तनं ज्ञेयम्। एतच्च तं न कश्व]न पाप्मा स्पृशतीति दर्शयन्तीयम् ॥११०॥ [श्रुतिरपि नाडी: शंसति सृप्तो भवतीत्यनन्तरं पठिता। पाप्मास्पर्शे हेतुं भ्रुतिरेव तेजसा हीति वक्ति । १११॥] इह तेजसेति नाडीगतं हि पित्ताख्यमत्र निर्दिशति। अथवाऽत्र तेजसेति ब्रह्मण एवैष मवति निर्देशः॥११२॥

Page 244

२४० सुब्रह्मण्यविरचिता- [ ३ तृतीयध्यायस्य-

ब्रह्मणि तेजःशब्दो दष्टो ब्रह्मैव तेज एवेति। नाडीद्वारा चासौ संपन्नो ब्रह्मणा तदा भवति ॥ ११३॥ तस्माच्च तं न कश्चन पाप्मा स्पृशतीति दर्शितं मवति। पाप्मस्पर्शामावे परात्मसंपत्तिरेव हेतुरिति ॥। ११४।। सर्वे पाप्मान इति श्रुतिवचनेनैव दर्शितं भवति। एवं सति प्रदेशान्तरसिद्धेन च परात्मनाऽनुगुणम्॥११५॥ नाडीनामपि सुप्तिस्थानत्वमिदं समाभितं भवति। नाडीपरात्मनोरिह समुच्चयोऽसौ गुणप्रधानतया ।। ११६ ॥ तस्या: पुरीततोऽपि हि सुप्तिस्थानत्वमेवमेव स्यात् । हृद्यपरिवेष्टनं किल पुरीतदेतन्न चान्यदिह मवति ॥ ११७ ॥ आकाशे हि तदन्तर्वर्तिनि परमे शयान एवासौ। शेते पुरीततीति व्यपदेहुं शक्यते यथा लोके ॥ ११८ ॥ नृपतिरिह वर्तमान: परितः प्राकारवेहटिते हि पुरे। प्राकारे नृपतिरसी वर्तत इति वर्ण्यते जनैः सर्वेः ॥ ११९॥ म्रह्मत्वमुक्तमेव हि हृदयाकाशस्य दहरवाक्येण। एवं त्रीणि श्रुतिभि: सुप्तिस्थानानि कीर्तितानीह ॥ १२० ॥ नाडय: पुरीतद्ब्ह्म च नाडी पुरीतदुमयं हि। स्याद्दारमात्रमेतङ्भह्वैवकं तु सुप्त्यधिष्ठानम् ॥ १२१॥ नाडयः पुरीतद्पि वा तदुपाध्याधार एव भवतीह। वस्मात्करणान्यखिलान्यपि जीवस्यास्य तत्र वर्तन्ते ॥१२२ ॥ नोपाधिमन्तरेण स्वत एतस्यास्ति कश्रिविदाधारः । ब्रह्माधारत्वोक्ति: सत्तादात्म्यप्रदर्शनार्थेव ॥।१२३॥ स्वमपीतो मवतीति श्रुतिरियमुक्तार्थमेव दर्शयति। अपि च न कदाचिदृषि वा जीवस्य ब्रह्मणाऽस्त्यसंपत्तिः॥१२४॥ किंतु स्वमे जाग्रत्युपाधिसंपर्कतोऽस्य संप्राप्ताम्। पररूपापततिमिवावेक्ष्य श्ुत्याऽनया हितदुपशमात् ॥१२५॥ सुप्ता हि तस्य सेयं स्वरूपसंपत्तिरेवमुपदिष्टा। एवं च सति कदाचित्सता स संपद्यते कदाचिद्यम्॥१२६ ॥ न हि संपद्यत इति यत्तदेतदखिलं ह्ययुक्तमेवात्र। 'सति संपत्नस्तावन्न विजानातीह किंचिदृपि यञ्च। १२७।।

Page 245

द्वितीयपाद: २] माध्यार्थरत्नमाला। २४१

सत्संपत्तावनयोरेकत्वात्तदृवि युक्तमेवेह। एतन्नाडीषु पुरीतति च शयानस्य नैव युक्तं स्पात्। १२८॥ नाविज्ञाने कारणमिह सति भेदे हि दृश्यते किमपि। तत्रान्योऽन्यत्पश्येदिति श्रुतिश्ववधमेव दर्शयति ॥१२९॥ दूरादिवशादेवाविज्ञानं यद्यपि क्वचिद्दवष्टम्। इह तु तथा नैव स्यान्न हि जीवोऽसौ स्वतः परिच्छिन्नः ॥१३०॥ तस्य परिच्छेदोऽसाुपाधियोगेन संप्रवृत्तो हि। उपशान्ते चोपाधौ सति संपन्नस्य तदिदमिह युक्तम् ॥१३१॥ न हि नाड्यादिसमुच्चयमभिधातुं सूत्रभेतदारब्धम्। नाड्य: सुप्तिस्थानं भवति तथेतत्पुरीतदथवेति ॥ १३२ ॥ न ह्येतद्विज्ञानात्पयोजनं किमपि वक्तुमिह शक्यम्। नैतद्विज्ञानप्रतिबद्धं वा फलमिहास्ति किंचिदिह ॥१३३॥ न ह्रेतद्विज्ञानं कस्यचिदङ्गं हि फलवतो भवति। ब्रह्मानपायि सुप्तिस्थानमितीदं विवक्षितं मवति ॥१३४ ॥

तेन फल स्यात्तस्मात्मुप्तिस्थानं स एप आत्मैव । १३५॥ अतः प्रबोधोऽस्मात् ॥८॥ यस्मादात्मैवायं सुप्तिस्थानं न चान्यदृत एव । तस्मादात्मन एव प्रबोध उपदिश्यते हि सर्वत्र ॥१३६ ॥। श्रुतिरेषा हि यथाऽये: क्षुद्धा इत्यादिका प्रदर्शयति। अग्रेर्षथा स्फुलिङ्गास्तथाऽडत्मनो व्युच्चरन्ति सर्व इति ॥१३७ ॥ एव सत आगम्येत्याद्या श्रतिरेतमर्थमुपदिशति। अत्र विकल्पाश्रयणे नाडीभ्योऽपि क्रचित्प्रबुध्येत ॥ १३८॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९॥ अत्र प्रबुध्यमानः सत्संपन्नो य एष जीवः स्यात्। प्रतिघुध्यते स एव हि किंवाऽन्य इतीह भवति चिन्सेयम् ॥१३९॥ तन्रानियमनैव प्रबोध इति वक्तुमत्र युक्तं हि। लोके जलराशौ हि प्रक्षिप्तो यश्च मधति जलबिन्दुः ॥१४० ॥ जलराशिरेव स भवति पुनरुद्दूरणे स एव जलबिन्दुः । मवतीति दुर्षिवेधनमिद्मत्र यथा तथैव वेहोऽपि। १४१॥

Page 246

२४२ सुब्रह्मण्यविरचिता- [ १ तृतीयाध्यायस्य-

सुप्तो हि संप्रसन्नः परात्मनैकात्मभावमापन्नः । योऽसौ भवति कथं वा पुनरुत्थातुं स एव शक्कोति॥ १४२॥ तस्मात्स वेश्वरोऽन्यो जीवो वाऽत प्रबुध्यते कश्च्ित्। [इति शङ्काऽत्र न कार्योत्तिष्ठति जीवः स एव सुप्त] इति ।१४३। एवं कर्मानुम्सृतिशब्द्विधिभ्योऽवगम्यते यस्मात्। लोके हि कर्म[णोऽनुष्ठितस्य शेषं तु हश्यते कुर्वन्] ॥१४४॥ उपदेशमन्तरेणाव्यन्योत्थाने न युज्यते तदिदम्। न ह्यन्येन च लोके सा[मिकृतं कर्म विद्यते तस्य] ।१४५॥ कथमन्यः स्वयमेव हि कर्तु शेषक्रिया प्रवर्तेत। तस्मादेक: कर्ता पूर्वोत्तरवासरेष्विहैकस्य । १४६ ॥ एवमदोऽ्द्राक्षमिति प्रागनुभूतस्य भवति यत्पश्रात्। स्मरणं स्मरामि तदिति ह्यन्योत्थाने तु नोपपद्येत । १४७।। प्रतियोन्याद्रवतीति च तथव सर्वाः प्रजा इति प्रथित्ताः। स्वापप्रबोधवाक्यप्रदर्शिता ये भवन्ति शब्दास्ते ॥ १४८॥ असमख्जसा भवेयु: स एव तस्मात्प्रवुध्यते नान्यः । एवं कर्मविधिभ्यः स एव चोत्तिष्ठतीति मातीह ॥ १४९॥ अन्योत्थाने विधय: कर्मपरा ये निरर्थका: स्युस्ते। अपि चेह सुप्तमात्रो मुच्येत तदा हि कर्मणा कि स्यात् ॥१५०॥ अन्योत्थाने यदि किल जीवो देहान्तरीय उत्तिष्ठेत्। तत्रत्यव्यवहारः सकलो निर्लेषमेष लुप्येत ॥१५१ ॥ अन्यत्र सुप्त एव ह्यन्यत्रोत्तिष्ठतीति कल्प्येत। नास्यां हि कल्पनायं कश्चन लाभो निर्राथिकैवैपा ॥ १५२॥ विध्वस्ताविद्यस्य च मुक्तस्योत्थानमीश्वरस्य तथा। दूरापेतं तस्मादसंगतैषा हि कल्पना सकला ॥१५३ ॥ अककृतागमकृतनाशाबन्योत्थाने तु दुर्निवारी हि। तस्माद्य एव सुप्तः स एव चोत्तिष्ठतीति युक्तमिह ॥१५४॥ जलराशौ निक्षिप्तो जलबिन्दुरिवैकतां गतो योऽसौ। सति संपन्नो जीवो नार्हत्युत्थातुमिति हि यञ्चोक्तम् ॥१५५॥ तत्र च हष्टान्तोडयं जलबिन्दुर्विषम एष मातीह। जलबिन्दोरुद्धरणे न हि तत्र विवेककारणं किमपि ॥१५६ ॥।

Page 247

द्वितीयपाद: २] माष्यार्थरत्नमाला। २४२

तदनुद्धरणं तस्मात्तत्र च युक्तं न चैवमत्रापि। इह किल विवेककारणमस्ति हि कर्म च तथेव चाविद्या॥?५॥॥ किंचेह दुर्विवेचनयोरन्यैरस्मदादिभिर्जगति। मिलितक्षीरोदकयोहैँसेन यथा विवेचनं मवति ॥ १५८॥ प्राणिकृतसुकृतकर्माद्यपेक्षयैवेश्वरः करोतीदम् । न हि जीवोऽत परस्माद्विभिन्नरूपो य एष निर्दिष्टः ।१५९ । न हि जलबिन्दुरिवायं जलराशेर्न हि यथा पृथग्भृतः । न तथाऽसी जीवः स्यात्किंतु स बुद्धयाह्यपाधियोगेन । १६० ।। परमात्मा सन्नव्ययमुपचर्यत एष जीव इति लोके। बन्धानुवृत्तिरेषा यद्येकोपाधिसंगता भवति ॥ १६१ ॥ तदुपाधिकजीवस्य व्यवहारस्तावदेव मवतीह। सा यदि तदन्तरगता व्यवहारोडयं तदन्तरस्यैव ॥ १६२॥ सोडयमुपाधि: स्वापप्रबोधयो: स्थलसूक्ष्मभावेन। सततानुवृत्त एव हि स एव तस्मात्म्रबुध्यते नान्य: । १६३ ॥ मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ १० ॥ अस्ति हि मुग्धः कश्रिद्यं मूर्छित इति जना हि कथयन्ति। स च खलु किमवस्थः स्यादिति चिन्तायां निरुप्यते सेयमू॥१६४॥ शारीरस्यावस्था भवन्ति तिस्रस्तथा हि जागरितम्। स्वप्र: सुषुप्तिरेवं देहादपसृप्तिरिह चतुर्थी स्यात् ॥ १६५॥ इह पञ्चमी त्ववस्था श्रुतौ स्मृती वाऽि न प्रसिद्धाऽस्ति। तस्मादेषाऽवस्था भवति हि तिमृणां हि काचिद्न्यतमा ॥१६६॥ इत्याशङ्का सकला निरस्यते सपदि सूत्रकारेण। न हि जागरितावस्थो मुग्धो योडसौ कदाचिदृषि भवति॥१६७॥ यस्मात्स हीन्द्रियैरिह विषयान्नैवेक्षते कदाचिदृपि। नन्विषुकारन्यायाज्जाग्रदवस्थो भवेदसी मुग्धः ॥१६८॥ इष्वासक्तमनस्को यदेषुकारो हि जाग्रदृपि चायम्। नैवान्यान्विषयानिह समीक्षते तद्वदव मुग्धोऽपि ॥ १६९ ॥ मुसलाभिधातजनित प्रभूतदुःखानुभूति विकलमनाः। जाग्रदृपि चायमन्यान्विषयानीक्षत इतीह न हि युक्तमू॥ १४० ॥ व्यापुतमना व्वीति ह्ययमिषुकार: स्वकृत्यमखिलमपि। इपुसुपलममानो ह्ययमेतावत्कालमासमत्रेति॥ १७१।।

Page 248

२४४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

मुग्धस्तु लब्धसंज्ञो बवीति न मयाऽत्र चेतितं किमपि। एतावन्तं कालं प्रक्षिप्तोऽन्धे तमस्यभूवमिति। १७२॥ तस्मान्न हि जागर्त्ययमपि च स्वप्रान्न पश्यति ह्वेष:। निःसंज्ञत्वादयमिह नापि सृतः स्यादिहोष्मसद्भावात्॥१७३॥ मुग्धे जन्तौ हि सृतो न वा सृतोऽयमिति संशयानास्तु। ऊष्माडस्ति नास्ति वेति स्पृशन्ति हृदयं तदत्र निर्णेतुम् ॥१७४॥ प्राणोऽस्ति नास्ति वेति हि निर्णेतुं नासिकाप्रदेशमपि। प्राणं चोष्माणं वा प्रतिपद्यन्ते यदा हि तत्रैव ।। १७५।। नायं सृत इति मत्वा संज्ञालाभाय तं भिषज्यन्ति। नन्विह निःसंज्ञत्वात्सुषुप्त एवास्तु मुग्ध इति चेन्न ॥१७६ ॥ मुग्धोऽयं चिरमपि किल नोच्छसिति सवेषथुश्र देहोऽस्य। वदनं भयानकं स्यान्नेत्रे विष्फारिते हि मवतोऽस्य ॥ १७७ ॥ सुप्तः प्रसन्नवदन: पुनः पुनस्तुल्यकालमुच्छसिति। नेत्रे निमीलिते किल न च देहो वेपमान इह हकः ॥१७८॥ सुप्तं हि पाणिषेषणमात्रेणोत्थापयन्ति न तथेमम्। मुद्गरपातेनापि च निमित्तभेदश्र भवति चेह तयोः ॥१७९॥ मुसलाभिघातमूलो मोहः स्वापः श्रमादिमूल: स्यात्। परिशेषादिह तदिदं मुग्धत्वं भवति चार्धसपत्तिः ॥१८० ॥ यत इह निःसंज्ञोऽयं संपन्नः स्यादथाप्यसंपन्नः । इतरविलक्षणभावात्तस्माद्युक्तेयमर्धसंपत्तिः ॥१८१।। ननु मुग्धता कथं वा पुनरिह मवतीयमर्धसंपतिः । इह सता सोम्येति श्ुत्या सुप्तं प्रतीत्थमुपदिष्टम ॥८२ ॥ अस्य च सति संपत्ति: स्तेनत्वाद्यखिलधर्मराहित्यमू। सुकृतादिकर्मबन्धनवियोगमपि यत्सुखित्वदुःखादेः॥ १८३॥ अननुभव: सकलोडयं सुप्ते पुरुषे प्रदर्शितो हि तया। स च खलु सुग्धे तुल्यो हो वमुपाध्युपशयोऽपि तुल्य:स्यात्॥१८४॥ तस्मात्सुप्तवदेव हि सुग्धे युक्ता हि कृत्स्नसंपत्ति:। इति चेन्न वय बूम: संपत्तिर्बह्मणाऽस्य भवतीति ।१८५॥ कित्वेतनमुग्धत्वं सुषुप्तधर्मारधधमयोगेण। भवतीत्पेतावत्किल सूत्राभिप्रेतमिति तु निर्णीतम् ॥ १८६॥।

Page 249

द्वितीयपाद: २] माष्यार्थरत्नमाला। २४५

दर्शितमेव हि पूर्व वैलक्षण्यं हि सुप्तिमुग्धतयोः। द्वारमभिमवति चैतन्मुग्धत्वं मृत्युलोकसंक्रमणे॥ १८७ ॥ तस्माद्बह्मविदोऽत हि वदन्ति मुग्धत्वमर्धसंपत्तिम्। नैवेह पश्चमी किल काचिदवस्थेति यञ्च पूर्वोक्तम् ॥१८८॥ नासी दोषो यस्मात्कादाचित्की मवेदवस्थेयम्। तेन श्रुतौ स्मृतौ वा मुग्धावस्था न हि प्रसिद्धाऽस्ति ॥१८९ ॥ यदि मुग्धताऽपसिद्धा कथ विचार इति नेह शक्का स्यात्। यस्मादेषाऽवस्था लोकायुर्वेदयो: प्रसिद्दैव ॥१९० ॥

इह मुग्धता हि लोके न गण्यते पञ्चमीति केनापि। १९१ ॥ सर्वावस्थाभिरसावलिप् एव त्वमर्थ इत्येवम्। सम्यग्विचार्य संप्रति निरूपयति तत्पदार्थमीशानम् ॥१९२॥ न स्थानतोऽवि परस्योभयलिङ्ग सर्वत्र हि॥ ११ ॥ अत्र त्वमर्थजिज्ञासोपरमानन्तरं हि तस्यैव। अवसरसंगत्या हि स्वरूपभूतं विचार्यते बह्म ॥१९३ ॥ सन्त्यत्रोमयलिङ्गाः भ्रुतयो ब्ह्मस्वरूपबोधपराः। अत्र किल सर्वकर्मेत्याद्याः सविशेषगोचरा: श्रुतयः॥ १९४॥ अस्थूलमेवमाद्याः श्रुतयः किल निर्विशेषबोधपराः। श्रुतिषु सतीष्वेतासु ब्रह्मोमयलिङ्गमेव किंवा स्यात् ॥ १९५॥ अन्यतरलिङ्गमथ वा यदाऽपि चान्यतरलिङ्गमेतत्स्यात्। सविशेषलिङ्गमेतत्किंवा तन्निविशेषमेवेति ॥१९६ ॥ संदेहे सति तत्र ब्रह्मोमयलिङ्गमिति तु युक्तं स्यात्। पूर्वत्र सुप्तिमरणोभयरूपं वर्णितं हि मुग्धत्वम् ॥१९७॥ त द्वष्छत्यनुसाराद्बह्मात्र ध्येयमुमयरूपं स्यात्।

सामेतामाशङ्कां निरसितुमेतत्प्रवर्तितं सूत्रम्। अत्रोभयलिङ्गत्वं स्वत एव परस्य नोपपन्नं स्यात् ॥ १९९॥ वस्त्वेकमेव लोके मवति हि रूपादिगुणगणोपेतम्। तद्विपरीतं चेति ह्यवधारयितुं कथं हि शक्येत ॥ २००॥ नोपाधियोगतोऽन्याहशस्य चान्यादृश: स्वभावः स्यात्। न स्वच्छ: स्फटिकोऽसावस्वच्छोऽलक्तकादियागेन॥। २०१॥

Page 250

२४६ सुबह्मण्यबिरचिता- [ २ तृतीयाध्यामस्य-

तत्रास्वच्छत्वव्यपदेशोऽयं भ्रान्तिमूलको दृष्टः । ये चोपाधय इह ते भवन्त्यविद्यासमुस्थिता एव । २०२ ॥ तन्मूलकं हि तदिदं भ्रान्त्यायत्तं न वस्तुवृत्तमतः । अन्यतराश्रयणेऽपि प्रतिपाद्यं ब्रह्म निर्विशेषमिह॥ २०३॥ ब्रह्मप्रतिपत्तिपरेष्वशब्दमस्पर्शमेवमाद्येषु। यस्मादपास्तसर्वोपाधिविशेषं प्रपश्च्ितं ब्रह्म ॥२०४॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् । १२॥ यन्निर्विशेषमेव ब्रह्म प्रतिपाद्यमिति तु पूर्वोक्तम्। तन्नोपपद्यतेऽ्र ब्रह्माकारास्तु भिन्नभिन्ना हि॥ २०५ ॥ उपदिश्यन्ते ते हि प्रतिविद्यं सकलनिगमवाक्येषु। ब्रह्म चतुष्पादित्यपि षोडशकलमिति च वर्णितं बह्म ॥२०६ ॥ तद्वच्च वामनीत्वादिलक्षणं ब्रह्म सकलभुवनतनु। वैश्वानरशव्दितमपि कथयन्ति ब्रह्म सर्ववेदान्ताः ॥ २०७॥ तस्मात्सविशेषत्वं परात्मनोऽवश्यमभ्युपेयमिह। नो चेन्निविषयं स्यात्सकलमिदं भेदशास्त्रमिति चेन्न ॥ २०८॥ यस्माद्भेद्मेव प्रत्येकं ब्रह्मण: श्रुतिर्ब्रूते। यश्चायमेवमाद्या श्ुतिरस्याभेदमेवमुपदिशति ॥२०९॥ तेजोमयोऽमृतमयः पुरुषो योऽस्यां भवेत्पृथिव्यां सः। यश्वाध्यात्मं पुरुषः शारीरः सोऽपि तादृशो गदितः ॥२१०॥ तावेवंविधरूपौ निर्दिश्यामेदमेव हि बूते। अयमेव स योऽयमिति श्रुतिरध्यात्मादिभेदमपवार्य॥ २११॥ अपि चैवमेके ॥ १३ ॥ अपि चेह भेददर्शननिन्दापूर्वकमभेददृटष्टिमिमाम्। एके हि शाखिनः किल मनसैवेत्यादिना पठन्तीह ॥ २१२॥ अन्येऽपि भोक्तृमोग्यप्रेरितृरूपस्य सकलजगतोऽपि। ब्ह्मात्मतां वद्न्ति हि मोक्ता मोग्यमिति वाक्यनिचयेन ॥२१३॥ सविशेषनिर्षिशेषबह्मपरासु च सतीष्वपि श्रुतिषु। ननु निर्विशेषमेव बह्म कथं स्यादितीह नाऽऽशङूथम् ॥२१४॥ अत्रातत्परतत्परविप्तिषेधे हि तत्परं बलवत्। एतक्यायाभयप्पाल्नासी दोष इति पठति सूत्रमिद्मू॥ २१५॥

Page 251

द्वितीयपाद: २] माष्यार्थरत्नमाला। २४७

अरूपवदेव हि तत्प्रधानत्वात् ॥ १४॥ रुपादिरहितभेव ब्रह्म परं स्यात्ततो न विपरीतम्। श्रुतिवचनानि च सर्वाण्यपि दृश्यन्ते हि तत्प्रधानानि॥ २१६॥ अस्थूलमेवमाद्यं ह्यशब्दमस्पर्शमेवमाद्यपि च। आकाशो हेत्यादिकमपि किल दिव्यो ह्यमूर्त इत्याद्यम्॥ २१७॥ यञ्चान्यदृपि तदेतद्वह्मापूर्वमिति निगमवाक्यं स्यात। परतत्वबोधकानि ह्येतानि मवन्ति तत्प्रधानानि ॥ २१८॥ तस्माच्च निर्विशेषं श्रुतिवचनेषु हि यथाश्रुतं ग्राह्यम्। आकारवत्पराणि श्रुतिवचनानि तु न तत्प्रधानानि॥ २१९॥ किंत्वेतानि भवन्ति हि सविशेषोपासनाप्रधानानि। असति विरोधे तेषामाश्रयितव्यं यथाश्रुतं भवति ॥ २२० ॥ सति च विरोधे कल्पितविशेषसालम्बनानि तानि स्युः । न हि निर्विशेषवाक्याण्येवं कुत्रापि सावकाशानि ॥२२१॥ तस्मान्भवन्ति तानि हि परात्मतत्त्वप्रधानवाक्यानि। इममर्थभेव सकलं बोधयितुं सूत्रमेतदिह पठति ॥२२२॥ प्रकाशवच्चावैयर्थ्यात् ॥१५॥ लोके यथा प्रकाश: सौरश्रान्द्रो नमस्थलव्यापी। ऋजुवक्रमावकलिते ह्यङ्डुल्यादावुपाधिसंबन्धात् ॥ २२३ ॥। तन्द्ावं प्राप्त इव प्रतिपन्नो न प्रपद्यते हि तथा। तत्तूपाधिवशेनाऽडयातीव हि तत्तदाकृतिं ब्रह्म ॥ २२४ ॥ एवमुपास्त्यङ्गतया साकारब्रह्मविषयवाक्याणामू। न च वैयर्थ्याशङ्का भवति हि नैवेह वेदवाक्यानाम्॥ २२५॥ कस्यचिद्नर्थकत्वं कस्यचिदिह सार्थकत्वमिति युक्तम्। सर्वस्य वेदराशेः प्रमाणभावे यतो हिन विशेष: ॥ २२६।। नोपाधियोगतोऽपि ब्रह्मोभयलिङ्गमिति तु यच्चोक्तम्। इह तद्विरुद्धमुक्तं भवतीत्येवं न शङ्कनीयमिह ॥ २२७ ॥ यच्चोपाध्यायत्तं तविदं नैवेह वस्तुधर्मः स्यात्। आविद्यका हयुपाधय इत्येतत्सकलमेव पूर्वोक्तम्॥२२८॥ आह च तन्मात्रम् ॥ १६॥ स यथा सैन्धवघन इत्येषा श्रुतिरैवमत्र दर्शयति। ब्रह्म प्रज्ञानघनं रूपान्तररहितमेकमविशेषम् ॥२२९ ॥।

Page 252

२४८ सुन्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

यद्वत्सैन्धववन इह बहिरन्तश्चैकलवणरस एव। चैतन्यमात्रभेव ब्रह्म निरन्तरमिदं तथैवेति ॥२३०॥ दर्शयति चाथो अपि स्मर्यते ॥ १७॥ दर्शयति श्रुतिरेषा ह्यथात आदेश एवमाद्या हि। इतरप्रतिषेधेन ब्रह्मण एतस्य निर्विशेषत्वम्॥ २३१॥ श्रुतिरन्यदेव तद्विदितादित्याद्याऽपि दर्शयत्येवम्। अन्याऽप्यत्र यतो वाच इति श्रुतिरपि तथैव दर्शयति ॥२३२ ॥ बाष्कलिना बाभ्रव्य: पृष्टः सन्नेतमवचनेनैव। ब्रह्म प्रोवाचेति श्रुयत इह निगमवाक्य एव किल ॥ २३३॥ तत्र स होवाचाधीहीति प्रथमं स एष पृष्टः सन्। नोवाच किंचिद्यमिति तेन प्रश्नद्ये कृते पश्चात् ॥२३४ ॥ त्वं तु न जानास्येवं मवति ह्युपशान्त एष आत्मेति। आत्माऽपास्तद्वैतो ह्यवचनमत उत्तरे मवेत्तस्य ॥ २३५॥

गीतादिस्मृतिवचनैर्बह्म परं निर्विशेषमुपढिष्ठम् ॥२३६ ॥ एतञ्चानादिमदिते वाक्येषु स्वष्टमेवमन्यत्र। नारायणोपदिषटे माया ह्वोषा मयेति वाक्ये हि॥ २३७ ॥। अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ यत एवाऽडत्मा सोडयं चैतन्यैकस्वरूप एव स्यात्। वाडयनसातीतः स्यादितरप्रतिषेधसमुपदेश्यक्ष ॥। २३८॥ तस्योपाधिनिमित्तामपारमार्थिकविशेषवत्तां हि। आलम््य मोक्षशास्त्रे हयुपमा जलसूर्यकादिभि: कथिता॥२३९॥ दर्शयति श्रुतिरेषा यथा ह्ययं ज्योतिरेवमाद्याहै। सूर्यो यथाऽनुगच्छन्नपो हि भिन्ना उपाधियोगेन ॥ २४०॥ भिन्नस्तथाऽयमात्मा क्षेत्रेषूपाधिती हि भिन्न इति। श्रुतिरेक एव हीति च मूते भूते व्यवस्थितो ह्यात्मा ॥२४१॥ बहुधेकधा च हश्यत एको जलचन्द्रवदिति वर्णयति। सूर्यक इति कपत्यय इह सूत्रे द्योतनार्थको मवति॥ २४२॥

Page 253

द्वितीयपाद: २] माध्यार्थरत्नमाला। २४९

अम्बुवदग्रहणातु न तथात्वम् ॥ १९ ॥ ननु जलसूर्याय्यपमा न चाऽडत्मन: कथमपीह संभवति। सर्यादिभ्यो भवति हि जलमेतद्विप्रकृष्टदेशस्थम् ॥ २४३ ॥ रूपवतः सूर्यस्य प्रतिबिम्बस्तत्र युक्त एव स्यात्। अत्र च मायाबुद्धयाद्युपाधयो नैव दूरदेशस्थाः ॥२४४ ॥ ब्ह्मस्वरूपमेव हि सर्वात्मकमषि च सर्वदेशगतम्। तस्माद्द्ृष्टान्तोऽसावयुक्त इत्यस्य चोत्तर पठति ॥२४५॥ वृद्धिह्नासभाक्त्वमन्तर्भावादुभयसामअस्यादेवम् ॥ २०॥ हष्ान्तोऽसी युक्तो विवक्षितांशो यतोऽत संभवति। दार्ध्ान्तिकस्य लोके हष्टान्ते न च सर्वसाम्य स्यात ॥ २४६॥ नैतत्स्वमनीषिकया हष्टान्तप्रणयनं कृतं किंतु। शास्त्रोपदर्शितस्य हि फलमात्रमिहोपदिश्यत तस्य ।।२४७॥ तदिदं प्रयोजनं स्याद्यदात्मनो निर्विशेषतारूपम्। अत्र च विवक्षित यत्सारूप्यं तदिदमीदवृशं भवति ॥२४८॥ जलगतमिह सूर्यादिपतिबिम्बं यच्च दृश्यते तदिदमू। वर्धत इह जलवृद्धी तद्ध्रासे ह्नसति किच जलचलने ॥ २४९॥ चलति च जलभेदे किल भिद्यत इति चैतदेवमिह भवति। जलधर्मानुविधायि हि न तथात्व भवति चास्य सूर्यस्य ॥२५०॥ एवं ब्रह्माविकृतं परमार्थत एकरूपमपि सदिह।

सारुप्याद्द्ृष्टान्तः समञ्जसोडयं तथा च न विरोध: । २५२।। दर्शनाच ॥ २१॥ अत्र पुरश्रक्र इति श्रुतिः परस्य प्रवेशमभिधत्ते। द्विपदशरीराण तथा चतुष्पदानि च वपूंषि सृक्ठा सा ।२५३।। पूर्व हि चक्षुरादेः पक्षित्वेनाविशत्स तानीति। श्रुतिरन्याऽनेनेति प्रवेशमत्र च परं प्रदर्शयति ॥२५४ ॥ तस्मादयुक्त: सोडयं योऽसी जलसूर्यकादिदृष्टान्तः। ब्रह्म न चोमयलिङ्ग नापि च सविशेषलिङ्गमिति सिद्धमू॥२५५॥ ३२

Page 254

२५० सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य

इह कल्पयन्ति केचिद्वे अधिकरणे हि तत्र च प्रथमम् । किवा प्राप्तविशेषं सविशेषं ब्रह्म किं भवदिति हि॥ २५६ ॥ पूर्वस्मादधिकरणात्प्रत्यस्तमितप्रपञ्चता सिद्धा। किं सल्क्षणमेतङ्रह्म भवेद्वोधलक्षणं वेति ॥२५७ ॥ अथवा तदुभयलक्षणमिति शङ्कायां द्वितीयमधिकरणम्। इह सर्वथाऽप्यनर्थकमधिकरणान्तरमिदं ह्यनारब्धम् ॥२५८॥ यद्यधिकरणमिदं स्यादनेकलिद्वत्वनिरसनार्थं हि। तत्किल पूर्वेणेव हि न स्थानत इत्यनेन परिभूतम् ॥२५९ ॥ उत्तरमधिकरणमिद प्रकाशवच्चेति विफलमेव स्यात्। सल्लक्षणमेवेदं न बोधलक्षणमिदं भवेङ्ह्म ॥ २६० ॥ इति शद्धितुं न शक्यं विज्ञानवनशृतेर्विरोधेन। अपगतचैतन्यं तङ्रह्म कथं वाऽपि चेतनस्यास्य ॥ २६१॥ जीवस्य श्रुतिवचनैस्तदात्मभावेन चोपदिश्येत। नाप्यत्र बोधलक्षणमेव न सलक्षणं तदेवदिति॥ २६२॥ वकुं शक्यमिह स्यादस्तीत्यादिश्युतेरविरोधेन। तदुभयलक्षणमेव ब्रह्मेत्यपि नेह शङ्कितुं शक्यम् ॥२६३॥ तस्यैकलिङ्गताया: पूर्वोक्ताया विरोध एव स्यात्। सत्तात्यावृत्तेन च बोधन तथैव सत्तयोपेतम् ॥२६४ ।। तत्परतिजानानस्य हि पूर्वप्रतिपिद्धसप्रपञ्चत्वम्। पुनरपि तस्य स्यादित्यसमख्जसमेव तदिदमखिलं स्यात् ॥२६५॥ न श्रुतिवचनशतेनाव्येकस्यानेकरूपता भवति ।। यदि बोध एव सत्ता बोध: सत्तैव न हि तयोर्भेदः ॥२६६॥ भवतु तदा सल्क्षणमित्यादिविकल्पना निरालम्बाः। निर्णातान्यस्माभि: सूत्राण्येकाधिकरणभावेन ॥ २६७॥ अपि चान्योन्य श्रुतिपुँ हि विप्रतिपन्नासु निर्विशेषेऽस्मिन्। ब्रह्मणि तत्र गृहीते गतिरितरासामवश्यमिह वाच्या ॥ २६८॥

इह केचिदेवमाहुः साकारपरा भवन्ति याः श्रुतयः ॥२६९॥ प्रविलयसुखेन ता अपि भवन्त्यनाकारतत्परा इति हि। ेदृपि च न सभीचीनं या परविद्यापपश्चिता: शुतयः ॥ २७० ॥

Page 255

द्वितीयपाद: २] माष्यार्थरत्नमाला। २५१

युक्ता ह्यस्पेत्याद्याः प्रविलयफलिका भधन्ति ता एन। यस्मात्तदेतदित्ययमुपसंहारोऽत् निर्विशेषपरः ॥ २७१॥ ये च श्रुतेः प्रपञ्चा उपासनाप्रक्रियासु द्ृश्यन्त। छान्दोग्ये हि मनोमय इन्याद्यास्ते कयं प्रविलयार्थाः ॥ २७२॥ स क्रतुमित्येतेन ह्युपासनातत्परेण विधिनैव। यत एपां संबन्धे श्रुत्यंव यथाक्त्तगुणकदकवस्य। २१३।। तदुपासनार्थकत्वे प्रतीयमाने च लक्षणा रगा। तस्यापि च प्रपञ्चपविलयपरता कथ हि युक्ता स्यात् ॥ २४४ ॥

तच्चेदमनवकाशं सर्वस्य प्रविलयार्थकत्वे स्थात् ॥ २७५॥ फलमप्युपासनानां भिन्न भिन्नं प्रतीयते शास्त्रे। दुरितक्षयः क्वचित्स्यात्क्वचिदेश्वर्यं क्वचित्क्रमान्मुक्ति: ॥२७६॥ तस्मात्पृथगर्थकता ज्ञेयोपास्यप्रधानवाक्यानाम्। नन्वेकवाक्यता किल यथव चाङ्गप्रधानवाक्यानाम् ॥२७७ ।। भवति हि योगस्यैक्यात्परमापूर्वस्य तद्वदेवेह। प्रविलयविषयक एको नियोग आत्मावबोधकामस्य ।। २७८।। अविलापिते प्रपञ्चे कथमपि न ब्रह्मतत्त्वबोध: स्यात्। योगोऽनुष्ठातव्यो भवति यथा स्वर्गलोककामस्य ॥ २७९ ॥ एवं प्रपञ्चविलयो विमोक्षकामस्य भवति संपाद्यः । तमसि यथा घटतत्त्व बुभुत्सुनाऽडदो विलाप्यते हि तमः २८०॥ एवं प्रपश्नविलय: कर्तव्यो ब्ह्मतत्त्वविविदिषुणा। अत्रेदं प्रष्टव्यं प्रपञ्चविलयो हि किंविधोऽयमिति ॥२८॥॥ यदि पावकसंपर्काद्घृतकाठिन्यस्य विद्यमानस्य। प्रविलय इक चद्यमपि विलयस्तस्यैव विद्यमानस्य ॥ २८२।। व्यर्थस्तदोपदेशः स खलु न शक्यो हि पुरुपमात्रेण। यदि मुक्तेनैकेन प्रपञ्चविलय: श्रुतस्तदेदानीम् ॥२८३॥

यदि चाविद्याध्वस्तः सकलोडयं विद्यया विलाव्य इति ॥२८४॥ तत एतदेव लब्धं तत्सत्यज्ञानलक्षणं ब्रह्म। आविद्यकप्रपञ्चपत्याख्यानेन वेदितव्यमिति॥२८५॥

Page 256

२५२ सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

आवेदिते हि तस्मिन्विद्या स्वयमेव जायते तस्य। प्रतिलीयते तया चाविद्या ध्वस्तो हि सकल एवायम् ॥ २८६॥ स्वप्नप्रपञ्च इव किल न वैपरीत्ये हि जायते विद्या। रज्जुप्रदर्शनेनैव च भवति हि तत्स्वरूपविज्ञानम् ॥२८७॥ तेनाविद्यारोपितसर्पादिप्रविलयश्च मवति यथा। भवति तथैवेहापि ब्रह्मण्यावेदिते स्वयं विद्या ॥ २८८॥ नापि नियोगशतेन च विद्यानावेदिते भवेत्तस्मिन् । अपि च प्रपश्चपक्षे जीवः किं ब्रह्मपक्ष एव स्यात् ॥ २८९ ॥ प्रथमे हि निष्पपश्चब्रह्मप्रतिपादनेन जीवेऽपि। प्रविलापिते जगद्वत्कस्य नियोग: कुतोऽस्य मोक्षो वा ॥२९० ॥ जीवो द्वितीयपक्षे ह्यनियोज्यब्रह्मरूप एव स्यात्। जीवत्वं चाविद्याकल्पितमेवेति बोधिते तस्मिन् ॥ २९१॥ इह च नियोज्याभावान्नियोगनिष्ठा न कस्यचिन्द्वति। द्रषव्याद्याः शब्दास्तत्वाभिमुखीकृतिप्रधाना: स्युः ॥ २२२॥ यदि चाऽडम्रायः सकलः पर्यवसन्नो नियोगनिष्ठतया। जवस्य यद्नियोज्यत्रह्मात्मत्वं तदप्रमाणं स्यात् ॥ २९३॥ कृत्स्स्याऽडस्नायस्य हि नियोगपरता यदोपवर्ण्यैत। श्रुतहानिरश्ुतार्थप्रकल्पना चात्र दुर्निवारेव ॥ २९४ ॥ मोक्षस्यानित्यत्वं ह्यटृष्टफलताऽपि कर्मफलवत्स्यात्। तस्माद्वह्मपराणि ह्यवगतिनिष्ठानि सकलवाक्यानि॥ २९५॥ तस्माच्चैक नियोगप्रतीतितश्चैकवाक्यतेत्येतत्। अनुचितमेतत्सकलं यदि चाभ्युपगम्यते नियोगोऽयम्॥२९६॥ ब्ह्मपरेष्वपि वाक्येष्वसिद्धमेव हि तदा तदेकत्वम्। सविशेषनिर्विशेषप्रतिपादनतत्परेषु तेषु स्यात् ॥ २९७॥ शब्दान्तरैः प्रमाणैरनियोगभेदेऽवगम्यमानेऽपि। सर्वत्रापि ह्येको नियोग इति नैव शक्यमाश्रयितुम् ॥२९८॥। दर्शप्रयाजवाक्येष्वधिकाराभेदृतस्तदेकत्वम्। साङ्के प्रधानयागे ह्येकस्य स्वर्गलोककामस्य ॥ २९९ ॥ अधिकारात्परमापूर्वैक्यात्तत्रैकवाक्यता युक्ता।

Page 257

द्रतीयपाद: २] माष्यार्थरत्नमाला। २५३

मारूपत्वादिगुणा न हि प्रविलयोपकारिणो दृष्टाः । नापि प्रपञ्चविलयो भारूपत्वादिसहचरो दृष्टः । ३०१ ॥ यस्मात्परस्परं ते दृश्यन्ते किल विरुद्धरूपतया। मुक्त्यभ्युद्यार्थिन इह भवन्ति विद्याधिकारिणो भिन्नाः॥३०२॥ नैवाङ्गाङ्गित्वं वा मिथोविरुद्धार्थविद्ययोर्भवति। कृत्स्नप्रपञ्चविलयस्तदेकदेशाद्यपेक्षण चापि। ३०३॥ न ह्येकस्मिन्धर्मिणि तञ्च समावेशयितु शक्यम्। साकृतिवाक्यानामिह न भवत्याकारविलयनद्वारा ॥ ३०४॥। निर्गुणवाक्यैकत्व तस्मादस्मत्प्रपश्चितं युक्तम्। प्रकतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ तदिदं ब्रह्म श्रुतिभिनिर्दिष्टं निर्विशेषचिन्मात्रम् ॥३०५।। सकलप्रतिषेधावधि सदूप तदिति वर्ण्यते सपदि। मूर्तममूत चेति द्वे रूपे ब्रह्मणो विनिर्दिश्य॥ ३०६ ॥ पञ्च महाभूतानि द्वराश्यन च विभज्य तत ऊर्ध्वम्। तस्यामूर्तरसस्य हि पुरुषस्य च यानि सकलरूपाणि॥ ३०७ ॥ तानि महारजनादीन्यप्येतस्थैव वर्णयित्वाऽन्ते। वाक्य तदत्र पठितं ह्यथात आदेश एवमादि किल ॥३०८॥ तत्र च वाक्ये नेतीत्येतहवाक्यं द्विवारसुपदिष्टमू। न ह्येतस्मादित्यपि वाक्य तत्रोपलभ्यते किच ॥ ३०९ ॥ नेत्यन्यत्परमस्तीत्येवं वाक्यानि तत्र दृश्यन्ते। अत्र प्रतिषेध्यं किल विशेषतो नोपलभ्यते किमपि ॥ ३१०॥ अत्र च नञ्शब्दोSसावितिशब्दपरः स चायमितिशब्दः। संनिहितकृत्स्नवस्तुप्रदर्शनार्थः प्रतीयते लोके॥ ३११ ॥ प्रकरणसामर्थ्यादिह रूपट्वयमत्र भवति सनिहितम्। तस्यैव सप्रपञ्चब्रह्मण एतद्दूयं यदुपदिष्ठमू ॥ ३१२ ॥ तत्र च संदेहः किं प्रतिषेधाते रूपरूपवद्युगलम्। किंवा रूपं यदिदं किंवाऽप्येतच्च रूपवङ्ह्म ॥ ३१३ ॥ तत्र च रूपं रूपवदुभयं प्रतिषिध्यतीति युक्तं स्थात्। नञ्शब्दृदययोगादथ वा ब्रह्मैव रूपवद्यदिदम्॥ ३१४॥ तह्ाङमनसातीतं किंचासंभाव्यमानसद्भावमू। तन्न प्रतिषेधाहं प्रतिषेधारहो न हि प्रपञ्चोऽसौ॥ ३१५॥

Page 258

२५४ सुब्ह्मण्य विरचिता- [३ तृतीयाध्यायस्य-

प्रत्यक्षगोचरत्वादभ्यासस्त्वादरार्थ इह भवति। एव प्राप्ते बूमः प्रतिषेधो नोभयस्य भवतीह ॥ ३१६ ॥ प्रतिषेध: सकलोऽय किंचित्परमार्थतत्त्वमालम्व्य। यश्ापरमार्थः स्यात्स खल प्रतिषिध्यते न सर्वमपि॥ ३१७॥ सर्वस्य प्रतिषेधे भवेदसी शून्यवाद एव तदा। रज्ज्वादी सपाद्या: प्रतिपिध्यन्तेऽवशिष्यमाणेडस्मिन् ॥ ३१८॥ कृत्सप्रतिपेधे किल कोऽन्यस्तत्रावशिप्यते मावः । अन्यस्यानवशेष कृत्सस्यैवात्य अन्यताप्राप्त्या॥ ३१९॥। प्रतिषेद्धुरप्यभावे प्रतिषेध: कथमिहोपपद्येत। ब्रह्मपातषेधो वा कथमपि नैवेह शक्यते वक्तुम् ॥३२०॥ येनोपक्रमवाक्ये ब्रह्मप्रतिपादनं प्रतिज्ञातम। किंचासन्नैवेति श्रुतिरसदात्मत्वमस्य निन्दति च ॥ ३२१ ॥ अस्तीत्येवेत्यपरा श्रुतिरस्तित्वेन वक्ति तङ्गह्म। श्रुतिवचसां व्याकोपो ब्रह्मासत्वे हि दुर्निवारः स्थात् ॥ ३२२ । वाऊानसातीतत्वं यच्चोक्तं ब्रह्मणस्तद्तदृपि। नाभावाभिप्रायं किंतु प्रतिपादनपरकारोऽयम् ॥३२३।। तद्वाङनसातीतं सर्वेषां प्रत्यगात्मभूतमपि। नित्यं शुद्धं भूतं ब्रह्मैतन्नित्यमुक्तरूपमिति ॥३२४ ॥ प्रतिपाद्यन्ति सर्वे वेदान्ता: कथममावशङ्काडस्य। तस्माद्वह्मण एतत्प्रतिषेधति रूपमेव न ब्रह्म ॥ ३२५॥। प्रतिषेधावधिभूतं यत एतङ्रह्म परिशिनष्टि ततः। प्रकृवं यच्चैतावन्मूर्तामूर्तैकलक्षणं रूपम् ॥३२६॥ तच्च प्रतिषेधति किल नेति च शब्दो न रूपवद्गह्म। रूपं तदिदं प्रकृतं पूर्वग्रन्थे प्रपशच्ितं चैतत् ॥ ३२७ ॥ अधिंदैवतमध्यात्मं तद्धीनं वासनामयं त्वपरम्। रूपममूर्तरसात्मकमपि लिद्धात्मकव्यपाश्रयं यञ्च ॥ ३२८॥। वर्णितमत्र महारजनादयुपमाभियंथेति वाक्येन। तज्ञापनीयते खल्वितिशब्देन च नञं प्रतीत्येवम्॥। ३२९।। अवगम्यते यतोऽत हि रूपविशेषणतयैव तङ्गह्म। षठ्चा किल निर्दिहं रूपं तत्तु प्रधानमावेन । ३३० ॥

Page 259

द्विनीयपाद: २] माष्यार्थरत्नमाला।

रूपवतो जिज्ञासायामेवैतत्प्रदर्शितं वाक्यम्। कल्पितरूपप्रत्याख्यानेन ब्रह्मण: स्वरूपमिह ॥ ३३१॥ निर्णीयते तदास्पदमखिलं नेति हि निषिध्यते तस्मात्। वाचारम्भणशब्दादिभ्यः कार्यस्य चानृतत्वेन । ३३२।। युक्त: प्रतिषेधोडयं न ब्रह्मण इह भवेदसी युक्त:। तस्य कथं वा स भवेङ्ह्म यतः सर्वकल्पनामूलम्॥३३३॥ स्वयमेव शास्त्रमेतदूपद्वयमस्य दर्शयित्वाऽडदी। प्रतिषेधतीह कथमिति नैषा शङ्काSत्र वति युक्ततमा ॥३३४॥ रूपद्वयमिह शास्त्रं प्रतिपाद्यत्वेन नैव निर्दिशति। रूपट्वयं प्रसिद्धं ब्रह्मणि कल्पितमिदं परामृशति॥३३५॥ प्रतिषेध्यत्वाय तथा शुद्धब्रह्मस्वरूपबोधाय। द्वावेतौ प्रतिषेधी मूर्तामूर्ते निषेधतः क्रमतः ॥३३६ ॥ एको हि मूतराशि प्रतिषेधति वासनात्मकें त्वपरः । अथवाऽपि नेति नेतीत्येषा वीप्पा हि किमपि नेतीति ॥३३७ ॥ परिगणितप्रतिषेधे किंवैतद्बह्म किमथवाऽन्यढिति। स्यादेषा जिज्ञासा वीप्सायां सकलविषयजातस्य ॥३३८॥ प्रतिषेधाच्चाविषयः प्रत्यग्ब्ह्मेति सा निवर्तेत। तस्मात्कल्पितमेतत्प्रतिषेधति परिशिनष्टि तङ्ह्म ॥३३९ ॥ अन्यत्परमस्तीति बवीति भूयो यतस्तदिह सत्यम्। आदिश्य नेति नेतीत्यादेशं किल पुनश्र निर्वक्ति॥३४० ॥ ब्रह्मण एतस्माद्धि व्यतिरिक्तं नेह किंचिदम्तीति। उक्तार्थबोधनाय हि नेतीत्युक्तं तदेव दर्शयति ॥३४१॥ अन्यच्च प्रतिषि्धं ब्रह्मपर यत्तदेतदस्तीति। न ह्येतस्मादिति यद्यपदेशान्तरनिषेधनार्थं स्थात ॥३४२॥। सूत्रे ततो बवीतीत्वेतत्स्यान्नामधेयपरमेव। अथ नामधेयमिति हि बवीति सत्यमिति तत्परं तत्स्यात्॥३४३॥ प्रतिषधोडयं सफलो यदि च ब्रह्मावसान एप स्यात्। यदि चाभावावधिकः कथमिह सत्यस्य सत्यमुच्येत ॥३४४ ॥ तस्मात्प्रतिषेधोऽयं भवति ब्रह्मावसान इति सिद्धम्। तदव्यक्तमाह हि॥ २३ ॥ अन्यत्प्रप्चजातात्प्रतिषिद्धादयदि भवेत्परं ब्रह्म ॥ ३४५ ॥

Page 260

२५६ सुबह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

तज्च कुतो न हि गृह्यत इत्यत एतस्य चोत्तरं बूते। तदिदं बह्माव्यक्तं भवति हि तत्सर्वददृश्यसाक्ष्यपि च ।। ३४६॥ तेनेन्द्रियैर्न गृह्यत इत्ेतच्छृतिरिह प्रदर्शयति। सा हि श्रुतिः किलैपा न चक्षुषेत्यादिका बवीत्येवम् ॥३४७॥ अन्याऽपि श्रुतिरेवं स एष नेत्यादिका प्रदर्शयति। इयमपराऽपि यदा ह्येवैष इति श्ुतिरिति प्रदशयति ॥३४८॥ अव्यक्तोऽयमचिन्त्योऽयमिति स्मृतिरपि तथैव दर्शयति। अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ अपि चेह योगिनस्तं सराधनसमय एव पश्यन्ति ॥३४९ ॥ संराधन हि भक्तिध्यानानुष्ठानभेव न तद्न्यत्। तद्दयेवमेव यस्माच्छतिस्मृती चवमेव दर्शयतः ॥३५० ॥ श्रुतिरिह पराश्ि खानि व्यतृणदितीत्येवमत्र दशयति। बहिरर्थमेव सर्वे पश्यन्ति न कश्चिदन्तरात्मानम् ॥३५१॥ यो धीमान्मोक्षार्थी स हि त पश्यति निरुद्धचक्षुरिति। अपराऽपि शुद्धसत्त्स्तत इत्याद्याऽपि दर्शयत्येवम् ॥ ३५२॥ स्सृतिरत्र यं विनिद्वा इत्याद्या योगिनस्तमित्याद्या। परमात्मनोऽस्य केवलयोगिध्यानाभिगम्यतां जूते ॥ ३५३॥ ननु संराध्य: संराधक इति भिन्नत्वभेतयोरिति चेतू। प्रकाशादिवच्चावैशेष्यं प्रकाशश्र्व कर्मण्यभ्यासात् ॥२५॥ लोके प्रकाशरूपा ये सवितृप्रभृतयो हि वर्तन्ते ॥ ३५४॥ ते खल सविशेषा इव भासन्ते परमुपाधियोगेन। एवं ध्यानोपाधिषु कर्मसु भिद्यत इहैष परमात्मा॥ ३५५॥ परमार्थतोऽयमात्मा न भिद्यते नावि सविशेषः। भेद उपाधिकृतोऽसौ स्वतस्त्वभेद इति वर्णयन्त्येते ॥ ३५६ ॥ अभ्यासेनासकृदिह जीवपाज्ञी हि सर्ववेदान्ताः । अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ येनाविद्यामूलो भेद: सकलोऽपि तेन जीवोडसौ ॥ ३५७॥ सकलमविद्याध्वान्तं विद्यादीपेन संनिरस्यैव। प्राज्ञेनानन्तेन हि परात्मना सोऽयमेकतां याति ॥३५८॥ श्रुतिलिङ्गमेवभेव हि स यो ह वै तदिति वर्णयत्यत्र।

Page 261

द्वितीयपादः २] माष्यार्थरत्नमाला। २५७

उभयव्यपदेशात्वहिकुण्डलवत् ॥ २७ ॥ स्वमतविशुद्धय इह किल मतान्तरं किमपि दर्शयत्यत्र ॥ ३५९॥ क्वचिदिह जीवेश्वरयोध्यातृध्यातव्यभावमालम्व्य । व्यपदिश्यते हि भेदस्ततस्तु तं पश्यतेति वाक्येन ॥ ३६० ॥ व्यपदिश्यते क्वचित्किल परात्परं पुरुषमेवमाद्येन। वाक्येन गन्तृगन्तव्यत्वेनापि च तयोरसी भेद: ॥ ३६१ ॥ एवं नियन्तृनियमनकर्मत्वेनापि भेद उपदिष्टः। यः सर्वाणीत्याधैर्वाक्यैः क्वचिदिह तयोरभेदोऽपि ॥ ३६२॥

एष त आत्माऽन्तर्याम्यमृत इति प्रथितवेदवाक्यैश्र ॥३६३॥ अत उभयव्यपदेशादहिकुण्डलवन्भवेदिदं तत्त्वम्। प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८॥ अथवाऽत्र यः प्रकाशः सवितुर्योऽसी तदाश्रयः सविता ॥३६४॥ तेजस्त्वेनाभिन्नौ मेदव्यपदेशिनौ तथेहापि। पूर्ववद्दा ॥ २९ ॥ पूर्वप्रकाशवच्चावैशेष्यमिति प्रदर्शितं यत्स्यात् ॥३६५॥। भवति तदेव हि तत्वं येनाविद्याकृतो हि बन्धोऽयम्। ब्रह्मात्मविद्यया किल बन्धापायेऽत्र भवति मोक्षो हि॥ ३६६॥ अहिकुण्डलव द्वन्धः परस्य संस्थानभूत एव यदि। किंवा स हि प्रकाशाश्रयवद्यद्येकदेशभूतः स्यात् ॥३६७॥ भवति तदा परमार्थो बन्धस्तस्य च तिरस्कृतिर्न भवेत्। एवं चेद्वैयथ्यं दुर्वारं मवति मोक्षशास्त्रस्य ॥ ३६८॥ भेदाभेदी तुल्यवदिह न व्यपदिशति किंत्वभेदमिह। प्रतिपाद्यत्वेन श्रुतिरेषा निर्दिशति तत्त्वमस्याद्या ॥३६९॥ भेदूं त्वनुवदृति ततः प्रकाशवच्चेति मवति सिद्धान्तः । प्रतिषेधाच॥ ३०॥

प्रतिषेधति प्रपञ्चं ब्रह्मव्यतिरिक्तमखिलभेव यतः । तङ्गह्म परिशिनष्टि हि यदिदं सन्निर्विशेषचित्मात्रम् ॥३७१॥।

Page 262

२५८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

तस्मात्यकाशवञ्वेत्युपदिषे मवति चात्र सिद्धान्तः। परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३१॥ यदिदं निरस्तसकलप्रपञ्चमत्रोपवर्णितं बह्म ॥३७२॥ तस्मादन्यत्तत्वं किमस्ति नास्तीति भति संदेहः। तन परस्मादन्यत्तस्वं स्यादिति तु युक्तमाभाति॥३७३ ॥ सेत्वादिव्यपदेशा यस्मात्तत्साधका हि दृश्यन्ते। आत्मा स सेतुरिति हि श्रुतिः परस्यास्य सेतुता बूते॥। ३७४॥ सृददार्वादिप्रचये जलगतिविच्छेदसाधने सोडयम्। रूढा हि सेतुशब्द: प्रयुक्त आत्मनि यतो मवेदेष: ॥ ३७५ ॥ लौकिकसेतोरिव किल गमयति वस्त्वन्तरास्तितामस्य। उन्मानव्यपदेशोऽप्यत्र तथा दृश्यते तदेतदिति ॥३७;॥ ब्रह्म चतृप्पादष्ाशफ च घोडशकलं च तत्रोक्तम् । कार्षापणादि लोके यदुन्मितं स्यात्ततोऽन्यदस्तीति ॥३७७ ॥। भवति प्रसिद्धमत इह भवितव्यमिति प्रतीयतेऽन्येन। सोम्य तदा संपन्नो भवतीत्याद्येपु निगमवाक्येषु ॥३७८॥ संबन्धव्यपदेशोऽप्ययमुक्तार्थस्य बोधको भवति। संबन्धः किल लोके भवति मिताना मितेन यत एवम् ॥३७९॥ सोडयं सुप्ौ दृष्टस्तस्मात्परमस्ति किचिदिति माति। व्यपदिश्यते परात्मा मिन्नत्वेनैव सोऽन्तरादित्ये॥ ३८० ।। एवं स चान्तरक्षिणि सावधिक चेश्वरत्वमुपदिष्टम। भवति तयोरिह तस्मात्परमन्यङ्रह्मणोऽस्ति किंचिदिति॥। ३८१॥ इत्येतामाशङ्कां निरसितुमेतत्प्रदर्शित सूत्रम्। सामान्यात्तु ॥ ३२॥ अत्र तुशब्देन हि खल्वाक्षेपोडयं निरस्यते सकलः ॥ ३८२॥ न ब्रह्मण: परस्मादन्यत्तत्वं कदाऽवि संभवति। न ह्यन्यस्यास्तित्वे प्रमाणमुपलभ्यतेऽत्र किंचिदृपि॥ ३८३॥ सर्वस्य जनिमतः किल जगतो जन्मादिकारणं ब्रह्म। निर्धारितं हि तस्यानन्यत्वं च प्रदर्शितं मवति ॥३८४॥ नहोतद्यतिरिकतं किंचिदज तस्त्रमत्र संभवति। यस्मात्सवेव सोम्येत्यस्मादृवधारित हि सद्बह्म ॥ ३८५ ॥

Page 263

द्वितीयपाद: २ ] माष्यार्थरत्नमाला। २५९

येनाश्रुतमिति वाक्यादेकज्ञानेन सर्वविज्ञानम्। दर्शितमिह तेन कथं ब्रह्मव्यतिरिक्तवस्तुसत्वं स्यात् ॥ ३८६ ॥ सेत्वादिव्यपदेशात्स्यादन्यत्तत्वमिति तु यञ्चोक्तम्। तद्युक्तमेव यस्माच्छृतिरेषा वक्ति सेतुरात्मेति ॥३८७॥ न ततः परमस्तीति श्रुत्या चैवोपदिष्टमेवात्र।

लिङ्गेन चाद्वितीयश्रुतिबाधोडयं यतो न हि न्याय्यः । से तुनिदर्शनमात्रेणान्यत्तत्वास्तिता यदोच्येत । ३८९।। तद्द्टष्टान्तेन तदा मृद्दारुमयत्वमस्य कल्प्येत। नैतन्रयायं यस्मादृजत्वमुपदिशति शास्त्रमेतस्य ॥ ३९०॥ इह सेतुशब्द आत्मनि तत्सामान्यात्प्रयुक्त इति युक्तम्। जगतस्तद्धर्माणां विधारकत्वमिह सतुसामान्यम् ॥ ३५१॥ सेतुं तीर्त्वेत्यत्र च तरतिर्नातिक्रमार्थकां भवति। आत्मा यतो विभु: स्यात्किंतु प्राप्त्यर्थ एव तरतिरसौ ॥ ३९२॥ प्राप्त्यर्थे दृष्टोऽयं व्याकरणं तीर्ण एवमादो हि। बुद्धयर्थ: पादवत् ॥ ३३ ॥ उन्मानव्यपदेशादृवि नान्यास्तित्वकल्पना युक्ता ।। ३९३॥ स भवति किल बुद्धचर्थः सा बुद्धिरुपासनैव नान्या स्यात्। बह्मण्यपरिच्छिन्ने स्थापयितुं बुद्धिरियमशक्येति ॥ ३५४॥ ब्रह्म चतुष्पात्षोडकलमित्युन्मानकल्पनाऽत्न कृता। पाद्वदित्येतत्किल निदर्शनं स्याद्यथोपदिष्टार्थे॥ ३९५॥ ब्रह्मप्रतीकयोरिह मनआकाशस्वरूपयोहि यथा। वागाद्यक्च पादाश्चत्वारस्ते च मनस उपदिष्टाः ॥३९६॥ आकाशस्याग्न्यादय आध्यानायैव ते हि निर्दिष्टाः । तद्वदिहापि स्यादियमथवाऽप्यन्यार्थकं हि पाद्पदम् ॥३९७॥ कार्षापणे यथा वा पादविभागस्तु कल्प्यते लोके। व्यवहारप्राचुर्य न मवति कार्षापणेन सकलेन ॥। ३९८॥ तस्मात्क्रयादिसिद्धचै पादविभागो यथा तथेहापि। स्थानविशेषात्प्रकाशादिवत् ॥३४ ॥

Page 264

२६० सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्थ-

परमन्यत्तत्वं स्यादिति यञ्चोक्तं निरस्यते तदिदम्। व्यपदेशावेतौ हि स्थानविशेषावलम्बनी भवतः ॥ ४०० ॥ बुद्धयाद्युपाधियोगादुद्भूतं यद्विशेषविज्ञानम्। बुद्धधुपशमे हि तस्योपशमी यः स हि परेण संबन्ध: ।। ४०१॥ सोडयमुपाध्यायत्तो माक्तो न हि परिमितत्वसापेक्षः। भेदृव्यपदेशोऽपि ह्यृपाधिभदप्रयुक्त एवास्य ॥ ४०२ ॥ न हि वस्तुभेदमूलो यथा प्रकाशादिपूपलब्धोऽयम्। लोके यथा प्रकाशाकाशप्रभृता उपाधियोगेन ।।४०३॥ संबन्धव्यपदेशो भेदव्यपदेश एवमेवात्र। उपपत्तेश्व ॥ ३५॥ इह चैताहश एव हि संबन्धो युज्यते न चान्यविधः ॥ ४०४।। स्वमपीतो भवतीति स्वरूपसंबन्धमामनन्त्येवम्। तञ्च स्वरूपमन्यत्वनपायीति श्रुतिस्मृतिप्रथितम् ॥४०५॥ तस्माद्यदुपाधिकृतं स्वरूपमागन्तुकं भवेदस्य। तस्य तिरोमावे हि स्वमपीत इतीह युक्तमुपदिष्म्॥४०६॥ भेदृव्यपदेश उपाधिकृतो नान्याद्वशोऽत्र संभवति। अन्याहृशो यदि स्याच्छतिसिद्दैकेश्वरत्वबाधः स्यात् ॥४०७ ॥ आकाशे दृष्टोऽसावुपाधियागेन भेदनिर्देशः। तथाऽन्यप्रतिषेधात्॥ ३६ ॥ सेत्वादिध्यपदेशान्हेतूनुन्मथ्य पक्षमात्मीयम्॥४०८॥ हेत्वन्तरेण संप्रत्युपसंहरति ह्यनेन सूत्रेण। अन्रान्यप्रतिषेधादन्यन्नास्तीति गम्यते तस्मात् ॥ ४०९।। यस्मादहमेवाघस्तादात्मैवेति वेदवाक्येन। अन्यैश्र नेह नानेत्याद्यैरेतैरनन्यपरवाक्यैः ॥४१०॥ ब्रह्मव्यतिरिक्तं किल किचिन्नास्तीति निश्चितं भवति। अनेन सर्वगतत्वमायामशब्दादिभ्यः ।। ३७॥ परपक्षहेतुनिरसनमन्यप्रतिषेधवर्णनं च कृतम् ॥४११॥ सर्वगतत्वमनेन ह्यात्मन एतस्य सिद्धमिह भवति। सेत्वाविव्यपदेशा यदि मुख्या: स्युस्तदा परिच्छेद: ॥ ४१२॥

Page 265

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। २६१

आत्मन एतस्य स्यात्सेत्वाद्या एवमात्मका हियतः। अन्यप्रतिषेधेऽपि ह्यसति परिच्छेद एव तस्य स्यात् ॥ ४१३॥ आयामशब्दृतः किल सर्वगतत्वं प्रतीयते तस्य। आयामशब्द इह किल सर्वव्यापिस्वरूपवचनः स्यात् ॥४१४॥ यावान्वेति श्रतिरिह तथैव चाSडकाशवदिति चान्याऽपि। ज्यायान्दिव इत्यपरा श्रुतिरप्यायाममस्य दर्शयति॥४१५॥ नित्यः सर्वगतः स्थाणुरिति स्मृतिरपि तमस्य दर्शयति। फलमत उपपत्तेः॥ ३८॥ पूर्वोपदर्शितस्य हि परात्मनो व्यावहारिकी येयम् ॥ ४१६॥ ईशेशितव्यभावावस्था तस्या निरूप्यते तदिदम। इष्टानिष्टव्यामिश्रलक्षणं कर्मफलमिदं त्रिविधम् ॥४१७॥ संसारगोचरं तज्जन्तुषु सर्वेषु सुप्रसिद्धं हि। तत्कर्मण: किमीशात्स्यादिति संदेहनिरसनार्थमिह ॥४१८॥ पूर्वोपदशितस्य हि परात्मनो निर्विशेषभावेन। फलदातृत्वं कथमिति शङ्काया निरसनार्थमपि किंच ।। ४१९॥ फलदातृत्वं कर्मण एवेत्याक्षेपमखिलमुन्मूल्य। लक्ष्यार्थबोधसाधनवाच्यार्थसतत्त्वनिर्णयार्थं च ।। ४२० । सवं हि संगमयितुं फलमत इत्यादिसूत्रमारब्धम्। अस्मात्परात्मनः किल मवति फलं तदिति युक्तमाश्रयितुम्॥४२१॥ यस्मादसी परात्मा सर्वाध्यक्षस्तथैव सर्वज्ञः। स हि देशकालभेदाभिज्ञ: सृष्यादिचित्रमारचयन्॥ ४२२॥ कर्मानुरूपफलमिह दातुं तस्मात्स एव शक्रोति। कर्म विनाशि क्षणिकं जनयति कालान्तरे फलं तदिति ॥४२३॥ इदमनुपपन्नमेव हि नाभावान्भावसंभवो येन। ननु कर्मेह विनश्यत्फलमनुरूपं हि किंचिदुत्पाद्य ॥ ४२४ ॥ नश्यति कालान्तरितं तच्च फलं भोक्ष्यते हि मोक्त्रेति। इदमपि न युक्तमेव हि यतः फलत्वं न चास्य संभवति ॥४२५ ॥ लोके यथा सुख वा दुःखं वा यदुपभुज्यते पुंसा। तदिदं हि कर्मणः फलमिति च तदा वर्णयन्ति न हि पूर्वमू४२६॥। यदि कर्मजादपूर्वात्फलसुत्पत्स्यत इतीह कल्प्येत। तदृपि न युक्तं यत हदमचेतनं काछलोष्सममेव।। ४२७ ॥

Page 266

२६२ सुबह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

तच्चेतनापवर्तितमचेतनं कथमिह प्रवर्तेत। इह चापूर्वास्तित्वे प्रमाणमुपलभ्यते न किंचिदपि॥ ४२८॥ अर्थापत्तिर्या स्यादीश्वरसिद्धयैव साऽन्यथासिद्धा। श्रतत्वाच्च ॥ ३९ ॥ उपपत्यैव न चासावीश्वर इह मवति कर्मफलहेतुः ॥४२९॥ श्रुतिबलसमाश्रयादृपि भवति परात्मैव कर्मफलहेतुः। या हि स वा एष महानज आत्माऽन्नाद एवमाम्नातः ॥ ४३०॥ अन्नादं वसुदानं परमेश्वरमेनमुपदिशन्ती सा। श्रुतिरेवेश्वरमेनं फलस्य दातारमुपदिशत्यत्र ॥ ४३१॥ धर्म जैमिनिरत एव ॥४० ॥ इह जैमिनिराचार्य: फलदातारं हि धर्ममाचट्टे। भ्रुत्युपपत्ती यस्मादिह धर्मपरत्वसाधिके हष्टे॥ ४३२ ॥ यत्स्वर्गकामवाक्यं तत्र च विध्यर्थभावनाविषयः । याग: स्वर्गोत्पादक इति खल्वर्थः प्रतीयते तस्मात् ॥४३३॥ नोचेदेवं यागो ह्यननुष्ठातृक इह प्रसज्येत। तत्र यजेतेत्येषामुपदेशः सकल एव विफल: स्यात् ॥४३४ ॥ क्षणिकस्य कर्मण: किल फलं न किंचिदिति मनसि निश्चित्य। पूर्वं निराकृतोऽसी पक्ष: कथमत्र युक्त इति चेन्न ॥४२५॥ श्रुतिरिह यदि प्रमाणं फलसंबन्धोऽपि कल्पनीयोऽस्य। ना [तुत्पा ] द्यापूवं कर्म यदेतद्विनश्यदन्वक्षम् ॥४३६॥ फलमिह कालान्तरितं दातुं तत्कर्म नैव शक्रोति। या हि फलस्य च पूर्वा तथोत्तरा कर्मणो ह्यवस्था या॥४३७॥। सैवापूर्व तेन च फलसंबन्धोऽस्य निरपवाद: स्यात्। ईशः फलं दृदातीत्येतन्नात्रोपपद्यते हि यतः ॥४३८॥ अविचित्रः परमात्मा कायं सकलं विचित्रमाभाति। तदनुष्ठानं विफलं वैषम्याद्यपि च तस्य दुर्वारम्॥४३९ ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥४१ ॥ फलहेतुमीशमेव हि मन्यत इह बादरायणाचार्यः। कर्मण एव फलं स्यादिति तु तुशब्देन परिहृतं मवति॥। ४४०॥

Page 267

तृनीयपाद: ३] माष्यार्थरत्नमाला। २६३

यस्मादसी परात्मा हेतुर्व्यपदिश्यते हि शास्त्रेषु। कर्मण इह कारयिता फलस्य दाता च मवति परमात्मा ॥४४१॥ एप ह्येवेत्याद्या श्रुतिरिममर्थ हि सकलमुपदिशति। स्मृतिरपि यो यो यां यामित्याद्याऽप्येतमर्थमाचटे ।४४२॥ सृष्यादिकारणत्वं तस्योपदिशन्ति सर्ववेदान्ताः । तेन च फलदातृत्वं परमात्मन एव निश्चितं भवति ॥४४३॥। सृजति हि परमात्माऽसी प्रजा: स्वकर्मानुरुपती यस्मात्। तस्य च सापेक्षत्वाद्विचित्रसृष्टी न बाधकं किमपि। ४४४।। शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां तृतीयसंज्ञश्र योऽयमध्यायः ।।४४५॥। तत्र द्वितीयपादे सूत्रार्थो यश्च माध्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्य: ।।४४६॥ इति तृतीयाध्याये द्वितीयपाद: समाप्तः ॥२॥

अथ तृतीयपादः ।

पूर्वस्मिन्किल पादे ब्रह्म परं निर्विशेषचिन्मात्रम्। श्रुत्युपपत्तिभ्यां तन्निर्णीतं किल तृतीयपादेऽत्र ॥१॥ तदुपासनास्वरूप तज्ज्ञाने मुख्यसाधन यत्स्यात्। चित्तका्यद्वारा तदेतदत्रोपवर्ण्यते सकलम् ॥ २ ॥ तस्मात्संगतिमेनां फलफलिभावात्मिकामिहाऽडलम््य। सविशेषविषयिणीयं विद्याचिन्ता हि सपदि संजाता । ३॥ सर्ववेदान्तप्रत्ययं चोदनाद्विशेषात् ॥१॥ शाखान्तरोदितानि हि तद्विज्ञानानि चैकरूपाण। किंवा तानि विभिन्नानीति प्रथम विचार्यते तत्र ॥४ ॥ ननु निणातं पूर्व पूर्वापरभेदरहितमेकरसम्। विज्ञानघनं तत्किल विज्ञेयं ब्रह्म मवति नान्यदिति ॥५॥ तद्विज्ञाने हि कथं भेदाभेदैकविषयिणी चिन्ता। कर्मबहुत्ववदेव ब्रह्मबहुत्वं न चेह संभवति ॥६॥ कथमेकस्मिन्बह्मणि विज्ञानानि ह्यनेकरूपाणि। अन्यविधेऽपि ह्यर्थे कथमन्यविधं मवेदिद ज्ञानम्॥७॥

Page 268

२६४ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

ब्रह्मण्येकस्मिन्नपि तानि बहून्युत्पिपादयिषितानि। तेषां तदेकमेवाभ्रान्तं भ्रान्तानि चेतराणीति ॥८।। वेदान्तेष्विह सर्वेष्वपि दुर्वारो भवेदनाश्वासः । तस्मात्कर्तुमशक्या ब्रह्मणि विज्ञानभेदशङ्गेयम्॥९॥ नैवेह चोदनाद्यविशेषात्तदभेदवर्णनं युक्तम्। ब्रह्मज्ञानं यस्मादचोदनालक्षणं विनिर्दिषमू ॥१० ॥ अविधिप्रधानवाक्यैस्तज्जन्यत इति समन्वये तस्मात्। विज्ञानभेदचिन्ता न कर्तुमत्रोचितेति चेन्मैवम् ॥ ११॥ सविशेषविषयकेयं चिन्ता प्राणादिविषयका च तथा। तद्विषये विज्ञाने चिन्ता सेयं हि भवति युक्ततमा ॥१२॥ कर्भवदुपासनानां भेदाभेदी यतोऽतर संभवतः। दृष्टादृष्टफलानि हि कर्भवदेतान्युपासनान्यपि च ॥ १३॥ क्रममुक्तिसाधनान्यप्युपासनानीह कानिचित्सन्ति। सम्यग्ज्ञानद्वारा साक्षान्मुक्तिप्रयोजनानि तथा ॥ १४ ॥ तेष्वेषा खलु चिन्ता तत्तद्वेदान्तवाक्यनिर्दिष्टम्। ब्रह्मज्ञानं यदिदं किं भिन्नमभिन्नमेव वेत्येवम्॥१५॥ यदि भिन्नं विज्ञानं गुणोपसंहारकारणं नेह। तत्रैतद्विज्ञानं प्रतिवेदं भिन्नमिति तु युक्ततमम् ॥१६॥ यस्माज्जैमिनिना किल शाखाभेदेन कर्मभेदे हि। नामादिहेतवः किल ये निर्दिष्टास्त एव चेहापि।। १७।। नाम च रूपं धर्मविशेष: पुनरुक्तिरपि च निन्दा च। प्रायश्चित्तमशक्ति: समाप्तिरन्यार्थदर्शनं चेति ॥१८॥ तत्र च नाम्नस्तावन्द्ेदप्रतिपत्तिहतुता दृष्ा। ज्योतिष्टोमपरेऽस्मिन्नथैष इत्यादिवेदवाक्ये हि॥ १९॥ ज्योतिष्पदं द्विवारं पठितं तत्कर्ममेदमाचट्टे। वेदान्तान्तरविहितेष्वपि विज्ञानेषु भिन्नमिन्नं हि॥ २० ॥ नामेह तैत्तिरीयकमपि वाजसनेयकं च कौथुमकमू। शाट्यायनकं चेति हि तेन च विज्ञानभेद इह मवति ॥२१॥ यश्वापि रूपभेद: स कर्मभेदस्य बोधको दृष्टः। अत्रैव वैश्ववेव्यामिक्षा वाजिभ्य एवमादौ हि। २२ ॥!

Page 269

तृतीयपादः २ ] माष्यार्थरत्नमाला। २६५

पञ्चाग्निगोचरायां विद्यायामपि च हश्यते स खल। केचिसु षछमग्रिं ह्यन्ये त्वग्नीन्पठन्ति पञ्चैव ।२३॥' प्राणानां संवादेऽप्येवं केचित्पठन्ति वागादीनू। ऊनानधिकान्केचित्तेन च विज्ञानभेद इह युक्तः॥२४ ॥ योऽसौ धर्मविशेषः स कर्मभेदस्य साधको हष्टः। कारीर्यध्ययने किल ये च स्युस्तैत्तिरीयकास्तेषाम्॥२५॥। भूमौ भोजनरूपो धर्मः सोऽयं हि सवति नान्येषाम्। तन्राSSथर्वणिकानां शिरोव्रतं धर्म इति हि निर्दिष्टम् ॥२६ ॥ अन्येषां तद्मावाद्विद्याभेद: प्रतीयते तेन। पुनरुक्त्यादय एवं विद्याभेदप्रदर्शनार्थाः स्युः ॥२७॥ तस्मात्प्रतिवेदान्तं विज्ञानं भिन्नभिन्नमेवेति। एवं प्राप्ते बूते विज्ञानमभिन्नमेव तत्रेति ॥२८॥ सकलैरपि वेदान्तैविज्ञानानि प्रतीयमानानि। तत्तद्वेवान्तेष्वपि तानि न भिन्नानि किंत्वभिन्नानि ॥ २९॥ यस्माज्च चोदनामिरविशेषोऽत्र प्रतीयते तस्मात्। इह चोदना विधायकशब्दः पुरुषप्रयत्नरूपो वा॥३०॥

सूत्रपपश्चिता ये ह्यमदहेतव इहानुकृष्यन्ते ॥ ३१ ॥ धात्वर्थार्वच्छिन्नो यत्नोऽसी चोदनाऽत्र निर्दिष्ा। सा खल्विहाग्निहोत्े शाखामेदेपि तुल्यरूपैव ॥ ३२ ॥ जुहुयादिति प्रतीयत एवं प्राणाद्युपास्तिवाक्येऽपि। ज्येष्ठं च श्रेष्ठं चेत्यादौ छन्दोगवाजिशाखायामू॥३३॥ सा चोदनैकरूपा दष्टान्तेन च न मेदशङ्काऽन्। ज्येष्ठश्व श्रेष्टश्र स्वानां भवतीति वाक्यनिर्दिष्म् ॥३४ ॥ फलमपि तुल्यं तद्वद्विज्ञानस्यास्य रूपमपि तुल्यम्। ज्यैश््यभ्रेध्ठ्यादिगुणैर्यदन्वितं प्राणतत्व्रमिह रूपमू॥ ३५।। विज्ञानस्य च रूपं विज्ञेयं द्रव्यदेवते हि यथा। यागस्य या समाख्या साऽपि समा प्राणविद्येति॥३६।। तस्माद्विज्ञानमिदं शाखामेदेऽप्यमिन्रमेव स्थात्। विद्यान्तरेषु पञ्चाभनिपभृतिष्वेवमखिलमपि योज्यम्॥३७॥ २४

Page 270

२६६ सुत्ह्मण्यविरचिता- [ १ तृतीयाध्यायस्य-

ये भेदहेतवः किल नामाद्या दर्शिता हि पूर्वत्र। ते परिहता न नाम्नेत्याद्येन प्रथम एव काण्डे हि। ३८॥ अत्रापि परिहरिष्यति भेदान्नेत्येवमादिसूत्रेण। भेदान्नेति चेन्नैकस्यामपि।२॥ ननु सकलनिगमगम्यं विज्ञानमभिन्नमिति हि यञ्चोक्तम्॥३९॥ पञ्चाग्न्युपासनादी गुणभेदान्न्ोपपद्यते तदिदम् । विद्यायामेतस्यां के चित्षषठं समामनन्त्यग्रिम॥४० ॥ पश्चैवाग्रीनपरे छन्दोगा: किल पठन्ति न च षठ्ठम्। कथमुभयेषामेषामेका विद्योपपद्यते तत्र ।। ४१॥ नाप्यत्र शक्यते हि प्रत्येतुमसी गुणोपसंहारः । अपि च तथा प्राणानां संवादे श्रेष्ठवर्जिताश्चतुरः ॥४२॥ छन्दोगा: प्राणान्वाचं चक्षुः श्रोत्रमामनन्ति मनः । वाजिन इह रेतो वै प्रजापतिरितीह पञ्चमं त्वन्यम् ॥४३॥ वैद्यमपि भिन्नमेव ह्यावापोद्वापभेदतो माति। वेद्यस्वरूपभेदे विद्याभेदोऽत युक्त इति चेन्न ॥४४॥ विद्यायाभेकस्यामेवंजातीयको हि गुणभेदः। युक्तो यद्यपि पष्ठस्याग्नेरुपसंहृततिर्न चेह स्यात् ॥४५॥। भवतु तथाऽपपि न विद्याभेदोऽसावत्र शङ्कितुं शक्य: । द्युप्रमुखाः पञ्चाग्नय उयत्र प्रत्यभिज्ञया हि समाः ॥४६॥ न हि षोडशिनो ग्रहणाग्रहणाभ्यां भिद्यतेऽतिरात्रोऽसौ। अग्रय एव हरन्तीत्येवं पष्ठाग्निमपि पठन्त्येते ।। ४७।। वाजसनेयिन इह खल्वग्रिषु सांपादिकेषु पञ्च्सु च। समिदादिकल्पनाया अनुवृत्ताया निवृत्तये चैवम्॥४८ ॥ अग्निर्भवति समित्समिदित्यन्तं वाक्यमामनन्ति हि ते। तस्माच्छन्दोगैरप्युपसंहतुँ हि शक्यते स गुणः ।। ४९॥। न हात्र पञ्च संख्याविरोधशङ्काSपि मवति युक्ततमा । सांपादिकाग्न्यभिप्रायैवैषा भवति पञ्चसंख्याऽत्र ॥। ५० ॥ प्राणादपासनेष्वप्युपसंहारोऽधिकस्य न विरुद्धः। रेतस आवापोडयं छान्दोग्ये नैव दृश्यते किंतु।। ५१ ॥

Page 271

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २६७

वाजसनेयक एव च्छान्दोग्ये भवति तस्य चोद्धाप:। नेतावन्मात्रेण हि विद्याभेदोऽत्र शङ्कितं शक्य: ।। ५२॥। बेद्यांशस्य च कस्यचिदावापोद्वापयास्तथवेह। प्राचुर्येणाभेदापगमान्नैवेह मिद्यते विद्या॥ ५३ ॥ स्वायाध्यस्य तथात्वेन हि समाचारेऽधिकाराच सववच्च तन्नियमः ॥ ३ ॥ यच्चाSSथर्वणिकानां विद्यां प्रति किल शिरोव्रतं विहितम। अन्येषां न तथेति हि विद्याभेदोऽत युक्त इत्युक्तम्॥ ५४ ॥ तत्तु न युक्तं यस्मात्स्वाध्यायस्यैव भवति धर्मोऽयम्। नासी विद्याधर्मो यतस्तथैवावगम्यते तदिदम् ॥५५॥ आथर्वणिका इदमपि वेद्व्रतरूपमुपदिशन्त्यत्र। ने हि समाचाराख्ये ग्रन्थे स्वाध्यायधर्मरूपतया ॥५६॥ नैतद्चीर्णव्रत इति वाक्यं यञ्चोपदर्शित तत्र।

निर्धार्यते तदेतत्स्वोपनिषद्धीतिधर्म एवेति। ननु तेषामिति वाक्ये व्रतमिह विद्याङ्गमेव निर्दिष्टम्॥५८॥ अध्ययनधर्म एतत्कथमिति नवेह शङ्कितुं शक्यम्। तत्रैतामित्यस्मात्प्रकृतस्यैव हि भवेत्परामर्शः ॥५९॥। इह च प्रकृतो ग्रन्थस्तत्संयोग्येव भवति धर्मोऽयम्। अत्र घ सववच्चेति हि निदर्शनं स्याद्यथा सवा: सप्त ॥ ६० ॥ सौयाद्य: शतौदनपर्यन्ता विश्वुता हि ते च किल।

कित्वाथर्वणिकैकाग्न्यभिसंबन्धाच्च ते नियम्यन्ते। आथर्वणिकानामेवेत्येवमिहापि यस्त्वयं धर्मः ॥ ६२॥ अध्ययनशब्दयोगात्तत्रैव नियम्यते न विद्यायाम्। तस्मादिवमनवद्यं विद्येकत्वं यदेतदुपदिष्टम् ॥६३॥ दर्शयति च॥४॥ वेदयैकत्वादेव च विद्यैकत्वं हि दर्शयति वेद:। सर्वे वेदा इति खल तथैतेमेवति वेद्भागोऽपि॥ ६४॥

Page 272

२६८ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

एवं कठवह्व्यामपि महन्यं वञ्रमेवमाद्येन। वाक्येन चेश्वरस्य हि मयहेतुत्वं यदेतदुपदिष्टम् ॥,६५॥ तस्यैव तैत्तिरीयेऽप्यथ तस्येत्यादिना परामर्शः । एवं वाजसनेयकवाक्ये वैश्वानरो यथैवोक्तः ॥ ६६ ।। प्रादेशमात्ररूपश्छान्दोग्येडपि च तथैव निर्दिष्टः। यस्त्वेत मेवमाद्यैस्तस्मात्सर्वत्र मवति विद्यका ॥६७॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥ वेदान्तेष्वखिलेष्वपि विज्ञानं त्वेकरूपमुपदि्म। विज्ञानैकत्वे यत्प्रयोजनं तदिह वर्ण्यते सूत्रे ॥ ६८ ॥ विज्ञानैकत्वे किल ये चान्यत्रोपदर्शिता हि गुणा:। उपसंहर्तव्यास्ते सर्वत्रैव च समानविज्ञाने ॥ ६९॥ अर्थाभेदादित्ययमुक्तार्थस्यैव साधको हेतु: । यश्चैकत्र गुणाना विशिष्टविद्योन्भवो भवदेषः ॥।७0 ।। ये चाग्निहोत्रधर्मा विधिशेषा: श्रुतिषु दर्शितास्तेषाम्।

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ वाजसनेयिब्राह्मणवाक्यं ते हेति दृश्यते तत्र। सत्त्वैकवृत्तिरूपा देवा असुरान्रजस्तमोरुपान् ॥ ७२ ॥ उद्गीथकर्मणा तानतीत्य देवत्वमाशु गच्छाम: । इति निश्चित्य हि देवा ऊचुस्त्वं न इति वाचमादौ हि॥ ७३ ॥ तत एते देवा: किल वागाद्या असुरपाप्मना विद्धा:। इति निन्दित्वा मुख्यं प्राणं त्वं न इति तत्र तानूचुः।७४ ॥ तच्छत्वा तत एप प्राणस्तेभ्यस्तथोद्गायदिति। छान्दोग्येऽपि तथैव प्रक्रम्य ततस्तदेतदुपदिषम् ॥७५॥ उद्गीथमुपासांचककिर इत्यवसानमथ ह इत्यादि। उमयत्रापि प्राणप्रशंसनं तुल्यमेव भाति यतः ॥७६॥। तेन प्राणस्येयं विद्या स्यात्तत्र संशयो भवति। किंवा विद्याभेदो विद्यैकत्वमिह मवेदिति वा ॥७७॥ तन्र च विद्यैकत्वं पूर्वन्यायेन युक्तमाभाति। प्रक्रमभेदान्नन्विह विद्यैकत्वं कथं भवेद्यक्तम् ॥७८॥

Page 273

भयपाद: ३ ] माष्यार्थरत्नमाला।

वाजिमिरुपदिष्टोऽसी प्राणश्रोद्गीथकर्तृमावेन। उद्गीथत्वेनैव च्छन्दोगैः प्राण एष निर्दिक्टः ॥७९॥ कथमियमेका विद्या स्यादिति चेन्नैष दोष इह भवति। एतावन्मात्रेण च न हि विद्यैकत्वमपगतं भवति॥८० ॥ यस्मादविशेषोऽपि हि बहुतर उपलभ्यतेऽयमुमयत्र। देवासुरसङ्गामोपक्रमणं ह्यमुरविजयतात्पर्यम्॥८१॥ उद्गीथोपन्यासस्तथैव वागादिकीर्तनं चापि। तन्निन्दया च मुख्यप्राणस्यास्य व्यपाश्रयस्तद्वत् ।। ८२।। तद्वीर्यासुरलय श्राश्मादिनिदर्शनेन चेत्येवम्। बहवोऽर्थो उयत्राष्यविशिष्टा एव चोपलभ्यन्ते ॥ ८३ ॥ सामानाधिकरण्यं श्रुतमुद्गीथेन वाजिवाक्येऽपि। प्राणस्येष उ वेति च्छन्दोगानां तथोपनिषदिह [हि]।८४॥ अस्योद्गीथपदस्य च लक्षयितव्यं हि मवति कर्तृत्वम्। तस्माद्विदयैकत्वं वाजिच्छान्दोग्यशाखयोरिति चेत् ।। ८५ ।। न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७॥ इह विद्याभेद: स्याद्विदयैकत्वं हि न न्याय्यम्। हेतुप्रकरणभेद: प्रक्रमभेदात्मको हि भवतीह ॥ ८६॥ छान्दोग्ये खल्वादावोमित्येतदिति वाक्यमुपलब्धम्। अक्षरमुद्गीथमुपासीतेत्योंकारमत्र निर्दिश्य॥८७॥ रसतमतादिगुणोपव्याख्यानं चापि तत्र कृत्वैव। अथ खल्वेतस्योपव्याख्यानमितीह पुनरषि ह्येनम्॥८८॥ उद्गीथावयवात्मकमोंकारान्तं किलानुवृत्यैव। देवासुरवृत्तान्तद्वारा तं प्राणमिति हि निर्दिष्म् ॥८९॥ यदिदं वाक्यं तत्र च यद्युद्गीथो हि सकलभक्ति: स्यात्। तस्था: कर्तोद्वाताऽप्युपरुध्येत ह्युपक्रमे सोऽयम्॥९०॥ स्याल्लक्षणा तदाडत्र ह्युपसंहारोऽप्युपक्रमायत्तः । तेनोद्रीथावयवे ह्योंकारे प्राणदृष्टिरिह वाच्या।। ९१॥ वाजसनेये चोद्गीथावयवग्रहणकारणाभावात्। सकलैव सामभक्तिहंद्रीथपदेन बोध्यते तत्र ।९२॥। उद्घायेत्यपि तस्पा: कर्ता ह्यृत्विक्च योडयमुद्गाता।

Page 274

२७० सुब्रह्मण्यविरचित।- [ ३ तृतीयाध्यायस्य-

स खलु प्राणत्वेन हि निरूप्यत इतीह भिन्नगतिरेषा॥ ९३॥ सामानाधिकरण्यं यञ्चोद्गीथेन तत्र निर्दिष्टम्। तदपि प्राणस्योद्गातृत्वेन निदर्शयिषितरूपस्य ॥ ९४॥ सर्वात्मत्वप्रतिपत्त्यर्थमतो नेह सवति विद्यैक्यम्। उद्गीथभाव इव पुनरुद्गातृत्वं ह्युपासनार्थंतया ॥९५॥। उपदिश्यते यतोऽसावुद्गाता प्राणवीर्यमालम्ब्य। औद्ान्रकर्म कुरुते तस्मान्नेहास्त्यसंभवाशङ्का॥ ९६॥ वाचा प्राणेनासावृद्रायेदिति हि वर्णितं चैतत्। भेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण॥ ९७॥ नैव समानार्थत्वाध्यवसानं स्याद्यथाऽभ्युदयवाक्ये। त्रेधेति वाक्यमुक्तं तथैव पशुकामवाक्यमुपिष्टम् ॥९८॥ त्रेधा तण्डुलकरणं तथैव चैतन्यदेवतापनयः । उभयत्र तुल्यमेतत्तथाऽपि यागो विभिद्यते तत्र ॥ ९९॥ पूर्वत्र देवतान्तरविनियोगो नैव कर्मभेद: स्यात्। उत्तरवाक्ये तु पुनर्यागान्तरमेव दर्शितं तत्र ॥ १०० ॥ प्रथमे किलाभ्युदेति त्रेधेत्येवं ह्युपक्रमो दृष्टः। उत्तरवाक्ये यः पशुकाम: स्यादित्युपक्रमो भवति ॥१०१॥ सोडमावस्यामिष्ट्रवेत्यनेन यागान्तरं च तत्रोक्तम्। एवमुपक्रमभेदात्तत्र यथा यागभेद उपदिष्ः ॥ १०२॥ तद्वदुपक्रमभेदाद्विद्याभेदोऽत्र भवति युक्ततरः। अत्र च परोवरीयस्त्वादिवदिति दर्शितो हि दृष्टान्तः ॥ १०३॥ उद्गीथे परमेश्वरदृष्ट्यध्यासे समानरूपेऽपि। आकाशो ह्ोवैभ्यो ज्यायानित्यादिवाक्यनिर्दिष्टम् ॥१०४ ॥ तत्तद्ठुणसंवलितोद्गीथोपासनमिति प्रसिद्धं यत्। अक्ष्यादिगतहिरण्यश्मश्ृत्वहिरण्य केशता दिगुणैः ॥ १०५॥ अथ य इतिवाक्यदृष्टादुद्गीथोपासनाद्यथा भिन्नम्। शाखायामेकस्यां नेह यथा स्याद्गुणोपसंहारः॥ १०६॥। शाखान्तरस्थितेष्वप्युपासनेष्वेवमनुपसंहारः। संज्ञातश्रेत्तदुक्तमस्ति तु तदपि ॥८ ॥ नन्विह संज्ञैकत्वाद्विद्येकत्वं हि युक्तमाश्रयितुम्॥१०७ ।

Page 275

तृतीयपादः ३ ] माष्यार्थरत्नमाला। २७१

उमयत्राष्यकैव हुद्गीथोपासनेति संज्ञेयम्। इति चेदेतस्योत्तरमुक्तं प्राक्किल न वेतिसूत्रेण ।। १०८॥ शुत्यनुगतं हि तत्स्यात्संज्ञैकत्वं भ्ुतेर्बहिर्मूतम्। तज्च प्रसिद्धमेदासूपास्तिषु हि प्रदर्शितं पूर्वम् ॥ १०९ ॥ इह चाग्िहोत्रदर्शप्रमृतीना हि प्रसिद्धमेदानाम्। काठकपठितानां किल काठकसंज्ञा मवत्यसावेका ॥ ११० ॥ तदद्िहापि मविष्यति संज्ञा यत्र तु न भेदहेतु: स्यात्। संवर्गोपास्त्यादिपु विद्यैकत्वं हि तत्र तेन स्यात् ॥ १११॥ व्याप्तेश्र्व समअ्जसम् ॥ ९ ॥ अत्र च्छान्दोग्ये खल्वोमित्येतदिति वाक्यमुपदिष्टम् । अक्षरमुद्गीथमुपासीतेति च तत्र दृश्यते वाक्यम् ॥११२॥ सामानाधिकरण्यं त्विहाक्षरोद्गीथशब्दयोर्द्ष्टम्। तेनात्राध्यासो वा किंवाऽप्यपवाद उत तदेकत्वम् ।११३॥ किंवा विशेषणं स्यादिति संदेहे विचार्यते तदिदम्। अध्यासो नामायं यत्र च वस्तुद्ये हि बुद्धिस्ते ॥ ११४ ॥ अनिवर्तितात्मबुद्ावेकस्मिन्नन्यबुद्धिरेव स्यात । नामप्रतिमादो वा यथा भवेद्ह्मविष्णुबुद्धिरियम् ॥ ११५॥ एवममिहाक्षरबुद्धि: स्यादुद्गीथे किमक्षरे वा स्यात्। उद्गीथबुद्धिरिति पुनरपवादो यत्र पूर्वनिर्दिष्टे॥ ११६ ।। पूर्वनिविष्टायां खलु बुद्धौ मिथ्येति निश्चितायां या। पश्चादुपजाता किल यथार्थबुद्धिरहिं पूर्वसिद्धायाः ॥ ११७ ॥ मिथ्याबुद्धिर्भवति हि निवर्तिका सैव चायमपवादः । देहेन्द्रियसंघाते चाऽडत्ममतिः किल चिरंतनीया स्यात् ॥११८॥ सा चाSडत्ममात्रगोचरयथार्थबुद्ध्या निवत्यते हि यथा। एवमिहाक्षरबुद्ध्या चोद्गीथमतिस्तथैव तद्बुद्धया॥११९॥ - अक्षरबुद्धिर्वेय निवत्यत इति ह्यवश्यमिह वाच्यम्। उद्गीथाक्षरपद्योरेकत्वं ह्यनतिरिक्तवृत्तित्वम् ॥१२०॥ मूदेवोऽसी बाह्मण इत्यादौ दृष्टमेतदेकत्वम्। सामान्यवाचकस्य च विशेषपरता विशेषणं प्रकृते॥। १२१॥ यत्सर्ववेद्साधारणमोमित्यक्षरं हि तस्येह। ग्रहणापत्तावौद्गात्रे विषये तत्समर्पणं यदिदम् ।।१२२॥।

Page 276

२७२ सुब्ह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

नीलं यदुत्पलं स्यात्तदानयेत्यत्र दृष्टमेतत्स्यात्। य इहोद्गीथोंकारस्तमुपासीतेति योजनेह स्यात् ॥१२३॥ सामानाधिकरण्ये विमृश्यमाने त एत इह मान्ति। तत्रान्यतरावधृती कारणविरहाद्निश्चये पठति ॥१२४ ॥' व्याप्तेश्रेति चशब्दम्तुशब्दतुल्यार्थको मवेदत्र। स हि पक्षत्रयनिरसनफलो यतस्ते त्रयो निरस्यन्ते॥ १२५॥ तत्र विशेषणपक्षी निरवद्य इतीह गृह्यते नान्य:। अध्यासे किल तावद्यद्बुद्धिर्यदि परत्र चाध्यस्ता ॥। १२६ ॥। तच्छब्दलक्षणाऽपि च फलमपि कल्प्येत यदुचितं तत्र। आपयितेति श्ुतमपि फलं तदाप्त्यादिदृष्टिफलमेव ॥ १२७ ॥ अध्यासे तु यथा वा न फलं किंचित्तथाऽपवादेऽपि। मिथ्याज्ञानापायो न चेह पुरुषार्थसाधको भवति ॥१२८॥ नाप्यत्र वस्तुतत्त्वप्रतिपादनपरमिदं भवेदाक्यम्। किंतूपासनविधिपरमेतद्वाक्यं ततो न युक्तोऽयम् ॥१२९ ॥ एकत्वपक्ष इह यदि पद्द्योच्चारण वृथैव स्यात्। एकेनैव पदेन हि विवक्षितार्थः समर्प्यते यस्मात ॥१३० ॥ न च होत्रविषयभूतोंकारे हुद्गीथशब्द इह दृष्टः। नैवेह सकलभक्तावोंकारस्य प्रसिद्धिरपि दष्टा ॥ १३१॥ तेन विशेषणपक्षः परिशेषादेष गृह्यते नान्यः । इह सर्ववेद्साधारणमक्षरभेतदिति विचार्यैव ॥१३२ ॥ उद्गीथेनाक्षरमिह विशिष्यते तेन सकलमुपपन्नम्। नन्वेतस्मिन्पक्षेऽप्युद्वीथपदस्य लक्षणा तुल्या ।। १३३ ॥। यस्मादुद्गीथपदं ह्यवयवलक्षकमितीह वक्तव्यम्। सत्यं हि लक्षणायामपि किल दृष्टो हि संनिकर्षोऽत ॥। १३४ ॥ अध्यासे चार्थान्तरवुद्धिश्व्वार्थान्तरे विनिक्षिप्ता। तेनेह विप्रकृष्टा भवतीय लक्षणा हि तत्पक्षे ॥ १३५॥। अत्र विशेषणपक्षे ह्यवयविवचनेन गृह्यतेऽवयवः। इति मवति संनिकर्षो लोके समुदायवाचका: शब्दाः ॥१३६॥ अवयवमात्रपरास्ते पटनगरादिषु तथेव दृश्यम्ते। तस्माद्यासेर्हैतोरोमित्यस्याक्षरस्य भवतीद्म् ॥१३७।

Page 277

तृतीयपाद: ३] भाष्यार्थरत्नमाला। २७३

उद्गीथमिति विशेषणमत इह सकलं समख्जसं मवति। सर्वाभेदादन्यत्रेमे ॥ १० ॥ प्राणानां संवादे छन्दोगानां च वाजिनां च तथा ॥ १३८ ॥ श्रैष्ठ्यादिगुणविशिष्टप्राणस्योपास्यता विनिर्दिष्ा। वागादृषो वसिष्ठत्वादिगुणैरन्विता हि तत्रोक्ताः ॥ १३९॥ ते च वसिष्ठत्वाद्याः प्राणे प्रत्यर्पिता हि पुनरपि च। यद्वाऽहमिह वसिष्ठस्त्वमिह वसिष्ठोऽस्यथापि तेनेति ॥१४० ॥ अन्येषां कीषीतकिमुख्यानां प्राणकरणसंवादे। प्राणश्रेष्ठ्य कथित न वसिष्ठत्वादयो गुणास्तत्र ॥ १४१। क्वचिदुक्ता हि वसिष्ठत्वादय एते गुणा: किमन्यत्र। अस्येरत्षुत नास्येरन्निति सदेह एष मवति यतः ॥१४२॥ एवं विद्वान्प्राणे निःश्रेयसमिति पठन्ति वाक्यं ते। एवंशब्देन च खलु वेद्यं वस्त्विह निवेद्यते किमपि ॥१४३॥ एवंशब्द: संनिहितालम्बो दृश्यते हि सर्वत्र। शाखान्तरपठितं गुणजातं नार्हति निवेदयितुमेष: ॥१४४।। यस्मात्स्ववाक्यदर्शितगुणैनिराकाङ्क्षमेव तद्दृष्टम्। हत्याक्षेपे प्राप्ते प्रतिवचनं तस्य चैवमाचष्टे॥ १४५॥ अस्थेरन्क्वचिदुक्ता वसिष्ठताप्रभृतयो गुणा एते। अन्यत्रापि च सर्वाभेदादेवं प्रतीयते ह्येतत् ॥ १४६ ॥। सर्वत्रैवाभिन्नं प्रतीयते प्राणविषयविज्ञानम्। संवाद्वाक्यमेतत्स्वरूपमुपलभ्यते हि सर्वत्र ॥ १४७॥ यदि विज्ञानमभिन्नं तदा कुतोऽन्यत्र ते हि नास्येरन्। नन्वेवंशब्दोऽयं स्ववाक्यनिर्दिष्मेव गुणजातम् ॥१४८॥ वेद्यत्वाय समर्पयतीत्युक्तं कथमिहैवमिति चेन्न। कोषीतकिवाक्यगतेनैवशब्देन वाजिवाक्यगतम् ॥१४९॥

एवमपि वाजिशाखीयैवंशब्डेन परिगृहीतं तत् ॥ १५० ॥ न हि परशाखागतमप्यभिन्नविज्ञानसक्तगुणजातम्। तत्रैव च स्वशाख्रागताद्विशिष्येत कथमिदं शास्त्रे ।। १५१ ॥ श्रुतहानिरध्ुतार्थप्रकल्पना वा न चेह संभवति। एकत्र च श्रुता ये ते सर्वत्र ्ुता मधन्त्येव । १५२॥

Page 278

२७४ सुबह्मण्पबिरचिता- [३ तृतीयाष्यायस्य-

न हि देवदत्त एक: शौर्यादिगुणैः स्वदेशविखयातः। देशान्तरे विभावितशौर्यगुणोऽप्यतद्रुणो मवति ॥१५३ ॥ परिचयवशतो देशान्तरे गुणास्ते यथा विभाव्यन्ते। अभियोगादेवैते गुणाश्र शाखान्तरे तथाऽस्येरेन् ॥१५४॥ तस्मादेकत्रोक्ता गुणा य एकप्रधानसंबन्धा:। उपसंहर्तव्यास्ते सवत्रैवेति निश्चितं मवति॥१५५॥ आनन्दादयः प्रधानस्य ॥ ११॥ ब्रह्मप्रतिपादनपरवेदान्तेषु प्रदर्शिता हयोते। आनन्दरूपता विज्ञानघनत्वं च सर्वगत्वमपि ॥१५६ ॥ सर्वात्मत्वमितीदृग्विधा: क्वचिद्रह्मणो गुणास्तत्र। पत्र श्रूयन्ते ते प्रतिपाद्याः कि भवन्ति तत्रैव ॥१५७ ॥ किंवा सर्वत्रैते प्रतिपाद्या इति तु भवति संदेह:। प्राणस्य विशेषोऽसाविति युक्त: भाग्गुणोपसंहारः।।१५८।। ब्रह्मापास्तविशेषं तद्द्वितीयमिति दर्शितं भुत्या। तत्र च शाखान्तरगतपदोपसंहारकारणं न भवेत् ॥१५९॥ इत्याशङ्कां निरसितुमिदमधिकरणं प्रदर्शितं मुनिवा। आनन्दृत्वादीनि ब्ह्मण्येतानि कल्पितान्येवे ॥१६० ॥ तद्भिव्यअ्ञकवृत्तिप्रभेदतस्तानि मान्ति भिन्नानि।

उच्चारणं यदेतत्सर्वत्रैवकवाक्यमावेन। तेन च तद्धर्मार्णां विरोधशङ्का निवर्तिता मवति ॥१६२॥ उपसंहृतानि तानि च पदान्यखण्डं हि लक्षयन्ति परम्। एकस्मिन्हि पढ़े न हि विरोधशक्का न लक्षणावतरः॥१६३॥ धर्मा आनन्दादय इह ये ते ब्रह्मण: प्रधानस्य। धर्मास्तस्मादेते प्रतिपत्तव्या भवन्ति सर्वत्र ॥१६४॥ पूर्वाधिकरणदर्शितनिदर्शिताङक्रवति तदुपसंहारः। व्र ह्मैक्या दानन्दत्वादीनां ननु यथोपसंहारः॥। १६५॥ सर्वत्र सगुणविद्यागतधर्माणां तथा स किं न स्यात्। ये तैत्तिरीयके हि प्रियशीर्षत्वादयो विनिर्दिष्टाः ॥१६६।। उपसंहारस्तेषामपि युक्तो ब्रह्मणीत्पतः पठति।

Page 279

तृतीबपाद: २ ] माष्यार्थरत्नमाला। २७५

प्रियशिरस्त्वायभाप्तिरुपचयापचयौ हि भेदे ॥ १२॥ प्रियशीर्षत्वादीनां धर्माणां तैत्तिरीयकोक्तानाम् ॥१६७ ।। नान्यत्र प्राप्ति: स्याद्यत एते हयुपचितापचितरुपाः। इह चोपचयापचयौ सति मेदे सगुण एव संभवतः ॥१६८। ब्रह्म तु निरस्तभेदं श्रुतिवाक्यैरेकमित्युपन्यस्तम्। तरतममावोपेता निर्भदे प्राप्तुयु: कथं हीमे॥१६९॥ ब्रह्मात्मका न चैते ब्रह्मज्ञानोपयोगिनो नापि। एते हि कोशधर्मा एवेत्येतत्प्रपश्चितं पूर्वम्॥१७० ॥ अपि च परस्मिन्व्ह्मणि चित्तावतरणनिमित्तरूपतया। परिकल्पितास्त एते तस्मान्नान्यत्र भवति तत्याप्तिः ॥।१७१ ।। आलम्मयैतान्धर्मानिह सूत्रे न्यायमात्रमुपदिष्टम्। स च निश्चितेशधर्मेषूपास्तय इह किलोपदिघेषु । १५२।। संयद्वामत्वाविषु नेतव्य: सत्यकामतादिषु च। सत्येयोपास्यैक्ये प्रक्रमभेदादुपासनामेद:।।१७३॥। तेनेतरधर्माणां न भवेदितरत्र कथमपि प्राप्तिः । छत्रेणैका नारी नृपमेकसुपासते यथा लोके।। १७४ ॥ अपरा तु चामरेण हि तत्रोपास्ये ह्यमिन्नरूपेऽपि। मवति छुपासनाया भेदो धर्मव्यवस्थितिश्वापि॥ १७५॥ एव मिहोपचितापचितगुणत्वं सगुण एव संभवति। कचिदुक्तसत्यकामत्वादीनां प्राप्तिरपि न सर्वत्र ॥१७६।। इतरे त्वर्थसामान्यात् ॥१३॥ आनन्दाद्य इतरे प्रतिपाद्यस्य हि परस्य चैकत्वात्। सर्वत्रेव च ते स्युर्बह्ज्ञानपयोजना हि यतः॥१७७॥ आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ इह चेन्द्रियेम्य इति किल काठकवाक्यं हि दश्यते तत्र। अर्थाद्यो हि पुरुषान्ता हि परत्वेन वर्णिता: अुत्या॥१७८॥ तन्न च संदेहोऽयं किं ये ह्यर्थादयो विनिदिष्टाः। ने सर्वेऽपि ततस्तत हह तु परत्वेन वेदनीया: स्यु: ॥१७९॥ किंवा परमात्माऽसी सर्वपरत्वेन वेदनीय इति। मत्र च सर्वेषामप्यर्थादीनां परत्वमिह वेद्यम् ॥ १८० ।

Page 280

२७६ सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

तस्मात्तस्माद्ि परं यस्माच्छ्रृतिरेव बोधयत्येषा। अत्र परत्वेनार्थादिषु बहुषु प्रतिपादयिषितेषु॥ १८१ ॥ सिद्धे हि वाक्यभेदे न चैकवाक्यत्वमङ्गशङक्का स्थात्। तस्मादर्थादीनां प्रत्येकपरत्वकथनमिह युक्तम् ॥१८२ ॥ इति शक्कासंप्राप्तावेतत्सूत्रं प्रदर्शितं भवति। इह सर्वेभ्योऽपि पर: पुरुष: प्रतिपाद्यत इति युक्तं स्यात्॥१८३॥ प्रतिपन्नेषु परत्वेनान्येषु फलं न किंचिदपि हष्टम। सर्वेभ्योऽपि परस्मिन्प्रतिपन्ने पुरुष इह फलं मोक्ष: ॥। १८४ ॥ श्रुतिरपि निचाय्य तमिति ज्ञानफलं मोक्षमेव दर्शयति। अपि चेह पुरुषविषये ह्यनल्पमादरमियं प्रदर्शयति ॥ १८५।। पुरुषान्न परमिति श्रुतिरितरप्रतिषेधकाष्ठशब्दाभ्याम्। पुरुषप्रतिपत्यरथेवैषा पूर्वोक्तिरिति हि दर्शयति ॥१८६॥ आध्यानायेतिपदं तत्राऽडध्यानं हि दर्शितं भवति। आध्यानपूर्वकं किल सम्यग्दर्शनमिहोपदिष्टं स्यात् ॥ १८७ ॥ आत्मशब्दाच् ॥ १५॥ इह चेन्द्रियाद्यः किल पुरुषप्रतिपत्तये विनिर्दिश्ाः। यस्माविहैष सर्वेष्वितिश्रुतिः पुरुषमात्मशब्देन ॥ १८८॥ निर्दिश्य चेतरेषामनात्मतामेव सूचयत्येषा। तस्य च दुर्बोधत्वं संस्कृतमतिगम्यतां च दर्शयति ॥१८९॥ तज्ज्ञानायाऽडध्यानं यञ्चेदित्यादिना विनिर्दिष्टम्। अपि चेह सोऽध्वनः पारमिति च निर्दिश्य परमपद्मेततू॥१९०॥ तद्वोधनाय देहेन्द्रियाद्यनुक्रमणमा्तं भवति। तस्मादात्मप्रतिपत्त्यर्थों ह्याम्नाय एष इति सिद्धम् ॥ १९१॥ आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ इह चैतरेयके खल्वात्मा वेत्यादिवाक्यसुपलब्धम्। अम्मःप्रमृतीनामिह लोकानां सृष्टिरात्मनोऽभिहिता ॥१९२॥ अन्राऽSत्मशब्द्बोध्य: पर एवाऽडत्माSथ वेतरः कश्चित्। इति संदेहे नासी परमात्मेत्येव युक्तमिह वत्तुम्॥१९३॥ यद्यपि चेक्षणपूर्व स्रषृत्वादिकमिहास्य निर्दिष्टम्। एवमप्रि लोकसृष्टिस्त्वादावेवेह दर्शिता यस्मात् ॥१९४॥

Page 281

तृतीयपाद: २] माष्यार्थरत्नमाला। २७७

तस्मादपर: कश्वित्स्ष्टाऽसौ मवति नैष परमात्मा। स्रष्ा परमात्मा चेत्पञ्चमहामूतसृष्टिरिह वाच्या ॥१९५॥ नैवेह भूतसृष्टिः प्रदर्शिता किंतु लोकसृष्टिरिह। ते संनिवेशरूपा लोका: सर्वेऽपि पञ्चभूतानाम्॥१९६॥ बूते चाम्भ:प्रभृतीह्वीँकत्वेन ह्ययोडम्म इत्याद्या। स्याल्लोकसृष्टिरेषा परमेशाधिष्ठितेन पुरुषेण ॥ १९७॥ आत्मैवेद्मिति श्रुतिरपि पुरुषविधं तमेतमाचष्टे। स्मृतिरषि स वै शरीरी प्रथम इति ह्येतमर्थमाचषटे॥१९८॥ इह चैतरेयिणोऽपि ह्यथात इत्यादिकेन कथयन्ति। देवादिसृष्टिमखिलां रेतोमूलां प्रजापतिप्रसृताम् ॥ १९९॥ आत्मवेद्मिति श्रुतिरस्थैवाऽSत्मत्वमपि च दर्शयति। जगतः प्रागुत्पत्तेरात्मैकत्वावधारणं यद्पि।। २०० ।। तत्स्वविकारापेक्षं हीक्षणमपि तस्य चेतनत्वेन। उपपन्नमपि च ताभ्यो गामानयदेवमादिको भूयान् ॥२०१॥ व्यापारोऽपि च लोके विशेषवत्सु प्रसिद्ध इह माति। तस्मादात्मेह स्याद्विशेषवान्कश्विदित्यतो बूते॥ २०२॥ अत्रोपदिश्यते किल परमात्मा सोयमात्मशब्देन। तस्माद्वा एतस्मादात्मन आकाश एवमाद्येषु॥ २०३॥ सृष्टिश्रवणेष्वितरेष्वात्मा हि परो यथा तथेहापि। लोकेऽपि चाऽऽत्मशब्दात्प्रत्यग्रूपो हि मुख्य आत्मैव ॥ २०४ ॥। परिगृह्यते यथा वा तथैव चेहापि भवितुमर्हति हि। यत्र च पुरुषविध इति हि विशेषणं किमपि दृश्यते तत्र ॥२०५। मधतु विशेषवदात्मग्रहणं नात्र तु तथाऽस्ति किंचिदृपि। ईक्षणपूर्वकसृष्ट्युपदेशादपि गृह्यतेऽत्र परमात्मा ॥ २०६ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ १७॥ नन्वेतस्मिन्वाक्ये निर्दिष्टा लोकसृष्टिरादौ हि। साडपि च रेतःपूर्वा कथिता सेयं प्रजापतिप्रभवा ॥२०७॥ वाक्यस्यैतस्य स्यात्तात्पयं हि प्रजापतौ युक्तम्। पूर्वन्र पुरुषवाक्यादर्थादिपरस्य वाक्यजातस्य ॥ २०८॥ मेदापत्तिमयेन ह्यतदर्थकतैव तस्य निर्दिषा। तद्वद्वेतो देवा इति पूर्वस्मादिहास्य वाक्यस्य ॥ २०९॥

Page 282

२७८ सुबह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

भेदापत्यैतस्य च तात्पय स्यात्प्रजापतौ युक्तम। इति चेन्मैवं यस्मादृवधारणमेतदृत्र निर्दिष्टम्॥ २१० ॥ आदाविहाऽडत्मशब्दः प्रागेकत्वावधारणं च तथा। ब्रह्मपदं प्रज्ञानं बह्मेत्युपसंहृतौ च दृष्टमतः ॥ २११ ॥

बाधेनास्मिन्धाक्ये प्रत्यग्बह्मैव गृह्यते नान्य: ।। २१२॥। पल्लोकसृष्टिवचनं तद्पि श्रुत्यन्तरानुगुण्येन। पञ्चमहामूतानां सृह्युत्तरभाविसृष्टिपरमेव ॥ २१३॥ छान्दोग्यतैत्तिरीय कवाक्येषु च सृष्टिवचनभेदेऽपि। योजनयैकार्थत्वं यथोपपन्नं तथेव चेहापि ॥ २१४॥ व्यापारोऽपि च योऽसी ताभ्यो गामानयदिति विख्यातः। सोऽपि च विविक्षितार्थानुगुणत्वेनैव संग्रहीतव्य: ।। २१५॥ सकल: कथाप्रबन्धो न विवक्षितविषय एप भवति यतः। तत्प्रतिपत्ताविह खलु पुरुषार्थो नोपलभ्यते कश्िवित् ॥ २१६॥ इह च ब्रह्मात्मत्वं विवक्षितमिति प्रतीयते येन। अम्भःप्रभृतीनां किल लोकानां लोकपालकानां च।। २१७॥ अग्न्यादीनां सृष्टिं शिक्ष्वा करणानि चाऽडयतनमेषामू। उपदिश्य देहमेतं स्रषा हि स एव कथमिदं मदृते ॥ २१८॥ स्यादिति वीक्ष्य शरीरं प्रविवेशेति श्रुतिः प्रदर्शयति। नैषा स एतमेवेत्याद्या हीत्थं प्रवेशमुपदिशति ॥२१९॥ पुनरपि यदि वाचाऽमिव्याहृतमित्यादिना च करणानाम्। तत्तद्यापारानवि विवेचयित्वाऽथ कोऽहमिति वीक्ष्य ॥ २२०॥ एतं त्वमर्थमेव ब्रह्म व्याततमयमपश्यदिति। श्रुतिरिह स एतमेवेत्याद्या ब्ह्मात्मतां प्रदर्शयति ॥२२१॥ उत्तरवाक्यं यदिदं ह्वेष वह्मौष इन्द्र इत्यादि। तेन महाभूतैः सह समस्तमपि मेदजातमनुकीत्य ॥२२२॥ सरवं तत्पज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं हीति। प्रज्ञानं ब्रह्मेति ह्यन्ते ब्रह्मात्मतामियं बूते ।। २२३ ॥ तस्मादिहायमात्मा मवति परात्मैव नान्य इति सिद्धम्। एतम्मिन्व्यारूयाने न हि स्फुट: स्पाद्गुणोपसंहारः॥। २२४॥।

Page 283

तृतीयपाद: ३] माष्यार्थरत्नमाला। २७९ न हि पादसंगतिः स्यादिति हि व्याख्यान्तरं प्रदर्शयति। आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ वाजसनेयक एतद्वाक्यं दृष्ट हि कतम आत्मेति ॥२२५॥ योडयं विज्ञानमयः प्राणेष्वित्यादिना च तत्रैव। हद्यन्तर्ज्योतिरसौ पुरुषो निर्धारितश्र तस्यैव ॥। २२६ ॥ उपदिश्य सर्वसंगतिमुक्तत्वं बह्मरूपता बूते। उपसंहारोऽपि स वा एष महानज इतीह दृष्टोऽयम् ॥२२७ ॥ छान्दोग्ये तु सदेवेत्येतद्वाक्यं ह्युपक्रमे दृष्टम्। तत्र हि न चाऽडत्मशब्दः स खल स आत्मेत्युदर्क एवास्ति॥२२८॥ तत्त्वमसीत्याद्यैरवि तादात्म्यं चोपदिशति तत्रैव। तुल्यार्थत्वं वा स्यात्किमतुल्यार्थत्वमेतयोरिति हि॥ २२९ ॥ संदेहे सत्यनयोः प्राप्तमतुल्यार्थकत्वमुचितमिति। आम्नानयोद्वयोरण्यतुल्यतैव प्रतीयते यस्मात् ॥ २३०॥ न ह्याम्नाने विषमे युक्तं स्यादर्थसाम्यमिह वक्तुम्। वाजसनेयकवाक्यं ह्युपक्रमस्थात्मशब्द्योगेन ।। २३१॥ सकलमपि चाऽडत्मतत्वप्रतिपत्तिपरं प्रतीयते वाक्यम्। छान्दोग्ये तूपक्रमविपर्ययात्तद्विपर्ययो भवति ॥२३२ ॥ यद्यप्युपसहारे तत्राप्युपदिष्टमेव तादात्म्यम् । सत्यं तथाऽप्युपक्रमतन्त्रोडयं स्यादिहोपसंहारः ॥। २३३॥ तस्मात्तत्वमसीति स्यात्संपदुपास्तिपरमिदं वाक्यम्। इत्याक्षेपप्राप्तावस्य प्रतिवचनमत्र निर्दिशति॥२३४॥ छान्दोग्येऽपि सदेवेत्यत्र परात्मैष गृह्यते नान्यः। आत्मग्रहीतिरियं स्याद्यथेतरेषां हि वाजिनां तदत् ॥ २३५॥ यस्मादिहोत्तरत्र च तादात्म्यं समुपदिश्यते भूय: । अन्वयादिति चेत्स्यादवधारणात् ॥ १७॥ इह चोपक्रमवाक्ये न चाऽडत्मशब्दो हि दृश्यते सोऽयम्॥ २३६॥ उपसंहृतिवाक्यं यत्तदिरद भवति ह्युपक्रमायत्तम्। तस्मादात्मगृहीतिः कथमित्यस्योत्तरं हि भवतीद्म् ॥ २३७ ॥ आत्मगृहीतिरिहापि स्यादत्र यतोऽवधारणं दृष्म्। येनाश्ुतमितिषाक्यादेकज्ञानेन सर्वविज्ञानमू॥ २३८॥

Page 284

२८० सुन्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य

अवधार्येह सदेवेत्येतत्तत्संपिपादयिषयोक्तम् । आत्मगृहीतौ सत्यां तदेतदखिलं समख्जसं नोचेत्।। २३९॥ मुख्यो योऽसावात्मा स न विज्ञात इति कथमिदं युक्तम्। एवं प्रागुत्पत्तेः सत एकत्वावधारणं यञ्च ।| २४० ॥ जीवस्य चाऽडत्मशब्देन परामर्शः सुषुप्त्यवस्थायाम्। सत्संपत्यनुकीर्तनमपि च परिप्रश्नपूर्वकं च पुनः ॥ २४१॥ तत्वमसीत्यवधारणमेतत्तादात्म्यबोधने युक्तम्। तादात्म्यसंपदीदं पूर्वोक्तं सकलमनुपपन्नं स्यात् ॥ २४२॥ नेहोपक्रमतन्त्रत्वोपन्यासोऽपि वति युक्ततरः। आत्मत्वकीर्तनं वाऽप्यनात्मताकीर्तनं च नेहास्ति ॥ २४३॥ सामान्योपक्रम इह स वाक्यशेषगविशेषसाकाङ्क्षः। सच्छब्दार्थोऽपि तथा विमृश्यमानस्तु मुख्य एवाऽडत्मा ॥२४४॥ सच्छन्दोडसौ दृष्टो भावावधिभूतवस्तुपर एव। वाचारम्मणशब्दादिभ्य: सर्वस्य चामृतत्वेन । २४५।। सच्छब्दार्थो मुख्यः परमात्मा स्यान्न चान्यदिह वस्तु। आम्नानविषमताऽपि हि न चार्थवैषम्यमावहत्यत्र ॥ २४६॥ आहर पात्रं तदिदं पात्रमिहाऽडहर तदेतविति वाक्ये। आम्नानविषमतायां सत्यामप्यर्थसाम्यमुपलब्धम्॥२४७॥ कथितो हि वाजिवाक्ये त्वमर्थ एव तु तदर्थपर्यन्तः। छान्दोग्ये तु तदर्थस्त्वमर्थपर्यन्त एव निर्दिष्टः॥२४८।। प्रतिपादनप्रकारे भिन्नेऽपि तदर्थतस्त्वभेदेन। एकैषेयं विद्या युक्तो ह्यत्र च गुणोपसंहारः ॥ २४९॥ कार्या्ख्यानादपूर्वम् ॥१८॥ छन्दोगा अपि वाजिन एते हि प्राणकरणसंवादे। आम्नाय प्राणस्य श्वक्रिमिमर्यादमन्नमादौ हि॥ २५० ॥ तस्यैव प्राणस्य ह्यापो वासः समामनन्त्येते। छन्दोगास्तस्माद्वा एतदिति पुनः समामनन्तीह ॥२५१॥ प्रागुपरिष्टादृद्भि: परिदधतीत्येवमादि तत्रोक्तम्। वाजसनेयिन हह किल विद्वांस: श्रोत्रिया अशिष्यन्तः ।२५२।।

Page 285

तृतीयभदः १] माष्यार्थरत्नमाला। २८१

आचामन्तीत्यादिकमेतद्वाक्यं समामनन्त्यत्र । अशिशिषतामशितव तामाचमनमनग्रचिन्तनं चापि। २५३॥ प्राणस्य दृश्यते किल किमेतदुमयं विधीयते किंवा। आचमनमेव केवलमनग्नताचिन्तनं विधीयेत ॥ २५४॥ इति संदेहे तत्रोमयं विधीयत इति प्रशस्तं हि। उमयमपि गम्यमानं तद्वदपूर्व ततो हि विध्यर्हम्॥२५५॥ केवलमाचमनं वा विस्पष्टविधिविभक्तिरत्र यतः । आचमनस्तुत्यर्थं ह्यनग्रताकीर्तनं भवेदत्र ॥२५६ ॥ एवं प्राप्ते बूते नैवाSSचमनं विधेयमत्रेति। कार्यत्वेनाऽSचमनं शुद्धयर्थतया स्मृतिप्रसिद्धं हि॥२५७॥ न च विध्यहं तस्मादत्रान्वाख्यायते किलाSडचमनम्। नन्वेषा श्रुतिरस्या: स्सृतेर्मवेन्मूलमिति तु न हि युक्तम् ॥२५८॥ इह मूलमूलिमावो योऽसौ न विभिन्नविषययोर्भवति। सर्वेषामाचमनं शुध्धर्थं स्मृतिरियं प्रदर्शयति ॥ २५९॥ या प्राणविषयविद्यापकरणपठिता श्रुतिर्हिं सा चेह। तद्विषयमेव केवलमाचमनं विद्धती विदध्यात्तत् ॥ २६० ॥ न प्राणविषयविद्यासंयोग्याचमनमिह विधेयमिति। नैवाSSभरयितुं शक्यं पूर्वस्थेवोपलभ्यमानत्वात् ॥ २६१॥ न विधेयमुमयमत इदमुभयविधाने हि वाक्यभेद: स्यात्। तस्मात्स्मृतिनिर्दिषटं प्रायत्यार्थं यदेतदाचमनम् । २६२॥ अशिशिषतामशितव तामनूदय तत एतमेव तदनमिति। आचमनीयास्वप्सु ह्यनग्रताचिन्तनं हि विद्याङ्गम् ॥२६३॥ उपदिश्यते हि यस्मादपूर्वमेतत्ततो हि विध्यर्म्। आचमनस्तुत्यर्थो ह्यनग्नतावाद इति तु न न्याय्यम् ॥२६४ ॥ आचमनविध्यभावे स्तुत्यर्थत्वं कथं मवेत्तस्य। किंच विधेयत्वमपि ह्यनग्नताचिन्तनस्य भातीह ।।२६५।। प्रायत्यार्थत्वं किल परिधानार्थत्वमिति तु या चास्य। एकस्याऽडचमनस्योभयार्थता सेह नाभ्युपेतेह ॥ २६६ " यस्मादाचमनं तत्पायत्यार्थ क्रियान्तरं मवति। आचमनीयास्वप्मु च वास:संकल्पनं क्रियाऽन्पैव ॥। २६७।। २६

Page 286

२८२ सुब्रह्मण्य विरचिता- [ ३ सृतीयाध्यायस्य-

परिधानार्थं प्राप्पस्याभ्युपगम्यत इतीद्मनवद्यम्। अपि चेह पूर्ववाक्यं यदिदं ह्या श्वभ्य आ क्रिमिभ्य इति ॥२६८॥ तेन च सर्वान्नाभ्यवहारश्रोद्यत इतीह न हि युक्तम्। नासौ हि शब्दलभ्यः स शक्यते नाषि मानुषैः कर्तुम् ॥ २६९॥ किंतु प्राणस्थान्नं सकलमितीहान्नद्ृष्टिरुपदिष्या। तत्साहचर्यतोऽस्मिन्नापो वास इति वाक्यशेषेऽपि॥२७० ॥ तदिदमपामाचमनं न चोद्यते किंतु सुप्रसिद्धासु। आचमनीयास्वप्सु हि विहिता परिधानदृष्टिरिति युक्तम्॥२७१॥ यदि चात्रैवं न स्यात्तदा भवेदर्थवैशसं प्रकृते। पूर्वत्र ध्यानविधिस्तदुत्तरत्र क्रियाविधिश्चेति ॥२७२॥ अपि चाऽडचामन्तीति हि नायं शब्दो विधिक्षमो मवति। लट्ूप्रत्ययो यतोऽसी स वर्तमानाभिधायको दृक्षः ॥२७३॥ यद्यपि च वर्तमानार्थताऽत्र मन्यन्त इति हि तुल्यैव। सत्यं तथाऽपि वास: कार्याख्यानाद्विधीयते तदिदम् ॥२७४॥ वास:संकल्पनमिद्मपामपूर्व न चाSडचमनमेतत्। आचमनं हि तदेतत्पूर्ववदिति दर्शितं हि पूर्वत्र ॥२७५ ॥ यज्चोक्तं ह्याचमने विस्पष्टा विधिविभक्तिरिति तद्पि। आचमनस्यैतस्य प्रत्युक्तं पूर्ववत्त्वलिङ्गेन ॥ २७६ ॥ अत एव चेह काण्वास्तस्मादेवमिति नाऽडमनन्तीह। कुर्वन्तो मन्यन्त इति ह्यत्रैव च किलाध्यवस्यन्ति ॥२७७॥ तस्मादिह माध्यंदिनपाठे चानूद्य तदिद्माचमनम् । एवं वासोवित्वं विधीयत इतीह युक्तमाश्रयितुम् ॥२७८॥ आपो वास इतीयं दृष्टा वाक्यप्रवृत्तिरेकैव। तस्माद्विधेयमत्र च वासोविज्ञानमेतदिति सिद्धम् ॥२७९॥ समान एवं चाभेदात् ॥ १९ ॥ वाजसनेयकशाखायामग्निरहस्यसंज्ञके ग्रन्थे। झ्ञाण्डिल्यनामकलिता काचन विद्या प्रदर्शिता भवति ॥२८० ॥ तत्र स आत्मानमुपासीतेत्यादि प्रदर्शितं वाक्यम्। तत्र च मनोमयत्वं प्राणशरीरत्वमात्मनस्तस्य ।। २८१।। मारूपतेति चैते श्रूयन्ते किल गुणास्तथैवान्ये। शाखायामेतस्यां वृहदारण्ये पुनश्र पठितमिद्म् ॥ २८२॥

Page 287

तृतीयपाद: ३] माष्यार्थरत्नमाला। २८३

वाक्यं मनोमयोडयं पुरुषो मा: सत्य एवमाद्यं हि। स च पुरुषोऽन्तर्हदये वीहियवाभ्यां समो हि तत्रोक्त:॥। २८३॥ स हि सर्वस्येशानः सर्वाधिपतिः प्रशास्ति सर्वमिदम्। यदिदं किंचेत्यन्ते तस्मिन्वाक्ये प्रदर्शितः पुरुषः ॥२८४॥ तत्र किमग्निरहस्ये बृहदारण्ये भवेदसावेका। विद्या तत्र गुणानामुपसंहारोऽथ वा किमन्यैव ॥ २८५॥ विद्या तत्र गुणानुपसंहारक्रेति भवति संदेहः। तत्र च विद्याभेदो गुणव्यवस्थेति युक्तमाभाति ॥२८६ ॥ यद्येका विद्येयं भवति तदा पौनरूक्त्यमनिवार्यम्। मिन्नासु च शाखासु हि वेदित्ध्येतृभेदमालम्व्य ।। २८७ ।। परिहत्य पानरुक्त्यं विद्यैकत्वं च तत्र निर्धार्य। उपसंह्नियन्त एते गुणा इहान्यत्र येऽतिरिक्ता: स्युः ॥ २८८ ॥ प्राणेन्द्रियादिसंवादादिष्वेवं हि द्शितं पूर्वम्। एकस्यां शाखायां वेदिवध्येतृभेदबाधेन ॥ २८९ ॥ जाग्रति च पौनरुक्त्ये कथमिह विद्याभवेदसावेका। एकं विद्याविधिपरमपरं स्यादत्र गुणविधानार्थम्॥ २९०॥ इत्याम्नानविभागाद्विदयैकत्वं न वक्तुमिह युक्तम्। तर्ह्यतिरिक्ता एव ह्याम्नायेरन्गुणा इहान्योन्यम् ॥ २९१॥ इह च समाना अपि ते ह्याम्मायन्ते मनोमयत्वाद्याः। तस्मादिह नान्योन्यं गुणोपसंहार इत्यतो बूते ॥। २९२॥ शाखासु विभिन्नास्वपि विद्यैकत्वं गुणोपसंहारः। मवति यथैवैकस्यां शाखायामपि तथैव मथतीदम् ॥ २९३॥ यस्मादुपास्यमेतन्मनोमयत्वादिगुणकमुभयत्र। ब्रह्माभिन्नं प्रत्यभिजानीमोडतो न भिद्यते विद्या ।२९४।। रूपामेदे सत्यपि विद्याभेदो न शक्कितुं शक्यः । यस्मादुपासनाया रुपमुपास्यं न चान्यदिह किंचित् ॥२९५॥ ननु पौनरुक्त्यमीत्या विद्याभेदोऽत्र युक्त इति चेन्न। अर्थ्रविभागेनोभयमप्याम्नानं हि मवति युक्तमिह ॥२९६॥ विद्याविधिपरमेकं त्वपरं गुणविधिपरं भवेदिति हि। नन्वेवं सत्यपठितमग्निरहस्ये स एष इत्यादि॥२९७॥

Page 288

२८४ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

पठितव्यमेतदेव हि बृहदारण्ये तु यञ्च तत्रान्यत्। पठितं मनोमयोऽयं पुरुषो मा इति तु नैव पठितव्यम्॥२९८॥ इति चेन्नायं दोषो विद्या या विप्रकृष्टदेशस्था। अत्र समानगुणान्नानबलात्तां प्रत्यभिज्ञाप्य । २९९।। तस्यामीशानत्वाद्युपदिश्यत इति हि सकलमनवद्यम्। श्रूयन्ते यत्र गुणा बहवस्तत्र प्रधानविधिरेव॥ ३०० ॥। अन्यत्र तदनुवादाद्रुणविधिरेव हि न च प्रधानविधिः । बृहदारण्ये गुणविधिरग्निरहस्ये प्रधानविधिरेव॥ ३०१॥ अप्राप्तांशार्थतया वाक्यं यत्रार्थवत्तरं तत्र। प्राप्तपरामर्शः किल भवति हि नित्यानुवाद इति तेन ।। ३०२ ॥ तस्मान्नोपेक्षितुमिह शक्या स्यात्प्रत्यमिज्ञैषा। एकस्यां शाखायां विद्यैकत्वं गुणोपसंहारः॥ ३०३॥ संबन्धादेवमन्यत्रापि ॥ २० ॥ अत्र च बृहदारण्ये सत्यं ब्रह्मेति चोपदिश्याSडदौ। तद्यत्तत्सत्यमसावित्याद्यं वाक्यमेतदाम्नातम् । ३०४ । तस्य च सत्यस्यास्य ब्रह्मण एवाधिदेवमध्यात्मम्। आयतनभेदमुपदिश्य व्याहृतिदेहतां च संपाद्य॥३०५॥ द्वे उपनिषदावादिश्येते तस्योपनिषदिहाहरिति। अधिदैवं हि तथैवाध्यात्मं तस्योपनिषदिहाहमिति ॥३०६ ॥ तत्र च संदेहोऽसावुपनिषदी थे प्रदर्शिते भवतः । अविभागेनैवैते किमुमे उमयत्र चानुसंघेये॥३०७॥ एकाऽधिदैवमपरा त्वध्यात्ममितीह किं विभागेन। इति संदेहे तदिदं सूत्रेणैव हि निरुप्यते सपदि। ३०८॥ शाण्डिल्यसंज्ञिकायां विद्यायां किल गुणोपसंहारः। यद्वत्तद्वदिहापि च गुणोपसंहार एष युक्ततमः ॥ ३०९॥ एका हि सत्यविद्या किलाधिंदैवं तथैव चाध्यात्मम्। अन्राधीता यस्मादुपक्रमश्ाप्यभिन्न इह हक्षः॥३० पाठश्र व्यतिषक्तो हष्टस्तस्मात्कथं ह्ययं धर्मः। तस्यामुदिति: सन्नपि न स्यात्तस्यामितीदमुचितं स्थात् । ३११॥ योऽप्याचारश्रोदित इहानुगमनादिरूप आचार्यैः । ग्रागमतेऽरण्यगते स घ तुल्यवदेव भवति न विभिन्नः ॥। ३१२॥

Page 289

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २८५

तस्मादुमयोरप्युपनिषदोरुमयत्र मवति संबन्धः। एवं प्राप्ते तमिमं पक्षं संप्रति निराकरोतीह॥ ३१३॥ न वा विशेषात् ॥२१॥ नैवोमयोस्तयोरियमुभयत्र प्राप्तिरत्र युक्ता स्थात्। स्थानविशेषनिबन्धो यत एतस्यामुपासनायां स्यात्॥३१४ ॥ एतस्मिन्मण्डल इति निर्दिश्य ह्याघिंदेविकं पुरुषम। उपनिषद्हरित्येवं आ्रावयति हि दक्षिणेऽक्षिपुरुषं हि॥ ३१५॥ आध्यात्मिकं प्रकृत्याहमिति च तस्योपनिषदुपन्यस्ता। तस्येति सर्वनाम च संनिहितालम्बनं हि सर्वत्र ॥ ३१६॥ सस्मादायतनविशेषालम्बने [नं] ह चोपदिश्येते। एते उपनिषदाविति कुत उभयत्रैतयोर्भवेत्पाप्तिः।।३१७। नन्वेक एव पुरुषो भवति ह्यधिदैवभेवमध्यात्मम्। ब्रह्मण एकस्यैव च सत्यस्याऽडयतनयुग्ममुपदिषमू॥३१८॥ इति चेदेकस्यापि हि तत्तदवस्थाविशेषयोगेण। उपनिषदुपदेशोऽसावहरहमिति किल विशेषतो हष्टः ॥३१९॥ तस्मादुपनिषदेषा तद्वस्थस्यैव भवति युक्ततमा। आचार्यस्यैक र्पाप्यनुवर्तनमिह यथा विभिन्न स्यात् ॥ ३२० ॥ तत्तिश्ठ्तो हि न भवेदासीनस्यानुवर्तनं यत्स्यात्। यत्तिष्ठत उपदिष्टं न तदासीनस्य भवति तद्ददिह ॥ ३२१ ॥ यञ्च स्वरूपमात्रानुबद्धधर्मो मवेदिहाऽडर्यस्य। तस्य ग्रामारण्यविशेषाभावेन तुल्यवद्मावः ॥३२२॥ अत इह दृष्टान्तोऽयं न प्रकृतार्थेकसाधनो मवति। तस्मादुपनिषदोरिह युक्तैव स्यात्तयोर्व्यवस्थेयम्॥३२३॥ दर्शयति च । २२॥ अपि चैवंजातीयकधर्माणां स्याद्व्यवस्थितत्वमिति। दर्शयति लिङ्गनमेतत्तस्यैतस्य हि तदेव रूपमिति ॥३२४॥ विद्यैक्यादेव यदा गुणोपसंहार इह मवेत्तर्हि। तस्पैतस्य तदेवेत्यतिदेशोडयं वृथैव तत्र स्यात् ॥३२५॥ तस्माद्विद्यैक्येऽपि स्थानं भिन्नं यथा मवेसन्र । अतिदेशादेव स्यादणोपसंहार इति हि सिद्धमिह ॥। ३२६ ॥।

Page 290

२८६ सुबझण्य विरचिता- [ ३ तृतीयाध्यायस्य-

तस्यैतस्येत्यादाव तिदेशबलाद्रुणोपसंहारः। उपनिषद्हरित्यादौ तद्सत्त्वात्ते व्यवस्थिते मवतः ॥ ३२७॥ संभृतियुव्याप्त्यपि चातः ।। २३।। ब्रह्मज्येष्ठा वीर्येत्याद्या राणायनीयशाखायामू। श्रुतिराम्नाता तत्र ब्रह्म ज्येष्ठत्वगुणकमुपदिष्टम् ॥ ३२८॥ वीर्याणि संभृतानि प्रदर्शितान्यस्य तत्पुनर्बह्म। प्राग्देवाहयुत्पत्तेर्द्युलोकमेतें समाततानेति ॥ ३२९ ॥ एषा खिलेषु पठिता ब्रह्मविभूतय इमाश्र तत्रोक्ता: । तेषामेवोपनिषदि शाण्डिल्यपदाङ्गिताश्र परविद्याः॥३३० ।। पठिता हि तासु किमिमा: संभृत्याद्या विभूतयो यास्ताः । उपसंगृद्येरत्रुत नेति विचारे तदेतदिह पठति ॥३३१ ॥ संभृत्यादिविभूतय इह शाडिल्यादिसंज्ञविद्यासु। आयतनभेद्योगादुपसंहतुं न ता हि शक्यन्ते ॥ ३३२ ॥ शाण्डिल्यदहरवाक्ये हृदयायतनत्वमस्य निर्दिष्टमू। उपकोसलविद्यायामक्ष्यायतनत्वमेव तस्योक्तम् ॥३३३ ॥ आध्यात्मिकमायतनं प्रतीयते ह्येवमासु विद्यासु। संभृत्यादिविभूतय एताः केवलमिहाऽडधिंदेविक्यः ॥३३४॥ श्रूयन्ते न त्वेतास्वपि च विभूतय इहाSडधिदैविक्यः । ज्यायान्दिव इत्यादावेष हि सर्वेष्विति श्रुतिष्वपि च ॥। ३३५॥ यावान्वा अयमाकाश इति श्रुतिषु च तथा प्रतीयन्ते। सन्त्यायतनविहीना: षोडशकलसंज्ञिकाश्र परविद्याः॥३३६॥ तस्मात्संभृत्यादेरुपसंहारोऽत्र युक्त इति चेन्न । संभृत्यादेरत्रानुपसंहारेऽस्ति कारणं किंचित् ॥३३७। कतिपयसमानगुणसक्तोपास्यैक्ये हि भवति विद्यैक्यम्। तत्किल गुणोपसंहृतिकारणमेतन्न हश्यते प्रकृते ॥३३८॥ तदभावात्संभृत्याछ्युपसंहारो न चेह संभवति। अन्रोपास्यैकत्वं विद्यैकत्वे नियामकं न भवेत् ॥३३९॥ तज्चोयास्यैकत्वं विद्याभेदेपि दृश्यते शास्त्रे। बह्मैकरूपमपि किल विभूतिभेदैरुपास्यते बहुधा ॥३४० ॥ इह किल परोवरीयस्त्वादी दृष्टो ह्युपासनामेद:। तस्माद्विधैकत्वं यदिदं तत्मत्यमिज्ञयैव स्यात्। ३४१॥

Page 291

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। २८७

तद्मावात्संभृत्यादीनामेतासु नोपसंहार:। पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ अस्ति रहस्यब्राह्मणसंज्ञं किल ताण्डिपैद्गिशाखासु ॥३४२॥ तत्र रहस्यब्राह्मण इयमाम्राता हि पुरुषविद्याख्या। तन्न च पुरुषो यज्ञ: कल्पित एवं तदीयमायुक्ष ॥३४३॥ त्रेधा विभज्य सवनत्रयं च यान्यशिशिषादिकान्यपि च। दीक्षाद्यात्मतया किल तानि च तत्रैव कल्पितानि तथा ॥३४४॥ आशीर्मप्तजपाद्या अन्ये धर्माश्ष तत्र निर्दिश्टाः। इह तैत्तिरीयका अपि पठन्ति कमपीह पुरुषयज्ञं हि॥ ३४५॥ तस्यैवंविदुषो यज्ञस्याऽडत्मेत्यादिकेन वाक्येन। वे ताण्डिपैद्गिवाक्यप्रदर्शिता: पुरुषयज्ञधर्मा: स्युः ॥ ३४६॥ इह तैत्तिरीयके तेऽप्युपसंहार्या न वेति संदेहे। इह पुरुषयज्ञताया उभयत्रैव च समानरूपत्वात् ॥३४७॥ उपसंहार: स्यादित्याक्षेपे तस्य चोत्तरं बूते। उपसंहतुँ नार्हन्त्येते धर्मा यतोऽन्र वैषम्यम् ॥३४८॥ इह पुरुषयज्ञकीर्तनमेकेषां ताण्डिपैद्गिनां हि यथा। न हि तैत्तिरीयकाणामाम्नानं हश्यते तथैवेह॥ ३४९॥ तेषां हि यज्ञसंपादनमितरविलक्षणं हि दृष्टमिह। पत्नीयजमानादिक मितर विलक्षणमुदाहृतं तत्र ॥ ३५० ॥ यत्प्रातर्मध्यंदिनमित्येवं सवनकल्पनं तेषाम्। इतरविलक्षणमेव हि मरणावभृथत्वसाम्यमपि यञ्च॥ ३५१॥ तदृपि ह्यल्पीयस्त्वाद्वैलक्षण्येन भूयसाडभिभवे। न च तत्प्रत्यभिसंधिक्षमं भवेन्नापि तैत्तिरीयेऽस्मिन् ॥३५२।। पुरुषस्य यज्ञमावः श्रुतोऽस्ति किंत्वत्र वाक्यमिदमस्ति। विदुषो यज्ञस्येति व्यधिकरणे एव भवति (त) इह पष्ठची।।३५३।। सामानाधिकरण्ये षश्ठ्चावेते न चेह संभवतः। न हि विदुषो यज्ञत्वं मुख्यं केनापि वक्तुमिह शक्यम्॥३५४॥ विद्वत्संबन्धी यो यज्ञस्तस्येत्यवश्यमिह वाच्यम्। आत्मा यजमान इति श्रुतिरहिं यजमानभावमुपदिश्य॥३५५॥ व्यधिकरणत्वेनैव हि विदुषो दर्शयति यज्ञसंबन्धम्। तन्र च तस्पैवमिति स्फटमनुवादश्ुतौ प्रतीतायाम् ॥३५६॥

Page 292

सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-"

पुरुषस्य यज्ञमार्व तथव यजमानभावमात्मनि च। कल्पयतस्तव चायं दुर्वारो भवति वाक्यमेद इह॥ ३५७॥ किंच ससन्यासेयं परात्मविद्या प्रदर्शिता पूर्वम्। तस्यैवंविदुष इति ह्यनुक्रमश्रेह पूर्वशेष: स्यात् ॥३५८॥ अनुवाकयोर्द्वयोरपि फलमेकमिहोपलभ्यते यस्मात्। तस्माङ्रह्मण इति हि ब्रह्मपाप्तिहिं फलमिहाभिहितम् ॥३५९॥ इतरेषां चाऽडम्नायस्त्वनन्यशेषो हि पुरुषयज्ञस्य । अत्र ह्येष ह षोडशवर्षशतं जीवतीति वाक्येन ॥ ३६०॥ फलमपि यन्निर्दिषटं तदपि च केवलमिहाऽडयुरभिवृद्धि:। तस्मादिह शाखान्तरपठितानां पुरुषयज्ञधर्माणाम्॥ ३६१॥। आशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके युक्ता। वेधायर्थभेदात्॥ २५ ॥ आथर्वणिकानामुपनिषदारम्भे स एष मन्त्रोडस्ति ॥ ३६२॥ सर्व प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिर इति हि। मन्त्रोडन्र देवसवितः प्रसुवेत्यादिर्हि ताण्डिनां दृषः ॥३६३॥ शाट्यायनिनां मन्त्र: श्वेताइ्वो हरितनील इत्यादि:। शं नो मित्रः शमिति हि भवति कठानां च तैत्तिरीयाणामू॥३६४॥ देवा इति प्रवर्ग्यब्राह्मणवाक्यं तु वाजिनां द्ृष्टम्। अभिष्टोमब्राह्मणवाक्यं यद्गह्म वेति निर्दिष्टम् ॥३६५॥ उपनिषदारम्भे किल कौषीतकिनां तदेतदाम्नातम्। अन्न प्रविध्यपूर्वा मन्त्रा: सर्वेऽपि ये च निर्दिष्ः ॥३६६॥ यानि प्रवर्ग्यपूर्वाण्यपि कर्माणि प्रदर्शितान्यत्र। विद्यासु ते च मन्त्रा: कर्माणि च यानि तत्र काथेतानि॥३६७॥ तान्युपसंगुह्यन्ते किंवा नेत्यत्र भवति मीमांसा। तत्र ह्युपसंहारो विद्यास्वेषां हि युक्त इति भाति ॥ ३६८॥ यस्मात्सर्वाण्येतान्युपनिषदामिह समीपपठितानि। यद्यपि विद्यार्थतया विधानमिह नोपलभ्यते तेषाम् ॥३६९॥ सत्यं तथाऽपि संनिधिसामर्थ्यात्तदनुमीयते हीह। नन्वेर्षा मन्त्राणां विद्याविषयं न किमपि सामर्थ्यम्॥३७०॥ कर्माणि च प्रवर्ग्यादीन्यन्यार्थे नियोजितान्येव। तस्मात्कथमेतेषामिह विद्यार्थत्वमुचितमिति चेन्न ॥३७१ ॥

Page 293

मृतीयपाद: २] भाप्यार्थरत्नमाला। २८९

सामथ्यं मन्त्राणां विद्याविषयमपि वक्तुमिह शक्यम्। मन्त्रेपु कीर्तितानि च हृदयादीनि ह्युपासनेषु किल ॥ ३७४॥ आयतनाद्यात्मतया यत उपदिधानि तेन तद्द्वारा। मन्त्राणासुपपन्नं ह्युपासनाङ्गत्वमेवमादीनाम् ।३७५।। विनियोगो मन्त्राणां दृष्ट उपास्तिषु च भूः प्रपद्य इति। कोशतया त्रैलोक्योपास्तिश्छान्दोग्यदर्श्िता तत्र ॥ ३७६ ॥ सुतदीर्घायुष्यार्थं वितुरेष प्रार्थनापरो मन्त्रः । इह कर्मणां प्रवर्ग्यादीनामप्यन्यथा नियुक्तानाम्॥३७७॥ विद्यासु च विनियोगो बृहस्पतिसवस्य वाजपेय इव। अविरुद्ध इति प्राप्ते तेपामुपसहृतिं निराचषे॥३७८॥ नैषामुपसंहारो विद्यास्वेतासु भवति युक्ततमः । हृदयं प्रविध्य धमनीरित्येतन्मन्त्रदर्शिता हयर्थाः ॥३७९॥ हृ दय प्रभेदरूप विद्यासबन्धवर्जिता भिन्नाः। न च ताभिविद्याभि: संगन्तुं तेपु भवति सामर्थ्यम्॥३८०॥ ननु हृदयमुपास्त्यङ्ग तद्द्वारा स्यादुपास्तिसंबन्ध: । इति चेन्न हृदयमात्रं ह्यापासनाङ्गं कर्थचिदत्र भवेत ॥ ३८१ ॥ हृदयप्रभेदरूपो मन्त्रार्थः कथमिहोपयुज्येत। अविचारविषय एव हि मन्बार्थोऽय प्रतीयते सकलः ॥ ३८२ ॥ तस्मादिहाऽडभिचारिक कृत्येनैवास्य भवति संबन्धः । तहच्च देव सवितः प्रसुवेत्यस्यापि यज्ञलिङ्गेन ॥ ३८३ ॥ यज्ञेन कर्मणैव ह्यभिसंबन्धो भवेन्न विद्याभिः । यः संबन्धविशेषः स हि प्रमाणान्तरेण निर्णेयः ॥ ३८४॥ मन्त्राणां चान्येषामपि केपाचित्प्रसिद्धलिङ्गेन। केषाचिद्वचने[न च ]तथा प्रमाणान्तरेण केषांचित्॥३८५।। इत्पर्थान्तरविनियुक्तानामेषा रहस्यपठितानाम्। संनिधिमात्रेणैव हि विद्याशेषत्वमनुपपन्नमिह ॥ ३८६॥। भ्रुत्यादिम्यः संनिधिदौर्बल्यं प्रथमतन्त्र एवोक्तम्। ध्रुतिरिह लिङ्गं वाक्यं प्रकरणमेतानि यानि चान्यानि ।३८७।। स्थानसमाख्यारूपाण्येतेषां स्याद्यदा हि समवायः। तत्रार्थविभ्रकर्षातसूत्रोक्तानां हि पारदीर्बल्यम्॥ ३८८॥ ३७

Page 294

१९० सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

सूत्रे समवायपदं समानविषयत्वमर्थमाचटटे। यत्र द्वयोर्विरोध: समानविषयत्वमूलको दृष्टः ॥३८९ ॥ पूर्वेण व्यवधानात्स्वार्थप्रमितौ परस्य दौबेल्यम्। इति सेंनिधिदौर्बल्यं भ्रुत्यादिभ्यः प्रदर्शितं सूत्रे ॥३९०॥ तस्मात्संनिधिमात्राद्विद्याङ्गत्वं न चेह मन्त्राणामू। इह कर्मणां प्रवर्ग्यादीनामन्यत्र संनियुक्तानाम्॥३९१॥ न हि विद्याशेकत्वं नो वा तत्र प्रमाणमपि किंचित्। य द्वह्मवर्चसाख्यं फलं बृहस्पतिसवस्य विधिटृट्म् ॥ ३९२ ।। तत्र नियुक्तस्यास्य च यथा नियोगो हि वाजपेये स्यात्। यत्कर्मणां प्रवर्ग्यादीनां विद्याद्गता तथेत्युक्त॥ ३९३॥ नैतदुक्तं हि यतो बृहस्पतिसवस्य बाजपेये हि। विधिनैव वाजपेयेनंद्ट्वत्युपदर्शिमो हि विनियोग: ॥ ३९४ ॥ एको ह्ययं प्रवर्ग्येः सकृदुत्पन्नो म तीयसाऽन्यत्र। विनियुक्त: सन्कथमिह पुनर्नियुज्येत दुर्बलेनासौ॥ ३९५॥ एवं विधिमन्त्राणां तथा प्रवर्ग्यादिकर्मणां तस्मात्। संनिधिमात्रेणैव च विद्याशेषत्वमत्र नाऽडशाङ्क्यम्॥३९६॥ संनिधिपाठो युक्तस्त्वरण्यवचनत्वधर्मसाम्येन। ह्वानौ तूपायनशब्दशेषत्वात्कुशाछन्दस्तुत्युपगान- वत्तटुक्तम् ॥ २६ ॥ अस्ति किल ताण्डिन। श्रुतिरश्व इवेत्यादिका हितत्रोक्तम्।३९७। अश्वो रोमाणि यथा पापं सकलं विधूय तद्वदहम्। राहोर्मुखात्प्रमुच्य स्पट्टश्रन्द्रो यथा तथैवेह ॥३९८॥ धृत्वा शरीरमेतन्मुक्तो देहेन्द्रियादिसंघातात्। कृतकृत्यः सन्नकृतं लोकं ब्रह्मात्मकं प्रपद्य इति ॥३९९॥ अत्राSडथर्वणिकानां श्रुतिर्यथा नद्य इति समाम्राता। ये किल शास्यायनिनस्तेषां पाठे विशेष इह कश्िवित् ॥ ४००॥। ते हि किल तस्य पुत्रा दायमिति श्रुतिभिमां पठन्त्यत्र। तहत्कौषीतकिनस्तत्सुककृतेति श्रुतिं पठन्त्यत्र ॥ ४०१ ॥ क्वचिवत्र सुकृतदुष्कृतयोरहानं भ्यते क्वचिच्च तयोः। स्थानविमामेनोपायनं प्रियैरप्रियैश्ष निर्दिषमू ॥४०२॥

Page 295

तृतीयपाद: २] माष्यार्थरत्नमाला।

हानमुपायनमुमयं क्वचिच्छृतं यत्र चोभयभ्रवणम्। तत्रावशिष्टमपरं वत्तव्यं नावशिष्यते किमपि । ४०३ ।। यत्रोपायनमेव तु केवलमुपलभ्यते हि नो हानम्। तत्राप्यर्थादेव हि संनिपतति तदिदमेतयोहनिमू॥४०४ ॥ अन्यपरिग्राह्ये यद्यात्मीये सुकृतदुष्कृते भवतः । तत्साधनभूतमिदं हानमवश्य तदाऽभ्युपेयं स्थात् ॥४०५॥ यत्र तु हानं केवलमुपदिष््मुपायनं तु नैवोक्तम्। तत्रोपायनमेतत्संनिपतेद्वा न वेति संदेहे ॥ ४०६ ॥ अश्रवणादेतस्य ह्यसंनिपातोऽत्र युक्त इति माति। शाखान्तरक्रुतियां विद्यान्तरगोचरा मवेदेषा ॥ ४०७ ॥ अपि चाऽडत्मकर्तृकं स्याद्धानमुपायनमिदं तु परकृत्यम्। असति तयो: संबन्धे हानेनोपायनं कर्थं सिध्येत् ॥ ४०८ ॥ तस्मादसंनिपातो हानावस्येत्यतस्त्वदं पठति। हानौ हि केवलायामपि श्रुतायामुपायनं तदिदम् ॥ ४०९॥ संनिपतेदिह यस्मात्तच्छब्दो हानशब्दशेष: स्यात्। तद्पेक्षितार्थंकत्वं तच्छेषत्वं हि हटमन्यत्र ॥४१०॥

विद्यान्तरविषयत्वादश्रवणात्स्यादसंनिपात इति ॥४११॥ यच्चोक्तं तद्युक्तं नैवानुष्ठेयमत्र निर्दिष्टम। हानमुपायनमपि वाऽनुष्ठेयत्वेन कीर्त्यंते नेह॥४१२॥ विद्यास्तुत्यर्थ किल हानमुपायनमिहोपदिषं हि। ये सुकृतदुष्कृते किल विदुषः संसारकारणीभूते॥४१३॥ चिरकालसंप्रवृत्ते विद्याबलतो हि ते विधूयेते। विनिवेश्येते ते किल सुहृद्द्विषत्स्वपि च तद्वलेनैव ।। ४१४ ॥ नैषा विद्या हि महाभागेति स्तूयतेऽत्र विद्यैषा। स्तुत्यर्थे चैतस्मित्तुपायनस्य क्वचिच्छरृतस्यापि। ४१५॥ हानश्रुतिसामान्येऽप्यनुवृत्तिकथा स्तुतिप्रकर्षाय। येनार्थवाद्वाक्यप्रवृत्तिरखिला तदन्तरापेक्षा ॥ ४१६॥ एकविश इतोऽसावित्यादिष्वर्थवादवाक्येषु। हषा द्वादस मासाः पञ्चर्तव इति तदन्तरापेक्षा॥ ४१७॥

Page 296

२९२ सुब्रह्मण्य विरचिता- {३ तृतीयाध्यायस्य-

येनोपेयोपायनवादो विद्यास्तुतिप्रकर्षार्थः । तेनैतस्मिन्नर्थे नाभिनिवेष्व्यमनृतमेतदिति ॥४८॥ सूते शब्दग्रहणं स्तुत्यर्थत्वप्रदर्शनार्थ स्यात्। सूत्रे विवक्षितो यदि गुणोपमंहार एव चेत्तर्हि॥ ४१९ ॥ हित्वोपायनशब्द ह्युपायनस्यैव शेषतां बूयात्।

स्तुत्युपसंहारविधिप्रदर्शनार्थं हि सूत्रमेतत्स्यात्। अत्र कुशाछन्दःस्तुत्युपगानवदिति निदर्शनं कथितम् ॥४२१॥ माललविनां हि कुशा वानस्पत्या: स्थेति मन्त्रभागेण। अविशेषेण कुशाना वनस्पतिप्रभवताश्रुतौ सत्याम् ॥४२२॥ शाट्यायनिनामौदुम्बरा: कुशा इति विशेषवचनेन। औदुम्बर्यश्र कुशा आश्रीयन्ते यथा तथवेह ॥४२३॥ अविशेषेण च देवासुरसज्ञच्छन्दसा प्रसङ्ग हि। पैङ्गयाम्नानाद्ेवच्छन्दरांस्यवधारयन्ति पूर्वाणि॥४२४॥ केषांचित्पोडशिन: स्तोत्रे कालाविशेषसंप्रात्ती। समयावि(ध्यु)पिते सूर्ये षोडशिन: स्तोत्रमेवमादिकया ॥ ४२५॥ आर्चश्रुत्या तत्र च कालविशेषप्रतीतिरुद्धवति। केचित्व विशेषण ह्युपगानमिद् समामनन्त्यत्र ॥ ४२६ ॥ भाललविनस्तु विशेषणैवेति यथा कुशप्रमुख्येषु। श्रुत्यन्तरोपदर्शितविशेषयोगो भवेत्तयैवेह ॥ ४२७ ॥ हानावुपायनान्वय इति सूत्रार्थोडत्र निश्चितो भवति। द्वादशलक्षण्यामपि जैमिनिना सूत्रितोऽयमेवार्थः ॥ ४२८॥ सूत्रं तदेतदेवापि तु वाक्येत्यादिकं हि तत्रोक्तम् । ज्योतिष्टोमप्रकरण एतद्वाक्यद्वयं समाम्नातम् ॥४२९॥ यावज्जीवं जुहयादित्यपि च न दीक्षितो जुहोतीति। प्रतिषेधार्थत्वे किल नभोविकल्पो भवेत्स चायुक्त: ॥। ४३०।। नञ्रूपर्युदासवृत्त्या स हि यावज्ीववाक्यशेष इति। अथ वैतास्वेव विधूननश्रुतिष्वेतद्त्र सूत्रेण ॥४३१॥ चिन्तयितव्यमनेन विधूननवचनेन सुकृतदुष्कृतयोः। अमिधीयते हि ह्वानं किंवाऽर्थान्तरमितीह विचिकित्सा।४३२।

Page 297

तृतीयपाद: २] माध्यार्थरत्नमाला। २९३

तत्र विधूननशब्दान्न हानमभिधीयते परं त्वन्यत्। धूञ् कम्पन इति धातोर्दोघूयन्ते द्वि(ध्व)जांशुकानीति ॥४३३॥ लोकप्रयोगदर्शनतश्चालनमिह विधूननं युक्तम्। इह चालनं तु किंचित्कालं हि तयो: फलोपरोध इति ॥४३४ ॥ एवं प्राप्ते बूते विधूननं हानमेव नान्यदिति। इह चोपायनशब्द: शेषतवेन प्रतीयते यस्मात् ॥४३५॥ न सुकृतदुष्कृतयोरप्रहीणयोः क्वाप्युपायनं हि परैः। तेनोपायनकथनात्तदनुगुणमिदं विधूननं हानम् ॥४३६॥ एतच्च संनिधाने विधूननस्य क्वचिच्छृत सपदि। भवति कुशाछन्दःस्तुत्युपगानवदिह विधूननध्रुत्या॥ ४३७॥ सर्वत्र कृतसहायं सार्वत्रिकनिर्णये हि निपुणतमम्। अद्रव्यत्वादेव तु न चालनं स्याद्विधूननं हि तयोः ॥४३८॥

द्रव्यत्वात्तत्रैव हि विधूननं चालनं न चेह स्यात ॥४३९॥

सांपराये तर्तव्याभावात्तथा हन्ये।। २७। पर्यङ्कसंज्ञिकायां विद्यायां किल समामनन्त्येते ।। ४४०॥ कौषीतकिनस्तत्र च स एतमित्यादिवाक्यमादिषमू। तत्र च स देवयामं पन्थानं प्राप्य चागगिलोकं हि। ४४१॥ आगच्छत्यागत्याSडगच्छति विरजां नदीं ततस्ता च। मनसैवात्येति ततो विधूनुते सुकृतदुष्कृते चोभे।।४४२॥ इति वर्णित किमत्र च यथाश्रुतं व्यध्वनीदमुपदिष्टम्। यत्तद्वियोगवचनं प्रतिपत्तव्यं भवेत्किमथवाऽडदौ ॥ ४४३॥ देहादपसर्पण इति विचारणायां श्रुतेः प्रमाणत्वात्। शृत्यनुसारेणैव प्रतिपत्तिरिति प्रसख्जने पठति ॥४४४॥ इह सांपरायशब्दाद्देहादृपसर्पणं हि निर्दिष्टमू। एतञ्ज सुकृतदुष्कृतहानं तत्सांपराय एव स्यात् ।। ४४५॥' विद्यासामर्थ्यादिह पञ्चम्यन्तोपदर्शितो हेतु:। विदुषो हि संपरेतस्यास्थ परं विद्ययैव संपेप्सो: ॥ ४४६॥

Page 298

२९४ सुन्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

न च सुकृतदुष्कृताभ्यां किंचित्पाप्तव्यमन्तरालेडस्ति। स्याच्चेदक्षीणे ते कल्पेयाता क्षणांश्र कतिचिदिह॥ ४४७॥ विद्याविरुद्धफलयोस्तयोश्र विद्याबलाक्योऽभिहितः। विद्या फलोन्मुखी स्याद्यदा तदैवैष भवितुमर्हति हि॥ ४४८॥ तस्मात्मागेवासी सन्नपि पश्चात्तयोः क्षयः पठितः। अन्येऽपि शाखिनो ये शाट्यायनिनश्च ताण्डिनश्रैते ॥।४४९ ॥ प्रागेव सुकृतदुष्कृतयोरुभयोर्हानमामनन्तीह। छन्दत उभ्रयाविरोधात् ॥ २८॥ देहादपसृप्तस्यार्चिरादिना प्रस्थितस्य तस्य यदि॥४५०॥ अम्युपगम्येतार्धे पथि क्षयोऽसी हि सुकृतदुष्कृतयोः। पतिते देहे च तदा तत्क्षयहेतोर्यमादिरूपस्य ।४५१॥

तद्ेतुकसुकृतादिक्षयस्य भवतीयमपरिहार्यैव ॥ ४५२॥ तस्माच्च पूर्वमेवानुष्ठानं छन्दतो भवेदस्य। तत्पूर्वकमेवेदं हानं स्यादत्र सुकृतदुष्कृतयोः ॥४५३॥ इति किल निमित्तनैमित्तिकयोरुपपत्तिरिह निराबाधा। तद्च्च ताण्डिशाट्यायनिश्रुतियुगस्य संगतिश्वाषि।।४५४। विद्यास्तुतये हानावुपायनस्योपसंहृतिः सिद्धा। गतरेर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ।। २९ ।। क्वचिदृपि च सुकृतदुष्कृतहानसमीपे हि देवयानोऽसौ॥४५५॥ पन्था: श्रूयत एवं क्वचिञ्च न भ्रयते हि तत्रायम्। संदेहः किं हानावविशेषेणैव देवयानोऽसौ ॥ ४५६ ॥ संनिपतेद्थवाऽसी क्वचिद्विभागेन कुत्रचिन्नेति। तत्र यथा हानावविशेषेणोपायनास वृत्ति: स्यात् ॥४५७॥ एवमिह देवयानानुवृत्तिरत्रोचितेत्यतः पठति। इह च विभागेनैव हि पथोऽर्थवत्वं तु देवयानस्य ॥ ४५८॥। यद्यविशेषेण गतिः सर्वत्र स्यात्तदा विरोध: स्थात्। परमं साम्यमुपैतीत्येषा भ्रुतिरेवमत्र दर्शयति॥ ४५९॥l विदुषो निरअनस्य च गन्तव्यं परमसाम्यमेवेति। गन्ता निरअनोऽसी भाळव्यं परमसाम्यमेवेह ॥ ४६०॥

Page 299

तृतीयपाद: २] माष्यार्थरत्नमाला। २९५

देशान्तराप्तिसाधनभूता च गतिर्विरुष्यते न कथम्। उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥ क्वचिदर्थवती हि गतिः क्वचिच्च नेत्येवमुमयथा मावः ।।४६१॥ उपपन्न एव सोऽयं यस्मात्तल्वक्षणार्थ इह दृष्टः। गतिसाधनमूतोऽर्थ: पर्यङ्कपभृतिसगुणविद्यासु ॥४६२॥ उपलग्यते हि तत्र तु पर्यङ्कारोहणं च संवद्नम्। पर्यक्कस्थेन समं विशिष्टगन्धाप्तिरेवमाद्यं हि॥ ४६३॥ देशान्तरसंप्राप्त्यायत्तं हि धूयते फलं यदिदम्। तत्रार्थवती हि गतिर्न तु सम्यग्दर्शने भवेदेवम् ॥४६४॥ आत्मैक्यदर्शिनां हि ध्वस्ताविद्यादिसकलबन्धानामू। आरब्धभोगकर्मव्यतिरेकेण च न किंचिदस्त्यपरम् ॥ ४६५॥ तत्र च कथं गतिः स्यात्प्रयोजनं वा न किंचिदपि तस्या:। लोकवदेष विभागो यथैव लोके हि नगरसंप्रापी ॥४६६॥ पन्था: कश्विदृपेक्ष्यो नाऽडरोग्यात्तौ तथैव चेहापि। अनियम: सर्वासामविरोधः शब्दानुमानाभ्याम्॥ ३१॥ गतिरर्थवती सगुणास्वेव हि विद्यासु निर्गुणायां तु ॥ ४६७॥ परमात्मगोचरायां विद्यार्या नेति पूर्वमुपदिष्म्। सगुणास्वपि विद्यासु हि गतिः क्वचिच्छयते क्वचिन्नेव । ४६८।। उपकासलविद्यायां तथैव पर्यङ्कसंज्ञविद्यायाम्। पञ्चाग्निविषयविद्यायामपि दहरात्मविषयविद्यायाम्॥४६९॥ गतिरियमुपदिष्टा न तु मधुविद्यायां तथेव चान्यत्र। षोडशकलविद्यायां तथैव शाण्डिल्यसंज्ञविद्यायाम्॥ ४७० ॥ वैश्वानरविद्यायां तत्र च संदेह एष जागर्ति। यासु श्रूयत एषा किं तास्वेव हि गतिर्नियम्येत ॥ ४७१ ॥ एवंविधविद्याभि: संबध्येतेयमनियमेन। तत्र च नियमो न्याय्यो यत्रैव श्रूयते गतिर्ह्येषा॥ ४७२॥ तत्रैव सेति यस्मात्प्रकरणमत्र च नियामकं हष्टम्। अन्यत्रोक्ताऽपि गतिर्गच्छेद्विद्यान्तरं यदा हि तदा ॥४७३।। सर्वं सर्वार्थं स्याच्छुतिप्रमाणत्वमपि च हीयेत। एकत्रोक्ताया अप्यन्यन्न गतेर्षदा भवेत्मात्ति: । ४७४॥।

Page 300

२९६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

उपकोसलविद्यायां तथैव पञ्चाग्निविषयविद्यायाम्। यत्वर्चिरादिकाया गतेः पुनर्वचनमनुपपन्नं स्यात् ॥४७५॥ तस्मान्नियमो युक्त: स्यादित्यत एतदुत्तरं पठति। सर्वासामभ्युद्यप्राप्तिफलानां च सगुणविद्यानाम् ॥४ 9६।। अविशेषेणैवेषा भवितुं युक्ता हि देवयानगतिः । अविशेषापगमे कथमत्र प्रकरणविरोधपरिहारः ॥ ४७७ ॥। इति नाSSशड्क्यं भवति श्रुतिस्मृतिभ्यां विरोधपरिहारः। श्रुतिरत्र तद्य इत्थ विदुरिति पञ्चाग्न्युपासकानां हि॥४७८॥ पन्थानमचिरादिकमवतार्य तथोपदिशति चान्येषाम्। ये चेमेरण्य इतिप्रकृष्टविद्यान्तरावलम्बानाम् ।४७९।। पञ्चाग्निविषयविद्यावद्भिः सममार्गतां प्रदर्शयति। नन्वेषा विद्यान्तरवतां गतिश्रुतिरितीह न हि युक्तम् ॥ ४८० ॥ श्रद्धातपःपराणा गतिरेव हि तत्र दर्शिता यस्मात्। इति चेन्नासौ दोषो विद्याबलमन्तरेण कथमपि च ।। ४८१॥ न श्रद्धयाऽपि तपसा केवलया गतिरियं हि लभ्येत। यस्माच्च विद्ययेति श्रुतिरिममर्थ प्रदर्शयत्यत्र ॥४८२॥ तद्यान्ति विद्ययव हि यत्र च कामादयः परावृत्ताः । नो यान्ति दक्षिणा वा नाविद्वांसस्तपस्विनी वेति ॥ ४८३॥ विद्यान्तरोपलक्षक एव श्रद्धातपःपदे तस्मात्। श्रद्धां सत्यमुपासत इति वाजसनेयिन: पठन्त्यत्र ॥४८४॥ सत्यं बह्मोपासत इह ये श्रद्धालवो ह्यरण्य इति। व्याख्येयं तद्वाक्यं यतश्र सर्वत्र सत्यशब्दस्य ।। ४८५।! असकृद्ब्रह्मण्येव प्रयोग उपलभ्यते हि शास्त्रेऽस्मिन्। अत्र च पञ्चाग्निविदामित्थंवित्वेन परिगृहीतत्वात् ॥४८६॥ इह परिशेषाद्विद्यान्तराश्रयाणां परिग्रहो न्याय्य: । अथ य इति श्रुतिरपरा पन्थानौ दृक्षिणोत्तरौ ये वै ॥४८७ ॥ न विदुस्ते कीटा: स्युस्तथा पतङ्गा बिलेशया वेति। मार्गद्वयच्युतानामधोगतिं ह्येवमुपदिशन्ती सा ॥।४८८॥ देवपितृयाणयोरेवैतानन्तः प्रवेशयत्येवम्। तत्रापि वेवयानप्राप्तिविद्याविशेषतस्तेषाम्।।४८९।।

Page 301

तृतीयपाद्ष: २ ] माष्यार्थरत्नमाला। १९७

स्मृतिरपि च शुक्लकृष्णे गती इति ह्येतमर्थमुपदिशति। तस्मादुपकोसलविद्यायां पञ्चाग्न्युपासनायां च॥ ४९० ॥ उभयत्र देवयानाम्नानं त्वनुचिन्तनार्थमेव स्यात्। मार्गानुचिन्तनस्य च विद्याङ्गत्वं श्रुतिस्मृतिप्रथितम् ॥४९१ ॥ येषां मार्गश्रवणं न चास्ति तेषां विनैव तद्धचानम्। विद्यासामर्थ्येन हि मार्गप्राप्तिरितिबोधनार्थमियम् ॥४९२॥ पुनरुक्तिर नियमेनार्चिरादिसप्रात्तिरपि च सिदधैव। यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२॥ गतिरत्र सगुणविद्यास्वर्थवती बह्मलोकफलकत्वात् ॥४९३॥ निर्गुणविद्यायां गतिरनर्थिका मुक्तिफलतयेत्युक्तम्। विदुषो हि देहपातोत्तरं तु देहान्तरं मवेन्नेति ॥४९४॥ इह चिन्त्यते हि नन्विह नेयं चिन्ताऽत्र मवति युक्ततमा। न हि विद्यासंपत्तौ मुक्तिविलम्बेस्ति कारणं किमपि ॥। ४९५॥ नैवेह पाकसाधनसंपत्तावोदनो भवेन्नेति। सु्जानस्तृप्येत्किं न वेति चिन्ता तु कुत्रचिद्दृष्टा ॥ ४९६।। इति चेदुपपन्नेयं चिन्ता यस्मादिहेतिहासादौ। ब्रह्मविदां केषांचिद्ेहान्तरजन्म दर्शितं भूय: ॥। ४९७॥ स्मृत इह वंदाचार्यो नाम्नाऽपांतरतमा इति ख्यातः । विष्णुनियोगाज्च कलेरादी द्वैपायनो बभूवेति ॥४९८॥ इह च वसिष्ठोऽपि तथा ब्रह्मण एवैष मानसः पुत्रः। सन्नपि निमिशापादपगतपूर्वतनुक्षतुर्मुखादेशात् ॥४९९॥ मित्रावरुणाभ्यां पुनरसी बभूवेति च स्मृतो मवति। भृग्वादीनां च तथा पुनरुत्पत्तिस्तु वारुणे यज्ञे॥ ५००॥ स्मर्यत एव तथैव ब्रह्मण एवैष मानसः पुत्रः। सोडयं सनत्कुमारः स्कन्दत्वेन स्वयं बभूवेति॥५०१॥ इह दक्षनारदादीनामपि हष्टा तदन्तरोत्पत्तिः। स्मृतिषु श्रुतिषु च मन्त्रार्थवाद्योरपि च दृश्यते सेयम् ॥५०२॥ पतिते हि पूर्वदहे केचिद्देहान्तरं समादृदते। स्थित एवास्मिन्केचिद्योगैश्वर्यादनेकमादृदते ॥ ५०३॥ ३८

Page 302

२९८ सुमह्ण्यविरचिता- [ ३ तृतीपाध्यायस्य-

स्मर्यन्ते सर्वे ते सम्यङ्निर्णीतसकलवेदार्थाः । तस्माद्बह्मविदामपि देहान्तरदर्शनादिह प्राप्तम्॥५०४।। अन्या: (स्याः) परविद्याया: पाक्षिकमेव हि विमोक्षहेतुत्वम्। तद्हेतुत्वं वा स्यादेव प्राप्ताविहोत्तरं बूते ।। ५०५।। वेदप्रवर्तनादिष्वधिकारेष्वेव संनियुक्तानाम।

सावद्वस्थानं स्यादधिकारो यावदेव तेषां स्यात्। मगवान्यथा हि सविता सहस्रयुगमाधिकारिको भूरा॥५०७॥ उदयास्तमय विवर्जितमन्ते कैवल्यमनुमवत्येषः। अथ तत ऊर्ध्वमिति श्रुतिरिममेवार्थं प्रदर्शयत्यस्य ॥५०८॥ ये चेह वर्तमाना ब्रह्मविदस्ते यथैव कैवल्यम्। आरब्धभोगनाशे संजाते सम्यगनुभवन्ति तथा ॥५०९ ॥ इह तस्य तावदेवेत्येषा श्रुतिरेतमर्थमुपदिशति। एवं ब्रह्मविद इमे ये चापान्तरतमःप्रमुख्या: स्युः ॥५१० ॥ परमेश्वरेण ते तेष्वधिकारेषु च नियोजिता: सन्तः । केवल्यहेतुभूते सम्यगज्ञाने हि विद्यमानेऽपि ॥ ५११॥ अक्षीणभूरिकृत्या अवतिष्ठन्ते हि यावद्धिकारम्। अधिकारान्ते तु पुनर्ुच्यन्त इतीह सकलमविरुद्धम् ॥ ५१२॥ जन्मान्तरं यदेतत्तत्वज्ञानामपीह चेत्तहिं। ज्ञानान्मुक्ति: कथमिति शङ्का पदमादधाति नेवेह ॥५१३॥ यस्मात्सकृत्प्रवृत्तं प्रारब्धं ते फलप्रदानाय। अतिवाहयन्त एव हि गृहाद्गृहान्तरमिवान्यमन्यं हि॥ ५१४॥ देहं क्रमेण युगपतनिर्ह(मा)य स्वाधिकारसिध्दर्थम्। तानधितिष्ठन्तोऽपरिमृषितस्मृतयो हि संचरन्ति किल ॥५१५॥ यत्पूर्वजन्महेतु: प्रारब्ध ज्ञानिनां नद्वेह। जन्मान्तरहेतुः स्थान्मुक्ति: र्यात्तद्वसान एतेषाम् ॥५१६॥ पूर्वपारब्धान्तरकर्म च जन्मान्तरे यदा हेतु: । तत्रैव मुख्यमावो न चैवमत्रास्त्यतो न दोषोडयम्॥५१७॥ जांतिस्मश न चैते त एवैत इति हि यतः प्रसिद्धास्ते। ये पूर्वदेहनामाभिसंिहीना भवन्ति परतन्त्राः ॥ ५१८॥

Page 303

तृतीयपाद: ३] माध्यार्थररनमाला। २९९

ये चापि सामिमानास्ते वै जातिश्मरा न चैते स्युः। एते हि निरमिमानास्तथा स्वतन्याक्ष पूर्वनामानः ।५१९॥ इति वैषम्यान्नैते मयन्ति जातिस्मरा कथचिद्वि। सुलमा विवदितुकामा जनकेन म्रह्मवादिनी काडपि॥ ५२० ॥ स्वीयं व्युदस्य देहं ततस्तु सा जनकदेहमाविक्य। तेन समं व्युद्य पुनः स्वमेव देहं समाविवेशेति ॥५२१॥ स्मृतिनिर्देशादेव स्वातन्त्रय तेषु दर्शितं मवति। यह्पयुक्त कर्मणि देहान्तरकारणं हि कर्मान्यत् ॥५२२॥ आविर्भवेत्ततोऽन्यत्तथा प्रसज्येत [तद्देव पुनः ]। पाक्षिकमेव तदा स्यात्परविद्याया विमोक्षहेतुत्वम् । ५२३ ॥ नेषा शङ्का प्रकृते ज्ञानात्कर्मक्षयस्य निर्देशात्। भ्रुतिरत्र मिद्यते हृदयग्रन्थिरितीममर्थमुपदिशति ॥५२४॥ दर्शयत्ति च स्मृतिप्रतिलम्भ इति श्रुतिरपीममेवार्थम्। स्पृतिरपि दर्शयति यथैधांसि समिद्धोऽग्गिरेवमाद्या हि॥५२५॥

नाविद्यादिक्लेशे दग्धेऽपि क्लेशकार्यरूपस्य ॥ ५२६॥ कर्माशयस्य चैकांशे वाहश्रवैकतः प्ररोह इति। उपपद्यते कथेचन न चागिदग्धस्य शालिबीजस्य । ५२७॥। एकांशतः परोहो लोके केनापि कुत्रचिद्वृष्टः । कर्माशयस्य चाप्यारब्धफलस्य तु निवृत्तिरेवं स्यात् ॥५२८॥ मुक्तेषोरिव वेगक्षयादिहापि य शरीरपातेन। दर्शयति चेममर्थ शुतिरेव हि तस्य तावदेवेति ॥५२९ ॥ तेनाSडधिकारिकाणामवस्थितिभवति यावद्धिकारम्। ज्ञानफलस्यानैकान्तिकताऽपि न चेह शङ्कितुं शक्या॥ ५३०॥ भुतिरविशेषेणैव ज्ञानान्मोक्षं हि सर्वजीवानाम्। तथो यो देवानामित्याद्या किल यतः प्रदर्शयति ॥५३१॥ सगुणोपासनया ये त्वैश्वर्यादिषु फलेषु सक्तास्ते। पश्वादेश्वर्यक्षयदर्शनमात्रेण तत्र निर्विण्णाः ॥५३२॥ परविद्यापरनिठठाबलेन तेऽपि प्रयान्ति केवल्यम्। दर्शयति वेममर्थ श्रुतिरेषा बह्मणा सहेत्याद्या।५३३॥

Page 304

३०० सुम्रझ्मण्यविरचिता- [ ३ तृतीयाध्यायस्प-

यदिदं ज्ञानफलं स्यान्भ्रवति हि तच्चेदमनुभवारूढम्। फलविरहाशड्वेयं तत्र न युक्ता परात्मविज्ञाने ॥ ५३४ ॥ अननुभवारुढे किल कमफले युज्यते हि शङ्गेयम्। यत्साक्षादपरोक्षादिति श्रुतिस्तदपरोक्षमुपदिशति॥५३५॥ श्रुतिरपि तत्वमसीति स्वात्मैक्येनोपदिशति फलमेतत्। श्रुतिरियमन्यार्थतया परिणेतुं नैव शक्यते यस्मात् ॥५३६ ॥ त्द्वैतत्पश्यन्नित्येषा ह्यात्मापरोक्षसमकालम्। सर्वात्मभावरुपं परात्मदर्शनफलं प्रदर्शयति॥ ५३७॥ ऐकान्तिकी हि तस्माद्विदुषः कैवल्यसिद्धिरिति सिद्धम्।

अक्षरधियां त्ववरोधः सामान्यत-

इह खलु वाजसनेयक एतद्वै तदिति वाक्यमाम्नातम्॥ ५३८॥ आथर्वणिकेऽथ परा यया तद्क्षरमितीदमुपदिष्म। अन्यत्रापि विशेषप्रतिषेधेनाक्षरं परं ब्रह्म ॥ ५३९॥ उपदिष्टं तत्र पुनः प्रतिषिध्यन्ते हि केचिदतिरिक्ताः। तत्र च विशेषनिरसनबुद्धीनां तत्र तत्र दृष्टानाम् ॥ ५४० ॥ सर्वासां सर्वत्र प्राप्ति: किंवा भवेद्यवस्थेति। संदेहे श्रुतिभेदादिह व्यवस्था भवेदिति प्राप्ती ॥५४१॥ अक्षरधियामिहाऽडसां सर्वत्र प्राप्तिमेव दर्शयति। ये त्वक्षरे हि धर्मिणि निषेधधीहेतवो हि शब्दा: स्युः ॥ ५४२॥ अक्षरधियोऽत्र ते खल्ववरोधोऽप्यत्र तदुपसंहारः। अक्षरबुद्धय एताः सर्वाः सर्वत्र चावरोद्व्याः ॥५४३॥ यस्मात्सवत्रैव ब्रह्मप्रतिपादनप्रकारोऽयम्। सर्वविशेषनिरस्तात्मकः समानो हि दश्यते किंच ॥ ५४४॥ सर्वत्र प्रतिपाद्यवह्माभिन्नं प्रतीयते तस्मात्। अन्यत्र च श्रुता अपि सर्वत्रैता धिय: कुतो न स्युः ॥५४५॥ तदिदं ह्यानन्दादय इतिसूत्रव्याकृती पुरा कथितम्। तत्र च विधिरूपाणि हि विशेषणान्येव चिन्तितानि परमू॥५४६॥ अत्र प्रतिषेधात्मकविशेषणान्येव चिन्तितानि पुनः। अस्त्वानन्दादीनामुपसंहार: स्वरूपभूतत्वात् ।५४७।।

Page 305

तृत्यपाद: १ ] माष्यार्थरत्नमाला। २०१

न निषेधानामेवं स्यादानन्त्यादनात्मभावाज्च। इत्यधिकाशङ्कायां प्रतिषेधानामनात्मभावेऽपि ।। ५४८॥ तेषां हि निर्विशेषब्रह्मप्रतिपत्तिसाधनत्वेन। उपसंहारो युक्तो निषेधवाक्यैकवाक्यभावेन ॥। ५४९॥ इत्येतद्दर्शयितुं सेयं चिन्ताऽत्र भवति युक्ततमा। अत्रौपसद्वदिति यन्निदर्शनं तन्निरुप्यते सपदि॥ ५५० ॥ जमद्ग्निना कृतोऽसावहीनसंज्ञः क्रतुश्रतूरात्रः । स तु जामद्ग्न्य इति किल विख्यातस्तत्र चोपसत्संज्ञाः॥५५१॥ इध्य एतास्तु पुरोडाशिन्यस्तैत्तिरीयके विहिताः । अग्रेर्वेर्होत्रं वेरिति च पुरोडाशदानमन्त्राणाम्॥ ५५२॥ उद्गातृवेदजानामध्वर्युमिरेव भवति संबन्ध: । तन्न पुरोडाशस्य प्रधानमध्वर्युक्तर्तृकं यस्मात् ॥५५३॥ तदिह प्रधानतम्त्रं ह्यङ्गं निर्द्िष्टमेवमत्रापि। अक्षरतन्त्रत्वादिह विशेषणानां हि यत्र कुत्रापि॥५५४॥ उत्पन्नानामेषां सर्वत्रैवाक्षरेण संबन्ध: । उक्त: प्रथमे काण्डे गुणमुख्येत्यादिना हि सूत्रेण ।। ५५५॥ उत्पन्नस्य फले विनियोगविधिर्मुख्य एष भवति गुणः । उत्पत्तिविधिरहि तयोव्यतिक्रमश्रेत्तदा तु मुख्येन ॥ ५५६ ॥ मन्त्रात्मकवेदस्य च भवति ह्यध्वर्युणैव संयोग: । उत्पत्तिरहिं फलार्था सर्वत्रैवोपलभ्यते लोक॥ ५५७॥। तस्मात्फलविधिनैव हि गुणस्य नयनमिति भवति सूच्रार्थः । इयदामननात्॥ ३४ ॥ आथर्वणिका: श्वेताश्वतराश्र द्वा सुपर्णेति ॥।५५८॥ एवं ह्यृतं पिबन्तौ सुकृतस्येत्यादिकं पठन्ति कठाः । अत्र च विद्यैकत्वं विद्यानानात्वमिति तु संदेहः ॥५५९॥ इह विद्यानानात्वं युक्तं यस्माद्विशेष इह हृष्टः। अन्ञाथर्वणवाक्ये ह्येकस्य च भोक्तृता विनिर्दिष्टा ॥५६०॥ कठवल्लीवाक्ये हि द्योक्ष भोक्तृत्वमभिहितं भवति। वैद्यं हि भिद्यमानं विद्यां भिद्यादिहेत्यतो बूते।। ५६१॥

Page 306

२०२ सुबह्ण्य विरचिता- [ ३ तृतीयाष्यायस्य-

विद्येकत्वमिह स्याद्यत उमयोर्मम्त्रयोरभिन्नं हि। द्वित्वोपेतं वेद्यं दृष्ट हीयत्तया परिच्छिन्नम् ॥५६२॥ इह वेद्यरूपभेदो नाऽडशङ्कयो मवति मन्त्रयोरुमयोः। यस्मादेतौ जीवद्वितीयमेवेश्वरं प्रदर्शयतः ॥५६३॥ अन्योऽभिचाकशीतीत्य तोऽशनायाद्यतीत एवायम्। प्रतिपाद्यते परात्मा स एव पुनरपि च वाक्यशेषेऽपि ॥ ५६४॥ कठवल्यां खलु जीवे पिबति च तत्साहचर्यमात्रेण। परमात्मा विबतीति च्छत्रिन्यायादिदं भवेद्माक्तम्॥५६५॥ प्रकरणतोऽपि परात्मा प्रतीयते वाक्यशेषतोऽप्येवम्। तस्मान्न वेद्यभेदाद्विद्यामेदोऽत शङ्कितुं शक्यः ॥५६६ ॥ तादातम्यबोधनार्थं जीवोपादानमिह भवेत्सफलम्। मेदामेद्विचारावसरो नैव हि परात्मविद्यायाम्॥५६७॥ इत्युक्तं तस्मादत्राधिकधर्मोपसंहृतिर्युक्ता। अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥ यत्साक्षादृपरोक्षाद्बह्मेति द्विः समामनन्त्यत्र ॥५६८॥

वाजसनेपिन एते तत्र च विद्या मवेत्किमेकैव॥ ५६९॥ किवा नानेत्येवं संदेहे सा तु मवति नानेति। युक्तं वक्कं यस्मादभ्यासश्र्ेह दृश्यते तस्या: ॥।५७०॥ विद्यैकत्वे तुल्यार्थकं द्विराम्नानमफलमेव स्यात्। तस्मादम्यासात्किल मवति यथा कर्ममेद एवमिह॥ ५७१ ॥ विद्याभेदोऽम्यासात्स्यादिति शङ्कां निराकरोतीह। अत्रोषस्तकहोलबाह्मणयोः स्वात्मनो हि विद्यैक्यमू॥५७२॥ पस्मादिहान्तराऽडज्जानानामविशेष उमयतो दृष्टः। सर्वान्तरोऽन्तरात्मा ह्यविशिष्टः पृच्छचते स उमयत्र ॥५७३॥ प्रत्युच्यते च न द्वावात्मानावान्तरी हि संमवतः। यदि चाउडन्तरत्वमुभयोरभूतग्रामवदिदं प्रसज्येत । ५७४॥ इह पाश्मौतिकेऽस्मिन्देहे चाSडपोऽन्तरा पृथिव्या: स्युः । अन्भृधस्तेजोऽन्तरमिति यथा तथैवेह चान्तरत्वं स्यात्।५७५॥

Page 307

सृर्कायपाक: ९] माध्यार्थरत्नमाला। ३०३

सर्वान्तरत्वमेतच्चाSSपेक्षिकमेव नैव मुख्यं स्यातू। अथवा मूतग्रामवदित्यस्यार्थान्तरं भवेदेतत् ॥ ५७६॥। भूतग्रामेष्वात्मा ह्येको देव इतिमन्त्रनिर्दिष्टः । सर्वान्तरस्तथैत द्वाह्मणयोरवि भवेदसाविति हि॥५७७॥

अभ्यासादिह विद्याभेदो यश्रेह शक्कितः सोऽपि॥५७८॥ नैवात्र भवति यत्र तु निरर्थकः स्यात्स चायमग्यासः। तत्रैव मेदकोऽसाविह तूषस्तप्रदर्शितस्यास्य॥५७९॥ अशनायादिनिरासार्थतया सफल इति सपदि दर्शयति। अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥ अथ यदि विद्याभेदो नैवाभ्युपगम्यते तयोरुमयोः ॥५८० ॥ आम्नानभेद एव बाह्मणयोः कथमिवोपपद्येत। इति चेदुपदेशान्तरवदेष आम्रानभेद उपपत्नः ॥५८१।। ताण्डचुपनिषदि हि षछठे प्रपाठके दृश्यते हि नवधाऽसी। तत्त्वमसीत्युपदेशो विद्याभेदो न तत्र संभवति ॥५८२॥

अपि भूय एव मा भगवानिति वाक्येन गम्यते ह्येतत् ॥५८३॥ अर्थस्यैकस्यैव हि पुनः पुनः प्रतिपिपादयिपितत्वम्। तत्रासकृदुषदेशस्तत्तच्छङ्कानिवारणार्थो हि॥५८४॥ भवति तथैवहापि प्रश्नसमाप्त्योः समानरूपत्वात्। एकार्थगोचराविह दृष्टी चोपक्रमोपसंहारी ।।५८५॥। तत्र च यदेव साक्षादिति द्वितीये कहोलकप्रश्षे। आविश्य चैवकारं पूर्वप्रश्नस्थमुत्तरत्र पुनः ॥५८६॥ आकृष्यमाणमर्थं दर्शयति परं तु पूर्ववाक्ये च। कथितो हि कार्यकरणव्यतिरिक्तस्याऽडत्मनो हि सन्भ्ावः ॥५८७॥ उपदिश्यतेऽशनायाद्यसङूगिता तस्य चोत्तरत्रेति। व्यतिहारो विशिषन्ति हीतरवत् ॥ ३७॥ तद्योऽहं सोऽसाविति योऽसौ सोऽहमिति चाऽडमनन्तीदम्॥५८८।। तत्रैतरेयिणो हि प्रकृत्य रविमण्डलस्थितं पुरुषम्। त्वं वा अहमस्मीति त्वमस्म्यहं वा इतीह कथयन्ति ।। ५८१॥

Page 308

३०४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

जाबाला वाक्यमिदं तत्र च संदेह एष संभवति। किमिह व्यतिहारेणोभयरूपा मतिरियं हि कर्तव्या॥५९०॥ अथवा किमेकरूपेत्यत्रेयं स्यादिहैकरूपेति। न ह्यन्नाSSतमेश्वरयोरैक्यं मुक्त्वाऽन्यदस्ति किंचिदिह॥५९१॥ चिन्तयितव्यं यदि चेज्ञिन्तयितव्यं हि किमपि कल्प्येत। जीवस्येशात्मत्वं संसार्यात्मत्वमीश्वरस्येति ॥५९२॥ जीवस्थेशात्मत्वे तस्योत्कर्षो मवेद्यदीशस्य। संसार्यात्मत्वं स्यात्तदेश्वरस्य हि निकर्ष एव स्यात् ॥५९३॥ तस्मादिहैकरूपा मतिरेव स्थान्नहि द्विरुपेयम् । व्यतिहाराम्नायस्त्वेकत्वदृढीकृतिफलार्थ इत्येवम् ॥५९४॥ प्रात्ते बूते ह्याध्यानाय व्यतिहार एष आम्नातः । इतरवदिति च निदर्शनमत्र भविष्यति यथेतरे हि गुणाः।।५९५॥ सर्वात्मत्वप्रभृतय आम्नायन्ते तथैव चेहापि। इह च समाम्नातारस्तथोभयोच्चारणाद्विशिंषन्ति ॥५९६॥ त्वं वाऽहमस्म्यहं च त्वमसीति हि तत्किल द्विरूपायाम् । कर्तव्यायां हि मतावर्थवदेतन्न चान्यथा मवति ॥ ५९७॥ ननु यद्यभयाम्नानस्यार्थविशेषोऽत कल्प्यते तहिं। ईशस्य च संसारित्वापत्या स्यान्निकर्ष इत्युक्तम् ॥५९८॥ नासौ दोष इह स्याद्कात्म्यस्यानुचिन्त्यमानत्वात्। नन्वेकत्वदृढीकारोऽसाविह दुर्निवार इति चेन्न ॥ ५९९॥ अत्रैकत्वटृढीकारोऽसी न निवार्यते परंत्वत्र। वचनप्रामाण्याद्यतिहारेणेह तु मतिर्द्विरुपैव ॥ ६०० ॥ कर्तव्या न त्वन्या मतिरित्येतावदेव वक्ष्यामः । तस्यां मतौ कृतायां फलतश्रैकत्वमपि दृढी मवति ॥ ६०१॥ आध्यानार्थ हि यथा सत्यादिगुणेषु चोपदिष्ेषु। तत्तद्रुणः परात्मा प्रसिध्यतीहापि तद्ददेव स्थात् ॥६०२॥ तस्माद्यतिहारोऽसावाध्यातव्यस्तथोपसंहार्यः। सैव हि सत्यादयः ॥ ३८ ॥ इह किल वाजसनेयश्रुतौ स यो ह्वैतमिति समाम्नात्म्॥६०३॥

Page 309

तृतीयपादः ३ ] माष्यार्थरत्नमाला । ३०५

थोडयं सुमहद्यक्षं प्रथमजमेतं हिरण्यगर्माख्यम्। सत्यं ब्रह्मेत्येवं वेद मवेत्तस्य लोकविजय इति ॥६०४ ॥ एषा हि सत्यविद्या नामाक्षरविद्यया समाकलिता। तत्राऽडम्नाता हि पुनस्तद्यत्तत्सत्यमिति समाम्नातम् ॥६०५ ॥ वाक्यं तत्ाSडदित्यो ज्योतिर्मण्डलगतो हि पुरुषो यः । यो दक्षिणाक्षिसंस्थः पुरुषस्तौ सत्यमिति समाम्नातौ ॥ ६०६॥ कि द्वे हि सत्यविद्ये किंवाऽप्येकेति तत्र संदेहः। तन्न तु मिन्ना युक्ता फलसंयोगो यतोऽन भेदेन ॥ ६०७ ॥ जयतीमाललोकानिति मवति हि पूर्वत्र हन्ति पाप्मानम्। जयतीति चोपरिष्टात्फलसंयोगो हि भिद्यते च पुनः ॥ ६०८॥ प्रकृताकर्षणमन्रोपास्यैकत्वेन भवति युक्तमिति। एवं प्राप्ते बूते ह्येकैवैषाऽत् सत्यविद्येति ॥६०९ ॥ तद्यत्तत्सत्यमितिप्रकृताकर्षणमिद यतोऽव्रास्ति। नमु विद्याभेदेऽपि प्रकृताकर्षणमुपास्यरूपैक्यात् ॥ ६१०॥ उपपद्यत इत्युक्तं कथमिह विद्यैक्यमिति तु नाऽडशङ्क्यम्। यत्र विशिष्टनिमित्ताद्विद्याभेद: प्रतीयते तत्र ॥ ६११॥ एवं तत्स्यादिह तूभयथावाक्ये प्रतीयमाने हि। पूर्वोपदिष्टविद्यासंबद्धं सत्यमुत्तरत्रापि॥ ६१२॥ पुनराकृष्टं हृद्वा विद्यैकत्व हि निश्चितं भवति। फलभेद्भ्रषणादिह विद्याभेद इति यञ्च पूर्वोक्तम् ॥६१३॥ तद्दूषणमेव यतः फलभेद्श्रुतिरिहार्थवाद: स्यात। आदित्यमण्डलेऽक्षिण पुरुषस्योपासना हि पूर्वोक्ता ॥६१४ ॥ अहरहमित्येवं खल्वङ्गान्तरमपि च पूर्वमुपदिष्म। अङ्गफल्श्रुतिरेषा स्तुतिरूपा न हि विधक्षितार्था स्यात् ॥६१५।। यस्मात्प्रधानविधिना फलप्रतीतावियं निराकाङक्षा। तस्मादिह फलभेदासिद्धौ विद्यैक्यमनपवादं स्यात् ॥६१६॥ यद्वा प्रधानवाक्ये कामपदादर्शनात्फलासिद्धौ। तस्मिंस्तु रात्रिसत्रन्यायेन फले निरूपणीये हि॥ ६१७॥ अङ्गेडपि च प्रधाने श्रुतमपि तदिदं फलं समुज्चित्य। मवति प्रधानफलमिति फलमेदोऽसावसिद्ध एवेह ॥ ६१८॥

Page 310

३०६ सुब्रह्मण्यविरचित।- [ ३ सृतीयाध्यायस्य-

तस्मादेकैवेयं विद्या तत्तद्विशेषणोपेता। आम्रायत इत्यत इह सत्यादिगुणोपसंहृतिर्युक्ता ॥ ६१९॥ के चित्वस्मिन्सूत्रे यच्चाक्ष्यादित्यपुरुषविषयं हि। वाजसनेयकवाक्यं छान्दोग्येऽप्यथ य एप इत्यादि॥ ६२० । तत्रैव चान्तरक्षिणि पुरुषो दृश्यत इति प्रसिद्धं यत्। वाक्यमुदाहृत्यैतत्सैवाक्ष्यादित्यपुरुषविषयेयम् ॥ ६२१॥ उमयत्रैका विद्येत्येवं निश्च्वत्य तत्र सत्यादीन्। वाजसनेयिभ्यो हि च्छन्दोगानामिहोपसंहार्यांन् ॥ ६२२ ॥ मन्यन्ते हि तदेतत्समख्जसं नैव कथमपीह स्यात्। छान्दोग्ये चोद्गीथव्यपाश्रयोऽयं प्रतीयते विद्या॥ ६२३॥ तत्राSSदिमिध्ययोरपि तथादऽषसाने च कर्मचिह्नानि। इयमेवर्ग्नि: सामेत्येवमुपक्रमे हि निर्दिष्म् ॥६२४ ॥ तस्यक्साम व गेष्णाविति मध्ये साम गायतीत्यन्ते। नैवेह वाजिवाक्ये किमपि च कर्माङ्गचिह्नमस्त्यत्र ॥ ६२५॥ प्रक्रममेदाद्विद्याभेदे युक्ता गुणव्यवस्थैव। कामादीतरत्र तत्र चाउऽयतनादिभ्यः ॥ ३९॥ अथ य इदमित्यधीतं छान्दोग्ये हृश्यते हि वाक्यमिद्म् ॥६२६।। तत्र ब्ह्मपुरेऽस्मिन्दहरं किल पुण्डरीकवेश्मोक्तम्। तस्यान्तस्थाकाशं दहरं प्रस्तुत्य चायमुपदिष्टः ॥६२७ ॥ अपहृतपाप्मा विजरो विसृत्युरयमिह विशोकरूपश्र। षिजिघत्सो ह्यपिपासः स सत्यकामश्र सत्यसंकल्पः ॥ ६२८। इह किल वाजसनेयकवाक्यं तदिदं स वेति चाधीतम्। एष महानज आत्मा योऽयं विज्ञानमय इति प्रथितः ॥ ६२९॥ योऽसावन्तर्हृदयाकाशोऽत्यल्पोडस्ति तत्र शेतेऽसौ। सर्वस्य वशी सर्वस्पेश्ानः सोऽयमिति हि तन्रोक्तम् ॥६३० ॥ तत्र च विद्यैकत्वं परस्परं किल गुणोपसंहारः। विद्यानानात्वं वा किमत्र युक्तमिति संशये बूते ॥ ६३१ ॥ अत्र च विद्यैकत्वं युक्तमतः स्याद्गुणोपसंहारः। छान्दोग्यवाक्यदृष्टा ये वै किल सत्यकामतादिगुणा: ॥। ६३२।।

Page 311

तृतीयपाद: ₹ ] माष्यार्थरत्नमाला। ३०७

ते हि स वा एष महानज आत्मेत्यादिवाजिवाक्ये हि। संबध्यन्ते यश्विह वाज्युपदर्शितमिदं वशित्वादि॥ ६३६ ।। छान्दोग्य एष आत्मेत्यत्र तु संबध्यते तदेतदृपि। यस्मादायतनाविकमुमयत्रैयोपलम्यते हि समम् ॥६२४॥ हृद्यापतनं हि समं वेद्य: परमेश्वरः समानोऽत। सेतुत्वं च समानं लोकासंभेदकारणं यिदम् ॥ ६३५ ॥। नन्विह विदयैकत्वं न चोभयत्रापि शक्कितुं शक्यम्। हृद्याकाशस्यैव च्छान्दोग्ये दृश्यते हि गुणयोगः ॥ ६३६।। तत्र शयानस्यैव ब्रह्मण उपदिश्यते हि गुणयोगः । वाजसनेयकवाक्ये वेद्ये मिन्ने कथं हि विदयेका ॥ ६३७॥ इति चेन्नासौ दोष: कथमपि नैवात्र वेद्यभेदोडस्ति। छान्दोग्यदहरवाक्ये बह्मेवाSSकाशशब्दमुपदिषम् ॥६३८॥ यद्यप्यत्र विशेषश्छान्दोग्ये ब्ह्म सगुणमुपदिष्म्। वाजसनेयकवाक्ये निर्गुणमुपदिश्यते परं ब्रह्म ॥६३९॥। विद्यामेदेऽनुचितो गुणोपसंहार इह किलाथापि। गुणवत एकत्वेनाऽडयतनादीनां समानरूपतया ॥ ६४० H बुद्धिस्थानां तेषामुपसंहारो हि निर्गुणस्थाने। स्तुत्यर्थोऽसावुपसंहारो नोपासनाय मवतीह ॥। ६४१। य्र क्वचिदृपि वृषेर्गुणैः स्तुतेः कर्तुमत्र शक्पत्वात्। आदरादलोपः ॥ ४० ॥

छान्दोग्ये वैश्वानरविद्यार्यां वाकयमेतदुपविष्टम् ॥६४२॥ तद्यद्मक्तमिति स यां प्रथमामाहुतिमितीदसुपदिट्टम्। तत्र प पञ्च प्राणाहुतयो विहितास्ततश्र तास्वरेव ॥ ६४३।।

तत्र विचार्यत एतत्किमिह प्राणाग्निहोत्रसंज्ञस्य ॥६४४।। मोजनलोपे लोपो मवेत्किमथवा न तस्य लोप इति। तद्यद्भक्तमितिभ्तमक्तागमनस्य भोजनार्थत्वात् ॥६४५। मोजनलोपे लुप्यत एव प्राणाग्निहोत्रमेतदिति। एवं पाप्ते बूते स (न) लप्यते तदिदमगिहोत्रमिति ॥ ६४६।।

Page 312

३०८ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

वस्मादिहाग्निहोत्रे श्रुतिरेवाSSदरमियं प्रदर्शयति। जाबालश्ुतिरेषा या किल पूर्वोऽतिथिभ्य हत्याद्या ॥ ६४७ ॥ उपदिशति चैतदर्थं यश्वाहुत्वाऽगनिहोत्रमात्मीयम्। जुहुयात्पराग्रिहोत्रं तथैव चेदमपि विफलमेव स्यात् ॥६४८॥ यच्चाSSत्मभोजनात्मागतिथीना भोजनं भवेत्तस्मात्। अतिथिभ्यः प्रागेव स्वयमश्रीयादिति प्रदश्यैषा ॥ ६४९॥ प्राणाग्निहोत्रविषयकमादरमाविष्करोति सर्वेषाम्। नन्विह भोजनलोपे लोपो भुक्त्यर्थभक्तसंयोगात् ॥६५० ॥ प्रागुपदर्शित इति चेन्नासौ दोषो यतश्च वाक्यमिदम्। द्रव्यविशेष विधानार्थकमेव स्याद्यथाऽग्रिहोत्रे हि॥ ६५१॥ आज्यपयःप्रमृतीनि द्रव्याणि भवन्ति यानि चान्यानि। इह चागिहोत्रशब्दात्तेषामपि कौण्डपाय(यि)सत्र हष ॥६५२॥ सम्यक्पासौ सत्यां भक्तद्रव्यैकगुणविधानार्थम्। तद्यन्क्तमितीदं वाक्यं गुणलोप इति नयेनात्र ॥६५३ ।।

स्यादेवानुष्ठानं न लोप इत्यस्य चोत्तरं पठति।

उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥ भोजन उपस्थिते किल भोज्यात्प्रथमोपनिपतिताह्व्यात्।६५५।। प्राणाग्गिहोत्रमेतन्निर्वर्तयितव्यमन्यथा नेति। सद्यद्भ्क्तमिति श्रुतिवचनं बोधयति हीममेवार्थम् ॥६५६॥ श्रतिरियमेवं बूते यच्छब्देनेह मोजनाक्षिप्तम्। मक्तमनूद्य च तस्मिस्तद्ध्ोमीयमिति होमसंयोगम् ॥६५७ ॥ तस्मादिहाऽडहुतीनां भुक्त्यर्थद्रव्यसाध्यतैव स्यात्। इह भोजनार्थमेतन्दभ्क्तमुपाशित्य ता उपन्यस्ताः ॥ ६५८॥ मोजनलोपे तासां लोपो नैवाऽSभयान्तरार्पकता। आशित्य च विहितानामाशयलोपे हि लोप इह युक्तः॥६५९॥। गोदोहनस्य च यथा कत्वर्थप्रणयनाश्ितस्यैव। कतुलोपे लोपोडयं न चाऽडभ्रयान्तरसमर्पकत्वमपि॥ ६६० ॥

Page 313

तृतीयपाद: ३ ] माष्णार्थरत्नमाला। ३०९

प्रकृताग्निहोत्रधर्मप्राप्तिरवि न चेह शङ्कितुं शक्या। यः कुण्डपायिसत्रे हष्टो मासाग्निहोत्रशब्दोऽयम् ॥६६१ ॥ स तु विधिवाक्यस्थोऽतस्तत्र तु तद्धर्मयोग उचितः स्यात्। इह चाग्गिहात्रिशब्दो योऽसी दृष्टः स चार्थवाद्गतः ॥ ६६२॥ स्तुतिपर एव न नित्याग्निहोत्रसाम्यं विधापयितुमहः। यदि शब्दमात्रसाम्यात्त्दर्मपाप्तिरत्र कल्प्येत ॥ ६६३॥ होमाधिकरणभावायाग्न्युद्धरणादयोऽपि कल्प्येरन्। यद्ययमग्री होमस्तदा विलुप्येत भोजनार्थत्वम् ॥६६४ ।। बृते जाबालश्रुतिरन्याधारा हि होमनिर्वृत्तिम्। उर एव वेदिरित्यादिकाग्निहोत्राङ्गजातमखिलमपि ॥६६५।। मुख्यानां चालामात्सापादिकमेव तञ्च दर्शयति। मुख्याग्निहोत्रकालावरोध एतस्य नैव विहितोस्ति ॥ ६६६॥ अन्ये चोपस्थानादयो विरुद्धा इहोपलभ्पन्ते। तस्मान्भ्ोजनपक्षे होमा एते मवन्ति नेतरथा ॥६६७ ॥ आदरवचनं भोजनपक्षे प्राथम्यबोधनार्थ स्यात्। यत्स्वामिभोजनस्योत्तरकालत्वं भ्रुतिस्मृतिप्रथितम् ॥ ६६८ ॥ तदुपासकान्यविषयं तस्मात्मत्रोक्तमखिलमुपपन्नम्। तन्निर्धारणानियमस्तद्टृष्टेः पृथग्ध्य- प्रतिबन्धः फलम् ॥ ४२ ॥ वैश्वानरविद्यायां यञ्च प्राणाग्गिहोत्रमुपदिष्म् ॥६६९॥ तदनित्यभोजनाशितमनिश्यमिति वर्णितं हि पूर्वत्र। कर्माङ्गसंश्रितानि हि विज्ञानानि च मवन्ति चान्यत्र ॥ ६७० ॥ अक्षरमुद्गीथमुपासीतेत्यादीनि तानि किंवा स्युः। कर्मसु नित्यान्येव हि पर्णमयीत्वादवत्किमेतानि ॥६७१ ॥ गोदोहनादिवद्वा भवन्त्यनित्यानि हीति संदेहः। तत्र तु कर्मसु नित्यान्येवैतानीति युक्तमामाति ॥६७२ ॥

कतुसंबन्धादङ्गान्तरवत्तानि प्रयोगवचनेन ॥ ६७३ ॥ परिगृह्यन्ते या च स्ववाक्यटृष्टा फलश्रुतिस्तेषाम्। आपयितेत्याद्या सा हि वर्तमानापदेशरूपत्वात् ॥६७४ ॥।

Page 314

३१० सुम्ह्मण्य विरचिता- [ २ तृत्तीयाध्यायस्य-

स्पादर्थवावरूपा स्तुतिप्रधानैव केवलं मवति। सा चापापश्लोकभवणवदेव हिन व प्रधानं स्यात् ॥ ६७५ ।। तस्माच्च यस्य पर्णमथीत्वाद्यप्रकरणोपविष्टानाम्। अपि जुह्वादिद्वारा कतुपदेशाद्यथेव नित्यत्वम् ॥ ६७६ ॥ एवमिहोद्गीथोपास्तीनामपि नित्यतेत्पतो बूते। निर्धारणानि यान्युद्वीथाद्यङ्गव्यपाश्रयाणि स्युः॥ ६७७॥ रसतम आप्ति: प्राण: समृद्धिरादित्यि एवमादीनि। न नियम्यरेन्कर्मसु नित्यवदेतानि तेषु तद्हहेः ॥६७८॥ एवंजातीयानामनियतमावं हि दरशयत्येषा। तेनोभौ कुरुत इति श्रुतिरिह सा चैतमर्थमुपदिशति ॥ ६७९ ॥। यश्चैव वेद न यो वेदोभी तौ हि कर्म कुरुत इति। उपदिश्याविदुषोऽपि हि कर्मानुज्ञा प्रवर्शयत्येषा॥ ६८० ॥ प्रस्तावदेवताविज्ञानाविष्वपि तथैव दर्शयति। विज्ञानानामनियतमावं प्रस्तोतरेवमाद्या हि॥ ६८१॥ अपि चैवंजातीयकविज्ञानस्य च फलं हि पृथगेव। कर्मण उपलभ्यत इह कर्मफलातिशयरूपमेवेतत् ॥ ६८२ ॥ श्रुतिरेतमर्थमेष हि दर्शयति यदेव विद्यते(ये)त्याद्या। तत्र प तरिप: भषणाद्विदाहीनमपि वीर्यवत्कर्म ॥६८३ ॥ मवतीति गम्यते तद्विद्यानित्यत्व एव संमवति। नित्यत्वे विद्याया: कथमिह विद्याविहीनमपि तदिदम् ॥ ६८४॥ सर्वाद्गनोपस्करणात्क्रियमाणं वीर्यवद्मवेत्कर्म। एवं हि लोकसामादिषु नियतानि हि फलानि शिष्यन्ते ।६८५।। कल्पन्ते हास्मा इत्याद्यौहि प्रत्युपासनं तानि। नेहार्थवादमात्रं प्रतिपत्तुं युज्यते फलश्रवणम् ॥६८६॥ स्तुतिलक्षकतापत्या गौणार्थकता मवेत्तवैवं चेतु। संभवति मुख्यवृत्त्या सफलार्थत्वे हि सा तु न न्याय्या ॥६८७।। प्रकरणबलात्प्रयाजादीनां दर्शादिकाङ्गतालाभात्। तेषु फलभ्रवणस्यार्थवादमात्रत्वकल्पनं युक्त्तम् ॥ ६८८ ॥ पर्णमयीत्वादिष्वपि फलश्नतेरर्थवादता युक्ता। नैवाक्रियात्मकानां फलसंबन्धो बिना क्रियायोगम् ॥६८९॥

Page 315

तृतीयपाद: ३ ] माध्यार्थरत्नमाला। ३११

अत इह फलार्थमेषां कतुयोगापेक्षितत्वमुचितं स्थातू। कतुरपि च जुहुप्रकृतिद्रव्याकाङूक्षी मवेञ्च तद्द्रव्यम् ॥ ६९० ॥ पर्णमयीति श्ुत्यां प्रकृतिद्रव्यार्पकेण निर्दिष्म्। तेन जुहूद्वारैषा कत्वद्गत्वे हि निश्चिते पश्चात् ॥ ६९१ ॥ तत्र फलभ्रवणस्यार्थवाद्मात्रत्वनिश्चयो मवति। गोदोहनादिकानां क्रत्वाकाङ्क्षाविवर्जितत्वेन ॥ ६९२॥ चमसेनेव प्रकृताप्प्रणयनरूपाश्रयस्य लामेन। उपपन्नो हि फले विधिरेवं बैल्वादिषूपपन्नोऽयम् ॥६९३ ॥ न तु पर्णमर्यीत्वादिष्वेवं प्रकृतोऽस्ति कश्विदाधारः । कत्वाकाङ्क्षानियतो जुह्वादी दृश्यतेऽयमाधारः ॥६९४ ।। क्रत्वाकाङक्षारहितो ह्याधारो हश्यते हि बैल्वादौ। पर्णमयीत्वादी यदि फले विधिः कल्प्यते हि वाक्येन ॥ ६९५॥ जह्वाफलसबन्धः प्रकृतिद्रव्येण चापि संबन्ध:। वाक्येन कल्पनीयस्तदा भवेद्वाक्यभेद एवात्र ॥६९६॥ कर्माङ्गसंभितानामुपासनानां स्वतः क्रियाखेन। त्यागादिवदृतेषां फले विधानं विरुध्यते नेह॥ ६९७॥ कत्वाश्रयाणि गोदोहनादिकानि च फलेन संबन्धात्। यद्वदनित्यानि तथैवोद्गीथादिव्यपाश्रयाणीह॥ ६९८॥ श्रुतिवाक्यदर्शितानि ह्युपासनान्यपि मवन्त्यनित्यानि। मदानवदेव तदुक्तम् ॥४३॥ वाजसने[ये] हि वदिष्याम्येवेत्यादि वाक्यमाम्नातम् ॥६१९॥ तत्र च वागादीनां प्राण: श्रेष्ठोऽवधारितोऽध्यात्ममू। अधिदैवतमग्न्या देर्वायुश्छान्द्रोग्यकोपनिषदि तथा॥ ७०० ॥ वायुर्वावित्यत्र त्वग्न्यादीनां हि वायुरधिदेवम्। संवर्गो निर्णीतो वागादीनां तथैव संवर्गः ।।७०१।। प्राणोऽध्यात्मं तत्र च वायुप्राणाविमौ हि पृथगेव। उपगन्तव्यौ स्यातामपृथग्वतीह भवति संदेहः॥७०२॥ तत्रापृथगिति युक्तं यतस्तयोर्नेह तत्त्वभेदोऽस्ति। नेहामिन्ने तत्त्वे पृथगनुचिन्तनमिदं भवेक्याय्यम्॥ ७०३ ॥

Page 316

३१२ सुब्ह्मण्यविरचिता- [ २ तृतीयाध्यायस्य-

अधिदैवतमध्यात्मं तत्वाभेदं श्रुतिः प्रदर्शयति। अभनिर्वागित्याद्या तथा त एत इति चैवमाद्याऽपि॥। ७०४॥ प्राणानामेतेषां विभूतिमस्याSSधिदेविकीं बूते। उपलभ्यते हि बहुधा तश्वाभेदस्तु तत्र तयोः ॥७०५॥ निर्दिशति च यः प्राण: स वायुरिति हि श्रुतिस्तयोरक्यम्। पाजसने[ये] हि यतश्रोदेतीत्यादिनिगमवाक्ये हि॥ ७०६ ।। प्राणाद्वा एष उदेतीति प्राणेन चोपसंहारात्। एकत्वमेव हि तयोर्दर्शयति यथोक्तवाजिवाक्यमपि। ७०७।। पाण्याच्चैवापान्याज्चेति प्राणवतेन चैकेन। उपसंहारोऽपि तयोः केवलमेकत्वमेव बोधयति ॥ ७०८॥ छान्दोग्येऽपि महात्मनश्चतुरो देव एक इति वाक्यम्। संवर्गमेकमेव हि गमयति न तयोः कथंचिदृपि मेदम ॥ ७०९ ॥ तस्माद्वायुप्राणावत्रापृथगेव चोपगन्तव्यौ। एवं प्राप्ते वूते पृथगेवेमाविहोपगन्तव्यी॥ ७०॥ यस्मात्पृथ गेवैतौ वायुप्राणाविहोपदिश्येते। आध्यानार्थो ह्याध्यात्मिकाधिदैवतविभाग उपदिक्ः ॥७११॥ सोडयमसत्याध्यानपृथकत्वे चानर्थकः प्रसज्येत। नन्विह तत्त्वाभेदानुचिन्तनं ह्यपृथगेव युक्तमिति॥७१२ ॥ प्रागुक्तं कथमेतत्पृथग्भवेदिति न शक्कितुं शक्यमू। तत्वाभेदेऽप्यत्रावस्थाभंदेन चोपदेशस्य ॥ ७१३ ॥ भेद्वशेन तयोरतुचिन्तनभेदो मवेदसौ युक्तः । तत्वाभेदाभिप्रायेणैवास्योपपद्यमानस्य ।। ७१४ ॥। अत्र यतश्ोदेतीत्यस्य तुन ध्येयभेदविघटकता। स यथैषां प्राणानां मध्यम इत्यादिवाक्यमपि वायो: ७१५।। पाणेन साम्यमुकत्वा यथोक्तमाध्यानभेदमुपदिशति। योऽसाविहैकमेव व्रतमित्यत्रैवकार उक्तोऽसी ।। ७१६ ।। प्राणवताभिसंध्या वागादिवतनिवर्तनार्थः स्यात्। मग्नवतानि वागादीनीति च तानि सृत्युरित्याद्या॥ ७७॥ मग्नवतत्वकथनाद्ागादिवतनिवर्तनार्थैव। वतमीमांसेति प्रस्तुत्या मग्नव्रतत्वमुपदिषम ॥७१८॥

Page 317

तृतीयपाद: ३] माध्यार्थरहनमाला। ३१३

वायुप्राणोभययोर्वतफलमपि वायुलोकसंप्राप्तिः । सैषाऽनस्तमितेतिश्रुतिदृष्टो यश्र देवताशब्द्ः ॥ ७९॥

वेदेषु च वायुरसौ प्राण: प्राणेषु मवति संवर्ग: ॥ ७२० ॥। इति भिन्नत्वेनैतौ तौ वा एताविति श्षुतिर्ब्ूते। दश सन्तस्तत्कृतमित्युपसंहारोऽपि भेदपर एव ॥ ७२१ ॥ तस्मात्पृथगेवेमावाध्यातव्यौ न चैकरूपतया। अत्र निदर्शनमेतत्प्रधानवदिति प्रदर्शितं हि यथा ॥७२२॥ त्रिपुरोडाशिन्यां खल्विष्टाविन्द्राय राज्ञ इत्याद्या। तत्र पुरोडाशक्षेपार्था मन्त्रास्त्रयो हि निर्दिष्टाः ॥७२३॥ सर्वेषामभिगमयन्निति श्रुतेरपि च देवतैक्याच्च। तत्र पुरोडाशानां सहप्रदानप्रसञ्जने हि कृते॥ ७२४॥ याज्यापुरोनुवाक्याव्यत्यासविधानतश्र गुणभेदात्। तद्देवतापृथक्त्वं प्रदानपार्थक्यमपि यथा भवति ॥७२५॥ एवं तत्त्वाभेदेऽप्याध्यानपृथक्त्वमत्र युक्तं स्यात्। आध्येयांशपृथकत्वादुक्तं संकर्षणेन नानेति॥। ७२६ ॥ तत्र किल यागभेदो मवति परं द्रव्यदेवताभेदातू। हह च न विद्याभेदो विद्यैकत्वं प्रतीयते हि यतः ॥ ७२०॥ आध्यात्मिकाधिदैवोपदेशवाक्ये ह्युपक्रमाद्ैहि। विद्यैक्येऽप्यध्यात्माधिदैव मेदात्प्रवृत्तिभेद: स्यात् ॥७२८॥ सायंप्रातःकालप्रमेदतश्राग्निहोत्र इह स भवेत्। लिङ्गभूयस्त्वान्तद्धि बलीयस्तदपि ।। ४४ ।। वाजसनेयिन इह खल्वभनिरहस्ये हि नैव वेत्यादि॥ ७२९॥ वाक्यं पठन्ति तत्र च सृष्टेः पूर्व न सच्च नासदिदम्। इत्यादिश्य च मनसः सुषटिं शिष्वा मनोऽधिकृत्योक्तमू।। ७३० ॥ तदपश्यत्व ट्त्रिंशत्सह स्र संख्यान्मनोमयानग्रीनू। अर्कान्मनश्चित इति ह्यात्मन इत्यादिना निरुच्यैतान्॥ ७३१ ॥ वाक्चित इत्यादीनपि पृथगग्ीनामनन्ति तत्रैव। तेष्वेषा विचिकित्सा मनश्विदादय इहोपदिष्ा ये॥ ७३२ ॥ ४०

Page 318

२१४ सुबह्मण्यविरचिता- [३ सृतीयाध्यायस्य-

ते कर्मशेषमूता: किं कर्मानुपरवेशिनोऽत्र स्यु: । किवाऽपि ते स्वतम्त्रा: केवलविद्यात्मका मवन्तीति ।७२३ ॥ तत्र प्रकरणबलतः क्रियानुषङ्रे हि तेषु संप्रात्ते। ते्षां स्वातण्तयमिह प्रतिजानीते हि सूत्रकारोऽयम् ॥ ७३४ ॥ भूर्यास्यस्मिन्ब्राह्मणवाक्ये लिङ्गानि चोपलभ्यन्ते। विद्यात्मकत्वमेवोपोद्वलयन्त्येषु तानि सकलानि॥७३५ ॥ पत्किंचेमानीति श्रतिवाक्ये लिन्र मेतदुपदिषम्। सर्वप्राणिमनोवृत्तिभभिर्मम सदाडग्रयो हि चीयन्ते।। ७३६।। इत्याध्याने हि हढे सर्वाण्यपि यञ्च किमपि भूतानि। संकल्पयन्ति मनसा सा चाग्नीनां कृतिर्भवेदिति हि॥७३७ ।। एतद्वियात्मत्वे मवति हि लिद्गं न च क्रियाद्गत्वे। यत्किंचित्करणेन हि सिद्धिर्दष् न च क्रियाङ्गस्प ॥७३८॥ तान्हैतानेवंविद इति भ्रुती लिङ्गमपरमपि हष्टम्। स्वपतोऽपि जाग्रतोऽपि च तस्येवाग्रीन्हि सर्वभूतानि ॥७३९॥ चिन्वन्ति सर्वदैवैते तद्विद्यात्मकत्वलिङ्ग स्यात्। कर्माङ्गमुदितिकालानुष्ठेयं सार्वकालिक चेदम् ॥ ७४० ॥

भ्रुतिलिङ्गमूत्रदृषटं लिङ्ग तु प्रकरणाद्वलीय इति॥ ७४? ॥ विद्यात्मकत्वमेषां तस्माद्युक्तं हि लिङ्गभूयस्त्वात्। पूर्वविकल्पः प्रकरणात्स्यात्किया मानसवत् ॥। ४५॥। यञ्चाग्नय: स्वतन्त्रा ह्यनन्यशेषा इतीह निर्दिष्मू ॥ ७४२॥ नैतद्युक्तं यस्मात्प्रकरणमेतक्क्रियामयस्याग्नेः । तद्विषयो हि विकल्पविशेषादेशो न हि स्वतन्त्रः स्यात्॥ ७४३॥ पूर्वस्य चेष्टकाग्रेः संनिहितस्य हि विकल्पबोधार्थम्। इह संकल्पमयत्वप्रकारभेदोपदेश एवायम्॥७४४॥ नन्वत्र पूर्वमुक्तं लिङ्गं हि प्रकरणाद्वलीय इति। सत्यं हि लिङ्गमीहङ्न हि प्रकरणाद्वलीय इह भवति॥७४५।। विधिवाक्यस्थं यत्स्यात्तदेव हि प्रकरणाद्वलीयः स्यात्। विधिवाक्ये न हि लिङ्गं किमपि च दृष्ट परं त्विहैवेतत् ॥७४६॥ सांपादिकाग्निविषयप्रशंसनात्मकमिदं भवेद्ाक्यमू। तच्ार्थवादरूपं तत्स्थं लिङ्ग न बाधकं भवति॥७४७॥

Page 319

तृवीथपाद: २] माष्यार्थरत्नमाला। ३१५

अप्रासे हयन्यार्थे गुणवादेनोपपद्यमानं यत्। प्रकरणमेतद्वाधितुमुत्सहते लिङ्गमीद्टृशं हि कथम् ॥७४८॥ सांपादिका अपीमेऽग्रयः क्रियानुप्रवेशिनस्तस्मात्। मानसवदितिनिदर्शनमत्र यथा द्वादशाहसत्रे हि। ७४९॥ त्यक्त्वाउन्त्याहर्द्वितयं दशरात्रस्य विशेषितस्यान्ते। दशमेऽहन्यविवाक्ये मानस एव ग्रहो विनिरदिष्टः ॥७५० ॥। तत्र च पृथिवी पात्रं सोमरसोऽसी समुद्र एवोक्त:। स्यादेवता प्रजापतिरस्मे तस्यैव ग्ृह्यमाणस्य॥७५१॥ ग्रहणासादनहवनाहरणोपह्वानभक्षणानि यथा। तत्र च तान्येतानीत्याम्नायन्ते हि मानसान्येव। ७५२ ।। ग्रहकल्पो हि यथा वा क्रियाप्रकरणाक्क्रियाविशेषः स्यातू। एवमयमग्निकल्प: क्रियाविशेषो न हि स्वतम्त्र: स्पात् ॥७५३॥ अतिदेशाच् ॥४६ ॥ अतिदेशशाग्रीनां क्रियात्मकत्वानुमापको हष्टः। एकैक एव तावान्यावान्य: पूर्वमभिहितोऽगिरिति ॥ज५४ ॥। सामान्ये सत्येव ह्यतिदेशोऽयं प्रवर्तते शास्त्रे। वियैव तु निर्धारणात् ॥४७ ॥ उक्ताक्षेपनिरासप्रयोजनोऽसी तुशब्डे इह पठितः ॥ ७५५।। एते मनश्विदाद्या: केवलविद्यात्मका: स्वतप्त्रा: स्युः । विद्याचित एवेति हि निर्धारयतीह येन तानग्रीन् ॥ ७५६ ॥ अन्याऽपि विद्यया हैवैत इति श्ुतिरपीत्थमेवेतान्। दर्शनाच॥ ४८ ॥ एतेषां स्वातकथे लिद्व यत्पूर्वमेव तज्ञोक्तम॥७७॥। ननु छिङ्गनमीहशं न प्रकरणतो बलवदित्यतो बूते। श्रुत्यादिबलीयस्त्वाच न बाध: ॥। ४९ ॥ नैवं प्रकरणसामथ्यादेषां हि क्रियाविशेषत्वम्॥७५८॥ अध्यवसाय ततो हि स्वतण्रातापक्षवाधनं युक्तम्। धुत्यादीन्यत्र यतो मवन्ति हि प्रकरणाद्वलीयांसि।।७५९। तानि य मनश्विदादीनां स्वातन्त्रयं हि साधयन्त्ेव।

Page 320

३१६ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य- ते हैते विद्याचित एवेति श्रुतिरियं हि मवतीह॥ ७६० ॥ लिक्ग हि सर्वदा सर्वाणीत्यादिकमुदाहृतं पूर्वम्। वाक्यमपि विद्यया हैवैत इति हि तत्र साधकं मवति॥७६१॥ विद्याचित एवेति श्रुतिरेषा सावधारणैतेषाम्। अभ्युपगते क्रियानुपवेशपक्षे हि पीडितैव स्थात् ॥७६२॥ नाबाह्यसाधनत्वाभिप्रायं तद्वधारणं तर्हि। अवधारणमफलं स्याद्विदयाचित इत्यनेन तल्लाभात॥७६३॥ गृहकल्पवदेतेषां तुल्येनाबाह्यसाधनत्वेन। प्राप्तक्रियाङ्गताया निवर्तनायावधारणं सफलम्॥७६४॥ एवंविधे हि भूतान्यग्रीश्विन्वन्ति सर्वदैवेति। सातत्यदर्शनमिदं तेषां स्वातन्त्रयपक्ष एव स्यात् । ७६५॥ वाक्पाणमयाग्गिष्वपि सातत्यं दृश्यते हि सततमिति। सातत्यदर्शनेन क्रियाप्रयोगस्य चाल्पकालत्वात् ॥ ७६६ । स्वातन्त्रयेण हि तेषां विद्यारूपत्वमवधृतं मवति। इद्मर्थवाद्रूपं संकीर्तनमात्रमिति तु न न्याय्यम् ॥ ७६७॥ यत्र च विधायकोऽन्यो लिडदिरुपलम्यते हि विस्पष्टम्। तत्रैव युक्तमेतत्संकीर्तनमर्थवादमात्रमिति ॥७६८॥। अत्र तु विधायकान्तरमन्यन्नैवोपलभ्यते किमपि। संकीर्तनमात्रादिह विज्ञानविधानमुचितमेतेषाम्॥७६९॥ सातत्यदर्शनादिभिरेषां स्वातन्त्रयसिद्धिरिह वाच्या। एवंविदृश्चिता इति पुरुषविशेषानुबद्धमिह वाक्यम्॥७७०॥ न क्षमते क्रतुयोगं तस्मात्स्वातन्त्रयपक्ष इह युक्त:। अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्र तदुक्तम्॥ ५० ॥ प्रकरणमुपसृत्यापि स्वातन्त्रयं स्यान्मनश्िविदादीनाम्॥७७१॥ येन मनीव्यापारेष्वनुबध्नाति क्रियावयवयोगम्। मनसैवाऽडधीयन्ते मनसैवेमे ग्रहाश्र गृह्यन्ते ॥७७२॥ मनसा शंसन्मनसा स्तुवन्यदेतज्व कर्म यज्ञीयम्। तञ्च मनश्वित्सु मनोमयमेव क्रियत एवमनुबन्धः। ७७३ ।। संपत्फल इह हष्टः प्रत्यक्षा अपि न च क्रियावयवाः। हह संपदा त एते लिप्सयितव्या हि मवितुमर्हन्ति॥७७४॥

Page 321

तृतीयपाद्: ३ ] माष्यार्थरत्नमाला। ३१७

तदनुप्रवेशितेयं न शङकूनीया श्ुतेश् वैरुप्यात्। अत्र तु न हि क्रियाक्के ह्यध्यसितव्यं तु किंचिदृवि दृष्टम।७७4॥ कित्वत्र हि पटूत्रिंशत्सइस्रसंख्या इह मनोवृत्ती: । आढाय कल्पयन्ति ह्यग्नित्वं च ग्रहादिकांस्तासु॥७७६॥ पुरुषायुषो हाहःसु च संख्या हष्टा सतीह तत्स्थासु। मनसो वृत्तिष्वारोप्यत इति वैरुप्यमत्र मन्तव्यम्॥७७७ ॥। तस्मावनुबन्धादिम्यः स्वातन्त्रयं मनश्विविदादीनामू। आदिग्रहणादृतिदेशादप्येव हि योजनीयमिह॥७७८॥ यावानसौ हि पूर्वस्तेषामेकैक एव ताहगिति। यञ्च क्रियामयाग्रेर्माहात्म्यं तञ्ञ भावनाग्ीनाम्॥७७॥ एकैकस्यातिदिशच्छृतिः क्रियानादरं हि दर्शयति। अतिदेशो हि विकल्पार्थ एव नानादरार्थ इत्यपि न॥७८० ॥ यत्रैकस्मिन्साध्ये निरपेक्षं साधनद्य मवति। मवति हि तत्र विकल्पो ब्रीहियवाद्योर्यथा हि यागे स्यात्।।७८१।। आहवनीयोद्धरणादिलक्षणं साधनं त्विहैकं स्थात्। साध्यं क्रियामयाग्निर्ध्यानाग्निश्रेति भिन्नमिह हष्टम् ॥७८२॥ एकस्य साधनस्य तु न साध्ययुग्मे मवेद्विकल्पोडसौ। यत्त्वत्र पूर्वपक्षोपोद्दलकश्षातिदेश इत्युक्तम् ॥ ७८३॥ तत्प्रत्युक्तमिहापि ह्यग्नित्वेनातिदेशसाफल्यात्। ध्रुत्यादीन्यग्नित्वे ध्यानाग्रीनां प्रदर्शितान्येव॥। ७८४।। प्रज्ञान्तरपार्थक्यं निदर्शनं दर्शितं हि सूत्रकृता। प्रज्ञान्तराणि शाण्डिल्याङ्गितविद्यापुरःसराणि यथा ॥ ७८५॥ कर्मम्यः पृथगेव प्रज्ञान्तरतोऽपि हि स्वतन्त्राणणि। तद्वच्च मावनाग्नय इह कर्मभ्यो मवन्ति पृथगेव॥ ७८६।। या चेह राजसूयप्रकरणपठिता ह्यवेष्टिनामेषटिः दृष्टस्तस्या इष्टेरुत्कर्षः प्रकरणाच्च तत्रैव॥। ७८७॥ वर्णत्रयानुबन्धाद्वाजसवत्त्वाच्च राजसूयस्य। करत्वर्थायामिति चेदित्यत्र प्रथमतन्त्र इदमुक्तम्॥७८८ ॥ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापतिः ।।५१ ॥

Page 322

३१८ सुब्रह्मण्य विरचिता- [ ३ तृतीयाध्यायस्वं-

मानसवदिति यदुक्तं तच्चेदानीं निराकरोतीह। नैवेह मानसग्रहसामान्यात्स्यान्मनश्विदादीनाम्।।७८९॥ कल्पयितुमत्र शक्यं पूर्वप्रकृतक्रियाविशेषत्वम्। पूर्वोक्तेम्यः शत्यादिम्यः केवलपुमर्थतासिद्ध्धेः॥ ७९०॥ न हि किंचित्कस्यचिदपि केनचिदंशेन साम्यमिह नेति। एतावता यथास्वं निवर्तते कि स्वभाववैषम्यम् ॥७॥ मृत्युवदितिदृष्टान्तो यथा स एष इति मन्त्रवाक्येषु। मण्डलवर्ती पुरुषस्तथाऽयमगनिरपि मृत्युरित्युक्तम् ॥ ७९२ ॥ इह मृत्युशब्दसाम्येऽप्यादित्याग्न्योर्न सर्वसाम्य स्यात् । एवमसौ वावेति श्रुतौ दुलोकेऽग्रिश्द्साम्थेडपि॥ ७९३॥ आदित्य एव समिदित्यादित्ये तत्पदे समानेऽपि। लोकादित्यादीनां न चाग्रिसमिदादिरूपतापत्ति: ।७९४॥ परेण च शब्दस्य ताद्विध्यं भूयत्वास्त्वनुबन्धः ।।५२।। ताद्विष्यं शब्दस्य प्रयोजनं लक्ष्यते परस्ताञ्च। एषोडगिश्चवित इत्येतस्मिन्हि ब्राह्मणान्तरे चैतत् ॥४९५॥ यत्र च कामक्रोधा: परागतास्तं च लोकमेते हि। आरोहन्ति हि विद्यासंपन्ना विद्ययैव केवलया॥ ७९६॥ नाविद्वांस: कर्रिण एवं केवलतपस्विनो वेति। विद्यां च संप्रशंसति कर्म विनिन्दृति हि विद्ययेत्याद्या॥ ७९७॥ अन्यत्रापि यदेतन्मण्डलमित्यत्र दृश्यते चैतत्। अमृतो मवति हि सृत्युर्ह्यस्याऽऽत्मेत्यादिकेन वाक्येन ।। ७९८॥ विद्याफलोपसंहारादेवास्य तु न कर्मशेषत्वम्। यस्मादिहाग्न्यवयवाः संपाद्याः खलु मवन्ति मूयांसः ॥७९॥ तस्मादिहाग्निनेयं विद्या केवलमिहानुबध्येत। तस्मात्केवलविद्यात्मकत्वमेव हि मनश्विदादीनाम्॥८०० ॥ एक आत्मनः शरीरे भावात् ॥५३॥ इह देहव्यतिरिक्तो ह्यात्माऽस्तीति तु समर्थ्यंते सपदि। देहव्यतिरिक्तात्मन्यसति च परलोकचोदना: सकलाः।। ८०१ ॥

Page 323

तृतीयपाद: ३] माष्यार्थरत्नमाला। ३१९

उपरुध्पेरन्बन्धो मोक्षोऽपि च कस्य वोपदिश्येत । नन्विह शाख्त्रप्रमुखे प्रथमे पादे हि वर्णि[तं] हेतत्।। ८०२॥ वेहव्यतिरिक्तस्य हि शास्त्रोक्तफलोपमोगयोग्यस्य। आत्मन इद्मस्तित्वं सत्यं तदिदं हि तत्र माष्यकृता ॥ ८०३ ॥ प्रतिपादितं न तत्र ह्यात्मास्तित्वेऽस्ति किंचिदृपि सूत्रम्। अन्राSSक्षेपपुरःसरमात्मास्तित्वं हि सूत्रकारेण ।। ८०४ ।। वर्णितमित एवाSSकृष्याSSचार्येणापि शबरसंज्ञेन। तदिवं प्रमाणलक्षण उपदिष्टं मगवतोपवर्षेण।। ८०५ ।। अत एवाऽडत्मास्तित्वाक्षेपे शारीरके हि वक्ष्यामः । इत्युद्धारो हि कृतः प्रथमे तम्त्रे समअ्जसः सोऽयम्॥ ८०६॥ किचान्यत्पूर्वस्मिन्नधिकरणे किल मनश्विवादीनाम्। प्रकरणतश्वोत्कर्षोपगमेन पुरुषार्थता हि निर्दिष्॥ ८०७ ॥ तत्र च कोडसौ पुरुषो मनश्विवदादय इमे यदर्थाः स्युः । इति शक्कायां देहव्यतिरिक्तात्मास्तितोच्यते सपदि॥८०८॥ आत्मास्तित्वाक्षेपार्थं चेदं सूत्रमादिमं मवति। आक्षेपपूर्विका किल परिहारोक्तिविवक्षितार्थे हि॥ ८०९॥ प्रभवत्युत्पाद्यितु स्थूणानिखनननयेन हढबुद्धिम्। एके लोकायतिका ये किल देहात्मवादिनस्ते वे ॥८१०॥ देहव्य तिरिक्त स्याऽडत्मनोडस्य चाभावमेव मन्वाना:। व्यस्तसमस्तपृथिव्यादिषु देहाकारपरिणतेष्वेव ॥ ८११॥ चैतन्यं मदशक्तिवदिति किल संमावयन्त एते हि। विज्ञान चैतन्यं विशिष्टकायक्र पुरुष इत्याहुः ॥८१२॥ ! स्वर्गापवर्गगमनायान्यो देहातिरिक्त इह नास्ति। तस्माच्च चेतनश्ाप्यत्मा भवतीह देह एवासौ।८१३॥ अत्र शरीरे मावादिति हेतुर्यद्धि सति च यस्मिन्हि। मवति ह्यसति च न भवति तत्तद्धर्म इति चाध्यवसितं हि।।८१४।। औष्ण्यप्रकाशरूपाविहाग्गिधर्मौ तथैव हष्टा हि। चैतन्यस्सृत्याद्या ये चाभिमता: स्युरात्मधर्मतया॥८१५॥ न हि बहिरुपलभ्यन्ते हयुपलभ्यन्तेऽन्तरेव देहे ते। अतिरिक्तात्मासिध्य्या तद्द्र्मा एव मवितुमईन्ति ॥८१६॥

Page 324

३२० सुब्ह्मण्यविरचिता- [३ तृतीयाध्यायस्प-

व्यतिरेकस्तन्भावाभावित्वान्न तूपलब्धिवत्।। ५४ ।। अव्यतिरेको देहादात्मन इति यञ्च पूर्वमाक्षिप्तम्। तच्च न युक्तं देहादस्य व्यतिरेक एव युक्त: स्थात् ॥८१७॥ यन्दावाभावित्वादिति तु यथोक्तार्थसाधको हेतु: । यद्यत्र देहमावे भावात्तद्द्र्मता मवेतेषाम् ॥८८ । सति देहेवि कदाचिज्ज्ञानादीनां हि तत्र चामावात्। स्याच्चैतद्धर्मत्वं तथाऽऽत्मधर्मत्वमपि भवेत्तेषाम् ॥८१९॥ रूपादयो हि ये स्युर्यावद्देहं मवन्ति ते धर्माः । चैतन्यस्मृत्याद्याः सत्यपि देहे मृतौ हि न मवन्ति ॥ ८२० ॥ ये देहधर्मभूता रूपाद्यास्ते परैश्र दृश्यन्ते। चैतन्यस्मृत्याद्याः सत्यपि देहे परैरन हश्यन्ते ।। ८२१॥ यदेहे चैतन्यं यस्योत्पत्तिश्र भवति भूतेभ्यः । किरूपं तज्च स्यान्न हि भूतचतुष्ट्यातिरिक्तं तत् ।। ८२२ ।। लोकायतिकनयेन हि मूतचतुध्ट्यविलक्षणं तत्र। य द्भूतभौतिकानामनुमवनं स्यात्तदेव चैतन्यम्॥ ८२३ ॥। इति चेसहेतेषां विषयत्वान्नास्य विषयधर्मत्वम्। एकस्य कर्तृकर्मोमयात्मकत्वं न दृश्यते लोके ।। ८२४ ॥। इह भूतधर्मचैतन्येनैव हि मूतमौतिकानि कथम्। विषयी क्रियन्त इह न हि रूपाद्यैः स्वं परस्य रूपं वा ॥८२५॥ विषयी क्रियते चैतम्येन तु भूतं च मौतिकं सकलम्। विषयी क्रियते तेषासुपलब्धिरियं यथाऽम्युपेता स्यात् ॥ ८२६॥ उपलब्धेर्भूतेभ्यो व्यतिरेकोऽपि च तथाऽम्युपेय: स्यात्। उपलब्धिरूप एव ह्यात्मा न ततोऽतिरिक्त इह कश्चित् ॥८२७ ॥ देहव्यतिरिक्तत्वं नित्यत्वं चाभ्युपेयमेवास्य। अहमिदमद्राक्षमितिप्रत्यभिसंधिर्न चान्यथा सिध्येत् ।। ८२८।। अपि चोपलब्धिरेषा सत्सु तु दीपादिषूपकरणेषु। मवत्ति ह्यसतसु न मवति सेति न चैतावतोपलब्धिरयम् ।८२९।। न मवति यथा प्रदीपादीनां धर्मस्तथैव देहेऽस्मिन्। सति भवति चोपलब्धिर्नासति मवतीति तावता हीयम ॥८३०।। न हि देहधर्म एव स्याद्देहस्योपकरणतामात्रात्। दीपादिवदुपयोग: कथंचिदुपपद्यते न चात्यन्तम् ।।८२१।।

Page 325

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ३२१

उपलब्धी देहस्योपयोग इह वृश्यते यथा र्वप्रे। तस्माद्वेहव्यतिरिक्तात्मास्तित्वं यदेसदनवद्यम् ॥८३२।। अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ प्रासङ्गिकीं समाप्य प्रकृतामेवानुवर्तते हि कथाम्। ओमित्येतदिति प्रक्रम्याधीता उपासना: श्रुतिषु ॥ ८३३॥ उद्गीथसामविषयास्तथैव चोक्थादिशस्त्रविषयाश्र। कर्माङ्गसंशिताः प्रतिवेदं शाखान्तरेषु दृश्यन्ते ॥ ८३४ ॥ तत्तच्छाखादृष्टोद्गीथादिष्वेव ता मवयुः किम्। किवाऽपि सर्वशाखागतेषु तेष्विति हि भवति संदेहः ॥ ८३५ ॥ तत्र प्राप्तं तावत्स्वकीयशाखागतेषु तेष्वेष। एता उपासना: स्युर्न तत्स्वशाखागतास्तु संनिहिता: ॥८३६ ।। इह तूद्रीथमुपासीतेति च सामान्यतो हि विहितानाम्। तत्तदुपास्तीनां स्याद्विशेषविषये हि नित्यमाकाङ्क्षा ॥ ८३७ ।। सा संनिकृष्टशाखाहष्टेन निवर्तते विशेषेण। शाखान्तरविहित विशेषोपादाने न कारणं किमपि ॥ ८३८॥ तस्मादुपासनानां शाखाभेदान्द्वेद्यवस्थेति। इत्याशक्का निरसितुमेतत्सूत्रं प्रदर्शितं मुनिना ॥ ८३९॥ उक्ताक्षेपनिरासप्रयोजनोऽसी तुशब्द इह सूत्रे। एता उपासनास्त्विह न प्रतिशाखं व्यवस्थिता: किंतु॥८४० ॥। श्रृत्यविशेषास्ता: खल्यनुवर्तेरन्हि सर्वशाखास। ध्रुतिरुद्गीथमुपासीतेति च सामान्यतः प्रवृत्तेयम् ।।८४१॥ संनिधिवशाद्विशेषे यदि व्यवस्थापिता भवेत्ताहै। श्रुतिरत्र पीडिता स्थान्नैतन्न्याय्यं हि संनिधानाद्धि ॥ ८४२॥ श्रुतिरिह बलीयसी न च सामान्यप्रत्ययोपरोधोडस्ति।

सर्वत्र चाविशेषात्समस्तशाखागतेषु तेष्वेव। उद्गीथादिष्वेवंजातीया: प्रत्यया: कुतो न स्युः ॥ ८४४॥ मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ शाखान्तरोदितेषूद्गीथादिषु कथमिहान्यतो विहिताः । स्युः प्रत्यया इतीयं विरोधशक्का न चेह कर्तव्या॥८४५॥

Page 326

३२२ सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

शाखान्तरोदितानां मन्त्राणां कर्मणां गुणानां च। उपसग्रहस्तु शाखान्तरे भवेच्छाखिनां यर्थकेषाम्॥८४६॥ अश्मादाने मन्त्रः कुटरुरसीत्याडिको हि नाऽडम्रातः । कुटरुरसि कुक्कुटोडसीति च विनियोगो हि हश्यते तेषाम्।८४७॥ येषामपि प्रयाजा: समिदाद्या न स्फुटं समाम्ताताः। ऋतघो वा इति तेषा गुणविधिराम्नायते हि तेष्वेव ॥। ८४८॥ येपामपि प्राठेडजोऽग्रीषोमीय इति जातिनिर्देशः। नेवास्ति भवति तेषामपि तद्विपयो हि मम्त्रवर्णोऽसी ।। ८४१॥ छागस्य वपाया मेदस इत्यादि: किलैवमन्यत्र।

वेदान्तरे हि दृष्टः परिग्रहो बहुवचोक्तसक्तस्य। यो जात इत्यधीतस्याध्वर्यव इत्यतो हि निर्दिष्टे ॥ ८५१॥ अध्वर्युकर्तृकेऽस्मिन्प्रयोग एव हि परिग्रहो दृष्टः । तस्माद्यथाSडभ्रयाणां कर्माङ्गाणं हि भवति सर्वत्र ॥८५२॥ अनुवृत्तिरेवमेव हि तदाश्चितानामुपासनानां स्यात्। प्रागुक्तो हि विरोधो मन्त्रादिवदेव परिहृतो भवति ॥८५३॥ भूम्र: क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७॥ वैश्वानरविद्यायां दष्टा प्राचीनशाल इत्याद्या। आख्यायिका हि तस्यां व्यस्तस्यापि च तथा समस्तस्य ॥८५४।। वैश्वानरस्य तस्य ह्यापासनं श्रूयते द्विरूपमिद्म्। व्यस्तोपासनमभिहितमेवं तत्रपमन्यवेत्यादि । ८५५।। एवं तत्र समस्तोपासनमपि तस्य वेत्यनेनोक्तम्। तत्र च संदेहोऽयं किमिहोमयथाऽप्युपासनं न्याय्यम्॥ ८५६॥ व्यस्तसमस्तोमययोरथ तु समस्तस्य तस्य वा तदिति। तत्रोपास्स्वेति प्रत्यवयवमपि च क्रियापद्श्रवणात् ॥ ८५७॥ तव सुतमासुतमिति फलभेद्श्रवणाच्च तत्र युक्तानि। व्यस्तान्युपासनानि स्युरिति प्राप्तेऽभिधीयते हि ततः ॥ ८५८।। यञ्च समस्तोपासनमत्य हि वैश्वानरस्य तस्पैव। भूम्रो ज्यायस्त्वं खल्वस्मिन्वाक्ये विवक्षितं भवति ॥८५९ ॥ दर्शादिकतुषु यथा साङ्गस्यैव प्रधानयागस्य। एक: प्रयोग एव हि सामस्त्येन च विवक्षितो मवति ॥ ८६० ।

Page 327

तृतीयपाद: ३] माष्यार्थरत्नमाला। ३२३

न व्यस्ताङ्गानामपि न चैकदेशाङ्गयुक्पधानस्य। तद्वदिहाषि च भूम्रो ज्यायस्त्वं हि श्रुतिः प्रदर्शयति ॥८६१॥ उद्दालकावसाना ऋषयः षड्ये भवन्ति विखयाता: । वैश्वानरविद्यार्या परिनिष्ठा लब्धुमक्षमास्ते हि ॥ ८६२॥ अभ्याजग्मु: केकयराजानमितीह दर्शयित्वैव। एककस्योपास्यं द्यप्रमृतीनां हि दर्शयित्वैव ।। ८६३।। मूर्धादिमावमेषां मूर्धा त्वेष इति तत्र विदधाति। मूर्धा ते व्यपतिष्यद्यन्मामित्यादिना हि तत्रैव ॥ ८६४ ।। ठ्यस्तोपासनपक्ष व्यावृत्य समस्तपक्षमनुवृत्त्य। भूमाश्रयमेव फलं सर्वेष्वित्यादिना प्रदर्शयति ॥८६५॥ प्रत्येकं हि सुतेजःप्रमृतिपु फलभेदकीर्तनं यञ्च। तदपि ह्यङ्गफलानां प्रधानफलताप्रदर्शनार्थं हि ॥ ८६६॥ एवमुपास्स्वेति प्रत्यवयवमाख्यातदर्शनं यदपि। तदृपि परामिप्रायं न व्यस्तोपासनाविधानार्थम् ॥ ८६७।। तस्मादत्र समस्तोपास्त्यवलम्बो भवेदसी श्रेयान्। क चित्समश्युपासनपक्ष ज्यायासमत्र निर्दिश्य ॥८६८ ॥ जायस्त्वकीर्तनादेव व्यस्तोपास्तिपक्षमप्यत्र। सूत्रकृदनुमन्यत इति निरूपयन्त्येतदत्र न हि युक्तम् ॥ ८६९॥ अत्र समस्तोपास्तौ सत्या खल्वेकवाक्यतावगती। उमयविधानेन कथं युक्ता तन्भ्ेदकल्पना प्रकृते।। ८७० ॥ मूर्धेत्याहयुपदिष्टा निन्दाऽप्यत्र तु भवेद्विरुद्धैव। युमयथाऽप्युपासनमिह सिद्धान्तो भवेत्तदा तत्र ।। ८७१ ।। व्यस्तोपासनमेवेत्येवं वाच्यो हि पूर्वपक्षः स्यात्। उपसंहारेण समष्युपासने ह्यवगतेऽि विस्पट्टम् ॥ ८७२ ॥ तद्मावस्तु कथं वा वक्तुं शक्योडत्र पूर्वपक्षे स्यात। ज्यायस्त्ववचनमपि यत्सूत्रे परिदृश्यते तद्तदृपि। ८७३॥ अत्र च समष््युपास्तेः प्रमाणवत्त्वप्रदर्शनार्थ स्यात्। व्यस्तोपास्तीनामप्रमाणससिद्धत्वबोधनार्थ च।। ८७४।। नाना शब्दादिभेदात् ॥५८॥ सति हि सुतेजःप्रभृतीनामपि फलभेदगोचरे भ्रवणे। तत्र समस्तोपासनमेव ज्याय इति दर्शितं पूर्वम्॥८७५॥

Page 328

३२४ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्थ-

तन्यायेन च सर्वाण्युपासनानि श्रुतानि यानि स्युः । तान्यपि सामस्त्येनोपासिष्यन्त इति बुद्धिरुत्पन्ना ।। ८७६ ।। अपि च न वेद्याभेदे विद्याभेदो भवेत्कथंचिदपि। परमेश्वरस्तु वेद्यः श्रुतिनानात्वेऽपि चैक एवासी॥८७७ ॥ अवगम्यते मनोमय इत्यादिश्रुतिषु चैक एव तथा। प्राणो वावेतिश्रुतिवचनेषु प्राण एवमन्यत्र ॥ ८७८ ॥ यदृपि श्रुतिनानात्वं तदपि गुणान्तरसमर्पणार्थं स्यात्। तस्मादिहैकवेद्यव्यपाश्रयं यञ्ञ भवति गुणजातम्॥८७९॥ विद्याकात्स्न्याय हि तच्छाखान्तरगतमिहोपसंहार्यम्। एवं प्राप्ते बूते वेद्याभेदेऽपि मवति नानेति ॥। ८८० ॥। एवंविधा हि विद्या वैद्याभेदेऽपि मवति भिन्नैव। वेदोपासीतेति हि शब्दो भिन्नः प्रतीयते यस्मात् ॥ ८८१॥ शब्दान्तर इति सूत्रे शब्दोडसौ कर्मभेदहेतुरिति। वर्णितमत इह विद्या भिन्ना शब्दादिभेदता भवति ॥ ८८२॥ आदिग्रहणाच्च गुणादयो यथासंभवं हि योज्या: स्यु: । नन्विह वेदेत्यादी प्रतीयते शब्दभेद्मात्रं हि।। ८८३ ॥ यजतीत्यादिवदेव प्रतीयते नार्थभेद इह कश्चित्। इह तु मनोवृत्त्यर्था वेदेत्याद्या भवन्ति ये शब्दाः॥८८४॥ तद्भेदेन कथ वा विद्या भिन्नेति चेन्न दोषोऽयम्। तेषु मनोवृत्त्यर्थत्वाभेदेऽपि च गुणादिमेदेन ॥ ८८५॥ वेद्ये मिन्ने विद्या भिन्नैव स्यान्न सा भवेदेका। एकस्यापीशस्य प्रतिप्रकरणं गुणा विभिद्यन्ते॥। ८८६॥ पाणस्यैकस्यापि हि गुणो यथा तत्र तत्र मिन्नः स्यात्। एवमनुबन्धभेदाद्विधिभेदे भिद्यते हि विद्येयम् ॥ ८८७॥ श्रुतिनानात्वं हि गुणान्तरविध्यर्थमिति यञ्च पूर्वोक्तम्। तच्च न यस्मादत्र तु विनिगमकं नोपलभ्यते किमपि॥८८८॥ प्राप्तामनूद्य विद्यामप्राप्तानेकगुणविशेषाणाम्। यदि चेद्विधानमत्र तु दुर्वारो वाक्यभेद एव तदा ॥८९९॥। विद्यैक्ये हि गुणानां पुनरुक्तिरपीह मवति विफलैव। असकृच्छयन्ते किल गुणाः समाः सत्यकामताद्या हि॥ ८९० ॥

Page 329

तृतीयपाद: ३ ] माष्यार्थरत्नमाला। ३२५

प्रकरणभेदान्नैराकाङक्ष्ये नात्रैकवाक्यता युक्ता। वैश्वानरविद्यायामिवात्र न समस्तचोदना वाऽस्ति ॥ ८९१॥ विद्यैकत्वनिमित्ते विद्यैकत्वे त्विह प्रतिज्ञाते। सकलगुणानामुपसंहारोऽशक्यो भवेत्प्रतिज्ञातः ॥८१२।। तस्मादिह शब्दादेर्मेदाद्विद्याऽपि भवति नानेति। सुधूक्तमत्र सूत्रे तदानुगुण्येन मवति विद्येक्यम् ॥८९३॥ विकल्पोऽविशिष्टफलत्वात्॥ ५९॥ विद्याभेदमिहोक्त्वा तदनुष्ठानक्रमं निरुपयति। अत्र त्रिविधा विद्या अहग्रहा अपि तथा तटस्थाक्ष ॥ ८९४॥ अङ्गाभिताश्र तत्राहंग्रहविद्यास्विदं विचारयति। एतासां विद्यानां किमिह यथेच्छं समुच्चय: किंवा॥ ८९५॥ भवति विकल्पो वेति हि संदेहे सति विकल्प इह युक्त:। इह नाऽडसां विद्यानां समुञ्चये नियमकारणं किमपि ॥ ८९६॥ नन्वग्निहोत्दर्शादीनां हि परस्परं विभिन्नानाम्। मवति समुच्चयनियमो यथा तथेहापि स तु भवेदिति चेतू।।८९७।। मैवं हि नित्यताश्रुतिरेव हि तत्र तु समुच्चये हेतुः । इह विद्यानामेवं नित्यत्वपरा श्रुतिर्न काचिदृपि ॥८९८॥ तस्मान्न समुच्चय इह नापि विकल्पोऽन्र भवति युक्ततमः । एकत्राधिकृतस्य प्रतिषेधो नोप्लभ्यतेऽन्यत्र ॥ ८९९ ॥ परिशेषादत्र यथाकाम्यानुष्ठानमेव युक्तमिति। नन्वविशिष्टफलत्वाद्विकल्प आसां भवेदिह न्याय्यः ।। ९०० ।। कं ब्ह्म ख पुराणं मनोमयः सत्यकाम इत्याद्याः। तुल्यवदीशप्राप्तिफला लक्ष्यन्ते यतोऽत इति चेन्न ॥ ९०१ ॥ स्वर्गादितुल्यफलकेष्वपि च यथाकाम्यमेव दृष्ट हि। एवमिहापि यथाकाम्यमेव न विकल्प इत्यतो बूते ॥। ९०२।। आसां विकल्प एव न्याय्यो न समुच्चय: कदाचिदृपि। यस्मादुपास्यसाक्षात्करणात्मकफलमिहाविशिष्टं हि॥ ९०३॥ साक्षात्कृते परात्मन्येकेनैव द्वितीयमफलं स्यात्। अपि चोपास्तीनामिह न समुच्चयेन हिफलं मवेत्किंचित्॥९०४॥ यदुपास्यविषयसरक्षात्करणं फलमिह भवेदुपास्तीनाम्। विक्षेपसादनेऽस्मिन्समुच्चये सति मवेत्फलं तदिदम् ॥९०५॥

Page 330

१२६ सुबह्मण्यविरचित।- [ ३ तृतीयाध्यायस्य-

विद्याफल हि साक्षात्कृतिसाध्यं दर्शयन्ति वेदान्ताः। यस्य स्यादित्याद्याः स्मृतयक्ष सदेति दर्शयन्त्येवम्॥ ९०६ ॥

आलम्व्यतत्परः स्याद्यावदुपास्यापरोक्षमन्यत्स्यात् ॥९०७।। काम्यास्तु यथाकामं समुच्चीयेरत्न वा पूर्वहेत्वभावात् ॥ ६० ॥ स य एतमेव वायुं दिशामिति प्रथितकाम्यविद्यासु। कर्मवदेवाद्टष्द्वारा हि फलं प्रसाधयन्तीषु॥४८॥ साक्षात्करणापेक्षा न चास्ति तेन च भवेद्यथाकाम्यम्। य स्माद्विकल्पसाधनम विशिष्टफलत्वमत्र नैवास्ति ।। ९०९ ।। अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ कर्माङ्गेषूद्रीथादिषु विहिता या उपासनास्तास्तु। आश्रयतन्त्रा हि यथा संभूयैवाऽडश्रयास्तथेवैताः ॥९१०॥ शिष्टेश्ष ॥ ६२ ॥ त्रिषु वेवेषु यथा वा स्तोत्रादय आश्रया हि शिष्यन्ते। एवं तदाशिता अप्युपासना: स्युर्न तत्र वैशेष्यम् ॥९११॥ समाहारात् ॥ ६३ ॥ छान्दोग्ये हि प्रणवोद्गीथैक्यध्यानविधिरसौ हष्टः। तत्रैव होतृषदनाद्द्वैवाSSदित्यादिरर्थवादोऽपि ॥ ९१२॥ तत्र स्वरप्रमादादिना हि दैवेन दुष्मुट्गीथम्। प्रणवोद्गीथैकत्वध्यानबलादेव सोडयमुद्गाता ॥ ९१३ ॥ निर्दोषं तं कुरुते सम्यक्रतहोतृशंसनादिति हि। वर्णितमत इह वेदान्तरोचितप्रत्ययस्य चैतस्य ॥९१४ ॥ वेदान्तरोपदिष्टानुबन्धसंकीर्तनं हि सर्वत्र। वेदान्तरोदितप्रत्ययोपसंहारमेव सूचयति ॥९१५॥

विद्याध्येयं विद्याशयमोंकारं हि सर्ववेदेषु। साधारणं च तमिमं तेनेयमिति श्रुतिः प्रदर्शयति ॥९१६॥

Page 331

तृतीयपाद: ३ ] भाष्यार्थरत्नमाला। ३२७

आभ्रयसाधारण्यादाशितसाधारणत्वमपि तस्मात्। अथवैते कर्मगुणा ये चोद्गीथादयो भवन्त्येते ।। ९१७ ॥। सवंप्रयोगसाधारणा इमे कर्मसूपलभ्यन्ते। तेनाSSश्रयसहभावात्प्रत्ययसहभाव एव युक्त इह॥ ९१८॥ न वा तत्सहभावाश्रुतेः ॥६५॥ आभ्रयसहमाव्रेन प्रत्ययसहभाव इति हि यच्चोक्तम्। तन्नाSडश्रयसहभावो न चाऽडितानासुपसनाना स्यात् ॥९१९॥ यस्मादिहाऽडभरितानां तत्सहमावः श्रुतो न कुत्रापि। वेदत्रयविहितानां स्तोत्रादीनां तथैव चाङननाम्॥९२० ॥ सहमावश्रचमसं वोन्नीयेत्यादिपु यथोपलब्धः स्यात्। एवं ह्युपासनानां सहभावे न क्वचिच्छृतिर्दृष्टा ॥ ९२१॥ नापि प्रयोगवचनं सहभावं प्रापयेदिहैतासाम्। अत्र ह्युपासनानां पुरुषार्थत्वं प्रतीयते श्रुतिषु ॥ ९२२॥ करत्वर्थानामुद्गीथादीना हि प्रयोगवचन तु। सहमावमेव केवलमिह गमयेन्न ह्युपासनानां च ॥ ०२३॥ अङ्गाभितान्यपि च तान्युपासनानि स्वतः पुमर्थानि। गोदोहनादिवदिति प्रपश्चित चैतदेव पूर्वत्र ॥ ९२४ ॥ करत्वर्थान्यङ्गानि हि पुरुषार्थानि ह्युपासनानि स्युः । सति चैवं हि विशेषे सहभावो न हि कथचिद्पि तेपाम् ।९२५॥ लिङ्गद्वयमपि च परं न्यायाभावाच्छतेरमावाज्ञ। नोपासनसहभावस्योपोद्लकं हि साधनं भवति ॥९२६ ॥ आश्रयतन्त्राण्येतान्याभ्रपलोपे परं हि लुप्येरन्। न तु तत्सहभावार्हण्यतो यथाकामभेव तानि स्युः ॥९२७ ॥ दर्शनाच ॥ ६६ ॥ भ्रुतिरसहमावमेव हयुपासनानामिह प्रदर्शयति। एवंविद्व बह्मा यज्ञं यजमानमृत्विजः सर्वान् ।९२८॥। अभिरक्षतीति तत्र हि सर्वत्र प्रत्ययोपसंहारे। सर्वे सर्वविदो न ज्ञानवता ब्रह्मणेतरेषां हि॥ ९२९॥ परिपाल्यत्वं युक्तं तत्संकीर्तनमिद सृषैव स्थात्। तस्मादुपासनानां समुच्चयो वा भवेद्विकल्पो वा ॥ ९३० ॥।

Page 332

३२८ सुब्ह्मण्य विरचिता- [ ३ तृतीयाष्यायस्य-

शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां तृतीयसंज्ञश् योऽयमध्यायः ॥९३१॥ तत्र च तृतीयपादे सूत्रार्थो यश्च भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो जयतु सोऽयमनवद्यः ।। ९३२।। इति तृतीयाध्याये तृतीयपादः समाप्तः॥३॥

अथ चतुर्थः पाद:।

पादेऽतीते हि परापरविद्यानां गुणोपसंहारम्। निर्दिश्य तत्स्वरूपं निश्चितमिह किल चतुर्थपादे हि॥ १॥ पुरुषार्थहेतुता कर्मानङ्गतया निरूप्यते तासाम्। यज्ञादीनि च बहिरङ्गाणि शमादीनि चान्तरङ्गाणि ॥२॥ विद्योत्पत्ती साधनभूतान्यपि चेह दर्शयिष्यन्ते। मवतीह चैकविद्याविषयत्वं संगतिर्द्वयोरनयोः ॥३॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥ तत्वज्ञाने बहुधा विप्रतिपत्या तदेव चाऽडदौ हि। निर्णीयते किमात्मज्ञानं यच्चीपनिषदमुपदिष्म् ॥४॥

किवा स्वतन्त्रमेतत्पुरुषार्थं साधयिष्यतीत्यस्याम् ॥५॥ भीमांसाया सत्यां सिद्धान्तेनैव तदिदमारभते। वेदान्तवाक्यजनितादात्मज्ञानादतो हि पुरुषार्थः ॥ ६॥। मवतीति बादरायण आचार्यो मन्यते तदेतदिह। अवगम्यते श्रुतिभ्यो ब्रह्मविदाप्नोति तरति शोकमिति ॥७॥ एतावदरे खल्वसृतत्वमिति श्रुतिरषि प्रदर्शयति। निरपेक्षायास्तस्या विद्याया इह पुरुषा(म)र्थहेतुत्वम्॥८॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येग्विति जैमिनिः ॥ २ ॥ स्वत एव ज्ञानमिदं पुमर्थसाधनमितीह यच्चोक्तम्। तत्तु न युक्तं यस्माज्ज्ञानं तदिदं हि भवति कर्माङ्गम् ॥९॥ येनाSडरमाSसी कर्ता तेनासौ मवति कर्मशेष इह। मवति हि तद्विज्ञानं विषयद्वारेण कर्मसंबन्धि॥ १० ॥

Page 333

चतुर्ष: पादः ४ ] माष्यार्रत्नमाला। ३२९

प्रोक्षणसंस्कारादिवदेव फलश्षुतिरिहार्थवाद: स्थात्। इति मन्यते हि जैमिनिराचार्योऽन्येषु मवति सा हि यथा।११॥

दष्टा हि यस्य पर्णमषीत्याद्या तत्र चेवमुपदिष्म् ॥१२॥ यस्य जुहूः पर्णमयी स नैव पापं शृणोति हि श्लोकम्। अञ्जनमस्य यद्तद्भ्रातृध्यस्यास्य चक्षुरपहरति ॥१३॥ एवमिति यत्प्रयाजानयाजाश्वापि सम्यगिज्यन्ते। यज्ञस्य वर्म तत्स्याद्यजमानस्यापि भवति वर्मति ॥१४ ॥ एवंजातीयश्रुतिव चनानामर्थवादरूपत्वम् । दृष्टं तद्ददिहापि च फलश्रुतेरर्थवादता युक्ता ॥१५॥ प्रकरणमन्यक्किंचिद्विनैव तस्य क्रतुप्रवेशोऽयम्। आत्मज्ञानस्यानारभ्याधीतस्य न कथमिति शङ्कथम् ॥१६ ॥ तदविज्ञानस्थापि हि कनद्वारा क्रतुपवेश इह। आत्मा द्रष्व्य इतिश्रुतिवाक्यबलेन युक्त एव स्यात् ॥१७॥ मनु विनियोग: क्रतुषु श्रुतिवाक्यस्यास्य नोपपन्नः स्थात्। तत्रानारभ्याधीताना वाक्यात्क्तुप्रवेशः स्यात् ॥१८॥ यत्र त्वव्यभिचारि द्वारं लभ्येत किचिदृपि तेन। लौकिकवैदिक कर्मसु कर्ता साधारणो न तद्व्याप्य: ।१९॥ तस्मान्न हि तद्द्वारा तद्विज्ञानस्य कर्मसंबन्ध: । इति चेनुपपन्नोऽय तद्विज्ञानस्य कर्मसबन्धः ॥ २०॥ इह किल देहव्यतिरिक्तात्मज्ञानं विवक्षितं तज्ञ। न हि लाकिकेषु कर्मस्वपेक्षितं तद्विनाऽपि पश्वादौ ॥ २१ ॥ दश्यत एव हि लौकिककर्मातस्तदिदमात्मविज्ञानम्। तनुपातोत्तरकालफलेष्वेव हि वैदिकेणु जनकं स्यात् ॥ २२ ।। नन्वपहुतपाप्माडयं वेदान्तेषूपदिश्यते ह्यारमा। यदिदं तद्विज्ञानं तदससार्यात्मविषयमेव स्पात् ॥ २२ ॥। तच्च कथं कर्माङ्ग स्यादिति शक्का न चेह कर्तव्या। यस्मात्संसार्यात्मा प्रियादिसंसूचितोऽत्र निर्दिषः ॥२४ ।। अपहृतपाप्मत्वादिकमस्य स्तुत्यर्थमेव निर्दिष्टमू। ननु पूर्वमेतदुक्तं ब्रह्मासंसारि जगदुपादानमू ॥२५॥

Page 334

सुब्रह्मण्यविरचिता- [३ तृतीयाध्यायस्य-

संसारिण: स्वरूपं तदेव परमार्थतो न चान्यविति। उपदिश्यते हि वेदान्तेष्विति चेरसत्यमेव पूर्धोक्तम् ॥२६॥ पूर्वोक्तस्यैध पुनः स्थूणानिखनननयेन वाढर्थाय। इपविश्येते ह्याक्षेपसमाधाने उमे फलद्वारा ॥२७ ॥ आचारदर्शनात् ॥ ३ ॥ जनको हेतिपरभृतीनि यक्ष्यमाण इति चैवमादीनि। ब्ह्मविदामपि विद्याविधिपरवाक्येष्विमानि वाक्यानि॥ २८॥ दश्यन्ते तानि ब्रह्मविदां कथयन्ति कर्मसंबन्धम्। उद्दालकाविषु तथा पुत्राद्यमशासनेन गार्ईस्थ्यम्॥ २९॥ अवगम्पते यदा तु ज्ञानाच्चेत्केवलात्पुमर्थः स्यात्। बहुलायासानि पुनः कर्माण्येतानि ते कथ कुर्यः ॥३० ॥ मधु विन्देत सभीपे किमर्थमचलं व्रजेदिति न्यायात्। तच्छतेः ॥ ४ ॥ इह कर्मशेषतैव हि विद्याया न स्वतः पुमर्थत्वम् ॥३१॥ इत्येतहर्शयति श्रुतिरत्र यदेष विद्ययेत्याद्या। समन्वारम्भणात् ॥ ५ ॥ नें विद्येति श्रुतिरियमिह विद्याकर्मणोः फलारम्भे ॥ ३२ ॥ दर्शयति हि साहित्यं तस्माद्विद्या न केवलाऽर्थकरी। तद्वतो विधानात् ॥ ६ ॥ श्रुतिरेषाSSचार्यकुलाद्वेदमधीत्येति दर्शयत्येवम् ॥ ३३ ॥। गुरुशुश्रूषाकर्मण्यनुष्ठिते योऽतिशिष्यते कालः। तन्न च यथाविधानं वेदमधीत्य च ततः समावृत्य ॥ ३४ ॥ गार्हस्थ्ये हि स्थित्वा धर्मान्विधिचोदिताननुष्ठास्यन्। स्वाध्यायं तमधीयानोऽसी सततं शुचिप्रदेशेषु॥३५ ॥ भूतानि चाप्यहिंसन्नात्मनि सर्वेन्द्रियाणि संस्थाप्य। एवं स वर्तमानो ब्ह्मपदं शाश्वतं प्रयातीति ॥३६ ॥। वेदार्थज्ञानवतः कर्मण्यधिकारदर्शनादत्र। स्वातन्त्रयेणैतस्या विद्याया न हि पुमर्थहेतुत्वम् ॥३७॥

Page 335

चतुर्थ. पाद: ४ ] माष्यार्थरत्नमाला। ३३१

ननु वेदस्याध्वयनं श्रूयत इह नो तदर्थविज्ञानम्। इति चेद्वेदाध्ययनं भवति हयर्थावधारणार्थमिह॥३८॥ नियमाच्॥ ७॥ कुर्वन्नेवेत्याद्या श्रुतिरेतह्वै जरेति चान्याऽपि। दर्शयति हि विद्याया नियमेनैवेह कर्मशेषत्वम्॥३९॥ अधिकोपदेशानु बादरायणस्यैवं तद्दर्शनात् ॥८॥ उक्ताक्षेपनिरासार्थकस्तुशब्दोऽत सूत्रनिर्दिष्टः। यत्त्वस्य कर्मशेषत्वेन फलश्रुतिरिहार्थवाद इति ॥ ४० ॥ तत्तु न युक्तं यस्माद्वेदान्तेषूपदिश्यते ब्ह्म। यदि संसार्येवाऽडत्मा शारीरः कर्तृभोक्तृतादिगुणः ॥४१॥ उपदिष्ः स्याद्वेदान्तेषु तदा युक्तमर्थवादृत्वम्। इह पुनरपहतपाप्मा परमात्मा स्वपकाशचिन्मान्रः ॥४२॥ शारीराद्धिको यो वेदान्तेपूपदिश्यते सोडयम्। तद्विषयं हि ज्ञानं प्रवर्तकं कर्मणां करथं वा स्थात् ॥४३॥ कर्मोच्छित्तिं यस्मादुपमर्दं चेति वक्ष्यति ज्ञानात्। तस्मात्पुरुषार्थोडतः शब्दादिति मगवतो मतं यत्स्यात् ॥४४॥ शेषत्वादिमिरेतन्न चाल्यते तत्तु मवति तद्वस्थम्। परमेश्वरं तमधिकं प्रदर्शयन्ति किल सर्ववेदान्ताः ॥४५॥ पः सर्वज्ञः सर्वविदित्याद्या अपि तदैक्षतेत्याद्याः। यञ्चोक्तमात्मनोऽस्य प्रियादिसंसूचितस्य वेद्यतया ॥ ४६॥ संसारिणोऽनुकर्षणमुपलभ्यत आत्मनस्तु कामाय। सवं प्रियमित्येवं त्वेव त इत्यादिकं च तत्सकलम् ॥ ४७॥ न विरुद्धमस्य महतो भूतस्येत्यादिमि: परं ज्योतिः। उपसंपद्य स्वेनेत्यादयैरवेदान्तवाक्यशेषैहिं ॥ ४८॥ सत्यामधिकोपदिदिक्षायामेतन्न चातिभेदपरम् । यदिदं शारीरस्य स्वरूपमिह पारमेश्वरं तत्स्यात् ॥ ४९।। -- औपाधिकमेवैतच्छारीरत्वमिति तत्त्वमस्याधैः। उपदिश्यते तदेतन्निर्णीतं तत्र तत्र पूर्व हि॥ ५० ॥ तुल्यं तु दर्शनम् ॥ ९ ॥ आचारदर्शनादिह विद्येयं कर्मशेष इत्युक्तम्। आचारदर्शनं तद्विद्याया: खल्वकर्मशेषत्वे॥। ५१॥

Page 336

२३२ सुन्नह्मण्यविरचिता- [ ३ तृतीयाध्यायस्प-

तुल्यं श्रतिरिह यस्मादेतद्ध स्मेति दर्शयत्येवम्। कर्मफले स्वर्गादावृषयः संजातभूरिवेराग्याः ॥५२॥ यक्ष्यामहे किमर्था वयमिति यागाद्यनादराविष्टाः । तत्साधनाग्निहोत्रादिकमुत्सृज्य हितमेतमात्मानम्॥ ५३॥ विज्ञाय भैक्षचर्यामपास्तसर्वेषणाश्चरन्तीति। हष्टं हि याज्ञवल्क्याद्यात्मविदामप्यकर्मनिष्ठत्वम्॥५४॥ एतावदरे खल्वमृतत्वमितीत्यादिवेद्वाक्येभ्यः । यच्चेह लिङ्गमुक्त हि यक्ष्यमाण इति कर्मशेषत्वे ॥ ५५॥ तत्किल वैश्वानरविद्याविषयं मवति सा च विद्या हि। सविशेषविषयका स्यात्तत्र च युक्तं हि कर्मसाहित्यम् ॥५६॥ न तु निर्विशेषगोचरविद्या कर्माङ्गमावमुप्याति। कर्मप्रकरणविरहाद्यइन्यदुक्तमिह तच्छतेरिति हि॥५७॥ असार्वत्रिकी ॥१०॥ नेयं हि सर्वविद्याविषयाऽत्र देवविद्ययेत्याद्या। किंतु प्रकृतोद्गीथोपास्तिपरेव श्रुतिर्भवेदेषा ॥ ५८॥ विभागः शतवत् ॥ ११॥ यञ्च समन्वारम्मणमुक्तं यञ्चेह मवति विद्याया:। अस्वातक्ये लिङ्ग तं विद्याकर्मणीत्यनेनोक्म् ॥५९॥ तस्पेदं प्रतिवचनं भवति विभाग इति सूत्रनिर्दिष्टम्। इह विद्याऽन्वारमते ह्यन्यं पुरुषं तथेव कर्मान्यम् ॥ ६०॥ इति तु विमागोऽन्र स्याच्छतवदिति निदर्शनं भवेदत्र। शतमेताभ्यां देहीत्युक्ते पृथगेव दीयते हि यथा ॥ ६१ ॥ पञ्चाशत्पञ्चाशत्तथेतदृवि वस्तुतोऽत वचनभिद्म्। संसारिपरमिहेति तु कामयमान इतिवाक्यनिर्देशात् ॥६२॥ अत्राथाकामयमान इति मुमुक्षु: पृथग्विनिदिंट्ः। विद्या विहिता प्रतिषिद्धाऽवि च संसारविषय एव स्यात् ॥६३॥ संसारविषय एव हि कर्म प्रतिषिद्धमपि च विहितं च। अविभागेनाप्यत्र समन्वारम्भे न बाधकं किमपि ।। ६४ ।। अध्ययनमात्रवतः । १२।। यत्तदूतो विधानादित्यत्रोक्तं निरस्यते तदिह।

Page 337

ज्वतुर्ष: पाद: ४ ] माष्यार्थरत्नमाला। ३३३

श्रुतमिह तेन च कर्मण्यधिकारोऽध्ययनमात्रवत एव। निर्णीयते ह्यविद्वान्कथमिह कर्मस्वधिक्कियेतेति ॥६६ ॥ नैषा शङ्कूा कार्या न वयमिहाध्ययनमात्रसंभूतम्। कर्मावबोधनं यत्कर्मस्वधिकारकारणं नेति ॥६७ ॥ प्रकृते निवारयाम: कित्वात्मज्ञानमौपनिषदं यत्। स्वत एव फलवदेतन्न पुनः कर्माधिकारहेतुरिति ॥ ६८॥ प्रतिपादयाम एतद्यथैव हि क्रतुविशेषविज्ञानम्। कत्वन्तराधिकारे कथमपि नापेक्ष्यते तथैवतत् ॥ ६९॥ नाविशेषात् ॥ १३॥ नियमाच्चति यदुक्तं दूषणमधुना निरस्यते तदिदम। कुर्वन्नेवेत्यादिषु नियमश्रवणेषु विदुष एवेति॥ ७० ॥ नास्ति विशेषो यस्माद्विशेषेणोपदिश्यते नियमः । स्तुतयेऽनुमतिर्वा ।। १४ ॥ कुर्वन्नेवेत्यत्र त्वपरोऽप्याख्यायते विशेषो हि॥ ७१ ॥ यद्यपि विद्वानेव प्रकरणबलतः प्रतीयतेऽथापि। विद्यास्तुतये तदिदं कर्मानुज्ञानमिति तु विज्ञेयम् ॥७२॥ तवृभिप्नायेणैव हि न कर्म लिप्यत इति प्रदर्शयति। यावज्जीवं कुर्वत्यपि विदुषि न कर्म मथति लेपाय ॥७३॥ विद्यासामर्थ्यादिति विद्यास्तुतिरेव गम्यते तस्मात्। कामकारेण चैके ॥ १५॥ अपि चात्रैके प्रत्यक्षीकृतविद्याफला हि विद्वांस:।।७४॥ स्वर्गादिसाधनेषु प्रजादिपु हि तद्वलावलम्वेन। निष्फलतामेवैते निश्चिन्वन्तीति दर्शयत्येषा ॥७५ ॥ श्रुतिरियमेतद्ध स्मेत्याद्या प्रजया फलं किमस्माकम्। परमात्मिवाऽडत्मा नः प्राप्यो लोको मवेत्परात्मेति॥७६।। तस्मादृपि विद्याया न कर्मशेषत्वसुचितमाश्रयितुम्। नापि च तद्विषयायाः फलश्चुतेरर्थवादता युक्ता॥७७।।

Page 338

२३४ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्प-

उपमर्दे च ॥ १६ ॥ कर्माधिकारहेता: कारकफलतक्क्ियादिरूपस्य । आविद्यकस्य विद्यावीर्यादुपमर्दमामनन्त्यपि च॥७८॥ यत्र त्वस्येत्याद्या: श्ृतयः किंचेह वैपरीत्यमपि। औपनिषदात्मविद्यापूर्व कर्माधिकारसिद्धमिह।७९॥ आशासानस्य परं कर्मण्यधिकारभङ्न एव स्यात्। तस्मादृपि विद्याया: स्वातन्त्रयं स्यान्न कर्मशेषत्वम्॥८०॥ ऊर्ध्वरेतःसु च शब्दे हि ॥ १७॥ विद्येयमूर्ध्वरेतःसु च दृष्टा सा मवेन्न कर्माङ्गमू। न हि तेषु दृश्यते तद्यद्ग्निहोत्रादिलक्षणं कर्म ॥८ ॥ ते चोर्ध्वरेतसः किल न श्रूपन्ते हि वेद इत्यपि न। येनोर्ध्वरेतसस्ते शूयन्ते वैदिकेषु शब्देषु ।। ८२ ॥। त्रय इह धर्मस्कन्धा: श्रद्धां तप इत्युपासते ये च। ये चोपवसन्ति तपःभद्धे केवलमरण्यकृतवासाः ॥८३। प्रवाजिनो हि लोकं काङ्क्षन्तः प्रव्रजन्ति ते हेति।

श्रूयत एव प्रतिपन्नापतिपन्नाश्रमान्तराणां च। तस्मादृपि विद्याया: स्वातन्त्रयं स्थान्न कर्मशेषत्म्॥८५॥ परामर्श जैमिनिरचोदना चापवदति हि॥ १८ ॥ ये चोध्वरेतसामिह सन्ावाय प्रदर्शिता: शब्दा:। त्रय इत्याद्याः औतास्ते तत्प्रतिपाद्नक्षमा न स्युः ॥८६ ॥ यत आश्रमान्तराणां शब्देष्वेतेषु किल परामर्शम्। केवलमिह जैमिनिराचार्योडसौ मन्यते न तत्र विधिम्॥ ८७॥ येन लिडदीनामन्यतमो नेहास्ति चोदनाशब्द:। अर्थान्तरपरतैव हि दृष्टा प्रत्यंकमेषु शब्देषु ॥। ८८ ॥। त्रय इत्यादो यज्ञोऽध्ययनं दानमिति वर्णितः प्रथमः । स भवति गृहस्थ इह तप इति तु वनस्थो द्वितीय इह कथित:।।८९।। आचार्यर्कुलनिवासी योऽसौ हि ब्रह्मचर्यमापन्नः । उपकुर्वाणो नैठिक इति स द्विविधस्मृतीय इह मवति ॥ ९० ॥

Page 339

पतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३३५

एते हि पुण्यलोका इति तु परामर्शपूर्वकं तेषाम्। संकीत्यानात्यन्तिकफलतामत्यन्तफलतया हीयम् ॥९१॥ प्रस्तूयते पुनर्बह्मसंस्थता ब्रह्मसंस्थ इत्याद्यैः। नन्वाश्रमा: परामर्शेऽपि हि गम्यन्त एव तत्रैते ॥९२॥ सत्यमथापि स्पृत्याचाराभ्यां तत्प्रसिद्धिरिह हषा। न प्रत्यक्षभ्रुत्या हष्टा सा चेह तदद्विरोधे तु ॥ ९३ ॥ नाSSदृरणी यैवानधिकृतविपया एव ते मविष्यन्ति। ननु गार्हस्थ्यमपीदं सहोर्ध्वरेतोभिरिह परासृष्म्॥९४॥ सत्यमथापि गृहस्थ प्रत्येव विधीयतेऽगिहोत्रादि। तेन श्रतिप्रसिद्धं गाईस्थ्यमिति प्रतीयते ठ्यक्तम् ॥९५॥ हह च परामर्शोडयं स्तुत्यर्थः स्यान्न चोदनार्थोऽपि। अपि च प्रत्यक्षश्रुतिरपवद्ति किलाऽडभ्रमान्तरं हीयम्॥९६॥ आचार्याय परियमित्याद्याऽपि तथैव वीरहेत्याद्या। ये चेमेऽरण्य इति श्रुतिरपि मवतीह देवयानपरा॥९७॥ नेहाSSभ्रमान्तरस्य प्रदर्शनार्था यतश्र संदिग्धम्। तद्दधाभ्रमान्तरं त एवेत्यादौ तथैतमेवेति ॥९८॥ न हि पारिव्राज्यविधिर्भवति न चायं हि लोकसंस्तावः । तदिदं तु पुनर्बह्मत्यादी वाक्ये प्रदर्शित हि ननु ॥९९ ॥ पारिव्राज्यविधानं कथमिह दृषणमिद मवेकिति चेत्। सत्यमथापि त्वेतां जाबालश्रुतिमिहानपेक्ष्येव॥। १०० ॥ भुत्यन्तरावलम्बाद्विचार इह चालितो हि सूत्रकृता। अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥१९॥ तदिद पारिव्ाज्यमवश्यमनुष्ठेयमेव मवतीह ॥ १०१॥ गार्हस्थ्यवदेवेति हि मन्यत इह बादरायणाचार्यः । अनधिकृतानुष्ठेयं तदाश्रमान्तरममितीह नाऽडशङ्कूचम् ॥१०२॥ श्रुतिसाम्यभेव दृष्ट गार्हस्थ्येनाऽडश्रमान्तरस्य यतः । स्कन्धश्रुती यथैव श्रुत्यन्तरविहितमेव गार्हस्थ्यम्॥१०३॥ मवति परामृष्टं तद्वदेव खल्वाश्रमान्तरं तदिदम्। भवति यथैव निवीतप्राचीनावीतयोः परामर्शः ।१०४ ।।

Page 340

२३६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्प-

शास्त्रान्तरावगतयोरुपवीतविधिप्रधानके वाक्ये। तस्मादिहाऽडश्रमान्तरमपि गार्हस्थ्येन तुल्यभेव स्यात् ॥१०५॥ किंच प्रवाजिन इत्यस्य च वाक्यस्य दृश्यतेऽत पुनः। समभिव्याहारि:(रः) श्रुत्यनुवचनाद्यस्तथैव चेहापि। १०६ ॥ ये चेमेऽरण्य इति श्रुतेहि पञ्चाग्निविद्यया भवति। तव एवेत्यादिषु किल संदिग्धं तदिति यञ्च पूर्वोक्तम् ॥१०७। तदिदमयुक्तं निश्चयकारणमत्रोपलभ्यते यस्मात्। धर्मस्कन्धास्त्रय इति यदिदं स्कन्धन्रयं प्रतिज्ञातम् ॥१५८॥- यज्ञादयो हि धर्मा: पृथगुत्पन्ना भवन्ति भूयांसः। हित्वाSडश्रमसंबन्धं त्रित्वेनान्तर्भवन्ति तत एते ॥ १०९॥ भवति गृहस्थाश्रम एवैको यज्ञादिलिङ्गकः स्कन्धः । विस्पष्टमेव चान्यो निर्दिष्टो ब्रह्मचारिशब्देन ॥ ११०॥ तप इत्यत्रापि तपःप्रधान एवाऽडश्रमो वनस्थोऽसी। ये चेमेऽरण्य इति श्रुतिवाक्ये खल्वरण्यलिङ्गेन । १११॥ सोडयं तुरीय एव स्यान्न स्कन्धत्रयप्रविष्टोऽयम्। श्रद्धातपःपराणामेव यतो ह्याश्रमान्तरग्रहणम्॥११२॥ विधिर्वा धारणवत् ॥ २० ॥ अनुवाद्कत्वपक्षं हित्वा स्कन्धभ्रुतोर्वधित्वमिह। परिकत्प्यते हि तत्र च लाघवमेवेति दर्शयत्यधुना ॥ ११३॥ विधिराधमान्तरस्य स्थान्न परामर्शमात्रमेवात्र। अविरक्तविषयकत्वाद्यावज्जीवश्चुतेर्न बाधकता ॥ ११४॥ ननु यदि विधित्वमस्यास्तदैकवाक्यत्वमनुपपन्नं स्यात्। अत्रैकवाक्यता हि प्रतीयते ब्रह्मसंस्थतास्तुत्या॥ ११५॥ अल्पफलत्वेन त्रीन्निन्दित्वा ब्रह्मसंस्थता चेह। अमृतत्वफलतयैव स्तुता हि सा ब्रह्मसंस्थ इत्येव ॥ ११६॥ इति चेत्सत्यमथापि त्यक्त्वा स्तुत्यकवाक्यतामत्र। विधिरेवापूर्वत्वादभ्युपगन्तव्य इति तु युक्तमिह ॥ ११७॥ विध्यन्तरस्य चानुपलम्बा(म्भा)दत्र च विधिप्रतीतेश्व। संभवति हि मुख्यार्थे स्तुतिलक्षणयाऽत्र गौणवादृत्वम्॥ ११८। आश्रित्य योजना न हि युक्ता स्तुत्येकवाक्यभावेन। धारणवदिति निदर्शनमुपदिषटं तत्किलैवमत्र स्यात् ॥ ११९।।

Page 341

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३३७

इह च महापितृयज्ञे मवति प्रेताग्निहोत्रमत्र हविः। प्रक्षिप्तं सुच्याहवनीयं प्रतिनीयते यदा तर्हिं ॥ १२० ॥ हविषस्तस्याधस्तात्समिधं धृत्वा ह्यनुत्रजेत्स पुनः । इत्युक्त्वोपरि देवेभ्यो धारयतीति दर्शितं श्रुत्या ॥ १२१॥ अनयाऽधस्तादित्यादिकयाऽदोधारणस्य विहितस्य। स्तावकतयोपरिगृहीतस्य च तेनैकवाक्यताभाने ॥१२२ ॥ सत्यपि दैवे चोपरिधारणविधिरिह यथा तथेहापि। सुल्यत्वाच्चापूर्वत्वस्योक्त शेषलक्षणेऽपीदम् ॥ १२३ ॥ यद्यपि केवलमत्राऽडश्रमान्तरस्यास्ति किल परामर्शः।

या ब्रह्मसंस्थतोक्ता सा स्यादाश्रमचतुष्टये किंवा। मवतीह यस्य कस्यचिद्थ तु परिव्राजकस्य वेत्येतत् ॥।१२५॥ अत्र विवेक्तव्यं यदि भवेत्परिव्राजकः परामृष्टः। सर्वेषामविशेषेणैव गृहस्थादिवत्परामर्शाति ॥ १२६॥। यो ब्रह्मसंस्थ एकश्चतुर्षु किल कश्िविदाश्रमेषु स्यात्। यदि तु स न परामृष्टस्ततस्तु परिशिष्यमाण इह योसौ ॥१२७॥ स खलु परिव्राडेव स्यादत्र ब्रह्मसंस्थ इति युक्तम्। तत्र तपःशब्देन हि भवेत्परिव्राजकः परामृष्टः ॥ १२८॥ इति के चित्तदयुक्तं सत्यां हि गतावनेन शब्देन। वानप्रस्थपरेण च कथं परिव्राजकोऽय गृहयेत । १२९।। इह च परामृष्टी किल गृहमेधित्रह्मचारिणावेतौ। अत्र यथा साधारणविशेषणेन च विशेषितौ मवतः ॥१३० ॥ एतौ हि भिक्षुवैखानसावपि तथा विशेषितौ भवतः । वानप्रस्थानां खल तपस्त्वसाधारणो भवेद्दर्मः ॥१३१॥ कायकेशपुरःसरकर्मणि रूढो ह्य्य तप:शब्दः। भिक्षोस्तु धर्म इन्द्रियसंयमनादिरन चेतर: कश्चित् ॥१३२॥ यदि च तपःशब्देनेन्द्रियसंयमनादिरपि च गृह्येत। तारह चतुष््वेन सतां त्रिष्वन्तर्भावकथनमन्याय्यम् ॥१३३॥ एकोऽमृतत्वभाक्स्यात्त्रय एते पुण्यलोकमाज इति। व्यपदेशोऽत्र तु दृष्टः स चाऽडश्रमपृथकत्व एव संभवति॥१३४॥ ४३

Page 342

३३८ सुबह्मण्य विरचिता- [ ३ तृतीयाध्यायस्य-

तस्मादेते पूर्वे मवन्ति किल पुण्यलोकमात्रफला: । परिशिष्यमाण एष परिव्राडमृतत्वमागिति न्याय्यम्॥१३५॥ ननु संभवन्हि योगात्सर्वत्र ब्ह्मसंस्थशब्दोऽयम्। अवतिष्ठते परिव्राजक एव कथं यदा तु रूढि: स्यात् ॥ १३६ ॥

तत्रानन्यव्यापारतात्मिका ब्रह्मसस्थतामत्र ॥१३७॥ न ब्रह्मसंस्थशब्दो बवीति सा नाऽडश्रमत्रयस्य स्यात्। स्वाश्रमविहितानामननुष्ठाने पातकं श्ुतं तस्य ॥ १३८॥ अननुष्ठाननिमित्तं तत्तु परिवाजकस्य कथमपि च। न मवेद्यतश्र तस्मिन्टष्टः खलु सर्वकर्मसंन्यासः ॥१३९॥ धर्म: शमादिरस्योपोद्वलको ब्रह्मसंस्थताया: स्थात्। यञ्च शमाद्युपवृंहितमस्य पुनर्ब्ह्मनिष्ठतारूपम् ॥१४० ॥ तत्तस्याSडश्रमविहितं कर्मान्येषां यथैव यज्ञादि। यदि तद्व्यतिक्रमः स्यात्तदा भवेत्प्रत्यवाय एतस्य । १४१ ॥ न्यास इति ब्रह्मेति श्रुतयस्ते ब्रह्मलोक इत्याद्याः। स्मृतयस्तद्बुद्धय इति कर्माभाव प्रदर्शयन्त्यस्य ।।१४२॥ तस्मादाश्रममात्रान्न चेह तस्यामृतत्वसंप्राप्तिः। नापीह ज्ञानानर्थक्यापत्तिश्र दूपणं भवति ॥ १४३॥ तेनेतराश्रमाणामत्र समानेऽपि किल परामर्शे। लभ्यत एव हि पारिव्राज्यं यङ्गह्मसंस्थतारूपम् ॥१४४॥ अनपेक्ष्य च जाबालश्रुतिमाचार्येण चालिता चर्चा। इह चाऽडश्रमान्तरश्ुातरस्यैव ब्रह्मचर्यमित्याद्या ॥१४५॥ पारिव्राज्यं त्वनया श्र(क)मेण दर्शितमथाक्रमेणापि। अनधिकृतगोचरेयं श्रतिरिति नैवेह युज्यते वक्तुम् ॥१४६॥ अविशेषश्रवणात्परमनधिकृतानां पृथग्विधानाज्च। अथ पुनरित्यादिश्रुतिरनधिकृतानां तदेतदुपदिशति ॥१४७॥ ब्ह्मज्ञानस्यास्य च परिपाकाङ्गं हि भवति तच्चैतत् । पारिव्राज्यं नानधिकृतविषयमिति श्रुतिः प्रदर्शयति ॥१४८॥ सा चेयमथ परिव्राङ्विवर्णवासा इति प्रसिद्धैव। तस्मादिहोर्ध्वरेतस इह सिद्धा एव तत्र विहितायाः ॥१४९॥

Page 343

चतुर्थ: पाद: ४ ] भाष्यार्थरत्नमाला।

विद्याया: स्वातन्त्रयं सिद्धं तेन च समख्जसं सकलम्। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥ इह च स एष रसानां रसतम इत्यादिवाक्यसुपदिष्टम॥१५० ॥ छान्दोग्ये तत्र रसः पृथिवी तस्या रसस्त्वमा आप:। ताभ्यश्चौषधयोऽपि हि तथीषधिभ्योऽपि पुरुष एष रसः ॥१५१॥ पुरुषस्य वाग्रसः स्यादृग्वाचः स्याद्ृचश्र साम रसः । साम्नोऽट्मोडयमुद्रीथो हि रसाना च रसतमः परमः ॥१५२॥ इति निर्दिष्टं हि तथेवान्यत्राप्येवमेव निर्दिष्टम्। इयमेवर्गगनि: सामायं वावेतिवेदवाक्येषु॥१५३ ॥ उद्गीथादेः स्तुत्यर्था एवैता भवन्ति कि श्रुतयः । आहोस्विच्छृतय इमा उपासनाविधिपरा भवन्त्यत्र ॥ १५४ ॥ इति संदेहे सति ता: स्तुत्यर्था इति तु युक्तमिह यस्मात्। भ्रूयन्ते ता: कर्माङ्गाण्युद्वीथादिकानि चाऽडथ्रित्य ॥१५५॥ इयमेव जुहूरादित्यः कूर्मः स्वर्ग एवमाद्या हि। जह्वादिस्तुत्यर्था यथा भवन्ति हि तथेति चेन्भैवम् ॥१५६ ॥ श्रुतिवचसां नैतेषां स्तुतिमात्रमिह प्रयोजनं युक्तम। उपलभ्यते किलापूर्वत्वाद्विध्यर्थतैव येनात्र ॥ १५७ ॥ विध्यर्थत्वे चापू्वौरडर्थो विहितो भवेदसी तत्र। स्तुत्यर्थत्वे तेषामानर्थक्यं तदत्र दुर्वारम्॥१५८॥ विधिसंनिधिपठितानां स्तुतिपरता हृश्यते न चान्येषाम्। विधिनेत्यस्मिन्सूत्रेऽप्ययमेवार्थः प्रदर्शितो नान्यः ।। १५९॥ न व्यवहितपठितानामेषामिह वाक्यशेषता युक्ता । इयमेव जुहूरित्यादीनां विधिसंनिधी समाम्नानात् ॥ १६० ।। स्तुत्यर्थतथा तेषां विधिशेषत्वमिति मवति वैषम्यम्। तस्मादेता: श्रुतयो विध्यर्था न स्तुतिप्रधाना: स्यु: ॥१६१॥ भावशब्दाच ॥ २२ ॥

विद्यादिति च श्रूयन्ते विस्पष्टा विधायका: शब्दाः ॥१६२ ॥ ते च स्तुतिपरतायां व्य।हन्येरन्स्सृतिस्तथेयमपि। कुर्याक्किरियेत कर्तव्यं च भवेत्स्यादितीह पञ्चविधम् ॥१६३॥

Page 344

३४० सुब्ह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

एतञ्च सर्ववेदेष्वपि नियतं लक्षणं विधेरिति हि। एवं स्मरन्ति हि लिडनद्यर्थं विधिमत्र मन्यमानास्ते।। १६४ ।। इह तु श्रूयन्ते हि प्रतिप्रकरणं फलानि भिन्नानि। आपयिता वै कामानामिति कलपन्त एवमादीनि ॥१६५॥ तस्मादुद्वीथादिश्रुतय इहोपासनाविधानार्थाः । अङ्गाभ्ितविद्या अप्येता हष्टा इह स्वतन्त्रफलाः ॥१६६ ॥ किमु वक्तव्यं स्वातन्त्रयमिति परात्मप्रधानविद्यानाम्। परविद्यास्वातन्त्रये पर्यवसानात्समख्सं सकलम् ॥१६७॥ पारिप्रवार्था इति चेन्न विशेषितत्वात् ॥ २३॥ पुत्रादिपरिवृताथ हि राज्ञे विहिताश्वमेधयागे हि। पारिपुवप्रयोगो नानाख्यानाभिधानरूपोडसौ ॥ १६८॥ एवमिह याज्ञवल्क्यस्य द्वे भार्ये इति प्रसिद्धेषु। वेदान्तवाक्यदर्शितनानाख्यानेषु संशयोडयं स्यात् ॥ १६९॥ पारिपुवप्रयोगार्थानि किमेतानि किमथवैतानि। तत्तद्विद्याप्रतिपतत्यर्थान्येवेति तत्र विहितत्वात् ॥ १७०।। पारिपुवप्रधाना एवैताः श्रुतय इति यदोच्येत। लुप्येत तर्हि वेदान्तानां विद्याप्रधानताऽत पुनः ॥१७१॥ मन्त्रवदेव हि तेषां प्रयोगशेषत्वसंभवादिति चेत। पारिपवमाचक्षीतेत्यत्र विशेषितानि तान्येव ॥ १७२।। यान्याख्यानानि पुनर्मनुरित्यारभ्य दर्शितानि स्युः । आख्यानत्वेन यदा सर्वगृहीतिस्तदेदमफलं स्यात् ॥१७३॥ मनुरित्यादिविशेषणमतो न पारिपुवार्थतैतेषु। तथा चैकवाक्यतोपबन्धात् ॥ २४॥ आख्यानानामेषां यदि च न पारिपरवार्थता ताहै ॥ १५४ ॥ तत्त द्विद्याप्रतिपादनोपयोगित्वमेकवाक्यत्वात् । दृश्यत एव हि संनिहिताभिरविद्याभिरेकवाक्यत्वम् ॥। १७५॥ तेन च विधिशेषत्वं प्ररोचनाच्च प्रवृत्तिसीकर्यात्। इह मैत्रेयीब्राह्मणवाक्ये द्ष्व्यवाक्यदर्शितया॥ १७६॥ शुद्धात्मविद्यया तद्हष्टं प्रातर्दनेऽषि वाक्ये हि। प्राणोऽस्मि प्रज्ञात्मेत्यनया संवर्गविद्ययाऽपि तथा॥ १७७ ।

Page 345

चतुर्थ पाद: ४ ] माष्यार्थरत्नमाला। ३४१

जानश्रुतिरितिवाक्ये तदेकवाक्यत्वमवगतं मवति। प्राजापत्यमजं तूपरमिति विधिशेषता यथैतेषाम् ॥१७८॥ मवति स आत्मन इत्याद्याख्यानानां तथैव चेहापि। तस्माद्वेदान्ताखयानानां पारिप्रवार्थता नेह॥१७९॥ अत एव चाग्ीन्धनायनपेक्षा ॥ २५॥ अधिकरणत्रितयेन च विद्यास्वान्तक्यमेवमभिधाय। प्रथमाधिकरणफलमुपसंह्नियते पुनरिद हि सूत्रकृता॥ १८० ॥ अत एधेत्यत आदिमसूत्रोक्त गृह्यते न चान्यदिह। तस्मादिह विद्याया: स्वतश्र पुरुषार्थसाधनत्वेन ॥ १८१ ॥ अग्रीन्धनादिसाध्यान्याश्रमकर्माणि यानि चान्यानि। विद्याया: फलसिद्धौ नापेक्ष्यन्ते हि तानि सर्वाणि ॥१८२॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ चिन्त्यत एतदिदानीमत्र किमत्यन्तमेव विद्यायाः। अनपेक्षा विधिविहितेष्वाश्रमकर्मस्वथास्ति काचिदिति ॥१८३॥ अग्नीन्धनादिकानि ह्याश्रमकर्माणि तानि फलसिद्धौ। नापेक्षते हि विद्येत्युक्तं पूर्वत्र तेन चात्यन्तम् ॥१८४ ॥ अनपेक्षायां प्राप्तायामेतदिहाभिधीयते सूत्रे। यज्ञादीन्याश्रमकर्माणि हि सर्वाण्यपेक्षते सेति ॥१८५॥ नन्विह विरुद्धमेतान्यपेक्षते न ह्यपेक्षते चति। न विरुद्धमत्र किंचित्स्यादुत्पन्ना यदा भवेदविद्या ॥ १८६॥ नापेक्षते तदेयं फलसिद्धिं प्रति तु साधनं किमपि। स्वोत्पत्ति प्रति विद्या ह्यपेक्षते साधनान्तरं तदिदम् ॥१८७ ॥ इममर्थमुपदिशति हि श्रुतिरेषा या तमेतमित्याद्या। ज्ञानेऽपि वेष्यमाणे किंवा पुनरत्र विविदिषायां वा ॥१८८ ॥ तेषां विधीयते किल हेतुत्वं दुरितनिरसनद्वारा। पारम्पर्यजितायामत्र तृतीया श्रुतिर्भवेद्युक्ता ॥ १८९॥ काठ्ठैः पचतीत्यादौ ज्वालाद्वारा यथा तथेहापि। उत्पत्तिहेतुतैषां प्रतीयते ह्यत्र विविदिषायोगात् ॥१९० ॥ अथ यद्यज्ञ[ इति ] श्ुतिवाक्ये हि ब्रह्मचर्यरूपस्य। विद्याहेतो: समभिव्याहारो दृश्यते च यज्ञादैः ॥१९१॥

Page 346

१४२ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

विद्यासाधनमावो यज्ञादीनां हि सूच्यते तेन। सर्वे वेदा यत्पदमित्यादिश्युतिवचोमिरप्येवम् ॥१९२॥ सूच्यत एव हि विद्यासाधनमावोऽत कर्मणामेषाम्। स्मृतिरपि च कषायेत्यादिका यथोक्तार्थमेव दर्शयति॥१९३॥ अश्ववदिति च निदर्शनमत्र यथाऽश्वो हि योग्यतावशतः । रथचर्यार्यां युक्तो न लाङ्गलाकर्षणेऽपि युज्येत ॥ १९४॥ एव मिहाSडश्रमकर्माण्यपि विद्याया: फलस्य ससिद्धौ। नापेक्ष्यन्ते तस्या उत्पत्तौ पुनरिमान्यपेक्ष्यन्ते ॥१९५॥ शमदमायुपेतः स्यात्तथाऽपि तु तद्विधेस्तद- ङतया तेषामवश्यानुष्ठेयत्वात्॥ २७॥ यज्ञादीनां विद्यासाधनभावोऽयमनुचितो यस्मात्। विधिरत्र नैव कश्विदृदृश्यत इति यदि तु मन्यते कश्ित॥ १९६॥ यज्ञेन विविदिषन्तीत्येषा केवलमिहानुवाद: स्यात्। सा किल विद्याभिष्टवपरा न यज्ञादिविधिपरा भवति ॥१९७ ॥ विद्या सेयं हि महाभागा यज्ञादिसाधनैरेताम्। वाञ्छन्ति लब्धुमित्येवमथापि च शमाद्युपेतः स्यात ॥ १९८॥ विद्यार्थिन हि पुरुषं तमेतमर्थं श्रुतिः प्रदर्शयति। एवंविच्छान्तो दान्त इति हि विद्यैकसाधनत्वेन ॥ १९९॥ येन शमादीनामिह विधानमुपलभ्यते ततश्रैवम्। विहितानां चावश्यानुष्ठेयत्वान्न चैवमत्रापि॥ २००॥ आत्मन्येवाSडत्मानं पश्यति भूत्वा शमादयुपेत इति। स्याद्वर्तमाननिर्देश एव न विधिरिति पुनरिहाऽऽशक्कषम्॥ २०१॥ तस्मादिति तु प्रकृतप्रशंसनात्तद्विधिर्भवदत्र । माध्यंदिनास्तु पश्येदिति विस्पषटं त्वधीयते हि विधिम्॥ २०२ ॥ यज्ञाद्यनपेक्षायामपि च शमादीन्यपेक्षितव्यानि। ननु नोपलभ्यते विधिरत्रेत्युक्तं हि विविदिषावाक्ये॥ २०३॥ सत्यं संयोगस्यापूर्वत्वेन च विधित्वमिह युक्तम्। यदि पूर्व प्राप्तः स्याद्यज्ञादीनां हि विविदिषायोगः ॥ २०४॥। तर्ह्ययमनुवाद: स्थात्पूर्व क्वचिदप्यसी न संप्राप्तः । पूषा प्रपिष्टमागोऽदृन्तक इत्यादिकेषु वाक्येषु॥२०५॥

Page 347

चतुर्ष: पाद: ४ ] माध्यार्थरत्नमाला । ३४३

अश्रुतविधिकेष्वपि चापूर्वत्वेन तु विधिं हि परिकस्व्य। पौष्णं पेषणभेतत्प्रथमे तम्त्रेऽवधारितं विकृती॥२०६॥ भगवद्गीताद्यासु स्मृतिषु फलासङ्गवर्जितानि पुनः। यज्ञादीनि मुमुक्षोरुक्तं हि ज्ञानसाधनानीति॥२०७ ॥ तस्माद्यज्ञादीन्यपि शमादिकान्यपि यथाश्रुत तानि। विद्योत्पत्तौ केवलमपेक्षितव्यानि साधनत्वेन ॥ २०८॥ तत्राप्येवंविदिति हि विद्यासंयोगतः शमादीनि। प्रश्यासन्नानि हि यज्ञादीनि त्वत्र विविदिषायोगात् ॥ २०९॥ बाह्यतराणि भवन्तीत्येवं तेषां परस्परं भेद: ।

सर्वान्नानुमतिश्र प्राणात्यये तद्दर्शनात् ॥ २८॥ छन्दोगानां न ह वा एवंविदि किंचनेति वाक्यं हि॥ २१० ॥ दष्टमिह प्राणानां संवादे वाजिना तथेव किल। न ह वा अस्यानन्नं जग्धं न प्रतिगृहीतमित्यादि ॥ २११॥ तत्र च निर्दिष्टं खल्वदनीयं सर्वमस्य मवतीति। तत्र च सर्वान्नानुज्ञानं यवदिं प्रदर्शितं श्रुत्या ॥। २१२ ।। तक्किं शमादिवद्विद्याङ्गमवश्यं विधीयते किंवा। स्तुत्यर्थं संकीत्यत इति संदेहेऽत्र विधिरिति भाप्तम् ॥२१३॥ एवं चेदुपदेशो भवति हि पुरुषप्रवर्तनाहेतु:। तत्प्राणविषय विद्यासांनिध्यादिह तदङ्गभावेन ॥ २१४॥ लब्धा भवति हि नैषा नियमनिवृत्तिरिति सति च नन्वेवम्। भक्ष्यामक्ष्यविभागव्याघाताच्छास्त्रमफलमिति चेन्न ॥२१५॥ उपपद्यते स चायं सामान्यविशेषभावतो माव:। पशुहिंसाविधिना किल यथैव हिंसानिषेधबाध: स्यात्॥ २१६॥ अपि वामदेव्यविद्याविषयेण न कांचनेत्यनेन यथा। गभ्यागम्य विभागप्रदर्शनार्थं हि बाध्यते शास्त्रम्॥ २१७॥ एवमिहाषि च सर्वान्नाभ्यवहारार्थकेन वचनेन। मक्ष्याभक्ष्यविभागप्रदर्शकं शास्त्रमपि च बाध्येत ॥ २१८।। एवं प्राप्ते बूते नेदं सर्वान्नभक्षणं प्रकृते। विध्यर्हमिति यतो न हि विधायक: कश्िवदृत्र शब्द्रोऽस्ति॥२१९॥

Page 348

३४४ [ ३ तृतीयाध्यायस्य-

योऽसौ न ह वेत्यादि: स वर्तमानापदेश एव स्यात्। न ह्यव्रासत्यामपि विधिप्रतीतौ प्रवृत्तिलोभेन ॥ २२० ॥ विधिरभ्युपगन्तव्य स्यात्किंच श्वादिजन्तुमर्यादम्। प्राणस्यान्नमिहोक्त्वा तदेतदाम्नायते हि न ह वेति ॥२२१॥ नैतद्व्ोक्तुं शक्यं श्वाद्यन्नं मानुषेण देहेन। शक्यत एव ज्ञातुं प्राणान्नं सकलमेतदिति तस्मात् ॥ २२२ ॥ प्राणान्नज्ञानस्य प्रशंसनार्थोऽर्थवाद एवायम्। न भवति सर्वान्नानुज्ञानविधिरसावितीह वर्शयति॥ २२३ ॥ सर्वान्नानुमतिः स्यात्प्राणात्यय एव न पुनरन्यत्र। दर्शयति श्रुतिरेषा तथैव चाक्रायणस्य परमर्षेः ॥ २२४॥ आपदि संप्राप्तायाममक्ष्यभक्षणविधिप्रवृत्तिमिह। मटचीहतेष्वितीयं छान्दोग्ये हश्यते श्रुतिस्तत्र ॥ २२५ ॥ आपद्गतो हि चाक्रायणमुनिरिभ्यस्य नगरमागत्य। इभ्येन सामि खादितकुल्माषान्प्रार्थयंश्रखादासी ॥ २२६॥ प्रत्याघचक्ष एतद्ध्युच्छिष्टमिति हि तदीयमनुपानम्। कारणमिह(मा) न खादन्नाहमजीविष्यमिति हि तत्रोक्तम्।।२२७।। अनुपानस्य प्रत्याख्याने कामो ह(म) इति हि तत्कथितम्। स्वपरोच्छिष्टानपि पर्युषितानेतान्परेद्युरपि च पुनः ॥ २२८॥ न हि मक्षयांबभूवेत्युपदिष्ट गम्यते हि तेनैतत्। प्राणात्ययप्रसङ्ग सनद्धे प्राणधारणाय पुनः ॥२२९॥ यच्चामक्ष्यं तद्पि च मक्षयितव्यं तथा न हि स्वास्थ्ये। विद्यावताऽपि काय तदिति ह्यनुपाननिन्दया सिध्येत् ॥२३०॥ तस्मान्न ह वेत्यादिर्भवेत्परमिहार्थवाद एवायमू।

अबाधाच॥ २९ ॥

एवं सत्याहारे शुद्धे स्यात्सत्वशुद्धिरित्यर्थम् ॥२१॥ मक्ष्यामक्ष्यविभागं प्रदर्शयच्छास्त्रमर्थवन्भवति। अपि च स्मर्यते ॥ ३० ॥ अवि चाSSपदि सर्वान्नाभ्यवहारोऽपि प्रदर्शितो ह्यनया।।२३२॥

Page 349

बतुर्ष: पादः ४] माष्यार्थरत्नमाला। ३४५

स्मृत्यैव जीवितात्ययमापन्नो योऽन्नमत्ति यत इति हि। अपि च सदैव हि मद्यं विप्रः खलु वर्जयेत्मुरापस्य ॥ २३३ ॥ विप्रस्योष्णामास्ये ह्यासिञ्ेयुः सुरां सुरापाश्र। क्रिमयो जायन्त इति ह्यस(न)न्नवर्जनमिह स्मरन्त्यास्ये।२३४! शब्दश्वातोऽकामकारे ॥ ३१॥ शब्दश्र कामकारनिवृत्तिफलः भ्रूयते कठानां हि। अस्यां हि संहितायां तस्मान्न पिबेत्सुरां हि विप्र इति ॥ २३५॥ तस्मान्न ह वेत्याद्या मवन्ति केवलमिहार्थवादास्ते। विहितत्वाच्चाऽऽश्रमकर्मापि ।। ३२॥। सर्वािक्षेत्यत्र त्वाथमक्माणि यानि विहितानि ॥२३६ ॥ तानि च विद्यासाधनभूतानीत्यवधृतं हि पूर्वत्र। अमुमुक्षोः किं केवलमाश्रमनिष्ठस्य तानि कर्माणि ॥ २३७॥ अननुष्ठेयान्यथवाऽनुष्ठेयानीति चिन्त्यते सपदि। तत्र तमेतमितिश्रुतिवाक्ये यज्ञादिकर्मणामेपाम्॥२३८॥ विद्येकसाधनतया विहितत्वात्तामनिच्छतो विद्याम्। नित्यान्यनुष्ठेयान्येव फलान्तरमपेक्षतस्तस्य ॥। २२९।। अथ तस्यानुष्ठेयान्येतानि स्युर्यदा तर्द्तेषाम्। न हि विद्यासाधनता स्यान्नित्यानित्ययोगबाधेन॥ २४०॥ एवं प्राप्ते पठति ह्याश्रममात्रैकसंस्थितस्यापि। अमुमुक्षोरेतानि हि कर्तव्यान्येव नित्यकर्माणि॥ २४१॥ यावज्जीवमितिश्रुतिवाक्येन यतश्च तानि विहितानि। ज्ञानार्थतयाऽनुष्ठानेनानित्यत्वमपि च नित्यत्वम् ॥ २४२॥ यावज्जीवश्रुत्येत्युभयविधाने न कश्र्विदिह दोष: । ननु यदि नित्यत्वमिह स्यादाश्रमकर्मणां तद्तेषाम्॥ २४३॥ कथमिह विद्यासाधनता तेषामित्यतः पठत्येतत्। सहकारित्वेन च॥ ३३ ॥ विद्यासहकारीणि ह्याश्रमकर्माणि तन्र विहितस्वास् ॥ २४४॥ श्रुत्या तमेतमित्यनया सर्वेत्यादिकेन सूत्रेण। सदृपि च सहकारित्वं यदिहाऽडश्रमकर्मणां हि सूत्रोक्तम्॥२४५। ४४

Page 350

३४६ सुब्रझ्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

विद्याफलविषयं तन्न हि प्रथाजादिव द्भवेद्यस्मात्। विधिलक्षणा न विद्या विद्याफलमपि न चेह तत्साध्यम् ॥२४६।। विधिलक्षण हि दर्शाद्येव स्वर्गादिसाधनार्थं हि। सहकारिसाधनान्तरमपेक्षते नैवमत्र विद्याडपि॥ २४७।। अत एव चेतिसूत्रे तदेतदुपदिष्टमेव पूर्वत्र। उत्पत्तिहेतुतैव हि सहकारित्वं मवेदिहैतेषाम् ॥२४८॥ इह च विरोधो न भवति नित्यानित्यात्मकेन योगेन। कम/भेदे सत्यपि भवति हि संयोगभेद एकत्र ॥ २४९ ॥ नित्य: संथोगोऽयं यावज्जीवादिवाक्यनिर्दिट्टः । संयोगोऽयम नित्यस्तमेतमित्यादिवाक्य निर्दिष्टः ॥२५० । विद्या परमस्यैव हि फलं न नित्यस्य मवति कथमपि च। करत्वर्थत्वं नित्येनैव हि योगेन खादिरस्य यथा ॥२५१॥ संयोगेनानित्येन पुनस्तस्य च पुमर्थता तद्दत। सर्वथाऽपि त एवोभयलिङ्गात् ॥ ३४॥ आभ्रमकर्मत्वमते विद्यासहकारितामते वाऽपि ॥२५२॥ उमयत्रैव त एते स्युरग्निहोत्रादयो ह्यनुष्ठेयाः। वारयति कर्मभेदाशङ्कां सूत्रस्थ एवकारोडसौ ॥ २५३॥ नित्याग्निहोत्रभिन्नं यथैव मासाग्निहोत्रमन्यत्र। नेवं प्रकृते यस्माष्छतिलिङ्गमिहोपलभ्यते तमिति॥२५४ ॥ यज्ञादीन्युत्पन्नान्येव नियुद्धेSत्र विविदिषायां हि। एषामपूर्वरूपं न जुह्वतीतिवदिहोपपाठ्यति ॥२५५॥ स्मृतिलिङ्गमप्यनाश्रित इत्यादिकमेवमेव दर्शयति। थस्यैते चत्वारिंशदिति स्मृतिरपि किलेत्थमुपदिशति ॥२५६ ॥ तस्मात्कर्मणि भेदावधारणं तदिदमत्र साध्वेव। अनभिभवं च दर्शयति ॥ ३५॥ विद्यासहकारित्वस्यैवोपोद्वलकमेतदिह लिङ्गम् ॥ २५७ ॥ श्रुतिरत्र दर्शयति खल्वनभिभवं ब्रह्मचर्ययुक्तस्य। रागादिभिरेतैर्हि केशैरात्मा न नश्यतीत्येवम् ॥२५८॥ तस्मादाश्रमकर्माण्यपि विद्यासाधनानि तान्येव।

Page 351

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३४७

अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥ विधुरादीनां संपद्रहितानां चाऽडश्रमान्तरेण पुनः ॥२५९॥ संबन्धविरहितानां तदन्तरालैकवर्तिनामेषामू। विद्यायामधिकारः किमस्ति कि नास्ति चेति संदेहे ॥ २६० ॥ नास्तीत्येतघ्युक्तं यत इह विद्यैकसाधनत्वेन। विहितान्याश्रमकर्माण्येतानि तु तेषु नैव हश्यन्ते ॥ २६१ ॥ एवं प्राप्ते बूते ते विद्यायामधिक्रियन्त इति। यस्माद्रैक्वादीनां विधुराणामपि च हश्यते विद्या॥ २६२।। अपि च स्मर्यते ॥ ३७॥ संवर्तपभृतीनामनग्निचर्यादिसंपवृत्तानाम्। स्मर्यत एव महायोगित्वमनाश्रमविधिप्रवृत्तानाम् ॥२६३॥ नन्वत्रानाश्रमिणां विद्याङ् कर्म किं तदिति पेत्र। विशेषानुग्रहश् ॥ ३८॥

मवति हि विद्यानुग्रह इति खल्वेषा रमृतिः प्रदर्शयति। जप्येनैव तु शुध्येद्वाह्मण इह नास्ति संशयः कश्ित् ॥२६५॥ कुर्यादन्यन्नो वा मेत्रोऽसी ब्राह्मणो न चान्य इति। जप्यादिनैव तेषामपि विद्यायामनुग्रहस्तस्मात ॥६६॥ जन्मान्तरकृतकर्मभिरपि विद्यायामनुग्रहो भवति।. स्मृतिरियमनेकजन्मेत्याद्या दर्शयति चतमेवार्थम् ॥ २६७॥ हष्टार्थेयं विद्या प्रतिषेधाभावमात्रमालम्व्य। जप्यादिसाधनेन श्रवणादौ पुरुषमधिकरोति किल ॥ २६८ ॥। तस्माद्विधुरादीनामधिकारे नेह बाधकं किमपि। अतस्त्वितरज्ज्यायो लिङ्गाच ॥ ३९ ॥

ज्यायो विद्यासाधनमेतच्छत्यादिभिश्र संदृब्धम्। श्रुतिलिङ्गं च तदेतत्तेनैति ब्रह्मविदिति वाक्ये हि॥ २७० ॥ स्मृतिलिङ्गमपि च हंषट दिनमेकमनाश्रमी न तिष्ठेत। यददि चेदनाश्रमी सन्संवत्सरमधिवसेत्तदा चायम्।। २७१ ॥

Page 352

३४८ सुबह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

कृछ्छ्रं द्वादशरात्र चरेद्यथाशास्त्रमवहितात्मेति । तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातदूपाभावेभ्यः ॥। ४० ॥ ये चोर्ध्वरेतसः खल्विहाऽडथ्रमा दर्शिता हि पूर्वत्र ॥ २७२ ॥ प्राप्तस्य तास्ततः किं प्रच्युतिरस्त्युत न वेति संदेहे। रागेण पूर्वकर्मानुष्ठानचिकीर्षया कदाचित्स्यात् ॥ २७३।। प्रच्युतिरित्याशङ्का परिहतुं सूत्रमेतदिह पठति। योऽसाविहो्ध्वरेतोभावस्तद्भूत एष इह भवति ॥२७४॥ तस्यातद्भावेडस्ति प्रच्युतिरेव हि ततो न सा युक्ता। नियमात्तद्रूपामावेभ्यो हि किल प्रतीयते चैवम् ॥२७५॥ नियम इहाSडचार्यकुलेऽवसाद्यनन्निति ततो ह्यरण्यमियात्। स ततो हि न पुनरेयादित्युपनिषदिति ह हश्यते किंच ॥ २७६ ॥। आचार्येणेत्यादिस्मृतिरषि नियमं तमेतमुपदिशति। अपि च प्रथमाश्रममिह समाप्य स गृही मवेत्ततश्र वनी ॥२७७॥ इत्यारोहपराणि ह्युपलभ्यन्ते वचासि नान्यानि। न ह्येवं शिष्टानामाचारा: क्वचिदृपि प्रहश्यन्ते ॥ २७८॥

भेयान्स्वधर्म इति हि स्मरणान्नयायादयुक्तमेतत्स्यात् ॥६७९॥ यो यं प्रति विितः स्यात्स तस्य धर्मो भवत्परं न्याय्य: । कतुँ युक्त: सोऽयं धर्मस्य हि चोदनाप्रमाणत्वात् ॥ २८० ॥ न च रागादिवशेन प्रच्युतिरिह नियमशास्त्रतो बाधात्। जैमिनिसंप्रतिपत्तिः प्रदर्शिता पुनरिहात्र दादर्घाय।।२८१।। न चाउधिकारिकमपि पतनानुमानात्तदयोगात् ।। ४१ ॥ यदि नैष्ठिकः प्रमादादवकीर्णी स्यात्तदा हि कि तस्य। स्यादवकीर्णीत्युक्तं प्रायश्चित्तं न वेति संदेहे ॥ २८२॥ तत्र हि नेति तु युक्तं यदेतदधिकारलक्षणे कथितम्। प्रायश्विवत्यवकीर्णी पशुरिति तदृवि च न नैषठिकस्य स्थात्॥२८३।। यस्मादारूढ़ो न्ते(नै)छठिकमित्येषा स्मृतिस्तु तस्य पुनः। पातकमसमाधेयं तूतेऽतः सा प्रतिक्रियां च पुनः ॥२८४॥

Page 353

।तुर्ष: पाद: ४ ] माष्यार्थरत्नमाला। ३४९

वार्यति येन शुध्येत्स आत्महेत्येवमन्तवाक्येन। उपकुर्वाणस्य पुनः पतनस्मरणं न तादृशं क्वापि ॥ २८५।। तस्मात्मायश्चित्तं तदेतदुपपद्यते हि तस्यैव। उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२॥ आपार्या अत्रैके ह्युपपातकमेव तदिति मन्यन्ते ॥२८६॥ यम्नष्ठिकस्य गुरुदारादिभ्योऽन्यत्र तद्वकीर्येत। तन्न महत्पातकमिह गुरुतल्पादिषु यतो न परिगणितम् ।२८७। उपकुर्ाणस्येव हि मवेदिदं तस्य नैष्ठिकस्यापि। प्रायश्िवितं येन द्वयोरपि न दृश्यते विशेषोऽत ॥ २८८ ॥ अशनवदिति तु निदर्शनमत्र यथा ब्रह्मचारिणो दैवात्। मधुमांसाशनयोगे वतलोपः स्यात्पुनश्र संस्कारः ॥ २८९॥ तद्वदिह्ापि स्याद्ये प्रायश्चित्तं न चेह वाञ्छन्ति। तेषां तु नोपलभ्यत इह मूलं किमपि ये च वाञ्छन्ति ॥ २९० ॥ तेषां तु पुनर्वह्मेत्युक्तं ह्यविशेषवचनमिह मूलम्। तस्मात्तस्यापि किल प्रायश्वित्तस्य भाव इह युक्त: २९१॥।

श्रुतिमूलतयाSSदर्तुं युक्ता भावप्रसिद्धिरेवात्र ॥ २९२ ॥ इह पूर्वतम्त्रसंमतिमाविष्कर्तुं तदुक्तमिति तत्र। यवमयचरुवाक्ये किल यवशब्दो दीर्घशूकधान्येऽपि ।। २९३॥ देशविशेषे च तथा प्रसिद्ध इति कस्य चरुरिह न्याय्यः । इति संदेहे वृद्धप्रयागसाम्याद्विकल्पतः प्राप्ती॥२९४॥ सूत्रं समेति तत्र ग्राह्या शास्त्रप्रसिद्धिरिह यस्मात्। धर्मज्ञानं शास्त्रात्तद्यत्रान्या इति स्फुटं तस्मात् ॥ २९५॥ धान्यविशेषोऽत् यवश्चरुरिह तेनैव कार्य इत्युक्तम्। प्रायाश्त्ताभावस्मरणं स्याद्यत्नगोरवापेक्षम्॥ २९६।। तदच्च मिक्षुवैखानसयोरपि तन्द्वेद्वयवस्थातः। वानप्रस्थो दीक्षामेदे कृच्छ्रं चरेद्यथाशास्त्रम्॥ २९७॥। द्वादृशरात्रं स ततः प्रवर्धयेत्किल महान्तमपि कक्षमू। मिश्षुस्तु सोमवृद्द्िविवर्जितमेतञ्चरेद्यथाशास्त्रम् ॥२९८॥

Page 354

३५० सुबह्मण्यविरचिता- [ ३ तृत्ीयाध्यायस्य-

यक्ष स्वशास्त्रविहित: संस्कारः सोऽपि तेन कर्तव्यः। बहिस्तूभयथाऽपि स्मृतेराचाराच॥ ४३ ॥ यञ्चोर्ध्वरेतसां हि प्रच्यवनं स्वाश्रमेभ्य इह तज्ञ ॥२९९॥ यदि च महापातकसुपपातकमथवा भवेत्तथाऽप्येतत्। आरूढो नैछठिकमित्यादिस्सृतिनिन्दिता बहिष्कार्याः ।।३००॥ शिष्टैरन हि शिष्टानामाचरणं तैः सह क्वचिद्द््टम्। स्वामिन: फलश्रुतेरित्यात्रेयः ।। ४४ ॥ चरितप्रायश्चित्तः संव्यवहार्य इति नियमशास्त्रस्य॥३०१ ॥ नैछ्ठिकविषये निन्दातिशयस्सृत्या यथैव बाघ: स्थात्। यस्त्विह यदङ्गकर्ता स च मवति तदाश्रितस्य कर्तेति॥ ३०२ ॥ उत्सर्गस्य हि कर्तुः फलभ्रवणतो मवेत्तथा बाधः । इह पुनरुपासनानि हि यान्येवाङ्गाभ्नितानि किं तानि॥३०३॥ ऋत्विक्वर्माण्यथवा यजमानस्यैव तानि कर्माणि। तत्र च यजमानस्यैवैतानीत्येतदेव युक्तं स्यात् ॥ ३०४।। यस्माद्वर्षति हास्मे वर्षयतीत्यादिकं फलश्रवणम्। यजमानगामि हषट न्याय्यं साङ्गप्रयोग एतस्य ॥ ३०५॥। अधिकृतभावादृपि चतस्याधिकृताधिकारमावाच्च। वर्षति हास्मै य उपास्त इति फलं कर्तृगामि दृष्टमिह ॥ ३०६॥ नन्वृत्विजोऽपि हष्ट नदात्मनेवेतिवाक्य इति चन्न। तस्य च वाचनिकत्वात्फलवत्सूपासनेषु कर्तृत्वम् ॥ ३०७।। स्वामिन एव स्यादित्यात्रेयो मन्यते किलाSSचार्यः । आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५॥ न स्वामिकर्तृकाणि ह्युपासनानीह किंतु तानि स्युः ॥३०८॥। ऋत्विक्कर्माणि परं स मन्यते ह्यौडलोमिराचार्य: साङ्गाय कर्मणे खल्वृत्विक्तस्मै यतः परिक्रियते ॥३०९॥ एतानि तत्मयोगान्त:पातीन्यधिकृताधिकारत्वात्।

निर्वत्येरंस्तदिदं विज्ञानस्य श्रुतिः प्रदर्शयति। उद्टातृकर्तृकत्वं तं ह बको दाल्म्य एवमाद्या हि। ३११॥

Page 355

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३५१

कर्त्राभ्रयमेव फलं भ्रूयत इति यञ्च दर्शितं पूर्वम्। तदृपि च न परार्थत्वावृत्विज इह भवति न स्वतम्त्रत्वम् ॥३१२॥ फलसंबन्धस्तस्य च वचनादन्यत्र नैव संघटते।

श्रुतेश्र ॥। ४६ ॥ यां वै कांचन यज्ञे ऋत्विज आशिषमिति श्रुतिश्वापि ॥३१३ ॥ यदिदमुपासनसाध्यं फलमिह यजमानगामि दर्शयति। कं ते कामम(मा) गायानीत्याद्येनैव वाक्यजातेन ॥ ३१४॥ तस्मादङ्गोपास्तीनामृत्विक्कर्तृकत्वमिति सिद्धम। सहकार्यन्तरविधिः पक्षेण तृतीयं तद्दतो विध्यादिवत् ॥४७। आत्मानमिह विदित्वा पूर्वतना ब्राह्मणा हि संन्यस्य ।।३१५।। भिक्षाचर्यं यस्माच्चरन्ति ते बाह्मणोऽधुना तस्मात्। पाण्डित्यं निर्विद्य च नियतं बाल्येन स खलु तिष्ठासेत्॥३१६। बाल्यं पाण्डित्यं चोभयमपि निर्विद्य सोऽथ मुनिरेव। मौनममौनं च तथा निर्विद्य ब्राह्मणोऽथ भवतीति ॥३१७॥ बृहदारण्यकवाक्ये श्रुतमेवं तत्र भवति संदेहः। मौनं विधीयते किं न वेति न वेति युक्तमिह यस्मात् ॥ ३१८॥ विध्यवसानं बाल्येनेत्यस्मिन्टश्यते न चान्यत्र। अथ मुनिरित्यत्र पुनर्न हश्यते काऽपि विधिषिभक्तिरसौ ॥३१९॥ तस्मादथ मुनिरित्ययमनुवादो मवति न खलु विधिरेष: । मुनिपण्डितशब्दौ हि ज्ञानार्थावेव केवलं तेन ॥ ३२० ॥ पाण्डित्यं निर्विद्येत्यत एव च मौनमपि किल प्राप्तम्। किंचामौनं मौनं निर्विद्याथेत्यनन्तरं हीदम् ॥३२१ ॥ ब्ाह्मण इति निर्दिष्टं न ब्राह्मण्यं विधीयते तत्र। येन प्रागेवैतत्पाप्तं तेन प्रशंसनार्थं स्थात् ॥३२२॥ अथ मुनिरित्यप्येवं प्रशंसनारथं समाननिर्देशात। एवं प्राप्ते सहकार्यन्तरविधिरिति तदुत्तरं बूते ॥ ३२३ ॥ विधिरेवाऽडभ्रयितव्यो विद्यासहकारिणोऽस्य मौनस्य। तदिदमपूर्वत्वादिह बाल्यं पाण्डित्यमिव हि विध्यर्हम्॥ ३२४ ॥ पाण्डित्यमौनशब्दी तुल्यार्थाविति न शङ्कनीयमिह। ज्ञानातिशयार्थोडयं मननान्मुनिरिति यतोऽत्र मुनिशब्द: ।३२५॥

Page 356

३५२ सुब्ह्मण्यविरचिता- [ २ तृतीयाध्यायस्य-

व्युत्पत्तिबलाच्च मुनीनामप्यहमिति किल प्रयोगाज्च। ननु परमाश्रमपर इह मुनिशब्दः श्रूयते हि गार्हस्थ्यम् ॥ २२६॥ आचार्यकुलं मौनं वानप्रस्थमिति वाक्य इति चेन्न । वाल्मीकिर्मुनिपुंगव इत्यादी तत्परत्वबाधेन ॥। ३२७॥ इतराश्रमसांनिध्यात्परिशेषादुत्तमाश्रमस्तत्र । परिगृह्यते स चायं प्रज्ञाप्ाधान्यतो न सर्वत्र ॥३२८॥ तस्माच्च बाल्यपाण्डित्यतस्तृतीयं हि मौनमिद्मत्र। ज्ञानातिशयात्मकमिह विधीयते यन्तु बाल्य एव विधेः ॥ ३२९ ॥ पर्यवसानमिति न सत्तदपूर्वत्वाद्विधीयते मौनमू। स्थान्मुनिरिति मौनस्य प्रकृते निर्वेदनीयताकशनात् ॥ ३३०॥ बाल्यादेरिव तस्य च विधेयताश्रयणसुचितमेव स्यात्। तद्वत इति संन्यासिन एव हि विद्यावतो भवेद्ग्रहणम्॥३३१॥ अथ मिक्षाचर्यमिति ह्यधिकारो येन तत्फलो हष्टः। ननु सति विद्यावत्वे प्राप्ोत्यतिशयमसी किमेतेन ॥ ३३२ ॥ स्याद्घ मौनविधिना पक्षेणेत्यत इदं समाम्नातम्। यस्मिन्पक्षे ज्ञानातिशयमसी भेददर्शनातिशयात्॥३३३॥ न प्राप्नोति हि तस्मिन्पक्षे विधिरेष सफलतामेति। विध्यादिवद्यथैव च दर्शादिविधी हि तस्य सहकारि॥३३४ ।। अग्न्यन्वाधानादिकमखिलमपि विधीयतेऽङ्गजातं हि। तेनाविधिप्रधाने वाक्येऽप्यस्मिन्विधीयते मौनम् ॥३३५॥ इति बाल्यादिविशिष्टे सति कैवल्याश्रमे कुतो वेह। छान्दोग्ये गृहिणेव ह्युपसंहारः कृतस्ततो भाति ॥३३६ ॥ तदविषय एव तस्थाSSदर इति तत एतदुत्तरं पठति। कत्स्नभावात्तु गृहिणोपसंहारः ॥४८ ॥ अत्र तु विशेषणार्थो भवति तुशब्दो हि सूत्रमध्यस्थः ॥ ३३७॥ एतस्य कृत्स्नभावो विशिष्यते येन भूरिकर्माणि। यज्ञादीनि हि तं प्रति कर्तव्यतयोपदर्शितानि तथा ॥३३८॥ इतराश्रमकर्माण्यपि तस्य यथासंभवं मवन्त्येव। किंचाहिंसेन्द्रियसंथमनादीन्यपि च तस्य विद्यन्ते ॥ ३३९॥

Page 357

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ३५३

तस्मादुपसंहारश्छान्दोग्ये नो विरुध्यते गृहिणः । मौनवदितरेषामप्युपदेशात्॥४९॥ मौनं गार्हस्थ्यमिति श्रुतिनिर्दिष्टौ यथाऽडश्रमावेतौ॥३४०॥ एवं वनस्थगुरुकुलवासौ श्रुत्यैव दर्शितौ भवतः । तस्मादिहाऽडश्रमाणां सर्वेषामपि समाननिर्देशात् ॥३४१॥ प्रतिपत्तिरत्र तेषां समुच्चयेनाथवा विकल्पेन। इतरेषामिति सूत्रे बहुवचन यद्दयोः श्रुतं तच्च ॥३४२॥ भवति किल वृत्तिभेदापेक्षमनुष्ठातृभेदसापेक्षम्। अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ तस्माद्ब्राह्मण इति बृहदारण्ये श्रूयते हि यद्वाक्यम् ॥३४३ ॥ तत्रानुष्ठेयतया बाल्यं यञ्च प्रदर्शिनं तत्किम्। बालस्य भाव इति या किषा बालस्य कर्म बाल्य स्यात् ॥३४४।। तद्धितलभ्यस्य वयोवस्थारूपस्य बालभावस्य। इच्छातोऽनुष्ठातुमशक्यत्वाद्वालकर्भ बाल्यं स्यात् ॥३४५॥

यट्म्भदर्पराहित्येनाऽडन्तर भ वशुद्धिरुपं स्यात् ॥ ३४६ ॥ इति संदेहे तत्र च बाल्यमिदं बालचरितमिति युक्तम्। यत्कामचारवादाशनोपपदमूत्रकृत्यमित्यादि ॥ ३४७॥ लोकप्रसिद्धमेतद्वाल्यं तद्ग्रहणमिह भवेद्युक्तम्। ननु कामचारताद्याश्रयणे पतितो भवेदसाविति चेत् ॥ ३४८॥ नासौ दोषो विद्याबलेन सन्यासिन: कदाचिद्पि। वचन प्रामाण्यात्पशुहिंसादिष्विव हि दोषपरिहारात् ॥ ३४९॥ एवं प्राप्ते बूते बाल्यं नैवेह बालचरितमिति। इह बाल्यशब्दृतः खल्वविरुद्धार्थे प्रतीयमानेऽपि ॥ ३५०॥ तस्मिंश्व लभ्यमाने गत्यन्तरसंभवेऽपि वचनस्य। आपातप्रतिपत्या विध्यन्तरभङ्गकल्पनाऽनुचिता॥३५१॥ यञ्च प्रधानसहकारि स्यादङ्ग विधीयते तद्दि। संन्यासिनां प्रधानं श्रवणावृत्त्यादि परमनुष्ठेयम् ॥३५२॥ अङ्गीक्रियमाणेSस्मिन्सकलेऽपि च बालचेट्टिते तेषाम्। न श्रवणादेरभ्यासस्तस्माद्वाल्यमान्तरो भाव:॥३५३ ॥

Page 358

३५४ सुबह्मण्य विरचिता- [ १ तृतीयाध्यायस्य-

आश्रीयते प्ररूढेन्द्रियतादिकमिह तदेव बाल्यमिति। इह चानाविष्कुर्वन्निति सृत्रे सुत्रकृत्प्रदर्शयति॥३५४॥

दम्भादिरहित एव हि यतिर्भवेदिति यथा ह्यसौ बाल: ॥३५५॥

एवमसौ विद्वानपि भवेद्यदैवं तदाऽस्य वाक्यस्य॥३५६॥ उपपद्यते प्रधानोपकारकाङ्गप्रदर्शनार्थतवम्। उक्तं हि स्मृतिकारपं च हि सन्तं न चाप्यसन्त यम् ॥ ३५७॥ नाश्ुतमपि न बहुश्रुतमवि न सुवृत्त न चापि दुर्वृत्तम्। वेद न कश्षन विद्वान्स एप इह गूढधर्ममाशित्य ॥३५८॥ तदिदमविज्ञातव्रतमन्धजडादिवदसौ चरेदिति हि। ऐहिकमप्यप्रस्तुतप्रतिबन्वे तद्दर्शनात् ॥ ५१॥ विद्यासाधनमेतत्सवपिक्षेति सूत्रमारभ्य ॥३५९॥ उच्चावचमवधारितमत्र पुनस्तत्फलात्मिका विद्या। सिध्यन्ती किमिहैष हि जन्मनि सिध्यत्यमुत्र वा सिध्येत्॥३६०। इति चिन्त्यते हि तत्र त्विहैव सा सिध्यतीति युक्तं स्थात्। श्रवणादिपूर्षिका या विद्या तामिह न कश्रिदृपि पुरुष: ।३६१॥ सा जायताममुत्ेत्यभिसंधाय प्रवर्तते किंतु। अस्मिन्नेव हि जन्मनि तामभिसंधाय तु प्रवर्तेत ॥ ३६२॥ श्रवणादिषु तत्साधनयज्ञादिष्वपि च सिद्धये तस्याः । तस्मादिहैकमेव हि विद्याजन्मेत्यतस्त्विद बूते ॥ ३६३॥ असति प्रतिबन्धे स्याद्विद्याजन्मैहिकं न चेतरथा। श्रवणादिसाधनस्य प्रतिबन्धो यदि भवेदनेन पुनः ॥३६४ ॥ प्रारब्धकर्मणा संजातविपाकेन तत्र न हिसा स्थात् । यदि कर्मणा न तेन प्रतिबन्ध: स्यान्भवेदिहवैषा ॥ ३६५॥ भवतीह देशकालनिमित्तोपनिपातवशत एतस्य। प्रारब्धस्योपस्थितविपाकता कर्मणो न चान्यस्मात् ॥ ३६६ ॥। एकस्य कर्मणः किल विपाचकानि हि मवन्ति यान्यत्र। तान्येवान्यस्यापि हि विपाचकानीति नायमेकान्तः । ३६७ ।।

Page 359

चतुर्थ. पाद ४] माष्यार्थरत्नमाला। ३५५

वस्माद्विरुद्धफलदान्यपि चानेकानि तानि कर्माणि। शास्त्रमषि कर्मणोऽस्य हि फलमिदमेवेति तु प्रदर्शयति ॥३६८॥ न हि देशं कालं या निमित्तभेदमपि तस्य कीर्तयति। साधनवीर्यविशेषादेवाऽडविर्भवति कम्यचिच्छक्तिः ॥३६९॥ तत्प्रतिबन्धात्कस्यचिदतीन्द्रिया सा हि कुण्ठिता भवति। ननु विद्यायामस्यामविशेषेणाभिसधिरिह न भवेन् ॥ ३७० ।। इह वाउप्यमुत्र वा मे विद्या स्यादिति कथ तदिति चेन्न। अभिसंधिरथमकिंचित्करो हि तस्य च निरद्ठुशत्वेन ॥ :७१ ॥ अ्रवणादिसाधनैरिह विद्या येयं जनिष्यमाणा स्यात्। सा विद्या पुनरत्र प्रतिबन्धक्षयमपक्ष्य जायेत॥ ३७२॥ श्रवणायापीति श्रुतिरषि दुर्बोधत्वमात्मनो बते। मुनिरेष वामदेवः प्रतिनुबुधे ब्रह्मभावमिह गर्भे ॥ ६७३ ॥ इति कथयन्ति ्रुतयस्तस्माज्जन्मान्तरीयसाधनतः । जन्मान्तरेऽपि विद्योत्पत्तिरियं भवति सप्रमाणैव ॥३७४॥ न हि गर्भस्थस्यैहिकमपि विद्यासाधनं भवेत्किचित्। भगवद्गीतासु स्मृतिपु यथोक्तं प्रपश्चितं बहुधा ॥ ३७५॥ अप्राप्य योगसंसिद्धिमिति स खल्वर्जनेन पृष्टः सन्। भगवान्स वासुदेवो न हि कल्याणकृदितीदमारभ्य॥ २७६ ॥ तस्यैव पुण्यलोकप्राप्तिमतः सत्कुलप्रसूतिं च। अभिधाय तत्र तमिति प्रक्रम्यानेकजन्मसंसिद्ध: ॥३४७॥ याति ततोऽसी परमां गतिमित्युक्तार्थमेव दर्शितवान्। तस्माद्विद्या येयं सा चेहामुत्र वाडपि जायेत॥। ३७८॥ सेयं हि जायमाना प्रतिबन्धक्षयमपेक्ष्य जायेत।

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५२॥ इह च यथा हि मुमुक्षोरविद्यासाधनकृतावलम्बस्य ॥३७९॥ साधनवीर्यविशेषाद्विद्यारुपे फले हि पूर्वोक्त। ऐहिकपारत्रिकफलभावकृत: किल भवेद्विशेषोऽयम् ॥३८० ॥

न विशेषप्रतिनियमो यस्मादेका हि मुक्त्यवस्थेयम्॥ ३८१ ॥

Page 360

३५६ सुब्रह्मण्यविरचिता- [ ३ तृतीयाध्यायस्य-

अवधार्यते किलेयं वेदान्तेष्वेवमेव सर्वेषु। एका्मिका यतः सा ब्रह्मैव हि मवति मुक्त्यवस्थेयम् ॥ ३८२ ॥ न ब्रह्मणो ह्यनेकाकारत्वं तस्य चैकलिङ्गत्वात्। अस्थूलमनण्वह्नस्वमिति तथेवैष नेति नेत्यात्मा॥३८३॥ नान्यत्पश्यति नान्यच्छरृणोति नान्यदिति चैवमपराऽपि। ब्रह्मैवेद्मिति श्रतिरिदं सर्वमिति चैवमन्याऽपि ॥ ३८४॥ एष महानज आत्माऽजरोऽमराडमृत इति ्रुतिश्वान्या। यत्र त्वस्येत्येताः प्रथयन्त्येतस्य निर्विशेषत्वम् ॥३८५॥ किंच यदेतद्विद्यासाधनमत्र स्ववीर्यवैशेष्यात्। आसञ्जयेद्विशेषं कमपि च विद्यात्मके फले स्वीये॥ ३८६॥ न हि विद्याफलमुक्ती मुक्तिकलं खल्वसाध्यमिह यस्मात्। यद्ब्रह्म नित्यसिद्धं तद्ेव विद्येकसमधिगम्यमिति ॥३८७॥ असकृत्प्रपश्चितं न हि परविद्यायां विशेष इह कश्रित्। स्यादुत्कर्षनिकर्षात्मको निकृषा हि न खल सा विद्या ॥ ३८८॥ या परमुत्कृष्टा स्यात्सा विद्या भवति सा च मुक्तिफला। तस्यां खल विद्यायां चराचरोत्पत्तिलक्षणोऽतिशयः ॥। ३८९॥ भवतु तथाऽपि न मुक्तावतिशय एवंविधो हि कश्रिवदृपि। विद्याभेदामावान्न च विद्याफलमपीह भिन्नं स्यात् ॥ ३९०॥ कर्मफले खलु मेद: स्यादेव हि कर्मणामनेकत्वात्। न तथा मुक्तिफलायां विद्यायामस्ति कश्िदृपि भेद: ॥३९१॥ विद्यासु सगुणविषयासु च सति गुणयोगभेदतो भेदे। तत्र यथास्व फलभेदोऽसी स्यात्कर्मणामिवायं हि॥३९२॥ उपदिशति श्रुतिरेवं यथा यथोपासते तथैवेति। इह निर्गुणविद्यायां गुणविरहान्नास्ति कश्िवदृपि भेद: ॥३९३॥ न हि गतिरधिकाऽस्तीति स्मृतिरप्यर्थं यथोक्तमुपदिशति। तद्वस्थावधृतेरितिपदस्य सूत्रेऽत्र योऽयमभ्यासः । अध्यायपरिसमाप्तिं विद्योतयति परं समख्जसं सकलम्॥३९४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयमू। चतुरध्यायी तस्यां तृतीयसंज्ञश्र योऽयमध्यायः ॥ ३९५॥ तत्र चतुर्थे पादे सूत्रार्थो यक्ष भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥३९६॥

Page 361

चतुर्थ. पाद: ४ ] भाष्यार्थरत्नमाला। ३५७

माष्यार्थरत्नमाला वैयासिकसूत्रजालसंग्रथिता। मगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या।।३९७॥ इति माप्यार्थरत्नमालायां तृतीयाध्यायस्य चतुर्थः पाद: समाप्ः ।। ४ ।।

इति तृतीयाध्यायः समाप्ः ॥३॥

अथ चतुर्थाध्याय: । तत्र चतुर्थाध्यायस्य प्रथमः पाद: ॥ पूर्वस्मिन्नध्याये साधनमखिलं निरुप्य तस्य फलमू। एतस्मिन्नध्याये निरूप्यते तेन हेतुफलभावः ॥१॥ अध्याययोर्द्वयोरपि सगतिरत्र च फलप्रसङ्गेनन। उत्क्रान्तिरर्चिरादिकमार्गश्र विचार्यते तर्थवेह ॥२॥ श्रुत्युपदिष्टं साधनमपि संन्यासादि चिन्तितं पूर्वम्। अर्थापत्त्यभिगम्यावृत्त्यादिकमत्र चिन्त्यतेऽध्याये ॥ ३ ॥ आवृत्तिरसकदुपदेशात् ॥ १॥ प्रायेण साधनाश्रयविचार एष प्रवर्तितः पूर्वम्। अस्मिन्पुनरध्याये फलाश्रयः सोऽयमागमिष्यति हि॥ ४॥ अन्यञ्च चिन्तयिष्यति यब्ात्र पुनः प्रसङ्गतः प्राप्तम्। प्रथमं तु साधनाश्रयविचारशेषं तमेतमनुसरति॥५॥ द्रष्ट्व्यः श्रोतव्यो मन्तव्य इतीह वेदवाक्यानि। एवं तमेव धीरो विज्ञायेत्यादिकानि वाक्यानि ॥ ६॥ भूयांसि श्रूयन्ते तत्रावतरत्ययं हि संदेहः। भ्रतिवचनैरेतैः किं सकृदात्मप्रत्ययोऽत्र कर्तव्यः ।। ७॥ उपदिश्यतेऽथवाऽसावावृत्यैव हि किमत्र कर्तव्यः। तत्र च सकृदेवासौ कर्तव्य इतीद्मेव युक्तमम्॥८॥ सकृदपि कृते हि शास्त्रं सफलार्थं स्याद्यथा प्रयाजादौ। श्रतिवचनेष्वावृत्तिः क्वचिदृपि न श्रूयते यतस्तस्मात् ॥ ९॥ तस्यां क्रियमाणायां कृतो भवेदिह पर ह्यशास्त्रार्थः। नन्वत्रासकृदुपदेशा एव श्रुतिषु हि प्रतीयन्ते ॥१०॥

Page 362

३५८ सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

श्रोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्। सत्यं तथाऽपि यावच्छन्दमिहाऽडवर्तयेत्सकृच्छ्रवणम्॥११॥ मननं सकृदेव निदिध्यासनमेवं न चातिरिक्तं स्यात्। सकृदुपदेशे वेदोपासीतेत्यादिके हि नाऽऽवृत्तिः ॥ १२ ॥ एव प्राप्ते जूते ह्यावृत्तिरवश्यमत्र कार्येति। दर्शनसाधनविषयोऽसकृद्दुपदेशोऽत्र दृश्यते यस्मात् ॥१४ ॥ भोतव्यो मन्तव्यस्तथा निदिध्यासितव्य इत्येवम्। सोऽन्वेष्टव्य इति श्रुतिरप्यावृत्तिं हि सूचयत्यत्र ॥ १४ ॥ नन्विह यावच्छव्दं प्रत्ययमावर्तयेदितीहोक्तम्। मैवं दर्शनपर्यवसानानि श्रवणमननपूर्वाणि॥१५॥ स्यु: साधनानि दृष्टार्थानि मवन्ति हि परं तदावृत्त्या। तण्डुलनिष्पत्त्यवसानान्यवघातादिसाधनानि यथा ॥ १६॥ अपि चोपासनमपि यद्यञ्च निदिध्यासनं तदेतदृपि। नियतावृत्तिगुणेव क्रिया भवेन्मानसी हि याऽन्तःस्था ॥१७॥ लोके हि गुरुमुपास्ते राजानमुपास्त एवमादो हि। स ह्येवमुच्यते यो गुर्वादींस्तत्परोऽनुवर्तेत ॥ १८।। प्रोषितनाथा ध्यायति पतिमित्यादौ निरन्तरस्मरणा। या सोत्कण्ठा हि पतिं प्रत्येव साडमिधीयते लोके । १९॥ दष्टश्र विद्युपास्त्योरव्यतिरेकेण च प्रयोगो हि। वेदान्तेष्विह विदिनोपक्रम्योपास्तिनोपसंहरति ॥२०॥ यस्तद्वेदेत्यादौ विदिना चोपक्रमोऽयमुप्लब्धः। या देवतामुपास्स इति ह्युपसंहृतिरुपास्तिना दृषा ॥ २१ ॥ एतच्च हंसवाक्यं यस्तद्वेदेति दर्शितं तत्र। यद्वेद स खलु रैक्वो रैक्कादन्योऽपि यश्च तद्वेद ॥ २२॥। तत्माणतत्त्वविद्याफले हि सर्वमपि चान्तरेव स्यात्। एवं मया स रैक्रो ह्युत्कृष्टत्वेन कथित इति वचनम् ॥ २३॥ हंसं प्रति हंसान्तरवचनं जानश्ुतिस्तदाकर्ण्य। गत्वा रैक्ं राजा प्रोवाचानु म इतीदमिह वाक्यम्॥२४॥ एतां हि रैक्वविदितां हे भगवो मेऽनुशाधि हीत्येवमू। एवसुपक्रम्योपास्तिना हि विदिनोपसंहृतं तत्र ॥२५॥

Page 363

प्रथम: पाद: १] माष्यार्थरत्नमाला। ३५९

श्रुत्षन्तरे मनो ब्रह्मेत्यादौ पुनरिहोपसंहारः । एवं वेदेति तथोपासीतेति ह्युपक्रमो दृष्टः ॥ २६ ॥ सगुणस्य निर्गुणस्य च साक्षात्कारे भवेदिहाऽडवृत्तिः । सिद्धा श्रौती हष्टार्था च तथा श्रवणमननयोरेवम् ॥२७ ॥ सकृदुपदेशेष्वपि चेदावृत्ति: सेयमसकृदुपदेश। इह च न सिध्येत्कस्मात्तस्मादावृत्तिरत्र युक्तैव ॥-२८ ॥ लिङ्गाच ॥ २ ॥ लिङ्गमपि दर्शयति तामावृत्तिं तदिदमत्र विज्ञानम्। उद्गीथविषयकं प्रस्तुत्याSSदित्योऽयमेष उद्गीथः॥२९॥ इत्येतदेकपुत्रत्वात्मकदोषेण खल्विहापोद्य। रश्मीस्त्वं पर्याव्तयेति कौषीतकिः स्वपुत्रमिदम् ॥३० ॥ विद्धद्वहुपुत्रत्वाय च रश्मिबहुत्वविषयविज्ञानम्। सिद्ध वदेवाSSवृत्तिं सर्वेषु प्रत्ययेषु दर्शयति ॥ ३१ ॥ तत्सामान्यात्प्रत्ययसामान्ये सिध्यतीयमावृत्तिः। नन्वावृत्तिः साध्यफलेष्जेव प्रत्ययषु युक्ता स्यात् ॥ ३२ ।। तत्साध्यं हि फलं किल तत्रैव स्यान्न चेह संभवति। यन्नित्यमुक्तरूपं [ब्रह्म परं ज्ञायते विशुद्धं हि। ३३ ॥। तत्सकृदुपदेशेन च यतो हि नित्यापरोक्षता तस्य। ननु च सकृ]च्छूवणेन ब्रह्मात्मत्वप्रतीतिरिह न स्यात् ॥३४॥ क्रियमाणायामप्यावृत्ती दुर्वार एव दोषोडयम्। ननु केवलं हि वाक्यं साक्षात्कारे न सा्धेकें किंतु ॥३५॥ तदिदं हि युक्त्यपेक्ष ब्रह्मात्मत्वापरोक्षजनकं स्यात्। इति चेत्तर्ह्यावृत्त्यानर्थक्यं किंच साऽपि युक्तिरिह ॥३६ ॥ सकृदेव हि प्रयुक्ता स्वमर्थमनुभावयतुमलं भवति। अथ युक्त्या वाक्येन ज्ञान सामान्यविषयमेव स्यात् ॥३७॥ न विशेषविषयकं तद्यथाऽस्ति हृदि भे महच्च शूलमिति। वाक्याच्च गात्रकम्पनलिङ्गादपि शूलमात्रसन्भ्ावम् ॥३८।। प्रतिपद्यते किलाऽन्यो न विशेषं कमपि चानुभवति यथा। शूले स तद्विशेषानुभवोऽविद्यानिवर्तको भवति ॥३९ ॥

Page 364

३६० सुब्ह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

आवृत्तिरेतदर्था स्यादिति चेदेवमपि च दोष: स्यात्। तावन्मात्रे क्रियमाणे विज्ञानोदयो यतो न भवेत् ॥ ४० ॥ योऽसौ सकृत्प्रयुक्ताभ्यामेताभ्यां हि शास्त्रयुक्तिभ्याम्। नैथावगम्यतेऽसौ शतकृत्वोऽपि प्रयुज्यमानाभ्याम् ॥४१॥ न हि शक्यतेऽवगन्तुं तस्माद्यद्यत्र शास्त्रयुक्तिभ्याम्। प्रतिपाद्यते विशेषो यदि वा सामान्यमुमयथाऽपि पुनः ॥४२॥ एते सकृत्प्रयुक्ते स्वफलं कुरुतो न किचिदावृत्त्या। एते हि शास्त्रयक्ती सकृत्प्रयुक्ते हि कस्यचित्पुंसः ॥४३॥ नोत्पादयतोऽनुभवं कदाऽपि चेति तु न शक्यते वक्तुम्। येन विचित्रप्रज्ञाः प्रतिपत्तारो भवन्ति लोकेऽस्मिन् ॥ ४४ ॥ अपि चानेकाशयुते सामान्यविशेषवति पदार्थे हि। अवधानेनैकेनैकमंशमन्येन चान्यमंशमपि। ४५॥ अवधारयति हि लोके यथैव दीर्घप्रपाठकग्रहणे। तत्राभ्यासः सफलः स्यान्नैवं निर्विशेषचिन्मान्रे॥४६॥ ब्रह्मण्यनुभूत्युदये तस्मादावृत्तिरनुचितैवात्र। इति चेदावृत्त्यानर्थक्यं तं प्रति भवेद्य ईदक्स्यात् ॥४७॥ सकृद्ुक्तमेव तत्त्वमसीति ब्रह्मानुभवितुमिह शक्त: । यस्तु न शक्रोति पुनस्तं प्रति युक्तेव हीयमावृत्ति: ॥। ४८ ।। तत्र च्छान्दोग्ये तत्त्वमसीति श्वेतकेतुमुपदिश्य। स हि भूय एव मा भगवानिति परिचोद्यमान एव पुनः ॥४९॥ उदालको हि तत्तच्छङ्कायाः कारणं निराकृत्य। नवकृत्वस्तत्वमसीत्येवं हि श्वेतकेतुमाचख्यौ ॥ ५० ॥ ननु सकृदुक्तं तत्वमसीति न शक्कोति तदनुभावयितुम। यदि तर्हि नैव शक्ष्यति तदेव चाSडवर्त्थमानमपि वाक्यम्॥५१॥ इति चेन्नासौ दोषो हष्टे न ह्यनुपपन्नमिह किंचित्। दृश्यत एव सकृच्छतवाक्यान्मन्दप्रतीतमर्थ हि॥ ५२॥ आवर्तयंस्तमेव हि सम्यक्प्रतिपद्यमान इह लोके। अपि च यदेतत्तत्वमसीति तदेतत्त्वमर्थरूपस्य ॥ ५३ ॥ इह तत्पदार्थभावं बूते किल तत्पदेन च प्रकृतम्। सद्बह्मेक्षितृ जगतः कारणमभिधीयते हि तच्च पुनः ॥५४॥

Page 365

प्रथम: पादः १ ] माष्यार्थरत्नमाला। ३६१

सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्रुतिप्रसिद्धं हि। तत्राजादिप्दैर्जन्मादिविकारा निवर्तिता एवम् ॥५५॥ अस्थूलादिपदैर्हि स्थौल्याद्या अपि निवर्तिता एवम्। विज्ञानादिपदैरपि चैतन्याद्यात्मकत्वमस्योक्तम् ॥५६॥ व्यावृत्तसर्वसंसारधर्मकोऽमुभवरूप इह योऽयम। सोडयं हि तत्पदार्थो वेदान्ताभिज्ञसुप्रसिद्धो हि॥ ५७॥ एवं त्वमर्थ एष श्रोतुर्देहपदेशमारभ्य। प्रत्युक्तया च चेतनरूपतया चावधारितो मवति ॥५८॥ प्रतिबद्धावेतौ द्वावेषामज्ञानसंशयाद्यैः सः। तेषां तत्त्वमसीति प्रमां जनयितुं सकृन्न शक्रोति ॥५९॥ येन पदार्थज्ञानायत्तं वाक्यार्थगोचरं ज्ञानम्। तेन पदार्थविवेकायैव च तान्प्रत्यवश्यमेष्टव्यः॥६० ।। सोडयं हि शास्त्रयुक्त्यभ्यासो यद्यपि निरंश एवाउडत्मा। सत्यं तथाऽपि तस्मिन्देहेन्द्रियविषयवेदनारूपम् ॥६१॥ अध्यारोपितमेतद्वह्वंशत्वं हि तत्र चैकेन। अवधानेनैकांशं तथाऽपरेणापरं त्वपोहति हि ॥ ६२॥ इति तु क्रममित्येषा प्रतिपत्ति: परमसाधनं ह्यस्या:। स्यादात्मप्रतिपत्तेरित्यावृत्तिर्हि तत्र सफलैव ॥ ६३ ॥ येषां निपुणमतीनां न प्रतिबन्धोऽस्ति संशयाज्ञानैः । ते शक्नुवन्ति सकृदुक्तमपि च वाक्यार्थमेतमनुमवितुम् ॥६४॥ स्यादेवाSडनर्थक्यं तान्प्रति तत्र च न चेयमुपदिष्टा। सकृदुत्पन्नात्मप्रतिपत्तिरबिद्यां निवर्तयेत्तेषाम् ॥ ६५॥ ननु यदि कस्यचिदेवं प्रतिपत्तिस्ताह युक्तमिदमखिलम्। दृष्टवा दुःखित्वादिप्रतिपत्तिर्बलवती हि सर्वस्य ॥६६॥ प्रतिपद्येत कथं वा दुःखित्वादेरमावमिति चेन्न। दुःखित्वाद्यभिमानो योऽसी देहाभिमानवन्मिथ्या॥६७।। प्रत्यक्षमेव तदिंदं देहे केनापि पीडचमाने हि। अहमेव पीडितोऽस्मीत्येवं मिथ्याभिमान इह हष्ः॥ ६८॥ बाह्येष्वपि पुत्रादिप्वेवं संतप्यमानगाश्रेषु। संतप्तोऽस्म्य हमेवेत्यध्यारोपोऽयमिह यथा दृक्षः ॥६९॥ ४६

Page 366

२६२ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

स्वात्मनि दुःखित्वाद्यमिमानो मिथ्याप्रतीतिरेव तथा। बहहिरुपलभ्यत एतज्चैतन्याद्दुःखितादि नैवान्तः ॥। ७० ॥। दुःखित्वादेर्यस्मादनुवृत्तिर्द्श्यते न सौपुप्ते। चैतन्यस्य सुषुप्तावप्यनुवृत्ति समामनन्तीह ।। ७।। बृहदारण्यकवाक्ये पश्यन्वैतन्न पश्यतीत्यादौ। तस्माच्च सकलद्दुःखविवर्जितचतन्यरूप एवाहम् ॥ ७२H इत्ययमात्मानुभवो भवेन्न चाऽत्मानमेवमनुभवतः । अवशिष्यते हि किमपि च कृत्यमितीयं श्रुतिः प्रदर्शयति॥७३॥ कि प्रजयेत्याद्या सा विदुषः कर्तव्यविरहमुपदिशति। यस्मात्वरतिरिति स्मृतिरपि कृत्याभावमस्य दर्शयति ॥५४ । यस्य त्वात्मानुभवो नैव जायेत झटिति तं प्रति हि। उक्तानुभवायाऽऽवृत्त्यभ्युपगम एष भवति सफलोऽन ॥ ७५॥। वाक्यार्थात्प्रच्याव्य च नैवाऽवृत्ती प्रवर्तयेदेनम्। नैवोद्धहन्ति कन्या परमाता(था)येव केवलं वृद्धाः ॥७६॥ यः पुनरत्र नियुक्त: कर्तार मन्यते स्वमात्मानम्। तस्य ब्रह्मप्रत्ययविपरीतप्रत्ययो भवेन्नियतः ॥ ७७ ॥ यो वाक्यार्थमतत्प्रतिभावान्मतिमान्द्यतो जिहासेत्तु। तस्यैतस्मिन्नर्थे यथव मनसो भवेत्स्थिरीकारः ॥७८॥ आवृत्त्यादौ वाचोयुक्त्या तमिमं प्रवर्तयेत्तस्मात्। आवृत्तिर्युक्तैव हि परविषये प्रत्ययेऽपि तदुपाये ॥७॥ आत्मेति तूपगच्छन्ति ग्राहय्ति च॥ ३ ॥ यः शास्त्रोक्तविशेषण इह परमात्मा निरूपितः स हि किमू। अहमित्येव ग्राह्यः किंवा ग्राह्यो मदन्य एथेति ॥ ८० ॥ संप्रति विचार्यते नन्वत्र कय संशयोऽयमवतरति। अयमात्मा ब्रह्मेति श्रुतिवाक्येरैक्यमेतयोरिति हि ॥ ८॥ निर्णीतमेव पूर्व शब्दादेवेति सूत्र इति चेन्न। मुख्योऽयमात्मशब्दो भवति किल प्रत्यगात्मपरतायाम् ॥८२॥ जीवेशयोरभेदे तत्परता स्यान्न चैतयोर्भेदे। उपलभ्यते हि भेद: श्रुत्या प्रत्यक्षतस्तयोरत्र ॥८३॥ तस्माद्यमात्मेति ्रुतेर्हि गौणार्थता परं युक्ता। अत इह शङ्का युक्ता तत्र च युक्त: स एप पक्ष: स्यात् ॥८४॥

Page 367

प्रथम: पद: १] माप्यार्थरत्नमाला। ३६३

मत्स्वामीति ग्राह्यः परमात्मा नाहमिति यतश्ञासौ। अपहृतपाप्मा भवति हि विपरीतगुणो यतश्र शारीरः ॥८५ ॥ यदि चेशः संसारी निरीशता तत्र भवति दुर्वासा। शास्त्रानर्थक्यमपि स्यात्संसार्ये यदि च परमात्मा ॥ ८६ ॥ तर्ह्यधिकारिविलोपादनर्थकं शास्त्रमुभयथैव स्यात्। तस्मादिह भेदस्य प्रत्यक्षादिप्रमाणसिद्धत्वात्॥८श॥। प्रतिमादिष्विव विष्ण्वादीनां तादात्म्यभावनेय स्यात्। संसारिणः परात्मा कदाचिदृपि नेह भवति मुख्यात्मा ॥ ८८॥ एवं प्राप्ते बूते ह्यात्मेति ग्राह्य इह परात्मेति। यस्मादिह जाबाला: परमात्मप्रकरणे तमात्मानम् ॥८३ ॥ त्वं वा अहमस्मीति ह्युपगच्छन्त्येनमात्मभावेन। अन्ये तथैव चाहं ब्रह्मास्मीत्यादिना पठन्त्यत्र ॥ ९० ॥ इत्यात्मत्वोपगमात्पश्यन्ति ग्राहयन्ति चाप्येनम्। आत्मत्वेनैव परात्मान वेदान्तवाक्यजालानि ॥९१॥ एष त आत्मा सर्वान्तर इत्यादीनि चैवमन्यानि। एष त आत्माऽन्तर्यम्यमृत इति तथेद्मपि स आत्मेति ॥९२। तत्त्वमसीत्यादीनि च वाक्यानि ग्राह्यन्ति चाऽडत्मतया। प्रतिमान्यायेनेदं प्रतीकदर्शनमितीह यञ्चोक्तम्॥ ९३।। तच्च न वाक्यस्यास्य च वैरुप्याद्वौणताप्रसङ्गाच्च। यत्र प्रतीकदृष्टिः सकृदेव हि तत्र वचनमेतत्स्यात् ॥ ९४॥ तच्च मनो ब्रह्माSडदित्यो ब्रह्मेत्यादि दृश्यते वाक्यम्। त्वं वा अहमस्मीति त्वमस्यहमितीह दृश्यते चैतत् ॥ ९५॥ तस्मादिह प्रतीकश्तुतिवैरुप्यादभेद एव स्यात्। किंचेह भेददृष्ट्यपवादपराः श्रुतय एव हश्यन्ते ॥ ९६ । अथ योऽन्या[मुपास्ते] ह्यन्योऽसावन्य इति तथेवेयम्। मृत्यो: स मृत्युमाप्नोतीत्याद्या भेदमपत्रदन्त्येताः । ९७।। नान्योन्यात्मत्वं स्याद्विरुद्गृणयोरितीह यच्चोक्तम्। नासौ दोषो मिथ्याज्ञाननिमित्ता विरुद्गुणतेयम्॥९८॥ यञ्चोक्तमीश्वराभावः स्यादिति दूषणं न चैतत्स्यात्। शास्त्रपामाण्यादप्यनभ्युपगमाच्च नेह तन्भवति ॥९९॥

Page 368

३६४ सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

प्रतिपाद्यते न संसार्यात्मत्वं किल परात्मनः किंतु। संसारिणो हि संसारित्वापोहेन चेश्वरात्मत्वम् ॥ १०० ॥ एतावदेव नान्यत्स्यावत्र प्रतिपिपादयिषितं हि। एवं सत्यद्वैतेश्वरस्य चापहतपाप्मतादिगुणः । १०१॥ सिध्येच्छारीरस्य तु विपरीतगुणत्वमत्र मिथ्येति। उभयं व्यवस्थितं स्याद्यदृपि ह्यधिकार्यभाव इत्युक्तम्॥१०२॥ प्रत्यक्षादिविरोधश्रेति च तद्पीह परिहृतं भवति। प्रागात्मतत्त्वबोधात्संसारित्वं भवेदिहैतस्य ।। १०३।। प्रत्यक्षादिव्यवहारोऽपि च संसारविषय एव स्यात्। दर्शयति प्रत्यक्षाद्यभावमस्य प्रबोधसमये हि॥ १०४ ॥ यत्र त्वस्येत्याद्या श्ुतिरेषा ननु यदा प्रबोधे हि। प्रत्यक्षाभावश्रेच्छरतेरभावोऽपि न कृत इति चेन्न ॥ १०५॥ इष्टत्वादत्र पिताऽपितेत्युपक्रम्य दर्शितश्रुत्या। वेदा अवेदा इत्यादिना श्रुतेरण्यभाव इह यस्मात् ॥१०६॥ कस्यायमप्रबोधो य एष संसारमूलमिति चेन्न। यस्त्वं पृष्छसि तस्यैवेति वदाम: पुनर्यदा त्वेवम् ॥१०७॥ अहमीश्वर एवोक्तः श्रत्या स्यात्कथमिहाप्रबोध इति। यद्येवं प्रतिबुद्धस्त्वमपि न कस्यचिदिहाप्रबोध: स्यात् ॥ १०८॥ यद्वि ह्यविद्यया खल्वात्मन एतस्य सद्वितीयत्वात्। अद्वैतानुपपत्तिर्दोष इतीह प्रजल्पितं कैश्रित् ॥ १०९॥ तदृपि च सर्वस्यानिर्वचनीयत्वेन परिहृतं भवति। तस्मात्परमात्मन्यात्मेत्येव मनो दधीत नेतरथा ॥ ११० ॥ प्रत्यक्षाधैर्यद्यपि विरोधावधृतिर्यतः समाधौ हि। स्यात्केवलाऽन्तरङ्गा तस्मात्तत्संगतिर्भवेदत्र ॥ १११॥ न प्रतीके न हि सः ॥ ४ ॥ इह व मनो म्रह्मेत्याकाशो ब्रह्मेति चैवमादीनि। आदित्यो ब्रह्मेति च नाम ब्रह्मेति चैवमादीनि ॥११२॥ अध्यात्मं त्वधिदैवं प्रतीकविषयाण्युपासनानीह। अ्यन्ते तत्रायं संदेहः स्यादुपासनंष्वेषु।।११३॥

Page 369

प्रथम: पादु: १ ] भाष्यार्थरत्नमाला। ३६५

कर्तव्यः किमिहाऽऽत्मग्रहो न वेतीह मवति युक्तोऽयम्। तेष्वात्मग्रह एव ब्रह्म परं श्रुतिषु चाऽऽत्मभावेन ॥ ११४॥ येन प्रसिद्धमेव हि किंच मनःप्रभृतयः प्रतीकाश्र। बह्मविकारास्तेन ब्रह्मत्वे चाऽडत्मताऽपि तेषां स्यात् ॥ ११५॥ एवं प्राप्ते बते प्रतीकवर्गे न चाऽडत्ममतिरिति हि। व्यत्यस्याऽडत्मत्वेनाSSकलयेत्स उपासको न चेमानि॥ ११६ ॥ ब्रह्मविकारत्वेन ब्ह्मत्वादात्मतेति यच्चोक्तम्। तदिदमयुक्तं यस्मात्प्रतीकविलयप्रसङ्ग इह भवति ॥११७॥ यद्बह्मणा स्वरूपैक्यमिह विकारस्य न खलु तद्युक्तम्। यदि तद्वाधेनैक्यं प्रतीकबाधादुपास्तिविधिबाघः ॥ ११८॥ स्यादेवं चेत्तस्य च कुतः प्रतीकत्वमात्ममतिरपि वा। कर्तव्यादेरनिराकरणेनोपासनाविधिर्भवति ॥११९॥ तद्वाधेन ब्रह्मण आत्मत्व दर्शितं हि पूर्वत्र। अत्र किल बाधमूलब्रह्मैक्यज्ञानमेतदालम्व्य ॥१२०॥ एतेषु च प्रतीकेष्वहंग्रहोपास्तिकल्पनाऽनुचिता। यस्मादुपासकोऽयं समः प्रतीकैर्न तत्र चाऽडत्ममतिः ॥१२१॥ न हि रुचकस्वस्तिकयोरितरेतररुपता कदाऽपि स्यात्। तस्मादिह प्रतीकेष्वात्ममतिं न स कदाचिद्षि कुर्यात् ॥१२२॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५॥ तेष्वेवोदाहरणेष्वयमपरः संशयो भवत्येवम्। ब्रह्मण्यध्यसितव्या: किमिहाऽडित्यादिद्ृष्टयः किंवा॥१२३॥ आदित्यादिप्वेवाध्यसितव्या ब्रह्मट्टष्टिरियमिति हि। आदित्यो ब्रह्म मनो ब्रह्मेत्यादौ हि दृश्यते चैतत् ॥ १२४ ॥ सामानाधिकरण्यं ह्यादित्यत्रह्मशब्द्योस्तत्र। तदिदं सामानाधिकरण्यं नैवाडडअ्जसं भवेदनयोः ॥१२५॥ ब्रह्मादित्यादिपदानामर्थान्तरपरत्वमिह यस्मात्। गौरश्व इति न सामानाधिकरण्यं कदाचिदृपि भवति ॥१२६ ॥ ब्रह्मादित्यादिष ननु दृष्टो हि प्रकृतिविकृतिमावोऽयम्। तेन च सामानाधिकरण्यं स्यान्मृच्छराववत्तेषाम् ॥ १२७।। इति चेद्विकारविलये प्रकृतिसमानाधिकरणता युक्ता। स्यादिह ततः प्रतीकाभावः परमात्मवाक्यमेतत्स्यात् ॥ १२८॥

Page 370

३६६ सुब्ह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

एवं चेदत्र पुनर्वाध्येतोपासनाधिकारोऽयम्। व्यर्थमिह परिमितविकारोपादानं यदेद्टशं यस्मात् ॥१२९ ॥। बटुरयमिह वैश्वानर इत्यादिषु किल यथैव चान्यत्र। संभावितेऽन्यदृष्ट्यध्यासे क्वाध्यस्यते हि किंहृष्टिः ॥१३०॥ इति संदेहे तत्रानियमो न्याय्य: प्रतीयते यस्मात्। शास्त्रं हि किंचिदृषि वा नियामकं नोप्लभ्यते चात्र ॥ १३१॥ अथ वा ब्रह्मण्यादित्यादीनां हष्टयो भवेयुरिह। ब्रह्मोपासितमेवं सत्यादित्यादिद्टष्टिभिर्भवति ॥ १३२।। फलवद्भह्मोपासनमिति किल दृष्टा हि शास्त्रमर्यादा। यस्मादादित्यादिषु न युज्यते ब्रह्मदृष्टिरित्येवम् ॥१३३॥ प्राप्ते ह्यादित्यादिषु युक्तेह ब्रह्मदृदष्टिरिति वक्ति। उत्कर्षेणाSSदित्यादयो हि हष्टा भवन्ति यद्येवम् ॥ १३४ ॥ उत्कृष्टदृष्टिरध्यसितव्या हि निकृष्टवस्तुनीत्येवम्। लोकन्यायो दृष्टः क्षत्तरि दृष्टा हि राजदृष्टिरियम् ॥१३५ ॥ अनुगन्तव्य: सोडयं विपर्यये प्रत्यवाय एव स्यात्। नैव हि निकृष्टदृष्ट्यध्यासे न निकृष्टतां गतस्यास्य ॥१३६॥ श्रेय:साधनता स्यादुत्कृष्टस्याप्युपास्यमानस्य। शास्त्रप्रामाण्यान्ननु न ह्यत्र प्रत्यवायशङ्का स्यात् ॥१३७ ॥ न्यायेन लौकिकेन च दष्टिस्त्वेषा नियन्तुमिह युक्ता। यस्मादेषा दृष्टिः शास्त्रीयाऽतो न दोष इति चेन्न ॥ १३८॥ निर्णीते शास्त्रार्थे यदुक्तमेतत्तदेवमेव स्यात। संदिग्धे किल तस्मिस्तं निर्णेतुं हि लौकिको न्यायः ॥१३९ ॥ आश्रयणीयो मवति हिन विरोध: स्यात्कुतश्विवदप्यत्र। उत्कृष्टविषयद्ृष्ट्यध्यासे तेनावधार्यमाणे हि॥ १४० ॥ न निकृष्टदटृष्टिभध्यस्थात्र पुनः प्रत्यवायमुपगच्छेत्। इति युज्यते हि किंचाSSदित्यमनोविदयुदादिशब्द्ानाम् ॥१४१॥ प्राथम्याज्च स्यादिह मुख्यार्थत्वं यतो भवेदेवम्। तैः स्वार्थवृत्तिकैरवरुद्धायां प्रथमतो धियामस्याम् ॥१४२॥ पश्चाद्वतारो हि बह्मपदस्य च मुख्यया वृत्त्या। सामानाधिकरण्यं स्यादिति तददृष्टिरेव विहिताऽन्र ॥। १४३ ।।

Page 371

प्रथम पाद: १ ] माष्यार्थरत्नमाला। ३६७

किंच बह्मपद्स्येतिपरत्वेनैष नैव युक्तोऽर्थः । ब्रह्मेत्युपास्त इति च ब्रह्मेत्यादेश एबमादी हि।। १४४ ॥ उच्चारयन्ति सर्वत्रेतिपरं ब्रह्मशब्दमिह शुद्धान्। आदित्यादीञ्शब्दांस्ततो यथा शुक्तिकं हि रजतमिति॥१४५॥ प्रत्येतीत्यादी किल शुक्तिपरो भवति शुक्तिकाशब्दः । रजतप्रतीतिलक्षक एवासौ तत्र रजतशब्द: स्यात् ॥ १४६ ॥ अत्रापि तान्प्रतीयाद्गह्वेति तु गम्यते हि वाक्यार्थः । किंचेह वाक्यशेषोऽप्यादित्यादीनुपास्यमानान्हि॥ १४७॥ एवं विद्वानादित्यं ब्रह्मेत्यादिना प्रदर्शयति। बह्मोपासनमिह खल्वादरणीयं फलार्थमिति यद्पि॥ १४८॥ तदयुक्तमेव यस्मादादित्यादेरुपास्यतावगमः । ब्रह्मैव दास्यते फलमत्रातिथ्याद्युपासनेषु यथा ॥ १४९॥ यस्मात्परमात्माSसौ सर्वाध्यक्षो भवेत्स फलदाता। फलमत उपपत्तेरित्यस्मिन्सूत्रे प्रपश्चितं चैतत् ॥ १५० ॥ तस्योपास्यत्वं तद्दृष्ट्यध्यारोपणं प्रतीकेषु। प्रतिमादिष्विव विष्ण्वादीनां तदिहोपपन्नमेवास्य ॥१५१॥ आदित्यादिमतयश्राङ्ग उपपन्तेः ॥६॥ इह च य एवासौ तपतीति च लोकेषु पञ्चविधमिति च। एवं सप्तविधं सामोपासीतेतिवाक्यदृष्टेपु।।१५२॥ इयमेवर्गगगनि: सामेत्यादिश्ुतिनिदर्शितेष्वपि च । अङ्गाश्रितेषु तत्तदुपासननिवहेषु संशयोडयं स्यात् ॥१५३॥ आदित्यादावुद्गीथादीनां दृष्टयो भवेयुरिह। किंवोद्गीथादिष्वादित्यादीनां हि दष्टय: स्युरिति ॥ १५४ ॥। इह नियमकारणस्यानुपलम्भादनियमी भवेदयुक्त:। न ह्यन्र ब्रह्मण इव कस्यचिदुत्कृष्टतेयमुपलब्धा ॥१५५॥ अपहतपाप्मत्वादिक गुणयोगादखिलकारणत्वाच्च। आदित्यादिभ्यो हि ब्रह्मोत्कृष्टं भवेन्न चेहापि ॥ १५६ ॥ आदित्योद्गीथादीनां तु विकारत्वधर्मसामान्यात्। नैवेह कश्िदस्त्युत्कर्षविशेषावधारणे हेतुः ॥ १५७ ॥ अथवा नियमेनेवोद्गीथादीनां हि दृष्टय: स्युरिह। आदित्यादावुद्गीथाद्या हि यतश्र कर्मरूपा: स्युः ॥१५८॥

Page 372

३६८ सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

फलदायिनी हि शक्ति: कर्मण एवेति शास्त्रमुपदिशति। उद्गीथाद्यात्मतयाऽप्यादित्याद्या उपास्यमाना हि॥१५९॥ उद्गीथाद्यात्मकतां नीता: फलहेतवो मविष्यन्ति। इयमेवर्गग्नि: सामेत्यादौ दृश्यते तथवैतत् ॥ १६० ॥ एतस्यामृच्यध्यूढं सामेत्यादि यञ्च वाक्यमिह। कक्छब्देन हि तत्र च पृथिवीं निर्दिशति सामशब्देन ॥ १६१॥ अग्नि च स हि पृथिव्यग्न्योरेवक्सामदृष्टिपक्षे स्यात्। ऋक्साम्नो: पुनरनयोर्न खलु पृथिव्यग्निदृष्टिपक्षेऽपि।१६२॥ क्षत्तरि हि राजदृष्टिनिमित्तादुपचर्यते कदाचिदसौ। तत्र किल राजशब्दो न तथैव क्षत्तृशब्द इह राज्ञि ॥१६३॥ कक्सामयोर्यदि स्यादत्र पृथिग्यग्निटृष्टिरेव तदा। नैव पृथिव्यग्न्योरयमृक्सामपदप्रयोग इह युक्तः ॥१६४॥ लोकेषु पश्चविधमिति दृष्टा लोकेषु सप्तमी हि तया। हिंकारप्रतिहारप्रस्तावोद्गीथनिधनभेदेन ॥ १६५॥ पञ्चविधस्य च साम्नो लोकेषूपास्यताप्रतीति: स्यात्। एतद्वायत्रं म्राणेषु प्रोतमिति चैवमेव स्यात् ॥१६६ ॥ प्रथमं निर्दिष्टेष्वादित्यादिषु चरममागनिर्दिष्टम्। बह्माध्यसितव्यमिति प्रपश्चितं तत्पधानवाक्ये हि॥ १६७॥। एवमिहापि पृथिव्यादय एते प्रथमतो विनिर्दिष्टाः । हिंकाराद्याश्ररमं पृथिवी हिंकार एवमाद्यासु॥ १६८॥ श्रुतिषु ततोऽनङ्गेष्वादित्यादिष्वङ्गमतिरिति प्राप्ते। वूते ह्यङ्गेष्वेतेष्वत्राSSदित्यादिमतय एवेति ॥१६९॥ एवं चेदुपपन्नं फलहेतुत्वं यदत्र विद्याया:। उद्गीथादिषु संस्क्रियमाणेष्वेतेषु मतिभिरेतामिः ॥१७० ॥ श्रुतिरिह कर्मसमृद्धिं दर्शयति यदेव विद्ययेत्याद्या। ननु संनिकृष्टकर्माङ्गद्वारापेक्षमेव यत्र फलम् ॥ १७१ ॥ मवति ह्युपासनानां तत्र फलप्राप्तये तदङ्गानाम्। स्यादेवोपास्यत्वं पुनरिह कर्माङ्गमेतद्नपेक्ष्य ।। १७२।। यानि च लोकादिफलान्युपासनानि श्रुतानि वेदेषु। सोऽयमुपास्यविवेकस्तन्र कथं स्यादितीह नाऽडशङ्क्यम्॥१७३॥

Page 373

प्रथम: पाद: १] माप्यार्थरत्नमाला। ३६९

यस्मात्कर माधिकृतस्यैवैतदुपासनाधिकारः स्थात्। यदवत्स्वतन्त्रपशुफलगोदोहनरूपकर्मजं हि फलम् ॥ १७४ ॥ अद्ग द्वारापेक्ष भवति तथेव हापासनेष्वेषु। लोकादिफलेष्वपि किल कर्माङ्गद्वारतः फलं भवति ॥१७५॥ तस्मादङ्गानामेव हि सर्वत्राप्युपास्यमानत्वम्। उत्कर्षनवधृत्या स्यादत्रानियम इति तु यत्तन्न ॥१७६ ॥ येनाSडदित्यादीना फलात्मकत्वाद्भवेदिहोत्कर्ः । कर्मात्मकेभ्य उद्गीथादिभ्य: किल स चायमुपपन्नः ॥१७७॥ श्रुतिषु यतः कर्भफलं ह्यादित्यप्राप्तिलक्षणं द्रट्म्। अपि चोद्गीथमुपासीतेति प्रक्रम्य तमिममुद्रीथम् ॥१७८॥ तस्मिन्नेवाऽडदित्यादीना हषीरिहोपवर्णयति।

स्युर्थद्युपात्यमानास्ते हि तदा कर्मभावमालम्च्य। दास्यन्ति फलमिहेत्येतदयुक्तमुपासनस्य कर्मत्वात् ॥ १८० ।। स्वत एव तस्य सिद्धं फलव्त्वं न प्रयत्नसाध्यं तत्। किचोद्गीथादीनामादित्याद्यात्मना हि दृष्टानाम् ॥१८१॥ सिद्धे कर्मात्मत्वे तदपूर्ववदेव नेह वक्तव्यम्। एतस्यामृच्यध्यूढ सामेत्यत्र भवति लाक्षणिक: ॥ १८२।। यश्र पृथिव्यग्नयोरयमृक्सामपदप्रयोग इह दृष्टः । कत्चिदृपि च संनिकृष्टेन सु संबन्धो हि लक्षणाबीजम् ॥१८३॥ क्तचिदृपि च विप्रकृष्टेनापि स्यादेष लक्षणाबीजम्। गङ्गापदस्य तीरे भवति हि सा संनिकृष्टयोगेन ॥ १८४।। अग्निबंदुरित्यादावग्गिगती यः शुचित्वरूपगुण: । तदत्तारूपपरं पदार्थयोगेन भवति सा तत्र ॥१८५ ॥ एतस्यामृच्यध्यूढं सामेत्यत्र तद्वदेवेषा। तत्रक्समपदाभ्यां स्वार्थद्रष्टव्यतादियोगेन।। १८६॥

तस्मादटच्यध्युढं सामेति च मुख्ययो: पृथगग्रहणात् ॥१८७।। एतस्यामुच्यध्यूढं समेति हि पनस्तयोर्ग्रहणे।

1 ४७

Page 374

३७० सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

संनिहितयो: पृथिव्यग्न्योरव दि तत्पद्प्रयोग: स्यात। ध्येयाथलक्षणाऽपि प्रतीकवाचकपदस्य दृषव ॥ १८९ ॥ राज्ञि क्षत्तृपदं प्रयुज्यते कारणात्कुनश्रिदवि। इयमेवर्गग्निरिति ह्यृचोऽवधारयति तदिह पृथिवीत्वम् ॥ १९० ॥। अत्र पृथिव्या ऋक्त्वडवधार्यमाणे त्वियं ह्यृगेवेति। स्यादक्षरविन्यासः किच य एवमिति वाक्यशेपेऽपि। १९१॥ उपसंहृतमङ्गाश्रितमिह न पृथिव्याश्रयं हि विज्ञानम्। लोकेषु पञ्चविधमिति यद्यपि लोकेपु सप्तमी दृटा ॥१९२॥ सामन्येव हि लोका अध्यस्येरस्तथाऽपि तद्टाक्ये। सामोपासीतेति द्वितीयया चावगव्यते साम्र: ॥१९३॥ येनोपास्यत्वमिदं यदि लोकानामुपास्यता तत्र। सामात्मना हि लोकान्स उपासीतेति योजना कार्या॥१५४ ॥

तदपेक्षया हि केवलसप्तम्या एव भङ्ग इह युक्त: १९५॥ लोकात्मना हि सामोपासीतेतीह योजना कार्या। इह च तृतीयेवैका परिकल्प्या भवति सप्तमीस्थाने ॥ १९६॥ पूर्वत्रोभयभङ्गस्तथोभयं कल्नीयमेव पुनः । एतद्वायत्रं प्राणेषु प्रोतमिति चैवमेवेह ॥ १९७॥ व्याख्येयं यत्र पुनस्तुल्या ह्यभयत्र च द्वितीपैव। अथ खत्वमुमादित्यं सप्तविधमिति श्रुतिप्रदेशेषु ॥ १९८॥ तत्रापि खलु समस्तस्य च साम्र उपासनं तु साध्विति हि। साम्न: पञ्चविधस्य च सप्तविधस्याप्युपास्यतावगमात् ॥ १९९।। साम्न्येवाSडदित्यादेरध्यासः स्यान्न वैपरीत्येन। पृथिवी हिंकार इति प्रथितं यञ्चोपलभ्यते वाक्यम्॥२००॥ हिंकारोद्देशेन च यदि पृथिवीत्वं विधीयते तत्र। उद्देश्यवाचकस्य प्राथम्यापत्तिरिति न शङ्क्यमिह ॥२०१॥ पञ्चविधस्य च साम्रो हिकारादेरुपास्यताकथनात्। उद्देश्यत्वे सिद्धे योजनया पूर्वभावितेह स्यात् ।. २०२ ।। तस्मादुद्गीथादिप्वेवाSSदित्यादिमतय इति सिद्धम्। आसीनः संभवात् ॥ ७॥ कर्माङ्गसभितानामुपासनानां हि कर्मतन्त्रत्वात् ॥ २०३॥

Page 375

प्रथम पाद: १ ] माप्यार्थरत्नमाला। ३७१

नैवाSडसनादिचिन्ता न तत्त्वबोधेऽपि वस्तुतन्त्रत्वात्। किं त्वेषा चिन्ता खल्वितरेूपासनेषु भवति परम् ॥ २०४ ॥ तिष्ठन्नासीनो वाऽथ वा शयानोऽपि वा प्रवर्तेत। उत नियमेनाऽडसीनो वाजय तेष्विति परं भवेदेषा ॥ २०५ ॥ तत्रोपासनमखिलं मवति यतो मानसं ततश्र्ेह। देहस्थितेरनियमे प्राप्ते तस्योत्तरं बवीतीदम् ॥ २०६ ॥। आसीन एव सततमुपासीत यतश्र भवति तत्तस्य। येन समानप्रत्ययसंततिरूपं ह्युपासनं तदिदम ॥ २०७॥ एतत्कथंचिदृपि वा न गच्छतो धावतोऽपि वा मवति। गत्यादयो हि मनसो भवन्ति विक्षेपकारिणो यस्मात् ॥ २०८॥ एवं हि तिष्ठतोऽपि च मनो भवेद्देहधारणव्यग्रम्। तेन न सूक्ष्मनिर्रीक्षणसमर्थमेतत्तथा शयानस्य ॥ २०२॥ निद्रासमागमेनाभिभूयंत किल मनो यतस्तस्मात्। आसीनस्य परं स्यादेवजातीयदोषपरिहारः ॥ २१०॥ तेनोपासनमेतत्स्यादासीनस्य न हि तदन्यस्य। ध्यानाच॥ ८ ॥1 ध्येयार्थो हि समप्रत्ययसंतानरूप एवेह ॥ २११॥

ध्यायति बकस्तथैव प्रोषितबन्धुरिति चवमादौ हि। अचलत्वं चापेक्ष्य ।। ९ ।। अपि च ध्यायतिवादो योऽसौ हि ध्यायतीव पृथिवीति ॥२१३॥ स खल पृथिव्यादिप्वचलत्वमपेक्ष्यव केवलं भवति। आसीनकर्म तदिदमुपासनमित्यस्य लिङ्गमेतत्स्यात् ॥२१४॥ स्मरन्ति च॥ १०॥ अपि च स्मरन्ति शिष्टा आसनमत्र ह्युपासनाङ्गतया। मगवद्गीतासु स्मृतिपु शुचा देश इति समारभ्य ॥२१५॥ अत एव पद्मकाद्यासनभेदा योगशास्त्रनिर्दिष्ा:। यंत्रकाग्रता तत्राविशेषात् ॥११॥ यद्वदिहाSडसननियमस्तथैव दिग्देशकालभेदेषु ॥२१६॥

Page 376

३७२ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायक्य-

अस्ति हि कश्चिन्नियमः किंवा नास्तीति मवति संदेहः। प्रायेण वैदिकेष्वारम्भेपु दिगादिनियमदर्शनतः ।। २१७॥ अत्रापि स्यान्नियमः कश्चिदिति भ्रममिमं निराकुरुते। यस्यां दिशि देशे वा काले वेकाग्रता भवेन्मनसः ॥ २१८॥ सौकर्पेण स चायं तत्रोपासीत नियतभावेन। प्राच्यां दिशि पूर्वाह्ने प्राचीनप्रवण एवमादीनाम् ॥ २१९॥ अश्रवणादत्र पुनर्मनसस्त्वेकाग्रताविशेषाच्च। नन्वामनन्ति केचिद्विशेषमपि किल समे शुचाविति हि॥। २२० ॥ तत्र च शुचिप्ररेशे सभे तथा शर्कराग्निसिकताद्यैः। शब्दजलाधारैरपि विवर्जिते किच चित्तरमणीये ॥ २२१॥ चक्षुप्पीडारहिते गहानिवाताश्रये प्रयुख्जीत। इत्युपदिष्ट तेन च विरुद्धमतदिति चेन्न दोषोऽयम् ॥ २२२ ॥ दिग्देशादिविशेषा: श्ुत्या यद्यपि निरूपितास्तदृपि। तेषु न नियम इति श्रुतिरेव ब्ूते मनोनुकल इति ॥ २२३ ॥ दर्शयितुमिह सुहृन्भावेनाऽडचार्येण कृतमिदं सूत्रम्। आप्रायणात्तत्रापि हि दष्टम् ॥ १२ ॥ आवृत्तिः सर्वोपास्तिषु कर्तव्येति वर्णितं पूर्वम् ॥ २२४॥ तत्र च यानि हि सम्यग्दर्शनफलकान्युपासनानि स्युः । तानि च फलपर्यवसानान्यवघ,तादिवद्यतस्तेषाम् ॥२२५॥ आवृत्तिकालनियमो ज्ञातो न हि तत्वदर्शने कार्ये। निष्पन्ने सति यत्नान्तरमिह किंचिदृपि शासितुं शक्यम् ॥२२६।। अनियोज्यव्रह्मात्मप्रतिपत्ती शास्त्रविषयताबाधात्। किंत्वभ्युद्यार्थानि हि यानीहोपासनानि तेष्वेषा । २२७ ॥। मवति हि चिन्ता किचित्कालमिमं प्रत्यय किमावर्स्य। विसृजेक्किंवा यावज्जीवमिहाऽडवर्तयेत्तमेतमिति ॥२२८॥ तत्र च युक्तं किंचित्कालमिमं प्रत्ययं समभ्यस्य । विसृजेदिति यस्मादावृत्तिविशिष्टस्य भवति कृत एव ।। २२९॥। एवं प्राप्ते ह्याप्रायणात्तमावर्तयेदिति बूते। यद़ि चाSडपायणमेतं प्रत्ययमावर्तयेस्तदा, तस्य ।। २३०।।

Page 377

प्रयम: पाद्: १] माष्यार्थरत्नमाला। ३७३

अन्त्यप्रत्ययवशतो निष्पन्नं स्याद्हष्टरूपफलम् । जन्मान्तरफलजनकान्यपि कर्माणीह यानि तान्यपि च।।२३१॥ प्रायणकाले प्राप्तव्यफलस्फूर्ति समाक्षिपन्ति किल। श्रुतिरपि चेह सविज्ञानो भवतीति प्रदर्शयत्येवम् ॥ २३२ ॥। यदिह फलस्फुरणं भावनामयं स्यात्तदेव विज्ञानम्। विज्ञानं स्फुरितं तत्फल सविज्ञान एव यात्येष: ।। २३३ ।। तत्सहितस्य फलस्फूर्त्यनन्तरं लीयते मनः प्राणे। प्राणश्रोदानात्मकजीवयतः सन्सहैव मनसा तम् ॥ २३४॥ संकल्पितं हि लोकं नयतीति निरूपित किल श्रुत्या। किंचेह तृणजलूकानिदर्शनान्यपि च दर्शयन्त्येवम्॥२३५॥ यदिदं हि मावनामयमेव हि विज्ञानममिहितं श्रुत्या। तुल्यप्रत्ययसंतत्यात्मकमावृत्तिरुपमेतत्स्यात् ।२३६।। प्रतिपत्तव्यफलस्फुरणात्मान: प्रत्यया हि ये चेह। आप्रायणात्त एते परमावर्त्या: स्युरिति तु सिद्धं स्यात्।।२३७। किंच स यावत्क्तुरस्मादित्याद्या श्रुतिश्र या चह। सा हि प्रायणकाले दर्शयति प्रत्ययानुवृत्तिमिमाम् ॥२३८॥ यं यं वाऽपीत्याद्या स्मृतिरप्युक्तार्थमेव दर्शयति। या चेह सोऽन्तवेलायामिति देहावमानसमयेऽपि॥ २३९॥ अक्षितमस्यच्युतमसि तथैव हि प्राणसंमितमसीति। मन्त्रत्रयसंस्मरणं चाSडदिश्योपासकस्य सम्यगिह ॥ २४०॥ कर्तव्यशेषमेवं आ्रावयति श्रुतिरियं तदाऽप्यस्य। तदधिगम उत्तरपूर्वाचयोरश्लेषवि- नाशौ तद्यपदेशात् ॥१३ ॥

अत्र ह्युपासकानां यथाऽन्तसमयेऽपि चास्ति कर्तव्यम् ॥२४१॥ न तथाSडरमविदामेषामिति जीवन्मुक्तिमत्र दर्शयति। एवं तृतीयशेषं विचार्य सम्यक्समापिते तस्मिन् ॥ २४२॥ संप्रति परात्मविद्याफलं प्रति किलोपजायते चिन्ता। ब्रह्माधिगमे सति तद्विपरीतफलं हि यञ्च दुरितमिह ॥२४३॥ तकक्षीयते न वेति हि संदेहे तत्र युक्तमेतत्स्यात्। यस्मात्कर्म फलार्थं फलं ह्यदत्वा न च क्षयोऽस्य स्यात् ॥२४४॥

Page 378

३७४ सुबह्मण्यविरचिता- [8 चतुर्थाध्यायस्-

फलदायिनी हि शक्ति: भ्रुत्यैवास्यावगम्यते सा हि। उपभोगमन्तरेण च यद्यपवृज्येत कर्मणः शक्तिः ॥ २४५॥। श्रुतिरिह कदर्थिता स्यात्स्मृतिरवि नायुक्तमेवमाद्या हि। नन्वेवं चेत्पायश्चित्तादीनामनर्थकत्वं स्यात् ॥२४६ ।। इति चेतप्रायश्वित्तादीनां नेमित्तिकत्वमेव स्यात्। गृहदाहेष्ट्यादिवदिह यथाऽडहिताग्रेर्गृहेडग्रिना दग्धे ॥ २४७ ॥ दाहात्मके निमित्ते सत्यग्रय इति किलेष्टिरुपदिष्ा। दोषात्मके निमित्ते प्रायश्चित्तं भवेदिहापि तथा ॥ २४८॥ किंचेह दोषसंयोगेन विधानात्कथंचिदेतेपाम्। प्रायश्चित्तादीनां दोपक्षपणार्थता भवेन्नेह॥ २४९॥ न हि परविद्यायामिह दोषक्षपणार्थताविधि: कश्ितू। ननु यदि विदुषः कर्मक्षयोऽयमिह नाभ्युपेयते तरहिं ॥ २५० ॥ कर्मफलस्यावश्यं भोक्तव्यत्वाद्भवेदनिर्मोक्षः। इति चेन्नासौ दोपो माक्ष: स्यादशकालसापेक्षः।।२५१॥ न क्षीयतेऽस्य दुरितं फलं ददात्येव कर्भ विदुषोऽपि। एवं प्राप्ते बूते तद्धिगमे भवति दुरितविलय इति ॥२५२॥ ब्रह्माधिगमे सत्यघयोरुत्तरपूर्वयोरुभौ भवतः । अश्लेषश्र विनाशस्तत्र स्यादुत्तरस्य चाश्लेष: ।। २५३।। पूर्वस्यास्य विनाशस्तद्यपदेशान्भ्वेदसावेवम्। संभाव्यमानदुरितानभिसंबन्ध किलास्य विदुषो हि॥ २५४॥ व्यपदिशति पुष्करपलाश आप इत्यादिका श्रुतिश्रेह। तत्र किल पद्मपत्र न श्लिष्यन्ते यथा इमा आप: ॥२५५ ॥ न श्लिष्यते तथैा हि परात्मविदि कर्म पापमित्युक्तम्। व्यपदिशति नाशमन्या विदुषः पूवार्जितस्य दुरितस्य ॥२५६॥ अग्रौ प्रोतमिषीकातूल यद्वत्प्रदूयते सकलम् । एवंविद: प्रदूयन्ते पाप्मान इ1 तद्यथेत्याद्या ॥ २५७॥ व्यपदिशति श्रुति न्या भिद्यत इति ।कल यथोक्तमेवार्थम्। यच्चोक्तमनुपभुक्तफलस्यास्य च कर्मण: क्षये कथिते ॥ २५८॥ शास्त्र कदर्थितं स्यादित्येतन्नेह दूषणं भवति। नैवेह कर्मणोऽस्य च शक्ति: फलदायिनी निराक्रियते॥। २५९॥

Page 379

प्रथम· पादः १ ] माप्यार्थरत्नमाला। ३७५

किंत्विह सा परविद्याबलेन विरुद्धा न किंचिदाजयति। इति तु वदाम: शास्त्रं व्याप्रियते शक्तिसत्त्वमात्रेण॥ २६० ।। न प्रतिबन्धाप्रतिबन्धयोरपीतीह सकलमनवद्यम्। न हि कर्म क्षीयत इत्येतत्स्मग्ण मवेदिहोत्सर्गः ॥ २६१॥ यत्र खल नापवादम्तत्रोत्सर्गो न वैपरीत्येन। इष्यत एव प्रायश्विवत्तादिभिरस्य कर्मणो नाशः ॥६२॥ सर्वं पाप्मानं तरतीति श्रुतिरपि किलेवसुपदिशति। यत्तु प्रायश्चित्तादीनि च नैमित्तिकानि हीत्युक्तम् ॥२६३॥ तद्सत्तेषां दोषनिवृत्तिफलत्वेन विधिनियुक्तत्वात्। संभवति हि मुख्यफले गाणफलार्थत्वकल्पनाऽनुचिता ॥ २६४ ॥ यत्पुनरुक्त्तं दोषक्षयमुद्दिश्य च यथा विधानमिह। प्रायश्चित्तादीनां न तथा विद्याविवानमिह चेति॥२६५॥ नैतद्विद्यत एव हि विधानमिह सगुणविषयविद्यासु। तत्रैश्वर्यप्राप्तिः पाप्मनिवृत्ति: फलं हि निर्दिष्टम २६६।। इह च तयोरविवक्षाकारणविरहादवश्यमेतत्स्यात्। पाप्मप्रहाणपूर्वकमैश्वर्यप्रातिरूपफलमासाम् ॥ २६७॥ यद्यपि परविद्यायां न दृश्यते तद्विधानमेवमपि। स्याद्त्राकर्तात्मप्रबोधतो दुरितकर्मविलयोऽसी ॥ २६८॥ अश्लेष इति च कर्भस्वागामिपु कर्तृता न यातीति। दर्शयति यद्यपि स्यादतीतकर्मस्विहास्य कर्तृत्वम् ॥२६९॥ मिथ्याज्ञानबलेन हि तथाऽपि विदुषोऽस्य विद्यया परया। मिथ्याज्ञानापगमे कारणनाशाच्च तानि कर्माणि ॥२७० ॥ नश्यन्त्येव हि तेषां विनाशकथनं यदत्र तद्युक्तम्। ब्रह्मविदिह किल यस्माद्यङ्गह्माकर्तृभोक्तृचिन्मान्रम् ॥ २७१।। अवगच्छति तदहमिति स्वात्मानं कर्तृभोक्तृतारहितम् । जानाति पूर्वमपि वा भविष्यति च वर्तमानसमयेऽपि ॥ २७२॥ नो विपरीतं जानात्यतोऽस्य मोक्षोपदेश उपपन्नः । कथमन्यथा विनाशश्चिरसंचितकर्मणां भवेदस्य ॥ २७३॥ नापीह देशकालनिमित्तापेक्षो मवेदसी मोक्ष:। यदि कर्मफलवदेव स्थान्मोक्षस्तर्ह्यनित्य एव स्यात् ॥२७४॥

Page 380

३८६ सुब्नह्मण्यविरचिता- [४ चतुर्थध्यायस्य-

कर्मफले हि परोक्षे युक्त्ता देशाद्यपेक्षता नेह। अपरोक्षत्वात्तस्माद्वह्माधिगमे हि भवति दुरितलयः ॥ २७५॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥१४ ॥ पूर्वस्मिन्नधिकरणे शास्त्रव्यपदेशतो(ता)Sस्य निर्दिष्। ज्ञाननिमित्तावश्लेषविनाशी केवलस्य दुरितस्य॥२७६ ॥ इह शास्त्रीयो धर्मो बह्मज्ञानं च भवति शास्त्रीयम्। तेन च विरोधविरहान्न तद्विनाश इति पुनरिहाऽडशडूय ॥।२७७। तामपनेतुं पूर्वाधिकरणनयमेव चातिदिशतीह। सुकृतस्य कर्मणो विज्ञाननिभित्ताविमावुभी भवतः ॥२७॥ दुरितस्येवाश्लेषविनाशौ फलजनकता समा यस्मात्। किंच ज्ञानफलप्रतिबन्धित्वात्कर्मणोऽस्य तौ युक्तौ । २७९॥ श्नतिरियमुभे उ हैवेत्याद्या सुकृतस्य दुष्कृतस्यैव। नाशं व्यपदिशति हि किंचाकत्रात्मप्रबोधरूपस्य ॥। २८० ॥। इह सुकृतदुरितयोरुभयोरषि लयकारणस्य तुल्यत्वात्। क्षीयन्ते चास्येति श्रुतिवाक्यस्याविशेषतः श्रवणात ॥२१।। यत्रापि पाप्मशब्द: केवल उपलभ्यते हि तत्रापि। तेनैव पुण्यमप्याकलितमतो ग्राह्यमुमयमेव स्यात् ॥२८२॥ किंच ज्ञानफलापेक्षया निकृष्टं फल भवेदस्य। नैनं सेतुमहोरात्रे तरत इति श्रुती यतश्रायम् ॥ २८३॥ हष्े हि पाप्मशब्द: सर्वे पाप्मान इति तु सुकृतेऽषि। तस्माद्दुरितस्येव हि सुकृतस्यापि च विनाश इह युक्तः॥२८४॥ पाते त्वित्यत्र तुशब्दोऽसाववधारणार्थको भवति। एवं च सुकृतदुष्कृतयोर्बन्धकयोर्हि विद्यया परया ॥२८५॥ यद्यश्लेषविनाशी तनुपातानन्तरं तदा मुक्ति: । भवतीत्यवधारयितुं सूत्रकृता किल तुशब्द इह पठितः ॥२८६॥ अनारब्धकार्ये एवं तु पूर्वे तदवधेः ॥ १५ ॥ अधिकरणद्वितयेऽवि च पूर्वस्मिन्सुकृतदुरितयोरुभयो:। ज्ञाननिमित्तो नाशो भवतीत्यवधारित हि किमिहासी॥।२८७ ।। अविशेषेणाSडरब्धानारब्धफलस्य तदुभयस्यापि। किंवानारब्धफलस्यैव विशेषेण भवति नाश इति॥२८८॥

Page 381

प्रथम: पादः १ ] माष्यार्थरत्माला। ३७७

संदेहे चैतस्मिन्नभे उहैवैष इति किल श्रुतिषु। अविशेषेण श्रवणादविशेषेण क्षयोऽत युक्त इति ॥२८२ ॥ एवं प्राप्ते वूते सोऽयमनारब्धकार्ययोरिति हि। यं त्वप्रवृत्तकार्ये जन्मान्तरसचिते तथैवास्मिन् ॥ २९० ॥ जन्मन्यपि च ज्ञानोत्पत्तेः प्राक्संचिते हि ये भवतः । ते सुकृतदुष्कृते किल पूर्वे ब्ह्माधिगमबलेनेह ॥२९१॥ क्षीयेते नैवैतेऽप्यारब्धफले हि साभिभुक्तफले। याभ्यामेतद्बह्मज्ञानायतनं विनिर्भितं जन्म ॥२९२॥ इह तस्य तावदेवेत्येषा श्रुतिरपि यतोऽत् तनुपातम्। क्षेमप्राप्तेरवधि दर्शयति ततस्तयोर्हि न विनाशः ॥ २९३॥ नो चेदेवं ज्ञानादशेषकर्मक्षये शरीरम्य। स्थितिकारणस्य विरहाच्छेयो ज्ञानक्षणे स विन्देत ॥ २९४॥ तत्र च शरीरपातप्रतीक्षणं यच्छरतिर्न तद्त्रूयात्। नन्वेष तत्त्वबोधः कर्मक्षपणप्रशस्तशक्तियुतः ॥ २९५॥ कर्माणि कानिचिञ्च क्षपयेत्कानि च कथं न हि क्षपयेत्। न ह्यग्निबीजयोरिह संपर्के सति समानरूपे स्यात् ॥२९६। केषाचिच्छ क्तिलयो नान्येषा स इति शक्यते वक्तुम्। इति चेदारब्वफलं कमप च कर्माशयं ह्यनाशित्य॥। २९७॥ नेवोपपद्यते हि ज्ञानोत्पत्ति: समाश्रिते तस्मिन् । सोडयं कुलालचक्रवदेव हि संरब्धभूरिवेग: स्यात् ॥ २९८॥ वेगक्षयः कुतश्चिन्न चान्तराले भवेदतस्तस्य । वेगक्षय प्रतीक्षणमावश्यकमात्मतत्त्वबोधेऽपि ।। २९९ ।। यद्यपि मिथ्याज्ञानं तत्त्वज्ञानेन बाधितं तद्पि। बाधितमपि तत्किंचित्कालं संस्कारतोऽनुवर्तेत ॥ ३०० ॥ चन्द्रे दृष्टेऽपि यथा कंचित्काल द्विचन्द्रताभ्रान्ति:। अपि चेह ब्रह्मविदः कचित्काल शरीरमेतद्धि ॥ ३०१॥ ध्रियते न धरियते वेत्येषा शङ्काऽत्र न खल कर्तव्या। स्वमनोगम्यं ब्रह्मज्ञानमिद देहधारणं चापि॥ ३०२।। कथमन्योऽनधिगततदन्धः शक्रोति तत्प्रतिक्षेत्ुम्। इममर्थमुपदिशन्ति श्रुतिस्थितप्रज्ञलक्षणस्मृतयः ॥३०३॥

Page 382

३७८ सुब्रह्मण्य विरचिता- { ४ चतुर्थाध्यायस्प-

तस्मादिहाप्रवृत्तस्वकार्ययोरेव सुकृतदुष्कृतयोः। विद्यासामर्थेन क्षयी भवन्न प्रवृत्तफलयोक्ष ॥ ३०४ ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६ ॥। अश्लेषनाशयोरतिदेशः पुण्यस्य दर्शितः पूर्वम्। स च सर्वपुण्यविषय: स्यादिति शङ्का निराकरेत्यधुना ॥३०५॥। क्ताशङ्काप रिहारार्थो भवति हि तुशद्द इह दृष्टः। नित्यमिह वेदावेहितं यदग्गनिहोत्रादिलक्षण कर्म ॥ ३०६ ॥ ज्ञानस्य यञ्च कार्य तत्कार्याथैव भवति तत्कर्म। थस्मात्तमेतमित्यादिश्ुतिवाक्येणु तत्तथा दृष्म् ॥३०७॥ नन्विह कार्यैकत्वं न युज्यते ज्ञानकर्मणोरनयोः। येन विलक्षणकार्योतपादकता दृश्यते तयोरिति चत् ॥ ३०८॥ ज्वरमरणकार्ययोरवि दधिविषयोः शर्करादियोगेन। तृप्त्यादिजनकतावत्स्यादेवहापि कर्मणस्तस्य ॥ ३०९ ।। ज्ञानंन सहकृतस्य च मोक्षफलत्वं यदेतदविरुद्धम्। ननु मोक्षो यदि नित्यस्तदा कथं तस्य कर्भकार्यत्वम्॥ ३१०॥ इति चेन्नासी दोषो न संनिपत्यो[प]कारक कर्भ। किंत्वारादुपकारकमेव ज्ञानस्य कारक सदिदम् ॥३११॥ मोक्षस्य कारकमिदं कर्मेत्युपचर्यते तदेवेह। अत एव चेह यदिद कार्यैकत्वानुकीर्तन तदपि॥३१२॥ नाSडगाभिकार्यविषयं पर त्वतिक्रान्तविषयमेव स्यात्। भवति ब्रह्मविदः किल यदग्निहोत्रादि तन्न चाऽडगामि ॥३१३॥ विधिशास्त्रविषयता न ह्यनियोज्यत्रह्मभावबोधे स्यात्। कर्तृत्वाद्यनिवृत्त्या भवति हि सा सगुणविषयविद्यासु।३१४ ।। आगामि तद्विद: स्पाद्यद्ग्निहोत्रादिलक्षणं कर्म। विद्योपजायते किल तस्यापि फलाभिसंधिरहितस्य ॥ ३१५॥ ननु यदि विद्याङ्ग तद्यद्ग्निहोत्रादिलक्षणं कर्म। तर्ह्यश्लेषविनाशानुकीर्तनं तादिइमत्र किविषयम् ॥३१६॥ विनियोगवचनमपि सुहदादौ यच्चोपदर्शितं पूर्वम्। श्रुत्या तस्येत्यनया तदृपि च किंविषयमित्यतो बूते ॥ ३१७॥

Page 383

प्रथम. पाद' १] माप्यार्थरत्नमाला। ३७९

अतोऽन्याडपि ह्वेकेषामुभयोः ॥१७॥ नित्यादतोऽग्निहोत्रादेरन्याऽव्यक्ति साधुकृत्येह। या फलमभिसधाय क्रियते विनियोग एप तद्विषयः ॥३१८ तस्या एवाश्लेपविनाशप्रतिपादन भवेदतत। एवविध हि काम्य कर्म न विद्यापकारक भवति ॥३१९ ॥ अत्र च संप्रतिपत्तिजमिनिसर्वज्ञबादरायणयोः। यदेव विद्ययेति हि ॥ १८॥ यन्नित्यमग्निहोत्रादि सुमुक्षोः कर्भ भवति मोक्षार्थम्॥ ३२०॥ तदुपत्तदुरितनाशद्वारा चेतोविशुद्धिकारणताम्। प्रतिपद्य मोक्षफलकब्रह्माधिगमैकसाधनत्वेन ।। ३२१।

विद्यासंयुक्तं तद्विपरीतं श्रयतेऽग्निहोत्रादि ॥ ३२२॥ विद्वान्यजते विद्वाञ्जहोति शंसति च गायतीत्येवम्। तस्मादेवविद्मेव ब्रह्माणमिति तद्ददेवमपि ॥ ३२३॥। तेनोभौ कुरुतो यश्र्ैव वदेह यश्च नो वेद। इति वाक्येभ्यो विद्यासयुक्तं केवलं च निर्दिष्टमू॥३२४॥ इह चिन्त्यते यदेतद्विद्यासंयुक्तमग्निहोत्रादि। किं विद्याहेतुतया तया सह किलककार्यता लभते ॥ ३२५॥ किवा विद्यायुक्तं केवलमपि चाविशेषतो लभते। इति संदेहे विद्यायुतमेव यदेतदग्गिहोत्रादि॥ ३२६॥ प्रतिपद्यते तदेव हि विद्यासहकारितां न चान्यदृपि। विद्यायुतस्य विद्याहीनादवगम्यते विशेषोऽयम् ॥३२७॥। श्रुतिरत्र यदहरेव जुहोतीत्याद्या किलैवमुपदिशति। अपसृत्युविजय रूपं विद्यायुतकर्मण: फल किंच ॥ ३२८॥ वुद्ध्या युक्त इति स्मृतिरपि विद्यायोगतः फलं बूते। इति शङ्का वारयितुं त्ूतेऽत यदेव विद्ययेत्येवम्॥ ३२४ ॥। सत्यं विद्यायुक्तं यद्ग्निहोत्रादिलक्षणं कर्म। तक्किल विद्याहीनाद्विशिष्यते ब्राह्मणो यथा विद्वान्॥३३०॥ एवमपि कर्म विद्याहीनं यच्चेदमग्निहोत्रादि। तच्चेदं विद्यायां न ह्यत्यन्तानपेक्षमिह भवति ॥३३१ ॥

Page 384

३८० सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

यस्मात्तमेतमित्यादिश्ुतिभिः कर्मणोडग्रिहोत्रादेः। विद्याहेतुत्वं खल्वविशेषेण प्रदर्शितं तस्मात् ॥ ३३२ ॥। नन्विह विद्यायुक्तं विद्याहीनाद्यदा विशिष्टं स्यात्। विद्यासाधनमेतद्विद्याहीनं तदा कथं भवति ॥ ३३३ ॥ इति चन्मैवं विद्या न हि तस्य च कर्मणोडग्रिहोत्रादेः। सामर्थ्यातिशयेन हि विद्यां प्रति कश्विदृतिशयो भवति ॥३३४॥ नैतावता हि विद्याहीनस्पैतस्य निष्फलत्वं स्यात् । यज्ञेन विविदिपन्तीत्यादिश्ुत्या किलाविशेषेण॥ ३३५।। आत्मज्ञानाङ्गतया प्रदर्शितस्यास्य चाग्गिहोत्रादेः। न हि विद्यानङ्गत्वं शक्यं केनापि दर्शयितुमत्र ॥३३६ ॥ यत्कर्म विद्यया किल करोति तद्वीर्यवत्तरं भवति। उपदिशति चेममर्थं श्ुतिरत्र यदेव विद्ययेत्याद्या॥ ३३७॥ विद्याहीनमपीदं वीर्यवदिति गम्यते तया श्ुत्या। तस्येह वीर्यवत्त्वं स्वकार्यसाधनसमर्थतारूपम्॥३३८ ॥ तस्माद्विद्यायुक्तं विद्यारहितं यदग्निहोत्रादि। मोक्षोद्देशेन कृतं तदुभयमपि किल मुमुक्षुणा सम्यक्॥ ३३९॥ इह जन्मनि पूर्व वा स्वशक्तियोगेन दुरितमुन्मूल्य। ब्रह्मापरोक्षसाधनभावं प्रतिपद्यमानभेतद्ि ॥३४० ॥

ब्रह्मात्मविद्यया सह कर्म स्यादेककार्यमिति सिद्धम् ॥ ३४१ ॥ भोगेन त्वितरे क्षपयित्वा संपद्यते ॥ १९ ॥ ये सुकृतदुष्कृते चानारब्धफले तयोः क्षयोऽभिहितः । विद्याबलेन ये पुनरारब्धफले दि ते तु भोगेन ॥ ३४२ ॥ क्षपयित्वाSनन्तरमिह विद्वान्संपत्स्यते परं ब्रह्म। इह तस्य तावदेवेत्याद्या: श्रुतयोऽपि दर्शयन्त्येवम्॥३४३॥ सत्यपि सम्यग्ज्ञाने भवति यथा तनुविसर्गतः पूर्वम्। द्वैतप्रपञ्चभानं द्विचन्द्रदर्शननयेन तददिदम ॥ ३४४॥ पश्चादपि न कुतो वाऽनुवर्तत इतीह न पुनराशङ्कूयम्। उपभोगक्षपणं किल भवति द्वेतानुवृत्तिमूलमिह ॥३४५॥ न ह्यनयोरुपभोगे पुनरन्यत्तादटृगस्ति किंचिदृपि। अपरः कर्माशय एवाऽडरमते मोगमपरमिति चेन्न ॥ ३४६॥

Page 385

द्वितीयः पाद: २ ] माष्यार्थरत्नमाला। ३८१

नाऽडरमते स हि भोगं ज्ञानेन च तस्य दग्धबीजत्वात्। मिथ्याज्ञानबलेन च तनुपाते कर्मभोगमारभंते॥ ३४७॥ मिथ्याज्ञाने तस्मिंस्तत्वज्ञानेन मूलतो दग्धे। आरब्धकार्यविगमे विदुषः कैवल्यमप्रतिद्वन्द्वमू ॥३४८॥ शारीरकमीमांसा सुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥ ३४९॥ तत्र प्रथमे पाढे सूत्रार्थो यश्च माष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोडयमनवद्य: ॥ ३५० ॥। इति चतुर्थाध्याये प्रथमः पादः समाप्तः ॥१॥

अथ द्वितीयपाद:।

पूर्वस्मिन्किल पादे ज्ञानफलं सकलमेव निर्वर्ण्य। अस्मिन्पावे यञ्चोपास्तिफल ब्रह्मलोकसंभोग्यम् ॥ १॥ तद्वक्तव्यं तत्खलु संप्राप्यं ह्यर्चिरादिमार्गेण। सा चार्चिरादिमार्गप्राप्तिर्नोत्क्ान्तिमन्तरेण स्थात् ॥२॥

अध्यायसंगतिः स्यादानन्तर्यं च पूर्वपादेन ॥३ ॥ वाङ्मनसि दर्शनाच्छव्दाच्॥ १॥ अत्रापरासु विद्यासु हि फलमोगाय देवयानाख्यम्। पन्थानमर्चिरादिकमभिधास्यन्प्रथममिह यथाशास्त्रम् ॥४॥ उत्क्रान्तिक्रममेवाSडचष्टे भवतीह येयमुत्क्ान्तिः। सा खलु विद्वदविदुषोस्तुल्या न विशेष इह भवेत्कश्रित् ॥५।। प्रायणविषया श्रुतिरियमाम्नाता खल्विहास्य सोम्येति। तत्राऽडदी पुरुषस्य प्रयतो वाङ्मनसि तन्मनः प्राणे ॥६॥ प्राणस्तेजसि तेजस्तद्द्ि परस्थां हि देवतायां च। संपद्यत इत्युक्तं किमत्र वाच: सवृत्तिकाया: स्थात् ॥७॥ मनसीयं संपत्तिर्वाग्वृत्तेरेव वा भवेत्सा किमू। तत्र च सवृत्तिकाया वाच: संपत्तिरेव युक्ता स्यात् ॥८ ।।

Page 386

३८२ सुब्रह्मण्यविरचिता- [४ चतुर्थाध्यायक्ष

वृत्तिमदर्थपरायाः श्रुतेर्यदा वृत्तिमात्रपरना स्थात्। स्याललक्षणा न चेयं युक्ता मुख्यार्थसंभवेऽपि स्यात् ॥९॥ तस्माच्च वाच एव हि सवृत्तिकाया लयोऽत्र युक्त इति। एवं प्राप्ते वूते वृत्तेरेव हि लयोऽत युक्त इति ॥ १० ॥ नन्वाचार्येणात्र च वाङ्मनसीन्यादिसूत्रमुपदिष्टम्। वाग्वृत्तिपरतया तद्याख्यातु युक्तमत्र कथमिति चेतु ॥ ११ ॥ अविभागो वचनादिति वक्ष्यति येनोत्तरत्र कृत्सलयम्। तस्मादिह वृत्तिलयो विवक्षितो नैव वृत्तिमद्विलयः ॥ १२॥ इह तत्त्वलयविवक्षायां पूर्वत्राविभागसान्येन। अविभाग इति परस्तादविभागमिम कुतो विशिष्यात्सः ।।१३। तस्माद्वृत्त्युपसंहारविवक्षेयं ततो हि वाग्वृत्तिः । उपसह्नियते पूर्वं सवृत्तिके मनसि विद्यमानेऽपि ॥१४॥ उपलभ्यते मनोवृत्ता सत्यां पूर्वमेव वाग्वृत्ते:। उपसहारो लोके स्व्े न तु वाच एव मनास लयः ॥२५ ।। केनचिदृपि दष्टोडय ननु वाङ्मनसीति हि श्रुतिर्ञ्ूते। वागप्ययो हि मनसि प्रतीयते न तेन कुत इति चेन्न ॥ १६॥ मनसो वाक्पकृतित्वाभावान्न हि वाग्लयो भवेन्मनसि। यस्य यतश्रोत्पत्तिस्तत्र लयस्तस्य हश्यते लोके ॥ १७ ॥ मृदि करकादेरिव न च मनसी वागुद्भवः कचिद्दृष्टः। वृत्त्युत्पत्तिप्रलयावप्रकृतिसमाश्रयावपीह स्तः ।। १८।। अग्रेर्हि तैजसस्य च वृत्ति: किल पार्थिवेन्धनेभ्यः स्यात्। अप्सु च तदुपशयोऽयं तथैव चेहापि भवति नन्वत्र ॥ १९॥ वाङ्नमनसीति कथं वा साधु: स्यादित्यतोऽत्र पठितमिदम्। शब्दाच्चेति स भाक्ताभेदपरो भवति वृत्तिवृत्तिमतोः ॥२॥ अत एव च सर्वाण्यनु ॥ २ ॥ इह चोपशान्ततेजा: पुनर्भवमिति प्रपशचिता श्रुत्या। या चेह मनसि संपत्ति: स्याद्या यावदिन्द्रियाणां च ॥ २१॥ तत्रापि वाच इव चक्षुरादिकानां सवृत्तिके मनसि। समवस्थिते हि तेषां वृत्त्युपशम एव न स्वरूपलयः ॥ २२॥ वृत्तिद्वारा सर्वाण्यपीन्द्रियाणि हि मनोऽनुवर्तन्ते। सर्वेषा करणानामुपसंहारे हि मनसि तुल्येऽपि।। २३॥

Page 387

द्वितीय: पादः २ ] माष्यार्थरत्नमाला। ३८३

अत्र पृथग्ग्रहणं यद्वाचस्तच्छ्तिनिदेशमालम्व्य । श्रुतिनिर्देशोऽय वाङानसीतीदं च तदनुरोधेन ॥ २४॥ तन्मनः प्राण उत्तरात् ॥ ३ ॥। समधिगतेयं वाङानसीत्यत्र च मनसि वृत्तिसंपत्तिः। यञ्चानन्तरवाक्यं तदिह मनः प्राण इति समाम्नातम् ॥२५॥ किमिहापि वृत्तिमत्सपत्तिः किंवाऽत्र वृत्तिसंपत्तिः। इति विचिकितसाया वृत्तिमतः संपत्तिरत्र युक्तेति ॥२६॥। भ्ुत्यनुसारात्मात्तं तत्प्रकृतित्वस्य दर्शनाच्चात्र। इह चान्नमयं हीति श्रुतिरन्नमयं मनः प्रदर्शयति ॥२७ ॥ अव्योनिं च प्राणं तथव चापामिहान्नयोनित्वम्। आपश्चान्नमिति श्रुतिरपि दर्शयतीह तेन यञ्च मनः ॥२८॥ प्राणे प्रलीयतेऽस्मस्तदन्नमेवाप्सु लीयते नान्यत्। अन्नं हि मनश्राऽSपः प्राणोऽसी प्रकृतिविक्कृतिभावोऽयम् ॥२९॥ भवति तयोरित्येवं प्राप्ते बूतेऽन्र वृत्तिसंपत्तिम्। तदिहागृहीतबाह्येन्द्रियवृत्ति मनः प्रलीयते प्राणे ॥३०॥ वृत्तिद्वारेणैव हि तथोत्तरस्मात्प्रतीयते वाक्यात्। किंच सुषुप्सोश्च मुमूर्षोश्र प्राणे सवृत्तिके सति हि ॥ ३१ ॥ हश्यत एव हि मनसो वृत्तिलयो न खल वृत्तिमद्विलयः । न हि मनसः प्राणेऽस्मिन्स्वरूपविलय: कदाचिदृपि भवति॥३२॥ येनातत्प्रकृतिरसौ प्राणो ननु दर्शिता हि मनसोऽस्य। प्राणप्रकृतिकता न ह्येतत्सार न वर्त्मनाऽनेन॥। ३३॥ प्राणप्रकृतित्वेन प्राणे संपत्तुमर्हतीह मनः । इह चान्ने मन एव हि लीयेत तथाऽप्सु चान्नमप्येतत्।। ३४॥ अप्स्वेव प्राणोऽय लीयेत पुनर्न वैपरी येन। एतावताऽपि खल्बन्भृयः प्राणत्वेन परिणताभ्यो हि। ३५॥ जायेत मन इतीह प्रमाणमुपलभ्यते न किंचिदृपि। तस्मान्मनसः प्राणे वृत्तिलयः स्यान्न वृत्तिमद्विलयः ॥३६॥ सोऽध्यक्षे तदुपगमादियः ।।४ ॥। यस्य तु येनोत्पत्तिस्तस्य च तस्मिन्हि वृत्तिलय एव । न तु वृत्तिमल्पः स्यादिति समधिगतं हि पूर्वमत्र पुनः ।३७ ।।

Page 388

३८४ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

संदिह्यते किलेदं यत्पराणस्तेजसीति वाक्यमिह। तत्र प्राणस्य यथाश्षुति [तेजसि] वृत्तिलय एव स्यात् ॥३८॥ देहेन्द्रियाधिनाथे जीवे वा तस्य भवति विलय इति। तत्रानतिशङ्क्यत्वाच्छ्रतेस्तदनुसारतो भवेदेवम् ॥३९ ॥ तेजस्येवैतस्मिन्पाणस्पैतस्य विलय उचित इति। यद्यश्रुतार्थप्ररिकल्पना भवेत्सा भवेदिहान्याय्या।४०।। इति शङ्कां वारयितुं प्राणस्याध्यक्षगामितां बूते। सोडयं प्रकृत: प्राणो विद्याकर्माद्युपाधिकेऽधयक्षे॥४१॥ विज्ञानात्मन्येवावतिष्ठते तदुपगामितादिभ्यः । श्रुतिरियमिहैवभेवेत्याद्या दर्शयति तदुषगामित्वम् ॥४२॥

यात्रेच्छावन्तं किल राजानं सेवका यथेवेह ॥४३॥ उपगच्छन्ति तथेव हि परलोकं जिगभिषुं च जीवमपि। सर्वे प्राणा अभिमुखतो यान्तीत्युपगमः श्रुतौ हष्टः ॥४४॥ सर्वेषां प्राणानामविशेषेणैव चायमुपदिष्टः । इह च तमुत्क्ामन्तं प्राणोऽनूत्क्रामतीति वाक्यमपि।४५॥ प्राणम्य पञ्चवृत्तेरनुगमनं किल विशेषतो बूते। अन्तरविज्ञानं किल यञ्चाध्यक्षस्य दर्शितं शुत्या ॥४६॥ तञ्चान्तविज्ञानं जीवे प्राणस्थितिं विना न भवेत्। इत्युपदिशति सविज्ञान इति श्रुतिरिह ततो भवेज्ीवे।।४७ ॥ प्राणस्यावस्थानं तेनास्याध्यक्ष एव संपत्तिः । नन्विह तेजस्येव प्राणलयः श्रूयते परं सूत्रे ॥ ४८॥ सोऽध्यक्ष इति ह्यधिकाला(वा)पः कुत एष इति म शङ्कयमिह। यस्मादुत्क्मणादिव्यवहारोऽध्यक्षमूलकस्तस्मात् ॥४९॥ अपि च शुत्यन्तरगतविशेषसापेक्षता भवेदस्य। नन्वेतच्छतिवचनं यत्पाणस्तेजसीति कथमिति चेत् ॥ ५०॥ भूतेषु तच्छरतेः ॥ ५ ॥ तेज:सहचरितेषु च भूतेषु प्राणसहकृतोऽध्यक्षः । सूक्ष्मेषु देहबीजेष्ववतिष्ठत इति किल श्रुतेरर्थः ॥ ५१॥ दर्शयति श्रुतिरेषा प्राणस्य च तेजसि स्थितिं हि ननु। न प्राणसहकृतस्याप्यध्यक्षस्येति चेन्न दोषोऽयम्॥ ५२॥

Page 389

द्वितीय: पाद: २ ] भाष्यार्थरत्नमाला। ३८५

ध्रुत्या हि पूर्वसूत्रोदाहृतयाध्यक्षगामितापरया। अध्यक्षोऽपि किलाय तदन्तराले निवेशितो यस्मात् ॥ ५३॥ यश्च सुध्नान्मथुरां गत्वा हि वजति पाटलीपुत्रम्। स व्रजति पाटलीपुत्रमिमं सुप्नादितीव भवतीह ॥। ५४ ।। तस्मादध्यक्षस्य च तदन्तराले भवेदवस्थानम्। ननु तेज:सहचरितेष्वस्यावस्थानमिति तु यञ्चोक्तम् ॥५५॥ तत्कथमुपपन्नं स्याद्यत एक श्रूयते हि तेज इह। वाङ््मनसीत्याद्ये हि श्रुतिवाक्ये तेजसीत्यतः पठति ॥५६॥

नैकस्मिन्दर्शयतो हि॥ ६ ॥ तेजसि नैकस्मिन्किल देहान्तरयोगसमय आयाते। जीवोऽवतिष्ठतेऽसौ पञ्चात्मकता यतः शरीरस्य ॥५७ ॥ प्रश्नप्रतिवचने अपि यथोक्तमेवार्थमत्र दर्शयतः । वेस्थ यथा पञ्चम्यामित्यादा त्यात्मकत्वसूत्रे हि॥ ५८॥ ध्याख्यातं तत्सवं श्रुतिस्मृती चैतमर्थमुपदिशतः । पृथ्वीमय आपोमय इत्याद्या हि श्रुतिस्तथेवयम् ॥५९॥ स्यृतिरण्व्यो मात्रा इत्याद्या पञ्चभूतकार्यत्वम्। देहस्य व्यपदिशति हि तस्माद्भूतेष्वितीह साधूक्तम् ॥६०॥ ननु वागादिषु करणेष्वखिलेष्वपि चोपसंहृतेषु पुनः । वेहान्तरसंप्रेप्सावेलायां क्व पुनरेष भवतीति ॥६१ ॥ प्रश्ने हि श्रुत्यन्तरमस्य च कर्माश्रयत्वमुपदिशति। श्रुत्यन्तरं हि तो ह यदूचतुरित्यादिना प्रसिद्धं हि॥। ६२॥ अत्र किल याज्ञवल्क्यार्तमागसज्ञी मुनी हि कर्मैव। जीवाधारं वूतस्तेन च कर्माश्रयत्वमस्योक्तम् ॥६३॥ भूताश्रयत्वमेवं सति पूर्वोक्तं विरुद्धमिति चेन्न। तत्र च कर्माश्रयता ग्रहादिसंज्ञस्य कर्ममूलस्य ॥६४ ॥ इन्द्रिय विषयात्मकबन्धनरूपस्य प्रवृत्तिरित्युक्ता। इह तु पुनर्भूतोषादानो देहान्तरोदयोऽयमिति॥६५॥ भूताश्रयत्वमुक्तं प्रशशंसतुरित्यनेन पुनरत्र। प्राधान्यमात्रमेव हि कर्मण इत्येव दर्शितं भवति ॥६६।। ४5

Page 390

३८६ सुब्ह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तत्कर्मणो निमित्तत्वेनाप्युपपद्यते हि पुनरत्र। भूतोपादानकता भूताश्रयता ततक्ष न विरोध: ।। ६७ ।। समाना चाऽऽसृत्युपक्रमादमृतत्वं चानुपोष्य।।७ ॥

उक्रान्तिरिह किमेषा बिद्दविदुषोः समानरूपैव। भवति हि किंवा सेयं विशेषवत्येव वेति संदेहे ॥ ६८॥ तत्र विशेषवतीति प्राप्तं नैषा हि भूतसंश्लिष्टा। आश्रीयन्ते भूतान्यत्राविदुषा पुनर्भवायैव॥६९॥ न पुनर्भवोडस्ति विदुषो यस्मादमृतत्वमक्षने विद्वान्। तस्मादविदुष एवोत्क्रान्तिरियं सा हि न खलु विदुषोऽस्य।,७०।। नतु विदुष एव विद्याप्रकरणबलतो भवेदिहोत्क्रान्ति:। मैवं स्वापादिवदिह सामान्येनानुकीर्तनं तदिदम् ॥ ७१॥ यत्रैतत्पुरुष इति श्रु्या हि स्वपिति नाम निर्दिष्टम्। आश [शि]पति नाम पिपासति नाम च पुरुषस्य दर्शितं हि तथा॥।७२। सर्वसमा एवैते ह्यत्र स्वापादयोऽनुकीर्त्यन्ते। विद्याप्रकरण एव प्रकृतप्रतिपादनानुगुन्येन ॥ ७३॥ स्वापादयो हि विदुषो विशेषतः क्वापि न हि विवक्ष्यन्ते। एवमिहोत्क्ान्तिरियं महाजनगतैव कीर्त्यंते नान्या।। ७४॥ यत्र परस्यां प्रयतस्तेज: संपद्यते हि पुरुषस्य । स हयात्मा तत्त्वमसीत्येतावत्पतिपिपाद्यिषितमिह।।७५।। विदुषो यस्मादेषा प्रतिषिद्धा सेयमविदुषस्तस्मात । एवं प्राप्ते बूते त्य्युकान्तिरियं भवेत्समानेति ॥७६॥ उक्रान्तिर्वाङ्मनसीत्याद्या या सा समानरूपैव। विदवद्विदुषोरासृत्युपक्रमादेवमेव मवति यतः ॥७७॥ अविशेषतः श्रुतेयं तत्राविद्वान्हि देहबीजानि। भूतानि सूक्ष्मरूपाण्याश्रित्य च कर्मसंप्रयुक्तोऽयम् ॥७८॥ वेहान्तरं ग्रहीतुं संसरति पुनः स एष विद्वांस्तु। ज्ञानप्रकाशितं किल मोक्षद्वारं परं समाश्रयते॥। ७ ॥ आसृत्युपक्रमादित्येतावद्दर्शितं हि सूत्रकृता। नन्वसृतत्वं प्राप्यं नैतद्देशान्तरप्रयुक्तं स्थात् ॥।८0 ॥

Page 391

द्वितीय: पाद: २] माष्यार्थरत्नमाला। ३८७

भूताश्रयता चाSऽसृत्युपक्रमो वाऽपि तत्र भवति कथम्। इति शङ्कां निरसितुमनुपोष्येति तदेतदभिहितं सूत्रे ॥८? ॥ अमृतत्वमिह यदुक्तं तदिदमविद्यादिकानद्ग्ध्वैव। आपेक्षिकमेव स्यात्तदपरविद्याबलेन लभ्पेत ।। ८२ ।। आसृत्युपक्रमोऽयं भूताश्रयता च तत्र संभवति। गतिरिह निराभ्रयाणा प्राणानां नोपपद्यते क्वापि ॥ ८३ ॥ तदाऽपीतेः संसारव्यपदेशात् ॥८॥ तेजस्तञ्च परस्यामित्यत्र प्रकरणादियोगेन। नदिदं प्रकृतं तेज: साध्यक्षं सकरणं च सममाणम्॥८४॥ भूतान्तरोपसृहं प्रयतः पुंसोऽस्य देवताया हि। संषधते परस्यामित्युक्त कीदृशी भवेदेषा ॥ ८५ ॥ संपत्तिरिह भवेदिति चिन्तेयं जायले हि तत्रासौं। आत्यन्तिक एव लयो युक्तस्तत्प्रकृतिता यतस्तस्या: ॥८६। सर्वस्य जनिमतो हि प्रकृतिरियं देवता परा सेति। प्रागेव हि प्रपश्च्वतमत इयमात्यन्तिकी भवेदस्याम्॥ ८७॥ अविभागापत्तिरिति प्राप्ते वते विभागमेवात्र। भूतान्तरसहितं तत्तेज: श्रोत्रादिकरणसंसृष्टम् ॥८८॥

अवतिष्ठते हि तावच्छृत्या व्यपदिश्यतेऽस्य संसारः ।। ८९।। इह योनिमन्य इत्यादिकया श्ुत्या प्रपश्चितश्वायम्। नानाशरीर्योगात्संसारोऽस्यान्यथा हि सर्वोडपि।। ९०। संवद्येत बह्म प्रायणसमयेऽप्युपाधिविलयेन। तत्र च विधिशास्त्रमिदं विद्याशास्त्रं च विफलमेव स्यात् ॥९१। मिथ्याज्ञ ननिमित्तो बन्धो ज्ञानादृते न नश्येत । तस्मात्सुषुप्तलयवत्संपत्तिरियं हि बीजशेषेण ॥ ९२ ।। सूक्ष्मं प्रमाणतश्र तथोपलब्धेः ॥ ९॥ भूतान्तरसहितं यत्तेज: पूर्वोक्तमस्य जीवस्य अस्माद्ेहात्प्रवसन आश्रयभूतं प्रमाणतस्तञ्च ॥ ९३:॥ सूक्ष्मं नाडीनिष्क्रमणादिम्योऽस्यावगम्यते सौक्ष्मयमू। तत्र तनुत्वादेव हि संचार: स्वच्छतादियोगेन ॥९४।।

Page 392

३८८ सुब्रह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

अप्रतिभूतो देहान्निर्गच्छन्नोपलम्यते चातः । नोपमर्देनातः ॥ १० ॥ सूक्ष्मत्वादेव पुनः स्थलशरीरस्य चोपमर्दैन ॥९५॥ दाहादिमूलकेनतरदिह सूक्ष्मं तु नोपसृद्येत। अस्यैव चोपपत्तेरेष ऊष्मा ॥११ ॥ सूक्ष्मस्यास्य शरीरस्यैव भवत्येष योऽयमूष्माऽत॥९६॥ यं चोष्माण देहे संस्पर्शेन हि जना विजानन्ति। चरमदशायां रुपादिगुणेषु च तत्र सत्स्वपि च ॥ ९७॥ नैवोपलभ्यतेऽसी जीवद्वसरेऽवगम्यते सोऽयम्। तस्मात्सिद्धशरीरव्यतिरिक्तसमाश्रितोऽयमिति सिद्धम् ॥९८॥ श्रुतिरुष्ण एव जीविष्यन्नित्याद्याऽपि दर्शयत्येवम्। प्रतिषेधादिति चेन्न शारीरात् ॥ १२॥ आत्यन्तिकेऽमृतत्वे गत्युक्रान्त्योरभाव उपदिक्ष: ॥९९॥ पूर्वत्र चानुपोष्येत्यनेन केनापि हेतुनाSत्र पुनः । आशङ्कय प्रतिषेधति ताभेतामुत्तरत्र सूत्रेण ॥ १२० ॥ इह चाथाकामयमानो योऽकाम य इति हश्यते वाक्यम्। काण्वश्रुती हि तत्र चय आत्मकामःस आप्तकाम: स्यात्॥१०१।। यदि भवति चाऽडपकामो निष्काम: स्यात्ततो ह्यकामः स्थात्। ईद्टगकामयमानस्तस्योत्क्रामन्ति नैव हि प्राणाः ॥ १०२॥। ब्रह्मैव सन्स विद्वान्बह्माप्येतीति चोपदिषं हि। पूर्णानन्दात्मा यः स चाऽडत्मकामोऽयमाप्कामस्तु॥१०३॥ प्राप्तपरानन्दो यो निष्कामोऽव्यक्तवासनारहितः । सोडयमकामो यश्च व्यक्तवहिष्कामविरहितो भवति ॥१०४॥ इह परविद्याविषयात्प्रतिषेधान्न परमात्मतत्त्वविद: । प्राणानामुत्क्रान्तिर्देहादस्तीति चेन्न चैवं स्यात् ॥ १०५॥ प्रतिषेधोडयं यस्मान्न शरीरान्भ्रवति किंतु शारीरात्। अवगध्यते न तस्मात्प्राणा इति पञ्चमीप्रयोगेण ॥ १०६॥ काण्वभ्ुतौ हि दृष्टा षष्ठी संबन्धमात्रविषयैव। शाख्रान्तरगतया पञ्चम्था सा भवति तद्विशेषपरा॥ १०७॥

Page 393

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। ३८९

तस्मादिति तच्छव्देनाभ्युदयाद्यधिकृतो हि यो देही। संबध्यते स एव प्राधान्यान्न तु कदाचिद्पि देहः ॥ १०८॥ नोत्क्रामन्ति प्राणास्तस्मादुच्चिक्रमिषत इह जीवात्। तेन सहैव मवन्तीत्यर्थस्तस्मात्पतीयते वाक्यात् ॥१०९॥ मवति हि सप्राणस्य प्रवसत एतस्य सेयमुत्क्रान्तिः। देहादेतस्मादित्याक्षेपमिमं निराकरोतीह ॥ ११० ॥

स्पष्टो हेकेषाम् ॥ १३॥ यच्चोक्तमिह परब्रह्मविदोऽप्युत्क्रान्तिरियमतो देहात्। प्रतिषेधो यश्रायं स देहुपादान एव भवतीति ॥१११॥ तदिदमयुक्तं वक्तुं देहापादान एव यत एष: । उत्क्रान्तिप्रतिषेधस्तथैव किल शाखिनामिहैकेषाम्॥११२॥ उपलभ्यते हि सम्यक्स एव खल्वार्तभागसंप्रश्षे। यत्रायं पुरुष इति प्रक्रान्ते पुरुष एष देहः स्यात् ॥११३॥ अस्माद्देहात्माणा उत्क्रामन्त्युत न वेति तत्प्रश्ने। नेत्याह याज्ञवल्क्य इतीहानुक्क्रान्तिपक्षमालम्व्य । ११४॥ प्राणेषु तर्ह्यनुत्क्रान्तेषु क्व सृतोऽयमिति पुनः प्रक्ने। अत्रैव समवलीयन्त इति हि तत्प्रविलय प्रतिज्ञाय ॥११५॥ तत्सिद्धये स उच्छवयतीति चाऽडरभ्य दर्शितं श्रुत्या। उच्छवयत्याध्मायति चाऽडध्मातः सन्मृतः स शेत इति ॥११६॥ इह बाह्यवायुपूरणबलेन देहाभिवृद्धिरुच्छवयनम्। आध्मानमार्द्रभेरीवदेव देहस्य शब्दकारित्वम् ॥११७॥ स इति परामृष्टस्योत्क्रान्त्यवधे: पुरुषशब्दवाच्यस्य। देहस्यैवोच्छूवयनादीनि स्युर्देहिनो न चैतानि ॥ ११८॥ तस्मादृत्र न तस्मात्प्राणा इति पञ्चमीप्रयोगेऽपि।

देहापादानस्योत्क्रमणस्यैव हि भवेन्निषेघोऽयम्। यद्यपि देहिन एव प्राधान्यं भाति पञ्चमीपाठे ।। १२० ।। षष्ठीपाठे तु पुनविद्वत्संबन्धिनीयमुत्क्ान्तिः। प्रतिषिध्यत इत्येतत्प्रतीयते तावता क्षतिर्नेह ॥ १२१।

Page 394

३९० सुब्ह्मण्यविरचिता- [४ चतुर्थाध्यायस्य-

प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य निगमवाक्यस्य। देहापादानैषा प्रतिषिद्ा स्थान्न देह्युपादाना॥ १२२॥ इह देहादुत्क्ान्तिः प्राप्ता न तु देहिन: क्वचिद्वाSपि। अपि चेह चक्षुषो वा मूर्धो वेत्यादिनेदमुत्कमणम्॥१२३॥ आदिश्य सप्पञ्चमविद्वद्विषयं प्रपञ्चगमनं च। इति कामयमान इति ह्युपसंहृत्य च कथामिहाविदुषः । १२४॥। विद्वांसं पुनरत्राथाकामयमान इति परासृश्य। उत्क्रान्तिमेव यदि तद्विषयेऽपि प्रापयेदिदं वाक्यम् ॥१२५॥ असमञ्जस एव स्याद्यपदेश: सकल एव तत्रत्यः । तेनाविद्वद्विषये गत्युत्क्रान्त्योः प्रसक्तयोरत्र ॥ १२६॥ विद्वद्विषये प्रतिषेध इति व्यपदेशसार्थकत्वाय। व्याख्येयमिह न च ब्रह्मविदः सर्वात्मतां प्रसन्नस्य ॥१२७ ।। प्रक्षीणकामकर्मण उत्क्रान्तिर्गतिरपीयसुपपन्ना। उत्क्रान्ती च गतौ वा न निमित्तं तस्य विद्यते किंचित ॥१२८॥ अत्र ब्ह्म समश्नुत इत्याद्या अपि भवन्ति या: श्रुतयः । ता: किल गत्युत्क्ान्त्योरभावमुपदर्शयन्ति चाऽडत्मविद्:॥१२९॥ स्मर्यते च ॥ १४ ॥ इह मारतेऽपि विदुषो गत्युत्क्रान्त्योरभाव एवेति। अपदस्य पदैषिण इत्येवं हि स्मर्यतेयमेवार्थः ॥१३०॥ ब्रह्मविदोऽपि गतिर्नन्वत्र किल स्मर्यंते शुकाचार्यः। वैयासकिर्मुमुक्षुर्भास्करमण्डलमभिप्रतस्थ इति ॥१३१॥ मैवं सशरीरस्यैवायं किल योगबलसहायेन। भास्करमण्डलसंप्राप्तिपुरःसरमस्य तनुविसर्ग इति ॥१३२ ॥ वक्तव्यमस्य यस्माद्दर्शितमिह सर्वभूतद्ृश्यत्वम्। न ह्यशरीरं यान्तं द्रषटुमिमं शक्नुवन्ति भूतानि ॥१३३॥ उपसंहृतमेवं किल तत्रैव शुकस्तु मारुताच्छीघ्राम्। गतिमन्तरिक्षगोऽसौ कृत्वा स ततश्र दर्शयित्वैनम् ॥ १३४।। आत्मप्रभावमखिलं जगाम सर्वात्मभावमयमिति हि। तस्माद्गृतिश्रुतीनां विषयोडगे वक्ष्यमाण एव स्यात ॥१३५॥

Page 395

द्वितीय: पाद: २ ] माष्यार्थरत्नमाला। ३९१

तानि परे तथा ह्याह॥१५॥ यानि प्राणपदेन प्रदर्शितानीन्द्रियाणि मूतानि। तानि ब्रह्मविदस्तस्मिन्परमात्मनि प्रलीयन्ते ॥ १२६ ॥ श्रुतिरत्र चैवमेवास्य परिद्रषठुरिति बोधयत्येवम्। नन्विह गता: कलाः पञ्चद्शेत्याद्या श्रुतिः परा येयम्॥१३७ ॥ सा हि परस्मादन्यत्रापि कलानां लयं प्रदर्शयति। मैवं सा व्यवहारापेक्षा खल पार्थिवादिका हि कलाःः ॥१३८॥ स्वप्रकृति(ती) रेव पृथिव्यादीरपियन्ति हीति दर्शयति। एषा परमार्थाभिप्नाया ब्रह्मणि कलालयं ब्रूते ।। १३९॥ अविभागो वचनात् ॥ १६ ॥ बिदुषो योडसी हि कलाप्रलयः प्रतिपादितः स चायमिह। किं सावशेष इतरेषामिव किंवा स निरवशेष इति ॥१४० ॥ संदेहे लयसाम्यादिह शक्त्यवशेषताप्रसक्तो हि। अविभागो वचनादिति लयमेतं निरवशेषमुपदिशति ॥१४१॥ ब्रह्मविदोऽस्य कलानामविभागापत्तिरेव युक्ता स्यात्। यत इह वचनादस्मात्परमविभाग: प्रतीयते तासाम् ॥१४२॥ इह च कलालयमुक्त्वा भिद्येते एवमादिना बूते। आसा हि नामरूपे भिद्येते प्रोच्यते हि पुरुष इति ॥ १४३॥ एषोडकलोऽमृतो भवतीति च पुरुषोडकलोऽयमत्रोक्त:। अत्राविद्याजनितानां च कलानां न विद्यया जनिते॥।१४४॥ प्लये पुनरेतस्मिन्स्याच्छक्त्यवशेषता करथचिदृपि। तस्मादृत्र कलानामविभागापत्तिरेव युक्ता स्यात् ॥१४५॥ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विय्या- सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दा- नुगृहीतः शताधिकया ॥१७॥ इह परविद्याचिन्तां समाप्य तत्र प्रसङ्गत: प्राप्ताम्। चिन्तामधुना परविद्याविषयां पुनरिहानुवर्तयति॥१४६ ।। विदूद् विदुषोरामृत्युपक्रमात्किल समेति चोत्कान्ति:। भागभिहितं तमेवेदानीमासृत्युपक्रमं बूते।१४७ ॥

Page 396

३९२ सुब्रह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

विज्ञानात्मन ओको ह्यायतनं हृदयमेव नान्यदिति ॥१४८॥ दर्शयतीह स एतास्तेजोमात्रा इति श्रुतिः सेयम्। तस्य च हृदयस्याग्रं प्रथमं प्रद्योतते ततश्वायम् ॥१४९॥ चक्षुष्प्रमृतिद्वारा निष्क्रामति तत्प्रकाशितद्वारः। इति चक्षुराद्यपादानामुक्रान्तिं प्रदर्शयत्येषा।१५० । हृदयस्याग्रं प्रद्योतत इत्याद्या श्रुतिरहिं सा किमिह। विदवद् विदुषोहिं समा किंवा विदुषो विशेष इह कश्त् ॥ १५१॥ इति विचिकित्सार्या श्रुत्यविशेषादनियमोऽन्र युक्त इति। एवं प्राप्ते बूते हृदयप्रद्योतने समानेऽपि॥ १५२ ॥ अपि तत्प्रकाशितद्वारत्वे तुल्ये स एष विद्वांस्तु । मुर्धस्थानादेव हि निष्क्रामति नेतरेभ्य इति यस्मात् ॥१५३॥ विद्यासामथ्य किल दृष्ट तस्यैव नेतरस्य पुनः। इतरवदेव हि विद्वान्यतः कुतश्चित्प्रदेशतोऽपि यदि॥ १५४॥ उत्क्रामेत्स तदाडयं नोत्कृष्टं लोकमत्र विन्देत। एवं चेत्तर्हीयं विद्या सर्वाऽप्यनर्थिकैव स्ात् ॥१५५॥ तच्छेषगत्यनुस्मृतियोगाज्ज गतिर्विलक्षणाडस्य स्यात्। विद्याशेषत्वेन च गतिरिह मूर्धन्यनाडिकाद्वारा ॥१५६॥ अनुशीलयितव्या सा विहिता विद्याविशेषविषये हि। तामभ्यसंस्तयैव प्रतितिष्ठत एष इति तु युक्तमिह॥१५७ ॥ तस्मादुपासितेन हि परात्मना हृदयसंस्थितेनायम्। परमनुगृहीत एव हि विद्वांस्तद्भावमिह समापन्नः ॥१५८॥

शतमित्याद्या श्रुतिरप्येवं दर्शयति हार्दविद्यायाम्॥१५९॥ रश्म्यनुसारी॥। १८॥ अस्ति किल हार्दविद्या दहरोऽस्मिन्नन्तरिति समान्नाता। सा चाथ यदिदमस्मिन्ब्ह्मपुर इति प्रपश्चिता भूयः ॥१६० ॥ तत्प्रकरण एव ह्यथ या एता इत्यधीत्य तत्र पुनः । नाडीरश्मिपुरःसरसंबन्धं सप्रपञ्चमभिधाय॥१६१॥ यत्रैतदिति तथैव च तयोध्वमित्यादिवाक्यमास्नातम्। उत्क्रमणमेतदस्य प्रारब्धान्ते यदा भवेत्ताहि ॥ १६२॥

Page 397

द्वितीय: पादः २ ] माष्पार्थरत्नमाला। ३९३

नाडीगतरश्मिभिरेवैतैरुत्क्रामतीति तत्रोक्तम्। तस्मादत्र शताधिकनाड्या विद्वानसो हि निष्क्रामन् ॥१६३।। रश्म्यनुसारेणैव हि निष्क्रामत्येष इति तु युक्तमिह। तत्किं रक्म्यनुसारित्वं रात्रावहनि चाविशेषेण ॥ १६४।। त्रियमाणस्यास्य स्यात्किंवाऽहन्येव तदिति संदेहे। अविशेषश्रवणात्खल्वविशेषेणैव वर्ण्यते तदिदम् ॥१६५॥

निशि नेति चेन्न संबन्धस्य याष- द्वेहभावित्वाद्दर्शयति च ॥ १९ ॥

अहनि च नाडीरश्म्यो: संबन्धोऽस्तीति युक्तमेतत्स्यात्। अहनि सृतस्य च रश्म्यनुसारित्वं न तु भवेदिदं रात्रा ॥१६६ ।। विच्छिद्यते हि यस्मान्नाडीरश्म्योरहि तत्र संबन्ध:। रात्री सृतस्य तस्मान्न हि रश्म्यनुसारितेति चेन्मैवम् ॥१६७ ॥ भवति हि यावद्देहं नाडीरश्म्यो: स एप संबन्धः ।

ये नाडीषु च सृप्ता रश्मय इह सन्ति ते किलाSडदित्यात्। अस्माल्लब्धविकासा आभ्यो नाडीभ्य एवमेवैते ॥ १६९ ॥ आदित्ये किल सृप्तास्तथा प्रतायन्त इति हि तत्रोक्तम्। उपलभ्यते निशास्वपि निदाघकाले च सूर्यकिरणानाम्॥१७०।l अनुवृत्तिस्तत्र यतो रात्री तापादि द्वृश्यते भूय: । स्तोकानुवृत्तित: स्याद्दुर्लक्ष्यत्वं तदन्यरजनीषु॥ १७१ ॥ शैशिरदिवसेष्विव दुर्दिनेषु दुर्लक्ष्यता भवेदत्र। अहरेवैतद्रात्री विद्धातीति श्रुतिर्त्रवीत्येवम् ॥१७२ ॥ यदि रात्रिमृतो विद्वान््म्यनुसरणं बिना क्रमेदूर्ध्वमू। भवति हि रश्म्यनुमारानर्थक्यं तत्र तञ्च दुर्वारम्॥१७३॥ न ह्न्र यो दिवैव प्रैति स रश्मीनपेक्ष्य चाSडक्रमते। ऊध्वं हि यस्तु रात्रौ प्रैत्यनपेक्ष्येव स इति युक्तं स्यास् ॥२७४॥ अथ विद्वानपि नोध्वं यदि रात्रिप्रायणापराधेन। आक्रमते सा पाक्षिकफलेति तन्रापवृत्तिरेव स्थाप् ॥ १७५॥ मृत्योरनियतकालत्वाप्तस्य दिवैव मृत्युरित्यपि न। अथ विद्वान्सन्रावपि मृसोऽहरागममसावुदीक्षेत।। १७६ ॥ ५०

Page 398

३९४ सुन्रह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

अहरागमेऽपि विदुषः शरीरमिह पावकादिसंस्कारात्। न भवति हि रश्मिसंबन्धार्हमतो नाऽडक्रमेदसावुर्ध्वम् ॥१७७॥ किंच स यावत्क्षिप्येन्मन इति दर्शयति तदनु दीक्षां हि। तस्मादृविशेषेणाहनि रात्रौ वाडस्य र्मिसबन्धः ।। १७८।। अतश्वायनेऽपि दक्षिणे ॥ २० ॥ यत इह नैवोदीक्षा न पाक्षिकफला च भवति विद्येयम्। मृत्युर्न नियतकालस्तस्माद्यनेऽपि दक्षिणे विद्वान्॥१७९ ॥ प्रियमाण: स कदाचिद्विद्याफलमखिलमपि समाप्नोति। या चोत्तायणमृतिप्राशस्त्यप्रथितिरपि च मीष्मस्य ॥। १८० ।। यञ्चोत्तरायणस्य प्रतीक्षणं नैजतनुविसर्गार्थम्। आपूर्यमाणपक्षाद्यानित्याद्या श्ुतिश्व येयमिह ॥१८१॥ एतेभ्यो हेतुभ्यस्तनुपाते चोत्तरायणं हीदम्। आवश्यकमिति शङ्का सूत्रेण निरस्यते हि सूत्रकृता ॥१८२ ॥ या चोत्तरायणमृतिप्राशस्त्यस्य प्रसिद्धिरिह कथिता। सा चाविद्वद्विषया भीष्मस्य च यत्प्रतीक्षणं तद्पि ॥१८३॥ आचारप्रतिपालन रूपफलार्थं पितृप्रसादेन। लब्धस्वेच्छामृत्युं प्रख्यापयितुं च भवति नान्यार्थम् ॥१८४॥ यच्चोत्तरायणे स्यान्मरणं तञ्च प्रशस्तमज्ञानाम्। इत्यभिवदनं प्राज्ञानामाचारोऽत भवति न तदन्यः ।। १८५।। श्रुतिरपि च देवताभिप्राया सा नेह कालमात्रपरा। इत्यातिवाहिका इति सूत्रे वक्ष्यति च सूत्रकारोऽयम्॥१८६॥ ननु यत्र काल इत्यादिस्मृतिवाक्येषु काल एवायम्। अहरादिकः प्रधानत्वेनानावृत्तये विनिर्दिष्टः ॥१८७।। कथमिह विद्वान्रात्रौ किंवाऽसी दक्षिणाबने वाऽपि। प्रेतोऽनाऽवृत्तिमिमां यायादित्यत इदें पठत्यत्र ॥ १८८ ॥ योगिन: प्रति[च]स्मर्थते स्मार्ते चैते ॥ २१ ॥ अहरादिकालनियमो योऽयमनावृत्तये स्मृतौ हष्ः । स च योगिन: प्रति स्वात्स्मार्ते चैते हि योगसाख्ये हे ॥ १८९॥ न भौते तेनात्र प्रमाणभेदाच्च विषयभेदाच्ज। विज्ञानेषु श्रौतेष्ववतारो नास्य मवति कथमपि च ॥ १९० ॥

Page 399

तृतीय: पाद: ३] माष्यार्थरल्नमाला। ३९५

नन्वग्निज्योतिरहर्धूमो रात्रिगिति चैवमाद्ये हि। इह देवयानपितृयाणे श्रीते एव हि प्रतीयेते ॥ १९१॥ स्मृतिवाक्येऽरषीत्येवं नाऽडशड्क्यं थेन तत्र तं कालम् । वक्ष्यामीति च कालप्रतिज्ञया किल विरोधमाशङ्क्य ॥.१९२॥। परिहारोडयं कथितो यदा पुनः स्मृतिषु देवता एव। अग्न्याद्यभिमानिन्यो गृह्यन्ते न हि विरोध इह कश्चित् ॥१९३। शारीरकमीमासा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्याय: ।।१९४।। तत्र द्वितीयपादे सूत्ार्थो यश्र भाष्यकारोक्त: । आर्यावृत्तैरमलैः प्रकाशितो भवतु सोडयमनवद्यः ॥१२५ ॥। इति श्रीभाष्यार्थरत्नमालायां चतुर्थाध्यायस्य द्वितीय: पाद: समाप्तः ॥ २॥

अथ तृतीयपाद: ।।

अचिरादिना तत्प्रथितेः ॥ १॥ एवं हि पूर्वपादे निरूपितोत्क्रान्तिरत्र तत्साध्यम्। गन्तव्यं किल मा दर्शयितुं पादमेतमारभते ॥१॥

इत्युक्तमासृतिः सा ह्यनेकधा भ्रूयते श्रुतिष्वासु ॥२॥

भवतीह देवयानं पन्थानमिति श्रुतिप्रसिद्धैका। अन्या त्वस्माल्लोकात्प्रैति स वायुमिति वाक्यतो दृषा ॥४ ॥ अपरा सूर्यद्वारेणेत्यादिश्रुतिनिरुूपिता तत्र। किमिह परस्परभिन्ना एताः सृतयो भवन्ति किंवाऽत्र ॥५॥ एकैवानेकविशेषणाSSमृतिरितीह संशयो भवति। तत्रैतत्स्यात्सृतयो भिन्ना एवेति यत इमा: स्मृतयः ॥६॥ मिन्नोपासनशेषा भिन्नप्नकरणगताश्र लक्ष्यन्ते।

Page 400

३९६ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

उपसृद्येत तथैव त्वरावचनमेतदृपि च पीड्येत। इह च स यावस्क्षिप्येन्मन इत्यादित्वरावचो हष्म् ॥८॥ तस्मादेता: सृतयो भिन्ना एवेत्यतस्त्विदं पठति। ब्रह्म प्रेप्सुः सर्वोरचिरादिनैवाध्वनोर्ध्वमाक्रमते ॥ ९॥ इति तु प्रतिजानीते तत्प्रथितेरिति च भवति हेतुरिह। सर्वेषामपि विदुषां प्रथितोऽसावर्चिरादिको मार्गः ॥। १० । ये चेमेऽरण्य इति श्रुती हि विद्यान्तरावलम्बानाम्। पञ्चाग्न्युपासकानामिवार्चिराद्या गतिः समाम्नाता ।११॥ स्यादेतदत्र यासु च विद्यासु न काचिदृपि गतिः पठिता। तास्वर्चिरादिकैव हि गतिरियमुपतिष्ठतां हि यासु पुनः । १२। श्रूयत एवान्या विद्यासु किमित्यचिरादिकाश्रयणम्। इति चेद्दवेदिहैवं सृतय इमा यदि परस्परं भिन्नाः ॥१३ ॥ एकैवानेकविशेषणाSSसृति ब्रह्मलोकपद्वीयम्। क्रचिदिह केनचिदेव हि विशेषणेनोपलक्षिता मवति ॥१४ ॥ सर्वत्र चैकदेशाभिज्ञानाद्वहविशेषणा संयम्। भवतीय मेक रूपाSSसृतिर्विशेषणविशेष्यमावेन॥१५॥ प्रकरणभेदेऽपि यथा विद्यैकत्वाद्गुणोपसंहारः। भवति हि तद्वत्प्रकृते स्यादेवँ विशेषणोपसंहारः ॥१६॥ विद्याभेदेऽवि यतोडभिज्ञा सर्वत्र चैकदेशस्य। गन्तव्याभेदादृषि भवति परं गत्यभेद एवात्र ॥१७॥ या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिमिति श्रुतिश्चापि। विद्याफलं तदेकं ब्रह्मपाप्तिस्वरूपमुपदिशति ॥१८॥ यञ्चाथेतैरेवेत्यवधारणमत्र दर्शितं तद्पि। रात्री सृतस्य विदुषो रश्म्यप्राप्ती हि तन्निरासार्थम् ॥ १९॥ तत्रापि रश्मियोगं प्रपश्चयितुमेव न पुनरन्यस्य। व्यावृश्त्यर्थं तत्स्यान्न च सकृदुक्तोऽयमेवकारोऽन॥ २० ॥ रश्मीश्र प्रापयितुं निवर्तयितुमर्चिरादिकांश्च तथा। अर्हति तस्मादत्रावधार्यते स खलु रश्मिसंबन्ध: । २१॥ यत्तु स यावत्क्षिप्येन्मन इत्यादित्वरावचस्तदृपि। गतिषु यथैव हि लोके मवति विलम्बो य एष लोककृतः ।।२२।

Page 401

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ३९७

नैवार्चिरादिकेऽध्वनि मवति स एष इति बोधना्थं स्यात्। लोके निभेषमात्रेणाSडगच्छन्तीति वाक्यविन्यासे ।। २३।। नैव हि निमेषमात्रेणाSडगमने तत्र भवति तात्पर्यम्। किंतु विलम्बामावे तद्वदिहापीति तदिदमविरुद्ध्म्॥२४॥ इह खल्वथैतयोरित्याद्या मार्गद्वयच्युतानां हि। कं तृतीयमेषा स्थानं संकीरत्य देवयानमिमम् ॥२५॥ पितृयाणव्यतिरिक्तं पन्थानं ह्यर्चिरादिपर्वाणम्। प्रथयति तमेकमेव श्रुतिस्मृतीयानुवर्णनेनेह ॥ २६ ॥ अपि चार्चिरादिविषयसृती हि भूयांसि मार्गपर्वाणि। श्रूयन्ते पुनरन्यत्राल्पीयास्येव तानि पर्वाणि॥२७॥ भवतीह भूयसामनुगुणभावेनैव नयनमन्येषाम्। न्याय्यतरं तस्मादिह युक्तं स्यादर्चिरादिनेत्यादि॥ २८॥ वायुमब्दादविशेषविशेषाभ्याम् ॥ २॥ केनेह संनिवेशविशेषेण च गतिविशेषणानां हि। स्यादन्योन्यविशेषणविशेष्यभाव इति तदिदमाचार्यः ॥ २९ ॥ ग्रथयति हि वायुमव्दादितिसूत्रेण स्वयं सुहद्भूत्वा। इह पठयते हि पन्थाः स एतमिति देवयानसंज्ञोऽसौ ॥३० ॥ कौषीतकिनां तत्र हिस चाग्निलोकं स वायुलोकमिति। स वरुणलोकं च तथेन्द्रलोकमपि स प्रजापतेर्लोकम् ॥ ३१॥ स ब्रह्मलोकमिति च क्रमोऽयमुपलभ्यते हि तत्र किल। यावर्चिरग्निशब्दी तुल्यार्थौ ज्वलनवाचकौ तौ हि ॥ ३२ ॥ नैवेह संनिवेशक्रमोऽयमन्विष्यते क्वचित्कश्च्ित्। बायुस्त्वहार्चिरादी वर्त्मनि न अ्यते स कस्मिन्वा । ३३ ॥। स्थाने निवेशनीय: स्यादित्यत उक्तमत्र सूत्रकृता। तेऽिंष मेवेत्यस्मिन्नचिरनन्तरम हर्विनिर्दिश्य॥ ३४ ॥ आपूर्यमाणपक्षं तत उद्गयनादिकांश्र षण्मासान्। तेभ्य: संवत्सरमपि तत आदित्यमिति दृश्यते तत्र ॥ ३५ ॥ आदित्यादर्वाश्चं तथैव संवत्सरात्पराञ्च्मिमम्। वायुमभिसंभवतीत्येवं वायोरहिं संनिवेश इह॥३६॥ क्वचिद्विशेषविशेषावुपलम्येते यतस्तयोः श्रुत्योः। कौषीतकिवाक्ये किल स वायुलेकिमिति चाविशेषेणं॥३७॥

Page 402

३१८ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

उपदर्शितस्य वायोर्विशेष उपलभ्यते हि वाक्येऽस्मिन। तदिह यदा वै पुरुषोऽस्माल्लोकात्प्रैति स इति तत्र किल॥३८॥ स उपासको हि देहाद्यदि निर्गच्छति स वायुमेति तदा। वायुरसावपि तस्मै विजिहीते छिद्रमेष संतनुते ॥ ३९॥ रथचक्रबिलसमानं तच्छिद्ं तेन वायुदत्तेन। द्वारेण स खलु विद्वानाक्रम्योध्वं तमेतमादित्यम्॥४० ॥ आगच्छतीति दर्शितमत आदित्यात्पतीयते वायोः। पूर्वत्वमेव तस्मादृब्दादित्यन्तराल एवासौ ॥।४१॥ वायुर्निवेशनीयः स्यादिति युक्तमिह सूत्रकारोक्तम्। नन्वस्य पुनरिहायेः परत्वदर्शनविशेषतः कस्मात् ॥४२॥ अर्चिरनन्तरमेव हि न निविश्यत एष वायुरिति चेन्न। नासौ भवति विशेष: स एतमित्यादिके यतो वाक्ये ।४३॥। केवल एव हि पाठः स चाग्गिलोकं स वायुलोकमिति। क्रमवाचको हिशब्दो न कश्विदिह किल यतः पदार्थानाम्॥४४॥॥ उपलभ्यतेऽनुकीरतनमात्रं तं तं च गच्छतीत्येवम्। रथचक्रबिलसमेन च्छिद्रेण हि वायुना प्रवृत्तेन ॥। ४५॥। स च खल्वाक्रम्योध्वं तत आगच्छति तमेतमादित्यम्। इत्यवगम्यत एव क्रमोऽयमत इह भवेद्विशेषोसी ॥४६॥ तस्मादविशेषविशेषाभ्यामिति युक्तमेव सूत्रोक्तम्। वाजसनेयिन इह किल मासेभ्यो देवलोकमित्युक्त्वा ।। ४७॥। तस्माच्च देवलोकादादित्यमिमं समामनन्त्यत्र। तत्राSSदित्यानन्तर्याय पुनर्देवलोकतो वायुम्॥४८॥ अभिसंभवेयुरिति वाजसनेयश्चुत्यपेक्षया वाच्यमूं। यञ्चेह वायुमव्दादिति तच्छन्दोगवाक्यमालम्व्य ।। ४९।। छन्दोगभ्तिवाक्ये न देवलोकोऽस्ति वाजिवाक्ये तु। संवत्सरो न दृष्टः श्रुतिदवृयप्रत्ययादुमावपि हि। ५० ॥ उमयत्रैव ग्राह्यौ तत्र च मासब्दयोहि संबन्धात्। संवत्सरो हि पूर्वस्ततो भवेद्ेवलोक इति बोध्यम् ॥५१॥ तडितोऽधि वरुणः संबन्धात् ॥३ ॥ आदित्याज्चन्द्रमसं चन्द्रमसो विद्युतं च निर्दिश्य। पश्चाद्व ह्मप्राप्तिं प्रथयत्येषा श्तिस्तथाऽन्या तु ॥५२॥

Page 403

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला।

वरुणादिप्राप्तिमपि प्रदर्शयति तत्र तदनुसारेण। विद्युत उपरिष्टात्किल वरुणः संबध्यते यतश्र तयोः ॥५३॥ स्यान्नियतः संबन्धो यदेव हि विशालविद्युतो मेघा:। सस्तनितगर्जिता अपि सम्यङ्ननृत्यन्ति देवलोकेषु॥ ५४ ॥ आपः प्रपतन्ति तदेत्येतत्सर्वानुभूतिसिद्धं हि। विद्योतते स्तनयतीत्येषा श्रुतिरपि तथैव दर्शयति ॥५५॥ वरुणश्वापामधिपतिरिति श्रुतिस्मृतिषु सुप्रसिद्धं हि। इन्द्रपजापती किल वरुणादूध्वं हि संनिवेश्येते ॥५६॥ स्थानान्तरविरहादृपि पाठस्य तथैव दर्शनादृपि च। आगन्तुकभावादृपि वरुणादन्ते हि संनिवेश्यौ तौ ॥५७ ॥ आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥ तेष्वेव चार्चिरादिषु संदेहः पुनरिहैवमवतरति। किमिमानि मार्गचिह्नान्याहोस्विद्भोगभूमयः किंवा॥ ५८॥ नेतारो गन्तृणामित्येवं तत्र युक्तमेतत्स्यात्। एते हि मार्गलक्षणभूता एवार्चिरादय: स्युरिति॥५९॥ यस्मादुपदेशोडयं दृश्यत इह तत्स्वरूपपर एव। प्रस्थातुकाम इह किल लोके ग्रामं च नगरमपि कश्चित् ॥६० ॥ अनुशिष्यते त्वमेतं गच्छ महापर्वतं पुरस्तस्य। न्यग्रोधमपि महान्तं ततो नदीं निकट एव तत्परतः॥६१॥ ग्रामं च नगरमपि वा स्वाभिमतं प्राप्स्यसीति तद्वदिह। तेऽर्चिषमिति हि ततोऽहस्ततः किलाऽडपूर्यमाणपक्षमिति ॥६२॥ अथवाऽत भोगभूमय एवेते स्युरिति युक्तमामाति। यस्माच्च लोकशब्देनैते ह्यग्न्यादयोऽनुबध्यन्ते ॥६३॥ अत्राग्निमागच्छतीति वाक्ये हि लोकशब्दोऽयम्। भोगायतनेष्वेव प्राणिनिकायस्य माष्यते हि परम् ॥६४॥ वेदे मनुष्यलोकः पितृलोको देवलोक इत्यादी। अन्यत्राहोगत्रे्वित्यादौ दृश्यते तथैवायम् ॥ ६५॥ तस्मादिहार्चिरादय एते नैवाऽडतिवाहिका: किंच। तेषामचेतनत्वादृपि नैवात्राSSतिवाहिकत्वं स्यात् ॥ ६६ ।। लोके हि चेतना: किल राजनियुक्ता मवन्ति ये शूराः। मार्गेषु दुर्गमेष्वतिवाह्यानतिवाह्यन्ति ते नान्ये।। ६७।।

Page 404

४०० सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

एवं प्राप्ते बूते ते खल्वत्राSSतिवाहिका: स्युरिति। अत्र च तल्िङ्गादिति यथोपदिष्ार्थसाधको हेतुः ॥। ६८ ।। इह चन्द्रमसो विद्युतमित्येतदनन्तरं समाम्नातम्। तत्पुरुषोऽमानव इति वाक्यं हि ब्रह्म गमयतीत्यन्तम् ॥ ६९ ॥ तेन प्रतीयते खल्वमानवस्योत्तरत्र गमयितृता। गमयितृतानिर्देशात्सिद्धं तस्याSSतिवाहिकत्वमपि॥७० ॥ तत्सामान्यादग्न्यादयो भवन्त्यातिवाहिका: पूर्वम्। ननु तत्पुरुषोऽ्मानव इति वचनममानवस्य पुरुषस्य ।। ७१ ॥ गमयितृतापरमेव हि नाग्न्यादीनां तथेति चेन्मैवम्।

यद्यचिरादिपर्वस पुरुपा एतेषु गमयितार: स्युः ।

यदिद्ममानव इति किल पुरुषविशेषणमिहोपदिष्टं हि। ननु न हि लिङ्गं गमकं न्यायाभावादृतस्त्विदं पठति॥७४॥

ये त्वर्चिरादिमार्गोपगतास्ते किल शरीरविगमेन। मुकुलितकरणग्रामा न च स्वतन्त्रा मवन्ति गत्यादौ॥।७५ ॥ ये त्वर्चिराद्यस्तेऽप्यचेतना एव न स्वतन्त्रा: स्युः । तस्मादिहार्चिराद्यभिमानिन एते हि चेतना देवा: ॥ ७६॥ अतियात्रायामस्यां नियोजिता इति भवेद्यवस्थेह। इह मत्तमूर्च्छिताद्या अपि लोके विकलकरणपरिवारा: ।७७। केवलपरप्रयुक्ताध्वानो हष्टा: परत्र किमुतैते। न हि मार्गलक्षणत्वं कथमप्यत्रार्चिरादिकानां स्यात्॥।७८।। अनवस्थिता यतस्ते रात्री प्रेतस्य न हि कथंचिदृपि। भवति ह्यहःस्वरूपप्राप्तिर्न च तत्प्रतीक्षणं वाडस्ति॥ ७९॥ इत्येतदुक्तमेव न दोषोऽयं भवति देवतापक्षे। यस्माद्धुवा हि देवास्त एव चेहारचिरादिपदवाच्या: ।। ८० ॥।

किंचार्चिषोऽहरिति निर्देशः खल्वातिवाहिकत्वेऽवि ।। ८। ।। न विरुध्यते कर्थंचित्तच्छव्दात्तदभिमानिनो ग्रहणे। लोकेऽपि दृश्यते हि प्रख्यातेष्व्रातिवाहिकपु पुनः ।। ८२।।

Page 405

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ४०१

एधंविध उपदेशो गच्छ त्वमितश्र कृष्णगुप्तमिति। गच्छ ततो जय सिंहं बलवर्माणं ततश्र गच्छेति ॥ ८३ ॥ अपि चोपक्रमवाक्ये तेऽचिषमित्यादिना समाम्नातः । संबन्धमात्रमेव हिन तद्विशेषोऽतर कश्रिदुपेदिष्टः॥८४ ।। उपसंहारे तु स एतानित्यादी विशेष इह दृष्टः । गमयितृशब्दबलेन च स चातिवाह्यातिवहनरूप: स्यात् ॥८५॥ तेन ह्युपक्रमेऽपि च स एव निर्णीयते न चान्योऽपि। उपसंहृतकरणत्वान्न तत्र मोगो भवेत्किलैतेषाम्। ८६ H तत्रानुपसुख्जानेष्वपि गन्तृषु गमयितुं भवेच्छक्य: । सोडयं हि लोकशब्दस्तत्रान्येपां यतश्र भोग: स्थात्।। ८७ ॥ एवं चाग्निस्वामिकलोकं गत्वाडग्निनाSतिवाह्येत। वायुस्वामिकलोकं गत्वैवं वायुनेति योज्यमिह। ८८ ॥। नन्वातिवाहिकत्वं यद्येतेषां तदा हि वरुणादौ। तत्कथमुपपन्नं स्याद्वरुणादन्यो यतोऽत्र निर्दिष्षः ॥।८९ ।। आ ब्रह्मपराप्तेः किल विद्युदनन्तरममानवः पुरुष:। तस्यैव गमयितृत्वं श्रुतमित्यत एतद्ुत्तरं पठति ॥९० ॥ वैद्युतेनैव ततस्तच्छतेः ॥ ६ ॥ विद्यत्प्राप्तेरुध्वं विद्युदननतरमवस्थितेन पुनः। केनाप्यमानवेनातिवाह्यमाना हि वरुणलोकादौ ॥ ९१ ॥ ते बह्मलोकमेतं गच्छन्तीत्येवमत्र निष्कर्षः । विदयुल्लोकप्राप्तो वैद्युत इति गृह्यते हि सूत्रेऽस्मिन् ॥ ९२॥ तान्वैद्यतादिति श्रुतिवाक्ये वैद्युतपदं हि लोकपरम्। तान्वैद्यताद्द्ि लोकादमानवोऽम्पेत्य गमयति बह्म ॥९३॥ इत्येतच्छतिवाक्याद्मानवस्यैव गमयितृत्वमिह। वरुणाद्यस्तु तस्यैवानुपरोवेन वा सहायेन ॥ ९४ ॥ केनापि हेतुना ते भवन्त्यनुग्राहका इति ज्ञेयम्। तस्मादिहार्चिराद्य एते खल्वातिवाहिका एव ॥ ९५ ।। कार्यं बादरिरस्य गत्युपपत्तेः ॥।७॥ एवं निरूप्य मार्ग गन्तव्यं ब्रह्म चिन्तयत्यधुना। श्रुतिवाक्येन स एतान्ब्रह्म गमयतीति दर्शितं तत्र ॥९६॥ ५१

Page 406

४०२ सुब्ह्मण्यविरचिता- [४ च्तुर्थाध्यायस्य-

किं कार्यमपरमेव ब्रह्म गमयतीह किं परं ब्रह्म। यञ्चाविकृतं सर्वोपनिषत्प्रतिपाद्यमिति तु संदेहः ॥९७॥

कायं सगुणं ब्रह्मैवैनान्गमयत्यमानवः पुरुषः ॥९८॥ इति मन्यते हि बादरिराचार्यो युक्तमेतदेव यतः। गन्तव्यत्वमिहोक्तं तविदं कार्यस्य नेतरस्य स्यात् ॥ ९१॥ तस्य प्रदेशवत्वात्सर्वगतत्वात्परात्मनो नेयमू। गन्तव्यता गतिर्वा गन्तर्णा प्रत्यगात्मरूपत्वात् ॥ १००॥ विशेषितत्वाच्च ॥८ ॥

इति निर्दिश्य च लोकाञ्ध्रुतिरपरा ब्रह्मणोऽस्य लोकेषु॥१०॥ ते शाश्वतीः समा निवसन्तीति यतो विशेषमुपदिशति। अत इह या गतिरुक्ता सा कार्यब्रह्मगोचरैव स्यात् ॥ १०२ ॥ बहुवचनलोकशब्द्स्तथेव चाऽडधारसस्तमीश्रवणम्। नैव परस्मिन्ब्रह्मणि कथमप्यवकल्पते हि कार्ये तु ॥ १०३ ॥ तद्वस्थाभेदेन च भेदात्संभवति सर्वमेवैतत्। या चेह संनिवेशविशिष्टा सविकारभोगभूमि: स्यात् ॥१०४।। लोकश्रुतिरप्येषा तस्यामेवाऽडखसी न चान्यत्र। ब्रह्मैव लोक इति किल गौणी ह्यन्यत्र तदिदमन्याय्यम् ॥१०५॥ किंच परस्मिन्बह्मण्याधाराधेयभावनिर्देशः। असमञ्जस एवातो गमनमिद कार्यविषयमेव स्यात् ॥१०६॥ ननु नायं कार्यपरो नपुंसकब्रह्मशब्द इह भवति। कारणपर एव यतः समन्वये दर्शितोऽयमिति चेन्न ॥१०७ ॥ सामीप्यातु तव्यपदेशः ॥ ९॥ अत्र तुशब्दो योऽसावुक्ताशङ्कानिवर्तनार्थ: स्थात्। कार्यस्यापि ब्रह्मण इह च परब्ह्मसंनिधानेन॥१०८॥ स्याद्बह्मशब्दयोगो नात्र विरोधो मवेत्कुतश्विविदृपि। गन्तव्यत्वन्यायादाधाराधेयभावनिर्देशात्॥१०९॥ लोकबहुत्वश्ुत्या लक्षणया स खलु कार्यपर एव। ब्रह्म परं यच्छुद्धं तदिह किलोपाधियोगमात्रेण॥११०॥

Page 407

तृतीय: पाद: ३ ] माष्यार्थरत्नमाला। ४०३

अपरं ब्रह्मेदमिति व्यपदिश्यत एव केवलं शास्त्रे ॥ १११ ॥ नन्वत्र कार्यमेव बह्म प्राप्यं यदा भवेत्तेषाम्। यद्नावृत्तिभ्रवणं तत्कथमेषामिहोपपद्येत ॥११२॥ न ह्यन्यत्र परस्माद्ब्ह्मण एषां भवेदनावृत्तिः । भ्रुतयोऽत दर्शयन्त्यर्चिरादिमार्गेण निर्गतानां हि॥ ११३ ॥ एतेनेति च तेषामिति च तयोध्वमिति चाप्यनावृत्तिः । तस्माङ्वह्मपदेन हि कार्यग्रहणं न युक्तमिति चेन्न ॥ ११४ ॥ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्॥१०॥ कार्यब्रह्मपदेऽस्मिललॅयोन्मुखे तत्पदं गता एते। तत्रोत्पन्नज्ञाना हिरण्यगर्भेण तद्धिनाथेन ॥११५॥ प्रतिपद्यन्ते शुद्धं विष्णोः परं पदं हि तेन सह। एवं क्रममुक्तिरनावृत्तिश्रृतिवाक्यदर्शिता भवति ॥११६ ॥ स्मृतेश्रव ॥। ११ ।। या ब्रह्मणा सहेति स्मृतिरिह साऽप्येतमर्थमुपदिशति। तस्मात्कार्यब्रह्मपाप्तिपरैव हि गतिश्रुतिः सर्वा । ११७॥ आशङ्य पूर्वपक्ष यमत्र सिद्धान्त एप निर्दिष्टः। कायं बादरिरित्येतत्सूत्रेण प्रदृर्श्यते सपदि ॥ ११८॥ परं जैमिनिर्मुख्यत्वात् ॥ १२॥ इह जैमिनिराचार्य: परमेव बरह्म गमयतीत्येवम्। ब्रह्मपद्स्य परस्मिन्मुख्यत्वान्मन्यते हि सिद्धान्तम् ॥११९॥ ब्रह्मपदस्य च मुख्यालम्बनमेतद्भवेत्परं ब्रह्म। अपरं गौणं तत्र च मुख्ये संप्रत्ययो भवेन्न्याय्य: ।। १२० ।। दर्शनाच॥ १३ ॥ गतिपूर्वकमसृतत्वं तयोर्ध्वमायन्निति श्रुतिर्बूते। अमृतत्वं च परस्मिन्बह्मण्युपपद्यते न कार्येडस्मिन् ॥ १२१॥ कार्यस्य भवति नाशो यतः श्रुतिर्मरत्वमल्पमुपदिशति। परविषयैवैतेषां कठवल्लीषूपदिश्यते हि गतिः ॥१२२ ॥ न हि विद्यान्तरपरता कठवल्लीषूपलभ्यते क्वापि। अन्यत्रेति च तत्र प्रक्रान्तं ब्रह्म मवति परमेव।१२३ ॥

Page 408

४०४ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

ब्रह्मश्रुतेः प्रकरणादृपि तद्वदिहामृतत्वलिङ्गाच्च। गतिरेषा परविषया स्यान्नापरगोचरा कथंचिदृषि॥१२४॥ न च कार्ये प्रतिपत्त्यभिसंधिः ॥ १४ ॥ अपि च प्रजापतेरिदमहं सभां वेश्म तत्प्रपद्य इति। प्राणवियोगावसरे संकल्पः स्यादुपासकस्येति॥१२५ ॥। कार्यप्राप्त्यभिसंधिश्रुतेर्न गन्तव्यमत्र परमिति चेतू। आकाशो हेत्यादौ प्रकृतत्वाङ्गह्मणः परस्थैव ॥ १२६॥ तद्वद्यशोऽहमित्यादिभिश्र सर्वात्मकत्वनिर्देशात्। यस्य च नाम महद्यश इति हि यशोनामताप्रसिद्देश्व ॥१२७ ॥ वेइ्मप्राप्तिश्षेयं मवति परप्राप्तिलक्षणैवात्र। वेश्मप्रतिपत्तिरियं कथमिह गतिपूर्विका भवेदिति चेत् ॥१२८॥ अपरब्रह्मणि वेश्मप्रतिपत्तिरियं हि हार्दविद्यायाम्। श्रुत्यैव समुपदिष्टा सेयं किल तदपराजितेत्येवम्॥१२९ ॥ तत्र च विद्याहीनैर्बह्मण एषाऽपराजिता हि पुरी। प्रभुणा हिरण्यगर्भेणैव च रचितं हिरण्मयं वेश्म ॥ १३०॥ इत्यादि दर्शितं तत्पाप्तिरियं दर्शिता हि गतिपूर्वा । परविषग्रेऽपि च वेश्मप्रतिपत्तिश्रुतिरियं समाना हि। १३१॥ तस्मादिहापि तस्या गतिपूर्वकतैव भवति युक्ततमा । किंचान्र पद गतावित्यस्मादृपि धातुपाठसामर्थ्यात्॥१३२॥ मागापिक्षा वेश्मप्रतिपत्तावत्र भवति युक्तैव। तस्माइत्र गतिश्रुतयः सर्वा अपि भवन्ति परविषयाः ॥१३३॥ इति पक्षान्तरमेतौ द्वावाचार्येण सूत्रितौ पक्षी। एको गत्युपपत्यादिभिरपरो मुख्यतादिभिश्रेह ॥ १३४ ॥ मुख्यत्वादीनाभासयितुं गत्याद्यः समर्थाः स्युः । न तु गत्यादीन्मुख्यत्वादय इत्याद्य एव सिद्धान्तः ।। १३५॥ व्याख्यातोऽस्मामिरसौ द्वितीय इह पूर्वपक्ष एव स्यात्। मुख्यस्यार्थस्यैव ग्रहणमसत्यपि च संभवे कर्तुम् ॥१३६॥ उचितमिति कश्विदाज्ञापयिता नेहोपलभ्यते क्वापि। उपपद्यते तदेतत्परविद्याप्रकरणोपदिष्टमपि॥ १३७॥। विद्यान्तरानुशीलितगत्यभिधानं स्तुतिप्रकर्षार्थमू। विद्यासंबद्ध सुषुस्नास्तृत्यर्थं यथैव विष्वगिति॥ १३८।।

Page 409

तृतीय: पाद. ३ ] माष्यार्थरत्नमाला। ४०५

नाड्यन्तरसंकीर्तनमिह परविद्यास्तुतिप्रकर्षार्थम्। तत्प्रकरणेपि चापरविद्याश्रयगतिकथेयमुचितैव ॥ १३९॥ निरतिशयफला हीयं परविद्यागतिमिहान्तरेणापि। गतिसाध्यमपरविद्याफलमस्याश्वान्तरेव भवतीति ॥१४० ॥ स्तुतिलामार्थं तत्स्यान्न तु परविद्यावलम्बि तन्द्वति। गन्तव्यस्य तथा बहुवचनान्तस्यापि लोकशब्दस्य । १४१॥ अपि दिव्यगन्धभोगश्लुतेश्र संकल्पतोऽवि परविषये। मुख्यार्थस्यैतस्यायोगाद्गतिरपरगोचरैव स्यात् ॥ १४२॥ या च सभा वेश्म प्रतिपद्य इति ्ुतिरिहोपदिष्टाऽसौ। कार्यपराऽत्र श्रुत्या वाक्येन प्रकरणमिह बाध्यम् ॥ १४३॥ सार्वात्म्यमपि यदुक्तं यशोऽहमित्यादिना हि तदपीह। ब्रह्मण्यपरस्मिन्नप्युपासनार्थं हि युक्तमेव स्यात् ॥१४४॥ यद्वच्च सर्वकर्मत्वादिनिदेशा भवेयुरन्यत्र। तस्मादृत्र गतिश्रुतयः सर्वा अपरगोचरा एव ॥। १४५॥ केचित्तु पूर्वसूत्राणि स्युः किल पूर्वपक्षसूत्राणि। उत्तरमत्राणि पुनर्भवन्ति सिद्धान्तविषयसूत्राणि ॥१४६ ॥ इति खल्विह व्यवस्थामनुरुध्य गतिश्रुतिरहिं परविषयाः। सर्वा अपि प्रतिष्ठापयन्ति तच्चेदमनुपपन्नमिह ॥१४७॥ सर्वगतं सर्वान्तरमपि यत्सर्वात्मकं परब्रह्म। यत्साक्षादृपरोक्षाङ्वह्म य आत्मेतिवाक्यनिर्दिष्म् ॥१४८॥

निर्धारितस्वरूपं ब्रह्म कथ वेह मवति गन्तव्यम् ॥१४९॥ ननु गतमपि गन्तव्यं भवति हि देशान्तरादियोगेन। पृथिवीस्थ एव पृथिवीं देशान्तरयोगतो यथा वजति ॥१५० ॥ एवं बाल: कालान्तरयोगादात्मभूतमेवैतत्। वार्धकमनन्य एव व्रजति तथा ब्रह्मणोऽप्यनन्यस्य ॥ १५१॥ तस्य गतस्यापि च गन्तव्यत्वं सर्वशक्तियोगेन। इति चेन्मैवं ब्रह्म प्रतिषिद्धाखिलविशेषमिह यस्मात् ॥ १५२॥ निष्कलमेतन्निष्क्रियमपि शान्तं तज्च भवति निरवद्यम्। अस्थलमनण्वित्यादिश्चतिगेयं स्मृतिष्वपि प्रथितम् ॥१५३॥

Page 410

४०६ सुब्रह्मण्यविरचिता- [ ४ चतुरथांध्यायस्य-

कथमीदृशे परस्मिन्कल्पयितुं शक्यते विशेषोऽयम। नैतच्च भप्रदेशवयोन्यायेनात्र भवति गन्तव्यम् ॥१५४॥ भूवयसो: किल देशविशेषावस्था विशेषयोगेण। गन्तव्यतोपपन्ना भवति प्रादेशिकत्वसंपतत्या ॥ १५५॥ ननु जगतो जन्मस्थितिलय हेतुत्वश्रुतेः परं ब्रह्म। स्यात्सकलशक्तियुक्तं प्रमवति गन्तव्यमेतदिति चेन्न ॥१५६ ॥ इह च विशेषनिराकरणश्रुतिवचनानि निरवकाशानि। जगदुत्पत्त्यादिश्ुतिवाक्यान्यपि खलु तथेति चेन्भैवम् ॥१५७ ॥ एकत्वप्रतिपादनपराणि सर्वाणि सृष्टिवाक्यानि। यस्मान्मृदादिद्टष्टान्तैरेतैर्व्ह्मणोऽस्य सत्यत्वम् ॥१५८॥ एवं सर्वस्यैव हि विकारजातस्य चानृतत्वमपि। प्रतिपाद्यच्च शास्त्र कथमुत्पत्यादिपरमिह प्रभवेत्॥१५९ ॥ नन्वत्र निर्विशेषश्चुतिशेषत्वं कुती भवेदेषाम। उत्पत्तिश्रुतिवचसां व्यत्यासो नेह भवति कुत इति चेतू॥ १६० ॥ इह च विशेषनिराकरणश्चुतयः खलु परं निराकाङ्क्षाः । एकत्वमात्मनोऽस्य च नित्यत्वमजत्वमपि च शुद्धत्वम् ॥१६१॥ यद्यवगतं तदा खलु नैवाSडकाङ्क्षोपजायते भूय:। पुरुषार्थपरिसमाप्त्यवधृतिरेव किलोपजायते तत्र ॥१६२।। श्रुतयोऽपि तत्र को मोहः कः शोक इति बोधयन्त्येतम्। सार्वात्म्यभावमेव हि विदुषोऽप्यु(षस्तु)व्यनुभवादिकं च तथा। मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यतीत्यादेः। श्रुतिवाक्याच्च विकारानृताभिसंधी च निन्दितौ मवतः ॥१६४॥ तेन विशेषनिराकरणश्चुतिवचसां न चान्यशेषत्वम्। उत्पत्त्यादिपराणि श्रतिवचनानीह यानि तेषां तु ॥ १६५॥ न निराकाङक्षार्थप्रतिपादनसामर्थ्यमिह करथंचिदृपि किंतु निषेध्यार्पकताद्वारेण निषेधवाक्यशेषत्वम्॥१६६।। फलवत्सानिध्ये नाफलं तदङ्गमिति दृश्यते न्यायः। न्यायाज्च केवलादिह न हि तच्छेषत्वमुच्यते किंतु॥ १६७।

तस्मिन्कारणरूपे ब्रह्मणि हि तदेतदिह शुङ्गम् ॥१६८॥

Page 411

तृतीय: पादः ३ ] माष्यार्थरत्नमाला। ४०७

जगदात्मकमुत्पन्नं नेदममूलमिति तदिद्मारभ्य। अन्विच्छतेन शुङ्गेनैव च सन्मूलमित्युदर्के हि॥ १६९॥ विज्ञेयत्वं सत एकस्य जगत्कारणस्य दर्शयति। अन्यत्रापि यतो वेत्यादौ जन्मादिकारणस्यास्य॥१७० ॥ ब्रह्मण एकस्यैव हि विज्ञेयत्व प्रदर्शितं तस्मात्। उत्पत्तिश्रुतिव च सामैकात्म्यावगममान्रपरतैव । १७१ ॥ नानेकशक्तियोगो ब्रह्मणि परमार्थतः कथंचिदृपि। गन्तव्यता परस्य ब्रह्मण इह नोपपद्यते तस्मात् ॥ १७२ ॥ अपि च न तस्य प्राणा उत्क्रामन्तीति या श्रुतिः सा हि। उत्क्रान्तिं प्रतिषिध्य परस्मिन्ब्रह्मण गति निवारयति ॥१७३॥ स्पष्टो ह्येकेषामित्यत्र व्याख्यातमेतदृखिलमपि। गतिरत्र कल्प्यते यदि गन्ता जीवः परात्मनस्तस्य ।। १७४॥ गन्तव्यस्यावयवोऽथवा विकारोऽथवा भवेदन्यः। आत्यन्तिकतादात्म्ये न हि गमनं मवति कुत्रचिल्लोके।। १७५॥ यद्येकदेश एव हि जीवस्तर्हयेकदेशिनस्तेन। नित्याप्तत्वात्पुनरिह गमनं नैवोपपद्यते तदिदम् ॥१७६ ॥ ब्रह्मण्यपि च परस्मिन्यदैकदेशैकदेशिता ताहै। निशवयवत्वं तस्य व्याहन्येत श्रुतिस्तदर्थपरा ॥१७७॥ तुल्यं विकारपक्षेऽप्येतन्न घटो मृदात्मतां हित्वा। अवतिष्ठते कदाचित्यागे वा तस्य शून्यतापत्ति: ।।१७८॥ यदि च विकारोडवयवो वा जीवस्ताहि तद्विशिष्टस्य। परमात्मनः स्थिरत्वात्संसारगतिश्र न सुलभा तस्य ।। १७९।। न ह्यचलबृहदुपलयोर्मण्डूकबृहच्छिलान्तरवयवयोः । चलनं कदाचिद्पि वा स्यादस्माक त्वनाद्यविद्यातः ॥। १८०।। नानोपाधिवशेन हि गत्यागतिविभ्रमोऽयमा मोक्षात्। यदि च परस्मादस्माज्ीवोऽसावन्य एव मवति तदा॥ १८१॥ सोडणुर्व्यापी मध्यमपरिमाणो वा यदा मवेद्यापी। आकाशादीनामिव गमनमसंभावितं तदा तस्य ।। १८२।। यदि मध्यमपरिमाणस्तस्यानित्यत्वमपरिहायं स्यात्। यदि चाणुर्जीवः स्यात्कृत्स्नशरीरगतवेदना न स्यात् ॥१८३॥।

Page 412

४०८ सुश्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तस्य च मध्यमपरिमाणत्वमणृत्वं च परिहृतं पूर्वम्। तस्य परस्मादन्यत्वे तत्त्वमसीति शास्त्रबाधश्र ॥। १८४॥ योऽसौ दोषस्तुल्यः स विकारावयवपक्षयोरपि च। तद्वदनन्यौ हि विकारावयवी तेन नैष दोष: स्यात् ॥ १८५॥ इति चेत्तथाऽपि मुख्यैकत्वानुपपत्तिरत्र दुर्वारा। विष्वपि पक्षेष्वस्यानिर्मोक्षापत्तिरपि च दुर्वारा॥१८६ ॥ संसार्यात्मत्वापरिहारात्तत्परिह्वतौ च तस्य पुनः। स्याच्च स्वरूपनाशस्तात्विकजीवात्मभावनाशेन।। १८७॥। ब्रह्मात्मत्वं तात्विकमस्मामिरिव त्वया हिजीवस्य। अभ्युपगतं भवेद्यदि संसृतिनाशेऽपि नो विनश्येत्सः॥१८८॥ ननु किं ब्रह्मात्मतया संसाराभाव एव मोक्ष: स्यात्। स च खलु कर्माभावात्सेत्स्यति किमनेन तत्त्वबोधेन ॥ १८९॥ इति किल कर्मजडानामाशक्का सा निरस्यते सपदि। कर्माणी हानुष्ठीयन्ते नैमित्तिकानि नित्यानि ॥ १९० ॥ दुरितक्षयाय काम्यानि निषिद्धानि च परिह्नियन्ते हि। स्वर्गस्य च नरकस्यानवापये प्रकृतदेहभोग्यानि॥१९१॥ कर्माण्युपभोगेन क्षप्यन्ते ब्रह्मतां विनैवास्य। प्रकृते देहे पतिते देहान्तरयोगकारणाभावात् ॥१९२॥ स्वात्मावस्थितिलक्षणकैदल्यं सेत्स्यतीद्वृशस्येति। यज्जल्पितं हि कैश्चित्तद्सद्यस्मात्प्रमाणामेह नास्ति ॥१९३॥ न ह्येतत्केनापि च शास्त्रेण निरूपितं हि मोक्षार्थी। इत्थं समाचरेदिति बुद्ध्यैव हि तर्कितं मवेदेतत्॥ १९४ ॥ येन च कर्मनिमित्त: संसारोऽतो निमित्तविरहेण। न भविष्यतीति नैतत्तर्कयितुं शक्यते हि केनापि ।। १९५ । यस्मान्निमित्तविरहो न शक्यते ज्ञातुमत्र केनापि। इष्टानिष्टफलानि हि जात्यन्तरसंचितानि कर्माणि ॥ १९६॥ एकैकस्य च जन्तो: संभाव्यन्ते बहुप्रकाराणि। इह च विरुद्धफलानां तेषां युगपत्फलोपभोगस्य ॥१९७॥ अत्यन्तदुर्लभत्वाल्लब्धावसराणि कानिचिच्चेदम्। जन्म किल निर्मिमते पराणि कालान्तरं प्रतीक्षन्ते॥ १९८॥

Page 413

तृतीय: पाद: ३] माष्यार्थरत्नमाला। ४०९

तेषामवशिष्टानां सांप्रतमोगेन यापनायोगात्। न यथावर्णितचरितस्यापि शरीरे हि सांप्रते पतिते ॥ १९९॥ देहान्तरयोगनिमित्ताभावः शक्यते विनिश्रवेतम्। तद्य इहेति श्रुतयः प्रथयन्ति हि कर्मशेषसन्भ्ावम् ॥२०० ॥ स्मृतयोऽपि ततः शेषेणेत्याद्यास्तद्वदेव नन्वत्र। तत्क्षेपकाणि नित्यान्यपि किल नैमित्तिकानि कर्माणि॥ २०१॥ मेवं विरोधविरहात्सति च विरोधे परस्परं तेषाम्। क्षेप्यक्षेपकभावो भवेन्न चेहास्ति स च विरोधोडन् ॥ २०२॥ न हि संचितसुकृतानां नित्यैर्नैमित्तिकैविरोधोडस्ति। तेषा परस्परं किल विशुद्धिरूपत्वमवगतं शास्त्रात् ॥ २०३॥ दुरिताना क्षपणं स्यादविशुद्धितया ततो विरोधेन। देहान्तरयोगनिमित्ताभावस्तावता कथं सिध्येत् ।।२०४।। देहान्तरस्य संचितसुककृतनिमित्तस्य संभवात्तत्र। निःशेषतश्र दुरितस्यापि क्षपणं हि दुरवगममेव ॥ २०५ ॥ संचितपुण्यापुण्याभ्यां पुनरेतस्य जन्म दुर्वारम्। न च नित्यानुष्ठानाद्दुरितानुत्पत्तिमात्रमेव स्यात् ॥ २०६॥। न पुनः कालान्तरफलमिति निश्चेतुं प्रमाणमिह किंचित्। दुरितक्षपणार्थेऽपि च नित्ये पश्चात्फलान्तरं मवति ॥२०७॥ इति तु स्मरति यथाऽडम्रे निमित्त इत्यादिनैतमेवार्थम्। आपस्तम्बस्तत्र च फलार्थमारोपिते यथैवाऽडम्रे ॥ २०८॥ छायागन्धावुत्पद्येते ह्यनु तद्वदेव धर्ममिमम्। क्रियमाणमर्थकामावुत्पद्येते किलान्विति प्रोक्तम् ॥ २०९ ॥। -

असति च सम्यगज्ञाने काम्यप्रतिषि्धवर्जनं तदिदम्। सर्वात्मना भवेदिति न केनचिच्छक्यते प्रतिज्ञातुम् ॥२१०॥ यस्मादतिकुशलानामपि सूक्ष्मो दृश्यतेऽपराधोडन्र। काम्यादिकर्मणा स्यान्निश्रयविरहेऽपि संशयस्तत्र ॥ २११॥ तेन निमित्ताभावो न केनचिच्छक्यतेऽत्र निश्चेतम्। श्रुत्यभिगम्यं ब्रह्मात्मत्वं यदि नाम्युपयते तारहै ॥ २१२॥ कर्तृत्वभोक्तृतादिस्व मावकस्याSSत्मनोऽस्य कैवल्यम्। कथमिह यथोक्तचरितस्याप्याकाङूक्षितुमिदं मवेच्छक्यम्॥२१३।। ५२

Page 414

४१० सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

अग्न्यौष्ण्यवत्स्वभावः परिहतुं शक्यते न केनापि। कर्तृत्वभोक्कृतादेः कार्यमनर्थो न शक्तिमात्रं स्यात् ॥ २१४॥ इह शक्तिमात्रसद्भावेऽपि च कार्यस्य तस्य परिहारात्। उपपन्नो मोक्षोऽसावित्यपि नैवेह शङ्कितुं शक्यम् ॥२१५॥ शक्तयवशेषे कार्यप्रसवो लोके यतश्र दुर्वारः। ननु शक्तिरिह निमित्तान्तरनिरपेक्षा न कार्यमारमते ॥ २१६ ॥ अत एकाकिन्येषा स्थिताऽपि नैवापराध्यतीत्यपि न। शक्तयात्मना निमित्तानामपि सर्वत्र नित्यसंबन्धात् ।२१७H तस्मादात्मनि कर्तृत्वादौ स्वाभाविके सति ह्यसति। विद्यैकसमधिगम्ये ब्रह्मात्मत्वे कदाचिदप्यस्य ॥ २१८॥ मोक्षं प्रत्याशाऽपि हि मवति परं दुर्लभैव न हि सुलमा। भुतिरपि नान्य: पन्था विद्यत इत्यादिका हि दर्शयति ॥२१९॥ ज्ञानादन्यस्त्वपरो विमोक्षमार्गो न कश्रिदित्येवम्। ननु जीवस्य परस्मादनन्यता यदि तदा विलुप्येत ॥ २२० ॥ व्यवहारोडयं प्रत्यक्षादीनामप्रवृत्तिरिति चेन्न। प्रागात्मतत्त्वबोधात्स्वप्रव्यवहारव द्भवेदेषः ।।२२१।। शास्त्रमपि यत्र हि द्वैतमिवेत्याद्यप्रबुद्धविषये हि। प्रायः प्रत्यक्षादिव्यवहारं सकलमेतमनुव्ण्य ॥ २२२ ॥ यत्र त्वन्पेति पुनः प्रबुद्धविषय प्रवक्ति तदभावम्। तस्माद्र परब्रह्मविदो गन्तव्यतादिविज्ञानम्॥ २२३॥ बाधितमेवेत्यत इह न केनचिद्गतिरियं समर्थ्येत। तर्हि गतिश्रुतय इमाः किंविषया इति न शङकनीयमिह ॥२२४॥ या सगुणपरत्रह्मपरा विद्यागतिरपि च भवति तद्विषया। कव चिदिह पञ्चाग्निपरां विद्या प्रक्रम्य गतिरुपन्यस्ता ॥२२५॥ क्शचिदृपि पर्यक्कूपरां वैश्वानरगोचरां क्वचिद्विद्याम्। यत्र पुनर्बह्मैव प्रकृत्य गतिरियमुदाहता वाक्ये॥। २२६॥ प्राणो ब्रह्मेत्यादौ तथाऽथ यदिदिमिति दहरवाक्येऽपि। तत्रापि वामनीत्वादिभिस्तथा सत्यकामताद्यैक्र ।। २२७।। तैस्तैर्गुणैहि सगुणस्यैवोपास्यत्वमिति गतिर्युक्ता । एवं न परब्रह्मणि गतिरेषा आव्यते क्वचिज्ञापि॥२२८॥

Page 415

तृतीय: पाद: ३] माष्यार्थरत्नमाला। ४११

किंतु गतिप्रतिषेध: श्रूयत इह केवलं न तस्येति। ब्रह्मविदाप्नोतीत्यत्राऽSप्रातिर्यद्यपीह गत्यर्था ।। २२९।। एवमपि वर्णितेन न्यायेन गतेरसंभवादत्र। यदनाद्यविद्यया परिकल्पितमेतद्दि नामरुपादि ॥ २३०॥। तत्प्रविलयात्स्वरूपप्रतिपतत्यर्था भवेदिहाऽडप्रोतिः। बह्मैव सन्नितिश्रुतिवाक्य इवाऽडगोतिरीदृशी मवति॥ २३१॥ अपि च गतिः परविषया निरुप्यमाणा प्ररोचनाय स्यात्। अनुचिन्तनाय वा स्यान्न ब्रह्मविदः प्ररोचन तदिह ॥ २३२॥ गतिवाक्येनाभिहितं यस्माद्विद्यासमर्पितेनैव। स्वगतेनैव स्वास्थ्येनाव्यवधानेन तस्य संसिद्धेः ॥२३३॥ इह नित्यसिद्धनिःश्रेयससंस्फुरणाद्य एष सिद्धफलः। आत्मावगमस्तत्र च गत्यनुचिन्ताफल न किचिद्षि।। २३४। तेनाषरविषयैव हि गतिः परापरविवेचनाभावात्। आरोप्यते परस्मिन्गतिरेषा निर्विशेषचिन्मात्रे ॥ २३५॥ द्वे बह्मणी किमेते परमपरं चेति बाढमेवं हि। श्रुत्यैव दर्शितं खल्वेतद्वै सत्यकाम इत्यत्र ॥ २३६॥ उपदिश्यते हि यच्चाविद्याकृतनामरूपनिर्मुक्तम्। तद्धि परं ब्रह्म स्यात्तदेव किल नामरूपभदेन ॥ २३७॥ उपदिश्यते यदा पुनरुपासनाय हि मनोमयादिपदैः। तध्यपरं ब्ह्म स्थान्न चाद्वितीयश्ुतेर्विरोध इह ॥ २३८॥ येनाविद्याकल्पितनानोपाधिभिरिह प्रसक्तमिदम्। अपरत्रह्मोपासनमित्यविरोध: प्रपश्चितः पूर्वम् ॥२३९.॥ तत्संनिधौ श्रुतं यज्जगदैश्वर्यादिलक्षणं च फलम्। संसारगोचरं तद्येनाविद्या हि तत्र न निवृत्ता ॥ २४० ॥ देशविशेषकृत तत्तत्प्राप्त्यर्थं हि गमनमविरुद्धम्। सर्वगतत्वेऽप्यात्मन आकाशस्येव करकगमनेन ।। २४१॥

तद्गुणसारत्वादित्यादिषु सूत्रेष्वतोऽत्र न विरोकः ॥। २४२।। तस्मात्कायं बादरिरित्ययमेवेह भवति सिद्धान्तः । पक्षान्तरं परं जैमिनिरिति मेधाविकासनायैव ॥२४३॥

Page 416

४१२' सुबह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

अप्रतीकालम्बनान्नयतीति बादरायण

मवतीयमपरविषया गतिर्न चैषा कदाऽपि परविषया। एतावदत्र वरणितमिह किल संदिह्यते हि पुनरपरम् ॥ २४४॥ प्रापयति किमिह सर्वान्कार्यालम्बानमानवः पुरुषः । तं ब्ह्मलोकमविशेषेणाथ स कांश्रिदेव नयतीति ॥२४५॥ अत्रैतदेव युक्तं विदुषामविशेषतो हि सर्वेषाम्। स्यादन्यत्र परस्माद्गतिरिति यस्मात्मपश्चितं पूर्वम् ॥२४६॥ अनियमसूत्रे विद्यान्तरेष्वपीयं गतिः समानेति। इत्याशङ्कां निरसितुमत्र विशेषं तमेतमुपदिशति ॥२४७॥ से च प्रतीकदृष्टय इह तान्हित्वा त्वमानवः पुरुष: । अन्यानेव विकारालम्बान्सर्वन्सि एष लोकमिमम् ॥ २४८॥ नयतीति बादरायण आचार्यो मन्यते न चैवमिह। मार्गोडयमप्रतीकोपासकविषयो न सर्वविषय इति ॥२४९॥ दोषो य उमयथामावः स्यात्सोऽनियमसूत्र इति वाच्यम्। अनियमनयः प्रतीकव्यतिरिक्तोपासनेषु भवति परम् ॥२५० ॥ यो यध्द्यायति स हि खलु तत्प्राप्रोतीति तत्क्रतुन्यायः। स ह्यत्रोमयथाभावस्य च हेतुः समर्पको मवति ॥२५१॥ बह्मक्तुरासीदृत्यैश्वर्यं ब्राह्ममिति हि युक्तमिदम्। दर्शयति च श्रुतिस्तं यथा यथोपासते तरथवेति ॥२५२॥ ब्रह्मक्रतुत्वमिह न प्रतीकविषयेऽस्त्युपासने क्वापि। नन्वब्रह्मकतुरपि योऽति(हि)ब्ह्मेति दर्शयत्येषा ॥ २५३॥ पञ्चाग्न्युपासनायां श्रुतिरेनान्ब्रह्म गमयतीत्याद्या। इति चे त्तथाऽपि तत्र प्रत्यक्षश्रुतिबलेन बाधोऽस्य ॥२५४ ॥ यत्र प्रत्यक्षश्रुतिरेवं नैवोपलभ्यते तत्र। ओत्सर्गिकेन तत्क्रतुनयेन निर्णीयते हि तत्प्राप्तिः ॥ २५५॥ ये च ब्रह्मकतवस्तेषामेवेति नेति चान्येषाम्। विशेषं च दर्शयति ॥ १६ ॥ शर्दयति किंव नामाद्युपासनेषु प्रतीकविषयेषु २५६ ।।

Page 417

चतुर्थ: पादः ४ ] माष्यार्थरत्नमाला। ४१३

पूर्वस्माच्च परस्मिन्नुपासने फलविशेषभेवं हि। यावन्नाम्तो गतमित्याद्या श्ुतिरत्र फलविशेषोऽयम् ॥२५७॥ उपपद्यते किलोपास्नीनामासा प्रतीकतन्त्रत्वात्। न ब्ह्मतन्त्रतायां फलभेदो ब्रह्मणोऽविशिष्टत्वात् ॥२५८॥ तस्मादिह प्रतीकालम्बानां नेतरै: फलं तुल्यम्। गमनमपि मवति तेषां विद्युल्लोकावसानमिति सिद्धम ॥ २५९॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥ २६० ॥ तत्र हि तृतीयपादे सूत्रार्थो यश्र माष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो मवतु सोऽयमनवद्यः ॥ २६१॥ इति श्रीमाष्यार्थरत्नमालायां चतुर्थाध्यायस्य तृतीयः पाद: ॥३ ॥

अथ चतुर्थपादः।

ब्रह्मोपास्तिपराणां कार्यब्रह्माप्तिरभिहिता पूर्वम्। संप्रत्यैश्वर्यविशेषं तेषां ब्ह्मलोकसंभूतम्॥१॥ पादोत्तरभागेण प्रदर्शयिष्यंस्तमेतमादी हि। अभ्यर्हितपरविद्याफलभूतं ब्रह्मभावमुपदिशति ॥ २॥ संपयाऽडविर्भावः स्वेन शब्दात् ॥ १॥ श्रुतिरियमाम्नायत इह किलैवमेवैष संप्रसाद इति। तत्र किल संप्रसादो जीव: संसारकलुषितः पूर्वम्॥३॥ दे हेन्द्रिय संघातादस्मात्प्रविविच्य तमिममात्मानम्। साक्षात्कृत्यानन्तरमपास्तसंसारदु:खपरितापः ॥४॥ प्रद्योतमानपूर्णानन्दात्मेवावतिष्ठते स इति। उपदिष्ट्मत्र च स्वपदस्य स्वस्वीयबोधकत्वेन । ५॥। किंवाडन्र देवलोकादिष्वयमागन्तुकेन केनापि। रूपविशेषेण पुनर्यथाऽभिनिष्पद्यते तथा किंवा ॥ ६ ॥ आत्मस्वरूपमात्रेणैवायमितीह भवति संदेहः। युक्तं तत्र स्थानान्तरेष्विवाऽडगन्तुकेन केनापि।।७ ॥

Page 418

४१४ सुब्रह्मण्य विरचिता- [४ च्तुर्षाध्यायस्य-

रूपेण स्याद्मिनिष्पत्तिरितीदं यतोऽस्य मोक्षस्य। फलताप्रसिद्धिरभिनिष्पत्तिरपीयं मनेदिहोत्पत्तिः ॥।८।। यदि चेत्स्वरूपमात्रेणैवैषा स्यादिहाभिनिष्पत्तिः । न विभाव्यते कुतस्तत्पूर्वदशासु स्वरूपसन्भ्ावात्॥९॥ तस्मादभिनिष्पद्यत इह केनचिदृपि विशेषरूपेण। एवं प्राप्ते बूते स केवलेन स्वरूपमात्रेण॥ १० म आविर्भवतीति यतः स्वेनेति हि हश्यते स्वशब्दोत्र। आगन्तुकेन चेद्भिनिष्पत्तिस्तत्र हि स्वशब्देन । ११ ॥ रूपविशेषणमेतन्भ्वेदयुक्तं ननु स्वकीयपरः। सोऽयं स्वशब्द इति चेन्न तस्य वचनाभिधेयताविरहात् ॥१२॥ येन च रुपेणासावभिनिष्पद्येत भवति तस्थैव । आत्मीयत्वं तत्र स्वेनेति विशेषणं भवेद्विफलम् ॥१३ ॥ स्यादात्मवचनतायामर्थवदेतद्विशेषणं तेन। स्वेनाऽडत्मना विभाव्यत एप न चाडडगन्तुकेन रुपेण ॥ १४ ॥ अभिनिष्पद्यत इति ननु विशेष इह नोपलभ्यते कोडपि। पूर्वावस्थास्विह च स्वरूपसाम्यादतो बवीतीदम ॥१५॥ मुक्तः प्रतिज्ञानात् ॥ २ ॥ योऽसावभिनिष्पद्यत इत्युक्त: स्वरूपचन्धनिर्मुक्त:। स च खलु शु्धेनवाऽडत्मनाSवतिष्ठत इतीह निर्दिषम॥१६॥ पूर्वासु खल्ववस्थास्वन्धो मवतीति रोदितीवेति। एवं विनाशमेवापीतो भवतीति सोडयमात्मा हि॥ १७ ॥ तत्तद्वस्थाकलुषितरूपेणैवेति खलु विशेष इह। ननु मुक्तोऽयमिदानीमिति तु कथं वा त्वयाऽवगतमिति चेतु।१८H अवगम्यतेऽयमात्मा मुक्त इदानीमिति प्रतिज्ञानात्। प्राजापत्ये वाक्ये ह्येतं त्वेव त इति प्रतिज्ञाय । १९॥

आत्मानमिमं व्याख्येयत्वेन पुनः पुनः प्रतिज्ञाय ।। २०। अशरीर वेत्यादयैः स उत्तमः पुरुष एवमन्तैहिं। उपसंहृतमिह मुक्तात्ममात्रगे।चरमिदं प्रतिज्ञानम्॥२१॥ किंच य आत्मेत्वाद्या या चेहाऽडख्यायिका समान्नाता। तदुपक्रमवाक्ये खल्वपहृतपाप्मेति यत्समाम्नातम् । २२॥।

Page 419

बतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ४१५

मुक्तात्ममात्रगोघरमेव तदेतत्प्रतीयते सकलम्। या मोक्षस्य फलत्वप्रसिद्धिरत्रोपदर्शिता साडपि।। २३ ॥ नापूर्ववस्तुजननापेक्षा स्याद्वन्धनिरसनापेक्षा। अभिनिष्वद्यत इत्युत्पत्तेः पर्याय इति तु यच्चोक्तम्॥२४॥ तदृपि च पूर्वावस्थापेक्ष स्याद्गीणमेव न तु मुख्यम्। रोगनिवृत्तिमपेक्ष्यारोगो निष्पन्न एष इति हि यथा ॥२५॥ आत्मा प्रकरणात् ॥ ३ ॥। कथमयमिह मुक्तोऽस्य च संपत्तव्यं यतः परं ज्योतिः। ज्योतिःशब्द्श्वायं भौतिकवचनो हि हश्यते लोके॥ २६ ॥ यो न हि विकारविषयाद्यावृत्तः स च कथ मवेन्मुक्त:। यस्माद्विकारजातं सकलं चाऽडर्तमिति शास्त्रमुपदिशति॥२७॥ तस्माज्ज्योतिः संपन्नोऽसौ कथमत्र मुक्त इति चेन्न। प्रकरणबलाद्यतोऽतर ज्योतिःशब्देन गृह्यते ह्यात्मा॥ २८॥ अपहृतपाप्मा विजरो विसृत्युरित्यादिनोपदिटेडस्मिन्। प्रकृते परात्मनि कथ कार्य ज्योतिर्ग्रहीतुमिह शक्यम् ॥ २९॥ प्रकृतत्यागाप्रकृतग्रहणाद्समख्ज्जसं तथा चेत्स्यात्। ज्योतिःशब्दस्त्वात्मन्यपि तद्देवा इति श्रुतौ हक्षः॥३० ॥ अविभागेन दृष्टत्वात् ॥४ ॥

ज्योति: संपद्य परं विभाव्यते स्वेन यः स पृथगेव। किमिह परस्मादात्मन उताविभक्तोऽवतिष्ठते स इति ॥ ३१ ॥ चिन्तायामेतस्यां सत्यामत्र च स तत्र पर्येति।

उपसंपद्येत्यत इह तथो: पुनः कर्तुकर्मभावोक्तेः। मेदेनैव न्याय्यं तस्यावस्थानमिति तु यस्य मतिः ॥३३॥ नं व्युत्पाद्यतीहाविभक्त एवावतिष्ठते स इति। मुक्तोऽवतिष्ठते खलु परात्मना परमिहाविभक्ततया॥३४॥ परमात्मनाऽविभक्तं मुक्तं यस्मात्प्रदर्शयन्त्येता: । तत्वमसीति व नान्यत्पश्यति न तु तद्वितीयमस्तीति ॥३५॥

Page 420

४१६ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

एवमहं ब्ह्मास्मीत्याद्याः भ्रुतयो न वैपरीत्येन। दर्शनमत्र यथा स्यात्फलमपि च तथैव तत्क्तुन्यायात्॥२६॥ श्रुत्यन्तरं यथोदकमित्याद्यप्येवमेव दर्शयति। शुद्धे जले हि शुद्धं जलमासिक्तं यथेव तादृक्स्यात् ॥३७॥ एवं मुनेर्विजानत आत्मा भवतीति तद्ददन्यदृपि। भ्रुत्यन्तरं यथा नद्य इति तथा चेह भेदनिर्देशः ॥३८॥ स्यादौपचारिक: सत्यपि चाभेदे यथा स मग़व इति। आत्मरतिरेवमादावपि भेदस्त्वौपचारिको दृष्टः॥३९॥ ब्राह्मेण जैमिनिरुपन्यासादिश्यः॥५॥ मुक्तोऽयमात्म रूपेणैव हि नाऽडगन्तुकेन रूपेण। अभिनिष्पद्यत इति तु स्वशब्दयोगेन दर्शितं पूर्वम् ॥४० ॥ मुक्तोऽयमन्र कि सत्येन हि सर्वज्ञतादिधर्मेण। अवतिष्ठते स किंवा धर्मस्य च शशविषाणतुल्यत्वात् ।४१॥ चिन्मात्रेणैवासाववतिष्ठत इत्यथैष चिन्मान्नः। सन्नपि मुक्तात्मा खल्वन्येषां बद्धजीवसंघानाम् ।।४२॥ अन्योन्यव्यवहारात्कल्पितसर्वज्ञतादिमानिति वा। मुनिविप्रतिपत्तिब लात्संदेहै तद्विशेषजिज्ञासा॥४३॥ तामनुरुध्यैवाऽडद तद्ेतद्भिधीयते हि सूत्रकृता। यदिदं हि सत्यसंकल्पत्वान्त श्रुतिवचो विनिर्दिष्टम् ॥४४॥ ब्राह्मं रूपं सर्वज्ञत्वं सर्वेश्वरत्वमित्येतत्। तेन च रूपेण स्वेनाSडविर्भवति हि स एष मुक्त इति॥४५॥ इह मन्यते हि जैमिनिशाचार्यस्तन्न हेतुरयमेव। योऽयमुपन्यासादि: स तत्परो हश्यते यतो ह्यस्मिन् ॥४६॥ अपहृतपाप्मेत्यादी सोऽन्वेष्टव्य इति विधिमुपाश्रित्य। विध्यर्थोद्देश्याय य आत्मेत्यादिर्भवेदुपन्यासः॥।४७॥ आदिपदेन विधिव्यपदेशोऽयं ग्रृह्यते हि तावेतौ। सर्वज्ञत्वाद्यन्वितमात्मानं दर्शयत इहेदमपि॥ ४८ ॥ जक्षन्क्रीडन्रममाण इति ह्यैश्वर्यमुपदिशत्यस्य। श्रुत्यन्तरं तथैव व्यपदेशोऽन्यत्र दृश्यते वाक्ये॥४९॥

Page 421

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ४१७

लोकेषु कामचारो मवतीत्यादिस्तथाSयमपराडपि। सर्वज्ञ एष सर्वेश्वर इत्यादि: स चोपपत्न: स्यात् ॥५०॥ चितितन्मात्रेण तदात्मकत्वादित्योडुलोमिः॥६॥ यद्यप्यपहतपाप्मत्वाद्य इह ये प्रपश्चितास्ते हि। भेदेनैव हि धर्मा निर्दिश्यन्ते तथाऽपि खल्वेते ।। ५१॥ शब्दविकल्पनिमित्ता: स्युः पाप्मनिवृत्तिमात्रमेबात्र। अवगम्यते स्वरूपं तदस्य वैतन्यमात्रमेवेति ॥ ५२॥ अभिनिष्यत्ति: सेयं चितिमात्रेणैव तस्य युक्ततमा। इत्यौडुलोमिराचार्यो मन्यत इह भवेष्छतिश्ापि।। ५३॥ अयमात्माऽनन्तर इस्याद्या प्रज्ञानघनमिमं बुते। इह सत्यकामताद्या यद्यपि वस्तुस्वरूपमात्रेण॥ ५४॥ निरदिश्यन्ते सत्या: कामा अस्येत्यथापि ते धर्माः । के वलमुपाधिसंबन्धाधीना एव न हि भवेदेषामू॥५५॥ चैतन्यवत्स्वरूपान्तर्माव उपाधिमूलकत्वेन। सत्यत्वायोगेनानेकाकारत्वनिरसनादृपिि च ।। ५६ ॥ न हि सत्या न स्थानत इति सूत्रे तदिदमखिलमुपदिष्टम्। जक्षन्क्रीडन्नित्यादिश्रुत्या जक्षणादिकथनमपि ।। ५७।। दुःखात्यन्तायोगाभिप्रायं स्यादिहाऽडतमरतिरितिवत्। आत्मनिमित्तानि रतिक्रीडामिथुनानि नेह मुख्यानि ॥५८॥ शक्यन्ते वर्णयितुं द्वितीयसापेक्षता यतस्तेषाम्। तस्मान्निरस्तकृत्स्नप्रपञ्चजालेन सुग्रसन्नेन ।।५९॥ परिपूर्णसत्स्वरूपप्रज्ञाननेन निर्विशेषेण।

एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।। ७ ।। चैतन्यमात्रमस्य स्वरूपमभ्युपगतं हि मुक्तस्य । अभ्युपगतेऽवि तस्मिन्व्यवहारापेक्षया हि पूर्वस्य ॥ ६१॥ ब्राह्मस्पैश्वर्यस्योपन्यासाशवगतस्य पुनरत्र। अनिषेधादविरोधं स मन्यते बादरायणाचार्य: ।।६२।। ५३

Page 422

४१८ सुब्रह्मण्य विरचिता- [ ४ चतुर्थाध्यायस्य-

संकल्पादेव तु तच्छुतेः ॥८॥ स यदि पितृलोककामो भवतीत्याद्यं हि हार्दविद्यायाम्। वाक्यं तदिद हष्ट संदेहस्तत्र चायमवतरति ॥६३॥ इह पित्रादिसमुत्थाने केवल एव भवति संकल्प: । हेतुः किंवा स निमित्तान्तरसापेक्ष एव हेतुरिति ॥६४ ॥ संकल्पादेवेति श्रवणे सत्यपि च लोकवत्तत्र। युक्त्ेव खलु निमित्तान्तरसापेक्षा यथा मवेल्लोके ॥ ६५॥ संकल्पादृषि च तथा गमनादिभ्योऽस्मदादिकानां हि। भवति तु पित्रादीनां संपत्तिस्तद्वदेव मुक्तस्य ॥६६ ॥ स्यादेवं चेत्तत्र च न हष्टविपरीतकल्पना मवति। संकल्पादेवेत्यपि राज्ञः संकल्पितार्थसिद्धिकरीम् ॥६७॥ साधनसामग्रीं किल सुलभां हद्वा यथा तथेहापि। संकल्पकृतसमुत्थाना: पित्राद्या न पुष्कलं भोगम् ॥ ६८ ॥ अर्पयितुं हि समर्था मनोरथस्थमिव चक्षलत्वेन। एवं प्राप्ते बूते संकल्पादेव केवलादत्र ॥ ६९॥ स्थात्पित्रादिसमुत्थानमिति तथा हृश्यते श्रुतिर्यस्मात्। संकल्पादेवेति श्रुतिर्निमित्तान्तरप्रतीक्षायाम्॥ ७०॥ पीडचेत यदि च संकल्पानुविधाय्येव तन्निमित्तमपि। भवतु तदा तन्नैव हि यत्नान्तरमत्र भवति संपाद्यम्॥७॥ स्यादेव वन्ध्यसंकल्पताSस्य यदि किंचिदृत्र संपाद्यम। प्राक्संपत्तेः शृत्यवगम्येऽर्थे लोकवदिति यञ्चोक्तम्॥ ७२॥ सामान्यतो हि हृष्ट तदिदं प्रकृते निदर्शनं न भवेत्। संकल्पाद्यत एषा प्रयोजनस्थैर्यमखिलमुद्मवति॥७३॥ प्राकृतसंकल्पविलक्षण एव हि मवति मुक्तसंकल्प: । विद्याबलेन केवलसंकल्पो भोगसाधनं तेषाम्॥७४ ॥ अत एव चानन्याधिपतिः।। ९।। यत एव हि विद्वानयमवन्ध्यसंकल्प एव भवतीह। अत एवान्योऽधिपतिर्नास्यानन्याधिपतिरसी भवति॥७५॥

Page 423

चतुर्क: पाद: ४ ] माष्यार्थरत्नमाला। ४१९

सत्यां गताविहान्यस्वामिकतामात्मनो न कश्चिदपि। संकल्पयति हि लोके तमेतमर्थ श्रुतिः प्रदर्शयति ॥७६॥ अनुविद्याऽडत्मानमिमं सत्यान्कामांश्च ये व्रजन्तीतः । तेषां तु सर्वलोकेष्वपि भवति हि कामचार इत्येवम्॥ ७9॥

अभावं बादरिराह ह्ेवम् ॥ १ ॥

संकल्पादेवेतिश्ुत्या संकल्पमात्रकथनेऽपि। संकल्पमुख्यसाधनभूतं यत्तन्मनोडत्र सिद्धं स्यात् ॥७॥ विदुषः प्राप्तैश्वर्यस्यास्य शरीरेन्द्रियाणि सन्ति पुनः । किंवा न सन्ति तस्येत्येवं चिन्ता समुत्थितेह पुनः ॥७९॥ इह मन्यते हि बादरिराचार्योडसी महीयमानस्य। विदुषस्तस्य च देहेन्द्रियविरहमिह श्रुतिर्यतो बूते ॥ ८० ॥ मनसैतान्कामानित्याद्या तत्र च यदा त्वसी विद्वान्। मनसा तथा शरीरेन्द्रियैश्र विहरेत्तदा हि मनसेति ॥८१॥ यच्च विशेषणमिह मनसतान्कामानिति श्रुतिप्रथितम्। तद्युक्तं स्यात्तस्मान्मोक्षे देहेन्द्रियाणि न स्युरिति ॥ ८२ ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ देहादयो हि मुक्ती सदा न सन्तीति बादरेः पक्षः। देहादय: संदेव हि मुक्ती सन्तीति जैमिने: पक्षः॥८३॥ बादरिपक्षश्रोक्तो जैभिनिपक्षं प्रदर्शयत्यधुना। जैमिनिराचार्यस्त्विह मुक्तिं प्रत्ति सेन्द्रियस्य देहस्य ॥८४॥ मावं हि मन्यते किल मनोवदत्र श्तिश्वव भवतीयम्। सा खल स एकधा भवतीत्याद्या-नःह्यनेकविधतेयम् ॥८५॥ सेन्ट्रियशरीरभेदं विना भवेदाख्सी कर्थचिदृपि। इह यद्यपि निर्गुणपरविद्याया भूमविषयकायां हि।। ८६ः॥ स च खल्वनेकधाभावविकल्प: पठ्यते तथाऽपीद्म्। इह सगुणावस्थायामैश्वर्यं विद्यमानमेव पुनः॥८७॥ परमात्मभूमविद्यास्तुतये संकीत्यते ततश्रायम्। सगुणपरमात्मविद्याफलभावेनोपवर्णितो भवति॥८८।।

Page 424

४२० सुब्ह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

इच्छामात्रेणैते सन्ति कदाचित्कदाचिदिह नेति। दर्शयति बादरायणपक्षमसावेव मवति सिद्धान्तः।। ८९।। द्वादशाहवदुभयविधं बादरायणोऽतः ॥। १२॥ इह वादरायणाचार्योऽसावत एव मन्यते तदिदम्। उभयविधत्वं साध्वित्युभयश्रुतिलिङ्गदर्शनादेव ॥। ९० ॥। सकल्पयति यदाऽसौ सशरीरत्वं भवेत्सशारीर:। अशरीरतां यदाऽसावशरीरो येन सत्यसंकल्पः ।। ९१।। इति संकल्पविशेषादुभयविधत्वं तदेतदिह युक्तम्। भवति निदर्शनमेतद्यञ्च किल द्वादशाहवदितीह ॥९२॥ तत्र य एवं विद्वांसः सत्रमिहोपयन्ति हीत्येवम्। एवं हि सत्रमासत इति वा खल चोदना भवेद्यत्र । ९३॥ तन्द्वति सन्नसंज्ञं यत्र पुनर्द्वादशाहसंज्ञेन। क्रतुनाडनेन समेतं यजमानं याजयेत्प्रजाकामम् ॥०४॥ इति यजतिचोदना वा तथा भवेन्नियतकर्तृकत्वमपि। तस्य त्वहीनता स्यात्तथा द्विरद्वाध्वरादिकानां सा ।। ९५।। तन्वभावे संध्यवदुपपचेः ॥१३॥ सेन्द्रियदेहस्य तनो: स्याद्यदि विरहस्तदा यथा संध्ये। देहेन्द्रियविषयादिष्वविद्यमानेषु ते हि पित्राद्याः ॥ ९६॥ उपलब्धिमात्ररूपा एव हि कामा मवन्ति सर्वेऽपि। एवं मोक्षेऽवि स्युः कामा इति सकलमेतदुपपन्नम् ॥९७॥ भावे जाग्रदृत्। १४ ॥। अभ्युपगम्यत इह यदि माव: किल सेन्द्रियस्य देहस्य। तहिं यथा जागरिते मवन्ति कामास्तथैव मोक्षेऽपि॥ ९८ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५॥ भावं जैमिनिरिति किल मुक्ती सशरीरता विनिर्दिष्टा। तत्र त्रिधाविकल्पादिषु बहुधा स्युर्यदा शरीराणि ॥ ९९ ॥ किं तानि दारुयन्त्राणीव मवन्ति हि निरात्मकान्येव। किंवेह सात्मकान्येव हि सृज्यन्तेऽस्मदादिवदितीह॥ १०० ॥

Page 425

चतुर्थ: पाद: ४ ] माप्यार्थरत्नमाला। ४२१

जिज्ञासा स्यात्तत्राSSत्ममनोभेदो यतो न संमवति। एकशरीरेण तयोयोगेन निरात्मकानि चान्यानि ॥ १०१॥ निरसितुमाक्षेपमिमं पठति हि सूतं प्रदीपवदितीह। एको यथा प्रदीपो युगपदनेकप्रदीपभावमिह ॥१०२॥ प्रतिपद्यते हि लोके स्वयमेव विकारशक्तियोगेन। एकोडपि संस्तथैव हि विद्वानैश्वर्ययोगमात्रेण॥ १०३ ॥ आलम्व्य बहुतनुत्वं गात्राण्याविशति तानि सर्वाणि। दर्शयति चैवमेव ह्येकस्यानेकदेहसंपत्तिम्॥१०४॥ शास्त्र स एकधा भवतीति तथा पञ्चधेति नवधेति। नैतद्धि दारुयन्त्रोपमाभ्युपगमे समञ्जसं मवति ॥१०५॥ नापि स्वेतरजीवावेशेन स्थात्प्रवृत्तिरिह तेषाम्। यञ्चोक्तमात्ममनसोर्भेदाभावादने कतनुयोग: ।। १०६॥ विदुषो न समवेदिति नासौ दोषो यतो ह्यसौ विद्वान्। समनस्कान्येव मनोनुगतान्यपराणि किल शरीराणि॥१०७ ॥। स्रक्ष्यति हि सत्यसंकल्पत्वात्सृह्वा हापाधियोगेन। तत्राSSतमनोऽपि मेदेनाघिष्ठातृत्वमुचितमेवास्य ॥ १०८॥ अयमेव योगिना बहुशरीरयोगप्रकार उपदिष्: । शास्त्रेषु योगविषयेष्वत्र कथं नन्विहास्य मुक्तस्य ॥। १०९॥ अङ्गी क्रियते तदनेकशरीरावेशरूपमैश्वर्यम्। तत्केन कं विजानीयादिति न तु तद्वितीयमस्तीति ॥ ११० ॥ एवं हि सलिल एको द्रष्टेत्यादीनि यानि वाक्यानि। तानि विशेषज्ञानं निवारयन्तीत्यतस्त्वदं पठति ॥१११॥ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कतं हि ॥ १६ ॥

स्वाप्यय इह च सुपुप्तं स्वयमपीत इति श्रुतेस्तथाऽन्यत्र। तस्मादेनं स्वपितीत्याचक्षत इति तदन्तरादृ्पि च । ११२ ॥ व्रह्मैव सन्नितिभ्ुतिवाक्यात्संपत्तिरत्र कैवल्यम्। उक्तान्यतरावस्थामपेक्ष्य चात्रोपदिश्यते तदिदम् ॥११३॥ यञ्च विशेषज्ञानामावप्रतिपादनार्थकं वाक्यम्। कवल्यावस्थामपि सुषुप्त्यवस्थामपेक्ष्य कथितमिति॥११४।।

Page 426

४२२ सुब्रह्मण्यविरचिता- [ ४ चतुर्थाध्यायस्य-

तत्तत्प्रकरणबलतोऽवगम्यते तेषु तेषु वाक्येपु। आविष्कृतमेतेभ्यो भूतेभ्य इति श्रुतेस्तथाऽन्यस्मात् ॥११५॥ यत्र त्वस्येत्यादिश्रुतिवचनात्प्रकटितं भवेदेतत्। क्वचिदृपि च यत्र सुप्ो न कंचनेत्यादिवेदवाक्येभ्य: ।। ११६।। एतज्च सगुणविद्याफलभोगस्थानमपरसायुज्यम्। स्वर्गादिवत्तदेतद्यत्रैश्वर्यं प्रपश्चितं विदुषः ॥ ११७ ॥ जगव्यापारवर्ज प्रकरणादसंनिहितत्वाच । १७ ॥ सगुणब्रह्मोपासनया ये विदुषः प्रयान्ति सह मनसा। परमेश्वरसायुज्यं तेपामुपवर्णितं यदैश्वर्यम् ॥११८॥ तक्किं निरवग्रहमुत सावग्रहमिति तु संशयस्तत्र। निरवग्रहमेवैषामैश्वर्यमितीह युक्तमाश्यितुम् ॥११९॥ यस्माच्छतयः सर्वाः प्रथयन्त्यैश्वर्यभीद्दशं तस्य। आम्ोति स्वाराज्यं सर्वे देवा बलिं प्रयच्छन्ति ॥ १२० ॥ अस्मै महीयमानायाऽडतमन इत्येवमेव चान्यत्र। लोकेषु कामचारस्तेषां भवतीत्यतस्त्विदं पठति ॥ १२१ ॥ ऐश्वर्यस्य च संकल्पादेवेतिश्वुतिप्रतीतस्य। जगदुत्पत्तिलयादिव्यापारादिह विलक्षणत्वेन ॥। १२२ ।। सेतच्छत्या विदुषः सृष्टिव्यापारकल्पनाऽनुचिता। तस्माज्जगदुदयादिव्यापारमिमं च वर्जयित्वैव।। १२३ ।। अणिमाद्यात्मकमेव हैश्वयं केवलं भवेत्तेषाम्। यस्तु जगद्व्यापारः स हीश्वरस्यैव नित्यसिद्धस्य ॥ १२४॥ स्रषटत्वं तस्यैवेक्षणपूर्व सृध्चुपक्रमे हीदम्। प्रकृतं न हि मुक्तानां तदा न देहो न चेक्षणं मवति ॥१२५ ॥ तेनासंनिहितास्ते पर एव ह्यधिकृतो मवेत्तत्र। यस्मादुत्पत्त्यादिव्यपदेशः भ्रूयते हि तस्यैव ॥ १२६ ॥ सोडयं हि नित्यसिद्धो भवति हि शब्दे हि समधिगम्यक्ष। तस्मातस्रहृत्वादिकमखखिलं स्यादीश्वरस्य नान्यस्य ।१२७।। अन्येषां तु तद्न्वेषणजिज्ञासनपुरःसरं भवति। अणिमादिकमैश्वर्य तेन न तेषामिहाधिकार: स्यात् ॥१२८॥

Page 427

चतुर्थ: पाद: ४ ] माष्यार्थरत्नमाला। ४२३

समनस्कत्वेनापि च तत्रानैकान्त्यमपि मवेत्तेषाम्। एकस्य हि स्थितौ स्यादपरस्य च संहृतावभिप्रायः॥।१२९॥ इत्यन्योन्यविरोधे स्रहटृत्वं वा कथं भवेत्तेषाम्। एकं प्रत्यन्येषां गुणभावाभ्युपगमेन यदि चेह ॥ १३० विनिवार्यते विरोध: स चेह परमेश्वरो न चान्य: स्यात्। परमेश्वरसंकल्पानुगुणं सकलं भवेविहान्येषाम् ॥१२१ ॥ प्रत्यक्षोपदेशादिति चेन्नाऽधिकारिकमण्डलस्थो कक: ॥१८॥ आप्रोति स्वाराज्यमिति प्रत्यक्षोपदेशतो विदुषाम्। निरवग्रहमेव स्यादैश्वर्यमितीह न पुनराशङक्यम् ॥१३२॥ यस्मादिहाऽडधिकारिकमण्डलगत एव स खलु परमात्मा। निर्दिश्यते स चान्यानधिकारेषु हि नियोजयत्यनिशम्॥१३३ ॥ तेनाSडधिकारिकोडसी स एव किल सवितृमण्डलस्थश्च। तद्नुग्रहैकलम्या स्वाराज्यप्राप्तिरिह भवेद्विदुषः ॥ १३४ ॥। येनानन्तरवाक्यं मनसस्पतिमिति तमीश्वरं बूते। स च भवति सर्वमनसां पतिस्तमाप्रोति पूर्वसिद्धमिति॥१३५॥ व क्पतिरित्यादिकमपि यथोपदिष्टार्थपरतया योज्यम्। अन्यत्रापि च विदुषामैश्वर्यं हीशतन्त्रमिति योज्यम् ॥१३६॥ विकारावर्ति च तथा हि स्थितिमाह ॥१९॥ य इह जगद्व्यापारः स भवेदेव हयुपासकप्राप्यः । संकल्पितार्थसिद्धयादिवदेव हि परमुपास्यनिष्ठत्वात् ॥१३७॥। इत्याशङ्कां निरसितुमुपास्यगतनिर्विशेषरूपे हि। व्यमिचारमिह विकारावर्तीत्येतेन दर्शयत्यधुना ॥१३८॥ नज्च विकारावत्यपि यदेतदिह पारमेश्वरं रूपम्। न विकारमात्रगोचरमेतत्किल सवितृमण्डलस्थानम्॥१३९ ॥ यस्मादाम्नायोसौ स्थितिं द्विरूपां प्रदर्शयत्यस्य। तावानस्येत्यादिर्जगद्विभूर्तिं स दर्शयित्वाऽडदौ ॥१४० ॥ ज्यायांश्र पुरुष इति पुनरस्य ज्यायस्त्वमेतदुपदिश्य। तञ्च किल ज्यायस्त्वं परात्मनस्तस्य वर्णितं भूय: ॥१४१॥ कृत्सं विकारजातं तदस्य परमात्मनो भवेत्पाद: । यञ्च विकारास्पृष्टं तदेतदमृतं त्रिपाद्दिवीत्येवम् ।१४२॥।

Page 428

४२४ सुब्ह्मण्यविरचिता- [४ चतुर्थाध्यायस्य- तन्निर्षिकाररूपं सविशेषालम्बनाः करथंचिद्पि। न प्राप्ुषन्ति यस्मान्वन्त्यतत्क्रतव एव ते सर्वे ।।१४३ ॥ तस्माद्यथा द्विरुपे परात्मनि हि निर्विशेषरूपमिदम् । अनवाप्य सगुण एव हि वर्तन्ते ते तथेव सगुणेऽपि ॥१४४ ॥ परमेश्वरप्रसादात्सावग्रहमेव तदिदमेश्वर्यम्। लब्ध्वाऽनवाप्य निरवग्रहमैश्वर्यं किलावतिष्ठन्ते ॥१४५॥ दर्शयतश्वैवं प्रत्यक्षानुमाने ॥ २०॥ दर्शयतश्च विकारवर्तित्वं हि श्रुतिस्सृती तस्य। या च न तव्रेत्पाद्या या चन तन्भ्ासयत इति प्रथिता ॥१४६ ॥।

निष्वग्रहमैश्वर्य नैषां सविशेषतत्पराणां स्थात्। परमेश्वरेण यस्मात्तेषां किल भोगमात्रमेव समम् ॥१४७ ॥ दर्शयतीह तमापो वै खल्वित्यादिका श्रुतिश्रवेयम्। तं म्ह्मलोकमागतमुपासकमिमं हिरण्यगर्मोडयम् ॥१४८॥ इत्याहासृतरूपा आपो मुज्यन्त इह मया किंच। लोकोऽसावसृतोद्कलक्षण एवमिति सा निरूपयति ॥१४९॥ अन्याऽपि किल यथतामित्याम्नाता श्रुतिस्तदेतदिह। परमेश्वरेण तस्य च सायुज्यसलोकतादि दर्शयति ॥१५० ॥ नन्विह सातिशयत्वादैश्वर्यस्यान्तवत्त्वमपि च स्यात्। एवं चेदावृत्तिस्तेषां पुनरत्र दुर्निवारैव।।१५१ ॥ इत्याक्षेपं सकलं निरस्य शास्त्रं हि परिसमापयितुम।

अनावृत्तिः शब्दादनावृत्ति: शब्दात् ।। २२ ।। सर्वज्ञत्वादस्य च भगवत्वं युक्तमेव सूत्रकृतः। सूत्रद्वारा शिष्याणामाचारे प्रवर्तनादस्य ।१५३॥ आचार्यत्वं युक्तं तथैव किल बाद्रायणेतिपदात्। पुनरस्य बद्रिकाश्रमवासोक्त्या तत्र सभवतीर्णस्य॥१५४ ॥ नारायणस्य परमेश्वरलोकगुरो: प्रसादसूचनतः । शास्त्रस्य तत्म्रणीतस्य च सूचितमिह किलानवद्यत्वम् ।१५५ ।।

Page 429

चतुर्ष पाद: ४ ] ४२५

नाडीरश्म्यन्वितमिह पन्थानं ह्यर्िरादिपर्वाणम्। अनुचित्न्य देवयान व्रजन्ति ये तेन देवयानेन ॥ १५६ ॥ शास्त्रोपदिष्टनानाविशेषणं ब्रह्मलोकसंज्ञमिमम्। यश्र तृतीयस्यां दिवि पृथिवीलोकात्प्रदर्शितः श्रुत्या॥१५७॥ तस्मिल्लोके र इति पयश्चेत्यप्याख्ययाऽतिविख्यातौ। अर्णवतुल्यी मवतः सुधाह्नदौ द्वो तथेव चान्यदृपि।। १५८। ऐरंमदीयमित्यपि सरश्र तन्मदकरं तथाऽन्नमयम्। किंचाश्वत्थस्तत्रामृतवर्षी मुक्तलोकसंसेव्य:।।१५९।। तत्राजितात्मभिः खल्वपराप्या ब्रह्मण: पुरी काऽपि। प्रभुणैव तेन विरचितमपि वेश्म हिरण्मयं च तत्रास्ति ॥ १६० ॥ मन्त्रार्थवादवाक्यैः पुराणवाक्यैः प्रपश्चितो बहुधा। तमिमं लोकं प्राप्य च तत्र स्वच्छन्द्रमोगकृतकृत्याः ॥१६१॥ ते चन्द्रमण्डलादिव नाSडवर्तन्ते पुनः कदाचिदृवि। यस्मात्तयोध्वमायन्नित्यादिश्वुतय उपदिशन्त्येवम् ॥ १६२॥ ये च शताधिकनाड्या व्रजन्ति यान्त्येव तेऽमृतत्वमिति। श्रुतिरन्या तेषामिह न हि पुनरावृत्तिरिति किल बूते ।।१६३॥ एतेन देवयानेन पथा ये ब्रह्मलोकमुपयाताः । मानवमावतं ते नाऽडवर्तन्त इति दर्शयत्यन्या ॥१६४ ॥ न च पुनरावर्तत इत्यन्याऽपि ब्रह्मलोकसंस्थानाम्। पुनरावृत्तिविवर्जितमेव पदं शाश्वतं प्रदर्शयति॥१६५ ॥ अन्तवदेव हि यद्यप्यैश्वर्यमिदं प्रतीयतेऽथापि। भवति यथाऽनावृत्तिस्तथोपवर्णितमिदं हि पूर्वत्र ॥ १६६ ॥ कार्यात्यय इति सूत्रे कार्यपदस्य च लये समुत्पन्ने। उत्पन्नतत्त्वसाक्षात्कारास्तत्रैव तद्धिनाथेन ।१६७॥ सह केवल्यं प्रभुणा हिरण्यगर्भेण ते प्रयान्तीति। साधनवीर्याद्ये पुनरत्रैवोत्पन्नतत्त्वविज्ञाना:॥१६८। विध्वस्तानाद्यज्ञानावरणा नित्यसिद्धपरिनिष्ठा:। तेषां चानावृत्ति: सिद्ैवाऽऽवृत्तिकारणाभावात् ॥१६९। सविशेषब्रह्मपराणामपि विदुषां तदाश्रयेणैव। सेयमनावृत्ति: स्यान्न चान्यथा मवति तत्क्तुन्यायात्॥१७०॥ पञ्चाग्न्युपासकानां यद्यपि सविशेषनिष्ठता नास्ति। ध्रत्या चानावृत्तिर्रह्मपाप्तिश्र दर्शिता तेषाम्॥१७१ ॥

Page 430

४२६ सुबह्मण्यविरचिता भाष्यार्थरत्नमाला।

सत्यं तथाऽप्ि तत्र च तेषामिह न पुनरिति समाम्नातम्। तेन त्वस्मिन्कल्पे तेषामावृत्त्यभावबोधेन ॥१७२॥ कल्पान्तरे हि तेषामावृत्तिरियं पुनर्भवत्येव।

सूत्रपदाभ्यासः खल्वध्यायसमाप्तिमेव सूचयति। शास्त्रस्य परिसमाप्ति सृत्राभ्यासोऽयमत्र सूचयति ॥१७४॥ शारीरकमीमांसा मुनिना व्यासेन विरचिता सेयम्। चतुरध्यायी तस्यां चतुर्थसंज्ञश्र योऽयमध्यायः ॥१७५ ॥ तत्र चतुर्ये पादे सूत्रार्थो यश्च भाष्यकारोक्त:। आर्यावृत्तैरमलैः प्रकाशितो भवतु सोऽयमनवद्यः ॥१७६ ॥। भाष्यार्थरत्नमाला वैयासिकसूत्रजालसंग्रथिता। भगवति करुणासिन्धौ समर्पिता जयतु जगति निरवद्या॥१७७॥ स जयति मुनिकुलमान्यो भगवाञ्श्रीबादरायणाचार्यः। यत्सूत्रालम्बनतो लोक: संसारसागरं तरति ॥१७८॥ श्रीबादरायणोदितसूत्रार्थ भाप्यरत्नदीपेन। प्रकटी चकार योऽसी स हि भगवाञ्जयति शंकराचार्यः ॥१७९॥ भगवत्पादीयमिद भाष्यं येनानभिज्ञदुर्बोधम्। बोधाय तेन तेषां रचिता भाप्यार्थरत्नमालेयम्॥ १८० ॥ एतां विलोक्य सुधियस्तुष्यन्तु हसन्तु वाडत न विषाद: । सर्वज्ञविरचितेप्वपि महानिबन्धषु येन तौ हषै ॥१८१॥ तुष्यन्तु वा न वाऽन्ये भत्त्या परया समर्पितामेताम्। मालां विलोक्य कृपया तुष्यति भक्तार्तिमख्जनो भगवान्"१८२॥ भाष्योपदिष््मर्थं संग्ृह्य कृताऽपि भवति रम्येयम्। उपवनतरुसमुपचितर्ग्रंथिता कुसुमैः प्रसूनमालेव ।। १८३।। सेयं हि रत्नमाला सुबह्मण्येन विरचिता कृच्छात्। नायकमणिसहकाराद्दिशि दिशि विशदं प्रकाशमुपयातु ॥१८४। इति श्रीमाष्यार्थरत्नमालायां चतुर्थाध्यायस्य चतुर्थपाद: समासतः ॥४॥ इति चतुर्थोऽध्यायः समाप्तः।

समाप्ेयं भाष्यार्थरत्नमाला।