Books / Bhikshuka Upanishad

1. Bhikshuka Upanishad

Page 1

भिक्षूणां पटलं यत्र विश्वान्तिमगमत्सदा । तन्नैपदं ब्रह्मत्वं ब्रह्ममात्रं करोतु माम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्रिति चत्वारः । कुटीचकानां गौतमभरद्वाजराजयाजवल्क्यवसिष्ठप्रभृतयोदष्टौ ग्रामांश्ररन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ बहूदकानां त्रिदण्डकमण्डलुलुशिखा- यज्ञोपवीतकाषायवस्वधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वा वास्तौ ग्रासान्नैकशरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ परमहंसा नाम संवर्तकारुणिस्वेतकेतुजडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोडष्टौ ग्रासाश्ररन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते ।

वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चना:

Page 2

सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेतित पश्यन्ति ।

अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा:

शुकध्यानपरायणा आत्मनिष्ठा: प्राणसंधारणार्थे

यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह -

तुणकूटवत्मीकवृक्षमूलकुलालत्थालाग्निहोत्रशालानदीपुलिन -

गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत् ब्रह्ममार्गे

सम्यक्संपन्ना: शुद्धमानसा: परमहंसाचरणेन

सन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥

ॐ पूर्णमद: पूर्णमिदं

पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय

पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति भिक्षुकोपनिषत्समाप्ता ॥